अनुक्रमणिकापर्व - १पर्वसंग्रहपर्व - २पौष्यपर्व - ३पौलोमपर्व। - ४आस्तिकपर्व - ५अंशावतरणपर्व - ६सम्भवपर्व - ७जतुगृहपर्व । - ८हिडिम्बवधपर्व - ९बकवधपर्व - १०चैत्ररथपर्व । - ११स्वयंवरपर्व - १२वैवाहिकपर्व - १३विदुरागमनराज्यालंभपर्व - १४अर्जुनवनवासपर्व - १५सुभ्रद्राहरणपर्व। - १६हरणाहरणपर्व। - १७खाण्डवदाहपर्व - १८मयदर्शनपर्व - १९

अनुक्रमणिकापर्व

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥

श्रीगणेशाय नमः ॥ श्रीवेदव्यासाय नमः ॥ श्रीगुरुभ्यो नमः॥

यं वक्त्रं मुकुरा इवेन्द्रियमनोमायाः पराग्दृश्यताम् ।
निन्युस्तत्स्थविमादिनापि च विराट्सूत्रेशभावङ्गतम् ।
तं प्रत्यग्दृगदृश्यमक्षरमणुं त्यक्तोपनेत्रत्रयाः ।
श्रीगोपालमुपास्महे श्रुतिशिरोवंशीरवैर्दर्शितम् ॥१॥

बाह्यः स्तेनाभिभाषी वहिरुदवेसितं पाति तर्कःप्रतिष्ठो ।
मीमांसा प्रातिहार्यं भजति गुणगणं यस्य संख्यातिसांख्यः ।
हृत्पीठे योगशुद्धे निहितमुपनिषद्वाहवृन्दैः परं मे ।
भाग्यं श्रीलक्ष्मणार्यो जगति विजयते यस्य लेशः शिवाद्याः ॥२॥

हरिविधिवसिष्टशक्तिपराशरव्यासशुकदेवान् ।
वैशम्पायनमुग्रश्रवसं च नुमः पुराणगुरुमुख्यान् ॥३॥

कणभक्षमक्षचरणं जैमिनिकपिलौ पतञ्जलिं च नुमः ।
श्रीमद्व्यासवचोम्बुधि नय सीकरवर्षिणोमुदिरान् ॥४॥

सर्वविद्येशतामाविश्चिकीर्षू पूर्वपूरुषौ ।
श्रीनारायणधीरेशरूपौ हरिहरौ नुमः ॥५॥

बहून्समाहृत्य विभिन्नदेश्यान्कोशान्विनिश्चित्य च पाठमग्र्यम् ।
प्राचां गुरूणामनुसृत्य वाचमारभ्यते भारतभावदीपः ॥६॥

टीकान्तराणीन्दुरविप्रभाणि बाह्यार्थरत्नानि चकासयन्तु ।
अन्तर्निगूढार्थचयप्रकाशे दीपःक्षमो भारतमन्दिरेऽस्मिन् ॥७॥

ईशप्रसादादवितुं स्ववंश्यान्भगीरथेनेव मया प्रणीता ।
एषा महाभारततीर्थगङ्गा लोकत्रयीजाड्यमलं धुनोतु ॥८॥

उतानेष्विह कोशविग्रहबलं पद्येषु नैवाश्रितम् ।
गंभीरेषु न सेतवो न विहिताः कूटाननस्फोटिताः ।
न च्छिन्नानतमश्चराननततिर्भक्ताननाल्हादिता ।
नोदीना न विभीषणाश्च विहिताः श्रीलक्ष्मणार्यश्रितैः ॥९॥

इह खलु भगवान्पाराशर्यः परमकारुणिको मन्दमध्यममतीननुग्रहीतुं चतुर्दश विद्यास्थानरहस्यान्येकत्र प्रदिदर्शयिषुर्महाभारताख्यमितिहासं प्रणेष्यन्प्रारिप्सितस्य ग्रन्थस्य निष्प्रत्यूहपरिपूरणाय प्रचयगमनाय च कृतं मङ्गलं शिष्यशिक्षायै श्लोकरूपेण निबध्नन्नर्थात्तत्र प्रेक्षावत्प्रवृत्त्यङ्गमभिधेयादि दर्शयति । नारायणमिति । नरोऽविद्यावच्छिन्नं चैतन्यं जीवः तेन विषयीकृतेऽनवच्छिन्नचैतन्यरूपे ब्रह्मणि शुक्तौ रजतवत्कल्पितं चराचरम् अपशब्दवाच्यं नारं तदेव अयनं शुक्तीदमंशस्य रजतमिव प्रवेशस्थानं यस्य स नारायणः । स्वस्मिन् जीवकल्पितस्य प्रपञ्चस्य सत्तास्फूर्तिप्रदत्वेन कारणीभूत इत्यर्थः । यथोक्तम्- ‘आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृत’ इति तं नारायणं नमस्कृत्य तथा नरम् उक्तरूपं नमस्कृत्य एनं विशिनष्टि नरोत्तममिति जीवो हि चेतनत्वेन जडवर्गादुत्कृष्टस्तत उत्कृष्टतरः कारणात्मा नारायणस्ततोप्युत्कृष्टतमं निरुपाधिचैतन्यं सत्यं ज्ञानमनन्तं ब्रह्मविज्ञानमानन्दं ब्रह्मेत्यादिश्रुतिषु प्रसिद्धं तदेव नरोत्तमस्य निरस्ताविद्यस्य जीवस्य निष्प्रपञ्चं पारमार्थिकं रूपमिति युक्तं तत्रोत्तमत्वविशेषणं यथोक्तं ‘पिण्डब्रह्माण्डनेतृत्वान्नरौ जीवेश्वरावुभौ । तयोश्च नयनाच्छुद्धं ब्रह्मापि नर उच्यते ॥ न रजानामपां कार्ये नारं ब्रह्माण्डमिष्यते । तद्यस्य वसतिस्थानं तेन नारायणो विभुः ॥ स्वाविद्यासृष्टपिण्डेन तादात्म्यं यो गतो नरः । स जीवः स परं ब्रह्म नरोत्तमपदाभिधम् ॥ तद्योतिकां गिरं नत्वा ततो व्याप्तस्तयैव सन् । संसारजयिनं ग्रन्थं जयनामानमीरयेत् ॥’ इति एवं च जीवाविद्याकल्पितत्वात् जगतो मिथ्यात्वं ब्रह्मणश्च तत्र सत्तास्फूर्तिप्रदत्वेन सत्यत्वं जीवस्य तदभिन्नत्वं चेति विषयो दर्शितः । अविद्या निवृत्तौ तत्कृतस्य प्रपञ्चस्य त्रैकालिकबाधादात्यन्तिक्यनर्थनिवृतिः प्रयोजनम् । अर्थात्तत्कामोधिकारी ग्रन्थस्य उक्तविषयस्य च ज्ञाप्यज्ञापकभावः संबन्ध इति च दर्शितम्। देवीं नरनारायणनरोत्तमतत्त्वप्रद्योतनीं सरखतीं च नमस्कृत्यैव ततो व्याप्तस्तयैव सरस्वत्या परमकारुणिकया जनबोधायाविष्टो जयं जयो नामेतिहासोऽयमिति वक्ष्यमाणत्वाज्जयसंज्ञं भारताख्यमितिहासं वा ‘अष्टादशपुराणानि रामस्यं चरितं, तथा । कार्ष्णं वेदं पञ्चमं च यन्महाभारतं विदुः ॥ तथैव विष्णुधर्माश्च शिवधर्माश्च शाश्वताः । जयेति नाम तेषां च प्रवदन्ति मनीषिणः ॥’ इति भविष्यवचनात् पुराणादिकं वा चतुर्णां पुरुषार्थानामपि हेतौ जयो स्त्रियामिति कोशादन्यं वा सर्वपुरुषार्थप्रतिपादकं ग्रन्थं शारीरकसूत्रभाष्यादिरूपम् उदीरयेत् उच्चारयेत् । अत्र लिङा मंगलाचरणस्य ग्रन्थपाठेप्यावश्यकत्वं दर्शयता रचनारम्भे सुतरां तद्दर्शितं नन्वेतन्न पठनीयं न व्याख्येयं च पौरुषेयत्वात्पुरुषेषु च भ्रमविप्रलंभकत्वयोः संभवादिति चेन्न । सर्वज्ञेषु वेदैकप्रमाणेषु मन्वादिषु तदसंभवात् । पूर्वतन्त्रे च स्मृत्यादिधर्मे प्रामाण्यस्य सिद्धत्वात् । यस्यां तु स्मृतौ लोभमूलकत्वं प्रत्यक्षं दृश्यते यथा वै सर्जनहोमीयं वासोऽध्वर्युः परिगृह्णातीति तत्रास्त्वप्रामाण्यं नत्वष्टकाः कर्तव्या प्रपाः कर्तव्या ऊर्ध्वपुण्ड्रं मृदाकुर्यादित्यादीनां तासां लोभमूलकत्वादर्शनात् । यां जनाः प्रतिनन्दन्ति धन्वन्निव प्रपा असि त्वमग्ने श्रोणामेक उदकं गामवाजतीति मन्त्रलिङ्गानुमितविधिमूलकत्वाच्च धन्वधन्वनि निरुदकप्रदेशे किमुश्रेष्ठः षळूना आर्भवं त्रिष्टुवंतमित्यनुक्रमणिकायां किमुश्रेष्ठ इति सूक्तस्य चतुर्दशर्चस्य ऋभुदैवत्यस्य नवम दशम्यावेते ऋचौ आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत् । वर्धयन्तीं बहुभ्यः प्रैको अब्रवीदृतावदन्तश्चमसाँ अरपिंशत १ श्रोणामेक उदकं गामवाजति मांसमैकः पिंशति सूनयामृतम् आनिम्रुचः शकृदेको अपाभरत्किंस्वित्पुत्रेभ्यः पितरावुपावतुः २ अत्र ऋभ्वाख्य देवतास्तुतिव्याजेन श्रेयःसाधनानि विधीयन्ते । हे ऋभवः । भवतां मध्ये एकः कश्चित्तीर्थाश्रयेणैव प्राप्तदेवताभाव आप एव भूयिष्ठा उत्कृष्टतमा इत्यब्रवीत् । एवं यज्ञादिना प्राप्तदेवताभावोऽन्योऽग्निर्भूयिष्ठ इत्यब्रवीत् । वर्धयन्तीं अवपूर्वाद्भूञो विच् प्रत्ययेभागुरिमतेनाकारलोपे चेदं रूपं स्वरादि पाठादव्ययत्वं निपातत्वादाद्युदात्तत्वं च वधरित्यव्ययं पालनार्थे अवगत्य धारयतीति योगात् । तदर्थं यन्तीं गच्छन्तीं चेतोवृतिं दयां बहुभ्यः प्रमाणेभ्यो निश्चित्य एकः दययैव प्राप्तदेवताभावःप्रकर्षेण अब्रवीत् । ते यूयं ऋताऋतानि सत्यान्ये वै तान्यवादीनि देवताभावप्राप्तिसाधनानि वदन्त उपदिशन्तो यज्ञेषु ।चमसान् मोमयुक्तान् अपिंशत व्यभजन्त । अत्र ह्येवमुपाख्यायते । ऋभवो नाम त्रयो देवा एकं चमसमासेदुस्तत्र वह्निरपि तद्रूपं गृहीत्वा आगतस्ते तमतिसारूप्यात् पृथग्ज्ञातुमशक्ता एकं चमसं चतुर्धा व्यभजन्तेति । यद्वा सत्यवादिनामेव तीर्थादिफलदामिति ऋता वदन्त इत्यस्यार्थः । श्रोणामेकः च हे ऋभवः भवतां मध्ये एकः श्रोणां श्लक्ष्णां गां मृदं गोपीचन्दनादिरूपां तीर्थनिकटस्यां मुख्यकर्मभूतां प्रति उदकं जलं गौणं कर्म अवाजति अवगमयति अन्तर्भावितण्यर्थोऽयं श्रोणां गां उदकेन मिश्रयतीत्यर्थः । श्रोणां गां रक्तचन्दनानि रूपां वा तथा एकः सूनया हिंसया तत्कर्त्रा आमृत आहृतं मांसं गोरोचनाख्यं पिंशति पिनष्टि उदकेन सहोति शेषः । निम्रुचः नितरामस्तं गच्छतो दग्धेन्धनस्याग्नेः संबन्धिशकृत् गोमयं शुष्कगोमयोत्थं भस्मेति यावत् । अपाभरत् अपाहृतवान् । अत्राप्युदकेन सहेति शेषः । व्यवहिताश्चेतिच्छंदसि व्यवहितेनाप्युपसर्गेण क्रियायाः संबन्धः । हृग्रहोर्भच्छन्दसीतिहस्यभः । एतानि मन्त्रपदानि असंपूर्णार्थत्वात् । स्वार्थलाभाय ब्राह्मणमपेक्षन्ते इषे त्वोर्जेत्वेत्यादि मन्त्रवत् । तत्र यथा । इषे त्वेतिशाखामाच्छिनति । ऊर्जेत्वेत्यनुमार्ष्टीति ब्राह्मणानुसारात् । हे शाखे त्वा त्वां इषे अन्नाय च्छिनद्मीति ऊर्जे पशुभ्यः अनुमार्ज्मीति व्याख्यातम् । एवमिहापि वासुदेवोपनिषद्ब्राह्मणतंत्रपुराणोपबृंहणानुसारात् ऊर्ध्वपुण्ड्रार्थं श्लक्ष्णां मृदं जलेन मिश्रयेदिति व्याख्येयम् । तथा कालाग्निरुद्रबृहज्जाबालाद्युपनिषद्ब्राह्मणतन्त्रपुराणोपबृंहणानुसारात् । त्रिपुण्ड्रं कर्तुं निम्रुचः शकृदपाभरदिति च व्याख्येयम् । एवमितरस्यापि पादस्य ब्राह्मणमन्त्रलिङ्गादुपबृंहणस्मृतिभ्यश्चाष्टकाप्रपाविधिवदनुमेयम् । तथा च श्रोणामिति पदस्य रक्तामिति व्याख्याने सौरशाक्तगाणेशानां रक्तमेव पार्थिवं द्रव्यं पुण्यार्थे तत्तत्तन्त्रे विधीयते । वैष्णवानां पीतं शैवानां भस्मेति अनेन तत्तत्पुण्ड्रविशेषोपलक्षिततत्तद्देवताभजनेनापि देवताभावं प्राप्नुवन्तीति विधियते । केवलं वैदिकानां तु श्रोणां श्लक्ष्णामिति व्याख्यानेन त्रितयस्यापि समुच्चयः स्नात्वा पुण्ड्रं मृदा कुर्याद्धुत्वा चैव तु भस्मना देवान् विप्रान् समभ्यर्च्य चन्दनेन समाचरेदिति स्मृतिभ्यः अत्र गोरोचनाग्रहणं चन्दनाद्यष्टगन्धोपलक्षणार्थे एतेषां विकल्पसमुच्चयपक्षाणां पितृपैतामहपरंपराक्रमेण व्यवस्थामाह । किंस्वित्पुत्रेभ्यः पितरावुपावतुरिति पुत्रहितार्थे यत्किंचिद्व्रतं पितरौ मातापितरौ पितृपितामहौ वा उपेत्य स्वीकृत्य अवतुः व्रतं सम्यक्परिपालयामासतुः तदेवं तस्य पुत्रस्य श्रेयः साधनमित्यर्थः । एवं सत्यवादिनां तीर्थानि यज्ञादयस्तन्त्रमार्गेण सूर्याद्यन्यतमोपास्तिः केवलवैदिकता चेति देवताभावप्राप्तिसाधनानीति मन्त्रद्वयतात्पर्ये सिद्धम् । तस्मादस्मदादिभिरल्पज्ञैर्दृष्टमूलमदृष्टमूलं वा मनुव्यासादिसर्वज्ञप्रणीतं स्मृतिजातं वेदवद्वेदविदां वचनमिति न्यायेनागमयितव्यं पठनीयं व्याख्येयं चेति सर्वमनवद्यम् ॥१॥

प्रथमोऽध्यायः

लोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको ।
नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे॥१॥

महतः शास्त्रस्यारंभे बहुविघ्नसंभावनयास्वोपास्यं वासुदेवं द्वादशाक्षरेण प्रणम्य ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिताह्यर्थाः प्रकाशन्ते महात्मनः ॥’ इत्युक्तेरीश्वरवत् परात्परं गुरुं पितामहं परमगुरून् वसिष्ठमरीच्यादीन् प्रजापतींश्च प्रणम्य अहं मनुरभवं सूर्यश्चेत्यादिना वामदेव इव स्वकीयं ब्रह्मभावमयमात्मा ब्रह्मेति शास्त्रमनुसंदधानः प्रत्यगात्मानमेव नमस्करोति । ॐ नमः कृष्णद्वैपायनायेति । ततो विघ्नविनायकान्नमस्कृत्य सुखासीनानिति भारतारंभश्लोकेऽपेक्षितं पूरयति गद्येन । लोमहर्षणपुत्र इति । लोमानि हर्षयाञ्चक्रे श्रोतॄणां यः स्वभाषितैः कर्मणा प्रथितस्तेन लोमहर्षणसंज्ञयेति कौर्मे निरुक्तार्थनाम्नः पुत्रः उग्रश्रवाः उग्रस्य नृसिंहतापनीयोपनिषत्प्रतिपाद्यस्य वस्तुनः श्रवः श्रवण यस्य सः अधिगतोपनिषद्रहस्य इत्यर्थः । सौतिः सूतजातेरुत्पत्तिरुक्ता वायुपुराणे । ‘वैन्यस्य तु पृथोर्यज्ञे वर्तमाने महात्मनः। सुत्यायामभवत्सूतः प्रथमं वर्णवैकृतम् ॥ ऐन्द्रेण हविषा तत्र हविः पृक्तं बृहस्पतेः । जुहावेन्द्राय दैवेन ततः सूतो व्यजायत॥ शिष्यहव्येन संपृक्तमभिभूतं गुरोर्हविः । अधरोत्तरचारेण जज्ञे तद्वर्णवैकृतम् ॥’ इति ब्राह्मण्यां क्षत्रियात्सूत इति याज्ञवल्क्योक्तं विलोमजत्वं तस्य सूतस्यापत्यं सौतिः पौराणिकःपुराणे कृतश्रमः नैमिषारण्ये वाराहे ‘एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा । उवाच निमिषेणेदं निहतं दानवं बलं ॥ अरण्येऽस्मिंस्ततस्त्वेतन्नैमिषारण्यसंज्ञितम्’ ॥ इति उक्तरूपे । नैमिशेति पाठे तु वायवीये ‘एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते । यत्रास्य शीर्यते नेमिः स देशस्तपसः शुभः’ ॥ इत्युक्त्वा सूर्यसंकाशं चक्रं सृष्ट्वा मनोमयम् ॥ प्रणिपत्य महादेवं विससर्ज पितामहः । तेऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुं । प्रययुस्तस्य चक्रस्य यत्र नेमिर्व्यशीर्यत ॥ तद्वनं तेन विख्यातं नैमिशं मुनिपूजितमिति ॥ तन्निर्वचनं द्रष्टव्यं शौनकस्य शौनः सर्वविवेकदृगिति लीलावत्यां शौन एव शौनकस्तस्य कुलपतेः ‘एको दशसहस्राणि योऽन्नदानादिना भरेत् । स वै कुलपतिरित्युक्तलक्षणस्य सत्रे ये यजमानास्त एव ऋत्विजो यस्मिन्बहुकर्तृके क्रतौ स सत्रसंज्ञः यथोक्तम् । ’बहुभ्यो दीयते यत्र तृप्यन्ति प्राणिनो बहु । कर्तारो बहवो यत्र तत्सत्रमभिधीयते । इति ॥१॥

सुखासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् ।
विनयावनतो भूत्वा कदाचित्सूतनन्दनः॥२॥

सुखासीनानिति कर्मच्छिद्रेषु सुखं स्वरूपानन्दं विचारयितुमासीनान् अभ्यगच्छत आभिमुख्येन स्वयमेव तेषां पुरः कथां वक्तुं कौतूहलितयागतवान् । नानाहूतोध्वरं गच्छेदन्यत्र तु कुतूहलादित्युक्तेः संशितव्रतान्सम्यक् शितं तीक्ष्णं खड्गधारा वदनास्कंदनीयं व्रतं ब्रह्मचर्यादिकं येषां तान् ॥२॥

तमाश्रममनुप्राप्तं नैमिषारण्यवासिनाम् ।
चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः॥३॥

नैमिषारण्यवासिनामाश्रममनुप्राप्तं तं तपखिनः परिवव्रुरिति संबन्धः । अनुप्राप्त इति पाठे तूत्तरार्धे तमित्यध्याहार्यम् ॥३॥

अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः ।
अपृच्छन्स तपोवृद्धिं सद्भिश्चैवाभिपूजितः॥४॥

तपोधनानां तपोवृद्धिरेव प्रष्टव्यातस्तांस्तपोवृद्धिमपृच्छत्पृच्छेर्द्विकर्मकत्वात् तपोवृद्धानिति पाठे तपोपृच्छदित्यन्वयः ॥४॥

अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु ।
निर्दिष्टमासनं भेजे विनयाल्लौमहर्षणिः॥५॥

निर्दिष्टमिहोपविश्यतामिति दर्शितम् ॥५॥

सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च ।
अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः॥६॥

प्रस्तावयनुपोद्धातयन् प्राप्तवया इति पाठे वृद्ध इत्यर्थः ॥६॥

कुत आगम्यते सौते क्व चायं विहृतस्त्वया ।
कालः कमलपत्राक्ष शंसेतत्पृच्छतो मम॥७॥

उपोद्घातमेवाह कुत इति विहृतः नीतः ॥७॥

एवं पृष्टोऽब्रवीत्सम्यग्यथावल्लौमहर्षणिः ।
वाक्यं वचनसंपन्नस्तेषां च चरिताश्रयम्॥८॥

एवमिति सम्यक्शब्दतः शुद्धं यथावदर्थतः शुद्धं वचनसंपन्नः शब्दप्रयोगकौशलयुक्तः तेषां चरिताश्रयं तेषां मुनीनां चादन्येषां राजादीनां च संबंधीनि यानि चरितानि तेषामाश्रयभूतं वचनम् ॥८॥

तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम् ।
सौतिरुवाच। जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः॥९॥

भावितात्मनां विशोधितचित्तानाम् । सौतिरुवाच जनमेजयस्य राजर्षेरित्यक्षराधिक्यमार्षम् यत्तु जन्मनैवातिशुद्धेन शत्रूनेजितवान् यतः एजृकंपने धातुर्हि जन्मेजय इति श्रुत इति निरुच्य चतुरक्षरं नामेत्याहुस्तन्निर्मूलं जनमेजयः पारिक्षित इति श्रौताक्षरसंख्याविरोधात् । जन्मशब्दस्यानुपसर्गत्वाच्चैडिपररूपं दुर्लभं च । युक्तं तु जनशब्दपूर्वादेजृभ्रेजृभ्राजृदीप्तावितिदीप्त्यर्थाण्ण्यंतादेः खशितिखशिमुमागमे जनमेजय इति ॥९॥

समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ।
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः॥१०॥

पार्थिवेन्द्रस्य समीपे कृष्णद्वैपायनप्रोक्ताः वैशंपायनेन कथिताश्चेति संबन्धः ॥१०॥

कथिताश्चापि विधिवद्या वैशंपायनेन वै ।
श्रुत्वाऽहं ता विचित्रार्था महाभारतसंश्रिताः॥११॥

विशं प्रजां पातीति विशंपो जनमेजयस्तस्यायनं गुरुत्वेनाश्रयभूतो विशंपायनः स एव वैशंपायनः स्वार्थे तद्धितः । यद्वाविरिवविर्जीवः पक्षिवद्देहान्तसंक्रमणात् । शंपः सुखस्य पालक ईशः तयोरयनमधिष्ठानं शुद्धं ब्रह्म तदधीते तद्वेदेति वा वैशंपायनस्तेन वैशंपायनेन । ताः श्रुत्वा तं देशं गतवानस्मीति संवन्धः महाभारतं 'चत्वार एकतो वेदा महाभारतमेकतः । महर्षिभिः समागत्य तुलामारोपितं पुरा ॥ ‘महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ।’ इत्युक्तलक्षणं तत्र संश्रिताः सम्यक्श्रिताः सर्ववेदार्थगर्भा इत्यर्थः । तप्पर्वमरुद्भ्यामित्यन्यत्रस्मृतो मत्वर्थीयस्तप्प्रत्ययोबाहुलकाद्भारशब्दादपीति ज्ञेयम् ॥११॥

बहूनि संपरिक्रम्य तीर्थान्यायतनानि च ।
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्॥१२॥

गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ।
कुरूणां पाण्डवानां च सर्वेषां च महीक्षिताम्॥१३॥

दिदृक्षुरागतस्तस्मात्समीपं भवतामिह ।
आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ।
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः॥१४॥

तीर्थानि जलप्राधान्यात्पुष्करादीनि आयतनानि स्थलप्राधान्यान्नैमिषादीनि ॥१२॥१३॥१४॥

कृताभिषेकाः शुचयः कृतजप्याहुताग्नयः ।
भवन्त आसने स्वस्था ब्रवीमि किमहं द्विजाः॥१५॥

कृतेति आसने स्वस्थाभवन्तो भवन्त्विति शेषः । आसते इति पाठे स्वास्थ्यं पृच्छति । कथां प्रस्तोतुमित्यर्थः । अहं च पुराणादिष्वन्यतमं किं ब्रवीमीत्याज्ञापयतेति शेषः ॥१५॥

पुराणसंहिताः पुण्याः कथा धर्मार्थसंश्रिताः ।
इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम्॥१६॥

पुराणेति ‘सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्च लक्षणम्’ इति ॥ स्मृत्युक्तं पुराणं पुरापि नवं वर्णपदानुपूर्वीविभ्रंशेऽपि प्रतिकल्पं तदर्थानां सर्गादीनां समाननामरूपत्वात् सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयदिति श्रुतेः पुराणस्य संहिताः धर्माश्रिताः कथाः दानमोक्षधर्माद्याः अर्थाश्रिताः राजधर्माद्याः नरेन्द्राणां नलरामादीनां इतिवृत्तम् आचारप्रकारं ऋषीणां भृग्वादीनां चात्पतिव्रतादीनाम् ॥१६॥

ऋषय ऊचुः। द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा ।
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम्॥१७॥

सुरैः ब्रह्मर्षिभिश्च यदभिपूजितं स्वस्वलोके इति शेषः ॥१७॥

तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः ।
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च॥१८॥

विचित्राणि स्वरूपतोऽर्थतश्च रम्याणि पदानि वाक्यादेरुपलक्षणं पर्वाणि पौष्यपौलोमादीनि आदिसमादीनि वा यत्र तस्य सूक्ष्मा अतर्क्या अर्था आत्मतत्त्वादयः ‘अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् । नाप्रतिष्ठितं तर्केण गंभीरार्थस्य निश्चयः ॥’ नैषां तर्केण मतिरापनेयेति स्मृतिभ्यां न्यायस्तत्प्रतीत्यनुकूलायुक्तिः वेदार्थैः वेदतात्पर्यविषयभूतैरर्थैश्च भूषितस्य ॥१८॥

भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् ।
संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम्॥१९॥

संस्कारोपगतां पदादिव्युत्पतिमतीं ब्राह्मीं वाचं ब्राह्मीं गौर्भारतीभाषेत्यमरः । नानाशास्त्रैरुपबृंहिताम् उद्दीपितां शास्त्रान्तराविरुद्धामित्यर्थः ॥१९॥

जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान् ।
यथावत्स ऋषिः तुष्ट्या सत्रे द्वैपायनाज्ञया॥२०॥

राज्ञोग्रे इति शेषः ॥२०॥

वेदैश्चतुर्भिः संयुक्तां व्यासस्याद्भुतकर्मणः ।
संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम्॥२१॥

वेदैश्चतुर्भिः संयुक्तां चतुर्वेदार्थवतीं समितामिति पाठे तुल्यामित्यर्थः । पुण्यां श्रेयो वर्धिनीं पापभयापहां चितशोधिकाम् ॥२१॥

सौतिरुवाच। आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्॥२२॥

मङ्गलाचरणपूर्वकं मुनिभिः प्रार्थितमर्थं वकुं प्रतिजानीते आद्यमित्यादिचतुर्भिः हरिं नमस्कृत्य महर्षेर्मतं प्रवक्ष्यामीति तृतीयचतुर्थयोरन्वयः । अत्र भूबीजाङ्कुरतरुफलोपमाः पञ्च ईश्वरपुरुषाः शुद्धशवलसूत्रविराड्विष्णुसंज्ञाः निरुपाधिमायोपाधिमायाकार्या पञ्चीकृतमहाभूतोपाधिपञ्चीकृतमहाभूतोपाधिपुरुषाकारमूर्त्युपाधिविशिष्टचैतन्यरूपाः तत्र त्रीनत्रोद्दिशति नमस्कार्यत्वेन आद्यं पुरुषं निरुपाधिचैतन्यम् ईशानं मायिनं तु महेश्वरमिति श्रुतिप्रसिद्धं । पुरुहूतं यज्ञेषु पुरुभिर्बहुभिर्होतृभिर्हूतमाहूतं पुरुभिः सामगैः स्तुतमध्वर्युभिरिष्टं चेत्यपि द्रष्टव्यम् । तद्यदिदमाहुरमं यजामुं यजेत्यतस्यैव सात्रिवृष्टिरिति हिरण्यगर्भाख्ये सूत्रे सर्वयष्टव्यदेवतात्मत्वश्रुतेः यदेनमृग्भिः शंसन्ति यजुभिर्यजन्ति सामभिः स्तुवन्तीति स्मृतेश्च पुरुहं पूरुभूयिष्ठमित्यमरः । एतदेव त्रयं व्युत्क्रमेण विशिनष्टि व्यक्ताव्यक्तं सनातनमिति । व्यक्तं सूत्रात्मा हविभोकृत्वफलप्रदातृत्वादियोगात् अव्यक्तम् ईशानः सुप्तिप्रलययोः सर्वलयात्मत्वात् सनातनम् अखण्डदण्डायमानम् एतेन तस्मादव्यक्तमुत्पन्नामितिस्मृस्तेश्चेतरयोरुत्पत्तिमत्त्वेन लयो दर्शित ऋतं यथाभूतं यथा स्फटिके स्वतःशुद्धे हिङ्गुलाश्रयत्वेन रक्तत्वं तत्रैव स्फटिकांशप्रमोषे पद्मरागत्वं तत्रैव चन्द्रिकायामिन्द्रनीलत्वं चाध्यस्यते । तथा चैतन्ये मायायोगादीशत्वं ईशेप्यविद्यायोगात् सूत्रत्वं सूत्रेऽपि अविद्यादार्ढ्याद्विराट्त्वं चाध्यस्यते । तत्र उत्तरोत्तरापेक्षया पूर्वपूर्वम् ऋतं परमर्तत्वाद्यः पुरुष एव । एकमिति मायाद्युपाधिकृतभेदनिरासः । अक्षरम् अशेः सरन् व्यापकम् । तेन आकाशात् पृथिव्यादेरिव नास्मात् पृथगुपाधेरपि सत्त्वमस्तीति दर्शितम् । अत एव ब्रह्मनिरवधिकबृहत्वाद्देशतः कालतो वस्तुतश्च परिच्छेदशून्यम् ॥२२॥

असच्च सदसच्चैव च यद्विश्वं सदसत्परम् ।
परावराणां स्रष्टारं पुराणं परमव्ययम्॥२३॥

चतुर्थे विराजमाह । असच्चेति । यत्सदसत्परं सदसद्भ्यां कार्यकारणाभ्यां सूत्रेशाभ्यां परमन्यत्सनातनाख्यं तदेव वस्तु विश्वं विराटरूपमित्यर्थः । ब्रह्मैवेदंसर्वमित्यादिश्रुतेः ॥ किं भूतं विश्व सत् दृश्यमानत्वात् । असच्च नेह नानास्ति किंचनेति तत्त्वज्ञानबाध्यत्वश्रुतेः नन्वाध्यन्तयोरसन्मध्ये च सद्घटादिकं दृष्टं नेत्याह । असच्चेति रज्जूरगवत्प्रतिभासमानमपि कालत्रयेऽपि नास्तीत्यर्थः । फलोपमं पञ्चमं विष्णुमाह परेति परे सूत्रात्मानोऽवरे विराडादि घटान्ताः । बहुत्वमनन्तशक्तित्वसूचनार्थं तेषां स्रष्टारम् । नन्वण्डान्तरुत्पन्नस्य कथं परादिस्रष्टृत्वमत आह । पुराणमिति पुरापि नवम् । अनादिरेवसन्ब्रह्माण्डान्तश्चतुर्भुजेन रूपेणाविर्भूतोनन्तशक्तिः परिणतबीजगर्भं फलमङ्कुरादीनामिव परावराणां स्रष्टा भवतीत्यर्थः । अत एव परमव्ययमत्यन्तं व्ययशून्यं संसारस्यानन्त्यात्तत्कारणीभूतस्य तस्य व्ययो युज्यत इत्यर्थः । ननु सोयमात्मा चतुष्पादित्यादिना निरुपाधितुर्यप्रतिपत्तये परमात्मस्त्रीण्येव सोपाधिकानिरूपाणि विश्वतैजसप्राज्ञसंज्ञानि माण्डूक्यादिषु श्रूयन्ते न तु चतुर्थमिति चेत्सत्यम् । तथापि । य एषोन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश अरश्चण्यश्चार्णवौ तृतीयस्यामितो दित्रीत्यादि प्रभुमितं हिरण्मयं वेश्मेतिच्छांदोग्ये पुरुषाकृतैर्ब्रह्मणस्तल्लोकादेश्च श्रवणात् । कौषीतकिब्राह्मणे च पर्यङ्कस्थस्य ब्रह्मणस्तेन सह संवादादेश्च श्रवणात्तदप्यस्तीति गम्यते । आरण्यकेऽपि गन्धमादनप्रवेशे धौम्यवाक्ये महामेरुर्महाभागेत्यादिना मेरुपृष्ठे ब्रह्मलोकादन्यं विष्णुलोकं प्राच्यां नारायणस्थानं मेरावतिविराजते इत्यादिना स्थानमेतन्महाभागध्रुवमक्षयमव्ययमित्यनेन ग्रन्थेनोक्तविशेषणमामनन्ति । तत्रैव च तत्प्राप्तानामनावृतिः स्मृता तत्र गत्वा पुनर्नेमं लोकमायान्ति भारतेति । स्थानान्तरेभ्यश्चावृतिर्गीतासूक्ता । आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोर्जुनेति । इमावेव ब्रह्मविष्णुलोकावभिप्रेत्य चिन्तितं चतुर्थे कार्यवादरिरित्यत्र छान्दोग्ये हि अर्चिरादिमार्गं प्रकृत्य श्रूयते स एतान्ब्रह्मगमयतीत्यत्र मानवः पुरुषः उपासकान्कार्यं ब्रह्म प्रापयत्युत विष्ण्वाख्यं परमिति । प्राणो ब्रह्मकं ब्रह्मखं ब्रह्मेति प्रकृत्य यद्वाचकं तदेव खं यदेव खं तदेव कमिति करवयोरभेदमुक्त्वा प्राणं च हास्मै तदाकाशंचोचुरिति प्राणाकाशाख्ययोः कार्यकारणत्रह्मणोरुपास्यत्वेनोपसंहारात्संशयः । तत्र परस्मिन्ब्रह्मणि न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्त इति श्रुतिप्रसिद्धं पारमार्थिकं गत्यभावमभिप्रेत्य कार्यं ब्रह्मैव गतिं प्राप्यमिति पूर्वः पक्षः । दृश्यते परमिति सिद्धान्तः । अस्मिन्पक्षे श्रुतिसूत्रयोः स्वारस्यं कतकेव गन्तव्यम् ईक्षति । कर्माधिकरणे भाष्येऽपि हि एवंविधौ पूर्वोत्तरपक्षौ सर्वत्र दृश्येते । यत्तूक्तं परमेश्वरे हिरण्यश्मश्रुत्वादिरूपश्रवणं नोपपद्यते इति तत्र ब्रूमः- स्यात्परमेश्वरस्यापीच्छावशान्मामयं रूपं साधकानुग्रहार्थमित्यादिना तद्वदिहापि । ज्ञेये तत्र पूर्वपक्षे फलं इमं मानवमावर्तं नावर्तन्त इत्यन्ते इममिति विशेषणान्मानवान्तरे आवृतिरिति सिद्धान्ते तु न च पुनरावर्तन्त इति श्रुत्यन्तरात् । यतो वा इमानि भूतानि जायन्त इतिवदिदं शब्द उपप्रदर्शनार्थ इत्यनावृत्तिरिति । कथं तर्हि भाष्ये सूत्रकममुल्लङ्घ्यं परं गतिप्राप्यमिति । प्रापय्य कार्यमेवं गतिप्राप्यमिति सिद्धान्तितं शृणु नोव्योमापरो यदिति परव्योमाख्यस्याव्याकृताकाशस्य सर्वे जगत्कारणस्यापि सृष्टेः प्राङ्निषेधश्रवणात् तस्मादव्यक्तमुत्पन्नमिति । तदुत्पत्तिश्रुतेर्हिरण्यश्मश्रुत्वादिमतोऽपि कारणब्रह्मणः शुद्धापेक्षया कार्यत्वं विवक्षित्वा तद्विषयत्वं गतिश्रुतीनां वर्णितं परशब्देन च शुद्धं विवक्षित्वा तत्र गत्ययोगश्च दर्शित इति । न च हिरण्यश्मश्रुत्वादिश्रवणं कार्यब्रह्मविषयमेवेति वाच्यम् ।अन्तस्तद्धर्मोपदेशात् दहर उत्तरेभ्य इत्यादिन्यायैस्तस्य जगत्कारणत्वसिद्धेः इयमैवर्गग्निः सामवागेवर्क्प्राणः सामेत्यादिना ऋक्सामात्मकत्वेन निरूपितस्य कृत्स्नस्याधिदैविकाध्यात्मिकप्रपञ्चस्य तस्यर्क्वसामचगेष्णाविति तदङ्गुलिपर्वमात्रत्वोक्तेश्च तस्मात् शास्त्रान्त्यन्यायेन यदधीनं जगद्व्यापारवर्जे इतरेषामुपासनासिद्धानां हिरण्यगर्भादीनामैश्वर्यं येन सह तेषां भोगसाम्यं यथैतान्देवतासर्वाणि भूतान्यवन्त्येवंहैवंविदं सर्वाणि भूतान्यवन्तीति लिङ्गाद्गम्यते । यस्य स भूमिं सर्वतोवृत्त्वात्यतिष्ठद्दशाङ्गुलमिति घटादिभ्यो मृद इव इन्द्रजालादैन्द्रजालिकस्येव च विकारवर्ति तदवर्ति च रूपं स्थितिश्च श्रूयते । यल्लोकं प्राप्तानामनावृत्तिस्तद्भृत्यभूतचतुर्वक्त्रेण सहमुक्तिराधिकारिणामभुक्तविद्याफलानां तल्लोकगतानामपि यावदधिकारं कल्पान्तरेऽप्यवस्थितिश्चेति श्रूयते । तस्य विग्रहादिकं सर्वशास्त्राप्रामाण्यदभ्युपेयम् । अयमेव भगवत्पादीये वेदान्तसारे वनवृक्षदृष्टान्तेन स्थूलसूक्ष्मकारणोपाधिभेदेन त्रिविधेसमष्टिव्यष्टीप्रतिपाद्य समष्टिदृष्टान्तः प्रतिपादितः । किं च शुद्धे ब्रह्मणि प्रणिधीयमानं चित्तं स्थूलसूक्ष्मक्रमात्सर्वं चिदात्मनि प्रविलापयेदिति पञ्चीकरणोक्तक्रमेण स्वाभाविकपरिच्छेदाभिमानं त्यक्त्वाऽमेवेदं सर्वोऽस्मीति मन्यते सोस्य परमो लोक इति शास्त्रीयसार्वात्म्याभिमानयुक्तं व्यक्तभावनामन्तरेण सहसा कर्तुमशक्यम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यत इत्युक्तेः । देहवद्भिर्देहाभिमानवद्भिः । तस्मात् भावनामयं प्रणिधानमयं चेति द्विविधमपि ध्यानं शुद्धं वस्तुप्रपित्सोरावश्यकम् । तत्राद्यं नष्टवनितावदसन्निहितविषयं पुरुषव्यापारतन्त्रम् । तेन वशीकृतं चित्तं क्रमशो मूर्त्याकारतः प्रच्याव्याव्यक्तमात्रालम्बनो भूत्वा विराडादौ कारणे ब्रह्मणि चित्तं प्रणिदध्यात् । अयमेव ध्यानक्रमः श्रीमद्भागवतादिसर्वपुराणेषूक्तः । प्रणिधानं च वस्तुतत्त्वविषयं पूर्वोक्तस्फटिकदृष्टान्तेन आत्मन्यध्यस्तस्य विराडादित्रयस्य रज्जुसर्पस्येव चित्तस्थिरीकरणेन अधिष्ठानभूतशुद्धवस्तुदर्शनेन प्रविलापनकरणम् । तच्च दर्शनं दग्धेन्धनानलवत्स्वयमुपशान्तचेतत्सुषुप्तिसरूपाकाचिदानन्दावस्थाविर्भवति । सा च श्रूयते यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति । एवं वृतिक्षयाच्चित्तं स्वयोनावुपशाम्यतीति । तत्र माण्डूक्यादौ यद्यपि प्रणिधानगोचरेव रूपत्रयमुक्तं तथापि मन्दाधिकारिणां भावनागोचरमपि चतुर्थं सोपाधिकम् ऐश्वरं रूपं श्रुत्युक्तं प्रत्याख्येयम् । नन्वस्य नित्यत्वे तल्लोकादिकमपि नित्यं वाच्यं तथा च सृष्टेः प्राग्सःदेवसोम्येदमग्र आसीदेकमेवाद्वितीयमिति त्रिविधभेदशून्यसन्मात्रसद्भावावधारणं विरुध्येतेति चेन्न । व्यवहारपरमार्थदृष्टिभ्यामुभयोपपत्तेः । तथा हि ।

“न रूपमस्येह तथोप लभ्यते नान्तो न चादिर्न च संप्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥

अस्यार्थः।

न रूपमस्य नान्तोस्य छित्त्वैनमिति चेश्वरः ।
इन्द्रजालोपमत्वेन भवाश्वत्थं न्यरूपयत् ॥१॥

सम्यग्दृशा वीक्ष्यमाणं रूपं नास्योपलभ्यते ।
एतत्प्रयोक्तुर्नित्यत्वादयमाद्यन्तवर्जितः ॥२॥

रज्जुसर्पसमस्यास्य तुच्छाज्ञानोद्भवत्त्वतः ।
प्रतिष्ठाख्यं लयस्थानं नास्ति कुम्भस्य मृद्यथा ॥३॥

अस्य द्वैतेन्द्रजालस्य यदुपादानकारणं ।
अज्ञानं तदुपाश्रित्य ब्रह्मकारणमुच्यते ॥४॥

इत्येवं वार्तिकाचार्यैरुपचारात्परात्मनः ।
उक्तोपाप्रादानता तस्मादप्रतिष्ठो भवद्रमः ॥५॥

दुःस्वप्न इव संसारः सङ्गमात्रेण दुःखदः ।
तमसङ्गासिनाच्छित्त्वा प्रयाहि परमं पदम् ॥६॥

नित्यं वद्धदृशामिन्द्रजालं शुद्धदृशां त्विदम् ।
कालत्रयेऽपि नास्तीति न्यायमत्रापि योजयेत् ॥७॥

प्रवाहनित्यं जगदित्याहुर्मीमांसकाः स्फुटम् ।
व्यवहारे भाट्टनयो ह्यस्माकमपि संमतः ॥८॥

न कार्यत्वादनित्योऽयं नन्दनन्दनविग्रहः ।
उपचाराद्धि कार्यत्वं तत्र पौराणिका जगुः ॥९॥

देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ।
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ॥१०॥

दुर्गा विनायको विष्णुर्भवो भानुरितीह हि ।
नामरूपान्तराण्यस्य शृणुमः पार्थसारथेः ॥११॥

वेदान्तेष्वपि नित्यत्वं खादीनां व्यावहारिकम् ।
सिद्धवत्कृत्यदृष्टान्ते कीर्त्यते हि परिस्फुटम्” ॥१२॥

तथा ह्याकाशवत्सर्वगतश्च नित्यः इत्याकाशात्मनोर्दृष्टान्तदार्ष्टान्तिकयोः सर्वगतत्वनित्यत्वे संगच्छेते । अन्यथा द्वयोरपि सत्यत्वे सर्वगतत्त्वस्यैवासंभव इत्यास्तां तावत् । ततश्च यथाऽस्मदादिसुप्तिकाले स यदा स्वपिति तदैवं वाक्सर्वैर्नामभिः सहाप्येतिचक्षुः सर्वैरूपैः सहाप्येतीत्यादिना श्रूयमाणेऽपि सर्वनामरूपप्रलये इतरेषां व्यवहारो न विच्छिद्यते । एवं ब्राह्मप्रलयकालेऽपि वैकुण्ठवासिनामिति । स देवसोम्येत्यादिकमपि आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथेति न्यायेन नेह नानास्ति किंचनेति श्रूयमाणस्य व्यवहारकालेऽपि प्रपञ्चासत्त्वस्य प्रदर्शनार्थं न तु कदाचित्कस्य तदसत्त्वस्य ज्ञापनार्थम् । ‘नासतो विद्यते भाव’ इत्यसदुत्पत्तिनिषेधात् ‘नान्तो व चादिरिति’ गीताविरोधाच्च । तस्मादखण्डदण्डायमानेन्द्रजालतुल्यस्य जगतो दर्शनादर्शने एवादयलयावित्यभिप्रायेण सृष्टिश्रुतय इत्याकाशवद्व्यावहारिकं विष्णुमूर्त्यादेरपि नित्यत्वसिद्धम् । परमार्थतस्तु निर्विशेषचिन्मात्रादन्यकालत्रयेऽप्यस्तीति दिक् ।

“रज्ज्वज्ञानात्सर्पभीतिपातक्षतमिव क्रमात् ।
आत्माज्ञानादहंसङ्गक्रियादेहं समुत्थितम् ॥१॥

घृतवल्लीयते सुप्तो वासनामात्रदेहकः ।
बोधे स हन्यते चैव पुनः पुनरहं भ्रमः ॥२॥

अहं तद्वासनाधारा नाज्ञाने सति शाम्यति ।
सङ्गक्रियादेहचक्रं नानष्टेहं विनश्यति ॥३॥

रज्जुज्ञानाद्भयं नश्येन्न तु पातोद्भवं क्षतम् ।
आत्मज्ञानात्तथासङ्गो न तु कर्मोद्भवं वपुः ॥४॥

यावत्कर्म वपुस्तावद्यावद्देहश्च तिष्ठति ।
तावत्कर्माहं भ्रमश्च वर्तेते दग्धवस्त्रवत् ॥५॥

तत्रैवं सति कर्मोत्थं कर्मनाशात्प्रणश्यति ।
अकर्मजं तु बोधेन बाध्यते न तु नश्यति ॥६॥

एवं श्री कृष्णदेहोऽयमकर्मोत्थो न नश्यति ।
बोधन बाध्यते चैव स्वप्ने दृष्ट इवेश्वरः ॥७॥

अन्योन्यबाधकौ जाग्रत्स्वप्नावात्मनि कल्पितौ ।
नोत्पद्येते न नश्येते रज्ज्वां सर्पस्रजाविव ॥८॥

आत्मैव हीश्वरोऽस्माकं धीदर्पणपृथक्कृतः ।
धीनाश एवं तद्वाधः कार्यत्वाद्धीश्च नश्यति ॥९॥

नन्वैश्वर्यमकार्यत्वान्न नश्येत्प्रत्यगात्मनः ।
बाढं बाधस्तु तस्य स्यान्मायाबाधेन सर्वथा ॥१०॥

अत्रोक्तं वार्तिकसारे— ’ब्रह्मत्वादेव जीवस्य भ्रान्तजीवत्ववारणात् ।
वशित्वाद्या ब्रह्मधर्माः शिष्यन्तेऽतोऽयमीश्वरः ॥११॥

निवृत्तत्वाज्जीवधर्मा भासन्ते नैव कस्यचित् ।
अनिवृत्ता ईशधर्मा अकर्मापादि तत्त्वतः॥१२॥

भ्रान्ति चेत्तत्वीश्वरस्यापि बुद्धानां च स्वबुद्धितः ।
ईश्वरस्य ततो धर्माः सन्तु न त्विह विस्मयः॥१३॥”

तिष्ठस्वपीशधर्मेषु धर्माणां मायिकत्वतः । ईशो निर्धर्मको बोध्यो विमुक्त्यर्थं मुमुक्षुभिः” इति । प्रपञ्चस्तु तत्रैव द्रष्टव्यः । कस्यचित् विदेहमुक्तादेः अयं च ईश्वरोऽयमधर्मवत्स्वस्वबुद्धिभेदाद्वर्णवद्रलिपिभेदादाकारभेदे विष्णुरिति सांब इति च शास्त्राद्गृह्यते । एवं तल्लोकोऽपि वैकुण्ठ इति कैलास इति च एकं सन्तं बहुधा कल्पयन्ति यो देवानां नामधा एक एवेत्यादिश्रुतिभ्यः । तं यथा यथोपासते तथेतः प्रेत्य भवन्तीति श्रुतेस्वद्भावनावतां तत्सारूप्यप्राप्तिः कीटभृङ्गन्यायेन भवति न तु तदैक्यप्राप्तिरिति व्युत्पादितं वेदान्तकतके । केचित्तु पूर्वोक्तमनःप्रणिधानात्मकध्यानसंप्रदायानभिज्ञाः एतल्लोकप्राप्तिरेवमुक्तिरयमेवेश्वरो न समष्ट्याख्योऽन्य ईश्वरोऽस्तीति वदन्ति । ते सर्वशास्त्रप्रसिद्धं मुक्तौ द्वैतादर्शनं बाधमानाः स्वाप्ययसंपत्त्योरित्यादिन्यायेन न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्यद्यद्विभक्तं पश्येदिति सुप्तिकैवल्ययोरविशेषाद्द्वैतादर्शनश्रवणेन च विरुध्यन्ते । अनयैक च श्रुत्या द्वितीयाभावादेव द्वैतादर्शनं न तु दृग्लोपादिति वदन्त्या द्वैतस्येन्द्रजालतुल्यत्वं दर्शितं ‘तेन विष्णुः सर्वोत्तमः शिवो जीवः । शिवः सर्वोत्तमो विष्णुर्जीव’ इत्युपासकानामाग्रहो विष्ण्वाद्युत्कर्मप्रतिपादकश्रीभागवतसुतसंहितादीनामनार्षत्वासुरत्वादिवचनैर्दूषणं च शास्त्रमर्यादा नवबोधमूलमेव । विकल्पो विशिष्टफलत्वादिति न्यायेन ऐकात्म्ये चितावतारार्थं यस्यकस्यचिदप्याकारस्यालम्बनीयत्वात् । यत्तु शैववैष्णवपुराणेषु इतरनिन्दास्मरणं तन्न हि निन्दा निन्द्यं निन्दितुं प्रवर्तते अपि तु विधेयं स्तोतुमिति न्यायेन विधेयस्तुत्यर्थं ‘यथा उद्यन्नु खलु वा आदित्य आहवनीयेन रश्मीन्संदधातीत्युपक्रम्य प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम् । दिवाकीर्त्यमदिवाकीर्तयन्तः सूर्योज्योतिर्नः तदा ज्योतिरेषामिति । आदित्यो वा अस्तं यन्नग्निमनुप्रविशतीति श्रुतिमुपजीव्य यदुदिते सूर्ये प्रातर्जुहुयात् । यथातिथये प्रद्रुताय शून्यायावसथायाहार्थं हरन्ति तादृगेव तदिति उदितानुदितहोमयोः प्रकरणे इतरनिंदाविधेयस्तुत्यर्थैव तद्वत् । न तु तत्र निन्दायां तात्पर्यमस्ति । उभयस्यापि त्याज्यत्वापत्तेः न हि विष्णुभजनं शिवभजनं वा तदङ्गमूर्ध्वपुण्ड्रत्रिपुण्ड्रादिवासुरापानादिवद्रागतः प्राप्तं येन टिंदार्थवादानुमितनिषेधशास्त्रबलादनर्थकरं स्यात् । यद्वा सत्यपिं निषेधे शास्त्रतः प्राप्तत्वात् अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णातीति विहितप्रतिषिद्धत्वात्षोडशिग्रहणाग्रहणवत्विकल्प्यताम् । विशिष्टफलत्वेनाविरोधे वा समुच्चीयताम् । न तु तद्विधायकशास्त्राप्रामाण्यमध्यवसातुं शक्यम् । इतरस्यापि तथात्वापत्तेः सर्वपुराणोच्छेदप्रसंगः तस्मात्तस्यालशुनकन्यायेन शिवविष्णुगोचरे निन्दास्तुतिसंकेतभेदमाश्रित्य कार्यकारणब्रह्मगोचरतया व्याख्येये । यथा हि- कश्चित्कुतुकी मुग्धां भार्यां कोपयितुं गृहशुनकं स्यालनाम्नासंकेत्य गालयति । सा च मद्भ्रातरमझंगालयतीति कुप्यति । तद्वच्छैवे विष्णुशब्देन कार्यं ब्रह्मविवक्षित्वात्तद्भजनातारतम्येनैश्वर्यवतारतम्यवत्तया हीनसंपदा पुंसा दुःखकरत्वात् नरकशब्दोदितस्य ब्रह्मलोकस्य प्राप्तिरिष्यते । एवं पक्षान्तरेऽपि तथा च व्याख्यातं मोक्षधर्मेषु जापकोपाख्याने । अमूनि यानि स्थानानि देवानां परमात्मनामित्यादिना तस्य स्थानवरस्येह सर्वे निरयसंज्ञिता इत्यन्तेन । तमिमं पौराणं भाषाभेदमजानन्तः पामराः शैववैष्णवापसदा ‘ब्रह्माणं केशवं रुद्रं भेदभावेन मोहिताः । पश्यन्त्येकं न जानन्ति पाखण्डोपहता जना’ इति तत्रैव स्मर्यमाणं शिवविष्ण्वोर्भेददर्शने दोषमुदाहृत्याभेदश्रुतीश्चापश्यन्तो मूलकारणमेवान्त्यात्कार्यान्नट इव तत्तद्रूपेण भासत इति शास्त्रतत्त्वमजानन्तोऽन्यतररूपपरिग्रहेणेतरं निन्दन्तः परस्परं कलहायमानाः स्वामिद्रोहान्नरकायैव सज्जन्त इत्यलं प्रसक्तानुप्रसक्तोक्त्या । तस्मादस्ति चतुर्भ्य आत्मनः पादभ्योतिरिक्तो विष्ण्वाख्यः पञ्चमः पुरुषः- सोऽयं प्रतिपाद्यते । परावराणां स्रष्टारभित्यादिना । नन्वयं नन्दनन्दनो यदि परावराणामुच्चनीचानां स्रष्टा तर्हि वैषम्यैर्नैर्वृण्यभागी स्यात् न च तत्तत्प्राणिकर्मापेक्षो विषमानर्थात्सृजतीति वाच्यम् । कर्मण एव मुख्यत्वेन तस्याकिंचित्कतर्चात् । कर्मणश कृष्यादेःसर्वाङ्गोपसंहारवतो विनैश्वरानुग्रहं फलसाधनत्वदृष्टेः । तस्मादुपासनार्थत्वेन कल्पनामात्रं तद्विग्रहादिकमिति चेत्सत्यम् । देवताधिकरणन्यायेनोपासनायामद्वैते वा शास्त्रस्य परमतात्पर्यवत्त्वेऽपि तत्प्रतिपत्त्युपायतया श्रुतस्येश्वरस्य अवान्तरतात्पर्यविषयतयाङ्गविधीनामिव देवताविग्रहादिविधीनां प्रामाण्यं सिद्धम् । मानान्तराविरोधात् । न च वैषम्यादिदोषः । दाशतय्यां निरस्तत्वात् । तथा हि न सस्वोदक्षो वरुणध्रुतिः सासुरामन्युर्विभीदको अचितिः । अस्तिज्जायान्कनीयस उपारेस्वप्नश्च नेदसृतस्य प्रयोतेति मन्त्रे सः स्वोदशोनयेन महद्यशस्यं कर्म कृतं तत् स्वसामर्थ्यं न भवति किं तु हे वरुणापरमेश्वर सा तवैव धृतिः तत्त्वदीयमेवाधिष्ठातृत्वं तवैव माहात्म्यं तदित्यर्थः । नन्वन्यसामर्थ्येनान्यः करोतीत्ययुक्तमिति चेतत्राह । सुरेति यथा सुरामद्यं मन्युः क्रोधः । विभीदको विभीतकस्तत्स्थः कलिः अचित्तिर्भूतावेशपित्ताद्युद्रेकजन्मा उन्मादः एते अशक्तमपि पुरुषं वशीकृत्य महाशक्तसाध्यमपि कदर्ये कर्म कारयन्ति । तद्वदीश्वरोऽपि सर्वस्मिन्यशस्ये कर्मणि जीवं प्रवर्तयतीत्यर्थः । अयं भावः न हि त्वदारेनिमिषश्चनेशे इति श्रुतेः । ईश्वरानुग्रहं विना निमिषोऽपि स्वयं चलितुं न ईष्ट इति सर्वापि सात्त्विकी राजसी तामसी वा प्रवृतिरीश्वरायतैव । तथापि यथा सर्वरसप्रकृतेर्मधुरैकस्वभावस्य जलस्य इक्षुरसातिशयेन माधुर्यमभिव्यक्तम् । जम्बीरमरीचमरसयोस्तु स्वाभाविकं तदभिभूतं औपाधिकमम्लत्वं कटुत्वं चाभिव्यक्तम् । एवं ज्ञानवैराग्यैश्वर्यादिकमस्ति । कामक्रोधादिभिमानिदेवता विग्रहे सत्त्वं तिरोभूतम् । औपाधिकं लोभवृत्त्याप्रदिकं प्रमादमोहादिकं चाविर्भूतं । तथा च यथा गोधूमादिचूर्णम् इक्षुरसाद्यनुग्रहात्तत्तद्रसत्रद्भवति । एवं जीवान्तःकरणमपि ईश्वरानुग्रहाद्धर्मोपगं कामानुग्रहाल्लाभोपगं च भवति । अत एव भगवद्गीतासूक्तम् । ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया’ इति ॥ सर्वभूतान्तर्यामिणं प्रकृत्य । ‘तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं मत्संस्थामधिगच्छसि’ इति । तदनुग्रहफलं शान्त्यादिकमित्युक्तं । तथा । ‘अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः’ इति । प्रश्नस्य उत्तरम् । ‘काम एष क्रोध एष’ इत्यादिना कामक्रोधलोभा एव पुरुषं पापे प्रवर्तयन्ति । नत्वीश्वर इत्युक्तम् । एष ह्येवासाधु कर्म कारयति । ईश्वरप्रेरितो गच्छेच्छ्वभ्रं वा स्त्रर्गमेवेत्यादिश्रुतिस्मृतिजातं तु पर्जन्यवदीश्वरस्यासाधारणकारणत्वमित्याह । न च तावता जलवत्सर्वान्तर्यामिणोपीश्वरस्य वैषम्यादिगन्धोऽस्ति । कल्पादयश्चाचारव्यभिचार एवाभिभवन्तीति परम्परया कर्मापेक्षत्वमपीश्वरस्य युज्यते । अङ्कुरादि जननस्य कार्यत्वेनाकर्तृकत्वानुपपत्तेश्च तत्कर्ता ईश्वरः सिद्ध एवास्ति । क्व तर्ह्यसावित्यत आह । अस्ति ज्यायाकनीयस उपार इति । उभावप्येकत्वादनुपाधिना रूपेण ज्येष्ठौ सोपाधिना कनिष्ठौ तथाप्युपाधिशुद्ध्यशुद्ध्यतिशयादीश्वरो ज्यायान् जीवः कनीयान् तस्य सङ्घाताभिमानिन उपारे समीपे अन्तर्यामितयास्ति । अन्तः प्रत्रिष्टः शास्ता जनानां सर्वात्मेत्यादिश्रुत्यन्तरप्रसिद्धेः । केन लिङ्गेन तर्ह्यसौ ज्ञेय इत्यत आह । स्वप्नश्च नेदन्नृत्यस्य प्रयोतेति । स्वप्नश्च न स्वप्न इव इत एव । अनृतस्य मिथ्याभूतस्यैव अहङ्कारादिघटान्तस्य प्रपञ्चस्य प्रयोता युमिश्रणामिश्रणयोः प्रकर्षेण भूयो भूयः संयोजयिता वियोजयिता च । यो दृष्टिसमयां सृष्टिमिन्द्रजालवदाविर्भावयति । तिरोभावयति स भगवान् महामायावी समस्तपापसंछेदनकामैराराधनीय इति भावः । नन्वमूर्तस्यान्तर्यामिणस्तस्य कथमाराधनं कर्तव्यमित्यत आह । अरन्दासोनमीह्ळुषे कराण्यहं देवाय भूर्णये नागाः । अचेतयदचित्तो देवो अर्योगृत्संरायेकवितरोजुनातीति न शब्द इवार्थः । अहं मीह्ळुषे भूयसीं धनस्य वृष्टिं कृतवते स्वामिने दासो न दास इव देवाय षर्तुर्भुजमूर्तये अरङ्काराणि अलङ्करवाणि प्रार्थनायां लोट् । यथा दासाः स्वामिनं स्रक्चंदनमुकुटादिनालङ्कुरान्ति एवमहं पार्थिवं नन्दनन्दनविग्रहं भूषयेयमित्यर्थः । अनागाः निषिद्धाचरणवर्जितः । ननु चेतनो ह्यलंक्रियमाणः सद्यः फलं ददाति किमचेतनायालंकरणेनेत्यत आह । भूर्णये भूरियनुष्यराजाद्यपेक्षया अधिकं द्रव्यादिकं नयति भक्ताय प्रापयति भूर्णिस्तस्मै भूर्णये अचेतनोऽप्ययं सर्वान् कामान्दास्यतीति भावः । ननु दृष्टविरुद्धमेतत् । न हि प्रतिमाराधनेन धनं प्रतिमातः प्राप्यत इत्यत आह । अचेतयदिति । अर्थः भुक्तिमुक्तिकामैरभिगम्यः स्वामी देवः प्रतिमादिरूपः । अचितः चेतनारहितान् सर्वान् पिण्डान् अचेतयत् चेतनायुक्तान् करोति । अहल्यावत् भूतनिर्देशच्छांदसः । अयं भावः । देह इव प्रतिमायापि तीव्रभावनावता चैतन्यं स्पटमुपलभ्यते । प्रसिद्धं चैतत्प्रतिमोन्मेषणं मन्त्रशास्त्रे । उपाख्यायते च पुराणादौ । तस्मात्प्रतिमायाश्चेतनाधिष्टितत्वेन चेतनस्य च सर्वपुरुषप्रवर्तकत्वे ततः फलसंभावनास्तीति । एवं परमेश्वरे श्रीमाधवादिप्रतिमारूपे सर्वपुरुषार्थप्रदे सत्यपिकवितरो बुद्धियूतरो जनो गृत्संप्राणप्राणौ वै गृत्स इति श्रुतेः प्राणवन्तं जीवं राजादिं राये धनार्थं जुनाति अनुसरति नानाविधैः काव्यैः क्षुद्र प्रभुं प्रस्तौति अहो दौर्भाग्यमस्येति श्रुतिरुरस्ताडं मन्दानाक्रोशति । कवितमस्तु परमेश्वरमेव नन्दनन्दनापरपर्यायं समस्तपुरुषार्थकामः शरणीकुर्यादिति भावः । तस्माद्युक्तमुक्तं परावराणां स्रष्टारमिति ॥२३॥

मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् ।
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम्॥२४॥

मङ्गल्यं मङ्गलावहं मङ्गलं स्वरूपेणैव । एष ह्येवानन्दयातीति आनन्दो ब्रह्मेति च श्रुतिभ्याम् । विष्णुं यज्ञात्मानं यज्ञो वै विष्णुरितिश्रुतेः । वरेण्यं वरणीयम् । भोगमोक्षकाङ्क्षिभिरवश्यमादरणीयम् अनघम् आगन्तुकदोषास्पर्शिनम् । शुचिं स्वभावशुद्धं । शिवमिति पाठे शिवमद्वैतं चतुर्थं मन्यन्त इति श्रुतिप्रसिद्धं निर्गुणं । हृषीकेशं हृषीकानामिन्द्रियाणामीशितारम् । चराचरगुरुं चराचराणां गुरुं विद्याप्रदम् अत एव हरिं संसारहरणम् ॥२४॥

महर्षेः पूजितस्येह सर्वलोकैर्महात्मनः ।
प्रवक्ष्यामि मतं पुण्यं व्यासस्याद्भुतकर्मणः॥२५॥

ईदृशं हरिं नमस्कृत्य व्यासस्य मतं अथातो ब्रह्मजिज्ञासेत्यादिसूत्रैर्निर्णीतं यद्ब्रह्माद्वैतं तत्प्रकर्षेण नानोपाख्यानोपबृंहणेन वक्ष्यामि । तत्र श्रद्धोत्पादनार्थं महर्षेरित्यादिव्यासविशेषणं । ऋषीणां मन्त्रद्रष्टृणां महत इति तन्मतस्य श्रौतत्वमुक्तम् । अद्भुतकर्मण इति ब्रह्माद्वैतप्रतिपत्त्युपायभूतेन नानाव्याख्यानदृष्टान्तप्रणयेन न विचित्रग्रन्थकारित्वमुक्तम् ॥२५॥

आचख्युः कवयः केचित्संप्रत्याचक्षते परे ।
आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि॥२६॥

आचख्युरिति कवयः क्रान्तदर्शिनः ॥२६॥

इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् ।
विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः॥२७॥

त्रैकालिकानामपि कवीनामेतदाख्याने गुणमाह । इदमिति । ज्ञानं ज्ञानसाधनं त्रयीरूपं द्विजातिभिस्त्रैवर्णिकैर्यद्धार्यते तदिदम् इतिहासरूपेण त्रिषु लोकेषु जातित उत्तममध्यमाधमजनेषु प्रतिष्ठितं ज्ञानकरत्वेनेत्यर्थः॥२७॥

अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः ।
छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम्॥२८॥

समयैः सङ्केतैः ‘समयाः शपथाचारकालसिद्धान्तसंविद’ इत्यमरः दिव्यमानुषैः वैदिकलौकिकैः । संस्कृतप्राकृतैर्वा तथाह्यमृतमन्थनादौ जलादिषु घृतादिपदप्रयोगे वेदनिघंटु प्रसिद्धो दृश्यते । तथा जतुगृहदाहेपार्श्वचरादिषु कक्षघ्नादिशब्दा म्छेच्छप्रसिद्धा दृश्यन्ते । छंदोवृत्तैः त्रिष्टुबादिच्छन्दोन्तर्गतैरिन्द्रवज्रादिभिर्वृत्तैः ॥२८॥

निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसा वृते ।
बृहदण्डमभूदेकं प्रजानां बीजमव्ययम्॥२९॥

निष्प्रभे इति । यत्प्रजानां बीजं जगदुपादानम् एकं निमित्तान्तरानपेक्षम् । अव्ययम् अपरिणामिकूटस्थं वस्तु तत् बृहदण्डं ब्रह्माण्डरूपम् अभूत् । तदात्मानं स्वयमकुरुत । सच्चत्यच्चाभवदित्यादिश्रुतिभ्यो ब्रह्मण एव सर्वभावावगमात् । कदाण्डमभूदित्याकाङ्क्षायाम् अस्मिन् प्रजानां बीजे निष्प्रभे प्रकर्षेण भानं विशेषविज्ञानं रूपाद्याकारं तद्रहिते सति । प्रलयकाले बुद्धिबोद्धव्ययोरभावात् । निरालोके आलोक्यतेऽनेनेत्यालोकः सत्वम् ईश्वरोपाधिभूतं विक्षेपशक्तिमन्मायाख्यं तद्रहिते मायाया अप्यभावे कुतोऽण्डोत्पत्तिरत आह । सर्वतस्तमसावृत इति । मायाया आवरणशक्तिरूपात्तुच्छात्तमस एव स्वप्नप्रपञ्चवदण्डमुत्पन्नमित्यर्थः । तथा च श्रुतिः । नो व्योमापरोयदिति । सृष्टेः प्रागव्याकृताख्यमायाया अपि सत्वं निषिध्य तुच्छ्येनाभ्वपिहितं यदासीत् । तमसस्तन्महिनाजायतैकमिति तमोमात्रात्सृष्टिं दर्शयति ॥२९॥

युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते ।
यस्मिन्संश्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम्॥३०॥

युगस्य ब्रह्मकल्पस्यादौ जातं तत् निमित्तं चतुर्विधभूतग्रामोपादानम् । यस्मिन् अण्डेब्रह्म प्रविष्टमितिशेषः तत्सृष्ट्वातदेवानुप्राविशदितिश्रुतेः किं तत् सत्यंविकारत्वहीनम् । वाचारम्भणं विकार इति विकारस्यानृतत्वश्रुतः । किं जडप्रकृतिरूपं न ज्योतिः चिद्रूपं सनातनं सततैकरूपम् ॥३०॥

अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां मतम् ।
अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम्॥३१॥

अद्भुतं प्रत्यगात्मत्वेपिदुर्ज्ञेयत्वात् । अचिन्त्यं वाङ्मनसातीतत्वात् । सर्वत्रदेशे काले वस्तुनि च समतां साम्यं ऐक्यमिति यावत् । गतंप्राप्तम् । अव्यक्तम् अव्याकृतम् । कारणं हेतुः सूक्ष्मंबाह्येन्द्रियाविषयत्वात् । सदसदात्मकं तुच्छातुच्छव्यावृत्तस्वरूपम् अनिर्वचनीयमित्यर्थः ॥३१॥

यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः ।
ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ॥३२॥

यस्मादण्डात् पितामहः स वै शरीरी प्रथमः । हिरण्यगर्भः समवर्तताग्र इत्यादिश्रुतिप्रसिद्धः । अस्य रजःसत्त्वतमोगुणप्रघानानि त्रीणि रूपाण्याह ब्रह्मा सुरगुरुर्विष्णुः स्थाणू रुद्रः ब्रह्मणोविभूतीः सृष्टिकर्मप्रधाना आह मनुरित्यादिना ॥३२॥

प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त वै ।
ततः प्रजानां पतयः प्राभवन्नेकविंशतिः॥३३॥

दक्षपुत्राः सप्त ।‘क्रोधस्तमोदमश्चैव विक्रीतोथाङ्गिरास्तथा । कर्दमोश्वश्च सप्तैते दक्षपुत्राः प्रकीर्तिता’ इत्यन्यत्रोक्ताः। एकविंशतिर्मरीच्यादयः सप्तमनवश्चतुर्दशेति । यथोक्तं ब्रह्माण्डपुराणे‘ऋषयः सप्तपूर्वे ये मनवश्च चतुर्दश । एते प्रजानां पतय एभिः कल्पः समाप्यते’ इति ॥३३॥

पुरुषश्चाप्रमेयात्मा यं सर्वऋषयो विदुः ।
विश्वेदेवास्तथाऽऽदित्या वसवोथाश्विनावपि॥३४॥

विष्णोर्विभूतिं पालनकर्मप्रधानामश्व्यंतामाह । पुरुषश्चेति । यं मत्स्यकूर्ममैरालादिवि ग्रहम् ॥३४॥

यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा ।
ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षिसत्तमाः॥३५॥

स्थाणोर्विभूतीः संहारकर्मप्रधाना आह । यक्षा इति । ततोब्रह्माण्डात् । ब्रह्मर्ष्याद्याः कृत्स्नसंसारसंहारकज्ञानप्रधानाः ॥३५॥

राजर्षयश्च बहवः सर्वैः समुदिता गुणैः ।
आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा॥३६॥

आप इत्यादिकंषट्कं वन्हिपुरुषयोरप्युपलक्षणम् । दिशः द्यौरित्येताभ्यां तदभिमानिनौ चन्द्रसूर्यौ गृह्येते । अन्तरिक्षम् आकाशः एतच्च मूर्त्यष्टकं स्थाणोरेवविभूतिः ॥३६॥

संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् ।
यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम्॥३७॥

संवत्सरादिः कालोपिसंहारकत्वात्स्थाणोरेव विभूतिः । यच्चादन्यपि दृष्टं श्रुतं वा तत्सर्वं तत एवाण्डात्संभूतमिति पूर्वेण सबन्धः ॥३७॥

यदिदं दृश्यते किंचिद्भूतं स्थावरजङ्गमम् ।
पुनः संक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये॥३८॥

यदिदं दृश्यते बाह्यं रूपादि आन्तरं च अहङ्कारतद्धर्मसुखदुःखादिसाक्षिदृश्यम् तत्सर्वं युगक्षये कल्पान्ते पुनः संक्षिप्यते । कूर्माङ्गवत्तिरोभवति स्वाधिष्ठाने ब्रह्मण्येव शुक्ताविव रजतम् ॥३८॥

यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु॥३९॥

प्रतिकल्पं सृष्टेः समाननामरूपत्वमाह । यथेति ॥३९॥

एवमेतदनाद्यन्तं भूतसंहारकारकम् ।
अनादिनिधनं लोके चक्रं संपरिवर्तते॥४०॥

कल्पानामानन्त्यमाह । एवमिति । अनाद्यन्तं परमात्मावगत्यवसानम् ॥४०॥

त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ।
त्रयस्त्रिंशच्च देवनां सृष्टिः संक्षेपलक्षणा॥४१॥

एवं पिण्डब्रह्माण्डात्मिकां जडसृष्टिमुक्त्वा तदभिमानिचेतनसृष्टिमाह । त्रयस्त्रिंशदिति । शाकल्यब्राह्मणे त्रयश्च त्री च शतात्रयश्च त्री च सहस्रेत्याद्युपक्रम्य महिमान एवैषामते त्रयस्त्रिंशदेव देवा । इत्युक्तेस्त्रयस्त्रिंशदेवदेवाः तावन्ति शतानि सहस्राणि वा तेषामेव विभूतिरित्यर्थः । ते चाष्टौ वसव एकादशरुद्रा द्वादशादित्याः । इन्द्रः प्रजापतिश्च तत्र वसवः पृथिव्यग्नी अन्तरिक्षवायू आदित्यादिवौ चन्द्रो नक्षत्राणि च रुद्रा एकादशेन्द्रियाणि आदित्याद्वादशमासाः इन्द्रः पर्जन्यः प्रजापतिर्यज्ञः एतेषामभिमानिनश्चेतना अत्र विवक्षिताः शरीरसृष्टेः प्रागुक्तत्वात्। सोयं सृष्टिसङ्क्षेपः । विस्तरस्त्वन्यत्रोक्तः । ‘तिस्रः कोट्यस्तुरुद्राणामादित्यानां दश स्मृताः । अग्नीनां पुत्रपौत्रं तु संख्यातुं नैव शक्यते’ इति ॥४१॥

दिवः पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः ।
सविता स ऋचीकोऽर्को भानुराशावहो रविः॥४२॥

कतम एकादेवतेति प्राण इति स ब्रह्मेत्युपसंहारे तत्रैवोक्तमेकं सूत्रात्मानं चेतनं विवक्षितत्वात्तद्विभूतयोन्ये चेतना इत्याह । दिवः पुत्र इत्यादिना सुविस्तरा इत्यन्तेन । दिवो नानारूपेण द्योतमानाया मायायाः पुत्र इव पुत्रो गर्भस्थत्वात् । मायायां चित्प्रतिविम्बः सूत्रात्मेत्यर्थः । तस्यैवावयवाबृहद्भान्वादय एकादशसमनस्केन्द्रियाधिष्ठातृदेवताः । दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्र मित्रप्रजापतिबृहस्पतिसंज्ञा अपि अत्र सूर्यपर्यायैरेवाभिधीयन्ते । ‘सूर्य आत्मा जगतस्तस्थुषश्च’ इति श्रुतस्तद्विभूतयोन्यादेवता इति स्मृतेश्च दिगादीनां सूर्यविभूतित्वात् । स बृहत् स भानुः स चक्षुरिति प्रत्येकं तच्छब्दः संबध्यते । अत्र बृहदादिपदार्थास्तु

'बृहद्व्योममयत्वेन श्रोत्रमिन्द्रियमुच्यते ।
द्रव्याणां भासनाद्भानुशब्देनोक्तं त्वगिन्द्रियम् ॥१॥

चक्षुः प्रसिद्धमात्मा तु प्रेयस्त्वाद्रसनेन्द्रियम् ।
वागग्निदैवतत्वेन विभावसुपदोदिता ॥२॥

कर्मणा प्रसवात्पाणीमतौ सवितृशाद्वितौ ।
विशिष्टगतिमत्त्वादप्यर्कः पादेन्द्रियं मतम् ॥३॥

उपस्तः स्यादृचीकाख्य ऋचां सर्वाङ्गतेजसाम् ।
सङ्गमो रतिकालेत्रेत्येवमेवमरीचिकः ॥४॥

वायुराशावहः प्रोक्तो भासनादवनाच्च सः ।
भानूरविश्चोच्यते तौ घ्राणपायुपदोदितौ ”॥५॥

इति ॥४२॥

पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथाऽवरः ।
देवभ्राट् तनयस्तस्य सुभ्राडिति ततः स्मृतः॥४३॥

पुत्राः प्रतिविम्बाः विवस्वतः सूर्यवत्सर्वावभासकस्य चैतन्यस्य । यद्वा विशेषेण वस्ते आच्छादयति सर्वं ज्ञेयं व्याप्नोतीति विवोज्ञानं तद्वान् । आजानसिद्धज्ञानवान् ब्रह्मा । ‘ज्ञानमप्रतिमं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम्’ । इति स्मृतेः । तस्य पुत्र्यपि भार्याभूता द्यौः । प्रजापतिर्वै स्वां दुहितरमभ्यध्यायद्दिवामत्यन्य आहुरिति श्रुतेस्तस्यामुत्पन्नाबृहाद्भान्वादयम् इति ज्ञेयम् । पुरा विवस्वत इति पाठे विवस्वतः संबन्धी दिवः पुत्र इति योज्यम् महानेव मह्यः मनुः स्वार्थैड्यत् । तेषां मध्ये वरः श्रेष्ठः बुद्धितत्त्वाभिमानीत्यर्थः तस्य तनयो देवभ्राट् देवैरिन्द्रियैर्भ्राज्यते दीप्यते इति अहंकारो देवभ्राट् । अहमिदं पश्यामि अहमिदं शृणोमीत्याद्यनुभवात् । तस्य पुत्रः सुभ्राट् भौतिकं मनः तद्धि संकल्पविकल्पात्मकं सत्सर्वविषयप्रकल्पकं तत्तद्विषयरूपेण सुतरां स्पष्टं भ्राजते इति सुभ्राट्पदवाच्यं यथोक्तमक्षपादैः रूपादयोविषयाः संकल्पकृता इति । रत्नगर्भस्तु तत्र सृज्यं संहार्ययोरतिबाहुल्यं वक्तुं तन्मध्ये संक्षेपतो देवानां सृष्टिमाह । त्रयस्त्रिंशदिति । त्रयस्त्रिंशद्यानितान्येवशतानि विन्दुत्रययुक्तानि पुनस्तान्येव त्रयस्त्रिंशत्सहस्त्राणि च बिन्दुचतुष्टययुतानि तदा त्रयस्त्रिंशत्कोटय इत्यर्थः । देवानां सृष्टिः सृज्यमाना देवाः कृदभिहितो भावो द्रव्यवत्प्रकाशत इति न्यायात् । यद्वा त्रयस्त्रिंशधिकशतत्रययुक्तषट्त्रिंशत्सहस्राणि देवानां संक्षेपतः तत्र तावद्ब्रह्मणो जन्मसमनन्तरमेव प्रथमकल्पे सृष्टिक्रममाह । दिवः पुत्र इत्यादिना । अत एव एतत्कल्पीय सूर्यवंशसृष्टिक्रमविरोधो नाशङ्कनीयः । दिवः पुत्र इत्येकं नाम दिवः पुत्रादयो द्वादशविवस्ववन्तः सूर्या जाताः । नकारलोपच्छांदसः । तेषां सह्योऽवरः कनिष्ठः । मह्य इति च पाठः । तस्य पृथक् निर्देशो वंशकरत्वात् । तेभ्यः सह्यवंश्येभ्य एवायमेतत्कल्पीय कुरुवंशादिसदृशस्तस्मिन्कल्पेप्येषां वंशानां संभवात् । अत एव यदुभरतययातिवंशानां पृथगुपादानम् । यद्वा तेभ्य एवेदानीभिहोत्पन्नेभ्यः कुरुवंशादय इत्यर्थः । विमलबोधव्याख्यात्रदिवः पुत्र इत्यारभ्य संभूता बहवो वंशा इत्यन्तेन । ननु द्वौ वंशौराज्ञामिहोक्तौ सूर्यवंशश्चन्द्रवंशश्च । तत्रादित्यवंशस्तावद्ब्रह्मणो मरीचिर्मरीचेः कश्यपः कश्यपाद्विवस्वान्विवस्वतो मनुर्मनोरिक्ष्वाकुरिक्ष्वाकोर्विकुक्षिः स एव शशादस्ततः काकुत्स्थस्तस्मादनेनास्ततः पृथुः पृथोरार्द्रस्ततो बृहदश्वस्तस्माद्धुंधुमारादयो यावन्मरुत्त इति तावदादित्यवंशः । सोमवंशस्तावत् । ब्रह्मणोत्रिरत्रेः सोमः सोमाद्बुधस्ततः पुरूरवाः पुरूरवस आयुरायोर्नहुषस्ततोययातिर्ययातेः पुरुप्रभृतयो यावदेव वज्रपुत्र इति । एतौ द्वौ राजवंशौ ततः केऽमीदिवः पुत्रादयो राजानः । तथा पुराविवस्वतश्चेति न संगतम् । विवस्वतः पूर्वं कश्यपस्ततः पूर्वं ब्रह्मा ततश्च कथमुच्यते पुराविवस्वतश्चेति । तथा सुभ्राजश्चत्रायः पुत्रा दशज्योतिरादय इत्यपि न संगतम् ते हि दशज्योतिरादयः पार्थिवा उभयोरपि वंशयोः पुराणेतिहासादिषु न श्रूयन्ते । अत्रोच्यते । काचिदसंगतिर्नात्र । तत्र दिवः पुत्रस्तावदादित्य एव स्वरश्मिभिर्दिवः पूरणात् बृहद्भानुरपि स एव बृहन्तो विश्वव्यापकाः भानवोऽस्येति । चक्षुर्विश्वप्रकाशकत्वात् आत्मा च स एव सहिब्रह्मज्योतिरित्यागमप्रामाण्यात् विभावसुश्च स एव ऋतुषु विविधप्रकारा रश्मयो यस्य । सविता च स एव ऋतुक्रमेण लोकोपकारार्थं सलिलगर्भप्रसवात् । मरीचिकः स एव । लोकोपकारार्थं मरीचीन् कायति कीर्तयति प्रकाशयतीति यावत् । मरीचिभिः सहस्ररश्मिभिः कीर्त्यत इति वा । अर्कः ऋसृगतौ स्मृतो धातुरस्य कप्रत्यये गुणः। आह च ‘ऋसृगतौ स्मृतो धातुस्तस्मात्कप्रत्ययः स्मृतः । गतौ यस्मात्परो नास्ति तस्मादर्कः स उच्यते’ । भानुः स एव लोकोपकारार्थं भाः नौति प्रस्तौति । आशावह इति लोकानामाशामावहत्याराध्यमानः सफलीकरोति । रविरिति । अवेति रक्षणे धातुः प्रत्ययेस्य रुडागमः । अवति त्रीनिमाँल्लोकांस्ते नासौरविरुच्यत इति । पुरेति पुराकल्पे एते दिवः पुत्रादयः पुंशब्दा विवस्वतो वाचकाः पठ्यन्ते पुराकल्पविद्भिः तेषां शब्दानां मध्येऽवरो जघन्यो मह्यशब्दः । मह्यशब्दोपि गर्भधारकवाचकतया पावनाद्वा अनघतया पठ्यते । मह्यो मही गर्भाधायकत्वात् । उक्तं च । ‘पौषस्य कृष्णसप्तम्यां मह्या सह भवेद्रविः । देवभ्राट्तनयस्तस्य’ इति तस्यमह्यानन्तरं देवान् भ्राजयति रश्मिभिः । तनयो विस्तारकः । तस्मादनन्तरं सुसूडिति सुष्टुशीलाः पुत्राः । सुभ्राजसोनन्तरं त्रयः पुत्रा दशज्योतिरादयो ग्रहनक्षत्रतारकाप्रकाशका रश्मयः प्रादुरासन् । ते च पूरणाज्जगतस्त्राणाद्वा पावनाद्वाऽनघयोनित्वात्पुत्रा उच्यन्ते । बहुशश्चास्य वामीये सूक्ते पुत्रशब्दो रश्मिषु दृष्टो विस्तारातिशयान्न पठ्यते । अत्र दशशतसहस्रशब्दा रश्मिबहुत्ववाचकास्तेभ्योयं कुरुवंशश्चेत्याद्यच्चावचोभयवंशप्रभवराजाभिधानमस्तु सूर्यस्यैवोभयवंशहेतुत्वकथनपरम् । तथाहि । आदित्यान्मनुर्मनोरिक्ष्वाकुरित्यादिपौत्रः सूर्यवंशः । तथादित्यान्मनुर्मनोरिडाइडातः पुरूरवा इत्यादिना दौहित्रः सोमवंश इति । अत एभिः श्लोकैरादित्यस्तुतिभिस्तन्मूलकत्वं कथितम् । उक्तं च । ‘आदित्यमूलमखिलं त्रैलोक्यं यदुनन्दन । भवत्यस्माज्जगत्सर्वं सदेवासुरमानुषम्’ इत्यादि सर्वमवदातम् ॥४३॥

सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः ।
दशज्योतिः शतज्योतिः सहस्रज्योतिरेव च॥४४॥

दशज्योतींषि धूम्रार्चिरूष्माज्वलिनी ज्वालिनी विस्फुलिङ्गिनी सुश्रीःसुरूपाकपिलाहव्यकव्यवहा तथेति दशकलारूपाणि यस्य सदशज्योतिरग्निः । शतज्योतिश्चन्द्रः स हि हृदयायतनः । चन्द्रमामनसोभूत्वाहृदयंप्राविशदितिश्रुतेः । हृदयस्य च शतंचैका च नाड्यः तासां मूर्धन्यासौरीक्रममुक्तिस्थानप्रापिका इतराः शतं जन्मान्तरहेतुगतिप्रदास्तासां प्रकाशकत्वाच्चन्द्रः शतज्योतिः सहस्रज्योतिः सूर्यः ॥४४॥

दशपुत्रसहस्राणि दशज्योतेर्महात्मनः ।
ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः॥४५॥

ज्योतेरितीदं तत्त्वमार्षम् ॥४५॥

भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः ।
तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च॥४६॥

तेभ्यः समष्टिमनः कल्पितेभ्योग्निचन्द्रसूर्येभ्यः क्रमादयं पुरोवर्ती ब्राह्मणवंशः कुर्वादिवंश इक्ष्वाकुवंशश्च संभूता इति योज्यम् । तादृशादग्नेर्ब्राह्मण उत्पन्न इति चकाराद्वा लभ्यते । ‘आग्नेयो वै ब्राह्मणः’ इति श्रुतेर्ब्राह्मणस्याग्निवंश्यत्वम् । इतरेषां चन्द्रसूर्यवंश्यत्वं प्रसिद्धमेव ॥४६॥

ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः ।
संभूता बहवो वंशा भूतसर्गाः सुविस्तराः॥४७॥

राजर्षीणां राज्ञामृषीणांचेतिद्वन्द्वः । भूतसर्गाः जरायुजाण्डजस्वेदजोद्भिज्जसृष्टयः ॥४७॥

भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् ।
वेदा योगः सविज्ञानो धर्मोऽर्थः काम एव च॥४८॥

भूतस्थानानीति । नृणां वासस्थानानि राजकृतानि दुर्गनगरादीनि । ब्राह्मणकृतानि तीर्थक्षेत्रादीनि । त्रिविधं रहस्यं धर्मरहस्यम् । कृष्णद्रोहिणोपि शिशुपालस्य कृष्णैकत्वप्राप्तिस्तत्र रहस्यं यथा कथंचित्तीव्राभिनिवेशेन ध्यानमेव श्रेय इति सोऽधर्माभासोऽपि धर्म एव । तथा हिंसाफलो धर्मोप्यधर्म एव यथा सत्यवादिनाश्चोरेभ्यः कार्पटिकमार्गं तत्वेनोपदिशत इति । एवम् अर्थकामयोरपि रहस्यमूह्यम् । वेदाः कर्मकाण्डः योगउपासना काण्डः सविज्ञानो ज्ञानकाण्डसहितः धर्मः स्मार्तः अर्थकामौ लोकप्रसिद्धौ ॥४८॥

धर्मकामार्थयुक्तानि शास्त्राणि विविधानि च ।
लोकयात्राविधानं च सर्वं तद्दृष्टवानृषिः॥४९॥

धर्मेति एतत्त्रयप्रतिपादकानि शास्त्राणि मीमांसाकोककामन्दकानि । लोकयात्राविधानं च लोकयात्रा येन निर्वहति तस्य आयुर्वेदधनुर्वेदगान्धर्ववेदादेविधानं ज्ञापनं च एतत्सर्वं तेभ्यः संभूतमिति पूर्वेण संबन्धः । सर्वं तद्दृष्टवान् योगवलेन । ऋषिर्व्यासः ॥४९॥

इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च ।
इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम्॥५०॥

सवैयाख्याः व्याख्यामधिकृत्य कृतो ग्रन्थो वैयाख्यस्तद्युक्ताः । यथा ब्रह्मविदाप्नोति परमिति सूत्रस्य व्याख्या सत्यं ज्ञानमितिमन्त्रः । अनुन्याख्यानं तस्माद्वा एतस्मादित्यादि ब्राह्मणम् । एवमत्रापि प्रथमेध्याये सूत्रितस्यार्थस्य द्वितीयतृतीयाभ्यां व्याख्यानमुत्तरग्रन्थेनानुन्याख्यानं च । विविधाः लिङ्गादिनार्थप्रत्यायकाः । प्रपाः कर्तन्या इत्यादिस्मृतिमूलभूता धन्वन्निव प्रपा असित्वमग्ने इत्यादयः । हे अग्ने ! त्वं धन्वन् निरुदके प्रदेशे प्रपेवलोकतृप्तिकरोसीति तदर्थः । प्रपा असीत्यत्रासन्धिप्रछान्दसः । इहेति । अनुक्रान्तमनुक्रमेणोक्तं इदमेव यथोक्तं ग्रन्थस्य लक्षणम् । विषयः प्रतिपाद्योऽर्थः ॥५०॥

विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत् ।
इष्टं हि विदुषां लोके समासव्यासधारणम्॥५१॥

समासः संक्षेपः । न्यासो विस्तरः ॥५१॥

मन्वादि भारतं केचिदास्तीकादि तथाऽपरे ।
तथोपरिचराद्यन्ये विप्राः सम्यगधीयते॥५२॥

वर्णानुपूर्वीभेदेऽपि प्रतिकल्पमर्थानां समाननामरूपक्रमत्वाद्भारतारंभे मतभेदमाह । मन्वादीति । मनुर्मन्त्रः नारायणंनमस्कृत्येति । ॐ नमो भगवते वासुदेवायेति वा तदादि इति प्राञ्चः । दिवः पुत्रो वैवस्वतमह्यसंज्ञोमनुस्तदादीति तत्वं आस्तीकम् आस्तीकचरितं तदादि । उपरिचरो वसुस्तच्चारितादि वा ॥५२॥

विविधं संहिताज्ञानं दीपयन्ति मनीषिणः ।
व्याख्यातुं कुशलाः केचिद्ग्रन्थान्धारयितुं परे॥५३॥

बह्वर्थत्वाद्विविधं ज्ञानं दीपयन्ति प्रकाशयन्ति ॥५३॥

तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् ।
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः॥५४॥

व्यस्य वेदं आध्वर्यवादिकाण्डशो विभज्य तेन वेदार्थोत्र संगृहीत इति दर्शितम् ॥५४॥

पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः ।
तदाख्यानवरिष्ठं स कृत्वा द्वैपायनः प्रभुः॥५५॥

तदाख्यानवरिष्ठं स इत्यादि अच्छेद्यममरैरपीत्यन्तो ग्रन्थः स्पष्टार्थः ॥५५॥

कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत् ।
तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च॥५६॥

तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम् ।
प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया॥५७॥

तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः ।
आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः॥५८॥

हिरण्यगर्भमासीनं तस्मिंस्तु परमासने ।
परिवृत्यासनाभ्याशे वासवेयः स्थितोऽभवत्॥५९॥

अभ्याशे समीपे वसुरुपरिचरस्तस्य कन्या वासवी सत्यवती तस्याः पुत्रो वासवेयो व्यासः ॥५९॥

अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना ।
निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः॥६०॥

कृष्णो व्यासः ॥६०॥

उवाच स महातेजा ब्रह्माणं परमेष्ठिनम् ।
कृतं मयेदं भगवान्काव्यं परमपूजितम्॥६१॥

ब्रह्मन्वेदरहस्यं च यच्चान्यत्स्थापितं मया ।
साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया॥६२॥

इतिहासपुराणानामुन्मेषं निर्मितं च यत् ।
भूतं भव्यं भविष्यच्च त्रिविधं कालसंज्ञितम्॥६३॥

उन्मेषम् उपबृंहणम् ॥६३॥

जरामृत्युभयव्याधिभावाभावविनिश्चयः ।
विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम्॥६४॥

चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः ।
तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः॥६५॥

ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह ।
ऋचो यजूंषि सामानि वेदाध्यात्मं तथैव च॥६६॥

न्यायशिक्षा चिकित्सा च दानं पाशुपतं तथा ।
हेतुनैव समं जन्म दिव्यमानुषसंज्ञितम्॥६७॥

तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम् ।
नदीनां पर्वतानां च वनानां सागरस्य च॥६८॥

पाशुपतं पशूनां जीवानां पत्युरन्तर्यामिण इदं माहात्म्यं पाशुपतं हेतुना सात्विकादिकर्मणा समं तुल्यम् ॥६८॥

पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम् ।
वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः॥६९॥

कल्पानां धनुर्वेदोक्तशस्त्रादिविधीनां दुर्गसेनाव्यूहरचनादिविधीनां वा । ‘कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने’ इति मेदिनी । वाक्यजातिविशेषाः राजामात्यचेटादिवक्तृविशेषप्रयुक्तवैलक्षण्यानि स्तुतिनिन्दान्यायदेशादयो वापरकृत्यादि रूपार्थवादभेदा वा लोकयात्राक्रमो नीतिशास्त्रम् ॥६९॥

यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम् ।
परं न लेखकः कश्चिदेतस्य भुवि विद्यते॥७०॥

ब्रह्मोवाच। तपोविशिष्टदपि वै विशिष्टान्मुनिसंचयात् ।
मन्ये श्रेष्ठतरं त्वां वै रहस्यज्ञानवेदनात्॥७१॥

मुनिसंचयात् मुनिसमूहात् विशिष्टात् कुलेन ॥७१॥

जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम् ।
त्वया च काव्यमित्युक्तं तस्मात्काव्यं भविष्यति॥७२॥

गां वाचं ब्रह्मवादिनीं वेदवादिनीम् ॥७२॥

अस्य काव्यस्य कवयो न समर्था विशेषणे ।
विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः॥७३॥

विशेषणे अतिशायने ॥७३॥

काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने ।
सौतिरुवाच। एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम्॥७४॥

ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः ।
स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः॥७५॥

तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः ।
पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदाऽनघ॥७६॥

यतः यत्र देशे ॥७६॥

लेखको भारतस्यास्य भव त्वं गणनायक ।
मयैव प्रोच्यमानस्य मनसा कल्पितस्य च॥७७॥

श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम् ।
लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम् ॥७८॥

व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित् ।
ओमित्युक्त्वा गणेशोऽपि बभूव किल लेखकः॥७९॥

अबुद्ध्वा अर्थमिति शेषः ओमित्यङ्गीकारे ॥७९॥

ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात् ।
यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम्॥८०॥

ग्रन्थग्रन्थिं ग्रन्थे दुर्भेद्यस्थानम् ॥८०॥

अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च ।
अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा॥८१॥

तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने ।
भेत्तुं न शक्यतेऽर्थस्य गूढत्वात्प्रश्रितस्य च॥८२॥

श्लोककूटेश्लोकेषु गुढार्थम् अन्यार्थत्वे सत्यर्थान्तरप्रत्यायकत्वमित्यर्थः अर्थस्य प्रमेयस्य गूढत्वात् । प्रश्रितस्य प्रेमेयण स्वप्रकाशार्थं श्रितं शद्वप्रमाणं तस्यापि गौण्यादिवृत्तिभेदेन गूढत्वं यथा मत्स्यः स्वप्नङ्गनिमिषतीति ॥८२॥

सर्वज्ञोपि गणेशो यत्क्षणमास्ते विचारयन् ।
तावच्चकार व्यासोपि श्लोकानन्यान्बहूनपि॥८३॥

यद्यदा यावत् ॥८३॥

अज्ञानतिमिरान्धस्य लोकस्य तु विचेष्टतः ।
ज्ञानाञ्जनशालाकाभिः नेत्रोऽन्मीलनकारकम्॥८४॥

कारकमिति ‘तुमुण्वुलौ क्रियायां क्रियार्थायाम्’ इतिण्डुला नेत्रोन्मीलनं कर्तुमित्यर्थः । एतत्प्रकाशनं कृतमिति तृतीयेनान्वयः॥८४॥

धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः ।
तथा भारतसूर्येण नृणां विनिहतं तमः॥८५॥

पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः ।
नृबुद्धिकौरवाणां च कृतमेतत्प्रकाशनम्॥८६॥

प्रकाशनं विकसनम् ॥८६॥

इतिहासप्रदीपेन मोहावरणघातिना ।
लोकगर्भगृहं कृत्स्नं यथावत्सम्प्रकाशितम्॥८७॥

सङ्ग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान् ।
संभवस्कन्धविस्तारः सभारण्यविटङ्कवान्॥८८॥

विटङ्काः पक्ष्युपवेशनस्थानानि ‘कपोतपालिकायां तु विटङ्कं पुं नपुंसकम्’ इत्यमरः ॥८८॥

अरणीपर्वरुपाढ्यो विराटोद्योगसारवान् ।
भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान्॥८९॥

सारोमज्जा ॥८९॥

कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः ।
स्त्रीपर्वैवीकविश्रामः शान्तिपर्वमहाफलः॥९०॥

विश्रामत्यस्यामिति विश्रामच्छायां ॥९०॥

अश्वमेधामृतरसस्वाश्रमस्थानसंशयः ।
मौसलः श्रुतिसंक्षेपः शिष्टद्विजनिषेवितः॥९१॥

आश्रमेति आश्रमवासिकस्थण्डिलः मौसलादिग्रन्थः श्रुतिस्थानीयदीर्घशाखान्तः ॥९१॥

सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति ।
पर्जन्य इव भूतानामक्षयो भारतद्रुमः॥९२॥

सौतिरुवाच। तस्य वृक्षस्य वक्ष्यामि शश्वत्पुष्पफलोदयम् ।
स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि॥९३॥

पुष्पं धर्मः फलं मोक्षः तदुभयं सत्याख्यं पुष्पं हि फलं वाचः सत्यमिति श्रुतेः । अत एव क्रमात् स्वादु च अच्छेद्यं च ॥९३॥

मातर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ।
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा॥९४॥

भारतसूत्रभूतश्लोकत्रयमाह मातुरिति मातुः सत्यवत्याः गाङ्गेयस्य भीष्मस्य च नियोगात् न तु कामतः क्षेत्रे अम्बिकादिषु क्रमेण धृतराष्ट्रादीन् जनयामास ॥९४॥

त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ।
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च॥९५॥

जगाम तपसे धीमान् पुनरेवाश्रमं प्रति ।
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम्॥९६॥

तेषु धृतराष्ट्रादिषु जातेषु पुत्रपौत्रादिरूपेण प्रादुर्भूतेषु प्रवृद्धेषु राज्यभागिषु पुत्रपौत्रादीनां राज्यार्थिनां परमां गतिं मृत्युं गतेषु ॥९६॥

अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ।
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः॥९७॥

शशास शिष्यमासीनं वैशंपायनमन्तिके ।
स सदस्यैः सहासीनः श्रावयामास भारतम्॥९८॥

शशास त्वमेतान् भारतं श्रावयेत्याज्ञापितवान् ॥९८॥

कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ।
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्॥९९॥

कर्मान्तरेषु कर्मच्छिद्रेषु ॥९९॥

क्षत्तुः प्राज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ।
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्॥१००॥

क्षतुर्विदुरस्य ॥१००॥

दुर्वृत्तं धार्तराष्ट्राणामुक्तवान् भगवानृषिः ।
इदं शतसहस्रं तु लोकानां पुण्यकर्मणाम्॥१०१॥

धार्त्तराष्ट्राणां दुर्योधनादीनाम् ॥१०१॥

उपाख्यानैः सह ज्ञेयमाद्यं भारतमुत्तमम् ।
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्॥१०२॥

उपाख्यानैर्विना तावत् भारतं प्रोच्यते बुधैः ।
ततोध्यर्धशतं भूयः संक्षेपं कृतवानृषिः॥१०३॥

तावत् तावत्संख्याकं अध्यर्धशतं सार्धशतम् ॥१०३॥

अनुक्रमणिकाध्यायं वृत्तान्तानां सपर्वणाम् ।
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम्॥१०४॥

शुक्रग्रहणं तत्सदृशायैव देयमिति ज्ञापनार्थम् ॥१०४॥

ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ विभुः ।
षष्टिं शतसहस्राणि चकारान्यां स संहिताम्॥१०५॥

षष्टिशतसहस्राणि षष्टिलक्षाणि श्लोकाः ॥१०५॥

त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम् ।
पित्र्ये पञ्चदश प्रोक्तं गन्धर्वेषु चतुर्दश॥१०६॥

एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम् ।
नारदो श्रावयद्देवानसितो देवलः पितॄन्॥१०७॥

गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ।
अस्मिंस्तु मानेषे लोके वैशंपायन उक्तवान्॥१०८॥

शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः ।
एकं शतसहस्रं तु मयोक्तं वै निबोधत॥१०९॥

मया उच्यमानं वैशंपायनेन उक्तं निबोधत अर्थतो बुध्यध्वम् ॥१०९॥

दुर्योधनो मन्युमयो महाद्रुमः कर्णः स्कन्धः शकुनिस्तस्य शाखाः ।
दुश्शासनः फलपुष्पे समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषि॥११०॥

इदानीं भारततात्पर्यसंग्राहको द्वौ श्लोकौ पठति । दुर्योधन इति । मन्युः क्रोधः तेन द्वेषेर्ष्यासूयादिकमपि ग्राह्यम् । तन्मयो महान्नुच्छेद्यो द्रुमो दुर्योधनस्तेन सह अत्यन्तमैक्यं प्राप्ताः कर्णशकुनिदुःशासनास्तस्य स्कन्धशाखाः पुष्पादितुल्यास्तादृशा एव । तस्य मूलं राजा धृतराष्ट्रः स च अमनीषीमनोनिग्रहासमर्थः तेनैवहि पुत्रस्नेहान्धेन दत्तावसरो दुर्योधनो दृढमूलोऽभवत् । अन्यथा बाल्य एव विदुरादिवचसा तस्य त्यागे कृते सति गराग्निदानद्रौपदीकचग्रहणादिमूलः कुलक्षयो न जातः स्यात् । एतेन दृढाज्ञानमूलो दैन्यतरुः क्रोधलोभादिस्कन्धो हिंसास्तेयादिशाखो वधबन्धनरकादिफलपुष्पः पुरुषार्थकामैर्मूलाज्ञानच्छेदेन नाशनीय इति सूचितम् । मन्युः पुमान् क्रुधि दैन्ये शोके च यज्ञेचेति मेदिनीकोशः ॥११०॥

युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।
माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च॥१११॥

युधिष्ठिर इति । धर्मः पुण्यं तेन तत्कारणीभूतशमदमसत्याहिंसादिकं ग्राह्यम् । तन्मयो महाद्रुमो युधिष्ठिरः तदेकात्मानोर्जुनभीममाद्रेयास्तस्य स्कन्धादितुल्यास्तादृशा एव । तस्य मूलं कृष्णः शुद्धसत्वमयज्ञानविग्रहः परमात्मा । तेन हि दृढं ज्ञातेन धर्मो दृढमूलो भवेत् । अन्यथा कामादिभिरुपहतः स्यात् । यो वा एतदक्षरं गार्ग्यविदित्वास्मिल्लोके यजति ददाति तपस्तप्यतेपि बहूनि वर्षसहस्राण्यतवदेवास्यतद्भवतीतिश्रुतेः । ज्ञानस्य मूलं ब्रह्मदेवः वेदाद्धियोगक्रत्वाख्यपरापरधर्मज्ञानं जायते । धर्मस्य शब्दमूलत्वादिति न्यायात् । वेदस्यापिमूलं ब्राह्मणास्तत्संप्रदायप्रवर्त्तकत्वात् । एवं च ब्राह्मणानामुपदेष्टृत्वेन वेदस्य प्रमाणत्वेन परमात्मानोनुग्राहकत्वेन च धर्ममूलत्वम् । एतेन वेदब्राह्मणभक्तेन संपाद्यमानो वेदोक्तो योगादिधर्मवृक्षोऽहिंसासत्यादिस्कन्धो धारणाध्यानादिशाखस्तत्त्वसाक्षात्कारफलः पुरुषार्थकामेन भगवदाराधनबलेन संपादनीय इति सूचिंतम् ॥१११॥

पाण्डुर्जित्वा बहून्देशान्बुद्ध्या विक्रमणेन च ।
अरण्ये मृगयाशीलो न्यवसन्मुनिभिः सह॥११२॥

मातुर्नियोगादिति पूर्वोक्तस्यैव सूत्रभूतस्य श्लोकत्रयस्यवृत्तिरूपोऽध्यायशेषस्तत्र दुर्योधनस्य मन्युमयत्वादिकं युधिष्ठिरस्य धर्ममयत्वादिकं च व्याख्यायते । पाण्डुर्जित्वेत्यादि ॥११२॥

मृगव्यवायनिधनात्कृच्छ्रां प्राप स आपदम् ।
जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः॥११३॥

मृगव्यवायनिधनात् मृगरूपिणो ऋषेर्व्यवायनिधनं मैथुनकाले मरणं तस्माद्धेतोः । कृच्छ्राम् अतिकष्टाम् आपदं प्रजोत्पत्तिप्रतिबन्धकत्वमपि ब्यवायकाले मरिष्यसीति शापं प्राप । तत्र आपदि एवं सत्यामपि पार्थानां पाण्डवानां जन्मप्रभृति जातकर्मादिसंस्कारः प्रभृतिशब्दार्थः । तच्च आचारविधेः क्रमश्चशीलरक्षाख्योभूदितिशेषः ॥११३॥

मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति ।
धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः॥११४॥

न चैतद्वयं विरुद्धमित्याह । मात्रो रिति । च शब्दो हेतौ । यस्माद्धर्मोपनिषदं प्रति धर्मः कुलस्त्रीभिरापद्यपत्यार्थेविशिष्टः पुमान्प्रार्थनीय इत्येवंरूपो व्यासवसिष्ठादिभ्योऽपत्यवत्सुविचित्रवीर्यकल्माषपादादिराजदारेषु दृष्टस्तस्य संरक्षणार्था उपनिषत् दुर्वाससा दत्ता विद्या तां आवर्त्तितां प्रतिप्रतीत्य धर्मादीनां मात्रोः मातरौप्रति अभ्युपपत्तिः । रेतः सेकार्थं गमनम् उपपन्नम् । तस्मात्सत्यामप्यापदि पाण्डोः पुत्रजन्मादिकं न विरुद्धमेतदित्यर्थः ॥११४॥

तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः ।
मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च॥११५॥

अत्र मातृभ्यामित्यनेन पितुर्मरणं सूच्यते ॥११५॥

ऋषिभिर्यत्तदानीता धार्तराष्ट्रान्प्रति स्वयम् ।
शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः॥११६॥

ऋषिभिरिति । यत् यदा संवृद्धा इति पूर्वेणान्वयः । तदा घार्तराष्ट्रान् धृतराष्ट्रसबन्धिगृहान्प्रति आनीता इत्यर्थः ॥११६॥

पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः ।
पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः॥११७॥

पुत्राश्चेत्यादि धृतराष्ट्रादीन् प्रति यथायोग्यं योज्यं पाण्डवाः पाण्डोः पुत्रा एते ॥११७॥

तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा ।
शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम्॥११८॥

तानिति शिष्टाः साधवः ॥११८॥

आहुः केचिन्न तस्यैते तस्यैत इति चापरे ।
यदा चिरमृतः पाण्डुः कथं तस्येति चापरे॥११९॥

न तस्यैत इति पित्रपेक्षया अत्युदारमूर्तित्वात् । तस्यैत इति मात्रोः सतीत्वात् । अतिदुष्टानामुक्तिर्यदेति । चिरमृतः चिरे शापदग्धः अल्पकालाश्च शिशव इति संदेहबीजं यद्वा चिरं ऋतोदीप्तः कामेनेति शेषः विप्रशापात् । ऋतमुंछशिले जले सत्ये दीप्ते पूजितस्यादिति मेदिनी । यद्वा ऋतात्सत्यमुपैमीति व्रतोपायनीयं मन्त्रलिङ्गादृतं ब्रह्मचर्याख्यं सत्यं तद्वान् ॥११९॥

स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् ।
उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः॥१२०॥

स्वागतं शोभनमागमनं युष्माकं यतो वयं दिष्ट्या भाग्येन पाण्डोः सन्ततिं पश्यामेति पौरेरुक्ते स्वागतं सम्यगागतमस्माभिर्युष्मान्प्रतीति उच्यतां वदतां पाण्डवानामपि वाचोऽश्रूयन्ते । सर्वशः सर्वैः ॥१२०॥

तस्मिन्नुपरते शब्दे दिशः सर्वा निनादयन् ।
अन्तर्हितानां भूतानां निःस्वनस्तुमुलोऽभवत्॥१२१॥

संदिग्धानां सन्देहापनोदकं तदा देवचेष्टितमाह द्वाभ्याम् । तस्मिन्निति निःखनः निश्चितस्वनः पाण्डवा एत इत्येवं रूपःशब्द ॥१२१॥

पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिःस्वनाः ।
आसन्प्रदेशे पार्थानां तदद्भुतमिवाभवत्॥१२२॥

अद्भुतं दिव्यपुष्पवृष्ट्यादि अत्याश्चर्यम् ॥१२२॥

तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः ।
शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः॥१२३॥

तत्प्रीत्या तेषु पाण्डवेषु प्रेम्णा हर्षसंभवः साधुशब्दः दिवस्पृक् स्प्रष्टा ॥१२३॥

तेऽधीत्य निखिलान्वेदाञ्च्छास्त्राणि विविधानि च ।
न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः॥१२४॥

अकुतोभयाः निर्भयाः ॥१२४॥

युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् ।
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च॥१२५॥

शौचेनेति। ‘आचारापरिहारश्च संसर्गश्चाप्यनिन्दितै । आचारे च व्यवस्थानं शौचमित्यभिधीयते’ ॥ शीलेनेति पाठे शीलमप्येतदेव । ‘इष्टानिष्टार्थसंपत्तौ चित्तस्याविकृतिर्धृतिः । सर्वातिशयसामर्थ्यं विक्रमं परिचक्षते ॥१२५॥

गुरुशुश्रूषया क्षान्त्या यमयोर्विनयेन च ।
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च॥१२६॥

वृत्तानुवृत्तिः श्रुश्रूषा क्षान्तिरागस्य विक्रिया । जितेन्द्रियत्वं विनयोऽथवानुद्धतशीलता । शौर्यमध्यवसायः स्याद्बलिनोपि पराभवे' ॥१२६॥

समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् ।
प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम्॥१२७॥

समवाये समाजे भर्त्तारं स्वयमेव वृणुत इति भर्तृस्वयंवराम् । कर्म अधोमुखेनोपरिस्थस्य भ्रमतो मत्स्यस्य वेधनम् ॥१२७॥

ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् ।
आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत्॥१२८॥

पूज्यः समरेषु दुष्प्रेक्ष्योपि चाभवदित्यन्वयः ॥१२८॥

स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतोगणान् ।
आजहारार्जुनो राज्ञो राजसूयं महाक्रतुम्॥१२९॥

पार्थिवान् एकैकशः गणान्सङ्घीभूतांश्च जित्वा । आजहार संपादितवान् ॥१२९॥

अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः ।
युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः॥१३०॥

गुणैः ऋत्विगात्मधनजायाबुद्ध्यादिभिः ॥१३०॥

सुनयाद्वासुदेवस्य भीमार्जुनबलेन च ।
घातयित्वा जरासन्धं चैद्यं च बलगर्वितम्॥१३१॥

जरासन्धं भीमेन चैद्यं शिशुपालं कृष्णेन च घातयित्वा युधिष्ठिरेण राजसूयः प्राप्त इति पूर्वेण संबन्धः ॥१३१॥

दुर्योधनं समागच्छन्नर्हणानि ततस्ततः ।
मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च॥१३२॥

अर्हणानि उपायनानि मणयो विषरोगादिहरादिव्योपलाः रत्नानि वज्रवैदूर्यादीनि ॥१३२॥

विचित्राणि च वासांसि प्रावारावरणानि च ।
कम्बलाजिनरत्नानि राङ्कवास्तरणानि च॥१३३॥

प्रावाराण्युपरिवस्त्राणि । आवरणानि परिधानीयानि । यद्वा वासः शद्वेनैव तेषां ग्रहणात्प्रावाराणि शिबिराणि । आवरणानि जवनिकाः । कम्बलरत्नानि अजिनरत्नानि च कम्बलादिष्वत्युत्कृष्टानि जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कोशात् राङ्कवास्तरणानि । रङ्कुः पशुविशेषस्तल्लोमजानि पक्ष्मलान्यास्तरणानि ॥१३३॥

समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् ।
ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत॥१३४॥

ईर्ष्या परोत्कर्षासहिष्णुत्वं तदुत्थो मन्युः क्रोधः । सुमहान्यावद्देहभावी ॥१३४॥

विमानप्रतिमां तत्र मयेन सुकृतां सभाम् ।
पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत॥१३५॥

सुकृतां पुण्यकृताम् ॥१३५॥

तत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात् ।
प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत्॥१३६॥

अनभिजातवत् ग्रामीणवदवहसितः जले स्थलभ्रमात् स्थले जलभ्रमादद्वारे द्वारभ्रमाच्च प्रस्कन्दन् स्खलन् । किं कृत्वेव संभ्रमादिव संभ्रमं भ्रमियन्त्रं प्राप्येव ॥१३६॥

स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च ।
कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः॥१३७॥

हरिणः पाण्डुरः ‘हरिणः पाण्डुरः पाण्डुः’ इत्यमरः॥१३७॥

अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः ।
तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान्॥१३८॥

ततः पुत्रकार्श्यादिज्ञानानन्तरं सुतप्रियः न तु धर्मप्रियः ॥१३८॥

नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत ।
द्यूतादीननयान्घोरान्विविधांश्चाप्युपैक्षत॥१३९॥

नातीति यत् विवादानन्वमोदत यच्चानयानुपैक्षत । तत्रहेतुः दहन् क्षत्रं परस्परमित्युत्तरेण संबन्धः । हेतौ शतृप्रत्ययः । क्षत्रस्य दाहायेत्यर्थः । दुष्टसहारार्थत्वात्तदवतारस्य ॥१३९॥

निरस्य विदुरं भीष्मं द्रोणं शारद्वतं कृपम् ।
विग्रहे तुमुले तस्मिन्दहन्क्षत्रं परस्परम्॥१४०॥

निरस्य अवगणय्य प्रवृत्ते सतीतिशेषः ॥१४०॥

जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् ।
दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा॥१४१॥

दुर्योधनमतं जयो मृत्युर्वाऽस्तु न तु राज्यार्धं देयमिति ॥१४१॥

धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत् ।
शृणु संजय सर्वं मे न चासूयितुमर्हसि॥१४२॥

ध्यात्वा वृत्तमर्थमनुस्मृत्य असूयितुं मदीयं प्रज्ञाचक्षुष्ट्वं दूषयितुं नार्हसि ॥१४२॥

श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ।
न विग्रहे मम मतिर्न च प्रीये कुलक्षये॥१४३॥

तत्रहेतुः श्रुतवानसीति । श्रुतवान् अधीती मेधावीपाठतोर्थतश्चग्रन्थधारकः वुद्धिमान् ऊहापोहकुशलः । अत एव प्राज्ञानां पण्डितानां सम्मतः । न च प्रीयेनैव प्रीतिमानस्मि ॥१४३॥

न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु वा ।
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः॥१४४॥

अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ।
मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम्॥१४५॥

अचक्षुः कार्पण्यात् आन्ध्येन दीनत्वात् पुत्रप्रीत्या च तत्सहामि सहे । अचेतनम् अल्पबुद्धिम् ॥१४५॥

राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः ।
तच्चावहसनं प्राप्य सभारोहणदर्शने॥१४६॥

सभायामारोहणे दर्शने च ॥१४६॥

अमर्षणः स्वयं जेतुमशक्तः पाण्डवान्रणे ।
निरुत्साहश्च संप्राप्तुं सुश्रियं क्षत्रियोऽपि सन्॥१४७॥

अमर्षणः अशान्तः निरुत्साहोभूदितिशेषः । सुश्रियं शोभनाश्रीर्यस्य तं युधिष्ठिरं सम्प्राप्तुं वशे कर्तुम् । श्रियमक्षत्रियो यथेति पाठान्तरे स्पष्टार्थः ॥१४७॥

गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् ।
तत्र यद्यद्यथा ज्ञातं मया संजय तच्छृणु॥१४८॥

गान्धारराजः शकुनिः । तत्तत्र तस्मिन् द्यूते मन्त्रिते सति पूर्वं पश्चाच्च यद्यज्जातं जयाशा प्रतिरोधकं तत्सर्वं मया निगद्यमानं शृणु ॥१४८॥

श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः ।
ततो ज्ञास्यसि मां सौते प्रज्ञाटचक्षुषमित्युत॥१४९॥

लोकद्वयहितज्ञानाभावेपि मूढा लौकिकवृत्तार्थस्मृतिमात्रेण स्वात्मानं स्तुवन्तीति धृतराष्ट्रोक्तिव्याजेन दर्शयति । श्रुत्त्वेति केचित्तु प्रज्ञाचक्षुषमिति विशेषणादनागतार्थकथनं धृतराष्ट्रेण क्रियते । यदाश्रौषमित्यादिनेत्याहुस्तन्न । अश्रौषमितिभूतार्थेलुङ्प्रयोगानुपपत्तेः ॥१४९॥

यदाऽश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम् ।
कृष्णां हृतां प्रेक्षतां सर्वराज्ञां तदा नाशंसे विजयाय संजय॥१५०॥

सकृदपि केनचिन्निमित्तेन स्थालीपुलाकन्यायेन परप्राबल्ये निश्चिते प्राकृता अपि बलवता सह प्रसङ्गं न कुर्वन्ति । धृतराष्ट्रपुत्रस्तु जयाशाविच्छेदकेष्वनेकेषु निमित्तेषु दृष्टेष्वपि तां न जहौ । अहो मोहस्य महात्म्यमिति वर्णयन् अर्थाद्भारतार्थं च संगृह्णाति । यदाश्रौषं धनुरित्यादिभिः सप्तषष्ट्याश्लोकैः । प्रेक्षतां प्रेक्षमाणानाम् । ताननादृत्य लक्ष्यं पातितं तथैव द्रुपदेन प्रतिज्ञातत्वात् । विजयाय विजयार्थम् । तदा तदारभ्य नाशंसे आशां न करोमि ॥१५०॥

यदाऽश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन ।
इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय संजय॥१५१॥

माधवीं मधुवंशजां प्रसह्य यदूनप्यभिभाव्य । वृष्णिवीरौ रामकृष्णौ महत्यपराधेयेन सौहार्दं गतौ तत्र कास्माकं जयाशेति भावः ॥१५१॥

यदाऽश्रौषं देवराजं प्रवृष्टं शरैर्दिव्यैर्वारितं चार्जुनेन ।
अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय संजय॥१५२॥

प्रवृष्टं वर्षणे प्रवृत्तं कर्तरि क्तः ॥१५२॥

यदाऽश्रौषं जातुषाद्वेश्मनस्तान्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान् ।
युक्तं चैषां विदुरं स्वार्थसिद्धौ तदा नाशंसे विजयाय संजय॥१५३॥

जातुषात् लाक्षामयात् विदुरं चैषां पाण्डवानां स्वार्थसिद्धौ युक्तं यदाश्रौषम् ॥१५३॥

यदाऽश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जितामर्जुनेन ।
शूरान्पञ्चालान्पाण्डवेयांश्च युक्तांस्तदा नाशंसे विजयाय संजय॥१५४॥

केवला अप्यस्माकमजेयाः पाण्डवाः किमुत पञ्चालैरतिशूरैः समेता इति भावः ॥१५४॥

यदाऽश्रौषं मागधानां वरिष्ठं जरासन्धं क्षत्रमध्ये ज्वलन्तम् ।
दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय संजय॥१५५॥

ज्वलन्तं भासमानं दोर्भ्यामेव न शस्त्रेण ॥१५५॥

यदाऽश्रौषं दिग्जये पाण्डुपुत्रैर्वशीकृतान्भूमिपालान्प्रसह्य ।
महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय संजय॥१५६॥

प्रसह्य दण्डेनैव न तु भेदादिना ॥१५६॥

यदाऽश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम् ।
रजस्वलां नाथवतीमनाथवत्तदा नाशंसे विजयाय संजय॥१५७॥

यदाश्रौषं द्रौपदीमिति पतिव्रताकोपात् पाण्डवानां क्षोभाच्च नष्टा जयाशेत्यर्थः॥१५७॥

यदाऽश्रौषं वाससां तत्र राशिं समाक्षिपत्कितवो मन्दबुद्धिः ।
दुःशासनो गतवान्नैव चान्तं तदा नाशंसे विजयाय संजय॥१५८॥

यदा वाससामिति अचिन्त्यमहिमत्त्वाद्वापद्या नास्माकं जयः । कितवः आक्षिको धूर्तः ॥१५८॥

यदाऽश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम् ।
अन्वागतं भ्रातृभिरप्रमेयैस्तदा नाशंसे विजयाय संजय॥१५९॥

अक्षवत्यां पाशवत्यां द्यूतक्रीडायां सौबलेन शकुनिना अन्वागतमनुगतम् ॥१५९॥

यदाश्रौषं विविधास्तत्र चेष्टा धर्मात्मनां प्रस्थितानां वनाय ।
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय॥१६०॥

चेष्टाः बाहुवीक्षणाद्याः ॥१६०॥

यदाऽश्रौषं स्नातकानां सहस्रैरन्वागतं धर्मराजं वनस्थम् ।
भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय संजय॥१६१॥

ब्राह्मणानुग्रहादपि तेषामेव जय इत्याह । यदाश्रौषं स्नातकानामिति द्वाभ्याम् । स्नातकाः समापितविद्याव्रताः ॥१६१॥

यदाऽश्रौषमर्जुनं देवदेवं किरातरूपं त्र्यम्बकं तोष्य युद्धे ।
अवाप्तवन्तं पाशुपतं महास्त्रं तदा नाशंसे विजयाय संजय॥१६२॥

यदाश्रौषमर्जुनमित्यादि चतुर्भिरर्जुनस्यामानुषीशक्तिर्दर्शिता ॥१६२॥

यदाश्रौषं त्रिदिवस्थं धनंजयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् ।
अधीयानं शंसितं सत्यसन्धं तदा नाशंसे विजयाय संजय॥१६३॥

शंसितं प्रशंस्यं सत्यसन्धम् अवितथप्रतिज्ञम् ॥१६३॥

यदाऽश्रोषं कालकेयास्ततस्ते पौलोमानो वरदानाच्च दृप्ताः ।
देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय संजय॥१६४॥

यदाऽश्रौषमसुराणां वधार्थे किरीटिनं यान्तममित्रकर्शनम् ।
कृतार्थं चाप्यागतं शक्रलोकात्तदा नाशंसे विजयाय संजय॥१६५॥

यदाऽश्रौषं वैश्रवणेन सार्धं समागतं भीममन्यांश्च पार्थान् ।
तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसि विजयाय संजया॥१६६॥

यदाऽश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन ।
स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय संजय॥१६७॥

यदाश्रौषं घोषेति । वल्कलधारिभ्यः पाण्डवेभ्यः स्वैश्वर्यं प्रकाशयितुं वत्साङ्कनव्याजेन घोषयात्रागतानां धार्तराष्ट्राणाम् । यैर्मत्सुताबद्धास्तेषामपि जेतॄन्न मत्सुता जेतुं शक्ता इत्यर्थः ॥१६७॥

यदाऽश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत ।
प्रश्नान्कांश्चिद्विब्रुवाणं च सम्यक् तदा नाशंसे विजयाय संजय॥१६८॥

धर्मानुग्रहादपि तेषामेव जय इत्याह । यदाश्रौषं यक्षेति ॥१६८॥

यदाऽश्रौषं न विदुर्मामकास्तान् प्रच्छन्नरूपान्वसतः पाण्डवेयान् ।
विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय संजय॥१६९॥

धर्मानुग्रहादपि तेषामेव जय इत्याह । यदाश्रौषं यक्षेति ॥१६९॥

यदाऽश्रौषं मामकानां वरिष्ठान्धनंजयेनैकरथेन भग्नान् ।
विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय॥१७०॥

विराटराष्ट्रे गोग्रहे ॥१७०॥

यदाऽश्रौषं सत्कृतं मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय ।
तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय संजय॥१७१॥

मत्स्यराज्ञा विराटेन । समासान्तविधेरनित्यत्वान्नटच् ॥१७१॥

यदाऽश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य ।
अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय संजय॥१७२॥

निर्जितत्वादिनात्यन्तपराभूतस्यापि सप्ताक्षौहिणीसम्पत्तेर्देवानुकूल्यात्तेषामजय्यत्वं दृढमित्यर्थः ॥१७२॥

यदाऽश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम् ।
यस्येमां गां विक्रममेकमाहुस्तदा नाशंसे विजयाय संजय॥१७३॥

इमां मां पृथिवीं यस्य एकं विक्रमं पदमात्रमाहुः । यस्येन्द्राद्या इति पाठे विक्रमं पराक्रमम् । एकम् असाधारणम् ॥१७३॥

यदाऽश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य ।
अहं द्रष्टा ब्रह्मलोके च सम्यक् तदा नाशंसे विजयाय संजय॥१७४॥

वदतो नारदस्य मुखादिति शेषः ॥१७४॥

यदाऽश्रौषं लोकहिताय कृष्णं शमार्थिनमुपयातं कुरूणाम् ।
शमं कुर्वाणमकृतार्थं च यातं तदा नाशंसे विजयाय संजय॥१७५॥

यदाश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य ।
तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय संजय॥१७६॥

बहुधा वैश्वरूप्येण ॥१७६॥

यदाऽश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम् ।
आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय संजय॥१७७॥

पृथां कुन्तीम् ॥१७७॥

यदाऽश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शान्तनवं च तेषाम् ।
भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय संजय॥१७८॥

तेषां पाण्डवानाम् ॥१७८॥

यदाश्रौषं कर्ण उवाच वाक्यं नाहं योत्स्ये युध्यमाने त्वयीति ।
हित्वा सेनामपचक्राम चापि तदा नाशंसे विजयाय संजय॥१७९॥

स्वयूथ्यकलहोऽपि पराजयावह इत्याह । यदाश्रौषं कर्ण इति ॥१७९॥

यदाऽश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डिवमप्रमेयम् ।
त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय संजय॥१८०॥

गण्डोऽस्यास्तीति गण्डी खड्गमृगः । ‘गण्डः स्यात्पुंसि खड्गिनि’ इति मेदिनी । तेन सह वाति गच्छतीति गाण्डिवं तस्य पृष्ठवम्सं तद्विकारो गाण्डिवम् । दीर्घमध्योप्ययं शब्दः क्वचिदस्ति तदार्षम् ॥१८०॥

यदाऽश्रौषं कश्मलेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै ।
कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय संजय॥१८१॥

कश्मलेन मोहेन ॥१८१॥

यदाऽश्रौषं भीष्ममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम् ।
नैषां कश्चिद्वध्यते ख्यातरूपस्तदा नाशंसे विजयाय संजय॥१८२॥

अयुतं दशसहस्राणि ॥१८२॥

यदाऽश्रौषं चापगेयेन सङ्ख्ये स्वयं मृत्युं विहितं धार्मिकेण ।
तच्चाकार्षुः पाण्डवेयाः प्रहृष्टास्तदा नाशंसे विजयाय संजय॥१८३॥

आपगेयेन भीष्मेण विहितं प्रकाशितं तच्च मृत्युप्रापकं द्वारम् ॥१८३॥

यदाऽश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् ।
शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय संजय॥१८४॥

तदेवाह यदाश्रौषं भीष्ममिति ॥१८४॥

यदाऽश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः ।
भीष्मं कृत्वा सोमकानल्पशेषांस्तदा नाशंसे विजयाय संजय॥१८५॥

सोमकानेवाल्पशेषान् कृत्वा नत्वन्यान् ॥१८५॥

यदाऽश्रौषं शान्तनवे शयाने पानीयार्थे चोदितेनार्जुनेन ।
भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय संजय॥१८६॥

भूमिं भित्वेत्यलौकिकं कर्म ॥१८६॥

यदा वायुश्चन्द्रसूर्यौ च युक्तौ कौन्तेयानामनुलोमा जयाय ।
नित्यं चास्माञ्श्वापदा भीषयन्ति तदा नाशंसे विजयाय संजय॥१८७॥

वायोरानुलोम्यं दक्षिणपृष्ठवाहित्वं चन्द्रसूर्ययोर्लाभस्थानस्थत्वेन । शक्रसूर्यावितिपाठे शक्रस्यानुकूल्यं परेषां सैन्येऽशनिपातादिना । श्वापदाः श्वकपिक्रोष्ट्रादयः ॥१८७॥

यदा द्रोणो विविधानस्त्रमार्गान्निदर्शयन्समरे चित्रयोधी ।
न पाण्डवाञ्श्रेष्ठतरान्निहन्ति तदा नाशंसे विजयायं संजय॥१८८॥

यदाऽश्रौषं चास्मदीयान्महारथान्व्यवस्थितानर्जुनस्यान्तकाय ।
संशप्तकान्निहतानर्जुनेन तदा नाशंसे विजयाय संजय॥१८९॥

यदाऽश्रौषं व्यूहमभेद्यमन्यैर्भारद्वाजेनात्तशस्त्रेण गुप्तम् ।
भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय संजय॥१९०॥

यदाऽभिमन्युं परिवार्य बालं सर्वे हत्त्वा हृष्टरूपा बभूवुः ।
महारथाः पार्थमशक्नुवन्तस्तदा नाशंसे विजयाय संजय॥१९१॥

पार्थं अशक्नुवन्तो हन्तुमितिशेषः । तेन अर्जुनकोपाग्रेरत्यन्तं प्रदीपनान्नास्माकं जयाशेत्यर्थः ॥१९१॥

यदाऽश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् ।
क्रोधादुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय संजय॥१९२॥

मूढान् अनेन स्वेषां क्षय एव भविष्यतीति जयाप्ययं पराजय एवेत्यजानतः । सैन्धवे जयद्रथे उक्तं ‘अद्यैनं न हनिष्यामि चेदग्निं प्रवेक्ष्यामि’ इति प्रतिज्ञातम् ॥१९२॥

यदाऽश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन ।
सत्यां तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय॥१९३॥

यदाऽश्रौषं श्रान्तहये धनंजये मुक्त्वा हयान्पाययित्वोपवृत्तान् ।
पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय संजय॥१९४॥

यदाऽश्रौषं वाहनेष्वक्षमेषु रथोपस्थे तिष्ठता पाण्डवेन ।
सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय संजय॥१९५॥

यदाऽश्रौषं नागबलैः सुदुःसहं द्रोणानीकं युयुधानं प्रमथ्य ।
यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय संजय॥१९६॥

युयुधानं युध्यमानं वार्ष्णेयं सात्यकिम् ॥१९६॥

यदाऽश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः ।
धनुष्कोट्या तुद्य कर्णेन वीरं तदा नाशंसे विजयाय संजय॥१९७॥

कर्णमासाद्यापि वधान्मुक्तम् अप्राप्तमृत्युं भीमं यदाश्रौषमित्यन्वयः । आतुद्य सर्वतो ब्यथयित्वा वचोभिर्न तु मनसा कुत्सयित्वा मूढ औदारिकेत्यादिशब्दैर्निन्दित्वोपेक्षितमिति शेषः ॥१९७॥

यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः ।
अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय संजय॥१९८॥

अमर्षयन् मर्षणं सहनं कृतवन्तः अशक्त्या ॥१९८॥

यदाऽश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन ।
घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय संजय॥१९९॥

व्यंसितां व्यर्थीकृतां माधवेन कर्णस्यापि धियः प्रवर्तकेन । घोररूपे इति घटोत्कचस्यापि वध्यत्वेन तद्बधेनापि कृष्णस्य हर्ष एव न क्षतिरिति भावः ॥१९९॥

यदाऽश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम् ।
यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय संजय॥२००॥

यदा कर्णघटोत्कचाभ्यां युद्धे क्रियमाणे इति शेषः । अर्जुनस्यावद्यत्वे सिद्धे का जयाशेति भावः ॥२००॥

यदाऽश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् ।
रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय संजय॥२०१॥

प्रायगतं मरणार्थमनशनं प्रायस्तत्रगतं तदर्थं निश्चलं स्थितम् । विशस्तं छिन्नम् ॥२०१॥

यदाऽश्रौषं द्रौणिना द्वैरथस्थं माद्रीसुतं नकुलं लोकमध्ये ।
समं युद्धे मण्डलेभ्यश्चरन्तं तदा नाशंसे विजयाय संजय॥२०२॥

द्रौणिना नकुलमिति, द्रौणेर्निकृष्टत्वमुक्तम् ॥२०२॥

यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन् ।
नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय संजय॥२०३॥

यदाऽश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर्युधि दुःशासनस्य ।
निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय संजय॥२०४॥

यदाऽश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् ।
तस्मिन्भ्रातृणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय॥२०५॥

देवगुह्ये पार्थानां कर्णे सोदर्यत्वाज्ञानात् प्रवृत्ते विग्रहे युद्धे ॥२०५॥

यदाऽश्रौषं द्रोणपुत्रं च शूरं दुःशासनं कृतवर्माणमुग्रम् ।
युधिष्टिरं धर्मराजं जयन्तं तदा नाशंसे विजयाय संजय॥२०६॥

युधिष्ठिरं द्रोणपुत्रादीन् जयन्तमित्यन्वयः ॥२०६॥

यदाऽश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत ।
सदा सङ्ग्रामे स्पर्धते यस्तु कृष्णं तदा नाशंसे विजयाय संजय॥२०७॥

मद्रराजं शल्यं स्पर्धते जेतुमिच्छतीत्यर्थः ॥२०७॥

यदाऽश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन ।
हतं सङ्ग्रामे सहदेवेन पापं तदा नाशंसे विजयाय संजय॥२०८॥

यदा कुलहेति पुर्नद्यूतप्रसञ्जनेनापि जयाशा नास्तीतिभावः ॥२०८॥

यदाऽश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः ।
दुर्योधनं विरथं भग्नशक्तिं तदा नाशंसे विजयाय संजय॥२०९॥

भग्ना शक्तिः मन्त्रोत्साहादिजं सामर्थ्यं यस्य ॥२०९॥

यदाऽश्रौषं पाण्डवांस्तिष्ठमानान् गत्वा ह्रदे वासुदेवेन सार्धम् ।
अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय संजय॥२१०॥

प्रच्छन्नोपि परैरदृष्टश्चेद्दैवात्कालान्तरेऽपिं जयाशा स्यात्सापि नास्तीत्याह । यदाश्रौषं पाण्डवानिति । अमर्षणम् अशक्तस्यातितिक्षोर्मरणमवश्यं भावीति भावः ॥२१०॥

यदाऽश्रौषं विविधांश्चित्रमार्गान् गदायुद्धे मण्डलशश्चरन्तम् ।
मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय संजय॥२११॥

मिथ्याहतं नाभेरधः प्रहारात् कपटेन हतम् । तस्मिन् हते जयाशा नास्ति मूलोच्छेदादिति भावः ॥२११॥

यदाऽश्रौषं द्रोणपुत्रादिभिस्तैर्हतान्पञ्चालान्द्रौपदेयांश्च सुप्तान् ।
कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय संजय॥२१२॥

यदा द्रोणेति दुष्कर्मकारिणो दुर्योधनस्य दारेषु कश्चिन्महानुभावः पुत्रमपि नोत्पादयिष्यति । अतस्तद्वारापि जयाशा नास्तीतिभावः ॥२१२॥

यदाऽश्रौषं भीमसेनानुयाते नाश्वत्थाम्ना परमास्त्रं प्रयुक्तम् ।
क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय संजय॥२१३॥

अनुयातेन हन्तुम् अनुद्रुतेन । अग्रिम श्लोकत्रयेण स्वीयस्याप्यश्वत्थाम्नोति जुगुप्सितकर्मत्वान्मणिहीनत्वाद्बहुशापग्रस्तत्वाच्च दुर्योधनक्षेत्रेषु पुत्रजननद्वारा राज्यलाभरूपजयाशंसापि नास्तीति सूच्यते । यदा शशाप तदा नाशंसे विजयायेत्यन्तिमश्लोके पूर्वानुकर्षेणान्वयः ॥२१३॥

यदाऽश्रौषं ब्रह्मशिरोऽर्जुनेन स्वस्तीत्युक्त्वाऽस्त्रमस्त्रेण शान्तम् ।
अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय संजय॥२१४॥

यदाऽश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रैः ।
द्वैपायनः केशवो द्रोणपुत्रं परस्पेरणाभिशापैः शशाप॥२१५॥

शोच्या गान्धारी पुत्रपौत्रैर्विहीना तथा बन्धुभिः पितृभिर्भ्रातृभिश्च ।
कृतं कार्यं दुष्करं पाण्डवेयः प्राप्तं राज्यमसपत्नं पुनस्तैः॥२१६॥

शोच्या गान्धारी । अहं तु तामपि शोचन् शोच्यतर इति भावः। यद्वा गान्धार्य्यैव शोच्या न त्वहम् उदासीनत्वात् । यदाश्रौषं पाण्डवानिति । अमर्षणम् अशक्तस्यातितिक्षोर्मरणमजय इति भावः ॥२१६॥

कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त ।
द्व्यूना विंशतिराहताऽक्षौहिणीनां तस्मिन्सङ्ग्रामे भैरवे क्षत्रियाणाम्॥२१७॥

त्रयः कृपोऽश्वत्थामा कृतवर्मा च । सप्त कृष्णसात्यकी पञ्च पाण्डवाश्च ॥२१७॥

तमस्त्वतीव विस्तीर्णं मोह आविशतीव माम् ।
संज्ञां नोपलभे सूत मनो विह्वलतीव मे॥२१८॥

तमः शोकावेशाच्चक्षुरावरणं बाह्यम् । मोहः कार्याकार्ययोरप्रतिपत्तिः । अतएव संज्ञां विशेषविज्ञानं नोपलभे । विह्वलति शोकेनाकुली भवति ॥२१८॥

सौतिरुवाच। इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहु दुःखितः ।
मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत्॥२१९॥

अत एवं मूर्च्छितः अन्तः संज्ञाशून्यः ॥२१९॥

धृतराष्ट्र उवाच। संजयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम् ।
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे॥२२०॥

सौतिरुवाच। तं तथा वादिनं दीनं विलपन्तं महीपतिम् ।
निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः॥२२१॥

गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ।
संजय उवाच। श्रुतवानसि वै राजन्महोत्साहान्महाबलान्॥२२२॥

गवल्गणस्यापत्यं गावल्गणिः सञ्जयः ॥२२२॥

द्वैपायनस्य वदतो नारदस्य च धीमतः ।
महत्सु राजवंशेषु गुणैः समुदितेषु च॥२२३॥

जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ।
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः॥२२४॥

अस्मिँल्लोके यशः प्राप्य ततः कालवशं गतान् ।
शैब्यं महारथं वीरं सृंजयं जयतां वरम्॥२२५॥

सुहोत्रं रन्तिदेवं च काक्षीवन्तमथौशिजम् ।
बाह्लीकं दमनं चैद्यं शर्यातिमजितं नलम्॥२२६॥

विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् ।
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च॥२२७॥

रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ।
कृतवीर्यं महाभागं तथैव जनमेजयम्॥२२८॥

ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् ।
चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा॥२२९॥

चित्ये चयनवति क्रतौ विहिताश्चैत्याः ते च ते यूपाश्च तैरङ्किता ॥२२९॥

इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा ।
पुत्रशोकाभितप्ताय पुरा श्वैत्याय कीर्तितम्॥२३०॥

चतुर्विंशदितीकारलोपस्त्वार्षः ॥२३०॥

तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः ।
महारथा महात्मानः सर्वैः समुदिता गुणैः॥२३१॥

पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाद्युतिः ।
अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः॥२३२॥

विजयो वीतिहोत्रोऽङ्गो भवः श्वेतो बृहद्गुरुः ।
उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः॥२३३॥

दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः ।
अजेयः परशुः पुण्ड्रः शंभुर्देवावृधोऽनघः॥२३४॥

देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः ।
महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः॥२३५॥

सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः ।
जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुचिव्रतः॥२३६॥

बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः ।
धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः॥२३७॥

अविक्षिच्चपलो धूर्तः कृतबन्धुर्दृढेषुधिः ।
महापुराणसंभाव्यः प्रत्यङ्गः परहा श्रुतिः॥२३८॥

एते चान्ये च राजानः शतशोऽथ सहस्रशः ।
श्रूयन्ते शतशश्चान्ये सङ्ख्याताश्चैव पद्मशः॥२३९॥

हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः ।
राजानो निधनं प्राप्तास्तव पुत्रा इव प्रभो॥२४०॥

तव पुत्रा इवेति निधने दृष्टान्तः । अत एव ‘तव पुत्रा दुरात्मान’ इत्युच्यते ॥२४०॥

येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च ।
माहात्म्यमपि चास्तिक्यं सत्यं शौचं दयाऽर्जवम्॥२४१॥

त्यागो दानम् आस्तिवयं गुरुदेववाक्यादिषु फलावश्यं भावनिश्चयः । सत्यं भूतद्रोहवर्जितं यथार्थभाषणम् । दया परदुःखप्रहाणेच्छा आर्जवम् अकौटिल्यम् ॥२४१॥

विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः ।
सर्वार्द्धिगुणसंपन्नास्ते चापि निधनं गताः॥२४२॥

ते चापि तथाविधा अपि ॥२४२॥

तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना ।
लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि॥२४३॥

दुरात्मानो दुष्टचित्ताः प्रतप्तास्तीक्ष्णा दुर्वृत्तमेव भूयिष्ठं येषां ते तथा ॥२४३॥

श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ।
येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत॥२४४॥

स्वयं कृतेऽनर्थे किं शोकेनेत्याह । श्रुतवानसीत्यादिना ॥२४४॥

निग्रहानुग्रहौ चापि विदितौ ते नराधिप ।
नात्यन्तमेवानुवृत्तिः कार्या ते पुत्ररक्षणे॥२४५॥

निग्रहः पाण्डवेषु अनुग्रहः स्वपुत्रेषु तौ त्वत्कृतौ तवैव विदितौ अतः स्वपुत्राणां रक्षणे त्वयानुवृत्तिर्ध्यानं न कार्यम् । श्रूयत इति पाठे अन्यैः कृतेति न श्रूयतेऽतस्त्वयापि न कार्या । गराग्निदानादिपापकृतां नाशस्यावश्यंभावित्वादिति भावः ॥२४५॥

भवितव्यं तथा तच्च नानुशोचितुमर्हसि ।
दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति॥२४६॥

‘बुद्धिःकर्मानुसारिणी’ इतिन्यायेन प्राकृतस्य कर्मणो दुर्निवारत्वाच्च स्वकृतेऽपि नात्यन्तं पश्चात्तापेन शोकः कर्तव्य इत्याह । भवितव्यमिति ॥२४६॥

विधातृविहितं मार्गं न कश्चिदतिवर्तते ।
कालमूलमिदं सर्वं भावाभावौ सुखासुखे॥२४७॥

मार्गे ‘अवश्यमेव भोक्तन्यं कृतं कर्म । शुभाशुभम्’ इत्येवंरूपां पद्धतिम् । ननु प्राकृतमेव शौचामीतिचेन्नेत्याह । कालेति । यथा तरुषु फलपुष्पाद्युद्गमः कालैकहेतुस्तथा पुरुषेषु सदसद्बुद्द्युद्गमोऽपीत्यर्थः । भावाभावौ वस्तूनामुद्भवानुद्भवौ ऐश्वर्यानैश्वर्ये वा ॥२४७॥

कालः सृजति भूतानि कालः संहरते प्रजाः ।
संहरन्तं प्रजाः कालं कालः शमयते पुनः॥२४८॥

कालः निमेषादिर्वत्सरान्तः । भूतानि जरायुजादीनि । सृजति संहरते च प्रजास्ता एव । एवं शोचन्तं धृतराष्ट्रम् । ‘तरति शोकमात्मवित्’ इति श्रुतेरात्मज्ञानप्रदानेन निःशोकं कर्तुं प्रथमं जीवानां कालादृष्टादिपारतन्त्र्यप्रदर्शनेनाकिंचित्करत्वप्रवोधनेन च तस्य वैराग्यमुत्पाद्यात्मानमुपदिशति । ‘संहरन्तं प्रजाः कालं कालः शमयते पुन’ इति । ‘मृत्युमृत्युं नमाम्यहम्’ इति श्रुतेः कालस्यापि कालः परमात्मास्तीत्यर्थः । निर्दहति प्रजाः काल इति पाठे तु यो निर्दहति कालस्तमपि कालः शमयत इति यत्तच्छब्दाध्याहारेण योज्यम् ॥२४८॥

कालो हि कुरुते भावान्सर्वल्लोके शुभाशुभान् ।
कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः॥२४९॥

कालो हीति । अयं महाकालो हि अतिप्रसिद्धो वेदे । ‘एष ह्येव साधु कर्म कारयति त यमभ्यो लोकेभ्य उन्निनीषत एष ह्येवासाधुकर्म कारयति तं यमधो निनीषते’ इत्यादौ । कुरुते भावानर्थान् क्वचित्प्रयोजकत्वेन क्वचित्प्रयोज्यत्वेन ईशानीशरूपोयमेवेत्यर्थः । प्रजाः अव्यक्तमहदादयः ॥२४९॥

कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।
कालः सर्वेषु भूतेषु चरत्यविधृतः समः॥२५०॥

सुप्तेषु तेष्वेव लीनेषु जागर्ति । सुप्तौ प्रलये मोक्षे च अलुप्तदृक्शाक्तिरास्ते । न हि द्रष्टुर्दृष्टेर्विपरिलोपो दृश्यतेऽविनाशित्वादिति श्रुतेः । कालो हि प्रसिद्धं दुरतिक्रमः अलङ्घनीयः । ‘पुरुषान्न परं किंचित्सा काष्ठा सा परागतिः’ इति श्रुतेः । चरति शास्यशास्तृभावेन । ‘अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा’ इति श्रुतेः । अविधृतः न केनचित् विधृतः । सर्वाधिष्ठानत्वात् । अत एव समः आत्मा । ‘सम आत्मेतिविद्यात्’ । ‘निर्दोषं हि समं ब्रह्म’ इति प्रत्यगभिन्ने ब्रह्मणि समशब्दप्रयोगात् ॥२५०॥

अतीतानागता भावा ये च वर्तन्ति सांप्रतम् ।
तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि॥२५१॥

सर्वमात्मप्रभवमिति बुध्वा संज्ञां ज्ञाननिष्ठां न त्यक्तुमर्हसि । इतोन्यस्य शोकतरणोपायस्याभावादित्यर्थः ॥२५१॥

सौतिरुवाच। इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम् ।
आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा॥२५२॥

स्वस्थं शोकहेतुं देहाद्यभिमानं त्याजयित्वा निरुपाधौ स्वस्वरूपे प्रतिष्ठितमकरोदित्यर्थः ॥२५२॥

अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् ।
विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः॥२५३॥

अत्र शोकार्तानां स्वास्थ्यकरणे विषये उपनिषदम् । ‘उपनीये ममात्मानं ब्रह्मापास्तद्वयं यतः। निहन्त्यविद्यां तज्जं च तस्मादुपनिषद्भवेत्’ इति यथोक्तविद्याहेतुत्वाद्ग्रन्थोप्युपनिषद्भवेदिति च वचनात् । ब्रह्मास्मैकत्वविद्याप्रतिपादकं ग्रन्थं सूत्रवृत्त्योः प्रागुक्तयोर्वार्तिकस्थानीयमुपनिषच्छब्दवाच्यं अब्रवीत् । यद्यप्यत्र पुरुषार्थचतुष्टयप्रतिपादनं दृश्यते तथाप्यर्थकामयोर्लोकप्रसिद्धयोरेव स्वरूपव्याक्रियैव पराक्रियेतिन्यायेन हानार्थमनुवादाद्धर्मस्य च विविदिषन्ति यज्ञेनेत्यादिश्रुत्या विद्याशेषत्वस्य दर्शितत्वात्परमतात्पर्यं विद्यायामेवेति ध्येयम् । अस्याः सांप्रदायिकत्वमाह । विद्वद्भिरिति । कथ्यते अनादिसिद्धमेव कीर्त्यते न तु कादम्बर्यादिवदभिनवकथा कल्प्यते कविसत्तमैः पूर्वपूर्वकल्पीयैर्व्यासादिभिः । एवं च व्यासादिशब्दानां सेनापत्यादिशब्दवदधिकारिकवचनत्वेन व्यक्त्यनित्यत्वेऽपि तदर्थानां नित्यत्वान्न पुराणानां सकर्तृकत्वमात्रादनित्यत्वम् । अत एव ‘सुभन्तुजैमिनिवैशम्पायनपैलसूत्रभाष्यभारतमहाभारतधर्माचार्या’ इति मन्त्रस्य पुराणादिप्रणेत्राचार्यसङ्ग्रहवतो नित्येन तर्पणविधिना संयोगः सङ्गच्छते । अन्यथा नित्यानित्यसंयोगविरोधो दुर्वारः स्यात् । अत एव पुराणे पुरापि नवे ॥२५३॥

भारताध्ययनं पुण्यमपि पादमधीयतः ।
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः॥२५४॥

भारतेति । नित्ये ब्रह्मयज्ञे ऋचोधीते पय आहुतिभिरेव देवतास्तर्पयतीत्यृगादीनामिव इतिहासपुराणानीत्यमृताहुतिभिरिति तदध्ययनफलश्रुतिरपि युज्यत इत्यभिप्रेत्याह । पुण्यमिति । पूयन्ते नश्यन्ति । अस्य श्लोकस्य चतुर्थांशोच्चारणमात्रादपि सर्वपापनाशः किं वाच्यं कृत्स्नाध्ययनात्तदर्थस्य ज्ञानात् साक्षात्काराद्वेतिभावः ॥२५४॥

देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः ।
कीर्त्यन्ते शुमकर्माणस्तथा यक्षा महोरगाः॥२५५॥

एवं ग्रन्थस्य स्वास्थ्यं मुख्यं फलं पापक्षयं गुणफलं चोक्त्वात्र प्रतिपाद्यं विषयमाह । देवा इति । देवादीनां शुभकर्माण इति विशेषणेन तेषां शुभं कर्मैवोपादेयं विवक्षितम् । तस्यैव परम्परया परमपुरुषार्थहेतुत्वात् ॥२५५॥

भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः ।
स हि सत्यमृतं चैव पवित्रं पुण्यमेव च॥२५६॥

मुख्यं विषयमाह भगवानिति । ‘ऐश्वर्यस्य समग्रस्य ज्ञानस्य यशसः श्रियः । वैराग्यस्य च धर्मस्य षण्णां भग इतींगना’ इत्युक्तरूपषड्गुणैश्वर्यवान्परमात्मा वासुदेवः वसुदेवोत्पन्नशरीरोपाधिः सर्वशरीरोपाधिरपि तेन शरीरेणातिमानुषाणि वह्निपानादीनि कर्माणि कृतवानिति तदुपादानम् । तथाहि । ब्रह्माणं प्रति भगवद्वाक्यम् । ‘विधेऽहं सर्वोस्मि व्रजपृथुकगोवत्सवदहं बिभर्मि ब्रह्माण्डं गिरिवदहमाद्मि ज्वलनवत् । सृजामि द्रौपद्या वसनवदहं प्राणभृदहं यदत्राहं तृप्तो मुनिरिति मदन्यन्न किमपि’ इति । तस्य वास्तवं रूपमाह । सनातन इति । आकाशादिवत् प्रवाहनित्यतया वा मायाया आद्यन्त शून्यत्वाद्वा तन्मयस्य भगवच्छरीरस्य नित्यत्वापरपर्यायं सनातनत्वं युज्यत इत्यर्थः । स वासुदेवो हि प्रसिद्धम् । सत्यं अनुष्ठीयमानं कर्म । ऋतं तदेव वेदात् ज्ञायमानम् । पवित्रं पापनाशकं पुण्यम् अभ्युदयहेतुः । सर्वकर्मफलभूतं ब्रह्माण्डं स एवेति भावः ॥२५६॥

शाश्वतं ब्रह्मपरमं ध्रुवं ज्योतिः सनातनम् ।
यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः॥२५७॥

अस्यैव निर्विशेषत्वमाह । शाश्वतं शश्वत् निरन्तरं भवं शाश्वतं तेन वस्तुतोदेशतश्चापरिच्छिन्नम् । अत एव ब्रह्म बृहत् परमं कार्यकारणातीतम् । ध्रुवं कूटस्थम् । ज्योतिः चिन्मात्रम् । सनातनं कालतोऽपरिच्छिन्नम् । यस्य ईदृशस्यापि मायया विग्रहवतः ॥२५७॥

असच्च सदसच्चैव यस्माद्विश्वं प्रवर्तते ।
सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः॥२५८॥

ईदृशादपि यस्मात् असत् अनिर्वचनीयं सदसच्च कार्यं कारणं च तदुभयात्मकम् । विश्वं जातं सन्ततिर्ब्रह्मादिः प्रवृत्तिर्यज्ञादिः ॥२५८॥

अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् ।
अव्यक्तादि परं यच्च स एव परिगीयते॥२५९॥

आत्मनीत्यध्यात्मं देहे । यत् पञ्चभूतकार्यरूपाः गुणाः श्रोत्रादयस्तदात्मकम् । स प्राणन्नेव प्राणो नाम भवति वदन् वाक् पश्यन् चक्षुः शृण्वन् श्रोत्रं मन्वानो मन इत्यादि श्रुतौ यच्छ्रूयते जीवरूपम् । इति त्वं पदार्थमनूद्य तत्पदार्थमाह । अव्यक्तादि । अन्यन्तस्य आदिभूतं यत्परं निर्विशेषं च । तयोरभेदमाह । स एवेति । परिगीयते वेदे ‘अयमात्मा ब्रह्म’ ‘अहं ब्रह्मास्मि’ इत्यादौ । नन्वन्तःप्रविष्टः शास्ता जनानामिति शास्तृशास्यभावेन श्रुतयोरीशजीवयो राजभृत्यवदभेद औपचारिको न तु तात्विक इति चेन्न । अन्तःप्रविष्ट इति श्रुतेः किं जीवोऽणुर्विभुर्वा । नाद्यः । अणूदरे शास्तुः प्रवेशायोगात् । प्रवेशे च सान्तरालस्याणुत्वायोगात् । मध्यमस्य च सावयवत्वेन घटादिवदनित्यत्वावश्यं भावात् । न द्वितीयः विभुनोश्च तयोः । कालाकाशादेरिव तुल्यत्वेन मिथः शास्यशास्तृत्वायोगात् । तस्मादुपादानोपादेयभावेन वाधिष्ठानाध्यस्तभावेन वा ईशजीवयोः प्रवेष्टृप्रवेश्यभावेन । शास्तृशास्यभावः । तेनेशस्यान्तःप्रविष्टत्वं सङ्गच्छते तथा च तयोरभेदोपि तात्विक एव ॥२५९॥

यत्तद्यतिवरा मुक्ता ध्यानयोगबलान्विताः ।
प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम्॥२६०॥

अत्र विद्वदनुभवं प्रमाणयति । यत्तदिति । आत्मनि हार्दाकाशे पश्यन्ति प्रत्यगभेदेन । प्रतिबिम्बमिव आदर्श इति असंदिग्धत्वे दृष्टान्तो न तु दृश्यते । अन्यथा दृदयस्य जडत्वापत्त्या वाङ्मनसातीतत्वश्रुतिव्याकोप एव ॥२६०॥

श्रद्दधानः सदा युक्तः सदा धर्मपरायणः ।
आसेवन्निममध्यायं नरः पापात्प्रमुच्यते॥२६१॥

युक्तः नियमवान् । आसेवन् जपन् ॥२६१॥

अनुक्रमणिकाध्यायं भारतस्येममादितः ।
आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति॥२६२॥

आदितः नारायणं नमस्कृत्येत्यारभ्य अनेन भारतकथांशमात्रं पराशरात्मजो विद्वानित्यत एवारभ्य तद्वक्तव्यमिति नादर्तव्यमिति भावः ॥२६२॥

उभे सन्ध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात् ।
अनुक्रमण्या यावत्स्यादह्ना रात्र्या च संचितम्॥२६३॥

जपन् किंचित् अनुक्रमण्याः कांश्चिदपि श्लोकान् ॥२६३॥

भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च ।
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा॥२६४॥

एतद्भारतस्य वपुः शरीरम् । सत्यं ब्रह्म अमृतं देवभावश्च अत्रैवास्तीत्यर्थः । उत्तरग्रन्थस्त्वस्य राज़ इव परिवारस्थानीयः । तत्त्वं त्वत्रैव सूत्रितमित्यर्थः ॥२६४॥

आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा ।
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्॥२६५॥

आरण्यकम् उपनिषत् । ओषधिभ्यो यवादिभ्यः । अमृतं यज्ञशेषम् ॥२६५॥

यथैतानीतिहासानां तथा भारतमुच्यते ।
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः॥२६६॥

इतिहासानां शिवरहस्यादीनां मध्ये ॥२६६॥

अक्षय्यमन्नपानं वै पितृंस्तस्योपतिष्ठते ।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्॥२६७॥

इतिहासेति । यद्धत्यं मायिनं मृगं तमुत्वं माययावधीतीति मन्त्रावयवो हि रामायणीयमारीचवधज्ञे नैवोपबृंहितुं शक्यो नत्वन्येनातस्तस्मादल्पश्रुताद्वेदस्य भयमुचितमेव । वेदार्थजिज्ञासुना इदमवश्यमध्येतव्यमित्यर्थः ॥२६७॥

बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ।
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते॥२६८॥

कार्ष्णं कृष्णेन व्यासेन प्रोक्तम् । वेदं पुरुषार्थचतुष्कं वेदयन्तम् ॥२६८॥

भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम् ।
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि॥२६९॥

अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ।
यश्चैनं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः॥२७०॥

स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ।
एकतश्चतुरो वेदा भारतं चैतदेकतः॥२७१॥

पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम् ।
चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा॥२७२॥

तुलया धृतं न्यूनाधिकभावेन परीक्षितम् । सरहस्येभ्यः सोपनिषत्केभ्यः । अधिकम् अर्थगौरवयुक्तम् ॥२७२॥

तदाप्रभृति लोकेऽस्मिन्महाभारतमुच्यते ।
महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम् ॥२७३॥

महत्त्वे ग्रन्थत आधिक्ये गुरुत्वे अर्थत आधिक्ये ॥२७३॥

महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते॥२७४॥

तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः ।
प्रसह्य वित्ताहरणं न कल्कस्तान्येव भावोपहतानि कल्कः॥२७५॥

नन्वत्रानर्थको युद्धादिप्रलापो भूयान् दृश्यते कणिकनीत्यादिश्चाधर्मप्रवर्तकोऽपि ग्रन्थोऽस्ति । ततश्च क्वचिद्धर्मादिकथने सत्यपि विषसंपृक्तान्नवत्कृत्स्नमप्येतद्धेयमेवस्यादित्याशङ्क्याह । तप इति तपः कृच्छ्रचान्द्रायणादि कल्कः पापं तदभावो न कल्कः । कल्कोस्त्रीशमलैनसोरित्यमरः । नभ्राडादिवन्नञः प्रकृतिभावः । तपो निर्मलं नैमल्यसाधनमित्यर्थः । विरोधित्वं वा नञर्थः । तेन तपः पापनाशकमित्यर्थः । अध्ययनं वेदस्य स्वाभाविकः स्वस्ववर्णाश्रमादिपुरस्कारेण विहितः शमो दमस्तपः शौचमित्यादिर्वेदविधिर्वेदोक्तो विधिरग्निहोत्रसंध्योपासनादिः । प्रसह्य प्रकर्षेण सोढ्वा क्षुधादिदुःखमपि सोढ्वा वित्तत्य आहरणं शिलोञ्छादिना अर्जनं तदपि न कल्को नैर्मल्यसाधनम् । तान्येव तप आदीनि भावेन चित्ताभिप्रायेण उपहतानि कल्कः पापं पापहेतुर्भवन्ति । यथा शीतादिसहनं वानप्रस्थैः कटकस्थैश्च तुल्यवत्क्रियते तथापि भावभेदात्तदेकस्य स्वर्गायान्यस्य नरकाय भवति । वक्ष्यति च । ‘चत्वारि कर्माण्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि । मानाग्निहोत्रमुतमानमौनं मानेनाधीतमुतमानयज्ञ’ इति ॥ एवं शिलोञ्छादिकमपि दम्भेन कृतं पापायान्यथा श्रेयसे भवति । एवं भारतेऽपि धर्मब्रह्मप्रतिपादने एव परमतात्पर्यम् । अर्थवादजातमपि युधिष्ठिरादिवद्व्यवहर्तव्यं न दुर्योधनादिवदित्याशयेनोक्तम् । तत्र हीनं पक्षमुपाददानः स्वार्थात् भ्रश्यति तेनाधीतमपि भारतं पापायैव भवतीत्यर्थः । तथा च सर्वस्मादपि ग्रन्थात्सारमेवादेयमितरत् त्याज्यमिति श्रूयते । ‘ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः’ इति ॥२७५॥
इति श्रीमन्माहाभारते आदिपर्वणि अनुक्रमणिकापर्वणि प्रथमोऽध्यायः॥१॥अनुक्रमणिकापर्व समाप्तम् ॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in