ऋषय ऊचुः।
समन्तपञ्चकमिति यदुक्तं सूतनन्दन
।
एतत्सर्वं यथातत्त्वं श्रोतुमिच्छामहे वयम्॥१॥
पर्वसङ्ग्रहपर्व एवं प्रथमेऽध्याये सूत्रितानामर्थानां प्रकरणशो विभागं शिष्याणामवधानाय प्रदर्शयिष्यन् वैराग्यमुत्पादयितुं कुरुषु परशुरामकृतं क्षत्रक्षयं प्रसङ्गात्प्रदर्शयति । समन्तेति । 'समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् । गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा' इत्यादिना यदुक्तम् । एतत्सर्वं तं देशं तद्युद्धं च श्रोतुमिच्छामहे वयम् ॥१॥
सौतिरुवाच।
शृणुध्वं मम भो विप्रा ब्रुवतश्च कथाः शुभाः
।
समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः॥२॥
मम मत्तः कथा अन्याः ॥२॥
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः
।
असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः॥३॥
क्षत्रं क्षत्रियजातिम् | अमर्षः स्वपितुः क्षत्रियेण हतत्वाज्जातस्य क्रोधस्यासहनं तेन चोदितः प्रेरितः ॥३॥
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः
।
समन्तपञ्चके पञ्च चकार रौधिरन्ह्वदान्॥४॥
रौधिरान् रुधिरपूर्णान् ॥४॥
स तेषु रुधिराम्भःसु ह्रदेषु क्रोधमूर्च्छितः
।
पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम्॥५॥
नः अस्माभिः । रुधिरपितॄणां तर्पणात्सर्वा हिंसा पितृतृप्त्याद्युद्देशेनैव कर्तव्या कामकारेणेति सूचितम् ॥५॥
अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन्
।
राम राम महाभाग प्रीताः स्म तव भार्गव॥६॥
अनया पितृभक्त्या च विक्रमेण तव प्रभो
।
वरं वृणीष्व भद्रं ते यमिच्छसि महाद्युते॥७॥
राम उवाच।
यदि मे पितरः प्रीता यद्यनुग्राह्यतामयि
।
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया॥८॥
अतश्च पापान्मुच्येऽहमेष मे प्रार्थितो वरः
।
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः॥९॥
एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन्
।
तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह॥१०॥
यदिति सार्धेन क्रोधः सर्वे पापायैव हीनबलेषु शस्त्रनिक्षेपादिति भावः ॥ निषिषिधुः निषिद्धवन्तः । अक्षराधिक्यमार्षम् । अभ्यासलोपो वा आर्षः । सिषिधुरिति पाठे शशासुः । हिंसातो विरमस्वेति शिक्षितवन्त इत्यर्थः ॥१०॥
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्
।
समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्॥११॥
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते
।
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः॥१२॥
अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत्
।
समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः॥१३॥
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते
।
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया॥१४॥
भूदोषाः निम्नोन्नतकण्टकित्वादयस्तद्रहिते ॥१४॥
समेत्य तं द्विजास्ताश्च तत्रैव निधं गताः
।
एतन्नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः॥१५॥
समन्ते ह्रदानां पञ्चकं समन्तपञ्चकम् । तत्परिसरवर्ती देशोऽपि तन्नामेत्युक्तम् । तत्र समन्तशब्दस्यावयवार्थं दर्शयति । समेत्येति । समेतानाम् अन्तो नाशो यस्मिन्निति समन्त इत्यर्थः । अभिनिर्वृत्तं निर्व्यूढम् ॥१५॥
पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः
।
तदेतत्कथितं सर्वं मया ब्राह्मणसत्तमाः॥ यथा देशः स विख्यातस्त्रिषु लोकेषु सुव्रताः॥१६॥
ऋषय ऊचुः।
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन
।
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्॥१७॥
अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम्
।
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव॥१८॥
सौतिरुवाच।
एको रथो गजश्चैको नराः पञ्च पदातयः
।
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते॥१९॥
पदातय इति रथादिगतानां नराणां व्युदासः ॥१९॥
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः
।
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते॥२०॥
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः
।
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः॥२१॥
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी
।
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः॥२२॥
अक्षौहिण्याः प्रसंख्याता रथानां द्विजसत्तमाः
।
संख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः॥२३॥
शतान्युपरिचैवाष्टौ तथा भूयश्च सप्ततिः
।
गजानां च परीमाणमेतदेव विनिर्दिशेत्॥२४॥
ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु
।
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः॥२५॥
पञ्च षष्टिसहस्राणि तथाश्वानां शतानि च
।
दशोत्तराणि षट् प्राहुर्यथावदिह संख्यया॥२६॥
एतामक्षौहिणीं प्राहुः संख्यातत्त्वदितो जनाः
।
यां वः कथितवानस्मि विस्तरेण तपोधनाः॥२७॥
अक्षौहिण्याः परीमाणं खाद्रिधृत्यक्षिभिर्गजैः २१८७० रथैरेतै २१८७० र्हयैस्त्रिः ६५६१० पञ्चघ्नैः १०९३५० श्चपद्रातिभिरिति संग्रहः ॥२७॥
एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः
।
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु॥२८॥
पिण्डिताः एकीभूताः । सन्धिरार्षः ॥२८॥
समेतास्तत्र वै देशे तत्रैव निधं गताः
।
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा॥२९॥
अहानि युयुधे भीष्मो दशैव परमास्त्रवित्
।
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्॥३०॥
अहनी युयुधे द्वे तु कर्णः परबलार्दनः
।
शल्योऽर्धदिवसं चैव गदायुद्धमतः परम्॥३१॥
तस्यैव दिवसस्यान्तं द्रौणिहार्दिक्यगौतमाः
।
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम्॥३२॥
द्रौणिरश्वत्थामा हार्दिक्यः कृतवर्मा । गौतमः कृपाचार्यः ॥३२॥
यत्तु शौनक सत्रे ते भारताख्यानमुत्तमम्
।
जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता॥३३॥
पर्वसङ्ग्रहं वक्तुं प्रस्तौति । यत्तु शौनकेत्यादिना । हे शौनक ! हे वृद्धतम । श्वयतेर्वृध्यर्थात् । निष्ठायां शूना वृद्धाः तेषु वृद्धतरत्वेन विदितः शौनकः । वुञ्छणादिसूत्रेणारिहणादिर्वुञ् । ते तव सत्रे यत् भारताख्यानं मत्तः प्रवृत्तं तत् जनमेजयस्य सत्रे व्यासशिष्येण कथितमित्युत्तरेण संबन्धः ॥३३॥
कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम्
।
पौष्यं तत्र च पौलोममास्तीकं चादितः स्मृतम्॥३४॥
ननु सर्पसत्रे जनमेजयं प्रति यद्वैशम्पायनेनोक्तं तदेव शौनकं प्रति सूतेन वक्तुं प्रतिज्ञातं तत्र पौष्यं पौलोममास्तीकं च किमित्यप्रतिज्ञातमप्युच्यते सूतेनेतिचेत्तत्राह । कथितमिति । सत्रे व्यासशिष्येण यत् कथितं तत्र भारते पौष्यं पौलोमम् आस्तीकं च महीक्षितां यशोवीर्यं च वक्तुमिति शेषः । आदितः स्मृतमितियोजना । स्मरणं तु विस्तारार्थम् । अयं भावः । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् अविद्यया मृत्युं तीर्त्वेत्यादि श्रुतेर्गुरुसेवामाहात्म्यं गुरूणां च माहात्म्यं यज्ञादीनां विद्यार्थत्वं च निरूपणीयं तेष्वन्यतमाभावेऽपि विद्यानैवोदेतुमर्हतीति तदर्थमत्राचार्यैणाख्यायिकामुखेनैव पौष्ये गुरुशुश्रूषामाहात्म्यं पौलोमे भार्गवाणां गुरूणां महाभाग्यमुक्तम् । आस्तीके जरत्कारोरप्रतिपन्नगार्हस्थस्याकृतार्थत्वदर्शनेन यज्ञादीनामाविद्यकानामपि विद्याङ्गत्वमुक्तम् । विविदिषन्ति यज्ञेनेत्यादिश्रुतेः । तस्मान्महोपनिषदारम्भे एतत्त्रयकथनमावश्यकमिति आख्यायिकामुखेन कथ्यमानगहनोप्यर्थः । सुग्रहो भवतीत्यभिप्रेत्य महीभृतां यशोवीर्यं चोक्तमिति ॥३४॥
विचित्रार्थपदाख्यानमनेकसमयान्वितम्
।
प्रतिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः॥३५॥
मोक्षिभिर्मोक्षार्थिभिर्नरैः । प्रतिपन्नं शरणीकृतं वैराग्यमिव । यथा परवैराग्यस्य नान्तरीयकं फलं कैवल्यमेवमेतच्छ्रवणस्यापीति भावः ॥३५॥
आत्मेव वेदितव्येषु प्रियेष्विव हि जीवितम्
।
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्॥३६॥
आत्मेति । आत्मज्ञानमेव स्वतः पुरुषार्थ इत्यात्मैव मुख्यं वेदितव्यम् । तत्प्रमाणस्य तत्त्वावेदकत्वात् । अन्यत् ज्ञानं तु सर्वं पुरुषसंस्कारद्वारा कर्माङ्गम् । यथोक्तं भट्टपादैः । 'सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते । पराङ्गं चात्मविज्ञानादन्यत्रेत्यवधार्यताम्' इति ॥ प्रधानार्थः ब्रह्मावाप्तिप्रयोजनः ॥३६॥
अनाश्रित्येदमाख्यानं कथा भुवि न विद्यते
।
आहारमनपाश्रित्य शरीरस्येव धारणम्॥३७॥
तदेतद्भारतं नाम कविभिस्तूपजीव्यते
।
उदयतेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥३८॥
कविभिः काव्यकर्तृभिः ‘ब्यासोच्छिष्टं जगत्सर्वम्' इति प्रसिद्धेस्तेषामद्भुतकाब्यरचने इदमेवालम्बनमित्यर्थः । अभिजातः कुलीनः ॥३८॥
इतिहासोत्तमे यस्मिन्नर्पिता बुद्धिरुत्तमा
।
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्॥३९॥
उत्तमा चरमा बुद्धिर्ब्रह्मविद्याख्यान्तःकरणवृत्तिः ॥३९॥
तस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः
।
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च॥४०॥
प्रज्ञयाभिपन्नं प्राप्तं तस्य ॥४०॥
भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः
।
पर्वानुक्रमणी पूर्वं द्वितीयः पर्वसंग्रहः॥४१॥
पर्वणाम् उपक्रमोपसंहारैकरूप्यादिना एकमर्थं पूरयन्ति कार्त्स्न्येन प्रतिपादयन्ति । तानि पर्वाणि प्रकरणानि तेषां सङ्ग्रहः सम्यक् विविच्य ग्रहो यस्मिन् स पर्वसङ्ग्रहो द्वितीयं पर्व ॥४१॥
पौष्यं पौलोममास्तीकमादिरंशावतारणम्
।
ततः संभवपर्वोक्तमद्भुतं रोमहर्षणम्॥४२॥
अत्र केवलस्य सोपाख्यानस्य च भारतस्य स्मरणे आद्ययोः पर्वणोस्तात्पर्यं पौष्यादि त्रयस्य तूक्तमेवेति पर्व पञ्चकतात्पर्यमुक्तम् । तत्रास्तीके कर्मप्राधान्यमुक्तं तत्कर्मिणो देवभावं प्राप्यापीह जन्म लभन्ते । इत्यादावंशावतरणमुक्तं षष्ठे । अंशावतारणं देवानां भूमौ भागशोवतरणम् आदिः प्रथमं पर्वेत्यर्थः । तेन पूर्वोक्ता सूतप्रतिज्ञा सङ्गच्छते संभवे । अत्र लब्धजन्मनामपि न तेषां नियमेन स्वर्गतिः । किंतु सर्पनागादितामसयोनिप्राप्तिरपि कर्मवशाद्भवतीत्युक्तं सप्तमे । तत्राप्यर्थार्थिनो बन्धूनप्यन्यायेन घ्नन्तीति जातुषे दर्शितमष्टमे । तथा कामुकाः स्त्रियो बन्धूनपि घातयन्तीत्यविश्वसनीयास्ता इति हैडिम्बे नवमे दर्शितम् । श्वशूकरभक्ष्यस्यापि शरीरस्यार्थे परप्राणानपि पामराः प्रत्यहमाददते इति बकवधे दशमे सूचितम् । ततः कष्टतरां गतिं तमः प्रधानाः प्राणिनः प्राप्नुवन्तीति प्रबन्धेन परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेनेति श्रुत्यर्थ उपबृंहितः । एवमग्रेऽपि तत्तदाख्यानतात्पर्योन्नयनेन राजसानां सात्विकानां च गतिः परीक्षणीया । अग्रे प्रतिप्रकरणं वक्ष्यमाणत्वादिह ग्रन्थविस्तरभयान्न प्रपञ्च्यते ॥४२॥
दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते
।
ततो बकवधः पर्व पर्व चैत्ररथं ततः॥४३॥
चैत्ररथम् अङ्गारपर्णचरितं पर्व ॥४३॥
ततः स्वयंवरो देव्याः पाञ्चाल्याः पर्व चोच्यते
।
क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्॥४४॥
विदुरागमनं पर्व राज्यलाभस्तथैव च
।
अर्जुनस्य वने वासः सुभद्राहरणं ततः॥४५॥
विदुरागमनं राज्यलम्भश्चैकं पर्व लम्भो लाभः ॥४५॥
सुभद्राहरणादूर्ध्वं ज्ञेया हरणहारिका
।
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम्॥४६॥
हरणं दायः पारिबर्हमिति यावत् । तस्य हारिकासमानयनं खाण्डवदाहो मयदर्शन चैकैकं पर्व ॥४६॥
सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम्
।
जरासन्धवधः पर्व पर्व दिग्विजयं तथा॥४७॥
सभापर्व सभारचनं पर्व । मन्त्रो राजसूयार्थं मन्त्रणम् ॥४७॥
पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते
।
ततश्चार्घाभिहरणं शिशुपालवधस्ततः॥४८॥
द्यूतपर्व ततः प्रोक्तमनुद्यूतमः परम्
।
तत आरण्यकं पर्व किर्मीरवध उच्यते॥४९॥
अनुद्यूतं पुनर्द्यूतम् ॥४९॥
अर्जुनस्याभिगमनं पर्व ज्ञेयमतः परम्
।
ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम्॥५०॥
अभिगमनं तपसे गमनम् ॥५०॥
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम्
।
नलोपाख्यानमपि च धार्मिकं करुणोदयम्॥५१॥
यक्षयुद्धं भीमेन ॥५१॥
तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः
।
जटासुरवधः पर्व यक्षयुद्धमतः परम्॥५२॥
निवातकवचैर्युद्धं पर्व चाजगरं ततः
।
मार्कण्डेयसमास्या च पर्वानन्तरमुच्यते॥५३॥
समास्या सहावस्थानम् ॥५३॥
संवादश्च ततः पर्व द्रौपदीसत्यभामयोः
।
घोषयात्रा ततः पर्व मृगस्वप्नोद्भवं ततः॥५४॥
घोषयात्रा कौरवाणां मृगस्वप्नो धर्मराजस्य ॥५४॥
व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च
।
द्रौपदीहरणं पर्व जयद्रथविमोक्षणम्॥५५॥
ऐन्द्रद्युम्नमित्यत्र क्रमो न विवक्षितः । संख्यायां तात्पर्यात् । समास्यान्तर्गतं चेदं पर्व॥५५॥
पतिव्रताया माहात्म्यं सावित्र्याश्चैवमद्भुतम्
।
रामोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्॥५६॥
कुण्डलाहरणं पर्व ततः परमिहोच्यते
।
आरणेयं ततः पर्व वैराटं तदनन्तरम्
।
पाण्डवानां प्रवेशश्च समयस्य च पालनम्॥५७॥
कुण्डलाहरणं कर्णस्य । आरणेयं अरणीहरणं ब्राह्मणस्य । धर्मेण प्रवेशो विराटनगरे । समयस्य प्रतिज्ञातस्य प्राक् प्रवेशाद्यर्थस्य ॥५७॥
कीचकानां वधः पर्व पर्व ग्रोग्रहणं ततः
।
अभिमन्योश्च वैराट्याः पर्व वैवाहिकं स्मृतम्॥५८॥
अभिमन्योः अर्जुनपुत्रस्य ॥५८॥
उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम्
।
ततः संजययानाख्यं पर्व ज्ञेयमतः परम्॥५९॥
सञ्जययानं पाण्डवान्प्रति ॥५९॥
प्रजागरं तथा पर्व धृतराष्ट्रस्य चिन्तया
।
पर्व सानत्सुजातं वै गुह्यमध्यात्मदर्शनम्॥६०॥
यानसन्धिस्ततः पर्व भगवद्यानमेव च
।
मातलीयमुपाख्यानं चरितं गालवस्य च॥६१॥
भगवद्यानं कौरवान् प्रति ॥६१॥
सावित्रं वामदेव्यं च वैन्योपाख्यानमेव च
।
जामदग्न्यमुपाख्यानं पर्व षोडशराजकम्॥६२॥
सभाप्रवेशः कृष्णस्य विदुलापुत्रशासनम्
।
उद्योगः सैन्यनिर्याणं विश्वोपाख्यानमेव च॥६३॥
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः
।
निर्याणं च ततः पर्व कुरुपाण्डवसेनयोः॥६४॥
विवादपर्व कृष्णकर्णसंवादरूपं पर्व ॥६४॥
रथातिरथसंख्या च पर्वोक्तं तदनन्तरम्
।
उलूकदूतागमनं पर्वामर्षविवर्धनम्॥६५॥
संख्या भीष्मकृता उल्लूकदूतस्य पाण्डवान् प्रति आगमनम् ॥६५॥
अम्बोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्
।
भीष्माभिषेचनं पर्व ततश्चाद्भुतमुच्यते॥६६॥
अभिषेचनं सैनापत्ये॥६६॥
जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम्
।
भूमिपर्व ततः प्रोक्तं द्वीपविस्तारकीर्तनम्॥६७॥
जम्बूखण्डविनिर्माणं जम्बूद्वीपसन्निवेशः भूमिपर्वण्येव द्वीपविस्तारकीर्तनम् ॥६७॥
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः
।
द्रोणाभिषेचनं पर्व संशप्तकवधस्ततः॥६८॥
अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते
।
जयद्रथवधः पर्व घटोत्कचवधस्ततः॥६९॥
प्रतिज्ञा जयद्रथ वधार्थम् ॥६९॥
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम्
।
मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते॥७०॥
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम्
।
ह्रदप्रवेशनं पर्व गदायुद्धमतः परम्॥७१॥
हृदप्रवेशनं दुर्योधनस्य । गदायुद्धं तस्यैव भीमेन ॥७१॥
सारस्वतं ततः पर्व तीर्थवंशानुकीर्तनम्
।
अत ऊर्ध्वं सुबीभत्सं पर्व सौप्तिकमुच्यते॥७२॥
ऐषीकं पर्व चोद्दिष्टमत ऊर्ध्वं सुदारुणम्
।
जलप्रदानिकं पर्व स्त्रीविलापस्ततः परम्॥७३॥
जलप्रदानिके एव स्त्रीविलापनम् ॥७३॥
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम्
।
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः॥७४॥
कुरूणामौर्ध्वदेहिकं श्राद्धं पर्व । चार्वाकस्य ब्रह्मरूपिणो राक्षसस्य विप्रक्षोभान्निग्रहः पर्व ॥७४॥
आभिषेचनिकं पर्व धर्मराजसर्य धीमतः
।
प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम्॥७५॥
शान्तिपर्व ततो यत्र राजधर्मानुशासनम्
।
आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम्॥७६॥
शान्तिपर्वाह द्वाभ्यां शान्तीति ॥७६॥
शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशासनम्
।
प्रादुर्भावश्च दुर्वासःसंवादश्चैव मायया॥७७॥
भामयेति पाठान्तरम् उभयत्रापि सुलभयेत्यर्थः ॥७७॥
ततः पर्व परिज्ञेयमानुशासनिकं परम्
।
स्वर्गारोहणिकं चैव ततो भीष्मस्य धीमतः॥७८॥
अनुशासनं धर्माधर्मोपदेशः तत्संबद्धमानुशासनिकम् ॥७८॥
ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम्
।
अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम्॥७९॥
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च
।
नारदागमनं पर्व ततः परमिहोच्यते॥८०॥
मौसलं पर्व चोद्दिष्टं ततो घोरं सुदारुणम्
।
महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः॥८१॥
हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम्
।
विष्णुपर्व शिशोश्चर्या विष्णोः कंसवधस्तथा॥८२॥
हरिवंशः पुराणं प्राक्प्रवृत्तं पर्व खिलसंज्ञितम् । शाखान्तरस्थं शाखान्तरे यदपेक्षावशात्पठ्यते तत्खिलमिति वैदिकी प्रसिद्धिः । यथा बहुचानां श्रीसूक्तमेधासूक्तादीनां संहिताकाले पाठो दृश्यते । एवमस्मिन्नितिहासे यत्पुराणान्तरस्थमाकाङ्क्षावशात्पठ्यते तत्खिलं हरिवंशाख्यमित्याह । हरिवंश इति । अत एवास्य खिलस्य पुराणमिति विशेषणम् । तथा हि अत्र विष्णुचर्या विष्णुपुराणोक्ता साकल्येनं दृश्यते ॥८२॥
भविष्यं पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत्
।
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना॥८३॥
एवं भविष्यपुराणकथा च । खिलेष्वेवाद्भुतं महदिति पृथग्वाक्यम् । अद्भुतं पुष्करवाराहनारसिंहवामनप्रादुर्भावादिकैलासयात्रात्रिपुरवधान्तम् । एतदेव पर्वशतम् । एकैकस्मिन्महाप्रकरणे अवान्तरप्रकरणानामन्तर्भावविक्षयाऽष्टादशसंख्यात्वेन लोमहर्षणिना उक्तम् ॥८३॥
यथावत्सूतपुत्रेण लौमहर्षणिना ततः
।
उक्तानि नैमिशारण्ये पर्वाण्यष्टादशैव तु॥८४॥
समासो भारतस्यायमत्रोक्तः पर्वसंग्रहः
।
पौष्यं पौलोममास्तीकमादिरंशावतारणम्॥८५॥
तत्र कस्मिन्महापर्वणि कत्यवान्तरपर्वाणि तेषु च के केऽर्थाः प्रतिपाद्याः । एकैकस्मिन्महापर्वणि श्लोकसंख्या च का इत्येतद्वक्तुमुपक्रमते । समास इति । अयं बुद्धिस्थोऽनुक्रमण्यध्यायः । स च भारतस्य समासः सङ्क्षेपपर्वेत्यर्थः । अत्र प्रस्तुते द्वितीयेऽध्याये पर्वसङ्ग्रहः । एवं पौष्यादिभिश्च मयदर्शनान्तैः सप्तदशभिश्चैवमेकोनविंशत्या पर्वभिरादिपर्व । आदित्वं चास्य न प्राथम्यात्किंतु सर्वेषामादिरुत्पत्तिरिंह कीर्त्यत इति । एवं सभादीनामपि संज्ञा तत्तदेकैकार्थप्राधान्याद्बोध्या । अत्रायं सङ्ग्रहः । “आदौ सभारण्यविराटउद्यमे भीष्मे गुरौ सूर्यजशल्यसौप्तिके । स्त्रीशान्तिदानाश्वमखाश्रमस्थितौ मौसल्ययानद्युगमे खिलेषु च" पर्वाणिधृ १८ त्यंक ९ नृप १६ वार्धी ४ ट् ११ धी ५ मै ८ क १ केट् ४ त्रि ३ धीः ५ वार्द्धी ४ दु १ द्वि २ त्रि ३ भू १ भू १ भू १ ग्रामा ३ श्चेति शतं क्रमादीति ॥८५॥
संभवो जतुवेश्माख्यं हिडिम्बबकयोर्वधः
।
तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवरः॥८६॥
क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्
।
विदुरागमनं चैव राज्यलाभस्तथैव च॥८७॥
वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः
।
हरणाहरणं चैव दहनं खाण्डवस्य च॥८८॥
मयस्य दर्शनं चैव आदिपर्वणि कथ्यते
।
पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम्॥८९॥
अत्र प्राधान्यस्तत्तदाख्यानतात्पर्याणि गाणेश्यां सङ्गृहीतानि कुड्यवद्वृषवद्भूत्वाव्यन्नोयः सेवते गुरुम् । तं विद्या देवताश्चानुगृह्णन्तीत्याह प्रौष्यकृत् । "खलो न प्रार्थनासाध्यः स च दैवेन ताडितः । अभ्येति मृदुतां पश्चादुत्तङ्के तक्षको यथा ॥८९॥
पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः
।
आस्तीके सर्वनागानां गरुडस्य च संभवः॥९०॥
शास्त्रोल्लङ्घनतो वह्निपुलोमानाववापतुः । शापमृत्यू इति पुनः पौलोमे तुर्य ईरितम् । लोकान्मन्त्रान्महेन्द्राच्च ब्राह्मणे वीर्यमद्भुतम् । तक्षको येन खे तस्थावित्यास्तीकेऽनुवर्णितम् । अन्याय्यमपि मात्रोक्तं सद्यो यो नानुतिष्ठति । तं भस्मीकुर्वते विप्रावेदश्चाहिगणं यथा ॥ मिथ्यावादेन ये दासीकृतास्तत्संततिः स्वकाम् ॥ सन्ततिं नाशयत्येव गरुत्मानिव पन्नगान् आयुर्हानिर्महान् शोको हिंसायां चाति संभ्रमः ॥ रुरोरिव भवन्त्येव दारसक्तस्य दुर्मतेः । प्रजया पैतृकमृणं छेतुं दारान् करोति चेत् ॥ तदा जरत्कारुरिव कार्यान्ते प्रव्रजेद्गृहात् ॥९०॥
क्षीरोदमथं चैव जन्मोच्चैःश्रवसस्तथा
।
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च॥९१॥
तत्त्वामृतं शास्त्रसिन्धोः समं लब्धं सुरासुरैः । आस्वादितं विष्णुभक्तैः सुरैर्नान्यैः स्त्रिया जितैः ॥ देवपङ्क्तौ सुधां लेभे दैत्यो देहच्छिदा समम् । सूचितश्चित्तचक्षुर्भ्यां काश्यामिव महेश्वरात् ॥९१॥
कथेयमभिनिर्वृत्ता भारतानां महात्मनाम्
।
विविधाः संभवा राज्ञामुक्ताः संभवपर्वणि॥९२॥
अन्येषां चैव शूराणामृषेर्द्वैपायनस्य च
।
अंशावतरणं चात्र देवानां परिकीर्तितम्॥९३॥
स्त्रिया माद्यन्ति सन्तोपीत्युक्तं व्यासस्य जन्मनि । देवासुरनरेष्वेवं सन्तीत्यंशावतारणे ॥९३॥
दैत्यानां दानवानां च यक्षाणां च महौजसाम्
।
नागानामथ सर्पाणां गन्धर्वाणां पतत्त्रिणाम्॥९४॥
अत्यल्पस्यापि पापस्य विपाकमतिदारुणम् । अन्वभूतां चिरं ब्रह्मन्नणीमाण्डव्यडुण्डुभौ ॥९४॥
अन्येषां चैव भूतानां विविधानां समुद्भवः
।
महर्षेराश्रमपदे कण्वस्य च तपस्विनः॥९५॥
शकुन्तलायां दुष्यन्ताद्भरतश्चापि जज्ञिवान्
।
यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम्॥९६॥
शिष्टानां चेतसस्तुष्टिर्धर्मे प्रामाण्यमश्नुते । शकुन्तलामीहमानं दुष्यन्तस्य मनो यथा ॥९६॥
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम्
।
शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि॥९७॥
पितुर्दुःखं हरन् पुत्रः श्रेयो लक्ष्मीं च विन्दति । भीष्मवत्पूरुवन्मानात्पतन्ति च ययातिवत् ॥९७॥
तेजोंऽशानां च संपातो भीष्मस्याप्यत्र संभवः
।
राज्यान्निवर्तनं तस्य ब्रह्मचर्यव्रते स्थितिः॥९८॥
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च
।
हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः॥९९॥
विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम्
।
धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा॥१००॥
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा
।
धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः॥१०१॥
क्षेत्रवीजे विना द्रोणधृष्टद्युम्नवपुर्जनिः । केवलात्कर्मण इतिप्रोक्तं संभवपर्वणि ॥१॥
वारणावतयात्रायां मन्त्रो दुर्योधनस्य च
।
कूटस्य धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति॥१०२॥
विषवार्यग्निभिर्लुब्धा घातयन्तिस्मबान्धवान् । ईश्वरस्तानवत्येवेत्युक्तं जातुषपर्वणि ॥२॥
हितोपदेशश्च पथि धर्मराजस्य धीमतः
।
विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया॥१०३॥
विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया
।
निषाद्याः पञ्चपुत्रायाः सुप्ताया जतु वेश्मनि॥१०४॥
पुरोचनस्य चात्रैव दहनं संप्रकीर्तितम्
।
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम्॥१०५॥
तत्रैव च हिडिम्बस्य वधो भीमान्महाबलात्
।
घटोत्कचस्य चोत्पत्तिंरत्रैव परिकीर्तिता॥१०६॥
अविश्वास्याः स्त्रियः कामाद्धातयन्त्यपि बान्धवान् । इति दर्शितवान्व्यासो हिडिम्बवधपर्वणि ॥६॥
महर्षेर्दर्शनं चैव व्यासस्यामिततेजसः
।
तदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने॥१०७॥
अज्ञातचर्यया वासो यत्र तेषां प्रकीर्तितः
।
बकस्य निधनं चैव नागराणां च विस्मयः॥१०८॥
यस्मिन्गेहे पुरे वापि वसेत्पुण्यतमो जनः । उपकुर्यात्तमित्येवमुक्तं बकवधेऽपि च ॥८॥
संभवश्चैव कृष्णाया धृष्टद्युम्नस्य चैव ह
।
ब्राह्मणात्समुपश्रुत्य व्यासवाक्यप्रचोदिताः॥१०९॥
द्रौपदीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया
।
पञ्चालानभितो जग्मुर्यत्र कौतूहलान्विताः॥११०॥
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा
।
सख्यं कृत्वा ततस्तेन तस्मादेव च शुश्रुवे॥१११॥
ब्राह्मणानुग्रहादेव क्षत्रं जयति नान्यथा । इति तापसदृष्टान्तादाह चैत्ररथे मुनिः ॥११॥
तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम्
।
भ्रातृभिः सहितः सर्वैः पञ्चालानभितो ययौ॥११२॥
सूर्यस्य कन्यांतपतीं नष्टं राज्यं च लब्धवान् । वसिष्ठस्य प्रसादेन राजा संवरणो यथा । वसिष्ठस्य शतं पुत्रान्नाशयामास कौशिकः । नैनं बबाधिरे ब्रह्महत्यास्तास्तपसो बलात् ॥ प्राज्ञः खलार्दितो देहं संत्यक्षति न तु क्षमाम् । न शशाप वसिष्ठो हि पुत्रघ्नमपिकौशिकम् ॥ कौशिके क्रौर्यतपसी राधेये शौर्यभीरुते । खले च वाचि माधुर्यं बीजसंस्कारसङ्करात् ॥ ब्राह्मणो गर्भसंस्थोऽपि माननीय मनीषिणाम् । और्वो हि मातुरूरुस्थः क्षत्रमन्धमचीकरत् ॥१२॥
पाञ्चालनगरे चापि लक्ष्यं भित्त्वा धनञ्जयः
।
द्रौपदीं लब्धवानत्र मध्ये सर्वमहीक्षिताम्॥११३॥
लोकवेदविरोधेऽपि मातुर्वाक्यं न लङ्घयेत् । इत्येकस्यां रेमिऽरेमी पञ्चेत्युक्तं स्वयंवरे ॥ ननु वेदविरुद्धेयमेकस्या बहुभर्तृता । नैकस्यै बहवो नैका द्वौ पती इति च श्रुती ॥ ' नैकस्यै बहवः सह पतय इति तस्मान्नैका द्वौ पती विन्दते' इति च श्रुतिविशेषः । 'अग्नीन्पञ्चक्रमात्प्राप्य हव्यमेति मनुष्यताम् । अग्नयस्त्वग्निरर्कः क्ष्मा पुरुषो योषिदित्यपि ॥ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ द्रोणोवह्निचतुष्कोत्थो योषिदग्नेरभावतः । अग्नित्रयोत्थितासीता भूत्थापित्रोरभावतः ॥ अग्निद्वयोत्थिता देवा न स्पृशन्ति क्षितिं हिते । देवजाः पार्थ माद्रेया भूपुमग्निविवर्जिताः । क्षिप्तमात्रं हविर्वह्नौ मिथुनत्वमुपागतम् । एकाग्निजावतः पुत्रौ द्रुपदस्य सुराधिकौ ॥ सर्वे सर्वात्मका देवा विरजोवयवा यतः । सर्वे एव समाः सर्वेऽनन्ता इति हि वेदगीः ॥ न तेषां व्यभिचारोस्ति न चेत्सूर्ययमौ कथम् । पितापुत्रौ सतीं कुन्तीमुपेयातां सुरोत्तमौ ॥ द्रौपदीं देवजां पार्था देवजा यदि भुञ्जते । न तेषामत्र दोषोऽस्ति देवा एव हि ते स्वयम् ॥ श्रूयते न हि वै देवान् पापं गच्छति सर्वथा । तस्माद्यज्ञैर्देवभावं प्रार्थयीत निरेनसम् ॥ एतद्वैवाहिके व्यासो नानाख्यानोपबृंहणैः । दर्शयामास लोकानां संशयस्यापनुत्तये ॥१३॥
भीमसेनार्जुनौ यत्र संरब्धान्पृथिवीपतीन्
।
शल्यकर्णौ च तरसा जितवन्तौ महामृधे॥११४॥
दृष्ट्वा तयोश्च तद्वीर्यमप्रमेयममानुषम्
।
शङ्कमानौ पाण्डवांस्तान् रामकृष्णौ महामती॥११५॥
जग्मतुस्तैः समागन्तुं शालां भार्गववेश्मनि
।
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च॥११६॥
पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते
।
द्रौपद्या देवविहीतो विवाहश्चाप्यमानुषः॥११७॥
क्षत्तुश्च धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति
।
विदुरस्य च संप्राप्तिर्दर्शनं केशवस्य च॥११८॥
प्रणमन्ति जिघांसन्तोप्यनुकूले विधातरि । पाण्डुपुत्रान्धार्तराष्ट्रा इत्युक्तं विदुरागमे ॥ यान् खला दग्धुमिच्छन्ति तान्वर्द्धयति केशवः । निरस्ताः पाण्डवा दारान् राज्यं कीर्तिं च लेभिरे ॥११८॥
खाण्डवप्रस्थवासश्च तथा राज्यार्धसर्जनम्
।
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया॥११९॥
सुन्दोपसुन्दयोस्तद्वदाख्यानं परिकीर्तितम्
।
अनन्तरं च द्रौपद्या सहासीनं युधिष्ठिरम्॥१२०॥
एकात्मानोऽपि भिद्यन्ते स्त्रीभिः सुन्दोपसुन्दवत् । तस्मात्सख्युरपि स्त्रीभिर्न संभाषेत बुद्धिमान् । विप्रार्थान्पालयेज्ज्ञात्वाप्यापदं द्वादशाब्दिकीम् । इति दर्शितवान् व्यास आर्जुन्या तीर्थयात्रया॥१२०॥
अनु प्रविश्य विप्रार्थे फाल्गुनो गृह्य चायुधम्
।
मोक्षयित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः॥१२१॥
समयं पालयन्वीरो वनं यत्र जगाम ह
।
पार्थस्य वनवासे च उलूप्या पथि सङ्गमः॥१२२॥
पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च
।
तत्रैव मोक्षयामास पञ्च सोऽप्सरसः शुभाः॥१२३॥
शापाद्ग्राहत्वमापन्ना ब्राह्मणस्य तपस्विनः
।
प्रभासतीर्थे पार्थेन कृष्णस्य च समागमः॥१२४॥
द्वारकायां सुभद्रा च कामयानेन भामिनी
।
वासुदेवस्यानुमते प्राप्ता चैव किरीटिना॥१२५॥
न ज्ञातीनां वचः प्रेक्ष्यं वरे श्रेयस्युपागते । इतीव कृष्णो विजयं स्वस्वसारमहारयत् । मातुलस्य सुतां पार्थो धर्मतो भगिनीं सतीम् । कथं जहार धर्मात्मापीति चेत्तच्छृणुष्व मे । भ्रातृस्वस्रोः सुतौ भ्रातृस्वसारौ यदि शौनक । सप्तमादूर्ध्वमप्येष संबन्धश्छिद्यतां कथम् । तस्मात्तयोः स्वसृभ्रातृभावो भाक्तो विगोत्रयोः । दाम्पत्यभावस्तु तयोर्मन्त्रलिङ्गात्परिस्फुटः । आयाहीन्द्रपथिभिरीळितेभिर्यज्ञमिमं नो भागधेयं जुषस्व । तृप्तां जहुर्मातुलस्येव योषा भागस्ते पैतृष्वसेयी वपामिव । योषापत्यं मातुलीयं यथा भागः पितृष्वसुः । पुत्रस्यैवं वपान्तेंऽशं जुषस्वेन्द्रेत्यृषिर्जगौ ॥२५॥
गृहीत्वा हरणं प्राप्ते कृष्णे देवकिनन्दने
।
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः॥१२६॥
मानघ्नस्यापि जामातुर्मानं सम्वर्द्धयेद्बुधः । स्वसुर्हर्त्रेर्जुनायापि ददुर्वित्तानि वृष्णयः ॥२६॥
द्रौपद्यास्तनयानां च संभवोऽनुप्रकीर्तितः
।
विहारार्थं च गतयोः कृष्णयोर्यमुनामनु॥१२७॥
संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम्
।
मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम्॥१२८॥
अग्निमप्यग्निमांद्यार्तं नरनारा यणावृषी । खाण्डवौषधिदानेन नीरोगं चक्रतुर्यथा । देवोऽपि दैह्यदुःखार्तो मानुषादेस्तु का कथा । शरणीकरणीयोऽतः सर्वदुःखापहो हरिः'। भुजङ्गस्य अश्वसेनस्य ॥२८॥
महर्षेर्मन्दपालस्य शार्ङ्ग्यां तनयसंभवः
।
इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम्॥१२९॥
पित्र्यादृणादमुक्तस्य सकलं सुकृतं वृथा । वियोनावप्यतः पुत्रान् जनयेन्मन्दपालवत् । शार्ङ्गकान्स्वतपोरक्षन्नागं मातार्जुनोमयम् । भवाग्निं ततुकामेतिस्त्रोनतान् शरणं व्रजेत् ॥२९॥
अध्यायानां शते द्वे तु संख्याते परमर्षिणा
।
सप्तविंशतिरध्याया व्यासेनोत्तमतेजसा॥१३०॥
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च
।
श्लोकाश्च चतुराशीतिर्मुनिनोक्ता महात्मना॥१३१॥
चतुराशीतीतिदैर्घ्यमार्षम् । इत्यादिपर्वतात्पर्यं सङ्क्षेपेणोपवर्णितम् ॥३१॥
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते
।
सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम्॥१३२॥
सभापर्वादितात्पर्यं मुख्यतः कथ्यतेऽधुना । दानवेन्द्रेण तुष्टेन सभा दत्ताद्भुता भुवि । दिवि देवी सभा यज्ञप्राप्या तस्याः शताधिका ॥३२॥
लोकपालसभाख्यानं नारदाद्देवदर्शिनः
।
राजसूयस्य चारम्भो जरासन्धवधस्तथा॥१३३॥
ततः शतगुणा ब्राह्मी लभ्या विष्णोः समर्चनात् । इत्युक्त्या नारदः पार्थं यज्ञेशार्चामचीकरत् । बहूनां यो वधेयतस्तं छलेनापि निर्दहेत् । जरासन्धवधेनैतद्दर्शितं मुनिना मुने ॥३३॥
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम्
।
तथा दिग्विजयोऽत्रैव पाण्डवानां प्रकीर्तितः॥१३४॥
वित्तार्जनं मखायैव महतामिति दर्शयन् । ऊचे दिग्विजयादूर्ध्वं राजसूयक्रतुक्रियाम् ॥३४॥
राज्ञामागमनं चैव सार्हणानां महक्रतौ
।
राजसूयेऽर्ध संवादे शिशुपालवधस्तथा॥१३५॥
तत्रैवार्घाभिहरणे विष्णुर्देवनरर्षिषु । आदौ पूज्योऽथ तद्द्वेष्टा सद्यो नश्येदितीरितम् । गोप्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादयो नृपाः । तीव्रध्यानाद्धरेः साम्यं लेभिरे कीटभृङ्गवत् ॥३५॥
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च
।
दुर्योधनस्यावहासो भीमेन च सभातले॥१३६॥
न तथा शूलयक्ष्माद्याः पीडयन्ति गदा नरान् । यथा परेषामुत्कर्षः पापिनं धार्तराष्ट्रवत् ॥३६॥
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत्
।
यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत्॥१३७॥
कितवो द्यूतकारः ॥३७॥
यत्र द्यूतार्णवे मग्नां द्रौपदीं नौरिवार्णवात्
।
धृतराष्ट्रो महाप्राज्ञः स्नुषां परमदुःखिताम्॥१३८॥
द्रौपदीं तारयामासेत्युत्तरेणान्वयः । 'न बाह्योनान्तरः शत्रुर्बाधते भगवज्जनम् । क्रोधदुःशासनौ कृष्णामापद्यपि न तेरतुः ॥३८॥
तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः
।
पुनरेव ततो द्यूते समाह्वयत पाण्डवान्॥१३९॥
ज्ञात्वापि परमाहात्म्यं न खलः खलतां त्यजेत् । दृष्ट्वापि कृष्णमाहात्म्यं नैवाशाम्यत्सुयोधनः' । द्यूते द्यूतनिमित्तम् ॥१३९॥
जित्वा स वनवासाय प्रेषयामास तांस्ततः
।
एतत्सर्वं सभापर्व समाख्यातं महात्मना॥१४०॥
सत्यं सतां महान्पाशो येन बद्धाः पदात्पदम् । वञ्चिता अपि नो चेलुः समर्था अपि पाण्डवाः ॥४०॥
अध्यायाः सप्ततिर्ज्ञेयास्तथा चाष्टौ प्रसंख्यया
।
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च॥१४१॥
श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्द्विजोत्तमाः
।
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत्॥१४२॥
वनवासं प्रयातेषु पाण्डवेषु महात्मसु
।
पौरानुगमनं चैव धर्मपुत्रस्य धीमतः॥१४३॥
पौरानुगमनं पौरकर्तृकमनुगमनम् ॥४३॥
अन्नौषधीनां च कृते पाण्डवेन महात्मना
।
द्विजानां भरणार्थं च कृतमाराधनं रवेः॥१४४॥
विप्रार्थं भास्करं भेजे न तु राज्याय धर्मराट्। धर्मायाभ्यर्चयेद्देवं न राज्यायेति दर्शयन् । प्रव्राजितः पथि रिपुं यद्धन्यान्मङ्गलाय तत् । पाण्डवानां प्रवसतां किर्मीरोन्मथनं यथा ॥४४॥
धौम्योपदेशात्तिग्मांशुप्रसादादन्नसंभः
।
हितं च ब्रुवतः क्षत्तुः परित्यागोऽम्बिकासुतात्॥१४५॥
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । भ्रातरं पथ्यवक्तारं धृतराष्ट्रो व्यवासयत् ॥१४५॥
त्यक्तस्य पाण्डुपुत्राणां समीपगमनं तथा
।
पुनरागमनं चैव धृतराष्ट्रस्य शासनात्॥१४६॥
कर्णप्रोत्साहनाच्चैव धार्तराष्ट्रस्य दुर्मतेः
।
वनस्थान्पाण्डवान्हन्तुं मन्त्रो दुर्योधनस्यच॥१४७॥
तं दुष्टभावं विज्ञाय व्यासस्यागमनं द्रुतम्
।
निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव च॥१४८॥
मैत्रेयागमनं चात्र राज्ञश्चैवानुशासनम्
।
शापोत्सर्गश्च तेनैव राज्ञो दुर्योधनस्य च॥१४९॥
शत्रुस्तव ऊरू भेत्स्यतीति शापोत्सर्गः ॥४९॥
किर्मीरस्य वधश्चात्र भीमसेनेन संयुगे
।
वृष्णीनामागमश्चात्र पञ्चालानां च सर्वशः॥१५०॥
अत्र धृतराष्ट्रसमीपे कथित इति शेषः ॥५०॥
श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश्च तान्
।
क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना॥१५१॥
निकृत्या छलेन ॥५१॥
परिदेवनं च पाञ्चाल्या वासुदेवस्य सन्निधौ
।
आश्वासनं च कृष्णेन दुःखार्तायाः प्रकीर्तितम्॥१५२॥
परिदेवनं विलापः ॥५२॥
तथा सौभवधाख्यानमत्रैवोक्तं महर्षिणा
।
सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम्॥१५३॥
महर्षिणा कृष्णेन ॥५३॥
नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव ह
।
प्रवेशः पाण्डवेयानां रम्ये द्वैतवने ततः॥१५४॥
धर्मराजस्य चात्रैव संवादः कृष्णया सह
।
संवादश्च तथा राज्ञा भीमस्यापि प्रकीर्तितः॥१५५॥
समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा
।
प्रतिश्रुत्याथ विद्याया दानं राज्ञो महर्षिणा॥१५६॥
गमनं काम्यके चापि व्यासे प्रतिगते ततः
।
अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः॥१५७॥
महादेवेन युद्धं च किरातवपुषा सह
।
दर्शनं लोकपालानामस्त्रप्राप्तिस्तथैव च॥१५८॥
देवतासु प्रसन्नासु देवशत्रून्विनाशयेत् । इतीव देवैर्दत्तास्त्री निर्जघानार्जुनोऽसुरान् । अकामे कामिनीशापो देहगुप्त्यै क्वचिद्भवेत् । पार्थस्येवोर्वशीशापः प्रच्छन्नं वा समीप्सतः ॥५८॥
महेन्द्रलोकगमनमस्त्रार्थे च किरीटिनः
।
यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी॥१५९॥
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः
।
युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम्॥१६०॥
व्यसनं द्यूतजमनर्थम् ॥६०॥
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम्
।
दमयन्त्याः स्थितिर्यत्र नलस्य चरितं तथा॥१६१॥
स्थितिर्विपद्यपि मर्यादाप्रतिपालनम् । दुःखे दुःखाधिकान्पश्येत्तेन शोकोपनीयते । इतीव श्रावितो राजा नलोपाख्यानमश्रुतम् ॥६१॥
तथाऽक्षहृदयप्राप्तिस्तस्मादेव महर्षितः
।
लोमशस्यागमस्तत्र स्वर्गात्पाण्डुसुतान्प्रति॥१६२॥
वनवासगतानां च पाण्डवानां महात्मनाम्
।
स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै॥१६३॥
स्वर्गे प्रवृत्तिः स्वर्गीयवृत्तान्तः ॥६३॥
संदेशादर्जुनस्यात्र तीर्थाभिगमनक्रिया
।
तीर्थानां च फलप्राप्तिःपुण्यत्वं चापि कीर्तितम्॥१६४॥
पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा
।
तीर्थयात्रा च तत्रैव पाण्डवानां महात्मनाम्॥१६५॥
कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात्
।
तथा यज्ञविभूतिश्च गयस्यात्र प्रकीर्तिता॥१६६॥
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम्
।
लोपामुद्राभिपमनमपत्यार्थमृषेस्तथा॥१६७॥
ऋषेरगस्त्यस्य ॥६७॥
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः
।
जामदग्न्यस्य रामस्य चरितं भूरितेजसः॥१६८॥
क्रोधीपुत्रान्कलत्रं च हन्ति लोकाश्च भूरिशः । जमदग्निः सपुत्रोऽत्र निदर्शनमुदीरितम् ॥६८॥
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते
।
प्रभासतीर्थे पाण्डूनां वृष्णिभिश्च समागमः॥१६९॥
सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः
।
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ॥१७०॥
देवत्वं देवतानां हि ब्राह्मण्याच्च्यवनो यतः । शर्यातियज्ञे नासत्यौ कृतवान्सोमपायिनौ । सोमस्य पीतं पानं तद्वन्तौ सोमपीतिनौ ॥१७०॥
ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः
।
मान्धातुश्चाप्युपाख्यानं राज्ञोऽत्रैव प्रकीर्तितं॥१७१॥
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः
।
पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः॥१७२॥
पुत्रेण पशुभूतेन याजको नरकं याति न याज्यः पापमाचरन् जन्तुं हत्वा सोमकाय शतं पुत्रान्ददद्यथा ॥७२॥
ततः श्येनकपोतीयमुपाख्यानमनुत्तमम्
।
इन्द्राग्नी यत्र धर्मश्चाप्यजिज्ञासच्छिबिं नृपम्॥१७३॥
अजिज्ञासत् परीक्षितवान् उत्कृत्यापि स्वमांसानि दत्वा वाप्यखिलं वपुः । शिबिः कपोतमिव च त्रायेत शरणागतम् ॥७३॥
अष्टावक्रीयमत्रैव विवादो यत्र बन्दिना
।
अष्टावक्रस्य विप्रर्षेर्जनकस्याध्वरेऽभवत्॥१७४॥
नैयायिकानां मुख्येन वरुणस्यात्मजेन च
।
पराजितो यत्र बन्दी विवादेन महात्मना॥१७५॥
नैयायिकानां मुख्येन युक्तिरेव बलीयसी । न तु श्रुतिरिति मन्यमानेन ॥७५॥
विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः
।
यवक्रीतस्य चाख्यानं रैभ्यस्य च महात्मनः
।
गन्धमादनयात्रा च वासो नारायणाश्रमे॥१७६॥
सागरं प्राप्तं सागरं गतं पितरं कहोडम् । ऋषिः अष्टावक्रः । न वेद्यं युक्तितो लभ्यं न च वेद्यो गुरुं विना । अष्टावक्रयवक्रीतकथाभ्यामेतदीरितम् ॥७६॥
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने
।
व्रजन्पथि महाबाहुर्दृष्टवान्पवनात्मजम्॥१७७॥
निगुर्णः परमात्मायं देहं व्याप्यावतिष्ठते । इत्युक्त्वाह कपीन्द्राय नावमन्ये न लङ्घये ॥७७॥
कदलीषण्डमध्यस्थं हनूमन्तं महाबलम्
।
यत्र सौगन्धिकार्थेऽसौ नलिनीं तामधर्षयत्॥१७८॥
सौगन्धिकार्थे कल्हारार्थे 'सौगन्धिकं तु कल्हारे पद्मरागेपिकत्तृणे' इति मेदिनी । नलिनीं पुष्करिणीम् । अधर्षयत् आकुलीकृतवान् ॥७८॥
यत्रास्य युद्धमभवत्सुमहद्राक्षसैः सह
।
यक्षैश्चैव महावीर्यैर्मणिमत्प्रमुखैस्तथा॥१७९॥
जटासुरस्य च वधो राक्षसस्य वृकोदरात्
।
वृषपर्वणो राजर्षेस्ततोऽभिगमनं स्मृतम्॥१८०॥
तीर्थयात्राखलवधौ समानाविति दर्शयन् । पपाठतीर्थयात्रान्ते जटासुरवधादिकम् ॥१८०॥
आर्ष्टिषेणाश्रमे चैषां गमनं वास एव च
।
प्रोत्साहनं च पाञ्चाल्या भीमस्यात्र महात्मनः॥१८१॥
कैलासारोहणं प्रोक्तं यत्र यक्षैर्बलोत्कटैः
।
युद्धमासीन्महाघोरं मणिमत्प्रमुखैः सह॥१८२॥
समागमश्च पाण्डूनां यत्र वैश्रवणेन च
।
समागमश्चार्जुनस्य तत्रैव भ्रातृभिः सह॥१८३॥
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थं सव्यसाचिना
।
निवातकवचैर्युद्धं हिरण्यपुरवासिभिः॥१८४॥
निवातकवचैर्घोरैर्दानवैः सुरशत्रुभिः
।
पौलोमैः कालकेयैश्च यत्र युद्धं किरीटिनः॥१८५॥
वधश्चैषां समाख्यातो राज्ञस्तेनैव धीमता
।
अस्त्रसंदर्शनारम्भो धर्मराजस्य सन्निधौ॥१८६॥
राज्ञोग्र इति शेषः । तेनैव अर्जुनेनैव एषां दानवानां वध आख्यातः ॥८६॥
पार्थस्य प्रतिषेधश्छ नारदेन सुरर्षिणा
।
अवरोहणं पुनश्चैव पाण्डूनां गन्धमादनात्॥१८७॥
भीमस्य ग्रहणं चात्र पर्वताभोगवर्ष्मणा
।
भुजगेन्द्रेण बलिना तस्मिन्सुगहने वने॥१८८॥
शारीराद्वलतो ब्रह्मन्बलं वैद्यं महत्तमं । भीमं ह्यजगरग्रस्तं धर्मराजो ह्यमोचयत् । पर्वतवत् आभोगः परिपूर्णत्वं यस्य तादृशं वर्ष्म शरीरं यस्य तेन । पर्वततुल्येनेर्त्यथेः ॥८८॥
अमोक्षयद्यत्र चैनं प्रश्नानुक्त्वा युधिष्ठिरः
।
काम्यकागमनं चैव पुनस्तेषां महात्मनाम्॥१८९॥
तत्रस्थांश्च पुनर्द्रष्टुं पाण्डवान्परुषर्षभान्
।
वासुदेवस्यागमनमत्रैव परिकीर्तितम्॥१९०॥
मार्कण्डेयसमास्यायामुपाख्यानानि सर्वशः
।
पृथोर्वैन्यस्य यत्रोक्तमाख्यानं परमर्षिणा॥१९१॥
समास्यायां सहोपवेशने ॥९१॥
संवादश्च सरस्वत्यास्तार्क्ष्यर्षेः सुमहात्मनः
।
मत्स्योपाख्यानमत्रैव प्रोच्यते तदनन्तरम्॥१९२॥
मार्कण्डेयसमास्या च पुराणं परिकीर्त्यते
।
ऐन्द्रद्युम्नामुपाख्यानं धौन्धुमारं तथैव च॥१९३॥
यावत्कीर्तिरकीर्तिर्वा तावत्स्वर्नरकेऽथवा । पुमानस्तीति जानीयादिन्द्रद्युम्ननिदर्शनात् ॥९३॥
पतिव्रतायाश्चाख्यानं तथैवाङ्गिरसं स्मृतम्
।
द्रौपद्याः कीर्तितश्चात्र संवादः सत्यभामया॥१९४॥
पित्रोः शुश्रूषया व्याधः सिद्धः पत्युः पतिव्रता । सिध्यन्ति ब्राह्मणा वह्नेर्योगिनस्त्वात्मसेवया । पतिव्रतानां धर्माश्च द्रौपदीसत्यभामयोः । संवादादधिगन्तव्याः सेव्यास्तासां सुखावहाः ॥१९४॥
पुनर्द्वैतवनं चैव पाण्डवाः समुपागताः
।
घोषयात्रा च गन्धर्वैर्यत्र बद्धः सुयोधनः॥१९५॥
ह्रियमाणस्तु मन्दात्मा मोक्षितोऽसौ किरीटिना
।
धर्मराजस्य चात्रैव मृगस्वप्ननिदर्शनात्॥१९६॥
साधूनभिबुभूषुर्हि स्वयमेवाभिभूयते । इति संदर्शयन्नाह घोषयात्रां महामुनिः । न देवब्राह्मणार्थेऽपि हिंसाबह्वी प्रशस्यते । इति संदर्शयन्नाह मृगस्वप्ननिदर्शनम् ॥९६॥
काम्यके काननश्रेष्ठे पुनर्गमनमुच्यते
।
व्रीहिद्रौणिकमाख्यानमत्रैव बहुविस्तरम्॥१९७॥
व्रीहिद्रौणिकदृष्टान्ताद्वृत्तिशुद्धोऽतिथिप्रियः । अत्यल्पेनापि दानेन सिद्ध्यतीत्येतदीरितम् ॥९७॥
दुर्वाससोऽप्युपाख्यानमत्रैव परिकीर्तितम्
।
जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात्॥१९८॥
दौर्वाससे तु सार्वात्म्यं कारुण्यं चेरितं हरेः । तत्तृप्त्याहि जगत्तृप्तमत्यल्पेनापि तृप्यतः ॥९८॥
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे
।
चक्रे चैनं पञ्चशिखं यत्र भीमो महाबलः॥१९९॥
भीमो भयङ्करः भीमः पाण्डवः । पञ्चसटमिति पाठेऽपि स एवार्थः । परस्त्रीस्पर्शमात्रेण जयद्रथदशास्ययोः । आद्यः पञ्चसटो जातः सकुटुम्बो हतः परः ॥९९॥
रामायणमुपाख्यानमत्रैव बहुविस्तरम्
।
यत्र रामेण विक्रम्य निहतो रावणो युधि॥२००॥
कार्यार्थी मित्रमान्विच्छन्नृशंसः स्यान्महानपि । जघान वालिनं रामो निर्दोषमपि साहसात् ॥२००॥
सावित्र्याश्चाप्युपाख्यानमत्रैव परिकीर्तितम्
।
कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरंदरात्॥२०१॥
पतिव्रताया माहात्म्यं कुलद्वयसुखावहम् । भर्तृमृत्युहरं चैव सावित्रीह निदर्शनम् । परिमोक्षो वियोगः ॥१॥
यत्रास्य शक्तिं तुष्टोऽसावदादेकवधाय च
।
आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम्॥२०२॥
कर्णो दाता पात्रमिन्द्रो देयं स्वात्मसमं धनम् । शक्त्या विनिमयात्तज्जो धर्मो नाभ्यभवद्रिपुम् । आरणेयम् अरणीहरणम् । धर्मेण मृगरूपिणा । सर्वत्र चोदितार्थानामुपसंहारवर्णनम् । आरणेये धर्मपार्थसंवादव्याजतः कृतम् ॥२॥
जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम्
।
एतदारण्यकं पर्व तृतीयं परिकीर्तितम्॥२०३॥
आदिरेकोनविंशत्या पर्वभिर्नवभिः सभा । आरण्यकं षोडशभिर्धर्ममेव न्यरूपयत् ॥३॥
अत्राध्यायशते द्वे तु संख्यया परिकीर्तिते
।
एकोनसप्ततिश्चैव तथाऽध्यायाः प्रकीर्तिताः॥२०४॥
एकादश सहस्राणि श्लोकानां षट् शतानि च
।
चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः॥२०५॥
अतः परं निबोधेदं वैराटं पर्व विस्तरम्
।
विराटनगरे गत्वा श्मशाने विपुलां शमीम्॥२०६॥
धर्म उक्तस्त्रिभिः सेवा नीतियुद्धादि हेतुकम् । शोकभोगफलं चार्थं वक्ति पर्वभिरष्टभिः ॥६॥
दृष्ट्वा संनिदधुस्तत्र पाण्डवा ह्यायुधान्युत
।
यत्र प्रविश्य नगरं छद्मना न्यवसंस्तु ते॥२०७॥
पाञ्चालीं प्रार्थयानस्य कामोपहतचेतसः
।
दुष्टात्मनो वधो यत्र कीचकस्य वृकोदरात्॥२०८॥
विराटे प्रथमं प्रोक्तः सेवाधर्मः प्रवेशने । तत्रापि खलबाधास्तीत्युक्तं कीचकदारणे ॥८॥
पाण्डवान्वेषणार्थं च राज्ञो दुर्योधनस्य च
।
चाराः प्रस्थापिताश्चात्र निपुणाः सर्वतो दिशम्॥२०९॥
न च प्रवृत्तिस्तैर्लब्धा पाण्डवानां महात्मनाम्
।
गोग्रहश्च विराटस्य त्रिगर्तैः प्रथमं कृतः॥२१०॥
यत्रास्य युद्धं सुमहत्तैरासील्लोमहर्षणम्
।
ह्रियमाणश्च यत्रासौ भीमसेनेन मोक्षितः॥२११॥
गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः
।
अनन्तरं च कुरुभिस्तस्य गोग्रहणं कृतम्॥२१२॥
पौरुषं दर्शयित्वैव स्वामिने गोत्रनामनी । प्रकीर्तयेदिति प्रोचे मुनिर्गोग्रहपर्वणि ॥१२॥
समस्ता यत्र पार्थेन निर्जिताः कुरवो युधि
।
प्रत्याहृतं गोधनं च विक्रमेण किरीटिना॥२१३॥
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः
।
अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम्॥२१४॥
धर्मेणैवापदं तीर्त्वा परंसौभाग्यमश्नुते । अभिमन्योर्विवाहाख्ये पर्वण्येतत्प्रदर्शितम् ॥१४॥
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम्
।
अत्रापि परिसंख्याता अध्यायाः परमर्षिणा॥२१५॥
सप्तषष्टिरथो पूर्णाः श्लोकानामपि मे शृणु
।
श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु॥२१६॥
उक्तानि वेदविदुषा पर्वण्यस्मिन्महर्षिणा
।
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम्॥२१७॥
उपप्लाव्ये निविष्टेषु पाण्डवेषु जिगीषया
।
दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ॥२१८॥
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति
।
इत्युक्ते वचने कृष्णो यत्रोऽवाच महामतिः॥२१९॥
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ
।
अक्षौहिणीं वा सैन्यस्य कस्य किं वा ददाम्यहम्॥२२०॥
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः
।
अयुध्यभानं सचिवं वव्रे कृष्मं धनंजयः॥२२१॥
मन्दात्मा स्वार्थानमिज्ञः । दुर्मतिर्विक्षिप्तचित्तः । एक एव सहायोऽलमीशः किं सैन्यकोटिभिः । इति वव्रेर्जुनः कृष्णं न सैन्यं धार्तराष्ट्रवत् ॥२१॥
मद्रराजं व राजानमायान्तं पाण्डवान्प्रति
।
उपहारैर्वञ्चायत्वा वर्त्मन्येव सुयोधनः॥२२२॥
वरदं तं वरं वव्रे साहाय्यं क्रियतां मम
।
शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान्॥२२३॥
शान्तिपूर्वं चाकथयद्यत्रेन्द्रविजयं नृपः
।
पुरोहितप्रेषणं च पाण्डवैः कौरवान्प्रति॥२२४॥
वैचित्रवीर्यस्य वचः समादाय पुरोधसः
।
तथेन्द्रविजयं चापि यानं चैव पुरोधसः॥२२५॥
वैचित्रवीर्यस्य पाण्डवस्य पुरोधसः सकाशात् वचः इन्द्रविजयतात्पर्यं पुरोहितप्रेषणौचित्यं च समादाय अभ्युपेत्य सञ्जयं, प्रेषयामासेति उत्तरेण सम्बन्धः । भवेत्सहायवान् पूर्वं साम्ना शत्रुमथार्थयेत् । उद्योगसञ्जयप्रेष्य पर्वभ्यामेतदीरितम् ॥२५॥
संजयं प्रेषयामास शमार्थी पाण्डवान्प्रति
।
यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान्॥२२६॥
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान्
।
प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया॥२२७॥
विदुरो यत्र वाक्यानि विचित्राणि हितानि च
।
श्रावयामास राजानं धृतराष्ट्रं मनीषिणम्॥२२८॥
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम्
।
मनस्तापान्वितो राजा श्रावितः शोकलालसः॥२२९॥
शोके लालसा आसक्तिर्यस्य स तथाभूतस्तापहरम् अध्यात्मं श्रावितोऽपि तापं न जहाविति भावः । न निद्राति परार्थार्थी न च बुध्यति बोधितः । इति प्रजागरे सानत्सुजाते चापि वर्णितम् ॥२९॥
प्रभाते राजसमितौ संजयो यत्र वा विभो
।
ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च॥२३०॥
समितौ सभायाम् । ऐकात्म्यम् एकचित्तत्वम् । वस्तुतस्तु यत्र कुत्रचित्प्रसङ्गे वासुदेवार्जुनयोर्जीवेशयोरैकात्म्यमभेदमेव शास्ति सञ्जयः । तज्ज्ञानं विना राज्ञः शोकतरणासंभवात् । राजातु मौढ्यात् अधिलोकपरतयैव तमर्थं निगृह्णातीति नास्यशोको नश्यतीति शास्त्रहृदयम् ॥२३०॥
यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महामतिः
।
स्वयमागाच्छणं कर्तुं नगरं नागसाह्वयम्॥२३१॥
सन्धिम् अविरोधम् । नागो हस्ती । तेन समानसंज्ञं हस्तिनापुरमित्यर्थः ॥३१॥
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै
।
शमार्थे याचमानस्य पक्षयोरुभयोर्हितम्॥२३२॥
दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्तितम्
।
वरान्वेषणमत्रैव मातलेश्च महात्मनः॥२३३॥
महर्षेश्चापि चरितं कथितं गालवस्य वै
।
विदुलायाश्च पुत्रस्य प्रोक्तं चाप्यनुशासनम्॥२३४॥
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम्
।
योगेश्वरत्वं कृष्णेन यत्र राज्ञां प्रदर्शितम्॥ २३५॥
दुष्टं कृष्णनिग्रहरूपं योगेश्वरत्वं वैश्वरूप्यम् ऐश्वर्यं वैश्वरूप्यं च हरेः श्रुत्वावलोक्य च दुर्योधनो न मेनेऽस्य वाक्यं म्लेच्छः श्रुतेरिव ॥३५॥
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः
।
उपायपूर्वं शौटीर्यात्प्रत्याख्यातश्च तेन सः॥२३६॥
अनुमन्त्रितः उपजापितः उपायपूर्वं भेदपूर्वम् । शौटीर्यात् गर्वात् । अपि त्रैलोक्यराज्यस्य हेतोर्विश्वस्तमाश्रितम् । न त्यजेद्देहनाशेऽपीत्युक्तं कर्णोपजापतः॥३६॥
आगम्य हास्तिनपुरादुपप्लाव्यमरिंदमः
।
पाण्डवानां यथावृत्तं सर्वमाख्यातवान्हरिः॥२३७॥
ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद्धितम्
।
साङ्ग्रामिकं ततः सर्वं सञ्जं चक्रुः परंतपाः॥२३८॥
ततो युद्धाय निर्याता नराश्वरथदन्तिनः
।
नगराद्धास्तिनपुराद्वलसंख्यानमेव च॥२३९॥
यत्र राज्ञाद्व्युलूकस्य प्रेषणं पाण्डवान्प्रति
।
श्वो भाविनि महायुद्धे दौत्येन कृतवान्प्रभुः॥२४०॥
निन्दन्त्यसन्तोऽपि सतो बैडालव्रतिका इति । युधिष्ठिरमिवोलूक इत्यूचे बादरायणः ॥४०॥
रथातिरथसंख्यानमम्बोपाख्यानमेव च
।
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते॥२४१॥
यद्बलाज्जयमाशास्ते धार्तराष्ट्रस्तमर्कजम् । प्राहार्धरथ इत्युच्चैर्भीष्मस्तेजो वधेप्सया । न किंचित्तपसोऽसाध्यं यतो जन्मान्तरं विना । पुंस्त्वं शिखण्डिनी प्रापेत्यम्बोपाख्यानम् ईरितम् ॥४१॥
उद्योगपर्व निर्दिष्टं सन्धिविग्रहमिश्रितम्
।
अध्यायानां शतं प्रोक्तं षडशीतिर्महर्षिणा॥२४२॥
सन्धिविग्रहमिश्रितं कृष्णदौत्येन सन्धिः उलूकदौत्येन विग्रहः ताभ्यां मिश्रितम् ॥२४२॥
श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च
।
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना॥२४३॥
व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः
।
अतः परं विचित्रार्थं भीष्मपर्व प्रचक्षते॥२४४॥
जम्बूखण्डविनिर्माणं यत्रोम्बूक्तं संजयेन ह
।
यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम्॥२४५॥
यत्र युद्धमभूद्धोरं दसाहानि सुदारुणम्
।
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः॥२४६॥
भ्रश्येत्पतिं विना सेना कूर्मामलकमुष्टिवत् । इति सेनापतिं भीष्मं चक्रे कौरवनन्दनः । वैराजदर्शनादूर्ध्वं परब्रह्मान्ववेक्षणम् । इतीव जम्बूखण्डानि गीतायाः पूर्वमीरितम् | कश्मलं विषादम् ॥२४६॥
मोहजं नाशयामास हेतुभिर्मोक्षदर्शिभिः
।
समीक्ष्यादोक्षजः क्षिप्रं युधिष्ठिरहिते रतः॥२४७॥
मोहममतोत्थं समीक्ष्य भीष्मस्य दुर्जयत्वमितिशेषः ॥२४७॥
रथादाप्लुत्य वेगेन स्वयं कृष्ण उदारधीः
।
प्रतोदपाणिराधावद्भीष्मं हन्तुं व्यपेतभीः॥२४८॥
श्रुतिः स्मृतेर्बलवती भक्तौ त्वेतद्विपर्ययः । भीष्मं जिघासता पार्थसूतेनैतत्प्रदर्शितम् ॥२४८॥
वाक्यप्रतोदाभिहतो यत्र कृष्णेन पाण्डवः
।
गाण्डीवधन्वा समरे सर्वशस्त्रभृतां वरः॥२४९॥
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः
।
विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत्॥२५०॥
शरतल्पगतश्चैव भीष्मो यत्र बभूव ह
।
षष्ठमेतत्समाख्यातं भारते पर्व विस्तृतम्॥२५१॥
न देहमनुशीर्यन्ते वैष्णवा जितमृत्यवः । भीष्मः कालान्तराकाङ्क्षी शरतल्पेऽवसच्चिरम् ॥२५१॥
अध्यायानां शतं प्रोक्तं तथा सप्तदशापरे
।
पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च॥२५२॥
श्लोकाश्च चतुराशीतिरस्मिन्पर्वणि कीर्तिताः
।
व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि॥२५३॥
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते
।
सैनापत्येऽभिषिक्तोऽथ यत्राचार्यः प्रतापवान्॥२५४॥
क्षात्रात् ब्राह्मं महःश्रेष्ठमिति मत्वा सुयोधनः । जयाशया स्वमाचार्यं सैनापत्येभ्यषेचयत् ॥२५४॥
दुर्योधनस्य प्रीत्यर्थं प्रतिजज्ञे महास्त्रवित्
।
ग्रहणं धर्मराजस्य पाण्डुपुत्रस्य धीमतः॥२५५॥
यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात्
।
भगदत्तो महाराजो यत्र शक्रसमो युधि॥२५६॥
संशप्तकास्तु ये संख्ये सर्वथाप्यनिवर्तिनस्ते अपनिन्युः अपहृतवन्तः रणाजिराद्रणस्थानात् ॥२५६॥
सुप्रतीकेन नागेन स हि शान्तः किरीटिना
।
यत्राभिमन्युं बहवो जघ्नुरेकं महारथाः॥२५७॥
जयद्रथमुखा बालं शूरमप्राप्तयौवनम्
।
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे॥२५८॥
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः
।
यत्र भीमो महाबाहुः सात्यकिश्च महारथः॥२५९॥
संशप्तकवधो साही जिष्णुः पुत्रवधार्दितः । प्रतिज्ञां महतीं कृत्वा 'तीर्णः श्रीपतिमायया ॥२५९॥
अन्वेषणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया
।
प्रविष्टौ भारतीं सेनामप्रधृष्यां सुरैरपि॥२६०॥
संशप्तकावशेषं च कृतं निःशेषमाहवे
।
संशप्तकानां वीराणां कोट्यो नव महात्मनाम्॥२६१॥
किरीटिनाभिनिष्क्रम्य प्रापिता यमसादनम्
।
धृतराष्ट्रस्य पुत्राश्च तथा पाषाणयोधिनः॥२६२॥
नारायणाश्च गोपालाः समरे चित्रयोधिनः
।
अलम्बुषः श्रुतायुश्च जलसन्धश्च वीर्यवान्॥२६३॥
सौमदत्तिर्विराटश्च द्रुपदश्च महारथः
।
घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि॥२६४॥
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते
।
अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः॥२६५॥
सन्तोष्य साधुतां यान्ति प्रतिकूले विधातरि । द्रोणस्य मृत्युकाले हि धर्मोप्यनृतभागभूत् । अनृतेन हतो द्रोणो नत्या नारायणास्त्रकम् नानोपायैररीन् हत्वा स्वीयान् रक्षितवान् हरिः' ॥२६५॥
आग्नेयं कीर्त्यते यत्र रुद्रमाहात्म्यमुत्तमम्
।
व्यासस्य चाप्यागमनं माहात्म्यं कृष्णपार्थयोः॥२६६॥
सप्तमं भारते पर्व महदेतदुदाहृतम्
।
यत्र ते पृथिवीपालाः प्रायशो निधनं गताः॥२६७॥
द्रोणपर्वणि ये शरा निर्दिष्टाः पुरुषर्षभाः
।
अत्राध्यायशतं प्रोक्तं तथाध्यायाश्च सप्ततिः॥२६८॥
अष्टौ श्लोकसहस्राणि तथा नव शतानि च
।
श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना॥२६९॥
पाराशर्येण मुनिनां संचिन्त्य द्रोणपर्वणि
।
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम्॥२७०॥
सारथ्ये विनियोगश्च मद्रराजस्य धीमतः
।
आख्यातं यत्र पौरामं त्रिपुरस्य निपातनम्॥२७१॥
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः
।
हंसकाकीयमाख्यानं तत्रैवाक्षेपसंहितम्॥२७२॥
वधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना
।
दण्डसेनस्य च ततो दण्डस्य च वधस्तथा॥२७३॥
द्वैरथे यत्र कर्णेन धर्मराजो युधिष्टिरः
।
संशयं गमितो युद्धे मिषतां सर्वधन्विनाम्॥२७४॥
मिषतां पश्यताम् ॥२७४॥
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः
।
यत्रैवानुनयः प्रोक्तो माधवेनार्जुनस्य हि॥२७५॥
प्रतिज्ञापूर्वकं चापि वक्षो दुःशासनस्य च
।
भित्त्वा वृकोदरो रक्तं पीतवान्यत्र संयुगे॥२७६॥
'कार्याकार्यविचारं हि क्रोधाविष्टा न कुर्वते । अपिबच्छोणितं भ्रातुर्भीमसनो हि संयुगे ॥२७६॥
द्वैरथे यत्र पार्थेन हतः कर्णो महारथः
।
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः॥२७७॥
सौरिरैन्द्रिं निजघ्ने प्रागिदानीं तद्विपर्ययः । सहायो हन्तुरीशानः पक्षपातविवर्जितः ॥२७७॥
एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि
।
चत्वार्येव सहस्राणि नव श्लोकशतानि च॥२७८॥
चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः
।
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम्॥२७९॥
हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत्
।
यत्र कौमारमाख्यानमभिषेकस्य कर्म च॥२८०॥
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः
।
विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते॥२८१॥
शल्यस्य निधनं चात्र धर्मराजान्महात्मनः
।
शकुनेश्च वधोऽत्रैव सहदेवेन संयुगे॥२८२॥
सैन्ये च हतभूयिष्ठे किंचिच्छिष्टे सुयोधनः
।
ह्रदं प्रविश्य यत्रासौ संस्तभ्यापोव्यवस्थितः॥२८३॥
जयाशा जीविताशा च सुक्षीणस्यापि दुस्त्यजा । शल्यं हृदं च शरणं कृतवान्यत्सुयोधनः ॥२८३॥
प्रवृत्तिस्तत्र चाख्याता यत्र भीमस्य लुब्धकैः
।
क्षेपयुक्तैर्वचोभिश्च धर्मराजस्य धीमतः॥२८४॥
ह्रदात्समुत्थितो यत्र धार्तराष्ट्रोऽत्यमर्षणः
।
भीमेन गदया युद्धं यत्रासौ कृतवान्सह॥२८५॥
समवाये च युद्धस्य रामस्यागमनं स्मृतम्
।
सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता॥२८६॥
समवाये समये । 'युद्धान्ते तीर्थयात्रां यत्प्रब्रूते बादरायणः । तेन जानीमहे हिंसा धर्म्यापि दुरितप्रदा ॥२८६॥
गदायुद्धं च तुमुलमत्रैव परिकीर्तितम्
।
दुर्योधनस्य राज्ञोऽथ यत्र भीमेन संयुगे॥२८७॥
नाधर्मेण विना शत्रुः शक्यो निर्जेतुमुल्बणः । भीमसेनो ह्यधो नाभे; प्रजहार सुयोधनम्' ॥२८७॥
ऊरू भग्नो प्रसह्याजौ गदया भीमवेगया
।
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत्॥२८८॥
एकोनपष्टिरध्यायाः पर्वण्यत्र प्रकीर्तिताः
।
संख्याता बहुवृत्तान्ताः श्लोकसंख्याऽत्र कथ्यते॥२८९॥
त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा
।
मुनिना संप्रणीतानि कौरवाणां यशोभृता॥२९०॥
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम्
।
भग्नोरुं यत्र राजानं दुर्योधनममर्षणम्॥२९१॥
अपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः
।
कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षितम्॥२९२॥
समेत्य ददृशुर्भूमौ पतितं रणमूर्धनि
।
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः॥२९३॥
अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान्
।
पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनं॥२९४॥
दंशनं कवचम् ॥२९४॥
यत्रैव मुक्त्वा राजानमपक्रम्य त्रयो रथाः
।
सूर्यास्तमनवेलायामासेदुस्ते महद्वनम्॥२९५॥
न्यग्रोधस्याथ महतो यत्राधस्ताद्व्यवस्थिताः
।
ततः काकान्बहून्रात्रौ दृष्ट्वोलूकेन हिंसितान्॥२९६॥
द्रौणिः क्रोधसमाविष्टः पितुर्वधमनुस्मरन्
।
पाञ्चालानां प्रसुप्तानां वधं प्रति मनो दधे॥ २९७॥
गत्वा च शिबिरद्वारि दुर्दृशं तत्र राक्षसम्
।
घोररूपमपश्यत्स दिवामावृत्य धिष्ठिरम्॥२९८॥
तेन व्याघातमस्त्राणां क्रियमाणमवेक्ष्य च
।
द्रौणिर्यत्र विरूपाक्षं रुद्रमाराध्य सत्वरः॥२९९॥
प्रसुप्तान्निशि विश्वस्तान्धृष्टद्युम्नपुरोगमान्
।
पाञ्चालान्सपरीवारान्द्रौपदेयांश्च सर्वशः॥३००॥
'विदुषो ब्राह्मणस्यापि दैन्यात्स्याद्दारुणा मतिः । अश्वत्थामापि यत्सुप्ता नर्भांश्च न्यवधीद्रुषा’ ॥३००॥
कृतवर्मणा च सहितः कृपेण च निजघ्निवान्
।
यत्रामुच्यन्त ते पार्थाः पञ्च कृष्णबलाश्रयात्॥३०१॥
सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः
।
पाञ्चालानां प्रसुप्तानां यत्र द्रोणसुताद्वधः॥३०२॥
धृष्टद्युम्नस्य सूतेन पाण्डवेषु निवेदितः
।
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता॥३०३॥
कृतानशनसंकल्पा यत्र भर्तॄनुपाविशत्
।
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः॥३०४॥
उपाविशत् भर्तॄनुपरुद्धवती ॥३४॥
प्रियं तस्याश्चिकीर्षन्वै गदामादाय वीर्यवान्
।
अन्वधावत्सुसंक्रुद्धो भारद्वाजं गुरोः सुतम्॥३०५॥
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः
।
अपाण्डवायेति रुषा द्रौणिरस्त्रमवासडदत्॥३०६॥
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः
।
यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः॥३०७॥
द्रौणेश्च द्रोहबुद्धित्वं वीक्ष्य पापात्मनस्तदा
।
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः॥३०८॥
मणिं तथा समादाय द्रोणपुत्रान्महारथात्
।
पाण्डवाः प्रददुर्दृष्टा द्रौपद्यै जितकाशिनः॥३०९॥
जितकाशिनः जयश्लाघिनः ॥३९॥
एतद्वै दशमं पर्व सौप्तिकं समुदाहृतम्
।
अष्टादशास्मिन्नद्यायाः पर्वण्युक्ता महात्मना॥३१०॥
श्लोकानां कथितान्यत्र शतान्यष्टौ प्रसंख्यया
।
श्लोकाश्च सप्ततिः प्रोक्ता मुनिना ब्रह्मवादिना॥३११॥
सौप्तिकैषीके संबन्धे पर्वण्युत्तमतेजसी
।
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम्॥३१२॥
सौप्तिकैषीके आख्याने अत्र पर्वणि सम्बद्धे इत्यर्थः ॥३१२॥
पुत्रशोकाभिसंतप्तः प्रज्ञाचक्षुर्नराधिपः
।
कृष्णोपनीतां यत्रासावायसीं प्रतिमां दृढाम्॥३१३॥
भीमसेनद्रोहबुद्धिर्धृतराष्ट्रो बभञ्ज ह
।
तथा शोकाभितप्तस्य धृतराष्ट्रस्य धीमतः॥३१४॥
संसारदहनं बुद्ध्या हेतुभिर्मोक्षदर्शनैः
।
विदुरेण च यत्रास्य राज्ञ आश्वासनं कृतम्॥३१५॥
धृतराष्ट्रस्य चात्रैव कौरवायोधनं तथा
।
सान्तःपुरस्य गमनं शोकार्तस्य प्रकीर्तितम्॥३१६॥
आयोधनम् युद्धस्थानं ॥३१६॥
विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः
।
क्रोधावेशः प्रमोहश्च गान्धारीधृतराष्ट्रयोः॥३१७॥
यत्र तान्क्षत्रियाः शूरान्सङ्ग्रामेष्वनिवर्तिनः
।
पुत्रान्भ्रातॄन्पितॄंश्चैव ददृशुर्निहतान्रणे॥३१८॥
क्षत्रियाः क्षत्रियस्त्रियः ॥३१८॥
पुत्रपौत्रवधार्तायास्तथात्रैव प्रकीर्तिता
।
गान्धार्याश्चापि कृष्णेन क्रोधोपशमनक्रिया॥३१९॥
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः
।
राज्ञां तानि शरीराणि दाहयामास शास्त्रतः॥३२०॥
तोयकर्मणि चारब्धे राज्ञामुदकदानिके
।
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः॥३२१॥
'अर्थार्थी वधमाप्नोति विलपन्ति च तस्त्रियः । तस्मादर्थं न लिप्सेत श्रेयोर्थी धार्तराष्ट्रवत् ॥ द्विनवाक्षौहिणीर्हत्वा लेमे राज्यं युधिष्ठिरः । एवं भूतक्षयेणैव भवत्यर्थः सतामपि ॥ बन्धूनपि नयेद्युद्धे स्वर्गं श्राद्धैश्च तर्पयेत् । इत्येवं निर्मलं क्षात्रं कर्मोक्तं तोयकर्मणि ॥३२१॥
सुतस्यैतदिह प्रोक्तं व्यासेन परमर्षिणा
।
एतदेकादशं पर्व शोकवैक्लव्यकारणम्॥३२२॥
प्रणीतं सज्जनमनो वैक्लव्याश्रुप्रवर्तकम्
।
सप्तविंशतिरध्यायाः पर्वण्यस्मिन्प्रकीर्तिताः॥३२३॥
श्लोकसप्तशती चापि पञ्चसप्ततिसंयुता
।
संख्यया भारताख्यानमुक्तं व्यासेन धीमता॥३२४॥
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम्
।
यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः॥३२५॥
अर्थाप्तौ स्त्र्यादि योगे वा यत्सुखं कामशब्दितम् । तदापुः पाण्डवाः क्लेशैर्लब्धराज्याः पृथग्गृहाः ॥ चतुर्भिरेवं वैराटमेकादशभिरुद्यमम् । पञ्चभिर्भीष्ममष्टाभिर्द्रौणमेकेन सूर्यजम् ॥ चतुस्त्रिपञ्चभिः शल्यसौषुप्तस्त्र्यभिधानि च । पर्वभिर्दीपयन्त्यर्थं शान्त्यादिः कामदीपिका' ॥ निर्वेदं दुःखम् ॥२५॥
घातयित्वा पितॄन्भ्रातॄन्पुत्रान्संबन्धिमातुलान्
।
शान्तिपर्वणि धर्माश्च व्याख्याताःशारतल्पिकाः॥३२६॥
शारतल्पिकाः शरा एव तल्पो यस्य तेन भीष्मेण व्याख्याता इत्यर्थः ॥३२६॥
राजभिर्वेदितव्यास्ते सम्यग्ज्ञानबुभुत्सुभिः
।
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शिनः॥३२७॥
‘यथोक्तं दण्डयन्दण्ड्यान् धर्ममक्षयमश्नुते । भूप इत्येव तद्धर्माः सापद्धर्मा निरूपिताः' ॥ कालहेतुप्रदर्शिनः कालोदुर्भिक्षादिहेतुर्वैररोगादिश्च तत्प्रदर्शिनः देशकालाद्यपेक्षया वर्तितव्यमित्यर्थः ॥३२७॥
यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात्
।
मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः॥३२८॥
सर्वज्ञत्वं कार्याकार्यविभागज्ञत्वम् ॥३२८॥
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम्
।
अत्र पर्वणि विज्ञेयमध्यायानां शतत्रयम्॥३२९॥
विंशच्चैव तथाध्याया नव चैव तपोधानाः
।
चतुर्दशसहस्राणि तथा सप्तशतानि च॥३३०॥
सप्तश्लोकास्तथैवात्र पञ्चविंशतिसंख्यया
।
अत ऊर्ध्वं च विज्ञेयमनुशासनमुत्तमम्॥३३१॥
यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम्
।
भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः॥३३२॥
प्रकृतिं स्वाभाविकीमवस्थाम् । 'सर्वाधिकारिका मोक्षधर्माः सम्यगुदीरिताः । तत्राधिकारसिद्ध्यर्थं दानधर्माश्च कीर्तिता:' ॥३३२॥
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थी यः प्रकीर्तितः
।
विविधानां च दानानां फलयोगाः प्रकीर्तिताः॥३३३॥
व्यवहार आचारः धर्मार्थी यः धर्मार्थयोर्हितः ॥३३३॥
तथा पात्रविशेषाश्च दानानां च परो विधिः
।
आचारविधियोगश्च सत्यस्य च परा गतिः॥३३४॥
सत्यस्य हिंसाशून्यस्य यथार्थभाषणस्य परागतिः पराकाष्ठा ॥३३४॥
महाभाग्यं गवां चैव ब्राह्मणानां तथैव च
।
रहस्यं चैव धर्माणां देशकालोपसंहितम्॥३३५॥
महाभाग्यं माहात्म्यं रहस्यम् अल्पायासेनापि महाफलप्रदत्वं देशकालोपसंहितं तीर्थपर्वोपधानात् ॥३३५॥
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम्
।
भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता॥३३६॥
'स्वच्छन्दमरणः सर्वो योगी भीष्मसमो भवेत् । इति प्रदर्शयन् भीष्मनिर्याणं चाप्यवर्णयत् ॥३३६॥
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम्
।
अध्यायानां शतं त्वत्र षट्चत्वारिंशदेव तु॥३३७॥
श्लोकानां तु सहस्राणि प्रोक्तान्यष्टौ प्रसंख्यया
।
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्॥३३८॥
तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम्
।
सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परीक्षितः॥३३९॥
वाराणस्यामविज्ञातो वसेद्विघ्नभयात्सुधीः । न्यासमैत्रेयसंर्तैरेतत्सम्यक् प्रदर्शितम् ॥ काश्यां मृतस्य कुणपं शिवलिङ्गत्वमृच्छति । अपूर्वमेतत्संवर्तमरुत्तीये प्रकाशितम् । क्रममुक्तिप्रसिद्ध्यर्थमश्वमेघोऽपि कीर्तितः ॥ तत्त्वस्य दुर्ग्रहत्वाच्च पुनरध्यात्ममीरितम्’ । तत्पुराणप्रसिद्धं संवर्तमरुत्तीयम् ॥३३९॥
दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः
।
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः॥३४०॥
चर्यायां पर्यटने ॥३४०॥
तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः
।
चित्राङ्गदायाः पुत्रेण स्वपुत्रेण धनंजयः॥३४१॥
सङ्ग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः
।
अश्वमेधे महायज्ञे नकुलाख्यानमेव च॥३४२॥
संशयं प्राणान्तं गङ्गाशापमोक्षार्थं धनञ्जयो दर्शितः । ‘कृशेन श्रद्धया दत्तमत्यल्पमपि सज्जने । अश्वमेधाधिकं पुण्यं तत इत्याह नाकुले’ ॥४२॥
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम्
।
अध्यायानां शतं चैव त्रयोऽध्यायाश्च कीर्तिताः॥३४३॥
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च
।
विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना॥३४४॥
ततस्त्वाश्रमवासाख्यं पर्व पञ्चदशं स्मृतम्
।
यत्र राज्यं समुत्सृज्य गान्धार्या सहितो नृपः॥३४५॥
धृतराष्ट्रोश्रमपदं विदुरश्च जगाम ह
।
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा॥३४६॥
धृतराष्ट्रोश्रमपदमित्यत्र आकारस्य पूर्वरूपमार्षम् । तपो हिततमं नॄणां भोगा नरकयोनयः । इतीव कुन्तीपुत्राणां राज्यं त्यक्त्वा वनं ययौ ॥४६॥
पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता
।
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान्॥३४७॥
लाकान्तरगतान्वीरानपश्यत्पुनरागतान्
।
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम्॥३४८॥
मायामात्रं सुतादीनि विज्ञायाश्वर्यपर्वतः। धृतराष्ट्र इव त्यक्त्वा शोकं मोक्षं समाश्रयेत्' ॥३४८॥
त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः
।
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः॥३४९॥
संजयश्च सहामात्यो विद्वान्गावल्गणिर्वशी
।
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः॥३५०॥
सञ्जयश्च सुगतिं गत इत्यनुवर्तते ॥३५०॥
नारदाच्चैव शुश्राव वृष्णीनां कदनं महत्
।
एतदाश्रमवासाख्यं पर्वोक्तं महदद्भुतम्॥३५१॥
द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया
।
सहस्रमेकं श्लोकानां पञ्चश्लोकशतानि च॥३५२॥
पञ्चश्लोकशतानि चेत्यत्रपञ्च च श्लोकशतं चेति समासः । पञ्चाधिकं शतमित्यर्थः । तेनात्र एकादशशतीह श्लोकसंख्या ज्ञेया । तावत्या एव पुस्तकेषूपलम्भात् ॥५२॥
षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना
।
अतः परं निबोधेदं मौसलं पर्व दारुणम्॥३५३॥
यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शहता युधि
।
ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः॥३५४॥
आपाने पानकलिता दैवेनाभिप्रचोदिताः
।
एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम्॥३५५॥
आपाने सुरापानस्थाने । पानकलिताः सुरापानेन वशीकृताः । एरकानिर्गन्थितृणम् ॥३५५॥
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ
।
नातिचक्रामतुः कालं प्राप्तं सर्वहरं महत्॥३५६॥
रामकृष्णौ महत्परं ब्रह्मापि सन्तौ कालं नातिचक्रामतुः । समर्थावपि मर्यादां नोल्लङ्घितवन्तावित्यर्थः । 'ब्राह्मक्षोभात्सुरापानाद्विनष्टाः सर्वयादवाः । तस्मादेतद्द्वयं सद्भिर्नैव कार्यं कदाचन ॥५६॥
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम्
।
दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः॥३५७॥
आर्तिं पीडाम् ॥३५७॥
स संस्कृत्य नरश्रेष्ठं मातुलं शौरिमात्मनः
।
ददर्श यदुवीराणामापाने वैशसं महत्॥३५८॥
वैशसं परस्परं विशसनम् ॥३५८॥
शरीरं वासुदेवस्य रामस्य च महात्मनः
।
संस्कारं लम्भयामास वृष्णीनां च प्रधानतः॥३५९॥
स वृद्धबालमादाय द्वारवत्यास्ततो जनम्
।
ददर्शापदि कष्टायां गाण्डीवस्य पराभवम्॥३६०॥
’सर्वे क्षयान्ता निचया वृष्णानामपि संक्षयात् । पराभवादर्जुनस्य पतनान्ताः समुच्छ्रयाः' ॥३६०॥
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम्
।
नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम्॥३६१॥
अप्रसन्नताम् अस्फुरणम् ॥३६१॥
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः
।
धर्मराजं समासाद्य संन्यासं समरोचयत्॥३६२॥
संन्यासं राज्यत्यागम् ॥३६२॥
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम्
।
अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम्॥३६३॥
अध्यायाष्टौ सन्धिरार्षः ॥३६३॥
श्लोकानां विंशतिश्चैव संख्याता तत्त्वदर्शिना
।
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम्॥३६४॥
यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः
।
द्रौपद्या सहिता देव्या महाप्रस्थानमास्थिताः॥३६५॥
महाप्रस्थानं देहत्यागार्थम् उदग्गमनम् ॥३६५॥
यत्र तेऽग्निं ददृशिरे लौहित्यं प्राप्य सागरम्
।
यत्राग्निना चोदितश्च पार्थस्तस्मै महात्मने॥३६६॥
ददौ संपूज्य तद्दिव्यं गाण्डीवं धनुरुत्तमम्
।
यत्र भ्रातॄन्निपतितान्द्रौपदीं च युधिष्ठिरः॥३६७॥
'स्वस्य मृत्युं विनिश्चित्य परं शोचेत कः पुमान् । युधिष्ठि इवोपेक्षां कुर्याद्बन्धोर्मुमूर्षतः' ॥३६७॥
दृष्ट्वा हित्वा जगामैव सर्वाननवलोकयन्
।
एतत्सप्तदशं पर्व महाप्रस्थानिकं स्मृतम्॥३६८॥
यत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतत्रयम्
।
विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना॥३६९॥
शतं च त्रयं चेति समासे शतत्रयमित्यस्य त्र्यधिकं शतमित्यर्थः । ततश्च त्रयोविंशत्यधिकं शतं श्लोका इत्यर्थः । तावतामेवोपलम्भात् ॥३६९॥
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम्
।
प्राप्तं दैवरथं स्वर्गान्नेष्टवान्यत्र धर्मराट्॥३७०॥
आरोदुं सुमहाप्राज्ञ आनृशंस्याच्छुना विना
।
तामस्या विचलां ज्ञात्वा स्थितिं धर्मे महात्मनः॥३७१॥
आनृशंस्यात्कारुण्यात् । 'आनृशंस्यं परो धर्मो येन राजा युधिष्ठिरः । श्वानं भातॄन्विना देवरथं स्वर्गं च नारुहत् ॥३७१॥
श्वरूपं यत्र तत्त्यक्त्वा धर्मेणासौ समन्वितः
।
स्वर्गं प्राप्तः स च तथा यातना विपुला भृशम्॥३७२॥
एवं सर्वत्र तात्पर्यं कथायामुन्नयेद्यतः । न प्रवृत्तिनिवृत्तिभ्यां विना वाचः कृतार्थता ॥ अर्थो धर्माय भोगाय धर्मः स्वर्गाय मुक्तये । कामो धर्मार्थनाशाय मोक्षः स्वार्थस्त्रिवर्गजित्' ॥ स्वर्गमिति । राज्यान्ते महतामपि यातनाप्राप्तिरस्तीति दर्शितमिति भावः ॥३७२॥
देवदूतेन नरकं यत्र व्याजेन दर्शितम्
।
शुश्राव यत्र धर्मात्मा भ्रातॄणां करुणा गिरः॥३७३॥
निदेशे वर्तमानानां देशे तत्रैव वर्तताम्
।
अनुदर्शितश्च धर्मेण देवराज्ञा च पाण्डवः॥३७४॥
निदेशेयमस्य शासने यातनायामित्यर्थः । अनुदर्शितः ईदृक् फलम् ऐश्वर्यसुखमस्तीति बोधितः ॥३७४॥
आप्लुत्याकाशगङ्गायां देहं त्यक्त्वा स मानुषम्
।
स्वधर्मनिर्जितं स्थानं स्वर्गे प्राप्य स धर्मराट्॥३७५॥
मुमुदे पूजितः सर्वैः सेन्द्रैः सुरगणैः सह
।
एतदष्टादशं पर्व प्रोक्तं व्यासेन धीमता॥३७६॥
अध्यायाः पञ्च संख्याताः पर्वण्यस्मिन्महात्मना
।
श्लोकानां द्वे शते चैव प्रसंख्याते तपोधाः॥३७७॥
नव श्लोकास्तथैवान्ये संख्याताः परमर्षिणा
।
अष्टादशैवमेतानि पर्वाण्येतान्यशेषतः॥३७८॥
खिलेषु हरिवंशश्च भविष्यं च प्रकीर्तितम्
।
दश श्लोकसहस्राणि विंशच्छ्लोकशतानि च॥३७९॥
खिलेषु आख्यानान्तरेषु सत्स्वपि हरिवंशभविष्ययोर्ग्रहणं तयोरभ्यर्हितत्वप्रदर्शनार्थम् । दशश्लोकसहस्राणीति । हरिशे भविष्यान्तग्रन्थस्य द्वादशसहस्रोन्मितत्वम् । न तु कृत्स्नवंशस्य अधिकस्य ग्रन्थस्य दर्शनात् तावन्मात्रविवक्षायां लक्षपूर्तेरयोगात् । तथाह्यत्र कण्ठोक्तायाः संख्यायाः सङ्कलने षण्णवतिः सहस्राणि द्वेशते षोडश च श्लोकाः । परिशेषात् पुष्करप्रादुर्भावाद्युपरितनग्रन्थे कैलासयात्रासहिते किञ्चिदूनं सहस्रचतुष्टयं ज्ञेयम् । तेन ततोप्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः। अनुक्रमणिकाध्यायमित्यादौ भूयः शन्दात् अद्ध्यर्धशताधिकं लक्षं परिपूर्णं ज्ञेयम् । अष्टादशसहस्राणीत्यादयो विगीतपाठास्तु इष्टसंख्याप्रातिकूल्यादुपेक्षणीयाः ॥७९॥
खिलेषु हरिवंशे च संख्यातानि महर्षिणा
।
एतत्सर्वं समाख्यातं भारते पर्वसंग्रहः॥३८०॥
अष्टादश समाजग्मुरक्षौहिण्यो ययुत्सया
।
तन्महादारुणं युद्धमहान्यष्टादशाभवत्॥३८१॥
युयुत्सया योद्धुमिच्छया ॥३८१॥
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदो द्विजः
।
न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः॥३८२॥
अङ्गानि शिक्षाकरपादीनि । उपनिषदो रसस्यविद्यास्तत्सहितान् साङ्गोपनिषदः विचक्षणः स्वार्थज्ञः ॥३८२॥
अर्थशास्त्रमिदं प्रोक्तं धर्मशास्त्रमिदं महत्
।
कामशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना॥३८३॥
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते
।
पुंस्कोकिलगिरं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव॥३८४॥
ध्वाङ्क्षस्य काकस्य ॥३८४॥
इतिहासोत्तमादस्माञ्जायन्ते कविबुद्धयः
।
पञ्चभ्य इव् भूतेभ्यो लोकसंविधयस्त्रयः॥३८५॥
लोकसन्धिवियस्त्रयः आध्यात्माधिभूताधिदैवानां सम्यग्विधयो रचनाः ॥३८५॥
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः
।
अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः॥३८६॥
विषये देशे अन्तरित्यर्थः । पुराणम् अष्टादशभेदं पद्मादि । चतुर्विधाः जरायुजाण्डजस्वेदजोद्भिज्जाः॥३८६॥
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः
।
इन्द्रियाणां समस्तानां चित्रा इव मनः क्रियाः॥३८७॥
क्रियाः लौकिक्यो वैदिक्यश्च तासां गुणाः उत्कृष्टफलसाघनानि । अथवा क्रियाः दानध्यानादयः । गुणाः शमादयः मनसि इन्द्रियाणीवात्र सर्वे शास्त्रार्थाः प्रतिष्ठिता इत्यर्थः ॥८७॥
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते
।
आहारमनपाश्रित्य शरीरस्येव धारणम्॥३८८॥
इदं कविवरैः सर्वैराख्यानमुपजीव्यते
।
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥३८९॥
इदं कविभिः उपजीव्यते । एतच्छायाहरणेनैव कान्यनिर्वाहात् ॥३८९॥
अस्य काव्यस्य कवयो न समर्था विशेषणे
।
साधोरिव गृहस्थस्य शेषास्त्रय इवाश्रमाः॥३९०॥
विशेषणे अतिशयकरणे । अनेन ग्रन्थस्य सर्वोत्कृष्टत्वमुक्तम् ॥३९०॥
धर्मे मतिर्भवतु वः सततोत्थितानां स ह्येक एव परलोकगतस्य बन्धुः
।
अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना नैवाप्तभावमुपयान्ति न च स्थिरत्वम्॥३९१॥
भारतसम्प्रदायप्रवर्तकान् वाचकानाशिषाऽभिनन्दति धर्मे इति ॥३९१॥
द्वैपायनौष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथपापहरं शिवं च
।
यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन॥३९२॥
श्रोतॄन् प्रोत्साहयतिं द्वैपायनेति । अप्रमेयं नास्ति प्रकृष्टं मेयं विज्ञेयं यस्मादित्यप्रमेयम् । अवश्यं श्राव्यमित्यर्थः पुण्यं पुण्यहेतुः । पवित्रं पर्विविपविर्वज्रतुल्यो मृत्युस्तस्मात् त्रायत इति पवित्रं मृत्युतरणमित्यर्थः । यस्मात्पापहरं पुण्यहेतुत्वादेव शिवं कल्याणं समधिगच्छति शब्दतोर्थतश्च जानाति । यद्वा अप्रमेयम् आशयस्य गम्भीरत्वादगाधं पुण्यं ज्योतिष्टोमादिवत्स्वर्ग्यम् । पवित्रं सन्ध्योपासनादिवच्चित्तशुद्धिकरं पापहरं प्रायश्चित्तवद्ब्रह्महत्यादि दोषघ्नम् । शिवं योगाभ्यासवत्सर्वकल्याणप्रदम् । पुष्करम् आदितीर्थं शुण्डाग्रं वा तदुपाहृतजलैः । एतच्छृण्वतस्तीर्थफलं साम्राज्यफलं चानायाससिद्धं भवतीति भावः ॥९२॥
यदह्नात्कुरुते पाप ब्राह्मणस्त्विन्द्रियैश्चरन्
।
महाभारतमाख्याय सन्ध्यां मुच्यति पश्चिमाम्॥३९३॥
सन्ध्यां सन्ध्यायाम् अत्यन्तसंयोगे द्वितीया । आख्याय पठित्वा प्रमुच्यते । तस्मात्पापादिति शेषः ॥३९३॥
यद्रात्रौ कुरुते पापं कर्मणा मनसा गिरा
।
महाभारतमाख्याय पूर्वां सन्ध्यां प्रमुच्यते॥३९४॥
यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे च बहुश्रुताय
।
पुण्यां च भारतकथां शृणुयाच्च नित्यं
तुल्यं फलं भवति तस्य च तस्य चैव॥३९५॥
आख्यानं तदिदमनुत्तमं महार्थं विज्ञेयं महदिह पर्वसंग्रहेण
।
श्रुत्वादौ भवति नृणां सुखावगाहं विस्तीर्णं लवणजलं यथा प्लवेन॥३९६॥
आख्यानमिति । इदम् आख्यानं पर्वसङ्ग्रहेण कृतेन सुखावगाहं सुखग्राह्यं भवतीति शेषः द्विन्याय्यम् इति पाठे द्वौ शब्दार्थौ न्याय्यौ न्यायादनपेतौ यस्मिंस्तद्विन्याय्यम् । अन्ये तु द्वाभ्यां सङ्क्षेपविस्ताराभ्यां कृतेन पर्वसङ्ग्रहेण शतपर्वाष्टादशपर्वरूपेण न्याय्यम् । एतच्छ्रवणेन कृत्स्नग्रन्थार्थावधारणादिति व्याचख्युः । तत्र पर्वसङ्ग्रहो वररुचिप्रोक्तया कादिनवटादिनन्नपादिपञ्चयाद्यष्टाविति परिभाषया क्रियते । आदिध्यान १९ सभाघनं ९ वनचयं १६ वैराटभू ४ द्योगयुक् ११ भीष्मद्रोणम ५ जं ८ च कर्णकु १ तथा शल्येभ ४ सौषुप्तग ३ म् । स्त्रीशं ५ शांतिभ ४ दानधर्मकु १ हयेज्यारा २ श्रमावासगं ३ कं १ कं १ मौसलयानयोर्द्युगतिकं १ वंशेख २ मेतच्छतम् ॥ आदिपर्वणि एकोनविंशतिः पर्वाणीत्यर्थः । एवमग्रेऽपि भीष्मेम ५ द्रोणेज ८ हयेज्या आश्वमेधिकं रा २ यानं महाप्रस्थानिकं द्युगतिः स्वर्गारोहणं वंशे हरिवंशे । एतच्छतं पर्वणामिति शेषः । शेषं स्पष्टं । श्लोकसंख्यापि प्रागुक्तैव ज्ञेया । अथ सर्वपर्वतात्पर्यसङ्ग्रहः । 'आदौ सर्वे द्वयोः क्रत्वृतधृतिगुरुसतत्तीर्थसेवोत्थधर्मः सेवानीत्यार्यहत्या प्रमुखदुरितजः शोकदोर्थोष्टसूक्तः । एकस्मिन्काममोक्षावसुखमयसुखौ षट्सुमुक्त्यैददीज्यातापोवैराग्यहानेस्वरपिनिखिलकृत्कृष्णभक्तिः खिलेषु' । ददिर्दानं तापः कृच्छ्रादिकं ताप आश्रमवासे उक्त इति सर्वत्रानुषज्जते। हानं त्यागः स्वः स्वर्गतिरपिक्रममुक्त्यै भवतीत्यर्थः । ’यः सर्गप्रतिसर्गवंशत इदं चिद्योनिचित्कर्तृकं चिद्रूपं जडमात्थ तन्तुपटवल्लूतोर्णवद्बीजवत् । सत्वाध्यैमनुभेदपूर्वचीरतै वैराग्ययोगौदिशन् भीः पञ्चाङ्गपुराणकर्तरमलं व्यासस्वहृद्देहि मे' ॥३९६॥