अनुक्रमणिकापर्व - १पर्वसंग्रहपर्व - २पौष्यपर्व - ३पौलोमपर्व। - ४आस्तिकपर्व - ५अंशावतरणपर्व - ६सम्भवपर्व - ७जतुगृहपर्व । - ८हिडिम्बवधपर्व - ९बकवधपर्व - १०चैत्ररथपर्व । - ११स्वयंवरपर्व - १२वैवाहिकपर्व - १३विदुरागमनराज्यालंभपर्व - १४अर्जुनवनवासपर्व - १५सुभ्रद्राहरणपर्व। - १६हरणाहरणपर्व। - १७खाण्डवदाहपर्व - १८मयदर्शनपर्व - १९

पर्वसंग्रहपर्व

द्वितीयोऽध्यायः

ऋषय ऊचुः। समन्तपञ्चकमिति यदुक्तं सूतनन्दन ।
एतत्सर्वं यथातत्त्वं श्रोतुमिच्छामहे वयम्॥१॥

पर्वसङ्ग्रहपर्व एवं प्रथमेऽध्याये सूत्रितानामर्थानां प्रकरणशो विभागं शिष्याणामवधानाय प्रदर्शयिष्यन् वैराग्यमुत्पादयितुं कुरुषु परशुरामकृतं क्षत्रक्षयं प्रसङ्गात्प्रदर्शयति । समन्तेति । ‘समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् । गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा’ इत्यादिना यदुक्तम् । एतत्सर्वं तं देशं तद्युद्धं च श्रोतुमिच्छामहे वयम् ॥१॥

सौतिरुवाच। शृणुध्वं मम भो विप्रा ब्रुवतश्च कथाः शुभाः ।
समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः॥२॥

मम मत्तः कथा अन्याः ॥२॥

त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः ।
असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः॥३॥

क्षत्रं क्षत्रियजातिम् | अमर्षः स्वपितुः क्षत्रियेण हतत्वाज्जातस्य क्रोधस्यासहनं तेन चोदितः प्रेरितः ॥३॥

स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः ।
समन्तपञ्चके पञ्च चकार रौधिरन्ह्वदान्॥४॥

रौधिरान् रुधिरपूर्णान् ॥४॥

स तेषु रुधिराम्भःसु ह्रदेषु क्रोधमूर्च्छितः ।
पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम्॥५॥

नः अस्माभिः । रुधिरपितॄणां तर्पणात्सर्वा हिंसा पितृतृप्त्याद्युद्देशेनैव कर्तव्या कामकारेणेति सूचितम् ॥५॥

अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन् ।
राम राम महाभाग प्रीताः स्म तव भार्गव॥६॥

अनया पितृभक्त्या च विक्रमेण तव प्रभो ।
वरं वृणीष्व भद्रं ते यमिच्छसि महाद्युते॥७॥

राम उवाच। यदि मे पितरः प्रीता यद्यनुग्राह्यतामयि ।
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया॥८॥

अतश्च पापान्मुच्येऽहमेष मे प्रार्थितो वरः ।
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः॥९॥

एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन् ।
तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह॥१०॥

यदिति सार्धेन क्रोधः सर्वे पापायैव हीनबलेषु शस्त्रनिक्षेपादिति भावः ॥ निषिषिधुः निषिद्धवन्तः । अक्षराधिक्यमार्षम् । अभ्यासलोपो वा आर्षः । सिषिधुरिति पाठे शशासुः । हिंसातो विरमस्वेति शिक्षितवन्त इत्यर्थः ॥१०॥

तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् ।
समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्॥११॥

येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते ।
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः॥१२॥

अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत् ।
समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः॥१३॥

तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते ।
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया॥१४॥

भूदोषाः निम्नोन्नतकण्टकित्वादयस्तद्रहिते ॥१४॥

समेत्य तं द्विजास्ताश्च तत्रैव निधं गताः ।
एतन्नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः॥१५॥

समन्ते ह्रदानां पञ्चकं समन्तपञ्चकम् । तत्परिसरवर्ती देशोऽपि तन्नामेत्युक्तम् । तत्र समन्तशब्दस्यावयवार्थं दर्शयति । समेत्येति । समेतानाम् अन्तो नाशो यस्मिन्निति समन्त इत्यर्थः । अभिनिर्वृत्तं निर्व्यूढम् ॥१५॥

पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः ।
तदेतत्कथितं सर्वं मया ब्राह्मणसत्तमाः॥ यथा देशः स विख्यातस्त्रिषु लोकेषु सुव्रताः॥१६॥

ऋषय ऊचुः। अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन ।
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्॥१७॥

अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम् ।
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव॥१८॥

सौतिरुवाच। एको रथो गजश्चैको नराः पञ्च पदातयः ।
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते॥१९॥

पदातय इति रथादिगतानां नराणां व्युदासः ॥१९॥

पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः ।
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते॥२०॥

त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः ।
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः॥२१॥

चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी ।
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः॥२२॥

अक्षौहिण्याः प्रसंख्याता रथानां द्विजसत्तमाः ।
संख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः॥२३॥

शतान्युपरिचैवाष्टौ तथा भूयश्च सप्ततिः ।
गजानां च परीमाणमेतदेव विनिर्दिशेत्॥२४॥

ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु ।
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः॥२५॥

पञ्च षष्टिसहस्राणि तथाश्वानां शतानि च ।
दशोत्तराणि षट् प्राहुर्यथावदिह संख्यया॥२६॥

एतामक्षौहिणीं प्राहुः संख्यातत्त्वदितो जनाः ।
यां वः कथितवानस्मि विस्तरेण तपोधनाः॥२७॥

अक्षौहिण्याः परीमाणं खाद्रिधृत्यक्षिभिर्गजैः २१८७० रथैरेतै २१८७० र्हयैस्त्रिः ६५६१० पञ्चघ्नैः १०९३५० श्चपद्रातिभिरिति संग्रहः ॥२७॥

एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः ।
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु॥२८॥

पिण्डिताः एकीभूताः । सन्धिरार्षः ॥२८॥

समेतास्तत्र वै देशे तत्रैव निधं गताः ।
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा॥२९॥

अहानि युयुधे भीष्मो दशैव परमास्त्रवित् ।
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्॥३०॥

अहनी युयुधे द्वे तु कर्णः परबलार्दनः ।
शल्योऽर्धदिवसं चैव गदायुद्धमतः परम्॥३१॥

तस्यैव दिवसस्यान्तं द्रौणिहार्दिक्यगौतमाः ।
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम्॥३२॥

द्रौणिरश्वत्थामा हार्दिक्यः कृतवर्मा । गौतमः कृपाचार्यः ॥३२॥

यत्तु शौनक सत्रे ते भारताख्यानमुत्तमम् ।
जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता॥३३॥

पर्वसङ्ग्रहं वक्तुं प्रस्तौति । यत्तु शौनकेत्यादिना । हे शौनक ! हे वृद्धतम । श्वयतेर्वृध्यर्थात् । निष्ठायां शूना वृद्धाः तेषु वृद्धतरत्वेन विदितः शौनकः । वुञ्छणादिसूत्रेणारिहणादिर्वुञ् । ते तव सत्रे यत् भारताख्यानं मत्तः प्रवृत्तं तत् जनमेजयस्य सत्रे व्यासशिष्येण कथितमित्युत्तरेण संबन्धः ॥३३॥

कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम् ।
पौष्यं तत्र च पौलोममास्तीकं चादितः स्मृतम्॥३४॥

ननु सर्पसत्रे जनमेजयं प्रति यद्वैशम्पायनेनोक्तं तदेव शौनकं प्रति सूतेन वक्तुं प्रतिज्ञातं तत्र पौष्यं पौलोममास्तीकं च किमित्यप्रतिज्ञातमप्युच्यते सूतेनेतिचेत्तत्राह । कथितमिति । सत्रे व्यासशिष्येण यत् कथितं तत्र भारते पौष्यं पौलोमम् आस्तीकं च महीक्षितां यशोवीर्यं च वक्तुमिति शेषः । आदितः स्मृतमितियोजना । स्मरणं तु विस्तारार्थम् । अयं भावः । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् अविद्यया मृत्युं तीर्त्वेत्यादि श्रुतेर्गुरुसेवामाहात्म्यं गुरूणां च माहात्म्यं यज्ञादीनां विद्यार्थत्वं च निरूपणीयं तेष्वन्यतमाभावेऽपि विद्यानैवोदेतुमर्हतीति तदर्थमत्राचार्यैणाख्यायिकामुखेनैव पौष्ये गुरुशुश्रूषामाहात्म्यं पौलोमे भार्गवाणां गुरूणां महाभाग्यमुक्तम् । आस्तीके जरत्कारोरप्रतिपन्नगार्हस्थस्याकृतार्थत्वदर्शनेन यज्ञादीनामाविद्यकानामपि विद्याङ्गत्वमुक्तम् । विविदिषन्ति यज्ञेनेत्यादिश्रुतेः । तस्मान्महोपनिषदारम्भे एतत्त्रयकथनमावश्यकमिति आख्यायिकामुखेन कथ्यमानगहनोप्यर्थः । सुग्रहो भवतीत्यभिप्रेत्य महीभृतां यशोवीर्यं चोक्तमिति ॥३४॥

विचित्रार्थपदाख्यानमनेकसमयान्वितम् ।
प्रतिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः॥३५॥

मोक्षिभिर्मोक्षार्थिभिर्नरैः । प्रतिपन्नं शरणीकृतं वैराग्यमिव । यथा परवैराग्यस्य नान्तरीयकं फलं कैवल्यमेवमेतच्छ्रवणस्यापीति भावः ॥३५॥

आत्मेव वेदितव्येषु प्रियेष्विव हि जीवितम् ।
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्॥३६॥

आत्मेति । आत्मज्ञानमेव स्वतः पुरुषार्थ इत्यात्मैव मुख्यं वेदितव्यम् । तत्प्रमाणस्य तत्त्वावेदकत्वात् । अन्यत् ज्ञानं तु सर्वं पुरुषसंस्कारद्वारा कर्माङ्गम् । यथोक्तं भट्टपादैः । ‘सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते । पराङ्गं चात्मविज्ञानादन्यत्रेत्यवधार्यताम्’ इति ॥ प्रधानार्थः ब्रह्मावाप्तिप्रयोजनः ॥३६॥

अनाश्रित्येदमाख्यानं कथा भुवि न विद्यते ।
आहारमनपाश्रित्य शरीरस्येव धारणम्॥३७॥

तदेतद्भारतं नाम कविभिस्तूपजीव्यते ।
उदयतेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥३८॥

कविभिः काव्यकर्तृभिः ‘ब्यासोच्छिष्टं जगत्सर्वम्’ इति प्रसिद्धेस्तेषामद्भुतकाब्यरचने इदमेवालम्बनमित्यर्थः । अभिजातः कुलीनः ॥३८॥

इतिहासोत्तमे यस्मिन्नर्पिता बुद्धिरुत्तमा ।
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्॥३९॥

उत्तमा चरमा बुद्धिर्ब्रह्मविद्याख्यान्तःकरणवृत्तिः ॥३९॥

तस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः ।
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च॥४०॥

प्रज्ञयाभिपन्नं प्राप्तं तस्य ॥४०॥

भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः ।
पर्वानुक्रमणी पूर्वं द्वितीयः पर्वसंग्रहः॥४१॥

पर्वणाम् उपक्रमोपसंहारैकरूप्यादिना एकमर्थं पूरयन्ति कार्त्स्न्येन प्रतिपादयन्ति । तानि पर्वाणि प्रकरणानि तेषां सङ्ग्रहः सम्यक् विविच्य ग्रहो यस्मिन् स पर्वसङ्ग्रहो द्वितीयं पर्व ॥४१॥

पौष्यं पौलोममास्तीकमादिरंशावतारणम् ।
ततः संभवपर्वोक्तमद्भुतं रोमहर्षणम्॥४२॥

अत्र केवलस्य सोपाख्यानस्य च भारतस्य स्मरणे आद्ययोः पर्वणोस्तात्पर्यं पौष्यादि त्रयस्य तूक्तमेवेति पर्व पञ्चकतात्पर्यमुक्तम् । तत्रास्तीके कर्मप्राधान्यमुक्तं तत्कर्मिणो देवभावं प्राप्यापीह जन्म लभन्ते । इत्यादावंशावतरणमुक्तं षष्ठे । अंशावतारणं देवानां भूमौ भागशोवतरणम् आदिः प्रथमं पर्वेत्यर्थः । तेन पूर्वोक्ता सूतप्रतिज्ञा सङ्गच्छते संभवे । अत्र लब्धजन्मनामपि न तेषां नियमेन स्वर्गतिः । किंतु सर्पनागादितामसयोनिप्राप्तिरपि कर्मवशाद्भवतीत्युक्तं सप्तमे । तत्राप्यर्थार्थिनो बन्धूनप्यन्यायेन घ्नन्तीति जातुषे दर्शितमष्टमे । तथा कामुकाः स्त्रियो बन्धूनपि घातयन्तीत्यविश्वसनीयास्ता इति हैडिम्बे नवमे दर्शितम् । श्वशूकरभक्ष्यस्यापि शरीरस्यार्थे परप्राणानपि पामराः प्रत्यहमाददते इति बकवधे दशमे सूचितम् । ततः कष्टतरां गतिं तमः प्रधानाः प्राणिनः प्राप्नुवन्तीति प्रबन्धेन परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेनेति श्रुत्यर्थ उपबृंहितः । एवमग्रेऽपि तत्तदाख्यानतात्पर्योन्नयनेन राजसानां सात्विकानां च गतिः परीक्षणीया । अग्रे प्रतिप्रकरणं वक्ष्यमाणत्वादिह ग्रन्थविस्तरभयान्न प्रपञ्च्यते ॥४२॥

दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ।
ततो बकवधः पर्व पर्व चैत्ररथं ततः॥४३॥

चैत्ररथम् अङ्गारपर्णचरितं पर्व ॥४३॥

ततः स्वयंवरो देव्याः पाञ्चाल्याः पर्व चोच्यते ।
क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्॥४४॥

विदुरागमनं पर्व राज्यलाभस्तथैव च ।
अर्जुनस्य वने वासः सुभद्राहरणं ततः॥४५॥

विदुरागमनं राज्यलम्भश्चैकं पर्व लम्भो लाभः ॥४५॥

सुभद्राहरणादूर्ध्वं ज्ञेया हरणहारिका ।
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम्॥४६॥

हरणं दायः पारिबर्हमिति यावत् । तस्य हारिकासमानयनं खाण्डवदाहो मयदर्शन चैकैकं पर्व ॥४६॥

सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ।
जरासन्धवधः पर्व पर्व दिग्विजयं तथा॥४७॥

सभापर्व सभारचनं पर्व । मन्त्रो राजसूयार्थं मन्त्रणम् ॥४७॥

पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ।
ततश्चार्घाभिहरणं शिशुपालवधस्ततः॥४८॥

द्यूतपर्व ततः प्रोक्तमनुद्यूतमः परम् ।
तत आरण्यकं पर्व किर्मीरवध उच्यते॥४९॥

अनुद्यूतं पुनर्द्यूतम् ॥४९॥

अर्जुनस्याभिगमनं पर्व ज्ञेयमतः परम् ।
ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम्॥५०॥

अभिगमनं तपसे गमनम् ॥५०॥

इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् ।
नलोपाख्यानमपि च धार्मिकं करुणोदयम्॥५१॥

यक्षयुद्धं भीमेन ॥५१॥

तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ।
जटासुरवधः पर्व यक्षयुद्धमतः परम्॥५२॥

निवातकवचैर्युद्धं पर्व चाजगरं ततः ।
मार्कण्डेयसमास्या च पर्वानन्तरमुच्यते॥५३॥

समास्या सहावस्थानम् ॥५३॥

संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ।
घोषयात्रा ततः पर्व मृगस्वप्नोद्भवं ततः॥५४॥

घोषयात्रा कौरवाणां मृगस्वप्नो धर्मराजस्य ॥५४॥

व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ।
द्रौपदीहरणं पर्व जयद्रथविमोक्षणम्॥५५॥

ऐन्द्रद्युम्नमित्यत्र क्रमो न विवक्षितः । संख्यायां तात्पर्यात् । समास्यान्तर्गतं चेदं पर्व॥५५॥

पतिव्रताया माहात्म्यं सावित्र्याश्चैवमद्भुतम् ।
रामोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्॥५६॥

कुण्डलाहरणं पर्व ततः परमिहोच्यते ।
आरणेयं ततः पर्व वैराटं तदनन्तरम् ।
पाण्डवानां प्रवेशश्च समयस्य च पालनम्॥५७॥

कुण्डलाहरणं कर्णस्य । आरणेयं अरणीहरणं ब्राह्मणस्य । धर्मेण प्रवेशो विराटनगरे । समयस्य प्रतिज्ञातस्य प्राक् प्रवेशाद्यर्थस्य ॥५७॥

कीचकानां वधः पर्व पर्व ग्रोग्रहणं ततः ।
अभिमन्योश्च वैराट्याः पर्व वैवाहिकं स्मृतम्॥५८॥

अभिमन्योः अर्जुनपुत्रस्य ॥५८॥

उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् ।
ततः संजययानाख्यं पर्व ज्ञेयमतः परम्॥५९॥

सञ्जययानं पाण्डवान्प्रति ॥५९॥

प्रजागरं तथा पर्व धृतराष्ट्रस्य चिन्तया ।
पर्व सानत्सुजातं वै गुह्यमध्यात्मदर्शनम्॥६०॥

यानसन्धिस्ततः पर्व भगवद्यानमेव च ।
मातलीयमुपाख्यानं चरितं गालवस्य च॥६१॥

भगवद्यानं कौरवान् प्रति ॥६१॥

सावित्रं वामदेव्यं च वैन्योपाख्यानमेव च ।
जामदग्न्यमुपाख्यानं पर्व षोडशराजकम्॥६२॥

सभाप्रवेशः कृष्णस्य विदुलापुत्रशासनम् ।
उद्योगः सैन्यनिर्याणं विश्वोपाख्यानमेव च॥६३॥

ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः ।
निर्याणं च ततः पर्व कुरुपाण्डवसेनयोः॥६४॥

ननु सर्पसत्रे जनमेजयं प्रति यद्वैशम्पायनेनोक्तं तदेव शौनकं प्रति सूतेन वक्तुं प्रतिज्ञातं तत्र पौष्यं पौलोममास्तीकं च किमित्यप्रतिज्ञातमप्युच्यते सूतेनेतिचेत्तत्राह । कथितमिति । सत्रे व्यासशिष्येण यत् कथितं तत्र भारते पौष्यं पौलोमम् आस्तीकं च महीक्षितां यशोवीर्यं च वक्तुमिति शेषः । आदितः स्मृतमितियोजना । स्मरणं तु विस्तारार्थम् । अयं भावः । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् अविद्यया मृत्युं तीर्त्वेत्यादि श्रुतेर्गुरुसेवामाहात्म्यं गुरूणां च माहात्म्यं यज्ञादीनां विद्यार्थत्वं च निरूपणीयं तेष्वन्यतमाभावेऽपि विद्यानैवोदेतुमर्हतीति तदर्थमत्राचार्यैणाख्यायिकामुखेनैव पौष्ये गुरुशुश्रूषामाहात्म्यं पौलोमे भार्गवाणां गुरूणां महाभाग्यमुक्तम् । आस्तीके जरत्कारोरप्रतिपन्नगार्हस्थस्याकृतार्थत्वदर्शनेन यज्ञादीनामाविद्यकानामपि विद्याङ्गत्वमुक्तम् । विविदिषन्ति यज्ञेनेत्यादिश्रुतेः । तस्मान्महोपनिषदारम्भे एतत्त्रयकथनमावश्यकमिति आख्यायिकामुखेन कथ्यमानगहनोप्यर्थः । सुग्रहो भवतीत्यभिप्रेत्य महीभृतां यशोवीर्यं चोक्तमिति ॥६४॥

रथातिरथसंख्या च पर्वोक्तं तदनन्तरम् ।
उलूकदूतागमनं पर्वामर्षविवर्धनम्॥६५॥

संख्या भीष्मकृता उल्लूकदूतस्य पाण्डवान् प्रति आगमनम् ॥६५॥

अम्बोपाख्यानमत्रैव पर्व ज्ञेयमतः परम् ।
भीष्माभिषेचनं पर्व ततश्चाद्भुतमुच्यते॥६६॥

अभिषेचनं सैनापत्ये॥६६॥

जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् ।
भूमिपर्व ततः प्रोक्तं द्वीपविस्तारकीर्तनम्॥६७॥

जम्बूखण्डविनिर्माणं जम्बूद्वीपसन्निवेशः भूमिपर्वण्येव द्वीपविस्तारकीर्तनम् ॥६७॥

पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः ।
द्रोणाभिषेचनं पर्व संशप्तकवधस्ततः॥६८॥

अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते ।
जयद्रथवधः पर्व घटोत्कचवधस्ततः॥६९॥

प्रतिज्ञा जयद्रथ वधार्थम् ॥६९॥

ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् ।
मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते॥७०॥

कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् ।
ह्रदप्रवेशनं पर्व गदायुद्धमतः परम्॥७१॥

हृदप्रवेशनं दुर्योधनस्य । गदायुद्धं तस्यैव भीमेन ॥७१॥

सारस्वतं ततः पर्व तीर्थवंशानुकीर्तनम् ।
अत ऊर्ध्वं सुबीभत्सं पर्व सौप्तिकमुच्यते॥७२॥

ऐषीकं पर्व चोद्दिष्टमत ऊर्ध्वं सुदारुणम् ।
जलप्रदानिकं पर्व स्त्रीविलापस्ततः परम्॥७३॥

जलप्रदानिके एव स्त्रीविलापनम् ॥७३॥

श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् ।
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः॥७४॥

कुरूणामौर्ध्वदेहिकं श्राद्धं पर्व । चार्वाकस्य ब्रह्मरूपिणो राक्षसस्य विप्रक्षोभान्निग्रहः पर्व ॥७४॥

आभिषेचनिकं पर्व धर्मराजसर्य धीमतः ।
प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम्॥७५॥

शान्तिपर्व ततो यत्र राजधर्मानुशासनम् ।
आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम्॥७६॥

शान्तिपर्वाह द्वाभ्यां शान्तीति ॥७६॥

शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशासनम् ।
प्रादुर्भावश्च दुर्वासःसंवादश्चैव मायया॥७७॥

भामयेति पाठान्तरम् उभयत्रापि सुलभयेत्यर्थः ॥७७॥

ततः पर्व परिज्ञेयमानुशासनिकं परम् ।
स्वर्गारोहणिकं चैव ततो भीष्मस्य धीमतः॥७८॥

अनुशासनं धर्माधर्मोपदेशः तत्संबद्धमानुशासनिकम् ॥७८॥

ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् ।
अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम्॥७९॥

पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च ।
नारदागमनं पर्व ततः परमिहोच्यते॥८०॥

मौसलं पर्व चोद्दिष्टं ततो घोरं सुदारुणम् ।
महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः॥८१॥

हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम् ।
विष्णुपर्व शिशोश्चर्या विष्णोः कंसवधस्तथा॥८२॥

हरिवंशः पुराणं प्राक्प्रवृत्तं पर्व खिलसंज्ञितम् । शाखान्तरस्थं शाखान्तरे यदपेक्षावशात्पठ्यते तत्खिलमिति वैदिकी प्रसिद्धिः । यथा बहुचानां श्रीसूक्तमेधासूक्तादीनां संहिताकाले पाठो दृश्यते । एवमस्मिन्नितिहासे यत्पुराणान्तरस्थमाकाङ्क्षावशात्पठ्यते तत्खिलं हरिवंशाख्यमित्याह । हरिवंश इति । अत एवास्य खिलस्य पुराणमिति विशेषणम् । तथा हि अत्र विष्णुचर्या विष्णुपुराणोक्ता साकल्येनं दृश्यते ॥८२॥

भविष्यं पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ।
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना॥८३॥

एवं भविष्यपुराणकथा च । खिलेष्वेवाद्भुतं महदिति पृथग्वाक्यम् । अद्भुतं पुष्करवाराहनारसिंहवामनप्रादुर्भावादिकैलासयात्रात्रिपुरवधान्तम् । एतदेव पर्वशतम् । एकैकस्मिन्महाप्रकरणे अवान्तरप्रकरणानामन्तर्भावविक्षयाऽष्टादशसंख्यात्वेन लोमहर्षणिना उक्तम् ॥८३॥

यथावत्सूतपुत्रेण लौमहर्षणिना ततः ।
उक्तानि नैमिशारण्ये पर्वाण्यष्टादशैव तु॥८४॥

समासो भारतस्यायमत्रोक्तः पर्वसंग्रहः ।
पौष्यं पौलोममास्तीकमादिरंशावतारणम्॥८५॥

तत्र कस्मिन्महापर्वणि कत्यवान्तरपर्वाणि तेषु च के केऽर्थाः प्रतिपाद्याः । एकैकस्मिन्महापर्वणि श्लोकसंख्या च का इत्येतद्वक्तुमुपक्रमते । समास इति । अयं बुद्धिस्थोऽनुक्रमण्यध्यायः । स च भारतस्य समासः सङ्क्षेपपर्वेत्यर्थः । अत्र प्रस्तुते द्वितीयेऽध्याये पर्वसङ्ग्रहः । एवं पौष्यादिभिश्च मयदर्शनान्तैः सप्तदशभिश्चैवमेकोनविंशत्या पर्वभिरादिपर्व । आदित्वं चास्य न प्राथम्यात्किंतु सर्वेषामादिरुत्पत्तिरिंह कीर्त्यत इति । एवं सभादीनामपि संज्ञा तत्तदेकैकार्थप्राधान्याद्बोध्या । अत्रायं सङ्ग्रहः । “आदौ सभारण्यविराटउद्यमे भीष्मे गुरौ सूर्यजशल्यसौप्तिके । स्त्रीशान्तिदानाश्वमखाश्रमस्थितौ मौसल्ययानद्युगमे खिलेषु च" पर्वाणिधृ १८ त्यंक ९ नृप १६ वार्धी ४ ट् ११ धी ५ मै ८ क १ केट् ४ त्रि ३ धीः ५ वार्द्धी ४ दु १ द्वि २ त्रि ३ भू १ भू १ भू १ ग्रामा ३ श्चेति शतं क्रमादीति ॥८५॥

संभवो जतुवेश्माख्यं हिडिम्बबकयोर्वधः ।
तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवरः॥८६॥

क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् ।
विदुरागमनं चैव राज्यलाभस्तथैव च॥८७॥

वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः ।
हरणाहरणं चैव दहनं खाण्डवस्य च॥८८॥

मयस्य दर्शनं चैव आदिपर्वणि कथ्यते ।
पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम्॥८९॥

अत्र प्राधान्यस्तत्तदाख्यानतात्पर्याणि गाणेश्यां सङ्गृहीतानि कुड्यवद्वृषवद्भूत्वाव्यन्नोयः सेवते गुरुम् । तं विद्या देवताश्चानुगृह्णन्तीत्याह प्रौष्यकृत् । "खलो न प्रार्थनासाध्यः स च दैवेन ताडितः । अभ्येति मृदुतां पश्चादुत्तङ्के तक्षको यथा ॥८९॥

पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ।
आस्तीके सर्वनागानां गरुडस्य च संभवः॥९०॥

शास्त्रोल्लङ्घनतो वह्निपुलोमानाववापतुः । शापमृत्यू इति पुनः पौलोमे तुर्य ईरितम् । लोकान्मन्त्रान्महेन्द्राच्च ब्राह्मणे वीर्यमद्भुतम् । तक्षको येन खे तस्थावित्यास्तीकेऽनुवर्णितम् । अन्याय्यमपि मात्रोक्तं सद्यो यो नानुतिष्ठति । तं भस्मीकुर्वते विप्रावेदश्चाहिगणं यथा ॥ मिथ्यावादेन ये दासीकृतास्तत्संततिः स्वकाम् ॥ सन्ततिं नाशयत्येव गरुत्मानिव पन्नगान् आयुर्हानिर्महान् शोको हिंसायां चाति संभ्रमः ॥ रुरोरिव भवन्त्येव दारसक्तस्य दुर्मतेः । प्रजया पैतृकमृणं छेतुं दारान् करोति चेत् ॥ तदा जरत्कारुरिव कार्यान्ते प्रव्रजेद्गृहात् ॥९०॥

क्षीरोदमथं चैव जन्मोच्चैःश्रवसस्तथा ।
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च॥९१॥

तत्त्वामृतं शास्त्रसिन्धोः समं लब्धं सुरासुरैः । आस्वादितं विष्णुभक्तैः सुरैर्नान्यैः स्त्रिया जितैः ॥ देवपङ्क्तौ सुधां लेभे दैत्यो देहच्छिदा समम् । सूचितश्चित्तचक्षुर्भ्यां काश्यामिव महेश्वरात् ॥९१॥

कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ।
विविधाः संभवा राज्ञामुक्ताः संभवपर्वणि॥९२॥

अन्येषां चैव शूराणामृषेर्द्वैपायनस्य च ।
अंशावतरणं चात्र देवानां परिकीर्तितम्॥९३॥

स्त्रिया माद्यन्ति सन्तोपीत्युक्तं व्यासस्य जन्मनि । देवासुरनरेष्वेवं सन्तीत्यंशावतारणे ॥९३॥

दैत्यानां दानवानां च यक्षाणां च महौजसाम् ।
नागानामथ सर्पाणां गन्धर्वाणां पतत्त्रिणाम्॥९४॥

अत्यल्पस्यापि पापस्य विपाकमतिदारुणम् । अन्वभूतां चिरं ब्रह्मन्नणीमाण्डव्यडुण्डुभौ ॥९४॥

अन्येषां चैव भूतानां विविधानां समुद्भवः ।
महर्षेराश्रमपदे कण्वस्य च तपस्विनः॥९५॥

शकुन्तलायां दुष्यन्ताद्भरतश्चापि जज्ञिवान् ।
यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम्॥९६॥

शिष्टानां चेतसस्तुष्टिर्धर्मे प्रामाण्यमश्नुते । शकुन्तलामीहमानं दुष्यन्तस्य मनो यथा ॥९६॥

वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् ।
शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि॥९७॥

पितुर्दुःखं हरन् पुत्रः श्रेयो लक्ष्मीं च विन्दति । भीष्मवत्पूरुवन्मानात्पतन्ति च ययातिवत् ॥९७॥

तेजोंऽशानां च संपातो भीष्मस्याप्यत्र संभवः ।
राज्यान्निवर्तनं तस्य ब्रह्मचर्यव्रते स्थितिः॥९८॥

प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च ।
हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः॥९९॥

विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम् ।
धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा॥१००॥

कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा ।
धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः॥१०१॥

क्षेत्रवीजे विना द्रोणधृष्टद्युम्नवपुर्जनिः । केवलात्कर्मण इतिप्रोक्तं संभवपर्वणि ॥१॥

वारणावतयात्रायां मन्त्रो दुर्योधनस्य च ।
कूटस्य धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति॥१०२॥

विषवार्यग्निभिर्लुब्धा घातयन्तिस्मबान्धवान् । ईश्वरस्तानवत्येवेत्युक्तं जातुषपर्वणि ॥२॥

हितोपदेशश्च पथि धर्मराजस्य धीमतः ।
विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया॥१०३॥

विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया ।
निषाद्याः पञ्चपुत्रायाः सुप्ताया जतु वेश्मनि॥१०४॥

पुरोचनस्य चात्रैव दहनं संप्रकीर्तितम् ।
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम्॥१०५॥

तत्रैव च हिडिम्बस्य वधो भीमान्महाबलात् ।
घटोत्कचस्य चोत्पत्तिंरत्रैव परिकीर्तिता॥१०६॥

अविश्वास्याः स्त्रियः कामाद्धातयन्त्यपि बान्धवान् । इति दर्शितवान्व्यासो हिडिम्बवधपर्वणि ॥६॥

महर्षेर्दर्शनं चैव व्यासस्यामिततेजसः ।
तदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने॥१०७॥

अज्ञातचर्यया वासो यत्र तेषां प्रकीर्तितः ।
बकस्य निधनं चैव नागराणां च विस्मयः॥१०८॥

यस्मिन्गेहे पुरे वापि वसेत्पुण्यतमो जनः । उपकुर्यात्तमित्येवमुक्तं बकवधेऽपि च ॥८॥

संभवश्चैव कृष्णाया धृष्टद्युम्नस्य चैव ह ।
ब्राह्मणात्समुपश्रुत्य व्यासवाक्यप्रचोदिताः॥१०९॥

द्रौपदीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया ।
पञ्चालानभितो जग्मुर्यत्र कौतूहलान्विताः॥११०॥

अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा ।
सख्यं कृत्वा ततस्तेन तस्मादेव च शुश्रुवे॥१११॥

ब्राह्मणानुग्रहादेव क्षत्रं जयति नान्यथा । इति तापसदृष्टान्तादाह चैत्ररथे मुनिः ॥११॥

तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् ।
भ्रातृभिः सहितः सर्वैः पञ्चालानभितो ययौ॥११२॥

सूर्यस्य कन्यांतपतीं नष्टं राज्यं च लब्धवान् । वसिष्ठस्य प्रसादेन राजा संवरणो यथा । वसिष्ठस्य शतं पुत्रान्नाशयामास कौशिकः । नैनं बबाधिरे ब्रह्महत्यास्तास्तपसो बलात् ॥ प्राज्ञः खलार्दितो देहं संत्यक्षति न तु क्षमाम् । न शशाप वसिष्ठो हि पुत्रघ्नमपिकौशिकम् ॥ कौशिके क्रौर्यतपसी राधेये शौर्यभीरुते । खले च वाचि माधुर्यं बीजसंस्कारसङ्करात् ॥ ब्राह्मणो गर्भसंस्थोऽपि माननीय मनीषिणाम् । और्वो हि मातुरूरुस्थः क्षत्रमन्धमचीकरत् ॥१२॥

पाञ्चालनगरे चापि लक्ष्यं भित्त्वा धनञ्जयः ।
द्रौपदीं लब्धवानत्र मध्ये सर्वमहीक्षिताम्॥११३॥

लोकवेदविरोधेऽपि मातुर्वाक्यं न लङ्घयेत् । इत्येकस्यां रेमिऽरेमी पञ्चेत्युक्तं स्वयंवरे ॥ ननु वेदविरुद्धेयमेकस्या बहुभर्तृता । नैकस्यै बहवो नैका द्वौ पती इति च श्रुती ॥ ‘नैकस्यै बहवः सह पतय इति तस्मान्नैका द्वौ पती विन्दते’ इति च श्रुतिविशेषः । 'अग्नीन्पञ्चक्रमात्प्राप्य हव्यमेति मनुष्यताम् । अग्नयस्त्वग्निरर्कः क्ष्मा पुरुषो योषिदित्यपि ॥ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ द्रोणोवह्निचतुष्कोत्थो योषिदग्नेरभावतः । अग्नित्रयोत्थितासीता भूत्थापित्रोरभावतः ॥ अग्निद्वयोत्थिता देवा न स्पृशन्ति क्षितिं हिते । देवजाः पार्थ माद्रेया भूपुमग्निविवर्जिताः । क्षिप्तमात्रं हविर्वह्नौ मिथुनत्वमुपागतम् । एकाग्निजावतः पुत्रौ द्रुपदस्य सुराधिकौ ॥ सर्वे सर्वात्मका देवा विरजोवयवा यतः । सर्वे एव समाः सर्वेऽनन्ता इति हि वेदगीः ॥ न तेषां व्यभिचारोस्ति न चेत्सूर्ययमौ कथम् । पितापुत्रौ सतीं कुन्तीमुपेयातां सुरोत्तमौ ॥ द्रौपदीं देवजां पार्था देवजा यदि भुञ्जते । न तेषामत्र दोषोऽस्ति देवा एव हि ते स्वयम् ॥ श्रूयते न हि वै देवान् पापं गच्छति सर्वथा । तस्माद्यज्ञैर्देवभावं प्रार्थयीत निरेनसम् ॥ एतद्वैवाहिके व्यासो नानाख्यानोपबृंहणैः । दर्शयामास लोकानां संशयस्यापनुत्तये ॥१३॥

भीमसेनार्जुनौ यत्र संरब्धान्पृथिवीपतीन् ।
शल्यकर्णौ च तरसा जितवन्तौ महामृधे॥११४॥

दृष्ट्वा तयोश्च तद्वीर्यमप्रमेयममानुषम् ।
शङ्कमानौ पाण्डवांस्तान् रामकृष्णौ महामती॥११५॥

जग्मतुस्तैः समागन्तुं शालां भार्गववेश्मनि ।
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च॥११८॥

प्रणमन्ति जिघांसन्तोप्यनुकूले विधातरि । पाण्डुपुत्रान्धार्तराष्ट्रा इत्युक्तं विदुरागमे ॥ यान् खला दग्धुमिच्छन्ति तान्वर्द्धयति केशवः । निरस्ताः पाण्डवा दारान् राज्यं कीर्तिं च लेभिरे ॥११६॥

पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते ।
द्रौपद्या देवविहीतो विवाहश्चाप्यमानुषः॥११७॥

क्षत्तुश्च धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति ।
विदुरस्य च संप्राप्तिर्दर्शनं केशवस्य च॥११८॥

प्रणमन्ति जिघांसन्तोप्यनुकूले विधातरि । पाण्डुपुत्रान्धार्तराष्ट्रा इत्युक्तं विदुरागमे ॥ यान् खला दग्धुमिच्छन्ति तान्वर्द्धयति केशवः । निरस्ताः पाण्डवा दारान् राज्यं कीर्तिं च लेभिरे ॥११८॥

खाण्डवप्रस्थवासश्च तथा राज्यार्धसर्जनम् ।
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया॥११९॥

सुन्दोपसुन्दयोस्तद्वदाख्यानं परिकीर्तितम् ।
अनन्तरं च द्रौपद्या सहासीनं युधिष्ठिरम्॥१२०॥

एकात्मानोऽपि भिद्यन्ते स्त्रीभिः सुन्दोपसुन्दवत् । तस्मात्सख्युरपि स्त्रीभिर्न संभाषेत बुद्धिमान् । विप्रार्थान्पालयेज्ज्ञात्वाप्यापदं द्वादशाब्दिकीम् । इति दर्शितवान् व्यास आर्जुन्या तीर्थयात्रया॥१२०॥

अनु प्रविश्य विप्रार्थे फाल्गुनो गृह्य चायुधम् ।
मोक्षयित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः॥१२१॥

समयं पालयन्वीरो वनं यत्र जगाम ह ।
पार्थस्य वनवासे च उलूप्या पथि सङ्गमः॥१२२॥

पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ।
तत्रैव मोक्षयामास पञ्च सोऽप्सरसः शुभाः॥१२३॥

शापाद्ग्राहत्वमापन्ना ब्राह्मणस्य तपस्विनः ।
प्रभासतीर्थे पार्थेन कृष्णस्य च समागमः॥१२४॥

द्वारकायां सुभद्रा च कामयानेन भामिनी ।
वासुदेवस्यानुमते प्राप्ता चैव किरीटिना॥१२५॥

न ज्ञातीनां वचः प्रेक्ष्यं वरे श्रेयस्युपागते । इतीव कृष्णो विजयं स्वस्वसारमहारयत् । मातुलस्य सुतां पार्थो धर्मतो भगिनीं सतीम् । कथं जहार धर्मात्मापीति चेत्तच्छृणुष्व मे । भ्रातृस्वस्रोः सुतौ भ्रातृस्वसारौ यदि शौनक । सप्तमादूर्ध्वमप्येष संबन्धश्छिद्यतां कथम् । तस्मात्तयोः स्वसृभ्रातृभावो भाक्तो विगोत्रयोः । दाम्पत्यभावस्तु तयोर्मन्त्रलिङ्गात्परिस्फुटः । आयाहीन्द्रपथिभिरीळितेभिर्यज्ञमिमं नो भागधेयं जुषस्व । तृप्तां जहुर्मातुलस्येव योषा भागस्ते पैतृष्वसेयी वपामिव । योषापत्यं मातुलीयं यथा भागः पितृष्वसुः । पुत्रस्यैवं वपान्तेंऽशं जुषस्वेन्द्रेत्यृषिर्जगौ ॥२५॥

गृहीत्वा हरणं प्राप्ते कृष्णे देवकिनन्दने ।
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः॥१२६॥

मानघ्नस्यापि जामातुर्मानं सम्वर्द्धयेद्बुधः । स्वसुर्हर्त्रेर्जुनायापि ददुर्वित्तानि वृष्णयः ॥२६॥

द्रौपद्यास्तनयानां च संभवोऽनुप्रकीर्तितः ।
विहारार्थं च गतयोः कृष्णयोर्यमुनामनु॥१२७॥

संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ।
मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम्॥१२८॥

अग्निमप्यग्निमांद्यार्तं नरनारा यणावृषी । खाण्डवौषधिदानेन नीरोगं चक्रतुर्यथा । देवोऽपि दैह्यदुःखार्तो मानुषादेस्तु का कथा । शरणीकरणीयोऽतः सर्वदुःखापहो हरिः'। भुजङ्गस्य अश्वसेनस्य ॥२८॥

महर्षेर्मन्दपालस्य शार्ङ्ग्यां तनयसंभवः ।
इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम्॥१२९॥

पित्र्यादृणादमुक्तस्य सकलं सुकृतं वृथा । वियोनावप्यतः पुत्रान् जनयेन्मन्दपालवत् । शार्ङ्गकान्स्वतपोरक्षन्नागं मातार्जुनोमयम् । भवाग्निं ततुकामेतिस्त्रोनतान् शरणं व्रजेत् ॥२९॥

अध्यायानां शते द्वे तु संख्याते परमर्षिणा ।
सप्तविंशतिरध्याया व्यासेनोत्तमतेजसा॥१३०॥

अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च ।
श्लोकाश्च चतुराशीतिर्मुनिनोक्ता महात्मना॥१३१॥

चतुराशीतीतिदैर्घ्यमार्षम् । इत्यादिपर्वतात्पर्यं सङ्क्षेपेणोपवर्णितम् ॥३१॥

द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते ।
सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम्॥१३२॥

सभापर्वादितात्पर्यं मुख्यतः कथ्यतेऽधुना । दानवेन्द्रेण तुष्टेन सभा दत्ताद्भुता भुवि । दिवि देवी सभा यज्ञप्राप्या तस्याः शताधिका ॥३२॥

लोकपालसभाख्यानं नारदाद्देवदर्शिनः ।
राजसूयस्य चारम्भो जरासन्धवधस्तथा॥१३३॥

ततः शतगुणा ब्राह्मी लभ्या विष्णोः समर्चनात् । इत्युक्त्या नारदः पार्थं यज्ञेशार्चामचीकरत् । बहूनां यो वधेयतस्तं छलेनापि निर्दहेत् । जरासन्धवधेनैतद्दर्शितं मुनिना मुने ॥३३॥

गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् ।
तथा दिग्विजयोऽत्रैव पाण्डवानां प्रकीर्तितः॥१३४॥

वित्तार्जनं मखायैव महतामिति दर्शयन् । ऊचे दिग्विजयादूर्ध्वं राजसूयक्रतुक्रियाम् ॥३४॥

राज्ञामागमनं चैव सार्हणानां महक्रतौ ।
राजसूयेऽर्ध संवादे शिशुपालवधस्तथा॥१३५॥

तत्रैवार्घाभिहरणे विष्णुर्देवनरर्षिषु । आदौ पूज्योऽथ तद्द्वेष्टा सद्यो नश्येदितीरितम् । गोप्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादयो नृपाः । तीव्रध्यानाद्धरेः साम्यं लेभिरे कीटभृङ्गवत् ॥३५॥

यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च ।
दुर्योधनस्यावहासो भीमेन च सभातले॥१३६॥

न तथा शूलयक्ष्माद्याः पीडयन्ति गदा नरान् । यथा परेषामुत्कर्षः पापिनं धार्तराष्ट्रवत् ॥३६॥

यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् ।
यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत्॥१३७॥

कितवो द्यूतकारः ॥३७॥

यत्र द्यूतार्णवे मग्नां द्रौपदीं नौरिवार्णवात् ।
धृतराष्ट्रो महाप्राज्ञः स्नुषां परमदुःखिताम्॥१३८॥

द्रौपदीं तारयामासेत्युत्तरेणान्वयः । 'न बाह्योनान्तरः शत्रुर्बाधते भगवज्जनम् । क्रोधदुःशासनौ कृष्णामापद्यपि न तेरतुः ॥३८॥

तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः ।
पुनरेव ततो द्यूते समाह्वयत पाण्डवान्॥१३९॥

ज्ञात्वापि परमाहात्म्यं न खलः खलतां त्यजेत् । दृष्ट्वापि कृष्णमाहात्म्यं नैवाशाम्यत्सुयोधनः' । द्यूते द्यूतनिमित्तम् ॥१३९॥

जित्वा स वनवासाय प्रेषयामास तांस्ततः ।
एतत्सर्वं सभापर्व समाख्यातं महात्मना॥१४०॥

सत्यं सतां महान्पाशो येन बद्धाः पदात्पदम् । वञ्चिता अपि नो चेलुः समर्था अपि पाण्डवाः ॥४०॥

अध्यायाः सप्ततिर्ज्ञेयास्तथा चाष्टौ प्रसंख्यया ।
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च॥१४१॥

श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्द्विजोत्तमाः ।
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत्॥१४२॥

वनवासं प्रयातेषु पाण्डवेषु महात्मसु ।
पौरानुगमनं चैव धर्मपुत्रस्य धीमतः॥१४३॥

पौरानुगमनं पौरकर्तृकमनुगमनम् ॥४३॥

अन्नौषधीनां च कृते पाण्डवेन महात्मना ।
द्विजानां भरणार्थं च कृतमाराधनं रवेः॥१४४॥

विप्रार्थं भास्करं भेजे न तु राज्याय धर्मराट्। धर्मायाभ्यर्चयेद्देवं न राज्यायेति दर्शयन् । प्रव्राजितः पथि रिपुं यद्धन्यान्मङ्गलाय तत् । पाण्डवानां प्रवसतां किर्मीरोन्मथनं यथा ॥४४॥

धौम्योपदेशात्तिग्मांशुप्रसादादन्नसंभः ।
हितं च ब्रुवतः क्षत्तुः परित्यागोऽम्बिकासुतात्॥१४५॥

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । भ्रातरं पथ्यवक्तारं धृतराष्ट्रो व्यवासयत् ॥१४५ ॥

त्यक्तस्य पाण्डुपुत्राणां समीपगमनं तथा ।
पुनरागमनं चैव धृतराष्ट्रस्य शासनात्॥१४६॥

कर्णप्रोत्साहनाच्चैव धार्तराष्ट्रस्य दुर्मतेः ।
वनस्थान्पाण्डवान्हन्तुं मन्त्रो दुर्योधनस्यच॥१४७॥

तं दुष्टभावं विज्ञाय व्यासस्यागमनं द्रुतम् ।
निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव च॥१४८॥

मैत्रेयागमनं चात्र राज्ञश्चैवानुशासनम् ।
शापोत्सर्गश्च तेनैव राज्ञो दुर्योधनस्य च॥१४९॥

शत्रुस्तव ऊरू भेत्स्यतीति शापोत्सर्गः ॥४९॥

किर्मीरस्य वधश्चात्र भीमसेनेन संयुगे ।
वृष्णीनामागमश्चात्र पञ्चालानां च सर्वशः॥१५०॥

अत्र धृतराष्ट्रसमीपे कथित इति शेषः ॥५०॥

श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश्च तान् ।
क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना॥१५१॥

निकृत्या छलेन ॥५१॥

परिदेवनं च पाञ्चाल्या वासुदेवस्य सन्निधौ ।
आश्वासनं च कृष्णेन दुःखार्तायाः प्रकीर्तितम्॥१५२॥

परिदेवनं विलापः ॥५२॥

तथा सौभवधाख्यानमत्रैवोक्तं महर्षिणा ।
सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम्॥१५३॥

महर्षिणा कृष्णेन ॥५३॥

नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव ह ।
प्रवेशः पाण्डवेयानां रम्ये द्वैतवने ततः॥१५४॥

धर्मराजस्य चात्रैव संवादः कृष्णया सह ।
संवादश्च तथा राज्ञा भीमस्यापि प्रकीर्तितः॥१५५॥

समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा ।
प्रतिश्रुत्याथ विद्याया दानं राज्ञो महर्षिणा॥१५६॥

गमनं काम्यके चापि व्यासे प्रतिगते ततः ।
अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः॥१५७॥

महादेवेन युद्धं च किरातवपुषा सह ।
दर्शनं लोकपालानामस्त्रप्राप्तिस्तथैव च॥१५८॥

देवतासु प्रसन्नासु देवशत्रून्विनाशयेत् । इतीव देवैर्दत्तास्त्री निर्जघानार्जुनोऽसुरान् । अकामे कामिनीशापो देहगुप्त्यै क्वचिद्भवेत् । पार्थस्येवोर्वशीशापः प्रच्छन्नं वा समीप्सतः ॥५८॥

महेन्द्रलोकगमनमस्त्रार्थे च किरीटिनः ।
यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी॥१५९॥

दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः ।
युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम्॥१६०॥

व्यसनं द्यूतजमनर्थम् ॥६०॥

नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् ।
दमयन्त्याः स्थितिर्यत्र नलस्य चरितं तथा॥१६१॥

व्यसनं द्यूतजमनर्थम् ॥१६१॥

तथाऽक्षहृदयप्राप्तिस्तस्मादेव महर्षितः ।
लोमशस्यागमस्तत्र स्वर्गात्पाण्डुसुतान्प्रति॥१६२॥

वनवासगतानां च पाण्डवानां महात्मनाम् ।
स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै॥१६३॥

स्वर्गे प्रवृत्तिः स्वर्गीयवृत्तान्तः ॥६३॥

संदेशादर्जुनस्यात्र तीर्थाभिगमनक्रिया ।
तीर्थानां च फलप्राप्तिःपुण्यत्वं चापि कीर्तितम्॥१६४॥

पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा ।
तीर्थयात्रा च तत्रैव पाण्डवानां महात्मनाम्॥१६५॥

कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात् ।
तथा यज्ञविभूतिश्च गयस्यात्र प्रकीर्तिता॥१६६॥

आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् ।
लोपामुद्राभिपमनमपत्यार्थमृषेस्तथा॥१६७॥

ऋषेरगस्त्यस्य ॥६७॥

ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः ।
जामदग्न्यस्य रामस्य चरितं भूरितेजसः॥१६८॥

क्रोधीपुत्रान्कलत्रं च हन्ति लोकाश्च भूरिशः । जमदग्निः सपुत्रोऽत्र निदर्शनमुदीरितम् ॥६८॥

कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते ।
प्रभासतीर्थे पाण्डूनां वृष्णिभिश्च समागमः॥१६९॥

सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ।
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ॥१७०॥

देवत्वं देवतानां हि ब्राह्मण्याच्च्यवनो यतः । शर्यातियज्ञे नासत्यौ कृतवान्सोमपायिनौ । सोमस्य पीतं पानं तद्वन्तौ सोमपीतिनौ ॥१७०॥

ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ।
मान्धातुश्चाप्युपाख्यानं राज्ञोऽत्रैव प्रकीर्तितं॥१७१॥

जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः ।
पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः॥१७२॥

पुत्रेण पशुभूतेन याजको नरकं याति न याज्यः पापमाचरन् जन्तुं हत्वा सोमकाय शतं पुत्रान्ददद्यथा ॥७२॥

ततः श्येनकपोतीयमुपाख्यानमनुत्तमम् ।
इन्द्राग्नी यत्र धर्मश्चाप्यजिज्ञासच्छिबिं नृपम्॥१७३॥

अजिज्ञासत् परीक्षितवान् उत्कृत्यापि स्वमांसानि दत्वा वाप्यखिलं वपुः । शिबिः कपोतमिव च त्रायेत शरणागतम् ॥७३॥

अष्टावक्रीयमत्रैव विवादो यत्र बन्दिना ।
अष्टावक्रस्य विप्रर्षेर्जनकस्याध्वरेऽभवत्॥१७४॥

नैयायिकानां मुख्येन वरुणस्यात्मजेन च ।
पराजितो यत्र बन्दी विवादेन महात्मना॥१७५॥

नैयायिकानां मुख्येन युक्तिरेव बलीयसी । न तु श्रुतिरिति मन्यमानेन ॥७५॥

विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ।
यवक्रीतस्य चाख्यानं रैभ्यस्य च महात्मनः ।
गन्धमादनयात्रा च वासो नारायणाश्रमे॥१७६॥

सागरं प्राप्तं सागरं गतं पितरं कहोडम् । ऋषिः अष्टावक्रः । न वेद्यं युक्तितो लभ्यं न च वेद्यो गुरुं विना । अष्टावक्रयवक्रीतकथाभ्यामेतदीरितम् ॥७६॥

नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने ।
व्रजन्पथि महाबाहुर्दृष्टवान्पवनात्मजम्॥१७७॥

निगुर्णः परमात्मायं देहं व्याप्यावतिष्ठते । इत्युक्त्वाह कपीन्द्राय नावमन्ये न लङ्घये ॥७७॥

कदलीषण्डमध्यस्थं हनूमन्तं महाबलम् ।
यत्र सौगन्धिकार्थेऽसौ नलिनीं तामधर्षयत्॥१७८॥

अनुशासनं धर्माधर्मोपदेशः तत्संबद्धमानुशासनिकम् ॥१७८॥

यत्रास्य युद्धमभवत्सुमहद्राक्षसैः सह ।
यक्षैश्चैव महावीर्यैर्मणिमत्प्रमुखैस्तथा॥१७९॥

जटासुरस्य च वधो राक्षसस्य वृकोदरात् ।
वृषपर्वणो राजर्षेस्ततोऽभिगमनं स्मृतम्॥१८०॥

तीर्थयात्राखलवधौ समानाविति दर्शयन् । पपाठतीर्थयात्रान्ते जटासुरवधादिकम् ॥१८०॥

आर्ष्टिषेणाश्रमे चैषां गमनं वास एव च ।
प्रोत्साहनं च पाञ्चाल्या भीमस्यात्र महात्मनः॥१८१॥

कैलासारोहणं प्रोक्तं यत्र यक्षैर्बलोत्कटैः ।
युद्धमासीन्महाघोरं मणिमत्प्रमुखैः सह॥१८२॥

समागमश्च पाण्डूनां यत्र वैश्रवणेन च ।
समागमश्चार्जुनस्य तत्रैव भ्रातृभिः सह॥१८३॥

अवाप्य दिव्यान्यस्त्राणि गुर्वर्थं सव्यसाचिना ।
निवातकवचैर्युद्धं हिरण्यपुरवासिभिः॥१८४॥

निवातकवचैर्घोरैर्दानवैः सुरशत्रुभिः ।
पौलोमैः कालकेयैश्च यत्र युद्धं किरीटिनः॥१८५॥

वधश्चैषां समाख्यातो राज्ञस्तेनैव धीमता ।
अस्त्रसंदर्शनारम्भो धर्मराजस्य सन्निधौ॥१८६॥

राज्ञोग्र इति शेषः । तेनैव अर्जुनेनैव एषां दानवानां वध आख्यातः ॥८६॥

पार्थस्य प्रतिषेधश्छ नारदेन सुरर्षिणा ।
अवरोहणं पुनश्चैव पाण्डूनां गन्धमादनात्॥१८७॥

भीमस्य ग्रहणं चात्र पर्वताभोगवर्ष्मणा ।
भुजगेन्द्रेण बलिना तस्मिन्सुगहने वने॥१८८॥

शारीराद्वलतो ब्रह्मन्बलं वैद्यं महत्तमं । भीमं ह्यजगरग्रस्तं धर्मराजो ह्यमोचयत् । पर्वतवत् आभोगः परिपूर्णत्वं यस्य तादृशं वर्ष्म शरीरं यस्य तेन । पर्वततुल्येनेर्त्यथेः ॥८८॥

अमोक्षयद्यत्र चैनं प्रश्नानुक्त्वा युधिष्ठिरः ।
काम्यकागमनं चैव पुनस्तेषां महात्मनाम्॥१८९॥

तत्रस्थांश्च पुनर्द्रष्टुं पाण्डवान्परुषर्षभान् ।
वासुदेवस्यागमनमत्रैव परिकीर्तितम्॥१९०॥

मार्कण्डेयसमास्यायामुपाख्यानानि सर्वशः ।
पृथोर्वैन्यस्य यत्रोक्तमाख्यानं परमर्षिणा॥१९१॥

समास्यायां सहोपवेशने ॥९१॥

संवादश्च सरस्वत्यास्तार्क्ष्यर्षेः सुमहात्मनः ।
मत्स्योपाख्यानमत्रैव प्रोच्यते तदनन्तरम्॥१९२॥

मार्कण्डेयसमास्या च पुराणं परिकीर्त्यते ।
ऐन्द्रद्युम्नामुपाख्यानं धौन्धुमारं तथैव च॥१९३॥

यावत्कीर्तिरकीर्तिर्वा तावत्स्वर्नरकेऽथवा । पुमानस्तीति जानीयादिन्द्रद्युम्ननिदर्शनात् ॥९३॥

पतिव्रतायाश्चाख्यानं तथैवाङ्गिरसं स्मृतम् ।
द्रौपद्याः कीर्तितश्चात्र संवादः सत्यभामया॥१९४॥

पित्रोः शुश्रूषया व्याधः सिद्धः पत्युः पतिव्रता । सिध्यन्ति ब्राह्मणा वह्नेर्योगिनस्त्वात्मसेवया । पतिव्रतानां धर्माश्च द्रौपदीसत्यभामयोः । संवादादधिगन्तव्याः सेव्यास्तासां सुखावहाः ॥१९४॥

पुनर्द्वैतवनं चैव पाण्डवाः समुपागताः ।
घोषयात्रा च गन्धर्वैर्यत्र बद्धः सुयोधनः॥१९५॥

ह्रियमाणस्तु मन्दात्मा मोक्षितोऽसौ किरीटिना ।
धर्मराजस्य चात्रैव मृगस्वप्ननिदर्शनात्॥१९६॥

साधूनभिबुभूषुर्हि स्वयमेवाभिभूयते । इति संदर्शयन्नाह घोषयात्रां महामुनिः । न देवब्राह्मणार्थेऽपि हिंसाबह्वी प्रशस्यते । इति संदर्शयन्नाह मृगस्वप्ननिदर्शनम् ॥९६॥

काम्यके काननश्रेष्ठे पुनर्गमनमुच्यते ।
व्रीहिद्रौणिकमाख्यानमत्रैव बहुविस्तरम्॥१९७॥

व्रीहिद्रौणिकदृष्टान्ताद्वृत्तिशुद्धोऽतिथिप्रियः । अत्यल्पेनापि दानेन सिद्ध्यतीत्येतदीरितम् ॥९७॥

दुर्वाससोऽप्युपाख्यानमत्रैव परिकीर्तितम् ।
जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात्॥१९८॥

दौर्वाससे तु सार्वात्म्यं कारुण्यं चेरितं हरेः । तत्तृप्त्याहि जगत्तृप्तमत्यल्पेनापि तृप्यतः ॥९८॥

यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे ।
चक्रे चैनं पञ्चशिखं यत्र भीमो महाबलः॥१९९॥

भीमो भयङ्करः भीमः पाण्डवः । पञ्चसटमिति पाठेऽपि स एवार्थः । परस्त्रीस्पर्शमात्रेण जयद्रथदशास्ययोः । आद्यः पञ्चसटो जातः सकुटुम्बो हतः परः ॥९९॥

रामायणमुपाख्यानमत्रैव बहुविस्तरम् ।
यत्र रामेण विक्रम्य निहतो रावणो युधि॥२००॥

कार्यार्थी मित्रमान्विच्छन्नृशंसः स्यान्महानपि । जघान वालिनं रामो निर्दोषमपि साहसात् ॥२००॥

सावित्र्याश्चाप्युपाख्यानमत्रैव परिकीर्तितम् ।
कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरंदरात्॥२०१॥

पतिव्रताया माहात्म्यं कुलद्वयसुखावहम् । भर्तृमृत्युहरं चैव सावित्रीह निदर्शनम् । परिमोक्षो वियोगः ॥१॥

यत्रास्य शक्तिं तुष्टोऽसावदादेकवधाय च ।
आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम्॥२०२॥

कर्णो दाता पात्रमिन्द्रो देयं स्वात्मसमं धनम् । शक्त्या विनिमयात्तज्जो धर्मो नाभ्यभवद्रिपुम् । आरणेयम् अरणीहरणम् । धर्मेण मृगरूपिणा । सर्वत्र चोदितार्थानामुपसंहारवर्णनम् । आरणेये धर्मपार्थसंवादव्याजतः कृतम् ॥२॥

जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ।
एतदारण्यकं पर्व तृतीयं परिकीर्तितम्॥२०३॥

आदिरेकोनविंशत्या पर्वभिर्नवभिः सभा । आरण्यकं षोडशभिर्धर्ममेव न्यरूपयत् ॥३॥

अत्राध्यायशते द्वे तु संख्यया परिकीर्तिते ।
एकोनसप्ततिश्चैव तथाऽध्यायाः प्रकीर्तिताः॥२०४॥

एकादश सहस्राणि श्लोकानां षट् शतानि च ।
चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः॥२०५॥

अतः परं निबोधेदं वैराटं पर्व विस्तरम् ।
विराटनगरे गत्वा श्मशाने विपुलां शमीम्॥२०६॥

धर्म उक्तस्त्रिभिः सेवा नीतियुद्धादि हेतुकम् । शोकभोगफलं चार्थं वक्ति पर्वभिरष्टभिः ॥६॥

दृष्ट्वा संनिदधुस्तत्र पाण्डवा ह्यायुधान्युत ।
यत्र प्रविश्य नगरं छद्मना न्यवसंस्तु ते॥२०७॥

पाञ्चालीं प्रार्थयानस्य कामोपहतचेतसः ।
दुष्टात्मनो वधो यत्र कीचकस्य वृकोदरात्॥२०८॥

विराटे प्रथमं प्रोक्तः सेवाधर्मः प्रवेशने । तत्रापि खलबाधास्तीत्युक्तं कीचकदारणे ॥८॥

पाण्डवान्वेषणार्थं च राज्ञो दुर्योधनस्य च ।
चाराः प्रस्थापिताश्चात्र निपुणाः सर्वतो दिशम्॥२०९॥

न च प्रवृत्तिस्तैर्लब्धा पाण्डवानां महात्मनाम् ।
गोग्रहश्च विराटस्य त्रिगर्तैः प्रथमं कृतः॥२१०॥

यत्रास्य युद्धं सुमहत्तैरासील्लोमहर्षणम् ।
ह्रियमाणश्च यत्रासौ भीमसेनेन मोक्षितः॥२११॥

गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ।
अनन्तरं च कुरुभिस्तस्य गोग्रहणं कृतम्॥२१२॥

पौरुषं दर्शयित्वैव स्वामिने गोत्रनामनी । प्रकीर्तयेदिति प्रोचे मुनिर्गोग्रहपर्वणि ॥१२॥

समस्ता यत्र पार्थेन निर्जिताः कुरवो युधि ।
प्रत्याहृतं गोधनं च विक्रमेण किरीटिना॥२१३॥

विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः ।
अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम्॥२१४॥

धर्मेणैवापदं तीर्त्वा परंसौभाग्यमश्नुते । अभिमन्योर्विवाहाख्ये पर्वण्येतत्प्रदर्शितम् ॥१४॥

चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् ।
अत्रापि परिसंख्याता अध्यायाः परमर्षिणा॥२१५॥

सप्तषष्टिरथो पूर्णाः श्लोकानामपि मे शृणु ।
श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु॥२१६॥

उक्तानि वेदविदुषा पर्वण्यस्मिन्महर्षिणा ।
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम्॥२१७॥

उपप्लाव्ये निविष्टेषु पाण्डवेषु जिगीषया ।
दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ॥२१८॥

साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति ।
इत्युक्ते वचने कृष्णो यत्रोऽवाच महामतिः॥२१९॥

अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ ।
अक्षौहिणीं वा सैन्यस्य कस्य किं वा ददाम्यहम्॥२२०॥

वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः ।
अयुध्यभानं सचिवं वव्रे कृष्मं धनंजयः॥२२१॥

मन्दात्मा स्वार्थानमिज्ञः । दुर्मतिर्विक्षिप्तचित्तः । एक एव सहायोऽलमीशः किं सैन्यकोटिभिः । इति वव्रेर्जुनः कृष्णं न सैन्यं धार्तराष्ट्रवत् ॥२१॥

मद्रराजं व राजानमायान्तं पाण्डवान्प्रति ।
उपहारैर्वञ्चायत्वा वर्त्मन्येव सुयोधनः॥२२२॥

वरदं तं वरं वव्रे साहाय्यं क्रियतां मम ।
शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान्॥२२३॥

शान्तिपूर्वं चाकथयद्यत्रेन्द्रविजयं नृपः ।
पुरोहितप्रेषणं च पाण्डवैः कौरवान्प्रति॥२२४॥

वैचित्रवीर्यस्य वचः समादाय पुरोधसः ।
तथेन्द्रविजयं चापि यानं चैव पुरोधसः॥२२५॥

वैचित्रवीर्यस्य पाण्डवस्य पुरोधसः सकाशात् वचः इन्द्रविजयतात्पर्यं पुरोहितप्रेषणौचित्यं च समादाय अभ्युपेत्य सञ्जयं, प्रेषयामासेति उत्तरेण सम्बन्धः । भवेत्सहायवान् पूर्वं साम्ना शत्रुमथार्थयेत् । उद्योगसञ्जयप्रेष्य पर्वभ्यामेतदीरितम् ॥२५॥

संजयं प्रेषयामास शमार्थी पाण्डवान्प्रति ।
यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान्॥२२६॥

श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् ।
प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया॥२२७॥

विदुरो यत्र वाक्यानि विचित्राणि हितानि च ।
श्रावयामास राजानं धृतराष्ट्रं मनीषिणम्॥२२८॥

तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् ।
मनस्तापान्वितो राजा श्रावितः शोकलालसः॥२२९॥

शोके लालसा आसक्तिर्यस्य स तथाभूतस्तापहरम् अध्यात्मं श्रावितोऽपि तापं न जहाविति भावः । न निद्राति परार्थार्थी न च बुध्यति बोधितः । इति प्रजागरे सानत्सुजाते चापि वर्णितम् ॥२९॥

प्रभाते राजसमितौ संजयो यत्र वा विभो ।
ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च॥२३०॥

समितौ सभायाम् । ऐकात्म्यम् एकचित्तत्वम् । वस्तुतस्तु यत्र कुत्रचित्प्रसङ्गे वासुदेवार्जुनयोर्जीवेशयोरैकात्म्यमभेदमेव शास्ति सञ्जयः । तज्ज्ञानं विना राज्ञः शोकतरणासंभवात् । राजातु मौढ्यात् अधिलोकपरतयैव तमर्थं निगृह्णातीति नास्यशोको नश्यतीति शास्त्रहृदयम् ॥२३०॥

यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महामतिः ।
स्वयमागाच्छणं कर्तुं नगरं नागसाह्वयम्॥२३१॥

सन्धिम् अविरोधम् । नागो हस्ती । तेन समानसंज्ञं हस्तिनापुरमित्यर्थः ॥३१॥

प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै ।
शमार्थे याचमानस्य पक्षयोरुभयोर्हितम्॥२३२॥

दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्तितम् ।
वरान्वेषणमत्रैव मातलेश्च महात्मनः॥२३३॥

महर्षेश्चापि चरितं कथितं गालवस्य वै ।
विदुलायाश्च पुत्रस्य प्रोक्तं चाप्यनुशासनम्॥२३४॥

कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् ।
योगेश्वरत्वं कृष्णेन यत्र राज्ञां प्रदर्शितम्॥२३५॥

दुष्टं कृष्णनिग्रहरूपं योगेश्वरत्वं वैश्वरूप्यम् ऐश्वर्यं वैश्वरूप्यं च हरेः श्रुत्वावलोक्य च दुर्योधनो न मेनेऽस्य वाक्यं म्लेच्छः श्रुतेरिव ॥३५॥

रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः ।
उपायपूर्वं शौटीर्यात्प्रत्याख्यातश्च तेन सः॥२३६॥

अनुमन्त्रितः उपजापितः उपायपूर्वं भेदपूर्वम् । शौटीर्यात् गर्वात् । अपि त्रैलोक्यराज्यस्य हेतोर्विश्वस्तमाश्रितम् । न त्यजेद्देहनाशेऽपीत्युक्तं कर्णोपजापतः॥३६॥

आगम्य हास्तिनपुरादुपप्लाव्यमरिंदमः ।
पाण्डवानां यथावृत्तं सर्वमाख्यातवान्हरिः॥२३७॥

ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद्धितम् ।
साङ्ग्रामिकं ततः सर्वं सञ्जं चक्रुः परंतपाः॥२३८॥

ततो युद्धाय निर्याता नराश्वरथदन्तिनः ।
नगराद्धास्तिनपुराद्वलसंख्यानमेव च॥२३९॥

यत्र राज्ञाद्व्युलूकस्य प्रेषणं पाण्डवान्प्रति ।
श्वो भाविनि महायुद्धे दौत्येन कृतवान्प्रभुः॥२४०॥

निन्दन्त्यसन्तोऽपि सतो बैडालव्रतिका इति । युधिष्ठिरमिवोलूक इत्यूचे बादरायणः ॥४०॥

रथातिरथसंख्यानमम्बोपाख्यानमेव च ।
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते॥२४१॥

यद्बलाज्जयमाशास्ते धार्तराष्ट्रस्तमर्कजम् । प्राहार्धरथ इत्युच्चैर्भीष्मस्तेजो वधेप्सया । न किंचित्तपसोऽसाध्यं यतो जन्मान्तरं विना । पुंस्त्वं शिखण्डिनी प्रापेत्यम्बोपाख्यानम् ईरितम् ॥४१॥

उद्योगपर्व निर्दिष्टं सन्धिविग्रहमिश्रितम् ।
अध्यायानां शतं प्रोक्तं षडशीतिर्महर्षिणा॥२४२॥

सन्धिविग्रहमिश्रितं कृष्णदौत्येन सन्धिः उलूकदौत्येन विग्रहः ताभ्यां मिश्रितम् ॥२४२॥

श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च ।
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना॥२४३॥

व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ।
अतः परं विचित्रार्थं भीष्मपर्व प्रचक्षते॥२४४॥

जम्बूखण्डविनिर्माणं यत्रोम्बूक्तं संजयेन ह ।
यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम्॥२४५॥

यत्र युद्धमभूद्धोरं दसाहानि सुदारुणम् ।
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः॥२४६॥

भ्रश्येत्पतिं विना सेना कूर्मामलकमुष्टिवत् । इति सेनापतिं भीष्मं चक्रे कौरवनन्दनः । वैराजदर्शनादूर्ध्वं परब्रह्मान्ववेक्षणम् । इतीव जम्बूखण्डानि गीतायाः पूर्वमीरितम् | कश्मलं विषादम् ॥२४६॥

मोहजं नाशयामास हेतुभिर्मोक्षदर्शिभिः ।
समीक्ष्यादोक्षजः क्षिप्रं युधिष्ठिरहिते रतः॥२४७॥

मोहममतोत्थं समीक्ष्य भीष्मस्य दुर्जयत्वमितिशेषः ॥२४७॥

रथादाप्लुत्य वेगेन स्वयं कृष्ण उदारधीः ।
प्रतोदपाणिराधावद्भीष्मं हन्तुं व्यपेतभीः॥२४८॥

श्रुतिः स्मृतेर्बलवती भक्तौ त्वेतद्विपर्ययः । भीष्मं जिघासता पार्थसूतेनैतत्प्रदर्शितम् ॥२४८॥

वाक्यप्रतोदाभिहतो यत्र कृष्णेन पाण्डवः ।
गाण्डीवधन्वा समरे सर्वशस्त्रभृतां वरः॥२४९॥

शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः ।
विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत्॥२५०॥

शरतल्पगतश्चैव भीष्मो यत्र बभूव ह ।
षष्ठमेतत्समाख्यातं भारते पर्व विस्तृतम्॥२५१॥

न देहमनुशीर्यन्ते वैष्णवा जितमृत्यवः । भीष्मः कालान्तराकाङ्क्षी शरतल्पेऽवसच्चिरम् ॥२५१॥

अध्यायानां शतं प्रोक्तं तथा सप्तदशापरे ।
पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च॥२५२॥

श्लोकाश्च चतुराशीतिरस्मिन्पर्वणि कीर्तिताः ।
व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि॥२५३॥

द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते ।
सैनापत्येऽभिषिक्तोऽथ यत्राचार्यः प्रतापवान्॥२५४॥

क्षात्रात् ब्राह्मं महःश्रेष्ठमिति मत्वा सुयोधनः । जयाशया स्वमाचार्यं सैनापत्येभ्यषेचयत् ॥२५४॥

दुर्योधनस्य प्रीत्यर्थं प्रतिजज्ञे महास्त्रवित् ।
ग्रहणं धर्मराजस्य पाण्डुपुत्रस्य धीमतः॥२५५॥

यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ।
भगदत्तो महाराजो यत्र शक्रसमो युधि॥२५६॥

संशप्तकास्तु ये संख्ये सर्वथाप्यनिवर्तिनस्ते अपनिन्युः अपहृतवन्तः रणाजिराद्रणस्थानात् ॥२५६॥

सुप्रतीकेन नागेन स हि शान्तः किरीटिना ।
यत्राभिमन्युं बहवो जघ्नुरेकं महारथाः॥२५७॥

जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ।
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे॥२५८॥

अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ।
यत्र भीमो महाबाहुः सात्यकिश्च महारथः॥२५९॥

संशप्तकवधो साही जिष्णुः पुत्रवधार्दितः । प्रतिज्ञां महतीं कृत्वा 'तीर्णः श्रीपतिमायया ॥२५९॥

अन्वेषणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया ।
प्रविष्टौ भारतीं सेनामप्रधृष्यां सुरैरपि॥२६०॥

संशप्तकावशेषं च कृतं निःशेषमाहवे ।
संशप्तकानां वीराणां कोट्यो नव महात्मनाम्॥२६१॥

किरीटिनाभिनिष्क्रम्य प्रापिता यमसादनम् ।
धृतराष्ट्रस्य पुत्राश्च तथा पाषाणयोधिनः॥२६२॥

नारायणाश्च गोपालाः समरे चित्रयोधिनः ।
अलम्बुषः श्रुतायुश्च जलसन्धश्च वीर्यवान्॥२६३॥

सौमदत्तिर्विराटश्च द्रुपदश्च महारथः ।
घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि॥२६४॥

अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते ।
अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः॥२६५॥

सन्तोष्य साधुतां यान्ति प्रतिकूले विधातरि । द्रोणस्य मृत्युकाले हि धर्मोप्यनृतभागभूत् । अनृतेन हतो द्रोणो नत्या नारायणास्त्रकम् नानोपायैररीन् हत्वा स्वीयान् रक्षितवान् हरिः' ॥२६५॥

आग्नेयं कीर्त्यते यत्र रुद्रमाहात्म्यमुत्तमम् ।
व्यासस्य चाप्यागमनं माहात्म्यं कृष्णपार्थयोः॥२६६॥

सप्तमं भारते पर्व महदेतदुदाहृतम् ।
यत्र ते पृथिवीपालाः प्रायशो निधनं गताः॥२६७॥

द्रोणपर्वणि ये शरा निर्दिष्टाः पुरुषर्षभाः ।
अत्राध्यायशतं प्रोक्तं तथाध्यायाश्च सप्ततिः॥२६८॥

अष्टौ श्लोकसहस्राणि तथा नव शतानि च ।
श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना॥२६९॥

पाराशर्येण मुनिनां संचिन्त्य द्रोणपर्वणि ।
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम्॥२७०॥

सारथ्ये विनियोगश्च मद्रराजस्य धीमतः ।
आख्यातं यत्र पौरामं त्रिपुरस्य निपातनम्॥२७१॥

प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः ।
हंसकाकीयमाख्यानं तत्रैवाक्षेपसंहितम्॥२७२॥

वधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना ।
दण्डसेनस्य च ततो दण्डस्य च वधस्तथा॥२७३॥

द्वैरथे यत्र कर्णेन धर्मराजो युधिष्टिरः ।
संशयं गमितो युद्धे मिषतां सर्वधन्विनाम्॥२७४॥

मिषतां पश्यताम् ॥२७४॥

अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः ।
यत्रैवानुनयः प्रोक्तो माधवेनार्जुनस्य हि॥२७५॥

प्रतिज्ञापूर्वकं चापि वक्षो दुःशासनस्य च ।
भित्त्वा वृकोदरो रक्तं पीतवान्यत्र संयुगे॥२७६॥

'कार्याकार्यविचारं हि क्रोधाविष्टा न कुर्वते । अपिबच्छोणितं भ्रातुर्भीमसनो हि संयुगे ॥२७६॥

द्वैरथे यत्र पार्थेन हतः कर्णो महारथः ।
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः॥२७७॥

सौरिरैन्द्रिं निजघ्ने प्रागिदानीं तद्विपर्ययः । सहायो हन्तुरीशानः पक्षपातविवर्जितः ॥२७७॥

एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ।
चत्वार्येव सहस्राणि नव श्लोकशतानि च॥२७८॥

चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः ।
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम्॥२७९॥

हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ।
यत्र कौमारमाख्यानमभिषेकस्य कर्म च॥२८०॥

वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः ।
विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते॥२८१॥

शल्यस्य निधनं चात्र धर्मराजान्महात्मनः ।
शकुनेश्च वधोऽत्रैव सहदेवेन संयुगे॥२८२॥

सैन्ये च हतभूयिष्ठे किंचिच्छिष्टे सुयोधनः ।
ह्रदं प्रविश्य यत्रासौ संस्तभ्यापोव्यवस्थितः॥२८३॥

जयाशा जीविताशा च सुक्षीणस्यापि दुस्त्यजा । शल्यं हृदं च शरणं कृतवान्यत्सुयोधनः ॥२८३॥

प्रवृत्तिस्तत्र चाख्याता यत्र भीमस्य लुब्धकैः ।
क्षेपयुक्तैर्वचोभिश्च धर्मराजस्य धीमतः॥२८४॥

ह्रदात्समुत्थितो यत्र धार्तराष्ट्रोऽत्यमर्षणः ।
भीमेन गदया युद्धं यत्रासौ कृतवान्सह॥२८५॥

समवाये च युद्धस्य रामस्यागमनं स्मृतम् ।
सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता॥२८६॥

समवाये समये । 'युद्धान्ते तीर्थयात्रां यत्प्रब्रूते बादरायणः । तेन जानीमहे हिंसा धर्म्यापि दुरितप्रदा ॥२८६॥

गदायुद्धं च तुमुलमत्रैव परिकीर्तितम् ।
दुर्योधनस्य राज्ञोऽथ यत्र भीमेन संयुगे॥२८७॥

नाधर्मेण विना शत्रुः शक्यो निर्जेतुमुल्बणः । भीमसेनो ह्यधो नाभे; प्रजहार सुयोधनम्' ॥२८७॥

ऊरू भग्नो प्रसह्याजौ गदया भीमवेगया ।
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत्॥२८८॥

एकोनपष्टिरध्यायाः पर्वण्यत्र प्रकीर्तिताः ।
संख्याता बहुवृत्तान्ताः श्लोकसंख्याऽत्र कथ्यते॥२८९॥

त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा ।
मुनिना संप्रणीतानि कौरवाणां यशोभृता॥२९०॥

अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् ।
भग्नोरुं यत्र राजानं दुर्योधनममर्षणम्॥२९१॥

अपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः ।
कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षितम्॥२९२॥

समेत्य ददृशुर्भूमौ पतितं रणमूर्धनि ।
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः॥२९३॥

अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् ।
पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनं॥२९४॥

दंशनं कवचम् ॥२९४॥

यत्रैव मुक्त्वा राजानमपक्रम्य त्रयो रथाः ।
सूर्यास्तमनवेलायामासेदुस्ते महद्वनम्॥२९५॥

न्यग्रोधस्याथ महतो यत्राधस्ताद्व्यवस्थिताः ।
ततः काकान्बहून्रात्रौ दृष्ट्वोलूकेन हिंसितान्॥२९६॥

द्रौणिः क्रोधसमाविष्टः पितुर्वधमनुस्मरन् ।
पाञ्चालानां प्रसुप्तानां वधं प्रति मनो दधे॥२९७॥

गत्वा च शिबिरद्वारि दुर्दृशं तत्र राक्षसम् ।
घोररूपमपश्यत्स दिवामावृत्य धिष्ठिरम्॥२९८॥

तेन व्याघातमस्त्राणां क्रियमाणमवेक्ष्य च ।
द्रौणिर्यत्र विरूपाक्षं रुद्रमाराध्य सत्वरः॥२९९॥

प्रसुप्तान्निशि विश्वस्तान्धृष्टद्युम्नपुरोगमान् ।
पाञ्चालान्सपरीवारान्द्रौपदेयांश्च सर्वशः॥३००॥

‘विदुषो ब्राह्मणस्यापि दैन्यात्स्याद्दारुणा मतिः । अश्वत्थामापि यत्सुप्ता नर्भांश्च न्यवधीद्रुषा’ ॥३००॥

कृतवर्मणा च सहितः कृपेण च निजघ्निवान् ।
यत्रामुच्यन्त ते पार्थाः पञ्च कृष्णबलाश्रयात्॥३०१॥

सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ।
पाञ्चालानां प्रसुप्तानां यत्र द्रोणसुताद्वधः॥३०२॥

धृष्टद्युम्नस्य सूतेन पाण्डवेषु निवेदितः ।
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता॥३०३॥

कृतानशनसंकल्पा यत्र भर्तॄनुपाविशत् ।
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः॥३०४॥

उपाविशत् भर्तॄनुपरुद्धवती ॥३४॥

प्रियं तस्याश्चिकीर्षन्वै गदामादाय वीर्यवान् ।
अन्वधावत्सुसंक्रुद्धो भारद्वाजं गुरोः सुतम्॥३०५॥

भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः ।
अपाण्डवायेति रुषा द्रौणिरस्त्रमवासडदत्॥३०६॥

मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः ।
यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः॥३०७॥

द्रौणेश्च द्रोहबुद्धित्वं वीक्ष्य पापात्मनस्तदा ।
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः॥३०८॥

मणिं तथा समादाय द्रोणपुत्रान्महारथात् ।
पाण्डवाः प्रददुर्दृष्टा द्रौपद्यै जितकाशिनः॥३०९॥

जितकाशिनः जयश्लाघिनः ॥३९॥

एतद्वै दशमं पर्व सौप्तिकं समुदाहृतम् ।
अष्टादशास्मिन्नद्यायाः पर्वण्युक्ता महात्मना॥३१०॥

श्लोकानां कथितान्यत्र शतान्यष्टौ प्रसंख्यया ।
श्लोकाश्च सप्ततिः प्रोक्ता मुनिना ब्रह्मवादिना॥३११॥

सौप्तिकैषीके संबन्धे पर्वण्युत्तमतेजसी ।
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम्॥३१२॥

सौप्तिकैषीके आख्याने अत्र पर्वणि सम्बद्धे इत्यर्थः ॥३१२॥

पुत्रशोकाभिसंतप्तः प्रज्ञाचक्षुर्नराधिपः ।
कृष्णोपनीतां यत्रासावायसीं प्रतिमां दृढाम्॥३१३॥

भीमसेनद्रोहबुद्धिर्धृतराष्ट्रो बभञ्ज ह ।
तथा शोकाभितप्तस्य धृतराष्ट्रस्य धीमतः॥३१४॥

संसारदहनं बुद्ध्या हेतुभिर्मोक्षदर्शनैः ।
विदुरेण च यत्रास्य राज्ञ आश्वासनं कृतम्॥३१५॥

धृतराष्ट्रस्य चात्रैव कौरवायोधनं तथा ।
सान्तःपुरस्य गमनं शोकार्तस्य प्रकीर्तितम्॥३१६॥

आयोधनम् युद्धस्थानं ॥३१६॥

विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः ।
क्रोधावेशः प्रमोहश्च गान्धारीधृतराष्ट्रयोः॥३१७॥

यत्र तान्क्षत्रियाः शूरान्सङ्ग्रामेष्वनिवर्तिनः ।
पुत्रान्भ्रातॄन्पितॄंश्चैव ददृशुर्निहतान्रणे॥३१८॥

क्षत्रियाः क्षत्रियस्त्रियः ॥३१८॥

पुत्रपौत्रवधार्तायास्तथात्रैव प्रकीर्तिता ।
गान्धार्याश्चापि कृष्णेन क्रोधोपशमनक्रिया॥३१९॥

यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः ।
राज्ञां तानि शरीराणि दाहयामास शास्त्रतः॥३२०॥

तोयकर्मणि चारब्धे राज्ञामुदकदानिके ।
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः॥३२१॥

'अर्थार्थी वधमाप्नोति विलपन्ति च तस्त्रियः । तस्मादर्थं न लिप्सेत श्रेयोर्थी धार्तराष्ट्रवत् ॥ द्विनवाक्षौहिणीर्हत्वा लेमे राज्यं युधिष्ठिरः । एवं भूतक्षयेणैव भवत्यर्थः सतामपि ॥ बन्धूनपि नयेद्युद्धे स्वर्गं श्राद्धैश्च तर्पयेत् । इत्येवं निर्मलं क्षात्रं कर्मोक्तं तोयकर्मणि ॥३२१॥

सुतस्यैतदिह प्रोक्तं व्यासेन परमर्षिणा ।
एतदेकादशं पर्व शोकवैक्लव्यकारणम्॥३२२॥

प्रणीतं सज्जनमनो वैक्लव्याश्रुप्रवर्तकम् ।
सप्तविंशतिरध्यायाः पर्वण्यस्मिन्प्रकीर्तिताः॥३२३॥

श्लोकसप्तशती चापि पञ्चसप्ततिसंयुता ।
संख्यया भारताख्यानमुक्तं व्यासेन धीमता॥३२४॥

अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् ।
यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः॥३२५॥

अर्थाप्तौ स्त्र्यादि योगे वा यत्सुखं कामशब्दितम् । तदापुः पाण्डवाः क्लेशैर्लब्धराज्याः पृथग्गृहाः ॥ चतुर्भिरेवं वैराटमेकादशभिरुद्यमम् । पञ्चभिर्भीष्ममष्टाभिर्द्रौणमेकेन सूर्यजम् ॥ चतुस्त्रिपञ्चभिः शल्यसौषुप्तस्त्र्यभिधानि च । पर्वभिर्दीपयन्त्यर्थं शान्त्यादिः कामदीपिका' ॥ निर्वेदं दुःखम् ॥२५॥

घातयित्वा पितॄन्भ्रातॄन्पुत्रान्संबन्धिमातुलान् ।
शान्तिपर्वणि धर्माश्च व्याख्याताःशारतल्पिकाः॥३२६॥

शारतल्पिकाः शरा एव तल्पो यस्य तेन भीष्मेण व्याख्याता इत्यर्थः ॥३२६॥

राजभिर्वेदितव्यास्ते सम्यग्ज्ञानबुभुत्सुभिः ।
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शिनः॥३२७॥

‘यथोक्तं दण्डयन्दण्ड्यान् धर्ममक्षयमश्नुते । भूप इत्येव तद्धर्माः सापद्धर्मा निरूपिताः’ ॥ कालहेतुप्रदर्शिनः कालोदुर्भिक्षादिहेतुर्वैररोगादिश्च तत्प्रदर्शिनः देशकालाद्यपेक्षया वर्तितव्यमित्यर्थः ॥३२७॥

यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् ।
मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः॥३२८॥

सर्वज्ञत्वं कार्याकार्यविभागज्ञत्वम् ॥३२८॥

द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् ।
अत्र पर्वणि विज्ञेयमध्यायानां शतत्रयम्॥३२९॥

विंशच्चैव तथाध्याया नव चैव तपोधानाः ।
चतुर्दशसहस्राणि तथा सप्तशतानि च॥३३०॥

सप्तश्लोकास्तथैवात्र पञ्चविंशतिसंख्यया ।
अत ऊर्ध्वं च विज्ञेयमनुशासनमुत्तमम्॥३३१॥

यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् ।
भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः॥३३२॥

प्रकृतिं स्वाभाविकीमवस्थाम् । ‘सर्वाधिकारिका मोक्षधर्माः सम्यगुदीरिताः । तत्राधिकारसिद्ध्यर्थं दानधर्माश्च कीर्तिता:’ ॥३३२॥

व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थी यः प्रकीर्तितः ।
विविधानां च दानानां फलयोगाः प्रकीर्तिताः॥३३३॥

व्यवहार आचारः धर्मार्थी यः धर्मार्थयोर्हितः ॥३३३॥

तथा पात्रविशेषाश्च दानानां च परो विधिः ।
आचारविधियोगश्च सत्यस्य च परा गतिः॥३३४॥

सत्यस्य हिंसाशून्यस्य यथार्थभाषणस्य परागतिः पराकाष्ठा ॥३३४॥

महाभाग्यं गवां चैव ब्राह्मणानां तथैव च ।
रहस्यं चैव धर्माणां देशकालोपसंहितम्॥३३५॥

महाभाग्यं माहात्म्यं रहस्यम् अल्पायासेनापि महाफलप्रदत्वं देशकालोपसंहितं तीर्थपर्वोपधानात् ॥३३५॥

एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् ।
भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता॥३३६॥

'स्वच्छन्दमरणः सर्वो योगी भीष्मसमो भवेत् । इति प्रदर्शयन् भीष्मनिर्याणं चाप्यवर्णयत् ॥३३६॥

एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् ।
अध्यायानां शतं त्वत्र षट्चत्वारिंशदेव तु॥३३७॥

श्लोकानां तु सहस्राणि प्रोक्तान्यष्टौ प्रसंख्यया ।
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्॥३३८॥

तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ।
सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परीक्षितः॥३३९॥

वाराणस्यामविज्ञातो वसेद्विघ्नभयात्सुधीः । न्यासमैत्रेयसंर्तैरेतत्सम्यक् प्रदर्शितम् ॥ काश्यां मृतस्य कुणपं शिवलिङ्गत्वमृच्छति । अपूर्वमेतत्संवर्तमरुत्तीये प्रकाशितम् । क्रममुक्तिप्रसिद्ध्यर्थमश्वमेघोऽपि कीर्तितः ॥ तत्त्वस्य दुर्ग्रहत्वाच्च पुनरध्यात्ममीरितम्’ । तत्पुराणप्रसिद्धं संवर्तमरुत्तीयम् ॥३३९॥

दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः ।
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः॥३४०॥

चर्यायां पर्यटने ॥३४०॥

तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ।
चित्राङ्गदायाः पुत्रेण स्वपुत्रेण धनंजयः॥३४१॥

सङ्ग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः ।
अश्वमेधे महायज्ञे नकुलाख्यानमेव च॥३४२॥

संशयं प्राणान्तं गङ्गाशापमोक्षार्थं धनञ्जयो दर्शितः । ‘कृशेन श्रद्धया दत्तमत्यल्पमपि सज्जने । अश्वमेधाधिकं पुण्यं तत इत्याह नाकुले’ ॥४२॥

इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् ।
अध्यायानां शतं चैव त्रयोऽध्यायाश्च कीर्तिताः॥३४३॥

त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च ।
विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना॥३४४॥

ततस्त्वाश्रमवासाख्यं पर्व पञ्चदशं स्मृतम् ।
यत्र राज्यं समुत्सृज्य गान्धार्या सहितो नृपः॥३४५॥

धृतराष्ट्रोश्रमपदं विदुरश्च जगाम ह ।
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा॥३४६॥

धृतराष्ट्रोश्रमपदमित्यत्र आकारस्य पूर्वरूपमार्षम् । तपो हिततमं नॄणां भोगा नरकयोनयः । इतीव कुन्तीपुत्राणां राज्यं त्यक्त्वा वनं ययौ ॥४६॥

पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ।
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान्॥३४७॥

लाकान्तरगतान्वीरानपश्यत्पुनरागतान् ।
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम्॥३४८॥

मायामात्रं सुतादीनि विज्ञायाश्वर्यपर्वतः। धृतराष्ट्र इव त्यक्त्वा शोकं मोक्षं समाश्रयेत्' ॥३४८॥

त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ।
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः॥३४९॥

संजयश्च सहामात्यो विद्वान्गावल्गणिर्वशी ।
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः॥३५०॥

सञ्जयश्च सुगतिं गत इत्यनुवर्तते ॥३५०॥

नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ।
एतदाश्रमवासाख्यं पर्वोक्तं महदद्भुतम्॥३५१॥

द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया ।
सहस्रमेकं श्लोकानां पञ्चश्लोकशतानि च॥३५२॥

पञ्चश्लोकशतानि चेत्यत्रपञ्च च श्लोकशतं चेति समासः । पञ्चाधिकं शतमित्यर्थः । तेनात्र एकादशशतीह श्लोकसंख्या ज्ञेया । तावत्या एव पुस्तकेषूपलम्भात् ॥५२॥

षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना ।
अतः परं निबोधेदं मौसलं पर्व दारुणम्॥३५३॥

यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शहता युधि ।
ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः॥३५४॥

आपाने पानकलिता दैवेनाभिप्रचोदिताः ।
एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम्॥३५५॥

आपाने सुरापानस्थाने । पानकलिताः सुरापानेन वशीकृताः । एरकानिर्गन्थितृणम् ॥३५५॥

यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ ।
नातिचक्रामतुः कालं प्राप्तं सर्वहरं महत्॥३५६॥

रामकृष्णौ महत्परं ब्रह्मापि सन्तौ कालं नातिचक्रामतुः । समर्थावपि मर्यादां नोल्लङ्घितवन्तावित्यर्थः । 'ब्राह्मक्षोभात्सुरापानाद्विनष्टाः सर्वयादवाः । तस्मादेतद्द्वयं सद्भिर्नैव कार्यं कदाचन ॥५६॥

यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् ।
दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः॥३५७॥

आर्तिं पीडाम् ॥३५७॥

स संस्कृत्य नरश्रेष्ठं मातुलं शौरिमात्मनः ।
ददर्श यदुवीराणामापाने वैशसं महत्॥३५८॥

वैशसं परस्परं विशसनम् ॥३५८॥

शरीरं वासुदेवस्य रामस्य च महात्मनः ।
संस्कारं लम्भयामास वृष्णीनां च प्रधानतः॥३५९॥

स वृद्धबालमादाय द्वारवत्यास्ततो जनम् ।
ददर्शापदि कष्टायां गाण्डीवस्य पराभवम्॥३६०॥

‘सर्वे क्षयान्ता निचया वृष्णानामपि संक्षयात् । पराभवादर्जुनस्य पतनान्ताः समुच्छ्रयाः’ ॥३६०॥

सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् ।
नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम्॥३६१॥

अप्रसन्नताम् अस्फुरणम् ॥३६१॥

दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः ।
धर्मराजं समासाद्य संन्यासं समरोचयत्॥३६२॥

संन्यासं राज्यत्यागम् ॥३६२ ॥

इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् ।
अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम्॥३६३॥

अध्यायाष्टौ सन्धिरार्षः ॥३६३॥

श्लोकानां विंशतिश्चैव संख्याता तत्त्वदर्शिना ।
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम्॥३६४॥

यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः ।
द्रौपद्या सहिता देव्या महाप्रस्थानमास्थिताः॥३६५॥

महाप्रस्थानं देहत्यागार्थम् उदग्गमनम् ॥३६५॥

यत्र तेऽग्निं ददृशिरे लौहित्यं प्राप्य सागरम् ।
यत्राग्निना चोदितश्च पार्थस्तस्मै महात्मने॥३६६॥

ददौ संपूज्य तद्दिव्यं गाण्डीवं धनुरुत्तमम् ।
यत्र भ्रातॄन्निपतितान्द्रौपदीं च युधिष्ठिरः॥३६७॥

‘स्वस्य मृत्युं विनिश्चित्य परं शोचेत कः पुमान् । युधिष्ठि इवोपेक्षां कुर्याद्बन्धोर्मुमूर्षतः’ ॥३६७॥

दृष्ट्वा हित्वा जगामैव सर्वाननवलोकयन् ।
एतत्सप्तदशं पर्व महाप्रस्थानिकं स्मृतम्॥३६८॥

यत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतत्रयम् ।
विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना॥३६९॥

शतं च त्रयं चेति समासे शतत्रयमित्यस्य त्र्यधिकं शतमित्यर्थः । ततश्च त्रयोविंशत्यधिकं शतं श्लोका इत्यर्थः । तावतामेवोपलम्भात् ॥३६९॥

स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् ।
प्राप्तं दैवरथं स्वर्गान्नेष्टवान्यत्र धर्मराट्॥३७०॥

आरोदुं सुमहाप्राज्ञ आनृशंस्याच्छुना विना ।
तामस्या विचलां ज्ञात्वा स्थितिं धर्मे महात्मनः॥३७१॥

आनृशंस्यात्कारुण्यात् । 'आनृशंस्यं परो धर्मो येन राजा युधिष्ठिरः । श्वानं भातॄन्विना देवरथं स्वर्गं च नारुहत् ॥३७१॥

श्वरूपं यत्र तत्त्यक्त्वा धर्मेणासौ समन्वितः ।
स्वर्गं प्राप्तः स च तथा यातना विपुला भृशम्॥३७२॥

एवं सर्वत्र तात्पर्यं कथायामुन्नयेद्यतः । न प्रवृत्तिनिवृत्तिभ्यां विना वाचः कृतार्थता ॥ अर्थो धर्माय भोगाय धर्मः स्वर्गाय मुक्तये । कामो धर्मार्थनाशाय मोक्षः स्वार्थस्त्रिवर्गजित्' ॥ स्वर्गमिति । राज्यान्ते महतामपि यातनाप्राप्तिरस्तीति दर्शितमिति भावः ॥३७२॥

देवदूतेन नरकं यत्र व्याजेन दर्शितम् ।
शुश्राव यत्र धर्मात्मा भ्रातॄणां करुणा गिरः॥३७३॥

निदेशे वर्तमानानां देशे तत्रैव वर्तताम् ।
अनुदर्शितश्च धर्मेण देवराज्ञा च पाण्डवः॥३७४॥

निदेशेयमस्य शासने यातनायामित्यर्थः । अनुदर्शितः ईदृक् फलम् ऐश्वर्यसुखमस्तीति बोधितः ॥३७४॥

आप्लुत्याकाशगङ्गायां देहं त्यक्त्वा स मानुषम् ।
स्वधर्मनिर्जितं स्थानं स्वर्गे प्राप्य स धर्मराट्॥३७५॥

मुमुदे पूजितः सर्वैः सेन्द्रैः सुरगणैः सह ।
एतदष्टादशं पर्व प्रोक्तं व्यासेन धीमता॥३७६॥

अध्यायाः पञ्च संख्याताः पर्वण्यस्मिन्महात्मना ।
श्लोकानां द्वे शते चैव प्रसंख्याते तपोधाः॥३७७॥

नव श्लोकास्तथैवान्ये संख्याताः परमर्षिणा ।
अष्टादशैवमेतानि पर्वाण्येतान्यशेषतः॥३७८॥

खिलेषु हरिवंशश्च भविष्यं च प्रकीर्तितम् ।
दश श्लोकसहस्राणि विंशच्छ्लोकशतानि च॥३७९॥

खिलेषु आख्यानान्तरेषु सत्स्वपि हरिवंशभविष्ययोर्ग्रहणं तयोरभ्यर्हितत्वप्रदर्शनार्थम् । दशश्लोकसहस्राणीति । हरिशे भविष्यान्तग्रन्थस्य द्वादशसहस्रोन्मितत्वम् । न तु कृत्स्नवंशस्य अधिकस्य ग्रन्थस्य दर्शनात् तावन्मात्रविवक्षायां लक्षपूर्तेरयोगात् । तथाह्यत्र कण्ठोक्तायाः संख्यायाः सङ्कलने षण्णवतिः सहस्राणि द्वेशते षोडश च श्लोकाः । परिशेषात् पुष्करप्रादुर्भावाद्युपरितनग्रन्थे कैलासयात्रासहिते किञ्चिदूनं सहस्रचतुष्टयं ज्ञेयम् । तेन ततोप्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः। अनुक्रमणिकाध्यायमित्यादौ भूयः शन्दात् अद्ध्यर्धशताधिकं लक्षं परिपूर्णं ज्ञेयम् । अष्टादशसहस्राणीत्यादयो विगीतपाठास्तु इष्टसंख्याप्रातिकूल्यादुपेक्षणीयाः ॥७९॥

खिलेषु हरिवंशे च संख्यातानि महर्षिणा ।
एतत्सर्वं समाख्यातं भारते पर्वसंग्रहः॥३८०॥

अष्टादश समाजग्मुरक्षौहिण्यो ययुत्सया ।
तन्महादारुणं युद्धमहान्यष्टादशाभवत्॥३८१॥

युयुत्सया योद्धुमिच्छया ॥३८१॥

यो विद्याच्चतुरो वेदान्साङ्गोपनिषदो द्विजः ।
न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः॥३८२॥

अङ्गानि शिक्षाकरपादीनि । उपनिषदो रसस्यविद्यास्तत्सहितान् साङ्गोपनिषदः विचक्षणः स्वार्थज्ञः ॥३८२॥

अर्थशास्त्रमिदं प्रोक्तं धर्मशास्त्रमिदं महत् ।
कामशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना॥३८३॥

श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते ।
पुंस्कोकिलगिरं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव॥३८४॥

ध्वाङ्क्षस्य काकस्य ॥३८४॥

इतिहासोत्तमादस्माञ्जायन्ते कविबुद्धयः ।
पञ्चभ्य इव् भूतेभ्यो लोकसंविधयस्त्रयः॥३८५॥

लोकसन्धिवियस्त्रयः आध्यात्माधिभूताधिदैवानां सम्यग्विधयो रचनाः ॥३८५॥

अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः ।
अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः॥३८६॥

विषये देशे अन्तरित्यर्थः । पुराणम् अष्टादशभेदं पद्मादि । चतुर्विधाः जरायुजाण्डजस्वेदजोद्भिज्जाः॥३८६॥

क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः ।
इन्द्रियाणां समस्तानां चित्रा इव मनः क्रियाः॥३८७॥

क्रियाः लौकिक्यो वैदिक्यश्च तासां गुणाः उत्कृष्टफलसाघनानि । अथवा क्रियाः दानध्यानादयः । गुणाः शमादयः मनसि इन्द्रियाणीवात्र सर्वे शास्त्रार्थाः प्रतिष्ठिता इत्यर्थः ॥८७॥

अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते ।
आहारमनपाश्रित्य शरीरस्येव धारणम्॥३८८॥

इदं कविवरैः सर्वैराख्यानमुपजीव्यते ।
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥३८९॥

इदं कविभिः उपजीव्यते । एतच्छायाहरणेनैव कान्यनिर्वाहात् ॥३८९॥

अस्य काव्यस्य कवयो न समर्था विशेषणे ।
साधोरिव गृहस्थस्य शेषास्त्रय इवाश्रमाः॥३९०॥

विशेषणे अतिशयकरणे । अनेन ग्रन्थस्य सर्वोत्कृष्टत्वमुक्तम् ॥३९०॥

धर्मे मतिर्भवतु वः सततोत्थितानां स ह्येक एव परलोकगतस्य बन्धुः ।
अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना नैवाप्तभावमुपयान्ति न च स्थिरत्वम्॥३९१॥

भारतसम्प्रदायप्रवर्तकान् वाचकानाशिषाऽभिनन्दति धर्मे इति ॥३९१॥

द्वैपायनौष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथपापहरं शिवं च ।
यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन॥३९२॥

श्रोतॄन् प्रोत्साहयतिं द्वैपायनेति । अप्रमेयं नास्ति प्रकृष्टं मेयं विज्ञेयं यस्मादित्यप्रमेयम् । अवश्यं श्राव्यमित्यर्थः पुण्यं पुण्यहेतुः । पवित्रं पर्विविपविर्वज्रतुल्यो मृत्युस्तस्मात् त्रायत इति पवित्रं मृत्युतरणमित्यर्थः । यस्मात्पापहरं पुण्यहेतुत्वादेव शिवं कल्याणं समधिगच्छति शब्दतोर्थतश्च जानाति । यद्वा अप्रमेयम् आशयस्य गम्भीरत्वादगाधं पुण्यं ज्योतिष्टोमादिवत्स्वर्ग्यम् । पवित्रं सन्ध्योपासनादिवच्चित्तशुद्धिकरं पापहरं प्रायश्चित्तवद्ब्रह्महत्यादि दोषघ्नम् । शिवं योगाभ्यासवत्सर्वकल्याणप्रदम् । पुष्करम् आदितीर्थं शुण्डाग्रं वा तदुपाहृतजलैः । एतच्छृण्वतस्तीर्थफलं साम्राज्यफलं चानायाससिद्धं भवतीति भावः ॥९२॥

यदह्नात्कुरुते पाप ब्राह्मणस्त्विन्द्रियैश्चरन् ।
महाभारतमाख्याय सन्ध्यां मुच्यति पश्चिमाम्॥३९३॥

सन्ध्यां सन्ध्यायाम् अत्यन्तसंयोगे द्वितीया । आख्याय पठित्वा प्रमुच्यते । तस्मात्पापादिति शेषः ॥३९३॥

यद्रात्रौ कुरुते पापं कर्मणा मनसा गिरा ।
महाभारतमाख्याय पूर्वां सन्ध्यां प्रमुच्यते॥३९४॥

यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे च बहुश्रुताय ।
पुण्यां च भारतकथां शृणुयाच्च नित्यं तुल्यं फलं भवति तस्य च तस्य चैव॥३९५॥

आख्यानं तदिदमनुत्तमं महार्थं विज्ञेयं महदिह पर्वसंग्रहेण ।
श्रुत्वादौ भवति नृणां सुखावगाहं विस्तीर्णं लवणजलं यथा प्लवेन॥३९६॥

आख्यानमिति । इदम् आख्यानं पर्वसङ्ग्रहेण कृतेन सुखावगाहं सुखग्राह्यं भवतीति शेषः द्विन्याय्यम् इति पाठे द्वौ शब्दार्थौ न्याय्यौ न्यायादनपेतौ यस्मिंस्तद्विन्याय्यम् । अन्ये तु द्वाभ्यां सङ्क्षेपविस्ताराभ्यां कृतेन पर्वसङ्ग्रहेण शतपर्वाष्टादशपर्वरूपेण न्याय्यम् । एतच्छ्रवणेन कृत्स्नग्रन्थार्थावधारणादिति व्याचख्युः । तत्र पर्वसङ्ग्रहो वररुचिप्रोक्तया कादिनवटादिनन्नपादिपञ्चयाद्यष्टाविति परिभाषया क्रियते । आदिध्यान १९ सभाघनं ९ वनचयं १६ वैराटभू ४ द्योगयुक् ११ भीष्मद्रोणम ५ जं ८ च कर्णकु १ तथा शल्येभ ४ सौषुप्तग ३ म् । स्त्रीशं ५ शांतिभ ४ दानधर्मकु १ हयेज्यारा २ श्रमावासगं ३ कं १ कं १ मौसलयानयोर्द्युगतिकं १ वंशेख २ मेतच्छतम् ॥ आदिपर्वणि एकोनविंशतिः पर्वाणीत्यर्थः । एवमग्रेऽपि भीष्मेम ५ द्रोणेज ८ हयेज्या आश्वमेधिकं रा २ यानं महाप्रस्थानिकं द्युगतिः स्वर्गारोहणं वंशे हरिवंशे । एतच्छतं पर्वणामिति शेषः । शेषं स्पष्टं । श्लोकसंख्यापि प्रागुक्तैव ज्ञेया । अथ सर्वपर्वतात्पर्यसङ्ग्रहः । ‘आदौ सर्वे द्वयोः क्रत्वृतधृतिगुरुसतत्तीर्थसेवोत्थधर्मः सेवानीत्यार्यहत्या प्रमुखदुरितजः शोकदोर्थोष्टसूक्तः । एकस्मिन्काममोक्षावसुखमयसुखौ षट्सुमुक्त्यैददीज्यातापोवैराग्यहानेस्वरपिनिखिलकृत्कृष्णभक्तिः खिलेषु’ । ददिर्दानं तापः कृच्छ्रादिकं ताप आश्रमवासे उक्त इति सर्वत्रानुषज्जते। हानं त्यागः स्वः स्वर्गतिरपिक्रममुक्त्यै भवतीत्यर्थः । ‘यः सर्गप्रतिसर्गवंशत इदं चिद्योनिचित्कर्तृकं चिद्रूपं जडमात्थ तन्तुपटवल्लूतोर्णवद्बीजवत् । सत्वाध्यैमनुभेदपूर्वचीरतै वैराग्ययोगौदिशन् भीः पञ्चाङ्गपुराणकर्तरमलं व्यासस्वहृद्देहि मे’ ॥३९६॥
इति श्रीमन्महाभारते आदिपर्वणि पर्वसंग्रहपर्वणि द्वितीयोऽध्यायः॥२॥
॥ समाप्तं पर्वसंग्रहपर्व ॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in