सौतिरुवाच।
जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते
।
तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति
।
तेषु तत्सत्रमुपासीनेष्वागच्छत्सारमेयः॥१॥
जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् ॥२॥
तं माता रोरूयमाणमुवाच
।
किं रोदिषि केनास्यभिहत इति ॥३॥
स एवमुक्तो मातरं प्रत्युवाच जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति ॥४॥
तं माता प्रत्युवाच व्यक्तं त्वया तत्रापराद्धं येनात्राभिहत इति ॥५॥
स तां पुनरुवाच नापराध्यामि किंचिन्नावेक्षे हवींषि नावलिह इति ॥६॥
तच्छ्रुत्वा तस्य माता सरमा पुत्रदुःखार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते ॥७॥
स तया क्रुद्धया तत्रोक्तोऽयं मे पुत्रो न किंचिदपराध्यति नावेक्षते हवींषि नावलेढि किमर्थमभिहत इति ॥८॥
न किंचिदुक्तवन्तस्ते सा तानुवाच यस्मादयमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति ॥९॥
जनमेजय एवमुक्तो देवशुन्या सरमया भृशं संभ्रान्तो विषण्णश्चासीत् ॥१०॥
स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विष्यमाणःपरं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति ॥११॥
स कदाचिन्मृगयां गतः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषय आश्रममपश्यत् ॥१२॥
तत्र कश्चिदृषिरासाञ्चक्रे श्रुतश्रवा नाम
।
तस्य तपस्यभिरतः पुत्र आस्ते सोमश्रवा नाम ॥१३॥
तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे ॥१४॥
स नमस्कृत्य तमृषिमुवाच भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति ॥१५॥
स एवमुक्तः प्रत्युवाच जनमेजयं भो जनमेजय पुत्रोऽयं मम सर्प्यां जातो महातपस्वी स्वाध्यायसंपन्नो मत्तपोवीर्यसंभृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ जातः ॥१६॥
समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् ॥१७॥
अस्य त्वेकमुपांशुव्रतं यदेनं कश्चिद्ब्राह्मणः कंचिदर्थमभियाचेत्तं तस्मै दद्यादयं यद्येतदुत्सहसे ततो नयस्वैनमिति ॥१८॥
तेनैवमुक्तो जनमेजयस्तं प्रत्युवाच भगवंस्तत्तथा भविष्यतीति ॥१९॥
स तं पुरोहितमुपादायोपावृत्तो भ्रातॄनुवाच मयाऽयं वृत उपाध्यायो यदयं ब्रूयात्तत्कार्यमविचारयद्भिर्भवद्भिरिति
।
तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः स तथा भ्रातॄन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे तं च देशं वशे स्थापयामास ॥२०॥
एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामापोदस्तस्य शिष्यास्त्रयो बभूवुः ॥२१॥
उपमन्युरारुणिर्वेदश्चेति स एकं शिष्यंमारुणिं पाञ्चाल्यं प्रेषयामास गच्छ केदारखण्डं बधानेति ॥२२॥
स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशकत्
।
स क्लिश्यमानोऽपश्यदुपायं भवत्वेवं करिष्यामीति ॥२३॥
स तत्र संविवेश केदारखण्डे शयाने च तथा तस्मिंस्तदुदकं तस्थौ ॥२४॥
ततः कदाचिदुपाध्याय आपोदो धौम्यः शिष्यानपृच्छत् क्व आरुणिः पाञ्चाल्यो गत इति ॥२५॥
तौ तं प्रत्यूचुर्भगवंस्त्वयैव प्रेषितो गच्छ केदारखण्डं बधानेति
।
स एवमुक्तस्तौ शिष्यान् प्रत्युवाच तस्मात्तत्र सर्वे गच्छामो यत्र स गत इति ॥२६॥
स तत्र गत्वा तस्याह्वानाय शब्दं चकारः
।
भो आरुणे पाञ्चाल्य क्वासि वत्सैहीति ॥२७॥
स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे ॥२८॥
प्रोवाच चैनमयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः ॥२९॥
तदभिवादये भगवन्तमाज्ञापयतु भवान्कमर्थं करवाणीति ॥३०॥
स एवमुक्त उपाध्यायःप्रत्युवाच यस्माद्भवान्केदारखण्डं विदार्योत्थितस्तस्मादुद्दालक एव नाम्ना भवान्भविष्यतीत्युपाध्यायेनानुगृहीतः ॥३१॥
यस्माच्च त्वया मद्वचनमनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसि
।
सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति ॥३२॥
स एवमुक्त उपाध्यायेनेष्टं देशं जगाम
।
अथापरः शिष्यस्तस्यैवापोदस्य धौम्यस्योपमन्युर्नाम॥३३॥
तं चोपाध्यायः प्रेषयामास वत्सोपमन्यो गा रक्षस्वेति ॥३४॥
स उपाध्यायवचनादरक्षद्गाः स चाहनि गा रक्षित्वा दिवसक्षये गुरुगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥३५॥
तमुपाध्यायःपीवानमपश्यदुवाच चैनं वत्सोपमन्यो केन वृत्तिं कल्पयसि पीवानसि दृढमिति ॥३६॥
स उपाध्यायं प्रत्युवाच भो भैक्ष्येण वृत्तिं कल्पयामीति॥३७॥
तमुपाध्यायः प्रत्युवाच मय्यनिवेद्य भैक्ष्यं नोपयोक्तव्यमिति
।
स तथेत्युक्तो भैक्ष्यं चरित्वोपाध्यायाय न्यवेदयत् ॥३८॥
स तस्मादुपाध्यायःसर्वमेव भैक्ष्यमगृह्णात्
।
स तथेत्युक्तः पुनररक्षद्गा अहनि रक्षित्वा निशामुखे गुरुकुलमागम्य गुरोरग्रतः स्थित्वा नमश्चक्रे ॥३९॥
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच
।
वत्सोपमन्यो सर्वमशेषतस्ते भैक्ष्यं गृह्णामि केनेदानीं वृत्तिं कल्पयसीति ॥४०॥
स एवमुक्त उपाध्यायं प्रत्युवाच
।
भगवते निवेद्य पूर्वमपरं चरामि तेन वृत्तिं कल्पयामीति॥४१॥
तमुपाध्यायः प्रत्युवाच नैषा न्याय्या गुरुवृत्तिरन्येषामपि भैक्ष्योपजीविनां वृत्त्युपरोधं करोषि इत्येवं वर्तमानो लुब्धोऽसीति ॥४२॥
स तथेत्युक्त्वा गा अरक्षत्
।
रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥४३॥
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच। वत्सोपमन्यो अहं ते सर्वं भैक्ष्यं गृह्णामि न चान्यच्चरसि पीवानसि भृशं केन वृत्तिं कल्पयसीति॥४४॥
स एवमुक्तस्तमुपाध्यायं प्रत्युवाच
।
भो एतासां गवां पयसा वृत्तिं कल्पयामीति
।
तमुवाचोपाध्यायो नैतन्न्याय्यं पय उपयोक्तुं भवतो मया नाभ्यनुज्ञातमिति ॥४५॥
स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहमेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे ॥४६॥
तमुपाध्यायःपीवानमेव दृष्ट्वोवाच
।
वत्सोपमन्यो भैक्ष्यं नाश्नासि न चान्यच्चरसि पयो न पिबसि पीवानसि भृशं केनेदानीं वृत्तिं कल्पयसीति ॥४७॥
स एवमुक्त उपाध्यायं प्रत्युवाच
।
भोः फेनं पिबापि यमिमे वत्सा मातॄणां स्तनात्पिबन्त उद्गिरन्ति ॥४८॥
तमुपाध्यायः प्रत्युवाच
।
एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति
।
तदेषामपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः
।
फेनमपि भवान्न पातुमर्हतीति
।
स तथेति प्रतिश्रुत्य पुनररक्षद्गाः ॥४९॥
तथा प्रतिषिद्धो भैक्ष्यं नाश्नाति न चान्यच्चरति पयो न पिबति फेनं नोपयुङ्क्ते स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् ॥५०॥
स तैरर्कपत्रैर्भक्षितैः क्षारतिक्तकटुरूक्षैस्तीक्ष्णविपाकैश्चक्षुष्युपहतोऽन्धो बभूव
।
ततः सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् ॥५१॥
अथ तस्मिन्ननागच्छति सूर्ये चास्ताचलावलम्बिनि उपाध्यायः शिष्यानवोचत्
।
नायात्युपमन्युस्त ऊचुर्वनं गतो गा रक्षितुमिति॥५२॥
तानाह उपाध्यायः मयोपमन्युः सर्वतः प्रतिषिद्धः स नियतं कुपितस्ततो नागच्छति चिरं ततोऽन्वेष्य
इत्येवमुक्त्वा शिष्यैः सार्धमरण्यं गत्वा तस्याह्वानाय शब्दं चकार
।
भो उपमन्यो क्वासि वत्सैहीति ॥५३॥
स उपाध्यायस्य आह्वानवचनं श्रुत्वा प्रत्युवाचोच्चैरयमस्मिन्कूपे पतितोऽहमिति
।
तमुपाध्यायः प्रत्युवाच कथं त्वमस्मिन्कूपे पतित इति ॥५४॥
स उपाध्यायं प्रत्युवाच
।
अर्कपत्राणि भक्षयित्वाऽन्धीभूतोस्म्यतः कूपे पतित इति॥५५॥
तमुपाध्यायः प्रत्युवाच
।
अश्विनौ स्तुहि तौ देवभिषजौ त्वां चक्षुष्मन्तं कर्ताराविति
।
स एवमुक्त उपाध्यायेनोपमन्युरश्निनौ स्तोतुमुपचक्रमे देवावश्विनौ वाग्भिर्ऋग्भिः ॥५६॥
प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वाऽशंसामि तपसा ह्यनन्तौ
।
दिव्यौ सुपर्णौ विरजौ विमानावधिक्षिपन्तौ भुवनानि विश्वा (१)॥५७॥
हिरण्मयौ शकुनी सांपरायौ नासत्यदस्रौ सुनसौ वैजयन्तौ
।
शुक्लं वयन्तौ तरसा सुवेमावधिव्ययन्तावसितं विवस्वतः (२)॥५८॥
ग्रस्तां सुपर्णस्य बलेन वर्तिकाममुञ्चतामश्विनौ सौभगाय
।
तावत्सुवृत्तावनमन्त मायया वसत्तमागा अरुणा उदावहत् (३)॥५९॥
षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं दुहन्ति
।
नाना गोष्ठा विहिता एकदोहनास्तावश्विनौ दुहतो घर्ममुक्थ्यम् (४)॥६०॥
एकां नाभिं सप्तशता अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः
।
अनेमि चक्रं परिवर्ततेऽजरं मायाऽश्विनौ समनक्ति चर्षणी (५)॥६१॥
एकं चक्रं वर्तते द्वादशारं षण्णाभिमेकाक्षममृतस्य धारणम्
।
यस्मिन्देवा अधि विश्वे विषक्तास्तावश्विनौ मुञ्चतं मा विषीदतम् (६)॥६२॥
अश्विनाविन्दुममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी
।
हित्वा गिरिमश्विनौ गा मुदा चरन्तौ तद्वृष्टिमह्ना प्रस्थितौ बलस्य (७)॥६३॥
युवां दिशो जनयथो दशाग्रे समानं मूर्ध्नि रथयानं वियन्ति
।
तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति (८)॥६४॥
युवां वर्णान्विकुरुथो विश्वरूपांस्तेऽधिक्षियन्ते भुवनानि विश्वा
।
ते भानवोऽप्यनुसृताश्चरन्ति देवा मनुष्याः क्षितिमाचरन्ति (९)॥६५॥
तौ नासत्यावश्विनौ वां महेऽहं स्रजं च यां विभृथः पुष्करस्य
।
तौ नासत्वावमृतावृतावृधावृते देवास्तत्प्रपदे न सूते (१०)॥६६॥
मुखेन गर्भं लभतां युवानौ गतासुरेतत्प्रपदेन सूते
।
सद्यो जातो मातरमत्ति गर्भस्तावश्विनौ मुञ्चथो जीवसे गाम् (११)॥६७॥
स्तोतुं न शक्नोमि गुणैर्भवन्तौ चक्षुर्विहीनः पथि संप्रमोहः
।
दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे युवां शरण्यौ शरणं प्रपद्ये (१२)॥६८॥
इत्येवं तेनाभिष्टुतावश्विनावाजग्मतुराहतुश्चैनं प्रीतौ स्व एष तेऽपूपोऽशानैनमिति ॥६९॥
स एवमुक्तः प्रत्युवाच नानृतमूचतुर्भगवन्तौ नत्वहमेतमपूपमुपयोक्तुमुत्सहे गुरवेऽनिवेद्येति ॥७०॥
ततस्तमश्विनावूचतुः
।
आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपो दत्त उपयुक्तः स तेनानिवेद्य गुरवे त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति ॥७१॥
स एवमुक्तः प्रत्युवाच एतत्प्रत्यनुनये भवन्तावश्विनौ नोत्सहेऽहमनिवेद्य गुरवेऽपूपमुपयोक्तुमिति ॥७२॥
तमश्विनावाहतुः प्रीतौ स्वस्तवानया गुरुभक्त्या उपाध्यायस्य ते कार्ष्णायसा दन्ता भवतोऽपि हिरण्मया भविष्यन्ति चक्षुष्मांश्च भविष्यसीति श्रेयश्चावाप्स्यसीति ॥७३॥
स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्याभ्यवादयत् ॥७४॥
आचचक्षे च स चास्य प्रीतिमान्बभूव ॥७५॥
आह चैनं यथाऽश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति ॥७६॥
सर्वे च ते वेदाःप्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति
।
एषा तस्यापि परीक्षोपमन्योः॥७७॥
अथापरः शिष्यस्तस्यैवापोदस्य धौम्यस्य वेदो नाम तमुपाध्यायः समादिदेश वत्स वेद इहास्यतां तावन्मम गृहे कंचित्कालं शुश्रूषुणा च भवितव्यं श्रेयस्ते भविष्यतीति ॥७८॥
स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत्
।
गौरिव नित्यं गुरुणा धूर्षु नियोज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलस्तस्य महतात्कालेन गुरुः परितोषं जगाम ॥७९॥
तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप
।
एषा तस्यापि परीक्षा वेदस्य ॥८०॥
स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत
।
तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः स शिष्यान्न किंचिदुवाच कर्म वा क्रियतां गुरुशुश्रूषा वेति
।
दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष ॥८१॥
अथ कस्मिंश्चित्काले वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्य वरयित्वोपाध्यायं चक्रतुः ॥८२॥
स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कनामानं शिष्यं नियोजयामास ॥८३॥
भो यत्किंचिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीयमानं भवता क्रियमाणमिति स एव प्रतिसंदिश्योत्तङ्कं वेदः प्रवासं जगाम ॥८४॥
अथोत्तङ्कः शुश्रूषुर्गुरुनियोगमनुतिष्ठमानो गुरुकुले वसति स्म
।
स तत्र वसमान उपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः ॥८५॥
उपाध्यायानी ते ऋतुमती उपाध्यायश्च प्रोषितोऽस्या यथाऽयमृतर्वन्ध्यो न भवति तथा क्रियतामेषा विषीदतीति ॥८६॥
एवमुक्तस्ताः स्त्रियः प्रत्युवाच
।
न मया स्त्रीणां वचनादिदमकार्यं करणीयम्
।
न ह्यहमुपाध्यायेन संदिष्टोऽकार्यमपि त्वया कार्यमिति ॥८७॥
तस्य पुनरुपाध्यायः कालान्तरेण गृहमाजगाम तस्मात्प्रवासात्
।
स तु तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् ॥८८॥
उवाच चैनं वत्सोत्तङ्कं किं ते प्रियं करवाणीति
।
धर्मतो हि शुश्रूषितोऽस्मि भवता तेन प्रीतिः परस्परेण नौ संवृद्धा तदनुजाने भवन्तं सर्वानेव कामानवाप्स्यसि गम्यतामिति ॥८९॥
स एवमुक्तः प्रत्युवाच किं ते प्रियं करवाणीति एवमाहुः ॥९०॥
यश्चाधर्मेण वै ब्रूयाद्यश्चाधर्मेण पृच्छति
।
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति ॥९१॥
सोहमनुज्ञातो भवता इच्छामीष्टं गुर्वर्थमुपहर्तुमिति
।
तेनैवमुक्त उपाध्यायः प्रत्युवाच वत्सोत्तङ्क उष्यतां तावदिति ॥९२॥
स कदाचित्तमुपाध्यायमाहोत्तङ्क आज्ञापयतु भवान्किं ते प्रियमुपाहरामि गुर्वर्थमिति ॥९३॥
तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपाहरामीति तद्गच्छैनां प्रविश्योपाध्यायानीं पृच्छ किमुपाहरामीति॥९४॥
एषा यद्ब्रवीति तदुपाहरस्वेति
।
स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छद्भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुमिच्छामीष्टं ते गुर्वर्थमुपदृत्यानृणो गन्तुमिति॥९५॥
तदाज्ञापयतु भवती किमुपाहरामि गुर्वर्थमिति
।
सैवमुक्तोपाध्यायानी तमुत्तङ्कं प्रत्युवाच
।
गच्छ पौष्यं प्रति राजानं कुण्डले भिक्षितुं तस्य क्षत्रियया पिनद्धे ॥९६॥
आनयस्व चतुर्थेऽहनि पुण्यकं ताभ्यामाबद्धाभ्यां शोभमाना ब्राह्मणान्परिवेष्टुमिच्छामि
।
तत्संपादयस्व एवं हि कुर्वतः श्रेयो भविताऽन्यथा कुतः श्रेय इति ॥९७॥
स एवमुक्तस्तया प्रातिष्ठतोत्तङ्कः स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव स पुरुष उत्तङ्कमभ्यभाषत ॥९८॥
भो उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति स एवमुक्तो नैच्छत् ॥९९॥
तमाह पुरुषो भूयो भक्षयस्वोत्तङ्क मा विचारयोपाध्यायेनापि ते भक्षितं पूर्वमिति ॥१००॥
स एवमुक्तो बाढमित्युक्त्वा तदा तद्वृषभस्य मूत्रं पुरीषं च भक्षयित्वोत्तङ्कः संभ्रमादुत्थित एवाप उपस्पृश्य प्रतस्थे ॥१०१॥
यत्र स क्षत्रियः पौष्यस्तमुपेत्यासीनमपश्यदुत्तङ्कः
।
स उत्तङ्कस्तमुपेत्याशीर्भिरभिनन्द्योवाच ॥१०२॥
अर्थी भवन्तमुपागतोऽस्मीति स एनमभिवाद्योवाच
।
भगवन्पौष्यः खल्वहं किं करवाणीति ॥१०३॥
तमुवाच गुर्वर्थं कुण्डलयोरर्थेनाभ्यागतोऽस्मीति
।
ये वै ते क्षत्रिया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति ॥१०४॥
तं प्रत्युवाच पौष्यः प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति
।
स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत्॥१०५॥
स पौष्यं पुनरुवाच न युक्तं भवताऽहमनृतेनोपचरितुं न हि तेऽ:न्तःपुरे क्षत्रिया सन्निहिता नैनां पश्यामि ॥१०६॥
स एवमुक्तः पौष्यः क्षणमात्रं विमृश्योत्तङ्कं प्रत्युवाच
।
नियतं भवानुच्छिष्टः स्मर तावन्न हि सा क्षत्रिया उच्छिष्टेनाशुचिना शक्या द्रष्टुं पतिव्रतात्वात्सैषा नाशुचेर्दर्शनमुपैतीति ॥१०७॥
अथैवमुक्त उत्तङ्कः स्मृत्वोवाचास्ति खलु मयित्थितेनोपस्पृष्टं गच्छतां चेति
।
तं पौष्यः प्रत्युवाच एष ते व्यतिक्रमो नोत्थितेनोपस्पृष्टं भवति शीघ्रं गच्छता चेति॥१०८॥
अथोत्तङ्कस्तं तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनो निःशब्दाभिरफेनाभिरनुष्णाभिर्हृद्गताभिरद्भिस्त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्य चान्तःपुरं प्रविवेश॥१०९॥
ततस्तां क्षत्रियामपश्यत्सा च दृष्ट्वैवोत्तङ्कं प्रत्युत्थायाभिवाद्योवाच स्वागतं ते भगवन्नाज्ञापय किं करवाणीति ॥११०॥
स तामुवाचैते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति
।
सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डलेऽवमुच्यास्मै प्रायच्छदाह तक्षको नागराजः सुभृशं प्रार्थयत्यप्रमत्तो नेतुमर्हसीति ॥१११॥
स एवमुक्तस्तां क्षत्रियां प्रत्युवाच भवती सुनिर्वृता भव
।
न मां शक्तस्तक्षको नागराजो धर्षयितुमिति॥११२॥
स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत्
।
आह चैनं भोः पौष्य प्रीतोऽस्मीति तमुत्तङ्कं पौष्यः प्रत्युवाच ॥११३॥
भगवंश्चिरेण पात्रमासाद्य ते भवांश्च गुणवानतिथिस्तदिच्छे श्राद्धं कर्तुं क्रियतां क्षण इति॥११४॥
तमुत्तङ्कः प्रत्युवाच कृतक्षण एवास्मि शीघ्रमिच्छामि
।
यथोपपन्नमन्नमुपस्कृतं भवतेति स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास ॥११५॥
अथोत्तङ्कः सकेशं शीतमन्नं दृष्ट्वा अशुच्येतदिति मत्वा तं पौष्यमुवाच
।
यस्मान्मे अशुच्यन्नं ददासि तस्मादन्धो भविष्यसीति॥११६॥
तं पौष्यः प्रत्युवाच
।
यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मात्त्वमनपत्यो भविष्यसीति तमुत्तङ्कः प्रत्युवाच ॥११७॥
न युक्तं भवताऽन्नमशुचि दत्त्वा प्रतिशापं दातुं तस्मादन्नमेव प्रत्यक्षीकुरु
।
ततः पौष्यस्तदन्नमशुचि दृष्ट्वा तस्याशुचिभावमपरोक्षयामास ॥११८॥
अथ तदन्नं मुक्तकेश्या स्त्रिया यत्कृतमनुष्णं सकेशं चाशुच्येतदिति मत्वा तमृषिमुत्तङ्कं प्रसादयामास॥११९॥
भगवन्नेतदज्ञानादन्नं सकेशमुपाहृतं शीतं तत्क्षामये भवन्तं न भवेयमन्ध इति तमुत्तङ्कः प्रत्युवाच॥१२०॥
न मृषा ब्रवीमि भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति
।
ममापि शापो भवता दत्तो न भवेदिति॥१२१॥
तं पौष्यः प्रत्युवाच न चाहं शक्तः शापं प्रत्यादातुं न हि मे मन्युरद्याप्युपशमं गच्छति किं चैतद्भवता न ज्ञायते तथा॥१२२॥
नवनीतं हृदयं ब्राह्मणस्य वाचि क्षुरो निहितस्तीक्ष्णधारः
।
तदुभयमेतद्विपरीतं क्षत्रियस्य वाङ्नवनीतं हृदयं तीक्ष्णधारम् ॥१२३॥
तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुं गम्यतामिति
।
तमुत्तङ्कः प्रत्युवाच
।
भवताऽहमन्नस्याशुचिभावमालक्ष्य प्रत्यनुनीतः प्राक् च तेऽभिहितम्॥१२४॥
यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति
।
दुष्टे चान्ने नैष मम शापो भविष्यतीति॥१२५॥
साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा
।
सोऽपश्यदथ पथि नग्नं क्षपणकमागच्छन्तं मुहुर्मुहुर्दृश्यमानं च ॥१२६॥
अथोत्तङ्कस्ते कुण्डले संन्यस्य भूमावुदकार्थं प्रचक्रमे
।
एतस्मिन्नन्तरे स क्षपणकस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत्॥१२७॥
तमुत्तङ्कोऽभिसृत्य कृतोदककार्यः शुचिः प्रयतो नमो देवेभ्यो गुरुभ्यश्च कृत्वा महता जवेन तमन्वयात्॥१२८॥
तस्य तक्षको दृढमासन्नः स तं जग्राह
।
गृहीतमात्रः स तद्रूपं विहाय तक्षकस्वरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं प्रविवेश॥१२९॥
प्रविश्य च नागलोकं स्वभवनमगच्छत्
।
अथोत्तङ्कस्तस्याः क्षत्रियाया वचः स्मृत्वा तं तक्षकमन्वगच्छत् ॥१३०॥
स तद्बिलं दण्डकाष्ठेन चखान न चाशकत्
।
तं क्लिश्यमानमिन्द्रोऽपश्यत्स वज्रं प्रेषयामास॥१३१॥
गच्छास्य ब्राह्मणस्य साहाय्यं कुरुष्वेति
।
अथ वज्रं दण्डकाष्ठमनुप्रविश्य तद्बिलमदारयत्॥१३२॥
तमुत्तङ्कोऽनुविवेश तेनैव बिलेन प्रविश्य च तं नागलोकमपर्यन्तमनेकविधप्रासादहर्म्यवलभीनिर्यूहशतसंकुलमुच्चावचक्रीडाश्चर्यस्थानावकीर्णमपश्यत् ॥१३३॥
स तत्र नागांस्तानस्तुवदेभिः श्लोकैः - य ऐरावतराजानः सर्पाः समितिशोभाः
।
क्षरन्त इव जीमूताः सविद्युत्पवनेरिताः॥१३४॥
सुरूपा बहुरूपाश्च तथा कल्माषकुण्डलाः
।
आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः॥१३५॥
बहूनि नागवेश्मानि गङ्गायास्तीर उत्तरे
।
तत्रस्थानपि संस्तौमि महतः पन्नगानहम्॥१३६॥
इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना
।
शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः॥१३७॥
सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदैजति
।
ये चैनमुपसर्पन्ति ये च दूरपथं गताः ॥१३८॥
अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः
।
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्पुरा ॥१३९॥
तं नागराजमस्तौषं कुण्डलार्थाय तक्षकम्
।
तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ ॥१४०॥
कुरुक्षेत्रं च वसतां नदीभिक्षुमतीमनु
।
जघन्यजस्तक्षकश्च श्रुतसेनेति यः सुतः॥१४१॥
अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम्
।
करवाणि सदाचाहं नमस्तस्मै महात्मने॥१४२॥
एवं स्तुत्वा स विप्रर्षिरुत्तङ्को भुजगोत्तमान्
।
नैव ते कुण्डले लेभे ततश्चिन्तामुपागमत् ॥१४३॥
एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभत्तदाऽपश्यत्स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्त्यौ
।
तस्मिंस्तन्त्रे कृष्णाः सिताश्च तन्तवश्चक्रं चापश्यत् द्वादशारं षड्भिः कुमारैः परिवर्त्यमानं पुरुषं चापश्यदश्वं च दर्शनीयम्॥१४४॥
स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवदेव श्लोकैः॥१४५॥
त्रीण्यर्पितान्यत्र शतानि मध्ये षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन्
।
चक्रे चतुर्विंशतिपर्वयोगे षड्वै कुमाराः परिवर्तयन्ति (१)॥१४६॥
तन्त्रं चेदं विश्वरूपे युवत्यौ वयतस्तन्तून्सततं वर्तयन्त्यौ
।
कृष्णान्सितांश्चैव विवर्तयन्त्यौ भूतान्यजस्रं भुवनानि चैव (२)॥१४७॥
वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हन्ता नमुचेर्निहन्ता
।
कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके (३)॥१४८॥
यो वाजिनं गर्भमपां पुराणं वैश्वानरं वाहनमभ्युपैति
।
नमोऽस्तु तस्मै जगदीश्वराय लोकत्रयेशाय पुरंदराय (४)॥१४९॥
ततः स एनं पुरुषः प्राह प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण किं ते प्रियं करवाणीति स तमुवाच॥१५०॥
नागा मे वशमीयुरिति स चैनं पुरुषः पुनरुवाच एतमश्वमपाने धमस्वेति ॥१५१॥
ततोऽश्वस्यापानमधमत्ततोऽश्वाद्धम्यमानात्सर्वस्रोतोभ्यः पावकार्चिषः सधूमा निष्पेतुः॥१५२॥
ताभिर्नागलोक उपधूपितेऽथ संभ्रान्तस्तक्षकोऽग्नेस्तेजोभयाद्विषण्णः कुण्डले गृहीत्वा सहसा भवनान्निष्क्रम्योत्तङ्कमुवाच॥१५३॥
इमे कुण्डले गृह्णातु भवानिति स ते प्रतिजग्राहोत्तङ्कः प्रतिगृह्य च कुण्डलेऽचिन्तयत्॥१५४॥
अद्य तत्पुण्यकमुपाध्यायिन्या दूरं चाहमभ्यागतः स कथं संभावयेयमिति तत एनं चिन्तयानमेव स पुरुष उवाच॥१५५॥
उत्तङ्क एनमेवाश्वमधिरोह त्वां क्षणेनैवोपाध्यायकुलं प्रापयिष्यतीति ॥१५६॥
स तथेन्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलमुपाध्यायानी च स्नाता केशानावापयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे॥१५७॥
अथ तस्मिन्नन्तरे स उत्तङ्कः प्रविश्य उपाध्यायकुलमुपाध्यायानीमभ्यवादयत् ते चास्यै कुण्डले प्रायच्छत्सा चैनं प्रत्युवाच॥१५८॥
उत्तङ्क देशे कालेऽभ्यागतः स्वागतं ते वत्स त्वमनागसि मया शप्तः श्रेयस्तवोपस्थितं सिद्धिमाप्नुहीति ॥१५९॥
अथोत्तङ्क उपाध्यायमभ्यवादयत्
।
तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क स्वागतं ते किं चिरं कृतमिति॥१६०॥
तमुत्तङ्क उपाध्यायं प्रत्युवाच भोस्तक्षकेण मे नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि तेनाऽस्मि नागलोकं गतः॥१६१॥
तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ तस्मिंश्च कृष्णाः सिताश्च तन्तवः किं तत् ॥१६२॥
तत्र च मया चक्रं दृष्टं द्वादशारं षट्चैनं कुमाराः परिवर्तयन्ति तदपि किम्॥ पुरुषश्चापि मया दृष्टः स चापि कः
।
अश्वश्चातिप्रमाणो दृष्टः स चाऽपि कः॥१६३॥
पथि गच्छता च मया ऋषभो दृष्टस्तं च पुरुषोऽधिरूढस्तेनाऽस्मि सोपचारमुक्त उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय उपाध्यायेनापि ते भक्षितमिति ॥१६४॥
ततस्तस्य वचनान्मया तदृषभस्य पुरीषमुपयुक्तं स चापि कः
।
तदेतद्भवतोपदिष्टमिच्छेयं श्रोतुं किं तदिति
।
स तेनैवमुक्त उपाध्यायः प्रत्युवाच ॥१६५॥
ये ते स्त्रियौ धाता विधाता च ये च ते कृष्णाः सितास्तन्तवस्ते रात्र्यहनी
।
यदपि तच्चक्रं द्वादशारं षड्वै कुमाराः परिवर्तयन्ति तेऽपि षड्ऋतवः संवत्सरश्चक्रम् ॥१६६॥
यः पुरुषःस पर्जन्यः योऽश्वः सोऽग्निर्य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराट् ॥१६७॥
यश्चैनमधिरूढः पुरुषः स चेन्द्रः यदपि ते भक्षितं तस्य ऋषभस्य पुरीषं तदमृतं तेन खल्वसि तस्मिन्नागभवने न व्यापन्नस्त्वम् ॥१६८॥
स हि भगवानिन्द्रो मम सखा त्वदनुक्रोशादिममनुग्रहं कृतवान्
।
तस्मात्कुण्डले गृहीत्वा पुनरागतोऽसि ॥१६९॥
तत्सौम्य गम्यतामनुजाने भवन्तं श्रेयोऽवाप्स्यसीति
।
स उपाध्यायेनानुज्ञातो भगवानुत्तङ्कः क्रुद्धस्तक्षकं प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे॥१७०॥
स हास्तिनपुरं प्राप्य न चिराद्विप्रसत्तमः
।
समागच्छत राजानमुत्तङ्को जनमेजयम्॥१७१॥
पुरा तक्षशिलासंस्थं निवृत्तमपराजितम्
।
सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम्॥१७२॥
तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः
।
उवाचैनं वचः काले शब्दसंपन्नया गिरा॥१७३॥
उत्तङ्क उवाच।
अन्यस्मिन्करणीये तु कार्ये पार्थिवसत्तम
।
बाल्यादिवान्यदेवं त्वं कुरुषे नृपसत्तम॥१७४॥
सौतिरुवाच।
एवमुक्तस्तु विप्रेण स राजा जनमेजयः
।
अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम् ॥१७५॥
जनमेजय उवाच।
आसां प्रजानां परिपालनेन स्वं क्षत्रधर्मं परिपालयामि
।
प्रब्रूहि मे किं करणीयमद्य येनासि कार्येण समागतस्त्वम्॥१७६॥
सौतिरुवाच।
स एवमुक्तस्तु नृपोत्तमेन द्विजोत्तमः पुण्यकृतां वरिष्ठः
।
उवाच राजानमदीनसत्वं स्वमेव कार्यं नृपते कुरुष्व ॥१७७॥
उत्तङ्क उवाच।
तक्षकेण महीन्द्रेन्द्र येन ते हिंसितः पिता
।
तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने ॥१७८॥
कार्यकालं हि मन्येऽहं विधिदृष्टस्य कर्मणः
।
तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः॥१७९॥
तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना
।
पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः॥१८०॥
बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः
।
अकार्यं कृतवान्पापो योऽदशत्पितरं तव ॥१८१॥
राजर्षिवंशगोप्तारममरप्रतिमं नृपम्
।
यियासुं काश्यपं चैव न्यवर्तयत पापकृत्॥१८२॥
होतुमर्हसि तं पापं ज्वलिते हव्यवाहने
।
सर्पसत्रे महाराज त्वरितं तद्विधीयताम् ॥१८३॥
एवं पितुश्चापचितिं कृतवांस्त्वं भविष्यसि
।
मम प्रियं च सुमहत्कृतं राजन् भविष्यति॥१८४॥
कर्मणः पृथिवीपाल मम येन दुरात्मना
।
विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ ॥१८५॥
सौतिरुवाच।
एतच्छ्रुत्वा तु नृपतिस्तक्षकाय चुकोप ह
।
उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा ॥१८६॥
अपृच्छत्स तदा राजा मन्त्रिणस्तान्सुदुःखितः
।
उत्तङ्कस्यैव सान्निध्ये पितुः स्वर्गगतिं प्रति ॥१८७॥
तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत्
।
यदैव वृत्तं पितरमुत्तङ्कादशृणोत्तदा ॥१८८॥