अनुक्रमणिकापर्व - १पर्वसंग्रहपर्व - २पौष्यपर्व - ३पौलोमपर्व। - ४आस्तिकपर्व - ५अंशावतरणपर्व - ६सम्भवपर्व - ७जतुगृहपर्व । - ८हिडिम्बवधपर्व - ९बकवधपर्व - १०चैत्ररथपर्व । - ११स्वयंवरपर्व - १२वैवाहिकपर्व - १३विदुरागमनराज्यालंभपर्व - १४अर्जुनवनवासपर्व - १५सुभ्रद्राहरणपर्व। - १६हरणाहरणपर्व। - १७खाण्डवदाहपर्व - १८मयदर्शनपर्व - १९

पौष्यपर्व

तृतीयोऽध्यायः

सौतिरुवाच। जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते ।
तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति ।
तेषु तत्सत्रमुपासीनेष्वागच्छत्सारमेयः॥१॥

पौष्यपर्व जनमेजयस्य सर्पसत्रे कथेयं प्रवृत्तेत्युक्तं तदुपोद्घातत्वेन जनमेजयस्य सरमाशापादिकमाह । जनमेजयः पारिक्षित इत्यादिना । दीर्घसत्रं बहुवार्षिकं सत्रम् उपास्ते अनितिष्ठति सारमेयः श्वा ॥१॥

जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् ॥२॥

रोरूयमाणः भृशं रुदन् ॥२॥

तं माता रोरूयमाणमुवाच ।
किं रोदिषि केनास्यभिहत इति ॥३॥

स एवमुक्तो मातरं प्रत्युवाच जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति ॥४॥

तं माता प्रत्युवाच व्यक्तं त्वया तत्रापराद्धं येनात्राभिहत इति ॥५॥

स तां पुनरुवाच नापराध्यामि किंचिन्नावेक्षे हवींषि नावलिह इति ॥६॥

नावेक्षे हविषामवेक्षणमपि कृतं तत्रावहेलनं दूरतोऽपास्तमित्यर्थः । ‘कुक्कुटः पक्षवातेन श्वा दृष्ट्वान्नं प्रदूषयेत्’ इति वचनाच्छुना दृष्टमपि हविर्दुष्यतीत्याहुः ॥६॥

तच्छ्रुत्वा तस्य माता सरमा पुत्रदुःखार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते ॥७॥

स तया क्रुद्धया तत्रोक्तोऽयं मे पुत्रो न किंचिदपराध्यति नावेक्षते हवींषि नावलेढि किमर्थमभिहत इति ॥८॥

न किंचिदुक्तवन्तस्ते सा तानुवाच यस्मादयमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति ॥९॥

सा तानुवाच । सा शुनी तानभिलक्ष्य जनमेजयं प्रत्युवाचेत्यर्थः । अदृष्टम् अतर्कितम् ॥९॥

जनमेजय एवमुक्तो देवशुन्या सरमया भृशं संभ्रान्तो विषण्णश्चासीत् ॥१०॥

संभ्रान्तोऽत्यन्तं भीतः विषण्णः वाङ्मनःकायक्रियाविकलः । एतेन निरपराधिना हिंसा हिंसकस्य सद्यो दुःखावहेति दर्शितम् ॥१०॥

स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विष्यमाणःपरं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति ॥११॥

पापकृत्या शापरूपा बलायुः प्राणनिकृन्तनी देवतां शमयेत् अक्रोधना कुर्यात् ॥११॥

स कदाचिन्मृगयां गतः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषय आश्रममपश्यत् ॥१२॥

तत्र कश्चिदृषिरासाञ्चक्रे श्रुतश्रवा नाम ।
तस्य तपस्यभिरतः पुत्र आस्ते सोमश्रवा नाम ॥१३॥

तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे ॥१४॥

स नमस्कृत्य तमृषिमुवाच भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति ॥१५॥

स एवमुक्तः प्रत्युवाच जनमेजयं भो जनमेजय पुत्रोऽयं मम सर्प्यां जातो महातपस्वी स्वाध्यायसंपन्नो मत्तपोवीर्यसंभृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ जातः ॥१६॥

सर्प्यां सर्पजातीयायां जातत्वाद्विचित्रोत्पत्तिमत्त्वादलौकिकशक्तिमानिति भावः ॥१६॥

समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् ॥१७॥

अस्य त्वेकमुपांशुव्रतं यदेनं कश्चिद्ब्राह्मणः कंचिदर्थमभियाचेत्तं तस्मै दद्यादयं यद्येतदुत्सहसे ततो नयस्वैनमिति ॥१८॥

उपाम्शुव्रतं निगूढवन्नियमः ॥१८॥

तेनैवमुक्तो जनमेजयस्तं प्रत्युवाच भगवंस्तत्तथा भविष्यतीति ॥१९॥

स तं पुरोहितमुपादायोपावृत्तो भ्रातॄनुवाच मयाऽयं वृत उपाध्यायो यदयं ब्रूयात्तत्कार्यमविचारयद्भिर्भवद्भिरिति ।
तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः स तथा भ्रातॄन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे तं च देशं वशे स्थापयामास ॥२०॥

उपावृत्तः स्वदेशं प्रत्यागतः । तक्षशिलां देशविशेषं विजेतुमिति शेषः ॥२०॥

एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामापोदस्तस्य शिष्यास्त्रयो बभूवुः ॥२१॥

एतस्मिन्निति एवं गुरुप्रसादादपेतभयो विजयी उत्तङ्केन प्रोत्साहितः सर्पसत्रं कृतवानिति वक्तुं तद्गुरोर्वेदस्य प्रशंसाप्रसङ्गादितरावपि तत्सहाध्यायिना वारुण्युपमन्यू प्रस्तौति । तेन च गुरुभक्तिमाहात्म्यमत्र मुख्यं प्रमेयं ज्ञेयम् । धौम्यो नामतः अपोऽत्तीत्यपोदः अब्भक्षस्तस्यापत्यमापोदः । अयोद इतिपाठे अयोदः लोहदंतः । दच्छब्दात्समासान्तोडट् । उपाध्यायस्य ते कार्ष्णायसा दन्ता इति वाक्यशेषात् क्रूरवचा इत्यर्थः ॥२१॥

उपमन्युरारुणिर्वेदश्चेति स एकं शिष्यंमारुणिं पाञ्चाल्यं प्रेषयामास गच्छ केदारखण्डं बधानेति ॥२२॥

केदारो महाक्षेत्रान्तर्गतं चतुरस्त्रं तस्य खण्डः जलनिरोधभित्तिस्तां बधान बघ्नीहि । केदारे बहुजलप्रवेशेन बीजनाशो मा भूदिति भावः ॥२२॥

स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशकत् ।
स क्लिश्यमानोऽपश्यदुपायं भवत्वेवं करिष्यामीति ॥२३॥

नाशकत् शिष्यपरीक्षार्थं गुरुणा योगबलेन जलप्रवाहस्य दुर्वारत्वसंपादनादित्यर्थः ॥२३॥

स तत्र संविवेश केदारखण्डे शयाने च तथा तस्मिंस्तदुदकं तस्थौ ॥२४॥

ततः कदाचिदुपाध्याय आपोदो धौम्यः शिष्यानपृच्छत् क्व आरुणिः पाञ्चाल्यो गत इति ॥२५॥

तौ तं प्रत्यूचुर्भगवंस्त्वयैव प्रेषितो गच्छ केदारखण्डं बधानेति ।
स एवमुक्तस्तौ शिष्यान् प्रत्युवाच तस्मात्तत्र सर्वे गच्छामो यत्र स गत इति ॥२६॥

स तत्र गत्वा तस्याह्वानाय शब्दं चकारः ।
भो आरुणे पाञ्चाल्य क्वासि वत्सैहीति ॥२७॥

स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे ॥२८॥

प्रोवाच चैनमयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः ॥२९॥

तदभिवादये भगवन्तमाज्ञापयतु भवान्कमर्थं करवाणीति ॥३०॥

स एवमुक्त उपाध्यायःप्रत्युवाच यस्माद्भवान्केदारखण्डं विदार्योत्थितस्तस्मादुद्दालक एव नाम्ना भवान्भविष्यतीत्युपाध्यायेनानुगृहीतः ॥३१॥

उत् ऊर्ध्वं दारयतीत्युद्दालकः रलयोरभेदादुद्दालक इति निरुक्तिः ण्वुल् ॥३१॥

यस्माच्च त्वया मद्वचनमनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसि ।
सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति ॥३२॥

श्रेयः ऐहिकामुष्मिकसुखमपवर्गश्च । सर्वे चेति । विनाप्यध्ययनमैकाग्र्येण गुरुमाराधयता सर्वापि विद्या लभ्यत इति भावः ॥३२॥

स एवमुक्त उपाध्यायेनेष्टं देशं जगाम ।
अथापरः शिष्यस्तस्यैवापोदस्य धौम्यस्योपमन्युर्नाम॥३३॥

तं चोपाध्यायः प्रेषयामास वत्सोपमन्यो गा रक्षस्वेति ॥३४॥

स उपाध्यायवचनादरक्षद्गाः स चाहनि गा रक्षित्वा दिवसक्षये गुरुगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥३५॥

तमुपाध्यायःपीवानमपश्यदुवाच चैनं वत्सोपमन्यो केन वृत्तिं कल्पयसि पीवानसि दृढमिति ॥३६॥

पीवानं पुष्टं भूयोन्नादिरसं पीतवन्तमित्यर्थ: वृत्तिं जीविकाम् ॥३६॥

स उपाध्यायं प्रत्युवाच भो भैक्ष्येण वृत्तिं कल्पयामीति॥३७॥

तमुपाध्यायः प्रत्युवाच मय्यनिवेद्य भैक्ष्यं नोपयोक्तव्यमिति ।
स तथेत्युक्तो भैक्ष्यं चरित्वोपाध्यायाय न्यवेदयत् ॥३८॥

स तस्मादुपाध्यायःसर्वमेव भैक्ष्यमगृह्णात् ।
स तथेत्युक्तः पुनररक्षद्गा अहनि रक्षित्वा निशामुखे गुरुकुलमागम्य गुरोरग्रतः स्थित्वा नमश्चक्रे ॥३९॥

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच ।
वत्सोपमन्यो सर्वमशेषतस्ते भैक्ष्यं गृह्णामि केनेदानीं वृत्तिं कल्पयसीति ॥४०॥

स एवमुक्त उपाध्यायं प्रत्युवाच ।
भगवते निवेद्य पूर्वमपरं चरामि तेन वृत्तिं कल्पयामीति॥४१॥

तमुपाध्यायः प्रत्युवाच नैषा न्याय्या गुरुवृत्तिरन्येषामपि भैक्ष्योपजीविनां वृत्त्युपरोधं करोषि इत्येवं वर्तमानो लुब्धोऽसीति ॥४२॥

वृत्त्युपरोधो वृतिप्रतिबन्ध: ॥४२॥

स तथेत्युक्त्वा गा अरक्षत् ।
रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥४३॥

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच। वत्सोपमन्यो अहं ते सर्वं भैक्ष्यं गृह्णामि न चान्यच्चरसि पीवानसि भृशं केन वृत्तिं कल्पयसीति॥४४॥

चरसि भक्षयसि ॥४४॥

स एवमुक्तस्तमुपाध्यायं प्रत्युवाच ।
भो एतासां गवां पयसा वृत्तिं कल्पयामीति ।
तमुवाचोपाध्यायो नैतन्न्याय्यं पय उपयोक्तुं भवतो मया नाभ्यनुज्ञातमिति ॥४५॥

उपयोक्तुं भोक्तुम् ॥४५॥

स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहमेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे ॥४६॥

तमुपाध्यायःपीवानमेव दृष्ट्वोवाच ।
वत्सोपमन्यो भैक्ष्यं नाश्नासि न चान्यच्चरसि पयो न पिबसि पीवानसि भृशं केनेदानीं वृत्तिं कल्पयसीति ॥४७॥

स एवमुक्त उपाध्यायं प्रत्युवाच ।
भोः फेनं पिबापि यमिमे वत्सा मातॄणां स्तनात्पिबन्त उद्गिरन्ति ॥४८॥

तमुपाध्यायः प्रत्युवाच ।
एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति ।
तदेषामपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः ।
फेनमपि भवान्न पातुमर्हतीति ।
स तथेति प्रतिश्रुत्य पुनररक्षद्गाः ॥४९॥

तथा प्रतिषिद्धो भैक्ष्यं नाश्नाति न चान्यच्चरति पयो न पिबति फेनं नोपयुङ्क्ते स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् ॥५०॥

अर्कपत्राणि अर्कवृक्षपत्राणि ॥५०॥

स तैरर्कपत्रैर्भक्षितैः क्षारतिक्तकटुरूक्षैस्तीक्ष्णविपाकैश्चक्षुष्युपहतोऽन्धो बभूव ।
ततः सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् ॥५१॥

क्षारेति । अन्यदपि क्षारादिरूपं द्रव्यं चक्षुरुपघातकमेवेति भावः तीक्ष्णविपाकैः पाककाले उदरेऽग्निज्वालोत्थापकैः ॥५१॥

अथ तस्मिन्ननागच्छति सूर्ये चास्ताचलावलम्बिनि उपाध्यायः शिष्यानवोचत् ।
नायात्युपमन्युस्त ऊचुर्वनं गतो गा रक्षितुमिति॥५२॥

तानाह उपाध्यायः मयोपमन्युः सर्वतः प्रतिषिद्धः स नियतं कुपितस्ततो नागच्छति चिरं ततोऽन्वेष्य इत्येवमुक्त्वा शिष्यैः सार्धमरण्यं गत्वा तस्याह्वानाय शब्दं चकार ।
भो उपमन्यो क्वासि वत्सैहीति ॥५३॥

स उपाध्यायस्य आह्वानवचनं श्रुत्वा प्रत्युवाचोच्चैरयमस्मिन्कूपे पतितोऽहमिति ।
तमुपाध्यायः प्रत्युवाच कथं त्वमस्मिन्कूपे पतित इति ॥५४॥

स उपाध्यायं प्रत्युवाच ।
अर्कपत्राणि भक्षयित्वाऽन्धीभूतोस्म्यतः कूपे पतित इति॥५५॥

तमुपाध्यायः प्रत्युवाच ।
अश्विनौ स्तुहि तौ देवभिषजौ त्वां चक्षुष्मन्तं कर्ताराविति ।
स एवमुक्त उपाध्यायेनोपमन्युरश्निनौ स्तोतुमुपचक्रमे देवावश्विनौ वाग्भिर्ऋग्भिः ॥५६॥

कर्तारावितिलुङन्तम् । तौ त्वां चक्षुष्मन्तं करिष्यत इत्यर्थः । अत्र गुर्वनुज्ञात उपमन्युरृग्भिरश्विनौ तुष्टावेति स्मर्यते । एतासामृचां कर्मसमवेतार्थप्रकाशकत्वं तत्तत्समानार्थऋगन्तरोदाहरणपूर्वकं कर्ममीमांसकाः प्राहुः । तदनुरागबलेन चानन्तत्वादीनि ब्रह्मलिङ्गान्यन्यथा निन्युस्तन्मन्दम् । आसां कर्मणि विनियोगस्यादर्शनात् । प्रत्यक्षब्रह्मलिङ्गैरर्थवत्त्वोपपत्तौ लिङ्गमात्रात्कर्मणस्तत्र ऋग्विनियोगस्य च कल्पनाया अनुदयात् । किं च ‘समारोप्यस्य रूपेण विषयो रूपवान् भवेत् । विषयस्य तु रूपेण समारोप्यं न रूपवत्’ । इति न्यायेन यथारोपितभुजङ्गधर्मेण भीषणत्वादिना रज्जुर्विशेष्यते न तु रज्जुधर्मेणाभिगम्यत्वादिना भुजङ्गो विशेष्टुं शक्यः । तत्स्वरूपलोपप्रसङ्गात् । एवं ब्रह्माध्यस्ताश्विदेवताधर्मेण विग्रहवत्त्वादिना ब्रह्म विशेष्टुं शक्यं न तु ब्रह्मधर्मेणास्थूलत्वादिना देवता विशेष्टुं शक्या । तत्स्वरूपलोपप्रसङ्गात् । अत एवाकाशश्रुतिः । ‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त’ इत्यनन्यथा सिद्धभूतोपादानत्वप्रकाशनसामर्थ्यरूपब्रह्मलिङ्गाद्ब्रह्मपरतयानीता आकाशस्तल्लिङ्गादित्यत्र । दृश्यते च ‘उभा उनूनम्’ इति मन्त्रे वितन्वाते धिय इत्यश्विनोरन्तर्यामित्वं तच्च धियो यो नः प्रचोदयादित्यनेन तुल्यार्थे ब्रह्मलिङ्गम् । सृण्येवेति मन्त्रे ‘जर्भरीतुर्फरीतू’ इति भर्तृत्वहन्तृत्वे ब्रह्मलिङ्गे ‘जर्भरी भर्तारावित्यर्थस्तुर्फरीतू हन्तारौ’ इति यास्कीयनिर्वचनात् । न चैतान्यसतिबाधके सङ्कोचयितुं शक्यानि । शास्त्रदृष्टिन्यायेनाश्विविग्रहोपलक्षितब्रह्मोपदेशार्थत्वोपपत्तेः । अत्र हि इन्द्रेण प्रतर्दनं प्रति मामेव विजानीहीत्युक्तेर्देवतात्मन एव वेद्यत्त्वापत्तौ यच्छास्त्रदृष्टं शुद्धं ब्रह्म तदभिप्रायेणायमुप- भवितात्माभिप्रायेणेति स्थितम् । अश्विनाविति द्वित्वं तु द्वासुपर्णेत्यस्यामृचि तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्वमनश्नन्नन्योऽभिपश्यति ज्ञ इति पैङ्गिरहस्यव्याख्यातप्रकारेणोपाध्युपधेयभूतसत्वचैतन्यभेदाभिप्रायेण । तेनात्र मायोपाधिकं जगत्कारणं ब्रह्म प्रतिपाद्यते । तज्ज्ञानस्य परमपुरुषार्थहेतुत्वात् । चक्षुः प्राप्तिस्तु ‘तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्त्राभिषजावनर्वन्’ इति मन्त्रेऽश्विनोश्चक्षुःप्रदत्वदर्शनादवान्तरफलम् । विचक्षे विचक्षुषे । आधत्तं दत्तवन्तौ । अनर्वन्वाहनशून्ये कुण्ठितगतावपि भिषजौ भैषज्यकरणेनाऽनुग्राहकौ । अत एव लिङ्गात्सूर्यचन्द्रपरत्वमस्याः स्तुतेर्विरुद्धम् । आख्यायिका तु गुरुदेवताभक्तेर्विद्याप्राप्त्यर्थत्वसूचनार्था । भिषक्तमं त्वाभिषजां शृणोमीति परमेश्वरे भिषक्त्वश्रवणाद्देवभिषजावित्युक्तम् । शेषं स्पष्टार्थम् ॥५६॥

प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वाऽशंसामि तपसा ह्यनन्तौ ।
दिव्यौ सुपर्णौ विरजौ विमानावधिक्षिपन्तौ भुवनानि विश्वा (१)॥५७॥

ऋग्भिरित्युक्तं ता ऋचः पठति । प्रपूर्वगौ सृष्टेः प्राग्विद्यमानौ । ‘स देवसोम्येदमग्र आसीदेकमेवाद्वितयिम्’ इतिश्रुतेः । पूर्वजौ तावेव हिरण्यगर्भात्मकतां गतौ पूर्वोत्पन्नौ । ‘स वै शरीरी प्रथमः’ इति श्रुतेः । चित्रभानू विचित्रप्रपञ्चाकारेण भासमानौ । ऐतदात्म्यमिदं सर्वम्’ श्रुतेः । गिरा श्रवणजज्ञानेन वा शब्दश्चार्थे । तपसा मननध्यानात्मकेनालोचनेन । आशंसामि प्रत्यगात्मत्वेन प्राप्तुमिच्छामि । हि यस्मादनन्तौ देशकालवस्तुभिरपरिच्छन्नौ । एतेन सत्त्वस्यावस्तुत्वमुक्तम् । अन्यथा चितो वस्तुपरिच्छेदापत्तेः । यस्मादनन्तौ तस्मादाशंसाम्यभयाय । ‘ब्रह्मविद्ब्रह्मैव भवति’ इति श्रुतेः। तज्ज्ञानादहमप्यनन्तः स्यामित्यर्थः । अन्यथा ‘द्वितीयाद्वैभयं भवति’ इति श्रुतेः संसारभयानिवृत्तिप्रसङ्गः । दिव्यौ वृत्ति तदुपारूढचैतन्यरूपेण द्योतमानौ । सुपर्णौ पक्षिवच्छरीरवृक्षारूढौ । अधिक्षिपन्तौ भुवनानि विश्वा सत्वगतविक्षेपशक्त्या सर्वाणि भुवनानि विक्षिपन्तौ । तदेतत् सत्त्वं येन स्वप्नं पश्यतीति श्रुतेः । विश्वा विश्वानि । सुपां सुलुगिति सुपो डादेशः । विरजौ रजः शब्दिताः परमाणवी वा रजःप्रधानं सांख्याभिमतं गुणत्रयं वा तद्रहितौ । सृष्टौ तदनपेक्षावित्यर्थः । बहुस्यां प्रजायेयेति । तदात्मानं स्वयमकुरुतेति स्वस्यैव बहुभवनाशंसनकरणश्रवणात् । विमानौ विगतं मानं प्रमासाधनं यतस्तौ । ‘तुच्छयेनाभ्वपिहितं यदासीत्’ इति सत्त्वस्य तुच्छत्वान्मानासहिष्णुत्वेन विमानत्वम् | चितस्तु ‘यतो वाचो निवर्तन्ते अप्राप्यमनसा सह’ इति वाङ्मनसातीतत्वादमानत्वम् ॥५७॥

हिरण्मयौ शकुनी सांपरायौ नासत्यदस्रौ सुनसौ वैजयन्तौ ।
शुक्लं वयन्तौ तरसा सुवेमावधिव्ययन्तावसितं विवस्वतः (२)॥५८॥

अस्यैव सूत्रभूतस्य विवरणार्था उत्तरश्लोकाः । प्रपूर्वगावितिसृष्टेः प्राक्पूर्वशब्देन कालसत्ता प्रतीयते तां निराचष्टे । कालस्यैवाश्विप्रवर्त्यत्वं वदन् हिरण्मयाविति । हिरण्मयौ शकुनी ‘हिरण्यमयः शकुनिर्ब्रह्मनामा’ इति श्रुतेः । रमणीयौ असंगौचेत्यर्थः । साम्परायौ सर्वस्य लयाधिष्ठानभूतौ । स्वयं च नासत्यदस्रो । असत्यं रज्जुभुजङ्गादिदस्त्रम् उपक्षयधर्मकं घटादि तदुभयाभावरूपौ । सुनसौ शोभननासिकौ । विग्रहधर्मोऽयम् । वै निश्चित्तं जयन्तौ कालं एतदेवाह विवस्वतः । ल्यब्लोपे पञ्चमी । विवस्वन्तं सूर्यं सृष्ट्वा तद्द्वरा असितं कृष्णं रात्रिजातम् । शुक्लं दिनजातं च तन्तुस्थानीयं तेन संवत्सररूपं पटं वयन्तौ तन्तुवायाविव । तेन च पटेन तरसा वेगेन सुवेमौ सुमार्गौ वेति लोको येन स सुवेमः वेतेरौणादिको मन् । तौ देवपितृयानौ अधिव्ययन्तौ उपस्थापयन्तौ । ‘शुक्लकृष्णे गतीह्येते जगतः शाश्वते मते’ इति भगवद्वचनात् । एतावेव कर्मफलोपभोगाय तत्तल्लोकमार्गप्रदौ कालस्य च प्रवर्तकौ । तस्मान्नाद्वैततत्त्वक्षतिरिति भावः ॥५८॥

ग्रस्तां सुपर्णस्य बलेन वर्तिकाममुञ्चतामश्विनौ सौभगाय ।
तावत्सुवृत्तावनमन्त मायया वसत्तमागा अरुणा उदावहत् (३)॥५९॥

एवं ब्रह्माद्वैतं प्रसायैतदेव वीतरागैर्ज्ञातं सन्मुक्तयेऽन्यथा बन्धाय भवतीत्याह । सुपर्णस्य परमात्मनो । बलेन कालशक्त्या ग्रस्तां वर्तिकां सुपर्णसरूपां जीवपक्षिणीम् । अश्विनौ देवौ सौभगाय महते भाग्याय कैवल्याय । अमुञ्चतां मोचितवन्तौ । मुक्त्युपायविदमित्यर्थः । व्यतिरेकमुखेन मुक्त्युपायमाह । तावदिति । मायया अज्ञानेन सह ‘वसत्तमाः अतिशयेन वसन्तः । अत्यन्तं मूढाः पुरुषाः । अरुणाः रागादिविषयाक्रान्ताः । गाः इन्द्रियाणि प्रति यावत् अनमन्त नतवन्तः । इन्द्रियकैङ्कर्यं यावदासीदित्यर्थः । तावत्सुवृत्तौ अनात्मदोषास्पर्शिनौ । युवां जीवात्मरूपौ कर्मीभूतौ उदा उदकप्रधानेन शरीरेण ‘आपः पुरुषवचसः’ इति श्रुतेः । उंदी-क्लेदने इत्यस्मात्क्विप्यनिदितामितिनलोपे उदितिरूपम् । इत्थंभावे तृतीया । तद्रूपेण अवहन् ऊढवन्तः रागादि ग्रस्ता यावद्भवन्ति । आत्मानं देहमेव तावन्मन्यन्ते ततश्च संसरन्ति । तस्माद्रागादिजयो मुक्त्युपाय इत्युक्तं भवति ॥५९॥

षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं दुहन्ति ।
नाना गोष्ठा विहिता एकदोहनास्तावश्विनौ दुहतो घर्ममुक्थ्यम् (४)॥६०॥

काले कृतं कर्मापि मुक्त्युपाय इत्याह । धेनवोऽभिमतफलदोग्ध्र्यो गावोऽहोरात्ररूपाः । षष्टिश्च त्रिशताश्च संख्याताः एकं वत्सं संवत्सरं सुवते निर्वर्तयन्ति तं वत्सं गौणकर्मभूतम् । नाना गोष्ठाः पृथक्फला अपि विहिताः क्रियाः मुख्यकर्मभूताः एकदोहनाः एकमेव विविदिषाख्यं दुह्यते तद्दोहनं दोह्यं येषां ते ‘अकर्तरि च कारके’ इति कर्मणि ल्यूट् । दुहन्ति विविदिषवः । ‘विविदिषन्ति यज्ञेन’ इत्यादिश्रुतेः । यथोक्तं यज्ञेनेत्यादिवाक्यं शतपथविहितं कर्मवृन्दं गृहीत्वा स्वोत्पत्याम्नानसिद्धं पुरुषं विविदिषामात्रसाध्ये युनक्तीति । एकदोहनाः यं वत्सं दुहन्ति तं तावश्विनौ प्रसिद्धौ गोस्थानीयौ दुहतः । अश्विनावेव कालं प्रसुवाते इत्यर्थः । एतच्च युवां दिशो जनयथ इत्यत्र स्पष्टीकरिष्यते । कीदृशं वत्सं धर्मं तापकं संहर्तारमिति यावत् । उक्थ्यम् उत्तिष्ठत्यस्मात्कार्यजातम् । उत्पादकमित्यर्थः ॥६०॥

एकां नाभिं सप्तशता अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः ।
अनेमि चक्रं परिवर्ततेऽजरं मायाऽश्विनौ समनक्ति चर्षणी (५)॥६१॥

एतत्कालचक्रमजरं सर्वान्देवमनुष्यान् क्षिणोतीत्याह । चक्रस्यान्तरमध्यमबाह्यवलयानि नाभिप्रधि नेमयः । तेषां संभेदकाष्ठानि तिर्यञ्चि अराः । एवं सति एकां नाभि संवत्सराख्यां सप्तशता अरा विंशतिश्चाराः । ते चार्धशोऽहानि रात्रयश्च श्रिता नाभिं प्रधिषु च मध्यमवलयखण्डेषु ते द्वादशमाससंज्ञाः । द्वादशप्रधयश्चक्रमिति श्रुतेः । तेषु अर्पिताः। नेमिचक्रं नियतप्रचारम् इदं तु न तथा । प्रत्यहंदिनमानभेदेन परिवर्तते । अजरम् अक्षयम् । मायामाययामयं हेअश्विनौ । युवाभ्यां प्रवर्तितमित्यर्थात्समनक्ति स्पृशति के चर्षणी ऐहिक्यामुष्मिक्यौ प्रजे । ततश्च द्विविधमपि भोगं नेच्छेत्क्षयिष्णुत्वादिति भावः ॥६१॥

एकं चक्रं वर्तते द्वादशारं षण्णाभिमेकाक्षममृतस्य धारणम् ।
यस्मिन्देवा अधि विश्वे विषक्तास्तावश्विनौ मुञ्चतं मा विषीदतम् (६)॥६२॥

एवं भचक्रस्य षष्टिघटिकात्मकैकाहोरात्रं निर्वर्त्य प्रदक्षिणप्रक्रमैः षष्ट्यधिकशतत्रयं संमितैः सावनाख्यं संवत्सरचक्रं जगदायुःक्षेपणमुक्तं द्वाभ्याम् । इदानीं प्रदक्षिणावर्ते भचक्रे सूर्यचन्द्रयोरप्रदक्षिणप्रक्रमेण निर्वर्त्ये सौरचान्द्रसंवत्सरचक्रे कर्मोपयोगिनी आह । तत्र एकस्मिन् शङ्कौ प्रोताः षट्शलाकाः पृथक् अन्ताश्चेद्वादशारं षण्णाभि एकं चक्रं भवति । तत्र संवत्सरोक्षः । मेषाद्या राशयो द्वादशाराः । षड् ऋतवो नाभयः । तच्चक्रम् ऋतस्य कर्मफलस्य धारणं ध्रियतेऽस्मिन्निति तथा । अत्र हेतुः । यस्मिन्विश्वेदेवाः कालाभिमानिनाः अधिविषक्ताः । व्यवहिताश्चेति छन्दसि न्यवहितक्रिययाप्युपसर्गाणां सम्बन्धस्मरणात् । तावश्विनौ मा मां मुञ्चतं मोचयन्तम् । अस्माच्चक्रादिति शेषः । किं भूतं मां विषदतं जन्मादिदुःखेन विषादं प्राप्नुवन्तम् । नुमभावच्छान्दसः । ततः कालोचितकर्मकरणोचिताः कालाभिमानिन्यो देवतास्तृप्यन्ति इष्टं फलं च यजमानाय प्रयच्छन्त्यन्यथा विपरीतं कुर्वन्तीति भावः ॥६२॥

अश्विनाविन्दुममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी ।
हित्वा गिरिमश्विनौ गा मुदा चरन्तौ तद्वृष्टिमह्ना प्रस्थितौ बलस्य (७)॥६३॥

एवं कर्मणां विविदिषोत्पादनद्वारा विद्याहेतुत्वमुक्त्वा सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतेति श्रुत्युक्तां ब्रह्मोपास्तिमाह चित्तैकाग्र्याय । अश्विनौ वृत्तभूयौ वृत्तं निर्वृत्तमुत्पन्नं वियदादि तस्य भूयं भावः । ‘भुवो भावे’ इति क्यप् । आश्विनौ कृत्स्नप्रपञ्चात्मकावित्यर्थः । ऐतदेवाश्विनोर्लयकारणप्रदर्शनेन द्रढयति । अश्विनौ इन्दुं सोमं तदुपलक्षितानि कर्माणि । अमृतं तत्फलभूतमैहिकामुष्मिकं भोग्यजातम् । दासपत्नी । सुपांसुलुगितिपूर्वसवर्णः । अपः नैरुक्तप्रसिद्धेः । अबुपलक्षितं वियदादि च तिरोधत्तां रज्जुरिव स्वाध्यस्तभुजङ्गमम्तहितं कुरुतः। अश्विनावेव सर्वात्मरूपेणापास्यावितिभावः । एवमुपासनालब्धचित्तकाग्र्यस्य प्रत्यक्तत्वख्यापनाय ब्रह्मण एव तावद्बन्धप्रसक्तिमाह । हित्वेति । अश्विनौ स्वरूपेण ब्रह्मैव सन्तौ बलस्य गिरि साधनसम्पत्तेरुच्छ्रायम् अनाद्यविद्यया हित्वा गाः इन्द्रियाणि मुदा विषयेन्द्रियसंयोगजहर्षेण चरन्तौ चारयन्तौ विषयभूमिषु । तद्वृमिष्ठह्ना तस्याः मुदो वृष्टिस्तद्वृष्टिस्तन्माहात्म्येन प्रस्थितौ विषयजसुखर्धिमाहात्म्यात्पराक् प्रावण्यमेव प्राप्तौ । अत्र ‘नायमात्मा बलहीनेन लभ्य’ इत्यत्र बलशब्दस्य बोधसाधनसंपद्वाचित्वं दृष्टम् । गिरिशब्दस्यापि गिरति ह वै द्विषन्तं पाप्मानमिति श्रौतनिर्वचनबलात्साधनसंपदुच्छ्राय परतयाख्यानं कृतम् । एवं चानादिविषयवासना वशाद्ब्रह्मैव बद्धमिति दर्शितम् ॥६३॥

युवां दिशो जनयथो दशाग्रे समानं मूर्ध्नि रथयानं वियन्ति ।
तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति (८)॥६४॥

अस्य जीवस्य ब्रह्मात्मतावबोधार्थं तत्पदार्थस्वरूपं तावदाह । हे अश्विनौ युवा अग्रे सृष्टेःप्राक् दशदिशः प्राच्याद्याः जनयथः । अत्राकाशे एव सूर्योपाधिकी दिक्कल्पनातस्तत्स्रष्टृत्वमप्याह । मूर्ध्नि अर्थाद्दिशाम् । अन्तरिक्षे इत्यर्थः। रथयानं रथेन यानं गमनमस्य तं सूर्यं समानं सर्वेषामेकं तथा वियन्ति व्योमानि । कल्पभेदात्सृष्टिभेदाद्वा बहुत्वम् । जनयथ इत्यनुवर्तते । तासां दिशां यातम् । अर्थात्तत्संबन्धिनः सूर्यस्य यातं गमनमनुसूर्यकृतदिक्कालावनुलक्ष्य ऋषयः प्रयान्ति कर्मभिः प्रचरन्ति । तथा देवा मनुष्याश्च यथाधिकारं क्षितिम् ऐश्वर्यम् आचरन्ति आसमन्ताद्भुञ्जते ॥६४॥

युवां वर्णान्विकुरुथो विश्वरूपांस्तेऽधिक्षियन्ते भुवनानि विश्वा ।
ते भानवोऽप्यनुसृताश्चरन्ति देवा मनुष्याः क्षितिमाचरन्ति (९)॥६५॥

एवं भूतसृष्टिमुक्त्वा भौतिकीं सृष्टिमाह । भो अश्विनौ युवां वर्णान् तेजोबन्नानि लोहितशुक्लकृष्णवर्णवन्ति विकुरुथः । परस्परमिश्रणेन विविधाकारान् कुरुथः सेयं देवतैक्षतहन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि इति श्रुतेः । विश्वरूपान् त्रीणि रूपाणीत्येव सत्यमितिश्रुतेः । सर्वेषां रूपाणां त्रिष्वेवान्तर्भावाद्वर्णानां वैश्वरूप्यं ते वर्णा अघियन्ते जनयन्ति भुवनानि चतुर्दशभौतिकानि । विश्वा सर्वाणि । ते प्रसिद्धा जीवाः अर्थात् भानवोंशा इवांशा अपि विश्वानि भूतानि अनुसृताः । देहेन्द्रियबुद्धिरूपविकारानुसारिणो भूत्वा चरन्ति विषयान् भुञ्जते । त एते देवा मनुष्याः अन्येऽपि पश्वादयः क्षितिं भूमिमाश्रित्य चरन्ति वर्तन्ते । अत्राद्य श्लोकेन ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूत’ इत्यादिश्रुतेरर्थो दर्शितः । द्वितीये ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पितेत्येत्प्रदर्शनेन तत्पदार्थतत्वं सर्वभूतस्रष्टृत्वं सर्वान्तःप्रविष्टत्वं चेत्येवं लक्षणं प्रदर्शितम् ॥६५॥

तौ नासत्यावश्विनौ वां महेऽहं स्रजं च यां विभृथः पुष्करस्य ।
तौ नासत्वावमृतावृतावृधावृते देवास्तत्प्रपदे न सूते (१०)॥६६॥

उक्तविघं तत्पदार्थमनूद्य स एव सङ्घातप्रवर्तको जीवो नान्यस्ततोऽस्तीत्याह । तौ प्रसिद्धौ नासत्यावश्विनौ वां युवां महे पूजयेऽहम् । वां युवां पुष्करस्य व्यामेपुष्करमम्बरम् । आकाशोऽव्याकृमव्यक्तमित्यनर्थान्तरम् । तस्य स्रजं सृज्यते इति स्रक्कार्यजातं विभृथः । प्रविश्य धारयथस्तदपि महे इत्यनुषज्यते । तौ नासत्यौ अमृतौ नित्यमुक्तौ ऋतावृधौ ऋतस्य कर्मफलस्योपबृंहकौ । न हि वृत्तिवृधीत्यादिना दीर्घः । ऋते विना देवा वागाद्यभिमानिनोऽग्न्यादयः । तत्प्रपदे तेषां वागादिविषयाणां वचनादीनां प्रपदे प्राप्तये न सूते न सुवते न समर्था भवन्ति । सूते इति च्छान्दसो व्यत्ययः । कोह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो न स्यादिति श्रुतेः। न चेतनं प्रवर्तकमृते शकटवदचेतनः । सङ्घातः प्रवर्तत इति भावः । तदेवं नान्योतोस्ति द्रष्टेति चेतनान्तरऽनिषेधात् तत्त्वमसीति जीवेशयोरभेदश्रवणात्प्रपञ्चस्य च वाचारम्भणं विकारो नामधेयमित्यनृतत्वश्रवणाच्चाद्वैतं ब्रह्मशास्त्रसिद्धमत्रापि अश्विनोर्जगदुपादानत्वोक्त्या तौ नासत्याविति पदद्वयेन तत्त्वं पदार्थयोः पूर्वापरार्धयोस्तुल्यशब्दोपादाने न जीवेशाभेदप्रतिपादनेन च प्रसाधितम् ॥६६॥

मुखेन गर्भं लभतां युवानौ गतासुरेतत्प्रपदेन सूते ।
सद्यो जातो मातरमत्ति गर्भस्तावश्विनौ मुञ्चथो जीवसे गाम् (११)॥६७॥

एवं ब्रह्मविद्यां समाप्य केषाञ्चिन्मते सङ्घात एव चेतयते नान्यस्ततश्चेतनोस्तीति तद्दूषणपूर्वकं स्वस्य चक्षुः प्रार्थयते । युवानौ मातापितरौ । अन्नात्पुरुष इति श्रुतेः । मुखेनान्नरूपं गर्भं प्रथमं लभेतां ततः एतत् एतं गर्भं छान्दसं क्लीबत्वं पुंसि रेतोरूपेण । योषिति शोणितरूपेण परिणतम् । गतासुरचेतनो देहः प्रपदेन प्रकर्षेण पद्यते सुखमनेनेति प्रपदमुपस्थेन्द्रियम् । सर्वेषामानन्दानामुपस्थ एकायनमिति श्रुतेः । तेन पूर्वं रेतःसिक् सूते पश्चास्त्री । अतः सङ्घातस्य मलपिण्डवदचेतनत्वं सिद्धम् । सद्यो जात उत्पन्नमात्रो गर्भो बालः मातरम् अत्ति स्तनपाने प्रवर्तत इत्यर्थः। तदेतज्जन्मान्तरीयानुभवाहितसंस्कारमन्तरेण संभवतीत्यस्ति पूर्वसिद्धः सङ्घातादन्यश्चेतनस्तत्प्रवर्तक इति सिद्धम् । तावश्विनौ स्तः अश्व्युपलक्षितं ब्रह्म । ताविति विधेयापेक्षया द्वित्वम् । शैत्यं हि यत्सा प्रकृतिर्जलस्येतिवत् । एतेन तत्वमसीति वाक्यार्थ उक्तः । जीवसे जीवनाय । गाः चक्षूंषि मंचथः चक्षुः प्रतिन्वधापनयनक्रियास्तामित्यर्थः ॥६७॥

स्तोतुं न शक्नोमि गुणैर्भवन्तौ चक्षुर्विहीनः पथि संप्रमोहः ।
दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे युवां शरण्यौ शरणं प्रपद्ये (१२)॥६८॥

इत्येवं तेनाभिष्टुतावश्विनावाजग्मतुराहतुश्चैनं प्रीतौ स्व एष तेऽपूपोऽशानैनमिति ॥६९॥

अपूपः बहुच्छिद्रं स्नेहपक्कं भक्ष्यम् । यावन्त्यपूपच्छिद्राणीति व्रतविशेषप्रसिद्धेः । मधुविद्यायां मध्वपूपशब्देन मधुपेश्या बहुविलाया ग्रहणात्तत्सदृशैनवापूपद्रव्येण भवितव्यमिति च अशान भक्षय ॥६९॥

स एवमुक्तः प्रत्युवाच नानृतमूचतुर्भगवन्तौ नत्वहमेतमपूपमुपयोक्तुमुत्सहे गुरवेऽनिवेद्येति ॥७०॥

ततस्तमश्विनावूचतुः ।
आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपो दत्त उपयुक्तः स तेनानिवेद्य गुरवे त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति ॥७१॥

स एवमुक्तः प्रत्युवाच एतत्प्रत्यनुनये भवन्तावश्विनौ नोत्सहेऽहमनिवेद्य गुरवेऽपूपमुपयोक्तुमिति ॥७२॥

तमश्विनावाहतुः प्रीतौ स्वस्तवानया गुरुभक्त्या उपाध्यायस्य ते कार्ष्णायसा दन्ता भवतोऽपि हिरण्मया भविष्यन्ति चक्षुष्मांश्च भविष्यसीति श्रेयश्चावाप्स्यसीति ॥७३॥

दन्ता इव दन्ताः सुखदुःखभोजकत्वात् कर्माणि । कृष्णम् अयः मलिनत्वात् बन्धकत्वाच्च अविद्या तन्मयाः । उपाध्यायः केवलकर्मार्जिते एव सुखदुःखे भुंक्ते इत्यर्थः । तव तु हरतीति हिरण्य संकल्पस्तन्मयास्तत्प्रधानाः दन्ताः अतस्त्वं स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्तीति श्रुतेः । संकल्पमात्रासिद्धविषयोपनीतं सुखं भोक्ष्यसि ब्रह्मवित्त्वादित्यर्थः । एतेनानात्मज्ञस्यापि गुरोराराधनादात्मज्ञानं भक्तस्य भवति । एकलव्यस्येव मृन्मयद्रोणाराघनादिति दर्शितम् । श्रेयो ज्ञानम् ॥७३॥

स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्याभ्यवादयत् ॥७४॥

आचचक्षे च स चास्य प्रीतिमान्बभूव ॥७५॥

आह चैनं यथाऽश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति ॥७६॥

यथाश्विनावित्युक्त्या स्वस्य तादृक् श्रेयः प्रदाने सामर्थ्याभावः सूचित उपाध्यायेन ॥७६॥

सर्वे च ते वेदाःप्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति ।
एषा तस्यापि परीक्षोपमन्योः॥७७॥

एषा तस्येति सूतवाक्यम् ॥७७॥

अथापरः शिष्यस्तस्यैवापोदस्य धौम्यस्य वेदो नाम तमुपाध्यायः समादिदेश वत्स वेद इहास्यतां तावन्मम गृहे कंचित्कालं शुश्रूषुणा च भवितव्यं श्रेयस्ते भविष्यतीति ॥७८॥

शुश्रूषुणा सेवापरेण ॥७८॥

स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् ।
गौरिव नित्यं गुरुणा धूर्षु नियोज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलस्तस्य महतात्कालेन गुरुः परितोषं जगाम ॥७९॥

गौर्बलीवर्दः ॥७९॥

तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप ।
एषा तस्यापि परीक्षा वेदस्य ॥८०॥

अत्र उद्दालकपरीक्षायास्तात्पर्यमत्यल्पमपि गुरुकार्यं देहत्यागेनापि कर्तव्यम् । उपमन्युपरीक्षाया अत्यावश्यकमप्याहारादिकं गुरुणा प्रतिषिद्धं चेत्यक्तव्यमेवेति । वेदपरीक्षाया अनर्हेपि कर्मणि गुरुणा नियुक्तः शीतोष्णादिना बाध्यमानोऽपि न विषीदेदनुग्रह इत्येव मत्वा तिष्ठेदिति । एवमग्रेप्याख्यायिकातात्पर्याण्यूह्यानि ॥८०॥

स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत ।
तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः स शिष्यान्न किंचिदुवाच कर्म वा क्रियतां गुरुशुश्रूषा वेति ।
दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष ॥८१॥

‘अथ सेवामनिच्छन्तं गुरुमर्थेन तोषयेत् । गुर्वर्थे यतमानं तमनुगृह्णन्ति देवताः’ इत्येतद्दर्शयितुमुत्तङ्काख्यायिकामाह । स उपाध्यायेनेत्यादिना । स वेदः समावृतो मेखलाजिनादि ब्रह्मचर्याश्रमलिङ्गं त्यक्त्वा स्नातकत्वं प्राप्तः । नेयेष न कामितवान् ॥८१॥

अथ कस्मिंश्चित्काले वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्य वरयित्वोपाध्यायं चक्रतुः ॥८२॥

स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कनामानं शिष्यं नियोजयामास ॥८३॥

नियोजयामास अग्निशुश्रूषादी इति शेषः ॥८३॥

भो यत्किंचिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीयमानं भवता क्रियमाणमिति स एव प्रतिसंदिश्योत्तङ्कं वेदः प्रवासं जगाम ॥८४॥

अथोत्तङ्कः शुश्रूषुर्गुरुनियोगमनुतिष्ठमानो गुरुकुले वसति स्म ।
स तत्र वसमान उपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः ॥८५॥

वसमानो वसन् । उपाध्यायस्त्रीभिः उपाध्यायाश्रमस्थाभिः ॥८५॥

उपाध्यायानी ते ऋतुमती उपाध्यायश्च प्रोषितोऽस्या यथाऽयमृतर्वन्ध्यो न भवति तथा क्रियतामेषा विषीदतीति ॥८६॥

वन्ध्य उपागमशून्यः । पाठान्तरे एतत्कर्म । विषीदति परिहीयते ॥८६॥

एवमुक्तस्ताः स्त्रियः प्रत्युवाच ।
न मया स्त्रीणां वचनादिदमकार्यं करणीयम् ।
न ह्यहमुपाध्यायेन संदिष्टोऽकार्यमपि त्वया कार्यमिति ॥८७॥

तस्य पुनरुपाध्यायः कालान्तरेण गृहमाजगाम तस्मात्प्रवासात् ।
स तु तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् ॥८८॥

उवाच चैनं वत्सोत्तङ्कं किं ते प्रियं करवाणीति ।
धर्मतो हि शुश्रूषितोऽस्मि भवता तेन प्रीतिः परस्परेण नौ संवृद्धा तदनुजाने भवन्तं सर्वानेव कामानवाप्स्यसि गम्यतामिति ॥८९॥

स एवमुक्तः प्रत्युवाच किं ते प्रियं करवाणीति एवमाहुः ॥९०॥

आहुर्बुद्धाः ॥९०॥

यश्चाधर्मेण वै ब्रूयाद्यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति ॥९१॥

यश्चेति याजने हि ददतं वै ते तमयाजयंस्तस्माद्ददद्यांज्यः प्रतिगृह्णन्तो वै ते तमयाजयंस्तस्मात्प्रतिगृह्णता याज्यमुभये राध्रुवन्तीति श्रूयते । तद्वदध्यापनेऽपि याजने प्रतिग्रहवज्जीविकारूपे दददेवाध्याप्यः प्रतिगृह्णतैवाध्याप्यमिति धर्मः । तत्र यो दक्षिणाया अग्रहणेन अधर्मेण यो ब्रूयात् अध्यापयेत् । यश्च अधर्मेण तस्या असमर्पणेन पृच्छति अधीते । अन्यतरः अदाता अप्रतिग्रहीता वा प्रैति म्रियते । विद्वेषं चान्यतरोऽदानादप्रतिग्रहाद्वाधिगच्छति । मद्दत्तदक्षिणाया अग्रहे तव अधर्मः स्यात् मम च त्वयि द्वेषः स्यादहमनेन कृतार्थो न कृत इति भावः ॥९१॥

सोहमनुज्ञातो भवता इच्छामीष्टं गुर्वर्थमुपहर्तुमिति ।
तेनैवमुक्त उपाध्यायः प्रत्युवाच वत्सोत्तङ्क उष्यतां तावदिति ॥९२॥

उष्यतामिति । कालान्तरे एतस्य गुरुदक्षिणादाननिर्बन्धमपनेष्यामीति भावः ॥९२॥

स कदाचित्तमुपाध्यायमाहोत्तङ्क आज्ञापयतु भवान्किं ते प्रियमुपाहरामि गुर्वर्थमिति ॥९३॥

तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपाहरामीति तद्गच्छैनां प्रविश्योपाध्यायानीं पृच्छ किमुपाहरामीति॥९४॥

एषा यद्ब्रवीति तदुपाहरस्वेति ।
स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छद्भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुमिच्छामीष्टं ते गुर्वर्थमुपदृत्यानृणो गन्तुमिति॥९५॥

तदाज्ञापयतु भवती किमुपाहरामि गुर्वर्थमिति ।
सैवमुक्तोपाध्यायानी तमुत्तङ्कं प्रत्युवाच ।
गच्छ पौष्यं प्रति राजानं कुण्डले भिक्षितुं तस्य क्षत्रियया पिनद्धे ॥९६॥

पिनद्धे परिहिते ॥९६॥

आनयस्व चतुर्थेऽहनि पुण्यकं ताभ्यामाबद्धाभ्यां शोभमाना ब्राह्मणान्परिवेष्टुमिच्छामि ।
तत्संपादयस्व एवं हि कुर्वतः श्रेयो भविताऽन्यथा कुतः श्रेय इति ॥९७॥

पुण्यकं व्रतविशेषः । परिवेषणम् अन्नादिदानम् ॥९७॥

स एवमुक्तस्तया प्रातिष्ठतोत्तङ्कः स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव स पुरुष उत्तङ्कमभ्यभाषत ॥९८॥

ऋषभो वृषभः । स्वाध्यायाध्ययनजो धर्मः । तमाधिरूढः पुमांस्तदधिष्ठाता परमेश्वरः ॥९८॥

भो उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति स एवमुक्तो नैच्छत् ॥९९॥

तेन प्रेरित उत्तङ्कः पुरीषं धर्मफलं अमृतं मरणभयनिवृत्तये भक्षयस्वाङ्गीकुरुष्व ॥९९॥

तमाह पुरुषो भूयो भक्षयस्वोत्तङ्क मा विचारयोपाध्यायेनापि ते भक्षितं पूर्वमिति ॥१००॥

स तदनिछन्नपि बलादिन्द्रेण धर्मफलं ग्राहितः ॥१००॥

स एवमुक्तो बाढमित्युक्त्वा तदा तद्वृषभस्य मूत्रं पुरीषं च भक्षयित्वोत्तङ्कः संभ्रमादुत्थित एवाप उपस्पृश्य प्रतस्थे ॥१०१॥

स तु पुरीषमेवेदमिति मत्वा भक्षयित्वा उत्थितः अनुपविश्यैव अप उपस्पृश्य कार्यशैल्यात्प्रतस्थे । अत्र ऋषभादिरूपकेण धर्मबलादानिष्टनिवृत्तिरिष्टप्राप्तिश्च भवतीति दर्शितम् ॥१॥

यत्र स क्षत्रियः पौष्यस्तमुपेत्यासीनमपश्यदुत्तङ्कः ।
स उत्तङ्कस्तमुपेत्याशीर्भिरभिनन्द्योवाच ॥१०२॥

अर्थी भवन्तमुपागतोऽस्मीति स एनमभिवाद्योवाच ।
भगवन्पौष्यः खल्वहं किं करवाणीति ॥१०३॥

तमुवाच गुर्वर्थं कुण्डलयोरर्थेनाभ्यागतोऽस्मीति ।
ये वै ते क्षत्रिया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति ॥१०४॥

तं प्रत्युवाच पौष्यः प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति ।
स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत्॥१०५॥

स पौष्यं पुनरुवाच न युक्तं भवताऽहमनृतेनोपचरितुं न हि तेऽ:न्तःपुरे क्षत्रिया सन्निहिता नैनां पश्यामि ॥१०६॥

स एवमुक्तः पौष्यः क्षणमात्रं विमृश्योत्तङ्कं प्रत्युवाच ।
नियतं भवानुच्छिष्टः स्मर तावन्न हि सा क्षत्रिया उच्छिष्टेनाशुचिना शक्या द्रष्टुं पतिव्रतात्वात्सैषा नाशुचेर्दर्शनमुपैतीति ॥१०७॥

तावैतवापराधेन क्षत्रियां नापश्यत् । अशुचित्वदोषादेवेदानीं तं नाना देवर्षिदर्शनादिकं स्वाध्यायाध्ययनजो धर्मः । तमाधिरूढः पुमांस्तदव्रत्याद्देवतावदल्पापराधेऽपि स्त्रियो दुर्लक्ष्या भवन्तीति तद्धर्ममहात्म्यं दर्शितम् ॥७॥

अथैवमुक्त उत्तङ्कः स्मृत्वोवाचास्ति खलु मयित्थितेनोपस्पृष्टं गच्छतां चेति ।
तं पौष्यः प्रत्युवाच एष ते व्यतिक्रमो नोत्थितेनोपस्पृष्टं भवति शीघ्रं गच्छता चेति॥१०८॥

अथेति । तिष्ठता गच्छता चोपस्पृष्टम् आचमनं कृतम् । तदकृतमेवेत्यर्थः ॥८॥

अथोत्तङ्कस्तं तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनो निःशब्दाभिरफेनाभिरनुष्णाभिर्हृद्गताभिरद्भिस्त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्य चान्तःपुरं प्रविवेश॥१०९॥

खानि इन्द्रियाणि ॥१०९॥

ततस्तां क्षत्रियामपश्यत्सा च दृष्ट्वैवोत्तङ्कं प्रत्युत्थायाभिवाद्योवाच स्वागतं ते भगवन्नाज्ञापय किं करवाणीति ॥११०॥

स तामुवाचैते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति ।
सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डलेऽवमुच्यास्मै प्रायच्छदाह तक्षको नागराजः सुभृशं प्रार्थयत्यप्रमत्तो नेतुमर्हसीति ॥१११॥

सद्भावेन गुरुभक्त्या ॥११॥

स एवमुक्तस्तां क्षत्रियां प्रत्युवाच भवती सुनिर्वृता भव ।
न मां शक्तस्तक्षको नागराजो धर्षयितुमिति॥११२॥

हे भगवति त्वं निर्वृता निश्चिन्ता भव इत्युवाचेति संबन्धः ॥१२॥

स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् ।
आह चैनं भोः पौष्य प्रीतोऽस्मीति तमुत्तङ्कं पौष्यः प्रत्युवाच ॥११३॥

भगवंश्चिरेण पात्रमासाद्य ते भवांश्च गुणवानतिथिस्तदिच्छे श्राद्धं कर्तुं क्रियतां क्षण इति॥११४॥

तमुत्तङ्कः प्रत्युवाच कृतक्षण एवास्मि शीघ्रमिच्छामि ।
यथोपपन्नमन्नमुपस्कृतं भवतेति स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास ॥११५॥

अथोत्तङ्कः सकेशं शीतमन्नं दृष्ट्वा अशुच्येतदिति मत्वा तं पौष्यमुवाच ।
यस्मान्मे अशुच्यन्नं ददासि तस्मादन्धो भविष्यसीति॥११६॥

तं पौष्यः प्रत्युवाच ।
यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मात्त्वमनपत्यो भविष्यसीति तमुत्तङ्कः प्रत्युवाच ॥११७॥

न युक्तं भवताऽन्नमशुचि दत्त्वा प्रतिशापं दातुं तस्मादन्नमेव प्रत्यक्षीकुरु ।
ततः पौष्यस्तदन्नमशुचि दृष्ट्वा तस्याशुचिभावमपरोक्षयामास ॥११८॥

अथ तदन्नं मुक्तकेश्या स्त्रिया यत्कृतमनुष्णं सकेशं चाशुच्येतदिति मत्वा तमृषिमुत्तङ्कं प्रसादयामास॥११९॥

भगवन्नेतदज्ञानादन्नं सकेशमुपाहृतं शीतं तत्क्षामये भवन्तं न भवेयमन्ध इति तमुत्तङ्कः प्रत्युवाच॥१२०॥

अत्र सर्वत्र शापव्याजेन सत्पात्रे केशकीटाद्यवपन्नमन्नं दददन्धो भवतीति दर्शितम् । तस्मात्परीक्ष्य देयमिति भावः । विनापराधं दत्तः शापो विनिष्फलो भवतीत्यप्युन्नेयम् । राज्ञा दत्तस्य शापस्य वैयर्थ्यदर्शनात् ॥१२०॥

न मृषा ब्रवीमि भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति ।
ममापि शापो भवता दत्तो न भवेदिति॥१२१॥

न चिरात् शीघ्रम् ॥२१॥

तं पौष्यः प्रत्युवाच न चाहं शक्तः शापं प्रत्यादातुं न हि मे मन्युरद्याप्युपशमं गच्छति किं चैतद्भवता न ज्ञायते तथा॥१२२॥

प्रत्यादातुम् उपसंहर्तुम् ॥२२॥

नवनीतं हृदयं ब्राह्मणस्य वाचि क्षुरो निहितस्तीक्ष्णधारः ।
तदुभयमेतद्विपरीतं क्षत्रियस्य वाङ्नवनीतं हृदयं तीक्ष्णधारम् ॥१२३॥

नवनीतवत् शीघ्रद्रावि । वाक् क्षुरवत्सद्यो विच्छेदिका सुखजीवितादेरित्यर्थः ॥२३॥

तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुं गम्यतामिति ।
तमुत्तङ्कः प्रत्युवाच ।
भवताऽहमन्नस्याशुचिभावमालक्ष्य प्रत्यनुनीतः प्राक् च तेऽभिहितम्॥१२४॥

गम्यतां त्वयेति शेषः। ते त्वया ॥२४॥

यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति ।
दुष्टे चान्ने नैष मम शापो भविष्यतीति॥१२५॥

साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा ।
सोऽपश्यदथ पथि नग्नं क्षपणकमागच्छन्तं मुहुर्मुहुर्दृश्यमानं च ॥१२६॥

साधयामः शापाभावं निश्चिनुमः क्षपणकं पाखण्डभिक्षुकम् ॥२६॥

अथोत्तङ्कस्ते कुण्डले संन्यस्य भूमावुदकार्थं प्रचक्रमे ।
एतस्मिन्नन्तरे स क्षपणकस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत्॥१२७॥

उदकार्थं शौचाचमनादि प्रचक्रमे । कर्तुमितिशेषः ॥२७॥

तमुत्तङ्कोऽभिसृत्य कृतोदककार्यः शुचिः प्रयतो नमो देवेभ्यो गुरुभ्यश्च कृत्वा महता जवेन तमन्वयात्॥१२८॥

नमस्कृत्वेति संबन्धः ॥२८॥

तस्य तक्षको दृढमासन्नः स तं जग्राह ।
गृहीतमात्रः स तद्रूपं विहाय तक्षकस्वरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं प्रविवेश॥१२९॥

दृढमासन्नः अत्यन्तसन्निहितः ॥२९॥

प्रविश्य च नागलोकं स्वभवनमगच्छत् ।
अथोत्तङ्कस्तस्याः क्षत्रियाया वचः स्मृत्वा तं तक्षकमन्वगच्छत् ॥१३०॥

अन्वगच्छत् आज्ञातवान् ॥३०॥

स तद्बिलं दण्डकाष्ठेन चखान न चाशकत् ।
तं क्लिश्यमानमिन्द्रोऽपश्यत्स वज्रं प्रेषयामास॥१३१॥

गच्छास्य ब्राह्मणस्य साहाय्यं कुरुष्वेति ।
अथ वज्रं दण्डकाष्ठमनुप्रविश्य तद्बिलमदारयत्॥१३२॥

तमुत्तङ्कोऽनुविवेश तेनैव बिलेन प्रविश्य च तं नागलोकमपर्यन्तमनेकविधप्रासादहर्म्यवलभीनिर्यूहशतसंकुलमुच्चावचक्रीडाश्चर्यस्थानावकीर्णमपश्यत् ॥१३३॥

प्रासादाः देवनृदेवगृहाणि । हर्म्याणि धनिकानां गृहाणि । वलभ्यो मध्योच्छ्रिता उभयतो न मत्पक्षा गृहविशेषाः । निर्यूहाः पट्टशालाः ॥३३॥

स तत्र नागांस्तानस्तुवदेभिः श्लोकैः - य ऐरावतराजानः सर्पाः समितिशोभाः ।
क्षरन्त इव जीमूताः सविद्युत्पवनेरिताः॥१३४॥

ऐरावतो राजा येषां ते । समितौ रणे शोभनाः श्लाघिनः । जीमूता इव शस्त्रधाराः क्षरन्तः । सविद्युतः पवनस्येव ईरितं गमनं यासां ताः शीघ्राः सफालाश्च । शस्त्रधारा इत्यध्याहारः ॥३४॥

सुरूपा बहुरूपाश्च तथा कल्माषकुण्डलाः ।
आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः॥१३५॥

कल्माषकुण्डलाः चित्रकुण्डलाः ॥३५॥

बहूनि नागवेश्मानि गङ्गायास्तीर उत्तरे ।
तत्रस्थानपि संस्तौमि महतः पन्नगानहम्॥१३६॥

इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना ।
शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः॥१३७॥

सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदैजति ।
ये चैनमुपसर्पन्ति ये च दूरपथं गताः ॥१३८॥

अर्काशूनामतितीक्ष्णानाम् । अयं धृतराष्ट्र ऐरावतभ्राता यदा एजति दीप्यते । ‘एजृभ्रेजृभ्राजृ दीप्तौ’ इत्यस्य धातो रूपम् । तदाष्टाधिकान्यष्टाविंशतिसहस्राणि सर्पाणां प्रग्रहाः सूर्यहयरश्मिभूता नागा यान्ति । सौरं तेजोऽपि यत्तेजसा निरुद्धं प्रग्रहसर्पान्न दग्धुमीष्टे इत्यर्थः सार्धः ॥३८॥

अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः ।
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्पुरा ॥१३९॥

तं नागराजमस्तौषं कुण्डलार्थाय तक्षकम् ।
तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ ॥१४०॥

कुरुक्षेत्रं च वसतां नदीभिक्षुमतीमनु ।
जघन्यजस्तक्षकश्च श्रुतसेनेति यः सुतः॥१४१॥

अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् ।
करवाणि सदाचाहं नमस्तस्मै महात्मने॥१४२॥

महद्युम्नि तीर्थविशेष इति प्राञ्चः । महद्युम्नि सूर्ये तत्समीपे नागमुख्यतां प्रार्थयन् कुरुक्षेत्रेऽवसदिति पूर्वेण सम्बन्धः कुरुक्षेत्रवासमात्रादेव महत्स्थानं प्राप्यत इत्याशयः । द्युमानित्यत्रमनिच आदिलोप ́ आर्षः । अत्रायमाख्यायिकातात्पर्यार्थः । कुण्डलरत्नं वस्तुतत्त्वम् । तक्षकेणेव पाखण्डिना अपहृतं परमेश्वरप्रसादलब्धविवेकवज्रबलेन पाखण्डमतबिलमवदार्य विवेकमनुनागराजबिलतुल्यमान्तरमान्तरङ्कोशं पूर्वपूर्वकोशाद्रमणीयतरं प्रविश्य तत्रत्यां सत्यसङ्कल्पत्वादि सम्पदं दृष्ट्वा तदभिमानिनां सर्पतुल्यानामिन्द्रियबुद्ध्यादि स्थानीयानामनुनयेनापि तत्त्वरत्नं यदा न प्राप्तं तदा संकटस्थः स्वयमेवपूर्वार्जितसाङ्गाध्ययनधर्मबलादालोचितवानिति । तत्र वेदेऽपि छान्दोग्यादौ गुरुशुश्रूषया तुष्टः परमात्मा स्वयमेवानुगृह्णातीति दृष्टम् । यथा सत्यकामस्य उपाध्यायगवीरभिरक्षतोऽमानुषेभ्य ऋषभादिभ्यो विद्यालाभः । तथा उपकोसलस्य गुरोरनीन्सेवमानस्याग्निभ्य एव विद्यालाभः । एवमुत्तङ्कस्यापि ब्रह्मचर्यदार्ढ्यात्प्रजापतेरिव स्वत एव ज्ञानमुद्वभाविति युज्यत एवेति ॥४२॥

एवं स्तुत्वा स विप्रर्षिरुत्तङ्को भुजगोत्तमान् ।
नैव ते कुण्डले लेभे ततश्चिन्तामुपागमत् ॥१४३॥

एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभत्तदाऽपश्यत्स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्त्यौ ।
तस्मिंस्तन्त्रे कृष्णाः सिताश्च तन्तवश्चक्रं चापश्यत् द्वादशारं षड्भिः कुमारैः परिवर्त्यमानं पुरुषं चापश्यदश्वं च दर्शनीयम्॥१४४॥

तत्र संवत्सरात्मकपटरूपकेण प्रपञ्चस्वरूपमत्रनिरूप्यते । तत्र स्त्रियौ चितिर्माया च । तन्त्रं यत्र दीर्घतन्तवः प्रोता भवन्ति तत्स्थानीयमविद्याकामकर्मात्मकं वासनाजालं तत्र ह्येतत्सर्वं प्रतिष्ठितम् । पटः संसारस्तं वयन्त्यौ अविच्छिन्नतन्तुसन्तानेन निर्वर्तयन्त्यौ । प्रकाशाप्रकाशाभ्यामेव रज्जूरगादि जायते न त्वन्यतरेण तादृशत्वात्संसारस्य चिदचिद्रूपयुवतीद्वयनिर्वर्त्यत्वं युक्तम् । तस्मिंस्तन्त्रे सुवेमे शोभने वेमे तिर्यक्तन्तुविक्षेपणे तत्तुल्ये पुण्यपापे । तत्प्रयोज्ये सितकृष्णतन्तुस्थानीये सुखदुःखे । चक्रं तत्स्थूलशरीरम् । षड्भिर्वक्ष्यमाणैः कुमारैः परिवर्त्यमानं सञ्चार्यमार्ग पुरुषं च तदधिष्ठातारमन्तर्याभिणं मायाविनम् । अश्वं चाध्रुवस्वभावं बुद्धिवशवर्तित्वात्तिरोहितासंगस्वभावं जीवं चाद्दर्शनीयमहं प्रत्ययगोचरं चापश्यत् ॥४४॥

स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवदेव श्लोकैः॥१४५॥

स तान्सर्वान्स्तुष्टाव एभिर्वक्ष्यमाणैः श्लोकैः । मन्त्रवद्वेदगतऋग्भागवत् । तत्त्वार्थप्रकाशकैरिति शेषः । मन्त्रवादेति पाठे मन्त्रवादो मन्त्रस्वरूपम् ॥१४५॥

त्रीण्यर्पितान्यत्र शतानि मध्ये षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् ।
चक्रे चतुर्विंशतिपर्वयोगे षड्वै कुमाराः परिवर्तयन्ति (१)॥१४६॥

श्लोकानेवाह । त्रीणीति । अत्र सवत्सरः प्रजापतिरिति श्रुतेः संवत्सररूपकेण प्रजापतिं विश्वात्मानं कृत्स्नसंसाराभिमानिनं समष्टिजीवं स्तौति । तत्र संवत्सरस्य षष्ट्यधिकशतत्रयमहोरात्रा दर्शपूर्णमासाख्यानि चतुर्विंशतिपर्वाणि षडृतवश्चेत्यवयवाः । एवं प्रजापतेरपि चतुर्विंशतेस्तत्त्वानां योगेसङ्घातरूपे चक्रे स्थूलसूक्ष्मशरीरात्मके । तत्त्वानि च मूलप्रकृतिः महान् अहंकारः पञ्चतन्मात्राणि एकादशेन्द्रियाणि, पञ्चमहाभूतानीति । तत्र ध्रुवे यावन्मोक्षस्थायिनि चक्रे चक्रवदनिशं भ्राम्यमाणे । मध्येऽन्तर्योनित्यं चरति विषयान् भुंक्ते । भोक्ताऽत्मा । अत्रास्मिन्नेव प्रत्यग्रूपे त्रीणि शतानि षष्टिश्च वासनातन्तुयूथानि समर्पितानि । तथा हृदयस्य हि ता नाड्यो द्वासप्ततिः । सहस्राणीति श्रूयमाणसंख्याका नाड्यस्तत्तल्लोकगतिप्रदाः सन्ति । तासां चैकैकस्मिन्लोके शब्दादीनां पञ्चानामपि सत्त्वात्प्रत्येकं पञ्चविधत्वम् । तथा च विस्तरेण तावत्सहस्रसंख्याका अपि संक्षेपात्त्रीणि शतानि षष्टिश्चोच्यन्ते । एवं चास्मिन् भोक्तरि तावत्यो वासना अर्पिता इत्यर्थः । षट्कुमाराः जीवगता अविद्यास्मितारागद्वेषाभिनिवेशाख्याः । ‘तमो मोहो महामोहस्ताभिस्त्रो ह्यन्धसंज्ञितः । अविद्या पश्चवर्षैषा प्रादुर्भूता महात्मनः’ इति स्मृत्युक्ततम आद्याख्या वा पञ्चक्लेशाः । अनित्याशुचिदुःखानात्मसु नित्यशुचिदुःखात्मधीरविद्या । अहमेव महानस्मीति धीरस्मिता । शेषाः प्रसिद्धाः । षष्ठी ऐश्वरी माया च । एते षट्कुमारा इव विवेकवैराग्यबलवता सुजेया अपि ते परिवर्तयन्ति जन्ममरणप्रबन्धं घटीयन्त्रवदनिशं चालयन्तीत्यर्थः (१)॥१४६॥

तन्त्रं चेदं विश्वरूपे युवत्यौ वयतस्तन्तून्सततं वर्तयन्त्यौ ।
कृष्णान्सितांश्चैव विवर्तयन्त्यौ भूतान्यजस्रं भुवनानि चैव (२)॥१४७॥

तन्त्रं चेदमिति । इदं तन्त्रं वासना जालं विश्वरूपे विश्वरूपा तावन्मायैव तामनुचितिरपि विश्वरूपा । ‘इन्द्रो मायाभिःपुरुरूप ईयते’ । ‘रूपं रूपं प्रति रूपो बभूव’ इत्यादि श्रुतिभ्यः । युवत्यौ बाल्यवार्धक्यकृतापकर्षशून्ये । वयतः संतनुतः । कथं सततं तन्तून् वासनामयान् वर्तयन्त्यौ चालयन्त्यौ । तन्तुवायाविव इमे एव बुद्धिचिदाभासरूपाभ्यां घटादिकं कवलीकृत्य तद्विषयां वासनां द्रढयत इत्यर्थः । यद्वा युवत्यौ धाताविधातारौ तत्र धाता मायोपाधिरीश्वरः पर्जन्यवत्साधारणं कारणम् । विधाता विविधवासनामयत्वेन विचित्ररूपः सन् कर्त्ता जीवः तत्तद्बीजवदासाधारणं कारणम् । तावेतौ प्रयोज्यप्रयोजकरूपेणेदं तन्त्रं संसाराख्यं वयतः इत्यादि यथायोग्यं व्याख्येयम् । कृष्णान् दुःखरूपान्सितान्सुखमयान् । विवर्तयन्त्यौ वैपरीत्येन सुखे दुःखबुद्धिं दुःखे सुखबुद्धिं च संपादयन्त्यौ । तथाऽजस्त्रं भूतानि जरायुजादीनि भुवनानि तदाश्रयरूपाणि चतुर्दश । तानि सर्वाणि विवर्तयन्त्यावित्यनुकृष्यते । उर्ध्वाधरीभावेन चालयन्त्यावित्यर्थः (२)॥१४७॥

वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हन्ता नमुचेर्निहन्ता ।
कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके (३)॥१४८॥

यो वाजिनं गर्भमपां पुराणं वैश्वानरं वाहनमभ्युपैति ।
नमोऽस्तु तस्मै जगदीश्वराय लोकत्रयेशाय पुरंदराय (४)॥१४९॥

ततः स एनं पुरुषः प्राह प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण किं ते प्रियं करवाणीति स तमुवाच॥१५०॥

नागा मे वशमीयुरिति स चैनं पुरुषः पुनरुवाच एतमश्वमपाने धमस्वेति ॥१५१॥

अस्यैवंभूतस्य चिदात्मनः समष्टिव्यष्टिपिण्डान्तः प्रविष्टत्वं दर्शयति । य इति । यः आत्मा पूर्वोक्तो वैश्वानरं विराजं विश्वं वा वाहनं स्वारोहणस्थानम् । अभ्युपैति अभितः उपेत्युपगच्छति ।‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति श्रुतेः । उपाध्यात्मतां धत्ते इत्यर्थः । आकस्मिकत्वम् अभ्युपगन्तव्याभ्युपगमयोर्वारयति । पुराणमिति । कार्यरूपेण क्षयिष्णुमपि कारणरूपेण सततं सन्तमित्यर्थः । अपां गर्भमिव गर्भं प्रतिबिम्बभूतं न तु ब्रह्मैकदेशभूतम् । तस्यासङ्गत्वात् । अनंशत्वाश्च । वाजिनम् इन्द्रियं वै वीर्यं वाजिनमिति श्रुतेश्चिदात्मनो जडशक्तिरूपम् । य एवं भूतोऽपि जीवत्वं मिथ्यैव प्रतिबिम्बरूपेणापद्यते तस्मै नमोऽस्तु । जगदीश्वराय चतुर्दशभुवननियन्त्रे । लोकत्रयं जाग्रत्स्वप्नसुषुप्तानि तेषामीशाय । एवं तत्त्वं पदवाच्यार्थरूपित्वमुक्तम् । तल्लक्ष्यार्थरूपत्वमाह । पुरंदरायेति । पुराणि व्यष्टिसमष्ट्यात्मकानि त्रीणि त्रीणि शरीराणि दारयति विद्ययाऽविद्योच्छेदेन समूलमुन्मूलयतीति तथा सर्वोपाधिशून्यचिन्मात्रायेत्यर्थः । एतमश्वमपाने धमस्वेति वैराजमैश्वर्यं प्रदर्शयेत्यर्थः ॥१५१॥

ततोऽश्वस्यापानमधमत्ततोऽश्वाद्धम्यमानात्सर्वस्रोतोभ्यः पावकार्चिषः सधूमा निष्पेतुः॥१५२॥

स्रोतोभ्यः शरीररन्ध्रेभ्यः ॥१५२॥

ताभिर्नागलोक उपधूपितेऽथ संभ्रान्तस्तक्षकोऽग्नेस्तेजोभयाद्विषण्णः कुण्डले गृहीत्वा सहसा भवनान्निष्क्रम्योत्तङ्कमुवाच॥१५३॥

उपधूपिते धूमेन व्याप्ते । तत एव सर्वेश्वरत्वाविर्भावात्तक्षकः शरणागतो बभूवेति तात्पर्यम् ॥१५३॥

इमे कुण्डले गृह्णातु भवानिति स ते प्रतिजग्राहोत्तङ्कः प्रतिगृह्य च कुण्डलेऽचिन्तयत्॥१५४॥

अद्य तत्पुण्यकमुपाध्यायिन्या दूरं चाहमभ्यागतः स कथं संभावयेयमिति तत एनं चिन्तयानमेव स पुरुष उवाच॥१५५॥

उत्तङ्क एनमेवाश्वमधिरोह त्वां क्षणेनैवोपाध्यायकुलं प्रापयिष्यतीति ॥१५६॥

स तथेन्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलमुपाध्यायानी च स्नाता केशानावापयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे॥१५७॥

तत एव सत्यसंकल्पत्वाख्यं वैराजं भावमारूढः क्षणेन गुरुकुलं प्राप । आवापयन्ती दन्तपत्रिकया वेणीरूपेण संग्रथनं केशानां कारयन्ती ॥१५७॥

अथ तस्मिन्नन्तरे स उत्तङ्कः प्रविश्य उपाध्यायकुलमुपाध्यायानीमभ्यवादयत् ते चास्यै कुण्डले प्रायच्छत्सा चैनं प्रत्युवाच॥१५८॥

उत्तङ्क देशे कालेऽभ्यागतः स्वागतं ते वत्स त्वमनागसि मया शप्तः श्रेयस्तवोपस्थितं सिद्धिमाप्नुहीति ॥१५९॥

यदि क्षणं नागतः स्यात्तर्हि आनागसि अपराधाभावेऽपि मया शप्तः स्या इत्यर्थः । श्रेयस्तत्त्वज्ञानम् सिद्धिमणिमाद्यैश्वर्यम् ॥१५९॥

अथोत्तङ्क उपाध्यायमभ्यवादयत् ।
तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क स्वागतं ते किं चिरं कृतमिति॥१६०॥

तमुत्तङ्क उपाध्यायं प्रत्युवाच भोस्तक्षकेण मे नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि तेनाऽस्मि नागलोकं गतः॥१६१॥

तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ तस्मिंश्च कृष्णाः सिताश्च तन्तवः किं तत् ॥१६२॥

इदानीं स्वयमपरोक्षकृतमर्थं गुरुमुखेनाधिगन्तुमुतङ्कः पृच्छति तत्र चेत्यादिना ॥१६२॥

तत्र च मया चक्रं दृष्टं द्वादशारं षट्चैनं कुमाराः परिवर्तयन्ति तदपि किम्॥ पुरुषश्चापि मया दृष्टः स चापि कः ।
अश्वश्चातिप्रमाणो दृष्टः स चाऽपि कः॥१६३॥

पथि गच्छता च मया ऋषभो दृष्टस्तं च पुरुषोऽधिरूढस्तेनाऽस्मि सोपचारमुक्त उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय उपाध्यायेनापि ते भक्षितमिति ॥१६४॥

सोपचारं सानुनयम् ॥६४॥

ततस्तस्य वचनान्मया तदृषभस्य पुरीषमुपयुक्तं स चापि कः ।
तदेतद्भवतोपदिष्टमिच्छेयं श्रोतुं किं तदिति ।
स तेनैवमुक्त उपाध्यायः प्रत्युवाच ॥१६५॥

आचार्याद्वै विद्या विदिता साधिष्ठं प्राप इति श्रुतेरमानुषैरुक्ताऽपि विद्यागुरुमुखेन दृढीकृता बाढं फलवतीभवतीति भावः ॥१६५॥

ये ते स्त्रियौ धाता विधाता च ये च ते कृष्णाः सितास्तन्तवस्ते रात्र्यहनी ।
यदपि तच्चक्रं द्वादशारं षड्वै कुमाराः परिवर्तयन्ति तेऽपि षड्ऋतवः संवत्सरश्चक्रम् ॥१६६॥

स्त्रियौ धाताविधाता चेति । दधाति सत्तास्फूर्ती कार्येष्विति धाताचितिः विविधरूपेण दधाति धारयत्यात्मानमित्यनेकविकारवती माया विधाता । रात्रिवद्व्यामोहकत्वाद्दुःखं रात्रिः । अहर्वत् प्रसादकत्वात् सुखमहः ऋतुवदनिशं भ्रममाणत्वादृतुशब्देनाविद्यादिपञ्चकं मायाचेति पूर्वोक्तमेव षट्कम् । संवत्सरः प्रजापतिः । सर्वोपाधित्वसाम्यादुदाहृतश्रुतेश्च । न हि संवत्सराख्यः कालो नाम किञ्चित्सूर्यादिपरिस्पन्दाल्पत्वबहुत्वादिनानुमेयं वस्तुनि जीर्णत्वनूतनत्वादिव्यवहारहेतुतया सिद्धमिदानीं तदानीमित्यादिव्यवहारालम्बनं द्रव्यमस्ति । घटादि द्रव्यस्यैव पूर्वापरदेशसंबन्धेन नूतनातीतत्वाद्यवस्थाभेदेन च तदुपपत्तेः किमन्तर्गडुना कालेनेति । प्रजापतिरेव संवत्सरशब्दार्थः ॥१६६॥

यः पुरुषःस पर्जन्यः योऽश्वः सोऽग्निर्य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराट् ॥१६७॥

यः पुरुषः स पर्जन्यः पर्जन्यवत्तापनाशकत्वादाचार्यरूपी ईश्वरः योऽश्वः सोऽग्निः भोक्ता जीव इत्यर्थः । इर अन्नं तद्वान् इरावान् क्रतुस्तत उत्पन्न ऐरावतो धर्मः । नागराडिव अप्रकंप्यः शेषमुक्तार्थम् ॥१६७॥

यश्चैनमधिरूढः पुरुषः स चेन्द्रः यदपि ते भक्षितं तस्य ऋषभस्य पुरीषं तदमृतं तेन खल्वसि तस्मिन्नागभवने न व्यापन्नस्त्वम् ॥१६८॥

न व्यापन्नः न मृतः ॥१६८॥

स हि भगवानिन्द्रो मम सखा त्वदनुक्रोशादिममनुग्रहं कृतवान् ।
तस्मात्कुण्डले गृहीत्वा पुनरागतोऽसि ॥१६९॥

सहीति । मम जीवस्य सखा । परमेश्वरो हि अन्तरात्मत्वात्सर्वेषां सखा । द्वासुपर्णासयुजा सखायेति मन्त्रवर्णात् । स हि सर्वान्स्वधर्मस्थाननुगृह्णाति । तत्प्रतिकूलस्य तक्षकस्येव कुलक्षयं च करोतीत्याख्यायिकातात्पर्यम् । ‘खलोन प्रार्थनासाध्यः स च दैवेन दण्डितः । अभ्येति मृदुतां पश्चादुत्तङ्के तक्षको यथा’ ॥१६९॥

तत्सौम्य गम्यतामनुजाने भवन्तं श्रेयोऽवाप्स्यसीति ।
स उपाध्यायेनानुज्ञातो भगवानुत्तङ्कः क्रुद्धस्तक्षकं प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे॥१७०॥

प्रतिचिकीर्षमाणः हेतौ शानच् । तक्षकं बाधितुमित्यर्थः ॥१७०॥

स हास्तिनपुरं प्राप्य न चिराद्विप्रसत्तमः ।
समागच्छत राजानमुत्तङ्को जनमेजयम्॥१७१॥

हर्षकाले राजानमर्थयेतेति भावः ॥१७१॥

पुरा तक्षशिलासंस्थं निवृत्तमपराजितम् ।
सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम्॥१७२॥

तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः ।
उवाचैनं वचः काले शब्दसंपन्नया गिरा॥१७३॥

शब्द्यत इति शब्दोर्थस्तेन सम्पन्नया विशिष्टार्थवत्या ॥१७३॥

उत्तङ्क उवाच। अन्यस्मिन्करणीये तु कार्ये पार्थिवसत्तम ।
बाल्यादिवान्यदेवं त्वं कुरुषे नृपसत्तम॥१७४॥

सौतिरुवाच। एवमुक्तस्तु विप्रेण स राजा जनमेजयः ।
अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम् ॥१७५॥

जनमेजय उवाच। आसां प्रजानां परिपालनेन स्वं क्षत्रधर्मं परिपालयामि ।
प्रब्रूहि मे किं करणीयमद्य येनासि कार्येण समागतस्त्वम्॥१७६॥

सौतिरुवाच। स एवमुक्तस्तु नृपोत्तमेन द्विजोत्तमः पुण्यकृतां वरिष्ठः ।
उवाच राजानमदीनसत्वं स्वमेव कार्यं नृपते कुरुष्व ॥१७७॥

उत्तङ्क उवाच। तक्षकेण महीन्द्रेन्द्र येन ते हिंसितः पिता ।
तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने ॥१७८॥

कार्यकालं हि मन्येऽहं विधिदृष्टस्य कर्मणः ।
तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः॥१७९॥

योस्मान्द्वेष्टि यं च वयं द्विष्मस्तं हन्मि' इति मन्त्रलिङ्गानुमिते शत्रुर्हन्तव्य एवेत्यस्मिन् विधौ साध्ये दृष्टं यत्कर्म सर्पसत्राख्यं तस्य कार्यस्यावश्यानुष्ठेयस्य कर्तव्यताया वा कालं मन्ये । अपचितिं प्रतिक्रियाम् ॥१७९॥

तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना ।
पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः॥१८०॥

बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः ।
अकार्यं कृतवान्पापो योऽदशत्पितरं तव ॥१८१॥

राजर्षिवंशगोप्तारममरप्रतिमं नृपम् ।
यियासुं काश्यपं चैव न्यवर्तयत पापकृत्॥१८२॥

मुख्यमपराधमाह । यियासुमिति । विषहरणाय जिगमिषुमर्थदानेन न्यवर्तयत् । पिपासुमिति पाठे रिरक्षिषुमित्यर्थः ॥१८२॥

होतुमर्हसि तं पापं ज्वलिते हव्यवाहने ।
सर्पसत्रे महाराज त्वरितं तद्विधीयताम् ॥१८३॥

एवं पितुश्चापचितिं कृतवांस्त्वं भविष्यसि ।
मम प्रियं च सुमहत्कृतं राजन् भविष्यति॥१८४॥

कर्मणः पृथिवीपाल मम येन दुरात्मना ।
विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ ॥१८५॥

सौतिरुवाच। एतच्छ्रुत्वा तु नृपतिस्तक्षकाय चुकोप ह ।
उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा ॥१८६॥

वाक्यहविषा वाक्यरूपेणोद्दीपकेन हविषा घृतादिना ॥१८६॥

अपृच्छत्स तदा राजा मन्त्रिणस्तान्सुदुःखितः ।
उत्तङ्कस्यैव सान्निध्ये पितुः स्वर्गगतिं प्रति ॥१८७॥

तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् ।
यदैव वृत्तं पितरमुत्तङ्कादशृणोत्तदा ॥१८८॥

वृत्तं मृतम् । ‘वृत्तोऽतीते दृढे ख्याते वर्तुलेऽपि मृते वृते’ इति विश्वः । तक्षकविषेणेतिशेषः ।‘धर्मोद्यमेऽनुकूलाः स्युर्देवास्तत्प्रतिबध्नतः । तक्षकस्यैव दुःखाप्तिरिति पौष्ये व्यवस्थितम्’ इति रत्नगर्भः ॥१८८॥
इति श्रीमन्महाभारते आदिपर्वणि पौष्यपर्वणि तृतीयोऽध्यायः ॥३॥
समाप्तं पौष्यपर्व।

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in