लोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनम्यागतानुपतस्थे॥१॥
पौलोमपर्व | एवं कृतोपोद्धातं भारतमारभते । लोमहर्षणेत्यादि पूर्ववद्व्याख्येयम् । अत्र सौतिरुवाचेति पाठे लोमहर्षणपुत्रादीनां सृष्टिप्रवाहानादितया प्रतिकल्पं समाननामरूपाधिकारपुरुषविशेषवचनानां ‘सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत्’ इत्यादि श्रुतिभ्यः स्थानपतिसेनापत्यादिशब्दवदधिकारविशेषवाचित्वादेतत्कल्पीय सौतिवचनं पूर्वकल्पीयलोमहर्षणपुत्रादि परमिति । एवं सर्पसत्रादि कथाऽपि कृतत्रेतादियुगस्थान् रुरुप्रमृतीन्प्रत्युच्यमाना पूर्वकल्पीयसर्पसत्रादि परेति ध्येयम् ॥१॥
पौराणिकः पुराणे कृतश्रमः स कृताञ्जलिस्तानुवाच
।
किं भवन्तः श्रोतुमिच्छन्ति किमहं ब्रवाणीति॥२॥
पौराणिकः पुराणं पण्यं जीविकास्येऽति व्युत्पत्तिं निराकरोति । पुराणे कृतश्रम इति । अत्र ‘ब्राह्मण्यां क्षत्रियात्सूतः’ इति स्मृत्युक्तो विलोमजो जातिसूतः सञ्जयाधिरथादिरन्यः । यस्य जीविका सारथ्यं वा पुराणराज्ञां शौर्यौदार्यादिवर्णनेन स्वामिप्रोत्साहनं च । अत एवाऽस्य पौराणिक इति संज्ञा । उग्रश्रवास्तु सौतिरेव न जातिसूतः । तथा त्वेतत्राऽपि सूतशब्दप्रयोगोपपत्तेः सौतिरित्यपत्यार्थस्य तद्धितस्यानर्थक्यं स्यात् । किं तर्हि । “अग्निकुण्डसमुद्भूतसूतनिर्मलमानसः” इति रोमहर्षणं प्रति शौनकवचनस्य पुराणान्तरे दर्शनादग्निजो रोमहर्षणः सूतस्तस्य च ब्राह्मणसङ्कल्पात् ब्रह्मासनार्हत्वम् । धृष्टद्युम्नस्य क्षत्रियत्ववत् । ब्रह्मासनं च वैशम्पायनशान्तव्रतमार्कण्डेयादि तुल्यस्तत्सजातीय एवार्हति न हीनः । न हि महान्तः शौनकादयो हीनात्परं रहस्यं जगृहुरिति वक्तुं युक्तम् । न हीनतः परमभ्याददीतेत्यत्रैव तन्निषेधात् । नीचादप्युत्तमाविद्या ग्राह्येति त्वापद्विषयमेतत् । अत एव तद्वधाद्बलरामेण ब्रह्महत्याव्रतं चीर्णमिति स्मर्यते । तत्र सूतशब्दस्तु कथाप्रवक्तृत्वसामान्यात् । तस्माद्ब्राह्मण एव पुराणप्रवक्तृत्वेन वरणीयः श्रोतुकामैर्न हीनः पौराणिकपदं न जातिसूतपरमपितु पुराणाध्येतृब्राह्मणपरभिति ॥२॥
तमृषय ऊचुः।
परमं लौमहर्षणे वक्ष्यामस्त्वां नः प्रतिवक्ष्यसि वचः शुश्रूषतां कथायोगं नः कथायोगे॥३॥
परममिति । हे लौमहर्षणे ! त्वां परमं वचो वक्ष्यामः । परमं ब्रह्म वक्ष्यामः । त्वत्प्रयोजकत्वेन वाचयिष्यामः । शौनके समागते इतिशेषः । कथायोगम् अस्माकं कथायोगे कथाप्रसङ्गे इति न्यवहितान्वयेन योज्यम् ॥३॥
तत्र भगवान् कुलपतिस्तु शौनकोऽग्निशरणमध्यास्ते॥४॥
अग्निशरणमग्निगृहम् ॥४॥
यौऽसौ दिव्याः कथा वेद देवतासुरसंश्रिताः
।
मनुष्योरगगन्धर्वकथा वेद च सर्वशः॥५॥
वेदतात्पर्यं बोद्धुमिति शेषः ॥५॥
स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः
।
दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः॥६॥
शास्त्रे विधिनिषेधप्रधाने कर्मकाण्डे । आरण्यके उपनिषदि ज्ञानकाण्डे ॥६॥
सत्यवादी शमपरस्तपस्वी नियतव्रतः
।
सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम्॥७॥
प्रतिपाल्यतां प्रतीक्ष्यताम् ॥७॥
तस्मिन्नध्यासति गुरावासनं परमार्चितम्
।
ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः॥८॥
ततः तत् प्रथमार्थेतसिः ॥८॥
सौतिरुवाच।
एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि
।
तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः॥९॥
सोऽथ विप्रर्षभः सर्वं कृत्वा कार्यं यथाविधि
।
देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वा जगाम ह॥१०॥
वाग्भिः ब्रह्मयज्ञीयाभिः ‘यदृचोधीते पय आहुतिभिरेव तद्देवतास्तर्पयति’ इत्यादिवचनात् आजगामेतिच्छेदः ॥१०॥
यत्र ब्रह्मर्षयः सिद्धाः सुखासीना धृतव्रताः
।
यज्ञायतनमाश्रित्य सूतपुत्रपुरस्पराः॥११॥
ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्तदा
।
उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम्॥१२॥
॥ इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि कथाप्रवेशो नाम चतुर्थोऽध्यायः॥४॥
शौनक उवाच॥
पुराणमखिलं तात पिता तेऽधीतवान्पुरा
।
कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ॥१॥
पुराणमिति पुराणं पुरावृत्तम् ॥१॥
पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम्
।
कथ्यन्ते ताः पुराऽस्माभिः श्रुताः पूर्वं पितुस्तव ॥२॥
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम्
।
कथयस्व कथामेतां कल्याः स्म श्रवणे तव ॥३॥
कल्याः समर्थाः तवत्वत्तः श्रोतुमिति संबन्धः ॥३॥
सौतिरुवाच।
यदधीतं पुरा सम्यग्द्विजश्रेष्ठैर्महात्मभिः
।
वैशम्पायनविप्राग्र्यैस्तैश्चापि कथितं पुरा ॥४॥
कथितं मह्यमिति शेषः ॥४॥
यदधीतं च पित्रा मे सम्यक् चैव ततो मया
।
तत्तावच्छृणुष्व यो देवैः सेन्द्रैः सार्षिमरुद्गणैः ॥५॥
ततो मयेति पितुः सकाशान्मयाऽधीतामित्यावर्तनीयम् ॥५॥
पूजितः प्रवरो वंशो भार्गवो भृगुनन्दन
।
इमं वंशमहं पूर्वं भार्गवं ते महामुने ॥६॥
निगदामि यथा युक्तं पुराणाश्रयसंयुतम्
।
भृगुर्महर्षिर्भगवान् ब्रह्मणा वै स्वयंभुवा॥७॥
पुराणस्याश्रयः उपोद्घातस्तत्संयुतम् ॥७॥
वरुणस्य क्रतौ जातः पावकदिति नः श्रुतम्
।
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः॥८॥
च्यवनस्यापि च दायादः प्रमतिर्नाम धार्मिकः
।
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ॥९॥
रुरोरपि सुतो जज्ञे शुनको वेदपारगः
।
प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः ॥१०॥
पूर्वपितामहः कुलप्रधानपुरुषः ॥१०॥
तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः
।
धार्मिकः सत्यवादी च नियतो नियताशनः ॥११॥
नियतः शमादि मान् । नियताशनः हितं मितं मेध्यं वाश्नाति नत्वनशनमेवेति भावः । नियतेन्द्रिय इति पाठे यमनियमयुक्तः ॥ ११॥
शौनक उवाच।
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः
।
च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ॥१२॥
सौतिरुवाच।
भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता
।
तस्यां समभवद्गर्भो भृगुवीर्यसमुद्भवः ॥१३॥
तस्मिन् गर्भेऽथ सम्भृते पुलोमायां भृगूद्वह
।
समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥१४॥
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे
।
आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह ॥१५॥
तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम्
।
हृच्छयेन समाविष्टो विचेताः समपद्यत ॥१६॥
हृच्छयेन कामेन ॥१६॥
अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना
।
न्यमन्त्रयत वन्येन फलमूलादिना तदा ॥१७॥
तां तु रक्षस्तदा ब्रह्मन्हृच्छयेनाभिपीडितम्
।
दृष्ट्वा हृष्टमभूद्राजन् जिहीर्षुस्तामनिन्दिताम् ॥१८॥
जातमित्यब्रवीत्कार्यं जिहीर्षुर्मुदितः शुभाम्
।
सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता॥१९॥
कथं परदारेषु काम इत्यत आह । साहीति । बाल्ये किल रुदतीं कन्यां रोदनानिवृत्त्यर्थं भीषयितुं पित्रा उक्तं रे रक्ष एनां गृहाणेति तावतैव गृहे सन्निहितेन रक्षसा वृता ममेयं भार्येति भावः ॥१९॥
तां तु प्रादात्पिता पश्चाद्भृगवे शास्त्रवत्तदा
।
तस्य तत्किल्बिषं नित्यं हृदि वर्तति भार्गव॥२०॥
इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा
।
अथाग्निशरणे पश्यज्ज्वलन्तं जातवेदसम् ॥२१॥
तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा
।
शंसमेकस्य भार्येयमग्ने पृच्छे ऋतेन वै ॥२२॥
मुखं त्वमसि देवानां वद पावक पृच्छते
।
मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी ॥२३॥
पश्चादिमां पिता प्रादाद्भृगवेऽनृतकारकः
।
सेयं यदि वरारोहा भृगोर्भार्या रहोगता॥२४॥
अत एवतस्याः पिता अनृतकारकः । अनृतकारिणे इति पाठे तु भृगोरेव विशेषणम् । परिहासेनापि ददामीत्युक्त्वा न दत्तं चेद्दोषो भवतीति भावः । वरारोहा श्रेष्ठनितम्बा ॥२४॥
तथा सत्यं समाख्याहि जिहीर्षाभ्याश्रमादिमाम्
।
समन्युस्तत्र हृदयं प्रदहन्निव तिष्ठति
।
मत्पुर्वभार्यां यदिमां भृगुराप सुमध्यमाम् ॥२५॥
सौतिरुवाच ।
एवं रक्षस्तमामन्त्र्य ज्वलितं जातवेदसम्
।
शङ्कमानो भृगोर्भार्यां पुनःपुनरपृच्छत ॥२६॥
शङ्कमानं छलवचनेन पूर्वं मह्यं दत्ता पश्चाद्विधिपूर्वकं भृगवे दत्ताऽतो मम वा इयं भृगोर्वेति सन्दिहानम् ॥२६॥
त्वमग्ने! सर्वभूतानामन्तश्चरसि नित्यदा
।
साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥२७॥
कवे सर्वज्ञ ॥२७॥
मत्पूर्वऽपहृता भार्या भृगुणाऽनृतकारिणा
।
सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥२८॥
यदि तथेति । मत्पूर्वा सा चेत् भृगुश्चानृतकारी चेत्तर्हि सत्यं ब्रूहि ॥२८॥
श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यश्रमादिमाम्
।
जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥२९॥
सौतिरुवाच ।
तस्यैतद्वचनं श्रुत्वा सप्तार्चिर्दुःखितोऽभवत्
।
भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥३०॥
भृगोरित्युक्तेऽनृतं पूर्वं रक्षः परिग्रहत्वात्तस्याः रक्षस इत्युक्ते भृगुतः शापभयम् ॥३०॥
अग्निरुवाच।
त्वया वृता पुलोमेयं पूर्वं दानवनन्दन
।
किं त्वियं विधिना पूर्वं मन्त्रवन्न वृता त्वया॥३१॥
पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी
।
ददाति न पिता तुभ्यं वरलोभान्महायशाः॥३२॥
अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम्
।
भार्यामृषिर्भृगुः प्राप मां पुरस्कृत्य दानव॥३३॥
सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे
।
नानृतं हि सदा लोके पूज्यते दानवोत्तम॥३४॥
सेयमिति या त्वया पूर्वं वृता सेयं त्वदीयैवेयमित्यर्थः ॥३४॥
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि पुलोमाग्निसंवादे पञ्चमोध्यायः॥५॥
सूत उवाच।
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम्
।
ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ॥१॥
षष्टोऽध्यायः छलवचनाद्वैध एव विधिः श्रेयान् । तयोः साम्यं पश्यन्नग्निः शापं प्राप । आद्यस्य प्राबल्यं मन्वानो राक्षसो नाशं च प्राप्नोति षष्ठाध्यायतात्पर्यम् । अग्नेरथेति ॥१॥
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह
।
रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ॥२॥
तेन चुच्यावेति योगेन ॥ २॥
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम्
।
तद्रक्षो भस्मसाद्भूतं पपात परिमुच्यताम् ॥३॥
सा तमादाय सुश्रोणी ससार भृगुनन्दनम्
।
च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्च्छिता ॥४॥
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः
।
रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ॥५॥
सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः
।
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी ॥६॥
अनुवर्तती सृतिं तस्या भृगोः पत्न्यास्तपस्विनः
।
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा ॥७॥
सृतिं मार्गम् ॥७॥
नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः
।
वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ॥८॥
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान्
।
तं ददर्श पिता तत्र च्यवनं तां च भाविनीम्
।
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः ॥९॥
भृगुरुवाच।
केनाऽसि रक्षसे तस्मै कथिता त्वं जिहीर्षते
।
न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥१०॥
मद्भार्याम् इयं ममैव भार्या न तु मृगोरित्येवं रूपेण त्वां रक्षो न वेदेत्यर्थः । तवेयं भार्येति केन कथिताऽसि ॥१०॥
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा
।
बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥११॥
पुलोमोवाच
।
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता
।
ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥१२॥
साऽहं तव सुतस्यास्य तेजसा परिमोक्षिता
।
भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ॥१३॥
सौतिरुवाच।
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान्
।
शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि ॥१४॥
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि अग्निशापे षष्ठोऽध्यायः॥६॥
सौतिरुवाच।
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत्
।
किमिदं साहसं ब्रह्मन्कृतवानसि मां प्रति॥१॥
सप्तमः अध्यायः शप्तस्त्विति ॥१॥
धर्मे प्रयतमानस्य सत्यं च वदतः समम्
।
पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम॥२॥
सत्यं च वदतः समं सत्यं च यथार्थम् । समं पक्षपातहीनम् । व्यभिचार अपराधः ॥२॥
पृष्टो हि साक्षी यः साक्ष्यं जानानोऽप्यन्यथा वदेत्
।
स पूर्वानात्मनः सप्त कुले हन्यात्तथाऽपरान्॥३॥
यश्च कार्यार्थतत्त्वज्ञो जानानोऽपि न भाषते
।
सोऽपि तेनैव पापेन लिप्यते नात्र संशयः॥४॥
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम
।
जानतोऽपि च ते ब्रह्मन्कथयिष्ये निबोध तत्॥५॥
योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु
।
अग्निहोत्रेषु सत्रेषु क्रियासु च मखेषु च॥६॥
योगेन योगसिद्धिबलेन । मूर्तिषु गार्हपत्यदक्षिणाग्न्यादिषु । सत्रेष्वनेककर्तृकेषु गवामयनादिषु । क्रियासु स्मार्तासु गर्भाधानादिषु । मखे ज्योतिष्टोमादौ ॥६॥
वेदोक्तेन विधानेन मयि यद्धूयते हविः
।
देवताः पितरश्चैव तेन तृप्ता भवन्ति वै॥७॥
आपो देवगणाः सर्वे आपः पितृगणास्तथा
।
दर्शश्च पौर्णमासश्च देवानां पितृभिः सह॥८॥
आपः सोमाज्यपयःप्रभृतयोऽग्नौ हूयमाना देवपितृरूपाः । ’आपः पुरुषवचसो भवन्ति’ इतिश्रुतेरग्नौ हुता आप एव देवताशरीररूपेण परिणमन्त इर्थः ॥८॥
देवताः पितरस्तस्मात्पितरश्चापि देवताः
।
एकीभूताश्च दृश्यन्ते पृथक्त्वेन च पर्वसु॥९॥
देवादिभावस्यापि कर्मप्राप्यत्वाद्देवानां पितॄणां च मिथो भेदो नास्त्येव तुल्यहेतुकत्वादित्याह । देवता इति ॥९॥
देवताः पितरश्चैव भुञ्जते मयि यद्धुतम्
।
देवतानां पितॄणां च मुखमेतदहं स्मृतम्॥१०॥
अमावास्यां हि पितरः पौर्णमास्यां हि देवताः
।
मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः॥११॥
अमावास्याममावास्यायाम् । हूयन्ते इज्यन्ते ॥११॥
सर्वभक्षः कथं त्वेषां भविष्यामि मुखं त्वहम्
।
सौतिरुवाच।
चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः॥१२॥
संहारं तिरोभावम् ॥१२॥
द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च
।
निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः॥१३॥
विनाऽग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः
।
अथर्षयः समुद्विग्ना देवान् गत्वा ब्रुवन्वचः॥१४॥
अग्निनाशात्क्रियाभ्रांशाद्भ्रान्ता लोकास्त्रयोऽनघाः
।
विदध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा॥१५॥
क्रियाभ्रंशात् अग्निहोत्रादिलोपात् । भ्रान्ताः कर्तव्याकर्तव्यविमूढाः ॥१५॥
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु
।
अग्नेरावेदयन्शापं क्रियासंहारमेव च॥१६॥
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे
।
कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा॥१७॥
हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति
।
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत्॥१८॥
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम्
।
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च॥१९॥
भूतभावनं जरायुजादि भूतकर्तारम् ॥१९॥
त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः
।
स तथा कुरु लोकेश नोच्छिद्येरन्यथा क्रियाः॥२०॥
कस्मादेवं विमूढस्त्वमीश्वरः सन् हुताशन
।
त्वं पवित्रं सदा लोके सर्वभूतगतिश्च ह॥२१॥
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि
।
अपाने ह्यर्चिषो यास्ते सर्वं भक्ष्यन्ति ताः शिखिन्॥२२॥
भक्ष्यन्ति भक्षयिष्यन्ति शिखिन् अग्ने ॥२२॥
क्रव्यादा च तनुर्याते सा सर्वं भक्षयिष्यति
।
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते॥२३॥
क्रव्यादा मनुष्याद्यमेध्यमांसभक्षिणी ॥२३॥
तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति
।
त्वमग्ने परमं तेजः स्वप्रभावाद्विनिर्गतम्॥२४॥
स्वप्रभावाद्विनिर्गतं शापं सत्यं कुर्विति भावः । ययोक्तं शिक्षायाम् ‘आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरति मारुतम् । मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥’ इत्याद्युक्तत्वादग्नेर्वागधिष्ठातृत्वाच्च ॥२४॥
स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो
।
देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम्॥२५॥
सौतिरुवाच।
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम्
।
जगाम शासनं कर्तुं देवस्य परमेष्ठिनः॥२६॥
देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम्
।
ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे॥२७॥
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः
।
अग्निश्च परमां प्रीतिमवाप हतकल्मषः॥२८॥
ब्राह्मणैरनपराधबाधितोऽपि न तेषु प्रतीकारं प्रयुञ्जीतेत्यध्यायतात्पर्यम् ॥२८॥
एवं स भगवाञ्छापं लेभेऽग्निर्भृगुतः पुरा
।
एवमेष पुरावृत्त हतिहासोऽग्निशापजः
।
पुलोम्नश्च विनाशोऽयं च्यवनस्य च संभवः॥२९॥
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि अग्निशापमोचने सप्तमोऽध्यायः॥७॥
सौतिरुवाच।
स चापि च्यवनो ब्रह्मन्भार्गवो जनयत्सुतम्
।
सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम्॥१॥
अष्टमः अध्यायः स चापीति॥१॥
प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत्
।
रुरुः प्रमद्वरायां तु शुनकं समजीजनम्॥२॥
शुनकस्तु महासत्त्वः सर्वं भार्गवनन्दनः
।
जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः॥३॥
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः
।
विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः॥४॥
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः
।
स्थूलकेश इति ख्यातः सर्वभूतहिते रतः॥५॥
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान्
।
गन्धर्वराजो विप्रर्षे विश्वावसुरिति स्मृतः॥६॥
प्रजज्ञिवानुत्पादितवान् ॥६॥
अप्सरा मेनका तस्य तं गर्भं भृगुनन्दन
।
उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति॥७॥
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम सा
।
अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा॥८॥
कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया
।
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः॥९॥
स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम्
।
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो महाद्विजः॥१०॥
जग्राह च मुनिश्रेष्ठः कृपाविष्टः पुपोष च
।
ववृधे सा वरारोहा तस्याश्रमपदे शुभे॥११॥
जातकाद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम्
।
स्थूलकेशो महाभागश्चकार सुमहानृषिः॥१२॥
प्रमदाभ्यो वरा सा तु सत्त्वरूपगुणान्विता
।
ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः॥१३॥
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम्
।
बभूव किल धर्मात्मा मदनोपहतस्तदा॥१४॥
पितरं सखिभिः सोऽथ श्रावयामास भार्गवम्
।
प्रमतिश्चाभ्ययाचत्तां स्थूलकेशं यशस्विनम्॥१५॥
ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम्
।
विवाहं स्थापयित्वाऽग्रे नक्षत्रे भगदैवते॥१६॥
भगदैवते पूर्वयोः फल्गुन्योरिति लौकिकाः । फल्गुनीनक्षत्रमर्यमादेवता फल्गुनीनक्षत्रं भगो देवतेति श्रुतेरुत्तराफल्गुन्योर्वा विवाहं स्थापयित्वा निश्चित्य ॥१६॥
ततः कतिपयाहस्य विवाहे समुपस्थिते
।
सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी॥१७॥
विवाहे समुपस्थिते प्रागेव विवाहात् शब्दतः परिग्रहमात्रेण भार्यात्वेन कल्पिताया अपि नाशे रुरोर्दुरन्तदुःखावाप्तिरिति परिग्रहस्य दुःखदत्वं व्यक्तम् ॥१७॥
नापश्यत्संप्रसुप्तं वै भुजंगं तिर्यगायतम्
।
पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता॥१८॥
स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा
।
विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत्॥१९॥
कालधर्मणा मृत्युना । विषोपालिप्तान् सविषान् ॥१९॥
सा दष्टा तेन सर्पेण पपात सहसा भुवि
।
विवर्णा विगतश्रीका भ्रष्टाभरणचेतना॥२०॥
निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा
।
व्यसुरप्रेक्षणीया सा प्रेक्षणीयतमाऽभवत्॥२१॥
व्यसुर्वियतप्राणा ॥२१॥
प्रसुप्ते वाभवच्चापि भुवि सर्पविषार्दिता
।
भूयो मनोहरतरा बभूव तनुमध्यमा॥२२॥
ददर्श तां पिता चैव ये चैवान्ये तपस्विनः
।
विचेष्टमानां पतितां भूतले पद्मवर्चसम्॥२३॥
ततः सर्वे द्विजतराः समाजग्मुः कृपान्विताः
।
स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः॥२४॥
उद्दालकः कठश्चैव श्वेतश्चैव महायशाः
।
भरद्वाजः कौणकृत्स्य आर्ष्टिषेणोऽथ गौतमः॥२५॥
प्रमतिः सह पुत्रेण तथाऽन्ये वनवासिनः
।
तां ते कन्यां व्यसुं दृष्ट्वा भुजंगस्य विषार्दिताम्॥२६॥
रुरुदुः कृपयाऽविष्टा रुरुस्त्वार्तो बहिर्ययौ
।
ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा॥२७॥
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि प्रमद्वरासर्पदंशे अष्टमोऽध्यायः॥८॥
सौतिरुवाच।
तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु
।
रुरुश्चुक्रोश गहनं वनं गत्वाऽतिदुःखितः॥१॥
नवमः अध्यायः महामहिम्नाप्यायुषः क्षणोऽपि दुर्लभ इत्यर्थमध्याय आरभ्यते तेषु तत्रेत्यादिः ॥१॥
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु
।
अब्रवीद्वचनं शोचन्प्रियां स्मृत्वा प्रमद्वराम्॥२॥
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी
।
बान्धवानां च सर्वेषां किं नु दुःखमतःपरम्॥३॥
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि
।
सम्यगाराधितास्तेन संजीवतु मम प्रिया॥४॥
यथा च जन्मप्रभृति यतात्माऽहं धृतव्रतः
।
प्रमद्वरा तथा ह्येषा समुत्तिष्ठतु भामिनी॥५॥
एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च
।
देवदूतस्तदाऽभ्येत्य वाक्यमाह रुरुं वने॥६॥
देवदूत उवाच।
अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा
।
यतो मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः॥७॥
गतायुषः आयुर्लाभो नास्ति ॥७॥
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता
।
तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन॥८॥
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः
।
तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम्॥९॥
रुरुरुवाच।
क उपायः कृतो देवैर्बूहि तत्त्वेन खेचर
।
करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान्॥१०॥
देवेदूत उवाच।
आयुषोऽर्धं प्रयच्छ त्वं कन्यायै भृगुनन्दन
।
एवमुत्थास्यति रुरो तव भार्या प्रयद्वरा॥११॥
रुरुरुवाच।
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम
।
शृङ्गाररूपाभरणा समुत्तिष्ठतु मे प्रिया॥१२॥
सौतिरुवाच।
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ
।
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम्॥१३॥
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा
।
समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे॥१४॥
धर्मराज उवाच।
प्रमद्वरां रुरोर्भार्यां देवदूत यदीच्छसि
।
उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता॥१५॥
रुरोरेव नान्यस्य दम्पत्योरेकात्मकत्वात् ॥१५॥
सौतिरुवाच।
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा
।
रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी॥१६॥
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः
।
आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत॥१७॥
न चैवमायुषोऽर्धप्रदानेनेतरेषामप्यायुर्लाभो भवतीत्याह । भविष्ये रुरोरेव जातके इदं दृष्टं नान्यत्रेत्यर्थः ॥१७॥
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा
।
विवाहं तौ च रेमाते परस्परहितैषिणौ॥१८॥
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसुप्रभाम्
।
व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः॥१९॥
एवं कामप्रतीघाते क्रोधावेशादविवेकेनाधर्ममपि महान्तोनुतिष्ठन्तीत्याह । व्रतमिति । व्रतं नियमम् । जिह्मगानां सर्पाणाम् ॥१९॥
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः
।
अभिहन्ति यथा सत्त्वं गृह्य प्रहरणं सदा॥२०॥
गृह्य गृहीत्वा ॥२०॥
स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत्
।
शयानं तत्र चापश्यत् डुण्डुभं वयसान्वितम्॥२१॥
डुण्डुभं निर्विषं स्थूलसर्पं वयसान्वितं वृद्धम् ॥२१॥
तत उद्यम्य दण्डं स कालदण्डोपमं तदा
।
जिघांसुः कुपितो विप्रस्तमुवाचाऽथ डुण्डुभः॥२२॥
नापराध्यामि ते किंचिदहमद्य तपोधन
।
संरम्भाच्च किमर्थं मामभिहंसि रुषान्वितः॥२३॥
सरम्भादावेशात् ॥२३॥
॥ इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि प्रमद्वारजीवने नवमोऽध्यायः॥९॥
रुरुरुवाच।
मम प्राणसमाभार्या दष्टासीद्भुजगेन ह
।
तत्र मे समयो घोर आत्मनोरग वै कृतः॥१॥
दशमः अध्यायः ममेति॥१॥
भुजंगं वै सदा हन्यां यं यं पश्येयमित्युत
।
ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे॥२॥
डुण्डुभ उवाच।
अन्ये ते भुजगा ब्रह्मन्ये दशन्तीह मानवान्
।
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि॥३॥
अहिगन्धेन सर्पसादृश्यमात्रेण ॥३॥
एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान्
।
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि॥४॥
अत्राध्याये विधेयांशमाह । एकानर्थानिति । अनर्थो हानिः । अर्थो लाभः । तत्रार्थः सुखं च कर्तुर्भोक्तुश्च भवति । अनर्थो दुःखं चैकस्यापराधेन सर्वेषां तत्सजार्तायानां भवतीत्यर्थः । धर्मवित् यस्यापराधः स एव दण्ड्यो नान्य इति धर्मस्तज्ज्ञः ॥४॥
सौतिरुवाच।
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा
।
नावधीद्भयसंविग्नमृषिं मत्त्वाऽथ डुण्डुभम्॥५॥
उवाच चैनं भगवान् रुरुः संशमयन्निव
।
केमं मां भुजग ब्रूहि कोऽसीमां विक्रियां गतः॥६॥
डुण्डुभ उवाच।
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्
।
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः॥७॥
रुरुरुवाच।
किमर्थं शप्तवान्कुद्धो द्विजस्त्वां भुजगोत्तम
।
कियन्तं चैव कालं ते वपुरेतद्भविष्यसि॥८॥
॥ इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि रुरुडुण्डुमसंवादे दशमोऽध्यायः॥१०॥
डुण्डुभ उवाच।
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः
।
भृशं संशितवाक्तात तपोबलसमन्वितः॥१॥
एकदशः अध्यायः नर्मपूर्विकाऽपि परपीडा न कर्तव्या किमुत चास्तवी साप्यधर्मेणेत्याहाध्यायेन। सखा बभूवेत्यादिना। खगमो नाम वाडव इति पाठे। वाडवः ब्राह्मणः। संशितवाक् तीक्ष्णवचनः॥१॥
स मया क्रीडता बाल्ये कृत्वा तार्णं भुजंगमम्
।
अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै॥२॥
तार्णं तृणमयम्॥२॥
लब्ध्वा स च पुनः संज्ञां मामुवाच तपोधनः
।
नर्दहन्निव कोपेन सत्यवाक्संशितव्रतः॥३॥
यथा वीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया
।
तथा वीर्यो भुजंगस्त्वं मम शापाद्भविष्यसि॥४॥
तस्याहं तपसो वीर्यं जानन्नासं तपोधन
।
भृशमुद्विग्नहृदयस्तमवोचमहं तदा॥५॥
प्रणतः संभ्रमादेव प्राञ्जलिः पुरतः स्थितः
।
सखेति हसतेदं ते नर्मार्थं वै कृतं मया॥६॥
संभ्रमात् भयात्। पुर इत्यपेक्षिते पुरत इत्यार्षम्॥६॥
क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम्
।
सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम्॥७॥
मुहुरुष्णं विनिःश्वस्य सुसंभ्रान्तस्तपोधनः
।
नानृतं वै मया प्रोक्तं भवितेदं कथंचन॥८॥
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन
।
श्रुत्वा च हृदि ते वाक्यमिदमस्तु सदाऽनघ॥९॥
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः
।
तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव॥१०॥
स त्वं रुरुरितिख्यातः प्रमतेरात्मजोऽपि च
।
स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम्॥११॥
स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा
।
स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः॥१२॥
इदं चोवाच वचनं रुरुमप्रतिमौजसम्
।
अहिंसा परमो धर्मः सर्वप्राणभृतां वर॥१३॥
तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित्
।
ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः॥१४॥
सौम्यः अतीक्ष्णस्वभावः॥१४॥
वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः
।
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्॥१५॥
अहिंसा अविधिस्पृष्टहिंसाया अभावः॥१५॥
ब्राह्मणस्य परो धर्मो वेदानां धारणापि च
।
क्षत्रियस्य हि यो धर्मः स हि नेष्येत वै तव॥१६॥
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्
।
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो॥१७॥
जनमेजयस्य यज्ञेऽस्मिन्सर्पाणां हिंसनं पुरा
।
परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि॥१८॥
परित्राणं दृष्टमितिशेषः। परैः हिंस्यमानस्य ब्राह्मणेन कर्तव्यं न तु हिंसेत्यर्थः॥१८॥
तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात्
।
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम॥१९॥
॥ इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि डुण्डूभशापमोक्षे एकादशोऽध्यायः॥११॥
रुरुरुवाच।
कथं हिंसितवान्सर्पान्स राजा जनमेजयः
।
सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम॥१॥
द्वादशः अध्यायः कथमिति॥१॥
किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता
।
आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः॥२॥
ऋषिरुवाच।
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्
।
ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत॥३॥
सौतिरुवाच।
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः
।
तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि॥४॥
नष्टमन्तर्हितम्॥४॥
स मोहे परमं गत्वा नष्टसंज्ञ इवाभवत्
।
तदृषेर्वचनं तथ्यं चिन्तयानः पुनःपुनः॥५॥
लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा
।
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥६॥
’सद्रोहं सत्यवचनमतिरागश्च योषिति। अनागसामपि द्रोहः पौलोमेर्थाद्विनिन्दितः’ इति रत्नगर्भः॥६॥
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि सर्पसत्रप्रस्तावनायां द्वादशोऽध्यायः॥१२॥