अनुक्रमणिकापर्व - १पर्वसंग्रहपर्व - २पौष्यपर्व - ३पौलोमपर्व। - ४आस्तिकपर्व - ५अंशावतरणपर्व - ६सम्भवपर्व - ७जतुगृहपर्व । - ८हिडिम्बवधपर्व - ९बकवधपर्व - १०चैत्ररथपर्व । - ११स्वयंवरपर्व - १२वैवाहिकपर्व - १३विदुरागमनराज्यालंभपर्व - १४अर्जुनवनवासपर्व - १५सुभ्रद्राहरणपर्व। - १६हरणाहरणपर्व। - १७खाण्डवदाहपर्व - १८मयदर्शनपर्व - १९

पौलोमपर्व।

चतुर्थोऽध्यायः

लोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनम्यागतानुपतस्थे॥१॥

पौलोमपर्व | एवं कृतोपोद्धातं भारतमारभते । लोमहर्षणेत्यादि पूर्ववद्व्याख्येयम् । अत्र सौतिरुवाचेति पाठे लोमहर्षणपुत्रादीनां सृष्टिप्रवाहानादितया प्रतिकल्पं समाननामरूपाधिकारपुरुषविशेषवचनानां ‘सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत्’ इत्यादि श्रुतिभ्यः स्थानपतिसेनापत्यादिशब्दवदधिकारविशेषवाचित्वादेतत्कल्पीय सौतिवचनं पूर्वकल्पीयलोमहर्षणपुत्रादि परमिति । एवं सर्पसत्रादि कथाऽपि कृतत्रेतादियुगस्थान् रुरुप्रमृतीन्प्रत्युच्यमाना पूर्वकल्पीयसर्पसत्रादि परेति ध्येयम् ॥१॥

पौराणिकः पुराणे कृतश्रमः स कृताञ्जलिस्तानुवाच ।
किं भवन्तः श्रोतुमिच्छन्ति किमहं ब्रवाणीति॥२॥

पौराणिकः पुराणं पण्यं जीविकास्येऽति व्युत्पत्तिं निराकरोति । पुराणे कृतश्रम इति । अत्र ‘ब्राह्मण्यां क्षत्रियात्सूतः’ इति स्मृत्युक्तो विलोमजो जातिसूतः सञ्जयाधिरथादिरन्यः । यस्य जीविका सारथ्यं वा पुराणराज्ञां शौर्यौदार्यादिवर्णनेन स्वामिप्रोत्साहनं च । अत एवाऽस्य पौराणिक इति संज्ञा । उग्रश्रवास्तु सौतिरेव न जातिसूतः । तथा त्वेतत्राऽपि सूतशब्दप्रयोगोपपत्तेः सौतिरित्यपत्यार्थस्य तद्धितस्यानर्थक्यं स्यात् । किं तर्हि । “अग्निकुण्डसमुद्भूतसूतनिर्मलमानसः” इति रोमहर्षणं प्रति शौनकवचनस्य पुराणान्तरे दर्शनादग्निजो रोमहर्षणः सूतस्तस्य च ब्राह्मणसङ्कल्पात् ब्रह्मासनार्हत्वम् । धृष्टद्युम्नस्य क्षत्रियत्ववत् । ब्रह्मासनं च वैशम्पायनशान्तव्रतमार्कण्डेयादि तुल्यस्तत्सजातीय एवार्हति न हीनः । न हि महान्तः शौनकादयो हीनात्परं रहस्यं जगृहुरिति वक्तुं युक्तम् । न हीनतः परमभ्याददीतेत्यत्रैव तन्निषेधात् । नीचादप्युत्तमाविद्या ग्राह्येति त्वापद्विषयमेतत् । अत एव तद्वधाद्बलरामेण ब्रह्महत्याव्रतं चीर्णमिति स्मर्यते । तत्र सूतशब्दस्तु कथाप्रवक्तृत्वसामान्यात् । तस्माद्ब्राह्मण एव पुराणप्रवक्तृत्वेन वरणीयः श्रोतुकामैर्न हीनः पौराणिकपदं न जातिसूतपरमपितु पुराणाध्येतृब्राह्मणपरभिति ॥२॥

तमृषय ऊचुः। परमं लौमहर्षणे वक्ष्यामस्त्वां नः प्रतिवक्ष्यसि वचः शुश्रूषतां कथायोगं नः कथायोगे॥३॥

परममिति । हे लौमहर्षणे ! त्वां परमं वचो वक्ष्यामः । परमं ब्रह्म वक्ष्यामः । त्वत्प्रयोजकत्वेन वाचयिष्यामः । शौनके समागते इतिशेषः । कथायोगम् अस्माकं कथायोगे कथाप्रसङ्गे इति न्यवहितान्वयेन योज्यम् ॥३॥

तत्र भगवान् कुलपतिस्तु शौनकोऽग्निशरणमध्यास्ते॥४॥

अग्निशरणमग्निगृहम् ॥४॥

यौऽसौ दिव्याः कथा वेद देवतासुरसंश्रिताः ।
मनुष्योरगगन्धर्वकथा वेद च सर्वशः॥५॥

वेदतात्पर्यं बोद्धुमिति शेषः ॥५॥

स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः ।
दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः॥६॥

शास्त्रे विधिनिषेधप्रधाने कर्मकाण्डे । आरण्यके उपनिषदि ज्ञानकाण्डे ॥६॥

सत्यवादी शमपरस्तपस्वी नियतव्रतः ।
सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम्॥७॥

प्रतिपाल्यतां प्रतीक्ष्यताम् ॥७॥

तस्मिन्नध्यासति गुरावासनं परमार्चितम् ।
ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः॥८॥

ततः तत् प्रथमार्थेतसिः ॥८॥

सौतिरुवाच। एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि ।
तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः॥९॥

सोऽथ विप्रर्षभः सर्वं कृत्वा कार्यं यथाविधि ।
देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वा जगाम ह॥१०॥

वाग्भिः ब्रह्मयज्ञीयाभिः ‘यदृचोधीते पय आहुतिभिरेव तद्देवतास्तर्पयति’ इत्यादिवचनात् आजगामेतिच्छेदः ॥१०॥

यत्र ब्रह्मर्षयः सिद्धाः सुखासीना धृतव्रताः ।
यज्ञायतनमाश्रित्य सूतपुत्रपुरस्पराः॥११॥

ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्तदा ।
उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम्॥१२॥

॥ इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि कथाप्रवेशो नाम चतुर्थोऽध्यायः॥४॥
पञ्चमोऽध्यायः

शौनक उवाच॥ पुराणमखिलं तात पिता तेऽधीतवान्पुरा ।
कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ॥१॥

पुराणमिति पुराणं पुरावृत्तम् ॥१॥

पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् ।
कथ्यन्ते ताः पुराऽस्माभिः श्रुताः पूर्वं पितुस्तव ॥२॥

तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् ।
कथयस्व कथामेतां कल्याः स्म श्रवणे तव ॥३॥

कल्याः समर्थाः तवत्वत्तः श्रोतुमिति संबन्धः ॥३॥

सौतिरुवाच। यदधीतं पुरा सम्यग्द्विजश्रेष्ठैर्महात्मभिः ।
वैशम्पायनविप्राग्र्यैस्तैश्चापि कथितं पुरा ॥४॥

कथितं मह्यमिति शेषः ॥४॥

यदधीतं च पित्रा मे सम्यक् चैव ततो मया ।
तत्तावच्छृणुष्व यो देवैः सेन्द्रैः सार्षिमरुद्गणैः ॥५॥

ततो मयेति पितुः सकाशान्मयाऽधीतामित्यावर्तनीयम् ॥५॥

पूजितः प्रवरो वंशो भार्गवो भृगुनन्दन ।
इमं वंशमहं पूर्वं भार्गवं ते महामुने ॥६॥

निगदामि यथा युक्तं पुराणाश्रयसंयुतम् ।
भृगुर्महर्षिर्भगवान् ब्रह्मणा वै स्वयंभुवा॥७॥

पुराणस्याश्रयः उपोद्घातस्तत्संयुतम् ॥७॥

वरुणस्य क्रतौ जातः पावकदिति नः श्रुतम् ।
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः॥८॥

च्यवनस्यापि च दायादः प्रमतिर्नाम धार्मिकः ।
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ॥९॥

रुरोरपि सुतो जज्ञे शुनको वेदपारगः ।
प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः ॥१०॥

पूर्वपितामहः कुलप्रधानपुरुषः ॥१०॥

तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः ।
धार्मिकः सत्यवादी च नियतो नियताशनः ॥११॥

नियतः शमादि मान् । नियताशनः हितं मितं मेध्यं वाश्नाति नत्वनशनमेवेति भावः । नियतेन्द्रिय इति पाठे यमनियमयुक्तः ॥ ११॥

शौनक उवाच। सूतपुत्र यथा तस्य भार्गवस्य महात्मनः ।
च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ॥१२॥

सौतिरुवाच। भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता ।
तस्यां समभवद्गर्भो भृगुवीर्यसमुद्भवः ॥१३॥

तस्मिन् गर्भेऽथ सम्भृते पुलोमायां भृगूद्वह ।
समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥१४॥

अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे ।
आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह ॥१५॥

तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् ।
हृच्छयेन समाविष्टो विचेताः समपद्यत ॥१६॥

हृच्छयेन कामेन ॥१६॥

अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना ।
न्यमन्त्रयत वन्येन फलमूलादिना तदा ॥१७॥

तां तु रक्षस्तदा ब्रह्मन्हृच्छयेनाभिपीडितम् ।
दृष्ट्वा हृष्टमभूद्राजन् जिहीर्षुस्तामनिन्दिताम् ॥१८॥

जातमित्यब्रवीत्कार्यं जिहीर्षुर्मुदितः शुभाम् ।
सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता॥१९॥

कथं परदारेषु काम इत्यत आह । साहीति । बाल्ये किल रुदतीं कन्यां रोदनानिवृत्त्यर्थं भीषयितुं पित्रा उक्तं रे रक्ष एनां गृहाणेति तावतैव गृहे सन्निहितेन रक्षसा वृता ममेयं भार्येति भावः ॥१९॥

तां तु प्रादात्पिता पश्चाद्भृगवे शास्त्रवत्तदा ।
तस्य तत्किल्बिषं नित्यं हृदि वर्तति भार्गव॥२०॥

इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा ।
अथाग्निशरणे पश्यज्ज्वलन्तं जातवेदसम् ॥२१॥

तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ।
शंसमेकस्य भार्येयमग्ने पृच्छे ऋतेन वै ॥२२॥

मुखं त्वमसि देवानां वद पावक पृच्छते ।
मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी ॥२३॥

पश्चादिमां पिता प्रादाद्भृगवेऽनृतकारकः ।
सेयं यदि वरारोहा भृगोर्भार्या रहोगता॥२४॥

अत एवतस्याः पिता अनृतकारकः । अनृतकारिणे इति पाठे तु भृगोरेव विशेषणम् । परिहासेनापि ददामीत्युक्त्वा न दत्तं चेद्दोषो भवतीति भावः । वरारोहा श्रेष्ठनितम्बा ॥२४॥

तथा सत्यं समाख्याहि जिहीर्षाभ्याश्रमादिमाम् ।
समन्युस्तत्र हृदयं प्रदहन्निव तिष्ठति ।
मत्पुर्वभार्यां यदिमां भृगुराप सुमध्यमाम् ॥२५॥

सौतिरुवाच । एवं रक्षस्तमामन्त्र्य ज्वलितं जातवेदसम् ।
शङ्कमानो भृगोर्भार्यां पुनःपुनरपृच्छत ॥२६॥

शङ्कमानं छलवचनेन पूर्वं मह्यं दत्ता पश्चाद्विधिपूर्वकं भृगवे दत्ताऽतो मम वा इयं भृगोर्वेति सन्दिहानम् ॥२६॥

त्वमग्ने! सर्वभूतानामन्तश्चरसि नित्यदा ।
साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥२७॥

कवे सर्वज्ञ ॥२७॥

मत्पूर्वऽपहृता भार्या भृगुणाऽनृतकारिणा ।
सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥२८॥

यदि तथेति । मत्पूर्वा सा चेत् भृगुश्चानृतकारी चेत्तर्हि सत्यं ब्रूहि ॥२८॥

श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यश्रमादिमाम् ।
जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥२९॥

सौतिरुवाच । तस्यैतद्वचनं श्रुत्वा सप्तार्चिर्दुःखितोऽभवत् ।
भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥३०॥

भृगोरित्युक्तेऽनृतं पूर्वं रक्षः परिग्रहत्वात्तस्याः रक्षस इत्युक्ते भृगुतः शापभयम् ॥३०॥

अग्निरुवाच। त्वया वृता पुलोमेयं पूर्वं दानवनन्दन ।
किं त्वियं विधिना पूर्वं मन्त्रवन्न वृता त्वया॥३१॥

पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी ।
ददाति न पिता तुभ्यं वरलोभान्महायशाः॥३२॥

अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम् ।
भार्यामृषिर्भृगुः प्राप मां पुरस्कृत्य दानव॥३३॥

सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे ।
नानृतं हि सदा लोके पूज्यते दानवोत्तम॥३४॥

सेयमिति या त्वया पूर्वं वृता सेयं त्वदीयैवेयमित्यर्थः ॥३४॥
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि पुलोमाग्निसंवादे पञ्चमोध्यायः॥५॥
षष्ठोऽध्यायः

सूत उवाच। अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् ।
ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ॥१॥

षष्टोऽध्यायः छलवचनाद्वैध एव विधिः श्रेयान् । तयोः साम्यं पश्यन्नग्निः शापं प्राप । आद्यस्य प्राबल्यं मन्वानो राक्षसो नाशं च प्राप्नोति षष्ठाध्यायतात्पर्यम् । अग्नेरथेति ॥१॥

ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह ।
रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ॥२॥

तेन चुच्यावेति योगेन ॥ २॥

तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् ।
तद्रक्षो भस्मसाद्भूतं पपात परिमुच्यताम् ॥३॥

सा तमादाय सुश्रोणी ससार भृगुनन्दनम् ।
च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्च्छिता ॥४॥

तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः ।
रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ॥५॥

सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः ।
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी ॥६॥

अनुवर्तती सृतिं तस्या भृगोः पत्न्यास्तपस्विनः ।
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा ॥७॥

सृतिं मार्गम् ॥७॥

नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः ।
वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ॥८॥

स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् ।
तं ददर्श पिता तत्र च्यवनं तां च भाविनीम् ।
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः ॥९॥

भृगुरुवाच। केनाऽसि रक्षसे तस्मै कथिता त्वं जिहीर्षते ।
न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥१०॥

मद्भार्याम् इयं ममैव भार्या न तु मृगोरित्येवं रूपेण त्वां रक्षो न वेदेत्यर्थः । तवेयं भार्येति केन कथिताऽसि ॥१०॥

तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा ।
बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥११॥

पुलोमोवाच ।
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता ।
ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥१२॥

साऽहं तव सुतस्यास्य तेजसा परिमोक्षिता ।
भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ॥१३॥

सौतिरुवाच। इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् ।
शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि ॥१४॥

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि अग्निशापे षष्ठोऽध्यायः॥६॥
सप्तमोऽध्यायः

सौतिरुवाच। शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् ।
किमिदं साहसं ब्रह्मन्कृतवानसि मां प्रति॥१॥

सप्तमः अध्यायः शप्तस्त्विति ॥१॥

धर्मे प्रयतमानस्य सत्यं च वदतः समम् ।
पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम॥२॥

सत्यं च वदतः समं सत्यं च यथार्थम् । समं पक्षपातहीनम् । व्यभिचार अपराधः ॥२॥

पृष्टो हि साक्षी यः साक्ष्यं जानानोऽप्यन्यथा वदेत् ।
स पूर्वानात्मनः सप्त कुले हन्यात्तथाऽपरान्॥३॥

यश्च कार्यार्थतत्त्वज्ञो जानानोऽपि न भाषते ।
सोऽपि तेनैव पापेन लिप्यते नात्र संशयः॥४॥

शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम ।
जानतोऽपि च ते ब्रह्मन्कथयिष्ये निबोध तत्॥५॥

योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु ।
अग्निहोत्रेषु सत्रेषु क्रियासु च मखेषु च॥६॥

योगेन योगसिद्धिबलेन । मूर्तिषु गार्हपत्यदक्षिणाग्न्यादिषु । सत्रेष्वनेककर्तृकेषु गवामयनादिषु । क्रियासु स्मार्तासु गर्भाधानादिषु । मखे ज्योतिष्टोमादौ ॥६॥

वेदोक्तेन विधानेन मयि यद्धूयते हविः ।
देवताः पितरश्चैव तेन तृप्ता भवन्ति वै॥७॥

आपो देवगणाः सर्वे आपः पितृगणास्तथा ।
दर्शश्च पौर्णमासश्च देवानां पितृभिः सह॥८॥

आपः सोमाज्यपयःप्रभृतयोऽग्नौ हूयमाना देवपितृरूपाः । ’आपः पुरुषवचसो भवन्ति’ इतिश्रुतेरग्नौ हुता आप एव देवताशरीररूपेण परिणमन्त इर्थः ॥८॥

देवताः पितरस्तस्मात्पितरश्चापि देवताः ।
एकीभूताश्च दृश्यन्ते पृथक्त्वेन च पर्वसु॥९॥

देवादिभावस्यापि कर्मप्राप्यत्वाद्देवानां पितॄणां च मिथो भेदो नास्त्येव तुल्यहेतुकत्वादित्याह । देवता इति ॥९॥

देवताः पितरश्चैव भुञ्जते मयि यद्धुतम् ।
देवतानां पितॄणां च मुखमेतदहं स्मृतम्॥१०॥

अमावास्यां हि पितरः पौर्णमास्यां हि देवताः ।
मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः॥११॥

अमावास्याममावास्यायाम् । हूयन्ते इज्यन्ते ॥११॥

सर्वभक्षः कथं त्वेषां भविष्यामि मुखं त्वहम् ।
सौतिरुवाच। चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः॥१२॥

संहारं तिरोभावम् ॥१२॥

द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ।
निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः॥१३॥

विनाऽग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः ।
अथर्षयः समुद्विग्ना देवान् गत्वा ब्रुवन्वचः॥१४॥

अग्निनाशात्क्रियाभ्रांशाद्भ्रान्ता लोकास्त्रयोऽनघाः ।
विदध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा॥१५॥

क्रियाभ्रंशात् अग्निहोत्रादिलोपात् । भ्रान्ताः कर्तव्याकर्तव्यविमूढाः ॥१५॥

अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु ।
अग्नेरावेदयन्शापं क्रियासंहारमेव च॥१६॥

भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे ।
कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा॥१७॥

हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ।
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत्॥१८॥

उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ।
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च॥१९॥

भूतभावनं जरायुजादि भूतकर्तारम् ॥१९॥

त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः ।
स तथा कुरु लोकेश नोच्छिद्येरन्यथा क्रियाः॥२०॥

कस्मादेवं विमूढस्त्वमीश्वरः सन् हुताशन ।
त्वं पवित्रं सदा लोके सर्वभूतगतिश्च ह॥२१॥

न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि ।
अपाने ह्यर्चिषो यास्ते सर्वं भक्ष्यन्ति ताः शिखिन्॥२२॥

भक्ष्यन्ति भक्षयिष्यन्ति शिखिन् अग्ने ॥२२॥

क्रव्यादा च तनुर्याते सा सर्वं भक्षयिष्यति ।
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते॥२३॥

क्रव्यादा मनुष्याद्यमेध्यमांसभक्षिणी ॥२३॥

तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति ।
त्वमग्ने परमं तेजः स्वप्रभावाद्विनिर्गतम्॥२४॥

स्वप्रभावाद्विनिर्गतं शापं सत्यं कुर्विति भावः । ययोक्तं शिक्षायाम् ‘आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरति मारुतम् । मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ॥’ इत्याद्युक्तत्वादग्नेर्वागधिष्ठातृत्वाच्च ॥२४॥

स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ।
देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम्॥२५॥

सौतिरुवाच। एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् ।
जगाम शासनं कर्तुं देवस्य परमेष्ठिनः॥२६॥

देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् ।
ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे॥२७॥

दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः ।
अग्निश्च परमां प्रीतिमवाप हतकल्मषः॥२८॥

ब्राह्मणैरनपराधबाधितोऽपि न तेषु प्रतीकारं प्रयुञ्जीतेत्यध्यायतात्पर्यम् ॥२८॥

एवं स भगवाञ्छापं लेभेऽग्निर्भृगुतः पुरा ।
एवमेष पुरावृत्त हतिहासोऽग्निशापजः ।
पुलोम्नश्च विनाशोऽयं च्यवनस्य च संभवः॥२९॥

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि अग्निशापमोचने सप्तमोऽध्यायः॥७॥
अष्टमोऽध्यायः

सौतिरुवाच। स चापि च्यवनो ब्रह्मन्भार्गवो जनयत्सुतम् ।
सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम्॥१॥

अष्टमः अध्यायः स चापीति॥१॥

प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् ।
रुरुः प्रमद्वरायां तु शुनकं समजीजनम्॥२॥

शुनकस्तु महासत्त्वः सर्वं भार्गवनन्दनः ।
जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः॥३॥

तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः ।
विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः॥४॥

ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः ।
स्थूलकेश इति ख्यातः सर्वभूतहिते रतः॥५॥

एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् ।
गन्धर्वराजो विप्रर्षे विश्वावसुरिति स्मृतः॥६॥

प्रजज्ञिवानुत्पादितवान् ॥६॥

अप्सरा मेनका तस्य तं गर्भं भृगुनन्दन ।
उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति॥७॥

उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम सा ।
अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा॥८॥

कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ।
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः॥९॥

स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ।
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो महाद्विजः॥१०॥

जग्राह च मुनिश्रेष्ठः कृपाविष्टः पुपोष च ।
ववृधे सा वरारोहा तस्याश्रमपदे शुभे॥११॥

जातकाद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम् ।
स्थूलकेशो महाभागश्चकार सुमहानृषिः॥१२॥

प्रमदाभ्यो वरा सा तु सत्त्वरूपगुणान्विता ।
ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः॥१३॥

तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् ।
बभूव किल धर्मात्मा मदनोपहतस्तदा॥१४॥

पितरं सखिभिः सोऽथ श्रावयामास भार्गवम् ।
प्रमतिश्चाभ्ययाचत्तां स्थूलकेशं यशस्विनम्॥१५॥

ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् ।
विवाहं स्थापयित्वाऽग्रे नक्षत्रे भगदैवते॥१६॥

भगदैवते पूर्वयोः फल्गुन्योरिति लौकिकाः । फल्गुनीनक्षत्रमर्यमादेवता फल्गुनीनक्षत्रं भगो देवतेति श्रुतेरुत्तराफल्गुन्योर्वा विवाहं स्थापयित्वा निश्चित्य ॥१६॥

ततः कतिपयाहस्य विवाहे समुपस्थिते ।
सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी॥१७॥

विवाहे समुपस्थिते प्रागेव विवाहात् शब्दतः परिग्रहमात्रेण भार्यात्वेन कल्पिताया अपि नाशे रुरोर्दुरन्तदुःखावाप्तिरिति परिग्रहस्य दुःखदत्वं व्यक्तम् ॥१७॥

नापश्यत्संप्रसुप्तं वै भुजंगं तिर्यगायतम् ।
पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता॥१८॥

स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा ।
विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत्॥१९॥

कालधर्मणा मृत्युना । विषोपालिप्तान् सविषान् ॥१९॥

सा दष्टा तेन सर्पेण पपात सहसा भुवि ।
विवर्णा विगतश्रीका भ्रष्टाभरणचेतना॥२०॥

निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा ।
व्यसुरप्रेक्षणीया सा प्रेक्षणीयतमाऽभवत्॥२१॥

व्यसुर्वियतप्राणा ॥२१॥

प्रसुप्ते वाभवच्चापि भुवि सर्पविषार्दिता ।
भूयो मनोहरतरा बभूव तनुमध्यमा॥२२॥

ददर्श तां पिता चैव ये चैवान्ये तपस्विनः ।
विचेष्टमानां पतितां भूतले पद्मवर्चसम्॥२३॥

ततः सर्वे द्विजतराः समाजग्मुः कृपान्विताः ।
स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः॥२४॥

उद्दालकः कठश्चैव श्वेतश्चैव महायशाः ।
भरद्वाजः कौणकृत्स्य आर्ष्टिषेणोऽथ गौतमः॥२५॥

प्रमतिः सह पुत्रेण तथाऽन्ये वनवासिनः ।
तां ते कन्यां व्यसुं दृष्ट्वा भुजंगस्य विषार्दिताम्॥२६॥

रुरुदुः कृपयाऽविष्टा रुरुस्त्वार्तो बहिर्ययौ ।
ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा॥२७॥

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि प्रमद्वरासर्पदंशे अष्टमोऽध्यायः॥८॥
नवमोऽध्यायः

सौतिरुवाच। तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु ।
रुरुश्चुक्रोश गहनं वनं गत्वाऽतिदुःखितः॥१॥

नवमः अध्यायः महामहिम्नाप्यायुषः क्षणोऽपि दुर्लभ इत्यर्थमध्याय आरभ्यते तेषु तत्रेत्यादिः ॥१॥

शोकेनाभिहतः सोऽथ विलपन्करुणं बहु ।
अब्रवीद्वचनं शोचन्प्रियां स्मृत्वा प्रमद्वराम्॥२॥

शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी ।
बान्धवानां च सर्वेषां किं नु दुःखमतःपरम्॥३॥

यदि दत्तं तपस्तप्तं गुरवो वा मया यदि ।
सम्यगाराधितास्तेन संजीवतु मम प्रिया॥४॥

यथा च जन्मप्रभृति यतात्माऽहं धृतव्रतः ।
प्रमद्वरा तथा ह्येषा समुत्तिष्ठतु भामिनी॥५॥

एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च ।
देवदूतस्तदाऽभ्येत्य वाक्यमाह रुरुं वने॥६॥

देवदूत उवाच। अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा ।
यतो मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः॥७॥

गतायुषः आयुर्लाभो नास्ति ॥७॥

गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता ।
तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन॥८॥

उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः ।
तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम्॥९॥

रुरुरुवाच। क उपायः कृतो देवैर्बूहि तत्त्वेन खेचर ।
करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान्॥१०॥

देवेदूत उवाच। आयुषोऽर्धं प्रयच्छ त्वं कन्यायै भृगुनन्दन ।
एवमुत्थास्यति रुरो तव भार्या प्रयद्वरा॥११॥

रुरुरुवाच। आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम ।
शृङ्गाररूपाभरणा समुत्तिष्ठतु मे प्रिया॥१२॥

सौतिरुवाच। ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ ।
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम्॥१३॥

धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा ।
समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे॥१४॥

धर्मराज उवाच। प्रमद्वरां रुरोर्भार्यां देवदूत यदीच्छसि ।
उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता॥१५॥

रुरोरेव नान्यस्य दम्पत्योरेकात्मकत्वात् ॥१५॥

सौतिरुवाच। एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा ।
रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी॥१६॥

एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः ।
आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत॥१७॥

न चैवमायुषोऽर्धप्रदानेनेतरेषामप्यायुर्लाभो भवतीत्याह । भविष्ये रुरोरेव जातके इदं दृष्टं नान्यत्रेत्यर्थः ॥१७॥

तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा ।
विवाहं तौ च रेमाते परस्परहितैषिणौ॥१८॥

स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसुप्रभाम् ।
व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः॥१९॥

एवं कामप्रतीघाते क्रोधावेशादविवेकेनाधर्ममपि महान्तोनुतिष्ठन्तीत्याह । व्रतमिति । व्रतं नियमम् । जिह्मगानां सर्पाणाम् ॥१९॥

स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः ।
अभिहन्ति यथा सत्त्वं गृह्य प्रहरणं सदा॥२०॥

गृह्य गृहीत्वा ॥२०॥

स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् ।
शयानं तत्र चापश्यत् डुण्डुभं वयसान्वितम्॥२१॥

डुण्डुभं निर्विषं स्थूलसर्पं वयसान्वितं वृद्धम् ॥२१॥

तत उद्यम्य दण्डं स कालदण्डोपमं तदा ।
जिघांसुः कुपितो विप्रस्तमुवाचाऽथ डुण्डुभः॥२२॥

नापराध्यामि ते किंचिदहमद्य तपोधन ।
संरम्भाच्च किमर्थं मामभिहंसि रुषान्वितः॥२३॥

सरम्भादावेशात् ॥२३॥
॥ इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि प्रमद्वारजीवने नवमोऽध्यायः॥९॥
दशमोऽध्यायः

रुरुरुवाच। मम प्राणसमाभार्या दष्टासीद्भुजगेन ह ।
तत्र मे समयो घोर आत्मनोरग वै कृतः॥१॥

दशमः अध्यायः ममेति॥१॥

भुजंगं वै सदा हन्यां यं यं पश्येयमित्युत ।
ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे॥२॥

डुण्डुभ उवाच। अन्ये ते भुजगा ब्रह्मन्ये दशन्तीह मानवान् ।
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि॥३॥

अहिगन्धेन सर्पसादृश्यमात्रेण ॥३॥

एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् ।
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि॥४॥

अत्राध्याये विधेयांशमाह । एकानर्थानिति । अनर्थो हानिः । अर्थो लाभः । तत्रार्थः सुखं च कर्तुर्भोक्तुश्च भवति । अनर्थो दुःखं चैकस्यापराधेन सर्वेषां तत्सजार्तायानां भवतीत्यर्थः । धर्मवित् यस्यापराधः स एव दण्ड्यो नान्य इति धर्मस्तज्ज्ञः ॥४॥

सौतिरुवाच। इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा ।
नावधीद्भयसंविग्नमृषिं मत्त्वाऽथ डुण्डुभम्॥५॥

उवाच चैनं भगवान् रुरुः संशमयन्निव ।
केमं मां भुजग ब्रूहि कोऽसीमां विक्रियां गतः॥६॥

डुण्डुभ उवाच। अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् ।
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः॥७॥

रुरुरुवाच। किमर्थं शप्तवान्कुद्धो द्विजस्त्वां भुजगोत्तम ।
कियन्तं चैव कालं ते वपुरेतद्भविष्यसि॥८॥

॥ इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि रुरुडुण्डुमसंवादे दशमोऽध्यायः॥१०॥
एकादशोऽध्यायः

डुण्डुभ उवाच। सखा बभूव मे पूर्वं खगमो नाम वै द्विजः ।
भृशं संशितवाक्तात तपोबलसमन्वितः॥१॥

एकदशः अध्यायः नर्मपूर्विकाऽपि परपीडा न कर्तव्या किमुत चास्तवी साप्यधर्मेणेत्याहाध्यायेन। सखा बभूवेत्यादिना। खगमो नाम वाडव इति पाठे। वाडवः ब्राह्मणः। संशितवाक् तीक्ष्णवचनः॥१॥

स मया क्रीडता बाल्ये कृत्वा तार्णं भुजंगमम् ।
अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै॥२॥

तार्णं तृणमयम्॥२॥

लब्ध्वा स च पुनः संज्ञां मामुवाच तपोधनः ।
नर्दहन्निव कोपेन सत्यवाक्संशितव्रतः॥३॥

यथा वीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया ।
तथा वीर्यो भुजंगस्त्वं मम शापाद्भविष्यसि॥४॥

तस्याहं तपसो वीर्यं जानन्नासं तपोधन ।
भृशमुद्विग्नहृदयस्तमवोचमहं तदा॥५॥

प्रणतः संभ्रमादेव प्राञ्जलिः पुरतः स्थितः ।
सखेति हसतेदं ते नर्मार्थं वै कृतं मया॥६॥

संभ्रमात् भयात्। पुर इत्यपेक्षिते पुरत इत्यार्षम्॥६॥

क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् ।
सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम्॥७॥

मुहुरुष्णं विनिःश्वस्य सुसंभ्रान्तस्तपोधनः ।
नानृतं वै मया प्रोक्तं भवितेदं कथंचन॥८॥

यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन ।
श्रुत्वा च हृदि ते वाक्यमिदमस्तु सदाऽनघ॥९॥

उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः ।
तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव॥१०॥

स त्वं रुरुरितिख्यातः प्रमतेरात्मजोऽपि च ।
स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम्॥११॥

स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा ।
स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः॥१२॥

इदं चोवाच वचनं रुरुमप्रतिमौजसम् ।
अहिंसा परमो धर्मः सर्वप्राणभृतां वर॥१३॥

तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् ।
ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः॥१४॥

सौम्यः अतीक्ष्णस्वभावः॥१४॥

वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः ।
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्॥१५॥

अहिंसा अविधिस्पृष्टहिंसाया अभावः॥१५॥

ब्राह्मणस्य परो धर्मो वेदानां धारणापि च ।
क्षत्रियस्य हि यो धर्मः स हि नेष्येत वै तव॥१६॥

दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ।
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो॥१७॥

जनमेजयस्य यज्ञेऽस्मिन्सर्पाणां हिंसनं पुरा ।
परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि॥१८॥

परित्राणं दृष्टमितिशेषः। परैः हिंस्यमानस्य ब्राह्मणेन कर्तव्यं न तु हिंसेत्यर्थः॥१८॥

तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् ।
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम॥१९॥

॥ इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि डुण्डूभशापमोक्षे एकादशोऽध्यायः॥११॥
द्वादशोऽध्यायः

रुरुरुवाच। कथं हिंसितवान्सर्पान्स राजा जनमेजयः ।
सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम॥१॥

द्वादशः अध्यायः कथमिति॥१॥

किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता ।
आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः॥२॥

ऋषिरुवाच। श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् ।
ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत॥३॥

सौतिरुवाच। रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः ।
तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि॥४॥

नष्टमन्तर्हितम्॥४॥

स मोहे परमं गत्वा नष्टसंज्ञ इवाभवत् ।
तदृषेर्वचनं तथ्यं चिन्तयानः पुनःपुनः॥५॥

लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा ।
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥६॥

’सद्रोहं सत्यवचनमतिरागश्च योषिति। अनागसामपि द्रोहः पौलोमेर्थाद्विनिन्दितः’ इति रत्नगर्भः॥६॥
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि सर्पसत्रप्रस्तावनायां द्वादशोऽध्यायः॥१२॥
समाप्तं पौलोमपर्व

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in