अनुक्रमणिकापर्व - १पर्वसंग्रहपर्व - २पौष्यपर्व - ३पौलोमपर्व। - ४आस्तिकपर्व - ५अंशावतरणपर्व - ६सम्भवपर्व - ७जतुगृहपर्व । - ८हिडिम्बवधपर्व - ९बकवधपर्व - १०चैत्ररथपर्व । - ११स्वयंवरपर्व - १२वैवाहिकपर्व - १३विदुरागमनराज्यालंभपर्व - १४अर्जुनवनवासपर्व - १५सुभ्रद्राहरणपर्व। - १६हरणाहरणपर्व। - १७खाण्डवदाहपर्व - १८मयदर्शनपर्व - १९

आस्तिकपर्व

त्रयोदशोऽध्यायः

शौनक उवाच। किमर्थं राजशार्दूलः स राजा जनमेजयः ।
सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे॥१॥

त्रयोदशः अध्यायः पौलोमे दारपरिग्रहस्य महाद्रोहहेतुत्वमुक्त्वा संततिमात्रार्थे स आवश्यको न तु भोगार्थमिति दर्शयितुमास्तीकाख्यानमारभते । किमर्थमिति । अन्तमन्तकरत्वम् ॥१॥

निखिलेन यथातत्त्वं सौते सर्वमशेषतः ।
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः॥२॥

जयतां जितेन्द्रियाणम्। यद्वा ‘अराजा सन्विद्यया समन्तं सर्वतः पृथिवीं जयन्परीयाय’ इति ब्राह्मणाद्विद्ययैव जयतामिति व्याख्येयम् । जपतामित्यपि केचित्पठन्ति ॥२॥

मोक्षयामास भुजगान्प्रदीप्ताद्वसुरेतसः ।
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत्॥३॥

वसुरेतसः अग्नेः आहरत् कृतवान् ॥३॥

स च द्विजातिप्रवरः कस्य पुत्रोऽभिधत्स्व मे ।
सौतिरुवाच। महदाख्यानमास्तीकं यथैतत्प्रोच्यते द्विज॥४॥

सर्वमेतदशेषेण शृणु मे वदतां वर ।
शौनक उवाच। श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्॥५॥

आस्तीकस्य पुराणर्षेर्ब्राह्मणस्य यशस्विनः ।
सौतिरुवाच। इतिहासमिमं विप्राः पुराणं परिचक्षते॥६॥

परिचक्षते मादृशा इति शेषः ॥६॥

कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिषु ।
पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः॥७॥

तदेवाह पूर्वमिति ॥७॥

शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान् ।
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्॥८॥

तस्मादित्यनेन स्वस्य संप्रदायवित्त्वं स्फुटीकृतम् ॥८॥

इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते ।
कथयिष्याम्यशेषेण सर्वपापप्रणाशनम्॥९॥

आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः ।
ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा॥१०॥

जरत्कारुरिति ख्यात ऊर्ध्वरेता महातपाः ।
यायावराणां प्रवरो धर्मज्ञः संशितव्रतः॥११॥

ब्रह्मचारी अकृतदारत्वान्नित्यं वेदाध्ययनमात्रपरः ।। १० ।। यायावराणां ग्रामैकरात्रवासिनां गृहस्थानाम् । येभ्योऽयं पक्षहोमसंप्रदायः प्रवृत्तः । तथा च भरद्वाजः । ‘यायावरा नाम ब्राह्मणा आसंस्तेर्धऽमासायाग्निहोत्रमजुहवन्निति’ ॥११॥

स कदाचिन्महाभागस्तपोबलसमन्वितः ।
चचार पृथिवीं सर्वां यत्र सायंगृहो मुनिः॥१२॥

यत्र सायंगृह इत्येकं पदं यत्रैव सायंकालस्तत्रैव गृहमस्येति स तथा ॥१२॥

तीर्थेषु च समाप्लावं कुर्वन्नटति सर्वशः ।
चरन्दीक्षां महातेजा दुश्चराम कृतात्मभिः॥१३॥

दीक्षां व्रतनियमं चरन् ॥१३॥

वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः ।
इतस्ततः परिचरन्दीप्तपावकसप्रभः॥१४॥

वायुभक्षोः जितपवनः । आहरणं आहारो विषयभोगस्तच्छून्यो निराहारः । अनिमिषो जितनिद्रः । इतस्ततो वृक्षादिभ्यः शीर्णं पर्णादिकं परितः काले सर्वदाचरन्नश्नन् ॥१४॥

अटमानः कदाचित्स्वान्स ददर्श पितामहान् ।
लम्बमानान्महागर्ते पादैरूर्ध्वैरवाङ्मुखान्॥१५॥

अटमानः नित्यं पर्यटनकरः । अत्र प्रक्षीणसंतानस्य वंशस्य गतिमनेन रूपकेण प्रदर्शयति । लम्बमानानित्यादिना ॥ १५॥

तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् ।
के भवन्तोऽवलम्बन्ते गर्ते ह्यस्मिन्नधोमुखाः॥१६॥

वीरणस्तम्भके लग्नाः सर्वतः परिभक्षिते ।
मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना॥१७॥

वीरणस्तम्बके तृणस्तम्बे । अत्र गर्तौ भूलोकः ऊर्ध्वपादत्वाऽधोमुखत्वाभ्यां स्वर्गस्थत्वेऽपि पातभयेन व्याकुलत्वमुक्तं वीरणस्तम्बो वंशस्तोमः । मूषकः कालः ॥१७॥

पितर ऊचुः। यायावरा नाम वयमृषयः संशितव्रताः ।
संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम्॥१८॥

अस्माकं संततिस्त्वेको जरत्कारुरिति स्मृतः ।
मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः॥१९॥

न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति ।
तेन लम्बामहे गर्ते संतानस्य क्षयादिह॥२०॥

अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा ।
कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम॥२१॥

ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह नः स्थितः ।
किमर्थं चैव नः शोच्याननुशोचसि सत्तम॥२२॥

नः स्थितः अस्माकं स्वामी वेति शेषः ॥२२॥

जरत्कारुरुवाच। मम पूर्वे भवन्तो वै पितरः सपितामहाः ।
ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्॥२३॥

पितर ऊचुः। यतस्व यत्नवांस्तात संतानाय कुलस्य नः ।
आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव वा विभो॥२४॥

न हि धर्मफलैस्तात न तपोऽभिः सुसंचितैः ।
तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति वै॥२५॥

तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु ।
पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम्॥२६॥

जरत्कारुरुवाच। न दारान्वै करिष्येऽहं न धनं जीवितार्थतः ।
भवतां तु हितार्थाय करिष्ये दारसंग्रहम्॥२७॥

न दारानित्यध्यायतात्पर्यमुक्तम् । भोगाय धनदारासंग्रहो न कार्यः किं तु पुत्रक्रत्वोरेवार्थे इति भावः ॥२७॥

समयेन च कर्ताऽहमनेन विधिपूर्वकम् ।
तथा यद्युपलप्स्यामि करिष्ये नान्यथा ह्यहम्॥२८॥

सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः ।
भैक्ष्यवत्तामहं कन्यामुपयंस्ये विधानतः॥२९॥

सनाम्नीति । प्रायेण वस्तूनां यथार्थनामत्वात् जरत्कारुशब्देन तपसा जीर्यमाणशरीरत्वं विवक्षितम् । तादृशोऽहं सदृशीमेव भार्यां स्वीकरिष्यामि । ‘बन्धुर्मिर्दित्सितामिति ऋत्विजे वितते कर्मणि दद्यादलंकृत्य स दैवो गोमिथुनं दत्वोपयच्छेत स आर्षः’ इत्यार्त्विज्य गोमिथुनपूर्वयोर्दैवार्षयोर्विवाहयोर्व्यावृत्तिर्दर्शिता । भैक्ष्यवदिति तस्या ब्राह्मप्राजापत्यविधिना अलंकृताया अनलंकृताया वा लाभेऽपि अन्नवस्त्रादिना भरणे मम धनादिकं नास्तीति च दर्शितम्। उपर्यस्ये परिणेष्ये॥२९॥

दरिद्राय हि मे भार्यां को दास्यति विशेषतः ।
प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति॥३०॥

एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः ।
अनेन विधिना शश्वन्न करिष्येऽहमन्यथा॥३१॥

तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै ।
शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम॥३२॥

॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि जगत्करुतत्पितृसंवादे त्रयोदशोऽध्यायः॥१३॥
चतुर्दशोऽध्यायः

सौतिरुवाच। ततो निवेशाय तदा स विप्रः संशितव्रतः ।
महीं चचार दारार्थी न च दारानविन्दत॥१॥

चतुर्दशः अध्यायः तत इति निवेशाय दारसङ्ग्रहाय पाठान्तरे यतिर्ब्रह्मचारी ॥१॥

स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् ।
चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव॥२॥

तिस्रो वाचः कन्याभिक्षां देहीत्येवंरूपाः ॥२॥

तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा ।
न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्॥३॥

सनाम्नीं चोद्यतां भार्यां गृह्णीयामिति तस्य हि ।
मनो निविष्टमभवज्जरत्कारोर्महात्मनः॥४॥

तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः ।
किं नाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम॥५॥

वासुकिरुवाच। जरत्कारो जरत्कारुः स्वसेयमनुजा मम ।
प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम् ।
त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम॥६॥

प्रतीच्छ प्रतिगृह्णीष्व ॥६॥

एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम् ।
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा॥७॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि वासुकिस्वसृवरणे चतुर्दशोऽध्यायः॥१४॥
पञ्चदशोऽध्यायः

सौतिरुवाच। मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर ।
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः॥१॥

पञ्चदशः अध्यायः एवमास्तीकोत्पत्तिप्रकारमुक्त्वा सर्पसत्रनिमित्तं सर्पाणां मातृशापमुपक्षिपति । मात्रा हीत्यादिना । अनिलसारथिर्वह्निः । धक्ष्यति दाहं करिष्यति ॥१॥

तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः ।
स्वसारमृषये तस्मै सुव्रताय महात्मने॥२॥

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ।
आस्तीको नामपुत्रश्च तस्यां जज्ञे महामनाः॥३॥

जज्ञे जातः ॥३॥

तपस्वी च महात्मा च वेदवेदाङ्गपारगः ।
समः सर्वस्य लोकस्य पितृमातृभयापहः॥४॥

पितृमातृपक्षीयाणां भयापहः पितृमातृभयापह इति मध्यमपदलोपः ॥४॥

अथ दीर्घस्य कालस्य पाण्डवेयो नराधिपः ।
आजहार महायज्ञं सर्पसत्रमिति श्रुतिः॥५॥

आजहार चक्रे ॥५॥

तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै ।
मोचयामास तान्नागानास्तीकः सुमहातपाः॥६॥

भ्रातॄंश्च मातुलांश्चैव तथैवान्यान्स पन्नगान् ।
पितॄंश्च तारयामास संतत्या तपसा तथा॥७॥

भ्रातॄन्मातुलपुत्रान् ॥७॥

व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् ।
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः॥८॥

ऋषींश्च ब्रह्मचर्येण सन्तत्या च पितामहान् ।
अपहृत्य गुरुं भारं पितॄणां संशितव्रतः॥९॥

जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ।
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः॥१०॥

जरत्कारुः सुमहता कालेन स्वर्गमेयिवान् ।
एतदाख्यानमास्तीकं यथावत्कथितं मया ।
प्रब्रूहि भृगुशार्दूल किमन्यत्कथयामि ते॥११॥

॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सर्पाणां मातृशापप्रस्तावे पञ्चदशोऽध्यायः॥१५॥
षोडशोऽध्यायः

शौनक उवाच। सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः ।
आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः॥१॥

षोडशः अध्यायः सौते इति शुश्रूषा श्रोतुभिच्छा ॥१॥

मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया ।
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे॥२॥

अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव ।
आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद॥३॥

अस्मच्छुश्रूषणे अस्माकं श्रावणे । आचष्टे साकल्येन व्यक्तं कथितवान् ॥३॥

सौतिरुवाच। आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते ।
यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया॥४॥

कथयतः पितुः सकाशात् ॥४॥

पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे ।
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ॥५॥

देवयुगे सत्ययुगे रूपेण प्रकाशेन अद्भुते इति सम्बन्धः ‘रूपं स्वभावे सौन्दर्ये आलोके’पशुवृन्दयोः’ इति मेदिनी । अद्भुत इत्यादेः पूर्वरूपमार्षम् ॥५॥

ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह ।
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः॥६॥

कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ।
वरातिसर्गं श्रुत्वैवं कश्यपादुत्तमं च ते॥७॥

वरातिसर्गं वरदानम् ॥७॥

हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ ।
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः॥८॥

द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ।
तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ॥९॥

तेजसा दीप्त्या विक्रमेण पराभिभवसामर्थ्येन । ओजसा तेजसेति पाठे ओजसा इन्द्रियबलेन ॥९॥

तस्यै भर्ता वरं प्रादादत्यर्थं पुत्रमीप्सितम् ।
एवमस्त्विति तं चाह कश्यपं विनता तदा॥१०॥

पुत्रं पुनातीति तं पवित्रं वरं दिव्यपुत्रद्वयलाभरूपम् ॥१०॥

यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाऽभवत्तदा ।
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ॥११॥

कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम् ।
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः॥१२॥

ते भार्ये वरसंतुष्टे कश्यपो वनमाविशत् ।
सौतुरिवाच। कालेन महता कद्रूरण्डानां दशतीर्दश॥१३॥

यथा दशावृत्ता नवनवतिः तथा दशावृत्ता दशदशतिः शतमित्यर्थः । दशदशतीः दशशतानीत्यर्थः॥१३॥

जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा ।
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः॥१४॥

सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च ।
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः॥१५॥

सोपस्वेदेषु उष्मवत्सु । तत्र ह्यण्डान्तर्जलमूष्मणा शीघ्रं घनीभवतीति । पञ्चशते पञ्चशत्याः पूरणे काले संवत्सरे पूर्णे सतीतिशेषः ॥१५॥

अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ।
ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी॥१६॥

मिथुनं निःसृतं सत् । न व्यदृश्यत न दृष्टं स्वरूपेणेऽतिशेषः । व्रीडिता सपत्न्याः पुत्रसमृद्ध्या लज्जिता ॥१६॥

अण्डं बिभेद विनता तत्र पुत्रमपश्यत ।
अध्यर्धकायसंपन्नमितरेणाप्रकाशता॥१७॥

अपश्यत अपश्यत् । अध्यर्धेति चरणादारभ्य अर्धादुपरितनेन देहेन कृत्स्नोऽन्येनाकृत्स्न इत्यर्थः । पूर्वार्धेति पाठः सुगमः ॥१७॥

स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः ।
योऽहमेवं कृतो मातस्त्वया लोभपरीतया॥१८॥

क्रोधसम्रब्धः क्रोधेन द्वेषेण सम्रब्धः अभिनिविष्टः ॥१८॥

शरीरेणासमग्रेण तस्माद्दासी भविष्यसि ।
पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह॥१९॥

एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति ।
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्॥२०॥

न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम् ।
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया॥२१॥

अनङ्गं मामिव वाव्यङ्गमदृढावयवम् । प्रतीपालयितव्यः प्रतीक्षणीयः॥२१॥

विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः ।
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः॥२२॥

अरुणोऽदृश्यत ब्रह्मन्प्रभातसमये तदा ।
आदित्यरथमध्यास्ते सारथ्यं समकल्पयत्॥२३॥

गरुडोऽपि यथा कालं जज्ञे पन्नगभोजनः ।
स जातमात्रो विनतां परित्यज्य खमाविशत्॥२४॥

आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् ।
विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः॥२५॥

भर्तृशुश्रूषयैव नारीणां मनोरथसिद्धिः ईर्ष्यया च सिद्धमपि सुखं हीयत इत्यध्यायतात्पर्यम् । विधात्रा विहितमिति योजना ॥२५॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सर्पादीनामुत्पत्तौ षोडशोऽध्यायः॥१६॥
सप्तदशोऽध्यायः

सौतिरुवाच। एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन ।
अपश्यतां समायाते उच्चैःश्रवसमन्तिकात्॥१॥

सप्तदशः अध्यायः एतस्मिन्निति समायाते एकीभूते ॥१॥

यं तु देवगणाः सर्वे हृष्टरूपमपूजयन् ।
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम्॥२॥

अमोघबलमश्वानामुत्तमं जविनां वरम् ।
श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम्॥३॥

शौनक उवाच। कथं तदमृतं देवैर्मथितं क्व च शंस मे ।
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः॥४॥

सौतिरुवाच। ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् ।
आक्षिपन्तं प्रभां भानोःस्वशृङ्गैःकाञ्चनोज्ज्वलैः॥५॥

ज्वलन्तं मेरुं समागम्य दिवौकसः अमृताय मन्त्रयितुमारब्धा इति षष्ठेनान्वयः । किं कृत्वा तस्य मेरोः शृङ्गमुपारुह्येति सम्बन्धः ॥५॥

कनकाभरणं चित्रं देवगन्धर्वसेवितम् ।
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः॥६॥

अप्रमेयम् अतिमनोहरत्वात् मनसा वाचा वाकलयितुमशक्यम् ॥६॥

व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम् ।
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्॥७॥

आवारितम् आचीर्णम् ॥७॥

अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् ।
नानापतगसङ्घैश्च नादितं सुमनोहरैः॥८॥

अगम्यं अप्राप्यम् अन्यैः प्राकृतैः ॥८॥

तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम् ।
अनन्तकल्पमद्वद्धं सुराः सर्वे महौजसः॥९॥

अनन्तकल्पम् अनन्तो विष्णुराकाशो वा तत ईषन्न्यूनम् । बहुगुणाढ्यत्वादतिप्रमाणत्वाच्च । ईषदसमाप्तौ कल्पप् । उद्विद्धमुच्चम् ॥९॥

ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः ।
अमृताय समागम्य तपोनियमसंयुताः॥१०॥

तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् ।
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः॥११॥

देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः ।
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ॥१२॥

कलश इव कलशो मन्थनाधारत्वात् । उदधिः समुद्रः कलशोदधिः क्षीरसमुद्र इति केचित् । कलाः पाषाणमयाः पर्वता मैनाकादयः शेरतेऽस्मिन्निति कलशः । समुद्रः स च उदधिः । उदकानि धीयन्तेऽस्मिन्निति योगात् जलसमुद्र इत्यर्थः । विशेषणं विशेष्येण बहुलमिति समासः । कलशब्दो दृषदि रूढो लाटेषु । क्षोभ्यतां कलशः सर्वैरिति वाक्यशेषात् । आर्यप्रसिद्ध्यभावे म्लेच्छप्रसिद्ध्याप्यर्थनिर्णयाभ्युपगमात् ॥१२॥

सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह ।
मन्थध्वयुदधिं देवा वेत्स्यध्वममृतं ततः॥१३॥

वेत्स्यध्वं लप्स्यध्वम् ॥१३॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थने सप्तदशोऽध्यायः॥१७॥
अष्टादशोऽध्यायः

सौतिरुवाच। ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम् ।
मन्दरं पर्वतवरं लताजालसमाकुलम्॥१॥

अष्टादशः अध्यायः तत इति ॥१॥

नानाविहगसंघुष्टं नानादंष्ट्रिसमाकुलम् ।
किन्नरैरप्सरोभिश्च देवैरपि च सेवितम्॥२॥

एकादश सहस्राणि योजनानां समुच्छ्रितम् ।
अधोभूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम्॥३॥

तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा ।
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन्॥४॥

भवन्तावत्र कुर्वीतां बुद्धिं नैःश्रेयसीं पराम् ।
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः॥५॥

सौतिरुवाच। तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव ।
अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः॥६॥

ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ।
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान्॥७॥

अनन्तः शेषः ॥७॥

अथ पर्वतराजानं तमनन्तो महाबलः ।
उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम्॥८॥

पर्वतराजानम् अनित्यत्वात्समासान्तष्टच् न । सवनं सूतेनेनेति अमृतप्रसवसाधनं वनैः सहितं वा ॥८॥

ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे ।
तमूचुरमृतस्यार्थे निर्मथिष्यामहे जलम्॥९॥

तेन पर्वतभृतानन्तेन तं समुद्रमूचुः जलं तवेतिशेषः ॥९॥

अपां पतिरथोवाच ममाप्यंशो भवेत्ततः ।
सोढाऽस्मि विपुलं मर्दं मन्दरभ्रमणादिति॥१०॥

ऊचुश्च कूर्मराजानमकूपारे सुरासुराः ।
अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति॥११॥

अकूपारे समुद्रसमीपे । द्वितीयान्तपाठे उपेत्येत्यध्याहारः । अधिष्ठानं गौरवात्तलं जिगमिषतो मन्दरस्याधारः ॥११॥

कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् ।
तं शैलं तस्य पृष्ठस्थं यन्त्रेणेन्द्रो न्यपीडयत्॥१२॥

मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् ।
देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्॥१३॥

मन्थानं मन्थनदण्डं नेत्रं मन्थनरज्जुम् ॥१३॥

अमृतार्थे पुरा ब्रह्मस्तथैवासुरदानवाः ।
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः॥१४॥

एकमन्तम् एकं प्रदेशं मुखभागं उपाश्लिष्टाः दृढं धृतवन्तः ॥१४॥

विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ।
अनन्तो भगवान्देवो यतो नारायणस्ततः ।
शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपन्॥१५॥

अनन्त इति शेषो विष्णुपक्षीयः । वासुकेः शिर उत्क्षिप्योत्क्षिप्य भूमावाक्षिपंस्तन्मुखनिःसृतं विषं स्वयं सोढवानिति भावः ॥१५॥

वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः ।
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्॥१६॥

वासुकिमुखोत्थं वाय्वादिदेवोपकारायाभूदित्याह । वासुकेरिति द्वाभ्याम् । आक्षिप्यतः आक्षिप्यमाणस्य एतेन मेघस्य धूमज्योतिर्वातवारिमयत्वमुक्तम् ॥१६॥

ते धूमसंघाः सम्भूता मेघसंघाः सविद्युतः ।
अभ्यवर्षन्सुरगणान् श्रमसंतापकर्शितान्॥१७॥

तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः ।
सुरासुरगणान्सर्वान्समन्तात्समवाकिरन्॥१८॥

बभूवात्र महानादो महामेघरवोपमः ।
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः॥१९॥

तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा ।
विलयं समुपाजग्मुः शतशो लवणाम्भसि॥२०॥

जलचराः मत्स्यादयः । अस्मदादिवत्पार्थिवांप्रधानशरीराः ॥२०॥

वारुणानि च भूतानि विविधानि महीधरः ।
पातालतलवासीनि विलयं समुपानयत्॥२१॥

वारुणानि वरुणलोकस्थानि आप्यांशप्रधानदेहानि ॥२१॥

तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम् ।
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः॥२२॥

पर्वताग्रात्पतमानानां द्रुमाणां सङ्घर्षाज्जातोऽग्निः पर्वतं व्याप्नुवंस्तत्रस्थान् पश्वादीन्ददाहेत्याह । त्रिभिस्तस्मिन्नित्यादिभिः ॥२२॥

तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः ।
विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम्॥२३॥

ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान् ।
विगतासूनि सर्वाणि सत्त्वानि विविधानि च॥२४॥

तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः ।
वारिणा मेघजेनेन्द्रः शमयामास सर्वशः॥२५॥

ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि ।
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः॥२६॥

तेषाममृतवीर्याणां रसानां पयसैव च ।
अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात्॥२७॥

तेषां द्रुमौषधीनां येऽमृतवीर्या रसास्तज्जेन पयसा क्षीरेण काञ्चनस्य स्वर्णमयस्य पर्वतस्य निस्रवात् दिव्यप्रभावानेकमणिभ्यो निःसृतात् जलाच्च सुरा अमृतत्वं जग्मुः ॥२७॥

ततस्तस्य समुद्रस्य तज्जातमुदकं पयः ।
रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्धृतम्॥२८॥

ततः पयो निःस्रवं प्राप्य समुद्रस्य तत्क्षारम् उदकम् । लवणाम्भसीत्युपक्रमात् । पयः क्षीरं जातम् । यथा क्षारमक्षारं वा जलं गवि तृणादि रसं प्राप्य क्षिरं भवति तद्वदित्यर्थः । पयोऽपिरसोत्तमैर्विमिश्रमस्ति । ततो हेतोः क्षीरादभूद्धृतम् ॥२८॥

ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् ।
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत्॥२९॥

ऋते नारायणं देवं सर्वेऽन्ये देवदानवाः ।
चिरारब्धमिदं चापि सागरस्यापि मन्थनम्॥३०॥

ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् ।
विधत्स्वैषां बलं विष्णो भवानत्र परायणम्॥३१॥

विष्णुरुवाच। बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः ।
क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम्॥३२॥

सूत उवाच। नारायणवचः श्रुत्वा बलिनस्ते महोदधेः ।
तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम्॥३३॥

ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात् ।
प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः॥३४॥

शतसहस्रं लक्षम् अनन्ता अंशवः आप्यायनीयौषधिभेदात् रश्मयो यस्य स शतसहस्रांशुः । शतसहस्रान्त इति पाठे अन्तशब्दोगम्यप्रदेशपरः ॥३४॥

श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी ।
सुरादेवी समुत्पन्ना तुरगः पाण्डुरस्तथा॥३५॥

घृतेन द्यावापृथिवीव्यंधीति । पार्जन्ये दर्शनान्नैघण्टुकप्रसिद्धेश्च घृतं जलं तस्मात् श्रीरुत्पन्ना द्रुमौषधिरसाज्जलस्य क्षीरत्वं ततो घृतमिति क्रमे सारत्वमात्रं विवक्षितम् ॥३५॥

कौस्तुभस्तु मणिर्दिव्य उत्पन्नो घृतसंभवः ।
मरीचिविकचः श्रीमान्नारायण उरोगतः॥३६॥

मरीचिविकचः रश्मिभिरुज्ज्वलः नारायणउरोगत इत्यसन्धिरार्षः ॥३६॥

श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः ।
यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः॥३७॥

धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत ।
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति॥३८॥

एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः ।
अमृतार्थे महान्नादो ममेदमिति जल्पताम्॥३९॥

श्वेतैर्दन्तैश्चतुर्भिस्तु महाकायस्ततः परम् ।
ऐरावणो महानागोऽभवद्वज्रभृता धृतः॥४०॥

ऐरावण ऐरावतः महानागो महाहस्ती ॥४०॥

अतुनिर्मथनादेव कालकूटस्ततः परः ।
जगदावृत्य सहसा सधूमोऽग्निरिव ज्वलन्॥४१॥

त्रैलोक्यं मोहितं यस्य गन्धमाव्रय तद्विषम् ।
प्राग्रसल्लोकरक्षार्थं ब्रह्मणो वचनाच्छिवः॥४२॥

दधार भगवन्कण्ठे मन्त्रमूर्तिर्महेश्वरः ।
तदा प्रभृति देवस्तु नीलकण्ठ इति श्रुतिः॥४३॥

एतत्तदद्भुतं दृष्ट्वा निराशा दानवाः स्थिताः ।
अमृतार्थे च लक्ष्म्यर्थे महन्तं वैरमाश्रिताः॥४४॥

निराशाः विषमप्येतैर्गृहीतम् अस्माभिस्तु तद्ब्रहणासमर्थैः कथममृतं लब्धुं शक्यमिति भावः । महान् अन्तः संहारो येन तन्महान्तम् ॥४४॥

ततो नारायणो मायां मोहिनीं समुपाश्रितः ।
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः॥४५॥

अभिसंश्रितः सम्मुखः मोहनार्थमित्यर्थः ॥४५॥

ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः ।
स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः॥४६॥

‘अमृतादपि विभ्रंशः सङ्गमात्रेण योषिताम् । दधता मोहिनीरूपं हरिणैवं प्रकाशितम्’ इति रत्नगर्भः ॥४६॥
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थने अष्टादशोऽध्यायः॥१८॥
नवदशोऽध्यायः

सौतिरुवाच। अथावरणमुख्यानि नानाप्रहरणानि च ।
प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः॥१॥

नवदशः अध्यायः अथेति । आवरणमुख्यानि कवचाग्र्याणि । प्रहरणानि आयुधानि ॥१॥

ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् ।
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः॥२॥

ततो देवगणाः सर्वे पपुस्तदमृतं तदा ।
विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति॥३॥

सम्भ्रमे उभयेषाममृतादरे सति ॥३॥

ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् ।
राहुर्विबुधरूपेण दानवः प्रापिबत्तदा॥४॥

तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा ।
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया॥५॥

ततो भगवता तस्य शिरश्छिन्नमलंकृतम् ।
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा॥६॥

तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत् ।
चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम्॥७॥

तत्कबन्धं पपातास्य विस्फुरद्धरणीतले ।
सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम्॥८॥

ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै ।
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ॥९॥

विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः ।
नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत्॥१०॥

ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः ।
सुराणामसुराणां च सर्वघोरतरो महान्॥११॥

प्रासाश्च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः ।
तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च॥१२॥

प्रासाः हस्तक्षेप्याः क्षुद्रभल्लाः विन्ध्ये करकाडीति प्रसिद्धाः। तोमराः दीर्घदण्डास्त एवा क्षेप्याः । लाटेष्विटा इति प्रसिद्धाः । विविधानि शस्त्राणि यमदंष्ट्रादीनि लोकप्रसिद्धानि ’जमधड’ इत्यादीनि ॥१२॥

ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु ।
असिशक्तिगदारुग्णा निपेतुर्धरणीतले॥१३॥

असि: खङ्गः शक्तिर्हस्तक्षेप्यो लोहदण्डः पृथुबुध्नो गदासरलः स एव ॥१३॥

छिन्नानि पट्टिशैश्चैव शिरांसि युधि दारुणैः ।
तप्तकाञ्चनमालीनि निपेतुरनिशं तदा॥१४॥

पट्टिश: खड्गविशेष उभयतो धारस्तीक्ष्णाग्रः ‘पट्टा’ इति प्रसिद्धः ॥१४॥

रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः ।
अद्रीणामिव कूटानि धातुरक्तानि शेरते॥१५॥

हाहाकारः समभवत्तत्र तत्र सहस्रशः ।
अन्योऽन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति॥१६॥

परिघैरायसैस्तीक्ष्णैः सन्निकर्षे च मुष्टिभिः ।
निघ्नतां समरेऽन्योऽन्यं शब्दो दिवमिवास्पृशत्॥१७॥

परिधः परितो हन्तीति तथा । सर्वतः कण्टकितो लोहदण्डः । एवमग्रेऽपिलोकप्रसिद्ध्यनुसारेण योगबलेन चायुधवाचिनां शब्दानामर्थो बोध्यः ॥१७॥

छिन्द्धि भिन्द्धि प्रधाव त्वं पातयाभिसरेति च ।
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः॥१८॥

एवं सुतुमुले युद्धे वर्तमाने महाभये ।
नरनारायणौ देवौ समाजग्मतुराहवम्॥१९॥

तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि ।
चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम्॥२०॥

ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम् ।
विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं संयति भीमदर्शनम्॥२१॥

संयति युद्धे ॥२१॥

तदागतं ज्वलितहुताशनप्रभं भयंकरं करिकरबाहुरच्युतः ।
मुमोच वै प्रबलवदुग्रवेगवान् महाप्रभं परनगरावदारणम्॥२२॥

तदन्तकज्वलनसमानवर्चसं पुनःपुनर्न्यपतत वेगवत्तदा ।
विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे॥२३॥

दहत्क्वचिज्ज्वलन इवावलेलिहत् प्रसह्य तानसुरगणान्न्यकृन्तत ।
प्रवेरितं वियति मुहुः क्षितौ तथा पपौ रणे रुधिरमथो पिशाचवत्॥२४॥

तथाऽसुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सुरगणमार्दयंस्तदा ।
महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्य ह॥२५॥

प्रवेरितं प्रेरितम् । अवोपसर्गस्य भागुरिमतेनाकारलोपः । विगलिता रिक्ता मेघास्तत्तुल्यदीप्तयः श्वेतभास्वरा इत्यर्थः ॥२५॥

अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः ।
महाद्रयः परिगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः॥२६॥

ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः ।
परस्परं भृशमभिगर्जतां मुहू रणाजिरे भृशमभिसंप्रवर्तिते॥२७॥

नरस्ततो वरकनकाग्रभूषणैः महेषुभिर्गगनपथं समावृणोत् ।
विदारयन्गिरिशिखराणि पत्रिभिः महाभयेऽसुरगणविग्रहे तदा॥२८॥

गणब्दिता रुद्रानुचरोपलक्षिता देवाः । असुराश्च गणाश्च तेषां विग्रहे ‘गणः प्रमथसङ्ख्यौघे’ इति मेदिनी ॥२८॥

ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः ।
वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशाम्य ते॥२९॥

निशम्य विज्ञायते असुराः ॥२९॥

ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः ।
विनाद्य खं दिवमपि चैव सर्वशः ततो गताः सलिलधरा यथागतम्॥३०॥

सलिलधराः अमृतमृतो देवाः ॥३०॥

ततोऽमृतं सुनिहितमेव चक्रिरे सुराः पुरां मुदमभिगम्य पुष्कलाम् ।
ददो च तं निधिममृतस्य रक्षितुं किरीटिने बलभिदथामरैः सह॥३१॥

किरीटिने नराय ‘तुल्यायासेप्यविबुधानाब्धिजं विमुखा हरेः । देवास्तु वशगा विष्णोः प्रापुरेतदिहोच्यते’ इति रत्नगर्भः ॥३१॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थनसमाप्तिर्नाम एकोनविंशोऽध्यायः॥१९॥
विंशोऽध्यायः

सौतिरुवाच। एतत्ते कथितं सर्वममृतं मथितं यथा ।
यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः॥१॥

विंशः अध्यायः एतदिति ॥१॥

तं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् ।
उच्चैःश्रवा हि किंवर्णो भद्रे प्रब्रूहि मा चिरम्॥२॥

विनतोवाच। श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे ।
ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे॥३॥

विपणावहे पणं कुर्वहे ॥३॥

कद्रूरुवाच। कृष्णबालमहं मन्ये हयमेनं शुचिस्मिते ।
एहि सार्धं मया दीव्य दासीभावाय भामिनि॥४॥

दीव्य विजिगीषस्व दासभावाय मां वा दासीकर्तुं त्वं वा दासी भवितुं ब्रूहीत्यर्थः ॥४॥

सौतिरुवाच। एवं ते समयं कृत्वा दासीभावाय वै मिथः ।
जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह॥५॥

ततः पुत्रसहस्रं तु कद्रूर्जिह्यं चिकीर्षती ।
आज्ञापयामास तदा वाला भूत्वाऽञ्जनप्रभाः॥६॥

जिह्मं कौटिल्यम् ॥६॥

आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा ।
नावपद्यन्त ये वाक्यं ताञ्शशाप भुजंगमान्॥७॥

नावपद्यन्त नानुमोदितवन्तः ॥७॥

सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति ।
जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः॥८॥

शापमेनं तु शुश्राव स्वयमेव पितामहः ।
अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि॥९॥

सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत ।
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया॥१०॥

तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः ।
तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च॥११॥

दन्दशूकाः भृशं दंशनशीलाः ॥११॥

युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम् ।
अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये॥१२॥

तेषां प्राणान्तिको दण्डो दैवेन विनिपात्यते ।
एवं संभाष्य देवस्तु पूज्य कद्रूं च तां तदा॥१३॥

आहूय कश्यपं देव इदं वचनमब्रवीत् ।
यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ॥१४॥

विषोल्बणा महाभोगा मात्रा शप्ताः परंतप ।
तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन॥१५॥

महाभोगाः महाशरीराः ॥१५॥

दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम् ।
इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम् ।
प्रादाद्विषहरीं विद्यां कश्यपाय महात्मने॥१६॥

विषहरीं विषघ्नीं विषहरामिति पाठः ॥१६॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकर्पणि सौपर्णे विंशोऽध्यायः॥२०॥
एकविंशतितमोऽध्यायः

सौतिरुवाच। ततो रजन्यां व्युष्टायां प्रभातेऽभ्युदिते रवौ ।
कद्रूश्च विनता चैव भगिन्यौ ते तपोधन॥१॥

एकविंशतितमः अध्यायः तत इति । व्युष्टायां व्यतीतायाम् ॥१॥

अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा ।
जग्मतुस्तुरगं द्रष्टुमुच्चैःश्रवसमन्तिकात्॥२॥

दास्येति विषये ॥२॥

ददृशातेऽथ ते तत्र समुद्रं निधिमम्भसाम् ।
महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम्॥३॥

उदकेन अगाधं तलस्पर्शशून्यं क्षोभ्यमाणं मकरादिभिः ॥३॥

तिमिंगिलझषाकीर्णं मकरैरावृतं तथा ।
सत्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्॥४॥

भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा ।
उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम्॥५॥

आकरं सर्वरत्नानामालयं वरुणस्य च ।
नागानामालयं रम्यमुत्तमं सरितां पतिम्॥६॥

पातालज्वलनावासमसुराणां च बान्धवम् ।
भयंकरं च सत्त्वानां पयसां निधिमर्णवम्॥७॥

पातालज्वलनो वाडवाग्निस्तस्यावासम् । बान्धवं शरणम् । बन्धनमिति पाठे कारागारम् ॥७॥

शुभं दिव्यममर्त्यानाममृतस्याकरं परम् ।
अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम्॥८॥

घोरं जलचरारावरौद्रं भैरवनिःस्वनम् ।
गम्भीरावर्तकलिलं सर्वभूतभयंकरम्॥९॥

वेलादोलानिलचलं क्षोभोद्द्वेगसमुच्छ्रितम् ।
वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः॥१०॥

वेलायाः दोल आन्दोलनं तज्जेनानिलेन चलम् ॥१०॥

चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिसमाकुलम् ।
पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम्॥११॥

गां विन्दता भगवता गोविन्देनामितौजसा ।
वराहरूपिणा चान्तर्विक्षोभितजलाविलम्॥१२॥

गां पृथ्वीं विन्दता लम्भमानेन हेतौ शतृप्रत्ययः । तेन हेतुना विक्षोभितेन जलेनाविलं ब्याप्तम् ॥१२॥

ब्रह्मर्षिणा व्रतवता वर्षाणां शतमत्रिणा ।
अनासादितगाधं च पातालतलमव्ययम्॥१३॥

अत्रिणा तलान्वेषिणिति शेषः । गाधं तलम् । पातालस्यापि तलम् अधःस्थम् । अव्ययं पातालादि व्ययेऽप्यविनाशम् ॥१३॥

अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः ।
युगादिकालशयनं विष्णोरमिततेजसः॥१४॥

सेवतः सेवमानस्य युगादिकालशयनम् । युगं कृतादिकं तस्य आदिभूतो युगादिकालस्तस्मिन् । शयनं तल्पभूतम् ॥१४॥

वज्रपातनसंत्रस्तमैनाकस्याभयप्रदम् ।
डिम्बाहवार्दितानां च असुराणां परायणम्॥१५॥

डिम्बाहवे डिम्बो भयवतामाक्रन्दस्तद्वति आहवे ’डिम्बोभयध्वनाखण्डे’ इति मेदिनी । तिग्माहव इति पाठः स्पष्टार्थः ॥१५॥

बडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शिवम् ।
अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम्॥१६॥

वडवा अश्वा तस्या मुखात् उत्पन्नो दीप्तो योऽग्निस्तस्मै तोयहव्यप्रदं गाधः पारश्च नास्ति यस्य सोऽगाधपारस्तम् अत एव विस्तीर्णं विशेषेण स्तीर्णं समन्तत आस्तीर्णम् ॥१६॥

महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः ।
अभिसार्यमाणमनिशं ददृशाते महार्णवम् ।
आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः॥१७॥

अभिसार्यमाणम् अभितो गम्यमानम् ॥१७॥

गम्भीरं तिमिमकरोग्रसंकुलं तं गर्जन्तं जलचररावरौद्रनादैः ।
विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम्॥१८॥

ते कद्रूविनते अगाधं पूर्वरूपमार्षम् ॥१८॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे एकविंशतितमोऽध्यायः ॥२१॥
द्वाविंशोध्यायः

सौतिरुवाच। नागाश्च संविदं कृत्वा कर्तव्यमिति तद्वचः ।
निःस्नेहा वै दहेन्माता असंप्राप्तमनोरथा॥१॥

प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी ।
कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः॥२॥

द्वाविंशोऽध्यायः नागाश्च संविदं कृत्वेति द्वादशश्लोकमध्यायं केचिन्न पठन्ति । कांश्चिदत्रत्यान् श्लोकान्पूर्वत्रैव च पठन्ति । अन्ये तु पञ्चषान्पठन्त्यपीत्यत्र कोशशुद्धिं न प्रतीमः । संविदं मिथ आलोचनम् ॥२॥

तथा हि गत्वा ते तस्य पृच्छे बाला इति स्मृताः ।
एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा॥३॥

पणिते पणं कृतवत्यौ ॥३॥

ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम ।
जग्मतुः परया प्रीत्या परं पारं महोदधेः॥४॥

कद्रूश्च विनता चैव दाक्षायण्यौ विहायसा ।
आलोकयन्त्यावक्षोभ्यं समुद्रं निधिमम्भसाम्॥५॥

उक्तानुक्तविशेषणैः पुनः स्तौति समुद्रम् अक्षोभ्यमित्यादिना ॥५॥

वायुनाऽतीव सहसा क्षोभ्यमाणं महास्वनम् ।
तिमिंगिलसमाकीर्णं मकरैरावृतं तथा॥६॥

संयुतं बहुसाहस्रैः सत्वैर्नानाविधैरपि ।
घोरैर्घोरमनाधृष्यं गम्भीरमतिभैरवम्॥७॥

आकरं सर्वरत्नानामालयं वरुणस्य च ।
नागानामालयं चापि सुरम्यं सरितां पतिम्॥८॥

पातालज्वलनावासमसुराणां तथालयम् ।
भयंकराणां सत्त्वानां पयसो निधिमव्ययम्॥९॥

शुभ्रं दिव्यममर्त्यानाममृतस्याकरं परम् ।
अप्रमेयमचिन्त्यं च सुपुम्यजलसंमितम्॥१०॥

महानदीभिर्बह्वीभिस्तत्र तत्र सहस्रशः ।
आपूर्यमाणमत्यर्थं नृत्यन्तमिव चोर्मिभिः॥११॥

इत्येवं तरलतरोर्मिसंकुलं ते गम्भीरं विकसितमम्बरप्रकाशम् ।
पातालज्वलनशिखाविदीपिताङ्गं गर्जन्तं द्रुतमभिजग्मतुस्ततस्ते॥१२॥

॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे समुद्रदर्शनं द्वाविंशोऽध्यायः॥२२॥
त्रयोविंशोऽध्यायः

सौतिरुवाच। तं समुद्रमतिक्रम्य कद्रूर्विनतया सह ।
न्यपतत्तुरगाभ्याशे न चिरादिव शीघ्रगा॥१॥

त्रयोविंशः अध्यायः तमिति ॥१॥

ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम् ।
शशाङ्ककिरणप्रख्यं कालवालमुभे तदा॥२॥

शशाङ्ककिरणवत् प्रख्यादीप्तिर्यस्य तं तादृशमपि कालवालं कृष्णकेशम् ॥२॥

निशाम्य च बहून्वालान्कृष्णान्पुच्छसमाश्रितान् ।
विषण्णरूपां विनतां कद्रूर्दास्ये न्ययोजयत्॥३॥

निशम्य दृष्ट्वा ॥३॥

ततः सा विनता तस्मिन्पणितेन पराजिता ।
अभवद्दुःखसंतप्ता दासीभावं समास्थिता॥४॥

एतस्मिन्नन्तरे चापि गरुडः काल आगते ।
विना मात्रा महातेजा विदार्याण्डमजायत॥५॥

महासत्त्वबलोपेतः सर्वा विद्योतयन्दिशः ।
कामरूपः कामगमः कामवीर्यो विहंगमः॥६॥

कामरूपः इच्छाकृतमेत्र रूपं यस्य स तथा ॥६॥

अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः ।
विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः॥७॥

उद्भासन् उत्कर्षेण भासमानः ॥७॥

प्रवृद्धः सहसा पक्षी महाकायो नभोगतः ।
घोरो घोरस्वनो रौद्रो वह्निरौर्व इवापरः॥८॥

और्वः वाडवः ॥८॥

तं दृष्ट्वा शरणं जग्मुर्देवाः सर्वे विभावसुम् ।
प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम्॥९॥

विभावसुं वह्निम् ॥९॥

अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि ।
असौ हि राशिः सुमहान्समिद्धस्तव सर्पति॥१०॥

अग्ने मा त्वमिति देवानां भ्रमवर्णनमग्निगरुडयोरतिसादृश्यकथनार्थम् ॥१०॥

अग्निरुवाच। नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः ।
गरुडो बलवानेष मम तुल्यश्च तेजसा॥११॥

जातः परमतेजस्वी विनतानन्दवर्धनः ।
तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत्॥१२॥

नागक्षयकरश्चैव काश्यपेयो महाबलः ।
देवानां च हिते युक्तस्त्वहितो दैत्यरक्षसाम्॥१३॥

न भीः कार्या कथं चात्र पश्यध्वं सहिता मया ।
एवमुक्तास्तदा गत्वा गरुडं वाग्भिरस्तुवन्॥१४॥

ते दूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा ।
देवा ऊचुः। त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः॥१५॥

अत्रापि पूर्ववत् सुपर्णोपाधिकं ब्रह्मैव स्तूयते । न हि विष्णुवाहने पक्षिमात्रे प्रकृतानि सर्वाणि विशेषणानि अञ्जसा सङ्गच्छन्ते । ‘इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः’ इति श्रुतेरिन्द्रादिबहुप्रकारेण स देवैकमुच्यत इत्यवगमात् । ऋषिः प्रणवरूपो मन्त्रः । मन्त्राणां सर्वेषां द्रष्टा मधुच्छन्द आदिरूपो वा । महाभागः कृत्स्नस्य यज्ञस्य भोक्ता । देवो द्योतमानः । पतगानां जीवपक्षिणामीश्वरः। अतिशीध्रगो वा । तद्धावतोऽन्यानत्येति शश्वदितिश्रुतेः ॥१५॥

त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः ।
त्वमिन्द्रस्त्वं हयमुखस्त्वं शर्वस्त्वं जगत्पतिः॥१६॥

प्रभुश्चेतनाचेतनस्य कृत्स्नस्याधिष्ठाता । तपनः तपतीति तपनः अन्तकर्ता । सूर्यः सूते इति सूर्यः उत्पादक उपादानमित्यर्थः । परमेष्ठी हिरण्यगर्भरूपेण । प्रजापतिः दक्षादिरूपेण च निमित्तमपीत्यर्थः त्वमिन्द्रो देवराजः हयमुखो हयग्रीवावतारः । त्वं शरः महादेवस्य त्रिपुरवधे बाणभूतो विष्णुः ॥१६॥

त्वं मुखं पद्मजो विप्रस्त्वमग्निः पवनस्तथा ।
त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः॥१७॥

त्वं मुखं ‘ब्राह्मणोऽस्य मुखमासीत्’ इति श्रुतेः । पद्मजश्चतुर्मुखः । विप्रो विज्ञानवान् । अग्निर्वायुश्चेत्यादि सर्वदेवतात्मा । धाताचितिः । विधाता मायेति प्राग्व्याख्यातमेव । विष्णुर्व्यापकः सुरसत्तमः देवेश्वरः ॥१७॥

त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः ।
त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम्॥१८॥

महान् महत्तत्त्वम् । अभिभूः अभितो भवतीत्यभिभूः । अभिमानोऽहङ्कार इत्यर्थः । शश्वत् सर्वदा अमृतम् अविकृतं महद्यशः ‘तस्य नाम महद्यशः‘ इति श्रुतेर्निर्गुणं ब्रह्म त्वं प्रभाः सूर्यादीनां तेजांसि । त्वं अभिप्रेतं बुद्धिवृत्तिः । त्राणं रक्षणम् ॥१८॥

बलोर्मिमान्साधुरदीनसत्त्वः समृद्धिमान्दुर्विषहस्त्वमेव ।
त्वत्तः सृतं सर्वमहीनकीर्ते ह्यनागतं चोपगतं च सर्वम्॥१९॥

बलस्य पुण्यस्य ऊर्मिमान्सागरः । अत एव अदीनं रज आदिनाऽनुपक्षीणं सत्वं यस्य सः । अत एव समृद्धिरैश्वर्यं तद्वान् । दुर्विषहो युद्धे । त्वत्तः सृतं निर्गतं सर्वम् । अहीनकीर्ते पुण्यश्लोक ! अनागतादि च त्वमेव ॥१९॥

त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भानुरिवावभाससे ।
समाक्षिपन्भानुमतः प्रभां मुहुः त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम्॥२०॥

उत्तमश्चिन्मात्रः चराचरं चेतनाचेतनम् । स्थावरजङ्गमं वा गभस्तिभिर्वृत्तिज्ञानैः । भानुरिव किरणैः । अवभाससे घटादिज्ञानरूपेण । यथोक्तम् ।‘परागर्थप्रमेयेषु या फलत्वेन संमता । संवित्सैवेह मे योऽर्थो वेदान्तोक्तप्रमाणतः’ इति । भानुमतः सूर्यस्य अन्तको मृत्युः । ध्रुवाध्रुवं क्षराक्षरं प्रधानपुरुषात्मकम् ॥२०॥

दिवाकरः परिकुपितो यथा दहेत् प्रजास्तथा दहसि हुताशनप्रभः ।
भयंकरः प्रलय इवाग्निरुत्थितः विनाशयन्युगपरिवर्तनान्तकृत्॥२१॥

युगपरिवर्तनं सहस्रकृत्वो जायमानं तस्यान्तस्तत्कर्ता कालस्यापि काल इत्यर्थः ॥२१॥

खगेश्वरं शरणमुपागता वयं महौजसं ज्वलनसमानवर्चसम् ।
तडित्प्रभं वितिमिरमभ्रगोचरं महाबलं गरुडमुपेत्य खेचरम्॥२२॥

खगेश्वरमुपेत्य समीपे गत्वा वयं शरणमुपागता इति सम्बन्धः ॥२२॥

परावरं वरदमजय्यविक्रमं तवौजस सर्वमिदं प्रतापितम् ।
जगत्प्रभो तप्तसुवर्णवर्चसा त्वं पाहि सर्वांश्च सुरान्महात्मनः॥२३॥

परावरं कारणं कार्यं च अजय्यो जेतुमशक्यो विक्रमो यस्य तम् ॥२३॥

भयान्विता नभसि विमानगामिनो विमानिता विपथगतिं प्रयान्ति ते ।
ऋषेः सुतस्त्वमसि दयावतः प्रभो महात्मनः खगवर कश्यपस्य ह॥२४॥

विमान गामिनो देवाः विमानिताः पराजिताः विपथगतिं हीनमार्गानुसृतिम् ॥२४॥

स मा क्रुधः कुरु जगतो दयां परां त्वमीश्वरः प्रशममुपैहि पाहि नः ।
महाशनिस्फुरितसमस्वनेन ते दिशोऽम्बरं त्रिदिवमियं च मेदिनी॥२५॥

सः त्वं मा क्रुधः क्रोधं मा कार्षीः । महाशनेः स्फुरितं तेन समस्तुल्यः स्वनः शब्दस्तेन दिशश्चलन्तीत्युत्तरादपकृष्यते ॥२५॥

चलन्ति नः स्वगहृदयानि चानिशं निगृह्यतां वपुरिदमग्निसंनिभम् ।
तव द्युतिं कुपितकृतान्तसंनिभां निशम्य नश्चलति मनोऽव्यवस्थितम् ।
पसीद नः पतगपते प्रयाचतां शिवश्च नो भव भगवन्सुखावहः॥२६॥

निगृह्यतां सङ्क्षिप्तं क्रियताम् अव्यवस्थितमिति च्छेदः व्याकुलमित्यर्थः ॥२६॥

एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा ।
तेजसः प्रतिसंहारमात्मनः स चकार ह॥२७॥

॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रयोविंशोऽध्यायः॥२३॥
चतुर्विंशोऽध्यायः

सौतिरुवाच। स श्रुत्वाऽथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम् ।
शरीरप्रतिसंहारमात्मनः संप्रचक्रमे॥१॥

चतुर्विंशतितमः अध्यायः स इति । स सुपर्णः स्तुतिव्याजेन देवैर्बोधितस्तेभ्य आत्मनो देहं स्वरूपं श्रुत्वा प्रेक्ष्यानुभूय च सर्वभूताभयाय सौम्यो बभूवेत्यर्थः ॥१॥

सुपर्ण उवाच। न मे सर्वाणि भूतानि विभियुर्देहदर्शनात् ।
भीमरूपात्समुद्विग्रास्तस्मात्तेजस्तु संहरे॥२॥

समुद्वुग्ना जना इति शेषः ॥२॥

सौतिरुवाच। ततः कामगमः पक्षी कामवीर्यो विहंगमः ।
अरुणं चात्मनः पृष्ठमारोप्य स पितुर्गृहात्॥३॥

अरुणं मातुर्विवशतया यत्र कुत्रापि स्थितम् ॥३॥

मातुरन्तिकमागच्छत्परं तीरं महोदधेः ।
तत्रारुणश्च निक्षिप्तो दिशं पूर्वां महाद्युतिः॥४॥

सूर्यो दग्धुमना यदाऽभूत्तदा पूर्वां दिशं गत्वा तत्र सूर्यस्याग्रेऽरुणो निक्षिप्त इति योज्यम् ॥४॥

सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा ।
रुरुरुवाच। किमर्थं भगवान्सूर्यो लोकान्दग्धुमनास्तदा॥५॥

किमस्तापहृतं देवैर्येनेमं मन्युराविशत् ।
प्रमतिरुवाच। चन्द्रादित्यैर्यदा राहुराख्यातो ह्यमृतं पिबन्॥६॥

आदित्यस्य मूर्तिबहुत्वेन चन्द्रादित्यैरिति बहुवचनम् ॥६॥

वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदाऽनघ ।
बाध्यमानं ग्रहेणाथ ह्यादित्ये मन्युराविशत्॥७॥

चन्द्रादित्येकत्वं च समाहारात् । ग्रहेण राहुणा ग्रहणेन वा ॥७॥

सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति ।
बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम्॥८॥

सुराणाम् अर्थाय हिताय ॥८॥

सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते ।
पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः॥९॥

सहन्ते मर्षयन्ति सहदेवैरिति पाठे दिवौकसः उपदेवा मरीच्यादयः प्रजापतयः ॥९॥

तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः ।
एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम्॥१०॥

तस्मात् अस्ताचलं गत्वेतिव्यब्लोपे पञ्चमी ॥१०॥

तस्माल्लोकविनाशाय संतापयत भास्करः ।
ततो देवानुपागम्य प्रोचुरेवं महर्षयः॥११॥

सन्तापयत समतापयत । अडभाव आर्षः । तिरोभूत एव सन्नेवं दहत्युदये तु भस्मीकरिष्यति लोकानित्याह तत इत्यादिना ॥११॥

आद्यार्धरात्रसमये सर्वलोकभयावहः ।
उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः॥१२॥

ततो देवाः सर्षिगणा उपगम्य पितामहम् ।
अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम्॥१३॥

न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च ।
उदिते भगवन्भानौ कथनेतद्भविष्यति॥१४॥

पितामह उवाच। एष लोकविनाशाय रविरुद्यन्तुमुद्यतः ।
दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति॥१५॥

दृश्यन्पश्यन् कण्ड्वादेराकृतिगणत्वादृशेरपि स्वार्थे यक् ॥१५॥

तस्य प्रतिविधानं च विहितं पूर्वमेव हि ।
कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः॥१६॥

प्रतिविधानं प्रतीकारः ॥१६॥

महाकायो महातेजाः स स्थास्यति पुरो रवेः ।
करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति॥१७॥

लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम् ।
प्रमतिरुवाच। ततः पितामहाज्ज्ञातः सर्वं चक्रे तदाऽरुणः॥१८॥

उदितश्चैव सविता ह्यरुणेन समावृतः ।
एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत्॥१९॥

अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः ।
भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम्॥२०॥

॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे चतुर्विंशोऽध्यायः॥२४॥
पञ्चविंशोऽध्यायः

सौतिरुवाच। ततः कामगमः पक्षी महावीर्यो महाबलः ।
मातुरन्तिकमागच्छत्परं पारं महोदधेः॥१॥

पञ्चविंशतितमः अध्यायः तत इति ॥१॥

यत्र सा विनता तस्मिन्पणितेन पराजिता ।
अतीव दुःखसंतप्ता दासीभावमुपागता॥२॥

ततः कदाचिद्विनतां प्रणतां पुत्रसन्निधौ ।
काले चाहूय वचनं कद्रूरिदमभाषत॥३॥

नागानामालयं भद्रे सुरम्यं चारुदर्शनम् ।
समुद्रकुक्षावेकान्ते तत्र मां विनते नय॥४॥

ततः सुपर्णमाता तामवहत्सर्पमातरम् ।
पन्नगान्गरुडश्चापि मातुर्वचनचोदितः॥५॥

स सूर्यमभितो याति वैनतेयो विहंगमः ।
सूर्यरश्मिप्रतप्ताश्च मूर्च्छिताः पन्नगाऽभवन्॥६॥

अभितः संमुखं पन्नगा अभवन् सन्धिरार्षः ॥६॥

तदवस्थान्सुतान्दृष्ट्वा कद्रुः शक्रमथास्तुवत् ।
नमस्ते सर्वदेवेश नमस्ते बलसूदन॥७॥

अत्रापींद्रोपाधिकं ब्रह्म स्तूयते । नमस्ते इत्यादिना । लोकस्रष्टृत्वसंहर्तृत्वादेस्तल्लिङ्गदर्शनात्॥७॥

नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ।
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव॥८॥

त्वमेव परमं त्राणमस्माकममरोत्तम ।
ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर॥९॥

त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे ।
त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाघनम्॥१०॥

त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ।
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः॥११॥

त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः ।
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः॥१२॥

ज्योतिश्चिद्रूपम् ॥१२॥

त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ।
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः॥१३॥

सर्वममृतं मोक्षः आपेक्षिके ह्यमृतत्वे सर्वत्वं नास्ति । मोक्षेऽवशिष्यमाणं यद्रूपं तत्त्वमेवेत्यर्थः । सोम ईश्वरः । परमैःश्रेष्ठैरर्चितः । ‘सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोतविष्णोः’ इति श्रुतिप्रसिद्धः ॥१३॥

त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः ।
शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा ।
संवत्सरर्तवो मासा रजन्यश्च दिनानि च॥१४॥

बहुलः कृष्णपक्षः ॥१४॥

त्वमुत्तमा सगिरिवना वसुंधरा सभास्करं वितिमिरमम्बरं तथा ।
महोदधिः सतिमितिमिङ्गिलस्तथा महोर्मिमान्बहुमकरो झषाकुलः॥१५॥

कालोपादानत्वात्तद्रूपत्वमुक्त्वा भूव्योमांवुरूपत्वमाह । त्वमुत्तमेति ॥१५॥

महायशास्त्वमिति सदाऽभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः ।
अभिष्टुतः पिबसि च सोममध्वरे वषट् कृतान्यपि च हवींषि भूतये॥१६॥

यज्ञभोक्ताऽपि त्वमेवेत्याह । महायशा इति ॥१६॥

त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वतुलबलौघ गीयसे च ।
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः॥१७॥

यज्ञफलदोऽपि त्वमेवेत्याह । त्वं विप्रैरिति । त्वद्धेतोस्त्वत्प्राप्तये । विविदिषन्ति यज्ञेनेत्यादिश्रुतेः । वेदाङ्गानि षट् यज्ञसागुण्यार्थम् । तत्र शिक्षां पाठशुध्यर्थं कल्पः प्रयोगज्ञानार्थं व्याकरणमूहादिसिद्ध्यर्थम् । छन्दो गायत्र्यो याज्यानुवाक्या भवन्तीति विध्यपेक्षितगायत्र्यादिज्ञानार्थम् । निरुक्तं वेदार्थज्ञानार्थम् । ज्योतिषं कर्मकालज्ञानार्थमिति । एतान्येव वेदाङ्गानि ॥१७॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे पञ्चविंशोऽध्यायः॥२५॥
षड्विंशोऽध्यायः

सौतिरुवाच। एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः ।
नीलजीमूतसंघातैः सर्वमम्बरमावृणोत्॥१॥

षड्विंशतितमः अध्यायः एवमिति । हरयोऽश्वाः वाहने रथे यस्य स हरिवाहनः ॥१॥

मेघानाज्ञापयामास वर्षध्वममृतं शुभम् ।
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः॥२॥

परस्परमिवात्यर्थं गर्जन्तः सततं दिवि ।
संवर्तितमिवाकाशं जलदैः सुमहाद्भुतैः॥३॥

संवर्तितं संवर्तः कल्पान्तः सञ्जातोऽस्मिन्निति संवर्तितमिव ॥३॥

सृजद्भिरतुलं तोयमजस्रं सुमहारवैः ।
संप्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः॥४॥

मेघस्तनितनिर्घोषौर्विद्युत्पवनकम्पितैः ।
तैर्मेघैः सततासारं वर्षद्भिरनिशं तदा॥५॥

सततासारम् अनवच्छिन्नधारासंपातं यथा स्यात्तथा ॥५॥

नष्टचन्द्रार्ककिरणमम्बरं समपद्यत ।
नागानामुत्तमो हर्षस्तथा वर्षति वासवे॥६॥

आपूर्यत मही चापि सलिलेन समन्ततः ।
रसातलमनुप्राप्तं शीतलं विमलं जलम्॥७॥

तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः ।
रामणीयकमागच्छन्मात्रा सह भुजंगमाः॥८॥

रामणीयकं द्वीपविशेषम् ॥८॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे षड्विंशोऽध्यायः॥२६॥
सप्तविंशोऽध्यायः

सौतिरुवाच। संप्रहृष्टास्ततो नागा जलधाराप्लुतास्तदा ।
सुपर्णेनोह्यमानास्ते जग्मुस्तं द्वीपमाशु वै॥१॥

सप्तविंशतितमः अध्यायः संप्रहृष्टा इति । तं द्वीपं रामणीयकमेव ॥१॥

तं द्वीपं मकरावासं विहितं विश्वकर्मणा ।
तत्र ते लवणं घोरं ददृशुः पूर्वमागताः॥२॥

लवणं लवणासुरं पूर्वं ददृशुः पुनर्गमने स नास्तीति भावः ॥२॥

सुपर्णसहिताः सर्पाः काननं च मनोरमम् ।
सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम्॥३॥

विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् ।
भवनैरावृतं रम्यैस्तथा पद्माकरैरपि॥४॥

पद्माकरैः सरोभिः ॥४॥

प्रसन्नसलिलैश्चापि ह्रदैर्दिव्यैर्विभूषितम् ।
दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम्॥५॥

ह्रदैः नदीषु गम्भीरप्रदेशैः ॥५॥

उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि ।
शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धतैः॥६॥

वायुविक्षिप्तकुसुमैस्तथाऽन्यैरपि पादपैः ।
किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः॥७॥

मनःसंहर्षजं दिव्यं गन्धर्वाप्सरसां प्रियम् ।
मत्तभ्रमस्संघुष्टं मनोज्ञाकृतिदर्शनम्॥८॥

मनः संहर्षाय जातं मनः संहर्षजं जनेः सर्वविभक्त्युपपदाड्डः । प्रजापतेर्यो मनः संहर्षः सङ्कल्पोल्लासस्तज्जं वा ॥८॥

रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः ।
नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम्॥९॥

सर्वैर्गुणैरिति शेषः ॥९॥

तत्ते वनं समासाद्य विजह्रुः पन्नगास्तदा ।
अब्रुवंश्च महावीर्यं सुपर्णं पतगेश्वरम्॥१०॥

वहास्मानपरं द्वीपं सुरम्यं विमलोदकम् ।
त्वं हि देशान्बहून्रम्यान्व्रजन्पश्यसि खेचर॥११॥

सौतिरुवाच। स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा ।
किं कारणं मया मातः कर्तव्यं सर्पभाषितम्॥१२॥

सुरम्यमितोऽपि रमणीयम् ॥१२॥

विनतोवाच। दासीभूतास्मि दुर्योगात्सपत्न्याः पतगोत्तम ।
पणं वितथमास्थाय सर्पैरुपधिना कृतम्॥१३॥

दुर्योगात् दुष्टभावात् वितथं शुक्लेऽपि कृष्णत्वं दृष्ट्वा सर्पैर्वालभूतैः उपधिना छलेन ॥१३॥

तस्मिंस्तु कथिते मात्रा कारणे गगनेतरः ।
उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः॥१४॥

किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् ।
दास्याद्वो विप्रमुच्येयं तथ्यं वदत लेलिहाः॥१५॥

धनक्रीतो विद्यार्थी पणजितो वा दास्यं करोति तेषां मुक्तिः दानेन विद्यालाभेन पणान्तरजयेन वा भवतीति किमेतेषु मया कर्तव्यमित्याह किमिति । लेलिहाः भो सर्पाः ॥१५॥

सौतिरुवाच। श्रुत्वा समब्रुवन्सर्पा आहरामृतमोजसा ।
ततो दास्याद्विप्रमोक्षो भविता तव खेचर॥१६॥

॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे सप्तविंशोऽध्यायः॥२७॥
अष्टाविंशोऽध्यायः

सौतिरुवाच। इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् ।
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्॥१॥

अष्टाविंशतितमः अध्यायः इत्युक्त इति ॥१॥

विनतोवाच ।
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् ।
निषादानां सहस्राणि तान्भुक्त्वाऽमृतमानय॥२॥

न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथंचन ।
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः॥३॥

अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः ।
गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः॥४॥

एवमादिस्वरूपैस्तु सतां वै ब्राह्मणो मतः ।
स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वथा॥५॥

ब्राह्मणानामभिद्रोहो न कर्तव्यः कथंचन ।
न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथाऽनघ॥६॥

यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः ।
तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम्॥७॥

भूतानामग्रभूर्विप्रो वर्णश्रेष्ठः पिता गुरुः ।
गरुड उवाच। किंरूपो ब्राह्मणो मातः किंशीलः किंपराक्रमः॥८॥

किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः ।
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः॥९॥

तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि ।
विनतोवाच ।
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा॥१०॥

बडिशं मत्स्यादिधरणार्थो गलग्रहः ॥१०॥

दहेदङ्गारवत्पुत्रं तं विद्याद्ब्राह्मणर्षभम् ।
विप्रस्त्वया न हन्तव्यः संक्रुद्धेनापि सर्वदा॥११॥

प्रोवाच चैन विनता पुत्रहार्दादिदं वचः ।
जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम्॥१२॥

हार्दात् स्नेहात् ॥१२॥

पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः ।
जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा॥१३॥

प्रीता परमदुःखार्ता नागैर्विप्रकृता सती ।
विनतोवाच ।
पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः॥१४॥

विप्रकृता वञ्चिता ॥१४॥

शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम् ।
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा॥१५॥

इहासीना भविष्यामि स्वस्तिकारे रता सदा ।
अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये॥१६॥

इहासतीति पाठे आसीना । चक्षिङो ङित्करणाज्ज्ञापकादनुदात्तेत्त्वलक्षणस्यात्मनेपदस्यानित्यत्वादसेः शतृप्रत्ययः । स्वस्तिकारे कल्याणकरणे । अनिष्टं निर्विघ्नं यथा स्यात्तथा ॥१६॥

सौतिरुवाच। ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात ।
ततो निषादान्बलवानुपागतो बुभुक्षितः काल इवान्तकोऽपरः॥१७॥

काले समये ॥१७॥

स तान्निषादानुपसंहरंस्तदा रजः समुद्भूय नभःस्पृशं महत् ।
समुद्रकुक्षौ च विशोषयन्पयः समीपजान्भूधरजान्विचालयन्॥१८॥

भूघरजान् पर्वतजान् वृक्षान् ॥१८॥

ततः स चक्रे महदाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट् ।
ततो निषादास्त्वरिताः प्रवव्रजुर्यतो मुखं तस्य भुजंगभोजिनः॥१९॥

भुजङ्गभोजिनो गरुडस्य ॥१९॥

तदाननं विवृतमतिप्रमाणवत्समभ्ययुर्गगनमिवार्दिताः खगाः ।
सहस्रशः पवनजोविमोहिता यथाऽनिलप्रचलितपादपे वने॥२०॥

ततः खगो वदनममित्रतापनः समाहरत्परिचपलो महाबलाः ।
निषूदयन्बहुविधमत्स्यजीविनो बभुक्षितो गगनचरेश्वरस्तदा॥२१॥

परिचपलः तेषां ग्रहणाय सर्वतो भ्रमन् ॥२१॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे अष्टाविंशोऽध्यायः॥२८॥
ऊनत्रिंशोऽध्यायः

सौतिरुवाच। तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया ।
दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः॥१॥

नवविंशतितमः अध्यायः तस्येति ॥१॥

द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् ।
न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा॥२॥

ब्रुवाणमेवं गरुडं ब्राह्मणः प्रत्यभाषत ।
निषादी मम भार्येयं निर्गच्छतु मया सह॥३॥

गरुड उवाच। एतामपि निषादीं त्वं परिगृह्याशु निष्पत ।
तूर्णं संभावयात्मानमजीर्णं मम तेजसा॥४॥

संभावय सञ्जीवय ॥४॥

सौतिरुवाच। ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा ।
वर्धयित्वा च गरुडमिष्टं देशं जगाम ह॥५॥

सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् ।
वितत्य पक्षावाकाशमुत्पपात मनोजवः॥६॥

ततोऽपश्यत् स पितरं पृष्टश्चाख्यातवान्पितुः ।
यथान्यायममेयात्मा तं चोवाच महानृषिः॥७॥

पृष्ठ आख्यातवांश्च वक्ष्यमाणरीत्या ॥७॥

कश्यप उवाच। कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत ।
कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु॥८॥

वः युष्माकं मातृभ्रात्रपेक्षया बहुत्वम् ॥८॥

गरुड उवाच। माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम् ।
न हि मे कुशलं तात भोजने बहुले सदा॥९॥

भोजने बहुले विषये मम कुशलं न हि पूर्णाहारस्याभावात् ॥९॥

अहं हि सर्पैः प्रहितः सोममाहर्तुमुत्तमम् ।
महातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै॥१०॥

सोमम् अमृतम् ॥१०॥

मात्रा चात्र समादिष्टो निषादान्भक्षयेति ह ।
न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः॥११॥

तस्माद्भक्ष्यं त्वमपरं भगवन्प्रदिशस्व मे ।
यद्भुक्त्वाऽमृतमाहर्तुं समर्थः स्यामहं प्रभो॥१२॥

क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान् ।
कश्यप उवाच। इदं सरो महापुण्यं देवलोकेऽपि विश्रुतम्॥१३॥

यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः ।
तयोर्जन्मान्तरे वैरं संप्रवक्ष्याम्यसोषतः॥१४॥

कूर्माग्रजं कूर्मभूतं ज्येष्ठभ्रातरम् ॥१४॥

तन्मे तत्त्वं निबोधस्य यत्प्रमाणौ च तावुभौ ।
आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम्॥१५॥

भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः ।
स नेच्छति धनं भ्राता सहैकस्थं महामुनिः॥१६॥

विभागं कीर्तयत्येव सुप्रतीको हि नित्यशः ।
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः॥१७॥

विभागं करिष्यामीति कीर्तयत्येव न तु कृतवान् ॥१७॥

विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यशः ।
ततो विभक्तास्त्वन्योऽन्यं विक्रुध्यन्तेऽर्थमोहिताः॥१८॥

ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः ।
विदित्वा भेदयन्त्येतानमित्रामित्ररूपिणः॥१९॥

विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ ।
भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते॥२०॥

अन्तरेषु छिद्रेषु पतन्ति अन्योन्यस्य छिद्राणि बहुलीकृत्य नाशहेतुं वैरमुद्दीपयन्तीत्यर्थः ॥२०॥

तस्माद्विभागं भ्रातॄणां न प्रशंसन्ति साधवः ।
गुरुशास्त्रे निबद्धानामन्योऽन्येनाभिशङ्किनाम्॥२१॥

‘कनिष्ठान्पुत्रवत्पश्येज्ज्येष्ठो भ्राता पितुः समः’ इति गुरुशास्त्रे अलङ्घनीये शासने अनिबद्धानाम् अतिशङ्किनां मर्यादाभङ्गभयेन ॥२१॥

नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि ।
यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि॥२२॥

कश्यप उवाच। शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् ।
त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि॥२३॥

एवमन्योन्यशापात्तौ सुप्रतीकविभावसू ।
गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ॥२४॥

आख्यानतात्पर्यमाह । एवमिति । लोभात्तामसीं योनिं गच्छन्तीतिभावः ॥२४॥

रोषदोषानुषङ्गेण तिर्यग्योनिगतावुभौ ।
परस्परद्वेषरतौ प्रमाणबलदर्पितौ॥२५॥

सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ ।
तयोरन्यतरः श्रीमान्समुपैति महागजः॥२६॥

यस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः ।
उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन्सरः॥२७॥

तं दृष्ट्वा वेष्टितकरः पतत्येष गजो जलम् ।
दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान्॥२८॥

आवेष्टितकरः कुण्डलीकृतशुण्डादण्डः ॥२८॥

विक्षोभयंस्ततो नागः सरो बहुरुषाकुलम् ।
कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान्॥२९॥

सोऽलम्बं सः अलम्बं निरालम्बं यथा स्यात्तथा । गगनमार्गेण तीर्थं भक्षणार्थं मेरुशृङ्गं क्षेत्रमासाद्य वृक्षान् आरोढुम् ॥२९॥

षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः ।
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः॥३०॥

तावुभौ युद्धसंमत्तौ परस्परवधैषिणौ ।
उपयुज्याशु कर्मेदं साधये हितमात्मनः॥३१॥

उपयुज्य भुक्त्वा ईहितम् ईप्सितम् ॥३१॥

महाभ्रघनसंकाशं तं भुक्त्वामृतमानय ।
महागिरिसमप्रख्यं घोररूपं च हस्तिनम्॥३२॥

सौतिरुवाच। इत्युक्त्वा गरुडं सोऽथ माङ्गल्यमकरोत्तदा ।
युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम्॥३३॥

पूर्णकुम्भो द्विजा गावो यच्चान्यत्किंचिदुत्तमम् ।
शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डजा॥३४॥

युध्यमानस्य सङ्ग्रामे देवैः सार्धं महाबल ।
ऋचो यजूंषि सामानि पवित्राणि हवींषि च॥३५॥

रहस्यानि च सर्वाणि सर्वे वेदाश्च ते बलम् ।
इत्युक्तो गरुडः पित्रा गतस्तं ह्रदमन्तिकात्॥३६॥

ते तुभ्यं बलं दास्यन्तीतिशेषः ॥३६॥

अपश्यन्निर्मलजलं नानापक्षिसमाकुलम् ।
स तत्स्मृत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः॥३७॥

नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् ।
सधुत्पपात चाकाशं तत उच्चैर्विहङ्गमः॥३८॥

सोऽलम्बं तीर्थमासाद्य देववृक्षानुपागमत् ।
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः॥३९॥

सोऽलम्बं सः अलम्बं निरालम्बं यथा स्यात्तथा । गगनमार्गेण तीर्थं भक्षणार्थं मेरुशृङ्गं क्षेत्रमासाद्य वृक्षान् आरोढुम् ॥३९॥

न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः ।
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलद्रुमान्॥४०॥

कनके कनकाचले स्थिताः शाखिनः कनकशाखिनः ॥४०॥

अन्यानतुलरूपाङ्गानुपचक्राम खेचरः ।
काञ्चनै राजतैश्चैव फलैर्वैदूर्यशाखिनः ।
सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान्॥४१॥

तमुवाच खगश्रेष्ठं तत्र रौहिणपादपः ।
अतिप्रवृद्धः सुमहानापतन्तं मनोजवम्॥४२॥

रोह्येव रौहिणो वटः स्वार्थे तद्धितः । राक्षसवायसादिवत् रोही रोहितकेश्वत्थवटपादपयोः पुमानिति मेदिनी ॥४२॥

रौहिण उवाच। यैषा मम महाशाखा शतयोजनमायता ।
एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ॥४३॥

ततो द्रुमं पतगसहस्रसेवितं महीधरप्रतिमवपुः प्रकम्पयन् ।
खगोत्तमो द्रुतमभिपत्य वेगवान् भञ्जतामविरलपत्रसंचयाम्॥४४॥

॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे ऊनत्रिंशोऽध्यायः॥२९॥
त्रिंशोऽध्यायः

सौतिरुवाच। स्पष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा ।
अभज्यत तरोः शाखा भग्नां चैकामधारयत्॥१॥

त्रिंशः अध्यायः स्पृष्टमात्रेति ॥१॥

तां भङ्क्त्वा स महाशाखां स्मयमानो विलोकयन् ।
अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान्॥२॥

ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन् ।
तपोरतांल्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः॥३॥

हन्यादेतान्संपतन्ती शाखेत्यथ विचिन्त्य सः ।
नखैर्दृढतरं वीरः संगृह्य गजकच्छपौ॥४॥

स तद्विनाशसंत्रासादभिपत्य स्वगाधिपः ।
शाखामास्येन जग्राह तेषामेवान्ववेक्षया॥५॥

अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः ।
विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे॥६॥

अतिदैवं देवैरपिर्तुमशक्यम् ॥६॥

गुरुं भारं समासाद्योड्डीन एष विहङ्गमः ।
गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः॥७॥

गुरुमिति । गुरुशब्दपूर्वाड्डीङ् विहायसा गतौ अस्माड्डः आदेरकारश्च पृषोदरादित्वात् । गरुडशब्दो निष्पन्न इत्यर्थः । ॥७॥

ततः शनैः पर्यपतत्पक्षैः शैलान्प्रकम्पयन् ।
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः॥८॥

दयार्थं वालखिल्यानां न च स्थानमविन्दत ।
स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा॥९॥

ददर्श कश्यपं तत्र पितरं तपसि स्थितम् ।
ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम्॥१०॥

तेजोवीर्यबलोपेतं मनोमारुतरंहसम् ।
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्॥११॥

अचिन्त्यमनभिध्येयं सर्वभूतभयंकरम् ।
महावीर्यधरं रौद्रं साक्षादग्निमिवोद्यतम्॥१२॥

अचिन्त्यम् अद्भुताकारत्वात् । अनभिध्येयं क्रूरमूर्तित्वात् तदेवाह सर्वेति ॥१२॥

अप्रधृष्यमजेयं च देवदानवराक्षसैः ।
भेत्तारं गिरिशृङ्गाणां समुद्रजलशोषणम्॥१३॥

लोकसंलोडनं घोरं कृतान्तसमदर्शनम् ।
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा ।
विदित्वा चास्यं संकल्पमिदं वचनमब्रवीत्॥१४॥

कश्यप उवाच। पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् ।
मा त्वां दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः॥१५॥

वालखिल्याः नामतः मरीचिपाः सूर्यमरीचीनेव पीत्वा तृप्यन्ति । ‘असौ वा आदित्यो देवमधुर’ इत्यादिना छान्दोग्यप्रसिद्धमधुविद्याविद इत्यर्थः ॥१५॥

सौतिरुवाच। ततः प्रसादयामास कश्यपः पुत्रकारणात् ।
वालखिल्यान्महाभागांस्तपसा हतकल्मषान्॥१६॥

शाखां मुक्त्वा गिरिं समभ्ययुरिति सम्बन्धः ॥१६॥

कश्यप उवाच। प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः ।
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ॥१७॥

सौतिरुवाच। एवमुक्ता भगवता मुनयस्ते समभ्ययुः ।
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोऽर्थिनः॥१८॥

ततस्तेष्वपयातेषु पितरं विनतासुतः ।
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्॥१९॥

शाखया मुखस्थया न्याक्षिप्तं विकलं वदनं वचनक्रिया यस्य स तथा । अव्यक्तवर्णं यथा स्यात्तथाऽपृच्छदित्यर्थः ॥१९॥

भगवन्क्व विमुञ्चामि तरोः शाखामिमामहम् ।
वर्जितं मानुषैर्देशमाख्यातु भगवान्मम॥२०॥

सौतिरुवाच। ततो निःपुरुषं शैलं हिमसंरुद्धकन्दरम् ।
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः॥२१॥

तं पर्वतं महाकुक्षिमुद्दिश्य स महाखगः ।
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः॥२२॥

सधूमेति । दिवा अह्नि ॥२२॥

न तां वध्री परिणहेच्छतचर्मा महातनुम् ।
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः॥२३॥

गजकच्छपयोः परिमाणमुक्तं शाखायास्तदाह न तामिति । परिणहेत्परितो बध्नीयात् वेष्टयेत् । वध्नी एकतन्तुका चर्मरज्जुः । शतचर्मा एकेन गोचर्मणा कृतया रज्ज्वा आक्रान्तभूर्गोचर्ममात्रा इयं तु शतगोचर्मरज्ज्वाप्यनाक्रमणीयेत्यतिपुष्टत्वमुक्तं शाखायाः ॥२३॥

स ततः शतसाहस्रं योजनान्तरमागतः ।
कालेन नातिमहता गरुडः पतगेश्वरः॥२४॥

स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः ।
अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः॥२५॥

पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् ।
मुमोच पुष्पवर्षं च समागलितपादप॥२६॥

शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः ।
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्॥२७॥

शाखिनो बहवश्चापि शाखयाऽभिहतास्तया ।
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः॥२८॥

ते हेमविकचा भूमौ युताः पर्वतधातुभिः ।
व्यराजञ्छाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः॥२९॥

हेमविकचाः हेमवदुज्ज्वलाः ॥२९॥

ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः ।
भक्षयामास गरुडस्तावुभौ गजकच्छपौ॥३०॥

तावुभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ ।
ततः पर्वतकूटाग्रादुत्पपात महाजवः॥३१॥

प्रावर्तन्ताथ देवानामुत्पाताभयशंसिनः ।
इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात्ततः॥३२॥

सधूमा न्यपतत्सार्चिर्दिवोल्का नभसश्च्युता ।
तथा वसूनां रुद्राणामादित्यानां च सर्वशः॥३३॥

साध्यानां मरुतां चैव ये चान्ये देवतागणाः ।
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्॥३४॥

अभूतपूर्वं यथा स्यात्तथा प्राद्रवत् । प्रहरणमायुधम् । जात्यभिप्रायेणैकवचनम् ॥३४॥

अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च ।
ववुर्वाताः सनिर्घाताः पेतुरुल्काः सहस्रशः॥३५॥

सनिर्घाताः अशनिनिर्घातशिताः । उल्काः वह्निविस्फुलिङ्गसङ्घाः ॥३५॥

निरभ्रमेव चाकाशं प्रजगर्ज महास्वनम् ।
देवानामपि यो देवः सोऽप्यवर्षत शोणितम्॥३६॥

देवानां देवः पर्जन्यः ॥३६॥

मम्लुर्माल्यानि देवानां नेशुस्तेजांसि चैव हि ।
उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु॥३७॥

रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् ।
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः ।
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम्॥३८॥

इन्द्र उवाच ।
किमर्थं भगवन्घोरा उत्पाताः सहसोत्थिताः ।
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत्॥३९॥

बृहस्पतिरुवाच। तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो ।
तपसा वालखिल्यानां महर्षीणां महात्मनाम्॥४०॥

अपराधाद्वालखिल्यावमानात् । प्रमादात्स्वबलदर्पेण अनवधानात् ॥४०॥

कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः ।
हर्तुं सोममभिप्राप्तो बलवान्कामरूपधृक्॥४१॥

समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः ।
सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत्॥४२॥

असाध्यमन्येषां साधयेत् ॥४२॥

सौतिरुवाच। श्रुत्यैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः ।
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः॥४३॥

युष्मान्संबोधयाम्येष यथा न स हरेद्बलात् ।
अतुलं हि बलं तस्य बृहस्पतिरुवाच ह॥४४॥

तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः ।
परिवार्यामृतं तस्थूर्वज्री चेन्द्रः प्रतापवान्॥४५॥

धारयन्तो विचित्राणि काञ्चनानि मनस्विनः ।
कवचानि महार्हाणि वैदूर्यविकृतानि च॥४६॥

कवचानि धातुमयानि कण्ठादिनाभित्राणानि ॥४६॥

चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च ।
विविधानि च शस्त्राणि घोररूपाण्यनेकशः॥४७॥

चर्माणि चर्ममयानि हस्तावापोर्ध्वमुखीप्रभृतीनि । भानुमन्ति दीप्तिमन्ति ॥४७॥

शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमः ।
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः॥४८॥

चक्राणि परघांश्चैव त्रिशूलानि परश्वधान् ।
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् ।
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः॥४९॥

स्वदेहरूपाणि स्वदेहानुरूपाणि ॥४९॥

तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः ।
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः॥५०॥

अनुपमबलवीर्यतेजसो धृतमनसः परिरक्षणेऽमृतस्य ।
असुरपुरविदारणाः सुरा ज्वलनसमिद्धवपुः प्रकाशिनः॥५१॥

ज्वलनवत्समिद्धैर्दीप्यमानैर्वपुर्भिः प्रकाशिनः ॥५१॥

इति समरवरं सुराः स्थितास्ते परिघसहस्रशतैः समाकुलम् ।
विगलितमिव चाम्बरान्तरं तपनमरीचिविकाशितं बभासे॥५२॥

विगलितमिव अकस्मादागतमिव ॥५२॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रिंशोऽध्यायः॥३०॥
एकत्रिंशोऽध्यायः

शौनक उवाच। कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज ।
तपसा वालखिल्यानां संभूतो गरुडः कथम्॥१॥

एकत्रिंशः अध्यायः कोऽपराध इति॥१॥

कश्यपस्य द्विजातेश्च कथं वै पक्षिराट् सुतः ।
अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम्॥२॥

कथं च कामचारी स कामवीर्यश्च खेचरः ।
एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते॥३॥

सौतिरुवाच। विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि ।
शृणु मे वदतः सर्वमेतत्संक्षेपतों द्विज॥४॥

यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः ।
साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल॥५॥

यजतः यजमानस्य। वर्तमानसामीप्ये वर्तमानवन्निर्देशः। यियक्षमाणस्येत्यर्थः॥५॥

तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह ।
मुनयो वालखिल्याश्च ये चान्ये देवतागणाः॥६॥

इध्मानि अग्निसमिन्धनार्थाः समिधः॥६॥

शक्रस्तु वीर्यसदृशमिध्यभारं गिरिप्रभम् ।
समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः॥७॥

अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरवर्ष्मणः ।
पलाशवर्तिकामेकां वहतः संहतान्पथि॥८॥

अङ्गुष्ठोदरप्रमाणं वर्ष्म शरीरं येषां तान्। वर्तिकां दीर्घयष्टिम्। संहतान् एकीभूतान्॥८॥

प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् ।
क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके॥९॥

स्वेष्वङ्गेषु प्रलीनानिवातिकृशानित्यर्थः । क्लिश्यमानानिति । गोष्पदमात्रेऽपि जले मज्जनेनेत्यर्थ॥९॥

तान्सर्वान्विस्मयाविष्टो वीर्योन्मत्तः पुरन्दरः ।
अपहास्याभ्यगाच्छीव्रं लम्बयित्वाऽवमन्य च॥१०॥

तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः ।
आरेभिरे महत्कर्म यदा शक्रभयंकरम्॥११॥

जातमन्यवो दीनाः । ‘मन्युदैन्ये क्रतौ क्रुधि’ इति कोशः ॥११॥

जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् ।
मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु॥१२॥

कामवीर्यः कामगमो देवराजभयप्रदः ।
इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः॥१३॥

यावदिच्छितं वीर्ये गतिश्च यस्येति कामवीर्यः कामगमश्च ॥१३॥

इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः ।
तपसो नः फलेनाद्य दारुणः संभवित्विति॥१४॥

दारुणः इन्द्रं प्रत्येव ॥१४॥

तद्बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः ।
जगाम शरणं तत्र कश्यपं संशितव्रतम्॥१५॥

तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः ।
वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत॥१६॥

कर्मसिद्धिमपृच्छत । सिद्धं वः कर्मेत्यपृच्छदित्यर्थः॥१६॥

एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः ।
तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः॥१७॥

एवमस्तु सिद्धमस्तु॥१७॥

अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः ।
इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः॥१८॥

न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः ।
भवतां हि न मिथ्याऽयं संकल्पो वै चिकीर्षितः॥१९॥

भवत्वेष पतत्त्रीणामिन्द्रोऽतिबलसत्त्ववान् ।
प्रसादः क्रियतामस्य देवराजस्य याचतः॥२०॥

पतत्रीणां पक्षिणाम् पतेरत्रिन् इत्यौणादिकत्रिन्प्रत्ययांतोऽयं ’विविष्किरपतत्रय’ इत्यमरः॥२०॥

एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः ।
प्रत्यूचुरभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम्॥२१॥

वालखिल्या ऊचुः। इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते ।
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः॥२२॥

तदिदं सफलं कर्म त्वयैव प्रतिगृह्यताम् ।
तथा चैवं विधत्स्वात्र यथा श्रेयोऽनुपश्यसि॥२३॥

सौतिरुवाच। एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा ।
विनता नाम कल्याणी पुत्रकामा यशस्विनी॥२४॥

तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः ।
उपचक्राम भर्तारं तामुवाचाथ कश्यपः॥२५॥

पुंसवने ऋतुकाले ॥२५॥

आरम्भः सफलो देवि भविता यस्त्वयेप्सितः ।
जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ॥२६॥

तपसा वालखिल्यानां मम संकल्पजौ तथा ।
भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ॥२७॥

उवाच चैनां भगवान्कश्यपः पुनरेव ह ।
धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः॥२८॥

एतौ सर्वपतत्रीणामिन्द्रत्वं कारयिष्यतः ।
लोकसंभावितो वीरौ कामरूपौ विहङ्गमौ॥२९॥

कारयिष्यत इति स्वार्थे णिच् । रामो राज्यमचीकरदितिवत् ॥२९॥

शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः ।
त्वत्सहायौ महावीर्यौ भ्रातरौ ते भविष्यतः॥३०॥

नैताभ्यां भविता दोषः सकाशात्ते पुरंदर ।
व्येतु ते शक्रसंतापस्त्वमेवेन्द्रो भविष्यसि॥३१॥

न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः ।
न चावमान्या दर्पात्ते वाग्वज्रा भृशकोपनाः॥३२॥

दर्पात्ते त्वया ॥३२॥

एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् ।
विनता चापि सिद्धार्था बभूव मुदिता तथा॥३३॥

जनयामास पुत्रौ द्वावरुणं गरुडं तथा ।
विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरस्सरः॥३४॥

पतत्त्रीणां च गरुडमिन्द्रत्वेनाभ्यषिञ्चत ।
तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन॥३५॥

गरुडं इन्द्रत्वे । ना नरः । हिरप्यगर्भः अभ्यषिञ्चत । गरुड इन्द्रत्वेनाभ्यषिच्यतेति पाठे हिरण्यगर्भेणेति शेषः ॥३५॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे एकत्रिंशोऽध्यायः॥३१॥
द्वात्रिंशोऽध्यायः

सौतिरुवाच। ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे ।
गरुडः पक्षिराट् तूर्णं संप्राप्तो विबुधान्प्रति॥१॥

द्वित्रिंशः अध्यायः तत इति । तस्मिन् देवानीके तथाविधे नानायुधाद्युपेते समुदीर्णे संग्रामायोद्गते सति॥१॥

तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः ।
परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्युत॥२॥

ततः तेषां षष्ठ्यर्थे तसिः ॥ २॥

तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः ।
भौमनः सुमहावीर्यः सोमस्य परिरक्षिता॥३॥

भौमनः विश्वकर्मा ॥३॥

स तेन पतगेन्द्रेण पक्षतुण्डनखक्षतः ।
मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि॥४॥

विनिहतो मृतकल्पः कृतः ॥४॥

रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः ।
कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्॥५॥

तेनावकीर्णा रजसा देवा मोहमुपागमन् ।
न चैवं ददृशुश्छन्ना रजसाऽमृतरक्षिणः॥६॥

एवं संलोडयामास गरुडस्त्रिदिवालयम् ।
पक्षतुण्डप्रहारैस्तु देवान्स विददार ह॥७॥

संलोडयामास आकुलींचकार ॥७॥

ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् ।
विक्षिपे मां रजोवृष्टिं तवेदं कर्म मारुत॥८॥

अथ वायुरपोवाह तद्रजस्तरसा बली ।
ततो वितिमिरे जाते देवाः शकुनिमार्दयन्॥९॥

अपोवाह अपसारितवान् ॥९॥

ननादोच्चैः स बलवान्महामेघ इवाम्बरे ।
वध्यमानः सुरगणैः सर्वभूतानि भीषयन्॥१०॥

उत्पपात महावीर्यः पक्षिराट् परवीरहा ।
समुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्॥११॥

वर्मिमो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् ।
पट्टिशैः परिधैः शूलैर्गदाभिश्च सवासवाः॥१२॥

क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः ।
नानाशस्त्रविसर्गैस्तैर्वध्यमानः समन्ततः॥१३॥

कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत ।
निर्दहन्निव चाकाशे वैनतेयः प्रतापवान् ।
पक्षाभ्यामुरसा चैव समन्ताद्व्यक्षिपत्सुरान्॥१४॥

अन्तरिक्षस्थं गरुडमिति शेषः । न्यक्षिपत् विशेषेण क्षिप्तवान् ॥१४॥

ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः ।
नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु॥१५॥

साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् ।
प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः॥१६॥

दिशं प्रतीचीमादित्यानासत्यावुत्तरां दिशम् ।
मुहुर्मुहुः प्रेक्षमाणा युध्यमानं महौजसः॥१७॥

अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट् ।
क्रथनेन च शूरेण तपनेन च खेचरः॥१८॥

अश्वक्रन्दादयो नवयक्षाः ॥ १८॥

उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट् ।
प्ररुजेन च संग्रामं चकार पुलिनेन च॥१९॥

तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः ।
युगान्तकाले संक्रुद्धः पिनाकीव परंतप॥२०॥

महाबला महोत्साहास्तेन ते बहुधा क्षताः ।
रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः॥२१॥

तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् ।
अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत॥२२॥

अत एव उत्कान्तजीवितान्कृत्वेत्याह ॥२२॥

आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् ।
दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम्॥२३॥

ततो नवत्या नवतीर्मुखानां कृत्वा महात्मा गरुडस्तपस्वी ।
नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्जवेन॥२४॥

नवत्याः 'नवती: शताधिकाष्टसाहस्री । नवतीरिति बहुवचनात्साप्यनेकगुणा । ततश्चानन्तर्मुखैरित्यर्थः । नवत्यो नवतीरिति पाठे ङितामाडभाव आर्षः ॥२४॥

ज्वलन्तमग्निं तममित्रतापनः समास्तरत्पत्ररथो नदीभिः ।
ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्निमभिप्रशाम्य॥२५॥

समास्तरत् आच्छादितवान् शामितवान् । अग्निमभिप्रशाम्य प्रवेष्टुकामः । सोमसमीपमिति शेषः॥२५॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे द्वात्रिंशोऽध्यायः॥३२॥
त्रयस्त्रिंशोऽध्यायः

सौतिरुवाच। जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः ।
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम्॥१॥

त्रयस्त्रिंशः अध्यायः जाम्बूनदमय इति । प्रविवेश चक्रमित्युत्तरेणान्वयः ॥१॥

स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके ।
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम्॥२॥

चक्रं यन्त्रं क्षुरपर्यन्तं समन्ततः कदम्बमुकुलवत क्षुरसहस्रयुतम् । चक्रवद्वेगेन बंभ्रम्यमाणम्। यत्र प्रविष्टो मशकोऽपि सहस्रधा छिद्यते । परिभ्रमन्तमिति पुंस्त्वमार्षम् । अयस्मयं लोहमयम् ।‘अयस्मयादीनि छंदसि’ इति भत्वमार्षम् ॥२॥

ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् ।
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम्॥३॥

तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः ।
अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह॥४॥

अराः चक्रस्य नाभिनेम्योः संभेदकाष्ठानि । तेषामन्तरेण मध्यतः अङ्गं संक्षिप्य अणुतरं कृत्वा ॥४॥

अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती ।
विद्युज्जिह्वौ महावीर्यौ दीप्तास्यौ दीप्तलोचनौ॥५॥

चक्षुर्विषौ महाघोरौ नित्यं क्रुद्धौ तरस्विनौ ।
रक्षार्थमेवामृतस्यैव ददर्श भुजगोत्तमौ॥६॥

सदा संरब्धनयनौ सदा चानिमिषेक्षणौ ।
तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत्॥७॥

तयोश्चक्षूंषि रजसा सुपर्णः सहसाऽऽवृणोत् ।
ताभ्यामदृष्टरूपोऽसौ सर्वतः समताडयत्॥८॥

तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः ।
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः॥९॥

तयोः अङ्गे देहौ । आच्छिनत् खण्डशः कृतवान् ॥९॥

समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली ।
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान्॥१०॥

यन्त्रमुन्मथ्य अमृतकुम्भं समुत्पाट्य उत्पपातेत्यन्वयः ॥१०॥

अपीत्वैवाऽमृतं पक्षी परिगृह्याशुनिःसृतः ।
आगच्छदपरिश्रान्त आवार्यार्कप्रभां ततः॥११॥

आवार्य वारयित्वा तिरस्कृत्येत्यर्थः ॥११॥

विष्णुना च तदाकाशे वैनतेयः समेयिवान् ।
तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा॥१२॥

समेयिवान् सङ्गतः अलौल्येन अमृतपानलोभराहित्येन ॥१२॥

तमुवाचाऽव्ययो देवो वरदोऽस्मीति खेचरम् ।
स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः॥१३॥

उपरि ध्वजे इत्यर्थः ॥१३॥

उवाच चैनं भूयोऽपि नारायणमिदं वचः ।
अजरश्चामरश्च स्याममृतेन विनाऽप्यहम्॥१४॥

एवमस्त्विति तं विष्णुरुवाच विनतासुतम् ।
प्रतिगृह्य वनौ तौ च गरुडो विष्णुमब्रवीत्॥१५॥

भवतेऽपि वरं दद्यां वृणोतु भगवानपि ।
तं वव्रे वाहनं विष्णुर्नरुत्मन्तं महाबलम्॥१६॥

ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् ।
एवमस्त्विति तं देवमुक्त्वा नारायणं खगः॥१७॥

वव्राज तरसा वेगाद्वायुं स्पर्धन्महाजवः ।
तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत्॥१८॥

स्पर्धावानिवाचरतीति स्पर्धन् वायुं जेतुमिच्छन्नित्यर्थः॥१८॥

हरन्तममृतं रोषाद्गरुडं पक्षिणां वरम् ।
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः॥१९॥

आक्रन्दे कलकले॥१९॥

प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः ।
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसंभवम्॥२०॥

ऋषेः दधीचेः ॥ २०॥

वज्रस्य च करिष्यामि तवैव च शतक्रतो ।
एतत्पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे॥२१॥

न च वज्रनिपातेन रुजा मेऽस्तीह काचन ।
एवमुक्त्वा ततः पुत्रमुत्ससर्ज स पक्षिराट्॥२२॥

पत्रं पक्षम् ॥२२॥

तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम् ।
हृष्टानि सर्वभूतानि नाम चक्रुर्गरुत्मतः॥२३॥

सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति ।
तद्दृष्ट्वा महदाश्चर्यं सहस्राक्षः पुरंदरः ।
खगो महदिदं भूतमिति मत्वाऽभ्यभाषत॥२४॥

सुपर्णशब्दं निर्वक्ति सुरूपमिति ॥२४॥

शक्र उवाच ।
बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् ।
सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम॥२५॥

॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीपर्वणि सौपर्णे त्रयस्त्रिंशोऽध्यायः॥३३॥
चतुस्त्रिंशोऽध्यायः

गरुड उवाच। सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर ।
बलं तु मम जानीहि महच्चासह्यमेव च॥१॥

चतुस्त्रिंशः अध्यायः सख्यमिति ॥१॥

कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् ।
गुणसंकीर्तनं चापि स्वयमेव शतक्रतो॥२॥

कामं स्वेच्छया बलं शरीरसामर्थ्ये गुणो बुद्धिसामर्थ्यं ज्ञानौदार्यादि ॥२॥

सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया ।
न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः॥३॥

निमित्ते रणभूमौ शत्रोः पुरस्तादात्मस्तवोऽपि कर्तव्यः इति भावः॥३॥

सपर्वतवनामुर्वीं ससागरजलामिमाम् ।
वहे पक्षेण वै शक्र त्वामप्यत्रावलम्बिनम्॥४॥

सर्वान्संपिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् ।
वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम्॥५॥

संपिण्डितान् एकीकृतान्। संपीडितानित्यपपाठः । स्थाणुं स्थावरम् ॥५॥

सौतिरुवाच। इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः ।
आह शौनक देवेन्द्रः सर्वलोकहितः प्रभुः॥६॥

किरीटी इन्द्रः सर्वलोकहितः सर्पेअभ्योऽमृतं दातुमनिच्छत्वात् ॥६॥

एवमेव यथात्थ त्वं सर्वं संभाव्यते त्वयि ।
संगृह्यतामिदानीं मे सख्यमत्यन्तमुत्तमम्॥७॥

न कार्यं यदि सोमेन मम सोमः प्रदीयताम् ।
अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम्॥८॥

न कार्यमिति । विष्णुनाऽमृतं विनाप्यमरत्वस्य दत्तत्वात् ॥८॥

गरुड उवाच। किंचित्कारणमुद्दिश्य सोमोऽयं नीयते मया ।
न दास्यामि समापातुं सोमं कस्मैचिदप्यहम्॥९॥

किंचित्कारणं मातुर्दास्यविमोक्षरूपमितिभावः । समादातुं पातुं न हि मम कश्चिद्देवेभ्य आप्तोऽस्तीति भावः ॥९॥

यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् ।
त्वमादाय ततस्तृर्णं हरेथास्त्रिदिवेश्वर॥१०॥

शक्र उवाच। वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज ।
यमिच्छसि वरं मत्तस्तं गृहाण खगोत्तम॥११॥

सौतिरुवाच। इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् ।
स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः॥१२॥

उपधिकृतं छलकृतम् । दास्यनिमित्ततः । निमित्तमिन्द्राश्वस्य कृष्णकेशत्वं दास्यमिति पाठे निमित्ततोऽरुणशापात् ॥१२॥

ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् ।
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः॥१३॥

तथेत्युक्त्वाऽन्वगच्छत्तं ततो दानवसूदनः ।
देवदेवं महात्मानं योगिनामीश्वरं हरिम्॥१४॥

ईशः समर्थः अर्थितामन्यस्मै अमृतं न देयमित्यर्थेप्सुताम्॥ तं गरुडं तथेत्युक्त्वा हरिमन्वगच्छत् । अनुसृतवान् । स्वोक्तिनिर्वाहार्थमिति भावः ॥१४॥

स चान्वमोदत्तं चार्थं यथोक्तं गरुडेन वै ।
इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः॥१५॥

हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ।
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम्॥१६॥

विनिक्षिप्तं त्वयेतिशेषः | अनुभाष्य हे गरुडेति संबोध्य ॥१६॥

अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ।
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः॥१७॥

इदं वः युष्माकममृतं न तु मम । कुशेषु निक्षेप्स्यामि गृह्णीतेति भावः॥१७॥

स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः ।
भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा॥१८॥

अदासी चैव मातेयमद्यप्रभृति चास्तु मे ।
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम्॥१९॥

भवतां भवद्भिः मे मया ॥१९॥

ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत ।
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः॥२०॥

अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा ।
स्नाताश्च कुतजप्याश्च प्रहृष्टाः कृतमङ्गलाः॥२१॥

यत्रैतदमृतं चापि स्थापितं कुशसंस्तरे ।
तद्विज्ञाय हृतं सर्पाः प्रतिमाया कृतं च तत्॥२२॥

प्रतिमायाकृतं मायाकृतं यथा दास्यं तथाऽमृतदानमपीतरेणकृतमित्यर्थः ॥२२॥

सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ।
ततो द्विधा कृता जिह्वाः सर्पाणां तेन कर्मणा॥२३॥

अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः ।
एवं तदमृतं तेन हृतमाहृतमेव च ।
द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना॥२४॥

पवित्रममृतं विद्यते येषु ते पवित्रिणः हृतं देवलोकात् आहृतं सर्पसमीपे ॥२४॥

ततः सुपर्णः परमप्रहर्षवान्विहृत्य मात्रा सह तत्र कानने ।
भुजंगभक्षः परमार्चितः खगैरहीनकीर्तिर्विनतामनन्दयत्॥२५॥

इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विजगणमुख्यसंसदि ।
असंशयं त्रिदिवमियात्स पुण्यभाक् महात्मनः पतगपतेः प्रकीर्तनात्॥२६॥

‘पदं महत्प्राप्तुमिच्छुर्नीचो नीचतरं व्रजेत् । अमृतप्रेप्सवो याता भुजंगास्तर्क्ष्यभक्ष्यताम्’ । रत्नगर्भस्तु ‘विप्रस्यावज्ञया शक्रो मातुः सर्पा विपद्रताः । सुपर्णस्त्वभयः प्रीत्या हरेरप्युपरिस्थितः’ ॥२६॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे चतुस्त्रिंशोऽध्यायः॥३४॥
पञ्चत्रिंशोऽध्यायः

शौनक उवाच। भुजङ्गमानां शापस्य मात्रा चैव सुतेन च ।
विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन॥१॥

पञ्चत्रिंशः अध्यायः भुजंगमानामिति । भुजंगमानां मात्रा शापो दत्तस्य कारणमवज्ञया मातुराज्ञाकारित्वम् । विनतायाः सुतेन शापो दत्तस्तस्य कारणं सपत्नीर्ष्या ॥१॥

वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा ।
नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः॥२॥

पन्नगानां तु नामानि न कीतर्यसि सूतज ।
प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम्॥३॥

सौतिरुवाच। बहुत्वान्नामधेयानि पन्नगानां तपोधन ।
न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु॥४॥

शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् ।
ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ॥५॥

कालियो मणिनागश्च नागश्चापूरणस्तथा ।
नागस्तथापिञ्जरक एलापत्रोऽथ वामनः॥६॥

नीलानीलौ तथा नागौ कल्माषशबलौ तथा ।
आर्यकश्चोग्रकश्चैव नागः कलशपोतकः॥७॥

सुमनाख्यो दधिमुखस्तथा विमलपिण्डकः ।
आप्तः कर्कोटकश्चैव शङ्खो वालिशिखस्तथा॥८॥

निष्टानको हेमगुहो नहुषः पिङ्गलस्तथा ।
बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः॥९॥

कम्बलाश्वतरौ चापि नागः कालीयकस्तथा ।
वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ॥१०॥

नागः शङ्खमुखश्चैव तथा कूष्माण्डकोऽपरः ।
क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा॥११॥

करवीरः पुष्पदंष्ट्रो बिल्वको बिल्वपाण्डुरः ।
मूषकादः शङ्खशिराः पूर्णभद्रो हरिद्रकः॥१२॥

अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा ।
कौरव्यो धृतराष्ट्रश्च शङ्खपिण्डश्च वीर्यवान्॥१३॥

विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् ।
हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः॥१४॥

कुठऱः कुञ्जरश्चैव तथा नागः प्रभाकरः ।
कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा॥१५॥

कर्दमश्च महानागो नागश्च बहुमूलकः ।
कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ॥१६॥

एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम ।
बहुत्वान्नामधेयानामितरे नानुकीर्तिताः॥१७॥

एतेषां प्रसवो यश्च प्रसवस्य च संततिः ।
असङ्ख्येयेति मत्त्वा तान्न ब्रवीमि तपोधन॥१८॥

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च ।
अशक्यान्येव सङ्ख्यातुं पन्नगानां तपोधन॥१९॥

॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सर्पनामकथने पञ्चत्रिंशोऽध्यायः॥३५॥
षट्त्रिंशोऽध्यायः

शौनक उवाच। आख्याता भुजगास्तात वीर्यवन्तो दुरासदाः ।
शापं तं तेऽभिविज्ञाय कृतवन्तः किमुत्तरम्॥१॥

षट्त्रिंशः अध्यायः पित्र्याचार्यादिभ्यः पूज्यतमापि माताऽनृताभिसम्बन्धिनी चेत्याज्यैवेति दर्शयितुं शेषाध्यायमारभते। आख्याता इत्यादिना उत्तरमनन्तरम्॥१॥

सौतिरुवाच। तेषां तु भगवाञ्च्छेषः कद्रूं त्यक्त्वा महायशाः ।
उग्रं तपः समातस्थे वायुभक्षो यतव्रतः॥२॥

गन्धमादनमासाद्य बदर्यां च तपोरतः ।
गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे॥३॥

तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च ।
एकान्तशीलो नियतः सततं विजितेन्द्रियः॥४॥

तप्यमानं तपो घोरं तं ददर्श पितामहः ।
संशुष्कमांसत्वक्स्नायुं जटाचीरधरं मुनिम्॥५॥

स्नायुः शिराः॥५॥

तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः ।
किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु॥६॥

त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ ।
ब्रूहि कामं च मे शेष यस्ते हृदि व्यवस्थितः॥७॥

शेष उवाच। सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः ।
सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम्॥८॥

अभ्यसूयन्ति सततं परस्परममित्रवत् ।
ततोऽहं तप आतिष्ठं नैतन्पश्येयमित्युत॥९॥

न मर्षयन्ति ससुतां सततं विनतां च ते ।
अस्माकं चापरो भ्राता वैनतेयोऽन्तरिक्षगः॥१०॥

तं च द्विषन्ति सततं स चापि बलवत्तरः ।
वरप्रदानात्स पितुः कश्यपस्य महात्मनः॥११॥

सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् ।
कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः॥१२॥

प्रेत्यभावेऽपि देहान्तरेऽपि॥१२॥

तमेवं वादिनं शेषं पितामह उवाच ह ।
जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम्॥१३॥

मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम् ।
कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम॥१४॥

भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि ।
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम्॥१५॥

दास्यामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि ।
दिष्ट्या बुद्धिश्च ते धर्मे निविष्टा पन्नगोत्तम ।
भूयो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा॥१६॥

शेष उवाच। एष एव वरो देव काङ्क्षितो मे पितामह ।
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर॥१७॥

धर्मे वेदबोधितेऽर्थे शमे मनोजये तपसि तत्त्वालोचने॥१७॥

ब्रह्मोवाच। प्रीतोऽस्म्यनेन ते शेष दमेन च शमेन च ।
त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम्॥१८॥

दमेन बाह्येन्द्रियजयेन प्रश्रयेण चेति पाठे प्रश्रयो विनयः॥१८॥

इमां महीं शैलवनोपपन्नां ससागरग्रामविहारपत्तनाम् ।
त्वं शेष सम्यक् चलितां यथावत्संगृह्य तिष्ठस्व यथाऽचला स्यात्॥१९॥

तिष्ठस्व ’प्रकाशनस्थेयाख्ययोश्च’ इति तङ्॥१९॥

शेष उवाच। यथाऽऽह देवो वरदः प्रजापतिर्महीपतिर्भूतपतिर्जगत्पतिः ।
तथा महीं धारयिताऽस्मि निश्चलां प्रयच्छतां मे विवरं प्रजापते॥२०॥

प्रयच्छतामुत्थाप्य भवानिति शेषः॥२०॥

ब्रह्मोवाच। अधो महीं गच्छ भुजङ्गमोत्तम स्वयं तवैषा विवरं प्रदास्यति ।
इमां धरां धारयता त्वया हि मे महत्प्रियं शेष कृतं भविष्यति॥२१॥

सौतिरुवाच। तथैव कृत्वा विवरं प्रविश्य स प्रभुर्भुवो भुजगवराग्रजः स्थितः ।
बिभर्ति देवीं शिरसा महीमिमां समुद्रनेमिं परिगृह्य सर्वतः॥२२॥

ब्रह्मोवाच। शेषोऽसि नागोत्तम धर्मदेवो महीमिमां धारयसे यदेकः ।
अनन्तभोगैः परिगृह्य सर्वां यथाहमेवं बलभिद्यथा वा॥२३॥

अनन्तभोगैः फणाभिः॥२३॥

सौतिरुवाच। अधो भूमौ वसत्येवं नागोऽनन्तः प्रतापवान् ।
धास्यन्वसुधामेकः शासनाद्ब्रह्मणो विभोः॥२४॥

सुपर्णं च सहायं वै भगवानमरोत्तमः ।
प्रादादनन्ताय तदा वैनतेयं पितामहः॥२५॥

सहायं मित्रम्॥२५॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि शेषवृत्तकथने षट्त्रिंशोऽध्यायः॥३६॥
सप्तत्रिंशोऽध्यायः

सौतिरुवाच। मातुः सकाशात्तं शापं श्रुत्वा वै पन्नगोत्तमः ।
वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम्॥१॥

सप्तत्रिंशः अध्यायः मतुरिति। पत्यते वशीक्रियते नगोत्तमो येन पन्नगोत्तमः। अमृतमन्थनकाले मन्दरं परिवर्तयन् वासुकिः पूर्वोक्तरुपं मातुः शापं श्रुत्वा॥१॥

ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः ।
ऐरावतप्रभृतिभिः सर्वैर्धर्मपरायणैः॥२॥

ततः योगबलेन शरीरान्तरमादाय स मन्त्रयामास। अयं भावः। मन्थनव्यापृते नागराजे प्रथमोत्पन्नमश्वं निमित्तीकृत्य कद्रूः पुत्रान् शशाप। तं च शापं निवर्तयितुं मन्त्रयत्सु सर्पेष्वेलापत्रेण तत्प्रतीकारोपाये उक्तेऽपि कार्यगौरवादप्रत्ययाच्चामृतमन्थनान्ते वासुकिर्ब्राह्मणं गतवान् तेन च एलापत्रोक्तमेव वचनमुक्त्वा सान्त्वितः। अत एवाऽथ देवासुराः सर्वे इत्यादिराग्रिमाध्यायस्था विचारानन्तरमप्यमृतमन्थनकथा सङ्गच्छते॥२॥

वासुकिरुवाच। अयं शापो यथोद्दिष्टो विदितं वस्तथाऽनघाः ।
तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे॥३॥

सर्वेषामेव शापानां प्रतिघातो हि विद्यते ।
न तु मात्राऽभिशप्तानां मोक्षः क्वचन विद्यते॥४॥

अभिशप्तानां साक्षाच्छप्तानाम्॥४॥

अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः ।
शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः॥५॥

सत्यस्य सत्यलोकपतेः अग्रतः अव्ययस्य जरामरणवर्जितस्य। अप्रमेयस्य अनंतमाहात्म्यस्य। ब्रह्मणोऽग्रे शप्ता इति श्रुत्वा॥५॥

नूनं सर्वविनाशोऽयमस्माकं समुपागतः ।
न ह्येतां सोऽव्ययो देवः शपत्नीं प्रत्यषेधयत्॥६॥

सोऽव्ययो देवो ब्रह्मा॥६॥

तस्मात्संमन्त्रयामोऽद्य भुजङ्गानामनामयम् ।
यथा भवेद्धि सर्वेषां मा नः कालोऽत्यगादयम्॥७॥

अनामयं कुशलं मा नः कालोत्यगात् प्राक्सत्रारम्भात्प्रतीकारः कर्तव्यः इत्यर्थः॥७॥

सर्व एव हि न स्तावद्बुद्धिमन्तो विचक्षणाः ।
अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे॥८॥

अपीति यथा गूढमग्निं मन्त्रेण देवा अपश्यन् एवं मोक्षणे हेतुं पश्यामेत्यर्थः॥८॥

यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् ।
यथा स यज्ञो न भवेद्यथा वाऽपि पराभवः ।
जनमेजयस्य सर्पाणां विनाशकरणाय वै॥९॥

गुहागतं स्वकारण वायौ लीनं अत एव नष्टं अदर्शनं गतम्। जनमेजयस्य सं यज्ञो यथा न भवेद्यथा वा यज्ञस्य पराभवः स्यात्तथा पश्यामेत्यनुषज्यते। विनाशकरणाय प्रवृत्त इति शेषः॥९॥

सौतिरुवाच। तथेत्युक्त्वा ततः सर्वे काद्रवेयाः समागताः ।
समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः॥१०॥

समयं ऐकमत्यम्। मन्त्रबुद्धिविशारदाः नीतिनिश्चयनिपुणाः॥१०॥

एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः ।
जनमेजयं तु भिक्षामो यज्ञस्तेन भवेदिति॥११॥

भिक्षामः याचयामहे॥११॥

अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः ।
मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः॥१२॥

स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् ।
तत्र बुद्धिं प्रदास्यामो यथा यज्ञो निवर्त्स्यति॥१३॥

निवर्त्स्यति निवृत्तो भविष्यति॥१३॥

स नो बहुमतान्राजा बुद्ध्या बुद्धिमतां वरः ।
यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम्॥१४॥

दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् ।
हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः॥१५॥

प्रेत्य दोषाः हिंसाकृता नरकाः इह दोषा पुरराष्ट्रदंशादयः। हेतुभिर्विप्रशापामोघत्वाभिः कारणैस्तन्मूलैर्विप्रावज्ञादिभिः प्रदर्शितैरिति शेषः। तथा च न सर्पस्यापराधोऽस्तीति उक्त्या यज्ञं निषत्स्याम इत्यर्थः॥१५॥

अथवाऽयमुपाध्यायः क्रतोस्तस्य भविष्यति ।
सर्पसत्रविधानज्ञो राजकार्यहिते रतः॥१६॥

तं गत्वा दशतां कश्चिद्भुजङ्गः स मरिष्यति ।
तस्मिन्मृते यज्ञकारे क्रतुः स न भविष्यति॥१७॥

ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य चर्त्विजः ।
तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति॥१८॥

अपरे त्वब्रुवन्नागा धर्मात्मानो दयालवः ।
अबुद्धिरेषा भवतां ब्रह्महत्या न शोभनम्॥१९॥

सम्यक्सद्धर्ममूला वै व्यसने शान्तिरुत्तमा ।
अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत्॥२०॥

सम्यगित। सम्यगविकलः सतां धर्मः देवब्राह्मणप्रार्थना तन्मूला। वसने आपदि शान्तिः आपन्नाशः। एकभूपहत्यादोषोऽनेकर्त्विगादिवधेन मार्ज्यते चेतावद्दोषापमार्जने कृत्स्नजगद्वधः कर्तव्यो भवष्यतीत्याह। अधर्मेति। सधर्ममूलेतिपाठे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्चेत्युक्तेः विष्णुवेदब्राह्मणरुपं धर्ममूलं समानमविरद्धं यस्यां सा सधर्ममूलेत्यर्थः॥२०॥

अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् ।
वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः॥२१॥

स्रुग्भाण्डं निशि गत्वा च अपरे भुजगोत्तमाः ।
प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति॥२२॥

स्रुग्बाण्डं स्रुगादि यज्ञपात्रं प्रमत्तानां व्यग्राणाम्॥२२॥

यज्ञे वा भुजगास्तस्मिञ्च्छतशोऽथ सहस्रशः ।
जनान्दशन्तु वै सर्वे नैवं त्रासो भविष्यति॥२३॥

अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः ।
स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना॥२४॥

अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे ।
यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति॥२५॥

वश्यतां च गतोऽसौ नः करिष्यति यथेप्सितम् ।
अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम्॥२६॥

गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः ।
अपरे त्वब्रुवंस्तत्र नागाः पण्डितमानिनः॥२७॥

दशामस्तं प्रगृह्याशु कृतपेवं भविष्यति ।
छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति॥२८॥

एषा नो नैष्ठिकी बुद्धिः सर्वेषामीक्षणश्रवः ।
अथ यन्मन्यसे राजन्द्रुतं तत्संविधीयताम्॥२९॥

नोऽस्माकं नैष्ठिकी पार्यन्तिकी ईक्षणमेव श्रवः श्रोत्रं यस्य तथाभूत हे वासुके॥२९॥

इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगोत्तमम् ।
वासुकिश्चापि संचिन्त्य तानुवाच भुजङ्गमान्॥३०॥

नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः ।
सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते॥३१॥

नैषेति न मता न संमता ममेति शेषः॥३१॥

किं तत्र संविधातव्यं भवतां स्याद्धितं तु यत् ।
श्रेयः प्रसादनं मन्ये कश्यपश्य महात्मनः॥३२॥

किं तत्रेति। अत्यापदि ब्राह्मण एव शरणीकरणीय इति भावः॥३२॥

ज्ञातिवर्गस्य सौहार्दादात्मनश्च भुजङ्गमाः ।
न च जानाति मे बुद्धिः किंचित्कर्तुं वचो हिवः॥३३॥

मया हीदं विधातव्यं भवतां यद्धितं भवेत् ।
अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ॥३४॥

मयेति। ज्ञातिरक्षानाशनिमित्तौ गुणदोषौ मदाश्रयौ ज्येष्ठत्वान्ममेत्यर्थः॥३४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि वासुक्यादिमन्त्रणे सप्तत्रिंशोऽध्यायः॥३७॥
अष्टत्रिंशोऽध्यायः

सौतिरुवाच। सर्पाणां तु वचः श्रुत्वा सर्वेषामिति चेति च ।
वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम्॥१॥

अष्टत्रिंशः अध्यायः सर्पाणामिति। इति चेति चेति तद्वचनाभिनयप्रदर्शनम्॥१॥

न स यज्ञो न भविता न स राजा तथाविधः ।
जनमेजयः पाण्डवेयो यतोऽस्माकं महद्भयम्॥२॥

नेति भवितैवेत्यर्थः न तथाविधः यस्य राष्ट्रमृत्विजः स्वरुपं वा द्रष्टुं शक्यं तादृशं न भवति। मन्त्रवीर्यसम्पन्नत्वात्॥२॥

दैवेनोपहतो राजन्यो भवेदिह पूरुषः ।
स दैवमेवाश्रयेत नान्यत्तत्र परायणम्॥३॥

दैवेनेति। दृष्टदोषाभावेप्यागता विपन्नदृष्टोपायपरिहार्येत्यर्थः॥३॥

तदिदं चैवमस्माकं भयं पन्नगसत्तमाः ।
दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम॥४॥

अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा ।
मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः॥५॥

अहमिति युग्मं वक्तुर्व्याकुलत्वात्समानार्थे संबोधनद्वयम्। देवानां वचः समश्रौषमिति संबन्धः। वच एवाऽऽह। तीक्ष्णास्तीक्ष्णा इति स्त्रिय इति शेषः। पुत्रमपि शपन्तीनां स्त्रीणां दौष्ट्यमालक्ष्य हा कष्टं कथं स्त्रीसङ्गिनां सुखं स्यादिति चिन्तया दुःखार्तानाम्॥५॥

देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्ण इति प्रभो ।
पितामहमुपागम्य दुःखार्तानां महद्युते॥६॥

देवा ऊचुः । का हि लब्ध्वा प्रियान्पुत्राञ्च्छपेदेवं पितामह ।
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः॥७॥

तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह ।
एतदिच्छामि विज्ञातुं कारणं यन्न वारिता॥८॥

तथेति त्वयाप्येतन्नोपेक्षणीयमिति भावः॥८॥

ब्रह्मोवाच। बहवः पन्नगास्तीक्ष्णा घोररूपा विषोल्बणाः ।
प्रजानां हितकामोऽहं न च वारितवांस्तदा॥९॥

उपेक्षाकारणं ब्रह्मोवाच बहव इति॥९॥

ये दन्दशूकाः क्षुद्राश्च पापाचारा विषोल्बणाः ।
तेषां विनाशो भविता न तु ये धर्मचारिणः॥१०॥

दन्दशूकाः दंशनशीलाः। क्षुद्राः अल्पेऽपि निमित्ते प्राणग्राहकाः। पापाचाराः निर्निमित्तं हिंसकाः। मातापि पापिष्ठाह्नन्ति किमुतान्ये इति भावः॥१०॥

यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् ।
पन्नगानां निबोधध्वं तस्मिन्काले समागते॥११॥

यायावरकुले धीमान्भविष्यति महानृषिः ।
जरत्कारुरिति ख्यातस्तपस्वी नियतेन्द्रियः॥१२॥

तस्य पुत्रो जरत्कारोर्भविष्यति तपोधनः ।
आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा ।
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः॥१३॥

देवा ऊचुः। स मुनिप्रवरो ब्रह्मञ्जरत्कारुर्महातपाः ।
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान्॥१४॥

ब्रह्मोवाच। सनामायां सनामा स कन्यायां द्विजसत्तमः ।
अपत्यं वीर्यसंपन्नं वीयवाञ्जनयिष्यति॥१५॥

वासुकेः सर्पराजस्य जरत्कारुः स्वसा किल ।
स तस्यां भविता पुत्रः शापान्नागांश्च मोक्ष्यति॥१६॥

स्वसा भगिनी। मोक्ष्यति मोक्षयिष्यति॥१६॥

एलापत्र उवाच। एवमस्त्विति तं देवाः पितामहमथाब्रुवन् ।
उत्क्वैवं वचनं देवान्विरिञ्चिस्त्रिदिवं ययौ॥१७॥

सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव ।
जरत्कारुरितिख्यातां तां तस्मै प्रतिपादय॥१८॥

भैक्षवद्भिक्षमाणाय नागानां भयशान्तये ।
ऋषये सुव्रतायैनामेष मोक्षः श्रुतो मया॥१९॥

॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एलापत्रवाक्ये अष्टत्रिंशोऽध्यायः॥३८॥
एकोनचत्वारिंशोऽध्यायः

सौतिरुवाच। एलापत्रवचः श्रुत्वा ते नागा द्विजसत्तम ।
सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन्॥१॥

एकोनचत्वारिंशः अध्यायः एलापत्रेति॥१॥

ततःप्रभृति तां कन्यां वासुकिः पर्यरक्षत ।
जरत्कारुं स्वसारं वै परं हर्षमवाप च॥२॥

ततो नातिमहान्कालः समतीत इवाभवत् ।
अथ देवासुराः सर्वे ममन्थुर्वरुणालयम्॥३॥

समतीत इव अत्यल्पत्वात् शापात् प्राक् हयोत्पत्तिस्ततोऽपि प्राक् प्रवृत्तं मन्थनमनुवदति शापमोक्षोपायं प्रदर्शयितुम्। अथेत्यादिना॥३॥

तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः ।
समाप्यैव च तत्कर्म पितामहमुपागमन्॥४॥

नेत्रं रज्जुः॥४॥

देवा वासुकिना सार्धं पितामहमथाव्रुवन् ।
भगवञ्च्छापभीतोऽयं वासुकिस्तप्यते भृशम्॥५॥

अस्यैतन्मानसं शल्यं समुद्धर्तुं त्वमर्हसि ।
जनन्याः शापजं देव ज्ञातीनां हितमिच्छतः॥६॥

शल्यं शापजम्॥६॥

हितो ह्ययं सदास्मकं प्रियकारी च नागराट् ।
प्रसादं कुरु देवेश शमयास्य मनोज्वरम्॥७॥

प्रियकरी प्रतिकल्पं नेत्रीभूय मन्थनोपयोगित्वात्॥७॥

ब्रह्मोवाच। मयैव तद्वितीर्णं वै वचनं मनसाऽमराः ।
एलापत्रेण नागेन यदस्याभिहितं पुरा॥८॥

तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचः स्वयम् ।
विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः॥९॥

उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः ।
तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु॥१०॥

एलापत्रेण यत्प्रोक्तं वचनं भुजगेन ह ।
पन्नगानां हितं देवास्तत्तथा न तदन्यथा॥११॥

सौतिरुवाच। एतच्छ्रुत्वा तु नागेन्द्रः पितामहवचस्तदा ।
संदिश्य पन्नगान्सर्वान्वासुकिः शापमोहितः॥१२॥

स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति ।
सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत्॥१३॥

जरत्कारौ जरत्कारुनिमित्तं तदन्वेषणायेत्यर्थः। समादधत् सम्यक् नियोजितवान्॥१३॥

जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः ।
शीघ्रमेत्य तदाऽऽख्येयं तन्नः श्रेयो भविष्यति॥१४॥

अन्वेषणफलमाह। जगत्कारुरिति॥१४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि जरत्कार्वन्वेषणे एकोनचत्वारिंशोऽध्यायः॥३९॥
चत्वारिंशोऽध्यायः

शौनक उवाच। जरत्कारुरिति ख्यातो यस्त्वया सूतनन्दन ।
इच्छामि तदहं श्रोतुं ऋषेस्तस्य महात्मनः॥१॥

चत्वारिंशः अध्यायः जरत्कारुरिति॥१॥

किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि ।
जरत्कारुनिरुक्तिं त्वं यथावद्वक्तुमर्हसि॥२॥

सौतिरुवाच। जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम् ।
शरीरं कारु तस्यासीत्तत्स धीमाञ्च्छनैःशनैः॥३॥

जरत्कारुनाम निर्वक्ति। जरेति। जरच्छब्दः क्षयवाची कारुशब्दो दारुणवाची। तस्यास्तीकपितुः शरीरं कारुकामाद्युद्भवमूलत्वात् दारुणमासीत्। तस्य तेन तपसा क्षेपणं कृतमतोऽसौ जगत्कारुरित्यर्थ॥३॥

क्षपयामास तीव्रेण तपसेत्यत उच्यते ।
जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा॥४॥

वासुकेर्भगिनी तथेति तादृश्येव। अभर्तृकाया युवत्याः शरीरक्षेपणमेव श्रेयस्करमिति भावः॥४॥

एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा ।
उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन्॥५॥

प्राहसत् अतिजीर्णयोरपि ब्रह्मचर्यविनाशः प्रसक्त इत्याश्चर्ये मत्वेति भावः। आमन्त्र्य हे उग्रश्रव इति संबोध्य। उपपन्नं युक्तम्। यत्तुल्यवयोरुपयोर्विवाह इति भावः॥५॥

शौनक उवाच। उक्तं नाम यथा पूर्वं सर्वं तच्छ्रुतवानहम् ।
यथा तु जातो ह्यास्तीक एतदिच्छामि वेदितुम् ।
तच्छ्रुत्वा वचनं तस्य सौतिः प्रोवाच शास्त्रतः॥६॥

सौतिरुवाच। संदिश्य पन्नगान्सर्वान्वासुकिः सुसमाहितः ।
स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति॥७॥

अथ कालस्य महतः स मुनिः संशितव्रतः ।
तपस्यभिरतो धीमान्स दारान्नाभ्यकाङ्क्षत॥८॥

स तूर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयः कृतात्मा ।
चचार सर्वां पृथिवीं महात्मा न चापि दारान्मनसाध्यकाङ्क्षत्॥९॥

ततोऽपरस्मिन्संप्राप्ते काले कस्मिंश्चिदेव तु ।
परिक्षिन्नाम राजासीद्ब्रह्मन्कौरववंशजः॥१०॥

सर्पसत्रकारणं वक्तुमाह। तत इत्यादिना। ततो वासुकेराश्वासनानन्तरं अपरस्मिन्पश्चाद्भूते कस्मिंश्चित्काले। अमङ्गलत्वान्नामाप्यवाच्यं कलेस्तदादौ इत्यर्थः॥१०॥

यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि ।
बभूव मृगयाशीलः पुरास्य प्रपितामहः॥११॥

मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा ।
अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः॥१२॥

स कदाचिन्मृगं विद्ध्वा बाणेनानतपर्वणा ।
पृष्ठतो धनुरादाय ससार गहने वने॥१३॥

यथैव भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि ।
अन्वगच्छद्धनुष्पाणिः पर्यन्वेष्टुमितस्ततः॥१४॥

न हि तेन मृगो विद्धो जीवन्गच्छति वै वने ।
पूर्वरूपं तु तत्तूर्णं सोऽगात्स्वर्गतिं प्रति॥१५॥

पूर्वरुपमिति। परिक्षितः तूर्णं स्वर्गगति प्रति तत् मृगस्यादर्शनं पूर्वरुपं कारणं स राजा अगात्प्राप्तवान् तत एव हि मूढो राजा विप्रावमाननां शापमूलभूतां कृतवानित्यर्थः॥१५॥

परिक्षितो नरेन्द्रस्य विद्धो यन्नष्टवान्मृगः ।
दूरं चापहृतस्तेन मृगेण स महीपतिः॥१६॥

परिश्रान्तः पिपासार्त आससाद मुनिं वने ।
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम्॥१७॥

प्रचारेषु गोष्ठेषु॥१७॥

भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ।
तमभिद्रुत्य वेगेन स राजा संशितव्रतम्॥१८॥

उपयुंजानं भक्षयन्तम्॥१८॥

अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ।
भोभो ब्रह्मन्नहं राजा परीक्षिदभिमन्युजः॥१९॥

मया विद्धो मृगो नष्टः कच्चित्तं दृष्टवानसि ।
स मुनिस्तं तु नोवाच किंचिन्मौनव्रते स्थितः॥२०॥

तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ।
समुत्क्षिप्य धनुष्कोट्या स चैनं समुपैक्षत॥२१॥

समासजत् आरोपयामास धनुष्कोट्या धनुष्प्रान्तेन॥२१॥

न स किंचिदुवाचैनं शुभं वा यदि वाऽशुभम् ।
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् ।
दृष्ट्वा जगाम नगरमृषिस्त्वासीत्तथैव सः॥२२॥

स राजेति। तं तथागतं दृढसमाधिं दृष्ट्वा क्रोधमुत्सृज्य व्यथितः सन् जगाम नगरम्। व्यथितेनापि सर्पापसारणं न कृतं दीर्घद्रोहित्वात् क्षत्रस्य किंचित्क्रोधोनुवर्तत एवेति ज्ञेयम्। तथोक्तं पौष्येणः क्षत्रियस्य वाक्सूनृता हृदयं तीक्ष्णधारमिति॥२२॥

न हि तं राजशार्दूलं क्षमाशीलो महामुनिः ।
स्वधर्मनिरतं भूपं समाक्षिप्तोऽप्यधर्षयत्॥२३॥

तदिदमुक्तम्। स्वधर्मनिरतमिति। स्वधर्मः तीक्ष्णहृदयत्वं तन्निरतम्। जातिस्वभावज्ञो मुनिः समाक्षिप्तोऽपि अधर्षयत्। धृष्टत्वं कोपस्य निग्रहे धैर्यम् अकरोत्॥२३॥

न हि तं राजशार्दूलस्तथा धर्मपरायणम् ।
जानाति भरतश्रेष्ठस्तत एनमधर्षयत्॥२४॥

तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः ।
शृङ्गी नाम महाक्रोधो दुष्पसादो महाव्रतः॥२५॥

स देवं परमासीनं सर्वभूतहिते रतम् ।
ब्रह्माणमुपतस्थे वै काले काले सुंसयतः॥२६॥

स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ।
सख्योक्तः क्रीडमानेन स तत्र हसता किल॥२७॥

संरम्भात्कोपनोऽतीव विषकल्पो मुनेः सुतः ।
उद्दिश्य पितरं तस्य यच्छ्रुत्वा रोषमाहरत् ।
ऋषिपुत्रेण धर्मार्थे कृशेन द्विजसत्तम॥२८॥

संरंभात् क्रोधावेशात् कोपनस्तीक्ष्णः॥२८॥

कृश उवाच। तेजस्विनस्तव पिता तथैव च तपस्विनः ।
शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव॥२९॥

व्याहरत्स्वृषिपुत्रेषु मा स्म किंचिद्वचो वद ।
अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु॥३०॥

क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः ।
दर्पजाः पितरं द्रष्टा यस्त्वं शवधरं तथा॥३१॥

पित्रा च तव तत्कर्म नानुरूपमिवात्मनः ।
कृतं मुनिजनश्रेष्ठ येनाहं भृशदुःखितः॥३२॥

पित्रा चेति तत्तत्र धर्षणे विषये अपराधाख्यं च तव पित्रा न कृतं येन तव पितुः धर्षणे नाहं भृशं दुःखितोऽस्मि। आत्मनः इव दृष्टान्तः। विनाऽपराधं तव पितुर्धर्षणा दृष्टा मत्पितुर्धर्षणयेवाहं भृशं दुःखितोऽस्मीत्यर्थः॥३२॥
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि परिक्षिदुपाख्याने चत्वारिंशोऽध्यायः॥४०॥
एकचत्वारिंशोऽध्यायः

सौतिरुवाच। एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः ।
मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना॥१॥

एकचत्वारिंशः अध्यायः एवमुक्त इति । मन्युना क्रोधेन ॥१॥

स त कृशमभिप्रेक्ष्य सूनृतां वाचमुत्सृजन् ।
अपृच्छत्तं कथं तातः स मेऽद्य मृतधारकः॥२॥

कृश उवाच। राज्ञा परिक्षिता तात मृगयां परिधावता ।
अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः॥३॥

शृङ्ग्युवाच। किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः ।
ब्रूहि तत्कृश तत्त्वेन पश्य मे तपसो बलम्॥४॥

कृश उवाच। स राजा मृगयां यातः परिक्षिदभिमन्युजः ।
ससार मृगमेकाकी विद्ध्वा बाणेन शीघ्रगम्॥५॥

न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने ।
पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम्॥६॥

अनभिभाषिणं मौनशीलम् ॥६॥

तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः ।
पुनःपुनर्मृगं नष्टं प्रपच्छ पितरं तव॥७॥

नष्टं पलायनेनादर्शनं गतम् ॥७॥

स च मौनव्रतोपेतो नैव तं प्रत्यभाषत ।
तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासजत्॥८॥

शृङ्गिंस्तव पिता सोऽपि तथैवास्ते यतव्रतः ।
सोऽपि राजा स्वनगरं प्रस्थितो गजसाह्वयम्॥९॥

गजसाह्वयं हस्तिनापुरम् ॥९॥

सौतिरुवाच। श्रुत्वैवमृषिपुत्रस्तु शवं स्कन्धे प्रतिष्ठितम् ।
कोपसंरक्तनयनः प्रज्वलन्निव मन्युना॥१०॥

आविष्टः स हि कोपेन शशाप नृपतिं तदा ।
वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः॥११॥

क्रोधवेगबलात्कृतः क्रोधावेशपरवशः ॥११॥

शृङ्ग्युवाच। योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य ह ।
स्कन्धे मृतं समास्राक्षीत्पन्नगं राजकिल्विषी॥१२॥

कृच्छ्रगतस्य मौनव्रतधरस्य । राजा चासौ किल्बिषी च राजकल्बिषी ॥१२॥

तं पापमतिसंक्रुद्धस्तक्षकः पन्नगेश्वरः ।
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः॥१३॥

आशीविषः दंष्ट्राविषः ॥१३॥

सप्तरात्रादितो नेता यमस्य सदनं प्रति ।
द्विजानामवमन्तारं कुरूणामयशस्करम्॥१४॥

नेता नेष्यति ॥१४॥

सौतिरुवाच। इति शप्त्वाऽतिसंक्रुद्धः शृङ्गी पितरमभ्यगात् ।
आसीनं गोव्रजे तस्मिन्वहन्तं शवपन्नगम्॥१५॥

स तमलक्ष्य पितरं शृङ्गी स्कन्धगतेन वै ।
शवेन भुजगेनासीद्भूयः क्रोधसमाकुलः॥१६॥

दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् ।
श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना॥१७॥

राज्ञा परिक्षिता कोपादशपन्तमहं नृपम् ।
यथार्हति स एवोग्रं शापं कुरुकुलाधमः ।
सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः॥१८॥

वैवस्वतस्य सदनं नेता परमदारुणम् ।
तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम्॥१९॥

शमीक उवाच। न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् ।
वयं तस्य नरेन्द्रस्य विषये निवसामहे॥२०॥

विषये देशे ॥२०॥

न्यायतो रक्षितास्तेन तस्य पापं न रोचये ।
सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा॥२१॥

तस्य पापं द्रोहं सर्वथा अस्मास्वपराधेनाऽपि वर्तमानस्य ॥२१॥

क्षन्तव्यं पुत्रधर्मो हि हतो हन्ति न संशयः ।
यदि राजा न संरक्षेत्पीडा नः परमा भवेत्॥२२॥

हतो नाशितो धर्मो हन्त्येव धर्मनाशमेवाह यदीत्यादिना ॥२२॥

न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् ।
रक्ष्यमाणा वयं तात राजभिर्धर्मदृष्टिभिः॥२३॥

चरामो विपुलं धर्मं तेषां भागोऽस्ति धर्मतः ।
सर्वथा वर्तमानस्य राज्ञः क्षन्तव्यमेव हि॥२४॥

परिक्षित्तु विशेषेण यथाऽस्य प्रपितामहः ।
रक्षत्यस्मांस्तथा राज्ञा रक्षितव्याः प्रजा विभो॥२५॥

राज्ञा परिक्षिता रक्षितव्याः । अस्य नाशे प्रजोच्छेदकृतं पापं तवेति भावः ॥२५॥

तेनेह क्षिधितेनाद्य श्रान्तेन च तपस्विना ।
अजानता कृतं मन्ये व्रतमेतदिदं मम॥२६॥

व्रतम् अजानतेति सम्बन्धः ॥२६॥

अराजके जनपदे दोषा जायन्ति वै सदा ।
उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै॥२७॥

दोषा दस्युपीडादयः जायन्ति उद्भवन्ति ॥२७॥

दण्डात्प्रतिभयं भूयः शान्तिरुत्पद्यते तदा ।
नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम्॥२८॥

राज्ञा प्रतिष्ठितो धर्मो धर्मात्स्वर्गः प्रतिष्ठितः ।
राज्ञो यज्ञक्रियाः सर्वा यज्ञाद्देवाः प्रतिष्ठिताः॥२९॥

देवाद्वृष्टिः प्रवर्तेत वृष्टेरोषधयः स्मृताः ।
ओषधिभ्यो मनुष्याणां धारयन्सततं हितम्॥३०॥

धारयन् कुर्वन्मनुष्याणां हितम् ॥३० ॥

मनुष्याणां च यो धाता राजा राज्यकरः पुनः ।
दशश्रोत्रियसमो राजा इत्येवं मनुरब्रवीत्॥३१॥

धाता पोषकः श्रोत्रियो वेदाध्यायी अक्षराधिक्यमार्षम् ॥३१॥

तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना ।
अजानता कृतं मन्ये व्रतमेतदिदं मम॥३२॥

कस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् ।
न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा॥३३॥

बाल्यात् अविवेकात् ॥३३॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि परिक्षिच्छापे एकचत्वारिंशोऽध्यायः॥४१॥
द्विचत्वारिंशोऽध्यायः

शृङ्ग्युवाच। यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् ।
प्रियं वाऽप्यप्रियं वा ते वागुक्ता न मृषा भवेत्॥१॥

द्विचत्वारिंशः अध्यायः यद्येतदिति ॥१॥

नैवान्यथेदं भविता पितरेष ब्रवीमि ते ।
नाहं मृषा ब्रवीम्येवं स्वैरेष्वपि कुतः शपन्॥२॥

स्वैरेष्वपि परिहासादिष्वपि ॥२॥

शमीक उवाच। जानाम्युग्रप्रभावं त्वां तात सत्यगिरं तथा ।
नानृतं चोक्तपूर्वं ते नैतन्मिथ्या भविष्यति॥३॥

पित्रा पुत्रो वयस्थोऽपि सततं वाच्य एव तु ।
यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः॥४॥

वयस्थोऽपि प्रौढौऽपि वाच्यः शास्यः ॥४॥

किं पुनर्बाल एव त्वं तपसा भावितः सदा ।
वर्धते च प्रभवतां कोपोऽतीव महात्मनाम्॥५॥

प्रभवतां योगैश्वर्यवतां कोपोऽतीव वर्धते ॥५॥

सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर ।
पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम्॥६॥

स च तपोनाशक इति शिक्षणीय एव त्वं मयेत्याशयेनाह सोऽहमिति । बालतां विवेकशून्यताम् । साहसम् आकस्मिकमकार्यकारित्वं पुत्रत्वं चावेक्ष्य त्वयि वक्तव्यं उपदेश्यत्वं पश्यामि ॥६॥

स त्वं शमपरो भूत्वा वन्यमाहारमाचरन् ।
चर क्रोधमिमं हित्वा नैवं धर्मं प्रहास्यसि॥७॥

सत्त्वमिति । क्रोधाहनने धर्मं हास्यस्येवेत्यर्थः ॥७॥

क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम् ।
ततो धर्मविहीनानां गतिरिष्टा न विद्यते॥८॥

यतीनाम् आमुष्मिकहितार्थं यतमानानाम् ॥८॥

शम एव यतीनां हि क्षमिणां सिद्धिकारकः ।
क्षमावतामयं लोकः परश्चैव क्षमावताम्॥९॥

तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः ।
क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान्॥१०॥

ब्रह्मणः समनन्तरान् प्रत्यासन्नान् क्रममुक्तिप्रदानित्यर्थः ॥१०॥

मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै ।
तत्करिष्याम्यहं तात प्रेपयिष्ये नृपाय वै॥११॥

प्रेषयिष्ये सन्देशहरमिति शेषः ॥११॥

मम पुत्रेण शप्तोऽसि बालेन कृशबुद्धिना ।
ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा॥१२॥

सौतिरुवाच। एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः ।
परिक्षिते नृपतये दयापन्नो महातपाः॥१३॥

संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च ।
शिष्यं गौरमुखं नाम शीलवन्तं समाहितम्॥१४॥

सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् ।
विवेश भवनं राज्ञः पूर्वं द्वास्थैर्निवेदितः॥१५॥

पूजितस्तु नरेन्द्रेण द्विजो गौरमुखस्तदा ।
आचख्यौ च परिश्रान्तो राज्ञः सर्वमशेषतः॥१६॥

परिश्रान्तः परिर्वर्जने श्रमहीनः ॥१६॥

शमीकवचनं घोरं यथोक्तं मन्त्रिसन्निधौ ।
गौरमुख उवाच। शमीको नाम राजेन्द्र वर्तते विषये तव॥१७॥

ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः ।
तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः॥१८॥

अवसक्तो धनुष्कोट्या स्कन्धे मौनान्वितस्य च ।
क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे॥१९॥

न च क्षमे न क्षान्तवान् ॥१९॥

तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै ।
तक्षकः सप्तरात्रेण मृत्युस्तव भविष्यति॥२०॥

तेन च पितुरज्ञातं यथा स्यात्तथा शप्तोऽसि ॥२०॥

तत्र रक्षां कुरुष्वेति पुनः पुनरथाऽब्रवीत् ।
तदन्यथा न शक्यं च कर्तुं केनचिदप्युत॥२१॥

न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् ।
ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना॥२२॥

सातिरुवाच। इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः ।
पर्यतप्यत तत्पापं कृत्वा राजा महातपाः॥२३॥

पापं कृत्वैव पर्यतप्यत न तु मृत्युं श्रुत्वा ॥२३॥

तं च मौनव्रतं श्रुत्वा वने मुनिवरं तदा ।
भूय एवाभवद्राजा शोकसंतप्तमानसः॥२४॥

ब्रह्मणस्यावज्ञा तत्रापि मौनिनस्तत्रापि मयि दयालोरित्यालोच्य शोकोतीव तस्य ववृधे इत्याह । तं चेत्यादिना ॥२४॥

अनुक्रोशात्मतां तस्य शमीकस्यावधार्य च ।
पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः॥२५॥

अनुक्रोशात्मतां दयालुताम् ॥२५॥

न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत ।
अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत्॥२६॥

ततस्तं प्रेषयामास राजा गौरमुखं तदा ।
भूयः प्रसादं भगवान्करोत्विह ममेति वै॥२७॥

तस्मिंश्च गतमात्रेऽथ राजा गौरमुखे तदा ।
मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः॥२८॥

संमन्त्र्य मन्त्रिभिश्चैव स तथा मन्त्रतत्त्ववित् ।
प्रासादं कारयामास एकस्तम्भं सुरक्षितम्॥२९॥

सर्वत एवात्मानं गोपायेदिति शास्त्रादात्मरक्षार्थं यत्नं कृतवानित्याह । प्रासादमित्यादिना ॥२९॥

रक्षां च विदधे तत्र भिषजश्चौषधानि च ।
ब्राह्मणान्मन्त्रसिद्धांश्च सर्वतो वै न्ययोजयत्॥३०॥

राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः ।
मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः॥३१॥

न चैनं कश्चिदारूढं लभते राजसत्तमम् ।
वातोऽपि निश्चरंस्तत्र प्रवेशे विनिवार्यते॥३२॥

आरूढं प्रासादारूढम् । न लभते द्रष्टुमपि न शक्नोति । आरोढुमिति पाठे एनं प्रासादमिति द्रष्टव्यम् । राजसत्तमं राज्ञः समीचीनतमम् ॥३२॥

प्राप्ते च दिवसे तस्मिन्सप्तमे द्विजसत्तमः ।
काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम्॥३३॥

चिकित्सितुं निर्विषं कर्तुम् ॥३३॥

श्रुतं हि तेन तदभूद्यथा तं राजसत्तमम् ।
तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम्॥३४॥

तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् ।
तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन्॥३५॥

अर्थः स्पष्ट एव भविता । धर्मोऽपि सर्वलोकोपकारकस्य राज्ञो जीवनेन । एतेन भृत्यस्यापि निष्कपटं महत्सेवाङ्कुवता धर्मवृद्धिरस्तीति ज्ञेयम् ॥३५॥

तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि ।
गच्छन्तमेकमनसं द्विजो भूत्वा वयोऽतिगः॥३६॥

तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुंगवम् ।
क्व भवांस्त्वरितो याति किंच कार्यं चिकीर्षति॥३७॥

काश्यप उवाच। नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम् ।
तक्षकः पन्नगश्रेष्ठस्तेजसाऽद्य प्रधक्ष्यति॥३८॥

तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसम् ।
पाण्डवानां कुलकरं राजानममितौजसम् ।
गच्छामि त्वरितं सौम्य सद्यः कर्तुमपज्वरम्॥३९॥

तक्षक उवाच। अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् ।
निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम्॥४०॥

काश्यप उवाच। अहं तं नृपतिं गत्वा त्वया दष्टमपज्वरम् ।
करिष्यामीति मे बुद्धिर्विद्याबलसमन्विता॥४१॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि काश्यपागमने द्विचत्वारिंशोऽध्यायः॥४२॥
त्रिचत्वारिंशोऽध्यायः

तक्षक उवाच। यदि दष्टं मयेह त्वं शक्तः किंचिच्चिकित्सितुम् ।
ततो वृक्षं मया दष्टमिमं जीवय काश्यप॥१॥

त्रिचत्वारिंशः अध्यायः यदीति ॥१॥

परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च ।
न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम॥२॥

काश्यप उवाच। दश नागेन्द्र वृक्षं त्वं यद्येतदभिमन्यसे ।
अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम॥३॥

दश दंशं कुरु ॥३॥

सौतिरुवाच। एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना ।
अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः॥४॥

स वृक्षस्तेन दष्टस्तु पन्नगेन महात्मना ।
आशीविषविषोपेतः प्रजज्वाल समन्ततः॥५॥

तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् ।
कुरु यत्नं द्विजश्रेष्ठ जीवयैव वनस्पतिम्॥६॥

नगं वृक्षम् ॥६॥

सौतिरुवाच। भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा ।
भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत्॥७॥

विद्याबलं पन्नगेन्द्र पश्य मेऽद्य वनस्पतौ ।
अहं संजीवयाम्येनं पश्यतस्ते भुजंगम॥८॥

ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः ।
भस्मराशीकृतं वृक्षं विद्यया समजीवयत्॥९॥

अङ्कुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम् ।
पलाशिनं शाखिनं च तथा विटपिनं पुनः॥१०॥

तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना ।
उवाच तक्षको ब्रह्मन्नैतदत्यद्भुतं त्वयि॥११॥

नैतदिति हे ब्रह्मन् त्वयि सर्वशक्तिमति ब्रह्मीभूते एतत् अद्भुतं न । एतदिति पाठे यथाश्रुतोऽर्थः॥११॥

द्विजेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा ।
कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन॥१२॥

यत्तेऽभिलषितं प्राप्तं फलं तस्मान्नृपोत्तमात् ।
अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम्॥१३॥

प्राप्तुम् अभिलषितं फलमित्यन्वयः ॥१३॥

विप्रशापाभिभूते च क्षीणायुषि नराधिपे ।
घटमानस्य ते विप्र सिद्धिः संशयिता भवेत्॥१४॥

घटमानस्य सज्जमानस्य ॥१४॥

ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् ।
निरंशुरिव घर्मांशुरन्तर्धानमितो व्रजेत्॥१५॥

निरंशुः राह्वादिना हतप्रभः ॥१५॥

काश्यप उवाच। धनार्थी याम्यहं तत्र तन्मे देहि भुजंगम ।
ततोऽहं विनिवर्तिष्ये स्वापतेयं प्रगृह्य वै॥१६॥

स्वापतेयं हिरण्यं स्वं धनं तस्य पतिः अग्निर्भुवद्रयिपतीरयीणामिति लिङ्गात् रयिरिति धननाम स्वपतेरिदं स्वापतेयम् । आग्नेयं वै हिरण्यमिति श्रुतेश्च । ‘द्रव्यं वित्तं स्वापतेयम्’ इत्यमरः ॥१६॥

तक्षक उवाच। यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् ।
अहमेव प्रदास्यामि निवर्तस्व द्विजोत्तम॥१७॥

सौतिरुवाच। तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः ।
प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान्॥१८॥

प्रदध्यौ ध्यानं चक्रे राजानं प्रति राज्ञो मृत्युमुद्दिश्येत्यर्थः ॥१८॥

दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा ।
क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः॥१९॥

लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ।
निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि॥२०॥

समयेन कालेन सङ्केतविशेषेण गुप्तवेषेणेति वा ॥२०॥

जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ।
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम्॥२१॥

मन्त्रैर्विषहरैर्दिव्यै रक्ष्यमाणं प्रयत्नतः ।
सौतिरुवाच। स चिन्तयामास तदा मायायोगेन पार्थिवः॥२२॥

गदैः दंशस्थाने क्षुरेणोत्कीर्णे मर्द्यमानैरौषधविशेषैः ॥२२॥

मया वञ्चयितव्योऽसौ क उपायो भवेदिति ।
ततस्तापसरूपेण प्राहिणोत्स भुजंगमान्॥२३॥

फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ।
तक्षक उवाच। गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया॥२४॥

फलपत्रोदकं नागाः प्रतिग्राहयितुं नृपम् ।
सौतिरुवाच। ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः॥२५॥

उपनिन्युस्तथा राज्ञे दर्भानम्भः फलानि च ।
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान्॥२६॥

आपः अपः ॥२६॥

कृत्वा तेषां च कार्याणि गम्यतामित्युवाच तान् ।
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु॥२७॥

तेषां कार्याणि पारितोषिकदानानि॥२७॥

अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ।
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः॥२८॥

तापसैरुपनीतानि फलानि सहिता मया ।
ततो राजा ससचिवः फलान्यादातुमैच्छत॥२९॥

आदातुं भक्षितुम् ॥२९॥

विधिना संप्रयुक्तो वै ऋषिवाक्येन तेन तु ।
यस्मिन्नेव फले नागस्तमेवाभक्षयत्स्वयम्॥३०॥

विधिना दैवेन । तमेव तदेव ॥३०॥

ततो भक्षयतस्तस्य फलात्कृमिरभूदणुः ।
ह्रस्वकः कृष्णनयनस्ताम्रवर्णोऽथ शौनक॥३१॥

ह्रस्वकः कुत्सितो हस्वः ॥३१॥

स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् ।
अस्तमभ्येति सविता विषादद्य न मे भयम्॥३२॥

सत्यवागस्तु स मुनिः कृमिर्मां दशतामयम् ।
तक्षको नाम भूत्वा वै तथा परिहृतं भवेत्॥३३॥

परिहृतं परिहारः ब्राह्मणावमाननादोषस्य भवेत् ॥३३॥

ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः ।
एवमुक्त्वा स राजेन्द्रो ग्रीवायां सन्निवेश्य ह॥३४॥

कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ।
प्रहसन्नेव भोगेन तक्षकेणाभिवेष्टितः॥३५॥

तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ।
वेष्टयित्वा च भोगेन विनद्य च महास्वनम् ।
अदशत्पृथिवीपालं तक्षकः पन्नगेश्वरः॥३६॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि तक्षकदंशे त्रिचत्वारिंशोऽध्यायः॥४३॥
चतुश्चत्वारिंशोऽध्यायः

सौतिरुवाच। ते तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् ।
विषण्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः॥१॥

चतुश्चत्वारिंशः अध्यायः ते तथेति ॥१॥

तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः ।
अपश्यन्त तथा यान्तमाकाशे नागमद्भुतम्॥२॥

सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् ।
तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः॥३॥

सीमन्तः स्त्रीणां द्विफालबद्धेषु केशेषु मध्ये सिन्दूररेखा । तं कुर्वाणं पद्मवत् रक्तवर्णत्वात् । आकाशस्य च नीलत्वात् ॥३॥

ततस्तु ते तद्गृहमग्निनावृतं प्रदीप्यमानं विषजेन भोगिनः ।
भयात्परित्यज्य दिशः प्रपेदिरे पपात राजाऽशनिताडितं यथा॥४॥

अशनिताडितो वज्राहतः ॥४॥

ततो नृपे तक्षकतेजसा हते प्रयुज्य सर्वाः परलोकसत्क्रियाः ।
शुचिर्दिजो राजपुरोहितस्तदा तथैव ते तस्य नृपस्य मन्त्रिणः॥५॥

नृपं शिशुं तस्य सुतं प्रचक्रिरे समेत्य सर्वे पुरवासिनो जनाः ।
नृपं यमाहुस्तममित्रघातिनं कुरुप्रवीरं जनमेजयं जनाः॥६॥

स बाल एवार्यमतिर्नृपोत्तमः सहैव तैर्मन्त्रिपुरोहितैस्तदा ।
शशास राज्यं कुरुपुंगवाग्रजो यथाऽस्य वीरः प्रपितामहस्तथा॥७॥

प्रपितामहो युधिष्ठिरः ॥७॥

ततस्तु राजानममित्रतापनं समीक्ष्य ते तस्य नृपस्य मन्त्रिणः ।
सुवर्णवर्माणमुपेत्य काशिपं वपुष्टमार्थं वरयांप्रचक्रमुः॥८॥

वपुष्टमा काशिराजकन्या ॥८॥

ततः स राजा प्रददौ वपुष्टमां कुरुप्रवीराय परीक्ष्य धर्मतः ।
स चापि तां प्राप्य मुदायुतोऽभवन् न चान्यनारीषु मनो दधे क्वचित्॥९॥

सरःसु फुल्लेषु वनेषु चैव प्रसन्नचेता विजहार वीर्यवान् ।
तथा स राजन्यवरो विजह्रिवान् यथोर्वशीं प्राप्य पुरा पुरूरवाः॥१०॥

वपुष्टमा चापि वरं पतिव्रता प्रतीतरूपा समवाप्य भूपतिम् ।
भावेन रामा रमयांबभूव विहारकालेष्ववरोधसुन्दरी॥११॥

वरं वरणीयम् । प्रतीतरूपा हृष्टरूपा । प्रतीतं प्रख्यातं रूपं सौन्दर्यं यस्या इति वा । भावेनानुरागातिशयेन । ‘अनुभूतमिहाकूतं मृगयापदमापदाम् । विष्णुरातोऽपियद्रागादगात्तक्षकभक्ष्यताम्’ इति रत्नगर्भः ॥११॥
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि जनमेजयराज्याभिषेके चतुश्चत्वारिंशोऽध्यायः॥४४॥
पञ्चचात्वारिंशोऽध्यायः

सौतिरुवाच। एतस्मिन्नेव काले तु जरत्कारुर्महातपाः ।
चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः॥१॥

पञ्चचत्वारिंशः अध्यायः एतस्मिन्निति ॥१॥

चरन्दीक्षां महातेजा दुश्चराम कृतात्मभिः ।
तीर्थेष्वाप्लवनं कुत्वा पुण्येषु विचचार ह॥२॥

वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः ।
सं ददर्श पितॄन्गर्ते लम्बमानानधोमुखान्॥३॥

एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् ।
तं तन्तुं च शनैराखुमाददानं बिलेशयम्॥४॥

निराहारान्कृशान्दीनान्गर्ते स्वत्राणमिच्छतः ।
उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत॥५॥

स्वत्राणं स्वरक्षाम् । दीनरूपः करुणापीडितत्वात् ॥५॥

के भवन्तोऽवलम्बन्ते वीरमस्तम्बमाश्रिताः ।
दुर्बलं खादितैर्मूलैराखुना बिलवासिना॥६॥

वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् ।
तदप्ययं शनैराखुरादत्ते दशनैः शितैः॥७॥

छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव ।
ततस्तु पतितारोऽत्र गर्ते व्यक्तमधोमुखाः॥८॥

पतितारः पतिष्यथ ॥८॥

तस्य मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् ।
कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः॥९॥

कृच्छ्रं दुस्तरं यथा स्यात्तथा । आपदम् आपन्नान्प्राप्तान् ॥९॥

तपसोऽस्य चतुर्थेन तृतीयेनाथवा पुनः ।
अर्धेन वापि निस्तर्तुमापदं ब्रूत मा चिरम्॥१०॥

अथवापि समग्रेण तरन्तु तपसा मम ।
भवन्तः सर्व एवेह काममेवं विधीयताम्॥११॥

पितर ऊचुः। वृद्धो भवान्ब्रह्मचारी यो न स्त्रातुमिहेच्छसि ।
न तु विप्राग्र्यतपसा शक्यमेतद्व्यपोहितुम्॥१२॥

तत् व्यपोहितुम् अस्मदीयं कृच्छ्रम् अपनेतुम् ॥१२॥

अस्ति नस्तात तपसः फलं प्रवदतां वर ।
संतानप्रक्षयाद्ब्रह्मन्पतामो निरये शुचौ॥१३॥

प्रवदतां प्रवक्तॄणाम् अध्यापकानाम् ॥१३॥

सन्तानं हि परो धर्म एवमाह पितामहः ।
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै॥१४॥

ज्ञानं संज्ञा यया संज्ञया त्वां जानीमः मूर्च्छितकल्पाः स्म इत्यर्थः ॥१४॥

येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ।
वृद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान्॥१५॥

शोचते चैव कारुण्याच्छ्रुणु ये वै वयं द्विज ।
यायावरा नाम वयमृषयः संशितव्रताः॥१६॥

लोकात्पुम्यादिह भ्रष्टाः सन्तानप्रक्षयान्मुने ।
प्रणष्टं नस्तपस्तीव्रं न हि नस्तन्तुरस्ति वै॥१७॥

अस्तित्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा ।
मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः॥१८॥

जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः ।
नियतात्मा महात्मा च सुव्रतः सुमहातपाः॥१९॥

नियतात्मा जितचित्तः महात्मा महामतिः ॥१९॥

तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् ।
न तस्य भार्या पुत्रो वा बान्धवो वाऽस्ति कश्चन॥२०॥

कृच्छ्रं सङ्कटम् आपादिताः प्रापिताः ॥२०॥

तस्माल्लम्बामहे गर्ते नष्टसंज्ञा ह्यनाथवत् ।
स वक्तव्यस्त्वया दृष्टो ह्यस्माकं नाथवत्तया॥२१॥

नाथवत्तया दयया परवशतया ॥२१॥

पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः ।
साधु दारान्कुरुष्वेति प्रजामुत्पादयेति च॥२२॥

कुलतन्तुर्हि नः शिष्टः स एकैकस्तपोधन ।
यस्त्वं पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रतान्॥२३॥

एषोऽस्माकं कुलस्तम्ब आस्ते स्वकुलवर्धनः ।
यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः॥२४॥

एते नस्तन्तवस्तात कालेन परिभक्षिताः ।
यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम्॥२५॥

यत्र लम्बामहे गर्ते सोऽप्येकस्तप आस्थितः ।
यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः॥२६॥

स तं तपोरतं मन्दं शनैः क्षपयते तुदन् ।
जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम्॥२७॥

मन्दात्मानम् अदीर्घदर्शिनम् अचेतसं पाषाणतुल्यम् ॥२७॥

न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम ।
छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः॥२८॥

अधः प्रविष्टान्पश्यास्मान्यथा दुष्कृतिनस्तथा ।
अस्मासु पतितेष्वत्र सह सर्वैः सबान्धवैः॥२९॥

छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः ।
तपोऽवाप्यथ यज्ञो यच्चान्यत्पावनं महत्॥३०॥

कृच्छ्रं सङ्कटम् आपादिताः प्रापिताः ॥३०॥

तत्सर्वं न समं तात संतत्येति सतां मतम् ।
स तात दृष्ट्वा ब्रूयास्तं जरत्कारुं तपोधन॥३१॥

अपरं ज्ञानादर्वाचीनम् । ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ इति श्रुतेः । ‘किमर्थावयमध्येष्यामहे किमर्थावयं यक्ष्यामहे वाचि हि प्राणं जुहुमः’ इत्यादि श्रुतेश्च पित्राद्यृणमज्ञानमेवेति भाव ॥३१॥

यथा दृष्टमिदं चात्र त्वयाऽऽख्येयमशेषतः ।
यथा दारान्प्रकुर्यात्स पुत्रानुत्पादयेद्यथा॥३२॥

वा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया ।
बान्धवानां हितस्येह यथा चात्मकुलं तथा॥३३॥

बान्धवानामित्यादिसार्धः श्लोकः । तस्य बान्धवानाम् अस्माकं सर्वेषां मध्ये कस्त्वम् । यथा आत्मकुलं तथा बन्धुमिव वा अस्मान् अनुशोचसि तत्तस्माच्छ्रोतुमिच्छामः को भवानिह तिष्ठतीति योजना ॥३३॥

कस्त्वं बन्धुमिवास्माकमनुशोचसि सत्तम ।
श्रोतुमिच्छाम सर्वेषां को भवानिह तिष्ठति॥३४॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि जरत्कारुपितृदर्शने पञ्चचत्वारिंशोऽध्यायः॥४५॥
षट्चत्वारिंशोऽध्यायः

सौतिरुवाच। एतच्छ्रुत्वा जरत्कारुर्भृशं शोकपरायणः ।
उवाच तान्पितॄन्दुःखाद्बाष्पसंदिग्धया गिरा॥१॥

षट्चत्वारिंशः अध्यायः एतदिति ॥१॥

जरत्कारुरुवाच। मम पूर्वे भवन्तो वै पितरः सपितामहाः ।
तद्ब्रूत यन्मया कार्यं भवतां प्रियकाम्यया॥२॥

अहमेव जरत्कारुः किल्बिषी भवतां सुतः ।
ते दण्डं धारयत मे दुष्कृतेरकृतात्मनः॥३॥

दुष्टाकृतिर्यस्य तस्य दुष्कृतेः ॥३॥

पितर ऊचुः। पुत्र दिष्ट्याऽसि संप्राप्त इमं देशं यदृच्छया ।
किमर्थं च त्वया ब्रह्मन्नकृतो दारसङ्ग्रहः॥४॥

दिष्ट्या भाग्येन ॥४॥

जरत्कारुरुवाच। ममायं पितरो नित्यं हृद्यर्थः परिवर्तते ।
ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै॥५॥

न दारान्वै करिष्येऽहमिति मे भावितं मनः ।
एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः॥६॥

भावितं भावयुक्तम् ॥६॥

मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः ।
करिष्ये वः प्रियं कामं निवेक्ष्येऽहमसंशयम्॥७॥

निवेक्ष्ये निवेशं विवाहं करिष्ये ॥७॥

सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन ।
भविष्यति च या काचिद्भैक्ष्यवत्स्वयमुद्यता॥८॥

प्रतिग्रहीता तामस्मि न भरेयं च यामहम् ।
एवं विधमहं कुर्यां निवेशं प्राप्नुयां यदि ।
अन्यथा न करिष्येऽहं सत्यमेतत्पितामहाः॥९॥

न भरेयं धारणपोषणे न कुर्याम् ॥९॥

तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै ।
शाश्वताश्चाव्ययाश्चैव तिष्ठन्तु पितरो मम॥१०॥

शाश्वता नित्याः अव्यया अपक्षयशून्याः ॥१०॥

सौतिरुवाच। एवमुक्त्वा तु स पितॄंश्चचार पृथिवी मुनिः ।
न च स्म लभते भार्यां वृद्धोऽयमिति शानक॥११॥

यदा निर्वेदमापन्नः पितृभिश्चोदिस्तथा ।
तदाऽरण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः॥१२॥

सत्वरण्यगतः प्राज्ञः पितॄणां हितकाम्यया ।
उवाच कन्यां याचामि तिस्रो वाचः शनैरिमाः॥१३॥

याचामि याचे ॥१३॥

यानि भूतानि सन्तीह स्थावराणि चराणि च ।
अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः॥१४॥

उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम् ।
निविशस्वेति दुःखार्ताः सन्तानस्य चिकीर्षया॥१५॥

निवेशायाखिलां भूमिं कन्याभैक्ष्यं चरामि भोः ।
दरिद्रो दुःखशीलश्च पितृभिः सन्नियोजितः॥१६॥

यस्य कन्याऽस्ति भूतस्य ये मयेह प्रकीर्तिताः ।
ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम्॥१७॥

मम कन्या सनाम्नीया भैक्ष्यवच्चोदिता भवेत् ।
भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत॥१८॥

ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः ।
तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन्॥१९॥

जरत्कारौ समाहिताः जरत्कारोरन्वेषणे यत्ताः ॥१९॥

तेषां श्रुत्वा स नागेन्द्रस्तां कन्यां समलङ्कृताम् ।
प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः॥२०॥

तत्र तां भैक्ष्यवत्कन्यां प्रादात्तस्मै महात्मने ।
नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत॥२१॥

असनामेति वै मत्वा भरणे चाविचारिते ।
मोक्षभावे स्थितश्चापि मन्दीभूतः परिग्रहे॥२२॥

असनामेति मोक्षे स्थितस्य परिग्रहो दुःखायेति पितृप्रयोजनमात्रं कार्यमित्याशयः ॥२२॥

ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन ।
वासुकिं भरणं चास्या न कुर्यामित्युवाच ह॥२३॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि वासुकिजरत्कारुसमागमे षट्चत्वारिंशोऽध्यायः॥४६॥
सप्तचत्वारिंशोऽध्यायः

सौतिरुवाच। वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा ।
सनाम्नीं तव कन्येयं स्वसा मे तपसान्विता॥१॥

सप्तचत्वारिंशः अध्यायः वासुकिरिति ॥१॥

भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम ।
रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन ।
त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम॥२॥

प्रतीच्छ प्रतिगृहाण ॥२॥

ऋषिरूवाच। न भरिष्येऽहमेतां वै एष मे समयः कृतः ।
अप्रियं च न कर्तव्यं कृते चैनां त्यजाम्यहम्॥३॥

सौतिरुवाच। प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति ।
जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह॥४॥

तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः ।
जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम्॥५॥

ततो वासगृहं रम्यं पन्नगेन्द्रस्य संमतम् ।
जगाम भार्यामदाय स्तूयमानो महर्षिभिः॥६॥

शयनं तत्र संक्लृप्तं स्पर्द्ध्यास्तरणसंवृतम् ।
तत्र भार्यासहायो वै जरत्कारुरुवास ह॥७॥

स्पर्द्ध्यं बहुमूल्यं तूलिकाद्यास्तरणं तेन संयुतम् ॥७॥

स तत्र समयं चक्रे भार्यया सह सत्तमः ।
विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन॥८॥

त्यजेयं विप्रिये च त्वां कृते वासं च ते गृहे ।
एतद्गृहाण वचनं मया यत्समुदीरितम्॥९॥

विप्रिये कृते त्वां तव गृहे वासं च त्यजेयम् ॥९॥

ततः परमसंविग्ना स्वसा नागपतेस्तदा ।
अतिदुःखान्विता वाक्यं तमुवाचैवमस्त्विति॥१०॥

तथैव सा च भर्तारं दुःखशीलमुपचारत् ।
उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी॥११॥

दुःखशोलं दुःखप्रदस्वभावम् । श्वेतकाकीयैः श्वा च एतश्च काकश्च तेषामिमे श्वेतकाकीयास्तैः । नित्यजागरूकत्वभयचकितत्वेङ्गितत्वज्ञैः । उपाचरत् आराधितवती । एतः कर्बुर आगते इति मेदिनीकोशाद्वर्णवाच्यपि एत शब्दस्तद्वति मृगे वर्तते शोणादिपदवत् । श्वेत इत्यत्र ‘ओमाङोश्च’ इति पररूपम् । अन्ये तु श्वेतकाको बकस्तदीयैः । तं हि वर्षासु नीडस्थं बक्येव पुष्णाति तद्वदिति ॥११॥

ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा ।
भर्तारं वै यथान्यायमुपतस्थे महामुनिम्॥१२॥

तत्र तस्याः समभवद्गर्भो ज्वलनसन्निभः ।
अतीव तेजसा युक्तो वैश्वानरसमद्युतिः॥१३॥

शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः ।
ततः कतिपयाहस्तु जरत्कारुर्महायशाः॥१४॥

उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् ।
तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम्॥१५॥

उत्सङ्गे अङ्के ॥१५॥

अह्नः परिक्षये ब्रह्मंस्ततः साऽचिन्तयत्तदा ।
वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी॥१६॥

किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा ।
दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम्॥१७॥

दुःखशीलो दुःखप्रदशीलो धर्मात्मा च कथं केन प्रकारेणापराधिनी न भवेयमित्यर्थः ॥१७॥

कोपो वा धर्मशीलस्य धर्मलोपोऽथवा पुनः ।
धर्मलोपो गरीयान्वै स्यादित्यत्राकरोन्मतिम्॥१८॥

कर्तव्यकोटिद्वयमुपन्यस्य धर्मलोपमेव गुरूकरोति । कोपो वेति ॥१८॥

उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति ।
धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम्॥१९॥

इति निश्चित्य मनसा जरत्कारुर्भुजंगमा ।
तमृषिं दीप्ततपसं शयानमनलोपमम्॥२०॥

उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी ।
उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति॥२१॥

संव्यामुपास्व भगवन्नपः स्पृष्ट्वायतव्रतः ।
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः॥२२॥

प्रादुष्कृतः अग्निहोत्रो वह्निर्यस्मिन्स प्रादुष्कृताग्निहोत्रः । ‘अग्निहोत्रोऽग्निहविषोः’ इति मेदिनी । रम्यो धर्मसाधनत्वात् । दारुणो भूतादिप्रचारात् ॥२२॥

सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो ।
एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः॥२३॥

भार्यां प्रस्फुरमाणौष्ठ इदं वचनमब्रवीत् ।
अवमानः प्रयुक्तोऽयं त्वया मम भुजंगमे॥२४॥

समीपे ते न वत्स्यामि गमिष्यामि यथागतम् ।
शक्तिरस्ति न वामोरु मयि सुप्ते विभावसोः॥२५॥

विभावसोः सूर्यस्य ॥२५॥

अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते ।
न चाप्यवमतस्येह वासो रोचेत कस्यचित्॥२६॥

किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा ।
एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम्॥२७॥

अब्रवीद्भगिनी तत्र वासुकेः सन्निवेशने ।
नावमानात्कृतवती तवाहं विप्रे बोधनम्॥२८॥

धर्मलोपो न ते विप्र स्यादित्येतन्मया कृतम् ।
उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः॥२९॥

ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजंगमाम् ।
न मे वागनृतं प्राह गमिष्येऽहं भुजंगमे॥३०॥

समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः ।
सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे॥३१॥

मिथः अन्योन्यम् ॥३१॥

इतो मयि गते भीरु गतः स भगवानिति ।
त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि॥३२॥

इत्युक्ता साऽनवद्याङ्गी प्रत्युवाच मुनिं तदा ।
जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा॥३३॥

चिन्ता भ्रातृकार्यविषयिणी । शोको भतृवियोगजः ॥३३॥

बाष्पगद्गदया वाचा मुखेन परिशुष्यता ।
कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः॥३४॥

धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता ।
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्॥३५॥

धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् ।
प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम॥३६॥

तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः ।
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम॥३७॥

अपत्यमीप्सितं त्वत्तस्तच्च तावन्न दृश्यते ।
त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत्॥३८॥

संप्रयोगो भवेन्नायां मम मोघस्त्वया द्विज ।
ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये॥३९॥

सम्प्रयोगः सम्बन्धः मोघो निष्फलः ॥३९॥

इममव्यक्तरूपं मे गर्भमाधाय सत्तम ।
कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम्॥४०॥

एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् ।
यद्युक्तमनुरूपं च जरत्कारुं तपोधनः॥४१॥

अस्त्ययं सुभगे गर्भस्तव वैश्वानरोपमः ।
ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः॥४२॥

एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः ।
उग्राय तपसे भूयो जगाम कृतनिश्चयः॥४३॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि जरत्कारुनिर्गमे सप्तचत्वारिंशोऽध्यायः॥४७॥
अष्टचत्वारिंशोऽध्यायः

सौतिरुवाच। गतमात्रं तु भर्तारं जरत्कारुरवेदयत् ।
भ्रातुः सकाशमागत्य यथातथ्यं तपोधन॥१॥

अष्टचत्वारिंशः अध्यायः गतमात्रमिति ॥१॥

ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम् ।
उवाच भगिनीं दीनां तदा दीनतरः स्वयम्॥२॥

वासुकिरुवाच। जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत् ।
पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि॥३॥

स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान् ।
एवं पितामहः पूर्वमुक्तवांस्तु सुरैः सह॥४॥

अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात् ।
न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः॥५॥

कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम् ।
किं तु कार्यगरीयस्त्वात्ततस्त्वाऽहमचूचुदम्॥६॥

अचूचुदं कार्यसिद्धिं वक्तुं प्रेरितवान् ॥६॥

दुर्वार्यतां विदित्वा च भर्तुस्तेऽतितपस्विनः ।
नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम्॥७॥

आचक्ष्व भद्रे भर्तुः स्वं सर्वमेव विचेष्टितम् ।
उद्धरस्व च शल्यं मे घोरं हृदि चिरस्थितम्॥८॥

जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत ।
आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम्॥९॥

जरत्कारुस्ततो वाक्यमित्युक्त्वा प्रत्यभाषतेति वाक्यं वचनीयं मयोच्यत इति शेषः । इत्युक्त्वा प्रत्यभाषत गुह्यवचनारम्भे ह्येवं वक्तारो भवन्ति पश्चात्सन्देशं वदन्ति । यथोक्तं ब्रह्मवैवर्ते ‘इदं वचनमुक्त्वाग्रे वाक्यं वाक्यविशारदः । चकारावश्यकं कर्म नर्मदातीरमाश्रितः’ इति ॥९॥

जरत्कारुरुवाच। पृष्टो मयाऽपत्यहेतोः स महात्मा महातपाः ।
अस्तीत्युत्तरमुद्दिश्य ममेदं गतवांश्च सः॥१०॥

ममेदं कार्यमुद्दिश्य अस्तीत्युत्तरं दत्तवानिति शेषः ॥१०॥

स्वैरेष्वपि न तेनाहं स्मरामि वितथं वचः ।
उक्तपूर्वं कुतो राजन्सांपराये स वक्ष्यति॥११॥

वितथं तेन उक्तपूर्वं न स्मरामि । साम्पराये सङ्कटे ‘साम्परायो रणापदोः’ इति कोशः ॥११॥

न संतापस्त्वया कार्यः कार्यं प्रति भुजंगमे ।
उत्पत्स्यति च ते पुत्रो ज्वलनार्कसमप्रभः॥१२॥

इत्युक्त्वा स हि मां भ्रातर्गतो भर्ता तपोधनः ।
तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम्॥१३॥

सौतिरुवाच। एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा ।
एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत॥१४॥

सान्त्वमानार्थदानैश्च पूजया चारुरूपया ।
सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः॥१५॥

ततः प्रववृधे गर्भो महातेजा महाप्रभः ।
यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि॥१६॥

अथ काले तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा ।
कुमारं देवगर्भाभं पितृमातृभयापहम्॥१७॥

प्रजज्ञे जनयामास ॥१७॥

ववृधे स तु तत्रैव नागराजनिवेशने ।
वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनान्मुने॥१८॥

चीर्णव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः ।
नाम चास्या भवत्ख्यातं लोकेष्वास्तीक इत्युत॥१९॥

बुद्धिः कार्यनिष्ठा सत्त्वगुण इति सत्त्वकार्याणि धर्मज्ञानवैराग्यैश्वर्याणि तैरन्वितः ॥१९॥

अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम् ।
वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम्॥२०॥

स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान् ।
गृहे पन्नगराजस्य प्रयत्नात्परिरक्षितः॥२१॥

भगवानिव देवेशः शूलपाणिर्हिरण्मयः ।
विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत्॥२२॥

हिरण्मयः दीप्तमान ॥२२॥
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि आस्तिकोत्पत्तौ अष्टचत्वारिंशोऽध्यायः॥४८॥
एकोनपञ्चशत्तमोऽध्यायः

शौनक उवाच। यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः ।
पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद॥१॥

एकोनपञ्चाशत्तमः अध्यायः सर्पसत्रं प्रस्तावयन् शौनक उवाच । यदपृच्छदिति ॥१॥

सौतिरुवाच। शृणु ब्रह्मन्यथाऽपृच्छन्मन्त्रिणो नृपतिस्तदा ।
यथा चाख्यातवन्तस्ते निधनं तत्परिक्षितः॥२॥

निधनं मरणम् ॥२॥

जनमेजय उवाच। जानन्ति स्म भवन्तस्तद्यथा वृत्तं पितुर्मम ।
आसीद्यथा स निधनं गतः काले महायशाः॥३॥

श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः ।
कल्याणं प्रतिपत्स्यामि विपरीतं न जातुचित्॥४॥

कल्याणं सर्वलोकहितं चेत्प्रतिपत्स्यामि प्रतीकारं करिष्यामि नान्यथेत्यर्थः ॥४॥

सौतिरुवाच। मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना ।
सर्वे धर्मविदः प्राज्ञा राजानं जनमेजयम्॥५॥

मन्त्रिण ऊचुः। शृणु पार्थिव यद्ब्रूषे पितुस्तव महात्मनः ।
चरितं पार्थिवेन्द्रस्य यथा निष्ठां गतश्च सः॥६॥

ब्रुषे पृच्छसि । निष्ठां समाप्तिम् ॥६॥

धर्मात्मा च महात्मा च प्रजापालः पिता तव ।
आसीदिह यथावृत्तः स महात्मा शृणुष्व तत्॥७॥

धर्मात्मा उदारचित्तः । महात्मा महानुभावः । कलिनिग्राहकत्वात् ॥७॥

चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत ।
धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव॥८॥

चातुर्वर्ण्यं चतुरो वर्णान् ॥८॥

ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः ।
द्वेष्टारस्तस्य नैवासन्स च द्वेष्टि न कंचन॥९॥

समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु॥१०॥

स्थितः सुमनसो राजंस्तेन राज्ञा स्वधिष्ठिताः ।
विधवा नाथविकलान्कृपणांश्च बभार सः॥११॥

स्वधिष्ठिताः सुष्टुपालिताः । बभार पोषितवान् ॥११॥

सुदर्शः सर्वभूतानामासीत्सोम इवापरः ।
तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः॥१२॥

धनुर्वेदे तु शिष्योऽभून्नृपः शारद्वतस्य सः ।
गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय॥१३॥

शारद्वतस्य कृपाचार्यस्य॥१३॥

लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः ।
परिक्षीणेषु कुरुषु सोत्तरायामजीजनत्॥१४॥

सोत्तरायामिति पादपूरणार्थः सन्धिः अजीजनत् जातः ॥१४॥

परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली ।
राजधर्मार्थकुशलो युक्तः सर्वगुणैर्वृतः॥१५॥

राजधर्मो ग्रन्थस्तस्यार्थः फलं तदुक्तानुष्ठानम् । शाब्दभावनायां प्रवृत्तेरेव भाव्यत्वात् । तत्र कुशलो दक्षः ॥१५॥

जितेन्द्रियश्चात्मवांश्च मेधावी धर्मसेविता ।
षड्वर्गजिन्महाबुद्धिर्नीतिशास्त्रविदुत्तमः॥१६॥

आत्मवान् बुद्धिमान् । मेधावी बहुग्रन्थधारणसमर्थः । षड्वर्गः कामादिस्तस्य जेता षड्वर्गजित् । नीतिशास्त्रं कामन्दकीयपालकाव्यादि ॥१६॥

प्रजा इमास्तव पिता षष्टिवर्षाण्यपालयत् ।
ततो दिष्टान्तमापन्नः सर्वेषां दुःखमावहन्॥१७॥

षष्टिवर्षाणि जन्मतः षष्टिवर्षपर्यन्तं न तु राज्यलाभात् । अपालयत् पालितवान् । षड्त्रिंशे वर्षे लब्धराज्यः । चतुर्विंशतिवर्षपर्यन्तं तत्पालनस्य दृष्टत्वादित्यर्थः । दिष्टं धर्माधर्मौ तयोरन्तमवसानं विदेहकैवल्यमित्यर्यः ॥१७॥

ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् ।
इदं वर्षसहस्राणि राज्यं कुरुकुलागतम् ।
बाल एवाभिषिक्तस्त्वं सर्वभूतानुपालकः॥१८॥

जनमेजय उवाच। नास्मिन्कुले जातु बभूव राजा यो न प्रजानां प्रियकृत्प्रियश्च ।
विशेषतः प्रेक्ष्य पितामहानां वृत्तं महद्वृत्तपरायणानाम्॥१९॥

पितामहानां पाण्डवानाम् ॥१९॥

कथं निधनमापन्नः पिता मम तथाविधः ।
आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः॥२०॥

आचक्षध्वं भ्वादेराकृतिगणत्वात् शपो लुङ् न ॥२०॥

सौतिरुवाच। एवं संचोदिता राज्ञा मन्त्रिणस्ते नराधिपम् ।
ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहितैषिणः॥२१॥

मन्त्रिण ऊचुः। स राजा पृथिवीपालः सर्वशस्त्रभृतां वरः ।
बभूव मृगयाशीलस्तव राजन्पिता सदा॥२२॥

यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि ।
अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः॥२३॥

स कदाचिद्वनगतो मृगं विव्याध पत्रिणा ।
विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने॥२४॥

गहने दुर्गमे ॥२४॥

पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् ।
न चाससाद गहने मृगं नष्टं पिता तव॥२५॥

निस्त्रिंशः खङ्गः ततायुधकलापवान् ततो विस्तीर्ण आयुधानां बाणादीनां कलापस्तूणस्तद्वान् । ‘कलापः संहतौ बर्हे काञ्चीभूषणतूणयोः’ इति मेदिनि ॥२५॥

परिश्रान्तो वयस्थश्च षष्टिवर्षो जरान्वितः ।
क्षुधितः स महारण्ये ददर्श मुनिसत्तमम्॥२६॥

वयस्थो वृद्धः ॥२६॥

स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रते स्थितम् ।
न च किंचिदुवाचेदं पृष्टोऽपि स मुनिस्तदा॥२७॥

ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् ।
मौनव्रतधरं शान्तं सद्यो मन्युवशं गतः॥२८॥

न बुबोध च तं राजा मौनव्रतधरं मुनिम् ।
स तं क्रोधसमाविष्टो धर्षयामास ते पिता॥२९॥

मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् ।
तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम॥३०॥

न चोवाच स मेधावी तमथो साध्वसाधु वा ।
तस्थौ तथैव चाक्रुद्धः सर्पं स्कन्धेन धारयन्॥३१॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि परीक्षितीये एकोनपञ्चाशत्तमोऽध्यायः॥४९॥
पञ्चाशत्तमोऽध्यायः

मन्त्रिण ऊचुः। ततः स राजा राजेन्द्रः स्कन्धे तस्य भुजङ्गमम् ।
मुनेः क्षुत्क्षाम आसज्य स्वपुरं प्रययौ पुनः॥१॥

पञ्चाशत्तमः अध्यायः तत इति ॥१॥

ऋषेस्तस्य तु पुत्रोऽभूद्गति जातो महायशाः ।
शृङ्गीनाम ।
महातेजास्तिग्मवीर्योऽतिकोपनः॥२॥

ब्रह्माणं समुपागम्य मुनिः पूजां चकार ह ।
सोऽनुज्ञातस्ततस्तत्र शृङ्गी शुश्राव तं तदा॥३॥

ब्रह्माणम् आचार्यम् । पूजां तस्यैव चकारम् । तेनानुज्ञातस्तत्र आचार्यगृहे तं सर्पधरं स्वपितरं सख्युः सहाध्यायिनः सकाशाच्छ्रुत्वेति सम्बन्धः ॥३॥

सख्युः सकाशात्पितरं पित्रा ते धर्षितं पुरा ।
मृतं सर्पं समासक्तं स्थाणुभूतस्य तस्य तम्॥४॥

वहन्तं राजशार्दूलः स्कन्धेनानपकारिणम् ।
तपस्विनमतीवाथ तं मुनिप्रवरं नृप॥५॥

जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुतम् ।
तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तदा॥६॥

अङ्गेषु वागादिषु यतं नियतं शमदमवन्तमित्यर्थः ॥६॥

शुभाचारं शुभकथं सुस्थितं तमलोलुपम् ।
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् ।
शरण्यं सर्वभूतानां पित्रा विनिकृतं तव॥७॥

अक्षुद्रं गम्भीरम् । अनसूयं परगुणेषु दोषाविष्करणशून्यम् । तव पित्रा विनिकृतम् अपकृतम् ॥७॥

शशापाथ महातेजाः पितरं ते रुषान्वितः ।
ऋषेः पुत्रो महातेजा बालोऽपि स्थविरद्युतिः॥८॥

स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह ।
पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव॥९॥

अनागसि गुरौ यो मे मृतं सर्पमवासृजत् ।
तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति॥१०॥

प्रदहिष्यति प्रधक्ष्यति ॥१०॥

आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ।
सप्तरात्रादितः पापं पश्य मे तपसो बलम्॥११॥

पश्य हे मत्पितृद्रोहिन् ॥११॥

इत्युक्त्वा प्रययौ तत्र पिता यत्राऽरय सोऽभवत् ।
दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत्॥१२॥

स चापि मुनिशार्दूलः प्रेरयामास ते पितुः ।
शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम्॥१३॥

आचख्यौ स च विश्रान्तो राज्ञः सर्वमशेषतः ।
शप्तोऽसि मम पुत्रेण यत्तो भव महीपते॥१४॥

तक्षकस्त्वां महाराज तेजसाऽसौ दहिष्यति ।
श्रुत्वा च तद्वचो घोरं पिता ते जनमेजय॥१५॥

दहिष्यति धक्ष्यति ॥१५॥

यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ।
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते॥१६॥

राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ।
तं ददर्शाथ नागेन्द्रस्तक्षकः काश्यपं तदा॥१७॥

तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं द्विजम् ।
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति॥१८॥

काश्यप उवाच। यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज ।
तक्षकेण भुजंगेन धक्ष्यते किल सोऽद्य वै॥१९॥

गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् ।
मयाऽभिपन्नं तं चापि न सर्पो धर्षयिष्यति॥२०॥

अभिपन्नं त्रातम् । धर्षयिष्यति अभिभविष्यति ॥२०॥

तक्षक उवाच। किमर्थं तं मया दष्टं संजीवयितुमिच्छसि ।
अहं स तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम्॥२१॥

न शक्तस्त्वं मया दष्टं तं संजीवयितुं नृपम् ।
इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम्॥२२॥

स दष्टमात्रो नागेन भस्मीभूतोऽभवन्नगः ।
काश्यपश्च ततो राजन्नजीवयत तं नगम्॥२३॥

ततस्तं लोभयामास कामं ब्रूहीति तक्षकः ।
स एवमुक्तस्तं प्राह काश्यपस्तक्षकं पुनः॥२४॥

कामं काम्यमानमर्थम् ॥२४॥

धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः ।
तमुवाच महात्मानं तक्षकः श्लक्ष्णया गिरा॥२५॥

यावद्धनं प्रार्थयसे राज्ञस्तस्मात्ततोऽधिकम् ।
गृहाण मत्त एव त्वं सन्निवर्तस्व चानघ॥२६॥

स एवमुक्तो नागेन काश्यपो द्विपदां वरः ।
लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम्॥२७॥

द्विपदां पुरुषाणां निववृते निवृत्तः ॥२७॥

तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः ।
तं नृपं नृपतिश्रेष्ठं पितरं धार्मिकं तव॥२८॥

प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना ।
ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः॥२९॥

एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम ।
अस्माभिर्निखिलं सर्वं कथितं तेऽतिदारुणम्॥३०॥

श्रुत्वा चैतं नरश्रेष्ठ पार्थिवस्य पराभवम् ।
अस्य चर्षेरुदङ्कस्य विधत्स्व यदनन्तरम्॥३१॥

एवं पार्थिवस्य उत्तङ्कस्य च पराभवं श्रुत्वा ॥३१॥

सौतिरुवाच। एतस्मिन्नेव काले तु स राजा जनमेजयः ।
उवाच मन्त्रिणः सर्वानिदं वाक्यमरिन्दमः॥३२॥

जनमेजय उवाच। अथ तत्कथितं केन यद्वृत्तं तद्वनस्पतौ ।
आश्चर्यभूतं लोकस्य भस्मराशीकृतं तदा॥३३॥

यद्वृक्षं जीवयामास काश्यपस्तक्षकेण वै ।
नूनं मन्त्रैर्हतविषो न प्रणश्येत काश्यपात्॥३४॥

चिन्तयामास पापात्मा मनसा पन्नगाधमः ।
दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति॥३५॥

तक्षकः संहतविषो लोके यास्यति हास्यताम् ।
विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर्द्विजस्य वै॥३६॥

संहतविषः सम्यक् हतं नष्टं विषं यस्य स तथा । संहृतविष इति पाठे स्पष्टोऽर्थः ॥३६॥

भविष्यति ह्युपायेन यस्य दास्यामि यातनाम् ।
एकं तु श्रोतुमिच्छामि तद्वृत्तं निर्जने वने॥३७॥

यस्य दास्यामि यातनां यस्य प्रयासं कृत्वा । यसु प्रयत्ने अस्मादसमासेप्यार्षत्वाक्त्वोल्यप् । यातनां प्रतिक्रियाम् ॥३७॥

संवादं पन्नगेन्द्रस्य काश्यपस्य च कस्तदा ।
श्रुतवान्दृष्टवांश्चापि भवत्सु कथमागतम् ।
श्रुत्वा तस्य विधास्येऽहं पन्नगान्तकरीं मतिम्॥३८॥

मन्त्रिण ऊचुः। शृणु राजन्यथास्माकं येन तत्कथितं पुरा ।
समागतं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि॥३९॥

समागतं समागमं भावे निष्ठा ॥३९॥

तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव ।
विचिन्वन्पूर्वमारूढः शुष्कशाखावनस्पतौ॥४०॥

न बुध्येतामुभौ तौ च नगस्थं पन्नगद्विजौ ।
सह तेनैव वृक्षेण भस्मीभूतोऽभवन्नृप॥४१॥

पुरुषं द्विजाविति पाठे द्विजौ अण्डजः सर्पो विप्रश्च “दन्तविप्राण्डजा द्विजाः” इत्युक्तेः। अर्थभेदेऽपि सरूपत्वादेकशेषः ॥४१॥

द्विजप्रभावाद्राजेन्द्र व्यजीवत्स वनस्पतिः ।
तेनागम्य द्विजश्रेष्ठं पुंसाऽस्मासु निवेदितम्॥४२॥

व्यजीवत् विशेषेण अत्युल्लसितेन रूपेण जीवितवान् । आगम्य आगत्य । ‘बाल्यपि’ इति पक्षेऽनुनासिकलोपाभावः । द्विजश्रेष्ठपुंसा ब्राह्मणदासेन ॥४२॥

यथा वृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च ।
एतत्ते कथितं राजन्यथादृष्टं श्रुतं च यत् ।
श्रुत्वा च नृपशार्दूल विधत्स्व यदनन्तरम्॥४३॥

सौतिरुवाच। मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः ।
पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करं करे॥४४॥

करं करे निधाय प्रत्यपिंषत् । क्रोधावेशात् घर्षितवानित्यर्थः ॥४४॥

निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः ।
मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः॥४५॥

उवाच च महीपालो दुःखशोकसमन्वितः ।
दुर्धरं बाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि॥४६॥

मुहूर्तमिव च ध्यात्वा निश्चित्य मनसा नृपः ।
अमर्षी मन्त्रिणः सर्वानिदं वचनमब्रवीत्॥४७॥

जनमेजय उवाच। श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति ।
निश्चितेयं मम मतिर्या च तां मे निबोधत ।
अनन्तरं च मन्येऽहं तक्षकाय दुरात्मने॥४८॥

अनन्तरम्भव्यवहितं यथा स्यात्तथा ॥४८॥

प्रतिकर्तव्यमित्येवं येन मे हिंसितः पिता ।
शृङ्गिणं हेतुमात्रं यः कृत्वा दग्ध्वा च पार्थिवम्॥४९॥

इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत् ।
यदा गच्छेत्स वै विप्रो ननु जीवेत्पिता मम॥५०॥

परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः ।
काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च॥५१॥

स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् ।
संजिजीवयिषुं प्राप्तं राजानमपराजितम्॥५२॥

मदीयसामार्थ्याज्ञानात् ॥५२॥

महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः ।
द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति॥५३॥

यदि क्षितायुर्यदि वापरेतो यदि मृत्योरन्तिकं नीत एव । तमाहरामि निर्ऋतरुपस्थादस्पार्षमेनं शतशारदाय' इति मन्त्रवर्णाद्ब्राह्मणस्यायुः प्रदानेऽपि सामर्थ्यमस्ति अतस्तं बहुधनदानेन निवर्तयतस्तक्षकस्यैवापराधोऽयमित्याह । महानिति । दददिति हेतौ शतृप्रत्ययः । द्रव्यं दत्वापि तेनैव नृपो बलान्मारित इत्यर्थः ॥५३॥

उत्तङ्कस्याप्रियं कर्तुमात्मनश्च महत्प्रियम् ।
भवतां चैव सर्वेषां गच्छाम्यपचितिं पितुः॥५४॥

अपचितिं वैरनिर्यातनम् ॥५४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि परिक्षिन्मन्त्रिसंवादे पञ्चाशत्तमोऽध्यायः ॥५०॥
एकपञ्चाशत्तमोऽध्यायः

सौतिरुवाच। एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः ।
आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः॥१॥

एकपञ्चाशत्तमः अध्यायः *दुर्धरमित्यादिः सार्धः श्लोकः क्षिप्तः इति भाति। उवाच अब्रवीदिति पौनरुक्त्यात्। केषुचित्पुस्तकेष्वदर्शनाच्च। एवमुक्त्वेति॥१॥

ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा ।
पुरोहितमथाहूय ऋत्विजो वसुधाधिपः॥२॥

अब्रवीद्वाक्यसंपन्नः कार्यसंपत्करं वचः ।
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान्॥३॥

प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे ।
अपि तत्कर्म विदितं भवतां येन पन्नगम्॥४॥

तक्षकं संप्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम् ।
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना ।
तथाऽहमपि तं पापं दग्धुमिच्छामि पन्नगम्॥५॥

ऋत्विज ऊचुः। अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम् ।
सर्वसत्रमितिख्यातं पुराणे परिपठ्यते॥६॥

आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप ।
इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः॥७॥

मह्यं मम।। ५॥ त्वन्नान्यः त्वमेव नान्यं यद्वा त्वत् त्वत्तो नान्योऽस्ति ॥७॥

एवमुक्तः स राजर्षिर्मेने दग्धं हि तक्षकम् ।
हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम॥८॥

ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा ।
आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे॥९॥

आहरिष्यामि करिष्यामि संभ्रियन्तु संभ्रियन्ताम् ॥९॥

ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम ।
तं देशं मापयामासुर्यज्ञायतनकारणात्॥१०॥

यथावद्वेदविद्वांसः सर्वे बुद्धेः परंगताः ।
ऋद्ध्या परमया युक्तमिष्टं द्विजगणैर्युतम्॥११॥

प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिषेवितम् ।
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्॥१२॥

राजानं दीक्षयामासुः सर्पसत्राप्तये तदा ।
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति॥१३॥

दीक्षयामासुः दीक्षां ग्राहितवन्तः । सर्पसत्राप्तये सर्पसत्रफलाप्तये भविष्यति भाविनि ॥१३॥

निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा ।
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत्॥१४॥

स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः ।
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा॥१५॥

इति वक्ष्यमाणं यास्मिन्देशे इत्यादि सूतो जात्या पौराणिकः शिल्पागमवेत्ता॥१५॥

यस्मिन्देशे च काले च मापनेयं प्रवर्तिता ।
ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः॥१६॥

नायं संस्थास्यते न समाप्स्यते ॥१६॥

एतच्छ्रुत्वा तु राजाऽसौ प्राग्दीक्षाकालमब्रवीत् ।
क्षत्तारं न हि मे कश्चिदज्ञातः प्रविशेदिति॥१७॥

दीक्षाकालस्य प्रागिति प्राग्दीक्षाकालं क्षत्तारं द्वास्थम् ॥१७॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकपञ्चाशत्तमोऽध्यायः॥५१॥
द्विपञ्चाशत्तमोऽध्यायः

सौतिरुवाच। ततः कर्म प्रववृते सर्पसत्रविधानतः ।
पर्यक्रामंश्च विदिवत्स्वे स्वे कर्मणि याजकाः॥१॥

द्विपञ्चाशत्तमः अध्यायः तत इति पयक्रामन् पराक्रान्तवन्तः ॥१॥

प्रावृत्य कृष्णवासांसि धूम्रसंरक्तलोचनाः ।
जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम्॥२॥

मन्त्रवन्मन्त्रयुक्तं यथा स्यात्तथा ॥ २॥

कम्पयन्तंश्च सर्वेषामुरगाणां मनांसि च ।
सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा॥३॥

मन्त्रवन्मन्त्रयुक्तं यथा स्यात्तथा ॥ ३॥

ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने ।
विचेष्टमानाः कृपणमाह्वयन्तः परस्परम्॥४॥

विस्फुरन्तः श्वसन्तश्च वेष्टयन्तः परस्परम् ।
पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे॥५॥

श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा ।
नदन्तो विविधान्नादान्पेतुर्दीप्ते विभावसौ॥६॥

क्रोशयोजनमात्रा हि गोकर्णस्य प्रमाणतः ।
पतन्त्यजस्रं वेगेन वह्नावग्निमतां वर॥७॥

चित्रभानुम् अग्निम् ।। ५ ।। प्रमाणतः प्रमाणं प्राप्य ॥७॥

एवं शतसहस्राणि प्रयुतान्यर्बुदानि च ।
अवशानि विनष्टानि पन्नगानां तु तत्र वै॥८॥

तुरगा इव तत्रान्ये हस्तिहस्ता इवापरे ।
मत्ता इव च मातङ्गा महाकाया महाबलाः॥९॥

परिघः महाद्वारार्गलादण्डस्ततुल्याः। मातृवाग्दण्डपीडिता इति यैर्मातुर्वचनं नानुष्ठितं त एव पेतुरित्यर्थः ॥९॥

उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः ।
घोराश्च परिघप्रख्या दन्दशूका महाबलाः ।
प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः॥१०॥

॥ इति श्रीमन्माहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रोपक्रमे द्विपञ्चाशत्तमोऽध्यायः॥५२॥
त्रिपञ्चाशत्तमोऽध्यायः

शौनक उवाच। सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः ।
जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः॥१॥

त्रिपञ्चाशत्तमः अध्ययः सर्पसत्र इति । ऋत्विजो यज्ञे कर्मकराः ॥१॥

के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे ।
विषादजननेऽत्यर्थं पन्नगानां महाभये॥२॥

सदस्या उपद्रष्टारः ॥२॥

सर्वं विस्तरशस्तात भवाञ्छंसितुमर्हति ।
सर्पसत्रविधानज्ञविज्ञेयाः के च सूतज॥३॥

विधानज्ञेषु विज्ञेयाः श्रेष्ठाः ॥३॥

सौतिरुवाच। हन्त ते कथयिष्यामि नामानीह मनीषिणाम् ।
ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा॥४॥

तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः ।
च्यवनस्यान्वये ख्यातो जातो वेदविदां वरः॥५॥

उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सौऽथ जैमिनिः ।
ब्रह्माऽभवच्छार्ङ्गरवोऽथाध्वर्युश्चापि पिङ्गलः॥६॥

सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान् ।
उद्दालकः प्रमतकः श्वेतकेतुश्च पिङ्गलः॥७॥

असितो देवलश्चैव नारदः पर्वतस्तथा ।
आत्रेयः कुण्डजठरौ द्विजः कालघटस्तथा॥८॥

वात्स्यः श्रुतश्रवा वृद्धो जपस्वाध्यायशीलवान् ।
कोहलो देवशर्मा च मौद्गल्यः समसौरभः॥९॥

एते चान्ये च बहवो ब्राह्मणा वेदपारगाः ।
सदस्याश्चाभवंस्तत्र सत्रे पारिक्षितस्य ह॥१०॥

जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ ।
अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः॥११॥

वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः ।
ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा॥१२॥

पततां चैव नागानां धिष्ठितानां तथाम्बरे ।
अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम्॥१३॥

पच्यतां पच्यमानानाम् ॥१३॥

तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम् ।
गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम्॥१४॥

ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः ।
अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम्॥१५॥

आगः अपराधं कृत्वा ॥ १५॥

तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक ।
भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कदाचन॥१६॥

प्रसादितो मया पूर्वं तवार्थाय पितामहः ।
तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः॥१७॥

सौतिरुवाच। एवमाश्वासितस्तेन ततः स भुजगोत्तमः ।
उवास भवने तस्मिञ्च्छक्रस्य मुदितः सुखी॥१८॥

अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः ।
अल्पशेषपरीवारो वासुकिः पर्यतप्यत॥१९॥

कश्मलं चाविशद्धोरं वासुकिं पन्नगोत्तमम् ।
स घूर्णमानहृदयो भगिनीमिदमब्रवीत्॥२०॥

दह्यन्त्यङ्गानि मे भद्रे न दिशः प्रतिभान्ति माम् ।
सीदामीव च संमोहात् घूर्णतीव च मे मनः॥२१॥

दृष्टिर्भ्राम्यति मेऽतीव हृदयं दीर्यतीव च ।
पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ॥२२॥

पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया ।
व्यक्तं मयाऽपि गन्तव्यं प्रेतराजनिवेशनम्॥२३॥

अयं स कालः संप्राप्तो यदर्थमसि मे स्वसः ।
जरत्करौ मया दत्ता त्रायस्वास्मान्सबान्धवान्॥२४॥

आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे ।
प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः॥२५॥

तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् ।
ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम्॥२६॥

॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रे वासुकिवाक्ये त्रिपञ्चाशत्तमोऽध्यायः॥५३॥
चतुःपञ्चाशत्तमोऽध्यायः

सौतिरुवाच। तत आहूय पुत्रं स्वं जरत्कारुर्भुजंगमा ।
वासुकेर्नागराजस्य वचनादिदमब्रवीत्॥१॥

चतुःपञ्चाशत्तमः अध्यायः तत आहूयेति ॥१॥

अहं तव पितुः पुत्र भ्राता दत्ता निमित्ततः ।
कालः स चायं संप्राप्तस्तत्कुरुष्व यथातथम्॥२॥

आस्तीक उवाच। किं निमित्तं मम पितुर्दत्ता त्वं मातुलेन मे ।
तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्ताऽस्मि तत्तथा॥३॥

सौतिरुवाच। तत आचष्ट सा तस्मै बान्धवानां हितैषिणी ।
भगिनी नागराजस्य जरत्कारुरविक्लबा॥४॥

आचष्ट व्यक्तं कथितवती ।अविक्लवा अनाकुला । अविप्लवेति पाठे साध्वी ॥४॥

जरत्कारुरुवाच। पन्नगानामशेषाणां माता कदूरिति श्रुता ।
तया शप्ता रुषितया सुता यस्मान्निबोध तत्॥५॥

उच्चैः श्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम ।
विनतार्थाय पणिते दासभावाय पुत्रकाः॥६॥

जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ।
तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ॥७॥

तां च शप्तवतीं देवः साक्षाल्लोकपितामहः ।
एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च॥८॥

वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा ।
अमृते मथिते तात देवाञ्छरणमीयिवान्॥९॥

सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् ।
भ्रातरं मे पुरस्कृत्य पितामहमुपागमन्॥१०॥

ते तं प्रसादयामासुः सुराः सर्वेब्जसंभवम् ।
राज्ञा वासुकिना सार्धं शापोऽसौन भवेदिति॥११॥

देवा ऊचुः। वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् ।
अभिशापः स मातुस्तु भगवन्न भवेत्कथम्॥१२॥

अभिशापः शापः ॥१२॥

ब्रह्मोवाच। जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति ।
तत्र जातो द्विजः शापान्मोक्षयिष्यति पन्नगान्॥१३॥

एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगोत्तमः ।
प्रादान्माममरप्रख्य तव पित्रे महात्मने॥१४॥

प्रागेवानागते काले तस्मात्त्वं मय्यजायथाः ।
अयं स कालः संप्राप्तो भयान्नस्त्रातुमर्हसि॥१५॥

भ्रातरं चापि मे तस्मात्त्रातुमर्हसि पावकात् ।
न मोघं तु कृतं तत्स्याद्यदहं तव धीमते ।
पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे॥१६॥

सौतिरुवाच। एवमुक्तस्तथेत्युक्त्वा सास्तीको मातरं तदा ।
अब्रवीद्दुःखसंतप्तं वासुकिं जीवयन्निव॥१७॥

अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम ।
तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते॥१८॥

भव स्वस्थमना नाग न हि ते विद्यते भयम् ।
प्रयतिष्ये तथा राजन्यथा श्रेयो भविष्यति॥१९॥

न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा ।
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम्॥२०॥

वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल ।
यथा स यज्ञो नृपतेर्निवर्तिष्यति सत्तम॥२१॥

स संभावय नागेन्द्र मयि सर्वं महामते ।
न ते मयि मनो जातु मिथ्या भवितुमर्हति॥२२॥

सास्तीक इति पादपूरणार्थः सुलोपः। सोऽस्तीक इत्यपपाठः।।१७॥ मयि अयमस्मान्मोचयिष्यत्येवं रूपो मनः संकल्पो जातु कदाचित् मिथ्याऽन्यथा न॥२२॥

वासुकिरुवाच। आस्तीक परिघूर्णामि हृदयं मे विदीर्यते ।
दिशो न प्रतिजानामि ब्रह्मदण्डनिपीडितः॥२३॥

ब्रह्म वेदः ’मातृदेवो भव’ इति मातुराज्ञाकरत्वविधानपरस्तदन्यकरणप्रयुक्तो दण्डो मातृशापरुपि ब्रह्मदण्डः॥२३॥

आस्तीक उवाच। न सन्तापस्त्वया कार्यः कथंचित्पन्नगोत्तम ।
प्रदीप्ताग्नेः समुत्पन्नं नाशयिष्यामि ते भयम्॥२४॥

ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् ।
नाशयिष्यामि माऽत्र त्वं भयं कार्षीः कथंचन॥२५॥

सौतिरुवाच। ततः स वासुकेर्घोरमपनीय मनोज्वरम् ।
आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम्॥२६॥

ततः स इति वासुकेश्चिन्ताज्वरं स्वयं गृहीत्वेत्यर्थः॥२६॥

जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः ।
मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः॥२७॥

स गत्वाऽपश्यदास्तीको यज्ञायतनमुत्तमम् ।
वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः॥२८॥

स तत्र वारितो द्वास्थैः प्रविशन्द्विजसत्तमः ।
अभितुष्टाव तं यज्ञं प्रवेशार्थी परंतपः॥२९॥

स प्राप्य यज्ञायतनं वरिष्ठं द्विजोत्तमः पुण्यकृतां वरिष्ठः ।
तुष्टाव राजानमनन्तकीर्ति-मृत्विक्सदस्यांश्च तथैव चाग्निम्॥३०॥

॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रे आस्तीकागमने चतुःपञ्चाशत्तमोऽध्यायः॥५४॥
पञ्चपञ्चाशत्तमोऽध्यायः

आस्तीक उवाच। सोमस्य यज्ञो वरुणस्य यज्ञः प्रजापतेर्यज्ञ आसीत्प्रयागे ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥१॥

पञ्चपञ्चाशत्तमः अध्यायः सोमस्येति । स्वस्ति नोस्तु प्रियेभ्यः । न इति यजमानादीन्वासुकिप्रभृतींश्चात्मीयत्वेनाभिसंधाय तेभ्यः स्वस्ति कल्याणमस्त्वित्याशास्ते ॥१॥

शक्रस्य यज्ञः शतसङ्ख्य उक्त- स्तथापरं तुल्यसङ्ख्यं शतं वै ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥२॥

शक्रस्येति यथा शतं शतक्रतोर्यज्ञाः यथा वा ततोऽपि परं तुल्यसंख्यं शतं शतक्रतवो वा तथाऽयं तव यज्ञोऽयुतक्रतुतुल्य इत्यर्थः ॥२॥

यमस्य यज्ञो हरिमेधसश्च यथा यज्ञो रन्तिदेवस्य राज्ञः ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥३॥

गयस्य यज्ञः शशबिन्दोश्च राज्ञो यज्ञस्तथा वैश्रवणस्य राज्ञः ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥४॥

नृगस्य यज्ञस्त्वजमीढस्य चासी- द्यथा यज्ञो दाशरथेश्च राज्ञः ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥५॥

यज्ञः श्रुतो दिवि देवस्य सूनो- र्युधिष्ठिरस्याजमीढस्य राज्ञः ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥६॥

देवस्य धर्मराजस्य ॥६॥

कृष्णस्य यज्ञः सत्यवत्याः सुतस्य स्वयं च कर्म प्रचकार यत्र ।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥७॥

इमे च ते सूर्यसमानवर्चसः समासते वृत्रहणः क्रतुं यथा ।
नैषां ज्ञातुं विद्यते ज्ञानमद्य दत्तं येभ्यो न प्रणश्येत्कदाचित्॥८॥

नैषामिति । ज्ञानज्ञद्वः कर्मव्युत्पन्नो ज्ञेयवचनः । अद्य संप्रति ज्ञातुं ज्ञेयं न विद्यते सर्वस्य ज्ञातत्वादित्यर्थः । अत एव तेभ्यो दत्तं साक्षब्रह्मण्येवार्पितमतस्तस्य कदाचिदपि दानजपुण्यस्य नाशो नास्तीत्यर्थः ॥८॥

ऋत्विक्समो नास्ति लोकेषु चैव द्वैपायनेनेति विनिश्चितं मे ।
एतस्य शिष्या हि क्षितिं संचरन्ति सर्वर्त्विजः कर्मसु स्वेषु दीक्षाः॥९॥

लोकेषु परलोकसाधनेषु दीक्षाः दीक्षावन्तः कुशलाः । दक्षा इत्यपि पाठः ॥९॥

विभावसुश्चित्रभानुर्महात्मा हिरण्यरेता हुतभुक्कृष्णवर्त्मा ।
प्रदक्षिणावर्तशिखः प्रदीप्तो हव्यं तवेदं हुतभुग्वष्टि देवः॥१०॥

अग्निं स्तौति विभावसुरिति । वष्टि कामयते । वष्टि देवानिति पाठे प्रापयितुमिति शेषः ॥१०॥

नेह त्वदन्यो विद्यते जीवलोके समो नृपः पालयिता प्रजानाम् ।
धृत्या च ते प्रीतमनाः सदाहं त्वं वा वरुणो धर्मराजो यमो वा॥११॥

त्वं वा वरुण इत्यत्र त्वं वा राजेत्यपि पाठः ॥११॥

शक्रः साक्षाद्वज्रपाणिर्यथेह त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् ।
मतस्त्वं नः पुरुषेन्द्रेह लोके न च त्वदन्यो भूपतिरस्ति जज्ञे॥१२॥

न च त्वदन्यस्त्राता भूपतिरस्ति इदानीम् । न च जज्ञे प्रागपि । अस्ति यज्ञे इत्यपिपाठः । तथा सति यज्ञे त्रातास्तीति योज्यम् । तेन प्रकृतहिंसानिवृत्तिः कर्तव्येति व्यज्यते ॥१२॥

खट्वाङ्गनाभागदिलीपकल्प ययातिमान्धातृसमप्रभाव ।
आदित्यतेजःप्रतिमानतेजा भीष्मो यथा राजसि सुव्रतस्त्वम्॥१३॥

वाल्मीकिवत्ते निभृतं स्ववीर्यं वसिष्ठवत्ते नियतश्च कोपः ।
प्रभुत्वमिन्द्रत्वसमं मतं मे द्युतिश्च नारायणवद्विभाति॥१४॥

निभृतं गुप्तम् । नियतो निगृहीतः ॥१४॥

यमो यथा धर्मविनिश्चयज्ञः कृष्णो यथा सर्वगुणोपपन्नः ।
श्रियां निवासोऽसि यथा वसूनां निधानभूतोऽसि तथा क्रतूनाम्॥१५॥

वसूनां श्रियां निवासोऽसि । वसवोऽष्टौ तत्संबन्धिनीनां श्रियाम् ॥१५॥

दम्भोद्भवेनासि समो बलेन रामो यथा शस्त्रविदस्त्रविच्च ।
और्वत्रिताभ्यामसि तुल्यतेजा दुष्प्रेक्षणीयोऽसि भगीरथेन॥१६॥

रामो भार्गवः और्वत्रितावृषी ॥१६॥

सौतिरुवाच। एवं स्तुताः सर्व एव प्रसन्ना राजा सदस्या ऋत्विजो हव्यवाहः ।
तेषां दृष्ट्वा भावितानीङ्गितानि प्रोवाच राजा जनमेजयोऽथ॥१७॥

तेषामृत्विगादीनां भावितानि मनसि संकल्पितानि । इङ्गितानि बहिश्चेष्टितानि वक्रादिचिह्नानि आस्तीकातिथ्यविषयाणि । भारतस्त्विङ्गितानीति पाठे भारतो राजा भरतवंशजत्वात् ॥१७॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रे आस्तीककृतराजस्तवे पञ्चपञ्चाशत्तमोऽध्यायः॥५५॥
षट्पञ्चाशत्तमोऽध्यायः

जनमेजय उवाच। बालोऽप्ययं स्थविर इवावभाषते नायं बालः स्थविरोऽयं मतो मे ।
इच्छाम्यहं वरमस्मै प्रदातुं तन्मे विप्राः संविदध्वं यथावत्॥१॥

वालोऽपीति | संविदध्यं ऐकमत्यं कुरुध्वम् ॥१॥

सदस्या ऊचुः। बालोऽपि विप्रो मान्य एवेह राज्ञां विद्वान्यो वै स पुनर्वै यथावत् ।
सर्वान्कामांस्त्वत्त एवार्हतेऽद्य यथा च नस्तक्षक एति शीघ्रम्॥२॥

एति शीघ्रं प्राग्वरदानादिति तथा कर्तव्यमिति भावः ॥२॥

सौतिरुवाच। व्याहर्तुकामे वरदे नृपे द्विजं वरं वृणीष्वेति ततोऽभ्युवाच ।
होता वाक्यं नातिहृष्टान्तरात्मा कर्मण्यस्मिंस्तक्षको नैति तावत्॥३॥

तक्षकस्तावन्नैतीति वाक्यं होता उवाचेति संबन्धः । तावद्वरो न देय इति भावः ॥३॥

जनमेजय उवाच। यथा चेदं कर्म समाप्यते मे यथा च वै तक्षक एति शीघ्रम् ।
तथा भवन्तः प्रयतन्तु सर्वे परं शक्त्या स हि मे विद्विषाणः॥४॥

विद्विषाणः द्वेषं कृतवान् । लिटः कानच् । अभ्यासलोप आर्षः। दिद्विषाण इति वा पाठः ॥४॥

ऋत्विज ऊचुः। यथा शस्त्राणि नः प्राहुर्यथा शंसति पावकः ।
इन्द्रस्य भवने राजंस्तक्षको भयपीडितः॥५॥

शस्त्राणि शंसनमन्त्रदेवताः । शास्त्राणीति पाठे पुराकल्परूपा अर्थवादाः ॥५॥

यथा सूतो लोहिताक्षो महात्मा पौराणिको वेदितवान्पुरस्तात् ।
स राजानं प्राह पृष्टस्तदानीं यथाहुर्विप्रास्तद्वदेतन्नृदेव॥६॥

पुराणमागम्य ततो ब्रवीम्यहं दत्तं तस्मै वरमिन्द्रेण राजन् ।
वसेह त्वं मत्सकाशे सुगुप्तो न पावकस्त्वां प्रदहिष्यतीति॥७॥

पुराणं पूर्वकल्पीयवृत्तान्तम् । आगम्य ज्ञात्वा तेनास्मिन्नपि कल्पे तथैव भवितेति भावः ॥७॥

एतच्छ्रुत्वा दीक्षितस्तप्यमान आस्ते होतारं चोदयन्कर्मकाल ।
होता च यत्तोस्याजुहावाथ मन्त्रै- रथो महेन्द्रः स्वयमाजगाम ॥८॥

विमानमारुह्य महानुभावः सर्वैर्देवैः परिसंस्तूयमानः ।
बलाहकैश्चाप्यनुगम्यमानो विद्याधरैरप्सरसां गणैश्च॥९॥

तस्योत्तरीये निहितः स नागो भयोद्विग्नः शर्म नैवाभ्यगच्छत् ।
ततो राजा मन्त्रविदोऽब्रवीत्पुनः क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन्॥१०॥

जनमेजय उवाच। इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः ।
तमिन्द्रेणैव सहितं पातयध्वं विभावसौ॥११॥

विभावसौ वन्हौ ॥११॥

सौतिरुवाच। जनमेजयेन राज्ञा तु नोदितस्तक्षकं प्रति ।
होता जुहाव तत्रस्थं तक्षकं पन्नगं तथा॥१२॥

हूयमाने तथा चैव तक्षकः सपुरन्दरः ।
आकाशे ददृशे चैव क्षणेन व्यथितस्तदा॥१३॥

पुरन्दरस्तु तं यज्ञं दृष्ट्वोरुभयमाविशत् ।
हित्वा तु तक्षकं त्रस्तः स्वमेव भवनं ययौ॥१४॥

भयं आविशत्प्राप्तवान् ॥१४॥

इन्द्रे गते तु राजेन्द्र तक्षको भयमोहितः ।
मन्त्रशक्त्या पावकार्चिस्समीपमवशो गतः॥१५॥

ऋत्विज ऊचुः। वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो ।
अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि ॥१६॥

इन्द्रादपि ब्राह्मणसामर्थ्यमधिकं तथापि ब्राह्मणैर्देवहेलनं न कर्तव्यमित्याशयेन ऋत्विज ऊचुः वर्तत इति ॥१६॥

जनमेजय उवाच। बालाभिरूपस्य तवाप्रमेय वरं प्रयच्छामि यथानुरूपम् ।
वृणीष्वयत्तेऽभिमतं हृदि स्थितं तत्ते प्रदास्याम्यपि चेददेयम् ॥१७॥

हे बाल ॥१७॥

ऋत्विज ऊचुः। अयमायाति तूर्णं स तक्षकस्ते वशं नृप ।
श्रूयतेऽस्य महान्नादो नदतो भैरवं रवम्॥१८॥

नूनं मुक्तो वज्रभृता स नागो भ्रष्टो नाकान्मन्त्रविस्रस्तकायः ।
घूर्णन्नाकाशे नष्टसंज्ञोऽभ्युपैति तीव्रान्निश्वासान्निश्वसन्पन्नगेन्द्रः॥१९॥

नाकात्स्वर्गात् ॥१९॥

सौतिरुवाच। पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि ।
इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत्॥२०॥

आस्तीक उवाच। वरं ददासि चेन्मह्यं वृणोमि जनमेजय ।
सत्रं ते विरम त्वेतन्न पतेयुरिहोरगाः॥२१॥

एवमुक्तस्तदा तेन ब्रह्मन्पारिक्षितस्तु सः ।
नातिहृष्टमनाश्चेदमास्तीकं वाक्यमब्रवीत्॥२२॥

सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो ।
तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम॥२३॥

आस्तीक उवाच। सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् ।
सत्रं ते विरम त्वेतत्स्वस्ति मातृकुलस्य नः॥२४॥

सौतिरुवाच। आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा ।
पुनःपुनरुवाचेदमास्तीकं वदतां वरः॥२५॥

अन्यं वरय भद्रं ते वरं द्विज्वरोत्तम ।
अयाचत न चाप्यन्यं वरं स भृगुनन्दन॥२६॥

ततो वेदविदस्तात सदस्याः सर्व एव तम् ।
राजानमूचुः सहिता लभतां ब्राह्मणो वरम्॥२७॥

॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि आस्तीकवरप्रदानं षट्पञ्चाशत्तमोऽध्यायः॥५६॥
सप्तपञ्चाशत्तमोऽध्यायः

शौनक उवाच। ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने ।
तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज॥१॥

सप्तपञ्चाशत्तमः अध्यायः ये सर्पा इति॥१॥

सौतिरुवाच। सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च ।
न शक्यं परिसंख्यातुं बहुत्वाद्द्विजसत्तम॥२॥

यथास्मृति तु नामानि पन्नगानां निबोध मे ।
उच्यमानानि मुख्यानां हुतानां जातवेदसि॥३॥

वासुकेः कुलजातांस्तु प्राधान्येन निबोध मे ।
नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान्॥४॥

अवशान्मातृवाग्दण्डपीडितान्कृपणान्हूतान् ।
कोटिशो मानसः पूर्णः शलः पालो हलीमकः॥५॥

पिच्छलः कौणपश्चक्रः कालवेगः प्रकालनः ।
हिरण्यबाहुः शरणः कक्षकः कालदन्तकः॥६॥

एते वासुकिजा नागाः प्रविष्टा हव्यवाहने ।
अन्ये च बहवो विप्र तथा वै कुलसंभवाः ।
प्रदीप्ताग्नौ हुताःसर्वे घोररूपा महाबलाः॥७॥

तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् ।
पुच्छाण्डको मण्डलकः पिण्डसेक्ता रभेणकः॥८॥

उच्छिखः शरभो भङ्गो बिल्वतेजा विरोहणः ।
शिली शलकरो मूकः सुकुमारः प्रवेपनः॥९॥

मुद्गरः शिशुरोमा च सुरोमा च महाहनुः ।
एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम्॥१०॥

पारावतः पारियातः पाण्डरो हरिणः कृशः ।
विहङ्गः शरभो मेदः प्रमोदः संहतापनः॥११॥

ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् ।
कौरव्यकुलजान्नागाञ्शृणु मे त्वं द्विजोत्तम॥१२॥

एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः ।
बाहुकः शृङ्गवेरश्च धूर्तकः प्रातरातकौ॥१३॥

कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम् ।
धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम्॥१४॥

कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् ।
शङ्कुकर्णः पिठरकः कुठारमुखसेचकौ॥१५॥

पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः ।
अमाहठः कामठकः सुषेणो मानसोऽव्ययः॥१६॥

भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारकः ।
ऋषभो वेगवान्नागः पिण्डारकमहाहनू॥१७॥

रक्ताङ्गः सर्वसारङ्गः समृद्धपटवासकौ ।
वराहको वीरणकः सुचित्रश्चित्रवेगिकः॥१८॥

पराशरस्तरुणको मणिः स्कन्धस्तथारुणिः ।
इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः॥१९॥

प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः ।
एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः॥२०॥

न शक्यं परिसंख्यातुं ये दीप्तं पावकं गताः ।
त्रिशीर्षाः सप्तशीर्षाश्च दशशीर्षास्तथाऽपरे॥२१॥

कालानलविषा घोरा हुताः शतसहस्रशः ।
महाकाया महावेगाः शैलशृङ्गसमुच्छ्रयाः॥२२॥

योजनायामविस्तारा द्वियोजनसमायताः ।
कामरूपाः कामबला दीप्तानलविषोल्बणाः॥२३॥

योजनायामविस्तारा अपि मन्त्रसामर्थ्यत्स्वल्पप्रमाणाः । अगस्त्यकरगतसमुद्रवत् । वह्नौ प्रवेशयोग्या भवन्ति ॥२३॥

दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपाडिताः॥२४॥

ब्रह्म वेदस्तत्तुल्यं मातृवाक्यं तद्रूपो दण्डो ब्रह्मदण्डस्तेन निपीडिताः ॥२४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सर्पनामकथने सप्तपञ्चाशत्तमोऽध्यायः॥५७॥
अष्टपञ्चाशत्तमोऽध्यायः

सौतिरुवाच। इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुम ।
तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन हि॥१॥

इदमिति ॥१॥

इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत ।
ततश्चिन्तापरो राजा बभूव जनमेजयः॥२॥

हूयमाने भृशं दीप्ते विधिवद्वसुरेतसि ।
न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः॥३॥

शौनक उवाच। किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् ।
न प्रत्यभात्तदाऽग्नौ यत्स पपात न तक्षकः॥४॥

सौतिरुवाच। तमिन्द्रहस्ताद्वित्रस्तं विसंज्ञं पन्नगोत्तमम् ।
आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत्॥५॥

वितस्थे सोऽन्तरिक्षे च हृदयेन विदूयता ।
यथा तिष्ठति वै कश्चित्खं च गां चान्तरा नरः॥६॥

खं च गां चान्तरा द्यावापृथिव्योर्मध्ये अन्तरिक्ष इत्यर्थः॥६॥

ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् ।
काममेतद्भवत्वेवं यथास्तीकस्य भाषितम्॥७॥

समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः ।
प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत्॥८॥

ततो हलहलाशब्दः प्रीतिजः समजायत ।
आस्तीकस्य वरे दत्ते तथैवोपरराम च॥९॥

स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह ।
प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः॥१०॥

सं यज्ञ उपररामेत्यन्वयः॥१०॥

ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः ।
तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः॥११॥

लोहिताक्षाय सूताय तथा स्थपतये विभुः ।
येनोक्तं तस्य तत्राग्रे सर्पसत्रनिवर्तने॥१२॥

स्थपतये शिल्पिने ॥१२॥

निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु ।
दत्त्वा द्रव्यं यथान्यायं भोजनाच्छादनान्वितम्॥१३॥

प्रीतस्तस्मै नरपतिरप्रमेयपराक्रमः ।
ततश्चकारावभृथं विधिदृष्टेन कर्मणा॥१४॥

अवभृथं यज्ञसमाप्तिम् ॥१४॥

आस्तीकं प्रेषयामास गृहानेव सुसंस्कृतम् ।
राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम्॥१५॥

सुसंस्कृतं वस्त्रालंकरणांदिभिः शोभितम् ॥१५॥

पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् ।
भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ॥१६॥

तथेत्युक्त्वा प्रदुद्राव तदास्तीको मुदा युतः ।
कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम्॥१७॥

प्रदुद्राव शीघ्रं मातुलाय हर्षमाख्यातुम् ॥१७॥

स गत्वा परमप्रीतो मातुलं मातरं च ताम् ।
अभिगम्योपसंगृह्य तथा वृत्तं न्यवेदयत्॥१८॥

सौतिरुवाच। एतच्छ्रुत्वा प्रीयमाणाः समेता ये तत्रासन्पन्नगा वीतमोहाः ।
आस्तीके वै प्रीतिमन्तो बभूवु- रूचुश्चैनं वरमिष्टं वृमीष्व॥१९॥

भूयोभूयः सर्वशस्तेऽब्रुवंस्तं किं ते प्रियं करवामाद्य विद्वन् ।
प्रीता वयं मोक्षिताश्चैव सर्वे कामं किं ते करवामाद्य वत्स॥२०॥

आस्तीक उवाच। सायंप्रातर्ये प्रसन्नात्मरूपा लोके विप्रा मानवा ये परेऽपि ।
धर्माख्यानं ये पठेयुर्ममेदं तेषां युष्मन्नैव किंचिद्भयं स्यात्॥२१॥

तैश्चाप्युक्तो भागिनेयः प्रसन्नै- रेतत्सत्यं काममेवं वरं ते ।
प्रीत्या युक्ताः कामितं सर्वशस्ते कर्तारः स्म प्रवणा भागिनेय॥२२॥

प्रवणाः नम्राः ॥२२॥

असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् ।
दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत्॥२३॥

प्रसंगात्सर्पभयनिवर्तकान्मन्त्रान्पठति । असितमित्यादीन् । तत्र द्वितीयः षट्पादः ॥२३॥

यो जरत्कारुणा जातो जरत्कारौ महावशाः ।
आस्तीकः सर्पसत्रे वः पन्नगान्योऽभ्यरक्षत ।
तं स्मरन्तं महाभागा न मां हिंसितुमर्हथ॥२४॥

सर्पापसर्प भद्रं ते गच्छ सर्प महाविष ।
जनेमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर॥२५॥

आस्तीकस्य वचः श्रुत्वा यः सर्पो न निवर्तते ।
शतधा भिद्यते मूर्धा शिंशवृक्षफलं यथा॥२६॥

सौतिरुवाच। स एवमुक्तस्तु तदा द्विजेन्द्रः समागतैस्तैर्भुजगेन्द्रमुख्यैः ।
संप्राप्य प्रीतिं विपुलां महात्मा ततो मनो गमनायाथ दध्रे॥२७॥

मोक्षयित्वा तु भुजगान्सर्पसत्राद्द्विजोत्तमः ।
जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान्॥२८॥

दिष्टान्तं मोक्षम् ॥२८॥

इत्याख्यानं मयास्तीकं यथावत्तव कीर्तितम् ।
यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित्॥२९॥

सौतिरुवाच। यथा कथितवान्ब्रह्मन्प्रमतिः पूर्वजस्तव ।
पुत्राय रुरवे प्रीतः पृच्छते भार्गवोत्तम॥३०॥

यद्वाक्यं श्रुतवांश्चाहं तथा च कथितं मया ।
आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः॥३१॥

श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम् ।
यन्मां त्वं पृष्टवान्ब्रह्मञ्श्रुत्वा डुण्डुभभाषितम् ।
व्येतु ते सुमहद्ब्रह्मन्कौतूहलमरिन्दम॥३२॥

कौतूहलं कीदृक्सर्पसत्रमित्याश्चर्यम् ।

'रहस्यं सौपर्णे कुमतिसुमतीकद्रूविनते भुजङ्गाः कामाद्याः सुकृतमरुणस्तापशमनः ।
सुपर्णः प्रत्यग्धीः कृतकममृतं नेच्छति फणी तदिच्छन्वन्ध्याशो ह्यजनि हरिशक्रौ परनरौ ॥१॥

‘अमृतमथनगुह्यं यत्नतौल्येपि देवैरमृतमसुरसंघः स्त्रीमनस्को न लेभे ।
अपि फणिमखगोप्यं साध्वसाध्वोरपिस्तोभयमभयमवश्यं विप्रहेलाश्रयाभ्याम्’ ॥२॥

रन्तगर्भस्तु । 'संततिस्तुतिरास्तीके तथा सर्वापदामपि । निवृत्तिर्ब्राह्मणात्तस्य शक्तिश्वातीव कथ्यते ॥३२॥
॥इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रे अष्टपञ्चाशत्तमोऽध्यायः॥५८॥
समाप्तमास्तीकपर्व

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in