अनुक्रमणिकापर्व - १पर्वसंग्रहपर्व - २पौष्यपर्व - ३पौलोमपर्व। - ४आस्तिकपर्व - ५अंशावतरणपर्व - ६सम्भवपर्व - ७जतुगृहपर्व । - ८हिडिम्बवधपर्व - ९बकवधपर्व - १०चैत्ररथपर्व । - ११स्वयंवरपर्व - १२वैवाहिकपर्व - १३विदुरागमनराज्यालंभपर्व - १४अर्जुनवनवासपर्व - १५सुभ्रद्राहरणपर्व। - १६हरणाहरणपर्व। - १७खाण्डवदाहपर्व - १८मयदर्शनपर्व - १९

अंशावतरणपर्व

एकोनषष्ठितमोऽध्यायः

शौनक उवाच। भृगुवंशात्प्रभृत्येव त्वया मे कीर्तितं महत् ।
आख्यानमखिलं तात सौते प्रीतोऽस्मितेन ते॥१॥

एकोनषष्टितमः अध्यायः भृग्विति ॥१॥

वक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन ।
याः कथा व्याससंपन्नास्ताश्च भूयो विचक्ष्व मे॥२॥

विचक्ष्व विशेषेण स्पष्टं कथय ॥२॥

तस्मिन्परमदुष्पारे सर्पसत्रे महात्मनाम् ।
कर्मान्तरेषु यज्ञस्य सदस्यानां तथाऽध्वरे॥३॥

या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् ।
त्वत्त इच्छामहे श्रोतुं सौते त्वं वै प्रचक्ष्व नः॥४॥

सौतिरुवाच। कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः ।
व्यासस्त्वकथयच्चित्रमाख्यानं भारतं महत्॥५॥

कर्मान्तरोष्विति । वेदाश्रयाः शौनःशेपाख्यानादयः । अकथयद्वैशंपायनं कथाः कथयितुं प्रयोजितवान् । वेदाश्रयाभ्योपि कथाभ्य एताः कथाः श्रेष्ठतरा इति भावः ॥५॥

शौनक उवाच। महाभारतमाख्यानं पाण्डवानां यशस्करम् ।
जनमेजयेन पृष्टः सन्कृष्णद्वैपायनस्तदा॥६॥

श्रावयामास विधिवत्तदा कर्मान्तरे तु सः ।
तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम्॥७॥

मनःसागरसंभूतां महर्षेर्भावितात्मनः ।
कथयस्व सतां श्रेष्ठ सर्वरत्नमयीमिमाम्॥८॥

भावितः योगसंस्कृत आत्मा मनो यस्य स भावितात्मा तस्य । पाठान्तरे । न हि तृप्यामि कथ्यति त्वयि कथयति सति ॥८॥

सौतिरुवाच। हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् ।
कृष्णद्वैपायनमतं महाभारतमादितः॥९॥

शृणु सर्वमशेषेण कथ्यमानं मया द्विज ।
शंसितुं तन्महान्हर्षो ममापीह प्रवर्तते॥१०॥

॥ इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि एकोनषष्टितमोऽध्यायः॥५९॥
षष्टितमोऽध्यायः

सौतिरुवाच। श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् ।
अभ्यगच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा॥१॥

षष्टितमः अध्यायः श्रुत्वेति ॥१॥

जनयामास यं काली शक्तेः पुत्रात्पराशरात् ।
कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम्॥२॥

काली सत्यवती ॥२॥

जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् ।
वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः॥३॥

इष्टया इच्छया देहं सद्योऽवीवृधत् वर्धितवान् । देवीमितिपाठे देवीं मातरं वरदानेन वा स सरस्वतीं वा उपबृंहणैरवीवृधत् वर्धितवान् । देवी वृद्धिमेवाह । वेदानिति । चाद्वेदार्थान् । अधिजगे अधिगतवान् ॥३॥

यन्नैति तपसा कश्चिन्न वेदाध्ययनेन च ।
न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना॥४॥

यन्नैतीति । यत्तप आदिना कश्चिन्नैति नात्येति नातिशेते इति प्राञ्चः । यद्वस्तु तप आदिना कश्चिन्नैति न प्राप्नोति तदप्यात्मतत्त्वमधिजगे इति पूर्वेण संबन्धः । तथा च न कर्मणा न प्रजया धनेन नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन इत्यादिश्रुतिभ्यस्तप आदिनापि दुष्प्रापमात्मतत्त्वं जातमात्र एवाधिगतवानित्यर्थः । मन्युना यज्ञेन ॥४॥

विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः ।
परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः॥५॥

विव्यास विभक्तवान् । हौत्राध्वर्यवौद्गात्राणि काण्डानि त्रेतानुपयुक्तं काण्डं च पृथक्कृतवानित्यर्थः। परावरे निरुपाधिसोपाधिब्रह्मणी जानातीति परावरज्ञः ब्रह्मर्षिः । ब्राह्मणश्चासौ मन्त्रद्रष्टा चेत्यर्थः। कविः क्रान्तम् अतीतादितद्दर्शी ॥५॥

यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् ।
शन्तनोः संततिं तन्वन्पुण्यकीर्तिर्महायशाः॥६॥

पुण्यकीर्तिर्महायशाः । यो गुणौघः । श्रूयमाणस्तादृशगुणार्जने पुरुषं व्यापारयति सा कीर्तिः । यथा युधिष्ठिरस्य धर्मनिष्ठत्वम् । कृविक्षेपेऽस्मात्संज्ञायां क्तिच् । यश्च गुणौघो गृह्यमाणः पुरुषमाल्हादयत्येव न प्रवर्तयति स यशः । यथा ज्योत्स्ना चन्द्रस्य । यथा विष्णोर्लोकत्रयाक्रमणं पदत्रयेण वसिष्ठस्य वाक्षमा रामस्य सेतुर्यशः ॥६॥

जनमेजयस्य राजर्षेः स महात्मा सदस्तथा ।
विवेश सहितः शिष्यैर्वेदवेदाङ्गपारगैः॥७॥

सदः यज्ञमण्डपम् ॥ ७॥

तत्र राजानमासीनं ददर्श जनमेजयम् ।
वृतं सदस्यैर्बहुभिर्देवैरिव पुरन्दरम्॥८॥

देवैरित्यत्र मेघैरिति पाठे मेघाशद्बान्मत्वार्थीयोऽर्शआद्यच्। मेधावद्भिर्बहुभिर्बृहस्पतिभिरिवेत्य भूतोपमा । बृहस्पतेरेकत्वात् ॥८॥

तथा मूर्धाभिषिक्तैश्च नानाजनपदेश्वरैः ।
ऋत्विग्भिर्ब्रह्मकल्पैश्च कुशलैर्यज्ञसंस्तरे॥९॥

मूर्ध्नि पट्टस्थानेऽभिऽषिक्तैर्मूर्धाभिषिक्तैः । यज्ञसंस्तरे यज्ञाङ्गानां रचनानुष्ठाने इत्यर्थः ॥९॥

जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् ।
सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः॥१०॥

काञ्चनं विष्टरं तस्मै सदस्यानुमतः प्रभुः ।
आसनं कल्पयामास यथा शक्रो बृहस्पतेः॥११॥

तत्रोपविष्टं वरदं देवर्षिगणपूजितम् ।
पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा॥१२॥

पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः ।
पितामहाय कृष्णाय तदर्हाय न्यवेदयत्॥१३॥

पितामहाय ब्रह्मतुल्याय । कृष्णाय न्यासाय ॥१३॥

प्रतिगृह्य तु तां पूजां पाण्डवाज्जनमेजयात् ।
गां चैव समनुज्ञाप्य व्यासः प्रीतोभवत्तदा॥१४॥

विष्टरादिभिर्मधुपर्कार्चनं दर्शितम् । तत्र निवेदितां गां समनुज्ञापितवान् ब्यासो मा गामनागामिति मन्त्रलिङ्गात्तस्या अवध्यत्वं मन्यमानः । तद्यथैवादो मनुष्यराज आगतेऽन्यस्मिन्वार्हत्युक्षाणं वा वेहतं वा क्षदन्ते इत्यर्थवादस्तु रागप्राप्तानुवादसरूपो न विधायकः । मावधिष्ठेति निषेधलिङ्गस्य अनागामिति निरपराधत्वहेतूपोद्वलितस्य प्रबलतरत्वात् । वेहतं वध्यां गां क्षदन्ते हिंसन्ति ॥१४॥

तथा च पूजयित्वा तं प्रणयात्प्रतितामहम् ।
उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम्॥१५॥

उपोपविश्य समीपे उपविश्य ॥१५॥

भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च ।
सदस्यैः पूजितः सर्वैः सदस्यान्प्रत्यपूजयत्॥१६॥

प्रतिवेद्य प्रतिख्याप्य । अत्र पूजा स्तुतिरेव ॥१६॥

ततस्तु सहितः सर्वैः सदस्यैर्जनमेजयः ।
इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः॥१७॥

इदं वक्ष्यमाणम् ॥१७॥

जनमेजय उवाच। कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् ।
तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज॥१८॥

प्रत्यक्षदर्शिवान् प्रत्यक्षदर्शी । अन्येभ्योऽपि दृश्यन्त इति वनिप् ॥१८॥

कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् ।
तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत्॥१९॥

भेदः वैरं । अक्लिष्टं रागद्वेषादिशून्यं कर्म येषां तेषां अक्लिष्टकर्मणाम् ॥१९॥

पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् ।
कार्त्स्न्येनैतन्ममाचक्ष्व यथा वृत्तं द्विजोत्तम॥२०॥

पितामहानां प्रपितामहानाम् ॥२०॥

सौतिरुवाच। तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा ।
शशास शिष्यमासीनं वैशंपायनमन्तिके॥२१॥

व्यास उवाच। कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा ।
तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि॥२२॥

गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा ।
आचचक्षे ततः सर्वमितिहासं पुरातनम्॥२३॥

राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः ।
भेदं सर्वविनाशं च कुरुपाण्डवयोस्तदा॥२४॥

भेदं वैरमूलं सर्वविनाशं च तत्फलम् ॥२४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि कथानुबन्धे षष्टितमोऽध्यायः॥६०॥
एकषष्टितमोऽध्यायः

वैशंपायन उवाच। गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः ।
संपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान्॥१॥

एकषष्टितमः अध्यायः गुरव इति । मनोबुद्धिसमाधिभिः मन इत्यष्टाङ्गोपलक्षणं बुद्धीति भक्तिश्रद्धयोः । समाधिश्वित्तैकाग्र्यं । संपूज्य नमस्कारादिना मानयित्वा ॥१॥

महर्षेर्विश्रुतस्येह सर्वलोकेषु धीमतः ।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यास्य महात्मनः॥२॥

श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् ।
गुरोर्वक्त्रपरिस्पन्दो मनः प्रोत्साहतीव मे॥३॥

प्रोत्साहयतीव परिस्पन्दमुत्प्रोत्साहयतीव मे इति पाठे परिस्पन्दशब्दे क्लीबत्वमार्षम् । गुरोर्वक्रपरिस्पन्दस्त्वं कथां कथयेत्याज्ञावचनं तज्जन्यामुत्प्रीतिः सा प्रोत्साहयति ॥३॥

शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् ।
राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च॥४॥

यथा च युद्धमभवत्पृथिवीक्षयकारकम् ।
तत्तेऽहं कथयिष्यामि पृच्छते भरतर्षभ॥५॥

मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् ।
न चिरादेव विद्वांसो वेदे धनुषि चाभवन्॥६॥

न चिरात् शीघ्रं विद्वांसोऽभवन् ॥६॥

तांस्तथा सत्ववीर्यौजः संपन्नान्पौरसंमतान् ।
नामृष्यन्कुरवो दृष्टा पाण्डवाञ्श्रीयशोभृतः॥७॥

सत्वं देहबलम् । वीर्यम् उत्साहः ओजश्चित्तेन्द्रियबलम् ॥७॥

ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः ।
तेषां निग्रहनिर्वासान्विविधांस्ते समारभन्॥८॥

ततो दुर्योधनः शूरः कुलिङ्गस्य मते स्थितः ।
पाण्डवान्विविधोपायै राज्यहेतोरपीडयत्॥९॥

कुलिङ्गस्य पक्षिणो मते साहसे । स हि सिंहदंष्ट्रान्तर्गतं मांसमादातुं यतते । कलिङ्गस्येत्यपपाठः ॥९॥

ददावथ विषं पापो भीमाय धृतराष्ट्रजः ।
जरयामास तद्वीरः सहान्नेन वृकोदरः॥१०॥

साहसमेवाह ददावित्यादिना ॥१०॥

प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् ।
तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत्॥११॥

प्रमाणकोट्यां गङ्गायास्तीर्थविशेषे । वृकनामा बहुभक्षोऽग्निरुदरे यस्य स वृकोदरः ॥११॥

यदा विबुद्धः कौन्तेयस्तदा संच्छिद्य बन्धनम् ।
उदतिष्ठन्महाबाहुर्भीमसेनो गतव्यथः॥१२॥

आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् ।
सर्वेष्वेवाङ्गदेशेषु न ममार स शत्रुहा॥१३॥

तेषां तु विप्रकारेषु तेषु तेषु महामतिः ।
मोक्षणे प्रतिकारे च विदुरोऽवहितोऽभवत्॥१४॥

विप्रकारेषु अपकारेषु मोक्षणे प्राप्तापन्निवारणे प्रतिकारे प्रातिभट्येन शत्रोरप्यापदि निपातने ॥१४॥

स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः ।
पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः॥१५॥

यदा तु विविधोपायैः संवृतैर्विवृतैरपि ।
नाशकद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान्॥१६॥

संवृतैः गुप्तैः । विवृतैः प्रकाशैः । देवभाव्यर्थरक्षितान् दैवेनादृष्टेन भावी कुरुक्षयपाण्डवराज्यलाभादिरर्थस्तस्मै रक्षितान् ॥१६॥

ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः ।
धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत्॥१७॥

वृषः कर्णः । जातुषं लाक्षामयम् ॥१७॥

सुतप्रियैषी तान्राजा पाण्डवानम्बिकासुतः ।
ततो विवासयामास राज्यभोगबुभुक्षया॥१८॥

ते प्रातिष्ठन्त सहिता नगरान्नागसाह्वयात् ।
प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनाम्॥१९॥

क्षत्ता विदुरः ॥१९॥

तेन मुक्ता जतुगृहान्निशीथे प्राद्रवन्वनम् ।
ततः संप्राप्य कौन्तेया नगरं वारणावतम्॥२०॥

तेन क्षत्तुर्मन्त्रणेन ॥२०॥

न्यवसन्त महात्मानो मात्रा सह परन्तपाः ।
धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे॥२१॥

पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः ।
सुरुङ्गां कारयित्वा तु विदुरेण प्रचोदिताः॥२२॥

पुरोचनात् आत्मानं रक्षमाणाः रक्षन्त । सुरुङ्गामुभयतो बिलं विवरम् ॥२२॥

आदीप्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम् ।
प्राद्रवन्भयसंविग्ना मात्रा सह पन्तपाः॥२३॥

ददृशुर्दारुणं रक्षो हिडिम्बं वननिर्झरे ।
हत्वा च तं राक्षसेन्द्रं भीताः समवबोधनात्॥२४॥

वननिर्झरे वननिर्झरसमीपे । अवबोधनात् प्राकट्यात् ॥२४॥

निशि संप्राद्रवन्पार्था धार्तराष्ट्रभयार्दिताः ।
प्राप्ता हिडिम्बा भीमेन यत्र जातो घटोत्कचः॥२५॥

एकचक्रां ततो हत्वा पाण्डवाः संशितव्रताः ।
वेदाध्ययनसंपन्नास्तेऽभवन्ब्रह्मचारिणः॥२६॥

ते तत्र नियताः कालं कंचिदूषुर्नरर्षभाः ।
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने॥२७॥

तत्राससाद क्षुधितं पुरुषादं वृकोदरः ।
भीमसेनो महाबाहुर्बकं नाम महाबलम्॥२८॥

तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः ।
निहत्य तरसा वीरो नागरान्पर्यसान्त्वयत्॥२९॥

निहत्य नागराणां शोकम् अपनीतवानित्यर्थः ॥२९॥

ततस्ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम् ।
श्रुत्वा चैवाभ्यगच्छ्त गत्वा चैवालभन्त ताम्॥३०॥

स्वयं वृणुते इति स्वयंवरा ताम् ॥३०॥

ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः ।
विदिता हास्तिनपुरं प्रत्याजग्मुररिन्दमाः॥३१॥

ते उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च ।
भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति॥३२॥

शान्तनवेन भीष्मेण ॥३२॥

अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः ।
तस्माज्जनपदोपेतं सुविभक्तमहापथम्॥३३॥

वासाय खाण्डवप्रस्थं व्रजध्वं गतमत्सराः ।
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः॥३४॥

नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः ।
तत्र ते न्यवसन्पार्थाः संवत्सरगणांन्बहून्॥३५॥

वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीभृतः ।
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः॥३६॥

अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितान्बहून् ।
अजयद्भीमसेनस्तु दिशं प्राचीं महायशाः॥३७॥

उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा ।
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा॥३८॥

एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् ।
पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता॥३९॥

षट्सूर्येवाभवत्पृथ्वी पाण्डवैः सत्यविक्रमैः ।
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः॥४०॥

वनं प्रस्थापयामास तेजस्वी सत्यविक्रमः ।
प्राणेभ्योऽपि प्रियतरं भ्रातरं सव्यसाचिनम्॥४१॥

अर्जुनं पुरुषव्याघ्रं स्थिरात्मानं गुणैर्युतम् ।
स वै संवत्सरं पूर्णं मासं चैकं वने वसन्॥४२॥

स वै संवत्सरं पूर्णं मासं चैकं वने वसदिति दशसंख्यापूरकत्वात्पूर्णशब्देन दशगुणमुच्यते संवत्सरं पूर्णम् एकं च तथा मासं पूर्णमेव । तेन एकादशसंवत्सरा दशमासाश्च भवन्ति । तेषां च सौराणां प्रत्यब्दं सपादपञ्चदिनवृद्ध्या सावना द्वादशाब्दा भवन्ति । अन्ये तु मासशब्देन द्वादशसंख्यां लक्षयन्त एकशब्दवैयर्थ्यम् एकवचनानुपपत्तिं च नेक्षन्ते । वने इत्युपलक्षणं नगरस्यापि ॥४२॥

ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन ।
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्॥४३॥

अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् ।
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता॥४४॥

सुभद्रा युयुजे प्रीत्या पाण्डवेनार्जुनेन ह ।
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम्॥४५॥

बीभत्सुर्वासुदेवेन सहितो नृपसत्तम ।
नातिभारो हि पार्थस्य केशवेन सहाभवत्॥४६॥

नातीति । खाण्डवदाह इति शेषः ॥४६॥

व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव ।
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्॥४७॥

व्यवसायः एवमेवेदं करिष्यामीति निश्चयः ॥४७॥

इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् ।
मोक्षयामास बीभत्सुर्मयं यत्र महासुरम्॥४८॥

बाणैर्युक्ताविति शेषः । कपिलक्षणं वानरध्वजम् । यत्र खाण्डवदाहे ॥४८॥

स चकार सभां दिव्यां सर्वरत्नसमाचिताम् ।
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः॥४९॥

ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् ।
वनं प्रस्थापयामास सप्तवर्षाणि पञ्च च॥५०॥

अक्षैः पाशैर्द्यूतेनेत्यर्थः ॥५०॥

अज्ञातमेकं राष्ट्रे च ततो वर्षं त्रयोदशम् ।
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु॥५१॥

नालभन्त महाराज ततो युद्धमवर्तत ।
ततस्ते क्षत्रमुत्साद्य हत्वा दुर्योधनं नृपम्॥५२॥

राज्यं विहतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः ।
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् ।
भेदो राज्यविनाशश्च जयश्च जयतांवर॥५३॥

विहतभूयिष्ठं नष्टप्रायम् ॥५३॥
॥ इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि भारतसूत्रं नाम एकषष्टितमोऽध्यायः॥६१॥
द्विषष्टितमोऽध्यायः

जनमेजय उवाच। कथितं वै समासेन त्वया सर्वं द्विजोत्तम ।
महाभारतमाख्यानं कुरूणां चरितं महत्॥१॥

द्विषष्टितमः अध्यायः कथितमिति ॥१॥

कथां त्वनघ चित्रार्थां कथयस्व तपोधन ।
विस्तरश्रवणे जातं कौतूहलमतीव मे॥२॥

स भवान्विस्तरेणेमां पुनराख्यातुमर्हति ।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्॥३॥

न तत्कारणमल्पं वै धर्मज्ञा यत्र पाण्डवाः ।
अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः॥४॥

अवध्यान् भीष्मद्रोणादीन् ॥४॥

किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः ।
प्रयुज्यमानान्संक्लेशान्क्षान्तवन्तो दुरात्मनाम्॥५॥

कथं नागायुतप्राणो बाहुशाली वृकोदरः ।
परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम॥६॥

बाहुशाली बाहुबलवान् । कथं क्रोधं धृतवान् निरुद्धवान् ॥६॥

कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः ।
शक्ता सती धार्तराष्ट्रान्नादहत्क्रोधचक्षुषा॥७॥

शक्ता दग्धुमिति शेषः ॥७॥

कथं व्यसनिनं द्यूते पार्थौ माद्रीसुतौ तदा ।
अन्वयुस्ते नरव्याघ्रा बाध्यमाना दुरात्मभिः॥८॥

कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् ।
अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः॥९॥

कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः ।
अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनंजयः॥१०॥

अस्यन् शरान् क्षिपन् । स कथं क्लेशं सोढवानित्यनुषज्यते ॥१०॥

एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन ।
यद्यच्च कृतवन्तस्ते तत्रतत्र महारथाः॥११॥

वैशंपायन उवाच। क्षणं कुरु महाराज विपुलोऽयमनुक्रमः ।
पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः॥१२॥

महर्षेः सर्वलोकेषु पूजितस्य महात्मनः ।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः॥१३॥

इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् ।
सत्यवत्यात्मजेनेह व्याख्यातममितौजसा॥१४॥

य इदं श्रावयेद्विद्वान्ये चेदं शृणुयुर्नराः ।
ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम्॥१५॥

इदं हि वेदैः समितं पवित्रमपि चोत्तमम् ।
श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम्॥१६॥

ऋषिभिर्मन्त्रैस्तद्रष्टभिर्वा संस्तुतं समं स्तुतं वा ॥१६॥

अस्मिन्नर्थश्च कामश्च निखिलेनोपदेक्ष्यते ।
इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी॥१७॥

परिनैष्ठिकी परिनिष्ठा मोक्षस्तदुचिता ॥१७॥

अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् ।
कार्ष्णं वेदमिमं विद्वाञ्छ्रावयित्वाऽर्थमश्नुते॥१८॥

भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् ।
इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः॥१९॥

मुच्यते सर्वपापेभ्यो राहुणा चन्द्रमा यथा ।
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा॥२०॥

महीं विजयते राजा शत्रूंश्चापि पराजयेत् ।
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत्॥२१॥

पुंसवनं पुमांसः सूयन्तेऽस्मिन्निति श्रुतेः ॥२१॥

महिषी युवराजाभ्यां श्रोतव्यं बहुशस्तथा ।
वीरं जनयते पुत्रं कन्यां वा राज्यभागिनीम्॥२२॥

महिषी पट्टराज्ञी ॥२२॥

धर्मशास्त्रमिदं पुण्यमर्थशास्त्रमिदं परम् ।
मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना॥२३॥

संप्रत्याचक्षते चेदं तथा श्रोष्यन्ति चापरे ।
पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः॥२४॥

शरीरेण कृतं पापं वाचा च मनसैव च ।
सर्वं संत्यजति क्षिप्रं य इदं शृणुयान्नरः॥२५॥

भरतानां महज्जन्म शृण्वतामनसूयताम् ।
नास्ति व्याधिभयं तेषां परलोकभयं कुतः॥२६॥

अनसूयतां गुणेषु दोषारोपमकुर्वताम् ॥२६॥

धन्यं यशस्यमायुष्यं पुण्यं स्वर्ग्यं तथैव च ।
कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा॥२७॥

कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् ।
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम्॥२८॥

सर्वविद्यावदातानां लोके प्रथितकर्मणाम् ।
य इदं मानवो लोके पुण्यार्थे ब्राह्मणाञ्छुचीन्॥२९॥

श्रावयेत महापुण्यं तस्य धर्मः सनातनः ।
कुरूणां प्रथितं वंशं कीर्तयन्सततं शुचिः॥३०॥

वंशमाप्नोति विपुलं लोके पूज्यतमो भवेत् ।
योऽधीते भारतं पुण्यं ब्राह्मणो नियतव्रतः॥३१॥

चतुरो वार्षिकान्मासान्सर्वपापैः प्रमुच्यते ।
विज्ञेयः स च वेदानां पारगो भारतं पठन्॥३२॥

देवा राजर्षयो ह्यत्र पुण्या ब्रह्मर्षयस्तथा ।
कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा॥३३॥

भगवांश्चापि देवेशो यत्र देवी च कीर्त्यते ।
अनेकजननो यत्र कार्तिकेयस्य संभवः॥३४॥

अनेकजननः अनेकेभ्यः षड्भ्यः कृत्तिकाभ्यः जननम् उत्पत्तिरस्मिन्निति तथा ॥३४॥

ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते ।
सर्वश्रुतिसमूहोऽयं श्रोतव्यो धर्मबुद्धिभिः॥३५॥

सर्वश्रुतिसमूहः सर्वासां श्रुतीनां कर्म ब्रह्मपराणां समूह एवायम् ॥३५॥

य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु ।
धूतपाप्मा जितस्वर्गो ब्रह्म गच्छति शाश्वतम्॥३६॥

श्रावयेद्ब्राह्मणाञ्श्राद्धे यश्चेमं पादमन्ततः ।
अक्षय्यं तस्य तच्छ्राद्धमुपावर्तेत्पितॄनिह॥३७॥

अह्ना यदेनः क्रियते इन्द्रियैर्मनसाऽपि वा ।
ज्ञानादज्ञानतो वापि प्रकरोति नरश्च यत्॥३८॥

तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ।
भरतानां महज्जन्म महाभारतमुच्यते॥३९॥

निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।
भरतानां महज्जन्म महाभारतमुच्यते॥४०॥

महतो ह्येनसो मर्त्यान्मोचयेदनुकीर्तितः ।
त्रिभिर्वर्षैर्लब्धकामः कृष्णद्वैपायनो मुनिः॥४१॥

नित्योत्थितः शुचिः शक्तो महाभारतमादितः ।
तपो नियममास्थाय कृतमेतन्महर्षिणा॥४२॥

तस्मान्नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैरिदम् ।
कृष्णप्रोक्तामिमां पुण्यां भारतीमुत्तमां कथाम्॥४३॥

श्रावयिष्यन्ति ये विप्रा ये च श्रोष्यन्ति मानवाः ।
सर्वथा वर्तमाना वै न ते शोच्याः कृताकृतैः॥४४॥

सर्वथा साधुनाऽसाधुना वा वर्त्मना वर्तमाना अपि कृताकृतैः क्रमेण पापपुण्यैस्तेन शोच्याः । एतच्छ्रवणादेव सर्वप्रत्यवायपरिहारो भवतीति भावः ॥४४॥

नरेण धर्मकामेन सर्वः श्रोतव्य इत्यपि ।
निखिलेनेतिहासोऽयं ततः सिद्धिमवाप्नुयात्॥४५॥

सिद्धिर्धर्मफलं चित्तशुद्ध्यादिः ॥४५॥

न तां स्वर्गगतिं प्राप्य तुष्टिं प्राप्नोति मानवः ।
यां श्रुत्वैवं महापुण्यमितिहासमुपाश्नुते॥४६॥

न तामिति । स्वर्गादप्येतच्छ्रवणं सुखकरं मुक्तिहेतुत्वादिति भावः ॥४६॥

शृण्वञ्श्राद्धः पुण्यशीलः श्रावयंश्चेदमद्भुतम् ।
नरः फलमवाप्नोति राजसूयाश्वमेधयोः॥४७॥

श्राद्धः श्रद्धावान् ॥४७॥

यथा समुद्रो भगवान्यथा मेरुर्महागिरिः ।
उभौ ख्यातौ रत्ननिधी तथा भारतमुच्यते॥४८॥

इदं हि वेदैः समितं पवित्रमपि चोत्तमम् ।
श्रव्यं श्रुतिसुखं चैव पावनं शीलवर्धनम्॥४९॥

श्रन्यम् अर्थतो रम्यं श्रुतिसुखं शब्दतो रम्यम् ॥४९॥

य इदं भारतं राजन्वाचकाय प्रयच्छति ।
तेन सर्वा मही दत्ता भवेत्सागरमेखला॥५०॥

पारिक्षितकथां दिव्यां पुण्याय विजयाय च ।
कथ्यमानां मया कृत्स्नां शृणु हर्षकरीमिमाम्॥५१॥

त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः ।
महाभारतमाख्यानं कृतवानिदमद्भुतम्॥५२॥

सदोत्थायी सदोद्युक्तः ॥५२॥

धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्॥५३॥

अद्भुतत्त्वमेवाह । धर्मे चेति धर्मादिचतुष्ट्यये उपादेये चकारचतुष्टयोक्ते अधर्मानर्थदुःखसंसाररूपे चतुष्के हातव्ये च विषये हेयमुपादेयं च कृत्स्नमत्रैव निरूपितम् । इतोऽधिकं ग्रन्थातरे नास्तीति कार्त्स्न्येन सर्वेषां शास्त्राणाम् अर्थं ज्ञातुकामेनैतदेवादर्तव्यमित्यर्थः ॥५३॥
॥ इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि महाभारतप्रशंसायां द्विषष्टितमोऽध्यायः॥६२॥
त्रिषष्टितमोऽध्यायः

वैशंपायन उवाच। राजोपरिचरो नाम धर्मनित्यो महीपतिः ।
बभूव मृगयां गन्तुं सदा किल धृतव्रतः॥१॥

त्रिषष्टितमः अध्यायः राजेति । रञ्जकत्वाद्राजा । महीपतिः पृथ्वीपालक ॥१॥

स चेदिविषयं रम्यं वसुः पौरवनन्दनः ।
इन्द्रोपदेशाज्जग्राह रमणीयं महीपतिः॥२॥

वसुः उपरिचरः ॥२॥

तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोनिधिम् ।
देवाः शक्रपुरोगा वै राजानमुपतस्थिरे॥३॥

इन्द्रत्वमर्हो राजाऽयं तपसेत्यनुचिन्त्य वै ।
तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयन्॥४॥

साक्षात्प्रत्यक्षीभूय ॥४॥

देवा ऊचुः। न संकीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते ।
त्वया हि धर्मो विधृतः कृत्स्नं धारयते जगत्॥५॥

न सङ्कीर्येत निर्नायकत्वात् ॥५॥

इन्द्र उवाच। लोके धर्मं पालय त्वं नित्ययुक्तः समाहितः ।
धर्मयुक्तस्ततो लोकान्पुण्यान्प्राप्स्यसि शाश्वतान्॥६॥

दिविष्ठस्य भुविष्ठस्त्वं सखा भूतो मम प्रियः ।
रम्य पृथिव्यां यो देशस्तमावस नराधिप॥७॥

पशव्यश्चैव पुण्यश्च प्रभूतधनधान्यवान् ।
स्वा रक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः॥८॥

पशव्यः पशुभ्यो हितः स्वा रक्ष्यः स्वः स्वर्गस्तत्तुल्यः अत एव रक्ष्यः ॥८॥

अर्थवानेष देशो हि धनरत्नादिभिर्युतः ।
वसुपूर्णा च वसुधा वस चेदिषु चेदिप॥९॥

धर्मशीला जनपदाः सुसंतोषाश्च साधवः ।
न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा॥१०॥

न च पित्रा विभज्यन्ते पुत्रा गुरुहिते रताः ।
युञ्जते धुरि नो गाश्च कृशान्संधुक्षयन्ति च॥११॥

गाः बलीवर्दान् देशोऽकृष्टपच्य इति हलघुरि न युञ्जते । नापि शकटधुरि । पृष्ठवाहैरेव तत्कार्यसिद्धेरिति भावः । कृशान् दीनानाथादीन्संधुक्षयन्ति पुष्टान्कुर्वन्ति । यद्वा वृषभान्कृशान्न धुरि युञ्जते प्रत्युत सन्धुक्षयन्तीति । अन्ये तु गाः स्त्री गवीः तासामप्यान्ध्रादि दुर्देशेषु धुरि योजनं दृष्टं तदिह नास्तीत्याहुः ॥११॥

सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद ।
न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु यद्भवेत्॥१२॥

न त इति । आत्मज्ञानात्सर्वज्ञो भविष्यसीत्यर्थः ॥१२॥

दैवोपभोग्यं दिव्यं त्वामाकाशे स्फाटिकं महत् ।
आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते॥१३॥

उपपत्स्यते उपस्थास्यते ॥१३॥

त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः ।
चरिष्यस्युपरिस्थो हि देवो विग्रहवानिव॥१४॥

ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् ।
धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम्॥१५॥

वैजयन्तीं विजयहेतुम् अविक्षतमेव धारयिष्यति पालयिष्यति न तु विक्षतम् । अनया शस्त्रमेव त्वां न बाधिष्यत इति भावः ॥१५॥

लक्षणं चैतदेवेह भविता ते नराधिप ।
इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत्॥१६॥

लक्षणं चिह्नम् ॥१६॥

यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः ।
इष्टप्रदानमुद्दिश्य शिष्टानां प्रतिपालिनीम्॥१७॥

इष्टप्रधानं प्रीतिदानमुद्दिश्य यष्टिं ददौ ॥१७॥

तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा ।
प्रवेशं कारयामास सर्वोत्सववरं तदा॥१८॥

शक्रस्य पूजार्थं मानार्थं तस्याः यष्टेः । गते संवत्सरे संवत्सरान्ते यष्टिप्रवेशोद्यापि महाराष्ट्रादिषु दृश्यते ॥१८॥

ततःप्रभृति चाद्यापि यष्टेः क्षितिपसत्तमैः ।
प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः॥१९॥

अपरेद्युस्ततस्तस्याः क्रियतेऽत्युच्छ्रयो नृपैः ।
अलङ्कृताया पिटकैर्गन्धमाल्यैश्च भूषणैः॥२०॥

अपरेद्युः प्रतिपदि द्वितीयसंवत्सरादौ । अत्युच्छ्रय ऊर्ध्वं स्थापनम् । पिटकैः मञ्जूषारूपैर्वस्त्रमयैः कोशैः । यद्वा काञ्च्यामिव पिटकाः स्वर्णादिमया वेष्टका पेट्य इति भाषायां प्रसिद्धा ग्राह्याः । ‘पिटकः पेटकः पेटा मञ्जूषाथ विहङ्गिका’ इत्यमरः ॥२०॥

माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च ।
भगवान्पूज्यते चात्र हंसरूपेण चेश्वरः॥२१॥

हंसरूपेण युक्तो हंसरूपी । तस्यैव बुद्धिस्थस्य रूपस्य विशेषणं स्वयमेव गृहीतेनेति हंसरूपेण वासव इति पाठे स्पष्टोऽर्थः ॥२१॥

स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः ।
स तां पूजां महेन्द्रस्तु दृष्ट्वा देवः कृतां शुभाम्॥२२॥

देवः कृतामिति पाठः विसर्गाभवे तु देवेति जनमेजयसम्बोधनम् ॥२२॥

वसुना राजमुख्येन प्रीतिमानब्रवीत्प्रभुः ।
ये पूजयिष्यन्ति नरा राजानश्च महं मम॥२३॥

महम् उत्सवम् । मह उद्धव उत्सव इत्यमरः ॥२३॥

कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ।
तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति॥२४॥

तथा स्फीतो जनपदो मुदितश्च भविष्यति ।
एवं महात्मना तेन महेन्द्रेण नराधिप॥२५॥

वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः ।
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः॥२६॥

भूमिरत्नादिभिर्दानैस्तथा पूज्या भवन्ति ते ।
वरदानमहायज्ञैस्तथा शक्रोत्सवेन च॥२७॥

वरदानं च महायज्ञाश्च तैः ॥२७॥

संपूजितो मघवता वसुश्चेदीश्वरो नृपः ।
पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम्॥२८॥

इन्द्रपीत्या चेदिपतिश्चकारेन्द्रमहं वसुः ।
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः॥२९॥

नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् ।
महारथो मागधानां विश्रुतो यो बृहद्रथः॥३०॥

प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् ।
मावेल्लश्च यदुश्चैव राजन्यश्चापराजितः॥३१॥

एते तस्य सुता राजन्राजर्षेर्भूरितेजसः ।
न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च॥३२॥

वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः ।
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम्॥३३॥

वासवाः वसुपुत्राः । इन्द्रप्रासादे इन्द्रदत्ते विमाने ॥३३॥

उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् ।
राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम्॥३४॥

पुरोपवाहिनीं तस्य नदीं शुक्तमतीं गिरिः ।
अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल॥३५॥

पुरोपवाहिनीं पुरसमीपे वहन्तीम् अरौत्सीत् आत्मन्येवावरुरोध ॥३५॥

गिरिं कोलाहलं तं तु पदा वसुरताडयत् ।
निश्चक्राम ततस्तेन प्रहारविवरेण सा॥३६॥

तस्यां नद्यां स जनयन्मिथुनं पर्वतः स्वयम् ।
तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत्॥३७॥

नदी राज्ञे न्यवेदयन्मिथुनमित्यनुषज्यते ॥३७॥

यः पुमानभवत्तत्र तं स राजर्षिसत्तमः ।
वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमः॥३८॥

चकार पत्नीं कन्यां तु तथा तां गिरिकां नृपः ।
वसोः पत्नी तु गिरिका कामकालं न्यवेदयत्॥३९॥

ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः ।
तदहः पितरश्चैनमूचुर्जहि मृगानिति॥४०॥

पुंसवने पुंप्रसवयोग्य काले । तदहः तस्मिन् दिने ॥४०॥

तं राजसत्तमं प्रीतास्तदा मतिमतां वरः ।
स पितॄणां नियोगेन तमनतिक्रम्य पार्थिवः॥४१॥

चकार मृगयां कामी गिरिकामेव संस्मरन् ।
अतीवरूपसंपन्नां साक्षाच्छ्रियमिवापराम्॥४२॥

अशोकैश्चम्पकैश्चूतैरनेकैरतिमुक्तकैः ।
पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः॥४३॥

पाटसैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा ।
एतै रम्यैर्महावृक्षैः पुण्यैः स्वादुफलैर्युतम्॥४४॥

कोकिलाकुलसन्नादं मत्तभ्रमरनादितम् ।
वसन्तकाले तत्तस्य वनं चैत्ररथोपमम्॥४५॥

मथाभिपरीतात्मा नापश्यद्गिरिकां तदा ।
अपश्यन्कामसंतप्तश्चरमाणो यदृच्छया॥४६॥

पुष्पसंछन्नशाखाग्रं पल्लवैरुपशोभितम् ।
अशोकं स्तबकैश्छन्नं रमणीयमपश्यत॥४७॥

अधस्तात्तस्य च्छायायां सुखासीनो नराधिपः ।
मधुगन्धश्च संयुक्तं पुष्पगन्धमनोहरम्॥४८॥

सिंहावलोकनेनाशोकमेव विशिनष्टि मधुगन्धैरिति ॥४८॥

वायुना प्रेर्यमाणस्तु धूम्राय मुदमन्वगात् ।
तस्य रेतः प्रचस्कन्द चरतो गहने वने॥४९॥

वायुना कामोद्दीपकेन । धूम्रं मलिनं रतिकर्म तदर्थं मुदं स्त्रीविषयां प्रीतिमनुसृत्य तामेव मनसाऽगात् । तया सह मानसं सुरतमकरोदित्यर्थः । प्रचस्कन्द पपात ॥४९॥

स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः ।
प्रतिजग्राह मिथ्या मे न पतेद्रेत इत्युत॥५०॥

मिथ्याप्रसवशून्यत्वेनालीकप्रायम् ॥५०॥

इदं मिथ्या परिस्कन्नं रेतो मे न भवेदिति ।
ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः ॥५१॥

संचिन्त्यैवं तदा राजा विचार्य च पुनःपुनः ।
अमोघत्वं च विज्ञाय रेतसो राजसत्तमः॥५२॥

शुक्रप्रस्थापने कालं महिष्या प्रसमीक्ष्य वै ।
अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम्॥५३॥

अभिमन्त्र्य पुत्रोत्पत्तिलिङ्गैर्मन्त्रैः स्पृष्ट्वा आरात् विमानैकदेशसमीपे ॥५३॥

सूक्ष्मधर्मार्थतत्त्वज्ञो गत्वा श्येनं ततोऽब्रवीत् ।
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय॥५४॥

गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै ।
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान्॥५५॥

आर्तवम् ऋतुकालीनं स्नानम् ॥५५॥

जवं परममास्थाय प्रदुद्राव विहंगमः ।
तमपश्यदथायान्तं श्येनं श्येनस्तथाऽपरः॥५६॥

अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया ।
तुण्डयुद्धमथाकाशे तावुभौ संप्रचक्रतुः॥५७॥

युद्ध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि ।
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सरा॥५८॥

युध्यतोः सतोः । अद्रिकागिरिकेति नामसाम्यादेकस्या एवाप्सरसो व्यूहभेदेन देहद्वयं ज्ञेयम् । अन्यथा राज्ञो मिथ्यासङ्कल्पत्वापत्तेः ॥५८॥

मीनभावमनुप्राप्ता बभूव यमुनाचरी ।
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम्॥५९॥

जग्राह तरसोपेत्य साऽद्रिका मत्स्यरूपिणी ।
कदाचिदपि मत्सीं तां बबन्धुर्मत्स्यजीविनः॥६०॥

मासे च दशमे प्राप्ते तदा भरतसत्तम ।
उज्जह्रुरुदरात्तस्याः स्त्रीं पुमांसं च मानुषम्॥६१॥

मासे दशमे प्राप्ते बबन्धुरिति सम्बन्धः ॥ उज्जहुः उद्धृतवन्तः ॥६१॥

आश्चर्यभूतं तद्गत्वा राज्ञेऽथ प्रत्यवेदयन् ।
काये मत्स्या इमौ राजन्संभूतौ मानुषाविति॥६२॥

काये देहे मत्स्याः मत्स्ययोषायाः ॥६२॥

तयोः पुमांसं जग्राह राजोपरिचरस्तदा ।
स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः॥६३॥

साऽप्सरा मुक्तशापा च क्षणेन समपद्यत ।
या पुरोक्ता भगवता तिर्यग्योनिगता शुभा॥६४॥

मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ।
ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिभिः॥६५॥

संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च ।
सिद्धर्षिचारणपथं जगामाथ वराप्सराः॥६६॥

सा कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी ।
राज्ञा दत्ता च दाशाय कन्येयं ते भवत्विति॥६७॥

मत्स्यसगन्धिनी मत्स्यसमानगन्धा । दाशाय कैवर्ताय ॥६७॥

रूपसत्वसमायुक्ता सर्वैः समुदिता गुणैः ।
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात्॥६८॥

आसीत्सा मत्स्यगन्धैव कंचित्कालं शुचिस्मिता ।
शुश्रूषार्थं पितुर्नावं वाहयन्तीं जले च ताम्॥६९॥

तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः ।
अतीवरूपसंपन्नां सिद्धानामपि काङ्क्षिताम्॥७०॥

दृष्ट्वैव स च तां धीमांश्चकमे चारुहासिनीम् ।
दिव्यां तां वासवीं कन्यां रम्भोरूं मुनिपुङ्गवः॥७१॥

चकमे कार्मितवान् ॥७१॥

संगमं मम कल्याणि कुरुष्वेत्यभ्यभाषत ।
साब्रवीत्पश्य भगवन्परपारे स्थितानृषीन्॥७२॥

आवयोर्दृष्टयोरेभिः कथं नु स्यात्समागमः ।
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः॥७३॥

नीहारं धूमिकाम् ॥७३॥

येन देशः स सर्वस्तु तमोभूत इवाभवत् ।
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा॥७४॥

विस्मिता साभवत्कन्या व्रीडिता च तपस्विनी ।
सत्यवत्युवाच ।
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम्॥७५॥

पितुर्वश इच्छा तदनुसारिणीं पितृवशानुगाम् ॥७५॥

त्वत्संयोगाच्च दुष्येत कन्याभावो ममाऽनघ ।
कन्यात्वे दूषिते वापि कथं शक्ष्ये द्विजोत्तम॥७६॥

गृहं गन्तुमृषे चाहं धीमन्न स्थातुमुत्सहे ।
एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम्॥७७॥

न स्थातुं जीवितुं नोत्सहे । कन्यात्वदूषणादित्यर्थः ॥७७॥

एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः ।
उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यति॥७८॥

वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि ।
वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते॥७९॥

एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् ।
स चास्यै भगवान्प्रादान्मनः काङ्क्षितं भुवि॥८०॥

ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता ।
जगाम सह संसर्गमृषिणाऽद्भुतकर्मणा॥८१॥

स्त्रीभावे यो गुणः पुष्पवत्ता तेन भूषिता सद्यः पुष्पवत्यभूदित्यर्थः ॥८१॥

तस्यास्तु योजनाद्गन्धमाजिघ्रन्त नरा भुवि॥८२॥

तस्या योजनगन्धेति ततो नामापरं स्मृतम् ।
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम्॥८३॥

वरं कन्याभावं सौगन्ध्यं च लब्ध्वा सद्यो गर्भं च सुषावेति सम्बन्धः ॥८३॥

पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा ।
जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान्॥८४॥

स मातरमनुज्ञाप्य तपस्येव मनो दधे ।
स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्॥८५॥

एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् ।
न्यस्तो द्वीपे यद्बालस्तस्माद्द्वैपायनः स्मृतः॥८६॥

द्वीपमेव अयनं न्यासस्थानं यस्य द्वीपायनः स्वार्थे तद्धितः । द्वीपायन एव द्वैपायन इति नाम निर्वाक्ति । न्यस्त इति ॥८६॥

पादापसारिणं धर्मं स तु विद्वान्युगे युगे ।
आयुः शक्तिं च मर्त्यानां युगावस्थामवेक्ष्यच॥८७॥

पादापसारिणं युगे युगे पादशः क्षीयमाणम् । कलेरादौ पादमात्रमवाशष्टमित्यर्थः । एवम् आयुरादिह्रासं चावेक्ष्य ॥८७॥

ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाङ्क्षया ।
विव्यास वेदान्यस्मत्स तस्माद्व्यास इति स्मृतः॥८८॥

ब्रह्मणो वेदस्य । अनुग्रहो रक्षणम् । विव्यास शाखाभेदेन विस्तारितवान् । अतो व्यास इत्यपि तस्य नामेत्यर्थः ॥८८॥

वेदानध्यापयामास महाभारतपञ्चमान् ।
सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम्॥८९॥

महाभारतपञ्चमानिति । भारतं पञ्चम्रो वेदः । सर्वश्रुतिसमूहोयमित्यसकृदुक्तेः । इतरपुराणवदिदं न मन्तव्यमित्यर्थः ॥८९॥

प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च ।
संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः॥९०॥

भारतस्य मूलभूताः संहिताः मन्त्रब्राह्मणरूपा वेदाः । तैः सुमन्तुप्रभृतिभिः प्रकाशिताः इदमस्य मूलमिदमस्य मूलमिति स्पष्टीकृतास्तेन प्रत्यक्षवेदमूलमेतदिति भावः ॥९०॥

तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः ।
वसुवीर्यात्समभवन्महावीर्यो महायशाः॥९१॥

वसुवीर्यात् अष्टानां वसूनाम् अंशात् ॥९१॥

वैदार्थविच्च भगवानृषिर्विप्रो महायशाः ।
शूले प्रोतः पुराणर्षिरचौरश्चोरशङ्कया॥९२॥

अणीमाण्डव्य इत्येवं विख्यातः स महायशाः ।
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान्॥९३॥

आहूय समीपमानीय । आहत्येति पाठे अधिक्षिप्य ॥९३॥

इषीकया मया बाल्याद्विद्धा ह्येका शकुन्तिका ।
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे॥९४॥

तन्मे सहस्रममितं कस्मान्नेहाजयत्तपः ।
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः॥९५॥

वधः पीडाऽपमानो वा ॥९५॥

तस्मात्त्वं किल्बिषी धार्म शूद्रयोनौ जनिष्यसि ।
तेन शापेन धर्मोऽपि शूद्रयोनावजायत॥९६॥

विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी ।
संजयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात्॥९७॥

सूर्याच्च कुन्तिकन्याया जज्ञे कर्णो महाबलः ।
सहजं कवचं बिभ्रत्कुण्डलो द्योतिताननः॥९८॥

कुन्तिभोजस्य कन्यायां कुन्त्याम् ॥९८॥

अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः ।
वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः॥९९॥

अनादिनिधनो देवः स कर्ता जगतः प्रभुः ।
अव्यक्तमक्षरं ब्रह्म प्रधानं त्रिगुणात्मकम्॥१००॥

अनादिनिधन इति स्थूल देहधर्मयोर्जन्ममरणयोर्व्यावृत्तिः । देवो दीन्यमानो जगत्कर्ता । किं तैजसो न प्रभुः जीवस्य स्वप्नेऽपि जगत्कर्तृत्वाभावात् । अन्यथा स्वप्ने प्रतिकूलसृष्ट्यनुपपत्तिः । एतेन कर्मद्वाराऽपि जगत्कर्तृत्वं जीवस्य लाङ्गलं गवादीनुद्वहतीतिवन्निमित्तत्वमात्रेण नत्वीश्वरत्वेनेति दर्शितम् । अव्यक्तम् अव्याकृतम् । किं सौषुप्तं कारणम् । यथोक्तं ‘सुषुप्ताख्यं तमोऽज्ञानं यद्बीजं स्वप्नबोधयोः’ ‘इति । तद्व्यावर्तयति । अक्षरमिति । न क्षरत्यपरिणामित्वात् । तत्तु क्षयोद्भवयुक्तम् । एतेन व्यष्टिस्थूलसूक्ष्मकारणं देहव्यावर्तनेन त्वं पदार्थशोध उक्तः । अन्यथा भगवति जन्माद्यप्रसक्तेस्तद्वारकमनादिनिधन इति विशेषणमनुपपन्नम् । तत्पदार्थमाह । ब्रह्म बृहत् प्रधानं प्रधीयतेऽस्मिन्सर्वमिति लयस्थानम् । त्रिगुणात्मकं सत्वरजस्तमो मयम् ॥१००॥

आत्मानमव्ययं चैव प्रकृतिं प्रभवं प्रभुम् ।
पुरुषं विश्वकर्माणं सत्वयोगं ध्रुवाक्षरम्॥१०१॥

अस्य सांख्याभिमतम् अनात्मत्वं परिणामित्वं च वारयति आत्मानमन्ययमिति विशेषणाभ्याम् । प्रधानत्वादेव प्रकृतिम् उपादनाम् । प्रभवम् उत्पत्तिनिमित्तम् । प्रभुम् अधिष्ठातारम् । ननु घटादेर्मृदुपादानं चक्रं निमित्तं कुलालः कर्ता । अत्र तु त्रयमपि देव एवेत्युक्तं तत्कथमित्याशङ्क्य तत्सृष्ट्वा तदेवानुप्राविशदितिश्रुत्यर्थमाह । पुरुषं पूर्षु वसतीति पुरुषः पुरश्च । ज्ञानेन्द्रियाणि खलु पञ्च तथापराणि कर्मेन्द्रियाणि मन आदिचतुष्टयं च । ‘प्राणादिपञ्चकमथोवियदादिकं च कामश्च कर्म च तमः पुनरष्टमी पूरित्युक्ताः’ । आत्मानमेव स्वाविद्यया पूर्यष्टकाकारं कृत्वा तत्र प्रविष्ट इत्यर्थः । एवमैश्वरीं प्रवेशांतां सृष्टिमुक्त्वा जाग्रदादिविमोक्षांतां जैवीं सृष्टिं तदनुप्रविश्य सच्चत्यच्चा भवदित्यादिश्रुत्युक्तां सङ्गृह्णाति । विश्वकर्माणमिति विश्वं पृथिव्यप्तेजोरूपं सच्छब्दवाच्यं वाय्वाकाशादिरूपं त्यच्छद्ववाच्यं चेत्येवमादिरूपं कर्मघटादिवत्क्रियाफलभूतं यस्येति विश्वकर्मा तम् । एवं विशेषणैरेव ब्रह्मण एव जीवभावं प्रदर्श्य तन्निवृत्त्युपायमपि तैरेव प्रत्याययति । सत्वयोगं सत्वेनैव धर्मज्ञानवैराग्यमूलेन योगः प्राप्तिरस्य तम् । सत्ववतो ब्रह्मभावप्राप्तावालम्बनमाह । ध्रुवाक्षरं प्रणवाख्यवर्णस्वरूपम् । वाच्यवाचकयोरभेदात्प्रणवमात्राभिरकारोकारमकारार्धमात्राभिरुपासिताभिस्तदर्थभूता विराट्सूत्रान्तर्यामितुरीयाख्याः प्राप्यन्त इति भावः ॥१०१॥

अनन्तमचलं देवं हंसं नारायणं प्रभुम् ।
धातारमजमव्यक्तं यमाहुः परमव्ययम्॥१०२॥

एतेषु कतमो मुख्यः प्राप्य इत्यत आह । अनन्तमिति । देशतः कालतो वस्तुतश्चापरिच्छिन्नं तुरीयमित्यर्थः । ननु तत्तदवस्थायां सर्वेषामानन्त्यमविशिष्टमित्याशङ्क्याह । अचलम् अबाधितम् । इतरेषां बाधोऽस्तीत्यापेक्षिकमनन्तत्वमिति भावः । नन्वेवं कारणत्वादिनिषेधे शून्यमेवस्यान्नेत्याह । देवं द्योतमानं चिद्रूपमित्यर्थः । एवं तर्वङ्कुरबीजद्वारा भुव इव विराट्सूत्रेशद्वारा तुरीयप्राप्तिमुक्त्वा तत्रैव द्वारान्तरमाह हंसं संन्यासाश्रमरूपम् । तत्र ह्यविक्षेपेण श्रवणादिकं सिध्यतीति सोऽपि द्वारम् । नारायणं फलस्थानीयं पञ्चमं महाविष्णुम् । एतद्विग्रहध्यानद्वारैव हि विराडादिभावमारोहन्ति ध्यायिनः । फलगर्भे बीजानीवास्य गर्भेऽनन्तानि कारणानि सन्तीत्येनं तुरीयविशेषणैरेव विशिनष्टि । प्रभुं प्रभवत्यस्मात्कार्यमिति जगद्भ्रमाधिष्ठानम् । धातारं कार्ये सत्तास्फूर्त्योः समर्पकम् । अजम् उरगोपादानभूतरज्जुवदजातम् । अन्यक्तम् अप्रकटम् । अधिष्ठानव्यक्तौ हि अध्यस्तमेव लुप्येतातोऽव्यक्तम् । परम् आदित्यवर्णं तमसः परस्तादित्यादयो मन्त्राः यं कारणात्परं प्राहुः। अत एवाव्ययं नाशबाधाभ्यां हीनम्॥१०२॥

कैवल्यं निर्गुणं विश्वमनादिमजमव्ययम् ।
पुरुषः स विभुः कर्ता सर्वभूतपितामहः॥१०३॥

कैवल्यं केवलमेव कैवल्यम् असङ्गम्। निर्गुणं रूपादिभिश्चक्षुरादिभिश्च हीनम् । अत्र विग्रहवत्त्वात्प्रसक्तं परिच्छिन्नत्वं कारणवत्त्वं जन्ममरणं चेति । तच्चतुष्कं क्रमेण व्यावर्तयति । विश्वमनादिमजमव्ययमिति । मायिकत्वाद्विग्रहस्य न तत्कृतपरिच्छेदादयोऽस्मिन्संभवन्तीत्यर्थः । य एवंरूपो नारायणः स एव देवकीसूनुरित्याह । पुरुष इत्यादि सार्धेन । स एवं भूतोऽस्त्रज्ञौ रामाकृष्णौ जज्ञे । तदुभयरूपेण जात इत्यर्थः ॥१०३॥

धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु ।
अस्त्रज्ञौ तु महावीर्यौ सर्वशास्त्रविशारदौ॥१०४॥

सात्यकिः कृतवर्मा च नारायणमनुव्रतौ ।
सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्र विशारदौ॥१०५॥

विशारदौ प्रयोगकुशलौ॥१०५॥

भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत ।
महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत॥१०६॥

द्रोण्यां गिरिदर्याम् ॥१०६॥

गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः ।
अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः॥१०७॥

शरस्तम्बात् शरस्तम्बस्कन्नात् द्वैधीभूताद्रेतसः ॥१०७॥

अश्वत्थामा ततो जज्ञे द्रोणादेव महाबलः ।
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः॥१०८॥

वैताने कर्मणि तते पावकात्समजायत ।
वीरो द्रोणविनाशाय धनुरादाय वीर्यवान्॥१०९॥

वैताने त्रेताग्निसाध्ये ॥१०९॥

तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा ।
विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम्॥११०॥

प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः ।
तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात्॥१११॥

तस्य सुबलस्य प्रजा पुंरूपैव शकुनिरूपा । दुर्योधनमातुर्धर्महन्तृत्वं पुत्रद्वारैव ॥१११॥

गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा ।
दुर्योधनस्य जननी जज्ञातेऽर्थविशारदौ॥११२॥

कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः ।
क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः॥११३॥

धर्मार्थकुशलो धीमान्मेधावी धूतकल्मषः ।
विदुरः शूद्रयोनौ तु जज्ञे द्वैपायनादपि॥११४॥

प्रसङ्गात्पुनर्विदुरजन्मोक्तिः ॥११४॥

पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् ।
द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः॥११५॥

धर्माद्युधिष्ठिरो जज्ञे मारुताच्च वृकोदरः ।
इन्द्राद्धनंजयः श्रीमान्सर्वशस्त्रभृतां वरः॥११६॥

जज्ञाते रूपसंपन्नावश्विभ्यां च यमावपि ।
नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ॥११७॥

तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः ।
दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा॥११८॥

युयुत्सुः शताधिकः करणस्तु । वैश्यायां क्षत्रियाज्जातः करणः परिकीर्तितः इति स्मृत्युक्तः ॥११८॥

ततो दुःशासनश्चैव दुःसहश्चापि भारत ।
दुर्मर्षणो विकर्णश्च चित्रसेनो विविंशतिः॥११९॥

जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत ।
वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः॥१२०॥

अभिमन्युः सुभद्रायामर्जुनादभ्यजायत ।
स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः॥१२१॥

पाण्डवेभ्यो हि पाञ्चाल्यां द्रौपद्यां पञ्च जज्ञिरे ।
कुमारा रूपसंपन्नाः सर्वशास्त्रविशारदाः॥१२२॥

प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् ।
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः॥१२३॥

तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् ।
हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः॥१२४॥

शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता ।
यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया॥१२५॥

स्थूणो नाम्ना ॥१२५॥

कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथा ।
राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे॥१२६॥

तेषामपरिमेयानां नामधेयानि सर्वशः ।
न शक्यानि समाख्यातुं वर्षाणामयुतैरपि ।
एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम्॥१२७॥

॥ इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि व्यासाद्युत्पत्तौ त्रिषष्टितमोऽध्यायः॥६३॥
चतुष्षष्टितमोऽध्यायः

जनमेजय उवाच। य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः ।
सम्यक्ताञ्श्रोतुमिच्छामिराज्ञश्चान्यान्सहस्रशः॥१॥

चतुषष्टितमः अध्यायः य एत इति ॥१॥

यदर्थमिह संभूता देवकल्पा महारथाः ।
भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि॥२॥

वैशम्पायन उवाच। रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् ।
तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे॥३॥

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा ।
जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे॥४॥

त्रिःसप्तकृत्वः एकविंशतिवारान् ॥४॥

तदा निःक्षत्रिये लोके भार्गवेण कृते सति ।
ब्राह्मणान्क्षत्रिया राजन्सुतार्थिन्योऽभिचक्रमुः॥५॥

ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः ।
ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा॥६॥

तेभ्यश्च लेभिरे गर्भं क्षत्रियास्ताः सहस्रशः ।
ततः सुषुविरे राजन्क्षत्रियान्वीर्यवत्तरान्॥७॥

कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये ।
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः॥८॥

जातं वृद्धं च धर्मेण सुदीर्गेणायुषान्वितम् ।
चत्वारोऽपि ततो वर्णा बभूवुर्ब्राह्मणोत्तराः॥९॥

ब्राह्मणोत्तराः ब्राह्मणप्रधानाः ॥९॥

अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा ।
तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि॥१०॥

ऋतौ दारांश्च गच्छन्ति तत्तथा भरतर्षभ ।
ततो वर्धन्त धर्मेण सहस्रशतजीविनः॥११॥

जीविनः जीविन्यः ॥११॥

ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः ।
आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः॥१२॥

आधिभिः शोकादिभिः व्याधिभिर्ज्वरादिभिः ॥१२॥

अथेमां सागरापाङ्गीं गां गजेन्द्रगताखिलाम् ।
अध्यतिष्ठत्पुनः क्षत्रं सशैलवनपत्तनाम्॥१३॥

अपाङ्ग इवापाङ्गः प्रान्तः सागरान्तमित्यर्थः । अध्यतिष्ठत् अधिष्ठितवान् । हे गजेन्द्रगत ॥१३॥

प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम् ।
ब्राह्मणाद्यास्ततो वर्णा लेभिरे मुदमुत्तमाम्॥१४॥

कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः ।
धर्मेण दण्डं दण्डेषु प्रणयन्तोऽन्वपालयन्॥१५॥

तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः ।
स्वादु देशे च काले च वर्षेणापालयत्प्रजाः॥१६॥

स्वादु रोचकं यथा स्यात्तथा ॥१६॥

न बाल एव म्रियते तदा कश्चिज्जनाधिप ।
न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवन:॥१७॥

एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ ।
इयं सागरपर्यन्ता ससापूर्यत मेदिनी॥१८॥

ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः ।
साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा॥१९॥

न च विक्रीणते ब्रह्म ब्राह्मणाश्च तदा नृप ।
न च शूद्रसमाभ्यासे वेदानुच्चारयन्त्युत॥२०॥

ब्रह्म वेदं न विक्रीणते भृतकाध्यापनं न कुर्वत इत्यर्थः ॥२०॥

कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह ।
युञ्जते धुरि नो गाश्च कृशाङ्गांश्चाप्यजीवयन्॥२१॥

वैश्याः स्वयं धुरि गाः बलीवर्दान् न युञ्जते ॥२१॥

फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः ।
न कूटमानैर्वणिजः पण्यं विक्रीणते तदा॥२२॥

फेनपान् अतृणादानभिलक्ष्य न दुहन्ति धेनूरितिशेषः । कूटमानैः कपटतुलाप्रस्थादिभिः ॥२२॥

कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः ।
धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः॥२३॥

स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप ।
एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित्॥२४॥

काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ ।
भवन्त्यृतुषु वृक्षाणां पुष्पाणि च फलानि च॥२५॥

ऋतुषु वसन्तादिषु स्वस्वकाले ॥२५॥

एवं कृतयुगे सम्यग्वर्तमाने तदा नृप ।
आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम्॥२६॥

एवं समुदिते लोके मानुषे भरतर्षभ ।
असुरा जज्ञिरे क्षेत्रे राज्ञां तु मनुजेश्वर॥२७॥

समुदिते मुदितया प्रीत्या सहिते ॥२७॥

आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि ।
ऐश्वर्याद्भ्रंशिताः स्वर्गात्संबभूवुः क्षिताविह॥२८॥

इह देवत्वमिच्छन्तो मानुषेषु तपस्विनः ।
जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो॥२९॥

देवत्वं राज्यं देवभावं वा ॥२९॥

गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च ।
क्रव्यात्सु चैव भूतेषु गजेषु च मृगेषु च॥३०॥

जातैरिह महीपाल जायमानैश्च तैर्मही ।
न शशाकात्मनात्मानमियं धारयितुं धरा॥३१॥

अथ जाता महीपालाः केचिद्बहुमदान्विताः ।
दितेः पुत्रा दनोश्चैव तदा लोक इहाच्युताः॥३२॥

वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् ।
इमां सागरपर्यन्तां परीयुररिमर्दनाः॥३३॥

ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् ।
अन्यानि चैव सत्त्वानि पीडयामासुरोजसा॥३४॥

त्रासयन्तोऽभिनिघ्नन्तः सर्वभूतगणांश्च ते ।
विचेरुः सर्वशो राजन्महीं शतसहस्रशः॥३५॥

आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः ।
अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च॥३६॥

एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः ।
पीड्यमाना मही राजन्ब्रह्माणमुपचक्रमे॥३७॥

मही उपचक्रमे गन्तुमितिशेषः । महाराजेति पाठान्तरे तु महीतिशेषः ॥३७॥

न ह्यमी भूतसत्वौघाः पन्नगाः सनगां महीम् ।
तदा धारयितुं शेकुः संक्रान्तां दानवैर्बलात्॥३८॥

न ह्यमी इति । भूतसत्वौघाः भूतानां शेषकूर्मदिग्गजानां धराभृतां सत्वौघाः बलसङ्घाः । पन्नगाः शेषाः । बहुवचनं तेषां प्रत्येकं बहूनामप्यसामर्थ्यं किं पुनरेकैकस्येति सूचनार्थम् । न ह्येनामिति पाठे एनां बुद्धिस्थां भूमिम् ॥३८॥

ततो मही महीपाल भारार्ता भयपीडिता ।
जगाम शरणं देवं सर्वभूतपितामहम्॥३९॥

सा संवृतं महाभागैर्देवद्विजमहर्षिभिः ।
ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम्॥४०॥

अव्ययम् अजरत्वादपक्षयशून्यम् ॥४०॥

गन्धर्वैरप्सरोभिश्च दैवकर्मसु निष्ठितैः ।
वन्द्यमानं मुदोपतैर्ववन्दे चैनमेत्य सा॥४१॥

एनं ब्रह्माणम् । सा पृथ्वी ॥४१॥

अथ विज्ञापयामास भूमिस्तं शरणार्थिनी ।
सन्निधौ लोकपालानां सर्वेषामेव भारत॥४२॥

तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयंभुवः ।
पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः॥४३॥

तद्भूमेः कृत्यम् । प्रधानात्मनः प्रधानजयी आत्मा मनो यस्य तस्य । सांख्ययोगानां हि प्रधानजयिनः सर्वज्ञत्वं सर्वशक्तित्वं च भवतीति प्रसिद्धम् । सर्वज्ञस्य नाविदितं किञ्चिदस्तीत्यर्थः । प्रधानात्मनः कारणात्मनः तद्भूमेः कृत्यमिति वार्थः ॥४३॥

स्रष्टा हि जगतः कस्मान्न संबुध्येत भारत ।
ससुरासुरलोकानामशेषेण मनोगतम्॥४४॥

तदेवाह स्रष्टाहीति ॥४४॥

तामुवाच महाराज भूमिं भूमिपतिः प्रभुः ।
प्रभवः सर्वभूतानामीशः शंभुः प्रजापतिः॥४५॥

अस्य त्रिमूर्तित्वमाह । प्रभव इति ईशो विष्णुः ॥४५॥

ब्रह्मोवाच। यदर्थमभिसंप्राप्ता मत्सकाशं वसुन्धरे ।
तदर्थं सन्नियोक्ष्यामि सर्वानेव दिवौकसः॥४६॥

वैशंपायन उवाच। इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च ।
आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम्॥४७॥

अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् ।
अस्यामेव प्रसूयध्वं तिरोधायेति चाब्रवीत्॥४८॥

विरोधाय विरोधमूलकाय भूभारनाशायेत्यर्थः ॥४८॥

तथैव च समानीय गन्धर्वाप्सरसां गणान् ।
उवाच भगवान्सर्वानिदं वचनमर्थवत्॥४९॥

ब्रह्मोवाच। स्वैः स्वैरंशैः प्रसूयध्वं यथेष्टं मानेषेषु च ।
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः ।
तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा॥५०॥

तथ्यं यथार्थम् । अर्थ्यम् प्रार्थनीयम् । पथ्यं हितकरम् ॥५०॥

अथ ते सर्वशोंशैः स्वैर्गन्तुं भूमिं कृतक्षणाः ।
नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः॥५१॥

कृतक्षणाः कृतनियमाः ॥५१॥

यः स चक्रगदापाणिः पीतवासाः शितिप्रभः ।
पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः॥५२॥

पृथुचार्वञ्चितेक्षणः पृथुनी चार्वञ्चिते सदयनिपाते ईक्षणे यस्य सः । पृथुवक्षाञ्चितेक्षण इति पाठे वक्षःशब्दोऽकारान्तः पृथुनि वक्षे वक्षसि अञ्चितं गमनं ययोस्ते ध्यानारूढतया ईक्षणे यस्य सः ॥५२॥

प्रजापतिपतिर्देवः सुरनाथो महाबलः ।
श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः॥५३॥

तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् ।
अंशेनावतरेत्येवं तथेत्याह च तं हरिः॥५४॥

शोधनाय कष्टकभूतखलोन्मूलनाय ॥५४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि चतुःषष्टितमोऽध्यायः॥६४॥
॥ समाप्तमंशावतरणपर्व ॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in