सौतिरुवाच।
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम्
।
अभ्यगच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा॥१॥
षष्टितमः अध्यायः श्रुत्वेति ॥१॥
जनयामास यं काली शक्तेः पुत्रात्पराशरात्
।
कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम्॥२॥
काली सत्यवती ॥२॥
जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत्
।
वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः॥३॥
इष्टया इच्छया देहं सद्योऽवीवृधत् वर्धितवान् । देवीमितिपाठे देवीं मातरं वरदानेन वा स सरस्वतीं वा उपबृंहणैरवीवृधत् वर्धितवान् । देवी वृद्धिमेवाह । वेदानिति । चाद्वेदार्थान् । अधिजगे अधिगतवान् ॥३॥
यन्नैति तपसा कश्चिन्न वेदाध्ययनेन च
।
न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना॥४॥
यन्नैतीति । यत्तप आदिना कश्चिन्नैति नात्येति नातिशेते इति प्राञ्चः । यद्वस्तु तप आदिना कश्चिन्नैति न प्राप्नोति तदप्यात्मतत्त्वमधिजगे इति पूर्वेण संबन्धः । तथा च न कर्मणा न प्रजया धनेन नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन इत्यादिश्रुतिभ्यस्तप आदिनापि दुष्प्रापमात्मतत्त्वं जातमात्र एवाधिगतवानित्यर्थः । मन्युना यज्ञेन ॥४॥
विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः
।
परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः॥५॥
विव्यास विभक्तवान् । हौत्राध्वर्यवौद्गात्राणि काण्डानि त्रेतानुपयुक्तं काण्डं च पृथक्कृतवानित्यर्थः। परावरे निरुपाधिसोपाधिब्रह्मणी जानातीति परावरज्ञः ब्रह्मर्षिः । ब्राह्मणश्चासौ मन्त्रद्रष्टा चेत्यर्थः। कविः क्रान्तम् अतीतादितद्दर्शी ॥५॥
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत्
।
शन्तनोः संततिं तन्वन्पुण्यकीर्तिर्महायशाः॥६॥
पुण्यकीर्तिर्महायशाः । यो गुणौघः । श्रूयमाणस्तादृशगुणार्जने पुरुषं व्यापारयति सा कीर्तिः । यथा युधिष्ठिरस्य धर्मनिष्ठत्वम् । कृविक्षेपेऽस्मात्संज्ञायां क्तिच् । यश्च गुणौघो गृह्यमाणः पुरुषमाल्हादयत्येव न प्रवर्तयति स यशः । यथा ज्योत्स्ना चन्द्रस्य । यथा विष्णोर्लोकत्रयाक्रमणं पदत्रयेण वसिष्ठस्य वाक्षमा रामस्य सेतुर्यशः ॥६॥
जनमेजयस्य राजर्षेः स महात्मा सदस्तथा
।
विवेश सहितः शिष्यैर्वेदवेदाङ्गपारगैः॥७॥
सदः यज्ञमण्डपम् ॥ ७॥
तत्र राजानमासीनं ददर्श जनमेजयम्
।
वृतं सदस्यैर्बहुभिर्देवैरिव पुरन्दरम्॥८॥
देवैरित्यत्र मेघैरिति पाठे मेघाशद्बान्मत्वार्थीयोऽर्शआद्यच्। मेधावद्भिर्बहुभिर्बृहस्पतिभिरिवेत्य भूतोपमा । बृहस्पतेरेकत्वात् ॥८॥
तथा मूर्धाभिषिक्तैश्च नानाजनपदेश्वरैः
।
ऋत्विग्भिर्ब्रह्मकल्पैश्च कुशलैर्यज्ञसंस्तरे॥९॥
मूर्ध्नि पट्टस्थानेऽभिऽषिक्तैर्मूर्धाभिषिक्तैः । यज्ञसंस्तरे यज्ञाङ्गानां रचनानुष्ठाने इत्यर्थः ॥९॥
जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम्
।
सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः॥१०॥
काञ्चनं विष्टरं तस्मै सदस्यानुमतः प्रभुः
।
आसनं कल्पयामास यथा शक्रो बृहस्पतेः॥११॥
तत्रोपविष्टं वरदं देवर्षिगणपूजितम्
।
पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा॥१२॥
पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः
।
पितामहाय कृष्णाय तदर्हाय न्यवेदयत्॥१३॥
पितामहाय ब्रह्मतुल्याय । कृष्णाय न्यासाय ॥१३॥
प्रतिगृह्य तु तां पूजां पाण्डवाज्जनमेजयात्
।
गां चैव समनुज्ञाप्य व्यासः प्रीतोभवत्तदा॥१४॥
विष्टरादिभिर्मधुपर्कार्चनं दर्शितम् । तत्र निवेदितां गां समनुज्ञापितवान् ब्यासो मा गामनागामिति मन्त्रलिङ्गात्तस्या अवध्यत्वं मन्यमानः । तद्यथैवादो मनुष्यराज आगतेऽन्यस्मिन्वार्हत्युक्षाणं वा वेहतं वा क्षदन्ते इत्यर्थवादस्तु रागप्राप्तानुवादसरूपो न विधायकः । मावधिष्ठेति निषेधलिङ्गस्य अनागामिति निरपराधत्वहेतूपोद्वलितस्य प्रबलतरत्वात् । वेहतं वध्यां गां क्षदन्ते हिंसन्ति ॥१४॥
तथा च पूजयित्वा तं प्रणयात्प्रतितामहम्
।
उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम्॥१५॥
उपोपविश्य समीपे उपविश्य ॥१५॥
भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च
।
सदस्यैः पूजितः सर्वैः सदस्यान्प्रत्यपूजयत्॥१६॥
प्रतिवेद्य प्रतिख्याप्य । अत्र पूजा स्तुतिरेव ॥१६॥
ततस्तु सहितः सर्वैः सदस्यैर्जनमेजयः
।
इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः॥१७॥
इदं वक्ष्यमाणम् ॥१७॥
जनमेजय उवाच।
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान्
।
तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज॥१८॥
प्रत्यक्षदर्शिवान् प्रत्यक्षदर्शी । अन्येभ्योऽपि दृश्यन्त इति वनिप् ॥१८॥
कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम्
।
तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत्॥१९॥
भेदः वैरं । अक्लिष्टं रागद्वेषादिशून्यं कर्म येषां तेषां अक्लिष्टकर्मणाम् ॥१९॥
पितामहानां सर्वेषां दैवेनाविष्टचेतसाम्
।
कार्त्स्न्येनैतन्ममाचक्ष्व यथा वृत्तं द्विजोत्तम॥२०॥
पितामहानां प्रपितामहानाम् ॥२०॥
सौतिरुवाच।
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा
।
शशास शिष्यमासीनं वैशंपायनमन्तिके॥२१॥
व्यास उवाच।
कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा
।
तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि॥२२॥
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा
।
आचचक्षे ततः सर्वमितिहासं पुरातनम्॥२३॥
राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः
।
भेदं सर्वविनाशं च कुरुपाण्डवयोस्तदा॥२४॥
भेदं वैरमूलं सर्वविनाशं च तत्फलम् ॥२४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि कथानुबन्धे षष्टितमोऽध्यायः॥६०॥
वैशंपायन उवाच।
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः
।
संपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान्॥१॥
एकषष्टितमः अध्यायः गुरव इति । मनोबुद्धिसमाधिभिः मन इत्यष्टाङ्गोपलक्षणं बुद्धीति भक्तिश्रद्धयोः । समाधिश्वित्तैकाग्र्यं । संपूज्य नमस्कारादिना मानयित्वा ॥१॥
महर्षेर्विश्रुतस्येह सर्वलोकेषु धीमतः
।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यास्य महात्मनः॥२॥
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम्
।
गुरोर्वक्त्रपरिस्पन्दो मनः प्रोत्साहतीव मे॥३॥
प्रोत्साहयतीव परिस्पन्दमुत्प्रोत्साहयतीव मे इति पाठे परिस्पन्दशब्दे क्लीबत्वमार्षम् । गुरोर्वक्रपरिस्पन्दस्त्वं कथां कथयेत्याज्ञावचनं तज्जन्यामुत्प्रीतिः सा प्रोत्साहयति ॥३॥
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत्
।
राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च॥४॥
यथा च युद्धमभवत्पृथिवीक्षयकारकम्
।
तत्तेऽहं कथयिष्यामि पृच्छते भरतर्षभ॥५॥
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्
।
न चिरादेव विद्वांसो वेदे धनुषि चाभवन्॥६॥
न चिरात् शीघ्रं विद्वांसोऽभवन् ॥६॥
तांस्तथा सत्ववीर्यौजः संपन्नान्पौरसंमतान्
।
नामृष्यन्कुरवो दृष्टा पाण्डवाञ्श्रीयशोभृतः॥७॥
सत्वं देहबलम् । वीर्यम् उत्साहः ओजश्चित्तेन्द्रियबलम् ॥७॥
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः
।
तेषां निग्रहनिर्वासान्विविधांस्ते समारभन्॥८॥
ततो दुर्योधनः शूरः कुलिङ्गस्य मते स्थितः
।
पाण्डवान्विविधोपायै राज्यहेतोरपीडयत्॥९॥
कुलिङ्गस्य पक्षिणो मते साहसे । स हि सिंहदंष्ट्रान्तर्गतं मांसमादातुं यतते । कलिङ्गस्येत्यपपाठः ॥९॥
ददावथ विषं पापो भीमाय धृतराष्ट्रजः
।
जरयामास तद्वीरः सहान्नेन वृकोदरः॥१०॥
साहसमेवाह ददावित्यादिना ॥१०॥
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम्
।
तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत्॥११॥
प्रमाणकोट्यां गङ्गायास्तीर्थविशेषे । वृकनामा बहुभक्षोऽग्निरुदरे यस्य स वृकोदरः ॥११॥
यदा विबुद्धः कौन्तेयस्तदा संच्छिद्य बन्धनम्
।
उदतिष्ठन्महाबाहुर्भीमसेनो गतव्यथः॥१२॥
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्
।
सर्वेष्वेवाङ्गदेशेषु न ममार स शत्रुहा॥१३॥
तेषां तु विप्रकारेषु तेषु तेषु महामतिः
।
मोक्षणे प्रतिकारे च विदुरोऽवहितोऽभवत्॥१४॥
विप्रकारेषु अपकारेषु मोक्षणे प्राप्तापन्निवारणे प्रतिकारे प्रातिभट्येन शत्रोरप्यापदि निपातने ॥१४॥
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः
।
पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः॥१५॥
यदा तु विविधोपायैः संवृतैर्विवृतैरपि
।
नाशकद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान्॥१६॥
संवृतैः गुप्तैः । विवृतैः प्रकाशैः । देवभाव्यर्थरक्षितान् दैवेनादृष्टेन भावी कुरुक्षयपाण्डवराज्यलाभादिरर्थस्तस्मै रक्षितान् ॥१६॥
ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः
।
धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत्॥१७॥
वृषः कर्णः । जातुषं लाक्षामयम् ॥१७॥
सुतप्रियैषी तान्राजा पाण्डवानम्बिकासुतः
।
ततो विवासयामास राज्यभोगबुभुक्षया॥१८॥
ते प्रातिष्ठन्त सहिता नगरान्नागसाह्वयात्
।
प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनाम्॥१९॥
क्षत्ता विदुरः ॥१९॥
तेन मुक्ता जतुगृहान्निशीथे प्राद्रवन्वनम्
।
ततः संप्राप्य कौन्तेया नगरं वारणावतम्॥२०॥
तेन क्षत्तुर्मन्त्रणेन ॥२०॥
न्यवसन्त महात्मानो मात्रा सह परन्तपाः
।
धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे॥२१॥
पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः
।
सुरुङ्गां कारयित्वा तु विदुरेण प्रचोदिताः॥२२॥
पुरोचनात् आत्मानं रक्षमाणाः रक्षन्त । सुरुङ्गामुभयतो बिलं विवरम् ॥२२॥
आदीप्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम्
।
प्राद्रवन्भयसंविग्ना मात्रा सह पन्तपाः॥२३॥
ददृशुर्दारुणं रक्षो हिडिम्बं वननिर्झरे
।
हत्वा च तं राक्षसेन्द्रं भीताः समवबोधनात्॥२४॥
वननिर्झरे वननिर्झरसमीपे । अवबोधनात् प्राकट्यात् ॥२४॥
निशि संप्राद्रवन्पार्था धार्तराष्ट्रभयार्दिताः
।
प्राप्ता हिडिम्बा भीमेन यत्र जातो घटोत्कचः॥२५॥
एकचक्रां ततो हत्वा पाण्डवाः संशितव्रताः
।
वेदाध्ययनसंपन्नास्तेऽभवन्ब्रह्मचारिणः॥२६॥
ते तत्र नियताः कालं कंचिदूषुर्नरर्षभाः
।
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने॥२७॥
तत्राससाद क्षुधितं पुरुषादं वृकोदरः
।
भीमसेनो महाबाहुर्बकं नाम महाबलम्॥२८॥
तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः
।
निहत्य तरसा वीरो नागरान्पर्यसान्त्वयत्॥२९॥
निहत्य नागराणां शोकम् अपनीतवानित्यर्थः ॥२९॥
ततस्ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम्
।
श्रुत्वा चैवाभ्यगच्छ्त गत्वा चैवालभन्त ताम्॥३०॥
स्वयं वृणुते इति स्वयंवरा ताम् ॥३०॥
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः
।
विदिता हास्तिनपुरं प्रत्याजग्मुररिन्दमाः॥३१॥
ते उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च
।
भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति॥३२॥
शान्तनवेन भीष्मेण ॥३२॥
अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः
।
तस्माज्जनपदोपेतं सुविभक्तमहापथम्॥३३॥
वासाय खाण्डवप्रस्थं व्रजध्वं गतमत्सराः
।
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः॥३४॥
नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः
।
तत्र ते न्यवसन्पार्थाः संवत्सरगणांन्बहून्॥३५॥
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीभृतः
।
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः॥३६॥
अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितान्बहून्
।
अजयद्भीमसेनस्तु दिशं प्राचीं महायशाः॥३७॥
उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा
।
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा॥३८॥
एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम्
।
पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता॥३९॥
षट्सूर्येवाभवत्पृथ्वी पाण्डवैः सत्यविक्रमैः
।
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः॥४०॥
वनं प्रस्थापयामास तेजस्वी सत्यविक्रमः
।
प्राणेभ्योऽपि प्रियतरं भ्रातरं सव्यसाचिनम्॥४१॥
अर्जुनं पुरुषव्याघ्रं स्थिरात्मानं गुणैर्युतम्
।
स वै संवत्सरं पूर्णं मासं चैकं वने वसन्॥४२॥
स वै संवत्सरं पूर्णं मासं चैकं वने वसदिति दशसंख्यापूरकत्वात्पूर्णशब्देन दशगुणमुच्यते संवत्सरं पूर्णम् एकं च तथा मासं पूर्णमेव । तेन एकादशसंवत्सरा दशमासाश्च भवन्ति । तेषां च सौराणां प्रत्यब्दं सपादपञ्चदिनवृद्ध्या सावना द्वादशाब्दा भवन्ति । अन्ये तु मासशब्देन द्वादशसंख्यां लक्षयन्त एकशब्दवैयर्थ्यम् एकवचनानुपपत्तिं च नेक्षन्ते । वने इत्युपलक्षणं नगरस्यापि ॥४२॥
ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन
।
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्॥४३॥
अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम्
।
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता॥४४॥
सुभद्रा युयुजे प्रीत्या पाण्डवेनार्जुनेन ह
।
अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम्॥४५॥
बीभत्सुर्वासुदेवेन सहितो नृपसत्तम
।
नातिभारो हि पार्थस्य केशवेन सहाभवत्॥४६॥
नातीति । खाण्डवदाह इति शेषः ॥४६॥
व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव
।
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्॥४७॥
व्यवसायः एवमेवेदं करिष्यामीति निश्चयः ॥४७॥
इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम्
।
मोक्षयामास बीभत्सुर्मयं यत्र महासुरम्॥४८॥
बाणैर्युक्ताविति शेषः । कपिलक्षणं वानरध्वजम् । यत्र खाण्डवदाहे ॥४८॥
स चकार सभां दिव्यां सर्वरत्नसमाचिताम्
।
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः॥४९॥
ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम्
।
वनं प्रस्थापयामास सप्तवर्षाणि पञ्च च॥५०॥
अक्षैः पाशैर्द्यूतेनेत्यर्थः ॥५०॥
अज्ञातमेकं राष्ट्रे च ततो वर्षं त्रयोदशम्
।
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु॥५१॥
नालभन्त महाराज ततो युद्धमवर्तत
।
ततस्ते क्षत्रमुत्साद्य हत्वा दुर्योधनं नृपम्॥५२॥
राज्यं विहतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः
।
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम्
।
भेदो राज्यविनाशश्च जयश्च जयतांवर॥५३॥
विहतभूयिष्ठं नष्टप्रायम् ॥५३॥
॥ इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि भारतसूत्रं नाम एकषष्टितमोऽध्यायः॥६१॥
जनमेजय उवाच।
कथितं वै समासेन त्वया सर्वं द्विजोत्तम
।
महाभारतमाख्यानं कुरूणां चरितं महत्॥१॥
द्विषष्टितमः अध्यायः कथितमिति ॥१॥
कथां त्वनघ चित्रार्थां कथयस्व तपोधन
।
विस्तरश्रवणे जातं कौतूहलमतीव मे॥२॥
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति
।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्॥३॥
न तत्कारणमल्पं वै धर्मज्ञा यत्र पाण्डवाः
।
अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः॥४॥
अवध्यान् भीष्मद्रोणादीन् ॥४॥
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः
।
प्रयुज्यमानान्संक्लेशान्क्षान्तवन्तो दुरात्मनाम्॥५॥
कथं नागायुतप्राणो बाहुशाली वृकोदरः
।
परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम॥६॥
बाहुशाली बाहुबलवान् । कथं क्रोधं धृतवान् निरुद्धवान् ॥६॥
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः
।
शक्ता सती धार्तराष्ट्रान्नादहत्क्रोधचक्षुषा॥७॥
शक्ता दग्धुमिति शेषः ॥७॥
कथं व्यसनिनं द्यूते पार्थौ माद्रीसुतौ तदा
।
अन्वयुस्ते नरव्याघ्रा बाध्यमाना दुरात्मभिः॥८॥
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित्
।
अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः॥९॥
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः
।
अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनंजयः॥१०॥
अस्यन् शरान् क्षिपन् । स कथं क्लेशं सोढवानित्यनुषज्यते ॥१०॥
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन
।
यद्यच्च कृतवन्तस्ते तत्रतत्र महारथाः॥११॥
वैशंपायन उवाच।
क्षणं कुरु महाराज विपुलोऽयमनुक्रमः
।
पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः॥१२॥
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः
।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः॥१३॥
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम्
।
सत्यवत्यात्मजेनेह व्याख्यातममितौजसा॥१४॥
य इदं श्रावयेद्विद्वान्ये चेदं शृणुयुर्नराः
।
ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम्॥१५॥
इदं हि वेदैः समितं पवित्रमपि चोत्तमम्
।
श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम्॥१६॥
ऋषिभिर्मन्त्रैस्तद्रष्टभिर्वा संस्तुतं समं स्तुतं वा ॥१६॥
अस्मिन्नर्थश्च कामश्च निखिलेनोपदेक्ष्यते
।
इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी॥१७॥
परिनैष्ठिकी परिनिष्ठा मोक्षस्तदुचिता ॥१७॥
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान्
।
कार्ष्णं वेदमिमं विद्वाञ्छ्रावयित्वाऽर्थमश्नुते॥१८॥
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम्
।
इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः॥१९॥
मुच्यते सर्वपापेभ्यो राहुणा चन्द्रमा यथा
।
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा॥२०॥
महीं विजयते राजा शत्रूंश्चापि पराजयेत्
।
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत्॥२१॥
पुंसवनं पुमांसः सूयन्तेऽस्मिन्निति श्रुतेः ॥२१॥
महिषी युवराजाभ्यां श्रोतव्यं बहुशस्तथा
।
वीरं जनयते पुत्रं कन्यां वा राज्यभागिनीम्॥२२॥
महिषी पट्टराज्ञी ॥२२॥
धर्मशास्त्रमिदं पुण्यमर्थशास्त्रमिदं परम्
।
मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना॥२३॥
संप्रत्याचक्षते चेदं तथा श्रोष्यन्ति चापरे
।
पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः॥२४॥
शरीरेण कृतं पापं वाचा च मनसैव च
।
सर्वं संत्यजति क्षिप्रं य इदं शृणुयान्नरः॥२५॥
भरतानां महज्जन्म शृण्वतामनसूयताम्
।
नास्ति व्याधिभयं तेषां परलोकभयं कुतः॥२६॥
अनसूयतां गुणेषु दोषारोपमकुर्वताम् ॥२६॥
धन्यं यशस्यमायुष्यं पुण्यं स्वर्ग्यं तथैव च
।
कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा॥२७॥
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्
।
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम्॥२८॥
सर्वविद्यावदातानां लोके प्रथितकर्मणाम्
।
य इदं मानवो लोके पुण्यार्थे ब्राह्मणाञ्छुचीन्॥२९॥
श्रावयेत महापुण्यं तस्य धर्मः सनातनः
।
कुरूणां प्रथितं वंशं कीर्तयन्सततं शुचिः॥३०॥
वंशमाप्नोति विपुलं लोके पूज्यतमो भवेत्
।
योऽधीते भारतं पुण्यं ब्राह्मणो नियतव्रतः॥३१॥
चतुरो वार्षिकान्मासान्सर्वपापैः प्रमुच्यते
।
विज्ञेयः स च वेदानां पारगो भारतं पठन्॥३२॥
देवा राजर्षयो ह्यत्र पुण्या ब्रह्मर्षयस्तथा
।
कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा॥३३॥
भगवांश्चापि देवेशो यत्र देवी च कीर्त्यते
।
अनेकजननो यत्र कार्तिकेयस्य संभवः॥३४॥
अनेकजननः अनेकेभ्यः षड्भ्यः कृत्तिकाभ्यः जननम् उत्पत्तिरस्मिन्निति तथा ॥३४॥
ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते
।
सर्वश्रुतिसमूहोऽयं श्रोतव्यो धर्मबुद्धिभिः॥३५॥
सर्वश्रुतिसमूहः सर्वासां श्रुतीनां कर्म ब्रह्मपराणां समूह एवायम् ॥३५॥
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु
।
धूतपाप्मा जितस्वर्गो ब्रह्म गच्छति शाश्वतम्॥३६॥
श्रावयेद्ब्राह्मणाञ्श्राद्धे यश्चेमं पादमन्ततः
।
अक्षय्यं तस्य तच्छ्राद्धमुपावर्तेत्पितॄनिह॥३७॥
अह्ना यदेनः क्रियते इन्द्रियैर्मनसाऽपि वा
।
ज्ञानादज्ञानतो वापि प्रकरोति नरश्च यत्॥३८॥
तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते
।
भरतानां महज्जन्म महाभारतमुच्यते॥३९॥
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते
।
भरतानां महज्जन्म महाभारतमुच्यते॥४०॥
महतो ह्येनसो मर्त्यान्मोचयेदनुकीर्तितः
।
त्रिभिर्वर्षैर्लब्धकामः कृष्णद्वैपायनो मुनिः॥४१॥
नित्योत्थितः शुचिः शक्तो महाभारतमादितः
।
तपो नियममास्थाय कृतमेतन्महर्षिणा॥४२॥
तस्मान्नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैरिदम्
।
कृष्णप्रोक्तामिमां पुण्यां भारतीमुत्तमां कथाम्॥४३॥
श्रावयिष्यन्ति ये विप्रा ये च श्रोष्यन्ति मानवाः
।
सर्वथा वर्तमाना वै न ते शोच्याः कृताकृतैः॥४४॥
सर्वथा साधुनाऽसाधुना वा वर्त्मना वर्तमाना अपि कृताकृतैः क्रमेण पापपुण्यैस्तेन शोच्याः । एतच्छ्रवणादेव सर्वप्रत्यवायपरिहारो भवतीति भावः ॥४४॥
नरेण धर्मकामेन सर्वः श्रोतव्य इत्यपि
।
निखिलेनेतिहासोऽयं ततः सिद्धिमवाप्नुयात्॥४५॥
सिद्धिर्धर्मफलं चित्तशुद्ध्यादिः ॥४५॥
न तां स्वर्गगतिं प्राप्य तुष्टिं प्राप्नोति मानवः
।
यां श्रुत्वैवं महापुण्यमितिहासमुपाश्नुते॥४६॥
न तामिति । स्वर्गादप्येतच्छ्रवणं सुखकरं मुक्तिहेतुत्वादिति भावः ॥४६॥
शृण्वञ्श्राद्धः पुण्यशीलः श्रावयंश्चेदमद्भुतम्
।
नरः फलमवाप्नोति राजसूयाश्वमेधयोः॥४७॥
श्राद्धः श्रद्धावान् ॥४७॥
यथा समुद्रो भगवान्यथा मेरुर्महागिरिः
।
उभौ ख्यातौ रत्ननिधी तथा भारतमुच्यते॥४८॥
इदं हि वेदैः समितं पवित्रमपि चोत्तमम्
।
श्रव्यं श्रुतिसुखं चैव पावनं शीलवर्धनम्॥४९॥
श्रन्यम् अर्थतो रम्यं श्रुतिसुखं शब्दतो रम्यम् ॥४९॥
य इदं भारतं राजन्वाचकाय प्रयच्छति
।
तेन सर्वा मही दत्ता भवेत्सागरमेखला॥५०॥
पारिक्षितकथां दिव्यां पुण्याय विजयाय च
।
कथ्यमानां मया कृत्स्नां शृणु हर्षकरीमिमाम्॥५१॥
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः
।
महाभारतमाख्यानं कृतवानिदमद्भुतम्॥५२॥
सदोत्थायी सदोद्युक्तः ॥५२॥
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ
।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्॥५३॥
अद्भुतत्त्वमेवाह । धर्मे चेति धर्मादिचतुष्ट्यये उपादेये चकारचतुष्टयोक्ते अधर्मानर्थदुःखसंसाररूपे चतुष्के हातव्ये च विषये हेयमुपादेयं च कृत्स्नमत्रैव निरूपितम् । इतोऽधिकं ग्रन्थातरे नास्तीति कार्त्स्न्येन सर्वेषां शास्त्राणाम् अर्थं ज्ञातुकामेनैतदेवादर्तव्यमित्यर्थः ॥५३॥
॥ इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि महाभारतप्रशंसायां द्विषष्टितमोऽध्यायः॥६२॥
वैशंपायन उवाच।
राजोपरिचरो नाम धर्मनित्यो महीपतिः
।
बभूव मृगयां गन्तुं सदा किल धृतव्रतः॥१॥
त्रिषष्टितमः अध्यायः राजेति । रञ्जकत्वाद्राजा । महीपतिः पृथ्वीपालक ॥१॥
स चेदिविषयं रम्यं वसुः पौरवनन्दनः
।
इन्द्रोपदेशाज्जग्राह रमणीयं महीपतिः॥२॥
वसुः उपरिचरः ॥२॥
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोनिधिम्
।
देवाः शक्रपुरोगा वै राजानमुपतस्थिरे॥३॥
इन्द्रत्वमर्हो राजाऽयं तपसेत्यनुचिन्त्य वै
।
तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयन्॥४॥
साक्षात्प्रत्यक्षीभूय ॥४॥
देवा ऊचुः।
न संकीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते
।
त्वया हि धर्मो विधृतः कृत्स्नं धारयते जगत्॥५॥
न सङ्कीर्येत निर्नायकत्वात् ॥५॥
इन्द्र उवाच।
लोके धर्मं पालय त्वं नित्ययुक्तः समाहितः
।
धर्मयुक्तस्ततो लोकान्पुण्यान्प्राप्स्यसि शाश्वतान्॥६॥
दिविष्ठस्य भुविष्ठस्त्वं सखा भूतो मम प्रियः
।
रम्य पृथिव्यां यो देशस्तमावस नराधिप॥७॥
पशव्यश्चैव पुण्यश्च प्रभूतधनधान्यवान्
।
स्वा रक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः॥८॥
पशव्यः पशुभ्यो हितः स्वा रक्ष्यः स्वः स्वर्गस्तत्तुल्यः अत एव रक्ष्यः ॥८॥
अर्थवानेष देशो हि धनरत्नादिभिर्युतः
।
वसुपूर्णा च वसुधा वस चेदिषु चेदिप॥९॥
धर्मशीला जनपदाः सुसंतोषाश्च साधवः
।
न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा॥१०॥
न च पित्रा विभज्यन्ते पुत्रा गुरुहिते रताः
।
युञ्जते धुरि नो गाश्च कृशान्संधुक्षयन्ति च॥११॥
गाः बलीवर्दान् देशोऽकृष्टपच्य इति हलघुरि न युञ्जते । नापि शकटधुरि । पृष्ठवाहैरेव तत्कार्यसिद्धेरिति भावः । कृशान् दीनानाथादीन्संधुक्षयन्ति पुष्टान्कुर्वन्ति । यद्वा वृषभान्कृशान्न धुरि युञ्जते प्रत्युत सन्धुक्षयन्तीति । अन्ये तु गाः स्त्री गवीः तासामप्यान्ध्रादि दुर्देशेषु धुरि योजनं दृष्टं तदिह नास्तीत्याहुः ॥११॥
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद
।
न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु यद्भवेत्॥१२॥
न त इति । आत्मज्ञानात्सर्वज्ञो भविष्यसीत्यर्थः ॥१२॥
दैवोपभोग्यं दिव्यं त्वामाकाशे स्फाटिकं महत्
।
आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते॥१३॥
उपपत्स्यते उपस्थास्यते ॥१३॥
त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः
।
चरिष्यस्युपरिस्थो हि देवो विग्रहवानिव॥१४॥
ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम्
।
धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम्॥१५॥
वैजयन्तीं विजयहेतुम् अविक्षतमेव धारयिष्यति पालयिष्यति न तु विक्षतम् । अनया शस्त्रमेव त्वां न बाधिष्यत इति भावः ॥१५॥
लक्षणं चैतदेवेह भविता ते नराधिप
।
इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत्॥१६॥
लक्षणं चिह्नम् ॥१६॥
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः
।
इष्टप्रदानमुद्दिश्य शिष्टानां प्रतिपालिनीम्॥१७॥
इष्टप्रधानं प्रीतिदानमुद्दिश्य यष्टिं ददौ ॥१७॥
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा
।
प्रवेशं कारयामास सर्वोत्सववरं तदा॥१८॥
शक्रस्य पूजार्थं मानार्थं तस्याः यष्टेः । गते संवत्सरे संवत्सरान्ते यष्टिप्रवेशोद्यापि महाराष्ट्रादिषु दृश्यते ॥१८॥
ततःप्रभृति चाद्यापि यष्टेः क्षितिपसत्तमैः
।
प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः॥१९॥
अपरेद्युस्ततस्तस्याः क्रियतेऽत्युच्छ्रयो नृपैः
।
अलङ्कृताया पिटकैर्गन्धमाल्यैश्च भूषणैः॥२०॥
अपरेद्युः प्रतिपदि द्वितीयसंवत्सरादौ । अत्युच्छ्रय ऊर्ध्वं स्थापनम् । पिटकैः मञ्जूषारूपैर्वस्त्रमयैः कोशैः । यद्वा काञ्च्यामिव पिटकाः स्वर्णादिमया वेष्टका पेट्य इति भाषायां प्रसिद्धा ग्राह्याः । ‘पिटकः पेटकः पेटा मञ्जूषाथ विहङ्गिका’ इत्यमरः ॥२०॥
माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च
।
भगवान्पूज्यते चात्र हंसरूपेण चेश्वरः॥२१॥
हंसरूपेण युक्तो हंसरूपी । तस्यैव बुद्धिस्थस्य रूपस्य विशेषणं स्वयमेव गृहीतेनेति हंसरूपेण वासव इति पाठे स्पष्टोऽर्थः ॥२१॥
स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः
।
स तां पूजां महेन्द्रस्तु दृष्ट्वा देवः कृतां शुभाम्॥२२॥
देवः कृतामिति पाठः विसर्गाभवे तु देवेति जनमेजयसम्बोधनम् ॥२२॥
वसुना राजमुख्येन प्रीतिमानब्रवीत्प्रभुः
।
ये पूजयिष्यन्ति नरा राजानश्च महं मम॥२३॥
महम् उत्सवम् । मह उद्धव उत्सव इत्यमरः ॥२३॥
कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः
।
तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति॥२४॥
तथा स्फीतो जनपदो मुदितश्च भविष्यति
।
एवं महात्मना तेन महेन्द्रेण नराधिप॥२५॥
वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः
।
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः॥२६॥
भूमिरत्नादिभिर्दानैस्तथा पूज्या भवन्ति ते
।
वरदानमहायज्ञैस्तथा शक्रोत्सवेन च॥२७॥
वरदानं च महायज्ञाश्च तैः ॥२७॥
संपूजितो मघवता वसुश्चेदीश्वरो नृपः
।
पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम्॥२८॥
इन्द्रपीत्या चेदिपतिश्चकारेन्द्रमहं वसुः
।
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः॥२९॥
नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत्
।
महारथो मागधानां विश्रुतो यो बृहद्रथः॥३०॥
प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम्
।
मावेल्लश्च यदुश्चैव राजन्यश्चापराजितः॥३१॥
एते तस्य सुता राजन्राजर्षेर्भूरितेजसः
।
न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च॥३२॥
वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः
।
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम्॥३३॥
वासवाः वसुपुत्राः । इन्द्रप्रासादे इन्द्रदत्ते विमाने ॥३३॥
उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम्
।
राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम्॥३४॥
पुरोपवाहिनीं तस्य नदीं शुक्तमतीं गिरिः
।
अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल॥३५॥
पुरोपवाहिनीं पुरसमीपे वहन्तीम् अरौत्सीत् आत्मन्येवावरुरोध ॥३५॥
गिरिं कोलाहलं तं तु पदा वसुरताडयत्
।
निश्चक्राम ततस्तेन प्रहारविवरेण सा॥३६॥
तस्यां नद्यां स जनयन्मिथुनं पर्वतः स्वयम्
।
तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत्॥३७॥
नदी राज्ञे न्यवेदयन्मिथुनमित्यनुषज्यते ॥३७॥
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः
।
वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमः॥३८॥
चकार पत्नीं कन्यां तु तथा तां गिरिकां नृपः
।
वसोः पत्नी तु गिरिका कामकालं न्यवेदयत्॥३९॥
ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः
।
तदहः पितरश्चैनमूचुर्जहि मृगानिति॥४०॥
पुंसवने पुंप्रसवयोग्य काले । तदहः तस्मिन् दिने ॥४०॥
तं राजसत्तमं प्रीतास्तदा मतिमतां वरः
।
स पितॄणां नियोगेन तमनतिक्रम्य पार्थिवः॥४१॥
चकार मृगयां कामी गिरिकामेव संस्मरन्
।
अतीवरूपसंपन्नां साक्षाच्छ्रियमिवापराम्॥४२॥
अशोकैश्चम्पकैश्चूतैरनेकैरतिमुक्तकैः
।
पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः॥४३॥
पाटसैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा
।
एतै रम्यैर्महावृक्षैः पुण्यैः स्वादुफलैर्युतम्॥४४॥
कोकिलाकुलसन्नादं मत्तभ्रमरनादितम्
।
वसन्तकाले तत्तस्य वनं चैत्ररथोपमम्॥४५॥
मथाभिपरीतात्मा नापश्यद्गिरिकां तदा
।
अपश्यन्कामसंतप्तश्चरमाणो यदृच्छया॥४६॥
पुष्पसंछन्नशाखाग्रं पल्लवैरुपशोभितम्
।
अशोकं स्तबकैश्छन्नं रमणीयमपश्यत॥४७॥
अधस्तात्तस्य च्छायायां सुखासीनो नराधिपः
।
मधुगन्धश्च संयुक्तं पुष्पगन्धमनोहरम्॥४८॥
सिंहावलोकनेनाशोकमेव विशिनष्टि मधुगन्धैरिति ॥४८॥
वायुना प्रेर्यमाणस्तु धूम्राय मुदमन्वगात्
।
तस्य रेतः प्रचस्कन्द चरतो गहने वने॥४९॥
वायुना कामोद्दीपकेन । धूम्रं मलिनं रतिकर्म तदर्थं मुदं स्त्रीविषयां प्रीतिमनुसृत्य तामेव मनसाऽगात् । तया सह मानसं सुरतमकरोदित्यर्थः । प्रचस्कन्द पपात ॥४९॥
स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः
।
प्रतिजग्राह मिथ्या मे न पतेद्रेत इत्युत॥५०॥
मिथ्याप्रसवशून्यत्वेनालीकप्रायम् ॥५०॥
इदं मिथ्या परिस्कन्नं रेतो मे न भवेदिति
।
ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः ॥५१॥
संचिन्त्यैवं तदा राजा विचार्य च पुनःपुनः
।
अमोघत्वं च विज्ञाय रेतसो राजसत्तमः॥५२॥
शुक्रप्रस्थापने कालं महिष्या प्रसमीक्ष्य वै
।
अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम्॥५३॥
अभिमन्त्र्य पुत्रोत्पत्तिलिङ्गैर्मन्त्रैः स्पृष्ट्वा आरात् विमानैकदेशसमीपे ॥५३॥
सूक्ष्मधर्मार्थतत्त्वज्ञो गत्वा श्येनं ततोऽब्रवीत्
।
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय॥५४॥
गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै
।
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान्॥५५॥
आर्तवम् ऋतुकालीनं स्नानम् ॥५५॥
जवं परममास्थाय प्रदुद्राव विहंगमः
।
तमपश्यदथायान्तं श्येनं श्येनस्तथाऽपरः॥५६॥
अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया
।
तुण्डयुद्धमथाकाशे तावुभौ संप्रचक्रतुः॥५७॥
युद्ध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि
।
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सरा॥५८॥
युध्यतोः सतोः । अद्रिकागिरिकेति नामसाम्यादेकस्या एवाप्सरसो व्यूहभेदेन देहद्वयं ज्ञेयम् । अन्यथा राज्ञो मिथ्यासङ्कल्पत्वापत्तेः ॥५८॥
मीनभावमनुप्राप्ता बभूव यमुनाचरी
।
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम्॥५९॥
जग्राह तरसोपेत्य साऽद्रिका मत्स्यरूपिणी
।
कदाचिदपि मत्सीं तां बबन्धुर्मत्स्यजीविनः॥६०॥
मासे च दशमे प्राप्ते तदा भरतसत्तम
।
उज्जह्रुरुदरात्तस्याः स्त्रीं पुमांसं च मानुषम्॥६१॥
मासे दशमे प्राप्ते बबन्धुरिति सम्बन्धः ॥ उज्जहुः उद्धृतवन्तः ॥६१॥
आश्चर्यभूतं तद्गत्वा राज्ञेऽथ प्रत्यवेदयन्
।
काये मत्स्या इमौ राजन्संभूतौ मानुषाविति॥६२॥
काये देहे मत्स्याः मत्स्ययोषायाः ॥६२॥
तयोः पुमांसं जग्राह राजोपरिचरस्तदा
।
स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः॥६३॥
साऽप्सरा मुक्तशापा च क्षणेन समपद्यत
।
या पुरोक्ता भगवता तिर्यग्योनिगता शुभा॥६४॥
मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि
।
ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिभिः॥६५॥
संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च
।
सिद्धर्षिचारणपथं जगामाथ वराप्सराः॥६६॥
सा कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी
।
राज्ञा दत्ता च दाशाय कन्येयं ते भवत्विति॥६७॥
मत्स्यसगन्धिनी मत्स्यसमानगन्धा । दाशाय कैवर्ताय ॥६७॥
रूपसत्वसमायुक्ता सर्वैः समुदिता गुणैः
।
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात्॥६८॥
आसीत्सा मत्स्यगन्धैव कंचित्कालं शुचिस्मिता
।
शुश्रूषार्थं पितुर्नावं वाहयन्तीं जले च ताम्॥६९॥
तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः
।
अतीवरूपसंपन्नां सिद्धानामपि काङ्क्षिताम्॥७०॥
दृष्ट्वैव स च तां धीमांश्चकमे चारुहासिनीम्
।
दिव्यां तां वासवीं कन्यां रम्भोरूं मुनिपुङ्गवः॥७१॥
चकमे कार्मितवान् ॥७१॥
संगमं मम कल्याणि कुरुष्वेत्यभ्यभाषत
।
साब्रवीत्पश्य भगवन्परपारे स्थितानृषीन्॥७२॥
आवयोर्दृष्टयोरेभिः कथं नु स्यात्समागमः
।
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः॥७३॥
नीहारं धूमिकाम् ॥७३॥
येन देशः स सर्वस्तु तमोभूत इवाभवत्
।
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा॥७४॥
विस्मिता साभवत्कन्या व्रीडिता च तपस्विनी
।
सत्यवत्युवाच
।
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम्॥७५॥
पितुर्वश इच्छा तदनुसारिणीं पितृवशानुगाम् ॥७५॥
त्वत्संयोगाच्च दुष्येत कन्याभावो ममाऽनघ
।
कन्यात्वे दूषिते वापि कथं शक्ष्ये द्विजोत्तम॥७६॥
गृहं गन्तुमृषे चाहं धीमन्न स्थातुमुत्सहे
।
एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम्॥७७॥
न स्थातुं जीवितुं नोत्सहे । कन्यात्वदूषणादित्यर्थः ॥७७॥
एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः
।
उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यति॥७८॥
वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि
।
वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते॥७९॥
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम्
।
स चास्यै भगवान्प्रादान्मनः काङ्क्षितं भुवि॥८०॥
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता
।
जगाम सह संसर्गमृषिणाऽद्भुतकर्मणा॥८१॥
स्त्रीभावे यो गुणः पुष्पवत्ता तेन भूषिता सद्यः पुष्पवत्यभूदित्यर्थः ॥८१॥
तस्यास्तु योजनाद्गन्धमाजिघ्रन्त नरा भुवि॥८२॥
तस्या योजनगन्धेति ततो नामापरं स्मृतम्
।
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम्॥८३॥
वरं कन्याभावं सौगन्ध्यं च लब्ध्वा सद्यो गर्भं च सुषावेति सम्बन्धः ॥८३॥
पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा
।
जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान्॥८४॥
स मातरमनुज्ञाप्य तपस्येव मनो दधे
।
स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्॥८५॥
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्
।
न्यस्तो द्वीपे यद्बालस्तस्माद्द्वैपायनः स्मृतः॥८६॥
द्वीपमेव अयनं न्यासस्थानं यस्य द्वीपायनः स्वार्थे तद्धितः । द्वीपायन एव द्वैपायन इति नाम निर्वाक्ति । न्यस्त इति ॥८६॥
पादापसारिणं धर्मं स तु विद्वान्युगे युगे
।
आयुः शक्तिं च मर्त्यानां युगावस्थामवेक्ष्यच॥८७॥
पादापसारिणं युगे युगे पादशः क्षीयमाणम् । कलेरादौ पादमात्रमवाशष्टमित्यर्थः । एवम् आयुरादिह्रासं चावेक्ष्य ॥८७॥
ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाङ्क्षया
।
विव्यास वेदान्यस्मत्स तस्माद्व्यास इति स्मृतः॥८८॥
ब्रह्मणो वेदस्य । अनुग्रहो रक्षणम् । विव्यास शाखाभेदेन विस्तारितवान् । अतो व्यास इत्यपि तस्य नामेत्यर्थः ॥८८॥
वेदानध्यापयामास महाभारतपञ्चमान्
।
सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम्॥८९॥
महाभारतपञ्चमानिति । भारतं पञ्चम्रो वेदः । सर्वश्रुतिसमूहोयमित्यसकृदुक्तेः । इतरपुराणवदिदं न मन्तव्यमित्यर्थः ॥८९॥
प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च
।
संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः॥९०॥
भारतस्य मूलभूताः संहिताः मन्त्रब्राह्मणरूपा वेदाः । तैः सुमन्तुप्रभृतिभिः प्रकाशिताः इदमस्य मूलमिदमस्य मूलमिति स्पष्टीकृतास्तेन प्रत्यक्षवेदमूलमेतदिति भावः ॥९०॥
तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः
।
वसुवीर्यात्समभवन्महावीर्यो महायशाः॥९१॥
वसुवीर्यात् अष्टानां वसूनाम् अंशात् ॥९१॥
वैदार्थविच्च भगवानृषिर्विप्रो महायशाः
।
शूले प्रोतः पुराणर्षिरचौरश्चोरशङ्कया॥९२॥
अणीमाण्डव्य इत्येवं विख्यातः स महायशाः
।
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान्॥९३॥
आहूय समीपमानीय । आहत्येति पाठे अधिक्षिप्य ॥९३॥
इषीकया मया बाल्याद्विद्धा ह्येका शकुन्तिका
।
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे॥९४॥
तन्मे सहस्रममितं कस्मान्नेहाजयत्तपः
।
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः॥९५॥
वधः पीडाऽपमानो वा ॥९५॥
तस्मात्त्वं किल्बिषी धार्म शूद्रयोनौ जनिष्यसि
।
तेन शापेन धर्मोऽपि शूद्रयोनावजायत॥९६॥
विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी
।
संजयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात्॥९७॥
सूर्याच्च कुन्तिकन्याया जज्ञे कर्णो महाबलः
।
सहजं कवचं बिभ्रत्कुण्डलो द्योतिताननः॥९८॥
कुन्तिभोजस्य कन्यायां कुन्त्याम् ॥९८॥
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः
।
वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः॥९९॥
अनादिनिधनो देवः स कर्ता जगतः प्रभुः
।
अव्यक्तमक्षरं ब्रह्म प्रधानं त्रिगुणात्मकम्॥१००॥
अनादिनिधन इति स्थूल देहधर्मयोर्जन्ममरणयोर्व्यावृत्तिः । देवो दीन्यमानो जगत्कर्ता । किं तैजसो न प्रभुः जीवस्य स्वप्नेऽपि जगत्कर्तृत्वाभावात् । अन्यथा स्वप्ने प्रतिकूलसृष्ट्यनुपपत्तिः । एतेन कर्मद्वाराऽपि जगत्कर्तृत्वं जीवस्य लाङ्गलं गवादीनुद्वहतीतिवन्निमित्तत्वमात्रेण नत्वीश्वरत्वेनेति दर्शितम् । अव्यक्तम् अव्याकृतम् । किं सौषुप्तं कारणम् । यथोक्तं ‘सुषुप्ताख्यं तमोऽज्ञानं यद्बीजं स्वप्नबोधयोः’ ‘इति । तद्व्यावर्तयति । अक्षरमिति । न क्षरत्यपरिणामित्वात् । तत्तु क्षयोद्भवयुक्तम् । एतेन व्यष्टिस्थूलसूक्ष्मकारणं देहव्यावर्तनेन त्वं पदार्थशोध उक्तः । अन्यथा भगवति जन्माद्यप्रसक्तेस्तद्वारकमनादिनिधन इति विशेषणमनुपपन्नम् । तत्पदार्थमाह । ब्रह्म बृहत् प्रधानं प्रधीयतेऽस्मिन्सर्वमिति लयस्थानम् । त्रिगुणात्मकं सत्वरजस्तमो मयम् ॥१००॥
आत्मानमव्ययं चैव प्रकृतिं प्रभवं प्रभुम्
।
पुरुषं विश्वकर्माणं सत्वयोगं ध्रुवाक्षरम्॥१०१॥
अस्य सांख्याभिमतम् अनात्मत्वं परिणामित्वं च वारयति आत्मानमन्ययमिति विशेषणाभ्याम् । प्रधानत्वादेव प्रकृतिम् उपादनाम् । प्रभवम् उत्पत्तिनिमित्तम् । प्रभुम् अधिष्ठातारम् । ननु घटादेर्मृदुपादानं चक्रं निमित्तं कुलालः कर्ता । अत्र तु त्रयमपि देव एवेत्युक्तं तत्कथमित्याशङ्क्य तत्सृष्ट्वा तदेवानुप्राविशदितिश्रुत्यर्थमाह । पुरुषं पूर्षु वसतीति पुरुषः पुरश्च । ज्ञानेन्द्रियाणि खलु पञ्च तथापराणि कर्मेन्द्रियाणि मन आदिचतुष्टयं च । ‘प्राणादिपञ्चकमथोवियदादिकं च कामश्च कर्म च तमः पुनरष्टमी पूरित्युक्ताः’ । आत्मानमेव स्वाविद्यया पूर्यष्टकाकारं कृत्वा तत्र प्रविष्ट इत्यर्थः । एवमैश्वरीं प्रवेशांतां सृष्टिमुक्त्वा जाग्रदादिविमोक्षांतां जैवीं सृष्टिं तदनुप्रविश्य सच्चत्यच्चा भवदित्यादिश्रुत्युक्तां सङ्गृह्णाति । विश्वकर्माणमिति विश्वं पृथिव्यप्तेजोरूपं सच्छब्दवाच्यं वाय्वाकाशादिरूपं त्यच्छद्ववाच्यं चेत्येवमादिरूपं कर्मघटादिवत्क्रियाफलभूतं यस्येति विश्वकर्मा तम् । एवं विशेषणैरेव ब्रह्मण एव जीवभावं प्रदर्श्य तन्निवृत्त्युपायमपि तैरेव प्रत्याययति । सत्वयोगं सत्वेनैव धर्मज्ञानवैराग्यमूलेन योगः प्राप्तिरस्य तम् । सत्ववतो ब्रह्मभावप्राप्तावालम्बनमाह । ध्रुवाक्षरं प्रणवाख्यवर्णस्वरूपम् । वाच्यवाचकयोरभेदात्प्रणवमात्राभिरकारोकारमकारार्धमात्राभिरुपासिताभिस्तदर्थभूता विराट्सूत्रान्तर्यामितुरीयाख्याः प्राप्यन्त इति भावः ॥१०१॥
अनन्तमचलं देवं हंसं नारायणं प्रभुम्
।
धातारमजमव्यक्तं यमाहुः परमव्ययम्॥१०२॥
एतेषु कतमो मुख्यः प्राप्य इत्यत आह । अनन्तमिति । देशतः कालतो वस्तुतश्चापरिच्छिन्नं तुरीयमित्यर्थः । ननु तत्तदवस्थायां सर्वेषामानन्त्यमविशिष्टमित्याशङ्क्याह । अचलम् अबाधितम् । इतरेषां बाधोऽस्तीत्यापेक्षिकमनन्तत्वमिति भावः । नन्वेवं कारणत्वादिनिषेधे शून्यमेवस्यान्नेत्याह । देवं द्योतमानं चिद्रूपमित्यर्थः । एवं तर्वङ्कुरबीजद्वारा भुव इव विराट्सूत्रेशद्वारा तुरीयप्राप्तिमुक्त्वा तत्रैव द्वारान्तरमाह हंसं संन्यासाश्रमरूपम् । तत्र ह्यविक्षेपेण श्रवणादिकं सिध्यतीति सोऽपि द्वारम् । नारायणं फलस्थानीयं पञ्चमं महाविष्णुम् । एतद्विग्रहध्यानद्वारैव हि विराडादिभावमारोहन्ति ध्यायिनः । फलगर्भे बीजानीवास्य गर्भेऽनन्तानि कारणानि सन्तीत्येनं तुरीयविशेषणैरेव विशिनष्टि । प्रभुं प्रभवत्यस्मात्कार्यमिति जगद्भ्रमाधिष्ठानम् । धातारं कार्ये सत्तास्फूर्त्योः समर्पकम् । अजम् उरगोपादानभूतरज्जुवदजातम् । अन्यक्तम् अप्रकटम् । अधिष्ठानव्यक्तौ हि अध्यस्तमेव लुप्येतातोऽव्यक्तम् । परम् आदित्यवर्णं तमसः परस्तादित्यादयो मन्त्राः यं कारणात्परं प्राहुः। अत एवाव्ययं नाशबाधाभ्यां हीनम्॥१०२॥
कैवल्यं निर्गुणं विश्वमनादिमजमव्ययम्
।
पुरुषः स विभुः कर्ता सर्वभूतपितामहः॥१०३॥
कैवल्यं केवलमेव कैवल्यम् असङ्गम्। निर्गुणं रूपादिभिश्चक्षुरादिभिश्च हीनम् । अत्र विग्रहवत्त्वात्प्रसक्तं परिच्छिन्नत्वं कारणवत्त्वं जन्ममरणं चेति । तच्चतुष्कं क्रमेण व्यावर्तयति । विश्वमनादिमजमव्ययमिति । मायिकत्वाद्विग्रहस्य न तत्कृतपरिच्छेदादयोऽस्मिन्संभवन्तीत्यर्थः । य एवंरूपो नारायणः स एव देवकीसूनुरित्याह । पुरुष इत्यादि सार्धेन । स एवं भूतोऽस्त्रज्ञौ रामाकृष्णौ जज्ञे । तदुभयरूपेण जात इत्यर्थः ॥१०३॥
धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु
।
अस्त्रज्ञौ तु महावीर्यौ सर्वशास्त्रविशारदौ॥१०४॥
सात्यकिः कृतवर्मा च नारायणमनुव्रतौ
।
सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्र विशारदौ॥१०५॥
विशारदौ प्रयोगकुशलौ॥१०५॥
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत
।
महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत॥१०६॥
द्रोण्यां गिरिदर्याम् ॥१०६॥
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः
।
अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः॥१०७॥
शरस्तम्बात् शरस्तम्बस्कन्नात् द्वैधीभूताद्रेतसः ॥१०७॥
अश्वत्थामा ततो जज्ञे द्रोणादेव महाबलः
।
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः॥१०८॥
वैताने कर्मणि तते पावकात्समजायत
।
वीरो द्रोणविनाशाय धनुरादाय वीर्यवान्॥१०९॥
वैताने त्रेताग्निसाध्ये ॥१०९॥
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा
।
विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम्॥११०॥
प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः
।
तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात्॥१११॥
तस्य सुबलस्य प्रजा पुंरूपैव शकुनिरूपा । दुर्योधनमातुर्धर्महन्तृत्वं पुत्रद्वारैव ॥१११॥
गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा
।
दुर्योधनस्य जननी जज्ञातेऽर्थविशारदौ॥११२॥
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः
।
क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः॥११३॥
धर्मार्थकुशलो धीमान्मेधावी धूतकल्मषः
।
विदुरः शूद्रयोनौ तु जज्ञे द्वैपायनादपि॥११४॥
प्रसङ्गात्पुनर्विदुरजन्मोक्तिः ॥११४॥
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक्
।
द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः॥११५॥
धर्माद्युधिष्ठिरो जज्ञे मारुताच्च वृकोदरः
।
इन्द्राद्धनंजयः श्रीमान्सर्वशस्त्रभृतां वरः॥११६॥
जज्ञाते रूपसंपन्नावश्विभ्यां च यमावपि
।
नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ॥११७॥
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः
।
दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा॥११८॥
युयुत्सुः शताधिकः करणस्तु । वैश्यायां क्षत्रियाज्जातः करणः परिकीर्तितः इति स्मृत्युक्तः ॥११८॥
ततो दुःशासनश्चैव दुःसहश्चापि भारत
।
दुर्मर्षणो विकर्णश्च चित्रसेनो विविंशतिः॥११९॥
जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत
।
वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः॥१२०॥
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत
।
स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः॥१२१॥
पाण्डवेभ्यो हि पाञ्चाल्यां द्रौपद्यां पञ्च जज्ञिरे
।
कुमारा रूपसंपन्नाः सर्वशास्त्रविशारदाः॥१२२॥
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्
।
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः॥१२३॥
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान्
।
हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः॥१२४॥
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता
।
यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया॥१२५॥
स्थूणो नाम्ना ॥१२५॥
कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथा
।
राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे॥१२६॥
तेषामपरिमेयानां नामधेयानि सर्वशः
।
न शक्यानि समाख्यातुं वर्षाणामयुतैरपि
।
एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम्॥१२७॥
॥ इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि व्यासाद्युत्पत्तौ त्रिषष्टितमोऽध्यायः॥६३॥
जनमेजय उवाच।
य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः
।
सम्यक्ताञ्श्रोतुमिच्छामिराज्ञश्चान्यान्सहस्रशः॥१॥
चतुषष्टितमः अध्यायः य एत इति ॥१॥
यदर्थमिह संभूता देवकल्पा महारथाः
।
भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि॥२॥
वैशम्पायन उवाच।
रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम्
।
तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे॥३॥
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा
।
जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे॥४॥
त्रिःसप्तकृत्वः एकविंशतिवारान् ॥४॥
तदा निःक्षत्रिये लोके भार्गवेण कृते सति
।
ब्राह्मणान्क्षत्रिया राजन्सुतार्थिन्योऽभिचक्रमुः॥५॥
ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः
।
ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा॥६॥
तेभ्यश्च लेभिरे गर्भं क्षत्रियास्ताः सहस्रशः
।
ततः सुषुविरे राजन्क्षत्रियान्वीर्यवत्तरान्॥७॥
कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये
।
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः॥८॥
जातं वृद्धं च धर्मेण सुदीर्गेणायुषान्वितम्
।
चत्वारोऽपि ततो वर्णा बभूवुर्ब्राह्मणोत्तराः॥९॥
ब्राह्मणोत्तराः ब्राह्मणप्रधानाः ॥९॥
अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा
।
तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि॥१०॥
ऋतौ दारांश्च गच्छन्ति तत्तथा भरतर्षभ
।
ततो वर्धन्त धर्मेण सहस्रशतजीविनः॥११॥
जीविनः जीविन्यः ॥११॥
ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः
।
आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः॥१२॥
आधिभिः शोकादिभिः व्याधिभिर्ज्वरादिभिः ॥१२॥
अथेमां सागरापाङ्गीं गां गजेन्द्रगताखिलाम्
।
अध्यतिष्ठत्पुनः क्षत्रं सशैलवनपत्तनाम्॥१३॥
अपाङ्ग इवापाङ्गः प्रान्तः सागरान्तमित्यर्थः । अध्यतिष्ठत् अधिष्ठितवान् । हे गजेन्द्रगत ॥१३॥
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम्
।
ब्राह्मणाद्यास्ततो वर्णा लेभिरे मुदमुत्तमाम्॥१४॥
कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः
।
धर्मेण दण्डं दण्डेषु प्रणयन्तोऽन्वपालयन्॥१५॥
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः
।
स्वादु देशे च काले च वर्षेणापालयत्प्रजाः॥१६॥
स्वादु रोचकं यथा स्यात्तथा ॥१६॥
न बाल एव म्रियते तदा कश्चिज्जनाधिप
।
न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवन:॥१७॥
एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ
।
इयं सागरपर्यन्ता ससापूर्यत मेदिनी॥१८॥
ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः
।
साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा॥१९॥
न च विक्रीणते ब्रह्म ब्राह्मणाश्च तदा नृप
।
न च शूद्रसमाभ्यासे वेदानुच्चारयन्त्युत॥२०॥
ब्रह्म वेदं न विक्रीणते भृतकाध्यापनं न कुर्वत इत्यर्थः ॥२०॥
कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह
।
युञ्जते धुरि नो गाश्च कृशाङ्गांश्चाप्यजीवयन्॥२१॥
वैश्याः स्वयं धुरि गाः बलीवर्दान् न युञ्जते ॥२१॥
फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः
।
न कूटमानैर्वणिजः पण्यं विक्रीणते तदा॥२२॥
फेनपान् अतृणादानभिलक्ष्य न दुहन्ति धेनूरितिशेषः । कूटमानैः कपटतुलाप्रस्थादिभिः ॥२२॥
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः
।
धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः॥२३॥
स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप
।
एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित्॥२४॥
काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ
।
भवन्त्यृतुषु वृक्षाणां पुष्पाणि च फलानि च॥२५॥
ऋतुषु वसन्तादिषु स्वस्वकाले ॥२५॥
एवं कृतयुगे सम्यग्वर्तमाने तदा नृप
।
आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम्॥२६॥
एवं समुदिते लोके मानुषे भरतर्षभ
।
असुरा जज्ञिरे क्षेत्रे राज्ञां तु मनुजेश्वर॥२७॥
समुदिते मुदितया प्रीत्या सहिते ॥२७॥
आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि
।
ऐश्वर्याद्भ्रंशिताः स्वर्गात्संबभूवुः क्षिताविह॥२८॥
इह देवत्वमिच्छन्तो मानुषेषु तपस्विनः
।
जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो॥२९॥
देवत्वं राज्यं देवभावं वा ॥२९॥
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च
।
क्रव्यात्सु चैव भूतेषु गजेषु च मृगेषु च॥३०॥
जातैरिह महीपाल जायमानैश्च तैर्मही
।
न शशाकात्मनात्मानमियं धारयितुं धरा॥३१॥
अथ जाता महीपालाः केचिद्बहुमदान्विताः
।
दितेः पुत्रा दनोश्चैव तदा लोक इहाच्युताः॥३२॥
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम्
।
इमां सागरपर्यन्तां परीयुररिमर्दनाः॥३३॥
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन्
।
अन्यानि चैव सत्त्वानि पीडयामासुरोजसा॥३४॥
त्रासयन्तोऽभिनिघ्नन्तः सर्वभूतगणांश्च ते
।
विचेरुः सर्वशो राजन्महीं शतसहस्रशः॥३५॥
आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः
।
अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च॥३६॥
एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः
।
पीड्यमाना मही राजन्ब्रह्माणमुपचक्रमे॥३७॥
मही उपचक्रमे गन्तुमितिशेषः । महाराजेति पाठान्तरे तु महीतिशेषः ॥३७॥
न ह्यमी भूतसत्वौघाः पन्नगाः सनगां महीम्
।
तदा धारयितुं शेकुः संक्रान्तां दानवैर्बलात्॥३८॥
न ह्यमी इति । भूतसत्वौघाः भूतानां शेषकूर्मदिग्गजानां धराभृतां सत्वौघाः बलसङ्घाः । पन्नगाः शेषाः । बहुवचनं तेषां प्रत्येकं बहूनामप्यसामर्थ्यं किं पुनरेकैकस्येति सूचनार्थम् । न ह्येनामिति पाठे एनां बुद्धिस्थां भूमिम् ॥३८॥
ततो मही महीपाल भारार्ता भयपीडिता
।
जगाम शरणं देवं सर्वभूतपितामहम्॥३९॥
सा संवृतं महाभागैर्देवद्विजमहर्षिभिः
।
ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम्॥४०॥
अव्ययम् अजरत्वादपक्षयशून्यम् ॥४०॥
गन्धर्वैरप्सरोभिश्च दैवकर्मसु निष्ठितैः
।
वन्द्यमानं मुदोपतैर्ववन्दे चैनमेत्य सा॥४१॥
एनं ब्रह्माणम् । सा पृथ्वी ॥४१॥
अथ विज्ञापयामास भूमिस्तं शरणार्थिनी
।
सन्निधौ लोकपालानां सर्वेषामेव भारत॥४२॥
तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयंभुवः
।
पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः॥४३॥
तद्भूमेः कृत्यम् । प्रधानात्मनः प्रधानजयी आत्मा मनो यस्य तस्य । सांख्ययोगानां हि प्रधानजयिनः सर्वज्ञत्वं सर्वशक्तित्वं च भवतीति प्रसिद्धम् । सर्वज्ञस्य नाविदितं किञ्चिदस्तीत्यर्थः । प्रधानात्मनः कारणात्मनः तद्भूमेः कृत्यमिति वार्थः ॥४३॥
स्रष्टा हि जगतः कस्मान्न संबुध्येत भारत
।
ससुरासुरलोकानामशेषेण मनोगतम्॥४४॥
तदेवाह स्रष्टाहीति ॥४४॥
तामुवाच महाराज भूमिं भूमिपतिः प्रभुः
।
प्रभवः सर्वभूतानामीशः शंभुः प्रजापतिः॥४५॥
अस्य त्रिमूर्तित्वमाह । प्रभव इति ईशो विष्णुः ॥४५॥
ब्रह्मोवाच।
यदर्थमभिसंप्राप्ता मत्सकाशं वसुन्धरे
।
तदर्थं सन्नियोक्ष्यामि सर्वानेव दिवौकसः॥४६॥
वैशंपायन उवाच।
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च
।
आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम्॥४७॥
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक्
।
अस्यामेव प्रसूयध्वं तिरोधायेति चाब्रवीत्॥४८॥
विरोधाय विरोधमूलकाय भूभारनाशायेत्यर्थः ॥४८॥
तथैव च समानीय गन्धर्वाप्सरसां गणान्
।
उवाच भगवान्सर्वानिदं वचनमर्थवत्॥४९॥
ब्रह्मोवाच।
स्वैः स्वैरंशैः प्रसूयध्वं यथेष्टं मानेषेषु च
।
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः
।
तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा॥५०॥
तथ्यं यथार्थम् । अर्थ्यम् प्रार्थनीयम् । पथ्यं हितकरम् ॥५०॥
अथ ते सर्वशोंशैः स्वैर्गन्तुं भूमिं कृतक्षणाः
।
नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः॥५१॥
कृतक्षणाः कृतनियमाः ॥५१॥
यः स चक्रगदापाणिः पीतवासाः शितिप्रभः
।
पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः॥५२॥
पृथुचार्वञ्चितेक्षणः पृथुनी चार्वञ्चिते सदयनिपाते ईक्षणे यस्य सः । पृथुवक्षाञ्चितेक्षण इति पाठे वक्षःशब्दोऽकारान्तः पृथुनि वक्षे वक्षसि अञ्चितं गमनं ययोस्ते ध्यानारूढतया ईक्षणे यस्य सः ॥५२॥
प्रजापतिपतिर्देवः सुरनाथो महाबलः
।
श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः॥५३॥
तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम्
।
अंशेनावतरेत्येवं तथेत्याह च तं हरिः॥५४॥
शोधनाय कष्टकभूतखलोन्मूलनाय ॥५४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि चतुःषष्टितमोऽध्यायः॥६४॥