वैशंपायन उवाच।
अथ नारायणेनेन्द्रश्चकार सह संविदम्
।
अवतर्तुं महीं स्वर्गादंशतः महितः सुरैः॥१॥
पञ्चषष्टितमः अध्यायः अथेति ॥१॥
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः
।
निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह॥२॥
क्षयात् स्थानात् ॥२॥
तेऽमरारिविनाशाय सर्वलोकहिताय च
।
अवतेरुः क्रमेणैव महीं स्वर्गाद्दिवौकसः॥३॥
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च
।
जज्ञिरे राजशार्दूल यथाकामं दिवौकसः॥४॥
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा
।
पुरुषादानि चान्यानि जघ्नुः सत्वान्यनेकशः॥५॥
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा
।
न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम॥६॥
दानवादयो बाल्ये एव देवान्कुतो न हतवन्त इत्याशङ्क्याह दानवा इति । बाल्येऽपि वलिन एव देवा इति तेषामवध्या एवेत्यर्थः ॥६॥
जनमेजय उवाच।
देवदानवसङ्घानां गन्धर्वाप्सरसां तथा
।
मानवानां च सर्वेषां तथा वै यक्षरक्षसाम्॥७॥
श्रोतुमिच्छामि तत्त्वेन संभवं कृत्स्नमादितः
।
प्राणिनां चैव सर्वेषां संभवं वक्तुमर्हसि॥८॥
वैशम्पायन उवाच।
हन्त ते कथयिष्यामि नमस्कृत्य स्वयंभुवे
।
सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम्॥९॥
हन्तेति वाक्यारम्भे प्रभवाप्ययमुत्पत्तिप्रलयम् ॥९॥
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः
।
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः॥१०॥
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः
।
प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश॥११॥
अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा
।
क्रोधा प्राधा च विश्वा च विनता कपिला मुनिः॥१२॥
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत
।
एतासां वीर्यसंपन्नं पुत्रपौत्रमनन्तकम्॥१३॥
अदित्यां द्वादशादित्याः संभूता भुवनेश्वराः
।
ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत॥१४॥
धाता मित्रोऽर्यमा शक्रो वरुणस्त्वंश एव च
।
भगो विवस्वान्पूषा च सविता दशमस्तथा॥१५॥
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते
।
जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः॥१६॥
जघन्यजः पश्चाज्जातः ॥१६॥
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः
।
नाम्ना ख्यातास्तु तस्येमे पञ्च पुत्रा महात्मनः॥१७॥
प्रह्लादः पूर्वजस्तेषां संह्लादस्तदनन्तरम्
।
अनुह्लादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ॥१८॥
प्रह्लादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत
।
विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत॥१९॥
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान्
।
बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः॥२०॥
रुद्रस्यानुचरः श्रीमान्महाकालेति यं विदुः
।
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत॥२१॥
तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः
।
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः॥२२॥
असिलोमा च केशी च दुर्जयश्चैव दानवः
।
अयःशिरा अश्वशिरा अश्वशङ्कुश्च वीर्यवान्॥२३॥
तथा गगनमूर्धा च वेगवान्केतुमांश्च सः
।
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाजकस्तथा॥२४॥
अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः
।
इषुपादेकचक्रश्च विरूपाक्षहराहरौ॥२५॥
निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा
।
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा
।
एते ख्याता दनोर्वंशे दानवाः परिकीर्तिताः॥२६॥
अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ
।
अन्यौ दानवमुख्यानां सूर्याचन्द्रमसौ तथा॥२७॥
इमे च वंशाः प्रथिताः सत्ववन्तो महाबलाः
।
दनुपुत्रा महाराज दश दानववंशजाः॥२८॥
एकाक्षो मृतपो वीरः प्रलम्बनरकावपि
।
वातापी शत्रुतपनः शठश्चैव महासुरः॥२९॥
गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः
।
असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत॥३०॥
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम्
।
सुचन्द्रं चन्द्रहर्तारं तथा चन्द्रप्रमर्दनम्॥३१॥
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम्
।
गणः क्रोधवशो नाम क्रूरकर्माऽरिमर्दनः॥३२॥
क्रूरायाः क्रोधायाः ॥३२॥
दनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः
।
विक्षरो बलवीरौ च वृत्रश्चैव महासुरः॥३३॥
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः
।
प्रविख्याता महावीर्या दानवेषु परन्तपाः॥३४॥
विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च
।
क्रोधशत्रुस्तथैवान्ये कालकेया इति श्रुताः॥३५॥
असुराणामुपाध्यायः शक्रस्त्वषिसुतोऽभवत्
।
ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः॥३६॥
त्वष्टाधरस्तथात्रिश्च द्वावन्यौ रौद्रकर्मिणौ
।
तेजसा सूर्यसंकाशा ब्रह्मलोकपरायणाः॥३७॥
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम्
।
असुराणां सुराणां च पुराणे संश्रुतो मया॥३८॥
एतेषां यदपत्यं तु न शक्यं तदशेषतः
।
प्रसंख्यातुं महीपाल गुणभूतमनन्तकम्॥३९॥
गुणभूतम् अप्रधानरूपम् ॥३९॥
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ
।
आरुणिर्वारुणिश्चैव वैनतेयाः प्रकीर्तिताः॥४०॥
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः
।
कूर्मश्च कुलिकश्चैव काद्रवेयाः प्रकीर्तिताः॥४१॥
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा
।
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः॥४२॥
सत्यवागर्कपर्णश्च प्रयुतश्चापि विश्रुतः
।
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी॥४३॥
तथा शालिशिरा राजन्पर्जन्यश्च चतुर्दशः
।
कलिः पञ्चदशस्तेषां नारदश्चैव षोडशः॥
इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः॥४४॥
अथ प्रभूतान्यन्यानि कीर्तयिष्यामि भारत
।
अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम्॥४५॥
अरूपां सुभगां भासीमिति प्राधा व्यजायत
।
सिद्धः पूर्णश्च बर्हिश्च पूर्णायुश्च महायशाः॥४६॥
ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः
।
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा॥४७॥
इत्येते देवगन्धर्वाः प्राधेयाः परिकीर्तिताः
।
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम्॥४८॥
प्राधाऽसूत महाभागा देवी देवर्षितः पुरा
।
अलम्बुषा मिश्रकेशी विद्युत्पर्णा तिलोत्तमा॥४९॥
अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा
।
केशिनी च सुबाहुश्च सुरता सुरजा तथा॥५०॥
सुप्रिया चातिबाहुश्च विख्यातौ च हाहा हूहूः
।
तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः॥५१॥
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा
।
अपत्यं कपिलायास्तु पुराणे परिकीर्तितम्॥५२॥
इति ते सर्वभूतानां संभवः कथितो मया
।
यथावत्संपरिख्यातो गन्धर्वाप्सरसां तथा॥५३॥
भुजंगानां सुपर्णानां रुद्राणां मरुतां तथा
।
गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम्॥५४॥
आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः
।
श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता॥५५॥
इमं तु वंशं नियमेन यः पठेत्
महात्मनां ब्राह्मणदेवसन्निधौ
।
अपत्यलाभं लभते स पुष्कलं
श्रियं यशः प्रेत्य च शोभनां गतिम्॥५६॥
ब्राह्मणवैद्यसन्निधाविति पाठे ब्राह्मणेषु वैद्यो विद्यावान् तत्सन्निधौ ॥५६॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि आदित्यादिवंशकथने पञ्चषष्टितमोऽध्यायः॥६५॥
वैशंपायन उवाच।
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः
।
एकादश सुताः स्थाणोः ख्याताः परमतेजसः॥१॥
षट्षष्टितमः अध्यायः ब्रह्मण इति षण्महर्षयः स्थाणुश्च सप्तम इति बोध्यम् । तत्रादौ स्थाणु सन्ततिमेवाह एकादशेति ॥१॥
मृगव्याधश्च सर्पश्च निर्ऋतिश्च महायशाः
।
अजैकपादहिर्बिध्न्यः पिनाकी च परन्तपः॥२॥
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः
।
स्थाणुर्भगश्च भगवान् रुद्रा एकादश स्मृताः॥३॥
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः
।
षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः॥४॥
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः
।
बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः॥५॥
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप
।
सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः॥६॥
राक्षसाश्च पुलस्त्यस्य वानराः किन्नरास्तथा
।
यक्षाश्च मनुजव्याघ्र पुत्रास्तस्य च धीमतः॥७॥
पुलहस्य सुता राजञ्छलभाश्च प्रकीर्तिताः
।
सिंहाः किपुरुषा व्याघ्रा यक्षा ईहामृगास्तथा॥८॥
ईहामृगाः वृकाः ॥८॥
क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः
।
विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः॥९॥
पतङ्गसहचारिणः सूर्यसहचरा वालखिल्याः ॥९॥
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः
।
ब्रह्मणः पृथिवीपाल शान्तात्मा सुमहातपाः॥१०॥
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः
।
तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः॥११॥
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः
।
पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः॥१२॥
ददौ स दश धर्माय सप्तविंशतिमिन्दवे
।
दिव्येन विधिना राजन्कश्यपाय त्रयोदश॥१३॥
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे
।
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा॥१४॥
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश
।
द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा॥१५॥
बुद्धिर्निश्चयः । मतिः परामर्शः । कीर्त्यादयो दशधर्मद्वाराणि धर्मप्रवेशमार्गाः ॥१५॥
सप्तविंशतिः सोमस्य पत्न्यो लोकस्य विश्रुताः
।
कालस्य नयने युक्ताः सोमपत्न्याः शुचिव्रताः॥१६॥
नयने ज्ञापने ॥१६॥
सर्वा नक्षत्रयोगिन्यो लोकयात्रा विधानतः
।
पैतामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः
।
तस्याऽष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम्॥१७॥
नक्षत्रयोगिन्यो नक्षत्रनामयुक्ताः विधानतः विधानार्थम् अभवन् । पैतामहो देवो धर्मः पितामहस्तनाज्जातत्वात् । तस्य पितामहस्य पुत्रो दक्षः । तदङ्गुष्ठाज्जातत्वात् । तस्य सम्बन्धिनी वसुनाम्नी कन्या तस्यां धर्माद्वसवोऽष्टौ जाता इत्यर्थः । ‘वसोस्तु वसवः पुत्रा’ इत्यन्यत्रोक्तेः ॥१७॥
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः
।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः॥१८॥
धूम्रायास्तु धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा
।
चन्द्रमास्तु मनस्विन्याः श्वासायाः श्वसनस्तथा॥१९॥
धूम्नाया इति वसोरेव धूम्रादीनि नामान्तराणि कल्पभेदात् । अन्याः एतान दक्षकन्या इति वा ॥१९॥
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः
।
प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ॥२०॥
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा
।
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः॥२१॥
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते
।
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा॥२२॥
अह्नः सुतस्तथा ज्योतिः शमः शान्तस्तथा मुनिः
।
अग्नेः पुत्रः कुमारस्तु श्रीमाञ्छरवणालयः॥२३॥
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः
।
कृत्तिकाभ्युपपत्तेश्च कार्तिकेय इति स्मृतः॥२४॥
कृत्तिकानां षण्णां मातृत्वेनाभ्युपपत्तेरङ्गीकारात् ॥२४॥
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः
।
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु॥२५॥
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाऽथ देवलम्
।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ
।
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी॥२६॥
योगसक्ता जगत्कृत्स्नमसक्ता विचचार ह
।
प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह॥२७॥
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः
।
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः॥२८॥
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः
।
यो दिव्यानि विमानानि त्रिदशानां चकार ह॥२९॥
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः
।
पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम्॥३०॥
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः
।
निःसृतो भगवान्धर्मः सर्वलोकसुखावहः॥३१॥
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः
।
शमः कामश्च हर्षश्च तेजसा लोकधारिणः॥३२॥
त्रय इति । अत्र धर्मसन्तानानां सर्वेषां नामान्यन्वर्थकानि ॥३२॥
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना
।
नन्दा तु भार्या हर्षस्य यासु लोकाः प्रतिष्ठिताः॥३३॥
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः
।
जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः॥३४॥
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी
।
असूयत महाभागा सान्तरिक्षेऽस्विनावुभौ॥३५॥
वडवा अश्वा । अन्तरिक्षे अश्विनावसूत नासिकया शुक्रप्रक्षेपात् ॥३५॥
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप
।
तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः॥३६॥
त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव
।
अन्वयं संप्रवक्ष्यामि पक्षैश्च कुलतो गणान्॥३७॥
त्रयस्त्रिंशत् अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च ॥३७॥
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा
।
वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च॥३८॥
वैनतेयस्तु गरुडो बलवानरुणस्तथा
।
बृहस्पतिश्च भगवानादित्येष्वेव गण्यते॥३९॥
अश्विनौ गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून्
।
एते देवगणा राजन्कीर्तितास्तेऽनुपूर्वशः॥४०॥
यान्कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते
।
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः॥४१॥
भृगोः पुत्रः कविर्विद्वाञ्छुक्रः कविसुतो ग्रहः
।
त्रैलोक्यप्राणयात्रार्थं वर्षावर्षे भयाभये
।
स्वयंभुवा नियुक्तः सन्भुवनं परिधावति॥४२॥
शुक्रो ग्रहत्वादेव लोकानां प्राणयात्रायां वर्षाऽवर्षादिकार्ये नियुक्तः ॥४२॥
योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः
।
सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः॥४३॥
योगाचार्य इति चापीव्यस्तौ । सुराणामपि च गुरुरिति सम्बन्धः । देवानां गुरुरेव योगाचार्यों योगबलेन कायद्वयं कृत्वा देवानामप्याचार्यो भवदित्यर्थः । तथा च मैत्रायणीये समाम्नातम् । ‘बृहस्पतिर्हि शुक्रो भूत्वेन्द्रस्याभयायासुरेभ्यः क्षयायेमामविद्यामसृजत्’ इति ॥४३॥
तस्मिन्नियुक्ते विधिना योगक्षेमाय भार्गवे
।
अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम्॥४४॥
च्यवनं दीप्ततपसं धर्मात्मानं यशस्विनम्
।
यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत॥४५॥
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः
।
और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः॥४६॥
महातेजा महावीर्यो बाल एव गुणैर्युतः
।
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत्॥४७॥
जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः
।
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः
।
सर्वशस्त्रेषु कुशलः क्षत्रियान्तकरो वशी॥४८॥
और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम्
।
तेषां पुत्रसहस्राणि बभूवुर्भुवि विस्तरः॥४९॥
द्वौ पुत्रो ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम्
।
लोके धाता विधाता च यौ स्थितौ मनुना सह॥५०॥
धर्मप्रधाना सृष्टिरुक्ताथाधर्मप्रधानां विवक्षुस्तत्र श्रोतॄणामनादरनिवृत्त्यर्थमुभयसाधारणीं सृष्टिं मध्ये प्राह । द्वाविति । ययोर्लक्षणं लोके तिष्ठति तावन्यौ धर्माधर्ममयात्कार्यात्परौ उदासीनौ ब्रह्मणः पुत्रौ यौ धाताविधाता चेति संज्ञावन्तौ मनुना सह नित्यं स्थिताविति योजना । इयमत्र प्रक्रिया । 'वृत्तितत्स्थचिदाभासावुभौ व्याप्नुवतो घटम् । तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् । अस्यार्थः । यथा दीपप्रभा चक्षुर्भ्यां युगपद्धटो ब्याप्यते तत्र प्रभया घटावरकं तमो नश्यतिं चक्षुषा घटः प्रकाशते तद्वत् वृत्तितत्स्थचिदाभासाभ्यां घटाज्ञाननाशघटस्फुरणे क्रियेते इति । ते अत्र क्रमाद्धातृविधातृसंज्ञे । तयोर्लक्षणं जाड्यस्फुरणात्मकं लोके दृश्यते । जडो घटः । स्फुरति घट इति स्फुरणजन्यहर्षविषादयोर्मन्ता जीवो मनुस्तेन सह नित्यसम्बद्धौ धाताविधातारौ । सुषुप्तावपि सूक्ष्मवृत्तिस्फुरणयोः सत्त्वात् । ‘आनन्दभुक्त्वेतो मुख’ इति श्रुतेः। सुखमहमस्वाप्सभित्यनुभूतसौषुप्तसुखपरामर्शाच्च । ततश्च सर्वं दृष्टं श्रुतं ब्रह्मपुत्राभ्यां व्याप्तं ब्रह्मैव । तत्र दीपवदुदासीनोऽपि चिदात्माबुद्धितादात्म्याध्यासात्तदीयदोषाक्रान्तो रागद्वेषादिमानिव भवति । विद्वांस्तु सर्वस्य चिद्विलासत्वं मत्वा अधर्मादिकथादिभ्योऽपि नोद्विजेतेतिभावः ॥५०॥
तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा
।
तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः॥५१॥
ननु केयं विद्या यया सर्वं चिन्मात्रभित्येव पश्यति तस्याः कर्मजन्यत्वे उपासनाजन्यत्वे वाऽनित्यत्वापत्तिः प्रकारान्तरस्य चासंभवादित्याशङ्क्याह । तयोरेवेति । यथा धीस्फुरणे प्रमाणपरतन्त्रे न कर्तुमकर्तुमन्यथा कर्तुं वा शक्ये तथैवेयं विद्येति सादृश्यं स्वसृशब्देन लक्ष्यते । देवी द्योतमाना शुद्धसत्वमयी अहं ब्रह्माऽस्मीति वाक्यजन्याधीवृत्तिर्दशमस्त्वमिति वाक्यजावृत्तिदशमत्वमिव ब्रह्मभावं जीवस्य गोचरयन्ती । लक्ष्मीः परब्रह्मोपलक्षकत्वात् । पद्मगृहाहृदयगुहायामेव स्फुरन्ती । शुभा बन्धनिवर्तकत्वात् । न चैवं वृत्तिविषयत्वे ब्रह्मणो नात्मत्वं घटादिवत्स्यादिति वाच्यम् । वृत्तिव्याप्यत्वेऽपि फलव्याप्यत्वानङ्गीकारात् । यथोक्तं फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निराकृतम् । ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्ष्यते इति । तथा च वस्तुतत्त्वविषयिण्येव विद्या अविद्योन्मूलिका न कर्मोपास्तिरूपा येनानित्यास्यादिति भावः । अस्याः फलमाह । तस्या इति । तस्याः विद्यायाः पुत्रा इव पुत्राः फलानि । मानसाः मनःसङ्कल्पमात्रजन्याः पित्रादयः । ‘सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’ इति श्रुतेः । अस्य हार्दब्रह्मविदः । तुरगाः तुरं गच्छन्ति ते तुरगाः सद्यो मनः संहार्या एव । यतो व्योमचारिणः व्योम्नि हार्दाकाशे चारिणः। य एवं वेदाहं ब्रह्माऽस्मीति । स इदं सर्वं भवति इति श्रुतेर्बह्मज्ञानात्सार्वात्म्यं स्वीयमवगच्छतः सर्वप्राप्तिरस्तीत्यर्थः । तस्मादधर्मप्रभवसृष्टिश्रवणेऽपि न विगानं कार्ये सर्वस्य ब्रह्ममात्रत्वात् ॥५१॥
वरुणस्य भार्या या ज्येष्ठा शुक्राद्देवी व्यजायत
।
तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम्॥५२॥
एवमुपपादितारम्भं सृष्ट्यन्तरं वक्तुमुपक्रमते । वरुणस्येत्यादिना । वरुणस्य शुक्रात् ज्येष्ठाबलं पुत्रं सुरां च पुत्रीं व्यजायतेति सम्बन्धः ॥५२॥
प्रजानामन्नकामानामन्योन्यपरिभक्षणात्
।
अधर्मस्तत्र संजातः सर्वभूतविनाशकः॥५३॥
तस्यापि निर्ऋतिर्भार्या नैर्ऋता येन राक्षसाः
।
घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा ॥५४॥
भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा
।
न तस्य भार्या पुत्रो वा कश्चिदस्त्यन्तको हि सः॥५५॥
काकीं श्येनीं तथा भासीं धृतराष्ट्रीं तथा शुकीम्
।
ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः॥५६॥
उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत
।
भासी भासानजनयद्गृध्रांश्चैव जनाधिप॥५७॥
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः
।
चक्रवाकांश्च भद्रा तु जनयामास सैव तु॥५८॥
शुकी च जनयामास शुकानेव यशस्विनी
।
कल्याणगुणसंपन्ना सर्वलक्षणपूजिता॥५९॥
नव क्रोधवशा नारीः प्रजज्ञे क्रोधसंभवाः
।
मृगी च मृगमन्दा च हरी भद्रमना अपि॥६०॥
मातङ्गी त्वथ शार्दूली श्वेता सुरभिरेव च
।
सर्वलक्षणसंपन्ना सुरसा चैव भामिनी॥६१॥
अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम
।
ऋक्षाश्च मृगमन्दायाः सृमराश्च परंतप॥६२॥
ततस्त्वैरावतं नागं जज्ञे भद्रमनाः सुतम्
।
ऐरावतः सुतस्तस्या देवनागो महागजः॥६३॥
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः
।
गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते॥६४॥
प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्राननेकशः
।
द्वीपिनश्च महासत्वान्सर्वानेव न सशंयः॥६५॥
मातङ्ग्यपि च मातङ्गानपत्यानि नराधिप
।
दिशां गजं तु श्वेताख्यं श्वेताऽजनयदाशुगम्॥६६॥
तथा दुहितरौ राजन्सुरभिर्वै व्यजायत
।
रोहिणी चैव भद्रं ते गन्धर्वी तु यशस्विनी॥६७॥
विमलामपि भद्रं ते अनलामपि भारत
।
रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः
।
सप्तपिण्डफलान्वृक्षाननलापि व्यजायत॥६८॥
पिण्डफलान्सप्त । ‘खर्जूरतालहिन्तालौ ताली खर्जूरिका तथा । गुवाको नारिकेलश्च सप्तपिण्डफला द्रुमाः’। इत्युक्तरूपान् । इह पुराणान्तरविरोधो नामभेदात्कल्पभेदाद्वापनेयः ॥६८॥
अनलायाः शुकी पुत्री कंकस्तु सुरसासुतः
।
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ॥६९॥
संपातिं जनयामास वीर्यवन्तं जटायुषम्
।
सुरसाऽजनयन्नागान्कद्रूः पुत्रांस्तु पन्नगान्॥७०॥
द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ
।
इत्येष सर्वभूतानां महतां मनुजाधिप
।
प्रभवः कीर्तितः सम्यङ्मया मतिमतांवर॥७१॥
यं श्रुत्वा पुरुषः सम्यङ्मुक्तो भवति पाप्मनः
।
सर्वज्ञतां च लभते रतिमग्र्यां च विन्दति॥७२॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षट्षष्टितमोऽध्यायः॥६६॥
जनमेजय उवाच।
देवानां दानवानां च गन्धर्वोरगरक्षसाम्
।
सिंहव्याघ्रमृगाणां च पन्नगानां पतत्त्रिणाम्॥१॥
सर्वेषां चैव भूतानां संभवं भगवन्नहम्
।
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम्
।
जन्म कर्म च भूतानामेतेषामनुपूर्वशः॥२॥
वैशंपायन उवाच।
मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः
।
प्रथमं दानवाश्चैव तांस्ते वक्ष्यामि सर्वशः॥३॥
विप्रचित्तिरितिख्यातो य आसीद्दानवर्षभः
।
जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः॥४॥
दितेः पुत्रस्तु यो राजह्निरण्यकशिपुः स्मृतः
।
स जज्ञे मानुषे लोके शिशुपालो नरर्षभः॥५॥
संह्लाद इति विख्यातः प्रह्लादस्यानुजस्तु यः
।
स शल्य इति विख्यातो जज्ञे वाहीकपुङ्गवः॥६॥
अनुह्लादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः
।
धृष्टकेतुरिति ख्यातः स बभूव नरेश्वरः॥७॥
यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः
।
द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः॥८॥
बाष्कलो नाम यस्तेषामासीदसुरसत्तमः
।
भगदत्त इति ख्यातः सं जज्ञे पुरुषर्षभः॥९॥
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्
।
तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः॥१०॥
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः
।
केकयेषु महात्मानः पार्थिवर्षभसत्तमाः
।
केतुमानिति विख्यातो यस्ततोऽन्यःप्रतापवान्॥११॥
अमितौजा इति ख्यातः सोग्रकर्मा नराधिपः
।
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः॥१२॥
उग्रसेन इति ख्यात उग्रकर्मा नराधिपः
।
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः॥१३॥
अशोको नाम राजाऽभून्महावीर्योऽपराजितः
।
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः॥१४॥
दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः
।
वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः॥१५॥
दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः
।
अजकस्त्ववरो राजन्य आसीद्वृषपर्वणः॥१६॥
स शाल्व इति विख्यातः पृथिव्यामभवन्नृपः
।
अश्वग्रीव इति ख्यातः सत्ववान्यो महासुरः॥१७॥
रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः
।
सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः॥१८॥
बृहद्रथ इति ख्यातः क्षितावासीत्स पार्थिवः
।
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः॥१९॥
सेनाबिन्दुरिति ख्यातः स बूभव नराधिपः
।
इषुमान्नाम यस्तेषामसुराणां बलाधिकः॥२०॥
नग्नजिन्नाम राजासीद्भुवि विख्यातविक्रमः
।
एकचक्र इति ख्यात आसीद्यस्तु महासुरः॥२१॥
प्रतिविन्घ्य इति ख्यातो बभूव प्रथितः क्षितौ
।
विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः॥२२॥
चित्रधर्मेति विख्यातः क्षितावासीत्स पार्थिवः
।
हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः॥२३॥
सुबाहुरिति विख्यातः श्रीमानासीत्स पार्थिवः
।
अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः॥२४॥
बाह्लिको नाम राजा स बभूव प्रथितः क्षितौ
।
निचन्द्रश्चन्द्रवक्त्रस्तु य आसीदसुरोत्तमः॥२५॥
मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः
।
निकुम्भस्त्वजितः संख्ये महामतिरजायत॥२६॥
भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः
।
शरभो नाम यस्तेषां दैतेयानां महासुरः॥२७॥
पौरवो नाम राजर्षिः स बभूव नरोत्तमः
।
कुपटस्तु महावीर्यः श्रीमान्राजन्महासुरः॥२८॥
सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः
।
कपटस्तु राजन्राजर्षिः क्षितौ जज्ञे महासुरः॥२९॥
पार्वतेय इति ख्यातः काञ्चनाचलसन्निभः
।
द्वितीयः शलभस्तेषामसुराणां बभूव ह॥३०॥
प्रह्लादो नाम बाह्लीकः स बभूव नराधिपः
।
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः॥३१॥
चन्द्रवर्मेति विख्यातः काम्बोजानां नराधिपः
।
अर्क इत्यभिविख्यातो यस्तु दानवपुङ्गवः॥३२॥
ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः
।
मृतपा इति विख्यातो य आसीदसुरोत्तमः॥३३॥
पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम
।
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः॥३४॥
द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः
।
मयूर इति विख्यातः श्रीमान्यस्तु महासुरः॥३५॥
स विश्व इति विख्यातो बभूव पृथिवीपतिः
।
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः॥३६॥
कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः
।
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः॥३७॥
शुनको नाम राजर्षिः स बभूव नराधिपः
।
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः॥३८॥
जानकिर्नाम विख्यातः सोऽभवन्मनुजाधिपः
।
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः॥३९॥
काशिराजः स विख्यातः पृथिव्यां पृथिवीपते
।
ग्रहं तु सुषुवे यं तु सिंहिकार्केन्दुमर्दनम्
।
स क्राथ इति विख्यातो बभूव मनुजाधिपः॥४०॥
दनायुषस्तु पुत्राणां चतुर्णां प्रवरोसुरः
।
विक्षरो नाम तेजस्वी वसुमित्रो नृपः स्मृतः॥४१॥
द्वितीयो विक्षराद्यस्तु नराधिप महासुरः
।
पाण्ड्यराष्ट्राधिप इति विख्यातः सोऽभवन्नृपः॥४२॥
बली वीर इति ख्यातो यस्त्वासीदसुरोत्तमः
।
पौण्ड्रमात्स्यक इत्येवं बभूव स नराधिपः॥४३॥
वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः
।
मणिमान्नाम राजर्षिः स बभूव नराधिपः॥४४॥
क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः
।
दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ॥४५॥
क्रोधवर्धन इत्येवं यस्त्वन्यः परिकीर्तितः
।
दण्डधार इति ख्यातः सोऽभवन्मनुजर्षभः॥४६॥
कालेयानां तु ये पुत्रास्तेषामष्टौ नराधिपाः
।
जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः॥४७॥
मगधेषु जयत्सेनस्तेषामासीत्स पार्थिवः
।
अष्टानां प्रवरस्तेषां कालेयानां महीसुरः॥४८॥
द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः
।
अपराजित इत्येवं स बभूव नराधिपः॥४९॥
तृतीयस्तु महातेजा महामायो महासुरः
।
निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः॥५०॥
तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः
।
श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः॥५१॥
पञ्चमस्त्वभवत्तेषां प्रवरो यो महासुरः
।
महौजा इति विख्यातो बभूवेह परन्तपः॥५२॥
षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः
।
अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः॥५३॥
समुद्रसेनस्तु नृपस्तेषामेवाभवद्गणात्
।
विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित्॥५४॥
बृहन्नामाष्टमस्तेषां कालेयानां नराधिप
।
बभूव राजा धर्मात्मा सर्वभूतहिते रतः॥५५॥
कुक्षिस्तु राजन्विख्यातो दानवानां महाबलः
।
पार्वतीय इति ख्यातः काञ्चनाचलसन्निभः॥५६॥
क्रथनश्च महावीर्यः श्रीमान्राजा महासुरः
।
सूर्याक्ष इति विख्यातः क्षितौ जज्ञे महीपतिः॥५७॥
असुराणां तु यः सूर्यः श्रीमांश्चैव महासुरः
।
दरदो नाम बाह्लीको वरः सर्वमहीक्षिताम्॥५८॥
गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः
।
ततः संजज्ञिरे वीराः क्षिताविह नराधिपाः॥५९॥
मद्रकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा
।
सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः॥६०॥
क्रथो विचित्रः सुरथः श्रीमान्नीलश्च भूमिपः
।
चीरवासाश्च कौरव्य भूमिपालश्च नामतः॥६१॥
दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव दानवः
।
रुक्मी च नृपशार्दूलो राजा च जनमेजयः॥६२॥
आषाढो वायुवेगश्च भूरितेजास्तथैव च
।
एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः॥६३॥
कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च
।
श्रुतायुरुद्वहश्चैव बृहत्सेनस्तथैव च॥६४॥
क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः
।
मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः॥६५॥
गणात्क्रोधवशादेष राजपूगोऽभवत्क्षितौ
।
जातः पुरा महाभागो महाकीर्तिर्महाबलः॥६६॥
कालनेमिरिति ख्यातो दानवानां महाबलः
।
स कंस इति विख्यात उग्रसेनसुतो बली॥६७॥
यस्त्वासीद्देवको नाम देवराजसमद्युतिः
।
स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः॥६८॥
बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत
।
अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम्॥६९॥
धन्विनां नृपशार्दूल यः सर्वास्त्रविदुत्तमः
।
महाकीर्तिर्महातेजाः स जज्ञे मनुजेश्वर॥७०॥
धनुर्वेदे च वेदे च यं तं वेदविदो विदुः
।
वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम्॥७१॥
महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत
।
एकत्वमुपपन्नानां जज्ञे शूरः परन्तपः॥७२॥
अश्वत्थामा महावीर्यः शत्रुपक्षभयावहः
।
वीरः कमलपत्राक्षः क्षितावासीन्नराधिपः॥७३॥
जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः
।
वसिष्ठस्य च शापेन नियोगाद्वासवस्य च॥७४॥
तेषामवरजो भीष्मः कुरूणामभयङ्करः
।
मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः॥७५॥
जामदग्न्येन रामेण सर्वास्त्रविदुषां वरः
।
योऽप्युध्यत महातेजा भार्गवेण महात्मना॥७६॥
यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ
।
रुद्राणां तु गणाद्विद्धि संभूतमतिपौरुषम्॥७७॥
शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः
।
द्वापरं विद्धि तं राजन्संभूतमरिमर्दनम्॥७८॥
सात्यकिः सत्यसन्धश्च योऽसौ वृष्णिकुलोद्वहः
।
पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः॥७९॥
द्रुपदश्चैव राजर्षिस्तत एवाभवद्गणात्
।
मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः॥८०॥
ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम्
।
तमप्रतिमकर्माणं क्षत्रियर्षभसत्तमम्॥८१॥
मरुतां तु गणाद्विद्धि संजातमरिमर्दनम्
।
विराटं नाम राजानं परराष्ट्रप्रतापनम्॥८२॥
अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः
।
स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः॥८३॥
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनात्मजः
।
दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः॥८४॥
मातुर्दोषादृषेः कोपादन्ध एव व्यजायत
।
तस्यैवावरजो भ्राता महासत्वो महाबलः॥८५॥
स पाण्डुरिति विख्यातः सत्यधर्मरतः शुचिः
।
अत्रेस्तु सुमहाभागं पुत्रं पुत्रवतां वरम्
।
विदुरं विद्धि तं लोके जातं बुद्धिमतां वरम्॥८६॥
सप्तषष्टितमः अध्यायः अत्रेरिति। यश्चोदितो भास्करेभूत्प्रनष्टे सोप्यत्रात्रिर्मगवानाजगाम इत्यत्रेर्भास्करकार्यकारित्वस्मरणात् । अत्रिशब्देन सूर्यो गृह्यते । तस्य पुत्रं धर्मं विदुरं विद्धीत्यर्थः ॥८६॥
कलेरंशस्तु संजज्ञे भुवि दुर्योधनो नृपः
।
दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः॥८७॥
जगतो यस्तु सर्वस्य विद्विष्टः कलिपूरुषः
।
यः सर्वां घातयामास पृथिवीं पृथिवीपते॥८८॥
उद्दीपितं येन वैरं भूतान्तकरणं महत्
।
पौलस्त्या भ्रातरश्चास्य जज्ञिरे मनुजेष्विह॥८९॥
शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम्
।
दुर्मुखो दुःसहश्चैव ये चान्ये नानुकीर्तिताः॥९०॥
दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ
।
वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः॥९१॥
जनमेजय उवाच।
ज्येष्ठानुज्येष्ठतामेषां नामधेयानि वा विभो
।
धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय॥९२॥
वैशंपायन उवाच।
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा
।
दुःसहो दुःशलश्चैव दुर्मुखश्च तथापरः॥९३॥
विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः
।
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः॥९४॥
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च
।
चत्रोपचित्रौ चित्राक्षश्चारुचित्राङ्गदश्च ह॥९५॥
दुर्मदो दुष्प्रहर्षश्च विवित्सुर्विकटः समः
।
ऊर्णनाभः पद्मनाभस्तथा नन्दोपनन्दकौ॥९६॥
सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ
।
चित्रबाहुश्चित्रवर्मा सुवर्मा दुर्विरोचनः॥९७॥
अयोबाहुर्महाबाहुश्चित्रचापसुकुण्डलौ
।
भीमवेगो भीमबलो बलाकी भीमविक्रमः॥९८॥
उग्रायुधो भीमशरः कनकायुर्दृढायुधः
।
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः॥९९॥
जरासन्धो दृढसन्धः सत्यसन्धः सहस्रवाक्
।
उग्रश्रवा उग्रसेनः क्षेममूर्तिस्तथैव च॥१००॥
अपराजितः पण्डितको विशालाक्षो दुराधनः॥१०१॥
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ
।
आदित्यकेतुर्बह्वाशी नागदत्तानुयायिनौ॥१०२॥
कवाची निषङ्गी दण्डी दण्डधारो धनुर्ग्रहः
।
उग्रो भीमरथो वीरो वीरबाहुरलोलुपः॥१०३॥
अभयो रौद्रकर्मा च तथा दृढरथश्च यः
।
अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः॥१०४॥
दीर्घबाहुर्महाबाहुर्व्यूढोरः कनकाङ्गदः
।
कुण्डजश्चित्रकश्चैव दुःशला च शताधिका॥१०५॥
वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः
।
एतदेकशतं राजन्कन्या चैका प्रकीर्तिता॥१०६॥
नामधेयानुपूर्व्या च ज्येष्ठानुज्येष्ठतां विदुः
।
सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः॥१०७॥
सर्वे वेदविदश्चैव राजञ्च्छास्त्रे च पारागाः
।
सर्वे सङ्घ्रामविद्यासु विद्याभिजनशोभिनः॥१०८॥
सर्वेषामनुरूपाश्च कृता दारा महीपते
।
दुःशलां समये राजसिन्धुराजाय कौरवः॥१०९॥
जयद्रथाय प्रददौ सौबलानुमते तदा
।
धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम्॥११०॥
भीमसेनं तु वातस्य देवराजस्य चार्जुनम्
।
अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि॥१११॥
नकुलः सहदेवश्च सर्वभूतमनोहरौ
।
यस्तु वर्चा इति ख्यातः सोमपुत्रः प्रतापवान्॥११२॥
सोऽभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत्
।
यस्यावतरणे राजन्सुरान्सोमोऽब्रवीदिदम्॥११३॥
नाहं दद्यां प्रियं पुत्रं मम प्राणैर्गरीयसम्
।
समयः क्रियतामेष न शक्यमतिवर्तितुम्॥११४॥
सुरकार्यं हि नः कार्यमसुराणां क्षितौ वधः
।
तत्र यास्यत्ययं वर्चा न च स्थास्यति वै चिरम्॥११५॥
ऐन्द्रिर्नरस्तु भविता यस्य नारायणः सखा
।
सोर्जुनेत्यभिविख्यातः पाण्डोः पुत्रः प्रतापवान्॥११६॥
तस्यायं भविता पुत्रो बालो भुवि महारथः
।
ततः षोडशवर्षाणि स्थास्यत्यमरसत्तमाः॥११७॥
अस्य षोडशवर्षस्य स सङ्ग्रामो भविष्यति
।
यत्रांशा वः करिष्यन्ति कर्मवीरनिषूदनम्॥११८॥
नरनारायणाभ्यां तु स सङ्ग्रामो विना कृतः
।
चक्रव्यूहं समास्थाय योधयिष्यन्ति वःसुराः॥११९॥
विमुखाञ्छात्रवान्सर्वान्कारयिष्यति मे सुतः
।
बालः प्रविश्य च व्यूहमभेद्यं विचरिष्यति॥१२०॥
महारथानां वीराणां कदनं च करिष्यति
।
सर्वेषामेव शत्रूणां चतुर्थांशं नयिष्यति॥१२१॥
दिनार्धेन महाबाहुः प्रेतराजपुरं प्रति
।
ततो महारथैर्वीरैः समेत्य बहुशो रणे॥१२२॥
दिनक्षये महाबाहुर्मया भूयः समेष्यति
।
एकं वंशकरं पुत्रं वीरं वै जनयिष्यति॥१२३॥
प्रनष्टं भारतं वंशं स भूयो धारयिष्यति
।
एतत्सोमवचः श्रुत्वा तथास्त्विति दिवौकसः॥१२४॥
प्रत्यूचुः सहिताः सर्वे ताराधिपमपूजयन्
।
एवं ते कथितं राजंस्तव जन्म पितुः पितुः॥१२५॥
अग्नेर्भागं तु विद्धि त्वं धृष्टद्युम्नं महारथम्
।
शिखण्डिनमथो राजंस्त्रीपूर्वं विद्धि राक्षसम्॥१२६॥
द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ
।
विश्वान्देवगणान्विद्धि संजातान्भरतर्षभ॥१२७॥
प्रतिविन्ध्यः सुतसोमः श्रुतकीर्तिस्तथापरः
।
नाकुलिस्तु शतानीकः श्रुतसेनश्च वीर्यवान्॥१२८॥
शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत्
।
तस्य कन्या पृथा नाम रूपेणासदृशी भुवि॥१२९॥
पितुः स्वस्रीयपुत्राय सोऽनपत्याय वीर्यवान्
।
अग्रमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वै तदा॥१३०॥
अग्रजातेति तां कन्यां शूरोऽनुग्रहकाङ्क्षया
।
अददत्कुन्तिभोजाय स तां दुहितरं तदा॥१३१॥
सा नियुक्ता पितुर्गेहे ब्राह्मणातिथिपूजने
।
उग्रं पर्यचरद्धोरं ब्राह्मणं संशितव्रतम्॥१३२॥
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः
।
तमुग्रं शंसितात्मानं सर्वयत्नैरतोषयत्॥१३३॥
तुष्टोऽभिचारसंयुक्तमाचचक्षे यथाविधि
।
उवाच चैनां भगवान्प्रीतोऽस्मि सुभगे तव॥१३४॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि
।
तस्य तस्य प्रसादात्त्वं देवि पुत्राञ्जनिष्यसि॥१३५॥
एवमुक्ता च सा बाला तदा कौतूहलान्विता
।
कन्या सती देवमर्कमाजुहाव यशस्विनी॥१३६॥
प्रकाशकर्ता भगवांस्तस्यां गर्भं दधौ तदा
।
अजीजनत्सुतं चास्यां सर्वशस्त्रभृतांवरम्॥१३७॥
सकुण्डलं सकवचं देवगर्भं श्रियान्वितम्
।
दिवाकरसमं दीप्त्या चारुसर्वाङ्गभूषितम्॥१३८॥
निगूहमाना जातं वै बन्धुपक्षभयात्तदा
।
उत्ससर्ज जले कुन्ती तं कुमारं यशस्विनम्॥१३९॥
तमुत्सृष्टं जले गर्भं राधा भर्ता महायशाः
।
राधायाः कल्पयामास पुत्रं सोऽधिरथस्तदा॥१४०॥
चक्रतुर्नामधेयं च तस्य बालस्य तावुभौ
।
दंपतीव सुषेणेति दिक्षु सर्वासु विश्रुतम्॥१४१॥
संवर्धमानो बलवान्सर्वास्त्रेषूत्तमोऽभवत्
।
वेदाङ्गानि च सर्वाणि जजाप जयतां वरः॥१४२॥
यस्मिन्काले जपन्नास्ते धीमान्सत्यपराक्रमः
।
नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः॥१४३॥
तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थे भूतभावनः
।
ययाचे कुण्डले वीरं कवचं च सहाङ्गजम्॥१४४॥
उत्कृत्य कर्णो ह्यददत्कवचं कुण्डले तथा
।
शक्तिं शक्रो ददौ तस्मै विस्मितश्चेदमब्रवीत्॥१४५॥
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्
।
यस्मिन्क्षेप्स्यसि दुर्धर्ष स एको न भविष्यति॥१४६॥
वैशंपायन उवाच।
पुरा नाम च तस्यासीद्वसुषेण इति क्षितौ
।
ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत्॥१४७॥
आमुक्तकवचो वीरो यस्तु जज्ञे महायशाः
।
स कर्ण इति विख्यातः पृथायाः प्रथमः सुतः॥१४८॥
स तु सूतकुले वीरो ववृधे राजसत्तम
।
कर्णं नरवरश्रेष्ठं सर्वशस्त्रभृतां वरम्॥१४९॥
दुर्योधनस्य सचिवं मित्रं शत्रुविनाशनम्
।
दिवाकरस्य तं विद्धि राजन्नंशमनुत्तमम्॥१५०॥
यस्तु नारायणो नाम देवदेवः सनातनः
।
तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान्॥१५१॥
शेषस्यांशश्च नागस्य बलदेवो महाबलः
।
सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम्॥१५२॥
एवमन्ये मनुष्येन्द्रा बहवोंशा दिवौकसाम्
।
जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः॥१५३॥
गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः
।
तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य ह॥१५४॥
तानि षोडशदेवीनां सहस्राणि नराधिप
।
बभूवुर्मानुषे लोके वासुदेवपरिग्रहः॥१५५॥
श्रियस्तु भागः संजज्ञे रत्यर्थं पृथिवीतले
।
भीष्मकस्य कुले साध्वी रुक्मिणी नाम नामतः॥१५६॥
द्रौपदीं त्वथ संजज्ञे शचीभागादनिन्दिता
।
द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता॥१५७॥
नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी
।
पद्मायताक्षी सुश्रोणी स्वसिताञ्चितमूर्धजा॥१५८॥
सर्वलक्षणसम्पूर्णा वैदूर्यमणिसंनिभा
।
पञ्चानां पुरुषेन्द्राणां चित्तप्रमथनी रहः॥१५९॥
सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते
।
कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा॥१६०॥
सुबलात्मजा गान्धारी ॥१६०॥
इति देवासुराणां ते गन्धर्वाप्सरसां तथा
।
अंशावतरणं राजन्राक्षसानां च कीर्तितम्॥१६१॥
ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः
।
महात्मानो यदूनां च ये जाता विपुले कुले॥१६२॥
ब्राह्मणाः क्षत्रिया वैश्या मया ते परिकीर्तिताः
।
धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम्
।
इदमंशावतरणं श्रोतव्यमनसूयता॥१६३॥
धन्यं धनप्रदम् । यशस्यं यशस्करम् ॥१६३॥
अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम्
।
प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति॥१६४॥
प्रभावाप्ययः परमात्मा । विश्वोत्पत्तिप्रलयाधिष्ठानत्वात् । तं वेत्तीति प्रभवाप्ययविद्भूत्वेतिशेषः । कृच्छ्रेषु संसारगहनेषु । अयं भावः यथा शास्त्रे वियदादिसृष्टिः ब्रह्मोपादानिका ब्रह्माद्वैतप्रतिपत्तये कीर्त्यते । वियत्प्राणपादयोः सृष्टिश्रुतीनां परस्परविरोधपरिहारश्च कीर्त्यते । तथापि सृष्टौ ताप्तर्यं नास्ति । एवमिहाऽपि नांशावतरणे तात्पर्यमस्ति । किंतु तद्वारा ब्रह्माद्वैतप्रतिपत्तावेव । तथा सृष्टिस्मृतीनां विरोधः कल्पभेदाभिप्रायेण वावर्णनीय उपेक्षणीयो वा । स्वार्थे तात्पर्याभावादिति दिक् ॥१६४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वण्यंशावतरणसमाप्तौ सप्तषष्टितमोऽध्यायः॥६७॥
जनमेजय उवाच।
संभवं भरतस्याहं चरितं च महामतेः
।
शकुन्तलायाश्चोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः॥१॥
एकोनसप्ततितमः अध्यायः सम्भवमिति ॥१॥
दुष्यन्तेन च वीरेण यथा प्राप्ता शकुन्तला
।
तं वै पुरुषसिंहस्य भगवन्विस्तरं त्वहम्॥२॥
श्रोतुमिच्छामि तत्त्वज्ञ सर्वं मतिमतां वर
।
वैशंपायन उवाच।
स कदाचिन्महाबाहुः प्रभूतबलवाहनः॥३॥
वनं जगाम गहनं हयनागशतैर्वृतः
।
बलेन चतुरङ्गेण वृतः परमवल्गुना॥४॥
चतुरङ्गेण हस्त्यश्वरथपादातवतावल्गुरम्यम् ॥४॥
खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः
।
प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः॥५॥
सिंहनादैश्च योधानां शङ्खदुन्दुभिनिःस्वनैः
।
रथनेमिस्वनैश्चैव सनागवरबृंहितैः॥६॥
नानायुधधरैश्चापि नानावेषधरैस्तथा
।
ह्रेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः॥७॥
आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे
।
प्रासादवरशृङ्गस्थाः परया नृपशोभया॥८॥
ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम्
।
शक्रोपमममित्रघ्नं परवारणवारणम्॥९॥
परवारणवारणं शत्रुगजानां निवारकं सिंहम् ॥९॥
पश्यन्तः स्त्रीगणास्तत्र वज्रपाणिं स्म मेनिरे
।
अयं स पुरुषव्याघ्रो रणे वसुपराक्रमः॥१०॥
यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः
।
इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम्॥११॥
तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि
।
तत्रतत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः॥१२॥
निर्ययौ परमप्रीत्या वनं मृगजिघांसया
।
तं देवराजप्रतिमं मत्तवारणधूर्गतम्॥१३॥
धूर्गतं स्कन्धारूढम् ॥१३॥
द्विजक्षत्रियविट्शूद्रा निर्यान्तमनुजग्मिरे
।
ददृशुर्वर्धमानास्ते आशीर्भिश्च जयेन च॥१४॥
सुदूरमनुजग्मुस्तं पौरजानपदास्तथा
।
न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह॥१५॥
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः
।
महीमापूरयामास घोषेण त्रिदिवं तथा॥१६॥
अथ रथेन पौरपरावृत्त्यनन्तरम् ॥१६॥
स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम्
।
बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम्॥१७॥
विषमं पर्वतस्रस्तै रश्मभिश्च समावृतम्
।
निर्जलं निर्मनुष्यं च बहुयोजनमायतम्॥१८॥
मृगसिंहैर्वृतं घोरैरन्यैश्चापि वनेचरैः
।
तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः॥१९॥
लोडयामास दुष्यन्तः सूदयन्विविधान्मृगान्
।
बाणगोचरसंप्राप्तांस्तत्र व्याघ्रगणान्बहून्॥२०॥
पातयामास दुष्यन्तो निर्बिभेद च सायकैः
।
दूरस्थान्सायकैः कांश्चिदभिनत्स नराधिपः॥२१॥
अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत
।
कांश्चिदेणान्समाजघ्ने शक्त्या शक्तिमतां वरः॥२२॥
गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः
।
तोमरैरसिभिश्चापि गदामुसलकम्पनैः॥२३॥
चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान्
।
राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः॥२४॥
लोड्यमानं महारण्यं तत्यजुः स्म मृगाधिपाः
।
तत्र विद्रुतयूथानि हतयूथपतीनि च॥२५॥
मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः
।
शुष्काश्चापि नदीर्गत्वा जलनैराश्यकर्शिताः॥२६॥
औत्सुक्यात् वैयग्र्यात् ॥२६॥
व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः
।
क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि॥२७॥
केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः
।
केचिदग्निमथोत्पाद्य संसाध्य च वनेचराः॥२८॥
संसाध्य पाकादिना संस्कृत्य ॥२८॥
भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा
।
तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः॥२९॥
प्रकुट्य चूर्णीकृत्य गजाः वनगजाः ॥२९॥
संकोच्याग्रकरान्भीताः प्राद्रवन्ति स्म वेगिताः
।
शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु॥३०॥
वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून्
।
तद्वनं बलमेघेन शरधारेण संवृतम्
।
व्यरोचत मृगाकीर्णं राज्ञा हतमृगाधिपम्॥३१॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि शकुन्तलोपाख्याने एकोनसप्ततितमोऽध्यायः॥६९॥
वैशंपायन उवाच।
ततो मृगसहस्राणि हत्वा सबलवाहनः
।
राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह॥१॥
सप्ततितमः अध्यायः तत इति ॥१॥
एक एवोत्तमबलः क्षुत्पिपासाश्रमान्वितः
।
स वनस्यान्तमासाद्य महच्छून्यं समासदत्॥२॥
शून्यं वृक्षादिरहितम् ऊषरम् ॥२॥
तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम्
।
मनःप्रह्लादजननं दृष्टिकान्तमतीव च॥३॥
शीतमारुतसंयुक्तं जगामान्यन्महद्वनम्
।
पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम्॥४॥
विपुलं मधुरारावैर्नादितं विहगैस्तथा
।
पुंस्कोकिलनिनादैश्च झिल्लीकगणनादितम्॥५॥
प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम्
।
षट्पदाघूर्णिततलं लक्ष्म्या परमया युतम्॥६॥
लक्ष्म्या शोभया ॥६॥
नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी
।
षट्पदैर्नाप्यपाकीर्णस्तस्मिन्वै काननेऽभवत्॥७॥
नाप्यपाकीर्णः अनावृतो न ॥७॥
विहगैर्नादितं पुष्पैरलङ्कृतमतीव च
।
सर्वर्तुकुसुमैर्वृक्षैः सुखच्छायैः समावृतम्॥८॥
मनोरमं सहेष्वासो विवेश वनमुत्तमम्
।
मारुताकलितास्तत्र द्रुमाः कुसुमशाखिनः॥९॥
कुसुमवच्छाखावन्तः कुसुमशाखिनः ॥९॥
पुष्पवृष्टिं विचित्रां तु व्यसृजंस्ते पुनः पुनः
।
दिवस्पृशोऽथ संघुष्टाः पक्षिभिर्मधुरस्वनैः॥१०॥
विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः
।
तेषां तत्र प्रवालेषु पुष्पभारावनामिषु॥११॥
रुवन्ति रावान्मधुरान्षट्पदा मधुलिप्सवः
।
तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान्॥१२॥
लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान्
।
संपश्यन्सुमहातेजा बभूव मुदितस्तदा॥१३॥
परस्पराश्लिष्टशाखैः पादपैः कुसुमान्वितैः
।
अशोभत वनं तत्तु महेन्द्रध्वजसन्निभैः॥१४॥
महेन्द्रे पर्वते ध्वजा इव ध्वजा उच्चतरा वृक्षास्ततुल्यैरिन्द्रध्वजवदत्युच्चैर्वा ॥१४॥
सिद्धचारणसङ्घैश्च गन्धर्वाप्सरसां गणैः
।
सेवितं वनमत्यर्थं मत्तवानरकिन्नरैः॥१५॥
सुखः शीतः सुगन्धी च पुष्परेणुवहोऽनिलः
।
परिक्रामन्वने वृक्षानुपैतीव रिरंसया॥१६॥
रिरंसया रमयितुमिच्छया ॥१६॥
एवंगुणसमायुक्तं ददर्श स वनं नृपः
।
नदीकच्छोद्भं कान्तमुच्छ्रितध्वजसन्निभम्॥१७॥
नदीकच्छोद्भवं कच्छः सजलोऽनूपप्रदेशः ॥१७॥
प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहङ्गमम्
।
आश्रमप्रवरं रम्यं ददर्श च मनोरमम्॥१८॥
नानावृक्षसमाकीर्णं संप्रज्वलितपावकम्
।
तं तदाऽप्रतिमं श्रीमानाश्रमं प्रत्यपूजयत्॥१९॥
यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम्
।
अग्न्यगारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम्॥२०॥
महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च
।
मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम्॥२१॥
महाकच्छेः महातुन्नकैः । बृहद्भिः पुष्टैः । ’अथ कच्छः स्यादनूपे तुन्नकद्रुमे’ इति मेदिनी । मालिनीम् अभितः । आश्रममध्ये नैव मालिनी गच्छति न तु प्रान्तेन ॥२१॥
नैकपक्षिगणाकीर्णां तपोवनमनोरमाम्
।
तत्रव्यालमृगान्सौम्यान्पश्यन्प्रीतिमवाप सः॥२२॥
तं चाप्रतिरथः श्रीमानाश्रमं प्रत्यपद्यत
।
देवलोकप्रतीकाशं सर्वतः सुमनोहरम्॥२३॥
अप्रतिरथः अप्रतिमः ॥२३॥
नदीं चाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः
।
सर्वप्राणभृतां तत्र जननीमिव धिष्ठिताम्॥२४॥
सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम्
।
सकिन्नरगणावासां वारनर्क्षनिषेविताम्॥२५॥
पुण्यस्वाध्यायसंघुष्टां पुलिनैरुपशोभिताम्
।
मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम्॥२६॥
तस्यास्तीरे भगवतः काश्यपस्य महात्मनः
।
आश्रमप्रवरं रम्यं महर्षिगणसेवितम्॥२७॥
काश्यपस्य कश्यपगोत्रस्य कण्वस्य ॥२७॥
नदीमाश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा
।
चकाराभिप्रवेशाय मतिं स नृपतिस्तदा॥२८॥
अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया
।
नरनारायणस्थानं गङ्गयेवोपशोभितम्॥२९॥
मत्तबर्हिणसंघुष्टं प्रविवेश महद्वनम्
।
तत्सचैत्ररथप्रख्यं समुपेत्य नरर्षभः॥३०॥
अतीव गुणसंपन्नमनिर्देश्यं च वर्चसा
।
महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम्॥३१॥
ध्वजिनीमश्वसंबाधां पदातिगजसङ्कुलाम्
।
अवस्थाप्य वनद्वारि सेनामिदमुवाच सः॥३२॥
मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम्
।
काश्यपं स्थीयतामत्र यावदागमनं मम॥३३॥
तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः
।
क्षुत्पिपासे जहौ राजा मुदं चावाप पुष्कलाम्॥३४॥
सामात्यो राजलिङ्गानि सोपनीय नराधिपः
।
पुरोहितसहायश्च जगामाश्रममुत्तमम्॥३५॥
दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम्
।
ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य ह
।
षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम्॥३६॥
ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः
।
शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु॥३७॥
विततेषु वैतानिकेषु इष्टिपशुसोमादिषु प्रवर्तमानेषु ॥३७॥
यज्ञविद्याङ्गविद्भिश्च यजुर्विद्भिश्च शोभितम्
।
मधुरैः सामगीतैश्च ऋषिभिर्नियतव्रतैः॥३८॥
यज्ञविद्यायामङ्गभूतानि कल्पसूत्रादीनि ॥३८॥
भारुण्डसामगीताभिरथर्वशिरसोद्गतैः
।
यतात्मभिः सुनियतैः शुशुभे स तदाश्रमः॥३९॥
भारुण्डसामानि पूगयज्ञियसामानि च साम्नाम् अवान्तरभेदाः ॥३९॥
अथर्ववेदप्रवराः पूगयज्ञियसामगाः
।
संहितामीरयन्ति स्म पदक्रमयुतां तु ते॥४०॥
शब्दसंस्कारसंयुक्तैर्ब्रुवद्भिश्चापरैर्द्विजैः
।
नादितः स बभौ श्रीमान्ब्रह्मलोक इवापरः॥४१॥
शब्दसंस्कारः यथास्थानकरणप्रयत्नमुच्चारणम् । स्थानं ताल्वादि । करणं जिह्वाग्रादि । प्रयत्नो घोषादिः ॥४१॥
यज्ञसंस्तरविद्भिश्च क्रमशिक्षाविशारदैः
।
न्यायतत्त्वात्मविज्ञानसंपन्नैर्वेदपारगैः॥४२॥
यज्ञसंस्तरः इष्टकाद्युपधानक्रमः न्यायतत्त्वं युक्तेर्मर्यादा । आत्मविज्ञानं स्वानुभवः ॥४२॥
नानावाक्यसमाहारसमवायविशारदैः
।
विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः॥४३॥
नानावाक्यानाम् एकशाखागतानां समिधो यजतीत्यादि प्रयाजाद्यङ्गविधिपराणां प्रयोगविधिपराणां प्रयोगविधिना दर्शपौर्णमासाभ्यां यजेतेत्यादिना एकवाक्यत्वं समाहारः । भिन्नशाखास्थानां गुणविधीनामेकस्यां शाखायामुपसंहारः समवायः । तत्र विशारदैः । विशेषकार्यमुपासनाब्रह्मलोकफला । कर्मभ्यो विशिष्टत्वात्तस्याः । मोक्षधर्मेति पृथगुपादानेन मोक्षस्य विशेषकार्यत्वं निरस्तम् ॥४३॥
स्तापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः
।
शब्दच्छन्दोनिरुक्तज्ञैः कालज्ञानविशारदैः॥४४॥
स्थापनं प्रथमं स्वसिद्धान्तव्यवस्था । ततस्तत्र शङ्काक्षेपः तस्याः परिहारः सिद्धान्तः तैर्या परमार्थज्ञता तां गतैः । शब्दो व्याकरणम् । कालेति ज्यौतिषम्। शिक्षाकल्पावप्येतैरेवोपलक्षणीयौ ॥४४॥
द्रव्यकर्मगुणज्ञैश्च कार्यकारणवेदिभिः
।
पक्षिवानररुतज्ञैश्च व्यासग्रन्थसमाश्रितैः॥४५॥
द्रव्यं व्रीह्यादि । कर्म निर्वापादि । गुणोऽष्टाकपालत्वादिः। कार्यं फलं स्वर्गादि । कारणं यागादि । पक्षीति। द्रव्यादीनां प्रकाशकम् इषेत्वेत्यादिवाक्यम् । पक्षिवानररुतमिवाव्यक्तार्थं मन्त्रादिरूपं तदर्थाभिज्ञैः । व्यासग्रन्थो विस्तृतप्रबन्धे ‘इषेत्वा’ इतिशाखामाच्छिनत्ति इति तदीयब्राह्मणादिस्तं सम्यगाश्रितैः। न तु स्वकपोलकल्पितैः प्रकारैर्मन्त्रान् व्याचक्षत इत्यर्थः ॥४५॥
नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनमीरितम्
।
लोकायतिकमुख्यैश्च समन्तादनुनादितम्॥४६॥
लोके एव आयतन्ते ते लोकायतिकाः । तेषु लोकरञ्जनपरेषु मुख्यैः ॥४६॥
तत्र तत्र च विप्रेन्द्रान्नियतान्संशितव्रतान्
।
जपहोमपरान्विप्रान्ददर्श परवीरहा॥४७॥
आसनानि विचित्राणि रुचिराणि महीपतिः
।
प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत्॥४८॥
देवतायतनानां च प्रेक्ष्य पूजां कृतां द्विजैः
।
ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः॥४९॥
स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम्
।
नातृप्यत्प्रेक्षमाणो वै तपोवनगुणैर्युतम्॥५०॥
स काश्यपस्यायतनं महाव्रतै-
र्वृतं समान्तादृषिभिस्तपोधनैः
।
विवेश सामात्यपुरोहितोऽरिहा
विविक्तमत्यर्थमनोहरं शुभम्॥५१॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि शकुन्तलोपाख्याने सप्ततितमोऽध्यायः॥७०॥
वैशंपायन उवाच।
ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान्
।
नापश्यच्चाश्रमे तस्मिंस्तमृषिं संशितव्रतम्॥१॥
एकसप्ततितमोऽध्यायः तत इति॥१॥
सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तथाऽऽश्रमम्
।
उवाच क इहेत्युच्चैर्वनं सन्नादयन्निव॥२॥
श्रुत्वाऽथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी
।
निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी॥३॥
सा तं दृष्ट्वैव राजानं दुष्यन्तमसितेक्षणा
।
स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च॥४॥
आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि
।
पप्रच्छानामयं राजन्कुशलं च नराधिपम्॥५॥
अनामयं आरोग्यम्। कुशलं राष्ट्रादिक्षेमम्॥५॥
यथावदर्चयित्वाऽथ पृष्ट्वा चानामयं तदा
।
उवाच स्मयमानेव किं कार्यं क्रियतामिति॥६॥
तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम्
।
दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः॥७॥
आगतोऽहं महाभागमृषिं कण्वमुपासितुम्
।
क्व गतो भगवान्भद्रे गन्ममाचक्ष्व शोभने॥८॥
शकुन्तलोवाच
।
गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात्
।
मुहूर्तं संप्रतीक्षस्व द्रष्टास्येनमुपागतम्॥९॥
द्रष्टासि द्रक्ष्यसि॥९॥
वैशंपायन उवाच।
अपश्यमानस्तमृषिं तथा चोक्तस्तया च सः
।
तां दृष्ट्वा च वरारोहां श्रीमतीं चारुहासिनीम्॥१०॥
अपश्यमान इति। तथा च स्वागतादिप्रकारेण विजने संलापरूपाभ्यां स तया मोहित इत्यर्थः॥१०॥
विभ्राजमानां वपुषा तपसा च दमेन च
।
रूपयौवनसंपन्नामित्युवाच महीपतिः॥११॥
का त्वं कस्यासि सुश्रोणि किमर्थं चागता वनम्
।
एवंरूपगुणोपेता कुतस्त्वमसि शोभने॥१२॥
दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः
।
इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने॥१३॥
दर्शनादेवेति। शुभे कल्याणावहे। एतेन स्वस्य तत्परिग्रहाधिकारोऽस्तीति दर्शितम्। तत्र प्रमाणं स्वचेतसः प्रवृत्तिरेव। यथोक्तमभियुक्तैः। ’असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः। सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तयः॥’इति॥१३॥
एवमुक्ता तु सा कन्या तेन राज्ञा तमाश्रमे
।
उवाच हसती वाक्यमिदं सुमधुराक्षरम्॥१४॥
हसती हसन्ती॥१४॥
कण्वस्याहं भगवतो दुष्यन्त दुहिता मता
।
तपस्विनो धृतिमतो धर्मज्ञस्य महात्मनः॥१५॥
दुष्यन्त उवाच।
ऊर्ध्वरेता महाभागे भगवाँल्लोकपूजितः
।
चलेद्धि वृत्ताद्धर्मोपि न चलेत्संशितव्रतः॥१६॥
कथं त्वं तस्य दुहिता संभूता वरवर्णिनी
।
संशयो मे महानत्र तन्मे छेत्तुमिहार्हसि॥१७॥
शकुन्तलोवाच
।
यथाऽयमागमो मह्यं यथा चेदमभूत्पुरा
।
शृणु राजन्यथातत्त्वं यथाऽस्मि दुहिता मुनेः॥१८॥
आगमो गुरपदेशः। इदं मज्जन्मादि पुरा यथाभूत्तया शृणु इत्युत्तरेणान्वयः॥१८॥
ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत्
।
तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिवा॥१९॥
अभ्यचोदयत्पृष्टवान्॥१९॥
कण्व उवाच।
तप्यमानः किल पुरा विश्वामित्रो महत्तपः
।
सुभृशं तापयामास शक्रं सुरगणेश्वरम्॥२०॥
तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति
।
भीतः पुरन्दरस्तस्मान्मेनकामिदमब्रवीत्॥२१॥
गुणैरप्सरसां दिव्यैर्मेनके त्वं विशिष्यसे
।
श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु॥२२॥
असावादित्यशङ्काशो विश्वामित्रो महातपाः
।
तप्यमानस्तपो घोरं मम कम्पयते मनः॥२३॥
मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे
।
शंसितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते॥२४॥
स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय
।
चर तस्य तपोविघ्नं कुरु मेऽविघ्नमुत्तमम्॥२५॥
मे अविघ्नमितिच्छेदः॥२५॥
रूपयौवनमाधुर्यचेष्टितस्मितभाषणैः
।
लोभयित्वा वरारोहे तपसस्तं निवर्तय॥२६॥
मेनकोवाच
।
महातेजाः स भगवांस्तथैव च महातपाः
।
कोपनश्च तथा ह्येनं जानाति भगवानपि॥२७॥
तेजस्तपसश्चैव कोपस्य च महात्मनः
।
त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम्॥२८॥
महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत्
।
क्षत्रजातश्च यः पूर्वमभवद्ब्राह्मणो बलात्॥२९॥
शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः
।
यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः॥३०॥
बभार यत्रास्य पुरा काले दुर्गे महात्मनः
।
दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः॥३१॥
बभार पोषितवान्। मतङ्गः त्रिशङ्कुः व्याधतां गतः। विवाहविघ्नदोषदर्शिनः पितुः कोपादितिशेषः॥३१॥
अतीतकाले दुर्भिक्षे अभ्येत्य पुनराक्षमम्
।
मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः॥३२॥
आश्रमम् अभ्येत्य तपस्तप्त्वेतिशेषः। नद्याः कौशिक्याः॥३२॥
मतङ्गं याजयाञ्चक्रे यत्र प्रीतमनाः स्वयम्
।
त्वं च सोमं भयाद्यस्य गतः पातुं सुरेश्वर॥३३॥
चकारान्यं च लोकं वै क्रुद्धो नक्षत्रसंपदा
।
प्रतिश्रवणपूर्वाणि नक्षत्राणि चकार यः
।
गुरुशापहतस्यापि त्रिशङ्कोः शरणं ददौ॥३४॥
शरणं त्राणं त्रिशङ्कोः। त्रीणि पितुः कोपो वसिष्ठधेनोर्वधो वृथा गोमांसभक्षणं चेति शङ्कुनिशङ्कुतुल्यानि पापानि यस्य स त्रिशङ्कुस्तस्य यथोक्तं हरिवंशे त्रिशङ्कुं प्रति वसिष्ठेन। ’पितुश्च परिरोषेण गुरोदोग्ध्रीवधेन च। अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः’ इति॥३४॥
एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे
।
यथाऽसौ न दहेत्क्रुद्धस्तथाऽऽज्ञापय मां विभो॥३५॥
तस्य तस्मात् ॥३५॥
तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा
।
संक्षिपेच्च महामेरुं तूर्णमावर्तयेद्दिशः॥३६॥
आवर्तयेदेकीकुर्यात्॥३६॥
तादृशं तपसा युक्तं प्रदीप्तमिव पावकम्
।
कथमस्मद्विधा नारी जितेन्द्रियमभिस्पृशेत्॥३७॥
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम्
।
कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत्॥३८॥
सूर्यचन्द्रावेव अक्ष्णोः संबन्धिनी तारके यस्य तावपि भ्रूभङ्गमात्रेण स्रष्टुं समर्थ इत्यर्थः॥३८॥
यमश्च सोमश्च महर्षयश्च
साध्या विश्वे वालस्विल्याश्च सर्वे
।
एतेऽपि यस्योद्विजन्ते प्रभावा-
त्तस्मात्कस्मान्मादृशी नोद्विजेत॥३९॥
त्वयैवमुक्ता च कथं समीप-
मृषेर्न गच्छेयमहं सुरेन्द्र
।
रक्षां तु मे चिन्तय देवराज
यथा त्वदर्थं रक्षिताऽहं चरेयम्॥४०॥
कामं तु मे मारुतस्तत्र वासः
प्रक्रीडिताया विवृणोतु देव
।
भवेच्च मे मथस्तत्र कार्ये
सहायभूतस्तु तव प्रसादात्॥४१॥
प्रक्रीडितायाः प्रकृष्टं क्रीडितं यस्याः। विवृणोतु अपसारयतु॥४१॥
वनाच्च वायुः सुरभिः प्रवायात्तस्मिन्काले तमृषिं लोभयन्त्याः
।
तथेत्युक्त्वा विहिते चैव तस्मिंस्ततो ययौ साश्रमं कौशिकस्य॥४२॥
तस्मिन्कामवायुसाहाय्यके इन्द्रेण विहिते संदिष्टे सति॥४२॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि शकुन्तलोपाख्याने एकसप्ततितमोऽध्यायः॥७१॥
दुष्यन्त उवाच।
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे
।
भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते॥१॥
त्रिसप्ततितमोऽध्यायः सुन्यक्तमिति गोत्रप्रवर्तकोऽपि तपसा ब्राह्मणोऽपि जातितः क्षत्रिय एव विश्वामित्र इति भावः । इत ऊर्ध्वं वा तस्य ब्राह्मणत्वमिति कल्प्यम् ॥१॥
सुवर्णमालां वासांसि कुण्डले परिहाटके
।
नानापत्तनजे शुभ्रे मणिरत्ने च शोभने॥२॥
आहरामि तवाद्याहं निष्कादीन्यजिनानि च
।
सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने॥३॥
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि
।
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ: उच्यते॥४॥
गान्धर्वो वरवध्वोरैकमत्येन कृतः ॥४ ॥
शकुन्तलोवाच
।
फलाहारो गतो राजन्पिता मे इत आश्रमात्
।
मुहूर्तं संप्रतीक्षस्व स मां तुभ्यं प्रदास्यति॥५॥
फलाहारः फलान्याहर्तुं गतः ॥५॥
दुष्यन्त उवाच।
इच्छामि त्वां वरारोहे भजमानामनिन्दिते
।
त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम॥६॥
आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः
।
आत्मनैववात्मनो दानं कर्तुमर्हसि धर्मतः॥७॥
‘न स्त्री स्वातंत्र्यमर्हति’ इति न्यायविरोधमाशंक्याह । आत्मन इति ॥७॥
अष्टावेव समासेन विवाहा धर्मतः स्मृताः
।
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः॥८॥
पूर्वोक्तगान्धर्वविवाहस्य कर्तव्यतां वक्तुं विवाहभेदानाह । अष्टाविति । ब्राह्मः अलंकृत्य कन्यादानम् । तद्वदेव यज्ञान्ते ऋत्विजे दानं दैवः । सहोभौ धर्मं चरतामिति बुद्ध्यादानं प्राजापत्यः । वराद्गोमिथुनं शुल्कं गृहीत्वा । दानमार्षः । बहु धनं गृहीत्वा दानमासुरः ॥८॥
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः
।
तेषां धर्मान्यथापूर्वं मनुः स्वायंभुवोऽब्रवीत्॥९॥
गान्धर्वो ब्याख्यातः । सुप्तानां प्रमत्तानां वापहरेत्स पैशाचः । हत्वा भित्वा च शीर्षाणि रुदतीं रुदद्भ्यो हरेत्स राक्षसः। इत्येतेऽष्टौ क्रमाद्व्याख्याताः ॥९॥
प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय
।
षडानुपूर्व्या क्षत्रस्य विद्धि धर्माननिन्दिते॥१०॥
राज्ञां तु राक्षरोप्युक्तो विट्शूद्रेष्वासुरः स्मृतः
।
पञ्चानां तु त्रयो धर्म्या अधर्म्यो द्वौ स्मृताविह॥११॥
पञ्चानां ब्राह्मादीनां त्रयः ब्राह्मदैवप्राजापत्या धर्म्याः। द्वावार्षासुरौ कन्याशुल्कग्रहणादधर्म्यौ॥११॥
पैशाच आसुरश्चैव न कर्तव्यौ कदाचन
।
अनेन विधिना कार्यौ धर्मस्यैषा गतिः स्मृता॥१२॥
तयोरप्यासुरः पैशाचवदत्यन्तंहेय इत्याह पैशाच इति ॥१२॥
गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः
।
पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः॥१३॥
परिशेषाद्गान्धर्वराक्षसौ क्षत्रियस्य धर्म्यावित्याह गान्धर्वेति । मिश्रौ रुक्मिणी विवाहे ॥ १३॥
सा त्वं मम सकामस्य सकामा वरवर्णिनी
।
गान्धर्वेण विवाहेन भार्या भवितुमर्हसि॥१४॥
शकुन्तलोवाच
।
यदि धर्मपथस्त्वेष यदि चात्मा प्रभुर्मम
।
प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो॥१५॥
सत्यं मे प्रतिजानीहि यथा वक्ष्याम्यहं रहः
।
मयि जायेत यः पुत्रः स भवेत्त्वदनन्तरः॥१६॥
युवराजो महाराज सत्यमेतद्ब्रवीमि ते
।
यद्येतदेवं दुष्यन्त अस्तु मे सङ्गमस्त्वया॥१७॥
वैशंपायन उवाच।
एवमस्त्विति तां राजा प्रत्युवाचाऽविचारयन्
।
अपि च त्वां हि नेष्यामि नगरं स्वं शुचिस्मिते॥१८॥
यथा त्वमर्हा सुश्रोणि मन्यसे तद्ब्रवीमि ते
।
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम्॥१९॥
जग्राह विधिवत्पाणावुवास च तया सह
।
विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः॥२०॥
उवास सङ्गं कृतवान् । अत्राधिकग्रन्थे । ‘मूकाश्चैव किराताश्च कुब्जवामनकैः सह । सहिता कञ्चुकिवरैर्वाहिनी सूतमागधैः ॥’ इति श्लोकः पठ्यते । तस्यार्थः । मूकाः अन्तः पुररक्षणयोग्याहितमितभाषिणः । किराताश्चामरवाहिन्यः स्त्रियः। ‘किरातो म्लेच्छमे देस्याद्भूनिम्बेल्पतनावपि। ‘स्त्रियां चामरवाहिन्यां कुड़नी दुर्गयोरपि’ इति मेदिनी। कुब्जवामनकाश्चन्दनपुष्पोदकादिधराश्चेट्यश्चेटाश्च। कञ्चुकिनः अन्तःपुराध्यक्षाः । ‘कञ्चुक्यन्तःपुराध्यक्षे’ इति मेदिनी । वाहिनी प्रेष्या इति शेषः ॥२०॥
प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम्
।
तया त्वानाययुष्यामि निवासं स्वं शुचिस्मिते॥२१॥
तया वाहिन्या॥२१॥
वैशंपायन उवाच।
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय
।
मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिवः॥२२॥
भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति
।
एवं स चिन्तयन्नेव प्रविवेश स्वकं पुरम्॥२३॥
मुहूर्तयाते तस्मिंस्तु कण्वोऽप्याश्रममागमत्
।
शकुन्तला च पितरं ह्रिया नोपजगाम तम्॥२४॥
विज्ञायाथ च तां कण्वो दिव्यज्ञानो महातपाः
।
उवाच भगवान्प्रीतः पश्यन्दिव्येन चक्षुषा॥२५॥
त्वयाऽद्य भद्रे रहसि मामनादृत्य यः कृतः
।
पुंसा सह समायोगो न स धर्मोपघातकः॥२६॥
क्षत्रियस्य हि गान्धर्वो विवाहः श्रेष्ठ उच्यते
।
सकामायाः सकामेन निमन्त्रो रहसि स्मृतः॥२७॥
धर्मात्मा च महात्मा च दुष्यन्तः पुरुषोत्तमः
।
अभ्यागच्छ: पतिं यत्वं भजमानं शकुन्तले॥२८॥
महात्मा जनिता लोके पुत्रस्तव महाबलः
।
य इमां सागरापाङ्गीं कृत्स्नां भोक्ष्यति मेदिनीम्॥२९॥
परं चाभिप्रयातस्य चक्रं तस्य महात्मनः
।
भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः॥३०॥
परं शत्रुम् । चक्रं सैन्यम् । चक्रः कोके पुमान् क्लीबं व्रजे सैन्यरथांगयोः इति मेदिनी । इदमेव चक्रवर्तिशब्दप्रवृत्तिनिमित्तम् ॥३०॥
ततः प्रक्षाल्य पादौ सा विश्रान्तं मुनिमब्रवीत्
।
विनिधाय ततो भारं सन्निधाय फलानि च ॥३१॥
शकुन्तलोवाच
।
मया पतिर्वृतो राजा दुष्यन्तः पुरुषोत्तमः
।
तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि॥३२॥
कण्व उवाच।
प्रसन्न एव तस्याहं त्वत्कृते वरवर्णिनि
।
गृहाण च वरं मत्तस्त्वं शुभे यदभीप्सितम्॥३३॥
वैशंपायन उवाच।
ततो धर्मिष्ठतां वव्रे राज्याच्चस्खलनं तथा
।
शकुन्तला पौरवाणां दुष्यन्तहितकाम्यया॥३४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि शकुन्तलोपाख्याने त्रिसप्ततितमोऽध्यायः॥७३॥
वैशंपायन उवाच।
प्रतिज्ञाय च दुष्यन्ते प्रतियाते शकुन्तलाम्
।
गर्भं सुषाव वामोरूः कुमारममितौजसम्॥१॥
चतुःसप्ततितमोऽध्यायः प्रतिज्ञायेति ॥१॥
त्रिषु वर्षेषु पूर्णेषु दीप्तानलसमद्युतिम्
।
रूपौदार्यगुणोपेतं दौष्यन्तिं जनमेजय॥२॥
जातकर्मादिसंस्कारं कण्वः पुण्यवतां वरः
।
विधिवत्कारयामास वर्धमानस्य धीमतः॥३॥
दन्तैः शुक्लैः शिखरिभिः सिंहसंहननो महन्
।
चक्राङ्कितकरः श्रीमान्महामूर्धा महाबलः॥४॥
कुमारो देवगर्भाभः स तत्राशु व्यवर्धत
।
षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति॥५॥
सिंहव्याघ्रान्वराहांश्च महिषांश्च गजांस्तथा
।
बबन्ध वृक्षे बलवानाश्रमस्य समीपतः॥६॥
आरुरोहन्दमांश्चैव क्रीडंश्च परिधावति
।
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः॥७॥
अस्त्वयं सर्वदमनः सर्वं हि दमयत्यसौ
।
स सर्वदमनो नाम कुमारः समपद्यत॥८॥
विक्रमेणौजसा चैव बलेन च समन्वितः
।
तं कुमारमृषिर्दृष्ट्वा कर्म चास्यातिमानुषम्॥९॥
विक्रमः पराभिभवसामर्थ्यम् । ओजः कान्तिः बलं शारीरम् ॥९॥
समयो यौवराज्यायेत्यब्रवीच्च शकुन्तलाम्
।
तस्य तद्बलमाज्ञाय् कण्वः शिष्यानुवाच ह॥१०॥
शकुन्तलामिमां शीघ्रं सहपुत्राभितो गृहात्
।
भर्तुः प्रापयतागारं सर्वलक्षणपूजिताम्॥११॥
नारीणां चिरवासो हि बान्धवेषु न रोचते
।
कीर्तिचारित्रधर्मघ्नस्तस्मान्नयत मा चिरम्॥१२॥
न रोचते न शोभते। चारित्रं शीलम् । धर्मः पातिव्रत्यम् ॥१२॥
तथेत्युक्त्वा तु ते सर्वे प्रातिष्ठन्त महौजसः
।
शकुन्तलां पुरस्कृत्य सपुत्रां गजसाह्वयम्॥१३॥
गृईत्वाय़्भरगर्भाभं पुत्रं कमललोचनम्
।
आजगाम ततः सुभूर्दुष्यन्तं विदितद्वनात्॥१४॥
अभिसृत्य च राजानं विदिता च प्रवेशिता
।
सह तेनैव पुत्रेण बालार्कसमतेजसा॥१५॥
निवेदयित्वा ते सर्वे आश्रमं पुनरागताः
।
पूजयित्वा यथान्यायमब्रवीच्च शकुन्तल॥१६॥
अयं पुत्रस्त्वया रजन्यौवराज्येऽभिषिच्यताम्
।
त्वया ह्ययं सुतो राजन्मय्युत्पन्नः सुरोपमः
।
यथा समयमेतस्मिन्वर्तस्व पुरुषोत्तम॥१७॥
यथा मत्संगमे पूर्वं यः कृतः समयस्तथा
।
तं स्मरस्व महाभाग कण्वाश्रमपदं प्रति॥१८॥
सोऽथ श्रुत्वैव तद्वाक्यं तस्या राजा स्मरन्नपि
।
अब्रवीन्न स्मरामीति कस्य त्वं दुष्टतापसि ॥१९॥
धर्मकामार्थसंबन्धं न स्मरामि त्वया सह
।
प्रच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु॥२०॥
धर्मार्थकामसंबन्धम्। धर्मे चार्थे च कामे च नातिचरितन्या त्वयेयं नातिचरामीति विवाहमन्त्रप्रकाशितं वैवाहिकसंबन्धम् ॥२०॥
सैवमुक्ता वरारोहा व्रीडितेव तपखिनी
।
निःसंज्ञेव च दुःखेन तस्थौ स्थूणेव निश्चला॥२१॥
संरम्भामर्षताम्राक्षी स्फुरमाणौष्ठसंपुटा
।
कटाक्षैर्निर्दहन्तीव तिर्यग्राजानमैक्षत ॥२२॥
आकारं गूहमाना च मन्युना च समीरिता
।
तपसा संभृतं तेजो धारयामास वै तदा ॥२३॥
सा मुहूर्तमिव ध्यात्वा दुःखामर्षसमन्विता
।
भर्तारमभिसंप्रेक्ष्य कुद्धा वचनमब्रवीत् ॥२४॥
जानन्नपि महाराज कस्मादेवं प्रभाषसे
।
न जानामीति निःशङ्कं यथान्यः प्राकृतो जनः॥२५॥
अत्र ते हृदयं वेद सत्यस्यैवानृतस्य च
।
कल्याणं वद साक्ष्येण मात्मानमवमन्यथाः ॥२६॥
साक्ष्येण साक्षिधर्मेण औदासीन्यबोधरूपेण ॥२६॥
योऽन्यथा संतमात्मानमन्यथा प्रतिपद्यते
।
किं तेन न कृतं पापं चौरेणात्मापहारिणा॥२७॥
एकोऽहमस्मीति च मन्यसे त्वं न हृच्छयं वेत्सि मुनिं पुराणम्
।
यो वेदिता कर्मणः पापकस्य तस्यान्तिके त्वं वृजिनं करोषि ॥२८॥
त्दृच्छयमन्तर्यामिणम् । मुनिं नारायणम् ॥२८॥
मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति
।
विदन्ति चैनं देवाश्च यश्चैवान्तरपूरुषः ॥२९॥
आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च
।
अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥३०॥
यमो वैवस्वतस्तस्य निर्यातयति दुष्कृतम्
।
हृदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति॥३१॥
निर्यातयति परिहरति । दुष्कृतं पापम् ॥३१॥
न तु तुष्यति यस्यैष पुरुषस्य दुरात्मनः
।
तं यमः पापकर्माणं वियातयति दुष्कृतम् ॥३२॥
वियातयति विशेषेण यातनां पीडां करोति । दुष्कृतं दुष्टं कृतमस्य तम् ॥३२॥
योवमन्यात्मनात्मानमन्यथा प्रतिपद्यते
।
न तस्य देवाः श्रेयांसो यस्यात्माऽपि न कारणम् ॥३३॥
न कारणं श्रेयसे इत्यर्थः ॥३३॥
स्वयं प्राप्तेति मामेवं माऽवमंस्थाः पतिव्रताम्
।
अर्चार्हां नार्चयसि मां स्वयं भार्यामुपस्थिताम् ॥३४॥
किमर्थं मां प्राकृतवदुपप्रेक्षसि संसदि
।
न खल्वहमिदं शून्ये रौमि किं न शृणोषि मे॥३५॥
यदि मे याचमानाया वचनं न करिष्यसि
।
दुष्यन्त शतधा मूर्धा ततस्तेऽद्य स्फुटिष्यति॥३६॥
भार्यां पतिः संप्रविश्य स यस्माज्जायते पुनः
।
जायायास्तद्धि जायात्वं पौराणाः कवयो विदुः ॥३७॥
पौराणाः कवयो वैदिकाः ‘तज्जाया जाया भवति यदस्यां जायते पुनः’ इत्यादि मन्त्रविदः ॥३७॥
यदागमवतः पुंसस्तदपत्यं प्रजायते
।
तत्तारयति संतत्या पूर्वप्रेतान्पितामहान् ॥३८॥
आगमवतो वेदान्तमन्यादिकर्मविदो यत्तदमितप्रभावमपत्यं जायते तत्तारयति ॥३८॥
पुंनांम्नो नरकाद्यस्मात्पित्तरं त्रायते सुतः
।
तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥३९॥
पुंनाम्न इत्यन्तः परं ‘पौत्रेण लोकान् जयते पौत्रेणानन्त्यमश्नुते। अथ पौत्रस्य पुत्रेण मोदन्ते प्रपितामहाः’ इति पठन्ति । तत्र पुत्रेण नरकादुद्धतः पौत्रेण स्वर्गे नीयते प्रपौत्रेण ततोप्युपरिनीयते । पुत्रेणैव स्वर्गे नीतः पौत्रेण ब्रह्मलोके प्रापित आनन्त्यं मोक्षं लभते । तेनासौ प्रपौत्रमपेक्षत इत्यर्थः ॥ ३९॥
सा भार्या या गृहे दक्षा सा भार्या या प्रजावती
।
सा भार्या या पतिप्राणा सा भार्या या पत्तिव्रता ॥४०॥
अर्धं भार्या मनुष्यस्य भार्या श्रेष्ठतमः सखा
।
भार्या मूलं त्रिवर्गस्य भार्या मूलं तरिष्यतः ॥४१॥
भार्यावन्तः क्रियावन्तः सभार्या गृहमेधिनः
।
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ॥४२॥
सखायः प्रविविक्तेषु भवन्त्येताः प्रियंवदाः
।
पितरो धर्मकार्येषु भवन्त्यार्तस्य मातरः ॥४३॥
पितरः पितृवद्धितैषिण्यः मातरः मातृवदुःखहन्त्र्यः ॥४३॥
कान्तारेष्वपि विश्रामो जनस्याध्वानकस्य वै
।
यः सदारः सविश्वास्यस्तस्माद्दाराः परागतिः॥४४॥
संसरन्तमपि प्रेतं विषमेष्वेकपातिनम्
।
मार्यैवान्वेति भर्तारं सततं या पतिव्रता ॥४५॥
प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्ष्यते
।
पूर्वं मृतं च भर्तारं पश्चात्साध्व्यनुगच्छति ॥४६॥
एतस्मात्कारणाद्राजन्पाणिग्रहणमिष्यते
।
यदाप्नोति पतिर्मार्यामिहलोके परत्र च ॥४७॥
आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः
।
तस्माद्भार्थी नरः पश्येन्मातृवत्पुत्रमातरम् ॥४८॥
मातृवज्जन्मभूमिवत् ॥४८॥
भार्यायां जनितं पुत्रमादर्शेष्विव चाननम्
।
ह्लादते जनिता प्रेक्ष्य स्वर्गं प्राप्येव पुण्यकृत् ॥४९॥
दह्यमाना मनोदुःखैर्व्याधिभिश्चातुरा नराः
।
ह्लादन्ते स्वेषु दारेषु घर्मार्ताः सलिलेष्विव ॥५०॥
सुसंरब्धोऽपि रामाणां न कुर्यादप्रियं नरः
।
रातं प्रीतिं च धर्मं च तास्वायत्तमवेक्ष्य हि ॥५१॥
सुसंरब्धोऽपि अतिक्रुद्धोऽपि । रामाणां रम्यस्त्रीणाम् ॥५१॥
आत्मनो जन्मनः क्षेत्रं पुण्यं रामाः सनातनम्
।
ऋषीणामपि का शक्तिः स्रष्टुं रामामृते प्रजाम्॥५२॥
प्रतिपद्य यदा सूनुर्धरणी रेणुगुण्ठितः
।
पितुराश्लिष्यतेऽङ्गानि किमस्त्यभ्यधिकं ततः॥५३॥
प्रतिपद्य प्रत्येत्य ॥५३॥
स त्वं स्वयमभिप्राप्तं साभिलाषमिमं सुतम्
।
प्रेक्षमाणं कटाक्षेण किमर्थमवमन्यसे॥५४॥
अण्डानि बिभ्रति स्वानि न भिन्दति पिपीलिकाः
।
न भरेथाः कथं नु त्वं धर्मशः सन्खमात्मजम् ॥५५॥
न वाससां न रामाणां नापां स्पर्शस्तथाविधः
।
शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथा सुखः॥५६॥
शिशोरजातदन्तस्य सूनोः ॥५६॥
ब्राह्मणो द्विपदां श्रेष्ठो गौर्बरिष्ठा चतुष्पदाम्
।
गुरुर्गरीयसां श्रेष्ठः पुत्रः स्पर्शवतां वरः ॥५७॥
स्पृशतु त्वां समाश्लिष्य पुत्रोऽयं प्रियदर्शनः
।
पुत्रस्पर्शात्सुखतरः स्पर्शो लोके न विद्यते॥५८॥
त्रिषु वर्षेषु पूर्णेषु प्रजाताऽहमरिंदम्
।
इमं कुमारं राजेन्द्र तव शोकविनाशनम् ॥५९॥
आहर्ता वाजिमेधस्य शतसंख्यस्य पौरव
।
इति वागन्तरिक्षे मां सूतकेऽभ्यवदत्पुरा ॥६०॥
ननु नामाङ्कमारोप्य स्नेहाद्ग्रामान्तरं गताः
।
मूर्ध्नि पुत्रानुपाघ्राय प्रतिनन्दन्ति मानवाः ॥६१॥
वेदेष्वपि वदन्तीमं मन्त्रग्रामं द्विजातयः
।
जातकर्मणि पुत्राणां तवापि विदितं तथा ॥६२॥
अङ्गादङ्गात्संभवसि हृदयादधिजायसे
।
आत्मा वै पुत्र नामासि स जीव शरदः शतम्॥६३॥
मन्त्रग्राममेव पठति । अङ्गादिति । शरदः वर्षाणि ॥६३॥
जीवितं त्वदधीनं मे संतानमपि चाक्षयम्
।
तस्मात्वं जीव मे पुत्र सुसुखी शरदां शलम् ॥६४॥
त्वदङ्गेभ्यः प्रसुतोऽयं पुरुषात्पुरुषोपरः
।
सरसीवामलेत्मानं द्वितीयं पश्य वै सुतम् ॥६५॥
त्मानम् आत्मानं द्वितीयम् । प्रतिबिम्बे इव तव सादृश्यमत्र पश्येति भावः ॥६५॥
यथा ह्याहवनीयोऽग्निर्गार्हपत्यात्मणीयते
।
तथा त्वत्तः प्रसूतोऽयं त्वमेकः सन्द्विधाकृतः॥६६॥
एकः सन्पुत्रे जाते योगीवद्द्विधाकृतो द्वैरूप्यं गतः ॥६६॥
मृगावकृष्टेन पुरा मृगयां परिधावताः
।
अहमासादिता राजन्कुमारी पितुराथमे ॥६७॥
उर्वशीपूर्वचित्तिश्च सहजन्या च मेनका
।
विश्वाची च घृताची च षडेवाप्सरसां वराः॥६८॥
तासां सा मेनका नाम ब्रह्मयोनिर्वराप्सराः
।
दिवः संप्राप्य जगतीं विश्वामित्रादजीजनत्॥६९॥
सा प्रसिद्धा अजीजनत् मामितिशेषः ॥ ६९॥
सा मां हिमवतः प्रस्थे सुषुवे मेनकाऽप्सराः
।
अवकीर्य च मां यातां परात्मजमिवासती॥७०॥
अवकीर्य अधस्त्यक्त्वा। असती अपत्यस्नेहहीना ॥७०॥
किं नु कर्मांशुभं पूर्व कृतवत्यन्यजन्मनि
।
यदहं बान्धवैस्त्यक्ता बाल्ये संप्रति च त्वया ॥७१॥
कामं त्वया परित्यक्ता गमिष्यामि स्वमाश्रमम्
।
इमं तु बालं संत्यक्तुं नार्हस्यात्मजमात्मनः॥७२॥
दुष्यन्त उवाच ।
न पुत्रमभिजानामि त्वयि जातं शकुन्तले
।
असत्यवचना नार्यः कस्ते श्रद्धास्यते वचः ॥७३॥
मेनका निरनुक्रोशा बन्धकी जननी तव
।
यया हिमवतः पृष्ठे निर्माल्यमिव चोज्झिता ॥७४॥
स चापि निरनुक्रोशः क्षत्रयोनिः पिता तव
।
विश्वामित्रो ब्राह्मणत्वे लुब्धः कामवशं गतः॥७५॥
तव पितरौ नीचौ उच्चैौ चेत्कथं त्वमेवं भाषस इत्याह द्वाभ्यां स चेति ॥७५॥
मेनकाऽप्सरसां श्रेष्ठा महर्षीणां पिता च ते
।
तयोरपत्यं कस्मात्त्वं पुंश्चलीव प्रमाषसे ॥७६॥
अश्रद्धेयमिदं वाक्यं कथयन्ती न लज्जसे
।
विशेषतो मत्सकाशे दुष्टतापसि गम्यताम् ॥७७॥
क्व महर्षिः स चैवाग्र्यः साऽप्सरा क्व च मेनका
।
क्व च त्वमेवं कृपणा तापसी वेषधारिणी ॥७८॥
अतिकायश्च ते पुत्रो बालोऽतिबलवानयम्
।
कथमल्पेन कालेन शालस्तम्भ इवोद्गतः॥७९॥
सुनिकृष्टा च ते योनिः पुंश्चलीष प्रभाषसे
।
यदृच्छया कामरागाज्जाता मेनकया ह्यसि ॥८०॥
सर्वमेतत्परोक्षं मे यत्त्वं वद्धि तापसि
।
नाहं त्वामभिजानामि यथेष्टं गम्यतां त्वया ॥८१॥
परोक्षम् अविश्वसनीयम् ॥८१॥
शकुन्तलोवाच
।
राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि
।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥८२॥
मेनका त्रिदशेष्वेव त्रिदशाश्चानुमेनकाम्
।
ममैवोद्रिच्यते जन्म दुष्यन्त तव जन्मनः ॥८३॥
क्षितावटसि राजेन्द्र अन्तरिक्षे चराम्यहम्
।
आवयोरन्तरं पश्य मेरुसर्षपयोरिव ॥८४॥
महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च
।
भवनान्यनुसंयामि प्रभावं पश्य मे नृप ॥८५॥
सत्यश्चापि प्रवादोयं यं प्रवक्ष्यामि तेऽनघ
।
निदर्शनार्थं न द्वेषाच्छ्रुत्वा तं क्षन्तुमर्हसि॥८६॥
विरूपो यावदादर्शे नात्मनः पश्यते मुखम्
।
मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ॥८७॥
यदा स्वमुखमादर्शे विकृतं सोऽभिवीक्षते
।
तदान्तरं विजानीते आत्मानं चेतरं जनम्॥८८॥
अतीवरूपसंपन्नो न कंचिदवमन्यते
।
अतीवजल्पन्दुर्वाचो भवतीह विहेठकः ॥८९॥
विहेठकः निन्दकः परोपतापको वा ‘हेठ’विबाधायाम् ॥ ८९॥
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः
।
अशुभं वाक्यमादत्ते पुरीषमिव सूकरः॥९०॥
प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः
।
गुणवद्वाक्यमादते हंसः क्षीरमिवाम्भसः॥९१॥
अन्यान्परिवदन्साधुर्यथा हि परितप्यते
।
तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः ॥९२॥
अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम्
।
एवं सज्जनमाक्रुक्ष्य मूर्खा भवति निर्वृतः॥९३॥
निर्वृतः सुखी ॥९३॥
सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः
।
यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान्॥९४॥
यत्र विषये परैः सद्भिः वाच्याः निन्द्याः सन्तो दुरात्मानः परान्साधून्निन्द्यानाहुः ॥९४॥
अतो हास्यतरं लोके किंचिदन्यन्न विद्यते
।
यत्र दुर्जनमित्याह दुर्जनः सज्जनं स्वयम् ॥९५॥
सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव
।
अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः॥९६॥
अनास्तिकः आस्तिकाद्भिन्नः ॥९६॥
स्वयमुत्पाद्य वै पुत्रं सदृशं यो न मन्यते
।
तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते ॥९७॥
इह श्रियं घ्नन्ति लोकानमुत्र ॥९७॥
कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन्
।
उत्तमं सर्वधर्माणां तस्मात्पुत्रं न संत्यजेत् ॥९८॥
स्वपत्नीप्रभवान्पञ्च लब्धान्कीतान्विवार्धितान्
।
कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् ॥९९॥
स्वपत्नीप्रभवान् अन्यासु चोत्पन्नांश्चतुर्विधानेवं पञ्च पुत्रान्प्रचक्षते । कृतान् उपनयनादिना संस्कृतान् ॥९९॥
धर्मकीर्त्यावहानॄणां मनसः प्रीतिवर्धनाः
।
त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन्॥१००॥
स त्वं नृपतिशार्दूल पुत्रं न त्यक्तुमर्हसि
।
आत्मानं सत्यधर्मौ च पालयन्पृथिवीपते
।
नरेन्द्रसिंहकपटं न वोढुं त्वमिहार्हसि॥१०१॥
आत्मानं पालयन् पालनहेतोः ॥१०१॥
वरं कूपशताद्वापी वरं वापीशतात्क्रतुः
।
वरं ऋतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥१०२॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
।
अश्वमेधसहस्त्राद्धि सत्यमेव विशिष्यते ॥१०३॥
सर्ववेदाधिगमनं सर्वेतीर्थावगाहनम्
।
सत्यं च वचनं राजन्समं वा स्यान्न वा समम्॥१०४॥
नास्ति सत्यसमो धर्मो न सत्याद्विद्यते परम्
।
न हि तीव्रतरं किंचिदनृतादिह विद्यते ॥१०५॥
राजन्सत्यं परं ब्रह्म सत्यं च समयः परः
।
मा त्याक्षीः समयं राजन्सत्यं संगतमस्तु ते ॥१०६॥
समयः नियमः संगतं सख्यम् ॥१०६॥
अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम्
।
आत्मना हन्त गच्छामि त्वादृशेनास्ति संगतम्॥१०७॥
त्वामृतेऽपि हि दुष्यन्त शैलराजावतंसकाम्
।
चतुरंतामिमामुर्वीं पुत्रो मे पालयिष्यति ॥१०८॥
अत्र ‘ऋतेऽपि गर्दभक्षीरात्पयः पास्यति मे सुतः’ इति क्वचित्पठ्यते तस्यायं भावः । गर्दभी क्षीवत्त्वया दत्तमपि राज्यं परित्यज्य स्वभुजबलेनैव मत्पुत्रो राज्यं करिष्यतीति । त्वामिति चतुरन्तां चतुःसमुद्रान्ताम् ॥१०८॥
वैशंपायन उवाच ।
एतावदुक्त्वा राजानं प्रातिष्ठत शकुन्तला
।
अथान्तरिक्षाद्दुष्यन्तं वागुवाचाशरीरिणी ॥१०९॥
ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्च वृतं तदा
।
भस्त्रा माता पितुः पुत्रो येन जातः स एव सः॥११०॥
भस्त्रा चर्मकोशः । तत्र निहितं बीजं यथा तदीयं न भवति एवं मातापि भस्त्रेव । येन हेतुना यो जातः स एव सः । कार्यस्य कारणानन्यत्वात् ॥११०॥
भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम्
।
रेतोधाः पुत्र उन्नयति नरदेवयमक्षयात् ॥१११॥
भरस्व धारयस्व पोषयस्व वा । रेतोधाः रेतः सेक्ता यः स एव पुत्रः पितुरनन्य एवेत्यर्थः । उन्नयति ऊर्ध्वं नयति । यमक्षयात् नरकात् पितॄनिति शेषः ॥१११॥
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला
।
जाया जनयते पुत्रमात्मनोऽङ्गाद्द्विधा कृतम् ॥११२॥
धाता निषेक्ता ॥११२॥
तस्माद्भरस्व दुष्यन्त पुत्रं शाकुन्तलं नृप
।
अभूतिरेषा यत्त्यक्त्वा जीवेज्जिवन्तमात्मजम्॥११३॥
अभूतिः अभाग्यम् ॥११३॥
शाकुन्तलं महात्मानं दौष्यन्तिं भर पौरव
।
भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि ॥११४॥
तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः
।
तच्छ्रुत्वा पौरवो राजा व्याहृतं त्रिदिवौकसाम्॥११५॥
पुरोहितममात्यांश्च संप्रहृष्टोऽब्रवीदिदम्
।
शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम् ॥११६॥
अहं चाप्येवमेवैनं जानामि स्वयमात्मजम्
।
भवेद्धि शङ्क्यो लोकस्य नैव शुद्धो भवेदयम् ॥११७॥
गृह्णीयामि गृह्णीयाम् इतोलोपाभाव आर्षः ॥११७॥
वैशंपायन उवाच
।
तं विशोध्य तदा राजा देवदूतेन भारत
।
हृष्टः प्रमुदितञ्चापि प्रतिजग्राह तं सुतम् ॥११८॥
ततस्तस्य तदा राजा पितृकर्माणि सर्वशः
।
कारयामास मुदितः प्रीतिमानात्मजस्य ह ॥११९॥
पितृकर्माणि पित्रा कर्तव्यान्युपनयनादीनि ॥११९॥
मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे
।
सभाज्यमानो विप्रैश्च स्तूयमानश्च वन्दिभिः
।
स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः ॥१२०॥
सभाज्यमानः पूज्यमानः ॥१२०॥
तां चैव भार्यां दुष्यन्तः पूजयामास धर्मतः
।
अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ॥१२१॥
कृतो लोकपरोक्षोऽयं संबन्धोऽयं त्वया सह
।
तस्मादेतन्मया देवि त्वष्छुद्ध्यर्थं विचारितम् ॥१२२॥
मन्यते चैव लोकास्ते स्त्रीभावान्मथि संगतम्
।
पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम्॥१२३॥
यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये
।
प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे॥१२४॥
तामेवमुक्त्वा राजर्षिर्दुष्यन्तो महिषीं प्रियाम्
।
वासोभिरन्नपानैश्च पूजयामास भारत ॥१२५॥
दुष्यन्तस्तु तदा राजा पुत्रं शाकुन्तलं तदा
।
भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् ॥१२६॥
तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः
।
भास्वरं दिव्यमजितं लोकसंनादनं महत् ॥१२७॥
स विजित्य महीपालांश्चकार वशवर्तिनः
।
चचार च सतां धर्मं प्राप चानुत्तमं यशः ॥१२८॥
स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान्
।
ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः ॥१२९॥
चक्रं रथचक्रम् आज्ञा वा अन्यतरेण सर्वं व्याप्नोतीति चक्रवर्ती । सार्वभौमः सर्वभूमीश्वरः ॥१२९॥
याजयामास तं कण्वो विधिवद्भूरिदक्षिणम्
।
श्रीमान्गोविततं नाम वाजिमेधमवाप सः
।
यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ ॥१३०॥
पद्मानां कोटिशतानाम् ॥१३०॥
भरताद्भारती कीर्तिर्येनेदं भारतं कुलम्
।
अपरे ये च पूर्वे वै भारता इति विश्रुताः ॥१३१॥
भरतस्यान्ववाये हि देवकल्पा महौजसः
।
बभूवुर्ब्रह्मकल्पाश्च वहवो राजसत्तमाः॥१३२॥
येषामपरिमेयानि नामधेयानि सर्वशः
।
तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत
।
महाभागान्देवकल्पान्सत्यार्जवपरायणान्॥१३३॥
सत्यं ब्रह्म । आर्जवं धर्मः । ते एव परम् अयनं प्राप्यं येषां तान् ॥१३३॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि शकुन्तलोपाख्यने चतुःसप्ततितमोऽध्यायः॥७४॥
वैशंपायन उवाच।
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च
।
भरतस्य कुरोः पूरोराजमीढस्य चानघ॥१॥
पञ्चसप्ततितमोऽध्यायः वंशस्य भारतत्वे निमित्तमुक्त्वा तमेवाह । प्रजापतेरित्यादिना ॥१॥
यादवानामिमं वंशं कौरवाणां च सर्वशः
।
तथैव भरतानां च पुण्यं स्वस्त्ययनं महत्॥२॥
धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ
।
तेजोभिरुदिताः सर्वे महर्षिसमतेजसः॥३॥
दश प्राचेतसः पुत्राः सन्तः पुण्यजनाः स्मृताः
।
मुखजेनाग्निना यैस्ते पूर्वं दग्धा महौजसः॥४॥
प्राचेतसः प्राचे देशाय यज्ञक्रियया अतति सततं गच्छतीति प्राचेताः। चतुर्थ्या अलुक् । अत सातत्यगमनेऽस्मात्समरे अतमाना इत्यादौ यज्ञसातत्यार्थत्वेन दृष्टादसुन् । तस्य प्राचेतसः प्राचीनबर्हिषः। यद्वा प्राचे अतसं तृणमस्येति प्राचेतसः । नीचा तं धक्ष्यत सन्नशुष्कं इत्यादौ तृणेप्यतस शब्दो दृष्टः । अविमृष्टविधेयांशत्वदोषमाश्रित्य प्रचेतसामयं पिता प्राचेतस इति वा । अस्मिन्पक्षद्वये सुपांसुलुगिति षष्ठ्याःसुः । अन्ये तु प्रचेतस इति पाठं प्रकल्प्य प्राचीनवर्हिष इत्यध्याहरन्ति । पुण्यजनाः पुण्योत्पादकास्तपः शीला इत्यर्थः । यैस्ते महौजसो महाप्रभावा वृक्षौषधयो दग्धाः । ये ते पूर्वमिति पाठे तु ये पूर्वं पुण्यजना राक्षसाः स्मृतास्तेमी महौजसो वृक्षा भूमिमावृत्य प्राणिनां पीडाकरा दग्धा यैरिति शेषः ॥४॥
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः
।
संभूताः पुरुषव्याघ्र स हि लोकपितामहः॥५॥
वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः
।
आत्मतुल्यानजनयत्सहस्रं संशितव्रतान्॥६॥
वीरिण्या वीरणपुत्र्या ॥६॥
सहस्रसङ्ख्यान्संभूतान्दक्षपुत्रांश्च नारदः
।
मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम्॥७॥
मोक्षं मोक्षहेतुम् । सांख्यज्ञानं विवेकजं विज्ञानम् । एतेन ज्ञाततत्त्वाः प्रजा न कामयन्त इति दर्शितम् । तथा च श्रुतिः । ‘ किं प्रजया करिष्यामो येषां नोयमात्माऽयं लोकः’ इति ॥७॥
ततः पञ्चाशतं कन्या पुत्रिका अभिसन्दधे
।
प्रजापतिः प्रजादक्षः सिसृक्षुर्जनमेजय॥८॥
तत इति । स्त्रियः प्रायेण ज्ञानानर्हा इति भावः। तथा च श्रुतिः । ‘स्त्रिया अशास्यं मनः’ इति । अभिसंदधे पुत्रिका एव दौहित्रद्वारा मम पुत्रा इति मेने संकल्पितवान्वा ॥८॥
ददौ दश स धर्माय कश्यपाय त्रयोदश
।
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे॥९॥
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा
।
मारीचः कश्यपस्त्वस्यामादित्यान्समजीजनत्॥१०॥
इन्द्रादीन्वीर्यसंपन्नान्विवस्वन्तमथापि च
।
विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः॥११॥
मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः
।
यमश्चापि सुतो जज्ञे ख्यातस्यस्यानुजः प्रभुः॥१२॥
मार्तण्डस्य विवस्वतः । यमश्चेति पुनरुक्तिर्मनुतः कनिष्ठत्वप्रख्यापनार्था ॥१२॥
धर्मात्मा स मनुर्धीमान्यत्र वंशः प्रतिष्ठितः
।
मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत्॥१३॥
ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः
।
ततोऽभवन्महाराज ब्रह्म क्षत्रेण सङ्गतम्॥१४॥
ब्राह्मणा मानवास्तेषां साङ्गं वेदमदारयन्
।
वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च॥१५॥
कारूषमथ शर्यातिं तथा चैवाष्टमीमिलाम्
।
पृष्टध्रं नवमं प्राहुः क्षत्रधर्मपरायणम्॥१६॥
नाभागारिष्टदशमान्मनोः पुत्रान्प्रचक्षते
।
पञ्चाशत्तु मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ॥१७॥
चतुर्थान्नाभागादन्योऽयंना भागारिष्टो दशमः ॥१७॥
अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम्
।
पुरूरवास्ततो विद्वानिलायां समपद्यत॥१८॥
अन्योन्यभेदात्परस्परवैरात् ॥१८॥
सा वै तस्याभवन्माता पिता चैवेति नः श्रुतम्
।
त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः॥१९॥
मातैव लब्धपुंभावा राज्यदानात्पिताप्यभूत् । मुख्यः पिता तु बुध एव । त्रयोदशद्वीपाः । अवान्तरभेदात् । ते च स्वर्णप्रस्थचन्द्रशुक्ल आवर्तनो रमणको मन्दरहरिणः पाञ्चजन्यः सिंहलोलंकारोमकपत्तनं सिद्धपुरं यमकोटिरित्येकादशजम्बूद्वीपस्योपद्वीपाः । द्वादशो जंबुद्वीपः प्लक्षादिषट्कं चेत्यष्टादशद्वीपाः । प्लक्षादिषट्कस्यैकत्वविवक्षया त्रयोदश ॥१९॥
अमानुषैर्वृतः सत्वैर्मानुषः सन्महायशाः
।
विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः॥२०॥
जहार च स विप्राणां रत्नान्युत्क्रोशतामपि
।
सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह॥२१॥
अनुदर्शं ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ
।
ततो महर्षिभिः क्रुद्धैः सद्यः शप्तो व्यनश्यत॥२२॥
अनुदर्शं दर्शो दर्शनं स पश्चाद्यस्य श्रुतियुक्त्युपदेशोऽनुदर्शस्तम् । ततस्तदुपदेशमित्यर्थः । पाठान्तरे तु अनुदर्शयांचक्रे पूर्वराजचरितमिति शेषः । ‘तं पातयां प्रथममास पपात पश्चात्’ इत्यादौ दर्शनेनामतानुप्रयोगयोस्तत इति व्यवधानेऽपि न दोषः ॥२२॥
लोभान्वितो बलमदान्नष्टसंज्ञो नराधिपः
।
स हि गन्धर्वलोकस्थानुर्वश्या सहितो विराट्॥२३॥
विराड्विराजमानः ॥२३॥
आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा
।
षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः॥२४॥
त्रिधा गार्हपत्यदक्षिणाग्याहवनीयभेदेन । आयुः शब्द उकारान्तः सान्तश्च ॥२४॥
दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः
।
नहुषं वृद्धशर्माणं रजिं गयमनेनसम्॥२५॥
स्वर्भानवी सुतानेतानायोः पुत्रान्प्रचक्षते
।
आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः॥२६॥
राज्यं शशास सुमहद्धर्मेण पृथिवीपते
।
पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान्॥२७॥
नहुषः पालयामास ब्रह्मक्षत्रमथो विशः
।
स हत्वा दस्युसंघातानृषीन्करमदापयत्॥२८॥
सहत्वेति । ऋषिभ्यः करं जग्राहेत्यर्थः ॥२८॥
पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान्
।
कारयामास चेन्द्रत्वमभिभूय दिवौकसः॥२९॥
कारयामास चकार स्वार्थे णिच् ॥२९॥
तेजसा तपसा चैव विक्रमेणौजसा तथा
।
यतिं ययातिं संयातिमायातिमयतिं ध्रुवम्॥३०॥
तेजसा देहकान्त्या । विक्रमेण पराभिभवसामर्थ्येन । ओजसा बुद्धीन्द्रियबलेन ॥३०॥
नहुषो जनयामास षट्सुतान्प्रियवादिनः
।
यतिस्तु योगमास्थाय ब्रह्मीभूतोऽभवन्मुनिः॥३१॥
ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः
।
स पालयामास महीमीजे च बहुभिर्मखैः॥३२॥
अतिभक्त्या पितॄनर्चन्देवांश्च प्रयतः सदा
।
अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः॥३३॥
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः
।
देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे॥३४॥
देवयान्यामजायेतां यदुस्तुर्वसुरेव च
।
द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां च जज्ञिरे॥३५॥
स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन्
।
जरामार्च्छन्महाघोरां नाहुषो रूपनाशिनीम्॥३६॥
शाश्वतीः बह्वीः समाः वर्षाणि । आर्च्छत्प्राप्तवान् ॥३६॥
जराऽभिभूतः पुत्रान्स राजा वचनमब्रवीत्
।
यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत॥३७॥
यौवनेन चरन्कामान्युवा युवतिभिः सह
।
विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः॥३८॥
साह्यं सोढुं मर्षितुं योग्यम् । जराग्रहणजं दुःखं कुरुत अङ्गीकुरुत । साह्यं साहायकं वा ॥३८॥
तं पुत्रो दैवयानेयः पूर्वजो वाक्यमब्रवीत्
।
किं कार्यं भवतः कार्यमस्माकं यौवनेन ते॥३९॥
कार्यं प्रयोजनं कार्यं कर्तव्यम् ॥३९॥
ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम्
।
यौवनेन त्वदीयेन चरेयं विषयानहम्॥४०॥
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः
।
कामार्थः परिहीणोऽयं तप्येयं तेन पुत्रकाः॥४१॥
व्रतनिर्बन्धात् शुक्रशापाच्च कामरूपः पुरुषार्थो हीनः ॥४१॥
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः
।
अहं तन्वाऽभिनवया युवा काममवाप्नुयाम्॥४२॥
शरीरेण शरीरस्थजरया युक्त इति शेषः । वः युष्माकं मध्ये कामं कामसुखंम् ॥ ४२॥
तेन तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम्
।
तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः॥४३॥
राजंश्चराभिनवया तन्वा यौवनगोचरः
।
अहं जरां समादाय राज्ये स्थास्यामि ते ज्ञया॥४४॥
ते ज्ञया तव आज्ञया पूर्वरूपम् आकारलोपो वार्षः ॥४४॥
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात्
।
संचारयामास जरां तदा पुत्रे महात्मनि॥४५॥
पौरवेणाथ वयसा राजा यौवनमास्थितः
।
यायातेनापि वयसा राज्यं पूरुरकारयत्॥४६॥
ततो वर्षसहस्रान्ते ययातिरपराजितः
।
स्थितः स नृपशार्दूलः शार्दूलसमविक्रमः॥४७॥
ययातिरपि पत्नीभ्यां दीर्घकालं विहृत्य च
।
विश्वाच्या सहितो रेमे पुनश्चैत्ररथे वने॥४८॥
नाध्यगच्छत्तदा तृप्तिं कामानां स महायशाः
।
अवेत्य मनसा राजन्निमां गाथां तदा जगौ॥४९॥
कामानां कामभोगेन अवेत्य कामसेवया तृप्त्यभावं ज्ञात्वा ॥४९॥
न जातु कामः कामानामुपभोगेन शाम्यति
।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥५०॥
हविषा सभिदाज्यादिना ॥५०॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः
।
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत्॥५१॥
एकस्य कामिनः सर्वे नालमपर्याप्तं शमं कामशान्तिम् ॥५१॥
यदा न कुरुते पापं सर्वभूतेषु कर्हिचित्
।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा॥५२॥
सर्वथा कामशमे ब्रह्मैव भवतीत्याह । यदेति । पापं कामं भूतेषु पञ्चभूतात्मकेषु स्त्र्यादिषु विषयेषु । चतस्रो हि कामस्यावस्थाः । प्रसुप्तातन्वी विच्छिन्ना उदरा च । तत्र सुप्तिप्रलययोर्बीजमात्रावशेषा प्रसुप्ता वासनामात्रशेषे मनसि स्थिता । तन्वी तु लब्धवृत्तिके मनसि रूपादिदर्शनेन उद्भूता मनोरथात्मिका । विच्छिन्ना च समाधिकाले । तदा मूलज्ञानस्याभावात् । उदारा भोगकाले । तत्र कर्मणेति उदाराया व्यावृत्तिः । वाचेति तन्व्याः । मनसेति प्रसुप्तायाः । यदैवं तदैव ब्रह्म संपद्यते समाधौ विदेहकैवल्ये च । तथा च श्रुतिः । ‘यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ’ इति सर्वे उदाराद्याः ॥५२॥
यदा चायं न बिभेति यदा चस्मान्न बिभ्यति
।
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा॥५३॥
अयमेव कामः किंचिद्विव्रितः क्रोधो भवति सोऽपि स्वपरभयदायी नाशनीय इत्याह । यदा चेति । भयेच्छाद्वेषराहित्यादेव ब्रह्म संपद्यत इत्यर्थः ॥५३॥
इत्यवेक्ष्य महाप्राज्ञः कामानां फल्गुतां नृप
।
समाधाय मनो बुद्ध्या प्रत्यगृह्णाज्जरां सुतात्॥५४॥
कामप्रवणं मनोबुद्ध्या कामतुच्छत्वनिश्चयेन समाधाय निगृह्य ॥५४॥
दत्वा च यौवनं राजा पूरुं राज्येऽभिषिच्य च
।
अतृप्त एव कामानां पूरुं पुत्रमुवाच ह॥५५॥
अतृप्त इति । द्विधा हि कामनिवृत्तिः । दोषदृष्ट्या तृप्त्या च। ते च विवेकविज्ञानोत्थे इति विवेकवतो राज्ञो दोषदृष्ट्या कामेभ्यो निवृत्तावपि ब्रह्मज्ञानाभावादतृप्तिरिति भावः ॥५५॥
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः
।
पौरवो वंश इति ते ख्यातिं लोके गमिष्यति॥५६॥
दायादवान् पुत्रवान् ॥५६॥
वैशंपायन उवाच।
ततः स नृपशार्दूल पूरुं राज्येऽभिषिच्य च
।
ततः सुचरितं कृत्वा भृगुतुङ्गे महातपाः॥५७॥
सुचरितं सत्कर्मभृगुतुङ्गे पर्वतविशेषे ॥५७॥
कालेन महता पश्चात्कालधर्ममुपेयिवान्
।
कारयित्वा त्वनशनं सदारः स्वर्गमाप्तवान्॥५८॥
कारयित्वा कृत्वा । पारयित्वेति पाठे समाप्य ॥५८॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ययात्युपाख्याने पञ्चसप्ततितमोऽध्यायः॥५७॥
जनमेजय उवाच।
ययातिः पूर्वजोऽस्माकं दशमो यः प्रजापतेः
।
कथं स शुक्रतनयां लेभे परमदुर्लभाम्॥१॥
षट्सप्ततितमोऽध्यायः ययातिरिति ॥१॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन
।
आनुपूर्व्या च मे शंस राज्ञो वंशकरान्पृथक्॥२॥
वैशंपायन उवाच।
ययातिरासीन्नृपतिर्देवराजसमद्युतिः
।
तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा॥३॥
विप्रदानवौ वत्राते जामातृत्वेनेतिशेषः ॥३॥
तत्तेऽहं संप्रवक्ष्यामि पृच्छते जनमेजय
।
देवयान्याश्च संयोगं ययातेर्नाहुषस्य च॥४॥
सुराणामसुराणां च समजायत वै मिथः
।
ऐश्वर्यं प्रतिसंघर्षस्त्रैलोक्ये सचराचरे॥५॥
सुराणामिति । त्रैलोक्यैश्वर्य विषये । प्रतिसंघर्षो ‘वयमीश्वरा भविष्यामो वयमश्विरा भविष्याम’ इति स्पर्धा ॥५॥
जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम्
।
पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे॥६॥
जिगीषयेति सार्धश्लोकः । याज्यार्थेऽन्योन्यस्पर्धिनाविति संबन्धः ॥६॥
ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम्
।
तत्र देवा निजघ्नुर्यान्दानवान्युधि संगतान्॥७॥
तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात्
।
ततस्ते पुनरुत्थाय योधयांचक्रिरे सुरान्॥८॥
असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि
।
न तान्सञ्जीवयामास बृहस्पतिरुदारधीः॥९॥
न हि वेद स तां विद्यां यां काव्यो वेत्ति वीर्यवान्
।
सञ्जीविनीं ततो देवा विषादमगमन्परम्॥१०॥
ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा
।
ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः॥११॥
भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम्
।
या सा विद्या निवसति ब्राह्मणेऽमिततेजसि॥१२॥
शुक्रे तामाहर क्षिप्रं भागभाङ्गो भविष्यसि
।
वृषपर्वसमीपे हि शक्यो द्रष्टुं त्वया द्विजः॥१३॥
रक्षते दानवांस्तत्र न स रक्षत्यदानवान्
।
तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम्॥१४॥
रक्षते । कर्मव्यतिहारे ‘तङ्’ । शुक्रं हि दानवा रक्षन्ति अयमस्मत्तो मा गादिति । शुक्रस्तु तान् रक्षत्येव । अदानवान्देवान् । मृतसंजीविन्या न रक्षति ॥१४॥
देवयानीं च दयितां सुतां तस्य महात्मनः
।
त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते॥१५॥
शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च
।
देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम्॥१६॥
तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः
।
तदाऽभिपूजितो देवैः समीपे वृषपर्वणः॥१७॥
स गत्वा त्वरितो राजन्देवैः संप्रेषितः कचः
।
असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह॥१८॥
ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः
।
नाम्ना कचमितिख्यातं शिष्यं गृह्णात् मां भवान्॥१९॥
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ
।
अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान्॥२०॥
शुक्र उवाच।
कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः
।
अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः॥२१॥
वैशंपायन उवाच।
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम्
।
आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम्॥२२॥
भृगोः पुत्रः कविस्तत्पुत्रः शुक्रः काव्यः । स कविरित्यप्युपचारादुच्यते । शुक्रेण रुद्रशुक्ररूपेण ॥२२॥
व्रतस्य प्राप्तकालं स यथोक्तं प्रत्यगृह्णत
।
आराधयन्नुपाध्यायं देवयानीं च भारत॥२३॥
प्राप्तः कालं ‘प्राप्तापन्ने च द्वितीया' इति समासः । प्राप्तकालं कचम् ॥२३॥
नित्यमाराधयिष्यंस्तां युवा यौवनगोचरे
।
गायन्नृत्यन्वादयंश्च देवयानीमतोषयत्॥२४॥
स शीलयन्देवयानीं कन्यां संप्राप्तयौवनाम्
।
पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत॥२५॥
प्रेषणैः प्रेष्यत्वादिभिः ॥२५॥
देवयान्यपि तं विप्रं नियमव्रतधारिणम्
।
गायन्ती च ललन्ती च रहः पर्यचरत्तथा॥२६॥
पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम्
।
तत्रातीयुरथोबुद्ध्वा दानवास्तं ततः कचम्॥२७॥
अंतीयुः ब्राह्मणस्यावध्यत्वमतिक्रान्तवन्त इत्यर्थः ॥२७॥
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः
।
जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च॥२८॥
हत्वा शालावृकेभ्यश्च प्रायच्छँल्लवशः कृतम्
।
ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम्॥२९॥
सा दृष्ट्वा रहिता गाश्च कचेनाभ्यागता वनात्
।
उवाच वचनं काले देवयान्यथ भारत॥३०॥
उवाच शुक्रं प्रति ॥३०॥
देवयान्युवाच।
आहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो
।
अगोपाश्चागता गावः कचस्तात न दृश्यते॥३१॥
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति
।
तं विना न च जीवेयमिति सत्यं ब्रवीमि ते॥३२॥
शुक्र उवाच।
अयमेहीति संशब्द्य मृतं संजीवयाम्यहम्
।
ततः संजीविनीं विद्यां प्रयुज्य कचमाह्वयत्॥३३॥
संशब्द्य शब्दं कृत्वा ॥३३॥
भित्त्वा भित्त्वा शरीराणि वृकाणां स विनिर्गतः
।
आहूतः प्रादुरभवत्कचो हृष्टोऽथ विद्यया॥३४॥
कस्माच्चिरायितोऽसीति पृष्टस्तामाह भार्गवीम्
।
समिधश्च कुशादीनि काष्ठभारं च भामिनि॥३५॥
भाविनि हे शुद्धभाववति ! ॥ ३५॥
गृहीत्वाश्रमभारात्तं वटवृक्षं समाश्रितः
।
गावश्च सहिताः सर्वा वृक्षच्छायामुपाश्रिताः॥३६॥
असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन्
।
बृहस्पतिसुतश्चाहं कच इत्यभिविश्रुतः॥३७॥
इत्युक्तमात्रे मां हत्वा पेषीकृत्वा तु दानवाः
।
दत्त्वा शालावृकेभ्यस्तु सुखं जग्मुः स्वमालयम्॥३८॥
पेषःपिष्टं पिष्टीकृत्येत्यर्थः । पेषीकृत्वेति समासेऽपि क्त्वोल्यबादेशाभाव आर्षः॥३८॥
आहूतो विद्यया भद्रे भार्गवेण महात्मना
।
त्वत्समीपमिहायातः कथंचित्प्राप्तजीवितः॥३९॥
समं संपूर्णं जीवितं यस्य सः । अन्तरा मरणे हि अप्राप्तविद्यत्वाद्व्यर्थं जीवनमिति भावः ॥३९॥
हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया
।
स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया॥४०॥
वनं ययौ कचो विप्रो ददृशुर्दानवाश्च तम्
।
पुनस्तं पेषयित्वा तु समुद्राम्भस्यमिश्रयन्॥४१॥
चिरं गतं पुनः कन्या पित्रे तं संन्यवेदयत्
।
विप्रेण पुनराहूतो विद्यया गुरुदेहजः
।
पुनरावृत्य तद्वृत्तं न्यवेदयत तद्यथा॥४२॥
गुरुदेहजः कचः आवृत्य आगत्य तद्वृत्तम् असुरचेष्टितम् ॥४२॥
ततस्तृतीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः
।
प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तथा॥४३॥
ब्राह्मणाय शुक्राय ॥४३॥
देवयान्यथ भूयोऽपि पितरं वाक्यमब्रवीत्
।
पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते॥४४॥
पेषणकृत्कार्यकर्ता ॥४४॥
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति
।
तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते॥४५॥
शुक्र उवाच।
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः
।
विद्यया जीवितोऽप्येवं हन्यते करवाम किम्॥४६॥
मैवं शुचो मा रुद देवयानि न त्वादृशी मर्त्यमनुप्रशोचते
।
यस्यास्तव ब्रह्म च ब्राह्मणाश्च सेन्द्रा देवा वसवोऽथाश्विनौ च॥४७॥
मर्त्यं त्वं तु मत्प्रभावादमरकल्पाऽसि । ब्रह्म वेदः। तस्य नमनं स्वार्थप्रकाशेन॥४७॥
सुरद्विषश्चैव जगच्च सर्वमुपस्थाने सन्नमन्ति प्रभावात्
।
अशक्योऽसौ जीवयितुं द्विजातिः संजीवितो बध्यते चैव भूयः॥४८॥
प्रभावान्ममेति शेषः । उपस्थाने संध्योपस्थानकाले त्रिसंध्यमित्यर्थः ॥४८॥
देवयान्युवाच।
यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपोनिधिः
।
ऋषेः पुत्रं तमथो वापि पौत्रं कथं न शोचेयमहं न रुद्याम्॥४९॥
स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्मसु चैव दक्षः
।
कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचोऽभिरूपः॥५०॥
वैशंपायन उवाच।
स पीडितो देवयान्या महर्षिः समाह्वयत्संरभच्चेव काव्यः
।
असंशयं मामसुरा द्विषन्ति ये मे शिष्यानागतान्सूदयन्ति॥५१॥
समाह्वयत् आक्रोशं कृतवान् । संरंभात् क्रोधात् । सर्वान्दैत्यानेकत्राहृय उपालब्धवानित्यर्थः । उपालम्भमेवाह । असंशयमिति । द्विषन्तीति मध्यमपुरुषाप्रयोगः क्रोधावेशसूचनार्थः ॥५१॥
अब्राह्मणं कर्तुमिच्छन्ति रौद्रास्ते मां यथा व्यभिचरन्ति नित्यम्
।
अप्यस्य पापस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम्॥५२॥
माम् अब्राह्मणं उदरे कचस्य पाकेन ब्रह्महत्याप्रसञ्जनेन कर्तुमिच्छन्ति । व्यभिचरन्ति विरुद्धमाचरन्ति मदुदरे ब्राह्मणप्रवेशनेन । अन्तः परिपाकः ॥५२॥
गुरोर्हि भीतो विद्यया चोपहूतः शनैर्वक्यं जठरे व्याजहार
।
वैशंपायन उवाच।
तमब्रवीत्केन पथोपनीतस्त्वं चोदरे तिष्ठसि ब्रूहि विप्र॥५३॥
कच उवाच।
तव प्रसादान्न जहाति मां स्मृतिः स्मरामि सर्वं यच्च यथा च वृत्तम्
।
न त्वेवं स्यात्तपसः संक्षयो मे ततः क्लेशं घोरमिमं सहामि॥५४॥
तपसः संक्षयो गुरुदरविदारणात् । क्लेशं संकीर्णोदरे वासजम् ॥५४॥
असुरैः सुरायां भवतोऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य
।
ब्राह्मीं मायां चासुरीं विप्र मायां त्वयि स्थिते कथमेवातिवर्तेत्॥५५॥
चाद्दैवीं मायाम् । मायात्रयविदि त्वयि सति को देवोऽसुरो ब्राह्मणो वाऽतिक्रामेत् । अतस्त्वदुदरभेदनं मम दुःसाध्यमेवेति भावः ॥५५॥
शुक्र उवाच।
किं ते प्रियं करवाण्यद्य वत्से वधेन मे जीवितं स्यात्कचस्य
।
नान्यत्र कुक्षेर्मम भेदनेन दृश्येत्कचो मद्गतो देवयानि॥५६॥
देवयान्युवाच।
द्वौ मां शोकावग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः
।
कचस्य नाशे मम शर्म नास्ति तवोपघाते जीवितुं नास्मि शक्ता॥५७॥
शुक्र उवाच।
संसिद्धरूपोऽसि बृहस्पतेः सुत यत्त्वां भक्तं भजते देवयानी
।
विद्यामिमां प्राप्नुहि जीवनीं त्वं न चेदिन्द्रः कचरूपी त्वमद्य॥५८॥
न चेदिन्द्रः । इन्द्रश्चेत्त्वन्तर्हि त्वामुदरे जीर्णं करिष्याम्येवेति भावः ॥५८॥
न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात्
।
ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि॥५९॥
नेति । त्वं तु ब्राह्मणत्वादवध्यो ममेत्यर्थः ॥५९॥
पुत्रो भूत्वा भावय भावितो मामस्मद्देहादुपनिष्क्रम्य तात
।
समीक्षेथा धर्मवतीमवेक्षां गुरोः सकाशात्प्राप्य विद्यां सविद्यः॥६०॥
भावय जीवय । भावितो मया जीवितः । कृतघ्नो माभूरिति भावः ॥६०॥
वैशंपायन उवाच।
गुरोः सकाशात्समवाप्य विद्यां भित्त्वा कुक्षिं निर्विचक्राम विप्रः
।
कचोऽभिरूपस्तत्क्षणाद्ब्राह्मणस्य शुक्लात्यये पौर्णमास्यामिवेन्दुः॥६१॥
शुक्लस्य अन्होरवेर्वा अत्यये शुक्लात्यये ॥६१॥
दृष्ट्वा च तं पतितं ब्रह्मराशिमुत्थापयामास मृतं कचोऽपि
।
विद्यां सिद्धां तामवाप्याभिवाद्य ततः कचस्तं गुरुमित्युवाच॥६२॥
ब्रह्मराशिं वेदराशिम् ॥६२॥
यः श्रोत्रयोरमृतं सन्निषिञ्चेद्यो मे न विद्यस्य यथा ममायम्
।
तं मन्येऽहं पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन्॥६३॥
यः श्रोत्रयोरिति यथा मम श्रोत्रयोरयं शुक्रः अमृतम् अमरणसाधनीं विद्यां निषिक्तवान् तथान्योऽपि यो मे मम न विद्यस्य विद्याशून्यस्य । समासेऽपि नञोनभ्राडादिवत्प्रकृतिभावः । श्रोत्रयोः सद्वस्तुनिषिञ्चेत् । यः यत्सत् पुंस्त्वमार्षम् । अमृतं मोक्षरूपम् । तं निषेक्तारम् अहं पितरं मातरं च मन्ये। तस्मै निषेक्त्रे न द्रुह्येत् । कः अस्य कृतम् अनेन उपकृतं जानन्नद्रुह्येहम् । क्रुधद्गुहेर्ष्येति संप्रदानत्वम् ॥६३॥
ऋतस्य दातारमनुत्तमस्य निधिं निधीनामपि लब्धविद्याः
।
येनाद्रियन्ते गुरुमर्चनीयं पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः॥६४॥
ऋतस्य कर्मोपास्तिज्ञानकाण्डात्मकस्य वेदस्य निधीनां विद्यानां निधिम् आश्रयम् । विद्याया निधित्वं गोपायमाशेवधिष्टेऽहमस्मीति विद्यावचनात् । मा माम् । शेवधिर्निधिः । प्रतिष्ठा विद्याफलं तच्छून्या अप्रतिष्ठाः । निधीनां चतुरन्वयानामिति पाठे अध्ययनम् अर्थज्ञानम् अनुष्ठानं शिष्येभ्यः प्रतिपादनं चेति चत्वारि कर्मणि तेषु अन्वयः संबन्धो येषां निधीनां विद्यानामित्यर्थः ॥६४॥
वैशंपायन उवाच।
सुरापानाद्वचनां प्राप्य विद्वान्संज्ञानाशं चैव महातिघोरम्
।
दृष्ट्वा कचं चापि तथाभिरूपं पीतं तदा सुरया मोहितेन॥६५॥
समन्युरुत्थाय महानुभावस्तदोशना विप्रहितं चिकीर्षुः
।
सुरापानं प्रतिसंजातमन्युः काव्यः स्वयं वाक्यमिदं जगाद॥६६॥
यो ब्राह्मणोऽद्यप्रभृतीह कश्चिन्मोहात्सुरां पास्यति मन्दबुद्धिः
।
अपेतधर्मा ब्रह्महा चैव स स्यादस्मिंल्लोके गर्हितः स्यात्परे च॥६७॥
मया चैतां विप्रधर्मोक्तिसीमां मर्यादां वै स्थापितां सर्वलोके
।
सन्तो विप्राः शुश्रुवांसो गुरूणांदेवा लोकाश्चोपशृण्वन्तु सर्वे॥६८॥
इतीदमुक्त्वा स महानुभावस्तपोनिधीनां निधिरप्रमेयः
।
तान्दानवान्दैवविमूढबुद्धीनिदं समाहूय वचोऽभ्युवाच॥६९॥
आचक्षे वो दानवा बालिशाःस्थ सिद्धः कचो वत्स्यति मत्सकाशे
।
सञ्जीविनीं प्राप्य विद्यां महात्मा तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः॥७०॥
बालिशाः ममोदरे कचं पातयित्वा शीघ्रं तत्कार्यं सिद्धं कृतवन्तः ॥७०॥
एतावदुक्त्वा वचनं विरराम स भार्गवः
।
दानवा विस्मयाविष्टाः प्रययुः स्वं निवेशनम्॥७१॥
गुरोरुष्य सकाशे तु दशवर्षशतानि सः
।
अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम्॥७२॥
उष्य उषित्वा ॥७२॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ययात्युपाख्याने षट्सप्ततितमोऽध्यायः॥७६॥
वैशंपायन उवाच।
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः
।
कचादधीत्य तां विद्यां कृतार्था भरतर्षभ॥१॥
अष्टसप्ततितमोऽध्यायः कृतविद्य इति ॥१॥
सर्व एव समागम्य शतक्रतुमथाब्रुवन्
।
कालस्ते विक्रमस्याद्य जहि शत्रून्पुरन्दर॥२॥
एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा
।
तथेत्युक्त्वा प्रचक्राम सोऽपश्यत वने स्त्रियः॥३॥
मघवान् इन्द्रः । ‘मखेषु मघवानसौ’ इति भट्टिः । प्रचक्राम भूतलं प्रतीति शेषः॥३॥
क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे
।
वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत्॥४॥
वायुभूत इन्द्रः । कन्याद्वयद्वारा शुक्रदानवयोर्विरोधोत्पादनार्थम् ॥ ४॥
ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा
।
वस्त्राणि जगृहुस्तानि यथा सन्नान्यनेकशः॥५॥
तत्र वासो देवयानयाः शर्मिष्ठा जगृहे तदा
।
व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः॥६॥
ततस्तयोर्मिथस्तत्र विरोधः समजायत
।
देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते॥७॥
देवयान्युवाच।
कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि
।
समुदाचारहीनाया न ते साधु भविष्यति॥८॥
समुदाचरः सदाचारः ॥८॥
शर्मिष्ठोवाच।
आसीनं च शयानं च पिता ते पितरं मम
।
स्तौति बन्दीव चाभीक्ष्णं नीचैः स्थित्वा विनीतवत्॥९॥
याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः
।
सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः॥१०॥
आदुन्वस्व विदुन्वस्व द्रुह्य कुप्यस्व याचकि
।
अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि
।
लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम्॥११॥
आदुन्वस्वेति । ‘अत्र यथा इन्द्रेण युजातरुषेमवृत्रमित्यत्र उः सिप्शप् चेतिबहुलं छंदसीति बाहुलकाद्विकरणत्रयम् । एवमिहाप्यार्षत्वात् श्नुः शप् चेतिविकरणद्वयम् । आदुन्वस्व आभिमुख्येन वक्षस्ताडनादिना संतांपं प्राप्नुहि । विदुन्वस्व पांसुषु लुंठनादिना । द्रुह्य द्रोहं चिरकालिकं क्रोधं कुरु । कुप्यस्व सद्यः परानिष्टफलो यत्नः कोपस्तं कुरु । रिक्ता दरिद्रा ॥११॥
वैशंपायन उवाच।
समुच्छ्रयं देवयानीं गतां सक्तां च वाससि॥१२॥
प्रतियोद्धारं प्रहर्तारं शत्रुं मामेव । समुच्छ्रयं सत्यवचनेन महत्त्वम् ॥१२॥
शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमागमत्
।
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया॥१३॥
अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा
।
अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः॥१४॥
श्रान्तयुग्मः श्रान्तहयो मृगलिप्सुः पिपासितः
।
स नाहुषः प्रेक्षमाण उदपानं गतोदकम्॥१५॥
युग्याः रथवाहकाः । हयाः केवलाश्वाः । उदकं पीयतेऽस्मादिति उदपानं कूपम्॥१५॥
ददर्श राजा तां तत्र कन्यामग्निशिखामिव
।
तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम्॥१६॥
सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना
।
का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला॥१७॥
वल्गुना मञ्जुना। श्यामा षोडशवार्षिकी यौवनारुढा। सुमृष्ठानि दिव्यानि॥१७॥
दीर्घं ध्यायसि चात्यर्थं कस्माच्छिचषि चातुरा
।
कथं च पतिताऽस्यस्मिन्कूपे वीरुत्तृणावृते॥१८॥
वीरधो लताः॥१८॥
दुहिता चैव कस्य त्वं वद सत्यं सुमध्यमे
।
देवयान्युवाच।
योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया॥१९॥
तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते
।
एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः॥२०॥
समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः
।
जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम्॥२१॥
तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि
।
वैशंपायन उवाच।
तामथो ब्राह्मणीं कन्यां विज्ञाय नहुषात्मजः॥२२॥
गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात्
।
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः॥२३॥
अवटात् गर्तात् ॥२३॥
आमन्त्रयित्वा सुश्रेणीं ययातिः स्वपुरं ययौ
।
गते तु नाहुषे तस्मिन्देवयन्यप्यनिन्दिता॥२४॥
उवाच शोकसंतप्ता घूर्णिकामागतां पुरः
।
देवयान्युवाच।
त्वरितं घूर्णिके गच्छ शीघ्रमाचक्ष्व मे पितुः॥२५॥
घूर्णिकां दासीम् ॥२५॥
नेदानीं संप्रवेक्ष्यामि नगरं वृषपर्वणः
।
वैशंपायन उवाच।
सा तत्र त्वरितं गत्वा घूर्णिकाऽसुरमन्दिरम्॥२६॥
दृष्ट्वा काव्यमुवाचेदं संभ्रमाविष्टचेतना
।
आचचक्षे महाप्राज्ञं देवयानीं वने हताम्॥२७॥
हताम् ताडिताम् ॥२७॥
शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः
।
श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम्॥२८॥
त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने
।
दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने॥२९॥
बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत्
।
आत्मदोषैर्नियच्छन्ती सर्वे दुःखसुखे जनाः॥३०॥
नियच्छन्ति प्रयच्छन्ति । आत्मदोषैर्हेतुभिः स्वकर्मभिरेव सुखदुःखे जनात्प्राप्येते न तु जनस्यापराध इत्यर्थः ॥३०॥
मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता
।
देवयान्युवाच।
निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम॥३१॥
एतदेवाह । मन्ये इति । निष्कृतिः फलभोगेन निरसनम् ॥३१॥
शर्मिष्ठया यदुक्ताऽस्मि दुहित्रा वृषपर्वणः
।
सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः॥३२॥
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी
।
वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम्॥३३॥
तीक्ष्णं मर्मभित् । यतः परुषं निष्ठुराक्षरम् । ॥३३॥
स्तुवतो दुहिता नित्यं याचतः प्रतिगृह्णतः
।
अहं तु स्तूयमानस्य ददतोऽप्रतिगृह्णतः॥३४॥
इदं मामाह शर्मिष्ठा दुहिता वृषपर्वणः
।
क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः॥३५॥
इदं पूर्वोक्तम् ॥३५॥
यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः
।
प्रसादयिष्ये शर्मिष्ठामित्युक्ता तु सखी मया॥३६॥
शुक्र उवाच।
स्तुवतो दुहिता न त्वं याचतः प्रतिगृह्णतः
।
अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि॥३७॥
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः
।
अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम॥३८॥
नाहुषो ययातिः । मम ऐश्वरं निर्द्वंद्वमप्रतिपक्षं बलमस्ति ॥३८॥
यच्च किंचित्सर्वगतं भूमौ वा यदि वा दिवि
।
तस्याहमीश्वरो नित्यं तुष्टेनोक्तः स्वयंभुवा॥३९॥
ईश्वरत्वमेवाह । यच्चेति । स्वयंभुवा तत्त्वमसीत्यादिना वेदेन करणेन तुष्टेन गुरुणेति शेषः ॥३९॥
अहं जलं विमुञ्चामि प्रजानां हितकाम्यया
।
पुष्णाम्यौषधयः सर्वा इति सत्यं ब्रवीमि ते॥४०॥
अहं मनुरभवं यत्सूर्यश्चेति वदन्वामदेव इव स्वस्य सार्वात्म्यानुभवमाह । अहमिति॥४०॥
वैशंपायन उवाच।
एवं विषादमापन्नां मन्युना संप्रपीडिताम्
।
वचनैर्मधुरैः श्लक्ष्णैः सान्त्वयामास तां पिता॥४१॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ययात्युपख्यानेऽष्टसप्ततितमोऽध्यायः॥७८॥
वैशंपायन उवाच।
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह
।
वृषपर्वाणमासीनमित्युवाचाविचारयन्॥१॥
तत इति। काव्यः कविपुत्रः समन्युः सक्रोधः ॥१॥
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव
।
शनैरावर्त्यमानो हि कर्तुर्मूलानि कृन्तति॥२॥
पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति
।
फलत्येव ध्रुवं पायं गुरुभुक्तमिवोदरे॥३॥
पुत्रेष्विति । ननु पितृकृतं पुत्रेण भुज्यते चेच्छास्त्रफलं प्रयोक्तरीति न्यायविरोधापत्तिरिति चेन्न। यो वै भागिनं भागान्नुदते चयते वैनं ससयदि वैनं न चयतेऽथ पुत्रमथ पौत्रं चयत इति धनमानभागिनां दूरीकरणादवश्यं स्वयंपुत्रः पौत्रो वा नश्यतीति श्रुतेः। न्यायस्य तु जातेष्ट्यादिवत् पुत्रगतमपि फलं तदैकात्म्याभिमानात्पितर्यपि वक्तुं शक्यमतो न व्याकोपः। मृतेऽपि पितरि पुत्राणां दारिद्र्यदौर्जन्यादिना श्राद्धलोपादिकृतं दुःखादिफलमन्वेत्येवेति सुष्टूक्तं पुत्रेषु वेत्यादि ॥३॥
यदघातयिथा विप्रं कचमाङ्गिरसं तदा
।
अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम्॥४॥
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम
।
वृषपर्वन्निबोधेयं त्यक्ष्यामि त्वां सबान्धवम्
।
स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह॥५॥
अहो मामभिजानासि दैत्य मिथ्याप्रलापितनम्
।
यथेममात्मनो दोषं न नियच्छास्युपेक्षसे॥६॥
उपेक्षसे शपथमात्रेण मां सान्त्वयसि न तु दृष्टं दोषं निगृह्णासि ॥६॥
वृषपर्वोवाच।
नाधर्मं न मृषावादं त्वयि जानामि भार्गव
।
त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान्॥७॥
यद्यस्मानपहाय त्वमितो गच्छसि भार्गव
।
समुद्रं संप्रवेक्ष्यामि नान्यदस्ति परायणम्॥८॥
शुक्र उवाच।
समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः
।
दुहितुर्ना प्रियं सोहुं शक्तोऽहं दयिता हि मे॥९॥
प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम्
।
योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः॥१०॥
वृषपर्वोवाच।
यत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गव
।
भुवि हस्तिगवाश्वं च तस्य त्वं मम चेश्चरः॥११॥
शुक्र उवाच।
यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर
।
तस्येश्वरोऽस्मि यद्येषा देवयानी प्रसाद्यताम्॥१२॥
वैशंपायन उवाच।
एवमुक्तस्तथेत्याह वृषपर्वा महाकविः
।
देवयान्यन्तिकं गत्वा तमर्थं प्राह भार्गवः॥१३॥
महाकविरित्यादि पृथग्वाक्यम् ॥१३॥
देवयान्युवाच।
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव
।
नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम्॥१४॥
वृषपर्वोवाच।
यं काममभिकामाऽसि देवयानि शुचिस्मिते
।
तत्तेऽहं संप्रदास्यामि यदि वापि हि दुर्लभम्॥१५॥
देवयान्युवाच।
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये
।
अनु मां तत्र गच्छेत्सा यत्र दद्याच्च मे पिता॥१६॥
दासीमिति । इदं देवयान्या प्रार्थितं दासीसहस्रं शर्मिंष्ठापरिवारभूताद्दासीसहस्रादन्यत् । द्वाभ्यां कन्यासहस्राभ्यामिति वाक्यशेषात्॥१६॥
वृषपर्वोवाच।
उत्तिष्ठ त्वं गच्छ धात्रि शर्मिष्ठां शीघ्रमानय
।
यं च कामयते कामं देवयानी करोतु तम्॥१७॥
वैशंपायन उवाच।
ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत्
।
उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह॥१८॥
त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः
।
सायं कामयते कां स कार्योऽद्य त्वयाऽनघे॥१९॥
यं सा कामयते कामं करवाण्यहमद्य तम्
।
यद्येवमाह्वयेच्छुक्रो देवयानीकृते हि माम्
।
मद्दोषान्माऽगमच्छुक्रो देवयानी च मत्कृते॥२०॥
वैशंपायन उवाच।
ततः कन्यासहस्रेण वृता शिबिकया तदा
।
पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात्॥२१॥
शर्मिष्ठोवाच।
अहं दासीसहस्रेण दासी ते परिचारिका
।
अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता॥२२॥
देवयान्युवाच।
स्तुवतो दुहिताऽहं ते याचतः प्रतिगृह्णतः
।
स्तूयमानस्य दुहिता कथं दासी भविष्यसि॥२३॥
शर्मिष्ठोवाच।
येन केनचिदार्तानां ज्ञातीनां सुखमावहेत्
।
अतस्त्वामनुयास्यामि तत्र दास्यति ते पिता॥२४॥
वैशंपायन उवाच।
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः
।
देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत्॥२५॥
देवयान्युवाच।
प्रविशामि पुरं तात तुष्टाऽस्मि द्विजसत्तम
।
अमोघं तव विज्ञानमस्ति विद्या बलं च ते॥२६॥
विज्ञानं ब्रह्मानुभवः । विद्यामृतसंजीविनी ॥२६॥
वैशंपायन उवाच।
एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः
।
प्रविवेश पुरं हृष्टः पूजितः सर्वदानैवः॥२७॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ययात्य्पाख्यानेऽशीतितमोऽध्यायः॥८०॥
वैशंपायन उवाच।
अथ दीर्घस्य कालस्य देवयानी नृपोत्तम
।
वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी॥१॥
एकाशीतितमोऽध्यायः अथेति ॥१॥
तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा
।
तमेव देशं संप्राप्ता यथाकामं चचार सा॥२॥
तेन स्वयंवृतेन शर्मिष्ठया स्वीयदासीसहस्रोपेतया ॥२॥
ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम्
।
क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम्॥३॥
मधुमाधवीं मधुवृक्षजां मदिराम् ॥३॥
खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च
।
पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया॥४॥
तमेव देशं संप्राप्तो जलार्थी श्रमकर्शितः
।
ददर्श देवयानीं स शर्मिष्ठां ताश्च योषितः॥५॥
पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः
।
आसनप्रवरे दिव्ये सर्वरत्नविभूषिते
।
उपविष्टां च ददृशे देवयानीं शुचिस्मिताम्॥६॥
पिबन्तीः पेयं ललमानाः क्रीडन्तीः ॥६॥
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनम्
।
शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः॥७॥
ययातिरुवाच।
द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते
।
गोत्रे च नामनी चैव द्वयोः पृच्छाम्यहं शुभे॥८॥
द्वाभ्यामित्युक्तार्थं गोत्रे वंशकरावृषी ॥८॥
देवयान्युवाच।
आख्यास्याम्यहमादत्स्व वचनं मे नराधिप
।
शुक्रो नामा सुरगुरुः सुतां जानीहि तस्य माम्॥९॥
इयं च मे सखी दासी यत्राहं तत्र गामिनी
।
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः॥१०॥
ययातिरुवाच।
कथं तु ते सखी दासी कन्येयं वरवर्णिनी
।
असुरेन्द्रसुता सुभ्रूः परं कौतूहलं हि मे॥११॥
देवयान्युवाच।
सर्व एव नरश्रेष्ठ विधानमनुवर्तते
।
विधानविहितं मत्वा मा विचित्राः कथाःकृथाः॥१२॥
विधानं दैवम् अनुवर्तते अनुसृत्यास्ति ॥१२॥
राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च
।
को नाम त्वं कुतश्चासि कस्य पुत्रश्च शंस मे॥१३॥
ययातिरुवाच।
ब्रहमचर्येण वेदो मे कृत्स्रः श्रुतिपथं गतः
।
राजाहं राजपुत्रश्च ययातिरिति विश्रुतः॥१४॥
राज्ञो रूपं ब्राह्मी क्वेत्यत्र हेतुद्वयं व्युत्क्रमेणाह ब्रह्मेति ॥१४॥
देवयान्युवाच।
केनास्यर्थेन नृपते इमं देशमुपागतः
।
जिघृक्षुर्वारिजं किंचिदथवा मृगलिप्सया॥१५॥
अर्थेन कार्येण वारिजं मीनं पद्मादि वा ॥१५॥
ययातिरुवाच।
मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः
।
बहुधाऽप्यनुयुक्तोऽस्मि तदनुज्ञातुमर्हसि॥१६
देवयान्युवाच।
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह
।
त्वदधीनाऽस्मि भद्रं ते सखा भर्ता च मे भव॥१७॥
ययातिरुवाच।
विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि
।
अविवाह्या हि राजानो देवयानि पितुस्तव॥१८॥
देवयान्युवाच।
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्मसंहितम्
।
ऋषिश्चाप्यृषिपुत्रश्च नाहुषाङ्ग वहस्व माम्॥१९॥
संसृष्टम् उच्छिन्नस्य क्षत्रस्य ब्राह्मणवीर्यादेव पुनरुद्भवात् ब्रह्मणा क्षत्रं संसृष्टम् । क्षत्रियकन्यासु लोपामुद्रादिषु ब्राह्मणानामुत्पत्तिदर्शनात् । क्षत्रेण ब्रह्मसंहितं संमिश्रम् ऋषिः वुधादिलायां पुरूरवास्तत आयुस्ततो नहुषस्ततस्त्वमिति । क्षत्रियकन्यायां ब्राह्मणाज्जातो ब्राह्मणः क्षत्रियदारेषु ब्राह्मणाज्जातस्तु क्षत्रिय एवेत्याग्रहेऽपि इलायां क्षत्रियदारत्वाभावाद्युष्माकमृषित्वमेव तथ्यमित्यर्थः । हे अङ्ग वहस्व परिणयस्व ॥१९॥
ययातिरुवाच।
एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने
।
पृथग्धर्माः पृथक्शौचास्तेषां तु ब्राह्मणो वरः॥२०॥
एकस्येश्वरस्य देहो देहावयवाः मुखबाहूरुपादास्तदुद्भवाः ॥२०॥
देवयान्युवाच।
पाणि धर्मो नाहुषाऽयं न पुंभिः सेवितः पुरा
।
तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः॥२१॥
प्रागेव त्वया मम पाणिग्रहणं कृतमत इदानीं विचारावसरो नास्तीत्याशयेनाह । पाणीति पाणिधर्मः पाणिग्रहणाख्यो धर्मः ॥२१॥
कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत्
।
गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया॥२२॥
ययातिरुवाच।
क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्
।
दुराधर्षतरो विप्रो ज्ञेयः पुंसा विजानता॥२३॥
ययातिस्तु स्वस्य शर्मिष्ठासक्त्या देवयान्याः प्रकोपे सति शुक्राद्भीतः सन्मनस्येव उवाच क्रुद्धादिति ॥२३॥
देवयान्युवाच।
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्
।
दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ॥२४॥
ययातिरुवाच।
एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते
।
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः॥२५॥
दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम
।
अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम्॥२६॥
अदत्तामिति च्छेदः ॥२६॥
देवयान्युवाच।
दत्तां वहस्व तन्मा त्वं पित्रा राजन्वृतो मया
।
आयचतो भयं नास्ति दत्तां च प्रतिगृह्णतः॥२७॥
मा मां भयं क्षत्रियेण ब्राह्मणीपरिणयनदोषजम् ॥२७॥
वैशंपायन उवाच।
त्वरितं देवयान्याथ संदिष्टं पितुरात्मनः
।
सर्वं निवेदयामास धात्री तस्मै यथातथम्॥२८॥
श्रुत्वैव च स राजानं दर्शयामास भार्गवः
।
दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः
।
ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः॥२९॥
देवयान्युवाच।
राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत्
।
नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे॥३०॥
दुर्गमे सङ्कटे ॥३०॥
शुक्र उवाच।
वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया
।
गृहाणेमां मया दत्तां महिषीं नहुषात्मज॥३१॥
ययातिरुवाच।
अधर्मो न स्पृशेदेष महान्मामिह भार्गव
।
वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम्॥३२॥
शुक्र उवाच।
अधर्मात्त्वां विमुञ्चामि वृणु त्वं वरमीप्सितम्
।
अस्मिन्विवाहे मा म्लासीरहं पापं नुदामि ते॥३३॥
ईप्सितं वरं च वृणीष्वेत्युक्तोऽपीदानीं न वृतवान् । पश्चात्तु अन्यत्र जरासङ्क्रमणसामर्थ्यरूपः शुक्रेणैव स्वप्रतिज्ञासिद्धये दत्त इति ध्येयम् ॥३३॥
वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम्
।
अनया सह संप्रीतिमतुलां समवाप्नुहि॥३४॥
इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी
।
संपूज्या सततं राजन्मा चैनां शयने ह्वयेः॥३५॥
वैशंपायन उवाच।
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्
।
शास्त्रोक्तविधिना राजा विवाहमकरोच्छुभम्॥३६॥
लब्ध्वा शुक्रान्महद्वित्तं देवयानीं तदोत्तमाम्
।
द्विसहस्रेण कन्यानां तथा शर्मिष्ठया सह॥३७॥
संपूजितश्च शुक्रेण दैत्यैश्च नृपसत्तमः
।
जगाम स्वपुरं हृष्टोऽनुज्ञातोऽथ महात्मना॥३८॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ययात्युपाख्याने एकाशीतितमोऽध्यायः॥८१॥
वैशंपायन उवाच।
ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम्
।
प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत्॥१॥
द्व्यशीतितमोऽध्यायः ययातिरिति ॥१॥
देवयान्याश्चानुमते सुतां तां वृषपर्वणः
।
अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत्॥२॥
वृतां दासीसहस्रेण शर्मिष्ठां वार्षपर्वणीम्
।
वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम्॥३॥
देवयान्या तु सहितः स नृपो नहुषात्मजः
।
विजहार बहूनब्दान्देववन्मुदितः सुखी॥४॥
ऋतुकाले तु संप्राप्ते देवयानी वराङ्गना
।
लेभे गर्भं प्रथमतः कुमारं च व्यजायत॥५॥
व्यजायत अजनयत् ॥५॥
गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी
।
ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत्॥६॥
ऋतुकालस्य संप्राप्तो न च मेऽस्ति पतिर्वृतः
।
किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा सुखं भवेत्॥७॥
देवयानी प्रजाताऽसौ वृथाऽहं प्राप्तयौवना
।
यथा तया वृतो भर्ता तथैवाहं वृणोमि तम्॥८॥
प्रजाता प्रजारूपेण वितता वल्लीवत् ॥८॥
राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः
।
अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः॥९॥
अथ निष्क्रम्य राजाऽसौ तस्मिन्काले यदृच्छया
।
अशोकवनिकाभ्याशे शर्मिष्ठां प्रेक्ष्य धीष्ठितः॥१०॥
तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी
।
प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत्॥११॥
रहिते विजने ॥११॥
शर्मिष्ठोवाच।
सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा
।
तव वा नाहुषगृहे कः स्त्रियं द्रष्टुमर्हति॥१२॥
रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा
।
सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप॥१३॥
ययातिरुवाच।
वेद्मि त्वां शीलसंपन्नां दैत्यकन्यामनिन्दिताम्
।
रूपं च ते न पश्यामि सूच्यग्रमपि निन्दितम्॥१४॥
अब्रवीदुशना काव्यो देवयानीं यदाऽवहम्
।
नेयमाह्वयितव्या ते शयने वार्षपर्वणी॥१५॥
अवहम् ऊढवान् अहम् ॥१५॥
शर्मिष्ठोवाच।
न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले
।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि॥१६॥
नर्मयुक्तं परिहासयुक्तं वचनम् अनृतमपि न हिनस्ति । दोषजनकं न भवतीत्यर्थः । स्त्रीषु गम्यासु अहमेनां न रमये इत्युक्तिरनृतापि कृता चेन्न हिनस्ति । धनेत्युपलक्षणं स्त्र्यादेरपि ॥१६॥
पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा वदन्ति मिथ्या पतितं नरेन्द्र
।
एकार्थतायां तु समाहितायां मिथ्या वदन्तं त्वनृतं हिनस्ति॥१७॥
स्त्रीष्वनृतं न हिनस्ति प्रत्युतत्सत्यादरेण तत्त्याग एव हिनस्तीत्याह । पृष्टं त्विति । साक्ष्ये पृष्टं सदस्यैः अन्यथा प्रवदन्तं पुरुषं पतितं यद्वदन्ति तन्मिथ्या । गोब्राह्मणस्त्रीदीनानाथाद्यर्थे कूटसाक्ष्यस्यापि पुण्यहेतुत्वात्। तथा च हिंसाहेतुः सत्यमप्यनृतमेव । अहिंसाहेतुरनृतमपि सत्यमेवेति भावः । प्रकृतमाह । एकार्थतायाम् एकप्रयोजनतायां समाहितायाम् आवयोस्त्वदाराधनरूपे प्रयोजने तुल्यत्वेन निश्चिते सति देवयान्येव मम भार्या न शर्मिष्ठेति मिथ्यावदन्तं त्वामेवानृतं हिनस्तित्यर्थः ॥१७॥
ययातिरुवाच।
राजा प्रमाणं भूतानां स नश्येत मृषा वदन्
।
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे॥१८॥
शर्मिष्ठोवाच।
समावेतौ मतो राजन्पतिः सख्याश्च यः पतिः
।
समं विवाहमित्याहुः सख्या मेऽसि वृतः पतिः॥१९॥
एकार्थतामेव व्याचष्टे । समाविति । हे राजन् एतौ विवाहै मतौ बुद्धावारूढौ समौ तुल्यावेव । यदैव देवयान्या त्वं मनसा वृतस्तदैव मयापीत्यर्थः । अतः यस्त्वं सख्याः पतिः स एव चकारान्ममापि पतिः । एतल्लोकप्रसिद्ध्या द्रढयति । समं सहविवाहं सख्या सहैवेतरासां विवाहं सिद्धमाहुः । द्वयोः प्रदेयद्रव्यत्ववरणीयत्वादेस्तुल्यत्वात् । अतः मे मया वृत्तोऽसि ऋतुप्राप्त्यै यतः पतिरसि ॥१९॥
ययातिरुवाच।
दातव्यं याचमानेभ्य इति मे व्रतमाहितम्
।
त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते॥२०॥
राजा तु भार्यासमत्वं दासीनार्हतीत्येवं मत्वा प्रकारान्तरेण तदभीष्टं दातुं प्रतिजानीते दातव्यमिति ॥२०॥
शर्मिष्ठोवाच।
अधर्मात्पाहि मां राजन्धर्मं च प्रतिपादय
।
त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम्॥२१॥
अधमात् त्वदन्यवरणजाद्व्यभिचारात् ॥२१॥
त्रय एवाधना राजन्भार्या दासस्तथा सुतः
।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम्॥२२॥
ननु त्वमपि पित्रा दत्तेन धनेन धर्मं चरन्तीं गतिं प्राप्नुहि किं सन्तत्येत्याशङ्क्याह । त्रय इति ॥२२॥
देवयान्या भुजिष्याऽस्मि वश्या च तव भार्गवी
।
सा चाहं च त्वया राजन्भजनीये भजस्व माम्॥२३॥
भुजिष्या देवयान्या भुक्तं त्वाम् इच्छन्तीति योगात् दासी ॥२३॥
वैशंपायन उवाच।
एवमुक्तस्तु राजा स तथ्यमित्यभिजज्ञिवान्
।
पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत्॥२४॥
भुजिष्या त्वमस्यास्तथ्यमिति अभिजज्ञिवान् । अभितः साकल्येन ज्ञातवान् धर्मे ऋतुदानेन अर्त्तत्राणम् ॥२४॥
स समागम्य शर्मिष्ठां यथाकाममवाप्य च
।
अन्योन्यं चाभिसंपूज्य जग्मतुस्तौ यथागतम्॥२५॥
तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी
।
लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात्॥२६॥
प्रयज्ञे च ततः काले राजन्राजीवलोचना
।
कुमारं देवगर्भाभ राजीवनिभलोचनम्॥२७॥
प्रजज्ञे प्रजनितवती ॥२७॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ययात्युपाख्याने द्व्यशीतितमोऽध्यायः॥८२॥
वैशंपायन उवाच।
श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता
।
चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत॥१॥
त्र्यशीतितमोऽध्यायः श्रुत्वेति ॥१॥
अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम्
।
देवयान्वुवाच
।
किमिदं वृजिनं सुभ्रु कृतं वै कामलुब्धया॥२॥
शर्मिष्ठोवाच।
ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः
।
स मया वरदः कामं याचितो धर्मसंहितम्॥३॥
नाहमन्यायतः काममाचरामि शुचिस्मिते
।
तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते॥४॥
देवयान्युवाच।
शोभनं भीरु यद्येवमथ स ज्ञायते द्विजः
।
गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम्॥५॥
शर्मिष्ठोवाच।
तपसा तेजसा चैव दीप्यमानं यथा रविम्
।
तं दृष्ट्वा मम संप्रष्टुं शक्तिर्नासीच्छुचिस्मिते॥६॥
देवयान्युवाच।
यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम
।
अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठा च वै द्विजात्॥७॥
वैशंपायन उवाच।
अन्योन्यमेवमुक्त्वा तु संप्रहस्य च ते मिथः
।
जगाम भार्गवी वेश्म तथ्यमित्यवजग्मुषी॥८॥
अवजग्मुषी ज्ञातवती ॥८॥
ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः
।
यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ॥९॥
तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी
।
द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत्॥१०॥
ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता
।
ययातिसहिता राजञ्जगाम रहितं वनम्॥११॥
ददर्श च तदा तत्र कुमारान्देवरूपिणः
।
क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत्॥१२॥
देवयान्युवाच।
कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः
।
वर्चसा रूपतश्चैव सदृशा मे मतास्तव॥१३॥
वैशंपायन उवाच।
एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत
।
देवयान्युवाच।
किं नामधेयं वंशो वः पुत्रका कश्च वः पिता
।
प्रब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम्॥१४॥
वंशो वः क इत्यत्रापि सम्बध्यते ॥१४॥
तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम्
।
शर्मिष्ठां मातरं चैव तथाऽऽचख्युश्च दारकाः॥१५॥
प्रदेशिन्या तर्जन्या ॥१५॥
वैशंपायन उवाच।
इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः
।
नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके॥१६॥
राजानम् आलिङ्गितुमितिशेषः । नाभ्यनन्दत दूरीकृतवानित्यर्थः ॥१६॥
रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः
।
श्रुत्वा तु तेषां बालानां सव्रीड इव पार्थिवः॥१७॥
दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति
।
बुद्ध्वा तु तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत्॥१८॥
देवयान्युवाच।
मदधीना सती कस्मादकार्षीर्विप्रियं मम
।
तमेवासुरधर्मं त्वमास्थिता न विभेषि मे॥१९॥
शर्मिष्ठोवाच।
यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि
।
न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते॥२०॥
यदा त्वया वृतो भर्ता वृत एव तदा मया
।
सखी भर्ता हि धर्मेण भर्ता भवति शोभने॥२१॥
पूज्यासि मम मान्या च ज्येष्ठा च ब्राह्मणी ह्यसि
।
त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत्॥२२॥
वैशंपायन उवाच।
श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम्
।
राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया॥२३॥
सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम्
।
तूर्णं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा॥२४॥
अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः
।
न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना॥२५॥
अविब्रुवन्ती किंचित्सा राजानं साश्रुलोचना
।
अचिरादेव संप्राप्ता काव्यस्योशनसोऽन्तिकम्॥२६॥
सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता
।
अनन्तरं यायातिस्तु पूजयामास भार्गवम्॥२७॥
देवयान्युवाच।
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम्
।
शर्मिष्ठयाऽतिवृत्ताऽस्मि दुहित्रा वृषपर्वणः॥२८॥
अधरोत्तरं नीचस्याभिवृद्धिरुत्तमस्यह्रासः अतिवृत्तास्मि राज्ञः काशादपत्यत्रयाधिगमेनातिक्रान्ता उल्लङ्घिताऽस्मि ॥२८॥
त्रयोऽस्यां जनिताः पुत्रा राज्ञाऽनेन ययातिना
।
दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते॥२९॥
तदेवाह त्रय इति ॥२९॥
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह
।
अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते॥३०॥
शुक्र उवाच।
धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम्
।
तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया॥३१॥
अधर्ममेव प्रियम् अकृथाः ॥३१॥
ययातिरुवाच।
ऋतुं वै याचमानाया भगवन्नान्यचेतसा
।
दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया॥३२॥
नान्यचेतसा न कामलोभेन ॥३२॥
ऋतुं वै याचमानाया न ददाति पुमानृतुम्
।
भ्रूणहेत्युच्यते ब्रह्मन् स इह ब्रह्मवादिभिः॥३३॥
अभिकामां स्त्रियं यश्च गम्यां रहसि याचितः
।
नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः॥३४॥
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह
।
अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान्॥३५॥
‘न काञ्चनपरिहरेत्’ इति श्रुतिनिषेधातिक्रमस्याधर्मस्य भयात्संविग्नः अनन्यपूर्विकां गम्यां यां काञ्चन स्त्रिय ऋतुं याचमानां न परिहरेन्नप्रत्याचक्षीतेति श्रुत्यर्थः ॥३५॥
शुक्र उवाच।
नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव
।
मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष॥३६॥
प्रत्यवेक्ष्यः अस्मिन्कर्मणि मदाज्ञाऽपि त्वया प्रार्थनीयेती भावः ॥३६॥
वैशंपायन उवाच।
क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा
।
पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत॥३७॥
ययातिरुवाच।
अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह
।
प्रसादं कुरु मे ब्रह्मञ्जरेयं न विशेच्च माम्॥३८॥
शुक्र उवाच।
नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप
।
जरां त्वेतां त्वमन्यस्मिन्संक्रामय यदीच्छसि॥३९॥
ययातिरुवाच।
राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा
।
यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम्॥४०॥
शुक्र उवाच।
संक्रामयिष्यसि जरां येथेष्टं नहुषात्मज
।
मामनुध्याय भावेन न च पापमवाप्स्यसि॥४१॥
ज्येष्ठस्य राज्याप्रदानजं पापम् ॥४१॥
वयो दास्यति ते पुत्रो यः स राजा भविष्यति
।
आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च॥४२॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ययात्युपाख्याने त्र्यशीतितमोऽध्यायः॥८३॥
वैशंपायन उवाच।
जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि
।
पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः॥१॥
चतुरशीतितमोऽध्यायः जरामिति ॥१॥
ययातिरुवाच।
जरा वली च मां तात पलितानि च पर्यगुः
।
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने॥२॥
वली त्वचः संवलनं पलितानि केशरोम्णां शौक्ल्यम् । पर्यगुः परितः शरीरे गतानि प्राप्तानि यौवने यौवनसाध्ये कामभोगे ॥२॥
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह
।
यौवनेन त्वदीयेन चरेयं विषयानहम्॥३॥
पाप्मानं भोगसामर्थ्येऽपि तदिच्छारूपं चितस्य दौस्थ्यं चरेयं भुञ्जीय ॥३॥
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम्
।
दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह॥४॥
यदुरुवाच।
जरायां बहवो दोषाः पानभोजनकारिताः
।
तस्माज्जरां न ते राजन्ग्रहीष्य इति मे मतिः॥५॥
दोषाः कफाद्याधिक्याद्वमनादयः ॥५॥
सितश्मश्रुर्निरानन्दो जरया शिथिलीकृतः
।
वलीसङ्गतगात्रस्तु दुर्दर्शो दुर्बलः कृशः॥६॥
दोषानेवाह सितेति ॥६॥
अशक्तः कार्यकरणे परिभूतः सयौवतैः
।
सहोपजीविभिश्चैव तां जरां नाभिकामये॥७॥
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप
।
जरां ग्रहीतुं धर्मज्ञ तस्मादन्यं वृणीष्व वै॥८॥
ययातिरुवाच।
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
।
तस्मादराज्यभाक्तात प्रजा तव भविष्यति॥९॥
तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह
।
यौवनेन चरेयं वै विषयांस्तव पुत्रक॥१०॥
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्
।
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह॥११॥
तुर्वसुरुवाच।
न कामये जरां तात कामभोगप्रणाशिनीम्
।
बलरूपान्तकरणीं बुद्धिप्राणप्रणाशिनीम्॥१२॥
ययातिरुवाच।
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
।
तस्मात्प्रजासमुच्छेदं तुर्वसो तव यास्यति॥१३॥
संकीर्णाचारधर्मेषु प्रतिलोमचरेषु च
।
पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि॥१४॥
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च
।
पशुधर्मेषु पापेषु म्लेच्छेषु त्वं भविष्यसि॥१५॥
तिर्यग्योनीनामिव गतं प्रकाशं मैथुनाद्याचरणं येषां तेषु ॥१५॥
वैशंपायन उवाच।
एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः
।
शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत्॥१६॥
ययातिरुवाच।
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्
।
जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च॥१७॥
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्
।
स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह॥१८॥
द्रुह्युरुवाच।
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम्
।
वाक्सङ्गश्चास्य भवति तां जरां नाभिकामये॥१९॥
वाक्संगः दन्तानां पतनात् कफादिवृद्धेश्च वाचः सङ्ग इव सङ्गः सन्नत्वम् । अव्यक्तत्वमिति यावत् ॥१९॥
ययातिरुवाच।
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
।
तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित्॥२०॥
यत्राश्वरथमुख्यानामश्वानां स्याद्गतं न च
।
हस्तिनां पीठकानां च गर्दभानां तथैव च॥२१॥
पीठकानां राजयोग्यानां नरयानविशेषाणां तस्वतरावा इति म्लेच्छेषु प्रसिद्धानाम् ॥२१॥
बस्तानां च गवां चैव शिबिकायास्तथैव च
।
उडुपप्लवसंतारो यत्र नित्यं भविष्यति
।
अराजा भोजशब्दं त्वं तत्र प्राप्स्यसि सान्वयः॥२२॥
ययातिरुवाच।
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह
।
एकं वर्षसहस्रं तु चरेयं यौवनेन ते॥२३॥
अनुरुवाच।
जीर्णः शिशुवदादत्ते कालेऽन्नमशुचिर्यथा
।
न जुहोति च कालेऽग्निं तां जरां नाभिकामये॥२४॥
ययातिरुवाच।
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
।
जरादोषस्त्वया प्रोक्तस्तस्मात्त्वं प्रतिलप्स्यसे॥२५॥
प्रतिलप्स्यसे प्रजाः ताश्च विनशिष्यन्तीति द्वयोः सम्बन्धः ॥२५॥
प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव
।
अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि॥२६॥
अग्निप्रस्कन्दनं श्रौतस्मार्ताद्यग्निसाध्यकर्मत्यागस्तत्पुरः ॥२६॥
ययातिरुवाच।
पूरो त्वं मे प्रियः पुत्रस्त्वंवरीयान्भविष्यसि
।
जरा वली च मां तात पलितानि च पर्यगुः॥२७॥
वरियान्स्वभ्रातृभ्यो महान् जरा देहेन्द्रियशक्तिघातः ॥२७॥
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने
।
पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह
।
कंचित्कालं चरेयं वै विषयान्वयसा तव॥२८॥
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्
।
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह॥२९॥
वैशंपायन उवाच।
एवमुक्तः प्रत्युवाच पूरुः पितरमज्जसा
।
यदात्थ मां महाराज तत्करिष्यामि ते वचः॥३०॥
अञ्जसा आर्जवेन ॥३०॥
प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह
।
गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान्॥३१॥
यथेप्सिता नित्यस्य यावज्जीवमपीति भावः ॥३१॥
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव
।
यौवनं भवते दत्त्वा चरिष्यामि यथात्थमाम्॥३२॥
ययातिरुवाच।
पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते
।
सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति॥३३॥
एवमुक्त्वा ययातिस्तु स्मृत्वा काव्यं महातपाः
।
संक्रामयामास जरां तदा पूरौ महात्मनि॥३४॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ययात्युपाख्याने चतुरशीतितमोऽध्यायः॥८४॥
वैशंपायन उवाच।
पौरवेणाथ वयसा ययातिर्नहुषात्मजः
।
प्रीतियुक्तो नृपश्रेष्ठश्चरा विषयान्प्रियान्॥१॥
पञ्चाशीतितमोऽध्यायः पौरवेणेति चचार बुभोज ॥१॥
यथाकामं यथोत्साहं यथाकालं यथासुखम्
।
धर्माविरुद्धं राजेन्द्रो यथाऽर्हति स एव हि॥२॥
देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वित्पितॄनपि
।
दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान्॥३॥
अतिथीनन्नपानैश्च विशश्च परिपालनैः
।
आनृशंस्येन शूद्रांश्च दस्यून्सन्निग्रहेण च॥४॥
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन्
।
ययातिः पालयामास साक्षादिन्द्र इवापरः॥५॥
स राजा सिंहविक्रान्तो युवा विषयगोचरः
।
अविरोधेन धर्मस्य चचार सुखमुत्तमम्॥६॥
विषयाः दिव्यगन्धादयो गोचरे वशे यस्य सः विषयगोचरः ॥६॥
स संप्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः
।
कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः॥७॥
परिसंख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान्
।
यौवनं प्राप्य राजर्षिः सहस्रपरिवत्सरान्॥८॥
परीति । सौरवर्षे हि प्रत्यब्दं पञ्चदिनानि पञ्चदशनाड्यस्त्रिंशत्पलानि एकत्रिंशदक्षराणिवर्धन्ते । सावनैः षष्ठयधिकशतत्रय दिनात्मकैर्वर्षैरायुर्गण्यतेऽतः कलाःकाष्टाश्च । 'अष्टादशनिमेषास्तु काष्ठास्त्रिंशत्तुताः कला, इत्युक्तरूपाः संख्यायेत्युक्तम् ॥८॥
विश्वाच्या सहितो रेमे व्यभ्राजन्नन्दने वने
।
अलक्तायां स कालं तु मेरुशृङ्गे तथोत्तरे॥९॥
अलकायां कुबेरपुर्याम् ॥९॥
यदा स पश्यते कालं धर्मात्मा तं महीपतिः
।
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह॥१०॥
पश्यते सः कालं कालोऽपि तं ग्रसितुं पश्यतीत्याशयेन कर्मव्यतिहारे ‘तङ्’ ॥१०॥
यथाकामं यथोत्साहं यथाकालमरिन्दम्
।
सेविता विषयाः पुत्र यौवनेन मया तव॥११॥
न जातु कामः कामानामुपभोगेन शाम्यति
।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥१२॥
एतदेव ज्ञात्वा पश्चात्तापेनाह । न जात्वित्यादि ॥१२॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः
।
एकस्यापि न पर्याप्तं तस्मात्तृष्णां परित्यजेत्॥१३॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
।
योऽसौ प्राणान्तिको रोगस्तांतृष्णां त्यजतः सुखम्॥१४॥
पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः
।
तथाप्यनुदिनं तृष्णा ममैतेष्वभिजायते॥१५॥
तस्मादेनामहं त्यक्त्वा ब्रह्मण्याधाय मानसम्
।
निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह॥१६॥
ब्रह्मज्ञानमेवात्यन्तिकतृप्तिहेतुर्न विषयभोग इत्याशयेनाह । तस्मादिति । एनां तृष्णां द्वन्द्वानि शीतोष्णमानापमानसुखदुःखादीनि तद्रहितो निर्द्वन्द्वः । द्वन्द्वकल्पकस्य मानसस्य ब्रह्मणि निधानात् अत एव निर्ममः अहङ्कारस्यैव ममतामूलस्य त्यागात् ॥१६॥
पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम्
।
राज्यं चेदं गृहाण त्वं त्वं हि मे प्रियकृत्सुतः॥१७॥
वैशंपायन उवाच।
प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा
।
यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मवान्॥१८॥
अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम्
।
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन्॥१९॥
कनीयसं कनीयांसम् ॥१९॥
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो
।
ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रयच्छसि॥२०॥
नप्तारं दोहित्रम् ॥२०॥
यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः
।
शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च॥२१॥
कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति
।
एतत्संबोधयामस्त्वां धर्मं त्वं प्रतिपालय॥२२॥
ययातिरुवाच।
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः
।
ज्येष्ठं प्रति यथा राज्यं न देयं मे कथंचन॥२३॥
मम ज्येष्ठेन यदुना नियोगो नानुपालितः
।
प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः॥२४॥
नियोगः आज्ञा ॥२४॥
मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः
।
स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु॥२५॥
मातेति । अनौरसोऽपि यः पुत्रवद्वर्तते स एव पुत्रो नत्वन्यः ॥२५॥
यदुनाऽहमवज्ञातस्तथा तुर्वसुनाऽपि च
।
द्रुह्युना चानुना चैव मय्यवज्ञ कृता भृशम्॥२६॥
पूरुणा तु कृतं वाक्यं मानितं च विशेषतः
।
कनीयान्मम दायादो धृता येन जरा मम॥२७॥
मम कामः स च कृतः पूरुणा मित्ररूपिणा
।
शुक्रेण च वरोदत्तः काव्येनोशनसा स्वयम्॥२८॥
पुत्रो यस्त्वाऽनुवर्तेत स राजा पृथिवीपतिः
।
भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम्॥२९
प्रकृतय ऊचुः।
यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा
।
सर्वमर्हति कल्याणं कनीयानपि सत्तमः॥३०॥
अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव
।
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम्॥३१॥
वैशंपायन उवाच।
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा
।
अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मनः॥३२॥
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः
।
पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह॥३३॥
यदोस्तु यादवा जातास्तुर्वसोर्यवनाः स्मृताः
।
द्रुह्योः सुतास्तु वै भोजा अनोस्तु म्लेच्छजातयः॥३४॥
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव
।
इदं वर्षसहस्राणि राज्यं कारयितुं वशी॥३५॥
कारयितुं कर्तुम् ॥३५॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ययात्युपाख्याने पूर्वयायातसमाप्तौ पञ्चाशीतितमोऽध्यायः॥८५॥
ययातिरुवाच।
अहं ययातिर्नहुषस्य पुत्रः पूरोः पिता सर्वभूतावमानात्
।
प्रभ्रंशितः सुरसिद्धर्षिलोकात्परिच्युतः प्रपताम्यल्पपुण्यः॥१॥
अहमिति ॥१॥
अहं हि पूर्वो वयसा भवद्भ्यस्तेनाभिवादं भवतां न प्रयुञ्जे
।
यो विद्यया तपसा जन्मना वा वृद्धः स पूज्यो भवति द्विजानाम्॥२॥
स्वदौहित्रेषु नत्ययोगात्तेषां स्तब्धोयमिति धीर्माभूदित्येतदर्थमपनीततपोविद्यागर्वत्वाद्वयः श्रेष्ठ्यमेव पुरस्कृत्याह । अहं हि पूर्वो वयसेति ॥२॥
अष्टक उवाच।
अवादीस्त्वं वयसा यः प्रवृद्धः स वै राजन्नाभ्यधिकः कथ्यते च
।
यो विद्यया तपसा संप्रवृद्धः स एव पूज्यो भवति द्विजानाम्॥३॥
ययातिरुवाच।
प्रतिकूलं कर्मणां पापमाहुस्तद्वर्ततेऽप्रवणे पापलोक्यम्
।
सन्तोऽसतां नानुवर्तन्ति चैतद्यथा चैषामनुकूलास्तथाऽऽसन्॥४॥
अवादीरित्येतद्दूषणपूर्वकं विद्यातपसोः श्रैष्ठ्ये अष्टकेन स्तुते तत्र स्वानुभूतं विघ्नं दर्शयन्ययातिरुवाच । प्रतिकूलमिति । कर्मणां पुण्यानां प्रतिकूलं नाशकं पापं गर्वस्तच्चाप्रवणेऽनम्रे दर्पवति वर्तते । पापलोक्यं नरकप्रदम् । एतत्पापम् असतां सम्बन्धिसन्तो नानुवर्तन्त इदानीमपि । किं च प्राञ्चोऽपि सन्तो यथैषां कर्मणामनुकूला उपबृंहकाः स्युस्तथा तेन प्रकारेण दम्भदर्पादिराहित्येन आसन् । अहंत्वतद्विधत्वात्स्वर्गादिन्द्रेण च्यावित इत्याशयः ॥४॥
अभूद्धनं मे विपुलं गतं तद्विचेष्टमानो नाधिगन्ता तदस्मि
।
एवं प्रधार्यात्महिते निविष्टो यो वर्तते स विजानाति धीरः॥५॥
अभूद्धनं मे विपुलं गतं तदिति । तद्दम्भादिराहित्येन प्रसिद्धं धनं पुण्यं मे मम विपुलं यदभूत्तद्गतं नष्टं दर्पादित्यर्थः । पुनरिदानीं तच्चेष्टमानोऽपि तत्पुनर्नाधिगन्ताऽस्मि । एवं प्रधार्य मामिकां गतिं ज्ञात्वा धीरो धियमीरयन् धीदोषेण कामादिनाऽनभिभूतो भवेदित्यर्थः ॥५॥
महाधनो यो यजते सुयज्ञैर्यः सर्वविद्यासु विनीतबुद्धिः
।
वेदानधीत्य तपसा योज्य देहं दिवं समायात्पुरुषो वीतमोहः॥६॥
वीतमोहो मानमकुर्वन् ॥६॥
न जातहृष्येन्महता धनेन वेदानधीयीतानहंकृतः स्यात्
।
नानाभावा बहवो जीवलोके दैवधीना नष्टचेष्टाधिकाराः
।
तत्तत्प्राप्य न विहन्येत धीरो दिष्टं बलीय इति मत्वात्मबुद्ध्या॥७॥
एतदेवाह । न जात्विति । धनेन तपसा । तर्हि त्वमेव कुतोहङ्कारं कृतवानित्यत आह । नानेति । जीवलोकेऽस्मिन् जीवा नानाभावाः। पृथक्स्वभावाः । केचिद्धर्मरुचयः । केचिद्विपरीताः । यतो दैवाधीनाः । अत एव नष्टा वृथाभूता चेष्टा उद्योगः अधिकारो योग्यता च येषां ते तथा । मूढानां पुण्ये पण्डितानां पापे च प्रवृत्तिकरं दैवमेव बलवदित्यर्थः। एवं विद्वांस्तत्तत्प्राप्य न विहन्येत । तत्तत्सुखं दुःखं वा प्राप्य न विहन्येत हर्षविषादाभ्यामात्मानं न हिंस्यादित्यर्थः ॥७॥
सुखं हि जन्तुर्यदि वाऽपि दुःखं दैवाधीनं विन्दते नात्मशक्त्या
।
तस्माद्दिष्टं बलवन्मन्यमानो न संज्वरेन्नापि हृष्येत्कथंचित्॥८॥
एतदेव विवृणोति सुखं हीति द्वाभ्याम् ॥८॥
दुःखैर्न तप्येन्न सुखैः प्रहृष्येत्समेन वर्तेत सदैव धीरः
।
दिष्टं बलीय इति मन्यमानो न संज्वरेन्नापि हृष्येत्कथंचित्॥९॥
भये न मुह्याम्यष्टकाहं कदाचित्सन्तापो मे मानसो नास्ति कश्चित्
।
धाता यथा मां विदधीत लोके ध्रुवं तथाऽहं भवितेति मत्वा॥१०॥
भयं तु ते व्येतु विषादमोहाविति यदष्टकेनोक्तं तत्रोत्तरमाह भये इति । धाता दिष्टम् ॥१०॥
संस्वेदजा अण्डजाश्चोद्भिदश्च सरीसृपाः कृमयोऽथाप्सु मत्स्याः
।
तथाश्मनस्तृणकाष्ठं च सर्वे दिष्टक्षये स्वां प्रकृतिं भजन्ति॥११॥
अहभिवान्येऽपि दिष्टाधीना एवेत्याह । संस्वेदजा इति । एतेऽपि दिष्टक्षये पुण्यपापोच्छेदे स्वां प्रकृतिं परं ब्रह्म भजन्ति प्राप्नुवन्ति । आरोहक्रमेण मोक्षयोग्यां योनिं प्राप्येति शेषः । यद्वा जाबालोपनिषदि । अविमुक्तं प्रकृत्य । अत्र हि जन्तोः प्राणेषुत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती भूत्वा मोक्षी भवतीति जन्तुपदेन प्राणिमात्रसाधारणेन संस्वेदजादीनामपि साक्षाद्वाराणस्यां मोक्षाधिकारदर्शनात् । आथर्वणे रामतापनीये मणिकर्णिकायां वा क्षेत्रे गङ्गायां वा तटे पुनरित्युपक्रम्य कृमिकीटकादयोप्याशु मुक्ताः सन्तु न चान्यथेति जन्तुशब्दविवरणाच्चास्तु साक्षादेव स्वेदजादीनामपि दिष्टक्षयस्तेन मोक्षयोग्यां योनिं प्राप्येत्यध्याहारदोषोप्यपास्तः । अत्राप्याश्वमेधिके संवर्तमरुत्तीये एतद्दर्शितम् । उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम् । ‘वाराणस्यां महाराज दर्शनेप्युर्महेश्वरम् । तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित्। तं दृष्ट्वा यो ‘निवर्तेत स संवर्तो महीपते’ । इति कुणपदर्शनेन महेश्वरदर्शनासिद्धिं सूचयता वाक्यजातेन ॥११॥
अनित्यतां सुखदुःस्वस्य बुद्ध्वा कस्मात्संतापमष्टकाहं भजेयम्
।
किं कुर्यां वै किं च कृत्वा न तप्ये तस्मात्सन्तापं वर्जयाम्यप्रमत्तः॥१२॥
अहं तु दिष्टक्षयाभावात्प्राप्तेऽपि दुःखेन तप्ये इत्याह अनित्यतामिति ॥१२॥
वैशंपायन उवाच।
एवं व्रुवाणं नृपतिं ययातिमथाष्टकः पुनरेवान्वपृच्छत्
।
मातामहं सर्वगुणोपपन्नं तत्र स्थितं स्वर्गलोके यथावत्॥१३॥
मातामहमिति । तत्र स्थितमन्तरिक्षे स्थितम् ॥१३॥
अष्टक उवाच।
ये ये लोकाः पार्थिवेन्द्रप्रधानास्त्वया भुक्ता यं च कालं यथावत्
।
तान्मे राजन्ब्रूहि सर्वान्यथावत्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान्॥१४॥
तानिति । क्षेत्रज्ञवत् क्षेत्रं महाभूतादिधृत्यं तं तज्जानन्तो नारदादयः क्षेत्रज्ञास्तद्वत् ॥१४॥
ययातिरुवाच।
राजाऽहमासमिह सार्वभौमस्ततो लोकान्महतश्चाजयं वै
।
तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः॥१५॥
ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनायताम्
।
अध्यावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः॥१६॥
ततो दिव्यमजरं प्राप्य लोकं प्रजापतेर्लोकपतेर्दुरापम्
।
तत्रावसं वर्षसहस्रमात्रं ततो लोकं परमस्म्यभ्युपेतः॥१७॥
स देवदेवस्य निवेशने च विहृत्य लोकानवसं यथेष्टम्
।
संपूज्यमानस्त्रिदशैः समस्तैस्तुल्यप्रभावद्युतिरीश्वराणाम्॥१८॥
तथाऽऽवसं नन्दने कामरूपी संवत्सराणामयुतं शतानाम्
।
सहाप्सरोभिर्विहरन्पुण्यगन्धान्पश्यन्नगान्पुष्पितांश्चारुरूपान्॥१९॥
तत्र स्थितं मां देवसुखेषु सक्तं कालेऽतीते महति ततोऽतिमात्रम्
।
दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिःप्लुतेन स्वरेण॥२०॥
एतावन्मे विदितं राजसिंह ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः
।
वाचोऽश्रौषं चान्तरिक्षे सुराणां सानुक्रोंशाः शोचतां मां नरेन्द्र॥२१॥
अहो कष्टं क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत्पुण्यकीर्तिः
।
तानब्रुवं पतमानस्ततोऽहं सतां मध्ये निपतेयं कथं नु॥२२॥
तैराख्याता भवतां यज्ञभूमिः समीक्ष्य चेमां त्वरितमुपागतोऽस्मि
।
हविर्गन्धं देशिकं यज्ञभूमेर्धूमापाङ्गं प्रतिगृह्य प्रतीतः॥२३॥
तैरिति । देशिकम् उपदेष्टारम् । धूम एवापाङ्ग इव सूचको यस्य तं धूमापाङ्गं प्रतीतः हृष्टः ॥२३॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि उत्तरयायाते एकोननवतितमोऽध्यायः॥८९॥
अष्टक उवाच।
यदाऽवसो नन्दने कामरूपी संवत्सराणामयुतं शतानाम्
।
किं कारणं कार्तयुगप्रधान हित्वा च त्वं वसुधामन्वपद्यः॥१॥
यदेति । कार्तयुगप्रधान । कृतयुगे भवाः कार्तयुगाः । अत्यन्तनिष्पापास्तेषां मुख्यतमेत्यर्थः ॥१॥
ययातिरुवाच।
ज्ञातिः सुहृत्स्वजनो वा यथेह क्षीणे वित्ते त्यज्यते मानवैर्हि
।
तथा तत्र क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः सेश्वरा देवसङ्घाः॥२॥
अष्टक उवाच।
तस्मिन्कथं क्षीणपुण्या भवन्ति संमुह्यते मेऽत्र मनोऽतिमात्रम्
।
किं वा विशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे॥३॥
तस्मिन्निति । मे मम । अपामसोमममृता अभूमेति कर्मफलस्य नित्यत्वं श्रुतवतः । अत्र पातविषये मनः संमुह्यत इत्येकः प्रश्नः । ‘न च पुनरावर्तत’ इति प्रजापतिलोकादनावृत्तिः श्रुता । त्वया तु प्रजापतेर्लोकपतेर्दुरापमिति तत्रावसं वर्षसहस्रमात्रमिति च ततोऽपि स्वस्यावृत्तिरुदिता । तत्र कस्य प्रजापतेः किं धामविशिष्टा अनावृत्तियोग्या उपयान्तीत्यन्यः प्रश्नः । तत्राद्यस्योत्तरं भूयस्तु किं पृच्छसि राजासिंहेत्यन्तम् । शेषग्रन्थो द्वितीयस्येति विभागः ॥३॥
ययातिरुवाच।
इमं भौमं नरकं ते पतन्ति ललाप्यमाना नरदेव सर्वे
।
ते कङ्कगोमायुबलाशनार्थे क्षीणे पुण्ये बहुधा प्रव्रजन्ति॥४॥
इमं भौममिति । भूमिरेव भौमो नरक आध्यात्मादितापत्रयवत्त्वात्तं पतन्ति प्राप्नुवन्ति । इमं प्राप्ताश्च ते बहुधा पुत्रपौत्रादिरूपेण विविधवासनामूलेन विवृद्धिं विषमां वृद्धिं लभन्ते । बहुप्रजानिर्ऋतिमाविवेशेति श्रुतेः । कालपाशमेव द्रढयन्तीत्यर्थः । ते के ये कङ्केति गृध्रादेरुपलक्षणम् । गोमायु इति श्वादेः । तेषां बलं सङ्घस्तस्याशनं भक्ष्यं शरीरं तस्यार्थे क्षीणाः । दिव्येन भौमेन वा देहेन भोगान्भोक्तुं कृतश्रमा इत्यर्थः ॥४॥
तस्मादेतद्वर्जनीयं नरेन्द्र दुष्टं लोके गर्हणीयं च कर्म
।
आख्यातं ते पार्थिव सर्वमेव भूयश्चेदानीं वद किं ते वदामि॥५॥
तस्मादेतत्काम्यकर्म दुष्टं निषिद्धं गर्हणीयम् आभिचारिकं च वर्जनीयम् ॥५॥
अष्टक उवाच।
यदा तु तान्वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतङ्गाः
।
कथं भवन्ति कथमाभवन्ति न भौममन्यं नरकं शृणोमि॥६॥
ननु कङ्कादिभक्षितस्य कथं स्वरूपसत्ता कथं वा शरीरान्तरेणाविर्भाव इति देहात्मवादमाश्रित्य शङ्कते । भौमो नरकश्च क इति पृच्छति च । यदा तु तानिति ॥६॥
ययातिरुवाच।
ऊर्ध्वं देहात्कर्मणो जृम्भमाणाद्व्यक्तं पृथिव्यामनुसंचरन्ति
।
इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान्॥७॥
उत्तरमाह । ऊर्ध्वमिति । न देहनाशेनात्मनाशः । कृतहानादिप्रसङ्गात् । किं तु ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः। स्थाणुमन्येनुसय्यान्ति यथा कर्म यथा श्रुतम्’ । इति श्रुतेर्निमित्तभूतेन कर्मणा मातुरुदरे जृम्भमाणं देहं प्राप्य निर्गमादूर्ध्वं व्यक्तं सर्वलोकप्रत्यक्षं यथास्यात्तथा पृथिव्यां सञ्चरन्ति । तदेव सञ्चरणं भौमो नरकः । कुतोऽस्य नरकत्वमत आह । नावेक्षन्ते वर्षपूगाननेकान् यस्मादत्र पतिता गतं वयो न बुध्यन्ते कर्मभूमिं प्राप्ताऽपि स्वहिताय न यतन्तेऽतोतिमौढ्यप्रदोयं लोको नरक एवेत्यर्थः । एतेन कङ्कादिभक्षितस्यापि सत्वं देहयोगश्चास्तीत्युक्तम् ॥७॥
षष्टिं सहस्राणि पतन्ति व्योम्नि तथा अशीतिं परिवत्सराणि
।
तान्वै तुदन्ति पततः प्रपातं भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः॥८॥
स्वर्गतस्यापि पुनः पातावश्यं भावादयं लोको दुष्परिहर इत्याह । षष्टिं सहस्राणीति षष्टि सहस्राणि । अशीतिं च सहस्राणि पवित्सराणि व्योम्नि स्वर्गे स्थित्वा पतन्तीति योजना । रक्ष रक्षेति वदन्तो दारादयो भौमा राक्षसाः ॥८॥
अष्टक उवाच।
यदेनसस्ते पततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः
।
कथं भवन्ति कथमाभवन्ति कथंभूता गर्भभूता भवन्ति॥९॥
स्वर्गच्युतिप्रकारं पृच्छति । यदेनसस्ते पततस्तुदन्ति । यत् यान् । एनसः पापाद्धेतोः पततः स्वर्गाच्च्यवमानान् । ते राक्षसास्तुदन्ति । ते पुरुषाः कथं भवन्ति प्रपातभ्रष्टा इव कथं न शीर्यन्ते । कथं वा भवन्ति । इन्द्रियादिमन्तो भवन्ति । कथं वा गर्भत्वं प्राप्नुवन्तीति प्रश्नत्रयम् ॥९॥
ययातिरुवाच।
अस्रं रेतः पुष्पफलानुपृक्तमन्वेति तद्वै पुरुषेण सृष्टम्
।
स वै तस्या रज आपद्यते वै स गर्भभूतः समुपैति तत्र॥१०॥
‘तत्र यावत्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथैतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते’ इति श्रुत्यनुसार्युत्तरम् । अस्रं रेत इति । अत्रशब्दो दुःखाश्रुवाचीसन् ‘आपः पुरुषवचसो भवन्ति’ इति श्रुतेर्देहारम्भकेष्वबहुलेषु भूतसूक्ष्मेषु वर्तते । स्वर्गाच्च्याव्यमानस्य दुःखाज्जलमयं शरीरं भवतीति युज्यते च । तत् अस्रमेव रेतो देहबीजं पुष्पफलस्थानीयेन चरणाख्येन कर्मशेषेणानुपृक्तं रमणीयचरणा रमणीयां योनिमापद्यन्ते' इति श्रुतेरन्वेति अनुसरति जीवः । तज्जलानुगमनं पुरुषेण रेतः सिचा सृष्टं संसृष्टं भवति स भूतसूक्ष्मावृतो जीवो रेतोभावं प्राप्तः संस्तस्याः स्त्रियो रजोगर्भपेशीतामापद्यते प्राप्नोति ततो गर्भभूतो भवति ॥१०॥
वनस्पतीनोषधीश्चाविशन्ति आपो वायुं पृथिवीं चान्तरिक्षम्
।
चतुष्पदं द्विपदं चातिसर्वमेवंभूता गर्भभूता भवन्ति॥११॥
कथमस्त्रं रेतः सिचा संसृज्यते तदाह । वनस्पतीनोषधीश्चाविशन्ति । ओषधिषु संसृष्टमस्रं तद्भुजि संसृज्यत इत्यर्थः । ओषधिसंसर्गोप्यस्रस्य पृथिव्यम्बुवाय्वन्तरिक्षक्रमेणोदाहृतश्रुतेरित्यर्थः आपो वायुं पृथिवीमन्तरिक्षमित्यत्र पृथिवी अद्भ्यः पूर्वे बोध्या । वाय्वम्बुनोर्मध्ये धूमाग्निमेघा अपि बोध्याः उदाहृतश्रुतेरेव । एवमोषधिभूताः सन्तो द्विपदं मनुष्यशकुन्तादिचतुष्पदं पश्वादि चाविश्येति शेषः । ततो गर्भभूता भवन्ति ॥११॥
अष्टक उवाच।
अन्यद्वपुर्विदधातीह गर्भमुताहोस्वित्स्वेन कायेन याति
।
आपद्यमानो नरयोनिमेतामाचक्ष्व मे संशयात्प्रब्रवीमि॥१२॥
एवं यदेनसस्ते पतत इति श्लोकेन कृतस्य प्रश्नत्रयस्य उत्तरमुक्तम् । तेनैव स्थूलदेहाद्विवेचितं जीवं सूक्ष्मादपि विवेक्तुं प्रश्नमवतारयति । अन्यद्वपुरिति । नरयोनिमापद्यमानो जीवः स्वेन कायेन जैवेनैव रूपेण गर्भं मातुरुदरं याति उत तत्र प्रवेष्टुम् अन्यद्वपुरुपाधिभूतं विदधाति ॥१२॥
शरीरदेहातिसमुच्छ्रयं च चक्षुःश्रोत्रे लभते केन संज्ञाम्
।
एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः क्षेत्रज्ञं त्वां तात मन्याम सर्वे॥१३॥
शरीरेति । अन्यजन्मानङ्गीकारे शरीरविशेषं करणानि संज्ञा च नायं लभेत् । मलपिण्डवत् । अङ्गीकारे च तेषां स्वाभाविकत्वात् । उपाधिसंतत्यविच्छेदाद्वा नित्यसंसारित्वं स्यात् ॥१३॥
ययातिरुवाच।
वायुः समुत्कर्षति गर्भयोनिमृतौ रेतः पुष्पफलानुपृक्तम्
।
स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम्॥१४॥
तदेतदनाद्ये कोपाधिस्वीकारेण परिहरति । वायुः समुत्कर्षतीति । वायुर्व्यष्टिलिङ्गम् । ‘वायुर्वै गौतमतत्सूत्रं वायुरेव व्यष्टिर्वायुः समष्टिः’ इति श्रुतिभ्याम् ‘पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतित्थं सूक्ष्माङ्गं भोगसाधनम्’ इत्युक्तरूपं तत्कर्तृ । गर्भस्थानं मुख्यकर्मभूतम् । ऋतौ स्त्रीरजसि रेतः पूर्वोक्तम् । पुष्परसेन पुष्पं कर्मफलोत्पादकत्वसाम्यात्तस्य रासोऽपूर्वं तेनानुपृक्तं गौणकर्म समुत्कर्षति । ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः’ इति स्मृतेः । ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति श्रुतेश्च । सामाज्यपय आदिरूपाः। कर्मसमवायिनीर्देहान्तरारम्भिका आपो रेतोरूपा गृहीत्वा लिङ्गोपाधिर्जीवो गर्भाशयं विशतीत्यर्थः । अन्यथा ऋतौ सिक्तमपिरेतः पूयेन्न संभवेत् न स्थिरीभवेच्च । स वायुः तत्र गर्भाशये तन्मात्राणि सूक्ष्मभूतानि तैः उपादानभूतैः कृतः अधिकारो यावदपवर्गमवस्थानं यस्य स तन्मात्रकृताधिकारः । एवंभूतो वायुः क्रमेण गर्भं वर्धयति । यथाहुनैरुक्ताः । ‘शुक्रातिरेके पुमान् भवति । शोणितातिरेके स्त्री भवति । द्वाभ्यां समेन नपुंसको भवति । शुक्रभिन्नेन यमो भवति । एकरात्रोषितं कललं भवति । पञ्चरात्राद्बुद्बुदाः । सप्तरात्रात्पेशी । द्विः सप्तरात्रादर्बुदः । पञ्चविंशतिरात्रः स्वस्थितो घनो भवति । मासमात्रात्कठिनो भवति । द्विमासाभ्यन्तरे शिरः सम्पद्यते । मासत्रयेण ग्रीवाव्यादेशः । मासचतुष्टयेन त्वग्न्यादेशः । पञ्चमे मासे नखरोमव्यादेशः । षष्ठे मुखनासिकाक्षिश्रोत्रं च सम्भवति । सप्तमे चलनसमर्थो भवति । अष्टमे बुद्ध्याऽध्यवस्यति । नवमे सर्वाङ्गसंपूर्णो भवति’। ‘मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः’ इत्यादि जातश्च वायुना स्पृष्टस्तन्न स्मरति जन्ममरणमन्ते च शुभाशुभं कर्मेत्यन्तेन ग्रन्थेन ॥१४॥
स जायमानो विगृहीतमात्रः संज्ञामधिष्ठाय ततो मनुष्यः
।
स श्रोत्राभ्यां वेदयतीह शब्दं स वै रूपं पश्यति चक्षुषा च॥१५॥
स इति युग्मम् । स गर्भो जायमानो वर्धमानः । विगृहीतमात्रः विग्रहेण सर्वाङ्गकलापेन संपन्नमात्रः संज्ञां प्राग्भवयां वासनामधिष्टायानुसंधाय ततो जातः सन् योनेर्बहिर्निःसरणान्मनुष्योऽहमित्यभिमानवान्भवति । एवंभूतस्य प्राणमृतो जीवस्य प्राणाख्यं लिङ्गं शरीरे स्थूले उपहितम् उपाधिं विद्धि । स्वतस्तु महात्मनः विभोः किं तदुपहितं येन श्रोत्रादिरूपेण शब्दादीन्विषयान् जानीत इति द्वयोः श्लोकयोरन्वयः ॥१५॥
घ्राणेन गन्धं जिह्वयाऽथो रसं च त्वचा स्पर्शं मनसा वेदभावम्
।
इत्यष्टकेहोपहितं हि विद्धि महात्मनः प्राणभृतः शरीरे॥१६॥
अष्टक उवाच।
यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निकृष्यते वा
।
अभावभूतः स विनाशमेत्य केनात्मानं चेतयते परस्तात्॥१७
१६॥ तन्मात्रकृताधिकार इति लिङ्गस्य यावन्मोक्षस्थायित्वमुक्तं तदाक्षिपति । यः संस्थित इति । संस्थितो मृतः । स्थूलदेहदाहेनैव लिङ्गदेहदाहः कुतो न भवतीत्यर्थः ॥१७॥
ययातिरुवाच।
हित्वा सोऽसून्सुप्तवन्निष्टनित्वा पुरोधाय सुकृतं दुष्कृतं वा
।
अन्यां योनिं पवनाग्रानुसारी हित्वा देहं भजते राजसिंह॥१८॥
स्वप्नवद्देहान्तरप्राप्तौ सत्यां नायं दोषः सम्भवतीत्याह । हित्वा सोसून्सुप्तवन्निष्ठनित्वात् सः संस्थितः असून्प्राणान् हित्वा धारयित्वा गृहीत्वेत्यर्थः। धाञः क्त्वाप्रत्यये परे दधातेर्हिरिति हि भावः । ‘तमुत्क्रामन्तं प्राणोनूत्क्रामति । प्राणममूत्क्रामन्तं सर्वे प्राणा अमूत्क्रामन्ति’ इत्यसुसहितस्यैव लोकान्तरप्राप्तिश्रुतेः । निष्टनित्वा शब्दं कृत्वा । सुप्तवत् स्वप्नवदन्यां योनिं देहं भजते । हित्वा त्यक्त्वा देहं स्थूलम् ॥१८॥
पुण्यां योनिं पुण्यकृतो व्रजन्ति पापां योनिं पापकृतो व्रजन्ति
।
कीटाः पतङ्गाश्च भवन्ति पापा न मे विवक्षाऽस्ति महानुभाव॥१९॥
पुरोधाय सुकृतं दुष्कृतं वेत्युक्तं तद्विभजते । पुण्यां योनिमिति । आरोहे । ‘अन्यं नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्रजापत्यं वा ब्राह्मं चा’ इति श्रुतेः। पित्र्याद्यन्यतमां योनिम् अवरोहे तु ‘रमणीयचरणा अभ्याशोहयत्तेरमणीयां योनिं प्रपद्यन्ते ब्राह्मणयोनिं वा क्षत्रिययोनिं वा’ इति । पुण्यां योनिं भजन्ति । एवं पापामपि । ‘पापकृतो नारकीं योनिं भुक्त्वा कपूयचरणाः कपूयां योनिमापद्यन्ते श्वयोनिं वा सूकरयोनिं वा चाण्डालयोनिं वा’ इति श्रुतेः । पापां योनिं भजन्ति । कीटाः पतङ्गाश्च भवन्ति । पापाः पापकस्वभावाः । अथैतयोः पथोर्न कतरेण च न तानीमानि क्षुद्राण्यसकृदावर्तीनि जायस्व म्रियस्वेत्येतत्तृतीयं स्थानमिति श्रुतेः । कीटादियोनिम् असकृद्भजन्ति । अत एव योनिसञ्चारस्य दुःखबहुलत्वान्न मे विवक्षास्ति ‘महानुभावजायामेस्यादथ प्रजायेय वित्तं मेस्यादथ कर्म कुर्वीय’ इति श्रूयमाण जायादिभारं वोढुमिच्छा मम नास्ति । किं तु भूमिं प्राप्य नैष्कर्म्यमेव साधयिष्यामीतिभावः ॥१९॥
चतुष्पदा द्विपदाः षट्पदाश्च तथाभूता गर्भभूता भवन्ति
।
आख्यातमेतन्निखिलेन सर्वं भूयस्तु किं पृच्छसि राजसिंह॥२०॥
अष्टक उवाच।
किंस्वित्कृत्वा लभते तात लोकान्मर्त्यः श्रेष्ठांस्तपसा विद्यया च
।
तन्मे पृष्टः शंस सर्वं यथावच्छुभाँल्लोकान्येन गच्छेत्क्रमेण॥२१॥
एवं स्थूलात्सुक्ष्माच्च देहाद्विवेचितस्य देहिनस्तत्सम्बन्धादुत्क्रान्तिगत्यागतयो दर्शिताः । आगतेश्च न मे विविक्षास्तीति तुच्छवत्वं चोक्तम् । अतुच्छस्थानप्रापकमुपायं पृच्छति । किं स्विदिति । श्रेष्ठान् आवृत्तिशून्यान् । तपसा कर्मणा विद्यया उपास्त्या वा ॥२१॥
ययातिरुवाच।
तपश्च दानं च शमो दमश्च ह्रीरार्जवं सर्वभूतानुकम्पा
।
स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सप्तैव महान्ति पुंसाम्
।
नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः॥२२॥
उत्तरमाह सार्धेन । तपश्च दानं चेति । नश्यन्ति मानेन तमोऽभिभूताः पुंस इति । तप आदयः सप्तवर्गस्य द्वारभूता अपि पुंसः पुरुषस्य मानेन अहमेव श्रेष्ठः कर्ता इत्यभिमानेन नश्यन्ति । यतस्ते तमोभिभूताः मानरूपेण तमसाऽभिभूता षण्ढीकृताः ॥२२॥
अधीयानः पण्डितंमन्यमानो यो विद्यया हन्ति यशः परेषाम्
।
तस्यान्तवन्तश्च भवन्ति लोका न चास्य तद्ब्रह्म फलं ददाति॥२३॥
दर्पवता कृतमध्ययनादि न मोक्षोपयोगिनापि स्वर्गदं प्रत्युत भयावहमित्याह द्वाभ्याम् । अधीयान इति ॥२३॥
चत्वारि कर्माण्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि
।
मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः॥२४॥
चत्वारीत्यत्र अधीतं ब्रह्मचारिणो धर्मः । मौनं यतेः । यज्ञाग्निहोत्रे इतरयोर्द्वयोरपि साधारणे ॥२४॥
न मानमान्यो मुदमाददीत न सन्तापं प्राप्नुयाच्चावमानात्
।
सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं लभन्ते॥२५॥
अतो मानापमानादिद्वन्द्वसहिष्णुर्भवेदित्याह । न मानमान्य इति ॥२५॥
इति दद्यामिति यज इत्यदीय इति व्रतम्
।
इत्येतानि भयान्याहुस्तानि वर्ज्यानि सर्वशः॥२६॥
इति दद्यामिति दाम्भिकस्य स्वधर्मप्रकाशनाभिनयः । अतस्तप आदिदम्भविवर्जितं चेन्मोक्षद्वारं नान्यथेत्यर्थः ॥२६॥
ये चाश्रयं वेदयन्ते पुराणं मनीषिणो मानसमार्गरुद्धम्
।
तद्वः श्रेयस्तेन संयोगमेत्य परां शान्तिं प्राप्नुयुः प्रेत्य चेह॥२७॥
तपसा विद्यया वेति तपो विद्ययोः कतरदावृत्तिशून्यस्थानं प्रापकमिति पृष्टे तपसस्तत्रारादुपकारकत्वमुक्त्वा विद्यायाः साक्षादेव तत्प्रापकत्वमाह । ये चेति । मनीषिणो मनोनिग्रहशीलस्य प्रमातुः आश्रयं स्वाध्यासाधिष्ठानम् । पुराणं पुरापि नवम् । कूटस्थकार्यकारणवद्विकारि न भवतीत्यर्थः । मानसस्य मार्गः पराक्प्रावण्यं तेन रुद्धमावृत्तं यद्वस्तु ये विद्वांसो वेदयन्ते विदन्ति । स्वार्थे णिच् । तमेवैकं जानथ आत्मानं न चेदवेदीमर्हतीविनष्टिः । निष्कलं निष्क्रियं शान्तमित्याद्यागमेनानुमानानुभवाभ्यां च जानन्ति । तद्वस्तु वो युष्माकं श्रेयः यस्मात्ते ब्रह्मणा संयोगमेत्य ऐक्यं प्राप्य परां शान्तिं कैवल्यं प्राप्नुयुस्ते इह जीवत्येव देहे । प्रेत्य देहाभिमानाद्युत्थाय । तथा च श्रुतिः । ‘शरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इति ॥२७॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि उत्तरयायाते नवतितमोऽध्यायः॥९०॥
अष्टक उवाच।
चरन्गृहस्थः कथमेति धर्मान्कथं भिक्षुः कथमाचार्यकर्मा
।
वानप्रस्थः सत्पथे सन्निविष्टो बहून्यस्मिन्संप्रति वेदयन्ति॥१॥
एकनवतितमोऽध्यायः चरन्निति । अस्मिन्धर्मे विषये बहूनि प्राप्तिद्वाराणि वेदयन्ति वैदिकाः ॥१॥
ययातिरुवाच।
आहूताध्यायी गुरुकर्मस्वचोद्यः पूर्वोत्थायी चरमं चोपशायी
।
मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्याशीलः सिध्यति ब्रह्मचारी॥२॥
चत्वारि कर्माण्यभयङ्कराणीत्याश्रमकर्मणामभयङ्करत्वमुक्तं तदेव विस्तरेणाह । आहूताध्यायीत्यादिना ॥२॥
धर्मागतं प्राप्य धनं यजेत दद्यात्सदैवातिथीन्भोजयेच्च
।
अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत्पुराणी॥३॥
स्ववीर्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी
।
तादृङ्मुनिः सिद्धिमुपैति मुख्यां वसन्नरण्ये नियताहारचेष्टः॥४॥
अशिल्पजीवी गुणवांश्चैव नित्यं जितेन्द्रियः सर्वतो विप्रयुक्तः
।
अनोकशायी लघुरल्पप्रसारश्चरन्देशानेकचरः स भिक्षुः॥५॥
अनोकशायी शून्यागारदेवालयकुलालशालादौ गृहस्थागारभिन्ने स्थाने शयीत । ओक इति स लोप आर्षः । लघुः परिग्रहशून्यः ॥५॥
रात्र्या यया वाऽभिजिताश्च लोका भवन्ति कामाभिजिताः सुखाश्च
।
तामेव रात्रिं प्रयतेत विद्वानरण्यसंस्थो भवितुं यतात्मा॥६॥
‘यदहरेव विरजेत्तदहरेव प्रव्रजेत्’ इति श्रुत्युक्तं परिग्रहत्यागकालमाह । रात्र्येति । लोक्यन्त इति लोकाः शब्दाद्या विषयाः ययैव रात्र्या यदैव अभिजितास्तुच्छीकृताः । सुखाः सुखावहा अपि कामाभिजिताः वशवर्तिनोऽपि तामेव रात्रिं तदैव सर्वपरिग्रहं सन्यस्यारण्यसंस्थः । ‘अथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदरश्चवैण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि’ इति श्रुतिप्रसिद्धां ब्रह्मनिष्ठां कर्तुं यतेतेत्यर्थः ॥६॥
दशैव पूर्वान्दश चापरांश्च ज्ञातीनथात्मानमथैकविंशम्
।
अरण्यवासी सुकृते दधाति विमुच्यारण्ये स्वशरीरधातून्॥७॥
अरण्यवासी हार्दब्रह्मनिष्ठः तत्रैव हार्दशरीरधातून् स्थूलसूक्ष्मभूतरूपान् । विमुच्य प्रविलाप्य । तमपि हार्दम् । सुकृते निष्कले ब्रह्मणि ‘तस्मात्तत्सुकृतमुच्यते’ इति श्रुतिप्रसिद्धे चिदेकरसे दधाति प्रविलापयति ॥७॥
अष्टक उवाच।
कतिस्विदेव मुनयः कति मौनानि चाप्युत
।
भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम्॥८॥
सर्वेष्वाश्रमेषु सिद्धिरस्तीत्युक्तं रात्र्याययेति संन्यासे चात्यादरोदर्शितस्तत्किं तत्रैव मोक्षोस्त्युताश्रमान्तरेष्वपीति संशयानः पृच्छति कतीति । मोक्षिणः । मौनानि मुनयो मोक्षमार्गाः ॥८॥
ययातिरुवाच।
अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः
।
ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप॥९॥
योगी ज्ञानी चेति द्वौ मुनी इत्याह । अरण्य इति । अरण्ये वसतोन्तर्निष्ठस्य योगिनः ग्रामो बाह्यं वस्तु पृष्ठतः समीपत एव भवति । योगप्रभावात्सर्वमस्यास्तीत्यर्थः । ग्रामे लोके वसतो मायापुरदर्शिन इव द्विचन्द्रन्यायेन तद्बाधेनाधिष्ठानदृष्टिर्नित्यमप्रमुषितास्तीत्यर्थः ॥९॥
अष्टक उवाच।
कथंस्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः
।
ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः॥१०॥
द्वयमप्येतदाश्चर्यमिति मत्वा पृच्छति । कथमिति ॥१०॥
ययातिरुवाच।
न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत्
।
तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः॥११॥
आद्यं तीव्रवैराग्यपूर्वकं योगमभ्यस्यतः सुलभमित्याह न ग्राम्यमिति ॥११॥
अनग्निरनिकेतश्चाप्यगोत्रचरणो मुनिः
।
कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम्॥१२॥
द्वितीयं विवेकिनः संन्यासिनः सुलभमित्याह । अनग्निरनिकेत इति । अनग्निः संन्यासी । अनिकेतः कुटीचकव्यावृत्तः परमहंसः । अत एव अगोत्रचरणः गोत्रं जन्मवंशः चरणं विद्यावंशः । तद्व्यपदेशशून्याः कौपीनेति स्पष्टार्थः ॥१२॥
यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम्
।
तथाऽस्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः॥१३॥
यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः
।
आतिष्ठेच्च मुनिर्मौनं स लोके सिद्धिमाप्नुयात्॥१४॥
एवं प्रकारेण ग्रामेऽपि वसतो विवेकिनोऽरण्यमेव समीपेऽस्तीत्याह । तथास्येति । त्यक्तकर्मा जितेन्द्रियो मौनं योगविवेकान्यतरदभ्यस्यन् सिध्यतीत्याह । यस्त्विति ॥१४॥
धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम्
।
असितं सितकर्माणं कस्तमर्हति नार्चितुम्॥१५॥
धौतदन्तं शुद्धाहारम् । ‘आहारशुद्धौ सत्वशुद्धिः’ इति श्रुतेस्तदपेक्षणात् । कृत्तनखं त्यक्तहिंसासाधनम् । अत एव सदा स्नातं नित्यं शुद्धचित्तम् । अलङ्कृतं योगैश्वर्येण शमादिना च । असितं वासनाबन्धशून्यम् । सितकर्माणं हिंसायुक्तं धर्ममपि त्यजन्तम् । ‘यं यं लोकं मनसा संविभाति विशुद्धसत्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः’ इति श्रुतेः । सर्वोऽपि तमर्चितुमर्हतीति ॥१५॥
तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः
।
स च लोकमिमं जित्वा लोकं विजयते परम्॥१६॥
मन्दाधिकारिणा कामादिजयाय तपोऽपि कर्तव्यमित्याह । तपसेति । इमं वैराग्येण जित्वा तुच्छं कृतं परं स्वर्गं विजयते प्राप्नोति ॥१६॥
यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः
।
अथ लोकमिमं जित्वा लोकं विजयते परम्॥१७॥
मध्यमं प्रतिः प्राह यदा तु निर्द्वन्द्वः सुखदुःखमानापमानादिद्वन्द्वदुःखरहितः । मौनं समास्थितो ध्यानमनुतिष्ठन् । इमं लोकं जित्वा प्रविलाप्य परं लोकं ब्रह्म विजयते प्राप्नोति ॥१७॥
आस्येन तु यदाऽहारं गोवन्मृगयते मुनिः
।
अथास्य लोकः सर्वोऽयं सोऽमृतत्वाय कल्पते॥१८॥
उत्तमं प्रतिप्राह । आस्येनेति । मुखैनैवाहारं मृगयते नतु रसे सज्जते । एवं सुबालस्तनपानवत् विषयान्गृह्णन्नपि गृह्णाति । प्रत्यङ्मात्रनिष्ठत्वात् । सचक्षुरचक्षुरिवेत्यादिश्रुतेः । ‘अथास्य लोकः सर्वोऽयमात्मा भवति सर्वस्यात्मा भवति सर्वमस्यात्मा भवति’ इतिश्रुतेः । अतः सोऽमृतत्वाय कल्पते ॥१८॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि उत्तरयायाते एकनवतितमोऽध्यायः॥९१॥
अष्टक उवाच।
कतरस्त्वनयोः पूर्वं देवानामेति सात्मताम्
।
उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव॥१॥
कतर इति एतयोर्योगिज्ञानिनोर्मध्ये देवानां सात्मतां ब्रह्मप्राप्तिम् आत्मा ह्येषां स भवतीति श्रुतेः । एषां देवानां सः विद्वानिति श्रुतिपदयोरर्थः । धावतोः यतमानयोः कः पूर्वं कृतकृत्यो भवतीत्यर्थः ॥१॥
ययातिरुवाच।
अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः
।
ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः॥२॥
उत्तरम् अनिकेत इति । संयतः धारणाध्यानसमाधिमान् । अनिकेतो भिक्षुर्गृहस्थो वा योगी मुच्यत इति पूर्वार्धार्थः । ज्ञानी पूर्वोक्तरूपस्तु सद्यो मुच्यत इत्युत्तरार्धार्थः । अयं भावः । ज्ञानिनः श्रुतियुक्तिभ्यां जगन्मिथ्यात्वनिश्चयात् । क्षणिकेनापि निर्विकल्पसाक्षात्कारेण ब्रह्माद्वैतनिश्चयो भवति । योगिनस्तु तदभावान्निर्विकल्पसमाध्यभ्यासबलेनैव द्वैतविस्मरणं सम्पादनीयमिति विलम्बाच्छ्रमसाध्यामुक्तिरिति । गृहस्थेषु वसन्नपि स्वयं सय्यतः ॥२॥
अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत्
।
तप्यते यदि तत्कृत्वा चरेत्सोऽन्यत्तपस्ततः॥३॥
अस्यैवमस्मिन् जन्मन्यलब्धोत्तमभूमेर्जन्मान्तरेपि तल्लाभोस्तीत्याह । अप्राप्येति । आयुः साधनं कालं वा । दीर्घम् उक्तविधनिष्ठापर्याप्तम् । विकृतिं दिव्यादिव्यविषयभोगं योगसिद्धिबलेन चरेत् । सोऽपि सौभर्यादिवत्पश्चात्तापं प्राप्तः सन्पुनर्योगं चरति इह जन्मनि जन्मान्तरे वा योगभ्रष्टः स्मृतिप्रामाण्यादित्यर्थः॥३॥
पापानां कर्मणां नित्यं बिभृयाद्यस्तु मानवः
।
सुखमप्याचरन्नित्यं सोऽत्यन्तं सुखमेधते॥४॥
ज्ञानिनस्तत आधिक्यमाह पापानामिति । यस्तु मानवो ज्ञानी नित्यम् अविनाशिवस्तु ब्रह्माख्यं बिभृयात्तत्वमसीति शास्त्रात्प्रत्यगात्मत्वेनावधारयेत् । सपापानां कर्मणाम् । कर्मणि षष्ठी । तानि सुखं यथष्ट आचरन्नपि मुच्यत एवेत्यर्थः । न लिप्यते कर्मणा पापकेन हत्वापि स इमाँल्लोकान्नहन्ति न निबद्ध्यत इत्यादि शास्त्रात् ॥४॥
यद्वै नृशंसं तदसत्यमाहुर्यः सेवते धर्ममनर्थबुद्धिः
।
अस्वोऽप्यनीशश्च तथैव राजंस्तदार्जवं स समाधिस्तदार्यम्॥५॥
इदं पदमप्राप्तो मोक्षेच्छया धर्ममेवसेवेतेत्याह । तद्वा इति । यः पुरुषोऽनर्थबुद्धिः नास्ति अर्थे मोक्षे बुद्धिर्यस्य स तथाभूतः सन् । स्वर्गाद्यर्थं धर्मं सेवते । तत्सेवनं नृशंसम् असत्यं च मुमुक्षाहीनत्वादनित्यफलत्वाच्च । विविदिषन्ति यज्ञेन दानेनेत्यादि श्रुतिसिद्धं धर्मस्य मोक्षहेतुत्वं परित्यज्य काम्यधर्मकृत आत्मानं नानादुःखमये संसारे पातयित्वा घ्नन्तित्यर्थः । एवमनीशस्याजितेन्द्रियस्यार्थो धनमपि नृशंसमसत्यं च । यत्तु मोक्षार्थं कर्मकरणं तदार्जवं कर्मणामुचितं फलम् । तदेव समाधिः योगसिद्धिमूलम् । तदार्यं तदेव गम्यं प्राप्यं ज्ञानसाधनामित्यर्थः । ऋगतौ अस्मात् ऋहलोर्ण्यत् । द्वयोरपि योगज्ञानमूलयोर्मूलं निष्काम धर्म एवेत्यर्थः ॥५॥
अष्टक उवाच।
केनासि दूतः प्रहितोऽसि राजन्युवा स्रग्वी दर्शनीयः सुवर्चाः
।
कुत आयातः कतरस्यां दिशि त्वमुताहोस्वित्पार्थिवं स्थानमस्ति॥६॥
केन कतरस्यां दिशि प्रहितोसीत्यन्वयः ॥६॥
ययातिरुवाच।
इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुमुर्वीं गगनाद्विप्रहीणः
।
उक्त्वाऽहं वः प्रपतिष्याम्यनन्तरं त्वरन्ति मां लोकपा ब्राह्मणा ये॥७॥
सतां सकाशे तु वृतः प्रपातस्ते सङ्गता गुणवन्तस्तु सर्वे
।
शक्राच्च लब्धो हि वरो मयैषः पतिष्यता भूमितलं नरेन्द्र॥८॥
विप्रहीणः च्युतः उक्त्वा आपृच्छथ वः युष्मान् ॥८॥
अष्टक उवाच।
पृच्छामि त्वां मा प्रपत प्रपातं यदि लोकाः पार्थिव सन्ति मेऽत्र
।
यद्यन्तरिक्षे यदि वा दिवि स्थिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये॥९॥
प्रपातं पतित्वा मात्रपत पातं मा प्राप्नुहीत्यर्थः । कषादित्वादनुप्रयोगः ‘समूलघातं न्यवधीदरींश्च’ इत्यादिवत् । लोकाः भोग्य विषयाः । दिवि मेरुपृष्ठे । अन्तरिक्षे नक्षत्रमण्डलादौ । क्षेत्रं सिद्धं स्थानं तदभिज्ञम् ॥९॥
ययातिरुवाच।
यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पार्वतैश्च
।
तावल्लोका दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्रसिंह॥१०॥
अष्टक उवाच।
तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति
।
यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रमपेतमोहः॥११॥
आक्रम आक्रमस्व ॥११॥
ययातिरुवाच।
नास्मद्विधो ब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य
।
यथा प्रदेयं सततं द्विजेभ्यस्तथाऽददं पूर्वमहं नरेन्द्र॥१२॥
ब्राह्मणोऽपि ब्रह्मवित् वेदविदेव प्रतिग्रहे वर्तेत नत्वन्यः । अस्मद्विधस्तु नैव वर्तेतेत्यर्थः ॥१२॥
नाब्राह्मणः कृपणो जातु जीवेद्याञ्चापि स्याद्ब्राह्मणी वीरपत्नी
।
सोऽहं नैवाकृतपूर्वं चरेयं विधित्समानः किमु तत्र साधुः॥१३॥
कृपणो याञ्चा दैन्ययुक्तः । वीरस्य विद्यया दिग्विजयिनः पत्नी तत्र कर्मभूमौसाधु सत्कर्म । विधित्समानः कर्तुमिच्छन् किमु कथं चरेयं नैव कुर्यामित्यर्थः । विवित्समान इति पाठे तत्र स्वर्गे साधुर्लब्धुमिच्छन् ॥१३॥
प्रतर्दन उवाच।
पृच्छामि त्वां स्पृहणीयरूप प्रतर्दनोऽहं यदि मे सन्ति लोकाः
।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये॥१४॥
ययातिरुवाच।
सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकः सप्तसप्ताप्यहानि
।
मधुच्युतो घृतपृक्ता विशोकास्ते नान्तवन्तः प्रतिपालयन्ति॥१५॥
प्रत्येकं सप्त सप्ताप्यहानि सेविताः । सन्तो नान्तवन्तः मधुच्युतः सुखस्रवाः घृतपृक्ता तेजोयुक्ताः ते त्वां प्रतिपालयन्ति प्रतीक्षन्ते ॥१५॥
प्रतर्दन उवाच।
तांस्ते ददानि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु
।
यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रमपेतमोहः॥१६॥
ययातिरुवाच।
न तुल्यतेजाः सुकृतं कामयेत योगक्षेमं पार्थिव पार्थिवः सन्
।
दैवादेशादापदं प्राप्य विद्वांश्चरेन्नृशंसं न हि जातु राजा॥१७॥
नृशंसं निन्द्यम् ॥१७॥
धर्म्यं मार्गं यतमानो यशस्यं कुर्यान्नृपो धर्ममवेक्षमाणः
।
न मद्विधो धर्मबुद्धिः प्रजानन्कुर्यादेवं कृपणं मां यथाऽत्थ॥१८॥
कुर्यादपूर्वं न कृतं यदन्यैर्विधित्समानः किमु तत्र साधु
।
ब्रुवाणमेवं नृपतिं ययातिं नृपोत्तमो वसुमानब्रवीत्तम्॥१९॥
अन्यै राजभिः यत्प्रतिग्रहाख्यं न कृतं तत् अपूर्वं प्रथमम् अहमेव कथं कुर्यामिति भावः ॥१९॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि उत्तरयायाते द्विनवतितमोऽध्यायः॥९२॥
वसुमानुवाच।
पृच्छामि त्वां वसुमानौषदश्विर्यद्यस्ति लोको दिवि मे नरेन्द्र
।
यद्यन्तरिक्षे प्रथितो महात्मन् क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये॥१॥
त्रिनवतितमोऽध्यायः पृच्छामीति ॥१॥
ययातिरुवाच।
यदन्तरिक्षं पृथिवी दिशश्च यत्तेजसा तपते भानुमांश्च
।
लोकास्तावन्तो दिवि संस्थिता वै ते नान्तवन्तः प्रतिपालयन्ति॥२॥
यत् यान् तपते प्रकाशयति ॥२॥
ययातिरुवाच।
तांस्ते ददानि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु
।
क्रीणीष्वैतांस्तृणकेनापि राजन्प्रतिग्रहस्ते यदि धीमन्प्रदुष्टः॥३॥
ययातिरुवाच।
न मिथ्याऽहं विक्रयं वै स्मरामि वृथा गृहीतं शिशुकाच्छङ्कमानः
।
कुर्यां न चैवाकृतपूर्वमन्यैर्विधित्समानः किमु तत्र साधुः॥४॥
शिशुकात् शिशुमारप्रधानात्कालचक्रात् शङ्कमानः । ‘अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्’ इत्युक्तेः । मिथ्याक्रियात्मकं कापट्यं दुस्तरमिति भावः 'शिशुकः शिशुमारे स्यादिति मेदिनी । शिशुकान्मन्दबालकादिति वा ॥४॥
वसुमानुवाच।
तांस्त्वं लोकान्प्रतिपद्यस्व राजन्मया दत्तान्यदि नेष्टः क्रयस्ते
।
अहं न तान्वै प्रतिगन्ता नरेन्द्र सर्वे लोकास्तव ते वै भवन्तु॥५॥
शिबिरुवाच।
पृच्छामि त्वां शिबिरौशीनरोऽहं ममापि लोका यदि सन्तीह तात
।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये॥६॥
ययातिरुवाच।
यत्त्वं वाचा हृदयेनापि साधून्परीप्समानान्नावमंस्था नरेन्द्र
।
तेनानन्ता दिवि लोकाः श्रितास्ते विद्युद्रूपाः स्वनवन्तो महान्तः॥७॥
परीप्समानान् याचकान् नावमंस्था नावमानं कृतवानसि । स्वनवन्तः प्रख्याता इत्यर्थः ॥७॥
शिबिरुवाच।
तांस्त्वं लोकान्प्रतिपद्यस्व राजन्मया दत्तान्यदि नेष्टः क्रयस्ते
।
न चाहं तान्प्रतिपत्स्ये ह दत्त्वा यत्र गत्वा नानुशोचन्ति धीराः॥८॥
ययातिरुवाच।
यथा त्वमिन्द्रप्रतिमप्रभावस्ते चाप्यनन्ता नरदेव लोकाः
।
तथाऽद्य लोके न रमेऽन्यदत्ते तस्माच्छिबे नाभिनन्दामि देयम्॥९॥
अष्टक उवाच।
न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि
।
सर्वे प्रदाय भवते गन्तारो नरकं वयम्॥१०॥
गन्तारः मृत्वा प्राप्स्यामहः नरकं भूलोकम् ॥१०॥
ययातिरुवाच।
यदर्होऽहं तद्यतध्वं सन्तः सत्याभिनन्दिनः
।
अहं तन्नाभिजानामि यत्कृतं न मया पुरा॥११॥
यतध्वं कर्तुं नाभिजानामि नाङ्गीकरोमि ॥११॥
अष्टक उवाच।
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः
।
यानारुह्य नरो लोकानभिवाञ्छति शाश्वतान्॥१२॥
ययातिरुवाच।
युष्मानेते वहिष्यन्ति रथाः पञ्च हिरण्मयाः
।
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव॥१३॥
प्रकाशन्ते दृश्यन्ते ज्वलन्तो दीप्यमानाः ॥१३॥
अष्टक उवाच।
आतिष्ठस्व रथन्राजन्विक्रमस्व विहायसम्
।
वयमप्यनुयास्यामो यदा कालो भविष्यति॥१४॥
ययातिरुवाच।
सर्वैरिदानीं गन्तव्यं सह स्वर्गजितो वयम्
।
एष नो विरजाः पन्था दृश्यते देवसद्मनः॥१५॥
वैशंपायन उवाच।
तेऽधिरुह्य रथान्सर्वे प्रयाता नृपस्तमाः
।
आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी॥१६॥
अष्टक उवाच।
अहं मन्ये पूर्वमेकोऽस्मि गन्ता सखा चेन्द्रः सर्वथा मे महात्मा
।
कस्मादेवं शिबिरौशीनरोऽयमेकोऽत्यगात्सर्ववेगेन वाहान्॥१७॥
ययातिरुवाच।
अददद्देवयानाय यावद्वित्तमविन्दत
।
उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि वः शिबिः॥१८॥
देवयानाय ब्रह्मलोकमार्गप्राप्तये यावत्सर्वस्वम् अददत्सर्वत्यागीत्यर्थः । अन्ये पितृयाने नैव गता इत्यर्थाज्ज्ञेयम् ॥१८॥
दानं तपः संत्यमथाऽपि धर्मो ह्रीः श्रीः क्षमा सौम्यमथो विधित्सा
।
राजन्नेतान्यप्रमेयाणि राज्ञः शिबेः स्थितान्यप्रतिमस्य बुद्ध्या॥१९॥
सौम्यमक्रूरत्वम् । विधित्सा पालनेच्छा ॥१९॥
एवंवृत्तो ह्रीनिषेवश्च यस्मात्तस्माच्छिबिरत्यगाद्वै रथेन
।
वैशंपायन उवाच।
अथाष्टकः पुनरेवान्वपृच्छन्मातामहं कौतुकेनेन्द्रकल्पम्॥२०॥
सत्यमेव श्रेयःसाधनमिति विधातुं पूर्वोक्तप्रश्नोत्तरे अनुवदति । अथाष्टक इत्यादिना ॥२०॥
पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कश्चासि सुतश्च कस्य
।
कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा॥२१॥
ययातिरुवाच।
ययातिरस्मि नहुषस्य पुत्रः पूरोः पिता सार्वभौमस्त्विहासम्
।
गुह्यं चार्थं मामकेभ्यो ब्रवीमि मातामहोऽहं भवतां प्रकाशम्॥२२॥
प्रकाशं प्रागुक्तमपि स्पष्टतरम् ॥२२॥
सर्वामिमां पृथिवीं निर्जिगाय दत्त्वा प्रतस्थे विपिनं ब्राह्मणेभ्यः
।
मेध्यानश्वानेकशतान्सुरूपांस्तदा देवाः पुण्यभाजो भवन्ति॥२३॥
छादनं जीविकात्वेन परिधानम् । अतीतफलत्वादस्य धर्मस्य स्वमुखेन कीर्त्तनं न दोषः । अन्यथा ‘धर्मः क्षरति कीर्तनात्’ इत्युक्तेरश्रेयसे स्यात् प्रस्थे दत्वा विपिनं ब्राह्मणेभ्य इतिपाठे ब्राह्मणेभ्यो दत्वा विपिनं वनं प्रस्थे प्रतस्थेऽहं प्रस्थानं कृतवानस्मि । अभ्यासलोप आर्षः । मेध्यानश्वान्यदा देवेभ्यः उत्सृजति तदा देवास्तं पुण्यवन्तं भजन्तीत्यर्थः ॥२३॥
अदामहं पृथिवीं ब्राह्मणेभ्यः पूर्णामिमामखिलां वाहनेन
।
गोभिः सुवर्णेन धनैश्च मुख्यैस्तदाऽददं गाः शथमर्बुदानि॥२४॥
सत्येन मे द्यौश्च वसुन्धरा च तथैवाग्निज्वर्लते मानुषेषु
।
न मे वृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति॥२५॥
यदष्टक प्रब्रवीमीह सत्यं प्रतर्दनं चौषदश्विं तथैव
।
सर्वे च लोका मुनयश्च देवाः सत्येन पूज्या इति मे मनोगतम्॥२६॥
यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत्
।
अनसूयुर्द्विजाग्र्येभ्यः स लभेन्नः सलोकताम्॥२७॥
वैशंपायन उवाच।
एवं राजा स महात्मा ह्यतीव स्वैर्दौहित्रैस्तारितो मित्रसाहः
।
त्यक्त्वा महीं परमोदारकर्मा स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम्॥२८॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि उत्तरयायातसमाप्तौ त्रिनवतितमोऽध्यायः॥९३॥
जनमेजय उवाच।
भगवञ्छ्रोतुमिच्छामि पुरोर्वंशकरान्नृपान्
।
यद्वीर्यान्यादृशांश्चापि यावतो यत्पराक्रमान्॥१॥
चतुर्नवतितमोऽध्यायः भगवन्निति ॥१॥
न ह्यस्मिन्शीलहीनो वा निर्वीर्यो वा नराधिपः
।
प्रजाविरहितो वाऽपि भूतपूर्वः कथंचन॥२॥
तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम्
।
चरितं श्रोतुमिच्छमि विस्तरेण तपोधन॥३॥
वैशंपायन उवाच।
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि
।
पुरोर्वंशधरान्वीराञ्च्छक्रप्रतिमतेजसः
।
भूरिद्रविणविक्रान्तान्सर्वलक्षणपूजितान्॥४॥
प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः
।
पूरोः पौष्ट्यामजायन्त प्रवीरो वंशकृत्ततः॥५॥
मनस्युरभवत्तस्माच्छूरसेनीसुतः प्रभुः
।
पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः॥६॥
चतुरन्तायाश्चतुःसमुद्रावच्छिन्नायाः ॥६॥
शक्तः संहननो वाग्मी सौवीरीतनयास्त्रयः
।
मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः॥७॥
अन्वग्भानुप्रभृतयो मिश्रकेश्यां मनस्विनः
।
रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः॥८॥
यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः
।
सर्वे सर्वास्त्रविद्वासः सर्वे धर्मपरायणाः॥९॥
ऋचेयुरथ कक्षेयुः कृकणेयुश्च वीर्यवान्
।
स्थण्डिलेयुर्वनेयुश्च जलेयुश्च महायशाः॥१०॥
तेजेयुर्बलावान्धीमान्सत्येयुश्चेन्द्रविक्रमः
।
धर्मेयुः सन्नतेयुश्च दशमो देवविक्रमः॥११॥
अनाधृष्टिरभूत्तेषां विद्वान्भुवि तथैकराट्
।
ऋचेयुरथ विक्रान्तो देवानामिव वासवः॥१२॥
अनाधृष्टिसुतस्त्वासीद्राजसूयाश्वमेधकृत्
।
मतिनार इति ख्यातो राजा परमधार्मिकः॥१३॥
मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः
।
तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः॥१४॥
तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन्
।
आजहार यशो दीप्तं जिगाय च वसुंधराम्॥१५॥
ईलिनं तु सुतं तंसुर्जनयामास वीर्यवान्
।
सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः॥१६॥
रथन्तर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः
।
ईलिनो जनयामास दुष्यन्तप्रभृतीन्नृपान्॥१७॥
दुष्यन्तं शूरभीमौ च प्रवसुं वसुमेव च
।
तेषां श्रेष्ठोऽभवद्राजा दुष्यन्तो जनमेजय॥१८॥
दुष्यन्ताद्भरतो जज्ञे विद्वान्शाकुन्तलो नृपः
।
तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः॥१९॥
भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत्
।
नाभ्यनन्दत तान्राजा नानुरूपा ममेत्युत ॥२०॥
ततस्तान्मातरः कुद्धाः पुत्रान्निन्युर्यमक्षयम्
।
ततस्तस्य नरेन्द्रस्य वितथं पुत्रजन्म तत् ॥२१॥
वितथं विगतस्तथा भावो जनकसादृश्यं यत्र तत्तादृशं पुत्रजन्म ॥२१॥
ततो महद्भिः क्रतुभिरीजानो भरतस्तदा
।
लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत ॥२२॥
ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः
।
भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् ॥२३॥
ततो दिविरथो नाम भुमन्योरभवत्सुतः
।
सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा ॥२४॥
पुष्करिण्यामृचीकश्च भुमन्योरभयन्सुताः
।
तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम्॥२५॥
राजसूयाश्वमेधाद्यैः सोयजद्बहुभिः सवैः
।
सृहोत्रः पृथिवीं कृत्स्नां बुभुजे सागराम्बराम्॥२६॥
सवैः सवसंज्ञैर्यज्ञैः ॥२६॥
पूर्णां हस्तिगजाश्वैश्च बहुरक्षसमाकुलाम्
।
ममजेव मही तस्य भूरिभारावपीडिता ॥२७॥
हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम्
।
सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः ॥२८॥
चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः
।
प्रवृद्धजनसस्या च सर्वदैव व्यरोचत ॥२९॥
पेक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः
।
अजमीढं सुमीढं च पुरुमीढं च भारत ॥३०॥
अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः
।
षट्पुत्रान्सोप्यजनयत्तिसृषु स्त्रीषु भारत॥३१॥
ऋक्षं धूमिन्यथो नीली दुष्यन्तपरमेष्ठिनौ
।
केशिन्यजनयज्जह्नुं सुतौ व्रजनरूपिणौ॥३२॥
तथेमे सर्वपञ्चाला दुष्यन्तपरमेष्ठिनोः
।
अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः॥३३॥
व्रजनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम्
।
ऋक्षात्संवरणो जज्ञे राजन्वंशकरः सुतः॥३४॥
व्रजनरूपिणयोरित्यक्षराधिक्यमार्षम् ॥३४॥
आर्क्षे संवरणे राजन्प्रशासति वसुंधराम्
।
संक्षयः सुमहानासीत्प्रजानामिति नः श्रुतम् ॥३५॥
आर्क्षे ऋक्षपुत्रे ॥३५॥
व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तदा
।
क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् ॥३६॥
अभ्यघ्नन् भारतांश्चैव सपत्नानां बलानि च
।
चालयन्वसुधां चेमां बलेन चतुरङ्गिणा ॥३७॥
अभ्ययाप्तं च पाञ्चाल्यो विजित्य तरसा महीम्
।
अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ॥३८॥
क्षयैः नाशेहतुभिः क्षुत्प्रभृतिभिः अभ्ययात्तं संवरणम् एनं संवरणमेव ॥३८॥
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः
।
राजा संवरणस्तस्मात्पलायत महाभयात्॥३९॥
पलायत अडभाव आर्षः ॥३९॥
सिन्धोर्नदस्य महतो निकुञ्जे न्यघसत्तदा
।
नदीविषयपर्यन्ते पर्वतस्य समीपतः ॥४०॥
तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः
।
तेषां निवसतां तत्र सहस्रं परिवत्सरान्॥४१॥
अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः
।
तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च ॥४२॥
अर्घ्यमन्याहरंस्तस्मै ते सर्वे भारतास्तदा
।
निवेद्य सर्वमृषये सत्कारेण सुवचसे॥४३॥
तमासने चोपविष्टं राजा वव्रे स्वयं तदा
।
पुरोहितो भवान्नोऽस्तु राजाय प्रयतेमहि ॥४४॥
ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत
।
अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् ॥४५॥
विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम्
।
भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् ॥४६॥
ओमित्यङ्गीकारे । विषाणवत् गिरिशृङ्गवत् श्रेष्ठभूतम् ॥४६॥
पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः
।
ततः स पृथिवीं प्राप्य पुनरीजे महाबलः ॥४७॥
बलिसृतः करदान् ॥४७॥
आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः
।
ततः संवरणात्सौरी तपती सुषुवे कुरुम् ॥४८॥
सौरी सूर्यकन्या ॥४८॥
राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे
।
तस्य नाम्नाऽभिविख्यातं पृथिव्यां कुरुजाङ्गलम् ॥४९॥
कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः
।
अश्ववन्तमभिष्यन्तं तथा चैत्ररथं मुनिम् ॥५०॥
जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः
।
पञ्चैतान्वाहिनीपुत्रान्व्यजायत मनस्विनी ॥५१॥
अविक्षितः परिक्षित्तु शबलाश्वस्तु वीर्यवान्
।
आदिराजो विराजश्च शाल्मलिश्च महाबलः॥५२॥
अश्ववन्त एवाविक्षिदिति संज्ञातरम् ॥५२॥
उच्चैःश्रवा भङ्गकारो जितारिश्चाष्टमः स्मृतः
।
एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः
।
जनमेजयादयः सप्त तथैवान्ये महारथाः ॥५३॥
परीक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः
।
कक्षसेनोऽग्रसेनौ तु चित्रसेनश्च वीर्यवान् ॥५४॥
इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः
।
जनमेजयस्य तनया भुवि ख्याता महाबलाः॥५५॥
धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च
।
निषधश्च महातेजास्तथा जाम्बूनदो बली॥५६॥
कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः
।
सर्वे धर्मार्थकुशलाः सर्वभूतहिते रताः ॥५७॥
धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः
।
हस्ती वितर्कः क्राथश्च कुण्डिनश्चापिः पञ्चमः॥५८॥
हविः श्रवास्तथेन्द्राभो भुमन्युश्चापराजितः
।
धृतराष्ट्रसुतानां तु त्रीनेतान्प्रथितान्भुवि ॥५९॥
सुतानां कुण्डिकादीनां मध्ये प्रथितान् आहुरिति शेषः । दिवशित्वम् । वीर्यं शारीरं बलम् । ओजः मानसं सामर्थ्यं प्रथितानाहुरिति व्याख्येयम् ॥५९॥
प्रतीपं धर्मनेत्रं च सुनेत्रं चापि भारत
।
प्रतीपः प्रथितस्तेषां बभूवाप्रतिमो भुवि॥६०॥
प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ
।
देवापिः शान्तनुश्चैव बाह्लीकश्च महारथः ॥६१॥
देवापिश्च प्रवव्राज तेषां धर्महितेप्सया
।
शान्तनुश्च महीं लेभे बाह्रीकञ्च महारथः॥६२॥
भरतस्यान्वये जाताः सत्ववन्तो नराधिपाः
।
देवर्षिकल्पा नृपते बहवो राजसत्तमाः ॥६३॥
एवंविधाश्चाप्यपरे देवकल्पा महारथाः
।
जाता मनोरन्ववाये ऐलवंशविवर्धनाः ॥६४॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पुरुवंशानुकीर्तने चतुर्नवतितमोऽध्यायः॥९४॥
जनमेजय उवाच॥
श्रुतस्त्वत्तो मया ब्रह्मन्पूर्वेषां सम्भवो महान्
।
उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः ॥१॥
पञ्चनवतितमोऽध्यायः श्रुत इति ॥१॥
किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति
।
प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे ॥२॥
एतामेव कथां दिव्यामा प्रजापतितो मनोः
।
तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् ॥३॥
सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम्
।
विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् ॥४॥
गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम्
।
न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम् ॥५॥
गुणाः दातृत्वादयः प्रभावो देवतादिवशित्वम् । वीर्यं शारीरं बलम् । ओजः मानसं सामर्थ्यं धैर्यादि । सत्वमदीनत्वम् उत्साहः प्रयतमानता ॥५॥
वैशम्पायन उवाच।
शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम्
।
प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् ॥६॥
दक्षाददितिरदितेर्विवस्वान्विवस्वतो मनुर्मनोरिला इलायाः पुरूरवाः
।
पुरूरवस आयुरायुषो
नहुषो नहुषाद्ययातिर्ययातेर्द्वे भार्ये बभूवतुः ॥७॥
अदितेर्दक्षोऽजायत दक्षाद्वादितिरिति परिश्रुतयोः सृष्टिक्रमयोरन्त्यमाह । दक्षाददितिरिति । आद्यस्तु हरिवंशे वक्ष्यते । अदितेर्दक्षो द्वादश इति । अनयोश्च पक्षयोः कल्पभेदेन व्यवस्था ॥७॥
उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम ॥८॥
अत्रानुवंशो भवति
।
यदुं च तुर्वसुं चैव देवयानी व्यजायत
।
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥९॥
तत्र यदोर्यादवाः पूरोः पौरवाः ॥१०॥
पूरोस्तु भार्या कौसल्या नाम तस्यामस्य जज्ञे
जनमेजयो नाम यस्त्रीनश्वमेधानाजहार विश्वजिता चेष्ट्वा वनं प्रविवेश ॥११॥
जनमेजयः खल्वनन्तां नामोपयेमे माधवीं
तस्यामस्य जज्ञे प्राचिन्वान् यः प्राचीं दिशं
जिगाय यावत्सूर्योदयात्ततस्तस्य प्राचिन्वत्वम्॥१२॥
यावत्सूर्योदयात् उदयाचलपर्यन्तम् एकेनैवाह्ना इति तु भावः ॥१२॥
प्राचिन्वान्खल्वश्मकीमुपयेमे यादवीं तस्यामस्य जज्ञे संयातिः ॥१३॥
संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे तस्यामस्य जज्ञे अहंयातिः॥१४॥
अहंयातिः खलु कृतवीर्यदुहितरमुपयेमे भानु-
मतीं नाम तस्यामस्य जज्ञे सार्वभौमः ॥१५॥
सार्वभौमः खलु जित्वा जहार कैकेयीं सुनन्दां
नाम तामुपयेमे तस्यामस्य जज्ञे जयत्सेनो नाम॥१६॥
जयत्सेनः खलु वैदर्भीमुपयेमे सुश्रवां नाम
तस्यामस्य जज्ञे अवाचीनः॥१७॥
अवाचीनोऽपि वैदर्भीमपरामेवोपयेमे मर्यादां
नाम तस्यामस्य जज्ञे अरिहः॥१८॥
अरिहः खल्वाङ्गीमुपयेमे तस्यामस्य जज्ञे महाभौमः॥१९॥
महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम
तस्यामस्य जज्ञे अयुतनायी यः पुरुषमेधा-
नामयुतमानयत्तेनास्यायुतनायित्वम्॥२०॥
अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे कामां नाम
।
तस्यामस्य जज्ञे अक्रोधनः ॥२१॥
स खलु कालिङ्गीं करम्भां नामोपयेमे
।
तस्यामस्य जज्ञे देवातिथिः॥२२॥
देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम
।
तस्यामस्य जज्ञेऽरिहो नाम॥२३॥
अरिहः खल्वाङ्गेयीमुपयेमे सुदेवां नाम
।
तस्यां पुत्रमजनयदृक्षम् ॥२४॥
ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम
।
तस्यां पुत्रं मतिनारं नामोत्पादयामास ॥२५॥
मतिनारः खलु सरस्वत्यां गुणसमन्वितं द्वादशवार्षिकं
सत्रमाजहार समाप्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास
।
तस्यां पुत्रमजनयत्तंसुं नाम ॥२६॥
अत्रानुवंशो भवति
।
तंसुं सरस्वती पुत्रं मतिनारादजीजनत्
।
ईलिनं जनयामास कालिङ्ग्यां तं सुरात्मजम् ॥२७॥
ईलिनस्तु रथन्तर्यां दुष्यन्ताद्यान्पञ्च पुत्रानजीजनत्॥२८॥
दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे
।
तस्यामस्य जज्ञे भरतः ॥२९॥
अत्रानुवंशश्लोकौ भवतः
।
भस्त्रा माता पितुः पुत्रो येन जातः स एव सः
।
भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् ॥३०॥
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्
।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥३१॥
ततोऽस्य भरतत्वं भरतः खलु काशेयीमुपयेमे
सार्वसेनीं सुनन्दां नाम तस्यामस्य जज्ञे भुमन्युः ॥३२॥
भुमन्युः खलु दाशार्हीमुपयेमे विजयां नाम तस्यामस्य जज्ञे सुहोत्रः॥३३॥
सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम
तस्यामस्य जज्ञे हस्ती
।
य इदं हास्तिनपुरं स्थापयामास
।
एतदस्य हास्तिनपुरत्वम् ॥३४॥
हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम
।
तस्यामस्य जज्ञे विकुण्ठनो नाम॥३५॥
विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम
।
तस्यामस्य अजमीढो नाम॥३६॥
अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां गान्धार्यां
विशालायामृक्षायां चेति पृथक्पृथग्वंशधरा नृपतयः
।
तत्र वंशकरः संवरणः ॥३७॥
संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे
।
तस्यामस्य जज्ञे कुरुः ॥३८॥
कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम
।
तस्यामस्य जज्ञे विदूर:॥३९॥
विदूरस्तु मागधीमुपयेमे सम्प्रियां नाम
।
तस्यामस्य जज्ञे अनश्वा नाम॥४०॥
अनश्वा खलु मागधीमुपयेमे अमृतां नाम
।
तस्यामस्य जज्ञे परीक्षित् ॥४१॥
परीक्षित्खलु बाहुदामुपयेमे सुयशां नाम
।
तस्यामस्य जज्ञे भीमसेनः॥४२॥
भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम
।
तस्यामस्य जज्ञे पतिश्रवा नाम॥४३॥
प्रतिश्रवसः प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम
।
तस्यां पुत्रानुत्पादयामास देवापिं शान्तनुं बाह्लीकं चेति ॥४४॥
देवापिः खलु बाल एवारण्यं विवेश
।
शान्तनुस्तु महीपालो बभूव॥४५॥
अत्रानुवंशश्लोको भवति
।
यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते
।
पुनर्युवा च भवति तस्मात्तं शान्तनुं विदुः ॥
इति तदस्य शान्तनुत्वम् ॥४६॥
शान्तनुः खलु गङ्गां भागीरथीमुपयेमे
।
तस्यामस्य जज्ञे देवव्रतो यमाहुर्भीष्ममिति ॥४७॥
भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीं
मातरमुदवाहयत् यामाहुर्गन्धकालीमिति॥४८॥
तस्यां पूर्वं कानीनो गर्भः पराशराद्द्वैपायनोऽभवत्
।
तस्यामेव शन्तनोरन्यौ द्वौ पुत्रौ बभूवतुः ॥४९॥
विचित्रवीर्यश्चित्राङ्गदश्च तयोरप्राप्तयौवन एव
चित्राङ्गदो गन्धर्वेण हतः विचित्रवीर्यस्तु राजासीत्॥५०॥
विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिका
बालिके काशिराजदुहितरावुपयेमे॥५१॥
विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तस्ततः
सत्यवत्यचिन्तयन्मा दौष्यन्तो वंश उच्छेदं व्रजेदिति॥५२॥
सा द्वैपायनमृषिं मनसा चिन्तयामास
।
स तस्याः पुरतः स्थितः किं करवाणीति ॥५३॥
सा तमुवाच भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः
।
साध्वपत्यं तस्योत्पादयेति ॥५४॥
स तथेत्युक्त्वा त्रीन्पुत्रानुत्पादयामास
धृतराष्ट्रं पाण्डुं विदुरं चेति॥५५॥
तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य॥५६॥
तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति ॥५७॥
पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती पृथा नाम माद्री चेत्युभे स्त्रीरत्ने॥५८॥
अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम्
।
तथैवाद्भुतमनासादितकामरसमतृप्तं च बाणेनाजघान॥५९॥
स बाणविद्ध उवाच पाण्डुम् चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसो निहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति स विवर्णरूपस्तथा पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये वाक्यं चोवाच॥६०॥
स्वचापल्यादिदं प्राप्तवानहम् शृणोमि च नानपत्यस्य लोका सन्तीति
।
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच सा तथोक्ता पुत्रानुत्पादयामास
।
धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति ॥६१॥
तां संहृष्टरूपः पाण्डुरुवाच ।
इयं ते सपत्न्यनपत्या साध्वस्या अपत्यमुत्पाद्यतामिति
।
एवमस्त्विति कुन्ती तां विद्यां माद्र्याः प्रायच्छत्॥६२॥
माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ ॥६३॥
माद्रीं खल्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः ॥६४॥
तत्रैनं चितास्थं माद्री समन्वारुरोह
।
उवाच कुन्तीम् यमयोरप्रमत्तया त्वया भवितव्यमिति ॥६५॥
ततस्ते पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय
तापसैर्भीष्मस्य च विदुरस्य च निवेदिताः
।
सर्ववर्णानां च निवेद्यां तर्हितास्तापसा बभूवुः प्रेक्ष्यमाणानां तेषाम्॥६६॥
तच्च वाक्यमुपश्रुत्य भगवतामन्तरिक्षात्पुष्पवृष्टिः पपात
देवदुन्दुभयश्च प्रणेदुः॥६७॥
प्रतिगृहीताश्च पाण्डवाः पितुर्निधनमावेदयन्तस्तस्यौर्ध्वदेहिकं
न्यायतश्च कृतवन्तस्तांस्तत्र निवसतः पाण्डवान्बाल्यात्प्रभृति दुर्योधनो नामर्षयत्॥६८॥
पापाचारो राक्षसीं बुद्धिमाश्रितोऽनेकैरुपायैरुद्धर्तुं च
व्यवसितो भावित्वाच्चार्थस्य न शकितास्ते समुद्धर्तुम्॥६९॥
ततश्च धृतराष्ट्रेण व्याजेन वारणावतमनुप्रेषिता गमनमरोचयन्॥७०॥
तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन ॥७१॥
तस्माच्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः ॥७२॥
तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः ॥७३॥
तत्र द्रौपदीं भार्यामविन्दन् स्वविषयं चाभिजग्मुः॥७४॥
कुशलिनः पुत्रांश्चोत्पादयामासुः प्रतिविन्ध्यं युधिष्ठिरः
।
सुतसोमं वृकोदरः श्रुतकीर्तिमर्जुनः शतानीकं नकुलः
श्रुतकर्माणं सहदेव इति ॥७५॥
युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवराल्लेभे
।
तस्यां पुत्रं जनयामास यौधेयं नाम ॥७६॥
भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम्
।
तस्यां पुत्रं सर्वगं नामोत्पादयामास॥७७॥
अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां भद्रभाषिणीं भार्यामुदावहत्
।
स्वविषयं चाभ्यजगाम कुशली तस्यां पुत्रमभिमन्युमतीव गुणसम्पन्नं दयितं वासुदेवस्याऽजनयत्॥७८॥
नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत्
।
तस्यां पुत्रं निरमित्रं नामाजनयत् ॥७९॥
सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे
।
भद्रराजस्य द्युतिमतो दुहितरं तस्यां पुत्रमजनयत्सुहोत्रं नाम ॥८०॥
भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रमुत्पादयामास॥८१॥
इत्येते एकादश पाण्डवानां पुत्रास्तेषां वंशकरोऽभिमन्युः॥८२॥
स विराटस्य दुहितरमुपयेमे उत्तरां नाम
।
तस्यामस्य परासुर्गर्भोऽभवत्तमुत्सङ्गेन
प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति ॥८३॥
स भगवता वासुदेवेनासंजातबलवीर्यपराक्रमो कालजातोऽस्त्राग्निना दग्धस्तेजसा
स्वेन संजीवितः जीवयित्वा चैनमुवाच परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति॥८४॥
परिक्षित्खलु माद्रवतीं नामोपयेमे त्वन्मातरं तस्यां भावन् जनमेजयः॥८५॥
भवतो पुष्टमायां द्वौ पुत्रौ जज्ञाते
।
शतानीकः शङ्कुकर्णश्च
शतानीकस्य वैदेह्यां पुत्र उत्पन्नोश्चमेधदत्त इति॥८६॥
एष पूरोर्वंशः पाण्डवानां च कीर्तितो धन्यः पुण्यः परमपवित्रः सततं श्रोतय्वो
ब्राह्मणैर्नियमवद्भिरनन्तरं क्षत्रियैः स्वधर्मनिरतैः तथा शूद्रैरपि त्रिवर्णशुश्रूषुभिः श्रद्दद्धानैरिति॥८७॥
इतिहासमिमं पुण्यमशेषतः श्रावयिष्यन्ति ये नराः श्रोष्यन्ति वा नियतात्मनो विमत्सरा
मैत्रा वेदपरास्तेपि स्वर्गजितः पुण्यलोका भवान्ति सततं देवब्राह्मणमनुष्याणां मान्याः संपूज्याश्च॥८८॥
परं हीदं भारतं भगवता व्यासेन प्रोक्तं पावनं ये ब्राह्मणादयो वर्णाः श्रद्दधाना अमत्सरा
मैत्रा वेदसंपन्नाः श्रोष्यन्ति तेऽपि स्वर्गजितः सुकृतिनोऽशोच्याः कृताकृते भवन्ति॥८९॥
भवति चात्र श्लोकः
।
इदं हि वेदैः समितं पवित्रमपि चोत्तमम्
।
धन्यं यशस्यमायुष्यं श्रोतव्यं नियतात्मभिः॥९०॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पूरुवंशानुकीर्तने पञ्चनवतितमोऽध्यायः॥९५॥
वैशंपायन उवाच।
ततः प्रतीपो राजासीत्सर्वभूतहितः सदा
।
निषसाद समा बह्वीर्गङ्गाद्वारगतो जपन्॥१॥
सप्तनवतितमोऽध्यायः तत इति ॥१॥
तस्य रूपगुणोपेता गङ्गा स्त्रीरूपधारिणी
।
उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः॥२॥
अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी
।
दक्षिणं शालसङ्काशमूरुं भेजे शुभानना॥३॥
प्रतीपस्तु महीपालस्तामुवाच यशस्विनीम्
।
करोमि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम्॥४॥
स्त्र्युवाच
।
त्वामहं कामये राजन्भजमानां भजस्व माम्
।
त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः॥५॥
प्रतीप उवाच।
नाहं परस्त्रियं कामाद्गच्छेदं वरवर्णिनि
।
न चासवर्णां कल्याणि धर्ममेतद्धि मे व्रतम्॥६॥
स्त्र्युवाच
।
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित्
।
भजन्तीं भज मां राजन्दिव्यां कन्यां वरस्त्रियम्॥७॥
दिव्यां दिवि भवाम् ॥७॥
प्रतीप उवाच।
त्वया निवृत्तमेतत्तु यन्मां चोदयसि प्रियम्
।
अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः॥८॥
त्वया हेतुभूतया निवृत्तं निरस्तम् ॥८॥
प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने
।
अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम्॥९॥
आश्लिष्टा सङ्गता ॥९॥
सव्योरुः कामिनीभोग्यस्त्वया स च विवर्जितः
।
तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने॥१०॥
स्नुषा मे भव सुश्रोणि पुत्रार्थं त्वां वृणोम्यहम्
।
स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता॥११॥
स्त्र्युवाच
।
एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते
।
त्वद्भक्त्या तु भजिष्यामि प्रख्यातं भारतं कुलम्॥१२॥
पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम्
।
गुणा न हि मया शक्या वक्तुं वर्षशतैरपि॥१३॥
कुलस्य ये वः प्रथितास्तत्साधुत्वमथोत्तमम्
।
समयेनेह धर्मज्ञ आचरेयं च यद्विभो॥१४॥
समयेन नियमेन ॥१४॥
तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित्
।
एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं रतिम्॥१५॥
न मीमांसेत न विचारयेत् ॥१५॥
पुत्रैः पुण्यैः प्रियैश्चैव स्वर्गं प्राप्स्यति ते सुतः
।
वैशंपायन उवाच।
तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत॥१६॥
पुत्रजन्म प्रतीक्षन्वै स राजा तदधारयत्
।
एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः॥१७॥
तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन
।
तयोः समभवत्पुत्रो वृद्धयोः स महाभिष:॥१८॥
शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शान्तनुः
।
संस्मरंश्चाक्षयाँल्लोकान्विजातान्स्वेन कर्मणा॥१९॥
शान्तनुशब्दव्युत्पत्तिमाह । शान्तस्येति । शान्तस्योपरतस्य वंशस्य सन्तानो विस्तार इति शान्तनुः । तकारलोपेन शान्तनुरिति नाम संस्मरन्निति । व्यवहितमपि ज्ञानबलेन जानातीत्यर्थः ॥१९॥
पुण्यकर्मकृदेवासीच्छान्तनुः कुरुसत्तमः
।
प्रतीपः शान्तनुं पुत्रं यौवनस्थं ततोऽन्वशात्॥२०॥
पुरा स्त्री मां समभ्यागाच्छान्तनो भूतये तव
।
त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी॥२१॥
कामयानाऽभिरूपाढ्या दिव्यस्त्री पुत्रकाम्यया
।
सा त्वया नानुयोक्तव्या कासि कस्यासि चाङ्गने॥२२॥
नानुयोक्तव्या न प्रष्टव्या ॥२२॥
यच्च कुर्यान्न तत्कर्म सा प्रष्टव्या त्वयाऽनघ
।
मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम्॥२३॥
वैशंपायन उवाच्
।
एवं संदिश्य तनयं प्रतीपः शान्तनुं तदा
।
स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह॥२४॥
स राजा शान्तनुर्धीमान्देवराजसमद्युतिः
।
बभूव मृगयाशीलः सततं वनगोचरः॥२५॥
स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः
।
गङ्गामनु चचारैकः सिद्धचारणसेविताम्॥२६॥
स कदाचिन्महाराज ददर्श परमां स्त्रियम्
।
जाज्वल्यमानां वपुषा साक्षाच्छ्रियमिवापराम्॥२७॥
सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम्
।
सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम्॥२८॥
सर्वत्र रूपौदार्यादावनिन्द्याम् ॥२८॥
तां दृष्ट्वा हृष्टरोमाऽभूद्विस्मितो रूपसंपदा
।
पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः॥२९॥
सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम्
।
स्नेहादागतसौहार्दा नातृप्यत विलासिनी॥३०॥
तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा
।
दैवी वा दानवी वा त्वं गन्धर्वी चाथवाऽप्सराः॥३१॥
यक्षी वा पन्नगी वाऽपि मानुषी वा सुमध्यमे
।
याचे त्वां सुरगर्भाभे भार्या मे भव शोभने॥३२॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि शान्तनूपाख्याने सप्तनवतितमोऽध्यायः॥९७॥
वैशंपायन उवाच।
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च
।
वसूनां समयं स्मृत्वाऽथाभ्यगच्छदनिन्दिता॥१॥
अष्टनवतितमोऽध्यायः एतदिति अनिन्दिता गङ्गा ॥१॥
उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा
।
भविष्यामि महीपाल महिषी ते वशानुगा॥२॥
राज्ञः शान्तनोः ॥२॥
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाऽशुभम्
।
न तद्वारयितव्याऽस्मि न वक्तव्या तथाऽप्रियम्॥३॥
एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव
।
वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम्॥४॥
तथेति सा यदा तूक्ता तदा भरतसत्तम
।
प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम्॥५॥
आसाद्य शान्तनुस्तां च बुभुजे कामतो वशी
।
न प्रष्टव्येति मन्वानो न स तां किंचिदूचिवान्॥६॥
स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च
।
उपचारेण च रहस्तुतोष जगतीपतिः॥७॥
दिव्यरूपा हि सा देवी गङ्गा त्रिपथगामिनी
।
मानुषं विग्रहं कृत्वा श्रीमन्तं वरवर्णिनी॥८॥
भाग्योपनतकामस्य भार्या चोपनताऽभवत्
।
शन्तनोर्नृपसिंहस्य देवराजसमद्युतेः॥९॥
भाग्योपनतकामस्य शुभादृष्टेन प्राप्ताभिलषितस्य ॥९॥
संभोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः
।
राजानं रमयामास यथा रेमे तथैव सः॥१०॥
हावः शृङ्गारजो भावः लास्यं सुकुमारनृत्यम् ॥१०॥
स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः
।
संवत्सरानृतून्मासाम्बुबुधे न बहून्गतान्॥११॥
रममाणस्तया सार्धं यथाकामं नरेश्वरः
।
अष्टावजनयत्पुत्रांस्तस्याममरसंनिभान्॥१२॥
पाठान्तरे अमराणामपि वर्णिनः चित्रकरान् ॥१२॥
जातं जातं च सा पुत्रं क्षिपत्यम्यसि भारत
।
प्रीणाम्यहं त्वामित्युक्त्वा गङ्गास्रोतस्यमज्जयत्॥१३॥
प्रीणामि मानुषदेहवियोजनेन प्रीणयामि । त्वां देवतारूपम् । स्रोतसि प्रवाहे ॥१३॥
तस्य तन्न प्रियं राज्ञः शान्तनोरभवत्तदा
।
न च तां किंचनोवाच त्यागाद्भीतो महीपतिः॥१४॥
अथैनामष्टमे पुत्रे जाते प्रहसतीमिव
।
उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः॥१५॥
मा वधीः कस्य काऽसीति किं हिनस्ति सुतानिति
।
पुत्रघ्नि सुमहत्पापं संप्राप्तं ते सुगर्हितम्॥१६॥
ते त्वया ॥१६॥
स्र्युवाच
।
पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर
।
जीर्णस्तु मम वासोऽयं यथा स समयः कृतः॥१७॥
अहं गङ्गा जह्नुसुता महर्षिगणसेविता
।
देवकार्यार्थसिद्ध्यर्थमुषिताऽहं त्वया सह॥१८॥
इमेऽष्टौ वसवो देवा महाभागा महौजसः
।
वसिष्ठशापदोषेण मानुषत्वमुपागताः॥१९॥
तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते
।
मद्विधा मानुषी धात्री लोके नास्तीह काचन॥२०॥
धात्री गर्मधारिणी ॥२०॥
तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता
।
जनयित्वा वसूनष्टौ जिता लोकास्त्वयाऽक्षयाः॥२१॥
तज्जननीहेतोः ब्रह्मसभायां मयि तवाभिलाषात् ॥२१॥
देवानां समयस्त्वेष वसूनां संश्रुतो मया
।
जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति॥२२॥
संश्रुतोङ्गीकृतः ॥२२॥
तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः
।
स्वस्ति तेस्तु गमिष्यामि पुत्रं पाहि महाव्रतम्॥२३॥
आपवस्य वसिष्ठस्य ॥२३॥
एष पर्यायवासो मे वसूनां सन्निधौ कृतः
।
मत्प्रसूतिं विजानीहि गङ्गादत्तमिमं सुतम्॥२४॥
एष पुत्रः मे मया अष्टानां वसूनां सन्निधौ कृतस्त्वदर्थं सम्प्रार्थितः । किं भूतः वसूनां पर्यायाः रूपान्तराणि एकैकस्याष्टमांशप्रदानात् । तेषां वासः स्थानं सर्वेषामंशैर्घटितोयं मया त्वदर्थं प्रार्थित इत्यर्थः ॥२४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टनवतितमोऽध्यायः॥९८॥
शान्तनुरुवाच।
आपवो नाम कोन्वेष वसूनां किं च दुष्कृतम्
।
यस्याभिशापात्ते सर्वे मानुषीं योनिमागताः॥१॥
नवनवतितमोऽध्यायः आपवो नामेति ॥१॥
अनेन च कुमारेण त्वया दत्तेन किं कृतम्
।
यस्य चैव कृतेनायं मानुषेषु निवत्स्यति॥२॥
ईशा वै सर्वलोकस्य वसवस्ते च वै कथम्
।
मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि॥३॥
वैशंपायन उवाच।
एवमुक्ता तदा गङ्गा राजानमिदमब्रवीत्
।
भर्तारं जाह्नवी देवी शान्तनुं पुरुषर्षभ॥४॥
गङ्गोवाच
।
यं लेभे वरुणः पुत्रं पुरा भरतसत्तम
।
वसिष्ठनामा स मुनिः ख्यात आपव इत्युत॥५॥
तस्याश्रमपदं पुण्यं मृगपक्षिसमन्वितम्
।
मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम्॥६॥
स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम
।
वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके॥७॥
दक्षस्य दुहिता या तु सुरभीत्यभिशब्दिता
।
गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ॥८॥
गां प्रजाता नन्दिनीं जनितवती ॥८॥
अनुग्रहार्थं जगतः सर्वकामदुहां वराम्
।
तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः॥९॥
सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते
।
चचार पुण्ये रम्ये च गौरपेतभया तदा॥१०॥
अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ
।
पृथ्वाद्या वसवः सर्वे देवा देवर्षिसेवितम्॥११॥
ते सदारा वनं तच्च व्यचरन्त समन्ततः
।
रेमिरे रमणीयेषु पर्वतेषु वनेषु च॥१२॥
तत्रैकस्याथ भार्या तु वसोर्वासवविक्रम
।
संचरन्ती वने तस्मिन्गां ददर्श सुमध्यमा॥१३॥
नन्दिनीं नाम राजेन्द्र सर्वकामधुगुत्तमाम्
।
सा विस्मयसमाविष्टा शीलद्रविणसंपदा॥१४॥
द्यवे वै दर्शयामास तां गां गोवृषभेक्षण
।
आपीनां च सुदोग्ध्रीं च सुवालधिखुरां शुभाम्॥१५॥
द्यवे द्युसंज्ञाय वसवे वालधिः पुच्छम् ॥१५॥
उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च
।
एवं गुणसमायुक्तां वसवे वसुनन्दिनी॥१६॥
वसुनन्दिनी वसुप्रिया ॥१६॥
दर्शयामास राजेन्द्र पुरा पौरवनन्दन
।
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम॥१७॥
उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन्
।
एषा गौरुत्तमा देवी वारुणेरसितेक्षणा॥१८॥
ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम्
।
अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे॥१९॥
दशवर्षसहस्राणि स जीवेत्स्थिरयौवनः
।
एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा॥२०॥
तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम्
।
अस्ति मे मानुषे लोके नरदेवात्मजा सखी॥२१॥
नाम्ना जितवती नाम रूपयौवनशालिनी
।
उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः॥२२॥
दुहिता प्रथिता लोके मानुषे रूपसंपदा
।
तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम्॥२३॥
आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन
।
यावदस्याः पयः पीत्वा सा सखी मम मानद॥२४॥
मानुषेषु भवत्वेका जरारोगविवर्जिता
।
एतन्मम महाभाग कर्तुमर्हस्यनिन्दित॥२५॥
प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथंचन
।
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया॥२६॥
पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम्
।
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप॥२७॥
ऋषेस्तस्य तपस्वीव्रं न शशाक निरीक्षितुम्
।
हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः॥२८॥
प्रपातः वसिष्ठशापरूपो भृगुपतनं वा न तर्कितः रागान्धत्वात् ॥२८॥
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः
।
न चापश्यत्स गां तत्र सवत्सां काननोत्तमे॥२९॥
ततः स मृगयामास वने तस्मिंस्तपोधनः
।
नाध्यागमच्च मृगयंस्तां गां मुनिरुदारधीः॥३०॥
ज्ञात्वा तथाऽपनीतां तां वसुभिर्दिव्यदर्शनः
।
ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा॥३१॥
यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम्
।
तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः॥३२॥
सुवालधिं सुपुच्छाम् ॥३२॥
एवं शशाप भगवान्वसूंस्तान्भरतर्षभ
।
वशं क्रोधस्य संप्राप्त आपवो मुनिसत्तमः॥३३॥
शप्त्वा च तान्महाभागस्तपस्येव मनोदधे
।
एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः॥३४॥
महाप्रभावो ब्रह्मर्षिर्देवान्क्रोधसमन्वितः
।
अथाश्रमपदं प्राप्तास्ते वै भूयो महात्मनः॥३५॥
शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः
।
प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ॥३६॥
लेभिरे न च तस्मात्ते प्रसादमृषिसत्तमात्
।
आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात्॥३७॥
उवाच च स धर्मात्मा शप्ता यूयं धरादयः
।
अनुसंवत्सरात्सर्वे शापमोक्षमवाप्स्यथ॥३८॥
अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति
।
द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणः॥३९॥
नानृतं तच्चिकीर्षामि क्रुद्धो युष्मान्यदब्रुवम्
।
न प्रजास्यति चाप्येष मानुषेषु महामनाः॥४०॥
न प्रजास्यति आत्मनः प्रजेच्छां न करिष्यति । क्यजन्तोयम् ॥४०॥
भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः
।
पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति॥४१॥
तत्र हेतुः पितुरिति ॥४१॥
एवमुक्त्वा वसून्सर्वान्सजगाम महानृषिः
।
ततो मामुपजग्मुस्ते समेता वसवस्तदा॥४२॥
अयाचन्त च मां राजन्वरं तच्च मया कृतम्
।
जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि॥४३॥
एवं तेषामहं सम्यक् शप्तानां राजसत्तम
।
मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम्॥४४॥
अयं शापादृषेस्तस्य एक एव नृपोत्तम
।
द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत॥४५॥
वैशंपायन उवाच।
एतदाख्याय सा देवी तत्रैवान्तरधीयत
।
आदाय च कुमारं तं जगामाथ यथेप्सितम्॥४६॥
स तु देवव्रतो नाम गाङ्गेय इति चाभवत्
।
द्युनामा शान्तनोः पुत्रः शान्तनोरधिको गुणैः॥४७॥
शान्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः
।
तस्याहं कीर्तयिष्यामि शान्तनोरधिकान्गुणान्॥४८॥
महाभाग्यं च नृपतेर्भारतस्य महात्मनः
।
यस्येतिहासो द्युतिमान्महाभारतमुच्यते॥४९॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि आपवोपाख्याने नवनवतितमोऽध्यायः॥९९॥
वैशंपायन उवाच।
स राजा शान्तनुर्धीमान्देवराजर्षिसत्कृतः
।
धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः॥१॥
शततमोऽध्यायः स राजेति ॥१॥
दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्
।
नित्यान्यासन्महासत्वे शान्तनौ पुरुषर्षभे॥२॥
एवं स गुणसंपन्नो धर्मार्थकुशलो नृपः
।
आसीद्भरतवंशस्य गोप्ता सर्वजनस्य च॥३॥
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः
।
अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः॥४॥
तस्य कीर्तिमतो वृत्तमवेक्ष्य सततं नराः
।
धर्म एव परः कामादर्थाच्चेति व्यवस्थितः॥५॥
एतान्यासन्महासत्त्वे शान्तनौ पुरुषर्षभे
।
न चास्य सदृशः कश्चिद्धर्मतः पार्थिवोऽभवत्॥६॥
वर्तमानं हि धर्मेषु सर्वधर्मभृतां वरम्
।
तं महीपा महीपालं राजराज्येऽभ्यषेचयन्॥७॥
वीतशोकभयाबाधाः सुखस्वप्ननिबोधनाः
।
पतिं भारतगोप्तारं समपद्यन्त भूमिपाः॥८॥
तेन कीर्तिमता शिष्टाः शक्रप्रतिमतेजसा
।
यज्ञदानक्रियाशीलाः समपद्यन्त भूमिपाः॥९॥
शान्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा
।
नियमात्सर्ववर्णानां धर्मोत्तरमवर्तत॥१०॥
ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः
।
ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः॥११॥
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने
।
वसन्सागरपर्यन्तामन्वशासद्वसुन्धराम्॥१२॥
पुटभेदने पत्तने । ‘पत्तनं पुटमदेनम्’ इत्यमरः ॥१२॥
स देवराजसदृशो धर्मज्ञः सत्यवागृजुः
।
दानधर्मतपोयोगाच्छ्रिया परमया युतः॥१३॥
दानं बर्हिर्वेदि धर्मः स्वाचारः तपःजपोपवासादि योग आत्मानुसन्धानम् एतच्चतुष्टयात् ॥१३॥
अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः
।
तेजसा सूर्यकल्पोऽभूद्वायुवेगसमो जवे
।
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः॥१४॥
वधः पशुवराहाणां तथैव मृगपक्षिणाम्
।
शान्तनौ पृथिवीपाले नावर्तत तथा नृप॥१५॥
ब्रह्मधर्मोत्तरे राज्ये शान्तनुर्विनयात्मवान्
।
समं शशास भूतानि कामरागविवर्जितः॥१६॥
ब्रह्म धर्मोत्तरे अहिंसाधर्मप्रधाने विनयात्मवान् विनयवान् आत्मवान् जितचित्तश्च ॥१६॥
देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः
।
न चाधर्मेण केषांचित्प्राणिनामभवद्वधः॥१७॥
असुखानामनाथानां तिर्यग्योनिषु वर्तताम्
।
स एव राजा सर्वेषां भूतानामभवत्पिता॥१८॥
तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति
।
श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः॥१९॥
वाक्सत्यं श्रिताभवत् ॥१९॥
स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथाऽपराः
।
रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः॥२०॥
षोडशादीनां सङ्कलने षट्रत्रिंशत्समाः वर्षाणि ॥२०॥
तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः
।
गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः॥२१॥
सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च
।
महाबलो महासत्वो महावीर्यो महारथः॥२२॥
अस्त्रेषु मन्त्रमयेषु शस्त्रेषु । पार्थिवेषु धनुर्बाणगदादिपृथिवीविकारेषु शस्त्रेषु ॥२२॥
स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम्
।
भागीरथीमल्पजलां शान्तनुर्दृष्टवान्नृपः॥२३॥
शरसन्धानेन गङ्गाप्रवाहस्य निरोधादल्पजलाम् ॥२३॥
तां दृष्ट्वा चिन्तयामास शान्तनुः पुरुषर्षभः
।
स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा॥२४॥
स्यन्दते प्रस्रवति ॥२४॥
ततो निमित्तमन्विच्छन्ददर्श स महामनाः
।
कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम्॥२५॥
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम्
।
कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम्॥२६॥
तां शरैराचितां दृष्ट्वा नदीं गङ्गां तदन्तिके
।
अभवद्विस्मितो राजा दृष्ट्वा क्रमातिर्मानुषम्॥२७॥
जातमात्रं पुरा दृष्टं तं पुत्रं शान्तनुस्तदा
।
नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम्॥२८॥
अभिज्ञातुं परिवेत्तुम् ॥२८॥
स तु तं पितरं दृष्ट्वा मोहयामास मायया
।
संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत॥२९॥
तदद्बुतं ततो दृष्ट्वा तत्र राजा स शान्तनुः
।
सङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह॥३०॥
दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम्
।
गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम्॥३१॥
अलङ्कृतामाभरणैर्विरजोम्बरसंवृत्तम्
।
दृष्टपूर्वामपि स तां नाभ्यजानात्स शान्तनुः॥३२॥
गङ्गोवाच
।
यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यविन्दथाः
।
स चायं पुरुषव्याघ्र सर्वास्त्रविदनुत्तमः॥३३॥
गृहाणेमं महाराज मया संवर्धितं सुतम्
।
आदाय पुरुषव्याघ्र नयस्वैनं गृहं विभो॥३४॥
वेदानधिजगे साङ्गान्वसिष्ठादेष वीर्यवान्
।
कृतास्त्रः परमेष्वासो देवराजसमो युधि॥३५॥
अधिजगे अधीतवान् ॥३५॥
सुराणां संमतो नित्यमसुराणां च भारत
।
उशना वेदयच्छास्त्रमयं तद्वेद सर्वशः॥३६॥
उशनाः शुक्रः ॥३६॥
तथैवाङ्गिरसः पुत्रः सुरसुरनमस्कृतः
।
यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम्॥३७॥
अङ्गिरसः पुत्रो बृहस्पतिः ॥३७॥
तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि
।
ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान्॥३८॥
यदस्त्रं वेद राभश्च तदेतस्मिन्प्रतिष्ठितम्
।
महेष्वासमिमं राजन्राजधर्मार्थकोविदम्॥३९॥
मया दत्तं निजं पुत्रं वीरं वीर गृहं नय
।
वैशंपायन उवाच।
तयैवं समनुज्ञातः पुत्रमादाय शान्तनुः॥४०॥
भ्राजमानं यथाऽदित्यमाययौ स्वपुरं प्रति
।
पौरवस्तु पुरीं गत्वा पुरन्दरपुरोपमाम्॥४१॥
सर्वकामसमृद्धार्थं मेने सोत्मानमात्मना
।
पौरवेषु ततः पुत्रं राज्यार्थमभयप्रदम्॥४२॥
सोत्मानं सः आत्मानम् ॥४२॥
गुणवन्तं महात्मानं यौवराज्येऽभ्यषेचयत्
।
पौरवाञ्शान्तनोः पुत्रः पितरं च महायशाः॥४३॥
राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ
।
स तथा सह पुत्रेण रममाणो महीपतिः॥४४॥
वर्तयामास वर्षाणि चत्वार्यमितविक्रमः
।
स कदाचिद्वनं यातो यमुनामभितो नदीम्॥४५॥
महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम्
।
तस्य प्रभवमन्विच्छन्विचचार समन्ततः॥४६॥
स ददर्श तदा कन्यां दाशानां देवरूपिणीम्
।
तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम्॥४७॥
दाशानां धीवराणाम् ॥४७॥
कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि
।
साऽब्रवीद्दाशकन्याऽस्मि धर्मार्थं वाहये तरिम्॥४८॥
तरिं नावम् ॥४८॥
पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः
।
रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम्॥४९॥
समीक्ष्य राजा दाशेयीं कामयामास शान्तनुः
।
स गत्वा पितरं तस्या वरयामास तां तदा॥५०॥
पर्यपृच्छत्ततस्तस्याः पितरं सोत्मकारणात्
।
स च तं प्रत्युवाचेदं दाशराजो महीपतिम्॥५१॥
जातमात्रैव मे देया वराय वरवर्णिनी
।
हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर॥५२॥
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ
।
सत्यवागसि सत्येन समयं कुरु मे ततः॥५३॥
समयेन प्रदद्यां ते कन्यामहमिमां नृप
।
न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति॥५४॥
शान्तनुरुवाच।
श्रुत्वा तव वरं दाश व्यवस्येयमहं तव
।
दातव्यं चेत्प्रदास्यामि न त्वदेयं कथंचन॥५५॥
व्ययस्येयं विनिश्चिनुयां देयं न वेति ॥५५॥
दाश उवाच।
अस्यां जायेत यः पुत्रः स राजा पृथिवीपते
।
त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव॥५६॥
वैशंपायन उवाच।
नाकामयत तं दातुं वरं दाशाय शान्तनुः
।
शरीरजेन तीव्रेण दह्यमानोऽपि भारत॥५७॥
शरीरजेन कामेन ॥५७॥
स चिन्तयन्नेव तदा दाशकन्यां महीपतिः
।
प्रत्ययाद्धास्तिनपुरं कामोपहतचेतनः॥५८॥
ततः कदाचिच्छोचन्तं शान्तनुं ध्यानमास्थितम्
।
पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत्॥५९॥
सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः
।
तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः॥६०॥
ध्यायन्निव च मां राजन्नाभिभाषसि किंचन
।
न चाश्वेन विनिर्यासि विवर्णो हरिणः कृशः॥६१॥
हरिणः पाण्डुगात्रः ॥६१॥
व्याधिमिच्छामि ते ज्ञातुं प्रतिकुर्यां हि तत्र वै
।
एवमुक्तः स पुत्रेण शान्तनुः प्रत्यभाषत॥६२॥
असंशयं ध्यानपरो यथा वत्स तथा शृणु
।
अपत्यं नस्त्वमेवैकः कुले महति भारत॥६३॥
शस्त्रनित्यश्च सततं पौरुषे पर्यवस्थितः
।
अनित्यतां च लोकानामनुशोचामि पुत्रक॥६४॥
कथंचित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम्
।
असंशयं त्वमेवैकः शतादपि वरः सुतः॥६५॥
न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे
।
संतानस्याविनाशाय कामये भद्रमस्तु ते॥६६॥
अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः
।
अग्निहोत्रं त्रयी विद्या संतानमपि चाक्षयम्॥६७॥
विद्यासन्तानं शिष्यप्रशिष्यद्वारा ॥६७॥
सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम्
।
एवमेतन्मनुष्येषु तच्च सर्वं प्रजास्विति॥६८॥
एवमिति । एतत् सन्तानस्य श्रेयः साधनत्वं मनुष्येषु तदन्यासु प्रजासु पश्वादिषु च प्रसिद्धम् ।‘नापुत्रस्य लोकोऽस्तीति तत्सर्वे पशवो विदुः । तस्मात्तु पुत्रो मातरं स्वसारं चाधिरोहति’ इति मन्त्रलिङ्गात् ॥६८॥
यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः
।
एषा त्रयी पुराणानां देवतानां च शाश्वती॥६९॥
अपत्यं श्रेयःसाधनम् इति यत् तत्र मे संशयो नास्ति । तस्मान्मन्दपालवत् यथा कथञ्चित्प्रजोत्पादनं कर्तव्यमिति भावः । त्रयी वेदः सोऽयं लोकः पुत्रेणैव जय्यो नान्येन कर्मणा । ‘कर्मणा पितृलोको विद्यया देवलोकः’ इत्यादिः पुराणानां मूलभूता देवतानां प्रमाणभूता ॥६९॥
त्वं च शूरः सदाऽमर्षी शस्त्रनित्यश्च भारत
।
नान्यत्र युद्धात्तस्मात्ते निधनं विद्यते क्वचित्॥७०॥
सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत्
।
इति ते कारणं तात दुःखस्योक्तमशेषतः॥७१॥
वैशंपायन उवाच।
ततस्तत्कारणं राज्ञो ज्ञात्वा सर्वमशेषतः
।
देवव्रतो महाबुद्धिः प्रज्ञया चान्वचिन्तयत्॥७२॥
अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम्
।
तमपृच्छत्तदाऽभ्येत्य पितुस्तच्छोककारणम्॥७३॥
तस्मै स कुरुमुख्याय यथावत्परिपृच्छते
।
वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ ॥७४॥
वरं वरणीयम् ॥७४॥
ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा
।
अभिगम्य दाशराजं कन्यां वव्रे पितुः स्वयम्॥७५॥
तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च
।
अब्रवीच्चैनमासीनं राजसंसदि भारत॥७६॥
त्वमेव नाथः पर्याप्तः शान्तनोर्भरतर्षभ
।
पुत्रः शस्त्रभृतां श्रेष्ठः किं नु वक्ष्यामि ते वचः॥७७॥
कोहि संबन्धकं श्लाघ्यमीप्सितं यौनमीदृशम्
।
अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः॥७८॥
अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः
।
यस्य शुक्रात्सत्यवती संभूता वरवर्णिनी॥७९॥
तेन मे बहुशस्तात पिता ते परिकीर्तितः
।
अर्हः सत्यवतीं वोढुं धर्मज्ञः स नराधिपः॥८०॥
असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया
।
सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः॥८१॥
कन्यापितृत्वात्किंचित्तु वक्ष्यामि त्वां नराधिप
।
बलवत्सपत्नतामत्र दोषं पश्यामि केवलम्॥८२॥
यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा
।
न स जातु चिरं जीवेत्त्वयि क्रुद्धे परन्तप॥८३॥
एतावानत्र दोषो हि नान्यः कश्चन पार्थिव
।
एतज्जानीहि भद्रं ते दानादाने परन्तप॥८४॥
वैशंपायन उवाच।
एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत
।
शृण्वतां भूमिपालानां पितुरर्थाय भारत॥८५॥
इदं मे व्रतमादत्स्व सत्यं सत्यवतां वर
।
नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत्॥८६॥
एवमेतत्करिष्यामि यथा त्वमनुभाषसे
।
योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति॥८७॥
इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत
।
चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ॥८८॥
त्वमेव नाथः संप्राप्तः शान्तनोरमितद्युते
।
कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः॥८९॥
कौमारिकाणां कुमारी स्नेहवताम् ॥८९॥
इदं तु वचनं सौम्य कार्यं चैव निबोध मे
।
कौमारिकाणां शीलेन वक्ष्याम्यहमरिन्दम॥९०॥
यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण
।
राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत्॥९१॥
नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन
।
तवापत्यं भवेद्यत्तु तत्र नः संशयो महान्॥९२॥
वैशंपायन उवाच।
तस्यैतन्मतमाज्ञाय सत्यधर्मपरायणः
।
प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया॥९३॥
गाङ्गेय उवाच।
दाशराज निबोधेदं वचनं मे नृपोत्तम
।
शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते॥९४॥
राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिपाः
।
अपत्यहेतोरपि च करिष्येऽद्य विनिश्चयम्॥९५॥
अद्यप्रभृति मे दाश ब्रह्मचर्यं भविष्यति
।
अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि॥९६॥
वैशंपायन उवाच।
तस्य तद्वचनं श्रुत्वा संप्रहृष्टतनूरुहः
।
ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत॥९७॥
ततोन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तदा
।
अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन्॥९८॥
भीष्मोऽयं भयङ्करकर्मकारित्वात् ॥९८॥
ततः स पितुरर्थाय तामुवाच यशस्विनीम्
।
अधिरोह रथं मातर्गच्छावः स्वगृहानिति॥९९॥
वैशंपायन उवाच।
एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीं॥
आगम्य हास्तिनपुरं शान्तनोः संन्यवेदयत्॥१००॥
तस्य तद्दुष्करं कर्म प्रशशंसुर्नाराधिपाः
।
समेताश्च पृथक्चैव भीष्मोयमिति चाब्रुवन्॥१०१॥
तच्छ्रुत्वा दुष्करं कर्म कृतं भीष्मेण शान्तनुः
।
स्वच्छन्दमरणं तुष्टो ददौ तस्मै महात्मने॥१०२॥
न ते मृत्युः प्रभविता यावज्जीवितुमिच्छसि
।
त्वत्तो ह्यनुज्ञां संप्राप्य मृत्युः प्रभविताऽनघ॥१०३॥
॥इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सत्यवतीलाभोपाख्याने शततमोऽध्यायः॥१००॥
वैशंपायन उवाच।
हते चित्राङ्गदे भीष्मो बाले भ्रातरि कौरव
।
पालयामास तद्राज्यं सत्यवत्या मते स्थितः॥१॥
द्व्यधिकशततमोऽध्यायः हते इति ॥१॥
संप्राप्तयौवनं दृष्ट्वा भ्रातरं धीमतां वरः
।
भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम्॥२॥
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरोपमाः
।
शुश्राव सहिता राजन्वृण्वाना वै स्वयंवरम्॥३॥
ततः स रथिनां श्रेष्ठो रथेनैकेन शत्रुजित्
।
जगामानुमते मातुः पुरीं वाराणसीं प्रभुः॥४॥
तत्र राज्ञः समुदितान्सर्वतः समुपागतान्
।
ददर्श कन्यास्ताश्वैव भीष्मः शान्तनुनन्दनः॥५॥
कीर्त्यमानेषु राज्ञां तु तदा नामसु सर्वशः
।
एकाकिनं तदा भीष्मं वृद्धं शान्तनुनन्दनम्॥६॥
सोद्वेगा इव तं दृष्ट्वा कन्याः परमशोभनाः
।
अपाक्रामन्त ताः सर्वा वृद्ध इत्येव चिन्तया॥७॥
वृद्धः परमधर्मात्मा वलीपलितधारणः
।
किं कारणमिहायातो निर्लज्जो भरतर्षभः॥८॥
मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यति भारत
।
ब्रह्मचारीति भीष्मो हि वृथैव प्रथितो भुवि॥९॥
इत्येवं प्रबुवन्तस्ते हसन्ति स्म नृपाधमाः
।
वैशंपायन उवाच।
क्षत्रियाणां वचः श्रुत्वा भीष्मश्चुक्रोध भारत॥१०॥
भीष्मस्तदा स्वयं कन्या वरयामास ताः प्रभुः
।
उवाच च महीपालान्राजञ्जलदनिःस्वनः॥११॥
रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः
।
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः॥१२॥
आहूयेति ब्राह्मः ॥१२॥
अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि
।
प्रयच्छन्त्यपरे कन्या मिथुनेन गवामपि॥१३॥
मिथुनेन गृहीतेनेत्यार्षः ॥ १३॥
वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च
।
प्रमत्तामुपयन्त्यन्ये स्वयमन्ये च विन्दते॥१४॥
वित्तेनेत्यासुरः । बलेनेति राक्षसः अनुमान्येति गान्धर्वः । प्रमत्तमिति पैशाचः । स्वयमन्ये इति प्राजापत्यः ॥१४॥
आर्षं विधिं पुरस्कृत्य दारान्विन्दन्ति चापरे
।
अष्टमं तमथो वित्त विवाहं कविभिर्वृतम्॥१५॥
आर्षं विधिं यज्ञं तेन दैव उक्तः एतेऽष्टौ विवाहाः प्राग्व्याख्याताः । अष्टमं राक्षसं विवाहम् ॥१५॥
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च
।
प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः॥१६॥
प्रशसन्ति स्वयंवरमिति ॥१६॥
ता इमाः पृथिवीपाला जिहीर्षामि बलादितः
।
ते यतध्वं परं शक्त्या विजयायेतराय वा॥१७॥
स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः
।
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान्॥१८॥
सर्वाः कन्याः स कौरव्यो रथमारोप्य च स्वकम्
।
आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः॥१९॥
ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः
।
संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान्॥२०॥
तेषामाभरणान्याशु त्वरितानां विमुञ्चताम्
।
आमुञ्चतां च वर्माणि संभ्रमः सुमहानभूत्॥२१॥
ताराणामिव संपातो बभूव जनमेजय
।
भूषणानां च सर्वेषां कवचानां च सर्वशः॥२२॥
स वर्मभिर्भूषणैश्च प्रकीर्यद्बिरितस्ततः
।
सक्रोधामर्षजिह्मभ्रू कषायीकृतलोचनाः॥२३॥
प्रकीर्यद्भिर्भूषणैरुपलक्षिता अनुसस्रुरिति तृतीयेनान्वयः ॥२३॥
सूतोपक्लृप्तान् रुचिरान्सदश्वैरुपकल्पितान्
।
रथानास्थाय ते वीराः सर्वप्रहरणान्विताः॥२४॥
प्रयान्तमथ कौरव्यमनुसस्रुरुदायुधाः
।
ततः समभवद्युद्धं तेषां तस्य च भारत
।
एकस्य च बहूनां च तुमुलं रोमहर्षणम्॥२५॥
ते त्विन्दशसाहस्रांस्तस्मिन्युगपदाक्षिपन्
।
अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तथाऽन्तरा॥२६॥
काश्यस्य काशिराजस्य ॥२६॥
अच्छिनच्छरवर्षेण महता लोमवाहिना
।
ततस्ते पार्थिवाः सर्वे सर्वतः परिवार्य तम्॥२७॥
ववृषुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः
।
स तं बाणमयं वर्षं शरैरावार्य सर्वतः॥२८॥
ततः सर्वान्महीपालान्पर्यविध्यत्त्रिभिस्त्रिभिः
।
एकैकस्तु ततो भीष्मं राजन्विव्याध पञ्चभिः॥२९॥
स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमन्
।
तद्युद्धमासीत्तुमुलं घोरं देवासुरोपमम्॥३०॥
पश्यतां लोकवीराणां शरशक्तिसमाकुलम्
।
स धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च॥३१॥
चिच्छेद समरे भीष्मः शतशोथ सहस्रशः
।
तस्यातिपुरुषानन्याঁल्लाघवं रथचारिणः॥३२॥
अन्यान्प्रति तस्य रथचारिणः लाघवं शैघ्र्यं परध्वजादिच्छेदे यत् तत् शत्रवोप्यपूजयन्निति संबन्धः ॥३२॥
रक्षणं चात्मनः संख्ये शत्रवोऽप्यभ्यपूजयन्
।
तान्विनिर्जित्य तु रणे सर्वशस्त्रभृतां वरः॥३३॥
कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति
।
ततस्तं पृष्ठतो राजञ्च्छाल्वराजो महारथः॥३४॥
अभ्यगच्छदमेयात्मा भीष्मं शान्तनवं रणे
।
वारणं जघने भिन्दन्दन्ताभ्यामपरो यथा॥३५॥
वासितां करिणीं प्राप्तं वारणं यथाऽपरोऽनुप्राप्तो जघने भिन्दन् इति संबन्धः । वासिता स्त्रीकरेण्वोश्चेत्यमरः ॥३५॥
वासितामनुसंप्राप्तो यूथपो बलिनां वरः
।
स्त्रीकामस्तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः॥३६॥
साल्वराजो महाबाहुरमर्षेण प्रचोदितः
।
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः॥३७॥
तद्वाक्याकुलितः क्रोधाद्विधूमोग्निरिव ज्वलन्
।
विततेषु धनुष्पाणिर्विकुञ्चितललाटभृत्॥३८॥
क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमः
।
निवर्तयामास रथं साल्वं प्रति महारथः॥३९॥
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते
।
प्रेक्षकाः समपद्यन्त भीष्मसाल्वसमागमे॥४०॥
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे
।
अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ॥४१॥
वृषौ रेतःसेककामौ गजौ गोवृषावेव वा तत्साहचर्याद्वासिता पुष्पिणीगौस्तदन्तरे तन्निमित्तम् ॥४१॥
ततो भीष्मं शान्तनवं शरैः शतसहस्रशः
।
साल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः॥४२॥
पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं साल्वेन ते नृपाः
।
विस्मिताः समपद्यन्त साधुसाध्विति चाब्रुवन्॥४३॥
लाघवं तस्य ते दृष्ट्वा समरे सर्वपार्थिवाः
।
अपूजयन्त संहृष्टा वाग्भिः साल्वं नराधिपम्॥४४॥
क्षत्रियाणां ततो वाचः श्रुत्वा परपुरञ्जयः
।
क्रुद्धः शान्तनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत॥४५॥
सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः
।
यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट्॥४६॥
ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः
।
तेनाश्वांश्चतुरोऽमृद्गाच्छाल्वराजस्य भूपते॥४७॥
अस्त्रैरस्त्राणि संवार्य साल्वराजस्य कौरवः
।
भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम्॥४८॥
अस्त्रेण चास्याथैन्द्रेण न्यवधीत्तुरगोत्तमान्
।
कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा॥४९॥
जित्वा विसर्जयामास जीवन्तं नृपसत्तमम्
।
ततः साल्वः स्वनगरं प्रययौ भरतर्षभ॥५०॥
जीवन्तं प्राणमात्रावशेषितम् ॥५०॥
स्वराज्यमन्वशाच्चैव धर्मेण नृपतिस्तदा
।
राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः॥५१॥
स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जयाः
।
एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः॥५२॥
प्रययौ हास्तिनपुरं यत्र राजा स कौरवः
।
विचित्रवीर्यो धर्मात्मा प्रशास्ति वसुधामिमाम्॥५३॥
यथा पितास्य कौरव्यः शान्तनुर्नृपसत्तमः
।
सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप॥५४॥
वनानि सरितश्चैव शैलांश्च विविधान्द्रुमान्
।
अक्षतः क्षपयित्वाऽरीन्सङ्ख्येऽसङ्ख्येयविक्रमः॥५५॥
आनयामास काश्यस्य सुताः सागरगासुतः
।
स्नुषा इव स धर्मात्मा भगिनीरिव चानुजाः॥५६॥
यथा दुहितश्चैव परिगृह्य ययौ कुरून्
।
आनिन्ये स महाबाहुर्भ्रातुः प्रियचिकीर्षया॥५७॥
अनुजा कनिष्ठाः ॥५७॥
ताः सर्वगुणसंपन्ना भ्राता भ्रात्रे यवीयसे
।
भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः॥५८॥
एवं धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम्
।
भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे॥५९॥
सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान्
।
विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता
।
ज्येष्ठा तासामिदं वाक्यमब्रवीद्धसती तदा॥६०॥
मयाऽसौ भूपतिः पूर्वं मनसा हि वृतः पतिः
।
तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः॥६१॥
मया वरयितव्योऽभूत्छाल्वस्तस्मिन्स्वयंवरे
।
एतद्विज्ञाय धर्मज्ञ धर्मतत्त्वं समाचर॥६२॥
एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि
।
चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः॥६३॥
तस्य वैवाहिकस्य कर्मणः काले ॥६३॥
विनिश्चित्य स धर्मज्ञो ब्राह्मणैर्वेदपारगैः
।
अनुजज्ञे तदा ज्येष्ठामम्बां काशिपतेः सुताम्॥६४॥
अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे
।
भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा॥६५॥
तयोः पाणी गृहीत्वा तु रूपयौवनदर्पितः
।
विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत॥६६॥
ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे
।
रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे॥६७॥
बृहत्यौ च ते श्यामे च प्रौढे अप्रसूते च बृहतीपुष्पवद्रक्तश्यामे इत्यन्ये ॥६७॥
आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते
।
विचित्त्रवीर्यं कल्याण्यौपूजयामासतुः शुभे॥६८॥
स्थिते तत्रैव निष्ठावत्यौ ॥ ६८॥
स चाश्विरुपसदृशो देवतुल्यपराक्रमः
।
सर्वासामेव नारीणां चित्तप्रमथनो रहः॥६९॥
ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः
।
विचित्रवीर्यस्तरुणो यक्ष्मणा समगृह्यत॥७०॥
सुहृदां यतमानानामाप्तैः सह चिकित्सकैः
।
जगामाऽस्तमिवादित्यः कौरव्यो यमसादनम्॥७१॥
धर्मात्मा स तु गाङ्गेयश्चिन्ताशोकपरायणः
।
प्रेतकार्याणि सर्वाणि तस्य सम्यगकारायत् ॥७२॥
राज्ञो विचित्त्रवीर्यस्य सत्यवत्या मते स्थितः
।
ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः॥७३॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि विचित्रवीर्योपरमे द्व्यधिकशततमोऽध्यायः॥१०२॥
वैशंपायन उवाच।
ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी
।
पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत॥१॥
त्र्यधिकशततमोऽध्यायः तत इति॥१॥
समाश्वास्य स्नुषे ते च भीष्मं शस्त्रभृतां वरम्
।
धर्मं च पितृवंशं च मातृवंशं च भाविनी
।
प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत्॥२॥
शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः
।
त्वयि पिण्डश्च कीर्तिश्च संतानं च प्रतिष्ठितम्॥३॥
यथाकर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम्
।
यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः॥४॥
वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च
।
विविधास्त्वं श्रुतीर्वेत्थ वेदाङ्गानि च सर्वशः॥५॥
इतरेण विस्तरेण॥५॥
व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये
।
प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव॥६॥
तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर
।
कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि॥७॥
आश्वस्य विश्वासं प्राप्य ॥७॥
मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते
।
बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ॥८॥
इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे
।
रूपयौवनसंपन्ने पुत्रकामे च भारत॥९॥
तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः
।
मन्नियोगान्महाबाहो धर्मं कर्तुमिहार्हसि॥१०॥
राज्ये चैवाभिषिच्यस्व भारताननुशाधि च
।
दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान्॥११॥
राज्ये चैव राज्य एव वा आत्मानम् अभिषिच्यस्व अभिषेचय कुरु ब्रह्मचर्यसंकल्पात्प्रभृति त्यक्तान् संतत्यर्थमङ्गीकुरु मा निमज्जीः मा निमज्जय ॥११॥
वैशंपायन उवाच।
तथोच्यमानो मात्रा स सुहृद्भिश्च परन्तपः
।
इत्युवाचाथ धर्मात्मा धर्म्यमेवोत्तरं वचः॥१२॥
असंशयं परो धर्मस्त्वया मातरुदाहृतः
।
त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम्॥१३॥
जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे
।
स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः॥१४॥
त्वदन्तरे त्वन्निमित्तम् ॥१४॥
परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः
।
यद्वाऽप्यधिकमेताभ्यां न तु सत्यं कथञ्चन॥१५॥
त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः
।
ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत्॥१६॥
प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्मताम्
।
त्यजेच्छब्दं तथाऽऽकाशं सोमः शीतांशुतां त्यजेत्॥१७॥
विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट्
।
न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन॥१८॥
एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा
।
माता सत्यवती भीष्ममुवाच तदनन्तरम्॥१९॥
भूरिद्रविणतेजसा बहुबलोत्साहवता॥१९॥
जानामि ते स्थितिं सत्ये परां सत्यपराक्रम
।
इच्छन्सृजेथास्त्रील्लोঁकानन्यांस्त्वं स्वेन तेजसा॥२०॥
जानामि चैवं सत्यं तन्मदर्थे यच्च भाषितम्
।
आपद्धर्मं त्वमावेक्ष्य वह पैतामहीं धुरम्॥२१॥
यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत्
।
सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप॥२२॥
लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम्
।
धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम्॥२३॥
राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः
।
सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते॥२४॥
शान्तनोरपि सन्तानं यथा स्यादक्षयं भुवि
।
तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम्॥२५॥
श्रुत्वा तं प्रतिपद्यस्व प्राज्ञैः सह पुरोहितैः
।
आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च॥२६॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि भीष्मसत्यवतीसंवादे त्र्यधिकशततमोऽध्यायः ॥१०३॥
भीष्म उवाच।
जामदग्न्येन रामेण पितुर्वधममृष्यता
।
राजा परशुना पूर्वं हैहयाधिपतिर्हतः॥१॥
चतुरधिकशततमोऽध्यायः जामदग्न्येनेति ॥१॥
शतानि दशबाहूनां निकृत्तान्यर्जुनस्य वै
।
लोकस्याचरितो धर्मस्तेनाति किल दुश्चरः॥२॥
निकृत्तानि च्छिन्नानि ॥२॥
पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता
।
निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम्॥३॥
एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना
।
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा॥४॥
एवं निःक्षत्रिये लोके कृते तेन महर्षिणा
।
ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः॥५॥
उत्पादितान्यपत्यानि ब्राह्मणैर्वेदपारगैः
।
पाणिग्राहस्य तनय इति वेदेषु निश्चितम्॥६॥
ब्राह्मणैः संभूय सङ्गं कृत्वा उत्पादितानीति संबन्धः ॥६॥
धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः
।
लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः॥७॥
ननु कथं तर्हि ‘माता भस्त्रा पितुःपुत्रो येन जातः स एव सः’ इत्युक्तम् । ‘अन्योदर्योमनसा मंतवा उ’ इतिश्रुतेरन्योदर्योमनसापि न मतव्यो मऽमायं पुत्र इति तन्निर्वचनान्न शेषो अग्रे अन्यजातमस्तीति श्रुतेश्चान्यक्षेत्रेन्यस्मात्स्वस्माद्वा जातः शेषशब्दितो न स्वपुत्रः किं तु क्षेत्रपतेरेवेति निश्चयात् । तेन दत्तक्रीतान्यक्षेत्रजादीनामपुत्रत्वं सिद्धमत आहं । धर्ममिति । धर्मं ममायं पुत्रो भविष्यतीत्यभिलाषम् । अथ खलु ‘क्रतुमयः पुरुषः’ इति संकल्पप्राधान्यश्रुतेः । स्त्रीपुंसयोर्मध्ये यस्य संकल्पो दृढस्तस्यैव पुत्र इत्यर्थः । माता भस्त्रेति तु विवाहविषयम् । नन्वेवं शालिक्षेत्रे यवबीजादपि शाल्यङ्करोत्पत्तिः स्यादिति चेन्न । दावाग्निदग्धात् कदलीकाण्डादपि वेत्राङ्कुरोत्पत्तिदृष्टेः श्वमस्तकेन्युप्तगोधूमयावनालादेः पलाण्डुलशुनाङ्कुरोत्पत्तिदृष्टेश्च भावनाविशेषजन्यधर्मस्यैव विशेषाधायकत्वाभ्युपगमात्। धनादिनोपनिमन्त्रणाच्च क्षेत्रपतेरेव सा संततिर्न विप्रस्य लोकेऽपीति । कल्माषपादक्षेत्रे मदयन्त्यां वसिष्ठेन पुत्रा उत्पादिता इति लोकेऽप्याचरितोऽनुष्ठितो दृष्टः । क्षत्रियाणां भव उत्पत्तिर्बाह्मणेभ्य इति शेषः ॥७॥
ततः पुनः समुदितं क्षत्रं समभवत्तदा
।
इमं चैवात्र वक्ष्येऽहमितिहासं पुरातनम्॥८॥
अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा
।
ममता नाम तस्यासीद्भार्या परमसंमता॥९॥
उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम्
।
बृहस्पतिर्बृहत्तेजा ममतामन्वपद्यत॥१०॥
अन्वपद्यत उपगतवान् ॥१०॥
उवाच ममता तं तु देवरं वदतां वरम्
।
अन्तर्वत्नी त्वहं भ्रात्रा ज्येष्ठेनारम्यतामिति॥११॥
आरम्यताम् उपरम्यताम् ॥११॥
अयं च मे महाभाग कुक्षावेव बृहस्पते
।
औतथ्यो देवमत्रापि षडङ्गं प्रत्यधीयत॥१२॥
अमोघरेतास्त्वं चापि द्वयोर्नास्त्यत्र संभवः
।
तस्मादेवंगते त्वद्य उपारमितुमर्हसि॥१३॥
एवमुक्तस्तदा सम्यक् बृहस्पतिरुदारधीः
।
कामात्मानं तदात्मानं न शशाक नियच्छितुम॥१४॥
आत्मानं चित्तं नियच्छितुं नियन्तुम् ॥१४॥
स बभूव ततः कामी तया सार्धमकामया
।
उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत॥१५॥
तया कामनिग्रहाशक्त्या ॥१५॥
भोस्तात मा गमः कामं द्वयोर्नास्तीह संभवः
।
अल्पावकाशो भगवन्पूर्वं चाहमिहागतः॥१६॥
कामं मैथुनं मा गमः ॥१६॥
अमोघरेताश्च भवान्न पीडां कर्तुमर्हति
।
अश्रुत्वैव तु तद्वाक्यं गर्भस्थस्य बृहस्पतिः॥१७॥
जगाम मैथुनायैव ममतां चारुलोचनाम्
।
शुक्रोत्सर्गं ततो बुद्ध्वा तस्या गर्भगतो मुनिः॥१८॥
पद्भ्यामारोधयन्मार्गं शुक्रस्य च बृहस्पतेः
।
स्थानमप्राप्तमथ तच्छुक्रं प्रतिहतं तदा॥१९॥
पपात सहसा भूमौ ततः क्रुद्धो बृहस्पतिः
।
तं दृष्ट्वा पतितं शुक्रं शशाप स रुषान्वितः॥२०॥
तं शशापेति संबन्धः ॥२०॥
उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः
।
यन्मां त्वमीदृशे काले सर्वभूतेप्सिते सति॥२१॥
एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि
।
स वै दीर्घतमा नाम शापादृषिरजायत॥२२॥
दीर्घं तमः अन्धत्वम् ॥२२॥
बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा
।
जात्यन्धे वेदवित्प्राज्ञः पत्नीं लेभे स विद्यया॥२३॥
तरुणीं रुपसंपन्नां प्रद्वेषीं नाम ब्राह्मणीम्
।
स पुत्राञ्जनयामास गौतमादीन्महायशाः॥२४॥
ऋषेरुचथ्यस्य तदा सन्तानकुलवृद्धये
।
धर्मात्मा च महात्मा च वेदवेदाङ्गपारगः॥२५॥
सम्यक् तानं विस्तारो यस्य तस्य कुलस्य वृद्धये विस्तीर्ण स्यापि वृद्धये इत्यर्थः ॥२५॥
गोधर्मं सौरभेयाच्च सोऽधीत्य निखिलं मुनिः
।
प्रावर्तत तदा कर्तुं श्रद्धावांस्तमशङ्कया॥२६॥
गोधर्मं प्रकाशमैथुनम्। सौरभेयात् कामधेनुपुत्रात् अधीत्य अधिगम्य ॥२६॥
ततो वितथमर्यादं तं दृष्ट्वा मुनिसत्तमाः
।
क्रुद्धा मोहाभिभूतास्ते सर्वे तत्राश्रमौकसः॥२७॥
मोहाभिभूतत्वं अपापे पापदर्शित्वात् ॥२७॥
अहोऽयं भिन्नमर्यादो नाश्रमे वस्तुमर्हति
।
तस्मादेनं वयं सर्वे पापात्मानं त्यजामहे॥२८॥
इत्यन्योन्यं समाभाष्य ते दीर्घतमसं मुनिम्
।
पुत्रलाभाच्च सा पत्नी न तुतोष पतिं तदा॥२९॥
पुत्रलाभा लब्धपुत्रा । तदा गोधर्मकाले न तुतोष ते मुनयः पत्नी च तं त्यक्तवन्त इत्यर्थः । यतः अत एव प्रद्वेषीति तस्याः नाम ॥२९॥
प्रद्विषन्तीं पतिर्भार्यां किं मां द्वेक्षीति चाब्रवीत्
।
प्रद्वेष्युवाच
।
भार्याया भरणाद्भर्ता पालनाच्च पतिः स्मृतः॥३०॥
द्वेक्षि द्वेषं करोषि प्रतिः पालनादुपसर्गेभ्यः भरणादन्नादिना भर्ता च ॥३०॥
अहं त्वद्भरणाशक्ता जात्यन्धं ससुतं तदा
।
नित्यकालं श्रमेणार्ता न भरेयं महातपः॥३१॥
अहं तु प्रत्युत त्वद्भरणाशक्ता सती न भरेयम् । तदा तदेव । लुप्तोपमा । पूर्ववदित्यर्थः ॥३१॥
भीष्म उवाच।
तस्मास्तद्वचनं श्रुत्वा ऋषिः कोपसमन्वितः
।
प्रत्युवाच ततः पत्नीं प्रद्वेषीं ससुतां तदा॥३२॥
नीयतां क्षत्रियकुले धनार्थश्च भविष्यति
।
प्रद्वेष्युवाच
।
त्वया दत्तं धनं विप्र नेच्छेयं दुःखकारणम्॥३३॥
धनम् अर्थश्च उपभोगादिः ॥३३॥
यथेष्टं कुरु विप्रेन्द्र न भरेयं पुरा यथा
।
दीर्घतमा उवाच।
अद्यप्रभृति मर्यादा मया लोके प्रतिष्ठिता॥३४॥
न भरेयं यथा पुरा । भर्त्रन्तरं करिष्यामीत्याशयः ॥३४॥
एक एव पतिर्नार्या यावज्जीवं परायणम्
।
मृते जीवति वा तस्मिन्नापरं प्राप्नुयान्नरम्॥३५॥
एक एवेति। ननु ‘यदेकस्मिन्यूपे द्वेरशने परिव्ययति तस्मादेको द्वे जाये विन्दते यन्नैकां रशनां द्वयोर्यूपयोः परिव्ययति तस्मान्नैका द्वौ पती विन्दते’ इत्यार्थवादिकनिषेधविधेरेकस्याः पतिद्वयस्याप्राप्तत्वात्कथमियं दीर्घतमसा मर्यादा क्रियते इति चेत्तत्राह । मृते इति । ‘तस्मादेकस्य वह्नयो जाया भवन्ति नैकस्यै बहवः सह पतयः’ इति श्रुत्यन्तरे ‘सह’ शब्दात्पर्यायेणानेकपतित्वप्रसञ्जनाद्रागतः प्राप्तत्वाच्च तन्निषेधोपपत्तिः । सह शब्दोऽपि रागतः प्राप्तनुवाद एव न विधायकः । अन्यथा विहितप्रतिषिद्धत्वादनेकपतित्वे विकल्पः स्यात् । कथं तर्हि द्रौपद्याः पञ्चपाण्डवा मारिषायाश्च दशप्राचेतसः । इदानीं तनानां नीचानां च द्वित्रादयः पतयो दृश्यन्त इति चेन्न । ‘न देवचरितं चरेत्’ इति न्यायेन देवताकल्पेषु पर्यनुयोगायोगात् । नीचानां पशुप्रायाणां चाचारस्याप्रामाण्याच्च । अधिकारिविषयवत्त्वाच्च नियोगस्येति दिक् ॥३५॥
अभिगम्य परं नारी पतिष्यति न संशयः
।
अपतीनां तु नारीणामद्यप्रभृति पातकम्॥३६॥
यद्यस्ति चेद्धनं सर्वे वृथाभोगा भवन्तु ताः
।
अकीर्तिः परिवादाश्च नित्यं तासां भवन्तु वै॥३७॥
भोगः पुंयोगः। वृथा ऐहिकप्रतिष्ठाकरसंततिशून्यः प्रत्युतान्यथैव तत्स्यादित्याहाकीर्तिश्चेति ॥३७॥
इति तद्वचनं श्रुत्वा ब्राह्मणी भृशकोपिता
।
गङ्गायां नीयतामेष पुत्रा इत्येवमब्रवीत्॥३८॥
लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः
।
बद्ध्वोडुपे परिक्षिप्य गङ्गायां समवासृजन्॥३९॥
उडुपे लवे ‘उडुपं तु प्लवः कोलः’ इत्यमरः ॥३९॥
कस्मादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते
।
चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान्॥४०॥
सोऽनुस्रोतस्तदा विप्रः प्लवमानो यदृच्छया
।
जगाम सुबहून्देशानन्धस्तेनोडुपेन ह॥४१॥
तं तु राजा बलिर्नाम सर्वधर्मविदां वरः
।
अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम्॥४२॥
मज्जनगतः स्नानार्थं गतः । स्रोतसा प्रवाहेण । अभ्याशं समीपम्॥४२॥
जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः
।
ज्ञात्वा चैवं स वव्रेऽथ पुत्रार्थे भरतर्षभ॥४३॥
सन्तानार्थं महाभाग भार्यासु मम मानद
।
पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि॥४४॥
एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः
।
तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा॥४५॥
अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह
।
स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा॥४६॥
धात्रेयिकां दासी ॥४६॥
तस्यां काक्षीवदादीन्स शूद्रयोनावृषिस्तदा
।
जनयामास धर्मात्मा पुत्रानेकादशैव तु॥४७॥
काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः
।
उवाच तमृषिं राजा ममेम इति भारत॥४८॥
नेत्युवाच महर्षिस्तं ममेम इति चाब्रवीत्
।
शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः॥४९॥
अन्धं वृद्धं च मां दृष्ट्वा सुदेष्णा महिषी तव
।
अवमन्य ददौ मूढा शूद्रां धात्रेयिकां मम॥५०॥
ततः प्रसादयामास पुनस्तमृषिसत्तमम्
।
बलिः सुदेष्णां स्वां भार्यां तस्मै सं प्राहिणोत्पुनः॥५१॥
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत्
।
भविष्यन्ति कुमारास्ते तेजसादित्यवर्चसः॥५२॥
अङ्गेषु स्पृष्ट्वा स्वरूपज्ञानार्थमिति भावः संधिरार्षः ॥५२॥
अङ्गो वङ्गः कलिङ्गश्च पुण्ड्रः सुह्मश्च ते सुताः
।
तेषां देशाः समाख्याताः स्वनाम कथिता भुवि॥५३॥
अङ्गस्याङ्गोऽभवद्देशो वङ्गो वङ्गस्य च स्मृतः
।
कलिङ्गविषयश्चैव कलिङ्गस्य च स स्मृतः॥५४॥
पुण्ड्रस्य पुण्ड्राः प्रख्याताः सुह्माः सुह्मस्य च स्मृताः
।
एवं बलेः पुरा वंशः प्रख्यातो वै महर्षिजः॥५५॥
एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि
।
जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः
।
एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम्॥५६॥
यथेप्सितं ब्राह्मणेभ्यो वंशवृद्धिमित्यर्थः ॥५६॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि भीष्मसत्यवतीसंवादे चतुरधिकशततमोऽध्यायः ॥१०४॥
भीष्म उवाच।
पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये
।
वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु॥१॥
पञ्चाधिकशततमोऽध्यायः पुनरिति ॥१॥
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम्
।
विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः॥२॥
वैशंपायन उवाच।
ततः सत्यवती भीष्मं वाचा संसज्जमानया
।
विहसन्तीव सव्रीडमिदं वचनमब्रवीत्॥३॥
संसज्जमानया स्खलनवत्या ॥ ३॥
सत्यमेतन्महाबाहो यथा वदसि भारत
।
विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य नः॥४॥
विश्वासात् अन्तरङ्गत्वबुद्धेः । संतानाय विस्ताराय ॥४॥
न ते शक्यमनाख्यातुमापद्धर्मं तथाविधम्
।
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः॥५॥
आपद्धर्मम् अवेक्ष्येति शेषः । धर्मो धर्मरक्षकः ॥५॥
तस्मान्निशम्य सत्यं मे कुरुष्व यदनन्तरम्
।
धर्मयुक्तस्य धर्मार्थं पितुरासीत्तरी मम॥६॥
सत्य वचनमिति शेषः । तरी नौका ॥६॥
सा कदाचिदहं तत्र गता प्रथमयौवनम्
।
अथ धर्मविदां श्रेष्ठः परमर्षिः पराशरः॥७॥
आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम्
।
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा॥८॥
सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं वचः
।
उक्तं जन्मकुलं मह्यमस्मि दाशसुतेत्यहम्॥९॥
तमहं शापभीता च पितुर्भीता च भारत
।
वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे॥१०॥
उक्ता प्रलोभितेत्यर्थः ॥१०॥
अभिभूय स मां बालां तेजसा वशमानयत्
।
तमसा लोकमावृत्य नौगतामेव भारत॥११॥
बालां पुंयोगमनिच्छन्तीं बालामिव ॥ ११॥
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः
।
तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः॥१२॥
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम्
।
द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि॥१३॥
मामकं गर्भमुत्सृज्य कन्यैव त्वं भविष्यसीति मुनिवचनाज्जातापत्याया अपि कन्यात्वाविनाशात् पुनर्दाशसंसर्गजं हीनवर्णत्वं नाभूत् । कन्यात्वावस्थायां कामभक्षादिनिषेधाभावात् । किं च पृथासत्यवत्योरनिच्छन्त्योरेव सूर्यपराशराभ्यामपत्योत्पादनं कृतम् अतो न तयोः कन्यात्वोच्छित्तिरिति भावः ॥१३॥
पाराशर्यो महायोगी स बभूव महानृषिः
।
कन्यापुत्रो मम पुरा द्वैपायन इति श्रुतः॥१४॥
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः
।
लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च॥१५॥
कार्ण्यात् कृष्णत्वात् ईश्वरादनन्यत्वादेव कृष्णत्वमित्यर्थः ॥१५॥
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः
।
समुत्पन्नः स तु महान्सह पित्रा ततो गतः॥१६॥
स नियुक्तो मया व्यक्तं त्वया चाप्रतिमद्युतिः
।
भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति॥१७॥
न्यकं निःसंशयम् ॥१७॥
स हि मामुक्तवांस्तत्र स्मरेः कृच्छ्रेषु मामिति
।
तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि॥१८॥
तव ह्यनुमते भीष्म नियतं स महातपाः
।
विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति॥१९॥
वैशंपायन उवाच।
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत्
।
धर्ममर्थं च कामं च त्रीनेतान्योनुपश्यति॥२०॥
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम्
।
कामं कामानुबन्धं च विपरीतान्पृथक्पृथक्॥२१॥
अनुबध्यतेऽनेनेत्यनुबन्धः फलं परिणामे सुखकरमेव । अर्थादिकं तद्विपर्ययं वाऽर्थनाशादिकं पश्येत् । अत्यल्पदोषानुसंधानेन महतः फलस्य नाशो न कार्य इत्यभिप्रायः ॥२१॥
यो विचिन्त्य धिया धीरो व्यवस्यति स बुद्धिमान्
।
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः॥२२॥
उक्तं भवत्या यच्छ्रेयस्तन्मह्यं रोचते भृशम्
।
वैशंपायन उवाच।
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन॥२३॥
कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम्
।
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम्॥२४॥
प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन
।
तस्मै पूजां ततः कृत्वा सुताय विधिपूर्वकम्॥२५॥
परिष्वज्य च बाहुभ्यां प्रस्रवैरभ्यषिञ्चत
।
मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तु॥२६॥
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च
।
मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत्॥२७॥
भवत्या यदभिप्रेतं तदहं कर्तुमागतः
।
शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव॥२८॥
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये
।
स च तां प्रतिजग्राह विधिमन्मन्त्रपूर्वकम्॥२९॥
पूजितो मन्त्रपूर्वं तु विधिवत्प्रीतिमाप सः
।
तमासनगतं माता पृष्ट्वा कुशलमव्ययम्॥३०॥
सत्यवत्यथ वीक्ष्यैनमुवाचेदमनन्तरम्
।
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे॥३१॥
तेषां पिता यथा स्वीमी तथा माता न संशयः
।
विधानविहितः स त्वं यथा मे प्रथमः सुतः॥३२॥
विधानविहितः पूर्वपुण्यप्रसूतः ॥३२॥
विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः
।
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः॥३३॥
भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे
।
अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः॥३४॥
बुद्धिं न कुरुतेऽपत्ये तथा राज्याऽनुशासने
।
स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च॥३५॥
व्यपेक्षया स्नेहानुबन्धेन ॥३५॥
भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ
।
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च॥३६॥
नियोगात् आज्ञातः अनुक्रोशात् कृपातः ॥३६॥
आनृशंस्याच्च यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि
।
यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे॥३७॥
आनृशंस्यात् अनैष्ठुर्यात् ॥३७॥
रूपयौवनसंपन्ने पुत्रकामे च धर्मतः
।
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक॥३८॥
अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च
।
व्यास उवाच।
वेत्थ धर्मं सत्यवति परं चापरमेव च॥३९॥
परं धर्मं निवृत्तिरूपम् । अपरं धर्मं प्रवृत्तिरूपम् । आमुष्मिकमैहिकमिति वा ॥ ३९॥
तथा तव महाप्राज्ञे धर्मे प्रणिहिता मतिः
।
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम्॥४०॥
ईप्सितं ते करिष्यामि दृष्टं ह्येतत्सनातनम्
।
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान्॥४१॥
व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया
।
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः॥४२॥
देव्यौ राजभार्ये ॥४२॥
नहि मामव्रतोपेता उपेयात्काचिदङ्गना
।
सत्यवत्युवाच
।
सद्यो यथा प्रपद्येते देव्यौ गर्भं तथा कुरु॥४३॥
अराजकेषु राष्ट्रेषु प्रजानाथा विनश्यति
।
नश्यन्ति च क्रियाः सर्वा नास्ति वृष्टिर्न देवता॥४४॥
कथं चाराजकं राष्ट्रं शक्यं धारयितुं प्रभो
।
तस्माद्गर्भं समाधत्स्व भीष्मः संवर्धयिष्यति॥४५॥
व्यास उवाच।
यदि पुत्रः प्रदातव्यो मया भ्रातुरकालिकः
।
विरूपतां मे सहतां तयोरेतत्परं व्रतम्॥४६॥
यदि मे सहते गन्धं रूपं वेषं तथा वपुः
।
अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम्॥४७॥
वैशंपायन उवाच।
एवमुक्त्वा महातेजा व्यासः सत्यवतीं तदा
।
शयने सा च कौसल्या शुचिवस्त्रा ह्यलङ्कृता॥४८॥
समागमनमाकाङ्क्षेदिति साऽन्तर्हितो मुनिः
।
ततोऽभिगम्य सा देवी स्नुषां रहसि सङ्गताम्॥४९॥
धर्म्यमर्थसमायुक्तमुवाच वचनं हितम्
।
कौसल्ये धर्मतन्त्रं त्वां यद्ब्रवीमि निबोध तत्॥५०॥
भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात्
।
व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम्॥५१॥
भीष्मो बुद्धिमदान्मह्यं कुलस्यास्य विवृद्धये
।
सा च बुद्धिस्त्वय्यधीना पुत्रि प्रापय मां तथा॥५२॥
यथा भीष्मेणोक्तं तथा मां प्रापय इष्टार्थेन योजय ॥५२॥
नष्टं च भारतं वंशं पुनरेव समुद्धऱ
।
पुत्रं जनय सुश्रोणि देवराजसमप्रभम्॥५३॥
उद्वक्ष्यति धुरम् उद्वहनं करिष्यति ॥५३॥
स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः
।
सा धर्मतोऽनुनीयैनां कथंचिद्धर्मचारिणीम्
।
भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा॥५४॥
एनां पुरुषान्तरस्पर्शमनिच्छन्तीमिति सूचयति । कथंचदिति ॥५४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सत्यवत्युपदेशे पञ्चाधिकशततमोऽध्यायः ॥१०५॥
वैशंपायन उवाच।
ततः सत्यवती काले वधूं स्नातामृतौ तदा
।
संवेशयन्ती शयने शनैर्वचनमब्रवीत्॥१॥
षडधिकशततमोऽध्यायः तत इति ॥१॥
कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वाऽनुप्रवेक्ष्यति
।
अप्रमत्ता प्रतीक्षैनं निशीथे ह्यागमिष्यति॥२॥
अनुप्रवेक्ष्यति पुत्ररूपेण तवोदरमागमिष्यति ॥२॥
श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे
।
साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान्॥३॥
सा अचिन्तयदित्यनेन गर्भधारणकाले यं पुरुष स्त्री चिन्तयति तांदृग्गुणः पुत्रो भवतीति सूचितम् ॥ ३॥
ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः
।
दीप्यमानेषु दीपेषु शरणं प्रविवेश ह॥४॥
शरणं गृहं ‘शरणं गृहरक्षित्रोः’ इत्यमरः ॥४॥
तस्य कृष्णस्य कपिलां जटां दीप्ते च लोचने
।
बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत्॥५॥
संबभूव तया सार्धं मातुः प्रियचिकीर्षया
।
भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम्॥६॥
ततो निष्क्रान्तमागम्य माता पुत्रमुवाच ह
।
अप्यस्या गुणवान्पुत्र राजपुत्रो भविष्यति॥७॥
निशम्य तद्वचो मातुर्व्यासः सत्यवतीसुतः
।
नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः॥८॥
महाभागो महावीर्यो महाबुद्धिर्भविष्यति
।
तस्य चापि शतं पुत्रा भविष्यन्ति महात्मनः॥९॥
किं तु मातुः स वैगुण्यादन्ध एव भविष्यति
।
तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत्॥१०॥
नान्धः कुरूणां नृपतिरनुरूपस्तपोधन
।
ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम्॥११॥
द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि
।
स तथेति प्रतिज्ञाय निश्चक्राम महायशाः॥१२॥
साऽपि कालेन कौसल्या सुषुवेन्धं तमात्मजम्
।
पुनरेव तु सा देवी परिभाष्य स्नुषां ततः॥१३॥
ऋषिमावाहयत्सत्या यथा पूर्वमरिन्दम
।
ततस्तेनैव विधिना महर्षिस्तामपद्यत॥१४॥
सत्या सत्यवती ॥१४॥
अम्बालिकामथाऽभ्यागादृषिं दृष्ट्वा च साऽपि तम्
।
विवर्णा पाण्डुसंकाशा समपद्यत भारत॥१५॥
तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य भारत
।
व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत्॥१६॥
यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह
।
तस्मादेष सुतस्ते वै पाण्डुरेव भविष्यति॥१७॥
नाम चास्यैतदेवेह भविष्यति शुभानने
।
इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः॥१८॥
ततो निष्क्रान्तमालोक्य सत्या पुत्रमथाब्रवीत्
।
शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम्॥१९॥
तं माता पुनरेवान्यमेकं पुत्रमयाचत
।
तथेति च महर्षिस्तां मातरं प्रत्यभाषत॥२०॥
ततः कुमारं सा देवी प्राप्तकालमजीजनत्
।
पाण्डुं लक्षणसंपन्नं दीप्यमानमिव श्रिया॥२१॥
यस्य पुत्रामहेष्वासा जज्ञिरे पञ्च पाण्डवाः
।
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत्॥२२॥
सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम्
।
नाकरोद्वचनं देव्या भयात्सुरसुतोपमा॥२३॥
ततः स्वैर्भूषणैर्दासीं भूषयित्वाऽप्सरोपमाम्
।
प्रेषयामास कृष्णाय ततः काशिपतेः सुता॥२४॥
सा तमृषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च
।
संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह॥२५॥
कामोपभोगेन रहस्तस्यां तुष्टिमगादृषिः
।
तया सहोषितो राजन्महर्षिः संशितव्रतः॥२६॥
उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि
।
अयं च ते शुभे गर्भः श्रेयानुदरमागतः
।
धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः॥२७॥
अभुजिष्या अदासी ॥२७॥
स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः
।
धृतराष्ट्रस्य वै भ्राता पाण्डोश्चैव महात्मनः॥२८॥
भ्राता भुजिष्या पुत्रस्यापि भ्रातृत्वं पित्रन्वयात् ॥२८॥
धर्मो विदुररूपेण शापात्तस्य महात्मनः
।
माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः॥२९॥
कृष्णद्वैपायनोऽप्येतत्सत्यवत्यै न्यवेदयत्
।
प्रलम्भमात्मनश्चैव शूद्रायाः पुत्रजन्म च॥३०॥
प्रलम्भं आत्मस्थाने दासीनियोजनम् ॥३०॥
स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च
।
तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत॥३१॥
एते विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि
।
जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः॥३२॥
एत इति क्षेत्रत्वं दास्या अपीत्यनेनैवगम्यत इति केचित् ॥३२॥
॥इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि विचित्रवीर्यसुतोत्पत्तौ षडधिकशततमोऽध्यायः॥१०६॥
वैशंपायन उवाच।
तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम्
।
कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत॥१॥
नवाधिकशततमोऽध्यायः तेष्विति । कुरुजाङ्गलं देशः कुरवः पुरुषाः कुरुक्षेत्रं तेषां वासस्थानम् ॥१॥
ऊर्ध्वसस्याऽभवद्भूमिः सस्यानि फलवन्ति च
।
यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः॥२॥
देशं स्तौति । उर्ध्वेति । ऊर्ध्वसस्या प्रचुरसस्या ॥२॥
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः
।
गन्धवन्ति च माल्यानि रसवन्ति फलानि च॥३॥
वणिग्भिश्चान्वकीर्यन्त नगराण्यथ शिल्पिभिः
।
शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन्॥४॥
कुरून्स्तौति । शूराश्चेति ॥४॥
नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः
।
प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत॥५॥
धर्मक्रिया यज्ञशीलाः सत्यव्रतपरायणाः
।
अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा॥६॥
मानक्रोधविहीनाश्च नरा लोभविवर्जिताः
।
अन्योन्यमभ्यनन्दन्त धर्मोत्तरमवर्तत॥७॥
तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत
।
द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः॥८॥
स्थानं स्तौति । तन्महेति ॥८॥
प्रसादशतसंबाधं महेन्द्रपुरसन्निभम्
।
नदीषु वनखण्डेषु वापीपल्वलसानुषु
।
काननेषु च रम्येषु विजह्रुर्मुदिता जनाः॥९॥
उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तथा
।
विस्पर्धमाना व्यचरंस्तथा देवर्षिचारणैः॥१०॥
नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः
।
तस्मिञ्जनपदे रम्ये कुरुभिर्बहुलीकृते॥११॥
कूपारामसभावाप्यो ब्राह्मणावसथास्तथा
।
बभूवुः सर्वर्धियुतास्तस्मिन्राष्ट्रे सदोत्सवाः॥१२॥
भीष्मेण धर्मतो राजन्सर्वतः परिरक्षिते
।
बभूव रमणीयश्च चैत्ययूपशताङ्कितः॥१३॥
स देशः परराष्ट्राणि विमृज्याभिप्रवर्धितः
।
भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत॥१४॥
विमृज्य परराष्ट्रस्था अपि सुखार्थिनोऽत्रैव प्रविष्टा इत्यर्थः ॥१४॥
क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम्
।
पौरजानपदाः सर्वे बभूवुः परमोत्सुकाः॥१५॥
गृहेषु कुरुमुख्यानां पौराणां च नराधिप
।
दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः॥१६॥
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः
।
जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः॥१७॥
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः
।
श्रमव्यायामकुशलाः समपद्यन्त यौवनम्॥१८॥
श्रमः शास्त्राभ्यासः । व्यायामो बाहुयुद्धाद्याभ्यासः ॥१८॥
धनुर्वेदे च वेदे च गदायुद्धेऽसि चर्मणि
।
तथैव गजशिक्षायां नीतिशास्त्रेषु पारगाः॥१९॥
इतिहासपुराणेषु नानाशिक्षासु बोधिताः
।
वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्चयाः॥२०॥
पाण्डुर्धनुषि विक्रान्तो नरेष्वभ्यदिकोऽभवत्
।
अन्येभ्यो बलवानासीद्धृतराष्ट्रो महीपतिः॥२१॥
त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः
।
धर्मनित्यस्तथा राजन्धर्मं च परमं गतः॥२२॥
धर्मे च परमम् आत्मदर्शनं गतः प्राप्तः । अयं तु परमो धर्मो यद्येोगेनात्मदर्शनमिति याज्ञवल्क्योक्तः॥२२॥
प्रनष्टं शान्तनोर्वंशं समीक्ष्य पुनरुद्धृतम्
।
ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत॥२३॥
निर्वचनं प्रशंसा ॥२३॥
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम्
।
सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम्॥२४॥
धृतराष्ट्रस्त्वचक्षुष्ट्वाद्रज्यं न प्रत्यपद्यत
।
पारसवत्वाद्विदुरो राजा पाण्डुर्बभूव ह॥२५॥
पारसवत्वात् शूद्रायां ब्राह्मणाज्जातत्वात् । करणत्वाच्चेत्यपपाठः । लक्षणयां वा तथा व्याख्येयम् । शूद्रायां करणो वैश्यादिति तान्निर्वचनात् ॥२५॥
कदाचिदथ गाङ्गेयः सर्वनीतिमतां वरः
।
विदुरं धर्मतत्त्वज्ञं वाक्यमाह यथोचितम्॥२६॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पाण्डुराज्याभिषेके नवाधिकशततमोऽध्यायः॥१०९॥
वैशंपायन उवाच।
शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत्
।
तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि॥१॥
एकादशाधिकशततमः अध्यायः शूर इति ॥१॥
पितृष्वस्रीयाय स तामनपत्याय भारत
।
अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यं स सत्यवाक्॥२॥
अग्य्रं प्रथमम् अग्रे जन्मतः पूर्वं प्रतिज्ञाय मया प्रथममपत्यं तुभ्यं देयमिति प्रतिश्रुत्य ॥२॥
अग्रजामथ तां कन्यां शूरोऽनुग्रहकाङ्क्षिणे
।
प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने॥३॥
नियुक्ता सा पितुर्गेहे ब्राह्मणातिथिपूजने
।
उग्रं पर्यचरत्तत्र ब्राह्मणं संशितव्रतम्॥४॥
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः
।
तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत्॥५॥
धर्मे निगूढनिश्चयं बहिः क्रौर्यदर्शनपरत्वात् ॥५॥
तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया
।
अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः॥६॥
आपद्धर्मान्ववेक्षयेति भावि संतानप्रतिबन्धस्यानागतावेक्षणेन । अभिचारोः वश्याकर्षणादि दृष्टफलं तद्युक्तम् ॥६॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि
।
तस्य तस्य प्रभावेण तव पुत्रो भविष्यति॥७॥
तथोक्ता सा तु विप्रेण कुन्ती कौतूहलान्विता
।
कन्या सती देवमर्कमाजुहाव यशस्विनी॥८॥
सा ददर्श तमायान्तं भास्करं लोकभावनम्
।
विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम्॥९॥
तां समासाद्य देवस्तु विवस्वानिदमब्रवीत्
।
अयमस्म्यसितापाङ्गी ब्रूहि किं करवाणि ते॥१०॥
कुन्त्युवाच।
कश्चिन्मे ब्राह्मणः प्रादाद्वरं विद्यां च शत्रुहन्
।
तद्विजिज्ञासयाह्वानं कृतवत्यस्मि ते विभो॥११॥
एतस्मिन्नपराधे त्वां शिरसाऽहं प्रसादये
।
योषितो हि सदा रक्ष्या: स्वापराधेऽपि नित्यशः॥१२॥
स्वापराद्धापि सन्धिरार्षः ॥१२॥
सूर्य उवाच।
वेदाहं सर्वमेवैतद्यद्दुर्वासा वरं ददौ
।
संत्यज्य भयमेवेह क्रियतां सङ्गमो मम॥१३॥
अमोघं दर्शनं मह्यमाहूतश्चास्मि ते शुभे
।
वृथाह्वानेऽपि ते भीरु दोषः स्यान्नात्र संशयः॥१४॥
मह्यं मम ॥१४॥
वैशंपायन उवाच।
एवमुक्ता बहुविधं सान्त्वपूर्वं विवस्वता
।
सा तु नैच्छद्वरारोहा कन्याहमिति भारत॥१५॥
बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी
।
तामर्कः पुनरेवेदब्रवीद्भरतर्षभ॥१६॥
मत्प्रसादान्न ते राज्ञि भविता दोष इत्युत
।
एवमुक्त्वा स भगनान्कुन्तिराजसुतां तदा॥१७॥
प्रकाशकर्मा तपनः संबभूव तया सह
।
तत्र वीरः समभवत्सर्वशस्त्रभृतां वरः
।
आमुक्तकवचः श्रीमान्देवगर्भः श्रियान्वितः॥१८॥
सहजं कवचं बिभ्रत्कुण्डलो द्योतिताननः
।
अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः॥१९॥
प्रादाच्च तस्यै कन्यात्वं पुनः स परमद्युतिः
।
दत्त्वा च तपतां श्रेष्ठो दिवमाचक्रमे ततः॥२०॥
दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीनमानसा
।
एकाग्रं चिन्तयामास किं कृत्वा सुकृतं भवेत्॥२१॥
गूहमानापचारं सा बन्धुपक्षभयात्तदा
।
उत्ससर्ज कुमारं तं जले कुन्ती महाबलम्॥२२॥
गूहमाना छादयन्ती । अपचारम् अनाचारम् ॥२२॥
तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः
।
पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः॥२३॥
नामधेयं च चक्राते तस्य बालस्य तावुभौ
।
वसुना सह जातोऽयं वसुषेणो भवत्विति॥२४॥
वसुना कुण्डलकवचादि द्रव्येण बद्ध इति वसुषेणः ॥२४॥
स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत्
।
आपृष्ठतापादादित्यमुपातिष्ठत वीर्यवान्॥२५॥
आपृष्ठतापात् मध्याह्नात् परत इत्यर्थः ॥२५॥
तस्मिन्काले तु जपतस्तस्य वीरस्य धीमतः
।
नादेयं ब्राह्मणेष्वासीत्किंचिद्वसु महीतले॥२६॥
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थी समुपागमत्
।
कवचं प्रार्थयामास फाल्गुनस्य हिते रतः॥२७॥
स्वशरीरात्समुत्कृत्य कवचं स्वं निसर्गजम्
।
विप्ररूपाय शक्राय ददौ कर्णः कृताञ्जलिः॥२८॥
प्रतिगृह्य तु देवेशस्तुष्टस्तेनास्य कर्मणा
।
ददौ शक्तिं सुरपतिर्वाक्यं चेदमुवाच ह॥२९॥
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्
।
यमेकं जेतुमिच्छेथाः सोऽनया न भविष्यति॥३०॥
प्राङ्नाम तस्य कथितं वसुषेण इति क्षितौ
।
कर्णो वैकर्तनश्चैव कर्मणा तेन सोभवत्॥३१॥
कर्ण इति सहजकवचकर्तनात् कर्णः । विशेषतः कर्तनेन वैकर्तनः । स्वार्थे तद्धितः । वस्तुतस्तु विकर्तनस्य सूर्यस्यापत्यत्वाद्वैतकर्तनः ॥३१॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि कर्णसंभवे एकादशाधिकशततमोऽध्यायः ॥१११॥
वैशंपायन उवाच।
ततः शान्तनवो भीष्मो राज्ञः पाण्डोर्यशस्विनः
।
विवाहस्यापरस्यार्थे चकार मतिमान्मतिम्॥१॥
त्रयोदशाधिकशततमः अध्यायः तत इति ॥१॥
सोऽमात्यैः स्थविरैः सार्धं ब्राह्मणैश्च महर्षिभिः
।
बलेन चतुरङ्गेण ययौ मद्रपतेः पुरम्॥२॥
तमागतमभिश्रुत्य भीष्मं वाहीकपुङ्गवः
।
प्रत्युद्गम्यार्चयित्वा च पुरं प्रावेशयन्नृपः॥३॥
दत्त्वा तस्यासनं शुभ्रं पाद्यमर्घ्यं तथैव च
।
मधुपर्कं च मद्रेशः पप्रच्छागमनेऽर्थिताम्॥४॥
तं भीष्मः प्रत्युवाचेदं मद्रराजं कुरूद्वहः
।
आगतं मां विजानीहि कन्यार्थिनमरिन्दम॥५॥
श्रूयते भवतः साध्वी स्वसा माद्री यशस्विनी
।
तामहं वरयिष्यामि पाण्डोरर्थे यशस्विनीम्॥६॥
युक्तरूपो हि संबन्धे त्वं नो राजन्वयं तव
।
एतत्संचिन्त्य मद्रेश गृहाणास्मान्यथाविधि॥७॥
तमेवं वादिनं भीष्मं प्रत्यभाषत मद्रपः
।
न हि मेऽन्यो वरस्त्वत्तः श्रेयानिति मतिर्मम॥८॥
पूर्वैः प्रवर्तितं किंचित्कुलेऽस्मिन्नृपसत्तमैः
।
साधु वा यदि वाऽसाधु तन्नातिक्रान्तुमुत्सहे॥९॥
यद्यपि कन्याशुल्कग्रहणम् आसुरे विवाहे दृष्टं तथापि कुलधर्मत्वादपरिहार्यमित्याह । पूर्वैरिति ॥९॥
व्यक्तं तद्भवतश्चापि विदितं नात्र संशयः
।
न च युक्तं तथा वक्तुं भवान्देहीति सत्तम॥१०॥
कुलधर्मः स नो वीर प्रमाणं परमं च तत्
।
तेन त्वां न ब्रवीम्येतदसंदिग्धं वचोऽरिहन्॥११॥
तं भीष्मः प्रत्युवाचेदं मद्रराजं जनाधिपः
।
धर्म एष परो राजन्स्वयमुक्तः स्वयंभुवा॥१२॥
धर्म एषः । आर्षेऽपि विवाहे कन्याशुल्कत्वेन गोमिथुनग्रहस्य विधानात् । तथा च शिष्टादृतत्वादयमपि धर्मः स्वयंभुवा वेदेनैवोक्त इत्यवसेयम् । एतेन विगीतोपि कुलाचारो न त्याज्य इत्युक्तम् ॥१२॥
नात्र कश्चन दोषोऽस्ति पूर्वैर्विधिरयं कृतः
।
विदितेयं च ते शल्य मर्यादा साधुसंमता॥१३॥
इत्युक्त्वा स महातेजाः शातकुम्भं कृताकृतम्
।
रत्नानि च विचित्राणि शल्यायादात्सहस्रशः॥१४॥
शातकुम्भं काञ्चनं कृताकृतं घटितमघटितं च ॥१४॥
गजानश्वान्रथांश्चैव वासांस्याभरणानि च
।
मणिमुक्ताप्रवालं च गाङ्गेयो व्यसृजच्छुभम्॥१५॥
व्यसृजत् प्रादात् ॥१५॥
तत्प्रगृह्य धनं सर्वं शल्यः संप्रीतमानसः
।
ददौ तां समलङ्कृत्य स्वसारं कौरवर्षभे॥१६॥
स तां माद्रीमुपादाय भीष्मः सागरगासुतः
।
आजगाम पुरीं धीमान्प्रविष्टो गजसाह्वयम्॥१७॥
तत इष्टेऽहनि प्राप्ते मुहूर्ते साधुसंमते
।
जग्राह विधिवत्पाणिं माद्र्याः पाण्डुर्नराधिपः॥१८॥
ततो विवाहे निर्वृत्ते स राजा कुरुनन्दनः
।
स्थापयामास तां भार्यां शुभे वेश्मनि भामिनीम्॥१९॥
स ताभ्यां व्यचरत्सार्धं भार्याभ्यां राजसत्तमः
।
कुन्त्या माद्र्या च राजेन्द्रो यथाकामं यथासुखम्॥२०॥
ततः स कौरवो राजा विहृत्य त्रिदशा निशाः
।
जिगीषया महीं पाण्डुर्निरक्रामत्पुरात्प्रभो॥२१॥
त्रिदशाः त्रिंशत् ॥२१॥
स भीष्मप्रमुखान्वृद्धानभिवाद्य प्रणम्य च
।
धृतराष्ट्रं च कौरव्यं तथान्यान्कुरुसत्तमान्
।
आमन्त्र्य प्रययौ राजा तैश्चैवाप्यनुमोजितः॥२२॥
मङ्गलाचारयुक्ताभिराशीर्भिरभिनन्दितः
।
गजवाजिरथौघेन बलेन महताऽगमत्॥२३॥
स राजा देवगर्भाभो विजिगीषुर्वसुन्धराम्
।
हृष्टपुष्टबलैः प्रायात्पाण्डुः शत्रूननेकशः॥२४॥
पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः
।
पाण्डुना नरसिंहेन कौरवाणां यशोभृता॥२५॥
आगस्कृतः चोरप्रायः पर्वताद्याश्रयित्वात् ॥२५॥
ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम्
।
प्रभूतहस्त्यश्वयुतां पदातिरथसंकुलाम्॥२६॥
आगस्कारी महीपानां बहूनां बलदर्पितः
।
गोप्ता मगधराष्ट्रस्य दीर्घो राजगृहे हतः॥२७॥
ततः कोशं समादाय वाहनानि च भूरिशः
।
पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः॥२८॥
तथा काशिषु सुह्मेषु पुण्ड्रेषु च नरर्षभ
।
स्वबाहुबलवीर्येण कुरूणामकरोद्यशः॥२९॥
तं शरौघमहाज्वालं शस्त्रार्चिषमरिन्दमम्
।
पाण्डुपावकमासाद्य व्यवह्यन्त नराधिपाः॥३०॥
ते ससेनाः ससेनेन विध्वंसितबला नृपाः
।
पाण्डुना वशगाः कृत्वा कुरुकर्मसु योजिताः॥३१॥
कुरुकर्मसु योजिताः कुरूणां दासभूताः कृताः ॥३१॥
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः
।
तमेकं मेनिरे शूरं देवेष्विव पुरन्दरम्॥३२॥
तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः
।
उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च॥३३॥
मणिमुक्ताप्रवालं च सुवर्णं रजतं बहु
।
गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान्॥३४॥
खरोष्ट्रमहिषांश्चैव यच्च किंचिदजाविकम्
।
कम्बलाजिनरत्नानि राङ्कवास्तरणानि च
।
तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः॥३५॥
नागपुराधिपः हस्तिनापुरेशः ॥३५॥
तदादाय ययौ पाण्डुः पुनर्मदितवाहनः
।
हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम्॥३६॥
शान्तनो राजसिंहस्य भरतस्य च धीमतः
।
प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनराहृतः॥३७॥
ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च
।
ते नागपुरसिंहेन पाण्डुना करदीकृताः॥३८॥
इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः
।
प्रतीतमनसो हृष्टाः पौरजानपदैः सह॥३९॥
प्रतीतमनसः निष्कलुषचित्ताः अत एव हृष्टाः ॥३९॥
प्रत्युद्ययुश्च तं प्राप्तं सर्वे भीष्मपुरोगमाः
।
तेन दूरमिवाध्वानं गत्वा नागपुरालयाः॥४०॥
न दूरमिव अदूरमिव । जयोत्साहेन मार्गश्रमाभावात् ॥४० ॥
आवृतं ददृशुर्हृष्टा लोकं बहुविधैर्धनैः
।
नानायानसमानीतै रत्नैरुच्चावचैस्तदा॥४१॥
हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैस्तथाविभिः
।
नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः॥४२॥
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः
।
यथाऽर्हं मानयामास पौरजानपदानपि॥४३॥
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम्
।
पुत्रमाश्लिष्य भीष्मस्तु हर्षादश्रूण्यवर्तयत्॥४४॥
स तूर्यशतशङ्खानां भेरीणां च महास्वनैः
।
हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम्॥४५॥
॥ इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पाण्डुदिग्विजये त्रयोदशाधिकशततमोऽध्यायः॥११३॥
वैशम्पायन उवाच।
ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय
।
धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ॥१॥
पञ्चदशाधिकशततमः अध्यायः तत इति ॥१॥
पाण्डोः कुन्त्यां च माद्र्यां च पुत्राः पञ्च महारथाः
।
देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै ॥२॥
जनमेजय उवाच
।
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम
।
कियता चैव कालेन तेषामायुश्च किं परम् ॥३॥
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत्
।
कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम्॥४॥
आनुकूल्ये वर्तमानां धृतराष्ट्रोऽभ्यवर्तत
।
कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना ॥५॥
समुत्पन्ना दैवतेभ्यः पुत्राः पञ्च महारथाः
।
एतद्विद्वन्यथान्यायं विस्तरेण तपोधन ॥६॥
कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु
।
वैशंपायन उवाच
।
क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् ॥७॥
तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ
।
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः ॥८॥
ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत्
।
संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् ॥९॥
अप्रजा धारयामास ततस्तां दुःखमाविशत्
।
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् ॥१०॥
उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत्
।
अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः ॥११॥
सोदरं घातयामास गान्धारी दुःखमूर्च्छिता
।
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता ॥१२॥
लोहाष्ठीला लोहमया गण्डिका तद्वत् संहता कंठिना ॥१२॥
द्विवर्षसंभृता कुक्षौ तामुत्स्रष्टुं प्रचक्रमे
।
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् ॥१३॥
तां स मांसमयीं पेशीं ददर्श जपतां वरः
।
ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् ॥१४॥
सा चात्मनो मतं सत्यं शशंस परमर्षये
।
गान्धार्युवाच
।
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम्॥१५॥
दुःखेन परमेणेदमुदरं घातितं मया
।
शतं च किल पुत्राणां विस्तीर्णं मे त्वया पुरा ॥१६॥
इयं च मे मांसपेशी जाता पुत्रशताय वै
।
व्यास उवाच ।
एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् ॥१७॥
वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा
।
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् ॥१८॥
सुगुप्तेषु च देशेषु रक्षा चैव विधीयताम्
।
शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चय ॥१९॥
वैशंपायन उवाच ।
सा सिच्यमाना त्वष्ठीला बभूव शतधा तदा
।
अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु ॥२०॥
एकाधिकशतं पूर्णं यथायोगं विशांपते
।
मांसपेश्यास्तदा राजन् क्रमशः कालपर्ययात् ॥२१॥
ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा
।
स्वनुगुप्तेषु देशेषु रक्षां वै व्यदधात्ततः ॥२२॥
अवदधे धृतवती ॥२२॥
शशंस चैव भगवान्कालेनैतावता पुनः
।
उद्घाटनीयान्येतानि कुण्डानीति च सौबलीम्॥२३॥
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिनिधाय च
।
जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् ॥२४॥
जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः
।
जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ॥२५॥
तदाख्यातं तु भीष्माय विदुराय च धीमते
।
यस्मिन्नहनि दुर्धर्षो जज्ञे दुर्योधनस्तदा ॥२६॥
तस्मिन्नेव महाबाहुर्जज्ञे भीमोऽपि वीर्यवान्
।
स जातमात्र एवाथ धृतराष्ट्रसुतो नृप ॥२७॥
रासभारावसदृशं रुराव च ननाद च
।
तं खराः प्रत्यभाषन्त गृध्रगोमायुवायसाः ॥२८॥
रुराव च ननाद च व्यक्तमव्यक्तं च शब्दं खरसदृशमेवाकरोत् ॥२८॥
वाताश्च प्रववुश्चापि दिग्दाहश्चाभवत्तदा
।
ततस्तु भीतवद्राजा धृतराष्ट्रोऽब्रवीदिदम् ॥२९॥
समानीय बहून्विप्रान्भीष्मं विदुरमेव च
।
अन्यांश्च सुहृदो राजन्कुरून्सर्वांस्तथैव च ॥३०॥
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः
।
प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः ॥३१॥
अयं त्वनन्तरस्तस्मादपि राजा भविष्यति
।
एतद्विब्रूत मे तथ्यं यदत्र भविता ध्रुवम् ॥३२॥
वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत
।
क्रव्यादाः प्राणदन्धोराः शिवाश्चाशिवशंसिनः ॥३३॥
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः
।
तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ॥३४॥
यथेमानि निमित्तानि घोराणि मनुजाधिप
।
उत्थितानि सुते जाते ज्येष्ठे ते पुरुषर्षभ ॥३५॥
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव
।
तस्य शान्तिः परित्यागे गुप्तावपनयो महान्॥३६॥
शतमेकोनमप्यस्तु पुत्राणां ते महीपते
।
त्यजैनमेकं शान्तिं चेत्कुलस्येच्छसि भारत॥३७॥
एकेन कुरु वै क्षेमं कुलस्य जगतस्तथा
।
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ॥३८॥
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्
।
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः ॥३९॥
न चकार तथा राजा पुत्रस्नेहसमन्वितः
।
ततः पुत्रशतं पूर्णं धृतराष्ट्रस्य पार्थिव ॥४०॥
मासमात्रेण संजज्ञे कन्याचैका शताधिका
।
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता ॥४१॥
धृतराष्ट्रं महाराजं वैश्या पर्यचरत्किल
।
तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः ॥४२॥
जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप
।
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः ॥४३॥
करण इव करणः क्षत्रियात् वैश्यायां जातत्वान्न तु वैश्यात् शूद्रायाम् ॥४३॥
महारथानां वीराणां कन्या चैका शताधिका
।
युयुत्सुश्च महातेजा वैश्यापुत्रः प्रतापवान् ॥४४॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि गान्धारीपुत्रोत्पत्तौ पञ्चदशाधिकशततमोऽध्यायः॥११५॥
जनमेजय उवाच।
कथितो धार्तराष्ट्राणामार्षः सम्भव उत्तमः
।
अमनुष्यो मनुष्याणां भवता ब्रह्मवादिना॥१॥
अष्टदशाधिकशततमः अध्यायः कथित इति । आर्षः ऋषिप्रसादहेतुकः । अमनुष्यो मनुष्येष्वदृष्टः । युगपद्बहूनां जननात् ॥१॥
नामधेयानि चाप्येषां कथ्यमानानि भागशः
।
त्वत्तः श्रुतानि मे ब्रह्मन्प्राण्डवानां च कीर्तय॥२॥
ते हि सर्वे महात्मानो देवराजपराक्रमाः
।
त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः॥३॥
एतदिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम्
।
तेषामाजननं सर्वं वैशंपायन कीर्तय॥४॥
वैशंपायन उवाच।
राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते
।
चरन्मैथुनधर्मस्थं ददर्श मृगयूथपम्॥५॥
ततस्तं च मृगीं चैव रुक्मपुङ्खैः सुपत्रिभिः
।
निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः॥६॥
स च राजन्महातेजा ऋषिपुत्रस्तपोधनः
।
भार्यया सह तेजस्वी मृगरूपेण सङ्गतः॥७॥
संयुक्तश्च तया मृग्या मानुषीमीरयन्गिरम्
।
क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः॥८॥
मृग उवाच।
काममन्युपरीता हि बुद्ध्या विरहिता अपि
।
वर्जयन्ति नृशंसानि पापेष्वपि रता नराः॥९॥
कामेति कामक्रोधावृता अपि मूढाः पापाचारस्वभावा ईदृशानि नृशंसानि बीभत्सानि वर्जयन्ति । अतस्त्वं नृशंसकर्ता सर्वेभ्योप्यधम इत्यर्थः ॥९॥
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः
।
विधिपर्यागतानर्थान्प्राज्ञो न प्रतिपद्यते॥१०॥
विधिं दैवं न ग्रसते नातिक्रामति । प्रज्ञा शास्त्रीयाबुद्धिः। प्राज्ञः प्रज्ञावान् । अर्थान्विधिपर्यागतान्दैवोपगतान् । न प्रतिपद्यते न वेत्ति । किं तु प्रज्ञाबलेनैवैतन्मयाकृतमिति मन्यतेऽतो नायं तवापराध इति भावः । प्रज्ञावानिति पाठे तु प्रज्ञावानेवैतज्जानाति न मूढ इत्यर्थः ॥१०॥
शस्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत
।
कामलोभाभिभूतस्य कथं ते चलिता मतिः॥११॥
तवापि मोह इत्याश्चर्यमित्याह । शश्वदिति ॥११॥
पाण्डुरुवाच।
शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता
।
राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि॥१२॥
पाठान्तरे मृगयुतां मृगहन्तृत्वम् ॥१२॥
अच्छद्मना मायया च मृगाणां वध इष्यते
।
स एव धर्मो राज्ञां तु तद्धित्वं किं नु गर्हसे॥१३॥
अच्छद्मना प्राकट्येन । मायया प्रच्छन्नरूपेण । चो वार्थे ॥१३॥
अगस्त्यः सत्रमासीनश्चकार मृगयामृषिः
।
आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने॥१४॥
सत्रमासिनः अनुतिष्ठन् । व्रतस्थानां तत्रापि ब्राह्मणानामपि मृगया दृष्टै वकिं पुनर्मम राज्ञः । प्रोक्ष्येत्यनेनोपाकरणसंज्ञपना दिकं लक्ष्यते । मुखं व्यादाय स्वपितीतिवन्मृगयां कृत्वा प्रोक्षयामासेति व्याख्येयम् ॥१४॥
प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे
।
अगस्त्यस्याभिचारेण युष्माकं च वपा हुता॥१५॥
प्रमाणं वेदः । अस्मान्वर्तमानान् । ननु पर्यग्निकृतानारण्यानुत्सृजतीत्यारण्यानामुत्सर्ग एव विहितो न वध इत्याशङ्क्याह । अगस्त्यस्येति । अभिचारेण शत्रुमारणेन । अतिचारेणेति पाठे शास्त्रातिक्रमेण । वपा कदलीगर्भपत्रसदृशो मांसाऽपूपः । तस्मादगस्त्यप्रदर्शितेन मार्गेण शत्रुवधकामा नृपाः शत्रुवन्मृगान् घ्नन्ति ॥१५॥
मृग उवाच।
न रिपून्वै समुद्दिश्य विमुञ्चन्ति नराः शरान्
।
रन्ध्र एषां विशेषेण वधकालः प्रशस्यते॥१६॥
न रिपूनिति । रन्ध्रे विशस्त्रत्वव्यसनाक्रान्तत्वादिसमये शरान्न विमुञ्चन्तीति सम्बन्धः । किंतु एषां शत्रूणां वधकालः सर्वलोकप्रसिद्धः सङ्ग्राम आभिमुख्यादिमान्स एव प्रशस्यतेऽन्यो निन्द्यत इत्यर्थः ॥१६॥
पाण्डुरुवाच।
प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा
।
उपायैर्विविधैस्तीक्ष्णैः कस्मान्मृग विगर्हसे॥१७॥
प्रमत्तम् असावधानम् । तीक्ष्णैः गुप्तशस्त्रैराग्नेयादिभिः । विवृतं व्यक्तम् । घ्नन्ति मृगान् । मत्तभीतपलायितादीनां शत्रूणां वधो निन्द्यो न तु मृगादीनामित्याशयः ॥१७॥
मृग उवाच।
नाहं घ्नन्तं मृगन्राजन्विगर्हे चात्मकारणात्
।
मैथुनं तु प्रतीक्ष्यं मे त्वयेहाद्यानृशंस्यतः॥१८॥
सर्वभूतहिते काले सर्वभूतेप्सिते तथा
।
को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने॥१९॥
अस्यां मृग्यां च राजेन्द्र हर्षान्मैथुनमाचरम्
।
पुरुषार्थफलं कर्तुं तत्त्वया विफलीकृतम्॥२०॥
हर्षात् ऋष्यशृङ्गादितुल्यः पुत्रो मे भविष्यतीत्युत्साहात् । पुरुषार्थफलं पुरुषमैथुनेनार्थनीयं फलं पुत्रः तं कर्तुम् उत्पादयितुम् ॥२०॥
पौरवाणां महाराज तेषामक्लिष्टकर्मणाम्
।
वंशे जातस्य कौरव्य नानुरूपमिदं तव॥२१॥
नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम्
।
अस्वर्ग्यमयशस्यं चाप्यधर्मिष्ठं च भारत॥२२॥
स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित्
।
नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम्॥२३॥
त्वया नृशंसकर्तारः पापाचाराश्च मानवाः
।
निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः॥२४॥
त्रिवर्गेति । धर्मार्थकामहीनाः ॥२४॥
किं कृतं ते नरश्रेष्ठ मामिहानागसं घ्नता
।
मुनिं मूलफलाहारं मृगवेषधरं नृप॥२५॥
ते त्वया ॥२५॥
वसमानमरण्येषु नित्यं शमपरायणम्
।
त्वयाऽहं हिंसितो यस्मात्तस्मात्त्वामप्यहं शपे॥२६॥
द्वयोर्नृशंसकर्तारमवशं काममोहितम्
।
जीवितान्तकरो भाव एवमेवागमिष्यति॥२७॥
द्वयोः स्त्रीपुंसयोः नृशंसं निन्द्यं मैथुनासक्तयोर्वधस्तस्य कर्तारम् ॥२७॥
अहं हि किंदमो नाम तपसा भावितो मुनिः
।
व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम्॥२८॥
मृगो भूत्वा मृगैः सार्धं चरामि गहने वने
।
न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः॥२९॥
मृगरूपधरं हत्वा मामेवं काममोहितम्
।
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि॥३०॥
प्रियया सह संवासं प्राप्य कामविमोहितः
।
त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि॥३१॥
अन्तकाले हि संवासं यया गन्तासि कान्तया
।
प्रेतराजपुरं प्राप्तं सर्वभूतदुरत्ययम्
।
भक्त्या मतिमतां श्रेष्ठ सैव त्वाऽनुगमिष्यति॥३२॥
प्राप्तं त्वा त्वाम् ॥३२॥
वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया
।
तथा त्वां च सुखं प्राप्तं दुःखमभ्यागमिष्यति॥३३॥
वैशंपायन उवाच।
एवमुक्त्वा सुदुःखार्तो जीवितात्स व्यमुच्यत
।
मृगः पाण्डुश्च दुःखार्तः क्षणेन समपद्यत॥३४॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पाण्डुमृगशापेऽष्टादशाधिकशततमोऽध्यायः॥११८॥
वैशंपायन उवाच।
तं व्यतीतमुपक्रम्य राजा स्वमिव बान्धवम्
।
सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः॥१॥
ऊनविंशत्यधिकशततमः अध्यायः तमिति । राजातिक्रम्य तं पर्यदेवयदिति संबन्धः कीदृशं तं व्यतीतं मारितमित्यर्थः ॥१॥
पाण्डुरुवाच।
सतामपि कुले जाताः कर्मणा बत दुर्गतिम्
।
प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः॥२॥
कामजालं विधित्साजालम् ॥२॥
शश्वद्धर्मात्मना जातो बाल एव पिता मम
।
जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम्॥३॥
तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः
।
कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत्॥४॥
तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा
।
त्यक्तस्य देवैरनयान्मृगयां परिधावतः॥५॥
देवैस्त्यक्तस्य अपुत्रतया स्वर्गमनानर्हत्वात् ॥५॥
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत्
।
सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्॥६॥
मोक्षं मोक्षमार्गं व्यवस्यामि निश्चिनोमि श्रेयस्करत्वेन । तत्र हि पुत्राद्यनपेक्षा दृष्टा ‘किं प्रजायाकरिष्यामो । येषां नोऽयमात्मायं लोक’ इति । इष्टमेवैतज्जातमित्याह । बन्धो हीति । बन्धः पुत्रैषणादिः । सुवृत्तिं ब्रह्मचर्याख्यां वृत्तिम् । पितुर्व्यासस्य ॥६॥
अतीव तपसात्मानं योजयिष्याम्यसंशयम्
।
तस्मादेकाहमेकाकी एकैकस्मिन्वनस्पतौ॥७॥
तपसा श्रवणमननात्मकेनालोचनेन । आत्मानं चित्तं योजयिष्यामि समाधातुमिच्छामि । तत्र साधनान्याह। तस्मादिति । एकः स्त्रीहीनः एकाकी शिष्यादिभिः सहायैर्हीनः ॥७॥
चरन्भैक्ष्यं मुनिर्मुण्डश्चरिष्याम्याश्रमानिमान्
।
पांसुना समवच्छन्नः शून्यागारकृतालयः॥८॥
इमान्वानप्रस्थाश्रमान्संनिहितान् । पांसुनेति भूमिशायित्वमुक्तम् ॥८॥
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः
।
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः॥९॥
निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः
।
न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित्॥१०॥
निराशीर्निर्नमस्कारः । आशिषं नमस्कारं वा नेच्छामीत्यर्थः । निर्द्वन्दः सुखदुःखादिहीनः । निष्परिग्रहः कंथापादुकादिहीनः॥१०॥
प्रसन्नवदनो नित्यं सर्वभूतहिते रतः
।
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम्॥११॥
स्वासु प्रजास्विव सदा समः प्राणभृतः प्रति
।
एककालं चरन्भैक्षं कुलानि दश पञ्च च॥१२॥
पूर्व संन्यासिधर्मानेव करिष्यामीत्युक्तं इदानीं सन्यासमेव करिष्यामीत्याह । एककालमिति सार्धः । पूर्वालाभे पूर्वम् एकैकस्मिन्वनस्पतौ चरन् भैक्ष्यमित्युक्तं तदभावे सति । कुलानि गृहाणि ॥१२॥
असंभवे वा भैक्ष्यस्य चरन्ननशनान्यपि
।
अल्पमल्पं च भुञ्जानः पूर्वालाभे न जातुचित्॥१३॥
न जातुचिन्न कदाचित् ॥१३॥
अन्यान्यपि चरँल्लोभादलाभे सप्त पूरयन्
।
अलाभे यदि वा लाभे समदर्शी महातपाः॥१४॥
लोभादन्यानि दशाधिकानि चरन् । अलाभे अपूर्तौ ॥१४॥
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः
।
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः॥१५॥
वास्यावास्येन काष्ठतक्षणेन । सुपोडादेश आर्षःविभक्तिलोपो वा ॥१५॥
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन्
।
जीवितं मरणं चैव नाभिनन्दन्न च द्विषन्॥१६॥
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः
।
ताः सर्वाः समतिक्रम्य निमेषादिव्यवस्थितः॥१७॥
अभ्युदयक्रियाः स्वर्गादिहेतुदर्शपूर्णमासादयः । समतिक्रम्य प्राजापत्येष्ट्यादिपूर्वकं विधिवत् त्यक्त्वा । निमेषादिः कालस्तत्रव्यवस्थिता नियतकालाः ॥१७॥
तासु चाप्यनवस्थासु त्यक्तसर्वेन्द्रियक्रियः
।
संपरित्यक्तधर्मार्थः सुनिर्णिक्तात्मकल्मषः॥१८॥
अनवस्थासु अनित्यफलासु । संपरित्यक्तो धर्मसाध्योऽर्थो ब्रह्मलोकान्तो येन सः । सुनिर्णिक्तात्मकल्मषः यस्मात् धर्मेण सम्यक् क्षालितं चित्तकल्मषं रागादि तस्मात् । तेन कृतार्थेन नातः परं कार्यमस्तीत्यर्थः ॥१८॥
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः
।
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः॥१९॥
रागादिक्षयोऽपि तन्मूलभूतपापक्षयादेवेत्याह । निर्मुक्त इति । वागुरा इव वागुराः बन्धनानि अविद्याकामकर्माणि । सधर्मा असंगः ॥१९॥
एतया सततं धृत्त्या चरन्नेवं प्रकारया
।
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः॥२०॥
संस्थापयिष्यामि नाशयिष्यामि । निर्भयं मार्गं संसारभयरहितम् ॥२०॥
नाहं सुकृपणे मार्गे स्ववीर्यक्षयशोचिते
।
स्वधर्मात्सततापेते चरेयं वीर्यवर्जितः॥२१॥
बाह्यसाधनाधीने सुकृपणे मार्गे कर्ममार्गे । यो वा हतदक्षर गार्ग्यविदित्वास्मिन् लोके यजति ददाति तपस्तप्यतेपि बहूनि वर्षसहस्राण्यं तव देवास्य तद्भवति यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपण इति श्रुतिनिन्दिते । स्ववीर्यक्षयशोचिते स्वस्य प्रत्यनात्मनो वीर्यं सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिरित्यादिश्रु इतिप्रसिद्धं वशित्वादि तस्य क्षयो विषयसंगकृतो हासस्तेन शोचिते शोच्ये । ननु न्यायागतधनस्तत्त्वज्ञाननिष्ठोतिथिप्रियः । श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते इति स्मृतेर्गृह एव मोक्षसिद्धौ किं संन्यासेनेत्याशङ्क्याह । सधर्मा इति । ‘जाया मेस्यादथ प्रजायेय’ इति श्रुतेःप्रजोत्पादनमेव गृहस्थधर्मः ततोऽपेते गार्हस्थ्ये किमवस्थानेनेति आशयः । वीर्यवर्जितोऽपत्योत्पादन सामर्थ्यरहितः॥२१॥
सत्कृतोऽसत्कृतो वाऽपि योऽन्यां कृपणचक्षुषा
।
उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि॥२२॥
अपत्योत्पादनमपि ब्राह्मणद्वारा सुसंपाद्यमित्याशङ्क्याह । सत्कृत इति अन्यं पुरुषं वृत्तिं वृत्तिपदम् । कृपणचक्षुषा । अपत्यं मे देहीति याञ्चा दीनदृष्ट्या । कामात्मा अपत्यकामम् आत्मा चित्तं यस्य सः । कामपूर्त्यन्ते शुनामिवापत्यकामानामपि तत्कृतं महद्दुःखमस्ति अतः पारिव्राज्यमेव श्रेय इति भावः ॥२२॥
वैशंपायन उवाच।
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः
।
अवेक्षमाणः कुन्तीं च मान्द्रीं च समभाषत॥२३॥
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः
।
आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः॥२४॥
क्षत्ताऽत्र विदुर एव कौसल्यादिसाहचर्यात् ॥२४॥
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः
।
पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः
।
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्राजितो वने॥२५॥
निशम्य वचनं भर्तुर्वनवासे घृतात्मनः
।
तत्समं वचनं कुन्ती माद्री च समभाषताम्॥२६॥
तत्समम् उक्तस्य योग्यम् ॥२६॥
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ
।
आवाभ्यां धर्मपत्नीभ्यां सह तप्तुं तपो महत्॥२७॥
शरीरस्यापि मोक्षाय धर्मं प्राप्य महाफलम्
।
त्वमेव भविता भर्ता स्वर्गस्यापि न संशयः॥२८॥
प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे
।
त्यक्त्वा कामसुखे ह्यावां तप्स्यवो विपुलं तपः॥२९॥
यदि चावां महाप्राज्ञ त्यक्ष्यसि त्वं विशांपते
।
अद्यैवावां प्रहास्यावो जीवितं नात्र संशयः॥३०॥
पाण्डुरुवाच।
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम्
।
स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्॥३१॥
त्यक्त्वा ग्राम्यसुखाहारं तप्यमानो महत्तपः
।
वल्कली फलमूलाशी चरिष्यामि महावने॥३२॥
अग्नौ जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन्
।
कृशः परिमिताहारश्चीरचर्मजटाधरः॥३३॥
शीतवातातपसहः क्षुत्पिपासानवेक्षकः
।
तपसा दुश्चरेणेदं शरीरमुपशोषयन्॥३४॥
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन्
।
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन्॥३५॥
विमृशन् हिंसादिदोषम् । पक्कापक्केन पक्कं फलादि अपक्कं कन्दादि । पक्षापक्षेणेति पाठे पक्षान्तकर्म इष्ट्यादिकं पक्षस्तदन्यदग्निहोत्रादिकमपक्षः ॥३५॥
वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम्
।
नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम्॥३६॥
अप्रियाणि च नाचरिष्यामि । तथा कुलवासिनां भ्रात्रादीनाम् ॥३६॥
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्
।
काङ्क्षमाणोऽहमास्थास्ये देहस्यास्यासमापनात्॥३७॥
आरण्या वानप्रस्थास्तेषां शास्त्राणि धर्मविधायकानि तेषां मध्ये विहितम् उग्रम् । आस्थास्ये अङ्गीकरिष्ये । आसमापनात् यावत्समाप्तिम् ॥३७॥
वैशंपायन उवाच।
इत्येवमुक्त्वा भार्ये ते राजा कौरवनन्दनः
।
ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च॥३८॥
निष्कं ग्रैवेयकम् ॥३८॥
वासांसि च महार्हाणि स्त्रीणामाभरणानि च
।
प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत॥३९॥
गत्वा नागपुरं वाच्यं पाण्डुः प्रव्राजितो वनम्
।
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम्॥४०॥
रतिं स्त्रीसंगं परमात्मिकां परमः नूतनत्वादुत्कृष्टः आत्मा आत्मा वै पुत्रनामासिति श्रुतेः पुत्रः स यया ताम् ॥४०॥
प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुनन्दनः
।
ततस्तस्यानुयातारस्ते चैव परिचारकाः॥४१॥
श्रुत्वा भरतसिंहस्य विधिधाः करुणा गिरः
।
भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः॥४२॥
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम्
।
ययुर्नागपुरं तूर्णं सर्वमादाय तद्धनम्॥४३॥
ते गत्वा नगरं राज्ञो यथावृत्तं महात्मनः
।
कथयांचक्रिरे राज्ञस्तद्धनं विविधं ददुः॥४४॥
श्रुत्वा तेभ्यस्ततः सर्वं यथावृत्तं महावने
।
धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत॥४५॥
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्
।
भ्रातृशोकसमाविष्टस्तमेवार्थं विचिन्तयन्॥४६॥
राजपुत्रस्तु कौरव्य पाण्डुर्मूलफलाशनः
।
जगाम सहपत्नीभ्यां ततो नागशतं गिरिम्॥४७॥
स चैत्ररथमासाद्य कालकूटमतीत्य च
।
हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम्॥४८॥
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः
।
उवास स महाराज समेषु विषमेषु च॥४९॥
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च
।
शतशृङ्गे महाराज तापसः समतप्यत॥५०॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पण्डुचरिते ऊनविंशत्यधिकशततमोऽध्यायः॥११९॥
वैशंपायन उवाच।
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान्
।
सिद्धचारणसङ्घानां बभूव प्रियदर्शनः॥१॥
विंशत्यधिकशततमः अध्यायः तत्रापीति ॥१॥
सुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः
।
स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत॥२॥
क्रीतः धनादिकं दत्वा गृहीतः ॥२॥
केषांचिदभवद्भ्राता केषांचिदभवत्सखा
।
ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन्॥३॥
परिपालयन् अडभाव आर्षः ॥३॥
स तु कालेन महता प्राप्य निष्कल्मषं तपः
।
ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ॥४॥
अमावास्यां तु सहिता ऋषयः संशितव्रताः
।
ब्रह्माणं द्रष्टुकामास्ते संप्रतस्थुर्महर्षयः॥५॥
संप्रयातानृषीन्दृष्ट्वा पाण्डुर्वचनमब्रवीत्
।
भवन्तः क्व गमिष्यन्ति ब्रूते मे वदतां वराः॥६॥
ऋषय ऊचुः।
समावायो महानद्य ब्रह्मलोके महात्मनाम्
।
देवानां च ऋषीणां च पितॄणां च महात्मनाम्
।
वयं तत्र गमिष्यामो द्रष्टुकामाः स्वयंभुवम्॥७॥
वैशंपायन उवाच।
पाण्डुरुत्थाय सहसा गन्तुकामो महर्षिभिः
।
स्वर्गपारं तितीर्षुः स शतशृङ्गादुदङ्मुखः॥८॥
प्रतस्थे सह पत्नीभ्यामब्रुवंस्तं च तापसाः
।
उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः॥९॥
दृष्टवन्तो गिरौ रम्ये दुर्गान्देशान्बहून्वयम्
।
विमानशतसंबाधां गीतस्वरनिनादिताम्॥१०॥
विमानशतेन संबाधं सङ्कटं यस्यां सा । ‘संबाधः सङ्कटे भगे’ इति मेदिनी ॥१०॥
आक्रीडभूमिं देवानां गन्धर्वाप्सरसां तथा
।
उद्यानानि कुबेरस्य समानि विषमाणि च॥११॥
महानदीनितम्बांश्च गहनान्गिरिगह्वरान्
।
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः॥१२॥
सन्ति क्वचिन्महादर्यो दुर्गाः काश्चिद्दुरासदाः
।
नातिक्रामेत पक्षी यान्कुत एवेतरे मृगाः॥१३॥
वायुरेको हि यात्यत्र सिद्धाश्च परमर्षयः
।
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे॥१४॥
सिद्धाश्च परमर्षय इति । वक्ष्यमाणऋणचतुष्टयनिर्मुक्ताः सिद्धादिव्यज्ञानवन्तः परमर्षयस्तेपि यान्ति । त्वं तु न तथेति भावः । तत्र लोकदृष्टं हेतुमाह । गच्छन्त्याविति ॥१४॥
न सीदेतामदुःखार्हे मागमो भरतर्षभ
।
पाण्डुरुवाच।
अप्रजस्य महाभागा न द्वारं परिचक्षते॥१५॥
तमेवं मुनीनामाशयं बुद्ध्वा पाण्डुरुवाच । अप्रजस्येति । न परिचक्षते परितः सर्वथा न पश्यन्ति ॥१५॥
स्वर्गे तेनाभितप्तोऽहमप्रजस्तु ब्रवीमि वः
।
पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः॥१६॥
देहनशे ध्रुवो नाशः पितॄणामेष निश्चयः
।
ऋणैश्चतुर्भिः संयुक्ता जयन्ते मानवा भुवि॥१७॥
नाशो ममैव । यतः पितृणामेषु निश्चयः । अप्रजस्य स्वर्गद्वारनिरोधेन यज्ञादिकं विफलीकर्तव्यमित्येष निश्चयः पितॄणां तेन तादृशोऽस्वर्ग्यः भूमौ सन्नपि नष्टप्राय एव किमुतद्देहनाशे इति भावः । एतदेव विवृणोति । ऋणैरित्यादिना ॥१७॥
पितृदेवर्षिमनुजैर्देयं तेभ्यश्च धर्मतः
।
एतानि तु यथाकालं यो न बुद्ध्यति मानवः॥१८॥
न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम्
।
यज्ञैस्तु देवान्प्रीणाति स्वाध्यायतपसा मुनीन्॥१९॥
पुत्रैः श्राद्धैः पितॄंश्चापि अनुशंस्येन मानवन्
।
ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः॥२०॥
ऋषिदेवमनुष्याणां ऋणादिति शेषः॥२०॥
त्रयाणामितरेषां तु नाश आत्मनि नश्यति
।
पित्र्यादृणादनिर्मुक्त इदानीमस्मि तापसाः॥२१॥
इतरेषां पितॄणामृणात्तु नाशः अप्रकाशता मम आत्मनि देहे नश्यति सति । सोयं लोकः पुत्रेणैव जय्यो नान्येन कर्मणेति श्रुतेः । स्वदेहनाशेऽपि पुत्ररूपेणास्त्येव पुत्राभावे तु नास्त्येवेत्यर्थः तदेवाह । पित्र्यादृणादिति ॥२१॥
इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः
।
यथैवाहं पितुः क्षेत्रे जातस्तेन महर्षिणा॥२२॥
तथैवास्मिन्मम क्षेत्रे कथं वै सम्भवेत्प्रजा
।
ऋषय ऊचुः।
अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम्॥२३॥
अपत्यमनघं राजन्वयं दिव्येन चक्षुषा
।
दैवोद्दिष्टं नरव्याघ्र कर्मणेहोपपादया॥२४॥
दैवोद्दिष्टं दृष्टादृष्टकारणकलापजन्यत्वात्कार्यमात्रस्येत्यर्थः ॥२४॥
अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः
।
तस्मिन्दृष्टे फले राजन्प्रयत्नं कर्तुमर्हसि॥२५॥
अव्यग्रो विन्दतेऽतो व्यग्रो माभूदित्यर्थः ॥२५॥
अपत्यं गुणसंपन्नं लब्धा प्रीतिकरं ह्यसि
।
वैशंपायन उवाच।
तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्ताऽपरोऽभवत्॥२६॥
लभते इति लब्धा तादृशोसि लप्स्यसीत्यर्थः ॥२६॥
आत्मनो मृगशापेन जानन्नुपहतां क्रियाम्
।
सोब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम्
।
अपत्योत्पादने यत्नमापदि त्वं समर्थय॥२७॥
क्रियां पुत्रोत्पादिकाम् ॥२७॥
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता
।
इति कुन्ति विदुर्धीराः शाश्वतं धर्मवादिनः॥२८॥
धर्मसंहिता धर्ममयी ॥२८॥
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः
।
सर्वमेवानपत्यस्य न पावनमिहोच्यते॥२९॥
सोहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते
।
अनपत्यः शुभांल्लोकान्न प्राप्स्यामीति चिन्तयन्॥३०॥
मृगाभिशापान्नष्टं मे जननं ह्यकृतात्मनः
।
नृशंसकारिणो भीरु यथैवोपहतं पुरा॥३१॥
मृगाभिशापात् मृगरूपस्य मुनेः। शापान्नष्टम् असद्रूपं जातं जननं स्त्रीसंगाख्यं रतिकर्म यत उपहतं यथा मृगस्य तथैवान्तरा मैथुनं ममापि मरणप्राप्ति निश्चयान्न तु क्लीबत्वात्॥३१॥
इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने
।
षडेवाबन्धुदायादाः पुत्रास्तञ्छृणु मे पृथे॥३२॥
धर्मदर्शने धर्मशास्त्रे उक्त इति शेषः । बन्धुदायादाः रिक्थहराः । अबन्धुदायादास्तदन्ये ॥३२॥
स्वयंजातः प्रणीतश्च परिक्रीतश्च यः सुतः
।
पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते॥३३॥
षडाद्यानाह । स्वयं जातः ऊढायां वोढुः सकाशाज्जातः १ तस्यामेवोत्तमानुग्रहाज्जातः प्रणीतः २ परिक्रीतः रेतो मूल्यदानेन तस्यामेव जनितः ३ पौनर्भवः पूर्वमन्येन ऊढा पश्चादन्येन तस्यां द्वितयतो जातो धर्मतोः यद्यपि पूर्वस्य क्षेत्रजस्तथापि तस्यापि परिणेतृत्वात्तदीय एव ४ कानीनः विवाहात्प्रागेव अस्यां यो जायते पुत्रः स मे पुत्रो भविष्यतीति समयबन्धेन या दीयते तस्यामुप्तन्नः ५ स्वैरिण्यामप्यूढायामेवानीचाज्जातः कुण्डनामा ६ एतेष्वाद्य चतुर्थौ औरसौ पञ्चमो व्यवहितौरसः इतरे क्षेत्रजास्त्रयः ॥३३॥
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः
।
सहोढो ज्ञातिरेताश्च हीनयोनिधृतश्च यः॥३४॥
अथ षडबन्धुदायादाः दत्तः मातापितृभ्यां समर्पितः (१) क्रीतः धनादिकं दत्वा गृहीतः (२) कृत्रिमश्चेति चकारो भिन्नक्रमः । क्रोतश्चेति सम्बन्धः । कृत्रिमः उक्तप्रकाराष्टकाभावेपि यः स्वयमुपगच्छेत । अहं तव पुत्रोस्मीत्युपेयात्स तृतीयः (३) सहोढः यस्य माता गर्भवत्येव ऊढा स चतुर्थः (४)। कर्णादिसदृशस्य कानीनस्याप्यत्रैवान्तर्भावः । ज्ञातिरेताव्यवहितभ्रात्रादेः पुत्रः पञ्चमः (५) । ‘सर्वेषामेकपुत्राणां यद्येकोऽपि भवेत्सुतः । सर्वे ते तेन पुत्रेण पुत्रिणोमनुरब्रवीत्’ इति स्मृतेः। साक्षाद्भ्रातुः पुत्रस्य औरसत्वाविशेषात् । हीनयोनौ धृत उत्पादितः षष्ठः (६) ॥३४॥
पूर्वपूर्वतमाभावं मत्वा लिप्सेत वै सुतम्
।
उत्तमाद्देवरात्पुंसः कांक्षन्ते पुत्रमापदि॥३५॥
प्रणीते विशेषमाह । उत्तमादिति ॥३५॥
अपत्यं धर्मफलदं श्रेष्ठां विन्दन्ति मानवाः
।
आत्मशुक्रादपि पृथे मनुः स्वयंभुवोऽब्रवीत्॥३६॥
श्रेष्ठं पितुः कुलादपि यः प्रशस्यत्तमस्तज्जं श्रेष्ठमपत्यमिति सामानाधिकरण्यम् । श्रेष्ठादनन्यत्वादपत्यस्य ॥३६॥
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजनात्स्वयम्
।
सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि॥३७॥
प्रहेष्यामि गतिवृद्धिकर्मणोहिनोतेरूपम् । अद्येति क्षिप्रवचनसंयोगाल्लट् । त्वां शरणं गतोऽस्मि वर्धयामि वेति चार्थः ॥३७॥
श्रुणु कुन्ति कथामेतां शारदण्डायिनीं प्रति
।
सा वीरपत्नी गुरुणा नियुक्ता पुत्रजन्मनि॥३८॥
शारदण्डायनेर्भार्याम् ॥३८॥
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे
।
वरयित्वा द्विजं सिद्धं हुत्वा पुण्सवनेऽनलम्॥३९॥
गुरुणा भर्त्रा पुष्पेण आर्तवेन उपलक्षिते प्रयता रजस्वला व्रतवतीं स्नाता च चतुर्थेहि ॥३९॥
कर्मण्यवसिते तस्मिन्सा तेनैव सहवासत्
।
तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान्॥४०॥
तथा त्वमपि कल्याणि ब्रह्मणात्तपसाधिकात्
।
मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति॥४१॥
यत यतस्व ॥४१॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पाण्डुपृथासंवादे विंशत्यधिकशततमोऽध्यायः॥१२०॥
वैशंपायन उवाच।
एवमुक्ता महाराज कुन्ती पाण्डुमभाषत
।
कुरूणामृषभं वीरं तदा भूमिपतिं पतिम्॥१॥
एकविंशत्यधिकशततमः अध्यायः एवमिति ॥१॥
न मामर्हसि धर्मज्ञ वक्तुमेवं कथंचन
।
धर्मपत्नीमभिरतां त्वयि राजीवलोचने॥२॥
त्वमेव तु महाबाहो मय्यपत्यानि भारत
।
वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि॥३॥
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया
।
अपत्याय च मां गच्छ त्वमेव कुरुनन्दन॥४॥
न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम्
।
त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः॥५॥
इमां च तावद्धर्मात्मन्पौराणीं शृणु मे कथाम्
।
परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम्॥६॥
व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः
।
पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः॥७॥
तस्मिंश्च यजमाने वै धर्मात्मनि महाभुजे
।
उपागमंस्ततो देवाः सेन्द्रा देवर्षिभिः सह॥८॥
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः
।
व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः॥९॥
देवा ब्रह्मर्षयश्चैव चक्रुः कर्म स्वयं तदा
।
व्युषिताश्वस्ततो राजन्नतिमर्त्यान्व्यरोचत॥१०॥
सर्वभूतान्प्रति यथा तपनः शिशिरात्यये
।
स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः॥११॥
प्राच्यानुदिच्यान्पाश्चात्यान्दाक्षिणात्यानकालयत्
।
अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान्॥१२॥
अकालयत् वशीकृतवान् ॥१२॥
बभूव स हि राजेन्द्रो दशनागबलान्वितः
।
अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः॥१३॥
व्युषिताश्वे यशोवृद्धे मनुष्येन्द्रे कुरूत्तम
।
व्युषिताश्वः समुद्रान्तां विजित्येमां वसुन्धराम्॥१४॥
अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान्
।
यजमानो महायज्ञैर्ब्राह्मणेभ्यो धनं ददौ॥१५॥
अनन्तरत्नान्यादाय स जहार महाक्रतून्
।
सुषाव च बहून्सोमान्सोमसंस्थास्ततान च॥१६॥
जहार आहृतवान् चकारेत्यर्थः । सोमसंस्थाः अग्निष्टोमात्यग्निष्टोमादयः सप्त ॥१६॥
आसीत्काक्षीवती चास्य भार्या परमसंमता
।
भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि॥१७॥
काक्षीवती कक्षीवतो दुहिता ॥१७॥
कामयामासतुस्तौ च परस्परमिति श्रुतम्
।
स तस्यां कामसंपन्नो यक्ष्मणा समपद्यत॥१८॥
तेनाचिरेण कालेन जगामास्तमिवांशुमान्
।
तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता॥१९॥
अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम्
।
भद्रा परमदुःखार्ता तन्निबोध जनाधिप॥२०॥
भद्रोवाच।
नारी परमधर्मज्ञ सर्वा भर्तृविनाकृता
।
पतिं विना जीवति या न सा जीवति दुःखिता॥२१॥
पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुंगव
।
त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम्॥२२॥
मृतं मरणम् अमृतं मुक्तिर्वा न तु ब्रह्मलोकान्तमैश्वर्यम् ॥२२॥
त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे
।
प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम्॥२३॥
पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च
।
त्वामहं नरशार्दूल गच्छन्तमनिवर्तितुम्॥२४॥
अनिवर्तितुं गच्छन्तं म्रियमाणामित्यर्थः ॥२४॥
छायेवानुगता राजन्सततं वशवर्तिनी
।
भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता॥२५॥
अद्यप्रभृति मां राजन्कष्टा हृदयशोषणाः
।
आधयोऽभिभविष्यन्ति त्वामृते पुष्करेक्षण॥२६॥
आधयो मनोव्यथाः ॥२६॥
अभाग्यया मया नूनं वियुक्ताः सहचारिणः
।
तेन मे विप्रयोगोऽयमुपपन्नस्त्वया सह॥२७॥
सहचारिणः मिथुनिनः ॥२७॥
विप्रयुक्ता तु या पत्या मुहूर्तमपि जीवति
।
दुःखं जीवति सा पापा नरकस्येव पार्थिव॥२८॥
संयुक्ता विप्रयुक्ताश्च पूर्वदेहे कृता मया
।
तदिदं कर्मभिः पापैः पूर्वदेहेषु संचितम्॥२९॥
दुःखं मामनुसंप्राप्तं राजंस्त्वद्विप्रयोगजम्
।
अद्यप्रभृत्यहं राजन्कुशसंस्तरशायिनी
।
भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा॥३०॥
दर्शयस्व नरव्याघ्र शाधि मामसुखान्विताम्
।
कृपणां चाथ करुणं विलपन्तीं नरेश्वर॥३१॥
कन्त्युवाच।
एवं बहुविधं तस्यां विलपन्त्यां पुनःपुनः
।
तं शवं संपरिष्वज्य वाक्किलान्तर्हिताब्रवीत्॥३२॥
शवं प्रेतशरीरं संपरिष्वज्य विलपन्त्यामित्यन्वयः ॥३२॥
उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव
।
जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि॥३३॥
आत्मकीये वरारोहे शयनीये चतुर्दशीम्
।
अष्टमीं वा ऋतुस्नाता संविशेथा मया सह॥३४॥
एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता
।
यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा॥३५॥
सा तेन सुषुवे देवी शवेन भरतर्षभ
।
त्रीन् शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम॥३६॥
तथा त्वमपि मय्येवं मनसा भरतर्षभ
।
शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वितः॥३७॥
इति श्रीमन्महाभारते आदिपर्वणि व्युषिताश्वोपाख्याने एकविंशत्यधिकशततमोऽध्यायः॥१२१॥
वैशंपायन उवाच।
एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत्
।
धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम्॥१॥
द्वाविंशत्यधिकशततमः अध्यायः एवमिति ॥१॥
पाण्डुरुवाच।
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह
।
यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः॥२॥
अथ त्विदं प्रवक्ष्यामि धर्मतत्त्वं निबोध मे
।
पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः॥३॥
अनावृताः किल पुरा स्त्रिय आसन्वरानने
।
कामचारविहारिण्यः स्वतन्त्राश्चारुहासिनि॥४॥
अनावृताः सर्वैर्द्रष्टुं योग्याः । कामचारो रतिसुखं तदर्थं विहारिण्यः पर्यटनशालाः स्वतन्त्राः भर्त्रादिभिरनिवार्याः ॥४॥
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन्
।
नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराऽभवत्॥५॥
पतीन्व्युच्चरमाणानां व्यभिरन्तानां च ॥५॥
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः
।
अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः॥६॥
अनुविर्धायन्ते । अनुसार्यन्ते ईश्वरेण ॥६॥
प्रमाणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः
।
उत्तरेषु च रम्भोरु कुरुष्वद्यापि पूज्यते॥७॥
स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः
।
अस्मिंस्तु लोके न चिरान्मर्यादेयं शुचिस्मिते॥८॥
न चिरात् अल्पकालतः ॥८॥
स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु
।
बभूवोद्दालको नाम महर्षिरिति नः श्रुतम्॥९॥
श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः
।
मर्यादेयं कृता तेन धर्म्या वै श्वेतकेतुना॥१०॥
कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे
।
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः॥११॥
श्वेतकेतोर्मातरं पितुः समक्षम् ॥११॥
जग्राह ब्राह्मणः पापौ गच्छाव इति चाब्रवीत्
।
ऋषिपुत्रस्तदा कोपं चकारामर्षितस्तदा॥१२॥
मातरं तां तथा दृष्ट्वा नीयमानां बलादिव
।
क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह॥१३॥
मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः
।
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि॥१४॥
यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः
।
ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे॥१५॥
स्थिताः व्यवस्थिताः । न च क्षमेन क्षमां कृतवान् यथा स्तेनो यथा भ्रूणहैवमेष भवति योऽयोनौ रेतः सिञ्चतीत्ययोनौ आदारेषु पुंसां गमनात् प्रत्यवायः श्रुतिसिद्धः तथा अमीषां निष्कृतं जारिणीवेति मन्त्रे जारिण्या निष्कृतेः पीडायाश्च दर्शनात् स्त्रीणामपि परसङ्गे दोषोस्त्येवोक्तः । तथापि श्रौतार्थस्यैव कयाचिद्भङ्ग्यान्यवस्थेयं विहितेति ज्ञेयम् । अथवा व्युच्चरणे तेजस्विनां न दोषः किं तु पृथग्जनानामेवेति तात्पर्यम् । अन्यथा कृष्णस्यापि पारदार्यदोषप्रसक्तेः । अहल्यादि जाराणामिन्द्रादीनां तदप्रसक्तेश्चेत्यास्तां तावत् ॥१५॥
चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि
।
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु॥१६॥
तदाप्रभृति मर्यादा स्थितेयमिति नः श्रुतम्
।
व्युच्चरन्त्याः पतिं नार्या अद्यप्रभृति पातकम्॥१७॥
भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम्
।
भार्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम्॥१८॥
पतिव्रतामेतदेव भविता पातकं भुवि
।
पत्या नियुक्ता या चैव पत्नी पुत्रार्थमेव च॥१९॥
प्रकृतोपयुक्तमाह । पत्येति । अयुक्तमपि भर्त्राज्ञया स्त्रीभिरवश्यं कर्तव्यमिति भावः ॥१९॥
न करिष्यति तस्याश्च भविष्यति तदेव हि
।
इति तेन पुरा भीरु मर्यादा स्थापिता बलात्॥२०॥
उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना
।
सौदासेन च रम्भोरु नियुक्ता पुत्रजन्मनि॥२१॥
मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम्
।
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी॥२२॥
एवं कृतवती सापि भर्तुः प्रियचिकीर्षया
।
अस्माकमपि ते जन्म विदितं कमलेक्षणे॥२३॥
कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये
।
अत एतानि सर्वाणि कारणानि समीक्ष्य वै॥२४॥
ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते
।
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता पतिव्रते॥२५॥
नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः
।
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति॥२६॥
धर्ममेवं जनाः सन्तः पुराणं परिचक्षते
।
भर्ता भार्यां राजपुत्रि धर्म्यं वाऽधर्म्यमेव वा॥२७॥
पुराणं युगान्तरीयम् ॥२७॥
यद्ब्रूयात्तत्तथा कार्यमिति वेदविदो विदुः
।
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम्॥२८॥
यथाऽहमनवद्याङ्गि पुत्रदर्शनलालसः
।
तथा रक्ताङ्गुलिनिभः पद्मपत्रनिभः शुभे॥२९॥
रक्ताङ्गलिभिर्नितरां भातीति रक्ताङ्गुलिनिभः । पद्मपत्रं निभा उपमा यस्य स तथा ॥२९॥
प्रसादनार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः
।
मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाऽधिकात्॥३०॥
पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि
।
त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम्॥३१॥
वैशंपायन उवाच।
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम्
।
प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता॥३२॥
पितृवेश्मन्यहं बाला नियुक्ताऽतिथिपूजने
।
उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम्॥३३॥
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः
।
तमहं संशितात्मानं सर्वयत्नैरतोषयम्॥३४॥
समेऽभिचारसंयुक्तमाचष्ट भगवान्वरम्
।
मन्त्रं त्विमं च मे प्रादादब्रवीच्चैव मामिदम्॥३५॥
अभिचारो देवताकर्षणशक्तिस्तद्युक्तम् ॥३५॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि
।
अकामो वा सकामो वा वशं ते समुपैष्यति॥३६॥
तस्य तस्य प्रसादात्ते राज्ञि पुत्रो भविष्यति
।
इत्युक्ताऽहं तदा तेन पितृवेश्मनि भारत॥३७॥
ब्राह्मणस्य वचस्तथ्यं तस्य कालोऽयमागतः
।
अनुज्ञाता त्वया देवमाह्वयेयमहं नृप॥३८॥
तेन मन्त्रेण राजर्षे यथास्यान्नौ प्रजा हिता
।
आवाहयामि कं देवं ब्रूहि सत्यवतां वर॥
त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यास्मिन्कर्मणि स्थिताम्॥३९॥
पाण्डुरुवाच।
अद्यैव त्वं वाररोहे प्रयतस्व यथाविधि
।
धर्ममावाहय शुभे स हि लोकेषु पुण्यभाक्॥४०॥
विलंबासहः पाण्डुरुवाचाद्यैवेति ॥४०॥
अधर्मेण न नो धर्मः संयुज्यति कथंचन
।
लोकश्चायं वरारोहे धर्मोऽयमिति मन्यते॥४१॥
नःक्षत्रियाणां धर्मः पालनम् अधर्मेण न संयुज्यति न संभवति अतः केवलाद्धर्मादेव पुत्र एष्टव्य इति भावः । यं धर्म इति मन्यते लोकः स नः धर्म इति संबन्धः ॥४१॥
धार्मिकश्च कुरूणां स भविष्यति न संशयः
।
धर्मेण चापि दत्तस्य नाधर्मे रंस्यते मनः॥४२॥
धार्मिकश्चेत्यत्र हेतुमाह । धर्मेणेति । धर्मेण स्वविहितेन लौकिकवैदिकाचारेण ॥४२॥
तस्माद्धर्मं पुरुस्कृत्य नियता त्वं शुचिस्मिते
।
उपचाराभिचाराभ्यां धर्ममावाहयस्व वै॥४३॥
उपचार आदरः । अभिचारो व्याख्यातस्ताभ्याम् ॥४३॥
वैशंपायन उवाच।
सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना
।
अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तते॥४४॥
भर्त्रा तथोक्ता सती तथेत्युक्तेति योजना प्रदक्षिणम् आज्ञानुकूलम् अवर्तत वर्तनं कृतवती ॥४४॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि कुन्तीपुत्रोत्पत्त्यनुज्ञाने द्वाविंशत्यधिकशततमोऽध्यायः॥१२२॥
वैशंपायन उवाच।
संवत्सरधृते गर्भे गान्धार्या जनमेजय
।
आह्वयामास वै कुन्ती गर्भार्थे धर्ममच्युतम्॥१॥
त्रयोविंशत्यधिकशततमः अध्यायः संवत्सरधृते इति ॥१॥
स बलिं त्वरिता देवी धर्मायोपजहार ह
।
जजाप विधिवज्जप्यं दत्तं दुर्वाससा पुरा॥२॥
जप्यं मन्त्रं धर्मदेवतारूपम् ॥२॥
आजगाम ततो देवो धर्मो मन्त्रबलात्ततः
।
विमाने सूर्यसंकाशे कुन्ती यत्र उपस्थिता॥३॥
विमाने स्थित्वा आजगामेत्यन्वयः । जपस्थिता जपनिष्ठा ॥३॥
विहस्य तां ततो ब्रूयाः कुन्ति किं ते ददाम्यहम्
।
सा तं विहस्यमानापि पुत्रं देह्यब्रवीदिदम्॥४॥
ततो विहस्य तां अब्रवीदित्यपकृष्यते । हे कुन्ति किं ते ददामि तद्भूया इति सम्बन्धः । ब्रूयादित्यपपाठो लकारव्यत्ययो वार्षः विहस्यमाना धर्मेण ॥४॥
संयुक्ता सा हि धर्मेण योगमूर्तिधरेण ह
।
लेभे पुत्रं वरारोहा सर्वप्राणभृतां हितम्॥५॥
ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे
।
दिवामध्यगते सूर्ये तिथौ पूर्णेऽतिपूजिते॥६॥
ऐन्द्रे जेष्ठानक्षत्रे अष्टमे संवत्सरारम्भात् । अभिजितेऽभिजिति । त्रिंशन्मुहूर्तस्याह्नोष्टमे मुहूर्ते । दिवा शुक्लपक्षे । मध्यग ते तुलायनगते तिथौ पूर्णायां पञ्चम्याम् अयं योगः प्रायेणाश्विनशुक्लपञ्चम्यां भवतीति तत्रैव धर्मराजस्य जन्मेत्यर्थः ॥६॥
समृद्धयशसं कुन्ती सुषाव प्रवरं सुतम्
।
जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी॥७॥
एषा धर्मभृतां श्रेष्ठो भविष्यति नरोत्तमः
।
विक्रान्तः सत्यवाक्चैव राजा पृथ्व्यां भविष्यति॥८॥
युधिष्ठिर इति ख्यातः पाण्डो प्रथमजः सुतः
।
भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः॥९॥
प्रथितो महान् विश्रुतः कीर्तिमान् ॥९॥
यशसा तेजसा चैव वृत्तेन च समन्वितः
।
धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत्॥१०॥
प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु
।
ततस्तथोक्ता भर्त तु वायुमेवाजुहाव सा॥११॥
ततस्तामागतो वायुर्मृगारूढो महाबलः
।
किं ते कुन्ति ददाम्यद्य ब्रूहि यत्ते हृदि स्थितम्॥१२॥
सा सलज्जा वहस्याह पुत्रं देहि सुरोत्तम
।
बलवन्तं महाकायं सर्वदर्पप्रभञ्जनम्॥१३॥
तस्याज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः
।
तमप्वतिबलं जातं वागुवाचाशरीरिणी॥१४॥
सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत
।
इदमत्यद्भुतं चासीज्जातमत्रे वृकोदरे॥१५॥
यदङ्कात्पतितो मातुः शिलां गात्रैर्व्यचूर्णयत्
।
कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल॥१६॥
अङ्कात्पतने हेतुमाह कुन्तीति ॥१६॥
नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम्
।
ततः स वज्रसंघातः कुमारोन्यपतद्गिरौ॥१७॥
संसुप्तं येन शिलापि चूर्णीभूता तादृशेप्याघाते सति यस्य निद्राभङ्गोपि न जातः निवेदनत्वात् वज्रशरीरत्वादित्यर्थः । उत्सङ्गे समीपे ॥१७॥
पतता तेन शतधा शिलागात्रैर्विचूर्निता
।
तां शिलां चिर्णितां दृष्ट्वा पाण्डुर्विस्मयमागतः॥१८॥
यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम
।
दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप॥१९॥
जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत्
।
कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति॥२०॥
दैवे पुरुषकारे च लोकोऽयं संप्रतिष्ठितः
।
तत्र दैवं तु विधिना कालयुक्तेन लभ्यते॥२१॥
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम्
।
अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः॥२२॥
तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम्
।
यं दास्यति स मे पुत्रं स वीरयान्भविष्यति॥२३॥
अमानुषान्मानुषांश्च संग्रामे स हनिष्यति
।
कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः॥२४॥
ततः पाण्डुर्महाराजो मन्त्रयित्वा महर्षिभिः
।
दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम्॥२५॥
आत्मना च महाबाहुरेकपादस्थितोऽभवत्
।
उग्रं स तप आस्थाय परमेण समाधिना॥२६॥
आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम्
।
सूर्येण सह धर्मात्मा पर्यतप्यत भारत॥२७॥
समाधिना ध्यानेन परमेणानन्यवृत्तिना सूर्येण सह उदयादस्तमयावधि ॥२७॥
तं तु कालेन महता वासवः प्रत्यपद्यत
।
शक्र उवाच।
पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम्॥२८॥
ब्राह्मणानां गवां चैव सुहृदां चार्थसाधकम्
।
दुर्हृदां शोकजननं सर्वबान्धवनन्दनम्॥२९॥
सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम्
।
इत्युक्तः कारैवो राजा वासवेन महात्मना॥३०॥
उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन्
।
उदर्कस्तव कल्याणि तुष्टो देवगणेश्वरः॥३१॥
दातुमिच्छति ते पुत्रं यथा संकल्पितं त्वया
।
अतिमानुषकर्माणं यशस्विनमरिन्दमम्॥३२॥
नीतिमन्तं महात्मानमादित्यसमतेजसम्
।
दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम्॥३३॥
पुत्रं जनय सुश्रोणि धामक्षत्रियतेजसाम्
।
लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते॥३४॥
वैशंपायन उवाच।
एवमुक्ता ततः शक्रमाजुहाव यशस्विनी
।
अथाजगाम देवेन्द्रो जनयामास चार्जुनम्॥३५॥
जातमात्रे कुमारे तु वागुवाचाशरीरिणी
।
महागम्भीरनिर्घोषा नभो नादयती तदा॥३६॥
शृण्वतां सर्वभूतानां तेषां चाश्रमवासिनाम्
।
कुन्तीमाभाष्य विस्पष्टमुवाचेदं शुचिस्मिताम्॥३७॥
आभाष्य हे कुन्ति इति संबोध्य ॥३७॥
कार्तवीर्यसमः कुन्ति शिवतुल्यपराक्रमः
।
एष शक्र इवाजय्यो यशस्ते प्रथयिष्यति॥३८॥
अदित्या विष्णुना प्रीतिर्यथाऽभूदभिवर्धिता
।
तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः॥३९॥
एष मद्रान्वशे कृत्वा कुरूंश्च सह सोमकैः
।
चेदिकाशिकरूषांश्च कुरुलक्ष्मीं वहिष्यति॥४०॥
वहिष्यति पालयिष्यति ॥४०॥
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः
।
मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम्॥४१॥
ग्रामणीश्च महीपालानेष जित्वा महाबलः
।
भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति॥४२॥
मेधानश्वमेधान् ॥४२॥
जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः
।
एष वीर्यवतां श्रेष्ठो भविष्यति महायशाः॥४३॥
एष युद्धे महादेवं तोषयिष्यति शङ्करम्
।
अस्त्रं पाशुपतं नाम तस्मात्तुष्टादवाप्स्यति॥४४॥
निवातकवचा नाम दैत्या विबुधविद्विषः
।
शक्राज्ञया महाबाहुस्तान्वधिष्यति ते सुतः॥४५॥
तथा दिव्यानि चास्त्राणि निखिलेनाहरिष्यति
।
विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः॥४६॥
एतामत्यद्भुतां वाचं कुन्ती शुश्राव सूतके
।
वाचमुच्चरितामुच्चैस्तां निशम्य तपस्विनाम्॥४७॥
बभूव परमो हर्षः शतशृङ्गनिवासिनाम्
।
तथा देवनिकायानां सेन्द्राणां च दिवौकसाम्॥४८॥
देवनिकायानां देवतानिलयानां विमानानां तेन तत्स्थानां देवानामिति लक्ष्यते ॥४८॥
आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः
।
उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः॥४९॥
समवेत्य च देवानां गणाः पार्थमपूजयन्
।
काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा
।
प्रजानां पतयः सर्वे सप्त चैव महर्षयः॥५०॥
भरद्वाजः कश्यपो गौतमश्च विश्वामित्रो जमदग्निर्वसिष्ठः
।
यश्चोदितो भास्करेऽभूत्प्रनष्टे सोऽप्यत्रात्रिर्भगवानाजगाम॥५१॥
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः
।
दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा॥५२॥
दिव्यमाल्याम्बरधराः सर्वालङ्कारभूषिताः
।
उपगायन्ति बीभत्सुं नृत्यन्तेऽप्सरसां गणाः॥५३॥
तथा महर्षयश्चापि जेपुस्तत्र समन्ततः
।
गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः॥५४॥
भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा
।
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चास्तथाष्टमः॥५५॥
युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा
।
त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः॥५६॥
कलिः पञ्चदशश्चैव नारदश्चात्र षोडशः
।
ऋत्वा बृहत्त्वा बृहकः करालश्च महामनाः॥५७॥
ब्रह्मचारी बहुगुणः सुवर्णश्चेति विश्रुतः
।
विश्वावसुर्भुमन्युश्च सुचन्द्रश्च शरुस्तथा॥५८॥
गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहू
।
इत्येते देवगन्धर्वा जग्मुस्तत्र नराधिप॥५९॥
तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः
।
ननृतुर्वै महाभागा जगुश्चायतलोचनाः॥६०॥
अनूचानाऽनवद्या च गुणमुख्या गुणावरा
।
अद्रिका च तथा सोमा मिश्रकेशी त्वलम्बुषा॥६१॥
मरीचिः शुचिका चैव विद्युत्पर्णा तिलोत्तमा
।
अम्बिका लक्षणा क्षेमा देवी रम्भा मनोरमा॥६२॥
असिता च सुबाहुश्च सुप्रिया च वपुस्तथा
।
पुण्डरीका सुगन्धा च सुरसा च प्रमाथिनी॥६३॥
काम्या शारद्वती चैव ननृतुस्तत्र संघशः
।
मेनका सहजन्या च कर्णिका पुञ्जिकस्थला॥६४॥
ऋतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि
।
उम्लोचेति च विख्याता प्रम्लोचेति च ता दश॥६५॥
उर्वश्येकादशी तासां जगुश्चायतलोचनाः
।
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा॥६६॥
इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा
।
पर्जन्यश्चैव विष्णुश्च आदित्य द्वादश स्मृताः
।
महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः॥६७॥
मृगव्याधश्च सर्पश्च निर्ऋतिश्च महायशाः
।
अजैकपादहिर्बुध्न्यः पिनाकी च परंतप॥६८॥
दहनोऽथेश्वरश्चैव कपाली च विशांपते
।
स्थाणुर्भगश्च भगवान्रुद्रास्तत्रावतस्थिरे॥६९॥
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः
।
विश्वेदेवास्तथा साध्यास्तत्रासन्परितः स्थिताः॥७०॥
कर्कोटकोऽथ सर्पश्च वासुकिश्च भुजङ्गमः
।
कश्यपश्चाथ कुण्डश्च तक्षकश्च महोरगः॥७१॥
आययुस्तपसा युक्ता महाक्रोधा महाबलाः
।
एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः॥७२॥
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः
।
अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः॥७३॥
तांश्च देवगणान्सर्वांस्तपःसिद्धा महर्षयः
।
विमानगिर्यग्रगतान्ददृशुर्नेतरे जनाः॥७४॥
तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः
।
अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवं प्रति॥७५॥
पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः
।
वक्तुमैच्छद्धर्मपत्नीं कुन्तीत्वेनमथाब्रवीत्॥७६॥
नातश्चतुर्थं प्रसवमापस्त्वपि वदन्त्युत
।
अतः परं स्वैरिणीस्याद्बन्धकी पञ्चमे भवेत्॥७७॥
स त्वं विद्वन्धर्ममिममधिगम्य कथं नु माम्
।
अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे॥७८॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पाण्दवोत्पत्तौ त्रयोविंशत्यधिकशततमोऽध्यायः॥१२३॥
वैशंपायन उवाच।
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च
।
मद्रराजसुता पाण्डुं रहो वचनमब्रवीत्॥१॥
चतुर्विंशत्यधिकशततमः अध्यायः कुन्तीति ॥१॥
न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप
।
नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा॥२॥
विगुणे प्रजोत्पादनाधिकृते अवरत्वे क- निष्टत्वे वरार्हायाःकुन्त्या अपेक्षया ॥२॥
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा
।
श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन॥३॥
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता
।
दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः॥४॥
यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि
।
कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत्॥५॥
संरम्भो हि सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति
।
यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय॥६॥
संरम्भः अभिमानः ॥६॥
पाण्डुरुवाच।
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते
।
न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया॥७॥
ममेति । इष्टमनिष्टं वा वक्ष्यसीति सन्देहेन त्वां वक्तुं न प्रसहे इत्यर्थः ॥७॥
तव त्विदं मतं मत्वा प्रयतिष्याम्यतः परम्
।
मन्ये ध्रुवं मयोक्ता सा वचनं प्रतिपत्स्यते॥८॥
मत्वा ज्ञात्वा प्रतिपत्स्यते अङ्गीकरिष्यति ॥८॥
वैशंपायन उवाच।
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत्
।
कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम्॥९॥
सन्तानम् अविच्छेदं लोकस्य प्रियं बलवत्प्रजात्वेन निर्भयत्वम् ॥९॥
मम चापिण्डनाशाय पूर्वेषामपि चात्मनः
।
मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम्॥१०॥
मम पूर्वेषां च अपिण्डविनाशाय पिण्डविनाशाभावाय । बहुषु पुत्रेषु कस्यचिदपि पुत्रस्य संततेरविच्छेदसंभवादित्यर्थः । कल्याणं पुत्रान्तरोत्पादनम् ॥१०॥
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम्
।
प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोऽर्थिना॥११॥
यशस इति । कृतकृत्या अपि यशोर्थं देवगुर्वाद्याराधनं कुर्वन्तीत्यर्थः ॥११॥
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम्
।
गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भाविनि॥१२॥
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः
।
चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम्॥१३॥
सा त्वं माद्रीं प्लवेनैव तारयैनामनिन्दिते
।
अपत्यसंविधानेन परां कीर्तिमवाप्नुहि॥१४॥
वैशंपायन उवाच।
एवमुक्त्वा ब्रवीन्मार्द्रीं सकृच्चिन्तय दैवतम्
।
तस्मात्ते भवितापत्यमनुरूपमसंशयम्॥१५॥
एवं पाण्डुं प्रति उक्त्वा कुन्त्या मन्त्रे कृते सति कुन्ती माद्रीम् अब्रवीदिति योजना ॥१५॥
ततो माद्री विचार्यैवं जगाम मनसाश्विनौ
।
तावागम्य सुतौ तस्यां जनयामासतुर्यमौ॥१६॥
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि
।
तथैव तावपि यमौ वागुवाचाशरीरिणी॥१७॥
सत्त्वरूपगुणोपेतौ भवतोऽत्यश्विनाविति
।
भासतस्तेजसात्यर्थं रूपद्रविणसंपदा॥१८॥
अत्यश्विनौ अश्विभ्यामधिकौ ॥१८॥
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः
।
भक्त्या च कर्मणा चैव तथाऽऽशीर्भिर्विंशांपते॥१९॥
ज्येष्ठं युधिष्ठिरेत्येवं भीमसेनेति मध्यमम्
।
अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन्॥२०॥
पूर्वजं नकुलेत्येवं सहदेवेति चापरम्
।
माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः॥२१॥
अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः
।
पाण्डुपुत्रा व्यराजन्त पञ्च संवत्सरा इव॥२२॥
अनुसंवत्सरं संवत्सरमनुपश्चाज्जाता अपि देवताभावात्सर्वे पञ्चसंवत्सरा इवादृश्यन्तेत्यर्थः । यद्वा पञ्चापि पुत्रा व्यराजन्त । संवत्सराः प्रभवादय इवानुसंवत्सरं जाता इति योज्यम् ॥२२॥
महासत्त्वा महावीर्या महाबलपराक्रमाः
।
पाण्डुर्दृष्ट्वा सुतांस्तांस्तु देवरूपान्महौजसः॥२३॥
मुदं परमिकां लेभे ननन्द च नराधिपः
।
ऋषीणामपि सर्वेषां शतशृङ्गनिवासिनाम्॥२४॥
प्रिया बभूवुस्तासां च तथैव मुनियोषिताम्
।
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत्॥२५॥
तमुवाच पृथा राजन् रहस्युक्ता तदा सती
।
उक्ता सक्वद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता॥२६॥
बिभेम्यस्याः परिभवात्कुस्त्रीणां गतिरिदृशी
।
नाज्ञासिषमहं मूढाद्वन्द्वाह्वाने फलद्वयम्॥२७॥
तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम
।
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः॥२८॥
संभूताः कीर्तिमन्तश्च कुरुवंशविवर्धनाः
।
शुभलक्षणसंपन्नाः सोमवत्प्रियदर्शनाः॥२९॥
सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः
।
सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः॥३०॥
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ
।
विस्मयं जनयामासुर्महर्षीणां समेयुषाम्॥३१॥
ते च पञ्चशतं चैव कुरुवंशविवर्धनाः
।
सर्वे ववृधिरल्पेन कालेनाप्स्विव नीरजाः॥३२॥
ते पञ्चपाण्डवाः शतं चान्ये धार्तराष्ट्राः नीरजाः पद्मा इव ॥३२॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पाण्डवोत्पत्तौ चतुर्विंशत्यधिकशततमोऽध्यायः॥१२४॥
वैशंपायन उवाच।
दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने
।
तान्पश्यन्पर्वते रम्ये स्वबाहुबलमाश्रितः॥१॥
पञ्चविंशत्यधिकशततमः अध्यायः दर्शनीयानिति ॥१॥
सुपुष्पितवने काले कदाचिन्मधुमाधवे
।
भूतसंमोहने राजा सभार्यो व्यचरद्वनम्॥२॥
मधुमाधवे चैत्रवैशाखयोः सन्धौ तदात्मके वसन्तम् ॥२॥
पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः
।
अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः॥३॥
जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम्
।
पाण्डोर्वनं तत्संप्रेक्ष्य प्रजज्ञे हृदि मन्मथः॥४॥
प्रहृष्टमनसं तत्र विचरन्तं यथामरम्
।
तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम्॥५॥
समीक्षमाणः स तु तां वयस्थां तनुवाससम्
।
तस्य कामः प्रवृते गहनेऽग्निरिवोद्गतः॥६॥
वयःस्थां युवतीं तनुवाससंसूक्ष्मवस्त्रां किञ्चित् विवृतागामित्यर्थः ॥६॥
रहस्येकां तु तां दृष्ट्वा राजा राजीवलोचनाम्
।
न शशाक नियन्तुं तं कामं कामवशीकृतः॥७॥
तत एनां बलाद्राजा निजग्राह रहो गताम्
।
वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम्॥८॥
स तु कामपरीतात्मा तं शापं नान्वबुध्यत
।
माद्रीं मैथुनधर्मेण सोऽन्वगच्छद्बलादिव॥९॥
कामपरीतात्मा कामेन व्याप्तचित्तः ॥९॥
जीवितान्ताय कौरव्य मन्मथस्य वशंगतः
।
शापजं भयमुत्सृज्य विधिना संप्रचोदितः॥१०॥
तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता
।
संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा॥११॥
बुद्धिर्भयनिश्चयः चेतसा विचारेण ॥११॥
स तया सह संगम्य भार्यया कुरुनन्दनः
।
पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा॥१२॥
कालस्यातीतत्वादि व्यवहारतोः षष्ठद्रव्यस्येव धर्मः कालनात्मको यस्य मरणस्य तेन कालधर्मणा मृत्युना ॥१२॥
ततो माद्री समालिङ्ग्य राजानं गतचेतसम्
।
मुमोच दुःखजं शब्दं पुनः पुनरतीव हि॥१३॥
सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ
।
आजग्मुः सहितास्तत्र यत्र राजा तथागतः॥१४॥
ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः
।
एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः॥१५॥
तच्छ्रुत्वा वचनं तस्यास्तत्रैवाधाय दरकान्
।
हताहमिति विक्रुश्च सहसैवाजगाम सा॥१६॥
दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले
।
कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता॥१७॥
रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान्
।
कथं त्वामत्यतिक्रान्तः शापं जानन्वनौकसः॥१८॥
त्वाम् अत्यतिक्रान्तो बलादाक्रान्तवान् शोकाकुल त्त्वादिति शब्दस्याभ्यासः ॥१८॥
ननु नाम त्वया माद्रि रक्षितव्यो नराधिपः
।
सा कथं लोभितवती विजने त्वं नराधिपम्॥१९॥
त्वया च रक्षितव्यः ॥१९॥
कथं दीनस्य सततं त्वामासाद्य रहोगताम्
।
तं विचिन्तयतः शापं प्रहर्षः समजायत॥२०॥
प्रहर्षः कामः ॥२०॥
धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा
।
दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः॥२१॥
माद्र्युवाच।
विलपन्त्या मया देवि वार्यमाणेन चासकृत्
।
आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा॥२२॥
आत्मा चित्तं दिष्ट शापजं दुरदृष्टम् ॥२२॥
कुन्त्युवाच।
अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम
।
अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय॥२३॥
अन्विष्यामीह भर्तारमहं प्रेतवशं गतम्
।
उत्तिष्ठ त्वं विसृज्यैनमिमान्पालय दारकान्॥२४॥
प्रेतवशं प्रेतराजवशम् अन्विष्यामि अनुगमिष्यामि ॥२४॥
मद्र्युवाच
।
अहमेवानुयास्यामि भर्तारमपलापिनम्
।
न हि तृप्ताऽस्मि कामानां ज्येष्ठा मामनुमन्यताम्॥२५॥
मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः
।
तमुच्छिन्द्यामस्य कामां कथं नु यमसादने॥२६॥
न चप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते
।
वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा च माम्॥२७॥
तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत्
।
मां च कामयमानोऽयं राजा प्रेतवशं गतः॥२८॥
राज्ञः शरीरेण सह मामपीदं कलेवरम्
।
दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु॥२९॥
दारकेष्वप्रमत्ता च भवेथश्चा हिता मम
।
अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किञ्चन॥३०॥
वैशंपायन उवाच।
इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम्
।
मद्रराजसुता तूर्णमन्वारोहद्यशस्विनी॥३१॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पाण्डूपरमे पञ्चविंशत्यधिकशततमोऽध्यायः॥१२५॥
वैशंपायन उवाच।
पाण्डोरुपरमं दृष्ट्वा देवकल्पा महर्षयः
।
ततो मन्त्रविदः सर्वे मन्त्रयांचक्रिरे मिथः॥१॥
षड्विंशत्यधिकशततमः अध्यायः पाण्डोरुपरमं दृष्ट्वेति ॥१॥
तापसा ऊचुः।
हित्वा राज्यं च राष्ट्रं च स महात्मा महायशाः
।
अस्मिंस्थाने तपस्तप्त्वा तापसाञ्शरणं गतः॥२॥
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह
।
प्रादायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः॥३॥
तस्येमानात्मजान्देहं भार्यां च सुमहात्मनः
।
स्वराष्ट्रं गृह्य गच्छामो धर्म एष हि नः स्मृतः॥४॥
देहं देहयोरस्थीनि अग्निहोत्राग्निभिः संस्कारलम्भनार्थम् ॥४॥
वैशंपायन उवाच।
ते परस्परमामन्त्र्य देवकल्पा महर्षयः
।
पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम्॥५॥
उदारमनसः सिद्धा गमने चक्रिरे मनः
।
भीष्माय पण्डवान्दातुं धृतराष्ट्राय चैव हि॥६॥
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे
।
पाण्डोर्दारांश्च पुत्रांश्च शरीरे ते च तापसाः॥७॥
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला
।
प्रपन्ना दीर्घमध्वानं संक्षिप्तं तदमन्यत॥८॥
तत् गमनं संक्षिप्तममन्यत । मुनीनां योगप्रभावात् स्वदेशगमनौत्कण्ठ्याद्वा ॥८॥
सा त्वदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम्
।
वर्धमानपुरद्वारमाससाद यशस्विनी॥९॥
वर्धमानपुरद्वारं मुख्यद्वारम् ॥९॥
द्वारिणं तापसा ऊचू राजानं च प्रकाशय
।
ते तु गत्वा क्षणेनैव सभायां विनिवेदिताः॥१०॥
तं चारणसहस्राणां मुनीनामागमं तदा
।
श्रुत्वा नागपुरे नॄणां विस्मयः समपद्यत॥११॥
चारणाः देवगायकाः गुह्यकाख्यास्तेषां सहस्राणां मुनीनां चागममिति चोध्याहर्तव्यः । पाठान्तरे आरण्यानां सहस्रसंख्यानां मुनीनां चैति योज्यम् ॥११॥
मुहूर्तोदित आदित्ये सर्वे बालपुरस्कृताः
।
स दारास्तापसान्द्रष्टुन्निर्ययुः पुरवासिनः॥१२॥
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घसमास्थिताः
।
ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः॥१३॥
तथा विट्शूद्रसङ्घानां महान्व्यतिकरोऽभवत्
।
न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः॥१४॥
व्यतिकरः संघर्षः ॥१४॥
तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्लिकः
।
प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम्॥१५॥
सा च सत्यवती देवी कौसल्या च यशस्विनी
।
राजदारैः परिवृता गान्धारी चापि निर्ययौ॥१६॥
कौसल्या काशिराजसुता ॥१६॥
धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः
।
भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः॥१७॥
तान्महर्षिगणान्दृष्ट्वा शिरोभिरभिवाद्य च
।
उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः॥१८॥
उपोपविविशुः परिवार्योपविष्टवन्तः ॥१८॥
तथैव शिरसा भूमावभिवाद्य प्रणम्य च
।
उपोपविविशुः सर्वे पौरा जानपदा अपि॥१९॥
तमकूजमभिज्ञाय जनौघं सर्वशस्तदा
।
पूजयित्वा यथान्यायं पाद्येनार्घ्येण च प्रभो॥२०॥
अकूजं निःशब्दम् ॥२०॥
भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत्
।
तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी
।
ऋषीणां मतमाज्ञाय महर्षिरिदमब्रवीत्॥२१॥
यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः
।
कामभोगान्परित्यज्य शतशृङ्गमितो गतः॥२२॥
ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना
।
साक्षाद्धर्मादयं पुत्रस्तत्र जातो युधिष्ठिरः॥२३॥
दिव्येन हेतुना मन्त्रेण देवताह्वानाद्यलौकिककारणेन ॥२३॥
तथैनं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः
।
मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम्॥२४॥
पुरहूतादयं जज्ञे कुन्त्यामेव धनञ्जयः
।
यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति॥२५॥
यौ तु माद्री महेष्वासावसूत पुरुषोत्तमौ
।
अश्विभ्यां पुरुषव्याघ्राविमौ तावपि तिष्ठतः॥२६॥
चरता धर्मनित्येन वनवासं यशस्विना
।
एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः॥२७॥
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च
।
पश्यन्तः सततं पाण्डोः परां प्रीतिमवाप्स्यथ॥२८॥
वर्तमानः सतां वृत्ते पुत्रलाभमवाप च
।
पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि॥२९॥
तं चितागतमाज्ञाय वैश्वानरमुखे हुतम्
।
प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः॥३०॥
सा गता सह तेनैव पतिलोकमनुव्रता
।
तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम्॥३१॥
इमे तयोः शरीरे द्वे पुत्राश्चेमे तयोर्वराः
।
क्रियाभिरनुगृह्यन्तां सह मात्रा परंतपाः॥३२॥
प्रेतकार्ये निवृत्ते तु पितृमेधं महायशाः
।
लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः॥३३॥
प्रेतकार्ये सपिण्डीकरणान्ते पितृमेधं यज्ञविशेषं वृषोत्सर्गादिकं वा ॥३३॥
वैशंपायन उवाच।
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम्
।
क्षणेनान्तर्हिताः सर्वे तापसा गुह्यकैः सह॥३४॥
गन्धर्वनगराकारं तथैवान्तर्हितं पुनः
।
ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः॥३५॥
गन्धर्वनगरं खपुरम् । यथोक्तं ज्योतिःशास्त्रे । ‘अनेक रत्नाकृति खे प्रकाशते पुरं पताकाध्वजतोरणान्वितम् । यदा तदा नागमनुष्यवाजिनां पिबत्यसृग्भूरि रणे वसुंधरा’ इति ॥३५॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ऋषिसंवादे षड्विंशत्यधिकशततमोऽध्यायः॥१२६॥
धृतराष्ट्र उवाच।
पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय
।
राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः॥१॥
सप्तविंशत्यधिकशततमः अध्यायः पाण्डोरिति ॥१॥
पशून्वासांसि रत्नानि धनानि विविधानि च
।
पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम्॥२॥
यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु
।
यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम्॥३॥
न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः
।
यस्य पञ्चसुता वीरा जाताः सुरसुतोपमाः॥४॥
वैशंपायन उवाच।
विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत
।
पाण्डुं संस्कारयामास देशे परमपूजिते॥५॥
ततस्तु नगरात्तूर्णमाज्यगन्धपुरस्कृताः
।
निर्हृताः पावका दीप्ताः पाण्डो राजन्पुरोहितैः॥६॥
अथैनामार्तवैः पुष्पैर्गन्धैश्च विविधैर्वरैः
।
शिबिकां तामलङ्कृत्य वाससाच्छाद्य सर्वशः॥७॥
तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः
।
अमात्या ज्ञातयश्चैनं सुहृदश्चोपतस्थिरे॥८॥
नृसिंहं नरयुक्तेन परमालङ्कृतेन तम्
।
अवहन्यानमुख्येन सह माद्र्या सुसंवृतम्॥९॥
नृसिंहं पाण्डुं नृसिंहेति पाठे जनमेजयसम्बोधनम् ॥९॥
पाण्डुरेणातपत्रेण चामरव्यजनेन च
।
सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः॥१०॥
रत्नानि चाप्युपादाय बहूनि शतशो नराः
।
प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तस्यौर्ध्वदेहिके॥११॥
अथ छत्राणि शुभ्राणि चामराणि बृहन्ति च
।
आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च॥१२॥
याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः
।
अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः॥१३॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः
।
रुदन्तः शोकसंतप्ता अनुजग्मुर्नराधिपम्॥१४॥
अयमस्मानपाहाय दुःखे चाधाय शाश्वते
।
कृत्वा चास्माननाथांश्च क्व यास्यति नराधिपः॥१५॥
क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च
।
रमणीये वनोद्देशे गङ्गातीरे समे शुभे॥१६॥
न्यासयामासुरथ तां शिबिकां सत्यवादिनः
।
सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः॥१७॥
ततस्तस्य शरीरं तु सर्वगन्धाधिवासितम्
।
शुचिकालीयकादिग्धं दिव्यचन्दनरूषितम्॥१८॥
कालीयकादिग्धं कृष्णागुरुलिप्तम् ॥१८॥
पर्यषिञ्चञ्जलेनाशु शातकुम्भमयैर्घटैः
।
चन्दनेन च शुक्लेन सर्वतः समलेपयन्॥१९॥
कालागुरुविमिश्रेण तथा तुङ्गरसेन च
।
अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन्॥२०॥
संछन्नः स तु वासोभिर्जीवन्निव नराधिपः
।
शुशुभे स नव्याघ्रो महार्हशयनोचितः॥२१॥
याजकैरभ्यनुज्ञाते प्रेतकर्मण्यनिष्ठिते
।
घृतावसिक्तं राजानं सहमाद्र्या स्वलङ्कृतम्॥२२॥
तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना
।
अन्यैश्च विविधैर्गन्धैर्विधिना समदाहयन्॥२३॥
तुङ्गपद्मकौ गन्धद्रव्यविशेषौ ॥२३॥
ततस्तयोः शरीरे द्वे दृष्ट्वा मोहवशं गता
।
हाहा पुत्रेति कौसल्या पपात सहसा भुवि॥२४॥
तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः
।
रुरोद दुःखसंतप्तो राजभक्त्या कृपाऽन्वितः॥२५॥
कुन्त्याश्चैवार्तनादेन सर्वाणि च विचुक्रुशुः
।
मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि॥२६॥
तथा भीष्मः शान्तनवो विदुरश्च महामतिः
।
सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः॥२७॥
ततो भीष्मोऽथ विदुरो राजा च सह पाण्डवैः
।
उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः॥२८॥
चुक्रुशुः पाण्डवाः सर्वे भीष्मः शान्तनवस्तथा
।
विदुरो ज्ञातयश्चैव चक्रुश्चाप्युदकक्रियाः॥२९॥
कृतोदकांस्तानादाय पाण्डवाञ्छोककर्शितान्
।
सर्वाः प्रकृतयो राजञ्शोचमाना न्यवारयन्॥३०॥
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः
।
तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः॥३१॥
तद्गतानन्दमस्वस्थमाकुमारमहृष्टवत्
।
बभूव पाण्डवैः सार्धं नगरं द्वादशक्षपाः॥३२॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पाण्डुदाहे सप्तविंशत्यधिकशततमोऽध्यायः ॥१२७॥
वैशंपायन उवाच।
ततः कुन्ती च राजा च भीष्मश्च सह बन्धुभिः
।
ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा॥१॥
अष्टाविंशत्यधिकशततमः अध्यायः तत इति ॥१॥
कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः
।
रत्नौघान्विप्रमुख्येभ्यो दत्त्वा ग्रामवरांस्तथा॥२॥
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान्
।
आदाय विविशुः सर्वे पुरं वारणसाह्वयम्॥३॥
सततं स्मानुशोचन्तस्तमेव भरतर्षभम्
।
पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम्॥४॥
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम्
।
संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत्॥५॥
अतिक्रान्तसुखाः कालाः पर्युपस्थितदारुणाः
।
श्वःश्वः पापिष्ठदिवसाः पृथिवीगतयौवना॥६॥
श्वः श्वः पूर्वपूर्वदिनापेक्षया उत्तरमुत्तरं पापिष्ठम् । गतयौवना सम्यक्फलशून्या ॥६॥
बहुमायासमाकीर्णो नानादोषसमाकुलः
।
लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति॥७॥
कुरूणामनयाच्चापि पृथिवी न भविष्यति
।
गच्छ त्वं योगमास्थाय युक्ता वस तपोवने॥८॥
योगं चित्तवृात्तीनिरोधं प्रयाणोद्योगं वा युक्ता समाहिता ॥८॥
माद्राक्षीस्त्वं कुलस्यास्य घोरं संक्षयमात्मनः
।
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम्॥९॥
अम्बिके तव पौत्रस्य दुर्नयात्किल भारताः
।
सानुबन्धा विनङ्क्ष्यन्ति पौराश्चैवेति नः श्रुतम्॥१०॥
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम्
।
वनमादाय भद्रं ते गच्छावो यदि मन्यसे॥११॥
तथेत्युक्तात्वम्बिकया भीष्ममामन्त्र्य सुव्रता
।
वनं ययौ सत्यवती स्नुषाभ्यां सह भारत॥१२॥
ताः सुघोरं तपस्तप्त्वा देव्यो भरतसत्तम
।
देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा॥१३॥
वैशंपायन उवाच।
अथाप्तवन्तो वेदोक्तान्संस्कारान्पाण्डवास्तदा
।
संव्यवर्धन्त भोगांस्ते भुञ्जानाः पितृवेश्मनि॥१४॥
धार्तराष्ट्रैश्च सहिताः क्रीडन्तो मुदिताः सुखम्
।
बालक्रीडासु सर्वासु विशिष्टास्तेजसाभवन्॥१५॥
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे
।
धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति॥१६॥
जवे धावनक्रीडायां लक्ष्याभिहरणे अहं पूर्वमहं पूर्वमिति दृष्टफलादि ग्रहणे भोज्ये पांसुविकर्षणे बालक्रीडाविशेषे परिमर्दति सर्वत उपमृद्गाति ॥१६॥
हर्षात्प्रक्रीडमानांस्तान्गृह्य राजन्निलीयते
।
शिरः सुविनिगृह्यैतान्योजयामास पाण्डवैः॥१७॥
शतमेकोत्तरं तेषां कुमाराणां महौजसाम्
।
एक एव निगृह्णाति नातिकृच्छ्राद्वृकोदरः॥१८॥
कचेषु च निगृह्यैनान्विनिहत्य बलाद्बली
।
चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोंसकान्॥१९॥
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः
।
आस्ते स्म सलिले मग्नो मृतकल्पान्विमुञ्चति॥२०॥
फलानि वृक्षमारुह्य विचिन्वन्ति च ये तदा
।
तदा पादप्रहारेण भीमः कम्पयते द्रुमान्॥२१॥
प्रहारवेगाभिहता द्रुमा व्याघूर्णितास्ततः
।
सफलाः प्रपतन्ति स्म द्रुतं त्रस्ताः कुमारकाः॥२२॥
न ते नियुद्धे न जवे न योग्यासु कदाचन
।
कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम्॥२३॥
योग्यासु शिक्षाभ्यासेषु उत्तरम् उत्कर्षम् ॥२३॥
एवं स धार्तराष्ट्रांश्च स्पर्धमानो वृकोदरः
।
अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा॥२४॥
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान्
।
भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत्॥२५॥
तस्य धर्मादपेतस्य पापानि परिपश्यतः
।
मोहादैश्वर्यलोभाच्च पापा मतिरजायत॥२६॥
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः
।
मध्यमः कुन्तिपुत्राणां निकृत्या स निगृह्यताम्॥२७॥
निकृत्या कपटेन ॥२७॥
प्राणवान्विक्रमी चैव शौर्येण महतान्वितः
।
स्पर्धते चापि सहितानस्मानेको वृकोदरः॥२८॥
प्राणवान् बलवान् ॥२८॥
तं तु सुप्तं पुरोद्याने गङ्गायां प्रक्षिपामहे
।
अथ तस्मादवरजं श्रेष्ठं चैव युधिष्ठिरम्॥२९॥
प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम्
।
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा
।
नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः॥३०॥
प्रसह्य बलात्कारेण ॥३०॥
ततो जलविहारार्थं कारयामास भारत
।
चैलकम्बलवेश्मानि विचित्राणि महान्ति च॥३१॥
सर्वकामैः सुपूर्णानि पताकोच्छ्रायवन्ति च
।
तत्र संजनयामास नानागाराण्यनेकशः॥३२॥
उदकक्रीडनं नाम कारयामास भारत
।
प्रमाणकोट्यां तं देशं स्थलं किंचिदुपेत्य ह॥३३॥
प्रमाणकोट्यां गङ्गायां प्रदेशविशेषे । स्थलं किञ्चित् अर्धं जलेऽर्धं स्थले च क्रीडागारम् ॥३३॥
भक्ष्यं भोज्यं च पेयं च चोष्यं लेामयापि च
।
उपपादितं नरैस्तत्र कुशलैः सुदकर्मणि ॥३४॥
भक्ष्यं दन्तैश्छित्वा छित्वा ग्राह्यम् अपूपादि । भोज्यं जिह्वाव्यापारैकग्राह्यं पायसादि । पेयं तदुभयानपेक्षं पानकादि । चोष्यं रसमात्रं गृहीत्वा त्याज्यमिक्षुकाण्डादि । लेह्यं मुखलालया द्रवीभावमापद्यमानं खण्डशर्करादि । उपपादितम् उपाहृतमित्यपि पठन्ति ॥३४॥
न्यवेदयंस्तत्पुरुषा धार्तराष्ट्राय वै तदा
।
ततो दुर्योधनस्तत्र पाण्डवानाह दुर्मतिः॥३५॥
गङ्गां चैवानुयास्याम उद्यानवनशोभिताम्
।
सहिता भ्रातरः सर्वे जलक्रीडामवाप्नुमः ॥३६॥
एवमस्त्विति तं चापि प्रत्युवाच युधिष्ठिरः
।
ते रथैर्नगराकारैर्देशजैश्च गजोत्तमैः ॥३७॥
निर्ययुर्नगराच्छूराः कौरवाः पाण्डवैः सह
।
उद्यानवनमासाद्य विसृज्य च महाजनम् ॥३८॥
विशन्ति स्म तदा वीराः सिंहा इव गिरेर्गुहाम्
।
उद्यानमभिपश्यन्तो म्रातरः सर्व एव ते ॥३९॥
उपस्थानगृहैः शुभ्रैर्वलभूभिश्च शोभितम्
।
गवाक्षकैस्तथा जालैर्यन्त्रैः सांचारिकैरपि॥४०॥
उपस्थानगृहैः यत्र राजानं कार्यिणः शूराश्चोपतिष्ठन्ति तैर्गृहैः । वलभीभिः रुभयतो न मत्पक्षाभिः स्तम्भशालाभिः यन्त्रैः जलयन्त्रैः शतधाराभिः । यतो युगपच्छतं धारा उच्छलंत्यो नीहारीभूय भवनोदरं व्याप्नुवन्ति । साञ्चारिकैः सञ्चारयोग्यैः ॥४०॥
संमार्जितं सौधकारैश्चित्रकारैश्च चित्रितम्
।
दीर्घिकामिश्च पूर्णाभिस्तथा पुष्करिणीभिर्हि॥४१॥
दीर्घिकाभिः कुल्याभिः पुष्करिणीभिर्हीति उपांत्यस्यालघुत्वेऽप्यनुष्टुब्त्वाहानेर्न दोषः ॥४१॥
जलं तच्छुशुभे च्छन्नं फुलैर्जलरुहैस्तथा
।
उपच्छन्ना वसुमती तथा पुष्पैर्यथर्तुकैः ॥४२॥
उपच्छन्ना संच्छन्ना ॥४२॥
तत्रोपविष्टास्ते सर्वे पाण्डवाः कौरवाश्च ह
।
उपच्छन्नान्बहून्कामांस्ते भुञ्जन्ति ततस्ततः ॥४३॥
उपच्छनानुपागतान् कामान् शब्दादि विषयान् ॥४३॥
अथोद्यानवरे तस्मिंस्तथा क्रीडागताश्च ते
।
परस्परस्य वक्त्रभ्यो ददुर्भक्ष्यांस्ततस्ततः ॥४४॥
वक्त्रेभ्यो वक्त्रेषु ॥४४॥
ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम्
।
विषं प्रक्षेपयामास भीमसेनजिघांसया॥४५॥
स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः
।
स वाचा मृतकल्पश्च भर्तृवच्च सुहृद्यथा ॥४६॥
स्वयं प्राक्षिपते भक्ष्यं बहु मीमस्य पापकृत्
।
प्रतीक्षितं स्म भीमेन तं वै दोषमजानता ॥४७॥
प्रतीक्षितं प्रीत्यावेक्षितं भक्षितं न तु शत्रोरिति निरस्तं तत्र हेतुरजानतेति ॥४७॥
ततो दुर्योधनस्तत्र हृदयेन हसन्निव
।
कृतकृत्यभिवात्मानं मन्यते पुरुषाधमः ॥४८॥
ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत
।
पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः॥४९॥
क्रीडावसाने ते सर्वे शुचिवस्त्राः स्वलंकृताः
।
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः॥५०॥
विहारावसथेष्वेव वीरावासमरोचयन्
।
खिन्नस्तु बलवान्भीमो व्यायम्याभ्यधिकं तदा॥५१॥
व्यायम्य श्रमं कृत्वा ॥५१॥
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतांस्तदा
।
प्रमाणकोट्यां वासार्थी सुप्वापावाप्य तत्स्थलम्॥५२॥
शतिं वातं समासाद्य श्रान्तो मदविमोहितः
।
विषेण च परीताङ्गो निश्चेष्टः पाण्डुनन्दनः ॥५३॥
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः स्वयम्
।
मृतकल्पं तदा वीरं स्थलाज्जलमपातयत् ॥५४॥
स निःसंज्ञो जलस्यान्तमथ वै पाण्डवोऽविशंत्
।
आक्रामन्नागभवने तदा नागकुमारकान् ॥५५॥
जलस्य अन्तम् अवसानम् । आक्रामन् शरीराभोगेन नागानाक्रान्तवान् ॥५५॥
ततः समेत्य बहुभिस्तदा नागैर्महाविषैः
।
अदश्यत भृशं भीमो महादंष्ट्रेर्विषोल्बणैः ॥५६॥
ततस्तैर्भारखिन्नैरदश्यत दष्टः ॥५६॥
ततोऽस्य दश्यमानस्य तद्विषं कालकूटकम्
।
हतं सर्पविषेणैव स्थावरं जंगमेन तु ॥५७॥
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः
।
त्यचं नैवास्य बिभिदुः सारत्यात्पृथुवक्षसः॥५८॥
ततः प्रबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम्
।
पोथयामास तान्सर्वान्केचिद्भीताः प्रदुद्रुवः॥५९॥
हतावशेषा भीमेन सर्वे वासुकिमभ्ययुः
।
ऊचुश्च सर्पराजानं वासुकिं वासवोपमम् ॥६०॥
अयं नरो वै नागेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः
।
यथा च नो मतिर्वीर विपपीतो भविष्यति ॥६१॥
विषपीतः पीतविषः ॥६१॥
निश्चेष्टोऽस्माननुप्राप्तः स च दष्टोऽन्वबुध्यत
।
स संज्ञश्चापि संवृत्तश्छित्वा बन्धनमाशु नः ॥६२॥
पोथयन्तं महाबाहुं त्वं वै तं ज्ञातुमर्हसि
।
ततो वासुकिरभ्येत्य नागैरनुगतस्तदा ॥६३॥
पश्यति स्म महाबाहुं भीमं भीमपराक्रमम्
।
आर्यकेण च दृष्टः स पृथाया आर्यकेण च ॥६४॥
आर्यकेण नागराजेन । पृथाया आर्यकेण मातामहेन । कुन्तिभोजद्वाराऽयं सम्बन्ध इति गम्यते ॥६४॥
तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम्
।
सुप्रीतश्चाभवत्तस्य वासुकिः स महायशाः ॥६५॥
दौहित्रदौहित्र इति त्वार्यकनागस्य दौहित्रः शूरस्तद्दौहित्रो भीम इत्यविरुद्धमेतत् । अन्ये तु शूरमातामह एवोपचारात् कुन्ती मातामहोपीत्याहुः ॥६५॥
अब्रवीत्तं च नागेन्द्रः किमस्य क्रियतां प्रियम्
।
धनौघो रत्ननिचयो वसु चास्य प्रदीयताम् ॥६६॥
एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत
।
यदि नागेन्द्र तुष्टोऽसि किमस्य धनसंचयैः ॥६७॥
रसं पिवेत्कुमारोऽयं त्वयि प्रीते महाबलः
।
चलं नागसहस्रस्य यस्मिन्कुण्डे प्रतिष्ठितम् ॥६८॥
यावत्पिबति बालोऽयं तावदस्मै प्रदीयताम्
।
एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत ॥६९॥
ततो भीमस्तदा नागैः कृतवस्त्ययनः शुचिः
।
प्राङ्गुखश्चोपविष्टश्च रसं पिबति पाण्डवः ॥७०॥
एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः
।
एवमष्टौ स कुण्डानि ह्यपिबत्पाण्डुनन्दनः ॥७१॥
ततस्तु शयने दिव्ये नागदन्ते महाभुजः
।
अशेत भीनसेनस्तु यथासुखमरिंदमः ॥७२॥
नागदन्ते भित्तितो बहिर्निर्गते दारुणि कृतं यत् आसनस्थानं तत्र ‘झरोखा(का)’ इति भाषायां प्रसिद्धे ॥७२॥
इति श्रीमहाभाऱते आदिपर्वणि संभवपर्वणि भीमसेनरसपाने अष्टाविंशत्यधिकशततमोऽध्यायः॥१२८॥
वैशंपायन उवाच।
ततस्ते कौरवः सर्वे विना भीमं च पाण्डवाः
।
वृत्तक्रीडाविहारस्तु प्रतस्थुर्गजसाह्वयम्॥१॥
ऊनत्रिंशदधिकशततमः अध्यायः तत इति वृत्तः समाप्तः ॥१॥
रथैर्गजैस्तथा चाश्वैर्यानैश्चान्यैरनेकशः
।
ब्रुवन्तो भीमसेनस्तु यातो ह्यग्रत एव नः॥२॥
ततो दुर्योधनः पापस्तत्रापश्यन्वृकोदरम्
।
भ्रातृभिः सहितो हृष्टो नगरं प्रविवेश ह॥३॥
युधिष्ठिरस्तु धर्मात्मा ह्यविदन्पापमात्मनि
।
स्वेनानुमानेन परं साधुं समनुपश्यति॥४॥
सोऽभ्युपेत्य तदा पार्थो मातरं भ्रातृवत्सलः
।
अभिवाद्याब्रवीत्कुन्तीमम्ब भीम इहागतः॥५॥
अम्ब हे मातः ॥५॥
क्व गतो भविता मातर्नेह पश्यामि तं शुभे
।
उद्यानानि वनं चैव विचितानि समन्ततः॥६॥
तदर्थं न च तं वीरं दृष्टवन्तो वृकोदरम्
।
मन्यमानास्ततः सर्वे यातो नः पूर्वमेव सः॥७॥
आगताः स्म महाभागे व्याकुलेनान्तरात्मना
।
इहागम्य क्व नु गतस्त्वया वा प्रेषितः क्व नु॥८॥
कथयस्व महाबाहुं भीमसेनं यशस्विनि
।
नहि मे शुध्यते भावस्तं वीरं प्रति शोभने॥९॥
भावश्चित्तं न शुध्यते जीवतीति न मनुते ॥९॥
यतः प्रसुप्तं मन्येऽहं भीमं नेति हतस्तु सः
।
इत्युक्ता च ततः कुन्ती धर्मराजेन धीमता॥१०॥
यतः भीमं प्रसुप्तं न मन्येऽपि तु हत इत्येव मन्ये ॥१०॥
हाहेति कृत्वा संभ्रान्ता प्रत्युवाच युधिष्ठिरम्
।
न पुत्र भीमं पश्यामि न मामभ्येत्यसाविति॥११॥
शीग्रमन्वेषणे यत्नं कुरु तस्यानुजैः सह
।
इत्युक्त्वा तनयं ज्येष्ठं हृदयेन विदूयता॥१२॥
क्षत्तारमानाय्य तदा कुन्ती वचनमब्रवीत्
।
क्व गतो भगवन् क्षत्तर्भीमसेनो न दृश्यते॥१३॥
उद्यानान्निर्गताः सर्वे भ्रातरो भ्रातृभिः सह
।
तत्रैकस्तु महाबाहुर्भीमो नाभ्येति मामिह॥१४॥
न च प्रीणयते चक्षुः सदा दुर्योधनस्य सः
।
क्रूरोऽसौ दुर्मतिः क्षुद्रो राज्यलुब्धोऽनपत्रपः॥१५॥
न चेति दुर्योधनस्तं द्रष्टुं न शक्नोतीत्यर्थः ॥१५॥
निहन्यादपि तं वीरं जातमन्युः सुयोधनः
।
तेन मे व्याकुलं चित्तं हृदयं दह्यतीव च॥१६॥
विदुर उवाच।
मैवं वदस्व कल्याणि शेषसंरक्षणं कुरु
।
प्रत्यादिष्टो हि दुष्टात्मा शेषेऽपि प्रहरेत्तव॥१७॥
वदस्व विपरीतं मन्येथाः प्रत्यादिष्टः कुतो भीमं हतवानसीत्युपालब्ध ॥१७॥
दीर्घायुषस्तव सुता यथोवाच महामुनिः
।
आगमिष्यति ते पुत्रः प्रीतिं चोत्पादयिष्यति॥१८॥
वैशंपायन उवाच।
एवमुक्त्वा ययौ विद्वान्विदुरः स्वं निवेशनम्
।
कुन्ती चिन्तापरा भूत्वा सहासीना सुतैर्गृहे॥१९॥
ततोऽष्टमे तु दिवसे प्रत्यबुध्यत पाण्डवः
।
तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली॥२०॥
तं दृष्ट्वा प्रतिबुध्यन्तं पाण्डवं ते भुजङ्गमाः
।
सान्त्वयामासुरव्यग्रा वचनं चेदमब्रुवन्॥२१॥
यत्ते पीतो महाबाहो रसोऽयं वीर्यसंभृतः
।
तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यसि॥२२॥
गच्छाद्य त्वं च स्वगृहं स्नातो दिव्यैरिमैर्जलैः
।
भ्रातरस्तेऽनुतप्यन्ति त्वां विना कुरुपुङ्गव॥२३॥
ततः स्नातो महाबाहुः शुचिशुक्लाम्बरस्रजः
।
ततो नागस्य भवने कृतकौतुकमङ्गलः॥२४॥
ओषधीभिर्विषघ्नीभिः सुरभीभिर्विशेषतः
।
भुक्तवान्परमान्नं च नागैर्दत्तं महाबलः॥२५॥
पूजितो भुजगैर्वीर आशीर्भिश्चाभिनन्दितः
।
दिव्याभरणसंछन्नो नागानामन्त्र्य पाण्डवाः॥२६॥
उदतिष्ठत्प्रहृष्टात्मा नागलोकादरिन्दमः
।
उत्क्षिप्तः स तु नागेन जलाज्जलरुहेक्षणः॥२७॥
तस्मिन्नेव वनोद्देशे स्थापितः कुरुनन्दनः
।
ते चान्तर्दधिरे नागाः पाण्डवस्यैव पश्यतः॥२८॥
तत उत्थाय कौन्तेयो भीमसेनो महाबलः
।
आजगाम महाबाहुर्मातुरन्तिकमञ्जसा॥२९॥
ततोऽभिवाद्य जननीं ज्येष्ठं भ्रातरमेव च
।
कनीयसः समाघ्राय शिरःस्वरिविमर्दनः॥३०॥
तैश्चापि संपरिष्वक्तः सह मात्रा नरर्षभैः
।
अन्योन्यगतसौहार्दाद्दिष्ट्या दिष्ट्येति चाब्रुवन्॥३१॥
ततस्तत्सर्वमाचष्ट दुर्योधनविचेष्टितम्
।
भ्रातॄणां भीमसेनश्च महाबलपराक्रमः॥३२॥
नागलोके च यद्वृत्तं गुणदोषमशेषतः
।
तच्च सर्वमशेषेण कथयामास पाण्डवः॥३३॥
ततो युधिष्ठिरो राजा भीममाह वचोऽर्थवत्
।
तूष्णीं भव न ते जल्प्यमिदं कार्यं कथंचन॥३४॥
एवमुक्त्वा महाबाहुर्धर्मराजो युधिष्ठिरः
।
भ्रातृभिः सहितः सर्वैरप्रमत्तोऽभवत्तदा॥३५॥
सारथिं चास्य दयितमपहस्तेन जघ्निवान्
।
धर्मात्मा विदुरस्तेषां पार्थानां प्रददौ मतिम्॥३६॥
भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम्
।
कालकूटं नवं तिक्ष्णं संभृतं लोमहर्षणम्॥३७॥
वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया
।
तच्चापि भुक्त्वाजरयदविकारं वृकोदरः॥३८॥
विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम्
।
भीमसंहनने भीमे अर्जीर्यत वृकोदरे॥३९॥
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः
।
अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान्॥४०॥
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नमर्षिताः
।
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः॥४१॥
कुमारान्क्रीडमानांस्तान्दृष्ट्वा राजातिदुर्मदान्
।
गुरुं शिक्षार्थमन्विष्य गौतमं तान्न्यवेदयत्॥४२॥
तान्कुरुबालकान् न्यवेदयत् ॥४२॥
शरस्तम्बे समुद्भूतं वेदशास्त्रार्थपारगम्
।
अधिजग्मुश्च कुरवो धनुर्वेदं कृपात्तु ते॥४३॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि भीमप्रत्यागमने ऊनत्रिंशदधिकशततमोऽध्यायः॥१२९॥
जनमेजय उवाच।
कृपस्यापि मम ब्रह्मन्संभवं वक्तुमर्हसि
।
शरस्तम्बात्कथं जज्ञे कथं वाऽस्त्राण्यवाप्तवान्॥१॥
त्रिंशदधिकशततमः अध्यायः गुरुद्वारकमपि कौरवाणां माहात्म्यं वक्तुं गुर्वोः कृपद्रोणयोरप्युत्पत्तिं विशिष्टामाहाध्यायाभ्यां कृपस्यापीत्यादिना ॥१॥
वैशंपायन उवाच।
महर्षेर्गौतमस्यासीच्छरद्वान्नाम गौतमः
।
पुत्रः किल महाराज जातः सह शरैर्विभो॥२॥
शरद्वान्नामतः गौतमो गोत्रतः शरैः सहजातः शरा एव वास्य बन्धुवत्प्रिया इत्यर्थः ॥२॥
न तस्य वेदाध्ययने तथा बुद्धिरजायत
।
यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप॥३॥
तदेवाह न तस्येत्यादिना ॥३॥
अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मचारिणः
।
तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह॥४॥
धनुर्वेदपरत्वाच्च तपसा विपुलेन च
।
भृशं सन्तापयामास देवराजं स गौतमः॥५॥
ततो जालवतीं नाम देवकन्यां सुरेश्वरः
।
प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव॥६॥
सा हि गत्वाश्रमं तस्य रमणीयं शरद्वतः
।
धनुर्बाणधरं बाला लोभयामास गौतमम्॥७॥
तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने
।
लोकेऽप्रतिमसंस्थानां प्रोत्फुल्लनयनोऽभवत्॥८॥
धनुश्च हि शरास्तस्य कराभ्यामपतन्भुवि
।
वेपथुश्चापि तां दृष्ट्वा शरीरे समजायत॥९॥
स तु ज्ञानगरीयस्त्वात्तपसश्च समर्थनात्
।
अवतस्थे महाप्राज्ञो धैर्येण परमेण ह॥१०॥
समर्थनात् सामर्थ्यात् समन्वयादिति पाठान्तरम् ॥१०॥
यस्तस्य सहसा राजन्विकारः समदृश्यत
।
तेन सुस्राव रेतोऽस्य स च तन्नान्वबुध्यत॥११॥
धनुश्च सशरं त्यक्त्वा तथा कृष्णाजिनानि च
।
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः॥१२॥
जगाम रेतस्तत्तस्य शरस्तम्बे पपात च
।
शरस्तम्बे च पतितं द्विधा तदभवन्नृप॥१३॥
तस्याथ मिथुं जज्ञे गौतमस्य शरद्वतः
।
मृगयां चरतो राज्ञः शान्तनोस्तु यदृच्छया॥१४॥
कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत
।
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च॥१५॥
ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्तगस्य ह
।
स राज्ञे दर्शयामास मिथुनं सशरं धनुः॥१६॥
स तदादाय मिथुनं राजा च कृपयान्वितः
।
आजगाम गृहानेव मम पुत्राविति ब्रुवन्॥१७॥
पुत्री च पुत्रश्च पुत्रौ ॥१७॥
ततः संवर्धयामास संस्कारैश्चाप्ययोजयत्
।
प्रातिपेयो नरश्रेष्ठो मिथुनं गौतमस्य तत्॥१८॥
प्रातिपेयः प्रतीपपुत्रः ॥१८॥
गौतमोऽपि ततोऽभ्येत्य धनुर्वेदपरोऽभवत्
।
कृपया यन्मया बालाविमौ संवर्धिताविति॥१९॥
तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः
।
गोपितौ गौतमस्तत्र तपसा समवन्दित॥२०॥
गोपितौ राज्ञा पालितौ ॥२०॥
आगत्य तस्मै गोत्रादि सर्वमाख्यातवांस्तदा
।
चतुर्विधं धनुर्वेदं शास्त्राणि विविधानि च॥२१॥
चतुर्विधं मुक्तममुक्तं मुक्तामुक्तं मन्त्रमुक्तं चेति । मुक्तं बाणादि । अमुक्तं खङ्गादि । मुक्तामुक्तं सोपसंहारमस्त्रम् । निरुपसंहारमस्त्रं मन्त्रमुक्त यद्वा शस्त्रमस्त्रं प्रत्यस्रं परमास्त्रं च । यद्वा आदानं सन्धानं विमोक्षः संहारश्च ॥२१॥
निशिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा
।
सोऽचिरेणैव कालेन परमाचार्यतां गतः॥२२॥
ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः
।
धृतराष्ट्रात्मजाश्चैव पाण्डवाः सह यादवैः॥२३॥
वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः
।
वैशंपायन उवाच।
विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया॥२४॥
विनयेप्सया शिक्षेच्छया ॥२४॥
इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान्
।
नाल्पधीर्ना महाभागस्तथा नानस्त्रकोविदः॥२५॥
नादेवसत्वो विनयेत्कुरूनस्त्रे महावलान्
।
इति संचिन्त्य गाङ्गेयः सदा भरतसत्तमः॥२६॥
अदेवसत्त्वः नास्ति देवस्येव सत्त्वं सामर्थ्यं यस्य सः ॥२६॥
द्रोणाय वेदविदुषे भारद्वाजाय धीमते
।
पाण्डवान्कौरवांश्चैव ददौ शिष्यान्नरर्षभ॥२७॥
शास्त्रतः पूजितश्चैव सम्यक्तेन महात्मना
।
स भीष्मेण महाभागस्तुष्टोऽस्त्रविदुषां वरः॥२८॥
प्रतिजग्राह तान्सर्वाञ्शिष्यत्वेन महायशाः
।
शिक्षयामास च द्रोणो धनुर्वेदमशेषतः॥२९॥
तेऽचिरेणैव कालेन सर्वशस्त्रविशारदाः
।
बभूवुः कौरवा राजन्पाण्डवाश्चामितौजसः॥३०॥
जनमेजय उवाच।
कथं समभवद्द्रोणः कथं चास्त्राण्यवाप्तवान्
।
कथं चागात्कुरून्ब्रह्मन्कस्य पुत्रः स वीर्यवान्॥३१॥
कथं चास्य सुतो जातः सोऽश्वत्थामास्त्रवित्तमः
।
एतदिच्छाम्यहं श्रोतुं विस्तरेण प्रकीर्तय॥३२॥
वैशंपायन उवाच।
गङ्गाद्वारं प्रति महान्बभूव भगवानृषिः
।
भरद्वाज इति ख्यातः सततं संशितव्रतः॥३३॥
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागमन्नदीम्
।
महर्षिभिर्भरद्वाजो हविर्धाने चरन्पुरा॥३४॥
स इति ततः पूर्वमेवाप्लुतामिति सम्बन्धः । अङ्गलग्नवस्त्रां विवृताङ्गीं ददर्शेति भावः सार्धः ॥३४॥
ददर्शाप्सरसं साक्षाद्धृताचीमाप्लुतामृषिः
।
रूपयौवनसंपन्नां मददृप्तां मदालसाम्॥३५॥
तस्या पुनर्नदीतीर वसनं पर्यवर्तत
।
व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः॥३६॥
तत्र संसक्तमनसो भरद्वाजस्य धीमतः
।
ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे॥३७॥
द्रोणे द्रोणकलशाख्ये यज्ञियपात्रविशेषे ॥३७॥
ततः समभवद्द्रोणः कलशे तस्य धीमतः
।
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः॥३८॥
यतो द्रोणकलशेऽभवत्ततो द्रोण इति नाम निर्वक्ति तत इति ॥३८॥
अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान्
।
प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदां वरः॥३९॥
भरद्वाज आग्नेयमस्त्रम् अग्निवेशाय ददौ । स चाग्नेः पुत्रोऽग्निवेशो भारद्वाजं द्रोणं स्वगुरुपुत्रमाग्नेयमस्त्रमशिक्षयदिति श्लोकद्वयार्थः ॥३९॥
अग्नेस्तु जातः स मुनिस्ततो भरतसत्तम
।
भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत्॥४०॥
भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः
।
तस्यापि द्रुपदो नाम तथा समभवत्सुतः॥४१॥
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्थिवः
।
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः॥४२॥
ततो व्यतीते पृषते स राजा द्रुपदोऽभवत्
।
पञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः॥४३॥
भरद्वाजोऽपि भगवानारुरोह दिवं तदा
।
तत्रैव च वसन्द्रोणस्तपस्तेपे महातपाः॥४४॥
वेदवेदाङ्गविद्वान्स तपसा दग्धकिल्बिषः
।
ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः॥४५॥
४०॥ पितृभिः पुत्रमुत्पादयेति नियुक्त आत्मा मनो यस्य स पितृनियुक्तात्मा ॥४५॥
शारद्वतीं ततो भार्यां कृपीं द्रोणोऽन्वविन्दत
।
अग्निहोत्रे च धर्मे च दमे च सततं रताम्॥४६॥
अलभद्गौतमी पुत्रमश्वत्थामानमेव च
।
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः॥४७॥
तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत्
।
अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम्॥४८॥
स्थामशब्दसकारस्य तकारादेशेऽश्वत्थामेति ॥४८॥
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति
।
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत्॥४९॥
तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत्
।
स शुश्राव महात्मानं जामदग्न्यं परंतपम्॥५०॥
सर्वज्ञानविदं विप्रं सर्वशस्त्रभृतां वरम्
।
ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः॥५१॥
स रामस्य धनुर्वेदं दिव्यान्यस्त्राणि चैव ह
।
श्रुत्वा तेषु मनश्चक्रे नीतिशास्त्रे तथैव च॥५२॥
ततः स व्रतिभिः शिष्यैस्तपोयुक्तैर्महातपाः
।
वृतः प्रायान्महावाहुर्महेन्द्रं पर्वतोत्तमम्॥५३॥
ततो महेन्द्रमासाद्य भारद्वाजो महातपाः
।
क्षन्तं दान्तममित्रघ्नमपश्यद्भृगुनन्दनम्॥५४॥
ततो द्रोणो वृतः शिष्यैरुपगम्य भृगूद्वहम्
।
आचख्यावात्मनो नाम जन्म चाङ्गिरसः कुले॥५५॥
निवेद्य शिरसा भूमौ पादौ चैवाभ्यवादयत्
।
ततस्तं सर्वमुत्सृज्य वनं जिगमिषुं तदा॥५६॥
जामदग्न्यं महात्मानं भारद्वाजोऽब्रवीदिदम्
।
भरद्वाजात्समुत्पन्नं तथा त्वं मामयोनिजम्॥५७॥
आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम
।
तमब्रवीन्महात्मा स सर्वक्षत्रियमर्दनः॥५८॥
स्वागतं ते द्विजश्रेष्ठ यदिच्छसि वदस्व मे
।
एवमुक्तस्तु रामेण भारद्वाजोऽब्रवीद्वचः॥५९॥
रामं प्रहरतां श्रेष्ठं दित्सन्तं विविधं वसु
।
अहं धनमनन्तं हि प्रार्थये विपुलव्रत॥६०॥
राम उवाच।
हिरण्यं मम यच्चान्यद्वसु किंचिदिह स्थितम्
।
ब्राह्मणेभ्यो मया दत्तं सर्वमेतत्तपोधन॥६१॥
तथैवेयं धरा देवी सागरान्ता सपत्तना
।
कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी॥६२॥
शरीरमात्रमेवाद्य ममेदमवशेषितम्
।
शस्त्राणि च महार्हाणि शस्त्राणि विविधानि च॥६३॥
अस्त्राणि वा शरीरं वा वरयैतन्मयोद्यतम्
।
वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत्॥६४॥
द्रोण उवाच।
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव
।
स प्रयोगरहस्यानि दातुमर्हस्यशेषतः॥६५॥
तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः
।
सरहस्यव्रतं चैव धनुर्वेदमशेषतः॥६६॥
प्रतिगृह्य तु तत्सर्वं कृतास्त्रे द्विजसत्तमः
।
प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति॥६७॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्रोणस्य भार्गवादस्त्रप्राप्तौ त्रिंशदधिकशततमोऽध्यायः॥१३०॥
वैशंपायन उवाच।
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्
।
अब्रवीत्पार्थिवं राजन्सखायं विद्धि मामिह॥१॥
एकत्रिंशदधिकशततमः अध्यायः तत इति ॥१॥
इत्येवमुक्तः सख्या स प्रीतिर्पूर्वं जनेश्वरः
।
भारद्वाजेन पाञ्चाल्यो नामृष्यत वचोऽस्य तत्॥२॥
स क्रोधामर्षजिह्मभ्रूः कषायीकृतलोचनः
।
ऐश्वर्यमदसंपन्नो द्रोणं राजाऽब्रवीदिदम्॥३॥
कषायीकृते रक्ते लोचने यस्य सः ॥३॥
द्रुपद उवाच।
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा
।
यन्मां व्रवीषि प्रसभं सखा तेऽहमिति द्विज॥४॥
अकृता असंस्कृता ॥४॥
न हि राज्ञामुदीर्णानामेवंभूतैर्नरैः क्वचित्
।
सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः॥५॥
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यतः
।
सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम्॥६॥
सामर्थ्येत्यनेनासमर्थस्य सौहृदं जीर्यत इत्युक्तम् ॥६॥
न सख्यमजरं लोके हृदि तिष्ठति कस्यचित्
।
कालो ह्येनं विहरति क्रोधो वैनं रहत्युत॥७॥
एनं सखायं विरहति पृथक्करोति । रहति सख्याच्च्यावयति ॥७॥
मैवं जीर्णमुपास्स्व त्वं सख्यं भवत्वपाकृधि
।
आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम्॥८॥
मैवमिति । एवं जीर्णं भवत् जीर्णत्वं प्राप्नुवत् सख्यं मा उपास्व तु पुनः अपाकृधि दूरीकुरु । यद्वा भवतु जीर्णं सख्यं तत्तु एवं पूर्ववत् मा उपास्व किंत्वपाकृधि नाशय त्यजेत्यर्थः । हिंसार्थस्य स्वादिकृञो रूपम् । अत्रापि हेतुः । अर्थनिबन्धनम् ॥८॥
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा
।
न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते॥९॥
एतदेव विवृणोति । न दरिद्र इत्यादिना । पूर्वं सखा इति सखिपूर्वं जीर्णं सख्यं तत्किमिष्यते अपि तु नैवेति काक्वा योज्यम् ॥९॥
ययोरेव समं वित्तं ययोरेव समं श्रुतम्
।
तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः॥१०॥
विपुष्टः कृशो निर्धनो वा ॥१०॥
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा
।
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते॥११॥
वैशंपायन उवाच।
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान्
।
मुहूर्तं चिन्तयित्वा तु मन्युनाभिपरिप्लुतः॥१२॥
द्रुपदेनेति पाञ्चाल्यं गर्वितं चिन्तयित्वा तत्पराभवोपायं मनसा विनिश्चित्य प्रतिबुद्धिः प्रतीपबुद्धिः शत्रुबुद्धिस्तद्वान् सन् नागसाह्वयं जगामेति द्वयोः सम्बन्धः ॥१२॥
स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान्
।
जगाम कुरुमुख्यानां नागरं नागसाह्वयम्॥१३॥
स नागपुरमागम्य गौतमस्य निवेशने
।
भारद्वाजोऽवसत्तत्र प्रच्छन्नं द्विजसत्तमः॥१४॥
ततोऽस्य तनुजः पार्थान्कृपस्यानन्तरं प्रभुः
।
अस्त्राणि शिक्षयामास नाबुध्यन्त च तं जनाः॥१५॥
अस्य तनुजोऽश्वत्थामा नाबुध्यन्त द्रोणपुत्रोयमिति न ज्ञातवन्तः ॥१५॥
एवं स तत्र गूढात्मा कंचित्कालमुवास ह
।
कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात्॥१६॥
क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा
।
पपात कूपे स वीटा तेषां वै क्रीडतां तदा॥१७॥
वीटया यवाकारेण प्रादेशमात्रकाष्ठेन । यत् हस्तमात्रदण्डेन उपर्युपरि कुमाराः प्रक्षिपन्ति । लोहगुलिकयेत्यन्ये ॥१७॥
ततस्ते यत्नमातिष्ठन्वीटामुद्धर्तुमादृताः
।
न च ते प्रत्ययद्यन्त कर्म वीटोपलब्धये॥१८॥
ततोऽन्योन्यमवैक्षन्त व्रीडयावनताननाः
।
तस्या योगमविदन्तो भृशं चोत्कण्ठिताभवन्॥१९॥
तेऽपश्यन्ब्राह्मणं श्याममापन्नं पलितं कृशम्
।
कृत्यवन्तमदूरस्थमग्निहोत्रपुरस्कृतम्॥२०॥
ते तं दृष्ट्वा महातमानमुपगम्य कुमारकाः
।
भग्नोत्साहक्रियात्मानो ब्राह्मणं पर्यवारयन्॥२१॥
अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवशस्तदा
।
प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान्॥२२॥
पैशल्यात् कौशल्यात् ॥२२॥
अहो वो धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम्
।
भरतस्यान्वये जाता ये वीटां नाधिगच्छत॥२३॥
वीटां च मुद्रिकां चैव ह्यहमेतदपि द्वयम्
।
उद्धरेयमिषीकाभिर्भोजनं मे प्रदीयताम्॥२४॥
मुद्रिकां च मया त्यज्यमानाम् ॥२४॥
एवमुक्त्वा कुमारांस्तान्द्रोणः स्वाङ्गुलिवेष्टनम्
।
कूपे निरुदके तस्मिन्नपातयदरिदमः॥२५॥
ततोऽब्रवीत्तदा द्रोणं कुन्तीपुत्रो युधिष्ठिरः
।
युधिष्ठिर उवाच।
कृपस्यानुमते ब्रह्मन्भिक्षामाप्नुहि शाश्वतीम्॥२६॥
एवमुक्तः प्रत्युवाच प्रहस्य भरतानिदम्
।
द्रोण उवाच।
एषा मुष्टिरिषीकाणां मयाऽस्त्रेणाभिमन्त्रिता॥२७॥
अस्या वीर्यं निरीक्षध्वं यदन्येषु न विद्यते
।
भेत्स्यामीषिकया वीटां तामिषीकां तथाऽन्यया॥२८॥
तामन्यया समायोगे वीटाया ग्रहणं मम
।
वैशंपायन उवाच।
ततो यथोक्तं द्रोणेन तत्सर्वं कृतमञ्जसा॥२९॥
तदवेक्ष्य कुमारास्ते विस्मयोत्फुल्ललोचनाः
।
आश्चर्यमिदमत्यन्तमिति मत्वा वचोऽब्रुवन्॥३०॥
कुमारा ऊचुः।
मुद्रिकामणि विप्रर्षे शीध्रमेतां समुद्धर
।
वैशंपायन उवाच।
ततः शरं समादाय धनुर्द्रोणो महायशाः॥३१॥
शरेण विद्ध्वा मुद्रां तामूर्ध्वमावाहयत्प्रभुः
।
स शरं समुपादाय कूपादङ्गुलिवेष्टनम्॥३२॥
ददौ ततः कुमाराणां विस्मितानामविस्मितः
।
मुद्रिकामुद्धृतां दृष्ट्वा तमाहुस्ते कुमारकाः॥३३॥
कुमारा ऊचुः।
अभिवादायामहे ब्रह्मन्नैतदन्येषु विद्यते
।
कोऽसि कस्यासि जानीमो वयं किं करवामहे॥३४॥
वैशंपायन उवाच।
एवमुक्तस्ततो द्रोणः प्रत्युवाच कुमारकान्
।
द्रोण उवाच।
आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम्॥३५॥
स एव सुमहातेजाः सांप्रतं प्रतिपत्स्यते
।
वैशंपायन उवाच।
तथेत्युक्त्वा च गत्वा च भीष्ममूचुः कुमारकाः॥३६॥
सांप्रतं युक्तं प्रतिपत्स्यते ज्ञास्यति ॥३६॥
ब्राह्मणस्य वचस्तथ्यं तच्च कर्म तथाविधम्
।
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत॥३७॥
युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च
।
अथैनमानीय तदा स्वयमेव सुसत्कृतम्॥३८॥
परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः
।
हेतुमागमने तच्च द्रोणः सर्वं न्यवेदयत्॥३९॥
द्रोण उवाच।
महर्षेरग्निवेश्यस्य सकाशमहमच्युत
।
अस्त्रार्थमगमं पूर्वं धनुर्वेदचिकीर्षया॥४०॥
चिकीर्षया जिज्ञासया ‘कॄ’ विज्ञाने इत्यस्य रूपम् ॥४०॥
ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः
।
अवसं सुचिरं तत्र गुरुशुश्रूषणे रतः॥४१॥
पाञ्चाल्यो राजपुत्रश्च यज्ञसेनो महाबलः
।
इष्वस्त्रहेतोर्न्यवसत्तस्मिन्नेव गुरौ प्रभुः॥४२॥
स मे तत्र सखा चासीदुपकारी प्रियश्च मे
।
तेनाहं सह संगम्य वर्तयन्सुचिरं प्रभो॥४३॥
सखा वयस्यः उपकारकर्तृत्वादेव प्रियो वल्लभश्च । वर्तयन् वसन् ॥४३॥
बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च
।
स मे सखा सदा तत्र प्रियवादी प्रियंकरः॥४४॥
अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम्
।
अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः॥४५॥
अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा
।
तद्भोज्यं भविता तात सखे सत्येन ते शपे॥४६॥
मम भोगाश्च वित्तं च त्वदधीनं सुखानि च
।
एवमुक्त्वाऽथ वव्राज कृतास्त्रः पूजितो मया॥४७॥
तच्च वाक्यमहं नित्यं मनसा धारयंस्तदा
।
सोऽहं पितृनियोगेन पुत्रलोभाद्यशस्विनीम्॥४८॥
नातिकेशीं महाप्रज्ञामुपयेमे महाव्रताम्
।
अग्निहोत्रे च सत्रे च दमे च सततं रताम्॥४९॥
अलभद्गौतमी पुत्रमश्वत्थामानमौरसम्
।
भीमविक्रमकर्माणमादित्यसमतेजसम्॥५०॥
पुत्रेण तेन प्रीतोऽहं भरद्वाजो मया यथा
।
गोक्षीरं पिबतो दृष्ट्वा धनिनस्तत्र पुत्रकान्
।
अश्वत्थामारुदद्बालस्तन्मे संदेहयद्दिशः॥५१॥
दिशः सन्देहयत् दिङ्मोहमजनयत् । अडभाव आर्षः शत्रन्तं वा ॥५१॥
न स्नातकोऽवसीदेत वर्तमानः स्वकर्मसु
।
इति संचिन्त्य मनसा तं देशं बहुशो भ्रमन्॥५२॥
स्नातको यः कश्चिदल्पगोधनः स्वधर्मलोपान्नावसीदेतातो बहुगोधनवतो ब्राह्मणस्य प्रतिग्रहमिच्छन् ॥५२॥
विशुद्धणिच्छन्गाङ्गेय धर्मोपेतं प्रतिग्रहम्
।
अन्तादन्तं परिक्रम्य नाध्यगच्छं पयस्विनीम्॥५३॥
अन्तादन्तं देशाद्देशम् ॥५३॥
अथ पिष्टोदकेनैनं लोभयन्ति कुमारकाः
।
पीत्वा पिष्टरसं बालः क्षीरं पीतं मयाऽपि च॥५४॥
ननर्तोत्थाय कौरव्य हृष्टो बाल्याद्विमोहितः
।
तं दृष्ट्वा नृत्यमानं तु बालैः परिवृतं सुतम्॥५५॥
हास्यतामुपसंप्राप्तं कश्मलं तत्र मेऽभवत्
।
द्रोणं धिगस्त्वधनिनं यो धनं नाधिगच्छति॥५६॥
पिष्टोदकं सुतो यस्य पीत्वा क्षीरस्य तृष्णया
।
नृत्यति स्म मुदाविष्टः क्षीरं पीतं मयाऽप्युत॥५७॥
इति संभाषतां वाचं श्रुत्वा मे बुद्धिरच्यवत्
।
आत्मानं चात्मना गर्हन्मनसेदं व्यचिन्तयम्॥५८॥
सम्भाषतां संभाषमाणानाम् | अच्यवत् धर्मच्युताऽभूत् । आत्मानं दरिद्रदोषादात्मना मनसा गर्हन् । इदं वक्ष्यमाणम् ॥५८॥
अपि चाहं पुरा विप्रैर्वर्जितो गर्हितो वसे
।
परोपसेवां पापिष्ठां न च कुर्यां धनेप्सया॥५९॥
इति मत्वा प्रियं पुत्रं भीष्मादाय ततो ह्यहम्
।
पूर्वस्नेहानुरागित्वात्सदारः सौमकिं गतः॥६०॥
पुरा पूर्वं दरिद्रोयमिति गर्वितोऽपि वसे उपवासं कुर्वे न तु सेवां कुर्याम् इति मत्वा निश्चित्यापि पुत्रस्य प्रियत्वात् सौमकिं द्रुपदं गत इति सम्बन्धः ॥६०॥
अभिषिक्तं तु श्रुत्वैव कृतार्थोऽस्मीति चिन्तयन्
।
प्रियं सखायं सुप्रीतो राज्यस्थं समुपागमम्॥६१॥
संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत्
।
ततो द्रुपदमागम्य सखइपूर्वमहं प्रभो॥६२॥
तत्तस्य वचनं मम राज्यं त्वद्भोग्यं भविष्यतीति ॥६२॥
अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति
।
उपस्थितस्तु द्रुपदं सखिवच्चास्मि सङ्गतः॥६३॥
स मां निराकारमिव प्रहसन्निदमब्रवीत्
।
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा॥६४॥
निराकारं निरस्तोत्तमरूपं हीनजनमिव । अकृतेत्यादि प्राग्व्याख्यातम् ॥६४॥
यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज
।
संगतनीह जीर्यन्ति कालेन परिजीर्यतः॥६५॥
सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम्
।
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा॥६६॥
साम्याद्धि सख्यं भवति वैषम्यान्नोपपद्यते
।
न सख्यमजरं लोके विद्यते जातु कस्यचित्॥६७॥
कालो वैनं विहरति क्रोधो वैनं रहत्युत
।
मैवं जीर्णमुपास्व त्वं सत्यं भवत्वपाकृधि॥६८॥
आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम्
।
न ह्यनाढ्यः सखाढ्यस्य नाविद्वान्विदुषः सखा॥६९॥
न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते
।
न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित्॥७०॥
सख्यं भवति मन्दात्मञ्छ्रियाहीनैर्धनच्युतैः
।
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा॥७१॥
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते
।
अहं त्वया न जानामि राज्यार्थे संविदं कृताम्॥७२॥
राज्यार्थे संविदं त्वद्भोग्यं मम राज्यमिति सङ्केतम् ॥७२॥
एकरात्रं तु ते ब्रह्मन्कामं दास्यामि भोजनम्
।
एवमुक्तस्त्वहं तेन सदारः प्रस्थितस्तदा॥७३॥
तां प्रतिज्ञां प्रतिज्ञाय यां कर्तास्म्यचिरादिव
।
द्रुपदेनैवमुक्तोऽहं मन्युनाऽभिपरिप्लुतः॥७४॥
अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः
।
ततोऽहं भवतः कामं संवर्धयितुमागतः॥७५॥
इदं नागपुरं रम्यं ब्रूहि किं करवाणि ते
।
वैशंपायन उवाच।
एवमुक्तस्तदा भीष्मो भारद्वाजमभाषत॥७६॥
भीष्म उवाच।
अपज्यं क्रियतां चापं साध्वस्त्रं प्रतिपादय
।
भुङ्क्ष्व भोगान्भृशं प्रीतः पूज्यमानः कुरुक्षये॥७७॥
प्रतिपादय अस्मत्कुमारेभ्य इति शेषः । कुरुक्षये कुरुगृहे ॥७७॥
कुरूणामस्ति यद्वित्तं राज्यं चेदं सराष्ट्रकम्
।
त्वमेव परमो राजा सर्वे च कुरवस्तव॥७८॥
यच्च ते प्रार्थितं ब्रह्मन्कृतं तदिति चिन्त्यताम्
।
दिष्ट्या प्राप्तोऽसि विप्रर्षे महान्मेऽनुग्रहः कृतः॥७९॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि भीष्मद्रोणसमागमे एकत्रिंशदधिकशततमोऽध्यायः॥१३१॥
वैशंपायन उवाच।
ततः संपूजितो द्रोणो भीष्मेण द्विपदां वरः
।
विशश्राम महातेजाः पूजितः कुरुवेश्मनि॥१॥
द्वात्रिंशदधिकशततमोऽध्यायः तत इति ॥१॥
विश्रान्तेऽथ गुरौ तस्मिन्पौत्रानादाय कौरवान्
।
शिष्यत्वेन ददौ भीष्मो वसूनि विविधानि च॥२॥
द्वात्रिंशदधिकशततमोऽध्यायः तत इति ॥२॥
गृहं च सुपरिच्छन्नं धनधान्यसमाकुलम्
।
भारद्वाजाय सुप्रीतः प्रत्यपादयत प्रभुः॥३॥
सुपरिच्छन्नं सुधाद्यालिप्तम् ॥३॥
स ताञ्शिष्यान्महेष्वासः प्रतिजग्राह कौरवान्
।
पाण्डवान्धार्तराष्ट्रांश्च द्रोणो मुदितमानसः॥४॥
प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत्
।
रहस्येकः प्रतीतात्मा कृतोपसदनांस्तथा॥५॥
प्रतीतात्मा हृष्टचित्तः कृतोपसदनान् कृतपादग्रहणान् ॥५॥
द्रोण उवाच।
कार्यं मे काङ्क्षितं किंचिद्धृदि संपरिवर्तते
।
कृतास्त्रैस्तत्प्रदेयं मे तदेतद्वदतानघाः॥६॥
वैशंपायन उवाच।
तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशांपते
।
अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तप॥७॥
ततोऽर्जुनं तदा मूर्ध्नि समाघ्राय पुनः पुनः
।
प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा॥८॥
ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च
।
ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान्॥९॥
राजपुत्रास्तथा चान्ये समेत्य भरतर्षभ
।
अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम्॥१०॥
वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः
।
सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा॥११॥
स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः
।
दुर्योधनं समाश्रित्य सोऽवमन्यत पाण्डवान्॥१२॥
अभ्ययात्स ततो द्रोणं धनुर्वेदचिकीर्षया
।
शिक्षाभुजवलोद्योगैस्तेषु सर्वेषु पाण्डवः॥१३॥
धनुर्वेदस्य चिकीर्षया जिज्ञासया । शिक्षादिभिः पाण्डवो द्रोणमभ्ययादभिगतः । तत्तुल्योऽभवदित्यर्थः ॥१३॥
अस्त्रविद्यानुरागाच्च विशिष्टोऽभवदर्जुनः
।
तुल्येष्वस्त्रप्रयोगेषु लाघवे सौष्टवेषु च॥१४॥
अत एव तेषु विशिष्टः एतदेवाह तुल्येष्विति ॥१४॥
सर्वेषामेव शिष्याणां बभूवाभ्यधिकोऽर्जुनः
।
ऐन्द्रिमप्रतिमं द्रोण उपदेशेष्वमन्यत॥१५॥
एवं सर्वकुमाराणामिष्वस्त्रं प्रत्यपादयत्
।
कमण्डलुं च सर्वेषां प्रायच्छच्चिरकारणात्॥१६॥
कमण्डलुं सूक्ष्ममुखत्वाद्विलम्बेन पूरणीयम् ॥१६॥
पुत्राय च ददौ कुम्भमविलम्बनकारणात्
।
यावत्ते नोपगच्छन्ति तावदस्मै परां क्रियाम्॥१७॥
कुम्भं विस्तीर्णमुखत्वात्सद्यः पूरणीयं तस्य फलमाह यावदिति ॥१७॥
द्रोण आचष्ट पुत्राय तत्कर्म जिष्णुरौहत
।
ततः स वारुणास्त्रेण पूरयित्वा कमण्डलुम्॥१८॥
औहत तर्कितवान् ॥१८॥
सममाचार्यपुत्रेण गुरुमभ्येति फाल्गुनः
।
आचार्यपुत्रात्तस्मात्तु विशेषोपचयेऽपृथक्॥१९॥
विशेषोपचये गुणवृद्धौ अपृथक् सहैवास्ते ॥१९॥
न व्यहीयत मेधावी पार्थोऽप्यस्त्रविदां वरः
।
अर्जुनः परमं यत्नमातिष्ठद्गुरुपूजने॥२०॥
अतो न व्यहीयत न विहीनोभूत् ॥२०॥
अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत्
।
तं दृष्ट्वा नित्यमुद्युक्तमिष्वस्त्रं प्रति फाल्गुनम्॥२१॥
योगं ऐकाग्र्यम् ॥२१॥
आहूय वचनं द्रोणो रहः सूदमभाषत
।
अन्धकारेऽर्जुनायान्नं न देयं ते कदाचन
।
न चाख्येयमिदं चापि मद्वाक्यं विजये त्वया॥२२॥
सूदं सूपकारं प्रति अन्नं न देयं किन्त्वन्धकारे मुखादन्यत्र ग्रासाः पतिष्यन्तीति नान्नं ददामीति स त्वया वाच्य इति भावः । विजये अर्जुने अयं भावः । अत्यभ्यासान्मुखादन्यत्र ग्राहा न पतन्त्येव एवं तमसि शब्दादिलक्ष्यादन्यत्र शरा अपि न पतेयुरित्युक्तोर्जुनो यदि केनेदमुक्तमिति पृच्छेत्तर्हि लौकिक एवायमर्थ इति तं प्रतिवक्तव्यं न तु द्रोणवाक्यमेतदिति ॥२२॥
ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने
।
तेन तत्र प्रदीपः स दीप्यमानो विलोपितः॥२३॥
एकं गुरुणा शिष्यस्याभ्यासे प्रवृत्तौ ज्ञापितायां ततः प्रागेवार्जुनः स्वदृष्टान्तेनैव तज्ज्ञातवानित्याह द्वाभ्यां तत इति ॥२३॥
भुक्त एव तु कौन्तेयो नास्यादन्यत्र वर्तते
।
हस्तस्तेजस्विनस्तस्य अनुग्रहणकारणात्॥२४॥
अनुग्रहणम् अभ्यासः ॥२४॥
तदभ्यासकृतं मत्वा रात्रावपि स पाण्डवः
।
योग्यां चक्रे महाबाहुर्धनुषा पाण्डुनन्दनः॥२५॥
योग्यम् अभ्यासम् ॥२५॥
तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत
।
उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत्॥२६॥
श्रवणोत्तरम् उत्थायोपेत्येतिक्रमः ॥२६॥
द्रोण उवाच।
प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः
।
त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते॥२७॥
वैशंपायन उवाच।
ततो द्रोणोऽर्जुनं भूयो हयेषु च गजेषु च
।
रथेषु भूमावपि च रणशिक्षामशिक्षयत्॥२८॥
गदायुद्धेऽसि चर्यायां तोमरप्रासशक्तिषु
।
द्रोणः संकीर्णयुद्धे च शिक्षयामास कौरवान्॥२९॥
सङ्कीर्णयुद्धे युगपदनेकायुधप्रयोगे युगपदनेकैः सह युद्धे वा ॥२९॥
तस्य तत्कौशलं श्रुत्वा धनुर्वेदजिघृक्षवः
।
राजानो राजपुत्राश्च समाजग्मुः सहस्रशः॥३०॥
ततो निषादराजस्य हिरण्यधनुषः सुतः
।
एकलव्यो महाराज द्रोणमभ्याजगाम ह॥३१॥
न स तं प्रतिजग्राह नैषादिरिति चिन्तयन्
।
शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया॥३२॥
तेषामन्ववेक्षया तेभ्योऽधिको मा भूदिति बुद्ध्या ॥३२॥
स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः
।
अरण्यमनुसंप्राप्य कृत्वा द्रोणं महीमयम्॥३३॥
महीमयं मृन्मयम् ॥३३॥
तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा
।
इष्वस्त्रे योगमातस्थे परं नियममास्थितः॥३४॥
इष्वस्त्रे इषुप्रयोगे योगम् ऐकाग्र्यम् ॥३४॥
परया श्रद्धयोपेतो योगेन परमेण च
।
विमोक्षादानसन्धाने लघुत्वं परमाप सः॥३५॥
लघुत्वं शीघ्रप्रयोक्तृत्वम् ॥३५॥
अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः
।
रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः॥३६॥
तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया
।
राजन्ननुजगामैकः श्वानमादाय पाण्डवान्॥३७॥
उपकरणं श्ववागुरादि मुख्यं तु करणम् आयुधमेव ॥३७॥
तेषां विचरतां तत्र तत्तत्कर्मचिकीर्षया
।
श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान्॥३८॥
स कृष्णमलदिग्धाङ्गं कृष्णाजिनजटाघरम्
।
नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके॥३९॥
तदा तस्याथ भषतः शुनः सप्त शरान्मुखे
।
लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा॥४०॥
अस्त्रे प्रयोगे लाघवं कौशलं येन शरा मुखे प्रविष्टा एव न तु तद्विद्धवन्तः ॥४०॥
स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह
।
तं दृष्ट्वा पाण्डवा वीराः परं विस्मयमागताः॥४१॥
लाघवं शब्धवेधित्वं दृष्ट्वा तत्परमं तदा
।
प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः॥४२॥
तं ततोऽन्वेषमाणास्ते वने वननिवासिनम्
।
ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान्॥४३॥
न चैनमभ्यजानंस्ते तदाविकृतदर्शनम्
।
तथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत॥४४॥
एकलव्य उवाच।
निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम्
।
द्रोणशिष्यं च मां वित्त धुर्वेदकृतश्रमम्॥४५॥
वैशंपायन उवाच।
ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः
।
यथावृत्तं वने सर्वं द्रोणायाचख्युरद्भुतम्॥४६॥
कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन्
।
रहो द्रोणं समासाद्य प्रणयादिदमब्रवीत्॥४७॥
अर्जुन उवाच।
नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः
।
भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति॥४८॥
अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान्
।
अन्योऽस्ति भवतः शिष्यो निषादाधिपतेः सुतः॥४९॥
वैशंपायन उवाच।
मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम्
।
सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान्॥५०॥
ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम्
।
एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान्॥५१॥
एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात्
।
अभिगम्योपसंगृह्य जगाम शिरसा महीम्॥५२॥
पूजयित्वा ततो द्रोणं विधिवत्स निषादजः
।
निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः॥५३॥
ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः
।
यदि शिष्योऽसि मे वीर वेतनं दीयतां मम॥५४॥
वेतनं गुरुदक्षिणारूपम् ॥५४॥
एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम्
।
एकलव्य उवाच।
किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः॥५५॥
न हि किंचिददेयं मे गुरवे ब्रह्मवित्तम
।
वैशंपायन उवाच।
तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतामिति॥५६॥
एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम्
।
प्रतिज्ञामात्मनो रक्षन्सत्ये च स नियतः सदा॥५७॥
तथैव हृष्टवदनस्तथैवादीनमानसः
।
छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः॥५८॥
छित्वेति अविचार्येति च्छेदः "स सत्यसन्धं नैषादिं दृष्ट्वा प्रीतोब्रवीदिदम् । एवं कर्तव्यमिति वा एकलव्यमभाषत” इति क्वचित्पद्यं पठन्ति । तत्र एवं कर्तव्यमिति तर्जनीमध्यमाभ्यां शरं धृत्वा ज्याकर्षणं कर्तव्यमित्यमिनीय दर्शयति ॥५८ ॥
ततः शरं तु नैषादीरङ्गुलीभिर्व्यकर्षत
।
न तथा च स शीघ्रोऽभूद्यथा पूर्वं नराधिप॥५९॥
ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः
।
द्रोणश्च सत्यवागासीन्नान्योऽभिभविताऽर्जुनं॥६०॥
द्रोणस्य तु तदा शिष्यौ गदायोग्यौ बभूवतुः
।
दुर्योधनश्च भीमश्च सदा संरब्धमानसौ॥६१॥
गदायोग्यौ गदायुद्धेऽभ्यासवन्तौ ॥६१॥
अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत्
।
तथातिपुरुषानन्यान्त्सारुकौ यमजावुभौ॥६२॥
त्सारुकौ त्सरुः खड्गादिमुष्टिस्तद्ग्रहणप्रधाने युद्धे कुशलौ ॥६२॥
युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः
।
प्रथितः सागरान्तायां रथयूथपयूथपः॥६३॥
रथश्रेष्ठः ‘सप्तमी शौण्डैः’ इति समासः ॥६३॥
बुद्धियोगबलोत्साहः सर्वास्त्रेषु च निष्ठितः
।
अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः॥६४॥
तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान्
।
एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः॥६५॥
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम्
।
धार्तराष्ट्रा दुरात्मानो नामृष्यन्त परस्परम्॥६६॥
तांस्तु सर्वान्समानीय सर्वविद्यास्त्रशिक्षितान्
।
द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभः॥६७॥
प्रहरणज्ञाने कः कथं प्रहरतीति विचारे ॥६७॥
कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम्
।
अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत्॥६८॥
भासं नीलपक्षं पक्षिणं शकुन्तमित्यन्ये गृध्रमित्यपरे ॥६८॥
द्रोण उवाच।
शीघ्रं भवन्तः सर्वेऽपि धनूंष्यादाय सर्वशः
।
भासमेतं समुद्दिश्य तिष्ठध्वं सन्धितेषतः॥६९॥
मद्वाक्यसमकालं तु शिरोऽस्य विनिपात्यताम्
।
एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः॥७०॥
वैशंपायन उवाच।
ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः
।
संधत्स्व बामं दुर्धर्ष मद्वाक्यान्ते विमुञ्च तम्॥७१॥
अङ्गिरसां वरः द्रोणः ॥७१॥
ततो युधिष्ठिरः पूर्वं धनुर्गृह्य परन्तपः
।
तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः॥७२॥
अङ्गिरसां वरः द्रोणः ॥७२॥
ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम्
।
स मुहूर्तादुवाचेदं वचनं भरतर्षभ॥७३॥
पश्यसि त्वं द्रुमाग्रस्थं भासं नरवरात्मज
।
पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः॥७४॥
भासं पश्य तदेकाग्रदृष्टिर्भवेत्यर्थः ॥७४॥
स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत
।
द्रोण उवाच।
अथ वृक्षमिमं मां वा भ्रातॄन्वाऽपि प्रपश्यसि॥७५॥
तमुवाच स कौन्तेयः पश्याम्येनं नवस्पतिम्
।
भवन्तं च तथा भ्रातॄन्भासं चेति पुनःपुनः॥७६॥
तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव
।
नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन्॥७७॥
तमिति वृक्षादिदर्शनात् व्यग्रदृष्टित्वं तेषां ज्ञात्वा सर्वानपि निराचकार ॥७७॥
ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः
।
तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत॥७८॥
अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान्
।
तथा च सर्वे तत्सर्वं पश्याम इति कुत्सिताः॥७९॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्रोणशिष्यपरीक्षायां द्वात्रिंशदधिकशततमोऽध्यायः॥१३२॥
वैशंपायन उवाच।
कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत
।
दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम्॥१॥
चतुस्त्रिंशदधिकशततमोऽध्यायः कृतास्त्रान् धार्तराष्ट्रांश्चेति ॥१॥
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः
।
गाङ्गेयस्य च सान्निध्ये व्यासस्य विदुरस्य च॥२॥
राजन्संप्राप्तविद्यास्ते कुमाराः कुरुसत्तम
।
ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव॥३॥
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना
।
धृतराष्ट्र उवाच।
भारद्वाज महत्कर्म कृतं ते द्विजसत्तम॥४॥
कर्म कुमारशिक्षाख्यम् ॥४॥
यदानुमन्यसे कालं यस्मिन्देशे यथायथा
।
तथा तथा विधानाय स्वयमाज्ञापयस्व माम्॥५॥
मन्यसेऽस्त्रशिक्षादर्शनस्य कालं विधानाय रजभूमेः ॥५॥
स्पृहयाम्यद्य निर्वेदान्पुरुषाणां सचक्षुषाम्
।
अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान्॥६॥
निर्वेदात् दुःखात् सचक्षुषां स्पृहयामि सुखायेति शेषः ॥६॥
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा
।
न हीदृशं प्रियं मन्ये भविता धर्मवत्सल॥७॥
हे क्षत्तः हे विदुर ॥७॥
ततो राजानमामन्त्र्य निर्गतो विदुरो बहिः
।
भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम्॥८॥
समामवृक्षां निर्गुल्मामुदक्प्रस्रवणान्विताम्
।
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते॥९॥
निर्गुल्मां तृणसमूहमूलपिण्डरहिताम् । उदक् प्रस्रवणान्विताम् उदक् निम्नाम् ॥९॥
अवघुष्टे समाजे च तदर्थं वदतां वरः
।
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि॥१०॥
तदर्थं बल्यर्थं समाजे वीरसमूहे अवघुष्टे डिण्डीवशब्देनाहृते सति बलिं चक्रे इति पूर्वेणान्वयः ॥१०॥
प्रेक्षागारं सुविहितं चक्रस्ते तस्य शिल्पिनः
।
रक्षां सर्वायुधोपेतां स्त्रीणां चैव नरर्षभ॥११॥
राज्ञः स्त्रीणां प्रेक्षार्थमागारं मञ्चाश्च इतरेषां प्रेक्षार्थं रङ्गभूमौ चक्रुरिति द्वयोः सम्बन्धः ॥११॥
मञ्चांश्च कारयामासुर्यत्र जानपदा जनाः
।
विपुलानुच्छ्रयोपेताशिन् बिकाश्च महाधनाः॥१२॥
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा
।
भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम्॥१३॥
मुक्ताजालपरिक्षिप्तं वैदूर्यममिशोभितम्
।
शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत्॥१४॥
गान्धारी च महाभागा कुन्ती च जयतां वर
।
स्त्रियश्च राज्ञः सर्वास्ताः सप्रेष्याः सपरिच्छदाः॥१५॥
हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा
।
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम्॥१६॥
दर्शनेप्सुः समभ्यागात्कुमाराणां कृतास्त्रताम्
।
क्षणेनैकस्थतां तत्र दर्शनेप्सुर्जगाम ह॥१७॥
प्रवादितैश्च वादित्रैर्जनकौतूहलेन च
।
महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा॥१८॥
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान्
।
शुक्लकेशः सितश्मश्रुः शुक्लाल्यानुलेपनः॥१९॥
रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह
।
नभो जलधरैर्हीनं साङ्गारक इवांशुमान्॥२०॥
साङ्गारकः सभौमः अंशुमान् चन्द्रः ॥२०॥
स यथा समयं चक्रे बलिं बलवतां वरः
।
ब्राह्मणांस्तु सुमन्त्रज्ञान्कारयामास मङ्गलम्॥२१॥
सुखपुण्याहघोषस्य पुण्यस्य समनन्तरम्
।
विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः॥२२॥
ततो बद्धाङ्गुलित्राणा बद्धकक्ष्या महारथाः
।
बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः॥२३॥
बद्धकक्षाः वस्त्रादिना संवृतां सपृष्टोदरा इत्यर्थः । कक्षा बाहुमूलम् ॥२३॥
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुनरोगमाः
।
चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम्॥२४॥
अस्त्रं अस्त्रविद्यां चक्रुः प्रादुश्चक्रुः ॥२४॥
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे
।
मनुजा धृष्टमपरे वीक्षाञ्चक्रुः सुविस्मिताः॥२५॥
धृष्टं निर्भयम् यथा स्यात्तथा ॥२५॥
ते स्म लक्ष्याणि बिभिदुर्बाणैर्नामाङ्कशोभितैः
।
विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम्॥२६॥
लाघवोत्सृष्टैः गतिचातुरीप्रयुक्तैः उह्यन्तः उह्यमानाः ॥२६॥
तत्कुमारबलं तत्र गृहीतशरकार्मुकम्
।
गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताऽभवन्॥२७॥
गन्धर्वनगराकारमद्भुतरूपम् ॥२७॥
सहसा चुक्रुशुश्चान्ये नराः शतसहस्रशः
।
विस्मयोत्फुल्लनयनाः साधु साध्विति भारत॥२८॥
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत्
।
गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः॥२९॥
धनुषि मार्गान् तिर्यगूर्ध्वान् चललक्ष्यपातनादीन् । रथचर्यासु मार्गान् शीघ्रंगतप्रत्यागतप्रदक्षिणा प्रदक्षिणमण्डलगत्यादिरूपान् ॥२९॥
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः
।
त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु॥३०॥
त्सरुमार्गान् तिर्यगूर्ध्वाधःखङ्गप्रचलनरूपान् । सर्वासु भूमिषु रथादिपृष्ठेषु भुवि वा ॥३०॥
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम्
।
ददृशुस्तत्र सर्वेषां प्रयोगं खड्गचर्मणोः॥३१॥
लाघवं शैघ्र्यं सौष्ठवं चातुरीम् । एकेनैव खड्गेन समन्ताद्भ्रामितेन युगपदनेकायुधनिवारणम् । शोभां सर्वतो झलझलायमानैकखङ्गांशुमण्डलान्तरगतत्वेनाभिनवाम् । स्थिरत्वमभीतत्वम् । दृढमुष्टितां खङ्गभृतां हस्त एव परितश्चलति न त्वङ्गुल्य इत्यर्थः । प्रयोगं निदर्शनम् ॥३१॥
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ
।
अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ॥३२॥
संहृष्टौ परस्परम् जेतुं सकामौ ॥३२॥
बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ
।
बृंहन्तौ वासिताहेतोः समदाविव कुञ्जरौ॥३३॥
बृंहन्तौ शब्दं कुर्वाणौ । वासिता हस्तिनी ॥३३॥
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ
।
चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ॥३४॥
चेरतुः पद्भ्याम् । मण्डलगतौ अलातचक्रवद्भ्राम्यमाणगदापरिवेषान्तर्गतौ । निर्मलगदाविति पाठे स्पष्टोऽर्थः ॥३४॥
विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः
।
न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम्॥३५॥
पाण्डवारणिः कुन्ती ॥३५॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वण्यस्त्रदर्शने चतुस्त्रिंशदधिकशततमोऽध्यायः॥१३४॥
वैशंपायन उवाच।
कुरुराजे हि रङ्गस्थे भीमे च बलिनां वरे
।
पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः॥१॥
पञ्चत्रिंशदधिकशततमोऽध्यायः कुर्विति कुरुराजे दुर्योधने ॥१॥
ही वीर कुरुराजेति जय हे भीम इति जल्पताम्
।
पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः॥२॥
ही विस्मये आश्चर्यं भीमदुर्योधनौ कुरुत इत्यर्थः । हा भीमेत्यपपाठः ॥२॥
ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान्
।
भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत्॥३॥
द्रोण उवाच।
वारयैतौ महावीर्यौ कृतयोग्यावुभावपि
।
मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः॥४॥
कृतयोग्यौ सुशिक्षितौ ॥४॥
वैशंपायन उवाच।
ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ
।
युगान्तानिलसंक्षुब्धौ महावेलाविवार्णवौ॥५॥
ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत्
।
निवार्य वादित्रगणं महामेघनिभस्वनम्॥६॥
यो मे पुत्रात्प्रियतरः सर्वशस्त्रविशारदः
।
ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति॥७॥
इन्द्रानुजसमः विष्णुतुल्यः ॥७॥
आचार्यवचने नाथ कृतस्वस्त्ययनो युवा
।
बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः॥८॥
बद्धे गोधाङ्गुलित्राणे येन गोधातलाख्यं ज्याघातवारणम् अङ्गुलित्राणं प्रसिद्धं चर्ममयम् ॥८॥
काञ्चनं कवचं बिभ्रत्प्रत्यदृश्य फाल्गुनः
।
सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः॥९॥
काञ्चनमिति तूणकार्मुककवचानां तत्प्रभाजालस्यार्जुनस्य च क्रमादर्केन्द्रायुधतडित्संध्यातोयदैरुपमा ॥९॥
ततः सर्वस्य रङ्गस्य समुत्पिञ्जलकोऽभवत्
।
प्रावाद्यन्त च वाद्यानि शङ्खानि समन्ततः॥१०॥
समुत्पिञ्जलक उत्फुल्लता । प्रमुदिते रङ्गे इति वाक्यशेषात् । अन्ये कलकलशब्दो व्याकुलत्वं चेत्याहुः ॥१०॥
एष कुन्तीसुतः श्रीमानेष मध्यमपाण्डवः
।
एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता॥११॥
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः
।
एष शीलवतां चापि शीलज्ञाननिधिः परः॥१२॥
इत्येवं तुमुला वाचः शुश्रुवुः प्रेक्षकेरिताः
।
कुन्त्याः प्रस्रवसंयुक्तैरस्रैः क्लिन्नमुरोऽभवत्॥१३॥
अस्रैः प्रेमाश्रुभिः ॥१३॥
तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत्
।
धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः॥१४॥
क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः
।
सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम्॥१५॥
विदुर उवाच।
एष पार्थो महाराज फाल्गुनः पाण्डुनन्दनः
।
अवतीर्णः सकवचस्तत्रैव सुमिहास्वनः॥१६॥
धृतराष्ट्र उवाच।
धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते
।
पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः॥१७॥
वैशंपायन उवाच।
तस्मिन्प्रमुदिते रङ्गे कथंचित्प्रत्युपस्थिते
।
दर्शयामास बीभत्सुराचार्यायास्त्रलाघवम्॥१८॥
आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः
।
वायव्येनासृजद्वयुं पार्जन्येनासृजद्धनान्॥१९॥
भौमेन प्रासृजद्भूमिं पार्वतेनासृजद्गिरीन्
।
अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत्॥२०॥
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः
।
क्षणेन रथमध्यस्थः क्षणेनावतरन्महीम्॥२१॥
सुकुमारं च सूक्ष्मं च गुरु चापि गुरुप्रियः
।
सौष्ठवेनाभिसंक्षिप्तः सोऽविध्यद्विविधैः शरैः॥२२॥
सुकुमारं पूर्णघटकुक्कुटाण्डादीनि लक्ष्याणि अविचाल्य अविध्यत् । सूक्ष्मं गुञ्जादिलक्ष्यं गुरुं घनावयवं च सोऽविध्यत् ॥२२॥
भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम्
।
पञ्च बाणानसंक्तान्संमुमोचैकबाणवत्॥२३॥
गव्ये विषाणकोशे च चले रज्ज्ववलम्बिनि
।
निचखान महावीर्यः सायकानेकविंशतिम्॥२४॥
गव्ये गोसम्बन्धिनि ॥२४॥
इत्येवमादि सुमहत्खड्गे धनुषि चानघ
।
गदायां शस्त्रकुशलो मण्डलानि ह्यदर्शयत्॥२५॥
ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत
।
मन्दीभूते समाजे च वादित्रस्य च निःस्वने॥२६॥
द्वारदेशात्समुद्भूतो माहात्म्यबलसूचकः
।
वज्रनिष्पेषसदृशः शुश्रुवे भुजनिःस्वनः॥२७॥
दीर्यन्ते किं नु गिरयः किंस्विद्भूमिर्विदीर्यते
।
किंस्विदापूर्यते व्योम जलधाराघनैर्घनैः॥२८॥
रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप
।
द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा॥२९॥
पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ
।
पञ्चतारेण संयुक्तः सावित्रेणैव चन्द्रमाः॥३०॥
सावित्रेण हस्तनक्षत्रेण ॥३०॥
अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितम्
।
दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत्॥३१॥
स तैस्तदा भ्रातृभिरुद्यतायुधैर्गदाग्रपाणिः समवस्थितैर्वृतः
।
बभौ यथा दानवसंक्षये पुरा पुनन्दरो देवगणैः समावृतः॥३२॥
गदाग्रम् आलम्बनं यस्य तादृशः पाणिर्यस्य स गदाग्रपाणिः । गदामात्रसहाय इत्यर्थः । अग्रं पुरस्तादुपरीत्युपक्रम्य आलम्बने समूहेचेति मेदिनी ॥३२॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अस्त्रदर्शने पञ्चत्रिंशदधिकशततमोऽध्यायः॥१३५॥
वैशंपायन उवाच।
दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनः
।
विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः॥१॥
षट्त्रिंशदधिकशततमोऽध्यायः दत्ते इति ॥१॥
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः
।
स धनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः॥२॥
कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः
।
तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः॥३॥
सिंहर्षभगजेन्द्राणां बलवीर्यपराक्रमः
।
दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः॥४॥
प्रांशुः कनकतालाभः सिंहसंहननो युवा
।
असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसंभवः॥५॥
स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम्
।
प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत्॥६॥
स समाजजनः सर्वो निश्चलः स्थिरलोचनः
।
कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत्॥७॥
सोऽब्रवीन्मेघगम्भीरस्वरेण वदतां वरः
।
भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम्॥८॥
पार्थ यत्ते कृतं कर्म विशेषवदहं ततः
।
करिष्ये पश्यतां नॄणामात्मना विस्मयंगमः॥९॥
असमाप्ते ततस्तस्य वचने वदतां वर
।
यन्त्रोत्क्षिप्त इवोत्तस्थौ क्षिप्रं वै सर्वतो जनः॥१०॥
प्रीतिश्च मनुजव्याघ्र दुर्योधनमुपाविशत्
।
ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वाविवेश ह॥११॥
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा
।
यत्कृतं तत्र पार्थेन तच्चकार महाबलः॥१२॥
अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत
।
कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत्॥१३॥
दुर्योधन उवाच।
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद
।
अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम्॥१४॥
कर्ण उवाच।
कृतं सर्वमहं मन्ये सखित्वं च त्वया वृणे
।
द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छाम्यहं प्रभो॥१५॥
दुर्योधन उवाच।
भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव
।
दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिन्दम॥१६॥
वैशंपायन उवाच।
ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत
।
कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम्॥१७॥
अर्जुन उवाच।
अनाहूतोपसृष्टानामनाहूतोपजल्पिनाम्
।
ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे॥१८॥
कर्ण उवाच।
रङ्गोऽयं सर्वसामान्यः किमत्र तव फाल्गुन
।
वीर्यश्रेष्ठाश्च राजानो बलं धर्मोऽनुवर्तते॥१९॥
किं क्षेपैर्दुर्बलायासैः शरैः कथय भारत
।
गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः॥२०॥
वैशंपायन उवाच।
ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरञ्जयः
।
भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम्॥२१॥
ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः
।
परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः॥२२॥
ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोगमैः
।
आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः॥२३॥
ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम्
।
भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान्॥२४॥
मेघच्छायोपगूढस्तु ततोऽदृश्यत फाल्गुनः
।
सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत॥२५॥
धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः
।
भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन्॥२६॥
द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत
।
कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह॥२७॥
तां तथा मोहमापन्नां विदुरः सर्वधर्मवित्
।
कुन्तीमाश्वासयामास प्रेष्याभिश्चन्दनोदकैः॥२८॥
ततः प्रत्यागतप्राणा तावुभौ परिदंशितौ
।
पुत्रौ दृष्ट्वा सुसंभ्रान्ता नान्वपद्यत किंचन॥२९॥
तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत्
।
द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित्॥३०॥
अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः
।
कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति॥३१॥
त्वमप्येवं महाबाहो मातरं पितरं कुलम्
।
कथयस्व नरेन्द्राणां येषां त्वं कुलभूषणम्॥३२॥
ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा
।
वृथाकुलसमाचारैर्न युध्यन्ते नृपात्मजाः॥३३॥
वैशंपायन उवाच।
एवमुक्तस्य कर्णस्य व्रीडावनतमाननम्
।
बभौ वर्षाम्बुविक्लिन्नं पद्ममागलितं यथा॥३४॥
दुर्योधन उवाच।
आचार्य त्रिविधायोनी राज्ञां शास्त्रविनिश्चये
।
सत्कुलीनश्च शूरश्च यश्च सेनां प्रकर्षति॥३५॥
यद्ययं फाल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति
।
तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते॥३६॥
वैशंपायन उवाच।
ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः
।
काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः॥३७॥
अभिषिक्तोऽङ्गराजे स श्रिया युक्तो महाबलः
।
सच्छत्रवालव्यजनो जयशब्दोत्तरेण च॥३८॥
उवाच कौरवं राजन्वचनं स वृषस्तदा
।
अस्य राज्यप्रदानस्य सदृशं किं ददानि ते॥३९॥
प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप
।
अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः॥४०॥
एवमुक्तस्ततः कर्णस्तथेति प्रत्युवाच तम्
।
हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः॥४१॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि कर्णाभिषेके षट्त्रिंशदधिकशततमोऽध्यायः॥१३६॥
वैशंपायन उवाच।
पाण्डवान्धार्तराष्ट्रांश्च कृतास्त्रान्प्रसमीक्ष्य सः
।
गुर्वर्थं दक्षिणाकाले प्राप्तेऽमन्यत वै गुरुः॥१॥
अष्टत्रिंशदधिकशततमोऽध्यायः पाण्डवानिति । अमन्यत चिन्तितवान् ॥१॥
ततः शिष्यान्समाहूय आचार्योऽर्थमचोदयत्
।
द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते॥२॥
अर्थं गुरोः देयं दक्षिणार्थं दक्षिणाय ॥२॥
पञ्चालराजं द्रुपदं गृहित्वा रणमूर्धनि
।
पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा॥३॥
तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः
।
आचार्यधनदानार्थं द्रोणेन सहिता ययुः॥४॥
ततोऽभिजग्मुः पञ्चालान्निघ्नन्तस्ते नरर्षभाः
।
ममृदुस्तस्य नगरं द्रुपदस्य महौजसः॥५॥
दुर्योधनश्च कर्णश्च युयुत्सुश्च महाबलः
।
दुःशासनो विकर्णश्च जलसन्धः सुलोचनः॥६॥
एते चान्ये च बहवः कुमारा बहुविक्रमाः
।
अहं पूर्वमहं पूर्वमित्येवं क्षत्रियर्षभाः॥७॥
ततो वरराथारूढाः कुमाराः सादिभिः सह
।
प्रविश्य नगरं सर्वे राजमार्गमुपाययुः॥८॥
तस्मिन्काले तु पाञ्चालः श्रुत्वा दृष्ट्वा महद्बलम्
।
भ्रातृभिः सहितो राजंस्त्वरया निर्ययौ गृहात्॥९॥
ततस्तु कृतसन्नाहा यज्ञसेनो महीधरः
।
शरवर्षाणि मुञ्चन्तः प्रणेदुः सर्व एव ते॥१०॥
ततो गृहान्निर्गमादूर्ध्वं मार्गे कृतसन्नाहोभूत् । ते प्रणेदुः यज्ञसेनमालक्ष्येति शेषः ॥१०॥
ततो रथेन शुभ्रेण समासाद्य तु कौरवान्
।
यज्ञसेनः शरान्घोरान्ववर्ष युधि दुर्जयः॥११॥
वैशंपायन उवाच।
पूर्वमेव तु संमन्त्र्य पार्थो द्रोणमथाऽब्रवीत्
।
दर्पोद्रेकात्कुमाराणामाचार्यं द्विजसत्तमम्॥१२॥
एषां पराक्रमस्यान्ते वयं कुर्याम साहसम्
।
एतैरशक्यः पाञ्चालो ग्रहीतुं रणमूर्धनि॥१३॥
कुर्यामकुर्वीमहि ॥१३॥
एवमुक्त्वा तु कौन्तेयो भ्रातृभिः सहितोऽनघः
।
अर्धक्रोशे तु नगरादतिष्ठद्बहिरेव सः॥१४॥
द्रुपदः कौरवान्दृष्ट्वा प्राधावत समन्ततः
।
शरजालेन महता मोहयन्कौरवीं चमूम्॥१५॥
तमुद्यतं रथेनैकमाशुकारिणमाहवे
।
अनेकमिव सन्त्रासान्मेनिरे तत्र कौरवाः॥१६॥
द्रुपदस्य शरा घोरा विचेरुः सर्वतो दिशम्
।
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्च सहस्रशः॥१७॥
प्रावाद्यन्त महाराज पञ्चालानां निवेशने
।
सिंहनादश्च संजज्ञे पञ्चालानां महात्मनाम्॥१८॥
धनुर्ज्यातलशब्दश्च संस्पृश्य गगनं महान्
।
दुर्योधनो विकर्णश्च सुबाहुर्दीर्घलोचनः॥१९॥
दुःशाशनश्च संक्रुद्धः शरवर्षैरवाकिरन्
।
सोऽतिविद्धो महेष्वासः पार्षतो युधि दुर्जयः॥२०॥
व्यधमत्तान्यनीकानि तत्क्षणादेव भारत
।
दुर्योधनं विकर्णं च कर्णं चापि महाबलम्॥२१॥
नानानृपसुतान्वीरान्सैन्यानि विविधानि च
।
अलातचक्रवत्सर्वं चरन्बाणैरतर्पयत्॥२२॥
ततस्तु नागराः सर्वे मुसलैर्यष्टिभिस्तदा
।
अभ्यवर्षन्त कौरव्यान्वर्षमाणा घना इव॥२३॥
सबालवृद्धास्ते पौराः कौरवानभ्ययुस्तदा
।
श्रुत्वा सुतुमुलं युद्धं कौरवानेव भारत॥२४॥
तुमुलं युद्धमुपस्थितं श्रुत्वा चारमुखात् न तु दृष्ट्वा कौरवाः न इवेति च्छेदः न द्रवन्तीति न अपि तु द्रवन्त्येव पाण्डवान्प्रतीत्यर्थः तथा नदन्तीत्यपि ज्ञेयम् ॥२४॥
द्रवन्ति स्म नदन्ति स्म क्रोशन्तः पाण्डवान्प्रति
।
पाडवास्तु स्वनं श्रुत्वा आर्तानां रोमहर्षणम्॥२५॥
अभिवाद्य ततो द्रोणं रथानारुरुहुस्तदा
।
युधिष्ठिरं निवार्याशु मा युध्यस्वेति पाण्डवम्॥२६॥
माद्रेयौ चक्ररक्षौ तु फाल्गुनश्च तदाऽकरोत्
।
सेनाग्रगो भीमसेनस्तदाभूद्गदया सह॥२७॥
तदा शत्रुस्वनं श्रुत्वा भ्रातृभिः सहितोऽनघः
।
आयाज्जवेन कौन्तेयो रथेनानादयन्दिशः॥२८॥
पञ्चालानां ततः सेनामुद्धूतार्णवनिःस्वनाम्
।
भीमसेनो महाबाहुर्दण्डपाणिरिवान्तकः॥२९॥
प्रविवेश महासेनां मकरः सागरं यथा
।
स्वयमभ्यद्रवद्भीमो नागानीकं गदाधरः॥३०॥
स युद्धकुशलः पार्थो बाहुवीर्येण चातुलः
।
अहनत्कुञ्जरानीकं गदया कालरूपधृक्॥३१॥
ते गजा गिरिसङ्काशाः क्षरन्तो रुधिरं बहु
।
भीमसेनस्य गदया भिन्नमस्तकपिण्डकाः॥३२॥
पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः
।
गजानश्वान्रथांश्चैव पातयामास पाण्डवः॥३३॥
पदातींश्च रथांश्चैव न्यवधीदर्जुनाग्रजः
।
गोपाल इव दण्डेन यथा पशुगणान्वने॥३४॥
चालयन्रथनागांश्च संचचाल वृकोदरः
।
वैशंपायन उवाच।
भारद्वाजप्रियं कर्तुमुद्यतः फाल्गुनस्तदा॥३५॥
पार्षतं शरजालेन क्षिपन्नागात्स पाण्डवः
।
हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः॥३६॥
पातयन्समरे राजन्युगान्ताग्रिरिव ज्वलन्
।
ततस्ते हन्यमाना वै पञ्चालाः सृञ्जयास्तथा॥३७॥
शरैर्नानाविधैस्तूर्णं पार्थं संछाद्य सर्वशः
।
सिंहनादं मुखैः कृत्वा समयुध्वन्त पाण्डवम्॥३८॥
तद्युद्धमभवद्धोरं समुहाद्भुतदर्शनम्
।
सिंहनादस्वनं श्रुत्वा नामृष्यत्पाकशासनिः॥३९॥
ततः किरीटी सहसा पञ्चालान्समरेऽद्रवत्
।
छादयन्निषुजालेन महता मोहयन्निव॥४०॥
शीघ्रमभ्यस्यतो बाणान्संदधानस्य चानिशम्
।
नान्तरं ददृशे किंचित्कौन्तेयस्य यशस्विनः॥४१॥
सिंहनादश्च संजज्ञे साधुशब्देन मिश्रितः
।
ततः पाञ्चालराजस्तु तथा सत्यजिता सह॥४२॥
त्वरमाणोऽभिदुद्राव महेन्द्रं शम्बरो यथा
।
महता शरवर्षेण पार्थः पाञ्चालमावृणोत्॥४३॥
ततो हलहलाशब्द आसीत्पाञ्चालके बले
।
जिघृक्षति महासिंहे गजानामिव यूथपम्॥४४॥
दृष्ट्वा पार्थं तदायान्तं सत्यजित्सत्यविक्रमः
।
पाञ्चालं वै परिप्रेप्सुर्धनञ्जयमदुद्रुवत्॥४५॥
ततस्त्वर्जुनपाञ्चालौ युद्धाय समुपागतौ
।
व्यक्षोभयेतां तौ सैन्यमिन्द्रवैरोचनाविव॥४६॥
ततः सत्यजितं पार्थो दशभिर्मर्मभेदिभिः
।
विव्याध बवलद्गाढं तदद्भुतमिवाभवत्॥४७॥
ततः शरशतैः पार्थं पाञ्चालः शीघ्रमार्दयत्
।
पार्थस्तु शरवर्षेण छाद्यमानो महारथः॥४८॥
वेगं चक्रे महावेगो धनुर्ज्यामवमृज्य च
।
ततः सत्यजितश्चापं छित्वा राजानमभ्ययात्॥४९॥
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम्
।
साश्वं ससूतं सरथं पार्थं विव्याध सत्वरः॥५०॥
स तं न ममृषे पार्थः पाञ्चालेनार्दितो युधि
।
ततस्तस्य विनाशार्थं सत्वरं व्यसृजच्छरान्॥५१॥
हयान्ध्वजं धनुर्मुष्टिमुभौ तौ पार्ष्णिसारथी
।
स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः॥५२॥
हयेषु विनिकृत्तेषु विमुखोऽभवदाहवे
।
स सत्यजितमालेक्य तथा विमुखमाहवे॥५३॥
वेगेन महता राजन्नभ्यधावत पार्षतम्
।
तदा चक्रे महद्युद्धमर्जुनो जयतां वरः॥४४॥
तस्य पार्थो धनुश्छित्त्वा ध्वजं चोर्व्यामपातयत्
।
पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः॥५५॥
तत उत्सृज्य तच्चापमाददानं शरावरम्
।
खड्गमुद्धृत्य कौन्तेयः सिंहनादमथाकरोत्॥५६॥
तच्छिन्नं धनुः ततः उत्सृज्य चापं शरावरं तूणं चाददानं तमुद्दिश्य खङ्गमुद्धृत्य सिंहनादमकरोदिति सम्बन्धः ॥५६॥
पाञ्चालस्य रथस्येषामाप्लुत्य सहसाऽपतत्
।
पाञ्चालरथमास्थाय अवित्रस्तो धनञ्जयः॥५७॥
ईषारथस्ययुगचक्रयोः संलग्नं महादारुः ॥५७॥
विक्षोभ्याम्भोनिधिं पार्थस्तं नागमिव सोऽग्रहीत्
।
ततस्तु सर्वपाञ्चाला विद्रवन्ति दिशो दश॥५८॥
दर्शयन्सर्वसैन्यानां स बाह्वोर्बलमात्मनः
।
सिंहनादस्वनं कृत्वा निर्जगाम धनञ्जयः॥५९॥
आयान्तमर्जुनं दृष्ट्वा कुमाराः सहितास्तदा
।
ममृदुस्तस्य नगरं द्रुपदस्य महात्मनः॥६०॥
अर्जुन उवाच।
संबन्धी कुरुवीराणां द्रुपदो राजसत्तमः
।
मा वधीस्तद्बलं भीम गुरुदानं प्रदीयताम्॥६१॥
वैशंपायन उवाच।
भीमसेनस्तदा राजन्नर्जुनेन निवारितः
।
अतृप्तो युद्धधर्मेषु न्यवर्तत महाबलः॥६२॥
ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि
।
उपाजह्नुः सहामात्यं द्रोणाय भरतर्षभ॥६३॥
भग्नदर्पं हृतधनं तं तथा वशमागतम्
।
स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत्॥६४॥
विमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया
।
प्राप्य जीवं रिपुवशं सखिपूर्वं किमिष्यते॥६५॥
एवमुक्त्वा प्रहस्यैनं किंचित्स पुनरब्रवीत्
।
मा भैः प्राणभयाद्वीर क्षमिणो ब्राह्मणा वयम्॥६६॥
आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह
।
तेन संवर्धितः स्नेहः प्रीतिश्च क्षत्रियर्षभ॥६७॥
प्रार्थयेयं त्वया सख्यं पुनरेव जनाधिप
।
वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि॥६८॥
अराजा किल नो राज्ञः सखा भवितुमर्हति
।
अतः प्रयतितं राज्ये यज्ञसेन मया तव॥६९॥
राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे
।
सखायं मां विजानीहि पाञ्चाल यदि मन्यसे॥७०॥
द्रुपद उवाच।
अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु
।
प्रीये त्वयाऽहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम्॥७१॥
वैशंपायन उवाच।
एवमुक्तः स तं द्रोणो मोक्षयामास भारत
।
सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत्॥७२॥
माकन्दीमथ गङ्गायास्तीरे जनपदायुताम्
।
सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम्॥७३॥
दक्षिणांश्चापि पञ्चालान्यावच्चर्मण्वती नदी
।
द्रोणेन चैवं द्रुपदः परिभूयाथ पालितः॥७४॥
क्षात्रेण च बलेनास्य नापश्यत्स पराजयम्
।
हीनं विदित्वा चात्मानं ब्राह्मेण स बलेनतु॥७५॥
पुत्रजन्म परीप्सन्वै पृथिवीमन्वसंचरत्
।
अहिच्छत्रं च विषयं द्रोणः समभिपद्यत॥७६॥
एवं राजन्नहिच्छत्रा पुरी जनपदायुता
।
युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता॥७७॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्रुपदशासने अष्टत्रिंशदधिकशततमोऽध्यायः॥१३८॥
वैशंपायन उवाच।
ततः संवत्सरस्यान्ते यौवराज्याय पार्थिव
।
स्थापितो धृतराष्ट्रेण पाण्डुपुत्रो युधिष्ठिरः॥१॥
ऊनचत्वारिंशदधिकशततमोऽध्यायः ततः संवत्सरस्यान्त इति ॥१॥
धृतिस्थैर्यसहिष्णुत्वादानृशंस्यात्तथार्जवात्
।
भृत्यानामनुकम्पार्थं तथैव स्थिरसौहृदात्॥२॥
धृतिः प्रजानां धारणं स्थैर्यम् अचापलं सहिष्णुत्वं तितिक्षा समाहारद्वन्द्वोयमानृशंस्यम् अनैष्ठुर्यम् आर्जवमवक्रता एतेभ्यो हेतुभ्यः प्रजानामनुकम्पार्थम् धृतराष्ट्रेण पाण्डुपुत्रो यौवराज्याय स्थापित इति द्वयोः सम्बन्धः ॥२॥
ततोऽदीर्घेण कालेन कुन्तीपुत्रो युधिष्ठिरः
।
पितुरन्तर्दधे कीर्तिं शीलवृत्तसमाधिभिः॥३॥
अदीर्घेणेति च्छेदः शीलं विनयादिः सदाचारः । वृत्तं शौर्यतेज आदिमत्त्वाविष्करणम् । समाधिः प्रजानां समाधानम् ॥३॥
असियुद्धे गदायुद्धे रथयुद्धे च पाण्डवः
।
संकर्षणादशिक्षद्वै शश्वच्छिक्षां वृकोदरः॥४॥
समाप्तशिक्षो भीमस्तु द्युमत्सेनसमो बले
।
पराक्रमेण संपन्नो भ्रातॄणामचरद्वशे॥५॥
प्रगाढदृढमुष्टित्वे लाघवे वेधने तथा
।
क्षुरनाराचभल्लानां विपाठानां च तत्त्ववित्॥६॥
क्षुरनाराचौ पार्श्वधारतीक्ष्णाग्रावृजू । भल्लः बडिशवदुद्धरणकाले अन्त्राण्युद्गृह्णातीति वक्रः । विपाठो विशालां वैशाखीमुखवत् ॥६॥
ऋजुवक्रविशालानां प्रयोक्ता फाल्गुनोऽभवत्
।
लाघवे सौष्ठवे चैव नान्यः कश्चन विद्यते॥७॥
बीभत्सुसदृशो लोके इति द्रोणो व्यवस्थितः
।
ततोऽब्रवीद्गुडाकेशं द्रोणः कौरवसंसदि॥८॥
गुडाका निद्रा तस्या ईशमर्जुनं जितनिद्रम् ॥८॥
अगस्त्यस्य धनुर्वेदे शिष्यो मम गुरुः पुरा
।
अग्निवेश्य इति ख्यातस्तस्य शिष्योऽस्मि भारत॥९॥
तीर्थात्तीर्थं गमयितुमहमेतत्समुद्यतः
।
तपसा यन्मया प्राप्तममोघमशनिप्रभम्॥१०॥
तीर्थात्पात्रात्पात्रान्तरं गमयितुम् । संप्रदायाविच्छेदार्थमित्यर्थः॥१०॥
अस्त्रं ब्रह्मशिरो नाम यद्दहेत्पृथिवीमपि
।
ददता गुरुणा चोक्तं न मनुष्येष्विदं त्वया॥११॥
भारद्वाज विमोक्तव्यमल्पवीर्येष्वपि प्रभो
।
त्वया प्राप्तमिदं वीर दिव्यं नान्योऽर्हति त्विदम्१२॥१२॥
अल्पर्वार्येषु अमानुषेषु त्वया ग्राहान्मां मोचयता प्राप्तं प्रागेव ॥१२॥
समयस्तु त्वया रक्ष्यो मुनिसृष्टो विशांपते
।
आचार्यदक्षिणां देहि ज्ञातिग्रामस्य पश्यतः॥१३॥
समयो विद्यालाभादनन्तरं गुरवे दक्षिणादानम् ॥१३॥
ददानीति प्रतिज्ञाते फाल्गुनेनाब्रवीद्गुरुः
।
युद्धेऽहं प्रतियोद्धव्यो युध्यमानस्त्वयाऽनघ॥१४॥
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः
।
उपसंगृह्य चरणौ स प्रात्यादुत्तरां दिशम्॥१५॥
उत्तरामुत्कृष्टतरां दिशमुपदेशं प्रायात् प्राप्तवान् चरणावुपसंगृह्याचार्यात् ब्रह्मशिरोऽस्नं लब्धवानित्यर्थः ॥१५॥
स्वभावादगमच्छब्दो महीं सागरमेखलाम्
।
अर्जुनस्य समो लोके नास्ति कश्चिद्धनुर्धरः॥१६॥
गदायुद्धेऽसियुद्धे च रथयुद्धे च पाण्डवः
।
पारगश्च धनुर्युद्धे बभूवाथ धनञ्जयः॥१७॥
नीतिमान्सकलां नीतिं विबुधाधिपतेस्तदा
।
अवाप्य सहदेवोऽपि भ्रातॄणां ववृते वशे॥१८॥
विबुधाधिपतेर्देवाचार्याद्द्रोणरूपात् ॥१८॥
द्रोणेनैवं विनीतश्च भ्रातॄणां नकुलः प्रियः
।
चित्रयोधी समाख्यातो बभूवातिरथोदितः॥१९॥
विनीतः शिक्षितः अतिरथेषु उदितः ख्यातः ॥१९॥
त्रिवर्षकृतयज्ञस्तु गन्धर्वाणामुपप्लवे
।
अर्जुनप्रमुखैः पार्थैः सौवीरः समरे हतः॥२०॥
त्रिवर्षेति । गन्धर्वोपप्लवेऽपि यस्य सौवीरस्य यज्ञो न विप्लुत इत्यभोग्यत्वमुक्तम् ॥२०॥
न शशाक वशे कर्तुं यं पाण्डुरपि वीर्यवान्
।
सोऽर्जुनेन वशं नीतो राजासीद्यवनाधिपः॥२१॥
अतीव बलसंपन्नः सदा मानि कुरून्प्रति
।
विपुलो नाम सौवीरः शस्तः पार्थेन धीमता॥२२॥
शस्तः हिंसितः शसु हिंसायाम् ॥२२॥
दत्तामित्र इति ख्यातं सङ्ग्रामे कृतनिश्चयम्
।
सुमित्रं नाम सौवीरमर्जुनोऽदमयच्छरैः॥२३॥
भीमसेनसहायश्च रथानामयुतं च सः
।
अर्जुनः समरे प्राच्यान्सर्वानेकरथोऽजयत्॥२४॥
तथैवैकरथो गत्वा दक्षिणामजयद्दिशम्
।
धनौघं प्रापयामास कुरुराष्ट्रं धनञ्जयः॥२५॥
एवं सर्वे महात्मानः पाण्डवा मनुजोत्तमाः
।
परराष्ट्राणि निर्जित्य स्वराष्ट्रं ववृधुः पुरा॥२६॥
ववृधुः वर्धितवन्तः ॥२६॥
ततो बलमतिख्यातं विज्ञाय दृढधन्विनाम्
।
दूषितः सहसा भावो धृतराष्ट्रस्य पाण्डुषु
।
स चिन्तापरमो राजा न निद्रामलभन्निशि॥२७॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि धृतराष्ट्रचिन्तायामूनचत्वारिंशदधिकशततमोऽध्यायः॥१३९॥
वैशंपायन उवाच।
श्रुत्वा पाण्डुसुतान्वीरान्बलोद्रिक्तान्महौजसः
।
धृतराष्ट्रो महीपालश्चिन्तामगमदातुरः॥१॥
चत्वारिंशदधिकशततमोऽध्यायः श्रुत्वेति । उद्रिक्तान् अधिकान् ॥१॥
तत आहूय मन्त्रज्ञं राजशास्त्रार्थवित्तमम्
।
कणिकं मन्त्रिणां श्रेष्ठं धृतराष्ट्रऽब्रवीद्वचः॥२॥
राजशास्त्रं दण्डनीतिशास्त्रम् ॥२॥
धृतराष्ट्र उवाच।
उत्सक्ताः पाण्डवा नित्यं तेभ्योऽसूये द्विजोत्तम
।
तत्र मे निश्चिततमं सन्धिविग्रहकारणम्
।
कणिक त्वं ममाचक्ष्व करिष्ये वचनं तव॥३॥
उत्सक्ताः उत्कर्षेण सर्वत्र व्याप्ताः षञ्जसंगेऽस्य रूपम् । असूये गुणवत्त्वेऽपि दोषवत्त्वेन पश्यामि । तेभ्य इति चतुर्थ्या तेषु कोपादेवं पश्यामि न तु अज्ञानादिति गम्यते । क्रुधदुहेति स्मरणात् । पाण्डवैः सह सन्धिकारणं विग्रहकारणम् वा तयोरन्यतरप्रयोजकं सन्धिविग्रहकारणं त्वं ममाचक्ष्व ॥३॥
वैशंपायन उवाच।
स प्रसन्नमनास्तेन परिपृष्टो द्विजोत्तमः
।
उवाच वचनं तीक्ष्णं राजशास्त्रार्थदर्शनम्॥४॥
शृणु राजन्निदं तत्र प्रोच्यमानं मयानघ
।
न मेऽभ्यसूया कर्तव्या श्रुत्वैतत्कुरुसत्तम॥५॥
ब्राह्मणोऽयम् तक्ष्णिमेवोपायं वदतीति प्रसक्ताभ्यसूया न कार्येत्याह । न मे इति ॥५॥
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः
।
अच्छिद्रश्छिद्रदर्शी स्यात्परेषां विवरानुगः॥६॥
भीमसेनदुर्योधनयोरर्जुनकर्णयोश्च वैरस्याचिकित्स्यत्वादसंभावनीयं सन्धिं त्यक्त्वा विग्रहमेवाश्रित्याह । नित्यमिति । उद्यतो न तु क्षिप्तो दण्डो येन स तथा । अपकृष्ठान् भीषयेदेव न तुच्छिन्द्यान्न वा उपेक्षेतेति भावः । समेषु नित्यं विवृतपौरुषः स्यात् । समानम् उत्कृष्टं बलं सम्पाद्य हन्यादेवेत्यर्थः । उत्कृष्टेषु च शत्रुषु अच्छिद्रः स्यात् । स्वस्य न्यूनं कोशबलादिकं ते यथा न जानन्तिं तथा स्थेयम् । छिद्रदर्शी दूरामात्यत्वप्रतिकूलदेशावस्थितत्वादीनि च्छिद्राणि तदृर्शी स्यात् । तथा भूत्वा च तदेव विवरमनुसृत्य शत्रुं हन्यादित्याह । परेषां विवरानुग इति ॥६॥
नित्यमुद्यतदण्डाद्धि भृशमुद्विजते जनः
।
तस्मात्सर्वाणि कार्याणि दण्डेनैव विधारयेत्॥७॥
अस्य श्लोकस्याद्यं पादं व्याचष्टे । नित्यमिति ॥७॥
नास्य च्छिद्रं परः पश्येच्छिद्रेण परमन्वियात्
।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः॥८॥
तस्यैवोत्तरार्धं व्याचष्टे । नास्येति । अङ्गानि सहायसाधनोपायादीनि गूहेत्संवृणुयात् । तथा चैनम् अगणयन् शत्रुश्छिद्रे तैरेवाङ्गैः प्रहर्तव्यम् इति भावः । आत्मनो विवरं रक्षेत् गूहेत् ॥८॥
नासम्यक्कृत्यकारी स्यादुपक्रम्य कदाचन
।
कण्टको ह्यपि दुश्छिन्न आस्रावं जनयेच्चिरम्॥९॥
तथा स्वयं सम्यकू कार्त्स्न्येन कृतं निष्पादितं कार्यं तत्करणशीलः स्यात् । शत्रुशेषं नावशेषयेदित्यर्थः । तत्र दृष्टान्तः । कण्टकः इति । दुश्छिन्नः अर्धच्छिन्नःआस्रावं व्रणम् ॥९॥
वधमेव प्रशंसन्ति शत्रूणामपकारिणाम्
।
सुविदीर्णं सुविक्रान्तं सुयुद्धं सुपलायितम्॥१०॥
उपसंहरति वधमिति कथं वधः कर्तव्य इत्याह सुविदीर्णमिति । सुविक्रान्तमपि शत्रुं काले आपदि आपन्नम् आलभ्य सुविदीर्णं विनष्टं कुर्वीत । तथा सुयुद्धमपि शत्रुम् आपदि काले सुपलायितं कुर्वीत । यस्य च भावेन भावलक्षणमिति सप्तमी । आपदा शत्रोर्विदारणकालो लक्षणीय इत्यर्थः । आपदि आपदीति द्वित्वम् यदा शत्रोरापत्तदा तदेत्कर्तव्यं न तु अनुबन्धादिकं सौभ्रात्रादिकं वा विचारयेत् । सार्धश्लोकः ॥१०॥
आपद्यापदि काले कुर्वीत न विचारयेत्
।
नावज्ञेयो रिपुस्तात दुर्बलोऽपि कथंचन॥११॥
मध्यमं प्रत्येवमुक्त्वाऽधमोऽपि नोपेक्षणीय इत्याह । नावज्ञेय इति ॥११॥
अल्पोऽप्यग्निर्वनं कृत्स्नं दहत्याश्रयसंश्रयात्
।
अन्धः स्यादन्धवेलायां बाधिर्यमपि चाश्रयेत्॥१२॥
आश्रयो दुर्गादिः इन्धनम् अग्नेः तस्य संश्रयात् बलात् । आश्रयाभावे तु स किं कुर्यात्तत्राह । अन्ध इति । स हि अन्धवेलायां रात्रौ । ‘अन्धं तु तिमिरे क्लीबे’ इति मेदिनी । सामर्थ्यप्रतिघातसमये अन्धः हीनोपकरणः स्यात् भवेत् । शस्त्रं त्यक्त्वा शत्रुं शरणमेतीत्यर्थः । बाधिर्यमपि चाश्रयेत् । तदानीं धिक्कृतोपि अश्रुतवदेव तत्कृत्वाक्षमेत् ॥१२॥
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम्
।
सान्त्वादिभिरुपायैस्तु हन्याच्छत्रुं वशे स्थितम्॥१३॥
अयं शत्रुः चापं तृणमयं तृणवन्निष्प्रयोजनं कुर्यात् । क्षात्रम् धर्मं त्यक्त्वा शत्रुगृहे भिक्षाभुगपि स्यादित्यर्थः । ननु सिद्धस्तर्हि पुरुषार्थ इति चेत्तत्राह । शयीत मृगशायिकाम् । मृगहन्तुः शय्यां शयीत शेते । यथा व्याधो मृगान्विश्वासयितुं मृषा निद्राति विश्वस्तेषु च तेषु प्रहरति एवं स हन्तुमेवाकारं गोपयतीत्यर्थः । उप संहरति । सान्त्वेति तु तस्मात् । तमेवं कपटेन वशे स्थितं स्वयमपि सान्त्वादिना विश्वास्य हन्यादेवेत्यर्थः ॥१३॥
दया न तस्मिन्कर्तव्या शरणागत इत्युत
।
निरुद्विग्नो हि भवति न हताज्जायते भयम्॥१४॥
हन्यादमित्रं दानेन तथा पूर्वापकारिणम्
।
हन्यात्त्रीन्पञ्च सप्तेति परपक्षस्य सर्वशः॥१५॥
बलाधिकमुद्दिश्याह । हन्यादिति । अमित्रं सहजशत्रुं दायादं दानेन तत्परिचारकान्वशीकृत्य विषाद्युपायैर्हन्यात् । तथा संप्रति दासभूतमपि पूर्वापकारिणं हन्यादेवेत्युक्तं भवति । अत्रोपायमाह हन्यादिति । परपक्षस्य क्लृप्तान् ऐश्वर्यमन्न्रोत्साहान् ऐश्वर्यं तदीयदुर्गाद्याक्रमणेन । मन्त्रं चारैः । उत्साहमाप्तद्वारा तेजो वधेन । तथा पञ्चैते त्वया यौवराज्याद्भ्रंशनीया इति भावः । तथा पञ्च ‘अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चम’ इति प्रकृतिपञ्चकहनने शत्रोरैश्वर्यभ्रंशो भवतीत्यर्थः । दण्डोत्र सैन्यम् । ‘साम्ना दानेन भेदेन दण्डेनोद्बन्धनेन वा । विषेण वह्निना वापि प्रकृतीः पञ्च निर्हरेत्’ इत्याह सप्तेति । उद्बन्धनं प्रमत्तस्य पाशेन मारणम् । यद्वा उद्बन्धनादिना मूलं शत्रुमेव नाशयेत् ॥१५॥
मूलमेवादितश्छिन्द्यात्परपक्षस्य नित्यशः
।
ततः सहायांस्तत्पक्षान्सर्वांश्च तदनन्तरम्॥१६॥
अन्नपानताम्बूलादिद्वारा तद्भृत्यान् भेदयित्वा विषादिना नाशयेत्किमितरैरित्याह । मूलमेवेति ॥१६॥
छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः
।
कथं नु शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ॥१७॥
एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः
।
राजन्नित्यं सपत्नेषु नित्योद्विग्नः समाचरेत्॥१८॥
एकाग्रः एकः शत्रुरेव अग्रे दृष्टिगोचरो यस्य तादृशः स्यात् । अन्यत्र मनो न दद्यात् । अविवृतो गुप्ताङ्गः । विवरदर्शकः । परच्छिद्रं द्रष्टुमित्यर्थः । नित्योद्विग्नः विश्वासं कृत्वा क्वचिदपि निश्चितो न भवेदित्यर्थः । दर्शक इति ‘क्रियायां क्रियार्थायां ण्वुल’ ॥१८॥
अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः
।
लोकान्विश्वासयित्वैव ततो लुम्पेद्यथा वृकः॥१९॥
दम्भादिनापि शत्रुर्जेय इत्याह । अग्न्याधानेनेति ॥१९॥
अङ्कुशं शोचमित्याहुरर्थानामुपधारणे
।
आनाम्य फलितां शाखां पक्वं पक्वं प्रशातयेत्॥२०॥
अङ्कुशम् अङ्कुशवत्परचित्ताकर्षणम् । शौचमग्न्याधानादि । अत्र दृष्टान्तः । आनाम्येति । आनामयित्वा ॥२०॥
फलार्थोऽयं समारम्भो लोके पुंसां विपश्चिताम्
।
वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः॥२१॥
एतत्प्रयोजनमाह । फलार्थ इति । फलं शत्रुवधः प्रसिद्धं च सेवया निर्दयत्वेन शत्रुं हन्यादित्याह । वहेदित्यादिना ॥२१॥
ततः प्रत्यागते काले भिन्द्याद्घटमिवाश्मनि
।
अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन्॥२२॥
कृपा न तस्मिन्कर्तव्या हन्यादेवापकारिणम्
।
हन्यादमित्रं सान्त्वेन तथा दानेन वा पुनः॥२३॥
तथैव भेददण्डाभ्यां सर्वोपायैः प्रशातयेत्
।
धृतराष्ट्र उवाच।
कथं सान्त्वेन दानेन भेदैर्दण्डेन वा पुनः॥२४॥
अमित्रः शक्यते हन्तुं तन्मे ब्रूहि यथातथम्
।
कणिक उवाच।
शृणु राजन्यथा वृत्तं वने निवसतः पुरा॥२५॥
जम्बुकस्य महाराज नीतिशास्त्रार्थदर्शिनः
।
अथ कश्चित्कृतप्रज्ञः शृगालः स्वार्थपण्डितः॥२६॥
सखिभिर्न्यवसत्सार्धं व्याघ्राखुवृकबभ्रुभिः
।
तेऽपश्यन्विपिने तस्मिन्बलिनं मृगयूथपम्॥२७॥
बभ्रुर्नकुलः मृगयूथपं महान्तं हरिणम् ॥२७॥
अशक्ता ग्रहणे तस्य ततो मन्त्रममन्त्रयन्
।
जम्बुक उवाच।
असकृद्यतितो ह्येष हन्तुं व्याघ्रवने त्वया॥२८॥
युवा वै जवसंपन्नो बुद्धिशाली न शक्यते
।
मूषिकोऽस्य शयानस्य चरणौ भक्षयत्वयम्॥२९॥
अथैनं भक्षितैः पादैर्व्याघ्रो गृह्णातु वै ततः
।
ततो वै भक्षयिष्यामः सर्वे मुदितमानसाः॥३०॥
जम्बुकस्य तु तद्वाक्यं तथा चक्रः समाहिताः
।
मूषिका भक्षितैः पादैर्मृगं व्याघ्रोऽवधीत्तदा॥३१॥
मूषिकेण आ ईषद्भक्षितैः ॥३१॥
दृष्ट्वैवाचेष्टमानं तु भूमौ मृगकलेवरम्
।
स्नात्वाऽऽगच्छत भद्रं वो रक्षामीत्याह जम्बुकः॥३२॥
शृगालवचनात्तेऽपि गताः सर्वे नदीं ततः
।
स चिन्तापरमो भूत्वा तस्थौ तत्रैव जम्बुकः॥३३॥
अथाजगाम पूर्वं तु ज्ञात्वा व्याघ्रो महाबलः
।
ददर्श जम्बुकं चैव चिन्ताकुलितमानसम्॥३४॥
व्याघ्र उवाच।
किं शोचसि महाप्राज्ञ त्वं नो बुद्धिमतां वरः
।
अशित्वा पिशितान्यद्य विहरिष्यामहे वयम्॥३५॥
जम्बुक उवाच।
शृणु मे त्वं महाबाहो यद्वाक्यं मूषिकोऽब्रवीत्
।
धिग्बलं मृगराजस्य मयाद्यायं मृगो हतः॥३६॥
मृगराजस्य व्याघ्रस्य ॥३६॥
मद्बाहुबलमाश्रित्य तृप्तिमद्य गमिष्यति
।
गर्जमानस्य तस्यैवमतो भक्ष्यं न रोचये॥३७॥
व्याघ्र उवाच।
ब्रवीति यदि स ह्येवं काले ह्यस्मिन्प्रबोधितः
।
स्वबाहुबलमाश्रित्य हनिष्येऽहं वनेचरान्॥३८॥
खादिष्ये तत्र मांसानि इत्युक्त्वा प्रस्थितो वनम्
।
एतस्मिन्नेव काले तु मूषिकोऽप्याजगाम ह॥३९॥
तमागतमभिप्रेक्ष्य शृगालोऽप्यब्रवीद्वचः
।
जम्बुक उवाच।
शृणु मूषिक भद्रं ते नकुलो यदिहाब्रवीत्॥४०॥
मृगमांसं न खादेयं गरमेतन्न रोचते
।
मूषिकं भक्षयिष्यामि तद्भवाननुमन्यताम्॥४१॥
गरं गरवद्दुष्पञ्चं व्याघ्रामिषत्वात् ॥४१॥
तच्छ्रुत्वा मूषिको वाक्यं संत्रस्तः प्रगतो बिलम्
।
ततः स्नात्वा स वै तत्र आजगाम वृको नपृ॥४२॥
तमागतमिदं वाक्यमब्रवीज्जम्बुकस्तदा
।
मृगराजो हि संक्रुद्धो न ते साधु भविष्यति॥४३॥
सकलत्रस्त्विहायाति कुरुष्व यदनन्तरम्
।
एवं संचोदितस्तेन जम्बुकेन तदा वृकः॥४४॥
ततोऽवलुम्पनं कृत्वा प्रयातः पिशिताशनः
।
एतस्मिन्नेव काले तु नकुलोऽप्याजगाम ह॥४५॥
अवलुम्पनं गात्रसङ्कोचनं वर्त्मान्तरेण गमनमित्यन्ये ॥४५॥
तमुवाच महाराज नकुलं जम्बुको वने
।
स्वबाहुबलमाश्रित्य निर्जितास्तेऽन्यतो गताः॥४६॥
मम दत्वा नियुद्धं त्वं भुङ्क्ष्व मांसं यथेप्सितम्
।
नकुल उवाच।
मृगराजो वृकश्चैव बुद्धिमानपि मूषिकः॥४७॥
निर्जिता यत्त्वया वीरास्तस्माद्वीरतरो भवान्
।
न त्वयाप्युत्सहे योद्धुमित्युक्त्वा सोऽप्युपागमत्॥४८॥
कणिक उवाच।
एवं तेषु प्रयातेषु जम्बुको हृष्टमानसः
।
खादति स्म तदा मांसमेकस्मिन्मन्त्रनिश्चयात्॥४९॥
एवं समाचरन्नित्यं सुखमेधेत भूपतिः
।
भयेन भेदयेद्भीरुं शूरमञ्जलिकर्मणा॥५०॥
भयेनेति । अत्र व्याघ्रस्य साम्ना आखुवृकयोर्व्याघ्राद्भयदर्शनेन नकुलस्य ओजसा स्वसामर्थ्येन च बुद्धिभेदः कृतः ॥५०॥
लुब्धमर्थप्रदानेन समं न्यूनं तथौजसा
।
एवं ते कथितं राजन् शृणु चाप्यपरं तथा॥५१॥
पुत्रः सखा वा भ्राता वा पिता वा यदि वा गुरुः
।
रिपुस्थानेषु वर्तन्तो हन्तव्या भूतिमिच्छता॥५२॥
हन्तव्या इत्यत्र कर्तव्या इति पाठेऽपि च्छेत्तव्या इत्येवार्थः । कृहिंसायामित्यस्य रूपम् । भूतिवर्धना इति पाठे भूतिच्छेदनाः ॥५२॥
शपथेनाप्यरिं हन्यादर्थदानेन वा पुनः
।
विषेण मायया वापि नोपेक्षेते कथंचन
।
उभौ चेत्संशयोपेतौ श्रद्धवांस्तत्र वर्धते॥५३॥
उभौ जिगीषू तुल्योपायतया संशयापन्नौ चेत् श्रद्धावान् यो मदुक्तादरवान् स वर्धते । श्रद्धादरे च काङ्क्षायाम् इति मेदिनी ॥५३॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः
।
उत्पथप्रतिपन्नस्य न्याय्यं भवति शासनम्॥५४॥
ननु ज्येष्ठो युधिष्ठिरः कथं हन्तव्य इत्याशङ्क्याह । गुरोरिति । अवलिप्तस्य भ्रातृबलेन गर्वितस्य । धृतराष्ट्रस्य राज्यं पाण्डौ न्यासभूतमित्यजानतो राज्यलुब्धस्य शासनं कार्यमेव ॥५४॥
क्रुद्धोऽप्यक्रुद्धरूपः स्यात्स्मितपूर्वाभिभाषिता
।
न चाप्यन्यमपध्वंसेत्कदाचित्कोपसंयुतः॥५५॥
अपध्वंसेत् कुत्सयेत् ॥५५॥
प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत
।
प्रहृत्य च कृपायीत शोचेत च रुदेत च॥५६॥
आश्वासयेच्चापि परं सान्त्वधर्मार्थवृत्तिभिः
।
अथास्य प्रहरेत्काले तथा विचलिते पथि॥५७॥
अस्य एनं विचलिते विचलने सति ॥५७॥
अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः
।
स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः॥५८॥
यः स्यादनुप्राप्तवधस्तस्यागारं प्रदीपयेत्
।
अधनान्नास्ति कांश्चौरान्विषये स्वे न वासयेत्॥५९॥
अनुप्राप्तवधः शीघ्रं हन्तुमिष्टः चौरादिः । अधनाः दरिद्राः सन्तो नास्तिकाः परलोकश्रद्धारहितास्तान् चौरांश्च । एवं धर्मे पक्षपातं प्रदर्शयेदित्याशयः ॥५९॥
प्रत्युत्थानासनाद्येन संप्रदानेन केनचित्
।
अतिविश्रब्धघातीस्यात्तीक्ष्णंदष्ट्रो निमग्नकः॥६०॥
प्रतिविश्रब्धघाती अत्यन्तविश्रव्धहननशीलः तीक्ष्णदंष्ट्रो निमग्नकः गाढं प्रहरेद्यथा पुनर्ने न्मज्जेदित्यर्थः ॥६०॥
अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः
।
अशङ्क्याद्भयमुत्पन्नमपि मूलं निकृन्तति॥६१॥
योऽन्यं हन्तुमिच्छति तमन्योपि जिघांसतीति स्वयमशङ्कितेभ्य इति ॥६१॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्
।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति॥६२॥
सर्वत्र शङ्कावतः किमपि कार्यं न सिध्यतीत्याशंक्याह नेति ॥६२॥
चारः सुविहितः कार्य आत्मनश्च परस्य वा
।
पाषण्डांस्तापसादींश्च परराष्ट्रेषु योजयेत्॥६३॥
सुविहितः सम्यक् परीक्षितः ॥६३॥
उद्यानेषु विहारेषु देवतायतनेषु च
।
पानागारेषु रथ्यासु सर्वतीर्थेषु चाप्यथ॥६४॥
उद्यानादिस्थानेषु ये समवायाः जनसमूहास्तेषु तीर्थेषु । ‘मन्त्री पुरोहितश्चैव युवराजश्चमूपतिः । पञ्चमो द्वारपालश्च षष्ठोन्तर्वेशिकस्तथा ॥ कारागाराधिकारी च द्रव्यसञ्चयकृत्तथा । कृत्याकृत्येषु चार्थानां नवमो विनियोजकः ॥ प्रदेष्टा नगराध्यक्षः कार्यनिर्माणकृत्तथा । धर्माध्यक्षः सभाध्यक्षो दण्डपालस्त्रिपञ्चमः । षोडशो दुर्गपालश्च तथा राष्ट्रान्तपालकः । अटवी पालकां तानि तीर्थान्यष्टादशैव तु ’ ॥ इति नीतिशास्त्रोक्तेषु । विचारयेत् चारद्वारा शत्रुम् । चिकीर्षितुमिति शेषः ॥६४॥
चत्वरेषु च कूपेषु पर्वतेषु वनेषु च
।
समवायेषु सर्वेषु सरित्सु च विचारयेत्॥६५॥
वाचा भृशं विनीतः स्याद्धृदयेन तथा क्षुरः
।
स्मितपूर्वाभिभाषी स्यात्सृष्टो रौद्रस्य कर्मणः॥६६॥
अञ्जलिः शपथः सान्त्वं शिरसा पादवन्दनम्
।
आशाकरणमित्येवं कर्तव्यं भूतिमिच्छता॥६७॥
आशाकरणं तुभ्यं धनादिकं दास्ये इत्युक्त्या प्रलोभनं भूतिमिच्छता । भूतिकामस्यैवैतदुचितं न परलोककामस्येत्यर्थः॥६७॥
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः
।
आमः स्यात्पक्वसङ्काशो न च जीर्येत कर्हिचित्॥६८॥
अस्मिन्नर्थे नीतिशास्त्रीयं वृक्षरूपकश्लोकमाह । सुपुष्पित इति । पुष्पितः शब्देनैव फलाशां दर्शयेत् न तु फलम् । दर्शितस्य प्राप्तावपि विघ्नं योजयेत् । प्राप्तमप्यप्राप्तवत् । आमः पक्को भूत्वा तिष्ठेत् । न च जीर्येत धनव्ययेन शत्रून्पोषयित्वा हीयेत ॥६८॥
त्रिवर्गे त्रिविधा पीडा ह्यनुबन्धास्तथैव च
।
अनुबन्धाः शुभा ज्ञेयाः पीडास्तु परिवर्जयेत्॥६९॥
एवं नानोपायैः शत्रूणां दण्डमुक्त्वा नीतिमाह । त्रिवर्ग इति । त्रिवर्गे धर्मार्थकामेषु त्रिविधा त्रिप्रकारा पीडा । एक एकैकेन प्रकारेण पीड्यत इत्यर्थः । तथा अनुपश्चाद्वध्यत इत्यनुबन्धः फलं तदपि तथैव त्रिविधं शुभं पीडास्तु न शुभाः । त्रिवर्गं परस्परापीडया सेवेतेत्यर्थः ॥६९॥
धर्मं विचरतः पीडा सापि द्वाभ्यां नियच्छति
।
अर्थं चाप्यर्थलुब्धस्य कामं चातिप्रवर्तिनः॥७०॥
तत्र पीडामाह । धर्ममिति । धर्ममत्यन्तं विचरतः पुंसो द्वाभ्यामर्थकामाभ्यां धनव्ययब्रह्मचर्यो पक्षिप्ताभ्यां पीडा चित्तवैकल्यं भवति । सापि पुंसः पीडाधर्मं नियच्छति निगृह्णाति । कर्तुः पीडैव धर्मपीडेत्यर्थः । एवमर्थं चाप्यर्थलुब्धस्य कामं चातिप्रवर्तिन इति व्याख्येयम् लुब्धस्यार्थं विचरतः पुंसो द्वाभ्यां कामधर्माभ्यां पीडिताभ्यां पीडा भवति । सा पीडार्थं नियच्छति । एवमतिप्रवर्तिनः कामं विचरतः पुंसो द्वाभ्यां धर्मार्थाभ्यां पीडा भवति । सापि पीडा कामं नियच्छतीति योज्यम् । अर्थस्य कामस्येति पाठे कर्मणि षष्ठ्यौ ॥७०॥
अगर्वितात्मा युक्तश्च सान्त्वयुक्तोऽनसूयिता
।
अवेक्षितार्थः शुद्धात्मा मन्त्रयीत द्विजैः सहा॥७१॥
कर्मणा येन केनैव मृदुना दारुणेन च
।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत्॥७२॥
समर्थों धर्ममाचरेदित्यनेन पूर्वोक्तं सर्वं कौटिल्यादिकम् आपद्येव कार्यं नान्यथेत्युक्तम् ॥७२॥
न संशयमनारुह्य नरो भद्राणि पश्यति
।
संशयं पुनरारुह्य यदि जीवति पश्यति॥७३॥
संशयं प्राणसंकटम् ॥७३॥
यस्य बुद्धिः परिभवेत्तमतीतेन सान्त्वयेत्
।
अनागतेन दुर्बुद्धिं प्रत्युत्पन्नेन पण्डितम्॥७४॥
परिभवेत् शोकेन तमतीतेन नलरामाद्याख्यानेन । अनागतेन । कालान्तरे तव श्रेयो भविष्यतीत्याशाप्रदर्शनेन । पण्डितं प्रत्युत्पन्नेन वर्तमानेन धनादिना सान्त्वयेत् ॥७४॥
योऽरिणा सह सन्धाय शयीत कृतकृत्यवत्
।
स वृक्षाग्रे यथासुप्तः पतितः प्रतिबुध्यते॥७५॥
सन्धिपक्षं निन्दति योऽरिणेति ॥७५॥
मन्त्रसंवरणे यत्नः सदा कार्योऽनसूयता
।
आकारमभिरक्षेत चारेणाप्यनुपालितः॥७६॥
मन्त्रेति । परचारेभ्यो मन्त्रस्य गूहनम् । आकारस्य क्रोधाद्यावेशस्य च गूहनं कर्तव्यम् । स्वयं चचार प्रधानः स्यादित्यर्थः ॥७६॥
नाच्छित्वा परमर्माणि नाकृत्वा कर्म दारुणम्
।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम्॥७७॥
दण्डस्यैव प्राधान्यमाह नाच्छित्वेति ॥७७॥
कर्शितं व्याधितं क्लिन्नमपानीयमघासकम्
।
परिविश्वस्तमन्दं च प्रहर्तव्यमरेर्बलम्॥७८॥
विग्रहकालमाह कर्शितमिति । अघासकमनाहारम् ॥७८॥
नार्थिकोऽर्थिनमभ्येति कृतार्थे नास्ति सङ्गतम्
।
तस्मात्सर्वाणि साध्यानि सावशेषाणि कारयेत्॥७९॥
नार्थिक इति । सङ्गतं सख्यम् । कार्येषु सावशेषेषु कार्यिणः स्ववशे तिष्ठन्ति । अन्यथा न गणयन्तत्यिर्थः ॥७९॥
संग्रहे विग्रहे चैव यत्नः कार्योऽनसूयता
।
उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता॥८०॥
सङ्ग्रहे सहायादीनां विग्रहे रिपुभिः सार्धम् ॥८०॥
नास्य कृत्यानि बुध्येरन्मित्राणि रिपवस्तथा
।
आरब्धान्येव पश्येरन्सुपर्यवसितान्यपि॥८१॥
भीतवत्संविधातव्यं यावद्भयमनागतम्
।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत्॥८२॥
संविधातव्यं प्रतिकर्तव्यम् ॥८२॥
दैवेनोपहतं शत्रुमनुगृह्णाति यो नरः
।
स मृत्युमुपगृह्णीयाद्गर्भमश्वतरी यथा॥८३॥
उपनतं वशीकृतम् अनुगृह्णाति वनमानादिना अश्वतरी अश्वगर्दभसंकीर्णजातिः ॥८३॥
अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितम्
।
न तु बुद्धिक्षयात्किंचिदतिक्रामेत्प्रयोजनम्॥८४॥
अनागतं कार्यं बुध्येत बुद्धा च तदनुगुणं कुर्यादित्यर्थः । पुरस्थितं वर्तमानं बुद्धिक्षयादनवधारणात् ॥८४॥
उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता
।
विभज्य देशकालौ च दैवं धर्मादयस्त्रयः
।
नैःश्रेयसौ तु तौ ज्ञेयौ देशकालाविति स्थितिः॥८५॥
देशाद्यनुगुण उत्साहोऽपि कर्तव्यो न त्वलसोभवेत् । दैवं प्राक्तनं कर्म ये धर्मादयस्त्रयस्तांश्च विभज्य तेषां मध्ये नैःश्रेयसौ श्रेयो हेतू इति स्थितिर्निश्चयः ॥८५॥
तालवत्कुरुते मूलं बालः शत्रुरुपेक्षितः
।
गहनेऽग्निरिवोत्सृष्टः क्षिप्रं संजायते महान्॥८६॥
बालः अल्पोपि ॥८६॥
अग्निं स्तोकमिवात्मानं सन्धुक्षयति यो नरः
।
स वर्धमानो ग्रसते महान्तमपि संचयम्॥८७॥
आत्मानं संधुक्षयति सहायादिना वर्धयति । संचयमिन्धनानां पक्षे शत्रूणाम् ॥८७॥
आशां कालवतीं कुर्यात्कालं विघ्नेन योजयेत्
।
विघ्नं निमित्ततो ब्रूयान्निमित्तं वाऽपि हेतुतः॥८८॥
आशां कालवतीं दद्यादित्यतः । प्राग्दक्षिणात्या "आदातव्यं न दातव्यमाशामेव प्रदापयेत्” इत्यर्धं पठन्ति । कालवतीं दीर्घावधिमतीं निमित्ततो हेतुतः तमपि हेत्वन्तरेण ॥८८॥
क्षुरो भूत्वा हरेत्प्राणान्निशितः कालसाधनः
।
प्रतिच्छन्नो लोमहारी द्विषतां परिकर्तनः॥८९॥
क्षुरः क्षुवत् । निशितस्तीक्ष्णो निर्दय इति यावत् । पक्षे शाणोल्लीढः । कालसाधनः छिद्रकालापेक्षः । पक्षे काललोहोपादानकः प्रतिच्छन्नो गूढाशयः । पक्षे चर्मपुटच्छन्नः । लोमहारी अनुलोमसंग्रही । पक्षे लोमच्छेदकः । लोमवाहीति पाठेऽपि तावेवार्थौ ॥८९॥
पाण्डवेषु यथान्यायमन्येषु च कुरूद्वह
।
वर्तमानो न मज्जेस्त्वं तथा कृत्यं समाचर॥९०॥
सर्वकल्याणसंपन्नो विशिष्ट इति निश्चयः
।
तस्मात्त्वं पाण्डुपुत्रेभ्यो रक्षात्मानं नराधिप॥९१॥
कल्याणैर्धनपुत्रराज्यादिभिः संपन्नः विशिष्टः कुलशीलबलादिभिः श्रेष्ठः ॥९१॥
भ्रातृव्या बलिनो यस्मात्पाण्डुपुत्रा नराधिप
।
पश्चात्तापो यथा न स्यात्तथा नीतिर्विधीयताम्॥९२॥
वैशंपायन उवाच।
एवमुक्त्वा संप्रतस्थे कणिकः स्वगृहं ततः
।
धृतराष्ट्रोऽपि कौरव्यः शोकार्तः समपद्यत॥९३॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि कणिकवाक्ये चत्वारिंशदधिकशततमोऽध्यायः॥१४०॥