वैशंपायन उवाच।
ततः सुबलपुत्रस्तु राजा दुर्योधनश्चह
।
दुःशासनश्च कर्णश्च दुष्टं मन्त्रममन्त्रयन्॥१॥
एकचत्वारिंशदधिकशततमोऽध्यायः तत इति ॥१॥
ते कौरव्यमनुज्ञाप्य धृतराष्ट्रं नराधिपम्
।
दहने तु सपुत्रायाः कुन्त्या बुद्धिमकारयन्॥२॥
अनुज्ञाप्य पृष्ट्वा ॥२॥
तेषामिङ्गितभावज्ञो विदुरस्तत्त्वदर्शिवान्
।
आकारेण च तं मन्त्रं बुबुधे दुष्टचेतसाम्॥३॥
इङ्गितं चेष्टितं तेन भावं चित्ताभिप्रायं जानातीति इङ्गितभावज्ञः आकारेण च नेत्रादिविकारेण यथाहुः ‘नेत्रवक्त्रविकारेण ज्ञायेतऽन्तर्गतं मनः’ इति ॥३॥
ततो विदितवेद्यात्मा पाण्डवानां हिते रतः
।
पलायने मतिं चक्रे कुन्त्याः पुत्रैः सहानघः॥४॥
विदितवेद्यो ज्ञाततत्त्वः आत्मा चित्तं यस्य ॥४॥
ततो वातसहां नावं यन्त्रयुक्तां पताकिनीम्
।
ऊर्मिक्षमां दृढां कृत्वा कुन्तीमिदमुवाच ह॥५॥
यन्त्रं महत्यपि वाते जलाशये नौकास्तम्भकं लहलाङ्गलमयं सामुद्रिकप्रसिद्धम् । एवं पताकावतीनौर्वायुना वेगेन ऊह्यमाना न चोर्मिभिः पूरयितुं शक्या । अत उक्तं पताकिनीमूर्मिंक्षमामिति ॥५॥
एष जातः कुलस्यास्य कीर्तिवंशप्रणाशनः
।
धृतराष्ट्रः परीतात्मा धर्मं त्यजति शाश्वतम्॥६॥
परीतात्मा विपरीतबुद्धिः । परीतो ममताक्रान्त आत्मा चित्तं यस्येति वा ॥६॥
इयं वारिपथे युक्ता तरङ्गपवनक्षमा
।
नौर्यया मृत्युपाशात्त्वं सपुत्रा मोक्ष्यसे शुभे॥७॥
तच्छ्रुत्वा व्यथिता कुन्ती पुत्रैः सह यशस्विनी
।
नावमारुह्य गङ्गायां प्रययौ भरतर्षभ॥८॥
नावमारुह्य प्रययाविति जतुगृहे स्वदाहो माभूदिति बिलमार्गेण वारणावतं त्यक्त्वा गङ्गातीरप्राप्त्यनन्तरम् ॥८॥
ततो विदुरवाक्येन नावं विक्षिप्य पाण्डवाः
।
धनं चादाय तैर्दत्तमरिष्टं प्राविशन्वनम्॥९॥
अरिष्टं निर्विघ्नम् ॥९॥
निषादी पञ्चपुत्रा तु जातेषु तत्र वेश्मनि
।
कारणाभ्यागता दग्धा सह पुत्रैरनागसा॥१०॥
स च म्लेच्छाधमः पापो दग्धस्तत्र पुरोचनः
।
वञ्चिताश्च दुरात्मानो धार्तराष्ट्राः सहानुगाः॥११॥
अविज्ञाता महात्मनो जनानामक्षतास्तथा
।
जनन्या सह कौन्तेया मुक्ता विदुरमन्त्रिताः॥१२॥
ततस्तस्मिन्पुरे लोका नगरे वारणावते
।
दृष्ट्वा जतुगृहं दग्धमन्वशोचन्त दुःखिताः॥१३॥
प्रेषयामासू राजानं यथावृत्तं निवेदितुम्
।
संवृत्तस्ते महान्कामः पाण्डवान्दग्धवानसि॥१४॥
सकामो भव कौरव्य भुङ्क्ष्व राज्यं सपुत्रकः
।
तच्छ्रुत्वा धृतराष्ट्रस्तु सह पुत्रेण शोचयन्॥१५॥
प्रेतकार्याणि च तथा चकार सह बान्धवैः
।
पाण्डवानां तथा क्षत्ता भीष्मश्च कुरुसत्तमः॥१६॥
जनमेजय उवाच।
पुनर्विस्तरशः श्रोतुमिच्छामि द्विजसत्तम
।
दाहं जतुगृहस्यैव पाण्डवानां च मोक्षणम्॥१७॥
सुनृशंसमिदं कर्म तेषां क्रूरोपसंहितम्
।
कीर्तयस्व यथावृत्तं परं कौतूहलं मम॥१८॥
क्रूरेण कणिकेन उपसंहितम् उपदिष्टम् ॥१८॥
वैशंपायन उवाच।
शृणु विस्तरशो राजन्वदतो मे परन्तप
।
दाहं जतुगृहस्यैतत्पाण्डवानां च मोक्षणम्॥१९॥
प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम्
।
दुर्योधनो लक्षयित्वा पर्यतप्यत दुर्मनाः॥२०॥
प्राणाधिकं बलाधिकम् ॥२०॥
ततो वैकर्तनः कर्णः शकुनिश्चापि सौवलः
।
अनेकैरभ्युपायैस्ते जिघांसन्ति स्म पाण्डवान्॥२१॥
पाण्डवा अपि तत्सर्वं प्रतिचक्रुर्यथागतम्
।
उद्भवनमकुर्वन्तो विदुरस्य मते स्थिताः॥२२॥
यथागतं यथोपस्थितं तथैव प्रतिचक्रुः ॥२२॥
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा
।
कथयाञ्चक्रिरे तेषां गुणान्संसत्सु भारत॥२३॥
राज्यप्राप्तिं च संप्राप्तं ज्येष्ठं पाण्डुसुतं तदा
।
कथयन्ति स्म संभूय चत्वरेषु सभासु च ॥२४॥
राज्यप्राप्तिं राज्ययोग्यताम् ॥२४॥
प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः
।
राज्यं न प्राप्तवान्पूर्वं स कथं नृपतिर्भवेत्॥२५॥
प्रज्ञाचक्षुरन्धः अत एवानधिकाराद्राज्यं न प्राप्तवान् । स इदानीमपि पुत्रद्वारा कथं नृपतिर्भवेन्न कथमपि द्वारलोपादित्यर्थः ॥२५॥
तथा शान्तनवो भीष्मः सत्यसंधो महाव्रतः
।
प्रत्याख्याय पुरा राज्यं न स जातु ग्रहीष्यति॥२६॥
ते वयं पाण्डवज्येष्ठं तरुणं वृद्धशीलिनम्
।
अभ्यषिञ्चाम साध्वद्य सत्यकारुण्यवेदिनम्॥२७॥
सत्यं कारुण्यं वेदश्च तद्वंतम् ॥२७॥
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित्
।
सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन्॥२८॥
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि जल्पतः
।
युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः॥२९॥
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे
।
ईर्ष्यया चापि संतप्तो धृतराष्ट्रमुपागमत्॥३०॥
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः
।
पोरानुरागसंतप्तः पश्चादिदमभाषत॥३१॥
विरहितमेकाकिनम् ॥३१॥
दुर्योधन उवाच।
श्रुत्वा मे जल्पतां तात पोराणामशिवा गिरः
।
त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम्॥३२॥
मतमेतच्च भीष्मस्य न स राज्यं बुभुक्षति
।
अस्माकं तु परां पीडां चिकीर्षन्ति परे जनाः॥३३॥
अस्माकं तु परां पीडामिति मिथ्यैवोक्तं राज्ञः पाण्डवेषु द्वेषमुत्पादयितुं राज्यापहरणाद्वा पीडाम् ॥३३॥
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा
।
त्वमन्धगुणसंयोगात्प्राप्तं राज्यं न लब्धवान्॥३४॥
प्राप्तं ज्येष्ठत्वात्प्राप्तमपि ॥३४॥
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः
।
तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्यापि चापरः॥३५॥
दायाद्यं दायादः पुत्रस्तद्योग्यं राज्यं तस्य पाण्डवस्य ॥३५॥
ते वयं राजवंशेन हीनाः सह सुतैरपि
।
अवज्ञाता भविष्यामो लोकस्य जगतीपते॥३६॥
सततं निरयं प्राप्ताः परपिण्डोपजीविनः
।
न भवेम यथा राजंस्तथा नीतिर्विधीयताम्॥३७॥
निरयं दुःखम् ॥३७॥
यदि त्वं हि पुरा राजन्निदं राज्यमवाप्तवान्
।
ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने॥३८॥
॥ इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि दुर्योधनेर्ष्यायामेकचत्वारिंशधिकशततमोऽध्यायः॥१४१॥
वैशंपायन उवाच।
एवं श्रुत्वा तु पुत्रस्य प्रज्ञाचक्षुर्नराधिपः
।
कणिकस्य च वाक्यानि तानि श्रुत्वा स सर्वशः॥१॥
द्विचत्वारिंशदधिकशततमोऽध्यायः एवमिति ॥१॥
धृतराष्ट्रो द्विधाचित्तः शोकार्तः समपद्यत
।
दुर्योधनश्च कर्णश्च शकुनिः सौबलस्तथा॥२॥
दुःशासनचतुर्थास्ते मन्त्रयामासुरेकतः
।
ततो दुर्योधनो राजा धृतराष्ट्रमभाषत॥३॥
पाण्डवेभ्यो भयं नः स्यात्तान्विवासयतां भवान्
।
निपुणेनाभ्युपायेन नगरं वारणावतम्॥४॥
धृतराष्ट्रस्तु पुत्रेण श्रुत्वा वचनमीरितम्
।
मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत्॥५॥
धृतराष्ट्र उवाच।
धर्मनित्यः सदा पाण्डुस्तथा धर्मपरायणः
।
सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः॥६॥
नासौ किंचिद्विजानाति भोजनादि चिकीर्षितम्
।
निवेदयति नित्यं हि मम राज्यं धृतव्रतः॥७॥
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः
।
गुणवाঁल्लोकविख्यातः पौरवाणां सुसंमतः॥८॥
स कथं शक्यतेऽस्माभिरपाकर्तुं बलादितः
।
पितृपैतामाहाद्राज्यात्स सहायो विशेषतः॥९॥
भृता हि पाण्डुनाऽमात्या बलं च सततं भृतम्
।
भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः॥१०॥
ते पुरा सत्कृतास्तात पाण्डुना नागरा जनाः
।
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान्॥११॥
दुर्योधन उवाच।
एवमेतन्मया तात भावितं दोषमात्मनि
।
दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन पूजिताः॥१२॥
भावितं वर्धितम् ॥१२॥
ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः
।
अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते॥१३॥
प्रधानतः प्राधान्येन । अर्थवर्गः धनकोशः । मत्संस्थः मदधीनः ॥१३॥
स भवान्पाण्डवानाशु विवासयितुमर्हति
।
मृदुनैवाभ्युपायेन नगरं वारणावतम्॥१४॥
यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति
।
तदा कुन्ती सहापत्या पुनरेष्यति भारत॥१५॥
धृतराष्ट्र उवाच।
दुर्योधन ममाप्येतद्धृदि संपरिवर्तते
।
अभिप्रायस्य पापत्वान्नैवं तु विवृणोम्यहम्॥१६॥
न च भीष्मो न च द्रोणो न च क्षत्ता न गौतमः
।
विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित्॥१७॥
समा हि कौरवेयाणां वयं ते चैव पुत्रक
।
नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः॥१८॥
ते वयं कौरवेयाणामेतेषां च महात्मनाम्
।
कथं न वध्यतां तात गच्छाम जगतस्तथा॥१९॥
दुर्योधन उवाच।
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः
।
यतः पुत्रस्ततो द्रोणो भविता नात्र संशयः॥२०॥
कृपः शारद्वतश्चैव यत एतौ ततो भवेत्
।
द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित्॥२१॥
क्षत्ताऽर्थबद्धस्त्वस्माकं प्रच्छन्नं संयतः परैः
।
न चैकः स समर्थोऽस्मान्पाण्डवार्थेऽधिबाधितुम्॥२२॥
सुविस्रब्धः पाण्डुपुत्रान्सह मात्रा प्रवासय
।
वारणावतमद्यैव यथा यान्ति यथा कुरु॥२३॥
सुविस्रब्धः निःशंकः ॥२३॥
विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम्
।
शोकपावकमुद्भूतं कर्मणैतेन नाशय॥२४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि दुर्योधनपरामर्शे द्विचत्वारिंशदधिकशततमोऽध्यायः॥१४२॥
वैशंपायन उवाच।
ततो दुर्योधनो राजा सर्वा: प्रकृतयः शनैः
।
अर्थमानप्रदानाभ्यां संजहार सहानुजः॥१॥
त्रिचत्वारिंशदधिकशततमोऽध्यायः तत इति । प्रकृतयः प्रकृतीः । संजहार स्वाधीनाश्चक्रे ॥१॥
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः
।
कथयाञ्चक्रिरे रम्यं नगरं वारणावतम्॥२॥
अयं समाजः सुमहान्रमणीयतमो भुवि
।
उपस्थितः पशुपतेर्नगरे वारणावते॥३॥
समाजः पशुपतेः पूजार्थं मेलकः ॥३॥
सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे
।
इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः॥४॥
कथ्यमाने तथा रम्ये नगरे वारणावते
।
गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप॥५॥
यदा त्वमन्यत नृपो जातकौतूहला इति
।
उवाचैतानेत्य तदा पाण्डवानम्बिकासुतः॥६॥
जातकौतूहलाः जातकौतुकदिदृक्षाः ॥६॥
ममैते पुरुषा नित्यं कथयन्ति पुनःपुनः
।
रमणीयतमं लोके नगरं वारणावतम्॥७॥
ते ताता यदि मन्यध्वमुत्सवं वारणावते
।
सगणाः सान्वयाश्चैव विहरध्वं यथाऽमराः॥८॥
सगणाः सपरिवाराः सान्वयाः अन्वयो वंशः सकुन्तीका इत्यर्थः सानुयात्रा इति पाठे यात्रामनुविधीयमानाः शिबिकाकोशाद्युपस्कारास्तत्सहिताः ॥८॥
ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः
।
प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः॥९॥
कंचित्कालं विहृत्यैवमनुभूय परां मुदम्
।
इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ॥१०॥
वैशंपायन उवाच।
धृतराष्ट्रस्य तं काममनुबुध्य युधिष्ठिरः
।
आत्मनश्च सहायत्वं तथेति प्रत्युवाच तम्॥११॥
ततो भीष्मं शान्तनवं विदुरं च महामतिम्
।
द्रोणं च बाह्विकं चैव सोमदत्तं च कौरवम्॥१२॥
कृपमाचार्यपुत्रं च भूरिश्रवसमेव च
।
मान्यानन्यानमात्यांश्च ब्राह्मणांश्च तपोधनान्॥१३॥
पुरोहितांश्च पौत्रांश्च गान्धारीं च यशस्विनीम्
।
युधिष्ठिरः शनैर्दीन उवाचेदं वचस्तदा॥१४॥
रमणीये जनाकीर्णे नगरे वारणावते
।
सगणास्तत्र यास्यामो धृतराष्ट्रस्य शासनात्॥१५॥
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत
।
आशीर्भिर्बृहितानस्मान्न पापं प्रसहिष्यते॥१६॥
प्रसहिष्यते स्प्रष्टुं शक्नोति ॥१६॥
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः
।
प्रसन्नवदना भूत्वा तेऽन्ववर्तन्त पाण्डवान्॥१७॥
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः
।
मा च वोस्त्वशुभं किंचित्सर्वशः पाण्डुनन्दनाः॥१८॥
ततः कृतस्वस्त्ययना राज्यलाभाय पार्थिवाः
।
कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम्॥१९॥
राज्यलम्भाय राज्यांशलाभाय ॥१९॥
॥इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि वारणावतयात्रयां त्रिचत्वांरिशदधिकशततमोऽध्यायः॥१४३॥
वैशंपायन उवाच।
एवमुक्तेषु राज्ञा तु पाण्डुपुत्रेषु भारत
।
दुर्योधनः परं हर्षमगच्छत्स दुरात्मवान्॥१॥
चतुश्चत्वारिंशदधिकशततमोऽध्यायः एवमिति ॥१॥
स पुरोचनमेकान्तमानीय भरतर्षभ
।
गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत्॥२॥
ममेयं वसुसंपूर्णा पुरोचन वसुंधरा
।
यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि॥३॥
सः त्वं तां मदीयां च ॥३॥
न हि मे कश्चिदन्यास्ति विश्वासिकतरस्त्वया
।
सहायो येन संधाय मन्त्रयेयं यथा त्वया॥४॥
विश्वासिकतरः विश्वासेनाप्राप्ततरः संधाय मिलित्वा ॥४॥
संरक्ष तात मन्त्रं च सपत्नांश्च भमोद्धर
।
निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु॥५॥
उद्धर उन्मूलय ॥५॥
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम्
।
उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात्॥६॥
स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना
।
वारणावतमद्यैव यथा यासि तथा कुरु॥७॥
रासभेति तदुत्पन्नाश्वतरग्रहणम् ॥७॥
तत्र गत्वा चतुःशालं गृहं परमसंवृतम्
।
नगरोपान्तमाश्रित्य कारयेथा महाधनम्॥८॥
महाधनं बहुधनसाध्यम् ॥८॥
शणसर्जरसादीनि यानि द्रव्याणि कानिचित्
।
आग्नेयान्युत सन्तीह तानि तत्र प्रदापय॥९॥
आग्नेयानि अग्निसंदीपकानि ॥९॥
सर्पिस्तैलवसाभिश्च लाक्षया चाप्यनल्पया
।
मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापय॥१०॥
शणं तैलं घृतं चैव जतु दारूणि चैव हि
।
तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ॥११॥
यथा च तन्न पश्येरन्परोक्षन्तोऽपि पाण्डवाः
।
आग्नेयमिति तत्कार्यमपि चान्येऽपि मानवाः ॥१२॥
वेश्मन्येवं कृते तत्र गत्वा तान्परमार्चितान्
।
वासयेथाः पाण्डवेयान्कुन्ती च ससुहृज्जनाम्॥१३॥
आसनानि च दिव्यानि यानानि शयनानि च
।
विधातव्यानि पाण्डूनां यथा तुष्येत वै पिता॥१४॥
पिता धृतराष्ट्रः ॥१४॥
यथा च तन्न जानन्ति नगरे वारणावते
।
तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः॥१५॥
ज्ञात्वा च तान्सुविश्वस्तान् शयानानकुतोभयान्
।
अग्निस्त्वया ततो देयो द्वारतस्तस्य वेश्मनः॥१६॥
दह्यमाने स्वके गेहे दग्धा इति ततो जनाः
।
न गर्हयेयुरस्मान्वै पाण्डवार्थाय कर्हिचित्॥१७॥
स तथेति प्रतिज्ञाय कौरवाय पुरोचनः
।
प्रायाद्रासभयुक्तेन स्यन्दनेनाशुगामिना॥१८॥
स गत्वा त्वरितं राजन्दुर्योधनमते स्थितः
।
यथोक्तं राजपुत्रेण सर्वे चक्रे पुरोचनः॥१९॥
इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि पुरोचनोपदेशे चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥१४४॥
वैशंपायन उवाच।
पाण्डवास्तु रथान्युङ्क्त्वा सदश्वैरनिलोपमैः
।
आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत्॥१॥
पञ्चचत्वारिंशदधिकशततमोऽध्यायः पाण्डवा इति ॥१॥
राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः
।
अन्येषां चैव वृद्धानां कृपस्य विदुरस्य च॥२॥
एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः
।
समालिङ्ग्य समानान्वै बालैश्चाप्यभिवादिताः॥३॥
सर्वा मातॄस्तथाऽऽपृच्छ्य कृत्वा चैव प्रदक्षिणम्
।
सर्वाः प्रकृतयश्चैव प्रययुर्वारणावतम्॥४॥
प्रकृतयः प्रकृतीः ॥४ ॥
विदुरश्च महाप्राज्ञस्तथाऽन्ये कुरुपुङ्गवाः
।
पौराश्च पुरुषव्याघ्रानन्वीयुः शोककर्शिताः॥५॥
अन्वीयुः अनुजग्मुः ॥५॥
तत्र केचिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा
।
दीनान्दृष्ट्वा पाण्डुसुतानतीव भृशदुःखिताः॥६॥
विषमं पश्यते राजा सर्वथा स सुमन्दधीः
।
कौरव्यो धृतराष्ट्रस्तु न च धर्मं प्रपश्यति॥७॥
न हि पापमपापात्मा रोचयिष्यति पाण्डवः
।
भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः॥८॥
कुत एव महात्मानो माद्रीपुत्रौ करिष्यतः
।
तान्राज्यं पितृतः प्राप्तान्धृतराष्ट्रो न मृष्यते॥९॥
अधर्म्यमिदमत्यन्तं कथं भीष्मोऽनुमन्यते
।
विवास्यमाना न स्थाने नगरे योऽभिमन्यते॥१०॥
अस्थाने अयुक्तम् ॥१०॥
पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा
।
विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः॥११॥
स तस्मिन्पुरुषव्याघ्रे देवभावं गते सति
।
राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यति॥१२॥
वयमेतदनिच्छन्तः सर्व एव पुरोत्तमात्
।
गृहान्विहाय गच्छामो यत्र गन्ता युधिष्ठिरः॥१३॥
गन्ता गमिष्यति ॥१३॥
तांस्तथा वादिनः पौरान्दुःकितान्दुःखकर्शितः
।
उवाच मनसा ध्यात्वा धर्मराजो युधिष्ठिरः॥१४॥
पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः
।
अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम्॥१५॥
भवन्तः सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम्
।
प्रतिनन्द्य तथाशीर्भिर्निवर्तध्वं यथा गृहम्॥१६॥
यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते
।
तदा करिष्यथास्माकं प्रियाणि च हितानि च॥१७॥
एवमुक्तास्तदा पौराः कृत्वा चापि प्रदक्षिणम्
।
आशीर्भिश्चाभिनन्द्यैताञ्जग्मुर्नगरमेव हि॥१८॥
पौरेषु विनिवृत्तेषु विदुरः सत्यधर्मवित्
।
बोधयन्पाण्डवश्रेष्ठमिदंवचनमब्रवीत्॥१९॥
पौरेष्विति । पाण्डवश्रेष्ठं युधिष्ठिरं बोधयन् । अज्ञातं दुर्योधनकृतं कपटं ज्ञापयन् । इदं वक्ष्यमाणं वचनं अब्रवीत् ॥१९॥
प्राज्ञः प्राज्ञप्रलापज्ञः प्रलापज्ञमिदं वचः
।
प्राज्ञं प्राज्ञः प्रलापज्ञः प्रलापज्ञं वचोब्रवीत्॥२०॥
न केवलं पौरेभ्य एव तद्वचनं गोपनीयमपि तु समीपस्थैरपि युधिष्ठिरादन्यैर्न ज्ञातुं शक्यमित्याह । प्राज्ञ इति । प्राज्ञो बुद्धिमाननेकभाषाभिज्ञत्वात् । प्राज्ञत्वमेवाह । प्राज्ञप्रलापज्ञ इति । प्रकर्षेणाज्ञानां पशुप्रायाणां वेदविरोधिनां म्लेच्छानां प्रलापोनर्थकम् सम्यक्प्रकृतिप्रत्ययविभागेनानिष्पन्नत्वादर्थानवबोधकं वचनं देशभाषारूपं लुप्तवर्णम् अधिकवर्णं विकृतवर्णं च पदजातं यत्र तादृशभाषाभिज्ञ इत्यर्थः । तत्र लुप्तवर्णं काण्वशतपथे इन्द्रेणासुरान्प्रति भवतामग्नौ इमां चित्राख्यां मदीयाम् इष्टकामुपधास्ये इति पृष्टे उपहीत्यसुखचनम् । तथा आदास्ये इत्युक्ते आहीति प्रतिवचनम् । तत्र उपधेहि आदेहीति वक्तव्ये वर्णलोपः । अधिकवर्नं तु गौरिति वक्तव्ये गावी गोणी गोता गोपोतलिकेति प्रयुञ्जते । तथा विकृतवर्णे ते सुरा हेलयो हेलय इति वदन्तः परावभूवुरिति । अरय इत्यपेक्षिते रेफस्थाने लकारः प्रयुज्यते वेदेपि असुरभाषानुवादे तेनेयं शङ्काप्यपास्ता । यद्यपि युधिष्ठिरं प्रति विदुरेण म्लेच्छभाषया उक्तं तथापि व्यासेन तत्संस्कृतेनैवोपनिबद्धमिति । आदिपर्वणि नानादेशभाषाश्चात्र ग्रथ्यन्त इति प्रतिज्ञानात् । स एवं प्राज्ञः प्राज्ञप्रलापज्ञश्च विदुरो युधिष्ठिरं प्रलापज्ञं म्लेच्छभाषाभिज्ञम् इदं वक्ष्यमाणं वचो म्लेच्छभाषारूपं प्राज्ञः प्रकर्षेणाजानतः । प्राज्ञं प्रकर्षेण अर्थतो ज्ञातुमशक्यम् अज्ञापकम् अर्थानामनवबोधकं वा । कथं तर्हि तेन वचनेनास्यापि बोधो भविष्यतीत्याशङ्क्याह । प्रलापज्ञः प्रलापज्ञमिति प्रलापं जानतः । प्रलापज्ञापकं प्रलापज्ञमिति पूर्वार्धे शब्दतो म्लेच्छभाषाभिज्ञत्वमुक्तम् । इह त्वर्थतस्तदभिज्ञत्वमित्यपौनरुक्त्यम् । प्राज्ञ इति प्रलापज्ञ इति च उत्तरार्धे क्विबन्तस्य षष्ठ्यन्तस्य रूपे । प्राज्ञं प्रलापज्ञमिति तु अन्तर्भावितण्यर्थात् ज्ञाधातोः कप्रत्ययान्तस्य रूपे । वचो वचनीयमवश्यं वक्तव्यमित्यर्थः । अत एवाब्रवीत् अत्रोत्तरार्धं गौडपाठ एव दृश्यते । तदभावे तु पूर्वार्धादेवायमर्थः प्रत्येतव्यः । सर्वथापि म्लेच्छभाषयोक्तोर्थो म्लेच्छभाषयैव संगृह्यत इति तात्पर्यम् । अन्यथा अलोहमित्याद्यपि व्यासो नावक्ष्यत् । यथाश्रुतं जातुषमेव गृहं भवद्दाहार्थे तत्र कृतमिति म्लेच्छभाषया विदुरेण युधिष्ठिरो बोधित इत्येव तेनोक्तं स्यात् ॥२०॥
यो जानाति परप्रज्ञां नीतिशास्त्रानुसारिणीम्
।
विज्ञायेह तथा कुर्यादापदं निस्तरेद्यथा॥२१॥
तदेव वचनं श्रावयितुं युधिष्ठिरमभिमुखीकरोति । योजानातीति । परस्य शत्रोः प्रज्ञां नीतिशास्त्रं कपटेन विश्वासमुत्पाद्यापि शत्रुर्हन्तव्य इति कणिकवचनरूपं तदनुसारिणीं यो जानाति स पुमानिह यथा शत्रुकल्पिताम् आपदं निस्तरेत्तथा कुर्याद्यत्नमिति शेषः ॥२१॥
अलोहं निशितं शस्त्रं शरीपरिकर्तनम्
।
यो वेत्ति न तु तं घ्नन्ति प्रतिघातविदं द्विषः॥२२॥
तामेवापदमाह । अलोहमित्यादिना । तं शत्रुणा कृतं वारणावतस्थम् । शस्त्रं सस्ति शेते अस्मिन्निति व्युत्पत्त्या प्रासादम् । यो वेत्ति तं द्विषो न घ्नन्तीति सम्बन्धः । शस्त्रमिति दन्त्यसकारस्थाने तालव्यशकारो म्लेच्छभाषात्वात् । हेलय इतिवत् वर्णविकारः । षसस्वापे इत्यदादेस्रन्प्रत्ययान्तस्य रूपम् । तमेव विशिनष्टि । अलोहमिति । अलो अनलोग्निः । आहिम् उपहीतिवद्वर्णलोपः तेन आग्नेयानि द्रव्याणि जतुशणसर्जरसादीनि लक्ष्यन्ते । तेषाम् ऊहः समूहो यस्मिन् । आग्नेयैर्दाहकैर्द्वव्यैरुपेतमित्यर्थः । तर्हि किं तानि ज्ञातुमशक्यानि न वेत्यत आह । शरीरपरिवर्तनमिति । शरीरं स्वरूपम् । म्लेच्छभाषात्वादविभक्तिकमिदं पदम् । परि परिलुष्य अच्छाद्य । वर्णद्वयलोपः । परिवर्जनार्थो वा । कर्तनं हिंसकम् । तस्मिन् गृहेन्तर्हितान्येवाग्नेयानि द्रव्याणि भित्त्यादौ वर्तन्ते न स्वरूपेण दृश्यन्ते अतस्तं शरीरपरिवर्तनं प्रासादं परित्याज्यं यो वेत्ति । कर्तनमिति हिंसार्थस्य कृणत्ते रूपं न छेदनार्थस्य कृन्ततेरिति ज्ञेयम् । कर्तन कालमाह । निशीति अत्र निशितं कर्तनमिति पदत्रयव्यतिरेकेण पूर्वार्धं म्लेच्छभाषयैवोक्तम् । एवमग्रेपि श्लोके कतिपयपदान्येव म्लेच्छभाषा भवति न सर्वः श्लोक इति ज्ञेयम् । यो वेत्ति तं प्रतिघातविदं तस्य शस्त्रस्य प्रतिघातः प्रतीकारः । तद्विदं द्विषः शत्रवो न घ्नन्ति हन्तुं न शक्नुवन्तीत्यर्थः ॥२२॥
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः
।
न दहेदिति चात्मानं यो रक्षेति स जीवति॥२३॥
कस्तर्हि साहसी तस्मिन् गृहे वसतोस्मान् भस्मीकर्तुं यतिष्यतीत्यत आह । कक्षघ्न इति । कक्षः कुक्षिः पार्श्व इति यावत् । तत्र हन्ति गच्छतीति कक्षघ्नः पार्श्वचरः पुरोचन एव । अत्र स्वरस्यैव प्रथमे पदे व्यत्ययो हन्तेरप्रसिद्धं गत्यर्थत्वं च म्लेच्छभाषात्वात् । कक्षघ्न एव शिशिरः । शृणाति हिनस्तीति शिशिरोऽग्निः ।शृ हिंसायामित्यस्य रूपम् । तेन हन्तीतिशिशिघ्नः गावी गोणीतिवद्वर्णाधिक्यं शिकारद्वयरूपम् । अयमेव पार्श्ववर्ती युष्मानग्निना हन्तुमायातीत्यर्थः । एवं तर्ह्ययमेवहन्तव्य उत वारणावते तद्गृहं वा न प्रवेष्टव्यमुत वारणावतमगत्वैव हास्तिनपुरं प्रत्येवागन्तव्यमित्याशंक्याह । महाकक्ष इति । महतिकं सुखं क्षिणोतौति कक्षयः शत्रुर्वर्णलोपेन कक्षे महति शत्रौ सति एतत्त्रयं कर्तुमशक्यम् । ज्ञातकपटो हि बलवान् शत्रुः प्रत्यक्षमेव प्रहरेदिति भावः । कस्तर्ह्यत्र उपाय इत्यत आह । बिलौकसः बिलान्तः प्रविष्टान्युष्मान्स पुरोचनो न दहेत् । तत्र दाहसंभावना नास्ति । तत्र गृहान्तर्बिलं कर्तव्यमित्यर्थः । इत्यनेन प्रकारेणात्मानं यो रक्षति स जीवति । तस्मात्त्वयाप्येवं ज्ञात्वा उपायेनात्मा संरक्षणीय इत्यर्थः ॥२३॥
नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः
।
नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः॥२४॥
ननु बिलेप्रविष्टानामस्माकं बिलमुखे प्रदीप्ते न वह्निना अन्तरूष्मणा नाशः कर्तव्य इत्याशङ्क्य विवेकं विना मार्गज्ञानं दिग्ज्ञानं च न भवति धैर्यं विना ऐश्वर्यं च न प्राप्यत इति विवेकं धैर्यं चाश्रयस्वेत्याह । नाचक्षुरिति । चष्टे पश्यत्यनेनेति चक्षुर्विवेकः । संस्कृत एवायं श्लोको नीतिप्रदर्शनार्थः ॥२४॥
अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम्
।
श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात्॥२५॥
तत्र मार्गविवेकं तावदाह । अनाप्तैरिति । अनाप्तैः शत्रुभिर्दत्तं स्वीकारितं शस्त्रं गृहम् अलोहजं पूर्ववत् आग्नेयद्रव्यसमूहजं आदत्ते स्वीकरोति चेन्नरस्तर्हि श्वावित् शललस्तस्य शरणं गृहं तद्वत् । तस्य हि बिलमुभयतो मुखं भवति तादृशं बिलमासाद्य प्राप्य हुताशनात् प्रमुच्येत आत्मानं मोचयेत् । तेन बिलप्रवेशेन मार्गान्तरेण सद्य एव बिलाद्बहिर्निःसरतां युष्माकं नान्तरूष्मणा मरणं भविष्यतीत्युक्तम् ॥२५॥
चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः
।
आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते॥२६॥
बिलान्निःसृतानामपि मार्गज्ञानं कथं भवेदित्याशङ्क्य मृगयाव्याजेन सर्वे मार्गा ज्ञातव्या इत्याशयेनाह । चरन्मार्गान्विजानातीति । एवं ज्ञातेष्वपि मार्गेषु हास्तिनपुरं प्रति नागन्तव्यमित्याशयेनाह । नक्षत्रैर्विन्दते दिश इति ननु कथमस्माभिर्लोकानामविदितं बिलं कारयितुं शक्यं कथं वा विदेशे बन्धूंश्च त्यक्त्वा स्थातव्यमित्याशङ्क्याह आत्मनेति । आत्मनः अहं धर्मांशस्त्वं च धर्मपुत्रः । अतोहं तव आत्मा तस्य मम आत्मेवात्मा सखा कश्चिन्मया नियोक्तव्यस्तेन सहायेन बिलादिसंपादयता हेतुना । पञ्च इन्द्रियाणि विदेशवासात् इष्टविषयासमर्पणेन पीडयन् । हेतौ शतृप्रत्ययः । मत्प्रहितेन भृत्येन स्वधैर्येणेति यावत् । एताभ्यां द्वाभ्यामुपेतो नानुतप्यते । मयाऽकृत्यं कृतम् इति पश्चात्तापं न प्राप्नोति । मदीय आप्तः सुरङ्गं कृत्वा दास्यति तेन मार्गेण देशान्तरे एव गतव्यं न तु हास्तिनपुरे प्रवेष्टव्यम् । ज्ञातकपटो हि प्रबलः शत्रुः प्रत्यक्षमेव प्रहरेदिति प्रागुक्त एवाशयः । धैर्ये सति पुनर्लक्ष्मीप्राप्तिर्भविष्यतीति भावः ॥२६॥
एवमुक्तः प्रत्युवाच धर्मराजो युधिष्ठिरः
।
विदुरं विदुषां श्रेष्ठं ज्ञातमित्येव पाण्डवः॥२७॥
अनुशिक्ष्यानुगम्यैतान्कृत्वा चैव प्रदक्षिणम्
।
पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान्॥२८॥
निवृत्ते विदुरे चापि भीष्मे पौरजने तथा
।
अजातशत्रुमासाद्य कुन्ती वचनमब्रवीत्॥२९॥
क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव
।
त्वया च स तथेत्युक्तो जानीमो न च तद्वयम्॥३०॥
अब्रुवन्निव व्यक्तां वाचमकुर्वन्निव ॥३०॥
यदीदं शक्यमस्माभिर्ज्ञातुं नैव च सदोषवत्
।
श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च॥३१॥
युधिष्ठिर उवाच।
गृहादग्निश्च बोद्धव्य इति मां विदुरोऽब्रवीत्
।
पन्थाश्च वो नाविदितः कश्चित्स्यादिति धर्मधीः॥३२॥
जितेन्द्रियश्च वसुधां प्राप्स्यतीति च मेऽब्रवीत्
।
विज्ञातमिति तत्सर्वं प्रत्युक्तो विदुरो मया॥३३॥
वैशंपायन उवाच।
अष्टमेऽहनि रोहिण्यां प्रयाताः फाल्गुनस्य ते
।
वारणावतमासाद्य ददृशुर्नागरं जनम्॥३४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि वारणावतगमने पञ्चचत्वारिंशदधिकशततमोऽध्यायः॥१४५॥
वैशंपायन उवाच।
ततः सर्वाः प्रकृतयो नगराद्वारणावतात्
।
सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः॥१॥
षट्चत्वारिंशदधिकशततमोऽध्यायः तत इति ॥१॥
श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः
।
अभिजग्मुर्नरश्रेष्ठान् श्रुत्वैव परया मुदा॥२॥
आगतानिति च्छेदः ॥२॥
ते समासाद्य कौन्तेयान्वारणावतका जनाः
।
कृत्वा जयाशिषः सर्वे परिवार्यावतस्थिरे॥३॥
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः
।
विबभौ देवसङ्काशो वज्रपाणिरिवामरैः॥४॥
सत्कृताश्चैव पौरैस्ते पौरान्सत्कृत्य चानघ
।
अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम्॥५॥
ते प्रविश्य पुरीं वीरास्तूर्णं जग्मुरथो गृहान्
।
ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु॥६॥
नगराधिकृतानां च गृहाणि रथिनां तदा
।
उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहाण्यपि॥७॥
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभ
।
जग्मुरावसथं पश्चात्पुरोचनपुरःसराः॥८॥
तेभ्यो भक्ष्याणि पानानि शयनानि शुभानि च
।
आसनानि च मुख्यानि प्रददौ स पुरोचनः॥९॥
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः
।
उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः॥१०॥
दशरात्रोषितानां तु तत्र तेषां पुरोचनः
।
निवेदयामास गृहं शिवाख्यमशिवं तदा॥११॥
शिवमित्याख्यामात्रम् अर्थतस्त्वशिवं मरणार्थं कृतत्वात् ॥११॥
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः
।
पुरोचनस्य वचनात्कैलासमिव गुह्यकाः॥१२॥
तच्चागारमभिप्रेक्ष्य सर्वधर्मभृतां वरः
।
उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः॥१३॥
युधिष्ठिर उवाच।
जिघ्राणोऽस्य वसागन्धं सर्पिर्जतुविमिश्रितम्
।
कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप॥१४॥
शणसर्जरसंव्यक्तमानीय गृहकर्मणि
।
मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम्॥१५॥
मुजः शरवल्कः ॥१५॥
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि
।
विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः॥१६॥
तथा हि वर्तते मन्दः सुयोधनवशे स्थितः
।
इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तथा॥१७॥
इममापदं भाविनीं दृष्टवान् तर्कतः तेन हेतुना अशिवं गृहमित्यस्मान् बोधितवान् इति सम्बन्धः ॥१७॥
आपदं तेन मां पार्थ स संबोधितवान्पुरा
।
ते वयं बोधितास्तेन नित्यमस्मद्धितैषिणा॥१८॥
पित्रा कनीयसा स्नेहाद्बुद्धिमन्तोऽशिवं गृहम्
।
अनार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः॥१९॥
भीमसेन उवाच।
यदीदं गृहामाग्नेयं विहितं मन्यते भवान्
।
तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम्॥२०॥
युधिष्ठिर उवाच।
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये
।
अप्रमत्तैर्विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः॥२१॥
योगरूपकेण गृहवासकर्तव्यतामाह । इहेति । निराकारैः अनाविष्कृतबाह्यचेष्ठैः इष्टां गतिं निरुपद्रवं मार्गम् । पक्षे इह देहे निराकारैराकारविशेषमनालम्ब्य स्थेयं यत्तैः शमादिपरैः अप्रमत्तैः स्मृतिमद्भिः ध्रुवां गतिं मोक्षम् ॥२१॥
यदि विन्देत चाकारमस्माकं स पुरोचनः
।
क्षिप्रकारी ततो भूत्वा प्रसह्यापि दहेत नः॥२२॥
नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः
।
तथा हि वर्तते मन्दः सुयोधनवशे स्थितः॥२३॥
उपकोशात् गर्हातः ॥२३॥
अपि चायं प्रदग्धेषु भीष्मोऽस्मासु पितामहः
।
कोपं कुर्यात्किमर्थं वा कौरवान्कोपयीत सः॥२४॥
अयं भीष्म इति सम्बन्धः ॥२४॥
अथवापीह दग्धेषु भीष्मोऽस्माकं पितामहः
।
धर्म इत्येव कुप्येरन्ये चान्ये कुरुपुङ्गवाः॥२५॥
दग्धेषु अस्मासु अग्निदेषु कोपो धर्म इत्येव कारणं कृत्वा भीष्मोन्ये च कुप्येरन् ॥२५॥
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेमहि
।
स्पशैर्निर्घातयेत्सर्वान्राज्यलुब्धः सुयोधनः॥२६॥
दाहस्य दाहात् स्पशैश्वारैः ॥२६॥
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः
।
हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम्॥२७॥
अपदं देशकोशाद्यक्षमत्वं तत्र स्थितान् । अपक्षान् असहायान् प्रयोगैरुपायैः ॥२७॥
तदस्माभिरिमं पापं तं च पापं सुयोधनम्
।
वञ्चयद्भिर्निवस्तव्यं छन्नावासं क्वचित्क्वचित्॥२८॥
छन्नावासं गूढस्थानं वस्तव्यम् अधिष्ठातव्यम् ॥२८॥
ते वयं मृगयाशीलाश्चराम वसुधामिमाम्
।
तथा नो विदिता मार्गा भविष्यन्ति पलायताम्॥२९॥
भौमं च बिलमद्यैव करवाम सुसंवृतम्
।
गूढश्वासान्न नस्तत्र हुताशः संप्रधक्ष्यति॥३०॥
क्वचित्काले च्छन्नावासमेवाह भौममिति गूढःश्वासोपि येषां तान् इतरैरविदितकर्तव्यानित्यर्थः ॥३०॥
वासतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः
।
पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः॥३१॥
अत्र बिले ॥३१॥
॥ इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि भीमसेनयुधिष्ठिरसंवादे षट्चत्वारिंशदधिकशततमोऽध्यायः॥१४६॥
वैशंपायन उवाच।
विदुरस्य सुहृत्कश्चित्खनकः कुशलो नरः
।
विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत्॥१॥
सप्तचत्वारिंशदधिकशततमोऽध्यायः विदुरस्येति ॥१॥
प्रहितो विदुरेणास्मि खनकः कुशलो ह्यहम्
।
पाण्डवानां प्रियं कार्यमिति किं करवाणि वः॥२॥
प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान्
।
प्रतिपादय विश्वासादिति किं करवाणि वः॥३॥
प्रच्छन्नं यथास्यात्तथा पाण्डवान् श्रेयः प्रतिपादयेत्युक्तोहं वः किं करवाणि ॥३॥
कृष्णपक्षे चतुर्दश्यां रात्रावस्यां पुरोचनः
।
भवनस्य तव द्वारि प्रदास्यति हुताशनम्॥४॥
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः
।
इति व्यवसितं तस्य धार्तराष्ट्रस्य दुर्मतेः॥५॥
किंचिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव
।
त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम्॥६॥
म्लेच्छवाचा म्लेच्छभाषया ॥६॥
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः
।
अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै॥७॥
शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम्
।
न विद्यते कवेः किंचिदविज्ञातं प्रयोजनम्॥८॥
कवेः सर्वज्ञस्य क्रान्तदर्शिनो वा ॥८॥
यथा तस्य तथा नस्त्वं निर्विशेषा वयं त्वयि
।
भवतश्च यथा तस्य पालयास्मान्यथा कविः॥९॥
यथा वयं तस्य तथा भवतश्च पालनीयाः । अतोस्मान्यथा कविः पालयति तथा त्वमपि पालयेत्यर्थः ॥९॥
इदं शरणमाग्नेयं मदर्थमिति मे मतिः
।
पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात्॥१०॥
शरणं गृहम् ॥१०॥
स पापः कोशवांश्चैव ससहायश्च दुर्मतिः
।
अस्मानपि च पापात्मा नित्यकालं प्रबाधते॥११॥
स भवान्भोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात्
।
अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः॥१२॥
समृद्धमायुधागारमिदं तस्य दुरात्मनः
।
वप्रान्तं निष्प्रतीकारमाश्रित्येदं कृतं महत्॥१३॥
वप्रान्तं प्राकारमूलम् । निष्प्रतीकारं बहिर्निर्गमनप्रकारशून्यम् ॥१३॥
इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम्
।
प्रागेव विदुरो वेद तेनास्मानन्वबोधयत्॥१४॥
सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा
।
पुरोचनस्याविदितानस्मांस्त्वं प्रतिमोचय॥१५॥
स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः
।
परिखामुत्किरन्नाम चकार च महाबिलम्॥१६॥
परिखा प्राकारपरिधिभूतो गर्तः ताम् । नाम प्रसिद्धम् । उत्किरन्परिखापरिष्कारव्याजेन बिलान्मृदम् उत्किरन् बहिः क्षिपन् महाबिलं सुरङ्गाख्यं चकार ॥१६॥
चक्रे च वेश्मनस्तस्य मध्ये नातिमहद्बिलम्
।
कपाटयुक्तमज्ञातं समं भूम्याश्च भारत॥१७॥
मध्येन मध्यतः ॥१७॥
पुरोचनभयादेव व्यदधात्संवृतं मुखम्
।
स तस्य तु गृहद्वारि वसत्यशुभधीः सदा
।
तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप॥१८॥
व्यदधात् विहितवान् । स पुरोचनस्ते च पञ्च गृहद्वारि क्षपां वसन्ति स्म ॥१८॥
दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम्
।
विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम्
।
अतुष्टा तुष्टवद्राजन्नूषुः परमविस्मिताः॥१९॥
दिवा च मृगयां चरन्ति अतो न दग्धुं पुरोचनश्छिद्रं प्रापेति भावः ॥१९॥
न चैनानन्वबुध्यन्त नरा नगरवासिनः
।
अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात्॥२०॥
॥ इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि जतुगृहवासे सप्तचत्वारिंशदधिकशततमोऽध्यायः॥१४७॥
वैशंपायन उवाच।
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान्
।
विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः॥१॥
अष्टचत्वारिंशदधिकशततमोऽध्यायः तांस्त्विति ॥१॥
पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः
।
भीमसेनार्जुनौ चोभौ यमौ प्रोवाच धर्मवित्॥२॥
अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः
।
वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने॥३॥
आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम्
।
षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः॥४॥
षट्प्राणिन इति अन्यथा पलायनशङ्कया पुनरस्मदन्वेषणे मतिः स्यात्सा माभूदिति भावः ॥४॥
अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम्
।
चक्रे निशि महाराज आजग्मुस्तत्र योषितः॥५॥
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत
।
जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम्॥६॥
निषादी पञ्चपुत्रा तु तस्मिन्भोज्ये यदृच्छया
।
अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता॥७॥
सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला
।
सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने॥८॥
सुष्वाप विगतज्ञाना मृतकल्पा नराधिप
।
अथ प्रवाते तुमुले निशि सुप्ते जने तदा॥९॥
तदुपादीपयद्भीमः शेते यत्र पुरोचनः
।
ततो जतुगृहद्वारं दीपयामास पाण्डवः॥१०॥
समन्ततो ददौ पश्चादग्निं तत्र निवेशने
।
ज्ञात्वा तु तद्गृहं सर्वमादीप्तं पाण्डुनन्दनाः॥११॥
सुरङ्गां विविशुस्तूर्णं मात्रा सार्धमरिन्दमाः
।
ततः प्रतापः सुमहाञ्छब्दश्चैव विभावसोः॥१२॥
प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः
।
तदवेक्ष्य गृहं दीप्तमाहुः पौराः कृशाननाः॥१३॥
पोरव ऊचुः।
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना
।
गृहमात्मविनाशाय कारितं दाहितं च तत्॥१४॥
अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसा
।
यः शुचीन्पाण्डुदायादान्दाहयामास शत्रुवत्॥१५॥
दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः
।
अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान्॥१६॥
वैशंपायन उवाच।
एवं ते विलपन्ति स्म वारणावतका जनाः
।
परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः॥१७॥
पाण्डवाश्चापि ते सर्वे सह मात्रा सुदुःखिताः
।
बिलेन तेन निर्गत्य जग्मुर्द्रुतमलक्षिताः॥१८॥
तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः
।
न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः॥१९॥
भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः
।
जगाम भ्रातॄनादाय सर्वान्मातरमेव च॥२०॥
स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान्
।
पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलः॥२१॥
उरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन्
।
स जगामाशु तेजस्वी वातरंहा वृकोदरः॥२२॥
॥ इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि जतुगृहदाहे अष्टचत्वारिंशदधिकशततमोऽध्यायः॥१४८॥
वैशंपायन उवाच।
एतस्मिन्नेव काले तु यथासंप्रत्ययं कविः
।
विदुरः प्रेषयामास तद्वनं पुरुषं शुचिम्॥१॥
ऊनपञ्चाशदधिकशततमोऽध्यायः एतस्मिन्निति । यथासंप्रत्ययं यथासङ्केतं शुचिं नाचिकम् । मापयानान् जलपरिमाणं परीक्षमाणान् ॥१॥
स गत्वा तु यथोद्देशं पाण्डवान्ददृशे वने
।
जनन्या सह कौरव्यमापयानान्नदीजलम्॥२॥
विदितं तन्महाबुद्धेर्विदुरस्य महात्मनः
।
ततस्तस्यापि चारेण चेष्टितं पापचेतसः॥३॥
तस्य चेष्टितं चारेण विदुरस्य विदितं यतस्ततो हेतोः विदुरेण ततः स्वस्थानात् नरः प्रवासितः प्रेषित इति सार्धश्लोको वाक्यम् ॥३॥
ततः प्रवासितो विद्वान्विदुरेण नरस्तदा
।
पार्थानां दर्शयामास मनो मारुतगामिनीम्॥४॥
स नरः दर्शयामास ॥४॥
सर्ववातसहां नावं यन्त्रयुक्तां पताकिनीम्
।
शिवे भागीरथीतीरे नरैर्विस्रम्भिभिः कृतान्॥५॥
ततः पुनरथोवाच ज्ञापकं पूर्वचोदितम्
।
युधिष्ठिर निबोधेदं संज्ञार्थं वचनं कवेः॥६॥
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः
।
न हन्तीत्येवमात्मानं यो रक्षति स जीवति॥७॥
तेन मां प्रेषितं विद्धि विश्वस्तं संज्ञयाऽनया
।
भूयश्चैवाह मां क्षत्ता विदुरः सर्वतोऽर्थवित्॥८॥
कर्णं दुर्योधनं चैव भ्रातृभिः सहितं रणे
।
शकुनिं चैव कौन्तेय विजेताऽसि न संशयः॥९॥
इयं वारिपथे युक्ता नौरप्सु सुखगामिनी
।
मोचयिष्यति वः सर्वानस्माद्देशान्न संशयः॥१०॥
अथ तान्व्यथितान्दृष्ट्वा सह मात्रा नरोत्तमान्
।
नावमारोप्य गङ्गायां प्रस्थितानब्रवीत्पुनः॥११॥
विदुरो मूर्ध्न्युपाघ्राय परिष्वज्य वचो मुहुः
।
अरिष्टं गच्छता व्यग्राः पन्थानमिति चाब्रवीत्॥१२॥
इत्युक्त्वा स तु तान्वीरान्पुमान्विदुरचोदितः
।
तारयामास राजेन्द्र गङ्गां नावा नरर्षभान्॥१३॥
तारयित्वा ततो गङ्गां पारं प्राप्तांश्च सर्वशः
।
जयाशिषः प्रयुज्याथ यथागतमगाद्धि सः॥१४॥
पाण्डवाश्च महात्मानः प्रतिसन्दिश्य वै कवेः
।
गङ्गामुत्तीर्य वेगेन जग्मुर्गूढमलक्षिताः॥१५॥
॥ इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि गङ्गोत्तरणे ऊनपञ्चाशदधिकशततमोऽध्यायः॥१४९॥
वैशंपायन उवाच।
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः
।
तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान्॥१॥
पञ्चाशदधिकशततमोऽध्यायः अथेति ॥१॥
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः
।
जातुषं तद्गृहं दग्धममात्यं च पुरोचनम्॥२॥
नूनं दुर्योधनेनेदं विहितं पापकर्मणा
।
पाण्डवानां विनाशायेत्येवं ते चुक्रुशुर्जनाः॥३॥
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः
।
दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान्॥४॥
नूनं शान्तनवोऽपीह न धर्मनुवर्तते
।
द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः॥५॥
ते वयं धृतराष्ट्राय प्रेषयामो दुरात्मने
।
संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि॥६॥
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम्
।
निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम्॥७॥
व्यपोहमानाः निर्यापयन्तः ॥७॥
खनकेन तु तेनैव वेश्म शोधयता बिलम्
।
पांसुभिः पिहितं तच्च पुरुषैस्तैर्न लक्षितम्॥८॥
ततस्ते प्रेषयामासुर्धृतराष्ट्राय नागराः
।
पाण्डवानग्निना दग्धानमात्यं च पुरोचनम्॥९॥
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम्
।
विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः॥१०॥
अद्य पाण्डुर्मृतो राजा मम भ्राता महायशाः
।
तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः॥११॥
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम्
।
सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम्॥१२॥
कारयन्तु च कुल्यानि शुभ्राणि च बृहन्ति च
।
ये च तत्र मृतास्तेषां सुहृदो यान्तु तानपि॥१३॥
कुल्यानि अस्थीनि । कारयन्तु संस्कारयन्तु । ‘कुलं जनपदे गोत्रे सजातीयगणेपि च । भवने च तनौ क्लीबं कण्टकार्यौषधौ कुली’ इति मेदिनी । ‘कुल्यं स्यात्कीकसेपि’ इति च । कुल्यानि चैत्यानीत्यन्ये । महावृक्षेण वा महाप्रसादेन वा अङ्कितानि | चत्वराणीत्यर्थः ॥१३॥
एवं गते मया शक्यं यद्यत्कारयितुं हितम्
।
पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः॥१४॥
एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः
।
उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः॥१५॥
रुरुदुः सहिताः सर्वे भृशं शोकपरायणाः
।
हा युधिष्ठिर कौरव्य हा भीम इति चापरे॥१६॥
हा फल्गुनेति चाप्यन्ये हा यमाविति चापरे
।
कुन्तीमार्ताश्च शोचन्त उदकं चक्रिरे जनाः॥१७॥
अन्ये पौरजनाश्चैवमन्वशोचन्त पाण्डवान्
।
विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः॥१८॥
पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात्
।
नदीं गङ्गामनुप्राप्ता मातृषष्ठा महाबलाः॥१९॥
दाशानां भुजवेगेन नद्याः स्रोतोजवेन च
।
वायुना चानुकूलेन तूर्णं पारमवाप्नुवन्॥२०॥
ततो नावं परित्यज्य प्रययुर्दक्षिणा दिशम्
।
विज्ञाय निशि पन्थानं नक्षत्रगणसूचितम्॥२१॥
यतमानां वनं राजन्गहनं प्रतिपेदिरे
।
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः॥२२॥
पुनरूचूर्महावीर्यं भीमसेनमिदं वचः
।
इतः कष्टतरं किं तुन् यद्वयं गहने वने
।
दिशश्च न विजानीमो गन्तुं चैव न शक्नुमः॥२३॥
तं च पापं न जानीमो यदि दग्धः पुरोचनः
।
कथं तु विप्रमुच्येम भयादस्मादलक्षिताः॥२४॥
पुनरस्मानुपादाय तथैव व्रज भारत
।
त्वं हि नो बलवानेको यथा सततगस्तथा॥२५॥
इत्युक्तो धर्मराजेन भीमसेनो महाबलः
।
आदय कुन्तीं भ्रातॄंश्च जगामाशु महाबलः॥२६॥
॥ इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि पाण्डववनप्रवेशे पञ्चाशदधिकशततमोऽध्यायः॥१५०॥
वैशंपायन उवाच।
तेन विक्रममाणेन ऊरुवेगसमीरितम्
।
वनं सवृक्षविटपं व्याघूर्णितमिवाभवत्॥१॥
एकपञ्चाशदधिकशततमोऽध्यायः तेनेति ॥१॥
जङ्घावातो ववौ चास्य शुचिशुक्रागमे यथा
।
आवर्जितालतावृक्षं मार्गं चक्रे महाबलः॥२॥
शुचिशुक्रागमे ज्येष्ठाषाढयोः समये । आवर्जिताः समीकृताः लताः वृक्षाश्च यस्मिन् ॥२॥
समृद्गन्पुष्पितांश्चैव फलितांश्च वनस्पतीन्
।
अवरुज्य ययौ गुल्मान्पथस्तस्य समीपजान्॥३॥
अवरुज्य भंक्त्वा ॥३॥
स रोषित इव क्रुद्धो वने भञ्जन्महाद्रुमान्
।
त्रि:प्रस्रुतमदः शुष्मी षष्टिवर्षो मतङ्गराट्॥४॥
रोषितः रोषं प्रापितः । त्रिषु गण्डकर्णमूलगुह्यदेशेषु प्रस्रुतो मदो यस्य सः । शुष्मी तेजस्वी ‘शुष्मं तेजसि सूर्ये ना’ इति मेदिनी । षष्टिवर्षीति पूर्णयौवनः ॥४॥
गच्छतस्तस्य वेगेन तार्क्ष्यमारुतरंहसः
।
भीमस्य पाण्डुपुत्राणां मूर्च्छेव समजायत॥५॥
असकृच्चापि संतीर्य दूरपारं भुजप्लवैः
।
पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा॥६॥
दूरपारं गङ्गाप्रवाहं वनेऽपि तस्माद्विभ्यतीति भावः भुजप्लवैः भुजाभ्यां प्लवनैः बहुत्वं व्यापारभेदात् ॥६॥
कृच्छ्रेण मातरं चैव सुकुमारीं यशस्विनीम्
।
अवहत्स तु पृष्ठेन रोधःसु विषमेषु च॥७॥
रोधःसु उच्चभागेषु ॥७॥
अगमच्च वनोद्देशमल्पमूलफलोदकम्
।
क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभ॥८॥
घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः
।
अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः॥९॥
अनार्तवैः अनृतुभवैः उत्पातरूपैरित्यर्थः ॥९॥
शीर्णपर्णफलै राजन्बहुगुल्मक्षुपैर्द्रुमैः
।
भग्नावभग्नभूयिष्ठैर्नानाद्रुमसमाकुलैः॥१०॥
गुल्मः स्तम्बः क्षुपो ह्रस्वशाखो वृक्षः अवभुग्नो नामितः ॥१०॥
ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः
।
नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया॥११॥
तृषा तृष्णया ॥११॥
न्यविशन्त हि ते सर्वे निरास्वादे महावने
।
ततस्तृषा परिक्लन्ता कुन्ती पुत्रानथाब्रवीत्॥१२॥
माता सती पाण्डवानां पञ्चानां मध्यतः स्थिता
।
तृष्णया हि परीताऽस्मि पुत्रान्भृशमथाब्रवीत्॥१३॥
तच्छ्रुत्वा भीमसेनस्य मातृस्नेहात्प्रजल्पितम्
।
कारुण्येन मनस्तप्तं गमनायोपचक्रमे॥१४॥
ततो भीमो वनं घोरं प्रविश्य विजनं महत्
।
न्यग्रोधं विपुलच्छायं रमणीयं ददर्श ह॥१५॥
तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः
।
पानीयं मृगयामीह विश्रमध्वमिति प्रभो॥१६॥
एते रुवन्ति मधुरं सारसा जलचारिणः
।
ध्रुवमत्र जलस्थानं महच्चेति मतिर्मम॥१७॥
अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत
।
जगाम तत्र यत्र स्म सारसा जलचारिणः॥१८॥
स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ
।
तेषामर्थे च जग्राह भ्रातॄणां भ्रातृवत्सलः
।
उत्तरीयेण पानीयमानयामास भारत॥१९॥
गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति
।
शोकदुःखपरीतात्मा निशश्वासोरगो यथा॥२०॥
गव्यूतिमात्रात्कोशद्वयात् ॥२०॥
स सुप्तां मातरं दृष्ट्वा भ्रातॄंश्च वसुधातले
।
भृशं शोकपरीत्मा विललाप वृकोदरः॥२१॥
अतः कष्टतरं किन्नु द्रष्टव्यं हि भविष्यति
।
यत्पश्यामि महीसुप्तान्भ्रातॄनद्य सुमन्दभाक्॥२२॥
सुमन्दभाक् अतिमन्दभाग्यः ॥२२॥
शयनेषु परार्ध्येषु ये पुरा वारणावते
।
नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले॥२३॥
स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः
।
कुन्तिराजसुतां कुन्तीं सर्वलक्षणपूजिताम्॥२४॥
स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः
।
तथैव चास्मज्जननीं पुण्डरीकोदरप्रभाम्॥२५॥
सुकुमारतरामेनां महार्हशयनोचिताम्
।
शयानां पश्यताऽद्येह पृथिव्यामतथोचिताम्॥२६॥
धर्मादिन्द्राच्च वाताच्च सुषुवे यासु तानिमान्
।
सेयं भूमौ परिश्रान्ता शेते प्रासादशायिनी॥२७॥
किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम्
।
योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले॥२८॥
त्रिषु लोकेषु यो राज्यं धर्मनित्योऽर्हते नृपः
।
सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम्॥२९॥
अयं नीलाम्बुदश्यामो नरेष्वप्रतिमोर्जुनः
।
शेते प्राकृतवद्भूमौ ततो दुःखतरं नु किम्॥३०॥
अश्विनाविव देवानां याविमौ रूपसंपदा
।
तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले॥३१॥
ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः
।
स जीवेत सुखं लोके ग्रामद्रुम इवैकजः॥३२॥
एकजः एक एव जातः असहायः ॥३२॥
एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः
।
चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः॥३३॥
येषां च बहवः शूरा ज्ञातयो धर्ममाश्रिताः
।
ते जीवन्ति सुखं लोके भवन्ति च निरामयाः॥३४॥
बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः
।
जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव॥३५॥
बान्धवानां नन्दनाः सुखदाः ॥३५॥
वयं तु धृतराष्ट्रेण सुपुत्रेण दुरात्मना
।
विवासिता न दग्धाश्च कथंचिद्दैवसंश्रयात्॥३६॥
तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः
।
कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम्॥३७॥
सकामो भव दुर्बुद्धे धार्तराष्ट्राल्पदर्शन
।
नूनं देवाः प्रसन्नास्ते नानुज्ञां मे युधिष्ठिरः॥३८॥
प्रयच्छति वधे तुभ्यं तेन जीवसि दुर्मते
।
नन्वद्य ससुतामात्यं सकर्णानुजसौबलम्॥३९॥
तुभ्यं तव ॥३९॥
गत्वा क्रोधसमाविष्टः प्रेषयिष्ये यमक्षयम्
।
किं नु शक्यं मया कर्तुं यत्ते न क्रुध्यते नृपः॥४०॥
धर्मात्मा पाण्डवश्रेष्ठः पापाचारो युधिष्ठिरः
।
एवमुक्त्वा महाबाहुः क्रोधसन्दीप्तमानसः॥४१॥
करं करेण निष्पिष्य निःश्वसन्दीनमानसः
।
पुनर्दीनमना भूत्वा शान्तार्चिरिव पावकः॥४२॥
भ्रातॄन्महीतले सुप्तानवैक्षत वृकोदरः
।
विश्वस्तानिव संविष्टान्पृथग्जनसमानिव॥४३॥
नातिदूरेण नगरं वनादस्माद्धि लक्षये
।
जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम्॥४४॥
लक्षये यामिकानामाक्रोशादिना ॥४४॥
प्राश्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः
।
इति भीमो व्यवस्यैव जजागार स्वयं तदा॥४५॥
इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि भीमजलाहरणे एकपञ्चाशदधिकशततमोऽध्यायः॥१५१॥