वैशंपायन उवाच।
तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः
।
अविदूरे वनात्तस्माच्छालवृक्षं समाश्रितः॥१॥
द्विपञ्चाशदधिकशततमोऽध्यायः तत्रेति ॥१॥
क्रूरो मानुषमांसादो महावीर्यपराक्रमः
।
प्रावृड्जलधरश्यामः पिङ्गाक्षो दारुणाकृतिः॥२॥
दंष्ट्राकरालवदनः पिशितेप्सुः क्षुधार्दितः
।
लम्बस्फिग्लम्बजठरो रक्तश्मश्रुशिरोरुहः॥३॥
पिशितेप्सुः मांसार्थी स्फिक् जंघामूलम् ॥३॥
महावृक्षगलस्कन्धः शङ्कर्णो विभीषणः
।
यदृच्छया तानपश्यत्पाण्डुपुत्रान्महारथान्॥४॥
विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः
।
पिशितेप्सुः क्षुधार्तश्च तानपश्यद्यदृच्छया॥५॥
ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान्
।
जृम्भमाणो महावक्त्रः पुनःपुनरवेक्ष्य च॥६॥
हृष्टो मानुषमांसस्य महाकायो महाबलः
।
आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत्॥७॥
उपपन्नश्चिरस्याद्य भक्षोऽयं मम सुप्रियः
।
स्नेहस्रवान्प्रसवति जिह्वा पर्येति मे मुखम्॥८॥
पर्येति मानुषमांसस्य लाभं सूचयन्ती चलतीव ॥८॥
अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः
।
देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च॥९॥
आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि
।
उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु॥१०॥
धमनीं नाडीम् ॥१०॥
गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः
।
मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे॥११॥
हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम्
।
अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते॥१२॥
एषामुत्कृत्य मांसानि मानुषाणां यथेष्टतः
।
भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम॥१३॥
भक्षयित्वा च मांसानि मानुषाणां प्रकामतः
।
नृत्याव सहितावावां दत्ततालावनेकशः॥१४॥
एवमुक्ता हिडिम्बा तु हिडिम्बेन तदा वने
।
भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी॥१५॥
जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ
।
ददर्श तत्र सा गत्वा पाण्डवान्पृथया सह
।
शयानान्भीमसेनं च जाग्रतं त्वपराजितम्॥१६॥
दृष्ट्वैव भीमसेनं सा शालपोतमिवोद्गतम्
।
राक्षसी कामयामास रूपेणाप्रतिमं भुवि॥१७॥
शालपोतमिव शालाङ्कुरमिव ॥१७॥
अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः
।
कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम॥१८॥
श्याम स्तरुणः अग्रे नवहेमाभमिति वक्ष्यमाणत्वात् ॥१८॥
नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम्
।
पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम्॥१९॥
क्रूरोपसंहितं हिंसायुक्तम् ॥१९॥
मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च
।
हतैरेतैरहत्वा तु मोदिष्ये शाश्वतीः समाः॥२०॥
सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम्
।
उपतस्थे महाबाहुं भीमसेनं शनैः शनैः॥२१॥
लज्जमानेव ललना दिव्याव्याभरणभूषिता
।
स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत्॥२२॥
कुतस्त्वमसि संप्राप्तः कश्चासि पुरुषर्षभ
।
क इमे शेरते चेह पुरुषा देवरूपिणः॥२३॥
केयं वै बृहती श्यामा सुकुमारी तवानघ
।
शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा॥२४॥
नेदं जानीथ गहनं वनं राक्षससेवितम्
।
वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः॥२५॥
तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा
।
बिभक्षयिषता मांसं युष्माकममरोपमाः॥२६॥
बिभक्षयिषता भक्षयितुमिच्छता ॥२६॥
साऽहं त्वामभिसंप्रेक्ष्य देवगर्भसमप्रभम्
।
नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते॥२७॥
एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर
।
कामोपहतचित्ताङ्गीं भजमानां भजस्व माम्॥२८॥
त्रास्यामि त्वां महाबाहो राक्षसात्पुरुषादकात्
।
वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ॥२९॥
अन्तरिक्षचरी ह्यस्मि कामतो विचरामि च
।
अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह॥३०॥
भीमसेन उवाच।
मातरं भ्रातरं ज्येष्ठं सुखसुप्तान्कथं त्विमान्
।
परित्यजेत कोन्वद्य प्रभवन्निह राक्षसि॥३१॥
को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम्
।
मातरं च नरो गच्छेत्कामार्त इव मद्विधः॥३२॥
राक्षस्युवाच
।
यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय
।
मोक्षयिष्याम्यहं कामं राक्षसात्पुरुषादकात्॥३३॥
भीमसेन उवाच।
सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि
।
न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः॥३४॥
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम्
।
न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने॥३५॥
गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु
।
तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम्॥३६॥
॥ इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि भीमहिडिम्बासंवादे द्विपञ्चाशदधिकशततमोऽध्यायः॥१५२॥
वैशंपायन उवाच।
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः
।
अवतीर्य द्रुमात्तस्मादाजगामाशु पाण्डवान्॥१॥
त्रिपञ्चाशदधिकशततमोऽध्यायः तामिति ॥१॥
लोहिताक्षो महाबाहुरूर्ध्वकेशो महाननः
।
मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रो भयानकः॥२॥
मेघसंघातवर्ष्मा अतिकृष्णशरीरः ॥२॥
तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम्
।
हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः॥३॥
आपतत्येष दुष्टात्मा संक्रुद्धः पुरुषादकः
।
साऽहं त्वां भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु॥४॥
अहं कामगमा वीर रक्षोबलसमन्विता
।
आरुहे मां मम श्रोणिं नेष्यामि त्वां विहायसा॥५॥
प्रबोधयैतान्संसुप्तान्मातरं च परन्तप
।
सर्वानेव गमिष्याभि गृहीत्वा वो विहायसा॥६॥
भीम उवाच।
माभैस्त्वं पृथुसुश्रोणि नैष कश्चिन्मयि स्थिते
।
अहमेनं हनिष्यामि पश्यन्त्यास्ते सुमध्यमे॥७॥
नायं प्रतिबलो भीरु राक्षसापसदो मम
।
सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः॥८॥
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ
।
ऊरू परिघसङ्काशौ संहतं चाप्युरो महत्॥९॥
विक्रमं मे यथेन्द्रस्य साऽद्य द्रक्ष्यसि शोभने
।
मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम्॥१०॥
हिडिम्बोवाच
।
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम्
।
दृष्टप्रभावस्तु मया मानुषेष्वेव राक्षसः॥११॥
वैशंपायन उवाच।
तथा संजल्पतस्तस्य भीमसेनस्य भारत
।
वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः॥१२॥
अवेक्ष्यमाणस्तस्याश्च हिडिम्बो मानुषं वपुः
।
स्रग्दामपूरितशिखं समग्रेन्दुनिभाननाम्॥१३॥
सुभ्रूनासाक्षिकेशान्तां सुकुमारनखत्वचम्
।
सर्वाभरणसंयुक्तां सुसूक्ष्माम्बरवाससम्॥१४॥
वाससमिति समासान्तष्टच् । तेन अकारान्तः शब्दः ॥१४॥
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम्
।
पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः॥१५॥
संक्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम
।
उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत्॥१६॥
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः
।
न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता॥१७॥
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि
।
पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि॥१८॥
यानिमानाश्रिताऽकार्षीर्विप्रियं समुहन्मम
।
एष तानद्य वै सर्वान्हनिष्यामि त्वया सह॥१९॥
एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः
।
वधायाभिपपातैनान्दन्तैर्दन्तानुपस्पृशन्॥२०॥
तमापतन्तं संप्रेक्ष्य भीमः प्रहरतां वरः
।
भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत्॥२१॥
वैशंपायन उवाच।
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव
।
भगिनीं प्रतिसङ्क्रुद्धमिदं वचनमब्रवीत्॥२२॥
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः
।
मामासादय दुर्बुद्धे तरसा त्वं नराशन॥२३॥
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि
।
विशेषतोऽनपकृते परेणापकृते सति॥२४॥
न हीयं स्ववशाबाला कामयत्यद्य मामिह
।
चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा॥२५॥
भगिनी तव दुर्वृत्त रक्षसां वै यशोहर
।
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च॥२६॥
कामयत्यद्य मां भीरुस्तव नैषापराध्यति
।
अनङ्गेन कृते दोषे नेमां गर्हितुमर्हसि॥२७॥
मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि
।
संगच्छस्व मया सार्धमेकेनैको नराशन॥२८॥
अहमेको गमिष्यामि त्वामद्य यमसादनम्
।
अद्य मद्बलनिष्पिष्टं शिरो राक्षस दीर्यताम्
।
कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः॥२९॥
गमिष्यामि गमयिष्यामि नयिष्यामिति वा पाठः ॥२९॥
अद्य गात्राणि ते कङ्काः श्येना गोमायवस्तथा
।
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे॥३०॥
क्षणेनाद्य करिष्येऽहमिदं वनमराक्षसम्
।
पुरा यद्दूषितं नित्यं त्वया भक्षयता नरान्॥३१॥
अद्य त्वां भगिनी रक्षः कृष्यमाणं मयाऽसकृत्
।
द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम्॥३२॥
निराबाधास्त्वयि हते मया राक्षसपांसन
।
वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः॥३३॥
हिडिम्ब उवाच।
गर्जितेन वृथा किं ते कत्थितेन च मानुष
।
कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः॥३४॥
बलिनं मन्यसे यच्चाप्यात्मानं सपराक्रमम्
।
ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम्॥३५॥
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम्
।
एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम्॥३६॥
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि
।
हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम्॥३७॥
वैशंपायन उवाच।
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः
।
अभ्यद्रवत संक्रुद्धो भीमसेनमरिन्दम॥३८॥
तस्याभिद्रवतस्तूर्णं भीमो भीमपराक्रमः
।
वेगेन प्रहितं बाहुं निजग्राह हसन्निव॥३९॥
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह
।
तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा॥४०॥
ततः स राक्षसः क्रुद्धः पाण्डवेन बलार्दितः
।
भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम्॥४१॥
पुनर्भीमो बलादेनं विचकर्ष महाबलः
।
मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति॥४२॥
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा
।
हिडिम्बो भीमसेनश्च विक्रमं चक्रतुः परम्॥४३॥
बभञ्जतुस्तदा वृक्षाँल्लताश्चाकर्षतुस्तदा
।
मत्ताविव चं संरब्धौ वारणौ षष्टिहायनौ॥४४॥
आकर्षतुः आचकर्षतुः ॥४४॥
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः
।
सह मात्रा च ददृशुर्हिडिम्बामग्रतः स्थिताम्॥४५॥
॥ इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि हिडिम्बयुद्धे त्रिपञ्चाशधिकशततमोऽध्यायः॥१५३॥
वैशंपायन उवाच।
प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम्
।
विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह॥१॥
चतुष्पञ्चाशदधिकशततमोऽध्यायः प्रवुद्धा इति ॥१॥
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा
।
उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः॥२॥
कस्य त्वं सुरगर्भाभे का वाऽसि वरवर्णिनि
।
केन कार्येण संप्राप्ता कुतश्चागमनं तव॥३॥
यदि वाऽस्य वनस्य त्वं देवता यदि वाऽप्सराः
।
आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि॥४॥
हिडिम्बोवाच
।
यदेतत्पश्यसि वनं नीलमेघनिभं महत्
।
निवासो राक्षसस्यैष हिडिम्बस्य ममैव च॥५॥
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भाविनि
।
भ्रात्रा संप्रेषितामार्ये त्वां सपुत्रां जिघांसितुम्॥६॥
जिघांसितुं हन्तुं स्वार्थे सन् ॥६॥
क्रूरबुद्धेरहं तस्य वचनादागता त्विह
।
अद्राक्षं नवहेमाभं तव पुत्रं महाबलम्॥७॥
ततोऽहं सर्वभूतानां भावे विचरता शुभे
।
चोदिता तव पुत्रस्य मन्मथेन वशानुगा॥८॥
भावे चित्ते ॥८॥
ततो वृतो मया भर्ता तव पुत्रो महाबलः
।
अपनेतुं च यतितो न चैव शकितो मया॥९॥
चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः
।
स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान्॥१०॥
स तेन मम कान्तेन तव पुत्रेण धीमता
।
बलादितो विनिष्पिष्य व्यपनीतो महात्मना॥११॥
व्यपनीतो दूरे नीतः ॥११॥
विकर्षन्तौ महावेगौ गर्जमानौ परस्परम्
।
पश्यैवं युधि विक्रान्तावेतौ च नरराक्षसौ॥१२॥
वैशंपायन उवाच।
तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः
।
अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान्॥१३॥
तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम्
।
काङ्क्षमाणौ जयं चैव सिंहाविव बलोत्कटौ॥१४॥
अथान्योन्यं समाश्लिष्य विकर्षन्तौ पुनःपुनः
।
दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः॥१५॥
वसुधारेणुसंवीतौ वसुधाधरसन्निभौ
।
बभ्राजतुर्यथा शैलौ नीहारेणाभिसंवृतौ॥१६॥
राक्षसेन तदा भीमं क्लिश्यमानं निरीक्ष्य च
।
उवाचेदं वचः पार्थः प्रहसञ्छनकैरिव॥१७॥
भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम्
।
समेतं भीमरूपेण रक्षसा श्रमकर्शिताः॥१८॥
साहाय्येऽस्मि स्थितः पार्थ पातयिष्यामि राक्षसम्
।
नकुलः सहदेवश्च मातरं गोपयिष्यतः॥१९॥
भीम उवाच।
उदासीनो निरीक्षस्व न कार्यः संभ्रमस्त्वया
।
न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः॥२०॥
अर्जुन उवाच।
किमनेन चिरं भीम जीवता पापरक्षसा
।
गन्तव्येन चिरं स्थातुमिह शक्यमरिन्दम॥२१॥
गन्तव्ये सति चिरं स्थातुं न शक्यम् ॥२१॥
पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते
।
रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्त्युत॥२२॥
त्वरस्व भीम माक्रीड जहि रक्षो विभीषणम्
।
पुरा विकुरुते मायां भुजयोः सारमर्पय॥२३॥
विभीषणम् विशेषेण भयङ्करं पुरा प्रागेव मायां विकुरुते रक्षो रौद्रे मुहूर्तेऽतः अस्मिन्सारं बलं अर्पय निपातय एनं शीघ्रं जहीत्यर्थः ॥२३॥
वैशंपायन उवाच।
अर्जुनेनैवमुक्तस्तु भीमो रोषाज्ज्वलन्निव
।
बलमाहारयामास यद्वयोर्जगतः क्षये॥२४॥
ततस्तस्याम्बुदाभस्य भीमो रोषात्तु रक्षसः
।
उत्क्षिप्याभ्रामयद्देहं तूर्णं शतगुणं तदा॥२५॥
आभ्रामयत्समन्ताद्भ्रामितवान् ॥२५॥
भीम उवाच।
वृथामांसैर्वृथापुष्टो वृथावृद्धो वृथामतिः
।
वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि॥२६॥
वृथावृद्धो दीर्घत्वं गतः वृथामरणं बाहुयुद्धेन हतस्य स्वर्गकीर्त्योरभावात् ॥२६॥
क्षेममद्य करिष्यामि यथा वनमकण्टकम्
।
न पुनर्मानुषान्हत्वा भक्षयिष्यसि राक्षस॥२७॥
अर्जुन उवाच।
यदि वा मन्यसे भारं त्वमिमं राक्षसं युधि
।
करोमि तव साहाय्यं शीघ्रमेष निपात्यताम्॥२८॥
क्रोधोद्दीपनायार्जुन उवाच यदिवेति ॥२८॥
अथवाऽप्यहमेवैनं हनिष्यामि वृकोदर
।
कृतकर्मा परिश्रान्तः साधु तावदुपारम॥२९॥
वैशंपायन उवाच।
तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः
।
निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत्॥३०॥
स मार्यमाणो भीमेन ननाद विपुलं स्वनम्
।
पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः॥३१॥
बाहुभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः
।
मध्ये भङ्क्त्वा महाबाहुर्हर्षयामास पाण्डवान्॥३२॥
योक्रयित्वा निबध्य उरोदेशे गृहीत्वा प्रतीपं विनाम्य यष्टिवन्मध्यदेशे भङ्क्त्वा त्रोटयित्वा । पशुमारम् अमारयत् । पाण्डवांश्च हर्षयामासेत्यन्वयः ॥३२॥
हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः
।
अपूजयन्नरव्याघ्रं भीमसेनमरिन्दमम्॥३३॥
अभिपूज्य महात्मानं भीमं भीमपराक्रमम्
।
पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम्॥३४॥
न दूरे नगरं मन्ये वनादस्मादहं विभो
।
शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः॥३५॥
ततः सर्वे तथेत्युक्त्वा मात्रा सह महारथाः
।
प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी॥३६॥
॥ इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि हिडिम्बवधे चतुष्पञ्चाशदधिकशततमोऽध्यायः॥१५४॥
भीमसेन उवाच।
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम्
।
हिडिम्बे व्रज पन्थानं त्वमिमं भ्रातृसेवितम्॥१॥
पञ्चपञ्चाशदधिकशततमोऽध्यायः स्मरन्तीति । भ्रातृसेवितं पन्थानं मृत्युम् ॥१॥
युधिष्ठिर उवाच।
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः
।
शरीरगुत्यभ्यधिकं धर्म गोपाय पाण्डव॥२॥
वधाभिप्रायमायांतमवधीस्त्वं महाबलम्
।
रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति॥३॥
वैशंपायन उवाच।
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः
।
युधिष्ठिरं तु कौन्तेयमिदं वचनमब्रवीत्॥४॥
अभिवाद्य आर्ये इत्याभाष्य चौरादिकस्यवदेरूपम् ॥४॥
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम्
।
तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे॥५॥
सोढं तत्परमं दुःखं मया कालप्रतीक्षया
।
सोऽयमभ्यागतः कालो भविता मे सुखोदयः॥६॥
मयाह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा
।
वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे॥७॥
वीरेणाऽहं तथानेन त्वया चापि यशस्विनि
।
प्रत्याख्याता न जीवामि सत्यमेतद्ब्रवीमि ते॥८॥
तदर्हसि कृपां कर्तुं मयि त्वं वरवर्णिनि
।
मत्वा मूढेति तन्मां त्वं भक्ता वाऽनुगतेति वा ॥९॥
भर्त्राऽनेन महाभागे संयोजय सुतेन ह
।
तमुपादाय गच्छेयं यथेष्टं देवरूपिणम्
।
पुनश्चैवानयिष्यामि विस्रम्भं कुरु मे शुभे॥१०॥
अहं हि मनसा ध्याता सर्वान्नष्यामि वः सदा
।
वृजिनात्तारयिष्यामि दुर्गेषु विषमेषु च॥११॥
पृष्ठेन वो वहिष्यामि शीघ्रं गतिमभीप्सतः
।
यूयं प्रसादं कुरुत भीमसेनो भजेत माम्॥१२॥
वहिष्यामि प्रापयिष्यामि आर्ष इट् प्रवक्ष्यामीति पाठेऽपिवहेरेव रूपम् । गतिं गम्यं देशम् ॥१२॥
आपदस्तरणे प्राणान्धारयेधेन तेन वा
।
सर्वमावृत्य कर्तव्यं तं धर्ममनुवर्तता॥१३॥
आवृत्य अङ्गीकृत्य ॥१३॥
आपत्सु यो धारयति धर्मं धर्मविदुत्तमः
।
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते॥१४॥
व्यसनं बाधकम् ॥१४॥
पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते
।
येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते॥१५॥
युधिष्ठिर उवाच।
एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः
।
स्थातव्यं तु त्वया सत्ये यथा ब्रूयां सुमध्यमे॥१६॥
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम्
।
भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः॥१७॥
अहःसु विहरानेन यथाकामं मनोजवा
।
अयं त्वानयितव्यस्ते भीमसेनः सदा निशि॥१८॥
वैशंपायन उवाच।
तथेति तत्प्रतिज्ञाय भीमसेनोऽब्रवीदिदम्
।
शृणु राक्षसि सत्येन समयं ते वदाम्यहम्॥१९॥
यावत्कालेन भवति पुत्रस्योत्पादनं शुभे
।
तावत्कालं गमिष्यामि त्वया सह सुमध्यमे॥२०॥
वैशंपायन उवाच
।
तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा
।
भीमसेनमुपादाय सोर्ध्वमाचक्रमे ततः॥२१॥
शैलशृङ्गेषु रम्येषु देवतायतनेषु च
।
मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा॥२२॥
कृत्वा च रूपं परमं सर्वाभरणभूषिता
।
संजल्पन्ती सुमधुरं रमयामास पाण्डवम्॥२३॥
तथैव वनदुर्गेषु पुष्पितद्रुमवल्लिषु
।
सरःसु रमणीयेषु पद्मोत्पलयुतेषु च॥२४॥
नदीद्वीपप्रदेशेषु वैदूर्यसिकतासु च
।
सुतीर्थवनतोयासु तथा गिरिनदषु च॥२५॥
काननेषु विचित्रेषु पुष्पितद्रुमवल्लिषु
।
हिमवद्विरिकुञ्जेषु गुहासु विविधासु च॥२६॥
प्रफुल्लशतपत्रेषु सरःस्वमलवारिषु
।
सागरस्थप्रदेशेषु मणिहेमचितेषु च॥२७॥
पल्वलेषु च रम्येषु महाशालवनेषु च
।
देवारण्यषु पुण्येषु तथा पर्वतसानुषु॥२८॥
गुह्यकानां निवासेषु तापसायतनेषु च
।
सर्वर्तुफलरम्येषु मानसेषु सरःसु च॥२९॥
विभ्रती परमं रूपं रमयामास पाण्डवम्
।
रमयन्ती तथा भीमं तत्र तत्र मनोजवा॥३०॥
प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम्
।
विरूपाक्षं महावक्त्रं शङ्कुकर्णं बिभीषणम्॥३१॥
शङ्कुकर्णं तीक्ष्णाग्रस्तब्धकर्णम् ॥३१॥
भीमनादं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम्
।
महेष्वासं महावीर्यं महासत्त्वं महाभुजम्॥३२॥
महाजवं महाकायं महामायमरिंदमम्
।
दीर्घघोणं महोरस्कं विकटोद्वद्धपिण्डिकम्॥३३॥
दीर्घघोणं दीर्घनासिकम् । विकटे वक्रे उद्वद्धे उच्चे पिण्डिके जानुगुल्फान्तरे पाश्चात्यप्रदेशः पिण्डिका ते द्वे यस्य तं विकटोद्बद्धपिण्डिकम् ॥३३॥
अमानुषं मानुषजं भीमवेगं महाबलम्
।
यः पिशाचानतीत्यान्यान्बभूवातीव राक्षसान् ॥३४॥
बालोऽपि यौवनं प्राप्तो मानुषेषु विशांपते
।
सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्वली॥३५॥
सद्यो हि गर्भान्राक्षस्यो लभन्ते प्रसवन्ति च
।
कामरूपधराश्चैव भवन्ति बहुरूपिकाः॥३६॥
प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा
।
मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः॥३७॥
विकचः केशहीनः ॥३७॥
घटो हारयोत्कच इति माता तं प्रत्यभाषत
।
अब्रवीत्तेन नामास्य घटोत्कच इति स्म ह॥३८॥
घट इति । घटसादृश्याद्घटः शिरः । ‘घटः समाधिभेदे ना शिरः कूटकटेषु च’ इति मेदिनी । ह स्पष्टम् अस्य पुत्रस्य उत्कचः विकेशो यतस्ततो घटः उत्कचो यस्येति योगाद्घटोत्कच इति नामाब्रवीत् ॥३८॥
अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः
।
तेषां च दयितो नित्यमात्मनित्यो बभूव ह॥३९॥
आत्मनित्यः स्ववशः ॥३९॥
संवाससमयो जीर्ण इत्याभाष्य ततस्तु तान्
।
हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत॥४०॥
संवाससमयः सहवासकालः जीर्णोऽतीतः पुत्रोत्पत्तिपर्यन्तमेव तस्य कृतत्वात् ॥४०॥
घटोत्कची महाकायः पाण्डवान्पृथया सह
।
अभिवाद्य यथान्यायमब्रवीच्च प्रभाष्यताम्॥४१॥
किं करोम्यहमार्याणां निःशङ्कं वदतानघाः
।
तं ब्रुवन्तं भैमसेनिं कुन्ती वचनमब्रवीत्॥४२॥
त्वं कुरूणां कुले जातः साक्षाद्भीमसमो ह्यसि
।
ज्येष्ठः पुत्रोऽसि पञ्चानां साहाय्यं कुरु पुत्रक॥४३॥
वैशंपायन उवाच
।
पृथयाऽप्येवमुक्तस्तु प्रणम्यैव वचोऽब्रवीत्
।
यथा हि रावणो लोके इन्द्रजिच्च महाबलः
।
वर्ष्मवीर्यसमो लोके विशिष्टश्चाभवं नृषु॥४४॥
कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः
।
आमन्त्र्य रक्षसां श्रेष्ठः प्रतस्थे चोत्तरां दिशम्॥४५॥
समयमेवाह कृत्येति ॥४५॥
स हि सृष्टो मघवता शक्तिहेतोर्महात्मना
।
कर्णस्याप्रतिवीर्यस्य प्रतियोद्धा महारथः॥४६॥
घटोत्कचोत्पत्तिप्रयोजनमाह सहीति ॥४६॥
इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि घटोत्कचोत्पत्तौ पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥१५५॥
वैशंपायन उवाच।
ते वनेन वनं गत्वा घ्नन्तो मृगगणान्बहून्
।
अपक्रम्य ययूराजंस्त्वरमाणा महारथाः॥१॥
षट्पञ्चाशदधिकशततमोऽध्यायः ते इति । वनेन वनं वनाद्वनम् ॥१॥
मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च
।
रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च॥२॥
जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः
।
सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः॥३॥
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः
।
क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः॥४॥
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः
।
नीतिशास्त्रं च सर्वज्ञा ददृशुस्ते पितामहम्॥५॥
ब्राह्मं वेदं ब्रह्मप्रतिपादकम् उपनिषद्भागं ब्राह्मणयोग्यं वा । पितामहं व्यासम् ॥५॥
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा
।
तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः॥६॥
व्यास उवाच।
मयेदं व्यसनं पूर्वं विदितं भरतर्षभाः
।
यथा तु तैरधर्मेण धार्तराष्ट्रैर्विवासिताः॥७॥
तद्विदित्वाऽस्मि संप्राप्तश्चिकीर्षुः परमं हितम्
।
न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः॥८॥
समास्ते चैव मे सर्वे यूयं चैव न संशयः
।
दीनतो बालतश्चैव स्नेहं कुर्वन्ति मानवाः
।
तस्मादभ्यधिकः स्नेहो युष्मासु मम सांप्रतम्॥९॥
स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत
।
इदं नगरमभ्याशे रमणीयं निरामयम्
।
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः॥१०॥
वैशंपायन उवाच।
एवं स तान्समाश्वास्य व्यासः सत्यवतीसुतः
।
एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः॥११॥
एकचक्राम् अभिगतः तैः सहेतिशेष ॥११॥
व्यास उवाच।
जीवत्पुत्रि सुतस्तेऽयं धर्मनित्यो युधिष्ठिरः
।
धर्मेण पृथिवीं जित्वा महात्मा पुरुषर्षभः
।
पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट्॥१२॥
पृथिवीमखिलां जित्वा सर्वां सागरमेखलाम्
।
भीमसेनार्जुनबलाद्भोक्ष्यते नात्र संशयः॥१३॥
पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः
।
स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसः सदा॥१४॥
यक्ष्यन्ति च नरव्याघ्रा निर्जित्य पृथिवीमिमाम्
।
राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः॥१५॥
अनुग्रृह्य सुह्रद्वर्गं भोगैश्वर्यसुखेन च
।
पितृपैतामहं राज्यमिमे भोक्ष्यन्ति ते सुताः॥१६॥
वैशंपायन उवाच।
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने
।
अब्रवीत्पाण्डवश्रेष्ठमृषिर्द्वैपायनस्तदा॥१७॥
इह मासं प्रतीक्षध्वमागमिष्याम्यहं पुनः
।
देशकालौ विदित्वैव लप्स्यध्वं परमां मुदम्॥१८॥
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप
।
जगाम भगवान्व्यासो यथागतमृषिः प्रभुः॥१९॥
॥ इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि व्यासदर्शने षट्पञ्चाशदधिकशततमोऽध्यायः॥१५६॥