अनुक्रमणिकापर्व - १पर्वसंग्रहपर्व - २पौष्यपर्व - ३पौलोमपर्व। - ४आस्तिकपर्व - ५अंशावतरणपर्व - ६सम्भवपर्व - ७जतुगृहपर्व । - ८हिडिम्बवधपर्व - ९बकवधपर्व - १०चैत्ररथपर्व । - ११स्वयंवरपर्व - १२वैवाहिकपर्व - १३विदुरागमनराज्यालंभपर्व - १४अर्जुनवनवासपर्व - १५सुभ्रद्राहरणपर्व। - १६हरणाहरणपर्व। - १७खाण्डवदाहपर्व - १८मयदर्शनपर्व - १९

हिडिम्बवधपर्व

द्विपञ्चाशदधिकशततमोऽध्यायः

वैशंपायन उवाच। तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः ।
अविदूरे वनात्तस्माच्छालवृक्षं समाश्रितः॥१॥

द्विपञ्चाशदधिकशततमोऽध्यायः तत्रेति ॥१॥

क्रूरो मानुषमांसादो महावीर्यपराक्रमः ।
प्रावृड्जलधरश्यामः पिङ्गाक्षो दारुणाकृतिः॥२॥

दंष्ट्राकरालवदनः पिशितेप्सुः क्षुधार्दितः ।
लम्बस्फिग्लम्बजठरो रक्तश्मश्रुशिरोरुहः॥३॥

पिशितेप्सुः मांसार्थी स्फिक् जंघामूलम् ॥३॥

महावृक्षगलस्कन्धः शङ्कर्णो विभीषणः ।
यदृच्छया तानपश्यत्पाण्डुपुत्रान्महारथान्॥४॥

विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः ।
पिशितेप्सुः क्षुधार्तश्च तानपश्यद्यदृच्छया॥५॥

ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् ।
जृम्भमाणो महावक्त्रः पुनःपुनरवेक्ष्य च॥६॥

हृष्टो मानुषमांसस्य महाकायो महाबलः ।
आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत्॥७॥

उपपन्नश्चिरस्याद्य भक्षोऽयं मम सुप्रियः ।
स्नेहस्रवान्प्रसवति जिह्वा पर्येति मे मुखम्॥८॥

पर्येति मानुषमांसस्य लाभं सूचयन्ती चलतीव ॥८॥

अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः ।
देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च॥९॥

आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि ।
उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु॥१०॥

धमनीं नाडीम् ॥१०॥

गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः ।
मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे॥११॥

हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् ।
अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते॥१२॥

एषामुत्कृत्य मांसानि मानुषाणां यथेष्टतः ।
भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम॥१३॥

भक्षयित्वा च मांसानि मानुषाणां प्रकामतः ।
नृत्याव सहितावावां दत्ततालावनेकशः॥१४॥

एवमुक्ता हिडिम्बा तु हिडिम्बेन तदा वने ।
भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी॥१५॥

जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ ।
ददर्श तत्र सा गत्वा पाण्डवान्पृथया सह ।
शयानान्भीमसेनं च जाग्रतं त्वपराजितम्॥१६॥

दृष्ट्वैव भीमसेनं सा शालपोतमिवोद्गतम् ।
राक्षसी कामयामास रूपेणाप्रतिमं भुवि॥१७॥

शालपोतमिव शालाङ्कुरमिव ॥१७॥

अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः ।
कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम॥१८॥

श्याम स्तरुणः अग्रे नवहेमाभमिति वक्ष्यमाणत्वात् ॥१८॥

नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् ।
पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम्॥१९॥

क्रूरोपसंहितं हिंसायुक्तम् ॥१९॥

मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च ।
हतैरेतैरहत्वा तु मोदिष्ये शाश्वतीः समाः॥२०॥

सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम् ।
उपतस्थे महाबाहुं भीमसेनं शनैः शनैः॥२१॥

लज्जमानेव ललना दिव्याव्याभरणभूषिता ।
स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत्॥२२॥

कुतस्त्वमसि संप्राप्तः कश्चासि पुरुषर्षभ ।
क इमे शेरते चेह पुरुषा देवरूपिणः॥२३॥

केयं वै बृहती श्यामा सुकुमारी तवानघ ।
शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा॥२४॥

नेदं जानीथ गहनं वनं राक्षससेवितम् ।
वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः॥२५॥

तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा ।
बिभक्षयिषता मांसं युष्माकममरोपमाः॥२६॥

बिभक्षयिषता भक्षयितुमिच्छता ॥२६॥

साऽहं त्वामभिसंप्रेक्ष्य देवगर्भसमप्रभम् ।
नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते॥२७॥

एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर ।
कामोपहतचित्ताङ्गीं भजमानां भजस्व माम्॥२८॥

त्रास्यामि त्वां महाबाहो राक्षसात्पुरुषादकात् ।
वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ॥२९॥

अन्तरिक्षचरी ह्यस्मि कामतो विचरामि च ।
अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह॥३०॥

भीमसेन उवाच। मातरं भ्रातरं ज्येष्ठं सुखसुप्तान्कथं त्विमान् ।
परित्यजेत कोन्वद्य प्रभवन्निह राक्षसि॥३१॥

को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम् ।
मातरं च नरो गच्छेत्कामार्त इव मद्विधः॥३२॥

राक्षस्युवाच ।
यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय ।
मोक्षयिष्याम्यहं कामं राक्षसात्पुरुषादकात्॥३३॥

भीमसेन उवाच। सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि ।
न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः॥३४॥

न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् ।
न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने॥३५॥

गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु ।
तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम्॥३६॥

॥ इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि भीमहिडिम्बासंवादे द्विपञ्चाशदधिकशततमोऽध्यायः॥१५२॥
त्रिपञ्चाशदधिकशततमोऽध्यायः

वैशंपायन उवाच। तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः ।
अवतीर्य द्रुमात्तस्मादाजगामाशु पाण्डवान्॥१॥

त्रिपञ्चाशदधिकशततमोऽध्यायः तामिति ॥१॥

लोहिताक्षो महाबाहुरूर्ध्वकेशो महाननः ।
मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रो भयानकः॥२॥

मेघसंघातवर्ष्मा अतिकृष्णशरीरः ॥२॥

तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम् ।
हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः॥३॥

आपतत्येष दुष्टात्मा संक्रुद्धः पुरुषादकः ।
साऽहं त्वां भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु॥४॥

अहं कामगमा वीर रक्षोबलसमन्विता ।
आरुहे मां मम श्रोणिं नेष्यामि त्वां विहायसा॥५॥

प्रबोधयैतान्संसुप्तान्मातरं च परन्तप ।
सर्वानेव गमिष्याभि गृहीत्वा वो विहायसा॥६॥

भीम उवाच। माभैस्त्वं पृथुसुश्रोणि नैष कश्चिन्मयि स्थिते ।
अहमेनं हनिष्यामि पश्यन्त्यास्ते सुमध्यमे॥७॥

नायं प्रतिबलो भीरु राक्षसापसदो मम ।
सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः॥८॥

पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ ।
ऊरू परिघसङ्काशौ संहतं चाप्युरो महत्॥९॥

विक्रमं मे यथेन्द्रस्य साऽद्य द्रक्ष्यसि शोभने ।
मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम्॥१०॥

हिडिम्बोवाच ।
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् ।
दृष्टप्रभावस्तु मया मानुषेष्वेव राक्षसः॥११॥

वैशंपायन उवाच। तथा संजल्पतस्तस्य भीमसेनस्य भारत ।
वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः॥१२॥

अवेक्ष्यमाणस्तस्याश्च हिडिम्बो मानुषं वपुः ।
स्रग्दामपूरितशिखं समग्रेन्दुनिभाननाम्॥१३॥

सुभ्रूनासाक्षिकेशान्तां सुकुमारनखत्वचम् ।
सर्वाभरणसंयुक्तां सुसूक्ष्माम्बरवाससम्॥१४॥

वाससमिति समासान्तष्टच् । तेन अकारान्तः शब्दः ॥१४॥

तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् ।
पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः॥१५॥

संक्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम ।
उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत्॥१६॥

को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः ।
न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता॥१७॥

धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि ।
पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि॥१८॥

यानिमानाश्रिताऽकार्षीर्विप्रियं समुहन्मम ।
एष तानद्य वै सर्वान्हनिष्यामि त्वया सह॥१९॥

एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः ।
वधायाभिपपातैनान्दन्तैर्दन्तानुपस्पृशन्॥२०॥

तमापतन्तं संप्रेक्ष्य भीमः प्रहरतां वरः ।
भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत्॥२१॥

वैशंपायन उवाच। भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव ।
भगिनीं प्रतिसङ्क्रुद्धमिदं वचनमब्रवीत्॥२२॥

किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः ।
मामासादय दुर्बुद्धे तरसा त्वं नराशन॥२३॥

मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि ।
विशेषतोऽनपकृते परेणापकृते सति॥२४॥

न हीयं स्ववशाबाला कामयत्यद्य मामिह ।
चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा॥२५॥

भगिनी तव दुर्वृत्त रक्षसां वै यशोहर ।
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च॥२६॥

कामयत्यद्य मां भीरुस्तव नैषापराध्यति ।
अनङ्गेन कृते दोषे नेमां गर्हितुमर्हसि॥२७॥

मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ।
संगच्छस्व मया सार्धमेकेनैको नराशन॥२८॥

अहमेको गमिष्यामि त्वामद्य यमसादनम् ।
अद्य मद्बलनिष्पिष्टं शिरो राक्षस दीर्यताम् ।
कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः॥२९॥

गमिष्यामि गमयिष्यामि नयिष्यामिति वा पाठः ॥२९॥

अद्य गात्राणि ते कङ्काः श्येना गोमायवस्तथा ।
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे॥३०॥

क्षणेनाद्य करिष्येऽहमिदं वनमराक्षसम् ।
पुरा यद्दूषितं नित्यं त्वया भक्षयता नरान्॥३१॥

अद्य त्वां भगिनी रक्षः कृष्यमाणं मयाऽसकृत् ।
द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम्॥३२॥

निराबाधास्त्वयि हते मया राक्षसपांसन ।
वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः॥३३॥

हिडिम्ब उवाच। गर्जितेन वृथा किं ते कत्थितेन च मानुष ।
कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः॥३४॥

बलिनं मन्यसे यच्चाप्यात्मानं सपराक्रमम् ।
ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम्॥३५॥

न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् ।
एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम्॥३६॥

पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि ।
हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम्॥३७॥

वैशंपायन उवाच। एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः ।
अभ्यद्रवत संक्रुद्धो भीमसेनमरिन्दम॥३८॥

तस्याभिद्रवतस्तूर्णं भीमो भीमपराक्रमः ।
वेगेन प्रहितं बाहुं निजग्राह हसन्निव॥३९॥

निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह ।
तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा॥४०॥

ततः स राक्षसः क्रुद्धः पाण्डवेन बलार्दितः ।
भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम्॥४१॥

पुनर्भीमो बलादेनं विचकर्ष महाबलः ।
मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति॥४२॥

अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा ।
हिडिम्बो भीमसेनश्च विक्रमं चक्रतुः परम्॥४३॥

बभञ्जतुस्तदा वृक्षाँल्लताश्चाकर्षतुस्तदा ।
मत्ताविव चं संरब्धौ वारणौ षष्टिहायनौ॥४४॥

आकर्षतुः आचकर्षतुः ॥४४॥

तयोः शब्देन महता विबुद्धास्ते नरर्षभाः ।
सह मात्रा च ददृशुर्हिडिम्बामग्रतः स्थिताम्॥४५॥

॥ इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि हिडिम्बयुद्धे त्रिपञ्चाशधिकशततमोऽध्यायः॥१५३॥
चतुष्पञ्चाशदधिकशततमोऽध्यायः

वैशंपायन उवाच। प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् ।
विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह॥१॥

चतुष्पञ्चाशदधिकशततमोऽध्यायः प्रवुद्धा इति ॥१॥

ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा ।
उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः॥२॥

कस्य त्वं सुरगर्भाभे का वाऽसि वरवर्णिनि ।
केन कार्येण संप्राप्ता कुतश्चागमनं तव॥३॥

यदि वाऽस्य वनस्य त्वं देवता यदि वाऽप्सराः ।
आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि॥४॥

हिडिम्बोवाच ।
यदेतत्पश्यसि वनं नीलमेघनिभं महत् ।
निवासो राक्षसस्यैष हिडिम्बस्य ममैव च॥५॥

तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भाविनि ।
भ्रात्रा संप्रेषितामार्ये त्वां सपुत्रां जिघांसितुम्॥६॥

जिघांसितुं हन्तुं स्वार्थे सन् ॥६॥

क्रूरबुद्धेरहं तस्य वचनादागता त्विह ।
अद्राक्षं नवहेमाभं तव पुत्रं महाबलम्॥७॥

ततोऽहं सर्वभूतानां भावे विचरता शुभे ।
चोदिता तव पुत्रस्य मन्मथेन वशानुगा॥८॥

भावे चित्ते ॥८॥

ततो वृतो मया भर्ता तव पुत्रो महाबलः ।
अपनेतुं च यतितो न चैव शकितो मया॥९॥

चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः ।
स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान्॥१०॥

स तेन मम कान्तेन तव पुत्रेण धीमता ।
बलादितो विनिष्पिष्य व्यपनीतो महात्मना॥११॥

व्यपनीतो दूरे नीतः ॥११॥

विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् ।
पश्यैवं युधि विक्रान्तावेतौ च नरराक्षसौ॥१२॥

वैशंपायन उवाच। तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः ।
अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान्॥१३॥

तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् ।
काङ्क्षमाणौ जयं चैव सिंहाविव बलोत्कटौ॥१४॥

अथान्योन्यं समाश्लिष्य विकर्षन्तौ पुनःपुनः ।
दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः॥१५॥

वसुधारेणुसंवीतौ वसुधाधरसन्निभौ ।
बभ्राजतुर्यथा शैलौ नीहारेणाभिसंवृतौ॥१६॥

राक्षसेन तदा भीमं क्लिश्यमानं निरीक्ष्य च ।
उवाचेदं वचः पार्थः प्रहसञ्छनकैरिव॥१७॥

भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम् ।
समेतं भीमरूपेण रक्षसा श्रमकर्शिताः॥१८॥

साहाय्येऽस्मि स्थितः पार्थ पातयिष्यामि राक्षसम् ।
नकुलः सहदेवश्च मातरं गोपयिष्यतः॥१९॥

भीम उवाच। उदासीनो निरीक्षस्व न कार्यः संभ्रमस्त्वया ।
न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः॥२०॥

अर्जुन उवाच। किमनेन चिरं भीम जीवता पापरक्षसा ।
गन्तव्येन चिरं स्थातुमिह शक्यमरिन्दम॥२१॥

गन्तव्ये सति चिरं स्थातुं न शक्यम् ॥२१॥

पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते ।
रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्त्युत॥२२॥

त्वरस्व भीम माक्रीड जहि रक्षो विभीषणम् ।
पुरा विकुरुते मायां भुजयोः सारमर्पय॥२३॥

विभीषणम् विशेषेण भयङ्करं पुरा प्रागेव मायां विकुरुते रक्षो रौद्रे मुहूर्तेऽतः अस्मिन्सारं बलं अर्पय निपातय एनं शीघ्रं जहीत्यर्थः ॥२३॥

वैशंपायन उवाच। अर्जुनेनैवमुक्तस्तु भीमो रोषाज्ज्वलन्निव ।
बलमाहारयामास यद्वयोर्जगतः क्षये॥२४॥

ततस्तस्याम्बुदाभस्य भीमो रोषात्तु रक्षसः ।
उत्क्षिप्याभ्रामयद्देहं तूर्णं शतगुणं तदा॥२५॥

आभ्रामयत्समन्ताद्भ्रामितवान् ॥२५॥

भीम उवाच। वृथामांसैर्वृथापुष्टो वृथावृद्धो वृथामतिः ।
वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि॥२६॥

वृथावृद्धो दीर्घत्वं गतः वृथामरणं बाहुयुद्धेन हतस्य स्वर्गकीर्त्योरभावात् ॥२६॥

क्षेममद्य करिष्यामि यथा वनमकण्टकम् ।
न पुनर्मानुषान्हत्वा भक्षयिष्यसि राक्षस॥२७॥

अर्जुन उवाच। यदि वा मन्यसे भारं त्वमिमं राक्षसं युधि ।
करोमि तव साहाय्यं शीघ्रमेष निपात्यताम्॥२८॥

क्रोधोद्दीपनायार्जुन उवाच यदिवेति ॥२८॥

अथवाऽप्यहमेवैनं हनिष्यामि वृकोदर ।
कृतकर्मा परिश्रान्तः साधु तावदुपारम॥२९॥

वैशंपायन उवाच। तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः ।
निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत्॥३०॥

स मार्यमाणो भीमेन ननाद विपुलं स्वनम् ।
पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः॥३१॥

बाहुभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः ।
मध्ये भङ्क्त्वा महाबाहुर्हर्षयामास पाण्डवान्॥३२॥

योक्रयित्वा निबध्य उरोदेशे गृहीत्वा प्रतीपं विनाम्य यष्टिवन्मध्यदेशे भङ्क्त्वा त्रोटयित्वा । पशुमारम् अमारयत् । पाण्डवांश्च हर्षयामासेत्यन्वयः ॥३२॥

हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः ।
अपूजयन्नरव्याघ्रं भीमसेनमरिन्दमम्॥३३॥

अभिपूज्य महात्मानं भीमं भीमपराक्रमम् ।
पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम्॥३४॥

न दूरे नगरं मन्ये वनादस्मादहं विभो ।
शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः॥३५॥

ततः सर्वे तथेत्युक्त्वा मात्रा सह महारथाः ।
प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी॥३६॥

॥ इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि हिडिम्बवधे चतुष्पञ्चाशदधिकशततमोऽध्यायः॥१५४॥
पञ्चपञ्चाशदधिकशततमोऽध्यायः

भीमसेन उवाच। स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् ।
हिडिम्बे व्रज पन्थानं त्वमिमं भ्रातृसेवितम्॥१॥

पञ्चपञ्चाशदधिकशततमोऽध्यायः स्मरन्तीति । भ्रातृसेवितं पन्थानं मृत्युम् ॥१॥

युधिष्ठिर उवाच। क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः ।
शरीरगुत्यभ्यधिकं धर्म गोपाय पाण्डव॥२॥

वधाभिप्रायमायांतमवधीस्त्वं महाबलम् ।
रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति॥३॥

वैशंपायन उवाच। हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः ।
युधिष्ठिरं तु कौन्तेयमिदं वचनमब्रवीत्॥४॥

अभिवाद्य आर्ये इत्याभाष्य चौरादिकस्यवदेरूपम् ॥४॥

आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् ।
तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे॥५॥

सोढं तत्परमं दुःखं मया कालप्रतीक्षया ।
सोऽयमभ्यागतः कालो भविता मे सुखोदयः॥६॥

मयाह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा ।
वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे॥७॥

वीरेणाऽहं तथानेन त्वया चापि यशस्विनि ।
प्रत्याख्याता न जीवामि सत्यमेतद्ब्रवीमि ते॥८॥

तदर्हसि कृपां कर्तुं मयि त्वं वरवर्णिनि ।
मत्वा मूढेति तन्मां त्वं भक्ता वाऽनुगतेति वा ॥९॥

भर्त्राऽनेन महाभागे संयोजय सुतेन ह ।
तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् ।
पुनश्चैवानयिष्यामि विस्रम्भं कुरु मे शुभे॥१०॥

अहं हि मनसा ध्याता सर्वान्नष्यामि वः सदा ।
वृजिनात्तारयिष्यामि दुर्गेषु विषमेषु च॥११॥

पृष्ठेन वो वहिष्यामि शीघ्रं गतिमभीप्सतः ।
यूयं प्रसादं कुरुत भीमसेनो भजेत माम्॥१२॥

वहिष्यामि प्रापयिष्यामि आर्ष इट् प्रवक्ष्यामीति पाठेऽपिवहेरेव रूपम् । गतिं गम्यं देशम् ॥१२॥

आपदस्तरणे प्राणान्धारयेधेन तेन वा ।
सर्वमावृत्य कर्तव्यं तं धर्ममनुवर्तता॥१३॥

आवृत्य अङ्गीकृत्य ॥१३॥

आपत्सु यो धारयति धर्मं धर्मविदुत्तमः ।
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते॥१४॥

व्यसनं बाधकम् ॥१४॥

पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते ।
येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते॥१५॥

युधिष्ठिर उवाच। एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः ।
स्थातव्यं तु त्वया सत्ये यथा ब्रूयां सुमध्यमे॥१६॥

स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् ।
भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः॥१७॥

अहःसु विहरानेन यथाकामं मनोजवा ।
अयं त्वानयितव्यस्ते भीमसेनः सदा निशि॥१८॥

वैशंपायन उवाच। तथेति तत्प्रतिज्ञाय भीमसेनोऽब्रवीदिदम् ।
शृणु राक्षसि सत्येन समयं ते वदाम्यहम्॥१९॥

यावत्कालेन भवति पुत्रस्योत्पादनं शुभे ।
तावत्कालं गमिष्यामि त्वया सह सुमध्यमे॥२०॥

वैशंपायन उवाच ।
तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा ।
भीमसेनमुपादाय सोर्ध्वमाचक्रमे ततः॥२१॥

शैलशृङ्गेषु रम्येषु देवतायतनेषु च ।
मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा॥२२॥

कृत्वा च रूपं परमं सर्वाभरणभूषिता ।
संजल्पन्ती सुमधुरं रमयामास पाण्डवम्॥२३॥

तथैव वनदुर्गेषु पुष्पितद्रुमवल्लिषु ।
सरःसु रमणीयेषु पद्मोत्पलयुतेषु च॥२४॥

नदीद्वीपप्रदेशेषु वैदूर्यसिकतासु च ।
सुतीर्थवनतोयासु तथा गिरिनदषु च॥२५॥

काननेषु विचित्रेषु पुष्पितद्रुमवल्लिषु ।
हिमवद्विरिकुञ्जेषु गुहासु विविधासु च॥२६॥

प्रफुल्लशतपत्रेषु सरःस्वमलवारिषु ।
सागरस्थप्रदेशेषु मणिहेमचितेषु च॥२७॥

पल्वलेषु च रम्येषु महाशालवनेषु च ।
देवारण्यषु पुण्येषु तथा पर्वतसानुषु॥२८॥

गुह्यकानां निवासेषु तापसायतनेषु च ।
सर्वर्तुफलरम्येषु मानसेषु सरःसु च॥२९॥

विभ्रती परमं रूपं रमयामास पाण्डवम् ।
रमयन्ती तथा भीमं तत्र तत्र मनोजवा॥३०॥

प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम् ।
विरूपाक्षं महावक्त्रं शङ्कुकर्णं बिभीषणम्॥३१॥

शङ्कुकर्णं तीक्ष्णाग्रस्तब्धकर्णम् ॥३१॥

भीमनादं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम् ।
महेष्वासं महावीर्यं महासत्त्वं महाभुजम्॥३२॥

महाजवं महाकायं महामायमरिंदमम् ।
दीर्घघोणं महोरस्कं विकटोद्वद्धपिण्डिकम्॥३३॥

दीर्घघोणं दीर्घनासिकम् । विकटे वक्रे उद्वद्धे उच्चे पिण्डिके जानुगुल्फान्तरे पाश्चात्यप्रदेशः पिण्डिका ते द्वे यस्य तं विकटोद्बद्धपिण्डिकम् ॥३३॥

अमानुषं मानुषजं भीमवेगं महाबलम् ।
यः पिशाचानतीत्यान्यान्बभूवातीव राक्षसान् ॥३४॥

बालोऽपि यौवनं प्राप्तो मानुषेषु विशांपते ।
सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्वली॥३५॥

सद्यो हि गर्भान्राक्षस्यो लभन्ते प्रसवन्ति च ।
कामरूपधराश्चैव भवन्ति बहुरूपिकाः॥३६॥

प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा ।
मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः॥३७॥

विकचः केशहीनः ॥३७॥

घटो हारयोत्कच इति माता तं प्रत्यभाषत ।
अब्रवीत्तेन नामास्य घटोत्कच इति स्म ह॥३८॥

घट इति । घटसादृश्याद्घटः शिरः । ‘घटः समाधिभेदे ना शिरः कूटकटेषु च’ इति मेदिनी । ह स्पष्टम् अस्य पुत्रस्य उत्कचः विकेशो यतस्ततो घटः उत्कचो यस्येति योगाद्घटोत्कच इति नामाब्रवीत् ॥३८॥

अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः ।
तेषां च दयितो नित्यमात्मनित्यो बभूव ह॥३९॥

आत्मनित्यः स्ववशः ॥३९॥

संवाससमयो जीर्ण इत्याभाष्य ततस्तु तान् ।
हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत॥४०॥

संवाससमयः सहवासकालः जीर्णोऽतीतः पुत्रोत्पत्तिपर्यन्तमेव तस्य कृतत्वात् ॥४०॥

घटोत्कची महाकायः पाण्डवान्पृथया सह ।
अभिवाद्य यथान्यायमब्रवीच्च प्रभाष्यताम्॥४१॥

किं करोम्यहमार्याणां निःशङ्कं वदतानघाः ।
तं ब्रुवन्तं भैमसेनिं कुन्ती वचनमब्रवीत्॥४२॥

त्वं कुरूणां कुले जातः साक्षाद्भीमसमो ह्यसि ।
ज्येष्ठः पुत्रोऽसि पञ्चानां साहाय्यं कुरु पुत्रक॥४३॥

वैशंपायन उवाच ।
पृथयाऽप्येवमुक्तस्तु प्रणम्यैव वचोऽब्रवीत् ।
यथा हि रावणो लोके इन्द्रजिच्च महाबलः ।
वर्ष्मवीर्यसमो लोके विशिष्टश्चाभवं नृषु॥४४॥

कृत्यकाल उपस्थास्ये पितॄनिति घटोत्कचः ।
आमन्त्र्य रक्षसां श्रेष्ठः प्रतस्थे चोत्तरां दिशम्॥४५॥

समयमेवाह कृत्येति ॥४५॥

स हि सृष्टो मघवता शक्तिहेतोर्महात्मना ।
कर्णस्याप्रतिवीर्यस्य प्रतियोद्धा महारथः॥४६॥

घटोत्कचोत्पत्तिप्रयोजनमाह सहीति ॥४६॥
इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि घटोत्कचोत्पत्तौ पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥१५५॥
षट्पञ्चाशदधिकशततमोऽध्यायः

वैशंपायन उवाच। ते वनेन वनं गत्वा घ्नन्तो मृगगणान्बहून् ।
अपक्रम्य ययूराजंस्त्वरमाणा महारथाः॥१॥

षट्पञ्चाशदधिकशततमोऽध्यायः ते इति । वनेन वनं वनाद्वनम् ॥१॥

मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च ।
रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च॥२॥

जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः ।
सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः॥३॥

क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः ।
क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः॥४॥

ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः ।
नीतिशास्त्रं च सर्वज्ञा ददृशुस्ते पितामहम्॥५॥

ब्राह्मं वेदं ब्रह्मप्रतिपादकम् उपनिषद्भागं ब्राह्मणयोग्यं वा । पितामहं व्यासम् ॥५॥

तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा ।
तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः॥६॥

व्यास उवाच। मयेदं व्यसनं पूर्वं विदितं भरतर्षभाः ।
यथा तु तैरधर्मेण धार्तराष्ट्रैर्विवासिताः॥७॥

तद्विदित्वाऽस्मि संप्राप्तश्चिकीर्षुः परमं हितम् ।
न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः॥८॥

समास्ते चैव मे सर्वे यूयं चैव न संशयः ।
दीनतो बालतश्चैव स्नेहं कुर्वन्ति मानवाः ।
तस्मादभ्यधिकः स्नेहो युष्मासु मम सांप्रतम्॥९॥

स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत ।
इदं नगरमभ्याशे रमणीयं निरामयम् ।
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः॥१०॥

वैशंपायन उवाच। एवं स तान्समाश्वास्य व्यासः सत्यवतीसुतः ।
एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः॥११॥

एकचक्राम् अभिगतः तैः सहेतिशेष ॥११॥

व्यास उवाच। जीवत्पुत्रि सुतस्तेऽयं धर्मनित्यो युधिष्ठिरः ।
धर्मेण पृथिवीं जित्वा महात्मा पुरुषर्षभः ।
पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट्॥१२॥

पृथिवीमखिलां जित्वा सर्वां सागरमेखलाम् ।
भीमसेनार्जुनबलाद्भोक्ष्यते नात्र संशयः॥१३॥

पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः ।
स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसः सदा॥१४॥

यक्ष्यन्ति च नरव्याघ्रा निर्जित्य पृथिवीमिमाम् ।
राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः॥१५॥

अनुग्रृह्य सुह्रद्वर्गं भोगैश्वर्यसुखेन च ।
पितृपैतामहं राज्यमिमे भोक्ष्यन्ति ते सुताः॥१६॥

वैशंपायन उवाच। एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने ।
अब्रवीत्पाण्डवश्रेष्ठमृषिर्द्वैपायनस्तदा॥१७॥

इह मासं प्रतीक्षध्वमागमिष्याम्यहं पुनः ।
देशकालौ विदित्वैव लप्स्यध्वं परमां मुदम्॥१८॥

स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप ।
जगाम भगवान्व्यासो यथागतमृषिः प्रभुः॥१९॥

॥ इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि व्यासदर्शने षट्पञ्चाशदधिकशततमोऽध्यायः॥१५६॥
॥समाप्तं हिडिम्बवधपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in