जनमेजय उवाच।
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः
।
अत ऊर्ध्वं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः॥१॥
सप्तपञ्चाशदधिकशततमोऽध्यायः एकचक्रामिति ॥१॥
वैशंपायन उवाच।
एकचक्रां गतास्ते तु कन्तीपुत्रा महारथाः
।
ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने॥२॥
रमणीयानि पश्यन्तो वनानि विविधानि च
।
पार्थिवानपि चोद्देशान्सरितश्च सरांसि च॥३॥
पार्थिवान्पृथिवीसम्बन्धिनः ॥३॥
चेरुर्भैश्रं तदा ते तु सर्व एव विशांपते
।
बभूवुर्नागराणां च स्वैर्गुणैः संप्रियदर्शनाः॥४॥
भैक्षं भिक्षालब्धमन्नं चेरुर्मक्षितवन्तः आपदि क्षत्रियस्यापि तदौचित्यात् ॥४॥
निवेदयन्ति स्म तदा कुन्त्या भैक्ष्यं सदा निशि
।
तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक्॥५॥
अर्धं ते भुञ्जते वीराः सह मात्रा परन्तपाः
।
अर्धं सर्वस्य भैक्षस्य भीमो भुङ्क्ते महाबलः॥६॥
तथा तु तेषां वसतां तस्मिन्राष्ट्रे महात्मनाम्
।
अतिचक्राम सुमहान्कालोऽथ भरतर्षभ॥७॥
ततः कदाचिद्भैक्षाय गतास्ते पुरुषर्षभाः
।
संगत्या भीमसेनस्तु तत्रास्ते पृथया सह॥८॥
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने
।
भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत॥९॥
रोरुयमाणांस्तान्दृष्ट्वा परिदेवयतश्च सा
।
कारुण्यात्साधुभावाच्च कुन्ती राजन्न चक्षमे॥१०॥
परिदेवयतः विविधं लालप्यमानान् ॥१०॥
मथ्यमानेव दुःखेन हृदयेन पृथा तदा
।
उवाच भीमं कल्याणी कृपान्वितमिदं वचः॥११॥
वसाम सुसुखं पुत्र ब्राह्मणस्य निवेशने
।
अज्ञाता धार्तराष्ट्रस्य सत्कृता वीतमन्यवः॥१२॥
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम्
।
प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम्॥१३॥
गृहे सुखम् उषिताः दुर्वासः प्रमृतय इव ॥१३॥
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति
।
यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः॥१४॥
कृतम् उपकृतं न नश्यति प्रत्युपकारं विना नावसीदति । एतावानेव पुरुषो न चान्यः ॥१४॥
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम्
।
तत्रास्य यदि साहाय्यं कुर्यामुपकृतं भवेत्॥१५॥
भीमसेन उवाच।
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम्
।
विदित्वा व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम्॥१६॥
वैशंपायन उवाच।
एवं तौ कथयन्तौ च भूयः सुश्रुवतुः स्वनम्
।
आर्तिजं तस्य विप्रस्य सभार्यस्य विशांपते॥१७॥
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः
।
विवेश त्वरिता कुन्ती बद्धवत्सेव सौरभी॥१८॥
सौरभी कामधेनुसंततिर्गौः॥१८॥
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च
।
दुहित्रा चैव सहितं ददर्शवनताननम्॥१९॥
ब्राह्मण उवाच।
धिगिदं जीवितं लोके गतसारमनर्थकम्
।
दुःखमूलं पराधीनं भृशमप्रियभागि च॥२०॥
जीविते परमं दुःखं जीविते परमो ज्वरः
।
जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः॥२१॥
आत्माह्येको हि धर्मार्थौ कामं चैव निषेवते
।
एतैश्च विप्रयोगोऽपि दुःखं परमनन्तकम्॥२२॥
आहुः केचित्परं मोक्षं स च नास्ति कथंचन
।
अर्थप्राप्तौ तु नरकः कृत्स्न एवोपपद्यते॥२३॥
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम्
।
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम्॥२४॥
न हि योगं प्रपश्यामि येन मुच्येयमापदः
।
पुत्रदारेण वा सार्धं प्राद्रवेयमनामयम्॥२५॥
योगम् उपाम् ॥२५॥
यतितं वै मया पूर्वं वेत्थ ब्राह्मणि तत्तथा
।
क्षेमं यतस्ततो गन्तुं त्वया तु मम न श्रुतम्॥२६॥
इह जाता विवृद्धाऽस्मि पिता माता ममेति वै
।
उक्तवत्यसि दुर्मेधे याच्यमाना मयाऽसकृत्॥२७॥
स्वर्गतोऽपि पिता वृद्धस्तथा माता चिरं तव
।
बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः॥२८॥
भूतपूर्वाः पूर्वं भूताः नष्टा इत्यर्यः ॥२८॥
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम
।
बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम॥२९॥
अथवा मद्विनाशोऽयं न हि शक्ष्यामि कंचन
।
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत्॥३०॥
सहधर्मचरीं दान्तां नित्यं मातृसमां मम
।
सखायं विहितां देवैर्नित्यं परमिकां गतिम्॥३१॥
मातृसमाम् आदिभूमिसमां गोसमां वा ‘माता गौर्यादिजननी गोब्रह्माण्यादि भूमिषु’ इति मेदिनी ॥३१॥
पित्रा मात्रा च विहितां सदा गार्हस्थ्यभागिनीम्
।
वरयित्वा यथान्यायं मन्त्रवत्परिणीय च॥३२॥
कुलीनां शीलसंपन्नामपत्यजननीमपि
।
त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम्॥३३॥
परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम्
।
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम्॥३४॥
बालामप्राप्तवयसमजातव्यञ्जनाकृतिम्
।
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना॥३५॥
यया दौहित्रजाँल्लोकानाशंसे पितृभिः सह
।
स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे॥३६॥
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः
।
कन्यायां केचिदपरे मम तुल्यावुभौ स्मृतौ॥३७॥
यस्यां लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम्
।
अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे॥३८॥
आत्मानमपि चोत्सृज्य तप्स्यामि परलोकगः
।
त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम्॥३९॥
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः
।
आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना॥४०॥
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम्
।
अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः
।
सर्वैः सह मृतं श्रेयो न च मे जीवितुं क्षमम्॥४१॥
॥ इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि ब्राह्मणचिन्तायां सप्तपञ्चाशदधिकशततमोऽध्यायः॥१५७॥
ब्राह्मण्युवाच।
न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित्
।
न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते॥१॥
अष्टपञ्चाशदधिकशततमोऽध्यायः नेति । वैद्यस्य विद्यावतः ॥१॥
अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः
।
अवश्यभाविन्यर्थे वै संतापो नेह विद्यते॥२॥
भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते
।
व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र च॥३॥
एतद्धि परमं नार्याः कार्यं लोके सनातनम्
।
प्राणानपि परित्यज्य यद्भर्तुर्हितमाचरेत्॥४॥
तच्च तत्र कृतं कर्म तवापीदं सुखावहम्
।
भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम्॥५॥
तत्र भर्तृहितनिमित्तं तच्च प्राणत्यागरूपं कर्म ॥५॥
एष चैव गुरुर्धर्मो यं प्रवक्ष्याम्यहं तव
।
अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते॥६॥
यदर्थमिष्यते भार्या प्राप्तःसोऽर्थस्त्वया मयि
।
कन्या चैका कुमारश्च कृताहमनृणा त्वया॥७॥
समर्थः पोषणे चासि सुतयो रक्षणे तथा
।
न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे॥८॥
मम हि त्वद्विहीनायाः सर्वप्राणधनेश्वर
।
कथं स्यातां सुतौ बालौ भरेयं च कथं त्वहम्॥९॥
कथं हि विधवाऽनाथा बालपुत्रा विना त्वया
।
मिथुनं जीवयिष्यामि स्थिता साधुगते पथि॥१०॥
अहं कृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम्
।
अयुक्तैस्तव संबन्धे कथं शक्ष्यामि रक्षितुम्॥११॥
अहंकृताः गर्विताः अवलिप्ताः कलङ्किताः ‘अवलेपस्तु गर्वैस्याल्लेपने दूषणेऽपि च’ इति मेदिनी ॥११॥
उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः
।
प्रार्थयन्ति जनाः सर्वे पतिहीनां तथा स्त्रियम्॥१२॥
साऽहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः
।
स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम॥१३॥
कथं तव कुलस्यैकमिमं बालमनागसम्
।
पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे॥१४॥
मार्गे सत्कुलसम्बन्धरूपे ॥१४॥
कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्सितान्
।
अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान्॥१५॥
गुणान्विद्यादन् ॥१५॥
इमामपि च ते बालामनाथां परिभूय माम्
।
अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा॥१६॥
तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम्
।
प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात्॥१७॥
ध्वांक्षाः काकाः ॥१७॥
संप्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः
।
अनर्हवशमापन्नामिमां चापि सुतां तव॥१८॥
अवज्ञाता च लोकेषु तथान्मानमजानती
।
अवलिप्तैरैर्ब्रह्मन्मरिष्यामि न संशयः॥१९॥
तौ च हीनौ मया बालौ त्वया चैव तथात्मजौ
।
विनश्येतां न सन्देहो मत्स्याविव जलक्षये॥२०॥
त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम्
।
त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि॥२१॥
व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परां गतिम्
।
गन्तुं ब्रह्मन्सपुत्राणामिति धर्मविदो विदुः॥२२॥
पराव्युष्टिर्महद्भाग्यम् । ‘व्युष्टिः फले समृद्धौ स्त्री’ इति मेदिनी ॥२२॥
परित्यक्तः सुतश्चायं दुहितेयं तथा मया
।
बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे॥२३॥
यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा
।
विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः॥२४॥
तदिदं यच्चिकीर्षामि धर्मं परमसंमतम्
।
इष्टं चैव हितं चैव तव चैव कुलस्य च॥२५॥
इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः
।
आपद्धर्मप्रमोक्षाय भार्या चापि सतां मतम्॥२६॥
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि
।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि॥२७॥
दृष्टादृष्टफलार्थं हि भार्या पुत्रो धनं गृहम्
।
सर्वमेतद्विधातव्यं बुधानामेष निश्चयः॥२८॥
फलार्थं विधातव्यमिति सम्बन्धः ॥२८॥
एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धनः
।
न समं सर्वमेवेति बुधानामेष निश्चयः॥२९॥
आत्मना समं सर्वं नेति एष बुधानां निश्चयः ॥२९॥
स कुरुष्व मया कार्यं तारयात्मानमात्मना
।
अनुजानीही मामार्य सुतौ मे परिपालय॥३०॥
अवध्यां स्त्रियमित्याहुर्धर्मज्ञा धर्मनिश्चये
।
धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि॥३१॥
निःसंशयं वधः पुंसां स्त्रीणां संशयितो वधः
।
अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि॥३२॥
भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया
।
त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम्॥३३॥
त्वत् त्वत्तः प्रसूतिः सन्ततिः अजीवितं मरणम् ॥३३॥
जातपुत्रा च वृद्धा च प्रियकामा च ते सदा
।
समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः॥३४॥
उत्सृज्यापि हि मामार्य प्राप्स्यस्यन्यामपि स्त्रियम्
।
ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव॥३५॥
न चाप्यधर्मः कल्याण बहुपत्नीकतां नृणाम्
।
स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने॥३६॥
पूर्वस्य लङ्घने तं विना भर्त्रन्तरकरणे ॥३६॥
एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम्
।
आत्मानं तारयाद्याशु कुलं चेमौ च दारकौ॥३७॥
वैशंपायन उवाच।
एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत
।
मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः॥३८॥
॥ इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि ब्राह्मणीवाक्ये अष्टपञ्चाशदधिकशततमोऽध्यायः॥१५८॥
वैशंपायन उवाच।
तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तु
।
ततो दुःखपरीताङ्गी कन्या तावभ्यभाषत॥१॥
ऊनषष्ट्यधिकशततमोऽध्यायः तयोरिति ॥१॥
किमेवं भृशदुःखार्तौ रोरूयेतामनाथवत्
।
ममापि श्रूयतां वाक्यं श्रुत्वा च क्रियतां क्षमम्॥२॥
धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः
।
त्यक्तव्यां मां परित्यज्य त्राहि सर्वं मयैकया॥३॥
त्यक्तव्याम् अवश्यदेयां परित्यज्य रक्षसे दत्वा ॥३॥
इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति
।
अस्मिन्नुपस्थिते काले तरध्वं प्लववन्मया॥४॥
प्लववत् नौकयेव मया तरध्वं दुःसहं दुःखनदीमतिक्रामध्वम् ॥४॥
इह वा तारयेद्दुर्गादुत वा प्रेत्य भारत
।
सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः॥५॥
आकाङ्क्षन्ते च दौहित्रान्मयि नित्यं पितामहाः
।
तत्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः॥६॥
पुत्रः पुन्नाम्नो नरकात्त्रायत इति योगात्पुत्र इत्यर्थः । तत्स्वयमिति । दौहित्रापेक्षया संनिहिता दुहितैवाहं तारयामीत्यर्थः ॥६॥
भ्राता च मम बालोऽयं गते लोकममुं त्वयि
।
अचिरेणैव कालेन विनश्येत न संशयः॥७॥
तातेपि हि गते स्वर्गं विनष्टे च ममानुजे
।
पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषां विप्रियं भवेत्॥८॥
पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम्
।
दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिताम्॥९॥
त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः
।
सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम्॥१०॥
आत्मा पुत्रः सखी भार्या कृच्छ्रं तु दुहिता किल
।
स कृच्छ्रान्मोचयात्मानं मां च धर्मे नियोजया॥११॥
अनाथा कृपणा बाला यत्र क्वचनगामिनी
।
भविष्यामि त्वया तात विहीना कृपणा सदा॥१२॥
अथवाऽहं करिष्यामि कुलस्यास्यविमोचनम्
।
फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम्॥१३॥
फलसंस्था सफलमरणा ॥१३॥
अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम
।
पीडिताऽहं भविष्यामि तदवेक्षस्व मामपि॥१४॥
तत्र राक्षससमीपे ॥१४॥
तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम
।
आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज॥१५॥
प्रसवार्थं वंशार्थम् ॥१५॥
अवश्यकरणीये च मा त्वां कालोऽत्यगादयम्
।
किं त्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि॥१६॥
याचमानाः परादन्नं परिधावेमहि श्ववत्
।
त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे
।
अमृते वसती लोके भविष्यामि सुखान्विता॥१७॥
अमृतेव जीवन्तीव । इहलोके कीर्तेः सत्त्वात् ॥१७॥
इतः प्रदाने देवाश्च पितरश्चेति नः श्रुतम्
।
त्वया दत्तेन तोयेन भविष्यति हिताय वै॥१८॥
इतः प्रदाने अस्मिन् राक्षसाहाराय कन्यादाने दुर्दानत्वात् पितुर्दुर्मरणाच्च कन्याया देवाश्च पितरश्च हिताय नेति श्रुतं यद्यपि तथापि त्वया दत्तेन तोयेन तव मम च हिताय ते भविष्यन्तीत्यर्थः ॥१८॥
वैशंपायन उवाच।
एवं बहुविधं तस्या निशम्य परिदेवितम्
।
पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः॥१९॥
ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तदा
।
उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत्॥२०॥
कलं मधुरम् ॥२०॥
मा पिता रुद मा मातर्मास्वसस्त्विति चाब्रवीत्
।
प्रहसन्निव सर्वांस्तानेकैकमनुसर्पति॥२१॥
हे पितः मारुद रोदनं मा कुरु । एतेन बाललीलापि शुभाशुभसूचिकेति सूचितम् ॥२१॥
ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत्
।
अनेनाहं हनिष्यामि राक्षसं पुरुषादकम्॥२२॥
तथापि तेषां दुःखेन परीतानां निशम्य तत्
।
बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान्॥२३॥
अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान्
।
गतासूनमृतेनेव जीवयन्तीदमब्रवीत्॥२४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि ब्राह्मणकन्यापुत्रवाक्ये ऊनषष्ट्यधिकशततमोऽध्यायः॥१५९॥
कुन्त्युवाच।
कुतो मूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः
।
विदित्वाप्यपकर्षेयं शक्यं चेदपकर्षितुम्॥१॥
षष्ट्यधिकशततमोऽध्यायः कुत इति । कुतो मूलं कुत उत्थितमित्यर्थः ॥१॥
ब्राह्मण उवाच।
उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने
।
न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम्॥२॥
समीपे नगरस्यास्य वको वसति राक्षसः
।
ईशो जनपदस्यास्य पुरस्य च महाबलः॥३॥
पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः
।
रक्षत्यसुरराण्नित्यमिमं जनपदं बली॥४॥
नगरं चैव देशं च रक्षोबलसमन्वितः
।
तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम्॥५॥
वेतनं तस्य विहितं शालिवाहस्य भोजनम्
।
महिषौ पुरुषश्चैको यस्तदादाय गच्छति॥६॥
शालिवाहः विंशतिखारीमितशालितण्डुलौदनः ‘वाहो विंशतिखारीक’ इत्युक्तेः ॥६॥
एकैकश्चापि पुरुषस्तत्प्रयच्छति भोजनम्
।
स वारो बहुभिर्वर्षैर्भवत्यसुकरो नरैः॥७॥
वारः पर्यायागतो दिवसः ॥७॥
तद्विमोक्षाय ये केचिद्यतन्ते पुरुषाः क्वचित्
।
स पुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत॥८॥
वेत्रकीयगृहे राजा नायं नयमिहास्थितः
।
उपायं तं न कुरुते यत्नादपि स मन्दधीः
।
अनामयं जनस्यास्य येन स्यादद्य शाश्वतम्॥९॥
वेत्रकीयगृहे स्थानविशेषे । इतः अदूरे राजाऽस्ति अयं इह नगरे नयं न आस्थितः अस्य नगरस्यावेक्षां न करोतीत्यर्थः । स्वयं राक्षसं हन्तुमशक्तत्वादुपायमप्यन्यद्वारा न कुरुते यतो मन्दधीः ॥९॥
एतदर्हा वचं नूनं वसामो दुर्बलस्य ये
।
विषये नित्यवास्तव्याः कुराजानमुपाश्रिताः॥१०॥
एतदर्हाः एतस्य दुःखस्य योग्या वयम् । तत्र हेतुः वसाम इत्यादिः । विषये देशे नित्यवास्तव्याः नित्यं वासकर्तारः नित्यमुद्विग्ना इत्यपि पठन्ति ॥१०॥
ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः
।
गुणैरेते हि वत्स्यन्ति कामगाः पक्षिणो यथा॥११॥
कस्य केन हेतुना कस्य केन पुंसा वक्तव्याः । इतो मागच्छतेति वक्तुं शक्याः । कृष्यादिकारित्वाभावात् । अत एव छन्दचारिणः । गुणैः देशस्य राज्ञो वा चत्स्यन्ति वासं करिष्यन्ति न तु निर्बन्धेनेत्यर्थः ॥११॥
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम्
।
त्रयस्य संचयेनास्य ज्ञातीन्पुत्रांश्च तारयेत्॥१२॥
सञ्चयेन समृध्या । अराजके हि राष्ट्रे कृता भार्या चोरहार्या स्यात् । अभार्यस्यायज्वनो धनं राजहार्यं स्यात् ॥१२॥
विपरीतं मया चेदं त्रयं सर्वमुपार्जितम्
।
तदिमामापदं प्राप्य भृशं तप्यामहे वयम्॥१३॥
विपरीतं कुराज्ये भार्योद्वहनात् उद्वाहानन्तरं धनालाभाच्च ॥१३॥
सोयमस्माननुप्राप्तो वारः कुलविनाशनः
।
भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया॥१४॥
न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित्
।
सुहृज्जनं प्रदातुं च न शक्ष्यामि कदाचन॥१५॥
गतिं चैव न पश्यामि तस्मान्मोक्षाय रक्षसः
।
सोऽहं दुःखार्णवे मग्नो महत्यसुकरे भृशम्॥१६॥
सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम्
।
ततो नः सहितान्क्षुद्रः सर्वानेवोपभोक्ष्यति॥१७॥
॥ इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि कुन्तीप्रश्ने षष्ठ्यधिकशततमोऽध्यायः॥१६०॥
कुन्त्युवाच।
न विषादस्त्वया कार्यो भयादस्मात्कथंचन
।
उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः॥१॥
एकषष्ट्यधिकशततमोऽध्यायः न विषाद इति ॥१॥
एकस्तवसुतो बालः कन्या चैका तपस्विनी
।
न चैतयोस्तथा पत्न्या गमनं तव रोचये॥२॥
मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति
।
त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः॥३॥
ब्राह्मण उवाच।
नाहमेतत्करिष्यामि जीवितार्थी कथंचन
।
ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणान्वियोजयन्॥४॥
एतत्त्वदुक्तम् । अकुलीनासु अधर्मिष्टास्वपि प्रजासु न विद्यते तत्कथं मादृशेषु स्यादित्यर्थः ॥४॥
न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते
।
यद्ब्राह्ममार्थं विसृजेदात्मानमपि चात्मजम्॥५॥
ब्राह्मणार्थम् आत्मादिविसर्जनमेव आत्मनः श्रेयो मया बोद्धव्यमिति सम्बन्धः ॥५॥
आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचते
।
ब्रह्मवध्यात्मवध्या वा श्रेयानात्मवधो मम॥६॥
ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते
।
अबुद्धिपूर्वं कृत्वापि वरमात्मवधो मम॥७॥
अबुद्धिपूर्वकब्रह्मवधाद्बुद्धिपूर्वकृते आत्मवधे स्वल्पं पापम् । तदपि मम परेण कृते वधे नास्तीत्याह सार्द्धेन । अबुद्धीत्यादिना ॥७॥
न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे
।
परैः कृते वधे पापं न किंचिन्मयि विद्यते॥८॥
अभिसन्धिकृते तस्मिन्ब्राह्मणस्य वधे मया
।
निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च॥९॥
अभिसन्धिकृते वुद्धिपूर्वं कृते ॥९॥
आगतस्य गृहं त्यागस्तथैव शरणार्थिनः
।
याचमानस्य च वधो नृशंसो गर्हितो बुधैः॥१०॥
कुर्यान्न निन्दितं कर्म न नृशंसं कथंचन
।
इति पूर्वे महात्मान आपद्धर्मविदो विदुः॥११॥
श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम्
।
ब्राह्मणस्य वधं नाहमनुमंस्ये कदाचन॥१२॥
कुन्त्युवाच।
ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा
।
न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत्॥१३॥
न चासौ राक्षसः शक्तो मम पुत्रविनाशने
।
वीर्यमन्मन्त्रसिद्धश्च तेजस्वी च सुतो मम॥१४॥
राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम्
।
मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः॥१५॥
समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः
।
बलवन्तो महाकाया निहताश्चाप्यनेकशः॥१६॥
न त्विदं केषुचिद्ब्रह्मान्व्याहर्तव्यं कथंचन
।
विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात्॥१७॥
विप्रकुर्युः बाधेरन् ॥१७॥
गुरुणा चाननुज्ञातो ग्राहयेद्यत्सुतो मम
।
न स कुर्यात्तथा कार्यं विद्ययेति सतां मतम्॥१८॥
नन्वयमपि तान्बाधतां नेत्याह । गुरुणा चेति ग्राहयेत् ग्राहवदाचरेत् कवलयेत् स मम सुतः तत्कार्यं तथा न कुर्यात् । यथा विद्यया शिक्षया गुर्वाज्ञया कुर्यादिति ॥१८॥
एवमुक्तस्तु पृथया स विप्रो भार्यया सह
।
हृष्टः संपूजयामास तद्वाक्यममृतोपमम्॥१९॥
ततः कुन्ती च विप्रश्च सहितावनिलात्मजम्
।
तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ॥२०॥
॥ इति श्रीमन्महाभारते आदिपर्वणि बलवधपर्वणि भीमबकवधाङ्गीकारे एकषष्ट्यधिकशततमोऽध्यायः॥१६१॥
वैशंपायन उवाच।
करिष्य इति भीमेन प्रतिज्ञातेऽथ भारत
।
आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः॥१॥
द्विषष्ट्यधिकशततमोऽध्याय करिष्ये इति ॥१॥
आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः
।
रहः समुपविश्यैकस्ततः पप्रच्छ मातरम्॥२॥
युधिष्ठिर उवाच।
किं चिकीर्षत्ययं कर्म भीमो भमपराक्रमः
।
भवत्यनुमते कच्चित्स्वयं वा कर्तुमिच्छति॥३॥
कुन्त्युवाच।
ममैव वचनादेष करिष्यति परन्तपः
।
ब्राह्मणार्थे महत्कृत्यं मोक्षाय नगरस्य च॥४॥
मोक्षाय बकभयादिति शेषः ॥४॥
युधिष्ठिर उवाच।
किमिदं साहसं तीक्ष्णं भवत्या दुष्करं कृतम्
।
परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः॥५॥
कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि
।
लोकवेदविरुद्धं हि पुत्रत्यागात्कृतं त्वया॥६॥
यस्य बाहू समाश्रित्य सुखं सर्वे शयामहे
।
राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः॥७॥
यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः
।
न शेते रजनीः सर्वा दुःखाच्छकुनिना सह॥८॥
यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम्
।
अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः॥९॥
यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम्
।
इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान्॥१०॥
तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया
।
कच्चिन्नु दुःखैर्बुद्धिस्ते विलुप्ता गतचेतसः॥११॥
कुन्त्युवाच।
युधिष्ठिर न संतापस्त्वया कार्यो वृकोदरे
।
न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया॥१२॥
इह विप्रस्य भवने वयं पुत्र सुखोषिताः
।
अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः॥१३॥
तस्य प्रतिक्रिया पार्थ मयेयं प्रसमीक्षिता
।
एतावानेव पुरुषः कृतं यस्मिन्न नश्यति॥१४॥
यावच्च कुर्यादन्योऽस्य कुर्याद्बहुगुमं ततः
।
दृष्ट्वा भीमस्य विक्रान्तं तदा जतुगृहे महत्
।
हिडिम्बस्य वधाच्चैवं विश्वासो मे वृकोदरे॥१५॥
विश्वासः असाध्यमपि साधयेदिति प्रत्ययः ॥१५॥
बाह्वोर्बलं हि भीमस्य नागायुतसमं महत्
।
येन यूयं गजप्रख्या निर्व्यूढा वारणावतात्॥१६॥
निर्व्यूढाः बहिर्निष्काशिताः निगूढा इति पाठे गूढाः रक्षिताः वारणावतात् वारणावतं त्यक्त्वा पथीति शेषः ॥१६॥
वृकोदरेण सदृशो बलेनान्यो न विद्यते
।
यो व्यतीयाद्युधि श्रेष्ठमपि चक्रधरं स्वयम्॥१७॥
जातमात्रः पुरा चैव ममाङ्कात्पतितो गिरौ
।
शरीरगौरवादस्य शिला गात्रैर्विचूर्णिता॥१८॥
तदहं प्रज्ञया ज्ञात्वा बलं भीमस्य पाण्डव
।
प्रतिकार्ये च विप्रस्य ततः कृतवती मतिम्॥१९॥
प्रतिकार्ये शत्रौ मतिं कृतवती । प्रतिकर्तुमिति शेष: ॥१९॥
नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम्
।
बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया॥२०॥
अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः
।
प्रतीकारश्च वासस्य धर्मश्च चरितो महान्॥२१॥
प्रतीकारः प्रत्युपकारः ॥२१॥
यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित्
।
क्षत्रियः स शुभाँल्लोकानाप्नुयादिति मे मतिः॥२२॥
क्षत्रियस्यैव कुर्वाणः क्षत्रियो वधमोक्षणम्
।
विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च॥२३॥
वैश्यस्यार्थे च साहाय्यं कुर्वाणः क्षत्रियो भुवि
।
स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम्॥२४॥
शूद्रं तु मोचयेद्राजा शरणार्थिनमागतम्
।
प्राप्नोतीह कुले जन्म सद्द्रव्ये राजपूजिते॥२५॥
एवं मां भगवान्व्यासः पुरा पौरवनन्दन
।
प्रोवाचासुकरप्रज्ञस्तस्मादेवं चिकीर्षितम्॥२६॥
॥ इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि कुन्तीयुधिष्ठिरसंवादे द्विषष्ट्यधिकशततमोऽध्यायः॥१६२॥
युधिष्ठिर उवाच।
उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम्
।
आर्तस्य ब्राह्मणस्यैतदनुक्रोशादिदं कृतम्॥१॥
त्रिषष्ट्यधिकशततमोऽध्यायः उपपन्नमिति कृतं त्राणमिति शेषः ॥१॥
ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम्
।
सर्वथा ब्राह्मणस्यार्थे यदनुक्रोशवत्यसि॥२॥
यथा त्विदं न विन्देयुर्नरा नगरवासिनः
।
तथाऽयं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः॥३॥
परिग्राह्यः अनुग्राह्यः ॥३॥
वैशंपायन उवाच।
ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः
।
भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः॥४॥
आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली
।
आजुहाव ततो नाम्ना तदन्नमुपपादयन्॥५॥
ततः स राक्षसः क्रुद्धो भीमस्य वचनात्तदा
।
आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः॥६॥
महाकायो महावेगो दारयन्निव मेदिनीम्
।
लोहिताक्षः करालश्च लोहितश्मश्रुमूर्धजः॥७॥
आकर्णाद्भिन्नवक्त्रश्च शङ्कुकर्णो विभीषणः
।
त्रिशिखां भ्रुकुटिं कृत्वा संदश्य दशनच्छदम्॥८॥
भिन्नवक्त्रः विदीर्णवक्त्रः । भ्रुकुटिं भ्रूमध्यम् । त्रिशिखां त्रिरेखाम् ॥८॥
भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः
।
विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत्॥९॥
कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम्
।
पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम्॥१०॥
यियासुः गन्तुमिच्छुः यमसादनं यमगृहम् ॥१०॥
भीमसेनस्ततः श्रुत्वा प्रहसन्निव भारत
।
राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः॥११॥
रवं स भैरवं कृत्वा समुद्यम्य करावुभौ
।
अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः॥१२॥
तथापि परिभूयैनं प्रेक्षमाणो वृकोदरः
।
राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा॥१३॥
अमर्षेण तु संपूर्णः कुन्तीपुत्रं वृकोदरम्
।
जघान पृष्ठे पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः॥१४॥
तथा बलवता भीमः पाणिभ्यां भृशमाहतः
।
नैवावलोकयामास राक्षसं भुङ्क्त एव सः॥१५॥
उपदेवत्वाद्राक्षसस्य तत्स्पर्शेऽपि दोषाभावाद्भुङ्क्त एवेति भावः ॥१५॥
ततः स भूयः संक्रुद्धो वृक्षमादाय राक्षसः
।
ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली॥१६॥
ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः
।
वायुर्पस्पृश्य संहृष्टस्तस्थौ युधि महाबलः॥१७॥
क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान्
।
सव्येन पाणिना भीमः प्रहसन्निव भारत॥१८॥
ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली
।
प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः॥१९॥
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्
।
घोररूपं महाराज नरराक्षसराजयोः॥२०॥
नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम्
।
भुजाभ्यां परिजग्राह भीमसेनं महाबलम्॥२१॥
परिजग्राह आलिङ्गितवान् ॥२१॥
भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः
।
विस्फुरन्तं महाबाहुं विचकर्ष बलाद्बली॥२२॥
विस्फुरन्तमिति पुंस्त्वं बकनामलिङ्गापेक्षया ॥२२॥
स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम्
।
समयुज्यत तीव्रेण क्लमेन पुरुषादः॥२३॥
तयोर्वेगेन महता पृथिवी समकम्पत
।
पादपांश्च महाकायांश्चूर्णयामासतुस्तदा॥२४॥
हीयमानं तु तद्रक्षः समीक्ष्य पुरुषादकम्
।
निष्पिष्य भूमौ जानुभ्यां समाजघ्ने वृकोदरः॥२५॥
ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव
।
बाहुना परिजग्राह दक्षिणेन शिरोधराम॥२६॥
शिरोधरां कन्धराम् ॥२६॥
सव्येन च कटीदेशे गृह्य वाससि पाण्डवः
।
तद्रक्षो द्विगुणं चक्रे रवन्तं भैरवं रवम्॥२७॥
चक्रे कृतं कटिकन्धरयोर्योजनेन पृष्ठवंशं बभञ्जेत्यर्थः रवन्तमिति रववत् प्राग्वल्लिङ्गम् ॥२७॥
ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशांपते
।
भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः॥२८॥
॥ इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि बकभीमसेनयुद्धे त्रिषष्ट्यधिकशततमोऽध्यायः॥१६३॥
वैशंपायन उवाच।
ततः स भग्नपार्श्वाङ्गो नदित्वा भैरवं रवम्
।
शैलराजप्रतीकाशो गतासुरभवद्बकः॥१॥
चतुःषष्ट्यधिकशततमोऽध्याय तत इति । भग्नानि पार्श्वानि पशवो अङ्गानि च हस्तपादादीनि यस्य स तथा ॥१॥
तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः
।
निष्पपात गृहाद्राजन्सहैव परिचारिभिः॥२॥
तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः
।
सान्त्वयामास बलवान्समये च न्यवेशयत्॥३॥
न हिंस्या मानुषा भूयो युष्माभिरिति कर्हिचित्
।
हिंसतां हि वधः शीघ्रमेवमेव भवेदिति॥४॥
तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत
।
एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम्॥५॥
ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत
।
नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः॥६॥
ततो भीमस्तमादाय गतासुं पुरुषादकम्
।
द्वारदेशे विनिक्षिप्य पुरमागामानुपलक्षितः॥७॥
दृष्ट्वा भीमबलोद्भूतं बकं विनिहतं तदा
।
ज्ञातयोऽस्य भयोद्विग्नाः प्रतिजग्मुस्ततस्ततः॥८॥
ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत्
।
आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः॥९॥
गत्वा गतवान् । अन्येभ्योपि दृश्यन्त इति गमेः क्वनिप् । ततोऽनुनासिकलोपे तुगागमे चैतद्रूपम् । आचचक्षे ब्राह्मण इति शेषः ॥९॥
ततो नरा विनिष्क्रान्ता नगरात्कल्यमेव तु
।
ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम्॥१०॥
कल्यं प्रातःकाले ॥१०॥
तमद्रिकूटसदृशं विनिकीर्णं भयानकम्
।
दृष्ट्वा संहृष्टरोमाणो बभूवुस्तत्र नागराः॥११॥
एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः पुरे
।
ततः सहस्रशो राजन्नरा नगरवासिनः॥१२॥
तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः
।
ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वाऽतिमानुषम्
।
दैवतान्यर्चयाञ्चक्रुः सर्व एव विशांपते॥१३॥
ततः प्रगणयामासुः कस्य वारोऽद्य भोजने
।
ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव ते॥१४॥
एवं पृष्टः स बहुशो रक्षमाणश्च पाण्डवान्
।
उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा॥१५॥
आज्ञापितं मामशने रुदन्तं सह बन्धुभिः
।
ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महामनाः॥१६॥
अज्ञपितं राजकीयैरिति शेषः । अशने राक्षसस्य भोजनार्थम् ॥१६॥
परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च
।
अब्रवीद्ब्राह्मणश्रेष्ठो विश्वास्य प्रहसन्निव॥१७॥
प्रापयिष्याम्यहं तस्मा अन्नमेतद्दुरात्मने
।
मन्निमित्तं भयं चापि न कार्यमिति चाब्रवीत्॥१८॥
स तदन्नमुपादाय गतो बकवनं प्रति
।
तेन नूनं भवेदेतत्कर्म लोकहितं कृतम्॥१९॥
ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः
।
वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा॥२०॥
ब्रह्ममहम् । ब्राह्मणेन राक्षसो हत इति श्रुत्वा ब्राह्मणानां सुखार्थ महम् उत्सवं ब्राह्मणपूजनादिकं चक्रुः ॥२०॥
ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति
।
तदद्भुततमं दृष्ट्वा पार्थास्तत्रैव चावसन्॥२१॥
॥ इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि बकवधे चतुःषष्ट्यधिकशततमोऽध्यायः॥१६४॥