अनुक्रमणिकापर्व - १पर्वसंग्रहपर्व - २पौष्यपर्व - ३पौलोमपर्व। - ४आस्तिकपर्व - ५अंशावतरणपर्व - ६सम्भवपर्व - ७जतुगृहपर्व । - ८हिडिम्बवधपर्व - ९बकवधपर्व - १०चैत्ररथपर्व । - ११स्वयंवरपर्व - १२वैवाहिकपर्व - १३विदुरागमनराज्यालंभपर्व - १४अर्जुनवनवासपर्व - १५सुभ्रद्राहरणपर्व। - १६हरणाहरणपर्व। - १७खाण्डवदाहपर्व - १८मयदर्शनपर्व - १९

बकवधपर्व

सप्तपञ्चाशदधिकशततमोऽध्यायः

जनमेजय उवाच। एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः ।
अत ऊर्ध्वं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः॥१॥

सप्तपञ्चाशदधिकशततमोऽध्यायः एकचक्रामिति ॥१॥

वैशंपायन उवाच। एकचक्रां गतास्ते तु कन्तीपुत्रा महारथाः ।
ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने॥२॥

रमणीयानि पश्यन्तो वनानि विविधानि च ।
पार्थिवानपि चोद्देशान्सरितश्च सरांसि च॥३॥

पार्थिवान्पृथिवीसम्बन्धिनः ॥३॥

चेरुर्भैश्रं तदा ते तु सर्व एव विशांपते ।
बभूवुर्नागराणां च स्वैर्गुणैः संप्रियदर्शनाः॥४॥

भैक्षं भिक्षालब्धमन्नं चेरुर्मक्षितवन्तः आपदि क्षत्रियस्यापि तदौचित्यात् ॥४॥

निवेदयन्ति स्म तदा कुन्त्या भैक्ष्यं सदा निशि ।
तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक्॥५॥

अर्धं ते भुञ्जते वीराः सह मात्रा परन्तपाः ।
अर्धं सर्वस्य भैक्षस्य भीमो भुङ्क्ते महाबलः॥६॥

तथा तु तेषां वसतां तस्मिन्राष्ट्रे महात्मनाम् ।
अतिचक्राम सुमहान्कालोऽथ भरतर्षभ॥७॥

ततः कदाचिद्भैक्षाय गतास्ते पुरुषर्षभाः ।
संगत्या भीमसेनस्तु तत्रास्ते पृथया सह॥८॥

अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने ।
भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत॥९॥

रोरुयमाणांस्तान्दृष्ट्वा परिदेवयतश्च सा ।
कारुण्यात्साधुभावाच्च कुन्ती राजन्न चक्षमे॥१०॥

परिदेवयतः विविधं लालप्यमानान् ॥१०॥

मथ्यमानेव दुःखेन हृदयेन पृथा तदा ।
उवाच भीमं कल्याणी कृपान्वितमिदं वचः॥११॥

वसाम सुसुखं पुत्र ब्राह्मणस्य निवेशने ।
अज्ञाता धार्तराष्ट्रस्य सत्कृता वीतमन्यवः॥१२॥

सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् ।
प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम्॥१३॥

गृहे सुखम् उषिताः दुर्वासः प्रमृतय इव ॥१३॥

एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति ।
यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः॥१४॥

कृतम् उपकृतं न नश्यति प्रत्युपकारं विना नावसीदति । एतावानेव पुरुषो न चान्यः ॥१४॥

तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् ।
तत्रास्य यदि साहाय्यं कुर्यामुपकृतं भवेत्॥१५॥

भीमसेन उवाच। ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् ।
विदित्वा व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम्॥१६॥

वैशंपायन उवाच। एवं तौ कथयन्तौ च भूयः सुश्रुवतुः स्वनम् ।
आर्तिजं तस्य विप्रस्य सभार्यस्य विशांपते॥१७॥

अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः ।
विवेश त्वरिता कुन्ती बद्धवत्सेव सौरभी॥१८॥

सौरभी कामधेनुसंततिर्गौः॥१८॥

ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च ।
दुहित्रा चैव सहितं ददर्शवनताननम्॥१९॥

ब्राह्मण उवाच। धिगिदं जीवितं लोके गतसारमनर्थकम् ।
दुःखमूलं पराधीनं भृशमप्रियभागि च॥२०॥

जीविते परमं दुःखं जीविते परमो ज्वरः ।
जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः॥२१॥

आत्माह्येको हि धर्मार्थौ कामं चैव निषेवते ।
एतैश्च विप्रयोगोऽपि दुःखं परमनन्तकम्॥२२॥

आहुः केचित्परं मोक्षं स च नास्ति कथंचन ।
अर्थप्राप्तौ तु नरकः कृत्स्न एवोपपद्यते॥२३॥

अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् ।
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम्॥२४॥

न हि योगं प्रपश्यामि येन मुच्येयमापदः ।
पुत्रदारेण वा सार्धं प्राद्रवेयमनामयम्॥२५॥

योगम् उपाम् ॥२५॥

यतितं वै मया पूर्वं वेत्थ ब्राह्मणि तत्तथा ।
क्षेमं यतस्ततो गन्तुं त्वया तु मम न श्रुतम्॥२६॥

इह जाता विवृद्धाऽस्मि पिता माता ममेति वै ।
उक्तवत्यसि दुर्मेधे याच्यमाना मयाऽसकृत्॥२७॥

स्वर्गतोऽपि पिता वृद्धस्तथा माता चिरं तव ।
बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः॥२८॥

भूतपूर्वाः पूर्वं भूताः नष्टा इत्यर्यः ॥२८॥

सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम ।
बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम॥२९॥

अथवा मद्विनाशोऽयं न हि शक्ष्यामि कंचन ।
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत्॥३०॥

सहधर्मचरीं दान्तां नित्यं मातृसमां मम ।
सखायं विहितां देवैर्नित्यं परमिकां गतिम्॥३१॥

मातृसमाम् आदिभूमिसमां गोसमां वा ‘माता गौर्यादिजननी गोब्रह्माण्यादि भूमिषु’ इति मेदिनी ॥३१॥

पित्रा मात्रा च विहितां सदा गार्हस्थ्यभागिनीम् ।
वरयित्वा यथान्यायं मन्त्रवत्परिणीय च॥३२॥

कुलीनां शीलसंपन्नामपत्यजननीमपि ।
त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम्॥३३॥

परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ।
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम्॥३४॥

बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ।
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना॥३५॥

यया दौहित्रजाँल्लोकानाशंसे पितृभिः सह ।
स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे॥३६॥

मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः ।
कन्यायां केचिदपरे मम तुल्यावुभौ स्मृतौ॥३७॥

यस्यां लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् ।
अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे॥३८॥

आत्मानमपि चोत्सृज्य तप्स्यामि परलोकगः ।
त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम्॥३९॥

एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः ।
आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना॥४०॥

स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् ।
अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः ।
सर्वैः सह मृतं श्रेयो न च मे जीवितुं क्षमम्॥४१॥

॥ इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि ब्राह्मणचिन्तायां सप्तपञ्चाशदधिकशततमोऽध्यायः॥१५७॥
अष्टपञ्चाशदधिकशततमोऽध्यायः

ब्राह्मण्युवाच। न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् ।
न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते॥१॥

अष्टपञ्चाशदधिकशततमोऽध्यायः नेति । वैद्यस्य विद्यावतः ॥१॥

अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः ।
अवश्यभाविन्यर्थे वै संतापो नेह विद्यते॥२॥

भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते ।
व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र च॥३॥

एतद्धि परमं नार्याः कार्यं लोके सनातनम् ।
प्राणानपि परित्यज्य यद्भर्तुर्हितमाचरेत्॥४॥

तच्च तत्र कृतं कर्म तवापीदं सुखावहम् ।
भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम्॥५॥

तत्र भर्तृहितनिमित्तं तच्च प्राणत्यागरूपं कर्म ॥५॥

एष चैव गुरुर्धर्मो यं प्रवक्ष्याम्यहं तव ।
अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते॥६॥

यदर्थमिष्यते भार्या प्राप्तःसोऽर्थस्त्वया मयि ।
कन्या चैका कुमारश्च कृताहमनृणा त्वया॥७॥

समर्थः पोषणे चासि सुतयो रक्षणे तथा ।
न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे॥८॥

मम हि त्वद्विहीनायाः सर्वप्राणधनेश्वर ।
कथं स्यातां सुतौ बालौ भरेयं च कथं त्वहम्॥९॥

कथं हि विधवाऽनाथा बालपुत्रा विना त्वया ।
मिथुनं जीवयिष्यामि स्थिता साधुगते पथि॥१०॥

अहं कृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम् ।
अयुक्तैस्तव संबन्धे कथं शक्ष्यामि रक्षितुम्॥११॥

अहंकृताः गर्विताः अवलिप्ताः कलङ्किताः ‘अवलेपस्तु गर्वैस्याल्लेपने दूषणेऽपि च’ इति मेदिनी ॥११॥

उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः ।
प्रार्थयन्ति जनाः सर्वे पतिहीनां तथा स्त्रियम्॥१२॥

साऽहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः ।
स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम॥१३॥

कथं तव कुलस्यैकमिमं बालमनागसम् ।
पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे॥१४॥

मार्गे सत्कुलसम्बन्धरूपे ॥१४॥

कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्सितान् ।
अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान्॥१५॥

गुणान्विद्यादन् ॥१५॥

इमामपि च ते बालामनाथां परिभूय माम् ।
अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा॥१६॥

तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम् ।
प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात्॥१७॥

ध्वांक्षाः काकाः ॥१७॥

संप्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः ।
अनर्हवशमापन्नामिमां चापि सुतां तव॥१८॥

अवज्ञाता च लोकेषु तथान्मानमजानती ।
अवलिप्तैरैर्ब्रह्मन्मरिष्यामि न संशयः॥१९॥

तौ च हीनौ मया बालौ त्वया चैव तथात्मजौ ।
विनश्येतां न सन्देहो मत्स्याविव जलक्षये॥२०॥

त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् ।
त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि॥२१॥

व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परां गतिम् ।
गन्तुं ब्रह्मन्सपुत्राणामिति धर्मविदो विदुः॥२२॥

पराव्युष्टिर्महद्भाग्यम् । ‘व्युष्टिः फले समृद्धौ स्त्री’ इति मेदिनी ॥२२॥

परित्यक्तः सुतश्चायं दुहितेयं तथा मया ।
बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे॥२३॥

यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा ।
विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः॥२४॥

तदिदं यच्चिकीर्षामि धर्मं परमसंमतम् ।
इष्टं चैव हितं चैव तव चैव कुलस्य च॥२५॥

इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः ।
आपद्धर्मप्रमोक्षाय भार्या चापि सतां मतम्॥२६॥

आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि॥२७॥

दृष्टादृष्टफलार्थं हि भार्या पुत्रो धनं गृहम् ।
सर्वमेतद्विधातव्यं बुधानामेष निश्चयः॥२८॥

फलार्थं विधातव्यमिति सम्बन्धः ॥२८॥

एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धनः ।
न समं सर्वमेवेति बुधानामेष निश्चयः॥२९॥

आत्मना समं सर्वं नेति एष बुधानां निश्चयः ॥२९॥

स कुरुष्व मया कार्यं तारयात्मानमात्मना ।
अनुजानीही मामार्य सुतौ मे परिपालय॥३०॥

अवध्यां स्त्रियमित्याहुर्धर्मज्ञा धर्मनिश्चये ।
धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि॥३१॥

निःसंशयं वधः पुंसां स्त्रीणां संशयितो वधः ।
अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि॥३२॥

भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया ।
त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम्॥३३॥

त्वत् त्वत्तः प्रसूतिः सन्ततिः अजीवितं मरणम् ॥३३॥

जातपुत्रा च वृद्धा च प्रियकामा च ते सदा ।
समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः॥३४॥

उत्सृज्यापि हि मामार्य प्राप्स्यस्यन्यामपि स्त्रियम् ।
ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव॥३५॥

न चाप्यधर्मः कल्याण बहुपत्नीकतां नृणाम् ।
स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने॥३६॥

पूर्वस्य लङ्घने तं विना भर्त्रन्तरकरणे ॥३६॥

एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् ।
आत्मानं तारयाद्याशु कुलं चेमौ च दारकौ॥३७॥

वैशंपायन उवाच। एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत ।
मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः॥३८॥

॥ इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि ब्राह्मणीवाक्ये अष्टपञ्चाशदधिकशततमोऽध्यायः॥१५८॥
ऊनषष्ट्यधिकशततमोऽध्यायः

वैशंपायन उवाच। तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तु ।
ततो दुःखपरीताङ्गी कन्या तावभ्यभाषत॥१॥

ऊनषष्ट्यधिकशततमोऽध्यायः तयोरिति ॥१॥

किमेवं भृशदुःखार्तौ रोरूयेतामनाथवत् ।
ममापि श्रूयतां वाक्यं श्रुत्वा च क्रियतां क्षमम्॥२॥

धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः ।
त्यक्तव्यां मां परित्यज्य त्राहि सर्वं मयैकया॥३॥

त्यक्तव्याम् अवश्यदेयां परित्यज्य रक्षसे दत्वा ॥३॥

इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति ।
अस्मिन्नुपस्थिते काले तरध्वं प्लववन्मया॥४॥

प्लववत् नौकयेव मया तरध्वं दुःसहं दुःखनदीमतिक्रामध्वम् ॥४॥

इह वा तारयेद्दुर्गादुत वा प्रेत्य भारत ।
सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः॥५॥

आकाङ्क्षन्ते च दौहित्रान्मयि नित्यं पितामहाः ।
तत्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः॥६॥

पुत्रः पुन्नाम्नो नरकात्त्रायत इति योगात्पुत्र इत्यर्थः । तत्स्वयमिति । दौहित्रापेक्षया संनिहिता दुहितैवाहं तारयामीत्यर्थः ॥६॥

भ्राता च मम बालोऽयं गते लोकममुं त्वयि ।
अचिरेणैव कालेन विनश्येत न संशयः॥७॥

तातेपि हि गते स्वर्गं विनष्टे च ममानुजे ।
पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषां विप्रियं भवेत्॥८॥

पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् ।
दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिताम्॥९॥

त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः ।
सन्तानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम्॥१०॥

आत्मा पुत्रः सखी भार्या कृच्छ्रं तु दुहिता किल ।
स कृच्छ्रान्मोचयात्मानं मां च धर्मे नियोजया॥११॥

अनाथा कृपणा बाला यत्र क्वचनगामिनी ।
भविष्यामि त्वया तात विहीना कृपणा सदा॥१२॥

अथवाऽहं करिष्यामि कुलस्यास्यविमोचनम् ।
फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम्॥१३॥

फलसंस्था सफलमरणा ॥१३॥

अथवा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम ।
पीडिताऽहं भविष्यामि तदवेक्षस्व मामपि॥१४॥

तत्र राक्षससमीपे ॥१४॥

तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम ।
आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज॥१५॥

प्रसवार्थं वंशार्थम् ॥१५॥

अवश्यकरणीये च मा त्वां कालोऽत्यगादयम् ।
किं त्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि॥१६॥

याचमानाः परादन्नं परिधावेमहि श्ववत् ।
त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे ।
अमृते वसती लोके भविष्यामि सुखान्विता॥१७॥

अमृतेव जीवन्तीव । इहलोके कीर्तेः सत्त्वात् ॥१७॥

इतः प्रदाने देवाश्च पितरश्चेति नः श्रुतम् ।
त्वया दत्तेन तोयेन भविष्यति हिताय वै॥१८॥

इतः प्रदाने अस्मिन् राक्षसाहाराय कन्यादाने दुर्दानत्वात् पितुर्दुर्मरणाच्च कन्याया देवाश्च पितरश्च हिताय नेति श्रुतं यद्यपि तथापि त्वया दत्तेन तोयेन तव मम च हिताय ते भविष्यन्तीत्यर्थः ॥१८॥

वैशंपायन उवाच। एवं बहुविधं तस्या निशम्य परिदेवितम् ।
पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः॥१९॥

ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तदा ।
उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत्॥२०॥

कलं मधुरम् ॥२०॥

मा पिता रुद मा मातर्मास्वसस्त्विति चाब्रवीत् ।
प्रहसन्निव सर्वांस्तानेकैकमनुसर्पति॥२१॥

हे पितः मारुद रोदनं मा कुरु । एतेन बाललीलापि शुभाशुभसूचिकेति सूचितम् ॥२१॥

ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् ।
अनेनाहं हनिष्यामि राक्षसं पुरुषादकम्॥२२॥

तथापि तेषां दुःखेन परीतानां निशम्य तत् ।
बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान्॥२३॥

अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् ।
गतासूनमृतेनेव जीवयन्तीदमब्रवीत्॥२४॥

॥ इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि ब्राह्मणकन्यापुत्रवाक्ये ऊनषष्ट्यधिकशततमोऽध्यायः॥१५९॥
षष्ट्यधिकशततमोऽध्यायः

कुन्त्युवाच। कुतो मूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः ।
विदित्वाप्यपकर्षेयं शक्यं चेदपकर्षितुम्॥१॥

षष्ट्यधिकशततमोऽध्यायः कुत इति । कुतो मूलं कुत उत्थितमित्यर्थः ॥१॥

ब्राह्मण उवाच। उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने ।
न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम्॥२॥

समीपे नगरस्यास्य वको वसति राक्षसः ।
ईशो जनपदस्यास्य पुरस्य च महाबलः॥३॥

पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः ।
रक्षत्यसुरराण्नित्यमिमं जनपदं बली॥४॥

नगरं चैव देशं च रक्षोबलसमन्वितः ।
तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम्॥५॥

वेतनं तस्य विहितं शालिवाहस्य भोजनम् ।
महिषौ पुरुषश्चैको यस्तदादाय गच्छति॥६॥

शालिवाहः विंशतिखारीमितशालितण्डुलौदनः ‘वाहो विंशतिखारीक’ इत्युक्तेः ॥६॥

एकैकश्चापि पुरुषस्तत्प्रयच्छति भोजनम् ।
स वारो बहुभिर्वर्षैर्भवत्यसुकरो नरैः॥७॥

वारः पर्यायागतो दिवसः ॥७॥

तद्विमोक्षाय ये केचिद्यतन्ते पुरुषाः क्वचित् ।
स पुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत॥८॥

वेत्रकीयगृहे राजा नायं नयमिहास्थितः ।
उपायं तं न कुरुते यत्नादपि स मन्दधीः ।
अनामयं जनस्यास्य येन स्यादद्य शाश्वतम्॥९॥

वेत्रकीयगृहे स्थानविशेषे । इतः अदूरे राजाऽस्ति अयं इह नगरे नयं न आस्थितः अस्य नगरस्यावेक्षां न करोतीत्यर्थः । स्वयं राक्षसं हन्तुमशक्तत्वादुपायमप्यन्यद्वारा न कुरुते यतो मन्दधीः ॥९॥

एतदर्हा वचं नूनं वसामो दुर्बलस्य ये ।
विषये नित्यवास्तव्याः कुराजानमुपाश्रिताः॥१०॥

एतदर्हाः एतस्य दुःखस्य योग्या वयम् । तत्र हेतुः वसाम इत्यादिः । विषये देशे नित्यवास्तव्याः नित्यं वासकर्तारः नित्यमुद्विग्ना इत्यपि पठन्ति ॥१०॥

ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः ।
गुणैरेते हि वत्स्यन्ति कामगाः पक्षिणो यथा॥११॥

कस्य केन हेतुना कस्य केन पुंसा वक्तव्याः । इतो मागच्छतेति वक्तुं शक्याः । कृष्यादिकारित्वाभावात् । अत एव छन्दचारिणः । गुणैः देशस्य राज्ञो वा चत्स्यन्ति वासं करिष्यन्ति न तु निर्बन्धेनेत्यर्थः ॥११॥

राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् ।
त्रयस्य संचयेनास्य ज्ञातीन्पुत्रांश्च तारयेत्॥१२॥

सञ्चयेन समृध्या । अराजके हि राष्ट्रे कृता भार्या चोरहार्या स्यात् । अभार्यस्यायज्वनो धनं राजहार्यं स्यात् ॥१२॥

विपरीतं मया चेदं त्रयं सर्वमुपार्जितम् ।
तदिमामापदं प्राप्य भृशं तप्यामहे वयम्॥१३॥

विपरीतं कुराज्ये भार्योद्वहनात् उद्वाहानन्तरं धनालाभाच्च ॥१३॥

सोयमस्माननुप्राप्तो वारः कुलविनाशनः ।
भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया॥१४॥

न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित् ।
सुहृज्जनं प्रदातुं च न शक्ष्यामि कदाचन॥१५॥

गतिं चैव न पश्यामि तस्मान्मोक्षाय रक्षसः ।
सोऽहं दुःखार्णवे मग्नो महत्यसुकरे भृशम्॥१६॥

सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् ।
ततो नः सहितान्क्षुद्रः सर्वानेवोपभोक्ष्यति॥१७॥

॥ इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि कुन्तीप्रश्ने षष्ठ्यधिकशततमोऽध्यायः॥१६०॥
एकषष्ट्यधिकशततमोऽध्यायः

कुन्त्युवाच। न विषादस्त्वया कार्यो भयादस्मात्कथंचन ।
उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः॥१॥

एकषष्ट्यधिकशततमोऽध्यायः न विषाद इति ॥१॥

एकस्तवसुतो बालः कन्या चैका तपस्विनी ।
न चैतयोस्तथा पत्न्या गमनं तव रोचये॥२॥

मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति ।
त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः॥३॥

ब्राह्मण उवाच। नाहमेतत्करिष्यामि जीवितार्थी कथंचन ।
ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणान्वियोजयन्॥४॥

एतत्त्वदुक्तम् । अकुलीनासु अधर्मिष्टास्वपि प्रजासु न विद्यते तत्कथं मादृशेषु स्यादित्यर्थः ॥४॥

न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते ।
यद्ब्राह्ममार्थं विसृजेदात्मानमपि चात्मजम्॥५॥

ब्राह्मणार्थम् आत्मादिविसर्जनमेव आत्मनः श्रेयो मया बोद्धव्यमिति सम्बन्धः ॥५॥

आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचते ।
ब्रह्मवध्यात्मवध्या वा श्रेयानात्मवधो मम॥६॥

ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते ।
अबुद्धिपूर्वं कृत्वापि वरमात्मवधो मम॥७॥

अबुद्धिपूर्वकब्रह्मवधाद्बुद्धिपूर्वकृते आत्मवधे स्वल्पं पापम् । तदपि मम परेण कृते वधे नास्तीत्याह सार्द्धेन । अबुद्धीत्यादिना ॥७॥

न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे ।
परैः कृते वधे पापं न किंचिन्मयि विद्यते॥८॥

अभिसन्धिकृते तस्मिन्ब्राह्मणस्य वधे मया ।
निष्कृतिं न प्रपश्यामि नृशंसं क्षुद्रमेव च॥९॥

अभिसन्धिकृते वुद्धिपूर्वं कृते ॥९॥

आगतस्य गृहं त्यागस्तथैव शरणार्थिनः ।
याचमानस्य च वधो नृशंसो गर्हितो बुधैः॥१०॥

कुर्यान्न निन्दितं कर्म न नृशंसं कथंचन ।
इति पूर्वे महात्मान आपद्धर्मविदो विदुः॥११॥

श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् ।
ब्राह्मणस्य वधं नाहमनुमंस्ये कदाचन॥१२॥

कुन्त्युवाच। ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा ।
न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत्॥१३॥

न चासौ राक्षसः शक्तो मम पुत्रविनाशने ।
वीर्यमन्मन्त्रसिद्धश्च तेजस्वी च सुतो मम॥१४॥

राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् ।
मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः॥१५॥

समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः ।
बलवन्तो महाकाया निहताश्चाप्यनेकशः॥१६॥

न त्विदं केषुचिद्ब्रह्मान्व्याहर्तव्यं कथंचन ।
विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात्॥१७॥

विप्रकुर्युः बाधेरन् ॥१७॥

गुरुणा चाननुज्ञातो ग्राहयेद्यत्सुतो मम ।
न स कुर्यात्तथा कार्यं विद्ययेति सतां मतम्॥१८॥

नन्वयमपि तान्बाधतां नेत्याह । गुरुणा चेति ग्राहयेत् ग्राहवदाचरेत् कवलयेत् स मम सुतः तत्कार्यं तथा न कुर्यात् । यथा विद्यया शिक्षया गुर्वाज्ञया कुर्यादिति ॥१८॥

एवमुक्तस्तु पृथया स विप्रो भार्यया सह ।
हृष्टः संपूजयामास तद्वाक्यममृतोपमम्॥१९॥

ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् ।
तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ॥२०॥

॥ इति श्रीमन्महाभारते आदिपर्वणि बलवधपर्वणि भीमबकवधाङ्गीकारे एकषष्ट्यधिकशततमोऽध्यायः॥१६१॥
द्विषष्ट्यधिकशततमोऽध्यायः

वैशंपायन उवाच। करिष्य इति भीमेन प्रतिज्ञातेऽथ भारत ।
आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः॥१॥

द्विषष्ट्यधिकशततमोऽध्याय करिष्ये इति ॥१॥

आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः ।
रहः समुपविश्यैकस्ततः पप्रच्छ मातरम्॥२॥

युधिष्ठिर उवाच। किं चिकीर्षत्ययं कर्म भीमो भमपराक्रमः ।
भवत्यनुमते कच्चित्स्वयं वा कर्तुमिच्छति॥३॥

कुन्त्युवाच। ममैव वचनादेष करिष्यति परन्तपः ।
ब्राह्मणार्थे महत्कृत्यं मोक्षाय नगरस्य च॥४॥

मोक्षाय बकभयादिति शेषः ॥४॥

युधिष्ठिर उवाच। किमिदं साहसं तीक्ष्णं भवत्या दुष्करं कृतम् ।
परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः॥५॥

कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि ।
लोकवेदविरुद्धं हि पुत्रत्यागात्कृतं त्वया॥६॥

यस्य बाहू समाश्रित्य सुखं सर्वे शयामहे ।
राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः॥७॥

यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः ।
न शेते रजनीः सर्वा दुःखाच्छकुनिना सह॥८॥

यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम् ।
अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः॥९॥

यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम् ।
इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान्॥१०॥

तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया ।
कच्चिन्नु दुःखैर्बुद्धिस्ते विलुप्ता गतचेतसः॥११॥

कुन्त्युवाच। युधिष्ठिर न संतापस्त्वया कार्यो वृकोदरे ।
न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया॥१२॥

इह विप्रस्य भवने वयं पुत्र सुखोषिताः ।
अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः॥१३॥

तस्य प्रतिक्रिया पार्थ मयेयं प्रसमीक्षिता ।
एतावानेव पुरुषः कृतं यस्मिन्न नश्यति॥१४॥

यावच्च कुर्यादन्योऽस्य कुर्याद्बहुगुमं ततः ।
दृष्ट्वा भीमस्य विक्रान्तं तदा जतुगृहे महत् ।
हिडिम्बस्य वधाच्चैवं विश्वासो मे वृकोदरे॥१५॥

विश्वासः असाध्यमपि साधयेदिति प्रत्ययः ॥१५॥

बाह्वोर्बलं हि भीमस्य नागायुतसमं महत् ।
येन यूयं गजप्रख्या निर्व्यूढा वारणावतात्॥१६॥

निर्व्यूढाः बहिर्निष्काशिताः निगूढा इति पाठे गूढाः रक्षिताः वारणावतात् वारणावतं त्यक्त्वा पथीति शेषः ॥१६॥

वृकोदरेण सदृशो बलेनान्यो न विद्यते ।
यो व्यतीयाद्युधि श्रेष्ठमपि चक्रधरं स्वयम्॥१७॥

जातमात्रः पुरा चैव ममाङ्कात्पतितो गिरौ ।
शरीरगौरवादस्य शिला गात्रैर्विचूर्णिता॥१८॥

तदहं प्रज्ञया ज्ञात्वा बलं भीमस्य पाण्डव ।
प्रतिकार्ये च विप्रस्य ततः कृतवती मतिम्॥१९॥

प्रतिकार्ये शत्रौ मतिं कृतवती । प्रतिकर्तुमिति शेष: ॥१९॥

नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम् ।
बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया॥२०॥

अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः ।
प्रतीकारश्च वासस्य धर्मश्च चरितो महान्॥२१॥

प्रतीकारः प्रत्युपकारः ॥२१॥

यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित् ।
क्षत्रियः स शुभाँल्लोकानाप्नुयादिति मे मतिः॥२२॥

क्षत्रियस्यैव कुर्वाणः क्षत्रियो वधमोक्षणम् ।
विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च॥२३॥

वैश्यस्यार्थे च साहाय्यं कुर्वाणः क्षत्रियो भुवि ।
स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम्॥२४॥

शूद्रं तु मोचयेद्राजा शरणार्थिनमागतम् ।
प्राप्नोतीह कुले जन्म सद्द्रव्ये राजपूजिते॥२५॥

एवं मां भगवान्व्यासः पुरा पौरवनन्दन ।
प्रोवाचासुकरप्रज्ञस्तस्मादेवं चिकीर्षितम्॥२६॥

॥ इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि कुन्तीयुधिष्ठिरसंवादे द्विषष्ट्यधिकशततमोऽध्यायः॥१६२॥
त्रिषष्ट्यधिकशततमोऽध्यायः

युधिष्ठिर उवाच। उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम् ।
आर्तस्य ब्राह्मणस्यैतदनुक्रोशादिदं कृतम्॥१॥

त्रिषष्ट्यधिकशततमोऽध्यायः उपपन्नमिति कृतं त्राणमिति शेषः ॥१॥

ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम् ।
सर्वथा ब्राह्मणस्यार्थे यदनुक्रोशवत्यसि॥२॥

यथा त्विदं न विन्देयुर्नरा नगरवासिनः ।
तथाऽयं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः॥३॥

परिग्राह्यः अनुग्राह्यः ॥३॥

वैशंपायन उवाच। ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः ।
भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः॥४॥

आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली ।
आजुहाव ततो नाम्ना तदन्नमुपपादयन्॥५॥

ततः स राक्षसः क्रुद्धो भीमस्य वचनात्तदा ।
आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः॥६॥

महाकायो महावेगो दारयन्निव मेदिनीम् ।
लोहिताक्षः करालश्च लोहितश्मश्रुमूर्धजः॥७॥

आकर्णाद्भिन्नवक्त्रश्च शङ्कुकर्णो विभीषणः ।
त्रिशिखां भ्रुकुटिं कृत्वा संदश्य दशनच्छदम्॥८॥

भिन्नवक्त्रः विदीर्णवक्त्रः । भ्रुकुटिं भ्रूमध्यम् । त्रिशिखां त्रिरेखाम् ॥८॥

भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः ।
विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत्॥९॥

कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् ।
पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम्॥१०॥

यियासुः गन्तुमिच्छुः यमसादनं यमगृहम् ॥१०॥

भीमसेनस्ततः श्रुत्वा प्रहसन्निव भारत ।
राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः॥११॥

रवं स भैरवं कृत्वा समुद्यम्य करावुभौ ।
अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः॥१२॥

तथापि परिभूयैनं प्रेक्षमाणो वृकोदरः ।
राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा॥१३॥

अमर्षेण तु संपूर्णः कुन्तीपुत्रं वृकोदरम् ।
जघान पृष्ठे पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः॥१४॥

तथा बलवता भीमः पाणिभ्यां भृशमाहतः ।
नैवावलोकयामास राक्षसं भुङ्क्त एव सः॥१५॥

उपदेवत्वाद्राक्षसस्य तत्स्पर्शेऽपि दोषाभावाद्भुङ्क्त एवेति भावः ॥१५॥

ततः स भूयः संक्रुद्धो वृक्षमादाय राक्षसः ।
ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली॥१६॥

ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः ।
वायुर्पस्पृश्य संहृष्टस्तस्थौ युधि महाबलः॥१७॥

क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् ।
सव्येन पाणिना भीमः प्रहसन्निव भारत॥१८॥

ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली ।
प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः॥१९॥

तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् ।
घोररूपं महाराज नरराक्षसराजयोः॥२०॥

नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम् ।
भुजाभ्यां परिजग्राह भीमसेनं महाबलम्॥२१॥

परिजग्राह आलिङ्गितवान् ॥२१॥

भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः ।
विस्फुरन्तं महाबाहुं विचकर्ष बलाद्बली॥२२॥

विस्फुरन्तमिति पुंस्त्वं बकनामलिङ्गापेक्षया ॥२२॥

स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम् ।
समयुज्यत तीव्रेण क्लमेन पुरुषादः॥२३॥

तयोर्वेगेन महता पृथिवी समकम्पत ।
पादपांश्च महाकायांश्चूर्णयामासतुस्तदा॥२४॥

हीयमानं तु तद्रक्षः समीक्ष्य पुरुषादकम् ।
निष्पिष्य भूमौ जानुभ्यां समाजघ्ने वृकोदरः॥२५॥

ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव ।
बाहुना परिजग्राह दक्षिणेन शिरोधराम॥२६॥

शिरोधरां कन्धराम् ॥२६॥

सव्येन च कटीदेशे गृह्य वाससि पाण्डवः ।
तद्रक्षो द्विगुणं चक्रे रवन्तं भैरवं रवम्॥२७॥

चक्रे कृतं कटिकन्धरयोर्योजनेन पृष्ठवंशं बभञ्जेत्यर्थः रवन्तमिति रववत् प्राग्वल्लिङ्गम् ॥२७॥

ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशांपते ।
भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः॥२८॥

॥ इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि बकभीमसेनयुद्धे त्रिषष्ट्यधिकशततमोऽध्यायः॥१६३॥
चतुःषष्ट्यधिकशततमोऽध्यायः

वैशंपायन उवाच। ततः स भग्नपार्श्वाङ्गो नदित्वा भैरवं रवम् ।
शैलराजप्रतीकाशो गतासुरभवद्बकः॥१॥

चतुःषष्ट्यधिकशततमोऽध्याय तत इति । भग्नानि पार्श्वानि पशवो अङ्गानि च हस्तपादादीनि यस्य स तथा ॥१॥

तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः ।
निष्पपात गृहाद्राजन्सहैव परिचारिभिः॥२॥

तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः ।
सान्त्वयामास बलवान्समये च न्यवेशयत्॥३॥

न हिंस्या मानुषा भूयो युष्माभिरिति कर्हिचित् ।
हिंसतां हि वधः शीघ्रमेवमेव भवेदिति॥४॥

तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत ।
एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम्॥५॥

ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत ।
नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः॥६॥

ततो भीमस्तमादाय गतासुं पुरुषादकम् ।
द्वारदेशे विनिक्षिप्य पुरमागामानुपलक्षितः॥७॥

दृष्ट्वा भीमबलोद्भूतं बकं विनिहतं तदा ।
ज्ञातयोऽस्य भयोद्विग्नाः प्रतिजग्मुस्ततस्ततः॥८॥

ततः स भीमस्तं हत्वा गत्वा ब्राह्मणवेश्म तत् ।
आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः॥९॥

गत्वा गतवान् । अन्येभ्योपि दृश्यन्त इति गमेः क्वनिप् । ततोऽनुनासिकलोपे तुगागमे चैतद्रूपम् । आचचक्षे ब्राह्मण इति शेषः ॥९॥

ततो नरा विनिष्क्रान्ता नगरात्कल्यमेव तु ।
ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम्॥१०॥

कल्यं प्रातःकाले ॥१०॥

तमद्रिकूटसदृशं विनिकीर्णं भयानकम् ।
दृष्ट्वा संहृष्टरोमाणो बभूवुस्तत्र नागराः॥११॥

एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः पुरे ।
ततः सहस्रशो राजन्नरा नगरवासिनः॥१२॥

तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः ।
ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वाऽतिमानुषम् ।
दैवतान्यर्चयाञ्चक्रुः सर्व एव विशांपते॥१३॥

ततः प्रगणयामासुः कस्य वारोऽद्य भोजने ।
ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव ते॥१४॥

एवं पृष्टः स बहुशो रक्षमाणश्च पाण्डवान् ।
उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा॥१५॥

आज्ञापितं मामशने रुदन्तं सह बन्धुभिः ।
ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महामनाः॥१६॥

अज्ञपितं राजकीयैरिति शेषः । अशने राक्षसस्य भोजनार्थम् ॥१६॥

परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च ।
अब्रवीद्ब्राह्मणश्रेष्ठो विश्वास्य प्रहसन्निव॥१७॥

प्रापयिष्याम्यहं तस्मा अन्नमेतद्दुरात्मने ।
मन्निमित्तं भयं चापि न कार्यमिति चाब्रवीत्॥१८॥

स तदन्नमुपादाय गतो बकवनं प्रति ।
तेन नूनं भवेदेतत्कर्म लोकहितं कृतम्॥१९॥

ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः ।
वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा॥२०॥

ब्रह्ममहम् । ब्राह्मणेन राक्षसो हत इति श्रुत्वा ब्राह्मणानां सुखार्थ महम् उत्सवं ब्राह्मणपूजनादिकं चक्रुः ॥२०॥

ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति ।
तदद्भुततमं दृष्ट्वा पार्थास्तत्रैव चावसन्॥२१॥

॥ इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि बकवधे चतुःषष्ट्यधिकशततमोऽध्यायः॥१६४॥
॥ समाप्तं च बकवधपर्व ॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in