ब्राह्मण उवाच।
गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः
।
भरद्वाजो महाप्राज्ञः सततं संशितव्रतः॥१॥
षट्षष्ट्यधिकशततमोऽध्यायः गङ्गाद्वारमिति ॥१॥
सोभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम्
।
ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः॥२॥
ततो गङ्गामिति पाठे तु गङ्गाम् ॥ ततः पूर्वं भरद्वाजागमनात् पूर्वम् अभिषेक्तुम् आगतामित्यर्थ: ॥२॥
तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा
।
अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे तदा॥३॥
व्यहरद्विशेषेण हृतवान् चक्रमे कामितवान् ॥३॥
तस्यां संसक्तमनसः कौमारब्रह्मचारिणः
।
चिरस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे॥४॥
कुमाराणां सनत्कुमारादीनां समूहः कौमारं तत्तुल्यस्य ब्रह्मचारिणः ॥४॥
ततः समभवद्द्रोणः कुमारस्तस्य धीमतः
।
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः॥५॥
भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः
।
तस्यापि द्रुपदो नाम तदा समभवत्सुतः॥६॥
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः
।
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः॥७॥
ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत्
।
द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः॥८॥
वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत्
।
आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम॥९॥
राम उवाच।
शरीरमात्रमेवाद्य मया समवशेषितम्
।
अस्त्राणि वा शरीरं वा ब्रह्मन्नेकतमं वृणु॥१०॥
एकतमम् एकतरम् अस्त्रसमुदायस्याविवक्षितत्वाद्वा तमप् ॥१०॥
द्रोण उवाच।
अस्त्राणि चैव सर्वाणि तेषां संहारमेव च
।
प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान्॥११॥
ब्राह्मण उवाच।
तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः
।
प्रतिगृह्य तदा द्रोणः कृतकृत्योऽभवत्तदा॥१२॥
संप्रहृष्टमना द्रोणो रामात्परमसम्मतम्
।
ब्रह्मास्त्रं समनुज्ञाप्य नरेष्वभ्यधिकोऽभवत्॥१३॥
समनुज्ञप्य निशम्य । 'मारणतोषण निशामनेषु ज्ञा इति मित्त्वात् ह्रस्वः । ज्ञाप्येत्यपपाठः प्राप्येत्यपि पठन्ति ॥१३॥
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्
।
अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति॥१४॥
द्रुपद उवाच।
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा
।
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते॥१५॥
पूर्वं सखा इति सखिपूर्वं बाल्ये कृतं सख्यं किं कथम् इष्यते प्राज्ञैर्न कथमपीत्यर्थः । बालो हि मौढ्यादतुल्येनापि सख्यमिच्छति न तु प्राज्ञ इति भावः ॥१५॥
ब्राह्मण उवाच।
स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान्
।
जगाम कुरुमुख्यानां नगरं नागसाह्वयम्॥१६॥
तस्मै पौत्रान्समादाय वसूनि विविधानि च
।
प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते॥१७॥
समादाय हस्ते गृहीत्वा प्रददौ ॥१७॥
द्रोणः शिष्यांस्ततः पार्थानिदं वचनमब्रवीत्
।
समानीय तु ताञ्शिष्यान्द्रुपदस्यासुखाय वै॥१८॥
आचार्यवेतनं किंचिद्धृदि यद्वर्तते मम
।
कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः
।
सोऽर्जुनप्रमुखैरुक्तस्तथाऽस्त्विति गुरुस्तदा॥१९॥
यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्चयाः
।
ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः॥२०॥
पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः
।
तस्मादाकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम्॥२१॥
छत्रवत्याम् अहिच्छत्रे ॥२१॥
ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि
।
द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा॥२२॥
द्रोण उवाच।
प्रार्थयामि त्वया सख्यं पुनरेव नराधिप
।
अराजा किल नो राज्ञः सखा भवितुमर्हति॥२३॥
अतः प्रयतितं राज्ये यज्ञसेन त्वया सह
।
राजाऽसि दक्षिणे कूले भागीरथ्याहमुत्तरे॥२४॥
राज्ये राज्यार्थम् । त्वया सह सङ्गम्येति शेषः । भागीरथ्याहमिति सन्धिरार्षः ॥२४॥
ब्राह्मण उवाच।
एवमुक्तो हि पाञ्चाल्यो भारद्वाजेन धीमता
।
उवाचास्त्रविदां श्रेष्ठं द्रोणं ब्राह्मणसत्तमम्॥२५॥
एवं भवतु भद्रं ते भारद्वाज महामते
।
सख्यं तदेव भवतु शश्वद्यदभिमन्यसे॥२६॥
एवमन्योऽन्यमुक्त्वा तौ कृत्वा सख्यमनुत्तमम्
।
जग्मतुर्द्रोणपाञ्चाल्यौ यथागतमरिन्दमौ॥२७॥
उक्त्वा वचनेनैव सख्यं कृत्वा न तु मनसा । ब्राह्मणस्याद्रोहित्वेपि क्षत्रियस्य दीर्घद्रोहित्वात् ॥२७॥
असत्कारः स तु महान्मुहूर्तमपि तस्य तु
।
नापैति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत्॥२८॥
तदेवाह असत्कार इति ॥२८॥
॥ इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि द्रौपदीसंभवे षट्षष्ट्यधिकशततमोऽध्यायः॥१६६॥
ब्राह्मण उवाच।
अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान्
।
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून्॥१॥
सप्तषष्ट्यधिकशततमोऽध्यायः अमर्षीति ॥१॥
पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः
।
नास्ति श्रेष्ठमपत्यं म इति नित्यमचिन्तयत्॥२॥
जातान्पुत्रान्सनिर्वेदाद्दिग्बन्धूनिति चाब्रवीत्
।
निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया॥३॥
पुत्रान्बन्धूंश्च धिगित्यब्रवीदित्यन्वयः ॥३॥
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च
।
क्षात्रेण च बलेनास्य चिन्तयन्नाध्यगच्छत॥४॥
प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत
।
अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन्॥५॥
कल्माषीं कृष्णवर्णां यमुनामभितः गङ्गाकूले च परिभ्रमन् । कल्माषपादस्य कल्माषीमभितः समीपे इत्यन्ये ॥५॥
ब्राह्मणावसथं पुम्यमाससाद महीपतिः
।
तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः॥६॥
तथैव च महाभागः सोपश्यत्संशितव्रतौ
।
याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ परमेष्ठिनौ॥७॥
परमे ब्रह्मणि वेदे वा स्थातुं शीलं ययोस्तौ ॥७॥
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ
।
तारणेयौ युक्तरूपौ ब्राह्मणावृषिसत्तमौ॥८॥
तारणेयौ कुमारीप्रभवौ कर्णवत्कानीनौ । ‘तरणिद्युमणौ पुंसि कुमारीनौकयोः स्त्रियाम्’ इति मेदिनी । सूर्यभक्तौ वा ब्राह्मणौ ब्रह्मविदौ ऋषिसत्तमौ मन्त्रद्रष्टृषु श्रेष्ठौ ॥८॥
स तावामन्त्रयामास सर्वकामैरतन्द्रितः
।
बुद्ध्वा बलं तयोस्तत्र कनीयांसमुपह्वरे॥९॥
उपह्वरे एकान्ते ॥९॥
प्रपेदे च्छन्दयन्क्रामैरुपयाजं धृतव्रतम्
।
पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः॥१०॥
प्रपेदे शरणं गतवान् ॥१०॥
अर्चयित्वा यथान्यायमुपयाजमुवाच सः
।
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे॥११॥
उपयाजकृते तस्मिन्गवां दाताऽस्मि तेऽर्बुदम्
।
यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत्
।
सर्वं तत्ते प्रदाताऽहं न हि मेऽत्रास्ति संशयः॥१२॥
तस्मिन्कार्ये कृते सति अर्बुदं दशकोटीः दातास्मि दास्यामि ॥१२॥
इत्युक्तो नाहमित्येवं तमृषिः प्रत्यभाषत
।
आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः॥१३॥
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः
।
उपयाजोऽब्रवीत्काले राजन्मधुरया गिरा॥१४॥
ज्येष्ठो भ्राता ममागृह्णाद्विचरन् गहने वने
।
अपरिज्ञातशौचायां भूमौ निपतितं फलम्॥१५॥
तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन्
।
विमर्शं संकरादाने नायं कुर्यात्कदाचन॥१६॥
असाम्प्रतम् अयुक्तम् अनुव्रजन्नपश्यम् । विमर्शं विचारम् । सङ्करादाने सङ्करो दोषसंपर्कः तद्युक्तवस्त्वादाने ॥१६॥
दृष्ट्वा फलस्य नापश्यद्दोषान्पापानुबन्धकान्
।
विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत्॥१७॥
संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः
।
भैक्षमुत्सृष्टमन्येषां भुङ्क्ते स्म च यदा तदा॥१८॥
उत्सृष्टम् उच्छिष्टम् ॥१८॥
कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः
।
तं वै फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा॥१९॥
अघृणी लज्जाहीनः ॥१९॥
तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति
।
जुगुप्समानो नृपतिर्मनसेनं विचिन्तयन्॥२०॥
हे नृपतेः तं गच्छ हे स्व हे आत्मीय । मनसा इदं याजचरितं जुगुप्समानो निन्दन् । विचिन्तयन् स्वकार्यं चेति शेषः ॥२०॥
उपयाजवचः श्रुत्वा याजस्याश्रममभ्यगात्
।
अभिसम्पूज्य पूजार्हमथ याजमुवाच ह॥२१॥
अयुतानि ददान्यष्टौ गवां याजय मां विभो
।
द्रोणवैराभिसन्तप्तं प्रह्लादयितुमर्हसि॥२२॥
अष्टावयुतानि ददानि । ‘रिक्तपाणिर्न पश्येत राजानं देवतां गुरुम्’ इति स्मृतेरुपायनमात्रमेतत् न दक्षिणा अर्बुदप्रतिज्ञानात् ॥२२॥
स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः
।
तस्माद्द्रोणः पराजैष्ट मां वै स सखिविग्रहे॥२३॥
पराजैष्ट पराजितवान् । विपराभ्यां जेरिति तङ् ॥२३॥
क्षत्रियो नास्ति तस्यास्यां पृथिव्यां कश्चिदग्रणीः
।
कौरवाचायर्मुख्यस्य भारद्वाजस्य धीमतः॥२४॥
तस्य तस्मात् अग्रणीः श्रेष्ठः ॥२४॥
द्रोणस्य शरजालानि प्राणिदेहहराणि च
।
षडरत्नि धनुश्चास्य दृश्यते परमं महत्॥२५॥
स हि ब्राह्मणवेषेण क्षात्रं वेगमशंसयम्
।
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः॥२६॥
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः
।
तस्य ह्यस्त्रबलं घोरमप्रधृष्यं नरैर्भुवि॥२७॥
ब्राह्मं सन्धारयंस्तेजो हुताहुतिरिवानलः
।
समेत्य स दहत्याजौ क्षात्रधर्मपुरःसरः॥२८॥
ब्रह्मक्षत्रे च विहिते ब्राह्मं तेजो विशिष्यते
।
सोऽहं क्षात्राद्बलाद्धीनो ब्राह्मं तेजः प्रपेदिवान्॥२९॥
ब्रह्मक्षत्रे इति सार्धः श्लोकः । चोप्यर्थे ब्रह्मतेजसहितक्षत्रतेजसि द्रोणगते विहिते श्रेष्ठे सत्यपि केवलं ब्राह्मं त्वदीयं विशिष्यते क्षात्राद्बलात् । अहं तु हीनो ब्राह्मबलेन । भीत इति पाठे ब्राह्माद्बलाद्भीतो ब्राह्मं तेजः प्रपेदिवान् शरणं कृतवान् ॥२९॥
द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम्
।
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम्॥३०॥
तत्कर्म कुरु मे याज वितराम्यर्बुदं गवाम्
।
तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत्॥३१॥
येन पुत्रं लभेयं तत्कर्म कुरु । याज्यार्थं द्रुपदस्येष्टसाधनं यागम् उपकल्पयत् मनसा तत्प्रयोगं स्मृतवान् । अडभाव आर्षः ॥३१॥
गुर्वर्थ इति चाकाममुपयाजमचोदयत्
।
याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः॥३२॥
गुर्वर्थः गुरुश्चासावर्थश्चेति । अतिभारोयं यद्द्रोणहन्तुः पुत्रपस्योत्पादनम् इति हेतोः उपयाजम् अकाममप्यचोदयत् उपकल्पने प्रेरितवान् । आत्मन्यप्रत्ययं चेत' इति न्यायेन उपयाजमपि निश्चयार्थे संवादितवान् ॥३२॥
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः
।
आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै॥३३॥
वैतानं श्रौताग्निसाध्यं आचख्यौ आख्यातवान् ॥३३॥
स च पुत्रो महावीर्यो महातेजा महाबलः
।
इष्यते यद्विधो राजन्भविता ते तथाविधः॥३४॥
स चेति उपयाज उवाच ॥३४॥
भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूपतिः
।
आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये॥३५॥
वैशंपायन उवाच भारद्वाजस्येति । आजह्रे कृतवान् । कर्मसिद्धये कर्मफससिद्ध्यर्थम् ॥३५॥
याजस्तु हवनस्यान्ते देवीमाज्ञापयत्तदा
।
प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम्॥३६॥
प्रेहि प्रकर्षेणशीघ्रमेहि । हविर्ग्रहीतुमिति शेषः पृषति पृषतस्नुषे इत एव सम्बन्धात्पुंयोगे ङीष् । अन्ये तु पार्षतीति पाठे कल्पयन्ति ॥३६॥
राज्ञ्युवाच
।
अवलिप्तं मुखं ब्रह्मन्दिव्यान्गन्धान्बिभर्मि च
।
सूतार्थेनोपलब्धाऽस्मि तिष्ठ याज मम प्रिये॥३७॥
अवलिप्तं दूषितं लालादिना । अप्रक्षालितत्वादिति भावः । ‘अवलेपस्तु गर्वेस्याल्लेपने दूषणेपि च’ इति मेदिनी । गन्धान् अङ्गरागादिजान् । अस्नाताऽस्मीति भावः । ‘यादतो धावते तस्यै श्यावदन् या स्नाति तस्या अप्सुमारुक’ इत्याद्युक्त्वा तिस्रो रात्रीर्व्रतं चरेत्' इति विहितौ अस्पृश्याघर्मावेतौ । तदेवाह । नोपलब्धास्मि उपलब्धुं स्प्रष्टुं योग्या नास्मि । तस्मान्मलवद्वाससा न संवदेतेति तया सह संवादस्यापि निषेधात् । अतो हेतोः हे याज मम प्रिये इष्टे सुतार्थे सुतरूपे प्रयोजने तिष्ठ शुद्धिकालं प्रतीक्षस्वेत्यर्थः ॥३७॥
याज उवाच।
याजेन श्रपितं हव्यमुपयाजाभिमन्त्रितम्
।
कथं कामं न सन्दध्यात्सा त्वं विप्रेहि तिष्ठ वा॥३८॥
श्रपितं पक्वम् । क्षेत्रं रेतः सेकं च विना आवयोः सामर्थ्यान्मिथुनमुत्पत्स्यत इत्यर्थः । विप्रेहि दूरं वा गच्छ तिष्ठ वा । प्रयोगविधिस्तु न विलम्बं सहते इत्यर्थः ॥३८॥
ब्राह्मण उवाच।
एवमुक्त्वा तु याजेन हुते हविषि संस्कृते
।
उत्तस्थौ पावकात्तस्मात्कुमारो देवसन्निभिः॥३९॥
ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम्
।
बिभ्रत्सखङ्गः सशरो धनुष्मान्विनदन्मुहुः॥४०॥
सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा
।
ततः प्रणेदुः पञ्चालाः प्रहृष्टाः साधु साध्विति॥४१॥
हर्षाविष्टांस्ततश्चैतान्नेयं सेहे वसुन्धरा
।
भयापहो राजपुत्रः पञ्चालानां यशस्करः॥४२॥
नेयं सेहे न सोढवती । अयोनिजस्य धृष्टद्युम्नस्य तेजसो दुःसहत्वादिति भावः ॥४२॥
राज्ञः शोकापहो जात एष द्रोणवधाय वै
।
इत्युवाच महद्भूतमदृश्यं खेचरं तदा॥४३॥
कुमारी चापि पाञ्चाली वेदीमध्यात्समुत्थिता
।
सुभगा दर्शनीयाङ्गी स्वसितायतलोचना॥४४॥
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा
।
ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा॥४५॥
मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी
।
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रधावति॥४६॥
अमरवर्णिनी देवकुमारी दुष्टवधायोद्यता दुर्गेत्यर्थः ॥४६॥
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि
।
देवदानवयक्षाणामीप्सितां देवरूपिणीम्॥४७॥
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी
।
सर्वयोषिद्वरा कृष्णा निनीषुः क्षत्रियान्क्षयम्॥४८॥
सुरकार्यमियं काले करिष्यति सुमध्यमा
।
अस्या हेतोः कौरवाणां महदुत्पत्स्यते भयम्॥४९॥
तच्छ्रुत्वा सर्वपञ्चालाः प्रणेदुः सिंहसङ्घवत्
।
न चैतान्हर्षसम्पूर्णानियं सेहे वसुन्धरा॥५०॥
तौ दृष्ट्वा पार्षती याजं प्रपेदे वै सुतार्थिनी
।
न वै मदन्यां जननीं जानीयातामिमाविति॥५१॥
तथेत्युवाच तं याजो राज्ञः प्रियचिकीर्षया
।
तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः॥५२॥
धृष्टत्वादत्यमर्षित्वाद्द्युम्नाद्युत्संभवादपि
।
धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति॥५३॥
धृष्टत्वात् प्रगल्भत्वात् । धृष्णुत्वादिति पाठे पालने शक्तत्वात् । अत्यन्तम् अमर्षः । शत्रूत्कर्षासहिष्णुत्वं तद्वत्त्वात् । द्युम्नं वित्तं तच्च राज्ञां बलमेव कवचकुण्डलादिकं वा सहोत्पन्नं तदादिर्यस्य शस्त्रास्त्रशौर्योत्साहृादेस्तत् द्युम्नादि तस्य उत्संभवात् उत्कर्षेणोत्पत्तेश्च ॥५३॥
कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाऽभूत्सा हि वर्णतः
।
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे॥५४॥
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम्
।
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान्॥५५॥
उपाकरोत् उपकृतवान् । अस्त्रहेतोः अस्त्रदानेन हेतुना राज्यार्धस्य हृतत्वात् तावतैवोपाकरोत् ॥५५॥
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः
।
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात्॥५६॥
कीर्त्यनुरक्षणात् अन्यथा द्रोणो द्वेषात् भयाच्च न विद्यां दत्तवानित्यकीर्तिः स्यात् ॥५६॥
॥ इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि द्रौपदीसंभवे सप्तषष्ट्यधिकशततमोऽध्यायः॥१६७॥
वैशंपायन उवाच।
गते भगवति व्यासे पाण्डवा हृष्टमानसाः
।
ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः॥१॥
सप्तत्यधिकशततमोऽध्यायः गते इति ॥१॥
आमन्त्र्य ब्राह्मणं पूर्वमभिवाद्यनुमान्य च
।
समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परन्तपाः॥२॥
त त्वगच्छन्नहोरात्रा तीर्थं सोमाश्रयायणम्
।
आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः॥३॥
सोमाश्रयः चन्द्रधरो रुद्रः तस्य स्थानं सोमाश्रयायणम् ॥३॥
उल्मुकं तु समुद्यम्य तेषामग्रे धनञ्जयः
।
प्रकाशार्थं ययौ तत्र रक्षार्थं च महारथः॥४॥
उल्मुकं ज्वलत्काष्ठम् ॥४॥
तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन् स्त्रियः
।
ईर्ष्यर्गन्धर्वराजो वै लजक्रीडामुपागतः॥५॥
शब्दं तेषां स शुश्राव नदीं समुपसर्पताम्
।
तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली॥६॥
बलवत् अतिशायितम् ॥६॥
स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परन्तपान्
।
विष्फारयन्धनुर्घोरमिदं वचनमब्रवीत्॥७॥
सन्ध्या संरज्यते घोरा पूर्वरात्रागमेषु या
।
अशीतिभिर्लवैर्हीनं तन्मुहूर्तं प्रचक्षते॥८॥
पूर्वरात्रागमेषु पश्चिमायां दिशि अर्धास्तमितार्कमण्डलरूपायां सन्ध्या संरज्यते रक्ता भवति तस्यां मुहूर्तं प्रस्थानकालं अशीतिभिर्लवैर्निमेषाधैर्हीनं प्रचक्षते ॥८॥
विहितं कामचाराणां यक्षगन्धर्वरक्षसाम्
।
शेषमन्यन्मनुष्याणां कर्मचारेषु वै स्मृतम्॥९॥
तदेव मुहूर्तं यक्षादीनां कर्मचारेषु विहितम् अन्यन्मनुष्याणां कर्मचारेषु स्मृतमित्यन्वयः । सन्ध्यायामशीतिलवोपरि रात्रौ यक्षादीनामेव सञ्चारकालः । अन्यदहर्मनुष्याणामित्यर्थः ॥९॥
लोभात्प्रचारं चरतस्तासु वेलासु वै नरान्
।
उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान्॥१०॥
अतो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः
।
गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि॥११॥
जलं प्राप्नुवतो नरान् ॥११॥
आरात्तिष्ठत मामह्यं समीपमुपसर्पत
।
कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम्॥१२॥
अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम्
।
अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा॥१३॥
अङ्गारपर्णमित्येवं ख्यातं चेदं वनं मम
।
अनुगङ्गं चरन्कामांश्चित्रं यत्र रमाम्यहम्॥१४॥
न कौणपाः शृङ्गिणो वा न देवा न च मानुषाः
।
इदं समुपसर्पन्ति तत्किं समनुसर्पथ॥१५॥
अर्जुन उवाच।
समुद्रे हिमवत्पार्श्वे नद्यामस्या च दुर्मते
।
रात्रावहनि सन्ध्यायां कस्य क्लृप्तः परिग्रहः॥१६॥
यत्तु रात्रौ जलं न स्प्रष्टव्यमित्युक्तं तत्राह समुद्रे इति ॥१६॥
भुक्तो वाप्यथवाऽभुक्तो रात्रावहनि खेचर
।
न कालनियमो ह्यस्ति गङ्गा प्राप्य सरिद्वराम्॥१७॥
वयं च शक्तिसम्पन्ना अकाले त्वामधृष्णुम
।
अशक्ता हि रणे क्रूर युष्मानर्चन्ति मानवाः॥१८॥
अहं हि मानीत्युक्तं तत्राह वयमिति अधृष्णुम धर्षितवन्तः ॥१८॥
पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता
।
गङ्गा गत्वा समुद्राम्भः सप्तधा समपद्यत॥१९॥
सप्तधा वस्वोकसारा नलिनीपावनी सीता चक्षुः सिन्धुरलकनन्देति सप्तधा गत्वा समुद्राम्भः समपद्यतेति योजना ॥१९॥
गङ्गां च यमुनां चैव प्लक्षजातां सरस्वतीम्
।
रथस्थां सरयूं चैव गोमतीं गण्डकीं तथा॥२०॥
अपर्युषितपापास्ते नदीः सप्त पिबन्ति ये
।
इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः॥२१॥
अपर्युषितपापाः निःशेषितपापाः । एकम् आकाशरूपं वप्रं तटं यस्याः सा । ‘तटं वप्रम्’ इति मेदिनी ॥२१॥
देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम्
।
तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः
।
गङ्गा भवति वै प्राप्य कृष्णद्वैपायनोऽब्रवीत्॥२२॥
असम्बाधा देवनदी स्वर्गसंपादनी शुभा
।
कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः॥२३॥
असम्बाधा निःसङ्कटा इतरनदीवत्प्रावृषि रजस्वलात्वेन क्षणमप्यस्पृश्यत्वं न प्राप्नोतीत्यर्थः ॥२३॥
अनिवार्यमसम्बाधं तव वाचा कथं वयम्
।
न स्पृशेम यथाकामं पुण्यं भागीरथीजलम्॥२४॥
वैशंपायन उवाच।
अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम्
।
मुमोच बाणान्निशितानहीनाशीविषानिव॥२५॥
अहीन्सर्पान् आशीविषान्विषदंष्ट्रान् ॥२५॥
उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तरम्
।
व्यपोहत शरांस्तस्य सर्वानेव धनञ्जयः॥२६॥
चर्म छत्राकारम् आयुधपातत्राणम् । व्यपोहत अपसारितवान् ॥२६॥
अर्जुन उवाच।
बिभीषिका वै गन्धर्व नास्त्रज्ञेषु प्रयुज्यते
।
अस्त्रज्ञेषु प्रयुक्तेयं फेनवत्प्रविलीयते॥२७॥
मानुषानतिगन्धर्वान्सर्वान्गन्धर्व लक्षये
।
तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया॥२८॥
मानुषानतिमानुषाधिकान् लक्षयेऽतो दिव्येनास्त्रेण योत्स्ये ॥२८॥
पुराऽस्त्रमिमाग्नेयं प्रादात्किल बृहस्पतिः
।
भरद्वाजाय गन्धर्व गुरुर्मान्यः शतक्रतोः॥२९॥
भरद्वजादग्निवेश्य अग्निवेश्याद्गुरुर्मम
।
साध्विदं मह्यमददद्द्रोणो ब्राह्मणसत्तमः॥३०॥
वैशंपायन उवाच।
इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह
।
प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत्॥३१॥
विरथं विप्लुतं तं तु स गन्धर्वं महाबलः
।
अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम्॥३२॥
विप्लुतं रथाच्युतम् अत एव प्रमूढम् ॥३२॥
शिरोरुहेषु जग्राह माल्यवत्सु धनञ्जयः
।
भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम्॥३३॥
युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी
।
नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती॥३४॥
गन्धर्व्युवाच
।
त्रायस्व मां महाभाग पतिं चेमं विमुञ्च मे
।
गन्धर्वी शरणं प्राप्ता नाम्ना कुम्भीनसी प्रभो॥३५॥
युधिष्ठिर उवाच।
युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम्
।
को निहन्याद्रिपुं तात मुञ्चेमं रिपुसूदन॥३६॥
स्त्री नाथो रक्षिता यस्य तम् ॥३६॥
अर्जुन उवाच।
जीवितं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः
।
प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः॥३७॥
गन्धर्व उवाच।
जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम्
।
न च श्लाघे बलेनाङ्ग न नाम्ना जनसंसदि॥३८॥
अङ्गारवत् भास्वरं दुःस्पर्शं च पणं वाहनं रथो यस्य सोङ्गारपर्णस्तस्य भावस्तत्ताम् ॥३८॥
साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम्
।
गान्धर्व्या माययेच्छामि संयोजयितुमर्जुनम्॥३९॥
लाभं लाभवत्सुखदं सखायम् ॥३९॥
अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः
।
सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम्॥४०॥
संभृता चैव विद्येयं तपसेह मया पुरा
।
निवेदयिष्ये तामद्य प्राणदाय महात्मने॥४१॥
संभृता अर्जिता तपसा ॥४१॥
संस्तम्भयित्वा तरसा जितं शरणमागतम्
।
यो रिपुं योजयेत्प्राणैः कल्याणं किं न सोऽर्हति॥४२॥
प्राणैर्योजयेत् न हन्यात् ॥४२॥
चाक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः
।
ददौ स विश्वावसवे मम विश्वावसुर्ददौ॥४३॥
सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति
।
आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे॥४४॥
यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किंचन
।
तत्पश्येद्यादृशं चेच्छेत्तादृशं द्रष्टुमर्हति॥४५॥
यदिति तत् धर्मिस्वरूपं पश्येत् यादृशं यद्धर्मविशिष्टं सामान्यतो विशेषतश्च सर्वं सर्वावस्थं वस्तु सर्वदा स्वसङ्कल्पानुसारेण पश्येदित्यर्थः॥४५॥
एकपादेन षण्मासान् स्थितो विद्यां लभेदिमाम्
।
अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते॥४६॥
अनुनेष्यामि पश्चात्प्रापयिष्यामि ॥४६॥
विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः
।
अविशिष्टाश्च देवानामनुभावप्रदर्शिनः॥४७॥
विशेषिताः विशिष्टाः अविशिष्टास्तुल्याः । अनुभावस्य आकाशगमनादृश्यत्वादेः प्रदर्शिनः दर्शनशीलाः ॥४७॥
गन्धर्वजानामश्वानामहं पुरुषसत्तम
।
भ्रातृभ्यस्तव तुभ्यं च पृथग्दाता शतं शतम्॥४८॥
देवगन्धर्ववाहास्ते दिव्यवर्णा मनोजवाः
।
क्षीणाक्षीणाभवन्त्येते न हीयन्ते च रंहसः॥४९॥
क्षीणाश्च अक्षीणाश्च क्षीणाक्षीणाः । वृद्धास्तरुणा वा एते न भवन्ति । रंहसो वेगाच्च न हीयन्ते इति नकारानुषङ्गेण योज्यम् । क्षीणाः क्षीणा इति पाठे समर्थाः समर्था इत्यर्थः । ऐश्वर्यार्थस्य क्षयतेः कर्तरि निष्ठायां दैर्घ्यं णत्वं च । एते रंहसो वेगातिशयान्न हीयन्ते अपि तु अधिकमधिकं समर्था भवन्तीत्यर्थः ॥४९॥
पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणम्
।
दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि॥५०॥
अश्वोत्पत्तिमाह चतुर्भिः पुरेति ॥५०॥
ततो भागीकृतो देवैर्वज्रभाग उपास्यते
।
लोके यशोधनं किंचित्सैव वज्रतनुः स्मृता॥५१॥
भागीकृतः शीर्णत्वादनेकधा भूतो वज्रभागस्तेषु तेषु स्थानेषु देवैरुपास्यते । स्थानान्येव सामान्यतो विशेषतश्चाह । लोके इति । यशोधनम् उत्कृष्टं स्पृहणीयं सैव वज्रतनुः वज्रस्य स्वरूपम् । सैवेति विधेयलिङ्गापेक्षया स्त्रीत्वम् । तप्ते पयसिं दध्या नयति सा वैश्वदेव्यामिक्षेतिवत् ॥५१॥
वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम्
।
वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः॥५२॥
ब्राह्मणस्य पाणिः हविः प्रदत्वात् वज्रः । इतरेषामार्त्विज्याभावेन हविःप्रक्षेपानर्हत्वात् । अतः स देवैरुपास्यते । रथो हि देवब्राह्मणद्विषां नाशहेतुत्वाद्वज्रं देवोपास्यम् । दानकर्मणोरपि ब्रह्मक्षत्रप्रीतिकरत्वाद्वज्रत्वम् । तेन वज्रवन्तो ब्राह्मणादयो देवैरुपजीव्यन्तः इत्यर्थः ॥५२॥
क्षत्रवज्रस्य भागेन अवध्या वाजिनः स्मृताः
।
रथाङ्गवडवा सूते शूराश्चाश्वेषु ये मताः॥५३॥
प्रकृते किमायातं तदाह । क्षत्रेति । क्षत्रवज्रं रथः तस्य भागेन अंशत्वेन । अवध्याः । अवधिभूताः । वाजिनो वेगवन्तः । रथस्य वज्रत्वे अश्वोत्कर्ष एव मुख्यं न ध्वजादिकमित्यर्थः । रथाङ्गं रथचालकम् वडवा अश्वाः । ये शूरास्ते च रथाङ्गम् । रथिना तुल्याश्व इत्यर्थः ॥५३॥
कामवर्णाः कामजवाः कामतः समुपस्थिताः
।
इति गन्धर्वजाः कामं पूरयिष्यन्ति मे हयाः॥५४॥
स्वीयेष्वश्वेषु विशेषमाह कामेति । गन्धर्वजाःगन्धर्वलोकजाः ॥५४॥
अर्जुन उवाच।
यदि प्रीतेन मे दत्तं संशये जीवितस्य वा
।
विद्याधनं श्रुतं वाऽपि न तद्गन्धर्व रोचये॥५५॥
प्रीतेन दत्तमपि प्रतिप्रदानमन्तरेण न रोचये । ‘ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम्’ इत्युक्तेः । अन्यथा ऋणित्वं मम स्यादिति भावः । पक्षान्तरे तु मम यशोहानिः ॥५५॥
गन्धर्व उवाच।
संयोगो वै प्रीतिकरो महत्सु प्रतिदृश्यते
।
जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते॥५६॥
आद्यं पक्षमादत्ते संयोग इत्यादिना ॥५६॥
त्वत्तोऽप्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम्
।
तथैव योग्यं बीभत्सो चिराय मरतर्षभ॥५७॥
अर्जुन उवाच।
त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शास्वतोऽस्तुनौ
।
सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं भवेत्॥५८॥
युष्मभ्यः युष्मत्तः । यत् यस्माद्धेतोः ॥५८॥
कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः
।
यान्तो वेदविदः सर्वे सन्तो रात्रावरिन्दमाः॥५९॥
गन्धर्व उवाच।
अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः
।
यूयं ततो धर्षिताः स्थ मया वै पाण्डुनन्दनाः॥६०॥
अनग्नयः दारहीनत्वात् । अनाहुतयः समावृतत्वात् । आश्रमविशेषहीनोऽब्राह्मणो धर्षणीय इत्यर्थः ॥६०॥
यक्षराक्षसगन्धर्वाः पिशाचोरगदानवाः
।
विस्तरं कुरुवंशस्य धीमन्तः कथयन्ति ते॥६१॥
नारदप्रभृतीनां तु देवर्षीणां मया श्रुतम्
।
गुणान्कथयतां वीर पूर्वेषां तव धीमताम्॥६२॥
स्वयं चापि मया दृष्टश्चरता सागराम्बराम्
।
इमां वसुमतीं कृत्स्नां प्रभावः सुकुलस्य ते॥६३॥
वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन
।
विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम्॥६४॥
धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा
।
पाण्डुं च कुरुशार्दूल षडेतान्कुरुवर्धनान्
।
पितॄनेतानहं पार्थ देवमानुषसत्तमान्॥६५॥
दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः
।
भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः॥६६॥
उत्तमां च मनोबुद्धिं भवतां भावितात्मनाम्
।
जानन्नपि च वः पार्थ कृतवानिह धर्षणाम्॥६७॥
मनोबुद्धिं मनः सहितां बुद्धिं सङ्कल्पनिश्चयौ । भावितात्मनां शोधितचित्तानाम् ॥६७॥
स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति
।
धर्षणामात्मनः पश्यन्ब्राहुद्रविणमाश्रितः॥६८॥
बाहुद्रविणं बाहुबलम् ॥६८॥
नक्तं च बलमस्माकं भूय एवाभिवर्धते
।
यतस्ततो मां कौन्तेय सदारं मन्युराविशत्॥६९॥
सोऽहं त्वयेह विजितः सङ्ख्ये तापत्यवर्धन
।
येन तेनेह विधिना कीर्त्यमानं निबोध मे॥७०॥
ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि
।
यस्मात्तस्मादहं पार्थ रणेऽस्मि विजितस्त्वया॥७१॥
यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परन्तप
।
नक्तं च युधि युध्येत न स जीवेत्कथंचन॥७२॥
कामवृत्तः कृतदारः ॥७२॥
यस्तु स्यात्कामवृत्तोऽपि पार्थ ब्रह्मपुरस्कृतः
।
जयेन्नक्तञ्चरान्सर्वान्सपुरोहितधूर्गतः॥७३॥
तस्मात्तापत्य यत्किंचिन्नृणां श्रेय इहेप्सितम्
।
तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः॥७४॥
वेदे षडङ्गे निरताः शुचयः सत्यवादिनः
।
धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः॥७५॥
जयश्च नियतो राज्ञः स्वर्गश्च तदनन्तरम्
।
यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवान् शुचिः॥७६॥
लाभं लब्धुमलब्धं वा लब्धं वा परिरक्षितुम्
।
पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम्॥७७॥
लाभं लब्धव्यं धनम् ॥७७॥
पुरोहितमते तिष्ठेद्य इच्छेद्भूतिमात्मनः
।
प्राप्तुं वसुमतीं सर्वां सर्वशः सागराम्बराम्॥७८॥
न हि केवलशौर्येण तापत्याभिजनेन च
।
जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित्॥७९॥
तस्मादेवं विजानीहि कुरूणां वंशवर्धन
।
ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम्॥८०॥
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि गन्धर्वपराभवे सप्तत्यधिकशततमोऽध्यायः॥१७०॥
अर्जुन उवाच।
तापत्य इति यद्वाक्यमुक्तवानसि मामिह
।
तदहं ज्ञातुमिच्छामि तापत्यार्थं विनिश्चितम्॥१॥
एकसप्तत्यधिकशततमोऽध्यायः पुरोहितप्रसादादेव तापत्यत्वं ख्यापयितुं तापत्येति सम्बोधनं कृतं तदर्थं पृच्छति । तापत्य इति । तापत्यार्थे तापत्यपदार्थम् ॥१॥
तपती नाम का चैषा तापत्या यत्कृते वयम्
।
कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम्॥२॥
वैशंपायन उवाच।
एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनञ्जयम्
।
विश्रुतं त्रिषु लोकेषु श्रावयामास वै कथाम्॥३॥
गन्धर्व उवाच।
हन्त ते कथयिष्यामि कथामेतां मनोरमाम्
।
यथावदखिलां पार्थ सर्वबुद्धिमतां वर॥४॥
उक्तवानस्मि येन त्वां तापत्य इति यद्वचः
।
तत्तेऽहं कथयिष्यामि शृणुष्वैकमना भव॥५॥
य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा
।
एतस्य तपती नाम बभूव सदृशी सुता॥६॥
धिष्ण्येन मण्डलेन ॥६॥
विवस्वतो वै देवस्य सावित्र्यवरजा विभो
।
विश्रुता त्रिषु लोकेषु तपती तपसा युता॥७॥
न देवी नासुरी चैव न यक्षी न च राक्षसी
।
नाप्सरा न च गन्धर्वी तथा रूपेण काचन॥८॥
सुविभक्ताऽनवद्याङ्गी स्वसितायतलोचना
।
स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी॥९॥
त तस्याः सदृशं कंचित्त्रिषु लोकेषु भारत
।
भर्तारं सविता मेने रूपशीलगुणश्रुतैः॥१०॥
संप्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम्
।
नोपलेभे ततः शान्तिं संप्रदानं विचिन्तयन्॥११॥
अथर्क्षपुत्रः क्रान्तेय कुरूणामृषभो बली
।
सूर्यमाराधयामास नृपः संवरणस्तदा॥१२॥
अर्ध्यमाल्योपहाराद्यैर्गन्धैश्च नियतः शुचिः
।
नियमैरुपवासैश्च तपोभिर्विविधैरपि॥१३॥
सुश्रूषुरनहंवादी शुचिः पौरवनन्दन
।
अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान्॥१४॥
ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि
।
तपत्याः सदृशं मेने सूर्यः संवरणं पतिम्॥१५॥
दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम्
।
नृपोत्तमाय कौरव्य विश्रुताभिजनाय च॥१६॥
यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा
।
तथा भुवि महिपालो दीप्त्या संवरणोऽभवत्॥१७॥
यथाऽर्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः
।
तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः॥१८॥
स सोममतिकान्तत्वादादित्यमति तेजसा
।
बभूव नृप्रतिः श्रीमान्सुहृदां दुर्हृदामपि॥१९॥
सुहृदां दुर्हृदामपि मध्ये श्रीमान् ॥१९॥
एवंगुणस्य नृपतेस्तथावृत्तस्य कौरव
।
तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम्॥२०॥
स कदाचिदथो राजा श्रीमानमितविक्रमः
।
चचार मृगयां पार्थ पर्वतोपवने किल॥२१॥
चरतो मृगयां तस्य क्षुत्पिपासासमन्वितः
।
ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः॥२२॥
स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः
।
ददर्शासदृशीं लोके कन्यामायतलोचनाम्॥२३॥
स एक एकामासाद्य कन्यां परबलार्दनः
।
तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः॥२४॥
स हि तां तर्कयामास रूपतो नृपतिः श्रियम्
।
पुनः संतर्कयामास रवेर्भ्रष्टामिव प्रभाम्॥२५॥
वपुषा वर्चसा चैव शिखामिव विभावसोः
।
प्रसन्नत्वेन कान्त्या च चन्द्ररेखामिवामलाम्॥२६॥
गिरिपृष्ठे तु सा यस्मिन्स्थिता स्वसितलोचना
।
विभ्राजमाना शुशुभे प्रतिमेव हिरण्मयी॥२७॥
तस्या रूपेण स गिरिर्वेषेण च विशेषतः
।
स सवृक्षक्षुपलतो हिरण्मय इवाभवत्॥२८॥
क्षुपः गुल्मः ’ह्रस्वशाखा शिफः क्षुपः’ इत्यमरः ॥२८॥
अवमेने च तां दृष्ट्वा सर्वलोकेषु योषितः
।
अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम्॥२९॥
जन्मप्रभृति यत्किचिंद्दृष्टवान्स महीपतिः
।
रूपं न सदृशं तस्यास्तर्कयामास किंचन॥३०॥
तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा
।
न चचाल ततो देशाद्बुबुधे न च किंचन॥३१॥
अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम्
।
लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम्॥३२॥
एवं संतर्कयामास रूपद्रविणसंपदा
।
कन्यामसदृशीं लोके नृपः संवरणस्तदा॥३३॥
तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः
।
जगाम मनसा चिन्तां कामबाणेन पीडितः॥३४॥
दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना
।
अप्रगल्भां प्रगल्भस्तां तदोवाच मनोहराम्॥३५॥
काऽसि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि
।
कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते॥३६॥
त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता
।
विभूषणमिवैतेषां भूषणानामभीप्सितम्॥३७॥
न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम्
।
न च भोगवतीं मन्ये न गन्धवीं न मानुषीम्॥३८॥
या हि दृष्ट्वा मया काश्चिच्छ्रुता वाऽपि वराङ्गनाः
।
न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि॥३९॥
मत्तेवकाशत इति मत्तकाशिनी ॥३९॥
दृष्ट्वैव चारुवदने चन्द्रात्कान्ततरं तव
।
वदनं पद्मपत्राक्षं मां मथ्नातीव मन्मथः॥४०॥
एवं तां स महीपालो बभाषे न तु सा तदा
।
कामार्तं निर्जनेऽरण्ये प्रत्यबाषथ किंचन॥४१॥
ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा
।
सौदामिनीव चाभ्रेषु तत्रैवान्तरधीयत॥४२॥
तामन्वेष्टुं स नृपतिः परिचक्राम सर्वतः
।
वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा॥४३॥
वनजपत्राक्षीं जलजपत्राक्षीम् ॥४३॥
अपश्यमानः स तु तां बहु तत्र विलप्य च
।
निश्चेष्टः पार्थिवश्रेष्ठो मुहूर्तं स व्यतिष्ठत॥४४॥
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि तपत्युपाख्याने एकसप्तत्यधिकशततमोऽध्यायः॥१७१॥
गन्धर्व उवाच।
अथ तस्यामदृश्यायां नृपतिः काममोहितः
।
पातनः शत्रुसङ्घानां पपात धरणीतले॥१॥
द्विसप्तत्यधिकशततमोऽध्यायः अथेति ॥१॥
तस्मिन्निपतिते भूमावथ सा चारुहासिनी
।
पुनः पीनायतश्रोणी दर्शयामास तं नृपम्॥२॥
अथाबभाषे कल्याणी वाचा मधुरया नृपम्
।
तं कुरूणां कुलकरं कामाभिहतचेतसम्॥३॥
उवाच मधुरं वाक्यं तपती हसतीव सा
।
उत्तिष्ठोत्तिष्ठ भद्रं ते न त्वमर्हस्यरिन्दम॥४॥
प्रहसन् अन्य इव ॥४॥
मोहं नृपतिशार्दूल गन्तुमाविष्कृतः क्षितौ
।
एवमुक्तोऽथ नृपतिर्वाचा मधुरया तदा॥५॥
आविष्कृतः प्रख्यात स्त्रीलिङ्गपाठे तु आविर्भूतास्मि ॥५॥
ददर्श विपुलश्रोणीं तामेवाभिमुखे स्थिताम्
।
अथ तामसितापाङ्गीमाबभाषे स पार्थिवः॥६॥
मन्मथाग्निपरीतात्मा सन्दिग्धाक्षरया गिरा
।
साधु त्वमसितापाङ्गि कामार्तं मत्तकाशिनि॥७॥
भजस्व भजमानं मां प्राणा हि प्रजहन्ति माम्
।
त्वदर्थं हि विशालाक्षि मामयं निशितैः शरैः॥८॥
प्रजहन्ति प्रजहति ॥८॥
कामः कमलगर्भाभे प्रतिविध्यन्न शाम्यति
।
दष्टमेवमनाक्रन्दे भद्रे काममहाहिना॥९॥
अनाक्रन्दे अत्रातरि काले । ‘आक्रन्दः क्रन्दने ह्वाने मित्रदारुणयुद्धयोः । त्रातर्यपि च पुंसि स्यात्’ इति मेदिनी ॥९॥
सा त्वं पीनायतश्रोणी मामाप्नुहि वरानने
।
त्वदधीना हि मे प्राणाः किन्नरोद्गीतभाषिणि॥१०॥
चारुसर्वानवद्याङ्गि पद्मेन्दुप्रतिमानने
।
न ह्यहं त्वदृते भीरु शक्ष्यामि खलु जीवितुम्॥११॥
कामः कमलपत्राक्षि प्रतिविध्यति मामयम्
।
तस्मात्कुरु विशालाक्षि मय्यनुक्रोशमङ्गने॥१२॥
भक्तं मामसितापाङ्गि न परित्यक्तुमर्हसि
।
त्वं हि मां प्रीतियोगेन त्रातुमर्हसि भामिनि॥१३॥
त्वद्दर्शनकृतस्नेहं मनश्चलति मे भृशम्
।
न त्वां दृष्ट्वा पुनश्चान्यां द्रष्टुं कल्याणि रोचते॥१४॥
रोचते रुचिर्भवति ॥१४॥
प्रसीद वशगोऽहं ते भक्तं मां भज भाविनि
।
दृष्ट्वैव त्वां वरारोहे मन्मथो भृशमङ्गने॥१५॥
अन्तर्गतं विशालाक्षि विध्यति स्म पतत्त्रिभिः
।
मन्मथाग्निसमुद्भूतं दाहं कमललोचने॥१६॥
प्रीतिसंयोगयुक्ताभिरद्भिः प्रह्लादयस्व मे
।
पुष्पायुधं दुराधर्षं प्रचण्डशरकार्मुकम्॥१७॥
त्वद्दर्शनसमुद्भूतं विध्यन्तं दुःसहैः शरैः
।
उपशामय कल्याणि आत्मदानेन भामिनि॥१८॥
गान्धर्वेण विवाहेन मामुपैहि वराङ्गने
।
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते॥१९॥
तपत्युवाच
।
नाहमीशात्मनो राजन्कन्या पितृमती ह्यहम्
।
मयि चेदस्ति ते प्रीतिर्याचस्व पितरं मम॥२०॥
यथा हि ते मया प्राणाः संगृहीता नरेश्वर
।
दर्शनादेव भूयस्त्वं तथा प्राणान्ममाहरः॥२१॥
भूयः अधिकम् अहरः हृतवानसि ॥२१॥
न चाहमीशा देहस्य तस्मान्नृपतिसत्तम
।
समीपं नोपगच्छामि न स्वतन्त्रा हि योषितः॥२२॥
तर्हि क्रियतां सङ्ग इति चेत्तत्राह । न चेति ॥२२॥
का हि सर्वेषु लोकेषु विश्रुताभिजनं नृपम्
।
कन्या नाभिलषेन्नाथं भार्तारं भक्तवत्सलम्॥२३॥
तस्मादेवं गते काले याचस्व पितरं मम
।
आदित्यं प्रणिपातेन तपसा नियमेन च॥२४॥
स चेत्कामयते दातुं तव मामरिसूदन
।
भविष्याम्यद्य ते राजन्सततं वशवर्तिनी॥२५॥
अहं हि तपती नाम सावित्र्यवरजा सुता
।
अस्य लोकप्रदीपस्य सवितुः क्षत्रियर्षभ॥२६॥
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि तपत्युपाख्याने द्विसप्तत्यधिकशततमोऽध्यायः॥१७२॥
गन्धर्व उवाच।
एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता
।
स तु राजा पुनर्भूमौ तत्रैव निपपात ह॥१॥
त्रिसप्तत्यधिकशततमोऽध्यायः एवमिति ॥१॥
अन्वेषमाणः सबलस्तं राजानं नृपोत्तमम्
।
अमात्यः सानुयात्रश्च तं ददर्श महावने॥२॥
अनुयात्रः शिबिरभाण्डाद्याहर्तृभिः | सहितः सानुयात्रः ॥२॥
क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम्
।
तं हि दृष्ट्वा महेष्वासं निरस्तं पतितं भुवि॥३॥
निरस्तं तपत्या त्यक्तम् ॥३॥
बभूव सोऽस्य सचिवः संप्रदीप्त इवाग्निना
।
त्वरया चोपसङ्गम्य स्नेहादागतसंभ्रमः॥४॥
आगतसंभ्रमः जातभयः ॥४॥
तं समुत्थापयामास नृपतिं काममोहितम्
।
भूतलाद्भूमिपालेशं पितेव पतितं सुतम्॥५॥
प्रज्ञया वयसा चैव वृद्धः कीर्त्या नयेन च
।
अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः॥६॥
उवाच चैनं कल्याण्या वाचा मधुरयोत्थिम्
।
मा भैर्मनुजशार्दूल भद्रमस्तु तवानघ॥७॥
क्षुत्पिपासापरिश्रान्तं तर्कयामास वै नृपम्
।
पतितं पातनं सङ्ख्ये शात्रवाणां महीतले॥८॥
वारिणा च सुशीतेन शिरस्तस्याभ्यषेचयत्
।
अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना॥९॥
पुण्डरीकयुक्तेन सुगन्धिना । उशीरमूलेन निर्मितं मुकुटं दाहापनयनार्थे राज्ञः शिरसि निहितमात्रम् अस्फुटत् विशीर्णं सद्यः शुष्कमभूदित्यर्थः । पाठान्तरे स्पष्टोर्थः ॥९॥
ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः
।
सर्वं विसर्जयामास तमेकं सचिवं विना॥१०॥
बलं सैन्यम् ॥१०॥
ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम्
।
स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत्॥११॥
गिरिप्रस्थे शैलशिखरे ॥११॥
ततस्तस्मिन्गिरिवरे शुचिर्भूत्वा कृताञ्जलिः
।
आरिराधयिषुः सूर्यं तस्थावूर्ध्वमुखः क्षितौ॥१२॥
जगाम मनसा चैव वसिष्ठमृषिसत्तमम्
।
पुरोहितममित्रघ्नं तदा संवरणो नृपः॥१३॥
नक्तं दिनमथैकत्र स्थिते तस्मिञ्जनाधिपे
।
अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि॥१४॥
द्वादशमे द्वादशसंख्ययामिते ॥१४॥
स विदित्वैव नृपतिं तपत्या हृतमानसम्
।
दिव्येन विधिना ज्ञात्वा भावितात्मा महानृपिः॥१५॥
दिव्येन विधिना योगबलेन ॥१५॥
तथा तु नियतात्मानं तं नृपं मुनिसत्तमः
।
आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया॥१६॥
स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः
।
ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः॥१७॥
पश्यतः सतः पश्यतोर्थे वा ॥१७॥
सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः
।
वसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत्॥१८॥
तमुवाच महातेजा विवस्वान्मुनिसत्तमम्
।
महर्षे स्वागतं तेऽस्तु कथयस्व यथेप्सितम्॥१९॥
यदिच्छसि महाभाग मत्तः प्रवदतां वर
।
तत्ते दद्यामभिप्रेतं यद्यपि स्यात्सुदुष्करम्॥२०॥
एवमुक्तः स तेनर्षिर्वसिष्ठः प्रत्यभाषत
।
प्रणिपत्य विवस्वन्तं भानुमन्तं महातपाः॥२१॥
वसिष्ठ उवाच।
यैषा ते तपती नाम सावित्र्यवरजा सुता
।
तां त्वां संवरणस्यार्थे वरयामि विभावसो॥२२॥
स हि राजा बृहत्कीर्तिर्धर्मार्थविदुदारधीः
।
युक्तः संवरणो भर्ता दुहितुस्ते विहङ्गम॥२३॥
विहङ्गम हे खेचर ॥२३॥
इत्युक्तः स तदा तेन ददानीत्येव निश्चितः
।
प्रत्यभाषत तं विप्रं प्रतीनन्द्य दिवाकरः॥२४॥
वरः संवरणो राज्ञां त्वमृषीणां वरो मुने
।
तपती योषितां श्रेष्ठा किमन्यत्रापवर्जनात्॥२५॥
किमन्यत् श्रेष्ठम् । अपवर्जनात् दानात् ॥२५॥
ततः सर्वानवद्याङ्गीं तपतीं तपनः स्वयम्
।
ददौ संवरणस्यार्थे वसिष्ठाय महात्मने॥२६॥
प्रतिजग्राह तां कन्यां महर्षिस्तपतीं तदा
।
वसिष्ठोऽथ विसृष्टस्तु पुनरेवाजगाम ह॥२७॥
यत्र विख्यातकीर्तिः स कुरूणामृषभोऽभवत्
।
स राजा मन्मथाविष्टस्तद्गतेनान्तरात्मना॥२८॥
दृष्ट्वा च देवकन्यां तां तपतीं चारुहासिनीम्
।
वसिष्ठेन सहायान्तीं संहृष्टोऽभ्यधिकं बभौ॥२९॥
रुरुचे साधिकं सुभ्रूरापतन्ती नभस्तलात्
।
सौदामनीव विभ्रष्टा द्योतयन्ती दिशस्त्विषा॥३०॥
कृच्छ्राद्द्वादशरात्रे तु तस्य राज्ञः समाहिते
।
आजगाम विशुद्धात्मा वसिष्ठो भगवानृषिः॥३१॥
कृच्छ्रात् क्लेशात् द्वादशरात्रसाध्ये समाहिते समाधौ नियमे समाप्ते सति ॥३१॥
तपसाराध्य वरदं देवं गोपतिमीश्वरम्
।
लेभे संवरणो भार्यां वसिष्ठस्यैव तेजसा॥३२॥
गोपतिं सूर्यम् ॥३२॥
ततस्तस्मिन्गिरिश्रेष्ठे देवगन्धर्वसेविते
।
जग्राह विधिवत्पाणिं तपत्याः स नरर्षभः॥३३॥
वसिष्ठेनाभ्यनुज्ञातस्तस्मिन्नेव धराधरे
।
सोऽकामयत राजर्षिर्विहर्तुं सह भार्यया॥३४॥
ततः पुरे च राष्ट्रे च वनेषूपवनेषु च
।
आदिदेश महीपालस्तमेव सचिवं तदा॥३५॥
नृपतिं त्वभ्यनुज्ञाप्य वसिष्ठोऽथापचक्रमे
।
सोऽथ राजा गिरौ तस्मिन्विजहारामरो यथा॥३६॥
ततो द्वादशवर्षाणि काननेषु वनेषु च
।
रेमे तस्मिन्गिरौ राजा तयैव सह भार्यया॥३७॥
तस्य राज्ञः पुरे तस्मिन्समा द्वादश सत्तम
।
न ववर्ष सहस्राक्षो राष्ट्रे चैवास्य भारत॥३८॥
न ववर्ष राज्ञः कामासक्त्या वार्षिकज्योतिष्टोमादिक्रियालोपात् ॥३८॥
ततस्तस्यामनावृष्ट्यां प्रवृत्तायामरिन्दम
।
प्रजाः क्षयमुपाजग्मुः सर्वाः सस्थाणुजङ्गमाः॥३९॥
तस्मिंस्तथाविधे काले वर्तमाने सुदारुणे
।
नावश्यायः पपातोर्व्यां ततः सस्यानि नारुहन्॥४०॥
अवश्यायः नीहारोऽपि न पपात कुतो दृष्टिरित्यर्थः ॥४०॥
ततो विभ्रान्तमनसो जनाः क्षुद्भयपीडिताः
।
गृहाणि संपरित्यज्य बभ्रमुः प्रदिशो दिशः॥४१॥
ततस्तस्मिन्पुरे राष्ट्रे त्यक्तदारपरिग्रहाः
।
परस्परममर्यादाः क्षुधार्ता जघ्निरे जनाः॥४२॥
तत्क्षुधार्तैर्निराहारैः शवभूतैस्तथा नरैः
।
अभवत्प्रेतराजस्य पुरं प्रेतैरिवावृतम्॥४३॥
तत् तदा शवभूतैः मृतसदृशैः ॥४३॥
ततस्तत्तादृशं दृष्ट्वा स एव भगवानृषिः
।
अभ्यवर्षत धर्मात्मा वसिष्ठो मुनिसत्तमः॥४४॥
तं च पार्थिवशार्दूलमानयामास तत्पुरम्
।
तपत्या सहितं राजन्व्युषितं शाश्वतीः समाः॥
ततः प्रवृष्टस्तत्रासीद्यथापूर्वं सुरारिहा॥४५॥
तस्मिन्नृपतिशार्दूले प्रविष्टे नगरं पुनः
।
प्रववर्ष सहस्राक्षः सस्यानि जनयन्प्रभुः॥४६॥
ततः सराष्ट्रं मुमुदे तत्पुरं परया मुदा
।
तेन पार्थिवमुख्येन भावितं भावितात्मना॥४७॥
ततो द्वादशवर्षाणि पुनरीजे नराधिपः
।
तपत्या सहितः पत्न्या यथा शच्या मरुत्पतिः॥४८॥
गन्धर्व उवाच।
एवमासीन्महाभागा तपती नाम पौर्विकी
।
तव वैवस्वती पार्थ तापत्यस्त्वं यया मतः॥४९॥
तस्यां संजनयामास कुरुं संवरणो नृपः
।
तपत्यां तपतां श्रेष्ठ तापत्यस्त्वं ततोऽर्जुन॥५०॥
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि तपत्युपाख्यानसमाप्तौ त्रिसप्तत्यधिकशततमोऽध्यायः॥१७३॥
अर्जुन उवाच ।
किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः
।
वसतोराश्रमे दिव्ये शंस नः सर्वमेव तत् ॥१॥
पञ्चसप्तत्यधिकशततमोऽध्यायः किंनिमित्तमिति ॥१॥
गन्धर्व उवाच ।
इदं वासिष्ठमाख्यानं पुराणं परिचक्षते
।
पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे ॥२॥
कान्यकुब्जे महानासीत्पार्थिवो भरतर्षभ
।
गाधीति विश्रुतो लोके कुशिकस्यात्मसंभवः ॥३॥
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः
।
विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः ॥४॥
स चचार सहामात्यो मृगयां गहने वने
।
मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु ॥५॥
मरुधन्वसु मरुसंज्ञकेष्वल्पजलप्रदेशेषु । ‘धन्वा तु मरुदेशे ना क्लीबे चापे स्थलेपि च’ इति मेदिनी ॥५॥
व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः
।
आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति ॥६॥
व्यायामकर्शितः श्रमेण म्लानः ॥६॥
तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः
।
विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया ॥७॥
श्रेष्ठभाक्पूज्यपूजकः ॥७॥
पाद्यार्घ्याचमनीयैस्तं स्वागतेन च भारत
।
तथैव परिजग्राह वन्येन हविषा तदा ॥८॥
परिजग्राह निमन्त्रितवान् ॥८॥
तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः
।
उक्ता कामान्प्रयच्छेति सा कामान्दुह्यते सदा ॥९॥
ग्राम्यारण्याश्चौषधीश्च दुदुहे पय एव च
।
षड्रसं चामृतनिभं रसायनमनुत्तमम् ॥१०॥
ग्राम्या व्रीह्यादयः । आरण्या नीवारादयः । षड्रसाः मधुरादयः । रसायनं दिव्यदेहतापादकम् ॥१०॥
भोजनीयानि पेयानि भक्ष्याणि विविधानि च
।
लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुन ॥११॥
पेयानि क्षीरादीनि भक्ष्याणि दन्तैरवखण्डनीयान्यपूपादीनि । लेह्यानि पायसादीनि । चोष्याणि इक्षुकाण्डादीनि ॥११॥
रत्नानि च महार्हाणि वासांसि विविधानि च
।
तैः कामैः सर्वसंपूर्णैः पूजितश्च महीपतिः ॥१२॥
सामात्यः सबलश्चैव तुतोष स भृशं तदा
।
षडुन्नतां सुपार्श्वोरुं पृथुपञ्चसमावृताम् ॥१३॥
सबलःससैन्यः।षडुन्नतां षडायताम् । शिरो ग्रीवा सक्थिनी च सास्ना पुच्छमथस्तनाः । शुभान्येतानि धेनूनामायतानि प्रचक्षते । तथा पृथुभिः पञ्चभिरङ्गैः समावृतां युक्ताम् । ललाटं श्रवणौ चैव नयनद्वितयं तथा । पृथून्येतानि शस्यन्ते धेनूनां पञ्चसूरिभिः ॥१३॥
मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम्
।
सुवालधिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् ॥१४॥
मण्डूकस्येव उच्छूने नेत्रे यस्याः । पीनम् ऊधः क्षीराशयो यस्यास्तां पीनोधसम् । सुवालधिं शोभनपुच्छाम् । शूङ्क इव तीक्ष्णाग्रैौ कर्णौ यस्याः सा ॥१४॥
पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्य ताम्
।
अभिनन्द्य स तां राजा नन्दिनीं गाधिनन्दनः ॥१५॥
नन्दिनीं नामतः ॥१५॥
अब्रवीच्च भृशं तुष्टः स राजा तमृषिं तदा
।
अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः ॥१६॥
नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने
।
वसिष्ठ उवाच
।
देवतातिथिपित्रर्थं याज्यार्थं च पयस्विनी ॥१७॥
अदेया नन्दिनीयं वै राज्येनापि तवानघ
।
विश्वामित्र उवाच
।
क्षत्रियोऽहं भवान्विप्रस्तपः स्वाध्यायसाधनः ॥१८॥
ब्राह्मणेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु
।
अर्बुदेन गवां यस्त्वं न ददासि ममेप्सितम् ॥१९॥
स्वधर्मं न प्रहास्यामि नेष्यामि च बलेन गाम्
।
वसिष्ठ उवाच
।
बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः ॥२०॥
यथेच्छसि तथा क्षिप्रं कुरु मा त्वं विचारय
।
गन्धर्व उवाच
।
एवमुक्तस्तथा पार्थ विश्वामित्रो बलादिव॥२१॥
हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम्
।
कशादण्डप्रणुदितां काल्यमानामितस्ततः ॥२२॥
कशादण्डप्रणुदितां कशाघातेन खेदं प्रापिताम् । काल्यमानाम् इतस्ततो निरोध्यमानाम् ॥२२॥
हम्भायमाना कल्याणी वसिष्ठस्याथ नन्दिनी
।
आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी ॥२३॥
भृशं च ताड्यमाना वै न जगामाश्रमात्ततः
।
वसिष्ठ उवाच
।
शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः ॥२४॥
हियसे त्वं बलाद्भद्रे विश्वामित्रेण नन्दिनी
।
किं कर्तव्यं मया तत्र क्षमावान्ब्राह्मणो ह्यहम् ॥२५॥
गन्धर्व उवाच
।
सा भयान्नन्दिनी तेषां बलानां भरतर्षभ
।
विश्वामित्रमयोद्विग्ना वसिष्ठं समुपागमत् ॥२६॥
गौरुवाच ।
कशाग्रदण्डाभिहतां क्रोशन्तीमामनाथवत्
।
विश्वामित्रबलैर्घोरैर्भगवन्किमुपेक्षसे ॥२७॥
गन्धर्व उवाच
।
नन्दिन्यामेवं क्रन्दन्त्यां धर्षितायां महामुनिः
।
न चुक्षुभे तदा धैर्यान्न चचाल धृतव्रतः ॥२८॥
वसिष्ठ उवाच।
क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम्
।
क्षमा मां भजते यस्माद्गम्यतां यदि रोचते ॥२९॥
नन्दिन्युवाच
।
किं नु त्यक्ताऽस्मि भगवन्यदेवं त्वं प्रभाषसे
।
अत्यक्ताऽहं त्वया ब्रह्मन्नेतुं शक्या न वै बलात्॥३०॥
वसिष्ठ उवाच।
न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते
।
दृढेन दाम्ना बध्वैष वत्सस्ते ह्रियते बलात् ॥३१॥
गन्धर्व उवाच
।
स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी
।
ऊर्ध्वाश्चितशिरोग्रीवा प्रबभौ रौद्रदर्शना ॥३२॥
क्रोधरक्तेक्षणा सा गौर्हम्भारवघनस्वना
।
विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः ॥३३॥
कशाग्रदण्डाभिहता काल्यमाना ततस्ततः
।
क्रोधरक्तेक्षणा क्रोधं भूय एव समाददे ॥३४॥
आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ
।
अङ्गारवर्षं मुञ्चन्ती मुहुर्बालचितो महत् ॥३५॥
असृजत्पह्लवान्पुच्छात्प्रस्नवाद्द्राविडाञ्छकान्
।
योनिदेशाच्च यवनान् शकृतः शबरान्बहून् ॥३६॥
पल्हवादयो म्लेच्छविशेषाः प्रस्नवात् ऊधः प्रदेशात् शकृतः गोमयात् ॥३६॥
मूत्रतश्चासृजत्कांश्चिच्छबरांश्चैव पार्श्वतः
।
पौण्ड्रान्किरातान्यवनान्सिंहला बर्बरान्खसान्॥३७॥
चिबुकांश्च पुलिन्दांश्च चीनान्हूणान्सकेरलान्
।
ससर्ज फेनतः सा गौर्म्लेच्छान्बहुविधानपि ॥३८॥
तैर्विसृष्टैर्महासैन्यैर्नानाम्लेच्छगणैस्तदा
।
नानावरणसंच्छन्नैर्नानायुधधरैस्तथा ॥३९॥
अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः
।
एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः ॥४०॥
अस्त्रवर्षेण महता वध्यमानं बलं तदा
।
प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः ॥४१॥
न च प्राणैर्वियुज्यन्ते केचित्तत्रास्य सैनिकाः
।
विश्वामित्रस्य संक्रुद्धैर्वासिष्ठैर्भरतर्षभ ॥४२॥
सा गौस्तत्सकलं सैन्यं कालयामास दूरतः
।
विश्वामित्रस्य तत्सैन्यं काल्यमानं त्रियोजनम् ॥४३॥
क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत
।
दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा ॥४४॥
विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत्
।
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् ॥४५॥
बलाबलं विनिश्चित्य तप एव परं बलम्
।
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् ॥४६॥
भोगांश्च पृष्ठतः कृत्वा तपस्येव मनोदधे
।
स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा ॥४७॥
विष्टभ्य व्याप्य ॥४७॥
तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप्तवान्
।
अपिबच्च ततः सोममिन्द्रेण सह कौशिकः ॥४८॥
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि वासिष्ठे विश्वामित्रपराभवे पञ्चसप्तत्यधिकशततमोऽध्यायः ॥१७५॥
गन्धर्व उवाच।
कल्माषपाद इत्येवं लोके राजा बभूव ह
।
इक्ष्वाकुवंशजः पार्थ तेजसाऽसदृशो भुवि॥१॥
षट्सप्तत्याधिकशततमोऽध्यायः कल्माषपाद इति । असदृशः नास्ति सदृशस्तुल्यो यस्य सः ॥१॥
स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात्
।
मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः॥२॥
तस्मिन्वने महाघोरे खङ्गांश्च बहुशोऽहनत्
।
हत्वा च सुचिरं श्रान्तो राजा निववृते ततः॥३॥
अकामयत्तं याज्यार्थे विश्वामित्रः प्रतापवान्
।
स तु राजा महात्मानं वासिष्ठमृषिसत्तमम्॥४॥
याज्यार्थे अयं मम याज्यो भवत्वित्येतदर्थम् ॥४॥
तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि
।
अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम्॥५॥
एकायनगतः एकस्यैव अयनं गमनं यत्र तत्र गतः अतिसङ्कुचितमार्गे गत इत्यर्थः ॥५॥
शक्तिं नाम महाभागं वसिष्ठकुलवर्धनम्
।
ज्येष्ठं पुत्रं पुत्रशताद्वसिष्ठस्य महात्मनः॥६॥
अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत्
।
तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा॥७॥
पथो मार्गात् ॥७॥
मम पन्था महाराज धर्म एष सनातनः
।
राज्ञा सर्वेषा धर्मेषु देयः पन्था द्विजातये॥८॥
धर्मः सनातनः राज्ञः पन्था ब्राह्मणेनासमेत्य समेत्य तु ब्राह्मणस्यैव पन्था इत्यादि शास्त्रविहितः ॥८॥
एवं परस्परं तौ तु पथोऽर्थं वाक्यमूचतुः
।
अपसर्पापसर्पेति वागुत्तरमकुर्वताम्॥९॥
ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः
।
नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह॥१०॥
मानात् क्रोधाच्च मुनेर्मार्गात् नापचक्राम अथ हठातिशयानन्तरम् ॥१०॥
अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः
।
जगाम कशया मोहात्तदा राक्षसवन्मुनिम्॥११॥
कशाप्रहाराभिहतस्ततः स मुनिसत्तमः
।
तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः॥१२॥
हंसि राक्षसवद्यस्माद्राजापशद तापसम्
।
तस्मात्त्वमद्यप्रभृति पुरुषादो भविष्यसि॥१३॥
मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम्
।
गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना॥१४॥
ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः
।
वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत॥१५॥
तत इति । एवं विश्वामित्रः स्वविद्याबलात् शक्तिनृपयोर्वैरमुत्पाद्य तं नृपं याज्यं यदा विश्वामित्रोन्वपद्यत तदा तयोर्वैरमासीदित्यर्थः ॥१५॥
तयोर्विवदतोरेवं समीपमुपचक्रमे
।
ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान्॥१६॥
तयोः शक्तिनृपयोर्विवदतो: सतोः ऋषिः राजर्षिः ॥१६॥
ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः
।
ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा॥१७॥
पश्चाद्विश्वामित्रागमनानन्तरम् ऋषिं शक्तिम् ॥१७॥
अन्तर्धाय ततोऽत्मानं विश्वामित्रोऽपि भारत
।
तावुभावतिचक्राम चिकीर्षन्नात्मनः प्रियम्॥१८॥
ततोत्मानं तत आत्मानम् उभौ शक्तिराजानौ अतिचक्राम वञ्चितवान् ॥१८॥
स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः
।
जगाम शरणं शक्तिं प्रसादयितुमर्हयन्॥१९॥
तस्य भावं विदित्वा स नृपतेः कुरुसत्तम
।
विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति॥२०॥
तस्य राज्ञो भावं शक्तिप्रसादनपरं ज्ञात्वा तदन्तरे रक्षः प्रवेशितवान् ॥२०॥
शापात्तस्य तु विप्रर्षेर्विश्वामित्रस्य चाज्ञया
।
राक्षसः किङ्करो नाम विवेश नृपतिं तदा॥२१॥
रक्षसा तं गृहीतं तु विदित्वा मुनिसत्तमः
।
विश्वामित्रोऽप्यपाक्रामत्तस्माद्देशादरिन्दम॥२२॥
ततः स नृपतिस्तेन रक्षसान्तर्गतेन वै
।
बलवत्पीडितः पार्थ नान्वबुद्ध्यत किञ्चन॥२३॥
बलवत् अत्यन्तम् ॥२३॥
ददर्शाथ द्विजः कश्चिद्राजानं प्रस्थितं वनम्
।
अयाचत क्षुधापन्नः समांसं भोजनं तदा॥२४॥
तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा
।
आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तं प्रतिपालयन्॥२५॥
निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम्
।
इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः॥२६॥
ततो राजा परिक्रम्य यथाकामं यथासुखम्
।
निवृत्तोऽन्तःपुरं पार्थ प्रविवेश महामनाः॥२७॥
ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम्
।
उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम्॥२८॥
गच्छामुष्मिन्वनोद्देशे ब्राह्मणो मां प्रतीक्षते
।
अन्नार्थी तं त्वमन्नेन समांसेनोपपादय॥२९॥
गन्धर्व उवाच।
एवमुक्तस्ततः सूदः सोऽनासाद्यामिषं क्वचित्
।
निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः॥३०॥
राजा तु रक्षसाविष्टः सूदमाह गतव्यथः
।
अप्येनं नरमांसेन भोजयेति पुनः पुनः॥३१॥
तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम्
।
गत्वाजहार त्वरितो नरमांसमपेतभीः॥३२॥
एतत्संस्कृत्य विधिवदन्नोपहितमाशु वै
।
तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने॥३३॥
स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः
।
अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः॥३४॥
ब्राह्मण उवाच।
यस्मादभोज्यमन्नं मे ददाति स नृपाधमः
।
तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा॥३५॥
अत्र नरमांसे लोलुपा आसक्तिः ॥३५॥
सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा
।
उद्वेजनीयो भूतानां चरिष्यति महीमिमाम्॥३६॥
गन्धर्व उवाच।
द्विरनुव्याहृते राज्ञः स शापो बलवानभूत्
।
रक्षोबलसमाविष्टो विसंज्ञश्चाभवन्नृपः॥३७॥
ततः स नृपतिश्रेष्ठो रक्षसापहृतेन्द्रियः
।
उवाच शक्तिं तं दृष्ट्वा न चिरादिव भारत॥३८॥
यस्मादसदृशः शापः प्रयुक्तोऽयं मयि त्वया
।
तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं पुरुषानहम्॥३९॥
एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य च
।
शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम्॥४०॥
शक्तिनं तु मृतं दृष्ट्वा विश्वामित्रः पुनःपुनः
।
वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह॥४१॥
स ताञ्च्छक्त्यवरान्पुत्रान्वसिष्ठस्य महात्मनः
।
भक्षयामास संक्रुद्धः सिंहः क्षुद्रमृगानिव॥४२॥
वसिष्ठो घातिताञ्च्छ्रुत्वा विश्वामित्रेण तान्सुतान्
।
धारयामास तं शोकं महाद्रिरिव मेदिनीम्॥४३॥
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः
।
न त्वेव कौशिकोच्छेदं मेने मतिमतां वरः॥४४॥
स मेरुकूटादात्मानं मुमोच भगवानृषिः
।
गिरेस्तस्य शिलायां तु तूलराशाविवापतत्॥४५॥
मुमोच पातयामास आत्मानं देहम् ॥४५॥
न ममार च पातेन स यदा तेन पाण्डव
।
तदाग्निमिद्धं भगवान्संविवेश महावने॥४६॥
तं तदा सुसमिद्धोऽपि न ददाह हुताशनः
।
दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः॥४७॥
स समुद्रमभिप्रेक्ष्य शोकाविष्टो महामुनिः
।
बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदाम्भसि॥४८॥
स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः
।
न ममार यदा विप्रः कथंचित्संशितव्रतः
।
जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति॥४९॥
‘कौशिकः कृत्रिमो विप्रो जघ्नेऽल्पार्थे शतं मुनीन् । जातिविप्रो वसिष्ठस्तु खेदितोपि क्षमापरः’ ॥४९॥
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि वासिष्ठे वसिष्ठशोके षट्सप्तत्यधिकशततमोऽध्यायः॥१७६॥
गन्धर्व उवाच।
ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः
।
निर्जगाम सुदुःखार्तः पुनरप्याश्रमात्ततः॥१॥
सप्तसप्तत्याधिकशततमोऽध्यायः ततो दृष्ट्वेति ॥१॥
सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा
।
वृक्षान्बहुविधान्पार्थ हरन्तीं तीरजान्बहून्॥२॥
अथ चिन्तां समापेदे पुनः कौरवनन्दन
।
अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः॥३॥
ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः
।
तस्या जले महानद्या निममज्ज सुदुःखितः॥४॥
अथ च्छित्त्वा नदी पाशांस्तस्यारिबलसूदन
।
स्थलस्थं तमृषिं कृत्वा विपाशं समवासृजत्॥५॥
उत्ततार ततः पाशैर्विमुक्तः स महानृषिः
।
विपाशेति च नामास्या नद्याश्चक्रे महानृषिः॥६॥
शोकबुद्धिं तदा चक्रे न चैकत्र व्यतिष्ठत
।
सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च॥७॥
दृष्ट्वा स पुनरेवर्षिर्नदीं हैमवतीं तदा
।
चण्डग्राहवतीं भीमां तस्याः स्रोतस्यपातयत्॥८॥
सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा
।
शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता॥९॥
ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना
।
मर्तुं न शक्यमित्युक्त्वा पुवरेवाश्रमं ययौ॥१०॥
स गत्वा विविधाञ्शैलान्देशान्बहुविधांस्तथा
।
अदृशन्त्याख्यया वध्वाथाश्रमेनुसृतोऽभवत्॥११॥
वध्वा स्नुषया ॥११॥
अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम्
।
पृष्ठतः परिपूर्णार्थं षड्मिरङ्गैरलङ्कृतम्॥१२॥
अनुव्रजति कोऽन्वेष स्मामित्येवाथ सोऽब्रवीत्
।
अहमित्यदृश्यन्तीमं सा स्नुषा प्रत्यभाषत
।
शक्तेर्भार्या महाभाग तपोयुक्ता तपस्विनी॥१३॥
वसिष्ठ उवाच।
पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः
।
पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः॥१४॥
अदृश्यन्त्युवाच
।
अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते
।
समाद्वादश तस्येह वेदानभ्यस्यतो मुने॥१५॥
गन्धर्व उवाच।
एवमुक्तस्तया हृष्टो वसिष्ठः श्रेष्ठभागृषिः
।
अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत॥१६॥
ततः प्रतिनिवृत्तः स तया वध्वा सहानघ
।
कल्माषपादमासीनं ददर्श विजने वने॥१७॥
स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत
।
आविष्टो रक्षसोग्रेण इयेषात्तुं तदा मुनिम्॥१८॥
अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः
।
भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत्॥१९॥
असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः
।
प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति दारुणः॥२०॥
तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन
।
त्वदृतेऽद्य महाभाग सर्ववेदविदांवर॥२१॥
पाहि मां भगवन्पापादस्माद्दारुणदर्शनात्
।
राक्षसोऽयमिहात्तुं वै नूनमावां समीहते॥२२॥
वसिष्ठ उवाच।
मा भैः पुत्रि न भेतव्यं राक्षसात्तु कथंचन
।
नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम्॥२३॥
मा भैः मा भैषीः गातिस्थेति सूत्रे भ्य इति बिभेतेरपि ग्रहणपक्षे सिचो लुक् ॥२३॥
राजा कल्माषपादोयं वीर्यवान्प्रथितो भुवि
।
स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः॥२४॥
गन्धर्व उवाच।
तमापतन्तं संप्रेक्ष्य वसिष्ठो भगवानृषिः
।
वारयामास तेजस्वी हुङ्कारेणैव भारत॥२५॥
मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा
।
मोक्षयामास वै शापात्तस्माद्योगान्नराधिपम्॥२६॥
तस्माद्योगात् अभ्युक्षणात् योगजसामर्थ्यात् ॥२६॥
स हि द्वादश वर्षाणि वासिष्ठस्यैव तेजसा
।
ग्रस्त आसीद्ग्रहेणेव पर्वकाले दिवाकरः॥२७॥
प्रागेवैतत्कुतो न कृतमित्यत आह स हीति वसिष्ठस्य शक्तिरूपस्य ॥२७॥
रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत्
।
तेजसा रञ्जयामास न्ध्याभ्रमिव भास्करः॥२८॥
प्रतिलभ्य ततः संज्ञामभिवाद्य कृताञ्जलिः
।
उवाच नृपतिः काले वसिष्ठमृषिसत्तमम्॥२९॥
सौदासोऽहं महाभाग याज्यस्ते मुनिसत्तम
।
अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते॥३०॥
वसिष्ठ उवाच।
वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि वै
।
ब्राह्मणं तु मनुष्येन्द्र माऽवमंस्थाः कदाचन॥३१॥
वृत्तं निष्पन्नम् एतत् यत्त्वया कर्तव्यम् अस्मदिष्टम् । विरुद्धलक्षणया इयमुक्तिः । त्वयैव रक्षोभिभूतेन मम पुत्रशतं भक्षितमिति भावः ॥३१॥
राजोवाच
।
नावमंस्ये महाभाग कदाचिद्ब्राह्मणर्षभान्
।
त्वन्निदेशे स्थितः सम्यक् पूजयिष्याम्यहं द्विजान्॥३२॥
इक्ष्वाकूणां च येनाहमनृणः स्यां द्विजोत्तम
।
तत्त्वत्तः प्राप्तुमिच्छामि सर्ववेदविदां वर॥३३॥
अपत्यमीप्सितं मह्यं दातुमर्हसि सत्तम
।
शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये॥३४॥
गन्धर्व उवाच।
ददानीत्येव तं तत्र राजानं प्रत्युवाच ह
।
वसिष्ठः परमेष्वासं सत्यसन्धो द्विजोत्तमः॥३५॥
ततः प्रतिययौ काले वसिष्ठः सह तेन वै
।
ख्यातां पुरीमिमां लोकेष्वयोध्यां मनुजेश्वर॥३६॥
तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्गतास्तदा
।
विपाप्मानं महात्मानं दिवौकस इवेश्वरम्॥३७॥
सुचिराय मनुष्येन्द्रो नगरीं पुण्यलक्षणाम्
।
विवेश सहितस्तेन वसिष्ठेन महर्षिणा॥३८॥
ददृशुस्तं महीपालमयोध्यावासिनो जनाः
।
पुरोहितेन सहितं दिवाकरमिवोदितम्॥३९॥
स तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः
।
अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः॥४०॥
संसक्तिमृष्टपन्थानं पताकाध्वजशोभितम्
।
मनः प्रह्लादयामास तस्य तत्पुरमुत्तमम्॥४१॥
पन्थानमित्यार्षं पुंस्त्वम् ॥४१॥
तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन
।
अशोभत तदा तेन शक्रेणेवामरावती॥४२॥
ततः प्रविष्टे राजर्षौ तस्मिंस्तत्पुरमुत्तमम्
।
राज्ञस्तस्याज्ञया देवी वसिष्ठमुपचक्रमे॥४३॥
महर्षि: संविदं कृत्वा संबभूव तया सह
।
देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः॥४४॥
संविदम् ऐकमत्यम् । संभभूव मिथुनीबभूव । दिव्येन स्वर्ग्थेण अलौल्येनेत्यर्थः ॥४४॥
ततस्तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः
।
राज्ञाभिवादितस्तेन जगाम मुनिराश्रमम्॥४५॥
दीर्घकालेन सा गर्भं सुषुवे न तु तं यदा
।
तदा देव्यश्मना कुक्षिं निर्बिभेद यशस्विनी॥४६॥
ततोऽपि द्वादशमे वर्षे स जज्ञे पुरषर्षभः
।
अश्मको नाम राजर्षिः पौदन्यं यो न्यवेशयत्॥४७॥
पौदन्यं पुरम् । वौदन्यमिति तु पठितुं युक्तम् । आदिविकारो वा वोदनं निशामनं तदर्हं वोदनमिति भाषायां प्रसिद्धम् ॥४७॥
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि सौदाससुतोत्पत्तौ सप्तसप्तत्यधिकशततमोऽध्यायः॥१७७॥
गन्धर्व उवाच।
आश्रमस्था ततः पुत्रमदृश्यन्ती व्यजायत
।
शक्तेः कुलकरं राजन्द्वितीयमिव शक्तिनम्॥१॥
अष्टसप्तत्यधिकशततमोऽध्यायः आश्रमस्थेति ॥१॥
जातकर्मादिकास्तस्य क्रियाः स मुनिसत्तमः
।
पौत्रस्य भरतश्रेष्ठ चकार भगवान्स्वयम्॥२॥
परासुः स यतस्तेन वसिष्ठः स्थापितो मुनिः
।
गर्भस्थेन ततो लोके पराशर इति स्मृतः॥३॥
परासुरिति । परासोराशासनमवस्थानं येन स पराशरः परा आङ् पूर्वात् शासेर्डरन्प्रत्ययः कल्प्यः ॥३॥
अमन्यत स धर्मात्मा वसिष्ठं पितरं मुनिः
।
जन्मप्रभृति तस्मिंस्तु पितरीवान्ववर्तत॥४॥
स तात इति विप्रर्षिं वसिष्ठं प्रत्यभाषत
।
मातुः समक्षं कौन्तेय अदृश्यन्त्याः परन्तप॥५॥
तातेति परिपूर्णार्थं तस्य तन्मधुरं वचः
।
अदृश्यन्त्यश्रुपूर्णाक्षी शृण्वती तमुवाच ह॥६॥
मा तात तात तातेति ब्रूह्येनं पितरं पितुः
।
रक्षसा भक्षितस्तात तव तातो वनान्तरे॥७॥
मन्यसे यं तु तातेति नैष तातस्तवानघ
।
आर्य एष पिता तस्य पितुस्तव यशस्विनः॥८॥
स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः
।
सर्वलोकविनाशाय मतिं चक्रे महामनाः॥९॥
तं तथा निश्चितात्मानं स महात्मा महातपाः
।
ऋषिर्ब्रह्मविदां श्रष्ठो मैत्रावरुणिरन्त्यधीः॥१०॥
मैत्रावरुणिर्मित्रावरुणयोः पुत्रः अन्त्यधीः अन्ते सिद्धान्ते साध्वी अन्त्याधीर्यस्य सोन्त्यधीः ॥१०॥
वसिष्ठो वारयामास हेतुना येन तच्छृणु
।
वसिष्ठ उवाच।
कृतवीर्य इति ख्यातो बभूव पृथिवीपतिः॥११॥
याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः
।
स तानग्रभुजस्तात धान्येन च धनेन च॥१२॥
सोमान्ते तर्पयामास विपुलेन विशांपतिः
।
तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कथंचन॥१३॥
बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम्
।
भृगूणां तु धनं ज्ञात्वा राजानः सर्व एव ते॥१४॥
याचिष्णवोऽभिजग्मुस्तांस्ततो भार्गवसत्तमान्
।
भूमौ तु निदधुः केचिद्भृगवो धनमक्षयम्॥१५॥
ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम्
।
भृहवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम्॥१६॥
क्षत्रियाणां तदा तात कारणान्तरदर्शनात्
।
ततो महीतलं तात क्षत्रियेण यदृच्छया॥१७॥
खनताधिगतं वित्तं केनच्चिद्धृगुवेश्मनि
।
तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः॥१८॥
अवमन्य ततः क्रोधाद्भृगूंस्ताञ्छरणगतान्
।
निजघ्नुः परमेष्वासाः सर्वांस्तान्निशितैः शरैः॥१९॥
आगर्भादवकृन्तन्तश्चेरुः सर्वां वसुन्धराम्
।
तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा॥२०॥
भृगुपत्न्यो गिरिं दुर्गं हिमवन्तं प्रपेदिरे
।
तासामन्यतमा गर्भं भयाद्दध्रे महौजसम्॥२१॥
ऊरुणैकेन वाभोरूर्भर्तुः कुलविवृद्धये
।
तद्गर्भमुपलभ्याशु ब्राह्मणी या भयार्दिता॥२२॥
तद्गर्भं तस्याः गर्भम् उपलभ्य ब्राह्मणी या काचित् भयार्दिता ज्ञातस्यापि गर्भस्य किमिति गोपनं कृतमिति हेतोर्भीता ॥२२॥
गत्वैका कथयामास क्षत्रियाणामुपह्वरे
।
ततस्ते क्षत्रिया जग्मुस्तं गर्भं हन्तुमुद्यताः॥२३॥
उपहूरे समीपे ॥२३॥
ददृशुर्ब्राह्मणीं तेऽथ दीप्यमानां स्वतेजसा
।
अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह॥२४॥
दुद्रुवुस्तामनिन्दितामिति पाठे हन्तुमिति शेषः ॥२४॥
मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः
।
ततश्चक्षुर्विहीनास्ते गिरिदुर्गेषु बभ्रमुः॥२५॥
ततस्ते मोहमापन्ना राजानो नष्टदृष्टयः
।
ब्राह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम्॥२६॥
ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः
।
ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः॥२७॥
भगवत्याः प्रसादेन गच्छेत्क्षत्रं सचक्षुषम्
।
उपारम्य च गच्छेम सहिताः पापकर्मिणः॥२८॥
उपारम्य पापनिवृत्तिं कृत्वा पापकर्मिणोऽपि वयम् ॥२८॥
सपुत्रा त्वं प्रसादं नः कर्तुमर्हसि शोभने
।
पुनर्दृष्टिप्रदानेन राज्ञः संत्रातुमर्हसि॥२९॥
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वण्यौर्वोपाख्याने अष्टसप्तत्यधिकशततमोऽध्यायः॥१७८॥
ब्राह्मण्युवाच।
नाहं गृह्णामि वस्ताता दृष्टीर्नास्मि रुषान्विता
।
अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः॥१॥
ऊनाशीत्यधिकशततमोऽध्यायः नाहमिति भो ताताः ॥१॥
तेन चक्षूंषि वस्ताता व्यक्तं कोपान्महात्मना
।
स्मरता निहतान्बन्धूनादत्तानि न संशयः॥२॥
आदत्तानि आत्तानि । दददानेस्य रूपम् ॥२॥
गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः
।
तदायमूरुणा गर्भो मया वर्षशतं धृतः॥३॥
षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव ह
।
विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया॥४॥
सोऽयं पितृवधाद्व्यक्तं क्रोधाद्वो हन्तुमिच्छति
।
तेजसा तस्य दिव्येन चक्षूंषि मुषितानि वः॥५॥
तमिमं तात याचध्वमौर्वं मम सुतोत्तमम्
।
अयं वः प्रणिपातेन तुष्टो दृष्टीः प्रमोक्ष्यति॥६॥
तात हे ताताः सम्बोधनार्थो निपातो वायम् ॥६॥
वसिष्ठ उवाच।
एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम्
।
ऊचुः प्रसीदेति तदा प्रसादं च चकार सः॥७॥
अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः
।
स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत॥८॥
ऊरुत उत्पन्न और्व इति निरुक्तिमाह अनेनेति ॥८॥
चक्षूंषि प्रतिलब्द्वा च प्रतिजग्मुस्ततो नृपाः
।
भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम्॥९॥
स चक्रे तात लोकानां विनाशाय महामनाः
।
सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः॥१०॥
आत्मनो मनः सर्वेषाम् अपचितिं कर्तुं प्रवणम् उन्मुखम् इच्छन्स्वमनोपचितिं कर्तुं योजयतीत्यर्थः ॥१०॥
इच्छन्नपचितिं कर्तुं भृगूणां भृगुनन्दनः
।
सर्वलोकविनाशाय तपसा सहतैधितः॥११॥
तापयामास ताँल्लोकान्सदेवासुरमानुषान्
।
तपसोग्रेण महता नन्दयिष्यन्पितामहान्॥१२॥
ततस्तं पितरस्तात विज्ञाय कुलनन्दनम्
।
पितृलोकादुपागम्य सर्व ऊचुरिदं वचः॥१३॥
पितर ऊचुः।
और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक
।
प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः॥१४॥
नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः
।
वधो ह्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम्॥१५॥
आयुषा विप्रकृष्टेन यदा नः खेद आविशत्
।
तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम्॥१६॥
विप्रकृष्टेन अतिदूरगेन बहुना क्षत्रियैर्निमित्तमात्रैः ॥१६॥
निखातं यच्च वै वित्तं केनचिद्गृगुवेश्मनि
।
वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः॥१७॥
किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजोत्तम
।
यदस्माकं धनाध्यक्षः प्रभूतं धनमाहरत्॥१८॥
यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः
।
तदाऽस्माभिरयं दृष्ट उपायस्तात संमतः॥१९॥
आत्महा च पुमांस्तात न लोकाँल्लभते शुभान्
।
ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा निपातितः॥२०॥
आत्महेति । एतेन भृगुपतनादिना मरणं ब्राह्मणेतरविषयं दर्शितम् ॥२०॥
न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि
।
नियच्छेदं मनः पापात्सर्वलोकपराभवात्॥२१॥
मा वधीः क्षत्रियांस्तात न लोकान्सप्त पुत्रक
।
दूषयन्तं तपस्तेजः क्रोधमुत्पतितं जहि॥२२॥
मावधीरिति । क्षत्रियान् तदनियंतृत्वेनानपराधिनः । सप्तलोकान् भूरादींश्च मा वधीः किं तु तपःसंभृतं तेजो दूषयन्तं क्रोधं जहि । पाठान्तरमुपेक्ष्यम् ॥२२॥
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वण्यौर्ववारणे ऊनाशीत्यधिकशततमोऽध्यायः॥१७९॥
और्व उवाच।
उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा
।
सर्वलोकविनाशाय न सा मे वितथा भवेत्॥१॥
अशीत्यधिकशततमोऽध्यायः उक्तवानिति ॥१॥
वृथारोषप्रतिज्ञो वै नाहं जीवितुमुत्सहे
।
अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम्॥२॥
अनिस्तीर्णः अकृतकार्यः ॥२॥
यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति
।
नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम्॥३॥
वृथोत्पन्नः क्रोधो जेतव्यो न तु सकारणक इत्याह यो हीति ॥३॥
अशिष्टानां नियन्ता हि शिष्टानां परिरक्षिता
।
स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्वजिगीषुभिः॥४॥
क्रोधकारणान्याह आशिष्टानामिति स्थाने युक्तम् ॥४ ॥
अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा
।
आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे॥५॥
तद्विपरीतं क्षत्रियाश्चक्रुरित्याह अश्रौषमिति ॥५॥
संहारो हि यदा लोके भृगूणां क्षत्रियाधमैः
।
आगर्भोच्छेदनात्क्रान्तस्तदा मां मन्युराविशत्॥६॥
क्रान्तः उपक्रान्तः ॥६॥
संपूर्णकोशाः किल मे मातरः पितरस्तथा
।
भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम्॥७॥
तर्हि क्षत्रिया एव वध्या न तु लोका इत्यत आह । संपूर्णेति द्वाभ्याम् । कोशो जरायुरूपा मांसपेशी । संपूर्णः कोशो यासां ताः । परिपक्वगर्भा इत्यर्थः । ‘कोशोऽर्थसञ्चये मांसपेश्याम्’ इति विश्वः । संपूर्णशोका इत्यपि पठन्ति । लोकैः सत्यपि सामर्थ्ये मन्मातॄणां त्राणं न कृतमतस्तेऽपि वध्या एवेत्यर्थः ॥७॥
तान्भृगूणां यदा दारान्कश्चिन्नाभ्युपपद्यत
।
माता तदा दधारेयमूरुणैकेन मां शुभा॥८॥
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते
।
तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते॥९॥
एतदेवोपपादयति प्रतिषेद्धेति । प्रतिषेद्धरि सति पापकृदेव नोपलभ्यते । असति तु सर्वोपि पाप एव प्रवर्तत इति श्लोकद्वयार्थः ॥९॥
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित्
।
तिष्ठन्ति बहवो लोकास्तदा पापेषु कर्मसु॥१०॥
जानन्नपि च यः पापं शक्तिमान्न नियच्छति
।
ईशः सन्सोऽपि तेनैव कर्मणा संप्रयुज्यते॥११॥
पापं पापकारिणम् ॥११॥
राजभिश्चेश्वरैश्चैव यदि वै पितरो मम
।
शक्तैर्न शकितास्त्रातुमिष्टं मत्वेह जीवितम्॥१२॥
अत एषामहं क्रुद्धो लोकानामीश्वरो ह्यहम्
।
भवतां च वचो नालमहं समभिवर्तितुम्॥१३॥
ममापि चेद्भवेदेवमीश्वरस्य सतो महत्
।
उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम्॥१४॥
किल्बिषात् अशासनजात् ॥१४॥
यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति
।
दहेदेष च मामेव निगृहीतः स्वतेजसा॥१५॥
भवतां च विजानामि सर्वलोकहितेप्सुताम्
।
तस्माद्विधध्वं यच्छ्रेयो लोकानां मम चेश्वराः॥१६॥
पितर ऊचुः।
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति
।
अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः॥१७॥
आदातुम् उच्छेत्तुम् ॥१७॥
आपोमयाः सर्वरसाः सर्वमापोमयं जगत्
।
तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम॥१८॥
आपोमया इति । कारणीभूतास्वप्सु दग्धासु लोका अपि दग्धप्राया इत्यर्थः ॥१८॥
अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ
।
मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः॥१९॥
एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति
।
न चैवं सामरा लोका गमिष्यन्ति पराभवम्॥२०॥
वसिष्ठ उवाच।
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये
।
उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ॥२१॥
उपयुङ्क्ते भक्षयति ॥२१॥
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः
।
तमग्निमुद्गिरद्वक्त्रात्पिबत्यापो महोदधौ॥२२॥
हयशिरः वडवामुखम् ॥२२॥
तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि
।
पराशरं पराँल्लोकाञ्जानञ्ज्ञानवतां वर॥२३॥
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वण्यौर्वोपाकख्यानेऽशीत्यधिकशततमोऽध्यायः॥१८०॥
गन्धर्व उवाच।
एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना
।
न्ययच्छदात्मनः क्रोधं सर्वलोकपराभवात्॥१॥
एकाशीत्यधिकशततमोऽध्यायः एवमिति ॥१॥
ईजे च स महातेजाः सर्ववेदविदां वरः
।
ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः॥२॥
ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः
।
ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन्॥३॥
न हि तं वारयामास वसिष्ठो रक्षसां वधात्
।
द्वितीयामस्य मा भाङ्क्षं प्रतिज्ञामिति निश्चयात्॥४॥
मा भाङ्क्षं न नाशयेयम् ॥४॥
त्रयाणां पावकानां च सत्रे तस्मिन्महामुनिः
।
आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः॥५॥
तेन यज्ञेन शुभ्रेण हूयमानेन शक्तिजः
।
तद्विदीपितमाकाशं सूर्येणेव घनात्यये॥६॥
शुभ्रेण पापिनां निग्रहान्निर्मलेन । तेन यज्ञेन यज्ञियेन द्रव्येण हूयमानेन ॥६॥
तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे
।
तेजसा दीप्यमानं वै द्वितीयमिव भास्करम्॥७॥
ततः परमदुष्प्रापमन्यैर्ऋषिरुधारधीः
।
समापिपयिषुः सत्रं तमत्रिः समुपागमत्॥८॥
तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुः
।
तत्राजग्मुरमित्रघ्न रक्षसां जीवितेप्सया॥९॥
पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ
।
उवाचेदं वचः पार्थ पराशरमरिन्दमम्॥१०॥
कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक
।
अजानतामदोषाणां सर्वेषां रक्षसां वधात्॥११॥
अपविघ्नं ते सत्रमिति शेषः । अजानतामिति पापमपि कृत्वा नन्दसीति साधिक्षेपप्रश्नः ॥११॥
प्रजोच्छेदमिमं मह्यं न हि कर्तं त्वमर्हसि
।
नैष तात द्विजातीनां धर्मो दृष्टस्तपस्विनाम्॥१२॥
शम एव परो धर्मस्तमाचर पराशर
।
अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर॥१३॥
मह्यं मम ॥१३॥
शक्तिं चापि हि धर्मज्ञं नातिक्रान्तुमिहार्हसि
।
प्रजायाश्च ममोच्छेदं न चैवं कर्तुमर्हसि॥१४॥
शक्तिं चेति । पुत्रदोषेण पिता नश्यतीत्युक्तम् ॥१४॥
शापाद्धि शक्तेर्वासिष्ठ तदा तदुपपादितम्
।
आत्मजेन स दोषेण शक्तिर्नीत इतो दिवम्॥१५॥
शापात् शक्तिना शप्तो राजा शक्तिमेव भक्षितवान् अतः शक्तेरेवायमपराधो न रक्षसामित्यर्थः ॥१५॥
न हि तं राक्षसः कश्चिच्छक्तो भक्षयितुं मुने
।
आत्मनैवात्मनस्तेन दृष्टो मृत्युस्तदाऽभवत्॥१६॥
निमित्तभूतस्तत्रासीद्विश्वामित्रः पराशर
।
राजा कल्माषपादश्च दिवमारुह्य मोदते॥१७॥
मोदते शक्तिः ॥१७॥
ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुने
।
ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः॥१८॥
सर्वमेतद्वसिष्ठस्य विदितं वै महामुने
।
रक्षसां च समुच्छेद एष तात तपस्विनाम्॥१९॥
समुच्छेदे एष त्वं निमित्तभूत इति योजना ॥१९॥
निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन
।
तत्सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते॥२०॥
मुञ्च त्यज ॥२०॥
गन्धर्व उवाच।
एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता
।
तदा समापयामास सत्रं शाक्तो महामुनिः॥२१॥
सर्वराक्षससत्राय संभृतं पावकं तदा
।
उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने॥२२॥
स तत्राद्यापि रक्षांसि वृक्षानश्मन एव च
।
भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि॥२३॥
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वण्यौर्वोपाख्याने एकाशीत्यधिकशततमोऽध्यायः॥१८१॥
अर्जुन उवाच।
राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे
।
कारणं किं पुरस्कृत्य भार्या वै सन्नियोजिता॥१॥
द्व्यशीत्यधिकशततमोऽध्यायः राज्ञेति ॥१॥
जानता वै परं धर्मं वसिष्ठेन महात्मना
।
अगम्यागमनं कस्मात्कृतं तेन महर्षिणा॥२॥
अगम्या स्नुषातुल्यत्वात् ॥२॥
अधर्मिष्ठं वसिष्ठेन कृतं चापि पुरा सखे
।
एतन्मे संशयं सर्वं छेत्तुमर्हसि पृच्छतः॥३॥
गन्धर्व उवाच।
धनञ्जय निबोधेयं यन्मां त्वं परिपृच्छसि
।
वसिष्ठं प्रति दुर्धर्ष तथा मित्रसहं नृपम्॥४॥
कथितं ते मया सर्वं यथा शप्तः स पार्थिवः
।
शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना॥५॥
स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः
।
निर्जगाम पुराद्राजा सहदारः परन्तपः॥६॥
अरण्यं निर्जनं गत्वा सदारः परिचक्रमे
।
नानामृगगणाकीर्णं नानासत्वसमाकुलम्॥७॥
नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम्
।
अरण्यं घोरसन्नादं शापग्रस्तः परिभ्रमन्॥८॥
स कदाचित्क्षुधाविष्टो मृगयन्भक्ष्यमात्मनः
।
ददर्श सुपरिक्लिष्टः कस्मिंश्चिन्निर्जने वने॥९॥
ब्राह्मणं ब्राह्मणीं चैव मिथुनायोपसंगतौ
।
तौ तं वीक्ष्य सुवित्रस्तावकृतार्थौ प्रधावितौ॥१०॥
अकृतार्थौ अकृतपुत्रत्वात् ॥१०॥
तयोः प्रद्रवतोर्विप्रं जग्राह नृपतिर्बलात्
।
दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत॥११॥
शृणु राजन्मम वचो यत्त्वां वक्ष्यामि सुव्रत
।
आदित्यवंशप्रभवस्त्वं हि लोके परिश्रुतः॥१२॥
अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः
।
शापोपहतदुर्धर्ष न पापं कर्तुमर्हसि॥१३॥
ऋतुकाले तु संप्राप्ते भर्तृव्यसनकर्शिता
।
अकृतार्था ह्यहं भर्त्रा प्रसवार्थं समागता॥१४॥
प्रसीद नृपतिश्रेष्ठ भर्ताऽयं मे विसृज्यताम्
।
एवं विक्रोशमानायास्तस्यास्तु न नृशंसवत्॥१५॥
भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम्
।
तस्याः क्रोधाभिभूताया यान्यश्रूण्यपतन्भुवि॥१६॥
सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत्
।
ततः सा शोकसंतप्ता भर्तृव्यसनकर्शिता॥१७॥
कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा
।
यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत्॥१८॥
प्रेक्षन्त्या भक्षितो मेऽद्य प्रियो भर्ता महायशाः
।
तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः॥१९॥
पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम्
।
यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः॥२०॥
तेन संगम्यते भार्या तनयं जनयिष्यति
।
सते वंशकरः पुत्रो भविष्यति नृपाधम॥२१॥
एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा
।
तस्यैव सन्निधौ दीप्तं प्रविवेश हुताशनम्॥२२॥
वसिष्ठश्च महाभागः सर्वमेतदवैक्षत
।
ज्ञानयोगेन महता तपसा च परन्तप॥२३॥
मुक्तशापश्च राजर्षिः कालेन महता ततः
।
ऋतुकालेऽभिपतितो मदयन्त्या निवारितः॥२४॥
मदयन्त्या महिष्या ॥२४॥
न हि सस्मार स नृपस्तं शापं काममोहितः
।
देव्याः सोऽथ वचः श्रुत्वा संभ्रान्तो नृपसत्तमः॥२५॥
तं शापमनुसंस्मृत्य पर्यतप्यद्भृशं तदा
।
एतस्मात्कारणाद्राजा वसिष्ठं संन्ययोजयत्
।
स्वदारेषु नरश्रेष्ठ शापदोषसमन्वितः॥२६॥
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि वसिष्ठोपाख्याने द्व्यशीत्यधिकशततमोऽध्यायः॥१८२॥