अनुक्रमणिकापर्व - १पर्वसंग्रहपर्व - २पौष्यपर्व - ३पौलोमपर्व। - ४आस्तिकपर्व - ५अंशावतरणपर्व - ६सम्भवपर्व - ७जतुगृहपर्व । - ८हिडिम्बवधपर्व - ९बकवधपर्व - १०चैत्ररथपर्व । - ११स्वयंवरपर्व - १२वैवाहिकपर्व - १३विदुरागमनराज्यालंभपर्व - १४अर्जुनवनवासपर्व - १५सुभ्रद्राहरणपर्व। - १६हरणाहरणपर्व। - १७खाण्डवदाहपर्व - १८मयदर्शनपर्व - १९

स्वयंवरपर्व

चतुरशीत्यधिकशततमोऽध्यायः

वैशंपायन उवाच। ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः ।
प्रययुर्द्रौपदीं द्रष्टुं तं च देशं महोत्सवम्॥१॥

चतुरशीत्यधिकशततमोऽध्यायः ततस्ते इति ॥१॥

ते प्रयाता नरव्याघ्राः सह मात्रा परंतपाः ।
ब्राह्मणान्ददृशुर्मार्गे गच्छतः संगतान्बहून्॥२॥

त ऊचुर्ब्राह्मणा रजन्पाण्डवान्ब्रह्मचारिणः ।
भवन्तो गमिष्यन्ति कुतो वाऽभ्यागता इह॥३॥

युधिष्ठिर उवाच । आगतानेकचक्रायाः सोदर्यानेकचारिणः ।
भवन्तो वै विजानन्तु सह मात्रा द्विजर्षभाः॥४॥

ब्राह्मणा ऊचुः। गच्छताद्यैव पञ्चालान्द्रुपदस्य निवेशने ।
स्वयंवरो महांस्तत्र भाविता सुमहाधनः॥५॥

एकसार्थप्रयाताः स्म वयं तत्रैव गामिनः ।
तत्र ह्यद्भुतसंकाशी भाविता सुमहोत्सवः॥६॥

यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः ।
वेदीमध्यात्समुत्पन्ना पञ्चपत्रानिभेक्षणा ॥७॥

दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी ।
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः॥८॥

यो जातः कवची खड्गी सशरः सशरासनः ।
सुसमिद्धे महाबाहुः पावके पावकोपमः॥९॥

स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा ।
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवाति वै॥१०॥

यज्ञसेनस्य च सुतां स्वयंवरकृतक्षणाम् ।
गच्छामो वै वयं द्रष्टुं तं च दिव्यं महोत्सवम्॥११॥

राजानो राजपुत्राश्च यज्वानो भूरिदाक्षिणाः ।
स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः ॥१२॥

तरुणा दशेनीयाश्च नानादेशसमागताः ।
महारथा कृतास्त्राश्च समुपेष्यन्ति भूमिपाः॥१३॥

ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः ।
प्रदास्यन्ति घनं गाश्च भक्ष्यं भोज्यं च सर्वेशः॥१४॥

दायान् देयानि तानेवाह धनमित्यादि ॥१४॥

प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम्‌ ।
अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम्॥१५॥

नरा वैताछिकास्तत्र नर्तकाः सूतमागधाः ।
नियोघकाश्च देशेभ्यः समेष्यन्ति महाबलाः ॥१६॥

नटाः वेषभेदकारिणः । वैतालिकाः मङ्गलपाठकारिणः । नर्तकाः प्रसिद्धाः । सूताः पौराणिकाः मागधाः वंशसूचकाः नियोधकाः मल्लाः ॥१६॥

एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिग्रह्य च ।
सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ ॥१७॥

दर्शनीयांश्च वः सवोन्देवरूपानवस्थितान्‌ ।
समीक्ष्य कृष्णा वरयेत्संगत्यैकतमं वरम्‌ ॥१८॥

सङ्गत्या दैवयोगेन ॥१८॥

अयं भ्राता तव श्रीमान्दर्शनीयो महासुजः ।
नियुज्यमानो विजये संगत्या द्रविणं बहु ।
आहरिष्यन्नयं नूनं प्रीतिं वो वर्धयिष्याति॥१९॥

युधिष्ठिर उवाच ।
परमं भो गमिष्यामो द्रष्टं चैव महोत्सवम्‌ ।
भवाद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् ॥२०॥

परमं यथेष्टम् ॥२०॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि पाण्डवागमने चतुरशीत्यधिकशततमोऽध्यायः॥१८४॥
पञ्चाशीत्यधिकशततमोऽध्यायः

वैशंम्पायन उवाच। एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय ।
राज्ञा दक्षिणपञ्चालान्द्रुपदेनाभिरक्षितान्॥१॥

पञ्चाशीत्यधिकशततमोऽध्यायः एवमिति ॥१॥

ततस्तेषु महात्मानं शुद्धात्मानमकल्मषम् ।
ददृशुः पाण्डवा वीराः पथि द्वैपायनं तदा॥२॥

तस्मै यथावत्सत्कारं कृत्वा तेन च सत्कृताः ।
कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम्॥३॥

पश्यन्तो रमणीयानि वनानि च सरांसि च ।
तत्र तत्र वसन्तश्च शनैर्जग्मुर्महराथाः॥४॥

स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः ।
आनुपूर्व्येण संप्राप्ताः पाञ्चालान्पाण्डुनन्दनाः॥५॥

ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः ।
कुम्भकारस्य शालायां निवासं चक्रिरे तदा॥६॥

स्कन्धावारं राजगृहप्राकारं लोकसमूहस्थानं वा । ‘स्कन्धः स्यान्नृपतावंसे साम्परायसमूहयो:’ इति मेदिनी ॥६॥

तत्र भैक्षं समाजह्रुर्ब्राह्मणीं वृत्तिमाश्रिताः ।
तान्संप्राप्तांस्तथा वीराञ्जज्ञिरे न नराः क्वचित्॥७॥

न जज्ञिरे न ज्ञातवन्तः ॥७॥

यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने ।
कृष्णां दद्यामिति सदा न चतद्विवृणोति सः॥८॥

सोऽन्वेषमाणः कौन्तेयं पाञ्चाल्यो जनमेजय ।
दृढं धनुरथानम्यं कारयामास भारत॥९॥

अनानम्यं नमयितुमशक्यम् ॥९॥

यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् ।
तेन यन्त्रेण समितं राला लक्ष्यं चकार सः॥१०॥

वैहायसम् अन्तरिक्षगतम् । यन्त्रं तीव्रवेगवत्तया भ्रमणेन लक्ष्यमार्गसङ्कोचकमन्तराबद्धं समितं यन्त्रच्छिद्रद्वारा उपलक्षितम् । लक्ष्यमपि वैहायसमित्यर्थः । अस्त्रशिक्षायाम् एकेनार्जुनेनैव चललक्ष्यपातनं कृतमतः स एव चलयन्त्रद्वारा लक्ष्यं भेत्स्येति नान्य इति । तदन्वेषणायायं यत्नो द्रुपदेन कृतः । यद्यपि कर्णस्याप्येतत्सुकरं तथापि हीनकुलत्वात्स सुपरिहर इति भावः ॥१०॥

द्रुपद उवाच। इदं सज्यं धनुः कृत्वा सज्जैरेभिश्च सायकैः ।
अतीत्य लक्ष्य यो वेद्धा स लब्धा मत्सुतामिति॥११॥

सज्यं धनुः कृत्वा इदं यन्त्रमतीत्य लक्ष्यं यो वेद्धा वेद्धुं समर्थः ॥११॥

वैशंपायन उवाच। इति स द्रुपदो राजा स्वयंवरमघोषयत् ।
तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत॥१२॥

ऋषयश्च महात्मानः स्वयंवरदिदृक्षवः ।
दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप॥१३॥

ततोऽर्चिता राजगुणा द्रुपदेन महात्मना॥१४॥

उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम् ।
ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः॥१५॥

उपोपविष्टाः पादपूरणार्था उपेत्यस्यावृत्तिः ‘प्रसमुपोदःपादपूरणे’ इति ॥१५॥

शिशुमारशिरः प्राप्य न्यविशंस्ते स्म पार्थिवाः ।
प्रागुत्तरेण नगराद्भूमिभागे समे शुभे ।
समाजवाटः शुशुभे भवनैः सर्वतो वृतः॥१६॥

शिशुमारो जलजन्तुः तदाकारस्तारासमूहात्मको विष्णुः तस्य शिरः प्रदेशे ऐशान्यां दिशि । अत एव सा अपराजिता दिकू । तां दिशं प्राप्य न्यविशन् । तामेव दिशमाह प्रागिति । प्रागुत्तरेण प्रागुदीच्योरन्तराले नगरात्समीपे ।‘एनबन्यतरस्यामदूरे पञ्चम्या’ इत्येनबन्तमिदम् ॥१६॥

प्राकारपरिखोपेतो द्वारतोरणमण्डितः ।
वितानेन विचित्रेण सर्वतः समलङ्कृतः॥१७॥

तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः ।
चन्दनोदकसिक्तश्च माल्यदामोपशोभितः॥१८॥

कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः ।
सर्वतः संवृतः शुभ्रैः प्रासादैः सुकृतोच्छ्रयै॥१९॥

सुवर्णजालसंवीतैर्मणिकुट्टिमभूषणैः ।
सुखारोहणसौपानैर्महासनपरिच्छदैः॥२०॥

स्रग्दामसमवच्छन्नैरगुरूत्तमवासितैः ।
हंसांशुवर्णैर्बहुभिरायोजनसुगन्धिभिः॥२१॥

असंबाधशतद्वारैः शयनासनशोभितैः ।
बहुधा तु पिनद्धाङ्गैर्हिमवच्छिखरैरिव॥२२॥

तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः ।
स्पर्धमानास्तदाऽन्योऽन्यं निषेदुः सर्वपार्थिवाः॥२३॥

विमानेषु सप्तभूमिगृहेषु । ‘विमानो व्योमयाने च सप्तभूमिगृहेपि च’ इति मेदिनी ॥२३॥

तत्रोपविष्टान्ददृशुर्महासत्त्वापराक्रमान् ।
राजसिंहान्महाभागान्कृष्णागुरुविभूषितान्॥२४॥

महाप्रसादान्ब्राह्मण्यान्स्वराष्ट्रपरिरक्षिणः ।
प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः॥२५॥

मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः ।
कृष्णादर्शनसिद्ध्यर्थं सर्वतः समुपाविशन्॥२६॥

ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् ।
ऋद्धिं पञ्चालराजस्य पश्यन्तस्तामनुत्तमाम्॥२७॥

ततः समाजो ववृधे स राजन्दिवसान्बहून् ।
रत्नप्रदानबहुलः शोभितो नटनर्तकैः॥२८॥

वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे ।
आप्लुताङ्गी सुवसना सर्वाभरणभूषिता॥२९॥

मालां च समुपादाय काञ्चनीं समलङ्कृताम् ।
अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ॥३०॥

पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः ।
परिस्तीर्य जुहावाग्निमाज्येन विधिवत्तदा॥३१॥

परिस्तीर्य दर्भैः परितः स्तीर्त्वा ॥३१॥

संतर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च ।
वारयामास सर्वाणि वादित्राणि समन्ततः॥३२॥

निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशांपते ।
कृष्णामादाय विधिवन्मेघदुन्दुभिनिःस्वनः॥३३॥

रङ्गमध्यं गतस्तत्र मेघगम्भीरया गिरा ।
वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम्॥३४॥

इदं धनुर्लक्ष्यमिमे च बाणाः शृण्वन्तु मे भूपतयः समेताः ।
छिद्रेण यन्त्रस्य समर्पयध्वं शरैः शितैर्व्योमचरैर्दशार्धैः॥३५॥

इदं धनुः इदं च लक्ष्यं इमे च बाणाः । चलयन्त्रच्छिद्रद्वारा युगपत्पञ्चबाणान्लक्ष्ये यः समर्पयति तस्याद्य भार्या भगिनी ममेयमिति द्वयोः सम्बन्धः व्योमचरैर्बाणैः ॥३५॥

एतन्महत्कर्म करोति यो वै कुलेन रूपेण बलेन युक्तः ।
तस्याद्य भार्या भगिनी ममेयं कृष्णा भवित्री न मृषा ब्रवीमि॥३६॥

तानेवमुक्त्वा द्रुपदस्य पुत्रः पश्चादिदं तां भगिनीमुवाच ।
नाम्ना च गोत्रेण च कर्मणा च संकीर्तयन्भूमिपतीन्समेतान्॥३७॥

तान् नृपान्प्रति ॥३७॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि धृष्टद्युम्नवाक्ये पञ्चाशीत्यधिकशततमोऽध्यायः॥१५८॥
षडशीत्यधिकशततमोऽध्यायः

धृष्टद्युम्न उवाच। दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः ।
विविंशतिर्विकर्णश्च सहो दुःशासनस्तथा॥१॥

षडशीत्यधिकशततमोऽध्यायः दुर्योधन इत्यादिः स्पष्टार्थो ग्रन्थः ॥१॥

युयुत्सुर्वायुवेगश्च भीमवेगरवस्तथा ।
उग्रायुधो बलाकी च करकायुर्विरोचनः॥२॥

कुण्डकश्चित्रसेनश्च सुवर्चाः कनकध्वजः ।
नन्दको बाहुशाली च तुहुण्डो विकटस्तथा॥३॥

एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः ।
कर्णेन सहिता वीरास्त्वदर्थं समुपागताः॥४॥

असङ्ख्याता महात्मानः पार्थिवाः क्षत्रियर्षभाः ।
शकुनिः सौबलश्चैव वृषकोऽथ बृहद्बलः॥५॥

एते गान्धारराजस्य सुताः सर्वे समागताः ।
अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ॥६॥

समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ ।
बृहन्तो मणिमांश्चैव दण्डधारश्च पार्थिवः॥७॥

सहदेवजयत्सेनौ मेघसन्धिश्च पार्थिवः ।
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च॥८॥

वार्धक्षेमिः सुशर्मा च सेनाबिन्दुश्च पार्थिवः ।
सुकेतुः सह पुत्रेण सुनाम्ना च सुवर्चसा॥९॥

सुचित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा ।
सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा॥१०॥

अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः ।
समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान्॥११॥

जलसन्धः पितापुत्रौ विदण्डो दण्ड एव च ।
पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान्॥१२॥

कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा ।
मद्रराजस्तथा शल्यः सहपुत्रो महारथः॥१३॥

रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च ।
कौरव्यः सोमदत्तश्च पुत्रश्चास्य महारथः॥१४॥

समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः ।
सुदक्षिणश्च काम्बोजो दृढधन्वा च पौरवः॥१५॥

बृहद्बलः सुषेणश्च शिबिरौशीनस्तथा ।
पटच्चरनिहन्ता च कारूषाधिपतिस्तथा॥१६॥

सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान् ।
साम्बश्च चारुदेष्णश्च प्राद्युम्निः सगदस्तथा॥१७॥

अक्रूरः सात्यकिश्चैव उद्धवश्च महामतिः ।
कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च॥१८॥

विदूरथश्च कङ्कश्च शङ्कुश्च सगवेषणः ।
आशावहोऽनिरुद्धश्च समीकः सारिमेजयः॥१९॥

वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा ।
उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः॥२०॥

भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः ।
बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः॥२१॥

उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ ।
वत्सराजश्च मतिमान्कोसलाधिपतिस्तथा॥२२॥

शिशुपालश्च विक्रान्तो जरासन्धस्तथैव च ।
एते चान्ये च बहवो नानाजनपदेश्वराः॥२३॥

त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि ।
एते भेत्स्यन्ति विक्रान्तास्त्वदर्थे लक्ष्यमुत्तमम् ।
विध्यते य इदं लक्ष्यं वरयेथाः शुभेऽद्य तम्॥२४॥

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि राजनामकीर्तने षडशीत्यधिकशततमोऽध्यायः॥१८६॥
सप्ताशीत्यधिकशततमोऽध्यायः

वैशंपायन उवाच। तेऽलङ्कृताः कुण्डलिनो युवानः परस्परं स्पर्धमाना नरेन्द्राः ।
अस्त्रं बलं चात्मनि मन्यमानाःसर्वें समुत्पेतुरुदायुधास्ते॥१॥

सप्ताशीत्यधिकशततमोऽध्यायः तेऽलंकृता इति ॥१॥

रूपेण वीर्येण कुले चैव शीलेन वित्तेन च यौवनेन ।
समिद्धदर्पा मदवेगभिन्ना मत्ता यथा हैमवता गजेन्द्राः॥२॥

परस्परं स्पर्धया प्रेक्षमाणाः सङ्कल्पजेनाभिपरिप्लुताङ्गाः ।
कृष्णा ममैवेत्यभिभाषमाणा नृपासनेभ्यः सहसोदतिष्ठन् ॥३॥

सङ्कल्पजेन कामेन ॥३॥

ते क्षत्रिया रङ्गगताः समेता जिगीषमाणा द्रुपदात्मजां ताम् ।
चकाशिरे पर्वतराजकन्यामुमां यथा देवगणाः समेताः॥४॥

कन्दर्पबाणाभिनिपीडिताङ्गाः कृष्णागतैस्ते हृदयैर्नरेन्द्राः ।
रङ्गावतीर्णा द्रुपदात्मजार्थं द्वेषं प्रचक्रुः सुहृदोऽपि तत्र॥५॥

अथाययुर्देवगणा विमानै रुद्रादित्या वसवोऽथाश्विनौ च ।
साध्याश्च सर्वे मरुतस्तथैव यमं पुरस्कृत्य धनेश्वरं च॥६॥

दैत्याः सुपर्णाश्च महोरगाश्च देवर्षयो गुह्यकाश्चारणाश्च ।
विश्वावसुर्नारदपर्वतौ च गन्धर्वमुख्याः सहसाप्सरोभिः॥७॥

हलायुधस्तत्र जनार्दनश्च वृष्ण्यन्धकाश्चैव यताप्रधानम् ।
प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते स्थिताश्च कृष्णस्य मते महान्तः॥८॥

दृष्ट्वा तु तान्मत्तगजेन्द्ररूपान् पञ्चाभिपद्मानिव वारणेन्द्रान् ।
भस्मावृताङ्गानिव हव्यवाहान् कृष्णः प्रदध्यौ यदुवीरमुख्यः॥९॥

अभितः पद्मा लक्ष्मीर्येषां तान्सर्वाङ्गसुन्दरानित्यर्थः अतिपद्मानिति पाठेपि स एवार्थः । अतिमत्तानित्यपपाठः ॥९॥

शशंस रामाय युधिष्ठिरं स भीमं सजिष्णुं च यमौ च वीरौ ।
शनैःशनैस्तान्प्रसमीक्ष्य रामो जनार्दनं प्रीतमना ददर्श ह॥१०॥

अन्ये तु वीरा नृपपुत्रपौत्राः कृष्णागतैर्नेत्रमनःस्वभावैः ।
व्यायच्छमाना ददृशुर्न तान्वै सन्दष्टदन्तच्छदताम्रनेत्राः॥११॥

व्यायच्छमानाः व्याददानाः चक्षुः प्रसार्य कृष्णामेव ददृशुर्न पाण्डवान् ॥११॥

तथैव पार्थाः पृथुबाहवस्ते वीरौ यमौ चैव महानुभावौ ।
तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे कन्दर्पबाणाभिहता बभूवुः॥१२॥

तथैव पार्था इति । कामाभिभूतत्वाद्रामकृष्णादीन्न ददृशुरिति भावः ॥१२॥

देवर्षिगन्धर्वसमाकुलं तत् सुपर्णनागासुरसिद्धजुष्टम् ।
दिव्येन गन्धेन समाकुलं च दिव्यैश्च पुष्पैरवकीर्यमाणम्॥१३॥

महास्वनैर्दुन्दुभिनादितैश्च बभूव तत्सङ्कुलमन्तरिक्षम् ।
विमानसंबाधमभूत्समन्तात् सवेणुवीणापणवानुनादम्॥१४॥

विमानसम्बाधं विमानसङ्कीर्णम् ॥१४॥

ततस्तु ते राजगणाः क्रमेण कृष्णानिमित्तं कृतविक्रमाश्च ।
सकर्णदुर्योधनशाल्वशल्यद्रौणायनिक्राथसुनीथवक्त्राः॥१५॥

कलिङ्गवङ्गाधिपपाण्ड्यपौण्ड्रा विदेहराजो यवनाधिपश्च ।
अन्ये च नानानृपपुत्रपौत्रा राष्ट्राधिपाः पङ्कजपत्रनेत्राः॥१६॥

किरीटहाराङ्गदचक्रवालैर्विभूषिताङ्गाः पृथुबाहवस्ते ।
अनुक्रमं विक्रमसत्वयुक्ता बलेन वीर्येण च नर्दमानाः॥१७॥

तत्कार्मुकं संहननोपपन्नं सज्यं न शेकुर्मनसाऽपि कर्तुम् ।
ते विक्रमन्तः स्फुरता दृढेन विक्षिप्यमाणा धनुषा नरेन्द्राः॥१८॥

संहननोपपन्नम् अत्यन्तं काठिन्येन युक्तम् । स्फुरता नामयितुमसामर्थ्यात्करान्निः सरत्कोटितया । अत एव विक्षिप्यमाणाः दण्डेन वीटा इव । धनुषा धनुष्कोट्या शमयाम्बभूवुरिति द्वयोः सम्बन्धः ॥१८॥

विचेष्टमाना धरणीतलस्था यथाबलं शैक्ष्यगुणक्रमाश्च ।
गतौजसः स्नस्तकिरीटहारा विनिःश्वसन्तः शमयांबभूवुः॥१९॥

हहाकृतं तद्धनुषा दृढेन विस्रस्तहाराङ्गदचक्रवालम् ।
कृष्णानिमित्तं विनिवृत्तकामं राज्ञां तदा मण्डलमार्तमासीत्॥२०॥

चक्रवालं मण्डलम् ॥२०॥

सर्वान्नृपांस्तान्प्रसमीक्ष्य कर्णो धनुर्धराणां प्रवरो जगाम ।
उद्धृत्य तूर्णं धनुरुद्यतं तत् सज्यं चकाराशु युयोज बाणान्॥२१॥

दृष्ट्वा सूतं मेनिरे पाण्डुपुत्रा भित्वा नीतं लक्ष्यवरं धरायाम् ।
धनुर्धरा रागकृतप्रतिज्ञमत्यग्निसोमार्कमथार्कपुत्रम्॥२२॥

दृष्ट्वा तु तं द्रौपदी वाक्यमुच्चैर्जगाद नाहं वरयामि सूतम् ।
सामर्षहासं प्रसमुस्य सूर्यं तत्याज कर्णः स्फुरितं धनुस्तत्॥२३॥

सामर्षहासं नीचकुलयोगादमर्षः सूर्यापराधत्वात् हासः ॥२३॥

एवं तेषु निवृत्तेषु क्षत्रियेषु समन्ततः ।
चेदीनामधिपो वीरो बलवानन्तकोपमः॥२४॥

दमघोषसुतो धीरः शिशुपालो महामतिः ।
धनुरादायमानस्तु जानुभ्यामगमन्महीम्॥२५॥

धनुरादायमानः परीक्षमाणः दैदृ शोधनेऽस्य रूपम् ॥२५॥

ततो राजा महावीर्यो जरासन्धो महाबलः ।
धनुषोऽभ्याशमागत्य तस्थौ गिरिरिवाचलः॥२६॥

अभ्याशं समीपम् ॥२६॥

धनुषा पीड्यमानस्तु जानुभ्यामगमन्महीम् ।
तत उत्थाय राजा स स्वराष्ट्रण्यभिजग्मिवान्॥२७॥

धनुषा आकृष्यमाणेन ॥२७॥

ततः शल्यो महावीरो मद्रराजो महाबलः ।
तदप्यारोप्यमाणस्तु जानुभ्यामगमन्महीम्॥२८॥

आरोप्यमाणः सज्जीकर्तुमिच्छन् ॥२८॥

तस्मिंस्तु संभ्रान्तजने समाजे निक्षिप्तवादेषु जनाधिपेषु ।
कुन्तीसुतो जिष्णुरियेष कर्तुं सज्यं धनुस्तत्सशरं प्रवीरः॥२९॥

निक्षिप्तवादेषु त्यक्तधनुरुद्यमनकथेषु ॥२९॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि राजपराङ्मुखीभवने सप्ताशीत्यधिकशततमोऽध्यायः॥१८७॥
अष्टाशीत्यधिकशततमोऽध्यायः

वैशंपायन उवाच। यदा निवृत्ता राजानो धनुषः सज्यकर्मणः ।
अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः॥१॥

अष्टाशीत्यधिकशततमोऽध्यायः यदेति जिष्णुरर्जुनः ॥१॥

उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च ।
दृष्ट्वा संप्रस्थितं पार्थमिन्द्रकेतुसमप्रभम्॥२॥

केचिदासन्विमनसः केचिदासन्मुदान्विताः ।
आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः॥३॥

यत्कर्णशल्यप्रमुखैः क्षत्रियैर्लोकविश्रुतैः ।
नानतं बलवद्भिर्हि धनुर्वेदपरायणैः॥४॥

तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा ।
वटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः॥५॥

प्राणतः शक्तितः ॥५॥

अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु ।
कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते॥६॥

यद्येष दर्पाद्धर्षाद्वाप्यथ ब्राह्मणचापलात् ।
प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत्॥७॥

दर्पात् गर्वात् । हर्षात् औत्सुक्यात् । चापलात् अनवस्थितत्वात् ॥७॥

ब्राह्मणा ऊचुः। नावहास्या भविष्यामो न च लाघवमास्थिताः ।
न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम्॥८॥

केचिदाहुर्युवा श्रीमान्नागराजकरोपमः ।
पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव॥९॥

सिंहखेलगतिः श्रीमान्मत्तनागेन्द्रविक्रमः ।
संभाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते॥१०॥

शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् ।
न च तद्विद्यते किंचित्कर्म लोकेषु यद्भवेत्॥११॥

लोकेषु ब्रह्मलोकान्तेषु नृषु पुरुषेषु संस्थानचारिषु देवासुराकारैश्वरत्सु । तत्कर्म न विद्यते यत् ब्राह्मणानामसाध्यमिति सम्बन्धः ॥११॥

ब्राह्मणानामसाध्यं च नृषु संस्थानचारिषु ।
अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः॥१२॥

दुर्बला अपि विप्रा हि बलीयांसः स्वेतजसा ।
ब्राह्मणो नावमन्तव्यः सदसद्वा समाचरन्॥१३॥

सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् ।
जामदग्न्येन रामेण निर्जिताः क्षत्रिया युधि॥१४॥

महत् ह्रस्वम् । महदपि क्षुद्रं भवति तत्र तत् कर्म । तदेवोदाहरति जामदग्न्येनेति ॥१४॥

पीतः समुद्रोऽगस्त्येन अगाधो ब्रह्मतेजसा ।
तस्माद्ब्रुवन्तु सर्वेऽत्र वटुरेष धनुर्महान्॥१५॥

ब्राह्मणवचसा क्षुद्रेणापि महत्कर्म कर्तुं शक्यमित्यभिप्रेत्य सर्वेप्यैकमत्येनाहुः तस्मादिति ॥१५॥

आरोपयतु शीघ्रं वै तथेत्यूचुर्द्विजर्षभाः ।
एवं तेषां विलपतां विप्राणां विविधा गिरः॥१६॥

अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः ।
स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत्॥१७॥

प्रणम्य शिरसा देवमीशानं वरदं प्रभुम् ।
कृष्णं च मनसा कृत्वा जगृहे चार्जुनो धनुः॥१८॥

यत्पार्थिवै रुक्मसुनीथवक्त्रैः राधेयदुर्योधनशल्यसाल्वैः ।
तदा धनुर्वेदपरैर्नृसिंहैः कृतं न सज्यं महतोऽपि यत्नात्॥१९॥

राधेयः कर्णः ॥१९॥

तदर्जुनो वीर्यवतां सदर्पस्तदैन्द्रिरिन्द्रावरजप्रभावः ।
सज्यं च चक्रे निमिषान्तरेण शरांश्च जग्राह दशार्दसङ्ख्यान्॥२०॥

विव्याध लक्ष्यं निपपात तच्च छिद्रेण भूमौ सहसातिविद्धम् ।
ततोऽन्तरिक्षे च बभूव नादः समाजमध्ये च महान्निनादः॥२१॥

पुष्पाणि दिव्यानि ववर्ष देवः पार्थस्य मूर्ध्नि द्विषतां निहन्तुः॥२२॥

चैलानि विव्यधुस्तत्र ब्राह्मणाश्च सहस्रशः ।
विलक्षितास्ततश्चक्रुर्हाहाकारांश्च सर्वशः ।
न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः॥२३॥

विव्यधुः विजयध्वजवदुच्छ्रितवन्तः । विलक्षिताः विषमं लक्षितं दृष्टिर्येषां ते तथाभूताः शत्रवः लक्ष्येण विना कृता वा ॥२३॥

शताङ्गानि च तूर्याणि वादकाः समवादयन् ।
सूतमागधसङ्घाश्चाप्यस्तुवंस्तत्र सुस्वराः॥२४॥

शतम् अनन्तानि अङ्गानि नखाङ्गुलिदण्डधनुर्ज्यावक्रादीनि वादनोपायाः येषां तानि । ‘अङ्गं गात्रान्तिकोपायप्रतीकेषु’ इति विश्वः ॥२४॥

तं दृष्ट्वा द्रुपदः प्रीतो बभूव रिपुसूदनः ।
सह सैन्यैश्च पार्थस्य साहाय्यार्थमियेष सः॥२५॥

साहाय्यार्थे द्रौपद्यलाभात् क्षुब्धैर्नृपान्तरैर्युद्धप्रसक्तौ सत्याम् ॥२५॥

तस्मिंस्तु शब्दे महति प्रवृद्धे युधिष्ठिरो धर्मभृतां वरिष्ठः ।
आवासमेवोपजगाम शीघ्रं सार्धं यमाभ्यां पुरुषोत्तमाभ्याम्॥२६॥

विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा पार्थं च शक्रप्रतिमं निरीक्ष्य ।
आदाय शुक्लाम्बरमाल्यदाम जागाम कुन्तीसुतमुत्स्मयन्ती॥२७॥

उत्स्मयन्ती उत्तमपतिलाभादन्त्यं गर्वं कुर्वती ॥२७॥

स तामुपादाय विजित्य रङ्गे द्विजातिभिस्तैरभिपूज्यमानः ।
रङ्गान्निरक्रामदचिन्त्यकर्मा पत्न्या तया चाप्यनुगम्यमानः॥२८॥

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि लक्ष्यच्छेदनेऽष्टाशीत्यधिकशततमोऽध्यायः॥१८८॥
नवाशित्यधिकशततमोऽध्यायः

वैशंपायन उवाच। तस्मै दित्सति कन्यां तु ब्राह्मणाय तदा नृपे ।
कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात्॥१॥

ऊननवत्यधिकशततमोऽध्यायः तस्मै दित्सतीति ॥१॥

अस्मानयमतिक्रम्य तृणीकृत्य च संगतान् ।
दातुमिच्छति विप्राय द्रौपदीं योषितां वराम्॥२॥

अवरोप्येह वृक्षस्तु फलकाले निपात्यते ।
निहन्मैनं दुरात्मानं योयमस्मान्न मन्यते॥३॥

न ह्यर्हत्येष संमानं नापि वृद्धक्रमं गुणैः ।
हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम्॥४॥

अवरोप्येत्यस्य व्याख्या अयं हीति व्यवहितश्लोकेन ॥४॥

अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् ।
गुणवद्भोजयित्वान्नं ततः पश्चान्न मन्यते॥५॥

अस्मिन्राजसमवाये देवानामिव सन्नये ।
किमयं सदृशं कंचिन्नृपतिं नैव दृष्टवान्॥६॥

न च विप्रेष्वधीकारो विद्यते वरणं प्रति ।
स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः॥७॥

अथवा यदि कन्येयं न च कंचिद्बुभूषति ।
अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः॥८॥

ब्राह्मणो यदि चापल्याल्लोभाद्वा कृतवानिदम् ।
विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथंचन॥९॥

ब्राह्मणार्थं हि नो राज्यं जीवितं हि वसूनि च ।
पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम्॥१०॥

अवमानभयाच्चैव स्वधर्मस्य च रक्षणात् ।
स्वयंवराणामन्येषां मा भूदेवंविधा गतिः॥११॥

इत्युक्त्वा राजशार्दूला रुष्टाः परिघबाहवः ।
द्रुपदं तु जिघांसन्तः सायुधाः समुपाद्रवन्॥१२॥

तान्गृहीतशरावापान्क्रुद्धानापततो बहून् ।
द्रुपदो वीक्ष्य संग्रासाद्ब्राह्मणाञ्छरणं गतः॥१३॥

संत्रासात् ब्राह्मणकोपेन सर्वं क्षत्रं नश्येदिति शङ्कोत्थात् भयात् ॥१३॥

वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् ।
पाण्डुपुत्रौ महेष्वासौ प्रतियातावरिन्दमौ॥१४॥

ततः समुत्पेतुरुदायुधास्ते महीक्षितो बद्धगोधाङ्गुलित्राः ।
जिघांसमानाः कुरुराजपुत्रावमर्षयन्तोऽर्जुनभीमसेनौ॥१५॥

ततस्तु भीमोऽद्भुतभीमकर्मा महाबलो वज्रसमानसारः ।
उत्पाट्य दोर्भ्यां द्रुममेकवीरो निष्पत्रयामास यथा गजेन्द्रः॥१६॥

तं वृक्षमादाय रिपुप्रमाथी दण्डीव दण्डं पितृराज उग्रम् ।
तस्थौ समीपे पुरुषर्षभस्य पार्थस्य पार्थः पृथुदीर्घबाहुः॥१७॥

तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धिर्जिष्णुः स हि भ्रातुरचिन्त्यकर्मा ।
विसिष्मिये चापि भयं विहाय तस्थौ धनुर्गृह्य महेन्द्रकर्मा॥१८॥

तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धिर्जिष्णोः सहभ्रातुरचिन्त्यकर्मा ।
दामोदरो भ्रातुरमुग्रवीर्यं हलायुधं वाक्यमिदं बभाषे॥१९॥

य एष सिंहर्षभ खेलगामी महद्धनुः कर्षति तालमात्रम् ।
एषोऽर्जुनो नात्र विचार्यमस्ति यद्यस्मि संकर्षण वासुदेवः॥२०॥

यस्त्वेष वृक्षं तरसाऽवभज्य राज्ञां निकारे सहसा प्रवृत्तः ।
वृकोदरान्नान्य इहैतदद्य कर्तुं समर्थः समरे पृथिव्याम्॥२१॥

योऽसौ पुरस्तात्कमलायताक्षस्तनुर्महासिंहगतिर्विनीतः ।
गौरः प्रलम्बोज्ज्वलचारुघोणो विनिःसृतः सोऽच्युतधर्मपुत्रः॥२२॥

घोणा नासा ॥२२॥

यौ तौ कुमाराविव कार्तिकेयौ द्वावाश्विनेयाविति मे वितर्कः ।
मुक्ता हि तस्माज्जतुवेश्मदाहात् मया श्रुताः पाण्डुसुताः पृथा च॥२३॥

कार्तिकेयावित्यभूतोपमा ॥२३॥

तमब्रवीन्निर्जलतोयदाभो हलायुधोऽनन्तरजं प्रतीतः ।
प्रीतोऽस्मि दृष्ट्वा हि पितृष्वसारं पृथां विमुक्तां सह कौरवाग्र्यैः॥२४॥

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि कृष्णवाक्ये ऊननवत्यधिकशततमोऽध्यायः॥१८९॥
नवत्यधिकशततमोऽध्यायः

अजिनानि विधुन्वन्तः करकाश्च द्विजर्षभाः ।
ऊचुस्ते भीर्न कर्तव्या वयं योत्स्यामहे परान्॥१॥

नवत्यधिकशाततमोऽध्यायः अजिनानीति ॥१॥

तानेवं वदतो विप्रानर्जुनः प्रहसन्निव ।
उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः॥२॥

अहमेनानजिह्माग्रैः शतशो विकिरञ्छरैः ।
वारयिष्यामि संक्रुद्धान्मन्त्रैराशीविषानिव॥३॥

इति तद्धनुरानम्य शुल्कावाप्तं महाबलः ।
भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः॥४॥

शुल्कावाप्तं पणप्राप्तम् ॥४॥

ततः कर्णमुखान्दृष्ट्वा क्षत्रियान्युद्धदुर्मदान् ।
संपेततुरभीतौ तौ गजौ प्रतिगजानिव॥५॥

ऊचुश्च वाचः परुषास्ते राजानो युयुत्सवः ।
आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः॥६॥

इत्येवमुक्त्वा राजानः सहसा दुद्रुवुर्द्विजान् ।
ततः कर्णो महातेजा जिष्णुं प्रति ययौ रणे॥७॥

युद्धार्थी वासिताहेतोर्गजः प्रतिगजं यथा ।
भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली॥८॥

दुर्योधनादयः सर्वे ब्राह्मणैः सह संगताः ।
मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे॥९॥

ततोऽर्जुनः प्रत्यविध्यदापतन्तं शितैः शरैः ।
कर्णं वैकर्तनं श्रीमान्विकृष्य बलवद्धनुः॥१०॥

तेषां शराणां वेगेन शितानां तिग्मतेजसाम् ।
विमुह्यमानो राधेयो यत्नात्तमनुधावति॥११॥

तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ ।
अयुध्येतां सुसंरब्धावन्योन्यविजिगीषिणौ॥१२॥

विजिगीषिणौ विजिगीषावन्तौ ॥१२॥

कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे ।
इति शूरार्थवचनैरभाषेतां परस्परम्॥१३॥

शराणाम् अर्थवद्भिर्वचनैः शूरार्थवचनैः ॥१३॥

ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि ।
ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत्॥१४॥

अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा ।
प्रतिहत्य ननादोच्चैः सैन्यानि तदपूजयन्॥१५॥

प्रतिहन्य प्रतिहत्या वा ल्यपीति पक्षेऽनुनासिकलोपाभावान्न तुक् । तत प्रतिहननम् ॥१५॥

कर्ण उवाच। तुष्यामि ते विप्रमुख्य भुजवीयर्स्य संयुगे ।
अविषादस्य चैवास्य शस्त्रास्त्रविजयस्य च॥१६॥

किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम ।
अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः॥१७॥

आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः ।
विप्ररूपं विधायेदं मन्ये मां प्रतियुध्यसे॥१८॥

मन्ये त्वां यस्मात् मां प्रतियुध्यसे ॥१८॥

न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः ।
पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः॥१९॥

तमेवंवादिनं तत्र फाल्गुनः प्रत्यभाषत ।
नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान्॥२०॥

ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः ।
ब्राह्मे पौरन्दरे चास्त्रे निष्ठितोगुरुशासनात्॥२१॥

स्थितोऽस्म्यद्य रणे जेतुं त्वां वै वीर स्थिरो भव ।
वैशंपायन उवाच। एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत॥२२॥

ब्राह्मं तेजस्तदाऽजय्यं मन्यमानो महारथः ।
अपरस्मिन्वनोद्देशे वीरौ शल्यवृकोदरौ॥२३॥

वनोद्देशे रङ्गदृशां निवासस्थाने । ‘वनं नपुंसकं नीरे निवासालयकानने’ इति मेदिनी ॥२३॥

बलिनौ युद्धसंपन्नौ विद्यया च बलेन च ।
अन्योन्यमाह्वयन्तौ तु मत्ताविव महागजौ॥२४॥

मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् ।
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः॥२५॥

प्रकर्षणं दूरे नोदनम् आकर्षणम् अर्वाकर्षणम् अभ्याक्कर्षणम् अभिमुखमास्फालनं विकर्षणं तिर्यक्पातनम् ॥२५॥

आचकर्षतुरन्योन्यं मुष्टिभिश्चापि जघ्नतुः ।
ततश्चटचटाशब्दः सुघोरो ह्यभवत्तयोः॥२६॥

पाषाणसंपातनिभैः प्रहारैरभिजघ्नतुः ।
मुहूर्तं तौ तदाऽन्योन्यं समरे पर्यकर्षताम्॥२७॥

ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे ।
अपातयत्कुरुश्रेष्ठो ब्राह्मणा जहसुस्तदा॥२८॥

समुत्क्षिप्य कूष्माण्डफलवदपातयत् ॥२८॥

तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः ।
यच्छल्यं पातितं भूमौ नावधीद्बलिनं बली॥२९॥

पातिते भीमसेनेन शल्ये कर्णे च शङ्किते ।
शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम्॥३०॥

ऊचुश्च सहितास्तत्र साध्विमौ ब्राह्मणर्षभौ ।
विज्ञायेतां क्व जन्मानौ क्व निवासौ तथैव च॥३१॥

को हि राधासुतं कर्णं शक्तो योधयितुं रणे ।
अन्यत्र रामाद्द्रोणाद्वा पाण्डवाद्वा किरीटिनः॥३२॥

कृष्णाद्वा देवकीपुत्रात्कृपाद्वापि शरद्वतः ।
को वा दुर्योधनं शक्तः प्रतियोथयितुं रणे॥३३॥

तथैव मद्राधिपतिं शल्यं बलवतांवरम् ।
बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात्॥३४॥

वीराद्दुर्योधनाद्वाऽन्यः शक्तः पातयितुं रणे ।
क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंवृतात्॥३५॥

अवहारो युद्धान्निवर्तनम् ॥३५॥

ब्राह्मणा हि सदा रक्ष्याः सापराधाऽपि नित्यदा ।
अथैनानुपलभ्येह पुनर्योत्स्याम हृष्टवत्॥३६॥

सापराधा अपीति सन्धिरार्षः । अथ अथवा कालान्तरे उपलभ्य ॥३६॥

तांस्तथावादिनः सर्वान्प्रसमीक्ष्य क्षितीश्वरान् ।
अथान्यान्पुरुषांश्चापि कृत्वा तत्कर्म संयुगे॥३७॥

संयुगे तत्कर्म कृत्वा तूष्णीं भूताविति शेषः ॥३७॥

वैशंपायन उवाच। तत्कर्म भीमस्य समीक्ष्य कृष्णः कुन्तीसुतौ तौ परिशङ्कमानः ।
निवारयामास महीपतींस्तान् धर्मेण लब्धेत्यनुनीय सर्वान्॥३८॥

एवं ते विनिवृत्तास्तु युद्धाद्युद्धविशारदाः ।
यथावासं ययुः सर्वे विस्मिता राजसत्तमाः॥३९॥

वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता ।
इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः॥४०॥

ब्रह्म ब्राह्मणजातिः उत्तरम् उत्कृष्टं यस्मिन्स ब्रह्मोत्तरः ॥४०॥

ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः ।
कृच्छ्रेण जग्मतुस्तौ तु भीमसेनधनञ्जयौ॥४१॥

विमुक्तो जनसंबाधाच्छत्रुभिः परिविक्षतौ ।
कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः॥४२॥

पौर्णमास्यां घनैर्मुक्तौ चन्द्रसूर्याविवोदितौ ।
तेषां माता बहुविधं विनाशं पर्यचिन्तयत्॥४३॥

अनागच्छत्सु पुत्रेषु भैक्षकालेऽभिगच्छति ।
धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुङ्गवाः॥४४॥

अभिगच्छति उपस्थिते सति ॥४४॥

मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः ।
विपरीतं मतं जातं व्यासस्यापि महात्मनः॥४५॥

इत्येवं चिन्तयामासं सुतस्नेहावृता पृथा ।
ततः सुप्तजनप्राये दुर्दिने मेघसंप्लुते॥४६॥

महत्यथापराह्णे तु घनैः सूर्य इवावृतः ।
ब्राह्मणैः प्राविशत्तत्र जिष्णुर्भार्गववेश्म तत्॥४७॥

भार्गववेश्म कुलधलगृहम् ॥४७॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि पाण्डवप्रत्यागमने नवत्यधिकशततमोऽध्यायः॥१९०॥
एकनवत्यधिकशततमोऽध्यायः

वैशंपायन उवाच। गत्वा तु तां भार्गवकर्मशालां पार्थौ पृथां प्राप्य महानुभावौ ।
तां याज्ञसेनीं परमप्रतीतौ भिक्षेत्यथावेदयतां नराग्र्यौ॥१॥

एकनवत्यधिकशततमोऽध्यायः गत्वेति ॥१॥

कुटीगता सा त्वनवेक्ष्य पुत्रौ प्रोवाच भुङ्क्तेति समेत्य सर्वे ।
पश्चाच्च कुन्ती प्रसमीक्ष्य कृष्णां कष्टं मया भाषितमित्युवाच॥२॥

साऽधर्मभीता परिचिन्तयन्ती तां याज्ञसेनीं परमप्रतीताम् ।
पाणौ गृहीत्वोपजगाम कुन्ती युधिष्ठिरं वाक्यमुवाच चेदम्॥३॥

अधर्मो बहुभर्तृतारूपस्तस्माद्भीता ॥३॥

कुन्त्युवाच। इयं तु कन्या द्रुपदस्य राज्ञः तवानुजाभ्यां मयि संनिसृष्टा ।
यथोचितं पुत्र मयाऽपि चोक्तं समेत्य भुङ्क्तेति नृप प्रमादात्॥४॥

मया कथं नानृतमुक्तमद्य भवेत्कुरूणामृषभ ब्रवीहि ।
पञ्चालराजस्य सुतामधर्मो न चोपवर्तेत न विभ्रमेच्च॥५॥

अधर्मो बहुभर्तृतारूपः विभ्रमेच्च तेनाधर्मेण तिर्यग्योनौ पुनः पुनर्विशेषेण भ्रमेत् ॥५॥

वैशंपायन उवाच। स एवमुक्तो मतिमान्नृवीरो मात्रा मुहूर्तं तु विचिन्त्य राजा ।
कुन्तीं समाश्वास्य कुरुप्रवीरो धनञ्जयं वाक्यमिदं बभाषे॥६॥

त्वया जिता फाल्गुन याज्ञसेनी त्वयैव शोभिष्यति राजपुत्री ।
प्रज्वाल्यतामग्निरमित्रसाह गृहाण पाणिं विधिवत्त्वमस्याः॥७॥

अर्जुन उवाच। मा मां नरेन्द्र त्वमधर्मभाजं कृथा न धर्मोऽयमशिष्टदृष्टः ।
भवान्निवेश्यः प्रथमं ततोऽयं भीमो महाबाहुरचिन्त्यकर्मा॥८॥

न धर्मोऽयं दृष्टः अयं कः यं मां भवान् अशिष्ट शासितवान् । निवेश्यः विवाह्यः ॥८॥

अहं ततो नकुलोऽनन्तरं मे पश्चादयं सहदेवस्तरस्वी ।
वृकोदरोऽहं च यमौ च राजन्नियं च कन्या भवतो नियोज्याः॥९॥

एवं गते यत्करणीयमत्र धर्म्यं यशस्यं कुरु तद्विचिन्त्य ।
पाञ्चालराजस्य हितं च यत्स्यात् प्रशाधि सर्वे स्म वशे स्थितास्ते॥१०॥

वैशंपायन उवाच। जिष्णोर्वचनमाज्ञाय भक्तिस्नेहसमन्वितम् ।
दृष्टिं निवेशयामासुः पाञ्चाल्यां पाण्डुनन्दनाः॥११॥

दृष्ट्वा ते तत्र पश्यन्तीं सर्वे कृष्णां यशस्विनीम् ।
संप्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन्॥१२॥

तेषां तु द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम् ।
संप्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः॥१३॥

काम्यं हि रूपं पाञ्चाल्या विधात्रा विहितं स्वयम् ।
बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम्॥१४॥

तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः ।
द्वैपायनवचः कृत्स्नं सस्मार मनुजर्षभः॥१५॥

अब्रवीत्सहितान्भ्रातॄन्मिथो भेदभयान्नृपः ।
सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा॥१६॥

भेदभयं यस्य द्रौपदी तस्येतरे शत्रवः स्युरिति भेदः ॥१६॥

वैशंपायन उवाच। भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे ज्येष्ठस्य पाण्डोस्तनयास्तदानीम् ।
तमेवार्थं ध्यायमाना मनोभिः सर्वे च ते तस्थुरदीनसत्त्वाः॥१७॥

वृष्णिप्रवीरस्तु कुरुप्रवीरानाशंसमानः सहरौहिणेयः ।
जगाम तां भार्गवकर्मशालां यत्रासते ते पुरुषप्रवीराः॥१८॥

रौहिणेयो बलदेवः ॥१८॥

तत्रोपविष्टं पृथुदीर्घबाहुं ददर्श कृष्णः सहरौहिणेयः ।
अजातशत्रुं परिवार्य तांश्चाप्युपोपविष्टाञ्ज्वलनप्रकाशान्॥१९॥

ततोऽब्रवीद्वासुदेवोऽभिगम्य कुन्तीसुतं धर्मभृतां वरिष्ठम् ।
कृष्णोऽहमस्मीति निपीड्य पादौ युधिष्ठिरस्याजमीढस्य राज्ञः॥२०॥

तथैव तस्याप्यनु रौहिणेयस्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन् ।
पितृष्वसुश्चापि यदुप्रवीरावगृह्णतां भारतमुख्यपादौ॥२१॥

अजातशत्रुश्च कुरुप्रवीरः पप्रच्छ कृष्णं कुशलं विलोक्य ।
कथं वयं वासुदेव त्वयेह गूढा वसन्तो विदिताश्च सर्वे॥२२॥

तमब्रवीद्वासुदेवः प्रहस्य गूढोऽप्यग्निर्ज्ञायत एव राजन् ।
तं विक्रमं पाण्डवेयानतीत्य कोऽन्यः कर्ता विद्यते मानुषेषु॥२३॥

दिष्ट्या सर्वे पावकाद्विप्रमुक्ता यूयं घोरात्पाण्डवाः शत्रुसाहाः ।
दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः सहामात्यो न सकामोऽभविष्यत्॥२४॥

शत्रुसाहाः शत्रुवेगस्य सोढारः ॥२४ ॥

भद्रं वोऽस्तु निहितं यद्गुहायां विवर्धध्वं ज्वलना इवैधमानाः ।
मा वो विदुः पार्थिवाः केचिदेव यास्यावहे शिबिरायैव तावत् ।
सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः प्रायाच्छीघ्रं बलदेवेन सार्धम्॥२५॥

यद्भद्रं गुहायां बुद्धौ वो निहितं तद्वोस्तु ॥२५॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि रामकृष्णागमने एकनवत्यधिकशततमोऽध्यायः॥१९१॥
द्विनवत्यधिकशततमोऽध्यायः

वैशंपायन उवाच। धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ ।
अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशने॥१॥

धृष्टद्युम्न इति ॥१॥

सोऽज्ञायमानः पुरुषानवधाय समन्ततः ।
स्वयमारान्निलीनोऽभूद्भार्गवस्य निवेशने॥२॥

सः अज्ञायमानः पाण्डवैरितरैश्च । आरात्समीपे ॥२॥

सायं च भीमस्तु रिपुप्रमाथी जिष्णुर्यमौ चापि महानुभावौ ।
भैक्षं चरित्वा तु युधिष्ठिराय निवेदयांचक्रुरदीनसत्वाः॥३॥

ततस्तु कुन्ती द्रुपदात्मजां तामुवाच काले वचनं वदान्या ।
त्वमग्रमादाय कुरुष्व भद्रे बलिं च विप्राय च देहि भिक्षाम्॥४॥

अग्रं प्रथममादाय बलिं कुरुष्व भिक्षां च देहि ॥४॥

ये चान्नमिच्छन्ति ददस्व तेभ्यः परिश्रिता ये परितो मनुष्याः ।
ततश्च शेषं प्रविभज्य शीघ्रमर्धं चतुर्णां मम चात्मनश्च॥५॥

परिश्रिताः अन्येऽन्नोपजीविनः । चतुर्धा मम चात्मनश्चेत्यर्धं षोढाऽर्धं भीमायेत्यर्थः ॥५॥

अर्धं तु भीमाय च देहि भद्रे य एष नागर्षभतुल्यरूपः ।
गौरो युवा संहननोपपन्न एषो हि वीरो बहुभुक्सदैव॥६॥

संहननोपपन्नो दृढः पुष्टश्च ॥६॥

सा हृष्टरूपैव तु राजपुत्री तस्या वचः साध्वविशङ्कमाना ।
यथावदुक्तं प्रचकार साध्वी ते चापि सर्वे बुभुजुस्तदन्नम्॥७॥

साधु विशङ्कमाना स्वस्य श्रेयस्तर्कयन्ती । ‘शङ्का त्रासे वितर्के च’ इति मेदिनी ॥७॥

कुशैस्तु भूमौ शयनं चकार माद्रीपुत्रः सहदेवस्तपस्वी ।
यथा स्वकीयान्यजिनानि सर्वे संस्तीर्य वीराः सुषुपुर्धरण्याम्॥८॥

अगस्त्यशान्तामभितो दिशं तु शिरांसि तेषां कुरुसत्तमानाम् ।
कुन्ती पुरस्तात्तु बभूव तेषां पादान्तरे चाथ बभूव कृष्णा॥९॥

अगस्त्येन शास्ता शिक्षिता तां दक्षिणाम् अभितः । सर्वेऽपि दक्षिणाशिरसः पुरस्तात् शिरोदेशस्यैव पादान्तरे पादसमीपप्रदेशे ॥९॥

अशेत भूमौ सह पाण्डुपुत्रैः पादोपधानीव कृता कुशेषु ।
न तत्र दुःखं मनसापि तस्या न चावमेने कुरुपुङ्गवांस्तान्॥१०॥

पादोपधानीव सर्वेषां पादस्पर्शं लभमाना । कुशेषु कुशासनेषु ॥१०॥

ते तत्र शूराः कथयांबभूवुः कथा विचित्राः पृतनाधिकाराः ।
अस्त्राणि दिव्यानि रथांश्च नागान् खड्गान्गदाश्चापि परश्वधांश्च॥११॥

पृतनाधिकाराः सेनाधीशयोग्याः ॥११॥

तेषां कथास्ताः परिकीर्त्यमानाः पाञ्चालराजस्य सुतस्तदानीम् ।
सुश्राव कृष्णां च तदा निषण्णां ते चापि सर्वे ददृशुर्मनुष्याः॥१२॥

धृष्टद्युम्नो राजपुत्रस्तु सर्वं वृत्तं तेषां कथितं चैव रात्रौ ।
सर्वं राज्ञे द्रुपदायाखिलेन निवेदयिष्यंस्त्वरितो जगाम॥१३॥

पाञ्चालराजस्तु विषण्णरूपस्तान्पाण्डवानप्रतिविन्दमानः ।
धृष्टद्युम्नं पर्यपृच्छन्महात्मा क्व सा गता केन नीता च कृष्णा॥१४॥

अप्रतिविन्दमानः अजानन् ॥१४॥

कच्चिन्न शूद्रेण न हीनजेन वैश्येन वा करदेनोपपन्ना ।
कच्चित्पदं मूर्ध्नि न पङ्कदिग्धं कच्चिन्न माला पतिता श्मशाने॥१५॥

मूर्ध्नि पदं हीनवर्णयोगात् वैश्यपक्षे तु न पातित्यम् शूद्रपक्षे तु ‘पद्यु वा एतत् श्मशानं यच्छूद्रः’ इति शूद्रस्य पादयुक्तश्मशानत्वश्रुतेस्तत्र मालावत् सुकुमारी बाला न पतितेति स्पष्टमुक्तम् ॥१५॥

कच्चित्सवर्णप्रवरो मनुष्य उद्रिक्तवर्णोऽप्युत एव कच्चित् ।
कच्चिन्न वामो मम मूर्ध्नि पादः कृष्णाभिमर्शेन कृतोऽद्य पुत्र॥१६॥

सवर्णप्रवरः क्षत्रियश्रेष्ठः । उद्रिक्तवर्णो ब्राह्मणः। मूर्ध्नि पादस्तु वेषमात्रेण ब्राह्मणत्वानिश्वयात् शौर्यस्य च कर्णैकलव्ययोः सूतशूद्रयोरपि दृष्टत्वात् सम्भावितः ॥१६॥

कच्चिन्न तप्स्ये परमप्रतीतः संयुज्य पार्थेन नरर्षभेण ।
वदस्व तत्त्वेन महानुभाव कोऽसौ विजेता दुहितुर्ममाद्य॥१७॥

कच्चिदिति कामप्रवेदने । पार्थेन संयुज्य परमप्रतीतोऽत्यन्तहृष्टोसि । तादृशशौर्यस्यान्यत्रासंभवात् ॥१७॥

विचित्रवीर्यस्य सुतस्य कच्चित् कुरुप्रवीरस्य ध्रियन्ति पुत्राः ।
कच्चित्तु पार्थेन यवीयसाऽद्य धनुर्गृहीतं निहतं च लक्ष्यम्॥१८॥

ध्रियन्ति जीवन्ति ॥१८॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि धृष्टद्युम्नप्रत्यागमने द्विनवत्यधिकशततमोऽध्यायः॥१९२॥
॥ समाप्तं स्वयंवरपर्व ॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in