वैशंपायन उवाच।
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः
।
प्रययुर्द्रौपदीं द्रष्टुं तं च देशं महोत्सवम्॥१॥
चतुरशीत्यधिकशततमोऽध्यायः ततस्ते इति ॥१॥
ते प्रयाता नरव्याघ्राः सह मात्रा परंतपाः
।
ब्राह्मणान्ददृशुर्मार्गे गच्छतः संगतान्बहून्॥२॥
त ऊचुर्ब्राह्मणा रजन्पाण्डवान्ब्रह्मचारिणः
।
भवन्तो गमिष्यन्ति कुतो वाऽभ्यागता इह॥३॥
युधिष्ठिर उवाच ।
आगतानेकचक्रायाः सोदर्यानेकचारिणः
।
भवन्तो वै विजानन्तु सह मात्रा द्विजर्षभाः॥४॥
ब्राह्मणा ऊचुः।
गच्छताद्यैव पञ्चालान्द्रुपदस्य निवेशने
।
स्वयंवरो महांस्तत्र भाविता सुमहाधनः॥५॥
एकसार्थप्रयाताः स्म वयं तत्रैव गामिनः
।
तत्र ह्यद्भुतसंकाशी भाविता सुमहोत्सवः॥६॥
यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः
।
वेदीमध्यात्समुत्पन्ना पञ्चपत्रानिभेक्षणा ॥७॥
दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी
।
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः॥८॥
यो जातः कवची खड्गी सशरः सशरासनः
।
सुसमिद्धे महाबाहुः पावके पावकोपमः॥९॥
स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा
।
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवाति वै॥१०॥
यज्ञसेनस्य च सुतां स्वयंवरकृतक्षणाम्
।
गच्छामो वै वयं द्रष्टुं तं च दिव्यं महोत्सवम्॥११॥
राजानो राजपुत्राश्च यज्वानो भूरिदाक्षिणाः
।
स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः ॥१२॥
तरुणा दशेनीयाश्च नानादेशसमागताः
।
महारथा कृतास्त्राश्च समुपेष्यन्ति भूमिपाः॥१३॥
ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः
।
प्रदास्यन्ति घनं गाश्च भक्ष्यं भोज्यं च सर्वेशः॥१४॥
दायान् देयानि तानेवाह धनमित्यादि ॥१४॥
प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम्
।
अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम्॥१५॥
नरा वैताछिकास्तत्र नर्तकाः सूतमागधाः
।
नियोघकाश्च देशेभ्यः समेष्यन्ति महाबलाः ॥१६॥
नटाः वेषभेदकारिणः । वैतालिकाः मङ्गलपाठकारिणः । नर्तकाः प्रसिद्धाः । सूताः पौराणिकाः मागधाः वंशसूचकाः नियोधकाः मल्लाः ॥१६॥
एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिग्रह्य च
।
सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ ॥१७॥
दर्शनीयांश्च वः सवोन्देवरूपानवस्थितान्
।
समीक्ष्य कृष्णा वरयेत्संगत्यैकतमं वरम् ॥१८॥
सङ्गत्या दैवयोगेन ॥१८॥
अयं भ्राता तव श्रीमान्दर्शनीयो महासुजः
।
नियुज्यमानो विजये संगत्या द्रविणं बहु
।
आहरिष्यन्नयं नूनं प्रीतिं वो वर्धयिष्याति॥१९॥
युधिष्ठिर उवाच
।
परमं भो गमिष्यामो द्रष्टं चैव महोत्सवम्
।
भवाद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् ॥२०॥
परमं यथेष्टम् ॥२०॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि पाण्डवागमने चतुरशीत्यधिकशततमोऽध्यायः॥१८४॥
वैशंम्पायन उवाच।
एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय
।
राज्ञा दक्षिणपञ्चालान्द्रुपदेनाभिरक्षितान्॥१॥
पञ्चाशीत्यधिकशततमोऽध्यायः एवमिति ॥१॥
ततस्तेषु महात्मानं शुद्धात्मानमकल्मषम्
।
ददृशुः पाण्डवा वीराः पथि द्वैपायनं तदा॥२॥
तस्मै यथावत्सत्कारं कृत्वा तेन च सत्कृताः
।
कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम्॥३॥
पश्यन्तो रमणीयानि वनानि च सरांसि च
।
तत्र तत्र वसन्तश्च शनैर्जग्मुर्महराथाः॥४॥
स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः
।
आनुपूर्व्येण संप्राप्ताः पाञ्चालान्पाण्डुनन्दनाः॥५॥
ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः
।
कुम्भकारस्य शालायां निवासं चक्रिरे तदा॥६॥
स्कन्धावारं राजगृहप्राकारं लोकसमूहस्थानं वा । ‘स्कन्धः स्यान्नृपतावंसे साम्परायसमूहयो:’ इति मेदिनी ॥६॥
तत्र भैक्षं समाजह्रुर्ब्राह्मणीं वृत्तिमाश्रिताः
।
तान्संप्राप्तांस्तथा वीराञ्जज्ञिरे न नराः क्वचित्॥७॥
न जज्ञिरे न ज्ञातवन्तः ॥७॥
यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने
।
कृष्णां दद्यामिति सदा न चतद्विवृणोति सः॥८॥
सोऽन्वेषमाणः कौन्तेयं पाञ्चाल्यो जनमेजय
।
दृढं धनुरथानम्यं कारयामास भारत॥९॥
अनानम्यं नमयितुमशक्यम् ॥९॥
यन्त्रं वैहायसं चापि कारयामास कृत्रिमम्
।
तेन यन्त्रेण समितं राला लक्ष्यं चकार सः॥१०॥
वैहायसम् अन्तरिक्षगतम् । यन्त्रं तीव्रवेगवत्तया भ्रमणेन लक्ष्यमार्गसङ्कोचकमन्तराबद्धं समितं यन्त्रच्छिद्रद्वारा उपलक्षितम् । लक्ष्यमपि वैहायसमित्यर्थः । अस्त्रशिक्षायाम् एकेनार्जुनेनैव चललक्ष्यपातनं कृतमतः स एव चलयन्त्रद्वारा लक्ष्यं भेत्स्येति नान्य इति । तदन्वेषणायायं यत्नो द्रुपदेन कृतः । यद्यपि कर्णस्याप्येतत्सुकरं तथापि हीनकुलत्वात्स सुपरिहर इति भावः ॥१०॥
द्रुपद उवाच।
इदं सज्यं धनुः कृत्वा सज्जैरेभिश्च सायकैः
।
अतीत्य लक्ष्य यो वेद्धा स लब्धा मत्सुतामिति॥११॥
सज्यं धनुः कृत्वा इदं यन्त्रमतीत्य लक्ष्यं यो वेद्धा वेद्धुं समर्थः ॥११॥
वैशंपायन उवाच।
इति स द्रुपदो राजा स्वयंवरमघोषयत्
।
तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत॥१२॥
ऋषयश्च महात्मानः स्वयंवरदिदृक्षवः
।
दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप॥१३॥
ततोऽर्चिता राजगुणा द्रुपदेन महात्मना॥१४॥
उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम्
।
ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः॥१५॥
उपोपविष्टाः पादपूरणार्था उपेत्यस्यावृत्तिः ‘प्रसमुपोदःपादपूरणे’ इति ॥१५॥
शिशुमारशिरः प्राप्य न्यविशंस्ते स्म पार्थिवाः
।
प्रागुत्तरेण नगराद्भूमिभागे समे शुभे
।
समाजवाटः शुशुभे भवनैः सर्वतो वृतः॥१६॥
शिशुमारो जलजन्तुः तदाकारस्तारासमूहात्मको विष्णुः तस्य शिरः प्रदेशे ऐशान्यां दिशि । अत एव सा अपराजिता दिकू । तां दिशं प्राप्य न्यविशन् । तामेव दिशमाह प्रागिति । प्रागुत्तरेण प्रागुदीच्योरन्तराले नगरात्समीपे ।‘एनबन्यतरस्यामदूरे पञ्चम्या’ इत्येनबन्तमिदम् ॥१६॥
प्राकारपरिखोपेतो द्वारतोरणमण्डितः
।
वितानेन विचित्रेण सर्वतः समलङ्कृतः॥१७॥
तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः
।
चन्दनोदकसिक्तश्च माल्यदामोपशोभितः॥१८॥
कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः
।
सर्वतः संवृतः शुभ्रैः प्रासादैः सुकृतोच्छ्रयै॥१९॥
सुवर्णजालसंवीतैर्मणिकुट्टिमभूषणैः
।
सुखारोहणसौपानैर्महासनपरिच्छदैः॥२०॥
स्रग्दामसमवच्छन्नैरगुरूत्तमवासितैः
।
हंसांशुवर्णैर्बहुभिरायोजनसुगन्धिभिः॥२१॥
असंबाधशतद्वारैः शयनासनशोभितैः
।
बहुधा तु पिनद्धाङ्गैर्हिमवच्छिखरैरिव॥२२॥
तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः
।
स्पर्धमानास्तदाऽन्योऽन्यं निषेदुः सर्वपार्थिवाः॥२३॥
विमानेषु सप्तभूमिगृहेषु । ‘विमानो व्योमयाने च सप्तभूमिगृहेपि च’ इति मेदिनी ॥२३॥
तत्रोपविष्टान्ददृशुर्महासत्त्वापराक्रमान्
।
राजसिंहान्महाभागान्कृष्णागुरुविभूषितान्॥२४॥
महाप्रसादान्ब्राह्मण्यान्स्वराष्ट्रपरिरक्षिणः
।
प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः॥२५॥
मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः
।
कृष्णादर्शनसिद्ध्यर्थं सर्वतः समुपाविशन्॥२६॥
ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन्
।
ऋद्धिं पञ्चालराजस्य पश्यन्तस्तामनुत्तमाम्॥२७॥
ततः समाजो ववृधे स राजन्दिवसान्बहून्
।
रत्नप्रदानबहुलः शोभितो नटनर्तकैः॥२८॥
वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे
।
आप्लुताङ्गी सुवसना सर्वाभरणभूषिता॥२९॥
मालां च समुपादाय काञ्चनीं समलङ्कृताम्
।
अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ॥३०॥
पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः
।
परिस्तीर्य जुहावाग्निमाज्येन विधिवत्तदा॥३१॥
परिस्तीर्य दर्भैः परितः स्तीर्त्वा ॥३१॥
संतर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च
।
वारयामास सर्वाणि वादित्राणि समन्ततः॥३२॥
निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशांपते
।
कृष्णामादाय विधिवन्मेघदुन्दुभिनिःस्वनः॥३३॥
रङ्गमध्यं गतस्तत्र मेघगम्भीरया गिरा
।
वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम्॥३४॥
इदं धनुर्लक्ष्यमिमे च बाणाः शृण्वन्तु मे भूपतयः समेताः
।
छिद्रेण यन्त्रस्य समर्पयध्वं शरैः शितैर्व्योमचरैर्दशार्धैः॥३५॥
इदं धनुः इदं च लक्ष्यं इमे च बाणाः । चलयन्त्रच्छिद्रद्वारा युगपत्पञ्चबाणान्लक्ष्ये यः समर्पयति तस्याद्य भार्या भगिनी ममेयमिति द्वयोः सम्बन्धः व्योमचरैर्बाणैः ॥३५॥
एतन्महत्कर्म करोति यो वै कुलेन रूपेण बलेन युक्तः
।
तस्याद्य भार्या भगिनी ममेयं कृष्णा भवित्री न मृषा ब्रवीमि॥३६॥
तानेवमुक्त्वा द्रुपदस्य पुत्रः पश्चादिदं तां भगिनीमुवाच
।
नाम्ना च गोत्रेण च कर्मणा च संकीर्तयन्भूमिपतीन्समेतान्॥३७॥
तान् नृपान्प्रति ॥३७॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि धृष्टद्युम्नवाक्ये पञ्चाशीत्यधिकशततमोऽध्यायः॥१५८॥
धृष्टद्युम्न उवाच।
दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः
।
विविंशतिर्विकर्णश्च सहो दुःशासनस्तथा॥१॥
षडशीत्यधिकशततमोऽध्यायः दुर्योधन इत्यादिः स्पष्टार्थो ग्रन्थः ॥१॥
युयुत्सुर्वायुवेगश्च भीमवेगरवस्तथा
।
उग्रायुधो बलाकी च करकायुर्विरोचनः॥२॥
कुण्डकश्चित्रसेनश्च सुवर्चाः कनकध्वजः
।
नन्दको बाहुशाली च तुहुण्डो विकटस्तथा॥३॥
एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः
।
कर्णेन सहिता वीरास्त्वदर्थं समुपागताः॥४॥
असङ्ख्याता महात्मानः पार्थिवाः क्षत्रियर्षभाः
।
शकुनिः सौबलश्चैव वृषकोऽथ बृहद्बलः॥५॥
एते गान्धारराजस्य सुताः सर्वे समागताः
।
अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ॥६॥
समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ
।
बृहन्तो मणिमांश्चैव दण्डधारश्च पार्थिवः॥७॥
सहदेवजयत्सेनौ मेघसन्धिश्च पार्थिवः
।
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च॥८॥
वार्धक्षेमिः सुशर्मा च सेनाबिन्दुश्च पार्थिवः
।
सुकेतुः सह पुत्रेण सुनाम्ना च सुवर्चसा॥९॥
सुचित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा
।
सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा॥१०॥
अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः
।
समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान्॥११॥
जलसन्धः पितापुत्रौ विदण्डो दण्ड एव च
।
पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान्॥१२॥
कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा
।
मद्रराजस्तथा शल्यः सहपुत्रो महारथः॥१३॥
रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च
।
कौरव्यः सोमदत्तश्च पुत्रश्चास्य महारथः॥१४॥
समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः
।
सुदक्षिणश्च काम्बोजो दृढधन्वा च पौरवः॥१५॥
बृहद्बलः सुषेणश्च शिबिरौशीनस्तथा
।
पटच्चरनिहन्ता च कारूषाधिपतिस्तथा॥१६॥
सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान्
।
साम्बश्च चारुदेष्णश्च प्राद्युम्निः सगदस्तथा॥१७॥
अक्रूरः सात्यकिश्चैव उद्धवश्च महामतिः
।
कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च॥१८॥
विदूरथश्च कङ्कश्च शङ्कुश्च सगवेषणः
।
आशावहोऽनिरुद्धश्च समीकः सारिमेजयः॥१९॥
वीरो वातपतिश्चैव झिल्ली पिण्डारकस्तथा
।
उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः॥२०॥
भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः
।
बृहद्रथो बाह्लिकश्च श्रुतायुश्च महारथः॥२१॥
उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ
।
वत्सराजश्च मतिमान्कोसलाधिपतिस्तथा॥२२॥
शिशुपालश्च विक्रान्तो जरासन्धस्तथैव च
।
एते चान्ये च बहवो नानाजनपदेश्वराः॥२३॥
त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि
।
एते भेत्स्यन्ति विक्रान्तास्त्वदर्थे लक्ष्यमुत्तमम्
।
विध्यते य इदं लक्ष्यं वरयेथाः शुभेऽद्य तम्॥२४॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि राजनामकीर्तने षडशीत्यधिकशततमोऽध्यायः॥१८६॥
वैशंपायन उवाच।
तेऽलङ्कृताः कुण्डलिनो युवानः परस्परं स्पर्धमाना नरेन्द्राः
।
अस्त्रं बलं चात्मनि मन्यमानाःसर्वें समुत्पेतुरुदायुधास्ते॥१॥
सप्ताशीत्यधिकशततमोऽध्यायः तेऽलंकृता इति ॥१॥
रूपेण वीर्येण कुले चैव शीलेन वित्तेन च यौवनेन
।
समिद्धदर्पा मदवेगभिन्ना मत्ता यथा हैमवता गजेन्द्राः॥२॥
परस्परं स्पर्धया प्रेक्षमाणाः सङ्कल्पजेनाभिपरिप्लुताङ्गाः
।
कृष्णा ममैवेत्यभिभाषमाणा नृपासनेभ्यः सहसोदतिष्ठन् ॥३॥
सङ्कल्पजेन कामेन ॥३॥
ते क्षत्रिया रङ्गगताः समेता जिगीषमाणा द्रुपदात्मजां ताम्
।
चकाशिरे पर्वतराजकन्यामुमां यथा देवगणाः समेताः॥४॥
कन्दर्पबाणाभिनिपीडिताङ्गाः कृष्णागतैस्ते हृदयैर्नरेन्द्राः
।
रङ्गावतीर्णा द्रुपदात्मजार्थं द्वेषं प्रचक्रुः सुहृदोऽपि तत्र॥५॥
अथाययुर्देवगणा विमानै रुद्रादित्या वसवोऽथाश्विनौ च
।
साध्याश्च सर्वे मरुतस्तथैव यमं पुरस्कृत्य धनेश्वरं च॥६॥
दैत्याः सुपर्णाश्च महोरगाश्च देवर्षयो गुह्यकाश्चारणाश्च
।
विश्वावसुर्नारदपर्वतौ च गन्धर्वमुख्याः सहसाप्सरोभिः॥७॥
हलायुधस्तत्र जनार्दनश्च वृष्ण्यन्धकाश्चैव यताप्रधानम्
।
प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते स्थिताश्च कृष्णस्य मते महान्तः॥८॥
दृष्ट्वा तु तान्मत्तगजेन्द्ररूपान् पञ्चाभिपद्मानिव वारणेन्द्रान्
।
भस्मावृताङ्गानिव हव्यवाहान् कृष्णः प्रदध्यौ यदुवीरमुख्यः॥९॥
अभितः पद्मा लक्ष्मीर्येषां तान्सर्वाङ्गसुन्दरानित्यर्थः अतिपद्मानिति पाठेपि स एवार्थः । अतिमत्तानित्यपपाठः ॥९॥
शशंस रामाय युधिष्ठिरं स भीमं सजिष्णुं च यमौ च वीरौ
।
शनैःशनैस्तान्प्रसमीक्ष्य रामो जनार्दनं प्रीतमना ददर्श ह॥१०॥
अन्ये तु वीरा नृपपुत्रपौत्राः कृष्णागतैर्नेत्रमनःस्वभावैः
।
व्यायच्छमाना ददृशुर्न तान्वै सन्दष्टदन्तच्छदताम्रनेत्राः॥११॥
व्यायच्छमानाः व्याददानाः चक्षुः प्रसार्य कृष्णामेव ददृशुर्न पाण्डवान् ॥११॥
तथैव पार्थाः पृथुबाहवस्ते वीरौ यमौ चैव महानुभावौ
।
तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे कन्दर्पबाणाभिहता बभूवुः॥१२॥
तथैव पार्था इति । कामाभिभूतत्वाद्रामकृष्णादीन्न ददृशुरिति भावः ॥१२॥
देवर्षिगन्धर्वसमाकुलं तत् सुपर्णनागासुरसिद्धजुष्टम्
।
दिव्येन गन्धेन समाकुलं च दिव्यैश्च पुष्पैरवकीर्यमाणम्॥१३॥
महास्वनैर्दुन्दुभिनादितैश्च बभूव तत्सङ्कुलमन्तरिक्षम्
।
विमानसंबाधमभूत्समन्तात् सवेणुवीणापणवानुनादम्॥१४॥
विमानसम्बाधं विमानसङ्कीर्णम् ॥१४॥
ततस्तु ते राजगणाः क्रमेण कृष्णानिमित्तं कृतविक्रमाश्च
।
सकर्णदुर्योधनशाल्वशल्यद्रौणायनिक्राथसुनीथवक्त्राः॥१५॥
कलिङ्गवङ्गाधिपपाण्ड्यपौण्ड्रा विदेहराजो यवनाधिपश्च
।
अन्ये च नानानृपपुत्रपौत्रा राष्ट्राधिपाः पङ्कजपत्रनेत्राः॥१६॥
किरीटहाराङ्गदचक्रवालैर्विभूषिताङ्गाः पृथुबाहवस्ते
।
अनुक्रमं विक्रमसत्वयुक्ता बलेन वीर्येण च नर्दमानाः॥१७॥
तत्कार्मुकं संहननोपपन्नं सज्यं न शेकुर्मनसाऽपि कर्तुम्
।
ते विक्रमन्तः स्फुरता दृढेन विक्षिप्यमाणा धनुषा नरेन्द्राः॥१८॥
संहननोपपन्नम् अत्यन्तं काठिन्येन युक्तम् । स्फुरता नामयितुमसामर्थ्यात्करान्निः सरत्कोटितया । अत एव विक्षिप्यमाणाः दण्डेन वीटा इव । धनुषा धनुष्कोट्या शमयाम्बभूवुरिति द्वयोः सम्बन्धः ॥१८॥
विचेष्टमाना धरणीतलस्था यथाबलं शैक्ष्यगुणक्रमाश्च
।
गतौजसः स्नस्तकिरीटहारा विनिःश्वसन्तः शमयांबभूवुः॥१९॥
हहाकृतं तद्धनुषा दृढेन विस्रस्तहाराङ्गदचक्रवालम्
।
कृष्णानिमित्तं विनिवृत्तकामं राज्ञां तदा मण्डलमार्तमासीत्॥२०॥
चक्रवालं मण्डलम् ॥२०॥
सर्वान्नृपांस्तान्प्रसमीक्ष्य कर्णो धनुर्धराणां प्रवरो जगाम
।
उद्धृत्य तूर्णं धनुरुद्यतं तत् सज्यं चकाराशु युयोज बाणान्॥२१॥
दृष्ट्वा सूतं मेनिरे पाण्डुपुत्रा भित्वा नीतं लक्ष्यवरं धरायाम्
।
धनुर्धरा रागकृतप्रतिज्ञमत्यग्निसोमार्कमथार्कपुत्रम्॥२२॥
दृष्ट्वा तु तं द्रौपदी वाक्यमुच्चैर्जगाद नाहं वरयामि सूतम्
।
सामर्षहासं प्रसमुस्य सूर्यं तत्याज कर्णः स्फुरितं धनुस्तत्॥२३॥
सामर्षहासं नीचकुलयोगादमर्षः सूर्यापराधत्वात् हासः ॥२३॥
एवं तेषु निवृत्तेषु क्षत्रियेषु समन्ततः
।
चेदीनामधिपो वीरो बलवानन्तकोपमः॥२४॥
दमघोषसुतो धीरः शिशुपालो महामतिः
।
धनुरादायमानस्तु जानुभ्यामगमन्महीम्॥२५॥
धनुरादायमानः परीक्षमाणः दैदृ शोधनेऽस्य रूपम् ॥२५॥
ततो राजा महावीर्यो जरासन्धो महाबलः
।
धनुषोऽभ्याशमागत्य तस्थौ गिरिरिवाचलः॥२६॥
अभ्याशं समीपम् ॥२६॥
धनुषा पीड्यमानस्तु जानुभ्यामगमन्महीम्
।
तत उत्थाय राजा स स्वराष्ट्रण्यभिजग्मिवान्॥२७॥
धनुषा आकृष्यमाणेन ॥२७॥
ततः शल्यो महावीरो मद्रराजो महाबलः
।
तदप्यारोप्यमाणस्तु जानुभ्यामगमन्महीम्॥२८॥
आरोप्यमाणः सज्जीकर्तुमिच्छन् ॥२८॥
तस्मिंस्तु संभ्रान्तजने समाजे निक्षिप्तवादेषु जनाधिपेषु
।
कुन्तीसुतो जिष्णुरियेष कर्तुं सज्यं धनुस्तत्सशरं प्रवीरः॥२९॥
निक्षिप्तवादेषु त्यक्तधनुरुद्यमनकथेषु ॥२९॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि राजपराङ्मुखीभवने सप्ताशीत्यधिकशततमोऽध्यायः॥१८७॥
वैशंपायन उवाच।
यदा निवृत्ता राजानो धनुषः सज्यकर्मणः
।
अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः॥१॥
अष्टाशीत्यधिकशततमोऽध्यायः यदेति जिष्णुरर्जुनः ॥१॥
उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च
।
दृष्ट्वा संप्रस्थितं पार्थमिन्द्रकेतुसमप्रभम्॥२॥
केचिदासन्विमनसः केचिदासन्मुदान्विताः
।
आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः॥३॥
यत्कर्णशल्यप्रमुखैः क्षत्रियैर्लोकविश्रुतैः
।
नानतं बलवद्भिर्हि धनुर्वेदपरायणैः॥४॥
तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा
।
वटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः॥५॥
प्राणतः शक्तितः ॥५॥
अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु
।
कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते॥६॥
यद्येष दर्पाद्धर्षाद्वाप्यथ ब्राह्मणचापलात्
।
प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत्॥७॥
दर्पात् गर्वात् । हर्षात् औत्सुक्यात् । चापलात् अनवस्थितत्वात् ॥७॥
ब्राह्मणा ऊचुः।
नावहास्या भविष्यामो न च लाघवमास्थिताः
।
न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम्॥८॥
केचिदाहुर्युवा श्रीमान्नागराजकरोपमः
।
पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव॥९॥
सिंहखेलगतिः श्रीमान्मत्तनागेन्द्रविक्रमः
।
संभाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते॥१०॥
शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत्
।
न च तद्विद्यते किंचित्कर्म लोकेषु यद्भवेत्॥११॥
लोकेषु ब्रह्मलोकान्तेषु नृषु पुरुषेषु संस्थानचारिषु देवासुराकारैश्वरत्सु । तत्कर्म न विद्यते यत् ब्राह्मणानामसाध्यमिति सम्बन्धः ॥११॥
ब्राह्मणानामसाध्यं च नृषु संस्थानचारिषु
।
अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः॥१२॥
दुर्बला अपि विप्रा हि बलीयांसः स्वेतजसा
।
ब्राह्मणो नावमन्तव्यः सदसद्वा समाचरन्॥१३॥
सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम्
।
जामदग्न्येन रामेण निर्जिताः क्षत्रिया युधि॥१४॥
महत् ह्रस्वम् । महदपि क्षुद्रं भवति तत्र तत् कर्म । तदेवोदाहरति जामदग्न्येनेति ॥१४॥
पीतः समुद्रोऽगस्त्येन अगाधो ब्रह्मतेजसा
।
तस्माद्ब्रुवन्तु सर्वेऽत्र वटुरेष धनुर्महान्॥१५॥
ब्राह्मणवचसा क्षुद्रेणापि महत्कर्म कर्तुं शक्यमित्यभिप्रेत्य सर्वेप्यैकमत्येनाहुः तस्मादिति ॥१५॥
आरोपयतु शीघ्रं वै तथेत्यूचुर्द्विजर्षभाः
।
एवं तेषां विलपतां विप्राणां विविधा गिरः॥१६॥
अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः
।
स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत्॥१७॥
प्रणम्य शिरसा देवमीशानं वरदं प्रभुम्
।
कृष्णं च मनसा कृत्वा जगृहे चार्जुनो धनुः॥१८॥
यत्पार्थिवै रुक्मसुनीथवक्त्रैः राधेयदुर्योधनशल्यसाल्वैः
।
तदा धनुर्वेदपरैर्नृसिंहैः कृतं न सज्यं महतोऽपि यत्नात्॥१९॥
राधेयः कर्णः ॥१९॥
तदर्जुनो वीर्यवतां सदर्पस्तदैन्द्रिरिन्द्रावरजप्रभावः
।
सज्यं च चक्रे निमिषान्तरेण शरांश्च जग्राह दशार्दसङ्ख्यान्॥२०॥
विव्याध लक्ष्यं निपपात तच्च छिद्रेण भूमौ सहसातिविद्धम्
।
ततोऽन्तरिक्षे च बभूव नादः समाजमध्ये च महान्निनादः॥२१॥
पुष्पाणि दिव्यानि ववर्ष देवः पार्थस्य मूर्ध्नि द्विषतां निहन्तुः॥२२॥
चैलानि विव्यधुस्तत्र ब्राह्मणाश्च सहस्रशः
।
विलक्षितास्ततश्चक्रुर्हाहाकारांश्च सर्वशः
।
न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः॥२३॥
विव्यधुः विजयध्वजवदुच्छ्रितवन्तः । विलक्षिताः विषमं लक्षितं दृष्टिर्येषां ते तथाभूताः शत्रवः लक्ष्येण विना कृता वा ॥२३॥
शताङ्गानि च तूर्याणि वादकाः समवादयन्
।
सूतमागधसङ्घाश्चाप्यस्तुवंस्तत्र सुस्वराः॥२४॥
शतम् अनन्तानि अङ्गानि नखाङ्गुलिदण्डधनुर्ज्यावक्रादीनि वादनोपायाः येषां तानि । ‘अङ्गं गात्रान्तिकोपायप्रतीकेषु’ इति विश्वः ॥२४॥
तं दृष्ट्वा द्रुपदः प्रीतो बभूव रिपुसूदनः
।
सह सैन्यैश्च पार्थस्य साहाय्यार्थमियेष सः॥२५॥
साहाय्यार्थे द्रौपद्यलाभात् क्षुब्धैर्नृपान्तरैर्युद्धप्रसक्तौ सत्याम् ॥२५॥
तस्मिंस्तु शब्दे महति प्रवृद्धे युधिष्ठिरो धर्मभृतां वरिष्ठः
।
आवासमेवोपजगाम शीघ्रं सार्धं यमाभ्यां पुरुषोत्तमाभ्याम्॥२६॥
विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा पार्थं च शक्रप्रतिमं निरीक्ष्य
।
आदाय शुक्लाम्बरमाल्यदाम जागाम कुन्तीसुतमुत्स्मयन्ती॥२७॥
उत्स्मयन्ती उत्तमपतिलाभादन्त्यं गर्वं कुर्वती ॥२७॥
स तामुपादाय विजित्य रङ्गे द्विजातिभिस्तैरभिपूज्यमानः
।
रङ्गान्निरक्रामदचिन्त्यकर्मा पत्न्या तया चाप्यनुगम्यमानः॥२८॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि लक्ष्यच्छेदनेऽष्टाशीत्यधिकशततमोऽध्यायः॥१८८॥
वैशंपायन उवाच।
तस्मै दित्सति कन्यां तु ब्राह्मणाय तदा नृपे
।
कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात्॥१॥
ऊननवत्यधिकशततमोऽध्यायः तस्मै दित्सतीति ॥१॥
अस्मानयमतिक्रम्य तृणीकृत्य च संगतान्
।
दातुमिच्छति विप्राय द्रौपदीं योषितां वराम्॥२॥
अवरोप्येह वृक्षस्तु फलकाले निपात्यते
।
निहन्मैनं दुरात्मानं योयमस्मान्न मन्यते॥३॥
न ह्यर्हत्येष संमानं नापि वृद्धक्रमं गुणैः
।
हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम्॥४॥
अवरोप्येत्यस्य व्याख्या अयं हीति व्यवहितश्लोकेन ॥४॥
अयं हि सर्वानाहूय सत्कृत्य च नराधिपान्
।
गुणवद्भोजयित्वान्नं ततः पश्चान्न मन्यते॥५॥
अस्मिन्राजसमवाये देवानामिव सन्नये
।
किमयं सदृशं कंचिन्नृपतिं नैव दृष्टवान्॥६॥
न च विप्रेष्वधीकारो विद्यते वरणं प्रति
।
स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः॥७॥
अथवा यदि कन्येयं न च कंचिद्बुभूषति
।
अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः॥८॥
ब्राह्मणो यदि चापल्याल्लोभाद्वा कृतवानिदम्
।
विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथंचन॥९॥
ब्राह्मणार्थं हि नो राज्यं जीवितं हि वसूनि च
।
पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम्॥१०॥
अवमानभयाच्चैव स्वधर्मस्य च रक्षणात्
।
स्वयंवराणामन्येषां मा भूदेवंविधा गतिः॥११॥
इत्युक्त्वा राजशार्दूला रुष्टाः परिघबाहवः
।
द्रुपदं तु जिघांसन्तः सायुधाः समुपाद्रवन्॥१२॥
तान्गृहीतशरावापान्क्रुद्धानापततो बहून्
।
द्रुपदो वीक्ष्य संग्रासाद्ब्राह्मणाञ्छरणं गतः॥१३॥
संत्रासात् ब्राह्मणकोपेन सर्वं क्षत्रं नश्येदिति शङ्कोत्थात् भयात् ॥१३॥
वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान्
।
पाण्डुपुत्रौ महेष्वासौ प्रतियातावरिन्दमौ॥१४॥
ततः समुत्पेतुरुदायुधास्ते महीक्षितो बद्धगोधाङ्गुलित्राः
।
जिघांसमानाः कुरुराजपुत्रावमर्षयन्तोऽर्जुनभीमसेनौ॥१५॥
ततस्तु भीमोऽद्भुतभीमकर्मा महाबलो वज्रसमानसारः
।
उत्पाट्य दोर्भ्यां द्रुममेकवीरो निष्पत्रयामास यथा गजेन्द्रः॥१६॥
तं वृक्षमादाय रिपुप्रमाथी दण्डीव दण्डं पितृराज उग्रम्
।
तस्थौ समीपे पुरुषर्षभस्य पार्थस्य पार्थः पृथुदीर्घबाहुः॥१७॥
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धिर्जिष्णुः स हि भ्रातुरचिन्त्यकर्मा
।
विसिष्मिये चापि भयं विहाय तस्थौ धनुर्गृह्य महेन्द्रकर्मा॥१८॥
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धिर्जिष्णोः सहभ्रातुरचिन्त्यकर्मा
।
दामोदरो भ्रातुरमुग्रवीर्यं हलायुधं वाक्यमिदं बभाषे॥१९॥
य एष सिंहर्षभ खेलगामी महद्धनुः कर्षति तालमात्रम्
।
एषोऽर्जुनो नात्र विचार्यमस्ति यद्यस्मि संकर्षण वासुदेवः॥२०॥
यस्त्वेष वृक्षं तरसाऽवभज्य राज्ञां निकारे सहसा प्रवृत्तः
।
वृकोदरान्नान्य इहैतदद्य कर्तुं समर्थः समरे पृथिव्याम्॥२१॥
योऽसौ पुरस्तात्कमलायताक्षस्तनुर्महासिंहगतिर्विनीतः
।
गौरः प्रलम्बोज्ज्वलचारुघोणो विनिःसृतः सोऽच्युतधर्मपुत्रः॥२२॥
घोणा नासा ॥२२॥
यौ तौ कुमाराविव कार्तिकेयौ द्वावाश्विनेयाविति मे वितर्कः
।
मुक्ता हि तस्माज्जतुवेश्मदाहात् मया श्रुताः पाण्डुसुताः पृथा च॥२३॥
कार्तिकेयावित्यभूतोपमा ॥२३॥
तमब्रवीन्निर्जलतोयदाभो हलायुधोऽनन्तरजं प्रतीतः
।
प्रीतोऽस्मि दृष्ट्वा हि पितृष्वसारं पृथां विमुक्तां सह कौरवाग्र्यैः॥२४॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि कृष्णवाक्ये ऊननवत्यधिकशततमोऽध्यायः॥१८९॥
अजिनानि विधुन्वन्तः करकाश्च द्विजर्षभाः
।
ऊचुस्ते भीर्न कर्तव्या वयं योत्स्यामहे परान्॥१॥
नवत्यधिकशाततमोऽध्यायः अजिनानीति ॥१॥
तानेवं वदतो विप्रानर्जुनः प्रहसन्निव
।
उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः॥२॥
अहमेनानजिह्माग्रैः शतशो विकिरञ्छरैः
।
वारयिष्यामि संक्रुद्धान्मन्त्रैराशीविषानिव॥३॥
इति तद्धनुरानम्य शुल्कावाप्तं महाबलः
।
भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः॥४॥
शुल्कावाप्तं पणप्राप्तम् ॥४॥
ततः कर्णमुखान्दृष्ट्वा क्षत्रियान्युद्धदुर्मदान्
।
संपेततुरभीतौ तौ गजौ प्रतिगजानिव॥५॥
ऊचुश्च वाचः परुषास्ते राजानो युयुत्सवः
।
आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः॥६॥
इत्येवमुक्त्वा राजानः सहसा दुद्रुवुर्द्विजान्
।
ततः कर्णो महातेजा जिष्णुं प्रति ययौ रणे॥७॥
युद्धार्थी वासिताहेतोर्गजः प्रतिगजं यथा
।
भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली॥८॥
दुर्योधनादयः सर्वे ब्राह्मणैः सह संगताः
।
मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे॥९॥
ततोऽर्जुनः प्रत्यविध्यदापतन्तं शितैः शरैः
।
कर्णं वैकर्तनं श्रीमान्विकृष्य बलवद्धनुः॥१०॥
तेषां शराणां वेगेन शितानां तिग्मतेजसाम्
।
विमुह्यमानो राधेयो यत्नात्तमनुधावति॥११॥
तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ
।
अयुध्येतां सुसंरब्धावन्योन्यविजिगीषिणौ॥१२॥
विजिगीषिणौ विजिगीषावन्तौ ॥१२॥
कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे
।
इति शूरार्थवचनैरभाषेतां परस्परम्॥१३॥
शराणाम् अर्थवद्भिर्वचनैः शूरार्थवचनैः ॥१३॥
ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि
।
ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत्॥१४॥
अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा
।
प्रतिहत्य ननादोच्चैः सैन्यानि तदपूजयन्॥१५॥
प्रतिहन्य प्रतिहत्या वा ल्यपीति पक्षेऽनुनासिकलोपाभावान्न तुक् । तत प्रतिहननम् ॥१५॥
कर्ण उवाच।
तुष्यामि ते विप्रमुख्य भुजवीयर्स्य संयुगे
।
अविषादस्य चैवास्य शस्त्रास्त्रविजयस्य च॥१६॥
किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम
।
अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः॥१७॥
आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः
।
विप्ररूपं विधायेदं मन्ये मां प्रतियुध्यसे॥१८॥
मन्ये त्वां यस्मात् मां प्रतियुध्यसे ॥१८॥
न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः
।
पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः॥१९॥
तमेवंवादिनं तत्र फाल्गुनः प्रत्यभाषत
।
नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान्॥२०॥
ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः
।
ब्राह्मे पौरन्दरे चास्त्रे निष्ठितोगुरुशासनात्॥२१॥
स्थितोऽस्म्यद्य रणे जेतुं त्वां वै वीर स्थिरो भव
।
वैशंपायन उवाच।
एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत॥२२॥
ब्राह्मं तेजस्तदाऽजय्यं मन्यमानो महारथः
।
अपरस्मिन्वनोद्देशे वीरौ शल्यवृकोदरौ॥२३॥
वनोद्देशे रङ्गदृशां निवासस्थाने । ‘वनं नपुंसकं नीरे निवासालयकानने’ इति मेदिनी ॥२३॥
बलिनौ युद्धसंपन्नौ विद्यया च बलेन च
।
अन्योन्यमाह्वयन्तौ तु मत्ताविव महागजौ॥२४॥
मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम्
।
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः॥२५॥
प्रकर्षणं दूरे नोदनम् आकर्षणम् अर्वाकर्षणम् अभ्याक्कर्षणम् अभिमुखमास्फालनं विकर्षणं तिर्यक्पातनम् ॥२५॥
आचकर्षतुरन्योन्यं मुष्टिभिश्चापि जघ्नतुः
।
ततश्चटचटाशब्दः सुघोरो ह्यभवत्तयोः॥२६॥
पाषाणसंपातनिभैः प्रहारैरभिजघ्नतुः
।
मुहूर्तं तौ तदाऽन्योन्यं समरे पर्यकर्षताम्॥२७॥
ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे
।
अपातयत्कुरुश्रेष्ठो ब्राह्मणा जहसुस्तदा॥२८॥
समुत्क्षिप्य कूष्माण्डफलवदपातयत् ॥२८॥
तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः
।
यच्छल्यं पातितं भूमौ नावधीद्बलिनं बली॥२९॥
पातिते भीमसेनेन शल्ये कर्णे च शङ्किते
।
शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम्॥३०॥
ऊचुश्च सहितास्तत्र साध्विमौ ब्राह्मणर्षभौ
।
विज्ञायेतां क्व जन्मानौ क्व निवासौ तथैव च॥३१॥
को हि राधासुतं कर्णं शक्तो योधयितुं रणे
।
अन्यत्र रामाद्द्रोणाद्वा पाण्डवाद्वा किरीटिनः॥३२॥
कृष्णाद्वा देवकीपुत्रात्कृपाद्वापि शरद्वतः
।
को वा दुर्योधनं शक्तः प्रतियोथयितुं रणे॥३३॥
तथैव मद्राधिपतिं शल्यं बलवतांवरम्
।
बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात्॥३४॥
वीराद्दुर्योधनाद्वाऽन्यः शक्तः पातयितुं रणे
।
क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंवृतात्॥३५॥
अवहारो युद्धान्निवर्तनम् ॥३५॥
ब्राह्मणा हि सदा रक्ष्याः सापराधाऽपि नित्यदा
।
अथैनानुपलभ्येह पुनर्योत्स्याम हृष्टवत्॥३६॥
सापराधा अपीति सन्धिरार्षः । अथ अथवा कालान्तरे उपलभ्य ॥३६॥
तांस्तथावादिनः सर्वान्प्रसमीक्ष्य क्षितीश्वरान्
।
अथान्यान्पुरुषांश्चापि कृत्वा तत्कर्म संयुगे॥३७॥
संयुगे तत्कर्म कृत्वा तूष्णीं भूताविति शेषः ॥३७॥
वैशंपायन उवाच।
तत्कर्म भीमस्य समीक्ष्य कृष्णः कुन्तीसुतौ तौ परिशङ्कमानः
।
निवारयामास महीपतींस्तान् धर्मेण लब्धेत्यनुनीय सर्वान्॥३८॥
एवं ते विनिवृत्तास्तु युद्धाद्युद्धविशारदाः
।
यथावासं ययुः सर्वे विस्मिता राजसत्तमाः॥३९॥
वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता
।
इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः॥४०॥
ब्रह्म ब्राह्मणजातिः उत्तरम् उत्कृष्टं यस्मिन्स ब्रह्मोत्तरः ॥४०॥
ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः
।
कृच्छ्रेण जग्मतुस्तौ तु भीमसेनधनञ्जयौ॥४१॥
विमुक्तो जनसंबाधाच्छत्रुभिः परिविक्षतौ
।
कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः॥४२॥
पौर्णमास्यां घनैर्मुक्तौ चन्द्रसूर्याविवोदितौ
।
तेषां माता बहुविधं विनाशं पर्यचिन्तयत्॥४३॥
अनागच्छत्सु पुत्रेषु भैक्षकालेऽभिगच्छति
।
धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुङ्गवाः॥४४॥
अभिगच्छति उपस्थिते सति ॥४४॥
मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः
।
विपरीतं मतं जातं व्यासस्यापि महात्मनः॥४५॥
इत्येवं चिन्तयामासं सुतस्नेहावृता पृथा
।
ततः सुप्तजनप्राये दुर्दिने मेघसंप्लुते॥४६॥
महत्यथापराह्णे तु घनैः सूर्य इवावृतः
।
ब्राह्मणैः प्राविशत्तत्र जिष्णुर्भार्गववेश्म तत्॥४७॥
भार्गववेश्म कुलधलगृहम् ॥४७॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि पाण्डवप्रत्यागमने नवत्यधिकशततमोऽध्यायः॥१९०॥
वैशंपायन उवाच।
गत्वा तु तां भार्गवकर्मशालां पार्थौ पृथां प्राप्य महानुभावौ
।
तां याज्ञसेनीं परमप्रतीतौ भिक्षेत्यथावेदयतां नराग्र्यौ॥१॥
एकनवत्यधिकशततमोऽध्यायः गत्वेति ॥१॥
कुटीगता सा त्वनवेक्ष्य पुत्रौ प्रोवाच भुङ्क्तेति समेत्य सर्वे
।
पश्चाच्च कुन्ती प्रसमीक्ष्य कृष्णां कष्टं मया भाषितमित्युवाच॥२॥
साऽधर्मभीता परिचिन्तयन्ती तां याज्ञसेनीं परमप्रतीताम्
।
पाणौ गृहीत्वोपजगाम कुन्ती युधिष्ठिरं वाक्यमुवाच चेदम्॥३॥
अधर्मो बहुभर्तृतारूपस्तस्माद्भीता ॥३॥
कुन्त्युवाच।
इयं तु कन्या द्रुपदस्य राज्ञः तवानुजाभ्यां मयि संनिसृष्टा
।
यथोचितं पुत्र मयाऽपि चोक्तं समेत्य भुङ्क्तेति नृप प्रमादात्॥४॥
मया कथं नानृतमुक्तमद्य भवेत्कुरूणामृषभ ब्रवीहि
।
पञ्चालराजस्य सुतामधर्मो न चोपवर्तेत न विभ्रमेच्च॥५॥
अधर्मो बहुभर्तृतारूपः विभ्रमेच्च तेनाधर्मेण तिर्यग्योनौ पुनः पुनर्विशेषेण भ्रमेत् ॥५॥
वैशंपायन उवाच।
स एवमुक्तो मतिमान्नृवीरो मात्रा मुहूर्तं तु विचिन्त्य राजा
।
कुन्तीं समाश्वास्य कुरुप्रवीरो धनञ्जयं वाक्यमिदं बभाषे॥६॥
त्वया जिता फाल्गुन याज्ञसेनी त्वयैव शोभिष्यति राजपुत्री
।
प्रज्वाल्यतामग्निरमित्रसाह गृहाण पाणिं विधिवत्त्वमस्याः॥७॥
अर्जुन उवाच।
मा मां नरेन्द्र त्वमधर्मभाजं कृथा न धर्मोऽयमशिष्टदृष्टः
।
भवान्निवेश्यः प्रथमं ततोऽयं भीमो महाबाहुरचिन्त्यकर्मा॥८॥
न धर्मोऽयं दृष्टः अयं कः यं मां भवान् अशिष्ट शासितवान् । निवेश्यः विवाह्यः ॥८॥
अहं ततो नकुलोऽनन्तरं मे पश्चादयं सहदेवस्तरस्वी
।
वृकोदरोऽहं च यमौ च राजन्नियं च कन्या भवतो नियोज्याः॥९॥
एवं गते यत्करणीयमत्र धर्म्यं यशस्यं कुरु तद्विचिन्त्य
।
पाञ्चालराजस्य हितं च यत्स्यात् प्रशाधि सर्वे स्म वशे स्थितास्ते॥१०॥
वैशंपायन उवाच।
जिष्णोर्वचनमाज्ञाय भक्तिस्नेहसमन्वितम्
।
दृष्टिं निवेशयामासुः पाञ्चाल्यां पाण्डुनन्दनाः॥११॥
दृष्ट्वा ते तत्र पश्यन्तीं सर्वे कृष्णां यशस्विनीम्
।
संप्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन्॥१२॥
तेषां तु द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम्
।
संप्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः॥१३॥
काम्यं हि रूपं पाञ्चाल्या विधात्रा विहितं स्वयम्
।
बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम्॥१४॥
तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः
।
द्वैपायनवचः कृत्स्नं सस्मार मनुजर्षभः॥१५॥
अब्रवीत्सहितान्भ्रातॄन्मिथो भेदभयान्नृपः
।
सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा॥१६॥
भेदभयं यस्य द्रौपदी तस्येतरे शत्रवः स्युरिति भेदः ॥१६॥
वैशंपायन उवाच।
भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे ज्येष्ठस्य पाण्डोस्तनयास्तदानीम्
।
तमेवार्थं ध्यायमाना मनोभिः सर्वे च ते तस्थुरदीनसत्त्वाः॥१७॥
वृष्णिप्रवीरस्तु कुरुप्रवीरानाशंसमानः सहरौहिणेयः
।
जगाम तां भार्गवकर्मशालां यत्रासते ते पुरुषप्रवीराः॥१८॥
रौहिणेयो बलदेवः ॥१८॥
तत्रोपविष्टं पृथुदीर्घबाहुं ददर्श कृष्णः सहरौहिणेयः
।
अजातशत्रुं परिवार्य तांश्चाप्युपोपविष्टाञ्ज्वलनप्रकाशान्॥१९॥
ततोऽब्रवीद्वासुदेवोऽभिगम्य कुन्तीसुतं धर्मभृतां वरिष्ठम्
।
कृष्णोऽहमस्मीति निपीड्य पादौ युधिष्ठिरस्याजमीढस्य राज्ञः॥२०॥
तथैव तस्याप्यनु रौहिणेयस्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन्
।
पितृष्वसुश्चापि यदुप्रवीरावगृह्णतां भारतमुख्यपादौ॥२१॥
अजातशत्रुश्च कुरुप्रवीरः पप्रच्छ कृष्णं कुशलं विलोक्य
।
कथं वयं वासुदेव त्वयेह गूढा वसन्तो विदिताश्च सर्वे॥२२॥
तमब्रवीद्वासुदेवः प्रहस्य गूढोऽप्यग्निर्ज्ञायत एव राजन्
।
तं विक्रमं पाण्डवेयानतीत्य कोऽन्यः कर्ता विद्यते मानुषेषु॥२३॥
दिष्ट्या सर्वे पावकाद्विप्रमुक्ता यूयं घोरात्पाण्डवाः शत्रुसाहाः
।
दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः सहामात्यो न सकामोऽभविष्यत्॥२४॥
शत्रुसाहाः शत्रुवेगस्य सोढारः ॥२४ ॥
भद्रं वोऽस्तु निहितं यद्गुहायां विवर्धध्वं ज्वलना इवैधमानाः
।
मा वो विदुः पार्थिवाः केचिदेव यास्यावहे शिबिरायैव तावत्
।
सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः प्रायाच्छीघ्रं बलदेवेन सार्धम्॥२५॥
यद्भद्रं गुहायां बुद्धौ वो निहितं तद्वोस्तु ॥२५॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि रामकृष्णागमने एकनवत्यधिकशततमोऽध्यायः॥१९१॥
वैशंपायन उवाच।
धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ
।
अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशने॥१॥
धृष्टद्युम्न इति ॥१॥
सोऽज्ञायमानः पुरुषानवधाय समन्ततः
।
स्वयमारान्निलीनोऽभूद्भार्गवस्य निवेशने॥२॥
सः अज्ञायमानः पाण्डवैरितरैश्च । आरात्समीपे ॥२॥
सायं च भीमस्तु रिपुप्रमाथी जिष्णुर्यमौ चापि महानुभावौ
।
भैक्षं चरित्वा तु युधिष्ठिराय निवेदयांचक्रुरदीनसत्वाः॥३॥
ततस्तु कुन्ती द्रुपदात्मजां तामुवाच काले वचनं वदान्या
।
त्वमग्रमादाय कुरुष्व भद्रे बलिं च विप्राय च देहि भिक्षाम्॥४॥
अग्रं प्रथममादाय बलिं कुरुष्व भिक्षां च देहि ॥४॥
ये चान्नमिच्छन्ति ददस्व तेभ्यः परिश्रिता ये परितो मनुष्याः
।
ततश्च शेषं प्रविभज्य शीघ्रमर्धं चतुर्णां मम चात्मनश्च॥५॥
परिश्रिताः अन्येऽन्नोपजीविनः । चतुर्धा मम चात्मनश्चेत्यर्धं षोढाऽर्धं भीमायेत्यर्थः ॥५॥
अर्धं तु भीमाय च देहि भद्रे य एष नागर्षभतुल्यरूपः
।
गौरो युवा संहननोपपन्न एषो हि वीरो बहुभुक्सदैव॥६॥
संहननोपपन्नो दृढः पुष्टश्च ॥६॥
सा हृष्टरूपैव तु राजपुत्री तस्या वचः साध्वविशङ्कमाना
।
यथावदुक्तं प्रचकार साध्वी ते चापि सर्वे बुभुजुस्तदन्नम्॥७॥
साधु विशङ्कमाना स्वस्य श्रेयस्तर्कयन्ती । ‘शङ्का त्रासे वितर्के च’ इति मेदिनी ॥७॥
कुशैस्तु भूमौ शयनं चकार माद्रीपुत्रः सहदेवस्तपस्वी
।
यथा स्वकीयान्यजिनानि सर्वे संस्तीर्य वीराः सुषुपुर्धरण्याम्॥८॥
अगस्त्यशान्तामभितो दिशं तु शिरांसि तेषां कुरुसत्तमानाम्
।
कुन्ती पुरस्तात्तु बभूव तेषां पादान्तरे चाथ बभूव कृष्णा॥९॥
अगस्त्येन शास्ता शिक्षिता तां दक्षिणाम् अभितः । सर्वेऽपि दक्षिणाशिरसः पुरस्तात् शिरोदेशस्यैव पादान्तरे पादसमीपप्रदेशे ॥९॥
अशेत भूमौ सह पाण्डुपुत्रैः पादोपधानीव कृता कुशेषु
।
न तत्र दुःखं मनसापि तस्या न चावमेने कुरुपुङ्गवांस्तान्॥१०॥
पादोपधानीव सर्वेषां पादस्पर्शं लभमाना । कुशेषु कुशासनेषु ॥१०॥
ते तत्र शूराः कथयांबभूवुः कथा विचित्राः पृतनाधिकाराः
।
अस्त्राणि दिव्यानि रथांश्च नागान् खड्गान्गदाश्चापि परश्वधांश्च॥११॥
पृतनाधिकाराः सेनाधीशयोग्याः ॥११॥
तेषां कथास्ताः परिकीर्त्यमानाः पाञ्चालराजस्य सुतस्तदानीम्
।
सुश्राव कृष्णां च तदा निषण्णां ते चापि सर्वे ददृशुर्मनुष्याः॥१२॥
धृष्टद्युम्नो राजपुत्रस्तु सर्वं वृत्तं तेषां कथितं चैव रात्रौ
।
सर्वं राज्ञे द्रुपदायाखिलेन निवेदयिष्यंस्त्वरितो जगाम॥१३॥
पाञ्चालराजस्तु विषण्णरूपस्तान्पाण्डवानप्रतिविन्दमानः
।
धृष्टद्युम्नं पर्यपृच्छन्महात्मा क्व सा गता केन नीता च कृष्णा॥१४॥
अप्रतिविन्दमानः अजानन् ॥१४॥
कच्चिन्न शूद्रेण न हीनजेन वैश्येन वा करदेनोपपन्ना
।
कच्चित्पदं मूर्ध्नि न पङ्कदिग्धं कच्चिन्न माला पतिता श्मशाने॥१५॥
मूर्ध्नि पदं हीनवर्णयोगात् वैश्यपक्षे तु न पातित्यम् शूद्रपक्षे तु ‘पद्यु वा एतत् श्मशानं यच्छूद्रः’ इति शूद्रस्य पादयुक्तश्मशानत्वश्रुतेस्तत्र मालावत् सुकुमारी बाला न पतितेति स्पष्टमुक्तम् ॥१५॥
कच्चित्सवर्णप्रवरो मनुष्य उद्रिक्तवर्णोऽप्युत एव कच्चित्
।
कच्चिन्न वामो मम मूर्ध्नि पादः कृष्णाभिमर्शेन कृतोऽद्य पुत्र॥१६॥
सवर्णप्रवरः क्षत्रियश्रेष्ठः । उद्रिक्तवर्णो ब्राह्मणः। मूर्ध्नि पादस्तु वेषमात्रेण ब्राह्मणत्वानिश्वयात् शौर्यस्य च कर्णैकलव्ययोः सूतशूद्रयोरपि दृष्टत्वात् सम्भावितः ॥१६॥
कच्चिन्न तप्स्ये परमप्रतीतः संयुज्य पार्थेन नरर्षभेण
।
वदस्व तत्त्वेन महानुभाव कोऽसौ विजेता दुहितुर्ममाद्य॥१७॥
कच्चिदिति कामप्रवेदने । पार्थेन संयुज्य परमप्रतीतोऽत्यन्तहृष्टोसि । तादृशशौर्यस्यान्यत्रासंभवात् ॥१७॥
विचित्रवीर्यस्य सुतस्य कच्चित् कुरुप्रवीरस्य ध्रियन्ति पुत्राः
।
कच्चित्तु पार्थेन यवीयसाऽद्य धनुर्गृहीतं निहतं च लक्ष्यम्॥१८॥
ध्रियन्ति जीवन्ति ॥१८॥
इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि धृष्टद्युम्नप्रत्यागमने द्विनवत्यधिकशततमोऽध्यायः॥१९२॥