वैशंपायन उवाच।
ततस्तथोक्तः परिहृष्टरूपः पित्रे शशंसाथ स राजपुत्रः
।
धृष्टद्युम्नः सोमकानां प्रबर्हो वृत्तं यथा येन हृता च कृष्णा॥१॥
त्रिनवत्यधिकशततमोऽध्यायः तत इति । प्रबर्ह उत्तमः ॥१॥
धृष्टद्युम्न उवाच।
योऽसौ युवा व्यायतलोहिताक्षः कृष्णाजिनी देवसमानरूपः
।
यः कार्मुकाग्र्यं कृतवानधिज्यं लक्ष्यं च यः पातितवान्पृथिव्याम्॥२॥
असज्जमानश्च ततस्तरस्वी वृतो द्विजाग्रयैरभिपूज्यमानः
।
चक्राम वज्रीव दितेः सुतेषु सर्वैश्च देवैर्ऋषिभिश्च जुष्टः॥३॥
कृष्मा प्रगृह्याजिनमन्वयात्तं नागं यथा नागवधूः प्रहृष्टा
।
अमृष्यमाणेषु नराधिपेषु क्रुद्धेषु वै तत्र समापतत्सु॥४॥
ततोऽपरः पार्थिवसङ्घमध्ये प्रवृद्धमारुज्य महीप्ररोहम्
।
प्राकालयन्नेव स पार्थिवौघान् क्रुद्धोऽन्तकः प्राणभृतो यथैव॥५॥
महीप्ररोहं वृक्षम् ॥५॥
तौ पार्थिवानां मिषतां नरेन्द्र कृष्णामुपादाय गतौ नराग्र्यौ
।
विभ्राजमानाविव चन्द्रसूर्यौ बाह्यां पुराद्भार्गवकर्मशालाम्॥६॥
तत्रोपविष्टार्चिरिवानलस्य तेषां जनित्रीति मम प्रतर्कः
।
तथाविधैरेव नरप्रवीरैरुपोपविष्टैस्त्रिभिरग्निकल्पैः॥७॥
तस्यास्ततस्तावभिवाद्य पादौ उक्ता च कृष्णा त्वभिवादयेति
।
स्थितां च तत्रैव निवेद्य कृष्णां भिक्षाप्रचाराय गता नराग्र्याः॥८॥
उक्ता ताभ्यामिति शेषः ॥८॥
तेषां तु भैक्षं प्रतिगृह्य कृष्णा दत्वा बलिं ब्राह्मणसाच्च कृत्वा
।
तां चैव वृद्धां परिवेष्य तांश्च नरप्रवीरान्स्वयमप्यभुङ्क्त॥९॥
ब्राह्मणसात् ब्राह्मणाधीनम् ॥९॥
सुप्तास्तु ते पार्थिव सर्व एव कृष्णा च तेषां चरणोपधाने
।
आसीत्पृथिव्यां शयनं च तेषां दर्भाजिनाग्रास्तरणोपपन्नम्॥१०॥
दर्भाणाम् अजिनाग्रम् उपर्यजिनं च तदास्तरणं चेति समासः ॥१०॥
ते नर्दमाना इव कालमेघाः कथा विचित्राः कथयांबभूवुः
।
न वैश्यशूद्रौपयिकीः कथास्ता न च द्विजानां कथयन्ति वीराः॥११॥
निःसंशयं क्षत्रियपुंगवास्ते यथा हि युद्धं कथयन्ति राजन्
।
आशा हि नो व्यक्तमियं समृद्धा मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात्॥१२॥
यथा हि लक्ष्यं निहतं धनुश्च सज्यं कृतं तेन तथा प्रसह्य
।
यथा हि भाषन्ति परस्परं ते छन्ना ध्रुवं ते प्रचरन्ति पार्थाः॥१३॥
ततः स राजा द्रुपदः प्रहृष्टः पुरोहितं प्रेषायामास तेषाम्
।
विद्याम युष्मानिति भाषमाणो महात्मानः पाण्डुसुतास्तु कच्चित्॥१४॥
विद्याम वेदितुमिच्छामः ॥१४॥
गृहीतवाक्यो नृपतेः पुरोधा गत्वा प्रशंसामभिधाय तेषाम्
।
वाक्यं समग्रं नृपतेर्यथावदुवाच चानुक्रमविक्रमेण॥१५॥
विज्ञातुमिच्छत्यवनीश्वरो वः पाञ्चालराजो वरदो वरार्हाः
।
लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा हर्षस्य नान्तं प्रतिपद्यते सः॥१६॥
आख्यात च ज्ञातिकुलानुपूर्वी पदं शिरःसु द्विषतां कुरुध्वम्
।
प्रह्लादयध्वं हृदयं ममेदं पाञ्चालराजस्य च सानुगस्य॥१७॥
आख्यात कथयत ॥१७॥
पाण्डुर्हि राजा द्रुपदस्य राज्ञः प्रियः सखा चात्मसमो बभूव
।
तस्यैष कामो दुहिता ममेयं स्नुषा प्रदास्यामि हि कौरवस्य॥१८॥
अयं हि कामो द्रुपदस्य राज्ञो हृदि स्थितो नित्यमनिन्दिताङ्गाः
।
यदर्जुनो वै पृथुदीर्घबाहुर्धर्मेण विन्देत सुतां ममैताम्॥१९॥
कृतं हि तत्स्यात्सुकृतं ममेदं यशश्च पुण्यं च हितं तदेतत्
।
अथोक्तवाक्यं हि पुरोहितं स्थितं ततो विनीतं समुदीक्ष्य राजा॥२०॥
समीपतो भीममिदं शशास प्रदीयतां पाद्यमर्ध्यं तथाऽस्मै
।
मान्यः पुरोधा द्रुपदस्य राज्ञः तस्मै प्रयोज्याऽभ्यधिका हि पूजा॥२१॥
भीमस्ततस्तत्कृतवान्नरेन्द्र तां चैव पूजां प्रतिगृह्य हर्षात्
।
सुखोपविष्टं तु पुरोहितं तदा युधिष्ठिरो ब्राह्मणमित्युवाच॥२२॥
पाञ्चालराजेन सुता निसृष्टा स्वधर्मदृष्टेन यथा न कामात्
।
प्रदिष्टशुल्का द्रुपदेन राज्ञा सा तेन वीरेण तथाऽनुवृत्ता॥२३॥
शुल्कं मूल्यपणं तेनैव अनुवृत्ता अनुसृता ॥२३॥
न तत्र वर्णेषु कृता विवक्षा न चापि शीले न कुले न गोत्रे
।
कृतेन सज्येन हि कार्मुकेण विद्धेन लक्ष्येण हि सा विसृष्टा॥२४॥
तदेवाह कृतेनेति ॥२४॥
सेयं तथानेन महात्मनेह कृष्णा जिता पार्थिवसङ्घमध्ये
।
नैवं गते सौमकिरद्य राजा सन्तापमर्हत्यसुखाय कर्तुम्॥२५॥
सौमकिर्द्रुपदः ॥२५॥
कामश्च योऽसौ द्रुपदस्य राज्ञः स चापि संपत्स्यति पार्थिवस्य
।
संप्राप्यरूपां हि नरेन्द्रकन्यामिमामहं ब्राह्मण साधु मन्ये॥२६॥
संप्राप्यरूपाम् अस्माकं योग्यस्वरूपाम् ॥२६॥
न तद्धनुर्मन्दबलेन शक्यं मौर्व्या समायोजयितुं तथा हि
।
न चाकृतास्त्रेण न हीनजेन लक्ष्यं तथा पातयितुं हि शक्यम्॥२७॥
तस्मान्न तापं दुहितुर्निमित्तं पाञ्चालराजोर्हति कर्तुमद्य
।
न चापि तत्पातनमन्यथेह कर्तुं हि शक्यं भुवि मानवेन॥२८॥
एवं ब्रुवत्येव युधिष्ठिरे तु पाञ्चालराजस्य समीपतोऽन्यः
।
तत्राजगामाशु नरो द्वितीयो निवेदयिष्यन्निह सिद्धमन्नम्॥२९॥
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि पुरोहितयुधिष्ठिरसंवादे त्रिनवत्यधिकशततमोऽध्यायः॥१९३॥
दूत उवाच।
जन्यार्थमन्नं द्रुपदेन राज्ञा विवाहहेतोरुपसंस्कृतं च
।
तदाप्नुवध्वं कृतसर्वकार्याः कृष्णां च तत्रैव चिरं न कार्यम्॥१॥
चतुर्नवत्यधिकशततमोऽध्यायः जन्यार्थमिति । जन्यार्थे वरपक्षीयजनार्थम् । कृष्णां च तत्रैवाप्नुवध्वं पाणिग्रहणविधिना । कृष्णा चेति पाठे आप्नोतु अन्नं भवदीयत्वात् भवद्भिः सहैवेति भावः ॥१॥
इमे रथाः काञ्चनपद्मचित्राः सदश्वयुक्ता वसुधाधिपार्हाः
।
एतान्समारुह्य परैत सर्वे पाञ्चालराजस्य निवेशनं तत्॥२॥
वैशंपायन उवाच।
ततः प्रयाताः कुरुपुङ्गवास्ते पुरोहितं तं परियाप्य सर्वे
।
आस्थाय यानानि महान्ति तानि कुन्ती च कृष्णा च सहैकयाने॥३॥
परियाप्य प्रस्थाप्य ॥३॥
श्रुत्वा तु वाक्यानि पुरोहितस्य यान्युक्तवान्भारत धर्मराजः
।
जिज्ञासयेवाथ कुरूत्तमानां द्रव्याण्यनेकान्युपसंजहार॥४॥
पुनः क्षत्रियत्वं परीक्षितुं द्रव्याण्युपसञ्जहार एकत्र कृत्वा दर्शितवान् ॥४॥
फलानि माल्यानि च संस्कृतानि वर्माणि चर्माणि तथासनानि
।
गाश्चैव राजन्नथ चैव रज्जूर्बीजानि चान्यानि कृषीनिमित्तम्॥५॥
फलवर्म गवादीनि क्रमात्त्रैवर्णिकयोग्यानि ॥५॥
अन्येषु शिल्पेषु च यान्यपि स्युः सर्वाणि कृत्यान्यखिलेन तत्र
।
क्रीडानिमित्तान्यपि यानि तत्र सर्वाणि तत्रोपजहार राजा॥६॥
कृन्तन्तीति कृत्यानि । कृती छेदनेस्मात् क्यप् । शिल्पिनां प्रहरणानि वास्यादीनि । क्रीडानिमित्तानि शुष्केष्टिसदोरञ्जनादिरूपा ब्राह्मणक्षत्रियादीनां क्रीडास्तासां साधनानि । अल्पानि यज्ञपात्राणि कृत्रिमाश्वादीनि सरङ्गपटानि च । तत्र देशे तत्र काले तत्र परीक्षणे निमित्ते ॥६॥
वर्माणि चर्माणि च भानुमन्ति खड्गा महान्तोऽश्वरथाश्च चित्राः
।
धनूंषि चाग्र्याणि शराश्च चित्राः शक्त्यृष्टयः काञ्चनभूषणाश्च॥७॥
प्रासा भुशुण्ड्यश्च परश्वधाश्च सांग्रामिकं चैव तथैव सर्वम्
।
शय्यासनान्युत्तमवस्तुवन्ति तथैव वासो विविधं च तत्र॥८॥
उत्तमवस्तूनि रत्नखचितताम्बूलधानीप्रभृतीनि तद्वन्ति । मतोर्मस्यवत्त्वमार्षम् ॥८॥
कुन्ती तु कृष्णां परिगृह्य साध्वीमन्तःपुरं द्रुपदस्याविवेश
।
स्त्रियश्च तां कौरवराजपत्नीं प्रत्यर्चयामासुरदीनसत्त्वाः॥९॥
तान्सिंहविक्रान्तगतीन्निरीक्ष्य महर्षभाक्षानजिनोत्तरीयान्
।
गूढोत्तरांसान्भुजगेन्द्रभोगप्रलम्बबाहून्पुरुषप्रवीरान्॥१०॥
गूढोत्तरांसान्गूढजनून् ॥१०॥
राजा च राज्ञः सचिवाश्च सर्वे पुत्राश्च राज्ञः सुहृदस्तथैव
।
प्रेष्याश्च सर्वे निखिलेन राजन् हर्षं समापेतुरतीव तत्र॥११॥
ते तत्र वीराः परमासनेषु सपादपीठेष्वविशङ्कमानाः
।
यथानुपूर्वं विविशुर्नराग्र्याः तथा महार्हेषु न विस्मयन्तः॥१२॥
उच्चावचं पार्थिवभोजनीयं पात्रीषु जाम्बूनदराजतीषु
।
दासाश्च दास्यश्च सुमृष्टवेषाः संभोजकाश्चाप्युपजह्रुरन्नम्॥१३॥
सुमृष्टः अभ्यञ्जनवासोलङ्करणादिभिः सम्यक् परिष्कृतः पाण्डवानां वेषो यैस्ते सुमृष्टवेषाः । ते च संभोजकाश्च यथायोग्यं ताम्बूलादिकमपूपादिकं चान्नमदनीयम् उपाजह्रुः ॥१३॥
ते तत्र भुक्त्वा पुरुषप्रवीरा यथात्मकामं सुभृशं प्रतीताः
।
उत्क्रम्य सर्वाणि वसूनि राजन् सांग्रामिकं ते विविशुर्नृवीराः॥१४॥
तल्लक्षयित्वा द्रुपदस्य पुत्रो राजा च सर्वैः सह मन्त्रिमुख्यैः
।
समर्थयामासुरुपेत्य हृष्टाः कुन्तीसुतान्पार्थिवराजपुत्रान्॥१५॥
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि युधिष्ठिरादिपरीक्षणे चतुर्नवत्यधिकशततमोऽध्यायः॥१९४॥
वैशंपायन उवाच।
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम्
।
परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः॥१॥
पञ्चनवत्यधिकशततमोऽध्यायः तत इति । ब्राह्मेण ब्राह्मणार्थमुचितेनाभ्युत्थानादिना । परिग्रहेण आतिथ्येन ॥१॥
पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम्
।
कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत॥२॥
वैश्यान्वा गुणसंपन्नानथवा शूद्रयोनिजान्
।
मायामास्थाय वा सिद्धांश्चरतः सर्वतो दिशम्॥३॥
कृष्णाहेतोरनुप्राप्ता देवाः संदर्शनार्थिनः
।
ब्रवीतु नो भवान्सत्यं सन्देहो ह्यत्र नो महान्॥४॥
अपि नः संशयस्यान्ते मनः संतुष्टिमावहेत्
।
अपि नो भागधेयानि शुभानि स्युः परन्तप॥५॥
इच्छया ब्रूहि तत्सत्यं सत्यं राजसु शोभते
।
इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु॥६॥
इष्टं यागादि आपूर्तं वाप्यादि तव धर्मकृत्यं नश्येद्यद्यसत्यं ब्रूया इत्यर्थः ॥६॥
श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिंदम
।
ध्रुवं विवाहकरणमास्थास्यामि विधानतः॥७॥
युधिष्ठिर उवाच।
मा राजन्विमनाभूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते
।
ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम्॥८॥
वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः
।
ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ॥९॥
आभ्यां तव सुता राजन्निर्जिता राजसंसदि
।
यमौ च तत्र कुन्ती च यत्र कृष्मा व्यवस्थिता॥१०॥
व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ
।
पद्मिनीव सुतेयं ते ह्रदादन्यह्रदं गता॥११॥
इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते
।
भवान्हि गुरुरस्माकं परमं च परायणम्॥१२॥
वैशंपायन उवाच।
ततः स द्रुपदो राजा हर्षव्याकुललोचनः
।
प्रतिवक्तुं मुदा युक्तो नाशकत्तं युधिष्टिरम्॥१३॥
यत्नेन तु स तं हर्षं सन्निगृह्य परंतपः
।
अनुरूपं तदा वाचा प्रत्युवाच युधिष्ठिरम्॥१४॥
पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरात्
।
स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः॥१५॥
तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम्
।
विगर्हयामास तदा धृतराष्ट्रं नरेश्वरम्॥१६॥
आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम्
।
प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः॥१७॥
ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि
।
यमौ च राज्ञा संदिष्टं विविशुर्भवनं महत्॥१८॥
तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः
।
प्रत्याश्वस्तस्ततो राजा सह पुत्रैरुवाच तम्॥१९॥
गृह्णातु विधिवत्पाणिमद्यायं कुरुनन्दनः
।
पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम्॥२०॥
क्षणं देवपूजादिपर्वोत्सवं विवाहात्प्राक्कालीनं कुलधर्मम् ‘क्षणः पर्वोत्सवेपि स्यात्तथा मानेप्यनेहसः’ इति मेदिनी ॥२०॥
वैशंपायन उवाच।
तमब्रवीत्ततो राजा धर्मात्मा च युधिष्ठिरः
।
ममापि दारसम्बन्धः कार्यस्तावद्विशांपते॥२१॥
द्रुपद उवाच।
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम
।
यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश॥२२॥
युधिष्ठिर उवाच।
सर्वेषां महिषी राजन्द्रौपदी नो भविष्यति
।
एवं प्रव्याहृतं पूर्वं मम मात्रा विशांपते॥२३॥
अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः
।
पार्थेन विजिता चैषा रत्नभूता सुता तव॥२४॥
अनिविष्टः अकृतविवाहः ॥२४॥
एष नः समयो राजन् रत्नस्य सह भोजनम्
।
न च तं हातुमिच्छामः समयं राजसत्तम॥२५॥
समयो नियमः ॥२५॥
सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति
।
आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करान्॥२६॥
ज्वलने ज्वलनसमीपे करान् गृह्णातु पञ्चपाणिग्रहणानि करोतु ॥२६॥
द्रुपद उवाच।
एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन
।
नैकस्या बहवः पुंसः श्रूयन्ते पतयः क्वचित्॥२७॥
पुंसः पुमांसः यद्वा पुंसः वेदकर्तुः परमात्मनःसकाशान्न श्रूयन्ते । तस्मान्नैका द्वौ पती विन्दत इति वेदविरुद्धं च । अविहितं निषिद्धं चैतदित्यर्थः ॥२७॥
लोकवेदविरुद्धं त्वं नाधर्मं धर्मविच्छुचिः
।
कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी॥२८॥
युधिष्ठिर उवाच।
सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम्
।
पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे॥२९॥
सूक्ष्मः ‘नैकस्यै बहवः सहपतयः’ इति श्रुत्या सहेति युगपद्बहुपतित्वनिषेधो विहितो न तु समयभेदेन ततश्चापि निषिद्धम् । मात्रा समेत्य भुङ्केत्याज्ञप्तं च न लङ्घनीयम् । पित्रोराज्ञया निषिद्धमपि कर्तव्यम् । परशुरामकृतमातृवघवत् । किमुतानिषिद्धमिति भावः । पूर्वेषां प्रचेतः प्रभृतीनां तैर्यातं वर्त्म बहूनामेकपत्नीत्वम् अनुयामहे । तच्च आनुपूर्व्येणैव नत्वक्रमेण ॥२९॥
न मे वागनृतं प्राह नाधर्मे धीयते मतिः
।
एवं चैव वदत्यम्बा मम चैतन्मनोगतम्॥३०॥
एष धर्मो ध्रुवो राजंश्चरैनमविचारयन्
।
मा च शङ्का तत्र ते स्यात्कथंचिदपि पार्थिव॥३१॥
द्रुपद उवाच।
त्वं च कुन्ती च कौन्तय धृष्टद्युम्नश्च मे सुतः
।
कथयन्त्विति कर्तव्यं श्वः काले करवामहे॥३२॥
वैशंपायन उवाच।
ते समेत्य ततः सर्वे कथयन्ति स्म भारत
।
अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया॥३३॥
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि द्वैपायनागमने पञ्चनवत्यधिकशततमोऽध्यायः॥१९५॥
वैशंपायन उवाच।
ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः
।
प्रत्युत्थाय महात्मानं कृष्णं सर्वेभ्यवादयन्॥१॥
षण्णवत्यधिकशततमोऽध्यायः ततस्ते इति । कृष्णं व्यासम् ॥१॥
प्रतिनन्द्य स तां पूजां पृष्ट्वा कुशलमन्ततः
।
आसने काञ्चने शुद्धे निषसाद महामनाः॥२॥
अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा
।
आसनेषु महार्हेषु निषेदुर्द्विपदां वराः॥३॥
ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः
।
पप्रच्छ तं महात्मानं द्रौपद्यर्थं विशांपते॥४॥
कथमेका बहूनां स्याद्धर्मपत्नी न संकरः
।
एतन्मे भगवान्सर्वं प्रब्रवीतु यथातथम्॥५॥
व्यास उवाच।
अस्मिन्धर्मे विप्रलब्धे लोकवेदविरोधके
।
यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत्॥६॥
विप्रलब्धे अतिगहनतया शास्त्रीयेन कापट्येन हते । अत एव लोकवेदविरोधके ॥६॥
द्रुपद उवाच।
अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः
।
न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम॥७॥
न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः
।
न चाप्यधर्मो विद्वद्भिश्चरितव्यः कथंचन॥८॥
ततोहं न करोम्येनं व्यवसायं क्रियां प्रति
।
धर्मः सदैव संदिग्धः प्रतिभाति हि मे त्वयम्॥९॥
क्रियां प्रति व्यवसायं निश्चयम् ॥९॥
धृष्टद्युम्न उवाच।
यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ
।
ब्रह्मन्समभिवर्तेत सवृत्तः संस्तपोधन॥१०॥
न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथंचन
।
अधर्मो धर्म इति वा व्यवसायो न शक्यते॥११॥
कर्तुमस्मद्विधैर्ब्रह्मंस्ततोऽयं न व्यवस्यते
।
पञ्चानां महिषी कृष्णा भवत्विति कथंचन॥१२॥
युधिष्ठिर उवाच।
न मे वागनृतं प्राह नाधर्मे धीयते मतिः
।
वर्तते हि मनो मेऽत्र नैषो धर्मः कथंचन॥१३॥
न मे इति । वक्तृत्वं वाच एव धर्मो न पुरुषस्य निर्विशेषस्य अत उक्तं न मे वागिति । एवं मतिमनसोरपि ज्ञेयम् । वागादीनां वक्तृत्वादिधर्मवताम् असङ्गेन पुंसा संबन्धस्तु न वास्तवः संभवति । अत एवोक्तम् । ‘निःसंगेस्य ससंगेन कूटस्थस्य विकारिणा । आत्मनोऽनात्मनायोगो वास्तवो नोपपद्यते’ इति । अत्र पञ्चानामेकपत्नीत्वे ॥१३॥
श्रूयते हि पुराणेऽपि जटिला नाम गौतमी
।
ऋषीनध्यासितवती सप्त धर्मभृतां वरा॥१४॥
तथैव मुनिजा वार्क्षी तपोभिर्भावितात्मनः
।
संगताभूद्दश भ्रातॄनेकनाम्नः प्रचेतसः॥१५॥
गुरोर्हि वचनं प्राहुर्धर्म्यं धर्मज्ञसत्तम
।
गुरूणां चैव सर्वेषां माता परमको गुरुः॥१६॥
सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति
।
तस्मादेतदहं मन्ये परं धर्मं द्विजोत्तम॥१७॥
कुन्त्युवाच।
एतमेतद्यथा प्राह धर्मचारी युधिष्ठिरः
।
अनृतान्मे भयं तीव्रं मुच्येऽहमनृतात्कथम्॥१८॥
व्यास उवाच।
अनृतान्मोक्ष्यसे भद्रे धर्मश्चैव सनातनः
।
ननु वक्ष्यामि सर्वेषां पाञ्चाल शृमु मे स्वयम्॥१९॥
यथायं विहितो धर्मो यतश्चायं सनातनः
।
यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः॥२०॥
वैशंपायन उवाच।
तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः
।
करे गृहीत्वा राजानं राजवेश्म समाविशत्॥२१॥
राजानं द्रुपदम् ॥२१॥
पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः
।
विविशुर्यत्र तत्रैव प्रतीक्षन्ते स्म तावुभौ॥२२॥
उभौ व्यासद्रुपदौ ॥२२॥
ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने
।
आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता॥२३॥
अत्र यत्तद्देवाददुरित्यादिना त्रिपथगां नदीमित्यन्तो नारायण्युपाख्यानग्रन्थोऽध्यायद्वयात्मकः क्वचित्पुस्तके पठ्यते ॥२३॥
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि व्यासवाक्ये षण्णवत्यधिकशततमोऽध्यायः॥१९६॥
व्यास उवाच।
पुरा वै नैमिषारण्ये देवाः सत्रमुपासते
।
तत्र वैवस्वतो राजन् शामित्रमकरोत्तदा॥१॥
सप्तनवत्यधिकशततमोऽध्यायः पुरेति । शमिता यज्ञे पशुवधकर्ता तस्य कर्म शामित्रम् ॥१॥
ततो यमो दीक्षितस्तत्र राजन्नामारयत्कंचिदपि प्रजानाम्
।
ततः प्रजास्ता बहुला बभूवुः कालातिपातान्मरणप्रहीणाः॥२॥
यमो दीक्षितः । सत्रे हि ये यजमानास्त ऋत्विजः सर्वेषां दीक्षास्ति यजमानत्वात् । कालातिपातात् मरणकालातिक्रमात् ॥२॥
सोमश्च शक्रो वरुणः कुबेरः साध्या रुद्रा वसवोऽथाश्विनौ च
।
प्रजापतिर्भुवनस्य प्रणेता समाजग्मुस्तत्र देवास्तथाऽन्ये॥३॥
यत्र प्रजापतिस्तत्र सोमादयः समाजग्मुः ॥३॥
ततोऽब्रुवँल्लोकगुरुं समेता भयात्तीव्रान्मानुषाणां विवृद्ध्या
।
तस्माद्भयादुद्विजन्तः सुखेप्सवः प्रयाम सर्वे शरणं भवन्तम्॥४॥
पितामह उवाच।
किं वो भयं मानुषेभ्यो यूयं सर्वे यदाऽमराः
।
मा वो मर्त्यसकाशाद्वै भयं भवितुमर्हति॥५॥
देवा ऊचुः।
मर्त्या अमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन
।
अविशेषादुद्विजन्तो विशेषार्थमिहागताः॥६॥
श्रीभगवानुवाच
।
वैवस्वतो व्यापृतः सत्रहेतोस्तेन त्विमे न म्रियन्ते मनुष्याः
।
तस्मिन्नेकाग्रे कृतसर्वकार्ये तत एषां भवितैवान्तकालः॥७॥
तस्मिन्कृतसर्वकार्ये समापितयज्ञे सति एषां लोकानामन्तकालो भविता ॥७॥
वैवस्वतस्यैव तनुर्विभक्ता वीर्येण युष्माकमुत प्रवृद्धा
।
सैषामन्तो भविता ह्यन्तकाले न तत्र वीर्यं भविता नरेषु॥८॥
अतः वैवस्वतस्यैव तनुः प्रवृद्धा योगबलेन विपुला विभक्ता द्वैधीभावं गता सती । सा एषाम् अन्तो विनाशो भविता वीर्यं देवतासाम्यम् ॥८॥
व्यास उवाच।
ततस्तु ते पूर्वजदेववाक्यं श्रुत्वा जग्मुर्यत्र देवा यजन्ते
।
समासीनास्ते समेता महाबला भागीरथ्यां ददृशुः पुण्डरीकम्॥९॥
दृष्ट्वा च तद्विस्मितास्ते बभूवुस्तेषामिन्द्रस्तत्र शूरो जगाम
।
सोऽपश्यद्योषामथ पावकप्रभां यत्र देवी गङ्गा सततं प्रसूता॥१०॥
सा तत्र योषा रुदती जलार्थिनी गङ्गां देवीं व्यवगाह्य व्यतिष्ठत्
।
तस्याश्रुबिन्दुः पतितो जले यस्तत्पद्ममासीदथ तत्र काञ्चनम्॥११॥
तस्याः अश्रुबिन्दुः सन्धिरार्षः ॥११॥
तदद्भुतं प्रेक्ष्य वज्री तदानीमपृच्छत्तां योषितमन्तिकाद्वै
।
का त्वं भद्रे रोदिषि कस्य हेतोर्वाक्यं तथ्यं कामयेऽहं ब्रवीहि॥१२॥
कामये श्रोतुम् ॥१२॥
स्त्र्युवाच
।
त्वं वेत्स्यसे मामिह याऽस्मि शक्र यदर्थं चाहं रोदिमि मन्दभाग्या
।
आगच्छ राजन्पुरतो गमिष्ये द्रष्टाऽसि तद्रोदिमि यत्कृतेऽहम्॥१३॥
व्यास उवाच।
तां गच्छन्तीमन्वगच्छत्तदानीं सोऽपश्यदारात्तरुणं दर्शनीयम्
।
सिद्धासनस्थं युवतीसहायं क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि॥१४॥
युवतीसहायं रुद्रम् ॥१४॥
तमब्रवीद्देवराजो ममेदं त्वं विद्धि विद्वन्भुवनं वशे स्थितम्
।
ईशोऽहस्मीति समन्युरब्रवीद्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम्॥१५॥
अक्षैः हेतुभिः प्रमत्तम् असावधानम् ॥१५॥
क्रुद्धं च शक्रं प्रसमीक्ष्य देवो जहाय शक्रं च शनैरुदैक्षत
।
संस्तम्भितोऽभूदथ देवराजस्तेनेक्षितः स्थाणुरिवावतस्थे॥१६॥
संस्तम्भितः वज्रं मोक्तुम् उद्यतः सन् अत एव स्थाणुवि ॥१६॥
यदा तु पर्याप्तमिहास्य क्रीडया तदा देवीं रुदतीं तामुवाच
।
आनीयतामेष यतोऽहमारान्नैनं दर्पः पुनरप्याविशेत॥१७॥
क्रीडया पर्याप्तं क्रीडा समाप्ता ॥१७॥
ततः शक्रः स्पृष्टमात्रस्तया तु स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम्
।
तमब्रवीद्भगवानुग्रतेजा मैवं पुनः शक्र कृथाः कथंचित्॥१८॥
निवर्तयैनं च महाद्रिराजं बलं च वीर्यं च तवाप्रमेयम्
।
छिद्रस्य चैवाविश मध्यमस्य यत्रासते त्वद्विधाः सूर्यभासः॥१९॥
एनं बिलद्वाररोधिनम् । अद्रिराजं निवर्तय दूरीकुरु यथा बलादिकं तवाप्रमेयं तथा निवर्तय ॥१९॥
स तद्विवृत्य विवरं महागिरेस्तुल्यद्युतींश्चतुरोन्यान्ददर्श
।
स तानभिप्रेक्ष्य बभूव दुःखितः कच्चिन्नाहं भविता वै यथेमे॥२०॥
ततो देवो गिरिशो वज्रपाणिं विवृत्य नेत्रे कुपितोभ्युवाच
।
दरीमेतां प्रविश त्वं शतक्रतो यन्मां बाल्यादवमंस्थाः पुरस्तात्॥२१॥
ततः शीघ्रम् अप्रवेशाद्धेतोः ॥२१॥
उक्तस्त्वेवं विभुना देवराजः प्रावेपतार्तो भृशमेवाभिषङ्गात्
।
स्रस्तैरङ्गैरनिलेनेव नुन्नमश्वत्थपत्रं गिरिराजमूर्ध्नि॥२२॥
स प्राञ्जलिर्वै वृषवाहनेन प्रवेपमानः सहसैवमुक्तः
।
उवाच देवं बहुरूपमुग्रमद्याशेषस्य भुवनस्य त्वं भवाद्यः॥२३॥
एवं दरीं प्रविशेत्युक्तः उवाच हे भव अद्य त्वं अशेषस्य भुवनस्य आद्यः पतिरसि । अद्येत्यनेन मां जित्वैव न त्वन्यथेति सूचितम् ॥२३॥
तमब्रवीदुग्रवर्चाः प्रहस्य नैवंशीलाः शेषमिहाप्नुवन्ति
।
एतेप्येवं भवितारः पुरस्तात्तस्मादेतां दरीमाविश्य शेष्व॥२४॥
शेषं प्रसादम् ‘शेषः सङ्कर्षणे वधे अनन्ते ना प्रसादे च’ इति मेदिनी ॥२४॥
तत्र ह्येवं भवितारो न संशयो योनिं सर्वे मानुषीमाविशध्वम्
।
तत्र यूयं कर्म कृत्वाऽविषह्यं बहूनन्यान्निधनं प्रापयित्वा॥२५॥
आगन्तारः पुनरेवेन्द्रलोकं स्वकर्मणा पूर्वजितं महार्हम्
।
सर्वं मया भाषितमेतदेवं कर्तव्यमन्यद्विविधार्थयुक्तम्॥२६॥
पूर्वेन्द्रा ऊचुः।
गमिष्यामो मानुषं देवलोकाद्दुराधरो विहितो यत्र मोक्षः
।
देवास्त्वस्मानादधीरञ्जनन्यां धर्मो वायुर्मघवानश्विनौ च
।
अस्त्रैर्दिव्यैर्मानुषान्योधयित्वा आगन्तारः पुनरेवेन्द्रलोकम्॥२७॥
दुराधरो दुष्प्रापः ॥२७॥
व्यास उवाच।
एतच्छ्रुत्वा वज्रपाणिर्वचस्तु देवश्रेष्ठं पुनरेवेदमाह
।
वीर्येणाहं पुरुषं कार्यहेतोर्दद्यामेषां पञ्चमं मत्प्रसूतम्॥२८॥
वीर्येण शुक्रद्वारा पुरुषम् अंशभूतं दद्यां स्वयं तु अधिकारिकत्वादिहैव तिष्ठेयमिति भावः ॥२८॥
विश्वभुग्भूतधामा च शिबिरिन्द्रः प्रतापवान्
।
शान्तिश्चतुर्थस्तेषां वै तेजस्वी पञ्चमः स्मृतः॥२९॥
तेजस्वी इन्द्रोशः ॥२९॥
तेषां कामं भगवानुग्रधन्वा प्रादादिष्टं सन्निसर्गाद्यथोक्तम्
।
तां चाप्येषां योषितं लोककान्तां श्रियं भार्यां व्यदधान्मानुषेषु॥३०॥
सन्निसर्गात्सुस्वभावात् । श्रियमिति । द्रौपदी स्वर्गश्रीः ताम् ॥३०॥
तैरेव सार्धं तु ततः स देवो जगाम नारायणमप्रमेयम्
।
अनन्तमव्यक्तमजं पुराणं सनातनं विश्वमनन्तरूपम्॥३१॥
तैः विश्वभुगादिभिः स देवो महादेवः ॥३१॥
स चापि तद्व्यदधात्सर्वमेव ततः सर्वे सम्बभूवुर्धरण्याम्
।
स चापि केशौ हरिरुद्धबर्ह शुक्लमेकमपरं चापि कृष्णम्॥३२॥
व्यदधात् विहितवान् आज्ञप्तवानित्यर्थः । उद्वबर्ह उद्धृतवान् ॥३२॥
तौ चापि केशौ निविशेतां यदूनां कुले स्त्रियौ देवकीं रोहिणीं च
।
तयोरेको बलदेवो बभूव योऽसौ श्वेतस्तस्य देवस्य केशः
।
कृष्णो द्वितीयः केशवः संबभूव केशो योऽसौ वर्णतः कृष्ण उक्तः॥३३॥
अत्र केशावेव रेतोरूपौ । पाण्डवानामिव रामकृष्णयोरपि प्रकरणसंगत्यर्थं साक्षाद्देवरेतस उत्पत्तेरवश्यवक्तव्यत्वात् । अत एव देवक्यां रोहिण्यां च साक्षात्केशप्रवेश उच्यते न तु वसुदेवे । तथा सति तु ‘देवानां रेतो वर्षं वर्षस्य रेत मोषधयः’ इत्यादि श्रौतप्रनाड्याऽस्मदादिवत्तयोरपि व्यवधानेन देवप्रभवत्वं स्यात् । तथा च । एतन्नानावताराणां निधानं बीजमव्ययमिति भगवतः साक्षान्मत्स्याद्यवतारबीजत्वेमुच्यमानं विरुध्येत । अपि च केशरेतसोर्देहजत्वे समानेपि रेतःप्रभवत्वेऽर्वाक्स्रोतस्त्वेन मनुष्यत्वं पुत्रत्वं च स्यात् । तथा च ’कृष्णस्तु भगवान्स्वयम्’ इति श्रीमद्भागवतातिः संगच्छते । न च केशोद्धरणात्कृष्णस्याप्यंशत्वं प्रतीयत इति वाच्यम् । केशस्य देहावयवत्वाभावात् । तस्मान्नमुचिवधे कर्तव्ये यथाऽपां फेने वज्रस्य प्रवेश एवं देवकीरोहिण्योर्जठरप्रवेशे कर्तव्ये केशद्वयेन द्वारभूतेन भगवत: कात्स्न्येनैवाविर्भावो द्रष्टव्य इति युक्तम् ॥३३॥
ये ते पूर्वं शक्ररूपा निबद्धास्तस्यां दर्यां पर्वतस्योत्तरस्य
।
इहैव ते पाण्डवा वीर्यवन्तः शक्रस्यांशः पाण्डवः सव्यसाची॥३४॥
एवमेते पाण्डवाः संबभूवुर्ये ते राजन्पूर्वमिन्द्रा बभूवुः
।
लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा भार्या यैषा द्रौपदी दिव्यरूपा॥३५॥
कथं हि स्त्री कर्मणा ते महीतलात् समुत्तिष्ठेदन्यतो दैवयोगात्
।
यस्या रूपं सोमसूर्यप्रकाशं गन्धश्चास्याः कोशमात्रात्प्रवाति॥३६॥
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र ददानि ते वरमत्यद्भुतं च
।
दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान्॥३७॥
दिव्यं द्योतमानं दिवि विहितं वा सार्वज्ञ्यप्रदत्वात् ॥३७॥
वैशंपायन उवाच।
ततो व्यासः परमोदारकर्मा शुचिर्विप्रस्तपसा तस्य राज्ञः
।
चक्षुर्दिव्यं प्रददौ तांश्च सर्वान् राजाऽपश्यत्पूर्वदेहैर्यथावत्॥३८॥
तस्य राज्ञः तस्मै राज्ञे ॥३८॥
ततो दिव्यान्हेमकिरीटमालिनः शक्रप्रख्यान्पावकादित्यवर्णान्
।
बद्धापीडांश्चारुरूपांश्च यूनो व्यूढोरस्कांस्तालमात्रान्ददर्श॥३९॥
बद्धापीडान् परिहितालङ्कारान् । तालमात्रान् तालवृक्षप्रमाणान् ॥३९॥
दिव्यैर्वस्त्रैरजोभिः सुगन्धैर्माल्यैश्चाग्र्यैः शोभमानानतीव
।
साक्षात्त्र्यक्षान्वा वसूंश्चापि रुद्रानादित्यान्वा सर्वगुणोपपन्नान्॥४०॥
तान्पूर्वेन्द्रानभिवीक्ष्याभिरूपान् शक्रात्मजं चेन्द्ररूपं निशम्य
।
प्रीतो राजा द्रुपदो विस्मितश्च दिव्यां मायां तामवेक्ष्याप्रमेयाम्॥४१॥
तां चैवाग्र्यां स्त्रियमतिरूपयुक्तां दिव्यां साक्षात्सोमवह्निप्रकाशाम्
।
योग्यां तेषां रूपतेजोयशोभिः पत्नीं मत्वा हृष्टवान्पार्थिवेन्द्रः॥४२॥
स तद्दृष्ट्वा महदाश्चर्यरूपं जग्राह पादौ सत्यवत्याः सुतस्य
।
नैतच्चित्रं परमर्षे त्वयीति प्रसन्नचेताः स उवाच चैनम्॥४३॥
व्यास उवाच।
आसीत्तपोवने काचिदृषेः कन्या महात्मनः
।
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती॥४४॥
तोषयामास तपसा सा किलोग्रेण शङ्करम्
।
तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम्॥४५॥
सैवमुक्ताऽब्रवीत्कन्यां देवं वरदमीश्वरम्
।
पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः॥४६॥
ददौ तस्यै स देवेशस्तं वरं प्रीतमानसः
।
पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः॥४७॥
सा प्रसादयती देवमिदं भूयोऽभ्यभाषत
।
एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति शङ्कर॥४८॥
तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः
।
पञ्चकृत्वस्त्वयोक्तोऽहं पतिं देहीति वै पुनः॥४९॥
तत्तथा भविता भद्रे वचस्तद्भद्रमस्तु ते
।
देहमन्यं गतायास्ते सर्वमेतद्भविष्यति॥५०॥
द्रुपदैषा हि सा जज्ञे सुता वै देवरूपिणी
।
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता॥५१॥
स्वर्गश्रीः पाण्डवार्थं तु समुत्पन्ना महामखे
।
सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता॥५२॥
सैषा देवी रुचिरा देवजुष्टा पञ्चानामेका स्वकृतेनेह कर्मणा
।
सृष्टा स्वयं देवपत्नी स्वयंभुवा श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व॥५३॥
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि पञ्चेन्द्रोपाख्याने सप्तनवत्यधिकशततमोऽध्यायः॥१९७॥
द्रुपद उवाच।
अश्रुत्वैवं वचनं ते महर्षे मया पूर्वं यतितं संविधातुम्
।
न वै शक्यं विहितस्यापयानं तदेवेदमुपपन्नं विधानम्॥१॥
अष्टनवत्यधिकशततमोऽध्यायः अश्रुत्वेति । विहितस्य दैवोपस्थापितस्य अपयानम् उपेक्षा । तदेव विधानं प्राक्कॄतम् उपपन्नं कर्तुं युक्तम् ॥१॥
दिष्टस्य ग्रन्थिरनिवर्तनीयः स्वकर्मणा विहितं नेह किंचित्
।
कृतं निमित्तमिह नैकहेतोस्तदेवेदमुपपन्नं विधानम्॥२॥
ग्रन्थिर्ग्रथना । स्वकर्मणा इदानीं तनेन विहितं सिद्धं निमित्तं तपः ॥२॥
यथैव कृष्णोक्तवती पुरस्तान्नैकान्पतीन्मे भगवान्ददातु
।
स चाप्येवं वरमित्यब्रवीत्तां देवो हि वेत्ता परमं यदत्र॥३॥
यदि चैवं विहितः शङ्करेण धर्मोऽधर्मो वा नात्र ममापराधः
।
गृह्णन्त्विमे विधिवत्पाणिमस्या यथोपजोषं विहितैषां हि कृष्णा॥४॥
वैशंपायन उवाच।
ततोऽब्रवीद्भगवान्धर्मराजमद्यैव पुण्याहमुत वः पाण्डवेयाः
।
अद्य पोष्यं योगमुपैति चन्द्रमाः पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम्॥५॥
पौष्यं पुष्यत्यनेनेति तं न तु पुष्यं तस्य वैवाहिकत्वात् । पौष्पमिति पाठे पुष्पाय हितं बहुसंततिप्रदमित्यर्थः । हे आद्य हे ज्येष्ठ ॥५॥
ततोऽराजा यज्ञसेनः सपुत्रो जन्यार्थमुक्तं बहु तत्तदग्र्यम्
।
समानयामास सुतां च कृष्णामाप्लाव्य रत्नैर्बहुभिर्विभूष्य॥६॥
ततस्तु सर्वे सुहृदो नृपस्य समाजग्मुः सहिता मन्त्रिणश्च
।
द्रष्टुं विवाहं परमप्रतीता द्विजाश्च पौराश्च यथा प्रधानाः॥७॥
ततोऽस्य वेश्माग्र्यजनोपशोभितं विस्तीर्णपद्मोत्पलभूषिताजिरम्
।
बलौघरत्नौघविचित्रमाबभौ नभो यथा निर्मलतारकान्वितम्॥८॥
ततस्तु ते कौरवराजपुत्रा विभूषिताः कुण्डलिनो युवानः
।
महार्हवस्त्राम्बरचन्दनोक्षिताः कृताभिषेकाः कृतमङ्गलक्रियाः॥९॥
पुरोहितेनाग्निसमानवर्चसा सहैव धौम्येन यताविधि प्रभो
।
क्रमेण सर्वे विविशुस्ततः सदो महर्षभागोष्ठमिवाभिनन्दिनः॥१०॥
ततः समाधाय स वेदपरागो जुहाव मन्त्रैर्ज्वलितं हुताशनम्
।
युधिष्ठिरं चाप्युपनीय मन्त्रविन्नियोजयामास सहैव कृष्णया॥११॥
प्रदक्षिणं तौ प्रगृहीतपाणी परिणाय्ययामास स वेदपरागः
।
ततोऽभ्यनुज्ञाय तमाजिशोभिनं पुरोहितो राजगृहाद्विनिर्ययौ॥१२॥
क्रमेण चानेन नराधिपात्मजा वरस्त्रियस्ते जगृहुस्तदा करम्
।
अहन्यहन्युत्तमरूपधारिणो महारथाः कौरववंशवर्धनाः॥१३॥
इदं च तत्राद्भुतरूपमुत्तमं जगाद देवर्षिरतीतमानुषम्
।
महानुभावा किल सा सुमध्यमा बभूव कन्यैव गते गतेऽहनि॥१४॥
कृते विवाहे द्रुपदो धनं ददौ महारथेभ्यो बहुरूपमुत्तमम्
।
शतं रथानां वरहेममालिनां चतुर्युजां हेमखलीनमालिनाम्॥१५॥
चतुर्युजाम् अश्वचतुष्टययुजाम् । हेममयं खलीनम् अश्वमुखस्थं नियामकं ‘लगाम’ इति भाषया प्रसिद्धम् । रथप्रसङ्गाद्वा खलीनं युगं तेन मालिनाम् ॥१५॥
शतं गजानामपि पद्मिनां तथा शतं गिरिणामिव हेमशृङ्गिणाम्
।
तथैव दासीशतमग्र्ययौवनं महार्हवेषाभरणाम्बरस्रजम्॥१६॥
पद्मानि गजोत्तमलक्षणानि तद्वतां पद्मिनां श्रीमतां वा । यद्वा हेमशृङ्गिणामिति दृष्टान्तानुगुण्यात्पद्मं पद्माकारं गजपल्याणम् अष्टकोणमष्टस्तम्भं शिखरकलशादियुक्तं तद्वताम् ॥१६॥
पृथक्पृथक् दिव्यदृशां पुनर्ददौ तदा धनं सौमकिरग्निसाक्षिकम्
।
तथैव वस्त्राणि विभूषणानि प्रभावयुक्तानि महानुभावः॥१७॥
कृते विवाहे च ततस्तु पाण्डवाः प्रभूतरत्नामुपलभ्य तां श्रियम्
।
विजह्रुरिन्द्रप्रतिमा महाबलाः पुरे तु पाञ्चालनृपस्य तस्य ह॥१८॥
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि द्रौपदीविवाहे अष्टनवत्यधिकशततमोऽध्यायः॥१९८॥
वैशंपायन उवाच।
पाण्डवैः सह संयोगं गतस्य द्रुपदस्य ह
।
न बभूव भयं किंचिद्देवेभ्योऽपि कथंचन॥१॥
नवनवत्यधिकशततमोऽध्यायः पाण्डवैरिति ॥१॥
कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः
।
नाम संकीर्तयन्त्योऽस्या जग्मुः पादौ स्वमूर्धभिः॥२॥
कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला
।
कृताभिवादना श्वश्र्वा तस्थौ प्रह्वा कृताञ्जलिः॥३॥
क्षुमा अतसी तद्विकारभूतं वस्त्रं क्षौमम् ॥३॥
रूपलक्षणसंपन्नां शीलाचारसमन्विताम्
।
द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम्॥४॥
यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ
।
रोहिणी च यथा सोमे दमयन्ती यथा नले॥५॥
यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती
।
यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु॥६॥
जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता
।
सुभगा भोगसंपन्ना यज्ञपत्नी पतिव्रता॥७॥
जीवसूः आयुष्मत्संततिप्रसूः ॥७॥
अतिथीनागतान्साधून्वृद्दान्बालांस्तथा गुरून्
।
पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः॥८॥
कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च
।
अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सला॥९॥
अभिषिच्यस्व अभिषेकं प्राप्नुहि । नृपतिं पट्टाभिषिक्तं राजानमनु ॥९॥
पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः
।
कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ॥१०॥
पृथिव्यां यानि रत्नानि गुणवन्ति गुणान्विते
।
तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम्॥११॥
यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम्
।
तथा भूयोऽभिनन्दिष्ये जातपुत्रां गुणान्विताम्॥१२॥
हे वधु अद्य ॥१२॥
वैशंपायन उवाच।
ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः
।
वैदूर्यमणिचित्राणि हैमान्याभरणानि च॥१३॥
वासांसि च महार्हाणि नानादेश्यानि माधवः
।
कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च॥१४॥
शयनासनयानानि विविधानि महान्ति च
।
वैदूर्यवज्रचित्राणि शतशो भाजनानि च॥१५॥
रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः
।
प्रेष्याः संप्रददौ कृष्णो नानादेश्याः स्वलङ्कृताः॥१६॥
प्रेष्याः दासीः ॥१६॥
गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान्
।
रथांश्च दान्तान्सौवर्णैः शुभ्रैः पट्टैरलङ्कृतान्॥१७॥
भद्रान् भद्रजातीयान् ॥१७॥
कोटिशश्च सुवर्णं च तेषामकृतकं तथा
।
वीथीकृतममेयात्मा प्राहिणोन्मधुसूदनः॥१८॥
अकृतकं जाम्बूनदम् आकरेषु धमनादिना अनुत्पादितं । वीथीकृतं धान्यराशिवत् पृथक्पृथक् मालया राशीकृतम् । राशीकृतमिति पाठे पिण्डीकृतम् । कृताकृतमिति पाठे घटितमघटितं च ॥१८॥
तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः
।
मुदा परमया युक्तो गोविन्दप्रियकाम्यया॥१९॥
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि नवनवत्यधिकशततमोऽध्यायः॥१९९॥