अनुक्रमणिकापर्व - १पर्वसंग्रहपर्व - २पौष्यपर्व - ३पौलोमपर्व। - ४आस्तिकपर्व - ५अंशावतरणपर्व - ६सम्भवपर्व - ७जतुगृहपर्व । - ८हिडिम्बवधपर्व - ९बकवधपर्व - १०चैत्ररथपर्व । - ११स्वयंवरपर्व - १२वैवाहिकपर्व - १३विदुरागमनराज्यालंभपर्व - १४अर्जुनवनवासपर्व - १५सुभ्रद्राहरणपर्व। - १६हरणाहरणपर्व। - १७खाण्डवदाहपर्व - १८मयदर्शनपर्व - १९

वैवाहिकपर्व

त्रिनवत्यधिकशततमोऽध्यायः

वैशंपायन उवाच। ततस्तथोक्तः परिहृष्टरूपः पित्रे शशंसाथ स राजपुत्रः ।
धृष्टद्युम्नः सोमकानां प्रबर्हो वृत्तं यथा येन हृता च कृष्णा॥१॥

त्रिनवत्यधिकशततमोऽध्यायः तत इति । प्रबर्ह उत्तमः ॥१॥

धृष्टद्युम्न उवाच। योऽसौ युवा व्यायतलोहिताक्षः कृष्णाजिनी देवसमानरूपः ।
यः कार्मुकाग्र्यं कृतवानधिज्यं लक्ष्यं च यः पातितवान्पृथिव्याम्॥२॥

असज्जमानश्च ततस्तरस्वी वृतो द्विजाग्रयैरभिपूज्यमानः ।
चक्राम वज्रीव दितेः सुतेषु सर्वैश्च देवैर्ऋषिभिश्च जुष्टः॥३॥

कृष्मा प्रगृह्याजिनमन्वयात्तं नागं यथा नागवधूः प्रहृष्टा ।
अमृष्यमाणेषु नराधिपेषु क्रुद्धेषु वै तत्र समापतत्सु॥४॥

ततोऽपरः पार्थिवसङ्घमध्ये प्रवृद्धमारुज्य महीप्ररोहम् ।
प्राकालयन्नेव स पार्थिवौघान् क्रुद्धोऽन्तकः प्राणभृतो यथैव॥५॥

महीप्ररोहं वृक्षम् ॥५॥

तौ पार्थिवानां मिषतां नरेन्द्र कृष्णामुपादाय गतौ नराग्र्यौ ।
विभ्राजमानाविव चन्द्रसूर्यौ बाह्यां पुराद्भार्गवकर्मशालाम्॥६॥

तत्रोपविष्टार्चिरिवानलस्य तेषां जनित्रीति मम प्रतर्कः ।
तथाविधैरेव नरप्रवीरैरुपोपविष्टैस्त्रिभिरग्निकल्पैः॥७॥

तस्यास्ततस्तावभिवाद्य पादौ उक्ता च कृष्णा त्वभिवादयेति ।
स्थितां च तत्रैव निवेद्य कृष्णां भिक्षाप्रचाराय गता नराग्र्याः॥८॥

उक्ता ताभ्यामिति शेषः ॥८॥

तेषां तु भैक्षं प्रतिगृह्य कृष्णा दत्वा बलिं ब्राह्मणसाच्च कृत्वा ।
तां चैव वृद्धां परिवेष्य तांश्च नरप्रवीरान्स्वयमप्यभुङ्क्त॥९॥

ब्राह्मणसात् ब्राह्मणाधीनम् ॥९॥

सुप्तास्तु ते पार्थिव सर्व एव कृष्णा च तेषां चरणोपधाने ।
आसीत्पृथिव्यां शयनं च तेषां दर्भाजिनाग्रास्तरणोपपन्नम्॥१०॥

दर्भाणाम् अजिनाग्रम् उपर्यजिनं च तदास्तरणं चेति समासः ॥१०॥

ते नर्दमाना इव कालमेघाः कथा विचित्राः कथयांबभूवुः ।
न वैश्यशूद्रौपयिकीः कथास्ता न च द्विजानां कथयन्ति वीराः॥११॥

निःसंशयं क्षत्रियपुंगवास्ते यथा हि युद्धं कथयन्ति राजन् ।
आशा हि नो व्यक्तमियं समृद्धा मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात्॥१२॥

यथा हि लक्ष्यं निहतं धनुश्च सज्यं कृतं तेन तथा प्रसह्य ।
यथा हि भाषन्ति परस्परं ते छन्ना ध्रुवं ते प्रचरन्ति पार्थाः॥१३॥

ततः स राजा द्रुपदः प्रहृष्टः पुरोहितं प्रेषायामास तेषाम् ।
विद्याम युष्मानिति भाषमाणो महात्मानः पाण्डुसुतास्तु कच्चित्॥१४॥

विद्याम वेदितुमिच्छामः ॥१४॥

गृहीतवाक्यो नृपतेः पुरोधा गत्वा प्रशंसामभिधाय तेषाम् ।
वाक्यं समग्रं नृपतेर्यथावदुवाच चानुक्रमविक्रमेण॥१५॥

विज्ञातुमिच्छत्यवनीश्वरो वः पाञ्चालराजो वरदो वरार्हाः ।
लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा हर्षस्य नान्तं प्रतिपद्यते सः॥१६॥

आख्यात च ज्ञातिकुलानुपूर्वी पदं शिरःसु द्विषतां कुरुध्वम् ।
प्रह्लादयध्वं हृदयं ममेदं पाञ्चालराजस्य च सानुगस्य॥१७॥

आख्यात कथयत ॥१७॥

पाण्डुर्हि राजा द्रुपदस्य राज्ञः प्रियः सखा चात्मसमो बभूव ।
तस्यैष कामो दुहिता ममेयं स्नुषा प्रदास्यामि हि कौरवस्य॥१८॥

अयं हि कामो द्रुपदस्य राज्ञो हृदि स्थितो नित्यमनिन्दिताङ्गाः ।
यदर्जुनो वै पृथुदीर्घबाहुर्धर्मेण विन्देत सुतां ममैताम्॥१९॥

कृतं हि तत्स्यात्सुकृतं ममेदं यशश्च पुण्यं च हितं तदेतत् ।
अथोक्तवाक्यं हि पुरोहितं स्थितं ततो विनीतं समुदीक्ष्य राजा॥२०॥

समीपतो भीममिदं शशास प्रदीयतां पाद्यमर्ध्यं तथाऽस्मै ।
मान्यः पुरोधा द्रुपदस्य राज्ञः तस्मै प्रयोज्याऽभ्यधिका हि पूजा॥२१॥

भीमस्ततस्तत्कृतवान्नरेन्द्र तां चैव पूजां प्रतिगृह्य हर्षात् ।
सुखोपविष्टं तु पुरोहितं तदा युधिष्ठिरो ब्राह्मणमित्युवाच॥२२॥

पाञ्चालराजेन सुता निसृष्टा स्वधर्मदृष्टेन यथा न कामात् ।
प्रदिष्टशुल्का द्रुपदेन राज्ञा सा तेन वीरेण तथाऽनुवृत्ता॥२३॥

शुल्कं मूल्यपणं तेनैव अनुवृत्ता अनुसृता ॥२३॥

न तत्र वर्णेषु कृता विवक्षा न चापि शीले न कुले न गोत्रे ।
कृतेन सज्येन हि कार्मुकेण विद्धेन लक्ष्येण हि सा विसृष्टा॥२४॥

तदेवाह कृतेनेति ॥२४॥

सेयं तथानेन महात्मनेह कृष्णा जिता पार्थिवसङ्घमध्ये ।
नैवं गते सौमकिरद्य राजा सन्तापमर्हत्यसुखाय कर्तुम्॥२५॥

सौमकिर्द्रुपदः ॥२५॥

कामश्च योऽसौ द्रुपदस्य राज्ञः स चापि संपत्स्यति पार्थिवस्य ।
संप्राप्यरूपां हि नरेन्द्रकन्यामिमामहं ब्राह्मण साधु मन्ये॥२६॥

संप्राप्यरूपाम् अस्माकं योग्यस्वरूपाम् ॥२६॥

न तद्धनुर्मन्दबलेन शक्यं मौर्व्या समायोजयितुं तथा हि ।
न चाकृतास्त्रेण न हीनजेन लक्ष्यं तथा पातयितुं हि शक्यम्॥२७॥

तस्मान्न तापं दुहितुर्निमित्तं पाञ्चालराजोर्हति कर्तुमद्य ।
न चापि तत्पातनमन्यथेह कर्तुं हि शक्यं भुवि मानवेन॥२८॥

एवं ब्रुवत्येव युधिष्ठिरे तु पाञ्चालराजस्य समीपतोऽन्यः ।
तत्राजगामाशु नरो द्वितीयो निवेदयिष्यन्निह सिद्धमन्नम्॥२९॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि पुरोहितयुधिष्ठिरसंवादे त्रिनवत्यधिकशततमोऽध्यायः॥१९३॥
चतुर्नवत्यधिकशततमोऽध्यायः

दूत उवाच। जन्यार्थमन्नं द्रुपदेन राज्ञा विवाहहेतोरुपसंस्कृतं च ।
तदाप्नुवध्वं कृतसर्वकार्याः कृष्णां च तत्रैव चिरं न कार्यम्॥१॥

चतुर्नवत्यधिकशततमोऽध्यायः जन्यार्थमिति । जन्यार्थे वरपक्षीयजनार्थम् । कृष्णां च तत्रैवाप्नुवध्वं पाणिग्रहणविधिना । कृष्णा चेति पाठे आप्नोतु अन्नं भवदीयत्वात् भवद्भिः सहैवेति भावः ॥१॥

इमे रथाः काञ्चनपद्मचित्राः सदश्वयुक्ता वसुधाधिपार्हाः ।
एतान्समारुह्य परैत सर्वे पाञ्चालराजस्य निवेशनं तत्॥२॥

वैशंपायन उवाच। ततः प्रयाताः कुरुपुङ्गवास्ते पुरोहितं तं परियाप्य सर्वे ।
आस्थाय यानानि महान्ति तानि कुन्ती च कृष्णा च सहैकयाने॥३॥

परियाप्य प्रस्थाप्य ॥३॥

श्रुत्वा तु वाक्यानि पुरोहितस्य यान्युक्तवान्भारत धर्मराजः ।
जिज्ञासयेवाथ कुरूत्तमानां द्रव्याण्यनेकान्युपसंजहार॥४॥

पुनः क्षत्रियत्वं परीक्षितुं द्रव्याण्युपसञ्जहार एकत्र कृत्वा दर्शितवान् ॥४॥

फलानि माल्यानि च संस्कृतानि वर्माणि चर्माणि तथासनानि ।
गाश्चैव राजन्नथ चैव रज्जूर्बीजानि चान्यानि कृषीनिमित्तम्॥५॥

फलवर्म गवादीनि क्रमात्त्रैवर्णिकयोग्यानि ॥५॥

अन्येषु शिल्पेषु च यान्यपि स्युः सर्वाणि कृत्यान्यखिलेन तत्र ।
क्रीडानिमित्तान्यपि यानि तत्र सर्वाणि तत्रोपजहार राजा॥६॥

कृन्तन्तीति कृत्यानि । कृती छेदनेस्मात् क्यप् । शिल्पिनां प्रहरणानि वास्यादीनि । क्रीडानिमित्तानि शुष्केष्टिसदोरञ्जनादिरूपा ब्राह्मणक्षत्रियादीनां क्रीडास्तासां साधनानि । अल्पानि यज्ञपात्राणि कृत्रिमाश्वादीनि सरङ्गपटानि च । तत्र देशे तत्र काले तत्र परीक्षणे निमित्ते ॥६॥

वर्माणि चर्माणि च भानुमन्ति खड्गा महान्तोऽश्वरथाश्च चित्राः ।
धनूंषि चाग्र्याणि शराश्च चित्राः शक्त्यृष्टयः काञ्चनभूषणाश्च॥७॥

प्रासा भुशुण्ड्यश्च परश्वधाश्च सांग्रामिकं चैव तथैव सर्वम् ।
शय्यासनान्युत्तमवस्तुवन्ति तथैव वासो विविधं च तत्र॥८॥

उत्तमवस्तूनि रत्नखचितताम्बूलधानीप्रभृतीनि तद्वन्ति । मतोर्मस्यवत्त्वमार्षम् ॥८॥

कुन्ती तु कृष्णां परिगृह्य साध्वीमन्तःपुरं द्रुपदस्याविवेश ।
स्त्रियश्च तां कौरवराजपत्नीं प्रत्यर्चयामासुरदीनसत्त्वाः॥९॥

तान्सिंहविक्रान्तगतीन्निरीक्ष्य महर्षभाक्षानजिनोत्तरीयान् ।
गूढोत्तरांसान्भुजगेन्द्रभोगप्रलम्बबाहून्पुरुषप्रवीरान्॥१०॥

गूढोत्तरांसान्गूढजनून् ॥१०॥

राजा च राज्ञः सचिवाश्च सर्वे पुत्राश्च राज्ञः सुहृदस्तथैव ।
प्रेष्याश्च सर्वे निखिलेन राजन् हर्षं समापेतुरतीव तत्र॥११॥

ते तत्र वीराः परमासनेषु सपादपीठेष्वविशङ्कमानाः ।
यथानुपूर्वं विविशुर्नराग्र्याः तथा महार्हेषु न विस्मयन्तः॥१२॥

उच्चावचं पार्थिवभोजनीयं पात्रीषु जाम्बूनदराजतीषु ।
दासाश्च दास्यश्च सुमृष्टवेषाः संभोजकाश्चाप्युपजह्रुरन्नम्॥१३॥

सुमृष्टः अभ्यञ्जनवासोलङ्करणादिभिः सम्यक् परिष्कृतः पाण्डवानां वेषो यैस्ते सुमृष्टवेषाः । ते च संभोजकाश्च यथायोग्यं ताम्बूलादिकमपूपादिकं चान्नमदनीयम् उपाजह्रुः ॥१३॥

ते तत्र भुक्त्वा पुरुषप्रवीरा यथात्मकामं सुभृशं प्रतीताः ।
उत्क्रम्य सर्वाणि वसूनि राजन् सांग्रामिकं ते विविशुर्नृवीराः॥१४॥

तल्लक्षयित्वा द्रुपदस्य पुत्रो राजा च सर्वैः सह मन्त्रिमुख्यैः ।
समर्थयामासुरुपेत्य हृष्टाः कुन्तीसुतान्पार्थिवराजपुत्रान्॥१५॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि युधिष्ठिरादिपरीक्षणे चतुर्नवत्यधिकशततमोऽध्यायः॥१९४॥
पञ्चनवत्यधिकशततमोऽध्यायः

वैशंपायन उवाच। तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् ।
परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः॥१॥

पञ्चनवत्यधिकशततमोऽध्यायः तत इति । ब्राह्मेण ब्राह्मणार्थमुचितेनाभ्युत्थानादिना । परिग्रहेण आतिथ्येन ॥१॥

पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् ।
कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत॥२॥

वैश्यान्वा गुणसंपन्नानथवा शूद्रयोनिजान् ।
मायामास्थाय वा सिद्धांश्चरतः सर्वतो दिशम्॥३॥

कृष्णाहेतोरनुप्राप्ता देवाः संदर्शनार्थिनः ।
ब्रवीतु नो भवान्सत्यं सन्देहो ह्यत्र नो महान्॥४॥

अपि नः संशयस्यान्ते मनः संतुष्टिमावहेत् ।
अपि नो भागधेयानि शुभानि स्युः परन्तप॥५॥

इच्छया ब्रूहि तत्सत्यं सत्यं राजसु शोभते ।
इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु॥६॥

इष्टं यागादि आपूर्तं वाप्यादि तव धर्मकृत्यं नश्येद्यद्यसत्यं ब्रूया इत्यर्थः ॥६॥

श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिंदम ।
ध्रुवं विवाहकरणमास्थास्यामि विधानतः॥७॥

युधिष्ठिर उवाच। मा राजन्विमनाभूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते ।
ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम्॥८॥

वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः ।
ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ॥९॥

आभ्यां तव सुता राजन्निर्जिता राजसंसदि ।
यमौ च तत्र कुन्ती च यत्र कृष्मा व्यवस्थिता॥१०॥

व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ ।
पद्मिनीव सुतेयं ते ह्रदादन्यह्रदं गता॥११॥

इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते ।
भवान्हि गुरुरस्माकं परमं च परायणम्॥१२॥

वैशंपायन उवाच। ततः स द्रुपदो राजा हर्षव्याकुललोचनः ।
प्रतिवक्तुं मुदा युक्तो नाशकत्तं युधिष्टिरम्॥१३॥

यत्नेन तु स तं हर्षं सन्निगृह्य परंतपः ।
अनुरूपं तदा वाचा प्रत्युवाच युधिष्ठिरम्॥१४॥

पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरात् ।
स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः॥१५॥

तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् ।
विगर्हयामास तदा धृतराष्ट्रं नरेश्वरम्॥१६॥

आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम् ।
प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः॥१७॥

ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि ।
यमौ च राज्ञा संदिष्टं विविशुर्भवनं महत्॥१८॥

तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः ।
प्रत्याश्वस्तस्ततो राजा सह पुत्रैरुवाच तम्॥१९॥

गृह्णातु विधिवत्पाणिमद्यायं कुरुनन्दनः ।
पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम्॥२०॥

क्षणं देवपूजादिपर्वोत्सवं विवाहात्प्राक्कालीनं कुलधर्मम् ‘क्षणः पर्वोत्सवेपि स्यात्तथा मानेप्यनेहसः’ इति मेदिनी ॥२०॥

वैशंपायन उवाच। तमब्रवीत्ततो राजा धर्मात्मा च युधिष्ठिरः ।
ममापि दारसम्बन्धः कार्यस्तावद्विशांपते॥२१॥

द्रुपद उवाच। भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम ।
यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश॥२२॥

युधिष्ठिर उवाच। सर्वेषां महिषी राजन्द्रौपदी नो भविष्यति ।
एवं प्रव्याहृतं पूर्वं मम मात्रा विशांपते॥२३॥

अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः ।
पार्थेन विजिता चैषा रत्नभूता सुता तव॥२४॥

अनिविष्टः अकृतविवाहः ॥२४॥

एष नः समयो राजन् रत्नस्य सह भोजनम् ।
न च तं हातुमिच्छामः समयं राजसत्तम॥२५॥

समयो नियमः ॥२५॥

सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति ।
आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करान्॥२६॥

ज्वलने ज्वलनसमीपे करान् गृह्णातु पञ्चपाणिग्रहणानि करोतु ॥२६॥

द्रुपद उवाच। एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन ।
नैकस्या बहवः पुंसः श्रूयन्ते पतयः क्वचित्॥२७॥

पुंसः पुमांसः यद्वा पुंसः वेदकर्तुः परमात्मनःसकाशान्न श्रूयन्ते । तस्मान्नैका द्वौ पती विन्दत इति वेदविरुद्धं च । अविहितं निषिद्धं चैतदित्यर्थः ॥२७॥

लोकवेदविरुद्धं त्वं नाधर्मं धर्मविच्छुचिः ।
कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी॥२८॥

युधिष्ठिर उवाच। सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् ।
पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे॥२९॥

सूक्ष्मः ‘नैकस्यै बहवः सहपतयः’ इति श्रुत्या सहेति युगपद्बहुपतित्वनिषेधो विहितो न तु समयभेदेन ततश्चापि निषिद्धम् । मात्रा समेत्य भुङ्केत्याज्ञप्तं च न लङ्घनीयम् । पित्रोराज्ञया निषिद्धमपि कर्तव्यम् । परशुरामकृतमातृवघवत् । किमुतानिषिद्धमिति भावः । पूर्वेषां प्रचेतः प्रभृतीनां तैर्यातं वर्त्म बहूनामेकपत्नीत्वम् अनुयामहे । तच्च आनुपूर्व्येणैव नत्वक्रमेण ॥२९॥

न मे वागनृतं प्राह नाधर्मे धीयते मतिः ।
एवं चैव वदत्यम्बा मम चैतन्मनोगतम्॥३०॥

एष धर्मो ध्रुवो राजंश्चरैनमविचारयन् ।
मा च शङ्का तत्र ते स्यात्कथंचिदपि पार्थिव॥३१॥

द्रुपद उवाच। त्वं च कुन्ती च कौन्तय धृष्टद्युम्नश्च मे सुतः ।
कथयन्त्विति कर्तव्यं श्वः काले करवामहे॥३२॥

वैशंपायन उवाच। ते समेत्य ततः सर्वे कथयन्ति स्म भारत ।
अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया॥३३॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि द्वैपायनागमने पञ्चनवत्यधिकशततमोऽध्यायः॥१९५॥
षण्णवत्यधिकशततमोऽध्यायः

वैशंपायन उवाच। ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः ।
प्रत्युत्थाय महात्मानं कृष्णं सर्वेभ्यवादयन्॥१॥

षण्णवत्यधिकशततमोऽध्यायः ततस्ते इति । कृष्णं व्यासम् ॥१॥

प्रतिनन्द्य स तां पूजां पृष्ट्वा कुशलमन्ततः ।
आसने काञ्चने शुद्धे निषसाद महामनाः॥२॥

अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा ।
आसनेषु महार्हेषु निषेदुर्द्विपदां वराः॥३॥

ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः ।
पप्रच्छ तं महात्मानं द्रौपद्यर्थं विशांपते॥४॥

कथमेका बहूनां स्याद्धर्मपत्नी न संकरः ।
एतन्मे भगवान्सर्वं प्रब्रवीतु यथातथम्॥५॥

व्यास उवाच। अस्मिन्धर्मे विप्रलब्धे लोकवेदविरोधके ।
यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत्॥६॥

विप्रलब्धे अतिगहनतया शास्त्रीयेन कापट्येन हते । अत एव लोकवेदविरोधके ॥६॥

द्रुपद उवाच। अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः ।
न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम॥७॥

न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः ।
न चाप्यधर्मो विद्वद्भिश्चरितव्यः कथंचन॥८॥

ततोहं न करोम्येनं व्यवसायं क्रियां प्रति ।
धर्मः सदैव संदिग्धः प्रतिभाति हि मे त्वयम्॥९॥

क्रियां प्रति व्यवसायं निश्चयम् ॥९॥

धृष्टद्युम्न उवाच। यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ ।
ब्रह्मन्समभिवर्तेत सवृत्तः संस्तपोधन॥१०॥

न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथंचन ।
अधर्मो धर्म इति वा व्यवसायो न शक्यते॥११॥

कर्तुमस्मद्विधैर्ब्रह्मंस्ततोऽयं न व्यवस्यते ।
पञ्चानां महिषी कृष्णा भवत्विति कथंचन॥१२॥

युधिष्ठिर उवाच। न मे वागनृतं प्राह नाधर्मे धीयते मतिः ।
वर्तते हि मनो मेऽत्र नैषो धर्मः कथंचन॥१३॥

न मे इति । वक्तृत्वं वाच एव धर्मो न पुरुषस्य निर्विशेषस्य अत उक्तं न मे वागिति । एवं मतिमनसोरपि ज्ञेयम् । वागादीनां वक्तृत्वादिधर्मवताम् असङ्गेन पुंसा संबन्धस्तु न वास्तवः संभवति । अत एवोक्तम् । ‘निःसंगेस्य ससंगेन कूटस्थस्य विकारिणा । आत्मनोऽनात्मनायोगो वास्तवो नोपपद्यते’ इति । अत्र पञ्चानामेकपत्नीत्वे ॥१३॥

श्रूयते हि पुराणेऽपि जटिला नाम गौतमी ।
ऋषीनध्यासितवती सप्त धर्मभृतां वरा॥१४॥

तथैव मुनिजा वार्क्षी तपोभिर्भावितात्मनः ।
संगताभूद्दश भ्रातॄनेकनाम्नः प्रचेतसः॥१५॥

गुरोर्हि वचनं प्राहुर्धर्म्यं धर्मज्ञसत्तम ।
गुरूणां चैव सर्वेषां माता परमको गुरुः॥१६॥

सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति ।
तस्मादेतदहं मन्ये परं धर्मं द्विजोत्तम॥१७॥

कुन्त्युवाच। एतमेतद्यथा प्राह धर्मचारी युधिष्ठिरः ।
अनृतान्मे भयं तीव्रं मुच्येऽहमनृतात्कथम्॥१८॥

व्यास उवाच। अनृतान्मोक्ष्यसे भद्रे धर्मश्चैव सनातनः ।
ननु वक्ष्यामि सर्वेषां पाञ्चाल शृमु मे स्वयम्॥१९॥

यथायं विहितो धर्मो यतश्चायं सनातनः ।
यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः॥२०॥

वैशंपायन उवाच। तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः ।
करे गृहीत्वा राजानं राजवेश्म समाविशत्॥२१॥

राजानं द्रुपदम् ॥२१॥

पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः ।
विविशुर्यत्र तत्रैव प्रतीक्षन्ते स्म तावुभौ॥२२॥

उभौ व्यासद्रुपदौ ॥२२॥

ततो द्वैपायनस्तस्मै नरेन्द्राय महात्मने ।
आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता॥२३॥

अत्र यत्तद्देवाददुरित्यादिना त्रिपथगां नदीमित्यन्तो नारायण्युपाख्यानग्रन्थोऽध्यायद्वयात्मकः क्वचित्पुस्तके पठ्यते ॥२३॥
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि व्यासवाक्ये षण्णवत्यधिकशततमोऽध्यायः॥१९६॥
सप्तनवत्यधिकशततमोऽध्यायः

व्यास उवाच। पुरा वै नैमिषारण्ये देवाः सत्रमुपासते ।
तत्र वैवस्वतो राजन् शामित्रमकरोत्तदा॥१॥

सप्तनवत्यधिकशततमोऽध्यायः पुरेति । शमिता यज्ञे पशुवधकर्ता तस्य कर्म शामित्रम् ॥१॥

ततो यमो दीक्षितस्तत्र राजन्नामारयत्कंचिदपि प्रजानाम् ।
ततः प्रजास्ता बहुला बभूवुः कालातिपातान्मरणप्रहीणाः॥२॥

यमो दीक्षितः । सत्रे हि ये यजमानास्त ऋत्विजः सर्वेषां दीक्षास्ति यजमानत्वात् । कालातिपातात् मरणकालातिक्रमात् ॥२॥

सोमश्च शक्रो वरुणः कुबेरः साध्या रुद्रा वसवोऽथाश्विनौ च ।
प्रजापतिर्भुवनस्य प्रणेता समाजग्मुस्तत्र देवास्तथाऽन्ये॥३॥

यत्र प्रजापतिस्तत्र सोमादयः समाजग्मुः ॥३॥

ततोऽब्रुवँल्लोकगुरुं समेता भयात्तीव्रान्मानुषाणां विवृद्ध्या ।
तस्माद्भयादुद्विजन्तः सुखेप्सवः प्रयाम सर्वे शरणं भवन्तम्॥४॥

पितामह उवाच। किं वो भयं मानुषेभ्यो यूयं सर्वे यदाऽमराः ।
मा वो मर्त्यसकाशाद्वै भयं भवितुमर्हति॥५॥

देवा ऊचुः। मर्त्या अमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन ।
अविशेषादुद्विजन्तो विशेषार्थमिहागताः॥६॥

श्रीभगवानुवाच ।
वैवस्वतो व्यापृतः सत्रहेतोस्तेन त्विमे न म्रियन्ते मनुष्याः ।
तस्मिन्नेकाग्रे कृतसर्वकार्ये तत एषां भवितैवान्तकालः॥७॥

तस्मिन्कृतसर्वकार्ये समापितयज्ञे सति एषां लोकानामन्तकालो भविता ॥७॥

वैवस्वतस्यैव तनुर्विभक्ता वीर्येण युष्माकमुत प्रवृद्धा ।
सैषामन्तो भविता ह्यन्तकाले न तत्र वीर्यं भविता नरेषु॥८॥

अतः वैवस्वतस्यैव तनुः प्रवृद्धा योगबलेन विपुला विभक्ता द्वैधीभावं गता सती । सा एषाम् अन्तो विनाशो भविता वीर्यं देवतासाम्यम् ॥८॥

व्यास उवाच। ततस्तु ते पूर्वजदेववाक्यं श्रुत्वा जग्मुर्यत्र देवा यजन्ते ।
समासीनास्ते समेता महाबला भागीरथ्यां ददृशुः पुण्डरीकम्॥९॥

दृष्ट्वा च तद्विस्मितास्ते बभूवुस्तेषामिन्द्रस्तत्र शूरो जगाम ।
सोऽपश्यद्योषामथ पावकप्रभां यत्र देवी गङ्गा सततं प्रसूता॥१०॥

सा तत्र योषा रुदती जलार्थिनी गङ्गां देवीं व्यवगाह्य व्यतिष्ठत् ।
तस्याश्रुबिन्दुः पतितो जले यस्तत्पद्ममासीदथ तत्र काञ्चनम्॥११॥

तस्याः अश्रुबिन्दुः सन्धिरार्षः ॥११॥

तदद्भुतं प्रेक्ष्य वज्री तदानीमपृच्छत्तां योषितमन्तिकाद्वै ।
का त्वं भद्रे रोदिषि कस्य हेतोर्वाक्यं तथ्यं कामयेऽहं ब्रवीहि॥१२॥

कामये श्रोतुम् ॥१२॥

स्त्र्युवाच ।
त्वं वेत्स्यसे मामिह याऽस्मि शक्र यदर्थं चाहं रोदिमि मन्दभाग्या ।
आगच्छ राजन्पुरतो गमिष्ये द्रष्टाऽसि तद्रोदिमि यत्कृतेऽहम्॥१३॥

व्यास उवाच। तां गच्छन्तीमन्वगच्छत्तदानीं सोऽपश्यदारात्तरुणं दर्शनीयम् ।
सिद्धासनस्थं युवतीसहायं क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि॥१४॥

युवतीसहायं रुद्रम् ॥१४॥

तमब्रवीद्देवराजो ममेदं त्वं विद्धि विद्वन्भुवनं वशे स्थितम् ।
ईशोऽहस्मीति समन्युरब्रवीद्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम्॥१५॥

अक्षैः हेतुभिः प्रमत्तम् असावधानम् ॥१५॥

क्रुद्धं च शक्रं प्रसमीक्ष्य देवो जहाय शक्रं च शनैरुदैक्षत ।
संस्तम्भितोऽभूदथ देवराजस्तेनेक्षितः स्थाणुरिवावतस्थे॥१६॥

संस्तम्भितः वज्रं मोक्तुम् उद्यतः सन् अत एव स्थाणुवि ॥१६॥

यदा तु पर्याप्तमिहास्य क्रीडया तदा देवीं रुदतीं तामुवाच ।
आनीयतामेष यतोऽहमारान्नैनं दर्पः पुनरप्याविशेत॥१७॥

क्रीडया पर्याप्तं क्रीडा समाप्ता ॥१७॥

ततः शक्रः स्पृष्टमात्रस्तया तु स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् ।
तमब्रवीद्भगवानुग्रतेजा मैवं पुनः शक्र कृथाः कथंचित्॥१८॥

निवर्तयैनं च महाद्रिराजं बलं च वीर्यं च तवाप्रमेयम् ।
छिद्रस्य चैवाविश मध्यमस्य यत्रासते त्वद्विधाः सूर्यभासः॥१९॥

एनं बिलद्वाररोधिनम् । अद्रिराजं निवर्तय दूरीकुरु यथा बलादिकं तवाप्रमेयं तथा निवर्तय ॥१९॥

स तद्विवृत्य विवरं महागिरेस्तुल्यद्युतींश्चतुरोन्यान्ददर्श ।
स तानभिप्रेक्ष्य बभूव दुःखितः कच्चिन्नाहं भविता वै यथेमे॥२०॥

ततो देवो गिरिशो वज्रपाणिं विवृत्य नेत्रे कुपितोभ्युवाच ।
दरीमेतां प्रविश त्वं शतक्रतो यन्मां बाल्यादवमंस्थाः पुरस्तात्॥२१॥

ततः शीघ्रम् अप्रवेशाद्धेतोः ॥२१॥

उक्तस्त्वेवं विभुना देवराजः प्रावेपतार्तो भृशमेवाभिषङ्गात् ।
स्रस्तैरङ्गैरनिलेनेव नुन्नमश्वत्थपत्रं गिरिराजमूर्ध्नि॥२२॥

स प्राञ्जलिर्वै वृषवाहनेन प्रवेपमानः सहसैवमुक्तः ।
उवाच देवं बहुरूपमुग्रमद्याशेषस्य भुवनस्य त्वं भवाद्यः॥२३॥

एवं दरीं प्रविशेत्युक्तः उवाच हे भव अद्य त्वं अशेषस्य भुवनस्य आद्यः पतिरसि । अद्येत्यनेन मां जित्वैव न त्वन्यथेति सूचितम् ॥२३॥

तमब्रवीदुग्रवर्चाः प्रहस्य नैवंशीलाः शेषमिहाप्नुवन्ति ।
एतेप्येवं भवितारः पुरस्तात्तस्मादेतां दरीमाविश्य शेष्व॥२४॥

शेषं प्रसादम् ‘शेषः सङ्कर्षणे वधे अनन्ते ना प्रसादे च’ इति मेदिनी ॥२४॥

तत्र ह्येवं भवितारो न संशयो योनिं सर्वे मानुषीमाविशध्वम् ।
तत्र यूयं कर्म कृत्वाऽविषह्यं बहूनन्यान्निधनं प्रापयित्वा॥२५॥

आगन्तारः पुनरेवेन्द्रलोकं स्वकर्मणा पूर्वजितं महार्हम् ।
सर्वं मया भाषितमेतदेवं कर्तव्यमन्यद्विविधार्थयुक्तम्॥२६॥

पूर्वेन्द्रा ऊचुः। गमिष्यामो मानुषं देवलोकाद्दुराधरो विहितो यत्र मोक्षः ।
देवास्त्वस्मानादधीरञ्जनन्यां धर्मो वायुर्मघवानश्विनौ च ।
अस्त्रैर्दिव्यैर्मानुषान्योधयित्वा आगन्तारः पुनरेवेन्द्रलोकम्॥२७॥

दुराधरो दुष्प्रापः ॥२७॥

व्यास उवाच। एतच्छ्रुत्वा वज्रपाणिर्वचस्तु देवश्रेष्ठं पुनरेवेदमाह ।
वीर्येणाहं पुरुषं कार्यहेतोर्दद्यामेषां पञ्चमं मत्प्रसूतम्॥२८॥

वीर्येण शुक्रद्वारा पुरुषम् अंशभूतं दद्यां स्वयं तु अधिकारिकत्वादिहैव तिष्ठेयमिति भावः ॥२८॥

विश्वभुग्भूतधामा च शिबिरिन्द्रः प्रतापवान् ।
शान्तिश्चतुर्थस्तेषां वै तेजस्वी पञ्चमः स्मृतः॥२९॥

तेजस्वी इन्द्रोशः ॥२९॥

तेषां कामं भगवानुग्रधन्वा प्रादादिष्टं सन्निसर्गाद्यथोक्तम् ।
तां चाप्येषां योषितं लोककान्तां श्रियं भार्यां व्यदधान्मानुषेषु॥३०॥

सन्निसर्गात्सुस्वभावात् । श्रियमिति । द्रौपदी स्वर्गश्रीः ताम् ॥३०॥

तैरेव सार्धं तु ततः स देवो जगाम नारायणमप्रमेयम् ।
अनन्तमव्यक्तमजं पुराणं सनातनं विश्वमनन्तरूपम्॥३१॥

तैः विश्वभुगादिभिः स देवो महादेवः ॥३१॥

स चापि तद्व्यदधात्सर्वमेव ततः सर्वे सम्बभूवुर्धरण्याम् ।
स चापि केशौ हरिरुद्धबर्ह शुक्लमेकमपरं चापि कृष्णम्॥३२॥

व्यदधात् विहितवान् आज्ञप्तवानित्यर्थः । उद्वबर्ह उद्धृतवान् ॥३२॥

तौ चापि केशौ निविशेतां यदूनां कुले स्त्रियौ देवकीं रोहिणीं च ।
तयोरेको बलदेवो बभूव योऽसौ श्वेतस्तस्य देवस्य केशः ।
कृष्णो द्वितीयः केशवः संबभूव केशो योऽसौ वर्णतः कृष्ण उक्तः॥३३॥

अत्र केशावेव रेतोरूपौ । पाण्डवानामिव रामकृष्णयोरपि प्रकरणसंगत्यर्थं साक्षाद्देवरेतस उत्पत्तेरवश्यवक्तव्यत्वात् । अत एव देवक्यां रोहिण्यां च साक्षात्केशप्रवेश उच्यते न तु वसुदेवे । तथा सति तु ‘देवानां रेतो वर्षं वर्षस्य रेत मोषधयः’ इत्यादि श्रौतप्रनाड्याऽस्मदादिवत्तयोरपि व्यवधानेन देवप्रभवत्वं स्यात् । तथा च । एतन्नानावताराणां निधानं बीजमव्ययमिति भगवतः साक्षान्मत्स्याद्यवतारबीजत्वेमुच्यमानं विरुध्येत । अपि च केशरेतसोर्देहजत्वे समानेपि रेतःप्रभवत्वेऽर्वाक्स्रोतस्त्वेन मनुष्यत्वं पुत्रत्वं च स्यात् । तथा च ’कृष्णस्तु भगवान्स्वयम्’ इति श्रीमद्भागवतातिः संगच्छते । न च केशोद्धरणात्कृष्णस्याप्यंशत्वं प्रतीयत इति वाच्यम् । केशस्य देहावयवत्वाभावात् । तस्मान्नमुचिवधे कर्तव्ये यथाऽपां फेने वज्रस्य प्रवेश एवं देवकीरोहिण्योर्जठरप्रवेशे कर्तव्ये केशद्वयेन द्वारभूतेन भगवत: कात्स्न्येनैवाविर्भावो द्रष्टव्य इति युक्तम् ॥३३॥

ये ते पूर्वं शक्ररूपा निबद्धास्तस्यां दर्यां पर्वतस्योत्तरस्य ।
इहैव ते पाण्डवा वीर्यवन्तः शक्रस्यांशः पाण्डवः सव्यसाची॥३४॥

एवमेते पाण्डवाः संबभूवुर्ये ते राजन्पूर्वमिन्द्रा बभूवुः ।
लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा भार्या यैषा द्रौपदी दिव्यरूपा॥३५॥

कथं हि स्त्री कर्मणा ते महीतलात् समुत्तिष्ठेदन्यतो दैवयोगात् ।
यस्या रूपं सोमसूर्यप्रकाशं गन्धश्चास्याः कोशमात्रात्प्रवाति॥३६॥

इदं चान्यत्प्रीतिपूर्वं नरेन्द्र ददानि ते वरमत्यद्भुतं च ।
दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान्॥३७॥

दिव्यं द्योतमानं दिवि विहितं वा सार्वज्ञ्यप्रदत्वात् ॥३७॥

वैशंपायन उवाच। ततो व्यासः परमोदारकर्मा शुचिर्विप्रस्तपसा तस्य राज्ञः ।
चक्षुर्दिव्यं प्रददौ तांश्च सर्वान् राजाऽपश्यत्पूर्वदेहैर्यथावत्॥३८॥

तस्य राज्ञः तस्मै राज्ञे ॥३८॥

ततो दिव्यान्हेमकिरीटमालिनः शक्रप्रख्यान्पावकादित्यवर्णान् ।
बद्धापीडांश्चारुरूपांश्च यूनो व्यूढोरस्कांस्तालमात्रान्ददर्श॥३९॥

बद्धापीडान् परिहितालङ्कारान् । तालमात्रान् तालवृक्षप्रमाणान् ॥३९॥

दिव्यैर्वस्त्रैरजोभिः सुगन्धैर्माल्यैश्चाग्र्यैः शोभमानानतीव ।
साक्षात्त्र्यक्षान्वा वसूंश्चापि रुद्रानादित्यान्वा सर्वगुणोपपन्नान्॥४०॥

तान्पूर्वेन्द्रानभिवीक्ष्याभिरूपान् शक्रात्मजं चेन्द्ररूपं निशम्य ।
प्रीतो राजा द्रुपदो विस्मितश्च दिव्यां मायां तामवेक्ष्याप्रमेयाम्॥४१॥

तां चैवाग्र्यां स्त्रियमतिरूपयुक्तां दिव्यां साक्षात्सोमवह्निप्रकाशाम् ।
योग्यां तेषां रूपतेजोयशोभिः पत्नीं मत्वा हृष्टवान्पार्थिवेन्द्रः॥४२॥

स तद्दृष्ट्वा महदाश्चर्यरूपं जग्राह पादौ सत्यवत्याः सुतस्य ।
नैतच्चित्रं परमर्षे त्वयीति प्रसन्नचेताः स उवाच चैनम्॥४३॥

व्यास उवाच। आसीत्तपोवने काचिदृषेः कन्या महात्मनः ।
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती॥४४॥

तोषयामास तपसा सा किलोग्रेण शङ्करम् ।
तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम्॥४५॥

सैवमुक्ताऽब्रवीत्कन्यां देवं वरदमीश्वरम् ।
पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः॥४६॥

ददौ तस्यै स देवेशस्तं वरं प्रीतमानसः ।
पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः॥४७॥

सा प्रसादयती देवमिदं भूयोऽभ्यभाषत ।
एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति शङ्कर॥४८॥

तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः ।
पञ्चकृत्वस्त्वयोक्तोऽहं पतिं देहीति वै पुनः॥४९॥

तत्तथा भविता भद्रे वचस्तद्भद्रमस्तु ते ।
देहमन्यं गतायास्ते सर्वमेतद्भविष्यति॥५०॥

द्रुपदैषा हि सा जज्ञे सुता वै देवरूपिणी ।
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता॥५१॥

स्वर्गश्रीः पाण्डवार्थं तु समुत्पन्ना महामखे ।
सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता॥५२॥

सैषा देवी रुचिरा देवजुष्टा पञ्चानामेका स्वकृतेनेह कर्मणा ।
सृष्टा स्वयं देवपत्नी स्वयंभुवा श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व॥५३॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि पञ्चेन्द्रोपाख्याने सप्तनवत्यधिकशततमोऽध्यायः॥१९७॥
अष्टनवत्यधिकशततमोऽध्यायः

द्रुपद उवाच। अश्रुत्वैवं वचनं ते महर्षे मया पूर्वं यतितं संविधातुम् ।
न वै शक्यं विहितस्यापयानं तदेवेदमुपपन्नं विधानम्॥१॥

अष्टनवत्यधिकशततमोऽध्यायः अश्रुत्वेति । विहितस्य दैवोपस्थापितस्य अपयानम् उपेक्षा । तदेव विधानं प्राक्कॄतम् उपपन्नं कर्तुं युक्तम् ॥१॥

दिष्टस्य ग्रन्थिरनिवर्तनीयः स्वकर्मणा विहितं नेह किंचित् ।
कृतं निमित्तमिह नैकहेतोस्तदेवेदमुपपन्नं विधानम्॥२॥

ग्रन्थिर्ग्रथना । स्वकर्मणा इदानीं तनेन विहितं सिद्धं निमित्तं तपः ॥२॥

यथैव कृष्णोक्तवती पुरस्तान्नैकान्पतीन्मे भगवान्ददातु ।
स चाप्येवं वरमित्यब्रवीत्तां देवो हि वेत्ता परमं यदत्र॥३॥

यदि चैवं विहितः शङ्करेण धर्मोऽधर्मो वा नात्र ममापराधः ।
गृह्णन्त्विमे विधिवत्पाणिमस्या यथोपजोषं विहितैषां हि कृष्णा॥४॥

वैशंपायन उवाच। ततोऽब्रवीद्भगवान्धर्मराजमद्यैव पुण्याहमुत वः पाण्डवेयाः ।
अद्य पोष्यं योगमुपैति चन्द्रमाः पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वम्॥५॥

पौष्यं पुष्यत्यनेनेति तं न तु पुष्यं तस्य वैवाहिकत्वात् । पौष्पमिति पाठे पुष्पाय हितं बहुसंततिप्रदमित्यर्थः । हे आद्य हे ज्येष्ठ ॥५॥

ततोऽराजा यज्ञसेनः सपुत्रो जन्यार्थमुक्तं बहु तत्तदग्र्यम् ।
समानयामास सुतां च कृष्णामाप्लाव्य रत्नैर्बहुभिर्विभूष्य॥६॥

ततस्तु सर्वे सुहृदो नृपस्य समाजग्मुः सहिता मन्त्रिणश्च ।
द्रष्टुं विवाहं परमप्रतीता द्विजाश्च पौराश्च यथा प्रधानाः॥७॥

ततोऽस्य वेश्माग्र्यजनोपशोभितं विस्तीर्णपद्मोत्पलभूषिताजिरम् ।
बलौघरत्नौघविचित्रमाबभौ नभो यथा निर्मलतारकान्वितम्॥८॥

ततस्तु ते कौरवराजपुत्रा विभूषिताः कुण्डलिनो युवानः ।
महार्हवस्त्राम्बरचन्दनोक्षिताः कृताभिषेकाः कृतमङ्गलक्रियाः॥९॥

पुरोहितेनाग्निसमानवर्चसा सहैव धौम्येन यताविधि प्रभो ।
क्रमेण सर्वे विविशुस्ततः सदो महर्षभागोष्ठमिवाभिनन्दिनः॥१०॥

ततः समाधाय स वेदपरागो जुहाव मन्त्रैर्ज्वलितं हुताशनम् ।
युधिष्ठिरं चाप्युपनीय मन्त्रविन्नियोजयामास सहैव कृष्णया॥११॥

प्रदक्षिणं तौ प्रगृहीतपाणी परिणाय्ययामास स वेदपरागः ।
ततोऽभ्यनुज्ञाय तमाजिशोभिनं पुरोहितो राजगृहाद्विनिर्ययौ॥१२॥

क्रमेण चानेन नराधिपात्मजा वरस्त्रियस्ते जगृहुस्तदा करम् ।
अहन्यहन्युत्तमरूपधारिणो महारथाः कौरववंशवर्धनाः॥१३॥

इदं च तत्राद्भुतरूपमुत्तमं जगाद देवर्षिरतीतमानुषम् ।
महानुभावा किल सा सुमध्यमा बभूव कन्यैव गते गतेऽहनि॥१४॥

कृते विवाहे द्रुपदो धनं ददौ महारथेभ्यो बहुरूपमुत्तमम् ।
शतं रथानां वरहेममालिनां चतुर्युजां हेमखलीनमालिनाम्॥१५॥

चतुर्युजाम् अश्वचतुष्टययुजाम् । हेममयं खलीनम् अश्वमुखस्थं नियामकं ‘लगाम’ इति भाषया प्रसिद्धम् । रथप्रसङ्गाद्वा खलीनं युगं तेन मालिनाम् ॥१५॥

शतं गजानामपि पद्मिनां तथा शतं गिरिणामिव हेमशृङ्गिणाम् ।
तथैव दासीशतमग्र्ययौवनं महार्हवेषाभरणाम्बरस्रजम्॥१६॥

पद्मानि गजोत्तमलक्षणानि तद्वतां पद्मिनां श्रीमतां वा । यद्वा हेमशृङ्गिणामिति दृष्टान्तानुगुण्यात्पद्मं पद्माकारं गजपल्याणम् अष्टकोणमष्टस्तम्भं शिखरकलशादियुक्तं तद्वताम् ॥१६॥

पृथक्पृथक् दिव्यदृशां पुनर्ददौ तदा धनं सौमकिरग्निसाक्षिकम् ।
तथैव वस्त्राणि विभूषणानि प्रभावयुक्तानि महानुभावः॥१७॥

कृते विवाहे च ततस्तु पाण्डवाः प्रभूतरत्नामुपलभ्य तां श्रियम् ।
विजह्रुरिन्द्रप्रतिमा महाबलाः पुरे तु पाञ्चालनृपस्य तस्य ह॥१८॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि द्रौपदीविवाहे अष्टनवत्यधिकशततमोऽध्यायः॥१९८॥
नवनवत्यधिकशततमोऽध्यायः

वैशंपायन उवाच। पाण्डवैः सह संयोगं गतस्य द्रुपदस्य ह ।
न बभूव भयं किंचिद्देवेभ्योऽपि कथंचन॥१॥

नवनवत्यधिकशततमोऽध्यायः पाण्डवैरिति ॥१॥

कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः ।
नाम संकीर्तयन्त्योऽस्या जग्मुः पादौ स्वमूर्धभिः॥२॥

कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला ।
कृताभिवादना श्वश्र्वा तस्थौ प्रह्वा कृताञ्जलिः॥३॥

क्षुमा अतसी तद्विकारभूतं वस्त्रं क्षौमम् ॥३॥

रूपलक्षणसंपन्नां शीलाचारसमन्विताम् ।
द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम्॥४॥

यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ ।
रोहिणी च यथा सोमे दमयन्ती यथा नले॥५॥

यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती ।
यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु॥६॥

जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता ।
सुभगा भोगसंपन्ना यज्ञपत्नी पतिव्रता॥७॥

जीवसूः आयुष्मत्संततिप्रसूः ॥७॥

अतिथीनागतान्साधून्वृद्दान्बालांस्तथा गुरून् ।
पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः॥८॥

कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च ।
अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सला॥९॥

अभिषिच्यस्व अभिषेकं प्राप्नुहि । नृपतिं पट्टाभिषिक्तं राजानमनु ॥९॥

पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः ।
कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ॥१०॥

पृथिव्यां यानि रत्नानि गुणवन्ति गुणान्विते ।
तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतम्॥११॥

यथा च त्वाभिनन्दामि वध्वद्य क्षौमसंवृताम् ।
तथा भूयोऽभिनन्दिष्ये जातपुत्रां गुणान्विताम्॥१२॥

हे वधु अद्य ॥१२॥

वैशंपायन उवाच। ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः ।
वैदूर्यमणिचित्राणि हैमान्याभरणानि च॥१३॥

वासांसि च महार्हाणि नानादेश्यानि माधवः ।
कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च॥१४॥

शयनासनयानानि विविधानि महान्ति च ।
वैदूर्यवज्रचित्राणि शतशो भाजनानि च॥१५॥

रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः ।
प्रेष्याः संप्रददौ कृष्णो नानादेश्याः स्वलङ्कृताः॥१६॥

प्रेष्याः दासीः ॥१६॥

गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान् ।
रथांश्च दान्तान्सौवर्णैः शुभ्रैः पट्टैरलङ्कृतान्॥१७॥

भद्रान् भद्रजातीयान् ॥१७॥

कोटिशश्च सुवर्णं च तेषामकृतकं तथा ।
वीथीकृतममेयात्मा प्राहिणोन्मधुसूदनः॥१८॥

अकृतकं जाम्बूनदम् आकरेषु धमनादिना अनुत्पादितं । वीथीकृतं धान्यराशिवत् पृथक्पृथक् मालया राशीकृतम् । राशीकृतमिति पाठे पिण्डीकृतम् । कृताकृतमिति पाठे घटितमघटितं च ॥१८॥

तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः ।
मुदा परमया युक्तो गोविन्दप्रियकाम्यया॥१९॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि नवनवत्यधिकशततमोऽध्यायः॥१९९॥
॥ समाप्तं वैवाहिकपर्व ॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in