अनुक्रमणिकापर्व - १पर्वसंग्रहपर्व - २पौष्यपर्व - ३पौलोमपर्व। - ४आस्तिकपर्व - ५अंशावतरणपर्व - ६सम्भवपर्व - ७जतुगृहपर्व । - ८हिडिम्बवधपर्व - ९बकवधपर्व - १०चैत्ररथपर्व । - ११स्वयंवरपर्व - १२वैवाहिकपर्व - १३विदुरागमनराज्यालंभपर्व - १४अर्जुनवनवासपर्व - १५सुभ्रद्राहरणपर्व। - १६हरणाहरणपर्व। - १७खाण्डवदाहपर्व - १८मयदर्शनपर्व - १९

विदुरागमनराज्यालंभपर्व

द्विशततमोऽध्यायः

वैशंपायन उवाच। ततो राज्ञां चरैराप्तैः प्रवृत्तिरुपनीयत ।
पाण्डवैरुपसंपन्ना द्रौपदी पतिभिः शुभा॥१॥

द्विशततमोऽध्यायः तत इति । चरैः चारैः ॥१॥

येन तद्धनुरादाय लक्ष्यं विद्धं महात्मना ।
सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः॥२॥

यः शल्यं मद्रराजं वै प्रोत्क्षिप्यापातयद्बली ।
त्रासयामास संक्रुद्धो वृक्षेण पुरुषान्रणे॥३॥

न चास्य संभ्रमः कश्चिदासीत्तत्र महात्मनः ।
स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः॥४॥

सेनाङ्गानां रथगजादीनां पातनः ॥४॥

ब्रह्मरूपधराञ्च्छ्रुत्वा प्रशान्तान्पाण्डुनन्दनान् ।
कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत॥५॥

सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता ।
पुनर्जातानिव च तांस्तेऽमन्यन्त नराधिपाः॥६॥

विस्मये हेतुमाह सपुत्रेति ॥६॥

धिगकुर्वंस्तदा भीष्मं धृतराष्ट्रं च कौरवम् ।
कर्मणाऽतिनृशंसेन पुरोचनकृतेन वै॥७॥

वृत्ते स्वयंवरे चैव राजानः सर्व एव ते ।
यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान्॥८॥

अथ दुर्योधनो राजा विमना भ्रातृभिः सह ।
अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च॥९॥

विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम् ।
तं तु दुःशासनोऽव्रीडो मन्दं मन्दमिवाब्रवीत्॥१०॥

अव्रीड इति छेदः । व्रीडन्नित्येव पाठः । अन्यथा मन्दं मन्दमित्यस्यानुपपत्तिः ॥१०॥

यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः ।
न हि तं तत्त्वतो राजन्वेद कश्चिद्धनंजयम्॥११॥

दैवं च परमं मन्ये पौरुषं चाप्यनर्थकम् ।
धिगस्तु पौरुषं तात ध्रियन्ते यत्र पाण्डवाः॥१२॥

एवं संभाषमाणास्ते निन्दन्तश्च पुरोचनम् ।
विविशुर्हास्तिनपुरं दीना विगतचेतसः॥१३॥

त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान्महौजसः ।
मुक्तान्हव्यभुजश्चैव संयुक्तान्द्रुपदेन च॥१४॥

धृष्टद्युम्नं तु संचिन्त्य तथैव च शिखण्डिनम् ।
द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान्॥१५॥

विदुरस्त्वथ तां श्रुत्वा द्रौपदीं पाण्डवैर्वृताम् ।
व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान्॥१६॥

ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशांपते ।
उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः॥१७॥

विचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत् ।
अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत॥१८॥

मन्यते स वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया ।
दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः॥१९॥

अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु ।
आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा॥२०॥

वै चार्थे । कृष्णाभूषणं च तत्परिधानार्थमानीयतामित्यर्थः ॥२०॥

अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान् ।
अर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन ह॥२१॥

तेषां सम्बन्धिनश्चान्यान्बहून्बलसमन्वितान् ।
समागतान्पाण्डवेयैस्तस्मिन्नेव स्वयंवरे॥२२॥

धृतराष्ट्र उवाच। यथैव पाण्डोः पुत्रास्तु तथैवाभ्यधिका मम ।
यथा चाभ्यधिका बुद्धिर्ममतान्प्रति तच्छृणु॥२३॥

यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः ।
तेषां सम्बन्धिनश्चान्ये महवश्च महाबलाः॥२४॥

को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम् ।
न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः॥२५॥

गतश्रीः नष्टश्रीः कः भवेन ऐश्वर्येणार्थी न बुभूषेद्भवितुमिच्छेत् अपि तु सर्वोपीच्छेत् ॥२५॥

वैशंपायन उवाच। तं तथा भाषमाणं तु विदुरः प्रत्यभाषत ।
नित्यं भवतु ते बुद्धिरेषा राजञ्च्छतं समाः ।
इत्युक्त्वा प्रययौ राजन्विदुरः स्वं निवेशनम्॥२६॥

ततो दुर्योधनश्चापि राधेयश्च विशांपते ।
धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा॥२७॥

सन्निधौ विदुरस्य त्वां दोषं वक्तुं न शक्नुवः ।
विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम्॥२८॥

सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः ।
अभिष्टौषि च यत्क्षत्तुः समीपे द्विषतां वर॥२९॥

सपत्नबुद्धिं तत्कृतां बुद्धिम् । वृद्धिमिति पाठः स्वच्छः । हे वरश्रेष्ठ द्विषतां द्विषतः शत्रून् ॥२९॥

तेषां बलविघातो हि कर्तव्यस्तात नित्यशः॥३०॥

ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे ।
यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान्॥३१॥

प्राप्तकालस्य कर्मणः कर्तव्यताम् ॥३१॥
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि दुर्योधनवाक्ये द्विशततमोऽध्यायः॥२००॥
एकाधिकद्विशततमोऽध्यायः

धृतराष्ट्र उवाच। अहमप्येवमेवैतच्चिकीर्षामि यथा युवाम् ।
विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति॥१॥

एकाधिकद्विशततमोऽध्यायः अहमिति । व्विवेक्तुं व्यक्तीकर्तुम् ॥१॥

ततस्तेषां गुणानेव कीर्तयामि विशेषतः ।
नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः॥२॥

इङ्गितैः चेष्टितैः ॥२॥

यच्च त्वं मन्यसे प्राप्तं तद्ब्रवीहि सुयोधन ।
राधेय मन्यसे यच्च प्राप्तकालं वदाशु मे॥३॥

यच्च कर्वव्यम् ॥३॥

दुर्योधन उवाच। अद्य तान्कुशलैर्विप्रैः सुगुप्तैराप्तकारिभिः ।
कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ॥४॥

आप्तकारिभिः अवञ्चकैः ॥४॥

अथवा द्रुपदो राजा महद्भिर्वित्तसंचयैः ।
पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः॥५॥

परित्यजेद्यथा राजा कुन्तीपुत्रं युधिष्ठिरम् ।
अथ तत्रैव वा तेषां निवासं रोचयन्तु ते॥६॥

इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक् ।
ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः॥७॥

भिद्यमानाः अस्मत्तः पृथग्भवन्तः ॥७॥

अथवा कुशलाः केचिदुपायनिपुणा नराः ।
इतरेतरतः पार्थान्भेदयन्त्वनुरागतः॥८॥

व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत् ।
अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम्॥९॥

व्युत्थापनं तु स्वभर्तॄणां त्यागः स च बहुत्वदोषेण सुकरः। अथवेति । तस्याः भर्तृषु वैषम्यं प्रदर्य पाण्डवानेव वा तस्यां भेदयन्तु ततश्च तां लप्स्यामहे इति शेषः ॥९॥

भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः ।
मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः॥१०॥

तमाश्रित्य हि कौन्तेयः पुरा चास्मान्न मन्यते ।
स हि तीक्ष्णश्च शूरश्च तेषां चैव परायणम्॥११॥

तस्मिंस्त्वभिहते राजन् हतोत्साहा हतौजसः ।
यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः॥१२॥

अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे ।
तमृते फाल्गुनो युद्धे राधेयस्य न पादभाक्॥१३॥

न पादभाक् न चतुर्थांशतुल्यः ॥१३॥

ते जानानास्तु दौर्बल्यं भीमसेनमृते महत् ।
अस्मान्बलवतो ज्ञात्वा न यतिष्यन्ति दुर्बलाः॥१४॥

इहागतेषु वा तेषु निदेशवशवर्तिषु ।
प्रवर्तिष्यामहे राजन् यथाशास्त्रं निबर्हणम्॥१५॥

अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम् ।
एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम्॥१६॥

एकैकः कौन्तेयः प्रलोभनीयः । तत्र तेषु । ततः प्रलोभमानात् ॥१६॥

प्रेष्यतां चैव राधेयस्तेषामागमनाय वै ।
तैस्तैः प्रकारैः सन्नीय पात्यन्तामाप्तकारिभिः॥१७॥

संनीय ऐक्यं नीत्वा ॥१७॥

एतेषामप्युपायानां यस्ते निर्दोषवान्मतः ।
तस्य यप्रोगमातिष्ठ पुरा कालोऽतिवर्तते॥१८॥

यावद्ध्यकृतविश्वासा द्रुपदे पार्थिवर्षभे ।
तावदेव हि ते शक्या न शक्यास्तु ततः परम्॥१९॥

शक्याः घातयितुमिति शेषः ॥१९॥

एषा मम मतिस्तात निग्रहाय प्रवर्तते ।
साध्वी वा यदि वाऽसाध्वी किं वा राधेय मन्यसे॥२०॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि दुर्योधनवाक्ये एकाधिकद्विशततमोऽध्यायः॥२०१॥
द्व्यधिकद्विशततमोऽध्यायः

कर्ण उवाच। दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः ।
न ह्युपायेन ते शक्याः पाण्डवाः कुरुवर्धन॥१॥

द्व्यधिकद्विशततमोऽध्यायः दुर्योधनेति ॥१॥

पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया ।
निग्रहीतुं तदा वीर न चैव शकितास्त्वया॥२॥

इहैव वर्तमानास्ते समीपे तव पार्थिव ।
अजातपक्षाः शिशवः शकिता नैव बाधितुम्॥३॥

जातपक्षाः सहायवन्तः तदन्ये अजातपक्षाः ॥३॥

जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते ।
नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत॥४॥

न च ते व्यसनैर्योक्तुं शक्या दिष्टकृतेन च ।
शकिताश्चेप्सवश्चैव पितृपैतामहं पदम्॥५॥

दिष्टकृतेन दैवनिर्माणेन शकिताः शक्तिमन्तः ज्रतुगृहादिभ्य आत्मानं मोचयितुं शक्ता अभूवन्नित्यर्थः ॥५॥

परस्परेण भेदश्च नाधातुं तेषु शक्यते ।
एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम्॥६॥

न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः ।
परिद्यूनान्वृतवती किमुताद्य मृजावतः॥७॥

परिघूनान् शोच्यान् भिक्षाभोजित्वादिना मृजावतः सुवेषान् ॥७॥

ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता ।
तं च प्राप्तवती कृष्णा न सा भेदयितुं क्षमा॥८॥

आर्यव्रतश्च पाञ्चाल्यो न स राजा धनप्रियः ।
न संत्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम्॥९॥

तथाऽस्य पुत्रो गुणवाननुरक्तश्च पाण्डवान् ।
तस्मान्नोपायसाध्यांस्तानहं मन्ये कथंचन॥१०॥

इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ ।
यावन्न कृतमूलास्ते पाण्डवेया विशांपते॥११॥

तावत्प्रहरणीयास्ते तत्तुभ्यं तात रोचताम् ।
अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः ।
तावत्प्रहरणं तेषां क्रियतां मा विचारय॥१२॥

लघुः अल्पकः॥१२॥

वाहनानि प्रभूतानि मित्राणि च कुलानि च ।
यावन्न तेषां गान्धारे तावद्विक्रम पार्थिव॥१३॥

यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः ।
सह पुत्रैर्महावीर्यैस्तावद्विक्रम पार्थिव॥१४॥

यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम् ।
राज्यार्थे पाण्डवेयानां पाञ्चाल्यसदनं प्रति॥१५॥

वसूनि विविधान्भोगान्राज्यमेव च केवलम् ।
नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे कथंचन॥१६॥

विक्रमेण मही प्राप्ता भरतेन महात्मना ।
विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः॥१७॥

विक्रमं च प्रशंसन्ति क्षत्रियस्य विशांपते ।
स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ॥१८॥

ते बलेन वयं राजन्महता चतुरङ्गिणा ।
प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान्॥१९॥

आनयाम स्ववशमिति शेषः॥१९॥

न हि साम्ना न दानेन न भदेन च पाण्डवाः ।
शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि॥२०॥

तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम् ।
अतो नान्यं प्रपश्यामि कार्योपायं जनाधिप॥२१॥

वैशंपायन उवाच। श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान् ।
अभिपूज्य ततः पश्चादिदं वचनमब्रवीत्॥२२॥

उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने ।
त्वयि विक्रमसंपन्नमिदं वचनमीदृशम्॥२३॥

भूय एव तु भीष्मश्च द्रोणो विदुर एव च ।
युवां च कुरुतं बुद्धिं भवेद्या नः सुखोदया॥२४॥

तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः ।
धृतराष्ट्रो महाराज मन्त्रयामास वै तदा॥२५॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि धृतराष्ट्रमन्त्रणे द्व्यधिकद्विशततमोऽध्यायः॥२०२॥
त्र्यधिकद्विशततमोऽध्यायः

भीष्म उवाच। न रोचते विग्रहो मे पाण्डुपुत्रैः कथंचन ।
यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम्॥१॥

त्र्यधिकद्विशततमोऽध्यायः न रोचते इति ॥१॥

गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मम ।
यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव॥२॥

यथा च मम राज्ञश्च तथा दुर्योधनस्य ते ।
तथा कुरूणां सर्वेषामन्येषामपि पार्थिव॥३॥

एवं गते विग्रहं तैर्न रोचे सन्धाय वीरैर्दीयतामर्धभूमिः ।
तेषामपीदं प्रपितामहानां राज्यं पितुश्चैव कुरूत्तमानाम्॥४॥

दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि ।
मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः॥५॥

यदि राज्यं न ते प्राप्ताः पाण्डवेया यशस्विनः ।
कुत एव तवापीदं भारतस्यापि कस्यचित्॥६॥

अधर्मेण च राज्यं त्वं प्राप्तवान्भरतर्षभ ।
तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः॥७॥

मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् ।
एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च॥८॥

मधुरेण प्रीत्या ॥८॥

अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति ।
तवाप्यकीर्तिः सकला भविष्यति न संशयः॥९॥

कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् ।
नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम्॥१०॥

यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव ।
तावज्जीवति गान्धरे नष्टकीर्तिस्तु नश्यति॥११॥

तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् ।
अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु॥१२॥

दिष्ट्या ध्रियन्ते पार्था हि दिष्ट्या जीवति सा पृथा ।
दिष्ट्या पुरोचनः पापो न सकामोऽत्ययं गतः॥१३॥

ध्रियन्ते जीवन्ति । सकामो नासीत् । अत्ययं नाशम् ॥१३॥

यदा प्रभृति दग्धास्ते कुन्तिभोजसुतासुताः ।
तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम्॥१४॥

लोके प्राणभृतां किंचिच्छ्रुत्वा कुन्तीं तथागताम् ।
न चापि दोषेण तथा लोको मन्येत्पुरोचनम् ।
यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति॥१५॥

दोषेण युक्तं गच्छति जानाति ॥१५॥

तदिदं जीवितं तेषां तव किल्बिषनाशनम् ।
संमन्तव्यं महाराज पाण्डवानां च दर्शनम्॥१६॥

संमन्तव्यं संमतं कर्तव्यम् ॥१६॥

न चापि तेषां वीराणां जीवतां कुरुनन्दन ।
पित्र्योंशः शक्य आदातुमपि वज्रभृता स्वयम्॥१७॥

ते सर्वेऽवस्थिता धर्मे सर्वे चैवैकचेतसः ।
अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः॥१८॥

अधर्मेण जतुगृहदाहादिना ॥१८॥

यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे ।
क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम्॥१९॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि भीष्मवाक्ये त्र्यधिकधिकद्विशततमोऽध्यायः॥२०३॥
चतुरधिकद्विशततमोऽध्यायः

द्रोण उवाच। मन्त्राय समुपानीतैर्धृतराष्ट्र हितैर्नृप ।
धर्म्यमर्थ्यं यशस्यं च वाच्यमित्यनुशुश्रुम॥१॥

चतुरधिकद्विशततमोऽध्यायः मन्त्रायेति । हितैर्मिंत्रैः ॥१॥

ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः ।
संविभज्यास्तु कौन्तेया धर्म एष सनातनः॥२॥

प्रेष्यतां द्रुपदायाशु नऱः कश्चित्प्रियंवदः ।
बहुलं रत्नमादाय तेषामर्थाय भारत॥३॥

तेषां पाण्डवानाम् ॥३॥

मिथः कृत्यं च तस्मै स आदाय वसु गच्छतु ।
वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा॥४॥

मिथःकृत्यं साम्बन्धिकं वरपक्षीयैर्वध्वलङ्कारादि कन्यापक्षीयैर्वरालङ्कारादि । तस्मै द्रुपदाय तदर्थे । ऐतन मिथःकृत्ये एव श्वशुरो जामातृदायं गृह्णीयान्नान्यथेति सिद्धम् । वृद्धिं चेति । त्वत्संयोगादस्माकं महत्वाप्तिर्जातेति धृतराष्ट्रो दुर्योधनश्च मन्यत इति तत्र वक्तव्यमित्यर्थः ॥४॥

संप्रीयमाणं त्वां ब्रूयाद्राजन्दुर्योधनं तथा ।
असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत॥५॥

उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत् ।
पुनःपुनश्च कौन्येयान्माद्रीपुत्रौ च सान्त्वयन्॥६॥

योगस्य सम्बन्धस्य ॥६॥

हिरण्मयानि शुभ्राणि बहून्याभरणानि च ।
वचनात्तव राजेन्द्र द्रौपद्याः संप्रयच्छतु॥७॥

संप्रयच्छतु त्वदीयोऽमात्यादिः ॥७॥

तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ ।
पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च॥८॥

तथा आभरणानि प्रयच्छन्त्वित्यनुषज्य प्रत्येकं द्रुपदपुत्राणामित्यादिषु योज्यम् ॥८॥

एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह ।
उक्त्वा सोऽनन्तरं ब्रूयात्तेषामागमनं प्रति॥९॥

अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम् ।
दुःशासनो विकर्णश्चाप्यानेतुं पाण्डवानिह॥१०॥

ततस्ते पाण्डवाः श्रेष्ठाः पूज्यमानाः सदा त्वया ।
प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके॥११॥

एतत्तव महाराज पुत्रेषु तेषु चैव हि ।
वृत्तमौपयिकं मन्ये भीष्मेण सह भारत॥१२॥

औपयिकम् अवश्यकर्तव्यम् ॥१२॥

कर्ण उवाच। योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ ।
न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः॥१३॥

अनन्तरौ अन्तरङ्गौ भीष्मद्रोणौ ॥१३॥

दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना ।
ब्रूयान्नि:श्रेयसं नाम कथं कुर्यात्सतां मतम्॥१४॥

नन्वन्तरङ्गौ चेत्कथं मच्छ्रेयो नानुमन्त्रयेतामित्याशङ्क्यान्तरङ्गाभासाविमौ नत्वन्तरङ्गावित्याह । दुष्टेनेति । दुष्टेन मित्रद्रोहवता । मनसा सङ्कल्पेन । प्रच्छन्नेन शत्रुहितेप्सुनापि स्वामिहितवदाभासमानेन । अन्तरात्मना बुद्ध्या । योब्रूयान्मन्त्रं स सतां साधूनां विश्वस्तानां स्वामिनां मतम् इष्टं निःश्रेयसं कल्याणं कथं कुर्यान्न कथमपि । शठमित्रं हि पातयत्येव न हितायेत्यर्थः ॥१४॥

न मित्राण्यर्थकृच्छ्रेषु श्रेयसे चेतराय वा ।
विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम्॥१५॥

ननु शठमित्रत्वं त्वस्य त्वय्यप्याशङ्क्येत तथा च सर्वत्रानाश्वासप्रसङ्ग इत्याशङ्क्य दैवमेव मुख्यं वृद्धिह्रासादिहेतुरित्याह । न मित्राणीति । मित्राणि साध्वसाधूनि । अर्थकृच्छ्रेषु कार्यसङ्कटेषु । श्रेयसे इतराय नाशाय वा न प्रभवन्ति । हि यस्माद्विधिपूर्वं पुण्यापुण्यैकहेतुकं सर्वं सुखादिकम् ॥१५॥

कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः ।
ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति॥१६॥

एतदेव स्पष्टयति । कृतेति । सर्वं दैवोपनीतम् । सर्वत्र देशे काले च ॥१६॥

श्रूयते हि पुरा कश्चिदम्बुवीच इतीश्वरः ।
आसीद्राजगृहे राजा मागधानां महीक्षिताम्॥१७॥

अत्राख्यायिकामाह । श्रूयत इति । ईश्वरः समर्थः । राजगृहे तन्नामके नगरे ॥१७॥

स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः ।
अमात्यसंस्थः सर्वेषु कार्येष्वेवाभवत्तदा॥१८॥

करणैश्चक्षुरादिभिर्हीनो विकलः । उच्छ्वास एव परमो भवतीति ज्ञानहेतुर्यस्य सः । अमात्यसंस्थः अमात्याधीनः ॥१८॥

तस्यामात्यो महाकर्णिर्बभूवैकेश्वरस्तदा ।
स लब्धबलमात्मानं मन्यमानोवमन्यते॥१९॥

अवमन्यते राजानमिति शेषः ॥१९॥

स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च ।
आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा॥२०॥

तदादाय च लुब्धस्य लोभाल्लोभोऽभ्यवर्धत ।
तथा हि सर्वमादाय राज्यमस्य जिहीर्षति॥२१॥

हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च ।
यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम्॥२२॥

न शशाक हर्तुमिति शेषः ॥२२॥

किमन्यद्विहिता नूनं तस्य सा पुरुषेन्द्रता ।
यदि ते विहितं राज्यं भविष्यति विशांपते॥२३॥

आख्यायिकातात्पर्यमाह । किमिति । तस्य अम्बुवीचस्य सा पुरुषेन्द्रता तन्नरेन्द्रत्वं नूनं विहिता विधिप्राप्तैव न तु यत्नसंपादिता । किमन्यददृष्टात्परायणमस्ति न किमपीति भावः । प्रकृते योजयति यदीति ॥२३॥

मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम् ।
अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे॥२४॥

एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम् ।
दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम्॥२५॥

द्रोण उवाच। विद्म ते भावदोषेण यदर्थमिदमुच्यते ।
दुष्ट पाण्डवहेतोस्त्वं दोषमाख्यापयस्युत॥२६॥

ते तव मतं विद्म भावदोषेण चित्तगतद्वेषेण ॥२६॥

हितं तु परमं कर्ण ब्रवीमि कुलवर्धनम् ।
अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम्॥२७॥

अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम् ।
कुरवो वै विनङ्क्ष्यन्ति न चिरेणैव मे मतिः॥२८॥

अहं यद्ब्रवीमि अतोऽन्यथा ॥२८॥
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि द्रोणवाक्ये चतुरधिकद्विशततमोऽध्यायः॥२०४॥
पञ्चाधिकद्विशततमोऽध्यायः

विदुर उवाच। राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः ।
न त्वशुश्रूषमाणे वै वाक्यं संप्रति तिष्ठति॥१॥

पञ्चाधिकद्विशततमोऽध्यायः राजन्निति ॥१॥

प्रियं हितं च तद्वाक्यमुक्तवान्कुरुसत्तमः ।
भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च॥२॥

तथा द्रोणेन बहुधा भाषितं हितमुत्तमम् ।
तच्च राधासुतः कर्णो मन्यते न हितं तव॥३॥

चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम् ।
आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः॥४॥

आभ्यां भीष्मद्रोणाभ्याम् । पञ्चम्यन्तमिदम् ॥४॥

इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च ।
समौ च त्वयि राजेन्द्र तथा पाण्डुसुतेषु च॥५॥

धर्मे चानवरौ राजन्सत्यतायां च भारत ।
रामाद्दाशरथेश्चैव गयाच्चैव न संशयः॥६॥

अनवरौ श्रेष्ठौ ॥६॥

न चोक्तवन्तावश्रेयः पुरस्तादपि किंचन ।
न चाप्यपकृतं किंचिदनयोर्लक्ष्यते त्वयि॥७॥

अनयोः एताभ्यां कर्तरि षष्ठी ॥७॥

तावुभौ पुरुषव्याघ्रावनागसि नृपे त्वयि ।
न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ॥८॥

प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप ।
त्वन्निमित्तमतो नेमौ किंचिज्जिह्मं वदिष्यतः॥९॥

इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन ।
न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम्॥१०॥

पक्षसंश्रितम् अन्यतरस्यैव हितम् ॥१०॥

एतद्धि परमं श्रेयो मन्येऽहं तव भारत ।
दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव॥११॥

तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः ।
तेषु चेदहितं किंचिन्मन्त्रयेयुरतद्विदः॥१२॥

तेषु पाण्डवेषु ॥१२॥

मन्त्रिणस्ते न च श्रेयः प्रपश्यन्ति विशेषतः ।
अथ ते हृदये राजन्विशेषः स्वेषु वर्तते ।
अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम्॥१३॥

ते तव मन्त्रिणस्तवान्तरस्थं विशेषं विवृण्वानास्ते ध्रुवं शाश्वतं हितं न कुर्युः । तव वैषम्यदोषमेव ते प्रकाशयिष्यन्ति न तु कार्यं साधयिष्यन्तीत्यर्थः ॥१३॥

एतदर्थमिमौ राजन्महात्मानौ महाद्युती ।
नोचतुर्विवृतं किंचिन्न ह्येष तव निश्चयः॥१४॥

एतदर्थं पाण्डवानां श्रेयोर्थम् । विवृतं विस्पष्टम् । विकृतमिति पाठे परुषम् । एष पाण्डवानां श्रेयो भवत्वित्येवंरूपः । हिशब्देन तत्र तस्यैव प्रतीतिं प्रमाणयति ॥१४॥

यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ ।
तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते॥१५॥

यच्चेति । अशक्यताम् अजय्यताम् तव पुरस्तात् यच्चाहतुरिति सम्बन्धः । तद्भद्रमस्तु ते तत्तेभ्यः पाण्डवेभ्यस्तव भद्रमस्तु । क्रुद्धाः पाण्डवास्तव सर्वान्पुत्रान्मा हिंस्युरिति भावः ॥१५॥

कथं हि पाण्डवः श्रीमान्सव्यसाची धनञ्जयः ।
शक्यो विजेतुं संग्रामे राजन्मघवतापि हि॥१६॥

भीमसेनो महाबाहुर्नागायुतबलो महान् ।
कथं स्म युधि शक्येत विजेतुममरैरपि॥१७॥

तथैव कृतिनौ युद्धे यमौ यमसुताविव ।
कथं विजेतुं शक्यौ तौ रणे जीवितुमिच्छता॥१८॥

यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः ।
नित्यानि पाण्डवे ज्येष्ठे स जीयेत रणे कथम्॥१९॥

येषां पक्षधरो रामो येषां मन्त्री जनार्दनः ।
किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः॥२०॥

द्रुपदः श्वशुरो येषां येषां स्यालाश्च पार्षताः ।
धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः॥२१॥

सोऽशक्यतां च विज्ञाय तेषामग्रे च भारत ।
दायाद्यतां च धर्मेण सम्यक्तेषु समाचर॥२२॥

अग्रे तत्पितुरेव पाण्डोः राज्याभागित्वकाले । दायाद्यतां पितृधनभोजनाईताम् ॥२२॥

इदं निर्दिष्टमयशः पुरोचनकृतं महत् ।
तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः॥२३॥

तेषामनुग्रहश्चायं सर्वेषां चैव नः कुले ।
जीवितं च परं श्रेयः क्षत्रस्य च विवर्धनम्॥२४॥

द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा ।
तस्य संग्रहणं राजन्स्वपक्षस्य विवर्धनम्॥२५॥

बलवन्तश्च दाशार्हा बहवश्च विशांपते ।
यतः कृष्णस्ततः सर्वे यतः कृष्णस्ततो जयः॥२६॥

यच्च साम्नैव शक्येत कार्यं साधयितुं नृप ।
को दैवशप्तस्तत्कार्यं विग्रहेण समाचरेत्॥२७॥

श्रुत्वा च जीवतः पार्थान्पौरजानपदा जनाः ।
बलवद्दर्शने हृष्टास्तेषां राजन्प्रियं कुरु॥२८॥

बलवत् अत्यन्तम् ॥२८॥

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।
अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः॥२९॥

उक्तमेतत्पुरा राजन्मया गुणवतस्तव ।
दुर्योधनापराधेन प्रजेयं वै विनङ्क्ष्यति॥३०॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि विदुरवाक्ये पञ्चाधिकद्विशततमोऽध्यायः॥२०५॥
षडधिकद्विशततमोऽध्यायः

धृतराष्ट्र उवाच। भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः ।
हितं च परमं वाक्यं त्वं च सत्यं ब्रवीषि माम्॥१॥

षडधिकद्विशततमोऽध्यायः भीष्म इति ॥१॥

यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः ।
तथैव धर्मतः सर्वे मम पुत्रा न संशयः॥२॥

यथैव मम पुत्राणामिदं राज्यं विधीयते ।
तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः॥३॥

क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान् ।
तया च देवरूपिण्या कृष्णया सह भारत॥४॥

दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा ।
दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः॥५॥

दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः ।
दिष्ट्या मम परं दुःखमपनीतं महाद्युते॥६॥

वैशंपायन उवाच। ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् ।
सकाशं यज्ञसेनस्य पाण्डवानां च भारत॥७॥

समुपादाय रत्नानि वसूनि विविधानि च ।
द्रौपद्याः पाण्डवानां च यज्ञसेनस्य चैव ह॥८॥

तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः ।
द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान्॥९॥

न्यायतो ज्येष्ठानुक्रमेण । संयुक्तमालिङ्गननमस्कारादिना मिलितम् ॥९॥

स चापि प्रतिजग्राह धर्मेण विदुरं ततः ।
चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम्॥१०॥

ददर्श पाण्डवांस्तत्र वासुदेवं च भारत ।
स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः॥११॥

तैश्चाप्यमितबुद्दिः स पूजितो हि यथाक्रमम् ।
वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनःपुनः॥१२॥

पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् ।
प्रददौ चापि रत्नानि विविधानि वसूनि च॥१३॥

पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशांपते ।
द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः॥१४॥

प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः ।
द्रुपदं पाण्डुपुत्राणां सन्निधौ केशवस्य च॥१५॥

विदुर उवाच। राजञ्च्छृणु सहामात्यः सपुत्रश्च वचो मम ।
धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः॥१६॥

अब्रवीत्कुशलं राजन्प्रीयमाणः पुनःपुनः ।
प्रीतिमांस्ते दृढं चापि संबन्धेन नराधिप॥१७॥

तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः ।
कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति॥१८॥

भारद्वाजो महाप्राज्ञो द्रोणः प्रियसखस्तव ।
समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति॥१९॥

धृतराष्ट्रश्च पाञ्चाल्य त्वया संबन्धमेयिवान् ।
कृतार्थं मन्यतेत्मानं तथा सर्वेऽपि कौरवाः॥२०॥

मन्यतेत्मानं ते आत्मानमिति छेदः ॥२०॥

न तथा राज्यसंप्राप्तिस्तेषां प्रीतिकरी मता ।
यथा संबन्धकं प्राप्य यज्ञसेन त्वया सह॥२१॥

एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् ।
द्रष्टुं हि पाण्डुपुत्रांश्च त्वरन्ति कुरवो भृशम्॥२२॥

विप्रोषिता दीर्घकालमेते चापि नरर्षभाः ।
उत्सुका नगरं द्रष्टुं भविष्यन्ति तथा पृथा॥२३॥

कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः ।
द्रष्टुकामाः प्रतीक्ष्ते पुरं च विषयाश्च नः॥२४॥

स भवान्पाण्डुपुत्राणामाज्ञापयतु मा चिरम् ।
गमनं सहदाराणामेतदत्र मतं मम॥२५॥

निसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु ।
ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् ।
आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया॥२६॥

निसृष्टेषु अनुज्ञातेषु ॥२६॥
॥ इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि षडधिकद्विशततमोऽध्यायः॥२०६॥
सप्ताधिकद्विशततमोऽध्यायः

द्रुपद उवाच। एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् ।
ममापि परमो हर्षः संबन्धेस्मिन्कृते प्रभो॥१॥

सप्ताधिकद्विशततमोऽध्यायः एवमिति ॥१॥

गमनं चापि युक्तं स्याद्दृढमेषां महात्मनाम् ।
न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा॥२॥

यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः ।
भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ॥३॥

रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः ।
एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ॥४॥

युधिष्ठिर उवाच। परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः ।
यथा वक्ष्यसि नः प्रीत्या तत्करिष्यामहे वयम्॥५॥

वैशंपायन उवाच। ततोऽब्रवीद्वासुदेवो गमनं रोचते मम ।
यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित्॥६॥

द्रुपद उवाच। यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः ।
प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम॥७॥

यथैव हि महाभागाः कौन्तेया मम सांप्रतम् ।
तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः॥८॥

न तद्ध्यायति कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः ।
यथैषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः॥९॥

वैशंपायन उवाच। ततस्ते समनुज्ञाता द्रुपदेन महात्मना ।
पाण्डवाश्चैव कृष्णश्च विदुरश्च महीपते॥१०॥

आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् ।
सविहारं सुखं जग्मुर्नगरं नागसाह्वयम्॥११॥

सविहारं सलीलम् ॥११॥

श्रुत्वा चाप्यागतान्वीरान्धृतराष्ट्रो जनेश्वरः ।
प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान्॥१२॥

प्रतिग्रहाय प्रत्युद्गमनाय ॥१२॥

विकर्णं च महेष्वासं चित्रसेनं च भारत ।
द्रोणं च परमेष्वासं गौतमं कृपमेव च॥१३॥

तैस्ते परिवृता वीराः शोभमाना महाबलाः ।
नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा॥१४॥

कौतूहलेन नगरं पूर्यमाणमिवाभवत् ।
तत्र ते पुरुषव्याघ्राः शोकदुःखसमन्विताः॥१५॥

कौतूहलेन दर्शनेच्छया ॥१५॥

तत उच्चावचा वाचः पौरैः प्रियचिकीर्षुभिः ।
उदीरिता अशृण्वंस्ते पाण्डवा हृदयंगमाः॥१६॥

अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् ।
यो नः स्वानिव दायादान्धर्मेण परिरक्षति॥१७॥

अद्य पाण्डुर्महाराजो वनादिव जनप्रियः ।
आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः॥१८॥

किं नु नाद्य कृतं तात सर्वेषां नः परं प्रियम् ।
यन्नः कुन्तीसुता वीरा नगरं पुनरागताः॥१९॥

किं नु नः प्रियं न कृतम् अपि तु सब कृतमेव । किं तु इति पाठे तु शब्दो वाक्यालङ्कारे पुनः शब्दार्थः । किं पुनर्न कृतम् अपि तु सर्वं कृतमेवेति पूर्ववदेवार्थः ॥१९॥

यदि दत्तं यदि हुतं विद्यते यदि नस्तपः ।
तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम्॥२०॥

ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः ।
अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम्॥२१॥

कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण च ।
न्यविशन्ताथ वेश्मानि धृतराष्ट्रस्य शासनात्॥२२॥

नगरेण सह कुशलप्रश्नं कृत्वा । नगरेणापि कृतकुशलप्रश्नाः ॥२२॥

विश्रान्तास्ते महात्मानः कंचित्कालं महाबलाः ।
आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च ॥२३॥

धृतराष्ट्र उवाच। भ्रातृभिः सह कौन्तेय निबोध गदता मम ।
पुनर्नो विग्रहो मा भूत्खाण्डवप्रस्थमाविश॥२४॥

न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् ।
संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा॥२५॥

पार्थेन अर्जुनेन ॥२५॥

अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थणाविश ।
वैशंपायन उवाच। प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च॥२६॥

प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः ।
अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थमाविशन्॥२७॥

घोरं वनमिति । भूमेरध सस्यशून्यो देशः पाण्डवेभ्यो दत्त इति ज्ञायते ॥२७॥

ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः ।
मण्डयाञ्चक्रिरे तद्वै पुरं स्वर्गादिवदच्युताः॥२८॥

तद्वैतद्धोरं वनं सत्स्वर्गवन्मण्डयांचक्रिरे ॥२८॥

ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः ।
नगरं मापयामासुर्द्वैपायनपुरोगमाः॥२९॥

तदेवाह । नगरं मापयामासुरित्यादिना ॥२९॥

सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम् ।
प्राकारेण च संपन्नं दिवमावृत्य तिष्ठता॥३०॥

पाण्डुराभ्रप्रकाशेन हिमरश्मिनिभेन च ।
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवतीमिव॥३१॥

भोगवतीमिवेति प्रथमार्थे द्वितीया । ईमिति निपातप्रश्लेषो वा । भोगवती यथेत्यपेक्षिते प्रमादपाठो वा ॥३१॥

द्विपक्षगरुडप्रख्यैर्द्वारैः सौधैश्च शोभितम् ।
गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः॥३२॥

विविधैरपि निर्विद्धैः शस्त्रोपेतैः सुसंवृतैः ।
शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः॥३३॥

निर्विद्धैः अच्छिद्रैः अभेद्यैर्वा । शक्तिभिर्हस्तक्षेप्याभिर्लोहमयीभिः ॥३३॥

तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् ।
तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम्॥३४॥

तीक्ष्णाश्च तेऽङ्कुशाश्च शतघ्न्यश्च ताभिः । आग्नेयौषधबलेनोत्क्षिप्तेन दृषत्पिण्डेन या युगपच्छतं सहस्रं वा मनुष्यादीन् घ्नन्ति ताभिः शतघ्नीभिर्दुर्गारूडाभिः ॥३४॥

आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् ।
सुविभक्तमहारथ्यं देवताबाधवर्जितम्॥३५॥

विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः ।
तत्त्रिविष्टपसंकाशमिन्द्रप्रस्थं व्यरोचत॥३६॥

मेघवृन्दमिवाकाशे विद्धं विद्युत्समावृतम् ।
तत्र रम्ये शिवे देशे कौरव्यस्य निवेशनम्॥३७॥

विद्धं मिथः श्लिष्टम् ॥३७॥

शुशुभे धनसंपूर्णं धनाध्यक्षक्षयोपमम् ।
तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः॥३८॥

क्षयोपमं गृहोपमम् ॥३८॥

निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा ।
वणिजश्चाययुस्तत्र नानादिग्भ्यो धनार्थिनः॥३९॥

सर्वशिल्पविदस्तत्र वासायाभ्यागमंस्तदा ।
उद्यानानि च रम्याणि नगरस्य समन्ततः॥४०॥

आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा ।
पुन्नागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा॥४१॥

शालतालतमालैश्च बकुलैश्च सकेतकैः ।
मनोहरैः सुपुष्पैश्च फलभारावनामितैः॥४२॥

प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपिष्पितैः ।
जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः॥४३॥

करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः ।
नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतैः॥४४॥

मत्तबर्हिणसंघुष्टकोकिलैश्च सदामदैः ।
गृहैरादर्शविमलैर्विविधैश्च लतागृहैः॥४५॥

मनोहरैश्चित्रगृहैस्तथाऽजगतिप्रवतैः ।
वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा॥४६॥

अजगीतपर्वतैः नृपलीलायात्रार्थैः कृत्रिमैः पर्वतैः । ‘अजरछागेहरिब्रह्म बिल्वस्मरहरेनृपे । गतिः स्त्रीमार्गदशयोर्ज्ञाने यात्राभ्युपाययोः’ इति च मेदिनी ॥४६॥

सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः ।
हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः॥४७॥

रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः ।
तडागानि च रम्याणि बृहन्ति सुबहूनि च॥४८॥

वनावृताः वनैः आरामैः आवृताः जलपूर्णा वा ॥४८॥

तेषां पुण्यजनोपेतं राष्ट्रमाविशतां महत् ।
पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत॥४९॥

पुण्यैर्जनैरुपेतम् ॥४९॥

तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते ।
पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः॥५०॥

राज्ञा धृतराष्ट्रेण धर्मस्य युधिष्ठिरस्य । प्रणयने प्रापणे ॥५०॥

पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समावृतम् ।
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा॥५१॥

तां निवेश्य ततो वीरो रामेण सह केशवः ।
ययौ द्वारवतीं राजन्पाण्डवानुमते तदा॥५२॥

॥ इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि पुरनिर्माणे सप्ताधिकद्विशततमोऽध्यायः॥२०७॥
अष्टाधिकद्विशततमोऽध्यायः

जनमेजय उवाच। एवं संप्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन ।
अत ऊर्ध्वं महात्मानः किमकुर्वत पाण्डवाः॥१॥

अष्टाधिकद्विशततमोऽध्यायः एवमिति ॥१॥

सर्व एव महासत्त्वा मम पूर्व्ज़्पितामहाः ।
द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत॥२॥

कथं च पञ्च कृष्णायामेकस्यां ते नराधिपाः ।
वर्तमाना महाभागा नाभिद्यन्त परस्परम्॥३॥

श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन ।
तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया सह॥४॥

वैशंपायन उवाच। धृतराष्ट्राभ्यनुज्ञाता: कृष्णया सह पाण्डवाः ।
रेमिरे खाण्डवप्रस्थे प्राप्तराज्याः परन्तपाः॥५॥

प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः ।
पालयामास धर्मेण पृथिवीं भ्रातृभिः सह॥६॥

जितारयो महाप्रज्ञाः सत्यधर्मपरायणाः ।
मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः॥७॥

तत्रोषुः तत्र इन्द्रप्रस्थे ऊषुर्वासं कृतवन्तः ॥७॥

कुर्वाणाः पौरकार्याणि सर्वाणि भरतर्षभाः ।
आसांचक्रुर्महार्हेषु पार्थिवेष्वासनेषु च॥८॥

आसाञ्चक्रुः स्थिरासना बभूवुः । पार्थिवेषु राजसम्बन्धिषु आसेनष्वधिकारविशेषेषु ॥८॥

अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु ।
नारदस्त्वथ देवर्षिराजगाम यदृच्छया॥९॥

आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः ।
देवर्षेरुपविष्टस्य स्वयमर्ध्यं यथाविधि॥१०॥

प्रादाद्युधिष्ठिरो धीमान्राज्यं तस्मै न्यवेदयत् ।
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनास्तदा॥११॥

आशीर्भिर्वर्धयित्वा च तमुवाचास्यतामिति ।
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः॥१२॥

कथयामास कृष्णायै भगवन्तमुपस्थितम् ।
श्रुत्वैतद्द्रौपदी चापि शुचिर्भूत्वा समाहिता॥१३॥

जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह ।
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी॥१४॥

कृताञ्जलिः सुसंवीता स्थिताऽथ द्रुपदात्मजा ।
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः॥१५॥

सुसंवीता सम्यक्कृतावगुण्ठना ॥१५॥

आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः ।
गम्यतामिति होवाच भगवांस्तामनिन्दिताम्॥१६॥

गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् ।
विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः॥१७॥

नारद उवाच। पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी ।
यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम्॥१८॥

सुन्दोपसुन्दौ हि पुरा भ्रातरौ सहितावुभौ ।
आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ॥१९॥

एकराज्यावेकगृहावेकशय्यासनाशनौ ।
तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः॥२०॥

रक्ष्यतां सौहृदं तस्मादन्योन्यप्रीतिभावकम् ।
यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर॥२१॥

अन्योन्यप्रीतिभावकं परस्परप्रीत्या भावो वृद्धिर्यस्य तत्तथा ॥२१॥

युधिष्ठिर उवाच। सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने ।
उत्पन्नश्च कथं भेदः कथं चान्योऽन्यमघ्नताम्॥२२॥

अन्नतां हतवन्तौ ॥२२॥

अप्सरा देवकन्या वै कस्य चैषा तिलोत्तमा ।
यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम्॥२३॥

कस्य देवस्य कन्या ॥२३॥

एतत्सर्वं यथावृत्तं विस्तरेण तपोधन ।
श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि मे॥२४॥

॥ इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि युधिष्ठिरनारदसंवादेऽष्टाधिकद्विशततमोऽध्यायः॥२०८॥
नवाधिकद्विशततमोऽध्यायः

नारद उवाच। श्रृणु मे विस्तरेणेममितिहासं पुरातनम् ।
भ्रातृभिः सहितः पार्थ यथा वृत्तं युधिष्ठिर॥१॥

नवाधिकद्विशततमोऽध्यायः शृण्विति ॥१॥

महासुरस्यान्ववाये हिरण्यकशिपोः पुरा ।
निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत्॥२॥

तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ ।
सुन्दोपसुन्दौ दैत्येन्द्रौ दारुणौ क्रूरमानसौ॥३॥

तावेकनिश्चयौ दैत्यावेककार्यार्थसंमतौ ।
निरन्तरमवर्तेतां समदुःखसुखावुभौ॥४॥

निरन्तरं मतिभेदं विना ॥४॥

विनाऽन्योन्यं न भुञ्जाते विनाऽन्योन्यं न जल्पतः ।
अन्योऽन्यस्य प्रियकरावन्योऽन्यस्य प्रियंवदौ॥५॥

एकशीलसमाचारौ द्विधैवैकोऽभवत्कृतः ।
तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ॥६॥

त्रैलोक्यविजयार्थाय समाधायैकनिश्चयम् ।
दीक्षां कृत्वा गतौ विन्ध्यं तावुग्रं तेपतुस्तपः॥७॥

तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः ।
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ॥८॥

मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः ।
आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ ।
ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ॥९॥

तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः ।
धूमं प्रमुमुचे विन्ध्यस्तद्भुतमिवाभवत्॥१०॥

ततो देवा भयं जग्मुरुग्रं दृष्ट्वा तयोस्तपः ।
तपोविघातार्थमथो देवा विघ्नानि चक्रिरे॥११॥

रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः ।
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ॥१२॥

अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः ।
भगिन्यो मातरो भार्यास्तयोश्चात्मजनस्तथा॥१३॥

प्रपात्यमाना विस्रस्ताः शूलहस्तेन रक्षसा ।
भ्रष्टाभरणकेशान्ता भ्रष्टाभरणवाससः॥१४॥

अभिभाष्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः ।
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ॥१५॥

यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः ।
ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत॥१६॥

ततः पितामहः साक्षादभिगम्य महासुरौ ।
वरेण छन्दयामास क्वलोकहितः प्रभुः॥१७॥

ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ ।
दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा॥१८॥

ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा ।
आवयोस्तपसाऽनेन यदि प्रीतः पितामहः॥१९॥

मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ ।
उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः॥२०॥

ब्रह्मोवाच। ऋतेऽमरत्वं युवयोः सर्वमुक्तं भविष्यति ।
अन्यद्वृणीतं मृत्योश्च विधानममरैः समम्॥२१॥

येनामतुल्यत्वं भवेत्तादृशं विधानं वृणीतं ज्ञापयतन् ॥२१॥

प्रभविष्याव इति यन्महदभ्युद्यतं तपः ।
युवयोर्हेतुनानेन नामरत्वं विधीयते॥२२॥

प्रभविष्यावः प्रभुत्वमैश्वर्यं करिष्यावः । यत्कामो यदारभेतत्समाप्तौ तदेव लभते नान्यदित्यर्थः ॥२२॥

त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः ।
हेतुनाऽनेन दैत्येन्द्रौ न वा कामं करोम्यहम्॥२३॥

सुन्दोपसुन्दावूचतुः ।
त्रिषु लोकेषु यद्भूतं किंचित्स्थावरजङ्गमम् ।
सर्वस्मान्नौ भयं न स्यादृतेऽन्योऽन्यं पितामह॥२४॥

पितामह उवाच। यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् ।
मृत्योर्विधानमेतच्च यथावद्वा भविष्यति॥२५॥

यथावद्वा यथावदेव ॥२५॥

नारद उवाच। ततः पितामहो दत्त्वा वरमेतत्तदा तयोः ।
निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह॥२६॥

लब्ध्वा वराणि दैत्येन्द्रावथ तौ भ्रातरावुभौ ।
अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ॥२७॥

तौ तु लब्धवरौ दृष्ट्वा कृतकामौ मनस्विनौ ।
सर्वः सुहृञ्जनस्ताभ्यां प्रहर्षमुपजग्मिवान्॥२८॥

ततस्तौ तु जटा भित्त्वा मौलिनौ संबभूवतुः ।
महार्हाभरणोपेतौ विरजोम्बरधारिणौ॥२९॥

मौलिनौ किरीटवन्तौ । ’मौलिः किरीटे धम्मिल्ले’ इति मेदिनी । व्रीह्यादित्वादिनिः ॥२९॥

अकालकौमुदीं चैव चक्रतुः सार्वकालिकीम् ।
नित्यः प्रमुदितः सर्वस्तयोश्चैव सुहृञ्जनः॥३०॥

भक्ष्यतां भुज्यतां नित्यं दीयतां रम्यतामिति ।
गीयतां पीयतां चेति शभ्दश्चासीद्गृहे गृहे॥३१॥

तत्र तत्र महानादैरुत्कृष्टतलनादितैः ।
हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम्॥३२॥

तलनादितैः करतलध्वनिभिः वाद्यघोषैर्वा ॥३२॥

तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् ।
समाः संक्रीडतां तेषामहरेकमिवाभवत्॥३३॥

समाः बहूनि वर्षाणि एकं दिनमिवाभूत् ॥३३॥
॥ इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि सुदोपसुन्दोपाख्याने नवाधिकद्विशततमोऽध्यायः॥२०९॥
दशाधिकद्विशततमोऽध्यायः

नारद उवाच। उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ ।
मन्त्रयित्वा ततः सेनां तावज्ञापयतां तदा॥१॥

दशाधिकद्विशततमोऽध्यायः उत्सवे इति ॥१॥

सुहृद्भिरप्यनुज्ञातौ दैत्यैर्वृद्धैश्च मन्त्रिभिः ।
कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा॥२॥

मघासु गमनार्थं निषिद्वेपि नक्षत्रे आसुरत्वाद्ययतुः ॥२॥

गदापिट्टशधारिण्या शूलमुद्गरहस्तया ।
प्रस्थितौ सह वर्मिण्या महत्या दैत्यसेनया॥३॥

मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः ।
चारणैः स्तूयमानौ तौ जग्मतुः परया मुदा॥४॥

विजयप्रतिसंहितैः विजयकथकैः ॥४॥

तावन्तरिक्षमुत्प्लुत्य दैत्यौ कामगमावुभौ ।
देवानामेव भवनं जग्मतुर्युद्दुर्मदौ॥५॥

तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः ।
हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः॥६॥

ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तदा ।
खेचराण्यपि भूतानि जघ्नतुस्तीव्रविक्रमौ॥७॥

अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महारथौ ।
समुद्रवासिनीः सर्वा म्लेच्छजातीर्विजिग्यतुः॥८॥

ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ ।
सैनिकांश्च समाहूय सुतीक्ष्णं वाक्यमूचतुः॥९॥

राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः ।
तेजो बलं च देवानां वर्धयन्ति श्रियं तथा॥१०॥

तेषामेवं प्रवृत्तानां सर्वेषामसुरद्विषाम् ।
संभूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः॥११॥

एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः ।
क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखौ॥१२॥

यज्ञैर्यजन्ति ये केचिद्याजयन्ति च ये द्विजाः ।
तान्सर्वान्प्रसभं हत्वा बलिनौ जग्मतुस्ततः॥१३॥

आश्रमेष्वग्निहोत्राणि मुनीनां भावितात्मनाम् ।
गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धं सैनिकास्तयोः॥१४॥

तपोधनैश्च ये क्रुद्धैः शापा उक्ता महात्मभिः ।
नाक्रामन्त तयोस्तेऽपि वरदाननिराकृताः॥१५॥

नाक्रामन्त न व्याप्तवन्तः । तयोः तौ । कर्मणि षष्ठी ॥१५॥

नाक्रामन्त यदा शापा बाणा मुक्ताः शिलास्विव ।
नियमान्संपरित्यज्य व्यद्रवन्त द्विजातयः॥१६॥

पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः ।
तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः॥१७॥

मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः ।
शून्यमासीज्जगत्सर्वं कालेनेव हतं तदा॥१८॥

ततो राजन्नदृश्यद्भिर्ऋषिभिश्च महासुरौ ।
उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ॥१९॥

अदृश्यद्भिरन्तर्हितैः। ऋषिभिर्हेतुभूतैस्ते विकुर्वाते विविधानि सिंहव्याघ्रादीनि रूपाणि जगृहाते तिरोभावाय । ततस्तद्रूपाज्ञानात्प्रकटान्मुनीन् गजादिरूपौ निजघ्नतुरित्यर्थः ॥१९॥

प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ ।
संलीनमपि दुर्गेषु निन्यतुर्यमसादनम्॥२०॥

तदेवाह प्रभिन्नेति प्रभिन्नौ मदेन क्लिन्नौ करटौ गण्डदेशौ ययोस्तौ । संलीनमपि मुनिम् ॥२०॥

सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ ।
तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः॥२१॥

निवृत्तयज्ञस्वाध्याया प्रनष्टनृपतिद्विजा ।
उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा॥२२॥

उत्सवो यात्राविवाहादिः॥२२॥

हाहाभूता भयार्ता च निवृत्तविपणापणा ।
निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता॥२३॥

निवृत्तविपणाः क्रयविक्रयादिव्यवहारशून्या आपणाः हट्टा यस्याम् ॥२३॥

निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा ।
अस्थिकङ्कालसंकीर्णा भूर्बभूवोग्रदर्शना॥२४॥

अस्थीनि हस्तपादादिसम्बन्धीनि । कङ्कालाः देहमध्यास्थीनि पार्श्वादिसहितानि ॥२४॥

निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् ।
जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा॥२५॥

चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः ।
जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः॥२६॥

ग्रहाः कुजादयः ताराः सप्तर्ष्यादयः । नक्षत्राणि अश्विन्यादीनि ॥२६॥

एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा ।
निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः॥२७॥

॥ इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि सुन्दोपसुन्दोपाख्याने दशाधिकद्विशततमोऽध्यायः॥२१०॥
एकादशाधिकद्विशततमोऽध्यायः

नारद उवाच। ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः ।
जग्मुस्तदा परमार्तिं दृष्ट्वा तत्कदनं महत्॥१॥

तेभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः ।
पितामहस्य भवनं जगतः कृपया तदा॥२॥

ततो ददृशुरासीनं सहदेवैः पितामहम् ।
सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम्॥३॥

तत्र देवो महादेवस्तत्राग्निर्वायुना सह ।
चन्द्रादित्यौ च शक्रश्च पारमेष्ठ्यास्तथर्षयः॥४॥

वैखानसा वालखिल्या वानप्रस्था मरीचिपाः ।
अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः॥५॥

ऋषयः सर्व एवैते पितामहमुपागमन् ।
ततोऽभिगम्य ते दीनाः सर्व एव महर्षयः॥६॥

सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे ।
यथा हृतं यथा चैव कृतं येन क्रमेण च॥७॥

न्यवेदयंस्ततः सर्वमखिलेन पितामहे ।
ततो देवगणाः सर्वे ते चैव परमर्षयः॥८॥

तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ।
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा॥९॥

मुहूर्तमिव संचिन्त्य कर्तव्यस्य च निश्चयम् ।
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत्॥१०॥

दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः ।
सृज्यतां प्रार्थनीयैका प्रमदेति महातपाः॥११॥

पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च ।
निर्ममे योषितं दिव्यां चिन्तयित्वा पुनःपुनः॥१२॥

त्रिषु लोकेषु यत्किंचिद्भूतं स्थावरजङ्गमम् ।
समानयद्दर्शनीयं तत्तदत्र स विश्ववित्॥१३॥

कोटिशश्चैव रत्नानि तस्या गात्रे न्यवेशत् ।
तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम्॥१४॥

सा प्रयत्नेन महता निर्मिता विश्वकर्मणा ।
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत्॥१५॥

न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसंपदा ।
नियुक्ता यत्र वा दृष्टिर्न सज्जति निरीक्षताम्॥१६॥

एकादशाधिकद्विशततमोऽध्यायः तस्या गात्रे सूक्ष्ममपि तदङ्गं नास्ति । यच्छब्दस्तदर्थे । रूपसंपदाहेतुभूतया यत्र नियुक्ता निरीक्षतां दृष्टिर्न सज्जतीति सम्बन्धः ॥१६॥

सा विग्रहवतीव श्रीः कामरूपा वपुष्मती ।
जहार सर्वभूतानां चक्षूंषि च मनांसि च॥१७॥

तिलं तिलं समानीय रत्नानां यद्विनिर्मिता ।
तिलोत्तमेति तत्तस्या नाम चक्रे पितामहः॥१८॥

ब्रह्माणं सा नमस्कृत्य प्राञ्जलिर्वाक्यमब्रवीत् ।
किं कार्यं मयि भूतेश येनास्म्यद्येह निर्मिता॥१९॥

पितामह उवाच। गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे ।
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम्॥२०॥

प्रलोभनम् अर्थात्सुन्दोसुन्दयोरेव ॥२०॥

त्वत्कृते दर्शादेव रूपसंपत्कृतेन वै ।
विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु॥२१॥

ताभ्यां तयोः ॥२१॥

नारद उवाच। सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् ।
चकार मण्डलं तत्र विबुधानां प्रदक्षिणम्॥२२॥

मण्डलं समुदायम् ॥२२॥

प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः ।
देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन्॥२३॥

भगवान्विष्णुः । प्राङ्मुखीभावादिना तेषामपि तत्र मोहो द्योतितः ॥२३॥

कुर्वन्त्या तु तदा तत्र मण्डलं तत्प्रदक्षिणम् ।
इन्द्रः स्थाणुश्च भगवान्धैर्येण तु प्रत्यवस्थितौ॥२४॥

द्रष्टुकामस्य चात्यर्थं गतया पार्श्वतस्तया ।
अन्यदञ्चितपद्माक्षं दक्षिणं निःसृतं मुखम्॥२५॥

द्रष्टुकामस्य स्थाणोः ॥२५॥

पृष्ठतः परिवर्तन्त्या पश्चिमं निःसृतं मुखम् ।
गतया चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम्॥२६॥

महेन्द्रस्यापि नेत्राणां पृष्ठतः पार्श्वतोग्रतः ।
रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत्॥२७॥

एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा ।
तथा सहस्रनेत्रश्च बभूव बलसूदनः॥२८॥

तथा देवनिकायानां महर्षीणां च सर्वशः ।
मुखानि चाभ्यवर्तन्त येन याति तिलोत्तमा॥२९॥

देवनिकायानां देवसंघानां येन देशेन मार्गेण सा याति तथा मुखानि अभ्यवर्तन्त ॥२९॥

तस्या गात्रे निपतिता दृष्टिस्तेषां महात्मनाम् ।
सर्वेषामेव भूयिष्ठमृते देवं पितामहम्॥३०॥

गच्छन्त्या तु तया सर्वे देवाश्च परमर्षयः ।
कृतमित्येव तत्कार्यं मेनिरे रूपसंपदा॥३१॥

तिलोत्तमायां तस्यां तु गतायां लोकभावनः ।
सर्वान्विसर्जयामास देवानृषिगणांश्च तान्॥३२॥

॥ इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि सुन्दोपसुन्दोपाख्याने तिलोत्तमाप्रस्थापने एकादशाधिकद्विशततमोऽध्यायः॥२११॥
द्वादशाधिकद्विशततमोऽध्यायः

नारद उवाच। जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ ।
कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः॥१॥

द्वादशाधिकद्विशततमोऽध्यायः जित्वेति । कृत्वा स्वाधीनम् अव्यग्रं निर्विशेषं यथा स्यात्तथा ॥१॥

देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् ।
आदाय सर्वरत्नानि परां तुष्टिमुपागतौ॥२॥

यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन ।
निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव॥३॥

स्त्रीभिर्माल्यैश्च गन्धैश्च भक्ष्यभोज्यैः सुपुष्कलैः ।
पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः॥४॥

अन्तःपुरवनोद्याने पर्वतेषु वनेषु च ।
यथेप्सितेषु देशेषु विजह्रातेऽमराविव॥५॥

ततः कदाचिद्विन्ध्यस्य प्रस्थे समशिलातले ।
पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः॥६॥

प्रस्थे शिखरे ॥६॥

दिव्येषु सर्वकामेषु समानीतेषु तावुभौ ।
वरासनेषु संहृष्टौ सह स्त्रीभिर्निषीदतुः॥७॥

ततो वादित्रनृत्याभ्यामुपातिष्ठन्त तौ स्त्रियः ।
गीतैश्च स्तुतिसंयुक्तैः प्रीत्या समुपजग्मिरे॥८॥

ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती ।
वेषं सा क्षिप्तमाधाय रक्तेनैकेन वाससा॥९॥

वेषं शृङ्गारम् आधाय साक्षिप्तम् आक्षिप्तं आक्षेपो मनोवैकल्यं तेन सह यथा स्यात्तथा । सूक्ष्मैकवाससो धारितत्वाद्विविक्तावयवत्वेन जनं व्याकुलयन्तीत्यर्थः ॥९॥

नदीतीरेषु जातान्सा कर्णिकारान्प्रचिन्वती ।
शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ॥१०॥

तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ ।
दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः॥११॥

व्यथितौ कामेन ॥११॥

तावुत्थायासनं हित्वा जग्मतुर्यत्र सा स्थिता ।
उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम्॥१२॥

दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना ।
उपसुन्दोपि जग्राह वामे पाणौ तिलोत्तमाम्॥१३॥

वरप्रदानमत्तौ तावौरसेन बलेन च ।
धनरत्नमदाभ्यां च सुरापानमदेन च॥१४॥

सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ ।
मदकामसमाविष्टौ परस्परमथोचतुः॥१५॥

मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत ।
मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत॥१६॥

नैषा तव ममैषेति ततस्ता मन्युराविशत् ।
तस्या रूपेण संमत्तौ विगतस्नेहसौहृदौ॥१७॥

तस्या हेतोर्गदे भीमे संगृह्णीतामुभौ तदा ।
प्रगृह्य च गदे भीमे तस्यां तौ काममोहितौ॥१८॥

अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः ।
तौ गदाभिहतौ भीमौ पेततुर्धरणीतले॥१९॥

रुधिरेणावसिक्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ।
ततस्ता विद्रुता नार्यः स च दैत्यगणस्तथा॥२०॥

पातालमगमत्सर्वो विषादभयकम्पितः ।
ततः पितामहस्तत्र सहदेवैर्महर्षिभिः॥२१॥

आजगाम विशुद्धात्मा पूजयंश्च तिलोत्तमाम् ।
वरेण च्छन्दयामास भगवान्प्रपितामहः॥२२॥

वरं दित्सुः स तत्रैनां प्रीतः प्राह पितामहः ।
आदित्यचरिताँल्लोकान्विचरिष्यसि भाविनि॥२३॥

तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन ।
एवं तस्यै वरं दत्वा सर्वलोकपितामहः॥२४॥

तेजसाऽर्कवत्परदृष्ट्यभिभावकत्वात्सुदृष्टां सम्यग्दृष्टां न करिष्यति कश्चित् ॥२४॥

इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः ।
नारद उवाच। एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ॥२५॥

तिलोत्तमार्थं संक्रुद्धावन्योऽन्यमभिजघ्नतुः ।
तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमाः॥२६॥

यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते ।
तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ॥२७॥

वैशंपायन उवाच। एवमुक्ता महात्मानो नारदेन महर्षिणा ।
समयं चक्रिरे राजंस्तेऽन्योऽन्यवशमागताः ।
समक्षं तस्य देवर्षेर्नारदस्यामितौजसः॥२८॥

द्रौपद्या नः सहासीनानन्योऽन्यं योऽभिदर्शयेत् ।
स नो द्वादशवर्षाणि ब्रह्मचारी वने वसेत्॥२९॥

कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः ।
नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः॥३०॥

एवं तैः समयः पूर्वं कृतो नारदचोदितैः ।
न चाभिद्यन्त ते सर्वे तदाऽन्योऽन्येन भारत॥३१॥

॥ इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि सुन्दोपसुन्दोपाख्याने द्वादशाधिकद्विशततमोऽध्यायः॥२१२॥
॥समाप्तं च विदुरागमनराज्यलम्भपर्व ॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in