वैशंपायन उवाच।
ततो राज्ञां चरैराप्तैः प्रवृत्तिरुपनीयत
।
पाण्डवैरुपसंपन्ना द्रौपदी पतिभिः शुभा॥१॥
द्विशततमोऽध्यायः तत इति । चरैः चारैः ॥१॥
येन तद्धनुरादाय लक्ष्यं विद्धं महात्मना
।
सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः॥२॥
यः शल्यं मद्रराजं वै प्रोत्क्षिप्यापातयद्बली
।
त्रासयामास संक्रुद्धो वृक्षेण पुरुषान्रणे॥३॥
न चास्य संभ्रमः कश्चिदासीत्तत्र महात्मनः
।
स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः॥४॥
सेनाङ्गानां रथगजादीनां पातनः ॥४॥
ब्रह्मरूपधराञ्च्छ्रुत्वा प्रशान्तान्पाण्डुनन्दनान्
।
कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत॥५॥
सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता
।
पुनर्जातानिव च तांस्तेऽमन्यन्त नराधिपाः॥६॥
विस्मये हेतुमाह सपुत्रेति ॥६॥
धिगकुर्वंस्तदा भीष्मं धृतराष्ट्रं च कौरवम्
।
कर्मणाऽतिनृशंसेन पुरोचनकृतेन वै॥७॥
वृत्ते स्वयंवरे चैव राजानः सर्व एव ते
।
यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान्॥८॥
अथ दुर्योधनो राजा विमना भ्रातृभिः सह
।
अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च॥९॥
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम्
।
तं तु दुःशासनोऽव्रीडो मन्दं मन्दमिवाब्रवीत्॥१०॥
अव्रीड इति छेदः । व्रीडन्नित्येव पाठः । अन्यथा मन्दं मन्दमित्यस्यानुपपत्तिः ॥१०॥
यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः
।
न हि तं तत्त्वतो राजन्वेद कश्चिद्धनंजयम्॥११॥
दैवं च परमं मन्ये पौरुषं चाप्यनर्थकम्
।
धिगस्तु पौरुषं तात ध्रियन्ते यत्र पाण्डवाः॥१२॥
एवं संभाषमाणास्ते निन्दन्तश्च पुरोचनम्
।
विविशुर्हास्तिनपुरं दीना विगतचेतसः॥१३॥
त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान्महौजसः
।
मुक्तान्हव्यभुजश्चैव संयुक्तान्द्रुपदेन च॥१४॥
धृष्टद्युम्नं तु संचिन्त्य तथैव च शिखण्डिनम्
।
द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान्॥१५॥
विदुरस्त्वथ तां श्रुत्वा द्रौपदीं पाण्डवैर्वृताम्
।
व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान्॥१६॥
ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशांपते
।
उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः॥१७॥
विचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत्
।
अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत॥१८॥
मन्यते स वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया
।
दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः॥१९॥
अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु
।
आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा॥२०॥
वै चार्थे । कृष्णाभूषणं च तत्परिधानार्थमानीयतामित्यर्थः ॥२०॥
अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान्
।
अर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन ह॥२१॥
तेषां सम्बन्धिनश्चान्यान्बहून्बलसमन्वितान्
।
समागतान्पाण्डवेयैस्तस्मिन्नेव स्वयंवरे॥२२॥
धृतराष्ट्र उवाच।
यथैव पाण्डोः पुत्रास्तु तथैवाभ्यधिका मम
।
यथा चाभ्यधिका बुद्धिर्ममतान्प्रति तच्छृणु॥२३॥
यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः
।
तेषां सम्बन्धिनश्चान्ये महवश्च महाबलाः॥२४॥
को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम्
।
न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः॥२५॥
गतश्रीः नष्टश्रीः कः भवेन ऐश्वर्येणार्थी न बुभूषेद्भवितुमिच्छेत् अपि तु सर्वोपीच्छेत् ॥२५॥
वैशंपायन उवाच।
तं तथा भाषमाणं तु विदुरः प्रत्यभाषत
।
नित्यं भवतु ते बुद्धिरेषा राजञ्च्छतं समाः
।
इत्युक्त्वा प्रययौ राजन्विदुरः स्वं निवेशनम्॥२६॥
ततो दुर्योधनश्चापि राधेयश्च विशांपते
।
धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा॥२७॥
सन्निधौ विदुरस्य त्वां दोषं वक्तुं न शक्नुवः
।
विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम्॥२८॥
सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः
।
अभिष्टौषि च यत्क्षत्तुः समीपे द्विषतां वर॥२९॥
सपत्नबुद्धिं तत्कृतां बुद्धिम् । वृद्धिमिति पाठः स्वच्छः । हे वरश्रेष्ठ द्विषतां द्विषतः शत्रून् ॥२९॥
तेषां बलविघातो हि कर्तव्यस्तात नित्यशः॥३०॥
ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे
।
यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान्॥३१॥
प्राप्तकालस्य कर्मणः कर्तव्यताम् ॥३१॥
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि दुर्योधनवाक्ये द्विशततमोऽध्यायः॥२००॥
धृतराष्ट्र उवाच।
अहमप्येवमेवैतच्चिकीर्षामि यथा युवाम्
।
विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति॥१॥
एकाधिकद्विशततमोऽध्यायः अहमिति । व्विवेक्तुं व्यक्तीकर्तुम् ॥१॥
ततस्तेषां गुणानेव कीर्तयामि विशेषतः
।
नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः॥२॥
इङ्गितैः चेष्टितैः ॥२॥
यच्च त्वं मन्यसे प्राप्तं तद्ब्रवीहि सुयोधन
।
राधेय मन्यसे यच्च प्राप्तकालं वदाशु मे॥३॥
यच्च कर्वव्यम् ॥३॥
दुर्योधन उवाच।
अद्य तान्कुशलैर्विप्रैः सुगुप्तैराप्तकारिभिः
।
कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ॥४॥
आप्तकारिभिः अवञ्चकैः ॥४॥
अथवा द्रुपदो राजा महद्भिर्वित्तसंचयैः
।
पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः॥५॥
परित्यजेद्यथा राजा कुन्तीपुत्रं युधिष्ठिरम्
।
अथ तत्रैव वा तेषां निवासं रोचयन्तु ते॥६॥
इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक्
।
ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः॥७॥
भिद्यमानाः अस्मत्तः पृथग्भवन्तः ॥७॥
अथवा कुशलाः केचिदुपायनिपुणा नराः
।
इतरेतरतः पार्थान्भेदयन्त्वनुरागतः॥८॥
व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत्
।
अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम्॥९॥
व्युत्थापनं तु स्वभर्तॄणां त्यागः स च बहुत्वदोषेण सुकरः। अथवेति । तस्याः भर्तृषु वैषम्यं प्रदर्य पाण्डवानेव वा तस्यां भेदयन्तु ततश्च तां लप्स्यामहे इति शेषः ॥९॥
भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः
।
मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः॥१०॥
तमाश्रित्य हि कौन्तेयः पुरा चास्मान्न मन्यते
।
स हि तीक्ष्णश्च शूरश्च तेषां चैव परायणम्॥११॥
तस्मिंस्त्वभिहते राजन् हतोत्साहा हतौजसः
।
यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः॥१२॥
अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे
।
तमृते फाल्गुनो युद्धे राधेयस्य न पादभाक्॥१३॥
न पादभाक् न चतुर्थांशतुल्यः ॥१३॥
ते जानानास्तु दौर्बल्यं भीमसेनमृते महत्
।
अस्मान्बलवतो ज्ञात्वा न यतिष्यन्ति दुर्बलाः॥१४॥
इहागतेषु वा तेषु निदेशवशवर्तिषु
।
प्रवर्तिष्यामहे राजन् यथाशास्त्रं निबर्हणम्॥१५॥
अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम्
।
एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम्॥१६॥
एकैकः कौन्तेयः प्रलोभनीयः । तत्र तेषु । ततः प्रलोभमानात् ॥१६॥
प्रेष्यतां चैव राधेयस्तेषामागमनाय वै
।
तैस्तैः प्रकारैः सन्नीय पात्यन्तामाप्तकारिभिः॥१७॥
संनीय ऐक्यं नीत्वा ॥१७॥
एतेषामप्युपायानां यस्ते निर्दोषवान्मतः
।
तस्य यप्रोगमातिष्ठ पुरा कालोऽतिवर्तते॥१८॥
यावद्ध्यकृतविश्वासा द्रुपदे पार्थिवर्षभे
।
तावदेव हि ते शक्या न शक्यास्तु ततः परम्॥१९॥
शक्याः घातयितुमिति शेषः ॥१९॥
एषा मम मतिस्तात निग्रहाय प्रवर्तते
।
साध्वी वा यदि वाऽसाध्वी किं वा राधेय मन्यसे॥२०॥
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि दुर्योधनवाक्ये एकाधिकद्विशततमोऽध्यायः॥२०१॥
कर्ण उवाच।
दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः
।
न ह्युपायेन ते शक्याः पाण्डवाः कुरुवर्धन॥१॥
द्व्यधिकद्विशततमोऽध्यायः दुर्योधनेति ॥१॥
पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया
।
निग्रहीतुं तदा वीर न चैव शकितास्त्वया॥२॥
इहैव वर्तमानास्ते समीपे तव पार्थिव
।
अजातपक्षाः शिशवः शकिता नैव बाधितुम्॥३॥
जातपक्षाः सहायवन्तः तदन्ये अजातपक्षाः ॥३॥
जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते
।
नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत॥४॥
न च ते व्यसनैर्योक्तुं शक्या दिष्टकृतेन च
।
शकिताश्चेप्सवश्चैव पितृपैतामहं पदम्॥५॥
दिष्टकृतेन दैवनिर्माणेन शकिताः शक्तिमन्तः ज्रतुगृहादिभ्य आत्मानं मोचयितुं शक्ता अभूवन्नित्यर्थः ॥५॥
परस्परेण भेदश्च नाधातुं तेषु शक्यते
।
एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम्॥६॥
न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः
।
परिद्यूनान्वृतवती किमुताद्य मृजावतः॥७॥
परिघूनान् शोच्यान् भिक्षाभोजित्वादिना मृजावतः सुवेषान् ॥७॥
ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता
।
तं च प्राप्तवती कृष्णा न सा भेदयितुं क्षमा॥८॥
आर्यव्रतश्च पाञ्चाल्यो न स राजा धनप्रियः
।
न संत्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम्॥९॥
तथाऽस्य पुत्रो गुणवाननुरक्तश्च पाण्डवान्
।
तस्मान्नोपायसाध्यांस्तानहं मन्ये कथंचन॥१०॥
इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ
।
यावन्न कृतमूलास्ते पाण्डवेया विशांपते॥११॥
तावत्प्रहरणीयास्ते तत्तुभ्यं तात रोचताम्
।
अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः
।
तावत्प्रहरणं तेषां क्रियतां मा विचारय॥१२॥
लघुः अल्पकः॥१२॥
वाहनानि प्रभूतानि मित्राणि च कुलानि च
।
यावन्न तेषां गान्धारे तावद्विक्रम पार्थिव॥१३॥
यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः
।
सह पुत्रैर्महावीर्यैस्तावद्विक्रम पार्थिव॥१४॥
यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम्
।
राज्यार्थे पाण्डवेयानां पाञ्चाल्यसदनं प्रति॥१५॥
वसूनि विविधान्भोगान्राज्यमेव च केवलम्
।
नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे कथंचन॥१६॥
विक्रमेण मही प्राप्ता भरतेन महात्मना
।
विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः॥१७॥
विक्रमं च प्रशंसन्ति क्षत्रियस्य विशांपते
।
स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ॥१८॥
ते बलेन वयं राजन्महता चतुरङ्गिणा
।
प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान्॥१९॥
आनयाम स्ववशमिति शेषः॥१९॥
न हि साम्ना न दानेन न भदेन च पाण्डवाः
।
शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि॥२०॥
तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम्
।
अतो नान्यं प्रपश्यामि कार्योपायं जनाधिप॥२१॥
वैशंपायन उवाच।
श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान्
।
अभिपूज्य ततः पश्चादिदं वचनमब्रवीत्॥२२॥
उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने
।
त्वयि विक्रमसंपन्नमिदं वचनमीदृशम्॥२३॥
भूय एव तु भीष्मश्च द्रोणो विदुर एव च
।
युवां च कुरुतं बुद्धिं भवेद्या नः सुखोदया॥२४॥
तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः
।
धृतराष्ट्रो महाराज मन्त्रयामास वै तदा॥२५॥
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि धृतराष्ट्रमन्त्रणे द्व्यधिकद्विशततमोऽध्यायः॥२०२॥
भीष्म उवाच।
न रोचते विग्रहो मे पाण्डुपुत्रैः कथंचन
।
यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम्॥१॥
त्र्यधिकद्विशततमोऽध्यायः न रोचते इति ॥१॥
गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मम
।
यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव॥२॥
यथा च मम राज्ञश्च तथा दुर्योधनस्य ते
।
तथा कुरूणां सर्वेषामन्येषामपि पार्थिव॥३॥
एवं गते विग्रहं तैर्न रोचे
सन्धाय वीरैर्दीयतामर्धभूमिः
।
तेषामपीदं प्रपितामहानां
राज्यं पितुश्चैव कुरूत्तमानाम्॥४॥
दुर्योधन यथा राज्यं त्वमिदं तात पश्यसि
।
मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः॥५॥
यदि राज्यं न ते प्राप्ताः पाण्डवेया यशस्विनः
।
कुत एव तवापीदं भारतस्यापि कस्यचित्॥६॥
अधर्मेण च राज्यं त्वं प्राप्तवान्भरतर्षभ
।
तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः॥७॥
मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम्
।
एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च॥८॥
मधुरेण प्रीत्या ॥८॥
अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति
।
तवाप्यकीर्तिः सकला भविष्यति न संशयः॥९॥
कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम्
।
नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफलं स्मृतम्॥१०॥
यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव
।
तावज्जीवति गान्धरे नष्टकीर्तिस्तु नश्यति॥११॥
तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम्
।
अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु॥१२॥
दिष्ट्या ध्रियन्ते पार्था हि दिष्ट्या जीवति सा पृथा
।
दिष्ट्या पुरोचनः पापो न सकामोऽत्ययं गतः॥१३॥
ध्रियन्ते जीवन्ति । सकामो नासीत् । अत्ययं नाशम् ॥१३॥
यदा प्रभृति दग्धास्ते कुन्तिभोजसुतासुताः
।
तदा प्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम्॥१४॥
लोके प्राणभृतां किंचिच्छ्रुत्वा कुन्तीं तथागताम्
।
न चापि दोषेण तथा लोको मन्येत्पुरोचनम्
।
यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति॥१५॥
दोषेण युक्तं गच्छति जानाति ॥१५॥
तदिदं जीवितं तेषां तव किल्बिषनाशनम्
।
संमन्तव्यं महाराज पाण्डवानां च दर्शनम्॥१६॥
संमन्तव्यं संमतं कर्तव्यम् ॥१६॥
न चापि तेषां वीराणां जीवतां कुरुनन्दन
।
पित्र्योंशः शक्य आदातुमपि वज्रभृता स्वयम्॥१७॥
ते सर्वेऽवस्थिता धर्मे सर्वे चैवैकचेतसः
।
अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः॥१८॥
अधर्मेण जतुगृहदाहादिना ॥१८॥
यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे
।
क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम्॥१९॥
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि भीष्मवाक्ये त्र्यधिकधिकद्विशततमोऽध्यायः॥२०३॥
द्रोण उवाच।
मन्त्राय समुपानीतैर्धृतराष्ट्र हितैर्नृप
।
धर्म्यमर्थ्यं यशस्यं च वाच्यमित्यनुशुश्रुम॥१॥
चतुरधिकद्विशततमोऽध्यायः मन्त्रायेति । हितैर्मिंत्रैः ॥१॥
ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः
।
संविभज्यास्तु कौन्तेया धर्म एष सनातनः॥२॥
प्रेष्यतां द्रुपदायाशु नऱः कश्चित्प्रियंवदः
।
बहुलं रत्नमादाय तेषामर्थाय भारत॥३॥
तेषां पाण्डवानाम् ॥३॥
मिथः कृत्यं च तस्मै स आदाय वसु गच्छतु
।
वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा॥४॥
मिथःकृत्यं साम्बन्धिकं वरपक्षीयैर्वध्वलङ्कारादि कन्यापक्षीयैर्वरालङ्कारादि । तस्मै द्रुपदाय तदर्थे । ऐतन मिथःकृत्ये एव श्वशुरो जामातृदायं गृह्णीयान्नान्यथेति सिद्धम् । वृद्धिं चेति । त्वत्संयोगादस्माकं महत्वाप्तिर्जातेति धृतराष्ट्रो दुर्योधनश्च मन्यत इति तत्र वक्तव्यमित्यर्थः ॥४॥
संप्रीयमाणं त्वां ब्रूयाद्राजन्दुर्योधनं तथा
।
असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत॥५॥
उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत्
।
पुनःपुनश्च कौन्येयान्माद्रीपुत्रौ च सान्त्वयन्॥६॥
योगस्य सम्बन्धस्य ॥६॥
हिरण्मयानि शुभ्राणि बहून्याभरणानि च
।
वचनात्तव राजेन्द्र द्रौपद्याः संप्रयच्छतु॥७॥
संप्रयच्छतु त्वदीयोऽमात्यादिः ॥७॥
तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ
।
पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च॥८॥
तथा आभरणानि प्रयच्छन्त्वित्यनुषज्य प्रत्येकं द्रुपदपुत्राणामित्यादिषु योज्यम् ॥८॥
एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह
।
उक्त्वा सोऽनन्तरं ब्रूयात्तेषामागमनं प्रति॥९॥
अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम्
।
दुःशासनो विकर्णश्चाप्यानेतुं पाण्डवानिह॥१०॥
ततस्ते पाण्डवाः श्रेष्ठाः पूज्यमानाः सदा त्वया
।
प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके॥११॥
एतत्तव महाराज पुत्रेषु तेषु चैव हि
।
वृत्तमौपयिकं मन्ये भीष्मेण सह भारत॥१२॥
औपयिकम् अवश्यकर्तव्यम् ॥१२॥
कर्ण उवाच।
योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ
।
न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः॥१३॥
अनन्तरौ अन्तरङ्गौ भीष्मद्रोणौ ॥१३॥
दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना
।
ब्रूयान्नि:श्रेयसं नाम कथं कुर्यात्सतां मतम्॥१४॥
नन्वन्तरङ्गौ चेत्कथं मच्छ्रेयो नानुमन्त्रयेतामित्याशङ्क्यान्तरङ्गाभासाविमौ नत्वन्तरङ्गावित्याह । दुष्टेनेति । दुष्टेन मित्रद्रोहवता । मनसा सङ्कल्पेन । प्रच्छन्नेन शत्रुहितेप्सुनापि स्वामिहितवदाभासमानेन । अन्तरात्मना बुद्ध्या । योब्रूयान्मन्त्रं स सतां साधूनां विश्वस्तानां स्वामिनां मतम् इष्टं निःश्रेयसं कल्याणं कथं कुर्यान्न कथमपि । शठमित्रं हि पातयत्येव न हितायेत्यर्थः ॥१४॥
न मित्राण्यर्थकृच्छ्रेषु श्रेयसे चेतराय वा
।
विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम्॥१५॥
ननु शठमित्रत्वं त्वस्य त्वय्यप्याशङ्क्येत तथा च सर्वत्रानाश्वासप्रसङ्ग इत्याशङ्क्य दैवमेव मुख्यं वृद्धिह्रासादिहेतुरित्याह । न मित्राणीति । मित्राणि साध्वसाधूनि । अर्थकृच्छ्रेषु कार्यसङ्कटेषु । श्रेयसे इतराय नाशाय वा न प्रभवन्ति । हि यस्माद्विधिपूर्वं पुण्यापुण्यैकहेतुकं सर्वं सुखादिकम् ॥१५॥
कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः
।
ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति॥१६॥
एतदेव स्पष्टयति । कृतेति । सर्वं दैवोपनीतम् । सर्वत्र देशे काले च ॥१६॥
श्रूयते हि पुरा कश्चिदम्बुवीच इतीश्वरः
।
आसीद्राजगृहे राजा मागधानां महीक्षिताम्॥१७॥
अत्राख्यायिकामाह । श्रूयत इति । ईश्वरः समर्थः । राजगृहे तन्नामके नगरे ॥१७॥
स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः
।
अमात्यसंस्थः सर्वेषु कार्येष्वेवाभवत्तदा॥१८॥
करणैश्चक्षुरादिभिर्हीनो विकलः । उच्छ्वास एव परमो भवतीति ज्ञानहेतुर्यस्य सः । अमात्यसंस्थः अमात्याधीनः ॥१८॥
तस्यामात्यो महाकर्णिर्बभूवैकेश्वरस्तदा
।
स लब्धबलमात्मानं मन्यमानोवमन्यते॥१९॥
अवमन्यते राजानमिति शेषः ॥१९॥
स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च
।
आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा॥२०॥
तदादाय च लुब्धस्य लोभाल्लोभोऽभ्यवर्धत
।
तथा हि सर्वमादाय राज्यमस्य जिहीर्षति॥२१॥
हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च
।
यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम्॥२२॥
न शशाक हर्तुमिति शेषः ॥२२॥
किमन्यद्विहिता नूनं तस्य सा पुरुषेन्द्रता
।
यदि ते विहितं राज्यं भविष्यति विशांपते॥२३॥
आख्यायिकातात्पर्यमाह । किमिति । तस्य अम्बुवीचस्य सा पुरुषेन्द्रता तन्नरेन्द्रत्वं नूनं विहिता विधिप्राप्तैव न तु यत्नसंपादिता । किमन्यददृष्टात्परायणमस्ति न किमपीति भावः । प्रकृते योजयति यदीति ॥२३॥
मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम्
।
अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे॥२४॥
एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम्
।
दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम्॥२५॥
द्रोण उवाच।
विद्म ते भावदोषेण यदर्थमिदमुच्यते
।
दुष्ट पाण्डवहेतोस्त्वं दोषमाख्यापयस्युत॥२६॥
ते तव मतं विद्म भावदोषेण चित्तगतद्वेषेण ॥२६॥
हितं तु परमं कर्ण ब्रवीमि कुलवर्धनम्
।
अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम्॥२७॥
अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम्
।
कुरवो वै विनङ्क्ष्यन्ति न चिरेणैव मे मतिः॥२८॥
अहं यद्ब्रवीमि अतोऽन्यथा ॥२८॥
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि द्रोणवाक्ये चतुरधिकद्विशततमोऽध्यायः॥२०४॥
विदुर उवाच।
राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः
।
न त्वशुश्रूषमाणे वै वाक्यं संप्रति तिष्ठति॥१॥
पञ्चाधिकद्विशततमोऽध्यायः राजन्निति ॥१॥
प्रियं हितं च तद्वाक्यमुक्तवान्कुरुसत्तमः
।
भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च॥२॥
तथा द्रोणेन बहुधा भाषितं हितमुत्तमम्
।
तच्च राधासुतः कर्णो मन्यते न हितं तव॥३॥
चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम्
।
आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः॥४॥
आभ्यां भीष्मद्रोणाभ्याम् । पञ्चम्यन्तमिदम् ॥४॥
इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च
।
समौ च त्वयि राजेन्द्र तथा पाण्डुसुतेषु च॥५॥
धर्मे चानवरौ राजन्सत्यतायां च भारत
।
रामाद्दाशरथेश्चैव गयाच्चैव न संशयः॥६॥
अनवरौ श्रेष्ठौ ॥६॥
न चोक्तवन्तावश्रेयः पुरस्तादपि किंचन
।
न चाप्यपकृतं किंचिदनयोर्लक्ष्यते त्वयि॥७॥
अनयोः एताभ्यां कर्तरि षष्ठी ॥७॥
तावुभौ पुरुषव्याघ्रावनागसि नृपे त्वयि
।
न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ॥८॥
प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप
।
त्वन्निमित्तमतो नेमौ किंचिज्जिह्मं वदिष्यतः॥९॥
इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन
।
न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम्॥१०॥
पक्षसंश्रितम् अन्यतरस्यैव हितम् ॥१०॥
एतद्धि परमं श्रेयो मन्येऽहं तव भारत
।
दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव॥११॥
तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः
।
तेषु चेदहितं किंचिन्मन्त्रयेयुरतद्विदः॥१२॥
तेषु पाण्डवेषु ॥१२॥
मन्त्रिणस्ते न च श्रेयः प्रपश्यन्ति विशेषतः
।
अथ ते हृदये राजन्विशेषः स्वेषु वर्तते
।
अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम्॥१३॥
ते तव मन्त्रिणस्तवान्तरस्थं विशेषं विवृण्वानास्ते ध्रुवं शाश्वतं हितं न कुर्युः । तव वैषम्यदोषमेव ते प्रकाशयिष्यन्ति न तु कार्यं साधयिष्यन्तीत्यर्थः ॥१३॥
एतदर्थमिमौ राजन्महात्मानौ महाद्युती
।
नोचतुर्विवृतं किंचिन्न ह्येष तव निश्चयः॥१४॥
एतदर्थं पाण्डवानां श्रेयोर्थम् । विवृतं विस्पष्टम् । विकृतमिति पाठे परुषम् । एष पाण्डवानां श्रेयो भवत्वित्येवंरूपः । हिशब्देन तत्र तस्यैव प्रतीतिं प्रमाणयति ॥१४॥
यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ
।
तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते॥१५॥
यच्चेति । अशक्यताम् अजय्यताम् तव पुरस्तात् यच्चाहतुरिति सम्बन्धः । तद्भद्रमस्तु ते तत्तेभ्यः पाण्डवेभ्यस्तव भद्रमस्तु । क्रुद्धाः पाण्डवास्तव सर्वान्पुत्रान्मा हिंस्युरिति भावः ॥१५॥
कथं हि पाण्डवः श्रीमान्सव्यसाची धनञ्जयः
।
शक्यो विजेतुं संग्रामे राजन्मघवतापि हि॥१६॥
भीमसेनो महाबाहुर्नागायुतबलो महान्
।
कथं स्म युधि शक्येत विजेतुममरैरपि॥१७॥
तथैव कृतिनौ युद्धे यमौ यमसुताविव
।
कथं विजेतुं शक्यौ तौ रणे जीवितुमिच्छता॥१८॥
यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः
।
नित्यानि पाण्डवे ज्येष्ठे स जीयेत रणे कथम्॥१९॥
येषां पक्षधरो रामो येषां मन्त्री जनार्दनः
।
किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः॥२०॥
द्रुपदः श्वशुरो येषां येषां स्यालाश्च पार्षताः
।
धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः॥२१॥
सोऽशक्यतां च विज्ञाय तेषामग्रे च भारत
।
दायाद्यतां च धर्मेण सम्यक्तेषु समाचर॥२२॥
अग्रे तत्पितुरेव पाण्डोः राज्याभागित्वकाले । दायाद्यतां पितृधनभोजनाईताम् ॥२२॥
इदं निर्दिष्टमयशः पुरोचनकृतं महत्
।
तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः॥२३॥
तेषामनुग्रहश्चायं सर्वेषां चैव नः कुले
।
जीवितं च परं श्रेयः क्षत्रस्य च विवर्धनम्॥२४॥
द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा
।
तस्य संग्रहणं राजन्स्वपक्षस्य विवर्धनम्॥२५॥
बलवन्तश्च दाशार्हा बहवश्च विशांपते
।
यतः कृष्णस्ततः सर्वे यतः कृष्णस्ततो जयः॥२६॥
यच्च साम्नैव शक्येत कार्यं साधयितुं नृप
।
को दैवशप्तस्तत्कार्यं विग्रहेण समाचरेत्॥२७॥
श्रुत्वा च जीवतः पार्थान्पौरजानपदा जनाः
।
बलवद्दर्शने हृष्टास्तेषां राजन्प्रियं कुरु॥२८॥
बलवत् अत्यन्तम् ॥२८॥
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः
।
अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः॥२९॥
उक्तमेतत्पुरा राजन्मया गुणवतस्तव
।
दुर्योधनापराधेन प्रजेयं वै विनङ्क्ष्यति॥३०॥
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि विदुरवाक्ये पञ्चाधिकद्विशततमोऽध्यायः॥२०५॥
धृतराष्ट्र उवाच।
भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः
।
हितं च परमं वाक्यं त्वं च सत्यं ब्रवीषि माम्॥१॥
षडधिकद्विशततमोऽध्यायः भीष्म इति ॥१॥
यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः
।
तथैव धर्मतः सर्वे मम पुत्रा न संशयः॥२॥
यथैव मम पुत्राणामिदं राज्यं विधीयते
।
तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः॥३॥
क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान्
।
तया च देवरूपिण्या कृष्णया सह भारत॥४॥
दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा
।
दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः॥५॥
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः
।
दिष्ट्या मम परं दुःखमपनीतं महाद्युते॥६॥
वैशंपायन उवाच।
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात्
।
सकाशं यज्ञसेनस्य पाण्डवानां च भारत॥७॥
समुपादाय रत्नानि वसूनि विविधानि च
।
द्रौपद्याः पाण्डवानां च यज्ञसेनस्य चैव ह॥८॥
तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः
।
द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान्॥९॥
न्यायतो ज्येष्ठानुक्रमेण । संयुक्तमालिङ्गननमस्कारादिना मिलितम् ॥९॥
स चापि प्रतिजग्राह धर्मेण विदुरं ततः
।
चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम्॥१०॥
ददर्श पाण्डवांस्तत्र वासुदेवं च भारत
।
स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः॥११॥
तैश्चाप्यमितबुद्दिः स पूजितो हि यथाक्रमम्
।
वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनःपुनः॥१२॥
पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान्
।
प्रददौ चापि रत्नानि विविधानि वसूनि च॥१३॥
पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशांपते
।
द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः॥१४॥
प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः
।
द्रुपदं पाण्डुपुत्राणां सन्निधौ केशवस्य च॥१५॥
विदुर उवाच।
राजञ्च्छृणु सहामात्यः सपुत्रश्च वचो मम
।
धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः॥१६॥
अब्रवीत्कुशलं राजन्प्रीयमाणः पुनःपुनः
।
प्रीतिमांस्ते दृढं चापि संबन्धेन नराधिप॥१७॥
तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः
।
कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति॥१८॥
भारद्वाजो महाप्राज्ञो द्रोणः प्रियसखस्तव
।
समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति॥१९॥
धृतराष्ट्रश्च पाञ्चाल्य त्वया संबन्धमेयिवान्
।
कृतार्थं मन्यतेत्मानं तथा सर्वेऽपि कौरवाः॥२०॥
मन्यतेत्मानं ते आत्मानमिति छेदः ॥२०॥
न तथा राज्यसंप्राप्तिस्तेषां प्रीतिकरी मता
।
यथा संबन्धकं प्राप्य यज्ञसेन त्वया सह॥२१॥
एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान्
।
द्रष्टुं हि पाण्डुपुत्रांश्च त्वरन्ति कुरवो भृशम्॥२२॥
विप्रोषिता दीर्घकालमेते चापि नरर्षभाः
।
उत्सुका नगरं द्रष्टुं भविष्यन्ति तथा पृथा॥२३॥
कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः
।
द्रष्टुकामाः प्रतीक्ष्ते पुरं च विषयाश्च नः॥२४॥
स भवान्पाण्डुपुत्राणामाज्ञापयतु मा चिरम्
।
गमनं सहदाराणामेतदत्र मतं मम॥२५॥
निसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु
।
ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान्
।
आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया॥२६॥
निसृष्टेषु अनुज्ञातेषु ॥२६॥
॥ इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि षडधिकद्विशततमोऽध्यायः॥२०६॥
द्रुपद उवाच।
एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम्
।
ममापि परमो हर्षः संबन्धेस्मिन्कृते प्रभो॥१॥
सप्ताधिकद्विशततमोऽध्यायः एवमिति ॥१॥
गमनं चापि युक्तं स्याद्दृढमेषां महात्मनाम्
।
न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा॥२॥
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः
।
भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ॥३॥
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः
।
एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ॥४॥
युधिष्ठिर उवाच।
परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः
।
यथा वक्ष्यसि नः प्रीत्या तत्करिष्यामहे वयम्॥५॥
वैशंपायन उवाच।
ततोऽब्रवीद्वासुदेवो गमनं रोचते मम
।
यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित्॥६॥
द्रुपद उवाच।
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः
।
प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम॥७॥
यथैव हि महाभागाः कौन्तेया मम सांप्रतम्
।
तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः॥८॥
न तद्ध्यायति कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः
।
यथैषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः॥९॥
वैशंपायन उवाच।
ततस्ते समनुज्ञाता द्रुपदेन महात्मना
।
पाण्डवाश्चैव कृष्णश्च विदुरश्च महीपते॥१०॥
आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम्
।
सविहारं सुखं जग्मुर्नगरं नागसाह्वयम्॥११॥
सविहारं सलीलम् ॥११॥
श्रुत्वा चाप्यागतान्वीरान्धृतराष्ट्रो जनेश्वरः
।
प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान्॥१२॥
प्रतिग्रहाय प्रत्युद्गमनाय ॥१२॥
विकर्णं च महेष्वासं चित्रसेनं च भारत
।
द्रोणं च परमेष्वासं गौतमं कृपमेव च॥१३॥
तैस्ते परिवृता वीराः शोभमाना महाबलाः
।
नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा॥१४॥
कौतूहलेन नगरं पूर्यमाणमिवाभवत्
।
तत्र ते पुरुषव्याघ्राः शोकदुःखसमन्विताः॥१५॥
कौतूहलेन दर्शनेच्छया ॥१५॥
तत उच्चावचा वाचः पौरैः प्रियचिकीर्षुभिः
।
उदीरिता अशृण्वंस्ते पाण्डवा हृदयंगमाः॥१६॥
अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित्
।
यो नः स्वानिव दायादान्धर्मेण परिरक्षति॥१७॥
अद्य पाण्डुर्महाराजो वनादिव जनप्रियः
।
आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः॥१८॥
किं नु नाद्य कृतं तात सर्वेषां नः परं प्रियम्
।
यन्नः कुन्तीसुता वीरा नगरं पुनरागताः॥१९॥
किं नु नः प्रियं न कृतम् अपि तु सब कृतमेव । किं तु इति पाठे तु शब्दो वाक्यालङ्कारे पुनः शब्दार्थः । किं पुनर्न कृतम् अपि तु सर्वं कृतमेवेति पूर्ववदेवार्थः ॥१९॥
यदि दत्तं यदि हुतं विद्यते यदि नस्तपः
।
तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम्॥२०॥
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः
।
अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम्॥२१॥
कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण च
।
न्यविशन्ताथ वेश्मानि धृतराष्ट्रस्य शासनात्॥२२॥
नगरेण सह कुशलप्रश्नं कृत्वा । नगरेणापि कृतकुशलप्रश्नाः ॥२२॥
विश्रान्तास्ते महात्मानः कंचित्कालं महाबलाः
।
आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च ॥२३॥
धृतराष्ट्र उवाच।
भ्रातृभिः सह कौन्तेय निबोध गदता मम
।
पुनर्नो विग्रहो मा भूत्खाण्डवप्रस्थमाविश॥२४॥
न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम्
।
संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा॥२५॥
पार्थेन अर्जुनेन ॥२५॥
अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थणाविश
।
वैशंपायन उवाच।
प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च॥२६॥
प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः
।
अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थमाविशन्॥२७॥
घोरं वनमिति । भूमेरध सस्यशून्यो देशः पाण्डवेभ्यो दत्त इति ज्ञायते ॥२७॥
ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः
।
मण्डयाञ्चक्रिरे तद्वै पुरं स्वर्गादिवदच्युताः॥२८॥
तद्वैतद्धोरं वनं सत्स्वर्गवन्मण्डयांचक्रिरे ॥२८॥
ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः
।
नगरं मापयामासुर्द्वैपायनपुरोगमाः॥२९॥
तदेवाह । नगरं मापयामासुरित्यादिना ॥२९॥
सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम्
।
प्राकारेण च संपन्नं दिवमावृत्य तिष्ठता॥३०॥
पाण्डुराभ्रप्रकाशेन हिमरश्मिनिभेन च
।
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवतीमिव॥३१॥
भोगवतीमिवेति प्रथमार्थे द्वितीया । ईमिति निपातप्रश्लेषो वा । भोगवती यथेत्यपेक्षिते प्रमादपाठो वा ॥३१॥
द्विपक्षगरुडप्रख्यैर्द्वारैः सौधैश्च शोभितम्
।
गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः॥३२॥
विविधैरपि निर्विद्धैः शस्त्रोपेतैः सुसंवृतैः
।
शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः॥३३॥
निर्विद्धैः अच्छिद्रैः अभेद्यैर्वा । शक्तिभिर्हस्तक्षेप्याभिर्लोहमयीभिः ॥३३॥
तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम्
।
तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम्॥३४॥
तीक्ष्णाश्च तेऽङ्कुशाश्च शतघ्न्यश्च ताभिः । आग्नेयौषधबलेनोत्क्षिप्तेन दृषत्पिण्डेन या युगपच्छतं सहस्रं वा मनुष्यादीन् घ्नन्ति ताभिः शतघ्नीभिर्दुर्गारूडाभिः ॥३४॥
आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम्
।
सुविभक्तमहारथ्यं देवताबाधवर्जितम्॥३५॥
विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः
।
तत्त्रिविष्टपसंकाशमिन्द्रप्रस्थं व्यरोचत॥३६॥
मेघवृन्दमिवाकाशे विद्धं विद्युत्समावृतम्
।
तत्र रम्ये शिवे देशे कौरव्यस्य निवेशनम्॥३७॥
विद्धं मिथः श्लिष्टम् ॥३७॥
शुशुभे धनसंपूर्णं धनाध्यक्षक्षयोपमम्
।
तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः॥३८॥
क्षयोपमं गृहोपमम् ॥३८॥
निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा
।
वणिजश्चाययुस्तत्र नानादिग्भ्यो धनार्थिनः॥३९॥
सर्वशिल्पविदस्तत्र वासायाभ्यागमंस्तदा
।
उद्यानानि च रम्याणि नगरस्य समन्ततः॥४०॥
आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा
।
पुन्नागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा॥४१॥
शालतालतमालैश्च बकुलैश्च सकेतकैः
।
मनोहरैः सुपुष्पैश्च फलभारावनामितैः॥४२॥
प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपिष्पितैः
।
जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः॥४३॥
करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः
।
नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतैः॥४४॥
मत्तबर्हिणसंघुष्टकोकिलैश्च सदामदैः
।
गृहैरादर्शविमलैर्विविधैश्च लतागृहैः॥४५॥
मनोहरैश्चित्रगृहैस्तथाऽजगतिप्रवतैः
।
वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा॥४६॥
अजगीतपर्वतैः नृपलीलायात्रार्थैः कृत्रिमैः पर्वतैः । ‘अजरछागेहरिब्रह्म बिल्वस्मरहरेनृपे । गतिः स्त्रीमार्गदशयोर्ज्ञाने यात्राभ्युपाययोः’ इति च मेदिनी ॥४६॥
सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः
।
हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः॥४७॥
रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः
।
तडागानि च रम्याणि बृहन्ति सुबहूनि च॥४८॥
वनावृताः वनैः आरामैः आवृताः जलपूर्णा वा ॥४८॥
तेषां पुण्यजनोपेतं राष्ट्रमाविशतां महत्
।
पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत॥४९॥
पुण्यैर्जनैरुपेतम् ॥४९॥
तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते
।
पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः॥५०॥
राज्ञा धृतराष्ट्रेण धर्मस्य युधिष्ठिरस्य । प्रणयने प्रापणे ॥५०॥
पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समावृतम्
।
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा॥५१॥
तां निवेश्य ततो वीरो रामेण सह केशवः
।
ययौ द्वारवतीं राजन्पाण्डवानुमते तदा॥५२॥
॥ इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि पुरनिर्माणे सप्ताधिकद्विशततमोऽध्यायः॥२०७॥
जनमेजय उवाच।
एवं संप्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन
।
अत ऊर्ध्वं महात्मानः किमकुर्वत पाण्डवाः॥१॥
अष्टाधिकद्विशततमोऽध्यायः एवमिति ॥१॥
सर्व एव महासत्त्वा मम पूर्व्ज़्पितामहाः
।
द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत॥२॥
कथं च पञ्च कृष्णायामेकस्यां ते नराधिपाः
।
वर्तमाना महाभागा नाभिद्यन्त परस्परम्॥३॥
श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन
।
तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया सह॥४॥
वैशंपायन उवाच।
धृतराष्ट्राभ्यनुज्ञाता: कृष्णया सह पाण्डवाः
।
रेमिरे खाण्डवप्रस्थे प्राप्तराज्याः परन्तपाः॥५॥
प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः
।
पालयामास धर्मेण पृथिवीं भ्रातृभिः सह॥६॥
जितारयो महाप्रज्ञाः सत्यधर्मपरायणाः
।
मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः॥७॥
तत्रोषुः तत्र इन्द्रप्रस्थे ऊषुर्वासं कृतवन्तः ॥७॥
कुर्वाणाः पौरकार्याणि सर्वाणि भरतर्षभाः
।
आसांचक्रुर्महार्हेषु पार्थिवेष्वासनेषु च॥८॥
आसाञ्चक्रुः स्थिरासना बभूवुः । पार्थिवेषु राजसम्बन्धिषु आसेनष्वधिकारविशेषेषु ॥८॥
अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु
।
नारदस्त्वथ देवर्षिराजगाम यदृच्छया॥९॥
आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः
।
देवर्षेरुपविष्टस्य स्वयमर्ध्यं यथाविधि॥१०॥
प्रादाद्युधिष्ठिरो धीमान्राज्यं तस्मै न्यवेदयत्
।
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनास्तदा॥११॥
आशीर्भिर्वर्धयित्वा च तमुवाचास्यतामिति
।
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः॥१२॥
कथयामास कृष्णायै भगवन्तमुपस्थितम्
।
श्रुत्वैतद्द्रौपदी चापि शुचिर्भूत्वा समाहिता॥१३॥
जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह
।
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी॥१४॥
कृताञ्जलिः सुसंवीता स्थिताऽथ द्रुपदात्मजा
।
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः॥१५॥
सुसंवीता सम्यक्कृतावगुण्ठना ॥१५॥
आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः
।
गम्यतामिति होवाच भगवांस्तामनिन्दिताम्॥१६॥
गतायामथ कृष्णायां युधिष्ठिरपुरोगमान्
।
विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः॥१७॥
नारद उवाच।
पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी
।
यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम्॥१८॥
सुन्दोपसुन्दौ हि पुरा भ्रातरौ सहितावुभौ
।
आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ॥१९॥
एकराज्यावेकगृहावेकशय्यासनाशनौ
।
तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः॥२०॥
रक्ष्यतां सौहृदं तस्मादन्योन्यप्रीतिभावकम्
।
यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर॥२१॥
अन्योन्यप्रीतिभावकं परस्परप्रीत्या भावो वृद्धिर्यस्य तत्तथा ॥२१॥
युधिष्ठिर उवाच।
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने
।
उत्पन्नश्च कथं भेदः कथं चान्योऽन्यमघ्नताम्॥२२॥
अन्नतां हतवन्तौ ॥२२॥
अप्सरा देवकन्या वै कस्य चैषा तिलोत्तमा
।
यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम्॥२३॥
कस्य देवस्य कन्या ॥२३॥
एतत्सर्वं यथावृत्तं विस्तरेण तपोधन
।
श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि मे॥२४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि युधिष्ठिरनारदसंवादेऽष्टाधिकद्विशततमोऽध्यायः॥२०८॥
नारद उवाच।
श्रृणु मे विस्तरेणेममितिहासं पुरातनम्
।
भ्रातृभिः सहितः पार्थ यथा वृत्तं युधिष्ठिर॥१॥
नवाधिकद्विशततमोऽध्यायः शृण्विति ॥१॥
महासुरस्यान्ववाये हिरण्यकशिपोः पुरा
।
निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत्॥२॥
तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ
।
सुन्दोपसुन्दौ दैत्येन्द्रौ दारुणौ क्रूरमानसौ॥३॥
तावेकनिश्चयौ दैत्यावेककार्यार्थसंमतौ
।
निरन्तरमवर्तेतां समदुःखसुखावुभौ॥४॥
निरन्तरं मतिभेदं विना ॥४॥
विनाऽन्योन्यं न भुञ्जाते विनाऽन्योन्यं न जल्पतः
।
अन्योऽन्यस्य प्रियकरावन्योऽन्यस्य प्रियंवदौ॥५॥
एकशीलसमाचारौ द्विधैवैकोऽभवत्कृतः
।
तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ॥६॥
त्रैलोक्यविजयार्थाय समाधायैकनिश्चयम्
।
दीक्षां कृत्वा गतौ विन्ध्यं तावुग्रं तेपतुस्तपः॥७॥
तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः
।
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ॥८॥
मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः
।
आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ
।
ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ॥९॥
तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः
।
धूमं प्रमुमुचे विन्ध्यस्तद्भुतमिवाभवत्॥१०॥
ततो देवा भयं जग्मुरुग्रं दृष्ट्वा तयोस्तपः
।
तपोविघातार्थमथो देवा विघ्नानि चक्रिरे॥११॥
रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः
।
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ॥१२॥
अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः
।
भगिन्यो मातरो भार्यास्तयोश्चात्मजनस्तथा॥१३॥
प्रपात्यमाना विस्रस्ताः शूलहस्तेन रक्षसा
।
भ्रष्टाभरणकेशान्ता भ्रष्टाभरणवाससः॥१४॥
अभिभाष्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः
।
न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ॥१५॥
यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः
।
ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत॥१६॥
ततः पितामहः साक्षादभिगम्य महासुरौ
।
वरेण छन्दयामास क्वलोकहितः प्रभुः॥१७॥
ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ
।
दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा॥१८॥
ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा
।
आवयोस्तपसाऽनेन यदि प्रीतः पितामहः॥१९॥
मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ
।
उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः॥२०॥
ब्रह्मोवाच।
ऋतेऽमरत्वं युवयोः सर्वमुक्तं भविष्यति
।
अन्यद्वृणीतं मृत्योश्च विधानममरैः समम्॥२१॥
येनामतुल्यत्वं भवेत्तादृशं विधानं वृणीतं ज्ञापयतन् ॥२१॥
प्रभविष्याव इति यन्महदभ्युद्यतं तपः
।
युवयोर्हेतुनानेन नामरत्वं विधीयते॥२२॥
प्रभविष्यावः प्रभुत्वमैश्वर्यं करिष्यावः । यत्कामो यदारभेतत्समाप्तौ तदेव लभते नान्यदित्यर्थः ॥२२॥
त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः
।
हेतुनाऽनेन दैत्येन्द्रौ न वा कामं करोम्यहम्॥२३॥
सुन्दोपसुन्दावूचतुः
।
त्रिषु लोकेषु यद्भूतं किंचित्स्थावरजङ्गमम्
।
सर्वस्मान्नौ भयं न स्यादृतेऽन्योऽन्यं पितामह॥२४॥
पितामह उवाच।
यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम्
।
मृत्योर्विधानमेतच्च यथावद्वा भविष्यति॥२५॥
यथावद्वा यथावदेव ॥२५॥
नारद उवाच।
ततः पितामहो दत्त्वा वरमेतत्तदा तयोः
।
निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह॥२६॥
लब्ध्वा वराणि दैत्येन्द्रावथ तौ भ्रातरावुभौ
।
अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ॥२७॥
तौ तु लब्धवरौ दृष्ट्वा कृतकामौ मनस्विनौ
।
सर्वः सुहृञ्जनस्ताभ्यां प्रहर्षमुपजग्मिवान्॥२८॥
ततस्तौ तु जटा भित्त्वा मौलिनौ संबभूवतुः
।
महार्हाभरणोपेतौ विरजोम्बरधारिणौ॥२९॥
मौलिनौ किरीटवन्तौ । ’मौलिः किरीटे धम्मिल्ले’ इति मेदिनी । व्रीह्यादित्वादिनिः ॥२९॥
अकालकौमुदीं चैव चक्रतुः सार्वकालिकीम्
।
नित्यः प्रमुदितः सर्वस्तयोश्चैव सुहृञ्जनः॥३०॥
भक्ष्यतां भुज्यतां नित्यं दीयतां रम्यतामिति
।
गीयतां पीयतां चेति शभ्दश्चासीद्गृहे गृहे॥३१॥
तत्र तत्र महानादैरुत्कृष्टतलनादितैः
।
हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम्॥३२॥
तलनादितैः करतलध्वनिभिः वाद्यघोषैर्वा ॥३२॥
तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम्
।
समाः संक्रीडतां तेषामहरेकमिवाभवत्॥३३॥
समाः बहूनि वर्षाणि एकं दिनमिवाभूत् ॥३३॥
॥ इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि सुदोपसुन्दोपाख्याने नवाधिकद्विशततमोऽध्यायः॥२०९॥
नारद उवाच।
उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ
।
मन्त्रयित्वा ततः सेनां तावज्ञापयतां तदा॥१॥
दशाधिकद्विशततमोऽध्यायः उत्सवे इति ॥१॥
सुहृद्भिरप्यनुज्ञातौ दैत्यैर्वृद्धैश्च मन्त्रिभिः
।
कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा॥२॥
मघासु गमनार्थं निषिद्वेपि नक्षत्रे आसुरत्वाद्ययतुः ॥२॥
गदापिट्टशधारिण्या शूलमुद्गरहस्तया
।
प्रस्थितौ सह वर्मिण्या महत्या दैत्यसेनया॥३॥
मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः
।
चारणैः स्तूयमानौ तौ जग्मतुः परया मुदा॥४॥
विजयप्रतिसंहितैः विजयकथकैः ॥४॥
तावन्तरिक्षमुत्प्लुत्य दैत्यौ कामगमावुभौ
।
देवानामेव भवनं जग्मतुर्युद्दुर्मदौ॥५॥
तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः
।
हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः॥६॥
ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तदा
।
खेचराण्यपि भूतानि जघ्नतुस्तीव्रविक्रमौ॥७॥
अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महारथौ
।
समुद्रवासिनीः सर्वा म्लेच्छजातीर्विजिग्यतुः॥८॥
ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ
।
सैनिकांश्च समाहूय सुतीक्ष्णं वाक्यमूचतुः॥९॥
राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः
।
तेजो बलं च देवानां वर्धयन्ति श्रियं तथा॥१०॥
तेषामेवं प्रवृत्तानां सर्वेषामसुरद्विषाम्
।
संभूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः॥११॥
एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः
।
क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखौ॥१२॥
यज्ञैर्यजन्ति ये केचिद्याजयन्ति च ये द्विजाः
।
तान्सर्वान्प्रसभं हत्वा बलिनौ जग्मतुस्ततः॥१३॥
आश्रमेष्वग्निहोत्राणि मुनीनां भावितात्मनाम्
।
गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धं सैनिकास्तयोः॥१४॥
तपोधनैश्च ये क्रुद्धैः शापा उक्ता महात्मभिः
।
नाक्रामन्त तयोस्तेऽपि वरदाननिराकृताः॥१५॥
नाक्रामन्त न व्याप्तवन्तः । तयोः तौ । कर्मणि षष्ठी ॥१५॥
नाक्रामन्त यदा शापा बाणा मुक्ताः शिलास्विव
।
नियमान्संपरित्यज्य व्यद्रवन्त द्विजातयः॥१६॥
पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः
।
तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः॥१७॥
मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः
।
शून्यमासीज्जगत्सर्वं कालेनेव हतं तदा॥१८॥
ततो राजन्नदृश्यद्भिर्ऋषिभिश्च महासुरौ
।
उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ॥१९॥
अदृश्यद्भिरन्तर्हितैः। ऋषिभिर्हेतुभूतैस्ते विकुर्वाते विविधानि सिंहव्याघ्रादीनि रूपाणि जगृहाते तिरोभावाय । ततस्तद्रूपाज्ञानात्प्रकटान्मुनीन् गजादिरूपौ निजघ्नतुरित्यर्थः ॥१९॥
प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ
।
संलीनमपि दुर्गेषु निन्यतुर्यमसादनम्॥२०॥
तदेवाह प्रभिन्नेति प्रभिन्नौ मदेन क्लिन्नौ करटौ गण्डदेशौ ययोस्तौ । संलीनमपि मुनिम् ॥२०॥
सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ
।
तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः॥२१॥
निवृत्तयज्ञस्वाध्याया प्रनष्टनृपतिद्विजा
।
उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा॥२२॥
उत्सवो यात्राविवाहादिः॥२२॥
हाहाभूता भयार्ता च निवृत्तविपणापणा
।
निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता॥२३॥
निवृत्तविपणाः क्रयविक्रयादिव्यवहारशून्या आपणाः हट्टा यस्याम् ॥२३॥
निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा
।
अस्थिकङ्कालसंकीर्णा भूर्बभूवोग्रदर्शना॥२४॥
अस्थीनि हस्तपादादिसम्बन्धीनि । कङ्कालाः देहमध्यास्थीनि पार्श्वादिसहितानि ॥२४॥
निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम्
।
जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा॥२५॥
चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः
।
जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः॥२६॥
ग्रहाः कुजादयः ताराः सप्तर्ष्यादयः । नक्षत्राणि अश्विन्यादीनि ॥२६॥
एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा
।
निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः॥२७॥
॥ इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि सुन्दोपसुन्दोपाख्याने दशाधिकद्विशततमोऽध्यायः॥२१०॥
नारद उवाच।
ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः
।
जग्मुस्तदा परमार्तिं दृष्ट्वा तत्कदनं महत्॥१॥
तेभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः
।
पितामहस्य भवनं जगतः कृपया तदा॥२॥
ततो ददृशुरासीनं सहदेवैः पितामहम्
।
सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम्॥३॥
तत्र देवो महादेवस्तत्राग्निर्वायुना सह
।
चन्द्रादित्यौ च शक्रश्च पारमेष्ठ्यास्तथर्षयः॥४॥
वैखानसा वालखिल्या वानप्रस्था मरीचिपाः
।
अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः॥५॥
ऋषयः सर्व एवैते पितामहमुपागमन्
।
ततोऽभिगम्य ते दीनाः सर्व एव महर्षयः॥६॥
सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे
।
यथा हृतं यथा चैव कृतं येन क्रमेण च॥७॥
न्यवेदयंस्ततः सर्वमखिलेन पितामहे
।
ततो देवगणाः सर्वे ते चैव परमर्षयः॥८॥
तमेवार्थं पुरस्कृत्य पितामहमचोदयन्
।
ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा॥९॥
मुहूर्तमिव संचिन्त्य कर्तव्यस्य च निश्चयम्
।
तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत्॥१०॥
दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः
।
सृज्यतां प्रार्थनीयैका प्रमदेति महातपाः॥११॥
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च
।
निर्ममे योषितं दिव्यां चिन्तयित्वा पुनःपुनः॥१२॥
त्रिषु लोकेषु यत्किंचिद्भूतं स्थावरजङ्गमम्
।
समानयद्दर्शनीयं तत्तदत्र स विश्ववित्॥१३॥
कोटिशश्चैव रत्नानि तस्या गात्रे न्यवेशत्
।
तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम्॥१४॥
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा
।
त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत्॥१५॥
न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसंपदा
।
नियुक्ता यत्र वा दृष्टिर्न सज्जति निरीक्षताम्॥१६॥
एकादशाधिकद्विशततमोऽध्यायः तस्या गात्रे सूक्ष्ममपि तदङ्गं नास्ति । यच्छब्दस्तदर्थे । रूपसंपदाहेतुभूतया यत्र नियुक्ता निरीक्षतां दृष्टिर्न सज्जतीति सम्बन्धः ॥१६॥
सा विग्रहवतीव श्रीः कामरूपा वपुष्मती
।
जहार सर्वभूतानां चक्षूंषि च मनांसि च॥१७॥
तिलं तिलं समानीय रत्नानां यद्विनिर्मिता
।
तिलोत्तमेति तत्तस्या नाम चक्रे पितामहः॥१८॥
ब्रह्माणं सा नमस्कृत्य प्राञ्जलिर्वाक्यमब्रवीत्
।
किं कार्यं मयि भूतेश येनास्म्यद्येह निर्मिता॥१९॥
पितामह उवाच।
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे
।
प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम्॥२०॥
प्रलोभनम् अर्थात्सुन्दोसुन्दयोरेव ॥२०॥
त्वत्कृते दर्शादेव रूपसंपत्कृतेन वै
।
विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु॥२१॥
ताभ्यां तयोः ॥२१॥
नारद उवाच।
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम्
।
चकार मण्डलं तत्र विबुधानां प्रदक्षिणम्॥२२॥
मण्डलं समुदायम् ॥२२॥
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः
।
देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन्॥२३॥
भगवान्विष्णुः । प्राङ्मुखीभावादिना तेषामपि तत्र मोहो द्योतितः ॥२३॥
कुर्वन्त्या तु तदा तत्र मण्डलं तत्प्रदक्षिणम्
।
इन्द्रः स्थाणुश्च भगवान्धैर्येण तु प्रत्यवस्थितौ॥२४॥
द्रष्टुकामस्य चात्यर्थं गतया पार्श्वतस्तया
।
अन्यदञ्चितपद्माक्षं दक्षिणं निःसृतं मुखम्॥२५॥
द्रष्टुकामस्य स्थाणोः ॥२५॥
पृष्ठतः परिवर्तन्त्या पश्चिमं निःसृतं मुखम्
।
गतया चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम्॥२६॥
महेन्द्रस्यापि नेत्राणां पृष्ठतः पार्श्वतोग्रतः
।
रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत्॥२७॥
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा
।
तथा सहस्रनेत्रश्च बभूव बलसूदनः॥२८॥
तथा देवनिकायानां महर्षीणां च सर्वशः
।
मुखानि चाभ्यवर्तन्त येन याति तिलोत्तमा॥२९॥
देवनिकायानां देवसंघानां येन देशेन मार्गेण सा याति तथा मुखानि अभ्यवर्तन्त ॥२९॥
तस्या गात्रे निपतिता दृष्टिस्तेषां महात्मनाम्
।
सर्वेषामेव भूयिष्ठमृते देवं पितामहम्॥३०॥
गच्छन्त्या तु तया सर्वे देवाश्च परमर्षयः
।
कृतमित्येव तत्कार्यं मेनिरे रूपसंपदा॥३१॥
तिलोत्तमायां तस्यां तु गतायां लोकभावनः
।
सर्वान्विसर्जयामास देवानृषिगणांश्च तान्॥३२॥
॥ इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि सुन्दोपसुन्दोपाख्याने तिलोत्तमाप्रस्थापने एकादशाधिकद्विशततमोऽध्यायः॥२११॥
नारद उवाच।
जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ
।
कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः॥१॥
द्वादशाधिकद्विशततमोऽध्यायः जित्वेति । कृत्वा स्वाधीनम् अव्यग्रं निर्विशेषं यथा स्यात्तथा ॥१॥
देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम्
।
आदाय सर्वरत्नानि परां तुष्टिमुपागतौ॥२॥
यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन
।
निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव॥३॥
स्त्रीभिर्माल्यैश्च गन्धैश्च भक्ष्यभोज्यैः सुपुष्कलैः
।
पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः॥४॥
अन्तःपुरवनोद्याने पर्वतेषु वनेषु च
।
यथेप्सितेषु देशेषु विजह्रातेऽमराविव॥५॥
ततः कदाचिद्विन्ध्यस्य प्रस्थे समशिलातले
।
पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः॥६॥
प्रस्थे शिखरे ॥६॥
दिव्येषु सर्वकामेषु समानीतेषु तावुभौ
।
वरासनेषु संहृष्टौ सह स्त्रीभिर्निषीदतुः॥७॥
ततो वादित्रनृत्याभ्यामुपातिष्ठन्त तौ स्त्रियः
।
गीतैश्च स्तुतिसंयुक्तैः प्रीत्या समुपजग्मिरे॥८॥
ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती
।
वेषं सा क्षिप्तमाधाय रक्तेनैकेन वाससा॥९॥
वेषं शृङ्गारम् आधाय साक्षिप्तम् आक्षिप्तं आक्षेपो मनोवैकल्यं तेन सह यथा स्यात्तथा । सूक्ष्मैकवाससो धारितत्वाद्विविक्तावयवत्वेन जनं व्याकुलयन्तीत्यर्थः ॥९॥
नदीतीरेषु जातान्सा कर्णिकारान्प्रचिन्वती
।
शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ॥१०॥
तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ
।
दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः॥११॥
व्यथितौ कामेन ॥११॥
तावुत्थायासनं हित्वा जग्मतुर्यत्र सा स्थिता
।
उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम्॥१२॥
दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना
।
उपसुन्दोपि जग्राह वामे पाणौ तिलोत्तमाम्॥१३॥
वरप्रदानमत्तौ तावौरसेन बलेन च
।
धनरत्नमदाभ्यां च सुरापानमदेन च॥१४॥
सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ
।
मदकामसमाविष्टौ परस्परमथोचतुः॥१५॥
मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत
।
मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत॥१६॥
नैषा तव ममैषेति ततस्ता मन्युराविशत्
।
तस्या रूपेण संमत्तौ विगतस्नेहसौहृदौ॥१७॥
तस्या हेतोर्गदे भीमे संगृह्णीतामुभौ तदा
।
प्रगृह्य च गदे भीमे तस्यां तौ काममोहितौ॥१८॥
अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः
।
तौ गदाभिहतौ भीमौ पेततुर्धरणीतले॥१९॥
रुधिरेणावसिक्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ
।
ततस्ता विद्रुता नार्यः स च दैत्यगणस्तथा॥२०॥
पातालमगमत्सर्वो विषादभयकम्पितः
।
ततः पितामहस्तत्र सहदेवैर्महर्षिभिः॥२१॥
आजगाम विशुद्धात्मा पूजयंश्च तिलोत्तमाम्
।
वरेण च्छन्दयामास भगवान्प्रपितामहः॥२२॥
वरं दित्सुः स तत्रैनां प्रीतः प्राह पितामहः
।
आदित्यचरिताँल्लोकान्विचरिष्यसि भाविनि॥२३॥
तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन
।
एवं तस्यै वरं दत्वा सर्वलोकपितामहः॥२४॥
तेजसाऽर्कवत्परदृष्ट्यभिभावकत्वात्सुदृष्टां सम्यग्दृष्टां न करिष्यति कश्चित् ॥२४॥
इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः
।
नारद उवाच।
एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ॥२५॥
तिलोत्तमार्थं संक्रुद्धावन्योऽन्यमभिजघ्नतुः
।
तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमाः॥२६॥
यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते
।
तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ॥२७॥
वैशंपायन उवाच।
एवमुक्ता महात्मानो नारदेन महर्षिणा
।
समयं चक्रिरे राजंस्तेऽन्योऽन्यवशमागताः
।
समक्षं तस्य देवर्षेर्नारदस्यामितौजसः॥२८॥
द्रौपद्या नः सहासीनानन्योऽन्यं योऽभिदर्शयेत्
।
स नो द्वादशवर्षाणि ब्रह्मचारी वने वसेत्॥२९॥
कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः
।
नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः॥३०॥
एवं तैः समयः पूर्वं कृतो नारदचोदितैः
।
न चाभिद्यन्त ते सर्वे तदाऽन्योऽन्येन भारत॥३१॥
॥ इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि सुन्दोपसुन्दोपाख्याने द्वादशाधिकद्विशततमोऽध्यायः॥२१२॥