वैशंपायन उवाच।
एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः
।
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः॥१॥
त्रयोदशाधिकद्विशततमोऽध्यायः एवमिति ॥१॥
तेषां मनुजसिंहानां पञ्चानाममितौजसाम्
।
बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी॥२॥
ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः
।
बभूव परमप्रीता नागैरिव सरस्वती॥३॥
नागैर्गजैः । सरस्वती बहुसरोयुक्ता वनस्थली । सा हि गजैर्युक्ताऽन्यैश्छेत्तुमशक्या । तया च गजा बलिनः । एवं ते मिथो वृद्धिहेतव इत्यर्थः ॥३॥
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु
।
व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः॥४॥
अथ दीर्घेण कालेन ब्राह्मणस्य विशांपते
।
कस्यचित्तस्करा जह्रुः केचिद्गा नृपसत्तम॥५॥
ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः
।
आगम्य खाण्डवप्रस्थमुदक्रोशत्स पाण्डवान्॥६॥
ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः
।
प्रसह्य चास्मद्विषयादभ्यधावत पाण्डवाः॥७॥
ब्राह्मणस्य प्रशान्तस्य हविर्ध्वाङ्क्षैः प्रलुप्यते
।
शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्दति॥८॥
अरक्षितारं राजानं बलिषड्भागहारिणम्
।
तमाहुः सर्वलोकस्य समग्रं पापचारिणम्॥९॥
ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते
।
रोरूयमाणे च मयि क्रियतां हस्तधारणा॥१०॥
हस्तधारणा क्रियताम् अभयं दीयतामित्यर्थः ॥१०॥
वैशंपायन उवाच।
रोरूयमाणस्याभ्याशे भृशं विप्रस्य पाण्डवः
।
तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः॥११॥
श्रुत्वैव च महाबाहुर्मा भैरित्याह तं द्विजम्
।
आयुधानि च यत्रासन्पाण्डवानां महात्मनाम्॥१२॥
कृष्णया सह तत्रास्ते धर्मराजो युधिष्ठिरः
।
संप्रवेशाय चाशक्तो गमनाय च पाण्डवः॥१३॥
तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनःपुनः
।
आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः॥१४॥
ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः
।
अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चयः॥१५॥
उपक्षेपणजोऽधर्मः सुमहान्स्यान्महीपतेः
।
यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम्॥१६॥
उपक्षेपणजः उपेक्षाजन्यः अधर्म इति छेदः ॥१६॥
अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे
।
प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत्॥१७॥
अनास्तिक्यम् आस्तिक्याभावः । रक्षणे विषये । प्रतितिष्ठेत स्थिरः स्यात् । तेन च नोस्माकम् अधर्मश्च महान् भवेत् ॥१७॥
अनादृत्य तु राजानं गते मयि न संशयः
।
अजातशत्रोर्नृपतेर्मयि चैवानृतं भवेत्॥१८॥
राजानं सस्त्रीकम् आयुधागारस्थं प्रति मयि गते सति ॥१८॥
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम
।
सर्वमन्यत्परिहृतं धर्षणात्तु महीपतेः॥१९॥
अनुप्रवेशे एकस्मिन् स्त्रिया सह रममाणेऽन्यस्य तत्र गमने । अन्यत् वनवासादिकम् । परिहृतं तुच्छम् । धर्षणात्तु अघर्मो महान् इति सम्बन्धः ॥१९॥
अधर्मो वै महानस्तु वने वा मरणं मम
।
शरीरस्य विनाशेन धर्म एव विशिष्यते॥२०॥
वा शब्द इवार्थे । येनाधर्मेण मम वने मरणमिव स्यात्स एवास्तु यतोस्मात् ब्रह्मस्वरक्षणजो धर्मः श्रेष्ठः ॥२०॥
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः
।
अनुप्रविश्य राजानमापृच्छ्य च विशांपते॥२१॥
आपृच्छ्य धनुश्वादाय ॥२१॥
धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत
।
ब्राह्मणागम्यतां शीघ्रं यावत्परधनैर्षिणः॥२२॥
न दूरे ते गताः क्षुद्रास्तावद्गच्छावहे सह
।
यावन्निवर्तयाम्यद्य चौरहस्ताद्धनं तव॥२३॥
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी
।
शरैर्विध्वस्य तांश्चोरानवजित्य च तद्धनम्॥२४॥
ब्राह्मणं समुपाकृत्य यशः प्राप्य च पाण्डवः
।
ततस्तद्गेधनं पार्थो दत्त्वा तस्मै द्विजातये॥२५॥
समुपाकृत्य प्रसाद्य स्वपुरम् आजगामेति द्वितीयेनान्वयः ॥२५॥
आजगाम पुरं वीरः सव्यसाची धनञ्जयः
।
सोऽभिवाद्य गुरून्सर्वान्सर्वैश्चाप्यभिनन्दितः॥२६॥
धर्मराजमुवाचेदं व्रतमादिश मे प्रभो
।
समयः समतिक्रान्तो भवत्संदर्शने मया॥२७॥
वनवासं गमिष्यामि समयो ह्येष नः कृतः
।
इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम्॥२८॥
समयः अनुप्रवेष्टुर्द्वाशवार्षिको वनवासनियमः ॥२८॥
कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया
।
युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम्॥२९॥
सज्जमानया स्खलन्त्या ॥२९॥
उवाच दीनो राजा च धनञ्जयमिदं वचः
।
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ॥३०॥
अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम्
।
सर्वं तदनुजानामि व्यलीकं न च मे हृदि॥३१॥
अनुजानामि ब्राह्मणार्थत्वेन गुणत्वेनैवाङ्गीकरोमि । व्यलीकम् अप्रियम् ॥३१॥
गुरोरनुप्रवेशो हि नोपघातो यवीयसः
।
यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः॥३२॥
उपघातोऽनिष्टः । विधिलोपको धर्मघ्नः ॥३२॥
निवर्तस्व महाबाहो कुरुष्व वचनं मम
।
न हि ते धर्मलोपोऽस्ति न च ते धर्पणा कृता॥३३॥
न च ते त्वया ॥३३॥
अर्जुन उवाच।
न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम्
।
न सत्याद्विचलिष्यामि सत्येनायुधमालभे॥३४॥
वैशंपायन उवाच।
सोऽभ्यनुज्ञाय राजानं वनचर्याय दीक्षितः
।
वने द्वादश वर्षाणि वासायानुजगाम ह॥३५॥
॥ इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि अर्जुनतीर्थयात्रायां त्रयोदशाधिकद्विशततमोऽध्यायः॥२१३॥
वैशंपायन उवाच।
तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम्
।
अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः॥१॥
चतुर्दशाधिकद्विशततमोऽध्यायः तं प्रयान्तमिति ॥१॥
वेदवेदाङ्गविद्वासस्तथैवाध्यात्मचिन्तकाः
।
भैक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये॥२॥
भैक्षाः भिक्षाजीबिनो यतयो ब्रह्मचारिणश्च । चौक्षा इति पाठे चोक्षाः शुचयस्त एक चौक्षाः ‘ चोक्षो गीते शुचौ दक्षे तथा तीक्ष्णमनोज्ञयोः’ इति मेदिनी । चोक्षा इत्येव मुख्यः पाठः ॥२॥
कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः
।
दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः॥३॥
श्रमणाः ऊर्ध्वरेतसो यतयो ब्रह्मचारिणश्च ॥३॥
एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः
।
वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः॥४॥
रमणीयानि चित्राणि वनानि च सरांसि च
।
सरितः सागरांश्चैव देशानपि च भारत॥५॥
पुण्यान्यपि च तीर्थानि ददर्श भरतर्षभः
।
स गङ्गाद्वारमाश्रित्य निवेशमकरोत्प्रभुः॥६॥
तत्र तस्याद्भुतं कर्म शृणु त्वं जनमेजय
।
कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो हि सः॥७॥
निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत
।
अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः॥८॥
तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च
।
कृतपुष्पोपहारेषु तीरान्तरगतेषु च॥९॥
कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथि स्थितैः
।
शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः॥१०॥
तथा पर्याकुले तस्मिन्निवेशे पाण्डवर्षभः
।
अभिषेकाय कौन्तेयो गङ्गामवततार ह॥११॥
अग्निकार्यचिकीर्षयेति । पत्नीसान्निध्याभावेपि प्रवसता औपासनहोमः कर्तव्यः इति दर्शितम् ॥११॥
तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान्
।
उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया॥१२॥
अपकृष्टो महाबाहुर्नागराजस्य कन्यया
।
अन्तर्जले महाराज उलूप्या कामयानया॥१३॥
अपकृष्टोऽपनीतः । कामयानया तं पतिमिच्छन्त्या ॥१३॥
ददर्श पाण्डवस्तत्र पावकं सुसमाहितः
।
कौरव्यस्याथ नागस्य भवने परमार्चिते॥१४॥
तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः
।
अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः॥१५॥
अशङ्कमानेन आपद्धर्मनिश्चयवता विस्मयरहितेन ॥१५॥
अग्निकार्यं स कृत्वा तु नागराजसुतां तदा
।
प्रहसन्निव कौन्तेय इदं वचनमब्रवीत्॥१६॥
किमिदं साहसं भीरु कृतवत्यसि भामिनि
।
कश्चायं सुभगे देशः का च त्वं कस्य वात्मजा॥१७॥
उलूप्युवाच
।
ऐरावतकुले जातः कौरव्यो नाम पन्नगः
।
तस्यास्मि दुहिता राजन्नुलूपी नाम पन्नगी॥१८॥
साऽहं त्वामभिषेकार्थमवतीर्णं समुद्रगाम्
।
दृष्ट्वैव पुरुषव्याघ्र कन्दर्पेणाभिमूर्च्छिता॥१९॥
समुद्रगां गङ्गाम् ॥१९॥
तां मामनङ्गग्लपितां त्वत्कृते कुरुनन्दन
।
अनन्यां नन्दयस्वाद्य प्रदानेनात्मनोऽनघ॥२०॥
अनङ्गग्लपितां कामेन पीडिताम् ॥२०॥
अर्जुन उवाच।
ब्रह्मचर्यमिदं भद्रे मम द्वादशमासिकम्
।
धर्मराजेन चादिष्टं नाहमस्मि स्वयं वशः॥२१॥
तव चापि प्रियं कर्तुमिच्छामि जलचारिणि
।
अनृतं नोक्तपूर्वं च मया किंचन कर्हिचित्॥२२॥
कथं च नानृतं मे स्यात्तव चापि प्रियं भवेत्
।
न च पीड्येत मे धर्मस्तथा कुर्या भुजङ्गमे॥२३॥
उलूप्युवाच
।
जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम्
।
यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः॥२४॥
जानाम्यहं पाण्डवेयेत्यादिना स्वस्यातीन्द्रियं ज्ञानं दर्शयन्ती द्रौपदीनिमित्तमेव तव ब्रह्मचर्यं नान्यत्रेत्याह । अत एवाग्रेपि चित्राङ्गदासुभद्रयोः पाणिग्रहणं सङ्गच्छते ॥२४॥
परस्परं वर्तमानां द्रुपदस्यात्मजां प्रति
।
यो नोऽनुप्रविशेन्मोहात्स वै द्वादशवार्षिकम्॥२५॥
वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः
।
तदिदं द्रौपदीहेतोरन्योऽन्यस्य प्रवासनम्॥२६॥
कृतवांस्तत्र धर्मार्थमत्र धर्मो न दुष्यति
।
परित्राणं च कर्तव्यमार्तानां पृथुलोचन॥२७॥
कृत्वा मम परित्राणं तव धर्मो न लुप्यते
।
यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः॥२८॥
स च ते धर्म एव स्याद्दत्वा प्राणान्ममार्जुन
।
भक्तां च भज मां पार्थ सतामेतन्मतं प्रभो॥२९॥
न करिष्यसि चेदेवं मृतां मामुपधारय
।
प्राणदानान्महाबाहो चर धर्ममनुत्तमम्॥३०॥
शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम
।
दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः॥३१॥
साऽहं शऱणमभ्येमि रोरवीमि च दुःखिता
।
याचे त्वां चाभिकामाहं तस्मात्कुरु मम प्रियम्
।
स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि॥३२॥
वैशंपायन उवाच।
एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया
।
कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम्॥३३॥
स नागभवने रात्रिं तामुषित्वा प्रतापवान्
।
उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात्॥३४॥
आगतस्तु पुनस्तत्र गङ्गाद्वारं तया सह
।
परित्यज्य गता साध्वी उलूपी निजमन्दिरम्॥३५॥
परित्यज्य मुनिसमाजे तं विसृज्य ॥३५॥
दत्त्वा वरमजेयत्वं जले सर्वत्र भारत
।
साध्या जलचराः सर्वे भविष्यन्ति न संशयः॥३६॥
॥ इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि उलूपिसङ्गे चतुर्दशाधिकद्विशततमोऽध्यायः॥२१४॥
वैशंपायन उवाच।
कथयित्वा च तत्सर्वं ब्राह्मणेभ्यः स भारत
।
प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः॥१॥
पञ्चदशाधिकद्विशततमोऽध्यायः कथायित्वेति ॥१॥
अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम्
।
भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः॥२॥
भृगुतुङ्गे तुङ्गनाथ इति प्रसिद्धे ॥२॥
प्रददौ गोसहस्राणि सुबहूनि च भारत
।
निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः॥३॥
निवेशान् गृहाणि ॥३॥
हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः
।
दृष्टवान्पाण्डवश्रेष्ठः पुण्यान्यायतनानि च॥४॥
अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत
।
प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः॥५॥
आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः
।
नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति॥६॥
नन्दामपरनन्दां च कौशिकीं च यशस्विनीम्
।
महानदीं गयां चैव गङ्गामपि च भारत॥७॥
महानदीं गयास्थामेव नदीम् ॥७॥
एवं तीर्थानि सर्वाणि पश्यमानस्तथाश्रमान्
।
आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ च गाः॥८॥
अङ्गवङ्गकलिङ्गेषु यानि तीर्थानि कानिचित्
।
जगाम तानि सर्वाणि पुण्यान्यायतनानि च॥९॥
दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः
।
कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः
।
अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत॥१०॥
राष्ट्रद्वारेषु पर्वतसन्धिमार्गेषु । कलिङ्गस्थतीर्थानामनतिप्रशस्तत्वात् उपावर्तन्त परावृत्ताः ॥१०॥
स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः
।
सहायैरल्पकैः शूरः प्रययौ यत्र सागरः॥११॥
स कलिङ्गानतिक्रम्य देशानायतनानि च
।
हर्म्याणि रमणीयानि प्रेक्षणाणो ययौ प्रभुः॥१२॥
महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम्
।
समुद्रतीरेण शनैर्मणिपूरं जगाम ह॥१३॥
तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च
।
अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम्॥१४॥
मणपूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम्
।
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना॥१५॥
तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया
।
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहनीम्॥१६॥
चैत्रवाहिनीं चित्रवाहनस्य दुहितरम् ॥१६॥
अभिगम्य च राजानमवदत्स्वं प्रयोजनम्
।
देहि मे खल्विमां राजन्क्षत्रियाय महात्मने॥१७॥
तच्छ्रुत्वा त्वब्रवीद्राजा कस्य पुत्रोऽसि नाम किम्
।
उवाच तं पाण्डवोहं कुन्तीपुत्रो धनञ्जयः॥१८॥
तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः
।
राजा प्रभञ्जनो नाम कुलेऽस्मिन्संबभूव ह॥१९॥
अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम्
।
उग्रेण तपसा तेन देवदेवः पिनाकधृक्॥२०॥
ईश्वरस्तोषितः पार्थ देवदेवः उमापतिः
।
स तस्मै भघवान्प्रादादेकैकं प्रसवं कुले॥२१॥
एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा
।
तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे॥२२॥
एका च मम कन्येयं कुलस्योत्पादिनी भृशम्
।
पुत्रो ममायमिति मे भावना पुरुषर्षभ॥२३॥
पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ
।
तस्मादेकः सुतो योऽस्यां जायते भारत त्वया॥२४॥
हेतुविधिना पुत्रहेतौ । पुत्रिकायामपि पुत्रशब्दप्रयोगविधानात् । लाङ्गलं जीवनमितिवत् तथा च लिङ्गं पुमांस एव मे पुत्रा जायेरन्निति । तेन पुत्र्यपि पुत्रसंज्ञिता ॥२४॥
एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह
।
एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव॥२५॥
शुल्कं मौल्यम् । अद्यापि पुत्रिकापुत्रस्यैव राज्यमिति दक्षिणकेरलेष्वाचारो दृश्यते ॥२५॥
स तथेति प्रतिज्ञाय तां कन्यां प्रतिगृह्य च
।
उवास नगरे तस्मिंस्तिस्रः कुन्तीसुतः समाः॥२६॥
समाः वर्षाणि । हिमा इति पाठेपि हेमन्तत्रयेण स एवार्थे लक्ष्यः । पश्येम त्वा शतं हिम इति वेदे प्रयोगाच्च ॥२६॥
तस्यां सुते समुत्पन्ने परिष्वज्य वराङ्गनाम्
।
आमन्त्र्य नृपतिं तं तु जगाम परिवर्तितुम्॥२७॥
॥ इति आदिपर्वणि अर्जुनवनवासपर्वणि चित्राङ्गदासंगमे पञ्चदशाधिकद्विशततमोऽध्यायः॥२१५॥
वैशंपायन उवाच।
ततः समुद्रे तीर्थानि दक्षिमे भरतर्षभ
।
अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः॥१॥
षोडशाधिकद्विशततमोऽध्यायः तत इति ॥१॥
वर्जयन्ति स्म तीर्तानि तत्र पञ्च सम तापसाः
।
अवकीर्णानि यान्यासन्पुरस्तात्तु तपस्विभिः॥२॥
पञ्च तीर्थानि आगस्त्यसौभद्रपौलोमकारन्धमभारद्वाजीयानि पञ्च तीर्थानि ॥२॥
अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम्
।
कारन्धमं प्रसन्नं च महमेधफलं च तत्॥३॥
भारद्वाजस्य तीर्थं तु पापप्रशमनं महत्
।
एतानि पञ्च तीर्थानि ददर्श कुरुसत्तमः॥४॥
विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः
।
दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः॥५॥
धर्मबुद्धिभिः दुर्मरणजं दोषं तीर्थेनाप्यविनाश्यं पश्यद्भिः ॥५॥
तपस्विनस्ततोऽपृच्छत्प्राञ्जलिः कुरुनन्दनः
।
तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः॥६॥
तापसा ऊचुः।
ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान्
।
तत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन॥७॥
वैशंपायन उवाच।
तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः
।
जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः॥८॥
ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम्
।
विगाह्य सहसा शूरः स्नानं चक्रे परन्तपः॥९॥
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान्
।
जग्राह चरणे ग्राहः कुन्तीपुत्रं धनञ्जयम्॥१०॥
स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम्
।
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः॥११॥
उत्कृष्ट एव ग्राहस्तु सोऽर्जुनेन यशस्विना
।
बभूव नारी कल्याणी सर्वाभरणभूषइता॥१२॥
उकृष्ट एव उद्धृतमात्रः ॥१२॥
दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा
।
तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः॥१३॥
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत्
।
का वै त्वमसि कल्याणिकुतो वाऽसि जलेचरी॥१४॥
किमर्थं च महत्पापमिदं कृतवती पुरा
।
वर्गोवाच
।
अप्सराऽस्मि महाबाहो देवारण्यविहारिणी॥१५॥
इष्टा धनपतेर्नित्यं वर्गा नाम महाबल
।
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः॥१६॥
ताभिः सार्धं प्रयाताऽस्मि लोकपालनिवेशनम्
।
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम्॥१७॥
रूपवन्तमधीयानमेकमेकान्तचारिणम्
।
तस्यैव तपसा राजंस्तद्वयं तेजसा वृतम्॥१८॥
आदित्य इव तं देशं इत्वं सर्वं व्यकाशयत्
।
तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतमुत्तमम्॥१९॥
अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया
।
अहं च सौरभेयी च समीची बुद्बुदा लता॥२०॥
यौगपद्येन तं विप्रमभ्यगच्छाम भारत
।
गायन्त्योऽथ हसन्त्यश्च लोभयित्वा च तं द्विजम्॥२१॥
स च नास्मासु कृतवान्मनो वीर कथंचन
।
नाकम्पत महातेजाः स्थितस्तपसि निर्मले॥२२॥
सोशपत्कुपितोस्मांस्तु ब्राह्मणः क्षत्रियर्षभ
।
ग्राहभूता जले यूयं चरिष्यथ शतं समाः॥२३॥
॥ इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि तीर्थग्राहविमोचने षोडशाधिकद्विशततमोऽध्यायः॥२१६॥
वर्गोवाच।
ततो वयं प्रव्यथिताः सर्वा भारतसत्तम
।
अयाम शरणं विप्रं तं तपोधनमच्युतम्॥१॥
सप्तदशाधिकद्विशततमोऽध्यायः ततो वयमिति । अयाम गतवत्यः ॥१॥
रूपेण वयसा चैव कन्दर्पेण च दर्पिताः
।
अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज॥२॥
एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन
।
यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः॥३॥
प्रलोब्धुं प्रलोभयितुम् ॥३॥
अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचारिणः
।
तस्माद्धर्मेण वर्ध त्वं नास्मन्हिंसितुमर्हसि॥४॥
वर्ध वर्धस्व ॥४॥
सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते
।
सत्यो भवतु कल्याण एष वादो मनीषिणाम्॥५॥
मैत्रः सर्वभूतसुहृत् । एष वादः मैत्रो ब्राह्मण इत्युद्घोषः ॥५॥
शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम्
।
शरणं त्वां प्रपन्नाः स्मस्तस्मात्त्वं क्षन्तुमर्हसि॥६॥
वैशंपायन उवाच।
एवमुक्तः स धर्मात्मा ब्राह्मणः शुभकर्मकृत्
।
प्रसादं कृतवान्वीर रविसोमसमप्रभः॥७॥
ब्राह्मण उवाच।
शतं शतसहस्रं तु सर्वमक्षय्यवाचकम्
।
परिमाणं शतं त्वेतन्नेदमक्षय्यवाचकम्॥८॥
शतसहस्रादयः शब्दा अनन्तवाचकाः इह तु शतशब्दः शतमेव वक्तीत्यर्थः ॥८॥
यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले
।
उत्कर्षति जलात्तस्मात्स्थलं पुरुषसत्तमः॥९॥
यदा चेति । उत्कर्षणमेवावधिर्न शतसंख्येति भावः ॥९॥
तदा यूयं पुनः सर्वाः स्वं रूपं प्रतिपत्स्यथ
।
अनृतं नोक्तपूर्वं मे हसतापि कदाचन॥१०॥
तानि सर्वाणि तीर्थानि ततः प्रभृति चैव ह
।
नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः
।
पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम्॥११॥
वर्गोवाच
।
ततोऽभिवाद्य तं विप्रं कृत्वा चापि प्रदक्षिणम्
।
अचिन्तयामोऽपसृत्य तस्माद्देशात्सुदुःखिताः॥१२॥
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम्
।
समागच्छेम यो नस्तद्रूपमापादयेत्पुनः॥१३॥
ता वयं चिन्तयित्वैव मुहूर्तादिव भारत
।
दृष्टवत्यो महाभागं देवर्षिमुत नारदम्॥१४॥
संप्रहृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम्
।
अभिवाद्य च तं पार्थ स्थिताः स्म व्रीडिताननाः॥१५॥
स नोपृच्छद्दुःखमूलमुक्तवत्यो वयं च तम्
।
श्रुत्वा तत्र यथावृत्तमिदं वचनमब्रवीत्॥१६॥
दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै
।
पुण्यानि रमणीयानि तानि गच्छत मा चिरम्॥१७॥
तत्राशु पुरुषव्याघ्रः पाण्डवेयो धनञ्जयः
।
मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः॥१८॥
तस्य सर्वा वयं वीर श्रुत्वा वाक्यमितो गताः
।
तदिदं सत्यमेवाद्य मोक्षिताहं त्वयाऽनघ॥१९॥
एतास्तु मम ताः सख्यश्चतस्रोऽन्या जले श्रिताः
।
कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय॥२०॥
वैशंपायन उवाच।
ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशांपते
।
तस्माच्छापाससीनात्मा मोक्षयामास वीर्यवान्॥२१॥
उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम्
।
तास्तदाऽप्सरसो राजन्नदृश्यन्त यथा पुरा॥२२॥
तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः
।
चित्राङ्गदां पुनर्द्रष्टुं मणलूरं पुनर्ययौ॥२३॥
तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम्
।
तं दृष्ट्वा पाण्डवो राजंश्चित्रवाहनमब्रवीत्॥२४॥
चित्राङ्गदायाः शुल्कं त्वं गृहाण बभ्रुवाहनम्
।
अनेन च भविष्यामि ऋणान्मुक्तो नराधिप॥२५॥
चित्राङ्गदां पुनर्वाक्यमब्रवीत्पाण्डुनन्दनः
।
इह वै भव भद्रं ते वर्धेथा बभ्रुवाहनम्॥२६॥
इन्द्रपस्थनिवासं मे त्वं तत्रागत्य रंस्यसि
।
कुन्तीं युधिष्ठिरं भीमं भ्रातरौ मे कनीयसौ॥२७॥
आगत्य तत्र पश्येथा अन्यानपि च बान्धवान्
।
बान्धवैः सहिताः सर्वैर्नन्दसे त्वमनिन्दिते॥२८॥
धर्मे स्थितः सत्यधृतिः कौन्तेयोऽथ युधिष्ठिरः
।
जित्वा तु पृथिवीं सर्वां राजसूयं करिष्यति॥२९॥
तत्रागच्छन्ति राजानः पृथिव्यां नृपसंज्ञिताः
।
बहूनि रत्नान्यादाय आगमिष्यति ते पिता॥३०॥
एकसार्थं प्रयातासि चित्रवाहनसेवया
।
द्रक्ष्यामि राजसूये त्वां पुत्रं पालय मा शुचः॥३१॥
बभ्रुवाहननाम्ना तु मम प्राणो महीचरः
।
तस्माद्भरस्व पुत्रं वै पुरुषं वंशवर्धनम्॥३२॥
चित्रावाहनदायादं धर्मात्पौरवनन्दनम्
।
पाण्डवानां प्रियं पुत्रं तस्मात्पालय सर्वदा॥३३॥
विप्रयोगेण संतापं मा कृथास्त्वमनिन्दिते
।
चित्राङ्गदामेवमुक्त्वा गोकर्णमभितोगतम्॥३४॥
आद्यं पशुपतेः स्थानं दर्शनादेव मुक्तिदम्
।
यत्र पापोऽपि मनुजः प्राप्नोत्यभयदं पदम्॥३५॥
॥ इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वण्यर्जुनतीर्थयात्रायां सप्तदशाधिकद्विशततमोऽध्यायः॥२१७॥
वैशंपायन उवाच।
सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च
।
सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः॥१॥
अष्टादशाधिकद्विशततमोऽध्यायः स इति । अपरान्तेषु पश्चिमसमुद्रतीरेषु ॥१॥
समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च
।
तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान्॥२॥
प्रभासदेशं संप्राप्तं बीभत्सुमपराजितम्
।
सुपुण्यं रमणीयं च शुश्राव मधुसूदनः॥३॥
ततोऽभ्यगच्छत्कौन्तेयं सखायं तत्र माधवः
।
ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ॥४॥
तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने
।
आस्तां प्रियसखायौ तौ नरनारायणावृषी॥५॥
ततोर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत
।
किमर्थं पाण्डवैतानि तीर्थान्यनुचरस्युत॥६॥
ततोऽर्जनो यथावृत्तं सर्वमाख्यातवांस्तदा
।
श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः॥७॥
तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ
।
महीधरं रैवतकं वासायैवाभिजग्मतुः॥८॥
पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम्
।
पुरुषा मण्डयाञ्चक्रुरुपजह्रश्च भोजनम्॥९॥
प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः
।
सहैव वासुदेवेन दृष्टवान्नटनर्तकान्॥१०॥
अभ्यनुज्ञाय तान्सर्वानर्चयित्वा च पाण्डवः
।
सत्कृतं शयनं दिव्यमभ्यगच्छन्महामतिः॥११॥
ततस्तत्र महाबाहुः शयानः शयने शुभे
।
तीर्थानां पल्वलानां च पर्वतानां च दर्शनम्
।
आपगानां वनानां च कथयामास सात्वते॥१२॥
एवं स कथयन्नेव निद्रया जनमेजय
।
कौन्तेयोपि हृतस्तस्मिञ्शयने स्वर्गसन्निभे॥१३॥
मधुरेणैव गीतेन वीणाशब्देन चैव ह
।
प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा॥१४॥
स कृत्वाऽवश्यकार्याणि वार्ष्णेयेनाभिनन्दितः
।
रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान्॥१५॥
काञ्चनाङ्गेन स्वर्णमयध्वजादिमता ॥१५॥
अलङ्कृता द्वारका तु बभूव जनमेजय
।
कुन्तीपुत्रस्य पूजार्थमपि निष्कुटकेष्वपि॥१६॥
निष्कुटेषु गृहारामेष्वपि अलङ्कृता किमुत राजमार्गादिषु ॥१६॥
दिदृक्षन्तश्च कौन्तेयं द्वारकावासिनो जनाः
।
नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः॥१७॥
अवलोकेषु नारीणां सहस्राणि शतानि च
।
भोजवृष्ण्यन्धकानां च समवायो महानभूत्॥१८॥
स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः
।
अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः॥१९॥
कुमारैः सर्वशो वीरः सत्कारेणाभिचोदितः
।
समानवयसः सर्वानाश्लिष्य स पुनःपुनः॥२०॥
कृष्णस्य स्वभवने रम्ये रत्नभोज्यसमावृते
।
उपवास सह कृष्णेन बहुलास्तत्र शर्वरीः॥२१॥
॥ इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि अर्जुनद्वारकागमने अष्टादशाधिकद्विशततमोऽध्यायः॥२१८॥