अनुक्रमणिकापर्व - १पर्वसंग्रहपर्व - २पौष्यपर्व - ३पौलोमपर्व। - ४आस्तिकपर्व - ५अंशावतरणपर्व - ६सम्भवपर्व - ७जतुगृहपर्व । - ८हिडिम्बवधपर्व - ९बकवधपर्व - १०चैत्ररथपर्व । - ११स्वयंवरपर्व - १२वैवाहिकपर्व - १३विदुरागमनराज्यालंभपर्व - १४अर्जुनवनवासपर्व - १५सुभ्रद्राहरणपर्व। - १६हरणाहरणपर्व। - १७खाण्डवदाहपर्व - १८मयदर्शनपर्व - १९

अर्जुनवनवासपर्व

त्रयोदशाधिकद्विशततमोऽध्यायः

वैशंपायन उवाच। एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः ।
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः॥१॥

त्रयोदशाधिकद्विशततमोऽध्यायः एवमिति ॥१॥

तेषां मनुजसिंहानां पञ्चानाममितौजसाम् ।
बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी॥२॥

ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः ।
बभूव परमप्रीता नागैरिव सरस्वती॥३॥

नागैर्गजैः । सरस्वती बहुसरोयुक्ता वनस्थली । सा हि गजैर्युक्ताऽन्यैश्छेत्तुमशक्या । तया च गजा बलिनः । एवं ते मिथो वृद्धिहेतव इत्यर्थः ॥३॥

वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु ।
व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः॥४॥

अथ दीर्घेण कालेन ब्राह्मणस्य विशांपते ।
कस्यचित्तस्करा जह्रुः केचिद्गा नृपसत्तम॥५॥

ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः ।
आगम्य खाण्डवप्रस्थमुदक्रोशत्स पाण्डवान्॥६॥

ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः ।
प्रसह्य चास्मद्विषयादभ्यधावत पाण्डवाः॥७॥

ब्राह्मणस्य प्रशान्तस्य हविर्ध्वाङ्क्षैः प्रलुप्यते ।
शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्दति॥८॥

अरक्षितारं राजानं बलिषड्भागहारिणम् ।
तमाहुः सर्वलोकस्य समग्रं पापचारिणम्॥९॥

ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते ।
रोरूयमाणे च मयि क्रियतां हस्तधारणा॥१०॥

हस्तधारणा क्रियताम् अभयं दीयतामित्यर्थः ॥१०॥

वैशंपायन उवाच। रोरूयमाणस्याभ्याशे भृशं विप्रस्य पाण्डवः ।
तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः॥११॥

श्रुत्वैव च महाबाहुर्मा भैरित्याह तं द्विजम् ।
आयुधानि च यत्रासन्पाण्डवानां महात्मनाम्॥१२॥

कृष्णया सह तत्रास्ते धर्मराजो युधिष्ठिरः ।
संप्रवेशाय चाशक्तो गमनाय च पाण्डवः॥१३॥

तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनःपुनः ।
आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः॥१४॥

ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः ।
अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चयः॥१५॥

उपक्षेपणजोऽधर्मः सुमहान्स्यान्महीपतेः ।
यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम्॥१६॥

उपक्षेपणजः उपेक्षाजन्यः अधर्म इति छेदः ॥१६॥

अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे ।
प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत्॥१७॥

अनास्तिक्यम् आस्तिक्याभावः । रक्षणे विषये । प्रतितिष्ठेत स्थिरः स्यात् । तेन च नोस्माकम् अधर्मश्च महान् भवेत् ॥१७॥

अनादृत्य तु राजानं गते मयि न संशयः ।
अजातशत्रोर्नृपतेर्मयि चैवानृतं भवेत्॥१८॥

राजानं सस्त्रीकम् आयुधागारस्थं प्रति मयि गते सति ॥१८॥

अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम ।
सर्वमन्यत्परिहृतं धर्षणात्तु महीपतेः॥१९॥

अनुप्रवेशे एकस्मिन् स्त्रिया सह रममाणेऽन्यस्य तत्र गमने । अन्यत् वनवासादिकम् । परिहृतं तुच्छम् । धर्षणात्तु अघर्मो महान् इति सम्बन्धः ॥१९॥

अधर्मो वै महानस्तु वने वा मरणं मम ।
शरीरस्य विनाशेन धर्म एव विशिष्यते॥२०॥

वा शब्द इवार्थे । येनाधर्मेण मम वने मरणमिव स्यात्स एवास्तु यतोस्मात् ब्रह्मस्वरक्षणजो धर्मः श्रेष्ठः ॥२०॥

एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः ।
अनुप्रविश्य राजानमापृच्छ्य च विशांपते॥२१॥

आपृच्छ्य धनुश्वादाय ॥२१॥

धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत ।
ब्राह्मणागम्यतां शीघ्रं यावत्परधनैर्षिणः॥२२॥

न दूरे ते गताः क्षुद्रास्तावद्गच्छावहे सह ।
यावन्निवर्तयाम्यद्य चौरहस्ताद्धनं तव॥२३॥

सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी ।
शरैर्विध्वस्य तांश्चोरानवजित्य च तद्धनम्॥२४॥

ब्राह्मणं समुपाकृत्य यशः प्राप्य च पाण्डवः ।
ततस्तद्गेधनं पार्थो दत्त्वा तस्मै द्विजातये॥२५॥

समुपाकृत्य प्रसाद्य स्वपुरम् आजगामेति द्वितीयेनान्वयः ॥२५॥

आजगाम पुरं वीरः सव्यसाची धनञ्जयः ।
सोऽभिवाद्य गुरून्सर्वान्सर्वैश्चाप्यभिनन्दितः॥२६॥

धर्मराजमुवाचेदं व्रतमादिश मे प्रभो ।
समयः समतिक्रान्तो भवत्संदर्शने मया॥२७॥

वनवासं गमिष्यामि समयो ह्येष नः कृतः ।
इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम्॥२८॥

समयः अनुप्रवेष्टुर्द्वाशवार्षिको वनवासनियमः ॥२८॥

कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया ।
युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम्॥२९॥

सज्जमानया स्खलन्त्या ॥२९॥

उवाच दीनो राजा च धनञ्जयमिदं वचः ।
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ॥३०॥

अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् ।
सर्वं तदनुजानामि व्यलीकं न च मे हृदि॥३१॥

अनुजानामि ब्राह्मणार्थत्वेन गुणत्वेनैवाङ्गीकरोमि । व्यलीकम् अप्रियम् ॥३१॥

गुरोरनुप्रवेशो हि नोपघातो यवीयसः ।
यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः॥३२॥

उपघातोऽनिष्टः । विधिलोपको धर्मघ्नः ॥३२॥

निवर्तस्व महाबाहो कुरुष्व वचनं मम ।
न हि ते धर्मलोपोऽस्ति न च ते धर्पणा कृता॥३३॥

न च ते त्वया ॥३३॥

अर्जुन उवाच। न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् ।
न सत्याद्विचलिष्यामि सत्येनायुधमालभे॥३४॥

वैशंपायन उवाच। सोऽभ्यनुज्ञाय राजानं वनचर्याय दीक्षितः ।
वने द्वादश वर्षाणि वासायानुजगाम ह॥३५॥

॥ इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि अर्जुनतीर्थयात्रायां त्रयोदशाधिकद्विशततमोऽध्यायः॥२१३॥
चतुर्दशाधिकद्विशततमोऽध्यायः

वैशंपायन उवाच। तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् ।
अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः॥१॥

चतुर्दशाधिकद्विशततमोऽध्यायः तं प्रयान्तमिति ॥१॥

वेदवेदाङ्गविद्वासस्तथैवाध्यात्मचिन्तकाः ।
भैक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये॥२॥

भैक्षाः भिक्षाजीबिनो यतयो ब्रह्मचारिणश्च । चौक्षा इति पाठे चोक्षाः शुचयस्त एक चौक्षाः ‘ चोक्षो गीते शुचौ दक्षे तथा तीक्ष्णमनोज्ञयोः’ इति मेदिनी । चोक्षा इत्येव मुख्यः पाठः ॥२॥

कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः ।
दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः॥३॥

श्रमणाः ऊर्ध्वरेतसो यतयो ब्रह्मचारिणश्च ॥३॥

एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः ।
वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः॥४॥

रमणीयानि चित्राणि वनानि च सरांसि च ।
सरितः सागरांश्चैव देशानपि च भारत॥५॥

पुण्यान्यपि च तीर्थानि ददर्श भरतर्षभः ।
स गङ्गाद्वारमाश्रित्य निवेशमकरोत्प्रभुः॥६॥

तत्र तस्याद्भुतं कर्म शृणु त्वं जनमेजय ।
कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो हि सः॥७॥

निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत ।
अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः॥८॥

तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च ।
कृतपुष्पोपहारेषु तीरान्तरगतेषु च॥९॥

कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथि स्थितैः ।
शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः॥१०॥

तथा पर्याकुले तस्मिन्निवेशे पाण्डवर्षभः ।
अभिषेकाय कौन्तेयो गङ्गामवततार ह॥११॥

अग्निकार्यचिकीर्षयेति । पत्नीसान्निध्याभावेपि प्रवसता औपासनहोमः कर्तव्यः इति दर्शितम् ॥११॥

तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् ।
उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया॥१२॥

अपकृष्टो महाबाहुर्नागराजस्य कन्यया ।
अन्तर्जले महाराज उलूप्या कामयानया॥१३॥

अपकृष्टोऽपनीतः । कामयानया तं पतिमिच्छन्त्या ॥१३॥

ददर्श पाण्डवस्तत्र पावकं सुसमाहितः ।
कौरव्यस्याथ नागस्य भवने परमार्चिते॥१४॥

तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः ।
अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः॥१५॥

अशङ्कमानेन आपद्धर्मनिश्चयवता विस्मयरहितेन ॥१५॥

अग्निकार्यं स कृत्वा तु नागराजसुतां तदा ।
प्रहसन्निव कौन्तेय इदं वचनमब्रवीत्॥१६॥

किमिदं साहसं भीरु कृतवत्यसि भामिनि ।
कश्चायं सुभगे देशः का च त्वं कस्य वात्मजा॥१७॥

उलूप्युवाच ।
ऐरावतकुले जातः कौरव्यो नाम पन्नगः ।
तस्यास्मि दुहिता राजन्नुलूपी नाम पन्नगी॥१८॥

साऽहं त्वामभिषेकार्थमवतीर्णं समुद्रगाम् ।
दृष्ट्वैव पुरुषव्याघ्र कन्दर्पेणाभिमूर्च्छिता॥१९॥

समुद्रगां गङ्गाम् ॥१९॥

तां मामनङ्गग्लपितां त्वत्कृते कुरुनन्दन ।
अनन्यां नन्दयस्वाद्य प्रदानेनात्मनोऽनघ॥२०॥

अनङ्गग्लपितां कामेन पीडिताम् ॥२०॥

अर्जुन उवाच। ब्रह्मचर्यमिदं भद्रे मम द्वादशमासिकम् ।
धर्मराजेन चादिष्टं नाहमस्मि स्वयं वशः॥२१॥

तव चापि प्रियं कर्तुमिच्छामि जलचारिणि ।
अनृतं नोक्तपूर्वं च मया किंचन कर्हिचित्॥२२॥

कथं च नानृतं मे स्यात्तव चापि प्रियं भवेत् ।
न च पीड्येत मे धर्मस्तथा कुर्या भुजङ्गमे॥२३॥

उलूप्युवाच ।
जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् ।
यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः॥२४॥

जानाम्यहं पाण्डवेयेत्यादिना स्वस्यातीन्द्रियं ज्ञानं दर्शयन्ती द्रौपदीनिमित्तमेव तव ब्रह्मचर्यं नान्यत्रेत्याह । अत एवाग्रेपि चित्राङ्गदासुभद्रयोः पाणिग्रहणं सङ्गच्छते ॥२४॥

परस्परं वर्तमानां द्रुपदस्यात्मजां प्रति ।
यो नोऽनुप्रविशेन्मोहात्स वै द्वादशवार्षिकम्॥२५॥

वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः ।
तदिदं द्रौपदीहेतोरन्योऽन्यस्य प्रवासनम्॥२६॥

कृतवांस्तत्र धर्मार्थमत्र धर्मो न दुष्यति ।
परित्राणं च कर्तव्यमार्तानां पृथुलोचन॥२७॥

कृत्वा मम परित्राणं तव धर्मो न लुप्यते ।
यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः॥२८॥

स च ते धर्म एव स्याद्दत्वा प्राणान्ममार्जुन ।
भक्तां च भज मां पार्थ सतामेतन्मतं प्रभो॥२९॥

न करिष्यसि चेदेवं मृतां मामुपधारय ।
प्राणदानान्महाबाहो चर धर्ममनुत्तमम्॥३०॥

शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम ।
दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः॥३१॥

साऽहं शऱणमभ्येमि रोरवीमि च दुःखिता ।
याचे त्वां चाभिकामाहं तस्मात्कुरु मम प्रियम् ।
स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि॥३२॥

वैशंपायन उवाच। एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया ।
कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम्॥३३॥

स नागभवने रात्रिं तामुषित्वा प्रतापवान् ।
उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात्॥३४॥

आगतस्तु पुनस्तत्र गङ्गाद्वारं तया सह ।
परित्यज्य गता साध्वी उलूपी निजमन्दिरम्॥३५॥

परित्यज्य मुनिसमाजे तं विसृज्य ॥३५॥

दत्त्वा वरमजेयत्वं जले सर्वत्र भारत ।
साध्या जलचराः सर्वे भविष्यन्ति न संशयः॥३६॥

॥ इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि उलूपिसङ्गे चतुर्दशाधिकद्विशततमोऽध्यायः॥२१४॥
पञ्चदशाधिकद्विशततमोऽध्यायः

वैशंपायन उवाच। कथयित्वा च तत्सर्वं ब्राह्मणेभ्यः स भारत ।
प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः॥१॥

पञ्चदशाधिकद्विशततमोऽध्यायः कथायित्वेति ॥१॥

अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् ।
भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः॥२॥

भृगुतुङ्गे तुङ्गनाथ इति प्रसिद्धे ॥२॥

प्रददौ गोसहस्राणि सुबहूनि च भारत ।
निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः॥३॥

निवेशान् गृहाणि ॥३॥

हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः ।
दृष्टवान्पाण्डवश्रेष्ठः पुण्यान्यायतनानि च॥४॥

अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत ।
प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः॥५॥

आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः ।
नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति॥६॥

नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् ।
महानदीं गयां चैव गङ्गामपि च भारत॥७॥

महानदीं गयास्थामेव नदीम् ॥७॥

एवं तीर्थानि सर्वाणि पश्यमानस्तथाश्रमान् ।
आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ च गाः॥८॥

अङ्गवङ्गकलिङ्गेषु यानि तीर्थानि कानिचित् ।
जगाम तानि सर्वाणि पुण्यान्यायतनानि च॥९॥

दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः ।
कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः ।
अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत॥१०॥

राष्ट्रद्वारेषु पर्वतसन्धिमार्गेषु । कलिङ्गस्थतीर्थानामनतिप्रशस्तत्वात् उपावर्तन्त परावृत्ताः ॥१०॥

स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः ।
सहायैरल्पकैः शूरः प्रययौ यत्र सागरः॥११॥

स कलिङ्गानतिक्रम्य देशानायतनानि च ।
हर्म्याणि रमणीयानि प्रेक्षणाणो ययौ प्रभुः॥१२॥

महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् ।
समुद्रतीरेण शनैर्मणिपूरं जगाम ह॥१३॥

तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च ।
अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम्॥१४॥

मणपूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् ।
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना॥१५॥

तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया ।
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहनीम्॥१६॥

चैत्रवाहिनीं चित्रवाहनस्य दुहितरम् ॥१६॥

अभिगम्य च राजानमवदत्स्वं प्रयोजनम् ।
देहि मे खल्विमां राजन्क्षत्रियाय महात्मने॥१७॥

तच्छ्रुत्वा त्वब्रवीद्राजा कस्य पुत्रोऽसि नाम किम् ।
उवाच तं पाण्डवोहं कुन्तीपुत्रो धनञ्जयः॥१८॥

तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ।
राजा प्रभञ्जनो नाम कुलेऽस्मिन्संबभूव ह॥१९॥

अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ।
उग्रेण तपसा तेन देवदेवः पिनाकधृक्॥२०॥

ईश्वरस्तोषितः पार्थ देवदेवः उमापतिः ।
स तस्मै भघवान्प्रादादेकैकं प्रसवं कुले॥२१॥

एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा ।
तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे॥२२॥

एका च मम कन्येयं कुलस्योत्पादिनी भृशम् ।
पुत्रो ममायमिति मे भावना पुरुषर्षभ॥२३॥

पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ ।
तस्मादेकः सुतो योऽस्यां जायते भारत त्वया॥२४॥

हेतुविधिना पुत्रहेतौ । पुत्रिकायामपि पुत्रशब्दप्रयोगविधानात् । लाङ्गलं जीवनमितिवत् तथा च लिङ्गं पुमांस एव मे पुत्रा जायेरन्निति । तेन पुत्र्यपि पुत्रसंज्ञिता ॥२४॥

एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह ।
एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव॥२५॥

शुल्कं मौल्यम् । अद्यापि पुत्रिकापुत्रस्यैव राज्यमिति दक्षिणकेरलेष्वाचारो दृश्यते ॥२५॥

स तथेति प्रतिज्ञाय तां कन्यां प्रतिगृह्य च ।
उवास नगरे तस्मिंस्तिस्रः कुन्तीसुतः समाः॥२६॥

समाः वर्षाणि । हिमा इति पाठेपि हेमन्तत्रयेण स एवार्थे लक्ष्यः । पश्येम त्वा शतं हिम इति वेदे प्रयोगाच्च ॥२६॥

तस्यां सुते समुत्पन्ने परिष्वज्य वराङ्गनाम् ।
आमन्त्र्य नृपतिं तं तु जगाम परिवर्तितुम्॥२७॥

॥ इति आदिपर्वणि अर्जुनवनवासपर्वणि चित्राङ्गदासंगमे पञ्चदशाधिकद्विशततमोऽध्यायः॥२१५॥
षोडशाधिकद्विशततमोऽध्यायः

वैशंपायन उवाच। ततः समुद्रे तीर्थानि दक्षिमे भरतर्षभ ।
अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः॥१॥

षोडशाधिकद्विशततमोऽध्यायः तत इति ॥१॥

वर्जयन्ति स्म तीर्तानि तत्र पञ्च सम तापसाः ।
अवकीर्णानि यान्यासन्पुरस्तात्तु तपस्विभिः॥२॥

पञ्च तीर्थानि आगस्त्यसौभद्रपौलोमकारन्धमभारद्वाजीयानि पञ्च तीर्थानि ॥२॥

अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् ।
कारन्धमं प्रसन्नं च महमेधफलं च तत्॥३॥

भारद्वाजस्य तीर्थं तु पापप्रशमनं महत् ।
एतानि पञ्च तीर्थानि ददर्श कुरुसत्तमः॥४॥

विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः ।
दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः॥५॥

धर्मबुद्धिभिः दुर्मरणजं दोषं तीर्थेनाप्यविनाश्यं पश्यद्भिः ॥५॥

तपस्विनस्ततोऽपृच्छत्प्राञ्जलिः कुरुनन्दनः ।
तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः॥६॥

तापसा ऊचुः। ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् ।
तत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन॥७॥

वैशंपायन उवाच। तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः ।
जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः॥८॥

ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् ।
विगाह्य सहसा शूरः स्नानं चक्रे परन्तपः॥९॥

अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् ।
जग्राह चरणे ग्राहः कुन्तीपुत्रं धनञ्जयम्॥१०॥

स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् ।
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः॥११॥

उत्कृष्ट एव ग्राहस्तु सोऽर्जुनेन यशस्विना ।
बभूव नारी कल्याणी सर्वाभरणभूषइता॥१२॥

उकृष्ट एव उद्धृतमात्रः ॥१२॥

दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा ।
तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः॥१३॥

तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ।
का वै त्वमसि कल्याणिकुतो वाऽसि जलेचरी॥१४॥

किमर्थं च महत्पापमिदं कृतवती पुरा ।
वर्गोवाच ।
अप्सराऽस्मि महाबाहो देवारण्यविहारिणी॥१५॥

इष्टा धनपतेर्नित्यं वर्गा नाम महाबल ।
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः॥१६॥

ताभिः सार्धं प्रयाताऽस्मि लोकपालनिवेशनम् ।
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम्॥१७॥

रूपवन्तमधीयानमेकमेकान्तचारिणम् ।
तस्यैव तपसा राजंस्तद्वयं तेजसा वृतम्॥१८॥

आदित्य इव तं देशं इत्वं सर्वं व्यकाशयत् ।
तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतमुत्तमम्॥१९॥

अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया ।
अहं च सौरभेयी च समीची बुद्बुदा लता॥२०॥

यौगपद्येन तं विप्रमभ्यगच्छाम भारत ।
गायन्त्योऽथ हसन्त्यश्च लोभयित्वा च तं द्विजम्॥२१॥

स च नास्मासु कृतवान्मनो वीर कथंचन ।
नाकम्पत महातेजाः स्थितस्तपसि निर्मले॥२२॥

सोशपत्कुपितोस्मांस्तु ब्राह्मणः क्षत्रियर्षभ ।
ग्राहभूता जले यूयं चरिष्यथ शतं समाः॥२३॥

॥ इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि तीर्थग्राहविमोचने षोडशाधिकद्विशततमोऽध्यायः॥२१६॥
सप्तदशाधिकद्विशततमोऽध्यायः

वर्गोवाच। ततो वयं प्रव्यथिताः सर्वा भारतसत्तम ।
अयाम शरणं विप्रं तं तपोधनमच्युतम्॥१॥

सप्तदशाधिकद्विशततमोऽध्यायः ततो वयमिति । अयाम गतवत्यः ॥१॥

रूपेण वयसा चैव कन्दर्पेण च दर्पिताः ।
अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज॥२॥

एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन ।
यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः॥३॥

प्रलोब्धुं प्रलोभयितुम् ॥३॥

अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचारिणः ।
तस्माद्धर्मेण वर्ध त्वं नास्मन्हिंसितुमर्हसि॥४॥

वर्ध वर्धस्व ॥४॥

सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते ।
सत्यो भवतु कल्याण एष वादो मनीषिणाम्॥५॥

मैत्रः सर्वभूतसुहृत् । एष वादः मैत्रो ब्राह्मण इत्युद्घोषः ॥५॥

शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् ।
शरणं त्वां प्रपन्नाः स्मस्तस्मात्त्वं क्षन्तुमर्हसि॥६॥

वैशंपायन उवाच। एवमुक्तः स धर्मात्मा ब्राह्मणः शुभकर्मकृत् ।
प्रसादं कृतवान्वीर रविसोमसमप्रभः॥७॥

ब्राह्मण उवाच। शतं शतसहस्रं तु सर्वमक्षय्यवाचकम् ।
परिमाणं शतं त्वेतन्नेदमक्षय्यवाचकम्॥८॥

शतसहस्रादयः शब्दा अनन्तवाचकाः इह तु शतशब्दः शतमेव वक्तीत्यर्थः ॥८॥

यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले ।
उत्कर्षति जलात्तस्मात्स्थलं पुरुषसत्तमः॥९॥

यदा चेति । उत्कर्षणमेवावधिर्न शतसंख्येति भावः ॥९॥

तदा यूयं पुनः सर्वाः स्वं रूपं प्रतिपत्स्यथ ।
अनृतं नोक्तपूर्वं मे हसतापि कदाचन॥१०॥

तानि सर्वाणि तीर्थानि ततः प्रभृति चैव ह ।
नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः ।
पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम्॥११॥

वर्गोवाच ।
ततोऽभिवाद्य तं विप्रं कृत्वा चापि प्रदक्षिणम् ।
अचिन्तयामोऽपसृत्य तस्माद्देशात्सुदुःखिताः॥१२॥

क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् ।
समागच्छेम यो नस्तद्रूपमापादयेत्पुनः॥१३॥

ता वयं चिन्तयित्वैव मुहूर्तादिव भारत ।
दृष्टवत्यो महाभागं देवर्षिमुत नारदम्॥१४॥

संप्रहृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् ।
अभिवाद्य च तं पार्थ स्थिताः स्म व्रीडिताननाः॥१५॥

स नोपृच्छद्दुःखमूलमुक्तवत्यो वयं च तम् ।
श्रुत्वा तत्र यथावृत्तमिदं वचनमब्रवीत्॥१६॥

दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै ।
पुण्यानि रमणीयानि तानि गच्छत मा चिरम्॥१७॥

तत्राशु पुरुषव्याघ्रः पाण्डवेयो धनञ्जयः ।
मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः॥१८॥

तस्य सर्वा वयं वीर श्रुत्वा वाक्यमितो गताः ।
तदिदं सत्यमेवाद्य मोक्षिताहं त्वयाऽनघ॥१९॥

एतास्तु मम ताः सख्यश्चतस्रोऽन्या जले श्रिताः ।
कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय॥२०॥

वैशंपायन उवाच। ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशांपते ।
तस्माच्छापाससीनात्मा मोक्षयामास वीर्यवान्॥२१॥

उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् ।
तास्तदाऽप्सरसो राजन्नदृश्यन्त यथा पुरा॥२२॥

तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः ।
चित्राङ्गदां पुनर्द्रष्टुं मणलूरं पुनर्ययौ॥२३॥

तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम् ।
तं दृष्ट्वा पाण्डवो राजंश्चित्रवाहनमब्रवीत्॥२४॥

चित्राङ्गदायाः शुल्कं त्वं गृहाण बभ्रुवाहनम् ।
अनेन च भविष्यामि ऋणान्मुक्तो नराधिप॥२५॥

चित्राङ्गदां पुनर्वाक्यमब्रवीत्पाण्डुनन्दनः ।
इह वै भव भद्रं ते वर्धेथा बभ्रुवाहनम्॥२६॥

इन्द्रपस्थनिवासं मे त्वं तत्रागत्य रंस्यसि ।
कुन्तीं युधिष्ठिरं भीमं भ्रातरौ मे कनीयसौ॥२७॥

आगत्य तत्र पश्येथा अन्यानपि च बान्धवान् ।
बान्धवैः सहिताः सर्वैर्नन्दसे त्वमनिन्दिते॥२८॥

धर्मे स्थितः सत्यधृतिः कौन्तेयोऽथ युधिष्ठिरः ।
जित्वा तु पृथिवीं सर्वां राजसूयं करिष्यति॥२९॥

तत्रागच्छन्ति राजानः पृथिव्यां नृपसंज्ञिताः ।
बहूनि रत्नान्यादाय आगमिष्यति ते पिता॥३०॥

एकसार्थं प्रयातासि चित्रवाहनसेवया ।
द्रक्ष्यामि राजसूये त्वां पुत्रं पालय मा शुचः॥३१॥

बभ्रुवाहननाम्ना तु मम प्राणो महीचरः ।
तस्माद्भरस्व पुत्रं वै पुरुषं वंशवर्धनम्॥३२॥

चित्रावाहनदायादं धर्मात्पौरवनन्दनम् ।
पाण्डवानां प्रियं पुत्रं तस्मात्पालय सर्वदा॥३३॥

विप्रयोगेण संतापं मा कृथास्त्वमनिन्दिते ।
चित्राङ्गदामेवमुक्त्वा गोकर्णमभितोगतम्॥३४॥

आद्यं पशुपतेः स्थानं दर्शनादेव मुक्तिदम् ।
यत्र पापोऽपि मनुजः प्राप्नोत्यभयदं पदम्॥३५॥

॥ इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वण्यर्जुनतीर्थयात्रायां सप्तदशाधिकद्विशततमोऽध्यायः॥२१७॥
अष्टादशाधिकद्विशततमोऽध्यायः

वैशंपायन उवाच। सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च ।
सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः॥१॥

अष्टादशाधिकद्विशततमोऽध्यायः स इति । अपरान्तेषु पश्चिमसमुद्रतीरेषु ॥१॥

समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च ।
तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान्॥२॥

प्रभासदेशं संप्राप्तं बीभत्सुमपराजितम् ।
सुपुण्यं रमणीयं च शुश्राव मधुसूदनः॥३॥

ततोऽभ्यगच्छत्कौन्तेयं सखायं तत्र माधवः ।
ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ॥४॥

तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने ।
आस्तां प्रियसखायौ तौ नरनारायणावृषी॥५॥

ततोर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत ।
किमर्थं पाण्डवैतानि तीर्थान्यनुचरस्युत॥६॥

ततोऽर्जनो यथावृत्तं सर्वमाख्यातवांस्तदा ।
श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः॥७॥

तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ ।
महीधरं रैवतकं वासायैवाभिजग्मतुः॥८॥

पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् ।
पुरुषा मण्डयाञ्चक्रुरुपजह्रश्च भोजनम्॥९॥

प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः ।
सहैव वासुदेवेन दृष्टवान्नटनर्तकान्॥१०॥

अभ्यनुज्ञाय तान्सर्वानर्चयित्वा च पाण्डवः ।
सत्कृतं शयनं दिव्यमभ्यगच्छन्महामतिः॥११॥

ततस्तत्र महाबाहुः शयानः शयने शुभे ।
तीर्थानां पल्वलानां च पर्वतानां च दर्शनम् ।
आपगानां वनानां च कथयामास सात्वते॥१२॥

एवं स कथयन्नेव निद्रया जनमेजय ।
कौन्तेयोपि हृतस्तस्मिञ्शयने स्वर्गसन्निभे॥१३॥

मधुरेणैव गीतेन वीणाशब्देन चैव ह ।
प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा॥१४॥

स कृत्वाऽवश्यकार्याणि वार्ष्णेयेनाभिनन्दितः ।
रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान्॥१५॥

काञ्चनाङ्गेन स्वर्णमयध्वजादिमता ॥१५॥

अलङ्कृता द्वारका तु बभूव जनमेजय ।
कुन्तीपुत्रस्य पूजार्थमपि निष्कुटकेष्वपि॥१६॥

निष्कुटेषु गृहारामेष्वपि अलङ्कृता किमुत राजमार्गादिषु ॥१६॥

दिदृक्षन्तश्च कौन्तेयं द्वारकावासिनो जनाः ।
नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः॥१७॥

अवलोकेषु नारीणां सहस्राणि शतानि च ।
भोजवृष्ण्यन्धकानां च समवायो महानभूत्॥१८॥

स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः ।
अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः॥१९॥

कुमारैः सर्वशो वीरः सत्कारेणाभिचोदितः ।
समानवयसः सर्वानाश्लिष्य स पुनःपुनः॥२०॥

कृष्णस्य स्वभवने रम्ये रत्नभोज्यसमावृते ।
उपवास सह कृष्णेन बहुलास्तत्र शर्वरीः॥२१॥

॥ इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि अर्जुनद्वारकागमने अष्टादशाधिकद्विशततमोऽध्यायः॥२१८॥
समाप्तम् अर्जुनवनवासपर्व।

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in