अनुक्रमणिकापर्व - १पर्वसंग्रहपर्व - २पौष्यपर्व - ३पौलोमपर्व। - ४आस्तिकपर्व - ५अंशावतरणपर्व - ६सम्भवपर्व - ७जतुगृहपर्व । - ८हिडिम्बवधपर्व - ९बकवधपर्व - १०चैत्ररथपर्व । - ११स्वयंवरपर्व - १२वैवाहिकपर्व - १३विदुरागमनराज्यालंभपर्व - १४अर्जुनवनवासपर्व - १५सुभ्रद्राहरणपर्व। - १६हरणाहरणपर्व। - १७खाण्डवदाहपर्व - १८मयदर्शनपर्व - १९

सुभ्रद्राहरणपर्व।

नवदशाधिकद्विशततमोऽध्यायः

वैशंपायन उवाच। ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ ।
वृष्ण्यन्धकानामभवदुत्सवो नृपसत्तम॥१॥

ऊनविंशत्यधिकद्विशततमोऽध्यायः तत इति ॥१॥

तत्र दानं ददुर्वीरा ब्राह्मणेभ्यः सहस्रशः ।
भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा॥२॥

गिरेः महे पर्वतदैवत्ये उत्सवे ॥२॥

प्रसादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः ।
स देशः शोभितो राजन्कल्पवृक्षैश्च सर्वशः॥३॥

वादित्राणि च तत्रान्ये वादकाः समवादयन् ।
ननृतुर्नर्तकाश्चैव जगुर्गेयानि गायनाः॥४॥

अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसाम् ।
यानैर्हाटकचित्रैश्च चञ्चूर्यन्ते स्म सर्वशः॥५॥

चञ्चूर्यन्ते देदीप्यन्ते ॥५॥

पौराश्च पादचारेण यानैरुच्चावचैस्तथा ।
सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः॥६॥

ततो हलधरः क्षीबो रेवतीसहितः प्रभुः ।
अनुगम्यमानो गन्धर्वैरचरत्रत्र भारत॥७॥

क्षीबो मधुमत्तः ॥७॥

तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् ।
अनुगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान्॥८॥

रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ ।
दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव॥९॥

अक्रूरः सारणश्चैव गदो बभ्रुर्विदूरथः ।
निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च॥१०॥

सत्यकः सात्यकिश्चैव भङ्गकारमहारवौ ।
हार्दिक्य उद्धवश्चैव ये चान्ये नानुकीर्तिताः॥११॥

एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् ।
तमुत्सवं रैवतके शोभयाञ्चक्रिरे तदा॥१२॥

चित्रकौतूहले तस्मिन्वर्तमाने महाद्भुते ।
वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः॥१३॥

तत्र चङ्क्रममाणौ तौ वसुदेवसुतां शुभाम् ।
अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा॥१४॥

दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत ।
तं तदैकाग्रमनसं कृष्णः पार्थमलक्षयत्॥१५॥

अब्रवीत्पुरुषव्याघ्रः प्रहसन्निव भारत ।
वनेचरस्य किमिदं कामेनालोड्यते मनः॥१६॥

ममैषा भगिनी पार्थ सारणस्य सहोदरी ।
सुभद्रा नाम भद्रं ते पितुर्मे दयिता सुता ।
यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम्॥१७॥

अर्जुन उवाच। दुहिता वसुदेवस्य वासुदेवस्य च स्वसा ।
रूपेण चैषा संपन्ना कमिवैषा न मोहयेत्॥१८॥

कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् ।
यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव॥१९॥

प्राप्तौ तु क उपायः स्यात्तं व्रवीहि जनार्दन ।
आस्थास्यामि तदा सर्वं यदि शक्यं नरेण तत्॥२०॥

वक्ष्यामि पितरं स्वयमिति कृष्णेन दापयिष्यामीति सूचितेपि प्राप्तौ तु क उपाय इति पृच्छन्नर्जुनः प्रतिग्रहं नानुमन्यत इति गम्यते ॥२०॥

वासुदेव उवाच। स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ ।
स च संशयितः पार्थ स्वभावस्यानिमित्ततः॥२१॥

स्वभावस्यानिमित्ततः स्त्रीचित्तस्य शौर्यपाण्डित्याद्यनपेक्षत्वात् । स्त्रियो ह्यपरीक्षितेपि पुंसि आपाततो रमणीये सद्यः सकामा भवन्तीति भावः ॥२१॥

प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते ।
विवाहहेतुः शूराणामिति धर्मविदो विदुः॥२२॥

स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम ।
हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम्॥२३॥

ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् ।
शीघ्रगान्पुरुषानन्प्रेषयामासतुस्तदा॥२४॥

धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै ।
श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः॥२५॥

अनुज्ञातवान् ॥२५॥
॥ इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि युधिष्ठिरानुज्ञायामूनविंशत्यधिकद्विशततमोऽध्यायः॥२१९॥
विंशत्यधिकशततमोऽध्ययः

वैशंपायन उवाच। ततः संवदिते तस्मिन्ननुज्ञातो धनंजयः ।
गतां रैवतके कन्यां विदित्वा जनमेजय॥१॥

विंशत्यधिकद्विशततमोऽध्यायः तत इति । तस्मिन् विवाहसन्देशे ॥१॥

वासुदेवाभ्यनुज्ञातः कथतित्वेतिकृत्यताम् ।
कृष्णस्य मतमादाय प्रययौ भरतर्षभः॥२॥

इतिकृत्यताम् अग्रेतनीम् इतिकर्तव्यताम् ॥२॥

रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि ।
शैब्यसुग्रीवयुक्तेन किङ्किणीजालमालिना॥३॥

सर्वशस्त्रोपपन्नेन जीमूतरवनादिना ।
ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना॥४॥

संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् ।
मृगयाव्यपदेशेन प्रययौ पुरुषर्षभः॥५॥

सुभद्रा त्वथ शैलेन्द्रमभ्यच्यैव हि रैवतम् ।
दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च॥६॥

प्रदक्षिणं गिरेः कृत्वा प्रयतौ द्वारकां प्रति ।
तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् ।
सुभद्रां चारिसर्वाङ्गीं कामबाणप्रपीडितः॥७॥

ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् ।
रथेना काञ्चनाङ्गेन प्रययौ स्वपुरं प्रति॥८॥

ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिका जनाः ।
विक्रोशन्तोऽद्रवन्सर्वे द्वारकामभितः पुरीम्॥९॥

ते समासाद्य सहिताः सुधर्मामभितः सभाम् ।
सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम्॥१०॥

तेषां श्रुत्वा सभापालो भेरीं सान्नाहिकीं ततः ।
समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम्॥११॥

भेरीं दुदुभिम् । सांनाहिकीं संनद्धाः सर्वे भवतेति सूचयन्तीम् ॥११॥

क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा ।
अन्नपानमपास्याथ समापेतुः समन्ततः॥१२॥

तत्र जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च ।
मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च॥१३॥

भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः ।
सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः॥१४॥

तेषां समुपविष्टानां देवानामिव सन्नये ।
आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः॥१५॥

सन्नये समुदाये ॥१५॥

तच्छ्रुत्वा वृष्णिवीरास्ते मदसंरक्तलोचनाः ।
अमृष्यमाणाः पार्थस्य समुत्पेतुरहङ्कृताः॥१६॥

योजयध्वं रथानाशु प्रासानाहरतेति च ।
धनूंषि च महार्हाणि कवचानि बृहन्ति च॥१७॥

सूतानुच्चुक्रुशुः केचिद्रथान्योजयतेति च ।
स्वयं च तुरगान्केचिदयुञ्जन्हेमभूषितान्॥१८॥

रथेष्वानीयमानेषु कवचेषु ध्वजेषु च ।
अभिक्रन्दे नृवीराणां तदासीत्तुमुलं महत्॥१९॥

वनमाली ततः क्षीबः कैलासशिखरोपमः ।
नीलवासा मदोत्सिक्त इदं वचनमब्रवीत्॥२०॥

किमिदं कुरुथाप्रज्ञास्तूष्णींभूते जनार्दने ।
अस्य भावमविज्ञाय संक्रुद्धा मोघगर्जिताः॥२१॥

एष तावदभिप्रायमाख्यातु स्वं महामतिः ।
यदस्य रुचिरं कर्तुं तत्कुरुध्वमतन्द्रिताः॥२२॥

ततस्ते तद्वचः श्रुत्वा ग्राह्य रूपं हलायुधात् ।
तूष्णींभूतास्ततः सर्वे साधु साध्विति चाब्रुवन्॥२३॥

श्रुत्वा पार्थस्य विक्रमं श्रुत्वा ग्राह्य गृहीत्वा रूपम् उपदेशात्मकमालोकम् ॥२३॥

समं वचो निशम्यैव बलदेवस्य धीमतः ।
पुनरेव सभामध्ये सर्वे ते समुपाविशन्॥२४॥

ततोऽब्रवीद्वासुदेवं वचो रामः परन्तपः ।
किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन॥२५॥

सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत ।
न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः॥२६॥

को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति ।
मन्यमानः कुले जातमात्मानं पुरुषः क्वचित्॥२७॥

इच्छन्नेव हि संबन्धं कृतं पूर्वं च मानयन् ।
को हि नाम भवेनार्थी साहसेन समाचरेत्॥२८॥

भवेन ऐश्वर्येण ॥२८॥

सोऽवमन्य तथाऽस्माकमनादृत्य च केशवम् ।
प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः॥२९॥

कथं हि शिरसो मध्ये कृतं तेन पदं मम ।
मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः॥३०॥

अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम् ।
न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः॥३१॥

तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् ।
अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा॥३२॥

अन्वपद्यन्त अनुमोदितवन्तः ॥३२॥
इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि बलदेवक्रोधे विंशत्यधिकद्विशततमोऽध्यायः॥२२०॥
समाप्तं च सुभद्राहरणपर्व ॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in