वैशंपायन उवाच।
ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ
।
वृष्ण्यन्धकानामभवदुत्सवो नृपसत्तम॥१॥
तत्र दानं ददुर्वीरा ब्राह्मणेभ्यः सहस्रशः
।
भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा॥२॥
प्रसादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः
।
स देशः शोभितो राजन्कल्पवृक्षैश्च सर्वशः॥३॥
वादित्राणि च तत्रान्ये वादकाः समवादयन्
।
ननृतुर्नर्तकाश्चैव जगुर्गेयानि गायनाः॥४॥
अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसाम्
।
यानैर्हाटकचित्रैश्च चञ्चूर्यन्ते स्म सर्वशः॥५॥
पौराश्च पादचारेण यानैरुच्चावचैस्तथा
।
सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः॥६॥
ततो हलधरः क्षीबो रेवतीसहितः प्रभुः
।
अनुगम्यमानो गन्धर्वैरचरत्रत्र भारत॥७॥
तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान्
।
अनुगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान्॥८॥
रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ
।
दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव॥९॥
अक्रूरः सारणश्चैव गदो बभ्रुर्विदूरथः
।
निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च॥१०॥
सत्यकः सात्यकिश्चैव भङ्गकारमहारवौ
।
हार्दिक्य उद्धवश्चैव ये चान्ये नानुकीर्तिताः॥११॥
एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक्
।
तमुत्सवं रैवतके शोभयाञ्चक्रिरे तदा॥१२॥
चित्रकौतूहले तस्मिन्वर्तमाने महाद्भुते
।
वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः॥१३॥
तत्र चङ्क्रममाणौ तौ वसुदेवसुतां शुभाम्
।
अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा॥१४॥
दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत
।
तं तदैकाग्रमनसं कृष्णः पार्थमलक्षयत्॥१५॥
अब्रवीत्पुरुषव्याघ्रः प्रहसन्निव भारत
।
वनेचरस्य किमिदं कामेनालोड्यते मनः॥१६॥
ममैषा भगिनी पार्थ सारणस्य सहोदरी
।
सुभद्रा नाम भद्रं ते पितुर्मे दयिता सुता
।
यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम्॥१७॥
अर्जुन उवाच।
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा
।
रूपेण चैषा संपन्ना कमिवैषा न मोहयेत्॥१८॥
कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम्
।
यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव॥१९॥
प्राप्तौ तु क उपायः स्यात्तं व्रवीहि जनार्दन
।
आस्थास्यामि तदा सर्वं यदि शक्यं नरेण तत्॥२०॥
वासुदेव उवाच।
स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ
।
स च संशयितः पार्थ स्वभावस्यानिमित्ततः॥२१॥
प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते
।
विवाहहेतुः शूराणामिति धर्मविदो विदुः॥२२॥
स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम
।
हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम्॥२३॥
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम्
।
शीघ्रगान्पुरुषानन्प्रेषयामासतुस्तदा॥२४॥
धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै
।
श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः॥२५॥