अनुक्रमणिकापर्व - १पर्वसंग्रहपर्व - २पौष्यपर्व - ३पौलोमपर्व। - ४आस्तिकपर्व - ५अंशावतरणपर्व - ६सम्भवपर्व - ७जतुगृहपर्व । - ८हिडिम्बवधपर्व - ९बकवधपर्व - १०चैत्ररथपर्व । - ११स्वयंवरपर्व - १२वैवाहिकपर्व - १३विदुरागमनराज्यालंभपर्व - १४अर्जुनवनवासपर्व - १५सुभ्रद्राहरणपर्व। - १६हरणाहरणपर्व। - १७खाण्डवदाहपर्व - १८मयदर्शनपर्व - १९

हरणाहरणपर्व।

एकविंशत्यधिकद्विशततमोऽध्यायः

वैशंपायन उवाच। उक्तवन्तो यथा वीर्यमसकृत्सर्ववृष्णयः ।
ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंयुतम्॥१॥

एकविंशत्यधिकद्विशततमोऽध्यायः उक्तवन्त इति ॥१॥

नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् ।
संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयं न संशयः॥२॥

अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा ।
स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः॥३॥

अनाधृष्यं कन्यालाभानियमादनादेयम् ॥३॥

प्रदानमपि कन्यायाः पशुवत्को नु मन्यते ।
विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि॥४॥

प्रदानं प्रतिग्रहो नीचं कर्मेत्यर्थः ॥४॥

एतान्दोषांस्तु कौन्तेयो दृष्टवानिति मे मतिः ।
अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः॥५॥

उचितश्चैव संबन्धः सुभद्रां च शयस्विनीम् ।
एष चापीदृशः पार्थः प्रसह्य हृतवानतः॥६॥

भरतस्यान्वये जातं शान्तनोश्च यशस्विनः ।
कुन्तिभोजात्माजापुत्रं का बुभूषेत नार्जुनम्॥७॥

बुभूषेत प्राप्तुमिच्छेत् ॥७॥

न तं पश्यामि यः पार्थं विजयेत रणे बलात् ।
वर्जयित्वा विरूपाक्षं भगनेत्रहरं हरम्॥८॥

अद्य निष्कौरवामित्युक्तं तत्राह । न चेति । अहं तु भक्त्यैव तन जितोस्मि परिशेषात्तु हर एव तत्प्रतियोद्धा नान्य इति भावः ॥८॥

अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ।
स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः॥९॥

योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ।
तमभिद्रुत्य सान्त्वेन परमेण धनञ्जयम्॥१०॥

न्यवर्तयत संहृष्टा ममैषा परमा मतिः ।
यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरं॥११॥

प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः ।
तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप॥१२॥

निवृत्तश्चार्जुस्तत्र विवाहं कृतवान्प्रभुः ।
उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः॥१३॥

संवत्सरपराः संवत्सरादधिकाः ॥१३॥

विहृत्य च यथाकामं पूजितो वुष्णिनन्दनैः ।
पुष्करे तु ततः शोषं कालं वर्तितवान्प्रभुः॥१४॥

शेषं द्वादशवर्षपूरणम् ॥१४॥

पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमागतः ।
अभिगम्य च राजानं नियमेन समाहितः॥१५॥

अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान्‌ ।
तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम्‌॥१६॥

तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा ।
सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते ॥१७॥

श्लथायते दृढतरे बन्धान्तरेऽसति ॥१७॥

तथा बहुविधं कृष्णां विलपन्तीं धनंजयः ।
सान्त्वयामास भूयश्च क्षमयामास चासकृत्‌॥१८॥

सुभद्रां त्वरमाणश्च रक्तकौशेयवासिनीम्‌ ।
पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ॥१९॥

गोपालिकावपुःबल्लवीवेषम् । गोपालकृष्णसम्बन्धात् । पट्टमहिषीवेषेण द्रौपद्याः कोपो माभूदिति ॥१९॥

साऽधिकं तेन रूपेण शोभसाना यशास्विनी ।
भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ॥२०॥

ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी ।
तां कुन्ती चारुसर्वाङ्गीमुपाजिघ्रत मूर्धनि ॥२१॥

भद्रा सुभद्रा ॥२१॥

प्रीत्या परमया युक्ता आशीर्भिर्युञ्जतातुलाम् ।
ततोऽभिगम्य त्वरिता पूणेन्दुसदृशानना ॥२२॥

युञ्जत अयुङ्क्त ॥२२॥

ववन्दे द्रौपदीं भद्रा प्रेष्याऽहामिति चाब्रवीत्‌ ।
प्रत्युत्थाय तदा कृष्णा स्वसारं माघवस्य च॥२३॥

परिष्वज्यावदत्प्रीत्या निःसेपत्नोऽस्तु ते पतिः ।
तथैव मुदिता भद्रा तासुवाचैवमस्त्विति ॥२४॥

ततस्ते हृष्टमनसः पाण्डवेया महारथाः ।
कुन्ती च परमप्रीता बभूव जनमेजय॥२५॥

श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वं पुरोत्तमम्‌ ।
अर्जुनः पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा ॥२६॥

आजगाम विशुद्धात्मा सह रामेण केशवः ।
वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ॥२७॥

महामात्रैः श्रेष्ठैः ॥२७॥

भ्रातृभिश्व कुमारैश्च योधैश्च बहुभिर्वृतः ।
सैन्येन महता शौरिरभिगुप्तः परंतपः ॥२८॥

तत्र दानपतिर्धीमानाजगाम महायशाः ।
अक्रूरो वृष्णिवीराणां सेनापतिरारिंदमः॥२९॥

दानपतिरित्यक्करस्यैव कर्मनाम ॥२९॥

अनाधृष्टिर्महातेजा उद्धवश्च महायशाः ।
साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महामनाः॥३०॥

सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतुः ।
प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च ॥३१॥

चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च ।
सारणश्च महाबाहुर्गदश्व विदुषां वरः ॥३२॥

एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा ।
आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु ॥३३॥

हरणं प्रीतिदायम् ॥३३॥

ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् ।
प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ॥३४॥

प्रतिग्रहार्थे सन्मानेन आनेतुम् ॥३४॥

ताम्यां प्रतिगृहीतं तु वृष्णिचक्रं महर्द्धिमत् ।
विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ॥३५॥

संमृष्टसिक्तपन्थानं पुष्पप्रकरशोभितम् ।
चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् ॥३६॥

दह्यताऽगुरुणा चैव देशे देशे सुगन्धिना ।
हृष्टपुष्टजनाकीर्णं वणिग्भिरुपशोभितम् ॥३७॥

प्रतिपेदे महाबाहुः सह रामेण केशवः ।
वृष्ण्यन्धकैस्तथा भोजैः समेतः पुरुषोत्तमः ॥३८॥

प्रतिपेदे प्राप्तवान् खाण्डवप्रस्थमिति सम्बन्धः ॥३८॥

संपूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः ।
विवेश भवनं राज्ञः पुरन्दरगृहोपमम् ॥३९॥

युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि ।
मूर्ध्नि केशवमाघ्राय बाहुभ्यां परिषस्त्रजे ॥४०॥

तं प्रीयमाणो गोविन्दो विनयेनाभिपूजयन् ।
भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ॥४१॥

तांश्च वृष्ण्यन्धकश्रेष्ठान्कुन्तीपुत्रो युधिष्ठिरः ।
प्रतिजग्राह सत्कारैर्यथाविधि यथागतम् ॥४२॥

गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् ।
कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ॥४३॥

तेषां ददौ हृषीकेशो जन्यार्थे धनमुत्तमम् ।
हरणं वै सुभद्राया ज्ञातिदेयं महायशाः॥४४॥

जन्यार्थे जनी वधूस्तामर्हन्तो जन्याः वरपक्षीयास्तेषामर्थेः ॥४४॥

रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् ।
चतुर्युजामुपेतानां सूतैः कुशलशिक्षितैः॥४५॥

चतुर्युजां वाहचष्कयुजाम् ॥४५॥

सहस्रं प्रददौ कृष्णो गवामयुतमेव च ।
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम्॥४६॥

सहस्रं रथानां गवां दोग्ध्रीणाम् ॥४६॥

वडवानां च शुद्धानां चन्द्रांशुसमवर्चसाम् ।
ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषितम् ॥४७॥

वडवानाम् अश्वानाम् ॥४७॥

तथैवाश्ववरीणां च दान्तानां वातरंहसाम् ।
शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च ॥४८॥

स्नानपानोत्सवे चैव प्रयुक्तं वयसान्वितम् ।
स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम्॥४९॥

गौरीणाम् अदृष्टरजसाम् ॥४९॥

सुवर्णशतकण्ठीनामरोमाणां स्वलंकृताम् ।
परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ॥५०॥

सुवर्णशतं सुवर्णमणिशतं कण्ठे यासां तासाम् । अरोमाणाम् अनुद्भिन्नरोमावलीनां स्वलंकृतां सुतरामलंकृतानाम् ॥५०॥

पृष्ठ्यानामपि चाश्वानां बाल्हिकानां जनार्दनः ।
ददौ शतसहस्त्राख्यं कन्याधनमनुत्तमम् ॥५१॥

पृष्ठ्यानां पृष्ठवाहिनाम् । बाल्हिकानां बाल्हिकदेशजानाम् ॥५१॥

कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः ।
मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ॥५२॥

कृताकृतस्य कृतम् आकरजं धमनादिना साधितम् अकृतं जांबूनंद स्वतःसिद्धं तस्य ॥५२॥

गजानां तु प्रभिन्नानां त्रिधा प्रस्नवतां मदम् ।
गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ॥५३॥

प्रभिन्नानां मत्तानाम् । त्रिधा गण्डगुह्यकर्णमूलैः ॥५३॥

गुप्तानां पटुघण्टानां चारूणां हेममालिनाम् ।
हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ॥५४॥

रामः पाणिग्रहणिकं ददौ पार्थाय लाङ्गली ।
प्रीयमाणो हलधरः संबन्धं प्रतिमानयन्॥५५॥

स महाधनरत्नौघो वस्त्रकम्बलफेनवान् ।
महागजमहाग्रहः पताकाशैवलाकुलः॥५६॥

स रत्नौघः पाण्डुसागरं प्रविवेशेति सम्बन्धः ॥५६॥

पाण्डुसागरमाविद्धः प्रविवेश महाधनः ।
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ॥५७॥

आविद्धः सर्वतो विप्रकीर्णः । महाधनो बहुमूल्यः ॥५७॥

प्रतिजग्राह तत्सर्वं धर्मराजा युधिष्ठिरः ।
पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान्॥५८॥

ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः ।
विजह्रुरमरावासे नराः सुकृतिनो यथा ॥५९॥

तत्र तत्र महानादैरुत्कृष्टतलनादितैः ।
यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः॥६०॥

तत्रेति । तलस्तन्न्रीनादः गायन्तेः- त्रादयन्तश्च विजह्रुरित्यर्थः ॥६०॥

एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् ।
पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं प्रति ॥६१॥

रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः ।
रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः॥६२॥

वासुदेवस्तु पार्थेन तत्रैव सह भारत ।
उवास नगरे रम्ये शक्रप्रस्थे महात्मना ॥६३॥

व्यचरद्यमुनातीरे मृगयां स महायशाः ।
मृगान्विध्यन्वराहांश्च रेमे सार्धं किरीटिना॥६४॥

ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा ।
जयन्तमिव पौलोमी ख्यातिमन्तमजीजनत्॥६५॥

दीर्घबाहुं महोरस्कं वृषभाक्षमरिंदमम् ।
सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम्॥६६॥

अभिश्च मन्युमांश्चैव ततस्तमरिमर्दनम् ।
अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षमम्॥६७॥

अभि इति हस्वत्वमार्षम् मन्युमान् क्रोधवान् अतिशरः इत्यर्थः ॥६७॥

स सात्वत्यामतिरथः संबभूव घनंजयात् ।
मखे निर्मथनेनेव शमीगर्भाद्धुताशनः॥६८॥

शमीगर्भात् शमीगर्भे जातादश्वत्थात् । निर्मथनेन अधरारण्यां संघर्षणेन । अत्राश्वत्थवदर्जुनः ‘तस्यार्धो वा एष आत्मनो यत्पत्नी’ इति श्रुतेरधःस्थार्धदेहेरूपत्वादधरारणीवत्सुभद्रा अग्निवदभिमन्युरिति साम्यम् ॥६८॥

यस्मिञ्जाते महातेजाः कुन्तीपुत्रो युधिष्ठिरः ।
अयुतं गा द्विजातिभ्यः पादान्निष्कांश्च भारत॥६९॥

निष्कान् सुवर्णमणिमालाः ॥६९॥

दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत् ।
पितॄणामिव सर्वेषां प्रजानामिव चन्द्रमाः ॥७०॥

जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः ।
स चापि ववृधे बालः शुक्लपक्षे यथा शशी ॥७१॥

क्रियाः लालनपालनालंकरणादिकाः ॥७१॥

चतुष्पादं दशविधं धनुर्वेदमरिंदमः ।
अर्जुनाद्वेदवेदशः सकलं दिव्यमानुषम् ॥७२॥

चतुष्पादमिति । ‘मन्त्रमुक्तं पाणिमुक्तं मुक्तामुक्तं तथैव च । अमुक्तं च धनुर्वेदे चतुष्पाच्छस्त्रमीरितम्’ यस्य प्रयोग एवास्ति नतूपसंहारस्तदाद्यम् बाणादि द्वितीयम् प्रयोगोपसंहाराभ्यां युक्तं तृतीयम् । चतुर्थं मन्त्रसाधितं ध्वजा दियद्दर्शनादेव शत्रवः पलायन्ते । यद्वा सूत्रशिक्षाप्रयोगरहस्यानीति चत्वारो ग्रन्थपादाः । दशविधं ग्रन्थार्थानुष्ठानं यथा । ‘आदानमथ संधानं मोक्षणं विनिवर्तनम् । स्थानं मुष्टिः प्रयोगथ प्रायश्चित्तानि मण्डलम् । रहस्यं चेति दशधा धनुर्वेदाङ्गमिष्यते । ’आदानं बाणस्य निषङ्गात् । संधानं मौर्व्या योगः । मोक्षणं लक्ष्ये निपातनम् । विनिवर्तनं हीनशक्तौ लक्ष्ये पातितस्यास्त्रस्य प्रत्यावर्तनम् । स्थानं मध्यम् उपमध्यं वा धनुषो ज्यायाश्च धारणे शरसन्धाने च । मुष्टिस्त्र्यङ्गुलिचतुरङ्गुलिर्वा । प्रयोगस्तर्जनीमध्यमयोर्मध्यमाङ्गुष्ठयोर्वा मध्येन बाणसंयोजनम् । प्रायश्चित्तानि स्वतः परतो वा प्राप्तस्य प्राप्स्यमानस्य वा ज्याघातशरघातादभिघातार्थास्तलत्राणप्रत्यस्त्रादिविधयः । मण्डलानि चक्रवत् भ्रमता रथेन भ्राम्यमाणस्य लक्ष्यस्य वेधः । रहस्यं शब्दादिवेधो युगपदनेकेषु लक्ष्येषु शरपात इत्यादि । दिव्यं ब्रह्मास्त्रादि । मानुषं खङ्गदि ॥७२॥

विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः ।
क्रियास्वपि च सर्वासु विशेषानभ्याशिक्षयत्॥७३॥

अस्त्राणाम् अकाले प्रयोगानां विज्ञाने विशिष्टे ज्ञाने । सौष्टवे अन्येषां प्रयोगपटुत्वे । क्रियासु शारीरीषु उत्सर्पणप्रसर्पणादिषु । विशेषान् आधिक्यानि । अमितः साकल्येनाशिक्षयदर्जुनः पुत्रम् ॥७३॥

आगमे च प्रयोगे च चक्रे तुल्यामिवात्मना ।
तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनंजयः ॥७४॥

आगमे शास्त्रे प्रयोगे अनुष्टाने ॥७४॥

सर्वसंहननोपेतं सर्वलक्षणलक्षितम् ।
दुर्धर्षमृषभस्कन्धं व्यात्ताननामवोरगम् ॥७५॥

सर्वसंहननोपेतं संहननैः पराभिभावकैर्गुणैरुपेतम् ॥७५॥

सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् ।
मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ॥७६॥

कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथा कृतौ ।
ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ॥७७॥

कृष्णस्येति । ‘नराणां मातुलक्रमः’ इति न्यायेन रेतः सेक्तुर्नित्यं कृष्णध्यायित्वेन वां कृष्णस्य सदृशम् । तं अर्जुनं यथा मघवान् ॥७७॥

पाञ्चाल्यपि तु पञ्चभ्यः पतिभ्यः शुभलक्षणा ।
लेभे पञ्च सुतान्वीरान् श्रेष्ठान्पञ्चाचलानिव॥७८॥

युधिष्ठिरात्मतिविन्ध्यं सुतसोमं वृकोदात् ।
अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ॥७९॥

सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान् ।
पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा॥८०॥

शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम् ।
परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् ॥८१॥

परप्रहारणज्ञाने शत्रुकृतप्रहारवेदनायां विन्ध्य इव निविज्ञान इति प्रतिविन्ध्यः स्पष्टार्थमन्यत् ॥८१॥

सुते सोमसहस्त्रे तु सोमार्कसमतेजसम् ।
सुतसोमं महेष्वासं सुषुवे भीमसेनतः ॥८२॥

श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना ।
जातः पुत्रस्तथेत्येवं श्रुतकर्मा ततोऽभवत् ॥८३॥

शतानीकस्य राजर्षेः कौरव्यस्य महात्मनः ।
चक्रे पुत्रं स नामानं नकुलः कीर्तिवर्धनम् ॥८४॥

ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते ।
सहदेवात्सुतं तस्माच्छतसेनेति यं विदुः ॥८५॥

एकवर्षान्तरास्त्वेते द्रौपदेया यशस्विनः ।
अन्वजायन्त राजेन्द्र परस्परहितैषिणः ॥८६॥

जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च ।
चकार विधिवद्धौम्यस्तेषां भरतसत्तम ॥८७॥

कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः ।
जगृहुः सर्वभिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ॥८८॥

दिव्यगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महारथैः ।
अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ॥८९॥

इति श्रीमन्महाभारते आदिपर्वणि हरणाहरणपर्वणि एकविंशत्यधिकद्विशततमोऽध्यायः॥२२१॥
समाप्तं हरणाहरणपर्व ।

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in