वैशंपायन उवाच।
उक्तवन्तो यथा वीर्यमसकृत्सर्ववृष्णयः
।
ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंयुतम्॥१॥
एकविंशत्यधिकद्विशततमोऽध्यायः उक्तवन्त इति ॥१॥
नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान्
।
संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयं न संशयः॥२॥
अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा
।
स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः॥३॥
अनाधृष्यं कन्यालाभानियमादनादेयम् ॥३॥
प्रदानमपि कन्यायाः पशुवत्को नु मन्यते
।
विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि॥४॥
प्रदानं प्रतिग्रहो नीचं कर्मेत्यर्थः ॥४॥
एतान्दोषांस्तु कौन्तेयो दृष्टवानिति मे मतिः
।
अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः॥५॥
उचितश्चैव संबन्धः सुभद्रां च शयस्विनीम्
।
एष चापीदृशः पार्थः प्रसह्य हृतवानतः॥६॥
भरतस्यान्वये जातं शान्तनोश्च यशस्विनः
।
कुन्तिभोजात्माजापुत्रं का बुभूषेत नार्जुनम्॥७॥
बुभूषेत प्राप्तुमिच्छेत् ॥७॥
न तं पश्यामि यः पार्थं विजयेत रणे बलात्
।
वर्जयित्वा विरूपाक्षं भगनेत्रहरं हरम्॥८॥
अद्य निष्कौरवामित्युक्तं तत्राह । न चेति । अहं तु भक्त्यैव तन जितोस्मि परिशेषात्तु हर एव तत्प्रतियोद्धा नान्य इति भावः ॥८॥
अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष
।
स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः॥९॥
योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत्
।
तमभिद्रुत्य सान्त्वेन परमेण धनञ्जयम्॥१०॥
न्यवर्तयत संहृष्टा ममैषा परमा मतिः
।
यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरं॥११॥
प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः
।
तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप॥१२॥
निवृत्तश्चार्जुस्तत्र विवाहं कृतवान्प्रभुः
।
उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः॥१३॥
संवत्सरपराः संवत्सरादधिकाः ॥१३॥
विहृत्य च यथाकामं पूजितो वुष्णिनन्दनैः
।
पुष्करे तु ततः शोषं कालं वर्तितवान्प्रभुः॥१४॥
शेषं द्वादशवर्षपूरणम् ॥१४॥
पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमागतः
।
अभिगम्य च राजानं नियमेन समाहितः॥१५॥
अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान्
।
तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम्॥१६॥
तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा
।
सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते ॥ १७ ॥
श्लथायते दृढतरे बन्धान्तरेऽसति ॥१७॥
तथा बहुविधं कृष्णां विलपन्तीं धनंजयः
।
सान्त्वयामास भूयश्च क्षमयामास चासकृत्॥ १८ ॥
सुभद्रां त्वरमाणश्च रक्तकौशेयवासिनीम्
।
पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ॥१९॥
गोपालिकावपुःबल्लवीवेषम् । गोपालकृष्णसम्बन्धात् । पट्टमहिषीवेषेण द्रौपद्याः कोपो माभूदिति ॥१९॥
साऽधिकं तेन रूपेण शोभसाना यशास्विनी
।
भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ॥२०॥
ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी
।
तां कुन्ती चारुसर्वाङ्गीमुपाजिघ्रत मूर्धनि ॥ २१॥
भद्रा सुभद्रा ॥२१॥
प्रीत्या परमया युक्ता आशीर्भिर्युञ्जतातुलाम्
।
ततोऽभिगम्य त्वरिता पूणेन्दुसदृशानना ॥ २२ ॥
युञ्जत अयुङ्क्त ॥२२॥
ववन्दे द्रौपदीं भद्रा प्रेष्याऽहामिति चाब्रवीत्
।
प्रत्युत्थाय तदा कृष्णा स्वसारं माघवस्य च॥२३॥
परिष्वज्यावदत्प्रीत्या निःसेपत्नोऽस्तु ते पतिः
।
तथैव मुदिता भद्रा तासुवाचैवमस्त्विति ॥ २४॥
ततस्ते हृष्टमनसः पाण्डवेया महारथाः
।
कुन्ती च परमप्रीता बभूव जनमेजय॥२५॥
श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वं पुरोत्तमम्
।
अर्जुनः पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा ॥२६॥
आजगाम विशुद्धात्मा सह रामेण केशवः
।
वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ॥२७॥
महामात्रैः श्रेष्ठैः ॥२७॥
भ्रातृभिश्व कुमारैश्च योधैश्च बहुभिर्वृतः
।
सैन्येन महता शौरिरभिगुप्तः परंतपः ॥२८॥
तत्र दानपतिर्धीमानाजगाम महायशाः
।
अक्रूरो वृष्णिवीराणां सेनापतिरारिंदमः॥२९॥
दानपतिरित्यक्करस्यैव कर्मनाम ॥२९॥
अनाधृष्टिर्महातेजा उद्धवश्च महायशाः
।
साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महामनाः॥३०॥
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतुः
।
प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च ॥३१॥
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च
।
सारणश्च महाबाहुर्गदश्व विदुषां वरः ॥३२॥
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा
।
आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु ॥३३॥
हरणं प्रीतिदायम् ॥३३॥
ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम्
।
प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ॥३४॥
प्रतिग्रहार्थे सन्मानेन आनेतुम् ॥३४॥
ताम्यां प्रतिगृहीतं तु वृष्णिचक्रं महर्द्धिमत्
।
विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ॥३५॥
संमृष्टसिक्तपन्थानं पुष्पप्रकरशोभितम्
।
चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् ॥ ३६॥
दह्यताऽगुरुणा चैव देशे देशे सुगन्धिना
।
हृष्टपुष्टजनाकीर्णं वणिग्भिरुपशोभितम् ॥३७॥
प्रतिपेदे महाबाहुः सह रामेण केशवः
।
वृष्ण्यन्धकैस्तथा भोजैः समेतः पुरुषोत्तमः ॥३८॥
प्रतिपेदे प्राप्तवान् खाण्डवप्रस्थमिति सम्बन्धः ॥३८॥
संपूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः
।
विवेश भवनं राज्ञः पुरन्दरगृहोपमम् ॥३९॥
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि
।
मूर्ध्नि केशवमाघ्राय बाहुभ्यां परिषस्त्रजे ॥४०॥
तं प्रीयमाणो गोविन्दो विनयेनाभिपूजयन्
।
भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ॥४१॥
तांश्च वृष्ण्यन्धकश्रेष्ठान्कुन्तीपुत्रो युधिष्ठिरः
।
प्रतिजग्राह सत्कारैर्यथाविधि यथागतम् ॥४२॥
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत्
।
कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ॥४३॥
तेषां ददौ हृषीकेशो जन्यार्थे धनमुत्तमम्
।
हरणं वै सुभद्राया ज्ञातिदेयं महायशाः॥ ४४॥
जन्यार्थे जनी वधूस्तामर्हन्तो जन्याः वरपक्षीयास्तेषामर्थेः ॥४४॥
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम्
।
चतुर्युजामुपेतानां सूतैः कुशलशिक्षितैः॥ ४५॥
चतुर्युजां वाहचष्कयुजाम् ॥४५॥
सहस्रं प्रददौ कृष्णो गवामयुतमेव च
।
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम्॥ ४६॥
सहस्रं रथानां गवां दोग्ध्रीणाम् ॥४६॥
वडवानां च शुद्धानां चन्द्रांशुसमवर्चसाम्
।
ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषितम् ॥ ४७॥
वडवानाम् अश्वानाम् ॥४७॥
तथैवाश्ववरीणां च दान्तानां वातरंहसाम्
।
शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च ॥ ४८॥
स्नानपानोत्सवे चैव प्रयुक्तं वयसान्वितम्
।
स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम्॥ ४९॥
गौरीणाम् अदृष्टरजसाम् ॥४९॥
सुवर्णशतकण्ठीनामरोमाणां स्वलंकृताम्
।
परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ॥५०॥
सुवर्णशतं सुवर्णमणिशतं कण्ठे यासां तासाम् । अरोमाणाम् अनुद्भिन्नरोमावलीनां स्वलंकृतां सुतरामलंकृतानाम् ॥५०॥
पृष्ठ्यानामपि चाश्वानां बाल्हिकानां जनार्दनः
।
ददौ शतसहस्त्राख्यं कन्याधनमनुत्तमम् ॥ ५१॥
पृष्ठ्यानां पृष्ठवाहिनाम् । बाल्हिकानां बाल्हिकदेशजानाम् ॥५१॥
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः
।
मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ॥ ५२॥
कृताकृतस्य कृतम् आकरजं धमनादिना साधितम् अकृतं जांबूनंद स्वतःसिद्धं तस्य ॥५२॥
गजानां तु प्रभिन्नानां त्रिधा प्रस्नवतां मदम्
।
गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ॥ ५३॥
प्रभिन्नानां मत्तानाम् । त्रिधा गण्डगुह्यकर्णमूलैः ॥५३॥
गुप्तानां पटुघण्टानां चारूणां हेममालिनाम्
।
हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ॥५४॥
रामः पाणिग्रहणिकं ददौ पार्थाय लाङ्गली
।
प्रीयमाणो हलधरः संबन्धं प्रतिमानयन्॥५५॥
स महाधनरत्नौघो वस्त्रकम्बलफेनवान्
।
महागजमहाग्रहः पताकाशैवलाकुलः॥५६॥
स रत्नौघः पाण्डुसागरं प्रविवेशेति सम्बन्धः ॥५६॥
पाण्डुसागरमाविद्धः प्रविवेश महाधनः
।
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ॥५७॥
आविद्धः सर्वतो विप्रकीर्णः । महाधनो बहुमूल्यः ॥५७॥
प्रतिजग्राह तत्सर्वं धर्मराजा युधिष्ठिरः
।
पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान्॥५८॥
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः
।
विजह्रुरमरावासे नराः सुकृतिनो यथा ॥५९॥
तत्र तत्र महानादैरुत्कृष्टतलनादितैः
।
यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः॥६०॥
तत्रेति । तलस्तन्न्रीनादः गायन्तेः- त्रादयन्तश्च विजह्रुरित्यर्थः ॥६०॥
एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून्
।
पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं प्रति ॥६१॥
रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः
।
रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः॥६२॥
वासुदेवस्तु पार्थेन तत्रैव सह भारत
।
उवास नगरे रम्ये शक्रप्रस्थे महात्मना ॥६३॥
व्यचरद्यमुनातीरे मृगयां स महायशाः
।
मृगान्विध्यन्वराहांश्च रेमे सार्धं किरीटिना॥६४॥
ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा
।
जयन्तमिव पौलोमी ख्यातिमन्तमजीजनत्॥६५॥
दीर्घबाहुं महोरस्कं वृषभाक्षमरिंदमम्
।
सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम्॥६६॥
अभिश्च मन्युमांश्चैव ततस्तमरिमर्दनम्
।
अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षमम्॥६७॥
अभि इति हस्वत्वमार्षम् मन्युमान् क्रोधवान् अतिशरः इत्यर्थः ॥६७॥
स सात्वत्यामतिरथः संबभूव घनंजयात्
।
मखे निर्मथनेनेव शमीगर्भाद्धुताशनः॥६८॥
शमीगर्भात् शमीगर्भे जातादश्वत्थात् । निर्मथनेन अधरारण्यां संघर्षणेन । अत्राश्वत्थवदर्जुनः ’तस्यार्धो वा एष आत्मनो यत्पत्नी' इति श्रुतेरधःस्थार्धदेहेरूपत्वादधरारणीवत्सुभद्रा अग्निवदभिमन्युरिति साम्यम् ॥६८॥
यस्मिञ्जाते महातेजाः कुन्तीपुत्रो युधिष्ठिरः
।
अयुतं गा द्विजातिभ्यः पादान्निष्कांश्च भारत॥ ६९॥
निष्कान् सुवर्णमणिमालाः ॥६९॥
दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत्
।
पितॄणामिव सर्वेषां प्रजानामिव चन्द्रमाः ॥ ७०॥
जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः
।
स चापि ववृधे बालः शुक्लपक्षे यथा शशी ॥ ७१॥
क्रियाः लालनपालनालंकरणादिकाः ॥७१॥
चतुष्पादं दशविधं धनुर्वेदमरिंदमः
।
अर्जुनाद्वेदवेदशः सकलं दिव्यमानुषम् ॥७२॥
चतुष्पादमिति । 'मन्त्रमुक्तं पाणिमुक्तं मुक्तामुक्तं तथैव च । अमुक्तं च धनुर्वेदे चतुष्पाच्छस्त्रमीरितम्' यस्य प्रयोग एवास्ति नतूपसंहारस्तदाद्यम् बाणादि द्वितीयम् प्रयोगोपसंहाराभ्यां युक्तं तृतीयम् । चतुर्थं मन्त्रसाधितं ध्वजा दियद्दर्शनादेव शत्रवः पलायन्ते । यद्वा सूत्रशिक्षाप्रयोगरहस्यानीति चत्वारो ग्रन्थपादाः । दशविधं ग्रन्थार्थानुष्ठानं यथा । 'आदानमथ संधानं मोक्षणं विनिवर्तनम् । स्थानं मुष्टिः प्रयोगथ प्रायश्चित्तानि मण्डलम् । रहस्यं चेति दशधा धनुर्वेदाङ्गमिष्यते । 'आदानं बाणस्य निषङ्गात् । संधानं मौर्व्या योगः । मोक्षणं लक्ष्ये निपातनम् । विनिवर्तनं हीनशक्तौ लक्ष्ये पातितस्यास्त्रस्य प्रत्यावर्तनम् । स्थानं मध्यम् उपमध्यं वा धनुषो ज्यायाश्च धारणे शरसन्धाने च । मुष्टिस्त्र्यङ्गुलिचतुरङ्गुलिर्वा । प्रयोगस्तर्जनीमध्यमयोर्मध्यमाङ्गुष्ठयोर्वा मध्येन बाणसंयोजनम् । प्रायश्चित्तानि स्वतः परतो वा प्राप्तस्य प्राप्स्यमानस्य वा ज्याघातशरघातादभिघातार्थास्तलत्राणप्रत्यस्त्रादिविधयः । मण्डलानि चक्रवत् भ्रमता रथेन भ्राम्यमाणस्य लक्ष्यस्य वेधः । रहस्यं शब्दादिवेधो युगपदनेकेषु लक्ष्येषु शरपात इत्यादि । दिव्यं ब्रह्मास्त्रादि । मानुषं खङ्गदि ॥७२॥
विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः
।
क्रियास्वपि च सर्वासु विशेषानभ्याशिक्षयत्॥७३॥
अस्त्राणाम् अकाले प्रयोगानां विज्ञाने विशिष्टे ज्ञाने । सौष्टवे अन्येषां प्रयोगपटुत्वे । क्रियासु शारीरीषु उत्सर्पणप्रसर्पणादिषु । विशेषान् आधिक्यानि । अमितः साकल्येनाशिक्षयदर्जुनः पुत्रम् ॥७३॥
आगमे च प्रयोगे च चक्रे तुल्यामिवात्मना
।
तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनंजयः ॥७४॥
आगमे शास्त्रे प्रयोगे अनुष्टाने ॥७४॥
सर्वसंहननोपेतं सर्वलक्षणलक्षितम्
।
दुर्धर्षमृषभस्कन्धं व्यात्ताननामवोरगम् ॥७५॥
सर्वसंहननोपेतं संहननैः पराभिभावकैर्गुणैरुपेतम् ॥७५॥
सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम्
।
मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ॥७६॥
कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथा कृतौ
।
ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ॥७७॥
कृष्णस्येति । 'नराणां मातुलक्रमः' इति न्यायेन रेतः सेक्तुर्नित्यं कृष्णध्यायित्वेन वां कृष्णस्य सदृशम् । तं अर्जुनं यथा मघवान् ॥७७॥
पाञ्चाल्यपि तु पञ्चभ्यः पतिभ्यः शुभलक्षणा
।
लेभे पञ्च सुतान्वीरान् श्रेष्ठान्पञ्चाचलानिव॥७८॥
युधिष्ठिरात्मतिविन्ध्यं सुतसोमं वृकोदात्
।
अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ॥७९॥
सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान्
।
पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा॥८०॥
शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम्
।
परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् ॥८१॥
परप्रहारणज्ञाने शत्रुकृतप्रहारवेदनायां विन्ध्य इव निविज्ञान इति प्रतिविन्ध्यः स्पष्टार्थमन्यत् ॥८१॥
सुते सोमसहस्त्रे तु सोमार्कसमतेजसम्
।
सुतसोमं महेष्वासं सुषुवे भीमसेनतः ॥८२॥
श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना
।
जातः पुत्रस्तथेत्येवं श्रुतकर्मा ततोऽभवत् ॥ ८३॥
शतानीकस्य राजर्षेः कौरव्यस्य महात्मनः
।
चक्रे पुत्रं स नामानं नकुलः कीर्तिवर्धनम् ॥ ८४॥
ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते
।
सहदेवात्सुतं तस्माच्छतसेनेति यं विदुः ॥ ८५॥
एकवर्षान्तरास्त्वेते द्रौपदेया यशस्विनः
।
अन्वजायन्त राजेन्द्र परस्परहितैषिणः ॥८६॥
जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च
।
चकार विधिवद्धौम्यस्तेषां भरतसत्तम ॥८७॥
कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः
।
जगृहुः सर्वभिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ॥८८॥
दिव्यगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महारथैः
।
अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ॥८९॥