वैशंपायन उवाच।
इन्द्रप्रस्थे वसन्तस्ते जघ्रुरन्यान्नराधिपान्
।
शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च॥१॥
द्वाविंशत्यधिकद्विशततमोऽध्यायः इन्द्रप्रस्थे वसन्तस्त इति ॥१॥
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम्
।
पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः॥२॥
पुण्यानि लक्षणानि ऊर्ध्वरेखादीनि गाम्भीर्यादीनि च कर्माणि आरम्भकाणि क्रियमाणानि च यस्य तम् ॥२॥
स समं धर्मकामार्थान्सिषेवे भरतर्षभ
।
त्रीनिवात्मसमान्बन्धून्नीतिमानिव मानयन्॥३॥
समं परस्परापडिया ॥३॥
तेषां समविभक्तानां क्षितौ देहवतामिव
।
बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः॥४॥
तेषामिति । यथा त्रयाणाममात्यानां चतुर्थो राजा यथा आराध्यत्वेन भाति यथा वा धर्मार्थकामानां त्रयाणां चतुर्थो मोक्षस्वरूप आत्मा उत्तराध्यत्वेन भाति तथैनं धर्मादयः स्वयमुपतिष्टन्तीत्यर्थः ॥४॥
अध्येतारं परं वेदान्प्रयोक्तारं महाध्वरे
।
रक्षितारं शुभाँल्लोकान्लेभिरे तं जनाधिपम्॥५॥
परम् अध्येतारं परस्य ब्रह्मणोधिगन्तारम् । वेदान्वेदानाम् । ब्रह्मकर्मनीतिनिष्टमिति विशेषणत्रयार्थः ॥५॥
अधिष्ठानवती लक्ष्मीः परायणवती मतिः
।
वर्धमानोऽखिलो धर्मस्तेनासीत्पृथिवीक्षिताम्॥६॥
अधिष्ठानेति । चलापि लक्ष्मीर्दृढास्पदाऽभूत् । परायणं परा काष्ठा तद्वती तां प्राप्तेत्यर्थः ॥६॥
भ्रातृभिः सहितौ राजा चतुर्भिरधिकं बभौ
।
प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः॥७॥
महान् अथर्ववेदोक्ततत्तत्कर्माङ्गोपासनायुक्तः । ऋग्यजुःसामसाध्यो ज्योतिष्टोमादिः ॥७॥
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे
।
बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः॥८॥
धर्मराजे ह्यतिप्रीत्या पूर्णचन्द्र इवामले
।
प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च॥९॥
तुल्यं युगपत् । तुल्यमित्यत्र द्युत्येति पाठे द्युत्या नेत्राणि प्रीत्या हृदयानि च रेमिरे इत्यन्वयः ॥९॥
न तु केवलदैवेन प्रजा भावेन रेमिरे
।
यद्बभूव मनःकान्तं कर्मणा स चकार तत्॥१०॥
दैवेन देवो राजा तत्कर्मणा पालनेन न केवलं रमिरे अपि तु भावेन भक्त्या । तत्र हेतुः । यदिति । मनः कान्तं मनोरमं प्रजानाम् ॥१०॥
न ह्ययुक्तं न चासत्यं नासह्यं न च वाऽप्रियम्
।
भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः॥११॥
कर्मणा प्रियकरत्वमुक्त्वा वाङ्मनसाभ्यामपि तदाह द्वाभ्याम् । न हीति । असह्यं दुःखदम् । अहितभिति पाठेपि स एवार्थः । अप्रियं प्रीत्यनुत्पादकम् । भाषितं वचनम् । जज्ञे प्रादुर्बभूव ॥११॥
स हि सर्वस्य लोकस्य हितमात्मन एव च
।
चिकीर्षन्सुमहातेजा रेमे भरतसत्तम॥१२॥
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः
।
अवसन्पृथिवीपालाँस्तापयन्तः स्वतेजसा॥१३॥
ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत्
।
उष्णानि कृष्ण वर्तन्ते गच्छावो यमुनां प्रति॥१४॥
उष्णानि निदाघदिनानि ॥१४॥
सुहृज्जनवृतौ तत्र विहृत्य मधुसूदन
।
सायाह्ने पुनरेष्यावो रोचतां ते जनार्दन॥१५॥
वासुदेव उवाच।
कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले
।
सुहृज्जनवृताः पार्थ विहरेम यथासुखम्॥१६॥
कुन्ती माता यस्येति हे कुन्तीमातर्हेऽर्जुन ॥१६॥
वैशंपायन उवाच।
आमन्त्र्य तौ धर्मराजमनुज्ञाप्य च भारत
।
जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः॥१७॥
विहारदेशं संप्राप्य नानाद्रुममनुत्तमम्
।
गृहैरुच्चावचैर्युक्तं पुरन्दरपुरोपमम्॥१८॥
गृहैः मध्येयमुनं निर्मितैःक्रीडावाप्यादियुक्तैः ॥१८॥
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्बिर्महाधनैः
।
माल्यैश्च विविधैर्गन्धैस्तथा वार्ष्मेयपार्थयोः॥१९॥
भक्ष्याद्यैर्युक्तं विहारस्थानम् ॥१९॥
विवेशान्तःपुरं तूर्णं रत्नैरुच्चावचैः शुभैः
।
यथोपजोषं सर्वश्च जनश्चिक्रीड भारत॥२०॥
विवेशान्तःपुरं कर्तृ रत्नैर्युक्तम् ॥२०॥
स्त्रियश्च विपुलश्रोष्ण्यश्चारुपीनपयोधराः
।
मदस्खलितगामिन्यश्चिक्रीडुर्वामलोचनाः॥२१॥
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः
।
यथादेशं यथाप्रीति चिक्रीडुः पार्थकृष्णयोः॥२२॥
द्रौपदी च सुभद्रा च वासांस्याभरणानि च
।
प्रायच्छतां महाराज स्त्रीणां ते स्म मदोत्कटे॥२३॥
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथा पराः
।
जहसुश्च परा नार्यः पपुश्चान्या वरासवम्॥२४॥
रुरुधुश्चापरास्तत्र प्रजघ्नुश्च परस्परम्
।
मन्त्रयामासुरन्याश्च रहस्यानि परस्परम्॥२५॥
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः
।
शब्देन पूर्यते हर्म्यं तद्वनं सुमहर्द्धिमत्॥२६॥
तस्मिंस्तदा वर्तमानो कुरुदाशार्हनन्दनौ
।
समीपं जग्मतुः कंचिदुद्देशं सुमनोहरम्॥२७॥
उद्देशं प्रदेशम् ॥२७॥
तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ
।
महार्हासनयो राजंस्ततस्तौ सन्निषीदतुः॥२८॥
तत्र पूर्वव्यतीतानि विक्रान्तानीतराणि च
।
बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ॥२९॥
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव
।
अभ्यागच्छत्तदा विप्रो वासुदेवधनञ्जयौ॥३०॥
बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः
।
हरिपिङ्गोज्ज्वलश्मश्रुः प्रमाणायामतः समः॥३१॥
हरिपिङ्गः नीलपीताखिलाङ्गः ज्वलश्मश्रुः ज्वालावत्पीतश्मश्रुः ॥३१॥
तरुणादित्यसङ्काशश्चीरवासा जटाधरः
।
पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव॥३२॥
उपसृष्टं तु तं कृष्णो भ्राजमानं द्विजोत्तमम्
।
अर्जुनोवासुदेवश्च तूर्णमुत्पत्य तस्थतुः॥३३॥
उपसृष्टं समीपागतम् उपलक्ष्य उत्पत्य आसनात् ॥३३॥
॥ इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि ब्राह्मणरूप्यनलागमने द्वाविंशत्यधिकद्विशततमोऽध्यायः॥२२२॥
वैशंपायन उवाच।
सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम्
।
लोकप्रवीरौ तिष्ठन्तौ काण्डवस्य समीपतः॥१॥
त्रयोविंशत्यधिकद्विशततमोऽध्यायः सोऽब्रवीदिति ॥१॥
ब्राह्मणो बहुभोक्ताऽस्मि भुञ्जेऽपरिमितं सदा
।
भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छतम्॥२॥
वां भिक्षे युवां दातुं समर्थो प्रार्थये ॥२॥
एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ
।
केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे॥३॥
तस्यान्नस्य दाने ॥३॥
एवमुक्तः स भगवानब्रवीत्तावुभौ ततः
।
भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति॥४॥
क्रियतामिति । भाषमाणौ तौ प्रति अब्रवीदित्यन्वयः ॥४॥
ब्राह्मण उवाच।
नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम्
।
यदन्नमनुरूपं मे तद्युवां संप्रयच्छतम्॥५॥
इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति
।
न च शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना॥६॥
वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा
।
सगणस्तत्कृते दावं परिरक्षति वज्रभृत्॥७॥
तत्र भूतान्यनेकानि रक्ष्यतेऽस्य प्रसङ्गतः
।
तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा॥८॥
भूतानि बहिर्निर्गन्तुकामानि ॥८॥
स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति
।
ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम्॥९॥
स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः
।
दहेयं खाण्डवं दावमेतदन्नं वृतं मया॥१०॥
युवां ह्युदकधारास्ता भूतानि च समन्ततः
।
उत्तमास्त्रविदौ सम्यक्सर्वतो वारयिष्यथः॥११॥
जनमेजय उवाच।
किमर्थं भगवानग्निः खाण्डवं दग्धुमिच्छति
।
रक्ष्यमाणं महेन्द्रेण नानासत्वसमायुतम्॥१२॥
न ह्येतत्कारणं ब्रह्मन्नल्पं संप्रति भाति मे
।
यद्ददाह सुसंक्रुद्धः खाण्डवं हव्यवाहनः॥१३॥
एतद्विस्तरशो ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः
।
खाण्डवस्य पुरा दाहो यथा समभवन्मुने॥१४॥
वैशंपायन उवाच।
शृणु मे ब्रुवतो राजन्सर्वमेतद्यथातथम्
।
यन्निमित्तं ददाहाग्निः खाण्डवं पृथिवीपते॥१५॥
हन्त ते कथयिष्यामि पौराणीमृषिसंस्तुताम्
।
कथामिमां नरश्रेष्ठ खाण्डवस्य विनाशिनीम्॥१६॥
पौराणः श्रूयते राजन्राजा हरिहयोपमः
।
श्वेतकिर्नाम विख्यातो बलविक्रमसंयुतः॥१७॥
यज्वा दानपतिर्धीमान्यथा नान्योऽस्ति कश्चन
।
ईजे च स महायज्ञैः क्रतुभिश्चाप्तदक्षिणैः॥१८॥
महायज्ञैः पञ्चभिर्देवयज्ञादिभिः स्मार्तैः क्रतुभिः श्रौतैर्ज्योतिष्टोमादिभिः । महासत्रैरिति पाठे सत्रमन्नदानं लोकप्रसिद्धेः ॥१८॥
तस्य नान्याऽभवद्बुद्धिर्दिवसे दिवसे नृप
।
सत्रे क्रियासमारम्भे दानेषु विविधेषु च॥१९॥
सत्रे यज्ञे ॥१९॥
ऋत्विग्भिः सहितो धीमानेवमीजे स भूमिपः
।
ततस्तु ऋत्विजश्चास्य धूमव्याकुललोचनाः॥२०॥
कालेन महता खिन्नास्तत्यजुस्ते नराधिपम्
।
ततः प्रसादयामास ऋत्विजस्तान्महीपतिः॥२१॥
चक्षुर्विकलतां प्राप्ता न प्रपेदुश्च ते क्रतुम्
।
ततस्तेषामनुमते तद्विप्रैस्तु नराधिपः॥२२॥
सत्रं समापयामास ऋत्विग्भिरपरैः सह
।
तस्यैवं वर्तमानस्य कदाचित्कालपर्यये॥२३॥
सत्रमहार्तुकामस्य संवत्सरशतं किल
।
ऋत्विजो नाभ्यपद्यन्त समाहर्तुं महात्मनः॥२४॥
स च राजाऽकरोद्यत्नं महान्तं ससुहृज्जनः
।
प्रणिपातेन सान्त्वेन दानेन च महायशाः॥२५॥
ऋत्विजोऽनुनयामास भूयो भूयस्त्वतन्द्रितः
।
ते चास्य तमभिप्रायं न चक्रुरमितौजसः॥२६॥
स चाश्रमस्थान्राजर्षिस्तानुवाच रुषान्वितः
।
यद्यहं पतितो विप्राः शुश्रूषां यां न च स्थितः॥२७॥
आशु त्याज्योऽस्मि युष्माभिर्ब्राह्मणैश्च जुगुप्सितः
।
तन्नार्हथ क्रतुश्रद्धां व्याघातयितुमद्य ताम्॥२८॥
अस्थाने वा परित्यागं कर्तुं मे द्विजसत्तमाः
।
प्रपन्न एव वो विप्राः प्रसादं कर्तुमर्हथ॥२९॥
सान्त्वदानादिभिर्वाक्यैस्तत्त्वतः कार्यवत्तया
।
प्रसादयित्वा वक्ष्यामि यन्नः कार्यं द्विजोत्तमाः॥३०॥
अथवाहं परित्यक्तो भवद्भिर्द्वेषकारणात्
।
ऋत्विजोऽन्यान्गमिष्यामि याजनार्थं द्विजोत्तमाः॥३१॥
एतावदुक्त्वा वचनं विरराम स पार्थिवः
।
यदा न शेकू राजानं याजनार्थं परन्तप॥३२॥
ततस्ते याजकाः क्रुद्धास्तमूचुर्नृपसत्तमम्
।
तव कर्माण्यजस्रं वै वर्तन्ते पार्थिवोत्तम॥३३॥
ततो वयं परिश्रान्ताः सततं कर्मवाहिनः
।
श्रमादस्मात्परिश्रान्तान्स त्वं नस्त्यक्तुमर्हसि॥३४॥
बुद्धिमोहं समास्थाय त्वरासंभावितोऽनघ
।
गच्छ रुद्रसकाशं त्वं सहि त्वां याजयिष्यति॥३५॥
बुद्धिमोहं बुद्धिवैकल्यम् । त्वरासंभावितस्त्वरावशः अस्मदीयश्रमाज्ञानादित्यर्थः ॥३५॥
साधिक्षेपं वचः श्रुत्वा संक्रुद्धः श्वेतकिर्नृपः
।
कैलासं पर्वतं गत्वा तप उग्रं समास्थितः॥३६॥
आराधयन्महादेवं नियतः संशितव्रतः
।
उपवासपरो राजन्दीर्घकालमतिष्ठत॥३७॥
कदाचिद्द्वादशे काले कदाचिदपि षोडशे
।
आहारमकरोद्राजा मूलानि च फलानि च॥३८॥
ऊर्ध्वबाहुस्त्वनिमिषस्तिष्ठन्स्थाणुरिवाचलः
।
षण्मासानभवद्राजा श्वेतकिः सुसमाहितः॥३९॥
तं तथा नृपशार्दूलं तप्यमानं महत्तपः
।
शङ्करः परमप्रीत्या दर्शयामास भारत॥४०॥
उवाच चैनं भगवान्स्निग्धगम्भीरया गिरा
।
प्रीतोऽस्मि नरशार्दूल तपसा ते परन्तप॥४१॥
वरं वृणीष्व भद्रं ते यं त्वमिच्छसि पार्थिव
।
एतच्छ्रुत्वा तु वचनं रुद्रस्यामिततेजसः॥४२॥
प्रणिपत्य महात्मानं राजर्षिः प्रत्यभाषत
।
यदि मे भगवान्प्रीतः सर्वलोकनमस्कृतः॥४३॥
स्वयं मां देवदेवेश याजयस्व सुरेश्वरः
।
एतच्छ्रुत्वा तु वचनं राज्ञा तेन प्रभाषितम्॥४४॥
उवाच भगवान्प्रीतः स्मितपूर्वमिदं वचः
।
नास्माकमेतद्विषये वर्तते याजनं प्रति॥४५॥
याजनं प्रति याजनम् उद्दिश्य । त्वया च सुमहत्तपस्तप्तम् । एतद्याजनम् अस्माकं विषये न वर्तते इति सम्बन्धः । वयं तु न याजनेऽधिकारिण इत्यर्थः ॥४५॥
त्वया च सुमहत्तप्तं तपो राजन्वरार्थिना
।
याजयिष्यामि राजंस्त्वां समयेन परन्तप॥४६॥
सततं त्वाज्यघाराभिः। अच्छिन्नया आज्यधारया । बहुत्वमवयवाभिप्रायम् ॥४६॥
रुद्र उवाच।
समा द्वादश राजेन्द्र ब्रह्मचारी समाहितः
।
सततं त्वाज्यधाराभिर्यदि तर्पयसेऽनलम्॥४७॥
कामं प्रार्थयसे यं त्वं मत्तः प्राप्स्यसि तं नृप
।
एवमुक्तश्च रुद्रेण श्वेतकिर्मनुजाधिपः॥४८॥
तथा चकार तत्सर्वं यथोक्तं शूलपाणिना
।
पूर्णे तु द्वादशे वर्षे पुनरायान्महेश्वरः॥४९॥
दृष्ट्वैव च स राजानं शङ्करो लोकभावनः
।
उवाच परमप्रीतः श्वेतकिं नृपसत्तमम्॥५०॥
तोषितोऽहं नृपश्रेष्ठ त्वयेहाद्येन कर्मणा
।
याजनं ब्राह्मणानां तु विधिदृष्टं परन्तप॥५१॥
आद्येन अनादिवेदबोधितेन । विधिदृष्टं ब्राह्मणानामिदं हविरिति चतुर्धाकरणमन्त्रलिङ्गानुमितविधिदृष्टम् ॥५१॥
अतोऽहं त्वां स्वयं नाद्य याजयामि परन्तप
।
ममांशस्तु क्षितितले महाभागो द्विजोत्तमः॥५२॥
अत इति । स्वयं यज्ञभोक्ता भूत्वा ऋत्विङ्मानभङ्गभयात्स्वयं न याजयामीत्यर्थः ॥५२॥
दुर्वासा इति विख्यातः स हि त्वां याजयिष्यति
।
मन्नियोगान्महातेजाः संभाराः संभ्रियन्तु ते॥५३॥
एतच्छ्रुत्वा तु वचनं रुद्रेण समुदाहृतम्
।
स्वपुरं पुनरागम्य संभारान्पुनरार्जयत्॥५४॥
ततः संभृतसंभारो भूयो रुद्रमुपागमत्
।
संभृता मम संभाराः सर्वोपकरणानि च॥५५॥
त्वत्प्रसादानमहादेव श्वो मे दीक्षा भवेदिति
।
एतच्छ्रुत्वा तु वचनं तस्य राज्ञो महात्मनः॥५६॥
दुर्वाससं समाहूय रुद्रो वचनमब्रवीत्
।
एष राजा महाभागः श्वेतकिर्द्विजसत्तम॥५७॥
एनं याजय विप्रेन्द्र मन्नियोगेन भूमिपम्
।
बाढमित्येव वचनं रुद्रं त्वृषिरुवाच ह॥५८॥
ततः सत्रं समभवत्तस्य राज्ञो महात्मनः
।
यथाविधि यथाकालं यथोक्तं बहुदक्षिणम्॥५९॥
तस्मिन्परिसमाप्ते तु राज्ञः सत्रे महात्मनः
।
दुर्वाससाऽभ्यनुज्ञाता विप्रतस्थुः स्म याजकाः॥६०॥
ये तत्र दीक्षिताः सर्वे सदस्याश्च महौजसः
।
सोऽपि राजन्महाभागः स्वपुरं प्राविशत्तदा॥६१॥
दीक्षिताः कर्मसु निष्णाताः ॥६१॥
पूज्यमानो महाभागैर्ब्राह्मणैर्वेदपारगैः
।
बन्दिभिः स्तूयमानश्च नागरैश्चाभिनन्दितः॥६२॥
एवं वृत्तः स राजर्षिः श्वेतकिर्नृपसत्तमः
।
कालेन महता चापि ययौ स्वर्गमभिष्टुतः॥६३॥
ऋत्विग्भिः सहितः सर्वैः सदस्यैश्च समन्वितः
।
तस्य सत्रे पपौ वह्निर्हविर्द्वादशवत्सरान्॥६४॥
सततं चाज्यधाराभिरैकात्म्ये तत्र कर्मणि
।
हविषा च ततो वह्निः परां तृप्तिमगच्छत॥६५॥
न चैच्छत्पुनरादातुं हविरन्यस्य कस्यचित्
।
पाण्डुवर्णो विवर्णश्च न यथावत्प्रकाशते॥६६॥
ततो भघवतो वह्नेर्विकारः समजायत
।
तेजसा विप्रहीणश्च ग्लानिश्चैनं समाविशत्॥६७॥
स लक्षयित्वा चात्मानं तेजोहीनं हुताशनः
।
जगाम सदनं पुण्यं ब्रह्मणो लोकपूजितम्॥६८॥
तत्र ब्रह्माणमासीनमिदं वचनमब्रवीत्
।
भगवन्परमा प्रीतिः कृता मे श्वेतकिना॥६९॥
अरुचिश्चाभवत्तीव्रा तां न शक्नोम्यपोहितुम्
।
तेजसा विप्रहीणोऽस्मि बलेन च जगत्पते॥७०॥
इच्छेयं त्वत्प्रसादेन स्वात्मनः प्रकृतिं स्थिराम्
।
एतच्छ्रुत्वा हुतवहाद्भगवान्सर्वलोककृत्॥७१॥
प्रकृतिं स्वभावम् ॥७१॥
हव्यवाहमिदं वाक्यमुवाच प्रहसन्निव
।
त्वया द्वादश वर्षाणि वसोर्धाराहुतं हविः॥७२॥
वसोर्धारा पात्रविशेषः येन हूयमानं घृतद्रव्यं सन्ततधारीरूपेण क्षरति । तेन हुतं हविरर्थाद्धृतमेव । वसोर्धारां जुहोतीत्युपक्रम्य घृतस्य वा एनमेषा धारेति वाक्यशेषात् ॥७२॥
उपयुक्तं महाभाग तेन त्वां ग्लानिराविशत्
।
तेजसा विप्रहीणत्वात्सहसा हव्यवाहन॥७३॥
उपयुक्तं भुक्तम् ॥७३॥
मागमस्त्वं यथा वह्ने प्रकृतिस्थो भविष्यसि
।
अरुचिं नाशयिष्येहं समयं प्रतिपद्यते॥७४॥
मा गमः ग्लानिमिति विपरिणामेनानुषज्यते । यथेत्यस्य यथापूर्वमित्यर्थः ॥७४॥
पुरा देवनियोगेन यत्त्वया भस्मसात्कृतम्
।
आलयं देवशत्रूणां सुघोरं खाण्डवं वनम्॥७५॥
किं तत्खाण्डवमित्याकाङ्क्षायां पुरावृत्तं स्मारयति पुरेति ॥७५॥
तत्र सर्वाणि सत्वानि निवसन्ति विभावसो
।
तेषां त्वं मेदसा तृप्तः प्रकृतिस्थो भविष्यसि॥७६॥
गच्छ शीघ्रं प्रदग्धुं त्वं ततो मोक्ष्यसि किल्विषात्
।
एतच्छुत्वा तु वचनं परमेष्ठिमुखाच्च्युतम्॥७७॥
किल्बिषात् ग्लानिरूपात् ॥७७॥
उत्तमं जवमास्थाय प्रदुद्राव हुताशनः
।
आगम्य खाण्डवं दावमुत्तमं वीर्यमास्थितः
।
सहसा प्राज्वलच्चाग्निः क्रुद्धो वायुसमीरितः॥७८॥
प्रदीप्तं खाण्डवं दृष्ट्वा ये स्युस्तत्र निवासिनः
।
परमं यत्नमातिष्ठन्पावकस्य प्रशान्तये॥७९॥
करैस्तु करिणः शीघ्रं जलमादाय सत्वराः
।
सिषिचुः पावकं क्रुद्धाः शतशोऽथ सहस्रशः॥८०॥
बहुशीर्षास्ततो नागाः शिरोभिर्जलसन्ततिम्
।
मुमुचुः पावकाभ्याशे सत्वराः क्रोधमूर्च्छिताः॥८१॥
तथैवान्यानि सत्वानि नानाप्रहरणोद्यमैः
।
विलयं पावकं शीघ्रमनयन्भरतर्षभ॥८२॥
नानाप्रहरणोद्यमैः । नानाविधैः प्रहरणैः पांसुप्रक्षेपवृक्षशाखाताडनादिभिः । उद्यमैर्जलसेकादिभिश्च ॥८२॥
अनेन तु प्रकारेण भूयो भूयश्च प्रज्वलन्
।
सप्तकृत्वः प्रशमितः खाण्डवे हव्यवाहनः॥८३॥
इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि अग्निपरात्रयोविंशत्यधिकद्विशततमोऽध्यायः॥२२३॥
वैशंपायन उवाच।
स तु नैराश्यमापन्नः सदा ग्लानिसमन्वितः
।
पितामहमुपागच्छत्संक्रुद्धो हव्यवाहनः॥१॥
चतुर्विंशत्यधिकद्विशततमोऽध्यायः सत्विति ॥१॥
तच्च सर्वं यथान्यायं ब्रह्मणे संन्यवेदयत्
।
उवाच चैवनं भगवान्मुहूर्तं स विचिन्त्य तु॥२॥
उपायः परिदृष्टो मे यथा त्वं धक्ष्यसेऽनघ
।
कालं च कंचित्क्षमतां ततस्तां वक्ष्यतेऽनल॥३॥
भविष्यतः सहायौ ते नरनारायणौ तदा
।
ताभ्यां त्वं सहितो दावं धक्ष्यसे हव्यवाहन॥४॥
एवमस्त्विति तं वह्निर्ब्रह्माणं प्रत्यभाषत
।
संभूतौ तौ विदित्वा तु नरनारायणावृषी॥५॥
कालस्य महतो राजंस्तस्य वाक्यं स्वयंभुवः
।
अनुस्मृत्य जगामाथ पुनरेव पितामहम्॥६॥
अब्रवीच्च तदा ब्रह्मा यथा त्वं धक्ष्यसेऽनल
।
खाण्डवं दावमद्यैव मिषतोऽस्य शचीपतेः॥७॥
मिषतः पश्यतः ॥७॥
नरनारायणौ यौ तौ पूर्वदेवौ विभावसो
।
संप्राप्तौ मानुषे लोके कार्यार्थं हि दिवौकसाम्॥८॥
अर्जुनं वासुदेवं च यौ तौ लोकोऽभिमन्यते
।
तावेतौ सहितावेहि खाण्डवस्य समीपतः॥९॥
तौ त्वं याचस्व साहाय्ये दाहार्थं खाण्डवस्य च
।
ततो धक्ष्यसि तं दावं रक्षितं त्रिदशैरपि॥१०॥
तौ तु सत्वानि सर्वाणि यत्नतो वारयिष्यतः
।
देवराजं च सहितौ तत्र मे नास्ति संशयः॥११॥
एतच्छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः
।
कृष्णपार्थावुपागम्य यमर्थं त्वभ्यभाषत॥१२॥
तं ते कथितवानस्मि पूर्वमेव नृपोत्तम
।
तच्छ्रुत्वा वचनं त्वग्नेर्बीभत्सुर्जातवेदसम्॥१३॥
अब्रवीन्नृपशार्दूल तत्कालसदृशं वचः
।
दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः॥१४॥
शतक्रतोः सम्बन्धि ॥१४॥
अर्जुन उवाच।
उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च
।
यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून्॥१५॥
धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम्
।
कुर्वतः समरे यत्नं वेगं यद्विषहेन्मम॥१६॥
शरैश्च मेर्थो बहुभिरक्षयैः क्षिप्रमस्यतः
।
न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान्॥१७॥
अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः
।
रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम्॥१८॥
तथा कृष्णस्य वीर्येण नायुधं विद्यते समम्
।
येन नागान्पिशाचांश्च निहन्यान्माधवो रणे॥१९॥
उपायं कर्मसिद्धौ च भघवन्वक्तुमर्हसि
।
निवारयेयं येनेन्द्रं वर्षमाणं महावने॥२०॥
पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक
।
करणानि समर्थानि भगवन्दातुमर्हसि॥२१॥
करणानि युद्धसाधनानि धनुरादीनि ॥२१॥
॥ इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि अर्जुनाग्निसंवादे चतुर्विंशत्यधिकद्विशततमोऽध्यायः॥२२४॥
वैशंपायन उवाच।
एवमुक्तः स भगवान्धूमकेतुर्हुताशनः
।
चिन्तयामास वरुणं लोकपालं दिदृक्षया॥१॥
पञ्चविंशत्यधिकद्विशततमोऽध्यायः एवमिति ॥१॥
आदित्यमुदके देवं निवसन्तं जलेश्वरम्
।
स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम्॥२॥
आदित्यम् अदितेः पुत्रम् ॥२॥
तमब्रवीद्धूमकेतुः प्रतिगृह्य जलेश्वरम्
।
चतुर्थं लोकपालानां देवदेवं सनातनम्॥३॥
प्रतिगृह्य पूजादिना स्वायत्तीकृत्य ॥३॥
सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते
।
तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम्॥४॥
कार्यं च सुमहत्पार्थो गाण्डीवेन करिष्यति
।
चक्रेण वासुदेवश्च तन्ममाद्य प्रदीयताम्॥५॥
ददानीत्येव वरुणः पावकं प्रत्यभाषत
।
तदद्भुतं महावीर्यं यशःकीर्तिविवर्धनम्॥६॥
सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च
।
सर्वायुधमहामात्रं परसैन्यप्रधर्षणम्॥७॥
महामात्रम् अतिप्रमाणं समृद्धं प्रधानं वा॥७॥
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम्
।
चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम्॥८॥
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः
।
प्रादाच्चैव धनूरत्नमक्षय्यौ च महेषुधी॥९॥
रथं च दिव्याश्वयुजं कपिप्रवरकेतनम्
।
उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः॥१०॥
राजतैः रजतवर्णैः ॥१०॥
पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे
।
सर्वोपकरणैर्युक्तमजय्यं देवदानवैः॥११॥
भावुमन्तं महाघोषं सर्वरत्नमनोरमम्
।
ससर्ज यं सुतपसा भौमनो भुवनप्रभुः॥१२॥
भानुमन्तं दीप्तिमन्तं भौमनो विश्वकर्मा ॥१२॥
प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव
।
यं स्म सोमः समारुह्य दानवानजयत्प्रभुः॥१३॥
नवमेघप्रतीकाशं ज्ललन्तमिव च श्रिया
।
आश्रितौ तं रथश्रेष्ठं शक्रायुधसमावुभौ॥१४॥
शक्रायुधसमौ देहवास छविभ्यां नीलपिशङ्गवर्णैौ ॥१४॥
तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा
।
तस्यां तु वानरो दिव्यः सिंहशार्दूलकेतनः॥१५॥
तापनीया सौवर्णी । सिंहशार्दुलत्रत् भयंकरः केतनः कायो यस्य सः । ‘केतनं लांछने काये’ इति विश्वः ॥१५॥
दिधक्षन्निव तत्र स्म संस्थितो मूर्ध्न्यशोभत
।
ध्वजे भूतानि तत्रासन्विविधानि महान्ति च॥१६॥
नादेन रिपुसैन्यानां येषां संज्ञा प्रणश्यति
।
स तं नानापताकाभिः शोभितं रथसत्तमम्॥१७॥
नादेन येषाम् ॥१७॥
प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च
।
सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रकः॥१८॥
आरुरोह तदा पार्थो विमानं सुकृती यथा
।
तच्च दिव्यं धनुः श्रेष्ठं ब्रह्मणा निर्मितं पुरा॥१९॥
गाण्डीवमुपसंगृह्य बभूव मुदितोऽर्जुनः
।
हुताशनं पुरस्कृत्य ततस्तदपि वीर्यवान्॥२०॥
जग्राह बलमास्थाय ज्यया च युयुजे धनुः
।
मौर्व्यां तु योज्यमानायां बलिना पाण्डवेन ह॥२१॥
ज्यया मौर्व्या ॥२१॥
येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः
।
लब्ध्वा रथं धनुश्चैव तथाक्षय्ये महेषुधी॥२२॥
बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि
।
वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः॥२३॥
कल्यः समर्थः । साह्यकर्मणि साहाय्यके । वज्रं वरत्रासा नाभौ यस्य तत् । सूत्रबद्धशकुनिवत्पुनः प्रयोक्तुर्हस्तमायातीत्यर्थः ‘वज्रं त्रपुवरत्रयोः’ इति मेदिनी ॥२३॥
आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा
।
अब्रवीत्पावकश्चैवमेतेन मधुसूदन॥२४॥
अत एवाग्नेयम् अस्त्रमिवास्त्रम् ॥२४॥
अमानुषानपि रणे जेष्यसि त्वमसंशयम्
।
अनेन तु मनुष्याणां देवानामपि चाहवे॥२५॥
रक्षःपिशाचदैत्यानां नागानां चाधिकस्तथा
।
भविष्यसि न सन्देहः प्रवरोऽपि निबर्हणे॥२६॥
क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु
।
हत्वाऽप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः॥२७॥
तदेवाह क्षिप्तं क्षिप्तमिति ॥२७॥
वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम्
।
दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं प्रभुः॥२८॥
ततः पावकमब्रूतां प्रहृष्टावर्जुनाच्युतौ
।
कृतास्त्रौ शस्त्रसंपन्नौ रथिनौ ध्वजिनावपि॥२९॥
कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः
।
किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सता॥३०॥
युयुत्सता योद्धुमिच्छता ॥३०॥
अर्जुन उवाच।
चक्रपाणिर्हृषीकेशो विचरन्युधि वीर्यवान्
।
चक्रेण भस्मसात्सर्वं विसृष्टेन तु वीर्यवान्
।
त्रिषु लोकेषु तन्नास्ति यन्न कुर्याज्जनार्दनः॥३१॥
गाण्डीवं धनुरादाय तथाऽक्षय्ये महेषुधी
।
अहमप्युत्सहे लोकान्विजेतुं युधि पावक॥३२॥
सर्वतः परिवार्यैवं दावमेतं महाप्रभो
।
कामं संप्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि॥३३॥
वैशंपायन उवाच।
एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च
।
तैजसं रपमास्थाय दावं दग्धुं प्रचक्रमे॥३४॥
सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तथा
।
ददाह खाण्डवं दावं युगान्तमिव दर्शयन्॥३५॥
सप्तार्चिः कालीकरालीप्रभृतिसप्तजिह्वावान् ॥३५॥
प्रतिगृह्य समाविश्य तद्वनं भरतर्षभ
।
मेघस्तनितनिर्घोषः सर्वभूतान्यकम्पयत्॥३६॥
दह्यतस्तस्य च बभौ रूपं दावस्य भारत
।
मेरोरिव नगेन्द्रस्य कीर्णस्यांशुमतोंऽशुभिः॥३७॥
दह्यतः दह्यमानस्य ॥३७॥
॥ इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि गाण्डीवादिदाने पञ्चविंशत्यधिकद्विशततमोऽध्यायः॥२२५॥
वैशंपायन उवाच।
तौ रथाभ्यां रथश्रेष्ठौ दावस्योभयतः स्थितौ
।
दिक्षु सर्वासु भूतानां चक्राते कदनं महत्॥१॥
षड्विंशत्यधिकद्विशततमोऽध्यायः तौ रथाभ्यामिति । आश्रितो तं रथं श्रेष्ठमिति द्वयोरेकरथस्थत्वं प्रागुक्तं तच्छोभामात्रं भाव्युपयोगसूचनार्थम् । इह तु पृथग्रथस्थावेवेति ज्ञेयम् ॥१॥
यत्र यत्र च दृश्यन्ते प्राणिनः खाण्डवालयाः
।
पलायन्तः प्रवीरौ तौ तत्र तत्राभ्यधावताम्॥२॥
छिद्रं न स्म प्रपश्यन्ति रथयोराशुचारिणोः
।
आविद्धावेव दृश्येते रथिनौ तौ रथोत्तमौ॥३॥
आविद्वावेव अलातचक्रवद्भ्रामितावेव ॥३॥
खाण्डवे दह्यमाने तु भूता: शतसहस्रशः
।
उत्पेतुर्भैरवान्नादान्विनदन्तः समन्ततः॥४॥
दग्धैकदेशा बहवो निष्टप्ताश्च तथाऽपरे
।
स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च तथाऽपरे॥५॥
निष्टप्ता अतितप्ताः विशीर्णाः कर्कटीफलवद्विदीर्णाः । विप्लुताः भयाद्विदुताः ॥५॥
समालिङ्ग्य सुतानन्ये पितॄन्भ्रातॄनथाऽपरे
।
त्यक्तुं न शेकुः स्नेहेन तत्रैव निधनं गताः॥६॥
सन्दष्टदशनाश्चान्ये समुत्पेतुरनेकशः
।
ततस्तेऽतीव घूर्णन्तः पुनरग्नौ प्रपेदिरे॥७॥
दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले
।
तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः॥८॥
जलाशयेषु तप्तेषु क्वाथ्यमानेषु वह्निना
।
गतसत्वाः स्म दृश्यन्ते कूर्ममत्स्याः समन्ततः॥९॥
शरीरैरपरे दीप्तैर्देहवन्त इवाग्नयः
।
अदृश्यन्त वने तत्र प्राणिनः प्राणिसंक्षये॥१०॥
शरीरैर्दीप्तैर्लोहप्रतिमावदत्यन्ततप्तैः ॥१०॥
कांश्चिदुत्पततः पार्थः शरैः संच्छिद्य खण्डशः
।
पातयामास विहगान्प्रदीप्ते वसुरेतसि॥११॥
वसुरेतसि वह्नौ ॥११॥
ते शराचितसर्वाङ्गा निनदन्तो महारवान्
।
ऊर्ध्वमुत्पत्य वेगेन निपेतुः खाण्डवे पुनः॥१२॥
शरैरभ्याहतानां च सङ्घशः स्म वनौकसाम्
।
विरावः शुश्रुवे घोरः समुद्रस्येव मथ्यतः॥१३॥
मथ्यतः मथ्यमानस्य ॥१३॥
वह्नेश्चापि प्रदीप्तस्य खमुत्पेतुर्महार्चिषः
।
जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम्॥१४॥
तेनार्चिषा सुसन्तप्ता देवाः सर्षिपुरोगमाः
।
ततो जग्मुर्महात्मानः सर्व एव दिवौकसः
।
शतक्रतुं सहस्राक्षं देवेशमसुरार्दनम्॥१५॥
देवा ऊचुः।
किं न्विमे मानवाः सर्वे दह्यन्ते चित्रभानुना
।
कच्चिन्न संक्षयः प्राप्तो लोकानाममरेश्वर॥१६॥
वैशंपायन उवाच।
तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च
।
खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः॥१७॥
महता रथवृन्देन नानारूपेण वासवः
।
आकाशं समवाकीर्य प्रववर्ष सुरेश्वरः॥१८॥
ततोऽक्षमात्रा व्यसृजन्धाराः शतसहस्रशः
।
चोदिता देवराजेन जलदाः खाण्डवं प्रति॥१९॥
अक्षः रथचक्रद्वयसंधानकाष्ठं तत्प्रमाणा अक्षमात्राः ॥१९॥
असंप्राप्तास्तु ता धारास्तेजसा जातवेदसः
।
ख एव समशुष्यन्त न काश्चित्पावकं गताः॥२०॥
ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा
।
पुनरेव महामेघैरम्भांसि व्यसृजद्बहु॥२१॥
अर्चिर्धाराभिसंबद्धं धूमविद्युत्समाकुलम्
।
बभूव तद्वनं घोरं स्तनयित्नुसमाकुलम्॥२२॥
॥ इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि इन्द्रक्रोधे षड्विंशत्यधिकद्विशततमोऽध्यायः॥२२६॥
वैशंपायन उवाच।
तस्याथ वर्षतो वारि पाण्डवः प्रत्यवारयत्
।
शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन्॥१॥
सप्तविंशत्यधिकद्दिशततमोऽध्यायः तस्याथेति ॥१॥
खाण्डवं च वनं सर्वं पाण्डवो बहुभिः शरैः
।
आच्छादयदमेयात्मा नीहारेणेव चन्द्रमाः॥२॥
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः
।
संच्छाद्यमाने खे बाणैरस्यता सव्यसाचिना॥३॥
तक्षकस्तु न तत्रासीन्नागराजो महाबलः
।
दह्यमाने वने तस्मिन्कुरुक्षेत्रं गतो हि सः॥४॥
अश्वसेनोऽभवत्तत्र तक्षकस्य सुतो बली
।
स यत्नमकरोत्तीव्रं मोक्षार्थं जातवेदसः॥५॥
न शशाक स निर्गन्तुं निरुद्धोर्जुनपत्रिभिः
।
मोक्षयामास तं माता निगीर्य भुजगात्मजा॥६॥
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते
।
निगीर्यमाणा साक्रामत्सुतं नागी मुमुक्षया॥७॥
निगीर्यते यावता कालेन तावतैव निगीर्यमाणा अर्जुनेन हन्यमाना सती आक्रामत् क्रान्तवती खमिति शेषः । मुमुक्षया मोचनेच्छया ॥७॥
तस्याः शरेण तीक्ष्णेन पृथुधारेण पाण्डवः
।
शिरश्चिच्छेद गच्छन्त्यास्तामपश्यच्छचीपतिः॥८॥
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम्
।
मोहयामास तत्कालमश्वसेनस्त्वमुच्यत॥९॥
तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः
।
द्विधा त्रिधा च खगतान्प्राणिनः पाण्डवोच्छिनत्॥१०॥
शशाप तं च संक्रुद्धो बीभत्सुर्जिह्मगामिनम्
।
पावको वासुदेवश्चाप्यप्रतिष्ठो भविष्यसि॥११॥
अप्रतिष्ठो निराश्रय असंततिर्वा ॥११॥
ततो जिष्णुः सहस्राक्षं खं वितत्याशुगैः शरैः
।
योधयामास संक्रुद्धो वञ्चनां तामनुस्मरन्॥१२॥
देवराजोऽपि तं दृष्ट्वा संरब्धं समरेऽर्जुनम्
।
स्वमस्त्रमसृजत्तीव्रं छादयित्वाऽखिलं नभः॥१३॥
ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान्
।
वियत्स्थो जनयन्मेघाञ्जलधारासमाकुलान्॥१४॥
ततोऽशनिमुचो घोरांस्तडित्स्तनितनिःस्वनान्
।
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम्॥१५॥
वायव्यमभिमन्त्र्याथ प्रतिपत्तिविशारदः
।
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम्॥१६॥
जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः
।
क्षणेन चाभवद्व्योम संप्रशान्तरजस्तमः॥१७॥
सुखशीतानिलवहं प्रकृतिस्थार्कमण्डलम्
।
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः॥१८॥
निष्प्रतीकारं बलवदाश्रयात् भावि ग्लानिहीनं हृष्टं हर्षो यस्य सः ॥१८॥
सिच्यमानो वसौघैस्तैः प्राणिनां देहनिःसृतैः
।
प्रजज्वालाथ सोऽर्चिष्मान्स्वनादैः पूरयञ्जगत्॥१९॥
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः
।
खमुत्पेतुर्महाराज सुपर्णाद्याः पतत्त्रिणः॥२०॥
गरुत्मान्वज्रसदृशैः पक्षतुण्डनखैस्तथा
।
प्रहर्तुकामो न्यपतदाकाशात्कृष्णपाण्डवौ॥२१॥
तथैवोरगसङ्घाताः पाण्डवस्य समीपतः
।
उत्सृजन्तो विषं घोरं निपेतुर्ज्वलिताननाः॥२२॥
तांश्चकर्त शरैः पार्थः सरोषाग्निसमुक्षितैः
।
विविशुश्चापि तं दीप्तं देहाभावाय पावकम्॥२३॥
ततोऽसुराः सगन्धर्वा यक्षराक्षसपन्नगाः
।
उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिनः॥२४॥
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः
।
कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः॥२५॥
अयःकणान् लोहगुलिकाः पिवतीति तथाविधम् आग्नेयौषधबलेन गर्भसंभृता लोहगुलिकास्तारका इव विकीर्यन्ते येन तद्यन्त्रमयः कणपं लोहमयम् । तथा चक्राश्मसंज्ञं यस्य भ्रमिबलेन महान्तोपि पाषाणा अतिदूरे क्षिप्यन्ते तत्काष्ठमयं यन्त्रं भुशुण्डी चर्मरज्जुमयं यन्त्रं पाषाणक्षेपणमेव । तैः उद्यताः बाहवो येषां ते असुरादयः । अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः । क्रोधसंम्च्छितौजसः क्रोधेन संवर्द्धिततेजसः ॥२५॥
तेषामतिव्याहरतां शस्त्रवर्षं प्रमुञ्चताम्
।
प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः॥२६॥
अतिव्याहरतां कत्थमानानाम् ॥२६॥
कृष्णश्च सुमहातेजाश्चक्रेणारिविनाशनः
।
दैत्यदानवसङ्घानां चकीर कदनं महत्॥२७॥
अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तथा
।
वेलामिव समासाद्य व्यतिष्ठन्नमितौजसः॥२८॥
यथा चक्रवेगेन जलावर्तप्रवाहेण ईरितास्तृणादयो वेलां प्राप्य विष्ठितत्वं स्तब्धत्वं प्राप्य तिष्ठन्ति । एवं चक्रवेगेन अस्त्रवलजवेन ईरिता असुराद्याः कृष्णार्जुनौ प्राप्य व्यतिष्ठन्नित्यर्थः । चक्रः कोके इत्युपक्रम्य ‘कुम्भकारोपकरणास्त्रयोः जलावर्ते’ इति मेदिनी ॥२८॥
ततः शक्रोऽतिसंक्रुद्धस्त्रिदशानां महेश्वरः
।
पाण्डुरं गजमास्थाय तावुभौ समुपाद्रवत्॥२९॥
वेगेनाशनिमादाय वज्रमस्त्रं च सोऽसृजत्
।
हतावेताविति प्राह सुरानसुरसूदनः॥३०॥
ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम्
।
जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तथा॥३१॥
कालदण्डं यमो राजन् गदां चैव धनेश्वरः
।
पाशांश्च तत्र वरुणो विचित्रां च तथाशनिम्॥३२॥
गदां चैवेत्यत्र शिबिकामिति पाठे शिबिका गदेति प्राश्चः शिंबिकामिति सानुस्वारपाठे तु तत्सदृशमीषद्वक्रमायुधमिति तु तत्त्वम् । तच्च द्रविडकैवर्तेषु प्रसिद्धं दारुमयम् । लोहमयमपि बलवत्सु संभाव्यत एव ॥३२॥
स्कन्दः शक्तिं समादाय तस्थौ मेरुरिवाचलः
।
ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि॥३३॥
जगृहे च धनुर्धाता मुसलं तु जयस्तथा
।
पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः॥३४॥
पूर्वतं चापीत्यत्र विचक्रं परीतिपाठे विचक्रं त्रिशूलम् ॥३४॥
अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम्
।
प्रगृह्य परिघं घोरं विचचारार्यमा अपि॥३५॥
अर्यमा अपीत्यत्र सन्धिरविवक्षितः ॥३५॥
मित्रश्च क्षुरपर्यन्तं चक्रमादाय तस्थिवान्
।
पूषा भगश्च संक्रुद्धः सविता च विशांपते॥३६॥
आत्तकार्मुकनिस्त्रिंशाः कृष्णापार्थौ प्रदुद्रुवुः
।
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः॥३७॥
विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा
।
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ॥३८॥
कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः
।
तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे॥३९॥
निमित्तानि सूचकानि उल्कापातादीनि ॥३९॥
युगान्तसमरूपाणि भूतसंमोहनानि च
।
तथा दृष्ट्वा सुसंरब्धं शक्रं देवैः सहाच्युतौ॥४०॥
अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ
।
आगच्छतस्ततो देवानुभौ युद्धविशारदौ॥४१॥
व्यताडयेतां संक्रुद्धौ शरैर्वज्रोपमैस्तदा
।
असकृद्भग्नसंकल्पाः सुराश्च बहुशः कृताः॥४२॥
भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः
।
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च॥४३॥
आश्चर्यमगमंस्तत्र मुनयो नभसि स्थिताः
।
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे॥४४॥
बभूव परमप्रीतो भूयश्चैतावयोधयत्
।
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः॥४५॥
भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः
।
तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षितः॥४६॥
विफलं क्रियमाणं तत्समवेक्ष्य शतक्रतुः
।
भूयः संवर्धयामास तद्वर्षं पाकशासनः॥४७॥
सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः
।
विलयं गमयामास हर्षयन्पितरं तथा॥४८॥
तत उत्पाट्य पाणिभ्यां मन्दराच्छिखरं महत्
।
स द्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम्॥४९॥
ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः
।
शरैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा॥५०॥
गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ
।
सार्कचन्द्रग्रहस्येव नभसः परिशीर्यतः॥५१॥
गिरेः गिरिशृङ्गस्य ॥५१॥
तेनाभिपतता दावं शैलेन महता भृशम्
।
शृङ्गेण निहतास्तत्र प्राणिनः खाण्डवालयाः॥५२॥
शैलेन शिलासमूहन करणेन शृङ्गेण कर्त्रा ॥५२॥
॥ इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि देवकृष्णार्जुनयुद्धे सप्तविंशत्यधिकद्विशततमोऽध्यायः॥२२७॥