अनुक्रमणिकापर्व - १पर्वसंग्रहपर्व - २पौष्यपर्व - ३पौलोमपर्व। - ४आस्तिकपर्व - ५अंशावतरणपर्व - ६सम्भवपर्व - ७जतुगृहपर्व । - ८हिडिम्बवधपर्व - ९बकवधपर्व - १०चैत्ररथपर्व । - ११स्वयंवरपर्व - १२वैवाहिकपर्व - १३विदुरागमनराज्यालंभपर्व - १४अर्जुनवनवासपर्व - १५सुभ्रद्राहरणपर्व। - १६हरणाहरणपर्व। - १७खाण्डवदाहपर्व - १८मयदर्शनपर्व - १९

खाण्डवदाहपर्व

द्वाविंशत्यधिकद्विशततमोऽध्यायः

वैशंपायन उवाच। इन्द्रप्रस्थे वसन्तस्ते जघ्रुरन्यान्नराधिपान् ।
शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च॥१॥

द्वाविंशत्यधिकद्विशततमोऽध्यायः इन्द्रप्रस्थे वसन्तस्त इति ॥१॥

आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् ।
पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः॥२॥

पुण्यानि लक्षणानि ऊर्ध्वरेखादीनि गाम्भीर्यादीनि च कर्माणि आरम्भकाणि क्रियमाणानि च यस्य तम् ॥२॥

स समं धर्मकामार्थान्सिषेवे भरतर्षभ ।
त्रीनिवात्मसमान्बन्धून्नीतिमानिव मानयन्॥३॥

समं परस्परापडिया ॥३॥

तेषां समविभक्तानां क्षितौ देहवतामिव ।
बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः॥४॥

तेषामिति । यथा त्रयाणाममात्यानां चतुर्थो राजा यथा आराध्यत्वेन भाति यथा वा धर्मार्थकामानां त्रयाणां चतुर्थो मोक्षस्वरूप आत्मा उत्तराध्यत्वेन भाति तथैनं धर्मादयः स्वयमुपतिष्टन्तीत्यर्थः ॥४॥

अध्येतारं परं वेदान्प्रयोक्तारं महाध्वरे ।
रक्षितारं शुभाँल्लोकान्लेभिरे तं जनाधिपम्॥५॥

परम् अध्येतारं परस्य ब्रह्मणोधिगन्तारम् । वेदान्वेदानाम् । ब्रह्मकर्मनीतिनिष्टमिति विशेषणत्रयार्थः ॥५॥

अधिष्ठानवती लक्ष्मीः परायणवती मतिः ।
वर्धमानोऽखिलो धर्मस्तेनासीत्पृथिवीक्षिताम्॥६॥

अधिष्ठानेति । चलापि लक्ष्मीर्दृढास्पदाऽभूत् । परायणं परा काष्ठा तद्वती तां प्राप्तेत्यर्थः ॥६॥

भ्रातृभिः सहितौ राजा चतुर्भिरधिकं बभौ ।
प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः॥७॥

महान् अथर्ववेदोक्ततत्तत्कर्माङ्गोपासनायुक्तः । ऋग्यजुःसामसाध्यो ज्योतिष्टोमादिः ॥७॥

तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे ।
बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः॥८॥

धर्मराजे ह्यतिप्रीत्या पूर्णचन्द्र इवामले ।
प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च॥९॥

तुल्यं युगपत् । तुल्यमित्यत्र द्युत्येति पाठे द्युत्या नेत्राणि प्रीत्या हृदयानि च रेमिरे इत्यन्वयः ॥९॥

न तु केवलदैवेन प्रजा भावेन रेमिरे ।
यद्बभूव मनःकान्तं कर्मणा स चकार तत्॥१०॥

दैवेन देवो राजा तत्कर्मणा पालनेन न केवलं रमिरे अपि तु भावेन भक्त्या । तत्र हेतुः । यदिति । मनः कान्तं मनोरमं प्रजानाम् ॥१०॥

न ह्ययुक्तं न चासत्यं नासह्यं न च वाऽप्रियम् ।
भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः॥११॥

कर्मणा प्रियकरत्वमुक्त्वा वाङ्मनसाभ्यामपि तदाह द्वाभ्याम् । न हीति । असह्यं दुःखदम् । अहितभिति पाठेपि स एवार्थः । अप्रियं प्रीत्यनुत्पादकम् । भाषितं वचनम् । जज्ञे प्रादुर्बभूव ॥११॥

स हि सर्वस्य लोकस्य हितमात्मन एव च ।
चिकीर्षन्सुमहातेजा रेमे भरतसत्तम॥१२॥

तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः ।
अवसन्पृथिवीपालाँस्तापयन्तः स्वतेजसा॥१३॥

ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् ।
उष्णानि कृष्ण वर्तन्ते गच्छावो यमुनां प्रति॥१४॥

उष्णानि निदाघदिनानि ॥१४॥

सुहृज्जनवृतौ तत्र विहृत्य मधुसूदन ।
सायाह्ने पुनरेष्यावो रोचतां ते जनार्दन॥१५॥

वासुदेव उवाच। कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले ।
सुहृज्जनवृताः पार्थ विहरेम यथासुखम्॥१६॥

कुन्ती माता यस्येति हे कुन्तीमातर्हेऽर्जुन ॥१६॥

वैशंपायन उवाच। आमन्त्र्य तौ धर्मराजमनुज्ञाप्य च भारत ।
जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः॥१७॥

विहारदेशं संप्राप्य नानाद्रुममनुत्तमम् ।
गृहैरुच्चावचैर्युक्तं पुरन्दरपुरोपमम्॥१८॥

गृहैः मध्येयमुनं निर्मितैःक्रीडावाप्यादियुक्तैः ॥१८॥

भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्बिर्महाधनैः ।
माल्यैश्च विविधैर्गन्धैस्तथा वार्ष्मेयपार्थयोः॥१९॥

भक्ष्याद्यैर्युक्तं विहारस्थानम् ॥१९॥

विवेशान्तःपुरं तूर्णं रत्नैरुच्चावचैः शुभैः ।
यथोपजोषं सर्वश्च जनश्चिक्रीड भारत॥२०॥

विवेशान्तःपुरं कर्तृ रत्नैर्युक्तम् ॥२०॥

स्त्रियश्च विपुलश्रोष्ण्यश्चारुपीनपयोधराः ।
मदस्खलितगामिन्यश्चिक्रीडुर्वामलोचनाः॥२१॥

वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः ।
यथादेशं यथाप्रीति चिक्रीडुः पार्थकृष्णयोः॥२२॥

द्रौपदी च सुभद्रा च वासांस्याभरणानि च ।
प्रायच्छतां महाराज स्त्रीणां ते स्म मदोत्कटे॥२३॥

काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथा पराः ।
जहसुश्च परा नार्यः पपुश्चान्या वरासवम्॥२४॥

रुरुधुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् ।
मन्त्रयामासुरन्याश्च रहस्यानि परस्परम्॥२५॥

वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः ।
शब्देन पूर्यते हर्म्यं तद्वनं सुमहर्द्धिमत्॥२६॥

तस्मिंस्तदा वर्तमानो कुरुदाशार्हनन्दनौ ।
समीपं जग्मतुः कंचिदुद्देशं सुमनोहरम्॥२७॥

उद्देशं प्रदेशम् ॥२७॥

तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ ।
महार्हासनयो राजंस्ततस्तौ सन्निषीदतुः॥२८॥

तत्र पूर्वव्यतीतानि विक्रान्तानीतराणि च ।
बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ॥२९॥

तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव ।
अभ्यागच्छत्तदा विप्रो वासुदेवधनञ्जयौ॥३०॥

बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः ।
हरिपिङ्गोज्ज्वलश्मश्रुः प्रमाणायामतः समः॥३१॥

हरिपिङ्गः नीलपीताखिलाङ्गः ज्वलश्मश्रुः ज्वालावत्पीतश्मश्रुः ॥३१॥

तरुणादित्यसङ्काशश्चीरवासा जटाधरः ।
पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव॥३२॥

उपसृष्टं तु तं कृष्णो भ्राजमानं द्विजोत्तमम् ।
अर्जुनोवासुदेवश्च तूर्णमुत्पत्य तस्थतुः॥३३॥

उपसृष्टं समीपागतम् उपलक्ष्य उत्पत्य आसनात् ॥३३॥
॥ इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि ब्राह्मणरूप्यनलागमने द्वाविंशत्यधिकद्विशततमोऽध्यायः॥२२२॥
त्रयोविंशत्यधिकद्विशततमोऽध्यायः

वैशंपायन उवाच। सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् ।
लोकप्रवीरौ तिष्ठन्तौ काण्डवस्य समीपतः॥१॥

त्रयोविंशत्यधिकद्विशततमोऽध्यायः सोऽब्रवीदिति ॥१॥

ब्राह्मणो बहुभोक्ताऽस्मि भुञ्जेऽपरिमितं सदा ।
भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छतम्॥२॥

वां भिक्षे युवां दातुं समर्थो प्रार्थये ॥२॥

एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ ।
केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे॥३॥

तस्यान्नस्य दाने ॥३॥

एवमुक्तः स भगवानब्रवीत्तावुभौ ततः ।
भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति॥४॥

क्रियतामिति । भाषमाणौ तौ प्रति अब्रवीदित्यन्वयः ॥४॥

ब्राह्मण उवाच। नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम् ।
यदन्नमनुरूपं मे तद्युवां संप्रयच्छतम्॥५॥

इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति ।
न च शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना॥६॥

वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा ।
सगणस्तत्कृते दावं परिरक्षति वज्रभृत्॥७॥

तत्र भूतान्यनेकानि रक्ष्यतेऽस्य प्रसङ्गतः ।
तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा॥८॥

भूतानि बहिर्निर्गन्तुकामानि ॥८॥

स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति ।
ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम्॥९॥

स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः ।
दहेयं खाण्डवं दावमेतदन्नं वृतं मया॥१०॥

युवां ह्युदकधारास्ता भूतानि च समन्ततः ।
उत्तमास्त्रविदौ सम्यक्सर्वतो वारयिष्यथः॥११॥

जनमेजय उवाच। किमर्थं भगवानग्निः खाण्डवं दग्धुमिच्छति ।
रक्ष्यमाणं महेन्द्रेण नानासत्वसमायुतम्॥१२॥

न ह्येतत्कारणं ब्रह्मन्नल्पं संप्रति भाति मे ।
यद्ददाह सुसंक्रुद्धः खाण्डवं हव्यवाहनः॥१३॥

एतद्विस्तरशो ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः ।
खाण्डवस्य पुरा दाहो यथा समभवन्मुने॥१४॥

वैशंपायन उवाच। शृणु मे ब्रुवतो राजन्सर्वमेतद्यथातथम् ।
यन्निमित्तं ददाहाग्निः खाण्डवं पृथिवीपते॥१५॥

हन्त ते कथयिष्यामि पौराणीमृषिसंस्तुताम् ।
कथामिमां नरश्रेष्ठ खाण्डवस्य विनाशिनीम्॥१६॥

पौराणः श्रूयते राजन्राजा हरिहयोपमः ।
श्वेतकिर्नाम विख्यातो बलविक्रमसंयुतः॥१७॥

यज्वा दानपतिर्धीमान्यथा नान्योऽस्ति कश्चन ।
ईजे च स महायज्ञैः क्रतुभिश्चाप्तदक्षिणैः॥१८॥

महायज्ञैः पञ्चभिर्देवयज्ञादिभिः स्मार्तैः क्रतुभिः श्रौतैर्ज्योतिष्टोमादिभिः । महासत्रैरिति पाठे सत्रमन्नदानं लोकप्रसिद्धेः ॥१८॥

तस्य नान्याऽभवद्बुद्धिर्दिवसे दिवसे नृप ।
सत्रे क्रियासमारम्भे दानेषु विविधेषु च॥१९॥

सत्रे यज्ञे ॥१९॥

ऋत्विग्भिः सहितो धीमानेवमीजे स भूमिपः ।
ततस्तु ऋत्विजश्चास्य धूमव्याकुललोचनाः॥२०॥

कालेन महता खिन्नास्तत्यजुस्ते नराधिपम् ।
ततः प्रसादयामास ऋत्विजस्तान्महीपतिः॥२१॥

चक्षुर्विकलतां प्राप्ता न प्रपेदुश्च ते क्रतुम् ।
ततस्तेषामनुमते तद्विप्रैस्तु नराधिपः॥२२॥

सत्रं समापयामास ऋत्विग्भिरपरैः सह ।
तस्यैवं वर्तमानस्य कदाचित्कालपर्यये॥२३॥

सत्रमहार्तुकामस्य संवत्सरशतं किल ।
ऋत्विजो नाभ्यपद्यन्त समाहर्तुं महात्मनः॥२४॥

स च राजाऽकरोद्यत्नं महान्तं ससुहृज्जनः ।
प्रणिपातेन सान्त्वेन दानेन च महायशाः॥२५॥

ऋत्विजोऽनुनयामास भूयो भूयस्त्वतन्द्रितः ।
ते चास्य तमभिप्रायं न चक्रुरमितौजसः॥२६॥

स चाश्रमस्थान्राजर्षिस्तानुवाच रुषान्वितः ।
यद्यहं पतितो विप्राः शुश्रूषां यां न च स्थितः॥२७॥

आशु त्याज्योऽस्मि युष्माभिर्ब्राह्मणैश्च जुगुप्सितः ।
तन्नार्हथ क्रतुश्रद्धां व्याघातयितुमद्य ताम्॥२८॥

अस्थाने वा परित्यागं कर्तुं मे द्विजसत्तमाः ।
प्रपन्न एव वो विप्राः प्रसादं कर्तुमर्हथ॥२९॥

सान्त्वदानादिभिर्वाक्यैस्तत्त्वतः कार्यवत्तया ।
प्रसादयित्वा वक्ष्यामि यन्नः कार्यं द्विजोत्तमाः॥३०॥

अथवाहं परित्यक्तो भवद्भिर्द्वेषकारणात् ।
ऋत्विजोऽन्यान्गमिष्यामि याजनार्थं द्विजोत्तमाः॥३१॥

एतावदुक्त्वा वचनं विरराम स पार्थिवः ।
यदा न शेकू राजानं याजनार्थं परन्तप॥३२॥

ततस्ते याजकाः क्रुद्धास्तमूचुर्नृपसत्तमम् ।
तव कर्माण्यजस्रं वै वर्तन्ते पार्थिवोत्तम॥३३॥

ततो वयं परिश्रान्ताः सततं कर्मवाहिनः ।
श्रमादस्मात्परिश्रान्तान्स त्वं नस्त्यक्तुमर्हसि॥३४॥

बुद्धिमोहं समास्थाय त्वरासंभावितोऽनघ ।
गच्छ रुद्रसकाशं त्वं सहि त्वां याजयिष्यति॥३५॥

बुद्धिमोहं बुद्धिवैकल्यम् । त्वरासंभावितस्त्वरावशः अस्मदीयश्रमाज्ञानादित्यर्थः ॥३५॥

साधिक्षेपं वचः श्रुत्वा संक्रुद्धः श्वेतकिर्नृपः ।
कैलासं पर्वतं गत्वा तप उग्रं समास्थितः॥३६॥

आराधयन्महादेवं नियतः संशितव्रतः ।
उपवासपरो राजन्दीर्घकालमतिष्ठत॥३७॥

कदाचिद्द्वादशे काले कदाचिदपि षोडशे ।
आहारमकरोद्राजा मूलानि च फलानि च॥३८॥

ऊर्ध्वबाहुस्त्वनिमिषस्तिष्ठन्स्थाणुरिवाचलः ।
षण्मासानभवद्राजा श्वेतकिः सुसमाहितः॥३९॥

तं तथा नृपशार्दूलं तप्यमानं महत्तपः ।
शङ्करः परमप्रीत्या दर्शयामास भारत॥४०॥

उवाच चैनं भगवान्स्निग्धगम्भीरया गिरा ।
प्रीतोऽस्मि नरशार्दूल तपसा ते परन्तप॥४१॥

वरं वृणीष्व भद्रं ते यं त्वमिच्छसि पार्थिव ।
एतच्छ्रुत्वा तु वचनं रुद्रस्यामिततेजसः॥४२॥

प्रणिपत्य महात्मानं राजर्षिः प्रत्यभाषत ।
यदि मे भगवान्प्रीतः सर्वलोकनमस्कृतः॥४३॥

स्वयं मां देवदेवेश याजयस्व सुरेश्वरः ।
एतच्छ्रुत्वा तु वचनं राज्ञा तेन प्रभाषितम्॥४४॥

उवाच भगवान्प्रीतः स्मितपूर्वमिदं वचः ।
नास्माकमेतद्विषये वर्तते याजनं प्रति॥४५॥

याजनं प्रति याजनम् उद्दिश्य । त्वया च सुमहत्तपस्तप्तम् । एतद्याजनम् अस्माकं विषये न वर्तते इति सम्बन्धः । वयं तु न याजनेऽधिकारिण इत्यर्थः ॥४५॥

त्वया च सुमहत्तप्तं तपो राजन्वरार्थिना ।
याजयिष्यामि राजंस्त्वां समयेन परन्तप॥४६॥

सततं त्वाज्यघाराभिः। अच्छिन्नया आज्यधारया । बहुत्वमवयवाभिप्रायम् ॥४६॥

रुद्र उवाच। समा द्वादश राजेन्द्र ब्रह्मचारी समाहितः ।
सततं त्वाज्यधाराभिर्यदि तर्पयसेऽनलम्॥४७॥

कामं प्रार्थयसे यं त्वं मत्तः प्राप्स्यसि तं नृप ।
एवमुक्तश्च रुद्रेण श्वेतकिर्मनुजाधिपः॥४८॥

तथा चकार तत्सर्वं यथोक्तं शूलपाणिना ।
पूर्णे तु द्वादशे वर्षे पुनरायान्महेश्वरः॥४९॥

दृष्ट्वैव च स राजानं शङ्करो लोकभावनः ।
उवाच परमप्रीतः श्वेतकिं नृपसत्तमम्॥५०॥

तोषितोऽहं नृपश्रेष्ठ त्वयेहाद्येन कर्मणा ।
याजनं ब्राह्मणानां तु विधिदृष्टं परन्तप॥५१॥

आद्येन अनादिवेदबोधितेन । विधिदृष्टं ब्राह्मणानामिदं हविरिति चतुर्धाकरणमन्त्रलिङ्गानुमितविधिदृष्टम् ॥५१॥

अतोऽहं त्वां स्वयं नाद्य याजयामि परन्तप ।
ममांशस्तु क्षितितले महाभागो द्विजोत्तमः॥५२॥

अत इति । स्वयं यज्ञभोक्ता भूत्वा ऋत्विङ्मानभङ्गभयात्स्वयं न याजयामीत्यर्थः ॥५२॥

दुर्वासा इति विख्यातः स हि त्वां याजयिष्यति ।
मन्नियोगान्महातेजाः संभाराः संभ्रियन्तु ते॥५३॥

एतच्छ्रुत्वा तु वचनं रुद्रेण समुदाहृतम् ।
स्वपुरं पुनरागम्य संभारान्पुनरार्जयत्॥५४॥

ततः संभृतसंभारो भूयो रुद्रमुपागमत् ।
संभृता मम संभाराः सर्वोपकरणानि च॥५५॥

त्वत्प्रसादानमहादेव श्वो मे दीक्षा भवेदिति ।
एतच्छ्रुत्वा तु वचनं तस्य राज्ञो महात्मनः॥५६॥

दुर्वाससं समाहूय रुद्रो वचनमब्रवीत् ।
एष राजा महाभागः श्वेतकिर्द्विजसत्तम॥५७॥

एनं याजय विप्रेन्द्र मन्नियोगेन भूमिपम् ।
बाढमित्येव वचनं रुद्रं त्वृषिरुवाच ह॥५८॥

ततः सत्रं समभवत्तस्य राज्ञो महात्मनः ।
यथाविधि यथाकालं यथोक्तं बहुदक्षिणम्॥५९॥

तस्मिन्परिसमाप्ते तु राज्ञः सत्रे महात्मनः ।
दुर्वाससाऽभ्यनुज्ञाता विप्रतस्थुः स्म याजकाः॥६०॥

ये तत्र दीक्षिताः सर्वे सदस्याश्च महौजसः ।
सोऽपि राजन्महाभागः स्वपुरं प्राविशत्तदा॥६१॥

दीक्षिताः कर्मसु निष्णाताः ॥६१॥

पूज्यमानो महाभागैर्ब्राह्मणैर्वेदपारगैः ।
बन्दिभिः स्तूयमानश्च नागरैश्चाभिनन्दितः॥६२॥

एवं वृत्तः स राजर्षिः श्वेतकिर्नृपसत्तमः ।
कालेन महता चापि ययौ स्वर्गमभिष्टुतः॥६३॥

ऋत्विग्भिः सहितः सर्वैः सदस्यैश्च समन्वितः ।
तस्य सत्रे पपौ वह्निर्हविर्द्वादशवत्सरान्॥६४॥

सततं चाज्यधाराभिरैकात्म्ये तत्र कर्मणि ।
हविषा च ततो वह्निः परां तृप्तिमगच्छत॥६५॥

न चैच्छत्पुनरादातुं हविरन्यस्य कस्यचित् ।
पाण्डुवर्णो विवर्णश्च न यथावत्प्रकाशते॥६६॥

ततो भघवतो वह्नेर्विकारः समजायत ।
तेजसा विप्रहीणश्च ग्लानिश्चैनं समाविशत्॥६७॥

स लक्षयित्वा चात्मानं तेजोहीनं हुताशनः ।
जगाम सदनं पुण्यं ब्रह्मणो लोकपूजितम्॥६८॥

तत्र ब्रह्माणमासीनमिदं वचनमब्रवीत् ।
भगवन्परमा प्रीतिः कृता मे श्वेतकिना॥६९॥

अरुचिश्चाभवत्तीव्रा तां न शक्नोम्यपोहितुम् ।
तेजसा विप्रहीणोऽस्मि बलेन च जगत्पते॥७०॥

इच्छेयं त्वत्प्रसादेन स्वात्मनः प्रकृतिं स्थिराम् ।
एतच्छ्रुत्वा हुतवहाद्भगवान्सर्वलोककृत्॥७१॥

प्रकृतिं स्वभावम् ॥७१॥

हव्यवाहमिदं वाक्यमुवाच प्रहसन्निव ।
त्वया द्वादश वर्षाणि वसोर्धाराहुतं हविः॥७२॥

वसोर्धारा पात्रविशेषः येन हूयमानं घृतद्रव्यं सन्ततधारीरूपेण क्षरति । तेन हुतं हविरर्थाद्धृतमेव । वसोर्धारां जुहोतीत्युपक्रम्य घृतस्य वा एनमेषा धारेति वाक्यशेषात् ॥७२॥

उपयुक्तं महाभाग तेन त्वां ग्लानिराविशत् ।
तेजसा विप्रहीणत्वात्सहसा हव्यवाहन॥७३॥

उपयुक्तं भुक्तम् ॥७३॥

मागमस्त्वं यथा वह्ने प्रकृतिस्थो भविष्यसि ।
अरुचिं नाशयिष्येहं समयं प्रतिपद्यते॥७४॥

मा गमः ग्लानिमिति विपरिणामेनानुषज्यते । यथेत्यस्य यथापूर्वमित्यर्थः ॥७४॥

पुरा देवनियोगेन यत्त्वया भस्मसात्कृतम् ।
आलयं देवशत्रूणां सुघोरं खाण्डवं वनम्॥७५॥

किं तत्खाण्डवमित्याकाङ्क्षायां पुरावृत्तं स्मारयति पुरेति ॥७५॥

तत्र सर्वाणि सत्वानि निवसन्ति विभावसो ।
तेषां त्वं मेदसा तृप्तः प्रकृतिस्थो भविष्यसि॥७६॥

गच्छ शीघ्रं प्रदग्धुं त्वं ततो मोक्ष्यसि किल्विषात् ।
एतच्छुत्वा तु वचनं परमेष्ठिमुखाच्च्युतम्॥७७॥

किल्बिषात् ग्लानिरूपात् ॥७७॥

उत्तमं जवमास्थाय प्रदुद्राव हुताशनः ।
आगम्य खाण्डवं दावमुत्तमं वीर्यमास्थितः ।
सहसा प्राज्वलच्चाग्निः क्रुद्धो वायुसमीरितः॥७८॥

प्रदीप्तं खाण्डवं दृष्ट्वा ये स्युस्तत्र निवासिनः ।
परमं यत्नमातिष्ठन्पावकस्य प्रशान्तये॥७९॥

करैस्तु करिणः शीघ्रं जलमादाय सत्वराः ।
सिषिचुः पावकं क्रुद्धाः शतशोऽथ सहस्रशः॥८०॥

बहुशीर्षास्ततो नागाः शिरोभिर्जलसन्ततिम् ।
मुमुचुः पावकाभ्याशे सत्वराः क्रोधमूर्च्छिताः॥८१॥

तथैवान्यानि सत्वानि नानाप्रहरणोद्यमैः ।
विलयं पावकं शीघ्रमनयन्भरतर्षभ॥८२॥

नानाप्रहरणोद्यमैः । नानाविधैः प्रहरणैः पांसुप्रक्षेपवृक्षशाखाताडनादिभिः । उद्यमैर्जलसेकादिभिश्च ॥८२॥

अनेन तु प्रकारेण भूयो भूयश्च प्रज्वलन् ।
सप्तकृत्वः प्रशमितः खाण्डवे हव्यवाहनः॥८३॥

इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि अग्निपरात्रयोविंशत्यधिकद्विशततमोऽध्यायः॥२२३॥
चतुर्विंशत्यधिकद्विशततमोऽध्यायः

वैशंपायन उवाच। स तु नैराश्यमापन्नः सदा ग्लानिसमन्वितः ।
पितामहमुपागच्छत्संक्रुद्धो हव्यवाहनः॥१॥

चतुर्विंशत्यधिकद्विशततमोऽध्यायः सत्विति ॥१॥

तच्च सर्वं यथान्यायं ब्रह्मणे संन्यवेदयत् ।
उवाच चैवनं भगवान्मुहूर्तं स विचिन्त्य तु॥२॥

उपायः परिदृष्टो मे यथा त्वं धक्ष्यसेऽनघ ।
कालं च कंचित्क्षमतां ततस्तां वक्ष्यतेऽनल॥३॥

भविष्यतः सहायौ ते नरनारायणौ तदा ।
ताभ्यां त्वं सहितो दावं धक्ष्यसे हव्यवाहन॥४॥

एवमस्त्विति तं वह्निर्ब्रह्माणं प्रत्यभाषत ।
संभूतौ तौ विदित्वा तु नरनारायणावृषी॥५॥

कालस्य महतो राजंस्तस्य वाक्यं स्वयंभुवः ।
अनुस्मृत्य जगामाथ पुनरेव पितामहम्॥६॥

अब्रवीच्च तदा ब्रह्मा यथा त्वं धक्ष्यसेऽनल ।
खाण्डवं दावमद्यैव मिषतोऽस्य शचीपतेः॥७॥

मिषतः पश्यतः ॥७॥

नरनारायणौ यौ तौ पूर्वदेवौ विभावसो ।
संप्राप्तौ मानुषे लोके कार्यार्थं हि दिवौकसाम्॥८॥

अर्जुनं वासुदेवं च यौ तौ लोकोऽभिमन्यते ।
तावेतौ सहितावेहि खाण्डवस्य समीपतः॥९॥

तौ त्वं याचस्व साहाय्ये दाहार्थं खाण्डवस्य च ।
ततो धक्ष्यसि तं दावं रक्षितं त्रिदशैरपि॥१०॥

तौ तु सत्वानि सर्वाणि यत्नतो वारयिष्यतः ।
देवराजं च सहितौ तत्र मे नास्ति संशयः॥११॥

एतच्छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः ।
कृष्णपार्थावुपागम्य यमर्थं त्वभ्यभाषत॥१२॥

तं ते कथितवानस्मि पूर्वमेव नृपोत्तम ।
तच्छ्रुत्वा वचनं त्वग्नेर्बीभत्सुर्जातवेदसम्॥१३॥

अब्रवीन्नृपशार्दूल तत्कालसदृशं वचः ।
दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः॥१४॥

शतक्रतोः सम्बन्धि ॥१४॥

अर्जुन उवाच। उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च ।
यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून्॥१५॥

धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम् ।
कुर्वतः समरे यत्नं वेगं यद्विषहेन्मम॥१६॥

शरैश्च मेर्थो बहुभिरक्षयैः क्षिप्रमस्यतः ।
न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान्॥१७॥

अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः ।
रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम्॥१८॥

तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् ।
येन नागान्पिशाचांश्च निहन्यान्माधवो रणे॥१९॥

उपायं कर्मसिद्धौ च भघवन्वक्तुमर्हसि ।
निवारयेयं येनेन्द्रं वर्षमाणं महावने॥२०॥

पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक ।
करणानि समर्थानि भगवन्दातुमर्हसि॥२१॥

करणानि युद्धसाधनानि धनुरादीनि ॥२१॥
॥ इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि अर्जुनाग्निसंवादे चतुर्विंशत्यधिकद्विशततमोऽध्यायः॥२२४॥
पञ्चविंशत्यधिकद्विशततमोऽध्यायः

वैशंपायन उवाच। एवमुक्तः स भगवान्धूमकेतुर्हुताशनः ।
चिन्तयामास वरुणं लोकपालं दिदृक्षया॥१॥

पञ्चविंशत्यधिकद्विशततमोऽध्यायः एवमिति ॥१॥

आदित्यमुदके देवं निवसन्तं जलेश्वरम् ।
स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम्॥२॥

आदित्यम् अदितेः पुत्रम् ॥२॥

तमब्रवीद्धूमकेतुः प्रतिगृह्य जलेश्वरम् ।
चतुर्थं लोकपालानां देवदेवं सनातनम्॥३॥

प्रतिगृह्य पूजादिना स्वायत्तीकृत्य ॥३॥

सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते ।
तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम्॥४॥

कार्यं च सुमहत्पार्थो गाण्डीवेन करिष्यति ।
चक्रेण वासुदेवश्च तन्ममाद्य प्रदीयताम्॥५॥

ददानीत्येव वरुणः पावकं प्रत्यभाषत ।
तदद्भुतं महावीर्यं यशःकीर्तिविवर्धनम्॥६॥

सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च ।
सर्वायुधमहामात्रं परसैन्यप्रधर्षणम्॥७॥

महामात्रम् अतिप्रमाणं समृद्धं प्रधानं वा॥७॥

एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ।
चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम्॥८॥

देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः ।
प्रादाच्चैव धनूरत्नमक्षय्यौ च महेषुधी॥९॥

रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् ।
उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः॥१०॥

राजतैः रजतवर्णैः ॥१०॥

पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे ।
सर्वोपकरणैर्युक्तमजय्यं देवदानवैः॥११॥

भावुमन्तं महाघोषं सर्वरत्नमनोरमम् ।
ससर्ज यं सुतपसा भौमनो भुवनप्रभुः॥१२॥

भानुमन्तं दीप्तिमन्तं भौमनो विश्वकर्मा ॥१२॥

प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव ।
यं स्म सोमः समारुह्य दानवानजयत्प्रभुः॥१३॥

नवमेघप्रतीकाशं ज्ललन्तमिव च श्रिया ।
आश्रितौ तं रथश्रेष्ठं शक्रायुधसमावुभौ॥१४॥

शक्रायुधसमौ देहवास छविभ्यां नीलपिशङ्गवर्णैौ ॥१४॥

तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा ।
तस्यां तु वानरो दिव्यः सिंहशार्दूलकेतनः॥१५॥

तापनीया सौवर्णी । सिंहशार्दुलत्रत् भयंकरः केतनः कायो यस्य सः । ‘केतनं लांछने काये’ इति विश्वः ॥१५॥

दिधक्षन्निव तत्र स्म संस्थितो मूर्ध्न्यशोभत ।
ध्वजे भूतानि तत्रासन्विविधानि महान्ति च॥१६॥

नादेन रिपुसैन्यानां येषां संज्ञा प्रणश्यति ।
स तं नानापताकाभिः शोभितं रथसत्तमम्॥१७॥

नादेन येषाम् ॥१७॥

प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च ।
सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रकः॥१८॥

आरुरोह तदा पार्थो विमानं सुकृती यथा ।
तच्च दिव्यं धनुः श्रेष्ठं ब्रह्मणा निर्मितं पुरा॥१९॥

गाण्डीवमुपसंगृह्य बभूव मुदितोऽर्जुनः ।
हुताशनं पुरस्कृत्य ततस्तदपि वीर्यवान्॥२०॥

जग्राह बलमास्थाय ज्यया च युयुजे धनुः ।
मौर्व्यां तु योज्यमानायां बलिना पाण्डवेन ह॥२१॥

ज्यया मौर्व्या ॥२१॥

येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः ।
लब्ध्वा रथं धनुश्चैव तथाक्षय्ये महेषुधी॥२२॥

बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि ।
वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः॥२३॥

कल्यः समर्थः । साह्यकर्मणि साहाय्यके । वज्रं वरत्रासा नाभौ यस्य तत् । सूत्रबद्धशकुनिवत्पुनः प्रयोक्तुर्हस्तमायातीत्यर्थः ‘वज्रं त्रपुवरत्रयोः’ इति मेदिनी ॥२३॥

आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा ।
अब्रवीत्पावकश्चैवमेतेन मधुसूदन॥२४॥

अत एवाग्नेयम् अस्त्रमिवास्त्रम् ॥२४॥

अमानुषानपि रणे जेष्यसि त्वमसंशयम् ।
अनेन तु मनुष्याणां देवानामपि चाहवे॥२५॥

रक्षःपिशाचदैत्यानां नागानां चाधिकस्तथा ।
भविष्यसि न सन्देहः प्रवरोऽपि निबर्हणे॥२६॥

क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु ।
हत्वाऽप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः॥२७॥

तदेवाह क्षिप्तं क्षिप्तमिति ॥२७॥

वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् ।
दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं प्रभुः॥२८॥

ततः पावकमब्रूतां प्रहृष्टावर्जुनाच्युतौ ।
कृतास्त्रौ शस्त्रसंपन्नौ रथिनौ ध्वजिनावपि॥२९॥

कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः ।
किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सता॥३०॥

युयुत्सता योद्धुमिच्छता ॥३०॥

अर्जुन उवाच। चक्रपाणिर्हृषीकेशो विचरन्युधि वीर्यवान् ।
चक्रेण भस्मसात्सर्वं विसृष्टेन तु वीर्यवान् ।
त्रिषु लोकेषु तन्नास्ति यन्न कुर्याज्जनार्दनः॥३१॥

गाण्डीवं धनुरादाय तथाऽक्षय्ये महेषुधी ।
अहमप्युत्सहे लोकान्विजेतुं युधि पावक॥३२॥

सर्वतः परिवार्यैवं दावमेतं महाप्रभो ।
कामं संप्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि॥३३॥

वैशंपायन उवाच। एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च ।
तैजसं रपमास्थाय दावं दग्धुं प्रचक्रमे॥३४॥

सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तथा ।
ददाह खाण्डवं दावं युगान्तमिव दर्शयन्॥३५॥

सप्तार्चिः कालीकरालीप्रभृतिसप्तजिह्वावान् ॥३५॥

प्रतिगृह्य समाविश्य तद्वनं भरतर्षभ ।
मेघस्तनितनिर्घोषः सर्वभूतान्यकम्पयत्॥३६॥

दह्यतस्तस्य च बभौ रूपं दावस्य भारत ।
मेरोरिव नगेन्द्रस्य कीर्णस्यांशुमतोंऽशुभिः॥३७॥

दह्यतः दह्यमानस्य ॥३७॥
॥ इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि गाण्डीवादिदाने पञ्चविंशत्यधिकद्विशततमोऽध्यायः॥२२५॥
षड्विंशत्यधिकद्विशततमोऽध्यायः

वैशंपायन उवाच। तौ रथाभ्यां रथश्रेष्ठौ दावस्योभयतः स्थितौ ।
दिक्षु सर्वासु भूतानां चक्राते कदनं महत्॥१॥

षड्विंशत्यधिकद्विशततमोऽध्यायः तौ रथाभ्यामिति । आश्रितो तं रथं श्रेष्ठमिति द्वयोरेकरथस्थत्वं प्रागुक्तं तच्छोभामात्रं भाव्युपयोगसूचनार्थम् । इह तु पृथग्रथस्थावेवेति ज्ञेयम् ॥१॥

यत्र यत्र च दृश्यन्ते प्राणिनः खाण्डवालयाः ।
पलायन्तः प्रवीरौ तौ तत्र तत्राभ्यधावताम्॥२॥

छिद्रं न स्म प्रपश्यन्ति रथयोराशुचारिणोः ।
आविद्धावेव दृश्येते रथिनौ तौ रथोत्तमौ॥३॥

आविद्वावेव अलातचक्रवद्भ्रामितावेव ॥३॥

खाण्डवे दह्यमाने तु भूता: शतसहस्रशः ।
उत्पेतुर्भैरवान्नादान्विनदन्तः समन्ततः॥४॥

दग्धैकदेशा बहवो निष्टप्ताश्च तथाऽपरे ।
स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च तथाऽपरे॥५॥

निष्टप्ता अतितप्ताः विशीर्णाः कर्कटीफलवद्विदीर्णाः । विप्लुताः भयाद्विदुताः ॥५॥

समालिङ्ग्य सुतानन्ये पितॄन्भ्रातॄनथाऽपरे ।
त्यक्तुं न शेकुः स्नेहेन तत्रैव निधनं गताः॥६॥

सन्दष्टदशनाश्चान्ये समुत्पेतुरनेकशः ।
ततस्तेऽतीव घूर्णन्तः पुनरग्नौ प्रपेदिरे॥७॥

दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले ।
तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः॥८॥

जलाशयेषु तप्तेषु क्वाथ्यमानेषु वह्निना ।
गतसत्वाः स्म दृश्यन्ते कूर्ममत्स्याः समन्ततः॥९॥

शरीरैरपरे दीप्तैर्देहवन्त इवाग्नयः ।
अदृश्यन्त वने तत्र प्राणिनः प्राणिसंक्षये॥१०॥

शरीरैर्दीप्तैर्लोहप्रतिमावदत्यन्ततप्तैः ॥१०॥

कांश्चिदुत्पततः पार्थः शरैः संच्छिद्य खण्डशः ।
पातयामास विहगान्प्रदीप्ते वसुरेतसि॥११॥

वसुरेतसि वह्नौ ॥११॥

ते शराचितसर्वाङ्गा निनदन्तो महारवान् ।
ऊर्ध्वमुत्पत्य वेगेन निपेतुः खाण्डवे पुनः॥१२॥

शरैरभ्याहतानां च सङ्घशः स्म वनौकसाम् ।
विरावः शुश्रुवे घोरः समुद्रस्येव मथ्यतः॥१३॥

मथ्यतः मथ्यमानस्य ॥१३॥

वह्नेश्चापि प्रदीप्तस्य खमुत्पेतुर्महार्चिषः ।
जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम्॥१४॥

तेनार्चिषा सुसन्तप्ता देवाः सर्षिपुरोगमाः ।
ततो जग्मुर्महात्मानः सर्व एव दिवौकसः ।
शतक्रतुं सहस्राक्षं देवेशमसुरार्दनम्॥१५॥

देवा ऊचुः। किं न्विमे मानवाः सर्वे दह्यन्ते चित्रभानुना ।
कच्चिन्न संक्षयः प्राप्तो लोकानाममरेश्वर॥१६॥

वैशंपायन उवाच। तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च ।
खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः॥१७॥

महता रथवृन्देन नानारूपेण वासवः ।
आकाशं समवाकीर्य प्रववर्ष सुरेश्वरः॥१८॥

ततोऽक्षमात्रा व्यसृजन्धाराः शतसहस्रशः ।
चोदिता देवराजेन जलदाः खाण्डवं प्रति॥१९॥

अक्षः रथचक्रद्वयसंधानकाष्ठं तत्प्रमाणा अक्षमात्राः ॥१९॥

असंप्राप्तास्तु ता धारास्तेजसा जातवेदसः ।
ख एव समशुष्यन्त न काश्चित्पावकं गताः॥२०॥

ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा ।
पुनरेव महामेघैरम्भांसि व्यसृजद्बहु॥२१॥

अर्चिर्धाराभिसंबद्धं धूमविद्युत्समाकुलम् ।
बभूव तद्वनं घोरं स्तनयित्नुसमाकुलम्॥२२॥

॥ इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि इन्द्रक्रोधे षड्विंशत्यधिकद्विशततमोऽध्यायः॥२२६॥
सप्तविंशत्यधिकद्विशततमोऽध्यायः

वैशंपायन उवाच। तस्याथ वर्षतो वारि पाण्डवः प्रत्यवारयत् ।
शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन्॥१॥

सप्तविंशत्यधिकद्दिशततमोऽध्यायः तस्याथेति ॥१॥

खाण्डवं च वनं सर्वं पाण्डवो बहुभिः शरैः ।
आच्छादयदमेयात्मा नीहारेणेव चन्द्रमाः॥२॥

न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः ।
संच्छाद्यमाने खे बाणैरस्यता सव्यसाचिना॥३॥

तक्षकस्तु न तत्रासीन्नागराजो महाबलः ।
दह्यमाने वने तस्मिन्कुरुक्षेत्रं गतो हि सः॥४॥

अश्वसेनोऽभवत्तत्र तक्षकस्य सुतो बली ।
स यत्नमकरोत्तीव्रं मोक्षार्थं जातवेदसः॥५॥

न शशाक स निर्गन्तुं निरुद्धोर्जुनपत्रिभिः ।
मोक्षयामास तं माता निगीर्य भुजगात्मजा॥६॥

तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते ।
निगीर्यमाणा साक्रामत्सुतं नागी मुमुक्षया॥७॥

निगीर्यते यावता कालेन तावतैव निगीर्यमाणा अर्जुनेन हन्यमाना सती आक्रामत् क्रान्तवती खमिति शेषः । मुमुक्षया मोचनेच्छया ॥७॥

तस्याः शरेण तीक्ष्णेन पृथुधारेण पाण्डवः ।
शिरश्चिच्छेद गच्छन्त्यास्तामपश्यच्छचीपतिः॥८॥

तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् ।
मोहयामास तत्कालमश्वसेनस्त्वमुच्यत॥९॥

तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः ।
द्विधा त्रिधा च खगतान्प्राणिनः पाण्डवोच्छिनत्॥१०॥

शशाप तं च संक्रुद्धो बीभत्सुर्जिह्मगामिनम् ।
पावको वासुदेवश्चाप्यप्रतिष्ठो भविष्यसि॥११॥

अप्रतिष्ठो निराश्रय असंततिर्वा ॥११॥

ततो जिष्णुः सहस्राक्षं खं वितत्याशुगैः शरैः ।
योधयामास संक्रुद्धो वञ्चनां तामनुस्मरन्॥१२॥

देवराजोऽपि तं दृष्ट्वा संरब्धं समरेऽर्जुनम् ।
स्वमस्त्रमसृजत्तीव्रं छादयित्वाऽखिलं नभः॥१३॥

ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् ।
वियत्स्थो जनयन्मेघाञ्जलधारासमाकुलान्॥१४॥

ततोऽशनिमुचो घोरांस्तडित्स्तनितनिःस्वनान् ।
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम्॥१५॥

वायव्यमभिमन्त्र्याथ प्रतिपत्तिविशारदः ।
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम्॥१६॥

जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः ।
क्षणेन चाभवद्व्योम संप्रशान्तरजस्तमः॥१७॥

सुखशीतानिलवहं प्रकृतिस्थार्कमण्डलम् ।
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः॥१८॥

निष्प्रतीकारं बलवदाश्रयात् भावि ग्लानिहीनं हृष्टं हर्षो यस्य सः ॥१८॥

सिच्यमानो वसौघैस्तैः प्राणिनां देहनिःसृतैः ।
प्रजज्वालाथ सोऽर्चिष्मान्स्वनादैः पूरयञ्जगत्॥१९॥

कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः ।
खमुत्पेतुर्महाराज सुपर्णाद्याः पतत्त्रिणः॥२०॥

गरुत्मान्वज्रसदृशैः पक्षतुण्डनखैस्तथा ।
प्रहर्तुकामो न्यपतदाकाशात्कृष्णपाण्डवौ॥२१॥

तथैवोरगसङ्घाताः पाण्डवस्य समीपतः ।
उत्सृजन्तो विषं घोरं निपेतुर्ज्वलिताननाः॥२२॥

तांश्चकर्त शरैः पार्थः सरोषाग्निसमुक्षितैः ।
विविशुश्चापि तं दीप्तं देहाभावाय पावकम्॥२३॥

ततोऽसुराः सगन्धर्वा यक्षराक्षसपन्नगाः ।
उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिनः॥२४॥

अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः ।
कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः॥२५॥

अयःकणान् लोहगुलिकाः पिवतीति तथाविधम् आग्नेयौषधबलेन गर्भसंभृता लोहगुलिकास्तारका इव विकीर्यन्ते येन तद्यन्त्रमयः कणपं लोहमयम् । तथा चक्राश्मसंज्ञं यस्य भ्रमिबलेन महान्तोपि पाषाणा अतिदूरे क्षिप्यन्ते तत्काष्ठमयं यन्त्रं भुशुण्डी चर्मरज्जुमयं यन्त्रं पाषाणक्षेपणमेव । तैः उद्यताः बाहवो येषां ते असुरादयः । अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः । क्रोधसंम्च्छितौजसः क्रोधेन संवर्द्धिततेजसः ॥२५॥

तेषामतिव्याहरतां शस्त्रवर्षं प्रमुञ्चताम् ।
प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः॥२६॥

अतिव्याहरतां कत्थमानानाम् ॥२६॥

कृष्णश्च सुमहातेजाश्चक्रेणारिविनाशनः ।
दैत्यदानवसङ्घानां चकीर कदनं महत्॥२७॥

अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तथा ।
वेलामिव समासाद्य व्यतिष्ठन्नमितौजसः॥२८॥

यथा चक्रवेगेन जलावर्तप्रवाहेण ईरितास्तृणादयो वेलां प्राप्य विष्ठितत्वं स्तब्धत्वं प्राप्य तिष्ठन्ति । एवं चक्रवेगेन अस्त्रवलजवेन ईरिता असुराद्याः कृष्णार्जुनौ प्राप्य व्यतिष्ठन्नित्यर्थः । चक्रः कोके इत्युपक्रम्य ‘कुम्भकारोपकरणास्त्रयोः जलावर्ते’ इति मेदिनी ॥२८॥

ततः शक्रोऽतिसंक्रुद्धस्त्रिदशानां महेश्वरः ।
पाण्डुरं गजमास्थाय तावुभौ समुपाद्रवत्॥२९॥

वेगेनाशनिमादाय वज्रमस्त्रं च सोऽसृजत् ।
हतावेताविति प्राह सुरानसुरसूदनः॥३०॥

ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् ।
जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तथा॥३१॥

कालदण्डं यमो राजन् गदां चैव धनेश्वरः ।
पाशांश्च तत्र वरुणो विचित्रां च तथाशनिम्॥३२॥

गदां चैवेत्यत्र शिबिकामिति पाठे शिबिका गदेति प्राश्चः शिंबिकामिति सानुस्वारपाठे तु तत्सदृशमीषद्वक्रमायुधमिति तु तत्त्वम् । तच्च द्रविडकैवर्तेषु प्रसिद्धं दारुमयम् । लोहमयमपि बलवत्सु संभाव्यत एव ॥३२॥

स्कन्दः शक्तिं समादाय तस्थौ मेरुरिवाचलः ।
ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि॥३३॥

जगृहे च धनुर्धाता मुसलं तु जयस्तथा ।
पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः॥३४॥

पूर्वतं चापीत्यत्र विचक्रं परीतिपाठे विचक्रं त्रिशूलम् ॥३४॥

अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् ।
प्रगृह्य परिघं घोरं विचचारार्यमा अपि॥३५॥

अर्यमा अपीत्यत्र सन्धिरविवक्षितः ॥३५॥

मित्रश्च क्षुरपर्यन्तं चक्रमादाय तस्थिवान् ।
पूषा भगश्च संक्रुद्धः सविता च विशांपते॥३६॥

आत्तकार्मुकनिस्त्रिंशाः कृष्णापार्थौ प्रदुद्रुवुः ।
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः॥३७॥

विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा ।
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ॥३८॥

कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः ।
तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे॥३९॥

निमित्तानि सूचकानि उल्कापातादीनि ॥३९॥

युगान्तसमरूपाणि भूतसंमोहनानि च ।
तथा दृष्ट्वा सुसंरब्धं शक्रं देवैः सहाच्युतौ॥४०॥

अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ ।
आगच्छतस्ततो देवानुभौ युद्धविशारदौ॥४१॥

व्यताडयेतां संक्रुद्धौ शरैर्वज्रोपमैस्तदा ।
असकृद्भग्नसंकल्पाः सुराश्च बहुशः कृताः॥४२॥

भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः ।
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च॥४३॥

आश्चर्यमगमंस्तत्र मुनयो नभसि स्थिताः ।
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे॥४४॥

बभूव परमप्रीतो भूयश्चैतावयोधयत् ।
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः॥४५॥

भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः ।
तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षितः॥४६॥

विफलं क्रियमाणं तत्समवेक्ष्य शतक्रतुः ।
भूयः संवर्धयामास तद्वर्षं पाकशासनः॥४७॥

सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः ।
विलयं गमयामास हर्षयन्पितरं तथा॥४८॥

तत उत्पाट्य पाणिभ्यां मन्दराच्छिखरं महत् ।
स द्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम्॥४९॥

ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः ।
शरैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा॥५०॥

गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ ।
सार्कचन्द्रग्रहस्येव नभसः परिशीर्यतः॥५१॥

गिरेः गिरिशृङ्गस्य ॥५१॥

तेनाभिपतता दावं शैलेन महता भृशम् ।
शृङ्गेण निहतास्तत्र प्राणिनः खाण्डवालयाः॥५२॥

शैलेन शिलासमूहन करणेन शृङ्गेण कर्त्रा ॥५२॥
॥ इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि देवकृष्णार्जुनयुद्धे सप्तविंशत्यधिकद्विशततमोऽध्यायः॥२२७॥
॥समाप्तं खाण्डवदाहपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in