वैशंपायन उवाच।
तथा शैलनिपातेन भीषिताः खाण्डवालयाः
।
दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः॥१॥
अष्टाविंशत्यधिकद्विशततमोऽध्यायः तथेति । तरक्षवःस्वल्पव्याघ्राः ऋक्षाः भल्लाः ॥१॥
द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा
।
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा॥२॥
प्रभिन्नाः मदच्युताः केसरिण: उत्पन्नकेसराः युवान इत्यर्थः ॥२॥
समुद्विग्ना विससृपुस्तथान्या भूतजातयः
।
तं दावं समुदैक्षन्त कृष्णौ चाभ्युद्यतायुधौ॥३॥
दावं वनम् ॥३॥
उत्पातनादशब्देन संत्रासिता इव स्थिताः
।
ते वनं प्रसमीक्ष्याथ दह्यमानमनेकधा॥४॥
उत्पातनादीः निर्घातादयस्तच्छब्देन संत्रासिते वने इति शेषः । सञ्चारित इति पाठेपि स एवार्थः ॥४॥
कृष्णमभ्युद्यतास्त्रं च नादं मुमुचुरुल्बणम्
।
तेन नादेन रौद्रेण नादेन च विभावसोः॥५॥
ररास गगनं कृत्स्नमुत्पातजलदैरिव
।
ततः कृष्णो महाबाहुः स्वतेजो भास्वरं महत्॥६॥
ररास शब्दं कृतवान् ॥६॥
चक्रं व्यसृजदत्युग्रं तेषां नाशाय केशवः
।
तेनार्ता जातयः क्षुद्राः सदानवनिशाचराः॥७॥
निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात्
।
तत्रादृश्यन्त ते दैत्याः कृष्णचक्रविदारिताः॥८॥
वसारुधिरसंपृक्ताः सन्ध्यायामिव तोयदाः
।
पिशाचान्पक्षिणो नागान्पशूंश्चैव सहस्रशः॥९॥
निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत
।
क्षिप्तं क्षिप्तं पुनश्चक्रं कृष्णस्यामित्रघातिनः॥१०॥
छित्त्वानेकानि सत्वानि पाणिमेति पुनः पुनः
।
तथा तु निघ्नतस्तस्य पिशाचोरगराक्षसान्॥११॥
बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा
।
समेतानां च सर्वेषां दानवानां च सर्वशः॥१२॥
विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे
।
तयोर्बलात्परित्रातुं तं च दावं यदा सुराः॥१३॥
नाशक्नुवञ्शमयितुं तदाऽभूवन्पराङ्मुखाः
।
शतक्रतुस्तु संप्रेक्ष्य विमुखानमरांस्तथा॥१४॥
बभूव मुदितो राजन्प्रशंसन्केशवार्जुनौ
।
निवृत्तेष्वथ देवेषु वागुवाचाशरीरिणी॥१५॥
शतक्रतुं समाभाष्य महागम्भीरनिःस्वना
।
न ते सखा सन्निहितस्तक्षको भुजगोत्तमः॥१६॥
दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ
।
न च शक्यौ युधा जेतुं कथंचिदपि वासव॥१७॥
वासुदेवार्जुनावेतौ निबोध वचनान्मम
।
नरनारायणावेतौ पूर्वदेवौ दिवि श्रुतौ॥१८॥
भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ
।
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि॥१९॥
अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ
।
पूजनीयतमावेतावपि सर्वैः सुरासुरैः॥२०॥
यक्षराक्षसगन्धर्वनरकिन्नरपन्नगैः
।
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव॥२१॥
दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम्
।
इति वाक्यमुपश्रुत्य तथ्यमित्यमरेश्वरः॥२२॥
क्रोधामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा
।
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः॥२३॥
सहिताः सेनया राजन्ननुजग्मुः पुरन्दरम्
।
देवराजं तदा यान्तं सहदेवैरवेक्ष्य तु॥२४॥
वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः
।
देवराजे गते राजन्प्रहृष्टौ केशवार्जुनौ॥२५॥
निर्विशङ्कं वनं वीरौ दाहयामासतुस्तदा
।
स मारुत इवाभ्राणि नाशयित्वाऽर्जुनः सुरान्॥२६॥
व्यधमच्छरसङ्घातैर्देहिनः खाण्डवालयान्
।
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः॥२७॥
संच्छिद्यमानमिषुभिरस्यता सव्यसाचिना
।
नाशक्नुवंश्च भूतानि महान्त्यपि रणेऽर्जुनम्॥२८॥
निरीक्षितुममोघास्त्रं योद्धुं चापि कुतो रणे
।
शतं चैकेन विव्याध शतेनैकं पतत्रिणाम्॥२९॥
व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव
।
न चालभन्त ते शर्म रोधःसु विषमेषु च॥३०॥
पितृदेवनिवासेषु सन्तापश्चाप्यजायत
।
भूतसङ्घाश्च बहवो दीनाश्चक्रुर्महास्वनम्॥३१॥
रुरुदुर्वारणाश्चैव तथा मृगतरक्षवः
।
तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः॥३२॥
गङ्गोदधिचरा इति अतिदूस्थोपलक्षणम् ॥३२॥
विद्याधरगणाश्चैव ये च तत्र वनौकसः
।
न त्वर्जुनं महाबाहो नापि कृष्णं जनार्दनम्॥३३॥
निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः
।
एकायनगता येऽपि निष्पेतुस्तत्र केचन॥३४॥
एकायनगताः सन्धीभूताः ॥३४॥
राक्षसा दानवा नागा जघ्ने चक्रेण तान्हरिः
।
ते तु भिन्नशिरोदेहाश्चक्रवेगाद्गतासवः॥३५॥
पेतुरन्ये महाकायाः प्रदीप्ते वसुरेतसि
।
स मांसरुधिरौधैश्च वसाभिश्चापि तर्पितः॥३६॥
उपर्याकाशगो भूत्वा विधूमः समपद्यत
।
दीप्ताक्षो दीप्तजिह्वश्च संप्रदीप्तमहाननः॥३७॥
दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम्
।
तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः॥३८॥
कृतां दत्तां सुधां स्वभोजनम् ॥३८॥
बभूव मुदितस्तृप्तः परां निर्वृतिमागतः
।
तथाऽसुरं मयं नाम तक्षकस्य निवेशनात्॥३९॥
विप्रद्रवन्तं सहसा ददर्श मधुसूदनः
।
तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः॥४०॥
शरीरवाञ्जटी भूत्वा नदन्निव बलाहकः
।
विज्ञाय दानवेन्द्राणां मयं वै शिल्पिनां वरम्॥४१॥
जिघांसुर्वासुदेवस्तं चक्रमुद्यम्य धिष्ठितः
।
स चक्रमुद्यतं दृष्ट्वा दिधक्षन्तं च पावकम्॥४२॥
अभिधावार्जुनेत्येवं मयस्त्राहीति चाब्रवीत्
।
तस्य भीतस्वनं श्रुत्वा मा भैरिति धनंजयः॥४३॥
प्रत्युवाच मयं पार्थो जीवयन्निव भारत
।
तं न भेतव्यमित्याह मयं पार्थो दयापरः॥४४॥
तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम्
।
न हन्तुमैच्छद्दाशार्हः पावको न ददाह च॥४५॥
वैशंपायन उवाच।
तद्वनं पावको धीमान्दिनानि दश पञ्च च
।
ददाह कृष्णपार्थाभ्यां रक्षितः पाकशासनात्॥४६॥
तस्मिन्वने दह्यमाने षडग्निर्न ददाह च
।
अश्वसेनं मयं चैव चतुरः शार्ङ्गकांस्तथा॥४७॥
शार्ङ्गकान् पक्षिविशेषान् ॥४७॥
॥ इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि मयदानवत्राणे अष्टाविंशत्यधिकद्विशततमोऽध्यायः॥२२८॥
जनमेजय उवाच।
किमर्थं शार्ङ्गकानग्निर्न ददाह तथा गते
।
तस्मिन्वने दह्यमाने ब्रह्मन्नेतत्प्रचक्ष्व मे॥१॥
ऊनत्रिंशदधिकद्विशततमोऽध्यायः किमर्थमिति ॥१॥
अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च
।
कारणं कीर्तितं ब्रह्मञ्च्छार्ङ्गकाणां न कीर्तितम्॥२॥
तदेतदद्भुतं ब्रह्मञ्च्छार्ङ्गकाणामनामयम्
।
कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः॥३॥
वैशंपायन उवाच।
यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते
।
तत्ते सर्वं प्रवक्ष्यामि यथाभूतमरिन्दम॥४॥
धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः
।
आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः॥५॥
स मार्गमाश्रितो राजन्नृषीणामूर्ध्वरेतसाम्
।
स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः॥६॥
स गत्वा तपसः पारं देहमुत्सृज्य भारत
।
जगाम पितृलोकाय न लेभे तत्र तत्फलम्॥७॥
स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि
।
पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः॥८॥
मन्दपाल उवाच।
किमर्थमावृता लोका ममैते तपसाऽर्जिताः
।
किं मया न कृतं तत्र यस्यैतत्कर्मणः फलम्॥९॥
आवृताः प्रतिषिद्धभोगाः ॥९॥
तत्राहं तत्करिष्यामि यदर्थमिदमावृतम्
।
फलमेतस्य तपसः कथयध्वं दिवौकसः॥१०॥
देवा ऊचुः।
ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु
।
क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः॥११॥
तदपाक्रियते सर्वं यज्ञेन तपसा श्रुतैः
।
तपस्वी यज्ञकृच्चासि न च ते विद्यते प्रजा॥१२॥
त इमे प्रसवस्यार्थे तव लोकाः समावृताः
।
प्रजायस्व ततो लोकानुपभोक्ष्यसि पुष्कलान्॥१३॥
प्रजायस्व प्रजेच्छां कुरु ॥१३॥
पुन्नाम्नो नरकात्पुत्रस्त्रायते पितरं श्रुतिः
।
तस्मादपत्यसन्ताने यतस्व ब्रह्मसत्तम॥१४॥
अपत्यसन्ताने सन्ततेरविच्छेदे ॥१४॥
वैशंपायन उवाच।
तच्छ्रुत्वा मन्दपालस्तु वचस्तेषां दिवौकसाम्
।
क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत्॥१५॥
स चिन्तयन्नभ्यगच्छत्सुबहुप्रसवान्खगान्
।
शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान्॥१६॥
जरितां नाम भार्याम् ॥१६॥
तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः
।
तानपास्य स तत्रैव जगाम लपितां प्रति॥१७॥
लपितां नामापरां भार्याम् ॥१७॥
बालान्स तानण्डगतान्सह मात्रा मुनिर्वने
।
तस्मिन्गते महाभागे लपितां प्रति भारत॥१८॥
तान्वालानपास्येति सम्बन्धः॥१८॥
अपत्यस्नेहसंयुक्ता जरिता बह्वचिन्तयत्
।
तेन त्यक्ता न संत्याज्यानृषीनण्डगतान्वने॥१९॥
न जहौ पुत्रशोकार्ता जरिता खाण्डवे सुतान्
।
बभार चैतान्संजातान्स्ववृत्त्या स्नेहविप्लवा॥२०॥
ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः
।
मन्दपालश्चरंस्तस्मिन्वने लपितया सह॥२१॥
तं संकल्पं विदित्वाग्नेर्ज्ञात्वा पुत्रांश्च बालकान्
।
सोऽभितुष्टाव विप्रर्षिब्रार्ह्मणो जातवेदसम्॥२२॥
पुत्रान्प्रतिवदन्भीतो लोकपालं महौजसम्
।
मन्दपाल उवाच।
त्वमग्ने सर्वलोकानां मुखं त्वमसि हव्यवाट्॥२३॥
मुखमिति जीवरूपेण भोक्तृत्वम् ॥२३॥
त्वमन्तः सर्वभूतानां गूढश्चरसि पावक
।
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः॥२४॥
गूढ इति ब्रह्मरूपेणागोचरत्वम् । त्रिविधं दिव्यं भौममादर्यं च ॥२४॥
त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन्
।
त्वया विश्वमिदं सृष्टं वदन्ति परमर्षयः॥२५॥
अष्टधापञ्चभूतात्मना सूर्यचन्द्रयजमानरूपेण च । यज्ञवाहं यज्ञनिर्वाहकम् ॥२५॥
त्वदृते हि जगत्कृत्स्नं सद्यो नश्येद्धुताशन
।
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम्॥२६॥
त्वया सद्रूपेण विना नश्येददर्शनं गच्छेत् । निरधिष्ठानकभ्रमायोगादित्यर्थः । कर्मिणां त्वमेव गतिरित्याह तुभ्यमिति ॥२६॥
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम्
।
त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः॥२७॥
पालनं संहारश्च तवैव कर्मणी इत्याह त्वामिति ॥२७॥
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः
।
जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते॥२८॥
हेतयः ज्वालाः । जगत्सृष्टिस्त्वत्त एवेत्याह जातवेद इति ॥२८॥
तवैव कर्मविहितं भूतं सर्वं चराचरम्
।
त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत्॥२९॥
तवैवेति । कर्मविधायको वेदोपि तवैव वाक्यम् । 'निःश्वसितमेतदृग्वेदः, इत्यादिश्रुतेः । आप इति भूतान्तरोपलक्षणम् । त्वयि अधिष्ठाने ॥२९॥
त्वयि हव्यं च कव्यं च यथावत्संप्रतिष्ठितम्
।
त्वमेव दहनो देव त्वं धाता त्वं बृहस्पतिः॥३०॥
हव्यादिप्रतिष्ठाभोक्तत्वेन फलदातृत्वेन च त्वमेवेत्याह । त्वयीति ॥३०॥
त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः
।
वैशंपायन उवाच।
एवं स्तुतस्तदा तेन मन्दपालेन पावकः॥३१॥
तुतोष तस्य नृपते मुनेरमिततेजसः
।
उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते॥३२॥
तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम्
।
प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय॥३३॥
तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः
।
खाण्डवे तेन काले न प्रजज्वाल दिदक्षया॥३४॥
खाण्डवे वने । तेन हेतुना । काले दाहवेलायाम् । शार्ङ्गाकाणां दिधक्षया न प्रजज्वाल ॥३४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि शार्ङ्गकोपाख्याने ऊनत्रिंशदधिकद्विशततमोऽध्यायः॥२२९॥
वैशंपायन उवाच।
ततः प्रज्वलिते वह्नौ शार्ङ्गकास्ते सुदुःखिताः
।
व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम्॥१॥
त्रिंशदधिकद्विशततमोऽध्यायः तत इति । परायणं त्रातारम् ॥१॥
निशम्य पुत्रकान्बालान्माता तेषां तपस्विनी
।
जरिता शोकदुःखार्ता विललाप सुदुःखिता॥२॥
निशम्य आलोच्य ॥२॥
जरितोवाच
।
अयमग्निर्दहन्कक्षमित आयाति भीषणः
।
जगत्संदीपयन्भीमो मम दुःखविवर्धनः॥३॥
कक्षं वनम् ॥३॥
इमे च मां कर्षयन्ति शिशवो मन्दचेतसः
।
अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणाः॥४॥
कर्षयन्ति पीडयन्ति । अबर्हा अजातपक्षाः । परायणास्त्रातारः ॥४॥
त्रासयंश्चायमायाति लेलिहानो महीरुहान्
।
अजातपक्षाश्च सुता न शक्ताः सरणे मम॥५॥
सरणे गमने ॥५॥
आदाय च न शक्नोमि पुत्रांस्तरितुमात्मना
।
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे॥६॥
तरितुं वनं लङ्घितुम् । निःसारयितुमन्तत इति पाठे अन्ततो निरग्निदेशे ॥६॥
कं तु जह्यामहं पुत्रं कमादाय व्रजाम्यहम्
।
किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम्॥७॥
किं न्विति किं कृत्वा कृतकृत्या स्यामित्यर्थः ॥७॥
चिन्तयाना विमोक्षं वो नाधिगच्छामि किंचन
।
छादयिष्यामि वो गात्रैः करिष्ये मरणं सह॥८॥
जरितारौ कुलं ह्येतज्ज्येष्ठत्वेन प्रतिष्ठितम्
।
सारिसृक्कः प्रजायेत पितॄणां कुलवर्धनः॥९॥
प्रजायेत प्रजारूपेणेात्पद्येत ॥९॥
स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदां वरः
।
इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा॥१०॥
कमुपादाय शक्येयं गन्तुं कष्टापदुत्तमा
।
किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला
।
नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात्॥११॥
गन्तुं लङ्घितुम् ॥११॥
वैशंपायन उवाच।
एवं ब्रुवाणां शार्ङ्गास्ते प्रत्यूचुरथ मातरम्
।
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट्॥१२॥
पत गच्छ ॥१२॥
अस्मास्विह विनष्टेषु भवितारः सुतास्तव
।
त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः॥१३॥
अन्ववेक्ष्यैतदुभयं क्षेमं स्याद्यत्कुलस्य नः
।
तद्वै कर्तुं परः कालो मातरेष भवेत्तव॥१४॥
मा त्वं सर्वविनाशाय स्नेहं कार्षीः सुतेषु नः
।
न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः॥१५॥
नोऽस्माकं सर्वविनाशाय सर्वेषां विनाशाय सुतेषु स्नेहं माकार्षीरिति सम्बन्धः ॥१५॥
जरितोवाच
।
इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः
।
तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम्॥१६॥
ततोऽहं पांसुना छिद्रमपि यास्यामि पुत्रकाः
।
एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः॥१७॥
तत एष्याम्यतीतेऽग्नौ विहन्तुं पांसुशंचयम्
।
रोचतामेष वो वादो मोक्षार्थं च हुताशनात्॥१८॥
विहन्तुं दूरीकर्तुम् वादो वचनम् ॥१८॥
शार्ङ्गका ऊचुः।
अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत्
।
पश्यमाना भयमिदं प्रवेष्टुं नात्र शक्नुमः॥१९॥
क्रव्यादाखुः मांसाद उन्दुरुः पश्यमानाः पश्यन्तः ॥१९॥
कथमग्निर्न नो धक्ष्येत्कथमाखुर्न नाशयेत्
।
कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः॥२०॥
मोघः निष्फलाऽपत्योत्पत्तिः । ध्रियेत जीवेत ॥२०॥
बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम्
।
अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम्॥२१॥
गर्हितं मरणं नः स्यादाखुना भक्षिते बिले
।
शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात्॥२२॥
शिष्टादिष्टः शिष्टैरादिष्टः ॥२२॥
॥ इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि जरिताविलापे त्रिंशदधिकद्विशततमोऽध्यायः॥२३०॥
जरितोवाच।
अस्माद्बिलान्निष्पतितमाखुं श्येनो जहार तम्
।
क्षुद्रं पद्भ्यां गृहीत्वा च यातो नात्र भयं हि वः॥१॥
एकत्रिंशदधिकद्विशततमोऽध्यायः अस्मादिति ॥१॥
शार्ङ्गका ऊचुः।
न हृतं तं वयं विद्मः श्येनेनाखुं कथंचन
।
अन्येऽपि भितारोऽत्र तेभ्योऽपि भमेव नः॥२॥
संशयो वह्निरागच्छेद्दृष्टं वायोर्निवर्तनम्
।
मृत्युर्नो बिलवासिभ्यो बिले स्यान्नात्र संशयः॥३॥
वह्निरागच्छेदित्यत्र संशयः यतो वायोः सकाशाद्वह्नेर्निवर्तनं दृष्टम् ॥३॥
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते
।
चर खे त्वं यथान्यायं पुत्रानाप्स्यसि शोभनान्॥४॥
जरितोवाच
।
अहं वेगेन तं यान्तमद्राक्षं पततां वरम्
।
बिलादाखुं समादाय श्येनं पुत्रा महाबलम्॥५॥
तं पतन्तं महावेगा त्वरिता पृष्ठतोऽन्वगाम्
।
आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकं बिलात्॥६॥
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि
।
भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः॥७॥
दिवम् आस्थाय निरमित्रः अशत्रुर्भव अक्षयः स्वर्गस्तेस्त्विति भावः । हिरण्मयः दिव्यदेहः ॥७॥
स यदा भक्षितस्तेन श्येनेनाखुः पतत्रिणा
।
तदाहं तमनुज्ञाप्य प्रत्युपायां पुनर्गृहम्॥८॥
प्रत्युपायां प्रत्यागतवत्यस्मि ॥८॥
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम्
।
श्येनेन मम पश्यन्त्या हृत आखुर्महात्मना॥९॥
शार्ङ्गका ऊचुः।
न विद्महे हृतं मातः श्येनैनाखुं कथंचन
।
अविज्ञाय न शक्यामः प्रवेष्टुं विवरं भुवः॥१०॥
जरितोवाच
।
अहं तमभिजानामि हृतं श्येनेन मूषिकम्
।
नास्ति वोत्र भयं पुत्राः क्रियतां वचनं मम॥११॥
शार्ङ्गका ऊचुः।
न त्वं मिथ्योपचारेण मोक्षयेथा भयाद्धि नः
।
समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत्॥१२॥
न त्वमिति । अस्मांस्त्यक्त्वा गन्तुमिच्छन्त्यास्तव मिथ्यैवायमुपचारो न वास्तव इति भावः । समाकुलेषु सन्दिग्धेषु । ज्ञानेषु ज्ञातव्यकार्येषु । तत् बिलप्रवेशनम् । वुद्धिकृतं बुद्धिमदाचरितं नैव । बिले शत्रुसद्भावशङ्कायां सत्यां बलात्तत्र प्रवेशो न युक्तः इति भावः ॥१२॥
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम्
।
पीड्यमाना बिभर्ष्यस्मान्का सती के वयं तव॥१३॥
न चेति । अस्मान् अग्रे वा उपकर्तॄन् भूतभाव्युपकारशून्यान् किमिति बिभर्षि । वयं तव के न केपीत्यर्थः । त्वं वासती अस्माकं का न कापि । मातृसंबन्धस्य भ्रान्तिकल्पितत्वादित्यर्थः ॥१३॥
तरुणी दर्शीयाऽसि समर्था भर्तुरेषणे
।
अनुगच्छ पतिं मातः पुत्रानाप्स्यसि शोमनान्॥१४॥
वयमग्निं समाविश्य लोकानाप्स्याम शोभनान्
।
अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः॥१५॥
आयाः आगच्छेः नः अस्मान् ॥१५॥
वैशंपायन उवाच।
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे
।
जगाम त्वरिता देशं क्षेममग्नेरनामयम्॥१६॥
ततस्तीक्ष्णार्चिरभ्यागात्त्वरितो हव्यवाहनः
।
यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः॥१७॥
तत इति । अग्निदाहात्प्रागेव तक्षकवज्जरितापि गताऽतो दाहात् षडेवमुक्ता इति पूर्वोक्तमविरुद्धम् ॥१७॥
ततस्तं ज्वलितं दृष्ट्वा ज्वलनं ते विहङ्गमाः
।
जरितारिस्ततो वाक्यं श्रावयामास पावकम्॥१८॥
॥ इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि शार्ङ्गकोपाख्याने एकत्रिंशदधिकद्विशततमोऽध्यायः॥२३१॥
जरितारिरुवाच।
पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः
।
स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हिचित्॥१॥
द्वात्रिंशदधिकद्विशततमोऽध्यायः पुरत इति । अत्र संसाराटव्यां महामोहानलव्याप्तायां मातापि न त्रातुं समर्था किं तु सर्वे स्वार्थकामा एवेति संसूच्य ब्रह्मिष्ठ एव सर्वांस्त्रातुं समर्थ इत्यस्मिन्नध्याये सूच्यते कथापक्षे तु स्पष्ट एवार्थः । तत्र जरितारिर्नाशितकामादिशत्रुगण आह पुरत इति । मरणात् प्रागेव ज्ञानार्थं यतितव्यं ततश्च मरणव्यथां ज्ञानी न प्राप्नोति । ‘न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते’ इति श्रुतेरित्याद्यश्लोकतत्त्वम् कृच्छ्रकालो मरण कालः । व्यथां प्राणोत्क्रमणपीडाम् ॥१॥
यस्तु कृच्छ्रमनुप्राप्तं विचेता नावबुध्यते
।
स कृच्छ्रकाले व्यथितो न श्रेयो विन्दते महत्॥२॥
एतदेव व्यतिरेकमुखेनाह यस्त्विति । विचेताः अजितचित्तः । व्यथितो देहान्तरे निपात्य कर्मणा वशीकृतो महच्छ्रेयो मोक्षम्॥२॥
सारिसृक्व उवाच।
धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः
।
प्राज्ञः शूरो बहूनां हि भवत्येको न संशयः॥३॥
उक्तव्यथानाशः सत्संगादेव भवतीत्यन्वयव्यतिरेकाभ्यामाह द्वाभ्याम् धीर इति । धीरो ध्यानवान् । मेधावी ऊहापोहकुशलः अतस्त्वमेवास्मान्पाहीति भावः ॥३॥
स्तम्बमित्र उवाच।
ज्येष्ठस्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः
।
ज्येष्ठश्चेन्न प्रजानाति नीयान्किं करिष्यति॥४॥
त्वदनुग्रहं विना नास्ति तरणोपाय इत्याह ज्येष्ठ इति ॥४॥
द्रोण उवाच।
हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम्
।
सप्तजिह्वा नः क्रूरो लिहानो विसर्पति॥५॥
द्रोणवाक्ये क्षयं गृहम् अध्यात्मं तु हरतीति हिरण्यं विषयवासना सैव रेतो बीजं यस्य स मोहो मरणकालिकः । क्षयं देहगेहं एति । सप्तजिह्वाः । ‘काली मनोजवा धूम्रा कराली लोहता तथा । स्फुलिङ्गिनी विश्वरुचिः सप्तजिह्वा विभावसोः॥ ’पक्षे पञ्चेन्द्रियाणि बुद्धिमनसी च तद्युक्तमाननं मुखं भोगसाधनं यस्य सः । लेलिहानो ग्रसिष्यन्विसर्पति व्याप्नोति । अतः स्वमोक्षाय स्वयमेव यतितव्यमिति भावः ॥५॥
वैशंपायन उवाच।
एवं संभाष्य तेऽन्योन्यं मन्दपालस्य पुत्रकाः
।
तुष्टुवुः प्रयता भूत्वा यथाऽग्निं शृणु पार्थिव॥६॥
जरितारिरुवाच।
आत्माऽसि वायोर्ज्वलन शरीरमसि वीरुधाम्
।
योनिरापश्च ते शुक्रं योनिस्त्वमसि चाम्भसः॥७॥
एवमधिकारिणमुत्थाप्य अग्निस्तुतिव्याजेन तत्त्वमुपदिशति । ब्रह्मैतद्व्याहृतं त्वयेत्युसंपहारेऽग्निवाक्यात् । तत्र मुख्यब्रह्मविद्याधिकारार्थं समष्ट्युपासनां जरितारिराहात्मासीति द्वाभ्याम् वायोः सूत्रात्मनः ‘वायुर्वै गौतम तत्सूत्रं वायुरेव व्यष्टिर्वायुः समष्टिः’ इति श्रुतेः । आत्मा स्त्ररूपमसि शरीरमसि वीरुधामिति विराडात्मत्वमुक्तम् । वीरुधां योनिः पृथ्वी आपश्च ते तव शुक्रं बीजं त्वदुत्पन्नम् । ‘अग्नेरापः अद्भ्यः पृथिवी’ इति च श्रुतेः । आपस्ते शुक्रमित्यस्य व्याख्या योनिस्त्वमसि चाम्भस इति । यद्वा वायोरात्मा अन्तरिक्षं मरीचिशब्दितं वीरुधां योनिः पृथ्वीमरशद्विता यत्पृथिव्या अधस्तात्तदापः यद्दिव उपरिष्टात्तदम्भः । तथा च लोकसृष्टिरुक्ता भवति । 'अदोम्भः परेण दिवं द्यौः प्रतिष्ठान्तरिक्षं मरीचयः पृथिवीमरोया अधस्तात्ता आपः इत्यैतरेये श्रुता लोक्सृष्टिरुक्ता भवति । स इमान् लोकानसृजताम्भो मरीचिर्मरमाप इति उपक्रम्यात्र लोकात्मत्वेन स्तुतिर्न लोककर्तृत्वेनेत्यतः समष्ट्युपासनायामेव तात्पर्यम् ॥७॥
ऊर्ध्वं चाधश्च सर्पन्ति पृष्ठतः पार्श्वतस्तथा
।
अर्चिषस्ते महावीर्य रश्यमः सवितुर्यथा॥८॥
सारिसृक्क उवाच।
माता प्रणष्टा पितरं न विद्मः पक्षा जाता नै नो धूमकेतो
।
न नस्त्राता विद्यते वै त्वदन्यस्तस्मादस्मांस्त्राहि बालांस्त्वमग्ने॥९॥
अन्नानाधिकारी सारिणी सृक्के सृक्किणी गल्लगर्भौ यस्य सः सारिसृक्को बाह्यभोगासक्तो व्यष्टिरूपमेवाग्निं प्रार्थयते मातेति । प्रणष्टा अदर्शनं गता ॥९॥
यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः
।
तेन नः परिपाहि त्वमार्तान्नः शरणैषिणः॥१०॥
शिवं शान्तं लोकहितम् । हेतयो ज्वालाः पूर्वोक्ताः ॥१०॥
त्वमेवैकस्तपसे जप्तवेदो नान्यस्तप्ता विद्यते गोषु देव
।
ऋषीनस्मान्बालकान्पालयस्व परेणास्मान्प्रेहि वै हव्यवाह॥११॥
गोषु रविरश्मिषु रविरपि त्वमेवेत्यर्थः । परेणास्मान् अस्मत्तो दूरे प्रेहि । परणेत्येनवन्तम् ॥११॥
स्तम्बमित्र उवाच।
सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत्
।
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च॥१२॥
एवं व्यष्ट्युपासनासिद्धस्य सार्वात्म्योपासनां सर्वे खल्विदं ब्रह्मेत्यादिशास्त्रप्रसिद्धां शाण्डिल्यविद्यादिरूपां स्तम्बमित्राख्यः सर्वप्राणिसमुदायसखा आह सर्वमित्यादिना । त्वयीदं कनके कुण्डलादिवत् ॥१२॥
त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः
।
मनीषिणस्त्वां जानन्ति बहुधा चैकधापि च॥१३॥
बहुधा कार्यरूपेण एकधा कारणरूपेण ॥१३॥
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह काले प्राप्ते पचसि पुनः समिद्धः
।
त्वं सर्वस्य भुवनस्य प्रसूतिस्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा॥१४॥
त्रीन् लोकानिति ब्रह्माण्डोपलक्षणम् । पचसि संहरसि । समिद्धः तमोगुणेन प्रवृद्धः । अत्र हेतुं श्रौतं दर्शयति । त्वं सर्वस्येति । प्रसूतिरुत्पत्तिस्थानम् । प्रतिष्ठा लयस्थानम् । एतेन ‘एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्’ इतिश्रुतरर्थो दर्शितः ॥१४॥
द्रोण उवाच।
त्वमन्नं प्राणिभिर्भुक्तमन्तर्भूतो जगत्पते
।
नित्यप्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम्॥१५॥
यत्तु नान्तःप्रज्ञमित्यादिश्रुतिप्रसिद्धं तुरीयं निर्विशेषं तदेतत् द्रोणो ब्रह्मविदां वर इत्युपक्रमात् ब्रह्मतद्व्याहृतं त्वयेत्यग्निनापि द्रोणस्यैव स्तुतत्वाच्च द्रोणवाक्यस्य विषय इति ज्ञायते । अत्र च नान्तःप्रज्ञादिवाक्यार्थो न च दृश्यतेऽतः कष्टमेतत् । श्रुतिबलेनैव स्पष्टीकुर्मः त्वमन्नमिति । हे जगत्पते त्वम् अन्नम् । ‘अद्यतेत्ति च भूतानि तस्मादन्नं तदुच्यते’ इति श्रुतेर्विराडसि । किमसौ नित्यः । नेत्याह । प्राणिभिर्भुक्तमिति । प्राणः सूत्रात्मा स उपास्यत्वेनास्ति येषां ते प्राणिनः सूत्रोपासकास्तैर्भुक्तमुपसंहृतम् । एतेन स्थूलस्य सूक्ष्मे लय उक्तः । तथा अन्तर्मध्ये भूतानि सूत्रशरीरारम्भकाणि अपञ्चीकृतवियदादीनि यस्य सः अन्तर्भूतोसि । भूतलयस्थानमप्यसि । एतेन सूक्ष्मस्य कारणे विलापनमुक्तम् । अत एव जगतः स्थूलसूक्ष्मकार्यस्यपते सृष्टिसंहारयोः स्वतन्त्रत्वम् । नित्यं प्रवृद्धोसि । कार्यकारणब्रह्मणोः सोपाधिकयोरुपाधितिरोभावाविर्भावानुसारि प्रवृद्धत्वम् । निरुपाधिकस्य तु नित्यमेव तत् । त्वयि शुद्धे प्रतिष्ठितं सर्वं कार्यकारणात्मकं रज्वामिवोरगादिकर्मीभूतं त्वं पचसि संहरसि । एवं च नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतः प्रज्ञमित्यादिश्रुतेरर्थः स्थूलसूक्ष्मकारणरूपातीतं निष्कलं शिवशद्बाभिधेयं प्रतिपादितम् ॥१५॥
सूर्यो भूत्वा रश्मिभिर्जातवेदो भूमेरम्भो भूमिजातान्रसांश्च
।
विश्वानादाय पुनरुत्सृज्य काले दृष्ट्वा वृष्ट्या भावयसीह शुक्र॥१६॥
सूर्य इति । हे शुक्र शुक्ल सर्वोपाधिकालुष्यहीन त्वं सूर्यो भूत्वा रसानादाय पुनरुत्सृज्य काले वृष्ट्या भावयसीति सम्बन्धः । त्वं भूम्यादीनां रसान् सत्वानि आदाय संहृत्य सूर्यः कारणात्मा भूत्वा वीजमात्ररूपेण स्थित्वा पुनः प्रबोधकाले वृष्ट्या चित्सत्ताप्रदानेन पृथिव्यादीनि जनयसीत्यर्थः ॥१६॥
त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः
।
जायन्ते पुष्करिण्यश्च सुभद्रश्च महोदधिः॥१७॥
एताः रसस्य ब्रह्मसत्ताया आश्रयत्वेन दृश्यमानाः सत्सदितिप्रत्ययविषयभूता वीरुदादयो जडपदार्था अपि त्वत्त एवोत्पन्ना इत्यर्थः । तेन प्रधानादेः कारणत्वं निरस्तम् । सुभद्रश्चेत्यत्र समुद्रश्चेति पाठे महोदधिशब्देन महान्ति ब्रह्माण्डाद्बहिः स्थितानि उदकानि धीयन्तेस्मिन्निति व्युत्पत्यानेऽकब्रह्माण्डशुक्तिसंपुटाश्रयभूतो जलावरणरूपः समुद्रो ग्राह्यः । तच्चावरणान्तराणामप्युपलक्षणम् ॥१७॥
इदं वै सद्म तिग्मांशो वरुणस्य परायणम्
।
शिवस्त्राता भवास्माकं माऽस्मानद्य विनाशय॥१८॥
एवं परापरब्रह्मरूपेणाग्निं स्तुत्वा उपस्थितभयनिवृत्तिं प्रार्थयते । इदमिति । हे तिग्मांशो तीक्ष्णकर वह्ने । सद्मेव सद्म शरीरम् । वरुणस्य रसनेन्द्रियाधिपतेः । परायणम् अत्यन्तालम्बनम् । पक्षिदेहेन हि सर्वरसास्वादो लभ्यते । अतस्त्वं शिवः अन्तरात्मा । अस्माकं त्राता भव ॥१८॥
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन
।
परेण प्रेहि मुञ्चास्मान्सागरस्य गृहानिव॥१९॥
सागरस्य गृहान् नदीप्रवाहानिव अनभिभाव्यान् स्वाभिभावकांश्च ज्ञात्वा मुञ्च ॥१९॥
वैशंपायन उवाच।
एवमुक्तो जातवेदा द्रोणेन ब्रह्मवादिना
।
द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया॥२०॥
प्रतीतात्मा हृष्टः ॥२०॥
अग्निरुवाच।
ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया
।
ईप्सितं ते करिष्यामि न च ते विद्यते भयम्॥२१॥
मन्दपालेन वै यूयं मम पूर्वं निवेदिताः
।
वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह॥२२॥
मह्यं मम ॥२२॥
तस्य तद्वचनं द्रोण त्वया यच्चेह भाषितम्
।
उभयं मे गरीयस्तु ब्रूहि किं करवाणि ते
।
भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मंस्तोत्रेण सत्तम॥२३॥
द्रोण उवाच।
इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः
।
एतान्कुरुष्व दग्धांस्त्वं हुताशन सबान्धवान्॥२४॥
वैशंपायन उवाच।
तथा तत्कृतवानग्निरभ्यनुज्ञाय शार्ङ्गकान्
।
ददाह खाण्डवं दावं समिद्धो जनमेजय॥२५॥
॥ इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि शार्ङ्गकोपाख्याने द्वात्रिंशदधिकद्विशततमोऽध्यायः॥२३२॥
वैशंपायन उवाच।
मन्दपालोपि कौरव्य चिन्तयामास पुत्रकान्
।
उक्त्वाऽपि च स तिग्मांशुं नैव शर्माधिगच्छति॥१॥
त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः मन्दपाल इति । उक्त्वा मम पुत्रान्मा दहेति प्रार्थ्यापि ॥१॥
स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत्
।
कथं न शक्ताः शरणे लपिते मम पुत्रकाः॥२॥
शरणे गृहे । क्व नु न कथमपि ॥२॥
वर्धमाने हुतवहे वाते चाशु प्रवायति
।
असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः॥३॥
कथं त्वशक्ता त्राणाय माता तेषां तपस्विनी
।
भविष्यति हि शोकार्ता पुत्रत्राणमपश्यती॥४॥
कथमुड्डीयनेऽशक्तान्पतने च ममात्मजान्
।
सन्तप्यमाना बहुधा वाशमाना प्रधावती॥५॥
उड्डीयने ऊर्ध्वपतने । पतने तिर्यग्गमने । वाशमाना रुदतो ॥५॥
जरितारिः कथं पुत्रः सारिसृक्कः कथं च मे
।
स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी॥६॥
लालप्यमानं तमृषिं मन्दपालं तथा वने
।
लपिता प्रत्युवाचेदं सासूयमिव भारत॥७॥
न ते पुत्रेष्ववेक्षाऽस्ति यानृषीनुक्तवानसि
।
तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम्॥८॥
त्वयाऽग्नौ ते परीताश्च स्वयं हि मम सन्निधौ
।
प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना॥९॥
परीताः ज्ञापिताः ॥९॥
लोकपालो न तां वाचमुक्त्वा मिथ्या करिष्यति
।
समक्षं बन्धुकृत्येन तेन ते स्वस्थ मानसम्॥१०॥
समक्षमिति । हे स्वस्थ ते तव मानसं तेन हेतुना बन्धुकृत्य लक्षणे रक्षणे समक्षम् अभिमुखं न किंतु तामेवेत्यादिस्पष्टार्थम् ॥१०॥
तामेव तु ममामित्रां चिन्तयन्परितप्यसे
।
ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराऽभवत्॥११॥
न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने
।
पीड्यमान उपद्रष्टुं शक्तेनात्मा कथंचन॥१२॥
न हीति । पक्षवता सहायवता । सुहृज्जनेन निःस्नेहेन नितरां स्नेहवता शक्तेन च पीड्यमान आत्मा पुत्रदाररूपः कथं च न उपद्रष्टुम् उपेक्षितुं न हि न्याय्यम् ॥१२॥
गच्छ त्वं जरितामेव यदर्थं परितप्यसे
।
चरिष्याम्यहमप्येका यथा पुरुषाश्रिता॥१३॥
अतस्त्वं जरितामेव गच्छेत्यधिक्षिप्याह । गच्छेति ॥१३॥
मन्दपाल उवाच।
नाहमेवं चरे लोके यथा त्वमभिमन्यसे
।
अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम॥१४॥
एवं कामवृत्तो नाहं चरे न चरामि ॥१४॥
भूतं हित्वा च भाव्यर्थे योवलम्बेत्स मन्दधीः
।
अवमन्येत तं लोको यथेच्छसि तथा कुरु॥१५॥
भूतं जरितायामपत्यम् । भाव्यर्थे त्वयि जनयितव्ये अपत्ये ॥१५॥
एष हि प्रज्वलन्नग्निर्लेलिहानी महीरुहान्
।
आविग्ने हृदि सन्तापं जनयत्यशिवं मम॥१६॥
वैशंपायन उवाच।
तस्माद्देशादतिक्रान्ते ज्वलने जरिता पुनः
।
जगाम पुत्रकानेन जरिता पुत्रगृद्धिनी॥१७॥
जरितानामतः जरा सञ्जाता अस्याः सा जरिता । सर्वेन्द्रियव्याकुला ॥१७॥
सा तान्कुशलिनः सर्वान्विमुक्ताञ्जातवेदसः
।
रोरूयमाणान्ददृशे वने पुत्रान्निरामयान्॥१८॥
अश्रूणि मुमुचे तेषां दर्शनात्सा पुनःपुनः
।
एकैकश्येन तान्सर्वान्क्रोशमानान्वपद्यत॥१९॥
ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत
।
अथ ते सर्व एवैनं नाभ्यनन्दंस्तदा सुताः॥२०॥
लालप्यमानमेकैकं जरितां च पुनःपुनः
।
न चैवोचुस्तदा किंचित्तमृषिं साध्वसाधु वा॥२१॥
मन्दपाल उवाच।
ज्येष्ठः सुतस्ते कतमः कतमस्तस्य चानुजः
।
मध्यमः कतमश्चैव कनीयान्कतमश्च ते॥२२॥
एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे
।
कृतवानपि हि त्यागं नैव शान्तिमितो लभे॥२३॥
जरितोवाच
।
किं नु ज्येष्ठेन ते कार्यं किमनन्तरजेन ते
।
किं वा मध्यमजातेन किं कनिष्ठेन वा पुनः॥२४॥
यां त्वं मां सर्वतो हीनामुत्सृज्यासि गतः पुरा
।
तामेव लपितां गच्छ तरुणीं चारुहासिनीम्॥२५॥
मन्दपाल उवाच।
न स्त्रीणां विद्यते किंचिदमुत्र पुरुषान्तरात्
।
सापत्नकमृते लोके नान्यदर्थविनाशनम्॥२६॥
स्त्रीणाम् अमुत्र परलोके पुरुषान्तरादृते सापत्नकं च ऋतेन्यत् तृतीयम् अर्थनाशनं पुरुषार्थघातकं नास्ति ॥२६॥
वैराग्निदीपनं चैव भृशमुद्वेगकारि च
।
सुव्रता चापि कल्याणी सर्वभूतेषु विश्रुता॥२७॥
तदुभयं निन्दति वैराग्नीति । एतच्चापैरिहार्यं सतीनामपीत्याह सुव्रतेति ॥२७॥
अरुन्धती महात्मानं वसिष्ठं पर्यशङ्कत
।
विशुद्धभावमत्यन्तं सदा प्रियहिते रतम्॥२८॥
सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम्
।
अपध्यानेन सा तेन धूमारुणसमप्रभा
।
लक्ष्याऽलक्ष्या नाभिरूपा निमित्तमिव पश्यति॥२९॥
निमित्तं भर्तुर्लक्षणमिव पश्यति कपटेन । अत एव नाभिरूपा प्रच्छन्नवेषा । तेन हेतुना लक्ष्याऽलक्ष्या च ॥२९॥
अपत्यहेतोः संप्राप्तं तथा त्वमपि मामिह
।
इष्टमेवं गते हि त्वं सा तथैवाद्य वर्तते॥३०॥
इष्टम् आप्तं तथारुन्धतीव शङ्कमाना । त्वमिव सापि तथैव । मयि अपत्यहेतोर्व्याकुले सति सा लपितापि तथैव वर्तते ॥३०॥
न हि भार्येति विश्वासः कार्यः पुंसा कथंचन
।
न हि कार्यमनुध्याति नारी पुत्रवती सती॥३१॥
यतः स्त्रीणामाप्तो नास्तीत्याह । न हीति । कार्यं भर्तृशुश्रूषादि । अनुध्याति मनसिकरोति ॥३१॥
वैशंपायन उवाच।
ततस्ते सर्व एवैनं पुत्राः सम्यगुपासते
।
स च तानात्मजान्सर्वानाश्वासयितुमुद्यतः॥३२॥
॥ इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि शार्ङ्गकोपाख्याने त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः॥२३३॥
मन्दपाल उवाच।
युष्माकमपवर्गार्थं विज्ञप्तो ज्वलनो मया
।
अग्निना च तथेत्येवं प्रतिज्ञातं महात्मना॥१॥
चतुस्त्रिंशदधिकद्विशततमोऽध्यायः युष्माकमिति ॥१॥
अग्नेर्वचनमाज्ञाय धर्मज्ञतां च वः
।
भवतां च परं वीर्यं पूर्वं नाहमिहागतः॥२॥
मातुर्धर्मज्ञतां च वः मातुः वः युष्मत्संबन्धितया धर्मज्ञतां युष्मदीयं परमधर्मज्ञानं मातुरस्तीति विज्ञायेत्यर्थः ॥२॥
न सन्तापो हि वः कार्यः पुत्रका हृदि मां प्रति
।
ऋषीन्वेदहुताशोऽपि ब्रह्म तद्विदितं च वः॥३॥
ब्रह्म तत् वेदान्तप्रसिद्धम् ॥३॥
वैशंपायन उवाच।
एवमाश्वासितान्पुत्रान्भार्यामादाय स द्विजः
।
मन्दपालस्ततो देशादन्यं देशं जगाम ह॥४॥
भगवानापि तिग्मांशुः समिद्धः खाण्डवं ततः
।
ददाह सह कृष्णाभ्यां जनयञ्जगतो हितम्॥५॥
वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः
।
जगाम परमां तृप्तिं दर्शयामास चार्जुनम्॥६॥
ततोऽन्तरिक्षाद्भगवानवतीर्य पुरन्दरः
।
मरुद्गणैर्वृतः पार्थं केशवं चेदमब्रवीत्॥७॥
कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम्
।
वरं वृणीतं तुष्टोऽस्मि दुर्लभं पुरुषेष्विह॥८॥
पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः
।
प्रदातुं तच्च शक्रस्तु कालं चक्रे महाद्युतिः॥९॥
यदा प्रसन्नो भगवान्महादेवो भविष्यति
।
तदा तुभ्यं प्रदास्यामि पाण्डवास्त्राणि सर्वशः॥१०॥
अहमेव च तं कालं वेत्स्यामि कुरुनन्दन
।
तपसा महता चापि दास्यामि भवतोऽप्यहम्॥११॥
आग्नेयानि च सर्वाणि वायव्यानि च सर्वशः
।
मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय॥१२॥
वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम्
।
ददौ सुरपतिश्चैव वरं कृष्णाय धीमते॥१३॥
एवं दत्त्वा वरं ताभ्यां सहदेवैर्मरुत्पतिः
।
हुताशनमनुज्ञाप्य जगाम त्रिदिवं प्रभुः॥१४॥
पावकश्च तदा दावं दग्ध्वा समृगपक्षिणम्
।
अहानि पञ्च चैकं च विरराम सुतर्पितः॥१५॥
जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च
।
युक्तः परमया प्रीत्या तावुवाचाच्युतार्जुनौ॥१६॥
युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम्
।
अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम्॥१७॥
चरतं यत्र वाञ्छितमित्यनेनाप्रतिहतगतित्वं द्वयोरपि दत्तं मयेत्यर्थः ॥१७॥
एवं तौ समनुज्ञातौ पावकेन महात्मना
।
अर्जुनो वासुदेवश्च दानवश्च मयस्तथा॥१८॥
परिक्रम्य ततः सर्वे त्रयोपि भरतर्षभ
।
रमणीये नदीकूले सहिताः समुपाविशन्॥१९॥
॥ इति श्रीमन्महाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां आदिपर्वणि मयदर्शनपर्वणि वरप्रदाने चतुस्त्रिंशदधिकद्विशततमोऽध्यायः॥२३४॥