अनुक्रमणिकापर्व - १पर्वसंग्रहपर्व - २पौष्यपर्व - ३पौलोमपर्व। - ४आस्तिकपर्व - ५अंशावतरणपर्व - ६सम्भवपर्व - ७जतुगृहपर्व । - ८हिडिम्बवधपर्व - ९बकवधपर्व - १०चैत्ररथपर्व । - ११स्वयंवरपर्व - १२वैवाहिकपर्व - १३विदुरागमनराज्यालंभपर्व - १४अर्जुनवनवासपर्व - १५सुभ्रद्राहरणपर्व। - १६हरणाहरणपर्व। - १७खाण्डवदाहपर्व - १८मयदर्शनपर्व - १९

मयदर्शनपर्व

अष्टाविंशत्यधिकद्विशततमोऽध्यायः

वैशंपायन उवाच। तथा शैलनिपातेन भीषिताः खाण्डवालयाः ।
दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः॥१॥

अष्टाविंशत्यधिकद्विशततमोऽध्यायः तथेति । तरक्षवःस्वल्पव्याघ्राः ऋक्षाः भल्लाः ॥१॥

द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा ।
मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा॥२॥

प्रभिन्नाः मदच्युताः केसरिण: उत्पन्नकेसराः युवान इत्यर्थः ॥२॥

समुद्विग्ना विससृपुस्तथान्या भूतजातयः ।
तं दावं समुदैक्षन्त कृष्णौ चाभ्युद्यतायुधौ॥३॥

दावं वनम् ॥३॥

उत्पातनादशब्देन संत्रासिता इव स्थिताः ।
ते वनं प्रसमीक्ष्याथ दह्यमानमनेकधा॥४॥

उत्पातनादीः निर्घातादयस्तच्छब्देन संत्रासिते वने इति शेषः । सञ्चारित इति पाठेपि स एवार्थः ॥४॥

कृष्णमभ्युद्यतास्त्रं च नादं मुमुचुरुल्बणम् ।
तेन नादेन रौद्रेण नादेन च विभावसोः॥५॥

ररास गगनं कृत्स्नमुत्पातजलदैरिव ।
ततः कृष्णो महाबाहुः स्वतेजो भास्वरं महत्॥६॥

ररास शब्दं कृतवान् ॥६॥

चक्रं व्यसृजदत्युग्रं तेषां नाशाय केशवः ।
तेनार्ता जातयः क्षुद्राः सदानवनिशाचराः॥७॥

निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् ।
तत्रादृश्यन्त ते दैत्याः कृष्णचक्रविदारिताः॥८॥

वसारुधिरसंपृक्ताः सन्ध्यायामिव तोयदाः ।
पिशाचान्पक्षिणो नागान्पशूंश्चैव सहस्रशः॥९॥

निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत ।
क्षिप्तं क्षिप्तं पुनश्चक्रं कृष्णस्यामित्रघातिनः॥१०॥

छित्त्वानेकानि सत्वानि पाणिमेति पुनः पुनः ।
तथा तु निघ्नतस्तस्य पिशाचोरगराक्षसान्॥११॥

बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ।
समेतानां च सर्वेषां दानवानां च सर्वशः॥१२॥

विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे ।
तयोर्बलात्परित्रातुं तं च दावं यदा सुराः॥१३॥

नाशक्नुवञ्शमयितुं तदाऽभूवन्पराङ्मुखाः ।
शतक्रतुस्तु संप्रेक्ष्य विमुखानमरांस्तथा॥१४॥

बभूव मुदितो राजन्प्रशंसन्केशवार्जुनौ ।
निवृत्तेष्वथ देवेषु वागुवाचाशरीरिणी॥१५॥

शतक्रतुं समाभाष्य महागम्भीरनिःस्वना ।
न ते सखा सन्निहितस्तक्षको भुजगोत्तमः॥१६॥

दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ।
न च शक्यौ युधा जेतुं कथंचिदपि वासव॥१७॥

वासुदेवार्जुनावेतौ निबोध वचनान्मम ।
नरनारायणावेतौ पूर्वदेवौ दिवि श्रुतौ॥१८॥

भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ।
नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि॥१९॥

अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ।
पूजनीयतमावेतावपि सर्वैः सुरासुरैः॥२०॥

यक्षराक्षसगन्धर्वनरकिन्नरपन्नगैः ।
तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव॥२१॥

दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ।
इति वाक्यमुपश्रुत्य तथ्यमित्यमरेश्वरः॥२२॥

क्रोधामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा ।
तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः॥२३॥

सहिताः सेनया राजन्ननुजग्मुः पुरन्दरम् ।
देवराजं तदा यान्तं सहदेवैरवेक्ष्य तु॥२४॥

वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ।
देवराजे गते राजन्प्रहृष्टौ केशवार्जुनौ॥२५॥

निर्विशङ्कं वनं वीरौ दाहयामासतुस्तदा ।
स मारुत इवाभ्राणि नाशयित्वाऽर्जुनः सुरान्॥२६॥

व्यधमच्छरसङ्घातैर्देहिनः खाण्डवालयान् ।
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः॥२७॥

संच्छिद्यमानमिषुभिरस्यता सव्यसाचिना ।
नाशक्नुवंश्च भूतानि महान्त्यपि रणेऽर्जुनम्॥२८॥

निरीक्षितुममोघास्त्रं योद्धुं चापि कुतो रणे ।
शतं चैकेन विव्याध शतेनैकं पतत्रिणाम्॥२९॥

व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव ।
न चालभन्त ते शर्म रोधःसु विषमेषु च॥३०॥

पितृदेवनिवासेषु सन्तापश्चाप्यजायत ।
भूतसङ्घाश्च बहवो दीनाश्चक्रुर्महास्वनम्॥३१॥

रुरुदुर्वारणाश्चैव तथा मृगतरक्षवः ।
तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः॥३२॥

गङ्गोदधिचरा इति अतिदूस्थोपलक्षणम् ॥३२॥

विद्याधरगणाश्चैव ये च तत्र वनौकसः ।
न त्वर्जुनं महाबाहो नापि कृष्णं जनार्दनम्॥३३॥

निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः ।
एकायनगता येऽपि निष्पेतुस्तत्र केचन॥३४॥

एकायनगताः सन्धीभूताः ॥३४॥

राक्षसा दानवा नागा जघ्ने चक्रेण तान्हरिः ।
ते तु भिन्नशिरोदेहाश्चक्रवेगाद्गतासवः॥३५॥

पेतुरन्ये महाकायाः प्रदीप्ते वसुरेतसि ।
स मांसरुधिरौधैश्च वसाभिश्चापि तर्पितः॥३६॥

उपर्याकाशगो भूत्वा विधूमः समपद्यत ।
दीप्ताक्षो दीप्तजिह्वश्च संप्रदीप्तमहाननः॥३७॥

दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् ।
तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः॥३८॥

कृतां दत्तां सुधां स्वभोजनम् ॥३८॥

बभूव मुदितस्तृप्तः परां निर्वृतिमागतः ।
तथाऽसुरं मयं नाम तक्षकस्य निवेशनात्॥३९॥

विप्रद्रवन्तं सहसा ददर्श मधुसूदनः ।
तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः॥४०॥

शरीरवाञ्जटी भूत्वा नदन्निव बलाहकः ।
विज्ञाय दानवेन्द्राणां मयं वै शिल्पिनां वरम्॥४१॥

जिघांसुर्वासुदेवस्तं चक्रमुद्यम्य धिष्ठितः ।
स चक्रमुद्यतं दृष्ट्वा दिधक्षन्तं च पावकम्॥४२॥

अभिधावार्जुनेत्येवं मयस्त्राहीति चाब्रवीत् ।
तस्य भीतस्वनं श्रुत्वा मा भैरिति धनंजयः॥४३॥

प्रत्युवाच मयं पार्थो जीवयन्निव भारत ।
तं न भेतव्यमित्याह मयं पार्थो दयापरः॥४४॥

तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् ।
न हन्तुमैच्छद्दाशार्हः पावको न ददाह च॥४५॥

वैशंपायन उवाच। तद्वनं पावको धीमान्दिनानि दश पञ्च च ।
ददाह कृष्णपार्थाभ्यां रक्षितः पाकशासनात्॥४६॥

तस्मिन्वने दह्यमाने षडग्निर्न ददाह च ।
अश्वसेनं मयं चैव चतुरः शार्ङ्गकांस्तथा॥४७॥

शार्ङ्गकान् पक्षिविशेषान् ॥४७॥
॥ इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि मयदानवत्राणे अष्टाविंशत्यधिकद्विशततमोऽध्यायः॥२२८॥
ऊनत्रिंशदधिकद्विशततमोऽध्यायः

जनमेजय उवाच। किमर्थं शार्ङ्गकानग्निर्न ददाह तथा गते ।
तस्मिन्वने दह्यमाने ब्रह्मन्नेतत्प्रचक्ष्व मे॥१॥

ऊनत्रिंशदधिकद्विशततमोऽध्यायः किमर्थमिति ॥१॥

अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च ।
कारणं कीर्तितं ब्रह्मञ्च्छार्ङ्गकाणां न कीर्तितम्॥२॥

तदेतदद्भुतं ब्रह्मञ्च्छार्ङ्गकाणामनामयम् ।
कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः॥३॥

वैशंपायन उवाच। यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते ।
तत्ते सर्वं प्रवक्ष्यामि यथाभूतमरिन्दम॥४॥

धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः ।
आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः॥५॥

स मार्गमाश्रितो राजन्नृषीणामूर्ध्वरेतसाम् ।
स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः॥६॥

स गत्वा तपसः पारं देहमुत्सृज्य भारत ।
जगाम पितृलोकाय न लेभे तत्र तत्फलम्॥७॥

स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि ।
पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः॥८॥

मन्दपाल उवाच। किमर्थमावृता लोका ममैते तपसाऽर्जिताः ।
किं मया न कृतं तत्र यस्यैतत्कर्मणः फलम्॥९॥

आवृताः प्रतिषिद्धभोगाः ॥९॥

तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् ।
फलमेतस्य तपसः कथयध्वं दिवौकसः॥१०॥

देवा ऊचुः। ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु ।
क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः॥११॥

तदपाक्रियते सर्वं यज्ञेन तपसा श्रुतैः ।
तपस्वी यज्ञकृच्चासि न च ते विद्यते प्रजा॥१२॥

त इमे प्रसवस्यार्थे तव लोकाः समावृताः ।
प्रजायस्व ततो लोकानुपभोक्ष्यसि पुष्कलान्॥१३॥

प्रजायस्व प्रजेच्छां कुरु ॥१३॥

पुन्नाम्नो नरकात्पुत्रस्त्रायते पितरं श्रुतिः ।
तस्मादपत्यसन्ताने यतस्व ब्रह्मसत्तम॥१४॥

अपत्यसन्ताने सन्ततेरविच्छेदे ॥१४॥

वैशंपायन उवाच। तच्छ्रुत्वा मन्दपालस्तु वचस्तेषां दिवौकसाम् ।
क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत्॥१५॥

स चिन्तयन्नभ्यगच्छत्सुबहुप्रसवान्खगान् ।
शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान्॥१६॥

जरितां नाम भार्याम् ॥१६॥

तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः ।
तानपास्य स तत्रैव जगाम लपितां प्रति॥१७॥

लपितां नामापरां भार्याम् ॥१७॥

बालान्स तानण्डगतान्सह मात्रा मुनिर्वने ।
तस्मिन्गते महाभागे लपितां प्रति भारत॥१८॥

तान्वालानपास्येति सम्बन्धः॥१८॥

अपत्यस्नेहसंयुक्ता जरिता बह्वचिन्तयत् ।
तेन त्यक्ता न संत्याज्यानृषीनण्डगतान्वने॥१९॥

न जहौ पुत्रशोकार्ता जरिता खाण्डवे सुतान् ।
बभार चैतान्संजातान्स्ववृत्त्या स्नेहविप्लवा॥२०॥

ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः ।
मन्दपालश्चरंस्तस्मिन्वने लपितया सह॥२१॥

तं संकल्पं विदित्वाग्नेर्ज्ञात्वा पुत्रांश्च बालकान् ।
सोऽभितुष्टाव विप्रर्षिब्रार्ह्मणो जातवेदसम्॥२२॥

पुत्रान्प्रतिवदन्भीतो लोकपालं महौजसम् ।
मन्दपाल उवाच। त्वमग्ने सर्वलोकानां मुखं त्वमसि हव्यवाट्॥२३॥

मुखमिति जीवरूपेण भोक्तृत्वम् ॥२३॥

त्वमन्तः सर्वभूतानां गूढश्चरसि पावक ।
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः॥२४॥

गूढ इति ब्रह्मरूपेणागोचरत्वम् । त्रिविधं दिव्यं भौममादर्यं च ॥२४॥

त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ।
त्वया विश्वमिदं सृष्टं वदन्ति परमर्षयः॥२५॥

अष्टधापञ्चभूतात्मना सूर्यचन्द्रयजमानरूपेण च । यज्ञवाहं यज्ञनिर्वाहकम् ॥२५॥

त्वदृते हि जगत्कृत्स्नं सद्यो नश्येद्धुताशन ।
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम्॥२६॥

त्वया सद्रूपेण विना नश्येददर्शनं गच्छेत् । निरधिष्ठानकभ्रमायोगादित्यर्थः । कर्मिणां त्वमेव गतिरित्याह तुभ्यमिति ॥२६॥

गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ।
त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः॥२७॥

पालनं संहारश्च तवैव कर्मणी इत्याह त्वामिति ॥२७॥

दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः ।
जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते॥२८॥

हेतयः ज्वालाः । जगत्सृष्टिस्त्वत्त एवेत्याह जातवेद इति ॥२८॥

तवैव कर्मविहितं भूतं सर्वं चराचरम् ।
त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत्॥२९॥

तवैवेति । कर्मविधायको वेदोपि तवैव वाक्यम् । 'निःश्वसितमेतदृग्वेदः, इत्यादिश्रुतेः । आप इति भूतान्तरोपलक्षणम् । त्वयि अधिष्ठाने ॥२९॥

त्वयि हव्यं च कव्यं च यथावत्संप्रतिष्ठितम् ।
त्वमेव दहनो देव त्वं धाता त्वं बृहस्पतिः॥३०॥

हव्यादिप्रतिष्ठाभोक्तत्वेन फलदातृत्वेन च त्वमेवेत्याह । त्वयीति ॥३०॥

त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः ।
वैशंपायन उवाच। एवं स्तुतस्तदा तेन मन्दपालेन पावकः॥३१॥

तुतोष तस्य नृपते मुनेरमिततेजसः ।
उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते॥३२॥

तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् ।
प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय॥३३॥

तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः ।
खाण्डवे तेन काले न प्रजज्वाल दिदक्षया॥३४॥

खाण्डवे वने । तेन हेतुना । काले दाहवेलायाम् । शार्ङ्गाकाणां दिधक्षया न प्रजज्वाल ॥३४॥
॥ इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि शार्ङ्गकोपाख्याने ऊनत्रिंशदधिकद्विशततमोऽध्यायः॥२२९॥
त्रिंशदधिकद्विशततमोऽध्यायः

वैशंपायन उवाच। ततः प्रज्वलिते वह्नौ शार्ङ्गकास्ते सुदुःखिताः ।
व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम्॥१॥

त्रिंशदधिकद्विशततमोऽध्यायः तत इति । परायणं त्रातारम् ॥१॥

निशम्य पुत्रकान्बालान्माता तेषां तपस्विनी ।
जरिता शोकदुःखार्ता विललाप सुदुःखिता॥२॥

निशम्य आलोच्य ॥२॥

जरितोवाच ।
अयमग्निर्दहन्कक्षमित आयाति भीषणः ।
जगत्संदीपयन्भीमो मम दुःखविवर्धनः॥३॥

कक्षं वनम् ॥३॥

इमे च मां कर्षयन्ति शिशवो मन्दचेतसः ।
अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणाः॥४॥

कर्षयन्ति पीडयन्ति । अबर्हा अजातपक्षाः । परायणास्त्रातारः ॥४॥

त्रासयंश्चायमायाति लेलिहानो महीरुहान् ।
अजातपक्षाश्च सुता न शक्ताः सरणे मम॥५॥

सरणे गमने ॥५॥

आदाय च न शक्नोमि पुत्रांस्तरितुमात्मना ।
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे॥६॥

तरितुं वनं लङ्घितुम् । निःसारयितुमन्तत इति पाठे अन्ततो निरग्निदेशे ॥६॥

कं तु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् ।
किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम्॥७॥

किं न्विति किं कृत्वा कृतकृत्या स्यामित्यर्थः ॥७॥

चिन्तयाना विमोक्षं वो नाधिगच्छामि किंचन ।
छादयिष्यामि वो गात्रैः करिष्ये मरणं सह॥८॥

जरितारौ कुलं ह्येतज्ज्येष्ठत्वेन प्रतिष्ठितम् ।
सारिसृक्कः प्रजायेत पितॄणां कुलवर्धनः॥९॥

प्रजायेत प्रजारूपेणेात्पद्येत ॥९॥

स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदां वरः ।
इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा॥१०॥

कमुपादाय शक्येयं गन्तुं कष्टापदुत्तमा ।
किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला ।
नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात्॥११॥

गन्तुं लङ्घितुम् ॥११॥

वैशंपायन उवाच। एवं ब्रुवाणां शार्ङ्गास्ते प्रत्यूचुरथ मातरम् ।
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट्॥१२॥

पत गच्छ ॥१२॥

अस्मास्विह विनष्टेषु भवितारः सुतास्तव ।
त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः॥१३॥

अन्ववेक्ष्यैतदुभयं क्षेमं स्याद्यत्कुलस्य नः ।
तद्वै कर्तुं परः कालो मातरेष भवेत्तव॥१४॥

मा त्वं सर्वविनाशाय स्नेहं कार्षीः सुतेषु नः ।
न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः॥१५॥

नोऽस्माकं सर्वविनाशाय सर्वेषां विनाशाय सुतेषु स्नेहं माकार्षीरिति सम्बन्धः ॥१५॥

जरितोवाच ।
इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः ।
तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम्॥१६॥

ततोऽहं पांसुना छिद्रमपि यास्यामि पुत्रकाः ।
एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः॥१७॥

तत एष्याम्यतीतेऽग्नौ विहन्तुं पांसुशंचयम् ।
रोचतामेष वो वादो मोक्षार्थं च हुताशनात्॥१८॥

विहन्तुं दूरीकर्तुम् वादो वचनम् ॥१८॥

शार्ङ्गका ऊचुः। अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् ।
पश्यमाना भयमिदं प्रवेष्टुं नात्र शक्नुमः॥१९॥

क्रव्यादाखुः मांसाद उन्दुरुः पश्यमानाः पश्यन्तः ॥१९॥

कथमग्निर्न नो धक्ष्येत्कथमाखुर्न नाशयेत् ।
कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः॥२०॥

मोघः निष्फलाऽपत्योत्पत्तिः । ध्रियेत जीवेत ॥२०॥

बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् ।
अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम्॥२१॥

गर्हितं मरणं नः स्यादाखुना भक्षिते बिले ।
शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात्॥२२॥

शिष्टादिष्टः शिष्टैरादिष्टः ॥२२॥
॥ इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि जरिताविलापे त्रिंशदधिकद्विशततमोऽध्यायः॥२३०॥
एकत्रिंशदधिकद्विशततमोऽध्यायः

जरितोवाच। अस्माद्बिलान्निष्पतितमाखुं श्येनो जहार तम् ।
क्षुद्रं पद्भ्यां गृहीत्वा च यातो नात्र भयं हि वः॥१॥

एकत्रिंशदधिकद्विशततमोऽध्यायः अस्मादिति ॥१॥

शार्ङ्गका ऊचुः। न हृतं तं वयं विद्मः श्येनेनाखुं कथंचन ।
अन्येऽपि भितारोऽत्र तेभ्योऽपि भमेव नः॥२॥

संशयो वह्निरागच्छेद्दृष्टं वायोर्निवर्तनम् ।
मृत्युर्नो बिलवासिभ्यो बिले स्यान्नात्र संशयः॥३॥

वह्निरागच्छेदित्यत्र संशयः यतो वायोः सकाशाद्वह्नेर्निवर्तनं दृष्टम् ॥३॥

निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते ।
चर खे त्वं यथान्यायं पुत्रानाप्स्यसि शोभनान्॥४॥

जरितोवाच ।
अहं वेगेन तं यान्तमद्राक्षं पततां वरम् ।
बिलादाखुं समादाय श्येनं पुत्रा महाबलम्॥५॥

तं पतन्तं महावेगा त्वरिता पृष्ठतोऽन्वगाम् ।
आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकं बिलात्॥६॥

यो नो द्वेष्टारमादाय श्येनराज प्रधावसि ।
भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः॥७॥

दिवम् आस्थाय निरमित्रः अशत्रुर्भव अक्षयः स्वर्गस्तेस्त्विति भावः । हिरण्मयः दिव्यदेहः ॥७॥

स यदा भक्षितस्तेन श्येनेनाखुः पतत्रिणा ।
तदाहं तमनुज्ञाप्य प्रत्युपायां पुनर्गृहम्॥८॥

प्रत्युपायां प्रत्यागतवत्यस्मि ॥८॥

प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् ।
श्येनेन मम पश्यन्त्या हृत आखुर्महात्मना॥९॥

शार्ङ्गका ऊचुः। न विद्महे हृतं मातः श्येनैनाखुं कथंचन ।
अविज्ञाय न शक्यामः प्रवेष्टुं विवरं भुवः॥१०॥

जरितोवाच ।
अहं तमभिजानामि हृतं श्येनेन मूषिकम् ।
नास्ति वोत्र भयं पुत्राः क्रियतां वचनं मम॥११॥

शार्ङ्गका ऊचुः। न त्वं मिथ्योपचारेण मोक्षयेथा भयाद्धि नः ।
समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत्॥१२॥

न त्वमिति । अस्मांस्त्यक्त्वा गन्तुमिच्छन्त्यास्तव मिथ्यैवायमुपचारो न वास्तव इति भावः । समाकुलेषु सन्दिग्धेषु । ज्ञानेषु ज्ञातव्यकार्येषु । तत् बिलप्रवेशनम् । वुद्धिकृतं बुद्धिमदाचरितं नैव । बिले शत्रुसद्भावशङ्कायां सत्यां बलात्तत्र प्रवेशो न युक्तः इति भावः ॥१२॥

न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् ।
पीड्यमाना बिभर्ष्यस्मान्का सती के वयं तव॥१३॥

न चेति । अस्मान् अग्रे वा उपकर्तॄन् भूतभाव्युपकारशून्यान् किमिति बिभर्षि । वयं तव के न केपीत्यर्थः । त्वं वासती अस्माकं का न कापि । मातृसंबन्धस्य भ्रान्तिकल्पितत्वादित्यर्थः ॥१३॥

तरुणी दर्शीयाऽसि समर्था भर्तुरेषणे ।
अनुगच्छ पतिं मातः पुत्रानाप्स्यसि शोमनान्॥१४॥

वयमग्निं समाविश्य लोकानाप्स्याम शोभनान् ।
अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः॥१५॥

आयाः आगच्छेः नः अस्मान् ॥१५॥

वैशंपायन उवाच। एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे ।
जगाम त्वरिता देशं क्षेममग्नेरनामयम्॥१६॥

ततस्तीक्ष्णार्चिरभ्यागात्त्वरितो हव्यवाहनः ।
यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः॥१७॥

तत इति । अग्निदाहात्प्रागेव तक्षकवज्जरितापि गताऽतो दाहात् षडेवमुक्ता इति पूर्वोक्तमविरुद्धम् ॥१७॥

ततस्तं ज्वलितं दृष्ट्वा ज्वलनं ते विहङ्गमाः ।
जरितारिस्ततो वाक्यं श्रावयामास पावकम्॥१८॥

॥ इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि शार्ङ्गकोपाख्याने एकत्रिंशदधिकद्विशततमोऽध्यायः॥२३१॥
द्वात्रिंशदधिकद्विशततमोऽध्यायः

जरितारिरुवाच। पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः ।
स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हिचित्॥१॥

द्वात्रिंशदधिकद्विशततमोऽध्यायः पुरत इति । अत्र संसाराटव्यां महामोहानलव्याप्तायां मातापि न त्रातुं समर्था किं तु सर्वे स्वार्थकामा एवेति संसूच्य ब्रह्मिष्ठ एव सर्वांस्त्रातुं समर्थ इत्यस्मिन्नध्याये सूच्यते कथापक्षे तु स्पष्ट एवार्थः । तत्र जरितारिर्नाशितकामादिशत्रुगण आह पुरत इति । मरणात् प्रागेव ज्ञानार्थं यतितव्यं ततश्च मरणव्यथां ज्ञानी न प्राप्नोति । ‘न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते’ इति श्रुतेरित्याद्यश्लोकतत्त्वम् कृच्छ्रकालो मरण कालः । व्यथां प्राणोत्क्रमणपीडाम् ॥१॥

यस्तु कृच्छ्रमनुप्राप्तं विचेता नावबुध्यते ।
स कृच्छ्रकाले व्यथितो न श्रेयो विन्दते महत्॥२॥

एतदेव व्यतिरेकमुखेनाह यस्त्विति । विचेताः अजितचित्तः । व्यथितो देहान्तरे निपात्य कर्मणा वशीकृतो महच्छ्रेयो मोक्षम्॥२॥

सारिसृक्व उवाच। धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः ।
प्राज्ञः शूरो बहूनां हि भवत्येको न संशयः॥३॥

उक्तव्यथानाशः सत्संगादेव भवतीत्यन्वयव्यतिरेकाभ्यामाह द्वाभ्याम् धीर इति । धीरो ध्यानवान् । मेधावी ऊहापोहकुशलः अतस्त्वमेवास्मान्पाहीति भावः ॥३॥

स्तम्बमित्र उवाच। ज्येष्ठस्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः ।
ज्येष्ठश्चेन्न प्रजानाति नीयान्किं करिष्यति॥४॥

त्वदनुग्रहं विना नास्ति तरणोपाय इत्याह ज्येष्ठ इति ॥४॥

द्रोण उवाच। हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम् ।
सप्तजिह्वा नः क्रूरो लिहानो विसर्पति॥५॥

द्रोणवाक्ये क्षयं गृहम् अध्यात्मं तु हरतीति हिरण्यं विषयवासना सैव रेतो बीजं यस्य स मोहो मरणकालिकः । क्षयं देहगेहं एति । सप्तजिह्वाः । ‘काली मनोजवा धूम्रा कराली लोहता तथा । स्फुलिङ्गिनी विश्वरुचिः सप्तजिह्वा विभावसोः॥ ’पक्षे पञ्चेन्द्रियाणि बुद्धिमनसी च तद्युक्तमाननं मुखं भोगसाधनं यस्य सः । लेलिहानो ग्रसिष्यन्विसर्पति व्याप्नोति । अतः स्वमोक्षाय स्वयमेव यतितव्यमिति भावः ॥५॥

वैशंपायन उवाच। एवं संभाष्य तेऽन्योन्यं मन्दपालस्य पुत्रकाः ।
तुष्टुवुः प्रयता भूत्वा यथाऽग्निं शृणु पार्थिव॥६॥

जरितारिरुवाच। आत्माऽसि वायोर्ज्वलन शरीरमसि वीरुधाम् ।
योनिरापश्च ते शुक्रं योनिस्त्वमसि चाम्भसः॥७॥

एवमधिकारिणमुत्थाप्य अग्निस्तुतिव्याजेन तत्त्वमुपदिशति । ब्रह्मैतद्व्याहृतं त्वयेत्युसंपहारेऽग्निवाक्यात् । तत्र मुख्यब्रह्मविद्याधिकारार्थं समष्ट्युपासनां जरितारिराहात्मासीति द्वाभ्याम् वायोः सूत्रात्मनः ‘वायुर्वै गौतम तत्सूत्रं वायुरेव व्यष्टिर्वायुः समष्टिः’ इति श्रुतेः । आत्मा स्त्ररूपमसि शरीरमसि वीरुधामिति विराडात्मत्वमुक्तम् । वीरुधां योनिः पृथ्वी आपश्च ते तव शुक्रं बीजं त्वदुत्पन्नम् । ‘अग्नेरापः अद्भ्यः पृथिवी’ इति च श्रुतेः । आपस्ते शुक्रमित्यस्य व्याख्या योनिस्त्वमसि चाम्भस इति । यद्वा वायोरात्मा अन्तरिक्षं मरीचिशब्दितं वीरुधां योनिः पृथ्वीमरशद्विता यत्पृथिव्या अधस्तात्तदापः यद्दिव उपरिष्टात्तदम्भः । तथा च लोकसृष्टिरुक्ता भवति । 'अदोम्भः परेण दिवं द्यौः प्रतिष्ठान्तरिक्षं मरीचयः पृथिवीमरोया अधस्तात्ता आपः इत्यैतरेये श्रुता लोक्सृष्टिरुक्ता भवति । स इमान् लोकानसृजताम्भो मरीचिर्मरमाप इति उपक्रम्यात्र लोकात्मत्वेन स्तुतिर्न लोककर्तृत्वेनेत्यतः समष्ट्युपासनायामेव तात्पर्यम् ॥७॥

ऊर्ध्वं चाधश्च सर्पन्ति पृष्ठतः पार्श्वतस्तथा ।
अर्चिषस्ते महावीर्य रश्यमः सवितुर्यथा॥८॥

सारिसृक्क उवाच। माता प्रणष्टा पितरं न विद्मः पक्षा जाता नै नो धूमकेतो ।
न नस्त्राता विद्यते वै त्वदन्यस्तस्मादस्मांस्त्राहि बालांस्त्वमग्ने॥९॥

अन्नानाधिकारी सारिणी सृक्के सृक्किणी गल्लगर्भौ यस्य सः सारिसृक्को बाह्यभोगासक्तो व्यष्टिरूपमेवाग्निं प्रार्थयते मातेति । प्रणष्टा अदर्शनं गता ॥९॥

यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः ।
तेन नः परिपाहि त्वमार्तान्नः शरणैषिणः॥१०॥

शिवं शान्तं लोकहितम् । हेतयो ज्वालाः पूर्वोक्ताः ॥१०॥

त्वमेवैकस्तपसे जप्तवेदो नान्यस्तप्ता विद्यते गोषु देव ।
ऋषीनस्मान्बालकान्पालयस्व परेणास्मान्प्रेहि वै हव्यवाह॥११॥

गोषु रविरश्मिषु रविरपि त्वमेवेत्यर्थः । परेणास्मान् अस्मत्तो दूरे प्रेहि । परणेत्येनवन्तम् ॥११॥

स्तम्बमित्र उवाच। सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् ।
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च॥१२॥

एवं व्यष्ट्युपासनासिद्धस्य सार्वात्म्योपासनां सर्वे खल्विदं ब्रह्मेत्यादिशास्त्रप्रसिद्धां शाण्डिल्यविद्यादिरूपां स्तम्बमित्राख्यः सर्वप्राणिसमुदायसखा आह सर्वमित्यादिना । त्वयीदं कनके कुण्डलादिवत् ॥१२॥

त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः ।
मनीषिणस्त्वां जानन्ति बहुधा चैकधापि च॥१३॥

बहुधा कार्यरूपेण एकधा कारणरूपेण ॥१३॥

सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह काले प्राप्ते पचसि पुनः समिद्धः ।
त्वं सर्वस्य भुवनस्य प्रसूतिस्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा॥१४॥

त्रीन् लोकानिति ब्रह्माण्डोपलक्षणम् । पचसि संहरसि । समिद्धः तमोगुणेन प्रवृद्धः । अत्र हेतुं श्रौतं दर्शयति । त्वं सर्वस्येति । प्रसूतिरुत्पत्तिस्थानम् । प्रतिष्ठा लयस्थानम् । एतेन ‘एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्’ इतिश्रुतरर्थो दर्शितः ॥१४॥

द्रोण उवाच। त्वमन्नं प्राणिभिर्भुक्तमन्तर्भूतो जगत्पते ।
नित्यप्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम्॥१५॥

यत्तु नान्तःप्रज्ञमित्यादिश्रुतिप्रसिद्धं तुरीयं निर्विशेषं तदेतत् द्रोणो ब्रह्मविदां वर इत्युपक्रमात् ब्रह्मतद्व्याहृतं त्वयेत्यग्निनापि द्रोणस्यैव स्तुतत्वाच्च द्रोणवाक्यस्य विषय इति ज्ञायते । अत्र च नान्तःप्रज्ञादिवाक्यार्थो न च दृश्यतेऽतः कष्टमेतत् । श्रुतिबलेनैव स्पष्टीकुर्मः त्वमन्नमिति । हे जगत्पते त्वम् अन्नम् । ‘अद्यतेत्ति च भूतानि तस्मादन्नं तदुच्यते’ इति श्रुतेर्विराडसि । किमसौ नित्यः । नेत्याह । प्राणिभिर्भुक्तमिति । प्राणः सूत्रात्मा स उपास्यत्वेनास्ति येषां ते प्राणिनः सूत्रोपासकास्तैर्भुक्तमुपसंहृतम् । एतेन स्थूलस्य सूक्ष्मे लय उक्तः । तथा अन्तर्मध्ये भूतानि सूत्रशरीरारम्भकाणि अपञ्चीकृतवियदादीनि यस्य सः अन्तर्भूतोसि । भूतलयस्थानमप्यसि । एतेन सूक्ष्मस्य कारणे विलापनमुक्तम् । अत एव जगतः स्थूलसूक्ष्मकार्यस्यपते सृष्टिसंहारयोः स्वतन्त्रत्वम् । नित्यं प्रवृद्धोसि । कार्यकारणब्रह्मणोः सोपाधिकयोरुपाधितिरोभावाविर्भावानुसारि प्रवृद्धत्वम् । निरुपाधिकस्य तु नित्यमेव तत् । त्वयि शुद्धे प्रतिष्ठितं सर्वं कार्यकारणात्मकं रज्वामिवोरगादिकर्मीभूतं त्वं पचसि संहरसि । एवं च नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतः प्रज्ञमित्यादिश्रुतेरर्थः स्थूलसूक्ष्मकारणरूपातीतं निष्कलं शिवशद्बाभिधेयं प्रतिपादितम् ॥१५॥

सूर्यो भूत्वा रश्मिभिर्जातवेदो भूमेरम्भो भूमिजातान्रसांश्च ।
विश्वानादाय पुनरुत्सृज्य काले दृष्ट्वा वृष्ट्या भावयसीह शुक्र॥१६॥

सूर्य इति । हे शुक्र शुक्ल सर्वोपाधिकालुष्यहीन त्वं सूर्यो भूत्वा रसानादाय पुनरुत्सृज्य काले वृष्ट्या भावयसीति सम्बन्धः । त्वं भूम्यादीनां रसान् सत्वानि आदाय संहृत्य सूर्यः कारणात्मा भूत्वा वीजमात्ररूपेण स्थित्वा पुनः प्रबोधकाले वृष्ट्या चित्सत्ताप्रदानेन पृथिव्यादीनि जनयसीत्यर्थः ॥१६॥

त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः ।
जायन्ते पुष्करिण्यश्च सुभद्रश्च महोदधिः॥१७॥

एताः रसस्य ब्रह्मसत्ताया आश्रयत्वेन दृश्यमानाः सत्सदितिप्रत्ययविषयभूता वीरुदादयो जडपदार्था अपि त्वत्त एवोत्पन्ना इत्यर्थः । तेन प्रधानादेः कारणत्वं निरस्तम् । सुभद्रश्चेत्यत्र समुद्रश्चेति पाठे महोदधिशब्देन महान्ति ब्रह्माण्डाद्बहिः स्थितानि उदकानि धीयन्तेस्मिन्निति व्युत्पत्यानेऽकब्रह्माण्डशुक्तिसंपुटाश्रयभूतो जलावरणरूपः समुद्रो ग्राह्यः । तच्चावरणान्तराणामप्युपलक्षणम् ॥१७॥

इदं वै सद्म तिग्मांशो वरुणस्य परायणम् ।
शिवस्त्राता भवास्माकं माऽस्मानद्य विनाशय॥१८॥

एवं परापरब्रह्मरूपेणाग्निं स्तुत्वा उपस्थितभयनिवृत्तिं प्रार्थयते । इदमिति । हे तिग्मांशो तीक्ष्णकर वह्ने । सद्मेव सद्म शरीरम् । वरुणस्य रसनेन्द्रियाधिपतेः । परायणम् अत्यन्तालम्बनम् । पक्षिदेहेन हि सर्वरसास्वादो लभ्यते । अतस्त्वं शिवः अन्तरात्मा । अस्माकं त्राता भव ॥१८॥

पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन ।
परेण प्रेहि मुञ्चास्मान्सागरस्य गृहानिव॥१९॥

सागरस्य गृहान् नदीप्रवाहानिव अनभिभाव्यान् स्वाभिभावकांश्च ज्ञात्वा मुञ्च ॥१९॥

वैशंपायन उवाच। एवमुक्तो जातवेदा द्रोणेन ब्रह्मवादिना ।
द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया॥२०॥

प्रतीतात्मा हृष्टः ॥२०॥

अग्निरुवाच। ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया ।
ईप्सितं ते करिष्यामि न च ते विद्यते भयम्॥२१॥

मन्दपालेन वै यूयं मम पूर्वं निवेदिताः ।
वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह॥२२॥

मह्यं मम ॥२२॥

तस्य तद्वचनं द्रोण त्वया यच्चेह भाषितम् ।
उभयं मे गरीयस्तु ब्रूहि किं करवाणि ते ।
भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मंस्तोत्रेण सत्तम॥२३॥

द्रोण उवाच। इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः ।
एतान्कुरुष्व दग्धांस्त्वं हुताशन सबान्धवान्॥२४॥

वैशंपायन उवाच। तथा तत्कृतवानग्निरभ्यनुज्ञाय शार्ङ्गकान् ।
ददाह खाण्डवं दावं समिद्धो जनमेजय॥२५॥

॥ इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि शार्ङ्गकोपाख्याने द्वात्रिंशदधिकद्विशततमोऽध्यायः॥२३२॥
त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः

वैशंपायन उवाच। मन्दपालोपि कौरव्य चिन्तयामास पुत्रकान् ।
उक्त्वाऽपि च स तिग्मांशुं नैव शर्माधिगच्छति॥१॥

त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः मन्दपाल इति । उक्त्वा मम पुत्रान्मा दहेति प्रार्थ्यापि ॥१॥

स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् ।
कथं न शक्ताः शरणे लपिते मम पुत्रकाः॥२॥

शरणे गृहे । क्व नु न कथमपि ॥२॥

वर्धमाने हुतवहे वाते चाशु प्रवायति ।
असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः॥३॥

कथं त्वशक्ता त्राणाय माता तेषां तपस्विनी ।
भविष्यति हि शोकार्ता पुत्रत्राणमपश्यती॥४॥

कथमुड्डीयनेऽशक्तान्पतने च ममात्मजान् ।
सन्तप्यमाना बहुधा वाशमाना प्रधावती॥५॥

उड्डीयने ऊर्ध्वपतने । पतने तिर्यग्गमने । वाशमाना रुदतो ॥५॥

जरितारिः कथं पुत्रः सारिसृक्कः कथं च मे ।
स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी॥६॥

लालप्यमानं तमृषिं मन्दपालं तथा वने ।
लपिता प्रत्युवाचेदं सासूयमिव भारत॥७॥

न ते पुत्रेष्ववेक्षाऽस्ति यानृषीनुक्तवानसि ।
तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम्॥८॥

त्वयाऽग्नौ ते परीताश्च स्वयं हि मम सन्निधौ ।
प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना॥९॥

परीताः ज्ञापिताः ॥९॥

लोकपालो न तां वाचमुक्त्वा मिथ्या करिष्यति ।
समक्षं बन्धुकृत्येन तेन ते स्वस्थ मानसम्॥१०॥

समक्षमिति । हे स्वस्थ ते तव मानसं तेन हेतुना बन्धुकृत्य लक्षणे रक्षणे समक्षम् अभिमुखं न किंतु तामेवेत्यादिस्पष्टार्थम् ॥१०॥

तामेव तु ममामित्रां चिन्तयन्परितप्यसे ।
ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराऽभवत्॥११॥

न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने ।
पीड्यमान उपद्रष्टुं शक्तेनात्मा कथंचन॥१२॥

न हीति । पक्षवता सहायवता । सुहृज्जनेन निःस्नेहेन नितरां स्नेहवता शक्तेन च पीड्यमान आत्मा पुत्रदाररूपः कथं च न उपद्रष्टुम् उपेक्षितुं न हि न्याय्यम् ॥१२॥

गच्छ त्वं जरितामेव यदर्थं परितप्यसे ।
चरिष्याम्यहमप्येका यथा पुरुषाश्रिता॥१३॥

अतस्त्वं जरितामेव गच्छेत्यधिक्षिप्याह । गच्छेति ॥१३॥

मन्दपाल उवाच। नाहमेवं चरे लोके यथा त्वमभिमन्यसे ।
अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम॥१४॥

एवं कामवृत्तो नाहं चरे न चरामि ॥१४॥

भूतं हित्वा च भाव्यर्थे योवलम्बेत्स मन्दधीः ।
अवमन्येत तं लोको यथेच्छसि तथा कुरु॥१५॥

भूतं जरितायामपत्यम् । भाव्यर्थे त्वयि जनयितव्ये अपत्ये ॥१५॥

एष हि प्रज्वलन्नग्निर्लेलिहानी महीरुहान् ।
आविग्ने हृदि सन्तापं जनयत्यशिवं मम॥१६॥

वैशंपायन उवाच। तस्माद्देशादतिक्रान्ते ज्वलने जरिता पुनः ।
जगाम पुत्रकानेन जरिता पुत्रगृद्धिनी॥१७॥

जरितानामतः जरा सञ्जाता अस्याः सा जरिता । सर्वेन्द्रियव्याकुला ॥१७॥

सा तान्कुशलिनः सर्वान्विमुक्ताञ्जातवेदसः ।
रोरूयमाणान्ददृशे वने पुत्रान्निरामयान्॥१८॥

अश्रूणि मुमुचे तेषां दर्शनात्सा पुनःपुनः ।
एकैकश्येन तान्सर्वान्क्रोशमानान्वपद्यत॥१९॥

ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत ।
अथ ते सर्व एवैनं नाभ्यनन्दंस्तदा सुताः॥२०॥

लालप्यमानमेकैकं जरितां च पुनःपुनः ।
न चैवोचुस्तदा किंचित्तमृषिं साध्वसाधु वा॥२१॥

मन्दपाल उवाच। ज्येष्ठः सुतस्ते कतमः कतमस्तस्य चानुजः ।
मध्यमः कतमश्चैव कनीयान्कतमश्च ते॥२२॥

एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे ।
कृतवानपि हि त्यागं नैव शान्तिमितो लभे॥२३॥

जरितोवाच ।
किं नु ज्येष्ठेन ते कार्यं किमनन्तरजेन ते ।
किं वा मध्यमजातेन किं कनिष्ठेन वा पुनः॥२४॥

यां त्वं मां सर्वतो हीनामुत्सृज्यासि गतः पुरा ।
तामेव लपितां गच्छ तरुणीं चारुहासिनीम्॥२५॥

मन्दपाल उवाच। न स्त्रीणां विद्यते किंचिदमुत्र पुरुषान्तरात् ।
सापत्नकमृते लोके नान्यदर्थविनाशनम्॥२६॥

स्त्रीणाम् अमुत्र परलोके पुरुषान्तरादृते सापत्नकं च ऋतेन्यत् तृतीयम् अर्थनाशनं पुरुषार्थघातकं नास्ति ॥२६॥

वैराग्निदीपनं चैव भृशमुद्वेगकारि च ।
सुव्रता चापि कल्याणी सर्वभूतेषु विश्रुता॥२७॥

तदुभयं निन्दति वैराग्नीति । एतच्चापैरिहार्यं सतीनामपीत्याह सुव्रतेति ॥२७॥

अरुन्धती महात्मानं वसिष्ठं पर्यशङ्कत ।
विशुद्धभावमत्यन्तं सदा प्रियहिते रतम्॥२८॥

सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् ।
अपध्यानेन सा तेन धूमारुणसमप्रभा ।
लक्ष्याऽलक्ष्या नाभिरूपा निमित्तमिव पश्यति॥२९॥

निमित्तं भर्तुर्लक्षणमिव पश्यति कपटेन । अत एव नाभिरूपा प्रच्छन्नवेषा । तेन हेतुना लक्ष्याऽलक्ष्या च ॥२९॥

अपत्यहेतोः संप्राप्तं तथा त्वमपि मामिह ।
इष्टमेवं गते हि त्वं सा तथैवाद्य वर्तते॥३०॥

इष्टम् आप्तं तथारुन्धतीव शङ्कमाना । त्वमिव सापि तथैव । मयि अपत्यहेतोर्व्याकुले सति सा लपितापि तथैव वर्तते ॥३०॥

न हि भार्येति विश्वासः कार्यः पुंसा कथंचन ।
न हि कार्यमनुध्याति नारी पुत्रवती सती॥३१॥

यतः स्त्रीणामाप्तो नास्तीत्याह । न हीति । कार्यं भर्तृशुश्रूषादि । अनुध्याति मनसिकरोति ॥३१॥

वैशंपायन उवाच। ततस्ते सर्व एवैनं पुत्राः सम्यगुपासते ।
स च तानात्मजान्सर्वानाश्वासयितुमुद्यतः॥३२॥

॥ इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि शार्ङ्गकोपाख्याने त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः॥२३३॥
चतुस्त्रिंशदधिकद्विशततमोऽध्यायः

मन्दपाल उवाच। युष्माकमपवर्गार्थं विज्ञप्तो ज्वलनो मया ।
अग्निना च तथेत्येवं प्रतिज्ञातं महात्मना॥१॥

चतुस्त्रिंशदधिकद्विशततमोऽध्यायः युष्माकमिति ॥१॥

अग्नेर्वचनमाज्ञाय धर्मज्ञतां च वः ।
भवतां च परं वीर्यं पूर्वं नाहमिहागतः॥२॥

मातुर्धर्मज्ञतां च वः मातुः वः युष्मत्संबन्धितया धर्मज्ञतां युष्मदीयं परमधर्मज्ञानं मातुरस्तीति विज्ञायेत्यर्थः ॥२॥

न सन्तापो हि वः कार्यः पुत्रका हृदि मां प्रति ।
ऋषीन्वेदहुताशोऽपि ब्रह्म तद्विदितं च वः॥३॥

ब्रह्म तत् वेदान्तप्रसिद्धम् ॥३॥

वैशंपायन उवाच। एवमाश्वासितान्पुत्रान्भार्यामादाय स द्विजः ।
मन्दपालस्ततो देशादन्यं देशं जगाम ह॥४॥

भगवानापि तिग्मांशुः समिद्धः खाण्डवं ततः ।
ददाह सह कृष्णाभ्यां जनयञ्जगतो हितम्॥५॥

वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः ।
जगाम परमां तृप्तिं दर्शयामास चार्जुनम्॥६॥

ततोऽन्तरिक्षाद्भगवानवतीर्य पुरन्दरः ।
मरुद्गणैर्वृतः पार्थं केशवं चेदमब्रवीत्॥७॥

कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् ।
वरं वृणीतं तुष्टोऽस्मि दुर्लभं पुरुषेष्विह॥८॥

पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः ।
प्रदातुं तच्च शक्रस्तु कालं चक्रे महाद्युतिः॥९॥

यदा प्रसन्नो भगवान्महादेवो भविष्यति ।
तदा तुभ्यं प्रदास्यामि पाण्डवास्त्राणि सर्वशः॥१०॥

अहमेव च तं कालं वेत्स्यामि कुरुनन्दन ।
तपसा महता चापि दास्यामि भवतोऽप्यहम्॥११॥

आग्नेयानि च सर्वाणि वायव्यानि च सर्वशः ।
मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय॥१२॥

वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् ।
ददौ सुरपतिश्चैव वरं कृष्णाय धीमते॥१३॥

एवं दत्त्वा वरं ताभ्यां सहदेवैर्मरुत्पतिः ।
हुताशनमनुज्ञाप्य जगाम त्रिदिवं प्रभुः॥१४॥

पावकश्च तदा दावं दग्ध्वा समृगपक्षिणम् ।
अहानि पञ्च चैकं च विरराम सुतर्पितः॥१५॥

जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च ।
युक्तः परमया प्रीत्या तावुवाचाच्युतार्जुनौ॥१६॥

युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम् ।
अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम्॥१७॥

चरतं यत्र वाञ्छितमित्यनेनाप्रतिहतगतित्वं द्वयोरपि दत्तं मयेत्यर्थः ॥१७॥

एवं तौ समनुज्ञातौ पावकेन महात्मना ।
अर्जुनो वासुदेवश्च दानवश्च मयस्तथा॥१८॥

परिक्रम्य ततः सर्वे त्रयोपि भरतर्षभ ।
रमणीये नदीकूले सहिताः समुपाविशन्॥१९॥

॥ इति श्रीमन्महाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां आदिपर्वणि मयदर्शनपर्वणि वरप्रदाने चतुस्त्रिंशदधिकद्विशततमोऽध्यायः॥२३४॥
समाप्तं मयदर्शनपर्वादिपर्व च ॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in