नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥१॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥१॥
जनमेजय उवाच।
प्राप्य राज्यं महात्मानः पाण्डवा मे पितामहाः
।
कथमासन्महाराज्ञि धृतराष्ट्र महात्मनि॥१॥
स तु राजा हतामात्यो हतपुत्रो निराश्रयः
।
कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी॥२॥
कियन्तं चैव कालं ते मम पूर्वपितामहाः
।
स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि॥३॥
वैशम्पायन उवाच।
प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः
।
धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन्॥४॥
धृतराष्ट्रमुपातिष्ठद्विदुरः सञ्जयस्तथा
।
वैश्यपुत्रश्च मेधावी युयुत्सुः कुरुसत्तम॥५॥
पाण्डवाः सर्वकार्याणि सम्पृच्छन्ति स्म तं नृपम्
।
चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च॥६॥
सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम्
।
पादाभिवादनं कृत्वा धर्मराजमते स्थिताः॥७॥
ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे
।
कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत॥८॥
द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः
।
समां वृत्तिमवर्तन्त तयोः श्वश्वोर्यथाविधि॥९॥
शयनानि महार्हाणि वासांस्याभरणानि च
।
राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः॥१०॥
युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत्
।
तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत॥११॥
विदुरः सञ्जयश्चैव युयुत्सुश्चैव कौरव
।
उपासते स्म तु वृद्धं हतपुत्रं जनाधिपम्॥१२॥
श्यालो द्रोणस्य यश्चासीद्दयितो ब्राह्मणो महान्
।
स च तस्मिन्महेष्वासः कृपः समभवत्तदा॥१३॥
व्यासश्च भगवान्नित्यमासाञ्चक्रे नृपेण ह
।
कथाः कुर्वन्पुराणर्षिर्देवर्षिपितृरक्षसाम्॥१४॥
धर्मयुक्तानि कार्याणि व्यवहारन्वितानि च
।
धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत्॥१५॥
सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुबहून्यपि
।
प्राप्यन्तेऽर्थैः सुलघुभिः सुनयाद्विदुरस्य वै॥१६॥
अकरोद्बन्धमोक्षं च बध्यानां मोक्षणं तथा
।
न च धर्मसुतो राजा कदाचित्किञ्चिदब्रवीत्॥१७॥
विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः
।
सर्वान्कामान्महातेजाः प्रददावम्बिकासुते॥१८॥
आरालिकाः सूपकारा रागखाण्डविकास्तथा
।
उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा॥१९॥
वासांसि च महार्हाणि माल्यानि विविधानि च
।
उपाजह्रुर्यथान्यायं धृतराष्ट्रस्य पाण्डवाः॥२०॥
मैरेयमत्स्य मांसानि पानकानि मधूनि च
।
चित्रान्भक्ष्यविकारांश्च चक्रुस्तस्य यथा पुरा॥२१॥
ये चापि पृथिवीपालाः समाजग्मुस्ततस्ततः
।
उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा॥२२॥
कुन्ती च द्रौपदी चैव सात्वती च यशस्विनी
।
उलूपी नागकन्या च देवी चित्राङ्गदा तथा॥२३॥
धृष्टकेतोश्च भगिनी जरासन्धसुता तथा
।
एताश्चान्याश्च बह्व्यो वै योषितः पुरुषर्षभ॥२४॥
किङ्कराः पर्युपातिष्ठन्सर्वाः सुबलजां तथा
।
यथा पुत्रवियुक्तोऽयं न किञ्चिद्दुःखमाप्नुयात्॥२५॥
इति तानन्वशाद्भ्रातॄन्नित्यमेव युधिष्ठिरः
।
एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत्॥२६॥
सविशेषमवर्तन्त भीममेकं तदा विना
।
न हि तत्तस्य वीरस्य हृदयादपसर्पति
।
धृतराष्ट्रस्य दुर्बुद्ध्या यद्वृत्तं द्यूतकारितम्॥२७॥
वैशम्पायन उवाच।
एवं सम्पूजितो राजा पाण्डवैरम्बिकासुतः
।
विजहार यथापूर्वमृषिभिः पर्युपासितः॥१॥
ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः
।
तच्च कुन्तीसुतो राजा सर्वमेवान्वपद्यत॥२॥
आनुशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः
।
उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः॥३॥
मया चैव भवद्भिश्च मान्य एष नराधिपः
।
निदेशे धृतराष्ट्रस्य यस्तिष्ठति स मे सुहृत्॥४॥
विपरीतश्च मे शत्रुर्नियम्यश्च भवेन्नरः
।
पितृवृत्तेषु चाहःसु पुत्राणां श्राद्धकर्मणि॥५॥
सुहृदां चैव सर्वेषां यावदस्य चिकीर्षितम्
।
ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः॥६॥
ब्राह्मणेभ्यो यथार्हेभ्यो ददौ वित्तान्यनेकशः
।
धर्मराजश्च भीमश्च सव्यसाची यमावपि॥७॥
तत्सर्वमन्ववर्तन्त तस्य प्रियचिकीर्षया
।
कथं नु राजा वृद्धः स पुत्रपौत्रवधार्दितः॥८॥
शोकमस्मत्कृतं प्राप्य न म्रियेतेति चिन्त्यते
।
यावद्धि कुरुवीरस्य जीवत्पुत्रस्य वै सुखम्॥९॥
बभूव तदवाप्नोति भोगांश्चेति व्यवस्थिताः
।
ततस्ते सहिताः पञ्च भ्रातरः पाण्डुनन्दनाः॥१०॥
तथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने
।
धृतराष्ट्रश्च तान्सर्वान्विनीतान्नियमे स्थित्तान्॥११॥
शिष्यवृत्तिं समापन्नान्गुरुवत्प्रत्यपद्यत
।
गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः॥१२॥
आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य सा
।
एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः॥१३॥
भ्रातृभिः सहितो धीमान् पूजयामास तं नृपम्
।
वैशम्पायन उवाच।
स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः॥१४॥
न ददर्श तदा किञ्चिदप्रियं पाण्डुनन्दने
।
वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु॥१५॥
प्रीतिमानभवद्राजा धृतराष्ट्रोऽम्बिकासुतः
।
सौबलेयी च गान्धारी पुत्रशोकमपास्य तम्॥१६॥
सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव
।
प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वहः॥१७॥
वैचित्रवीर्ये नृपतौ समाचरत वीर्यवान्
।
यद्यद्ब्रूते च किञ्चित्स धृतराष्ट्रो जनाधिपः॥१८॥
गुरु वा लघु वा कार्यं गान्धारी च तपस्विनी
।
तं स राजा महाराज पाण्डवानां धुरन्धरः॥१९॥
पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा
।
तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः॥२०॥
अन्वतप्यत संस्मृत्य पुत्रं तं मन्दचेतसम्
।
सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः॥२१॥
आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम्
।
ब्राह्मणान्स्वस्ति वाच्याथ हुत्वा चैव हुताशनम्॥२२॥
आयूंषि पाण्डुपुत्राणामाशंसत नराधिपः
।
न तां प्रीतिं परामाप पुत्रेभ्यः स कुरूद्वहः॥२३॥
यां प्रीतिं पाण्डुपुत्रेभ्यः सदावाप नराधिपः
।
ब्राह्मणानां यथावृत्तः क्षत्रियाणां यथाविधः॥२४॥
तथा विट्शूद्रसङ्घानामभवत्स प्रियस्तदा
।
यच्च किञ्चित्तदा पापं धृतराष्ट्रसुतैः कृतम्॥२५॥
अकृत्वा हृदि तत्पापं तं नृपं सोऽन्ववर्तत
।
यश्च कश्चिन्नरः किञ्चिदप्रियं वाम्बिकासुते॥२६॥
कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः
।
न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै॥२७॥
उवाच दुष्कृतं कश्चिद्युधिष्ठिरभयानरः
।
धृत्या तुष्टो नरेन्द्रः स गान्धारी विदुरस्तथा॥२८॥
शौचेन चाजातशत्रोर्न तु भीमस्य शत्रुहन्
।
अन्ववर्तत भीमोऽपि निश्चितो धर्मजं नृपम्॥२९॥
धृतराष्ट्रं च सम्प्रेक्ष्य सदा भवति दुर्मनाः
।
राजानमनुवर्तन्तं धर्मपुत्रममित्रहा
।
अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः॥३०॥
वैशम्पायन उवाच।
युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तदा
।
नान्तरं ददृशू राज्ये पुरुषाः प्रणयं प्रति॥१॥
यदा तु कौरवो राजा पुत्रं सस्मार दुर्मतिम्
।
तदा भीमं हृदा राजन्नपध्याति स पार्थिवः॥२॥
तथैव भीमसेनोऽपि धृतराष्ट्रं जनाधिपम्
।
नामर्षयत राजेन्द्र सदैव दुष्टवद्धृदा॥३॥
अप्रकाशान्यप्रियाणि चकारास्य वृकोदरः
।
आज्ञां प्रत्यहरच्चापि कृतज्ञैः पुरुषैः सदा॥४॥
स्मरन्दुर्मन्त्रितं तस्य वृत्तान्यप्यस्य कानिचित्
।
अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरोत्॥५॥
संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः
।
स्मृत्वा दुर्योधनं शत्रुं कर्णदुःशासनावपि॥६॥
प्रोवाचेदं सुसंरब्धो भीमः स परुषं वचः
।
अन्धस्य नृपतेः पुत्रा मया परिघबाहुना॥७॥
नीता लोकममुं सर्वे नानाशस्त्रास्त्रयोधिनः
।
इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ॥८॥
ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः
।
ताविमौ चन्दनेनाक्तौ चन्दनार्हौ च मे भुजौ॥९॥
याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः
।
एताश्चान्याश्च विविधाः शल्यभूता नराधिपः॥१०॥
वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत्
।
सा च बुद्धिमती देवी कालपर्यायवेदिनी॥११॥
गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे
।
ततः पञ्चदशे वर्षे समतीते नराधिपः॥१२॥
राजा निर्वेदमापेदे भीमवाग्बाणपीडितः
।
नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः॥१३॥
श्वेताश्वो वाथ कुन्ती वा द्रौपदी वा यशस्विनी
।
माद्रीपुत्रौ च धर्मज्ञौ चित्तं तस्यान्ववर्तताम्॥१४॥
राज्ञस्तु चित्तं रक्षन्तौ नोचतुः किञ्चिदप्रियम्
।
ततः स मानयामास धृतराष्ट्रः सुहृज्जनम्॥१५॥
बाष्पसन्दिग्धमत्यर्थमिदमाह च तान्भृशम्
।
धृतराष्ट्र उवाच।
विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः॥१६॥
ममापराधात्तत्सर्वमनुज्ञातं च कौरवैः
।
योऽहं दुष्टमतिं मन्दो ज्ञातीनां भयवर्धनम्॥१७॥
दुर्योधनं कौरवाणामाधिपत्यऽभ्यषेचयम्
।
यच्चाहं वासुदेवस्य नाश्रौषं वाक्यमर्थवत्॥१८॥
वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः
।
पुत्रस्नेहाभिभूतस्तु हितमुक्तो मनीषिभिः॥१९॥
विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च
।
पदे पदे भगवता व्यासेन च महात्मना॥२०॥
सञ्जयेनाथ गान्धार्या तदिदं तप्यते च माम्
।
यच्चाहं पाण्डुपुत्रेषु गुणवत्सु महात्मसु॥२१॥
न दत्तवान् श्रियं दीप्तां पितृपैतामहीमिमाम्
।
विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः॥२२॥
एतच्छ्रेयस्तु परमममन्यत जनार्दनः
।
सोऽहमेतान्यलीकानि निवृत्तान्यान्मनस्तदा॥२३॥
हृदये शल्यभूतानि धारयामि सहस्रशः
।
विशेषतस्तु पश्यामि वर्षे पञ्चदरोऽद्य वै॥२४॥
अस्य पापस्य शुद्ध्यर्थं नियतोऽस्मि सुदुर्मतिः
।
चतुर्थे नियते काले कदाचिदपि चाष्टमे॥२५॥
तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम
।
करोत्याहारमिति मां सर्वः परिजनः सदा॥२६॥
युधिष्ठिरभयादेति भृशं तप्यति पाण्डवः
।
भूमौ शये जप्यपरो दर्भेष्वजिनसंवृतः॥२७॥
नियमव्यपदेशेन गान्धारी च यशस्विनी
।
हतं शतं तु पुत्राणां ययोर्युद्धेऽपलायिनाम्॥२८॥
नानुतप्यामि तच्चाहं क्षत्रधर्मं हि ते विदुः
।
इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः॥२९॥
भद्रं ते यादवीमातर्वचश्चेदं निबोध मे
।
सुखमसम्युषितः पुत्र त्वया सुपरिपालितः॥३०॥
महादानानि दत्तानि श्राद्धानि च पुनः पुनः
।
प्रकृष्टं च यया पुत्र पुण्यं चीर्णं यथाबलम्॥३१॥
गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम्
।
द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः॥३२॥
समतीता नृशंसास्ते स्वधर्मेण हता युधि
।
न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन॥३३॥
सर्वे शस्त्रभृतां लोकान् गतास्तेऽभिमुखं हताः
।
आत्मनस्तु हितं पुण्यं प्रतिकर्तव्यमद्य वै॥३४॥
गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि
।
त्वं तु शस्त्रभृतां श्रेष्ठः सततं धर्मवत्सलः॥३५॥
राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम्
।
अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम्॥३६॥
चीरवल्कलभृद्राजन् गान्धार्या सहितोऽनया
।
तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः॥३७॥
उचितं नः कुले तात सर्वेषां भरतर्षभ
।
पुत्रेष्वैश्वर्यमाधाय वयसोऽन्ते वनं नृप॥३८॥
तत्राहं वायुभक्षो वा निराहारोऽपि वा वसन्
।
पत्न्या सहानया वीर चरिष्यामि तपः परम्॥३९॥
त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि
।
फलभाजो हि राजानः कल्याणस्येतरस्य वा॥४०॥
युधिष्ठिर उवाच।
न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप
।
धिङ्नामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम्॥४१॥
योऽहं भवन्तं दुःखार्तमुपवासकृशं भृशम्
।
जिताहारं क्षितिशयं न विन्दे भ्रातृभिः सह॥४२॥
अहोऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना
।
विश्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथाः॥४३॥
किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा
।
यस्य मे त्वं महीपाल दुःखान्येतान्यवाप्तवान्॥४४॥
पीडितं चापि जानामि राज्यमान्मानमेव च
।
अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर॥४५॥
भवान्पिता भवान्माता भवान्नः परमो गुरुः
।
भवता विप्रहीणा वै क्व नु तिष्ठामहे वयम्॥४६॥
औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम
।
अस्तु राजा महाराज यमन्यं मन्यते भवान्॥४७॥
अहं वनं गमिष्यामि भवान् राज्यं प्रशासतु
।
न मामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि॥४८॥
नाहं राजा भवान् राजा भवतः परवानहम्
।
कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे॥४९॥
न मन्युर्हदि नः कश्चित्सुयोधनकृतेऽनघ
।
भवितव्यं तथा तद्धि वयं चान्ये च मोहिताः॥५०॥
वयं पुत्रा हि भवतो यथा दुर्योधनादयः
।
गान्धारी चैव कुन्ती च निर्विशेषे मते मम॥५१॥
स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि
।
पृष्ठतस्त्वनुयास्यामि सत्यमात्मानमालभे॥५२॥
इयं हि वसुसम्पूर्णा मही सागरमेखला
।
भवता विप्रहीणस्य न मे प्रीतिकरी भवेत्॥५३॥
भवदीयमिदं सर्वं शिरसा त्वां प्रसादये
।
त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः॥५४॥
भवितव्यमनुप्राप्तो मन्ये त्वं वसुधाधिप
।
दिष्ट्या शुश्रूषमाणस्त्वां मोक्षिष्ये मनसो ज्वरम्॥५५॥
धृतराष्ट्र उवाच।
तापस्ये मे मनस्तात वर्तते कुरुनन्दन
।
उचितं च कुलेऽस्माकमरण्यगमनं प्रभो॥५६॥
चिरमस्म्युषितः पुत्र चिरं शुश्रूषितस्त्वया
।
वृद्धं मामप्यनुज्ञातुमर्हसि त्वं नराधिप॥५७॥
वैशम्पायन उवाच।
इत्युक्त्वा धर्मराजानं वेपमानं कृताञ्जलिम्
।
उवाच वचनं राजा धृतराष्ट्रोऽम्बिकासुतः॥५८॥
सञ्जयं च महात्मानं कृपं चापि महारथम्
।
अनुनेनुमिहेच्छामि भवद्भिर्वसुधाधिपम्॥५९॥
म्लायते मे मनो हीदं मुखं च परिशुष्यति
।
वयसा च प्रकृष्टेन वाग्व्यायामेन चैव ह॥६०॥
इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरुद्वहः
।
गान्धारी शिश्रिये धीमान् सहसैव गतासुवत्॥६१॥
तं तु दृष्ट्वा समासीनं विसंज्ञमिव कौरवम्
।
आर्तिं राजागमत्तीव्रां कौन्तेयः परवीरहा॥६२॥
युधिष्ठिर उवाच।
यस्य नागसहस्रेण शतसङ्ख्येन वै बलम्
।
सोऽयं नारीं व्यपाश्रित्य शेते राजा गतासुवत्॥६३॥
आयसी प्रतिमा येन भीमसेनस्य सा पुरा
।
चूर्णीकृता बलवता सोऽबलामाश्रितः स्त्रियम्॥६४॥
धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम्
।
यत्कृते पृथिवीपालः शेतेऽयमतथोचितः॥६५॥
अहमप्युपवत्स्यामि यथैवायं गुरुर्मम
।
यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी॥६६॥
वैशम्पायन उवाच।
ततोऽस्य पाणिना राजन् जलशीतेन पाण्डवः
।
उरो मुखं च शनकैः पर्यमार्जत धर्मवित्॥६७॥
तेन रत्नौषधिमता पुण्येन च सुगन्धिना
।
पाणिस्पर्शन राज्ञः स राजा संज्ञामवाप ह॥६८॥
धृतराष्ट्र उवाच।
स्पृश मां पाणिना भूयः परिष्वज च पाण्डव
।
जीवामीवातिसंस्पर्शात्तव राजीवलोचन॥६९॥
मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप
।
पाणिभ्यां हि परिस्प्रष्टुं प्रीणनं हि महन्मम॥७०॥
अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे
।
येनाहं कुरुशार्दूल शक्नोमि न विचेष्टितुम्॥७१॥
व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता
।
ततो ग्लानमनास्तात नष्टसंज्ञ इवाभवम्॥७२॥
तवामृतरसप्रख्यं हस्तस्पर्शमिमं प्रभो
।
लब्धा सञ्जीवितोऽस्मीति मन्ये कुरुकुलोद्वह॥७३॥
वैशम्पायन उवाच।
एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत
।
पस्पर्श सर्वगात्रेषु सौहार्दात्तं शनैस्तदा॥७४॥
उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः
।
बाहुभ्यां सम्परिष्वज्य मूर्ध्न्याजिघ्रत पाण्डवम्॥७५॥
विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम्
।
अतिदुःखात्तु राजानं नोचुः किञ्चन पाण्डवम्॥७६॥
गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम्
।
दुःखान्यधारयाद्राजन्मैवमित्येव चाब्रवीत्॥७७॥
इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदुःखिताः
।
नेत्रैरागतविक्लेदैः परिवार्य स्थिताऽभवन्॥७८॥
अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम्
।
अनुजानीहि मां राजस्तापस्ये भरतर्षभ॥७९॥
ग्लायते मे मनस्तात भूयो भूयः प्रजल्पतः
।
न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि॥८०॥
तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम्
।
सर्वेषमिव योधानामार्तनादो महानभूत्॥८१॥
दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम्
।
उपवासपरिश्रान्तं त्वगस्थिपरिवारणम्॥८२॥
धर्मपुत्रः स्वपितरं परिष्वज्य महाप्रभुम्
।
शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत्॥८३॥
न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा
।
यथा तव प्रियं राजंश्चिकीर्षामि परन्तप॥८४॥
यदि चाहमनुग्राह्यो भवतो दयितोऽपि वा
।
क्रियतां तावदाहारस्ततो वेत्स्याम्यहं परम्॥८५॥
ततोऽब्रवीन्महातेजा धृतराष्ट्रो युधिष्ठिरम्
।
अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये॥८६॥
इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम्
।
ऋषिः सत्यवतीपुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत्॥८४॥
व्यास उवाच।
युधिष्ठिर महाबाहो यथाह कुरुनन्दनः
।
धृतराष्ट्रो महातेजास्तत्कुरुष्वाविचारयन्॥१॥
अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः
।
नेदं कृच्छ्रे चिरतरं सहेदिति पतिर्मम॥२॥
गान्धारी च महाभागा प्राज्ञा करुणवेदिनी
।
पुत्रशोकं महाराज धैर्येणोद्वहते भृशम्॥३॥
अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः
।
अनुज्ञां लभतां राजा मा वृथेह मरिष्यति॥४॥
राजर्षीणां पुराणानामनुयातु गतिं नृपः
।
राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः॥५॥
वैशम्पायन उवाच।
इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा
।
प्रत्युवाच महातेजा धर्मराजो महामुनिम्॥६॥
भगवानेव नो मान्यो भगवानेव नो गुरुः
।
भगवानस्य राज्यस्य कुलस्य च परायणम्॥७॥
अहं तु पुत्रो भगवन् पिता राजा गुरुश्च मे
।
निदेशवर्ती च पितुः पुत्रो भवति धर्मतः॥८॥
वैशम्पायन उवाच।
इत्युक्तः स तु तं प्राह व्यासो वेदविदां वरः
।
युधिष्ठिरं महातेजाः पुनरेव महाकविः॥९॥
एवमेतन्महाबाहो यथा वदसि भारत
।
राजाऽयं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः॥१०॥
सोऽयं मयाभ्यनुज्ञातस्त्वया च पृथिवीपतिः
।
करोतु स्वमभिप्रायं मास्य विघ्नकरो भव॥११॥
एष एव परो धर्मो राजर्षीणां युधिष्ठिर
।
समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम्॥१२॥
पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता
।
शिष्यवृत्तेन राजायं गुरुवत्पर्युपासितः॥१३॥
क्रतुभिर्दक्षिणावद्भी रत्नपर्वतशोभितैः
।
महद्भिरिष्टं गौर्भुक्ता प्रजाश्च परिपालिताः॥१४॥
पुत्रसंस्थं च विपुलं राज्यं विप्रोषिते त्वयि
।
त्रयोदशसमा भुक्तं दत्तं च विविधं वसु॥१५॥
त्वया चायं नरव्याघ्र गुरुशुश्रूषयाऽनघ
।
आराधितः सभृत्येन गान्धारी च यशस्विनी॥१६॥
अनुजानीहि पितरं समयोऽस्य तपोविधौ
।
न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर॥१७॥
वैशम्पायन उवाच।
एतावदुक्त्वा वचनमनुमान्य च पार्थिवम्
।
तथास्त्विति च तेनोक्तः कौन्तेयेन ययौ वनम्॥१८॥
गते भगवति व्यासे राजा पाण्डुसुतस्तदा
।
प्रोवाच पितरं वृद्धं मन्दं मन्दमिवानतः॥१९॥
यदाह भगवान्व्यासो यच्चापि भवतो मतम्
।
यथाऽऽह च महेष्वासः कृपो विदुर एव च॥२०॥
युयुत्सुः सञ्जयश्चैव तत्कर्तास्म्यहमञ्जसा
।
सर्व एव हि मान्या मे कुलस्य हि हितैषिणः॥२१॥
इदं तु याचे नृपते त्वामहं शिरसा नतः
।
क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति॥२२॥
वैशम्पायन उवाच।
ततो राज्ञाभ्यनुज्ञातो धृतराष्ट्रः प्रतापवान्
।
ययौ स्वभवनं राजा गान्धार्यानुगतस्तदा॥१॥
मन्दप्राणगतिर्धीमान् कृच्छ्रादिव समुद्वहन्
।
पदातिः स महीपालो जीर्णो गजपतिर्यथा॥२॥
तमन्वगच्छद्विदुरो विद्वान् सूतश्च सञ्जयः
।
स चापि परमेष्वासः कृपः शारद्वतस्तथा॥३॥
स प्रविश्य गृहं राजन्कृतपूर्वाह्निकक्रियः
।
तर्पयित्वा द्विजश्रेष्ठानाहारमकरोत्तदा॥४॥
गान्धारी चैव धर्मज्ञा कुन्त्या सह मनस्विनी
।
वधूभिरुपचारेण पूजिताभुङ्क्त भारत॥५॥
कृताहारं कृताहाराः सर्वे ते विदुरादयः
।
पाण्डवाश्च कुरुश्रेष्ठमुपातिष्ठन्त तं नृपम्॥६॥
ततोऽब्रवीन्महाराज कुन्तीपुत्रमुपह्वरे
।
निषण्णं पाणिना पृष्ठे संस्पृशन्नम्बिकासुतः॥७॥
अप्रमादस्त्वया कार्यः सर्वथा कुरुनन्दन
।
अष्टाङ्गे राजशार्दूल राज्ये धर्मपुरस्कृते॥८॥
तत्तु शक्यं महाराज रक्षितुं पाण्डुनन्दन
।
राज्यं धर्मेण कौन्तेय विद्वानसि निबोध तत्॥९॥
विद्यावृद्धान् सदैव त्वमुपासीथा युधिष्ठिर
।
शृणुयास्ते च यद्ब्रूयुः कुर्याश्चैवाविचारयन्॥१०॥
प्रातरुत्थाय तान् राजन् पूजयित्वा यथाविधि
।
कृत्यकाले समुत्पन्ने पृच्छेथाः कार्यमात्मनः॥११॥
ते तु सम्मानिता राजंस्त्वया कार्यहितार्थिना
।
प्रवक्ष्यन्ति हितं तात सर्वथा तव भारत॥१२॥
इन्द्रियाणि च सर्वाणि वाजिवत्परिपालय
।
हितायैव भविष्यन्ति रक्षितं द्रविणं यथा॥१३॥
अमात्यानुपधातीतान् पितृपैतामहाशुचीन्
।
दान्तान् कर्मसु पुण्यांश्च पुण्यान् सर्वेषु योजयेः॥१४॥
चारयेथाश्च सततं चारैरविदितः परैः
।
परीक्षितैर्बहुविधैः स्वराष्ट्रप्रतिवासिभिः॥१५॥
पुरं च ते सुगुप्तं स्याद्दृढप्राकारतोरणम्
।
अट्टाट्टालकसम्बाधं षट्पदं सर्वतोदिशम्॥१६॥
तस्य द्वाराणि सर्वाणि पर्याप्तानि बृहन्ति च
।
सर्वतः सुविभक्तानि यन्त्रैरारक्षितानि च॥१७॥
पुरुषैरलमर्थस्ते विदितैः कुलशीलतः
।
आत्मा च रक्ष्यः सततं भोजनादिषु भारत॥१८॥
विहाराहारकालेषु माल्यशय्यासनेषु च
।
स्त्रियश्च ते सुगुप्ताः स्युर्वृद्धराप्तैरधिष्ठिताः॥१९॥
शीलवद्भिः कुलीनैश्च विद्वद्धिश्च युधिष्ठिर
।
मन्त्रिणश्चैव कुर्वीथा द्विजान्विद्याविशारदान्॥२०॥
विनीतांश्च कुलीनांश्च धर्मार्थकुशलानृजून्
।
तैः सार्धं मन्त्रयेथास्त्वं नात्यर्थं बहुभिः सह॥२१॥
समस्तैरपि च व्यस्तैर्व्यपदेशेन केनचित्
।
सुसंवृतं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः॥२२॥
अरण्ये निःशलाके वा न च रात्रौ कथञ्चन
।
वानराः पक्षिणश्चैव ये मनुष्यानुसारिणः॥२३॥
सर्वे मन्त्रगृहे वर्ज्या ये चापि जडपङ्गवः
।
मन्त्रभेदे हि ये दोषा भवन्ति पृथिवीक्षिताम्॥२४॥
न ते शक्याः समाधातुं कथञ्चिदिति मे मतिः
।
दोषांश्च मन्त्रभेदस्य ब्रूयास्त्वं मन्त्रिमण्डले॥२५॥
अभेदे च गुणा राजन् पुनः पुनररिन्दम
।
पौरजानपदानां न शौचाशौचे युधिष्ठिर॥२६॥
यथा स्याद्विदितं राजंस्तथा कार्यं कुरूद्वह
।
व्यवहरश्च ते राजन् नित्यमाप्तैरधिष्ठितः॥२७॥
योज्यस्तुष्टैर्हितै राजन्नित्यं चारैरनुष्ठितः
।
परिमाणं विदित्वा च दण्डं दण्ड्येषु भारत॥२८॥
प्रणयेयुर्यथान्यायं पुरुषास्ते युधिष्ठिर
।
आदानरुचयश्चैव परदाराभिमर्शिनः॥२९॥
उग्रदण्डप्रधानाश्च मिथ्या व्याहारिणस्तथा
।
आक्रोष्टारश्च लुब्धश्च हर्तारः साहसप्रियाः॥३०॥
समाविहारभेत्तारो वर्णानां च प्रदूषकाः
।
हिरण्यदण्ड्या वध्याश्च कर्तव्या देशकालतः॥३१॥
प्रातरेव हि पश्येथा ये कुर्युर्व्ययकर्म ते
।
अलङ्कारमथो भोज्यमत ऊर्ध्वं समाचरेः॥३२॥
पश्येथाश्च ततो योधान् सदा त्वं प्रतिहर्षयन्
।
दूतानां च चराणां च प्रदोषस्ते सदा भवेत्॥३३॥
सदा चापररात्रान्ते भवेत्कार्यार्थनिर्णयः
।
मध्यरात्रे विहारस्ते मध्याह्ने च सदा भवेत्॥३४॥
सर्वे त्वौपयिकाः कालाः कार्याणां भरतर्षभ
।
तथैवालङ्कृतः काले तिष्ठेथा भूरिदक्षिण॥३५॥
चक्रवत्तात कार्याणां पर्यायो दृश्यते सदा
।
कोशस्य निचये यत्नं कुर्वीथा न्यायतः सदा॥३६॥
विपिधस्य महाराज विपरीतं विवर्जयेः
।
चारैर्विदित्वा शुत्रूंश्च ये राज्ञामन्तरैषिणः॥३७॥
तानाप्तैः पुरुषैर्दूराद्घातयेथा नराधिप
।
कर्म दृष्ट्वाथ भृत्यांस्त्वं वरयेथाः कुरूद्वह॥३८॥
कारयेयाश्च कर्माणि युक्तायुक्तैरधिष्ठितैः
।
सेनाप्रणेता च भवेत्तव तात दृढव्रतः॥३९॥
शूरः क्लेशसहश्चैव हितो भक्तश्च पूरुषः
।
सर्वे जनपदाश्चैव तव कर्माणि पाण्डव॥४०॥
गोवद्रासभवच्चैव कुर्युर्ये व्यवहारिणः
।
स्वरन्ध्रं पररन्ध्रं च स्वेषु चैव परेषु च॥४१॥
उपलक्षयितव्यं ते नित्यमेव युधिष्ठिर
।
देशजाश्चैव पुरुषा विक्रान्ताः स्वेषु कर्मसु॥४२॥
यात्राभिरनुरूपाभिरनुग्राह्या हितास्त्वया
।
गुणार्थिनां गुणः कार्यो विदुषां वै जनाधिप
।
अविचार्याश्च ते ते स्युरचला इव नित्यशः॥४३॥
धृतराष्ट्र उवाच।
मण्डलानि च बुध्येथाः परेषामात्मनस्तथा
।
उदासीनगणानां च मध्यस्थानां च भारत॥१॥
चतुर्णां शत्रुजातानां सर्वेषामाततायिनाम्
।
मित्रं चामित्रमित्रं च बोद्धव्यं तेऽरिकर्शन॥२॥
तथामात्या जनपदा दुर्गाणि विविधानि च
।
बलानि च कुरुश्रेष्ठ भवत्येषां यथेच्छकम्॥३॥
ते च द्वादश कौन्तेय राज्ञां वै विषयात्मकाः
।
मन्त्रिप्रधानाश्च गुणाः षष्टिर्द्वादश च प्रभो॥४॥
एतन्मण्डलमित्याहुराचार्या नीतिकोविदाः
।
अत्र षाड्गुण्यमायत्तं युधिष्ठिर निबोध तत्॥५॥
वृद्धिक्षयौ च विज्ञेयौ स्थानं च कुरुसत्तम
।
द्विसप्तत्यां महाबाहो ततः षाड्गुण्यजा गुणाः॥६॥
यदा स्वपक्षो बलवान् परपक्षस्तथाऽबलः
।
विगृह्य शत्रून्कौन्तेय जेयः क्षितिपतिस्तदा॥७॥
यदा परे च बलिनः स्वपक्षश्चैव दुर्बलः
।
सार्धं विद्वांस्तदा क्षीणः परैः सन्धि समाश्रयेत्॥८॥
द्रव्याणां सञ्चयश्चैव कर्तव्यः सुभहांस्तथा
।
यदा समर्थो यानाय न चिरेणैव भारत॥९॥
तदा सर्वं विधेयं स्यात्स्थानेन स विचारयेत्
।
भूमिरल्पफला देया विपरीतस्य भारत॥१०॥
हिरण्यं कुष्यभूयिष्ठं मित्रं क्षीणमथो बलम्
।
विपरीतान्निगृह्णीयात्स्वं हि सन्धिविशारदः॥११॥
सन्ध्यर्थं राजपुत्रं वा लिप्सेथा भरतर्षभ
।
विपरीतं न तच्छ्रेयः पुत्र कस्याञ्चिदापदि॥१२॥
तस्याः प्रमोक्षे यत्नं च कुर्याः सोपायमन्त्रवित्
।
प्रकृतीनां च राजेन्द्र राजा दीनान्विभावयेत्॥१३॥
क्रमेण युगपत्सर्वं व्यवसायं महाबलः
।
पीडनं स्तम्भनं चैव कोशभङ्गस्तथैव च॥१४॥
कार्यं यत्नेन शत्रूणां स्वराज्यं रक्षता स्वयम्
।
न च हिंस्योऽभ्युपगतः सामन्तो वृद्धिमिच्छता॥१५॥
कौन्तेय तं न हिंसेत्स यो महीं विजिगीषते
।
गणानां भेदने योगमीप्सेथाः सह मन्त्रिभिः॥१६॥
साधुसङ्ग्रहणाच्चैव पापनिग्रहणात्तथा
।
दुर्बलाश्चैव सततं नान्वेष्टव्या बलीयसा॥१७॥
तिष्ठेथा राजशार्दूल वैतसीं वृत्तिमास्थितः
।
यद्येनमभियायाच्च बलवान् दुर्बलं नृपः॥१८॥
सामादिभिरुपायैस्तं क्रमेण विनिवर्तयेः
।
अशक्नुवंश्च युद्धाय निष्पतेत्सह मन्त्रिभिः॥१९॥
कोशेन पौरैर्दण्डेन ये चास्य प्रियकारिणः
।
असम्भवे तु सर्वस्य यथा मुख्येन निष्पतेत्
।
क्रमेणानेन मुक्तिः स्याच्छरीरमिति केवलम्॥२०॥
धृतराष्ट्र उवाच।
सन्धिविग्रहमप्यत्र पश्येथा राजसत्तम
।
द्वियोनिं विविधोपायं बहुकल्पं युधिष्ठिर॥१॥
कौरव्य पर्युपासीथाः स्थित्वा द्वैविध्यमात्मनः
।
तुष्टपुष्टबलः शत्रुरात्मवानिति च स्मरेत्॥२॥
पर्युपासनकाले तु विपरीतं विधीयते
।
आमर्दकाले राजेन्द्र व्यपसर्पेत्ततः परम्॥३॥
व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः
।
कर्षणं भीषणं चैव युद्धे चैव बलक्षयम्॥४॥
प्रयास्यमानो नृपतिस्त्रिविधां परिचिन्तयेत्
।
आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः॥५॥
उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत
।
उपपन्नो नृपो यायाद्विपरीतं च वर्जयेत्॥६॥
आददीत बलं राजा मौलं मित्रबलं तथा
।
अटवीबलं भृतं चैव तथा श्रेणीबलं प्रभो॥७॥
तत्र मित्रबलं राजन्मौलं चैव विशिष्यते
।
श्रेणीबलं भृतं चैव तुल्ये एवेति मे मतिः॥८॥
तथाऽचारबलं चैव परस्परसमं नृप
।
विज्ञेयं बहु कालेषु राज्ञा काल उपस्थिते॥९॥
आपदश्चापि बोद्वव्या बहुरूपा नराधिप
।
भवन्ति राज्ञा कौरव्य यास्ताः पृथगतः शृणु॥१०॥
विकल्पा बहुधा राजन्नापदां पाण्डुनन्दन
।
सामादिभिरुपन्यस्य गणयेत्तान्नृपः सदा॥११॥
यात्रां गच्छेद्बलैर्युक्तो राजा सद्भिः परन्तप
।
युक्तश्च देशकालाभ्यां बलैरात्मगुणैस्तथा॥१२॥
हृष्टपुष्टबलो गच्छेद्राजा वृद्ध्युदये रतः
।
अकृशश्चाप्यथो यायादनृतावपि पाण्डव॥१३॥
तूणाश्मानं वानिरथप्रवाहां ध्वजद्रुमैः संवृतकूलरोधसम्
।
पदातिनागैर्बहुकर्दमां नदीं सपत्ननाशे नृपतिः प्रयोजयेत्॥१४॥
अथोपपत्त्या शकटं पद्मवज्रं च भारत
।
उशना वेद यच्छास्त्रं तत्रेतद्विहितं विभो॥१५॥
चारयित्वा परबलं कृत्वा स्वबलदर्शनम्
।
स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च॥१६॥
बलं प्रसादयेद्राजा निक्षिपेद्बलिनो नरान्
।
ज्ञात्वा स्वविषयं तत्र सामादिभिरुपक्रमेत्॥१७॥
सर्वथैव महाराज शरीरं धारयेदिह
।
प्रेत्य चेह च कर्तव्यमात्मनिःश्रेयसं परम्॥१८॥
एवमेतन्महाराज राजा सम्यक् समाचरन्
।
प्रेत्य स्वर्गमवाप्नोति प्रजा धर्मेण पालयन्॥१९॥
एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजाहितम्
।
उभयोर्लोकयोस्तात प्राप्तये नित्यमेव हि॥२०॥
भीष्मेण सर्वमुक्तोऽसि कृष्णेन विदुरेण च
।
मयाप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम॥२१॥
एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण
।
प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि॥२२॥
अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः
।
पालयेद्वापि धर्मेण प्रजास्तुल्यं फलं लभेत्॥२३॥
युधिष्ठिर उवाच।
एवमेतत्करिष्यामि यथाऽऽत्थ पृथिवीपते
।
भूयश्चैवानुशास्योऽहं भवता पार्थिवर्षभ॥१॥
भीष्मे स्वर्गमनुप्राप्ते गते च मधुसूदने
।
विदुरे सञ्जये चैव कोऽन्यो मां वक्तुमर्हति॥२॥
यत्तु मामनुशास्तीह भवानद्य हिते स्थितः
।
कर्तास्मि तन्महीपाल निर्वृतो भव पार्थिव॥३॥
वैशम्पायन उवाच।
एवमुक्तः स राजर्षिर्धर्मराजेन धीमता
।
कौन्तेयं समनुज्ञातुमियेष भरतर्षभ॥४॥
पुत्र संशाम्यतां तावन्ममापि बलवान् श्रमः
।
इत्युक्त्वा प्राविशद्राजा गान्धार्या भवनं तदा॥५॥
तमासनगतं देवी गान्धारी धर्मचारिणी
।
उवाच काले कालज्ञा प्रजापतिसमं पतिम्॥६॥
अनुज्ञातः स्वयं तेन व्यासेन त्वं महर्षिणा
।
युधिष्ठिरस्यानुमते कदारण्यं गमिष्यसि॥७॥
धृतराष्ट्र उवाच।
गान्धार्यहमनुज्ञातः स्वयं पित्रा महात्मना
।
युधिष्ठिरस्यानुमते गन्तास्मि नचिराद्वनम्॥८॥
अहं हि तावत्सर्वेषां तेषां दुर्द्यूतदेविनाम्
।
पुत्राणां दातुमिच्छामि प्रेतभावानुगं वसु॥९॥
सर्वप्रकृतिसान्निध्यं कारयित्वा स्ववेश्मनि
।
वैशम्पायन उवाच।
इत्युक्त्वा धर्मराजाय प्रेषयामास वै तदा॥१०॥
स च तद्वचनात्सर्वं समानिन्ये महीपतिः
।
ततः प्रतीतमनसो ब्राह्मणाः कुरुजाङ्गलाः॥११॥
क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव समाययुः
।
ततो निष्क्रम्य नृपतिस्तस्मादन्तःपुरात्तदा॥१२॥
ददृशे तं जनं सर्वं सर्वाश्च प्रकृतीस्तथा
।
समवेतांश्च तान्सर्वान्पौरान् जानपदांस्तथा॥१३॥
तानागतानभिप्रेक्ष्य समस्तं च सुहृज्जनम्
।
ब्राह्मणांश्च महीपाल नानादेशसमागतान्॥१४॥
उवाच मतिमान् राजा धृतराष्ट्रोऽम्बिकासुतः
।
भवन्तः कुरवश्चैव चिरकालं सहोषिताः॥१५॥
परस्परस्य सुहृदः परस्परहिते रताः
।
यदिदानीमहं ब्रूयामस्मिन्काल उपस्थिते॥१६॥
तथा भवद्भिः कर्तव्यमविचार्य वचो मम
।
अरण्यगमने बुद्धिर्गान्धारीसहितस्य मे॥१७॥
व्यासस्यानुमते राज्ञस्तथा कुन्तीसुतस्य मे
।
भवन्तोऽप्यनुजानन्तु मा च वोऽभूद्विचारणा॥१८॥
अस्माकं भवतां चैव येयं प्रीतिर्हि शाश्वती
।
न च सान्येषु देशेषु राज्ञामिति मतिर्मम॥१९॥
शान्तोऽस्मि वयसानेन तथा पुत्रविनाकृतः
।
उपवासकृशश्चास्मि गान्धारीसहितोऽनघाः॥२०॥
युधिष्ठिरगते राज्ये प्राप्तश्चास्मि सुखं महत्
।
मन्ये दुर्योधनैश्वर्याद्विशिष्टमिति सत्तमाः॥२१॥
मम चान्धस्य वृद्धस्य हतपुत्रस्य का गतिः
।
ऋते वनं महाभागास्तन्मानुज्ञातुमर्हथ॥२२॥
तस्य तद्वचनं श्रुत्वा सर्वे ते कुरुजाङ्गलाः
।
वाष्पसन्दिग्धया वाचा रुरुदुर्भरतर्षभ॥२३॥
तानविब्रुवतः किञ्चित्सर्वान् शोकपरायणान्
।
पुनरेव महातेजा धृतराष्ट्रोऽब्रदिदम्॥२४॥
धृतराष्ट्र उवाच।
शान्तनुः पालयामास यथावद्वसुधामिमाम्
।
तथा विचित्रवीर्यश्च भीष्मेण परिपालितः॥१॥
पालयामास नस्तातो विदितार्थो न संशयः
।
यथा च पाण्डुर्भ्राता मे दयितो भवतामभूत्॥२॥
स चापि पालयामास यथावत्तच्च वेत्थ ह
।
मया च भवतां सम्यक् शुश्रूषा या कृतानघाः॥३॥
असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः
।
यदा दुर्योधनेनेदं भुक्तं राज्यमकण्टकम्॥४॥
अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान्
।
तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम्॥५॥
विमर्दः सुमहानासीदनयात्स्वकृतादथ
।
तन्मया साधु वाऽपीदं यदि वा साधु वै कृतम्॥६॥
तद्वो हृदि न कर्तव्यं मया बद्धोऽयमञ्जलिः
।
वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं नराधिपः॥७॥
पूर्वराज्ञां च पुत्रोऽयमिति कृत्वानुजानथ
।
इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी॥८॥
गान्धारी पुत्रशोकार्ता युष्मान्याचति वै मया
।
हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा॥९॥
अनुजानीत भद्रं वो व्रजाव शरणं च वः
।
अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः॥१०॥
सर्वैर्भवद्भिर्द्रष्टव्यः समेपु विषमेषु च
।
न जातु विषमं चैव गमिष्यति कदाचन॥११॥
चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः
।
लोकपालसमा ह्येते सर्वधर्मार्थदर्शिनः॥१२॥
ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः
।
युधिष्ठिरो महातेजा भवतः पालयिष्यति॥१३॥
अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः
।
एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः॥१४॥
भवन्तोऽस्य च वीरस्य व्यासभूताः कृता मया
।
यदेव तैः कृतं किञ्चिद्व्यलीकं वः सुतैर्मम॥१५॥
यदन्येन मदीयेन तदनुज्ञातुमर्हथ
।
भवद्भिर्न हि मे मन्युः कृतपूर्वः कथञ्चन॥१६॥
अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः
।
तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम्॥१७॥
कृते याचेऽद्य वः सर्वान् गान्धारीसहितोऽनघाः
।
इत्युक्तास्तेन ते सर्वे पौरजानपदा जनाः
।
नोचुर्बाष्पकलाः किञ्चिद्वीक्षां चक्रुः परस्परम्॥१८॥
वैशम्पायन उवाच।
एवमुक्तास्तु ते तेन पौरजानपदा जनाः
।
वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन्॥१॥
तूष्णीम्भूतांस्ततस्तांस्तु बाष्पकण्ठान्महीपतिः
।
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत॥२॥
वृद्धं च हतपुत्रं च धर्मपत्न्या सहानया
।
विलपन्तं बहुविधं कृपणं चैव सत्तमाः॥३॥
पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै
।
वनवासाय धर्मज्ञा धर्मज्ञेन नृपेण ह॥४॥
सोऽहं पुनः पुनश्चैव शिरसावनतोऽनघाः
।
गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ॥५॥
वैशम्पायन उवाच।
तच्छ्रुत्वा कुरुराजस्य वाक्यानि करुणानि ते
।
रुरुदुः सर्वशो राजन्समेताः कुरुजाङ्गलाः॥६॥
उत्तरीयैः करैश्चापि सञ्च्छाद्य वदनानि ते
।
रुरुदुः शोकसन्तप्ता मुहूर्तं पितृमातृवत्॥७॥
हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम्
।
दुःखं सन्धारयन्तो हि नष्टसंज्ञा इवाभवन्॥८॥
ते विनीय तमायासं धृतराष्ट्रवियोगजम्
।
शनैः शनैस्तदान्योन्यमब्रुवन्सम्मतान्युत॥९॥
ततः सन्धाय ते सर्वे वाक्यान्यथ समासतः
।
एकस्मिन्ब्राह्मणे राजन्निवेश्योचुर्नराधिपम्॥१०॥
ततः स्वाचरणो विप्रः सम्मतोऽर्थविशारदः
।
साम्बाख्यो बह्वृचो राजन्वक्तुं समुपचक्रमे॥११॥
अनुमान्य महाराजं तत्सदः सम्प्रसाद्य च
।
विप्रः प्रगल्भो मेधावी स राजानमुवाच ह॥१२॥
राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम्
।
वक्ष्यामि तदहं वीर तज्जुषस्व नराधिप॥१३॥
यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो
।
नात्र मिथ्या वचः किञ्चित्सुहृत्त्वं नः परस्परम्॥१४॥
न जात्वस्य च वंशस्य राज्ञां कश्चित्कदाचन
।
राजाऽऽसीद्यः प्रजापालः प्रजानामप्रियोऽभवत्॥१५॥
पितृवद्भ्रातृवच्चैव भवन्तः पालयन्ति नः
।
न च दुर्योधनः किञ्चिदयुक्तं कृतवान्नृपः॥१६॥
यथा ब्रवीति धर्मात्मा मुनिः सत्यवतीसुतः
।
तथा कुरु महाराज स हि नः परमो गुरुः॥१७॥
त्यक्ता वयं तु भवता दुःखशोकपरायणाः
।
भविष्यामश्चिरं राजन् भवद्गुणशतैर्युताः॥१८॥
यथा शान्तनुना गुप्ता राज्ञा चित्राङ्गदेन च
।
भीष्मवीर्योपगूढेन पित्रा तव च पार्थिव॥१९॥
भवदुद्वीक्षणाच्चैव पाण्डुना पृथिवीक्षिता
।
तथा दुर्योधनेनापि राज्ञा सुपरिपालताः॥२०॥
न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप
।
पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे॥२१॥
वयमास्म यथा सम्यक् भवतो विदितं तथा
।
तथा वर्षसहस्राणि कुन्तीपुत्रेण धीमता॥२२॥
पाल्यमाना धृतिमता सुखं विन्दामहे नृप
।
राजर्षीणां पुराणानां भवतां पुण्यकर्मणाम्॥२३॥
कुरुसंवरणादीनां भरतस्य च धीमतः
।
वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः॥२४॥
नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते
।
उषिताः स्म सुखं नित्यं भवता परिपालिताः॥२५॥
सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते
।
यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति॥२६॥
भवन्तमनुनेष्यामि तत्रापि कुरुनन्दन
।
ब्राह्मण उवाच।
न तद्दुर्योधनकृतं न च तद्भवता कृतम्॥२७॥
न कर्णसौबलाभ्यां च कुरवो यत् क्षयं गताः
।
दैवं तत्तु विजानीमो यन्न शक्यं प्रवाधितुम्॥२८॥
दैवं पुरुषकारेण न शक्यमपि बाधितुम्
।
अक्षौहिण्यो महाराज दशाष्टौ च समागताः॥२९॥
अष्टादशाहेन हताः कुरुभिर्योधपुङ्गवैः
।
भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना॥३०॥
युयुधानेन वीरेण धृष्टद्युम्नेन चैव ह
।
चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैस्तथा॥३१॥
न च क्षयोऽयं नृपते ऋते दैवबलादभूत्
।
अवश्यमेव सङ्ग्रामे क्षत्रियेण विशेषतः॥३२॥
कर्तव्यं निधनं काले मर्तव्यं क्षत्रबन्धुना
।
तैरियं पुरुषव्याघ्रैर्विद्या बाहुबलान्वितैः॥३३॥
पृथिवी निहता सर्वा सहया सरथद्विपा
।
न स राज्ञां वधे सूनुः कारणं ते महात्मनाम्॥३४॥
न भवान्न च ते भृत्या न कर्णो न स सौबलः
।
यद्विशस्ताः कुरुश्रेष्ठ राजानश्च सहस्रशः॥३५॥
सर्वं दैवकृतं विद्धि कोऽत्र किं वक्तुमर्हति
।
गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः॥३६॥
धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम्
।
लभतां वीरलोकं स ससहायो नराधिपः॥३७॥
द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखम्
।
प्राप्स्यते च भवान्पुण्यं धर्मे च परमां स्थितिम्॥३८॥
वेदधर्मं च कृत्स्नेन सम्यक् त्वं भव सुव्रतः
।
दृष्टिप्रदानमपि ते पाण्डवान्प्रति नो वृथा॥३९॥
समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः
।
अनुवर्त्स्यन्ति वा धीमन्समेषु विषमेषु च॥४०॥
प्रजाः कुरुकुलश्रेष्ठ पाण्डवान् शीलभूषणान्
।
ब्रह्मदेयाग्रहारांश्च पारिबर्हांश्च पार्थिवः॥४१॥
पूर्वराजाभिपन्नांश्च पालयत्येव पाण्डवः
।
दीर्घदर्शी मृदुर्दान्तः सदा वैश्रवणो यथा॥४२॥
अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः
।
अथ मित्रे दयावांश्च शुचिश्च भरतर्षभः॥४३॥
ऋजु पश्यति मेधावी पुत्रवत्पालितः सदा
।
विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै॥४४॥
न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः
।
मन्दा मृदुषु कौरव्य तीक्ष्णेष्वाशीविषोपमाः॥४५॥
वीर्यवन्तो महात्मानः पौराणां च हिते रताः
।
न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती॥४६॥
अस्मिन् जने करिष्यन्ति प्रतिकूलानि कर्हिचित्
।
भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम्॥४७॥
न पृष्ठतः करिष्यन्ति पौरा जानपदा जनाः
।
अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः॥४८॥
मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः
।
स राजन्मानसं दुःखमपनीय युधिष्ठिरात्॥४९॥
कुरु कार्याणि धर्म्याणि नमस्ते पुरुषर्षभ
।
वैशम्पायन उवाच।
तस्य तद्वचनं धर्म्यमनुमान्य गुणोत्तरम्॥५०॥
साधु साध्विति सर्वः स जनः प्रतिगृहीतवान्
।
धृतराष्ट्रश्च तद्वाक्यमभिपूज्य पुनः पुनः॥५१॥
विसर्जयामास तदा प्रकृतीस्तु शनैः शनैः
।
स तैः सम्पूजितो राजा शिवेनावेक्षितस्तथा॥५२॥
प्राञ्जलिः पूजयामास तं जनं भरतर्षभ
।
ततो विवेश भवनं गान्धार्या सहितो निजम्
।
व्युष्टायां चैव शर्वर्यां यच्चकार निबोध तत्॥५३॥
वैशम्पायन उवाच।
ततो रजन्यां व्युष्टायां धृतराष्ट्रोऽम्बिकासुतः
।
विदुरं प्रेषयामास युधिष्ठिर निवेशनम्॥१॥
स गत्वा राजवचनादुवाचाच्युतमीश्वरम्
।
युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः॥२॥
धृतराष्ट्रो महाराजो वनवासाय दीक्षितः
।
गमिष्यति वनं राजन्नागतां कार्तिकीमिमाम्॥३॥
स त्वां कुरुकुलश्रेष्ठ किञ्चिदर्थमभीप्सति
।
श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः॥४॥
द्रोणस्य सोमदत्तस्य बालीकस्य च धीमतः
।
पुत्राणां चैव सर्वेषां ये चान्ये सुहृदो हताः॥५॥
यदि चाप्यनुजानीषे सैन्धवापसदस्य च
।
एतच्छुत्वा तु वचनं विदुरस्य युधिष्ठिरः॥६॥
हृष्टः सम्पूजयामास गुडाकेशश्च पाण्डवः
।
न च भीमो दृढक्रोधस्तद्वचो जगृहे तदा॥७॥
विदुरस्य महातेजा दुर्योधनकृतं स्मरन्
।
अभिप्रायं विदित्वा तु भीमसेनस्य फाल्गुनः॥८॥
किरीटी किञ्चिदानम्य तमुवाच नरर्षभम्
।
भीम राजा पिता वृद्धो वनवासाय दीक्षितः॥९॥
दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम्
।
भवता निर्जितं वित्तं दातुमिच्छति कौरवः॥१०॥
भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि
।
दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचते॥११॥
याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम्
।
योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः॥१२॥
परैर्विनिहतामात्यो वनं गन्तुमभीप्सति
।
मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम्॥१३॥
अयशस्यमतोऽन्यत्स्यादधर्मश्च महाभुज
।
राजानमुपशिक्षस्व ज्येष्ठं भ्रातरमीश्वरम्॥१४॥
अर्हस्त्वमपि दातुं वै नादातुं भरतर्षभ
।
एवं ब्रुवाणं वीभत्सुं धर्मराजोऽप्यपूजयत्॥१५॥
भीमसेनस्तु सक्रोधः प्रोवाचेदं वचस्तदा
।
वयं भीष्मस्य दास्यामः प्रेतकार्यं तु फाल्गुन॥१६॥
सोमदत्तस्य नृपतेर्भूरिश्रवस एव च
।
बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः॥१७॥
अन्येषां चैव सर्वेषां कुन्ती कर्णाय दास्यति
।
श्राद्धानि पुरुषव्याघ्र मा प्रादात्कौरवो नृपः॥१८॥
इति मे वर्तते बुद्धिर्मा नो निन्दन्तु शत्रवः
।
कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः॥१९॥
यैरियं पृथिवी कृत्स्ना घातिता कुलपांसनैः
।
कुतस्त्वमसि विस्मृत्य वैरं द्वादशवार्षिकम्॥२०॥
अज्ञातवासं गहनं द्रौपदीशोकवर्धनम्
।
क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मन्द्रोचरो गतः॥२१॥
कृष्णाजिनोपसंवीतो हृताभरणभूषणः
।
सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान्॥२२॥
क्व तदा द्रोणभीष्मौ तौ सोमदत्तोऽपि वाऽभवत्
।
यत्र त्रयोदशसमा वने वन्येन जीवथ॥२३॥
न तदा त्वां पिता ज्येष्ठः पितृत्वेनाभिवीक्षते
।
किं ते तद्विस्मृतं पार्थ यदेष कुलपांसनः॥२४॥
दुर्बुद्धिर्विदुरं प्राह द्यूते किं जितमित्युत
।
तमेवं वादिनं राजा कुन्तीपुत्रो युधिष्ठिरः
।
उवाच वचनं धीमान् जोषमास्वेति भर्त्सयन्॥२५॥
अर्जुन उवाच।
भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वक्तुमुत्सहे
।
धृतराष्ट्रस्तु राजर्षिः सर्वथा मानमर्हति॥१॥
न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतान्यपि
।
असम्भिन्नार्यमर्यादाः साधवः पुरुषोत्तमाः॥२॥
इति तस्य वचः श्रुत्वा फाल्गुनस्य महात्मनः
।
विदुरं प्राह धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः॥३॥
इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम्
।
यावदिच्छति पुत्राणां श्राद्धं तावद्ददाम्यहम्॥४॥
भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम्
।
मम कोशादिति विभो मा भूद्भीमः सुदुर्मनाः॥५॥
वैशम्पायन उवाच।
इत्युक्त्वा धर्मराजस्तमर्जुनं प्रत्यपूजयत्
।
भीमसेनः कटाक्षेण वीक्षां चक्रे धनञ्जयम्॥६॥
ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः
।
भीमसेने न कोपं स नृपतिः कतुमर्हति॥७॥
परिक्लिष्टो हि भीमोऽपि हिमवृष्ट्यातपादिभिः
।
दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव॥८॥
किं तु मद्वचनाद्ब्रूहि राजानं भरतर्षभ
।
यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति॥९॥
यन्मात्सर्यमयं भीमः करोति भृशदुःखितः
।
न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः॥१०॥
यन्ममास्ति धनं किञ्चिदर्जुनस्य च वेश्मनि
।
तस्य स्वामी महाराज इति वाच्यः स पार्थिवः॥११॥
ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः
।
पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः॥१२॥
इदं चापि शरीरं मे तवायत्तं जनाधिप
।
धनानि चेति विद्धि त्वं न मे तत्रास्ति संशयः॥१३॥
वैशम्पायन उवाच।
एवमुक्तस्तु राज्ञा स विदुरो बुद्धिसत्तमः
।
धृतराष्ट्रमुपेत्यैवं वाक्यमाह महार्थवत्॥१॥
उक्तो युधिष्ठिरो राजा भवद्वचनमादितः
।
स च संश्रुत्य वाक्यं ते प्रशशंस महाद्युतिः॥२॥
बीभत्सुश्च महातेजा निवेदयति ते गृहान्
।
वसु तस्य गृहे यच्च प्राणानपि च केवलान्॥३॥
धर्मराजश्च पुत्रस्ते राज्यं प्राणान् धनानि च
।
अनुजानाति राजर्षे यच्चान्यदपि किञ्चन॥४॥
भीमश्च सर्वदुःखानि संस्मृत्य बहुलान्युत
।
कृच्छ्रादिव महाबाहुरनुजज्ञे विनिःश्वसन्॥५॥
स राजन् धर्मशीलेन राज्ञा बीभत्सुना तथा
।
अनुनीतो महाबाहुः सौहृदे स्थापितोऽपि च॥६॥
न च मन्युस्त्वया कार्य इति त्वां प्राह धर्मराट्
।
संस्मृत्य भीमस्तद्वैरं यदन्यायवदाचरत्॥७॥
एवंप्रायो हि धर्मोऽयं क्षत्रियाणां नराधिप
।
युद्धे क्षत्रियधर्मे च निरतोऽयं वृकोदरः॥८॥
वृकोदरकृते चाहमर्जुनश्च पुनः पुनः
।
प्रसीद याचे नृपते भवान्प्रभुरिहास्ति यत्॥९॥
तद्ददातु भवान्वित्तं यावदिच्छसि पार्थिव
।
त्वमीश्वरोऽस्य राज्यस्य प्राणानामपि भारत॥१०॥
ब्रह्मदेयाग्रहारांश्च पुत्राणामौर्ध्वदेहिकम्
।
इतो रत्नानि गाश्चैव दासीदासमजाविकम्॥११॥
आनयित्वा कुरुश्रेष्ठो ब्राह्मणेभ्यः प्रयच्छतु
।
दीनान्धकृपणेभ्यश्च तत्र तत्र नृपाज्ञया॥१२॥
बह्वन्नरसपानाढ्याः सभा विदुर कारय
।
गवां निपानान्यन्यच्च विविधं पुण्यकं कुरु॥१३॥
इति मामब्रवीद्राजा पार्थश्चैव धनञ्जयः
।
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति॥१४॥
इत्युक्ते विदुरेणाथ धृतराष्ट्रोऽभिनन्द्य तान्
।
मनश्चक्रे महादाने कार्तिक्यां जनमेजय॥१५॥
वैशम्पायन उवाच।
विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः
।
प्रीतिमानभवद्राजन् राज्ञो जिष्णोश्च कर्मणि॥१॥
ततोऽभिरूपान् भीष्माय ब्राह्मणानृषिसत्तमान्
।
पुत्रार्थे सुहृदश्चैव स समीक्ष्य सहस्रशः॥२॥
कारयित्वान्नपानानि यानान्याच्छादनानि च
।
सुवर्णमणिरत्नानि दासीदासमजाविकम्॥३॥
कम्बलानि च रत्नानि ग्रामान् क्षेत्रं तथा धनम्
।
सालङ्कारान् गजानश्वान् कन्याश्चैव वरस्त्रियः॥४॥
उद्दिश्योद्दिश्य सर्वेभ्यो ददौ स नृपसत्तमः
।
द्रोणं सङ्कीर्त्य भीष्मं च सोमदत्तं च बाह्निकम्॥५॥
दुर्योधनं च राजानं पुत्रांश्चैव पृथक् पृथक्
।
जयद्रथपुरोगांश्च सुहृदश्चापि सर्वशः॥६॥
स श्राद्धयज्ञो ववृते बहुशो धनदक्षिणः
।
अनेकधनरत्नौघो युधिष्ठिरमते तदा॥७॥
अनिशं यत्र पुरुषा गणका लेखकास्तदा
।
युधिष्ठिरस्य वचनादपृच्छन्त स्म तं नृपम्॥८॥
आज्ञापय किमेतेभ्यः प्रदायं दीयतामिति
।
तदुपस्थितमेवात्र वचनान्ते ददुस्तदा॥९॥
शतदेये दशशतं सहस्रे चायुतं तथा
।
दीयते वचनाद्राज्ञः कुन्तीपुत्रस्य धीमतः॥१०॥
एवं स वसुधाराभिर्वर्षमाणो नृपाम्बुदः
।
तर्पयामास विप्रांस्तान्वर्षन् सस्यमिवाम्बुद॥११॥
ततोऽनन्तरमेवात्र सर्ववर्णान्महामते
।
अन्नपानरसौघेण प्लावयामास पार्थिवः॥१२॥
स वस्त्रधनरत्नौघो मृदङ्गनिनदो महान्
।
गवाश्चमकरावर्तो नानारत्नमहाकरः॥१३॥
ग्रामाग्रहारद्वीपाढ्यो मणिहेमजलार्णवः
।
जगत्सम्प्लावयामास धृतराष्ट्रोडुपोद्धतः॥१४॥
एवं स पुत्रपौत्राणां पितॄणामात्मनस्तथा
।
गान्धार्याश्च महाराज प्रददावौर्ध्वदेहिकम्॥१५॥
परिश्रान्तो यदासीत्स ददद्दानान्यनेकशः
।
निवर्तयामास तदा दानयज्ञं नराधिपः॥१६॥
एवं स राजा कौरव्य चक्रे दानमहाक्रतुम्
।
नटनर्तकलास्याढ्यां बह्वन्नरसदक्षिणम्॥१७॥
दशाहमेवं दानानि दत्त्वा राजाम्बिकासुतः
।
बभूव पुत्रपौत्राणामनृणो भरतर्षभ॥१८॥
वैशम्पायन उवाच।
ततः प्रभाते राजा स धृतराष्ट्रोऽम्बिकासुतः
।
आहूय पाण्डवान्वीरान् वनवासे कृतक्षणः॥१॥
गान्धारीसहितो धीमानभ्यनन्दद्यथाविधि
।
कार्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः॥२॥
अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः
।
वधूजनवृतो राजा निर्ययौ भवनात् ततः॥३॥
ततः स्त्रियः कौरवपाण्डवानां याश्चापराः कौरवराजवंश्याः
।
तासां नादः प्रादुरासीत्तदानीं वैचित्रवीर्ये नृपतौ प्रयाते॥४॥
ततो लाजैः सुमनोभिश्च राजा विचित्राभिस्तद्गृहं पूजयित्वा
।
सम्यूज्यार्थैर्भृत्यवर्गं च सर्वं ततः समुत्सृज्य ययौ नरेन्द्रः॥५॥
ततो राजा प्राञ्जलिर्वेपमानो युधिष्ठिरः सस्वरं वाष्पकण्ठः
।
विमुच्योच्चैर्महानादं हि साधो क्व यास्यसीत्यपतत्तात भूमौ॥६॥
तथार्जुनस्तीव्रदुःखाभितप्तो मुहुर्मुहुर्निःश्वसन् भारताग्र्यः
।
युधिष्ठिरं मैवमित्येवमुक्त्वा निगृह्याथो दीनवत्सीदमानः॥७॥
वृकोदरः फाल्गुनश्चैव वीरौ माद्रीपुत्रौ विदुरः सञ्जयश्च
।
वैश्यापुत्रः सहितो गौतमेन धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः॥८॥
कुन्ती गान्धारी बद्धनेत्रां व्रजन्ती स्कन्धासक्तं हस्तमथोद्वहन्ती
।
राजा गान्धार्याः स्कन्धदेशेऽवसज्य पाणिं ययौ धृतराष्ट्रः प्रतीतः॥९॥
तथा कृष्णा द्रौपदी सात्वती च बालापत्या चोत्तरा कौरवी च
।
चित्राङ्गदायाश्च काश्चिस्त्रियोऽन्याः सार्धं राज्ञा प्रस्थितास्ता वधूभिः॥१०॥
तासां नादो रुदतीनां तदासीद्राजन् दुःखात्कुररीणामिवोच्चैः
।
ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां विट्शूद्राणां चैव भार्याः समन्तात्॥११॥
तन्निर्याणे दुःखितः पौरवर्गो गजाह्वये चैव बभूव राजन्
।
यथापूर्वं गच्छतां पाण्डवानां द्यूते राजन्कौरवाणां सभायाः॥१२॥
या नापश्यंश्चन्द्रमसं न सूर्यं रामाः कदाचिदपि तस्मिन्नरेन्द्रे
।
महावनं गच्छति कौरवेन्द्रे शोकेनार्ता राजमार्गं प्रपेदुः॥१३॥
वैशम्पायन उवाच।
ततः प्रासादहर्म्येषु वसुधायां च पार्थिव
।
नारीणां च नराणां च निःस्वनः सुमहानभूत्॥१॥
स राजा राजमार्गेण नृनारीसङ्कुलेन च
।
कथञ्चिन्निर्ययौ धीमान् वेपमानः कृताञ्जलिः॥२॥
स वर्द्धमानद्वारेण निर्ययौ गजसाह्वयात्
।
विसर्जयामास च तं जनौघं स मुहुर्मुहुः॥३॥
वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः
।
सञ्जयश्च महामात्रः सूतो गावल्गणिस्तथा॥४॥
कृपं निवर्तयामास युयुत्सुं च महारथम्
।
धृतराष्ट्रो महीपालः परिदाप्य युधिष्ठिरे॥५॥
निवृत्ते पौरवर्गे च राजा सान्तःपुरस्तदा
।
धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष ह॥६॥
सोऽब्रवीन्मातरं कुन्तीं वनं तमनुजग्मुषीम्
।
अहं राजानमन्विष्ये भवती विनिवर्तताम्॥७॥
वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि
।
राजा यात्वेष धर्मात्मा तापस्ये कृतनिश्चयः॥८॥
इत्युक्ता धर्मराजेन बाष्पव्याकुललोचना
।
जगामैव तदा कुन्ती गान्धारीं परिगृह्य ह॥९॥
कुन्त्युवाच।
सहदेवे महाराज माऽप्रसादं कृथाः क्वचित्
।
एष मामनुरक्तो हि राजंस्त्वां चैव सर्वदा॥१०॥
कर्णं स्मरेथाः सततं सङ्ग्रामेष्वपलायिनम्
।
अवकीर्णो हि समरे वीरो दुष्प्रज्ञया तदा॥११॥
आयसं हृदयं नूनं मन्दाया मम पुत्रक
।
यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते॥१२॥
एवं गते तु किं शक्यं मया कर्तुमरिन्दम
।
मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः॥१३॥
तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम्
।
सदैव भ्रातृभिः सार्धं सूर्यजस्यारिमर्दन॥१४॥
द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन
।
भीमसेनोऽर्जुनश्चैव नकुलश्च कुरूद्वह॥१५॥
समाधेयास्त्वया राजंस्त्वय्यद्य कुलधूर्गता
।
श्वश्रूश्वशुरयोः पादान् शुश्रूषन्ती वने त्वहम्॥१६॥
गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी
।
वैशम्पायन उवाच।
एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी
।
विषादमगपद्धीमान्न च किञ्चिदुवाच ह॥१७॥
मुहूर्तमिव तु ध्यात्वा धर्मराजो युधिष्ठिरः
।
उवाच मातरं दीनश्चिन्ताशोकपरायणः॥१८॥
किमिदं ते व्यवसितं नैव त्वं वक्तुमर्हसि
।
न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि॥१९॥
पुरोद्यतान्पुरा ह्यस्मानुत्साह्य प्रियदर्शने
।
विदुलाया वचोभिस्त्वं नास्मान्सन्त्यक्तुमर्हसि॥२०॥
निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया
।
तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात्॥२१॥
क्व सा बुद्धिरियं चाद्य भवत्या यच्छुतं मया
।
क्षत्रधर्मे स्थितिं चोक्त्वा तस्याश्च्यवितुमिच्छसि॥२२॥
अस्मानुत्सृज्य राज्यं च स्नुषा हीमा यशस्विनि
।
कथं वत्स्यसि दुर्गेषु वनेष्वद्य प्रसीद मे॥२३॥
इति बाष्पकला वाचः कुन्ती पुत्रस्य शृण्वती
।
सा जगामाश्रुपूर्णाश्री भीमस्तामिदमब्रवीत्॥२४॥
यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम्
।
प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः॥२५॥
किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम्
।
कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि॥२६॥
वनाच्चापि किमानीता भवत्या बालका वयम्
।
दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा॥२७॥
प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि
।
श्रियं यौधिष्ठिरी मातर्भुंक्ष्व तावद्बलार्जिताम्॥२८॥
इति सा निश्चितैवाशु वनवासाय भाविनी
।
लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः॥२९॥
द्रौपदी चान्वयाच्छ्वश्रूं विषण्णवदना तदा
।
वनवासाय गच्छन्ती रुदती भद्रया सह॥३०॥
सा पुत्रान् रुदतः सर्वान् मुहुर्मुहुरवेक्षती
।
जगामैव महाप्राज्ञा वनाय कृतनिश्चया॥३१॥
अन्वयुः पाण्डवास्तां तु सभृत्यान्तः पुरास्तथा
।
ततः प्रमृज्य साश्रूणि पुत्रान्वचनमब्रवीत्॥३२॥
कुन्त्युवाच।
एवमेतन्महाबाहो यथा वदसि पाण्डव
।
कृतमुद्धर्षणं पूर्वं मया वः सीदतां नृपाः॥१॥
द्यूतापहृतराज्यानां पतितानां सुखादपि
।
ज्ञातिभिः परिभूतानां कृतमुद्धर्षणं मया॥२॥
कथं पाण्डोर्न नश्येत सन्ततिः पुरुषर्षभाः
।
यशश्च वो न नश्येत इति चोद्धर्षणं कृतम्॥३॥
यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः
।
मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया॥४॥
कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः
।
पुनर्वने न दुःखी स्या इति चोद्धर्षणं कृतम्॥५॥
नागायुतसमप्राणः ख्यातविक्रमपौरुषः
।
नायं भीमोऽत्ययं गच्छेदिति चौद्धर्षणं कृतम्॥६॥
भीमसेनादवरजस्तथायं वासवोपमः
।
विजयो नावसीदेत इति चोद्धर्षणं कृतम्॥७॥
नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ
।
क्षुधा कथं न सीदेतामिति चोद्धर्षणं कृतम्॥८॥
इयं च बृहती श्यामा तथात्यायतलोचना
।
वृथा सभातले क्लिष्टा मा भूदिति च तत्कृतम्॥९॥
प्रेक्षतामेव वो भीम वेपन्तीं कदलीमिव
।
स्त्रीधर्मिणीमरिष्टाङ्गी तथा द्यूतपराजिताम्॥१०॥
दुःशासनो यदा मौर्ख्याद्दासीवत्पर्यकर्षत
।
तदैव विदितं मह्यं पराभूतमिदं कुलम्॥११॥
निषण्णाः कुरवश्चैव तदा मे श्वशुरादयः
।
सा दैवं नाथमिच्छन्ती व्यलपत्कुररी यथा॥१२॥
केशपक्षे परामृष्टा पापेन हतबुद्धिना
।
यदा दुःशासनेनैषा तदा मुह्याम्यहं नृपाः॥१३॥
युष्मत्तेजोविवृद्ध्यर्थं मया ह्युद्धर्षणं कृतम्
।
तदानीं विदुलावाक्यैरिति तद्वित्त पुत्रकाः॥१४॥
कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम
।
पाण्डोरिति मया पुत्रास्तस्मादुद्धर्षणं कृतम्॥१५॥
न तस्य पुत्राः पौत्रा वा क्षतवंशस्य पार्थिव
।
लभन्ते सुकृताँल्लोकान् यस्माद्वंशः प्रणश्यति॥१६॥
भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा
।
महादानानि दत्तानि पीतः सोमो यथाविधि॥१७॥
नाहमात्मफलार्थं वै वासुदेवमचूचुदम्
।
विदुलायाः प्रलापैस्तैः पालनार्थं च तत्कृतम्॥१८॥
नाहं राज्यफलं पुत्राः कामये पुत्रनिर्जितम्
।
पतिलोकानहं पुण्यान्कामये तपसा विभो॥१९॥
श्वश्रूश्वशुरयोः कुत्वा शुश्रूषां वनवासिनोः
।
तपसा शोषयिष्यामि युधिष्ठिर कलेवरम्॥२०॥
निवर्तस्व कुरुश्रेष्ट भीमसेनादिभिः सह
।
धर्मे ते धीयतां बुद्धिर्मनस्तु महदस्तु च॥२१॥
वैशम्पायन उवाच।
कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम
।
व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सहिताऽनघाः॥१॥
ततः शब्दो महानेव सर्वेषामभवत्तदा
।
अन्तःपुराणां रुदतां दृष्ट्वा कुन्ती तथागताम्॥२॥
प्रदक्षिणमथावृत्य राजानं पाण्डवास्तदा
।
अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै॥३॥
ततोऽब्रवीन्महातेजा धृतराष्ट्रोऽम्बिकासुतः
।
गान्धारी विदुरं चैव समाभाष्यावगृह्य च॥४॥
युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम्
।
यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि॥५॥
पुत्रैश्वर्यं महदिदमपास्य च महाफलम्
।
का नु गच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत्॥६॥
राज्यस्थया तपस्तप्तुं कर्तुं दानव्रतं महत्
।
अनया शक्यमेवाद्य श्रूयतां च वचो मम॥७॥
गान्धारि परितुष्टोऽस्मि वध्वाः शुश्रूषणेन वै
।
तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि॥८॥
इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह
।
तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत्॥९॥
न च सा वनवासाय देवी कृतमतिं तदा
।
शक्नोत्युपावर्तयितुं कुन्ती धर्मपरां सतीम्॥१०॥
तस्यास्तां तु स्थितिं ज्ञात्वा व्यवसायं कुरुस्त्रियः
।
निवृत्तांश्च कुरुश्रेष्ठान् दृष्ट्वा प्ररुरुदुस्तदा॥११॥
उपावृत्तेषु पार्थेषु सर्वास्वेव वधूषु च
।
ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा॥१२॥
पाण्डवाश्चातिदीनास्ते दुःखशोकपरायणाः
।
यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा॥१३॥
तदहृष्टमनानन्दं गतोत्सवमिवाभवत्
।
नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम्॥१४॥
सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः
।
कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः॥१५॥
धृतराष्ट्रस्तु तेनाला गत्वा सुमहदन्तरम्
।
ततो भागीरथीतीरे निवासमकरोत्प्रभुः॥१६॥
प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः
।
व्यराजन्त द्विजश्रेष्ठैस्तत्र तत्र तपोवने॥१७॥
प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः
।
स राजाग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा॥१८॥
सन्ध्यागतं सहस्रांशुमुपातिष्ठत भारत
।
विदुरः सञ्जयश्चैव राज्ञः शय्यां कुशैस्ततः॥१९॥
चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः
।
गान्धार्याः सन्निकर्षे तु निषसाद कुशे सुखम्॥२०॥
युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता
।
तेषां संश्रवणे चापि निषेदुर्विदुरादयः॥२१॥
याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः
।
प्राधीतद्विजमुख्या सा सम्प्रज्वलितपावका॥२२॥
बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धिनी
।
ततो रात्र्यां व्यतीतायां कृतपुर्वाह्निकक्रियाः॥२३॥
हुत्वाग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम्
।
उदङ्मुखा निरीक्षन्त उपवासपरायणाः॥२४॥
स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि
।
शोचतां शोचमानानां पौरजानपदैर्जनैः॥२५॥
वैशम्पायन उवाच।
ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते
।
निवासमकरोद्राजा विदुरस्य मते स्थितः॥१॥
तत्रैनं पर्युपातिष्ठन्ब्राह्मणा वनवासिनः
।
क्षत्रविट्शूद्रसङ्घाश्च बहवो भरतर्षभ॥२॥
स तैः परिवृतो राजा कथाभिः परिनन्ध तान्
।
अनुजज्ञे सशिष्यान्वै विधिवत्प्रतिपूज्य च॥३॥
सायाह्ने स महीपालस्ततो गङ्गामुपेत्य च
।
चकार विधिवच्छौचं गान्धारी च यशस्विनी॥४॥
ते चैवान्ये पृथक्सर्वे तीर्थेष्वाप्लुत्य भारत
।
चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः॥५॥
कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा
।
गान्धारीं च पृथा राजन् गङ्गातीरमुपानयत्॥६॥
राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः
।
जुहाव तत्र वह्निं स नृपतिः सत्यसङ्गरः॥७॥
ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः
।
सानुगो नृपतिर्वृद्धो नियतः संयतेन्द्रियः॥८॥
तत्राश्रमपदं धीमानभिगम्य स पार्थिवः
।
आससादाथ राजर्षिं शतयूपं मनीषिणम्॥९॥
स हि राजा महानासीत्केकयेषु परन्तपः
।
स्वपुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत्॥१०॥
तेनासौ सहितो राजा ययौ व्यासाश्रमं प्रति
।
तत्रैनं विधिवद्राजा प्रत्यगृह्णात्कुरूद्वहः॥११॥
स दीक्षां तत्र सम्प्राप्य राजा कौरवनन्दनः
।
शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा॥१२॥
तस्मै सर्वं विधिं राज्ञे राजाऽऽचख्यौ महामतिः
।
आरण्यकं महाराज व्यासस्यानुमते तदा॥१३॥
एवं स तपसा राजन् धृतराष्ट्रो महामनाः
।
योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा॥१४॥
तथैव देवी गान्धारी वल्कलाजिनधारिणी
।
कुन्त्या सह महाराज समानव्रतचारिणी॥१५॥
कर्मणा मनसा वाचा चक्षुषा चैव ते नृप
।
सन्नियम्येन्द्रियग्राममास्थिते परमं तपः॥१६॥
त्वगस्थिभूतः परिशुष्कमांसो जटाजिनी वल्कलसंवृताङ्गः
।
स पार्थिवस्तत्र तपश्चचार महर्षिवत्तीव्रमपेतमोहः॥१७॥
क्षत्ता च धर्मार्थविदग्र्यबुद्धिः ससञ्जयस्तं नृपतिं सदारम्
।
उपायरद् घोरतपो जितात्मा तदा कृशो वल्कलचीरवासाः॥१८॥
वैशम्पायन उवाच।
ततस्तत्र मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः
।
नारदः पर्वतश्चैव देवलश्च महातपाः॥१॥
द्वैपायन: सशिष्यश्च सिद्धाश्चान्ये मनीषिणः
।
शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः॥२॥
तेषां कुन्ती महाराज पूजां चक्रे यथाविधि
।
ते चापि तुतुषुस्तस्यास्तापसाः परियर्चया॥३॥
तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः
।
रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम्॥४॥
कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्ततः
।
कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान्॥५॥
नारद उवाच।
केकयाधिपतिः श्रीमान् राजाऽऽसीदकुतोभयः
।
सहस्रचित्य इत्युक्तः शतयूपपितामहः॥६॥
स पुत्रे राज्यमासज्य ज्येष्ठे परमधार्मिके
।
सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः॥७॥
स गत्वा तपसः पारं दीप्तस्य वसुधाधिपः
।
पुरन्दरस्य संस्थानं प्रतिपेदे महाद्युतिः॥८॥
दृष्टपूर्वः स बहुशो राजन्सम्पतता मया
।
महेन्द्रसदने राजा तपसा दग्धकिल्बिषः॥९॥
तथा शैलालयो राजा भगदत्तपितामहः
।
तपोबलेनैव नृपो महेन्द्रसदनं गतः॥१०॥
तथा पृषध्रो राजाऽऽसीद्राजन्वज्रधरोपमः
।
स चापि तपसा लेभे नाकपृष्ठमितो गतः॥११॥
अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः
।
पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान्॥१२॥
भार्या समभवद्यस्य नर्मदा सरितां वरा
।
सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः॥१३॥
शशलोमा च राजाऽऽसीद्राजन् परमधार्मिकः
।
सम्यगस्मिन्वने तप्त्वा ततो दिवमवाप्तवान्॥१४॥
द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम्
।
राजन्नवाप्य दुष्प्रापां गतिमय्यां गमिष्यसि॥१५॥
त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः
।
गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम्॥१६॥
पाण्डुः स्मरति ते नित्यं बलहन्तुः समीपगः
।
त्वां सदैव महाराज श्रेयसा स च योक्ष्यति॥१७॥
तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी
।
भर्तुः सलोकतामेषा गमिष्यति वधूस्तव॥१८॥
युधिष्ठिरस्य जननी स हि धर्मः सनातनः
।
वयमेतत्प्रपश्यामो नृपते दिव्यचक्षुषा॥१९॥
प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम्
।
सञ्जयस्तदनुध्यानादितः स्वर्गमवाप्स्यति॥२०॥
वैशम्पायन उवाच।
एतच्छ्रुत्वा कौरवेन्द्रो महात्मा सार्धं पत्न्या प्रीतिमान् सम्बभूव
।
विद्वान् वाक्यं नारदस्य प्रशस्य चक्रे पूजां चातुलां नारदाय॥२१॥
ततः सर्वे नारदं विप्रसङ्घाः सम्पूजयामासुरतीव राजन्
।
राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै पुनः पुनः सम्प्रहृष्टास्तदानीम्॥२२॥
नारदस्य तु तद्वाक्यं शशंसुर्द्विजसत्तमाः
।
शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत्॥२३॥
अहो भगवता श्रद्धा कुरुराजस्य वर्धिता
।
सर्वस्य च जनस्यास्य मम चैव महाद्युते॥२४॥
अस्ति काचिद्विवक्षा तु तां मे निगदतः शृणु
।
धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित॥२५॥
सर्ववृत्तान्ततत्वज्ञो भवान् दिव्येन चक्षुषा
।
युक्तः पश्यसि विप्रर्षे गतिर्या विविधा नृणाम्॥२६॥
उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम्
।
न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने॥२७॥
स्थानमप्यस्य नृपतेः श्रोतुमिच्छाम्यहं विभो
।
त्वत्तः कीदृक्कदा चेति तन्ममाख्याहि तत्त्वतः॥२८॥
इत्युक्तो नारदस्तेन वाक्यं सर्वमनोऽनुगम्
।
व्याजहार सभामध्ये दिव्यदर्शी महातपाः॥२९॥
नारद उवाच।
यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम्
।
दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम्॥३०॥
तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप
।
तपसो दुष्करस्यास्य यदयं तपते नृपः॥३१॥
तत्राहमिदमश्रौषं शक्रस्य वदतः स्वयम्
।
वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः॥३२॥
ततः कुबेरभवनं गान्धरीसहितो नृपः
।
प्रयाता धृतराष्ट्रोऽयं राजराजाभिसत्कृतः॥३३॥
कामगेन विमानेन दिव्याभरणभूषितः
।
ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः॥३४॥
सञ्चरिष्यति लोकांश्च देवगन्धर्वरक्षसाम्
।
स्वच्छन्देनेति धर्मात्मा यन्मां त्वमनुपृच्छसि॥३५॥
देवगुह्यमिदं प्रीत्या मया वः कथितं महत्
।
भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः॥३६॥
वैशम्पायन उवाच।
इति ते तस्य तच्छ्रुत्वा देवर्मधुरं वचः
।
सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः॥३७॥
एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः
।
विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः॥३८॥
वैशम्पायन उवाच।
वनं गते कौरवेन्द्रे दुःखशोकसमन्विताः
।
बभूवुः पाण्डवा राजन्मातृशोकेन चान्विताः॥१॥
तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम्
।
कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति॥२॥
कथं नु राजा वृद्धः स वने वसति निर्जने
।
गान्धारी च महाभागा सा च कुन्ती पृथा कथम्॥३॥
सुखार्हः स हि राजर्षिरसुखी तद्वनं महत्
।
किमवस्थः समासाद्य प्रज्ञाचक्षुर्हतात्मजः॥४॥
सुदुष्कृतं कृतवती कुन्ती पुत्रानपश्यती
।
राज्यश्रियं परित्यज्य वनं सा समरोचयत्॥५॥
विदुरः किमवस्थश्च भ्रातुः शुश्रूषुरात्मवान्
।
स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः॥६॥
आकुमारं च पौरास्ते चिन्ताशोकसमाहताः
।
तत्र तत्र कथाश्चक्रुः समासाद्य परस्परम्॥७॥
पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः
।
शोचन्तो मातरं वृद्धामूर्नातिचिरं पुरे॥८॥
तथैव वृद्धं पितरं हतपुत्रं जनेश्वरम्
।
गान्धारीं च महाभागां विदुरं च महामतिम्॥९॥
नैषां बभूव सम्प्रीतिस्तान्विचिन्तयतां तदा
।
न राज्ये न च नारीषु न वेदाध्ययनेषु च॥१०॥
परं निर्वेदमगमंश्चिन्तयन्तो नराधिपम्
।
तं च ज्ञातिवधं घोरं संस्मरन्तः पुनः पुनः॥११॥
अभिमन्योश्च बालस्य विनाशं रणमूर्धनि
।
कर्णस्य च महाबाहो सङ्ग्रामेप्वपलायिनः॥१२॥
तथैव द्रौपदेयानामन्येषां सुहृदामपि
।
वधं संस्मृत्य ते वीरा नानिप्रमनसोऽभवन्॥१३॥
हतप्रवीरां पृथिवीं हृतरत्नां च भारत
।
सदैव चिन्तयन्तस्ते न शमं चोपलेभिरे॥१४॥
द्रौपदी हतपुत्रा च सुभद्रा चैव भाविनी
।
नातिप्रीतियुते देव्यो तदाऽऽस्तामप्रहृष्टवत्॥१५॥
वैराट्यास्तनयं दृष्ट्वा पितरं ते परिक्षितम्
।
धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः॥१६॥
वैशम्पायन उवाच।
एवं ते पुरुषव्याघ्राः पाण्डवा मातृनन्दनाः
।
स्मरन्तो मातरं वीरा बभूवुर्भृशदुःखिताः॥१॥
ये राजकार्येषु पुरा व्यासक्ता नित्यशोऽभवन्
।
ते राजकार्याणि तदा नाकार्षुः सर्वतः पुरे॥२॥
प्रविष्टा इव शोकेन नाभ्यनन्दन्त किञ्चन
।
सम्भाष्यमाणा अपि ते न किञ्चित्प्रत्यपूजयन्॥३॥
ते स्म वीरा दुराधर्षा गाम्भीर्ये सागरोपमाः
।
शोकोपहतविज्ञाना नष्टसंज्ञा इवाभवन्॥४॥
अचिन्तयंश्च जननीं ततस्ते पाण्डुनन्दनाः
।
कथं नु वृद्धमिथुनं वहत्यतिकृशा पृथा॥५॥
कथं च स महीपालो हतपुत्रो निराश्रयः
।
पत्न्या सह वसत्येको वने श्वापदसेविते॥६॥
सा च देवी महाभागा गान्धारी हतबान्धवा
।
पतिमन्धं कथं वृद्धमन्वेति विजने वने॥७॥
एवं तेषां कथयतामौत्सुक्यमभवत्तदा
।
गमने चाभवद्बुद्धिर्धृतराष्ट्रदिदृक्षया॥८॥
सहदेवस्तु राजानं प्रणिपत्येदमब्रवीत्
।
अहो मे भवतो दृष्टं हृदयं गमनं प्रति॥९॥
न हि त्वां गौरवेणाहमशकं वक्तुमञ्जसा
।
गमनं प्रति राजेन्द्र तदिदं समुपस्थितम्॥१०॥
दिष्ट्या द्रक्ष्यामि तां कुन्तीं वर्तयन्तीं तपस्विनीम्
।
जटिलां तापसी वृद्धां कुशकाशपरिक्षताम्॥११॥
प्रासादहर्म्यसंवृद्धामत्यन्तसुखभागिनीम्
।
कदा तु जननीं श्रान्तां द्रक्ष्यामि भृशदुःखिताम्॥१२॥
अनित्याः खलु मर्त्यानां गतयो भरतर्षभ
।
कुन्ती राजसुता यत्र वसत्यसुखिता वने॥१३॥
सहदेववचः श्रुत्वा द्रौपदी योषितां वरा
।
उवाच देवी राजानमभिपूज्याभिनन्द्य च॥१४॥
कदा द्रक्ष्यामि नां देवीं यदि जीवति सा पृथा
।
जीवन्त्या ह्यद्य मे प्रीतिर्भविष्यति जनाधिप॥१५॥
एषा तेऽस्तु मतिर्नित्यं धर्मे ते रमतां मनः
।
योऽद्य त्वमस्मान् राजेन्द्र श्रेयसा योजयिष्यसि॥१६॥
अग्रपादस्थितं चेमं विद्धि राजन्वधूजनम्
।
काङ्क्षन्तं दर्शनं कुन्त्या गान्धार्याः श्वशुरस्य च॥१७॥
इत्युक्तः स नृपो देव्या द्रौपद्या भरतर्षभ
।
सेनाध्यक्षान् समानाय्या सर्वानिदमुवाच ह॥१८॥
निर्यातयत मे सेनां प्रभूतरथकुञ्जराम्
।
द्रक्ष्यामि वनसंस्थं च धृतराष्ट्रं महीपतिम्॥१९॥
स्त्र्यध्यक्षांश्चाब्रवीद्राजा यानानि विविधानि मे
।
सज्जीक्रियन्तां सर्वाणि शिबिकाश्च सहस्रशः॥२०॥
शकटापणवेशाश्च कोशः शिल्पिन एव च
।
निर्यान्तु कोषपालाश्च कुरुक्षेत्राश्रमं प्रति॥२१॥
यश्च पौरजनः कश्चिद्द्रष्टुमिच्छति पार्थिवम्
।
अनावृतः सुविहितः स च यातु सुरक्षितः॥२२॥
सूदाः पौरोगवाश्चैव सर्वं चैव महानसम्
।
विविधं भक्ष्यभोज्यं च शकटैरुह्यतां मम॥२३॥
प्रयाणं घुष्यतां चैव श्वोभूत इति मा चिरम्
।
क्रियतां पथि चाप्यद्य वेश्मानि विविधानि च॥२४॥
एवमाज्ञाप्य राजा स भ्रातृभिः सहपाण्डवः
।
श्वोभूते निर्ययौ राजन् सस्त्रीवृद्धपुरःसरः॥२५॥
स बहिर्दिवसानेव जनौघं परिपालयन्
।
न्यवसन्नृपतिः पञ्च ततोऽगच्छद्वनं प्रति॥२६॥
वैशम्पायन उवाच।
आज्ञापयामास ततः सेनां भरतसत्तमः
।
अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैनरैः॥१॥
योगो योग इति प्रीत्या ततः शब्दो महानभूत्
।
क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति॥२॥
केचिद्यानैर्नरा जग्मुः केचिदश्वैर्महाजवैः
।
काञ्चनैश्च रथैः केचिज्ज्वलितज्वलनोपमैः॥३॥
गजेन्द्रैश्च तथैवान्ये केचिदुष्टैनराधिप
।
पदातिनस्तथैवान्ये नखरप्रासयोधिनः॥४॥
पौरजानपदाश्चैव यानैर्बहुविधैस्तथा
।
अन्वयुः कुरुराजानं धृतराष्ट्रं दिदृक्षवः॥५॥
स चापि राजवचनादाचार्यो गौतमः कृपः
।
सेनामादाय सेनानी प्रययावाश्रमं प्रति॥६॥
ततो द्विजैः परिवृतः कुरुराजो युधिष्ठिरः
।
संस्तूयमानो बहुभिः सूतमागधबन्दिभिः॥७॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
।
रथानीकेन महता निर्जगाम कुरूद्वहः॥८॥
गजैश्चाचलसङ्काशैर्भीमकर्मा वृकोदरः
।
सज्जयन्त्रायुधोपेतैः प्रययौ पवनात्मजः॥९॥
माद्रीपुत्रावपि तथा हयारोहौ सुसंवृतौ
।
जग्मतुः शीघ्रगमनौ सन्नद्धकवचध्वजौ॥१०॥
अर्जुनश्च महातेजा रथेनादित्यवर्चसा
।
वशी श्वेतैर्हयैर्युक्तैर्दिव्येनान्वगमन्नृपम्॥११॥
द्रौपदीप्रमुखश्चापि स्त्रीसङ्घाः शिबिकायुताः
।
स्त्र्यध्यक्षगुप्ताः प्रययुर्विसृजन्तोऽमितं वसु॥१२॥
समृद्धरथहस्त्यश्वं वेणुवीणानुनादितम्
।
शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ॥१३॥
नदीतीरेषु रम्येषु सरःसु च विशाम्पते
।
वासान् कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुङ्गवाः॥१४॥
युयुत्सुश्च महातेजा धौम्यश्चैव पुरोहितः
।
युधिष्ठिरस्य वचनात्पुरगुप्ति प्रचक्रतुः॥१५॥
ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत्
।
क्रमेणोत्तीर्य यमुना नदीं परमपावनीम्॥१६॥
स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः
।
शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह॥१७॥
ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा
।
विवेश सुमहानादैरापूर्य भरतर्षभ॥१८॥
वैशम्पायन उवाच।
ततस्ते पाण्डवा दूरादवतीर्य पदातयः
।
अभिजग्मुर्नरपतेराश्रमं विनयानताः॥१॥
स च योधजनः सर्वो ये च राष्ट्रनिवासिनः
।
स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा॥२॥
आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः
।
शून्यं मृगगणाकीर्णं कदलीवनशोभितम्॥३॥
ततस्तत्र समाजग्मुस्तापसा नियतव्रताः
।
पाण्डवानागतान् द्रष्टुं कौतूहलसमन्विताः॥४॥
तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत्
।
पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः॥५॥
ते तमूचुस्ततो वाक्यं यमुनामवगाहितुम्
।
युष्याणामुदकुम्भस्य चार्थे गत इति प्रभो॥६॥
तैराख्यातेन मार्गेण ततस्ते जग्मुरञ्जसा
।
ददृशुश्चाविदूरे तान्सर्वानथ पदातयः॥७॥
ततस्ते सत्वरा जग्मुः पितुर्दर्शनकाक्षिणः
।
सहदेवस्तु वेगेन प्राधावद्यत्र सा पृथा॥८॥
सुस्वरं रुरुदे धीमान्मातुः पादावुपस्पृशन्
।
सा च बाष्पाकुलमुखी ददर्श दयितं सुतम्॥९॥
बाहुभ्यां सम्परिष्वज्य समुन्नाम्य च पुत्रकम्
।
गान्धार्याः कथयामास सहदेवमुपस्थितम्॥१०॥
अनन्तरं च राजानं भीमसेनमथार्जुनम्
।
नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे॥११॥
सा ह्यग्रे गच्छति तयोर्दम्पत्योर्हतपुत्रयोः
।
कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि॥१२॥
राजा तान्स्वरयोगेन स्पर्शेन च महामनाः
।
प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः॥१३॥
ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम्
।
उपतस्थुर्महात्मानो मातरं च यथाविधि॥१४॥
सर्वेषां तोयकलशाजगृहुस्ते स्वयं तदा
।
पाण्डवा लब्धसंज्ञास्ते मात्रा चाश्वासिताः पुनः॥१५॥
तथा नार्यो नृसिंहानां सोऽवरोधजनस्तदा
।
पौरजानपदाश्चैव ददृशुस्तं जनाधिपम्॥१६॥
निवेदयामास तदा जनं तन्नामगोत्रतः
।
युधिष्ठिरो नरपतिः स चैनं प्रत्यपूजयत्॥१७॥
स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः
।
राजाऽऽत्मानं गृहगतं पुरेव गजसाह्वये॥१८॥
अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः
।
गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत॥१९॥
ततश्चाश्रममागच्छत्सिद्वयारणसेवितम्
।
दिदृक्षुभिः समाकीर्णं नमस्तारागणैरिव॥२०॥
वैशम्पायन उवाच।
स तैः सह नरव्याघ्रैर्भ्रातृभिर्भरतर्षभ
।
राजा रुचिरपद्माक्षरासाञ्चक्रे तदाश्रमे॥१॥
तापसैश्च महाभागैर्नानादेशसमागतैः
।
द्रष्टुं कुरुपतेः पुत्रान् पाण्डवान्पृथुवक्षसः॥२॥
तेऽब्रुवन् ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः
।
भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी॥३॥
तानाचख्यौ तदा सूतः सर्वांस्तानभिनामतः
।
सञ्जयो द्रौपदीं चैव सर्वाश्चान्याः कुरुस्त्रियः॥४॥
सञ्जय उवाच।
य एष जाम्बूनदशुद्धगौरस्तनुर्महासिंह इव प्रवृद्धः
।
प्रचण्डघोणः पृथुदीर्घनेत्रस्ताम्रायताक्षः कुरुराज एषः॥५॥
अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः
।
पृथ्वायतांसः पृथुदीर्घबाहुर्वृकोदरः पश्यत पश्यतेमम्॥६॥
यस्त्वेष पार्श्वेऽस्य महाधनुष्मान् श्यामो युवा वारणयूथपाभः
।
सिंहोन्नतांसो गजखेलगामी पद्मायताक्षोऽर्जुन एष वीरः॥७॥
कुन्तीसमीपे पुरुषोत्तमौ तु यमाविमौ विष्णुमहेन्द्रकल्पौ
।
मनुष्यलोके सकले समोऽस्ति ययोर्न रूपे न बले न शीले॥८॥
इयं पुन: पद्मदलायताक्षी मध्यं वयः किञ्चिदिव स्पृशन्ती
।
नीलोत्पलाभा सुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः॥९॥
अस्थास्तु पार्श्वे कनकोत्तमाभा यैषा प्रभा मूर्तिमतीव सौमी
।
मध्ये स्थिता सा भगिनी द्विजाग्र्याश्चक्रायुधस्याप्रतिमस्य तस्य॥१०॥
इयं च जाम्बूनदशुद्धगौरी पार्थस्य भार्या भुजगेन्द्रकन्या
।
चित्राङ्गदा चैव नरेन्द्रकन्या यैषा सवर्णार्द्रमधूकपुष्पैः॥११॥
इयं स्वसा राजचमूपतेश्च प्रवृद्धनीलोत्पलदामवर्णा
।
पस्पर्ध कृष्णेन सदा नृपो यो वृकोदरस्यैष परिग्रहाय्यः॥१२॥
इयं च राज्ञो मगधाधिपस्य सुता जरासन्ध इति श्रुतस्य
।
यवीयसो माद्रवतीसुतस्य भार्या मता चम्पकदामगौरी॥१३॥
इन्दीवरश्यामतनुः स्थिता तु यैषा परासन्नमहीतले च
।
भार्या मता माद्रवतीसुतस्य ज्येष्ठस्य सेयं कमलायताक्षी॥१४॥
इयं तु निष्टप्तसुवर्णगौरी राज्ञो विराटस्य सुता सपुत्रा
।
भार्याभिमन्योर्निहतो रणे यो द्रोणादिभिस्तैर्विरथो रथस्थैः॥१५॥
एतास्तु सीमन्तशिरोरुहायाः शुल्कोत्तरीया नरराजपत्न्यः
।
राज्ञोऽस्य वृद्धस्य परं शताख्याः स्नुषा नृवीरा हतपुत्रनाथाः॥१६॥
एता यथामुख्यमुदाहृता वो ब्राह्मण्यभावादृजुबुद्धिसत्त्वाः
।
सर्वा भवद्भिः परिपृच्छ्यमाना नरेन्द्रपल्यः सुविशुद्धसत्त्वाः॥१७॥
वैशम्पायन उवाच।
एवं स राजा कुरुवृद्धवर्यः समागतस्तैर्नरदेवपुत्रैः
।
पप्रच्छ सर्वं कुशलं तदानीं गतेषु सर्वेष्वथ तापसेषु॥१८॥
योधेषु वाप्याश्रममण्डलं तं मुक्त्वा निविष्टेषु विमुच्य पत्रम्
।
स्त्रीवृद्धबाले च सुसन्निविष्टे यथार्हतस्तान्कुशलान्यपृच्छत्॥१९॥
धृतराष्ट्र उवाच।
युधिष्ठिर महाबाहो कच्चित्त्वं कुशली ह्यसि
।
सहितो भ्रातृभिः सर्वैः पौरजानपदैस्तथा॥१॥
ये च त्वामनुजीवन्ति कच्चित्तेऽपि निरामयाः
।
सचिवा भृत्यवर्गाश्च गुरवश्चैव ते नृप॥२॥
कच्चित्तेऽपि निरातङ्का वसन्ति विषये तव
।
कच्चिद्वर्तसि पौराणीं वृत्तिं राजर्षिसेविताम्॥३॥
कच्चिन्न्यायाननुच्छिद्य कोशस्तेऽभिप्रपूर्यते
।
अरिमध्यस्थमित्रेषु वर्तसे चानुरूपतः॥४॥
ब्राह्मणानग्रहारैर्वा यथावदनुपश्यसि
।
कच्चित्ते परितुष्यन्ति शीलेन भरतर्षभ॥५॥
शत्रवोऽपि कुतः पौरा भृत्या वा स्वजनोऽपि वा
।
कच्चिद्यजसि राजेन्द्र श्रद्धावान् पितृदेवताः॥६॥
अतिथीनन्नपानेन कच्चिदर्चसि भारत
।
कच्चिन्नयपथे विप्राः स्वकर्मनिरतास्तव॥७॥
क्षत्रिया वैश्यवर्गा वा शूद्रा वापि कुटुम्बिनः
।
कच्चित्स्त्रीबालवृद्धं ते न शोचति न याचते॥८॥
जामयः पूजिताः कच्चित्तव गेहे नरर्षभ
।
कच्चिद्राजर्षिवंशोऽयं त्वामासाद्य महीपतिम्॥९॥
यथोचितं महाराज यशसा नावसीदति
।
वैशम्पायन उवाच।
इत्येवंवादिनं तं स न्यायवित्प्रत्यभाषत॥१०॥
कुशलप्रश्नसंयुक्तं कुशलो वाक्यकर्मणि
।
युधिष्ठिर उवाच।
कच्चित्ते वर्धते राजस्तपो दमशमौ च ते॥११॥
अपि मे जननी चेयं शुश्रूषुर्विगतक्लमा
।
अथास्याः सफलो राजन्वनवासो भविष्यति॥१२॥
इयं च माता ज्येष्ठा मे शीतवाताध्वकर्शिता
।
घोरेण तपसा युक्ता देवी कच्चिन्न शोचति॥१३॥
हतान्पुत्रान्महावीर्यान् क्षत्रधर्मपरायणान्
।
नापध्यापति वा कच्चिदस्मान्पापकृतः सदा॥१४॥
क्व चासौ विदुरो राजन्नेमं पश्यामहे वयम्
।
सञ्जयः कुशली चायं कच्चिन्नु तपसि स्थिरः॥१५॥
वैशम्पायन उवाच।
इत्युक्तः प्रत्युवाचेदं धृतराष्ट्रो जनाधिपम्
।
कुशली विदुरः पुत्र तपो घोरं समाश्रितः॥१६॥
वायुभक्षो निराहारः कृशो धमनिसन्ततः
।
कदाचिद्दृश्यते विप्रैः शून्येऽस्मिन्कानने क्वचित्॥१७॥
इत्येवं ध्रुवतस्तस्य जटी वीटामुखः कृशः
।
दिग्वासा मलदिग्धाङ्गो वनरेणुसमुक्षितः॥१८॥
दूरादालक्षितः क्षत्ता तत्राख्यातो महीपतेः
।
निवर्तमानः सहसा राजन् दृष्ट्वाऽऽश्रमं प्रति॥१९॥
तमन्वधावन्नृपतिरेक एव युधिष्ठिरः
।
प्रविशन्तं वनं घोरं लक्ष्यालक्ष्यं क्वचित् क्वचित्॥२०॥
भो भो विदुर राजाहं दयितस्ते युधिष्ठिरः
।
इति ब्रुवन्नरपतिस्तं यत्नादभ्यधावत॥२१॥
ततो विविक्त एकान्ते तस्थौ बुद्धिमतां वरः
।
विदुरो वृक्षमाश्रित्य कच्चित्तत्र वनान्तरे॥२२॥
तं राजा क्षीणभूयिष्ठमाकृतीमात्रसूचितम्
।
अभिजज्ञे महाबुद्धिं महाबुद्धिर्युधिष्ठिरः॥२३॥
युधिष्ठिरोऽहमस्मीति वाक्यमुक्त्वाग्रतः स्थितः
।
विदुरस्य श्रवे राजा तं च प्रत्यभ्यपूजयत्॥२४॥
ततः सोऽनिमिषो भूत्वा राजानं तमुदैक्षत
।
संयोज्य विदुरस्तस्मिन् दृष्टिं दृष्ट्या समाहितः॥२५॥
विवेश विदुरो धीमान् गात्रैर्गात्राणि चैव ह
।
प्राणान्प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च॥२६॥
स योगबलमास्थाय विवेश नृपतेस्तनुम्
।
विदुरो धर्मराजस्य तेजसा प्रज्वलन्निव॥२७॥
विदुरस्य शरीरं तु तथैव स्तब्धलोचनम्
।
वृक्षाश्रितं तदा राजा ददर्श गतचेतनम्॥२८॥
बलवन्तं तथाऽऽत्मानं मेने बहुगुणं तदा
।
धर्मराजो महातेजास्तच्च सस्मार पाण्डवः॥२९॥
पौराणामात्मनः सर्वं विद्यावान् स विशाम्पते
।
योगधर्मं महातेजा व्यासेन कथितं यथा॥३०॥
धर्मराजश्च तत्रैव सञ्चस्कारयिषुस्तदा
।
दग्धुकामोऽभवद्विद्वानथ वागभ्यभाषत॥३१॥
भो भो राजन्न दग्धव्यमेतद्विदुरसंज्ञकम्
।
कलेवरमिहैवं ते धर्म एष सनातनः॥३२॥
लोकाः सान्तानिका नाम भविष्यन्त्यस्य भारत
।
यतिधर्ममवाप्तोऽसौ नैष शोच्यः परन्तप॥३३॥
इत्युक्तो धर्मराज: स विनिवृत्य ततः पुनः
।
राज्ञो वैचित्रवीर्यस्य तत्सर्वं प्रत्यवेदयत्॥३४॥
ततः स राजा द्युतिमान् स च सर्वो जनस्तदा
।
भीमसेनादयश्चैव परं विस्मयमागताः॥३५॥
तच्छ्रुत्वा प्रीतिमान् राजा भूत्वा धर्मजमब्रवीत्
।
आपो मूलं फलं चैव ममेदं प्रतिगृह्यताम्॥३६॥
यदर्थो हि नरो राजंस्तदर्थोऽस्यातिथिः स्मृतः
।
इत्युक्तः स तथेत्येवं प्राह धर्मात्मजो नृपम्॥३७॥
फलं मूलं च बुभुजे राज्ञा दत्तं सहानुजः
।
ततस्ते वृक्षमूलेषु कृतवासपरिग्रहाः
।
तां रात्रिमवसन्सर्वे फलमूलजलाशनाः॥३८॥
वैशम्पायन उवाच।
ततस्तु राजन्नेतेषामाश्रमे पुण्यकर्मणाम्
।
शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी॥१॥
ततस्तत्र कथाश्चासंस्तेषां धर्मार्थलक्षणाः
।
विचित्रपदसञ्चारा नानाश्रुतिभिरन्विताः॥२॥
पाण्डवास्त्वभितो मातुर्धरण्यां सुषुपुस्तदा
।
उत्सृज्य तु महार्हाणि शयनानि नराधिप॥३॥
यदाहारोऽभवद्राजा धृतराष्ट्रो महामनाः
।
तदाहार नृवीरास्ते न्यवसंस्तां निशां तदा॥४॥
व्यतीतायां तु शर्वर्यां कृतपौर्वाह्निकक्रियः
।
भ्रातृभिः सहितो राजा ददर्शाश्रममण्डलम्॥५॥
सान्तःपुरपरीवारः सभृत्यः सपुरोहितः
।
यथासुखं यथोद्देशं धृतराष्ट्राभ्यनुज्ञया॥६॥
ददर्श तत्र वेदीश्च सम्प्रज्वलितपावकाः
।
कृताभिषेकैर्मुनिभिर्हुताग्निभिरुपस्थिताः॥७॥
वानेयपुष्पनिकरैराज्यधूमोद्गमैरपि
।
ब्राह्मेण वपुषा युक्ता युक्ता मुनिगणस्य ताः॥८॥
मृगयूथैरनुद्विग्नस्तत्र तत्र समाश्रितैः
।
अशङ्कितैः पक्षिगणैः प्रगीतैरिव च प्रभो॥९॥
केकाभिर्नीलकण्ठानां दात्यूहानां च कूजितैः
।
कोकिलानां कुहुरवैः सुखैः श्रुतिमनोहरैः॥१०॥
प्राधीतद्विजघोषैश्च क्वचित्क्वचिदलङ्कृतम्
।
फलमूलसमाहारैर्महद्भिश्चोपशोभितम्॥११॥
ततः स राजा प्रददौ तापसार्थमुपाहृतान्
।
कलशान्काञ्चनान् राजंस्तथैवौदुम्बरानपि॥१२॥
अजिनानि प्रवेणीश्च स्रुक्स्रुवं च महीपतिः
।
कमण्डलूंश्च स्थालीश्च पिठराणि च भारत॥१३॥
भाजनानि च लौहानि पात्रीश्च विविधा नृप
।
यद्यदिच्छति यावच्च यच्चान्यदपि भाजनम्॥१४॥
एवं स राजा धर्मात्मा परीत्याश्रममण्डलम्
।
वसु विश्राण्य तत्सर्वं पुनरायान्महीपतिः॥१५॥
कृताह्निकं च राजानं धृतराष्ट्रं महीपतिम्
।
ददर्शासीनमव्यग्रं गान्धारीसहितं तदा॥१६॥
मातरं चाविदूरस्थां शिष्यवत्प्रणतां स्थिताम्
।
कुन्तीं ददर्श धर्मात्मा शिष्टाचारसमन्विताम्॥१७॥
स तमभ्यर्च्य राजानं नाम संश्राव्य चात्मनः
।
निषीदेत्यभ्यनुज्ञातो बृस्यामुपविवेश ह॥१८॥
भीमसेनादयश्चैव पाण्डवा भरतर्षभ
।
अभिवाद्योपसङ्गृह्य निषेदुः पार्थिवाज्ञया॥१९॥
स तैः परिवृतो राजा शुशुभेऽतीव कौरवः
।
बिभ्रद्ब्राह्मीं श्रियं दीप्तां देवैरिव बृहस्पतिः॥२०॥
तथा तेषूपविष्टेषु समाजग्मुर्महर्षयः
।
शतयूपप्रभृतयः कुरुक्षेत्रनिवासिनः॥२१॥
व्यासश्च भगवान्विप्रो देवर्षिगणसेवितः
।
वृतः शिष्यैर्महातेजा दर्शयामास पार्थिवम्॥२२॥
ततः स राजा कौरव्यः कुन्तीपुत्रश्च वीर्यवान्
।
भीमसेनादयश्चैव प्रत्युत्थायाभ्यवादयन्॥२३॥
समागतस्ततो व्यासः शतयूपादिभिर्वृतः
।
धृतराष्ट्रं महीपालमास्यतामित्यभाषत॥२४॥
वरं तु विष्टरं कौश्यं कृष्णाजिनकुशोत्तरम्
।
प्रतिपदे तदा व्यासस्तदर्थमुपकल्पितम्॥२५॥
ते च सर्वे द्विजश्रेष्ठा विष्टरेषु समन्ततः
।
द्वैपायनाभ्यनुज्ञाता निषेदुर्विपुलौजसः॥२६॥
वैशम्पायन उवाच।
ततः समुपविष्टेषु पाण्डवेषु महात्मसु
।
व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत्॥१॥
धृतराष्ट्र महाबाहो कच्चित्ते वर्तते तपः
।
कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप॥२॥
कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः
।
कच्चिज्ज्ञानानि सर्वाणि सुप्रसन्नानि तेऽनघ॥३॥
कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम्
।
कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते॥४॥
महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी
।
आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति॥५॥
कच्चित्कुन्ती च राजंस्त्वां शुश्रूषत्यनहङ्कृता
।
या परित्यज्य स्वं पुत्रं गुरुशुश्रूषणे रता॥६॥
कच्चिद्धर्मसुतो राजा त्वया प्रत्यभिनन्दितः
।
भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्त्विताः॥७॥
कच्चिन्नन्दसि दृष्ट्वैतान् कच्चित्ते निर्मलं मनः
।
कच्चिच्च शुद्धभावोऽसि जातज्ञानो नराधिप॥८॥
एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत
।
निर्वैरता महाराज सत्यमक्रोध एव च॥९॥
कच्चित्ते न च मोहोऽस्ति वनवासेन भारत
।
स्ववशे वन्यमन्नं वा उपवासोऽपि वा भवेत्॥१०॥
विदितं चापि राजेन्द्र विदुरस्य महात्मनः
।
गमनं विधिनाऽनेन धर्मस्य सुमहात्मनः॥११॥
माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः
।
महाबुद्धिर्महायोगी महात्मा सुमहामनाः॥१२॥
बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु च
।
न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः॥१३॥
तपोबलव्ययं कृत्वा सुचिरात्सम्भृतं तदा
।
माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः॥१४॥
नियोगाद्ब्रह्मणः पूर्वे मया स्वेन बलेन च
।
वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः॥१५॥
भ्राता तव महाराज देवदेवः सनातनः
।
धारणान्मनसा ध्यानाद्यं धर्मं कवयो विदुः॥१६॥
सत्येन संवर्धयति यो दमेन शमेन च
।
अहिंसया च दानेन तप्यमानः सनातनः॥१७॥
येन योगबलाज्जातः कुरुराजो युधिष्ठिरः
।
धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना॥१८॥
यथा वह्निर्यथा वायुर्यथाऽऽपः पृथिवी यथा
।
यथाऽऽकाशं तथा धर्म इह चामुत्र च स्थितः॥१९॥
सर्वगश्चैव राजेन्द्र सर्वं व्याप्य चराचरम्
।
दृश्यते देवदेवैः स सिद्धैर्निर्मुक्तकल्मषैः॥२०॥
यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः
।
स एष राजन् दृश्यस्ते पाण्डवः प्रेष्यवत्स्थितः॥२१॥
प्रविष्टः स महात्मानं भ्राता ते बुद्धिसत्तमः
।
दृष्ट्वा महात्मा कौन्तेयं महायोगबलान्वितः॥२२॥
त्वां चापि श्रेयसा योक्ष्ये न चिराद्भरतर्षभ
।
संशयच्छेदनार्थाय प्राप्तं मां विद्धि पुत्रका॥२३॥
न कृतं यैः पुरा कैश्चित्कर्म लोके महर्षिभिः
।
आश्चर्यभूतं तपसः फलं तद्दर्शयामि वः॥२४॥
किमिच्छसि महीपाल मत्तः प्राप्तुमभीप्सितम्
।
द्रष्टुं स्प्रष्टुमथ श्रोतुं तत्कर्ताऽस्मि तवानघ॥२५॥
The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in