आश्रमवासपर्व - १ - १पुत्रदर्शनपर्व - २ - २नारदागमनपर्व - ३ - ३

पुत्रदर्शनपर्व - २

एकोनत्रिंशोऽध्यायः

जनमेजय उवाच। वनवासं गते विप्र धृतराष्ट्रे महीपतौ ।
सभार्ये नृपशार्दूले बध्वा कुन्त्या समन्विते॥१॥

वनवासमिति॥१॥

विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते ।
वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले॥२॥

यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह ।
व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे॥३॥

वनवासे च कौरव्यः कियन्तं कालमच्युतः ।
युधिष्ठिरो नरपतिर्न्यवसत्सजनस्तदा॥४॥

किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो ।
सान्तःपुरा महात्मान इति तद्ब्रूहि मेऽनघ॥५॥

वैशम्पायन उवाच। तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः ।
विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते॥६॥

विश्राम्य विश्रान्तिं प्राप्य॥६॥

मासमेकं विजह्रुस्ते ससैन्यान्तःपुरा वने ।
अथ तत्रागमद्व्यासो यथोक्तं ते मयाऽनघ॥७॥

तथा च तेषां सर्वेषां कथाभिर्नृपसन्निधौ ।
व्यासमन्वास्यतां राजन्नाजग्मुर्मुनयो परे॥८॥

नारदः पर्वतश्चैव देवलश्च महातपाः ।
विश्वावसुस्तुम्बुरुश्च चित्रसेनश्च भारत॥९॥

तेषामपि यथान्यायं पूजां चक्रे महातपाः ।
धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः॥१०॥

निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् ।
आसनेषु च पुण्येषु बर्हिणेषु वरेषु च॥११॥

बर्हिणेषु पक्षिबर्हजतूलिकामयेषु॥११॥

तेषु तत्रोपविष्टेषु स तु राजा महामतिः ।
पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वह॥१२॥

गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा ।
स्त्रियश्चान्यास्तथान्याभिः सहोपविविशुस्ततः॥१३॥

तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप ।
ऋषीणां च पुराणानां देवासुरविमिश्रिताः॥१४॥

ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम् ।
प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः॥१५॥

प्रीयमाणो महातेजाः सर्ववेदविदां वरः ।
विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम्॥१६॥

दह्यमानस्य शोकेन तव पुत्रकृतेन वै ।
गान्धार्याश्चैव यद्दुःखं हृदि तिष्ठति नित्यदा॥१७॥

कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् ।
यच्च धारयते तीव्र दुःखं पुत्रविनाशजम्॥१८॥

सुभद्रा कृष्णभगिनी तच्चापि विदितं मम ।
श्रुत्वा समागममिमं सर्वेषां वस्तुतो नृप॥१९॥

संशयच्छेदनार्थाय प्राप्तः कौरवनन्दन ।
इमे च देवगन्धर्वाः सर्वे चेमे महर्षयः॥२०॥

संशयाः मृतानां सत्त्वमस्ति न वा सत्त्वमपिण्डादेर्घटीभूतस्येव पूर्वम रूपमुपमृद्यानुपमृद्य वा उपमर्दे सोऽयं दशरथ स्वर्गस्थो मम पितेति प्रत्यभिज्ञानुपपत्तिम् अनुपमर्दे भस्मीभावस्य प्रत्यक्षदर्शनं नोपपद्यत इत्यादयस्तेषां छेदनायेत्यर्थः॥२०॥

पश्यन्तु तपसो वीर्यमद्य मे चिरसम्भृतम् ।
तदुच्यतां महाप्राज्ञ कं कामं प्रददामि ते॥२१॥

प्रवणोऽस्मि वरं दातुं पश्य मे तपसः फलम् ।
एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना॥२२॥

मुहूर्तमिव सञ्चिन्त्य वचनायोपचक्रमे ।
धन्योऽस्म्यनुगृहीतश्च सफलं जीवितं च मे॥२३॥

यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः ।
अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः॥२४॥

ब्रह्मकल्पैर्भवद्भिर्यत्समेतोऽहं तपोधनाः ।
दर्शनादेव भवतां पूतोऽहं नात्र संशयः॥२५॥

विद्यते न भयं चापि परलोकान्ममानधाः ।
किं तु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम्॥२६॥

दूयते मे मनो नित्यं स्मरतः पृत्रगृद्धिनः ।
अपापाः पाण्डवा येन निकृताः पापबुद्धिना॥२७॥

घातिता पृथिवी येन सहया सनरद्विपा ।
राजानश्च महात्मानो नानाजनपदेश्वराः॥२८॥

आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः ।
ये ते पितॄंश्च दारांश्च प्राणांश्च मनसः प्रियान्॥२९॥

परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ।
का नु तेषां गतिर्ब्रह्मन् मित्रार्थे ये हता मृधे॥३०॥

तथैव पुत्रपौत्राणां मम ये निहता युधि ।
दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम्॥३१॥

भीष्मं शान्तनवं वृद्धं द्रोणं च द्विजसत्तमम् ।
मम पुत्रेण मूढेन पापेनाकृतबुद्धिना॥३२॥

क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता ।
एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम्॥३३॥

न शान्तिमधिगच्छापि दुःखशोकसमाहतः ।
इति मे चिन्तयानस्य पितः शान्तिर्न विद्यते॥३४॥

वैशम्पायन उवाच। तच्छुत्वा विविधं तस्य राजर्षेः परिदेवितम् ।
पुनर्नवीकृतः शोको गान्धार्या जनमेजय॥३५॥

कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च ।
तासां च वरनारीणां वधूनां कौरवस्य हा॥३६॥

पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत् ।
श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता॥३७॥

षोडशेमानि वर्षाणि गतानि मुनिपुङ्गव ।
अस्य राज्ञो हतान्पुत्रान् शोचतो न शमो विभो॥३८॥

पुत्रशोकसमाविष्टो निःश्वसन् ह्येष भूमिपः ।
न शेते वसतीः सर्वा धृतराष्ट्रो महामुने॥३९॥

लोकानन्यान्समर्थोऽसि स्रष्टुं सर्वांस्तपोबलात् ।
किमु लोकान्तरगतान् राज्ञो दर्शयितुं सुतान्॥४०॥

इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम् ।
शौचत्यतीव सर्वासां स्नुषाणां दयिता स्नुषा॥४१॥

तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी ।
सौभद्रवधसन्तप्ता भृशं शोचति भाविनी॥४२॥

इयं च भूरिश्रवसो भार्या परमसम्मता ।
भर्तृव्यसनशोकार्ता भृशं शोचति भाविनी॥४३॥

यस्यास्तु श्वशुरो धीमान् बाह्निकः स कुरूद्वहः ।
निहतः सोमदत्तश्च पित्रा सह महारणे॥४४॥

श्रीमतोऽस्य महाबुद्धेः सङ्ग्रामेष्वपलायिनः ।
पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे॥४५॥

तस्य भार्याशतमिदं दुःखशोकसमाहतम् ।
पुनः पुनर्वर्धयानं शोकं राज्ञो ममैव च॥४६॥

तेनारम्भेण महता मामुपास्ते महामुने ।
ये च शूरा महात्मानः श्वशुरा मे महारथाः॥४७॥

आरभेण शोकोद्यमेन मामुपास्ते भार्याशतं रोदनं कुर्वत् मामेव परिवार्यः तिष्ठतीत्यर्थः। आरम्भ उद्यमे दर्पे त्वरया च वधेऽपि चेति वध एवात्र ग्राह्यः॥४७॥

सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो ।
तव प्रसादाद्भगवन् विशोकोऽयं महीपतिः॥४८॥

यथा स्याद्भविता चाहं कुन्ती चेयं वधूस्तव ।
इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना॥४९॥

प्रच्छन्नजातं पुत्रं तं सस्मारादित्यसन्निधम् ।
तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः॥५०॥

अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः ।
तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम्॥५१॥

तद्ब्रूहि त्वं महाभागे यत्ते मनसि वर्तते ।
श्वशुराय ततः कुन्ती प्रणम्य शिरसा तदा ।
उवाच वाक्यं सव्रीडा विवृण्वाना पुरातनम्॥५२॥

॥इति श्रीमहाभारते आश्रमवासिके पर्वणि पुत्रदर्शनपर्वणि धृतराष्ट्रादिकृतप्रार्थने एकोनत्रिंशोऽध्यायः॥२९॥
त्रिंशोऽध्यायः

कुन्त्युवाच। भगवन् श्वशुरो मेऽसि दैवतस्यापि दैवतम् ।
स मे देवातिदेवस्त्वं शृणु सत्यां गिरं मम॥१॥

भगवन्निति॥१॥

तपस्वी कोपनो विप्रो दुर्वासा नाम मे पितुः ।
भिक्षामुपातो भोक्तुं तमहं पर्यतोषयम्॥२॥

शौचेन त्वागसस्त्यागैः शुद्धेन मनसा तथा ।
कोपस्थानेष्वपि महत्स्वकुप्यन्न कदाचन॥३॥

आगसस्त्यागैः अपराधत्यागैः॥३॥

स प्रीतो वरदो मेऽभूत्कृतकृत्यो महामुनिः ।
अवश्यं ते गृहीतव्यमिति मां सोऽब्रवीद्वचः॥४॥

ततः शापभयाद्विप्रमवोचं पुनरेव तम् ।
एवमस्त्विति च प्राह पुनरेव स मे द्विजः॥५॥

धर्मस्य जननी भद्रे भवित्री त्वं शुभानने ।
वशे स्थास्यन्ति ते देवा यांस्त्वमावाहयिष्यसि॥६॥

इत्युक्त्वान्तर्हितो विप्रस्ततोऽहं विस्मिताभवम् ।
न च सर्वास्ववस्थासु स्मृतिर्मे विप्रणश्यति॥७॥

अथ हर्म्यतलस्थाहं रविमुद्यन्तमीक्षती ।
संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवानिशम्॥८॥

स्थिताऽहं बालभावेन तत्र दोषमबुद्ध्यती ।
अथ देवः सहस्रांशुर्मत्समीपगतोऽभवत्॥९॥

द्विधा कृत्वाऽऽत्मनो देहं भूमौ च गगनेऽपि च ।
तताप लोकानेकेन द्वितीयेनागमत्स माम्॥१०॥

स मामुवाच वेपन्तीं वरं मत्तो वृणीष्व ह ।
गम्यतामिति तं चाहं प्रणम्य शिरसाऽवदम्॥११॥

स मामुवाच तिग्मांशुर्वृथाऽऽह्वानं न मे क्षमम् ।
धक्ष्यामि त्वां च विप्रं च येन दत्तो वरस्तव॥१२॥

तमहं रक्षती विप्रं शापादनपकारिणम् ।
पुत्रो मे त्वत्समो देव भवेदिति ततोऽब्रवम्॥१३॥

ततो मां तेजसाऽऽविश्य मोहयित्वा च भानुमान् ।
उवाच भविता पुत्रस्तवेत्यभ्यगमद्दिवम्॥१४॥

ततोऽहमन्तर्भवने पितुर्वृत्तान्तरक्षिणी ।
गूढोत्पन्नं सुतं बालं जले कर्णमवासृजम्॥१५॥

नूनं तस्यैव देवस्य प्रसादात्पुनरेव तु ।
कन्याऽहमभवं विप्र यथा प्राह स मामृषिः॥१६॥

स मया मूढया पुत्रो ज्ञायमानोऽप्युपेक्षितः ।
तन्मां दहति विप्रर्षे यथा सुविदितं तव॥१७॥

यदि पापमपापं वा यदेतद्विवृतं मया ।
तं द्रष्टुमिच्छामि भगवन्व्यपनेतुं त्वमर्हसि॥१८॥

यच्चास्य राज्ञो विदितं हृदिस्थं भवतोऽनघ ।
तं चायं लभतां काममद्यैव मुनिसत्तम॥१९॥

इत्युक्तः प्रत्युवाचेदं व्यासो वेदविदां वरः ।
साधु सर्वमिदं भाव्यमेवमेतद्यथाऽऽत्य माम्॥२०॥

अपराधश्च ते नास्ति कन्याभावं गता ह्यसि ।
देवाश्चैश्वर्यवन्तो वै शरीराण्याविशन्ति वै॥२१॥

सन्ति देवनिकायाश्च सङ्कल्पाज्जनयन्ति ये ।
वाचा दृष्ट्या तथा स्पर्शात्सङ्घर्षेणेति पञ्चधा॥२२॥

सङ्घर्षेण रत्याः॥२२॥

मनुष्यधर्मो दैवेन धर्मेण हि न दुष्यति ।
इति कुन्ति विजानीहि व्येतु ते मानसो ज्वरः॥२३॥

सर्वं बलवतां पथ्यं सर्वं बलवतां शुचि ।
सर्वं बलवतां धर्मः सर्वं बलवतां स्वकम्॥२४॥

॥इति श्रीमहाभारते आश्रमवासिके पर्वणि पुत्रदर्शनपर्वणि व्यासकुन्तीसंवादे त्रिंशोऽध्यायः॥३०॥
एकत्रिंशोऽध्यायः

व्यास उवाच। भद्रे द्रक्ष्यसि गान्धारि पुत्रान् भ्रातॄन् सखींस्तथा ।
वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव॥१॥

भद्रे द्रक्ष्यसीति॥१॥

कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी ।
द्रौपदी पञ्च पुत्रांश्च पितॄन्भ्रातॄंस्तथैव च॥२॥

पूर्वमेवैष हृदये व्यवसायोऽभवन्मम ।
यदास्मि चोदितो राज्ञा भवत्या पृथयैव च॥३॥

न ते शोच्या महात्मानः सर्व एव नरर्षभाः ।
क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः॥४॥

भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते ।
अवतेरुस्ततः सर्वे देवभागा महीतलम्॥५॥

गन्धर्वाप्सरसश्चैव पिशाचा गुह्मराक्षसाः ।
तथा पुण्यजनाश्चैव सिद्धा देवर्षयोऽपि च॥६॥

देवाश्च दानवाश्चैव तथा देवर्षयोऽमलाः ।
त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे॥७॥

गन्धर्वराजो यो धीमान् धृतराष्ट्र इति श्रुतः ।
स एव मानुषे लोके धृतराष्ट्रः पतिस्तव॥८॥

पाण्डुं मरुद्गणाद्विद्धि विशिष्टतममच्युतम् ।
धर्मस्यांशोऽभवत्क्षत्ता राजा चैव युधिष्ठिरः॥९॥

कलिं दुर्योधनं विद्धि शकुनिं द्वापरं तथा ।
दुःशासनादीन्विद्धि त्वं राक्षसाशुभदर्शने॥१०॥

मरुद्गणाद्भीमसेनं बलवन्तमरिन्दमम् ।
विद्धि त्वं तु नरमृषिमिमं पार्थं धनञ्जयम्॥११॥

नारायणं हृषीकेशमश्विनौ यमजौ तथा ।
यः स वै पार्थमुद्भूतः सहर्षजननस्तथा॥१२॥

यश्च पाण्डवदायादो हतः षड्भिर्महारथैः ।
स सोम इह सोभद्रो योगादेवाभवद्द्विधा॥१३॥

द्विधा कृत्वाऽऽत्मनो देहमादित्यं तपतां वरम् ।
लोकांश्च तापयानं वै विद्धि कर्णं च शोभने॥१४॥

द्रौपद्या सह सम्भूतं धृष्टद्युम्नं च पावकात् ।
अग्नेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम्॥१५॥

द्रोणं बृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम् ।
भीष्मं च विद्धि गाङ्गेयं वसुं मानुषतां गतम्॥१६॥

एवमेते महाप्रज्ञे देवा मानुष्यमेत्य हि ।
ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने॥१७॥

यच्च वै हृदि सर्वेषां दुःखमेतच्चिरं स्थितम् ।
तदद्य व्यपनेष्यामि परलोककृताद्भयात्॥१८॥

सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति ।
तत्र द्रक्ष्यथ तान्सर्वान् ये हतास्मिन् रणाजिरे॥१९॥

वैशम्पायन उवाच। इति व्यासस्य वचनं श्रुत्वा सर्वो जनस्तदा ।
महता सिंहनादेन गङ्गामभिमुखो ययौ॥२०॥

धृतराष्ट्राश्च सामात्यः प्रययौ सह पाण्डवैः ।
सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः॥२१॥

ततो गङ्गां समासाद्य क्रमेण स जनार्णवः ।
निवासमकरोत्सर्वो यथाप्रीति यथासुखम्॥२२॥

राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः ।
निवासमकरोद्धीमान् सस्त्रीवृद्धपुरःसरः॥२३॥

जगाम तदहश्चापि तेषां वर्षशतं यथा ।
निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान्॥२४॥

अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः ।
ततः कृताभिषेकास्ते नैशं कर्म समाचरन्॥२५॥

॥इति श्रीमहाभारते आश्रमवासिके पर्वणि पुत्रदर्शनपर्वणि गङ्गातीरगमने एकत्रिंशोऽध्यायः॥३१॥
द्वात्रिंशोऽध्यायः

वैशम्पायन उवाच। ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः ।
व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः॥१॥

ततो निशायामित्यस्मिन्नध्यायद्वये मृतानां पुनर्दर्शनमुक्तम्। तेन तेषां सत्त्वमस्तीति स्पष्टमुक्तम्। अतो मृतानां सत्वमस्ति न वेति संशयः परास्तः। अथ भस्मीभूतानां कथं प्रत्यक्षेण दर्शनं स्वप्नवदिति चेत् व्यासस्यैन्द्रजालिकत्वापत्त्या संशयोच्छेदकत्वानुपपत्तिः। अथ देवताभावं गतानां तेषां पुनर्भीष्मादिभावेन योगबलादाभिव्यक्तिर्भवति। तर्हि भस्मीभूतस्य देहस्य पुनरुदयायोगात्तत्सदृशैर्देहान्तरैरुपेतानामेव तेषां दर्शनमिति वाच्यम्। तथाऽपि देहान्तरे ममायं भर्तेति बुद्धिमतीनां स्त्रीणां भ्रान्तिरेव पूर्वदेहनाशस्य दृढतरस्मरणात् अस्मरणे पुनः स्वप्नतुल्यतेति तुल्यम्। अत्र ब्रूमः। हार्दविद्यां प्रकृत्य श्रूयते- त इमे सत्या कामा अनृतापिधाना इति। तस्माद्दहराकाशं प्रकृत्य एतत्सत्यं ब्रह्मपुरमस्मिन्सर्वे कामाः समाहिता इति। तथा यो यो ह्यस्येत प्रैति न तमिह दर्शनायोपलभते इत्युपक्रम्य ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दत इत्यादि। सत्यं ब्रह्मपुरः हृदम्बरमित्यर्थः। समस्तं सदा सन्नेवास्त्यत एव तत्र मुनयः पश्यन्त्यतीतादिकं मिथ्याब्रह्मपुरं शरीरममुना सत्यपुरं छादितं सर्पेण स्रगिषेत्यमुष्य विलये सत्यं पुरं प्रकाशते तस्मादविद्याप्रत्युपस्थापितमपारमार्थिकं जैवं रूपम्। कर्तृभोक्तृरागद्वेषाद्यनेकानर्थकलुषितं तद्विलयनेन तद्विपरीतमपहतपाप्मत्वादिविशिष्टं पारमेश्वरं रूपं विद्यया प्रतिपद्यते सर्पादिविलयने रज्ज्वादिवदिति भाष्याच्च। ब्राह्मलौकिका एव सत्या भीष्मादयोऽनृतैर्जन्मादिभिर्भावविकारैराविर्भूय तिरोभूताः सन्तो महर्षिविद्ययाऽविर्भूय स्त्र्यादिभिश्च याथात्म्येन गृहीताः सन्तस्ताभिः सह रेमिरे इति युक्तमुत्पश्याम विशेषस्त्वस्मत्कृते वेदान्तकतके दहराधिकरणे द्रष्टव्यः। अक्षरार्थस्तु स्पष्ट एव॥१॥

धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा ।
शुचिरेकमना सार्धमृषिभिस्तैरुपाविशत्॥२॥

गान्धार्या सह नार्यस्तु सहिताः समुपाविशन् ।
पौरजानपदश्चापि जनः सर्वो यथावयः॥३॥

ततो व्यासो महातेजः पुण्यं भागीरथीजलम् ।
अवगाह्याजुहावाथ सर्वान् लोकान् महामुनिः॥४॥

पाण्डवानां च ये योधाः कौरवाणां च सर्वशः ।
राजानश्च महाभागा नानादेशनिवासिनः॥५॥

ततः सुतुमुल: शब्दो जलान्ते जनमेजय ।
प्रादुरासीद्यथापूर्वं कुरुपाण्डवसेनयोः॥६॥

ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः ।
ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः॥७॥

विराटद्रुपदौ चैव सहपुत्रौ ससैनिकौ ।
द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः॥८॥

कर्णदुर्योधनौ चैव शकुनिश्च महारथः ।
दुःशासनादयश्चैव धार्तराष्ट्रा महाबलाः॥९॥

जारासन्धिर्भगदत्तो जलसन्धश्च वीर्यवान् ।
भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः॥१०॥

लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः ।
शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः॥११॥

अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः ।
बाह्निकः सोमदत्तश्च चेकितानश्च पार्थिवः॥१२॥

एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः ।
सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः॥१३॥

यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् ।
तेन तेन व्यदृश्यन्त समुपेता नराधिपाः॥१४॥

दिव्याम्बरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः ।
निर्वैरा निरहङ्कारा विगतक्रोधमत्सराः॥१५॥

गन्धर्वैरुपगीयन्तः स्तूयमानाश्च वन्दिभिः ।
दिव्यमाल्याम्बरधरा वृताश्चाप्सरसां गणैः॥१६॥

धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप ।
मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात्॥१७॥

दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी ।
ददर्श पुत्रांस्तान् सर्वान् ये चान्येऽपि मृधे हताः॥१८॥

तदद्भुतमचिन्त्यं च सुमहल्लोमहर्षणम् ।
विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः॥१९॥

तदुत्सवमहोदग्रं हृष्टनारीनराकुलम् ।
आश्चर्यभूतं ददृशे चित्रं पटगतं यथा॥२०॥

धृतराष्ट्रस्तु तान्सर्वान् पश्यन्दिव्येन चक्षुषा ।
मुमुदे भरतश्रेष्ठ प्रसादात् तस्य वै मुनेः॥२१॥

॥इति श्रीमहाभारते आश्रमवासिके पर्वणि पुत्रदर्शनपर्वणि भीष्मादिदर्शने द्वात्रिंशोऽध्यायः॥३२॥
त्रतस्त्रिंशोऽध्यायः

वैशम्पायन उवाच। ततस्ते पुरुषश्रेष्ठाः समाजग्मुः परस्परम् ।
विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः॥१॥

तत इति॥१॥

विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम् ।
संहृष्टमनसः सर्वे देवलोके इवामराः॥२॥

पुत्रः पित्रा च मात्रा च भार्याश्च पतिभिः सह ।
भ्रात्रा भ्राता सखा चैव सख्या राजन्समागताः॥३॥

पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च ।
सम्प्रहर्षात्समाजग्मुर्दौपदेयांश्च सर्वशः॥४॥

ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः ।
समेत्य पृथिवीपाल सौहृद्ये च स्थिताभवन्॥५॥

परस्परं समागम्य योधास्ते भरतर्षभ ।
मुनेः प्रसादात्ते ह्येवं क्षत्रिया नष्टमन्यवः॥६॥

असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः ।
एवं समागताः सर्वे गुरुभिर्बान्धवैः सह॥७॥

पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च पार्थिवाः ।
तां रात्रिमखिलामेवं विहृत्य प्रीतमानसाः॥८॥

मेनिरे परितोषेण नृपाः स्वर्गसदो यथा ।
नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत्॥९॥

परस्परं समागम्य योधानां भरतर्षभ ।
समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः॥१०॥

मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन् ।
एकां रात्रिं विहृत्यैव ते वीरास्ताश्च योषितः॥११॥

आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम् ।
ततो विसर्जयामास लोकांस्तान्मुनिपुङ्गवः॥१२॥

क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन् ।
अवगाह्य महात्मानः पुण्यां भागीरथी नदीम्॥१३॥

सरथाः सध्वजाश्चैव स्वानि वेश्मानि भेजिरे ।
देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा॥१४॥

केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन् ।
ततो वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः॥१५॥

राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून् ।
विचित्रगतयः सर्वे यानवाप्यामरैः सह॥१६॥

आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः ।
गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः॥१७॥

धर्मशीलो महातेजाः कुरूणां हितकृत्तथा ।
ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः॥१८॥

या याः पतिकृतान् लोकानिच्छन्ति परमस्त्रियः ।
ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः॥१९॥

ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः ।
श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम्॥२०॥

विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह ।
समाजग्मुस्तदा साध्व्यः सर्वा एव विशाम्पते॥२१॥

एवं क्रमेण सर्वास्ताः शीलवत्यः पतिव्रताः ।
प्रविश्य क्षत्रिया मुक्ता जग्मुर्भर्तृसलोकताम्॥२२॥

दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः ।
दिव्यमाल्याम्बरधरा यथाऽऽसां पतयस्तथा॥२३॥

ताः शीलगुणसम्पन्ना विमानस्था गतक्लमाः ।
सर्वाः सर्वगुणोपेताः स्वस्थानं प्रतिपेदिरे॥२४॥

यस्य यस्य तु यः कामस्तस्मिन्काले बभूव ह ।
तं तं विसृष्टवान्व्यासो वरदो धर्मवत्सलः॥२५॥

तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः ।
जहृषुर्मुदिताश्चासन्नानादेशगता अपि॥२६॥

प्रियैः समागमं तेषां यः सम्यक् शृणुयान्नरः ।
प्रियाणि लभते नित्यमिह च प्रेत्य चैव सः॥२७॥

इष्टबान्धवसंयोगमनायासमनामयम् ।
यश्चैतच्छ्रावयेद्विद्वान् विदुषो धर्मवित्तमः॥२८॥

स यशः प्राप्नुयाल्लोके परत्र च शुभां गतिम् ।
स्वाध्याययुक्ता मनुजास्तपोयुक्ताश्च भारत॥२९॥

साध्वाचारा दमोपेता दाननिर्धूतकल्मषाः ।
ऋजवः शुचयः शान्ता हिंसानृतविवर्जिताः॥३०॥

आस्तिकाः श्रद्दधानाश्च धृतिमन्तश्च मानवाः ।
श्रुत्वाऽऽश्चर्यमिदं पर्व ह्यवाप्स्यन्ति परां गतिम्॥३१॥

॥इति श्रीमहाभारते आश्रमवासिके पर्वणि पुत्रदर्शनपर्वणि स्त्रीणां स्वस्वपतिलोकगमने त्रयस्त्रिंशोऽध्यायः॥३३॥
चतुस्त्रिंशोऽध्यायः

सौतिरुवाच। एतच्छुत्वा नृपो विद्वान् हृष्टोऽभूज्जनमेजयः ।
पितामहानां सर्वेषां गमनागमनं तदा॥१॥

पूर्वाध्यायद्वयोक्तमेवार्थं प्रश्नोत्तराभ्यां निरूपयति- एतच्छ्रुत्वेत्यादिना॥१॥

अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति ।
कथं नु त्यक्तदेहानां पुनस्तद्रूपदर्शनम्॥२॥

कथं नु त्यक्ता भस्मीभूता ये देहास्तेषां तद्रूपेणैव पूर्वरूपेणैव दर्शनं कथमित्यर्थः॥२॥

इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान् ।
प्रोवाच वदतां श्रेष्ठस्तं नृपं जनमेजयम्॥३॥

वैशम्पायन उवाच। अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः ।
कर्मजानि शरीराणि तथैवाकृतयो नृप॥४॥

अवीति युग्मम्। सर्वेषां देवासुरमनुष्याणां कर्माणि कुर्वता कर्मणा भोगमन्तरेण कदाचिदपि विप्रणाशो नास्ति। यथा स्वप्ने शुभाशुभैः कर्मभिः शुभमशुभं वा स्वाप्नं देहं प्राग्य तद्वारा कर्मफलं सुखदुःखादिकं भुक्त्वा कर्मोपरतौ सत्यां तं देहं संहरति। जाग्रद्देहस्तु तदानीमविकृत एव तिष्ठति। एवं कर्मजेषु मानुषादिदेहेषु नश्यत्स्वपि हार्दाकाशस्थाः पित्रादिदेहा अविनष्टा एव सन्ति। अत एवाथ य इहात्मानमनुविद्य व्रजन्त्येताꣳश्च सत्यान् कामाꣳस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते इति श्रुतिः। सत्यानां पित्रादीनामुत्थानं दर्शयति॥४॥

महाभूतानि नित्यानि भूताधिपतिसंश्रयात् ।
तेषां च नित्यसंवासो न विनाशो वियुज्यताम्॥५॥

तदेतदाह- महाभूतानीति। भूतानां प्राणिनामधिपतेरीश्वरस्य संश्रयान्महाभूतान्यस्मदादिशरीरापेक्षया अविनाशित्वादियोगान्महाभूतानि हार्दाकाशस्था पित्रादयस्तस्यैव सम्बधान्नित्यानि। कर्मजानि तु भूतानि कर्मक्षये विलीयन्त इति भावः। तेषां च महाभूतानां नित्यानां शरीराणामनित्यैः शरीरैः सह संवासस्तादात्म्येनावस्थानं संसारदशायामस्ति। वियुज्यता अनित्यानां नाशे तैः सह वियुज्यमानानां तेषां नित्यानां विनाशो न। नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमिति श्रुतेः। तस्मात्कर्मजानां नाशेऽप्यकर्मजानां हार्दाकाशस्थानां पित्रादिदेहानामविनाशात्पुनस्तद्रूपेण तेषां दर्शनं युक्तमेव॥५॥

अनायासकृतं कर्म सत्यः श्रेष्ठः फलागमः ।
आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते॥६॥

कथमेतदवाप्यते इत्यत आह- अनायासेति। प्रवृत्तिरूपं कर्म आयासकृतं तद्विपरीतं तु निवृत्तिरूपं कर्म अनायासकृतम्। तस्मादयं सत्यः श्रेष्ठश्च उक्तविधः फलागमो भवति। एभिरायासयुक्तैः कर्मभिः॥६॥

अविनाश्यस्तथायुक्तः श्रेत्रज्ञ इति निश्चयः ।
भूतानामात्मको भावो यथासौ न वियुज्यते॥७॥

तर्हि कर्मसम्बन्धादात्मा नश्यति नेत्याह- अविनाश्य इति। यद्यपि दुःखयोगः आत्मनोऽस्ति तथापि क्षेत्रज्ञ आत्मा तैर्दुःखैरविनाश्य एव अविकार्य एव असङ्गत्वात्। वधस्य चाध्यासिकत्वात्। अत्र दृष्टान्तमाह- भूतानामिति। यथासौ भूतानाम् अस्मदादिशरीराणाम्। आत्मकः आत्मनः प्रतिकृतिर्दर्पणादौ प्रतिबिम्बो दर्पणधर्मान् मलिनत्वादीननुकुर्वाणोऽपि तन्नाशान्नश्यति। न वियुज्यत इत्यस्य न नश्यतीत्यर्थः। एवं क्षेत्रक्षेत्रजयोगेऽपि द्रष्टव्यम्॥७॥

यावन्न क्षीयते कर्म तावत्तस्य स्वरूपता ।
क्षीणकर्मा नरो लोके रूपान्यत्वं नियच्छति॥८॥

यावत्कर्म देहारम्भकमस्ति तावत्तस्य देहस्य स्वरूपता तत्रामत्वाध्यास इत्यर्थः। कर्मक्षये तु देहान्तरे आत्मत्वाध्यासो भवतीत्याह- क्षीणेति॥८॥

नानाभावास्तथैकत्वं शरीरं प्राप्य संहताः ।
भवन्ति ते तथा नित्याः पृथग्भावं विजानताम्॥९॥

ये नानाभावा भूतेन्द्रियादयो भिन्नाः पदार्थाः शरीरं प्राप्य एकत्वं देवदत्तोऽहं मनुष्यपुत्र इति देहादितादात्म्यं संहता सम्प्राप्तास्ते एव भावाः देहादीनामात्मनः पृथक्त्वं विजानता योगिनां नित्या भवन्ति। अज्ञानिना ये अनित्या भावास्त एव ज्ञानिना नित्यात्मरूपा भवन्तीत्यर्थः॥९॥

अश्वमेधे श्रुतिश्चेयमश्वसंज्ञपनं प्रति ।
लोकान्तरगता नित्यं प्राणा नित्यं शरीरिणाम्॥१०॥

संज्ञपनं मारणं तदा हि सूर्यं ते चक्षुः वातं प्राण इत्यादयो मन्त्राः पठ्यन्ते ततो लिङ्गाद्गम्यते यत् शरीरिणां प्राणा इन्द्रियाणि नित्यं निश्चितं नित्यं सर्वदा लोकान्तरे गता इति। तेन सर्वशरीरी विभुरेवास्ति न तूपाधिपरिच्छिन्न परिच्छिन्नत्वाभिमानस्त्वस्याविद्यक इति भावः॥१०॥

अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव ।
देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे॥११॥

तव तु ज्ञानेऽधिकाराभावात् सोपासनकर्मप्राप्यं देवयानमार्गमेवाश्रयस्वेत्याह- अहमिति। ते तव योग्या इति शेषः॥११॥

आहृतो यत्र यज्ञस्ते तत्र देवा हितास्तव ।
यदा समन्विता देवाः पशूनां गमनेश्वराः॥१२॥

यत्र काले ते त्वया यज्ञः आहृतः कृतस्तत्र तदैव देवास्तव हिताः सखायो जाताः यदैव तदैव देवाः। पशूनां जीवानां गमने तत्तल्लोकप्राप्तौ ईश्वराः निग्रहानुग्रहकराः॥१२॥

गतिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्त्युत ।
नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि पूरुषः॥१३॥

यस्मादेवं तस्मान्नित्याः जीवाः देवानिष्ट्वा गतिमन्तो भवन्ति नान्ये अवजमाना एवं सार्धेन कर्मनिष्ठामुक्त्वा ज्ञाननिष्ठामाह सार्धेन- नित्ये इति। पाञ्चभौतिको देववर्गः सर्वोऽपि नित्यः पुरुषश्च तद्द्रष्टा नित्यः॥१३॥

अस्य नानासमायोगं यः पश्यति वृथामतिः ।
वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः॥१४॥

उभयोरपि नित्ययोः सतोर्योऽस्य नानायोगम् अनेकदेहसम्बन्धं पश्यति स वृथामतिर्वियोगे पितृपुत्रादिनाशे शोचति मौढ्यात्। उक्तरीत्या न देहो नश्यति नाप्यात्मेति निर्निमित्तस्तेषां शोक इति भावः॥१४॥

वियोगे दोषदर्शी यः संयोगं स विसर्जयेत् ।
असङ्गे सङ्गमो नास्ति दुःखं भुवि वियोगजम्॥१५॥

यदि स्त्र्यादिनाशादुःखं पश्यति तर्हि स्त्र्यादीनां परिग्रह एव न कर्तव्यः। न हि वन्ध्याया पुत्रशोकार्तिरस्ति वस्तुतस्त्वसङ्गे आत्मनि वियोगज दुःखं वा स्त्र्यादिसङ्गमो वा नास्तीत्याह- असङ्ग इति॥१५॥

परापरज्ञस्त्वपरो नाभिमानादुदीरितः ।
अपरज्ञः परां बुद्धिं ज्ञात्वा मोहाद्विमुच्यते॥१६॥

परेति। अपरस्तु उक्तविधा ज्ञाननिष्ठामप्राप्तस्तु परापरज्ञो नित्यानित्यविभागमात्रज्ञ अभिमानाद्देहादितादात्म्यात् उपासनाबलेन उदीरित उत्क्षिप्त अपरज्ञः सगुणब्रह्मवित् भूत्वा पश्चात्परा बुद्धिं निर्विशेषवस्तुज्ञानं प्राप्य मोहान्मूलाज्ञानाद्विमुच्यते॥१६॥

अदर्शनादापतितः पुनश्चादर्शनं गतः ।
नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता॥१७॥

मुक्तस्य लक्षणमाह- अदर्शनादिति। कर्मकर्तुरभावाददर्शनं प्रत्यक् चैतन्यं तस्मादापतितस्तत्रैव च लीनोऽतस्तं मुक्तमहं न वेद्मि। अगोचरत्वात् असौ च मां न वेत्ति करणाभावात् तर्हि त्वमपि तादृक्कुतो न भवसीत्याह- न च मेऽस्ति विरागतेति। परं वैराग्यमेव मुख्यं मोक्षसाधनमित्यर्थः॥१७॥

येन येन शरीरेण करोत्ययमनीश्वरः ।
तेन तेन शरीरेण तदवश्यमुपाश्नुते ।
मानसं मनसाऽऽप्नोति शरीरं च शरीरवान्॥१८॥

येनेति। मनसा कृतं पापं मानसतापेनैवानुभूयते एवं शरीरेण कृतं शारीरेणोपतापेनेति कायवाङ्मनसा चापलं त्यक्त्वा वायुनिरोधं कुर्यादिति सार्धश्लोकार्थः॥१८॥
॥इति श्रीमहाभारेते आश्रमवासिके पर्वणि पुत्रदर्शनपर्वणि जनमेजयं प्रति वैशम्पायनवाक्ये चतुस्त्रिंशोऽध्यायः॥३४॥
पञ्चत्रिशोऽध्यायः

वैशम्पायन उवाच। अदृष्ट्वा तु नृपः पुत्रान् दर्शनं प्रतिलब्धवान् ।
ऋषेः प्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह॥१॥

अदृष्ट्वोति॥१॥

स राजा राजधर्मांश्च ब्रह्मोपनिषदं तथा ।
अवाप्तवान्नरश्रेष्ठो बुद्धिनिश्चयमेव च॥२॥

स धृतराष्ट्रो राजा विदुरश्च सिद्धिं ययौ इति द्वयोः सम्बन्धः। तत्रापि विदुरस्तपोबलात् धृतराष्ट्रो व्यासं समासाद्येति सम्बन्धः॥२॥

विदुरश्च महाप्राज्ञो ययौ सिद्धिं तपोबलात् ।
धृतराष्ट्रः समासाद्य व्यासं चैव तपस्विनम्॥३॥

जनमेजय उवाच। ममापि वरदो व्यासो दर्शयेत्पितरं यदि ।
तद्रूपवेषवयसं श्रद्दध्यां सर्वमेव ते॥४॥

प्रियं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चयः ।
प्रसादादृषिमुख्यस्य मम कामः समृध्यताम्॥५॥

सौतिरुवाच। इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान् ।
प्रसादमकरोद्धीमानानयच्च परीक्षितम्॥६॥

ततस्तद्रूपवयसमागतं नृपतिं दिवः ।
श्रीमन्तं पितरं राजा ददर्श जनमेजयः॥७॥

शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम् ।
अमात्या ये बभूवश्च राज्ञस्तांश्च ददर्श ह॥८॥

ततः सोऽवभृथे राजा मुदितो जनमेजयः ।
पितरं ज्ञापयामास स्वयं सस्नौ च पार्थिवः॥९॥

ज्ञापयामास आलोचितवान् स्नापयामसेति पाठः स्पष्टः॥९॥

स्नात्वा स नृपतिर्विप्रमास्तीकमिदमब्रवीत् ।
यायावरकुलोत्पन्नं जरत्कारुसुतं तदा॥१०॥

आस्तीक विविधाश्चर्यो यज्ञोऽयमिति मे मतिः ।
यदद्यायं पिता प्राप्तो मम शोकप्रणाशनः॥११॥

आस्तीक उवाच। ऋषिद्वैपायनो यत्र पुराणस्तपो निधिः ।
यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ॥१२॥

श्रुतं विचित्रमाख्यानं त्वया पाण्डवनन्दन ।
सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः॥१३॥

कथञ्चित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव ।
ऋषयः पूजिताः सर्वे गतिर्दृष्टा महात्मनः॥१४॥

प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम् ।
विमुक्तो हृदयग्रन्थिरुदारजनदर्शनात्॥१५॥

पापविनाशनं इतिहासमिति शेषः॥१५॥

ये च पक्षधरा धर्मे सद्वृत्तरुचयश्च ये ।
यान् दृष्ट्वा हीयते पापं तेभ्यः कार्या नमस्क्रिया॥१६॥

पक्षधराः पक्षस्थापकाः॥१६॥

सौति उवाच। एतच्छुत्वा द्विजश्रेष्ठात्स राजा जनमेजयः ।
पूजयामास तमृषिमनुमान्य पुनः पुनः॥१७॥

पप्रच्छ तमृषिं चापि वैशम्पायनमच्युतम् ।
कथावशेषं धर्मज्ञो वनवासस्य सत्तम॥१८॥

॥इति श्रीमहाभारते आश्रमवासिके पर्वणि पुत्रदर्शनपर्वणि जनमेजयस्य स्वपितृदर्शने पञ्चत्रिंशोऽध्यायः॥३५॥
षड्त्रिंशोऽध्यायः

जनमेजय उवाच। दृष्ट्वा पुत्रांस्तथा पौत्रान् सानुबन्धान्जनाधिपः ।
धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः॥१॥

दृष्ट्वेति॥१॥

वैशम्पायन उवाच। तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं नृप ।
वीतशोकः स राजर्षिः पुनराश्रममागमत्॥२॥

इतरस्तु जनः सर्वस्ते चैव परमर्षयः ।
प्रतिजग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञया॥३॥

पाण्डवास्तु महात्मानो लघुभूयिष्ठसैनिकाः ।
पुनर्जग्मुर्महात्मानं सदारास्तं महीपतिम्॥४॥

तत्राश्रमपदं धीमान् ब्रह्मर्षिर्लोकपूजितः ।
मुनिः सत्यवतीपुत्रो धृतराष्ट्रमभाषत॥५॥

आश्रमपदम् आश्रमं प्राप्तम्॥५॥

धृतराष्ट्र महाबाहो शृणु कौरवनन्दन ।
श्रुतं ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम्॥६॥

श्रद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम् ।
धर्मज्ञानां पुराणानां वदतां विविधाः कथाः॥७॥

मा स्म शोके मनः कार्षीर्दिष्टेन व्यथते बुधः ।
श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात्॥८॥

गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम् ।
यथा दृष्टास्त्वया पुत्रास्तथा कामविहारिणः॥९॥

युधिष्ठिरः स्वयं धीमान् भवन्तमनुरुध्यते ।
सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः॥१०॥

विसर्जयैनं यात्वेष स्वराज्यमनुशासताम् ।
मासः समधिकस्तेषामतीतो वसतां वने॥११॥

एतद्धि नित्यं यत्नेन पदं रक्ष्यं नराधिप ।
बहुप्रत्यर्थिकं ह्येतद्राज्यं नाम कुरुद्वह॥१२॥

बहवः प्रत्यर्थिनः प्रार्थयानां शत्रवो यत्र तत्॥१२॥

इत्युक्तः कौरवो राजा व्यासेनातुलतेजसा ।
युधिष्ठिरमथाहूय वाग्मी वचनमब्रवीत्॥१३॥

अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह ।
त्वत्प्रसादान्महीपाल शोको नास्मान्प्रबाधते॥१४॥

रमे चाहं त्वया पुत्र पुरेव गजसाह्वये ।
नाथेनानुगतो विद्वन्प्रियेषु परिवर्तिना॥१५॥

नाथेन त्वया॥१५॥

प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे परमा त्वयि ।
न मे मन्युर्महाबाहो गम्यतां पुत्र मा चिरम्॥१६॥

भवन्तं चेह सम्प्रेक्ष्य तपो मे परिहीयते ।
तपोयुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः॥१७॥

मातरौ ते तथैवेमे शीर्णपर्णकृताशने ।
मम तुल्यव्रते पुत्र न चिरं वर्तयिष्यतः॥१८॥

दुर्योधनप्रभृतयो दृष्टा लोकान्तरं गताः ।
व्यासस्य तपसो वीर्याद्भवतश्च समागमात्॥१९॥

प्रयोजनं च निर्वृत्तं जीवितस्य ममानघ ।
उग्रं तपः समास्थास्ये त्वमनुज्ञातुमर्हसि॥२०॥

त्वय्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम् ।
श्वो वाद्य वा महाबाहो गम्यतां पुत्र मा चिरम्॥२१॥

राजनीतिः सुबहुशः श्रुता ते भरतर्षभ ।
सन्देष्टव्यं ने पश्यामि कृतं मे भवता विभो॥२२॥

वैशम्पायन उवाच। इत्युक्तवचनं तं तु नृपो राजानमब्रवीत् ।
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्॥२३॥

कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा ।
भवन्तमहमन्विष्ये मातरौ च यतव्रतः॥२४॥

अन्विष्ये सेविष्ये॥२४॥

तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व च ।
त्वय्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे॥२५॥

गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वयम् ।
राजा यदाह तत्कार्यं त्वया पुत्र पितुर्वचः॥२६॥

वैशम्पायन उवाच। इत्युक्तः स तु गान्धार्या कुन्तीमिदमभाषत ।
स्नेहबाष्पाकुले नेत्रे प्रमृज्य रुदतीं वचः॥२७॥

विसर्जयति मां राजा गान्धारी च यशस्विनी ।
भवत्यां बद्धचित्तस्तु कथं यास्यामि दुःखितः॥२८॥

न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि ।
तपसो हि परं नास्ति तपसा विन्दते महत्॥२९॥

ममापि न तथा राज्ञि राज्ये बुद्धिर्यथा पुरा ।
तपस्येवानुरक्तं मे मनः सर्वात्मना तथा॥३०॥

शून्येयं च मही कृत्स्ना न मे प्रीतिकरी शुभे ।
बान्धवा नः परिक्षीणा बलं नो न यथा पुरा॥३१॥

पञ्चालाः सुभृशं क्षीणाः कथामात्रावशेषिताः ।
न तेषां कुलकर्तारं कञ्चित्पश्याम्यहं शुभे॥३२॥

सर्वे हि भस्मसान्नीतास्ते द्रोणेन रणाजिरे ।
अवशिष्टाश्च निहता द्रोणपुत्रेण वै निशि॥३३॥

चेदयश्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः ।
केवलं वृष्णिचक्रं च वासुदेवपरिग्रहात्॥३४॥

यद्दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नार्थहेतुतः ।
शिवेन पश्य नः सर्वान् दुर्लभं तव दर्शनम्॥३५॥

अविषह्यं च राजा हि तीव्रं चारप्स्यते तपः ।
एतच्छ्रुत्वा महाबाहुः सहदेवो युधां पतिः॥३६॥

युधिष्ठिरमुवाचेदं बाष्पव्याकुललोचनः ।
नोत्सहेऽहं परित्यक्तुं मातरं भरतर्षभ॥३७॥

प्रतियातु भवान् क्षिप्रं तपस्तप्स्याम्यहं विभो ।
इहैव शोषयिष्यामि तपसेदं कलेवरम्॥३८॥

पादशुश्रूषणे रक्तो राज्ञो मात्रोस्तथानयोः ।
तमुवाच ततः कुन्ती परिष्वज्य महाभुजम्॥३९॥

गम्मतां पुत्र मैवं त्वं वोचः कुरुः वचो मम ।
आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः॥४०॥

उपरोधो भवेदेवमस्माकं तपसः कृते ।
त्वत्स्नेहपाशबद्धा च हीयेयं तपसः परात्॥४१॥

तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं च नः प्रभो ।
एवं संस्तम्भितं वाक्यैः कुन्त्या बहुविधैर्मनः॥४२॥

शिष्टमायुरिति शेषः॥४२॥

सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः ।
ते मात्रा समनुज्ञाता राज्ञा च कुरुपुङ्गवाः॥४३॥

अभिवाद्य कुरुश्रेष्ठमामन्त्रयितुमारभन् ।
युधिष्ठिर उवाच। राज्यं प्रतिगमिष्यामः शिवेन प्रतिनन्दिताः॥४४॥

अनुज्ञातास्त्वया राजन् गमिष्यामो विकल्मषाः ।
एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना॥४५॥

अनुजज्ञे स कौरव्यमभिनन्द्य युधिष्ठिरम् ।
भीमं च बलिनां श्रेष्ठं सन्त्वयामास पार्थिवः॥४६॥

स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान् ।
अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ॥४७॥

अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च ।
गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवादनाः॥४८॥

जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम् ।
चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे॥४९॥

नृपं प्रदक्षिणं चक्रुः। निवारणे स्तनपानादिति शेषः॥४९॥

पुनः पुनर्निरीक्षन्तः प्रचक्रुस्ते प्रदक्षिणम् ।
द्रौपदीप्रमुखाश्चैव सर्वाः कौरवयोषितः॥५०॥

न्यायतः श्वशुरे वृत्तिं प्रयुज्य प्रययुस्ततः ।
श्वश्रूभ्यां समनुज्ञाताः परिष्वज्याभिनन्दिताः॥५१॥

सन्दिष्टाश्चेति कर्तव्यं प्रययुर्भर्तृभिः सह ।
ततः प्रजज्ञे निनदः सूतानां युज्यतामिति॥५२॥

उष्ट्राणां क्रोशतां चापि हयानां हेषतामपि ।
ततो युधिष्ठिरो राजा सदारः सहसैनिकः ।
नगरं हास्तिनपुरं पुनरायात्सबान्धवः॥५३॥

॥इति श्रीमहाभारते आश्रमवासिके पर्वणि पुत्रदर्शनपर्वणि युधिष्ठिरप्रत्या्मे षट्त्रिंशोऽध्यायः॥३६॥
॥समाप्तं चेदं पुत्रदर्शनपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in