वैशम्पायन उवाच।
द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया
।
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम्॥१॥
तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः
।
आसीनं परिविश्वस्तं प्रोवाच वदतां वरः॥२॥
चिरात्तु नानुपश्यामि भगवन्तमुपस्थितम्
।
कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम्॥३॥
के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते
।
तद्ब्रूहि द्विजमुख्यस्त्वं त्वं ह्यस्माकं परा गतिः॥४॥
नारद उवाच।
चिरदृष्टोऽसि मेत्येवमागतोऽहं तपोवनात्
।
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप॥५॥
युधिष्ठिर उवाच।
वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः
।
धृतराष्ट्रं महात्मानमास्थितं परमं तपः॥६॥
अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः
।
गान्धारी च पृथा चैव सूतपुत्रश्च सञ्जयः॥७॥
कथं च वर्तते चाद्य पिता मम स पार्थिवः
।
श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः॥८॥
नारद उवाच।
स्थिरीभूय महाराज शृणु वृत्तं यथातथम्
।
यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने॥९॥
वनवासनिवृत्तेषु भवत्सु कुरुनन्दन
।
कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप॥१०॥
गान्धार्या सहितो धीमान् वध्वा कुन्त्या समन्वितः
।
सञ्जयेन च सूतेन साग्निहोज्ञः सयाजकः॥११॥
आतस्थे स तपस्तीव्रं पिता तव तपोधनः
।
वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः॥१२॥
वने स मुनिभिः सर्वैः पूज्यमानो महातपाः
।
त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः॥१३॥
गान्धारी तु जलाहारी कुन्ती मासोपवासिनी
।
सञ्जयः षष्ठभुक्तेन वर्तयामास भारत॥१४॥
अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो
।
दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य वै॥१५॥
अनिकेतोऽथ राजा स बभूव वनगोचरः
।
ते चापि सहिते देव्यौ सञ्जयश्च तमन्वयुः॥१६॥
सञ्जयो नृपतेर्नेता समेषु विषमेषु च
।
गान्धार्याश्च पृथा चैव चक्षुरासीदनिन्दिता॥१७॥
ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः
।
गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत्॥१८॥
अथ वायुः समुद्भूतो दावाग्निरभवन्महान्
।
ददाह तद्वनं सर्वं परिगृह्य समन्वतः॥१९॥
दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः
।
वराहाणां च यूथेषु संश्रयत्सु जलाशयान्॥२०॥
समाविद्धे वने तस्मिन्प्राप्ते व्यसन उत्तमे
।
निराहारतया राजन्मन्दप्राणविचेष्टितः॥२१॥
असमर्थोऽपसरणे सुकृशे मातरौ च ते
।
ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात्॥२२॥
इदमाह ततः सूतं सञ्जयं जयतां वरः
।
गच्छ सञ्जय यत्राग्निर्न त्वां दहति कर्हिचित्॥२३॥
वयमत्राग्निना युक्ता गमिष्यामः परां गतिम्
।
तमुवाच किलोद्विग्नः सञ्जयो वदतां वरः॥२४॥
राजन्मृत्युरनिष्टोऽयं भविता ते वृथाग्निना
।
न चोपाय प्रपश्यामि मोक्षणे जातवेदसः॥२५॥
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति
।
इत्युक्तः सञ्जयेनेदं पुनराह स पार्थिवः॥२६॥
नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम्
।
जलमग्निस्तथा वायुरथवाऽपि विकर्षणम्॥२७॥
तापसानां प्रशस्यन्ते गच्छ सञ्जय माचिरम्
।
इत्युक्त्वा सञ्जयं राजा समाधाय मनस्तथा॥२८॥
प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा
।
सञ्जयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत्॥२९॥
उवाच चैनं मेधावी युड्क्ष्वात्मानमिति प्रभो
।
ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः॥३०॥
सन्निमध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा
।
गान्धारी च महाभागा जननी च पृथा तव॥३१॥
दावाग्निना समायुक्ते स च राजा पिता तव
।
सञ्जयस्तु महामात्रस्तस्माद्दावादमुच्यत॥३२॥
गङ्गाकूले मया दृष्टस्तापसैः परिवारितः
।
स तानामन्त्र्य तेजस्वी निवेद्येतच्च सर्वशः॥३३॥
प्रययौ सञ्जयो धीमान् हिमवन्तं महीधरम्
।
एवं स निधनं प्राप्तः कुरुराजो महामनाः॥३४॥
गान्धारी च पृथा चैव जनन्यौ ते विशाम्पते
।
यदृच्छयानुव्रजता मया राज्ञः कलेवरम्॥३५॥
तयोश्च देव्योरुभयोर्मया दृष्टानि भारत
।
ततस्तपोवने तस्मिन् समाजग्मुस्तपोधनाः॥३६॥
श्रुत्वा राज्ञस्तदा निष्ठां न त्वशोचन् गतीश्च ते
।
तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम॥३७॥
यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव
।
न शोचितव्यं राजेन्द्र स्वतः स पृथिवीपतिः॥३८॥
प्राप्तवानग्निसंयोगं गान्धारी जननी च ते
।
वैशम्पायन उवाच।
एतच्छ्रुत्वा च सर्वेषां पाण्डवानां महात्मनाम्॥३९॥
निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान्
।
अन्तःपुराणां च तदा महानार्तस्वरोऽभवत्॥४०॥
अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः॥४१॥
ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः
।
भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते॥४२॥
अन्तःपुरेषु च तदा सुमहान् रुदितस्वनः
।
प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम्॥४३॥
तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम्
।
अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम्॥४४॥
तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत
।
निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम्॥४५॥