आश्रमवासपर्व - १ - १पुत्रदर्शनपर्व - २ - २नारदागमनपर्व - ३ - ३

नारदागमनपर्व - ३

सप्तत्रिंशोऽध्यायः

वैशम्पायन उवाच। द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छया ।
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम्॥१॥

द्विवर्षोपेति॥१॥

तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः ।
आसीनं परिविश्वस्तं प्रोवाच वदतां वरः॥२॥

चिरात्तु नानुपश्यामि भगवन्तमुपस्थितम् ।
कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम्॥३॥

के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते ।
तद्ब्रूहि द्विजमुख्यस्त्वं त्वं ह्यस्माकं परा गतिः॥४॥

नारद उवाच। चिरदृष्टोऽसि मेत्येवमागतोऽहं तपोवनात् ।
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप॥५॥

मे मयातिचितं दृष्टोसीत्यर्थः॥५॥

युधिष्ठिर उवाच। वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः ।
धृतराष्ट्रं महात्मानमास्थितं परमं तपः॥६॥

अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः ।
गान्धारी च पृथा चैव सूतपुत्रश्च सञ्जयः॥७॥

कथं च वर्तते चाद्य पिता मम स पार्थिवः ।
श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः॥८॥

नारद उवाच। स्थिरीभूय महाराज शृणु वृत्तं यथातथम् ।
यथा श्रुतं च दृष्टं च मया तस्मिंस्तपोवने॥९॥

वनवासनिवृत्तेषु भवत्सु कुरुनन्दन ।
कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप॥१०॥

गान्धार्या सहितो धीमान् वध्वा कुन्त्या समन्वितः ।
सञ्जयेन च सूतेन साग्निहोज्ञः सयाजकः॥११॥

आतस्थे स तपस्तीव्रं पिता तव तपोधनः ।
वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः॥१२॥

वने स मुनिभिः सर्वैः पूज्यमानो महातपाः ।
त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः॥१३॥

गान्धारी तु जलाहारी कुन्ती मासोपवासिनी ।
सञ्जयः षष्ठभुक्तेन वर्तयामास भारत॥१४॥

अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो ।
दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य वै॥१५॥

दृश्यतोऽदृश्यत इति पश्यन्तमपश्यन्तं चानादृत्यर्थः। नियमेन सान्निध्याभावात्॥१५॥

अनिकेतोऽथ राजा स बभूव वनगोचरः ।
ते चापि सहिते देव्यौ सञ्जयश्च तमन्वयुः॥१६॥

सञ्जयो नृपतेर्नेता समेषु विषमेषु च ।
गान्धार्याश्च पृथा चैव चक्षुरासीदनिन्दिता॥१७॥

ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः ।
गङ्गायामाप्लुतो धीमानाश्रमाभिमुखोऽभवत्॥१८॥

अथ वायुः समुद्भूतो दावाग्निरभवन्महान् ।
ददाह तद्वनं सर्वं परिगृह्य समन्वतः॥१९॥

दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः ।
वराहाणां च यूथेषु संश्रयत्सु जलाशयान्॥२०॥

समाविद्धे वने तस्मिन्प्राप्ते व्यसन उत्तमे ।
निराहारतया राजन्मन्दप्राणविचेष्टितः॥२१॥

असमर्थोऽपसरणे सुकृशे मातरौ च ते ।
ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात्॥२२॥

इदमाह ततः सूतं सञ्जयं जयतां वरः ।
गच्छ सञ्जय यत्राग्निर्न त्वां दहति कर्हिचित्॥२३॥

वयमत्राग्निना युक्ता गमिष्यामः परां गतिम् ।
तमुवाच किलोद्विग्नः सञ्जयो वदतां वरः॥२४॥

राजन्मृत्युरनिष्टोऽयं भविता ते वृथाग्निना ।
न चोपाय प्रपश्यामि मोक्षणे जातवेदसः॥२५॥

यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति ।
इत्युक्तः सञ्जयेनेदं पुनराह स पार्थिवः॥२६॥

नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम् ।
जलमग्निस्तथा वायुरथवाऽपि विकर्षणम्॥२७॥

विकर्षणम् अनशनम्॥२७॥

तापसानां प्रशस्यन्ते गच्छ सञ्जय माचिरम् ।
इत्युक्त्वा सञ्जयं राजा समाधाय मनस्तथा॥२८॥

प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा ।
सञ्जयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत्॥२९॥

उवाच चैनं मेधावी युड्क्ष्वात्मानमिति प्रभो ।
ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः॥३०॥

ऋषिपुत्रो व्यासपुत्र इति योगसामर्थ्यं सीचितम्॥३०॥

सन्निमध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा ।
गान्धारी च महाभागा जननी च पृथा तव॥३१॥

दावाग्निना समायुक्ते स च राजा पिता तव ।
सञ्जयस्तु महामात्रस्तस्माद्दावादमुच्यत॥३२॥

गङ्गाकूले मया दृष्टस्तापसैः परिवारितः ।
स तानामन्त्र्य तेजस्वी निवेद्येतच्च सर्वशः॥३३॥

प्रययौ सञ्जयो धीमान् हिमवन्तं महीधरम् ।
एवं स निधनं प्राप्तः कुरुराजो महामनाः॥३४॥

गान्धारी च पृथा चैव जनन्यौ ते विशाम्पते ।
यदृच्छयानुव्रजता मया राज्ञः कलेवरम्॥३५॥

तयोश्च देव्योरुभयोर्मया दृष्टानि भारत ।
ततस्तपोवने तस्मिन् समाजग्मुस्तपोधनाः॥३६॥

श्रुत्वा राज्ञस्तदा निष्ठां न त्वशोचन् गतीश्च ते ।
तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम॥३७॥

यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव ।
न शोचितव्यं राजेन्द्र स्वतः स पृथिवीपतिः॥३८॥

प्राप्तवानग्निसंयोगं गान्धारी जननी च ते ।
वैशम्पायन उवाच। एतच्छ्रुत्वा च सर्वेषां पाण्डवानां महात्मनाम्॥३९॥

निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान् ।
अन्तःपुराणां च तदा महानार्तस्वरोऽभवत्॥४०॥

अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः॥४१॥

ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः ।
भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते॥४२॥

अन्तःपुरेषु च तदा सुमहान् रुदितस्वनः ।
प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम्॥४३॥

तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम् ।
अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम्॥४४॥

तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत ।
निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम्॥४५॥

॥इति श्रीमहाभारते आश्रमवासिके पर्वणि नारदागमनपर्वणि धृतराष्ट्रादिदाहे सप्तत्रिंशोऽध्यायः॥३७॥
अष्टत्रिंशोऽध्यायः

युधिष्ठिर उवाच। तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः ।
अनाथस्येव वचने तिष्ठत्स्वास्मासु बन्धुषु॥१॥

तथेति॥१॥

दुर्विज्ञेया गतिर्ब्रह्मन्पुरुषाणां मतिर्मम ।
यत्र वैचित्रवीर्योऽसौ दग्ध एवं वनाग्निना॥२॥

यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः ।
नागायुतबलो राजा स दग्धो हि दवाग्निना॥३॥

यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः ।
तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम्॥४॥

सूतमागधसङ्घेश्च शयानो यः प्रबोध्यते ।
धरण्यां स नृपः शेते पापस्य मम कर्मभिः॥५॥

न च शोचामि गान्धारीं हतपुत्रां यशस्विनीम् ।
पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम्॥६॥

पृथामेव च शोचामि या पुत्रैश्वर्यमृद्धिमत् ।
उत्सृज्य सुमहद्दीप्तं वनवासमरोचयत्॥७॥

धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम् ।
क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम्॥८॥

सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम ।
यत्समुत्सृह्य राज्यं सा वनवासमरोचयत्॥९॥

युधिष्ठिरस्य जननी भीमस्य विजयस्य च ।
अनाथवत्कथं दग्ध इति मुह्यामि चिन्तयन्॥१०॥

वृथा सन्तर्पितो वह्निः खाण्डवे सव्यसाचिना ।
उपकारमजानन्स कृतघ्न इति मे मतिः॥११॥

यत्रादहत्स भगवान् मातरं सव्यसाचिनः ।
कृत्वा यो ब्राह्मणच्छद्मा भिक्षार्थी समुपागतः॥१२॥

धिगग्निं धिक्च पार्थस्य विश्रुतां सत्यसन्धताम् ।
इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे॥१३॥

वृथाग्निना समायोगो यदभूत्पृथिवीपतेः ।
तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह॥१४॥

कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम् ।
तिष्ठत्सु मन्त्रपूतेषू तस्याग्निषु महावने॥१५॥

वृथाग्निना समायुक्तो निष्ठां प्राप्तः पिता मम ।
मन्ये पृथा वेपमाना कृशा धमनिसन्तता॥१६॥

हा तात धर्मराजेति समाक्रन्दन्महाभये ।
भीम पर्याप्नुहि भयादिति चैवाभिवाशती॥१७॥

समन्ततः परिक्षिप्ता माताभून्मे दवाग्निना ।
सहदेवः प्रियस्तस्याः पुत्रेभ्योऽधिक एव तु॥१८॥

न चैनां मोक्षयामास वीरो माद्रवतीसुतः ।
तच्छुत्वा रुरुदुः सर्वे समालिङ्य परस्परम्॥१९॥

पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षये ।
तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः॥२०॥

प्रासादाभोगसंरुद्धे अन्वरौत्सीत्स रोदसी॥२१॥

॥इति श्रीमहाभारते आश्रमवासिके पर्वणि नारदागमनपर्वणि युधिष्ठिविलापे अष्टत्रिंशोऽध्यायः॥३८॥
एकोनचत्वारिंशोऽध्यायः

नारद उवाच। नासौ वृथाग्निना दग्धो यथा तत्र श्रुतं मया ।
वैचित्रवीर्यो नृपतिस्तत्ते वक्ष्यामि सुव्रत॥१॥

नासाविति॥१॥

वनं प्रविशतानेन वायुभक्षेण धीमता ।
अग्नयः कारयिन्वेष्टिमुत्सृष्टा इति नः श्रुतम्॥२॥

याजकास्तु ततस्तस्य तानन्गीन्निर्जने वने ।
समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम॥३॥

स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल ।
तेन तद्वनमादीप्तमिति ते तापसाऽब्रुवन्॥४॥

स राजा जाह्नवीतीरे यथा ते कथितं मया ।
तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ॥५॥

एवमावेदयामासुर्मुनयस्ते ममानघ ।
ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर॥६॥

एवं स्वेनाग्निना राजा समायुक्तो महीपते ।
मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम्॥७॥

गुरुशुश्रूषया चैव जननी ते जनाधिप ।
प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः॥८॥

कर्तुमर्हसि राजेन्द्र तेषां त्वमुदकक्रियाम् ।
भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम्॥९॥

वैशम्पायन उवाच। ततः स पृथिवीपालः पाण्डवानां धुरन्धरः ।
निर्ययौ सहसोदर्यः सदारश्च नरर्षभः॥१०॥

पौरजानपदाश्चैव राजभक्तिपुरस्कृताः ।
गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः॥११॥

ततोऽवगाह्य सलिले सर्वे ते नरपुङ्गवाः ।
युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने॥१२॥

गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः ।
शौचं निवर्तयन्तस्ते तत्रोपुर्नगराद्बहिः॥१३॥

प्रेषयामास स नरान् विधिज्ञानाप्तकारिणः ।
गङ्गाद्वारं नरश्रेष्ठो यत्र दग्धोऽभवन्नृपः॥१४॥

तत्रैव तेषां कृत्यानि गङ्गाद्वारेऽन्वशात्तदा ।
कर्तव्यानीति पुरुषान् दत्तदेयान्महीपतिः॥१५॥

द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः ।
ददौ श्राद्धानि विधिवद्दक्षिणावन्ति पाण्डवः॥१६॥

धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः ।
सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः॥१७॥

गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक् पृथक् ।
सङ्कीर्त्य नामनी राजा ददौ दानमनुत्तमम्॥१८॥

यो यदिच्छति यावच्च तावत्स लभते नरः ।
शयनं भोजनं यानं मणिरत्नमथो धनम्॥१९॥

यानमाच्छादनं भोगान् दासीश्च समलङ्कृताः ।
ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः॥२०॥

ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः ।
प्रविवेश पुरं राजा नगरं वारणाह्वयम्॥२१॥

ते चापि राजवचनात्पुरुषा ये गताभवन् ।
सङ्कल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः॥२२॥

सङ्कल्प्य एकीकृत्य कुल्यानि अस्थीनि कुल्यं स्यात्कीकसेऽपि चेति मेदिनी प्रत्यागमन् गङ्गामिति शेषः॥२२॥

माल्यैर्गन्धैश्च विविधैरर्चयित्वा यथाविधि ।
कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः॥२३॥

संयोज्य गङ्गायेति शेषः॥२३॥

समाश्वास्य तु राजानं धर्मात्मानं युधिष्ठिरम् ।
नारदोऽप्यगमद्राजन् परमर्षिर्यथेप्सितम्॥२४॥

एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः ।
वनवासे तथा त्रीणि नगरे दश पञ्च च॥२५॥

हतपुत्रस्य सङ्ग्रामे दानानि ददतः सदा ।
ज्ञातिसम्बन्धिमित्राणां भ्रातॄणां स्वजनस्य च॥२६॥

युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा ।
धारयामास तद्राज्यं निहतज्ञातिबान्धवः॥२७॥

॥इति श्रीमहाभारते आश्रमवासिके पर्वणि नारदागमनपर्वणि श्राद्धदाने ऊनचत्वारिंशोऽध्यायः॥३९॥
॥समाप्तं नारदागमनपर्व॥॥इति श्रीमहाभारते आश्रमवासिकपर्व समाप्तम्॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in