नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥१॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥१॥
वैशम्पायन उवाच।
कृतोदकं तु राजानं धृतराष्ट्र युधिष्ठिरः
।
पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः॥२॥
उत्तीर्य तु महाबाहुर्बाष्पव्याकुललोचनः
।
पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः॥३॥
तं सीदमानं जग्राह भीमः कृष्णेन चोदितः
।
मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः॥४॥
तमार्तं पतितं भूमौ श्वसन्तं च पुनः पुनः
।
ददृशुः पार्थिवा राजन् धर्मपुत्रं युधिष्ठिरम्॥५॥
तं दृष्ट्वा दीनमनसं गतसत्त्वं नरेश्वरम्
।
भूयः शोकसमाविष्टाः पाण्डवाः समुपाविशन्॥६॥
राजा तु धृतराष्ट्रश्च पुत्रशोकाभिपीडितः
।
वाक्यमाह महाबुद्धिः प्रज्ञाचक्षुर्नरेश्वरम्॥७॥
उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम्
।
क्षत्रधर्मेण कौन्तेय जितेयमवनी त्वया॥८॥
भुंक्ष्व भोगान् भ्रातृभिश्च सुहृद्धिश्च मनोऽनुगान्
।
शोचितव्यं न पश्यामि त्वया धर्मभृतां वर॥९॥
शोचितव्यं मया चैव गान्धार्या च महीपते
।
ययोः पुत्रशतं नष्टं स्वप्नलब्धं यथा धनम्॥१०॥
अश्रुत्वा हितकामस्य विदुरस्य महात्मनः
।
वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः॥११॥
उक्तवान् विदुरो यन्मां धर्मात्मा दिव्यदर्शनः
।
दुर्योधनापराधेन कुलं ते विनशिष्यति॥१२॥
स्वस्ति चेदिच्छसे राजन् कुलस्य कुरु मे वचः
।
वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः॥१३॥
कर्णश्च शकुनिश्चैव नैनं पश्यतु कर्हिचित्
।
द्यूतसङ्घातमप्येषामप्रमादेन वारय॥१४॥
अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम्
।
स पालयिष्यति वशी धर्मेण पृथिवीमिमाम्॥१५॥
अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम्
।
मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव॥१६॥
समं सर्वेषु भूतेषु वर्तमानं नराधिप
।
अनुजीवन्तु सर्वे त्वां ज्ञातयो भ्रातृभिः सह॥१७॥
एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि
।
दुर्योधनमहं पापमन्ववर्त वृथामतिः॥१८॥
अश्रुत्वा तस्य धीरस्य वाक्यानि मधुराण्यहम्
।
फलं प्राप्य महद्दुःखं निमग्नः शोकसागरे॥१९॥
वृद्धौ हि तेऽद्य पितरौ पश्य नौ दुःखितौ नृप
।
न शोचितव्यं भवता पश्यामीह जनाधिप॥२०॥
वैशम्पायन उवाच।
एवमुक्तस्तु राज्ञा स धृतराष्ट्रेण धीमता
।
तूष्णीं बभूव मेधावी तमुवाचाथ केशवः॥१॥
अतीव मनसा शोकः क्रियमाणो जनाधिप
।
सन्तापयति चैतस्य पूर्वप्रेतान् पितामहान्॥२॥
यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः
।
देवांस्तर्पय सोमेन स्वधया च पितॄनपि॥३॥
अतिथीनन्नपानेन कामैरन्यैरकिञ्चनान्
।
विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम्॥४॥
श्रुताश्च राजधर्मास्ते भीष्माद् भागीरथीसुतात्
।
कृष्णद्वैपायनाच्चैव नारदाद् विदुरात्तथा॥५॥
नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम्
।
पितृपैतामहं वृत्तिमास्थाय धुरमुद्वह॥६॥
युक्तं हि यशसा क्षात्रं स्वर्ग प्राप्तुमसंशयम्
।
न हि कश्चिद्धि शूराणां निहतोऽत्र पराङ्मुखः॥७॥
त्यज शोकं महाराज भवितव्यं हि तत्तथा
।
न शक्यास्ते पुनर्द्रष्टुं त्वया येऽस्मिन् रणे हताः
।
॥८॥
एतावदुक्त्वा गोविन्दो धर्मराज युधिष्ठिरम्
।
विरराम महातेजास्तमुवाच युधिष्ठिरः॥९॥
युधिष्ठिर उवाच।
गोविन्द मयि या प्रीतिस्तव सा विदिता मम
।
सौहृदेन तथा प्रेम्णा सदा मय्यनुकम्पसे॥१०॥
प्रियं तु मे स्यात् सुमहत्कृतं चक्रगदाधर
।
श्रीमन् प्रीतेन मनसा सर्वे यादवनन्दन॥११॥
यदि मामनुजानीयाद् भवान् गन्तुं तपोवनम्
।
न हि शान्तिं प्रपश्यामि पातयित्वा पितामहम्॥१२॥
कर्णं च पुरुषव्याघ्र सङ्ग्रामेष्वपलायिनम्
।
कर्मणा येन मुच्येयमस्मात् क्रूरादरिन्दम॥१३॥
कर्मणा तद् विधत्स्वेह येन शुध्यति मे मनः
।
तमेवं वादिनं पार्थं व्यासः प्रोवाच धर्मवित्॥१४॥
सान्त्वयन् सुमहातेजाः शुभं वचनमर्थवत्
।
अकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे॥१५॥
किमाकारा वयं तात प्रलपामो मुहुर्मुहुः
।
विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका॥१६॥
तथा प्रवृत्तो नृपतिर्नाधिबन्धेन युज्यसे
।
मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः॥१७॥
असकृच्चापि सन्देहाश्छिन्नास्ते कामजा मया
।
अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम्॥१८॥
मैवं भव न ते युक्तमिदमज्ञानमीदृशम्
।
प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ
।
राजधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः॥१९॥
स कथं सर्वधर्मज्ञः सर्वागमविशारदः
।
परिमुह्यसि भूयस्त्वमज्ञानादिव भारत॥२०॥
व्यास उवाच।
युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः
।
न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाम्॥१॥
ईश्वरेण च युक्तोऽयं साध्वसाधु च मानवः
।
करोति पुरुषः कर्म तत्र का परिदेवना॥२॥
आत्मानं मन्यसे चाथ पापकर्माणमन्ततः
।
शृणु तत्र यथापापमपकृष्येत भारत॥३॥
तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर
।
तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते॥४॥
यज्ञेन तपसा चैव दानेन च नराधिप
।
पूयन्ते नरशार्दूल नरा दुष्कृतकारिणः॥५॥
असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम्
।
प्रयतन्ते महात्मानस्तस्माद् यज्ञाः परायणम्॥६॥
यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः
।
ततो देवाः क्रियावन्तो दानवनभ्यधर्षयन्॥७॥
राजसूयाश्वमेधौ च सर्वमेधं च भारत
।
नरमेधं च नृपते त्वमाहर युधिष्ठिर॥८॥
यजस्व वाजिमेधेन विधिवद् दक्षिणावता
।
बहुकामान्नवित्तेन रामो दाशरथिर्यथा॥९॥
यथा च भरतो राजा दौष्यन्तिः पृथिवीपतिः
।
शाकुन्तलो महावीर्यस्तव पूर्वपितामहः॥१०॥
युधिष्ठिर उवाच।
असंशयं वाजिमेधः पावयेत् पृथिवीमपि
।
अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि॥११॥
इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम
।
दानमल्पं न शक्नोमि दातुं वित्तं च नास्ति मे॥१२॥
न तु बालानिमान् दीनानुत्सहे वसु याचितुम्
।
तथैवार्द्रव्रणान् कृच्छ्रे वर्तमानान् नृपात्मजान्॥१३॥
स्वयं विनाश्य पृथिवीं यज्ञार्थं द्विजसत्तम
।
करमाहारयिष्यामि कथं शोकपरायणः॥१४॥
दुर्योधनापराधेन वसुधा वसुधाधिपाः
।
प्रनष्टा योजयित्वास्मानकीर्त्या मुनिसत्तम॥१५॥
दुर्योधनेन पृथिवी क्षयिता वित्तकारणात्
।
कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः॥१६॥
पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पितः
।
विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः॥१७॥
न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन
।
अत्र मे भगवन् सम्यक् साचिव्यं कर्तुमर्हसि॥१८॥
एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा
।
मुहूर्तमनुसञ्चिन्त्य धर्मराजानमब्रवीत्॥१९॥
कोशश्चापि विशीर्णोऽयं परिपूर्णो भविष्यति
।
विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम्॥२०॥
उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महात्मनः
।
तदानयस्व कौन्तेय पर्याप्तं तद् भविष्यति॥२१॥
युधिष्ठिर उवाच।
कथं यज्ञे मरुत्तस्य द्रविणं तत् समाचितम्
।
कस्मिंश्च काले स नृपो बभूव वदतां वर॥२२॥
व्यास उवाच।
यदि शुश्रूषसे पार्थ शृणु कारन्धमं नृपम्
।
यस्मिन् काले महावीर्यः स राजासीन्महाधनः॥२३॥
युधिष्ठिर उवाच।
शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम्
।
द्वैपायन मरुत्तस्य कथां प्रबूहि मेऽनघ॥१॥
व्यास उवाच।
आसीत् कृतयुगे तात मनुर्दण्डधरः प्रभुः
।
तस्य पुत्रो महाबाहुः प्रसन्धिरिति विश्रुतः॥२॥
प्रसन्धेरभवत् पुत्रः क्षुप इत्यभिविश्रुतः
।
क्षुपस्य पुत्र इक्ष्वाकुर्महीपालोऽभवत् प्रभुः॥३॥
तस्य पुत्रशतं राजन्नासीत् परधार्मिकम्
।
तांस्तु सर्वान् महीपालानिक्ष्वाकुरकरोत् प्रभुः॥४॥
तेषां ज्येष्ठस्तु विंशोऽभूत् प्रतिमानं धनुष्मताम्
।
विंशस्य पुत्रः कल्याणो विविंशो नाम भारत॥५॥
विविंशस्य सुता राजन् बभूवुर्दश पञ्च च
।
सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः॥६॥
दानधर्मरताः शान्ताः सततं प्रियवादिनः
।
तेषां ज्येष्ठः खनीनेत्रः स तान् सर्वानपीडयत्॥७॥
खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम्
।
नाशकद् रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः॥८॥
तमपास्य च तद्राज्ये तस्य पुत्रं सुवर्चसम्
।
अभ्यषिञ्चन्त राजेन्द्र मुदिता ह्यभवंस्तदा॥९॥
स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं च तत्
।
नियतो वर्तयामास प्रजाहितचिकीर्षया॥१०॥
ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः
।
प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम्॥११॥
तस्य धर्मप्रवृत्तस्य व्यशीर्यत् कोशवाहनम्
।
तं क्षीणकोशं सामन्ताः समन्तात् पर्यपीडयन्॥१२॥
स पीड्यमानो बहुभिः क्षीणकोशाश्ववाहनः
।
आर्तिमार्छत्परां राजा सह भृत्यैः पुरेण च॥१३॥
न चैनमभिहन्तुं ते शक्नुवन्ति बलक्षये
।
सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर॥१४॥
यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः
।
ततः प्रदध्मौ स करं प्रादुरासीत् ततो बलम्॥१५॥
ततस्तानजयत् सर्वान् प्रातिसीमान् नराधिपान्
।
एतस्मात् कारणाद् राजन् विश्रुतः स करन्धमः॥१६॥
तस्य कारन्धमः पुत्रस्त्रेतायुगमुखेऽभवत्
।
इन्द्रादनवरः श्रीमान् देवैरपि सुदुर्जयः॥१७॥
तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा
।
स हि सम्राडभूत् तेषां वृत्तेन च बलेन च॥१८॥
अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत्
।
यज्ञशीलो धर्मरतिकृतिमान् संयतेन्द्रियः॥१९॥
तेजसाऽऽदित्यसदृशः क्षमया पृथिवीसमः
।
बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः॥२०॥
कर्मणा मनसा वाचा दमेन प्रशमेन च
।
मनांस्याराधयामास प्रजानां स महीपतिः॥२१॥
य ईजे हयमेधानां शतेन विधिवत् प्रभुः
।
याजयामास सं विद्वान् स्वयमेवाङ्गिराः प्रभुः॥२२॥
तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया
।
मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः॥२३॥
नागायुतसमप्राणः साक्षाद् विष्णुरिवापरः
।
स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत॥२४॥
कारयामास शुभ्राणि भाजनानि सहस्रशः
।
मेरू पर्वतमासाद्य हिमवत्पार्श्व उत्तरे॥२५॥
काञ्चनः सुमहान् पादस्तत्र कर्म चकार सः
।
ततः कुण्डानि पात्रीश्च पिठराण्यासनानि च॥२६॥
चक्रुः सुवर्णकर्तारो येषां सङ्ख्या न विद्यते
।
तस्यैव च समीपे तु यज्ञवाटो बभूव ह॥२७॥
ईजे तत्र स धर्मात्मा विधिवत् पृथिवीपतिः
।
मरुत्तः सहितैः सर्वैः प्रजापालैनराधिपः॥२८॥
कथं वीर्यः समभवत्स राजा वदतां वर
।
कथं च जातरूपेण समयुज्यत स द्विज॥१॥
क्व च तत्साम्प्रतं द्रव्यं भगवन्नवतिष्ठते
।
कथं च शक्यमस्माभिस्तदवाप्तुं तपोधन॥२॥
व्यास उवाच।
असुराश्चैव देवाश्च दक्षस्यासन् प्रजापतेः
।
अपत्यं बहुलं तात संस्पर्धन्त परस्परम्॥३॥
तथैवाङ्गिरस: पुत्रौ व्रततुल्यौ बभूवतुः
।
बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः॥४॥
तावतिस्पर्धिनौ राजन् पृथगास्तां परस्परम्
।
बृहस्पतिः स संवर्तं बाधते स्म पुनः पुनः॥५॥
स बाध्यमान् सततं भ्रात्रा ज्येष्ठेन भारत
।
अर्थानुत्सृज्य दिग्वासा वनवासमरोचयत्॥६॥
वासवोऽप्यसुरान् सर्वान् विजित्य च निपात्य च
।
इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम्॥७॥
पुत्रमङ्गिरसो ज्येष्ठं विप्रज्येष्ठं बृहस्पतिम्
।
याज्यस्त्वङ्गिरसः पूर्वमासीद् राजा करन्धमः॥८॥
वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च
।
शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः॥९॥
वाहनं यस्य योधाश्च मित्राणि विविधानि च
।
शयनानि च मुख्यानि महार्हाणि च सर्वशः॥१०॥
ध्यानादेवाभवद् राजन् मुखवातेन सर्वशः
।
स गुणैः पार्थिवान् सर्वान् वशे चक्रे नराधिपः॥११॥
सञ्जीव्य कालमिष्टं च सशरीरो दिवं गतः
।
बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित्॥१२॥
अविक्षिन्नाम शत्रुजित् स वशे कृतवान् महीम्
।
विक्रमेण गुणैश्चैव पितेवासीत् स पार्थिवः॥१३॥
तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान्
।
पुत्रस्तमनुरक्ताभूत् पृथिवी सागरम्बरा॥१४॥
स्पर्धते स स्म सततं देवराजेन नित्यदा
।
वासवोऽपि मरुत्तेन स्पर्धते पाण्डुनन्दन॥१५॥
शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः
।
यतमानोऽपि यं शक्रो न विशेषयति स्म ह॥१६॥
सोऽशक्नुवन् विशेषाय समाहूय बृहस्पतिम्
।
उवाचेदं वचो देवैः सहितो हरिवाहनः॥१७॥
बृहस्पते मरुत्तस्य मा स्म कार्षीः कथञ्चन
।
दैवं कर्माथ पित्र्यं वा कर्तासि मम चेत् प्रियम्॥१८॥
अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते
।
इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः॥१९॥
कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम्
।
याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया॥२०॥
मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम्
।
परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम्॥२१॥
एवमुक्तः स कौरव्य देवराज्ञा बृहस्पतिः
।
मुहूर्तमिव सञ्चिन्त्य देवराजानमब्रवीत्॥२२॥
त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः
।
नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च॥२३॥
त्वमाजहर्थ देवानामेको वीरश्रियं पराम्
।
त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन॥२४॥
पौरोहित्यं कथं कृत्वा तव देवगणेश्वर
।
याजयेयमहं मर्त्य मरुत्तं पाकशासन॥२५॥
समाश्वसिहि देवेन्द्र नाहं मर्त्यस्य कर्हिचित्
।
ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम॥२६॥
हिरण्यरेता नोष्णः स्यात् परिवर्तेत मेदिनी
।
भासं तु न रविः कुर्यान्न तु सत्यं चलेन्मयि॥२७॥
वैशम्पायन उवाच।
बृहस्पतिवचः श्रुत्वा शक्रो विगतमत्सरः
।
प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा॥२८॥
व्यास उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
बृहस्पतेश्च संवादं मरुत्तस्य च धीमतः॥१॥
देवराजस्य समयं कृतमाङ्गिरसेन ह
।
श्रुत्वा मरुत्तो नृपतिर्यज्ञमाहारयत् परम्॥२॥
सङ्कल्प्य मनसा यज्ञं करन्धमसुतात्मजः
।
बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत्॥३॥
भगवन् यन्मया पूर्वमभिगम्य तपोधन
।
कृतोऽभिसन्धिर्यज्ञस्य भवतो वचनाद् गुरो॥४॥
तमहं यष्टुमिच्छामि सम्भाराः सम्भृताश्च मे
।
याज्योऽस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च॥५॥
बृहस्पतिरुवाच।
न कामये याजयितुं त्वामहं पृथिवीपते
।
वृतोऽस्मि देवराजेन प्रतिज्ञातं च तस्य मे॥६॥
मरुत्त उवाच।
पित्र्यमस्मि तव क्षेत्रं बहु मन्ये च ते भृशम्
।
तवास्मि याज्यतां प्राप्तो भजमानं भजस्व माम्॥७॥
बृहस्पति उवाच
अमर्त्यं याजयित्वाहं याजयिष्ये कथं नरम्
।
मरुत्त गच्छ वा मा वा निवृत्तोऽस्म्यद्य याजनात्॥८॥
न त्वां याजयिताऽस्म्यद्य वृणु यं त्वमिहेच्छसि
।
उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति॥९॥
व्यास उवाच।
एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत्
।
प्रत्यागच्छन् सुसंविग्नो ददर्श पथि नारदम्॥१०॥
देवर्षिणा समागम्य नारदेन स पार्थिवः
।
विधिवत् प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत्॥११॥
राजर्षे नातिहष्टोऽसि कच्चित् क्षेमं तवानघ
।
क्व गतोऽसि कुतश्चेदमप्रीतिस्थ मागतम्॥१२॥
श्रोतव्यं चेन्मया राजन् ब्रूहि मे पार्थिवर्षभ
।
व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप॥१३॥
एवमुक्तौ मरुत्तः स नारदेन महर्षिणा
।
विप्रलम्भमुपाध्यायात् सर्वमेव न्यवेदयत्॥१४॥
मरुत्त उवाच।
गतोऽस्म्याङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम्
।
यज्ञार्थमृत्विजं द्रष्टुं स च मां नाभ्यनन्दत॥१५॥
प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये
।
परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद॥१६॥
व्यास उवाच।
एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह
।
आविक्षितं महाराज वाचा सञ्जीवयन्निव॥१७॥
नारद उवाच।
राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः
।
चङ्क्रमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः॥१८॥
तं गच्छ यदि याज्यं त्वां न वाञ्छति बृहस्पतिः
।
प्रसन्नस्त्वां महातेजाः संवर्तो याजयिष्यति॥१९॥
मरुत्त उवाच।
सञ्जीवितोऽहं भवता वाक्येनानेन नारद
।
पश्येयं क्व न संवर्तं शंस मे वदतां वर॥२०॥
कथं च तस्मै वर्तेयं कथं मां न परित्यजेत्
।
प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे॥२१॥
नारद उवाच।
उन्मत्तवेषं विभ्रत्स चङ्क्रमीति यथासुखम्
।
वाराणस्यां महाराज दर्शनेप्सुर्महेश्वरम्॥२२॥
तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित्
।
तं दृष्ट्वा यो निवर्तेत संवर्तः स महीपते॥२३॥
तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान्
।
तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः॥२४॥
पृच्छेत् त्वां यदि केनाहं तवाख्यात इति स्म ह
।
ब्रूयास्त्वं नारदेनेति संवर्त कथितोऽसि मे॥२५॥
स चेत् त्वामनुयुञ्जीत ममानुगमनेप्सया
।
शंसेथा वह्निमारूढं मामपि त्वमशङ्कया॥२६॥
व्यास उवाच।
स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम्
।
अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसी पुरीम्॥२७॥
तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः
।
कुणपं स्थापयामास नारदस्य वचः स्मरन्॥२८॥
यौगपद्येन विप्रश्च पुरीद्वारमथाविशत्
।
ततः स कुणपं दृष्ट्वा सहसा संन्यवर्तत॥२९॥
स तं निवृत्तमालक्ष्य प्राञ्जलि: पृष्ठतोऽन्वगात्
।
आविक्षितो महीपालः संवर्तमुपशिक्षितुम्॥३०॥
स च तं विजने दृष्ट्वा पासुंभिः कर्दमेन च
।
श्लेष्मणा चैव राजानं ष्ठीवनैश्च समाकिरत्॥३१॥
स तथा बाध्यमानो वै संवर्तेन महीपतिः
।
अन्वगादेव तमृषिं प्राञ्जलिः सम्प्रसादयन्॥३२॥
ततो निवर्त्य संवर्तः परिश्रान्त उपाविशत्
।
शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम्॥३३॥
संवर्त उवाच।
कथमस्मि त्वया ज्ञातः केन वा कथितोऽस्मि ते
।
एतदाचक्ष्व मे तत्त्वमिच्छसे चेन्मम प्रियम्॥१॥
सत्यं ते ब्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः
।
मिथ्या च ब्रुवतो मूर्धा शतधा ते स्फुटिष्यति॥२॥
मरुत्त उवाच।
नारदेन भवान् मह्यमाख्यातो ह्यटता पथि
।
गुरुपुत्रौ ममेति त्वं ततो मे प्रीतिरुत्तमा॥३॥
संवर्त उवाच।
सत्यमेतद् भवानाह स मां जानाति सत्रिणम्
।
कथयस्व तदेतन्मे क्व न सम्प्रति नारदः॥४॥
मरुत्त उवाच।
भवन्तं कथयित्वा तु मम देवर्षिसत्तमः
।
ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम्॥५॥
व्यास उवाच।
श्रुत्वा तु पार्थिवस्यैतत् संवर्तः प्रमुदं गतः
।
एतावदहमप्येवं शक्नुयामिति सोऽब्रवीत्॥६॥
ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव
।
रूक्षया ब्राह्मणो राजन् पुनः पुनरथाब्रवीत्॥७॥
वातप्रधानेन मया स्वचित्तवशवर्तिना
।
एवं विकृतरूपेण कथं याजितुमिच्छसि॥८॥
भ्राता मम समर्थश्च वासवेन च सङ्गतः
।
वर्तते याजने चैव तेन कर्माणि कारय॥९॥
गार्हस्थ्यं चैव याज्याश्च सर्वा गृह्याश्च देवताः
।
पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम्॥१०॥
नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित्
।
याजयेयं कथञ्चिद्वै स हि पूज्यतमो मम॥११॥
स त्वं बृहस्पतिं गच्छ तमनुज्ञाप्य चाव्रज
।
ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि॥१२॥
मरुत्त उवाच।
बृहस्पतिं गतः पूर्वमहं संवर्त तच्छृणु
।
न मां कामयते याज्यमसौ वासवकाम्यया॥१३॥
अमरं याज्यमासाद्य याजयिष्ये न मानुषम्
।
शक्रेण प्रतिषिद्धोऽहं मरुत्तं मा स्म याजयः॥१४॥
स्पर्धते हि मया विप्र सदा हि स तु पार्थिवः
।
एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलसूदनः॥१५॥
स मामधिगतं प्रेम्णा याज्यत्वेन बुभूषति
।
देवराजं समाश्रित्य तद् विद्धि मुनिपुङ्गव॥१६॥
सोऽहमिच्छामि भवता सर्वस्वेनापि याजितुम्
।
कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः॥१७॥
न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन् बृहस्पतिम्
।
प्रत्याख्यातो हि तेनास्मि तथाऽनपकृते सति॥१८॥
संवर्त उवाच।
चिकीर्षसि यथाकामं सर्वमेतत् त्वयि ध्रुवम्
।
यदि सर्वानभिप्रायान् कर्ताऽसि मम पार्थिव॥१९॥
याज्यमानं मया हि त्वां बृहस्पतिपुरन्दरौ
।
द्विषेतां समभिक्रुद्धावेतदेकं समर्थयेः॥२०॥
स्थैर्यमत्र कथं मे स्यात् सत्त्वं निःसंशयं कुरु
।
कुपितस्त्वां न हीदानीं भस्म कुर्यां सबान्धवम्॥२१॥
मरुत्त उवाच।
यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः
।
तावल्लोकान्न लभेयं त्यजेयं सङ्गतं यदि॥२२॥
मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित्
।
विुषयैः सङ्गतं चास्तु त्यजेयं सङ्गतं यदि॥२३॥
संवर्त उवाच।
आविक्षित शुभा बुद्धिर्वर्ततां तव कर्मसु
।
याजनं हि ममाप्येव वर्तते हृदि पार्थिव॥२४॥
अभिधास्ये च ते राजन्नक्षयं द्रव्यमुत्तमम्
।
येन देवान् सगन्धर्वान्शक्रं चाभिभविष्यसि॥२५॥
न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः
।
विप्रियं तु करिष्यामि भ्रातुश्चेन्द्रस्य चोभयोः॥२६॥
गमयिष्यामि शक्रेण समतामपि ते ध्रुवम्
।
प्रियं च ते करिष्यामि सत्यमेतद् ब्रवीमि ते॥२७॥
संवर्त उवाच।
गिरेर्हिमवतः पृष्ठे मुञ्जवान् नाम पर्वतः
।
तप्यते यत्र भगवांस्तपो नित्यमुमापतिः॥१॥
वनस्पतीनां मूलेषु शृङ्गेषु विषमेषु च
।
गुहासु शैलराजस्य यथाकामं यथासुखम्॥२॥
उमासहायो भगवान् यत्र नित्यं महेश्वरः
।
आस्ते शूली महातेजा नानाभूतगणावृतः॥३॥
तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा
।
यमश्च वरुणश्चैव कुबेरश्च सहानुगः॥४॥
भूतानि च पिशाचाश्च नासत्यावपि चाश्विनौ
।
गन्धर्वाप्सरसश्चैव यक्षा देवर्षयस्तथा॥५॥
आदित्या मरुतश्चैव यातुधानाश्च सर्वशः
।
उपासन्ते महात्मानं बहुरूपमुमापतिम्॥६॥
रमते भगवांस्तत्र कुबेरानुचरैः सह
।
विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते॥७॥
श्रिया ज्वलन् दृश्यते वै बालादित्यसमद्युतिः
।
न रूपं शक्यते तस्य संस्थानं वा कदाचन॥८॥
निर्देष्टुं प्राणिभिः कैश्चित् प्राकृतैर्मांसलोचनैः
।
नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः॥९॥
न जरा क्षुत्पिपासे वा न मृत्युर्न भयं नृप
।
तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर॥१०॥
धातवो जातरूपस्य रश्मयः सवितुर्यथा
।
रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः॥११॥
चिकीर्षद्भिः प्रियं राजन् कुबेरस्य महात्मनः
।
तस्मै भगवते कृत्वा नमः शर्वाय वेधसे॥१२॥
रुद्राय शितिकण्ठाय पुरुषाय सुवर्चसे
।
कपर्दिने करालाय हर्यक्ष्णे वरदाय च॥१३॥
त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च
।
याम्यायाव्यक्तरूपाय सवृत्ते शङ्कराय च॥१४॥
क्षेम्याय हरिकेशाय स्थाणवे पुरुषाय च
।
हरिनेत्राय मुण्डाय क्रुद्धायोत्तरणाय च॥१५॥
भास्कराय सुतीर्थाय देवदेवाय रंहसे
।
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे॥१६॥
गिरिशाय प्रशान्ताय यतये चीरवाससे
।
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च॥१७॥
मृगव्याधाय महते धन्विनेऽथ भवाय च
।
वराय सोमवक्त्राय सिद्धमन्त्राय चक्षुषे॥१८॥
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम्
।
लेलिहानाय गोष्ठाय सिद्धमन्त्राय वृष्णये॥१९॥
पशूनां पतये चैव भूतानां पतये नमः
।
वृषाय मातृभक्ताय सेनान्ये मध्यमाय च॥२०॥
सुवहस्ताय पतये धन्विने भार्गवाय च
।
अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह॥२१॥
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च
।
महाद्युतयेऽनङ्गाय सर्वाय पतये विशाम्॥२२॥
विलोहिताय दीप्ताय दीप्ताक्षाय महौजसे
।
वसुरेतः सुवपुषे पृथवे कृत्तिवाससे॥२३॥
कपालमालिने चैव सुवर्णमुकुटाय च
।
महादेवाय कृष्णाय त्र्यम्बकायानघाय च॥२४॥
क्रोधनायानृशंसाय मृदवे बाहुशालिने
।
दण्डिने तप्तपसे तथैवाक्रूरकर्मणे॥२५॥
सहस्रशिरसे चैव सहस्रचरणाय च
।
नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे॥२६॥
पिनाकिनं महादेवं महायोगिनमव्ययम्
।
त्रिशूलहस्तं वरदं त्र्यम्बकं भुवनेश्वरम्॥२७॥
त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम्
।
प्रभवं सर्वभूतानां धारणं धरणीधरम्॥२८॥
ईशानं शङ्करं सर्वे शिवं विश्वेश्वरं भवम्
।
उमापतिं पशुपतिं विश्वरूपं महेश्वरम्॥२९॥
विरूपाक्षं दशभुजं दिव्यगोवृषभध्वजम्
।
उग्रं स्थाणुं शिवं रौद्रं शर्वं गौरीशमीश्वरम्॥३०॥
शितिकण्ठमजं शुक्रं पृथु पृथुहरं वरम्
।
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम्॥३१॥
प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम्
।
शरण्यं शरणं याहि महादेवं चतुर्मुखम्॥३२॥
एवं कृत्वा नमस्तस्मै महादेवाय रंहसे
।
महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि॥३३॥
सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः
।
इत्युक्तः स वचस्तेन चक्रे कारन्धमात्मजः॥३४॥
ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम्
।
सौवर्णानि च भाण्डानि सञ्चक्रुस्तत्र शिल्पिनः॥३५॥
बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः
।
समृद्धिपतिदेवेभ्य: सन्तापमकरोद् भृशम्॥३६॥
स तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम्
।
भविष्यति हि मे शत्रुः संवर्तो वसुमानिति॥३७॥
तं श्रुत्वा भृशसन्तप्तं देवराजो बृहस्पतिम्
।
अधिगम्यामरवृतः प्रोवाचेदं वचस्तदा॥३८॥
इन्द्र उवाच।
कच्चित्सुखं स्वपिषि त्वं बृहस्पते कच्चिन्मनोज्ञाः परिचारकास्ते
।
कच्चिद्देवानां सुखकामोऽसि विप्र कच्चिद्देवास्त्वां परिपालयन्ति॥१॥
बृहस्पतिरुवाच।
सुखं शये शयने देवराज तथा मनोज्ञाः परिचारका मे
।
तथा देवानां सुखकामोऽस्मि नित्यं देवाश्च मां सुभृशं पालयन्ति॥२॥
इन्द्र उवाच।
कुतो दुःखं मानसं देहजं वा पाण्डुर्विवर्णश्च कुतस्त्वमद्य
।
आचक्ष्व मे ब्राह्मण यावदेतान् निहन्मि सर्वांस्तव दुःखकर्तॄन्॥३॥
बृहस्पतिरुवाच।
मरुत्तमाहुर्मघवन् यक्ष्यमाणं महायज्ञेनोत्तमदक्षिणेन
।
संवर्तो याजयतीति मे श्रुतं तदिच्छामि न स तं याजयेत॥४॥
इन्द्र उवाच।
सर्वान् कामाननुयातोऽसि विप्र यस्त्वं देवानां मन्त्रवित्सुपुरोधाः
।
उभौ च ते जरामृत्यू व्यतीतौ किं संवर्तस्तव कर्ताऽद्य विप्र॥५॥
बृहस्पतिरुवाच।
देवैः सह त्वमसुरान् प्रणुद्य जिघांससे चाप्युत सानुबन्धान्
।
यं यं समृद्धं पश्यसि तत्र तत्र दुःखं सपत्नेषु समृद्धिभावः॥६॥
अतोऽस्मि देवेन्द्र विवर्णरूपः सपत्नो मे वर्धते तन्निशम्य
।
सर्वोपायैर्मघवन् संनियच्छ संवर्त वा पार्थिवं वा मरुत्तम्॥७॥
इन्द्र उवाच।
एहि गच्छ प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते
।
अयं वै त्वां याजयित्वा बृहस्पतिस्तथाऽमरं चैव करिष्यतीति॥८॥
अग्निरुवाच।
अहं गच्छामि मघवन् दूतोऽद्य बृहस्पतिं परिदातुं मरुत्ते
।
वाचं सत्यां पुरुहूतस्य कर्तुं बृहस्पतेश्चापचितिं चिकीर्षुः॥९॥
व्यास उवाच।
ततः प्रायाद् धूमकेतुर्महात्मा बलानि सर्वाणि वीरुधश्चाप्यमृद्नन्
।
कामाद्धिमान्ते परिवर्तमानः काष्ठातिगो मातरिश्वेव नर्दन्॥१०॥
मरुत्त उवाच।
आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम्
।
आसनं सलिलं पाद्यं गां चोपानय वै मुने॥११॥
अग्निरुवाच।
आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ
।
इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम्॥१२॥
मरुत्त उवाच।
कच्चिच्छ्रीमान् देवराजः सुखी च कच्चिच्चास्मान् प्रीयते धूमकेतो
।
कच्चिद्देवा अस्य वशे यथावत् प्रब्रूहि त्वं मम कात्स्न्येन देव॥१३॥
अग्निरुवाच
शक्रो भृशं सुसुखी पार्थिवेन्द्र प्रीतिं चेच्छत्यजरां वै त्वया सः
।
देवाश्च सर्वे वशगास्तस्य राजन् सन्देशं त्वं शृणु मे देवराज्ञः॥१४॥
यदर्थं मां प्राहिणोत् त्वत्सकाशं बृहस्पतिं परिदातुं मरुत्ते
।
अयं गुरुर्याजयतां नृप त्वां मर्त्यं सन्तममरं त्वां करोतु॥१५॥
मरुत्त उवाच।
संवर्गोऽयं याजयिता द्विजो मां बृहस्पतेरञ्जलिरेष तस्य
।
न चैवासौ याजयित्वा महेन्द्र मर्त्यं सन्तं याजयन्नद्य शोभेत्॥१६॥
अग्निरुवाच।
ये वै लोका देवलोके महान्त सम्प्राप्स्यसे तान्देवराजप्रसादात्
।
त्वां चेदसौ याजयेद्वै बृहस्पतिर्नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः॥१७॥
तथा लोका मानुषा ये च दिव्याः प्रजापतेश्चापि ये वै महान्तः
।
ते ते जिता देवराज्यं च कृत्स्नं बृहस्पतिर्याजयेच्चेन्नरेन्द्र॥१८॥
संवर्त उवाच।
मा स्मैव त्वं पुनरागाः कथञ्चित् बृहस्पतिं परिदातुं मरुत्ते
।
मा त्वां धक्ष्ये चक्षुषा दारुणेन सङ्क्रुद्धोऽहं पावक त्वं निबोध॥१९॥
व्यास उवाच।
ततो देवानगमद्धूमकेतुर्दाहाद् भीतो व्यथितोऽश्वत्थपर्णवत्
।
तं वै दृष्ट्वा प्राह शक्रो महात्मा बृहस्पतेः सन्निधौ हव्यवाहम्॥२०॥
यस्त्वं गतः प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते
।
तत्किं प्राह स नृपो यक्ष्यमाण: कच्चिद् वचः प्रतिगृह्णाति तच्च॥२१॥
अग्निरुवाच।
न ते वाचं रोचयते मरुत्तो बृहस्पतेरञ्जलिं प्राहिणोत् सः
।
संवर्तो मां याजयितेत्युवाच पुनः पुनः स मया याच्यमानः॥२२॥
उवाचेदं मानुषा ये च दिव्याः प्रजापतेर्ये च लोका महान्तः
।
तांश्चेल्लभेयं संविदं तेन कृत्वा तथापि नेच्छेयमिति प्रतीतः॥२३॥
इन्द्र उवाच।
पुनर्गत्वा पार्थिवं त्वं समेत्य वाक्यं मदीयं प्रापय स्वार्थयुक्तम्
।
पुनर्यद्युक्तो न करिष्याते वचस्त्वत्तो वज्रं सम्प्रहर्तास्मि तस्मै॥२४॥
अग्निरुवाच।
गन्धर्वराड् यात्वयं तत्र दूतो बिभेम्यहं वासव तत्र गन्तुम्
।
संरब्धो मामब्रवीत् तीक्ष्णरोषः संवर्तो वाक्यं चरितब्रह्मचर्यः॥२५॥
यद्यागच्छः पुनरेवं कथञ्चिद् बृहस्पतिं परिदातुं मरुत्ते
।
दहेयं त्वां चक्षुषा दारुणेन सङ्क्रुद्ध इत्येतदवैहि शक्र॥२६॥
शक्र उवाच।
त्वमेवान्यान् दहसे जातवेदो न हि त्वदन्यो विद्यते भस्मकर्ता
।
त्वत्संस्पर्शात् सर्वलोको बिभेति अश्रद्धेयं वदसे हव्यवाह॥२७॥
अग्निरुवाच।
दिवं देवेन्द्र पृथिवीं च सर्वां संवेष्टयेस्त्वं स्वबलेनैव शक्र
।
एवंविधस्येह सतस्तवासौ कथं वृत्रस्त्रिदिवं प्राग्जहार॥२८॥
इन्द्र उवाच।
न गण्डिकाकारयोगं करेऽणु न चारिसोमं प्रपिवामि वह्ने
।
न क्षीणशक्तौ प्रहरामि वज्रं को मेऽसुखाय प्रहरेत मर्त्यः॥२९॥
प्रव्राजयेयं कालकेयान् पृथिव्यामपाकर्षन् दानवानन्तरिक्षात्
।
दिवः प्रह्लादमवसानमानयं को मेऽसुखाय प्रहरेत मानवः॥३०॥
अग्निरुवाच।
यत्र शर्यातिं च्यवनो याजियिष्यन् सहाश्विभ्यां सोममगृह्णदेकः
।
तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ताच्छर्यातियज्ञं स्मर तं महेन्द्र॥३१॥
वज्रं गृहीत्वा च पुरन्दर त्वं सम्प्राहार्षीश्च्यवनस्यातिघोरम्
।
स ते विप्रः सह वज्रेण बाहुमपागृह्णात् तपसा जातमन्युः॥३२॥
ततो रोषात् सर्वतो घोररूपं सपत्नं ते जनयामास भूयः
।
मदं नामासुरं विश्वरूपं यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः॥३३॥
हनुरेका जगतीस्था तथैका दिवं गता महतो दानवस्य
।
सहस्रं दन्तानां शतयोजनानां सुतीक्ष्णानां घोररूपं बभूव॥३४॥
वृत्ताः स्थूला रजतस्तम्भवर्णा दंष्ट्राश्चतस्रो द्वे शते योजनानाम्
।
स त्वां दन्तान्विदशन्नभ्यधावज्जिघांसया शूलमुद्यम्य घोरम्॥३५॥
अपश्यस्त्वं तं तदा घोररूपं सर्वे वै त्वां ददृशुर्दर्शनीयम्
।
यस्माद्भीतः प्राञ्जलिस्त्वं महर्षिमागच्छेथाः शरणं दानवघ्न॥३६॥
क्षात्राद् बलाद् ब्रह्मबलं गरीयो न ब्रह्मतः किञ्चिदन्यद् गरीयः
।
सोऽहं जानन् ब्रह्मतेजो यथावन्न संवर्तं जेतुमिच्छामि शक्र॥३७॥
इन्द्र उवाच।
एवमेतद् ब्रह्मबलं गरीयो न ब्राह्मणात् किञ्चिदन्यद् गरीयः
।
आविक्षितस्य तु बलं न मृष्ये वज्रमस्मै प्रहरिष्यामि घोरम्॥१॥
धृतराष्ट्र प्रहितो गच्छ मरुत्तं संवर्तेन सङ्गतं तं वदस्व
।
बृहस्पतिं त्वमुपशिक्षस्व राजन् वज्रं वा ते प्रहरिष्यामि घोरम्॥२॥
व्यास उवाच। ततो गत्वा धृतराष्ट्रो नरेन्द्रं प्रोवाचेदं वचनं वासवस्य॥३॥
गन्धर्वं मां धृतराष्ट्रं निबोध त्वामागतं वक्तुकामं नरेन्द्र
।
ऐन्द्रं वाक्यं शृणु मे राजसिंह यत् प्राह लोकाधिपतिर्महात्मा॥४॥
बृहस्पतिं याजकं त्वं वृणीष्व वज्रं वा ते प्रहरिष्यामि घोरम्
।
वचश्चेदेतन्न करिष्यसे मे प्राहैतदेतावदचिन्त्यकर्मा॥५॥
मरुत्त उवाच।
त्वं चैवैतद्वेत्थ पुरन्दरश्च विश्वेदेवा वसवश्चाश्विनौ च
।
मित्रद्रोहे निष्कृतिर्नास्ति लोके महत्पापं ब्रह्महत्यासमं तत्॥६॥
बृहस्पतिर्याजयतां महेन्द्र देवश्रेष्ठं वज्रभृतां वरिष्ठम्
।
संवर्तो मां याजयिताऽद्य राजन्न ते वाक्यं तस्य वा रोचयामि॥७॥
गन्धर्व उवाच।
घोरो नादः श्रूयतां वासवस्य नभस्तले गर्जतो राजसिंह
।
व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः क्षेमं राजंश्चिन्त्यतामेष कालः॥८॥
व्यास उवाच।
इत्येवमुक्तो धृतराष्ट्रेण राजन् श्रुत्वा नादं नदतो वासवस्य
।
तपोनित्यं धर्मविदां वरिष्ठं संवर्तं तं ज्ञापयामास कार्यम्॥९॥
मरुत्त उवाच।
इममात्मानं प्लावमानमातादध्वा दूरं तेन न दृश्यतेऽद्य
।
प्रपद्येऽहं शर्म विपेन्द्र त्वत्तः प्रयच्छ तस्मादभयं विप्रमुख्य॥१०॥
अयमायाति वै वज्री दिशो विद्योतयन् दश
।
अमानुषेण घोरेण सदस्यास्त्रासिता हि नः॥११॥
संवर्त उवाच।
भयं शक्राद्व्येतु ते राजसिंह प्रणोत्स्येऽहं भयमेतत् सुघोरम्
।
संस्तम्भिन्या विद्यया क्षिप्रमेव मा भैस्त्वमस्याभिभवात् प्रतीतः॥१२॥
अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप
।
सर्वेषामेव देवानां क्षयितान्यायुधानि मे॥१३॥
दिशो वज्रं व्रजतां वायुरेतु वर्षं भूत्वा वर्षतां काननेषु
।
आपः प्लवन्त्वन्तरिक्षे वृथा च सौदामनी दृश्यते मापि भैस्त्वम्॥१४॥
वह्निर्देवस्त्रातु वा सर्वतस्ते कामान् सर्वान् वर्षतु वासवो वा
।
वज्रं तथा स्थापयतां वधाय महाघोरं प्लवमानं जलौघैः॥१५॥
मरुत्त उवाच।
घोरः शब्दः श्रूयते वै महास्वनो वज्रस्यैष सहितो मारुतेन
।
नआत्मा हि मे प्रव्यथते मुहुर्मुहुर्न मे स्वास्थ्यं जायते चाद्य विप्र॥१६॥
संवर्त उवाच।
वज्रादुग्राद् व्येतु भयं तवाद्य वातो भूत्वा हन्मि नरेन्द्र वज्रम्
।
भयं त्यक्त्वा वरमन्यं वृणीष्व कं ते कामं मनसा साधयामि॥१७॥
मरुत्त उवाच।
इन्द्रः साक्षात् सहसाभ्येतु विप्र हविर्यज्ञे प्रतिगृह्णातु चैव
।
स्वं स्वं धिष्ण्यं चैव जुषन्तु देवा हुतं सोमं प्रतिगृह्णन्तु चैव॥१८॥
संवर्त उवाच।
अयमिन्द्रो हरिभिरायाति राजन् देवैः सर्वैस्त्वरितैः स्तूयमानः
।
मन्त्राहूतो यज्ञमिमं मयाद्य पश्यस्वैनं मन्त्रविस्रस्तकायम्॥१९॥
अग्निरुवाच।
ततो देवैः सहितो देवराजो रथे युंक्त्वा तान्हरीन् वाजिमुख्यान्
।
आयाद्यज्ञमथ राज्ञः पिपासुराविक्षितस्याप्रमेयस्य सोमम्॥२०॥
तमायान्तं सहितं देवसङ्घैः प्रत्युद्ययौ स पुरोधा मरुत्तः
।
चक्रे पूजां देवराजाय चाग्र्यां यथाशास्त्रं विधिवत्प्रीयमाणः॥२१॥
संवर्त उवाच।
स्वागतं ते पुरुहूतेह विद्वन् यज्ञोऽप्ययं सन्निहिते त्वयीन्द्र
।
शोशुभ्यते बलवृत्रघ्न भूयः पिबस्व सोमं सुतमुद्यतं मया॥२२॥
मरुत्त उवाच।
शिवेन मां पश्य नमश्च तेऽस्तु प्राप्तो यज्ञः सफलं जीवितं मे
।
अयं यज्ञं कुरुते मे सुरेन्द्र बृहस्पतेरवरजो विप्रमुख्यः॥२३॥
इन्द्र उवाच।
जानामि ते गुरुमेनं तपोधनं बृहस्पतेरनुजं तिग्मतेजसम्
।
यस्याह्वानादागतोऽहं नरेन्द्र प्रीतिर्मेऽद्य त्वयि मन्युः प्रनष्टः॥२४॥
संवर्त उवाच।
यदि प्रीतस्त्वमसि वै देवराज तस्मात्स्वयं शाधि यज्ञे विधानम्
।
स्वयं सर्वान् कुरु भागान् सुरेन्द्र जानात्वयं सर्वलोकश्च देव॥२५॥
व्यास उवाच।
एवमुक्तस्त्वाङ्गिरसेन शक्रः समादिदेश स्वयमेव देवान्
।
सभाः क्रियन्तामावसथाश्च मुख्याः सहस्रशश्चित्रभूताः समृद्धाः॥२६॥
क्लृप्ताः स्थूणाः कुरुतारोहणानि गन्धर्वाणामप्सरसां च शीघ्रम्
।
यत्र नृत्येरन्नप्सरसः समस्ताः स्वर्गोपमः क्रियतां यज्ञवाटः॥२७॥
इत्युक्तास्ते चक्रुराशु प्रतीता दिवौकसः शक्रवाक्यान्नरेन्द्र
।
ततो वाक्यं प्राह राजानमिन्द्रः प्रीतो राजन् पूज्यमानो मरुत्तम्॥२८॥
एष त्वयाहमिह राजन् समेत्य ये चाप्यन्ये तव पूर्वे नरेन्द्र
।
सर्वाश्चान्या देवता: प्रीयमाणा हविस्तुभ्यं प्रतिगृह्णन्तु राजन्॥२९॥
आग्नेयं वै लोहितमालभन्तां वैश्वदेवं बहुरूपं हि राजन्
।
नीलं चोक्षाणं मेध्यमप्यालभन्तां चलच्छिश्नं सम्प्रदिष्टं द्विजायाः॥३०॥
ततो यज्ञो ववृधे तस्य राजन् यत्र देवाः स्वयमन्नानि जह्रुः
।
यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः सदस्योऽभूद्धरिमान् देवराजः॥३१॥
ततः संवर्तश्चैत्यगतो महात्मा यथा वह्निः प्रज्वलितो द्वितीयः
।
हवींष्युच्चैराह्वयन् देवसङ्घान् जुहावाग्नौ मन्त्रवत् सुप्रतीतः॥३२॥
ततः पीत्वा बलभित् सोममग्र्यं ये चाप्यन्ये सोमपा देवसङ्घाः
।
सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन यथाजोषं तर्पिताः प्रीतिमन्तः॥३३॥
ततो राजा जातरूपस्य राशीन् पदे पदे कारयामास हृष्टः
।
द्विजातिभ्यो विसृजन् भूरि वित्तं रराज वित्तेश इवारिहन्ता॥३४॥
ततो वित्तं विविधं सन्निधाय यथोत्साहं कारयित्वा च कोषम्
।
अनुज्ञातो गुरुणा सन्निवृत्य शशास गामखिलां सागरान्ताम्॥३५॥
एवं गुण: सम्बभूवेह राजा यस्य क्रतो तत् सुवर्णं प्रभूतम्
।
तत् त्वं समादाय नरेन्द्र वित्तं यजस्य देवांस्तर्पयानो निवापैः॥३६॥
वैशम्पायन उवाच।
ततो राजा पाण्डवो हृष्टरूप: श्रुत्वा वाक्यं सत्यवत्याः सुतस्य
।
मनश्चक्रे तेन वित्तेन यष्टुं ततोऽमात्यैर्मन्त्रयामास भूयः॥३७॥
वैशम्पायन उवाच।
इत्युक्ते नृपतौ तस्मिन् व्यासेनाद्भुतकर्मणा
।
वासुदेवो महातेजास्ततो वचनमाददे॥१॥
तं नृपं दीनमनसं निहतज्ञातिबान्धवम्
।
उपप्लुतमिवादित्यं सधूममिव पावकम्॥२॥
निर्विण्णमनसं पार्थं ज्ञात्वा वृष्णिकुलोद्वहः
।
आश्वासयन् धर्मसुतं प्रवक्तुमुपचक्रमे॥३॥
वासुदेव उवाच।
सर्वं जिह्यं मृत्युपदमार्जवं ब्रह्मणः पदम्
।
एतावान् ज्ञानविषयः किं प्रलापः करिष्यति॥४॥
नैव ते निष्ठितं कर्म नैव ते शत्रवो जिताः
।
कथं शत्रुं शरीरस्थमात्मनो नावबुध्यसे॥५॥
अत्र ते वर्तयिष्यामि यथाधर्मं यथाश्रुतम्
।
इन्द्रस्य सह वृत्रेण यथा युद्धमवर्तत॥६॥
वृत्रेण पृथिवी व्याप्ता पुरा किल नराधिप
।
दृष्ट्वा स पृथिवीं व्याप्तां गन्धस्य विषये हते॥७॥
धराहरणदुर्गन्धो विषयः समपद्यत
।
शतक्रतुश्चुकोपाथ गन्धस्य विषये हृते॥८॥
वृत्रस्य स ततः क्रुद्धो घोरं वज्रमवासृजत्
।
स वध्यमानो वज्रेण सुभृशं भूरितेजसा॥९॥
विवेश सहसा तोयं जग्राह विषयं ततः
।
अप्सु वृत्रगृहीतासु रसे च विषये हृते॥१०॥
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्
।
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा॥११॥
विवेश सहसा ज्योतिर्जग्राह विषयं ततः
।
व्याप्ते ज्योतिषि वृत्रेण रूपेऽथ विषये हृते॥१२॥
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्
।
स वध्यमानो वज्रेण तस्मिन्नमिततेजा॥१३॥
विवेश सहसा वायुं जग्राह विषयं ततः
।
व्याप्ते वायौ तु वृत्रेण स्पर्शेऽथ विषये हृते॥१४॥
शतक्रतुरतिक्रुद्धस्तत्र वज्रमवासृजत्
।
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा॥१५॥
आकाशमभिदुद्राव जग्राह विषयं ततः
।
आकाशे वृत्रभूतेऽथ शब्दे च विषये हृते॥१६॥
शतक्रतुरभिक्रुद्धस्तत्र वज्रमवासृजत्
।
स वध्यमानो वज्रेण तस्मिन्नमिततेजसा॥१७॥
विवेश सहसा शक्रं जग्राह विषयं ततः
।
तस्य वृत्रगृहीतस्य मोहः समभवन्महान्॥१८॥
रथन्तरेण तं तात वसिष्ठः प्रत्यबोधयत्
।
ततो वृत्रं शरीरस्थं जघान भरतर्षभ
।
शतक्रतुरदृश्येन वज्रेणेतीह नः श्रुतम्॥१९॥
इदं धर्म्यं रहस्यं वै शक्रेणोक्तं महर्षिषु
।
ऋषिभिश्च मम प्रोक्तं तन्निबोध जनाधिप॥२०॥
वासुदेव उवाच।
द्विविधो जायते व्याधिः शारीरो मानसस्तथा
।
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपपद्यते॥१॥
शरीरे जायते व्याधिः शारीरः स निगद्यते
।
मानसे जायते व्याधिर्मानसस्तु निगद्यते॥२॥
शीतोष्णे चैव वायुश्च गुणा राजन् शरीरजाः
।
तेषां गुणानां साम्यं चेत् तदाहुः स्वस्थलक्षणम्॥३॥
उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते
।
सत्त्वं रजस्तमश्चेति त्रय आत्मगुणाः स्मृताः॥४॥
तेषां गुणानां साम्यं चेत् तदाहुः स्वस्थलक्षणम्
।
तेषामन्यतमोत्सेके विधानमुपदिश्यते॥५॥
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते
।
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति
।
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति॥६॥
स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य च
।
स्मर्तुमिच्छसि कौन्तेय किमन्यद्दुःखविभ्रमात्॥७॥
अथवा ते स्वभावोऽयं येन पार्थावकृष्यसे
।
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम्
।
मिषतां पाण्डवेयानां न तस्य स्मर्तुमिच्छसि॥८॥
प्रव्राजनं च नगरादजिनैश्च विवासनम्
।
महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि॥९॥
जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः
।
सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि॥१०॥
पुनरज्ञातचर्यायां कीचकेन पदा वधः
।
याज्ञसेन्यास्तथा पार्थ न तस्य स्मर्तुमिच्छसि॥११॥
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिन्दम
।
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम्॥१२॥
तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ
।
परमव्यक्तरूपस्य पारं युक्त्या स्वकर्मभिः॥१३॥
यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः
।
आत्मनैकेन योद्धव्यं तत् ते युद्धमुपस्थितम्॥१४॥
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि
।
एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि॥१५॥
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम्
।
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम्॥१६॥
वासुदेव उवाच।
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत
।
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा॥१॥
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृद्ध्यतः
।
यो धर्मो यत्सुखं चैव द्विषतामस्तु तत् तथा॥२॥
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्
।
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम्॥३॥
ब्रह्ममृत्यू ततो राजन्नात्मन्येव व्यवस्थितौ
।
अदृश्यमानौ भूतानि योधयेतामसंशयम्॥४॥
अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत
।
भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते॥५॥
लब्ध्वा हि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम्
।
ममत्वं यस्य नैव स्यात् किं तया स करिष्यति॥६॥
अथवा वसतः पार्थ वने वन्येन जीवतः
।
ममता यस्य द्रव्येषु मृत्योरास्ये स वर्तते॥७॥
बाह्यान्तराणां शत्रूणां स्वभावं पश्य भारत
।
यन्न पश्यति तद्भूतमुच्यते स महाभयात्॥८॥
कामात्मानं न प्रशंसन्ति लोके नेहाकामा काचिदस्ति प्रवृत्तिः
।
सर्वे कामा मनसोऽङ्गप्रभूता यान्पण्डितः संहरते विचिन्त्य॥९॥
भूयो भूयो जन्मनोऽभ्यासयोगाद्योगी योगं सारमार्ग विचिन्त्य
।
दानं च वेदाध्ययनं तपश्च काम्यानि कर्माणि च वैदिकानि॥१०॥
व्रतं यज्ञान्नियमान् ध्यानयोगान् कामेन यो नारभते विदित्वा
।
यद्यच्चायं कामयते स धर्मो न यो धर्मो नियमस्तस्य मूलम्॥११॥
अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः
।
शृणु सङ्कीर्त्यमानास्ता अखिलेन युधिष्ठिर
।
नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित्॥१२॥
यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम्
।
तस्य तस्मिन् प्रहरणे पुनः प्रादुर्भवाम्यहम्॥१३॥
यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः
।
जङ्गमेष्विव धर्मात्मा पुनः प्रादुर्भवाम्यहम्॥१४॥
यो मां प्रयतते नित्यं वेदैर्वेदान्तसाधनैः
।
स्थावरेष्विव भूतात्मा तस्य प्रादुर्भवाम्यहम्॥१५॥
यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः
।
भावो भवामि तस्याहं स च मां नावबुध्यते॥१६॥
यो मां प्रयतते हन्तुं तपसा संशितव्रतः
।
ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम्॥१७॥
यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः
।
तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च
।
अवध्यः सर्वभूतानामहमेकः सनातनः॥१८॥
तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः
।
धर्मे कुरु महाराज तत्र ते स भविष्यति॥१९॥
यजस्व वाजिमेधेन विधिवद् दक्षिणावता
।
अन्यैश्च विविधैर्यज्ञैः समृद्धराप्तदक्षिणैः॥२०॥
मा ते व्यथास्तु निहतान् बन्धून्वीक्ष्य पुनः पुनः
।
न शक्यास्ते पुनर्द्रष्टुं ये हताऽस्मिन् रणाजिरे॥२१॥
स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः
।
कीर्तिं लोके परां प्राप्य गतिमग्र्यां गमिष्यसि॥२२॥
वैशम्पायन उवाच।
एवं बहुविधैर्वाक्यैर्मुनिभिस्तैस्तपोधनैः
।
समाश्वस्यत राजर्षिर्हतबन्धुर्युधिष्ठिरः॥१॥
सोऽनुनीतो भगवता विष्टरश्रवसा स्वयम्
।
द्वैपायनेन कृष्णेन देवस्थानेन वा विभुः॥२॥
नारदेनाथ भीमेन नकुलेन च पार्थिव
।
कृष्णया सहदेवेन विजयेन च धीमता॥३॥
अन्यैश्च पुरुषव्याघ्रैर्ब्राह्मणैः शास्त्रदृष्टिभिः
।
व्यजहाच्छोकजं दुःखं सन्तापं चैव मानसम्॥४॥
अर्चयामास देवांश्च ब्राह्मणांश्च युधिष्टिरः
।
कृत्वाथ प्रेतकार्याणि बन्धूनां स पुनर्नृपः॥५॥
अन्वशासच्च धर्मात्मा पृथिवीं सागराम्बराम्
।
प्रशान्तचेताः कौरव्यः स्वराज्यं प्राप्य केवलम्
।
व्यासं च नारदं चैव तांश्चान्यानब्रवीन्नृपः॥६॥
आश्वासितोऽहं प्राग्वृद्धैर्भवद्भिर्मुनिपुङ्गवैः
।
न सूक्ष्ममपि मे किञ्चिद्व्यलीकमिह विद्यते॥७॥
अर्थश्च सुमहान् प्राप्तो येन यक्ष्यामि देवताः
।
पुरस्कृत्याद्य भवतः समानेष्यामहे मखम्॥८॥
हिमवन्तं त्वया गुप्ता गमिष्यामः पितामह
।
बह्वाश्चर्यो हि देशः स श्रूयते द्विजसत्तम॥९॥
तथा भगवता चित्रं कल्याणं बहुभाषितम्
।
देवर्षिणा नारदेन देवस्थानेन चैव ह॥१०॥
नाभागधेयः पुरुषः कश्चिदेवंविधान् गुरून्
।
लभते व्यसनं प्राप्य सुहृदः साधुसम्मतान्॥११॥
एवमुक्तास्तु राज्ञा सर्व एव महर्षयः
।
अभ्यनुज्ञाप्य राजानं तथोभौ कृष्णफाल्गुनौ॥१२॥
पश्यतामेव सर्वेषां तत्रैवादर्शनं ययुः
।
ततो धर्मसुतो राजा तत्रैवोपाविशत् प्रभुः॥१३॥
एवं नातिमहान् कालः स तेषां संन्यवर्तत
।
कुर्वतां शौचकार्याणि भीष्मस्य निधने तदा॥१४॥
महादानानि विप्रेभ्यो ददतामौर्ध्वदेहिकम्
।
भीष्मकर्णपुरोगाणां कुरूणां कुरुसत्तम॥१५॥
सहितो धृतराष्ट्रेण स ददावौर्ध्वदेहिकम्
।
ततो दत्वा बहुधनं विप्रेभ्यः पाण्डवर्षभः॥१६॥
धृतराष्ट्रं पुरस्कृत्य विवेश गजसाह्वयम्
।
स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम्
।
अन्वशाद्वै स धर्मात्मा पृथिवीं भ्रातृभिः सह॥१७॥
जनमेजय उवाच।
विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम
।
राष्ट्रे किं चक्रतुर्वीरौ वासुदेवधनञ्जयौ॥१॥
वैशम्पायन उवाच।
विजिते पाण्डवै राजन् प्रशान्ते च विशाम्पते
।
राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनञ्जयौ॥२॥
विजह्राते मुदा युक्तौ दिवि देवेश्वराविव
।
तौ वनेषु विचित्रेषु पर्वतेषु ससानुपु॥३॥
तीर्थेषु चैव पुण्येषु पल्वलेषु नदीषु च
।
चङ्क्रम्यमाणौ संहृष्टावश्विनाविव नन्दने॥४॥
इन्द्रप्रस्थे महात्मानौ रेमतुः कृष्णपाण्डवौ
।
प्रविश्य तां सभां रम्यां विजह्राते च भारत॥५॥
तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव
।
कथायोगे कथायोगे कथयामासतुः सदा॥६॥
ऋषीणां देवतानां च वंशांस्तावाहतुः सदा
।
प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ॥७॥
मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः
।
निश्चयज्ञः स पार्थाय कथयामास केशवः॥८॥
पुत्रशोकाभिसन्तप्तं ज्ञातीनां च सहस्रशः
।
कथाभिः शमयामास पार्थं शौरिर्जनार्दन॥९॥
स तमाश्वास्य विधिवद् विज्ञानज्ञो महातपाः
।
अपहृत्यात्मनो भारं विशश्रामेव सात्वतः॥१०॥
तत: कथान्ते गोविन्दो गुडाकेशमुवाच ह
।
सान्त्वयन् श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः॥११॥
वासुदेव उवाच।
विजितेयं धरा कृत्स्रा सव्यसाचिन् परन्तप
।
त्वद्बाहुबलमाश्रित्य राज्ञा धर्मसुतेन ह॥१२॥
असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः
।
भीमसेनानुभावेन यमयोश्च नरोत्तम॥१३॥
धर्मेण राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम्
।
धर्मेण निहत: सङ्ख्ये स च राजा सुयोधनः॥१४॥
अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः
।
धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः॥१५॥
प्रशान्तामखिलां पार्थ प्रथिवीं पृथिवीपतिः
।
भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह॥१६॥
रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव
।
किमु यत्र जनोऽयं वै पृथा चामित्रकर्षण॥१७॥
यत्र धर्मसुतो राजा यत्र भीमो महाबलः
।
यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम॥१८॥
तथैव स्वर्गकल्पेषु सभोद्देशेषु कौरव
।
रमणीयेषु पुण्येषु सहितस्य त्वयानघ॥१९॥
कालो महांस्त्वतीतो मे शूरसूनुमपश्यतः
।
बलदेवं च कौरव्य तथान्यान् वृष्णिपुङ्गवान्॥२०॥
साऽहं गन्तुमभीप्सामि पुरीं द्वारावतीं प्रति
।
रोचतां गमनं मह्यं तवापि पुरुषर्षभ॥२१॥
उक्तो बहुविधं राजा तत्र तत्र युधिष्ठिरः
।
सह भीष्मेण यद्युक्तमस्माभिः शोककारिते॥२२॥
शिष्टो युधिष्ठिरोऽस्माभिः शास्ता सन्नपि पाण्डवः
।
तेन तत्तु वचः सम्यग्गृहीतं सुमहात्मना॥२३॥
धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि
।
सत्यं धर्मो मतीश्चाग्र्या स्थितिश्च सततं स्थिरा॥२४॥
तत्र गत्वा महात्मानं यदि ते रोचतेऽर्जुन
।
अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम्॥२५॥
न हि तस्याप्रियं कुर्यां प्राणत्यागेऽप्युपस्थिते
।
कुतो गन्तुं महाबाहो पुरीं द्वारावतीं प्रति॥२६॥
सर्वं त्विदमहं पार्थ त्वत्प्रीतिहितकाम्यया
।
ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथञ्चन॥२७॥
प्रयोजनं च निर्वृत्तमिह वासे ममार्जुन
।
धार्तराष्ट्रो हतो राजा सबल: सपदानुगः॥२८॥
पृथिवी च वशे तात धर्मपुत्रस्य धीमतः
।
स्थिता समुद्रवलया सशैलवनकानना॥२९॥
चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव
।
धर्मेण राजा धर्मज्ञः पातु सर्वां वसुन्धराम्॥३०॥
उपास्यमानो बहुभिः सिद्धैश्चापि महात्मभिः
।
स्तूयमानश्च सततं वन्दिभिर्भरतर्षभ॥३१॥
तं मया सह गत्वाद्य राजानं कुरु वर्धनम्
।
आपृच्छ कुरुशार्दूल गपनं द्वारकां प्रति॥३२॥
इदं शरीरं वसु यच्च मे गृहे निवेदितं पार्थ सदा युधिष्ठिरे
।
प्रियश्च मान्यश्च हि मे युधिष्ठिरः सदा कुरूणामधिपो महामतिः॥३३॥
प्रयोजनं चापि निवासकारणे न विद्यते मे त्वदृते नृपात्मज
।
स्थिता हि पृथ्वी तव पार्थ शासने गुरोः सुवृत्तस्य युधिष्ठिरस्य च॥३४॥
इतीदमुक्तः स तदा महात्मना जनार्दनेनामितविक्रमोऽर्जुनः
।
तथेति दुःखादिव वाक्यमैरयज्जनार्दनं सम्प्रतिपूज्य पार्थिव॥३५॥
The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in