जनमेजय उवाच।
सभायां वसतोस्तत्र निहत्यारीन्महात्मनोः
।
केशवार्जुनयोः का नु कथा समभवद् द्विज॥१॥
सभायामिति॥१॥
वैशम्पायन उवाच।
कृष्णेन सहितः पार्थः स्वं राज्यं प्राप्य केवलम्
।
तस्यां सभायां दिव्यायां विजहार मुदा युतः॥२॥
तत्र कञ्चित् सभोद्देशं स्वर्गोद्देशसमं नृप
।
यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ॥३॥
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः
।
निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत्॥४॥
विदितं मे महाबाहो सङ्ग्रामे समुपस्थिते
।
माहात्म्यं देवकीमातस्तच्च ते रूपमैश्वरम्॥६॥
यत्तद्भगवता प्रोक्तं पुरा केशव सौहृदात्
।
तत्सर्वं पुरुषव्याघ्र नष्टं मे भ्रष्टचेतसः॥६॥
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः पुनः
।
भवांस्तु द्वारकां गन्ता नचिरादिव माधव॥७॥
वैशम्पायन उवाच।
एवमुक्तस्तु तं कृष्णः फाल्गुनं प्रत्यभाषत
।
परिष्वज्य महातेजा वचनं वदतां वरः॥८॥
वासुदेव उवाच।
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम्
।
धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान्॥९॥
अबुद्ध्या नाग्रहीर्यस्त्वं तन्मे सुमहदप्रियम्
।
न च साद्य पुनर्भूयः स्मृतिर्मे सम्भविष्यति॥१०॥
नूनमश्रद्दधानोऽसि दुर्मेधा ह्यसि पाण्डव
।
न च शक्यं पुनर्वक्तुमशेषेण धनञ्जय॥११॥
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने
।
न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः॥१२॥
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया
।
इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम्॥१३॥
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि
।
शृणु धर्मभृतां श्रेष्ठ गदितं सर्वमेव मे॥१४॥
आगच्छद् ब्राह्मणः कश्चित् स्वर्गलोकादरिन्दम
।
ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत्॥१५॥
अस्माभिः परिपृष्टश्च यदाह भरतर्षभ
।
दिव्येन विधिना पार्थ नच्छृणुष्वाविचारयन्॥१६॥
ब्राह्मण उवाच।
मोक्षधर्मं समाश्रित्य कृष्ण यन्मामपृच्छथाः
।
भूतानामनुकम्पार्थं यन्मोहच्छेदनं विभो॥१७॥
षोडशे सभायामित्यादिना प्रस्तूयानुगीतामारभते- मोक्षधर्ममित्यादिना भूतानामेव न स्वस्य विभो परमात्मन्॥१७॥
तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन
।
शृणुष्वावहितो भूत्वा गदतो मम माधव॥१८॥
कश्चिद् विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः
।
आससाद द्विजं कञ्चिद्धर्माणामागतागमम्॥१९॥
आगतागमं प्राप्तशास्त्ररहस्यं ऊहापोहकुशलमित्यर्थः॥१९॥
गतागते सुबहुशो ज्ञानविज्ञानपारगम्
।
लोकतत्त्वार्थकुशलं ज्ञातार्थं सुखदुःखयोः॥२०॥
गतागते मरणसंसरणे विषये ज्ञानं शास्त्रानुमानजं विज्ञानं योगजप्रत्यक्षम् अस्यैव व्याख्यानं लोकतत्त्वेति सार्धेन॥२०॥
जातीमरणतत्त्वज्ञं कोविदं पापपुण्ययौः
।
द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम्॥२१॥
जाती जन्म॥२१॥
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम्
।
दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः॥२२॥
मुक्तवत् नित्यमुक्तस्यापि मृषा बन्धाभिप्रायं वत्करणम्॥२२॥
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः
।
तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह॥२३॥
सम्भाषमाणमेकान्ते समासीनं च तैः सह
।
यदृच्छया च गच्छन्तमसक्तं पवनं यथा॥२४॥
तं समासाद्य मेधावी स तदा द्विजसत्तमः
।
चरणौ धर्मकामोऽस्य तपस्वी सुसमाहितः
।
प्रतिपेदे यथान्यायं दृष्ट्वा तन्महदद्भुतम्॥२५॥
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तद् द्विजोत्तमम्
।
परिचारेण महत्ता गुरुं तं पर्यतोषयत्॥२६॥
उपपन्नं च तत्सर्वं श्रुतचारित्रसंयुतम्
।
भावेनातोषयच्चैनं गुरुवृत्त्या परन्तपः॥२७॥
तस्मै तुष्टः स शिष्याय प्रसन्नो वाक्यमब्रवीत्
।
सिद्धिं परामभिप्रेक्ष्य शृणु मत्तो जनार्दन॥२८॥
सिद्ध उवाच।
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः
।
गच्छन्तीह गतिं मर्त्या देवलोके च संस्थितिम्॥२९॥
अन्यत्र धर्मादन्यत्राधर्मादित्यात्मनो धर्माद्यततित्वाद्धर्माधर्मावेव फलतो निन्दति वैराग्याय विविधैरित्यादिना॥२९॥
न क्वचित् सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः
।
स्थानाच्च महतो भ्रंशो दुःखलब्धात् पुनः पुनः॥३०॥
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात्
।
काममन्युपरीतेन तृष्णया मोहितेन च॥३१॥
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः
।
आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः॥३२॥
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः
।
सुखानि च विचित्राणि दुःखानि च मयानघ॥३३॥
प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह
।
धननाशश्च सम्प्राप्तो लध्वा दुःखेन तद् धनम्॥३४॥
अवमानाः सुकष्टाश्च राजतः स्वजनात् तथा
।
शारीरा मानसा वापि वेदना भृशदारुणाः॥३५॥
प्राप्ता विमाननाशोग्रा वधवन्धाश्च दारुणाः
।
पतनं निरये चैव यातनाश्च यमक्षये॥३६॥
जरा रोगाश्च सततं व्यसनानि च भूरिशः
।
लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया॥३७॥
ततः कदाचिन्निर्वेदान्निराकाराश्रितेन च
।
लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया॥३८॥
ततः कदाचिदिति निर्वेदाख्यवैराग्यदौर्लभ्यमुक्तं निराकाराश्रितेन असम्प्रज्ञातसमाधिसमधिगम्यब्रह्मभावाश्रितेन लोक्यत इति लोको द्वैतं तत्तन्त्रं तज्ज दुःखम्॥३८॥
लोकेऽस्मिन्ननुभूयाहमिमं मार्गमनुष्ठितः
।
ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया॥३९॥
इमं मार्गं योगमार्गम् अनुभूय ज्ञात्वा अनुष्ठितः अनुष्ठाऽनुष्ठानमभ्यासः सञ्जातोऽस्यसोऽनुष्ठितः नतोऽनुष्ठानात् इयं पूर्वोक्ता अन्तर्धानादिशक्तिर्ज्ञानविज्ञानादिरूपा आत्मनः मनसः मनसो हि प्रमादेन हन्ति कर्म शुभाशुभम्। प्रसन्नात्मनि स स्थित्वा सुखमक्षय्यमश्नुते इति श्रुतेः॥३९॥
नाहं पुनरिहागन्ता लोकानालोकयाम्यहम्
।
आसिद्धेराप्रजासर्गादात्मनोऽपि गताः शुभाः॥४०॥
विद्याफलम् अपुनरावृत्ति सर्वज्ञत्वं चाह- नाहमित्यादिना। आसिद्धेः आमोक्षात् आप्रजासृष्टेः अत्मनः अपिशब्दाल्लोकानां च गतीरालोकयामीत्यन्वयः॥४०॥
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमाः
।
इतः परं गमिष्यामि ततः परतरं पुनः॥४१॥
इतः परं सत्यलोकं परतरं कैवल्यं यदि प्रयास्यन्नृपपारमेष्ठ्यमिति योगिनामिच्छया सद्यो वा क्रमिकं वा कैवल्यमस्तीति स्मरणात्॥४१॥
ब्रह्मणः पदमव्यक्तं मा तेऽभूदत्र संशयः
।
नाहं पुनरिहागन्ता मर्त्यलोकं परन्तप॥४२॥
प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते
।
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः॥४३॥
अभिजाने च तदहं यदर्थं मामुपागतः
।
अचिरात्तु गमिष्यामि तेनाहं त्वामचूचुदम्॥४४॥
भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण
।
परिपृच्छस्व कुशलं भाषेयं यत्तवेप्सितम्॥४५॥
बहु मन्ये च ते बुद्धिं भृशं सम्पूजयामि च
।
येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप॥४६॥
बहु मन्ये भृशं पूजये अहमन्तर्धानगनोऽपियतस्त्वया ज्ञातः॥४६॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि षोडशोऽध्यायः॥१६॥
वासुदेव उवाच।
ततस्तस्योपसङ्गृह्य पादौ प्रश्नान् सुदुर्वचान्
।
पप्रच्छ तांश्च धर्मान्स प्राह धर्मभृतां वरः॥१॥
तत इति॥१॥
कश्यप उवाच।
कथं शरीरं च्यवते कथं चैवोपपद्यते
।
कथं कष्टाच्च संसारात् संसरन्परिमुच्यते॥२॥
एवं नित्यानित्यविवेकवैराग्यादयः शिष्यगुणा ज्ञानविज्ञानादयो गुरुगुणाश्चोक्ता ततः पुनः पुनश्च मरणं जन्म चैव पुनः पुनरित्युक्तं तयोः प्राप्तिप्रकारौ पृच्छति- कथमिति। नाहं पुनरिहागन्तेत्युक्तम्। तस्यापि प्रकारं पृच्छति- कथं कष्टाच्चेति॥२॥
आत्मा च प्रकृतिं मुक्त्वा तच्छरीरं विमुञ्चति
।
शरीरतश्च निर्मुक्तः कथमन्यत् प्रपद्यते॥३॥
इतः परं गमिष्यामि ततः परतरं पुनरित्युक्तम्। तत्रापि पृच्छति आत्मा चेति। आत्मा जीवः प्रकृतिं मूलाविद्यां तच्छरीरं तज्जं स्थूलपिण्डमुक्त्वा कथं परं प्राप्नोतीत्यर्थः। शरीरात् परस्मात् कथम् अन्यत् परतरं ब्रह्म प्रपद्यत इति पञ्चमः प्रश्नः॥३॥
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः
।
उपभुङ्क्ते क्व वा कर्म विदेहस्यावतिष्ठते॥४॥
कथं शुभाशुभे इति। एवं भूतस्य जीवतः कथं कर्मफलभोग इति षष्ठः विदेहस्य संसारबीजभूतं कर्म क्व वा तिष्ठतीति सप्तमः॥४॥
ब्राह्मण उवाच।
एवं सञ्चोदितः सिद्धः प्रश्नांस्तान् प्रत्यभाषत
।
आनुपूर्येण वार्ष्णेय तन्मे निगदतः शृणु॥५॥
सिद्ध उवाच।
आयुः कीर्तिकराणीह यानि कृत्यानि सेवते
।
शरीरग्रहणे यस्मिंस्तेषु क्षीणेषु सर्वशः॥६॥
तत्र आद्यस्य प्रश्नस्याद्येनाध्यायेनोत्तरम्। ततो द्वितीयस्य द्वितीयेन शेषाणां तृतीयेन सिद्ध उवाच आयुःकीर्तिकराणी हत्यादिना॥६॥
आयुःक्षयपरीतात्मा विपरीतानि सेवते
।
बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते॥७॥
सत्त्वं बलं च कालं च विदित्वा चात्मनस्तथा
।
अतिवेलमुपाश्नाति स्वविरुद्धान्यनात्मवान्॥८॥
यदायमतिकष्टानि सर्वाण्युपनिषेवते
।
अत्यर्थमपि वा भुङ्क्ते न वा भुक्तो कदाचन॥९॥
दुष्टान्नामिषपानं च यदन्योन्यविरोधि च
।
गुरु चाप्यमितं भुङ्क्तं नातिजीर्णेऽपि वा पुनः॥१०॥
व्यायाममतिमात्रं च व्यवायं चोपसेवते
।
सततं कर्मलाभाद्वा प्राप्तं वेगं विधारयेत्॥११॥
वेगं मलमूत्रादीनाम्॥११॥
रसाभियुक्तमन्नं वा दिवा स्वप्नं च सेवते
।
अपक्वानागते काले स्वयं दोषान् प्रकोपयेत्॥१२॥
रसाभियुक्तं परिणामे बहुरसकरं रसबाहुल्यस्याजीर्णहेतुत्वात्॥१२॥
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम्
।
अपि वोद्वन्धनादीनि परीतानि व्यवस्थति॥१३॥
अपि वा अथवा परीतानि विपरीतानि व्यवस्यति करोति तेन नीरुजोऽपि म्रियत इत्यर्थः॥१३॥
तस्य तैः कारणैर्जन्तोः शरीरं च्यवते तदा
।
जीवितं प्रोच्यमानं तद्यथावदुपधारय॥१४॥
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः
।
शरीरमनुपर्येत्य सर्वान्प्राणान् रुणद्धि वै॥१५॥
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः
।
भिनत्ति जीवस्थानानि मर्माणि विद्धि तत्त्वतः॥१६॥
ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरात्
।
शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु॥१७॥
क्षरात् जडाच्छरीरात्॥१७॥
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम
।
जातीमरणसंविग्नाः सततं सर्वजन्तवः॥१८॥
जाती जन्म॥१८॥
दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ
।
गर्भसङ्क्रमणे चापि मर्मणामतिसर्पणे॥१९॥
गर्भसङ्क्रमणे पारलौकिकदेहत्यागेनैहिकगर्भस्थदेहप्रवेशे॥१९॥
तादृशीमेव लभते वेदनां मानवः पुनः
।
भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः॥२०॥
अद्भिः क्लेदं जलेन वैक्लव्यम्॥२०॥
यथा पञ्चसु भूतेषु सम्भूतत्वं नियच्छति
।
शैत्यात्प्रकुपित: काये तीव्रवायुसमीरितः॥२१॥
सभूतत्वं सहतत्वं नियच्छति नाशयति यथा भूतानि पृथग्भवन्तीत्यर्थः तीव्रेण वायुनाऽन्येन समीरित प्राणापानस्थाने व्यवस्थितो यो वायुरित्युतरेण सम्बंध॥२१॥
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः
।
स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणः॥२२॥
शरीरं च जहात्येवं निरुच्छ्वासश्च दृश्यते
।
स निरुष्मा निरुच्छ्वासो नि:श्रीको हतचेतनः॥२३॥
ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरैः
।
स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाशरीरभृत्॥२४॥
स्रोतोभिरिन्द्रियैः॥२४॥
तैरेव न विजानाति प्राणानाहारसम्भवान्
।
तत्रैव कुरुते काये य: स जीवः सनातनः॥२५॥
तथा यद्यद्भवेद्युक्तं सन्निपाते क्वचित् क्वचित्
।
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा॥२६॥
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन्
।
आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै॥२७॥
ततः सचेतनो जन्तुर्नाभिजानाति किञ्चन
।
तमसा संवृतज्ञानः संवृतेष्वेव मर्मसु
।
स जीवो निरधिष्ठानश्चाल्यते मातरिश्वना॥२८॥
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम्
।
निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम्॥२९॥
स जीवः प्रच्युतः कायात् कर्मभिः स्वैः समावृतः
।
अभितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते॥३०॥
ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः
।
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः॥३१॥
यथान्धकारे खद्योतं लीयमानं ततस्ततः
।
चक्षुष्मन्तः प्रपश्यन्ति तथा च ज्ञानचक्षुषः॥३२॥
पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा
।
च्यवन्तं जायमानं च योनिं चानुप्रवेशितम्॥३३॥
तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः
।
कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः॥३४॥
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः
।
इहैवोच्चावचान् भोगान् प्राप्नुवन्ति स्वकर्मभिः॥३५॥
इहैवाशुभकर्माणः कर्मभिर्निरयं गताः
।
अवाग्गतिरियं कष्टा यत्र पच्यन्ति मानवाः
।
तस्मात्सुदुर्लभो मोक्षो रक्ष्यश्चात्मा ततो भृशम्॥३६॥
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः
।
कीर्त्यमानानि तानीह तत्त्वतः सन्निबोध मे॥३७॥
तच्छ्रुत्वा नैष्ठिकी बुद्धिं बुद्ध्येथाः कर्मनिश्चयम्
।
तारारूपाणि सर्वाणि यत्रैतच्चन्द्रमण्डलम्॥३८॥
यत्र विभ्राजते लोके स्वभासा सूर्यमण्डलम्
।
स्थानान्येतानि जानीहि जनानां पुण्यकर्मणाम्॥३९॥
कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः
।
तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः॥४०॥
न च तत्रापि सन्तोषो दृष्ट्रा दीप्ततरां श्रियम्
।
इत्येता गतयः सर्वाः पृथक्ते समुदीरिताः॥४१॥
उपपत्तिं तु वक्ष्यामि गर्भस्याहमतः परम्
।
तथा तन्मे निगदतः शृणुष्वावहितो द्विज॥४२॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि सप्तदशोऽध्यायः॥१७॥
ब्राह्मण उवाच।
शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम्
।
प्राप्य प्राप्यानुपच्यन्ते क्षेत्रं क्षेत्र तथा तथा॥१॥
शुभानामिति। क्षेत्रं क्षेत्रं देहं देहं प्राप्य प्राप्यासाद्यासाद्य पच्यन्ते फलं प्रयच्छन्ति॥१॥
यथा प्रसूयमानस्तु फली दद्यात्फलं बहु
।
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम्॥२॥
चित्तशुद्ध्यशुद्धितारतम्येनाल्पादपि पुण्यात्पापाद्वा फलं बह्वस्तीत्याह सार्धेन- यथेति। फली वृक्षः॥२॥
पापं चापि तथैव स्यात् पापेन मनसा कृतम्
।
पुरोधाय मनो हीदं कर्मण्यात्मा प्रवर्तते॥३॥
पुरोधायेति। तस्मान्मन एव प्रधानं न कर्मेति भावः॥३॥
यथा कर्मसमाविष्टः काममन्युसमावृतः
।
नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम्॥४॥
यथा कर्मेति। मन्युरविद्या सङ्कल्पो वा तच्चापि तत्रापि प्रश्न॥४॥
शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम्
।
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम्॥५॥
तदाह शुक्रमिति॥५॥
सौक्ष्म्यादव्यक्तभावाच्च न च क्वचन सज्जति
।
सम्प्राप्य ब्राह्मणः कामं तस्मात् तद्ब्रह्म शाश्वतम्॥६॥
क्षेत्रं प्राप्तस्य नरस्य तात्त्विकं रूपमाह- सौक्ष्म्यादिति। ब्राह्मणो ब्रह्मवित् तस्मात् तत् शाश्वतं ब्रह्म ज्ञात्वा कामम् ईप्सितं प्राप्यासङ्गो भवतीत्यर्थः॥६॥
तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः
।
स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः॥७॥
तद्बीजं ब्रह्मैव कारणं तेनेति। "एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति" इति श्रुतेः। स ब्रह्मैव सन् जीवः चेतसा उपाधिभूतेन प्राणस्थानेषु इन्द्रियगोलकेषु दधाति धारयते अभिमानमित्यर्थः इत्युत्तरश्लोकार्धेन सहान्वयः॥७॥
दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः
।
तत: स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः॥८॥
ततो धारणात्॥८॥
यथा लोहस्य नि:स्यन्दो निषिक्तो बिम्बविग्रहम्
।
उपैति तद्विजानीहि गर्भे जीवप्रवेशनम्॥९॥
ननु कथं सूक्ष्मोपि देहं व्याप्नुयादव्यक्तो वा व्यक्तिम् असङ्गो वा सङ्गमित्याशङ्क्य त्रिभिः परिहरति- यथा लोहस्येत्यादिभिः यथा स्वर्णद्रवः स्वल्पोऽपि कृत्स्ना ताम्रप्रतिमा स्वर्णमयीमिव करोत्येवं गर्भे जीवप्रवेशनं शरीरे सूक्ष्मस्यापि चैतन्यस्य व्याप्तिरित्याद्यस्य परिहारः यथैव बिम्बं मृदयोपलिप्तमित्यादिश्रुत्यनुसारी॥९॥
लोहपिण्डं यथा वह्निः प्रविश्य ह्यतितापयेत्
।
तथा त्वमपि जानीहि गर्भे जीवापपादनम्॥१०॥
यथा स्वयमव्यक्तोऽपि वह्निः काष्ठलोहाद्युपाधावेवाभिव्यज्यते एव गर्भे जीवोपपादनं देहे चैतन्यस्याभिव्यक्तिरिति द्वितीयस्य परिहारः अरणीषु चाग्निरित्यादिश्रुत्यनुसारी॥१०॥
यथा च दीपः शरणे दीप्यमानः प्रकाशते
।
एवमेव शरीराणि प्रकाशयति चेतना॥११॥
तृतीयस्य परिहारमाह- यथा चेति। शरणे गृहे शरीराणि स्थूलसूक्ष्मकारणानि॥११॥
यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम्
।
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते॥१२॥
दीपवदसङ्गाया अपि चेतनाया दुःखादिसम्प्रतीतौ हेतुमाह- यद्यच्चेति। यथा प्रकाशः अतदाकारोपि अङ्गुल्याद्युपाधिना ऋजुवक्राद्याकार इव प्रतीयते एवं कर्मजदुःखप्रकाशिकाया चिति दुःखाकारतेव भाति वस्तुतस्तु नास्ति। "असङ्गोह्ययं पुरुषः" इति श्रुतेः अवस्थान्तरगतस्य दुःखस्यावस्थान्तरेऽनुवृत्त्यदर्शनाचेति भावः॥१२॥
ततस्तु क्षीयते चैव पुनश्चान्यत्प्रचीयते
।
यावत्तन्मोक्षयागस्थं धर्मं नैवावबुध्यते॥१३॥
तत उपभोगात्॥१३॥
तत्र कर्म प्रवक्ष्यामि सुखी भवति येन वै
।
आवर्तमानो जातीषु यथान्योन्यासु सत्तम॥१४॥
दानं व्रतं ब्रह्मचर्यं यथोक्तं ब्रह्मधारणम्
।
दमः प्रशान्तता चैव भूतानां चानुकम्पनम्॥१५॥
संयमाश्चानृशंस्यं च परस्वादानवर्जनम्
।
व्यलीकानामकरणं भूतानां मनसा भुवि॥१६॥
मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम्
।
गुरुपूजा घृणा शौचं नित्यमिन्द्रियसंयमः॥१७॥
प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते
।
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः॥१८॥
एवं सत्सु सदा पश्येत् तत्राप्येषा ध्रुवा स्थितिः
।
आचारो धर्ममाचष्टे यस्मिशान्ता व्यवस्थिताः॥१९॥
तेषु तत्कर्म निक्षिप्तं यः स धर्मः सनातनः
।
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात्॥२०॥
अतो नियम्यते लोकः प्रच्यवन्धर्मवर्त्मसु
।
यश्च योगी च मुक्तश्च स एतेभ्यो विशिष्यते॥२१॥
वर्तमानस्य धर्मेण शुभं यत्र यथा तथा
।
संसारतारणं ह्यस्य कालेन महता भवेत्॥२२॥
एवं पूर्वकृतं कर्म नित्यं जन्तु: प्रपद्यते
।
सर्वं तत्कारणं येन विकृतोऽयमिहागतः॥२३॥
कथं कष्टाच्च संसारान्मुच्यत इत्यस्योत्तरमाह- तत्र कर्मेत्यादिना। जातीषु योनिषु॥१४॥ संयमश्चितैकाग्र्यम्॥१६॥ यश्च योगीति। सर्पदंशो विषविद्याविदमिव कर्मप्रसंगः प्रतीयमानोऽपि योगिनं न बाधते योगी इतरेभ्यः श्रेष्ठ इत्यर्थः। यतो योग्यतोनक्तः चस्त्वर्थे परौ च शब्दौ हेत्ववधारणार्थौ। यस्तु योगी स हि योगबलान्मुक्त एवेत्यर्थ॥२१॥ कर्मिणां विलबेन मुक्तिरित्याह-वर्तमानस्येति॥२२॥ एवमिति। अयं आत्मा ब्रह्म सन्विकृतः जीवत्वं प्राप्तः॥२३॥
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम्
।
इत्येवं संशयो लोके तच्च वक्ष्याम्यत: परम्॥२४॥
शरीरमात्मनः कृत्वा सर्वलोकपितामहः
।
त्रैलोक्यमसृजद् ब्रह्मा कृत्स्नं स्थावरजङ्गमम्॥२५॥
ननु स्वतन्त्रा एव बहवश्चेतनाः न ब्रह्मविकारा इत्याशङ्क्य शरीरमात्मन इत्यादिना पौर्विकी श्रुतिरित्यन्तैः श्लोकैः प्रत्याचष्टे सर्वलोकः कार्यसमष्टिस्तस्याः पिता मायाशबलं ब्रह्म पितामहः शुद्धं तत आत्मनः शुद्धस्य शरीरम् अव्याकृताकाशम् आकाशशरीरं ब्रह्मेति श्रुतेः माया कृत्वा उत्पाद्य तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमेति तदुत्पत्तिस्मृतेः नो व्योमापरोयदिति सृष्टेः प्राक्तदभावश्रुतेश्च कृत्स्नं सूत्रात्मकं त्रैलोक्यम्॥२५॥
ततः प्रधानमसृजत् प्रकृतिं स शरीरिणाम्
।
यया सर्वमिदं व्याप्तं यां लोके परमां विदुः॥२६॥
ततः प्रधानं सर्वेषु कार्येषु प्रधीयमानं तेजोवन्नात्मकं जीवानां प्रकृतिम् अभिव्यक्तिस्थानं देहाद्याकारं यया प्रकृत्या॥२६॥
इदं तत्क्षरमित्युक्तं परं त्वमृतमक्षरम्
।
त्रयाणां मिथुनं सर्वमेकैकस्य पृथक् पृथक्॥२७॥
क्षरं जडम् अक्षरं तदवच्छिन्नं चैतन्यं जीवेशभावाक्रातं त्रयाणा क्षराक्षरशुद्धानामध्ये मिथुनं क्षराक्षरं सर्वं प्रतिपूरुषं पृथक् पृथगस्ति तत्तन्मुक्तौ तत्तत्कल्पितं तद्रज्जुसर्पवद्बाध्यत इत्यर्थः॥२७॥
असृजत्सर्वभूतानि पूर्वदृष्टः प्रजापतिः
।
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः॥२८॥
उक्तोऽर्थः श्रौत एवेत्याह- असृजदिति। पूर्वदृष्टः सृष्टेः प्राक् "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमिति" श्रुतौ दृष्टः सर्वभूतानि वियदादीनि स्थावराणि चाज्जङ्गमानि ऐतदात्म्यमिति श्रुतेः प्रत्यगात्मैव सर्वदृश्यरूपेण भातीत्यर्थ॥२८॥
तस्य कालपरीमाणमकरोत्स पितामहः
।
भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च॥२९॥
एवं श्रुतिबलेन चेतनभेदं निरस्य ब्रह्मविकारस्य जीवस्य विकारत्वं नित्यं चेत्कृतं साधनैरित्याशङ्क्य तदनित्यत्वमाह- तस्य कालेति। तस्य शरीरग्रहणस्य कालेत्यनेनान्तवत्त्वं परिवृत्तिं सुरनरतिर्यगादिदेहेषु भ्रमणम्॥२९॥
यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि
।
यत् प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते॥३०॥
यथात्रेति। अत्र संसारस्यान्तवत्त्वे विषये वदेत्तद्वदहं जातिस्मरो यत्प्रवक्ष्यामीत्यध्याहृत्य योज्यम्॥३०॥
सुखदुःखे यथा सम्यगनित्ये यः प्रपश्यति
।
कायं चामेध्यसङ्घातं विनाशं कर्मसंहितम्॥३१॥
यच्च किञ्चित्सुखं तच्च दुःखं सर्वमिति स्मरन्
।
संसारसागरं घोरं तरिष्यति सुदुस्तरम्॥३२॥
जातीमरणरौगैश्च समाविष्टः प्रधानवित्
।
चेतनावत्सु चैतन्यं समं भूतेषु पश्यति॥३३॥
चेतनावत्सु देहेषु समम् एकम्॥३३॥
निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम्
।
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम॥३४॥
ऐकात्म्यदृष्ट्या निर्विद्यत इत्यर्थः। स्पष्टार्थमन्यत्॥३४॥
शाश्वतस्याव्ययस्याथ यदस्य ज्ञानमुत्तमम्
।
प्राच्यमानं मया विप्र निबोधेदमशेषतः॥३५॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अष्टादशोऽध्यायः॥१८॥
ब्राह्मण उवाच।
यः स्यादेकायने लीनस्तूष्णीं किञ्चिदचिन्तयन्
।
पूर्वं पूर्वं परित्यज्य स तीर्णो बन्धनाद् भवेत्॥१॥
शरीरस्य नाशोत्पत्तिप्रकारानुक्त्वा पूर्वोपक्रान्तं ततो मुक्तिप्रकारं प्रपञ्चयति- यः स्यादिति। तद्यथा सर्वासामपां समुद्र एकायनमित्यादिश्रुत्युक्तप्रकारेण सर्वलयाधिष्ठानं ब्रह्म एकायनं तस्मिन् लीनः स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयते इति श्रुत्युक्तरीत्या ऐक्यं प्राप्तः तूष्णीम् अहमेवेदं सर्वोऽस्मीत्यभिमानमप्यकुर्वन् किञ्चिदचिन्तयन्नित्यनेनास्मीत्यपि वारयति पूर्वं पूर्वं स्थूलसूक्ष्मकारणेषु परित्यज्य उत्तरस्मिन् उत्तरस्मिन्प्रविलाप्य॥१॥
सर्वमित्रः सर्वसहः शमे रक्तो जितेन्द्रियः
।
व्यपेतभयमन्युश्च आत्मवान् मुच्यते नरः॥२॥
सर्वमित्र अद्रोही सर्वंसहः क्षमी शमे चित्तनिग्रहे भयं योगासिद्धौ कर्मसंन्यासिनः कर्मब्रह्मोमयभ्रष्टताप्रयुक्तं मन्युरियताऽपि कालेन न योगः सिद्ध इति दैन्यं तत्र द्वेषो वा आत्मवान् जितचित्तः॥२॥
आत्मवत्सर्वभूतेषु यश्चरेनियतः शुचिः
।
अमानी निरभीमानः सर्वतो मुक्त एव सः॥३॥
जीवितं मरणं चोभे सुखदुःखे तथैव च
।
लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते॥४॥
न कस्यचित् स्पृहयते नावजानाति किञ्चन
।
निर्द्वन्द्वो वीतरागात्मा सर्वथा मुक्त एव सः॥५॥
अनमित्रश्च निर्बन्धुरनपत्यश्च यः क्वचित्
।
त्यक्तधर्मार्थकामश्च निराकांक्षी च मुच्यते॥६॥
अनमित्रः शत्रुहीनः॥६॥
नैव धर्मी न चाधर्मी पूर्वोपचितहायकः
।
धातुक्षयप्रशान्तात्मा निर्द्वन्द्वः स विमुच्यते॥७॥
ज्ञानफलमाह- नैवेति। धर्माधर्मशून्यः पूर्वोपचितं प्रारब्धकर्म तस्य हायको यापकः धातुक्षयेण शरीरारम्भकभूतविनाशेनैव प्रशान्तः अत्यन्तसमुच्छिन्न आत्मा चित्तं यस्य सः अत एव निर्द्वन्द्वः अद्वैतः यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदिति श्रुतेः॥७॥
अकर्मवान् विकांक्षश्च पश्येज्जगदशाश्वतम्
।
अश्वत्थसदृशं नित्यं जन्ममृत्युजरायुतम्॥८॥
अकर्मवान् संन्यासी॥८॥
वैराग्यबुद्धिः सततमात्मदोषव्यपेक्षकः
।
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव॥९॥
अगन्धमरसस्पर्शमशब्दमपरिग्रहम्
।
अरूपमनभिज्ञेयं दृष्ट्वाऽऽत्मानं विमुच्यते॥१०॥
अगन्धं गन्धादिहीनं चिन्मात्रम्॥१०॥
पञ्चभूतगुणैर्हीनममूर्तिमदहेतुकम्
।
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते॥११॥
पञ्चभूतगुणैर्हीनमिति स्थूलनिरासः अमूर्तिमदिति सूक्ष्मस्य अहेतुकमिति कारणस्य अत एव अगुणं गुणमोक्तृपूर्वैस्त्रिभी रूपैः गुणाविषयादयः॥११॥
विहाय सर्वसङ्कल्पान् बुद्ध्या शारीरमानसान्
।
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः॥१२॥
सर्वसंस्कारनिर्मुक्तो निर्द्वन्द्वो निष्परिग्रहः
।
तपसा इन्द्रियग्रामं यश्चरेन्मुक्त एव सः॥१३॥
एवं ध्यानजसंस्कारैर्बाह्यसंस्कारा नश्यन्ति तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धीति योगसूत्रादित्याह- सर्वसंस्कारेति॥१३॥
विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम्
।
परमाप्नोति संशान्तमचलं नित्यमक्षरम्॥१४॥
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम्
।
युञ्जन्तः सिद्धमात्मानं यथा पश्यन्ति योगिनः॥१५॥
अतः परं प्रवक्ष्यामीति सक्षेपोक्त्यनन्तरं विस्तरेण वक्ष्यामि युञ्जतो ध्यायतः सिद्धम् आविद्यक भ्रान्तिनिवृत्तौ स्वतः सिद्धं न तु कीटभ्रमरन्यायेन ध्यानसाध्यम्॥१५॥
तस्योपदेशं वक्ष्यामि यथावत् तन्निवोध मे
।
यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि॥१६॥
यैर्द्वारैश्चित्तनिग्रहोपायैः आत्मानं चित्तम् आत्मनि देहे चारयन् अन्तर्मुखं कुर्वन् नित्यम् आद्यन्तशून्यं वस्तु पश्यति तानि निबोधेति पूर्वेणान्वयः॥१६॥
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत्
।
तीव्रं तप्त्वा तपः पूर्वं मोक्षयोगं समाचरेत्॥१७॥
संहृत्य स्वस्वविषयेभ्यः प्रत्यावर्त्य आत्मनि क्षेत्रज्ञे एतच्च तप आख्यस्वधर्मानुष्ठानेन शुद्धे चेतस्येव भवतीत्याह- तीव्रमिति॥१७॥
तपस्वी सततं युक्तो योगशास्रमथाचरेत्
।
मनीषी मनसा विप्रः पश्यन्नात्मानमात्मनि॥१८॥
एतदेवान्वयव्यतिरेकाभ्यां द्रढयति- तपस्वीत्यादिना॥१८॥
य चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि
।
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि॥१९॥
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः
।
तथा य आत्मनाऽऽत्मानं सम्प्रयुक्तः प्रपश्यति॥२०॥
यथा पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति
।
तथा रूपमिवात्मानं साधुयुक्तः प्रपश्यति॥२१॥
यथा हीति। यथा स्वप्ने स्थूलदेहाङसङ्गेन स्थितः सन्कञ्चिददृष्टचरं पुरषं पश्यति उस्वेव अनिरुद्धं प्रबुद्धश्च पुनस्तं दृष्ट्वा सोऽयमिति प्रत्यभिजानाति तथाऽऽत्मानं विश्वरूपं समाधौ दृष्ट्वा व्युत्थानेऽपि विश्वमात्मत्वेनैव पश्यतीत्यर्थः॥२१॥
इषीकां च यथा मुञ्जात्कश्चिन्निष्कृष्य दर्शयेत्
।
योगी निष्कृष्य चात्मानं तथा पश्यति देहतः॥२२॥
तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवैषीकां धैर्येणेति देहासङ्गे श्रौतं दृष्टान्तमाह- इषीकामिति॥२२॥
मुञ्जं शरीरमित्याहुरिषीकामात्मनि श्रिताम्
।
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम्॥२३॥
दृष्टान्तं दार्ष्टान्तिके योजयति- मुञ्जमिति। आत्मनि श्रितां मायां जगदाकारेण मासमानामिति शेषः॥२३॥
यदा हि युक्तमात्मानं सम्यक् पश्यति देहभृत्
।
न तस्येहेश्वरः कश्चित्त्रैलोक्यस्यापि यः प्रभुः॥२४॥
यतोऽयं सबाह्याभ्यन्तरं प्रत्यगनन्यत्वेन वीक्षतेऽत एव चानन्याधिपतिरयमित्याह- यदा हीति॥२४॥
अन्यान्याश्चैव तनवो यथेष्टं प्रतिपद्यते
।
विनिवृत्य जरां मृत्युं न शोचति न हृष्यति॥२५॥
स एकधा भवति त्रिधा भवतीत्यादि कायव्यूहकरणम्। न तस्य रोगो न जरा न मृत्युः सर्वस्य वशी सर्वस्येशानः इत्यादिश्रुतिप्रसिद्धं योगफलमाह- अन्यान्या इति। अन्यान्या देवगन्धर्वमनुष्याद्याः तनवस्तनूः कामरूपी भवतीत्यर्थः॥२५॥
देवानामपि देवत्वं युक्तः कारयते वशी
।
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम्॥१६॥
यैर्द्वारैश्चित्तनिग्रहोपायैः आत्मानं चित्तम् आत्मनि देहे चारयन् अन्तर्मुखं कुर्वन् नित्यम् आद्यन्तशून्यं वस्तु पश्यति तानि निबोधेति पूर्वेणान्वयः॥१६॥
विनश्यत्सु च भूतेषु न भयं तस्य जायते
।
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित्॥२७॥
दुःखशोकमयैर्घोरैः सङ्गस्नेहसमुद्भवैः
।
न विचाल्यति युक्तात्मा निःस्पृहः शान्तमानसः॥२८॥
विनश्यत्स्वितिति विदेहमुक्तस्य न क्लेशाः सङ्तीत्युक्तं तत्कैमुतिकन्यायेन द्रढयितुं सदेहमुक्तस्यापि ते न सन्तीत्याह दुःखशोकेत्यादिना॥२८॥
नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते
।
नातः सुखतरं किञ्चिल्लोके क्वचन दृश्यते॥२९॥
सम्यग्युक्त्वा स आत्मानमात्मन्येव प्रतिष्ठते
।
विनिवृत्तजरादुःखः सुखं स्वपिति चापि सः॥३०॥
देहान्यथेष्टमभ्येति हित्वेमां मानुषीं तनुम्
।
निर्वेदस्तु न कर्तव्यो भुञ्जानेन कथञ्चन॥३१॥
अन्यान्याश्चेति पूर्वोक्तस्य विवरणं देहानिति। भुञ्जानेन योगैश्वर्यमिति शेषः। निर्वेदो योगाद्वैराग्यं न कर्तव्यमित्यर्थः॥३१॥
सम्यग्युक्तो यदाऽऽत्मानमात्मन्येव प्रपश्यति
।
तदैव न स्पृहयते साक्षादपि शतक्रतोः॥३२॥
वस्तुतस्तु योगजसंस्कारप्राबल्याद्योगिनो भोगेच्छैव न भवतीत्याह- सम्यगिति। असम्यग्योगिविषयैव भोगेच्छेोक्तिरिति भावः॥३२॥
योगमेकान्तशीलस्तु यथा विन्दति तच्छृणु
।
दृष्टपूर्वां दिशं चिन्त्य यस्मिन्सन्निवसेत्पुरे॥३३॥
एकान्तशीलः एकं ब्रह्म अभ्यते प्राप्यतेऽनेनेति एकान्तो ध्यानं तच्छीलः। ततस्तु तं पश्यति निष्कलं ध्यायमान इति श्रुतेः दृष्टपूर्वां दिशं दृष्टं श्रुतिः प्रामाण्यं प्रत्यनपेक्षत्वात् वेदान्तश्रवणपूर्विकां दिशम् उपदेशं चिन्त्य युक्त्यापि पर्यालोच्य श्रोतव्यो मन्तव्य इति श्रुतेः। यस्मिन्पुरे देहे॥३३॥
पुरस्याभ्यन्तरे तस्य मनः स्थाप्यं न बाह्यतः
।
पुरस्याभ्यन्तरे तिष्ठन् यस्मिन्नावसथे वसेत्
।
तस्मिन्नावसथे धार्यं सबाह्याभ्यन्तरं मनः॥३४॥
आवसथे मूलाधाराद्यन्यतमस्मिञ्श्चक्रे॥३४॥
प्रचिन्त्यावसथे कृत्स्नं यस्मिन्काले स पश्यति
।
तस्मिन्काले मनश्चास्य न च किञ्चन बाह्यतः॥३५॥
तदेव कृत्स्नं सर्वात्मकं यदा पश्यति तदाऽस्य बाह्यतः प्रत्युग्रूपादन्यन्न किञ्चन अस्ति यत्रास्य मनः सज्जेत् अतो निर्वासनत्वान्मुच्यत इत्यर्थः॥३५॥
सन्नियम्येन्द्रियग्रामं निर्घोषं निर्जने वने
।
कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत्॥३६॥
उपसंहरति- सन्नियम्येति। कायमभि देहस्याभितो बहिरन्तरं मध्ये च कृत्स्नं परिपूर्णं ब्रह्मैव चिन्तयेदित्यर्थः॥३६॥
दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च
।
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम्॥३७॥
अस्य योगस्य साधनान्याह- दन्तानित्यादि। दन्तान्दन्तैरवखण्ड्यावखंड्य गृह्यमाणानाहारान् चिन्तयेत्। आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः। स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्ष इति आहारशुद्धेर्मोक्षहेतुत्वश्रुतेः। तथा तालु आधारं जिह्वा तत्राधेयां यथोक्तमीश्वरप्रोक्ते- लम्बिकोर्ध्वं स्थिते गर्ते रसना विपरीतगाम्। संयोजयेत्प्रयत्नेन मुद्रा सा खेचरी मता इति। दत्तात्रेयः- अन्तः कपालविवरे जिह्वा व्यावृत्य चार्पयेत्। भ्रूमध्यदृष्टिरप्येषा मुद्रा भवति खेचरी इति। भ्रुवोर्मध्ये प्राणमावेश्य प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणाविति चैतदेवोक्तं गलं-जिह्वामूलादधोभागः। ग्रीवा- तदधः कण्ठनालं ताभ्यां कण्ठकूपस्ततोऽप्यधः स्थितो लक्ष्यते तत्र धारणा सद्यः फलायत्नादभ्यसनीया योगे विश्वासोत्पत्त्यर्थं तथा च सूत्रम्- कण्ठकूपे क्षुत्पिपासानिवृत्तिरिति। भाष्यमपि आसामेकस्याः फलं यावन्नानुभवति तावद्योगधर्मे न श्रद्धते इति। हृदयं हृदयायतनं ब्रह्म हृदयबन्धनं शतं चैका च हृदयस्य नाड्य इति श्रूयमाणं नाडीमार्गं तत्तल्लोकगत्युपयोगि॥३७॥
इत्युक्तः स मया शिष्यो मेधावी मधुसूदन
।
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम्॥३८॥
मेधावी दन्तादिशब्दैः पारोक्ष्येणोक्तमर्थं ज्ञातवान्॥३८॥
भुक्तं भुक्तमिदं कोष्ठे कथमन्नं विपच्यते
।
कथं रसत्वं व्रजति शोणितत्वं कथं पुनः॥३९॥
पञ्चस्वर्थेषु आद्यं विवृत्य पृच्छति त्रिभिः भुक्तं भुक्तमिति॥३९॥
तथा मांसं च मेदश्च स्नाय्वस्थीनि च योषिति
।
कथमेतानि सर्वाणि शरीराणि शरीरिणाम्॥४०॥
वर्धन्ते वर्धमानस्य वर्धते च कथं बलम्
।
निरोधानां निर्गमनं मलानां च पृथक् पृथक्॥४१॥
कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः
।
कं च देशमधिष्ठाय तिष्ठेत्यात्मायमात्मनि॥४२॥
द्वितीयमर्धेन- कुतो वेति। तृतीयं योगानुपकारित्वादपृष्ट्वा चतुर्थमेव पृच्छति-कञ्चेति॥४२॥
जीवः कथं वहति च चेष्टमानः कलेवरम्
।
किं वर्णं कीदृशं चैव निवेशयति वै पुनः॥४३॥
पञ्चमं पृच्छति- जीव इति। कथं जीवो नाडीमार्गैः सूक्ष्मं कलेवरं वहति किंवर्णा वा ते नाडीमार्गास्तैश्च कीदृशं पुनर्वपुः प्राप्यमिति प्रश्नार्थः। एतेषां मध्ये आद्ययोर्विवरणार्था ब्राह्मणगीता इतरयोर्गुरुशिष्यसंवादः प्राधान्येन। अन्यत्तु तत्र तत्रोपसर्जनत्वेन प्रतिपाद्यत इति विभागः॥४३॥
याथातथ्येन भगवन् वक्तुमर्हसि मेऽनघ
।
इति सम्परिपृष्टोऽहं तेन विप्रेण माधव॥४४॥
प्रत्यब्रुवं महाबाहो यथाश्रुतमरिन्दम
।
यथा स्वकोष्ठे प्रक्षिप्य भाण्डं भाण्डमना भवेत्॥४५॥
कोष्ठे धान्यगृहे भाण्डं गृहोपस्करं निक्षिप्तं यथा गृहं प्रविष्टो विविच्य जानाति॥४५॥
तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः
।
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत्॥४६॥
एवं स्वकाये देहान्तर्मनः प्रक्षिप्य अनिश्चलैः अनिश्चरद्भिर्द्वारैरिन्द्रियैः। सर्वद्वाराणि संयम्य मनो यदि निरुद्ध्य चेति स्मृतेस्त्वया यत्पृष्ठं तद्वस्तुयोगबलेन ज्ञेयमित्यर्थः॥४६॥
एवं सततमुद्युक्तः प्रीतात्मा न चिरादिव
।
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित्॥४७॥
एतदेवोपपादयति एवमिति। प्रधानवित् प्रकृतिवत्सर्व विकारविद्भवति विकाराणां प्रकृतेरनन्यत्वादिति॥४७॥
न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः
।
मनसैव प्रदीपेन महानात्मा प्रदृश्यते॥४८॥
सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरोमुखः
।
सर्वतः श्रुतिमाल्लोके सर्वमावृत्य तिष्ठति॥४९॥
चक्षुराद्यग्राह्यस्यामूर्तस्य रूपं सर्वतः पाणिपादान्त इत्यादि लक्षणम्॥४९॥
जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति
।
स तमुत्सृज्य देहे स्वं धारयन् ब्रह्म केवलम्॥५०॥
तदेव जीवस्य स्वात्मभूतदेहात् निष्क्रान्तं पृथग्भूतं भुञ्जेषीकावत्पश्यति सम्प्रज्ञाते। तं सर्वत इत्युक्तलक्षणं कारणम् उत्सृज्य प्रविलाप्य देहे स्वं स्वरूपं धारयन्मनो निगृह्णन् केवलं निर्गुणं ब्रह्म पश्यति। स एवं विद्वानस्माच्छरीरादूर्ध्वमुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान्कामानाऽप्त्वा मृतः समभवदिति देहाभिमानकृतं भेदं त्यक्त्वा ऊर्ध्वं कारणब्रह्मभावं प्राप्तं तत्रैव सर्वकामभुग्भूत्वाऽमृताख्यं कैवल्यमश्रुत इति श्रवणात्॥५०॥
आत्मानमालोकयति मनसा प्रहसन्निव
।
तदेवमाश्रयं कृत्वा मोक्ष याति ततो मयि॥५१॥
प्रहसन्निव अहो वृथैव मरीचिकोदकतुल्येन संसारेणाहं भ्रामित इति विस्मयेनेति भावः। तदेवं तत् ब्रह्म एवम् उक्तरीत्या॥५१॥
इदं सर्वरहस्यं ते मया प्रोक्तं द्विजोत्तम
।
आपृच्छे साधयिष्यामि गच्छ विप्र यथासुखम्॥५२॥
इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः
।
अगच्छत यथाकामं ब्राह्मणः संशितव्रतः॥५३॥
वासुदेव उवाच।
इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजसत्तमः
।
मोक्षधर्माश्रितः सम्यक् तत्रैवान्तरधीयत॥५४॥
कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा
।
तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि॥५५॥
नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः
।
नरेणाकृतसंज्ञेन विशुद्धेनान्तरात्मना॥५६॥
व्यामिश्रेण व्यग्रेण अकृतसंज्ञेन अज्ञातविद्यासंप्रदायेन॥५६॥
सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ
।
कच्चिन्नेदं श्रुतं पार्थ मनुष्येणेह कर्हिचित्॥५७॥
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ
।
नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना॥५८॥
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः
।
न चैतदिष्टं देवानां मर्त्यरूपनिवर्तनम्॥५९॥
परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम्
।
यत्रामृतत्वं प्राप्नोति त्यक्त्वा देहं सदा सुखी॥६०॥
इमं धर्मं समास्थाय येऽपि स्युः पापयोनयः
।
स्त्रियो वैशयास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥६१॥
इमं धर्मम् आत्मदर्शनाख्यम्॥६१॥
किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः
।
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः॥६२॥
हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने
।
सिद्धि फलं च मोक्षश्च दुःखस्य च विनिर्णयः॥६३॥
नातः परं सुखं त्वन्यत् किञ्चित्स्याद्भरतर्षभ
।
बुद्धिमाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव॥६४॥
यः परित्यज्यते मर्त्यो लोकसारमसारवत्
।
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुते॥६५॥
लोकसारं धनादि असारवत् तृणादिवत् यः परित्यज्यते विवेकादिना परित्यागवान्। क्रियते उपायैः शमादिभिः॥६५॥
एतावदेव वक्तव्यं नातो भूयोऽस्ति किञ्चन
।
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते॥६६॥
षण्मासानिति। "षड्भिर्मासैस्तु युक्तस्य नित्ययुक्तस्य देहिनः। आनन्दः परमो गुह्यः सम्यग्योगः प्रवर्तते" इति मैत्रायणीश्रुतेः। सुखसाध्यत्वादादरणीयो योग इत्यर्थः॥६६॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि ऊनविंशोऽध्यायः॥१९॥
वासुदेव उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
दम्पत्योः पार्थ संवादो योऽभवद्भरतर्षभ॥१॥
भुक्तं भुक्तमिदं कोष्ठे इत्यादिना कृतस्य प्रश्नस्य उत्तरं "अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्" इति गीतोक्तमेव विवृणोति- अत्रापीत्यादिना। अत्र प्रश्ने विषये इतिहासमपीति सम्बन्धः॥१॥
ब्राह्मणी ब्राह्मणं कञ्चिज्ज्ञानविज्ञानपारगम्
।
दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत्॥२॥
कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता
।
न्यस्तकर्माणमासीनं कीनाशमविचक्षणम्॥३॥
कर्म अग्निहोत्रादिकं न्यस्तं येन तं कीनाशं कर्कशं मयि निरनुक्रोशम् अविचक्षणं मम अनन्यगतिकत्वमजानन्तम्॥३॥
भार्याः पतिकृताँल्लोकानाप्नुवन्तीति नः श्रुतम्
।
त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम्॥४॥
एवमुक्तः स शान्तात्मा तामुवाच हसन्निव
।
सुभगे नाभ्यसूयामि वाक्यस्यास्य तवातघे॥५॥
ग्राह्यं दृश्यं च सत्यं वा यदिदं कर्म विद्यते
।
एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः॥६॥
ग्राह्यं दीक्षाव्रतादिकम् अत एव दृश्यं लोकैः स्थूलत्वाद्द्रष्टुं योग्यम्॥६॥
मोहमेव नियच्छन्ति कर्मणा ज्ञानवर्जिताः
।
नैष्कर्म्यं न च लोकेऽस्मिन् मुहूर्तमपि लभ्यते॥७॥
कर्मणा शरीरायासेन॥७॥
कर्मणा मनसा वाचा शुभं वा यदि वाशुभम्
।
जन्मादिमूर्तिभेदान्तं कर्म भूतेषु वर्तते॥८॥
जन्मादि जन्मस्थितिभङ्गम्। मूर्तिभेदो योनिनानात्वम्॥८॥
रक्षोभिर्वध्यमानेषु दृश्यद्रव्येषु वर्त्मसु
।
आत्मस्थमात्मना तेभ्यो दृष्टमायतनं मया॥९॥
दृश्यानि सोमाज्यादीनि द्रव्याणि येषु वर्त्मसु कर्ममार्गेषु रक्षोभिर्दुर्जनैर्वध्यमानेषु नाश्यमानेषु सत्सु तेभ्यो विरक्तेन मयेति शेषः। आयतनं भ्रूघ्राणमध्यस्थमविमुक्ताख्यम्॥९॥
यत्र तद्ब्रह्म निर्द्वन्द्वं यत्र सोमः सहाग्निना
।
व्यवायं कुरुते नित्यं धीरो भूतानि धारयन्॥१०॥
सोम इडा अग्निः पिङ्गला वरणानासीसंज्ञे सोऽविमुक्ते प्रतिष्ठितः सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति वरणायां च नास्यां मध्ये प्रतिष्ठित इत्यादि भ्रुवोर्घ्राणस्य च यः सन्धिरिति जाबालश्रुतिप्रसिद्धेः व्यवायं सञ्चारं धीरो बुद्धिप्रेरको भूतानि धारयन्वायुः॥१०॥
यत्र ब्रह्मादयो युक्तास्तदक्षरमुपासते
।
विद्वांसः सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः॥११॥
घ्राणेन न तदाध्रेयं नास्वाद्यं चैव जिह्वया
।
स्पर्शनेन तदस्पृश्यं मनसा त्ववगम्यते॥१२॥
न तदाघ्रेयं तत् अक्षरम्॥१२॥
चक्षुषामविषह्यं च यत्किञ्चिच्छ्रवणात् परम्
।
अगन्धमरसस्पर्शमरूपाशब्दलक्षणम्॥१३॥
यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति
।
प्राणोऽपान: समानश्च व्यानश्चोदार एव च॥१४॥
तन्त्रं सृष्ट्यादिव्यापारः एतदेवाह- प्राणोऽपान इत्यादिना॥१४॥
तत एव प्रवर्तन्ते तदेव प्रविशन्ति च
।
समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः॥१५॥
प्राणापानयोः प्रवृत्तिरेव सृष्टिः प्रवेश एव प्रलयश्चेति भावः। समानेति। नाभिमण्डलस्थः समानः कृत्स्नदेहव्यापी व्यानः॥१५॥
तस्मिल्लीने प्रलीयेत समानो व्यान एव च
।
अपानप्रणयोर्मध्ये उदानो व्याप्य तिष्ठति
।
तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः॥१६॥
तस्मिन् अपानसहिते प्राणे लीने भ्रूघ्राणमध्ये निरुद्धे सति उदानः सर्व सन्धिस्थः इति वचनात् शङ्कुभिश्चर्मेव उदानेन प्राणापानावायतौ यस्मात्कृतौ तस्मात् अनुक्राते उदाने शयानं पुरुषं प्राणापानौ न मुञ्चतः। विमुञ्चत इति पाठे शयानमित्यस्य मृतमित्यर्थः॥१६॥
प्राणानामायतत्वेन तमुदानं प्रचक्षते
।
तस्मात् तपो व्यवस्यन्ति मद्गतं ब्रह्मवादिनः॥१७॥
प्राणानामिति। यतः प्राणानामायतत्वम् उदानाधीनम् अतस्तम् उदानम् उत्कर्षेण आनयति चेष्टयते प्राणानिति निर्वचनात्प्रचक्षते यस्मात्प्राणानां जीवोपाधीनाम् एकस्मिन् उदानेऽन्तर्भावः। तस्मात् तपः प्राणजयाख्यं भ्रुवोर्मध्ये प्राणभावेश्येत्येवंरूपम् आलोचनं वा आत्मनस्तत्तद्देहादिव्यतिरिक्तत्वस्य ब्रह्मवादिनो मद्गतं मयि मनश्चालके गतं निष्ठां प्राप्तं परात्मप्रापकं व्यवस्यन्ति निश्चिन्वन्तीत्यर्थः॥१७॥
तेषामन्योन्यभक्षाणां सर्वेषां देहचारिणाम्
।
अग्निर्वैश्वानरो मध्ये सप्तधा दीव्यतेऽन्तरा॥१८॥
मद्गतमित्यत्र मच्छब्दार्थं वैश्वानरं दर्शयति- तेषामिति। तेषां मध्ये समानस्थाने नाभिमञ्डले अन्तरा तस्यापि मध्ये॥१८॥
घ्राणं जिहा च चक्षुश्चत्वक् च श्रोत्रं च पञ्चमम्
।
मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः॥१९॥
घ्राणघ्रेयघ्रात्रादयः सप्त सप्तकरण विषयकर्तृरूपाः॥१९॥
घ्रेयं दृश्यं च पेयं च स्पृश्यं श्रव्यं तथैव च
।
मन्तव्यमथ बोद्धव्यं ताः सप्त समिधो मम॥२०॥
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः
।
मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः॥२१॥
घ्रेये पेये च दृश्ये च स्पृश्ये श्रव्ये तथैव च
।
मन्तव्येऽप्यथ बोद्धव्ये सुभगे पश्य सर्वदा॥२२॥
हवींष्यग्निषु होतार: सप्तधा सप्त सप्तसु
।
सम्यक् प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु॥२३॥
तेषां मध्ये अग्निषु घ्राणाद्यभिमानिदेवतासु हवींषि घ्रेयादीनि होतारो विषयाणामाह्वातारस्तत्कल्पका इत्यर्थः। अमुमावहामुमावहेत्यावाहयति तदेव होतुर्होतृत्वमिति श्रौतनिर्वचनात् घ्राताऽहमित्यादयोऽभिमानाः तान्सर्वान्प्रक्षिप्य गुणा गुणेषु वर्त्तन्त इति मत्वा ये न सज्जन्ते ते विद्वांसो ब्रह्मभूताः जनयन्ति पृथिव्यादीन्वक्ष्यमाणान् स्वयोनिषु स्वं ब्रह्म तदेव योनिर्येषा तेषु अग्निषु॥२३॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
।
मनो बुद्धिश्च सप्तैता योनिरित्येव शब्दिताः॥२४॥
पृथिव्यादयोऽपि सङ्घातापन्नाः योनिश्चैतन्याभिव्यक्तिस्थानम्॥२४॥
हविर्भूता गुणाः सर्वे प्रविशन्त्यग्निजं गुणम्
।
अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु॥२५॥
हविर्भूतगुणाः घ्रेयादयो विषयाः अग्निजं गुणं गन्धादिज्ञानरूपां धीवृतिं प्रविशन्ति अन्तर्वासमिति णमुलन्तं सा वृत्तिश्च संस्कारात्मना चेतसि उषित्वा स्वासु योनिषु घ्राणादिषु जायते दृष्टं रूपादिकं सुषुप्त्यादौ वासनारूपेण चित्ते स्थितं पुनर्जागरे उत्पद्यत इत्यर्थः॥२५॥
तत्रैव च निरुध्यन्ते प्रलये भूतभावने
।
ततः सञ्जायते गन्धस्ततः सञ्जायते रसः॥२६॥
एतदेवाह तत्रैव अन्तरेव ततः अन्तर एव॥२६॥
ततः सञ्जायते रूपं ततः स्पर्शोऽभिजायते
।
ततः सञ्जायते शब्दः संशयस्तत्र जायते
।
ततः सञ्जायते निष्ठा जन्मैतत्सप्तधा विदुः॥२७॥
संशयः संशयात्मकं मनः निष्ठा निश्चयात्मिका बुद्धिः॥२७॥
अनेनैव प्रकारेण प्रगृहीतं पुरातनैः
।
पूर्णाहुतिभिरापूर्णास्त्रिभिः पूर्यन्ति तेजसा॥२८॥
अनेनेति। अनेन प्रकारेण रूपादिग्रहतत्संस्कारपरम्परया प्रगृहीतं घ्राणादीनां रूपं पुरातनैर्ऋषिभिः वेदादिति शेषः। त्रिभिर्मानमेयमातृभिः पूर्ण ब्रह्म तस्य आहुतिराव्हानम्, आहुतयो वै नामैता यदाहुतय एताभिर्वै देवान्यजमानोऽऽह्वयतीति श्रुतेः तत् यैस्तैः उपाधिभूतैर्दर्पणैरिव ब्रह्मप्रज्ञापकैरित्यर्थः आपूर्णाः सर्वे लोका इति शेषः। ते च त्रयः तेजसा स्वात्मज्योतिषा पूर्यन्ति तेनैव सत्तावन्तो भवन्तीत्यर्थः। एवं दृष्टिसृष्टिरनेन श्लोकेन सूचिता॥२८॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि ब्रह्मगीतासु विंशोऽध्यायः॥२०॥
ब्राह्मण उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
निबोध दशहोतॄणां विधानमथ यादृशम्॥१॥
पूर्वत्र घ्राणाद्युपाधिर्भूतात्मा घ्राताऽहमित्याद्यभिमानवान् घ्रेयादीन् प्रकल्प्य घ्राणादींस्तर्पयतीत्युक्तम्। इदानीं प्राणेभ्यो देवा देवेभ्यो लोका इति श्रुत्यनुसारादिन्द्रियाण्येव स्वकल्पतेषु देवेषु देवद्वारा स्वकल्पितान्लोकांस्तर्पयन्तीत्युक्त्या भूतात्मनि कल्पकत्वं नास्ति अपि तु जडस्यैव तदिति विविनक्ति- अत्रापीति। अत्र दृष्टिसृष्टिप्रकारे विवेचनीये॥१॥
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चरणौ करो
।
उपस्थं वायुरिति वा होतृणि दश भामिनि॥२॥
श्रोत्रमिति। अथातो विभूतयोऽस्य पुरुषस्य तस्य वाचा सृष्टौ पृथिवी चाग्निश्चेत्याद्यैतरेयके श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्चेति वचनात् श्रोत्रं सर्वैः शब्दैः सहाप्येतीति कौषीतकीवचनाच्च दिगाद्यात्मके सूत्रात्मनि सविषयाणि श्रोत्रादीनि प्रविलापयेदित्यर्थः॥२॥
शब्दस्पर्शौ रूपरसौ गन्धो वाक्यं क्रिया गतिः
।
रेतोमूत्रपुरीषाणां त्यागो दश हवींषि च॥३॥
दिशो वायू रविश्चन्द्रः पृथ्व्यग्नी विष्णुरेव च
।
इन्द्रः प्रजापतिर्मित्रमग्नयो दश भामिनि॥४॥
दशेन्द्रियाणि होतॄणि हवींषि दश भाविनि
।
विषया नाम समिधो हूयन्ते तु दशाग्निषु॥५॥
चित्तं स्रुवश्च वित्तं च पवित्रं ज्ञानमुत्तमम्
।
सुविभक्तमिदं सर्वं जगदासीदिति श्रुतम्॥६॥
चित्तमिति। एतत्प्रविलापनं स्रुव स्थानीयेन चित्तेनैव कर्तव्यं न वायुनिरोधादिना हठेन। मनसैवेन्द्रियग्रामं विनियम्येति गीताषष्ठोक्तेः वित्तं संस्काराः पुण्यपापे वा यथा स्रुवेणाज्यमग्नौ हुत्वा स्रुवमग्निदक्षिणार्थं वित्तं च त्यजन्ति, एवं मनसा सविषयाणीन्द्रियाणि कारणे प्रविलाप्य मनः कारणं सुकृतदुष्कृते च त्यजेदिति रूपकद्वारा प्रपञ्चितम् एवं कृते यदवशिष्यते तदाह- पवित्रं ज्ञानमुत्तममिति। पवित्रम् असङ्गम् उत्तमं चरमं नातः परतरं किञ्चिदस्ति "पुरुषान्नपरं किञ्चिदिति" श्रुतेः सुविभक्तं ज्ञानात् पृथग्भूतम् इदं चित्तादिशब्दाद्यन्तम्॥६॥
सर्वमेवाथ विज्ञेयं चित्तं ज्ञानमवेक्षते
।
रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत्॥७॥
सर्वमिति। अथेति पक्षान्तरे। विज्ञेयं सर्वं चित्तमेवेति सम्बन्धः। ज्ञानं तु तत्प्रकाशकम् अवेक्षत एव केवलं न सज्जत इत्यर्थः। नन्वेवं कथं सुविभक्तानामपि ज्ञानज्ञेयानाम् अविभागप्रत्यय इत्याशङ्क्य तप्तायः पिण्डवत्सान्निध्यमात्रादित्याह रेत इत्यादिना। रेतोजन्ये शरीरेऽभिमानवान् तस्य काये षाट्कौशिके विज्ञाता जीवः सूक्ष्मशरीरभृत् लिङ्गाभिमानी अस्ति॥७॥
शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीयते
।
मनश्चाहवनीयस्तु तस्मिन्प्रक्षिप्यते हविः॥८॥
सोऽपि शरीरभृद्गार्हपत्यः हृदयं हृदयं गार्हपत्य इति गृहपतेः क्षेत्रज्ञस्यायं देश इति व्युत्पन्नगार्हपत्यशब्देन हृदयशब्दस्य सामानाधिकरण्यश्रुतेः। तस्मात् हृदयादन्यो मन आख्यः। हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमाः इति श्रुतेः। आहवनीयो मन आयतनं तच्च मुखमेव। आस्यमाहवनीय इति श्रुतेः हविः तेजोवन्नात्मकमदनीयम्। अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति श्रुतेर्हविषस्तेजोंशो जाठरं तेजः प्राप्य सद्यो वाग्रूपेण परिणमते॥८॥
ततो वाचस्पतिर्जज्ञे तं मनः पर्यवेक्षते
।
रूपं भवति वैवर्णं समनुद्रवते मनः॥९॥
ततो वाचस्पतिः वेदः प्रथमं जज्ञे मनः पार्थिवं तदनन्तरं जज्ञे अतो मनोमयः सूत्रात्मा वाचमवेक्षते सिसृक्षुः सन्। "यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै। तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये॥" मनसा वाचं मिथुनं समभवदिति श्रुतेः। तत इत्यनुषज्यते मनोऽनन्तरं रूपं भवति। रूप्यते स्पर्शेनैव प्रथते इति रूपं प्राणवायुद्रव्यम् उत्पद्यते। अन्नापेक्षया अपां जाड्यप्राधान्येन चिरपाकित्वात् तच्च रूपं वैवर्णं वर्णो नीलपीतादिस्तद्रहितं स्वार्थे तद्धितः तद्रूपं कर्तृमनः प्रति समनुद्रवति विपरीतं वा। रुद्धे चित्तेऽनिलो रुद्धो रुद्धं रुद्धेऽनिले मनः इत्युक्तेः॥९॥
ब्राह्मण्युवाच।
कस्माद्वागभवत्पूर्वं कस्मात् पश्चान्मनोऽभवत्
।
मनसा चिन्तितं वाक्यं यदा समभिपद्यते॥१०॥
अत्र मन एव पूर्वरूपं वागुत्तररूपं मनसा वा इषिता वाग्वहतीति श्रुतिं लौकिकमनुभवं चानुरुध्य शङ्कते कस्मादिति॥१०॥
केन विज्ञानयोगेन मतिश्चित्तं समास्थिता
।
समुन्नीता नाध्यगच्छत् को वै तां प्रतिबाधते॥११॥
विज्ञानयोगेन प्रमाणेन मतिः प्राणः समुन्नीता सुषुप्तौ उद्रिक्ता सती विषयान्कुतो नाध्यगच्छत् को वै तां प्रतिबाधते सुषुप्तौ को वा प्राणस्य ज्ञानशक्तिमपहरतीत्यर्थः॥११॥
ब्राह्मण उवाच।
तामपानः पतिर्भूत्वा तस्मात्प्रेषत्यपानताम्
।
तां गतिं मनसः प्राहुर्मनस्तस्मादपेक्षते॥१२॥
स्वल्पत्वात्केनेत्यस्योत्तरमादावाह- तामपान इति। अपानवशगः प्राणो न सुषुप्तौ मनोलयाल्लीयते अपानं तु स्ववशे कृत्वा समाधौ मनोलये सति लीयत एवेत्यर्थः। तस्मात्पतिभावाद्धेतोः प्रेषति नयति तां गतिमिति तां प्राणाख्यां गतिं मनसो गतिं बहिर्गमनसाधनं प्राहुः न हि वायुबलेनानुन्मीलिते नयने मनोवृत्तिर्ध्रुवमण्डलपर्यतं गन्तुं समर्था तां मतिमित्यपपाठः॥१२॥
प्रश्नं तु वाङ्मनसोर्मां यस्मात्त्वमनुपृच्छसि
।
तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम्॥१३॥
कस्मादित्यस्योत्तरमाख्यायिकामुखेनाह- प्रश्नं त्वित्यादिना। समाह्वयं सम्यक् सुखम् आह्वयन्ते विजिगीषवोऽस्मिन्निति समाह्वयः संवादस्तम्॥१३॥
उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम्
।
आवयोः श्रेष्ठमाचक्ष्व च्छिन्धि नौ संशयं विभो॥१४॥
भूतात्मानं जीवम्॥१४॥
मन इत्येव भगवांस्तदा प्राह सरस्वती
।
अहं वै कामधुक् तुभ्यमिति तं प्राह वागथ॥१५॥
तन्मते मनः श्रेष्ठ्यमनुभवसिद्धं वाचो मते दृष्टादृष्टेष्ट फलोपायो मयैव बोद्धुं शक्य इति स्वस्यैव श्रैष्ठ्यम्॥१५॥
ब्राह्मण उवाच।
स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम
।
स्थावरं मत्सकाशे वै जङ्गमं विषये तव॥१६॥
द्वयोर्विषयविभागेन साम्यमापादयन्मनआख्यो ब्राह्मण उवाच स्थावरं बाह्येन्द्रियग्राह्यं जङ्गमम् अतीन्द्रियं स्वर्गादि॥१६॥
यस्तु तं विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा
।
तन्मनो जङ्गमो नाम तस्मादसि गरीयसी॥१७॥
यद्यपि स्वर्गादिकमपि मनसो विषयस्तथापि वाचमेव द्वारीकृत्य तस्य तथात्वमस्ति अतो वागेव गरीयसीत्याह- यस्त्विति। मन्त्रादिप्रकाशितं विषयं गच्छन्मनोऽपि जङ्गमं भवतीत्यर्थः॥१७॥
यस्मादपि समाधिस्ते स्वयमभ्येत्य शोभने
।
तस्मादुच्छ्वासमासाद्य प्रवक्ष्यामि सरस्वति॥१८॥
समाधिः कामधुगस्मीति स्वपक्षपुष्टिः तेनाहं मूर्छित इवास्मि यस्मातस्मादुच्छ्वासमासाद्येति योजना॥१८॥
प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति
।
प्रेर्यमाणा महाभागे विना प्राणमपानती
।
प्रजापतिमुपाधावत्प्रसीद भगवन्निति॥१९॥
तथापि मनोनवृत्तिविशेषयोः प्राणापानयोरन्तरेव वागस्ति। स्वपिति वा प्राणे तदा वाक् भवति प्राणस्तदा वाचं रेल्हीति श्रुतेरित्याह- प्राणापानेति। रेल्हि लेढि अपानती प्राणेन अनाप्यायिता सती तारमन्द्रत्वादिभावं व्युत्सृज्यात्यन्तं नीचैस्तरा भवतीत्यर्थः॥१९॥
ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः
।
तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित्॥२०॥
व्यतिरेकमुक्त्वाऽन्वयमाह- तत इति। तस्मादप्राणवनपानन्वाचमाभिव्याहरतीति श्रुतेः यस्मादेवं तस्मादुच्छ्वासं प्राणव्यापारमासाद्य न वाग्वदति॥२०॥
घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते
।
तयोरपि च घोषिण्या निर्घोषैव गरीयसी॥२१॥
घोषिणी स्थूलघोषवती जातः निर्घोषो घोषाभावो यस्याः सा अघोषेति यावत्। तयोर्घोषिणी प्राणाप्यायनमपेक्षते तद्विना विच्छिद्यते निर्घोषा तु हंसमन्त्ररूपा सर्वास्वप्यवस्थासु प्रवर्तत इति गरीयसी॥२१॥
गौरिव प्रसवत्यर्थान् रसमुत्तमशालिनी
।
सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी॥२२॥
घोषिण्यपि गुर्वीत्याह- गौरिवेति। वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनाः स्वाहाकारः स्वधाकारो हन्तकारो वषट्कारः इति श्रुतेः। स्तनैस्तत्तत्कर्मफलरूपं रसम् अर्थान् रसमिति समानाधिकरणे द्वितीये प्रस्रवति ब्रह्मवादिनी उपनिषद्वाक् तु शाश्वतं मोक्षं स्यन्दते प्रस्रवति सततं नित्यसिद्धम्॥२२॥
दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते
।
एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयो॥२३॥
दिव्यं देवताद्याकर्षणादि अदिव्यं व्यवहारादि सामर्थ्यं तदुभयरूपो यः प्रभावस्तेन। एतयोः वाङ्मनसयोः॥२३॥
ब्राह्मण्युवाच।
अनुत्पन्नेषु वाक्येषु चोद्यमाना विवक्षया
।
किन्नु पूर्वं तदा देवी व्याजहार सरस्वती॥२४॥
व्याजहार स्वस्य वृतिलाभार्थं किं नु तत्त्वं विशेषेण आजहार आहृतवती॥२४॥
ब्राह्मण उवाच।
प्राणेन या सम्भवते शरीरे प्राणादपानं प्रतिपद्यते च
।
उदानभूता च विसृज्य देहं व्यानेन सर्वं दिवमावृणोति॥२५॥
आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया। मनः कायाग्निमाहन्ति स प्रेरयति मारुतमिति शिक्षोक्तेर्मनः प्रवर्तिताः प्राणाद्या एव वाचं निर्वर्तयन्तीत्याह- प्राणेनेति। श्रान्तो हि विवक्षुर्बाह्यं वायुमाचामति। स पुनर्नाभिस्थाने प्राणापानग्रन्थ्याधारे अपानेन सहैक्यं प्राप्य मनसा मनोभिहतकायाग्निप्रेरित ऊर्ध्वमुतप्लुत्य उरः कण्ठशिरः स्थानेष्वभिघातं प्राप्य मन्द्रमध्यमतारभेदेन ध्वनिमुत्पाद्याधस्तान्मुखबिलमेत्य ताल्वादिस्थानानुरोधी मन्द्रध्वनिधर्मवतो वर्णानभिव्यज्य वेगवत्त्वस्वाभाव्याद्बहिः प्रस्थितः श्रोत्रस्थानानि संस्कृत्य वर्णाननुभाव्य वेगक्षये पुनः समानस्थानमेव पूर्ववत्प्रतिपद्यते सोऽयमर्थः श्रीभागवतेऽप्युक्तः स एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः। मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः इति॥२५॥
ततः समाने प्रतितिष्ठतीह इत्येव पूर्वं प्रजजल्प वाणी
।
तस्मान्मनः स्थावरत्वाद्विशिष्टं तथा देवी जङ्गमत्वाद्विशिष्टा॥२६॥
इत्येव इत्थमेव पूर्वं वाणी स्वोत्पत्तिप्रकारं प्रजजल्प, वाचः प्राणाधीनत्वमपि वाचः प्रभावादेव विदितमित्यर्थः, यत्र सोमः सहाग्निनेत्युक्तौ सोमाग्नी इडा पिङ्गलाधिपती मनोवाक्शब्दाभ्यामुपसंहरति- तस्मादिति। किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे वाचि हि प्राणं जुहुमः प्राणोवाऽवयोर्ह्येव प्रभवः स एवाप्ययः इति श्रुतेः। यथा स्थण्डिलस्थो वह्निर्वायुना स्थालीस्थो वायुश्च वह्निना समिध्यते अन्यतर नाशे च द्वयोरपि नाशः एवं स्वर्गाद्यर्थवादैर्मनः सङ्घुक्ष्यते ततो वागादीन् व्यापारयति तत्र वाचः प्रवर्तकस्य वायोर्निरोधे मनोरोधे वा वाङ्निरुध्यते तावतैव संसारा दर्शन रूपेष्टार्थ सिद्धौ किं यज्ञादिना। श्रुतौ तु वाक्शब्देन तत्कारणं मनोज्ञेयम्। एवं च वाङ्मनसयोः प्रत्येकं पुरुषार्थहेतुत्वाद्विशिष्टत्वमविशिष्टम्॥२६॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि ब्राह्मणगीतासु एकविंशोऽध्यायः॥२१॥
ब्राह्मण उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
सुभगे सप्तहोतॄणां विधानमिह यादृशम्॥१॥
इदानीं पूर्वोक्तघ्राणादिसप्तकस्य अन्वयव्यतिरेकाभ्यामितरेतरकार्यकारित्वं नास्तीत्युक्त्वा बुद्धिं मनस्यन्तर्भाव्य इतरेषां पञ्चानां मनोधीनत्वं मनसोऽपि व्यावहारिकार्थप्रकाशकत्वमितराधीनमितीन्द्रियमनः संवादेन तेषामन्योन्याव्यतिरेकेमुक्त्वा पूर्वोक्तमेवान्यतरजयेनोभयजयफलं सिध्यतीति प्रतिपादनार्थोऽयं सप्तहोत्राध्याय आरभ्यते- अत्रापीति। अत्र वाङ्मनसयोः समप्राधान्ये विवेचनीये॥१॥
घ्राणश्चक्षुश्च जिह्वा च त्वक् श्रोत्रं चैव पञ्चमम्
।
मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः॥२॥
सूक्ष्मेऽवकाशे तिष्ठन्तो न पश्यन्तीतरेतरम्
।
एतान्वै सप्तहोतॄंस्त्वं स्वभावाद्विद्धि शोभने॥३॥
ब्राह्मण्युवाच।
सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्यदर्शिनः
।
कथंस्वभावा भगवन्नेतदाचक्ष्व मे प्रभो॥४॥
ब्राह्मण उवाच।
गुणाज्ञानमविज्ञानं गुणज्ञानमभिज्ञता
।
परस्परं गुणानेते नाभिजानन्ति कर्हिचित्॥५॥
जिह्वा चक्षुस्तथा श्रोत्रं वाङ्मनो बुद्धिरेव च
।
न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति॥६॥
ध्राणं चक्षुस्तथा श्रोत्रं वाङ्मनो बुद्धिरेव च
।
न रसानधिगच्छन्ति जिह्वा तानधिगच्छति॥७॥
घ्राणं जिह्वा तथा श्रोत्रं वाङ्मनो बुद्धिरेव च
।
न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति॥८॥
घ्राणं जिह्वा ततश्चक्षुः श्रोत्रं बुद्धिर्मनस्तथा
।
न स्पर्शानधिगच्छन्ति त्वक् च तानधिगच्छति॥९॥
घ्राणं जिह्वा च चक्षुश्च वाङ्मनो बुद्धिरेव च
।
न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति॥१०॥
घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं बुद्धिरेव च
।
संशयं नाधिगच्छन्ति मनस्तमधिगच्छति॥११॥
घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं मन एव च
।
न निष्ठामधिगच्छन्ति बुद्धिस्तामधिगच्छति॥१२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
इन्द्रियाणां च संवादं मनसश्चैव भामिनि॥१३॥
मन उवाच।
नाघ्राति मामृते घ्राणं रसं जिह्वा न वेत्ति च
।
रूपं चक्षुर्न गृह्णाति त्वक् स्पर्शं नावबुध्यते॥१४॥
न श्रोत्रं बुध्यते शब्दं मया हीनं कथञ्चन
।
प्रवरं सर्वभूतानामहमस्मि सनातनम्॥१५॥
अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः
।
इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः॥१६॥
काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः
।
गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः॥१७॥
एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान्
।
ऋतेऽस्मानस्मादर्थोंस्त्वं भोगान् भुङ्क्ते भवान् यदि॥१८॥
यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम्
।
भोगान् भुङ्क्ते भवान् सत्यं यथैतन्मन्यते तथा॥१९॥
अथवास्मासु लीनेषु तिष्ठत्सु विषयेषु च
।
यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान् यथार्थवत्॥२०॥
अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा
।
घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा॥२१॥
श्रोत्रेण गन्धानादत्स्व स्पर्शानादत्स्व जिह्वया
।
त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च॥२२॥
बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम्
।
भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हति॥२३॥
दुर्बलीयसामस्माकं नियमा बलवन्तः श्रेष्ठाः अनियमा अपराधीनाः॥२३॥
यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति
।
ततः श्रुतमुपादाय श्रुत्यर्थमुपतिष्ठति॥२४॥
विषयानेवमस्माभिर्दर्शितानभिमन्यसे
।
अनागनानतीतांश्च स्वप्ने जागरणे तथा॥२५॥
वैमनस्यं गतानां च जन्तूनामल्पचेतसाम्
।
अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम्॥२६॥
बहूनपि हि सङ्कल्पान् मत्वा स्वप्नानुपास्य च
।
बुभुक्षया पीड्यमानो विषयानेव धावति॥२७॥
अगारमद्वारमिव प्रविश्य सङ्कल्पभोगान् विषये निबद्धान्
।
प्राणक्षये शान्तिमुपैति नित्यं दारुक्षयेऽग्निर्ज्वलितो यथैव॥२८॥
अगारं हार्दाकाशं सुषुप्तौ मोक्षे च प्रविश्य। य एषोन्तर्हृदय आकाशस्तस्मिन् शेते त्रिपादस्यामृतं दिवीति श्रुतिभ्याम् अद्वारमिव बाह्येन्द्रियवर्जितमिव स्वप्नसम्प्रज्ञातयोरिव व्युत्थानेऽपि इन्द्रियाणां वासनामात्ररूपत्वेऽपि भ्रान्तिसिद्धं स्थौल्यमपेक्ष्य इवशब्दः सङ्कल्पजान् भोगान् विषये निबद्धान् विषयवासनानुविद्धान् भुक्त्वा प्राणक्षये मनः प्रक्षये सुषुप्तावसम्प्रज्ञाते वा शान्तिमुपैति एवं दन्तानित्यादिश्लोके सूत्रितम् आहारशुद्धेः सत्त्वशुद्धिहेतुत्वं तत् आदितः एवं स्वस्याकर्तृत्वभावनयाऽन्नमश्नतः सिध्यति शुद्धचितस्य त्वयमेव बोध प्रकार इत्युक्तम्॥२८॥
कामं तु नः स्वेषु गुणेषु सङ्गः कामं च नान्योन्यगुणोपलब्धिः
।
अस्मान्विना नास्ति तवोपलब्धि स्तावदृते त्वां न भजेत् प्रहर्षः॥२९॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि ब्राह्मणगीतासु द्वाविंशोऽध्यायः॥२२॥
ब्राह्मण उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
सुभगे पञ्चहोतॄणां विधानमिह यादृशम्॥१॥
तालु जिह्वां चेत्यत्र सूत्रितमर्थं व्याकरोत्यध्यायद्वयेन- अत्रापीति। अत्र प्राणक्षये वक्तव्ये तत्र छान्दोग्ये प्राणाग्निहोत्रविद्यायां प्राणापानव्यानोदानसमानाः क्रमेणाधिलोकं द्युभूमिदिगाकाशविद्युद्रूपाः समाम्नाताः तेषां प्राणापानौ अन्योन्याधीनौ। पूरके रेचके वा क्रियमाणे अपानक्रिया निरोधात् अपाने च विरेच्यमाने प्राणगति निरोधात्। पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेदृढमित्यादिप्रकारेण मूलबन्धेन तयोरेकीकृतयोरुर्ध्वा गतिर्भवति। तदेतत्प्राणापानयोरुदानाधीनत्वं प्रागेवोक्तम्- अपानप्राणयोर्मध्ये उदानो व्याप्य तिष्ठतीति। एवं द्युभुवोः पर्जन्ययज्ञद्वारा परस्पराश्रितयोरपि आकाशाश्रितत्वं तथा नाभिदेशमात्रवर्त्ती समानः सर्वाङ्गव्यापिनो व्यानस्य वशेऽस्ति व्यानोऽपि सर्वसन्धिव्यापिन्युदाने समुच्चत्वादुच्चलति तद्व्याप्यत्वात्समानोऽप्युच्चलति एवं विद्युद्दिगाश्रिता दिक्च आकाशाश्रिता। इदमेव सर्वेषामुदानाधीनत्वं श्रुत्या तद्यथा सुहयपड्वीशशङ्कून्मखीदेदिति दृष्टान्तेनोपपादितम्। उदानोऽपि भ्रूघ्राणसन्धौ निरुध्यते यदा तदा तत्स्थो ब्रह्मणि द्युभूम्यादिसहित आकाशो निरुध्यते एवं च तस्यामवस्थाया सर्वप्रपञ्चविलयाद्योगी कृतकृत्यो भवतीति प्रघट्टकतात्पर्यं, तत्रैवं सति त्रेधा भावना प्रवर्तते प्राणाय स्वाहेत्यादिभिर्मन्त्रैः प्राणाग्निहोत्रं कुर्वन्ननेनावदानेन सर्वं द्युप्रभृति तृप्यतीति भावनया शुद्धचित्तो भवत्यन्नदोषैश्च न लिप्यते इत्येकः प्रकारः। चपलं मनः पूर्वोक्तखेचरीमुद्रया हठयोगेन निरोद्धव्यमिति द्वितीयः। अनुपदोक्तः कृत्स्नप्रपञ्चविलयस्तृतीयः। एतेषामधिकारिभेदाद्व्यवस्था। एवं सर्वाऽपि विद्याधिदेवाधिभूताध्यात्मभेदेन त्रिविधाधिकारभेदात् ज्ञेया॥१॥
प्राणापानावुदानश्च समानो व्यान एव च
।
पञ्चहोतॄंस्तथैतान्वै परं भावं विदुर्बुधाः॥२॥
ब्राह्मण्युवाच।
स्वभावात्सप्तहोतार इति मे पूर्विका मतिः
।
यथा वै पञ्चहोतारः परो भावस्तदुच्यताम्॥३॥
ब्राह्मण उवाच।
प्राणेन सम्भृतो वायुरपानो जायते ततः
।
अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते॥४॥
व्यानेन सम्भृतो वायुस्ततोदानः प्रवर्तते
।
उदाने सम्भृतो वायुः समानो नाम जायते॥५॥
तेऽपृच्छन्त पुरा सन्तः पूर्वजातं पितामहम्
।
यो नः श्रेष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यतिः॥६॥
ब्रह्मोवाच।
यस्मिन्प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे
।
यस्मिन्प्रचीर्णे च पुनश्चरन्ति स वै श्रेष्ठो गच्छत यत्र कामः॥७॥
प्राण उवाच।
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे
।
मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥८॥
अक्षरार्थः स्पष्ट एव पञ्चानामप्येषामेकस्यापि निरन्वयोच्छेद सर्वेषामुच्छेदो भवतीति सर्वेषां प्रत्येकं मयि प्रलीने प्रलयं व्रजन्तीत्युक्तिः सङ्गच्छते॥८॥
ब्राह्मण उवाच।
प्राणः प्रालीयत तत: पुनश्च प्रचचार ह
।
समानश्चाप्युदानश्च वचोऽव्रतां पुनः शुभे॥९॥
न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम्
।
न त्वं श्रेष्ठो हि नः प्राण अपानो हि वशे तव
।
प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत॥१०॥
अपान उवाच।
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे
।
मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥११॥
ब्राह्मण उवाच।
व्यानश्च तमुदानश्च भाषमाणमथोचतुः
।
अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव॥१२॥
अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत्
।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना॥१३॥
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे
।
मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥१४॥
ब्राह्मण उवाच।
प्रालीयत ततो व्यानः पुनश्च प्रचचार ह
।
प्राणापानावुदानश्च समानश्च तमब्रुवन्॥१५॥
न त्वं श्रेष्ठोऽसि नो व्यान समानस्तु वशे तव
।
प्रचचार पुनर्व्यानः समानः पुनरब्रवीत्
।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना॥१६॥
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे
।
मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥१७॥
समानः प्रचचाराथ उदानस्तमुवाच ह
।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना॥१८॥
मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणा: प्राणभृतां शरीरे
।
मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम्॥१९॥
ततः प्रालीयतोदानः पुनश्च प्रचचार ह
।
प्राणापानौ समानश्च व्यानश्चैव तमब्रुवन्
।
उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव॥२०॥
ब्राह्मण उवाच।
ततस्तानब्रवीद् ब्रह्मा समवेतान् प्रजापतिः
।
सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्यधर्मिणः॥२१॥
एवमेषां सत्वपि प्रत्येकं श्रैष्ठ्ये स्वातन्त्र्याभावादश्रैष्ठ्यमप्यस्तीत्याशयेनाह- सर्वे श्रेष्ठा न वा श्रेष्ठा इति॥२१॥
सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यधर्मिणः
।
इति तानब्रवीत् सर्वान् समवेतान् प्रजापति॥२२॥
एकः स्थिरश्चास्थिरश्च विशेषात् पञ्च वायवः
।
एक एव ममैवात्मा बहुधाप्युपचीयते॥२३॥
वस्तुवृत्तं तु मनोमात्रत्वमेव प्राणानामित्याह- एक एव ममैवात्मेति॥२३॥
परस्परस्य सुहृदो भावयन्तः परस्परम्
।
स्वस्ति ब्रजत भद्रं वो धारयध्वं परस्परम्॥२४॥
आख्यायिकातात्पर्यं तु यथा एक एव प्राणोऽध्यात्ममुपाविभेदात्पञ्चधाभूतान्योन्यस्माद्व्यावर्तते एवं परमात्मापि औपाधिकमनेकधा भावं प्राप्य मिथो हर्षविषादभोक्तृभोग्यभावं भजत इति तम्मादैकात्म्यबुद्ध्या सर्वैः सर्वत्रानुकम्पा कार्येत्युपसंहरति- धारयध्वं परस्परमिति॥२४॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि ब्राह्मणगीतासु त्रयोविंशोऽध्यायः॥२३॥
ब्राह्मण उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
नातदस्य च संवादमृर्देवमतस्य च॥१॥
उक्तमैकात्म्यमध्यारोपापवादाभ्यां प्रपञ्चयति अत्रेति॥१॥
देवमत उवाच।
जन्तोः सञ्जायमानस्य किं नु पूर्वं प्रवर्तते
।
प्राणोऽपानः समानो वा व्यानो वोदान एव च॥२॥
जतोः समष्टिव्यष्टिशरीरिणः॥२॥
नारद उवाच।
येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम्
।
प्राणद्वन्द्वं हि विज्ञेयं तिर्यगूर्ध्वमधश्च यत्॥३॥
येन निमित्तेन कारणेन ततो निमित्तादन्योऽपि तम्। तत्प्रति पूर्वं प्राक् निमित्तत्वेन एति किं तद्द्वयं प्राणद्वन्द्वं च किं तिर्यङ्मनुष्यादि ऊर्ध्वं देवादि, अधः पश्वादि एतेषां रूपं च यत्तद्विज्ञेयं, यद्वा तिर्यगित्यादिना विभुत्वमेवोच्यते॥३॥
देवमत उवाच।
केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम्
।
प्राणद्वन्द्वं च मे ब्रूहि तिर्यगूर्ध्वमधश्च यत्॥४॥
नारद उवाच।
सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते
।
रसात्सञ्जायते चापि रूपादपि च जायते॥५॥
उत्तरं सङ्कल्पाज्जायते हर्ष इति। हर्षः आनन्दः स एव सङ्कल्पाज्जन्तुरित्यनुकृष्यते जन्तुरूपेणाविर्भवतीत्यर्थः। "आनन्दाद्ध्येव खल्विमानि भूतानि जायते"सोऽकामयत बहुस्यां प्रजायेय" इति "सच्चत्यच्चाभवत्" इत्यादिश्रुतिभ्यः आनन्दमात्रं ब्रह्मैव मायया ईक्षणपूर्वकं ब्रह्माण्डपिण्डाकारत्वं प्राप्नोति। रविरिव सूर्यकान्तद्वारा वह्निप्रदीपाकारत्वमिति भावः। शब्दादपि च जायते वैदिकशब्दपूर्विकाऽपि प्रलयाग्निदग्धभौतिकसृष्टिः प्रजापतिद्वारा जायते एत इति वै प्रजापतिर्देवानसृजतेत्यादिश्रुतेस्तक्षकदग्धो वट इव काश्यपमन्त्रादित्यर्थः। रसात् रूपात् तत्तद्विषयवासनातः इदं च पर्जन्यवदीश्वरस्य साधारणेऽपि कारणत्वे बीजवदसाधारणं ज्ञेयम्॥५॥
शुक्राच्छोणितसंसृष्टात् पूर्वं प्राणः प्रवर्तते
।
प्राणेन विकृते शुक्ते ततोऽपानः प्रवर्तते॥६॥
शुक्रम् अदृष्टं शोणितं रागादि वासनामिश्रमदृष्टमवष्टभ्य प्राणो लिङ्गात्मा प्रवर्तते स्रष्टुं तेन प्राणेन विकृते जन्माद्यपक्षयान्तान्विकारान्प्रापिते शुक्रे सवासनकर्मजे देहे अपानो मृत्युश्चरमभावविकारो नाशाख्यः प्रवर्तते॥६॥
शुक्रात् सञ्जायते चापि रसादपि च जायते
।
एतद्रूपमुदानस्य हर्षो मिथुनमन्तरा॥७॥
एवं सति पुनस्तस्मिन् जन्मन्युपचितात् शुक्रात् रसाच्च यथोक्ताज्जायते एतद्रूपम् उदानस्य ब्रह्मणः आरोपितं रूपमित्यर्थः। किं तदत आह- हर्षो मिथुनमन्तरेति। मिथुनम् उक्तरूपं कारणं कार्यं च अन्तरा तयोर्मध्ये हर्षो व्याप्य तिष्ठतीत्यर्थः। ते यदन्तरा तद्ब्रह्मेति श्रुतेः। ते नामरूपे॥७॥
कामात्सञ्जायते शुक्रं शुक्रात् सञ्जायते रजः
।
समानव्यानजनिते सामान्ये शुक्रशोणिते॥८॥
प्रवृत्तिमूलात्कामात् शुक्रम् अदृष्टम् अदृष्टाच्च रजः प्रवृत्तिरिति कामकर्मणी प्रवाहेण वर्तते इत्यर्थः। एतयोर्मूलं समानव्यानौ ताभ्यां तदात्मके विद्युत् श्रोत्रे लक्ष्यते ततश्च दृष्टानुश्रविकविषयं विज्ञानं कामप्रवृत्त्योर्बीजमित्यर्थः। तथाचाहुः- जानातीच्छति प्रयतत इति॥८॥
प्राणापानाविदं द्वन्द्वमवाक् चोर्ध्वं च गच्छतः
।
व्यानः समानश्चैवोभौ तिर्यग्द्वन्द्वत्वमुच्यते॥९॥
प्राणापानाविति। इदमेव कामप्रवृत्त्याख्यं द्वन्द्वं प्राप्य प्राणापानावेव जीवोपाधिभूतौ ऊर्ध्वाधोगतिं गच्छतो न तु जीवः घटो नीयेत नाकाशं तद्वज्जीवो नभोपमः इति श्रुतेः विभोश्चिद्रूपस्य जीवस्याकाशवद्गत्ययोगात् समानव्यानौ उक्तरीत्या दृष्टं श्रुतं च तावुभौ तिर्यक् अनूर्ध्वम् अब्रह्म अतत्प्रापकत्वात्। अत एव द्वन्द्वत्वं द्वन्द्वं द्वैतं तद्भाव इति उच्यते वेदे॥९॥
अग्निर्वै देवताः सर्वा इति देवस्य शासनम्
।
सञ्जायते ब्राह्मणस्य ज्ञानं बुद्धिसमन्वितम्॥१०॥
ननु सर्वं दृष्टं श्रुतं च तिर्यग्द्वन्द्वं नेत्याह- अग्निर्वा इति। अग्निः परमात्मा तस्यैव देवस्य शासनम् आज्ञा। निःश्वसितमेतद्यदृग्वेदः इति श्रुतेः। श्रुतिस्मृती ममैवाज्ञे इति स्मृतेश्च तदाज्ञारूपो वेदः। इदं सर्वं यदयमात्मा सर्वं खल्विदं ब्रह्मेत्यादिरैकात्म्यं प्रतिपादयतीत्यर्थः। तस्य च देवस्य ज्ञानं बुद्धिसमन्वितं च परमधीवृत्तियुक्तं तत एव वेदाज्जायत इत्यर्थः॥१०॥
तस्य धूमस्तमो रूपं रजो भस्मसु तेजसः
।
सर्वं सञ्जायते तस्य यत्र प्रक्षिप्यते हविः॥११॥
तदेवाह तस्येति। यथा धूमभस्मनी अग्निरूपबहिर्भूते एवं तमोरजसी लयविक्षेपहेतुतया चिद्रूपाद्बहिर्भूते इत्यर्थः। सर्वमिति। तस्य तस्मात् यत्र अग्नौ मुख्ये भोक्तरि हविर्भोग्यं तस्मात्सर्वं सञ्जायते इदं सर्वमित्याद्युदाहृतश्रुतेरित्यर्थः॥११॥
सत्त्वात्समानो व्यानश्च इति यज्ञविदो विदुः
।
प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः॥१२॥
सत्त्वादिति। यज्ञो जीवब्रह्मणोः सङ्गतिकारणरूपो योगः समानव्यानाख्यं सर्वं दृष्टं श्रुतं च बुद्धिसत्वादेव भवतीति योगिनामनुभवसिद्धमित्यर्थः। अयं भावः- वेदे श्येनज्योतिष्टोमदहरोपासनादीनि तमोरजः सत्त्वप्रधानपुरुषयोग्यानि वर्तन्ते तेषु तेषु यज्ञविदां सात्त्विकमेव साधनं बहुमतं नेतरदिति- प्राणापानाविति। यथाऽग्निराज्यभागाभ्यामुद्दीप्यते एवं पूर्वोपाधिप्रविलापनरूपप्राणापानजयेन उदानाख्यं परं ब्रह्म मध्ये दृष्ट्वा प्रकाशत इत्यर्थः। एवं च केनायं सृज्यत इत्यस्योत्तरं सङ्कल्पादिति कश्चान्य इत्यस्य तन्मूलभूते कामकर्मणी प्राणद्वन्द्वं च सात्त्विकं तत् द्वयं समानव्यानाख्यं तिर्यगित्यादेरुतरं हर्षो मिथुनमन्तरेति च व्यक्तम्॥१२॥
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः
।
निर्द्वन्द्वमिति यत्त्वेतत्तन्मे निगदतः शृणु॥१३॥
अहोरात्रमिदं द्वन्द्वं तयोर्मध्ये हुताशनः
।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः॥१४॥
अहोरात्रं विद्याविद्ये सुप्तिजागरौ उत्पत्तिप्रलयौ वा॥१४॥
सच्चासच्चैव तद्द्वन्द्वं तयोर्मध्ये हुताशनः
।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः॥१५॥
सत् कार्यं असत्कारणं हुताशनः हुते प्रविलापिते कार्यकारणे अश्नाति निरन्वयं निगिलति न तु राहुवत्पुनरुद्गिरतीति हुताशनः शुद्धं ब्रह्म। उदानस्य उत्कर्षेण आनयति चेष्टयतीत्युदानः परमानन्दः। को ह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो न स्यादिति श्रुतेः॥१५॥
ऊर्ध्वं समानो व्यानश्च व्यस्यते कर्म तेन तत्
।
तृतीयं तु समानेन पुनरेव व्यवस्यते॥१६॥
ऊर्ध्वमिति। तत उर्ध्वं ब्रह्म येन हेतुना सङ्कल्पाख्येन समानो व्यानश्च भवति व्यानेन सर्वां दिवमावृणोति ततः समाने प्रतितिष्ठतीत्युक्तेः कारणं कार्यं च भवति तेनैव हेतुना कर्म व्यस्यते विस्तार्यते तस्मात्सङ्कल्पो निरोद्धव्यः निःसङ्कल्पस्तटस्थस्तिष्ठेदेव तन्मोक्षलक्षणमिति श्रुतेरिति भावः। ननु सुषुप्तावपि निःसङ्कल्पताऽस्तीत्यत आह- तृतीयमिति। तृतीयम् ऊर्ध्वं तुशब्दः समानवैलक्षण्यार्थः समानेन उपलक्षणेन व्यवस्यते निश्चीयते शाखयव चन्द्रः सौषुप्तात्कारणभावात्तद्विलक्षणमित्यर्थः तथाच श्रुतिः- द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः बीजनिद्रायुतः प्राज्ञः सा तु तुर्ये न विद्यत इति॥१६॥
शान्त्यर्थं व्यानमेकं च शान्तिर्ब्रह्म सनातनम्
।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः॥१७॥
निश्चयफलमाह- शान्तीति। व्यानं चकारात्समानं सनातनं ब्रह्म च एतत् त्रयम् एकं शान्तिशब्दार्थः। कार्यकारणशुद्धानां सैन्धवधनन्यायेनैक्यं मुक्तिर्न त्वाद्ययोर्निरोधमात्रं साङ्ख्याभिमतमित्यर्थः॥१७॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि ब्राह्मणगीतासु चतुर्विंशोऽध्यायः॥२४॥
ब्राह्मण उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
चातुर्होत्रविधानस्य विधानमिह यादृशम्॥१॥
एवमुपदेशप्राधान्येन ब्रह्माद्वैतमुक्त्वा उपपत्तिप्राधान्येन तत्प्रसाधयितुमध्यायान्तरमारभते- अत्रापीति। अत्र उदानस्वरूपे विवेक्तव्ये। चातुर्होत्राविधानम् इतिहासनाम तस्य विधानम् अपूर्वतया ज्ञापनम्॥१॥
तस्य सर्वस्य विधिवद्विधानमुपदिश्यते
।
शृणु मे गदतो भद्रे रहस्यमिदमद्भुतम्॥२॥
शब्दतो ज्ञातस्य पुनर्विधानम् अनुष्ठानप्रकारम्॥२॥
करणं कर्म कर्ता च मोक्ष इत्येव भाविनि
।
चत्वार एते होतारो यैरिदं जगदावृतम्॥३॥
भाविनि विशुद्धभाववति हे बुद्धे॥३॥
हेतूनां साधनं चैव शृणु सर्वमशेषतः
।
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम्
।
मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः॥४॥
हेतुनामिति। घ्राणादयो यद्यपि दशसप्तहोत्रोरुक्तास्तथाऽप्येतेषां कः कस्य हेतुरिति तत्र नोक्तम् अत्र तु युक्तिबलेन तत्साधनम् अधिकमुच्यत इति विशेष इति भावः। तत्र गन्धाद्यनुभवे प्रीत्यप्रीतिविषादाः सत्त्वरजस्तमोगुणकार्यभूता उत्पद्यन्ते ते यद्यात्मधर्माः स्यर्न तर्हि तत्स्वरूपोच्छेदं विना तस्य तद्वियोग आत्यन्तिको युज्यते। घटस्येव रूपसामान्येन। यदि प्रकृतेस्तर्हि सापि आत्मसमसत्त्वा चेत् विभुनोर्द्वयोर्वियोगायोगात्पुरुषस्य चालुप्तदृग्रूपत्वादवश्यं भोगस्य प्राप्तेरनिर्मोक्ष एव। तस्माद्रज्जूरगतुल्या प्रकृतिस्तत्कार्यं च सर्वं तादृशमेव दृष्टिसमसमयोत्पत्तिकमित्याशयेनाह- घ्राणमिति। गुणा अविद्या सैव हेतुर्येषां ते गुणहेतवः। घ्राणादिकं सप्तदशकस्य लिङ्गस्योपलक्षणम्॥४॥
गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः
।
मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः॥५॥
गन्धादयोऽपि गुणहेतुत्वमत्यजन्त एव कर्महतवः कर्मजा अपि भवन्ति। स्थूलं सर्वकर्मण एव फलमित्यर्थः॥५॥
घ्राता भक्षयिता द्रष्टा वक्ता श्रोता च पञ्चमः
।
मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः॥६॥
कर्मकर्तैव तत्तत्फलभोक्तृरूपेण घ्रात्रादिरूपो भवतीति घ्रात्रादयः कर्तृहेतवः। एतेनाकर्तुर्भोक्तृत्वं वाञ्छन्साख्यो निरस्तः। भोक्तृत्वस्यापि भोगकर्तृरूपत्वात्॥६॥
स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम्
।
अहं च निर्गुणोऽनन्तः सप्तैते मोक्षहेतवः॥७॥
एतेषामभेदमाह- स्व गुणमिति। एते घ्रात्रादयः गुणा औपाधिकं रूपं घ्राणादि तद्वन्तस्तत्साधनाः सन्तः स्वगुणं गन्धादिकं भक्षयन्ति भुञ्जते। अयं भावः यथा आकाशः कर्णशष्कुलीरूपमुपाधिं प्राप्य श्रोत्रभावं गतस्तेनैव खगुणं शब्दं प्रकाशयति एवं घ्रात्रादयोऽपि। अथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमिति श्रुतेः। स्वोपादानकघ्राणादिमन्तः स्वोपादानकमेव शब्दादिकं भुञ्जते। तथा च प्रयोगः- मेयमातारौ एकोपादानकौ भाग्यभासकत्वात् शब्दश्रोत्रवदित्यास्माद्वैतसाधकः सूचितो भवति। किं तन्मेयमात्रोर्गुणरूपयोरुपादानं तत्राह- अहं च निर्गुणोऽनन्त इति। अस्मदर्थ एव घ्राणादिगुणरहितो गन्धघ्रातृत्वादिपरिच्छेदरहितस्तयोरुपादानमित्यर्थः। एवं पृथिवी होता, द्यौरध्वर्युः, रुद्रोऽग्नीत् बृहस्पतिरूपवक्तेति च होतृमन्त्रो व्याख्यातः। तथाहि पृथवीशब्दोक्तं घ्राणादिकं अतीन्द्रियत्वसामान्यात् होतृप्रकाश्यदेवतातुल्यं होतृशब्देनोक्तम्। सुखसाधनतया द्युशब्दोक्तं गन्धादिकं दृष्टार्थत्वसामान्यादध्वर्युकर्तृकनिर्वापावघातादितुल्यम् अध्वर्युशब्देनोक्तम्। लब्धैरलब्धैश्च गन्धादिभी रोध्यमानो रोद्यमानो वा रुद्रशब्दोक्तो घ्रात्रादिः कामाग्नीन्धकत्वसामान्यादग्नीच्छब्देनोक्तः। कारणब्रह्मणोऽप्यधिष्ठानत्वेन पालकत्वाद्बृहस्पतिशब्दोक्तो निर्गुणः साक्षिमात्ररूपत्वादुपवक्ता न मुख्यो वक्ता एतदुपद्रष्टृत्वादेरप्युपलक्षणम्। तेन सर्गादौ ईक्षणस्याप्ययं कर्ता न भवति। एवं चितिः स्रुगित्यादयो दशहोत्रादिमन्त्रा अपि व्याख्येयाः। विस्तरभयात्तु नेह व्याख्यायन्ते। चित्ति चित्तादिः सर्वोप्यात्मन एव व्यूहो दशहोत्रादिशब्दानामात्ममात्रवाचकत्वस्य आत्मन्नात्मन्नित्यामन्त्रयत। तस्मै दशमहूत प्रत्यशृणोत् स दशहूतोऽभवत् दशहूतो हवै नामैष। तं वा एतं दशहूतं सन्तं दशहोतेत्याचक्षते परोक्षेण इति श्रवणात्। आमन्त्रणमनुसन्धानं प्रतिश्रवणमुपवक्तुः साक्षात्कार इति दिक्। कथं तर्हि निर्गुणस्यानन्तस्य प्रतिपत्तिरिति तत्राह- सप्तैते मोक्षहेतव इति। इन्द्रियाणां विषयाणां च ग्रहातिग्रहसंज्ञकबन्धरूपत्वात्तेषां वियोगे शब्दशष्कुल्यभावे नभसः स्वतन्मात्रत्ववदात्मनो निरुपाधेर्भेदकाभावाच्चिन्मात्ररूपेणावस्थिता एते अव्यवहिता घ्रात्रादय एव मोक्षहेतव स्यु घ्रातृत्वाद्यभिमानत्यागो मोक्ष इत्यर्थः॥७॥
विदुषां बुध्यमानानां स्वं स्वं स्थानं यथाविधि
।
गुणास्ते देवताभूताः सततं भुञ्जते हविः॥८॥
तत्त्वविदां तु न भक्षणमस्तीत्याह- विदुषामिति। स्वं स्वं स्थानं घ्राणादीनामधिष्ठानम् अविद्यादि। गुणा गुणेषु वर्तन्त इति मत्वा न सज्जत इत्युक्तेः। घ्राणादय एव घ्रेयादिषु वर्तन्ते न त्वात्मेति जानतां न घ्रातृत्वाद्यभिमानकृतो बन्धोऽस्तीत्यर्थः॥८॥
अदन्नन्नान्यथोऽविद्वान् ममत्वेनोपपद्यते
।
आत्मार्थं पाचयन्नन्नं ममत्वेनोपहन्यते॥९॥
अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम्
।
स चान्नं हन्ति तं चान्नं स हत्वा हन्यते पुनः॥१०॥
अदन्निति। अविद्वानिति च्छेदः। अन्नानि घ्रेयादीनि। अदन् भोक्तृत्वाभिमानं कुर्वन्। भोग्ये ममत्वेन ममतयोपपद्यते युज्यते ततश्च नश्यतीत्यर्थः। अत्र केवलाघो भवति केवलादीति श्रौतं दृष्टान्तमाह- आत्मार्थे इति। एकाकी मिष्टभुक्केवलपापरूप एव भवति यस्मादतः स चान्नं हन्ति नाशयति। तं चान्नं हन्ति मृत्युपरम्परया स हत्वाऽन्नं हन्यतेऽन्नेन॥१०॥
हन्ता ह्यन्नमिदं विद्वान् पुनर्जनयतीश्वरः
।
न चान्नाज्जायते तस्मिन् सूक्ष्मो नाम व्यतिक्रमः॥११॥
य इदं विद्वान् अन्नं हन्ता अन्नं भोक्ता अन्नोपलक्षितस्य कृत्स्नप्रपञ्चस्यात्मनि प्रविलापयितेत्यर्थः। स ईश्वर एव सन् पुनरन्नादेर्जनको भवति। यस्यानुवित्तः प्रतिबुद्ध आत्मा यस्मिन्सन्देहे गहने प्रविष्टः। स विश्वकृत्स हि विश्वस्य कर्त्ता तस्य लोकः स उ लोक एवेति श्रुतेः। न चेति। न कर्मणा लिप्यते पापकेनेति श्रुतेः। सर्वभोगभुजोऽपि विदुषो न भोगकृतो लेपोऽस्तीत्यर्थः॥११॥
मनसा गम्यते यच्च यच्च वाचा निगद्यते
।
श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते॥१२॥
अन्नशब्दार्थमाह- मनसेत्यादिना॥१२॥
स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत्
।
मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः॥१३॥
गुणवत्पावको मह्यं दीव्यतेऽन्तःशरीरगः
।
योगयज्ञः प्रवृत्ते मे ज्ञानवह्निप्रदोद्भवः
।
प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः॥१४॥
होमाधिष्ठानं गुणवत्पावकः कारणं ब्रह्म मह्यं मम योगं यज्ञत्वेन स्तौति- योगेति। ज्ञानमेव वह्नः सर्वकर्मदाहकत्वात्तत्प्रद उद्भवो यस्य योगयज्ञस्य स तथा प्राणः स्तोत्रम् अपानः शस्त्रं अपानसत्र इत्यपपाठः। सर्वत्यागसुदक्षिणसर्वत्यागेनैव सुतरां दक्षिणः फलजननसमर्थः॥१४॥
कर्तानुमन्ता ब्रह्मात्मा होताध्वर्युः कृतस्तुतिः
।
ऋतं प्रशास्ता तच्छस्त्रमपवर्गोऽस्य दक्षिणा॥१५॥
कर्त्ताऽहङ्कारः अनुमन्ता मनः आत्मा बुद्धिः एतत्रयं ब्रह्मैव सत्क्रमेण होत्रध्वर्यृद्गातृरूपयोगिनः इत्यर्थः। प्रशास्ता तच्छस्त्रं प्रशास्तुः शंसनम् ऋतं सत्यवचनमेवेत्यर्थः। अपवर्गः कैवल्यम्॥१५॥
ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः
।
नारायणाय देवाय यदविन्दन्पशून्पुरा॥१६॥
ऋचः तप आसीद्गृहपतिरित्याद्याः चकारात्तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिरित्यादि ब्राह्मणं च। शंसन्ति योगयज्ञे प्रमाणत्वेन कथयन्ति तैत्तिरीयादयः। नारायणविदः वेदविद आत्मविदो वा। नारायणाय आत्मप्राप्त्यर्थं यत् यदा पशूनिन्द्रियाणि अविन्दन् वश्यत्वेन प्राप्तवन्तः॥१६॥
तत्र सामानि गायन्ति तत्र चाहुर्निदर्शनम्
।
देवं नारायणं भीरु सर्वात्मानं निबोध तम्॥१७॥
तत्र तदा सामानि गायन्ति आत्मलाभेन हृष्टाः सन्तः तत्र चाहुर्निदर्शनं तैत्तिरीयाः। एतत्साम गायन्नास्ते हा ३ वुहा ३ वुहा ३ वु, अहमन्नमहमन्नमहमन्नमित्यादि यज्ज्ञानाय पशुजयो यस्मिन् ज्ञाते सामानि गायन्ति तं नारायणं देवं निबोध जानीहि॥१७॥
ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः
।
नारायणाय देवाय यदविन्दन् पशून् पुरा॥१८॥
तत्र सामानि गायन्ति तत्र चाहुर्निदर्शनम्
।
देवं नारायणं भीरु सर्वात्मानं निबोध तम्॥१९॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि ब्राह्मणगीतासु पञ्चविंशोऽध्यायः॥२५॥
ब्राह्मण उवाच।
एकः शास्ता न द्वितीयोऽस्ति शास्ता यो हृच्छयस्तमहमनुब्रवीमि
।
तेनैव युक्तः प्रवणादिवोदकं यथानियुक्तोऽस्मि तथा वहामि॥१॥
नारायणस्वरूपमेव कथयति- एक इत्यादिना। प्रवणादिव नीचादिव। प्रणवादित्यपपाठ॥१॥
एको गुरुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि
।
तेनानुशिष्टा गुरुणा सदैव लोके द्विष्टाः पन्नगाः सर्व एव॥२॥
अन्तर्यामिरूपेण तस्य शास्तृत्वमुक्त्वा गुरुबन्धरूपेणापि तदाह- एको गुरुरिति द्वाभ्याम्। द्विष्टा द्वेषवन्तः॥२॥
एको बन्धुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि
।
तेनानुशिष्टा बान्धवा बन्धुमन्तः सप्तर्षयः पार्थ दिवि प्रभान्ति॥३॥
एक: श्रोता नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि
।
तस्मिन्गुरौ गुरुवासं निरुष्य शक्रो गतः सर्वलोकामरत्वम्॥४॥
स एव शास्योऽपीत्याह- एकः श्रोतेति द्वाभ्याम्। अत्र एकस्मिन्नपि शास्तरि शास्यता बुद्धिभेदेन॥४॥
एको द्वेष्टा नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि
।
तेनानुशिष्टा गुरुणा सदैव लोके द्विष्टाः पन्नगाः सर्व एव॥५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
प्रजापतौ पन्नगानां देवर्षीणां च संविदम्॥६॥
देवर्षयश्च नागाश्चाप्यसुराश्च प्रजापतिम्
।
पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यतामिति॥७॥
देवाश्च ऋषयश्चेति द्वन्द्वः॥७॥
तेषां प्रोवाच भगवाश्रेयः समनुपृच्छताम्
।
ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन् दिशः॥८॥
प्राद्रवन्प्रतिपेदिरे दिशो बहून्मार्गान्॥८॥
तेषां प्रद्रवमाणानामुपदेशार्थमात्मनः
।
सर्याणां दंशने भावः प्रवृत्तः पूर्वमेव तु॥९॥
आत्मन स्वस्य उपदेश ओमित्येकाक्षरं ब्रह्मेति वाक्यं तस्य अर्थम्। प्रद्रवमाणाना तात्पर्येणानुसरतां तेषां मध्ये सर्पाणां प्रणवोच्चारणे मुखस्य उन्मीलननिमीलनयोरेव दृष्टिं कृत्वा स्वीयस्वभावानुकूलं मुखोन्मीलननिमीलनसाध्यं दंशनमेव श्रेय इति मन्वानानाम्॥९॥
असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः
।
दानं देवा व्यवसिता दममेव महर्षयः॥१०॥
एवमसुराणामोष्ठचालनमात्रे दत्तदृष्टीनां दम्भे जपाद्यभिनयप्रदर्शनरूपे भावो निश्चयः प्रवृत्तः। देवास्तु लोके प्रार्थितम् ओमित्यनुजानन्तीति बुद्ध्वा दानं श्रेय इति निश्चिता। महर्षयस्तु ओमित्यस्योच्चारणे ओष्ठप्रवृत्त्युपसंहारं दृष्ट्वा सर्वप्रवृत्त्युपसंहाररूपं दम्भं श्रेयो मेनिरे॥१०॥
एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः
।
नाना व्यवसिताः सर्वे सर्पदेवर्पिदानवाः॥११॥
शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम्
।
पृच्छतस्तदतो भूयो गुरुरन्यो न विद्यते॥१२॥
तस्मात्स्वयमेव स्वस्य गुरुरित्याह- शृणोतीति। पृच्छत शिष्यान्प्रति तत् श्रुत गृहीतं च भूय श्रावयति ग्राहयतीति च विपरिणामेनानुषज्य योज्यं य एवंविधः अतोऽन्यो गुरुर्न विद्यते इति सम्बन्धः॥१२॥
तस्य चानुमते कर्म ततः पश्चात् प्रवर्तते
।
गुरुर्बोद्धा च श्रोता च द्वेष्टा च हृदि निःसृतः॥१३॥
अयमेव स्वसंस्कारवशात्पापचर्यादिरूपो भवतीत्याह- गुरुरित्यादिना॥१३॥
पापेन विचरल्लौके पापचारी भवत्ययम्
।
शुभेन विचरल्लौके शुभचारी भवत्युत॥१४॥
कामचारी तु कामेन य इन्द्रियसुखे रतः
।
ब्रह्मचारी सदैवैष य इन्द्रियजये रतः॥१५॥
अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः
।
ब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम्॥१६॥
ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसम्भवः
।
आपो ब्रह्म गुरुर्बह्म स ब्रह्मणि समाहितः॥१७॥
तत्र मुख्यब्रह्मचारिण आश्रमधर्मलोपोऽपि न दोष इत्याह- ब्रह्मैव समिध इति॥१७॥
एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः
।
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिताः॥१८॥
क्षेत्रज्ञेन तत्त्वदर्शिना अनुदर्शिता अनुदर्शनं कारिता अनुशिष्टा इत्यर्थः॥१८॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि ब्राह्मणगीतासु षड्विंशोऽध्यायः॥२६॥
ब्राह्मण उवाच।
सङ्कल्पदंशमशकं शोकहर्षहिमातपम्
।
मोहान्धकारतिमिरं लोभव्याधिसरीसृपम्॥१॥
ननु पापचर्यादिस्वभाव एवात्मा तर्हि किं ब्रह्मचर्येणेत्याशङ्क्यात्मनोऽसङ्गत्व प्रतिपादयितुं वनाध्यायमारभते- सङ्कल्पेति। अध्वान अतीत्य तन्महादुर्गं वनं प्रविष्टोऽस्मीत्यन्वय॥१॥
विषयैकात्ययाध्वानं कामक्रोधविरोधकम्
।
तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद् वनम्॥२॥
विषयो विशेषेण बन्धक एकेनैवात्येतव्यो न पुत्रधनादिसहायवतेत्येवंरूपोऽध्वा ससारमार्गस्तं विषयैकात्ययाध्वानं वनं ब्रह्म किंस्विद्वन क उ स वृक्ष आसेति श्रुतौ वनवृक्षशब्दयोर्ब्रह्मदेहादिवाचित्वदर्शनात्॥२॥
ब्राह्मण्युवाच।
क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः
।
गिरयः पर्वताश्चैव कियत्यध्वनि तद्वनम्॥३॥
वनोक्त्यैवाक्षिप्ता वृक्षादयोऽपि पृच्छ्यन्ते- के इति॥३॥
ब्राह्मण उवाच।
नैतदस्ति पृथग्भावः किञ्चिदन्यत्ततः सुखम्
।
नैतदस्त्यपृथग्भावः किञ्चिद्दुःखतरं ततः॥४॥
षट्सु प्रश्नेषु आद्यस्योत्तरम्- नैतदिति। ततः पृथक् भावोऽस्तीति यत् एतन्न ततोन्यत्किञ्चित्सुखमस्तीति यत् एतन्नेति योजना सत्ता सुखं च सर्वं ब्राह्ममेव कार्येषु दृश्यते न तत्र तद्द्द्वयं पृथगस्तीत्यर्थः। ननु ब्रह्मैव कार्याकारमभून्नेत्याह- नैतदिति। तत अपृथक् अभेदेन भाव वियदादिपदार्थोऽस्तीति यत् एतन्न। ब्रह्मजगतोर्न मृद्घटवद्धेतुहेतुमद्भावोपि तु शुक्तिरजतवदित्यतस्तयोर्भेद एव निषिध्यते न त्वभेदो विधीयते न हि रजतं शुक्तेरतिरिक्तमस्ति। नापि तया समानसत्ताकं येन तदभिन्न स्यादिति भाव। तथा ततो वनादन्यत्स्वर्गादि दुःखतरं दुःखतारक कर्मास्तीति यत् एतन्न। आत्यन्तिकदुःखनिवृत्तीप्सुना श्रमेणापि संसारमार्गमतीत्य तद्वनं प्रवेष्टव्यमिति भावः॥४॥
तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति महत्तरम्
।
नास्ति तस्मात्सूक्ष्मतरं नास्त्यन्यत्तत्समं सुखम्॥५॥
न तत्राविश्य शोचन्ति न प्रहष्यन्ति च द्विजाः
।
न च बिभ्यति केषाञ्चित्तेभ्यो बिभ्यति केचन॥६॥
केषाञ्चित्पञ्चम्यर्थे षष्ठी॥६॥
तस्मिन्वने सप्त महाद्रुमाश्च फलानि सप्तातिथयश्च सप्त
।
सप्ताश्रमाः सप्त समाधयश्च दीक्षाश्च सप्तैतदरण्यरूपम्॥७॥
ब्रह्म वनं ब्रह्म स वृक्ष आसीदिति वनवृक्षयोर्मुख्यामुख्यब्रह्मभावदृष्टेस्तयोरधिष्ठानाव्यस्तभावं विवक्षन्नाह- तस्मिन्वने इति। एतदरण्यरूपमिति च। अत्र महदहङ्कारपञ्चतन्मात्राणि सप्त द्रुमास्तैस्तत्सङ्घातरूपो देहो लक्ष्यते। तस्य कारणं फलशब्दोदितं यागाद्यपूर्वम्। तस्यापि कारणं देवतारूपातिथिप्रीतिसाधनत्वादतिथिशब्दोक्ता यागक्रिया। तस्याः कारणमाश्रमशब्दोदितः क्रियाश्रयः कर्ता। अस्यापि कारणं समाधय सम्यगाधीयन्ते कर्मस्वभिनिवेश्यन्ते जना यैस्ते तथाभूता रागादयः। तेषा मूलं धर्मान्तरपरिग्रहलक्षणा दीक्षा देहादिधर्मस्वीकाररूपोऽभ्यासः। एवं देहपूर्वकोऽध्यासस्तत्पूर्वकाश्च रागादिदेहान्ता एवमिदं चक्रमनिशमावर्तमानमात्मसत्तया स्फूर्जदपि नात्मा तद्धर्मैरनुरज्यते इत्यर्थ॥७॥
पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च
।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद् वनम्॥८॥
पञ्चवर्णानि शब्दादिभेदात्पञ्चरूपाणि पुष्पाणि शब्दाद्यनुभवा फलानि तज्जा प्रीत्यादयः पादपा मनांसि जीवभेदाद्वृत्तिभेदाद्वा बहुवचनम्॥८॥
सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च
।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद् वनम्॥९॥
सुवर्णानि श्वेतपीतादि शोभनवर्णवन्ति। द्विवर्णानि सुखदुःखोभयहेतुत्वाद्विरूपाणि पादपाश्चक्षूंषि इन्द्रियान्तरेष्वप्येतत्तुल्यम्॥९॥
सुरभीणि द्विवर्णानि पुष्पाणि च फलानि च
।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद् वनम्॥१०॥
सुरभीणि स्वर्गादीनि द्विवर्णत्वं तत्राप्यविशिष्टं पादपा यज्ञादयः॥१०॥
सुरभीण्येकवर्णानि पुष्पाणि च फलानि च
।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद् वनम्॥११॥
सुरभीण्येकवर्णानि सुखैकरूपाणि पादपा याज्ञादयः॥११॥
बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च
।
विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः॥१२॥
बहूनि अतीतानागतवर्तमानानि। अव्यक्तवर्णानि वर्णं स्वरूपम्। मूढानां मनोरथमात्राणि योगिनां तु सङ्कल्पात्प्रागव्यक्तवर्णानि। महावृक्षौ बुद्धिमनसी॥१२॥
एको वह्निः सुमना ब्राह्मणोऽत्र पञ्चेन्द्रियाणि समिधश्चात्र सन्ति
।
तेभ्यो मोक्षाः सप्त फलन्ति दीक्षा गुणाः फलान्यतिथयः फलाशाः॥१३॥
वह्निरात्मा सुमना इत्यत्र मनःशब्देन बुद्धिमनसी लुक्- स्रुक्स्रुवस्थानीये इन्द्रियाणि समिधश्च हौम्यम्। "यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश्च न विचेष्टनि तामाहुः परमां गतिम्" इति श्रुते। सर्वेषां प्रविलापनं होमः तेभ्यो मनआदिभ्यो हुतेभ्य सप्त मोक्षाः मुक्तिः अपादानबहुत्वस्य मोक्षेप्युपचारात् मोक्ष इति बहुत्वम्। ननु मुक्तस्य दीक्षाख्योऽध्यासोऽस्ति न वा। नान्त्यः। ज्ञानसमकालमेव देहपातापत्तेः। आधे अध्यासवत उक्तक्रमेण देहान्तरोत्पत्तिनिवार्येत्याशङ्क्याह- फलन्ति दीक्षा इति। मुक्तानां दीक्षाः फलन्त्येव न तु देहान्तरमारभन्ते कुत एतत् यतो गुणा फलानि विदुषः सत्यपि देहादिप्रतिभासे कर्तृत्वाभिनिवेशाभावाद्दानादिनोत्पन्नमप्यपूर्वं न देहान्तरारम्भकम्। अत एव गुणभूतान्येवापूर्वाणि क्व तर्हि तेषामुपयोग अतिथयः फलाशाः अतिथयो देवता एव फलाशाः ईश्वरस्येव तेषां परार्थैव क्रिया न स्वार्थेत्यर्थः। तथा च श्रुतिः- तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्या द्विषन्तः पापकृत्यामिति तदा विद्वान्पुण्यपापे विधूयेत्यादि॥१३॥
आतिथ्यं प्रतिगृह्णन्ति तत्र तत्र महर्षयः
।
अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम्॥१४॥
महर्षय इन्द्रियाधिष्ठातारो देवाः। अन्यत्तेभ्यो विलक्षणं द्वैतदर्शनाभावात् रोचते दीप्यते॥१४॥
प्रज्ञावृक्षं मोक्षफलं शान्तिच्छायासमन्वितम्
।
ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम्॥१५॥
प्रज्ञा साक्षात्कारः ज्ञानम् आगमाचार्योपदेशजम्॥१५॥
येऽधिगच्छन्ति तं सन्तस्तेषां नास्ति भयं पुनः
।
ऊर्ध्वं चाधश्च तिर्यक्च तस्य नान्तोऽधिगम्यते॥१६॥
भयाभावे हेतुमाह- ऊर्ध्वमिति। तस्य प्रज्ञावृक्षस्य सर्वस्य चिन्मात्रत्वं पश्यन्भेददर्शनाभावान्न बिमेतीत्यर्थः। द्वितीयाद्वै भयं भवतीति श्रुतेः॥१६॥
सप्त स्त्रियस्तत्र वसन्तुि सद्यस्त्ववाङ्मुखा भानुमत्यो जनित्र्यः
।
अर्ध्वं रसानाददते प्रजाभ्यः सर्वान् यथा सत्यमनित्यता च॥१७॥
जीवन्मुक्तस्यैश्वर्यमाह- सप्त स्त्रिय इति। तत्र वृक्षाधिगन्तरि स्त्रियो घ्राणादिवृत्तयः सद्यो जनित्र्य इत्यस्य सङ्कल्पसिद्धा इत्यर्थः। "सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति" इति श्रुते। अवाङ्मुखा पुरुषं वशीकर्तुमशक्तत्वेन लज्जिता। भानुमत्यश्चिज्ज्योतिर्मया प्रजाभ्य ऊर्ध्वम् उत्कृष्टं यथा स्यात्तथा। सर्वान् रसान् विषयजाल्हादान् आददते भुञ्जते ऊर्ध्वत्वमेवाह दृष्टान्तेन- यथा सत्यमनित्यता चेति। नित्यानित्ययोर्यावदन्तरं तावद्बुद्धमूढसुखयोरित्यर्थः॥१७॥
तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोपयन्ति च
।
सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखैः सह॥१८॥
प्राणा वा ऋषय इति श्रुतेः सप्तर्षीणामिन्द्रियाणां लयोदयस्थानं विद्वानेवेत्याह- तत्रैवेति। तत्रोपयन्ति तत उद्यन्ति यः कश्चिद्धूतो भावी वर्तमानो वा वसिष्ठोऽतिशयेन वसुमान्॥१८॥
यशो वर्थो भगश्चैव विजयः सिद्धतेजसः
।
एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम्॥१९॥
यशो यशस्वी वर्चो दीप्तिस्तद्वानित्यादि ते सर्वे एवं भास्करं क्षेत्रज्ञं भास्करम् अनुवर्तन्त इत्यर्थ॥१९॥
गिरयः पर्वताश्चैव सन्ति तत्र समासतः
।
नद्यश्च सरितो वारि वहन्त्यो ब्रह्मसम्भवम्॥२०॥
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यतीत्यस्या श्रुतेरर्थं संक्षिपति- गिरय इत्यादिना॥२०॥
नदीनां सङ्गमश्चैव वैताने समुपह्वरे
।
स्वात्मतृप्ता यतो यान्ति साक्षादेव पितामहम्॥२१॥
वितानो योगयज्ञविस्तारस्तस्येदं स्थानं वैतानं हार्दाकाशं समुपह्वरे अत्यन्तगूढे॥२१॥
कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः
।
आत्मन्यात्मानमाविश्य ब्रह्माणं समुपासते॥२२॥
के यान्तत्यित आह- कृशाशा इति॥२२॥
शममप्यत्र शंसन्ति विद्यारण्यविदो जनाः
।
तदारण्यमभिप्रेत्य यथाधीरभिजायत॥२३॥
अरण्यं प्राप्यमभिप्रेत्य शमं शंसन्तीति योजना शममपि शममेव विद्यारण्यविदः विधैकप्राप्यब्रह्मविदः यथा धीरं बुद्धिगतिमनतिक्रम्येत्यर्थः॥२३॥
एतदेवेदृशं पुण्यमरण्यं ब्राह्मणा विदुः
।
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना॥२४॥
विदित्वा शास्त्रतो ज्ञात्वा अनुतिष्ठन्ति शमादिपरा भवन्ति तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः। एवंवित् शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽत्मन्येवात्मानं पश्येदित्यादिश्रुतिभ्यो न शुष्कज्ञानात्कृतकृत्यतेत्यर्थः॥२४॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि ब्राह्मणगीतासु सप्तविंशतितमोऽध्यायः॥२७॥
ब्राह्मण उवाच।
गन्धान्न जिघ्रामि रसान्न वेध्मि रूपं न पश्यामि न च स्पृशामि
।
न चापि शब्दान्विविधान् शृणोमि न चापि सङ्कल्पमुपैमि कञ्चित्॥१॥
एको वह्निरिति श्लोके विदुषा कर्तृत्वाभिमानाभावात्कृतेनापि कर्मणा बन्धो नास्तीत्युक्तं तद्विवृणोति गन्धानित्यादिना। निवृत्तक्षेत्रस्वाम्यस्य क्षेत्रिकस्य क्षेत्रवृद्धिह्रासाभ्यां दृश्यमानाभ्यामपि न हर्षविषादौ भवत एवं विविकात्मदर्शिनो गुणकृतै कर्मभिर्न सङ्गोऽस्तीत्यर्थ॥१॥
अर्थानिष्टान्कामयते स्वभाव: सर्वान्द्वेष्यान्प्रद्विषते स्वभावः
।
कामद्वेषावुद्भवतः स्वभावात् प्राणापानौ जन्तुदेहान्निवेश्य॥२॥
अर्थानिति। स्वभावो बुद्ध्यादीनां तत्र दृष्टान्तः- कामेति। यथा कामद्वेषयोरुद्भवाभावेऽपि जन्तूनां देहान्प्राणापानौ प्रवेश्य प्रवेशयितर्यननुसन्दधानेऽपि सुषुप्त्यादौ स्वभावादेव प्राणापानौ स्वकार्यम् अन्नपाकादि कुरुत एव बुद्ध्यादिरपि जाग्रत्स्वप्नयोः स्वभावादेव अर्थेषु कामादिमान् भवति न त्वहमित्यर्थः॥२॥
तेभ्यश्चान्यांस्तेषु नित्यांश्च भावान् भूतात्मानं लक्षयेरशरीरे
।
तस्मिस्तिष्ठन्नास्मि सक्तः कथञ्चित् कामक्रोधाभ्यां जरया मृत्युना च॥३॥
तेभ्यश्चेति। बाह्यघ्राणघ्रेयादिभ्योन्यान्स्वाप्नान्वासनामयान् घ्राणघ्रेयादीन् स्वरूपसाम्येप्येतेषामन्यत्वमेकत्रानुभूतस्य सुखादेरन्यत्राप्रसङ्गात् ज्ञेयं तेषु स्वाप्नेषु नित्यानुगतान् अधिष्ठानगतान् भावान् त इमे सत्याः कामा इत्यादिश्रुतिप्रसिद्धान् तेभ्योऽन्यान् तेभ्योऽप्यन्यं भूतात्मानं शरीरे योगिनो लक्षयेरन् घ्राणादिदेवताभ्योऽप्यान्तरमात्मानं जानन्त कथं बाह्यैर्घ्राणादिधर्मैर्लिप्येरन्नित्यर्थः। एतदेव स्पष्टयति- तस्मिन् भूतात्मनि तिष्ठन्सक्तो नास्मि। असङ्गो ह्ययं पुरुष इति श्रुते॥३॥
अकामयानस्य च सर्वकामानविद्विषाणस्य च सर्वदोषान्
।
न मे स्वभावेषु भवन्ति लोपास्तोयस्य बिन्दोरिव पुष्करेषु॥४॥
नित्यस्य चैतस्य भवन्ति नित्या निरीक्ष्यमाणस्य बहुस्वभावान्
।
न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम्॥५॥
एतस्य प्रतीचो ज्ञातस्य सत्याः कामा इति शेषः। सत्यकाम सत्यसङ्कल्प इति श्रुतेः निरीक्ष्यमाणस्य दृश्यरूपस्य भोगजालं बहूनां घ्रान्नादीनां स्वभावभूतं सद्विदुषि न सज्जते सक्तं भवति कर्मसु क्रियमाणेष्वपि सत्स्विति शेषः॥५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
अध्वर्युयतिसंवादं तं निबोध यशस्विनि॥६॥
अत्रात्मनोऽसङ्गत्वे॥६॥
प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत्
।
यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन्॥७॥
तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति
।
श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा॥८॥
श्रुतिः पशुर्वै नीयमानः स मृत्युं प्रापश्यत्स देवान्नान्वकामयतैतुं त देवा अब्रुवन्नेहि स्वर्गं वै त्वा लोकं गमिष्याम इति स तथेत्यब्रवीदित्यादिः॥८॥
यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति
।
यदस्य वारिज किञ्चिदपस्तत्सम्प्रवेक्ष्यति॥९॥
यो हीति। हिशब्देन सूर्यं ते चक्षुः वातं प्राणः द्यां पृष्ठम् अन्तरिक्षमात्मा अङ्गैर्यज्ञं पृथिवीꣳ शरीरैरिति श्रौतीं प्रासिद्धिं द्योतयति॥९॥
सूर्ये चक्षुर्दिशः श्रोत्रं प्राणोऽस्य दिवमेव च
।
आगमे वर्तमानस्य न मे दोषाऽस्ति कश्चन॥१०॥
आगमे अभीषोमीयं पशुमालभेतेत्यादौ विधिस्पृष्टे निषेधानवकाशान्न हिंस्यात्सर्वा भूतानीति शास्त्रं कामकृतहिंसाविषयमित्यर्थ॥१०॥
यतिरुवाच।
प्राणैर्वियोगे च्छागस्य यदि श्रेयः प्रपश्यसि
।
छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम्॥११॥
अत्र त्वां मन्यतां भ्राता पिता माता सखेति च
।
मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः॥१२॥
एवमेवानुमन्येरस्तान् भवान् द्रष्टुमर्हति
।
तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा॥१३॥
अन्वेनं मतामन्यतामनुपितानु भ्रातासगर्भ्योऽनु सखा सयूथ्य इति मन्त्रलिङ्गात्पशोर्मात्राद्यनुमतिरपेक्षिता न च सा सम्भवति तदभावे च हिंसादेषः स्यादेवेत्यर्थः॥१३॥
प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिपु
।
शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः॥१४॥
स्वयोनिषु सूर्यं चक्षुर्गमयताद्वातं प्राणमन्ववसृजतादिति लिङ्गात्॥१४॥
इन्धनस्य तु तुल्येन शरीरेण विचेतसा
।
हिंसानिर्वेष्टुकामानामिन्धनं पशुसंज्ञितम्॥१५॥
अहिंसा सर्वधर्माणामिति वृद्धानुशासनम्
।
यदहिंस्रं भवेत् कर्म तत्कार्यमिति विद्महे॥१६॥
अहिंसाप्यशक्यप्रतिज्ञा सूक्ष्महिंसाया अपरिहार्यत्वात्तथापि दृष्टबीभत्सा हिंसा त्यजेदेवेत्याह द्वाभ्याम्- अहिंसेति॥१६॥
अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम्
।
शक्यं बहुविधं कर्तुं भवता कार्यदूषणम्॥१७॥
अहिंसा सर्वभूतानां नित्यमस्मासु रोचते
।
प्रत्यक्षतः साधयामो न परोक्षमुपास्महे॥१८॥
अध्वर्युरुवाच।
भूमेर्गन्धगुणान् भुंक्षे पिबस्यापोमयान् रसान्
।
ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान्॥१९॥
उपपातकमभ्यस्तं महापातकतां व्रजेदिति स्मृतेः सूक्ष्मापि हिंसाभ्यासाद्बहुलीभूय बाधेतैवेत्याशयेनाध्वर्युराह- भूमेरिति। नानुपहृत्य भूतानि भोगः सम्भवतीति न्यायाज्जीवतोऽपरिहार्यैव हिंसेत्यर्थः॥१९॥
शृणोष्याकाशजान् शब्दान् मनसा मन्यसे मतिम्
।
सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे॥२०॥
प्राणादाने निवृत्तोऽसि हिंसायां वर्तते भवान्
।
नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज॥२१॥
किं कथं त्वं मन्यसेऽहिंसामिति शेषः॥२१॥
यतिरुवाच।
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः
।
अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते॥२२॥
यतिरहिंसाप्रकारमसङ्गितामाह- सद्भावः सद्रूपं स्वभाचः सुतरामभावः कालत्रयेप्यसत्त्वम्॥२२॥
प्राणो जिह्वा मनः सत्त्वं सद्भावो रजसा सह
।
भावैरेतैर्विमुक्तस्य निर्द्वन्द्वस्य निराशिषः॥२३॥
प्राणादिव्यवहारस्तु रजसा मायया सह स्थितः सद्भाव एव। भ्रान्तिविशिष्टं सदेव व्यवहाररूपमित्यर्थः। एतैः प्राणादिभिर्मुक्तस्य अत एव निर्द्वन्द्वस्य ज्ञानेन दस्वैतकल्पकभ्रान्तिबाधात्॥२३॥
समस्य सर्वभूतेषु निर्ममस्य जितात्मनः
।
समन्तात् परिमुक्तस्य न भयं विद्यते क्वचित्॥२४॥
भयं प्रेत्य खादन्ति ते च तानिति शास्तोक्तम्॥२४॥
अध्वर्युरुवाच।
सद्भिरेवेह संवासः कार्यो मतिमतां वर
।
भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम॥२५॥
त्वदुपदेशादहमपि मन्त्रकृतं कुर्वन्न दुष्ये इत्याह- सद्भिरित्यादिना॥२५॥
भगवन् भगवद्बुद्ध्या प्रतिपन्नो ब्रवीम्यहम्
।
व्रतं मन्त्रकृतं कर्तुर्नापराधोऽस्ति मे द्विज॥२६॥
ब्राह्मण उवाच।
उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम्
।
अध्वर्युरपि निर्मोहः प्रचचार महामखे॥२७॥
एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः
।
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनार्थदर्शिना॥२८॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि ब्राह्मणगीतासु अष्टाविंशोऽध्यायः॥२८॥
ब्राहाण उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
कार्तवीर्यस्य संवादं समुद्रस्य च भाविनि॥१॥
इन्द्रियजय एव महच्छौर्यमित्युपोद्घातयत्यध्यायेन- अत्रापीति॥१॥
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्
।
येन सागरपर्यन्ता धनुषा निर्जिता मही॥२॥
स कदाचित्समुद्रान्ते विचरन्बलदर्पितः
।
अवाकिरन् शरशतैः समुद्रमिति नः श्रुतम्॥३॥
तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह
।
मा मुञ्च वीर नाराचान् ब्रूहि किं करवाणि ते॥४॥
मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः
।
वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो॥५॥
अर्जुन उवाच।
मत्समो यदि सङ्ग्रामे शरासनधरः क्वचित्
।
विद्यते तं समाचक्ष्व यः समासीत मां मृधे॥६॥
समुद्र उवाच।
महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः
।
तस्य पुत्रस्तवातिथ्यं यथावत् कर्तुमर्हति॥७॥
ततः स राजा प्रययौ क्रोधेन महता वृतः
।
स तमाश्रममागम्य राममेवान्वपद्यत॥८॥
स रामप्रतिकूलानि चकार सह बन्धुभिः
।
आयासं जनयामास रामस्य च महात्मनः॥९॥
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः
।
प्रदहन् रिपुसैन्यानि तदा कमललोचने॥१०॥
ततः परशुमादाय स तं बाहुसहस्रिणम्
।
चिच्छेद सहसा रामो बहुशाखमिव द्रुमम्॥११॥
तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः
।
असीनादाय शक्तीश्च भार्गवं पर्यधावयन्॥१२॥
रामोऽपि धनुरादाय रथमारुह्य सत्वरः
।
विसृजन् शरवर्षाणि व्यधमत्पार्थिवं बलम्॥१३॥
ततस्तु क्षत्रियाः केचिज्जामदग्न्यभयार्दिताः
।
विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव॥१४॥
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम्
।
प्रजा वृषलता प्राप्ता ब्राह्मणानामदर्शनात्॥१५॥
एवं ते द्रविडाऽऽभीरा: पुण्ड्राश्च शबरैः सह
।
वृषलत्वं परिगता व्युत्थानात् क्षत्रधर्मिणः॥१६॥
ततश्च हतवीरासु क्षत्रियासु पुनः पुनः
।
द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत॥१७॥
एकविंशतिमेधान्ते रामं वागशरीरिणी
।
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता॥१८॥
एकविंशतितमेधान्ते मेधो युद्धयज्ञः। "यज्ञो वै मेध" इति श्रुतेः। यान्येव सङ्ग्रामनामानि तानि यज्ञानामानीति नैरुक्तवचनात् युद्धस्यैव नाम मेध इति॥१८॥
राम राम निवर्तस्व कं गुणं तात पश्यसि
।
क्षत्रबधूनिमान् प्राणैर्विप्रयोज्य पुनः पुनः॥१९॥
तथैव तं महात्मानमृचीकप्रमुखास्तदा
।
पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन्॥२०॥
पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन्
।
नार्हन्तीह भवन्तो मां निवारयितुमित्युत॥२१॥
पितर ऊचुः।
नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर
।
नेह युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान्॥२२॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि ब्राह्मणगीतासु एकोनत्रिंशोऽध्यायः॥२९॥
पितर ऊचुः।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम॥१॥
अत्र हिंसाया अकार्यत्वे॥१॥
अलर्को नाम राजर्षिरभवत्सुमहातपाः
।
धर्मज्ञः सत्यवादी च महात्मा सुदृढव्रतः॥२॥
ससागरान्तां धनुषा विनिर्जित्य महीमिमाम्
।
कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे॥३॥
सूक्ष्मे विचारे॥३॥
स्थितस्य वृक्षमूलेषु तस्य चिन्ता बभूव ह
।
उत्सृज्य सुमहत्कर्म सूक्ष्मं प्रति महामते॥४॥
कर्म शत्रुजयादि उत्सृज्य सूक्ष्मं ब्रह्म प्रतिपत्तुं चिन्ता बभूवेति सम्बन्धः॥४॥
अलर्क उवाच।
मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः
।
अन्यत्र बाणान्धास्यामि शत्रुभिः परिवारितः॥५॥
अन्यत्र बाह्यशत्रुभ्य इति शेषः। शत्रुभिरिन्द्रियवेरिभि॥५॥
यदिदं चापलात्कर्म सर्वान्मर्त्यांश्चिकीर्षति
।
मनःप्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान्॥६॥
चिकीर्षति विक्षेप्तुमित्यर्थः। मनः प्रति हठयोगेन वायुनिरोधादिना जेषदयामीत्यर्थः॥६॥
मन उवाच।
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन
।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥७॥
नेमे इति। हठयोगे मृत्युरवश्यं सम्भवतीति भावः॥७॥
अन्यान् बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि
।
तच्छुत्वाप्यविचिन्त्याथ ततो वचनमब्रवीत्॥८॥
अलर्क उवाच।
आघ्राय सुबहून् गन्धांस्तानेव प्रतिगृध्यति
।
तस्माद् घ्राणं प्रति शरान् प्रतिमोक्ष्याम्यहं शितान्॥९॥
घ्राण उवाच।
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन
।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥१०॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि
।
तच्छुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥११॥
अलर्क उवाच।
इयं स्वादून् रसान् भुक्त्वा तानेव प्रतिगृध्यति
।
तस्माज्जिह्वां प्रति शरान् प्रतिमोक्ष्याम्यहं शितान्॥१२॥
जिह्वोवाच।
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन
।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥१३॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि
।
तच्छुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥१४॥
अलर्क उवाच।
स्पृष्ट्वा त्वग्विविधान् स्पर्शांस्तानेव प्रतिगृध्यति
।
तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः॥१५॥
त्वगुवाच।
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन
।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥१६॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि
।
तच्छुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥१७॥
अलर्क उवाच।
श्रुत्वा तु विविधाञ्शब्दांस्तानेव प्रतिगृध्यति
।
तस्माच्छ्रोत्रं प्रति शरान् प्रतिमुञ्चाम्यहं शितान्॥१८॥
श्रोत्रमुवाच।
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन
।
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम्॥१९॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि
।
तच्छुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥२०॥
अलर्क उवाच।
दृष्ट्वा रूपाणि बहुशस्तान्येव प्रतिगृध्यति
।
तस्माच्चक्षुर्हनिष्यामि निशितैः सायकैरहम्॥२१॥
चक्षुरुवाच।
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन
।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥२२॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि
।
तच्छुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥२३॥
अलर्क उवाच।
इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति
।
तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान्॥२४॥
बुद्धिरुवाच।
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन
।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि
।
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि॥२५॥
एवं घ्राणादीनां हठेन निग्रहे तत्तदिन्द्रियविकलोऽवसीदत्येव न तु कृतकृत्यो भवतीत्यर्थः॥२५॥
ब्राह्मण उवाच।
ततोऽलर्कस्तपो घोरं तत्रैवास्थाय दुष्करम्
।
नाध्यगच्छत् परं शक्त्या बाणमेतेषु सप्तसु॥२६॥
तप आलोचनम्॥२६॥
सुसमाहितचेतास्तु स ततोऽचिन्तयत्प्रभुः
।
स विचिन्त्य चिरं कालमलर्को द्विजसत्तम॥२७॥
नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः
।
स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः॥२८॥
योगात् राजयोगात् चित्तमात्रनिग्रहरूपात् एकाग्रम् द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थं तदभावे स्वरूपमात्रनिष्ठं त्वेकाग्रम्॥२८॥
इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान्
।
योगेनात्मानमाविश्य सिद्धिं परमिकां गतः॥२९॥
आत्मानं परम्ब्रह्म॥२९॥
विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह
।
अहो कष्टं यदस्माभिः सर्वं बाह्यमनुष्ठितम्॥३०॥
भोगतृष्णासमायुक्तैः पूर्वं राज्यमुपासितम्
।
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम्॥३१॥
इति त्वमनुजानीहि राम मा क्षत्रियान् जहि
।
तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे॥३२॥
अनुजानीहि अस्मदुपदेशमनु साक्षात्कुरु योगबलेन॥३२॥
इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः
।
आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम्॥३३॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि ब्राह्मणगीतासु त्रिंशोऽध्यायः॥३०॥
ब्राह्मण उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
ब्राह्मणस्य च संवादं जनकस्य च भाविनि॥१॥
ममेति द्व्यक्षरो मृत्युरित्युक्तं यत्र ममतायाः विषय एव नास्तीति जनकब्राह्मणसंवादेनाह- अत्रापीत्यादिना। अत्र लोभे निकृन्तनीये॥१॥
ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागसि
।
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत्॥२॥
इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम्
।
आचक्ष्व विषयं राजन् यावांस्तव वशे स्थितः॥३॥
सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो
।
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते॥४॥
इत्युक्तस्तु तदा राजा ब्राह्मणेन यशस्विना
।
मुहुरुष्णं विनिःश्वस्य न किञ्चित्प्रत्यभाषत॥५॥
तमासीनं ध्यायमानं राजानममितौजसम्
।
कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः॥६॥
समाश्वास्य ततो राजा विगते कश्मले तदा
।
ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत्॥७॥
जनक उवाच।
पितृपैतामहे राज्ये वश्ये जनपदे सति
।
विषयं नाधिगच्छामि विचिन्वन् पृथिवीमहम्॥८॥
पित्रिति। विषयं विशेषेण सिनोति बध्नाति तं बन्धकं ममतास्पदं नाधिगच्छामि विचिन्वन् अन्वेषमाणोऽपि। अयं भावः। पृथिवीं मिथिलाप्रजोपलक्षितमं राज्यं शरीरसुखादिकं सर्वम् अवस्थान्तरेषु व्यभिचरन्नात्मसम्बन्धितामश्नुते। यथा नीलपीतलोहितोपाधिषु। सञ्चरन्स्फटिको नीलादिवर्जितस्तद्वत्। तस्माद्विचारतो दृश्यत्वादिना स्वप्नवन्मिथ्यात्वाद्व्यभिचारित्वाच्च नात्मा तैः सम्बध्यत इति॥८॥
नाधिगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया
।
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया॥९॥
नाध्यगच्छं तदा तस्यां तदा मे कश्मलोऽभवत्
।
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता॥१०॥
तदा न विषयं मन्ये सर्वो वा विषयो मम
।
आत्मापि चायं न मम सर्वा वा पृथिवी मम॥११॥
आत्मापि देहोऽपीति प्राञ्चः। वस्तुतस्तु अयमपि मम आत्मा न भवतीति सम्बन्धः। अयमिति साभासोऽहङ्कारः सर्वेषामात्मत्वेन प्रसिद्धो मम आत्मा स्वरूपं न भवति मुकुरमुखवत् आभासत्वात्। सर्वा वा पृथिवी सर्वं दृश्यं मम आत्मा मदनन्यत्वात्। मुकुरमुखवदेव॥११॥
यथा मम तथान्येषामिति मन्ये द्विजोत्तम
।
उष्यतां यावदुत्साहो भुज्यतां यावदुष्यते॥१२॥
अयमेव न्यायो ब्रह्मादिपुत्तिकान्तेष्वित्याह- यथेति। मायामनइन्द्रियवद्दर्पणेषु हि प्रतिबिम्बितो ह्यदृश्य आत्मा ईशसूत्रविराडात्मना दृश्यो नात्मा च भवति न वस्तुत इत्यर्थः॥१२॥
व्राह्मण उवाच।
पितृपैतामहे राज्ये वश्ये जनपदे सति
।
ब्रूहि कां मतिमास्थाय ममत्वं वर्जितं त्वया॥१३॥
कां वै बुद्धिं समाश्रित्य सर्वो वै विषयस्तव
।
नावैषि विषयं येन सर्वो वा विषयस्तव॥१४॥
जनक उवाच।
अन्तवन्त इहावस्था विदिताः सर्वकर्मसु
।
नाध्यगच्छमहं तस्मान्ममेदमिति यद्भवेत्॥१५॥
आढ्यत्वदरिद्रत्वादयोऽवस्थाः॥१५॥
कस्येदमिति कस्य स्वमिति वेदवचस्तथा
।
नाध्यगच्छमहं बुद्ध्या ममेदपिति यद् भवेत्॥१६॥
कस्येदमिति। न कस्यचिदित्यर्थः। अत्र मा गृध कस्य स्विद्धनम्। (ईशो० म१) इति श्रूतिं प्रमाणयति- कस्य स्वमिति॥१६॥
एतां बुद्धिं समाश्रित्य ममत्वं वर्जितं मया
।
शृणु बुद्धिं च यां ज्ञात्वा सर्वत्र विषयो मम॥१७॥
आढ्यत्वादेरन्तवत्त्वाद्धनादिषु ममता मया त्यक्तेत्याह- एतमिति। देवाद्यर्थमेव विष्टिगृहीतस्येव मम गन्धादीनामिच्छा नात्मभोगार्थ अतो भूम्यादय एव मम वशे तिष्ठन्ति न त्वहं तेषामित्याह- श्रुणु इत्यादिना॥१७॥
नाहमात्मार्थमिच्छामि गन्धान् घ्राणगतानपि
।
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठन्ति नित्यदा॥१८॥
नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः
।
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा॥१९॥
नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषः
।
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा॥२०॥
नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये
।
तस्मान्मे निर्जितो वायुर्वशे तिष्ठन्ति नित्यदा॥२१॥
नाहमात्मार्थमिच्छामि शब्दान् श्रोत्रगतानपि
।
तस्मान्मे निर्जिताः शब्दे वशे तिष्ठन्ति नित्यदा॥२२॥
नाहमात्मार्थमिच्छामि मनो नित्यं मनोऽन्तरे
।
मनो मे निर्जितं तस्माद् वशे तिष्ठन्ति नित्यदा॥२३॥
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह
।
इत्यर्थं सर्व एवेति समारम्भा भवन्ति वै॥२४॥
ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत्
।
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम्॥२५॥
त्वमस्य ब्रह्मलाभस्य दुर्वारस्यानिवर्तिनः
।
सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः॥२६॥
त्वमस्येति। अस्य चक्रस्य आत्मापि चायं न मम सर्वा वा पृथिवी ममेत्येवंरूपस्य धीसाधनकलापस्य ब्रह्मलाभस्य ब्रह्मलाभहेतोः। दुर्वारस्य अनैकान्तिकस्य। अनिवर्तिन आत्यन्तिकस्य सत्त्वनेमिना सत्त्वगुणरूपेणावरणेन चक्रधारास्थानीयेन निरुद्धस्य प्रवर्तको मुख्यानुष्ठाता॥२६॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि ब्राह्मणगीतासु द्वात्रिंशोऽध्यायः॥३२॥
ब्राह्मण्युवाच।
नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना
।
बहु चाल्पं च संक्षिप्तं विप्लुतं च मतं मम॥१॥
उक्तमर्थमाक्षिपति- नेदमिति॥१॥
उपायं तं मम ब्रूहि येनैषा लभ्यते मतिः
।
तन्मन्ये कारणं त्वत्तो यत एषा प्रवर्तते॥२॥
मन्ये जानीयाम्॥२॥
ब्राह्मण उवाच।
अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः
।
तप:श्रुतेऽभिमन्थीतो ज्ञानाग्निर्जायते ततः॥३॥
ब्राह्मणीं बुद्धिं तपः मनननिदिध्यासनात्मकमालोचनम्। श्रुतं वेदान्तश्रवण "आत्मा वा अरे द्रष्टव्य श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इति आत्मदर्शनानुवादेन श्रवणादिविधानात्॥३॥
ब्राह्मण्युवाच।
यदिदं ब्राह्मणो लिङ्गं क्षेत्रज्ञ इति संज्ञितम्
।
ग्रहीतुं येन यच्छक्यं लक्षणं तस्य तत् क्व नु॥४॥
आक्षेपपूर्वकं ज्ञेयस्वरूपमाह- यदिदमित्यादिना। यदिदमपरोक्षं क्षेत्रज्ञ इति संज्ञितं जीवाख्यं ससङ्गं रूपं तत् ब्रह्मणोऽसङ्गस्य लिङ्गं स्वरूपमिति यत्तत्क्व नु न कथञ्चन जीवस्य ब्रह्मभावः सम्भवतीत्यर्थः। अत्रोपपत्तिमाह- ग्रहीतुमिति। यत् येन निग्रहीतुं शक्यं तत् निग्राह्यं तस्य निग्रहीतुर्लक्षणं स्वरूपम् इति क्व नु दृष्टं न क्वापीत्यर्थः। "आत्मानमन्तरो यमयति" इति जीवेशयोर्नियम्य नियामकत्वश्रवणात् मृत्यभर्त्रोरिवि न तयोरभेदसम्भावनापीति भावः॥४॥
ब्राह्मण उवाच
अलिङ्गो निर्गुणश्चैव कारणं नास्य लक्ष्यते
।
उपायमेव वक्ष्यामि येन गृह्येत वा न वा॥५॥
उत्तरमाह- अलिङ्ग इति। योऽयं क्षेत्रज्ञ उक्तः स लिङ्गं एवंरूप इति निर्देशयोग्यस्वरूपं तद्रहितः। यतो निर्गुणः। अस्य सगुणत्वं सलिङ्गत्वं च विनैव कारणं भ्रान्त्यैव भाति न सत्यं विद्यत इत्यर्थः। भ्रान्त्यपगमेन तदधिगमे उपायमेव वक्ष्यामि न वेति चित्तशुद्ध्यभावे॥५॥
सम्यगुपायो दृष्टश्च भ्रमरैरिव लक्ष्यते
।
कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम्॥६॥
सम्यगुपायो दृष्टश्च। पूर्वोक्ता श्रवणादयस्तैर्भ्रमरैरुपरि भ्रमद्भिरधस्थमगृहीतमपि सुरभिद्रव्यं लक्ष्यते। एवं श्रवणादिभिरात्मा लक्षणाद्वारेण लक्ष्यतेत्यर्थः। कोऽसावुपायः। कर्मबुद्धिः कर्मशोधिता बुद्धिः कर्मबुद्धिः। कर्मभिरशोधितायां बुद्धौ श्रवणाद्यभ्याससहस्रेणापि न गम्यत इति भावः। अबुद्धित्वादुक्तविधबुद्धिराहित्यात्। मूढा असङ्गमपि क्षेत्रज्ञं ज्ञानलिङ्गैर्बुद्ध्यादिभिराश्रितं सङ्गिनमिव मन्यन्ते। तद्वस्तु उपायेन श्रवणादिजन्यया बुद्ध्या लक्ष्यत इति सम्बन्धः॥६॥
इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते
।
पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते॥७॥
नेदं ब्रह्मज्ञानं विधिनिषेधप्रधानम्। अहेयानुपादेयप्रत्यगात्मविषयत्वात्। तथात्वे वा स्वरूपनाशानित्यत्वे दुरपन्हवे स्याताम्। अपि तु रज्जुदर्शनदशमत्वश्रवणाभ्यां सर्पादर्शनमत्वयोरिव बुद्ध्या वाक्येन वाऽविद्याध्यारोपितकार्यकारणप्रपञ्चस्य निराकरणसापेक्षमित्याह- इदं कार्यमिति। मोक्षेष्विति बहुवचनं मुक्त्यपादानभूतबुद्ध्यादितत्त्वभेदात्॥७॥
यावन्त इह शक्येरंस्तावन्तोंशान् प्रकल्पयेत्
।
अव्यक्तान् व्यक्तरूपांश्च शतशोऽथ सहस्रशः॥८॥
ते च यावन्त पञ्च सप्त एकादश त्रयोदश वा तेषां प्रत्येकं वृत्तिभेदात् शतशः सहस्रशो वा कल्पनीया इत्याह- यावन्त इति। अव्यक्तान्मायाविद्यादिरूपान् व्यक्तरूपान् शब्दादीन् उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिता इति न्यायेन शिष्यबोधार्थं मन्दमध्यमोतमाधिकारिभेदेन व्यष्टिमात्रकल्पनया वा समष्टिव्यष्टिद्वयकल्पनया वा समष्टिमात्रकल्पनया वा तत्त्वार्थयोरभेदं प्रत्याययन्नात्र वस्तुसन्तोऽनात्मपदार्थाः सन्ति। येन मोक्षापादानानि तार्किकादिवत्सङ्ख्ययाः परिच्छिद्येरन्नित्यर्थः॥८॥
सर्वान्नानार्थयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान्
।
यतः परं न विद्येत ततोऽभ्यासे भविष्यति॥९॥
तत इति। प्रथमार्थे तसि यत पर अन्यन्नास्ति तद्वस्तु भविष्यत्यधिकारी। अभ्यासे शमाद्यभ्यासे पुष्कले सति। अत्र कण्ठगतविस्मृतचामीकरवद्ब्रह्म प्राप्तिभवनं नोत्पद्यत्वेनानित्यत्वापत्तेः। "ब्रह्मैव सन् ब्रह्माप्येति"तत्त्वमसि" इत्यादिवाक्येभ्यः सिद्धवद्ब्रह्मभावश्रवणादित्यर्थः॥९॥
श्रीभगवानुवाच।
ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंक्षये
।
क्षेत्रज्ञानेन परतः क्षेत्रज्ञेभ्यः प्रवर्तते॥१०॥
क्षेत्रज्ञसंक्षये जीवस्य परमात्मनि प्रविलापने क्षेत्रज्ञानेनैव क्षेत्रज्ञात्परं ज्ञअयत इत्याह- क्षेत्रेति। क्षेत्रज्ञ एवोपाधिविलयाद्ब्रह्मैवास्तीत्यर्थः॥१०॥
अर्जुन उवाच।
क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः
।
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत॥११॥
श्रीभगवानुवाच।
मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम्
।
क्षेत्रश्र इति यश्चोक्तः सोऽहमेव धनञ्जय॥१२॥
मनो मे चित्प्ररिबिम्बगर्भं मनो जीव इत्यर्थः। मनोमुक्तः क्षेत्रज्ञोहमेव ब्रह्मैवेत्यर्थः॥१२॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि ब्राह्मणगीतासु चतुस्त्रिंशोऽध्यायः॥३४॥
अर्जुन उवाच।
ब्रह्म यत्परमं ज्ञेयं तन्मे व्याख्यातुमर्हसि
।
भवतो हि प्रसादेन सूक्ष्मे मे रमते मतिः॥१॥
पूर्वाध्यायान्ते- मनो मे ब्राह्मणं विद्धु बुद्धिं मे विद्धि ब्राह्मणीम्। क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जय॥ इति मनोबुद्ध्योर्ब्रह्मवित्त्वेन तदुपलक्षितसकलकरणप्रकाश्यमर्थजातं ब्रह्मेत्युक्तं यश्च तयोः साक्षी स चिदात्माहमिति च दर्शितम्। तत्र प्रपञ्चः साक्षी चेत्युभयमपि परं ब्रह्म उत तयोरन्यतरद्यत्परं ब्रह्म तन्मे वदेत्यर्युन उवाच- ब्रह्म यदिति। आद्ये पक्षे सप्रपञ्चं ब्रह्म ज्ञेयं द्वितीये निष्प्रपञ्चमिति तत्र सूक्ष्मे निष्प्रपञ्च एव मे मनो रमत इति स्वतुष्टिं कथयति। तेन "सता हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणस्य वृत्तयः" इति न्यायेन निष्प्रपञ्चमेव शास्त्रार्थ इति ज्ञापयति॥१॥
वासुदेव उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह॥२॥
मोक्षसंयुक्तं यस्मिन् श्रुतेः सद्यो मुक्तिरेव लभ्यत इत्यर्थः॥२॥
कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम्
।
शिष्यः पप्रच्छ मेधावी किंस्विच्छ्रेयः परन्तप॥३॥
भगवन्तं प्रपन्नोऽहं निःश्रेयसपरायणः
।
याचे त्वां शिरसा विप्र यद्ब्रूयां ब्रूहि तन्मम॥४॥
ब्रय़ताः पृच्छामि॥४॥
तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह
।
सर्वे तु ते प्रवक्ष्यामि यत्र वै संशयो द्विज॥५॥
इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः
।
प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते॥६॥
शिष्य उवाच।
कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम्
।
कुतो जातानि भूतानि स्थावराणि चराणि च॥७॥
अहं त्वमिति शास्यशासनकर्त्योर्जीवेशवरयोः प्रश्नः। यच्च ताभ्यां परम् अन्यत्सत्यमबाधितं वस्तु तदपि ब्रूहि। भूतानि वियदादीनि स्थावरादीनि भौतिकानि॥७॥
केन जीवन्ति भूतानि तेषामायुश्च किं परम्
।
किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः॥८॥
भूतानि उभयविधानि किं परमवसानं यस्य तत् किं तेषां लयस्थानमित्यर्थः। किं सत्यम् अबाधितफलं कर्म तप क्रियारूपं कायिकादिभेदेन त्रिविधं गुणाः सत्त्वादयः किंस्वरूपा इत्यर्थः॥८॥
के पन्थानः शिवाश्च स्युः किं सुखं किञ्च दुष्कृतम्
।
एतान्मे भगवन्प्रश्चान् याथातथ्येन सुव्रत॥९॥
सुखं मुख्यं प्रश्नान् वक्तुमर्हसीति सम्बन्धः॥९॥
वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः
।
त्वदन्यः कश्चन प्रश्चानेतान्वक्तुमिहार्हति॥१०॥
कश्च कोपि॥१०॥
ब्रूहि धर्मविदां श्रेष्ठ परं कौतूहलं मम
।
मोक्षधर्मार्थकुशलो भवाँल्लोकेषु गीयते॥११॥
सर्वसंशयसञ्च्छेत्ता त्वदन्यो न च विद्यते
।
संसारभीरवश्चैव मोक्षकामास्तथा वयम्॥१२॥
वासुदेव उवाच।
तस्मै सम्प्रतिपन्नाय यथावत्परिपृच्छते
।
शिष्याय गुणयुक्ताय शान्ताय प्रियवर्तिने॥१३॥
छायाभूताय दान्ताय यतते ब्रह्मचारिणे
।
तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः
।
गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिन्दम॥१४॥
गुरुरुवाच।
ब्रह्मणोक्तमिदं सर्वमृषिप्रवरसेवितम्
।
वेदविद्यां समाश्रित्य तत्त्वभूतार्थभावनम्॥१५॥
स्ववाक्ये श्रद्धोत्पादनार्थमाख्यायिकामुखेनोत्तरयति- ब्रह्मणेति। इदं त्वया पृष्टं वेदविद्या समाश्रित्य आश्रित्य नतु स्वकल्पना तत्त्वभूतस्य अबाधितस्यार्थस्य भावनं विचारो यस्मिन् तत्॥१५॥
ज्ञानं त्वेव परं विद्यः संन्यासं तप उत्तमम्
।
यस्तु वेद निराबाधं ज्ञानतत्त्वं विनिश्चयात्
।
सर्वभूतस्थमात्मानं स सर्वगतिरिष्यते॥१६॥
ज्ञानं परब्रह्मविषयम् उत्तमं तथा तप संन्यासाख्यम् उत्तमं ज्ञानतत्त्वं ज्ञानभ्य तत्त्वं याथार्थ्य घटादितत्त्वज्ञानव्यावृत्तये- निराबाधमिति। निर्गत आसमन्तात् बाधो यस्मात्। तद्धि ब्रह्मज्ञानबाध्यं न तथैतदित्यर्थः। यश्च "एतत्सर्वं सर्वभूतस्थं च आत्मानं सम्प्रज्ञातावस्थायां वेद स सर्वगतिः सर्वकामभाक् भवति तेषां सर्वेषु लोकेषु कामचारो भवति" इति श्रुतेः सार्धश्लोको वाक्यम्॥१६॥
यो विद्वान्सहसंवासं विवासं चैव पश्यति
।
तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते॥१७॥
सहसंवासं चिज्जडयोरेकलोलीभावं सम्प्रज्ञाते। विवसं तयोः पृथक्त्वं शुद्धत्वं पदार्थदर्शने। एकत्वं ईश्वरादभेदं तस्यैव नानात्वं तयोर्भिन्नत्वं व्यवहारे॥१७॥
यो न कामयते किञ्चिन्न किञ्चिदभिमन्यते
।
इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते॥१८॥
न कामयत इति ममकाराभावः। नाभिमन्यत इत्यभिमानोऽहङ्कारस्तदभावः तयोः सतोर्जीवन्नेव मुच्यत इत्यर्थः॥१८॥
प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित्
।
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः॥१९॥
प्रधानं माया। गुणाः सत्त्वादयः। तेषां तत्त्वं कल्पितत्वस्वरूपं याथात्म्यम्। सर्वभूतानां विधानं विधीयते उत्पाद्यतेऽनेनेति कारणं तदुभयज्ञो मुच्यते॥१९॥
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान्
।
महाहङ्कारविटप इन्द्रियाङ्कुरकोटरः॥२०॥
अव्यक्तम् अज्ञानं तदेव बीजप्रभवो मूल अङ्कुरश्च यस्य बिद्धिर्महतत्त्वं तदेव स्कन्धाः यस्य अहङ्कारो विटपाः पल्लवाः यस्य। इन्द्रियाण्येव अङ्कुरा अनर्थवल्लीपूर्वरूपभूता कोटरेषु छिद्रेषु यस्य॥२०॥
महाभूतविशेषश्च विशेषप्रतिशाखवान्
।
सदापर्णः सदापुष्पः सदा शुभफलोदयः॥२१॥
महाभूतानि वियदादीनि विशेषस्तिलकपुष्पकोरकस्थानीयो यस्य। विशेषा स्थूलकार्याणि तान्येव प्रतिशाखा उपशाखास्तद्वान् पर्ण उत्पद्यपतनशीलः सङ्कल्पः पुष्पं कर्मफलं सुखादि॥२१॥
अजीवः सर्वभूतानां ब्रह्मबीजः सनातनः
।
एतज्ज्ञात्वा च तत्त्वानि ज्ञानेन परमासिना॥२२॥
एतत् बीजभूनं ब्रह्म ज्ञात्वा तत्त्वानि अव्यक्तादीनि ज्ञानेन छित्वेति तेषामज्ञानकार्यत्वं रज्जूरगवदुक्तं जहाति त्यजति सार्धश्लोकः। एतेन ऊर्ध्वमूलार्थः स्मारितः॥२२॥
छित्त्वा चामरतां प्राप्य जहाति मृत्युजन्मनी
।
भूतभव्यभविष्यादि धर्मकामार्थनिश्चयम्
।
सिद्धसङ्घपरिज्ञातं पुराकल्पं सनातनम्॥२३॥
भूतेति। भूरादय आदिपदार्थः तेषामर्थान्तानां निश्चयः स्वरूपावधारणं यस्निन् तं पुराकल्पं बहुकर्तृकमन्वाख्यानम्॥२३॥
प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते
।
बुद्ध्वा यदिह संसिद्धा भवन्तीह मनीषिणः॥२४॥
पदं पदनीयम् अधिगन्तव्यं संसिद्धाः मुक्ताः॥२४॥
उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम्
।
प्रजापतिभरद्वाजौ गौतमो भार्गवस्तथा॥२५॥
पुराकल्पमेवाह- उपगम्येति॥२५॥
वसिष्ठः कश्यपश्चैव विश्वामित्रोऽत्रिरेव च
।
मार्गान्सर्वान्परिक्रम्य परिश्रान्ताः स्वकर्मभिः॥२६॥
मार्गान्कर्मगतीः परिक्रम्य पुनः पुनर्गत्वा॥२६॥
ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः
।
ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम्॥२७॥
तं प्रणम्य महात्मानं सुखासीनं महर्षयः
।
पप्रच्छुर्विनयोपेता नैःश्रेयसमिदं परम्॥२८॥
कथं कर्म क्रियात्साधु कथं मुच्येत किल्बिषात्
।
के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुप्कृतम्॥२९॥
क्रियात्कुर्वीत के नोऽस्माकम्॥२९॥
को चोभौ कर्मणां मार्गौ प्राप्नुयुर्दक्षिणोत्तरौ
।
प्रलयं चापवर्गं च भूतानां प्रभवाप्ययौ॥३०॥
प्रलयो दैनन्दिनादिर्भूतलय अपवर्ग आत्यन्तिको भूतोच्छेदो मोक्षाख्यः प्रभवाप्ययौ जन्ममृत्यू॥३०॥
इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः
।
तत्तेऽहं सम्प्रवक्ष्यामि शृणु शिष्य यथागमम्॥३१॥
यथागमं वेदानुसारि॥३१॥
ब्राह्मण उवाच
सत्याद्भूतानि जातानि स्थावराणि चराणि च
।
तपसा तानि जीवन्ति इति तद्वित्त सुव्रताः
।
स्वां योनिं समतिक्रम्य वर्तन्ते स्तेन कर्मणा॥३२॥
सत्यात् त्रैकालिकबाधरहितात् ब्रह्मणः। भूतानि अव्यक्तादीनि स्थावराणि वियदादीनि चराणि जरायुजादीनि। एतेन कुतश्चाहमिति श्लोकोक्तप्रश्नानामुत्तरमुक्तम्। तपसा कर्मणा जीवन्ति इति हेतोर्द्विजाः स्वा योनिं ब्रह्म समतिक्रम्य ध्यानच्युता विक्षेपावस्थां प्राप्य स्वकर्मणा वर्तन्त इति सार्द्धः श्लोकः॥३२॥
सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम्॥३३॥
किं सत्यमित्यस्योत्तरमाह- सत्यमिति। गुणसंयुक्तमित्यनेन निर्गुणं सत्यं एकमेव तत्र भेदहेतोर्गुणस्यैवाभावादिति दर्शितम्॥३३॥
ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः
।
सत्याद्भूतानि जातानि सत्यं भूतमयं जगत्॥३४॥
ब्रह्म ईश्वरः तपो धर्मः प्रजापतिर्जीवः भूतानि स्वादीनि जगत् जरायुजादि एतत् व्यावहारिकं गुणमयं सत्यपञ्चकम्॥३४॥
तस्मात्सत्यमया विप्रा नित्यं योगपरायणाः
।
अतीतक्रोधसन्तापा नियता धर्मसेविन:॥३५॥
यस्मात्तस्मात्सत्यमया सत्यप्रधानाः धर्मसेविनो भवन्ति॥३५॥
अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान्
।
तानहं सम्प्रवक्ष्यामि शाश्वताल्लोकभावनान्॥३६॥
अन्योन्यनियतान्परस्परभयेन धर्मातिक्रमशून्यान् वैद्यान्विद्यावतः तान्विप्रान्प्रतीति शेषः॥३६॥
चातुर्विद्यं तथा वर्णांश्चातुराश्रमिकान् पृथक्
।
धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः॥३७॥
चतस्रो धर्मार्थकाममोक्षप्रदा विद्याश्चतुर्विद्यास्ता एव चातुर्विद्यम्। तच्च प्रतिवर्णं प्रत्याश्रमं च पृथक् प्रवक्ष्यामीत्यनुषज्यते॥३७॥
पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः
।
नियतं ब्रह्मभावाय गतं पूर्वं मनीषिभिः॥३८॥
गदन्तस्तं मयाद्येह पन्थानं दुर्विदं परम्
।
निबोधत महाभागा निखिलेन परं पदम्॥३९॥
गदन्तः भो प्रवक्तारः मया वक्ष्यमाणं पन्थानं निबोधत तेन च पथा परं पदं निबोधत॥३९॥
ब्रह्मचारिकमेवाहुराश्रमं प्रथमं पदम्
।
गार्हस्थ्यं तु द्वितीयं स्याद् वानप्रस्थमतः परम्
।
ततः परं तु विज्ञेयमध्यात्मं परमं पदम्॥४०॥
आत्मानमधिकृत्य प्रवृत्तमाश्रममध्यात्मं संन्यासं परं पदमाहुरिति पूर्वेणान्वयः॥४०॥
ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः
।
नोपैति यावदध्यात्म तावदेतान् न पश्यति॥४१॥
ज्योतिरादिकं विश्वं तावत्पश्यति यावत् अध्यात्मं संन्यासपूर्वकमात्मदर्शनं नोपैति न लभते॥४१॥
तस्योपायं प्रवक्ष्यामि पुरस्तात् तं निबोधत
।
फलमूलानिलभुजां मुनीनां वसतां वने॥४२॥
वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते
।
सर्वेषामेव वर्णानां गार्हस्थ्यं तद् विधीयते॥४३॥
श्रद्धालक्षणमित्येवं धर्मं धीराः प्रचक्षते
।
इत्येवं देवयाना वः पन्थानः परिकीर्तिताः
।
सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः॥४४॥
श्रद्धा आस्तिक्यबुद्धिः सैव धर्मस्य मुख्यं लक्षणं ज्ञापकम्। श्रद्धाहीनं सर्वं व्यर्थमित्यर्थः। देवयानाः देवयानमार्गप्राप्त्युपायाः॥४४॥
एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः
।
कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ॥४५॥
एतेषामन्यतमं धर्मं यः पृथक् भिन्नम् एकमेव अध्यास्ते दृढमाश्रयति सः कालात्क्रमेण चित्तशुद्धिपरिपाके सति भूतानां प्रभवाप्ययौ स्वनिष्ठाविति सदैव निमेषोन्मेषमात्रे कालेऽनवरतं पश्यति। एतेन दृष्टिरेव सृष्टिरित्युक्तं भवति॥४५॥
अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना
।
विषयस्थानि सर्वाणि वर्तमानानि भागशः॥४६॥
हेतुना युक्त्या विषयस्थानि बुद्धिगोचराणि बुद्धिस्थानि॥४६॥
महानात्मा तथाव्यक्तमहङ्कारस्तथैव च
।
इन्द्रियाणि दशैकं च महाभूतानि पञ्च च॥४७॥
विशेषाः पञ्चभूतानामिति सर्गः सनातनः
।
चतुर्विंशतिरेका च तत्त्वसङ्ख्या प्रकीर्तिता॥४८॥
विशेषाः शब्दादयो विशेषगुणाः। एका चेति पुरुषग्रहणम्॥४८॥
तत्त्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ
।
स धीरः सर्वभूतेषु न मोहमधिगच्छति॥४९॥
तत्त्वानि यो वेदयते यथातथं गुणांश्च सर्वानखिलांश्च देवताः
।
विधूतपाप्मा प्रतिमुच्य बन्धनं स सर्वलोकानमलान् समश्नुते॥५०॥
सर्वलोकान्समश्नुते सार्वात्म्यं लभते। "य एवं वेदाहं ब्रह्मास्मि" इति " स इदं सर्वं भवति" इति श्रुतेः॥५०॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि गुरुशिष्यसंवादे पञ्चत्रिंशोऽध्यायः॥३५॥
ब्राह्मण उवाच।
तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम्
।
नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम्॥१॥
उक्तान्येव तत्त्वानि विवरीतुमुत्तरो ग्रन्थ आरभ्यते- तदिति। तत् तत्र तेषु तत्त्वेषु व्याख्यातेषु मध्ये अनुद्रिक्तं त्रिगुणमव्यक्तं विद्यात्साम्योपेतं गुणत्रयमव्यक्तपदार्थः। तच्च सर्वकार्यव्यापि ध्रुवम् आवनाशि। स्थिरम् अचञ्चलं निरारम्भमिति यावत्। तदेवाव्यक्तमुद्रिक्तं सत्पञ्चधातुकं भूतपञ्चकं नवद्वारं पुरं च विद्यात् तेषां तत्कार्यत्वात्। पञ्च खादीनि। नव तु भोकारं प्रति विषयप्रवेशद्वाराणि। पञ्च श्रोत्रादीनि मनोबुद्धिप्राणोभिमानाख्योऽहङ्कारश्च। पुरं शरीरम्॥१॥
एकादशपरिक्षेपं मनोव्याकरणात्मकम्
।
बुद्धिस्वामिकमित्येतत्परमेकादशं भवेत्॥२॥
परितः क्षिप्यते विषयभोगवासनया जीवात्मा यैस्ते परिक्षेपा इन्द्रियाणि। मनसैव व्याकरणं व्यक्तीभावो येषां ते सङ्कल्पयोनयो विषयाः तदात्मकं पुरं बुद्धिस्वामिकं च पुरम्। एतदेव पुरं परं ब्रह्म तत्राध्यस्तत्वात्। एकादश इन्द्रियं मनस्तन्मात्रं च। न केवलं भोग्यमेव मनःकल्पितम् अपितु भोक्ता भोग्यं भोगोपकरणं च सर्वं मनोमात्रमित्यर्थः। "तद्वा इदं मनस्येव परमं प्रतिष्ठितं यदिदं किञ्च" इति श्रुते॥२॥
त्रीणि स्रोतांसि यान्यस्मिन्नाप्यायन्ते पुनः पुनः
।
प्रनाड्यस्तिस्र एवैताः प्रवर्तन्ते गुणात्मिका:॥३॥
स्रोतांसि चित्तनद्याः प्रवाहाः त्रीणि। शुक्लं हिंसाशून्यधर्मप्रावण्यम्। कृष्णं हिंसाप्रावण्यम्। शुक्लकृष्णं हिंसायुक्तप्रवृत्तिधर्मप्रावण्यं चेति। एतानि यस्मिन् चित्ते विद्यमानानि तिसृनि प्रनाडीभिः संस्काररूपाभिस्त्रिगुणात्मिकाभिराप्यायन्ते पूर्यन्ते ताश्च तथैव पुनः पुनर्वर्धन्ते॥३॥
तमो रजस्तथा सत्त्वं गुणानेतान् प्रचक्षते
।
अन्योन्यमिथुनाः सर्वे तथान्योन्यानुजीविनः॥४॥
तत्र त्रीन् गुणान् अव्यक्तावयवभूतान्व्याख्याति— तम इत्यादि। अन्योन्यमिथुनत्वं दम्पतीवदेककार्योत्पादनम्। अन्योन्योपजीवेत्वं बीजाङ्कुरवत्॥४॥
अन्योन्यापाश्चयाश्चापि तथान्योन्यानुवर्तिनः
।
अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्चधातवः॥५॥
अन्योन्याश्रयत्वं त्रिदण्डविष्टम्भवत्। अन्योन्यानुवर्तित्वं प्रधानगुणभावेन गजभृत्यवत्। अन्योन्यव्यतिषक्तत्वं तेजोबन्नवत्। त्रिगुणाः गुणत्रयमयाः पञ्चधातवः पञ्चमहाभूतानि भौतिकानि चेत्यर्थः॥५॥
तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः
।
रजसश्चापि सत्त्वं स्यात्सत्त्वस्य मिथुनं तमः॥६॥
मिथुनं मथ्नातीति योगादभिभावकं तमस उद्रेके सत्त्वं नश्यति सत्त्वस्योद्रेके तमः। एवं रजस उद्रेके सत्त्वं निवर्तते सत्त्वस्योद्रेके रज इति ज्ञेयं रजस्तमसोस्तु परस्परोद्दीपकत्वान्नान्योन्यमभिभावकत्वं भवतीति तन्मिथुनद्वयं नोक्तम्॥६॥
नियम्यते तमो यत्र रजस्तत्र प्रवर्तते
।
नियम्यते रजो यत्र सत्त्वं तत्र प्रवर्तते॥७॥
नियम्यते कर्मकर्तरि प्रयोगः। तिरोधीयते इत्यर्थः। रजसस्तिरोधाने तु तमो न प्रवर्ततेऽपि तु सत्त्वमेव अप्रवृत्तिर्हि तमसः कार्यं न तु प्रवृत्तिनिरोध इत्यर्थः॥७॥
नैशात्मक तमो विद्यात्त्रिगुणं मोडसंज्ञितम्
।
अधर्मलक्षणं चैव नियतं पापकर्मसु
।
तामसं रूपमेतत्तु दृश्यते चापि सङ्गत्तम्॥८॥
नैशेति। नैशात्मकम् अन्धकाररूपम्। त्रिगुणमिति। इतरयोरपि विशेषणं त्रयाणामन्योन्यव्यतिषक्तत्वस्योक्तत्वात्॥८॥
प्रकृत्यात्मकमेवाहू रजः पर्यायकारकम्
।
प्रवृत्तं सर्वभूतेषु दृश्यमुत्पत्तिलक्षणम्॥९॥
पर्यायो वैपरीत्यम्॥९॥
प्रकाशं सर्वभूतेषु लाघवं श्रद्दधानता
।
सात्त्विकं रूपमेवं तु लाघवं साधुसम्मितम्॥१०॥
लाघवं धर्मज्ञानादिरूपं सौष्ठवम्॥१०॥
एतेषां गुणतत्त्वानि वक्ष्यन्ते तत्त्वहेतुभिः
।
समासव्यासयुक्तानि तत्त्वतस्तानि बोधत॥११॥
गुणतत्त्वानि कार्यस्वरूपाणि॥११॥
सम्मोहोऽज्ञानमत्यागः कर्मणामविनिर्णयः
।
स्वप्नः स्तम्भो भयं लोभः स्वतः सुकृतदूषणम्॥१२॥
स्वप्नो निद्रा स्तम्भो गर्वः॥१२॥
अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता
।
निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता॥१३॥
भिन्नवृत्तिता शीलभङ्गः। निर्विशेषत्वं युक्तायुक्तपरीक्षाया अभावः। अन्वत्वं सर्वेषां करणानामयथावत्प्रतिपत्तिः जघन्यगुणश्चाण्डालादिधर्मो हिंस्रत्वाशुचित्वादि। विकृतस्य विविधक्रियारूपस्याभाव अप्रवृत्तिः॥१३॥
अकृते कृतमानित्वमज्ञाने ज्ञानमानिता
।
अमैत्री विकृताभावो ह्यश्रद्धा मूढभावना॥१४॥
अनार्जवमसंज्ञत्वं कर्म पापचेतना
।
गुरुत्वं सन्नभावत्वमवशित्वमवाग्गतिः॥१५॥
अचेतना अबोधः। गुरुत्वम् आलस्यादिना गात्राणां जडत्वम्। सन्नभावत्वं नष्टभक्तित्वं देवादिषु। अवशित्वम् अजितेन्द्रियत्वम्। अवाक्गतिर्नीचकर्मानुरागः॥१५॥
सर्व एते गुणा वृत्तास्तामसाः सम्प्रकीर्तिताः
।
ये चान्ये विहिता भावा लोकेऽस्मिन् भावसंज्ञिताः॥१६॥
तत्र तत्र नियम्यन्ते सर्वे ते तामसा गुणाः
।
परिवादकथा नित्यं देवब्राह्मणवैदिकी॥१७॥
नियम्यन्ते नियमेनोपतिष्ठन्ते देवब्राह्मणवैदिकी देवादिविषयिणी। देवब्राह्मणनिन्दिका इति पाठे स्पष्टोऽर्थः॥१७॥
अत्यागश्चाभिमानश्च मोहो मन्युस्तथाक्षमा
।
मत्सरश्चैव भूतेषु तामसं वृत्तमिप्यते॥१८॥
अक्षमेति छेदः॥१८॥
वृथारम्भा हि ये केचिद्वृथा दानानि यानि च
।
वृथा भक्षणमित्येतत्तामसं वृत्तमिष्यते॥१९॥
अतिवादोऽतितिक्षा च मात्सर्यमभिमानिता
।
अश्रद्दधानता चैव तामसं वृत्तमिष्यते॥२०॥
एवंविधाश्च ये केचिल्लोकेऽस्मिन् पापकर्मिणः
।
मनुष्या भिन्नमर्यादास्ते सर्वे तामसाः स्मृताः॥२१॥
तेषां योनीः प्रवक्ष्यामि नियताः पापकर्मिणाम्
।
अवाङ्निरयभावा ये तिर्यनिरयगामिनः॥२२॥
स्थावराणि च भूतानि पशवो वाहनानि च
।
क्रव्यादा दन्दशूकाश्च कृमिकीटविहङ्गमाः॥२३॥
अण्डजा जन्तवश्चैव सर्वे चापि चतुष्पदाः
।
उन्मत्ता बधिरा मूका ये चान्ये पापरोगिणः॥२४॥
मग्नास्तमसि दुर्वृत्ताः स्वकर्म कृतलक्षणाः
।
अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः॥२५॥
अवाक्स्रोतस अधोगमनार्हश्चित्तप्रवाही येषां ते तथा॥२५॥
तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम्
।
यथा ते सुकृताँल्लोकाँल्लभन्ते पुण्यकर्मिणः॥२६॥
उत्कर्ष आरोहक्रमम्। उद्रेकं पुण्याविर्भावम्॥२६॥
अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मणः
।
स्वकर्मनिरतानां च ब्राह्मणानां शुभैषिणाम्॥२७॥
अन्यथा प्रतिपन्नाः तिर्यक्स्थावरादियोनिं प्राप्ता ब्राह्मणानां ब्राह्मणैः कर्मण अभिहोत्राद्यर्थं विवृद्धा हिंसिता सन्तो वैदिकेन संस्कारेण ऊर्ध्वमायान्ति ततश्च्युताश्च ब्राह्मणादिजातिं लब्ध्वा यतमाना इत्यादि द्वयोः सम्बन्धः॥२७॥
संस्कारेणोर्ध्वमायान्ति यतमानाः सलोकताम्
।
स्वर्गे गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः॥२८॥
अन्यथा प्रतिपन्नास्ते विबुद्धाः स्वेष कर्मसु
।
पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषा:॥२९॥
एतदेव स्पष्टयति- अन्यथेति॥२९॥
पापयोनिं समापन्नाश्चण्डाला मूकचूचुकाः
।
वर्णान्पर्यायशश्चापि प्राप्नुवन्त्युत्तरोत्तरम्॥३०॥
चूचुका स्खलद्गिरः॥३०॥
शूद्रयोनिमतिक्रम्य ये चान्ये तामसा गुणाः
।
स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे॥३१॥
शूद्रेति। वैश्यादियोनिप्राप्तौ क्रोधादयस्तामसगुणास्तमोगुणस्त्रोतसि आयान्ति तेभ्य आत्मानं रक्षेदित्यर्थः॥३१॥
अभिष्वङ्गस्तु कामेषु महामोह इति स्मृतः
।
ऋषयो मुनयो देवा मुह्यन्त्यत्र सुखेप्सवः॥३२॥
कामेषु स्त्र्याद्यर्थेषु अभिष्वङ्ग आसक्तिः॥३२॥
तमो मोहो महामोहस्तामिस्रः क्रोधसंज्ञितः
।
मरणं त्वन्धतामिस्रस्तामिस्रः क्रोध उच्यते॥३३॥
अविद्यास्मितारागद्वेषाभिनिवेशा पञ्च क्लेशा अत्र तम आदिशब्दैरभिधीयन्ते। तेषु तामिस्रश्वतुर्थः क्रोधसंज्ञितो न तु द्वेष इत्यर्थः। एवम् अन्धतामिस्रोऽपि नाभिनिवेश किन्तु मरणमेव। "तामिस्रः क्रोध उच्यते" इति पुनर्वचनं परपरिभाषितार्थनिराकरणार्थम्। तामिस्रान्धतामिस्त्रपदाभ्यां क्रोधमरणे एव ग्राह्ये न तु राजसौ द्वेषाभिनिवेशावित्यर्थः॥३३॥
वर्णतो गुणतश्चैव योनितश्चैव तत्त्वतः
।
सर्वमेतत्तमो विप्राः कीर्तितं वो यथाविधि॥३४॥
तदेवाह- वर्णत इति। एतत्तमआदिशब्दितमविद्यादिकं सर्वं तम एव ज्ञेयं न तु तत्र रजोंशोस्ति। तत्र यथा अविद्या अतस्मिस्तद्बुद्धिरूपविपर्ययाख्यः तमः। एवं तत्प्रभवा अस्मितादयोऽपि तम एव तत्रापि अनात्मनि महत्तत्वेऽस्मीत्यात्मबुद्धेः सत्त्वात्। एवं रागोप्यप्रिये प्रियत्वाभ्यासः क्रोधः शान्ते प्रतीचि अभिज्वलनाध्यासः। एवम् अमृते नित्ये मरिष्यामीति बुद्धिरित्येते वर्णतः स्वरूपतः पाकत इति पाठे फलतः गुणतः विपर्ययत्वत योनितस्तामसत्त्वतश्च तम एव॥३४॥
कोन्वेतद्बुध्यते साधु कोन्वेतत्साधु पश्यति
।
अतत्त्वे तत्त्वदर्शी यस्तमसस्तत्त्वलक्षणम्॥३५॥
एतत् दुर्बोधमित्युक्तिपूर्वकं सामान्यतस्तमसो लक्षणमाह- क इति॥३५॥
तमोगुणा बहुविधाः प्रकीर्तिता यथावदुक्तं च तमः परावरम्
।
नरो हि यो वेद गुणानिमान्सदा स तामसैः सर्वगुणैः प्रमुच्यते॥३६॥
तमोविकाराः गुणास्तमोगुणाः॥३६॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि गुरुशिष्यसंवादे षट्त्रिंशोऽध्यायः॥३६॥
ब्राह्मण उवाच।
रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः
।
निबोधत महाभागा गुणवृत्तं च राजसम्॥१॥
रजोऽहमिति॥१॥
सन्तापो रूपमायास: सुखदुःखे हिमातपौ
।
ऐश्वर्यं विग्रहः सन्धिर्हेतुवादोऽरतिः क्षमा॥२॥
बलं शौर्यं मदो रोषो व्यायामकलहावपि
।
ईर्ष्येप्सा पिशुनं युद्धं ममत्वं परिपालनम्॥३॥
वधबन्धपरिक्लेशाः क्रयो विक्रय एव च
।
निकृन्त छिन्धि भिन्धीति परवर्मावकर्तनम्॥४॥
उग्रं दारुणमाक्रोशः परच्छिद्रानुशासनम्
।
लोकचिन्तानुचिन्ता च मत्सरः परिपालनम्॥५॥
उग्रं निष्ठुरं दारुणं हिंस्रत्वम्॥५॥
मृषा वादो मृषा दानं विकल्पः परिभाषणम्
।
निन्दा स्तुतिः प्रशंसा च प्रतापः परिधर्षणम्॥६॥
परिभाषण धिक्कृत्य भाषणम्॥६॥
परिचर्यानुशुश्रूषा सेवा तृष्णा व्यापाश्रयः
।
व्यूहो नयः प्रमादश्च परिवादः परिग्रहः॥७॥
व्यूहः व्यवहाररचनाकौशलम्॥७॥
संस्कारा ये च लोकेषु प्रवर्तन्ते पृथक्पृथक्
।
नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च॥८॥
शरणेषु रक्षितृषु॥८॥
सन्तापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये
।
आशीर्युक्तानि कर्माणि पौर्तानि विविधानि च॥९॥
अप्रत्यय अविश्वासः॥९॥
स्वाहाकारो नमस्कारः स्वधाकारो वषट्क्रिया
।
याजनाध्यापने चोभे यजनाध्ययने अपि॥१०॥
दानं प्रतिग्रहश्चैव प्रायश्चित्तानि मङ्गलम्
।
इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः॥११॥
अभिद्रोहस्तथा माया निकृतिर्मान एव च
।
स्तैन्यं हिंसा जुगुप्सा च परितापः प्रजागरः॥१२॥
परितापः स्वजनवैकल्यनिमित्तो दाहः। पाठान्तरे परिवादः सर्वनिन्दा॥१२॥
दम्भो दर्पोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम्
।
द्यूतं च जनवादश्च सम्बन्धाः स्त्रीकृताश्च ये॥१३॥
नृत्यवादित्रगीतानां प्रसङ्गा येच केचन
।
सर्व एते गुणा विप्रा राजसाः सम्प्रकीर्तिताः॥१४॥
भूतभव्यभविष्याणां भावानां भुवि भावनाः
।
त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि॥१५॥
कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः
।
अर्वाक्स्रोतस इत्येते मनुष्या रजसा वृताः॥१६॥
अर्वाक् स्वर्गादयः भूमेरुपरि स्रोतः प्रवाहो येषां ते तथा॥१६॥
अस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः
।
प्रेत्य भाविकमीहन्ते ऐहलौकिकमेव च
।
ददति प्रतिगृह्णन्ति तर्पयन्त्यथ जुह्वति॥१७॥
प्रेत्यभाविकं जन्मान्तरीयं कुशलम्॥१७॥
रजोगुणा वो बहुधानुकीर्तिता यथावदुक्तं गुणवृत्तमेव च
।
नरोऽपि यो वेद गुणानिमान्सदा स राजसैः सर्वगुणर्विमुच्यते॥१८॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि गुरुशिष्यसंवादे सप्तत्रिंशोऽध्यायः॥३७॥
ब्राह्मण उवाच।
अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम्
।
सर्वभूतहितं लोके सतां धर्ममनिन्दितम्॥१॥
अत इति॥१॥
आनन्दः प्रीतिरुद्रेक: प्रकाश्यं सुखमेव च
।
अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता॥२॥
उद्रेक उन्नति असंरम्भो निर्भयत्वम्॥२॥
क्षमा धृतिरहिंसा च समता सत्यमार्जवम्
।
अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः॥३॥
मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः
।
एवं यो युक्तधर्मः स्यात्सोऽमुत्रात्यन्तमश्नुते॥४॥
शास्त्रीयज्ञानादेर्वैयर्थ्यं ज्ञात्वा युक्तधर्मो योगधर्मो यो भवति सोऽमुत्रात्मनि अत्यन्तम् अविनाशि पदमश्नुते॥४॥
निर्ममो निरहङ्कारो निराशीः सर्वतः समः
।
अकामभूत इत्येव सतां धर्मः सनातनः॥५॥
विश्रम्भो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता
।
आनृशंस्यमसम्मोहो दया भूतेष्वपैशुनम्॥६॥
हर्षस्तुष्टिविस्मयश्च विनयः साधुवृत्तिता
।
शान्तिकर्मणि शुद्धिश्च शुभा बुद्धिर्विमोचनम्॥७॥
हर्षः पुत्रजन्मादिजं सुखं, तुष्टिः अलम्बुद्धिः शान्तिकर्मणि मुक्त्युपाये शुद्धि आर्जवेन प्रवृत्तिः॥७॥
उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः
।
निर्ममत्वमनाशीष्ट्वमपरिक्षतधर्मता॥८॥
उपेक्षा औदासीन्यम्॥८॥
मुधा दानं मुधा यज्ञो मुधाऽधीतं मुधा व्रतम्
।
मुधा प्रतिग्रहश्चैव मुधा धर्मो मुधा तपः॥९॥
एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन् सत्त्वसंश्रयाः
।
ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः॥१०॥
दानादीनां वैयर्थ्यं जानन्तो ये ब्रह्मयोनिस्था वेदकारणे ब्रह्मणि निष्ठावन्तस्त एव साधुदर्शिनो नान्ये॥१०॥
हित्वा सर्वाणि पापानि निःशोका ह्यथ मानवाः
।
दिवं प्राप्य तु ते धीराः कुर्वते वै ततस्तनूः॥११॥
पापानि कर्माणि राजसतामसानि तनूः शरीराणि कुर्वते योगबलेनानेकशरीरस्रष्टारो भवन्ति॥११॥
ईशित्वं च वशित्वं च लघुत्वं मनसश्च ते
।
विकुर्वते महात्मानो देवास्त्रिदिवगा इव॥१२॥
ईषित्वादिकम् अणिमादीनामप्युपलक्षणम्। मनसः मनः विकुर्वते अनेकाकारं कुर्वन्ति न तु निगृह्णन्तीत्यर्थः॥१२॥
ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः
।
विकुर्वन्तः प्रकृत्या वै दिवं प्राप्तास्ततस्ततः॥१३॥
ऊर्ध्वस्रोतस ऊर्ध्वगमनपरा प्रकृत्या भोगजसंस्कारेण पुनर्भोगार्थं चित्तं विकुर्वन्तः नानाकारेण परिणामयन्तः भजन्ते स्वयं प्राप्नुवन्ति विभजन्ति सकल्पितमन्येभ्योऽपि प्रयच्छन्ति सार्धः॥१३॥
यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च
।
इत्येतत्सात्त्विकं वृत्तं कथितं वो द्विजर्षभाः
।
एतद्विज्ञाय लभते विधिवद्यद्यदिच्छति॥१४॥
प्रकीर्तिताः सत्त्वगुणा विशेषतो यथावदुक्तं गुणवृत्तमेव च
।
नरस्तु यो वेद गुणानिमान्सदा गुणान्स भुङ्क्ते न गुणैः स युज्यते॥१५॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि गुरुशिष्यसंवादे अष्टत्रिंशोऽध्यायः॥३८॥
ब्रह्मोवाच।
नैव शक्या गुणा वक्तुं पृथक्त्वेनैव सर्वशः
।
अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस्तथा॥१॥
नैवेति। अविच्छिन्नानि अपृथग्भूतानि इदं सात्त्विकमिदं राजसमिदं तामसं कार्यमिति व्यपदेशस्तु तत्तद्गुणप्राधान्यमात्रादित्यर्थ॥१॥
अन्योन्यमथ रज्यन्ते ह्यन्योन्यं चार्थजीविनः
।
अन्योन्यमाश्रयाः सर्वे तथान्योन्यानुवर्तिनः॥२॥
यावत्सत्त्वं रजस्तावद्वर्तते नात्र संशयः
।
यावत्तमश्च सत्त्वं च रजस्तावदिहोच्यते॥३॥
यावदिति। कियदाप विवृद्धं सत्त्वं तमसैव नियम्यतेऽतो नियम्यनियामक्योस्तयोः साम्यं भवतीत्यर्थः। एवं प्रवर्तनात्मकः रजो मोहप्रकाशात्मकाभ्यां तमः सत्त्वाभ्यामुद्रिक्तं सत्ते उभे रुणद्धि॥३॥
संहत्य कुर्वते यात्रां सहिताः सङ्घचारिणः
।
सङ्घातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः॥४॥
सहत्य मिश्रीभूय यात्रां व्यवहारं कुर्वते यतः सङ्घचारिणः सहतस्वभावाश्चरन्ति। एवंविधा अपि हेत्वहेतुभिर्वर्तन्ते वैषम्येणेति शेषः॥४॥
उद्रेकव्यतिरिक्तानां तेषामन्योन्यवर्तिनाम्
।
वक्ष्यते तद्यथान्यूनं व्यतिरिक्तं च सर्वशः॥५॥
एतदेवाह— उद्रेकेति। उद्रेक उद्बोधकसामग्रीसत्त्वे यदाधिक्यं तदभावे अन्यूनं व्यतिरिक्तम् अनधिकं च सर्वशः सर्वेषां रूपं समानं भवतीत्यर्थः॥५॥
व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत्
।
अल्पं तत्र रजो ज्ञेयं सत्त्वमल्पतरं तथा॥६॥
व्यतिरिक्कम् अधिकं यत्र श्वशूरादौ तिर्यग्भावः च आधिक्यं गतं प्राप्तम्॥६॥
उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत्
।
अल्पं तत्र तमो ज्ञेयं सत्त्वमल्पतरं तथा॥७॥
उद्रिक्तं च यदा सत्त्वमूर्ध्वस्रोतोगतं भवेत्
।
अल्पं तत्र तमो ज्ञेयं रजश्चाल्पतरं तथा॥८॥
सत्त्वं वैकारिकी योनिरिन्द्रियाणां प्रकाशिका
।
न हि सत्त्वात्परो धर्मः कश्चिदन्यो विधीयते॥९॥
सत्त्वम् इन्द्रियाणां योनिं सा च वैकारिकी वैकारिकाहङ्कारसम्बन्धिनी प्रकाशिका इन्द्रियद्वारा शब्दादीनामिति शेषः। धर्मो धर्महेतुः। विधीयते शास्त्रे प्रकाश्यते॥९॥
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः
।
जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः॥१०॥
तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्त्वमुत्तमम्
।
इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः॥११॥
दूरादपि हि दृश्यन्ते सहिताः सङ्घचारिणः
।
तमः सत्त्वं रजश्चैव पृथक्त्वे नानुशुश्रुम॥१२॥
दूरादिति। तामसे शूद्रेऽपि रजः सत्त्वयोर्दर्शनागुणा सङ्घचारिण एव एवमन्यत्र॥१२॥
दृष्ट्वा त्वादित्यमुद्यन्तं कुचराणां भयं भवेत्
।
अध्वगाः परितप्येयुरुष्णतो दुःखभागिनः॥१३॥
स्वतः प्रकाशकस्याप्यादित्यादेस्तमोरजः कार्यभयसन्तापहेतुत्वात्तत्रापि त्रिगुणोद्दीपकत्वं वर्तत इत्यर्थः कुत्सितं कर्म चरन्ति ते कुचराश्चोराः॥१३॥
आदित्यः सत्त्वमुद्रिक्तं कुचरास्तु तथा तमः
।
परितापोऽध्वगानां च रजसो गुण उच्यते॥१४॥
प्रकाश्यं सत्त्वमादित्यः सन्तापो रजसो गुणः
।
उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु॥१५॥
तत्स्वरूपमपि त्रिगुणात्मकमित्याह- प्राकाश्यमिति॥१५॥
एवं ज्योतिष्षु सर्वेषु निवर्तन्ते गुणास्त्रयः
।
पर्यायेण च वर्तन्ते तत्र तत्र तथा तथा॥१६॥
न तदस्ति पृथिव्यां च" इत्यादिश्लोकस्यायं प्रपञ्चः- एवमित्यादि॥१६॥
स्थावरेषु तु भावेषु तिर्यग्भावगतं तमः
।
राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्त्विकः॥१७॥
स्थावराणामतिमूढत्वात्तत्र तमस्तिर्यग्भावम् आधिक्यं गतं दृश्यते। राजसाः रमणीयत्वकट्वम्लत्वादयः विवर्तन्ते कालेन द्रव्यान्तरयोगेन पाकादिना वा। सात्त्विकस्तु स्नेहः वह्न्यादेरुद्दीपकत्वेन प्रकाशकत्वात्॥१७॥
अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते
।
मासार्धमासवर्षाणि ऋतवः सन्धयस्तथा॥१८॥
त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते
।
त्रिधा लोकास्त्रिधा देवास्त्रिधा विद्यास्त्रिधा गतिः॥१९॥
भूतं भव्यं भविष्यं च धर्मोऽर्थः काम एव च
।
प्राणापानावुदाश्चाप्येत एव त्रयो गुणाः॥२०॥
पर्यायेण प्रवर्तन्ते तत्र तत्र तथा तथा
।
यत्किञ्चिदिह लोकेऽस्मिन् सर्वमेते त्रयो गुणाः॥२१॥
त्रयो गुणाः प्रवर्तन्ते ह्यव्यक्ता नित्यमेव तु
।
सत्त्वं रजस्तमश्चैव गुणसर्गः सनातनः॥२२॥
तमो व्यक्तं शिवं धाम रजो योनिः सनातनः
।
प्रकृतिर्विकारः प्रायः प्रधानं प्रभवाप्ययौ॥२३॥
अनुद्रिक्तमनूनं वाप्यकम्पमचलं ध्रुवम्
।
सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम्
।
ज्ञेयानि नामधेयानि नरैरध्यात्मचिन्तकैः॥२४॥
तमआदीनि द्वाविंशतिरव्यक्तस्य नामधेयानि॥२४॥
अव्यक्तनामानि गुणांश्च तत्त्वतो यो वेद सर्वाणि गतीश्च केवलाः
।
विमुक्तदेहः प्रविभागतत्त्ववित् स मुच्यते सर्वगुणैर्निरामयः॥२५॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीरापर्वणि गुरुशिष्यसंवादे ऊनचत्वारिंशोऽध्यायः॥३९॥
ब्रह्मोवाच।
अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै
।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्॥१॥
अहङ्कारात्तामसात् पृथिव्यादीनां पाठक्रमो न विवक्षित॥१॥
तेषु भूतानि मुह्यन्ति महाभूतेषु पञ्चसु
।
शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च॥२॥
एतेषु ये शब्दादयः सन्ति तेषु निमित्तभूतेषु भूतानि मानुषादीनि मुह्यन्ति ते प्रसिद्धाः योगिनोपि मुह्यतीत्यध्याहृत्य योज्यम्॥२॥
महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते
।
सर्वप्राणभृतां धीरा महदभ्युद्यते भयम्॥३॥
महाभूतानां देहाकाराणां विनाशो मरणं तदन्ते भयं नारकम्। तथा प्रलये च दैनन्दिनादौ प्रत्युपस्थिते दाहशोषादिज महत् प्राणभृता प्राणिनां भयम्॥३॥
यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते
।
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम्॥४॥
तत्र मरणस्य सर्वप्रत्यक्षत्वात्तदुपेक्ष्य प्रलयमाह- यदिति। उत्तरोत्तर अनुलोमम् आकाशवाय्वग्निसलिलपृथिवीक्रमेण॥४॥
ततः प्रलीने सर्वस्मिन् भूते स्थावरजङ्गमे
।
स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन॥५॥
तत इति। द्विविधानि भूतानि स्थूलानि सूक्ष्माणि च तत्र यैर्योगबलेन सूक्ष्मेषु स्थूलानां प्रविलापनं कृतं ते तन्मात्रशरीराः सन्तो न स्थूलेषु भूतेषु नश्यत्सु विनश्यन्तीत्यर्थः॥५॥
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः
।
क्रियाः करणनित्याः स्युरनित्या मोहसंज्ञिताः॥६॥
ननु कोशनाशे कोशकार इव स्थूलनाशे सूक्ष्माणि कथं न नश्यन्तीत्याशङ्क्याह- शब्द इति। शब्दादयो विषया क्रियाश्च तद्ग्रहणरूपां करणनित्याः करणात्मना मनोमात्रेण रूपेण नित्या अविनाशिन्यः कारणनिया इति पाठेऽपि कारण दहराकाशाख्यं सोपाधिब्रह्म तद्रूपेण नित्या मोहसंज्ञिता स्थूला अनित्या अनृतत्वात्। "त इमे सत्या कामा अमृतापिधाना" इति श्रुतिर्हि सूक्ष्माणां सत्यत्वं तत्पिधायकानां स्थूलानामनृतत्वं चाह। तस्माद्युक्तमुक्तं- धीरा न लीयन्ते कदाचनेति॥६॥
लोभप्रजनसम्भूता निर्विशेषा ह्यकिञ्चनाः
।
मांसशोणितसङ्घाता अन्योन्यस्पोपजीविनः॥७॥
अनित्याना लक्षणमाह सार्द्धेन– लोभेति। लोभो लब्धुमिच्छा तस्य प्रजनं प्रजा फललोभपूर्वकं कर्मेत्यर्थः। तस्मात्सम्भूता। संयुक्ता इति पाठे कर्मबद्धा निर्विशेषा सर्वेषां पाञ्चभौतिकत्वाविशेषात्। अकिञ्चना नास्ति किञ्चन वस्तु सत् यासु ताः रज्जूरगवत्तुच्छा इत्यर्थः। अन्योन्ये तु "जीवो जीवस्य जीवनम्" इत्यर्थान्नश्वरा॥७॥
बहिरात्मान इत्येते दीनाः कृपणजीवनः
।
प्राणापानावुदानश्च समानो व्यान एव च॥८॥
बहिरात्मानः स्थूलशरीराणि दीना क्षुधाद्युपद्रुता कृपणजीविनः बाह्यसाधनजीवना। नित्यानि यावन्मोक्षस्थायीनि भूतान्याह सार्धेन- प्राणेति॥८॥
अन्तरात्मनि चाप्येते नियताः पञ्च वायवः
।
वाड्मनोबुद्धिभिः सार्द्धमिदमष्टात्मकं जगत्॥९॥
अन्तरात्मा चितिच्छायायुक्तोऽहङ्काराख्यो जीवः प्राणादिपञ्चक वाङ्मनोबुद्धित्रयं चेत्यष्टावुपाधित्वेन नियता नियमेन सम्बद्धा एतदष्टकात्मकं जगत्। अयं भावः- "मनसा ह्येव पश्यति मनसा शृणोति" इत्यादिश्रुतेः चक्षुः श्रोत्रात्मकं मन एव सर्वकरणरूपं करणानां च प्राणेभ्यो देवा देवेभ्यो लोका इति चक्षुरादिभ्यः सूर्यादीनां तेभ्यो रूपादीनां चोत्पत्तिश्रवणेन सर्वहेतुतया सर्वात्मकत्वादेतावन्मात्रं जगदिति युक्तमेवोक्तम्- अष्टात्मकं जगदिति॥९॥
त्वक्घ्राणश्रोत्रचक्षूंषि रसना वाक्च संयताः
।
विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी॥१०॥
अष्टौ यस्याग्नयो ह्येते न दहन्ते मनः सदा
।
स तद्ब्रह्म शुभं याति तस्माद् भूयो न विद्यते॥११॥
त्वगादय एते यं न दहन्ति स विद्वान् ब्रह्मयति यस्मादन्यत् भूयोधिकतरं नास्ति॥११॥
एकादश च यान्याहुरिन्द्रियाणि विशेषतः
।
अहङ्कारात्प्रसूतानि तानि वक्ष्याम्यहं द्विजाः॥१२॥
एतदेव विस्तरेण प्रपञ्चयति- एकादशेत्यादिना॥१२॥
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी
।
पादौ पायुरुपस्थश्च हस्तौ वाग्दशमी भवेत्॥१३॥
इन्द्रियग्राम इत्येष मन एकादशं भवेत्
।
एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते॥१४॥
बुद्धीन्द्रियाणि पञ्चाहुः पञ्चकर्मेन्द्रियाणि च
।
श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः॥१५॥
अविशेषाणि चान्यानि कर्मयुक्तानि यानि तु
।
उभयत्र मनो ज्ञेयं बुद्धिस्तु द्वादशी भवेत्॥१६॥
उभयत्र उभयेष्वपि इन्द्रियेषु मनोनुगतमिति शेषः॥१६॥
इत्युक्तानीन्द्रियाण्येतान्येकादश यथाक्रमम्
।
मन्यन्ते कृतमित्येवं विदित्वा तानि पण्डिताः॥१७॥
मन्यन्ते कृतकृत्या भवन्तीत्यर्थः॥१७॥
अतः परं प्रवक्ष्यामि सर्वं विविधमिन्द्रियम्
।
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते॥१८॥
सर्वं सर्वाणीन्द्रियाणि प्रत्येकं विविधानि भूतम् आकाशादि। इन्द्रियमध्यात्मम्। भूतगुणः शब्दादिरधिभूतम् इन्द्रियानुग्राहिका देवता दिगादिरधिदैवं सर्वत्र ज्ञेयम्॥१८॥
अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम्
।
द्वितीयं मारुतो भूतं त्वगध्यात्मं च विश्रुता॥१९॥
स्पष्टव्यमधिभूतं च विद्युत्तत्राधिदैवतम्
।
तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते॥२०॥
अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम्
।
चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममुच्यते॥२१॥
अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम्
।
पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममुच्यते॥२२॥
अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम्
।
एषु पञ्चसु भूतेषु त्रिषु यश्च विधिः स्मृतः॥२३॥
त्रिषु अध्यात्माधिभूताधिदैवेषु॥२३॥
अतः परं प्रवक्ष्यामि सर्वं विविधमिन्द्रियम्
।
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः॥२४॥
सर्वं कर्मेन्द्रियम्॥२४॥
अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम्
।
अवाग्गतिरपानश्च पायुरध्यात्ममुच्यते॥२५॥
अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम्
।
प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते॥२६॥
अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः
।
हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः॥२७॥
अधिभूतं च कर्माणि शक्रस्तत्राधिदैवतम्
।
वैश्वदेवी ततः पूर्वा वागध्यात्ममिहोच्यते॥२८॥
वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम्
।
अध्यात्मं मन इत्याहुः पञ्चभूतात्मचारकम्॥२९॥
अधिभूतं च सङ्कल्पश्चन्द्रमाश्चाधिदैवतम्
।
अहङ्कारस्तथाध्यात्मं सर्वसंसारकारकम्॥३०॥
अभिमानोऽधिभूतं च रुद्रस्तत्राधिदैवतम्
।
अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी॥३१॥
अधिभूतं तु मन्तव्यं ब्रह्मा तत्राधिदैवतम्
।
त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते॥३२॥
स्थलमास्तथाऽऽकाशं जन्म चापि चतुर्विधम्
।
अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च॥३३॥
चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते
।
अपराण्यथ भूतानि खेचराणि तथैव च॥३४॥
अपराणि अनुत्कृष्टानि॥३४॥
अण्डजानि विजानीयात्सर्वाश्चैव सरीसृपान्
।
स्वेदजाः कृमयः प्रोक्ता जन्तवश्च यथाक्रमम्॥३५॥
जन्म द्वितीयमित्येतज्जघन्यतरमुच्यते
।
भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात्॥३६॥
उद्भिज्जानि च तान्याहुर्भूतानि द्विजसत्तमाः
।
द्विपादबहुपादानि तिर्यग्गतिमतीनि च॥३७॥
जरायुजानि भूतानि विकृतान्यपि सत्तमाः
।
द्विविधा खलु विज्ञेया ब्रह्मयोनिः सनातनी॥३८॥
ब्रह्मयोनिः ब्रह्मोपलब्धिस्थानं ब्राह्मणजन्मेत्यर्थः॥३८॥
तपः कर्म च यत्पुण्यमित्येष विदुषां नयः
।
विविधं कर्म विज्ञेयमिज्या दानं च तन्मखे॥३९॥
तत्र कर्तव्यमाह- तप इति॥३९॥
जातस्याध्ययनं पुण्यमिति वृद्धानुशासनम्
।
एतद्यो वेत्ति विधिवद्युक्तः स स्याद्द्विजर्षभाः॥४०॥
वेत्ति आपरोक्ष्येण॥४०॥
विमुक्तः सर्वपापेभ्य इति चैव निबोधत
।
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते॥४१॥
अधिभूतं तथा शब्दो दिशश्चात्राधिदैवतम्
।
द्वितीयं मारुतं भूतं त्वगध्यात्मं च विश्रुतम्॥४२॥
स्प्रष्टव्यमधिभूतं तु विद्युत्तत्राधिदैवतम्
।
तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममिष्यते॥४३॥
अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम्
।
चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते॥४४॥
चन्द्रोऽधिभूतं विज्ञेयमापस्तत्राधिदैवतम्
।
यथावदध्यात्मविधिरेष वः कीर्तितो मया॥४५॥
ज्ञानमस्य हि धर्मज्ञाः प्राप्तं ज्ञानवतामिह
।
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च
।
सर्वाण्येतानि सन्धाय मनसा सम्प्रधारयेत्॥४६॥
इन्द्रियाणीति। सन्धाय भूतादीनि इन्द्रियेभ्योतिरिक्तानि न सन्तीत्यनुसन्धाय तानि सर्वाणि मनसा सम्प्रधारयेन्मनोमात्रेणावतिष्ठेत्॥४६॥
क्षीणे मनसि सर्वस्मिन् न जन्मसुखमिष्यते
।
ज्ञानसम्पन्नसत्त्वानां तत्सुखं विदुषां मतम्॥४७॥
क्षीणे इति। यद्येतानि मनोमात्रविलसितानि न स्युस्तर्हि स्वप्नसम्प्रज्ञातयोर्न प्रतीयेरन अतः क्षीणं मनः कृतं चेत् निर्विकल्पे सुखमनुभवतः पुंसो जन्मसुखं संसारसुखं पुत्रकलत्रपरिष्वङ्गजं न इष्यते न इष्टं भवति। ज्ञानेनात्मानुभवेन सम्पन्नं सयुक्तं सत्त्वं बुद्धिर्येषां तेषां ज्ञानसम्पन्नसत्त्वानाम्॥४७॥
अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम्
।
निवृत्तिं सर्वभूतेषु मृदुना दारुणेन च॥४८॥
अत इति। मनस इति शेषः। सूक्ष्मभावकरीं सूक्ष्मत्वकरीं निवृत्तिं वक्ष्यामि। मृदुना छन्दतः दारुणेन दृढयोगेन। सर्वभूतेषु ब्राह्मणादिषु कर्तुं योग्यामिति शेषः॥४८॥
गुणागुणमनासङ्गमेकचर्यमनन्तरम्
।
एतद्ब्रह्ममयं वृत्तमाहुरेकपदं सुखम्॥४९॥
गुणाः शौर्यौदार्यविद्वत्वतपस्वित्वादयो दर्पहेतुत्वादगुणा इव यस्मिन् वृत्ते तद्गुणागुणम्। अत एव अनासङ्गम् अहं कर्ता ममेदमर्जितमित्यभिमानशून्यम् एकचर्यम् एकान्तवासः अनन्तरं निरस्तसमस्तभेदं अविच्छिन्नं वा ब्रह्ममयं ब्राह्मणजातिप्रधानं एकपदं सर्वसुखगर्भम्॥४९॥
विद्वान्कूर्म इवाङ्गानि कामान्संहत्य सर्वशः
।
विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा॥५०॥
कामानात्मनि संयम्य क्षीणतृष्णः समाहितः
।
सर्वभूतसुहृन्मित्रो ब्रह्मभूयाय कल्पते॥५१॥
इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम्
।
मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते॥५२॥
इन्द्रियनिरोधं कुर्वता कृत्स्नं ब्रह्माण्डं त्यक्तमित्यर्थः। अध्यात्माग्निर्विज्ञानम्॥५२॥
यथाग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते
।
तथेन्द्रियनिरोधेन महानात्मा प्रकाशते॥५३॥
यथेति। अग्निसादृश्याद्विज्ञानेऽप्यग्निपदप्रयोगः प्रकाशकत्वसामान्यादिति भावः॥५३॥
यदा पश्यति भूतानि प्रसन्नात्माऽऽत्मनो हृदि
।
स्वयञ्ज्योतिस्तदा सूक्ष्मात्सूक्ष्मं प्रन्पोत्यनुत्तमम्॥५४॥
प्रसन्नात्मा निर्मलचित्त आत्मनः स्वस्य हृदि यदा भूतानि पश्यति सम्प्रज्ञातावस्थायां नित्यं बहिर्मुखमनस इयमेवान्तर्मुखत्वावस्थेत्याह- तदेति। यदैवं भवति तदायं स्वयञ्ज्योतिर्भवति। अतीतानागतव्यवहितादिदर्शने सूर्यादिज्योतिषामभावात्। तदा सूक्ष्मात् हार्दात् ब्रह्मणोऽपेक्षया सूक्ष्मं परं ज्योतिः प्राप्नोति॥५४॥
अग्नी रूपं पयः स्रोतो वायुः स्पर्शनपेव च
।
मही पङ्कधरं घोरमाकाशश्रवणं तथा॥५५॥
यन्निग्रहानिग्रहाभ्यां मुक्तिसंसारौ तन्नित्यं शरीरमुक्तम्। अथ तस्यापि नियामकं नित्यं शरीरमाह- अग्निरिति। अत्र यत् रूपं कृष्णं गौरं वा तदग्निः स्रोतः प्रवाहः तेन द्रवं लोहितादिकं ग्राह्य तत्पय जलं स्पर्शनं वात यत्तु पङ्ककाष्ठादिस्थानीयघनमासास्थ्यादिधरमिदं तत् महीं घोरं बीभत्सम् आकाश एव श्रवणरूपेण यत्र तत्तथा॥५५॥
रोगशोकसमाविष्टं पञ्चस्रोतःसमावृतम्
।
पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम्॥५६॥
पञ्च स्रोतांसि इन्द्रियगोलकानि नवद्वारं द्वे कर्णयोर्द्वे चक्षषोर्द्वे नासिकयोरेक मुखमधो द्वे चेति द्वे जीवपरमेश्वरौ दैवते यत्र॥५६॥
रजस्वलमथादृश्यं त्रिगुणं च त्रिधातुकम्
।
संसर्गाभिरतं मूढं शरीरमिति धारणा॥५७॥
अदृश्यममङ्गललात्। त्रिगुणं पाशं दृष्टमात्रं सत्सुखदुःखमोहोत्पादकम्। त्रिधातुकं वातपित्तकफमयं संसर्गाभिरतम् अन्नादिसङ्गेनैव अभिरमते नान्यथा संशयाभिरुतमितिपाठे संशयोद्घोषकं विनाशबीजमित्यर्थः। मूढम् अचेतनम् एवंविधं शरीरमिति धारणानिश्चयः। अत्र शरीरे शब्दादीनां दर्शनात्तदाश्रयाणामाकाशादीनां सत्त्वमनुमेयमित्यर्थः॥५७॥
दुश्चरं सर्वलोकेऽस्मिन् सत्त्वं प्रति समाश्रितम्
।
एतदेव हि लोकेऽस्मिन् कालचक्रं प्रवर्तते॥५८॥
दुश्चर दुःसमाधेयं व्याध्याद्याक्रान्तं चेत्। सत्वबुद्धिम् एतदेव बाल्याद्यवस्थापन्नं कालं न तु कालो नाम षष्ठः पदार्थः कश्विदस्ति॥५८॥
एतन्महार्णवं घोरमगाधं मोहसंज्ञितम्
।
विक्षिपेत्संक्षिपेच्चैव बोधयेत्सामरं जगत्॥५९॥
महार्णवं महार्णवसमं घोरम् एतदेव निमित्तभूतं सत्सृष्टिसंहारबोधानां हेतुर्भवति॥५९॥
कामं क्रोधं भयं लोभमभिद्रोहमथानृतम्
।
इन्द्रियाणां निरोधेन सतस्त्यजति दुस्त्यजान्॥६०॥
इन्द्रियाणां निरोधेन इदं शरीरं त्यजन् सत् नित्यं विद्यमानानपि कामादींस्त्यजति॥६०॥
यस्यैते निर्जिता लोके त्रिगुणाः पञ्चधातवः
।
व्योम्नि तस्य परं स्थानमानन्त्यमथ लभ्यते॥६१॥
एते स्थूलदेहरूपाः प्रकाशप्रवृत्तिमोहनिमित्तत्त्वेन त्रिगुणा निर्जिता योगबलेनातिक्रामिता परं ब्राह्मम्॥६१॥
पञ्चेन्द्रियमहाकूलां मनोवेगमहोदकाम्
।
नदीं मोहह्रदां तीर्त्वा कामक्रोधावुभौ जयेत्॥६२॥
स सर्वदोषनिर्मुक्तस्ततः पश्यति तत्परम्
।
मनो मनसि सन्धाय पश्यन्नात्मानमात्मनि॥६३॥
मनसि हृदयपुण्डरीके आत्मनि शरीरे॥६३॥
सर्ववित्सर्वभूतेषु विन्दत्यात्मानमात्मनि
।
एकधा बहुधा चैव विकुर्वाणस्ततस्ततः॥६४॥
एकधा त्वम्पदार्थसाक्षात्कारेण बहुधा वैश्वरूप्येण॥६४॥
ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा
।
स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः॥६५॥
रूपाणि स्वशरीराणि शतशः पश्यति दीपाद्दीपशतं यथा सद्यः प्रवर्तने। एवं योगिसङ्कल्पमात्रादनेकानि शरीराणि प्रवर्तन्ते। "स एकधा भवति त्रिधा भवति" इत्यादिश्रुतेः। "प्रदीपवदावेश" इति न्यायाच्च॥६५॥
स हि धाता विधाता च स प्रभुः सर्वतोमुखः
।
हृदयं सर्वभूतानां महानात्मा प्रकाशते॥६६॥
कथमेवं योगिनः सामर्थ्यमुदेतीत्यशङ्क्य तस्यैवेश्वरत्वान्नैवमित्याह- स हीति। अत एव चानन्याधिपतिरिति न्यायश्चात्रानुसन्धेयः॥६६॥
तं विप्रसङ्घाश्च सुरासुराश्च यक्षाः पिशाचाः पितरो वयांसि
।
रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव सदा स्तुवन्ति॥६७॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि गुरुशिष्यसंवादे द्विचत्वारिंशोऽध्यायः॥४२॥
ब्रह्मोवाच।
मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः
।
कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम्॥१॥
अस्यैवानन्याधिपतेर्योगिनः ईश्वरत्वसमर्थनार्थं विभूतीराह- मनुष्याणामित्यादिना ब्राह्मणा धर्मसेतव इत्यन्तेन। मध्यमो गुणः रजोगुणप्रधानः॥१॥
अविः पशूनां सर्वेषामहिस्तु बिलवासिनाम्
।
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च॥२॥
न्यग्रोधे जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा
।
शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः॥३॥
एते द्रुमाणां राजानो लोकेऽस्मिन् नात्र संशयः
।
हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान्॥४॥
श्वेतो नीलश्च भासश्च कोष्ठवांश्चैव पर्वतः
।
गुरुस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा॥५॥
एते पर्वतराजानो गणानां मरुतस्तथा
।
सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः॥६॥
यमः पितॄणामधिपः सरितामथ सागरः
।
अम्भसां वरुणो राजा मरुतामिन्द्र उच्यते॥७॥
अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते
।
अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः॥८॥
ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः
।
त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः॥९॥
दीक्षितानां तथा यज्ञो देवानां मघवा तथा
।
दिशामुदीची विप्राणां सोमो राजा प्रतापवान्॥१०॥
कुबेरः सर्वरत्नानां देवतानां पुरन्दरः
।
एष भूताधिपः सर्गः प्रजानां च प्रजापतिः॥११॥
सर्वेषामेव भूतानामहं ब्रह्ममयो महान्
।
भूतं परतरं मत्तो विष्णोर्वाऽपि न विद्यते॥१२॥
राजाधिराजः सर्वेषां विष्णुर्ब्रह्ममयो महान्
।
ईश्वरत्वं विजानीध्वं कर्तारमकृतं हरिम्॥१३॥
ईश्वरत्वम् ऐश्वर्यं नरादीनां हरिरेवेत्यर्थः॥१३॥
नरकिन्नरयक्षाणां गन्धर्वोरगरक्षसाम्
।
देवदानवनागानां सर्वेषामीश्वरो हि सः॥१४॥
भगदेवानुयातानां सर्वासां वामलोचना
।
माहेश्वरी महादेवी प्रोच्यते पार्वती हि सा॥१५॥
भगदेवा कामुकास्तैरनुयातानामनुसृतानां स्त्रीणां सर्वासां मध्ये माहेश्वरी वामलोचनेति सम्बन्धः॥१५॥
उमां देवीं विजानीध्वं नारीणामुत्तमां शुभाम्
।
रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा॥१६॥
रतीनां प्रीतिसुखानां वसुमत्यः धनवत्यः धनलाभगर्वितं यत्प्रतीतिसुखं तदेव महदित्यर्थः॥१६॥
धर्मकामाश्च राजानो ब्राह्मणा धर्मसेतवः
।
तस्माद्राजा द्विजातीनां प्रयतेत स्म रक्षणे॥१७॥
राज्ञां हि विषये येषामवसीदन्ति साधवः
।
हीनास्ते स्वगुणैः सर्वैः प्रेत्य चोन्मार्गगामिनः॥१८॥
राज्ञां हि विषये येषां साधवः परिरक्षिताः
।
तेऽस्मिँल्लोके प्रमोदन्ते सुखं प्रेत्य च भुञ्जते॥१९॥
प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः
।
अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम्॥२०॥
अहिंसा परमो धर्मो हिंसा चाधर्मलक्षणा
।
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः॥२१॥
एवं विद्वान् विश्वैश्वर्यं प्राप्नोतीत्युक्तम्। इदानीं विद्वत्त्वप्राप्तिसाधनान्याह- अहिंसेति॥२१॥
शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः
।
ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः॥२२॥
शब्दलक्षणमित्यादयो दृष्टान्ताः॥२२॥
धारिणी सर्वभूतानां पृथिवी गन्धलक्षणा
।
स्वरव्यञ्जनसंस्कारा भारती शब्दलक्षणा॥२३॥
भारती परकीया विद्या स्वरव्यञ्जनसंस्कारवती शब्देनैव लक्ष्यते॥२३॥
मनसो लक्षणं चिन्ता चिन्तोक्ता बुद्धिलक्षणा
।
मनसा चिन्तितानर्थान् बुद्ध्या चेह व्यवस्यति॥२४॥
विधेयमाह- मनस इति। इदं कर्तव्यं नवेत्यादिर्विचारश्चिन्ता तया मनोनामकं तत्त्वं लक्ष्यते। चिन्तापि बुद्ध्या परीक्ष्यते व्यवस्यति निश्चिनोति॥२४॥
बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः
।
लक्षणं मनसो ध्यानमव्यक्तं साधुलक्षणम्॥२५॥
प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम्
।
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान्॥२६॥
एवं मनआदिभ्यो विवेचितस्य पुरुषस्याधिगमोपायमाह कर्मनिन्दापूर्वकं प्रवृत्तीति योग कर्माणि॥२६॥
संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम्
।
अतीतो द्वन्द्वमभ्येति तमोमृत्युजरातिगः॥२७॥
एतदेवाह- बुद्धिर्हीति। व्यवसायेन इदमित्थमेवेतिनिश्चयेन मनसश्चित्तस्य यानं लोकतः यास्त्रतो वानुभूतस्य विषयस्य पुनः पुनरुद्बोधके सत्यसति वा यत्स्फुरणं तच्चित्तस्य लक्षणम्। एवं मनोबुद्धिचित्तानां व्यक्तानि लक्षणान्युक्तानि। साध्नोतीति साधु पुरुषस्तस्य लक्षणमव्यक्तं न केनचिदसौ व्यज्यतेऽपि तु स्वयम्प्रकाश इत्यर्थः॥२७॥
द्वन्द्वं मानापमानादि अतीतोऽतिक्रान्तः॥२७॥
धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया
।
गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम्॥२८॥
गुणानां भूतेन्द्रियादीनां धर्मस्वरूपलक्षणानि संयुक्तं सयोगाश्च तेषां समाहारो धर्मलक्षणसंयुक्तम्। धर्मं सुषिरत्वादिकम्। लक्षणं शब्दादिकम्। संयुक्तम् अन्योन्यव्यतिषक्तत्वम्। इदानीं तेषां ग्रहणं कया देवतयाऽनुगृहीतेन केन करणेन को वा गुणो गृह्यते इति वक्ष्यते॥२८॥
पार्थिवो यस्तु गन्धो वै घ्राणेन हि स गृह्यते
।
घ्राणस्थश्च तथा वायुर्गन्धज्ञाने विधीयते॥२९॥
पार्थिव इति। विधीयते अनुग्रहं कार्यते॥२९॥
अपां धातू रसो नित्यं जिह्वया स तु गृह्यते
।
जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते॥३०॥
धातुः सारः रसरूपः॥३०॥
ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते
।
चक्षुःस्थश्च सदाऽऽदित्यो रूपज्ञाने विधीयते॥३१॥
वायव्यस्तु सदा स्पर्शस्त्वचा प्रज्ञायते च सः
।
त्वक्स्थश्चैव सदा वायुः स्पर्शने स विधीयते॥३२॥
आकाशस्य गुणो ह्येष श्रोत्रेण च स गृह्यते
।
श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः॥३३॥
मनसश्च गुणश्चिन्ता प्रज्ञया स तु गृह्यते
।
हृदिस्थश्चेतनो धातुर्मनोज्ञाने विधीयते॥३४॥
मनस इति। यथा तेजोगुणो रूपं स्वाश्रयसहितं सूर्यानुगृहीतेन चक्षुषा गृह्यते एवं मनोगुणश्चिन्ता स्वाश्रयसहिता चेतना धातुना जीवेनानुगृहीतया प्रज्ञया प्रकृष्टज्ञप्त्या धीवृत्तिविशेषेण गृह्यते। मनोज्ञाने इति गुणगुणिनोर्मनश्चित्तयोरभेदाभिप्रायेणोक्तम्॥३४॥
बुद्धिरध्यवसायेन ज्ञानेन च महांस्तथा
।
निश्चित्य ग्रहणाद्व्यक्तमव्यक्तं नात्र संशयः॥३५॥
एवं बुद्धिरव्यवसायेन स्वरूपेण गृह्यते। एवं महान् ज्ञानेन शुद्धसत्त्वरूपेण स्वरूपेणैव गृह्यते न तु करणान्तरेण इन्द्रियवत्। तत्र हेतुः- निश्चित्य ग्रहणादिति। यथा रूपदर्शनेन कार्येण चक्षुरिन्द्रियमस्तीति ज्ञायते न तु गृह्यतेऽतीन्द्रियत्वात्। एवं बुद्धिमहान्तौ इदमित्थमेवेति। अस्मीति चैवं रूपेण निश्चयेन लिङ्गेनैव तयोः स्वरूपं व्यक्तं वस्तुतस्त्वव्यक्तमेव इन्द्रियत्ववदतीन्द्रियत्वात्॥३५॥
अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः
।
तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः॥३६॥
एवं बुद्धेश्चक्षुर्वदतीन्द्रियत्वं सूर्यवत्स्वप्रकाशत्वं चोक्तं यस्तु। ता गृह्णाति तमाह- अलिङ्गेति। लिङ्गद्वारा ग्रहणं बुद्ध्यादेरुक्तं क्षेत्रज्ञस्य तु न तथा स्वयं ज्योतिष्ट्वादित्यर्थः। ज्ञानलक्षण उपलब्धिमात्रस्वरूपं नतूपलब्धिलिङ्गम् अलिङ्गत्वात्॥३६॥
अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम्
।
सदा पश्याम्यहं लीनो विजानामि शृणोमि च॥३७॥
क्षेत्रज्ञपदमपि क्षेत्रोपलब्धिमात्रवाचि नतु तदुपलब्धृवाचीत्याह- अव्यक्तमिति। अव्यक्तम् उद्दिष्टमुपक्रान्तं क्षेत्रं तथा गुणानां कार्यरूपाणाम् उत्पत्तिप्रलयं च। प्रभवाप्ययमिति समाहारः अहं साक्षी लीनः स्वाध्यस्तेन कर्त्राच्छादितत्वात् अग्राह्यः क्षेत्रलिङ्गस्थमिति पाठे क्षेत्रलिङ्गे स्थूलसूक्ष्मशरीरे स्थितं गुणानां सत्त्वादीनाम् उत्पत्त्यादिना ज्ञेयम् अव्यक्तं लीनमप्यहं पश्यामि॥३७॥
पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते
।
गुणवृत्तं तथा वृत्तं क्षेत्रज्ञः परिपश्यति॥३८॥
गुणवृत्तं प्रकाशप्रवृत्तिमोहादिः॥३८॥
आदिमध्यावसानान्तं सृज्यमानमचेतनम्
।
न गुणा विदुरात्मानं सृज्यमानाः पुनः पुनः॥३९॥
तदेव आदिमध्यावसानान्तम् उत्पत्त्यादिना बद्ध अन्तशब्दो बद्धत्ववाची। अति अदि बन्धने इत्यस्य रूपम्। सृज्यमानं च गुणवृत्तमेव- सृज्यमाना इति। परिणामिनं कूटस्थं न पश्यन्त्यपि तु कूटस्थ एव तान्प्रकाशयतीत्यर्थः॥३९॥
न सत्यं विन्दते कश्चित्क्षेत्रज्ञस्त्वेव विन्दति
।
गुणानां गुणभूतानां यत् परं परमं महत्॥४०॥
सत्यम् आत्मानं गुणभूतानां भोग्यानां पञ्चम्यर्थे षष्ठी तेभ्यो यत्परं सत्यमिति सम्बन्धः॥४०॥
तस्माद्गुणांश्च सत्त्वं च परित्यज्येह धर्मवित्
।
क्षीणदोषो गुणातीतः क्षेत्रमं प्रविशत्यथ॥४१॥
गुणान्दृश्यान् सत्त्वं बुद्धिं दर्शने करणभूतां परित्यज्य क्षेत्रज्ञं परमात्मानं विशति॥४१॥
निर्द्वन्द्वो निमस्कारो निःस्वाहाकार एव च
।
अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः॥४२॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि गुरुशिष्यसंवादे त्रिचत्वारिंशोऽध्यायः॥४३॥
ब्रह्मोवाच।
यदादिमध्यपर्यन्तं ग्रहणोपायमेव च
।
नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः॥१॥
क्षेत्रज्ञप्रवेशरूपमस्य मोक्षस्य नित्यत्वं स्वरूपमात्रत्वं च वक्तुं यज्जन्मादिमत्तदनित्यं कर्म प्राप्य चेति तत्सर्वमनुक्रामति- यदादीति। आदिमध्यपर्यन्तं जन्मादिमत् ग्रहणे उपायोस्त्यस्य तत् ग्रहणोपायः कर्मसाध्यः तत्सर्वं वक्ष्यामि॥१॥
अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः
।
श्रवणादीनि ऋक्षाणि ऋतवः शिशिरादयः॥२॥
भूमिरादिस्तु गन्धानां रसानामाप एव च
।
रूपाणां ज्योतिरादित्यः स्पर्शानां वायुरुच्यते॥३॥
शब्दस्यादिस्तथाऽऽकाशमेष भूतकृतो गुणः
।
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम्॥४॥
आदित्यो ज्योतिषामादिरग्निर्भूतादिरुच्यते
।
सावित्री सर्वविद्यानां देवतानां प्रजापतिः॥५॥
अग्निर्जाठरूपी भूतानां जरायुजाण्डजानाम् उष्मरूपी प्रस्वेदवृष्टिहेतुतया स्वेदजोद्भिज्जानाम्॥५॥
ओङ्कारः सर्ववेदानां वचसां प्राण एव च
।
यदस्मिन्नियतं लोके सर्वं सावित्रिरुच्यते॥६॥
सिंहावलोकनेन सावित्रीं व्याचष्टे उपासनार्थं नियतं जप्यं ब्राह्मणक्षत्रियादिम्लेच्छान्तानां तत्सर्वं सावित्रीपदवाच्यम्॥६॥
गायत्री च्छन्दसामादिः प्रजानां सर्ग उच्यते
।
गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः॥७॥
सर्गः सृष्ट्यादिकालः॥७॥
श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम्
।
सरीसृपाणां सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः॥८॥
हुतम् अग्नौ ब्राह्मणे वा देवतोद्देशेन दत्तं सर्पो वासुकिः॥८॥
कृतमादिर्युगानां च सर्वेषां नात्र संशयः
।
हिरण्यं सर्वरत्नामोषधीनां यवास्तथा॥९॥
सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते
।
द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः॥१०॥
स्थावराणां तु भूतानां सर्वेषामविशेषतः
।
ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमतः स्मृतः॥११॥
अहं प्रजापतीनां च सर्वेषां नात्र संशयः
।
मम विष्णुरचिन्त्यात्मा स्वयम्भूरिति स स्मृतः॥१२॥
पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः
।
दिशां च प्रदिशां चोर्ध्वं दिक्पूर्वा प्रथमा तथा॥१३॥
तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता
।
तथा सरोदपानानां सर्वेषां सागरोऽग्रजः॥१४॥
सरोदपानानां सरसा कूपादीनां च सन्धिरार्षः॥१४॥
देवदानवभूतानां पिशाचोरगरक्षसाम्
।
नरकिन्नरयक्षाणां सर्वेषामीश्वरः प्रभुः॥१५॥
ईश्वरो रुद्रः॥१५॥
आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान्
।
भूतं परतरं यस्मात्त्रैलोक्ये नेह विद्यते॥१६॥
आश्रमाणां च सर्वेषां गार्हस्थ्यं नात्र संशयः
।
लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च॥१७॥
अहान्यस्तमयान्तानि उदयान्ता च शर्वरी
।
सुखस्यान्तं सदा दुःखं दुःखस्यान्तं सदा सुखम्॥१८॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
।
संयोगाश्च वियोगान्ता मरणान्तं च जीवितम्॥१९॥
सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम्
।
अशाश्वतं हि लोकेऽस्मिन् सदा स्थावरजङ्गमम्॥२०॥
इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये
।
सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते॥२१॥
तस्माज्ज्ञानेन शुद्धेन प्रशान्तात्मा जितेन्द्रियः
।
निर्ममो निरहङ्कारो मुच्यते सर्वपाप्मभिः॥२२॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि गुरुशिष्यसंवादे चतुश्चत्वारिंशोऽध्यायः॥४४॥
ब्रह्मोवाच।
बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम्
।
महाभूतपरिस्कन्धं निवेशपरिवेशनम्॥१॥
अध्यायद्वयेन ज्ञानोपायान् धर्मान्विवक्षुरज्ञानां कालवक्राधीनत्वं दर्शयति- बुद्धीत्यादिना। अत्र नूतनत्वपुराणत्वादिवदतीतत्वानागतत्वादिरपि द्रव्यस्यैव धर्म इत्यतीतानागतादिव्यवहारहेतुर्द्रव्यमेव न तु कालो नाम षष्ठ पदार्थस्तदर्थमेष्टव्य इति मन्वानो देहरूपं द्रव्यमेव कालचक्रत्वेन वर्णयति बुद्धिसारमित्यादिविशेषणयुक्तं कालचक्रं प्रवर्तत इति नवमेनान्वय। बुद्धिरेव सार उपादेयाशो यम्मिन् मनस्तम्भं मनसा स्तम्भेनेव धृतम्। महाभूतपरिस्कन्धं पञ्चभूतसमूहात्मकम्। स्कन्ध स्यान्नृपतौ वशे साम्परायसमूहयो इति मेदिनी। निवेशपरिवेशनं स्त्र्येव यत्र नेमिवदावरणभूता॥१॥
जराशोकसमाविष्टं व्याधिव्यसनसम्भवम्
।
देशकालविचारीदं श्रमव्यायामनिःस्वनम्॥२॥
सम्भव उत्पत्तिस्थानं देशकालाभ्यां विचरति तथा श्रमः स्वेदः व्यायामस्तद्धेतुर्गमनादि॥२॥
अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम्
।
सुखदुःखान्तसंश्लेषं क्षुत्पिपासावकीलकम्॥३॥
परिक्षेपश्चालकः। परिमण्डलं परिवेषः। अन्तसंश्लेषः सन्धिः। अवकीलका अन्तःप्रविष्टा शङ्कवः॥३॥
छायातपविलेखं च निमेषोन्मेषविह्वलम्
।
घोरमोहजलाकीर्णं वर्तमानमचेतनम्॥४॥
छायातपौ मेघमन्तापौ विलेखावुत्खातारौ यत्र तत् च्छायातपविलेखं निमेषमात्रेण उन्मेषमात्रेण च विह्वलं व्याकुलं घोरं बभित्सं मोहजलम् अश्रुं शोकव्याप्तमित्यर्थः। वर्तमानः सदागतिः अचेतनः जडम्॥४॥
मासार्धमासगणितं विषमं लोकसञ्चरम्
।
तमोनियमपङ्कं च रजोवेगप्रवर्तकम्॥५॥
मासादिना कालेन परिमितम्। विषमं कदाचिन्मनुष्याकारः कदाचित्पश्वाकारः कदाचिदन्याकारमिति। लोकेषु ऊर्ध्वमव्यावोगतेषु सञ्चर मञ्चरणं यस्या तमोनियमपङ्कः तमोगुणेन यो नियमः कर्मज्ञानयोर्निरोधः स एव पङ्कवन्मालिन्याख्यपापहेतुर्यस्मिन्। रजोवेगप्रवर्तकः तमः सत्वसंमिश्रस्य रजमो वेग विहितनिषिद्धकर्मसु प्रवर्तको यत्र॥५॥
महाहङ्कारदीप्तं च गुणसञ्जातवर्तनम्
।
अरतिग्रहणानीकं शोकसंहारवर्तनम्॥६॥
अहङ्कारो दर्पः। सत्वाहङ्कारेति पाठे बुद्ध्यहङ्काराभ्यां चेति तमित्यर्थः। गुणै सत्त्वादिभि सञ्जातं वर्तनमवस्थानं यस्य। पाठान्तरे मण्डलं सङ्घात अरतय इष्टालाभजाः परितापाः तान्येव ग्रहणानीकानि बन्धपट्टिका समूहो यत्र। शोकः संहारो मृत्युदुःखं ताभ्यामेव वर्तनं जीवनं यस्य॥६॥
क्रियाकारणसंयुक्तं रागविस्तारमायतम्
।
लोभेप्सापरिविक्षोभं विचित्राज्ञानसम्भवम्॥७॥
लोभः ईप्सा तृष्णा ते एव परिविक्षोभो निम्नोन्नतदेशस्थानीयश्चक्रस्यास्फालनहेतुर्यत्र। विचित्रं त्रिगुणात्मकत्वात्तच्च तदज्ञानं माया त सम्भव उत्पत्तिर्यस्य॥७॥
भयमोहपरीवारं भूतसम्मोहकारकम्
।
आनन्दप्रीतिचारं च कामक्रोधपरिग्रहम्॥८॥
आनन्दप्रीतिचार बाह्यसुखामक्त्या चरतीति तथा॥८॥
महदादिविशेषान्तमसक्तं प्रभवाव्ययम्
।
मनोजवं मनःकान्तं कालचक्रं प्रवर्तते॥९॥
विशेषा स्थूलपिण्डादय असक्तं क्वचिदपि क्षणमनिरुद्धं प्रभवति संसरत्यनेन तत् प्रभवं तच्च तदव्ययं चेति अव्ययं संसारकारणमित्यर्थः॥९॥
एतद्द्वन्द्वसमायुक्तं कालचक्रमचेतनम्
।
विसृजेत्संक्षिपेच्चापि बोधयेत्सामरं जगत्॥१०॥
द्वन्द्वानि मानापमानादीनि तन्मयं देहेन्द्रियादि सङ्घातचक्रं रजतस्य सत्त्वप्रधानं सत्सृष्टिसंहारतत्वज्ञानानां हेतुर्भवति॥१०॥
कालचक्रप्रवत्तिं च निवृत्तिं चैव तत्त्वतः
।
यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति॥११॥
प्रवृत्तिं प्रवृत्तिहेतुं निवृत्तिं निवृत्तिहेतुं वेद विदित्वा हानोपादानकृन्न मुह्यति॥११॥
विमुक्तः सर्वसंस्कारैः सर्वद्वन्द्वविवर्जितः
।
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम्॥१२॥
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः
।
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः॥१३॥
यः कश्चिदिह लोकेऽस्मिन्नागमः परिकीर्तितः
।
तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी॥१४॥
आगमः विधिनिषेधशास्त्रं॥१४॥
संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः
।
जातौ गुणविशिष्टायां समावर्तेत तत्त्ववित्॥१५॥
स्वदारनिरतो नित्यं शिष्टाचारो जितेन्द्रियः
।
पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेदिह॥१६॥
देवतातिथिशिष्टाशी निरतो वेदकर्मसु
।
इज्याप्रदानयुक्तश्च यथाशक्ति यथासुखम्॥१७॥
न पाणिपादचपलो न नेत्रचपलो मुनिः
।
न च वागङ्गचपल इति शिष्टस्य गोचरः॥१८॥
गोचारः विषयो लक्षणमिति यावत्॥१८॥
नित्यं यज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः
।
नियतो यमदानाभ्यां सदा शिष्टैश्च संविशेत्॥१९॥
संविद इति पाठे कुर्यादिति शेषः॥१९॥
जितशिश्नोदरो मैत्रः शिष्टाचारसमन्वितः
।
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम्॥२०॥
अधीत्याध्यापनं कुर्यात्तथा यजनयाजने
।
दानं प्रतिग्रहं वापि षड्गुणां वृत्तिमाचरेत्॥२१॥
पाठान्तरे आप्लवनं व्रतसमाप्तिस्नानं समावर्तनाख्यं वृति वर्तनम्॥२१॥
त्रीणि कर्माणि जानीत ब्राह्मणानां तु जीविका
।
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः॥२२॥
अथ शेषाणि चान्यानि त्रीणि कर्माणि यानि तु
।
दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु॥२३॥
तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित्
।
दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः॥२४॥
सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयन् शुचिः
।
एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः॥२५॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि गुरुशिष्यसंवादे पञ्चचत्वारिंशोऽध्यायः॥४५॥
ब्रह्मोवाच।
एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि
।
अधीतवान् यथाशक्ति तथैव ब्रह्मचर्यवान्॥१॥
एवमेतेन मार्गेणेत्यादिरध्यायो निगदव्याख्यातः॥१॥
स्वधर्मनिरतो विद्वान् सर्वेन्द्रिययतो मुनिः
।
गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः॥२॥
गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन्
।
हविष्यभैक्ष्यभुक् चापि स्थानासनविहारवान्॥३॥
द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः
।
धारयीत सदा दण्डं बैल्वं पालाशमेव वा॥४॥
क्षौमं कार्पासिकं चापि मृगाजिनमथापि वा
।
सर्वं काषायरक्तं वा वासो वापि द्विजस्य ह॥५॥
मेखला च भवेन्मौञ्जी जटी नित्योदकस्तथा
।
यज्ञोपवीती स्वाध्यायी अलुब्धो नियतव्रतः॥६॥
पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम्
।
भावेन नियतः कुर्वन् ब्रह्मचारी प्रशस्यते॥७॥
एवं युक्तो जयेल्लोकान् वानप्रस्थो जितेन्द्रियः
।
न संसरति जातीषु परमं स्थानमाश्रितः॥८॥
संस्कृत: सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान्
।
ग्रामान्निष्क्रम्य चारण्ये मुनिः प्रव्रजितो वसेत्॥९॥
चर्मवल्कलसंवासी सायं प्रातरुपस्पृशेत्
।
अरण्यगोचरो नित्यं न ग्रामं प्रविशेत् पुनः॥१०॥
अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम्
।
फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन्॥११॥
प्रवृत्तमुदकं वायुं सर्वं वानेयमाश्रयेत्
।
प्राश्नीयादानुपूर्वेण यथादीक्षमतन्द्रितः॥१२॥
समूलफलभिक्षाभिरर्चेदतिथिमागतम्
।
यद्भक्ष्यं स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः॥१३॥
देवतातिथिपूर्वं च सदा प्राश्नीत वाग्यतः
।
अस्पर्धितमनाश्चैव लघ्वाशी देवताश्रयः॥१४॥
दान्तो मैत्रः क्षमायुक्तः केशान्श्मश्रु च धारयन्
।
जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः॥१५॥
शुचिदेहः सदा दक्षो वननित्यः समाहितः
।
एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः॥१६॥
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ वा पुनः
।
च इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत्॥१७॥
अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत्
।
सर्वभूतसुखो मैत्रः सर्वेन्द्रिययतो मुनिः॥१८॥
अयाचितमसङ्क्लृप्तमुपपन्नं यदृच्छया
।
कृत्वा प्राह्ने चरेद्भैक्ष्यं विधूमे भुक्तवज्जने॥१९॥
वृत्ते शरावसम्पाते भक्ष्यं लिप्सेत मोक्षवित्
।
लाभेन च न हृष्येत नालाभे विमना भवेत्
।
न चातिभिक्षां भिक्षेत केवलं प्राणयात्रिकः॥२०॥
यात्रार्थी कालपाकाङ्क्षश्चरेद्भैक्ष्यं समाहितः
।
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः॥२१॥
अभिपूजितलाभाद्धि विजुगुप्सेत भिक्षुकः
।
भुक्तान्यन्नानि तिक्तानि कषायकटुकानि च॥२२॥
नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा
।
यात्रामात्रं च भुञ्जीत केवलं प्राणधारणम्॥२३॥
असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित्
।
न चान्यमन्नं लिप्सेत भिक्षमाणः कथञ्चन॥२४॥
न सन्निकाशयेद्धर्मं विविक्ते चारजाश्चरेत्
।
शून्यागारमरण्यं वा वृक्षमूलं नदी तथा॥२५॥
प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम्
।
ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत्॥२६॥
अध्वा सूर्येण निर्दिष्टः कीटवच्च चरेन्महीम्
।
दयार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत्॥२७॥
सञ्चयांश्च न कुर्वीत स्नेहवासं च वर्जयेत्
।
पूताभिरद्भिर्नित्यं वै कार्यं कुर्वीत मोक्षवित्॥२८॥
उपस्पृशेदुद्भूताभिरद्धिश्च पुरुषः सदा
।
अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च॥२९॥
अक्रोधश्चानसूया च दमो नित्यमपैशुनम्
।
अष्टस्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः॥३०॥
अपापमशठं वृत्तमजिह्यं नित्यमाचरेत्
।
जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः॥३१॥
यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम्
।
धर्मलब्धमथाश्नीयान्न काममनुवर्तयेत्॥३२॥
ग्रासादाच्छादनादन्यन्न गृह्णीयात्कथञ्चन
।
यावदाहारयेत्तावत्प्रतिगृह्णीत नाधिकम्॥३३॥
परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन
।
दैन्यभावाच्च भूतानां संविभज्य सदा बुधः॥३४॥
नाददीत परस्वानि न गृह्णीयादयाचितः
।
न किञ्चिद्विविषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः॥३५॥
मृदमापस्तथान्नानि पत्रपुष्पफलानि च
।
असंवृतानि गृह्णीयात्प्रवृत्तानि च कार्यवान्॥३६॥
न शिल्पजीविकां जीवेद्धिरण्यं नोत कामयेत्
।
न द्वेष्टा नोपदेष्टा च भवेच्च निरुपस्कृतः॥३७॥
श्रद्धापूतानि भुञ्जीत निमित्तानि च वर्जयेत्
।
सुधावृत्तिरसक्तश्च सर्वभूतैरसंविदम्॥३८॥
आशीर्युक्तानि सर्वाणि हिंसायुक्तानि यानि च
।
लोकसङ्ग्रहधर्मं च नैव कुर्यान्न कारयेत्॥३९॥
सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत्
।
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च॥४०॥
परं नोद्वेजयेत्काचिन्न च कस्यचिदुद्विजेत्
।
विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते॥४१॥
अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत्
।
वर्तमानमुपेक्षेत कालाकाक्षी समाहितः॥४२॥
न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित्
।
न प्रत्यक्षं परोक्षं वा किञ्चिद्दुष्टं समाचरेत्॥४३॥
इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः
।
क्षीणेन्द्रियमनोबुद्धिर्निरीहः सर्वतत्त्ववित्॥४४॥
निर्द्वन्द्वो निर्नमस्कारो निःस्वाहाकार एव च
।
निर्ममो निरहङ्कारो निर्योगक्षेम आत्मवान्॥४५॥
निराशीर्निर्गुणः शान्तो निरासक्तो निराश्रयः
।
आत्मसङ्गी च तत्त्वज्ञो मुच्यते नात्र संशयः॥४६॥
अपादपाणिपृष्ठं तदशिरस्कमनूदरम्
।
प्रहीणगुणकर्माणं केवलं विमलं स्थिरम्॥४७॥
अगन्धमरसस्पर्शमरूपाशब्दमेव च
।
अनुगम्यमनासक्तममांसमपि चैव यत्॥४८॥
निश्चिन्तमव्ययं दिव्यं गृहस्थमपि सर्वदा
।
सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः॥४९॥
न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः
।
वेदा यज्ञाश्च लोकाश्च न तपो न व्रतानि च॥५०॥
यत्र ज्ञानवतां प्राप्तिरलिङ्गग्रहणा स्मृता
।
तस्मादलिङ्गधर्मज्ञो धर्मतत्त्वमुपाचरेत्॥५१॥
गूढधर्माश्रितो विद्वान्विज्ञानचरितं चरेत्
।
अमूढो मूढरूपेण चरेद्धर्ममदूषयन्॥५२॥
यथैनमवमन्येरन्परे सततमेव हि
।
यथावृत्तश्चरेच्छान्तः सतां धर्मानकुत्सयन्॥५३॥
य एवं वृत्तसम्पन्नः स मुनिः श्रेष्ठ उच्यते
।
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च॥५४॥
मनो बुद्धिरहङ्कारमव्यक्तं पुरुषं तथा
।
एतत्सर्वं प्रसङ्ख्याय यथावत्तत्त्वनिश्चयात्॥५५॥
ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः
।
एतावदन्तवेलायां परिसङ्ख्याय तत्त्ववित्॥५६॥
ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः
।
निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा॥५७॥
क्षीणकेशो निरातङ्गस्तथेदं प्राप्नुयात्परम्॥५८॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि गुरुशिष्यसंवादे षट्चत्वारिंशोऽध्यायः॥४६॥
ब्रह्मोवाच।
संन्यासं तप इत्याहुर्वृद्धा निश्चितवादिनः
।
ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः॥१॥
संन्यासमित्यध्यायेऽपि मुच्यते नात्र संशय इत्यन्तो ग्रन्थः पूर्वमेव गतार्थः॥१॥
अतिदूरात्मकं ब्रह्म वेदविद्याव्यपाश्रयम्
।
निर्द्वन्द्वं निर्गुणं नित्यमचिन्त्यगुणमुत्तमम्॥२॥
ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्परम्
।
निर्णिक्तमनसः पूता व्युत्क्रान्तरजसोऽमलाः॥३॥
तपसा क्षेममध्वानं गच्छन्ति परमेश्वरम्
।
संन्यासनिरता नित्यं ये च ब्रह्मविदो जनाः॥४॥
तपः प्रदीप इत्याहुराचारो धर्मसाधकः
।
ज्ञानं वै परमं विद्यात्संन्यासं नृप उत्तमम्॥५॥
यस्तु वेद निराधारं ज्ञानं नत्त्वविनिश्चयात्
।
सर्वभूनस्थमात्मानं स सर्वगतिरिष्यते॥६॥
यो विद्वान्सहवासं च विवासं चैव पश्यति
।
तथैवैकत्वनानात्वे स दुःखात्प्रतिमुच्यते॥७॥
यो न कामयते किञ्चिन्न किञ्चिदवमन्यते
।
इहलोकस्थ एवैष ब्रह्मभूयाय कल्पते॥८॥
प्रधानगुणतत्त्वज्ञः सर्वभूतप्रधानवित्
।
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः॥९॥
निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च
।
निर्गुणं नित्यमद्वन्द्वं प्रशमेनैव गच्छति॥१०॥
हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम्
।
उभे सत्यानृते हित्वा मुच्यते नात्र संशयः॥११॥
अव्यक्तयोनिप्रभवो बुद्धिस्कन्धमयो महान्
।
महाहङ्कारविटप इन्द्रियाङ्करकोटरः॥१२॥
महाभूतविशालश्च विशेषयति शाखिनः
।
सदापत्रः सदापुष्पः शुभाशुभफलोदयः॥१३॥
आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः
।
एनं छित्त्वा च भित्त्वा च तत्त्वज्ञानासिना बुधः॥१४॥
हित्वा सङ्गमयान्पाशान्मृत्युजन्मजरोदयान्
।
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः॥१५॥
द्वाविमौ पक्षिणौ नित्यौ संक्षेपौ चाप्यचेतनौ
।
एताभ्यां तु परो योऽयश्चेतनावान्स उच्यते॥१६॥
द्वाविमाविति। पक्षिणौ जीवेश्वरौ संक्षिप्येते ययोस्तौ संक्षेपौ तयोरुपाधी बुद्धिमाये तो अचेतनौ। सखायाविति पाठे तु अचेतनौ प्रतिबिम्बत्वेन दृश्यौ यस्तु ताभ्यां प्रतिबिम्बरूपाभ्यामन्यः बिम्बस्थानीयः स चेतनामात्रशरीरोपि चेतनावानित्युच्यते साक्ष्यसंसर्गात्साक्षीतिवत्॥१६॥
अचेतनः सत्त्वसङ्ख्याविमुक्तः सत्त्वात्परं चेतयतेऽन्तरात्मा
।
सक्षेत्रवित्सर्वसङ्ख्यातबुद्धिर्गुणातिगो मुच्यते सर्वपापैः॥१७॥
अचेतन इति। अचेतन इवाहन्धीगम्यो दृश्यो जीव इति यावत्। सत्त्वसङ्ख्याविमुक्तसत्त्वानि प्राणिनः सङ्ख्यायन्ते पृथक्त्वेन गण्यन्ते यैस्ते देहाद्युपाधयस्तैर्विमुक्तः सन्सत्त्वात् बुद्धे परं यद्वस्तु यच्च चेतयते बुद्ध्यादीन् अचेतनानपि चैतन्ययुक्तान्कुरुते। स एव क्षेत्रसंज्ञोऽन्तरात्मा कोऽसौ सर्वसङ्ख्यातबुद्धिः सर्वाः सङ्ख्याता बुद्धयो येन सर्वासां बुद्धीनां साक्षित्वेन सङ्ख्याता परिच्छेदक इत्यर्थः। स एव गुणगुम्फितः सन्सर्वैर्दोषैर्युज्यते गुणातिगस्तु तैर्मुच्यत इति॥१७॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि गुरुशिष्यसंवादे सप्तचत्वारिंशोऽध्यायः॥४७॥
ब्रह्मोवाच।
केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्मवनं महत्
।
केचित्तु ब्रह्म चाव्यक्तं केचित्परमनामयम्
।
मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम्॥१॥
एवं ससाधना ब्रह्मविद्यां समाप्य शिष्यबुद्धिपरीक्षार्थं व्यामिश्रैर्वाक्यैस्तामेवानुवदति- केचिदित्यादिना। केचित्सप्रपञ्चं ब्रह्मेति वदन्तो वृक्षं संसारं ब्रह्ममयं ब्रह्मणो विकारमाहुः "ब्रह्मैव जगदाकारेण परिणमते" इति "तदात्मानꣳस्वयमकुरुत"सच्च त्यच्चाभवत्"। "आत्मकृते परिणामात्" इत्यादिश्रुतयः स्मृतयश्च। केचित्परं वस्तुम् अनामयं निर्विकारं तत्र जगत्स्वप्नवत्कल्पितम्। स यदा स्वपिति तदैनं वाक्सर्वैनामाभिः सहाप्येति चक्षुः सर्वैः रूपैः सहाप्येति स यदा प्रतिबुद्ध्येताथैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका इति सुप्तिप्रबोधयोर्नामरूपात्मकस्यात्मन्येव लयोदयौ श्रूयते। मायामात्रं तु कार्त्स्न्येन आत्मनि चैवं विचित्राश्च हीति स्मर्यते च। एवं श्रौतं मतद्वयमुक्त्वा साङ्ख्यमतमाह- मन्यन्त इति॥१॥
उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत्
।
आत्मानमुपसङ्गम्य सोऽमृतत्वाय कल्पते॥२॥
तत्र प्रथमपक्षे उपासकानाम् आप्रायणादितिन्यायेन अन्त्यप्रत्ययस्यावश्यकत्वमाह उच्छ्वासमात्रं तावन्मात्रकालं समो निर्विशेषः सर्वो वा समशब्दस्य सर्वपर्यायत्वात् स इदं सर्वं भवतीति श्रुतेश्व आत्मानं हार्दं ब्रह्म सङ्गम्य उपास्य अमृतत्वाय कल्पते ब्रह्मलोकप्राप्तिद्वारेत्यर्थः॥२॥
निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि
।
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम्॥३॥
द्वितीयपक्षे अन्तकालादन्यत्रापि क्षणिकनिर्विकल्पसाक्षात्कारान्मुच्यत इत्याह- निमेषेति। विदुषां प्राप्तिं प्राप्यं कैवल्यम्॥३॥
प्राणायामैरथ प्राणान्संयम्य स पुनः पुनः
।
दशद्वादशभिर्वापि चतुर्विंशात्परं ततः॥४॥
तृतीयपक्षेऽपि मनोनिरोधेन मुच्यत इत्याह- प्राणायामैरिति द्वाभ्याम्। प्राणा इन्द्रियाणि बुद्धिमनःसहितानि द्वादश ते आयमन्ते निगृह्यन्ते यैस्तैः प्राणायामैः यमनियमादिभुः। ते च यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयस्तर्कवैराग्याभ्यां सह दश वा मैत्रीकरुणामुदितापेक्षाभिः सह द्वादश वा। यमाः पञ्च नियमाः पश्च प्राणायामादयः षट् मैत्र्यादयश्चतस्रस्तर्को वैराग्यं चेति द्वाविंशतिर्वा संयम्य निरोध्य पुनः पुनरिति यावज्जीवभेधं कार्यं न तु सकृत्प्रयत्नेनात्र सिद्धिरस्तीति दर्शितम्। चतुर्विंशात् अव्यक्तात्परम् अन्यं पञ्चविंशं पुरुषं लभते॥४॥
एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति
।
अव्यक्तात्सत्त्वमुद्रिक्तममृतत्वाय कल्पते॥५॥
यद्यदिच्छति तदपि लभते योगसामर्थ्यात्। प्रसन्नात्मा विशुद्धसत्त्वः यदा तु अव्यक्तात् अव्यक्तं प्राप्य सत्त्वं सत्त्वगुणः उद्रिक्तम् उत्कृष्टतरं भवति पुरुषमात्राकारः भवति तदाऽमृतत्वाय कल्पते पूर्णं शतसहस्रं च तिष्ठन्त्यव्यक्तचिन्तका इत्यव्यक्तमात्रनिष्ठानां स्वर्गकालावधिस्मरणात्। चतुर्विशादव्यक्तात्परमिति वा सम्बन्धः॥५॥
सत्त्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः
।
अनुमानाद्विजानीमः पुरुषं सत्त्वसंश्रयम्
।
न शक्यमन्यथा गन्तुं पुरुषं द्विजसत्तमाः॥६॥
धर्मज्ञानवैराग्यैश्वर्यादीनाम् आत्मप्राप्तिसाधनानां सत्त्वोत्कर्षलभ्यत्वात्सत्त्वमेव स्तौति सार्धेन- सत्त्वादिति। सत्त्वसंश्रयं तं पुरुषम् अन्यथा सत्त्वासंश्रय इति गन्तुं न शक्यमिति योजना॥६॥
क्षमा धृतिरहिंसा च समता सत्यमार्जवम्
।
ज्ञानं त्यागोऽथ संन्यासः सात्त्विकं वृत्तमिष्यते॥७॥
वृत्तं परिपाकः॥७॥
एतेनैवानुमानेन मन्यन्ते वै मनीषिणः
।
सत्त्वं च पुरुषश्चैव तत्र नास्ति विचारणा॥८॥
पुरुषवत्स्वच्छत्वात्पुरुषोपकारित्वाच्च सत्त्वं पुरुषादभिन्नमिति मन्यन्ते तार्किकाः अत एव ते आत्मनि सत्त्वधर्मान्कर्तृत्वादीन्वास्तवान्मन्यन्ते इत्याह- एतेनेति द्वाभ्याम्। तत्रापि मन्यन्ते प्रातीतिकम् एकत्वं साङ्ख्यादयः। तार्किकास्तु तदेव वास्तवमित्याहुरिति विवेकः॥८॥
आहुरेके च विद्वांसो ये ज्ञानपरिनिष्ठिताः
।
क्षेत्रज्ञसत्त्वयोरैक्यमित्येतन्नोपपद्यते॥९॥
एतद्दूषयति- आहुरिति॥९॥
पृथग्भूतं ततः सत्त्वमित्येतदविचारितम्
।
पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः॥१०॥
साङ्ख्यं प्रत्याह- पृथगिति। यदि सत्त्वं तत पुरुषात्पृथक् अन्यत् भूतं नित्यनिर्वृत्तं च स्यात्तर्हि मुक्तमप्यात्मानं न जह्यात्। भूतत्वे तस्य निरन्वयनाशायोगात्। तस्मादनिर्मोक्षप्रसक्तेः इदं मतमविचारितम् एकत्वपक्षोऽपि प्रत्युक्त एव। कर्तृत्वादेर्वास्तवत्वे धर्मिनाशमन्तरेणानिवृत्तेर्नैरात्म्यमनिर्मोक्षो वा प्रसज्येत इति भावः। सिद्धान्तमाह- पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः। सत्त्वपुरुषयोः समुद्रतरङ्गयोरिव शब्दतः प्रतीतितश्च पृथग्भावोऽस्ति। सत्त्वं च समुद्रे तरङ्ग इव पुरुषे सहजम्, एवं च विलीनतरङ्गस्येव मुक्तसत्त्वस्य पुनरुत्पत्त्ययोगान्नानिर्मोक्ष इति कल्पितभेदेन संसारयात्रानिर्वाह अकल्पिता भेदेन मोक्षोपपत्तिरित्यर्थः॥१०॥
तथैवैकत्वनानात्वमिष्यते विदुषां नयः
।
मशकोदुम्बरे चैक्यं पृथक्त्वमपि दृश्यते॥११॥
एवमपि सत्त्वपुरुषयोरेकजात्यापत्तेर्जडाजडविभागो न स्यादित्याशङ्क्याह- तथैवेति नयः युक्तिः। तप इति पाठे आलोचनपूर्वको निश्चयः। यथा उदुम्बरफलोदरे बाह्यस्यान्यस्य प्रवेशायोगात्तदवयव एव मशकदेहस्ततो विजातीयः सन्नाविर्भवति। एवं चिद्विलास एव सत्त्वं तत पृथग्भूय जडत्वेनाविर्भवतीत्यर्थः॥११॥
मत्स्यो यथान्यः स्यादप्सु सम्प्रयोगस्तथा तयोः
।
सम्बन्धस्तोयबिन्दूनां पर्णे कोकनदस्य च॥१२॥
सत्त्वपुरुषयोः सम्बन्धे दृष्टान्तः- पर्णे इति। असङ्गत्वात्पुरुषः सत्त्वधर्मैर्न लिप्यते तत्र लेपप्रतीतिस्त्वाध्यासिकीति भावः॥१२॥
गुरुरुवाच।
इत्युक्तवन्तस्ते विप्रास्तदा लोकपितामहम्
।
पुनः संशयमापनाः पप्रच्छुर्मुनिसत्तमाः॥१३॥
उक्तं विद्यते येषु ते उक्तवन्तः उक्तमर्थं सम्यगवधृतवन्त इत्यर्थः। सहजस्यापि सत्त्वस्य पुरुषासंसर्गित्वं दुर्घटं ब्रह्मणश्च वचनं न मिथ्येति तर्कश्रद्धाभ्यामुभयतो निरुद्धत्वात्संशयमापन्ना॥१३॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि गुरुशिष्यसंवादे अष्टचत्वारिंशोऽध्यायः॥४८॥
ऋषय ऊचुः।
को वा स्विदिह धर्माणामनुष्ठेयतमो मतः
।
व्याहतामिव पश्यामो धर्मस्य विविधां गतिम्॥१॥
एवं सदिहाना प्रथमं वेदशास्त्रेषु मतभेदं दर्शयन्ति- को वेति। निवृत्तिधर्मो वा प्रवृत्तिधर्मो वाऽनुष्ठेयः- न कर्मणेति। "कुर्वन्नेवेह कर्माणि" (ई.वा.म१) इत्युभयविधश्रुतिदर्शनान्मुह्यामहे इति भावः॥१॥
ऊर्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे
।
केचित्संशयितं सर्वं निःसंशयमथापरे॥२॥
ऊर्ध्वं देहात् देहनाशादूर्ध्वमपि आत्मास्तीत्येके वदन्तीति सम्बन्धः- नैतदिति। लोकायता सर्वं संशयितामिति स्याद्वादिनः सप्तभङ्गीनयज्ञा निःसंशयामिति। प्रातित्विकं सर्वं तैर्थिकाः॥२॥
अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे
।
एकरूपं द्विधेत्येके व्यामिश्रमिति चापरे॥३॥
अनित्यं सर्वं सृष्टिप्रलययुक्तमिति तार्किकादयः नित्यं प्रवाहनित्यमिति मीमांसकाः नास्तीति शून्यवादिनः अस्ति परन्तु क्षणिकमिति सौगताः एकरूपं विज्ञानमेव द्विधा इदमर्थाकारमहमर्थाकारमिति योगाचाराः व्यामिश्रं भिन्नमभिन्नं चेत् इति उडुलोमाः॥३॥
मन्यन्ते ब्राह्मणा एव ब्रह्मज्ञास्तत्त्वदर्शिनः
।
एकमेके पृथक्चान्ये बहुत्वमिति चापरे॥४॥
एके ब्रह्मज्ञाः शास्त्रज्ञाः तत्त्वदर्शिनोऽपरोक्षज्ञानवन्तः ब्राह्मणास्तु ब्रह्मैवैकमस्तीति मन्यन्ते सगुणोपासकाः पृथक् असाधारणानि कर्माण्येव कारणानीत्यन्ये मीमांसकाः बहुत्वमपि कारणानां प्राहुः परमाणुवादिनः॥४॥
देशकालावुभौ केचिन्नैतदस्तीति चापरे
।
जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः॥५॥
देशकालाविति ज्योतिर्विदः एतत् दृश्यं सर्वं कालत्रयेऽपि नास्ति स्वप्नराज्यवच्चिद्विलासमात्रमिति वृद्धाः॥५॥
अस्नानं केचिदिच्छन्ति स्नानमप्यपरे जनाः
।
मन्यन्ते ब्राह्मणा देवा ब्रह्मज्ञास्तत्त्वदर्शिनः॥६॥
अस्नानं नैष्ठिकब्रह्मचर्यं स्नानं गार्हस्थ्यम्॥६॥
आहारं केचिदिच्छन्ति केचिच्चानशने रताः
।
कर्म केचित्प्रशंसन्ति प्रशान्तिं चापरे जनाः॥७॥
केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान्
।
धनानि केचिदिच्छन्ति निर्धनत्वमथापरे
।
उपास्य साधनं त्वेके नैतदस्तीति चापरे॥८॥
साधनं ध्यानादिकमुपास्य कृत्वाऽपि नैतदस्तीति पश्चात्सर्वमपवदन्ति तथा च श्रुतिः- न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः। न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता इति॥८॥
अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः
।
पुण्येन यशसा चान्ये नैतदस्तीति चापरे॥९॥
पुण्येन पुष्यार्थमेव यतेतेत्यन्ये। एतत्पुण्यं नास्त्येवेत्यन्ये लोकायताः॥९॥
सद्भावनिरताश्चान्ये केचित् संशयिते स्थिताः
।
दुःखादन्ये सुखादन्ये ध्यानमित्यपरे जनाः॥१०॥
सशयिते कृतमस्ति न वेत्ति सन्दिग्धे पथि दुःखात् दुःखनिवृत्त्यर्थं सुखात्सुखप्राप्त्यर्थं ध्यानं कर्तव्यं निष्काममेवेत्यपरे॥१०॥
यज्ञमित्यपरे विप्राः प्रदानमिति चापरे
।
तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः॥११॥
ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः
।
सर्वमेके प्रशंसन्ति न सर्वमिति चापरे॥१२॥
ज्ञानं सन्यासः सन्यासैकप्राप्य भूतचिन्तका वस्तुतत्त्वविचारका स्वभावं साधनपौष्कल्यं साधनपौष्कल्यस्वाभाव्यादेव ज्ञानमुत्पद्यते आश्रमान्तरेऽपि न संन्यासमात्रेणेत्याहुः॥१२॥
एवं व्युत्थापिते धर्मे बहुधा विप्रबोधिते
।
निश्चयं नाधिगच्छामः सम्मूढाः सुरसत्तम॥१३॥
इदं श्रेय इदं श्रेय इत्येवं व्युस्थितो जनः
।
यो हि यस्मिन् रतो धर्मे स तं पूजयते सदा॥१४॥
तेन नोऽविहिता प्रज्ञा मनश्च बहुलीकृतम्
।
एतदाख्यातमिच्छामः श्रेयः किमिति सत्तम॥१५॥
अविहिता अशिक्षिता आख्यातं त्वयेति शेषः॥१५॥
अतः परं तु यद्गुह्यं तद्भवान्वक्तुमर्हति
।
सत्त्वक्षेत्रज्ञयोश्चापि सम्बन्धः केन हेतुना॥१६॥
मुख्यं प्रष्टव्यमाह- अतः परमिति॥१६॥
एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः
।
तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान्॥१७॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि गुरुशिष्यसंवादे एकोनपञ्चाशत्तमोऽध्यायः॥४९॥
ब्रह्मोवाच।
हन्त वः सम्प्रवक्ष्यामि यन्मां पृच्छथ सत्तमाः
।
गुरुणा शिष्यमासाद्य यदुक्तं तन्निबोधत॥१॥
पृष्टेष्वेतेषु पक्षेषु यद्धेयमुपादेयं च तत्संक्षेपेणाह- हन्त व इति॥१॥
समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम्
।
अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम्॥२॥
एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम्
।
ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चितदर्शिनः॥३॥
तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वकिल्बिषैः
।
हिंसापराश्च ये केचिद्ये च नास्तिकवृत्तयः
।
लोभमोहसमायुक्तास्ते वै निरयगामिनः॥४॥
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः
।
तेऽस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः॥५॥
कुर्वते ये तु कर्माणि श्रद्दधाना विपश्चितः
।
अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः॥६॥
अतः परं प्रवक्ष्यामि सत्त्वक्षेत्रज्ञयोर्यथा
।
संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः॥७॥
विषयो विषयित्वं च सम्बन्धोऽयमिहोच्यते
।
विषयी पुरुषो नित्यं सत्त्वं च विषयः स्मृतः॥८॥
व्याख्यातं पूर्वकल्पेन मशकोदुम्बरं यथा
।
भुज्यमानं न जानीते नित्यं सत्त्वमचेतनम्
।
यस्त्वेवं तं विजानीते यो भुङ्क्ते यश्च भुज्यते॥९॥
विषयविषयिभावो घटचक्षुषोरिव न केवलं प्रकाश्यप्रकाशकमावः अपि तु भोज्यभोक्तृभावोप्यस्तीत्याह- व्याख्यातमिति सार्धेन। उदुम्बरवत्सत्त्वं स्वात्मानं भाोक्तारं च न वोत्ति भोक्ता तु मशकवदुभयं वेत्तीत्यर्थः। यो विजानीते स क्षेत्रज्ञ इत्युत्तरेणान्वयः॥९॥
नित्यं द्वन्द्वसमायुक्तं सत्त्वमाहुर्मनीषिणः
।
निर्द्वन्द्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः॥१०॥
सत्त्वपुरुषयोः सम्बन्धस्याध्यासिकत्वमाह- नित्यमिति। नित्यं सर्वदा सत्त्वं द्वन्द्वैः सुखदुःखादिपरिणामैर्युक्तं गुणात्मकत्वात्सुखदुःखमोहात्मकं संहृतं च तद्विपरीतत्त्वात् निर्द्वद्वः नित्यः निष्कलो निर्गुणश्च पुरुष अतस्तयोर्विषमस्वभावत्वान्न जनुकाष्ठादिवत् सम्बधो युज्यते। यथोक्तं- निःसङ्गस्य ससङ्गेन कूटस्थस्य विकारिणा। आत्मनोऽनात्मना योगो वास्तवो नोपपद्यते॥ इति॥१०॥
समं संज्ञानुगश्चैव स सर्वत्र व्यवस्थितः
।
उपभुङ्क्ते सदा सत्त्वमप: पुष्करपर्णवत्॥११॥
कथं तर्हि तयोर्विषयविषयिभावसम्बन्ध उक्त इत्याह- सममिति। यथा सर्वत्र स्वप्नमायेन्द्रजालरज्जूरगादी अध्यस्तम् अधिष्ठानेन समं तुल्यं तदावरकमित्यर्थः। अधिष्ठानं चाध्यस्तसंज्ञानुगतः तत्र स्वकीयसत्ता स्फूर्तिसमर्पकतया तदीयां संज्ञामनुसरत् दृश्यते तथा सत्त्वं पुरुषेण समं सत्त्वसंज्ञानुगतः पुरुष उपभुङ्क्ते तत्र दृष्टान्तः- अप इति। यथा पुष्करपर्ण अद्भिरसंसक्तमपि अपो भुङ्क्ते ताभिस्तस्याप्यायनात्। एवं सत्त्वेनावृतः पुरुषः सत्त्वसमानत्वं गतः सत्त्वधर्मान् आत्मन्यभिमन्वानः सत्वं भुङ्क्ते तथा चैवं कूटस्थविकारिणोरपि पुम्प्रकृत्योराध्यासिकः सम्बन्ध उपपादितो भवति॥११॥
सर्वैरपि गुणैर्विद्वान् व्यतिषक्तो न लिप्यते
।
जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः॥१२॥
प्रकारान्तरेण दृष्टान्तं विवृणोति- सर्वैरिति॥१२॥
एवमेवाप्यसंयुक्तः पुरुषः स्यान्न संशयः
।
द्रव्यमात्रमभूत्सत्त्वं पुरुषस्येति निश्चयः॥१३॥
समत्वमुपपादयति- एवमिति। सर्पेण रज्जुरिव सत्त्वेन असंयुक्तोऽपि पुरुषः स इति निश्चितमेव। तथापि सत्त्वं पुरुषश्च उभयं मिलित्वा द्रव्यमात्रं सत्त्वमात्रमभूत्। यथा रज्जुभुजङ्गौ मिलित्वा भुजङ्गमात्रं भवति तद्वत् इति निश्चयः। इदमेव तत्त्वं कल्पनान्तरं तु भ्रान्तिमात्रमिति भावः॥१३॥
यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा
।
यथा प्रदीपमादाय कश्चित्तमसि गच्छति
।
तथा सत्त्वप्रदीपेन गच्छन्ति परमैषिणः॥१४॥
इदमेव द्वयोः सत्त्वमात्रत्वमनुसृत्य सत्वमेवात्मेति मन्यमाना बौद्धाः पुरुषमपलपन्ति तत्प्राह- यथेति। सत्त्वं पुरुषश्चेत्युभयं यथा द्रव्यमात्रमभूत्तथा द्रव्यम् इदमर्थं कर्ताहमर्थः तयोः संयोगां दर्शनं चेति कृत्स्ना त्रिपुट्यपि द्रव्यमभूदित्यर्थः। कुतस्तर्हि द्रव्यात्पुरुषस्य पृथक्त्वमत आह- प्रदीपेति। यथा दीपेनैव दीपमन्यं च जानन्ति एवं सत्वस्य परिणामविशेषेण विद्याख्येन सत्त्वं पुरुषं च पृथक् जानीयादित्यर्थः॥१४॥
यावद्द्रव्यं गुणस्तावत्प्रदीपः सम्प्रकाशते
।
क्षीणे द्रव्ये गुणे ज्योतिरन्तर्धानाय गच्छति॥१५॥
द्रव्यं तैलं गुणो वर्तिः॥१५॥
व्यक्तः सत्त्वगुणस्त्वेवं पुरुषोऽव्यक्त इष्यते
।
एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः॥१६॥
दार्ष्टान्तिकमाह- व्यक्त इति। यथा तैलवर्तिभ्यामवष्टब्धो दपि आत्मानं भवनाकाशं च व्याप्नोति तदभावे तु स्वयमेवातर्धीयते न तु भवनाकाश एवं कर्मावष्टब्ध सत्त्वगुणश्चरमवृत्तिरूपोऽभिव्यक्तः सन् स्वं च पुरुषं च पृथगवभासयति कर्मोपरमे तु स्वयमेवान्तर्धीयते पुरुषस्तु अव्यक्तः समाधिसुषुप्तिसुखसाक्षी केवल इष्यते॥१६॥
सहस्रेणापि दुर्मेधा न बुद्धिमधिगच्छति
।
चतुर्थेनाप्यथांशेन बुद्धिमान् सुखमेधते॥१७॥
एवं धर्मस्य विज्ञेयं संसाधनमुपायतः
।
उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते॥१८॥
यथाध्वानमपाथेयः प्रपन्नो मनुजः क्वचित्
।
क्लेशेन याति महता विनश्येदन्तरापि च॥१९॥
तथा कर्मसु विज्ञेयं फलं भवति वा न वा
।
पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम्॥२०॥
कर्मसु ज्ञानसाधनेषु आत्मनि चित्ते श्रेयोविषये शुभाशुभदृष्टान्तः पूर्णे पुण्यपापे यः पूर्णं योगमाप्नोति अल्पपुष्यस्त्वन्तरा म्रियते इति भाव॥२०॥
यथा च दीर्घमध्वानं पद्भ्यामेव प्रपद्यते
।
अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः॥२१॥
यथा चेति। शास्त्ररथेनैव संसाराध्वातिलघनीय इति भावः॥२१॥
तमेव च यथाध्वानं रथेनेहाशुगामिना
।
गच्छत्यश्वप्रयुक्तेन तथा बुद्धिमतां गतिः॥२२॥
ऊर्ध्वं पर्वतमारुह्य नान्ववेक्षेत भूतलम्
।
रथेन रथिनं पश्य क्लिश्यमानमचेतनम्॥२३॥
ऊर्ध्वमिति। परं पदमारुह्य शास्त्रमपि त्याज्यमिति भावः॥२३॥
यावद्रथपथस्तावद्रथेन स तु गच्छति
।
क्षीणे रथपदे विद्वान् रथमुत्सृज्य गच्छति॥२४॥
यावदिति। चित्तशुद्धिपर्यन्तं विधिशास्त्रकैङ्कर्यं ततस्तु योगतत्त्वं जानन् उत्तरोत्तरं हंसं परमहंसं वाऽऽश्रमं सम्यगवबुध्य गच्छेदित्यर्थः॥२४॥
एवं गच्छति मेधावी तत्त्वयोगविधानवित्
।
परिज्ञाय गुणज्ञश्च उत्तरादुत्तरोत्तरम्॥२५॥
यथार्णवं महाघोरमप्लवः सम्प्रगाहते
।
बाहुभ्यामेव सम्मोहाद्वधं वाञ्छत्यसंशयम्॥२६॥
आचार्यरूपा नावंश्रयेदित्याह त्रिभिः- यथेति॥२६॥
नावा चापि यथा प्राज्ञो विभागज्ञः स्वरित्रया
।
अश्रान्तः सलिले गच्छेच्छीघ्रं सन्तरते ह्रदम्॥२७॥
स्वरित्रया शोभनानि अरित्राणि केनिपातनानि यस्या तया॥२७॥
तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः
।
व्याख्यातं पूर्वकल्पेन यथा रथपदातिनोः॥२८॥
तीर्ण इति। समावृतवत् निदिध्यासनार्थी गुरुमपि त्यजेदिति भावः। तावद्गुरुं सेवेत यावद्योगारूढो न भवति रथमिव पर्वतारूढ इति पूर्वदृष्टान्त स्मारयति- व्याख्यातमिति। पदातिदृष्टान्तोऽपि गुर्वभावे मार्गप्राप्तिरेव न भवतीत्यत्र बोध्यः॥२८॥
स्नेहात्सम्मोहमापन्नो नावि दाशो यथा तथा
।
ममत्वेनाभिभूतः संस्तत्रैव परिवर्तते॥२९॥
स्नेहादिति। नात्यन्तं गुरावेव स्थेयं सति ध्यानयोग्यत्वे इति भावः॥२९॥
नावं न शक्यमारुह्य स्थले विपरिवर्तितुम्
।
तथैव रथमारुह्य नाप्सु चर्या विधीयते॥३०॥
नावमिति। कर्माधिकारिणा योगो योगाधिकारिणा च कर्म नानुष्ठातुं युक्तम् इति भावः॥३०॥
एवं कर्मकृतं चित्रं विषयस्थं पृथक् पृथक्
।
यथा कर्मकृतं लोके तथैतानुपद्यते॥३१॥
कर्मकृतं कर्मफलं चित्रं नानाविधं विषयस्थं पृथक् पृथक् एकमेव कर्म गृहस्थस्य श्लाध्यं परिव्राजकस्य पातित्यहेतुः एवं व्यतिरेकोऽपि ज्ञेयः विषयः आश्रमस्तत्स्थम् एतान्कर्तॄन्॥३१॥
यनैव गन्धिनो रस्यं न रूपस्पर्शशब्दवत्
।
मन्यन्ते मुनयो बुद्ध्या तत्प्रधानं प्रचक्षते॥३२॥
एवं ज्ञानसाधनान्युक्त्वा ज्ञेयमाह- यदिति। गन्धि गन्धवतः रस्यं रसवत्॥३२॥
तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान्
।
महत्प्रधानभूतस्य गुणोऽहङ्कार एव च॥३३॥
गुणः कार्यं महद्रूपं यत्प्रधानभूतं प्रधानकार्यं तस्यापि गुणोऽहङ्कारः॥३३॥
अहङ्कारात्तु सम्भूतो महाभूतकृतो गुणः
।
पृथक्त्वेन हि भूतानां विषया वै गुणाः स्मृताः॥३४॥
महाभूतकृतः वियदादिरूपत्वेन कल्पितः तेषां गुणास्तु विषयाः शब्दादय एव॥३४॥
बीजधर्मं तथा व्यक्तं प्रसवात्मकमेव च
।
बीजधर्मो महानात्मा प्रसवश्चेति नः श्रुतम्॥३५॥
बीजधर्मत्वं कारणत्वं प्रसवात्मकत्वं कार्यरूपत्वं, जीवेति पाठेपि जीवतो धान्यादेरेव धर्मो बीजत्वं न तु भर्जितधान्यादेरिति स एवार्थः। यद्यपि तेषां मते अव्यक्तस्य बीजत्वमेवास्ति न तु कार्यत्वं तथापि अद्वैतश्रुतिविरोधात्तदुपेक्ष्यमिति भावः॥३५॥
बीजधर्मस्त्वहङ्कारः प्रसवश्च पुनः पुनः
।
बीजप्रसवधर्माणि महाभूतानि पञ्च वै॥३६॥
पुनःपुनरिति दृष्टिसृष्टिरुक्ता॥३६॥
बीजधर्मिण इत्याहुः प्रसवं च प्रकुर्वते
।
विशेषाः पञ्चभूतानां तेषां चित्तं विशेषणम्॥३७॥
बीजधर्मिण इति तामेवोपपादयति। विशेषाः शब्दादयः प्रसवं प्रकुर्वते भोगकाले कार्यरूपेण उपस्थिता अपि संस्काररूपेण कालान्तरे भोगं दातुं कारणात्मनावतिष्ठन्ते। अत एते कारणरूपाश्च कार्यं सर्वदा कुर्वन्ति पूर्वेषां मृद्घटन्यायेन कार्यकारणभावः। विशेषाणां तु बीजाङ्कुरन्यायेनेति भेदः। तेषां विशेषाणामपि विशेषणं व्यावर्तकं चित्तमेव। चित्त एव विशेषाः सर्वे सन्ति न बहिरित्यर्थः॥३७॥
तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते
।
त्रिगुणं ज्योतिरित्याहुरामश्चपि चतुर्गुणाः॥३८॥
तत्रैकगुणमित्यादिग्रन्थो व्याख्यातो मोक्षधर्मेषु स्पष्टार्थश्च॥३८॥
पृथ्वी पञ्चगुणा ज्ञेया चरस्थावरसङ्कुला
।
सर्वभूतकरी देवी शुभाशुभनिदर्शिनी॥३९॥
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः
।
एते पञ्च गुणा भूमेर्विज्ञेया द्विजसत्तमाः॥४०॥
पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः
।
तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून् गुणान्॥४१॥
इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा
।
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च॥४२॥
एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत
।
शब्दः स्पर्शस्तथा रूपं द्रवश्चापां गुणाः स्मृताः॥४३॥
रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः
।
मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा॥४४॥
एवं षड्विधविस्तारो रसो वारिमयः स्मृतः
।
शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते॥४५॥
ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम्
।
शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा॥४६॥
ह्रस्वं दीर्घं कृशं स्थूलं चतुरस्रं तु वृत्तवत्
।
एवं द्वादशविस्तारं तेजसो रूपमुच्यते॥४७॥
विज्ञेयं ब्राह्मणैवृद्धर्धमेज्ञैः सत्यवादिभिः
।
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते॥४८॥
वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः
।
रूक्षः शीतस्तथैवोष्णः स्निग्धो विशद एव च॥४९॥
कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः
।
एवं द्वादशविस्तारो वायव्यो गुण उच्यते॥५०॥
विधिवद्ब्राह्मणैः सिद्धैर्धर्मस्तित्त्वदर्शिभिः॥५१॥
तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः
।
तस्य शब्दस्य वक्ष्यामि विस्तरेण बहून् गुणान्॥५२॥
षड्जर्षभः स गान्धारो मध्यमः पञ्चमस्तथा
।
अतः परं तु विज्ञेयो निषादो धैवतस्तथा
।
अष्टश्चानिष्टशब्दश्च संहतः प्रविभागवान्॥५३॥
एवं दशविधो ज्ञेयः शब्द आकाशसम्भवः
।
आकाशमुत्तमं भूतमहङ्कारस्ततः परः॥५४॥
अहङ्कारात्परा बुद्धिर्बुद्धेरात्मा ततः परः
।
तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः॥५५॥
परापरज्ञो भूतानां विधिज्ञः सर्वकर्मणाम्
।
सर्वभूतात्मभूतात्मा गच्छत्यात्मानमव्ययम्॥५६॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि गुरुशिष्यसंवादे पञ्चाशत्तमोऽध्यायः॥५०॥
ब्रह्मोवाच।
भूनानामथ पञ्चानां यथैषामीश्वरं मनः
।
नियमे च विसर्गे च भूतात्मा मन एव च॥१॥
विशेषाः पञ्चभूतानामित्यत्र सूत्रिता सकलशास्त्ररहस्यभूता दृष्टिसृष्टिं प्रपञ्चयति- भूतानामित्यादिना। नियमे संहारे विसर्गे उत्पत्तौ च भूतानां मन एव ईश्वरं समर्थं यथा तथा वक्ष्यत इति शेषः। भूतात्मा स्थितिकालेऽपि मन एव भूतानामात्मा स्वरूपं कनकमिव कुण्डलादेः॥१॥
अधिष्ठाता मनो नित्यं भूतानां महतां तथा
।
बुद्धिरैश्चर्यमाचष्टे क्षेत्रज्ञश्च स उच्यते॥२॥
आधेष्ठाता निमित्तकारणमपि कुलालादिस्थानीयं मन एव क्षेत्रज्ञो जीवोऽपि मन एव एवं मनस ऐश्वर्यं बुद्धिर्विवेकजा प्रज्ञैव आचष्टे स्वप्रतीतिग्राह्यं मनस ऐश्वर्यमित्यर्थः॥२॥
इन्द्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः
।
इन्द्रियाणि मनो बुद्धिः क्षेत्रज्ञे युज्यते सदा॥३॥
मनस ऐश्वर्यं योगैकगम्यमिति तदधिगमार्थं योगमाह- इन्द्रियाणीति। मनः कर्तृ युक्ते प्रयुक्ते। आत्मेन्द्रियमनोयुक्तं भोक्तेति श्रुतिं व्याचष्टे- इन्द्रियाणीति। आत्मपदस्य प्रतिपदं बुद्धिपदं भोक्तेत्यस्य प्रतिपदं क्षेत्रज्ञ इति॥३॥
महदश्वसमायुक्तं बुद्धिसंयमनं रथम्
।
समारुह्य स भूतात्मा समन्तात् परिधावति॥४॥
महान्त इन्द्रियाश्वास्तैः समायुक्तः, वुद्ध्या सारथिभूतया संयमनं निग्रहो यस्य तं, रथं ब्रह्ममयं कारणविकारभूतं शरीररथम्। भूतात्मा देहाभिमानी, सर्वतः सुखलिप्सुर्धावति॥४॥
इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च
।
बुद्धिसंयमनो नित्यं महान् ब्रह्ममयो स्थः॥५॥
अयमेव रथ इन्द्रियग्रामेण वशीकृतेन सयुक्तः सम्यक् समाहितः। मनसा च सारथिना संयुक्तं बुद्धिसंयमनः बुद्धिप्रतोदश्चेन्महान् भवति। बहिर्मुखानीन्द्रियबुद्धिमनांसि आत्मनो जीवत्वमापादयन्ति अन्तर्मुखानि त्वस्य ब्रह्ममयत्वम् आविष्कुर्वन्तीत्यर्थः॥५॥
एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम्
।
स धीरः सर्वभूतेषु न मोहमधिगच्छति॥६॥
एवं निग्राह्यत्वेन यो वोत्ति वेद धीरो ध्यानशीलः॥६॥
अव्यक्तादि विशेषान्तं सह स्थावरजङ्गमम्
।
सूर्यचन्द्रप्रभालोकं ग्रहनक्षत्रमण्डितम्॥७॥
अव्यक्ताद्यात्मके ब्रह्मवनेऽस्मिन् चेतने सञ्चरतीत्याह- अव्यक्तेति त्रिभिः॥७॥
नदीपर्वतजालैश्च सर्वतः परिभूषितम्
।
विविधाभिस्तथा चाद्भिः सततं समलङ्कृतम्॥८॥
आजीवं सर्वभूतानां सर्वप्राणभृतां गतिः
।
एतद्ब्रह्मवनं नित्यं तस्मिंश्चरति क्षेत्रवित्॥९॥
लोकेऽस्मिन्यानि सत्त्वानि त्रसानि स्थावराणि च
।
तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः
।
गुणेभ्यः पञ्चभूतानि एष भूतसमुच्छ्रय:॥१०॥
अस्मिँल्लोके आत्मलोके अग्रे निमेषमात्रेण स्थावरादिकं बाह्यं सर्वं लीयते। नेत्रनिमीलनमात्रेण भूतानि प्रलीयन्ते दृष्टिसृष्ट्यधिकारादित्यर्थः। तदनन्तरं भूतकृता गुणाः शब्दादयो लीयन्ते नेत्रवत् श्रोत्रादीनामपि गुरूक्तयुक्त्या निमीलने कृने सतीत्यर्थः। गुणेभ्यः लीनेभ्योऽनन्तरं पञ्चभूतानि सूक्ष्मदेहारम्भकाणि प्रलीयन्ते स्थूलानां प्रत्याहारेणैव संहृतत्वात्। एष देहद्वयरूपो भूतसमुच्छ्रय इति पञ्चभूतानीत्यस्य व्याख्या भूतानां लये तु निर्विशेषचिन्मात्रेणैव रूपेणावतिष्ठत इत्यर्थः। सार्वश्लोकः॥१०॥
देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः
।
सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात्॥११॥
देवादयः स्वाप्नदेवादिवत्स्वभावत एव उत्पन्नाः न यज्ञादिना नापि ब्रह्मादिनेत्याह- देवा इति॥११॥
एते विश्वसृजो विप्रा जायन्तीह पुनः पुनः
।
तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु
।
प्रलीयन्ते यथाकालमूर्मयः सागरे यथा॥१२॥
विश्वसृजो मरीच्यादयोपि भौतिकत्वाद्भूतलये लयिन्त इत्याह- एत इति सार्धेन॥१२॥
विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतास्तु सर्वशः
।
भूतेभ्यश्चापि पञ्चभ्यो मुक्तो गच्छेत्परां गतिम्॥१३॥
विश्वसृग्भ्यः स्थूलभूतेभ्यः परे महाभूताः सूक्ष्मभूतानि तेभ्योऽपि परां गतिं मुक्तो गच्छेत्। पाठान्तरे भूतानां यो विश्वसृक् विराट् स स्वोपादानभूतानि महाभूतानि प्रति गच्छन्तीति स एवार्थः॥१३॥
प्रजापतिरिदं सर्वं मनसैवासृजत्प्रभुः
।
तथैव देवानृषयस्तपसा प्रतिपेदिरे॥१४॥
मनसश्चेन्द्रियाणां च ऐकाग्र्यं परमं तपः। इत्युक्तलक्षणतपोबलेन सर्वं मनसैव सृज्यत इत्याह- प्रजापतिरित्यादिना॥१४॥
तपसश्चानुपूर्येण फलमूलाशिनस्तथा
।
त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः॥१५॥
तपसः सङ्कल्पस्य आनुपूर्व्येण क्रमेण समाहिताः समाधियुक्ता॥१५॥
औषधान्यगदादीनि नानाविद्याश्च सर्वशः
।
तपसैव प्रसिद्ध्यन्ति तपोमूलं हि साधनम्॥१६॥
यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम्
।
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्॥१७॥
दुराप इन्द्रपदादि दुराम्नायं वेदादि दुराधर्षं वह्न्यादि दुरन्वयम् असमाधेयं महाप्रलयादि॥१७॥
सुरापो ब्रह्महा स्तेयी भ्रूणहा गुरुतल्पगः
।
तपसैव सुतप्तेन मुच्यते किल्बिषात्ततः॥१८॥
मनुष्याः पितरो देवाः पशवो मृगपक्षिणः
।
यानि चान्यानि भूतानि त्रसानि स्थावराणि च॥१९॥
तपः परायणा नित्यं सिद्ध्यन्ते तपसा सदा
।
तथैव तपसा देवा महामाया दिवं गताः॥२०॥
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः
।
अहङ्कारसमायुक्तास्ते सकाशे प्रजापतेः॥२१॥
ध्यानयोगेन शुद्धेन निर्ममा निरहङ्कृताः
।
आप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम्॥२२॥
ध्यानयोगमुपागम्य प्रसन्नमतयः सदा
।
सुखोपचयमव्यक्तं प्रविशन्त्यात्मवित्तमाः॥२३॥
सुखोपचयं लौकिकानां सुखानाम् उपचयो वृद्धिर्यस्मात्तं सुखोपचयम् अखण्डमानन्दम् एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतिप्रसिद्धम्॥२३॥
ध्यानयोगादुपागम्य निर्ममा निरहङ्कृताः
।
अव्यक्तं प्रविशन्तीह महतां लोकमुत्तमम्॥२४॥
उपागम्य परावृत्य पूर्णं ध्यानयोगमप्राप्य ये म्रियन्ते ते प्रकृतिलीना भवन्तीति॥२४॥
अव्यक्तादेव सम्भूतः समसंज्ञां गतः पुनः
।
तमोरजोभ्यां निर्मुक्तः सत्त्वमास्थाय केवलम्॥२५॥
समसंज्ञा गतः स्वयमव्यक्तत्वं प्राप्त इत्यर्थः॥२५॥
निर्मुक्तः सर्वपापेभ्यः सर्वं सृजति निष्कलम्
।
क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित्॥२६॥
यः कारणत्वं प्राप्तः सर्वं सृजति तमेव निष्कलं क्षेत्रज्ञम् ईश्वरमिति विद्यात्॥२६॥
चित्तं चित्तादुपागम्य मुनिरासीत संयतः
।
यच्चित्तं तन्मयो वश्यं गुह्यमेतत्सनातनम्॥२७॥
चित्तं सम्यग्ज्ञानं चिती संज्ञान इत्यस्माद्भावे निष्ठा। चित्तान्मनसा हेतुना उपागम्य प्राप्य संयतः सततम् आसीत ततश्च यच्चित्तस्तन्मयो भवति कीटकभृङ्गन्यायेन यद्रूपं भावयति तदेवायं भवतीत्यर्थः (मन इति पाठे यच्चित्तं तदेव ईश्वरस्तद्भाव्यं दातुं समर्थ इत्यर्थः)॥२७॥
अव्यक्तादिविशेषान्तमविद्यालक्षणं स्मृतम्
।
निबोधत तथा हीदं गुणैर्लक्षणमित्युत॥२८॥
तत्र हानार्थमाह- अव्यक्तादीति। यत्किञ्चिन्मदीयत्वेन कल्पितं तत्सर्वमविद्या अतो निष्कलमात्मानमेव ध्यायेदित्यर्थः॥२८॥
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्
।
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम्॥२९॥
कर्म केचित्प्रशंसन्ति मन्दबुद्धिरता नराः
।
ये तु वृद्धा महात्मानो न प्रशंसन्ति कर्म ते॥३०॥
कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः
।
पुरुषं ग्रसतेऽविद्या तद्ग्राह्यममृताशिनाम्॥३१॥
षोडशात्मकः पञ्चमहाभूतानि एकादशविकाराश्च तदात्मकः तमेव षोडशात्मकं पुरुषं विद्या ग्रसते तदेव च ग्राह्यम् उपादेयम् अमृतं देवतादिशेषम् अश्नन्ति तेऽमृताशिनस्तेषाम् आशिताशितमिति पाठे तृप्तानामपि तृप्तिकरम्॥३१॥
तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः
।
विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः॥३२॥
य एवममृतं नित्यमग्राह्यं शश्वदक्षरम्
।
वश्यात्मानमसंश्लिष्टं यो वेद न मृतो भवेत्॥३३॥
शश्वदक्षरं सर्वदा अपचयहीनं वश्यात्मा जितचित्तः असंश्लिटम् असङ्गम्॥३३॥
अपूर्वमकृतं नित्यं य एनमविचारिणम्
।
य एवं विन्देदात्मानमग्राह्यममृताशनम्
।
अग्राह्योऽमृतो भवति स एभिः कारणैर्ध्रुवः॥३४॥
अपूर्वं मानान्तरानवगत अकृतम् अकृत्रिमम् अविचारिणं कूटस्थम् अपराजितमिति पाठान्तरे स्पष्टोऽर्थः। अमृताशनम् ईश्वरग्रासस्तुरीय इति श्रुतेः ईश्वरस्यापि संहर्तारम् एभिर्वक्ष्यमाणैः। सार्धः॥३४॥
आयोज्य सर्वसंस्कारान्संयम्यात्मानमात्मनि
।
स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते॥३५॥
चेतसः संस्कारा मैत्र्यादयस्तान् आयोज्य दृढान् कृत्वा आत्मानं चित्तम् आत्मनि हृदयपुण्डरीके संयम्य निरुध्य॥३५॥
प्रसादे चैव सत्त्वस्य प्रसादं समवाप्नुयात्
।
लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम्॥३६॥
प्रसादे नैर्मल्ये प्रसादं शान्तिं चित्तप्रसादस्य लक्षणं तु यथा स्वप्ने देहासङ्गेनावस्थानमस्ति तथा यदा योगयुक्त्या चित्तं बहिः संज्ञाशून्यमन्तःप्रचारि भवति तदेव प्रसादचिहम्॥३६॥
गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः
।
प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः॥३७॥
एषा प्रसादरूपा गतिर्मार्गः प्रवर्तन्ते ताः प्रवृत्तयः त्रैकालिका पदार्थास्तान्परिणामजान् अतीताननागताश्चात्र पश्यन्ति योगिनः॥३७॥
एषा गतिर्विरक्तानामेष धर्मः सनातनः
।
एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम्॥३८॥
समेन सर्वभूतेषु निःस्पृहेण निराशिषा
।
शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना॥३९॥
एतद्वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः
।
एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ॥४०॥
गुरुरुवाच।
इत्युक्तास्ते तु मुनयो गुरुणा ब्रह्मणा तथा
।
कृतवन्तो महात्मानस्ततो लोकमवाप्नुवन्॥४१॥
त्वमप्येतन्महाभाग मयोक्तं ब्रह्मणो वचः
।
सम्यगााचर शुद्धात्मंस्ततः सिद्धिमवाप्स्यसि॥४२॥
वासुदेव उवाच।
इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम्
।
चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान्॥४३॥
कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह
।
तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति॥४४॥
अर्जुन उवाच।
को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन
।
श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो॥४५॥
वासुदेव उवाच।
अहं गुरुर्महाबाहो मनः शिष्यं च विद्धि मे
।
त्वत्प्रीत्या गुह्यमेतच्च कथितं ते धनञ्जय॥४६॥
अहमिति। अहं क्षेत्रज्ञो गुरुः मनोमदीयं मया बोधनीय एतेन आत्मनो गुरुरात्मैवेत्युक्तं भवति॥४६॥
मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह
।
अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत॥४७॥
सम्यगाचर यमनियमादिनिष्ठो भव॥४७॥
ततस्त्वं सम्यगाचीर्णं धर्मेऽस्मिन्नरिकर्षण
।
सर्वपापविनिर्मुक्तो मोक्षं प्राप्स्यसि केवलम्॥४८॥
केवलमिति क्रममुक्तिव्यावृत्तिः॥४८॥
पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते
।
मया तव महाबाहो तस्मादत्र मनः कुरु॥४९॥
प्रागुक्तं स्मारयति अस्य च तस्य च एकवाक्यता कारयितुम्- पूर्वमिति॥४९॥
मया तु भरतश्रेष्ठ चिरदृष्टः पिता प्रभुः
।
तमहं द्रष्टुमिच्छामि सम्मते तव फाल्गुन॥५०॥
कथामनुसन्धत्ते- मया त्वित्यादिना॥५०॥
वैशम्पायन उवाच।
इत्युक्तवचनं कृष्णं प्रत्युवाच धनञ्जयः
।
गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै॥५१॥
समेत्य तत्र राजानं धर्मात्मानं युधिष्ठिरम्
।
समनुज्ञाप्य राजानं स्वां पुरीं यातुमर्हसि॥५२॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि गुरुशिष्यसंवादे एकपञ्चाशत्तमोऽध्यायः॥५१॥॥गुरुशिष्यसंवादः समाप्तः॥
वैशम्पायन उवाच।
ततोऽभ्यनोदयत्कृष्णो युज्यतामिति दारुकम्
।
मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः॥१॥
तत इति। रथ इति रथमिति चार्धद्वयेपि शेषः॥१॥
तथैव चानुयात्रादि चोदयामास पाण्डवः
।
सज्जयध्वं प्रयास्यामो नगरं गजसाह्वयम्॥२॥
इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशाम्पते
।
आचख्युः सज्जमित्येवं पार्थायामिततेजसे॥३॥
ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ
।
विकुर्वाणौ कथाश्चित्राः प्रीयमाणौ विशाम्पते॥४॥
रथस्थं तु महातेजा वासुदेवं धनञ्जयः
।
पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम॥५॥
त्वत्प्रसादाज्जयः प्राप्तो राज्ञा वृष्णिकुलोद्वह
।
नियताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम्॥६॥
नाथवन्तश्च भवता पाण्डवा मधुसूदन
।
भवन्तं प्लमासाद्य तीर्णाः स्म कुरुसागरम्॥७॥
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसत्तम
।
तथ त्वामभिजानामि यथा चाहं भवन्मतः॥८॥
विश्वकर्मन्नित्यादिना स्वबोधमाविष्करोति॥८॥
त्वत्तेजः सम्भवो नित्यं भूतात्मा मधुसूदन
।
रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो॥९॥
रतिः रमणं क्रीडामयी सर्गस्थित्यन्तलौलारूपा तुभ्यं तव रोदसी द्यावापृथिवी ते तव माया॥९॥
त्वयि सर्वमिदं विश्वं यदिदं स्थाणु जङ्गमम्
।
त्वं हि सर्वं विकुरुषे भूतग्रामं चतुर्विधम्॥१०॥
पृथिवीं चान्तरिक्षं च द्यां चैव मधुसूदन
।
हसितं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियाणि ते॥११॥
प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः
।
प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते॥१२॥
रतिस्तुष्टिर्धृतिः क्षान्तिर्मतिः कान्तिश्चराचरम्
।
त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनध॥१३॥
सुदीर्घेणापि कालेन न ते शक्या गुणा मया
।
आत्मा च परमात्मा च नमस्ते नलिनेक्षण॥१४॥
विदितो मे सुदुर्धर्ष नारदाद्देवलात्तथा
।
कृष्णद्वैपायनाच्चैव तथा कुरुपितामहात्॥१५॥
त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः
।
यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयानध॥१६॥
अनुग्रहः एतत्सम्यगाचरेत्याज्ञारूपः॥१६॥
एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन
।
इदं चाद्भुतमत्यन्तं कृतमस्मत्प्रियेप्सया॥१७॥
दृष्टोपकारमप्यभिनन्दति इदं चेति॥१७॥
यत्पापो निहतः सङ्ख्ये कौरव्यो धृतराष्ट्रजः
।
त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे॥१८॥
भवता तत्कृतं कर्म येनावाप्तो जयो मया
।
दुर्योधनस्य सङ्ग्रामे तव बुद्धिपराक्रमैः॥१९॥
कर्णस्य च वधोपायो यथावत्सम्प्रदर्शितः
।
सैन्धवस्य च पापस्य भूरिश्रवस एव च॥२०॥
अहं च प्रीयमाणेन त्वया देवकिनन्दन
।
यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा॥२१॥
राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम्
।
चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ॥२२॥
रुचितं हि ममैतत्ते द्वारकागमनं प्रभो
।
अचिरादेव द्रष्टा त्वं मातुलं मे जनार्दन॥२३॥
बलदेवं च दुर्धर्षं तथान्यान्वृष्णिपुङ्गवान्
।
एवं सम्भाषमाणौ तौ प्राप्तौ वारणसाह्वयम्॥२४॥
तथा विविशतुश्चोभौ सम्प्रहृष्टनराकुलम्
।
तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम्॥२५॥
ददृशाते महाराज धृतराष्ट्रं जनेश्वरम्
।
विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम्॥२६॥
भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ
।
धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम्॥२७॥
गान्धारी च महाप्रज्ञां पृथां कृष्णां च भामिनीम्
।
सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा॥२८॥
ददृशाते स्त्रियः सर्वा गान्धारीपरिचारिकाः
।
ततः समेत्य राजानं धृतराष्ट्रमरिन्दमौ॥२९॥
निवेद्य नामधेये स्वे तस्य पादावगृह्णताम्
।
गान्धार्याश्च पृथायाश्च धर्मराजस्य चैव हि॥३०॥
भीमस्य च महात्मानौ तथा पादावगृह्णताम्
।
क्षत्तारं चापि सङ्गृह्य पृष्ट्वा कुशलमव्ययम्॥३१॥
तैः सार्धं नृपतिं वृद्धं ततस्तौ पर्युपासताम्
।
ततो निशि महाराजो धृतराष्ट्र: कुरूद्वहान्॥३२॥
जनार्दनं च मेधावी व्यसर्जयत वै गृहान्
।
तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम्॥३३॥
धनञ्जयगृहानेव ययौ कृष्णस्तु वीर्यवान्
।
तत्रार्चितो यथान्यायं सर्वकामरूपस्थितः॥३४॥
कृष्णः सुष्वाप मेधावी धनञ्जयसहायवान्
।
प्रभातायां तु शर्वर्यां कृत्वा पौर्वाह्निकी क्रियाम्॥३५॥
धर्मराजस्य भवनं जग्मतुः परमार्चितौ
।
यत्रास्ते स सहामात्यो धर्मराजो महाबलः॥३६॥
तौ प्रविश्य महात्मानौ तद्गृहं परमार्चितम्
।
धर्मराजं ददृशतुर्देवराजमिवाश्विनौ॥३७॥
समासाद्य तु राजानं वार्ष्णेयकुरुपुङ्गवौ
।
निषीदतुरनुज्ञातौ प्रीयमाणेन तेन तौ॥३८॥
ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ
।
प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः॥३९॥
युधिष्ठिर उवाच।
विवक्षू हि युवां मन्ये वीरौ यदुकुरुद्वहौ
।
बूतं कर्तास्मि सर्वे वां नचिरान्मा विचार्यताम्॥४०॥
इत्युक्तः फाल्गुनस्तत्र धर्मराजानमब्रवीत्
।
विनीतवदुपागम्य वाक्यं वाक्यविशारदः॥४१॥
अयं चिरोषितो राजन् वासुदेवः प्रतापवान्
।
भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति॥४२॥
स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे
।
आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि॥४३॥
युधिष्ठिर उवाच।
पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मधुसूदन
।
पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभो॥४४॥
रोचते मे महाबाहो गमनं तव केशव
।
मातुलश्चिरदृष्टो मे त्वया देवी च देवकी॥४५॥
समेत्य मातुलं गत्वा बलदेवं च मानद
।
पूजयेथा महाप्राज्ञ मद्वाक्येन यथार्हतः॥४६॥
स्मरेथाश्चापि मां नित्यं भीमं च बलिना वरम्
।
फाल्गुनं सहदेवं च नकुलं चैव मानद॥४७॥
आनर्तानवलोक्य त्वं पितरं च महाभुज
।
वृष्णीश्च पुनरागच्छेर्हयमेधे ममानघ॥४८॥
स गच्छ रत्नान्यादाय विविधानि वसूनि च
।
यच्चाप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत॥४९॥
इयं च वसुधा कृत्स्ना प्रसादात्तव केशव
।
अस्मानुपगता वीर निहताश्चापि शत्रवः॥५०॥
एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे
।
वासुदेवो वरः पुंसामिदं वचनमब्रवीत्॥५१॥
तवैव रत्नानि धनं च केवलं धरा तु कृत्स्ना तु महाभुजाद्य वै
।
यदस्ति चान्यद्द्रविणं गृहे मम त्वमेव तस्येश्वर नित्यमीश्वरः॥५२॥
तथेत्यथोक्तः प्रतिपूजितस्तदा गदाग्रजो धर्मसुतेन वीर्यवान्
।
पितृष्वसारं त्ववदद्यथाविधि सम्पूजितश्चाप्यगमत्प्रदक्षिणम्॥५३॥
तया स सम्यक्प्रतिनन्दितस्तत स्तथैव सर्वैर्विदुरादिभिस्तथा
।
विनिर्ययौ नागपुराद्गदाग्रजो रथेन दिव्येन चतुर्भुजः स्वयम्॥५४॥
रथे सुभद्रामधिरोप्य भाविनीं युधिष्ठिरस्यानुमते जनार्दनः
।
पितृष्वसुश्चापि तथा महाभुजो विनिर्ययौ पौरजनाभिसंवृतः॥५५॥
तमन्वयाद्वानरवर्यकेतनः स सात्यकिर्माद्रवतीसुतावपि
।
अगाधबुद्धिर्विदुरश्च माधवं स्वयं च भीमो गजराजविक्रमः॥५६॥
निवर्तयित्वा कुरुराष्ट्रवर्धनांस्ततः स सर्वान्विदुरं च वीर्यवान्
।
जनार्दनो दारुकमाह सत्वरः प्रचोदयाश्वानिति सात्यकिं तथा॥५७॥
ततो ययौ शत्रुगणप्रमर्दनः शिनिप्रवीरानुगतो जनार्दनः
।
यथा निहत्यारिगणं शतक्रतुर्दिवं तथाऽऽनर्तपुरीं प्रतापवान्॥५८॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि कृष्णप्रयाणे द्विपञ्चात्तमोऽध्यायः॥५२॥
वैशम्पायन उवाच।
तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः
।
परिष्वज्य न्यवर्तन्त सानुयात्रा परन्तपाः॥१॥
तथा प्रयान्तं वार्ष्णेयमित्यादिग्रन्थः पूर्वोक्तासूपनिषत्सु विद्याफलं विश्वरूपदर्शनं विद्यासाधनं गुरोराराधनं चेति द्वयमिहोक्तं विवरीतुम् उत्तङ्कोपाख्यानव्याजेन प्रवर्तते तत उपरिष्टादश्वमेधव्याजेन कर्मणामप्यारादुपकारकत्वं विद्यायामुच्यत इति सङ्गतिः॥१॥
पुनः पुनश्च वार्ष्णेयं पर्यष्वजत फाल्गुनः
।
आ चक्षुर्विषयाच्चैनं स ददर्श पुनः पुनः॥२॥
कृच्छ्रेणैव तु तां पार्थो गोविन्दे विनिवेशिताम्
।
सञ्जहार ततो दृष्टिं कृष्णश्चाप्यपराजितः॥३॥
तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः
।
बहून्यद्भुतरूपाणि तानि मे गदतः शृणु॥४॥
वायुर्वेगेन महता रथस्य पुरतो ववौ
।
कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम्॥५॥
ववर्ष वासवश्चैव तोयं शुचि सुगन्धि च
।
दिव्यानि चैव पुष्पाणि पुरतः शार्ङ्गधन्वनः॥६॥
स प्रयातो महाबाहुः समेषु मरुधन्वसु
।
ददर्शाथ मुनिश्रेष्ठमुत्तङ्कममितौजसम्॥७॥
स तं सम्पूज्य तेजस्वी मुनिं पृथुललोचनः
।
पूजितस्तेन च तदा पर्यपृच्छदनामय॥८॥
स पृष्टः कुशलं तेन सम्पूज्य मधुसूदनम्
।
उत्तङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम्॥९॥
कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत्
।
कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि॥१०॥
अपि सन्धाय तान्वीरानुपावृत्तोऽसि केशव
।
सम्बन्धिनः स्वदयितान्सततं वृष्णिपुङ्गव॥११॥
कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः
।
लोकेषु विहरिष्यन्ति त्वया सह परन्तप॥१२॥
स्वराष्ट्रे ते च राजानः कच्चित्प्राप्स्यन्ति वै सुखम्
।
कौरवेषु प्रशान्तेषु त्वया नाथेन केशव॥१३॥
या मे सम्भावना तात त्वयि नित्यमवर्तत
।
अपि सा सफला तात कृता ते भरतान् प्रति॥१४॥
श्रीभगवानुवाच।
कृतो यत्नो मया पूर्वं सौशाम्ये कौरवान्प्रति
।
नाशक्यन्त यदा साम्ये ते स्थापयितुमञ्जसा॥१५॥
सौशाम्ये सौरम्ये॥१५॥
ततस्ते निधनं प्राप्ताः सर्वे ससुतबान्धवाः
।
न दिष्टमप्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा॥१६॥
महर्षे विदितं भूयः सर्वमेतत्तवानघ
।
तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च॥१७॥
ततो यमक्षयं जग्मुः समासाद्येतरेतरम्
।
पञ्चैव पाण्डवाः शिष्टा हतामित्रा हतात्मजाः
।
धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः॥१८॥
इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः
।
उत्तङ्क इत्युवाचैनं रोषादुत्फुल्ललोचनः॥१९॥
उत्तङ्क उवाच।
यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपुङ्गवाः
।
सम्बन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम्॥२०॥
न च ते प्रसभं यस्मात्ते निगृह्य निवारिताः
।
तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन॥२१॥
त्वया शक्तेन हि सता मिथ्याचारेण माधव
।
ते परीताः कुरुश्रेष्ठा नश्यन्तः स्म ह्यपेक्षिताः॥२२॥
मित्याचारेण कपटपूर्वकमविरोधच्छलेन विरोधं द्रढयता परीता परितः प्राप्ताः॥२२॥
वासुदेव उवाच।
शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन
।
गृहाणानुनयं चापि तपस्वी ह्यसि भार्गव॥२३॥
अनुनयं शिक्षाम्॥२३॥
श्रुत्वा च मे तदध्यात्म मुञ्चेथाः शापमद्य वै
।
न च मां तपसाऽल्पेन शक्तोऽभिभवितुं पुमान्॥२४॥
मे मत्तः॥२४॥
न च ते तपसो नाशमिच्छामि तपतां वर
।
तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः॥२५॥
कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम
।
दुःखार्जितस्य तपसस्तस्मान्नेच्छामि ते व्ययम्॥२६॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि उत्तङ्कोपाख्याने कृष्णोत्तङ्कसमागमे त्रिपञ्चाशत्तमोऽध्यायः॥५३॥
उत्तङ्क उवाच।
ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम्
।
श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन॥१॥
ब्रूहीति॥१॥
वासुदेव उवाच
तमो रजश्च सत्वं च विद्धि भावान्मदाश्रयान्
।
तथा रुदान्वसून्वापि विद्धि मत्प्रभवान्द्विज॥२॥
मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम्
।
स्थित इत्यभिजानीहि मा तेऽभूदत्र संशयः॥३॥
तथा दैत्यगणान्सर्वान्यक्षगन्धर्वराक्षसान्
।
नागानप्सरसश्चैव विद्धि मत्प्रभवान्द्विज॥४॥
सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च
।
अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम्॥५॥
ये चाश्रमेषु वै धर्माश्चतुर्धा विदिता मुने
।
वैदिकानि च सर्वाणि विद्धि सर्वं मदात्मकम्॥६॥
असच्च सदसच्चैव यद्विश्वं सदसत्परम्
।
मत्तः परतरं नास्ति देवदेवात्सनातनात्॥७॥
असत् शशशृङ्गादि सदसत् घटादि सदसत्परम् अव्यक्तम् एतत्त्रयमपि तत्त्वतः मत्तः परं नास्तीत्यर्थः॥७॥
ओङ्कारप्रमुखान्वेदान्विद्धि मां त्वं भृगूद्वह
।
यूपं सोमं चरुं होमं त्रिदशाप्यायनं मखे॥८॥
होतारमपि हव्यं च विद्धि मां भृगुनन्दन
।
अध्वर्युः कल्पकश्चापि हविः परमसंस्कृतम्॥९॥
उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे
।
प्रायश्चित्तेषु मां ब्रह्मन् शान्तिमङ्गलवाचकाः॥१०॥
स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तम
।
मम विद्धि सुतं धर्ममग्रजं द्विजसत्तम॥११॥
मानसं दयितं विप्र सर्वभूतदयात्मकम्
।
तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः॥१२॥
बह्वीः संसरमाणो वै योनीर्वामि सत्तम
।
धर्मसंरक्षणार्थाय धर्मसंस्थापनाय च॥१३॥
तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव
।
अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः॥१४॥
भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च
।
अधर्मे वर्तमानानां सर्वेषामहमच्युतः॥१५॥
धर्मस्य सेतुं बध्नामि चलिते चलिते युगे
।
तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया॥१६॥
यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन
।
तदाहं देववत्सर्वमाचरामि न संशयः॥१७॥
यदा गन्धर्वयोनौ वा वर्तामि भृगुनन्दन
।
तदा गन्धर्ववत्सर्वमाचरामि न संशयः॥१८॥
नागयोनौ यदा चैव तथा वर्तामि नागवत्
।
यक्षराक्षसयोन्योस्तु यथावद्विचराम्यहम्॥१९॥
मानुष्ये वर्तमाने तु कृपणं याचिता मया
।
न च ते जानसम्मोहा वचोऽगृह्णन्त मे हितम्॥२०॥
भयं च महदुद्दिश्य त्रासिताः कुरवो मया
।
क्रुद्धेन भूत्वा तु पुनर्यथावदनुदर्शिताः॥२१॥
तेऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा
।
धर्मेण निहता युद्धे गताः स्वर्गं न संशयः॥२२॥
अधर्मेणेति च्छेदः॥२२॥
लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम
।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि॥२३॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि उत्तङ्कोपाख्याने कृष्णवाक्ये चतुःपञ्चाशत्तमोऽध्यायः॥५४॥
उत्तङ्क उवाच।
अभिजानामि जगतः कर्तारं त्वां जनार्दन
।
नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः॥१॥
यद्भागवता स्वस्य विश्वरूपत्वमुक्तं तदेव द्रष्टुमिच्छन्नुत्तङ्क उवाच- अभिजानामीत्यादिना॥१॥
चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत
।
विनिवृत्तं च मे शापादिति विद्धि परन्तप॥२॥
यदि त्वनुग्रहं कञ्चित्त्वत्तोऽर्हामि जनार्दन
।
द्रष्टुमिच्छामि ते रूपमैश्वरं तन्निदर्शय॥३॥
वैशम्पायन उवाच।
ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः
।
शाश्वतं वैष्णवं धीमान्ददृशे यद्धनञ्जयः॥४॥
स ददर्श महात्मानं विश्वरूपं महाभुजम्
।
सहस्रसूर्यप्रतिमं दीप्तिमत् पावकोपमम्॥५॥
सर्वमाकाशमावृत्य तिष्ठन्तं सर्वतोमुखम्
।
तद्दृष्ट्वा परमं रूपं विष्णोर्वैष्णवमद्भुतम्
।
विस्मयं च ययौ विप्रस्तं दृष्ट्वा परमेश्वरम्॥६॥
उत्तङ्क उवाच।
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन् विश्वसम्भव
।
पद्भ्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः॥७॥
द्यावापृथिव्योर्यन्मध्यं जठरेण तवावृतम्
।
भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत॥८॥
संहरस्व पुनर्देवरूपमक्षय्यमुत्तमम्
।
पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम्॥९॥
वैशम्पायन उवाच।
तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय
।
वरं वृणीष्वेति तदा तमुत्तङ्कोऽब्रवीदिदम्॥१०॥
पर्याप्त एष एवाद्य परस्त्वत्तो महाद्युते
।
यत्ते रूपमिदं कृष्णं पश्यामि पुरुषोत्तम॥११॥
तमब्रवीत्पुनः कुष्णो मा त्वमत्र विचारय
।
अवश्यमेतत्कर्तव्यममोघं दर्शनं मम॥१२॥
उत्तङ्क उवाच।
अवश्यं करणीयं च यद्येतन्मन्यसे विभो
।
तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम्॥१३॥
ततः संहृत्य तत्तेजः प्रोवाचोत्तङ्कमीश्वरः
।
एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ॥१४॥
द्रष्टव्ये जलेऽपेक्षिते सति॥१४॥
ततः कदाचिद्भगवानुत्तङ्कस्तोयकांक्षया
।
तृषितः परिचक्राम मरौ सस्मार चाच्युतम्॥१५॥
ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम्
।
अपश्यत मरौ तस्मिन् श्वयूथपरिवारितम्॥१६॥
मातङ्गः चाण्डालविशेषम्॥१६॥
भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम्
।
तस्याधः स्रोतसोऽपश्यद्वारि भूरिद्विजोत्तमः॥१७॥
अधः पाददेशे स्रोतसो दृतेर्वारीति सम्बन्धः तस्य समीपे अधः स्रोतसो भोगवत्या इति वा॥१७॥
स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव
।
एह्युत्तङ्क प्रतीच्छस्व मनो वारि भृगूद्वह॥१८॥
कृपा हि पे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम्
।
इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दत॥१९॥
चिक्षेप च स तं धीमान्वाग्भिरुयाभिरच्युतम्
।
पुनः पुनश्च मानङ्गः पिबस्वेति तमब्रवीत्॥२०॥
चिक्षेप निन्दितवान् अच्युतं वरप्रदं कृष्णम्॥२०॥
न चापिबत्स सक्रोधः क्षुभितेनानन्तरात्मना
।
ते स तथा निश्चयात् तेन प्रत्याख्यातो महात्मना॥२१॥
श्वभिः सह महाराज तत्रैवान्तरधीयत
।
उत्तङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानस:॥२२॥
मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना
।
अथ तेनैव मार्गेण शङ्खचक्रगदाधरः॥२३॥
प्रलब्धं वञ्चितम्॥२३॥
आजगाम महाबुद्धिरुत्तङ्कश्चैनमब्रवीत्
।
न युक्तं तादृशं दातुं त्वया पुरुषसत्तम॥२४॥
सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो
।
इत्युक्तवचनं तं तु महाबुद्धिर्जनार्दनः॥२५॥
उत्तङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत्
।
यादृशेनेह रूपेण योग्यं दातुं धृतेन वै॥२६॥
तादृशं खलु ते दत्तं यच्च त्वं नावबुध्यथाः
।
मया त्वदर्थमुक्तो वै वज्रपाणिः पुरन्दरः॥२७॥
उत्तङ्कायामृतं देहि तोयरूपमिति प्रभुः
।
स मामुवाच देवेन्द्रो न मोऽमर्त्यतां व्रजेत्॥२८॥
अन्यमस्मै वरं देहीत्यसकृद् भृगुनन्दन
।
अमृतं देयमित्येव मयोक्तः स शचीपतिः॥२९॥
स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत्
।
यदि देयमवश्यं वै मातङ्गोऽहं महामते॥३०॥
भूत्वामृतं प्रदास्यामि भार्गवाय महात्मने
।
यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै॥३१॥
प्रदातुमेष गच्छामि भार्गवोऽस्यामृतं विभो
।
प्रत्याख्यातस्त्वहं तेन दास्यामि न कथञ्चन॥३२॥
स तथा समयं कृत्वा तेन रूपेण वासवः
।
उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत्॥३३॥
चाण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः
।
यत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम्॥३४॥
तोयेप्सा तव दुर्धर्षां करिष्ये सफलामहम्
।
येष्वहःसु च ते ब्रह्मन् सलिलेप्सा भविष्यति॥३५॥
तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः
।
रसवच्च प्रदास्यन्ति तोयं ते भृगुनन्दन॥३६॥
उत्तङ्कमेघा इत्युक्ताः ख्याति यास्यन्ति चापि ते
।
इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स बभूव ह
।
अद्याप्युत्तङ्कमेघाश्च मरौ वर्षन्ति भारत॥३७॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि उत्तङ्कोपाख्याने पञ्चपञ्चाशत्तमोऽध्यायः॥५५॥
जनमेजय उवाच।
उत्तङ्कः केन तपसा संयुक्तो वै महामनाः
।
यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्णवे॥१॥
उत्तङ्क इति॥१॥
वैशम्पायन उवाच।
उत्तङ्को महता युक्तस्तपसा जनमेजय
।
गुरुभक्तः स तेजस्वी नान्यत्किञ्चिदपूजयत्॥२॥
सर्वेषामृषिपुत्राणामेष आसीन्मनीरथः
।
औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुयामेति भारत॥३॥
गौतमस्य तु शिष्याणां बहूनां जनमेजय
।
उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा॥४॥
स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा
।
सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत्॥५॥
अथ शिष्यसहस्राणि समनुज्ञातवानृषिः
।
उत्तङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत
।
तं क्रमेण जरा तात प्रतिपेदे महामुनिम्॥६॥
न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः
।
ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ॥७॥
उत्तङ्कः काष्ठभारं च महान्तं समुपानयत्
।
स तद्भाराभिभूतात्मा काष्ठभारमरिन्दम॥८॥
निचिक्षेप क्षितौ राजन्परिश्रान्तो बुभुक्षितः
।
तस्य काष्ठे विलग्नाभूज्जटारूप्यसमप्रभा॥९॥
निचिक्षेपेत्यत्र निष्पिपेषेति पाठोऽपि स एवार्थः॥९॥
ततः काष्ठैः सह तदा पपात धरणीतले
।
ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भारत॥१०॥
निष्पिष्टः चूर्णीभूत इव॥१०॥
दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरस्तदा
।
ततो गुरुसुता तस्य पद्मपत्रनिभानना॥११॥
जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना
।
पितुर्नियोगाद्धर्मज्ञा शिरसाऽवनता तदा॥१२॥
तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः
।
न हि तानश्रुपातांस्तु शक्ता धारयितुं मही॥१३॥
गौतमस्त्वब्रवीद्विप्रमुत्तङ्क प्रीतमानसः
।
कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः
।
स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि तत्त्वतः॥१४॥
उत्तङ्क उवाच
भवद्गतेन मनसा भवत्प्रियचिकीर्षया
।
भवद्भक्तिगतेनेह भवद्भावानुगेन च॥१५॥
जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे
।
शतवर्षोषितं मां हि न त्वमभ्यनुजानिथाः॥१६॥
अभ्यनुजानीथा अभ्यनुजानिथा अणगयनुज्ञातवानसि अडभावो ह्रस्वत्वं चार्षम्॥१६॥
भवता त्वभ्यनुज्ञाताः शिष्याः प्रत्यवरा मम
।
उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः॥१७॥
गौतम उवाच।
त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव
।
व्यतिक्रामन्महाकालो नावबुद्धो द्विजर्षभ॥१८॥
किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव
।
अनुज्ञां प्रतिगृह्य त्वं स्वगृहान्गच्छ मा चिरम्॥१९॥
उत्तङ्क उवाच।
गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम
।
तमुपाहृत्य गच्छेयमनुज्ञातस्त्वया विभो॥२०॥
गौतम उवाच।
दक्षिणा परितोषो वै गुरुणां सद्धिरुच्यते
।
तव ह्याचरतो ब्रह्मस्तुष्टोऽहं वै न संशयः॥२१॥
इत्थं च परितुष्टं मां विजानीहि भृगूद्वह
।
युवा षोडशवर्षो हि यद्यद्य भविता भवान्॥२२॥
ददानि पत्नीं कन्यां च स्वां ते दुहितरं द्विज
।
एतामृतेऽङ्गना नान्या त्वत्तेऽर्हति सेवितुम्॥२३॥
ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम्
।
गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत्॥२४॥
कं भवत्यै प्रयच्छामि गुर्वर्थं विनियुंक्ष्व माम्
।
प्रियं हितं च काङ्क्षामि प्राणैरपि धनैरपि॥२५॥
यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यातं महत्
।
तदानयेयं तपसा न हि मेऽत्रास्ति संशयः॥२६॥
अहल्योवाच।
परितुष्टास्मि ते विप्र नित्यं भक्त्या तवानघ
।
पर्याप्तमेतद्भद्रं ते गच्छ तात यथेप्सितम्॥२७॥
वैशम्पायन उवाच।
उत्तङ्कस्तु महाराज पुनरेवाब्रवीद्वचः
।
आज्ञापयस्व मां मातः कर्तव्यं च तव प्रियम्॥२८॥
अहल्योवाच।
सौदासपत्न्या विधृते दिव्ये ये मणिकुण्डले
।
ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत्॥२९॥
स तथेति प्रतिश्रुत्य जगाम जनमेजय
।
गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा॥३०॥
स जगाम ततः शीघ्रमुत्तङ्को ब्राह्मणर्षभः
।
सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले॥३१॥
गौतमस्त्वब्रवीत्पत्नीमुत्तङ्का नाद्य दृश्यते
।
इति पृष्टा तमाचष्ट कुण्डलार्थे गतं च सा॥३२॥
ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम्
।
शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति॥३३॥
अहल्योवाच।
अजानन्त्या नियुक्तः स भगवन्ब्राह्मणो मया
।
भवत्प्रसादान्न भयं किञ्चित्तस्य भविष्यति॥३४॥
इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः
।
उत्तोङ्कोऽपि वने शून्ये राजानं तं ददर्श ह॥३५॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि उत्तङ्कोपाख्याने कुण्डलाहरणे षट्पञ्चाशत्तमोऽध्यायः॥५६॥
वैशम्पायन उवाच।
स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम्
।
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम्॥१॥
स तमिति॥१॥
चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत्
।
प्रत्युत्थाय महातेजा भयकर्ता यमोपमः॥२॥
दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम्
।
भक्ष्यं मृगयमाणस्य सम्प्राप्तो द्विजसत्तम॥३॥
उत्तङ्क उवाच।
राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम्
।
न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः॥४॥
राजोवाच।
षष्ठे काले ममाहारो विहितो द्विजसत्तम
।
न शक्यस्त्वं समुत्स्रष्टुं क्षुधितेन मयाद्य वै॥५॥
उत्तङ्क उवाच।
एवमस्तु महाराज समयः क्रियतां तु मे
।
गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ने वशम्॥६॥
संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम
।
त्वदधीनः स राजेन्द्र तं त्वां भिक्षे नरेश्वर॥७॥
ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि नित्यदा
।
दाता च त्वं नरव्याघ्र पात्रभूतः क्षिताविह
।
पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम॥८॥
उपाहृत्य गुरारर्थं त्वदायत्तमरिन्दम
।
समयेनेह राजेन्द्र पुनरेष्यामि ते वशम्॥९॥
सत्यं ते प्रतिजानामि नात्र मिथ्या कथञ्चन
।
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा॥१०॥
सौदास उवाच।
यदि मत्तस्तवायत्तो गुर्वर्थः कृत एव सः
।
यदि चास्मि प्रतिग्राह्यः साम्प्रतं तद्वदस्व मे॥११॥
उत्तङ्क उवाच।
प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ
।
सोऽहं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले॥१२॥
सौदास उवाच।
पत्न्यास्ते मम विप्रर्षे उचिते मणिकुण्डले
।
वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत॥१३॥
उत्तङ्क उवाच।
अलं ते व्यपदेशेन प्रमाणा यदि ते वयम्
।
प्रयच्छ कुण्डले मह्यं सत्यवाग्भव पार्थिव॥१४॥
वैशम्पायन उवाच।
इत्युक्तस्त्वब्रवीद्राजा तमुत्तङ्कं पुनर्वचः
।
गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम॥१५॥
सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिव्रता
।
प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः॥१६॥
उत्तङ्क उवाच।
क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर
।
स्वयं वापि भवान्पत्नीं किमर्थं नोपसर्पति॥१७॥
सौदास उवाच।
तां द्रक्ष्यति भवानद्य कस्मिंश्चिद्वननिर्झरे
।
षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै॥१८॥
वैशम्पायन उवाच।
उत्तङ्कस्तु तथोक्तः स जगाम भरतर्षभ
।
मदयन्तीं च दृष्ट्वा स ज्ञापयत्स्वप्रयोजनम्॥१९॥
सौदासवचनं श्रुत्वा ततः सा पृथुलोचना
।
प्रत्युवाच महाबुद्धिमुत्तङ्कं जनमेजय॥२०॥
एवमेतद्वद ब्रह्मन्नानृतं वदसेऽनघ
।
अभिज्ञानं तु किञ्चित्त्वं समानयितुपर्हसि॥२१॥
इमे हि दिव्ये मणिकुण्डले मे देवाश्च यक्षाश्च महर्षयश्च
।
तैस्तैरुपायैरपहर्तुकामाश्छिद्रेषु नित्यं परितर्कयन्ति॥२२॥
निक्षिप्तमेतद्भुवि पन्नगास्तु रत्नं समासाद्य परामशेयुः
।
यक्षास्तेथोच्छिष्टधृतं सुराश्च निद्रावशाद्वा परिधर्षयेयुः॥२३॥
छिद्रेष्वेतेष्विमे नित्यं ह्रियेते द्विजसत्तम
।
देवराक्षसनागानामप्रमत्तेन धार्यते॥२४॥
छिद्रेष्वेतेष्विमे इति पूर्वान्वयि नागानां नागैः ह्रियेत इति सम्बन्धः॥२४॥
स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम
।
नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्ततः॥२५॥
एते ह्यामुच्य भगवन् क्षुत्पिपासाभयं कुतः
।
विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते॥२६॥
ह्रस्वे न चैते आमुक्ते भवतो ह्रस्वके तदा
।
अनुरूपेण चामुक्ते जायेते तत्प्रमाणके॥२७॥
एवंविधे ममैते वै कुण्डले परमार्चित
।
त्रिषु लोकेषु विज्ञाते तदभिज्ञानमानय॥२८॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि उत्तङ्कोपाख्याने सप्तपञ्चाशत्तमोऽध्यायः॥५७॥
वैशम्पायन उवाच।
स मित्रसहमासाद्य अभिज्ञानमयाचत
।
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा॥१॥
स मित्रेति। मित्रसह सौदास अभिज्ञानं श्लोकरूपं ज्ञापकम्॥१॥
सौदास उवाच।
न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः
।
एतन्मे मतमाज्ञाय प्रयच्छ मणिकुण्डले॥२॥
तदेवाह- न चेति। एषा रक्षोयोनिरूपाम् अन्याम् इतो मुक्तिरूपाम् अतो मम इतोगतेर्मुक्त्यर्थे प्रयच्छ देहि मणिमये कुण्डले॥२॥
इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाब्रवीत्
।
श्रुत्वा च सा तदा प्रादात्ततस्ते मणिकुण्डले॥३॥
अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत्
।
किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव॥४॥
सौदास उवाच।
प्रजा निसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह
।
विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति वै॥५॥
सोऽहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान्
।
गतिमन्यां न पश्यामि मदयन्तीसहायवान्॥६॥
न चान्यामपि पश्यामि गतिं गतिमतां वर
।
स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम॥७॥
न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः
।
शक्यं हि लोके स्थातुं वै प्रेत्य वा सुखमेधितुम्॥८॥
तदिष्टे ते मया दत्ते एते स्वे मणिकुण्डले
।
यः कृतस्तेऽद्य समयः सफलं तं कुरुध्व मे॥९॥
उत्तङ्क उवाच।
राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम्
।
प्रश्नं च कञ्चित्प्रष्टुं त्वां निवृत्तेऽस्मि परन्तप॥१०॥
सौदास उवाच।
ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः
।
छेत्तास्मि सशयं तेऽद्य न मेऽत्रास्ति विचारणा॥११॥
प्राहुर्वाक्संयतं विप्रं धर्मनैपुणदर्शिनः
।
मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः॥१२॥
स भवान्मित्रतामद्य सम्प्राप्तो मम पार्थिव
।
स मे बुद्धिं प्रयच्छस्व सम्मतां पुरुषर्षभ॥१३॥
अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः
।
भवत्सकाशमागन्तुं क्षमं मम न वेति वै॥१४॥
सौदास उवाच।
क्षमं चेदिह वक्तव्यं तव द्विजवरोत्तम
।
मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथञ्चन॥१५॥
एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह
।
आगच्छतो हि ते विप्र भवेन्मृत्युर्न संशयः॥१६॥
वैशम्पायन उवाच।
इत्युक्तः स तदा राज्ञा क्षमं बुद्धिमतां हितम्
।
अनुज्ञाप्य स राजानमहल्यां प्रतिजग्मिवान्॥१७॥
गृहीत्वा कुण्डले दिव्ये गुरुपल्याः प्रियङ्करः
।
जवेन महता प्रायाद्गौतमस्याश्रमं प्रति॥१८॥
यथा तयो रक्षणं च मदयन्त्यभिभाषितम्
।
तथा ते कुण्डले बद्ध्वा तदा कृष्णाजिनेऽनयत्॥१९॥
स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम्
।
बिल्वं ददर्श विप्रर्षिरारुरोह च तं ततः॥२०॥
शाखामासज्य तस्यैव कृष्णाजिनमरिन्दम
।
पातयामास बिल्वानि तदा स द्विजपुङ्गवः॥२१॥
शाखां शाखायाम्॥२१॥
अथ पातयमानस्य बिल्वापहृतचक्षुषः
।
न्यपतंस्तानि बिल्वानि तस्मिन्नेवाजिने प्रभो॥२२॥
यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै
।
बिल्वप्रहारैस्तस्याथ व्यशीर्यद्बन्धनं ततः॥२३॥
सकुण्डलं तदजिनं पपात सहसा तरोः
।
विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम्॥२४॥
अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले
।
ऐरावतकुलोद्भूतः शीघ्रो भूत्वा तदा हि सः॥२५॥
विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले
।
ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह॥२६॥
आस्येन कुण्डले विदश्य धृत्वा वल्मीकं विवेशेति सम्बन्धः॥२६॥
पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः
।
स दण्डकाष्ठमादाय वल्मीकमखनत्तदा॥२७॥
अहानि त्रिंशदव्यग्रः पञ्च चान्यानि भारत
।
क्रोधामर्षाभिसन्तप्तस्तदा ब्राह्मणसत्तमः॥२८॥
तस्य वेगमसह्यं तमसहन्ती वसुन्धरा
।
दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमाकुला॥२९॥
ततः खनत एवाथ विप्रर्षेर्धरणीतलम्
।
नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात्॥ रथेन हरियुक्तेन तं देशमुपजग्मिवान्
।
वज्रपाणिर्महातेजास्तं ददर्श द्विजोत्तमम्॥३०॥
वैशम्पायन उवाच।
स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः
।
उत्तङ्कमब्रवीद्वाक्यं नैतच्छक्यं त्वयेति वै॥३१॥
इतो हि नागलोको वै योजनानि सहस्रशः
।
न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव॥३२॥
उत्तङ्क उवाच।
नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया
।
प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्तु द्विजोत्तम॥३३॥
वैशम्पायन उवाच।
यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा
।
वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह॥३४॥
ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुन्धरा
।
नागलोकस्य पन्थानमकरोज्जनमेजय॥३५॥
स तेन मार्गेण तदा नागलोकं विवेश ह
।
ददर्श नागलोकं च योजनानि सहस्रशः॥३६॥
प्राकारनिचयैर्दिव्यैर्मणिमुक्तास्वलङ्कृतैः
।
उपपन्नं महाभाग शातकुम्भमयैस्तथा॥३७॥
वापीः स्फटिकसोपाना नदीश्च विमलोदकाः
।
ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान्॥३८॥
तस्य लोकस्य च द्वारं स ददर्श भृगूद्वहः
।
पञ्चयोजनविस्तारमायतं शतयोजनम्॥३०॥
नागलोकमुत्तङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा
।
निराशश्चाभवत्तत्र कुण्डलाहरणे पुनः॥४०॥
तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः
।
ताम्रास्यनेत्रः कौरव्य प्रज्वलन्निव तेजसा॥४१॥
धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे
।
ऐरावतसुतेनेह तवानीते हि कुण्डले॥४२॥
मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथञ्चन
।
त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा॥४३॥
उत्तङ्क उवाच।
कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति
।
यन्मया चीर्णपूर्वं हि श्रोतुमिच्छामि तद्ध्यहम्॥४४॥
अश्व उवाच।
गुरोर्गुरुं मां जानीहि ज्वलनं जातवेदसम्
।
त्वया ह्यहं सदा विप्र गुरोरर्थेऽभिपूजितः॥४५॥
विधिवत्सततं विप्र शुचिना भृगुनन्दन
।
तस्माच्छ्रेयो विधास्यामि तवैवं कुरु मा चिरम्॥४६॥
इत्युक्तस्तु तथाकार्षीदुत्तङ्कश्चित्रभानुना
।
घृतार्चिः प्रीतिमांश्चापि प्रजज्वलि दिधक्षया॥४७॥
ततोऽस्य रोमकूपेभ्यो धम्यतस्तत्र भारत
।
घनः प्रादुरभूद्धूमो नागलोकभयावहः॥४८॥
धम्यतो धम्यमानस्य॥४८॥
तेन धूमेन महता वर्धमानेन भारत
।
नागलोके महाराज न प्रज्ञायत किञ्चन॥४९॥
हाहाकृतमभूत्सर्वमैरावतनिवेशनम्
।
वासुकिप्रमुखानां च नागानां जनमेजय॥५०॥
न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत
।
नीहारसंवृतानीव वनानि गिरयस्तथा॥५१॥
ते धूमरक्तनयना वह्नितेजोऽभितापिताः
।
आजग्मुर्निश्चयं ज्ञातुं भार्गवस्य महात्मनः॥५२॥
श्रुत्वा च निश्चयं तस्य महर्षेरतितेजसः
।
सम्भ्रान्तनयनाः सर्वे पूजां चक्रुर्यथाविधि॥५३॥
सर्वे प्राञ्जलो नागा वृद्धबालपुरोगमाः
।
शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति॥५४॥
प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च
।
प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते॥५५॥
ततः स पूजितो नागैस्तदोत्तङ्कः प्रतापवान्
।
अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसा तत्॥५६॥
स गत्वा त्वरितो राजन्गौतमस्य निवेशनम्
।
प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यास्तदानघ॥५७॥
वासुकिप्रमुखानां च नागानां जनमेजय
।
सर्वे शशंस गुरवे यथावद्द्विजसत्तमः॥५८॥
एवं महात्मना तेन त्रीँल्लोकान् जनमेजय
।
परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले॥५९॥
एवम्प्रभावः स मुनिरुत्तङ्को भरतर्षभ
।
परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि॥६०॥
एवमिति गुरुभक्तेषु देवा अप्यनुग्रहं कुर्वन्तीति भावः॥६०॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि उत्तङ्कोपाख्याने अष्टपञ्चाशत्तमोऽध्यायः॥५८॥
जनमेजय उवाच।
उत्तङ्कस्य वरं दत्त्वा गोविन्दो द्विजसत्तम
।
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः॥१॥
उत्तङ्कस्येति॥१॥
वैशम्पायन उवाच।
उत्तङ्कस्य वरं दत्त्वा प्रायात्सात्यकिना सह
।
द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः॥२॥
सरांसि सरितश्चैव वनानि च गिरींस्तथा
।
अतिक्रम्याससादाथ रम्यां द्वारवतीं पुरीम्॥३॥
वर्तमाने महाराज महे रैवतकस्य च
।
उपायात्पुण्डरीकाक्षो युयुधानानुपस्तदा॥४॥
महे उत्सवे॥४॥
अलङ्कृतस्तु स गिरिर्नारूपैर्विचित्रितैः
।
बभौ रत्नमयैः कोशैः संवृतः पुरुषर्षभ॥५॥
काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च
।
वासोभिश्च महाशैलः कल्पवृक्षैस्तथैव च॥६॥
दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः
।
गुहानिर्झरदेशेषु दिवाभूतो बभूव ह॥७॥
दिवाभूतः दिवसवत्प्रकाशयुबहुलं दिवाकरतुल्य इति यावत्॥७॥
पताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः
।
पुम्भिः स्त्रीभिश्च सङ्घुष्टः प्रगीत इव चाभवत्॥८॥
अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव
।
मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत॥९॥
गायतां पर्वतेन्द्रस्य दिवस्पृगिव निःस्वनः
।
प्रमत्तमत्तसम्मत्तक्ष्वेडितोत्क्रुष्टसङ्कुलः॥१०॥
प्रमत्ताः क्रीडाद्यासक्त्यानवहिताः मत्ताः मद्यादिना सम्मत्ताः दृष्टाः क्ष्वेडितं कूर्दनम् उत्कृष्टम् अन्योन्यमाकर्षणं तैः सकुलः तच्छब्दैराकुलो निःस्वनः अभूदिति शेषः॥१०॥
तथा किलकिलाशब्दैर्भूधरोऽभून्मनोहरः
।
विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान्॥११॥
वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान्
।
सुरामैरैयमिश्रेण भक्ष्यभोज्येन चैव ह॥१२॥
दीनान्धकृपणादिभ्यो दीयमानेन चानिशम्
।
बभौ परमकल्याणो महस्तस्य महागिरेः॥१३॥
पुण्यावसथवान्वीर पुण्यकृद्भिर्निषेवितः
।
विहारो वृष्णिवीराणां महे रैवतकस्य ह॥१४॥
स नगो वेश्मसङ्कीर्णो देवलोक इवाबभौ
।
तदा च कृष्ण सान्निध्यमासाद्य भरतर्षभ॥१५॥
शक्रसद्मप्रतीकाशो बभूव स हि शैलराट्
।
ततः सम्पूज्यमानः स विवेश भवनं शुभम्॥१६॥
गोविन्दः सात्यकिश्चैव जगाम भवनं स्वकम्
।
विवेश च प्रहृष्टात्मा चिरकालप्रवासतः॥१७॥
कृत्वा नसुकरं कर्म दानवेष्विव वासवः
।
उपायान्तं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तथा॥१८॥
अभ्यगच्छन्महात्मानं देवा इव शतक्रतुम्
।
स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा
।
अभ्यवादयत प्रीतः पितरं मातरं तदा॥१९॥
ताभ्यां स सम्परिष्वक्तः सान्त्वितश्च महाभुजः
।
उपोपविष्टैः सर्वैस्तैर्वृष्णिभिः परिवारितः॥२०॥
स विश्रान्तो महातेजाः कृतपादावनेजनः
।
कथयामास तत्सर्वं पृष्टः पित्रा महाहवम्॥२१॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि कृष्णस्य द्वारकाप्रवेशे ऊनषष्टितमोऽध्यायः॥५९॥
वासुदेव उवाच।
श्रुतवानस्मि वार्ष्णेय सङ्ग्रामं परमाद्भुतम्
।
नराणां वदतां तत्र कथं वा तेषु नित्यशः॥१॥
श्रुतवानस्मि वार्ष्णेयेति॥१॥
त्वं तु प्रत्यक्षदर्शी च रूपज्ञश्च महाभुजः
।
तस्मात्प्रब्रूहि सङ्ग्रामं याथातथ्येन मेऽनघ॥२॥
यथा तदभवद्युद्धं पाण्डवानां महात्मनाम्
।
भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम्॥३॥
अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः
।
नानावेषाकृतिमतां नानादेशनिवासिनाम्॥४॥
वैशम्पायन उवाच।
इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदन्तिके
।
शशंस कुरुवीराणां सङ्ग्रामे निधनं यथा॥५॥
पित्रा मातुरतिके इत्युक्तः पुण्डरीकाक्षः सङ्ग्रामे तत्कुरुवीराणां निधनं यथावच्छशसेत्यन्वयः॥५॥
वासुदेव उवाच।
अत्युद्धतानि कर्माणि क्षत्रियाणां महात्मनाम्
।
बहुलत्वान्न सङ्ख्यातुं शक्यान्यब्दशतैरपि॥६॥
प्राधान्यतस्तु गदतः समासेनैव मे शृणु
।
कर्माणि पृथिवीशानां यथावदमरधुते॥७॥
भीष्मः सेनापतिरभूदेकादशचभूपतिः
।
कौरव्यः कौरवेन्द्राणां देवानामिव वासवः॥८॥
शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः
।
बभूव रक्षितो धीमान्श्रीमता सव्यसाचिना॥९॥
तेषां तदभवद्युद्धं दशाहानि महात्मनाम्
।
कुरूणां पाण्डवानां च सुमहल्लोमहर्षणम्॥१०॥
तत: शिखण्डी गाङ्गेयं युध्यमानं महाहवे
।
जघान बहुभिर्बाणैः सह गाण्डीवधन्वना॥११॥
अकरोत्स ततः कालं शरतल्पगतो मुनिः
।
अयनं दक्षिणं हित्वा सम्प्राप्ते चोत्तरायणे॥१२॥
ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषां वरः
।
प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव॥१३॥
अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः
।
संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः॥१४॥
धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित्
।
गुप्तो भीमेन मेधावी मित्रेण वरुणो यथा॥१५॥
स च सेनापरिवृतो द्रोणप्रेप्सुर्महामनाः
।
पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत्॥१६॥
तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसङ्गरे
।
नानादिगागता वीराः प्रायशो निधनं गताः॥१७॥
दिनानि पञ्च तद्युद्धमभूत्परमदारुणम्
।
ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः॥१८॥
ततः सेनापतिरभूत्कर्णो दौर्योधने बले
।
अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे॥१९॥
तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः
।
हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः॥२०॥
ततः पार्थं समासाद्य पतङ्ग इव पावकम्
।
पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणः॥२१॥
हते कर्णे तु कौरव्या निरुत्साहा हतौजसः
।
अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन्॥२२॥
हतवाहनभूयिष्ठाः पाण्डवाऽपि युधिष्ठिरम्
।
अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन्॥२३॥
अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः
।
तस्मिंस्तदार्धदिवसे कृत्वा कर्म सुदुष्करम्॥२४॥
हते शल्ये तु शकुनिं सहदेवो महात्मनाः
।
आहर्तारं कलेस्तस्य जघानामितविक्रमः॥२५॥
निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः
।
अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः॥२६॥
तमन्वधावत्सङ्क्रुद्धो भीमसेनः प्रतापवान्
।
हृदे द्वैपायने चापि सलिलस्थं ददर्श तम्॥२७॥
हतशिष्टेन सैन्येन समन्तात्पर्यवार्य तम्
।
अथोपविविशुर्हृष्टा हृदस्थं पञ्च पाण्डवाः॥२८॥
विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः
।
उत्थाय स गदापाणिर्युद्धाय समुपस्थितः॥२९॥
ततः स निहतो राजा धार्तराष्ट्रो महारणे
।
भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम्॥३०॥
ततस्तत्पाण्डवं सैन्यं प्रसुप्तं शिबिरे निशि
।
निहतं द्रोणपुत्रेण पितुर्वधममृष्यता॥३१॥
हतपुत्रा हतबला हतमित्रा मया सह
।
युयुधानसहायेन पञ्च शिष्टास्तु पाण्डवाः॥३२॥
सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत
।
युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात्॥३३॥
निहते कौरवेन्द्रे तु सानुबन्धे सुयोधने
।
विदुरः सञ्जयश्चैव धर्मराजमुपस्थितौ॥३४॥
एवं तदभवद्युद्धमहान्यष्टादश प्रभो
।
यत्र ते पृथिवीपाला निहताः स्वर्गमावसन्॥३५॥
वैशम्पायन उवाच।
शृण्वतां तु महाराज कथां तां लोमहर्षणाम्
।
दुःखशोकपरिक्लेशा वृष्णीनामभवंस्तदा॥३६॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि वासुदेववाक्ये षष्टितमोऽध्यायः॥६०॥
वैशम्पायन उवाच।
कथयन्नेव तु सदा वासुदेवः प्रतापवान्
।
महाभारतयुद्धं तत्कथान्ते पितुरग्रतः॥१॥
कथयन्नेवेति॥१॥
अभिमन्योर्वधं वीरः सोऽत्यक्रामन्महामतिः
।
अप्रियं वसुदेवस्य मा भूदिति महामतिः॥२॥
मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम्॥३॥
दुःखशोकाभिसन्तप्तो भवेदिति महामतिः
।
सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे॥४॥
आचक्ष्व कृष्ण सौभद्रवमित्यपतद्भुवि
।
तामपश्यन्निपतितां वसुदेवः क्षितौ तदा॥५॥
दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः
।
ततः स दौहित्रवधदुःखशोकसमाहतः॥६॥
वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत्
।
ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः॥७॥
यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन्
।
तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे प्रभो॥८॥
सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे
।
दुर्मरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सह॥९॥
यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते
।
किमब्रवीत्त्वां सङ्ग्रामे सुभद्रां मातरं प्रति॥१०॥
मां चापि पुण्डरीकाक्ष चपलाक्षः प्रिबो मम
।
आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः॥११॥
कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम्
।
स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः॥१२॥
बालभावेन विनयमात्मनोऽकथयत् प्रभुः
।
कच्चिन्न निकृतो बालो द्रोणकर्णकृपादिभिः॥१३॥
धरण्यां निहतः शेते तन्ममाचक्ष्व केशव
।
स हि द्रोणं च भीष्मं च कर्णं च बलिनां वरम्॥१४॥
स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम
।
एवंविधं बहु तदा विलपन्तं सुदुःखितम्॥१५॥
पितरं दुःखिततरो गोविन्दो वाक्यमब्रवीत्
।
न तेन विकृतं वक्त्रं कृतं सङ्ग्राममूर्धनि॥१६॥
न पृष्ठत: कृतश्चापि सङ्ग्रामस्तेन दुस्तरः
।
निहत्य पृथिवीपालान्सहस्रशतसङ्घशः॥१७॥
खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः
।
एको ह्येकेन सततं युध्यमाने यदि प्रभो॥१८॥
न स शक्येत सङ्ग्रामे निहन्तुमपि वज्रिणा
।
समाहृते च सङ्ग्रामात्पार्थे संशप्तकैस्तदा॥१९॥
पर्यवार्यत सङ्क्रुद्धैः स द्रोणादिभिराहवे
।
ततः शत्रुवधं कृत्वा सुमहान्तं रणे पितः॥२०॥
दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः
।
नूनं च स गतः स्वर्गं जहि शोकं महामते॥२१॥
न हि व्यसनमासाद्य सीदन्ति कृतबुद्धयः
।
द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः॥२२॥
रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम्
।
स शोकं जहि दुर्धर्ष मा च मन्युवशं गमः॥२३॥
शस्त्रपूतां हि स गतिं गतः परपुरञ्जयः
।
तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम॥२४॥
दुःखार्ताधो सुतं प्राप्य कुररीव ननाद ह
।
द्रौपदीं च समासाद्य पर्यपृच्छत दुःखिता॥२५॥
आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम्
।
अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः॥२६॥
भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत्॥२७॥
उत्तरां चाब्रवीद्भद्रे भर्ता स क्व नु ते गतः
।
क्षिप्रमागमनं मह्यं तस्य त्वं वेदयस्व ह॥२८॥
ननु नामाद्य वैराटि श्रुत्वा मम गिरं सदा
।
भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः॥२९॥
अभिमन्यो कुशलिनो मातुलास्ते महारथाः
।
कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम्॥३०॥
आचक्ष्व मेऽद्य सङ्ग्रामं यथापूर्वमरिन्दम
।
कस्मादेवं विलपतीं नाघेह प्रतिभाषसे॥३१॥
एवमादि तु वार्ष्णेय्यास्तस्यास्तत्परिदेवितम्
।
श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत्॥३२॥
सुभद्रे वासुदेवेन तथा सात्यकिना रणे
।
पित्रा च लालितो बालः स हतः कालधर्मणा॥३३॥
ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि
।
पुत्रो हि तव दुर्घर्षः सम्प्राप्तः परमां गतिम्॥३४॥
कुले महति जातासि क्षत्रियाणां महात्मनाम्
।
मा शुचश्चपलाक्षं त्वं पद्मपत्रनिभेक्षणे॥३५॥
उत्तरां त्वमवेक्षस्व गुर्विणी मा शुचः शुभे
।
पुत्रमेषा हि तस्याशु जनयिष्यति भाविनी॥३६॥
एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह
।
विहाय शोकं दुर्धर्षे श्राद्धमस्य ह्यकल्पयत्॥३७॥
समनुज्ञाप्य धर्मज्ञं राजानं भीममेव च
।
यमौ यमोपमौ चैव ददौ दानान्यनेकशः॥३८॥
ततः प्रदाय बह्वीर्गा ब्राह्मणाय यदूद्वह
।
समाहृष्य तु वार्ष्णेयी वैराटीमब्रवीदिदम्॥३९॥
वैराटि नेह सन्तापस्त्वया कार्यो ह्यनिन्दिते
।
भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष वै शिशुम्॥४०॥
एवमुक्त्वा ततः कुन्ती विरराम महाद्युते
।
तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम्॥४१॥
एवं स निधनं प्राप्तो दौहित्रस्तव मानद
।
सन्तापं त्यज दुधर्ष मा च शोके मनः कृथाः॥४२॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि वसुदेवसान्त्वने एकषष्टितमोऽध्यायः॥६१॥
जनमेजय उवाच।
श्रुत्वैतद्वचनं ब्रह्मन् व्यासेनोक्तं महात्मना
।
अश्वमेधं प्रति तदा किं भूयः प्रचकार ह॥१॥
प्रासङ्गिकीं कथां समाप्य परमप्रकृतमश्वमेधमनुवर्तयति जनमेजयप्रश्नमुखेन श्रुत्वैतद्वचनं ब्रह्मन्नित्यादिना॥१॥
रत्नं च यन्मरुत्तेन निहितं वसुधातले
।
तदवाप कथञ्चेति तन्मे ब्रूहि द्विजोत्तम॥२॥
वैशम्पायन उवाच।
श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः
।
भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत्॥३॥
अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि
।
श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना॥४॥
कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता
।
तपोवृद्धेन महता सुहृदां भूतिमिच्छता॥५॥
गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा
।
भीष्मेण च महाप्राज्ञ गोविन्देन च धीमता॥६॥
संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः
।
आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम्॥७॥
अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः
।
इयं हि वसुधा सर्वा क्षीणरत्ना कुरुद्वहाः॥८॥
तच्चाचष्ट तदा व्यासो मरुत्तस्य धनं नृपाः
।
यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि॥९॥
तथा यथाऽऽह धर्मेण कथं वा भीम मन्यसे
।
इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह॥१०॥
भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत्
।
रोचते मे महाबाहो यदिदं भाषितं त्वया॥११॥
व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति
।
यदि तत्प्राप्नुयामेह धनमाविक्षितं प्रभो॥१२॥
आविक्षितम् अविक्षितः पुत्रः आविक्षितो मरुत्तस्तभ्येदमाविक्षितम्॥१२॥
कृतमेव महाराज भवेदिति मतिर्मम
।
ते वयं प्रणिपातेन गिरीशस्य महात्मनः॥१३॥
तदानयाम भद्रं ते समभ्यर्च्य कपर्दिनम्
।
तद्वित्तं देवदेवेशं तस्यैवानुचरांश्च तान्॥१४॥
प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः
।
रक्षन्ते ये च तद्द्रव्यं किन्नरा रौद्रदर्शनाः॥१५॥
ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे
।
श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत॥१६॥
प्रीतो धर्मात्मजो राजा बभूवातीव भारत
।
अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्वचः॥१७॥
कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम्
।
सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे॥१८॥
ध्रुवे नक्षत्रे रोहिण्यामुत्तरात्रये च अहनि वारे ध्रुवे रविवारे उत्तरार्केऽमृतमृतसिद्धयोगे इत्यर्थः॥१८॥
ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च
।
अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम्॥१९॥
मोदकैः पायसेनाथ मांसापूपैस्तथैव च
।
आशास्य च महात्मानं प्रययुर्मुदिता भृशम्॥२०॥
तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ
।
प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते॥२१॥
ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च
।
ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः॥२२॥
समनुज्ञाप्य राजानं पुत्रशोकसमाहतम्
।
धृतराष्ट्रं सभार्यं वै पृथां च पृथुलोचनाम्॥२३॥
मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम्
।
सम्पूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः॥२४॥
मूले वंशस्याद्ये कुन्तीधृतराष्ट्रसमीपे इत्यर्थः॥२४॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि द्रव्यानयनोपक्रमे त्रिषष्टितमोऽध्यायः॥६३॥
ब्राह्मणा ऊचुः।
क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः
।
दत्त्वापहारं नृपते ततः स्वार्थं यतामहे॥१॥
क्रियतामिति॥१॥
श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः
।
गिरीशस्य यथान्यायमुपहार मुपाहरत्॥२॥
आज्येन तर्पयित्वाग्निं विधिवत्संस्कृतेन च
।
मन्त्रसिद्धं चरुं कृत्वा पुरोधाः स ययौ तदा॥३॥
स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप
।
मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिम्॥४॥
सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि
।
सर्वं स्विष्टतमं कृत्वा विधिवद्वेदपारगः॥५॥
किङ्कराणां ततः पश्चाच्चकार बलिमुत्तमम्
।
यक्षेन्द्राय कुबेराय मणिभद्राय चैव ह॥६॥
तथान्येषां च यक्षाणां भूतानां पतयश्च ये
।
कृसरेण च मांसेन निवापैस्तिलसंयुतैः॥७॥
ओदनं कुम्भशः कृत्वा पुरोधाः समुपाहरत्
।
ब्राह्मणेभ्यः सहस्राणि गवां दत्त्वा तु भूमिपः॥८॥
नक्तञ्चराणां भूतानां व्यादिदेश बलिं तदा
।
धूपगन्धनिरुद्धं तत्सुमनोभिश्च संवृतम्॥९॥
शुशुभे स्थानमत्यर्थ देवदेवस्य पार्थिव
।
कृत्वा पूजां तु रुद्रस्य गणानां चैव सर्वशः॥१०॥
ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति
।
पूजयित्वा धनाध्यक्षं प्रणिपत्याभिवाद्य च॥११॥
सुमनोभिर्विचित्राभिरपूपैः कृसरेण च
।
शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः॥१२॥
अर्चयित्वा द्विजाग्र्यान्स स्वस्ति वाच्य च वीर्यवान्
।
तेषां पुण्याहघोषेण तेजसा समवस्थितः॥१३॥
प्रीतिमान्स कुरुश्रेष्ठः खानयामास तद्धनम्
।
ततः पात्रीः सकरका बहुरूपा मनोरमाः॥१४॥
पात्रीःनमहान्ति ओदनोद्धरणपात्राणि कारका अल्पघटा॥१४॥
भृङ्गराणि कटाहानि कलशान्वर्धमानकान्
।
बहूनि च विचित्राणि भाजनानि सहस्रशः॥१५॥
भृङ्गाराणि गडुकान् वर्धमानकान् शरावाणि॥१५॥
उद्धारयामास तदा धर्मराजो युधिष्ठिरः
।
तेषां रक्षणमप्यासीन्महान्करपुटस्तथा॥१६॥
नद्धं च भाजनं राजंस्तुलाधर्मभवन्नृप
।
वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशाम्पते॥१७॥
करपुट करसपुटाकारं द्विदलभाजनम् उष्ट्रादीनामुपरि बद्धं तुलार्धं यत्र पुरुषस्यार्धं माति उभयतो मिलित्वा तुलामात्रं भारः वाहनं भारस्येति शेषः॥१७॥
षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः
।
वारणाश्च महाराज सहस्रशतसम्मिताः॥१८॥
शकटानि रथाश्चैव तावदेव करेणवः
।
खराणां पुरुषाणां च परिसङ्ख्या न विद्यते॥१९॥
एतद्वित्तं तदभवद्यदुद्दघे युधिष्ठिरः
।
षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम्॥२०॥
षोडशाष्टाविति यथायोग्य उष्ट्रस्य भारोऽष्टौ सहस्रं सुवर्णाः शकटस्य षोडश गजस्य चरुर्विंशतिरित्येवं भारलक्षणम् एवं हयखरमनुष्याणां यथासम्भवं योज्यम्॥२०॥
एतेष्वादाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः
।
महादेवं प्रति ययौ पुरं नागाह्वयं प्रति॥२१॥
द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम्
।
गोयुते गोयुते चैव न्यवसत्पुरुषर्षभः॥२२॥
गोयुते गोयुते भाराक्रातवाहनत्वात् गव्यूतौ गव्यूतौ प्रत्यहं क्रोशद्वयप्रमाणमित्यर्थः॥२२॥
सा पुराभिमुखा राजन्नुवाह महती चमूः
।
कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान्॥२३॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि द्रव्यानयने पञ्चषष्टितमोऽध्यायः॥६५॥
वैशम्पायन उवाच।
एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान्
।
उपायाद्वृष्णिभिः सार्धं पुरं वारणसाह्वयम्॥१॥
एतस्मिन्निति॥१॥
समयं वाजिमेधस्य विदित्वा पुरुषर्षभः
।
यथोक्तो धर्मपुत्रेण प्रव्रजन्स्वपुरी प्रति॥२॥
रौक्मिणेयेन सहितो युयुधानेन चैव ह
।
चारुदेष्णेन साम्बेन गदेन कृतवर्मणा॥३॥
सारणेन च वीरेण निशठेनोल्मुकेन च
।
बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा॥४॥
द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः
।
समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः॥५॥
क्षत्रियाः स्त्रियः॥५॥
तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः
।
प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः॥६॥
तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषोत्तमः
।
विदुरेण महातेजास्तथैव च युयुत्सुना॥७॥
वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय
।
जज्ञे तव पिता राजन्परिक्षित्परवीरहा॥८॥
स तु राजा महाराज ब्रह्मास्त्रेणावपीडितः
।
शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः॥९॥
हृष्टानां सिंहनादेन जनानां तत्र नि:स्वनः
।
प्रविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत्॥१०॥
ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा
।
युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः॥११॥
ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम्
।
क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः॥१२॥
पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम्
।
सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप॥१३॥
ततः कृष्णं समासाद्य कुन्ती भोजसुता तदा
।
प्रोवाच राजशार्दूल बाप्पगद्गदया गिरा॥१४॥
वासुदेव महाबाहो सुप्रजा देवकी त्वया
।
त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम्॥१५॥
यदुप्रवीर योऽयं ते स्वस्रीयस्यात्मजः प्रभो
।
अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव॥१६॥
त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन
।
अहं सञ्जीवयिष्यामि मृतं जातमिति प्रभो॥१७॥
सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ
।
उत्तरां च सुभद्रां च द्रौपदीं मां च माधव॥१८॥
धर्मपुत्रं च भीमं च फाल्गुनं नकुलं तथा
।
सहदेवं च दुर्धर्ष सर्वान्नस्त्रातुमर्हसि॥१९॥
अस्मिन्प्राणा: समायत्ताः पाण्डवानां ममैव च
।
पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे॥२०॥
अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च
।
प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन॥२१॥
उत्तरा हि पुरोक्तं वै कथयत्यरिसूदन
।
अभिमन्योर्वचः कृष्ण प्रियत्वात्तन्न संशयः॥२२॥
अब्रवीत्किल दाशार्ह वैराटीमा निस्तदा
।
मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति॥२३॥
मातुलस्य अभिमन्युमातुलस्य कृष्णस्य तत्तुल्यपराक्रमस्तदधीनश्चेत्यर्थः॥२३॥
गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति
।
अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम्॥२४॥
इत्येतत्प्रणयात्तात सौभद्रः परवीरहा
।
कथयामास दुर्धर्षस्तथा चैतन्न संशयः॥२५॥
तास्त्वां वयं प्रणम्येह याचामो मधुसूदन
।
कुलस्यास्य हितार्थं तं कुरु कल्याणमुत्तमम्॥२६॥
एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना
।
उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि॥२७॥
अब्रुवश्च महाराज सर्वाः सास्राविलेक्षणाः
।
स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो॥२८॥
एवमुक्ते ततः कुन्तीं पर्यगृह्णाज्जनार्दनः
।
भूमौ निपतितां चैनां सान्त्वयामास भारत॥२९॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि परिक्षिज्जन्मकथने षट्षष्टितमोऽध्यायः॥६६॥
वैशम्पायन उवाच।
एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः
।
तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम्॥१॥
एवमुक्त इति॥१॥
वाक्येनैतेन हि तदा तं जनं पुरुषर्षभः
।
ह्लादयामास स विभुर्धर्मार्तं सलिलैरवि॥२॥
ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव
।
अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि॥३॥
अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम्
।
घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज॥४॥
घृतेन सिक्तैरिति शेषः॥४॥
अस्त्रैश्च विमलैर्व्यस्तैः पावकैश्च समन्ततः
।
वृद्धाभिश्चापि रामाभिः परिचारार्थमावृतम्॥५॥
दक्षैश्च परितो धीर भिषग्भिः कुशलैस्तथा
।
ददर्श च स तेजस्वी रक्षोनान्यपि सर्वशः॥६॥
द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः
।
तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव॥७॥
हृष्टोऽभवद्धृषीकेशः साधु साध्विति चाब्रवीत्
।
तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा॥८॥
द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत्
।
अयमायाति ते भद्रे श्वशुरो मधुसूदनः॥९॥
पुराणर्षिरचिन्त्यात्मा समीपमपराजितः
।
सापि बाष्पकलां वाचं निगृहाश्रूणि चैव ह॥१०॥
सुसंवीताभवद्देवी देववत्कृष्णमीयुषी
।
सा तथा दूयमानेन हृदयेन तपस्विनी॥११॥
दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत्
।
पुण्डरीकाक्ष पश्यावां बालेन हि विनाकृतौ
।
अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन॥१२॥
वार्ष्णेय मधुहन्वीर शिरसा त्वां प्रसादये
।
द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम्॥१३॥
यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः
।
त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत्॥१४॥
अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो
।
अहमेव विनष्टा स्यां नैतदेवङ्गते भवेत्॥१५॥
गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम्
।
कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते॥१६॥
सा त्वां प्रसाद्य शिरसा याचे शत्रुनिबर्हणम्
।
प्राणांस्त्यक्ष्यामि गोविन्द नायं सञ्जीवते यदि॥१७॥
अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः
।
ते द्रोणपुत्रेण हताः किं नु जीवामि केशव॥१८॥
आसीन्मम मतिः कृष्ण पुत्रोत्सङ्गा जनार्दन
।
अभिवादयिष्ये हृष्टेति तदिदं वितथीकृतम्॥१९॥
चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ
।
विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः॥२०॥
चपलाक्षः किलातीव प्रियस्ते मधुसूदन
।
सुतं पश्य त्वमस्यैनं ब्रह्मास्त्रेण निपातितम्॥२१॥
कृतघ्नोऽयं नृशंसोऽयं यथास्य जनकस्तथा
।
यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम्॥२२॥
मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव
।
अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति॥२३॥
तच्च नाकरवं कृष्ण नृशंसां जीवितप्रिया
।
इदानीं मां गतां तत्र किं नु वक्ष्यति फाल्गुनिः॥२४॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि उत्तरावाक्ये अष्टषष्टितमोऽध्यायः॥६८॥
वैशम्पायन उवाच।
सैवं विलय करुणं सोन्मादेव तपस्विनी
।
उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी॥१॥
सैवमिति॥१॥
तां तु दृष्ट्वा निपतितां हतपुत्रपरिच्छदाम्
।
चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतस्त्रियः॥२॥
मुहूर्तमिव राजेन्द्र पाण्डवानां निवेशनम्
।
अप्रेक्षणीयमभवदार्तस्वनविनादितम्॥३॥
सा मुहूर्ते च राजेन्द्र पुत्रशोकाभिपीडिता
।
कश्मलाभिहता वीर वैराटी त्वभवत् तदा॥४॥
प्रतिलभ्य तु सा संज्ञामुत्तरा भरतर्षभ
।
अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत्॥५॥
धर्मज्ञस्य सुतः स त्वमधर्मं नावबुध्यसे
।
यस्त्वं वृध्णिप्रवीरस्य कुरुषे नाभिवादनम्॥६॥
पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं त्विदम्
।
दुर्मरं प्राणिनां वीर कालेऽप्राप्ते कथञ्चन॥७॥
याहं त्वया विनायेह पत्या पुत्रेण चैव ह
।
मर्तव्ये सति जीवामि हतस्वस्तिरकिञ्चना॥८॥
अथवा धर्मराज्ञाहमनुज्ञाता महाभुज
।
भक्षयिष्ये विषं घोरं प्रवेक्ष्ये वा हुताशनम्॥९॥
अथवा दुर्मरं तात यदिदं मे सहस्रधा
।
पतिपुत्रविहीनाया हृदयं न विदीर्यते॥१०॥
उत्तिष्ठ पुत्र पश्येमां दुःखिता प्रपितामहीम्
।
आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे॥११॥
आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम्
।
मां च पश्य सुदुःखार्तो व्याधविद्धां मृगीमिव॥१२॥
उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः
।
पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणम्॥१३॥
पुरा यथा चपलेक्षणमभिमन्युमहं पश्यामि तथा पुण्डरीकपलाशाक्षं कृष्णं पश्येति सम्बन्धः॥१३॥
एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः
।
उत्तरां तां स्त्रियः सर्वाः पुनरुत्थापयंस्ततः॥१४॥
उत्थाय च पुनर्धैर्यात्तदा मत्स्यपतेः सुता
।
प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत्॥१५॥
श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः
।
उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं प्रत्यसंहरत्॥१६॥
प्रतिजज्ञे च दाशार्हस्तत्य जीवितमच्युतः
।
अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयञ्जगत्॥१७॥
न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति
।
एष सञ्जीवयाम्येनं पश्यतां सर्वदेहिनाम्॥१८॥
नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन
।
न च युद्धात्परावृत्तस्तथा सञ्जीवतामयम्॥१९॥
यथा मे दयितो धर्मो ब्राह्मणश्च विशेषतः
।
अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा॥२०॥
यथाहं नाभिजानामि विजये तु कदाचन
।
विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः॥२१॥
यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ
।
तथा मृतः शिशुरयं जीवतादभिमन्युजः॥२२॥
यथा कंसश्च केशी च धर्मेण निहतौ मया
।
तेन सत्येन बालोऽयं पुनः सञ्जीवतामयम्॥२३॥
इत्युक्तो वासुदेवेन स बालो भरतर्षभ
।
शनैः शनैर्महाराज प्रास्पन्दत सचेतनः॥२४॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि परिक्षित्सञ्जीवने ऊनसप्ततितमोऽध्यायः॥६९॥
वैशम्पायन उवाच।
ब्रह्मास्त्रं तु यदा राजन् कुष्णेन प्रतिसंहृतम्
।
तदा तद्वेश्म त्वत्पित्र तेजसाभिविदीपितम्॥१॥
ब्रह्मास्त्रमिति॥१॥
ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गुहं तु तत्
।
अन्तरिक्षे च वागासीत्साधु केशव साध्विति॥२॥
तदस्त्रं ज्वलितं चापि पितामहमगात्तदा
।
ततः प्राणान्पुनर्लेभे पिता तव नरेश्वर॥३॥
व्यचेष्टत च बालोऽसौ यथोत्साहं यथाबलम्
।
बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः॥४॥
ब्राह्मणा वाचयामासुर्गोविन्दस्यैव शासनात्
।
ततस्ता मुदिताः सर्वाः प्रशाशंसुर्जनार्दनम्॥५॥
वाचयामासुः स्वस्तीति शेषः॥५॥
स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः
।
कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा॥६॥
स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः
।
तत्र मल्ला नटाश्चैव ग्रन्थिकाः सौख्यशायिकाः॥७॥
ग्रन्थिकाः दैवज्ञाः "ग्रन्थिकस्तु करीरेस्याद्दैवज्ञे गुग्गुलुद्रुमे" इति विश्वलोचनः। सुखावहं सौख्यं शयनम् इति पृच्छन्ति ते सौख्यशायनिकाः पृच्छतौ सुन्नातादिभ्य इति ठक् अनुशतिकादिः॥७॥
सूतमागधसङ्घाश्चाप्यस्तुवंस्तं जनार्दनम्
।
कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ॥८॥
कुरुवंशस्य स्तवम् आचक्षते ताभिः कुरुवंशस्तवाख्याभिः॥८॥
उत्थाय तु यथाकालमुत्तरा यदुनन्दनम्
।
अभ्यवादयत प्रीता सह पुत्रेण भारत॥९॥
तस्य कृष्णो ददौ हृष्टो बहुरत्नं विशेषतः
।
तथान्ये वृष्णिशार्दूला नाम चास्याकरोत्प्रभुः॥१०॥
पितुस्तव महाराज सत्यसन्धो जनार्दनः
।
परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः॥११॥
परिक्षिदिति नामास्य भवत्वित्यब्रवीत् तदा
।
सोऽवर्धते यथाकालं पिता तव जनाधिप॥१२॥
मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत
।
मासजातस्तु ते वीर पिता भवति भारत॥१३॥
अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः
।
तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुङ्गवाः॥१४॥
अलञ्चक्रुश्च माल्यौघैः पुरुषा नागसाह्वयम्
।
पताकाभिर्विचित्रार्ध्वजैश्च विविधैरपि॥१५॥
वेश्मानि समलञ्चक्रुः पौराश्चापि जनेश्वर
।
देवतायतनानां च पूजाः सुविविधास्तथा॥१६॥
सन्दिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया
।
राजमार्गाश्च तत्रासन्सुमनोभिरलङ्कृताः॥१७॥
शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम्
।
नर्तकैश्चापि नृत्यद्भिर्गायकानां च निःस्वनैः॥१८॥
आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा
।
बन्दिभिश्च नरै राजन् स्त्रीसहायैश्च सर्वशः॥१९॥
तत्र तत्र विविक्तेषु समन्तादुपशोभितम्
।
पताका धूयमानाश्च समन्तापन्मातरिश्वना॥२०॥
अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान्
।
अघोषयंस्तदा चापि पुरुषा राजधूर्गताः
।
सर्वराष्ट्रविहारोऽद्य रत्नाभरणलक्षणः॥२१॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि पाण्डवागमने सप्ततितमोऽध्याः॥७०॥
वैशम्पायन उवाच।
तान्समीपगतान् श्रुत्वा पाण्डवान् शत्रुकर्शनः
।
वासुदेवः सहामात्यः प्रययौ ससुहृद्गणः॥१॥
तान्समीपगतानिति॥१॥
ते समेत्य यथान्यायं प्रत्युद्याता दिदृक्षया
।
ते समेत्य यथाधर्मं पाण्डवा वृष्णिभिः सह॥२॥
विविशुः सहिता राजन्पुरं वारणसाह्वयम्
।
महतस्तस्य सैन्यस्य खुरनेमिस्वनेन ह॥३॥
द्यावापृथिव्योः खं चैव सर्वमासीत्समावृतम्
।
ते कोशानग्रतः कृत्वा विविशुः स्वपुरं तदा॥४॥
द्यावापृथिव्योः सम्बन्धिं खम् आकाशम् अवकाशमिति यावत्॥४॥
पाण्डवाः प्रीतमनसः सामात्याः ससुहणाः
।
ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम्॥५॥
कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे
।
धृतराष्ट्रादनु च ते गान्धारीं सुबलात्मजाम्॥६॥
कुन्तीं च राजशार्दूल तदा भरतसत्तम
।
विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च॥७॥
वैश्यापुत्रं युयुत्सुम्॥७॥
पूज्यमानाः स्म ते वीरा व्यरोचन्त विशाम्पते
।
ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम्॥८॥
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत
।
तदुपश्रुत्य तत्कर्म वासुदेवस्य धीमतः॥९॥
पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम्
।
ततः कतिपयाहस्य व्यासः सत्यवतीसुतः॥१०॥
आजगाम महातेजा नगरं नागसाह्वयम्
।
तस्य सर्वे यथान्यायं पूजाञ्चक्रुः कुरूद्वहाः॥११॥
सह वृष्ण्यन्धकव्याघ्रैरुपासाञ्चक्रिरे तदा
।
तत्र नानाविधाकाराः कथाः समभिकीर्त्य वै॥१२॥
युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत्
।
भवत्प्रसादाद्भगवन् यदिदं रत्नमाहृतम्॥१३॥
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ
।
तमनुज्ञातुमिच्छामि भवता मुनिसत्तम
।
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः॥१४॥
व्यास उवाच।
अनुजानाभि राजंस्त्वां क्रियतां यदनन्तरम्
।
यजस्व वाजिमेधेन विधिवद्दक्षिणावता॥१५॥
अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम्
।
तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः॥१६॥
पावनः नाशकः॥१६॥
वैशम्पायन उवाच।
इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः
।
अश्वमेधस्य कौरव्य चकाराहरणे मतिम्॥१७॥
समनुज्ञाप्य तत्सर्वं कृष्णद्वैपायनं नृपः
।
वासुदेवमथाभ्येत्य वाग्मी वचनमब्रवीत्॥१८॥
देवकी सुप्रजा देवी त्वया पुरुषसत्तम
।
यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत॥१९॥
त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन
।
पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता पही॥२०॥
दीक्षयस्व त्वमात्मानं त्वं हि नः परमो गुरुः
।
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्॥२१॥
त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः
।
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः॥२२॥
वासुदेव उवाच।
त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिन्दम
।
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः॥२३॥
त्वं चाद्य कुरुवीराणां धर्मेण हि विराजसे
।
गुणीभूताः स्म ते राजंस्त्वं नो राजा गुरुर्मतः॥२४॥
यजस्य मदनुज्ञातः प्राप्य एष क्रतुस्त्वया
।
युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत॥२५॥
सत्यं ते प्रतिजानामि सर्वे कर्तास्मि तेऽनघ
।
भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ
।
इष्टवन्तो भविष्यन्ति त्वयीष्टवति पार्थिवे॥२६॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि कृष्णव्यासानुज्ञायां एकसप्ततितमोऽध्यायः॥७१॥
वैशम्पायन उवाच।
एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः
।
व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत्॥१॥
एवमुक्त इति॥१॥
यदा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः
।
दीक्षयस्व तदा मां त्वं त्वय्यायत्तो हि मे क्रतुः॥२॥
व्यास उवाच।
अहं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च
।
विधानं यद्यथाकालं तत्कर्तारो न संशयः॥३॥
चैत्र्यां हि पौर्णमास्यां तु तव दीक्षा भविष्यति
।
सम्भाराः सम्भियन्तां च यज्ञार्थं पुरुषर्षभ॥४॥
अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः
।
मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये॥५॥
तमुत्सृज यथाशास्त्रं पृथिवीं सागराम्बराम्
।
स पर्येतु यशो दीप्तं तव पार्थिव दर्शयन्॥६॥
वैशम्पायन उवाच।
इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः
।
चकार सर्वे राजेन्द्र यथोक्तं ब्रह्मवादिना॥७॥
सम्भारश्चैव राजेन्द्र सर्वे सङ्कल्पिताऽभवन्
।
स सम्भारान्समाहृत्य नृपो धर्मसुतस्तदा॥८॥
न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै
।
ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम्॥९॥
यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे
।
स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव॥१०॥
स्फ्यः काष्ठखड्गः स चात्र सौर्वणं कूर्चम् आसनार्थं कुशमुष्ठिः सोप्यत्र सौवर्णः॥१०॥
तत्र योग्यं भवेत्किञ्चिद्रौक्मं तत्क्रियतामिति
।
अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम्
।
सुगुप्तं चरतां चापि यथाशास्त्रं यथाविधि॥११॥
सुगुप्तं सुरक्षितं यथा स्यात्तथा॥११॥
युधिष्ठिर उवाच।
अयमश्वो यथा ब्रह्मन्नुस्तृष्टः पृथिवीमिमाम्
।
चरिष्यति यथाकामं तत्र वै संविधीयताम्॥१२॥
पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम्
।
कः पालयेदिति मुने तद्भवान्वक्तुमर्हति॥१३॥
वैशम्पायन उवाच।
इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत्
।
भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम्॥१४॥
जिष्णुः सहिष्णुर्धृष्णुश्च स एनं पालयिष्यति
।
शक्तः स हि महीं जेतुं निवातकवचान्तकः॥१५॥
तस्मिन् वस्त्राणि दिव्यानि दिव्यं संहननं तथा
।
दिव्यं धनुश्चेषुधी च स एनमनुयास्यति॥१६॥
स हि धर्मार्थकुशलः सर्वविद्याविशारदः
।
यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम्॥१७॥
राजपुत्रो महाबाहुः श्यामो राजीवलोचनः
।
अभिमन्योः पिता वीरः स एनं पालयिष्यति॥१८॥
भीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः
।
समर्थो रक्षितुं राष्ट्रं नकुलश्च विशाम्पते॥१९॥
सहदेवस्तु कौरव्य समाधास्यति बुद्धिमान्
।
कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः॥२०॥
तत्तु सर्वे यथान्यायमुक्तः कुरुकुलोद्वहः
।
चकार फाल्गुनं चापि सन्दिदेश हयं प्रति॥२१॥
युधिष्ठिर उवाच।
एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम्
।
त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः॥२२॥
ये चापि त्वां महाबाहो प्रत्युद्यान्ति नराधिपाः
।
तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयानघ॥२३॥
आख्यातव्यश्च भवता यज्ञोऽयं मम सर्वशः
।
पार्थिवेभ्यो महाबाहो समये गम्यतामिति॥२४॥
वैशम्पायन उवाच।
एवमुक्त्वा च धर्मात्मा भ्रातरं सव्यसाचिनम्
।
भीमं च नकुलं चैव पुरगुप्तौ समादधत्॥२५॥
कुटुम्बतन्त्रे तदा सहदेवं युधां पतिम्
।
अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः॥२६॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि यज्ञसामग्रीसम्पादने द्विसप्ततितमोऽध्यायः॥७२॥
वैशम्पायन उवाच।
दीक्षाकाले तु सम्प्राप्ते ततस्ते सुमहर्त्विजः
।
विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम्॥१॥
दीक्षेति॥१॥
कृत्वा स पशुबन्धांश्च दीक्षितः पाण्डुनन्दनः
।
धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत॥२॥
पशुबन्धान् अश्वमेधस्यारम्भणीयरूपान्॥२॥
हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना
।
उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा॥३॥
स राजा धर्मराड्राजन्दीक्षितो विबभौ तदा
।
हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः॥४॥
कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः
।
विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे॥५॥
तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशाम्पते
।
बभूवुरर्जुनश्चापि प्रदीप्त इव पावकः॥६॥
श्वेताश्वः कृष्णसारं तं ससाराश्वं धनञ्जयः
।
विधिवत्पृथिवीपाल धर्मराजस्य शासनात्॥७॥
विक्षिपन् गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान्
।
तमश्वं पृथवीपाल मदा युक्तः ससार च॥८॥
आकुमारं तदा राजन्नागमत्तत्पुरं विभो
।
द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनञ्जयम्॥९॥
तेषामन्योन्यसम्मर्दादूष्मेव समजायत
।
दिदृक्षूणां हयं तं च तं चैव हयसारिणम्॥१०॥
ततः शब्दो महाराज दिशः खं प्रति पूरयन्
।
बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनञ्जयम्॥११॥
एष गच्छति कौन्तेय तुरगश्चैव दीप्तिमान्
।
यमन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम्॥१२॥
एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः
।
स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत॥१३॥
अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन्
।
नैनं पश्याम सम्मर्दे धनुरेतत्प्रदृश्यते॥१४॥
एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः
।
स्वस्ति गच्छत्वरिष्टो वै पन्थानमकुतोभयम्॥१५॥
निवृत्तमेनं द्रक्ष्यामः पुनरेष्यति च ध्रुवम्
।
एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ॥१६॥
शुश्राव मधुरा वाचः पुनः पुनरुदारधीः
।
याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि॥१७॥
शिष्यः सोमश्रवाः॥१७॥
प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः
।
ब्राह्मणाश्च महीपाल बहवो वेदपारगाः॥१८॥
अनुजग्मुर्महात्मानं क्षत्रिवाश्च विशाम्पते
।
विधिवत्पृथिवीपाल धर्मराजस्य शासनात्॥१९॥
पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा
।
चचार स महाराज यथादेशं च सत्तम॥२०॥
तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह
।
तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च॥२१॥
स हयः पृथिवीं राजन्प्रदक्षिणमवर्तत
।
ससारोत्तरतः पूर्वं तन्निबोध महीपते॥२२॥
अवमृद्नन्स राष्ट्राणि पार्थिवानां हयोत्तमः
।
शनैस्तदा परिययौ श्वेताश्वश्च महारथः॥२३॥
तत्र सङ्गणना नास्ति राज्ञामयुतशस्तदा
।
येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः॥२४॥
किराता यवना राजन्बहवोऽसिधनुर्धराः
।
म्लेच्छाश्चान्ये बहुविधाः पूर्वं ये निकृता रणे॥२५॥
आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः
।
समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः॥२६॥
एवं वृत्तानि युद्धानि तत्र तत्र महीयते
।
अर्जुनस्य महीपालैर्नादेशसमागतैः॥२७॥
यानि तूभयतो राजन्प्रतप्तानि महान्ति च
।
तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवाऽनघ॥२८॥
यानि तूभयत इति क्षुद्राणि तु उपेक्षितानीत्यर्थः॥२८॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अश्वानुसरणे त्रिसप्ततितमोऽध्यायः॥७३॥
वैशम्पायन उवाच।
त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः
।
महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः॥१॥
त्रिगर्तैरिति महारथत्वेन सम्यगाज्ञातैः पाण्डवीयैर्हतानां पुत्रनप्तृभिस्त्रिगर्तैः॥१॥
ते समाज्ञाय सम्प्राप्तं यज्ञियं तुरगोत्तमम्
।
विषयान्तं ततो वीरा दंशिताः पर्यवारयन्॥२॥
रथिनो बद्धतूणीराः सदश्वैः समलङ्कृतैः
।
परिवार्य हयं राजन् ग्रहीतुं सम्प्रचक्रमुः॥३॥
ततः किरीटी सञ्चिन्त्य तेषां तत्र चिकीर्षितम्
।
वारयामास तान्वीरान्सान्त्वपूर्वमरिन्दमः॥४॥
तदनादृत्य ते सर्वे शरैरभ्यहनंस्तदा
।
तमोरजोभ्यां सञ्छन्नांस्तान्किरीटी न्यवारयत्॥५॥
तानब्रवीत्ततो जिष्णुः प्रहसन्निव भारत
।
निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव च॥६॥
स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः
।
हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति॥७॥
स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः
।
तान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते॥८॥
ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे
।
विचित्य शरजालेन प्रजहास धनञ्जयः॥९॥
ततस्ते रथघोषेण रथनेमिस्वनेन च
।
पूरयन्तो दिशः सर्वा धनञ्जयमुपाद्रवन्॥१०॥
सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम्
।
शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन्॥११॥
तथैवान्ये महेष्वासा ये च तस्यानुयायिनः
।
मुमुचुः शरवर्षाणि धनञ्जयवधैषिणः॥१२॥
स तान् ज्यामुखनिर्मुक्तैर्बहुभिः सुबहून् शरान्
।
चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा॥१३॥
केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा
।
युयुधे भ्रातुरर्थाय पाण्डवेन यशस्विना॥१४॥
तमापतन्तं सम्प्रेक्ष्य केतुवर्माणमाहवे
।
अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा॥१५॥
केतुवर्मण्यभिहते धृतवमा महारथः
।
रथेनाशु समुत्पत्य शरैर्जिष्णुमवाकिरत्॥१६॥
तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान्
।
गुडाकेशो महातेजा बालस्य धृतवर्मणः॥१७॥
न सन्दधानं ददृशे नाददानं च तं तदा
।
किरन्तमेव स शरान्ददृशे पाकशासनिः॥१८॥
स तु तं पूजयामास धृतवर्माणमाहवे
।
मनसा तु मुहूर्तं वै रणे समभिहर्षयन्॥१९॥
तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव
।
प्रीतिपूर्वं महाबाहुः प्राणैर्न व्यपरोपयत्॥२०॥
स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा
।
धृतवर्मा शरं दीप्तं मुमोच विजये तदा॥२१॥
स तेन विजयस्तूर्णमासीद्विद्धः करे भृशम्
।
मुमोच गाण्डिवं मोहात्तत्पपाताथ भूतले॥२२॥
धनुषः पततस्तस्य सव्यसाचिकराद्विभो
।
बभूव सदृशं रूपं शक्रचापस्य भारत॥२३॥
तस्मिन्निपतिते दिवये महाधनुषि पार्थिवः
।
जहास सस्वनं हासं धृतवर्मा महाहवे॥२४॥
ततो रोषार्दितो जिष्णुः प्रमृत्य रुधिरं करात्
।
धनुरादत्त तद्दिव्यं शरवर्षैर्ववर्ष च॥२५॥
ततो हलहलाशब्दो दिवस्पृगभवत्तदा
।
नानाविधानां भूतानां तत्कर्माणि प्रशंसताम्॥२६॥
ततः सम्प्रेक्ष्य सङ्क्रुद्धं कालान्तकयमोपमम्
।
जिष्णुं त्रैगर्तका योधाः परीताः पर्यवारयन्॥२७॥
अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः
।
परिवव्रुर्गुडाकेशं तत्राक्रुद्ध्यद्धनञ्जयः॥२८॥
ततो योधान् जघानाशु तेषां स दश चाष्ट च
।
महेन्द्रवज्रप्रतिमैरायसैर्बहुभिः शरैः॥२९॥
तान्सम्प्रभग्नान्सम्प्रेक्ष्य त्वरमाणो धनञ्जयः
।
शरैराशीविषाकारैर्जधान स्वनवद्धसन्॥३०॥
ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः
।
दिशोऽभिदुद्रुवू राजन् धनञ्जयशरार्दिताः॥३१॥
तमूचुः पुरुषव्याघ्रं संशप्तकनिषूदनम्
।
तवास्म किङ्कराः सर्वे सर्वे वै वशगास्तव॥३२॥
आज्ञापयस्व नः पार्थ प्रह्वान्प्रेष्यानवस्थितान्
।
करिष्यामः प्रियं सर्वं तव कौरवनन्दन॥३३॥
एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा
।
जीवितं रक्षत नृपाः शासनं प्रतिगृह्यताम्॥३४॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि त्रिगर्तपराभवे चतुःसप्ततितमोऽध्यायः॥७४॥
एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ
।
अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः॥१॥
एवमिति॥१॥
ततश्चतुर्थे दिवसे वज्रदत्तो महाबलः
।
जाहास सस्वनं हासं वाक्यं चेदमथाब्रवीत्॥२॥
अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे
।
त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि॥३॥
त्वया वृद्धो मम पिता भगदत्तः पितुः सखा
।
हतो वृद्धो मम पिता शिशुं मामद्य योधय॥४॥
इत्येवमुक्त्वा सङ्क्रुद्धो वज्रदत्तो नराधिपः
।
प्रेषयामास कौरव्य वारणं पाण्डवं प्रति॥५॥
सम्प्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता
।
उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम्॥६॥
अग्रहस्तसुमुक्तेन सीकरेण स नागराट्
।
समौक्षत गुडाकेशं शैलं नीलमिवाम्बुदः॥७॥
स तेन प्रेषितो राज्ञा मेघवद्विनदन्मुहुः
।
मुखाडम्बरसंह्रादैरभ्यद्रवत फाल्गुनम्॥८॥
स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः
।
आससाद द्रुतं राजन्कौरवाणां महारथम्॥९॥
तमायान्तमथालक्ष्य वज्रदत्तस्य वारणम्
।
गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा॥१०॥
चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः
।
कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत॥११॥
ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः
।
निवारयामास तदा बेलेव मकरालयम्॥१२॥
स नागप्रवरः श्रीमानर्जुनेन निवारितः
।
तस्थौ शरैर्विनुन्नाङ्गः श्वाविच्छललितो यथा॥१३॥
शललितः शलाकाप्रोतः॥१३॥
निवारितं गजं दृष्ट्वा भगदत्तसुतो नृपः
।
उत्ससर्ज शितान्बाणानर्जुनः क्रोधमूर्च्छितः॥१४॥
अर्जुनस्तु महाबाहुः शरैररिनिघातिभिः
।
वारयामास तान्बाणांस्तदद्भुतमिवाभवत्॥१५॥
ततः पुनरभिक्रुद्धो राजा प्राग्ज्योतिषाधिपः
।
प्रेषयामास नागेन्द्रं बलवत्पर्वतोपमम्॥१६॥
तमापतन्तं सम्प्रेक्ष्य बलवत्पाकशासनिः
।
नाराचमग्निसङ्काशं प्राहिणोद्वारणं प्रति॥१७॥
स तेन वारणो राजन्मर्मस्वभिहतो भृशम्
।
पपात सहसा भूमौ वज्ररुग्ण इवाचलः॥१८॥
स पतन् शुशुभे नागो धनञ्जयशराहतः
।
विशन्निव महाशैलो महीं वज्रप्रपीडितः॥१९॥
तस्मिन्निपतिते नागे वज्रदत्तस्य पाण्डवः
।
तं न भेतव्यमित्याह ततो भूमिगतं नृपम्॥२०॥
अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः
।
राजानस्ते न हन्तव्या धनञ्जय कथञ्चन॥२१॥
सर्वमेतन्नरव्याघ्र भवत्येतावता कृतम्
।
योधाश्चापि न हन्तव्या धनञ्जय रणे त्वया॥२२॥
वक्तव्याश्चापि राजानः सर्वे सहसुहृज्जनैः
।
युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम्॥२३॥
इति भ्रातृवचः श्रुत्वा न हन्मि त्वां नराधिप
।
उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव॥२४॥
आगच्छेथा महाराज परां चैत्रीमुपस्थिताम्
।
यदाश्वमेधो भविता धर्मराजस्य धीमतः॥२५॥
एवमुक्तः स राजा तु भगदत्तात्मजस्तदा
।
तथेत्येवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः॥२६॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि वज्रदत्तपराजये षट्सप्ततितमोऽध्यायः॥७६॥
वैशम्पायन उवाच।
सैन्धवैरभवद्युद्धं ततस्तस्य किरीटिनः
।
हतशेषैर्महाराज हतानां च सुतैरपि॥१॥
सैन्धवैरिति॥१॥
तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम्
।
प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम्॥२॥
अश्वं च तं परामृश्य विषयान्ते विषोपमाः
।
न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात्॥३॥
तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च
।
बीभत्सुं प्रत्यपद्यन्त पदातिनमवस्थितम्॥४॥
ततस्ते तं महावीर्या राजानः पर्यवारयन्
।
जिगीषन्तो नरव्याघ्रं पूर्वं विनिकृता युधि॥५॥
ते नामान्यपि गोत्राणि कर्माणि विविधानि च
।
कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन्॥६॥
ते किरन्तः शरव्रातान्वारणप्रतिवारणान्
।
रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन्॥७॥
ते समीक्ष्य च तं कृष्णमुग्रकर्माणमाहवे
।
सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम्॥८॥
ते तमाजघ्निरे वीरं निवातकवचान्तकम्
।
संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च॥९॥
ततो रथसहस्रेण हयानामयुतेन च
।
कोष्ठकीकृत्य बीभत्सुं प्रहृष्टमनसोऽभवन्॥१०॥
तं स्मरन्तो वधं वीराः सिन्धुराजस्य चाहवे
।
जयद्रथस्य कौरव्य समरे सव्यसाचिना॥११॥
ततः पर्जन्यवत्सर्वे शरवृष्टीरवासृजन्
।
तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा॥१२॥
स शरैः समवच्छन्नश्चकाशे पाण्डवर्षभः
।
पञ्जरान्तरसञ्चारी शकुन्त इव भारत॥१३॥
ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते
।
त्रैलोक्यमभवद्राजन् रविरासीच्च निष्प्रभः॥१४॥
ततो ववौ महाराज मारुतो लोमहर्षणः
।
राहुरग्रसदादित्यं युगपत्सोममेव च॥१५॥
उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः
।
वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः॥१६॥
विकीर्यन्त्य उल्काः सूर्यम जघ्निरे ताभिश्च विकीर्यमाणाभिः कैलासादीनां वेपथुः सप्तर्ष्यादीनां श्वासश्चाभवत् ता एव शशं चन्द्रस्थं विनिर्भिद्य शशिनो मण्डलं प्रति परित अपतन्निति त्रयाणां सम्बन्धः॥१६॥
मुमुचुः श्वासमत्युष्णं दुःखशोकसमन्विताः
।
सप्तर्षयो जातभयास्तथा देवर्षयोऽपि च॥१७॥
शशं चाशु विनिर्भिद्य मण्डलं शशिनोऽपतत्
।
विपरीता दिशश्चापि सर्वा धूमाकुलास्तथा॥१८॥
ततः खात्तु इति पाठे चन्द्रमण्डलादूर्ध्वदेशात्पतिता उल्का तत् भित्वाधोपतदित्यर्थः॥१८॥
रासभारुणसङ्काशा धनुष्मन्तः सविद्युतः
।
आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम्॥१९॥
रासभवर्णश्चारुणश्च तयोर्मिश्रीभावो रासभारुणो वर्णचिशेषः॥१९॥
एवमासीत्तदा वीरे शरवर्षेण संवृते
।
फाल्गुने भरतश्रेष्ठ तदद्भुतमिवाभवत्॥२०॥
तस्य तेनावकीर्णस्य शरजालेन सर्वतः
।
मोहात्पपात गाण्डीवमावापश्च करादपि॥२१॥
आवापो हस्तावापः॥२१॥
तस्मिन्मोहमनुप्राप्ते शरजालं महत्तदा
।
सैन्धवा मुमुचुस्तूर्णं गतसत्त्वे महारथे॥२२॥
ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः
।
सर्वे वित्रस्तमनसस्तस्य शान्तिकृतोऽभवन्॥२३॥
ततो देवर्षयः सर्वे तथा सप्तर्षयोऽपि च
।
ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः॥२४॥
ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव
।
तस्थावचलवद्धीमान् सङ्ग्रामे परमास्त्रवित्॥२५॥
विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः
।
यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः॥२६॥
ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः
।
ववर्ष धनुषा पार्थो वर्षाणीव पुरन्दरः॥२७॥
ततस्ते सैन्धवा योधाः सर्व एव सराजकाः
।
नादृश्यन्त शरैः कीर्णाः शलभैरिव पादपाः॥२८॥
तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः
।
मुमुचुश्चाश्रु शोकार्ताः शुशुचुश्चापि सैन्धवाः॥२९॥
तांस्तु सर्वान्नरव्याघ्रः सैन्धवान्व्यचरत् बली
।
अलातचक्रवद्राजशरजालैः समार्पयत्॥३०॥
तदिन्द्रजालप्रतिमं बाणजालममित्रहा
।
विसृज्य दिक्षु सर्वासु महेन्द्र इव वज्रभृत्॥३१॥
मेघजालनिभं सैन्यं विदार्य शरवृष्टिभिः
।
विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः॥३२॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि सैन्धवयुद्धे सप्तसप्ततितमोऽध्यायः॥७७॥
वैशम्पायन उवाच।
ततो गाण्डीवभृच्छूरो युद्धाय समुपस्थितः
।
विबभौ युधि दुर्धर्षो हिमवानचलो यथा॥१॥
ततो गाण्डीवभृदिति॥१॥
ततस्ते सैन्धवा योधाः पुनरेव व्यवस्थिताः
।
व्यमुञ्चन्त सुसंरब्धाः शरवर्षाणि भारत॥२॥
तान्प्रहस्य महाबाहुः पुनरेव व्यवस्थितान्
।
ततः प्रोवाच कौन्तेयो मुमूर्षून् श्लक्ष्णया गिरा
।
युध्यध्वं परया शक्त्या यतध्वं विजये मम॥३॥
कुरुध्वं सर्वकार्याणि महद्वो भयमागतम्
।
एष योत्स्यामि सर्वांस्तु निवार्य शरवागुराम्॥४॥
तिष्ठध्वं युद्धमनसो दर्पं शमयितास्मि वः
।
एतावदुक्त्वा कौरव्यो रोषाद्गाण्डीवभृत्तदा॥५॥
ततोऽथ वचनं स्मृत्वा भ्रातुर्येष्ठस्य भारत
।
न हन्तव्या रणे तात क्षत्रिया विजिगीषवः॥६॥
जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना
।
चिन्तयामास स तदा फाल्गुनः पुरुषर्षभः॥७॥
इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति
।
कथं तन्न मृषेदं स्याद्धर्मराजवचः शुभम्॥८॥
न हन्येरंश्च राजानो राज्ञश्चाज्ञां कृता भवेत्
।
इति सञ्चिन्त्य स तदा फाल्गुनः पुरुषर्षभः॥९॥
प्रोवाच वाक्यं धर्मज्ञः सैन्धवान् युद्धदुर्मदान्
।
श्रेयो वदामि युष्माकं न हिंसेयमवस्थितान्
।
यश्च वक्ष्यति सङ्ग्रामे तवास्मीति पराजितः॥१०॥
एतच्छुत्वा वचो मह्यं कुरुध्वं हितमात्मनः॥११॥
ततोऽन्यथा कृच्छ्रगता भविष्यथ मयार्दिताः
।
एवमुक्त्वा तु तान्वीरान् युयुधे कुरुपुङ्गवः॥१२॥
अर्जुनोऽतीव सङ्क्रुद्धः सङ्क्रुद्धैर्विजिगीषुभिः
।
शतं शतसहस्राणि शराणां नतपर्वणाम्॥१३॥
मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि
।
शरानापततः क्रूरानाशीविषविषोपमान्॥१४॥
विच्छेद निशितैर्बाणैरन्तरा स धनञ्जयः
।
छित्त्वा तु तानाशु चैव कङ्कपत्रशिलाशितान्॥१५॥
एकैकमेषां समरे बिभेद निशितैः शरैः
।
ततः प्रासांश्च शक्तीश्च पुनरेव धनञ्जयम्॥१६॥
जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः
।
तेषां किरीटी सङ्कल्पं मोघं चक्रे महाबलः॥१७॥
सर्वांस्तानन्तराच्छित्त्वा तदा चुक्रोश पाण्डवः
।
तथैवापततां तेषां योधानां जयगृद्धिनाम्॥१८॥
शिरांसि पातयामास भल्लैः सन्नतपर्वभिः
।
तेषां प्रद्रवतां चापि पुनरेवाभिधावताम्॥१९॥
निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः
।
ते वध्यमानास्तु तदा पार्थेनामिततेजसा॥२०॥
यथाप्राणं यथोत्साहं योधयामासुरर्जुनम्
।
ततस्ते फाल्गुनेनाजौ शरैः सन्नतपर्वभिः॥२१॥
कृता विसंज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः
।
तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा॥२२॥
दुःशला बालमादाय नप्तारं प्रययौ तदा
।
सुरथस्य सुतं वीरं रथेनाथागमत्तदा॥२३॥
शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम्
।
सा धनञ्जयमासाद्य रुरोदार्तस्वरं तदा॥२४॥
धनञ्जयोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः
।
समुत्सृज्य धनुः पार्थो विधिवद्भगिनीं तदा॥२५॥
प्राह किं करवाणीति सा च तं प्रत्युवाच ह
।
एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः॥२६॥
अभिवादयते पार्थ तं पश्य पुरुषर्षभ
।
इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तथा॥२७॥
क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत्
।
पितृशोकाभिसन्तप्तो विषादार्तोऽस्य वै पिता॥२८॥
पञ्चत्वमगमद्वीरो यथा तन्मे निशामय
।
स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयाऽनघ॥२९॥
त्वामागतं च संश्रुत्य युद्धाय हयसारिणम्
।
पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनञ्जय॥३०॥
प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ
।
विषादार्तः पपातोर्व्यां ममार च ममात्मजः॥३१॥
तं दृष्ट्वा पतितं तत्र ततस्तस्यात्मजं प्रभो
।
गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी॥३२॥
इत्युक्त्वाऽऽर्तस्वरं सा तु मुमोच धृतराष्ट्रजा
।
दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम्॥३३॥
स्वसारं समवेक्षस्व स्वस्त्रीयात्मजमेव च
।
कर्तुमर्हसि धर्मज्ञ दयां कुरुकुलोद्वह॥३४॥
विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम्
।
अभिमन्योर्यथा जातः परिक्षित्परवीरहा॥३५॥
तथायं सुरथाज्जातो मम पौत्रो महाभुजः
।
तमादाय नरव्याघ्र सम्प्राप्तास्मि तवान्तिकम्॥३६॥
शमार्थं सर्वयोधानां शृणु चेदं वचो मम
।
आगतोऽयं महाबाहो तस्य मन्दस्य पुत्रकः॥३७॥
प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि
।
एष प्रसाद्य शिरसा प्रशमार्थमरिन्दम॥३८॥
याचते त्वां महाबाहो शमं गच्छ धनञ्जय
।
बालस्य हतबन्धोश्च पार्थ किञ्चिदजानतः॥३९॥
प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः
।
तमनार्यं नृशंसं च विस्मृत्यास्य पितामहम्॥४०॥
आगस्कारिणमत्यर्थं प्रसादं कर्तुमर्हसि
।
एवं ब्रुवत्यां करुणं दुःशलायां धनञ्जयः॥४१॥
संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम्
।
उवाच दुःखशोकार्तः क्षत्रधर्मं व्यगर्हयत्॥४२॥
यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम्
।
इत्युक्त्वा बहु सान्त्वादिप्रसादमकराज्जयः॥४३॥
परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति॥४४॥
दुःशला चापि तान् योधान् निवार्य महतो रणात्
।
सम्पूज्य पार्थं प्रययौ गृहानेव शुभानना॥४५॥
एवं निर्जित्य तान्वीरान्सैन्धवान्स धनञ्जयः
।
अन्वधावत धावन्तं हयं कामविचारिणम्॥४६॥
ततो मृगमिवाकाशे यथा देवः पिनाकधृक्
।
ससार तं तथा वीरो विधिवद्यज्ञियं हयम्॥४७॥
स च वाजी यथेष्टेन तांस्तान्देशान् यथाक्रमम्
।
विचचार यथाकामं कर्म पार्थस्य वर्धयन्॥४८॥
क्रमेण स हयस्त्वेवं विचरन्पुरुषर्षभ
।
मणिपूरतेर्देशमुमायात्सहपाण्डवः॥४९॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि सैन्धवपराजये अष्टसप्ततितमोऽध्यायः॥८७॥
वैशम्पायन उवाच।
श्रुत्वा तु नृपतिः प्राप्तं पितरं बभ्रुवाहनः
।
निर्ययौ विनयेनाथ ब्राह्मणार्थपुरःसरः॥१॥
मणिपूरेश्वरं त्वेवमुपयातं धनञ्जयः
।
नाभ्यनन्दत्स मेधावी क्षत्रधर्ममनुस्मरन्॥२॥
श्रुत्वेति॥२॥
उवाच च स धर्मात्मा समन्युः फाल्गुनस्तदा
।
प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः॥३॥
संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम्
।
यज्ञियं विषयान्ते मां नायौत्सीः किं नु पुत्रक॥४॥
धिक् त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्मबहिष्कृतम्
।
यो मा युद्धाय सम्प्राप्तं साम्नैव प्रत्यगृह्णथाः॥५॥
न त्वया पुरुषार्थो हि कश्चिदस्तीह जीवता
।
यस्त्वं स्त्रीवद्यथाप्राप्तं मां साम्ना प्रत्यगृह्णथाः॥६॥
यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते
।
प्रक्रियेयं भवेद्युक्ता तावत्तव नराधम॥७॥
तमेवमुक्तं भर्वा तु विदित्वा पन्नगात्मजा
।
अमृष्यमाणा भित्त्वोर्वीमुलूपी समुपागमत्॥८॥
सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम्
।
सन्तर्ज्यमानमसकृत्पित्रा युद्धार्थिना प्रभो॥९॥
ततः सा चारुसर्वाङ्गी समुपेत्योरगात्मजा
।
उलूपी प्राह वचनं धर्म्यं धर्मविशारदम्॥१०॥
उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम्
।
कुरुष्व वचनं पुत्र धर्मस्ते भविता परः॥११॥
युध्वस्वैनं कुरुश्रेष्ठं पितरं युद्धदुर्मदम्
।
एवमेष हि ते प्रीतो भविष्यति न संशयः॥१२॥
एवं दुर्मर्षितो राजा स मात्रा बभ्रुवाहनः
।
मनश्चक्रे महातेजा युद्धाय भरतर्षभ॥१३॥
सन्नह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत्
।
तूणीरशतसम्बाधमारुरोह रथोत्तमम्॥१४॥
सर्वोपकरणोपेतं युक्तमश्वैर्मनोजवैः
।
स चक्रोपस्करं श्रीमान्हेमभाण्डपरिष्कृतम्॥१५॥
परमार्चितमुच्छ्रित्य ध्वजं सिंहं हिरण्मयम्
।
प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः॥१६॥
ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम्
।
ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः॥१७॥
गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनञ्जयः
।
पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे॥१८॥
स तत्र राजा तं वीरं शरसन्धैरनेकशः
।
अर्दयामास निशितैराशीविषविषोपमैः॥१९॥
तयोः समभवद्युद्धं पितुः पुत्रस्य चातुलम्
।
देवासुररणप्रख्यमुभयोः प्रीयमाणयोः॥२०॥
किरीटिनं प्रविव्याध शरेणानतपर्वणा
।
जत्रुदेशे नरव्याघ्रं प्रहसन्बभ्रुवाहनः॥२१॥
सोऽभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः
।
विनिर्भिद्य च कौन्तेयं प्रविवेश महीतलम्॥२२॥
स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम्
।
दिव्यं तेजः समाविश्य प्रमीत इव साऽभवत्॥२३॥
प्रमीत इव मृत इव दिव्यं तेजो हार्दाकाशाख्यमीश्वरम्॥२३॥
स संज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः
।
पुत्रं शक्रात्मजो वाक्यमिदमाह महाद्युतिः॥२४॥
पुत्रं प्रशस्येति सम्बन्धः॥२४॥
साधु साधु महाबाहो वत्स चित्राङ्गदात्मज
।
सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक॥२५॥
चित्राङ्गदा चित्रवाहनदुहितार्जुनस्य द्वितीया स्त्री॥२५॥
विमुञ्चाम्येष ते बाणान्पुत्र युद्धे स्थिरो भव
।
इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा॥२६॥
तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान्
।
नाराचानच्छिनद्राजा भल्लैः सर्वांस्त्रिधा द्विधा॥२७॥
तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम्
।
सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात्॥२८॥
हयांश्चास्य महाकायान्महावेगानरिन्दम
।
चकार राजन्निर्जीवान्प्रहसन्निव पाण्डवः॥२९॥
स रथादवतीर्याथ राजा परमकोपनः
।
पदातिः पितरं क्रुद्धो योधयामास पाण्डवम्॥३०॥
सम्प्रीयमाणः पार्थानामृषभः पुत्रविक्रमात्
।
नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः॥३१॥
पतिम् अर्जुनम्॥३१॥
स मन्यमानो विमुखं पितरं बभ्रुवाहनः
।
शरैराशीविषाकारैः पुनरेवार्दयद्बली॥३२॥
ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा
।
निशितेन सुपुङ्खेन बलवद्बभ्रुवाहनः॥३३॥
विवेश पाण्डवं राजन्मर्म भित्त्वातिदुःखकृत्
।
स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः॥३४॥
महीं जगाम मोहार्तस्ततो राजन्धनञ्जयः
।
तस्मिन्निपतिते वीरे कौरवाणां धुरन्धरे॥३५॥
सोऽपि मोहं जगामाथ ततश्चित्राङ्गदासुतः
।
व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम्॥३६॥
पूर्वमेव स बाणौघैर्गाढविद्धोऽर्जुनेन ह
।
पपात सोऽपि धरणीमालिङ्ग्य रणमूर्धनि॥३७॥
भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि
।
चित्राड्गदा परित्रस्ता प्रविवेश रणाजिरे॥३८॥
शोकसन्तप्तहृदया रुदती वेपती भृशम्
।
मणिपूरपतेर्माता ददर्श निहतं पतिम्॥३९॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अर्जुनबभ्रुवाहनयुद्धे ऊनाशीतितमोऽध्यायः॥७९॥
वैशम्पान उवाच।
ततो बहुतरं भीरुर्विलप्य कमलेक्षणा
।
मुमोह दुःखसन्तप्ता पपात च महीतले॥१॥
तत इति॥१॥
प्रतिलभ्य च सा संज्ञां देवी दिव्यवपुर्धरा
।
उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत्॥२॥
उलूपि पश्य भर्तारं शयानं निहतं रणे
।
त्वत्कृते मम पुत्रेण बाणेन समितिञ्जयम्॥३॥
ननु त्वमार्यधर्मज्ञा ननु चासि पतिव्रता
।
यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे॥४॥
किन्तु सर्वापराधोऽयं यदि तेऽद्य धनञ्जयः
।
क्षमस्व याच्यमाना वै जीवयस्व धनञ्जयम्॥५॥
ननु त्वमार्ये धर्मज्ञा त्रैलोक्यविदिता शुभे
।
यद्घातयित्वा पुत्रेण भर्तारं नानुशोचसि॥६॥
नाहं शोचामि तनयं हतं पन्नगनन्दिनि
।
पतिमेव तु शोचामि यस्यानिध्यमिदं कृतम्॥७॥
इत्युक्त्वा सा तदा देवीमुलूपी पन्नगात्मजाम्
।
भर्तारमभिगम्येदमित्युवाच यशस्विनी॥८॥
उत्तिष्ठ कुरुमुख्यस्य प्रियमुख्य मम प्रिय
।
अयमश्वो महाबाहो मया ते परिमोक्षितः॥९॥
ननु त्वया नाम विभो धर्मराजस्य यज्ञियः
।
अयमश्वोऽनुसर्तव्यः स शेष किं महीतले॥१०॥
त्वयि प्राणा ममायत्ता: कुरूणां कुरुनन्दन
।
स कस्मात्प्राणदोऽन्येषां प्राणान्सन्त्यक्तवानसि॥११॥
उलूपि साधु पश्येमं पतिं निपतितं भुवि
।
पुत्रं चेमं समुत्पाद्य घातयित्वा न शोचसि॥१२॥
कामं स्वपितु बालोऽयं भूमौ मृत्युवशं गतः
।
लोहिताक्षो गुडाकेशो विजयः साधु जीवतु॥१३॥
नापराधोऽस्ति सुभगे नराणां बहुभार्यता
।
प्रमदानां भवत्येष मा तेऽभूद्बुद्धिरीदृशी॥१४॥
सख्यं चैतत्कृतं धात्रा शश्वदव्ययमेव तु
।
सख्यं समभिजानीहि सत्यं सङ्गतमस्तु ते॥१५॥
पुत्रेण घातयित्वैनं पतिं यदि न मेऽद्य वै
।
जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम्॥१६॥
साहं दुःखान्विता देवि पतिपुत्रविनाकृता
।
इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः॥१७॥
इत्युक्त्वा पन्नगसुतां सपत्नी चैत्रवाहनी
।
ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप॥१८॥
वैशम्पायन उवाच।
ततो विलप्य विरता भर्तुः पादौ प्रगृह्य सा
।
उपविष्टाभवद्दीना सोच्छ्वासं पुत्रमीक्षती॥१९॥
ततः संज्ञां पुनर्लध्वा स राजा बभ्रुवाहनः
।
मातरं तामथालोक्य रणभूमावथाब्रवीत्॥२०॥
इतो दुःखतरं किं नु यन्मे माता सुखैधिता
।
भूमौ निपतितं वीरमनुशेते मृतं पतिम्॥२१॥
निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम्
।
मया विनिहतं सङ्ख्ये प्रेक्षते दुर्मरं बत॥२२॥
अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते
।
व्यूढोरस्कं महावाहुं प्रेक्षन्त्या निहतं पतिम्॥२३॥
दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते
।
यत्र नाहं न मे माता विप्रयुज्येत जीवितात्॥२४॥
हा हा धिक्कुरुवीरस्य सन्नाहं काञ्चनं भुवि
।
अपविद्धं हतस्येह मया पुत्रेण पश्यत॥२५॥
भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि
।
शयानं वीरशयने मया पुत्रेण पातितम्॥२६॥
ब्राह्मणाः कुरुमुख्यस्य ये मुक्ता हयसारिणः
।
कुर्वन्ति शान्तिं कामस्य रणे योऽयं मया हतः॥२७॥
व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे
।
अनृशंसस्य पापस्य पितृहन्तू रणाजिरे॥२८॥
दुश्चरा द्वादशसमा हत्वा पितरमद्य वै
।
ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा॥२९॥
शिरःकपाले चास्यैव युञ्जतः पितुरद्य मे
।
प्रायश्चितं हि नास्त्यन्यद्धत्वाऽद्य पितरं मम॥३०॥
पश्य नागोत्तमसुते भर्तारं निहतं मया
।
कृतं प्रियं मया नेऽद्य निहत्य समरेऽर्जुनम्॥३१॥
सोऽहमद्य गमिष्यामि गतिं पितृनिषेविताम्
।
न शक्नोप्यात्मनाऽऽत्मानमहं धारयितुं शुभे॥३२॥
सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि
।
भव प्रीतिमती देवि सत्येनात्मानमालभे॥३३॥
इत्युक्त्वा स ततो राजा दुःखशोकसमाहतः
।
उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत्॥३४॥
शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च
।
त्वं च मातर्यथ सत्यं ब्रवीमि भुजगोत्तमे॥३५॥
यदि नोत्तिष्ठति जयः पिता मे नरसत्तमः
।
अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम्॥३६॥
न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित्
।
नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः॥३७॥
वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते
।
पितरं तु निहत्यैवं दुर्लभा निष्कृतिर्मम॥३८॥
एष एको महातेजाः पाण्डुपुत्रो धनञ्जयः
।
पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः॥३९॥
इत्येवमुक्त्वा नृपते धनञ्जयसुतो नृपः
।
उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः॥४०॥
वैशम्पायन उवाच।
प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा
।
पितृशोकसमाविष्टे सह मात्रा परन्तप॥४१॥
उलूपी चिन्तयामास तदा सञ्जीवनं मणिम्
।
स चोपातिष्ठत तदा पन्नगानां परायणम्॥४२॥
तं गृहीत्वा तु कौरव्य नागराजपतेः सुता
।
मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत्॥४३॥
उत्तिष्ठ मा शुचः पुत्र नैव जिष्णुस्त्वया जितः
।
अजेयः पुरुषैरेष तथा देवैः सवासवैः॥४४॥
मया तु मोहनी नाम मायैषा सम्प्रदर्शिता
।
प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः॥४५॥
जिज्ञासुह्येष पुत्रस्य बलस्य तव कौरवः
।
सङ्ग्रामे युद्ध्यतो राजन्नागतः परवीरहा॥४६॥
तस्मादसि मया पुत्र युद्धाय परिचोदितः
।
मा पापमात्मनः पुत्र शङ्केथा ह्यण्वपि प्रभो॥४७॥
ऋषिरेष महानात्मा पुराणः शाश्वतोऽक्षरः
।
नैनं शक्तो हि सङ्ग्रामे जेतुं शक्तोऽपि पुत्रक॥४८॥
अयं तु मे मणिर्दिव्यः समानीतो विशाम्पते
।
मतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा॥४९॥
एनमस्योरसि त्वं च स्थापयस्व पितुः प्रभो
।
सञ्जीवितं तदा पार्थं सत्वं द्रष्टासि पाण्डवम्॥५०॥
इत्युक्तः स्थापयामास तस्योरसि मणिं तदा
।
पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत्॥५१॥
तस्मिन्न्यस्ते मणौ वीरो जिष्णुरुज्जीवितः प्रभुः
।
चिरसुप्त इवोत्तस्थौ मृष्टलोहितलोचनः॥५२॥
तमुत्थितं महात्मानं लब्धसंज्ञं मनस्विनम्
।
समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः॥५३॥
उस्थिते पुरुषव्याघ्र पुनर्लक्ष्मीवति प्रभो
।
दिव्याः सुमनसः पुण्या ववृषे पाकशासनः॥५४॥
अनाहता दुन्दुभयो विनेदुर्मेघनिःस्वनाः
।
साधु साध्विति चाकाशे बभूव सुमहान्स्वनः॥५५॥
उत्थाय च महाबाहुः पर्याश्वस्तो धनञ्जयः
।
बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि॥५६॥
ददर्श चापि दूरेऽस्य मातरं शोककर्शिताम्
।
उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनञ्जयः॥५७॥
किमिदं लक्ष्यते सर्वे शोकविस्मयहर्षवत्
।
रणाजिरममित्रघ्न यदि जानासि शंस मे॥५८॥
जननी च किमर्थं ते रणभूमिमुपागता
।
नागेन्द्रदुहिता चेयमुलूपी किमिहागता॥५९॥
जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम्
।
स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम्॥६०॥
तमुवाच तथा पृष्टो मणिपूरपतिस्तदा
।
प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामियम्॥६१॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अर्जुनप्रत्युज्जीवने अशीतितमोऽध्यायः॥८०॥
अर्जुन उवाच।
किमागमनकृत्यं ते कौरव्यकुलनन्दिनि
।
मणिपूरपतेर्मातस्तथैव च रणाजिरे॥१॥
किमागमनेति स्पष्टार्थः॥१॥
कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे
।
मम वा चपलापाङ्गि कच्चित्त्वं शुभमिच्छसि॥२॥
कच्चित्ते पृथुलश्रोणि नाप्रियं प्रियदर्शने
।
अकार्षमहमज्ञानादयं वा बभ्रुवाहनः॥३॥
कच्चिन्नु राजपुत्री ते सपत्नी चैत्रवाहनी
।
चित्राङ्गदा वरारोहा नापराध्यति किञ्चन॥४॥
तमुवाचोरगपतेर्दुहिता प्रहसन्निव
।
न मे त्वमपराद्धोऽसि न हि मे बभ्रुवाहनः॥५॥
न जनित्री तथास्येयं मम या प्रेष्यवत् स्थिता
।
श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम्॥६॥
न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये
।
त्वत्प्रियार्थं हि कौरव्य कृतमेतन्मया विभो॥७॥
यत्तच्छृणु महाबाहो निखिलेन धनञ्जय
।
महाभारतयुद्धे यत्त्वया शान्तनवो नृपः॥८॥
अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता
।
न हि भीष्मस्त्वया वीर युद्ध्यमानो हि पातितः॥९॥
शिखण्डिना तु संयुक्तस्तमाश्रित्य हतस्त्वया
।
तस्य शान्तिमकृत्वा त्वं त्यजेथा यदि जीवितम्॥१०॥
कर्मणा तेन पापेन पतेथा निरये ध्रुवम्
।
एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि
।
वसुभिर्वसुधापाल गङ्गया च महामते॥११॥
पुरा हि श्रुतमेतत्ते वसुभिः कथितं मया
।
गङ्गायास्तीरमाश्रित्य हते शान्तनवे नृप॥१२॥
आप्लुत्य देवा वसवः समेत्य च महानदीम्
।
इदमूचुर्वचो घोरं भागीरथ्या मते तदा॥१३॥
एष शान्तनवो भीष्मो निहतः सव्यसाचिना
।
अयुध्यमानः सङ्ग्रामे संसक्तोऽन्येन भाविनि
।
तदनेनानुषङ्गेण वयमद्य धनञ्जयम्॥१४॥
शापेन योजयामेति तथास्त्विति च साब्रवीत्
।
तदहं पितुरावेद्य प्रविश्य व्यथितेन्द्रिया॥१५॥
अभवं स च तच्छ्रुत्वा विषादमगमत्परम्
।
पिता तु मे वसून् गत्वा त्वदर्थे समयाचत॥१६॥
पुनः पुनः प्रसाद्यैतांस्त एनमिदमब्रुवन्
।
पुत्रस्तस्य महाभाग मणिपूरेश्वरो युवा॥१७॥
स एनं रणमध्यस्थः शरैः पातयिता भुवि
।
एवं कृते स नागेन्द्र मुक्तशापो भविष्यति॥१८॥
गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः
।
तच्छ्रुत्वात्वं मया तस्माच्छापादसि विमोक्षितः॥१९॥
न हि त्वां देवराजोऽपि समरेषु पराजयेत्
।
आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः॥२०॥
न हि दोषो मम मतः कथं वा मन्यसे विभो
।
इत्येवमुक्तो विजयः प्रसन्नात्माब्रवीदिदम्॥२१॥
सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि
।
इत्युक्त्वा सोऽब्रवीत्पुत्रं मणिपूरपतिं जयः॥२२॥
चित्राङ्गदायाः शृण्वत्याः कौरव्यदुहितुस्तदा
।
युधिष्ठिरस्याश्वमेधः परिचैत्री भविष्यति॥२३॥
तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप॥२४॥
इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः
।
उवाच पितरं धीमानिदमस्राविलेक्षणः॥२५॥
उपयास्यामि धर्मज्ञ भवतः शासनादहम्
।
अश्वमेधे महायज्ञे द्विजातिपरिवेषकः॥२६॥
मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम्
।
भार्याभ्यां सह धर्मज्ञ मा भूत्तेऽत्र विचारणा॥२७॥
उषित्वेह निशामेकां सुखं स्वभवने प्रभो
।
पुनरश्वानुगमनं कर्तासि जयतां वर॥२८॥
इत्युक्तः स तु पुत्रेण तदा वानरकेतनः
।
स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम्॥२९॥
विदितं ते महाबाहो यथा दीक्षां चराम्यहम्
।
न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन॥३०॥
यथाकामं व्रजत्येष यज्ञियाश्वो नरर्षभ
।
स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम॥३१॥
स तत्र विधिवत्तेन पूजित: पाकशासनिः
।
भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः॥३२॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अश्वानुसरणे एकाशीतितमोऽध्यायः॥८१॥
वैशम्पायन उवाच।
स तु वाजी समुद्रान्तां पर्येत्य वसुधामिमाम्
।
निवृत्तोऽभिमुखो राजन् येन वारणसाह्वयम्॥१॥
स त्विति॥१॥
अनुगच्छंश्च तुरगं निवृत्तोऽथ किरीटभृत्
।
यदृच्छया समापेदे पुरं राजगृहं तदा॥२॥
तमभ्याशगतं दृष्ट्वा सहदेवात्मजः प्रभो
।
क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह॥३॥
ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली
।
मेघसन्धिः पदाति तं धनञ्जयमुपाद्रवत्॥४॥
आसाद्य च महातेजा मेघसन्धिर्धनञ्जयम्
।
बालभावान्महाराज प्रोवाचेदं न कौशलात्॥५॥
किमयं चार्यते वाजी स्त्रीमध्य इव भारत
।
हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे॥६॥
अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम
।
करिष्यामि तवातिथ्यं प्रहर प्रहरामि च॥७॥
अदत्तानुनय अशिक्षितः॥७॥
इत्युक्तः प्रत्युवाचैनं प्रहसन्निव पाण्डवः
।
विघ्नकर्ता मया वार्य इति मे व्रतमाहितम्॥८॥
भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम्
।
प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम॥९॥
इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेश्वरः
।
किरन् शरसहस्राणि वर्षाणीव सहस्रदृक्॥१०॥
ततो गाण्डीवभृच्छूरो गाण्डीवप्रहितैः शरैः
।
चकार मोघांस्तान्बाणान्सयलान्भरतर्षभ॥११॥
स मोघं तस्य बाणौघं कृत्वा वानरकेतनः
।
शरान्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान्॥१२॥
ध्वजे पताकादण्डेषु रथे यन्त्रे हयेषु च
।
अन्येषु च रथाङ्गेषु न शरीरे न सारथौ॥१३॥
संरक्ष्यमाणः पार्थेन शरीरे सव्यसाचिना
।
मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान्॥१४॥
ततो गाण्डीवधन्वा तु मागधेन भृशाहतः
।
बभौ वसन्तसमये पलाशः पुष्पितो यथा॥१५॥
अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम्
।
तेन तस्थौ य कौरव्य लोकवीरस्य दर्शने॥१६॥
सव्यसाची तु सङ्क्रुद्धो विकृष्य बलवद्धनुः
।
हयांश्चकार निर्जीवान्सारथेश्च शिरोऽहरत्॥१७॥
धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह
।
हस्तावापं पताकां च ध्वजं चास्य न्यपातयत्॥१८॥
स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः
।
गदामादाय कौन्तेयमभिदुद्राव वेगवान्॥१९॥
तस्यापतत एवाशु गदां हेमपरिष्कृताम्
।
शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः॥२०॥
गृध्रवाजितैः गृध्रपक्षयुतैः॥२०॥
सा गदा शकलीभूता विशीर्णमणिबन्धना
।
व्याली विमुच्यमानेव पपात धरणीतले॥२१॥
विरथं विधनुष्कं च गदया परिवर्जितम्
।
सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः॥२२॥
पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम्
।
बह्वेतत्समरे कर्म तव बालस्य पार्थिव॥२३॥
युधिष्ठिरस्य सन्देशो न हन्तव्या नृपा इति
।
तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे॥२४॥
इति मत्वा तदात्मानं प्रत्यादिष्टं स्म मागधः
।
तथ्यमित्यभिगम्यैनं प्राञ्जलिः प्रत्यपूजयत्॥२५॥
पराजितोऽस्मि भद्रं ते नाहं योधुमिहात्सहे
।
यद्यत्कृत्यं मया तेऽद्य तद्ब्रूहि कृतमेव तु॥२६॥
तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत्
।
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः॥२७॥
इत्युक्तः स तथेत्युक्त्वा पूजयामास तं हयम्
।
फाल्गुनं च युधि श्रेष्ठं विधिवत्सहदेवजः॥२८॥
ततो यथेष्टमगमत्पुनरेव स केसरी
।
ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकोसलान्॥२९॥
तत्र तत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः
।
विजिग्ये धनुषा राजन्गाण्डीवेन धनञ्जयः॥३०॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अश्वानुसरणे माहधपराजये द्व्यशीतितमोऽध्यायः॥८२॥
वैशम्पायन उवाच।
शकुनेस्तनयो वीरो गान्धराणां महारथः
।
प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः॥१॥
शुकनेस्तनय इति स्पष्टार्थः॥१॥
हस्त्यश्वरथयुक्तेन पताकाध्वजमालिना
।
अमृष्यमाणास्ते योधा नृपस्य शकुनेर्वधम्॥२॥
अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः
।
स तानुवाच धर्मात्मा बीभत्सुरपराजिताः॥३॥
युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम्
।
वार्यमाणाऽपि पार्थेन सान्त्वपूर्वममर्पिताः॥४॥
परिवार्य हयं जग्मुस्ततश्चक्रोध पाण्डवः
।
ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः॥५॥
क्षुरैर्गाण्डपवनिर्मुक्तैर्नातियत्नादिवार्जुनः
।
ते वध्यमानाः पार्थेन हयमुत्सृज्य सम्भ्रमात्॥६॥
न्यवर्तन्त महाराज शरवर्षार्दिता भृशम्
।
निरुध्यमानस्तैश्चापि गान्धारैः पाण्डुनन्दनः॥७॥
आदिश्यादिश्य तेजस्वी शिरांस्येषां न्यपातयत्
।
वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः॥८॥
स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत्
।
तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम्॥९॥
पार्थोऽब्रवीन्न मे वध्या राजानो राजशासनात्
।
अलं युद्धेन ते वीर न तेऽस्त्वद्य पराजयः॥१०॥
इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः
।
स शक्रसमकर्माणं समवाकिरदाशुगैः॥११॥
तस्य पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा
।
अपाहरदमेयात्मा जयद्रथशिरो यथा॥१२॥
तं दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते
।
इच्छता तेन न हतो राजेत्यसि च तं विदुः॥१३॥
गान्धारराजपुत्रस्तु पलायनकृतक्षणः
।
ययौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगरिव॥१४॥
तेषां तु तरसा पार्थस्तत्रैव परिधावताम्
।
प्रजहारोत्तमाङ्गानि भल्लैः सन्नतपर्वभिः॥१५॥
उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हतान्
।
शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः॥१६॥
सम्भ्रान्तनरनागाश्वप्रपतद्विद्रुतं बलम्
।
हतविध्वस्तभूयिष्ठमावर्तत मुहुर्मुहुः॥१७॥
नाभ्यदृश्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः
।
रिपवः पात्यमाना वै ये सहेयुर्धनञ्जयम्॥१८॥
ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा
।
जननी निर्ययौ भीता पुरस्कृत्यार्धमुत्तमम्॥१९॥
सा न्यवारदव्यग्रं तं पुत्रं युद्धदुर्मदम्
।
प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम्॥२०॥
तां पूजयित्वा बीभत्सुः प्रसादमकरोत्प्रभुः
।
शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत्॥२१॥
न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता
।
प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ॥२२॥
गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च
।
तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव॥२३॥
मैवं भूः शाम्यतां वैरं मा ते भूद्बुद्धिरीदृशी
।
गच्छेथास्त्वं परां चैत्रीमश्वमेधे नृपस्य नः॥२४॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अश्वानुसरणे शकुनिपुत्रपराजये चतुरशीतितमोऽध्यायः॥८४॥
वैशम्पायन उवाच।
इत्युक्त्वानुपयौ पार्थं हयं कामविहारिणम्
।
न्यवर्तत ततो वाजी येन नागाह्वयं पुरम्॥१॥
इत्युक्त्वेति॥१॥
तं निवृत्तं तु शुश्चाव चारणैव युधिष्ठिरः
।
श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाऽभवत्॥२॥
विजयस्य च तत्कर्म गान्धारविषये तदा
।
श्रुत्वा चान्येषु देशेषु स सुप्रीतोऽभवत्तदा॥३॥
एतस्मिन्नेव काले तु द्वादशी माघमासिकीम्
।
इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः॥४॥
इष्टं नक्षत्रं पुष्यम्॥४॥
समानीय महातेजाः सर्वान् भ्रातॄन्महीपतिः
।
भीमं च नकुलं चैव सहदेवं च कौरव॥५॥
प्रोवाचेदं वचः काले तदा धर्मभृतां वरः
।
आमन्त्र्य वदतां श्रेष्ठो भीमं प्रहरतां वरम्॥६॥
आयाति भीमसेनासौ सहाश्वेन तवानुजः
।
यथा मे पुरुषाः प्राहुर्ये धनञ्जयसारिणः॥७॥
उपस्थितश्च कालोऽयमभितो वर्तते हयः
।
माघी च पौर्णमासीयं मासः शेषो वृकोदर॥८॥
तत्प्रस्थाप्य तु विद्वांसो ब्राह्मणा वेदपारगाः
।
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम्॥९॥
प्रस्थाप्यन्तु प्रस्थापयन्तु स्वार्थे णिच् प्रतिष्ठन्त्वित्यर्थः॥९॥
इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम्
।
हृष्टः श्रुत्वा गुडाकेशमायान्तं पुरुषर्षभम्॥१०॥
ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह
।
ब्राह्मणानग्रतः कृत्वा कुशलान् यज्ञकर्मणि॥११॥
तं स शालचयं श्रीमत्सप्रतोलीसुघट्टितम्
।
मापयामास कौरव्यो यज्ञवाटं यथाविधि॥१२॥
प्रासादशतसम्बाधं मणिप्रवरकुट्टिमम्
।
कारयामास विधिवद्धरत्नविभूषितम्॥१३॥
स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च
।
यज्ञायतनदेशेषु दत्त्वा शुद्धं च काननम्॥१४॥
अन्तःपुराणां राज्ञां च नानादेशसमीयुषाम्
।
कारयामास धर्मात्मा तत्र तत्र यथाविध॥१५॥
ब्राह्मणानां च वेश्मानि नानादेशसमीयुषाम्
।
कारयामास कौन्तेयो विधिवत्तान्यनेकशः॥१६॥
तथा सम्प्रेषयामास दूतान्नृपतिशासनात्
।
भीमसेनो महाबाहो राज्ञामक्लिष्टकर्मणाम्॥१७॥
ते प्रियार्थं कुरुपतेराययुर्नृपसत्तम
।
रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च॥१८॥
तेषां निर्विशतां तेषु शिबिरेषु महात्मनाम्
।
नर्दतः सागरस्येव दिवस्पृगभवत्स्वतः॥१९॥
तेषामभ्यागतानां च स राजा कुरुवर्धनः
।
व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः॥२०॥
वाहनानां च विविधाः शाला: शालीक्षुगोरसैः
।
उपेता भरतश्रेष्ठो व्यादिदेश स धर्मराट्॥२१॥
तथा तस्मिन् महायज्ञे धर्मराजस्य धीमतः
।
समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः॥२२॥
ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते
।
समाजग्सुः सशिष्यांस्तान्प्रतिजग्राह कौरवः॥२३॥
सर्वांश्च ताननुययौ यावदावसथान्प्रति
।
स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः॥२४॥
ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा
।
कृत्स्नं यज्ञविधिं राज्ञो धर्मज्ञाय न्यवेदयन्॥२५॥
तच्छ्रुत्वा धर्मराजस्तु कृतं सर्वमतन्द्रितः
।
हृष्टरूपोऽभवद्राजा सह भ्रातृभिरादृतः॥२६॥
वैशम्पायन उवाच।
तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः
।
हेतुवादान्बहूनाहुः परस्परजिगीषवः॥२७॥
ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम्
।
देवेन्द्रस्येव विहितं भीमसेनेन भारता॥२८॥
ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते
।
शय्यासनविहारांश्च सुबहून् रत्नसञ्चयान्॥२९॥
घटान्पात्रीः कटाहानि कलशान्वर्धमानकान्
।
न हि किञ्चिदसौवर्णमपश्यन्वसुधाधिपाः॥३०॥
यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान्
।
उपक्लृप्तान् यथाकालं विधिवद्भूरिवर्चसः॥३१॥
स्थलजा जलजा ये च पशवः केचन प्रभो
।
सर्वानेव समानीतानपश्यंस्तत्र ते नृपाः॥३२॥
गाश्चैव महिषीश्चैव तथा वृद्धस्त्रियोऽपि च
।
औदकानि च सत्त्वानि श्वापदानि वयांसि च॥३३॥
जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च
।
पर्वतानूपजातानि भूतानि ददृशुश्च ते॥३४॥
एवं प्रमुदितं सर्वं पशुगोधनधान्यतः
।
यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागताः॥३५॥
ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत्
।
पूर्णे शतसहस्त्रे तु विप्राणां तत्र भुञ्जताम्॥३६॥
दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत
।
विननादासकृच्चापि दिवसे दिवसे गते॥३७॥
एवं स ववृते यज्ञो धर्मराजस्य धीमतः
।
अन्नस्य सुबहून् राजन्नुत्सर्गान्पर्वतोपमान्॥३८॥
दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदान् जनाः
।
जम्बूद्वीपो हि सकलो नानाजनपदायुतः॥३९॥
राजन्नदृश्यतैकस्थो राजस्तस्य महामखे
।
जत्र जातिसहस्राणि पुरुषाणां ततस्ततः॥४०॥
गृहीत्वा भाजनान् जग्मुर्बहूनि भरतर्षभ
।
स्रग्विणश्चापि ते सर्वे सुमृष्टमाणकुण्डलाः॥४१॥
पर्यवेषन् द्विजातीस्तान् शतशोऽथ सहस्रशः
।
विविधान्यन्नपानानि पुरुषा येऽनुयायिनः
।
ते वै नृपोपभोज्यानि ब्राह्मणानां ददुश्च ह॥४२॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अश्वमेधारम्भे पञ्चाशीतितमोऽध्यायः॥
युधिष्ठिर उवाच।
श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम्
।
तन्येऽमृतरसं पुण्यं मनो ह्लादयति प्रभो॥१॥
श्रुतमिति॥१॥
बहूनि किल युद्धानि विजयस्य नराधिपैः
।
पुनरासन् हृषीकेश तत्र तत्र च मे श्रुतम्॥२॥
किं निमित्तं स नित्यं हि पार्थः सुखविवर्जितः
।
अतीव विजयो धीमन्निति मे दूयते मनः॥३॥
सञ्चिन्तयामि कौन्तेयं रहो जिष्णुं जनार्दन
।
अतीव दुःखभागी स सततं पाण्डुनन्दनः॥४॥
किं नु नस्य शरीरेऽस्ति सर्वलक्षणपूजिते
।
अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते॥५॥
अतीवासुखभोगी स सततं कुन्तिनन्दनः
।
न हि पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किञ्चन
।
श्रोतव्यं चेन्मयै तद्वै तन्मे व्याख्यातुमर्हसि॥६॥
इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदुत्तरम्
।
राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत्॥७॥
भोजराजन्याना वर्धत॥७॥
न ह्यस्य नृपते किञ्चित्संश्लिष्टमुपलक्षये
।
ऋते पुरुषसिंहस्य पिण्डिकेऽस्याधिके यतः॥८॥
सश्लिष्ट अविविक्तः सदृष्टमिति पाठेऽपि अतिपुष्टत्वादितरलोपादविविक्तत्वं भवति तद्रहिते पिण्डिके जानुनोरवस्थं पञ्चाद्भागीयो मौसलप्रदेशः पिण्डिकौ ते उभे अस्याधिके स्वदेशादधोभागपर्यन्तं बहुलम् आलम्बमाने पाठान्तरे कायतः शरीरात् अति अतिप्रमाणे॥८॥
स ताभ्यां पुरुषव्याघ्रो नित्यमध्वसु वर्तते
।
न चान्यदनुपश्यामि येनासौ दुःखभाजनम्॥९॥
इत्युक्तः पुरुषश्रेष्ठस्तदा कृष्णेन धीमता
।
प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो॥१०॥
कृष्णा तु द्रौपदी कृष्णं तिर्यक् सासूयमैक्षत
।
प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा॥११॥
सख्युः सखा हृषीकेशः साक्षादिव धनञ्जयः
।
तत्र भीमादयस्ते तु कुरवो याजकाश्च ये॥१२॥
रेमुः श्रुत्वा विचित्रां तां धनञ्जयकथं शुभाम्
।
तेषां कथयतामेव पुरुषोऽर्जुनसङ्कथाः॥१३॥
उपायाद्वचनाद्दूतो विजयस्य महात्मनः
।
सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान्॥१४॥
उपायातं नरव्याघ्रं फाल्गुनं प्रत्यवेदयत्
।
तच्छुत्वा नृपतिस्तस्य हर्षबाध्याकुलेक्षणः॥१५॥
प्रियाख्याननिमित्तं वै ददौ बहुधनं तदा
।
ततो द्वितीये दिवसे महान् शब्दो व्यवर्धत॥१६॥
आगच्छति नरव्याघ्रे कौरवाणां धुरन्धरे
।
ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः॥१७॥
अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा
।
तत्र हर्षकरी वाचो नराणां शुश्रुवेऽर्जुनः॥१८॥
दिष्ट्यासि पार्थ कुशली धन्यो राजा युधिष्ठिरः
।
कोऽन्यो हि पृथिवीं कृत्स्नां जित्वा हि युधि पार्थिवान्
।
चारयित्वा हयश्रेष्ठमुपागच्छेदृतेऽर्जुनात्
।
ये व्यतीता महात्मानो राजानः सगरादयः॥१९॥
तेषामपीदृशं कर्म न कदाचन शुश्रुम
।
नैतदन्ये करिष्यन्ति भविष्या वसुधाधिपाः॥२०॥
यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानसि
।
इत्येवं वदतां तेषां पुंसां कर्णसुखा गिरः॥२१॥
शृण्वन्विवेश धर्मात्मा फाल्गुनो यज्ञसंस्तरम्
।
ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः॥२२॥
धृतराष्ट्र पुरस्कृत्य तं प्रत्युद्ययतुस्तदा
।
सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः॥२३॥
भीमादींश्चापि सम्पूज्य पर्यध्वजत केशवम्
।
तैः समेत्यार्चितस्तांश्च प्रत्याथ यथा विधि॥२४॥
विशश्राम महाबाहुस्तीरं लब्ध्वेव पारगः
।
एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः॥२५॥
मातृभ्यां सहितो धीमान्कुरूनेव जगाम ह
।
तत्र वृद्धान्यथा वत्स कुरूनन्यांश्च पार्थिवान्॥२६॥
अभिवाद्य महाबाहुस्तैश्चापि प्रतिनन्दितः
।
प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम्॥२७॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अर्जुनप्रत्यागमने सप्ताशीतितमोऽध्यायः॥८७॥
वैशम्पायन उवाच।
स प्रविश्य महाबाहुः पाण्डवानां निवेशनम्
।
पितामहीमभ्यवन्दत्साम्ना परमवल्गुना॥१॥
स प्रविश्येति॥१॥
ततश्चित्राङ्गदा देवी कौरव्यस्यात्मजापि च
।
पृथां कृष्णां च सहिते विनयेनोपजग्मतु॥२॥
सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः
।
ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च॥३॥
द्रौपदी च सुभद्रा च याश्चाप्यन्याऽददुः स्त्रियः
।
ऊषतुस्तत्र ते देव्यौ महार्हशयनासने॥४॥
सु पूजिते स्वयं कुन्त्या पार्थस्य हितकाम्यया
।
स च राजा महातेजाः पूजितो बभ्रुवाहनः॥५॥
धृतराष्ट्रं महीपालमुपतस्थे यथाविधि
।
युधिष्ठिरं च राजानं भीमादींश्चापि पाण्डवान्॥६॥
उपगम्य महातेजा विनयेनाभ्यवादयत्
।
स तैः प्रेम्या परिष्वक्तः पूजितश्च यथाविधि॥७॥
धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः
।
तथैव च महीपाल: कृष्णं चक्रगदाधरम्॥८॥
प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान्
।
तस्मै कृष्णो ददौ राज्ञे महार्हमतिपूजितम्॥९॥
रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम्
।
धर्मराजश्च भीमश्च फाल्गुनश्च यमौ तथा॥१०॥
पृथक् पृथक् च ते चैनं मानार्थाभ्यामयोजयन्
।
ततस्तृतीये दिवसे सत्यवत्यात्मजो मुनिः॥११॥
युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत्
।
अद्यप्रभृति कौन्तेय यजस्व समयो हि ते
।
मुहूर्तो यज्ञियः प्राप्तश्चोदयन्तीह याजकाः॥१२॥
अहीनो नाम राजेन्द्र क्रतुस्तेऽयं च कल्पताम्
।
बहुत्वात्काञ्चनाख्यस्य ख्यातो बहुसुवर्णकः॥१३॥
अहीनः अह्नां सोमयागानां बहूनां समूहोऽहीनः न हीनः द्रव्यादिना इति वा॥१३॥
एवमत्र महाराज दक्षिणां त्रिगुणां कुरु
।
त्रित्वं व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम्॥१४॥
त्रीनश्चमेधानत्र त्वं सम्प्राप्य बहुदक्षिणान्
।
ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप॥१५॥
पवित्रं परमं चैतत्पावनं चैतदुत्तमम्
।
यदाश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन॥१६॥
इत्युक्तः स तु तेजस्वी व्यासेनामितबुद्धिना
।
दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये ततः॥१७॥
ततो यज्ञं महाबाहुर्वाजिमेधं महाक्रतुम्
।
बह्वन्नदक्षिणं राजा सर्वकामगुणान्वितम्॥१८॥
तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः
।
परिक्रमन्तः सर्वज्ञा विधिवत्साधुशिक्षितम्॥१९॥
न तेषां स्खलितं किञ्चिदासीच्चाप्यकृतं तथा
।
क्रममुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः॥२०॥
कृत्वा प्रवर्ग्यं धर्माख्यं यथावद्द्विजसत्तमाः
।
चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः॥२१॥
अभिषवः सोमवल्ल्या कण्डनम्॥२१॥
अभिषूय ततो राजन्सोमं सोमपसत्तमाः
।
सवनान्यानुपूर्व्येण चक्रुः शास्त्रानुसारिणः॥२२॥
सोमं सोमवल्लीरस सवनानि प्रातःसवनादीनि॥२२॥
न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह
।
क्षुधितो दुःखितो वापि प्राकृतो वापि मानवः॥२३॥
भोजनं भोजनार्थिभ्यो दापयामास शत्रुहा
।
भीमसनो महातेजाः सततं राजशासनात्॥२४॥
संस्तरे कुशलाश्चापि सर्वकार्याणि याजकाः
।
दिवसे दिवसे चक्रुर्यथाशास्त्रानुदर्शनात्॥२५॥
सस्तरे इष्टकानां चयनाख्ये स्थण्डिलरचने॥२५॥
नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः
।
नाव्रतो नानुपाध्यायो न च वादाविचक्षणः॥२६॥
ततो यूपोछ्रये प्राप्ते षड्बैल्वान्भरतर्षभ
।
खादिरान् बिल्वसमितांस्तावतः सर्ववर्णिनः॥२७॥
वर्णिनः पलाशकाष्ठमया॥२७॥
देवदारुमयौ द्वौ तु यूपौ कुरुपतेर्मखे
।
श्लेष्मातकमयं चैकं याजका: समकल्पयन्॥२८॥
शोभार्थं चापरान्यूपान्काञ्चनान्भरतर्षभ
।
स भीमः कारयामास धर्मराजस्य शासनात्॥२९॥
ते व्यराजन्त राजर्षेर्वासोभिरुपशोभिताः
।
महेन्द्रानुगता देवा यथा सप्तर्षिभिर्दिवि॥३०॥
इष्टकाः काञ्चनीश्चात्र चयनार्थं कृताऽभवन्
।
शुशुभे चयनं तच्च दक्षस्येव प्रजापतेः॥३१॥
चतुश्चित्यश्च तस्यासीदष्टादशकरात्मकः
।
स रुक्मपक्षो निचितस्त्रिकोणो गरुडाकृतिः॥३२॥
ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः
।
तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये॥३३॥
ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये
।
सर्वांस्तानभ्ययुञ्जस्ते तत्राग्निचयकर्मणि॥३४॥
यूपेषु नियता चासीत्पशूनां त्रिशती तथा
।
अश्वरत्नोत्तरा यज्ञे कौन्तेयस्य महात्मनः॥३५॥
स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसङ्कुलः
।
गन्धर्वगणसङ्गीतः प्रवृत्तोप्सरसां गणैः॥३६॥
स किम्पुरुषसङ्कीर्णः किन्नरैश्चोपशोभितः
।
सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः॥३७॥
तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजर्षभाः
।
सर्वशास्त्रप्रणेतारः कुशला यज्ञसंस्तरे॥३८॥
नारदश्च बभूवात्र तुम्बुरश्च महाद्युतिः
।
विश्वावसुश्चित्रसेनस्तथान्ये गीतकोविदाः॥३९॥
गन्धर्वा गीतकुशला नृत्येषु च विशारदाः
।
रमयन्ति स्म तान्विप्रान् यज्ञकर्मान्तरेषु वै॥४०॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अश्वमेधारम्भे अष्टाशीतितमोऽध्यायः॥८८॥
वैशम्पायन उवाच।
श्रपयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः
।
तं तुरङ्गं यथाशास्त्रमालभन्त द्विजातयः॥१॥
श्रपयित्वेति॥१॥
ततः संश्रप्य तुरगं विधिवद्याजकास्तदा
।
उपसंवेशयन्राजंस्ततस्तां दुपदात्मजाम्॥२॥
संज्ञाप्येति पाठे हिंसित्वा तुरगं तस्य समीपे तिसृभिः कलाभिः कलनाभिः मन्त्रद्रव्यश्रद्धाख्याभिरुपेता द्रौपदीम् उपसवेशयन्। सार्धः श्लोकः॥२॥
कलाभिस्तिसृभी राजन् यथाविधि मनस्विनीम्
।
उद्धृत्य तु वपा तस्य यथाशास्त्रं द्विजातयः॥३॥
श्रपयामासुरव्यग्रा विधिवद्भरतर्षभ
।
तं वपाधूमगन्धं तु धर्मराजः सहानुजैः॥४॥
उपजिघ्रद्यथाशास्त्रं सर्वपापापहं तदा
।
शिष्टान्यङ्गानि यान्यासं स्तस्याश्वस्य नराधिप॥५॥
अङ्गानि हृदयजिह्वावक्ष आदीनि॥५॥
तान्यग्नौ जुहवुर्धीराः समस्ताः षोडशार्विजः
।
संस्थाप्यैवं तस्य राज्ञस्तं यज्ञं शक्रतेजसः॥६॥
संस्थाप्य समाप्य॥६॥
व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम्
।
ततो युधिष्ठिरः प्रादाद्ब्राह्मणेभ्यो यथाविधि॥७॥
कोटीः सहस्रं निष्काणां व्यासाय तु वसुन्धराम्
।
प्रतिगृह्य धरां राजन् व्यास: सत्यवतीसुतः॥८॥
तुशब्दार्थो ऋत्विगन्तरं समुच्चिनोति तेन सर्वेभ्यो वसुन्धरां दधावित्यर्थः॥८॥
अब्रवीद्भरतश्रेष्ठं धर्मराज युधिष्ठिरम्
।
वसुधा भवतस्त्वेषा संन्यस्ता राजसत्तम॥९॥
निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिनः
।
युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः॥१०॥
भ्रातृभिः सहितो धीमान् मध्ये राज्ञां महात्मनाम्
।
अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता॥११॥
अर्जुनेन जिता चेयमृत्विग्भ्यः प्रापिता मया
।
वनं प्रवेक्ष्ये विप्राग्र्या विभजध्वं महीमिमाम्॥१२॥
चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः
।
नाहमादातुमिच्छामि ब्रह्मस्वं द्विजसत्तमाः॥१३॥
इदं नित्यं मनो विप्रा भ्रातॄणां चैव मे सदा
।
इत्युक्तवति तस्मिंस्तु भ्रातरो द्रौपदी च सा॥१४॥
एवमेतदिति प्राहुस्तदभूल्लोमहर्षणम्
।
ततोऽन्तरिक्षो वागासीत्साधु साध्विति भारत॥१५॥
तथैव द्विजसङ्घानां शंसतां विबभौ स्वनः
।
द्वैपायनस्तथा कृष्णः पुनरेव युधिष्ठिरम्॥१६॥
प्रोवाच मध्ये विप्राणामिदं सम्पूजयन्मुनिः
।
दत्तैषां भवता मह्यं तां ते प्रतिददाम्यहम्॥१७॥
हिरण्यं दीयतामेभ्यो ब्राह्मणेभ्यो धरास्तु ते
।
ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम्॥१८॥
यथाऽऽह भगवान्व्यासस्तथा त्वं कर्तुमर्हसि
।
इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह॥१९॥
कोटिकोटिकृतां प्रादाद्दक्षिणां त्रिगुणां क्रतोः
।
न करिष्यति तल्लोके कश्चिदन्यो नराधिपः॥२०॥
यत्कृतं कुरुराजेन मरुत्तस्यानुकुर्वता
।
प्रतिगृह्य तु तद्रत्नं कृष्णद्वैपायनो मुनिः॥२१॥
ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते
।
धरण्या निष्क्रयं दत्वा तद्धिरण्यं युधिष्ठिरः॥२२॥
धूतपापो जितस्वर्गो मुमुदे भ्रातृभिः सह
।
ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तथा॥२३॥
व्यभजन्त द्विजातिभ्यो यथोत्साहं यथासुखम्
।
यज्ञवाटे च यत्किञ्चिद्धिरण्यं सविभूषणम्॥२४॥
तोरणानि च यूपांश्च घटान्पात्रीस्तथेष्टकाः
।
युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन् द्विजाः॥२५॥
अनन्तरं द्विजातिभ्यः क्षत्रिया जह्रिरे वसु
।
तथा विट्शूद्रसङ्घाश्च तथान्ये म्लेच्छजातयः॥२६॥
अनन्तरं द्विजातिभ्यः विप्रेषु गृहीत्वा निवृत्तेषु शिष्टात् क्षत्रियादयो गृहीतवन्तः इत्यर्थः॥२६॥
ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान्
।
तर्पिता वसुना तेन धर्मराजेन धीमता॥२७॥
स्वमंशं भगवान्व्यासः कुन्त्यै साक्षाद्धि मानतः
।
प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः॥२८॥
श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा
।
चकार पुण्यकं तेन सुमहत्सङ्घशः पृथा॥२९॥
गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह
।
सभाज्यमानः शुशुभे महेन्द्रस्त्रिदशैरिव॥३०॥
पाण्डवाश्च महीपालैः समेतैरभिसंवृताः
।
अशोभन्त महाराज ग्रहास्तारागणैरिव॥३१॥
राजभ्योऽपि ततः प्रादाद्रत्नानि विविधानि च
।
गजानश्वानलङ्कारान् स्त्रियो वासांसि काञ्चनम्॥३२॥
तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले
।
विसृजन् शुशुभे राजन् यथा वैश्रवणस्तथा॥३३॥
आनीय च तथा वीरं राजानं बभ्रुवाहनम्
।
प्रदाय विपुलं वित्तं गृहान्प्रास्थापयत्तदा॥३४॥
दुःशलायाश्च तं पौत्रं बालकं भरतर्षभ
।
स्वराज्येऽथ पितुर्धीमान् स्वसुः प्रीत्या न्यवेशयत्॥३५॥
नृपतींश्चैव तान्सर्वान्सुविभक्तान्सुपूजितान्
।
प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः॥३६॥
गोविन्दं च महात्मानं बलदेवं महाबलम्
।
तथान्यान्वृष्णिवीरांश्च प्रद्युम्नाद्यान्सहस्रशः॥३७॥
पूजयित्वा महाराज यथाविधि महाद्युतिः
।
भ्रातृभिः सहितो राजा प्रास्थापयदरिन्दमः॥३८॥
एवं बभूव यज्ञः स धर्मराजस्य धीमतः
।
बह्वन्नधनरत्नौघः सुरामैरेयसागरः॥३९॥
मैरेयं वृक्षजं मद्यम्॥३९॥
सर्पिःपङ्का ह्रदा यत्र बभूवुश्चान्नपर्वताः
।
रसालाकर्दमा नद्यो बभूवुर्भरतर्षभ॥४०॥
भक्ष्यखाण्डवरागाणां क्रियतां भुज्यतां तथा
।
पशूनां बध्यतां चैव नान्तं ददृशिरे जनाः॥४१॥
खाण्डवरागः पिप्पलीशुण्ठीयुक्तो मुद्गयूषः खाण्डवः स एव शर्करायुक्तो रागः खाण्डवः॥४१॥
मत्तप्रमत्तमुदितं सुप्रीतयुवतीजनम्
।
मृदङ्गशङ्खनादैश्च मनोरममभूत् तदा॥४२॥
दीयतां भुज्यतां चेष्टं दिवारात्रमवारितम्
।
तं महोत्सवसङ्काशं हृष्टपुष्टजनाकुलम्॥४३॥
कथयन्ति स्म पुरुषा नानादेशनिवासिनः
।
वर्षित्वा धनधाराभिः कामै रत्नै रसैस्तथा
।
विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम्॥४४॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अश्वमेधसमाप्तौ ऊननवतितमोऽध्यायः॥८९॥
जनमेजय उवाच।
पितामहस्य मे यज्ञे धर्मराजस्य धीमतः
।
यदाश्चर्यमभूत्किञ्चित्तद्भवान् वक्तुमर्हति॥१॥
पितामहस्येत्यादिग्रथतात्पर्यं क्लेशार्जितं न्यायतः श्रद्धया सत्पात्रेऽर्पित अश्वमेधादप्यधिकमिति क्रोधजयश्च सर्वथा कर्तव्य इति॥१॥
वैशम्पायन उवाच।
श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम्
।
अश्वमेधे महायज्ञे निवृत्ते यदभूत्प्रभो॥२॥
तर्पितेषु द्विजाग्र्येषु ज्ञातिसम्बन्धिबन्धुषु
।
दीनान्धकृपणे वापि तदा भरतसत्तम॥३॥
घुष्यमाणे महादाने दिक्षु सर्वासु भारत
।
पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि॥४॥
नीलाक्षस्तत्र नकुलो रुक्मपार्श्वस्तदानघ
।
वज्राशनिसमं नादममुञ्चद्वसुधाधिप॥५॥
सकृदुत्सृज्य तन्नादं त्रासयानो मृगद्विजान्
।
मानुषं वचनं प्राह धृष्टो विलशयो महान्॥६॥
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः
।
उच्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः॥७॥
तस्य तद्वचनं श्रुत्वा नकुलस्य विशाम्पते
।
विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः॥८॥
ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः
।
कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम्॥९॥
किं बलं परमं तुभ्यं किं श्रुतं किं परायणम्
।
कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे॥१०॥
अविलुप्यागमं कृत्स्नं विविधैर्यज्ञियैः कृतम्
।
यथागमं यथान्यायं कर्तव्यं च तथा कृतम्॥११॥
पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रदर्शनात्
।
मन्त्राहुतिहुतश्चाग्निर्दत्तं देयममत्सरम्॥१२॥
तुष्टा द्विजातयश्चात्र दानैर्बहुविधैरपि
।
क्षत्रियाश्च सुयुद्धेन श्राद्धैश्चापि पितामहाः॥१३॥
पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः
।
अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः॥१४॥
ज्ञातिसम्बन्धिनस्तुष्टाः शौचेन च नृपस्य नः
।
देवा हविर्भिः पुण्यैश्च रक्षणैः शरणागताः॥१५॥
यदत्र तथ्यं तद्ब्रूहि सत्यं सत्यं द्विजातिषु
।
यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया॥१६॥
श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च
।
समागतश्च विप्रैस्त्वं तद्भवान्वक्तुमर्हति॥१७॥
इति पृष्टो द्विजैस्तैः स प्रहसन्नकुलोऽब्रवीत्
।
नैषा मृषा मया वाणी प्रोक्ता दर्पेण वा द्विजाः॥१८॥
यन्मयोक्तमिदं वाक्यं युष्माभिश्चाप्युपश्रुतम्
।
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो द्विजर्षभाः॥१९॥
इत्यवश्यं मयैतद्वो वक्तव्यं द्विजसत्तमाः
।
शृणुताव्यग्रमनसः शंसतो मे यथातथम्॥२०॥
अनुभूतं च दृष्टं च यन्मयादुतमुत्तमम्
।
उच्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः॥२१॥
स्वर्गं येन द्विजाः प्राप्तः सभार्यः ससुतस्नुषः
।
यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम्॥२२॥
ममेदं यत्रेति शेषः॥२२॥
नकुल उवाच।
हन्त वो वर्तयिष्यामि दानस्य फलमुत्तमम्
।
न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः॥२३॥
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते
।
उच्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्तदा॥२४॥
कापोति कपोतवदेकैकं कणम् आदत्ते स कापोतिः॥२४॥
सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः
।
बभूव शुल्ववृत्तः स धर्मात्मा नियतेन्द्रियः॥२५॥
षष्ठे काले सदा विप्रो भुङ्क्ते तैः सह सुव्रतः
।
षष्ठे काले कदाचित्तु तस्याहारो न विद्यते॥२६॥
भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः
।
कदाचिद्धर्मिणस्तस्य दुर्भिक्षे सति दारुणे॥२७॥
नाविद्यत तदा विप्राः सञ्चयस्तन्निबोधत
।
क्षीणौषधिसमावेशे द्रव्यहीनोऽभवत् तदा॥२८॥
काले कालेऽस्य सम्प्राप्ते नैव विद्येत भोजनम्
।
क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते॥२९॥
उच्छं तदा शुक्लपक्षे मध्यं तपति भास्करे
।
उष्णार्तश्च क्षुधार्तश्च विप्रस्तपसि संस्थितः॥३०॥
उञ्छं कणश आदानं कर्तुमिति शेषः शुक्लस्य ज्येष्ठस्य पक्षे॥३०॥
उच्छमप्राप्तवानेव ब्राह्मणः क्षुच्छ्रमान्वितः
।
स तथैव क्षुधाविष्टः सार्धं परिजनेन ह॥३१॥
क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः
।
अथ षष्ठे गते काले यवप्रस्थमुपार्जयन्॥३२॥
यवप्रस्थं तु तं सक्तूनकुर्वन्त तपस्विनः
।
कृतजप्याह्निकास्ते तु हुत्वा चाग्निं यथाविधि॥३३॥
कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः
।
अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा॥३४॥
ते तं दृष्ट्वातिथिं प्राप्तं प्रहृष्टमनसोऽभवन्
।
तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा॥३५॥
विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः
।
अनसूयवो विक्रोधाः साधवो वीतमत्सराः॥३६॥
त्यक्तमानमदक्रोधा धर्मज्ञा द्विजसत्तमाः
।
स ब्रह्मचर्यं गोत्रं ते तस्य ख्यात्वा परस्परम्॥३७॥
कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा
।
इदमर्घ्यं च पाद्यं च वृसी चेयं तवानघ॥३८॥
शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो
।
प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजर्षभ॥३९॥
इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः
।
भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः॥४०॥
स उच्छवृत्तिस्तं प्रेक्ष्य क्षुधापरिगतं द्विजम्
।
आहारं चिन्तयामास कथं तुष्टो भवेदिति॥४१॥
तस्य भार्याब्रवीद्वाक्यं मद्भागो दीयतामिति
।
गच्छत्वेष यथाकामं परितुष्टो द्विजोत्तमः॥४२॥
इति ब्रुवन्तीं तां साध्वीं भार्यां स द्विजसत्तमः
।
क्षुधापरिगतां ज्ञात्वा तान्सक्तून्नाभ्यनन्दत॥४३॥
आत्मानुमायो विद्वान्स तु विप्रर्षभस्तदा
।
जानन् वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम्॥४४॥
त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ह
।
अपि कीटपतङ्गानां मृगाणां चैव शोभने॥४५॥
स्त्रियो रक्ष्याश्च पोषयाश्च न त्वेवं वक्तुमर्हसि
।
अनुकम्प्यो नरः पत्न्या पुष्टो रक्षित एव च॥४६॥
प्रपतेद्यशसे दीप्तात्स च लोकान्न चाप्नुयात्
।
धर्मकामार्थकार्याणि शुश्रूषा कुलसन्ततिः॥४७॥
दारेष्वधीनो धर्मश्च पितॄणामात्मनस्तथा
।
न वेत्ति कर्मतो भार्यारक्षणे योऽक्षमः पुमान्॥४८॥
अयशो महदाप्नोति नरकांश्चैव गच्छति
।
इत्युक्ता सा ततः प्राह धर्माथौ नौ समौ द्विज॥४९॥
सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे
।
सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः॥५०॥
स्त्रीणां पतिसमाधीनं कांक्षितं च द्विजर्षभ
।
ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः॥५१॥
भर्तुः प्रसादान्नारीणां रतिपुत्रफलं तथा
।
पालनाद्धि पतिस्त्वं मे भर्तासि भरणाच्च मे॥५२॥
पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्प्रयच्छ मे
।
जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम्॥५३॥
उपवासपरिश्रान्तो यदा त्वमपि कर्शितः
।
इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत्॥५४॥
द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम
।
स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः
।
तमुच्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत्॥५५॥
पुत्र उवाच।
सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम
।
इत्येव सुकृतं मन्ये तस्मादेतत्करोम्यहम्॥५६॥
भवान्हि परिपाल्यो मे सर्वदैव प्रयत्नतः
।
साधूनां कांक्षितं यस्मात्पितुर्वृद्धस्य पालनम्॥५७॥
पुत्रार्थो विहितो ह्येष वार्धके परिपालनम्
।
श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु शाश्वती॥५८॥
प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया
।
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम्॥५९॥
पितोवाच।
अपि वर्षसहस्री त्वं बाल एव मतो मम
।
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवेत्सुतात्॥६०॥
बालानां क्षुद्बलवती जानाम्येतदहं प्रभो
।
वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रका॥६१॥
जीर्णेन वयसा पुत्र न मां क्षुद्बाधतेऽपि च
।
दीर्घकालं तपस्तप्तं न मे मरणतो भयम्॥६२॥
पुत्र उवाच।
अपत्यमस्मि ते पुंसस्त्राणात्पुत्र इति स्मृतः
।
आत्मा पुत्रः स्मृतस्तस्मात्बाह्यात्मानमिहात्मना॥६३॥
पितोवाच।
रूपेण सदृशस्त्वं मे शीलेन च दमेन च
।
परीक्षितश्च बहुधा सक्तूनादह्यि ते सुत॥६४॥
इत्युक्त्वाऽऽदाय तान्सक्तून् प्रीतात्मा द्विजसत्तमः
।
प्रहसन्निव विप्राय स तस्मै प्रददौ तदा॥६५॥
भुक्त्वा तानपि सक्तूत्स नैव तुष्टो बभूव ह
।
उच्छवृत्तिस्तु धर्मात्मा व्रीडामनुजगाम ह॥६६॥
तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया
।
सक्तूनादाय संहृष्टा श्वशुरं वाक्यमब्रवीत्॥६७॥
सन्तानात्तव सन्तानं मम विप्र भविष्यति
।
सक्तूनिमानतिथये गृहीत्वा सम्प्रयच्छ मे॥६८॥
तव प्रसादान्निर्वृत्ता मम लोकाः किलाक्षयाः
।
पुत्रेण तानवाप्नोति यत्र गत्वा न शोचति॥६९॥
धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च
।
तथैव पुत्रपौत्राणां स्वर्गस्त्रेता किलाक्षयः॥७०॥
पितॄन् ऋणात्तारयति पुत्र इत्यनुशुश्रुम
।
पुत्रपौत्रेश्च नियतं साधुलोकानुपाश्नुते॥७१॥
श्वशुर उवाच।
वातातपविशीर्णाङ्गी त्वां विवर्णां निरीक्ष्य वै
।
कर्षितां सुव्रताचारे क्षुधाविह्वलचेतसम्॥७२॥
कथं सक्तून् ग्रहष्यामि भूत्वा धर्मोपघातकः
।
कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि॥७३॥
षष्ठे काले व्रतवती शौचशीलतपोऽन्विताम्
।
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं शुभे॥७४॥
बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया
।
उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी॥७५॥
स्नुषोवाच।
गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम्
।
देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे प्रभो॥७६॥
देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः
।
तव विप्र प्रसादेन लोकान्प्राप्स्यामहे शुभान्॥७७॥
अवेक्ष्या इति कृत्वाहं दृढभक्तेति वा द्विज
।
चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि॥७८॥
अवेक्ष्या पालनीया चिन्त्या परीक्षणीया॥७८॥
श्वशुर उवाच।
अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे
।
या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे॥७९॥
तस्मात्सक्तून् ग्रहीष्यामि वधु नार्हसि वञ्चनाम्
।
गणयित्वा महाभागे त्वां हि धर्मभृतां वरे॥८०॥
हे वरे श्रेष्ठे महाभागे त्वां धर्मभृतां मध्ये गणयित्वा सक्तून् ग्रहीष्यामीत्यन्वयः॥८०॥
इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये
।
ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः॥८१॥
प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम्
।
वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः॥८२॥
शुद्धेन तव दानेन न्यायोपात्तेन धर्मतः
।
यथाशक्ति विसृष्टेन प्रीतोऽस्मि द्विजसत्तम
।
अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः॥८३॥
गगनात्पुरुषवर्षं च पश्येदं पतितं भुवि
।
सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः॥८४॥
स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः
।
ब्रह्मर्षयो विमानस्था ब्रह्मलोकचराश्च ये॥८५॥
कांक्षन्ते दर्शनं तुभ्यं दिवं व्रज द्विजर्षभ
।
पितृलोकगताः सर्वे तारिताः पितरस्त्वया॥८६॥
अनागताश्च बहवः सुबहूनि युगान्युत
।
ब्रह्मचर्येण दानेन यज्ञेन तपसा तथा॥८७॥
असङ्करेण धर्मेण तस्माद्गच्छ दिवं द्विज
।
श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत॥८८॥
तस्माद्देवाश्च दानेन प्रीता ब्राह्मणसत्तम
।
सर्वमेतद्धि यस्मात्ते दत्तं शुद्धेन चेतसा॥८९॥
कृच्छ्रकाले ततः स्वर्गो विजितः कर्मणा त्वया
।
क्षुधा निर्णुदति प्रज्ञां धर्मबुद्धिं व्यपोहति॥९०॥
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह
।
बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम्॥९१॥
यदा दानरुचिः स्याद्वै तदा धर्मो न सीदति
।
अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च॥९२॥
धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया
।
द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम्॥९३॥
कालः परतरो दानाच्छ्रद्धा चैव ततः परा
।
स्वर्गद्वारं सुसूक्ष्मं हि नरैर्मोहान्न दृश्यते॥९४॥
स्वर्गार्गलं लोभबीजं रामगुप्तं दुरासदम्
।
तं तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः॥९५॥
ब्राह्मणास्तपसा युक्ता यथाशक्ति प्रदायिनः
।
सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च॥९६॥
दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः
।
रन्तिदेवो हि नृपतिरपः प्रादादकिञ्चनः॥९७॥
शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः
।
न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः॥९८॥
न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति
।
गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः॥९९॥
एकां दत्त्वा स पारक्यां नरकं समपद्यत
।
आत्ममांसप्रदानेन शिबिरौशीनरो नृपः॥१००॥
प्राप्य पुण्यकुताल्लोकान्मोदते दिवि सुव्रतः
।
विभवो न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम्॥१०१॥
न यज्ञैर्विविधैर्विप्र यथान्यायेन सञ्चितैः
।
क्रोधाद्दानफलं हन्ति लोभात्स्वर्गं न गच्छति॥१०२॥
न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते
।
न राजसूयैर्बहुभिरिष्ट्वा विपुलदक्षिणैः॥१०३॥
न चाश्वमेधैर्बहुभिः फलं सममिदं तव
।
सक्तुप्रस्थेन विजितो ब्रह्मलोकस्त्वयाक्षयः॥१०४॥
विरजो ब्रह्मसदनं गच्छ विप्र यथासुखम्
।
सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम्॥१०५॥
आरोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम्
।
तारितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते॥१०६॥
सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज
।
इत्युक्तवाक्ये धर्मे तु यानमारुह्य स द्विजः॥१०७॥
सदारः ससुतश्चैव सस्नुषश्च दिवं गतः
।
तस्मिन्विप्रे गते स्वर्गं ससुते सस्नुषे तदा॥१०८॥
भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात्
।
ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च॥१०९॥
दिव्यपुष्पविमर्दाच्च साधोर्दानलवैश्च तैः
।
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम्॥११०॥
तस्य सत्याभिसन्धस्य सक्तुदानेन चैव ह
।
शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम्॥१११॥
पश्यतेमं सुविपुलं तपसा तस्य धीमतः
।
कथमेवंविधं स्याद्वै पार्श्वमन्यदिति द्विजाः॥११२॥
तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः
।
यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः॥११३॥
आशया परया प्राप्तो न चाहं काञ्चनीकृतः
।
ततो मयोक्तं तद्वाक्यं प्रहस्य ब्राह्मणर्षभाः॥११४॥
सक्तुप्रस्थेन यज्ञोऽयं सम्मितो नेति सर्वथा
।
सक्तुप्रस्थलवैस्तैर्हि तदाह काञ्चनीकृतः॥११५॥
न हि यज्ञो महानेष सदृशस्तैर्मतो मम
।
इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा॥११६॥
जगामादर्शनं तेषां विप्रास्ते च ययुर्ग्रहान्॥११७॥
वैशम्पायन उवाच।
एतत्ते सर्वमाख्यातं मया परपुरञ्जय
।
यदाश्चर्यमभूत्तत्र वाजिमेधे महाक्रतौ॥११८॥
न विस्मयस्ते नृपते यज्ञे कार्यः कथञ्चन
।
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः॥११९॥
अद्रोहः सर्वभूतेषु सन्तोषः शीलमार्जवम्
।
तपो दमश्च सत्यं च प्रदानं चेति सम्मितम्॥१२०॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि नकुलाख्याने नवतितमोऽध्यायः॥९०॥
जनमेजय उवाच।
यज्ञे सक्ता नृपतयस्तपःसक्ता महर्षयः
।
शान्तिव्यवस्थिता विप्राः शमे दम इति प्रभो॥१॥
यज्ञे सक्ता नृपतय इत्यध्यायो हिंसामिश्रस्वधर्मस्य निन्दार्थम्॥१॥
तस्माद्यज्ञफलैस्तुल्यं न किञ्चिदिह दृश्यते
।
इति मे वर्तते बुद्धिस्तथा चैतदसंशयम्॥२॥
यज्ञैरिष्ट्वा तु बहवो राजानो द्विजसत्तमाः
।
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्नुयुः॥३॥
देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः
।
देवराज्यं महातेजाः प्राप्तवानखिलं विभुः॥४॥
यदा युधिष्ठिरो राजा भीमार्जुन पुरःसरः
।
सदृशो देवराजेन समृद्ध्या विक्रमेण च॥५॥
अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम्
।
अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः॥६॥
वैशम्पायन उवाच।
यज्ञस्य विधिमग्र्यं वै फलं चापि नराधिप
।
गदतः शृणु मे राजन्यथावदिह भारत॥७॥
पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः
।
ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि॥८॥
हूयमाने तथा वह्नौ होत्रे गुणसमन्विते
।
देवेष्वाहूयमानेषु स्थितेषु परमर्षिषु॥९॥
सुप्रतीतैस्तथा विप्रैः स्वागमैः सुस्वरैर्नृप
।
अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा॥१०॥
आलम्भसमये तस्मिन् गृहीतेषु पशुष्वथ
।
महर्षयो महाराज बभूवुः कृपयान्विताः॥११॥
ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः
।
ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः॥१२॥
अपरिज्ञानमेतत्ते महान्तं धर्ममिच्छतः
।
न हि यज्ञे पशुगण विधिदृष्टाः पुरन्दर॥१३॥
धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो
।
नायं धर्मकृतो यज्ञो न हिंसा धर्म उच्यते॥१४॥
आगमेनैव ते यज्ञं कुर्वन्तु यदि चेच्छसि॥१५॥
विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत्
।
यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः॥१६॥
त्रिवर्षपरमोषितैः पुराणैः॥१६॥
एष धर्मो महान् शक्र महागुणफलोदयः
।
शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः॥१७॥
उक्तं न प्रतिजग्राह मानान्मोहवशं गतः
।
तेषां विवादः सुमहान् शक्रयज्ञे तपस्विनाम्॥१८॥
जङ्गमैः स्थावरैर्वापि यष्टव्यमिति भारत
।
ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः॥१९॥
तदा सन्धाय शक्रेण पप्रच्छर्नृपतिं वसुम्
।
धर्मसंशयमापन्नान्सत्यं ब्रूहि महामते॥२०॥
महाभाग कथं यज्ञेष्वागमो नृपसत्तम
।
यष्टव्यं पशुभिर्मुख्यैरथो बीजै रसैरिति॥२१॥
रसैः पयोघृतादिभिः॥२१॥
तच्छ्रुत्वा तु वसुस्तेषामविचार्य बलाबलम्
।
यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः॥२२॥
एवमुक्त्वा स नृपतिः प्रविवेश रसातलम्
।
उक्त्वाथ वितथं प्रश्नं चेदीनामीश्वरः प्रभुः॥२३॥
वितथं हिंस्राहिंस्रयोः क्रत्वोस्तुल्यत्वापादनादवृतम्॥२३॥
तस्मान्न वाच्यं ह्येकेन बहुज्ञेनापि संशये
।
प्रजापतिमपाहाय स्वयम्भुवमृते प्रभुम्॥२४॥
तेन दत्तानि दानानि पापेनाशुद्धबुद्धिना
।
तानि सर्वानादृत्य नश्यन्ति विपुलान्यपि॥२५॥
तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः
।
दानेन कीर्तिर्भवति न प्रेत्येह च दुर्मतेः॥२६॥
अन्यायोपगतं द्रव्यमभीक्ष्णं यो हपण्डितः
।
धर्माभिशङ्की यजते न स धर्मफलं लभेत्॥२७॥
धर्मवैतंसिको यस्तु पापात्मा पुरुषाधमः
।
ददाति दानं विप्रेभ्यो लोकविश्वासकारणम्॥२८॥
पापेन कर्मणा विप्रो धनं प्राप्य निरङ्कुशः
।
रागमोहान्वितः सोऽन्ते कलुषां गतिमश्नुते॥२९॥
अपि सञ्चयबुद्धिर्हि लोभमोहवशङ्गतः
।
उद्वेजयति भूतानि पापेनाशुद्धबुद्धिना॥३०॥
एवं लब्ध्वा धनं मोहाद्यो हि दद्याद्यजेत वा
।
न तस्य स फलं प्रेत्य भुङ्क्ते पापधनागमात्॥३१॥
उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः
।
दानं विभवतो दत्वा नराः स्वर्यान्ति धार्मिकाः॥३२॥
एष धर्मो महायोगो दानं भूतदया तथा
।
ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा॥३३॥
सनातनस्य धर्मस्य मूलमेतत्सनातनम्
।
श्रूयन्ते हि पुरा वृत्ता विश्वामित्रादयो नृपाः॥३४॥
विश्वामित्रोऽसितश्चैव जनकश्च महीपति
।
कक्षसेनार्ष्टिसेनौ च सिन्धुद्वीपश्च पार्थिवः॥३५॥
एते चान्ये च बहवः सिद्धिं परमिकां गताः
।
नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः॥३६॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः
।
दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत॥३७॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि हिंसामिश्रधर्मनिन्दायां एकनवतितमोऽध्यायः॥९१॥
जनमेजय उवाच।
धर्मागतेन त्यागेन भगवन्स्वर्गमस्ति चेत्
।
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम्॥१॥
धर्मागतेनेत्यध्यायः सर्वसाधनहीना अपि महान्तो यज्ञं निर्वर्यतन्त्येवेति वक्तुमारभ्यते॥१॥
तस्योञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत्
।
कथितं तु मम ब्रह्मंस्तथ्यमेतदसंशयम्॥२॥
कथं हि सर्वयज्ञेषु निश्चयः परमोऽभवत्
।
एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभा॥३॥
वैशम्पायन उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
अगस्त्यस्य महायज्ञे पुरावृत्तमरिन्दम॥४॥
पुरागस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम्
।
प्रविवेश महाराज सर्वभूतहिते रतः॥५॥
तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः
।
मूलाहारा: फलाहाराः साश्मकुट्टा मरीचिपाः॥६॥
मरीचिपाश्चन्द्रमरीचिपानमात्रतृप्ता॥६॥
परिपृष्टिका वैघसिकाः प्रसङ्ख्यानास्तथैव च
।
यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः॥७॥
परिपुष्टं चेदेच गृह्णन्ति नान्यथा ते परिपृष्टिका पाठान्तरे परिपृच्छिका अपि त एव प्रसङ्ख्यानास्तत्कालमात्रसङ्ग्रहाः। अप्रक्षाला इति पाठे शेषहीना॥७॥
सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः
।
दमे स्थिताश्च सर्वे ते हिंसादम्भविवर्जिताः॥८॥
वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यबाधिताः
।
उपातिष्ठन्त तं यज्ञं यजन्तस्ते महर्षयः॥९॥
यथाशक्त्या भगवता तदन्नं समुपार्जितम्
।
तस्मिन्सत्रे तु यद्वृत्तं यद्योग्यं च तदाभवत्॥१०॥
तथा ह्येनैकैर्मुनिभिर्महान्तः क्रतवः कृताः
।
एवंविधे त्वगरस्त्यस्य वर्तमाने तथाध्वरे
।
न ववर्ष सहस्राक्षस्तदा भरतसत्तम॥११॥
ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः
।
कथेयमभिनिवृत्ता मुनीनां भावितात्मनाम्॥१२॥
अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः
।
न च वर्षति पर्जन्यः कथमन्नं भविष्यति॥१३॥
सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम्
।
न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश॥१४॥
एतद्भवन्तः सञ्चिन्त्य महर्षेरस्य धीमतः
।
अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम्॥१५॥
इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान्॥१६॥
प्रोवाच वाक्यं स तदा प्रसाद्य शिरसा मुनीन्
।
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः॥१७॥
चिन्तायज्ञं करिष्यामि विधिरेष सनातनः
।
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः॥१८॥
चिन्तायज्ञः मानसः यज्ञः सङ्कल्पमात्रेणैव देवानृषींश्च तर्पयिष्यामीत्यर्थः॥१८॥
स्पर्शयज्ञं करिष्यामि विधिरेष सनातनः
।
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः॥१९॥
स्पर्शयज्ञम् उपात्दृतद्रव्यस्य व्ययमकृत्वा तत्स्पर्शेनैव तास्तर्पयिष्यामि एवं दृष्टियज्ञोपि ज्ञेयः॥१९॥
ध्येयात्मना हरिष्यामि यज्ञानेतान्यतव्रतः
।
बीजयज्ञो मयायं वै बहुवर्षसमाचितः॥२०॥
सिद्धद्रव्याभावे ध्यानमात्रेण द्रव्याण्याहरिष्यामीत्याह- ध्येयेति। पाठान्तरे व्यायामेन शरीरक्लेशेन॥२०॥
बीजैर्हितं करिष्यामि नात्र विघ्नो भविष्यति
।
नेदं शक्यं वृथा कर्तुं मम सत्रं कथञ्चन॥२१॥
वर्षिष्यतीह वा देवो न वा वर्षं भविष्यति
।
अथावाभ्यर्थनामिन्द्रो न करिष्यति कामतः॥२२॥
ध्येयात्मनेत्यस्य प्रपञ्चोऽथवेत्यादिः॥२२॥
स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः
।
यो यदाहारजातश्च स तथैव भविष्यति॥२३॥
विशेषं चैव कर्तास्मि पुनः पुनरतीव हि
।
अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु किञ्चन॥२४॥
त्रिषु लोकेषु यच्चास्ति तदिहागम्यतां स्वयम्
।
दिव्याश्चाप्सरसां सङ्घा गन्धर्वाश्च सकिन्नराः॥२५॥
विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु मे मखम्
।
उत्तरेभ्यः कुरुभ्यश्च यत्किञ्चिद्वसु विद्यते॥२६॥
सर्वं तदिह यज्ञेषु स्वयमेवोपतिष्ठतु
।
स्वर्गः स्वर्गसदश्चैव धर्मश्च स्वयमेव तु॥२७॥
इत्युक्ते सर्वमेवैतदभवत्तपसा मुनेः
।
तस्य दीप्ताग्निमह सस्त्वगस्त्यस्यातितेजसः॥२८॥
ततस्ते मुनयो हृष्टा ददृशुस्तपसो बलम्
।
विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत्॥२९॥
ऋषय ऊचुः।
प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोव्ययम्
।
तैरेव यज्ञैस्तुष्टाः स्म न्यायेनेच्छामहे वयम्॥३०॥
यज्ञं दीक्षां तथा होमान्यच्चान्यन्मृगयामहे
।
न्यायेनोपार्जिताहाराः स्वकर्माभिरता वयम्॥३१॥
वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे
।
न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम्॥३२॥
धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम्
।
भवतः सम्यगिष्टा तु बुद्धिहिंसाविवर्जिता॥३३॥
एतामहिंसां यज्ञेषु ब्रूयास्त्वं सततं प्रभो
।
प्रीतास्ततो भविष्यामो वयं तु द्विजसत्तम॥३४॥
विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे
।
तथा कथयतां तेषां देवराजः पुरन्दरः॥३५॥
ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम्
।
आसमाप्तेश्च यज्ञस्य तस्यामितपराक्रमः॥३६॥
निकामवर्षी पर्जन्यो बभूव जनमेजय
।
प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः
।
स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम्॥३७॥
ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन्
।
अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि॥३८॥
जनमेजय उवाच।
कोऽसौ नकुलरूपेण शिरसा काञ्चनेन वै
।
प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे॥३९॥
कोसावित्यादिशेषकथा क्रोधजस्योत्कर्षवर्णनार्था॥३९॥
वैशम्पायन उवाच।
एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम्
।
श्रूयतां नकुलो योऽसौ यथा वाक्तस्य मानुषी॥४०॥
श्राद्धं सङ्कल्पयामास जमदग्निः पुरा किल
।
होमधेनुस्तमागाच्च स्वयमेव दुदोह ताम्॥४१॥
तत्पय: स्थापयामास नवे भाण्डे दृढे शुचौ
।
तच्च क्रोधस्वरूपेण पिठरं धर्म आविशत्॥४२॥
पिठरं पात्रं धर्म आविशत्तत्पयः पीतवानित्यर्थः॥४२॥
जिज्ञासुस्तमृषिश्रेष्ठं किं कुर्याद्विप्रिये कृते
।
इति सञ्चिन्त्य धर्मः स धर्मयामास तत्पयः॥४३॥
तमाज्ञाय मुनिः क्रोधं नैवास्य स चुकोप ह
।
स तु क्रोधस्ततो राजन्ब्राह्मणी मूर्तिमास्थितः
।
जिते तस्मिन् भृगुश्रेष्ठमभ्यभाषदमर्षणः॥४४॥
जितोऽस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः
।
लोके मिथ्या प्रवादोऽयं यत्त्वयास्मि विनिर्जितः॥४५॥
रोषणत्वमेव मिथ्यारोषस्य जितत्वात्त्वया॥४५॥
वशे स्थितोऽहं त्वय्यद्य क्षमावति महात्मनि
।
बिभेमि तपसः साधो प्रसादं कुरु मे प्रभो॥४६॥
जमदग्निरुवाच।
साक्षाद्दृष्टोऽसि मे क्रोध गच्छ त्वं विगतज्वरः
।
न त्वयापकृतं मेऽद्य न च मे पन्युरस्ति वै॥४७॥
यान्समुद्दिश्य सङ्कल्पः पयसोऽस्य कृतो मया
।
पितरस्ते महाभागास्तेभ्यो बुद्ध्यस्व गम्यताम्॥४८॥
इत्युक्तो जातसन्त्रासस्तत्रैवान्तरधीयत
।
पितॄणामभिषङ्गाच्च नकुलत्वमुपागतः॥४९॥
स तान्प्रसादयामास शापस्यान्तो भवेदिति
।
तैश्चाप्युक्तः क्षिपन्धर्मं शापस्यान्तमवाप्स्यसि॥५०॥
तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यं तथैव च
।
जुगुप्समानो धावन्स तं यज्ञं समुपासदत्॥५१॥
धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः
।
मुक्तः शापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः॥५२॥
एवमेतत्तदा वृत्ते यज्ञे तस्य महात्मनः
।
पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा॥५३॥
॥इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि नकुलोपाख्याने द्विनवतितमोऽध्यायः॥९२॥