जनमेजय उवाच ।
कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः पार्थिवाः सुमहात्मानो नानादेशसमागताः ॥१॥
पूर्वस्मिन् पर्वणि भगवद्भक्तः सत्यपि सामर्थ्ये यः सत्यं पालयत्यैश्वर्यं च न प्रकाशयति काले प्राप्तेऽन्यस्मै उपकरोति चेति पाण्डवाचारप्रदर्शनव्याजेन दर्शितम् । तमेवंभूतं स्वयं भगवान् हितोपदेशेनानुगृह्णाति तदीयां प्रतिज्ञां च स्वप्रतिज्ञाबाधेनैव सत्यां करोतीत्यर्जुनोपदेशेन भीष्मवधार्थं भगवतः शस्त्रधारणेन च दर्शयिष्यन् भीष्मपर्वारभते । पूर्वत्र युद्धोद्योगं श्रुत्वा युद्धं श्रोतुकामो जनमेजय उवाच कथं युयुधिरे वीरा इति ॥१॥
वैशम्पायन उवाच ।
यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः
।
कुरुक्षेत्रे तपःक्षेत्रे शृणु त्वं पृथिवीपते ॥२॥
तपःक्षेत्र इति । खड्गधारातीर्थेऽस्मिन् स्नानमत्युचितमिति भावः ॥२॥
तेऽवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः
।
कौरवाः समवर्तन्त जिगीषन्तो महाबलाः ॥३॥
जिगीषन्तोऽन्योन्यं जेतुमिच्छन्तः ॥३॥
वेदाध्ययनसम्पन्नाः सर्वे युद्दाभिनन्दिनः
।
आशंसन्तो जयं युद्धे बलेनाभिमुखा रणे ॥४॥
अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम्
।
प्राङ्मुखाः पश्चिमे भागे न्यवशन्त ससैनिकाः ॥५॥
अभियाय अभ्येत्य न्यविशन्त पाण्डवीया इति शेषः ॥५॥
समन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः
।
कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः ॥६॥
बाह्यं बहिः ॥६॥
शून्या च पृथिवी सर्वा बालवृद्धावशेषिता
।
निरश्वपुरुषेवासीद्रथकुञ्जरवर्जिता ॥७॥
यावत्तपति सुर्यो हि जम्बुद्वीपस्य मण्डलम्
।
तावदेव समावृत्तं बलं पार्थिवसत्तम ॥८॥
यावत्तपति सूर्य इत्यनेन कृत्स्नं सप्तद्वीपात्मकं भूवलयं जम्बूद्वीपशब्देनोच्यते लिङ्गसमवायाच्छत्रिणो गच्छन्तीतिवत् ॥८॥
एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम्
।
पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ॥९॥
तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ
।
व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् ॥१०॥
सबाह्यानां कैवर्तम्लेच्छान्ध्रादिप्रान्त्यदेशवासिनो बाह्यास्तत्सहितानाम् ॥१०॥
शय्याश्च विविधास्तात तेषां रात्रौ युधिष्ठिरः
।
एवंवेदी वेदितव्यः पाण्डवेयोऽयमित्युत ॥११॥
भक्ष्यादिदानफलमाह - एवमिति । एवंवेदी विद्वान् इति अन्यैः पाण्डवेयो ज्ञातव्य इत्येतदर्थमित्यर्थः ॥११॥
अभिज्ञानानि सर्वेषां संज्ञाश्चाभरणानि च
।
योजयामास कौरव्यो युद्धकाल उपस्थिते ॥१२॥
अभिज्ञानानि स्वकीयचिह्नानि स्वीया एव स्वीयान्मा निहन्युरित्येतदर्थम् ॥१२॥
दृष्ट्वा ध्वजाग्रं पार्थस्य धार्तराष्ट्रो महामनाः
।
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवम् ॥१३॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
।
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितः ॥१४॥
दृष्ट्वा दुर्योधनं हृष्टाः पञ्चाला युद्धनन्दिनः
।
दध्मुः प्रीता महाशङ्खान्भेर्यश्च मधुरस्वनाः ॥१५॥
ततः प्रहृष्टां तां सेनामभिवीक्ष्याथ पाण्डवाः
।
बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ॥१६॥
ततो हर्षं समागम्य वासुदेवधनञ्जयौ
।
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ॥१७॥
पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः
।
श्रुत्वा तु निनदं योधाः शकृन्मूत्रं प्रसुस्रुवुः ॥१८॥
शकृत् पुरीषम् ॥१८॥
यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः
।
त्रयेयुर्निनदं श्रुत्वा तथाऽसीदत तद्बलम् ॥१९॥
असीदत भवसन्नमभूत् ॥१९॥
उदतिष्ठद्रजो भौमं न प्राज्ञायत किञ्चन
।
अस्तङ्गत इवादित्ये सैन्येन सहसावृते ॥२०॥
ववर्ष तत्र पर्जन्यो मांसशोणितवृष्टिमान्
।
दिक्षु सर्वाणि सैन्यानि तदद्भुतमिवाभवत् ॥२१॥
वायुस्ततः प्रादूरभून्नीचैः शर्करकर्षणः
।
विनिघ्नंस्तान्यनीकानि शतशोऽथ सहस्रशः ॥२२॥
शर्कराः स्थूलवालुकाः कर्षयतीति तथा विनिघ्नन् शर्कराभिरित्यर्थः ॥२२॥
उभे सैन्ये च राजेन्द्र युद्धाय मुदिते भृशम्
।
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ॥२३॥
सागरक्षुभितोपमे क्षुभितसागरोपमे ॥२३॥
तयोस्तु सेनयोरासीदद्भुतः स तु सङ्गमः
।
युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव ॥२४॥
शून्याऽऽसीत्पृथिवी सर्वा वृद्धबालावशेषिता
।
निरश्वपुरुषेवासीद्रथकुञ्जरवर्जिता ॥२५॥
तेन सेनासमूहेन समानीतेन कौरवैः
।
ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः ॥२६॥
धर्मान् संस्थापयामासुर्युद्धानां भरतर्षभ
।
निवृत्ते विहिते युद्धे स्यात्प्रीतिर्नः परस्परम् ॥२७॥
धर्मान् पराङ्मुखस्त्यक्तशस्त्रः शरणागतोऽन्येन संयुक्तश्च न हन्तव्य इत्यादीन् ॥२७॥
यथापरं यथायोगं न च स्यात् कस्यचित् पुनः
।
वाचा युद्धप्रवृत्तानां वाचैव प्रतियोधनम्
।
निष्क्रान्ताः पृतनामध्यान्न हन्तव्याः कदाचन ॥२८॥
तथा न कस्यचित्तुल्ययोगातिक्रमः स्यादिति भावः ॥२८॥
रथी च रथिना योध्यो गजेन गजधूर्गतः
।
अश्वेनाश्वी पदातिश्च पादातेनैव भारत ॥२९॥
गजधूर्गतः गजस्कन्धगतः ॥२९॥
यथायोगं यथाकामं यथोत्साहं यथाबलम्
।
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले ॥३०॥
एकेन सह संयुक्तः प्रपन्नो विमुखस्तथा
।
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कदाचन ॥३१॥
न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु
।
न भेरीशङ्खवादेषु प्रहर्तव्यं कथञ्चन ॥३२॥
एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः
।
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् ॥३३॥
निर्विश्य च महात्मानस्ततस्ते पुरुषर्षभाः
।
हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः ॥३४॥
इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि सैन्यशिक्षणे प्रथमोऽध्यायः ॥१॥
वैशम्पायन उवाच ।
ततः पूर्वापरे सैन्ये समीक्ष्य भगवानृषिः
।
सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ॥१॥
तत इति ॥१॥
भविष्यति रणे घोरे भरतानां पितामहः
।
प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ॥२॥
भविष्यति भाविनि ॥२॥
वैचित्रवीर्यं राजानं सरहस्यं ब्रवीदिदम्
।
शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ॥३॥
व्यास उवाच ।
राजन्परिकालास्ते पुत्राश्चान्ये च पार्थिवाः
।
ते हिंसन्तीव सङ्ग्रामे समासाद्येतरेतरम् ॥४॥
हिंसन्तीव नाशयिष्यन्त्येव ॥४॥
तेषु कालपरीतेषु विनश्यत्स्वेव भारत
।
कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः ॥५॥
पर्यायं वैपरीत्यम् ॥५॥
यदि चेच्छसि सङ्ग्रामे द्रुष्टुमेतान् विशाम्पते
।
चक्षुर्ददानि ते पुत्र युद्धं तत्र निशामय ॥६॥
निशामय पश्य ॥६॥
धृतराष्ट्र उवाच ।
न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम
।
युद्धमेतत्त्वशेषेण श्रृणुयां तव तेजसा ॥७॥
न परोक्षमिति पाठे प्रत्यक्षम् ॥७॥
वैशम्पायन उवाच ।
एतस्मिन्नेच्छति द्रष्टुं सङ्ग्रामं श्रोतुमिच्छति
।
चराणामीश्वरो व्यासः सञ्जयाय वरं ददौ ॥८॥
एष ते सञ्जयो राजन्युद्धमेतद्वदिष्यति
।
एतस्य सर्वसङ्ग्रामे न परोक्षं भविष्यति ॥९॥
चक्षुषा सञ्जयो राजन्दिव्येनैव समन्वितः
।
कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ॥१०॥
प्रकाशं वाऽप्रकाशं वा दिवा वा यदि वा निशि
।
मनसा चिन्तितमपि सर्वं वेत्स्यति सञ्जयः ॥११॥
नैनं शस्त्राणि छेत्स्यन्ति नैनं बाधिष्यते श्रमः
।
गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ॥१२॥
अहं तु कीर्तिमेतेषां करूणां भरतर्षभ
।
पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ॥१३॥
दिष्टमेतन्नरव्याघ्र नाभिशोचितुमर्हसि
।
न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ॥१४॥
वैशम्पायन उवाच ।
एवमुक्त्वा स भगवान्कुरूणां प्रतितामहः
।
पुनरेव महाभागो धृतराष्ट्रमुवाच ह ॥१५॥
इह युद्धे महाराज भविष्यति महान्क्षयः
।
तथेह च निमित्तानि भयदान्युपलक्षये ॥१६॥
श्येना गृध्राश्च काकाश्च काङ्काश्च सहिता बकैः
।
सम्पतन्ति नगाग्रेषु समवायांश्च कुर्वते ॥१७॥
नगाग्रेषु वृक्षाप्रेषु संपतन्ति एकीभूय पतन्ति समबायान् सङ्घान् ॥१७॥
अभ्यग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः
।
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ॥१८॥
अभ्यग्रं समीपं क्रव्यादा मांसभक्षकाः सृगालकाकादयः ॥१८॥
निर्दयं चाभिवाशन्तो भैरवा भयवेदिनः
।
कङ्काः प्रयान्ति मध्येन दक्षिणामभितो दिशम् ॥१९॥
वाशन्तः शब्दं कुर्वन्तः ॥१९॥
उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत
।
उदयास्तमने सूर्यं कबन्धैः परिवारितम् ॥२०॥
श्वेतलोहितपर्यन्ताः कृष्णाग्रीवाः सविद्युतः
।
त्रिवर्णाः परिघाः सन्धौ भानुमन्तमवारयन् ॥२१॥
परिघाः परिवेषाः कृष्णग्रीवाः श्वेतलोहितपर्यन्ताश्च मध्ये कृष्णास्ततो बहिः श्वेतास्ततो बहिर्लोहिता इति त्रिवर्णाः सन्धौ सन्ध्यायाम् अवारयन् अवेष्टयन् ॥२१॥
ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षयम्
।
चन्द्रोऽभूदग्निवर्णश्च पद्मवर्णनभस्तले ॥२२॥
निर्विशेषदिनक्षयमहोरात्रं निश्चयेन विगतः शेषो यस्य तस्य दिनस्य तिथेः क्षयो यस्मिन् सूर्योदयद्वयास्पर्शिनी क्षयतिथिर्यस्मिन् अहोरात्रे तन्मया दृष्टम् । तदेव विशिनष्टि - ज्वलितेति । अर्केन्द्वोर्नक्षत्रममावास्यायामुभाभ्यामाक्रान्तं नक्षत्रं तदेव ज्वलितं पापग्रहाक्रान्तं यस्मिन् दर्शे क्षयतिथिः तन्नक्षत्रे च पापग्रह इत्ययं महान् दुर्योग इत्यर्थः ॥२२॥
आलक्ष्यः प्रभया हीनां पौर्णमासीं च कीर्तिकीम्
।
चन्द्रोऽभूदग्निवर्णश्च पद्मवर्णे नभस्तले ॥२३॥
पद्मवर्णे रक्तपद्मवर्णे । ‘लोहिनी द्यौर्भवति यथा मञ्जिष्ठा’ इति श्रुतेर्दिवो रक्तत्वमशुभसूचकम् ॥२३॥
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः
।
राजानो राजपुत्राश्च शूराः परिघबाहवः ॥२४॥
अन्तरिक्षे वराहस्य पृषदंशकस्य चोभयोः
।
प्रणादं युद्ध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ॥२५॥
वराहो गृहकोलो वृषदंशो मार्जारस्तयोर्भूचरयोरप्यन्तरिक्षे उत्प्लुत्य युद्ध्यतोः प्रणादम् ॥२५॥
देवताप्रतिमाश्चैव कम्पन्ति च हसन्ति च
।
वमन्ति रुधिरं चास्यैः खिद्यन्ति प्रपतन्ति च ॥२६॥
अनाहता दुन्दुभयः प्रणदन्ति विशाम्पते
।
अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ॥२७॥
अयुक्ता अश्वैरयोजिता अपि प्रवर्तन्ते चलन्ति महान्तो रथा महारथाः ॥२७॥
कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा
।
सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ॥२८॥
गृहीतशस्त्राः क्रोशन्ति चर्मिणो वाजिपृष्ठगाः
।
अरुणोदये प्रदृश्यन्ते शतशः शलभव्रजाः ॥२९॥
गृहीतशस्त्राः आत्तलोहा लोहतुण्डा इति यावत् । ‘शस्त्रमायुधलोहयोः’ इत्यमरः । चर्मिणो भृङ्गारिटिसंज्ञाः कृष्णशलभविशेषाः। ‘चर्मी फलकपाणौ स्याद्भूर्जे भृङ्गारिटावपि’ इति मेदिनी । ते वाजिपृष्ठगा अश्वांस्तुदन्तो दृश्यन्त इस्यर्थः ॥२९॥
उभे सन्ध्ये प्रकाशन्ते दिशो दाहसमन्विते
।
पर्जन्यः पांसुवर्षी च मांसवर्षी च भारत ॥३०॥
या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसम्मता
।
अरुन्धती तयाऽप्येष वसिष्ठः पृष्ठतः कृतः ॥३१॥
रोहिणीं पीडयन्नेष स्थितो राजन् शनैश्चरः
।
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ॥३२॥
व्यावृत्तं नष्टं लक्ष्महीनश्चन्द्रो दृश्यत इत्यर्थः ॥३२॥
अनभ्रे च महाघोरस्तनितं श्रूयते स्वनः
।
वाहनानां च रुदतां निपतन्त्यश्रुबिन्दवः ॥३३॥
स्तनितः स्वनो गर्जितरूपः शब्दः ॥३३॥
इति श्रीमहाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि श्रीवेदव्यासदर्शने द्वितीयोऽध्यायः ॥२॥
व्यास उवाच ।
खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः
।
अनार्तवं पुष्पफलं दर्शयन्ति वनद्रुमाः ॥१॥
खरा इति । खराः प्रजायन्ते मिथुनीभवन्ति उत्पद्यन्त इति वा ॥१॥
गर्भिण्योऽजातपुत्राश्च जनयन्ति विभीषणान्
।
क्रव्यादाः पक्षिभिश्चापि सहाश्नन्ति परस्परम् ॥२॥
क्रव्यादाः सारमेयादयः ॥२॥
त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः
।
द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः ॥३॥
जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः
।
त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः ॥४॥
विषाणिनः शृङ्गवन्तस्तार्क्ष्या एव ॥४॥
तथैवान्याश्च दृश्यन्ते स्त्रियो वै ब्रह्मवादिनाम्
।
वैनतेयान्मयूरांश्च जनयन्ति पुरे तव ॥५॥
गोवत्सं वडवा सूते श्वा सृगालं महीपते
।
कुक्कुरान्करभाश्चैव शुकाश्चाशुभवादिनः ॥६॥
वडवा अश्वा, श्वा शुनी, करभो मृगविशेषः । ‘करभः कलभो वाष्टापदे प्रोक्तो मृगान्तरे’ इति विश्वः ॥६॥
स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः
।
जातमात्राश्च नृत्यन्ति गायन्त च हसन्ति च ॥७॥
प्रजायन्ते जनयन्ति ॥७॥
पृथग्जनस्य सर्वस्य क्षुद्रकाः प्रहसन्ति च
।
नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम् ॥८॥
पृथग्जनस्य नीचजनस्य सम्बन्धिनः क्षुद्रकाः व्यङ्गाः चण्डालादिषु जाताः काणकुब्जादय इत्यर्थः । ‘क्षुद्रा व्यङ्गा नटी’ इत्यादि मेदिनी ॥८॥
प्रतिमाश्चालिखन्त्येताः सशस्त्राः कालचोदिताः
।
अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः ॥९॥
अन्योन्यमभिमृद्नन्ति नगराणि युयुत्सवः
।
पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च ॥१०॥
नगराणि कृत्रिमाणि शिशव एवावमृद्नन्ति पद्मानि महान्ति उत्पलानि क्षुद्राणीतिः भेदः । कुमुदानि चन्द्रोदयविकासीनि ताम्येव ॥१०॥
विष्वग्वाताश्च वान्त्युग्रो रजो नाप्युपशाम्यति
।
अभीक्ष्णं वर्तते भूमिरर्कं राहुरुपैति च ॥११॥
वर्तते वर्तयति दीप्यत इत्यर्थः । नित्यं दावदाहो भवतीति यावत् । कल्पत इति पाठेऽपि स एवार्थः । कार्तिक्याः परं हि सङ्ग्रामारम्भस्तत्र तुलास्थमर्कं राहुरुपैति ॥११॥
श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति
।
अभावं हि विशेषेण कुरूणां तत्र पश्यति ॥१२॥
तदैव श्वेतो ग्रहः केतुश्चित्रामतिक्रामति स्वात्यादौ वर्तते । नित्यं समसप्तकस्थौ राहुकेतू इदानीमेकराशिगतौ महानिष्टसूचकाविति भावः ॥१२॥
धूमकेतुर्महाघोरः पुष्यं चाक्रम्य तिष्ठति
।
सेनयोरशिवं घोरं करिष्यति महाग्रहः ॥१३॥
धूमकेतुरुपप्रहविशेषः । स पुष्यं क्षत्रियनक्षत्रमाक्रम्य तिष्ठति । तथा वक्ष्यमाणरीत्या ज्येष्ठास्थेनापि केतुना पुष्यो विद्धस्तथा च स्वनक्षत्रे क्रूराक्रान्ते क्रूरविद्धे च सत्यवश्यं क्षत्रियाणां नाशो भवतीत्यर्थः । यथोक्तम् - ‘कृत्तिकायां तथा पुष्ये रेवत्यां च पुनर्वसौ । वेधे सति क्रमाद्वेधो वर्णेषु ब्राह्मणादिषु’ इति नरपतिविजये ॥१३॥
मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः
।
भगं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते ॥१४॥
भगं नक्षत्रं पूर्वाफल्गुनी श्रुतिमते तूत्तराफल्गुनी ॥१४॥
शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विरोचते
।
उत्तरे तु परिक्रम्य सहितः समुदीक्षते ॥१५॥
पूर्वे प्रोष्ठपदे पूर्वाभाद्रपदानक्षत्रं समारुह्य परिक्रम्य परिघाख्य उपग्रहस्तेन सहितः उत्तरे उत्तराभाद्रपदानक्षत्रम् उदीक्षते आक्रान्तुमिच्छति ॥१५॥
श्वेतो ग्रहः प्रज्वलितः सधूम इव पावकः
।
ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति ॥१६॥
श्वेतो द्वितीय उपग्रहः केतुसंज्ञः ऐन्द्रं ज्येष्ठानक्षत्रमिति योज्यम् ॥१६॥
ध्रुवं प्रज्वलितो घोरमपसव्यं प्रवर्तते
।
रोहिणीं पीडयत्येवमुभौ च शशिभास्करौ
।
चित्रास्वात्यन्तरे चैव विष्ठितः परुषग्रहः ॥१७॥
ध्रुवमिति । परुषग्रहो राहुरेकनक्षत्रस्थौ शशिभास्करौ पीडयति अपसव्यं प्रवर्तते सर्वदा वक्री सन् सर्वतोभद्रचक्रे वेधेन स्वातीस्थः सन् रोहिणीनक्षत्रं च पीडयतीत्यर्थः ॥१७॥
वक्रानुवक्रं कृत्वा च श्रवणं पावकप्रभः
।
ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः ॥१८॥
वक्रेति । तत्रैव सर्वतोभद्रचक्रे मघास्थो लोहिताङ्गोऽङ्गारको वक्रानुवक्रं कृत्वा पुनःपुनर्वक्रीभूय ब्रह्मणा बृहस्पतिनाऽऽक्रान्तं राशिं नक्षत्रं श्रवणं समावृत्य सम्यक् पूर्णदृष्ट्या विद्ध्वा तिष्ठति ॥१८॥
सर्वसस्यपरिच्छन्ना पृथिवी सस्यमालिनी
।
पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः ॥१९॥
परिच्छन्ना आच्छादिता पञ्च शीर्षाणि शिंबीसदृशानि येषां ते पश्वशीर्षाः ॥१९॥
प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत्
।
ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत ॥२०॥
निश्चेरुरर्चिषश्चापात्स्वङ्गाश्च ज्वलिता भृशम्
।
व्यक्तं पश्यन्ति शस्त्राणि संगङ्रामं समुपस्थितम् ॥२१॥
अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च
।
कवचानां ध्वजानां च भविष्यति महाक्षयः ॥२२॥
पृथिवी शोणितावर्ता ध्वजोडुपसमाकुला
।
कुरूणां वैशसे राजन्पाण्डवैः सह भारत ॥२३॥
शोणितमया आवर्ताः यस्यां रक्तप्रवाहवतीत्यर्थः । अत एव ध्वजा एव उडुपानि क्षुद्रनावस्तैः समाकुला वैशसे विरोधे ॥२३॥
दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः
।
अत्याहितं दर्शयन्तः क्षत्रियाणां महद्भयम् ॥२४॥
एकपक्षाक्षिचरणः शकुनिः स्वचरो निशि
।
रौद्रं वदन्ति संरब्धः शोणितं छर्दयन्निव ॥२५॥
छर्दयन् श्रोतॄणां क्लेशकरत्वेन रक्तवमनं कारयन्निव ॥२५॥
शस्त्राणि चैव राजेन्द्र प्रज्वलन्तीव सम्प्रति
।
सप्तर्षीणामुदाराणां समवच्छाद्यते प्रभा ॥२६॥
शस्त्राणि प्रभया ज्वलन्तीव ॥२६॥
संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ
।
विशाखायाः समीपस्थौ बृहस्पतिशनैश्चरौ ॥२७॥
संवत्सरेति । पूर्वं श्रवणस्थो बृहस्पतिर्भगनक्षत्रस्थः सूर्यपुत्र इत्युक्तं तावुभौ विशाखासमीपे तिर्यग्वेधेन शतपदे चक्रे विशाखानक्षत्रं विध्यत इत्यर्थः । तथाहि । तस्मिंश्चक्रे खुखेखो इति श्रवणान्त्यपादत्रयं व्युत्क्रमेण विशाखाद्यपादत्रयेण तितुते इत्यनेन विद्ध्येते तृतीयेन चतुर्थो, द्वितीयेन तृतीयः, प्रथमेन द्वितीय इति । तथा उत्तराफल्गुन्या अन्त्यपादत्रयेण टोपापीत्यनेन क्रमेण तितुते इति विशाखाद्यपादत्रयं तत्रैव चक्रे विध्यत इति तच्चक्रविदां प्रत्यक्षम् ॥२७॥
चन्द्रादित्यावुभौ ग्रस्तावेकाह्ना हि त्रयोदशीम्
।
अपर्वमि ग्रहं यातौ प्रजासंक्षयमिच्छतः ॥२८॥
चन्द्रादित्याविति । अपर्वणि पर्व दर्शाख्यं पञ्चदशेऽह्नि भवति एकतिथिवृद्धौ षोडशे वा एकतिथिक्षये चतुर्दशे वाऽह्नि भवति । तिथिद्वयक्षयस्तु लोकेऽत्यन्तमप्रसिद्ध इत्यपर्वणीत्युक्तम् । ग्रहं यातौ राहुणा ग्रहणं प्राप्तौ एतदेव प्रजासंक्षयहेतुत्वेन शास्त्रे दृष्टमित्याह- प्रजेति ॥२८॥
अशोभिता दिशः सर्वाः पांसुवर्षैः समन्ततः
।
उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् ॥२९॥
अशोभिता अमङ्गलाः ॥२९॥
कृत्तिकां पीडयंस्तीक्ष्णैर्नक्षत्रं पृथिवीपते
।
अभीक्ष्णवाता वायन्ते धूमकेतुमवस्थिताः ॥३०॥
चित्रास्वात्यन्तरस्थः परुषो ग्रहो रोहिणीं पीडयतीत्युक्तं तत्र चित्रांशे स्थित्वा रोहिणीमष्टादशत्वेन सामुदायिकनक्षत्रं पीडयति । स्वात्यंशे स्थित्वा कृत्तिकां षोडशकत्वेन साङ्घातिकनक्षत्रं पीडयति । सर्वतोभद्रचक्रे तथा दर्शनात् । तदेतदाह कृत्तिकामित्यर्धेन । तीक्ष्णैः क्रूरैः कर्मभिरुपलक्षितो राहुरित्यर्थः धूमकेतुमुत्पातविशेषमनुलक्ष्यावस्थिताः ॥३०॥
विषमं जनयन्त्येत आक्रन्दजननं महत्
।
त्रिषु सर्वेषु नक्षत्रनक्षत्रेषु विशाम्पते
।
गृध्रः सम्पतते शीर्षं जनयन्भयमुत्तमम् ॥३१॥
एते वायवः विषमं वैरम् । युद्धमिति यावत् । त्रिष्विति। त्रिष्वपि च्छत्रेषु नरपतिविजयप्रोक्तेषु यथाऽश्विन्यादिभिर्नवभिर्नक्षत्रैरौदीच्यस्याश्वपतेश्छत्रे चामरं कलशो वीणा छत्रं दण्डः पतद्ग्रह आसनं शीलकं रज्जुरित्यवयवाः कल्प्यन्ते । एवं मघादिनवकेन प्राच्यस्य गजपतेः । तथा मूलादिनवकेन दक्षिणस्य नरपतेः । एवंविधेषु त्रिष्वपि छत्रेषु तत्रापि सर्वेषु नक्षत्रेषु नास्ति क्षत्रमेभिरिति योगेन क्षत्रविरोधिषु नक्षत्रेषु नक्षत्राणि च तानि नक्षत्राणि भानि तेषु क्रूराक्रान्तत्वादिना क्षत्रियाभावकरेषु नक्षत्रेषु गृध्रः पापग्रहः शीर्षं कलशस्थानं संपतते । तेन च्छत्रत्रयस्य तदन्तर्गतानामन्येषां च माण्डलिकानां राज्ञां नाशः सूच्यते । तत्रैवं सति मघासु कुजोऽस्ति तथा यदा भगनक्षत्रं पूर्वाफल्गुनी तदा तत्रत्यः शनैश्वरोऽवश्यं युद्धादिना गजपतेर्महद्भयं करिष्यति । यथोक्तं तत्रैव- ‘कलशस्थे भवेद्युद्धं रणे रोगे महद्भयम् ॥ घातपातादिकं सर्वं जायते नात्र संशयः‘ इति । कलशस्थे शनैश्चरे इति शेषः । तथा विशाखाज्येष्ठे अप्यत्रैव च्छत्रे क्रूरविद्धे क्रूराक्रान्ते वर्तेते इत्यवश्यं गजपतेश्छत्रभङ्गः । एवं प्रथमच्छत्रेऽपि कृत्तिकारोहिण्योः पुष्यस्य च पीडाऽस्ति । यथान्तिमच्छत्रे श्रवणप्रोष्ठपदयोर्बृहस्पतिशुक्रौ वर्तेते इति तथाऽपि तावनिष्टफलावेव । एवं पूर्वस्य निरन्वयो नाशः । इतरयोश्छत्रयो राजनाशेऽपि तत्पुत्राणां च्छत्रप्राप्तिरस्तीति विशेषः । तथा च मध्यमच्छत्रे मघासु भौमः स्वात्यां सूर्यचन्द्रराहवः पूर्वस्यामुत्तरस्यां वा फल्गुन्यां शनैश्चरः विशाखायां वेधेन बृहस्पतिश्चास्ति । तेषां फलं तत्रैवोक्तम् - ’क्रूरग्रहचतुष्कं च बुधचन्द्रेण संयुतम् ॥ पूर्वच्छत्रविनाशाय कथितं पूर्वसूरिभिः इति । तत्र सिन्धुसागरसङ्गमाद्गोदावरीसागरसङ्गमपर्यतमेका रेखा तद्दक्षिणे नरपतिः । तत एव कर्णप्रावरणपर्यन्तं द्वितीया तदुत्तरे गजपतिः । तयो रेखयोर्मध्येऽश्वपतिः । हस्तिनापुरं तु ईशानदेशस्थत्वाद्गङ्गाद्वारात् पूर्वभागेऽस्तीति गजपतिच्छत्रान्तर्गतमेव । हरिद्वारं तु देहलीदीपन्यायेनाश्वपतिगजपत्योरन्तर्गतमिति तेन हस्तिनापुरस्थानां प्राच्यत्वादत्यन्तं क्षयस्तथैव पाञ्चालादीनामपीति । एतच्च नरपतिविजयदर्शिनां स्पष्टम् । ईशानदेशाः कूर्मचक्रे प्रोक्ताः - “रेवती अश्विनी याम्ये पादे ईशानगोचरे ॥ गङ्गाद्वारं कुरुक्षेत्रं श्रीकण्ठं हस्तिनापुरम् ॥ अश्ववक्त्रैकपादाश्च कर्णप्रावरणास्तथा ॥ विनश्यन्ति च ते सर्वे देशास्त्वीशानगोचरे” इति दिक् ॥३१॥
चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम्
।
इमां नाभिजानेऽहममावास्यां त्रयोदशीम्
।
चन्द्रसूर्यावुभौ ग्रस्तावेकमासीं त्रयोदशीम् ॥३२॥
चन्द्रादित्यावुभौ ग्रस्तावित्येतेन श्लोकेनोक्तमर्थं विशदयति द्वाभ्यां चतुर्दशीमिति । त्रयोदशीं त्रयोदशानामह्नां पूरणीममावास्यां भूतपूर्वां नाभिजाने न जानामि । अतिभूयसा कालेनायं दुर्योग आगत इति भावः । एकमासीं एकस्मिन्नेव मासे भवां पूर्वं त्रयोदश्यां रात्रौ पक्षसमाप्त्या सूर्यग्रहणमेवोक्तम् । इदानीं तु एकस्मिन्मासे चन्द्रः पूर्णमास्यां राहुणा ग्रहेण ग्रस्तः सूर्योऽमावास्यायां, यदा सूर्यो ग्रस्तस्तदा चंद्रोऽपि ग्रस्त एव । दर्शे तयोः संहतत्वात् ॥३२॥
अपर्वणि ग्रहेणैतौ प्रजाः संक्षपयिष्यतः
।
मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम्
।
शोणितैर्वक्त्रसम्पूर्णा अतृप्तास्तत्र राक्षसाः ॥३३॥
अपर्वणीति । लोकाप्रसिद्धपर्वणीति पूर्ववत् ज्ञेयम् ॥३३॥
प्रतिस्रोतो महानद्यः सरितः शोणितोदकाः
।
फेनायमानाः कूपाश्च कूर्दन्ति वृषभा इव ॥३४॥
प्रतिस्रोतसो महानद्यः विपरीतप्रवाहाः । विभक्तिलोप आर्षः विशेषणं विशेष्येण बहुलमिति समासो वा क्रियाविशेषणं वा । कूपा जलाशयाः । कूर्दन्ति क्रीडन्ति । वातैः क्षुभ्यन्तः इत्यर्थः ॥३४॥
पतन्त्युल्काः सनिर्घाताः शक्राशनिसमप्रभाः
।
अद्य चैव निशां व्युष्टामनयं समवाप्स्यथ ॥३५॥
अनयम् अनीतिफलम् ॥३५॥
विनिःसृत्य महोल्काभिस्तिमिरं सर्वतोदिशम्
।
अन्योन्यमुपतिष्ठद्भिस्तत्र भूमिः पास्यति शोणितम् ॥३६॥
महोल्काभिः दीपाभावात् शणकाष्ठज्वालया रात्रौ विनिःसृत्य गृहाद्बहिर्निर्गत्य ॥३६॥
भूमिपालसहस्राणां भूमिः पास्यति शोणितम्
।
फैलासमन्दराभ्यां तु तथा हिमवता विभो ॥३७॥
सहस्रशो महाशब्दः शिखराणि पतन्ति च
।
महाभूता भूमिकम्पे चत्वारः सागराः पृथक्
।
वेलामुद्वर्तयन्तीव क्षोभयन्तो वसुन्धराम् ॥३८॥
महाशब्दः क्रियत इति शेषः महाभूता वृद्धीभूताः । अभूततद्भावे महच्छब्दाद्भवतौ परे डाच् । मर्यादामुल्लङ्घितवन्त इवेत्यर्थः ॥३८॥
वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः
।
आभग्नाः सुमहावातैरशनीभिः समाहताः ॥३९॥
अशनीभिः ‘अशनिर्द्वयोः’ इति कोशात् स्त्रीत्वम् ॥३९॥
वृक्षाः पतन्ति चैत्याश्च ग्रामेषु नगरेषु च
।
नीललोहितपीतश्च भवत्यग्निर्हुतो द्विजैः ॥४०॥
वामार्चिर्दुष्टगन्धश्च मुञ्चन्वै दारुणं स्वनम्
।
स्पर्शा गन्धा रसाश्चैव विपरीता महीपते ॥४१॥
धूमं ध्वजाः प्रमुञ्चन्ति कम्पमाना मुहुर्मुहुः
।
मुञ्चन्त्यङ्गारवर्षं च भेर्यश्च पटहास्तथा ॥४२॥
शिखराणां समृद्धानामुपरिष्टात्समन्ततः
।
वायसाश्च रुवन्त्युग्रं वामं मण्डलमाश्रिताः ॥४३॥
शिखराणां द्रुमाग्राणाम् । ‘शिखरोऽस्त्री द्रुमाग्रे च’ इति मेदिनी ॥४३॥
पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च
।
निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् ॥४४॥
पक्वापक्वेति । विनाशाभिमुखानां परस्परं युद्धमिति ‘पक्वं परिणतेऽपि स्याद्विनाशाभिमुखे त्रिषु’ इति मेदिनी । पक्वापक्वेति । पक्षिरुतानुकरणं वावाश्यन्ते अतिशयेन शब्दं कुर्वन्ति ॥४४॥
ध्यायन्तः प्रकिरन्तश्च व्याला वेपथुसंयुताः
।
दीनास्तुरङ्गमाः सर्वे वारणाः सलिलाश्रयाः ॥४५॥
प्रकिरन्तः शकृन्मूत्रमिति शेषः । व्यालाः दुष्टहस्तिनः सलिलाश्रयाः अत्यन्तं प्रस्वेदद्युक्ताः ॥४५॥
एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम्
।
यथा लोकः समुच्छेदं नायं गच्छेत भारत ॥४६॥
वैशम्पायन उवाच ।
पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम्
।
दिष्टमेतत्पुरा मन्ये भविष्यति नरक्षयः ॥४७॥
राजानः क्षत्रधर्मेण यदि वध्यन्ति संयुगे
।
वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् ॥४८॥
इह कीर्तिं परे लोके दीर्घकालं महत्सुखम्
।
प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे ॥४९॥
वैशम्पायन उवाच ।
एवं मुनिस्तथेत्युक्त्वा कवीन्द्रो राजसत्तम
।
धृतराष्ट्रेण पुत्रेण ध्यानमन्वगमत्परम् ॥५०॥
मुनिः एवं तथेत्युक्त्वेति सम्बन्धः । धृतराष्ट्रेण हेतुना तदर्थमित्यर्थः। ध्यानं चिन्ताम् ॥५०॥
स मुहूर्तं तथा ध्यात्वा पुनरेवाब्रवीद्वचः
।
असंशयं पार्थिवेन्द्र कालः संक्षयते जगत् ॥५१॥
संक्षयते क्षिणोति ॥५१॥
सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम्
।
ज्ञातीनां वै कुरूणां च सम्बन्धिसुहृदां तथा ॥५२॥
धर्म्यं देशय पन्थानं समर्थो ह्यसि वारणे
।
क्षुद्रं जातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् ॥५३॥
धर्म्यं धर्मादनपेतं पन्थानं देशय शिक्षय ॥५३॥
कालोऽयं पुत्ररूपेण तव जातो विशाम्पते
।
न वधः पूज्यते वेदे हितं नैव कथञ्चन ॥५४॥
अयं दुर्योधनः ॥५४॥
हन्यात्स एनं यो हन्यात्कुलधर्मं स्विकां तनुम्
।
कालेनोत्पथगन्ताऽसि शक्ये सति यथाऽऽपदि ॥५५॥
सः धर्मः एनं धर्महन्तारं शक्येऽनापदि सत्यां किमर्थमापदीव उन्मार्गगामी भवसीत्यर्थः ॥५५॥
कुलस्यास्य विनाशाय तथैव च महीक्षिताम्
।
अनर्थो राज्यरूपेण तव जातो विशाम्पते ॥५६॥
लुप्तधर्मा परेणासि धर्मं दर्शय वै सुतान्
।
किं ते राज्येन दुर्ध र्षयेन प्राप्तोऽसि किल्बिषम् ॥५७॥
परेण अतिशयेन ॥५७॥
यशो धर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि
।
लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः ॥५८॥
एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बोकासुतः
।
आक्षिप्य वाक्यं वाक्यज्ञो वाक्यं चैवाब्रवीत् पुनः ॥५९॥
आक्षिप्य वाक्यं ब्रुवतीति सम्बन्धः ॥५९॥
धृतराष्ट्र उवाच ।
यथा भवान्वेत्ति तथैव वेत्ता भावाभावौ विदितौ मे यथार्थौ
।
स्वार्थे हि संमुह्यति तात लोको मां चापि लोकात्मकमेव विद्धि ॥६०॥
वेत्ता ज्ञाताऽस्मीति शेषः । भावाभावौ स्थितिविनाशौ परेषां स्वेषां च ॥६०॥
प्रसादये त्वामतुलप्रभावं त्वं नो गतिर्दर्शयिता च धीरः
।
न चापि ते मद्वशगा महर्षे न चाधर्मं कर्तुमर्हा हि मे मतिः ॥६१॥
गतिः परायणं दर्शयिता उपदेष्टा ॥६१॥
त्वं हि धर्मप्रवृत्तिश्च यशः कीर्तिश्च भारती
।
कुरूणां पाण्डवानां च मान्यश्चापि पितामहः ॥६२॥
त्वं हि धर्मादौ हेतुरित्यर्थः ॥६२॥
व्यास उवाच ।
वैचित्रवीर्य नृपते यत्ते मनसि वर्तते
।
अभिधत्स्व यथाकामं छेत्ताऽस्मि तव संशयम् ॥६३॥
धृतराष्ट्र उवाच ।
यानि लिङ्गानि सङ्ग्रामे भवन्ति विजयिष्यताम्
।
तानि सर्वाणि भगवञ्छ्रोतुमिच्छामि तत्त्वतः ॥६४॥
व्यास उवाच ।
प्रसन्नभाः पावक ऊर्ध्वरश्मिः प्रदक्षिणावर्तशोखो विधूमः
।
पुण्या गन्धाश्वाहुतीनां प्रवन्ति जयस्यैतद्भाविनो रूपमाहुः ॥६५॥
रूपं गमकं चिह्नम् ॥६५॥
गम्भीरघोषाश्च महास्वनाश्च शङ्खा मृदङ्गाश्च नदन्ति यत्र
।
विशुद्धरश्मिस्तपनः शशी च जयस्येतद्भाविनो रूपमाहुः ॥६६॥
इष्टा वाचः प्रसृता वायसानां सम्प्रस्थितानां च गमिष्यतां च
।
ये पृष्ठतस्ते त्वरयन्ति राजन् ये चाग्रतस्ते प्रतिषेधयन्ति ॥६७॥
इष्टा इति । ये पृष्ठतो भाषमाणा वायसास्ते गन्तारं त्वरयन्ति सिद्धिसूचका इत्यर्थः । ये पुरतो भाषमाणास्ते गमनं निषेधन्तीत्यर्थः ॥६७॥
कल्याणवाचः शकुना राजहंसाः शुकाः क्रौञ्चाः शतपत्राश्च यत्र
।
प्रदक्षिणाश्चैव भवन्ति सङ्ख्ये ध्रुवं जयस्तत्र वदन्ति विप्राः ॥६८॥
अलङ्कारैः कवचैः केतुभिश्च सुखप्रणादैर्हेषितैर्वा हयानाम्
।
भ्राजिष्मती दुष्प्रतिवीक्षणीया येषां चमूस्ते विजयन्ति शत्रून् ॥६९॥
हृष्टा वाचस्तथा सत्वं योधानां यत्र भारत
।
न म्लायन्ति स्रजश्चैव ते तरन्ति रणोदधिम् ॥७०॥
इष्टा वाचः प्रविष्टस्य दक्षिणाः प्रविविक्षतः
।
पश्चात् सन्धारयन्त्यर्थमाग्रे च प्रतिषेधिकाः ॥७१॥
प्रविष्टस्य परसैन्यमिति शेषः । इष्टा मारितो मारित इति दक्षिणाः दाक्ष्ययुक्ता हतोऽसीत्याद्याः । पश्चादर्थं पाश्चात्यं प्रयोजनं जयाख्यं सन्धारयन्ति निश्चिन्वन्ति याश्चाग्रे प्रतिषेधिका मा युद्ध्यस्व मरिष्यसीत्येवंजातीयकास्ता अपि मरणस्यैव सूचिकास्ताश्च दुर्योधनं प्रत्येव प्रवर्तन्त इति भावः ॥७१॥
शब्दरूपरसस्पर्शगन्धाश्चाविकृताः शुभाः
।
सदा हर्षश्च योधानां जयतामिह लक्षणम् ॥७२॥
अनुगा वायवो वान्ति तथाऽभ्राणि वयांसि च
।
अनुप्लवन्ति मेघाश्च तथैवेन्द्रधनूंषि च ॥७३॥
अनुगाः अनुकूलाः ॥७३॥
एतानि जयमानानां लक्षणानि विशाम्पते
।
भवन्ति विपरीतानि मुमूर्षूणां जनाधिप ॥७४॥
अल्पायां वा महत्यां वा सेनायामिति निश्चयः
।
हर्षो योधगणस्यैको जयलक्षणमुच्यते ॥७५॥
एको दीर्णो दारयति सेनां सुमहतीमपि
।
तां दीर्णामनुदीर्यन्ते योधाः शूरतरा अपि ॥७६॥
दुर्निवर्त्या तदा चैव प्रभग्ना महती चमूः
।
अपामिव महावेगास्त्रस्ता मृगगणा इव ॥७७॥
नैव शक्या समाधातुं सन्निपाते महाचमूः
।
दीर्णामित्येव दीर्यन्ते सुविद्वांसोऽपि भारत ॥७८॥
भीतान् भग्नांश्च सम्प्रेक्ष्य भयं भूयोऽभिवर्धते
।
प्रभग्ना सहसा राजन्दिशो विद्रवते चमूः ॥७९॥
नैव स्थापयितुं शक्या शूरैरपि महाचमूः
।
सत्कृत्य महतीं सेनां चतुरङ्गां महीपतिः
।
उपायपूर्वं मेधावी यतेत सततोत्थितः ॥८०॥
उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम्
।
जघन्य एष विजयो यो युद्धेन विशाम्पते ॥८१॥
उपायविजयं लाभपूर्वकं जयं साम्ना प्रार्थनया दानेन वा शत्रुणा वाचा प्रार्थितस्य धनेन वा सन्तर्पितस्य मुख्यो जयः । शत्रुं भेदयतो मध्यमः, निघ्नतोऽधम इत्यर्थः ॥८१॥
महान्दोषः सन्निपातस्तस्याद्यः क्षय उच्यते
।
परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः ॥८२॥
सन्निपातो योधानां सङ्घर्षः । व्यवधूताः दरादिष्वनासक्ताः ॥८२॥
अपि पञ्चाशतं शूरा मृद्नान्ति महतीं चमूम्
।
अपि वा पञ्च षट् सप्त विजयन्त्यनिवर्तिनः ॥८३॥
न वैनतेयो गरुडः प्रशंसति महाजनम्
।
दृष्ट्वा सुपर्णोऽपचितिं महत्या अपि भारत ॥८४॥
शूराणां सहायसंपत्तिर्नापेक्षितेत्यत्र दृष्टान्तमाह- न वैनतेय इति । महत्या अपि सेनाया अपचितिं प्रतिकारं नाशम् वा एकेनैवात्मना कर्तुं शक्यं दृष्ट्वा आलोच्य । सुपर्णः शोभनपतत्रो गरुडो नामतो वैनतेयो विनतायाः पुत्रो महाजनं बहुजनसमूहं न प्रशंसति न कामयत इत्यर्थः । ‘भवेदपचितिः पूजाव्ययनिष्कृतिहानिषु’ इति मेदिनी । शूराणां न सहायापेक्षाऽस्तीत्यक्षौहिणीबाहुल्यान्मत्पुत्राणां जयोऽवश्यंभावीति त्वया न मन्तव्यामिति भावः ॥८४॥
न बाहुल्येन सेनाया जयो भवति नित्यशः
।
अध्रुवो हि जयो नाम दैवं चात्र परायणम्
।
जयवन्तो हि सङ्ग्रामे कृतकृत्या भवन्ति हि ॥८५॥
इति श्रीमहाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि निमित्ताख्याने तृतीयोऽध्यायः ॥३॥
वैशम्पायन उवाच ।
एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते
।
धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत ॥१॥
एवमुक्त्त्वेति ॥१॥
स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः
।
सञ्जयं संशितात्मानमपृच्छद्भरतर्षभ ॥२॥
सञ्जयेमे महीपालाः शूरा युद्धाभिनन्दिनः
।
अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरिह ॥३॥
पार्थिवाः पृथिवीहेतोः समभित्यज्य जीवितम्
।
न वा शाम्यन्ति निघ्नन्तो वर्धयन्ति यमक्षयम् ॥४॥
न वा शाम्यन्ति नैव शाम्यन्ति यमक्षयं यमलोकम् ॥४॥
भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम्
।
मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व सञ्जय ॥५॥
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च
।
कोट्यश्च लोकवीराणां सम्मेताः कुरुजाङ्गले ॥६॥
देशानां च परीमाणं नगराणां च सञ्जय
।
श्रोतुमिच्छामि तत्त्वेन यत एते समागताः ॥७॥
दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा
।
प्रभावात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः ॥८॥
दिव्येति । यथा दीपेनान्धकारे नाशिते चक्षुषा घटो दृश्यते एवं धीवृत्त्या सर्वविषयावरकाज्ञानतमसि नाशिते सति चिदात्मरूपेण चक्षुषा सर्वं प्रकाशत इत्यर्थः ॥८॥
सञ्जय उवाच ।
यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान्
।
शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ ॥९॥
शास्त्रचक्षुरिति । यदाऽहं ब्रह्मास्मीति वाक्योत्थयाः धियाऽऽत्मानं योगी पश्यति तदाऽन्धोऽप्यनन्धो भवति तथा च श्रुतिः। ‘तं वा एतं सेतुं तीर्त्त्वांऽधः सन्ननंधो भवति’ इति । सेतुं मर्यादाविधारकं परमेश्वरं तीर्त्वा प्राप्येति श्रुतिपदयोरर्थः । अनेनैवाभिप्रायेणावेक्षस्वेत्याह - नमस्त इति । विनयः स्वस्योपदेष्टृत्ववारणाय व्यासेनैव त्वमुपदिष्टोऽसीति भावः ॥९॥
द्विविधानीह भूतानि चराणि स्थावराणि च
।
त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः ॥१०॥
त्रसानां जङ्गमानां योनिरुत्पत्तिस्थानम् । अण्डजाः पक्षिसरीसृपाद्याः । स्वेदजाः यूकालिक्षाद्याः । जरायुजाः मनुष्यपश्वाद्याः ॥१०॥
त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः
।
जरायुजानां प्रवरा मानवाः पशवश्च ये ॥११॥
येषु चतुर्दशसु यज्ञाः प्रतिष्ठिताः ते मानवास्त्रैवर्णिकाः । पशवश्च गोऽजाद्या जरायुजानां मध्ये प्रवरा इति योजना ॥११॥
नानारूपधरा राजंस्तेषां भेदाश्चतुर्दश
।
वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ॥१२॥
ग्राम्याणां पुरुषाः श्रेष्ठाः सिंहाश्चारण्यवासिनाम्
।
सर्वेषामेव भूतानामन्योन्येनोपजीवनम् ॥१३॥
ग्राम्याणां वक्ष्यमाणानां पशूनां मध्ये तथाऽरण्यवासिनामित्यपि । ‘पुरुषं वै देवाः पशुमालभन्त तस्मात्त्रयः पशूनां हस्तादानाः पुरुषो, हस्ती, मर्कटः’ इति विध्यर्थवादादिषु पुरुषेऽपि पशुत्वमस्येवेति ग्राम्यपशुषु पुरुषस्य गणनम् ॥१३॥
उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः
।
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ॥१४॥
उद्भिज्जाः भूमिमुद्भिद्य जाताः वृक्षा अश्वत्थादयः । गुल्माः कुशकाशादिस्तम्बाः । लता वृक्षाद्यारूढा गुडूच्यादयः । वल्ल्यो भूमिप्रसारा वर्षमात्रस्थायिन्यः कूष्माण्ड्याद्याः । त्वक्सारा वेण्वादयः । त एव तृणजातयो न तु वृक्षाः ॥१४॥
तेषां विंशतिरेकोना महाभूतेषु पञ्चसु
।
चतुर्विशतिरुद्दिष्टा गायत्री लोकसम्मता ॥१५॥
तेषामिति । सप्त ग्राम्याः पशवः सप्तारण्याः पञ्चोद्भिज्जा इत्येकोनविंशतिसंख्यानां विकाराणां प्रकृतिभूतेषु पञ्चसु महाभूतेषु प्रक्षेपे सति चतुर्विंशत्यक्षरसंख्यासाम्यात् प्रकृतिविकृत्यात्मिका गायत्रीयं भवति । अत्र स्वेदजानामुद्भिजेष्वन्तर्भावः । ते हि भूमिमुद्भिद्य जायन्ते स्वेदजास्तु जलमुद्भिद्य जायन्त इति साम्यात्। तृतीयेनावरोधः संशोकजस्येति न्यायाच्च अण्डजानामपि मैथुनजत्वसाम्याज्जरायुजेष्वेवान्तर्भावः । जरायुर्गर्भवेष्टनं तद्रूपस्य अण्डस्यैव तत्र सत्त्वादित्याशयेन चतुर्विंशतिः । तदिदं कार्यकारणसमुदायात्मकं गायत्र्याख्यं ब्रह्म । ‘गायत्री वा इदं सर्वं भूतम्’ इत्युपक्रम्य ‘सैषा चतुष्पदा षड्विधा गायत्री’ तदेतदृचाभ्यनूक्तम् । ‘एतावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ इति छान्दोग्ये उपसंहारदर्शनात् ॥१५॥
य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम्
।
तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति ॥१६॥
अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः
।
सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा ॥१७॥
ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप
।
गौरजाविमनुष्याश्च अश्वाश्वतरगर्दभाः ॥१८॥
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः
।
एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश ॥१९॥
भूमौ च जायते सर्वं भूमौ सर्वं विनश्यति
।
भूमिः प्रतिष्ठा भूतानां भूमिरेव सनातनम् ॥२०॥
यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम्
।
तत्रातिगृद्धा राजानो विनिघ्नन्तीतरेतरम् ॥२१॥
यस्य भूमिरिति । राजा हि सार्वभौमो राजसूयेनेष्ट्वा स्वाराज्यं प्राप्नोति अश्वमेधेनेष्ट्वा क्रममुक्तिस्थानं प्राप्नोतीति यस्य कृत्स्ना भूमिस्तस्य इदं सर्वं यज्ञद्वारा वशे भवति तथा च वाजसनेयके श्रूयते । ‘पुरुषो ह वै नारायणोऽकामयतात्प्रतिष्ठेयं सर्वाणि भूतान्यहमेवेदं सर्वं स्यामिति स एतं पुरुषमेधं पञ्चरात्रयज्ञक्रतुमपश्यत्’ इत्यादिना ॥२१॥
इति श्रीमहाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि भौमगुणकथने चतुर्थोऽध्यायः ॥४॥
धृतराष्ट्र उवाच ।
नदीनां पर्वतानां च नामधेयानि सञ्जय
।
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ॥१॥
एवं वक्ष्यमाणभगवद्गीतोपनिषदर्थज्ञानाधिकारार्थं कर्मणामनुष्ठेयत्वं प्रकारान्तरेणोपपाद्याधिकृतानामुत्पन्नात्मविविदिषाणामपि सूक्ष्मतमात्मतत्त्वग्रहणयोग्यतासिद्ध्यर्थं स्थूले भगवतो रूपे कृत्स्नब्रह्माण्डात्मके चित्तसंयमः कर्तव्य इत्याशयेन भुवनकोशं वर्णयति- नर्दानां पर्वतानां चेत्यादिना तत्सर्वं श्रुतवानसीत्यन्तेनाध्यायाष्टकेन ॥१॥
प्रमाणं च प्रमाणज्ञ पृथिव्या मम सर्वतः
।
निखिलेन समाचक्ष्व काननानि च सञ्जय ॥२॥
सञ्जय उवाच ।
पञ्चेमानि महाराज महाभूतानि सङ्ग्रहात्
।
जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः ॥३॥
तत्र तावत् पञ्चेमानि महाराजेत्यादिना तदेषां रूपमैश्वरमित्यन्तेन सर्वं वियदादिकं भगवदुपादानकत्वात् कुण्डलकनकन्यायेन भगवत एव रूपमिति प्रतिपादयति । महाभूतानि पृथिव्यादीनि तान्येव जगती कृत्स्नब्रह्माण्डरूपाणि पिण्डरूपाणि च तत्स्थानि च सर्वाणि चैतन्यपदवाच्यानि समानि तुल्यान्येव बहुत्वमुपाधिभेदाभिप्रायेण । न हि कुम्भद्रोण्याद्युपाधिष्वाकाशस्येव मशकमतङ्गजादिशरीरेषु चैतन्यस्य स्वतो विषमत्वं दृश्यते । तस्मात्सर्वाणि जगतीस्थानि समान्येव । वक्ष्यति च भगवान् ‘पण्डिताः समदर्शिनः’ इति ॥३॥
भूमिरापस्तथा वायुरग्निराकाशमेव च
।
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ॥४॥
भूमिरिति । वायोरग्निरिति श्रुतेरग्निहेतुर्वायुरग्नेः परो द्रष्टव्यः गुणोत्तराणि पूर्वपूर्वापेक्षया उत्तरमुत्तरमेकैकगुणाधिकं इदं च । ‘आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी’ इति श्रूयमाणजन्मक्रमाभिप्रायेणोक्तम् ॥४॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः
।
भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः ॥५॥
शब्दादयो गुणाः प्रसिद्धाः ॥५॥
चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते
।
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः
।
शब्दः स्पर्शश्च वायोस्तु अकाशे शब्द एव तु ॥६॥
एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु
।
वर्तन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः ॥७॥
एते पञ्चेति । महाभूतेषु पञ्चमहाभूतात्मकेषु सर्वेषु लोकेषु भोग्यवस्तुषु शरीरादिघटान्तेषु एते पञ्च गुणाः सन्ति । एते के। येषु गुणेषु भोक्तारो भूताः नित्यनिर्वृत्ताश्चेतनाः पुरुषाः प्रतिष्ठिताः देहेन्द्रियादीन् भोग्यानाधिष्ठाय चेतनाः शब्दादीनि भोग्यान्तराणि भुञ्जते देहादीनामपि भोगोपकरणत्वाद्भोग्यत्वमेव न भोक्तृत्वमित्यर्थः ॥७॥
अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा ॥८॥
अन्योन्यमिति । समस्य भावः साम्यं ब्रह्मभावः । ‘सम आत्मेति विद्यात्’ ‘निर्दोषं हि समं ब्रह्म’ इति श्रुतिस्मृत्योर्ब्रह्मणि समशब्ददर्शनात् । भोक्तृभोग्ययोर्यदा सुषुप्तिप्रलयसमाधिमोक्षेषु ब्रह्मभावो भवति । तदा ते उभे अन्योन्यं नाभिवर्तते व्यवहारतो विद्यमानमपि भोग्यं भोक्तारं नोपसर्पति । नापि भोक्ताऽलुप्तदृगपि भोगायतनस्य देहेन्द्रियादेरभावाद्भोग्यजातमुपसर्पतीत्यर्थः ॥८॥
यदा तु विषमीभावमाविशन्ति परस्परम्
।
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा ॥९॥
यदा त्विति । भोगप्रदकर्मोद्भवकाले विषमीभावं साम्यात् प्रच्युतिमाविशन्ति प्राप्रुवन्ति । तदा त एव भोक्तारो भोग्यपदार्थश्च देहैः स्वस्वरूपैः देहवन्तो लब्धस्वरूपा भूत्वा तैरेव स्वै रूपैः परस्परं व्यतिरोहन्ति भोक्तारो भोग्येषु निपतन्ति । भोग्यार्थाश्च भोक्तरि सुक्ष्मरूपेण स्ववासनां जनयन्तीत्यर्थः ॥९॥
आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः
।
सर्वाण्यपरिमेयाणि तदेषां रूपमैश्वरम् ॥१०॥
आनुपूर्व्या भूम्यादिक्रमेण विनश्यन्ति जायन्ते च आनुपूर्वश आकाशादिक्रमेण । विपर्ययेण क्रमोऽत उपपद्यते चेतिन्यायेन सृष्टिक्रमविपरीतत्वात् संहारक्रमस्य अत एव उत्पत्तिविनाशशीलत्वादेव सर्वाण्येतानि भोक्तृभोग्यन्यपरिमेयाणि अनन्तानि मरीचिकोदकह्रदतुल्यत्वात् । न हि मरीचिकोदकमियत्प्रमाणामिति परिमातुं शक्यम् । यत एतान्यपरिमेयाणि तत्तस्माद्धेतोः एषां रूपम् ऐश्वरमेव न तु भौतिकं न ह्यध्यस्तस्याधिष्ठानादन्यद्रूपमस्ति । अत एव ‘सर्वं खल्विदं ब्रह्म’ ‘आत्मैवेदं सर्वं’ ‘ब्रह्मैवेदं सर्वम्’ इति सर्वस्य ब्रह्मभावश्रवणमुपपद्यत इत्यर्थः ॥१०॥
तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः
।
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥११॥
अपरिमेयत्वमेवाह - तत्र तत्रेति । सिद्धा अपि यत्र ब्रह्माण्डं भित्वा गच्छन्ति तत्रापि वासनामया धातवो व्यक्तयः पाञ्चभौतिका दृश्यन्तेऽतोऽपरिमेया एव ते । एयं सत्यपि मनुष्या गणकादयस्तर्केण सूर्यगत्या देशभेदेन दिनमानभेदपादच्छायाभेदादिना च तेषां प्रमाणानि । एतच्चोपलक्षणम् आकारभेदस्यापि । तथाहि । केचित्कन्दुकाकारं केचिच्चतुरस्रं केचित्त्रिकोणं केचिच्चक्राकारं च भूमिसंस्थानं कल्पयन्ति । तथा प्रमाणभेदोऽपि जम्बूद्वीपपरिणाहगणकाः ‘तद्व्यासः कुभुजङ्गसायकभुवः सिद्धांशकेनाधिका’ इति वदन्ति । पञ्चदशशतान्येकाशीतियोजनानि । योजनचतुर्विंशांशसहितानि । तथा लक्षयोजनं तत्परिणाह इति पुराणान्तरे । अत्रापि ‘अष्टादशसहस्राणि षट्शतानि च’ इति वक्ष्यति ॥११॥
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत्
।
प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् ॥१२॥
कस्तर्ह्यत्र सिद्धान्त इत्याशङ्क्यानिर्वचनीय एवायमर्थो न तर्केण साधयितुं योग्य इत्याह - अचिन्त्या इति । ये भावाः जगज्जन्मोपादाननिमित्तपरिमाणधर्माधर्मादयः पदार्थाश्चिन्तयितुमयोग्यास्तान्न तर्केण साधयेत् नहि ते तर्केण साधयितुं शक्यन्ते । तर्कान्तरेण तस्य बाधसंभवात् तर्काप्रतिष्ठानात् इति न्यायाच्च । अत एवास्य श्लोकस्योत्तरार्द्धमन्यत्र पठन्ति - ‘नाप्रतिष्ठिततर्केण गंभीरार्थस्य निश्चयः’ इति । तथाहि । कन्दुकाकारे भुवनकोशे कल्प्यमाने ये कन्दुकपृष्ठे कमठपृष्ठोपमे तिष्ठन्ति तेषां कियानपि देशो जलपशुमनुष्याश्रययोग्योऽस्तीति वक्तुं युक्तं, ये तु तन्नितम्बे तदधश्च वसन्ति तेषां गुरुत्ववतामर्थानामधस्तादाश्रयाभावेनावश्यं पतनं भवतीति तावान्देशो रिक्त एवास्तीति वक्तव्यम् । तथा च तदाश्रया तत्कृता द्वीपान्तरकल्पना लोकदृष्टिविरुद्धेति पामरा अपि प्रतियन्ति । ननु यथा पृथिव्या अन्तरिक्षेऽवस्थानशक्तिर्दिगम्बरादन्यैः सर्वैर्वादिभिः कल्प्यते तथा वयमपि तस्या आकर्षणशक्तिमन्यां कल्पयामहे । यया सर्वदिक्स्थाः प्राणिनः पृथिवीं पादाधस्थामेव मन्यन्ते खं चोपरिस्थमिति । तर्हि लोकदृष्टिविरुद्धकल्पनापेक्षया सर्वप्राणिप्रत्यक्षस्वप्नमायेन्द्रजालादितुल्यतैवास्याः कुतो न कल्प्यत । ननु स्वप्नादिवदस्या बाधो न दृश्यत इति चेत् प्राक्ब्रह्मात्मज्ञानात् मादर्शि किं नश्छिनं श्रुत्या तु ज्ञाते द्वैतं न विद्यते। ‘नेह नानाऽस्ति किंचन’ इत्यादिकया ब्रह्मदर्शनेन रज्जुदर्शनेन सर्पस्येव प्रपञ्चबाध आम्नायते । तथा च निष्कलङ्कात् श्रुतिप्रमाणात् ब्रह्माद्वैतमेवादर्तव्यं न तु सकलङ्कात्तर्काज्जगतोऽनिर्वचनीयत्वमिति भावः ॥१२॥
सुदर्शनं प्रवक्ष्यामि द्वीपं तु कुरुनन्दन
।
परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः ॥१३॥
तर्हि किमस्य प्रमाणं का वा आकृतिस्तवाभिमतेत्याशंक्याह - सुदर्शनमिति । सुदर्शनो नाम जम्बूवृक्षविशेषस्तन्नामाङ्कितोऽयं द्वीपः सुदर्शनद्वीपः । कृत्स्नं ब्रह्माण्डमित्यर्थः। तं प्रमाणत आकृतितश्च प्रकर्षेण वक्ष्यामि । तुशब्दः पक्षान्तरव्यावृत्त्यर्थः । परिमण्डलः परमाणुमात्रं परिमाणतो दुर्लक्ष्य इत्यर्थः । ‘एषोऽन्तरात्मा चेतसा वेदितव्यः’ इत्यात्मवदिति भावः । परिमण्डल इत्यस्य सर्वतोवृत्तरूपः कन्दुकाकार इति व्याख्याने प्रागेव दोष उक्तः । अथ चक्राकार इत्युच्यते चेन्न । चिपिटाकारे तस्मिन् परिमण्डलशब्दस्यायोगात् चक्रसंस्थित इत्यनेन चक्रवत् संस्थितं संस्थानमाकारोऽस्येत्यनेनैव सिद्धत्वाच्च । अयं हि शब्दस्तार्किकाणां परमाणुपरिमाणे प्रसिद्धः । न चानेन परिमाणेनोपेतं निरंशं वस्तु सिद्ध्यति यस्य कस्याप्यल्पपारिमाणस्य दशदिगवच्छेद्यप्रदेशभेदवत्त्वेन तस्यापि निरंशत्वायोगात् । न हि परमाणोः पूर्वदिगवच्छिन्नो देशः प्रतीच्याऽप्यवछिद्यत इति वक्तुं शक्यम् दृष्टविरोधात् । तस्मात्परिमण्डलशब्दो दुर्लक्ष्यसद्वस्तुमात्रवचनः । तार्किकाणां परमाणुरपि तादृश एव । तत्र पारिभाषिकपरिमाणकल्पनं प्रस्थानभेदापादनार्थं शून्यकारणतानिरासार्थं चेति दिक् । एवं सुदर्शनद्वीपस्य परिमाणमुक्त्वा आकारमाह - चक्रसंस्थित इति । परिदृश्यमानराष्ट्राकार इत्यर्थः । ’चक्रं राष्ट्रास्रयोरपि’ इति विश्वः ॥१३॥
नदीजालप्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः
।
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा ॥१४॥
तदेव संस्थानमाह द्वाभ्यां नदीति ॥१४॥
वृक्षैः पुष्पफलोपेतैः सम्पन्नधनधान्यवान्
।
लवणेन समुद्रेण समन्तात्परिवारितः ॥१५॥
यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः
।
एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले ॥१६॥
नन्वेवंविधस्य कथमतिसूक्ष्मत्वमुच्यतेऽत आह- यथा हीति । चन्द्रमण्डले चन्द्राधिष्ठिते मनसीत्यर्थः । यद्येतद्ब्रह्माण्डं महाप्रमाणं स्यात् कथं तर्हि गिरिगुहैकदेशस्थो योगी स्वीये सूक्ष्मे हृदयावकाशे तत्कृत्स्नमादर्शे मुखवत्पश्येत् । न ह्यल्पप्रमाणे सर्षपादौ महाप्रमाणानां मेर्वादीनां संनिवेशो युज्यते प्रपञ्चस्य स्वप्नादिवदनिर्वचनीयत्वाङ्गीकारं विनेति भावः ॥१६॥
द्विरंशे पिप्पलस्ततत्र द्विरंशे च शशो महान्
।
सर्वौषधिसमावायः सर्वतः परिवारितः ॥१७॥
द्विरंश इति । तत्र चन्द्रमण्डलाख्ये मनसि अंशे एकदेशे वृत्त्यानन्त्यादनन्तस्य मनस एकदेश एकाकारा सूक्ष्मा वृत्तिरंशस्तत्र द्विःकार्यकारणरूपेण स्थूलसूक्ष्मरूपेण वा द्विरावृत्तः पिप्पलो गीतासु वक्ष्यमाणः संसाराश्वत्थोऽस्ति । सर्वमेतन्मनोमात्रमित्यर्थः । द्विरंशे च शशो महान् चकारात्तत्रेत्यनुवर्तते तस्मिन्नेव मनसि महान् परमात्मा शश इव शशः प्लुतगतिः शीघ्रगामी मनसो जवीय इति । ‘तद्धावतोऽन्यानत्येति’ इति च श्रुतेः। अंशे एकदेशे द्विर्वर्तते नियम्यनियामकभावेनेत्यर्थः । तथा च कार्यकारणप्रपञ्चो जीव ईश्वरश्च परब्रह्मण्यधिष्ठाने मनसैव कल्पित इत्यर्थः ॥१७॥
आपस्ततोऽन्या विज्ञेयाः शेषः सङ्क्षेप उच्यते
।
ततोऽन्य उच्यते चायमेनं सङ्क्षेपतः श्रृणु ॥१८॥
अस्य शशस्य प्रत्यगभेदं वक्ष्यन् प्रपञ्चादिभ्यः पृथक्त्वमाह- आप इति । आप इत्यवुपलाक्षतं भूतपञ्चकमुच्यते । ‘आपः पुरुषवचसो भवन्ति‘ इत्यादि श्रुतौ तथा दर्शनात्। एतेन कृत्स्नं भूतभौतिकं कार्यं ततः शशादन्यत् । तर्हि कारणं वस्तु तदभिन्नं स्यादित्याशंक्याह - शेषः संक्षेप उच्यत इति । समस्तकार्यप्रलये सति शिष्यत इति शेषः कारणं तदपि संक्षेपः कार्यस्यैव सूक्ष्मं रूपमाकुञ्चितावयवकूर्मसमानमुच्यतेऽतोऽव्याकृतं कारणमप्याप इवानात्मैवेत्यर्थः । ततो व्याकृताव्याकृताद्द्वयादन्यः शशः शुद्धं ब्रह्म तदेव अयं प्रत्यगात्मा जीव इत्युच्यते वेदे ’तत्त्वमसि‘ ’अहं ब्रह्मास्मि‘ ‘अयमात्मा ब्रह्म’ इत्यादौ परमात्मन एव प्रत्यगात्मत्वमुच्यते । न ततोऽन्यो जीवो नाम कश्चिच्चिद्धातुरस्तीत्यर्थः । एनं प्रत्यगभिन्नं परमेश्वरं शशाख्यं संक्षेपतो मया प्रोच्यमानं शृणु ॥१८॥
इति श्रीमहाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि सुदर्शनद्वीपवर्णने पञ्चमोऽध्यायः ॥५॥
धृतराष्ट्र उवाच ।
उक्तो द्वीपस्य सङ्क्षेपो विधिवद्बुद्धिमंस्त्वया
।
तत्त्वज्ञश्चोसि सर्वस्य विस्तारं ब्रूहि सञ्जय ॥१॥
पिप्पलशशयोः स्वरूपश्रवणे स्वस्यानधिकारं पश्यन् स्थूलमेव तावत् भगवतो रूपं श्रोतुमिच्छन् धृतराष्ट्र उवाच - उक्तो द्वीपस्येति । द्वीपस्य विस्तरमिति सम्बन्धः ॥१॥
यावान्भूम्यवकाशोऽयं दृश्यते शशलक्षणे
।
तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् ॥२॥
यावानिति । शशलक्षणे परमात्मनो ज्ञापके मायाशबले हार्दे ब्रह्मणि मायाकल्पितो भूम्यवकाशो यावान् व्यवहारदृष्ट्या सत्यवत्प्रतीयमानो योगिवरैर्दृश्यते तस्य प्रमाणं प्रबूहि । ननु कारणमेवादौ ज्ञातव्यं यज्ज्ञानात्सार्वज्ञ्यं भवतीति वेदे प्रसिद्धं किं द्वीपज्ञानेनेत्याशङ्क्याह- ततो वक्ष्यसि पिप्पलमिति । शशं च वक्ष्यसीति शेषः । प्रागेव कारणज्ञानात्तत्तद्विभूतिकार्यमेव वदेत्येतेन तत्रात्यन्तमादरो भवतीति भावः ॥२॥
वैशम्पायन उवाच ।
एवं राज्ञा स पृष्टस्तु सञ्जयो वाक्यमब्रवीत्
।
सञ्जय उवाच ।
प्रागायता महाराज षडेते वर्षपर्वताः
।
अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥३॥
प्रागायताः पूर्वपश्चिमसमुद्रस्पर्शिनः । अत्रेयं शास्त्रानुभवयोरविरोधेन भूकल्पना प्रतिभाति । यथा हस्तमात्रस्य चतुरस्त्रस्य चतुर्विंशत्यङ्गुलानि परिणाहः षण्नवत्यङ्गुलानि परिधिः किञ्चिन्न्यूनानि चतुस्त्रिंशदङ्गुलानि कर्णो भवति । एवम् अष्टादशसहस्राणि षट्शतानि च जम्बूपर्वसंज्ञिताया भुवः प्रमाणमुक्तम् । तदेवात्र परिधित्वेन कल्पितं तच्चतुर्थांशत्वेन चत्वारि सहस्राणि षट्शतानि पञ्चाशच्च योजनान्येकैको भुज इति तदेव समचतुरस्रस्य विष्कम्भप्रमाणं अस्य कर्णः शुल्बशास्त्रोक्तरीत्या षट्सहस्राणि पंचशतानि षट्सप्ततिश्च योजनानि तस्यास्य भूचतुरस्रस्य चतुर्भिः समुद्रैर्वेष्टितस्य कोणा दिक्षु वर्तन्ते । तेन दक्षिणस्यां दिशि रामसेतौ द्वयोः समुद्रयोः सन्धिः । एवमितरास्वपि दिक्षु समुद्रसन्धयो ज्ञेयाः । यस्त्वत्र ज्योतिर्विदां भूपरिधिः सप्ताङ्गनन्दाब्धियोजन ४९६७ संमितोऽभिमतः स एवास्माकं चतुरस्रविष्कम्भः खबाणरसवेदमितः ४६५० यत्तु एतयोरन्तरं सप्तेन्दुरामाः ३१७ तदपि यजमानेनोर्ध्वबाहुना प्रपदोच्छ्रितेन समपादस्थितेन वा उन्मितस्य सूत्रस्य यः पञ्चमोंऽशः स हस्त इति विकल्पस्य कात्यायनादिभिरुक्तत्वाद्धस्तप्रमाणभेदकल्पनया योजनबहुत्वाल्पत्ववचनेन समाधेयम् । तथाः भूमेश्चतुरस्रत्वेऽपि तन्मध्यस्थमत्युच्छ्रितं मेरुं प्रदक्षिणीकुर्वतः सूर्यस्य मार्गो मण्डलाकारोऽस्तीति न बौद्धाभिमतं सूर्यद्वयं कल्प्यं भवति । अन्यत् सर्वं युक्त्यविरुद्धं ज्योतिर्विन्मतमेवात्रानुसर्तव्यम्। यत्तु पुराणे पञ्चाशत्कोटियोजनं भूगोलप्रमाणमित्युक्तं तदप्यचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेदित्यनेनैव प्रत्युक्तम् । अव्यवस्थितत्वान्मतानामनिर्वचनीयवाद एव शरणीकरणीय इत्येव वरम् । यद्वा । सर्वत्र यत्प्रमाणं दृष्टं तद्विंशांशेन तद्बोध्यं तेन पञ्चाशत्कोटिस्थाने सार्द्धकोटिद्वयविस्तारा भूमिः । लक्षस्थाने पञ्चसहस्रविस्तारो जम्बूद्वीपः । नवसहस्रस्थाने सार्धचतुःशतयोजनायामं भरतखण्डमिति । आस्मन् पक्षे उदाहरिष्यमाणवैष्णवादिवाक्येभ्यो जम्बूद्वीपश्चतुर्दलकमलाकारः तस्याश्चान्तःपरिधिः षट्शताधिकान्यष्टादशयोजनसहस्राणि । त्रयस्त्रिंशच्छतानि मध्यव्यासः । तेन फलतः पञ्चसहस्रव्यासता ज्ञेया । एवं सति यदा प्रागायतो हिमाचलः पूर्वपश्चिमसमुद्रौ स्पृष्ट्वाऽस्ति तदाऽयं भरतवर्षस्त्रिकोणो भवति । तेन पृथिवी त्रिकोणेति लोकप्रवादोऽनुभवश्चानुसृतो भवति । अन्यथा भरतवर्षस्य धनुराकारत्वे भूमध्यरेखाया लङ्कातः सेतुमार्गेण प्रस्थितायाः । ‘पुरी रक्षसां देवकन्याऽथ काञ्चीसितः पर्वतः पर्यली वत्सगुल्मम् ॥ पुरी चोज्जयिन्याह्वया गर्गराटं कुरुक्षेत्रमेषा भुवो मध्यरेखा’ इति स्मर्यमाणया मध्यरेखया कुरुक्षेत्रस्य रामसेतुः सन्निहितो द्वारका च दूरे स्यात् । द्वारका समीपे सेतुश्च दूरे इति प्रत्यक्षमुपलभ्यते । भरतवर्षस्य त्रिकोणत्वमित्येषैव कल्पना साधीयसीति दिक् ॥३॥
हिमवान्हेमकूटश्च निषधश्च नगोत्तमः
।
नीलश्च वैदूर्यमयः श्वेतश्च शशिसन्निभः ॥४॥
सर्वधातुविचित्रश्च श्रृङ्गवान्नाम पर्वतः
।
एते वै पर्वता राजन्सिद्धचारणसेविताः ॥५॥
एषामन्तरविष्कम्भा योजनानि सहस्रशः
।
तत्र पुण्या जनपदास्तानि वर्षाणि भारत ॥६॥
एवं दक्षिणां दिशमारभ्य यावदुत्तरसमाप्ति षट् प्राक्पश्चिमायताः पर्वतास्तैश्च सप्तवर्षाणि भवन्ति मध्ये मध्ये वासयोग्यानि स्थानानि भवन्ति तेषां स्थानानां वर्षाख्यानामन्तरमाह - एषामिति । विष्कम्भः विस्तारः सहस्रशः शब्द एष शतशः शब्दपरः कर्तव्यः । लङ्काहिमाचलयोरनेकसहस्रयोजनान्तराभावात् षष्ट्यधिकशतचतुष्कयोजनसंमितस्यैवान्तरस्य प्रसिद्धेः । तत्रापि शतं सेतोः परतः षष्ट्यधिकत्रिशतं योजनानि सेतुतो हिमालय इति प्रत्यक्षसिद्धम् । वर्षाणि वर्षन्ति कामैः सिञ्चन्ति पूरयन्तीति वर्षाणि रम्यस्थानानि ॥६॥
वसन्ति तेषु सत्वानि नानाजातीनि सर्वशः
।
इदं तु भारतं वर्षं ततो हैमवतं परम् ॥७॥
वसन्त्येषु तानि वर्षाणीति योगान्तरमाह- वसन्तीति । हिमवतो दक्षिणे भारतं वर्षम् उत्तरतो हैमवतं वर्षं द्वितीयम् ॥७॥
हेमकूटात्परं चैव हरिवर्षं प्रचक्षते
।
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥८॥
हेमकूटनिषधयोर्मध्ये हरिवर्षम् । निषधनीलयोर्मध्ये वर्षविभागमाह- दक्षिणेनेति । दक्षिणेन दक्षिणतः समीप इत्यर्थः । एवमुत्तरेणेत्यादौ ज्ञेयम् ॥८॥
प्रागायतो महाभाग माल्यवान्नाम पर्वतः
।
ततः परं माल्यवतः पर्वतो गन्धमादनः ॥९॥
नीलनिषधयोर्मध्ये मेरुस्तस्य प्राक् माल्यवान् पूर्वसमुद्रावधिः पश्चिमसमुद्रावधिर्गन्धमादन इत्यर्थः॥९॥
परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः
।
आदित्यतरुणाभासो विधूम इव पावकः ॥१०॥
परिमण्डलशब्दस्य पूर्वोक्त एवार्थः । अत्याश्चर्यमयो मेरुः प्रतिक्षणं नवो नव इत्यर्थः । आदित्यतरुणो बालादित्यः ॥१०॥
योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः
।
अधस्ताच्चतुरशीतिर्योजनानां महीपते ॥११॥
चतुरशीतिसहस्त्रस्थाने द्विचत्वारिंशच्छती उच्छ्रायो बोध्यः अधस्तात् भूमेर्गर्भे ॥११॥
ऊर्ध्वंमधश्च तिर्यक्व लोकानावृत्य तिष्ठति
।
तस्य पार्श्वेष्वमी द्वीपाश्चत्वारः संस्थिता विभो ॥१२॥
तस्य पार्श्वेष्विति । पार्श्वेषु चतुर्दिक्षु द्वीपा इव द्वीपाः नद्यन्तरत्वाद्वर्षाणि ॥१२॥
भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत
।
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥१३॥
भद्राश्वादिसाहचर्याज्जम्बूद्वीपशब्दोऽत्र भरतवर्षपरस्तस्य तत्सारत्वज्ञापनार्थः । तानेव स्तौति - कृतपुण्यप्रतिश्रया इत्यादिना । कृता विहिताः पुण्यैः पुण्यवद्भिः प्रतिश्रया आश्रमा येषु ते ॥१३॥
विहगः सुमुखो यस्तु सुपर्णस्यात्मजः किल
।
स वै विचिन्तयामास सौवर्णान्वीक्ष्य वायसान् ॥१४॥
तत्र सुमुखाख्येन पक्षिणा मेरुं त्यक्त्वा प्रश्रयः कृत इत्याह - विहग इति द्वाभ्याम् ॥१४॥
मेरुरुत्तममध्यानामधमानां च पक्षिणाम्
।
अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ॥१५॥
एनं त्यजामि त्यक्त्वा उत्तरान् कुरूनेव गच्छामीति शेषः ॥१५॥
तमादित्योऽनुपर्येति सततं ज्योतिषां वरः
।
चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणः ॥१६॥
तं मेरुमादित्योऽनुपर्येति प्रदक्षिणीकरोति ॥१६॥
स पर्वतो महाराज दिव्यपुष्पफलान्वितः
।
भवनैरावृतः सर्वैर्जाम्बूनदपरिष्कृतैः ॥१७॥
तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः
।
अप्सरोगणसंयुक्ताः शैले क्रीडन्ति सर्वदा ॥१८॥
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः
।
समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः ॥१९॥
तुम्बुरुर्नारदश्चैव विश्वावसुर्हहा हुहूः
।
अभिगम्यामरश्रेष्ठांस्तुष्टुवुर्विविधैः स्तवैः ॥२०॥
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः
।
तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि ॥२१॥
तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते
।
इमानि तस्य रत्नानि तस्येमे रत्नपर्वताः ॥२२॥
काव्यः कविश्रेष्ठः शुक्रो रमत इति शेषः । तस्य काव्यस्य ॥२२॥
तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्रुते
।
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ॥२३॥
तस्मात् काव्यात् ततः कुबेरात् कलांशं षोडशभागस्यापि लेशम् ॥२३॥
पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमैश्चितम्
।
कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् ॥२४॥
कर्णिकारा राजवृक्षास्तेषां वनम् ॥२४॥
तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः
।
उमासहायो भगवान्रमते भूतभावनः ॥२५॥
कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम्
।
त्रिभिर्नेत्रैः कृतोद्योतस्त्रिभिः सूर्यैरिवोदितैः ॥२६॥
तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः
।
पश्यन्ति नहि दुर्वृत्तैः शक्यो द्रुष्टुं महेश्वरः ॥२७॥
तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर
।
विश्वरूपा परिमिता भीमनिर्घातनिःस्वना ॥२८॥
क्षीरवत् श्वेता धारा यस्याः सा गङ्गा विश्वरूपा । विश्वो विष्णुस्तद्रूपा । तथा च स्मरन्ति - ‘योऽसौ सर्वगतो विष्णुश्चित्स्वरूपी निरञ्जनः । स एव द्रवरूपेण गङ्गाम्भो नात्र संशयः’ इति ॥२८॥
पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा
।
प्लवन्तीव प्रवेगेन ह्रदे चन्द्रमसः शुभे ॥२९॥
तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः
।
तां धारयामास तदा दुर्धरां पर्वतैरपि ॥३०॥
तयैव प्रवेगेन मेरुप्राकाररात् पतनजनितबलेन खनन्त्या सह्रद उत्पादित इति सम्बन्धः ॥३०॥
शतं वर्षसहस्राणां शिरसैव महेश्वरः
।
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते ॥३१॥
जम्बूखण्डे तु तत्रैव महाजनपदो नृप
।
आयुर्दशसहस्राणि वर्षाणां तत्र भारत ॥३२॥
सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः
।
अनामया वीतशोका नित्यं मुदितमानसाः ॥३३॥
सुवर्णवर्णाः गौराः ॥३३॥
जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः
।
गन्धमादनश्रृङ्गेषु कुबेरः सह राक्षसैः ॥३४॥
निष्टप्तेति । पतिभास्वरा इत्यर्थः ॥३४॥
संवृतोऽप्सरसां सङ्घैर्मोदते गुह्यकाधिपः
।
गन्धमादनपार्श्वे तु परे त्वपरगण्डिकाः ॥३५॥
अपरगण्डिकाः अन्ये गन्धमादनस्यैवावयवभूता बुद्बुदोपमाः क्षुद्रशैलाः । ‘गण्डो भूषणबुद्बुदे’ इति मेदिनी । स्वार्थिकः कः ॥३५॥
एकादशसहस्राणि वर्षाणां परमायुषः
।
तत्र हृष्टा नरा राजंस्तेजोयुक्ता महाबलाः
।
स्त्रियश्चोत्पलवर्णाभाः सर्वाः सुप्रियदर्शनाः ॥३६॥
उत्पलवर्णेन आभान्ति ताः उत्पलवर्णाभाः ॥३६॥
नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम्
।
वर्षमैरातं राजन्नानाजनपदावृतम् ॥३७॥
नीलात्परतरमिति । नीलोत्पलधरमित्यपपाठः । एवं हिमवतो दक्षिणे भरतवर्षं तदुत्तरे हैमवतं वर्षं हेमकूटादुत्तरे हरिवर्षम् । निषधादुत्तरे नीलाच्च दक्षिणे मेरोः परित इलावृत्तमेकमेव चतुर्थं वर्षम् । अत्रैव केचिद्भद्राश्वकेतुमालयोर्वर्षान्तरत्वं प्रकल्प्य नववर्षाणीत्याचक्षते । ततो नीलात् पर्वतादुत्तरतः श्वेतं पञ्चमं वर्षम् । श्वेतात् पर्वतादुत्तरतो हैरण्यकं वर्षं षष्ठम् । ततः शृङ्गवत्पर्वतादैरावतं सप्तमं वर्षम् ॥३७॥
धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे
।
इलावृत्तं मध्यमं तु पञ्च वर्षाणि चैव हि ॥३८॥
धनुःसंस्थे धनुष्कोटी संस्थाशब्दः समाप्तिवचनः । सन्तिष्ठतेऽग्निहोत्रमित्यादिप्रयोगदर्शनात् । तेन मिश्रितधनुष्कोटिद्वयाकारे इत्यर्थः । शार्ङ्गस्य हि धनुषो द्वे कोटी एकीकृते भवतस्तदा मध्ये किञ्चिन्नतं त्रिकोणं भवति । अत एव रामसेतौ धनुष्कोटिशब्देनैव रत्नाकरमहोदध्याख्यसमुद्रद्वयसङ्गमप्रदेशो व्यवह्रियते एवमाकारं दक्षिणे भरतवर्षमुत्तरे ऐरावतं च मध्ये पञ्चेति सप्तवर्षाणि ॥३८॥
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः
।
आयुःप्रमाणमारोग्यं धर्मतः कामतोऽर्थतः ॥३९॥
समन्वितानि भूतानि तेषु वर्षेषु भारत
।
एवमेषा महाराज पर्वतैः पृथिवी चिता ॥४०॥
समन्वितानि भिन्नभावेन सङ्गतानि ॥४०॥
हेमकूटस्तु सुमहान् कैलासो नाम पर्वतः
।
यत्र वैश्रवणो राजन् गुह्यकैः सह मोदते ॥४१॥
हेमेति । हेमकूट एव कैलासस्तस्योत्तरे मैनाकस्तस्योत्तरतो हिरण्यशृङ्गः एतयोरन्तराले बिन्दुसरोऽस्तीति श्लोकत्रयार्थः ॥४१॥
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति
।
हिरण्यश्रृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ॥४२॥
तस्य पार्श्वे महद्दिव्यं शुभ्रं काञ्चनवालुकम्
।
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥४३॥
दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः
।
यूपा मणिमयास्तत्र चैत्याश्चापि हिरण्मयाः ॥४४॥
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः
।
स्रष्टा भूतपतिर्यत्र सर्वलोकैः सनातनः ॥४५॥
उपास्यते तिग्मतेजा यत्र भूतैः समन्ततः
।
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः ॥४६॥
भूतपती रुद्रः ॥४६॥
तत्र दिव्या त्रिपथगा प्रथमं तु प्रतिष्ठिता
।
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते ॥४७॥
वस्वौकसारा नलिनी पावनी च सरस्वती
।
जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी ॥४८॥
पावनी सरस्वतीत्येका ॥४८॥
अचिन्त्या दिव्यसङ्काशा प्रभोरेषैव संविधिः
।
उपासते यत्र सत्रं सहस्रयुगपर्यये ॥४९॥
प्रभोरीश्वरस्यैष सप्तनद्यात्मकः संविधिः समीचीनं लोकोपकारार्थं विधानम् । एषैवेति सन्धिरार्षः । कारुण्यात् परमेश्वरेण पावनाः पदार्थाः निर्मिता इत्यर्थः ॥४९॥
दृश्याऽदृश्या च भवति तत्र तत्र सरस्वती
।
एता दिव्या सप्तगङ्गास्त्रिषु लोकेषु विश्रुताः ॥५०॥
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः
।
सर्पा नागाश्च निषधे गोकर्णं च तपोवनम् ॥५१॥
देवासुराणां सर्वेषां श्वेतपर्वत उच्यते
।
गन्धर्वा निषधे नित्यं नीले ब्रह्मर्षयस्तथा
।
श्रृङ्गवांस्तु महाराज देवानां प्रतिसञ्चरः ॥५२॥
श्वेतपर्वतः स्थानमिति शेषः । गन्धर्वा वसन्तीति शेषः । प्रतिसञ्चरः व्यवहारस्थानम् ॥५२॥
इत्येतानि महाराज सप्त वर्षाणि भागशः
।
भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ॥५३॥
इतीति । वर्षाणि तत्र उपनिविष्टानि गतिमन्ति जङ्गमानि ध्रुवाणि स्थावराणि च सर्वाणि भूतान्येव सर्वं दृश्यमाश्रयाश्रितरूपं पाञ्चभौतिकमेवेत्यर्थः ॥५३॥
तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी
।
अशक्या परिसङ्ख्यातुं श्रद्धेया तु बुभूषता ॥५४॥
बुभूषता श्रेयः प्राप्तुमिच्छता श्रद्धेया अदृष्टेष्वर्थेषु श्रद्धावान् हि तत्प्राप्त्यर्थं चोदितानि कर्माणि करोति न त्वश्रद्दधान इत्यर्थः ॥५४॥
यां तु पृच्छसि मां राजन्दिव्यामेतां शशाकृतिम्
।
पार्श्वे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे
।
कर्णौ तु नगद्वीपश्च काश्यपद्वीप एव च ॥५५॥
एवं भूसंस्थानमुक्त्वा एतदेव परमात्मनः शरीरमिति चिन्तनीयमित्याशयेनाह - यां त्विति । दिवि मायाशबले भवां दिव्यां मायिकीं शशस्य चिदात्मनः आकृतिं पिप्पलाख्याम् । ततो वक्ष्यसि पिप्पलमिति पूर्वं त्वयैवोक्तत्वात् इदानीं पृच्छसि अवसरं प्राप्य वक्ष्यसि वर्तमानसामीप्ये वर्तमानवन्निर्देशः। तामहं त्वयाऽपृष्टामपि वक्ष्यामीति शेषः। तामेवाह - पार्श्वे इति । भुक्तस्यान्नादेः सङ्ग्रहस्थानं पार्श्वद्वयं यथा एवं कर्मसञ्चयस्थानं भरतवर्षमेकं परमेश्वरस्य दक्षिणपार्श्वत्वेन ज्ञेयम् । तथा ऐरावतवर्षमपि योगसञ्चयस्थानमुत्तरपार्श्वत्वेन ज्ञेयम् । तत्र हि ब्रह्मलोकच्युता योगभ्रष्टा विदेहप्रकृतिलयाख्या एव जायन्ते । ते च पूर्वसंस्कारात्पुनर्योगमभ्यस्यन्ति । भरतवर्षं तु कर्मयोगयोरप्यनुष्ठानाय योग्यमिति दक्षिणकुक्षित्वेनाभ्यर्हितत्वमस्य सूचितम् । यथा लौकिके शशशरीरे कर्णावत्युच्छ्रितं स्थानं तत्तुल्यौ परमेश्वरशरीरे नागद्वीपकाश्यपद्वीपौ क्रमेण दक्षिणोत्तरौ । अर्चिरादिमार्गप्राप्यः सत्यलोको योगिप्राप्यः । धूमादिमार्गप्राप्यो देवलोकः । कर्मप्राप्यश्च विश्वकोशे । ‘नागं तु सीसके रङ्गे’ इत्युपक्रम्य ‘श्रेष्ठे स्यादुत्तरस्थिते’ इति सर्वोपरिस्थे श्रेष्ठे हिरण्यगर्भे नागशब्दप्रयोगदर्शनात्तस्य द्वीप इव द्वीपो लोक इतरैरगम्य इति नागद्वीपः सत्यलोकः । तथा कश्यं मद्यं सुरासोमादिरूपं मादकं क्रतौ ये पिबन्ति ते कश्यपाः कर्मिणस्तेषामयं काश्यपद्वीपः स्वर्गः । एवं शशस्य कुक्षिकर्णानुसारेण ये ब्रह्माण्डे उच्चप्रदेशास्ते कुक्ष्युपरिभागत्वेन ये वाऽधःप्रदेशास्ते कुशेरधोभागत्वेन च कल्पनीयाः तथा च श्रुतिः- ‘अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा’ इति । अत्रापि चन्द्रसूर्यपदेन कृष्णशुक्लमार्गावेव गृह्येते । दिक्शब्देन च तत्प्राप्यौ शशकर्णस्थानीयौ देशभेदाविति ज्ञेयम् ॥५५॥
ताम्रपर्णशिलो राजञ्छ्रीमान्मलयपर्वतः
।
एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् ॥५६॥
एवं शशस्य मायिकं बाह्यं प्रथमं रूपमुक्तं तद्वासनोत्थं द्वितीयमान्तरं रूपमाह- ताम्रेति । रञ्जनात्मकत्वात् रक्तं रजस्ताम्रशब्दितं तत्प्रधानं मनोऽपि ताम्रमेव । तन्मयानि पर्णोपलक्षितानि वस्त्रान्नपानफलपुष्पादीनि शिलोपलक्षितानि हर्म्यादीनि च यत्रासौ ताम्रपर्णशिलः अत एव श्रीमान् मलयपर्वतः मलयेषु आरामेषु पर्वत इव उच्छ्रितः श्रेष्ठतम आराम इत्यर्थः । ‘मलयो देश आरामः ’इति विश्वः । ‘आराममस्य पश्यन्ति न तं पश्यति कश्चन’ इति बृहदारण्यकषष्ठे स्वाप्नप्रपञ्चे आरामपदप्रयोगदर्शनात् । एतत् मलयरूपं द्वीपस्य जम्बूखण्डस्य द्वितीयं वासनामयं शशसंस्थितं शशस्वरूपम् । एतेन ‘द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च’ इति श्रुतिप्रसिद्धे स्थूलसूक्ष्मे परमेश्वरस्य द्वे रूपे चिन्त्यत्वेन दर्शिते । ते उभे धृतराष्ट्रेणापि चिन्तनीये इति वक्तुराशयः ॥५६॥
इति श्रीमहाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि भूम्यादिपरिमाणविवरणे षष्ठोऽध्यायः ॥६॥
धृतराष्ट्र उवाच ।
मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व सञ्जय
।
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ॥१॥
एवमुक्तेऽपि ध्यानमार्गे चित्तदोषेणानधिकारात् कर्मप्राप्याण्येव स्वर्गच्युतानां स्थानानि पृच्छति - मेरोरिति ॥१॥
सञ्जय उवाच ।
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे
।
उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ॥२॥
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः
।
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥३॥
मधुफलाः स्वादुफलाः ॥३॥
सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप
।
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ॥४॥
ये क्षरन्ति सदा क्षीरं षड्रसं चामृपोतमम्
।
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥५॥
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका
।
सर्वर्तुसुखसंस्पर्शा निष्पङ्का च जनाधिप
।
पुष्करिण्यः शुभास्तत्र सुखस्पर्शा मनोरमाः ॥६॥
देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः
।
शुक्लाभिजनसम्पन्नाः सर्वे सुप्रियदर्शनाः ॥७॥
शुक्लाभिजनो विष्णुभक्तजनस्तेन संपन्नास्तत्सङ्गिनः ॥७॥
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः
।
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम् ॥८॥
मिथुनं जायते काले समं तच्च प्रवर्धते
।
तुल्यरूपगुणोपेतं समवेषं तथैव च ॥९॥
एवमेवानुरूपं च चक्रवाकसमं विभो
।
निरामयाश्च ते लोका नित्यं मुदितमानसाः ॥१०॥
चक्रवाकौ सहचरौ पक्षिदम्पती ॥१०॥
दश वर्षसहस्राणि दश वर्षशतानि च
।
जीवन्ति ते महाराज न चान्योऽन्यं जहत्युत ॥११॥
न जहति सममेव द्वावपि शरीरं त्यजत इत्यर्थः ॥११॥
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः
।
तान्निर्हरन्तीह मृतान्दरीषु प्रक्षिपन्ति च ॥१२॥
उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः
।
मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ॥१३॥
तस्य मूर्धाभिषेकस्तु भद्राश्वस्य विशाम्पते
।
भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ॥१४॥
मूर्धाभिषेको मूर्धाभिषिक्तं मुख्यमिति यावत् ॥१४॥
कालाम्रस्तु महाराज नित्यपुष्पफलः शुभः
।
द्रुमश्च योजनोत्सेधः सिद्धचारणसेवितः ॥१५॥
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः
।
स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ॥१६॥
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्वचन्द्रनिभाननाः
।
चन्द्रशीतलगात्र्यश्च नृत्यगीतविशारदाः ॥१७॥
दश वर्षसहस्राणि तत्रायुर्भरतर्षभ
।
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ॥१८॥
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
।
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ॥१९॥
सर्वकामफलः पुण्यः सिद्धचारणसेवितः
।
तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ॥२०॥
योजनानां सहस्त्रं च शतं च भरतर्षभ
।
उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर ॥२१॥
योजनानामिति । अत्राप्येकादशशत्या विंशोंऽशः पञ्चपञ्चाशत् ॥२१॥
अरत्नीनां सहस्रं च शतानि दश पञ्च च
।
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ॥२२॥
एवं सति सार्धसहस्त्रद्वयमरत्नीनां तस्य परिणाहो यत्र तत्र सपादशतम् अरत्नयः फलपरिणाहो युज्यते रसभेदिनां कर्कटीफलवत् पक्वतादशायां भेदशीलानाम् ॥२२॥
पतमानानि तान्युर्वीं कुर्वन्ति विपुलं स्वनम्
।
मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसन्निभम् ॥२३॥
तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप
।
मेरुं प्रदक्षिणं कृत्वा सम्प्रयात्युत्तरान्कुरून् ॥२४॥
तत्र तेषां मनःशान्तिर्न पिपासा जनाधिप
।
तस्मिन्फलरसे पीते न जरा बाधते च तान् ॥२५॥
तत्र जाम्बूनदं नाम कनकं देवभूषणम्
।
इन्द्रगोपकसङ्काशं जायते भास्वरं तु तत् ॥२६॥
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः
।
तथा माल्यवतः श्रृङ्गे दृश्यते हव्यवाट् सदा ॥२७॥
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ
।
तथा माल्यवतः श्रृङ्गे पूर्वपूर्वानुगण्डिका ॥२८॥
गण्डिका क्षुद्रपर्वतः ॥२८॥
योजनानां सहस्राणि पञ्चषण्माल्यवानथ
।
महारजतसङ्काशा जायन्ते तत्र मानवाः ॥२९॥
पञ्चषट् पञ्चाधिकाः षट् एकादशेत्यर्थः । महारजतं काञ्चनं तत्सङ्काशाः ॥२९॥
ब्रह्मलोकच्युताः सर्वे सर्वे सर्वेषु साधवः
।
तपस्तप्यन्ति ते तीव्रं भवन्ति ह्यूर्ध्वरेतसः
।
रक्षणार्थं तु भूतानां प्रविश्यन्ते दिवाकरम् ॥३०॥
ब्रह्मलोकेति । ये इतः कर्मणा ब्रह्मलोकं गतास्ते ततश्च्युताः सन्तो माल्यवति पर्वते जन्म लब्ध्वा भूतानां रक्षणार्थं तपस्तप्त्वा दिवाकरं प्रविशन्ते तत्समीपं प्राप्नुवन्ति ॥३०॥
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च
।
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥३१॥
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च
।
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ॥३२॥
तत्रापि आदित्यालोकेन कृत्स्नं विराट्पुरुषं बहुकालमुपास्य चन्द्रं मनसोऽधिष्ठातारं प्रविशन्ति सूत्रात्मभावं प्राप्नुवन्तीत्यर्थः ॥३२॥
इति श्रीमहाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि माल्यवद्ववर्णने सप्तमोऽध्यायाः ॥७॥
धृतराष्ट्र उवाच ।
वर्षाणां चैव नामानि पर्वतानां च सञ्जय
।
आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ॥१॥
वर्षाणामिति ॥१॥
सञ्जय उवाच ।
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु
।
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥२॥
दक्षिणेन त्विति । यद्यपि श्वेतस्य दाक्षिणे नीलस्तस्य दक्षिणे निषधस्तथाऽपि निषधोत्तरत्वमस्त्येवेत्यविरोधः । रमणकं यत्पूर्वं नीलादुत्तरतः श्वेताद्दक्षिणतश्च श्वेतवर्षमित्युक्तं तस्यैव रमणकमिति संज्ञान्तरम् । दक्षिणेन तु नीलस्य नीलमाल्यवतोर्नीलगन्धमादनयोश्च सन्धावित्यर्थः । निषधस्योत्तरेण तथैव तयोरेव सन्धिद्वय इत्यर्थः ॥२॥
शुक्लाभिजनसम्पन्नाः सर्वे सुप्रियदर्शनाः
।
निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः ॥३॥
दश वर्षसहस्राणि शतानि दश पञ्च च
।
जीवन्ति ते महाराज नित्यं मुदितमानसाः ॥४॥
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु
।
वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी ॥५॥
यत्र चायं महाराज पक्षिराट् पतगोत्तमः
।
यक्षानुगा महाराज धनिनः प्रियदर्शनाः ॥६॥
महाबलास्तत्र जना राजन्मुदितमानसाः
।
एकादशसहस्राणि वर्षाणां ते जनाधिप ॥७॥
आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च
।
श्रृङ्गाणि च विचित्राणि त्रीण्येव मनुजाधिप ॥८॥
शृङ्गाणि शृङ्गवतः षष्ठस्य वर्षपर्वतस्य सानूनि ॥८॥
एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम्
।
सर्वरत्नमयं चैकं भवनैरुपशोभितम् ॥९॥
तत्र स्वयंप्रभा देवी नित्यं वसति शाण्डिली
।
उत्तरेण तु श्रृङ्गस्य समुद्रान्ते जनाधिप ॥१०॥
शृङ्गस्य शृङ्गवतः ॥१०॥
वर्षमैरावतं नाम तस्माच्छृङ्गमतः परम्
।
न तत्र सूर्यस्तपति न जीर्यन्ते च मानवाः ॥११॥
शृङ्गं शृङ्गवत् यस्मात् सर्वधातुविचित्रश्च शृङ्गवान्नाम पर्वत इत्युक्तमहिम्ना पर्वतेन परिच्छन्नमिदमैरावताख्यं वर्षं तस्मात् । अतः पूर्वोक्ताद्वर्षगणात् परं श्रेष्ठमिदं वर्षमित्यर्थः । एतदेवाह - न तत्रेत्यादिना ॥११॥
चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः
।
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ॥१२॥
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः
।
अनिष्पन्दा इष्टगन्धा निराहारा जितेन्द्रियाः ॥१३॥
अनिष्यन्दा अस्वेदाः देवतुल्या इत्यर्थः ॥१३॥
देवलोकच्युताः सर्वे तथा विरजसो नृप
।
त्रयोदशसहस्राणि वर्षाणां ते जनाधिप ॥१४॥
आयुःप्रमाणं जीवन्ति नरा भरतसत्तम
।
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः
।
हरिर्वसति वैकुण्ठः शकटे कनकामये ॥१५॥
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलमिति विराड्भावं त्यक्त्वा सूत्रात्मभावं गच्छन्तीत्युक्तं स्थूलसूक्ष्मरूपं कार्यद्वयम् । इदानीं पिप्पलं तु वदिष्यसीत्युक्तः सञ्जयोऽवसरं प्राप्य पिप्पलाख्यं कारणमप्याह - क्षीरोदस्येति । तत्राधिदैवं लवणेक्षुसुरासर्पिर्दधिक्षीरशुद्धोदकानां सप्तसमुद्राणामुपान्त्यः क्षीरोदः अध्यात्मम् । अन्नमयः कोश आत्मा प्राणमयस्तु इन्द्रियमयप्राणमयभेदेन द्विविध इति द्वौ । चतुर्थो मनोमयः । पञ्चमोविज्ञानमयः । षष्ठ आनन्दमयः । सर्वकारणभूतः सप्तमः । शुद्धं ब्रह्मेति । तत्र क्षीरोदात्परतो महाविष्णोर्जगज्जन्मादिहेतोः स्थानमस्ति यदिदं दहराद्युपासकैः प्राप्यते । यत्रारण्यश्चार्णवौ यत्र प्रभुविमितं हिरण्मयं वेश्म यत्राश्वत्थसोमसवन इत्यादि चिह्नमुक्तं श्रुतिप्रसिद्धं स प्रभुरन्तर्यामी हरिः सर्वसंहर्ता वैकुण्ठोऽकुण्ठितसामर्थ्यः शकटे शकटवदचेतने कनकामये कनकवद्भास्वरज्योतिर्मये । ‘अन्येभ्योऽपि दृश्यते’ इति दीर्घः । चिन्मये शरीरे वसति ॥१५॥
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम्
।
अग्निवर्णं महातेजो जाम्बूनदविभूषितम् ॥१६॥
अस्य वस्तुवृत्त्या यद्यपि चिन्मयत्वं तथापि हि लोकप्रसिद्धम् अष्टचक्रम् अष्टाभिर्भगवत्तनुभिरुह्यत इति अष्ठचक्रं यानम् इहलोकपरलोकगतिसाधनम् । अष्टौ चक्राणि तु कर्मेन्द्रियपञ्चकं ज्ञानेन्द्रियपंचकं मन आदिचतुष्कं प्राणपञ्चकं सूक्ष्मभूतपञ्चकं अविद्या कामः कर्म चेति पुर्यष्टकात्मकं लिङ्गं शकटवदचेतनमचलमपि भूतयुक्तं भूतेन नित्यसिद्धेन ब्रह्मणा अनुप्रविष्टं सत् मनोजवं शीघ्रगं भवति प्राणनादिक्रियाः करोतीत्यर्थः । अत एव श्रूयते ‘को ह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो न स्यात्’ इति । अग्निवर्ण अग्निवत् वर्णो वर्णना यस्य । अत्यन्तं संसारदुःखप्रदमित्यर्थः । महातेजः अनेकविधज्ञानेन्द्रियप्रधानम् । जाम्बूनदं दिव्यसुवर्णं चेतोहरणं वासनाजालं तेन विभूषितं तन्मयमित्यर्थः । अधिदैवं तु स्पष्ट एवार्थः ॥१६॥
स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ
।
सङ्क्षेपो विस्तरश्चैव कर्ता कारयिता तथा ॥१७॥
स प्रभुरिति । योऽस्मिन् शकटे वसति स एव सर्वेषां जीवानां प्रभुर्नियन्ता । विभुर्व्यापकः । सङ्क्षेपः संहर्ता । विस्तरः सस्यक्विरचयिता । कर्ता जीवरूपेण । कारयिता ईश्वररूपेण ॥१७॥
पृथिव्यापस्तथाऽऽकाशं वायुस्तेजश्च पार्थिव
।
स यज्ञः सर्वभूतनामास्यं तस्य हुताशनः ॥१८॥
एवमध्यात्मादिदैवरूपत्वमुक्त्त्वा अधिभूताधियज्ञरूपत्वमपि तस्यैवाह - पृथिचीति । सर्वेषां भूतानां सम्बन्धी यथाधिकारं निर्वर्त्यो यज्ञः स एव आस्यं तस्य हुताशनः । विशेषतस्तु स यज्ञेनैव तृप्यतीति भावः ॥१८॥
वैशम्पायन उवाच ।
एवमुक्तः सञ्जयेन धृतराष्ट्रो महामनाः
।
ध्यानमन्वगमद्राजन् पुत्रान्प्रति जनाधिप ॥१९॥
एवं सञ्जयेन उक्तः उपदिष्टो धृतराष्ट्रो महामनाः महत् पिप्पलापरपर्यायविश्वरूपदर्शनयोग्यं मनो यस्य स एवंभूतो ध्यानं सविकल्पसमाधिं अन्वगमत् सञ्जयवाक्यश्रवणमनुप्राप्तवान् ॥१९॥
स विचिन्त्य महातेजाः पुनरेवाब्रवीद्वचः
।
असंशयं सूतपुत्र कालः सङ्क्षिपते जगत् ॥२०॥
सृजते च पुनः सर्वं नेह विद्यति शाश्वतम्
।
नरो नारायणश्चैव सर्वज्ञः सर्वभूतहृत् ॥२१॥
तत्र च यथाऽर्जुनेन विश्वरूपदर्शनकाले भावी क्षत्रक्षयो दृष्टस्तद्वत्सोऽपि नरनारायणाभ्यां क्रियमाणं सर्वक्षत्रक्षयं दृष्ट्वा स्वपुत्रान् प्रति विचिन्त्य पुनरेवाब्रवीत् । तदेव वचनमाह - असंशयमिति । इह लोके त्वदुक्ते जम्बूखण्डे शाश्वतं शश्वद्भवं मेर्वादिकमपि नास्ति किं तु सर्वं दृष्टनष्टस्वभावं सङ्कल्पमात्रोत्थम् । किं तर्हि शाश्वतमस्ति नरो नारायणश्चेति जीवेश्वरावेव शाश्वतौ नेत्याह उभयं मिलित्वा एक एव सर्वज्ञः सर्वभूतहृच्च तमेवेश्वरं देवा वैकुण्ठमाहुः अधिदैवं स एव वैकुण्ठाधिपतिरित्युच्यत इत्यर्थः । नरां जीवास्तु तमेव विष्णुम् अध्यात्मम् अन्तःप्रविष्टं जनानां शास्तारम् अष्टचक्रस्य शकटस्य चालकमाहुः । तथापि प्रभुं कृत्वाऽपि लेपशून्यम् अत ईश्वरस्य चिकीर्षितः क्षत्रक्षयो नास्मद्दोषज इति भावः ॥२१॥
देवा वैकुण्ठमित्याहुर्नरा विष्णुमिति प्रभुम् ॥२२॥
इति श्रीमहाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि धृतराष्ट्रवाक्ये अष्टमोऽध्यायः ॥८॥
धृतराष्ट्र उवाच ।
यदिदं भारतं वर्षं यत्रेदं मूर्च्छितं बलम्
।
यत्रातिमात्रलुब्धोऽयं पुत्रो दुर्योधनो मम ॥१॥
॥ यदिमिति ॥१॥
यत्र गृद्धा पाण्डुपुत्रा यत्र मे सज्जते मनः
।
एतन्मे तत्त्वमाचक्ष्व त्वं हि मे बुद्धिमान्मतः ॥२॥
गृद्धाः लोभयुक्ताः एतत् एतस्य मे मह्यं तत्त्वं याथार्थ्यम् ॥२॥
सञ्जय उवाच ।
न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम
।
गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः ॥३॥
अपरे क्षत्रियाश्चैव नानाजनपदेश्वराः
।
ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् ॥४॥
अत्र ते कीर्तयिष्यामि वर्षं भारत भारतम्
।
प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ॥५॥
प्रियमिति कर्मभूमित्वादिन्द्रादीनामिदं प्रियम् ॥५॥
पृथोस्तु राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः
।
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ॥६॥
अग्रे स्पष्टार्थो ग्रन्थः ॥६॥
तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च
।
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥७॥
कुशिकस्य च दुर्धर्ष गाधेश्चैव महात्मनः
।
सोमकस्य च दुर्धर्ष दिलीपस्य तथैव च ॥८॥
अन्येषां च महाराज क्षत्रियाणां बलीयसाम्
।
सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् ॥९॥
तत्ते वर्षं प्रवक्ष्यामि यथायथमरिन्दम
।
श्रृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि ॥१०॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि
।
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥११॥
तेषां सहस्रशो राजन्पर्वतास्ते समीपतः
।
अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ॥१२॥
अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः
।
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो ॥१३॥
नदीं पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम्
।
गोदावरीं नर्मदां च बाहुदां च महानदीम् ॥१४॥
शतद्रूं चन्द्रभागां च यमुनां च महानदीम्
।
दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् ॥१५॥
नदीं वेत्रवतीं चैव कृष्णवेणीं च निम्नगाम्
।
इरावतीं वितस्तां च पयोष्णीं देविकामपि ॥१६॥
वेदस्मृतां वेदवतीं त्रिदिवामिक्षुलां कृमिम्
।
करीषिणीं चित्रवाहां चित्रसेनां च निम्नगाम् ॥१७॥
गोमतीं धूतपापां च वन्दनां च महानदीम्
।
कौशिकीं त्रिविदां कृत्यां निचितां लोहितारणीं ॥१८॥
रहस्यां शतकुम्भां च सरयूं च तथैव च
।
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ॥१९॥
शरावतीं पयोष्णीं च वेणां भीमरथीमपि
।
कावेरीं चुलुकां चापि वाणीं शतबलामपि ॥२०॥
नीवारामहितां चापि सुप्रयोगां जनाधिप
।
पवित्रां कुण्डलीं सिन्धुं राजनीं पुरमालिनीम् ॥२१॥
पूर्वाभिरामां वीरां च भीमामोघवतीं तथा
।
पाशाशिनीं पापहरां महेन्द्रां पाटलावतीम् ॥२२॥
करीषिणीमसिक्नीं च कुशचीरां महानदीम्
।
मकरीं प्रवरां मेनां हेमां घृतवतीं तथा ॥२३॥
पुरावतीमनुष्णां च शैब्यां कापीं च भारत
।
सदानीरामधृष्यां च कुशधारां महानदीम् ॥२४॥
सदाकान्तां शिवां चैव तथा वीरमतीमपि
।
वस्त्रां सुवस्त्रां गौरीं च कम्पनां सहिरण्वतीम् ॥२५॥
वरां वीरकरां चापि पञ्चमीं च महानदीम्
।
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ॥२६॥
उपेन्द्रां बहुलां चैव कुवीरामम्बुवाहिनीम्
।
विनदीं पिञ्जलां वेणां तुङ्गवेणां महानदीम् ॥२७॥
विदिशां कृष्णवेणां च ताम्रां च कपिलामपि
।
खलुं सुवामां वेदाश्वां हरिश्रावां महापगाम् ॥२८॥
शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम्
।
कौशिकीं निम्नगां शोणा बाहुदामथ चन्द्रमाम् ॥२९॥
दुर्गां चित्रशिलां चैव ब्रह्मवेध्यां बृहद्वतीम्
।
यवक्षामथ रोहीं च तथा जाम्बूनदीमपि ॥३०॥
सुनसां तमसां दासीं वसामन्यां वराणसीम्
।
नीलां धृतवतीं चैव पर्णाशां च महानदीम् ॥३१॥
मानवीं वृषभां चैव ब्रह्ममेध्यां बृहद्ध्वनीम्
।
एताश्चान्याश्च बहुधा महानद्यो जनाधिप ॥३२॥
सदा निरामयां कृष्णां मन्दगां मन्दवाहिनीम्
।
ब्राह्मणीं च महागौरीं दुर्गामपि च भारत ॥३३॥
चित्रोपलां चित्ररथां मञ्चुलां वाहिनीं तथा
।
मन्दाकिनीं वैतरणीं कोषां चापि महानदीम् ॥३४॥
शुक्तिमतीमनङ्गां च तथैव वृषसाह्वयाम्
।
लोहित्यां करतोयां च तथैव वृषकाह्वयाम् ॥३५॥
कुमारीमृषिकुल्यां च मारिषां च सरस्वतीम्
।
मन्दाकिनीं सुपुण्यां च सर्वां गङ्गां च भारत ॥३६॥
विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः
।
तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः ॥३७॥
इत्येताः सरितो राजन्समाख्याता यथास्मृति
।
अत ऊर्ध्वं जनपदान्निबोध गदतो मम ॥३८॥
तत्रेमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः
।
शूरसेनाः पुलिन्दाश्च बोधा मालास्तथैव च ॥३९॥
मत्स्याः कुशल्याः सौशल्याः कुंतयः कांतिकोसलाः
।
चेदिमत्स्यकरूशाश्च भोजाः सिन्धुपुलिन्दकाः ॥४०॥
उत्तमाश्च दशार्णाश्च मेकलाश्चोत्कलैः सह
।
पञ्चालाः कोसलाश्चैव नैकपृष्ठा धुरन्धराः ॥४१॥
गोधा मद्रकलिङ्गाश्च काशयोऽपरकाशयः
।
जठराः कुक्कुराश्चैव सदशार्णाश्च भारत ॥४२॥
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः
।
गोमन्ता मन्दकाः सण्डा विदर्भा रूपवाहिकाः ॥४३॥
अश्मकाः पाण्डुराष्ट्राश्च गोपराष्ट्राः करीतयः
।
अधिराज्यकुशाद्याश्च मल्लराष्ट्रं च केवलम् ॥४४॥
वारवास्यायवाहाश्च चक्राश्चक्रातयः शकाः
।
विदेहा मगधाः स्वक्षा मलजा विजयास्तथा ॥४५॥
अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च
।
मल्लाः सुदेष्णाः प्रह्लादा माहिकाः शशिकास्तथा ॥४६॥
बाह्लिका वाटधानाश्च आभीराः कालतोयकाः
।
अपरान्ताः परान्ताश्च पञ्चालाश्चर्ममण्डलाः ॥४७॥
अटवीशिखराश्चैव मेरुभूताश्च मारिष
।
उपावृत्तानुपावृत्ताः स्वराष्ट्राः केकयास्तथा ॥४८॥
कुन्दापरान्ता माहेयाः कक्षाः सामुद्रनिष्कुटाः
।
अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च ॥४९॥
बहिर्गिर्याङ्गमलजा मगधा मानवर्जकाः
।
समन्तराः प्रावृषेया भार्गवाश्च जनाधिप ॥५०॥
पुण्ड्रा भर्गाः किराताश्च सुदृष्टा यामुनास्तथा
।
शका निषादा निषधास्तथैवानर्तनैर्ऋताः ॥५१॥
दुर्गालाः प्रतिमत्स्याश्च कुन्तलाः कोसलास्तथा
।
तीरग्रहाः शूरसेना ईजिकाः कन्यकागुणाः ॥५२॥
तिलभारा मसीराश्च मधुमन्तः सकुन्दकाः
।
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा ॥५३॥
अभीसारा उलूताश्च शैवला बाह्लिकास्तथा
।
दार्वी च वानवा दर्वा वातजामरथोरगाः ॥५४॥
बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः
।
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा ॥५५॥
वनायवो दशापार्श्वरोमाणः कुशबिन्दवः
।
कच्छा गोपालकक्षाश्च जाङ्गलाः कुरुवर्णकाः ॥५६॥
किराता बर्बराः सिद्धा वैदेहास्ताम्रलिप्तकाः
।
ओण्ड्रा म्लेच्छाः सैसिरिध्राः पार्वतीयाश्च मारिष ॥५७॥
अथापरे जनपदा दक्षिणा भरतर्षभ
।
द्रविडाः केरलाः प्राच्या भूषिका वनवासिकाः ॥५८॥
कर्णाटका महिषका विकल्पा मूषकास्तथा
।
झिल्लिकाः कुन्तलाश्चैव सौहृदा नभकाननाः ॥५९॥
कौकुट्टकास्तथा चोलाः कोङ्कणा मालवा नराः
।
समङ्गाः करकाश्चैव कुकुराङ्गारमारिषाः ॥६०॥
ध्वजिन्युत्सवसङ्केतास्त्रिगर्ताः साल्वसेनयः
।
व्यूकाः कोकबकाः प्रोष्ठाः सर्मवेगवशास्तथा ॥६१॥
तथैव विन्ध्यचुलिकाः पुलिन्दा वल्कलैः सह
।
मालवा बल्लवाश्चैव तथैवापरबल्लवाः ॥६२॥
कुलिन्दाः कालदाश्चैव कुण्डलाः करटास्तथा
।
मूषकास्तनबालाश्च सनीपा घटसृञ्जयाः ॥६३॥
अठिदाः पाशिवाटाश्च तनयाः सुनयास्तथा
।
ऋषिका विदभाः काकास्तङ्गणाः परतङ्गणाः ॥६४॥
उत्तराश्चापरम्लेच्छाः क्रूरा भरतसत्तम
।
यवनाश्चीनकाभ्योजा दारुणा म्लेच्छजातयः ॥६५॥
सकृद्ग्रहाः कुलत्थाश्च हूणाः पारसिकैः सह
।
तथैव रमणाश्चीनास्तथैव दशमालिकाः ॥६६॥
क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च
।
शूद्राभीराश्च दरदाः काश्मीराः पशुभिः सह ॥६७॥
खाशीराश्चान्तचाराश्च पह्लवा गिरिगह्वराः
।
आत्रेयाः सभरद्वाजास्तथैव स्तनपोषिकाः ॥६८॥
प्रोषकाश्च कलिङ्गाश्च किरातानां च जातयः
।
तोमरा हन्यमानाश्च तथैव करभञ्जकाः ॥६९॥
एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च
।
उद्देशमात्रेण मया देशाः सङ्कीर्तिता विभो ॥७०॥
यथागुणबलं चापि त्रिवर्गस्य महाफलम्
।
दुह्येत धेनुः कामधुक् भूमिः सम्यगनुष्ठिता ॥७१॥
यथागुणबलमिति । यथागुणं सत्त्वादिगुणान् अनतिक्रम्य तद्वत् यथाबलं शौर्यं चानतिक्रम्य त्रिवर्गस्य धर्मार्थकामात्मकस्य महाफलम् उत्कृष्टफलं हैरण्यगर्भपदप्राप्त्यन्तं सम्यगनुष्ठिता सम्यक्पालिता भूमिर्दुह्येत प्रपूरयेत् धेनुरिव कामान् अन्यांश्च दुग्धे इति कामधुक् ॥७१॥
तस्यां गृद्ध्यन्ति राजानः शूरा धर्मार्थकोविदाः
।
ते त्यजन्त्याहवे प्राणान्वसुगृद्धास्तरस्विनः ॥७२॥
गृद्भ्यन्ति अभिकांक्षां कुर्वन्ति वसुगृद्धाः धनलुब्धाः ॥७२॥
देवमानुषकायानां कामं भूमिः परायणम्
।
अन्योन्यस्यावलुम्पन्ति सारमेया यथाऽऽमिषम् ॥७३॥
देवकायानां यज्ञेन मानुषकायानामन्नप्रसवेन भूमिः परायणं शरणम् ॥७३॥
राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम्
।
न चापि तृप्तिः कामानां विद्यतेऽद्यापि कस्यचित् ॥७४॥
तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः
।
साम्ना भेदेन दानेन दण्डेनैव च भारत ॥७५॥
तस्मात् अतृप्तत्वात् ॥७५॥
पिता भ्राता च पुत्राश्च खं द्यौश्च नरपुङ्गव
।
भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शना ॥७६॥
एवमाधिदैविकं भूमिजयफलमुक्तम् । अथाध्यात्मं भूमिजयफलमाह - पितेति । अच्छिद्रं सम्पूर्णदर्शनं यस्याः सा भूमिः योगमार्गरीत्या कार्त्स्न्येन दृष्टा सती पित्रादिवदिह भौतिकेभ्य आघातेभ्यः पाति वज्रकायत्वं प्रयच्छतीत्यर्थः । खं स्वस्थं सूर्यादीनां पदं द्यौः स्वर्गपदं च सैव भवति तत्तत्प्रापयतीत्यर्थः॥७६॥
इति श्रीमहाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि भारतीयनदीदेशादिनामकथने नवमोऽध्यायः ॥९॥