धृतराष्ट्र उवाच ।
जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सञ्जय
।
विष्कम्भमस्य प्रब्रूहि परिमाणं तु तत्त्वतः ॥१॥
जम्बूखण्ड इति ॥१॥
समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनम्
।
शाकद्वीपं च मे ब्रूहि कुशद्वीपं च सञ्जय ॥२॥
शाल्मलिं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च
।
ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा ॥३॥
सञ्जय उवाच ।
राजन्सुबहवो द्वीपा यैरिदं सन्ततं जगत्
।
सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यौ ग्रहं तथा ॥४॥
ग्रहं राहुम् ॥४॥
अष्टादश सहस्राणि योजनानि विशाम्पते
।
षट् शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ॥५॥
अष्टादश सहस्त्राणि षट् शतानि च योजनानि विष्कम्भश्चतुर्दलकमलाकारस्य जम्बूद्वीपस्य पत्रान्तपरिधिः तादृशविस्तार एव पिण्डप्रमाणमन्तर्भाव्य पर्वताकृतित्वाज्जम्बूपर्वत इत्युच्यते ॥५॥
लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः
।
नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ॥६॥
लावणस्येति । क्षेत्रफलतः पञ्चसहस्रायामत्वाज्जम्बूद्वीपस्य तदुभयतः पञ्चपञ्चभिः सहस्रैः समुद्रस्य विष्कम्भो विस्तारः । तेन ससमुद्रस्य द्वीपस्य पञ्चदशसहस्रयोजनो व्यासः । द्विगुणः दशसहस्रयोजनः परिमण्डलश्चेदुभयतः समुद्रवेष्टनेन सह चत्वारिंशत्सहस्रः । एवं तृतीयोऽशीतिसहस्रः । चतुर्थः षष्टिसहस्राधिकं लक्षम् । पञ्चमो लक्षत्रयं विंशतिसहस्राणि । षष्ठो लक्षषट्कं चत्वारिंशत्सहस्राणि । सप्तमो द्वादशलक्षाण्यशीतिसहस्त्राणि । एतेषां सङ्कलने पञ्चविंशतिलक्षाणि पञ्चत्रिंशत् सहस्त्राणि योजनानि सप्तानां द्वीपानां ससमुद्राणां विस्तारः ॥६॥
नैकधातुविचित्रैश्च पर्वतैरुपशोभितः
।
सिद्धचारणसङ्कीर्णः सागरः परिमण्डलः ॥७॥
शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव
।
शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन ॥८॥
जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप
।
विष्कम्भेण महाराज सागरोऽपि विभागशः ॥९॥
क्षीरोदो भरतश्रेष्ठ येन सम्परिवारितः
।
तत्र पुण्या जनपदास्तत्र न म्रियते जनः ॥१०॥
कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते
।
शाकद्वीपस्य सङ्क्षेपो यथावद्भरतर्षभ ॥११॥
उक्त एष महाराज किमन्यत्कथयामि ते
।
धृतराष्ट्र उवाच ।
शाकद्वीपस्य सङ्क्षेपो यथावदिह सञ्जय ॥१२॥
उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः
।
सञ्जय उवाच ।
तथैव पर्वता राजन्सप्तात्र मणिभूषिताः ॥१३॥
रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु
।
अतीव गुणवत्सर्वं तत्र पुण्यं जनाधिप ॥१४॥
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते
।
प्रागायतो महाराज मलयो नाम पर्वतः ॥१५॥
ततो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः
।
ततः परेण कौरव्य जलधारो महागिरिः ॥१६॥
ततो नित्यमुपादत्ते वासवः परमं जलम्
।
ततो वर्षं प्रभवति वर्षकाले जनेश्वर ॥१७॥
उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठिता
।
रेवती दिवि नक्षत्रं पितामहकृतो विधिः ॥१८॥
रेवती ज्योतिर्मण्डलरूपेण दिवि विभ्रम्यमाणाऽपि दिव्येन रूपेणात्रापि वर्तते एवं विधिर्मर्यादा पितामहेन कृता ॥१८॥
उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः
।
नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः ॥१९॥
यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर
।
धृतराष्ट्र उवाच ।
सुमहान्संशयो मेऽद्य प्रोक्तोऽयं सञ्जय त्वया ॥२०॥
प्रजाः कथं सूतपुत्र सम्प्राप्ताः श्यामतामिह
।
सञ्जय उवाच ।
सर्वेष्वेव महाराज द्वीपेषु कुरुनन्दन ॥२१॥
गौरः कृष्णश्च पतगस्तयोर्वर्णान्तरे नृप
।
श्यामो यस्मात्प्रवृत्तो वै तस्माच्छ्यामो गिरिः स्मृतः ॥२२॥
पतगवर्णं व्याचष्टे - तयोरिति । मिश्रो वर्णः पतग इत्यर्थः । 'कारणगुणाः कार्यगुणानारभन्ते' इति न्यायेन श्यामपर्वतभवः श्यामवर्णः शाकाद्यन्नपरिणामेन मनुष्या अपि श्यामत्वं गता इत्यर्थः । यस्मात् श्यामो गिरिस्तस्मात्तत्स्थानां श्यामो वर्णः प्रवृत्त इत्यर्थः ॥२२॥
ततः परं कौरवेन्द्र दुर्गशैलो महोदयः
।
केसरः केसरयुतो यतो वातः प्रवर्तते ॥२३॥
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः
।
वर्षाणि तेषु कौरव्य सप्तोक्तानि मनीषिभिः ॥२४॥
महामेरुर्महाकाशो जलदः कुमुदोत्तरः
।
जलधारो महाराज सुकुमार इति स्मृतः ॥२५॥
रेवतस्य तु कौमारः श्यामस्य मणिकाञ्चनः
।
केसरस्याथ मौदाकी परेण तु महापुमान् ॥२६॥
परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च
।
जम्बूद्वीपेन सङ्क्यातस्तस्य मध्ये महाद्रुमः ॥२७॥
शाको नाम महाराज प्रजा तस्य सदानुगा
।
तत्र पुण्या जनपदाः पूज्यते तत्र शङ्करः ॥२८॥
तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च
।
धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत ॥२९॥
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते
।
दीर्घायुषो महाराज जरामृत्युविवर्जिताः ॥३०॥
प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः
।
नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गता ॥३१॥
सुकुमारी कुमारी च शीताशी वेणिका तथा
।
महानदी च कौरव्य तथा मणिजला नदी ॥३२॥
चक्षुर्वर्धनिका चैव नदी भरतसत्तम
।
तत्र प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह ॥३३॥
सहस्राणां शतान्येव यतो वर्षति वासवः
।
न तासां नामधेयानि परिमाणं तथैव च ॥३४॥
शक्यन्ते परिसङ्ख्यातुं पुण्यास्ता हि सरिद्वराः
।
तत्र पुण्या जनपदाश्चत्वारो लोकसम्मताः ॥३५॥
मङ्गाश्च मशकाश्चैव मानसा मन्दगास्तथा
।
मङ्गा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप ॥३६॥
मशकेषु च राजन्या धार्मिकाः सर्वकामदाः
।
मानसाश्च महाराज वैश्यधर्मोपजीविनः ॥३७॥
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः
।
शूद्रास्तु मन्दगा नित्यं पुरुषा धर्मशीलिनः ॥३८॥
न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः
।
स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् ॥३९॥
एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम्
।
एतदेव च श्रोतव्यं शाकद्वीपे महौजसि ॥४०॥