जम्बू-खाण्ड विनिर्मण पर्व - १भूमिपर्व - २भगवद्गीतापर्व - ३भीष्मवधपर्व - ४

भूमिपर्व

अध्यायः - ०११

धृतराष्ट्र उवाच । जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सञ्जय ।
विष्कम्भमस्य प्रब्रूहि परिमाणं तु तत्त्वतः ॥१॥

जम्बूखण्ड इति ॥१॥

समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनम् ।
शाकद्वीपं च मे ब्रूहि कुशद्वीपं च सञ्जय ॥२॥

शाल्मलिं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च ।
ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा ॥३॥

सञ्जय उवाच । राजन्सुबहवो द्वीपा यैरिदं सन्ततं जगत् ।
सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यौ ग्रहं तथा ॥४॥

ग्रहं राहुम् ॥४॥

अष्टादश सहस्राणि योजनानि विशाम्पते ।
षट् शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः ॥५॥

अष्टादश सहस्त्राणि षट् शतानि च योजनानि विष्कम्भश्चतुर्दलकमलाकारस्य जम्बूद्वीपस्य पत्रान्तपरिधिः तादृशविस्तार एव पिण्डप्रमाणमन्तर्भाव्य पर्वताकृतित्वाज्जम्बूपर्वत इत्युच्यते ॥५॥

लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः ।
नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ॥६॥

लावणस्येति । क्षेत्रफलतः पञ्चसहस्रायामत्वाज्जम्बूद्वीपस्य तदुभयतः पञ्चपञ्चभिः सहस्रैः समुद्रस्य विष्कम्भो विस्तारः । तेन ससमुद्रस्य द्वीपस्य पञ्चदशसहस्रयोजनो व्यासः । द्विगुणः दशसहस्रयोजनः परिमण्डलश्चेदुभयतः समुद्रवेष्टनेन सह चत्वारिंशत्सहस्रः । एवं तृतीयोऽशीतिसहस्रः । चतुर्थः षष्टिसहस्राधिकं लक्षम् । पञ्चमो लक्षत्रयं विंशतिसहस्राणि । षष्ठो लक्षषट्कं चत्वारिंशत्सहस्राणि । सप्तमो द्वादशलक्षाण्यशीतिसहस्त्राणि । एतेषां सङ्कलने पञ्चविंशतिलक्षाणि पञ्चत्रिंशत् सहस्त्राणि योजनानि सप्तानां द्वीपानां ससमुद्राणां विस्तारः ॥६॥

नैकधातुविचित्रैश्च पर्वतैरुपशोभितः ।
सिद्धचारणसङ्कीर्णः सागरः परिमण्डलः ॥७॥

शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव ।
शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन ॥८॥

जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप ।
विष्कम्भेण महाराज सागरोऽपि विभागशः ॥९॥

क्षीरोदो भरतश्रेष्ठ येन सम्परिवारितः ।
तत्र पुण्या जनपदास्तत्र न म्रियते जनः ॥१०॥

कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते ।
शाकद्वीपस्य सङ्क्षेपो यथावद्भरतर्षभ ॥११॥

उक्त एष महाराज किमन्यत्कथयामि ते ।
धृतराष्ट्र उवाच । शाकद्वीपस्य सङ्क्षेपो यथावदिह सञ्जय ॥१२॥

उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः ।
सञ्जय उवाच । तथैव पर्वता राजन्सप्तात्र मणिभूषिताः ॥१३॥

रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु ।
अतीव गुणवत्सर्वं तत्र पुण्यं जनाधिप ॥१४॥

देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते ।
प्रागायतो महाराज मलयो नाम पर्वतः ॥१५॥

ततो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः ।
ततः परेण कौरव्य जलधारो महागिरिः ॥१६॥

ततो नित्यमुपादत्ते वासवः परमं जलम् ।
ततो वर्षं प्रभवति वर्षकाले जनेश्वर ॥१८॥

रेवती ज्योतिर्मण्डलरूपेण दिवि विभ्रम्यमाणाऽपि दिव्येन रूपेणात्रापि वर्तते एवं विधिर्मर्यादा पितामहेन कृता ॥१८॥

उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठिता ।
रेवती दिवि नक्षत्रं पितामहकृतो विधिः ॥१८॥

रेवती ज्योतिर्मण्डलरूपेण दिवि विभ्रम्यमाणाऽपि दिव्येन रूपेणात्रापि वर्तते एवं विधिर्मर्यादा पितामहेन कृता ॥१८॥

उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः ।
नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः ॥१९॥

यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर ।
धृतराष्ट्र उवाच । सुमहान्संशयो मेऽद्य प्रोक्तोऽयं सञ्जय त्वया ॥२०॥

प्रजाः कथं सूतपुत्र सम्प्राप्ताः श्यामतामिह ।
सञ्जय उवाच । सर्वेष्वेव महाराज द्वीपेषु कुरुनन्दन ॥२१॥

गौरः कृष्णश्च पतगस्तयोर्वर्णान्तरे नृप ।
श्यामो यस्मात्प्रवृत्तो वै तस्माच्छ्यामो गिरिः स्मृतः ॥२२॥

पतगवर्णं व्याचष्टे - तयोरिति । मिश्रो वर्णः पतग इत्यर्थः । ‘कारणगुणाः कार्यगुणानारभन्ते’ इति न्यायेन श्यामपर्वतभवः श्यामवर्णः शाकाद्यन्नपरिणामेन मनुष्या अपि श्यामत्वं गता इत्यर्थः । यस्मात् श्यामो गिरिस्तस्मात्तत्स्थानां श्यामो वर्णः प्रवृत्त इत्यर्थः ॥२२॥

ततः परं कौरवेन्द्र दुर्गशैलो महोदयः ।
केसरः केसरयुतो यतो वातः प्रवर्तते ॥२३॥

तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः ।
वर्षाणि तेषु कौरव्य सप्तोक्तानि मनीषिभिः ॥२४॥

महामेरुर्महाकाशो जलदः कुमुदोत्तरः ।
जलधारो महाराज सुकुमार इति स्मृतः ॥२५॥

रेवतस्य तु कौमारः श्यामस्य मणिकाञ्चनः ।
केसरस्याथ मौदाकी परेण तु महापुमान् ॥२६॥

परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च ।
जम्बूद्वीपेन सङ्क्यातस्तस्य मध्ये महाद्रुमः ॥२७॥

शाको नाम महाराज प्रजा तस्य सदानुगा ।
तत्र पुण्या जनपदाः पूज्यते तत्र शङ्करः ॥२८॥

तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च ।
धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत ॥२९॥

वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते ।
दीर्घायुषो महाराज जरामृत्युविवर्जिताः ॥३०॥

प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः ।
नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गता ॥३१॥

सुकुमारी कुमारी च शीताशी वेणिका तथा ।
महानदी च कौरव्य तथा मणिजला नदी ॥३२॥

चक्षुर्वर्धनिका चैव नदी भरतसत्तम ।
तत्र प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह ॥३३॥

सहस्राणां शतान्येव यतो वर्षति वासवः ।
न तासां नामधेयानि परिमाणं तथैव च ॥३४॥

शक्यन्ते परिसङ्ख्यातुं पुण्यास्ता हि सरिद्वराः ।
तत्र पुण्या जनपदाश्चत्वारो लोकसम्मताः ॥३५॥

मङ्गाश्च मशकाश्चैव मानसा मन्दगास्तथा ।
मङ्गा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप ॥३६॥

मशकेषु च राजन्या धार्मिकाः सर्वकामदाः ।
मानसाश्च महाराज वैश्यधर्मोपजीविनः ॥३७॥

सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः ।
शूद्रास्तु मन्दगा नित्यं पुरुषा धर्मशीलिनः ॥३८॥

न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः ।
स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् ॥३९॥

एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम् ।
एतदेव च श्रोतव्यं शाकद्वीपे महौजसि ॥४०॥

इति श्रीमहाभारते भीष्मपर्वणि भूमिपर्वणि शाकद्वीपवर्णने एकादशोऽध्यायः ॥११॥
अध्यायः - ०१२

सञ्जय उवाच । उत्तरेषु च कौरव्य द्वीपेषु श्रूयते कथा ।
एवं तत्र महाराज ब्रुवतश्च निबोध मे ॥१॥

उत्तरेष्विति ॥१॥

घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः ।
सुरोदः सागरश्चैव तथान्यो जलसागरः ॥२॥

परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप ।
पर्वताश्च महाराज समुद्रैः परिवारिताः ॥३॥

गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् ।
पर्वतः पश्चिमे कृष्णो नारायणसखो नृप ॥४॥

मानःशिलो मनःशिलामयः ॥४॥

तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः ।
प्रसन्नश्चाभवत्तत्र प्रजानां व्यदधत्सुखम् ॥५॥

कुशस्तम्बः कुशद्वीपे मध्ये जनपदैः सह ।
सम्पूज्यते शाल्मलिश्च द्वीपे शाल्मलिके नृप ॥६॥

क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः ।
सम्पूज्यते महाराज चातुर्वर्ण्येन नित्यदा ॥७॥

गोमन्तः पर्वतो राजन्सुमहान्सर्वधातुकः ।
यत्र नित्यं निवसति श्रीमान्कमललोचनः ॥८॥

मोक्षिभिः सङ्गतो नित्यं प्रभुर्नारायणो हरिः ।
कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः ॥९॥

सुनामनामा दुर्धर्षो द्वितीयो हेमपर्वतः ।
द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः ॥१०॥

चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ।
षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः ॥११॥

तेषामन्तरविष्कम्भो द्विगुणः सर्वभागशः ।
औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ॥१२॥

तृतीयं सुरथाकारं चतुर्थं कम्बलं स्मृतम् ।
धृतिमत्पञ्चमं वर्षं षष्ठं प्रभाकरम् ॥१३॥

सप्तमं कापिलं वर्षं सप्तैते वर्षलम्भकाः ।
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर ॥१४॥

विहरन्ते रमन्ते च न तेषु म्रियते जनः ।
न तेषु दस्यवः सन्ति म्लेच्छजात्योपि वा नृप ॥१५॥

गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव ।
अवशिष्टेषु सर्वेषु वक्ष्यामि मनुजेश्वर ॥१६॥

यथाश्रुतं महाराज तदव्यग्रमनाः श्रृणु ।
क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः ॥१७॥

क्रौञ्चात्परो वामनको वामनादन्धकारकः ।
अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः ॥१८॥

मैनाकात्परतो रादन्गोविन्दो गिरिरुत्तमः ।
गोविन्दात्परतो राजन्निबिडो नाम पर्वतः ॥१९॥

परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन ।
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः श्रृणु ॥२०॥

क्रोञ्चस्य कुशलो देशो वामनस्य मनोनुगः ।
मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह ॥२१॥

उष्णात्परः प्रावरकः प्रावारादन्धकारकः ।
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः ॥२२॥

मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः ।
सिद्धचारणसङ्कीर्णो गौरप्रायो जनाधिप ॥२३॥

एते देशा महाराज देवगन्धर्वसेविताः ।
पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान् ॥२४॥

तत्र नित्यं प्रभवति स्वयं देवः प्रजापतिः ।
तं पर्युपासते नित्यं देवाः सर्वे महर्षयः ॥२५॥

वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप ।
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत ॥२६॥

द्वीपेषु तेषु सर्वेषु प्रजानां कुरुसत्तम ।
ब्रह्मचर्येण सत्येन प्रजानां हि दमेन च ॥२७॥

आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः ।
एको जनपदो राजन्द्वीपेष्वेतेषु भारत ।
उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते ॥२८॥

ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः ।
द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा ॥२९॥

स राजा स शिवो राजन्स पिता प्रतितामहः ।
गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः ॥३०॥

भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् ।
सिद्धमेव महाबाहो तद्धि भुञ्जन्ति नित्यदा ॥३१॥

ततः परं समा नाम दृश्यते लोकसंस्थितिः ।
चतुरश्रं महाराज त्रयस्त्रिंशत्तु मण्डलम् ॥३२॥

चतुरस्रं चतुर्दलकमलाकारं जम्बूमण्डलमिति शेषः । तस्य पूर्वम् अश्रान्तपरिधिरुक्तः । ‘अष्टादश सहस्त्राणि षट्शतानि च भारत’ इति । इह यत्र मध्यममण्डलपरिधिस्त्रयस्त्रिंशच्छतयोजन इत्युच्यते । ततश्च पञ्चसहस्त्रीतो यावान्यत्राग्रभागो बहिर्वृत्तस्तावानेव त्रयस्त्रिंशतोऽग्रे पञ्चसहस्त्रीतो गर्भे भाग ऊन इति ज्ञेयम् ॥३२॥

तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसम्मताः ।
दिग्गजा भरतश्रेष्ठ वामनैरावतादयः ॥३३॥

तत्र पत्रसन्धिस्थानेषु चतुर्षु ॥३३॥

सुप्रतीकस्तदा राजन्प्रभिन्नकरटामुखः ।
तस्याहं परिमाणं तु न सङ्ख्यातुमिहोत्सहे ॥३४॥

तस्य गजचतुष्टयस्य पृथिव्या आश्रयभूतस्य तत्कस्योपरि वर्तते इति दुर्वचं तेन ईश्वरशक्त्यैव दिग्गजा ध्रियन्त इति भावः ॥३४॥

असङ्ख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा ।
तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव हि ॥३५॥

सः गजसमूहः वातरज्जुभिर्गजा बद्धा इत्येतन्मतान्तरं तदपि दूषयति - तत्रेति ॥३५॥

असम्बद्धा महाराज तान्निगृह्णन्ति ते गजाः ।
पुष्करैः पद्मसङ्काशैर्विकसद्भिर्महाप्रभैः ॥३६॥

प्रत्युत वायोरेव निग्रहं ते कुर्वन्तीत्याह - तानिति । पुष्करैः शुण्डाग्रैः ॥३६॥

शतधा पुनरेवाशु ते तान्मुञ्चन्ति नित्यशः ।
श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः ॥३७॥

आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः ।
धृतराष्ट्र उवाच । परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः ॥३८॥

दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय ।
सञ्जय उवाच । उक्ता द्वीपा महाराज ग्रहं वै शृणु तत्त्वतः ॥३९॥

उत्तरं सूर्येन्दुराहुप्रमाणम् ॥३९॥

स्वर्भानोः कौरवश्रेष्ठ यावदेव प्रमाणतः ।
परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः ॥४०॥

योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ।
परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ ॥४१॥

परिणाहेन परिधिना ष‌ट्त्रिंशत्सहस्राणि विपुलत्वेन ततोऽप्याधिक्येन इदमुत्तरान्वयि ॥४१॥

षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा ।
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः ॥४२॥

षष्टिर्योजनानि परिणाह एवेत्यर्थः ॥४२॥

विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् ॥ एकोनषष्टिविष्कम्भं शीतरश्मेर्महात्मनः ॥४३॥

सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन ।
विष्कम्भेण ततो राजन्मण्डलं त्रिंशता समम् ॥४४॥

अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ ।
श्रूयते परमोदारः पतगोऽसौ विभावसुः ॥४५॥

पतगः शघ्रिगः विभावसुः सूर्यः ॥४५॥

एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत ।
स राहुश्छादयत्येतौ यथाकालं महत्तया ॥४६॥

चन्द्रादित्यौ महाराज सङ्क्षेपोऽयमुदाहृतः ।
इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा ॥४७॥

सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि ।
यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगत् ॥४८॥

तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति ।
श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् ॥४९॥

श्रीमान्भवति राजन्यः सिद्धार्थः साधुसम्मतः ।
आयुर्बलं च कीर्तिश्च तस्य तेजश्च वर्धते ॥५०॥

यः शृणोति महीपाल पर्वणीदं यतव्रतः ।
प्रीयन्ते पितरस्तस्य तथैव च पितामहाः ॥५१॥

इदं तु भारतं वर्षं यत्र वर्तामहे वयम् ।
पूर्वैः प्रवर्तितं पुण्यं तत्सर्वं श्रुतवानसि ॥५२॥

इति श्रीमहाभारते भीष्मपर्वणि भूमिपर्वणि उत्तरद्वीपादिसंस्थानवर्णने द्वादशोऽध्यायः ॥१२॥
॥ समाप्तं भूमिपर्व ॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in