जम्बू-खाण्ड विनिर्मण पर्व - १भूमिपर्व - २भगवद्गीतापर्व - ३भीष्मवधपर्व - ४

भीष्मवधपर्व

अध्यायः - ०४३ त्रिचत्वारिंशोऽध्यायः

वैशम्पायन उवाच । गीता सुगीता कर्तव्या किमन्यैः शास्त्रसङ्ग्रहैः ।
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥१॥

गीता सुगीता कर्तव्या इत्यादयः सार्धाः पश्च श्लोका गौडैर्न पठ्यन्ते ॥१॥

सर्वशास्त्रमयी गीता सर्वदेवमयो हरिः ।
सर्वतीर्थमयी गङ्गा सर्ववेदमयो मनुः ॥२॥

गीता गङ्गा च गायत्री गोविन्देति हृदि स्थिते ।
चतुर्गकारसंयुक्ते पुनर्जन्म न विद्यते ॥३॥

षट्शतानि सविंशानि श्लोकानां प्राह केशवः ।
अर्जुनः सप्तपञ्चाशत्सप्तषष्टिं तु सञ्जयः ॥४॥

धृतराष्ट्रः श्लोकमेकं गीताया मानमुच्यते ।
भारतामृतसर्वस्वगीताया मथितस्य च ।
सारमुद्धृत्य कृष्णेन अर्जुनस्य मुखे हुतम् ॥५॥

सञ्जय उवाच । ततो धनञ्जयं दृष्ट्वा बाणगाण्डीवधारिणम् ।
पुनरेव महानादं व्यसृजन्त महारथाः ॥६॥

एवं गीतान्ते मन्मना भवेत्यादिना निष्कामानामात्मनिष्ठानामेवैष्यसीत्यात्मप्राप्तिश्च तत्फलभूता दर्शिता । सकामानां त्वर्थाधीना कामसिद्धिः । अर्थश्च सतामपि पाण्डवानामिव गुरुवधानृताद्याश्रयेणैव सिद्ध्यति सोऽपि बलवदनुग्रहात् । अन्येषां तु कौरवाणामिव साध्यमानो निरन्वयोच्छेदाय भवतीति दर्शयिष्यन् युद्धप्रधानं ग्रन्थं सौषुप्तपर्वान्तमारभतेऽर्थस्यानर्थहेतुत्वं विवरीतुं ततो धनञ्जयं दृष्ट्वेति । ततः अर्जुनस्य करिष्ये वचनं तवेत्येवं रूपप्रतिज्ञानन्तरं धनञ्जयं युद्धार्थं सन्नद्धं दृष्ट्वेत्यर्थः ॥६॥

पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः ।
दध्मुश्च मुदिताः शङ्खान् वीराः सागरसम्भवान् ॥७॥

ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः ।
सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् ॥८॥

भेर्यो बृहत्यो ढक्काः । पेश्यः काहलाः । क्रकचा जयमङ्गलाः । गोविषाणिका गवादिशृङ्गाणि । सहसा युगपदेव अभ्यहन्यन्त अवाद्यन्त ॥८॥

तथा देवाः सगन्धर्वाः पितरश्च जनाधिप ।
सिद्धचारणस‌ङ्घाश्च समीयुस्ते दिदृक्षया ॥९॥

ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् ।
समीयुस्तत्र सहिता द्रष्टुं तद्वैशसं महत् ॥१०॥

ततो युधिष्ठिरो दृष्ट्वा युद्धाय समवस्थिते ।
ते सेने सागरप्रख्ये मुहुः प्रचलिते नृप ॥११॥

विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् ।
अवरुह्य रथात्क्षिप्रं पद्भ्यामेव कृताञ्जलिः ॥१२॥

वरायुधं धनुःश्रेष्ठम् अवरुह्य अवतीर्य ॥१२॥

पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः ।
वाग्यतः प्रययौ येन प्राङ्मुखो रिपुवाहिनीम् ॥१३॥

येन विजयाख्येन प्रयोजनेन स्वयं युधिष्ठिरः सङ्ग्रामे दृढबुद्धिस्तत्सिद्ध्यर्थम् अभिप्रेक्ष्य आलोच्य प्रथमं पितामहं प्रति प्रययौ रिपुवाहिनीं प्रविश्येति शेषः ॥१३॥

तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनञ्जयः ।
अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् ॥१४॥

वासुदेवश्च भगवान् पृष्ठतोऽनुजगाम तम् ।
तथा मुख्याश्च राजानस्तच्चित्ता जग्मुरुत्सुकाः ॥१५॥

अर्जुन उवाच । किं ते व्यवसितं राजन् यदस्मानपहाय वै ।
पद्भ्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् ॥१६॥

भीमसेन उवाच । क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः ।
दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव ॥१७॥

नकुल उवाच । एवं गते त्वयि ज्येष्ठे मम भ्रातरि भारत ।
भीर्मे दुनोति हृदयं ब्रूहि गन्ता भवान् क्व नु ॥१८॥

सहदेव उवाच । अस्मिन् रणसमूहे वै वर्तमाने महाभये ।
उत्सृज्य क्व नु गन्ताऽसि शत्रूनभिमुखो नृप ॥१९॥

सञ्जय उवाच । एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दनः ।
नोवाच वाग्यतः किञ्चिद्गच्छत्येव युधिष्ठिरः ॥२०॥

तानुवाच महाप्राज्ञो वासुदेवो महामनाः ।
अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव ॥२१॥

एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च ।
अनुमान्य गुरून् सर्वान् योत्स्यते पार्थिवोऽरिभिः ॥२२॥

गौत्तमं कृपम् ॥२२॥

श्रूयते हि पुराकल्पे गुरूनननुमान्य यः ।
युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः ॥२३॥

पुराकल्पे प्राचीनशास्त्रे ॥२३॥

अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः ।
ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम ॥२४॥

एवं ब्रुवति कृष्णेऽत्र धार्तराष्ट्रचमूं प्रति ।
हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन् ॥२५॥

दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः ।
मिथः सङ्कथयाञ्चक्रुरेषो हि कुलपांसनः ॥२६॥

मिथोऽन्योन्यं एषो हीति सुलोपाभाव आर्षः ॥२६॥

व्यक्तं भीत इवाभ्येति राजाऽसौ भीष्ममन्तिकम् ।
युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः ॥२७॥

व्यक्तं नियतं भीष्मस्य अन्तिकं समीपम् ॥२७॥

धनञ्जये कथं नाथे पाण्डवे च वृकोदरे ।
नकुले सहदेवे च भीतिरभ्येति पाण्डवम् ॥२८॥

न नूनं क्षत्रियकुले जातः संप्रथिते भुवि ।
यथाऽस्य हृदयं भीतमल्पसत्त्वस्य संयुगे ॥२९॥

ततस्ते सैनिकाः सर्वे प्रशंसन्ति स्म कौरवान् ।
हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुश्च ह ॥३०॥

व्यनिदंश्च तथा सर्वे योधास्तव विशांपते ।
युधिष्ठिरं ससोदर्यं सहितं केशवेन हि ॥३१॥

ततस्तत्कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम् ।
निःशब्दमभवत्तूर्णं पुनरेव विशांपते ॥३२॥

धिक्कृत्वा धिक्कृत्य असमास आर्षः धिगित्यकरोदिति वा ॥३२॥

किं नु वक्ष्यति राजाऽसौ किं भीष्मः प्रतिवक्ष्यति ।
किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति ॥३३॥

विवक्षितं वक्तुमिष्टम् ॥३३॥

विवक्षितं किमस्येति संशयः सुमहानभूत् ।
उभयोः सेनयो राजन् युधिष्ठिरकृते तदा ॥३४॥

सोऽवगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् ।
भीष्ममेवाभ्ययात्तूर्णं भ्रातृभिः परिवारितः ॥३५॥

तमुवाच ततः पादौ कराभ्यां पीड्य पाण्डवः ।
भीष्मं शान्तनवं राजा युद्धाय समुपस्थितम् ॥३६॥

युधिष्ठिर उवाच । आमन्त्रये त्वां दुर्धर्ष त्वया योत्स्यामहे सह ।
अनुजानीहि मां तात आशिषश्च प्रयोजय ॥३७॥

भीष्म उवाच ।

यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते ।
शपेयं त्वां महाराज पराभावाय भारत ॥३८॥

पराभावाय पराकृतो निरस्तो भावः सत्ता यत्र सः तस्मै भरणायेत्यर्थः । परश्चासावभावश्चेति विग्रहेऽपि स एवार्थः ॥३८॥

प्रीतोऽहं पुत्र युध्यस्व जयमाप्नुहि पाण्डव ।
यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे ॥३९॥

व्रियतां च वरः पार्थ किमस्मत्तोऽभिकांक्षसि ।
एवंगते महाराज न तवास्ति पराजयः ॥४०॥

एवंगते ईदृगाचरणवति त्वयि ॥४०॥

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोस्म्यर्थेन कौरवैः ॥४१॥

अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन ।
भृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि ॥४२॥

क्लीबवत् स्वोक्तस्य वरस्य युद्धादन्यदिति स्वेनैव सङ्कोचनात्कातरवत् भृतः पोषितः युद्धात्प्रातिभट्यात् ॥४२॥
युधिष्ठिर उवाच ।

मन्त्रयस्व महाबाहो हितैषी मम नित्यशः ।
युध्यस्व कौरवस्यार्थे ममैष सततं वरः ॥४३॥

भीष्म उवाच ।

राजन्किमत्र साह्यं ते करोमि कुरुनन्दन ।
कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् ॥४४॥

साह्यं साहाय्यम् ॥४४॥

युधिष्ठिर उवाच । कथं जयेयं सङ्ग्रामे भवन्तमपराजितम् ।
एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि ॥४५॥

श्रेयः प्रपश्यसि यदि वक्तुं योग्यमिति मन्यसे तर्हि वदेत्यर्थः ॥४५॥

भीष्म उवाच । नैनं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे ।
विजयेत पुमान् कश्चित्साक्षादपि शतक्रतुः ॥४६॥

युधिष्ठिर उवाच ।

हन्त पृच्छामि तस्मात्त्वां पितामह नमोऽस्तु ते ।
वधोपायं ब्रवीहि त्वमात्मनः समरे परैः ॥४७॥

भीष्म उवाच ।

न स्म तं तात पश्यामि समरे यो जयेत माम् ।
न तावन्मृत्युकालोऽपि पुनरागमनं कुरु ॥४८॥

तावत् संप्रति ॥४८॥
सञ्जय उवाच ।

ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन ।
शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च ॥४९॥

प्रायात् पुनर्महाबाहुराचार्यस्य रथं प्रति ।
पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह ॥५०॥

स द्रोणमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् ।
उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ॥५१॥

आत्मनिःश्रेयसं स्वहितसाधनम् ॥५१॥

आमन्त्रये त्वां भगवन् योत्स्ये विगतकल्मषः ।
कथं जये रिपून् सर्वाननुज्ञातस्त्वया द्विज ॥५२॥

अहं रिपून् कथं जये तत्त्वं विगतकल्मषः सन्कथयेति शेषः॥५२॥
द्रोण उवाच ।

यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः ।
शपेयं त्वां महाराज पराभावाय सर्वशः ॥५३॥

तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयाऽनघ ।
अनुजानामि युध्यस्व विजयं समवाप्नुहि ॥५४॥

करवाणि च ते कामं ब्रूहि त्वमभिकाङ्क्षितम् ।
एवंगते महाराज युद्धादन्यत्किमिच्छसि ॥५५॥

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥५६॥

ब्रवीम्येतत्क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि ।
योत्स्येऽहं कौरवस्यार्थे तवाशास्यो जयो मया ॥५७॥

युधिष्ठिर उवाच ।

जयमाशास्व मे ब्रह्मन् मन्त्रयस्व च मद्धितम् ।
युद्ध्यस्व कौरवस्यार्थे वर एष वृतो मया ॥५८॥

द्रोण उवाच ।

ध्रुवस्ते विजयो राजन् यस्य मन्त्री हरिस्तव ।
अहं त्वामभिजानामि रणे शत्रून् विमोक्ष्यसे ॥५९॥

ध्रुवोऽवश्यंभावी अभिजानामि अनुजानामि विमोक्ष्यसे शत्रून् जीवितादिति शेषः ॥५९॥

यतो धर्मस्ततः कृष्णो यतः कृष्णस्तस्तो जयः ।
युद्ध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते ॥६०॥

युधिष्ठिर उवाच ।

पृच्छामि त्वां द्विजश्रेष्ठ शृणु यन्मेऽभिकाङ्क्षितम् ।
कथं जयेयं सङ्ग्रामे भवन्तमपराजितम् ॥६१॥

द्रोण उवाच ।

न तेऽस्ति विजयस्तावद्यावद्युद्ध्याम्यहं रणे ।
ममाशु निधने राजन् यतस्व सह सोदरैः ॥६२॥

युधिष्ठिर उवाच ।

हन्त तस्मान्महाबाहो वधोपायं वदात्मनः ।
आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते ॥६३॥

हंत विषादे ॥६३॥
द्रोण उवाच ।

न शत्रुं तात पश्यामि यो मां हन्याद्रथे स्थितम् ।
युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम् ॥६४॥

ऋते प्रायगतं राजन्न्यस्तशस्त्रमचेतनम् ।
हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते ॥६५॥

प्रायगतं मरणाय नियतम् अचेतनं योगबलेन त्यक्तदेहं योधानां मध्ये कश्चिदिति शेषः ॥६५॥

शस्त्रं चाहं रणे जह्यां श्रुत्वा तु महदप्रियम् ।
श्रद्धेयवाक्यात्पुरुषादेतत्सत्यं ब्रवीमि ते ॥६६॥

जह्यां त्यजेयं श्रद्धेयवाक्यात् आदेयवचनात् ॥६६॥
सञ्जय उवाच ।

एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः ।
अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति ॥६७॥

सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् ।
उवाच दुर्धर्षतमं वाक्यं वाक्यविदां वरः ॥६८॥

अनुमानये त्वां योत्स्येऽहं गुरो विगतकल्मषः ।
जयेयं च रिपून् सर्वाननुज्ञातस्त्वयाऽनघ ॥६९॥

कृप उवाच ।

यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः ।
शपेयं त्वां महाराज पराभावाय सर्वशः ॥७०॥

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥७१॥

तेषामर्थे महाराज योद्धव्यमिति मे मतिः ।
अतस्त्वां क्लीबवद्ब्रूयां युद्धादन्यत्किमिच्छसि ॥७२॥

युधिष्ठिर उवाच ।

हन्त पृच्छामि ते तस्मादाचार्य शृणु मे वचः ।
इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः ॥७३॥

सञ्जय उवाच ।

तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम् ।
अवध्योऽहं महीपाल युद्ध्यस्व जयमाप्नुहि ॥७४॥

प्रीतस्तेऽभिगमेनाहं जयं तव नराधिप ।
आशासिष्ये सोत्थाय सत्यमेतद्ब्रवीमि ते ॥७५॥

एतच्छ्रुत्वा महाराज गौतमस्य विशांपते ।
अनुमान्य कृपं राजा प्रययौ येन मद्रराट् ॥७६॥

स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् ।
उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ॥७७॥

अनुमानये त्वां दुर्धर्ष योत्स्ये विगतकल्मषः ।
जयेयं नु परान् राजन्ननुज्ञातस्त्वया रिपून् ॥७८॥

परान् प्रकृष्टान् ॥७८॥
शल्य उवाच ।

यदि मां नाधिगच्छेथा युद्धाय कृतनिश्चयः ।
शपेयं त्वां महाराज पराभावाय वै रणे ॥७९॥

तुष्टोऽस्मि पूजितश्चास्मि यत्कांक्षसि तदस्तु ते ।
अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि ॥८०॥

ब्रूहि चैव परं वीर केनार्थः किं ददामि ते ।
एवंगते महाराज युद्धादन्यत्किमिच्छसि ॥८१॥

अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥८२॥

करिष्यामि हि ते कामं भागिनेय यथेप्सितम् ।
ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि ॥८३॥

युधिष्ठिर उवाच । मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम् ।
कामं युद्ध्य परस्यार्थे वरमेतं वृणोम्यहम् ॥८४॥

शल्य उवाच । किमत्र ब्रूहि साह्यं ते करोमि नृपसत्तम ।
कामं योत्स्ये परस्यार्थे बद्धोऽस्म्यर्थेन कौरवैः ॥८५॥

युधिष्ठिर उवाच ।

स एव मे वरः शल्य उद्योगे यस्त्वया कृतः ।
सूतपुत्रस्य संग्रामे कार्यस्तेजोवधस्त्वया ॥८६॥

शल्य उवाच । सम्पत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितम् ।
गच्छ युध्यस्व विश्रब्धः प्रतिजाने वचस्तव ॥८७॥

सञ्जय उवाच ।

अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् ।
निर्जगाम महासैन्याद्भ्रातृभिः परिवारितः ॥८८॥

वासुदेवस्तु राधेयमाहवेऽभिजगाम वै ।
तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः ॥८९॥

श्रुतं मे कर्ण भीष्मस्य द्वेषात्किल न योत्स्यसे ।
अस्मान्वरय राधेय यावद्भीष्मो न हन्यते ॥९०॥

हते तु भीष्मे राधेय पुनरेष्यसि संयुगम् ।
धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम् ॥९१॥

कर्ण उवाच । न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव ।
त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम् ॥९२॥

सञ्जय उवाच । तच्छ्रुत्वा वचनं कृष्णः संन्यवर्तत भारत ।
युधिष्ठिरपुरोगैश्च पाण्डवैः सह सङ्गतः ॥९३॥

अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः ।
योऽस्मान्वृणोति तमहं वरये साह्यकारणात् ॥९४॥

अथ तान् समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत् ।
प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम् ॥९५॥

इदं वक्ष्यमाणवचनं युधिष्ठिरं प्रत्यब्रवीत् ॥९५॥

अहं योत्स्यामि भवतः संयुगे धृतराष्ट्रजान् ।
युष्मदर्थं महाराज यदि मां वृणुषेऽनघ ॥९६॥

भवतः भवत्सम्बन्धी मिषत इति पाठे पश्यतस्तवेति शेषः ॥९६॥

युधिष्ठिर उवाच । एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान् ।
युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः ॥९७॥

वृणोमि त्वां महाबाहो युद्ध्यस्व मम कारणात् ।
त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते ॥९८॥

तन्तुः सन्ततिः, पिण्डः पितृमज्ञः, अन्ये सर्वे मरिष्यन्तीति भावः ॥९८॥

भजस्वास्मान् राजपुत्र भजमानान्महाद्युते ।
न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः ॥९९॥

भजस्वेति । अभजमानः सर्वोऽपि धृतराष्ट्रपुत्रो न भविष्यति मरिष्यतीत्यर्थः ॥९९॥

सञ्जय उवाच । ततो युयुत्सुः कौरव्यान् परित्यज्य सुतांस्तव ।
जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम् ॥१००॥

ततो युधिष्ठिरो राजा संप्रहृष्टः सहानुजः ।
जग्राह कवचं भूयो दीप्तिमत्कनकोज्ज्वम् ॥१०१॥

प्रत्यपद्यन्त ते सर्वे स्वरथान् पुरुषर्षभाः ।
ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः ॥१०२॥

अवादयन् दुन्दुभींश्च शतशश्चैव पुष्करान् ।
सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः ॥१०३॥

पुष्करान् दीर्घकहालान् एकपुष्करानिति पाठे मुरजान् ॥१०३॥

रथस्थान् पुरुषव्याघ्रान् पाण्डवान् प्रेक्ष्य पार्थिवाः ।
धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे तदा ॥१०४॥

गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान् ।
दृष्ट्वा महीक्षितस्तत्र पूजयाञ्चक्रिरे भृशम् ॥१०५॥

गौरवं मान्यत्वम् ॥१०५॥

सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् ।
दयां च ज्ञातिषु परां कथयाञ्चक्रिरे नृपाः ॥१०६॥

सौहृदं मैत्रीं कृपां स्नेहं दयां परदुःखप्रहाणेच्छाम् ॥१०६॥

साधु साध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः ।
वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षणाः ॥१०७॥

कीर्तिमतां पाण्डवानां स्तुतिसंहिता वाच इति सम्बन्धः ॥१०७॥

म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तथा ।
वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः ॥१०८॥

आर्याः कुलीनाः वृत्तं चरितम् । ‘मदप्रमदपीडादेर्वाग्भङ्गं गद्गदं विदुः’ ॥१०८॥

ततो जघ्नुर्महाभेरीः शतशश्च सहस्रशः ।
शङ्खांश्च गोक्षीरनिभान् दध्मुर्हृष्टा मनस्विनः ॥१०९॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि भीष्मादिसम्मानने त्रिचत्वारिंशोऽध्यायः ॥४३॥
चतुश्चत्वारिऽशोध्यायः
धृतराष्ट्र उवाच ।

एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च ।
के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवा नु किम् ॥१॥

एवमिति । एवं व्यूढेष्वित्यादेर्दृष्ट्वा भीष्मस्य विक्रममित्यन्तस्य सर्वातिशायी भीष्मस्य पराक्रम इति तात्पर्यार्थः ॥१॥
सञ्जय उवाच ।

भ्रातृभिः सहितो राजन् पुत्रो दुःशासनस्तव ।
भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥२॥

तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः ।
भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः ॥३॥

क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः ।
भेरीमृदङ्गमुरजा हयकुञ्जरनिःस्वनाः ॥४॥

क्ष्वेडाः सिंहनादाः मृदङ्गाः मर्दलाः मुरजाः क्षुद्रमर्दलाः ॥४॥

उभयोः सेनयोर्ह्यासंस्ततस्तेऽस्मान् समाद्रवन् ।
वयं तान् प्रतिनर्दंतस्तदासीत्तुमुलं महत् ॥५॥

समाद्रवन् अन्योन्यं सङ्गता अभूवन् ॥५॥

महान्त्यनीकानि महासमुच्छ्रये समागमे पाण्डवधार्तराष्ट्रयोः ।
चकल्पिरे शङ्खमृदङ्गानिःस्वनैः प्रकम्पितानीव वनानि वायुना ॥६॥

महान् समुच्छ्रयः संप्रहारो यत्र ॥६॥

नरेन्द्रनागाश्वरथाकुलानामभ्यागतानामशिवे मुहूर्ते ।
बभूव घोषरतुमुलश्चमूनां वातोद्धुतानामिव सागराणाम् ॥७॥

तस्मिन् समुत्थिते शब्दे तुमुले लोमहर्षणे ।
भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा ॥८॥

गोवृषो बलीवर्दश्रेष्ठः ॥८॥

शङ्खदुन्दुभिनिर्घोषं वारणानां च वृहितम् ।
सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत् ॥९॥

अभ्यभूत् अभिभूतवान् ॥९॥

हयानां हेषमाणानामनीकेषु सहस्रशः ।
सर्वानभ्यभवच्छब्दान् भीमस्य नदतः स्वनः ॥१०॥

तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः ।
जीमूतस्येव नदतः शक्राशनिसमस्वनम् ॥११॥

सैन्याः सेनामुख्याः ॥११॥

वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ।
शब्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः ॥१२॥

दर्शयन् घोरमात्मानं महाभ्रमिव नादयन् ।
विभीषयंस्तव सुतान् भीमसेनः समभ्ययात् ॥१३॥

नादयन् नादं कुर्वन् ॥१३॥

तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् ।
छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् ॥१४॥

सोदर्याः राजानुजाः ॥१४॥

दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःशलः शलः ।
दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृपः ॥१५॥

विविंशतिश्चित्रसेनो विकर्णश्च महारथः ।
पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् ॥१६॥

महाचापानि धुन्वन्तो मेघा इव सविद्युतः ।
आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् ॥१७॥

निर्मुक्ताः मुक्तकञ्चुकाश्चाशीविषा उपमा येषां तान् ॥१७॥

अथ ते द्रौपदीपुत्राः सौभद्रश्च महारथः ।
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥१८॥

धार्तराष्ट्रान् प्रतिययुरर्दयन्तः शितैः शरैः ।
वज्रैरिव महावेगैः शिखराणि धराभृताम् ॥१९॥

तस्मिन् प्रथमसङ्ग्रामे भीमज्यातलनिःस्वने ।
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥२०॥

भीमाः भयङ्कराः ज्यानां तलानां च निःस्वना ये तैः ॥२०॥

लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ ।
निमित्तवेधिनां चैव शरानुत्सृजतां भृशम् ॥२१॥

लाघवं क्षिप्रहस्ततां निमित्तं लक्ष्यम् ॥२१॥

नोपशाम्यति निर्घोषो धनुषां कूजतां तथा ।
विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् ॥२२॥

सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत ।
ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् ॥२३॥

भीमं भयङ्करम् ॥२३॥

ततस्ते जातसंरम्भाः परस्परकृतागसः ।
अन्योन्यस्पर्धया राजन् व्यायच्छन्त महारथाः ॥२४॥

जातसंरंभाश्चिरसंभृतकोपाः कृतागसः कृतापराधाः भीमोऽपि बाल्ये धार्तराष्ट्रान् मर्दयन्कृतापराधोऽस्तीत्युक्तं परस्परेति व्यायच्छन्त व्यायामं चक्रुः ॥२४॥

कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले ।
शुशुभाते रणेऽतीव पटे चित्रार्पिते इव ॥२५॥

पटे इति सप्तम्यन्तम् ॥२५॥

ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः ।
सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ॥२६॥

युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः ।
विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ॥२७॥

उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः ।
अन्तर्धीयत चादित्यः सैन्येन रजसाऽऽवृतः ॥२८॥

अन्तर्धीयत अन्तर्हितः । अडभाव आर्षः । सैन्येन सेनाभवेन ॥२८॥

प्रयुद्धानां प्रभग्नानां पुनरावर्तिनामपि ।
नात्र स्वेषां परेषां वा विशेषः समदृश्यत ॥२९॥

तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभये ।
अतिसर्वाण्यनीकानि पिता तेऽभिव्यरोचत ॥३०॥

अति अतिक्रम्य ॥३०॥
इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि युद्धारम्भे चतुश्चत्वारिंशोऽध्यायः॥४४॥
पञ्चचत्वारिंशोऽध्यायः
सञ्जय उवाच ।

पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशाम्पते ।
प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् ॥१॥

पूर्वाह्णे इति । तस्याह्नः पूर्वाह्णे पूर्वभागे ॥१॥

कुरूणां सृञ्जयानां च जिगीषूणां परस्परम् ।
सिंहानामिव संह्रादो दिवमुर्वीं च नादयन् ॥२॥

सृञ्जयानां पाञ्चालभेदानाम् ॥२॥

आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह ।
जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् ॥३॥

तलं ज्याघातवारणम् ॥३॥

तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ ।
पत्तीनां पादशब्दश्च वाजिनां च महास्वनः ॥४॥

तोत्रांकुशनिपातश्च आयुधानां च निःस्वनः ।
घण्टाशब्दश्च नागानामन्योन्यमभिधावताम् ॥५॥

तोत्रं गजदमनं वेणुकाख्यं वेणुबुध्नसमाकारम् ॥५॥

तस्मिन् समुदिते शब्दे तुमुले लोमहर्षणे ।
बभूव रथनिर्घोषः पर्जन्यनिनदोपमः ॥६॥

ते मनः कूरमाधाय समभित्यक्तजीविताः ।
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥७॥

अथ शान्तनवो राजन्नभ्यधावद्धनञ्जयम् ।
प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे ॥८॥

अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् ।
अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि ॥९॥

रणमूर्धनि रणाङ्गणे ॥९॥

तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ ।
गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली ॥१०॥

तथैव पाण्डवो राजन् भीष्मं नाकम्पयद्युधि ।
सात्यकिस्तु महेष्वासः कृतवर्माणमभ्ययात् ॥११॥

महेष्वासः महानिष्वासो धनुर्यस्य ॥११॥

तयोः समभवद्युद्धं तुमुलं लोमहर्षणम् ।
सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम् ॥१२॥

आनर्च्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम् ।
तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ ॥१३॥

आनर्च्छतुः पीडितवन्तौ तक्षमाणौ तनूकुर्वाणौ ॥१३॥

वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ ।
अभिमन्युर्महेष्वासं बृहद्बलमयोधयत् ॥१४॥

पुष्पैः शबलौ विचित्रौ किंशुकौ पलाशौ ॥१४॥

ततः कोसलराजाऽसावभिमन्योर्विशाम्पते ।
ध्वजं चिच्छेद समरे सारथिं च न्यपातयत् ॥१५॥

सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ ।
बृहद्बलं महाराज विव्याध नवभिः शरैः ॥१६॥

अथापराभ्यां भल्लाभ्यां शिताभ्यामरिमर्दनः ।
ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् ॥१७॥

शिताभ्यां तीक्ष्णाभ्यां ध्वजं चिच्छेदेत्यन्वयः । एकेन पार्ष्णिं पृष्ठगोपम् एकेन सारथिमिति च॥१७॥

अन्योन्यं च शरैः क्रुद्धौ ततक्षाते परस्परम् ।
मानिनं समरे दृप्तं कृतवैरं महारथम् ॥१८॥

भीमसेनस्तव सुतं दुर्योधनमयोधयत् ।
तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ ॥१९॥

अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे ।
तौ वीक्ष्य तु महात्मानौ कृतिनौ चित्रयोधिनौ ॥२०॥

कृतिनौ युद्धकुशलौ ॥२०॥

विस्मयः सर्वभूतानां समपद्यत भारत ।
दुःशासनस्तु नकुलं प्रत्युद्याय महाबलम् ॥२१॥

अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः ।
तस्य माद्रीसुतः केतुं सशरं च शरासनम् ॥२२॥

चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत ।
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥२३॥

क्षुद्रकाणां बाणविशेषाणाम् ॥२३॥

पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे ।
तुरङ्गांश्चिच्छिदे बाणैर्ध्वजं चैवाभ्यपातयत् ॥२४॥

दुर्मुखः सहदेवं च प्रत्युद्याय महाबलम् ।
विव्याध शरवर्षेण यतमानं महाहवे ॥२५॥

सहदेवस्ततो वीरो दुर्मुखस्य महारणे ।
शरेण भृशतीक्ष्णेन पातयामास सारथिम् ॥२६॥

तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ ।
त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ ॥२७॥

युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात् ।
तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष ॥२८॥

तदपास्य धनुश्च्छिन्नं कुन्तीपुत्रो युधिष्ठिरः ।
अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम् ॥२९॥

ततो मद्रेश्वरं राजा शरैः सन्नतपर्वभिः ।
छादयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥३०॥

धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत ।
तस्य द्रोणः सुसंक्रुद्धः परासुकरणं दृढम् ॥३१॥

परासुकरणं मारणसाधनम् ॥३१॥

त्रिधा चिच्छेद समरे पाञ्चाल्यस्य तु कार्मुकम् ।
शरं चैव महाघोरं कालदण्डमिवापरम् ॥३२॥

प्रेषयामास समरे सोऽस्य काये न्यमज्जत ।
अथान्यद्धनुरादाय सायकांश्च चतुर्दश ॥३३॥

द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे ।
तावन्योन्यं सुसंक्रुद्धौ चक्रतुः सुभृशं रणम् ॥३४॥

सौमदत्तिं रणे शङ्खो रभसं रभसो युधि ।
प्रत्युद्ययौ महाराज तिष्ठतिष्ठेति चाब्रवीत् ॥३५॥

रभसं सत्वरम् ॥३५॥

तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् ।
सौमदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत् ॥३६॥

वीरः शंखः जत्रुदेशे अंससन्धौ ॥३६॥

तयोस्तदभवद्युद्धं घोररूपं विशांपते ।
दृप्तयोः समरे पूर्वं वृत्रवासवयोरिव ॥३७॥

बाह्लीकं तु रणे क्रुद्धं क्रुद्धरूपो विशांपते ।
अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः ॥३८॥

धृष्टकेतुः शिशुपालसुतः ॥३८॥

बाह्लीकस्तु रणे राजन् धृष्टकेतुममर्षणः ।
शरैर्बहुभिरानर्च्छत् सिंहनादमथानदत् ॥३९॥

चेदिराजस्तु संक्रुद्धो बाह्लीकं नवभिः शरैः ।
विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् ॥४०॥

तौ तत्र समरे क्रुद्धौ नर्दन्तौ च पुनः पुनः ।
समीयतुः सुसंक्रुद्धावङ्गारकबुधाविव ॥४॥

राक्षसं रौद्रकर्माणं क्रूरकर्मा घटोत्कचः ।
अलम्बुषं प्रत्युदियाद्बलं शक्र इवाहवे ॥४२॥

घटोत्कचस्ततः क्रुद्धो राक्षसं तं महाबलम् ।
नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत ॥४३॥

अलम्बुषस्तु समरे भैमसेनिं महाबलम् ।
बहुधा दारयामास शरैः सन्नतपर्वभिः ॥४४॥

सन्नतपर्वभिः अलक्षितग्रन्थिभिः ॥४४॥

व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ ।
यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥४५॥

शिखण्डी समरे राजन् द्रौणिमभ्युद्ययौ बली ।
अश्वत्थामा ततः क्रुद्धः शिखण्डिनमुपस्थितम् ॥४६॥

नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा ह्यकम्पयत् ।
शिखण्ड्यपि ततो राजन् द्रोणपुत्रमताडयत् ॥४७॥

सायकेन सुपीतेन तीक्ष्णेन निशितेन च ।
तौ जघ्नुतुस्तदाऽन्योन्यं शरैर्बहुर्विधैर्मृधे ॥४८॥

सुपीतेन सुष्ठु पायितेन तीक्ष्णेन सूक्ष्मधारेण यतो निशितेन शाणोल्लीढेन मृधे सङ्ग्रामे ॥४८॥

भगदत्तं रणे शूरं विराटो वाहिनीपतिः ।
अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत ॥४९॥

विराटो भगदत्तं तु शरवर्षेण भारत ।
अभ्यवर्षत्सुसंक्रुद्धो मेघो वृष्ट्या इवाचलम् ॥५०॥

वृष्ट्या इवेत्यसन्धिरार्षः ॥५०॥

भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् ।
छादयामास समरे मेघः सूर्यमिवोदितम् ॥५१॥

बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ ।
तं कृपः शरवर्षेण च्छादयामास भारत ॥५२॥

गौतमं कैकयः कुद्धः शरवृष्ट्याऽभ्यपूरयत् ।
तावन्योन्यं हयान् हत्वा धनुश्छित्वा च भारत ॥५३॥

विरथावसियुद्धाय समीयतुरमर्षणौ ।
तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् ॥५४॥

द्रुपदस्तु ततो राजन् सैन्धवं वे जयद्रथम् ।
अभ्युद्ययौ हृष्टरूपो हृष्टरूपं परन्तपः ॥५५॥

ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः ।
ताडयामास समरे स च तं प्रत्यविध्यत ॥५६॥

तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् ।
ईक्षणप्रीतिजननं शुक्राङ्गारकयोरिव ॥५७॥

विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम् ।
अभ्ययाज्जवनैरश्वैस्ततो युद्धमवर्तत ॥५८॥

तुभ्यं तव सुतसोमं भैमसेनिम् ॥५८॥

विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः ।
सुतसोमो विकर्णं च तद‌द्भुतमिवाभवत् ॥५९॥

सुशर्माणं नरव्याघ्रश्चेकितानो महारथः ।
अभ्यद्रवत्सुसंकुद्धः पाण्डवार्थे पराक्रमी ॥६०॥

चेकितानो यादवः ॥६०॥

सुशर्मा तु महाराज चेकितानं महारथम् ।
महता शरवर्षेण वारयामास संयुगे ॥६१॥

चेकितानोऽपि संरब्धः सुशर्माणं महाहवे ।
प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् ॥६२॥

शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी ।
अभ्यद्रवत राजेन्द्र मत्तः सिंह इव द्विपम् ॥६३॥

यौधिष्ठिरस्तु संक्रुद्धः सौबलं निशितैः शरैः ।
व्यदारयत सङ्ग्रामे मघवानिव दानवम् ॥६४॥

शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे ।
व्यदारयन्महाप्राज्ञः शरैः सन्नतपर्वभिः ॥६५॥

सुदक्षिणं तु राजेन्द्र काम्बोजानां महारथम् ।
श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे ॥६६॥

सुदक्षिणस्तु समरे साहदेविं महारथम् ।
विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम् ॥६७॥

श्रुतकर्मा ततः कुद्धः काम्बोजानां महारथम् ।
शरैर्बहुभिरानर्च्छद्दारयन्निव सर्वशः ॥६८॥

इरावानथ संक्रुद्धः श्रुतायुषमरिन्दमम् ।
प्रत्युद्ययौ रणे यत्तो यत्तरूपं परन्तपः ॥६९॥

इरावानर्जुनपुत्रः ॥६९॥

आर्जुनिस्तस्य समरे हयान् हत्वा महारथः ।
ननाद बलवन्नादं तत्सैन्यं प्रत्यपूरयत् ॥७०॥

श्रुतायुस्तु ततः क्रुद्धः फाल्गुनेः समरे हयान् ।
निजघान गदाग्रेण ततो युद्धमवर्तत ॥७१॥

गदाग्रेण गदामुखेन ॥७१॥

विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम् ।
ससेनं ससुतं वीरं संससज्जतुराहवे ॥७२॥

संससज्जतुः संसक्तावभूताम् ॥७२॥

तत्राद्भुतमपश्याम तयोर्घोरं पराक्रमम् ।
अयुध्येतां स्थिरौ भूत्वा महत्या सेनया सह ॥७३॥

तयोर्द्वन्द्वयोः ॥७३॥

अनुविन्दस्तु गदया कुन्तिभोजमताडयत् ।
कुन्तिभोजश्च तं तूर्णं शरव्रातैरवाकिरत् ॥७४॥

ते एव द्वन्द्वे द्वाभ्यामाह - अनुविन्द इति ॥७४॥

कुन्तिभोजसुतश्चापि विन्दं विव्याध साकैः ।
स च तं प्रतिविव्याध तद‌द्भुतमिवाभवत् ॥७५॥

केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष ।
ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे ॥७६॥

वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् ।
उत्तरं योधयामास विव्याध निशितैः शरैः ॥७७॥

उत्तरश्चापि तं वीरं विव्याध निशितैः शरैः ।
चेदिराट् समरे राजन्नुलूकं समभिद्रवत् ॥७८॥

तथैव शरवर्षेण उलूकं समविद्ध्यत ।
उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः ॥७९॥

तयोर्युद्धं समभवद्धोररूपं विशांपते ।
दारयेतां सुसंक्रुद्धावन्योन्यमपराजितौ ॥८०॥

एवं द्वन्द्वसहस्राणि रथवारणवाजिनाम् ।
पदातीनां च समरे तव तेषां च संकुले ॥८१॥

द्वन्द्वं द्वयोर्द्वयोर्युद्धम् ॥८१॥

मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् ।
तत उन्मत्तवद्राजन्न प्राज्ञायत किञ्चन ॥८२॥

गजो गजेन समरे रथिनं च रथी ययौ ।
अश्वोऽश्वं समभिप्रायात्पदातिश्च पदातिनम् ॥८३॥

ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत ।
शूराणां समरे तत्र समासाद्येतरेतरम् ॥८४॥

तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः ।
प्रैक्षन्त तद्रणं घोरं देवासुरसमं भुवि ॥८५॥

ततो दन्तिसहस्राणि रथानां चापि मारिष ।
अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः ॥८६॥

विपरीतम् अतीतक्रमम् ॥८६॥

तत्र तत्र प्रदृश्यन्ते रथवारणपत्तयः ।
सादिनश्च नख्याघ्र युध्यमाना मुहुर्मुहुः ॥८७॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वन्द्वयुद्धे पञ्चचत्वारिंशोऽध्यायः ॥४५॥
षट्चत्वारिंशोऽध्यायः
सञ्जय उवाच ।

राजन् शतसहस्त्राणि तत्र तत्र पदातिनाम् ।
निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत ॥१॥

राजन्निति । निर्मर्यादम् अपेतव्यवहारं प्रयुद्धानि युद्धं कृतवन्ति ॥१॥

न पुत्रः पितरं जज्ञे पिता वा पुत्रमौरसम् ।
न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः ॥२॥

जज्ञे ज्ञातवान् तत्र काले स्वस्त्रीयो भागिनेयः ॥२॥

न मातुलं च स्वस्रीयो न सखायं सखा तथा ।
आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह ॥३॥

आविष्टा इव भूतादिना गृहीता इव ॥३॥

रथानीकं नरव्याघ्राः केचिदभ्यपतन् रथैः ।
अभज्यन्त युगैरेव युगानि भरतर्षभ ॥४॥

युगानि अश्वस्कन्धार्पितानि दारूणि ॥४॥

रथेषाश्च रथेषाभिः कूबरा रथकूबरैः ।
सङ्गतैः सहिताः केचित्परस्परजिघांसवः ॥५॥

रथेषा रथदण्डः कूबरो युगकीलः सङ्गतैः संमुखागतैः सहिता मिलिताः ॥५॥

न शेकुश्चलितुं केचित्सन्निपत्य रथा रथैः ।
प्रभिन्नास्तु महाकायाः सन्निपत्य गजा गजैः ॥६॥

सन्निपत्य मिलित्वा प्रभिन्नाश्चोतन्मदाः ॥६॥

बहुधाऽदारयन् क्रुद्धा विषाणैरितरेतरम् ।
सतोरणपताकैश्च वारणा वरवारणैः ॥७॥

विषाणैर्दन्तैः । तोरणानि चतुःस्तम्भमण्डपाकारस्य गजपल्याणस्य ‘अंबारी’ इति भाषया प्रसिद्धस्य द्वाराणि पताकाश्च तत्रेव स्तम्भशेखरस्थाः ॥७॥

अभिसृत्य महाराज वेगवद्भिर्महागजैः ।
दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः ॥८॥

अभिनीताश्च शिक्षाभिस्तोत्रांकुशसमाहताः ।
अप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः ॥९॥

अभिनीताः सुशिक्षिताः अप्रभिन्नाः अनुद्भिन्नमदाः संमुखाभिमुखाः अन्योन्यसंमुखा इत्यर्थः ॥९॥

प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः ।
क्रौञ्चवन्निनदं कृत्वा दुद्रुवुः सर्वतो दिशम् ॥१०॥

सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः ।
ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः ॥११॥

प्रणीताः प्रयुक्ताः ऋष्टयो हस्तक्षेप्याः क्षुद्रभल्लाः विन्ध्याटव्यां कर्काडीति प्रसिद्धाः तोमरा दीर्घदण्डा भल्लाः नाराचा महाशल्या विस्तीर्णफलकाः शराः ॥११॥

प्रणेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ।
प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान् रवान् ॥१२॥

गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः ।
ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः ॥१३॥

परश्वधैः कुठारैः ॥१३॥

गदाभिर्मुसलैश्चैव भिन्दिपालैः सतोमरैः ।
आयसैः परिघैश्चैव निस्त्रिंशैर्विमलैः शितैः ॥१४॥

भिन्दिपालैः परशवैः महाराष्ट्राणां ‘गोफण’ इति प्रसिद्धैः । परिघैर्दण्डैः निस्त्रिंशैः खड्गैः ॥१४॥

प्रगृहीतैः सुसंरब्धा द्रवमाणास्ततस्ततः ।
व्यदृश्यन्त महाराज परस्परजिघांसवः ॥१५॥

द्रवमाणा धावन्तः ॥१५॥

राजभानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः ।
प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् ॥१६॥

अवक्षिप्तावधूतानामसीनां वीरबाहुभिः ।
संजज्ञे तुमुलः शब्दः पततां परमर्मसु ॥१७॥

अवक्षिप्तावधूतानाम् अधोमुखं पातितानां परेषां मर्मसु पततामसीनामिति सम्बन्धः ॥१७॥

गदामुसलरुग्णानां भिन्नानां च वरासिभिः ।
दतिदन्तावभिन्नानां मृदितानां च दन्तिभिः ॥१८॥

रुग्णस्तीव्राघातार्तः भिन्नो निकृत्तांङ्गः अवभिन्नः क्षताङ्गः ॥१८॥

तत्र तत्र नरौघाणां क्रोशतामितरेतरम् ।
शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत ॥१९॥

प्रेतानां नारकाणाम् ॥१९॥

हयैरपि हयारोहाश्चामरापीडधारिभिः ।
हंसैरिव महावेगैरन्योन्यमभिविद्रुताः ॥२०॥

हयैः करणभूतैः चामरापीडाश्चामरकलापास्तद्धारिभिः अत एव हंसैरिव अभिविद्रुताः संमुखमुपागताः ॥२०॥

तैर्विमुक्ता महाप्रासा जांबूनदविभूषणाः ।
आशूगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः॥२१॥

प्रासा हस्तक्षेप्या भल्लाः सैतीति प्रसिद्धाः कुन्ता इत्यपरे । आशुगाः शीघ्रगाः ॥२१॥

अश्वैरग्र्यजवैः केचिदाप्लुत्य महतो रथान् ।
शिरांस्याददिरे वीरा रथिनामश्वसादिनः ॥२२॥

अग्र्यजवैरुत्तमवेगैः ॥२२॥

बहूनपि हयारोहान् भल्लैः सन्नतपर्वभिः ।
रथी जघान संप्राप्य बाणगोचरमागतान् ॥२३॥

भल्लैर्दीर्घफलकैर्बाणैः ॥२३॥

नवमेघप्रतीकाशाश्चाक्षिप्य तुरगान् गजाः ।
पादैरेव विमृद्नन्ति मत्ताः कनकभूषणाः ॥२४॥

पाट्यमानेषु कुंभेषु पार्श्वेष्वपि च वारणाः ।
प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः ॥२५॥

साश्वारोहान् हयान् कांश्चिदुन्मथ्य वरवारणाः ।
सहसा चिक्षिपुस्तत्र संकुले भैरवे सति ॥२६॥

सहसा बलेन अतर्कित वा सति विद्यमाने ॥२६॥

साश्वारोहान् विषाणाग्रैरुत्क्षिप्य तुरगान् गजाः ।
रथौघानभिमृद्नन्तः सध्वजानभिचक्रमुः ॥२७॥

अभिचक्रमुः अभितो बभ्रमुः ॥२७॥

पुंस्त्वादतिमदत्वाच्च केचित्तत्र महागजाः ।
साश्वारोहान् हयान् जघ्नुः करैः सचरणैस्तथा ॥२८॥

पुंस्त्वाद्वीर्यवत्त्वात् अमदत्वादुाद्भन्नमदत्वात् ॥२८॥

अश्वारोहैश्च समरे हस्तिसादिभिरेव च ।
प्रतिमानेषु गात्रेषु पार्श्वेष्वभि च वारणान् ।
आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः ॥२९॥

प्रतिमानेषु ललाटेषु गात्रेषु अङ्गेषु वारणानभि गजानामभितः षष्ठ्यर्थे द्वितीया । आशुगा बाणाः अश्वारोहादिभिः प्रक्षिप्ता इति शेषः ॥२९॥

नराश्वकायान्निर्भिद्य लौहानि कवचानि च ।
निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः ॥३०॥

शक्त्यः शक्तयः कृत्स्ना लोहदण्डास्त एव महोल्काप्रतिमा इत्युत्तरेण सम्बन्धः ॥३०॥

महोल्काप्रतिमा घोरास्तत्र तत्र विशांपते ।
द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मच्छदैरपि ॥३१॥

द्वीपी चित्रव्याघ्रः ॥३१॥

विकोशैर्विमलैः खड्गैरभिजग्मुः परान् रणे ।
अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् ॥३२॥

विकोशैः प्रयोगकाले। ‘अभीतस्याभिमुख्येन सर्पणं स्यादभिप्लुतम् । तदेव स्यादभिक्रुद्धमोष्ठदंशादिसंयुतम् । वामपक्षाश्रितं यानमेकपार्श्वावदारितम्’ ॥३२॥

विदर्शयन्तः संपेतुः खड्गचर्मपरश्वधैः ।
केचिदाक्षिप्य करिणः साश्वानपि रथान् करैः ॥३३॥

चर्म प्रहारवारणं ‘ढाल’ इति । प्रसिद्धं भाषायाम् । आक्षिप्याकृष्य ॥३३॥

विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः ।
शंकुभिर्दारिताः केचित् संभिन्नाश्च परश्वधैः ॥३४॥

सर्वशब्दगाः सर्वेषामाक्षेप्तॄणां शब्दमनुगच्छन्ति ते तथा । शङ्कुभिः कीलैः कण्टकदण्डादिगतैः ॥३४॥

हस्तिभिर्मुदिताः केचित् क्षुण्णाश्चान्ये तुरंगमैः ।
रथनेमिनिकृत्ताश्च निकृत्ताश्च परश्वधैः ॥३५॥

व्याक्रोशन्त नरा राजंस्तत्र तत्र स्म बन्धावान् ।
पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बन्धुभिः ॥३६॥

व्याक्रोशन्त व्याक्रोशं कृतवन्तः बन्धुभिः सखिभिः ॥३६॥

मातुलान् भागिनेयांश्च परानपि च संयुगे ।
विकीर्णांत्राः सुबहवो भग्नसक्थाश्च भारत ॥३७॥

भग्नसक्था भग्नोरवः ॥३७॥

बाहुभिश्चापरे छिन्नैः पार्श्वेषु च्च विदारिताः ।
क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः ॥३८॥

तृषा परिगताः केचिदल्पसत्त्वा विशांपते ।
भूमौ निपतिताः संख्ये मृगयांचक्रिरे जलम् ॥३९॥

तृषा पिपासया अल्पसत्त्वा धैर्यवर्जिताः मृगयञ्चाक्रिरे याचन्ते ॥३९॥

रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत ।
व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च संगतान् ॥४०॥

अपरे क्षत्रियाः शूराः कृतवैराः परस्परम् ।
नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष ॥४१॥

तर्जयन्ति च संहृष्टास्तत्र तत्र परस्परम् ।
आदश्य दशनैश्चापि क्रोधात्सरदनच्छदम् ॥४२॥

रदनच्छदमोष्ठम् ॥४२॥

भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ति च परस्परम् ।
अपरे क्लिश्यमानास्तु शरार्ता व्रणपीडिताः ॥४३॥

निष्कूजाः समपद्यन्त दृढसत्वा महाबलाः ।
अन्ये च विरथाः शूरा रथमन्यस्य संयुगे ॥४४॥

निष्कूजा निःशब्दाः रथमन्यस्य गन्तुं प्रार्थयाना मध्येमार्गं निपतिताः इति योज्यम् ॥४४॥

प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः ।
अशोभन्त महाराज सपुष्पा इव किंशुकाः ॥४५॥

संबभूवुरनेकेषु बहवो भैरवस्वनाः ।
वर्तमाने महाभीमे तस्मिन् वीरवरक्षये ॥४६॥

निजघान पिता पुत्रं पुत्रश्च पितरं रणे ।
स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः ॥४७॥

सखा सखायं च तथा सम्बन्धी बान्धवं तथा ।
एवं युयुधिरे तत्र कुरवः पाण्डवैः सह ॥४८॥

वर्तमाने तथा तस्मिन्निर्मर्यादे भयानके ।
भीष्ममासाद्य पार्थानां वाहिनी समकम्पत ॥४९॥

केतुना पञ्चतारेण तालेन भरतर्षभ ।
राजतेन महाबाहुरुच्छ्रितेन महारथे ।
बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा ॥५०॥

केतुनेति सार्धः । अत्र चन्द्रकेत्वोर्मेरुसरथभीष्मयोश्चोपमोपमेयभावः भीष्मस्य रुक्मरथत्वात्॥५०॥
इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि संकुलयुद्धे षट्चत्वारिंशोऽध्यायः ॥४६॥
सप्तचत्वारिंशोऽध्यायः
सञ्जय उवाच ।

गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे ।
वर्तमाने तथा रौद्रे महावीरवरक्षये ॥१॥

गतेति । गतोऽतीतः पूर्वाह्णस्य भूयिष्ठो भागो यस्मिन्नहनि ॥१॥

दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः ।
भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः ॥२॥

एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभः ।
पाण्डवानामनीकानि विजगाहे महारथः ॥३॥

चेदिकाशिकरूषेषु पञ्चालेषु च भारत ।
भीष्मस्य बहुधा तालश्चलत्केतुरदृश्यत ॥४॥

स शिरांसि रणेऽरीणां रथांश्च सयुगध्वजान् ।
निचकर्त महावेगैर्भल्लैः सन्नतपर्वभिः ॥५॥

नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ ।
भृशमार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः ॥६॥

नृत्यतो नृत्यमिव कुर्वतः ॥६॥

अभिमन्युः सुसंकुद्धः पिशङ्गैस्तुरगोत्तमैः ।
संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति ॥७॥

पिशङ्गैः पिङ्गलैः ॥७॥

जाम्बूनदविचित्रेण कर्णिकारेण केतुना ।
अभ्यवर्तत भीष्मं च तांश्चैव रथसत्तमान् ॥८॥

कर्णिकारेण कर्णिकारद्रुमोपमेन ॥८॥

स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा ।
भीष्मेण युयुधे वीरस्तस्य चानुरथैः सह ॥९॥

अनुरथैः पार्ष्णिगोपादिभिः ॥९॥

कृतवर्माणमेकेन शल्यं पञ्चभिराशुगैः ।
विद्ध्वा नवभिरानर्च्छच्छिताग्रैः प्रपितामहम् ॥१०॥

पूर्णायतविसृष्टेन सम्यक् प्रणिहितेन च ।
ध्वजमेकेन विव्याध जाम्बूनदपरिष्कृतम् ॥११॥

पूर्णायतविसृष्टेन आकर्णाकृष्टत्यक्तेन प्रणिहितेन प्रेरितेन ॥११॥

दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना ।
जहार सारथेः कायाच्छिरः सन्नतपर्वणा ॥१२॥

धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम् ।
कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः ॥१३॥

कार्तस्वरं सुवर्णं तान् सर्वान् ॥१३॥

जघान परमक्रुद्धो नृत्यन्निव महारथः ।
तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि ॥१४॥

लब्धलक्षतया कार्ष्णेः सर्वे भीष्ममुखा रथाः ।
सत्त्ववन्तममन्यन्त साक्षादिव धनञ्जयम् ॥१५॥

कार्ष्णेः अभिमन्योः सत्त्ववन्तं बलवन्तम् ॥१५॥

तस्य लाघवमार्गस्थमलातसदृशप्रभम् ।
दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् ॥१६॥

अलातसदृशप्रभं भ्राम्यमाणोल्मुकसमं मण्डलाकारमित्यर्थः ॥१६॥

तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः ।
विव्याध समरे तूर्णमार्जुनिं परवीरहा ॥१७॥

ध्वजं चास्य त्रिभिर्भलैश्चिच्छेद परमौजसः ।
सारथिं च त्रिभिर्बाणैराजघान यतव्रतः ॥१८॥

तथैव कृतवर्मा च कृपः शल्यश्च मारिषः ।
विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् ॥१९॥

स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः ।
ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान् प्रति ॥२०॥

ततस्तेषां सहस्राणि संवार्य शरवृष्टिभिः ।
ननाद बलवान् कार्ष्णिर्भीष्माय विसृजन् शरान् ॥२१॥

तत्रास्य सुमहद्राजन् बाह्वोर्बलमदृश्यत ।
यतमानस्य समरे भीष्ममर्दयतः शरैः ॥२२॥

पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् ।
स तांश्चिच्छेद समरे भीष्मचापच्युतान् शरान् ॥२३॥

ततो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः ।
चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः ॥२४॥

स राजतो महास्कन्धस्तालो हेमविभूषितः ।
सौभद्रविशिखैश्छिन्नः पपात भुवि भारत ॥२५॥

तं तु सौभद्रविशिखैः पातितं भरतर्षभ ।
दृष्ट्वा भीमो ननादोच्चैः सौभद्रमभिहर्षयन् ॥२६॥

अथ भीष्मो महास्त्राणि दिव्यानि सुबहूनि च ।
प्रादुश्चक्रे महारौद्रे रणे तस्मिन् महाबलः ॥२७॥

ततः शरसहस्रेण सौभद्रं प्रपितामहः ।
अवाकिरदमेयात्मा तद‌द्भुतमिवाभवत् ॥२८॥

ततो दश महेष्वासाः पाण्डवानां महारथाः ।
रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः ॥२९॥

विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः ।
भीमश्च केकयाश्चैव सात्यकिश्च विशांपते ॥३०॥

पुत्रेणोत्तरेण ॥३०॥

तेषां जवेनापततां भीष्मः शान्तनवो रणे ।
पाञ्चाल्यं त्रिभिरानर्च्छत्सात्यकिं नवभिः शरैः ॥३१॥

पूर्णायतविसृष्टेन क्षुरेण निशितेन च ।
ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा ॥३२॥

जाम्बूनदमयः श्रीमान् केसरी स नरोत्तम ।
पपात भीमसेनस्य भीष्मेण मथितो रथात् ॥३३॥

केसरी सिंहः ॥३३॥

ततो भीमस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे ।
कृपमेकेन विव्याध कृतवर्माणमष्टभिः ॥३४॥

प्रगृहीताग्रहस्तेन वैराटिरपि दन्तिना ।
अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः ॥३५॥

प्रगृहीताग्रहस्तेन कुण्डलीकृतशुण्डाग्रेण ॥३५॥

तस्य वारणराजस्य जवेनापततो रथे ।
शल्यो निवारयामास वेगमप्रतिमं शरैः ॥३६॥

तस्य वेगमिति सम्बन्धः । रथे रथोपरि ॥३६॥

तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः ।
पदा युगमधिष्ठाय जघान चतुरो हयान् ॥३७॥

तस्य शल्यस्य बृहतः पुष्टान् साधुवाहिनः सम्यगूहनशीलान् ॥३७॥

स हताश्वे रथे तिष्ठन् मद्राधिपतिरायसीम् ।
उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम् ॥३८॥

तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः ।
स पपात गजस्कन्धात्प्रमुक्ताङ्कुशतोमरः ॥३९॥

तमः माहं प्रमुक्तं हस्ताद्गालितमंकुशादिकं यस्य ॥३९॥

असिमादाय शल्योऽपि अवप्लुत्य रथोत्तमात् ।
तस्य वारणराजस्य चिच्छेदाथ महाकरम् ॥४०॥

भिन्नमर्मा शरशतैश्छिन्नहस्तः स वारणः ।
भीममार्तस्वरं कृत्वा पपात च ममार च ॥४१॥

एतदीदृशकं कृत्वा मद्रराजो नराधिप ।
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ॥४२॥

उत्तरं वै हतं दृष्ट्वा वैराटिर्भ्रातरं तदा ।
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ॥४३॥

हतं शक्तिप्रहारेण । वैराटिः शङ्खः ॥४३॥

श्वेतः क्रोधात् प्रजज्वाल हविषा हव्यवाडिव ।
स विस्फार्य महच्चापं शक्रचापोपमं बली ॥४४॥

अभ्यधावज्जिघांसन् वै शल्यं मद्राधिपं बली ।
महता रथवंशेन समन्तात् परिवारितः ॥४५॥

मुञ्चन् बाणमयं वर्षं प्रायाच्छल्यरथं प्रति ।
तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम् ॥४६॥

तावकानां रथाः सप्त समन्तात् पर्यवारयन् ।
मद्रराजमभीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ॥४७॥

बृहद्बलश्च कौसल्यो जयत्सेनश्च मागधः ।
तथा रुक्मरथो राजन् शल्यपुत्रः प्रतापवान् ॥४८॥

विन्दानुविन्दावावन्त्यौ कांबोजश्च सुदक्षिणः ।
बृहत्क्षत्रस्यः दायादः सैन्धवश्च जयद्रथः ॥४९॥

नानावर्णविचित्राणि धनूंषि च महात्मनाम् ।
विस्फारितानि दृश्यन्ते तोयदेष्विव विद्युतः ॥५०॥

ते तु बाणमयं वर्षं श्वेतमूर्धन्यपातयन् ।
निदाघान्तेऽनिलोद्धूता मेघा इव नगे जलम् ॥५१॥

ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः ।
धनूंषि तेषामाच्छिद्य ममर्द पृतनापतिः ॥५२॥

निकृतान्येव तानि स्म समदृश्यन्त भारत ।
ततस्ते तु निमेषार्धात् प्रत्यपद्यन् धनूंषि च ॥५३॥

सप्त चैव पृषत्कांश्च श्वेतस्योपर्यपातयन् ।
ततः पुनरमेयात्मा भल्लैः सप्तभिराशुगैः ।
निचकर्त महाबाहुस्तेषां चापानि धन्विनाम् ॥५४॥

ते निकृत्तमहाचापास्त्वरमाणा महारथाः ।
रथशक्तीः परामृश्य विनेदुर्भैरवान् रवान् ॥५५॥

अन्वयुर्भरतश्रेष्ठ सप्त श्वेतरथं प्रति ।
ततस्ता ज्वलिताः सप्त महेन्द्राशनिनिःस्वनाः ॥५६॥

अप्राप्ताः सतभिर्भलैश्चिच्छेद परमास्त्रवित् ।
ततः समादाय शरं सर्वकायविदारणम् ॥५७॥

प्राहिणोद्भरतश्रेष्ठ श्वेतो रुक्मरथं प्रति ।
तस्य देहे निपतितो बाणो वज्रातिगो महान् ॥५८॥

ततो रुक्मरथो राजन् सायकेन दृढाहतः ।
निषसाद रथोपस्थे कश्मलं चाविशन्महत् ॥५९॥

तं विसंज्ञं विमनसं त्वरमाणस्तु सारथिः ।
अपोवाह न संभ्रान्तः सर्वलोकस्य पश्यतः॥६०॥

ततोऽन्यान् षट् समादाय श्वेतो हेमविभूषितान् ।
तेषां षण्णां महाबाहुर्ध्वजशीर्षाण्यपातयत् ॥६१॥

हयांश्च तेषां निर्भिद्य सारथींश्च परन्तप ।
शरैश्चैतान् समाकीर्य प्रायाच्छल्यरथं प्रति ॥६२॥

ततो हलहलाशब्दस्तव सैन्येषु भारत ।
दृष्ट्वा सेनापतिं तूर्णं यान्तं शल्यरथं प्रति ॥६३॥

ततो भीष्मं पुरस्कृत्य तत्र पुत्रो महाबलः ।
वृतस्तु सर्वसैन्येन प्रायाच्छ्वेतरथं प्रति ॥६४॥

मृत्योरास्यमनुप्राप्तं मद्रराजममोचयत् ।
ततो युद्धं समभवत्तुमुलं लोमहर्षणम् ॥६५॥

तावकानां परेषां च व्यतिषक्तरथद्विपम् ।
सौभद्रे भीमसेने च सात्यकौ च महारथे ॥६६॥

कैकेये च विराटे च धृष्टद्युम्ने च पार्षते ।
एतेषु नरसिंहेषु चेदिमत्स्येषु चैव ह ।
ववर्ष शरवर्षाणि कुरुवृद्धः पितामहः ॥६७॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि श्वेतयुद्धे सप्तचत्वारिंशोऽध्यायः ॥४७॥
अष्टचत्वारिंशोऽध्यायः
धृतराष्ट्र उवाच ।

एवं श्वेते महेष्वासे प्राप्ते शल्यरथं प्रति ।
कुरवः पाण्डवेयाश्च किमकुर्वत सञ्जय ॥१॥

एवमिति ॥१॥
सञ्जय उवाच ।

राजन् शतसहस्राणि ततः क्षत्रियपुङ्गवाः ॥२॥

श्वेतं सेनापतिं शूरं पुरस्कृत्य महारथाः ।
राज्ञो बलं दर्शयन्तस्तव पुत्रस्य भारत ॥३॥

शिखण्डिनं पुरस्कृत्य त्रातुमैच्छन्महारथाः ।
अभ्यवर्तन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥४॥

जिघांसन्तं युधां श्रेष्ठं तदाऽऽसीत्तुमुलं महत् ।
तत्तेऽहं संप्रवक्ष्यामि महावैशसमच्युत ॥५॥

तावकानां परेषां च यथा युद्धमवर्तत ।
तत्राकरोद्रथोपस्थान् शून्यान् शान्तनवो बहून् ॥६॥

तत्राद्भुतं महच्चक्रे शरेरार्छद्रथोत्तमान् ।
समावृणोच्छरैरर्कमर्कतुल्यप्रतापवान् ॥७॥

नुदन् समन्तात् समरे रविरुद्यन् यथा तमः ।
तेनाजो प्रेषिता राजन् शराः शतसहस्रशः ॥८॥

क्षत्रियान्तकराः संख्ये महावेगा महाबलाः ।
शिरांसि पातयामासुर्वीराणां शतशो रणे ॥९॥

गजान् कण्टकसन्नाहान् वज्रेणेव शिलोच्चयान् ।
रथा रथेषु संसक्ता व्यदृश्यन्त विशांपते ॥१०॥

एके रथं पर्यवहंस्तुरगाः सतुरङ्गमम् ।
युवानं निहतं वीरं लम्बमानं सकार्मुकम् ॥११॥

उदीर्णाश्च हया राजन् वहन्तस्तत्र तत्र ह ।
बद्धखड्गनिष‌ङ्गाश्च विध्वस्तशिरसो हताः ॥१२॥

शतशः पतिता भूमौ वीरशय्यासु शेरते ।
परस्परेण धावन्तः पतिताः पुनरुत्थिताः ॥१३॥

उत्थाय च प्रधावन्तो द्वन्द्वयुद्धमवाप्नुवन् ।
पीडिताः पुनरन्योन्यं लुठन्तो रणमूर्धनि ॥१४॥

सचापाः सनिषङ्गाश्च जातरूपपरिष्कृताः ।
विस्रब्धहतवीराश्च शतशः परिपीडिताः ॥१५॥

तेन तेनाभ्यधावन्त विसृजन्तश्च भारत ।
मत्तो गजः पर्यवर्तद्धयांश्च हतसादिनः ॥१६॥

सरथा रथिनश्चापि विमृद्नन्तः समन्ततः ।
स्यन्दनादपतत्कश्चिन्निहतोऽन्येन सायकैः ॥१७॥

हतसारथिरप्युच्चैः पपात काष्ठवद्रथः ।
युध्यमानस्य संग्रामे व्यूढे रजसि चोत्थिते ॥१८॥

धनुःकूजितविज्ञानं तत्रासीत् प्रतियुद्ध्यतः ।
गात्रस्पर्शेन योधानां व्यज्ञास्त परिपन्थिनम् ॥१९॥

युद्ध्यमानं शरै राजन् सिञ्जिनीध्वजिनीरवात् ।
अन्योन्यं वीरसंशब्दो नाश्रूयत भटैः कृतः ॥२०॥

शब्दायमाने संग्रामे पटहे कर्णदारिणि ।
युद्ध्यमानस्य संग्रामे कुर्वतः पौरुषं स्वकम् ॥२१॥

नाश्रौषं नाम गोत्राणि कीर्तनं च परस्परम् ।
भीष्मचापच्युतैर्बाणैरार्तानां युध्यतां मृधे ॥२२॥

परस्परेषां वीराणां मनांसि समकम्पयन् ।
तस्मिन्नत्याकुले युद्धे दारुणे लोमहर्षणे ॥२३॥

पिता पुत्रं च समरे नाभिजानाति कश्चन ।
चक्रे भग्ने युगे च्छिन्ने एकधुर्ये हये हतः ॥२४॥

आक्षिप्तः स्यन्दनाद्वीरः ससारथिरजिह्मगैः ।
एवं च समरे सर्वे वीराश्च विरथीकृताः ॥२५॥

तेन तेन स्म दृश्यन्ते धावमानाः समन्ततः ।
गजो हतः शिरच्छिन्नं मर्म भिन्नं हयो हतः ॥२६॥

अहतः कोऽपि नैवासीद्भीष्मे निघ्नति शात्रवान् ।
श्वेतः कुरूणामकरोत् क्षयं तस्मिन् महाहवे ॥२७॥

राजपुत्रान् रथोदारानवधीच्छतसंघशः ।
चिच्छेद रथिनां बाणैः शिरांसि भरतर्षभ ॥२८॥

साङ्गदा बाहवश्चैव धनूंषि च समन्ततः ।
रथेषां रथचक्राणि तूणीराणि युगानि च ॥२९॥

छत्राणि च महार्हाणि पताकाश्च विशांपते ।
हयौघाश्च रथौघाश्च नरौघाश्चैव भारत ॥३०॥

वारणाः शतशश्चैव हताः श्वेतेन भारत ।
वयं श्वेतभयाद्भीता विहाय रथसत्तमम् ॥३१॥

अपयातास्तथा पश्चाद्विभुं पश्याम धृष्णवः ।
शरपातमतिक्रम्य कुरवः कुरुनन्दन ॥३२॥

भीष्मं शान्तनवं युद्धे स्थिताः पश्याम सर्वशः ।
अदीनो दीनसमये भीष्मोऽस्माकं महाहवे ॥३३॥

एकस्तस्थौ नरव्याघ्रो गिरिर्मेरुरिवाचलः ।
आददान इव प्राणान् सविता शिशिरात्यये ॥३४॥

गभस्तिभिरिवादित्यस्तस्थौ शरमरीचिमान् ।
स मुमोच महेष्वासः शरसङ्घाननेकशः ॥३५॥

निघ्नन्नमित्रान् समरे वज्रपाणिरिवासुरान् ।
ते वध्यमाना भीष्मेण प्रजहुस्तं महाबलम् ॥३६॥

स्वयूथादिव ते यूथान्मुक्तं भूमिषु दारुणम् ।
तमेवमुपलक्ष्यैको हृष्टः पुष्टः परंतप ॥३७॥

दुर्योधनप्रिये युक्तः पाण्डवान् परिशोचयन् ।
जीवितं दुस्त्यजं त्यक्त्वा भयं च सुमहाहवे ॥३८॥

पातयामास सैन्यानि पाण्डवानां विशांपते ।
प्रहरन्तमनीकानि पिता देवव्रतस्तव ॥३९॥

दृष्ट्वा सेनापतिं भीष्मस्त्वरितः श्वेतमभ्ययात् ।
स भीष्मं शरजालेन महता समवाकिरत् ॥४०॥

श्वेतं चापि तथा भीष्मः शरोघैः समवाकिरत् ।
तौ वृषाविव नर्दन्तौ मत्ताविव महाद्विपौ ॥४१॥

व्याघ्राविव सुसंरब्धावन्योन्यमभिजघ्नतुः ।
अस्त्रैरस्राणि संवार्य ततस्तौ पुरुषर्षभौ ॥४२॥

भीष्मः श्वेतश्च युयुधे परस्परवधैषिणौ ।
एकाह्ना निर्दहेद्भीष्मः पाण्डवानामनीकिनीम् ॥४३॥

शरैः परमसंक्रुद्धो यदि श्वेतां न पालयेत् ।
पितामहं ततो दृष्ट्वा श्वेतेन विमुखीकृतम् ॥४४॥

प्रहर्षं पाण्डवा जग्मुः पुत्रस्ते विमनाऽभवत् ।
ततो दुर्योधनः क्रुद्धः पार्थिवैः परिवारितः ॥४५॥

ससैन्यः पाण्डवानीकमभ्यद्रवत संयुगे ।
दुर्मुखः कृतवर्मा च कृपः शल्यो विशांपतिः ॥४६॥

भीष्मं जुगुपुरासाद्य तव पुत्रेण नोदिताः ।
दृष्ट्वा तु पार्थिवैः सर्वैदुर्योधनपुरोगमैः ॥४७॥

पाण्डवानामनीकानि वध्यमानानि संयुगे ।
श्वेतो गाङ्गेयमुत्सृज्य तव पुत्रस्य वाहिनीम् ॥४८॥

नाशयामास वेगेन वायुर्वृक्षानिवौजसा ।
द्रावयित्वा चमूं राजन् वैराटिः क्रोधमूर्च्छितः ॥४९॥

आपतत्सहसा भूयो यत्र भीष्मो व्यवस्थितः ।
तौ तत्रोपगतौ राजन् शरदीप्तौ महाबलौ ॥५०॥

अयुध्येतां महात्मानौ यथोभौ वृत्रवासवौ ।
अन्योन्यं तु महाराज परस्परवधैषिणौ ॥५१॥

निगृह्य कार्मुकं श्वेतो भीष्मं विव्याध सप्तभिः ।
पराक्रमं ततस्तस्य पराक्रम्य पराक्रमी ॥५२॥

तरसा वारयामास मत्तो मत्तमिव द्विपम् ।
श्वेतः शान्तनवं भूयः शरैः सन्नतपर्वभिः ॥५३॥

विव्याध पञ्चविंशत्या तद‌द्भुतमिवाभवत् ।
तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवस्तदा ॥५४॥

स विद्धस्तेन बलवान्नाकम्पत यथाऽचलः ।
वैराटिः समरे क्रुद्धो भृशमायम्य कार्मुकम् ॥५५॥

आजघान ततो भीष्मं श्वेतः क्षत्रियनन्दनः ।
संप्रहस्य ततः श्वेतः सृक्किणी परिसंलिहन् ॥५६॥

धनुश्चिच्छेद भीष्मस्य नवभिर्दशधा शरैः ।
संधाय विशिखं चैव शरं लोमप्रवाहिनम् ॥५७॥

उन्ममाथ ततस्तालं ध्वजशीर्षं महात्मनः ।
केतुं निपतितं दृष्ट्वा भीष्मस्य तनयास्तव ॥५८॥

हतं भीष्मममन्यन्त श्वेतस्य वशमागतम् ।
पाण्डवाश्चापि संहृष्टा दध्मुः शङ्खान्मुदा युताः ॥५९॥

भीष्मस्य पतितं केतुं दृष्ट्वा तालं महात्मनः ।
ततो दुर्योधनः क्रोधात् स्वमनीकमनोदयत् ॥६०॥

यत्ता भीष्मं परीप्सध्वं रक्षमाणाः समन्ततः ।
मा नः प्रपश्यमानानां श्वेतान्मृत्युमवाप्स्यति ॥६१॥

भीष्मः शान्तनवः शूरस्तथा सत्यं ब्रवीमि वः ।
राज्ञस्तु वचनं श्रुत्वा त्वरमाणा महारथाः ॥६२॥

बलेन चतुरङ्गेण गाङ्गेयमन्वपालयन् ।
बाह्लीकः कृतवर्मा च शलः शल्यश्च भारत ॥६३॥

जलसन्धो विकर्णश्च चित्रसेनो विविंशतिः ।
त्वरमाणास्त्वराकाले परिवार्य समन्ततः ॥६४॥

शस्त्रवृष्टिं सुतुमुलां श्वेतस्योपर्यपातयन् ।
तान् क्रुद्धो निशितैर्बाणैस्त्वरमाणो महारथः ॥६५॥

अवारयदमेयात्मा दर्शयन् पाणिलाघवम् ।
स निवार्य तु तान् सर्वान् केसरी कुञ्जरानिव ॥६६॥

महता शरवर्षेण भीष्मस्य धनुराच्छिनत् ।
ततोऽन्यद्धनुरादाय भीष्मः शान्तनवो युधि ॥६७॥

श्वेतं विव्याध राजेन्द्र कङ्कपत्रैः शितैः शरैः ।
ततः सेनापतिः क्रुद्धो भीष्मं बहुभिरायसैः ॥६८॥

विव्याध समरे राजन् सर्वलोकस्य पश्यतः ।
ततः प्रव्यथितो राजा भीष्मं दृष्ट्वा निवारितम् ॥६९॥

प्रवीरं सर्वलोकस्य श्वेतेन युधि वै तदा ।
निष्ठानकश्च सुमहांस्तव सैन्यस्य चाभवत् ॥७०॥

तं वीरं वारितं दृष्ट्वा श्वेतेन शरविक्षतम् ।
हतं श्वेतेन मन्यन्ते श्वेतस्य वशमागतम् ॥७१॥

ततः क्रोधवशं प्राप्तः पिता देवव्रतस्तव ।
ध्वजमुन्मथितं दृष्ट्वा तां च सेनां निवारिताम् ॥७२॥

श्वेतं प्रति महाराज व्यसृजत् सायकान् बहुन् ।
तानावार्य रणे श्वेतो भीष्मस्य रथिनां वरः ॥७३॥

धनुश्चिच्छेद भल्लेन पुनरेव पितुस्तव ।
उत्सृज्य कार्मुकं राजन् गाङ्गेयः क्रोधमूर्च्छितः ॥७४॥

अन्यत् कार्मुकमादाय विपुलं बलवत्तरम् ।
तत्र सन्धाय विपुलान् भल्लान् सप्त शिलाशितान् ॥७५॥

चतुर्भिश्च जघानाश्वान् श्वेतस्य पृतनापतेः ।
ध्वजं द्वाभ्यां तु चिच्छेद सप्तमेन च सारथेः ॥७६॥

शिरश्चिच्छेद भल्लेन सङ्क्रुद्धो लघुविक्रमः ।
हताश्वसूतात् स रथादवप्लुत्य महाबलः ॥७७॥

अमर्षवशमापन्नो व्याकुलः समपद्यत ।
विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पितामहः ॥७८॥

ताडयामास निशितैः शरसङ्घैः समन्ततः ।
स ताड्यमानः समरे भीष्मचापच्युतैः शरैः॥७९॥

स्वरथे धनुरुत्सृज्य शक्तिं जग्राह काञ्चनीम् ।
ततः शक्तिं रणे श्वेतो जग्राहोग्रां महाभयाम् ॥८०॥

कालदण्डोपमां घोरां मृत्योर्जिह्वामिव श्वसन् ।
अब्रवीच्च तदा श्वेतो भीष्मं शान्तनवं रणे ॥८१॥

तिष्ठेदानीं सुसंरब्धः पश्य मां पुरुषो भव ।
एवमुक्त्वा महेष्वासो भीष्मं युधि पराक्रमी ॥८२॥

ततः शक्तिममेयात्मा चिक्षेप भुजगोपमाम् ।
पाण्डवार्थे पराक्रान्तस्तवानर्थं चिकीर्षुकः ॥८३॥

हाहाकारो महानासीत् पुत्राणां ते विशांपते ।
दृष्ट्वा शक्तिं महाघोरां मृत्योर्दण्डसमप्रभाम् ॥८४॥

श्वेतस्य करनिर्मुक्तां निर्मुक्तोरगसन्निभाम् ।
अपतत् सहसा राजन् महोल्केव नभस्तलात् ॥८५॥

ज्वलन्तीमन्तरिक्षे तां ज्वालाभिरिव संवृताम् ।
असंभ्रान्तस्तदा राजन् पिता देवव्रतस्तव ॥८६॥

अष्टभिर्नवभिर्भीष्मः शक्तिं चिच्छेद पत्रिभिः ।
उत्कृष्टहेमविकृतां निकृतां निशितैः शरैः ॥८७॥

उच्चुक्रुशुस्ततः सर्वे तावका भरतर्षभ ।
शक्तिं विनिहतां दृष्ट्वा वैराटिः क्रोधमूर्च्छितः ॥८८॥

कालोपहतचेतास्तु कर्तव्यं नाभ्यजानत ।
क्रोधसंमूर्च्छितो राजन् वैराटिः प्रहसन्निव ॥८९॥

गदां जग्राह संहृष्टो भीष्मस्य निधनं प्रति ।
क्रोधेन रक्तनयनो दण्डपाणिरिवान्तकः ॥९०॥

भीष्मं समभिदुद्राव जलौघ इव पर्वतम् ।
तस्य वेगमसंवार्यं मत्वा भीष्मः प्रतापवान् ॥९१॥

प्रहारविप्रमोक्षार्थं सहसा धरणीं गतः ।
श्वेतः क्रोधसमाविष्टो भ्रामयित्वा तु तां गदाम् ॥९२॥

रथे भीष्मस्य चिक्षेप यथा देवो धनेश्वरः ।
तया भीष्मनिपातिन्या स रथो भस्मसात्कृतः ॥९३॥

सध्वजः सह सूतेन साश्वः सयुगबन्धुरः ।
विरथं रथिनां श्रेष्ठं भीष्मं दृष्ट्वा रथोत्तमाः ॥९४॥

अभ्यधावन्त सहिताः शल्यप्रभृतयो रथाः ।
ततोऽन्यं रथमास्थाय धनुर्विस्फार्य दुर्मनाः ॥९५॥

शनकैरभ्ययाच्छ्वेतं गाङ्गेयः प्रहसन्निव ।
एतस्मिन्नन्तरे भीष्मः शुश्राव विपुलां गिरम् ॥९६॥

आकाशादीरितां दिव्यामात्मनो हितसंभवाम् ।
भीष्म भीष्म महाबाहो शीघ्रं यत्नं कुरुष्व वै ॥९७॥

एष ह्यस्य जये कालो निर्दिष्टो विश्वयोनिना ।
एतच्छ्रुत्वा तु वचनं देवदूतेन भाषितम् ॥९८॥

संप्रहृष्टमना भूत्वा वधे तस्य मनो दधे ।
विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पदातिनम् ॥९९॥

सहितास्त्वभ्यवर्तन्त परीप्सन्तो महारथाः ।
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥१००॥

कैकेयो धृष्टकेतुश्च अभिमन्युश्च वीर्यवान् ।
एतानापततः सर्वान् द्रोणशल्यकृपैः सह ॥१०१॥

अवारयदमेयात्मा वारिवेगानिवाचलः ।
स निरुद्धेषु सर्वेषु पाण्डवेषु महात्मसु ॥१०२॥

श्वेतः खड्गमथाकृष्य भीष्मस्य धनुराच्छिनत् ।
तदपास्य धनुश्छिन्नं त्वरमाणः पितामहः ॥१०३॥

देवदूतवचः श्रुत्वा वधे तस्य मनो दधे ।
ततः प्रचरमाणस्तु पिता देवव्रतस्तव ॥१०४॥

अन्यत् कार्मुकमादाय त्वरमाणो महारथः ।
क्षणेन सज्यमकरोच्छक्रचापसमप्रभम् ॥१०५॥

पिता ते भरतश्रेष्ठ श्वेतं दृष्ट्वा महारथैः ।
वृतं तं मनुजव्याघ्रैर्भीमसेनपुरोगमैः ॥१०६॥

अभ्यवर्तत गाङ्गेयः श्वेतं सेनापतिं द्रुतम् ।
आपतन्तं ततो भीष्मो भीमसेनं प्रतापवान् ॥१०७॥

आजघ्ने विशिखैः षष्ट्या सेनान्यं स महारथः ।
अभिमन्युं च समरे पिता देवव्रतस्तव ॥१०८॥

आजघ्ने भरतश्रेष्ठस्त्रिभिः सन्नतपर्वभिः ।
सात्यकिं च शतेनाजौ भरतानां पितामहः ॥१०९॥

धृष्टद्युम्नं च विंशत्या कैकेयं चापि पञ्चभिः ।
तांश्च सर्वान् महेष्वासान् पिता देवव्रतस्तव ॥११०॥

वारयित्वा शरैर्घोरैः श्वेतमेवाभिदुद्रुवे ।
ततः शरं मृत्युसमं भारसाधनमुत्तमम् ॥१११॥

विकृष्य बलवान् भीष्मः समाधत्त दुरासदम् ।
ब्रह्मास्त्रेण सुसंयुक्तं तं शरं लोमवाहिनम् ॥११२॥

ददृशुर्देवगन्धर्वाः पिशाचोरगराक्षसाः ।
स तस्य कवचं भित्त्वा हृदयं चामितौजसः ॥११३॥

जगाम धरणीं बाणो महाशनिरिव ज्वलन् ।
अस्तं गच्छन् यथादित्यः प्रभामादाय सत्वरः ॥११४॥

एवं जीवितमादाय श्वेतदेहाज्जगाम ह ।
तं भीष्मेण नरव्याघ्रं तथा विनिहतं युधि ॥११५॥

प्रपतन्तमपश्याम गिरेः शृङ्गमिव च्युतम् ।
अशोचन् पाण्डवास्तत्र क्षत्रियाश्च महारथाः ॥११६॥

प्रहृष्टाश्च सुतास्तुभ्यं कुरवश्चापि सर्वशः ।
ततो दुःशासनो राजन् श्वेतं दृष्ट्वा निपातितम् ॥११७॥

वादित्रनिनदैर्घोरैर्नृत्यति स्म समन्ततः ।
तस्मिन् हते महेष्वासे भीष्मेणाहवशोभिना ॥११८॥

प्रावेपन्त महेष्वासाः शिखण्डिप्रमुखा रथाः ।
ततो धनञ्जयो राजन् वार्ष्णेयश्चापि सर्वशः ॥११९॥

अवहारं शनैश्चक्रुर्निहते वाहिनीपतौ ।
ततोऽवहारः सैन्यानां तव तेषां च भारत ॥१२०॥

तावकानां परेषां च नर्दतां च मुहुर्मुहुः ।
पार्था विमनसो भूत्वा न्यवर्तन्त महारथाः ।
चिन्तयन्तो वधं घोरं द्वैरथेन परंतपाः ॥१२१॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि श्वेतवधे अष्टचत्वारिंशोऽध्यायः ॥४८॥
एकोनपञ्चशत्तमोऽध्यायः
धृतराष्ट्र उवाच ।

श्वेते सेनापतौ तात संग्रामे निहते परैः ।
किमकुर्वन्महेष्वासाः पञ्चालाः पाण्डवैः सह ॥१॥

श्वेत इति ॥१॥

सेनापतिं समाकर्ण्य श्वेतं युधि निपातितम् ।
तदर्थं यततां चापि परेषां प्रपलायिनाम् ॥२॥

मनः प्रीणाति मे वाक्यं जयं संजय शृण्वतः ।
प्रत्युपायं चिन्तयन्तः सज्जनाः प्रस्रवन्ति मे ॥३॥

स हि वीरोऽनुरक्तश्च वृद्धः कुरुपतिस्तदा ।
कृतं वैरं सदा तेन पितुः पुत्रेण धीमता ॥४॥

तस्योद्वेगभयाच्चापि संश्रितः पाण्डवान् पुरा ।
सर्वं बलं परित्यज्य दुर्गं संश्रित्य तिष्ठति ॥५॥

पाण्डवानां प्रतापेन दुर्गं देशं निवेश्य च ।
सपत्नान् सततं बाधन्नार्यवृत्तिमनुष्ठितः ॥६॥

आश्चर्यं वै सदा तेषां पुरा राज्ञां सुदुर्मतिः ।
ततो युधिष्ठिरे भक्तः कथं सञ्जय सूदितः ॥७॥

प्रक्षिप्तः संमतः क्षुद्रः पुत्रो मे पुरुषाधमः ।
न युद्धं रोचयेद्भीष्मो न चाचार्यः कथञ्चन ॥८॥

न कृपो न च गान्धारी नाहं सञ्जय रोचये ।
न वासुदेवो वार्ष्णेयो धर्मराजश्च पाण्डवः ॥९॥

न भीमो नार्जुनश्चैव न यमौ पुरुषर्षभौ ।
वार्यमाणो मया नित्यं गान्धार्या विदुरेण च ॥१०॥

जामदग्न्येन रामेण व्यासेन च महात्मना ।
दुर्योधनो युध्यमानो नित्यमेव हि सञ्जय ॥११॥

कर्णस्य मतमास्थाय सौबलस्य च पापकृत् ।
दुःशासनस्य च तथा पाण्डवानन्वचिन्तयत् ॥१२॥

तस्याहं व्यसनं घोरं मन्ये प्राप्तं तु सञ्जय ।
श्वेतस्य च विनाशेन भीष्मस्य विजयेन च ॥१३॥

संक्रुद्धः कृष्णसहितः पार्थः किमकरोद्युधि ।
अर्जुनाद्धि भयं भूयस्तन्मे तात न शाम्यति ॥१४॥

स हि शूरश्च कौन्तेयः क्षिप्रकारी धनञ्जयः ।
मन्ये शरैः शरीराणि शत्रूणां प्रमथिष्यति ॥१५॥

ऐन्द्रिमिन्द्रानुजसमं महेन्द्रसदृशं बले ।
अमोघक्रोधसंकल्पं दृष्ट्वा वः किमभून्मनः ॥१६॥

तथैव वेद‌विच्छूरो ज्वलनार्कसमद्युतिः ।
इन्द्रास्त्रविद‌मेयात्मा प्रपतन् समितिञ्जयः ॥१७॥

वज्रसंस्पर्शरूपाणामस्त्राणां च प्रयोजकः ।
स खड्गाक्षेपहस्तस्तु घोषं चक्रे महारथः ॥१८॥

स सञ्जय महाप्राज्ञो द्रुपदस्यात्मजो बली ।
घृष्टद्युम्नः किमकरोच्छ्वेते युधि निपातिते ॥१९॥

पुरा चैवापराधेन वधेन च चमूपतेः ।
मन्ये मनः प्रजज्वाल पाण्डवानां महात्मनाम् ॥२०॥

तेषां क्रोधं चिन्तयंस्तु अहःसु च निशासु च ।
न शान्तिमधिगच्छामि दुर्योधनकृतेन हि ।
कथं चाभून्महायुद्धं सर्वमाचक्ष्व सञ्जय ॥२१॥

सञ्जय उवाच । शृणु राजन् स्थिरो भूत्वा तवापनयनो महान् ।
न च दुर्योधने दोषमिममाधातुमर्हसि ॥२२॥

गतोदके सेतुबन्धो यादृक्तादृङ्मतिस्तव ।
संदीप्ते भवने यद्वत्कूपस्य खननं तथा ॥२३॥

गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे ।
तावकानां परेषां च पुनर्युद्धमवर्तत ॥२४॥

श्वेतं तु निहतं दृष्ट्वा विराटस्य चमूपतिम् ।
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ॥२५॥

शङ्खः क्रोधात् प्रजज्वाल हविषा हव्यवाडिव ।
स विस्फार्य महच्चापं शक्रचापोपमं बली ॥२६॥

अभ्यधावज्जिघांसन् वै शल्यं मद्राधिपं युधि ।
महता रथसङ्घेन समन्तात् परिरक्षितः ॥२७॥

सृजन् बाणमयं वर्षं प्रायाच्छल्यरथं प्रति ।
तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम् ॥२८॥

तावकानां रथाः सप्त समन्तात् पर्यवारयन् ।
मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ॥२९॥

बृहद्बलश्च कौसल्यो जयत्सेनश्च मागधः ।
तथा रुक्मरथो राजन् पुत्रः शल्यस्य मानितः ॥३०॥

विन्दानुविन्दावावन्त्यौ कांबोजश्च सुदक्षिणः ।
बृहत्क्षत्रस्य दायादः सैन्धवश्च जयद्रथः ॥३१॥

नानाधातुविचित्राणि कार्मुकाणि महात्मनाम् ।
विस्फारितान्यदृश्यन्त तोयदेष्विव विद्युतः ॥३२॥

ते तु बाणमयं वर्षं शंखमूर्ध्नि न्यपातयन् ।
निदाघान्तेऽनिलोद्धूता मेघा इव नगे जलम् ॥३३॥

ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः ।
धनूंषि तेषामाच्छिद्य ननर्द पृतनापतिः ॥३४॥

ततो भीष्मो महाबाहुर्विनद्य जलदो यथा ।
तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे ॥३५॥

तमुद्यन्तमुदीक्ष्याथ महेष्वासं महाबलम् ।
संत्रस्ता पाण्डवी सेना वातवेगहतेव नौः ॥३६॥

ततोऽर्जुनः संत्वरितः शङ्खस्यासीत् पुरःसरः ।
भष्मिाद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत ॥३७॥

हाहाकारो महानासीद्योधानां युधि युध्यताम् ।
तेजस्तेजसि संपृक्तमित्येवं विस्मयं ययुः ॥३८॥

अथ शल्यो गदापाणिरवतीर्य महारथात् ।
शङ्खस्य चतुरो वाहानहनद्भरतर्षभ ॥३९॥

स हताश्वाद्रथात् तूर्णं खड्गमादाय विद्रुतः ।
बीभत्सोश्च रथं प्राप्य पुनः शान्तिमविन्दत ॥४०॥

ततो भीष्मरथात् तूर्णमुत्पतन्ति पतत्त्रिणः ।
यैरन्तरिक्षं भूमिश्च सर्वतः समवस्तृता ॥४१॥

पञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान् ।
भीष्मः प्रहरतां श्रेष्ठः पातयामास पत्रिभिः ॥४२॥

उत्सृज्य समरे राजन् पाण्डवं सव्यसाचिनम् ।
अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् ॥४३॥

प्रियं संबन्धिनं राजन् शरानवकिरन् बहून् ।
अग्निनेव प्रदग्धानि वनानि शिशिरात्यये ॥४४॥

शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह ।
अत्यतिष्ठद्रणे भीष्मो विधूम इव पावकः ॥४५॥

मध्यंदिने यथाऽऽदित्यं तपन्तमिव तेजसा ।
न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् ॥४६॥

वीक्षाञ्चक्रुः समन्तात् ते पाण्डवा भयपीडिताः ।
त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव ॥४७॥

सा तु यौधिष्ठिरी सेना गाङ्गेयशरपीडिता ।
सिंहेनेव विनिर्भिन्ना शुक्ला गौरिव गोपतेः ॥४८॥

हते विप्रद्रुते सैन्ये निरुत्साहे विमर्दिते ।
हाहाकारो महानासीत् पाण्डुसैन्येषु भारत ॥४९॥

ततो भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः ।
मुमोच बाणान् दीप्ताग्रानहीनाशीविषानिव ॥५०॥

शरैरेकायनीकुर्वन् दिशः सर्वा यतव्रतः ।
जघान पाण्डवरथानादिश्यादिश्य भारत ॥५१॥

एकायनीकुर्वन् एकमार्गाः कुर्वन्॥५१॥

ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः ।
प्राप्ते चास्तं दिनकरे न प्राज्ञायत किञ्चन ॥५२॥

भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे ।
अवहारमकुर्वन्त सैन्यानां भरतर्षभ ॥५३॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि शङ्खयुद्धे प्रथमदिवसावहारे एकोनपञ्चाशत्तमोऽध्यायः॥४९॥
पञ्चाशत्तमोऽध्यायहः
सञ्जय उवाच ।

कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ ।
भीष्मे च युद्धसंरब्धे हृष्टे दुर्योधने तथा ॥१॥

कृतेऽवहारे इति ॥१॥

धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् ।
भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः ॥२॥

शुचा परमया युक्तश्चिन्तयानः पराजयम् ।
वार्ष्णेयमब्रवीद्राजन् दृष्ट्वा भीष्मस्य विक्रमम् ॥३॥

कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् ।
शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् ॥४॥

कक्षं तृणम् ॥४॥

कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् ।
लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् ॥५॥

एतं हि पुरुषव्याघ्रं धनुष्मतं महाबलम् ।
दृष्ट्वा विप्रद्रुतं सैन्यं समरे मार्गणाहतम् ॥६॥

शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संयुगे ।
वरुणः पाशभृद्वापि कुबेरो वा गदाधरः ॥७॥

न तु भीष्मो महातेजाः शक्यो जेतुं महाबलः ।
सोऽहमेवंगते मग्नो भीष्मागाधजलेऽप्लवे ॥८॥

अप्लवे उडुपशून्ये ॥८॥

आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य केशव ।
वनं यास्यामि वार्ष्णेय श्रेयो मे तत्र जीवितुम् ॥९॥

न त्वेतान् पृथिवीपालान् दातुं भीष्माय मृत्यवे ।
क्षपयिष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् ॥१०॥

यथाऽनलं प्रज्वलितं पतङ्गाः समभिद्रुताः ।
विनाशायोपगच्छन्ति तथा मे सैनिको जनः ॥११॥

क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी ।
भ्रातरश्चैव मे वीराः कर्शिताः शरपीडिताः ॥१२॥

मत्कृते भ्रातृहार्देन राज्याद्भ्रष्टास्तथा सुखात् ।
जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् ॥१३॥

जीवितस्य च शेषेण तपस्तप्स्यामि दुश्चरम् ।
न घातयिष्यामि रणे मित्राणीमानि केशव ॥१४॥

रथान् मे बहुसाहस्त्रान् दिव्यैरस्त्रैर्महाबलः ।
घातयत्यनिशं भीष्मः प्रवराणां प्रहारिणाम् ॥१५॥

किं नु कृत्वा हितं मे स्याद्ब्रूहि माधव माचिरम् ।
मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् ॥१६॥

एको भीमः परं शक्त्या युध्यत्येव महाभुजः ।
केवलं बाहुवीर्येण क्षत्रधर्ममनुस्मरन् ॥१७॥

गदया वीरघातिन्या यथोत्साहं महामनाः ।
करोत्यसुकरं कर्म रथाश्वनरदन्तिषु ॥१८॥

नालमेष क्षयं कर्तुं परसैन्यस्य मारिष ।
आर्जवेनैव युद्धेन वीर वर्षशतैरपि ॥१९॥

आर्जवेन अकुटिलेन दिव्यास्त्रमायाहीनेन ॥१९॥

एकोऽस्त्रवित्सखा तेऽयं सोऽप्यस्मान्समुपेक्षते ।
निर्दह्यमानान् भीष्मेण द्रोणेन च महात्मना ॥२०॥

दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः ।
धक्ष्यन्ति क्षत्रियान् सर्वान् प्रयुक्तानि पुनः पुनः ॥२१॥

कृष्ण भीष्मः सुसंरब्धः सहितः सर्वपार्थिवः ।
क्षपयिष्यति नो नूनं यादृशोऽस्य पराक्रमः ॥२२॥

स त्वं पश्य महाभाग योगेश्वर महारथम् ।
भीष्मं यः शमयेत्सङ्ख्ये दावाग्निं जलदो यथा ॥२३॥

तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः ।
स्वराज्यमनुसंप्राप्ता मोदिष्यन्ते सबान्धवाः ॥२४॥

एवमुक्त्वा ततः पार्थो ध्यायन्नास्ते महामनाः ।
चिरमन्तर्मना भूत्वा शोकोपहतचेतनः ।
शोकार्तं तमथो ज्ञात्वा दुःखोपहतचेतसम् ॥२५॥

अन्तर्मनाः विमनाः ॥२५॥

अब्रवीत् तत्र गोविन्दो हर्षयन् सर्वपाण्डवान् ।
मा शुचो भरतश्रेष्ठ न त्वं शोचितुमर्हसि ॥२६॥

यस्य ते भ्रातरः शूराः सर्वलोकेषु धन्विनः ।
अहं च प्रियकृद्राजन् सात्यकिश्च महायशाः॥२७॥

विराटद्रुपदौ चेमौ धृष्टद्युम्नश्च पार्षतः ।
तथैव सबलाश्चेमे राजानो राजसत्तम ॥२८॥

त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशांपते ।
एष ते पार्षतो नित्यं हितकामः प्रिये रतः ॥२९॥

सैनापत्यमनुप्राप्तो धृष्टद्युम्नो महाबलः ।
शिखण्डी च महाबाहो भीष्मस्य निधनं किल ॥३०॥

निधनं निधनहेतुः ॥३०॥

एतच्छ्रुत्वा ततो धर्मो धृष्टद्युम्नं महारथम् ।
अब्रवीत् समितौ तस्यां वासुदेवस्य शृण्वतः ॥३१॥

धृष्टद्युम्न निबोधेदं यत्त्वां वक्ष्यामि मारिष ।
नातिक्रम्यं भवेत् तच्च वचनं मम भाषितम् ॥३२॥

भाषितमुक्तम् ॥३२॥

भवान् सेनापतिर्मह्यं वासुदेवेन संमितः ।
कार्तिकेयो यथा नित्यं देवानामभवत् पुरा ॥३३॥

मह्यं मम ॥३३॥

तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ ।
स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् ॥३४॥

अहं च तेऽनुयास्यामि भीमः कृष्णश्च मारिष ।
माद्रीपुत्रौ च सहितौ द्रौपदेयाश्च दंशिताः ॥३५॥

ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ ।
तत उद्धर्षयन् सर्वान् धृष्टद्युम्नोऽभ्यभाषत ॥३६॥

अहं द्रोणान्तकः पार्थ विहितः शंभुना पुरा ।
रणे भीष्मं कृपं द्रोणं तथा शल्यं जयद्रथम् ॥३७॥

सर्वानद्य रणे दृप्तान् प्रतियोत्स्यामि पार्थिव ।
अथोत्कृष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः ॥३८॥

समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने ।
तमब्रवीत् ततः पार्थः पार्षतं पृतनापतिम् ॥३९॥

व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिबर्हणः ।
यं बृहस्पतिरिन्द्राय तदा देवासुरेऽब्रवीत् ॥४०॥

तं यथावत् प्रतिव्यूहं परानीकविनाशनम् ।
अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह ॥४१॥

यथोक्तः स नृदेवेन विष्णुर्वज्रभृता यथा ।
प्रभाते सर्वसैन्यानामग्रे चक्रे धनञ्जयम् ॥४२॥

आदित्यपथगः केतुस्तस्याद्भुतमनोरमः ।
शासनात् पुरुहूतस्य निर्मितो विश्वकर्मणा ॥४३॥

इन्द्रायुधसवर्णाभिः पताकाभिरलङ्कृतः ।
आकाशग इवाकाशे गन्धर्वनगरोपमः ॥४४॥

आकाशग इव पक्षीव ॥४४॥

नृत्यमान इवाभाति रथचर्यासु मारिष ।
तेन रत्नवता पार्थः स च गाण्डीवधन्वना ॥४५॥

रथचर्यासु रथवर्त्मसु ॥४५॥

बभूव परमोपेतः सुमरुरिव भानुना ।
शिरोऽभूद्द्रुपदो राजा महत्या सेनया वृतः ॥४६॥

परमोपेतः परा उत्कृष्टा चासौ म लक्ष्मीश्चेति परमा तया उपेतः ॥४६॥

कुन्तिभोजश्च चैद्यश्च चक्षुर्भ्यां तौ जनेश्वरौ ।
दाशार्णकाः प्रभद्राश्च दाशेरकगणैः सह ॥४७॥

अनूपकाः किराताश्च ग्रीवायां भरतर्षभ ।
पटच्चरैश्च पौण्ड्रेश्च राजन् पौरवकैस्तथा ॥४८॥

निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः ।
पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥४९॥

द्रौपदेयाभिमन्युश्च सात्यकिश्च महारथः ।
पिशाचा दारदाश्चैव पुण्ड्राः कुण्डीविषैः सह ॥५०॥

मारुता धेनुकाश्चैव तङ्गणाः परतङ्गणाः ।
वाह्लिकास्तित्तिराश्चैव चोलाः पण्ड्याश्च भारत ॥५१॥

एते जनपदा राजन् दक्षिणं पक्षमाश्रिताः ।
अग्निवेशास्तु हुण्डाश्च मालवा दानभारयः ॥५२॥

शबरा उद्भसाश्चैव वत्साश्च सह नाकुलैः ।
नकुलः सहदेवश्च वामं पक्षं समाश्रिताः ॥५३॥

रथानामयुतं पक्षौ शिरस्तु नियुतं तथा ।
पृष्ठमर्बुदमेवासीत् सहस्राणि च विंशतिः ॥५४॥

ग्रीवायां नियुतं चापि सहस्राणि च सप्ततिः ।
पक्षकोटिप्रपक्षेषु पक्षान्तेषु च वारणाः ॥५५॥

जग्मुः परिवृता राजंश्चलन्त इव पर्वताः ।
जघनं पालयामास विराटः सह केकयैः ॥५६॥

काशिराजश्च शैब्यश्च रथानामयुतैस्त्रिभिः ।
एवमेनं महाव्यूहं व्यूह्य भारत पाण्डवाः ॥५७॥

सूर्योदयं त इच्छन्तः स्थिता युद्धाय दंशिताः ।
तेषामादित्यवर्णानि विमलानि महान्ति च ।
श्वेतच्छत्राण्यशोभन्त वारणेषु रथेषु च ॥५८॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि क्रौञ्चव्यूहनिर्माणे पञ्चाशत्तमोऽध्यायः ॥५०॥
एकपञ्चाशत्तमोऽध्यायः
सञ्जय उवाच ।

क्रौञ्चं दृष्ट्वा ततो व्यूहमभेद्यं तनयस्तव ।
रक्ष्यमाणं महाघोरं पार्थेनामिततेजसा ॥१॥

क्रौञ्चमिति ॥१॥

आचार्यमुपसङ्गम्य कृपं शल्यं च पार्थिव ।
सौमदत्तिं विकर्णं च सोऽश्वत्थामानमेव च ॥२॥

दुःशासनादीन् भ्रातॄंश्च सर्वानेव च भारत ।
अन्यांश्च सुबहून् शूरान् युद्धाय समुपागतान् ॥३॥

प्राहेदं वचनं काले हर्षयंस्तनयस्तव ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥४॥

एकैकशः समर्था हि यूयं सर्वे महारथाः ।
पाण्डुपुत्रान् रणे हन्तुं ससैन्यान् किमु संहताः ॥५॥

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तमिदमेतेषां बलं भीमाभिरक्षितम् ॥६॥

अपर्याप्तमपरिमेयम् ॥६॥

संस्थानाः शूरसेनाश्च वेत्रिकाः कुकुरास्तथा ।
आरोचकास्त्रिगर्ताश्च मद्रका यवनास्तथा ॥७॥

शत्रुंजयेन सहितास्तथा दुःशासनेन च ।
विकर्णेन च वीरेण तथा नन्दोपनन्दकैः ॥८॥

चित्रसेनेन सहिताः सहिताः पारिभद्रकैः ।
भीष्ममेवाभिरक्षन्तु सहसैन्यपुरस्कृताः ॥९॥

ततो भीष्मश्च द्रोणश्च तव पुत्राश्च मारिष ।
अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधकम् ॥१०॥

भीष्मः सैन्येन महता समन्तात् परिवारितः ।
ययौ प्रकर्षन्महतीं वाहिनीं सुरराडिव ॥११॥

तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान् ।
कुन्तलैश्च दशार्णैश्च मागधैश्च विशांपते ॥१२॥

विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि ।
सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम् ॥१३॥

गान्धाराः सिन्धुसौर्वाराः शिवयोऽथ वसातयः ।
शकुनिश्च स्वसैन्येन भारद्वाजमपालयत् ॥१४॥

ततो दुर्योधनो राजा सहितः सर्वसोदरैः ।
अश्वातकैर्विकर्णैश्च तथा चाम्बष्ठकोसलैः ॥१५॥

दरदैश्च शकैश्चैव तथा क्षुद्रकमालवैः ।
अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् ॥१६॥

भूरिश्रवाः शलः शल्यो भगद‌त्तश्च मारिषः ।
विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन् ॥१७॥

सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः ।
श्रुतायुश्चाच्युतायुश्च दक्षिणं पक्षमास्थिता ॥१८॥

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।
महत्या सेनया सार्धं सेनापृष्ठे व्यवस्थिताः ॥१९॥

पृष्ठगोपास्तु तस्यासन् नानादेश्या जनेश्वराः ।
केतुमान् वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥२०॥

अभिभवत्यभिभूः क्विप् ॥२०॥

ततस्ते तावका सर्वे हृष्टा युद्धाय भारत ।
दध्मुः शङ्खान् मुदा युक्ताः सिंहनादांस्तथोन्नदन् ॥२१॥

तेषां श्रुत्वा तु हृष्टानां वृद्धः कुरुपितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥२२॥

ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः ।
आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥२३॥

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ ॥२४॥

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥२५॥

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥२६॥

काशिराजश्च शैब्यश्च शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः ॥२७॥

पाञ्चाल्याश्च महेष्वासा द्रौपद्याः पञ्च चात्मजाः ।
सर्वे दध्मुर्महाशङ्खान् सिंहनादांश्च नेदिरे ॥२८॥

स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत् ॥२९॥

एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः ।
पुनर्युद्धाय सञ्जग्मुस्तापयानाः परस्परम् ॥३०॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि कौरवव्यूहरचनायां एकपञ्चाशत्तमोऽध्यायः ॥५१॥
द्विपञ्चाशत्तमोऽध्यायः
धृतराष्ट्र उवाच ।

एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च ।
कथं प्रहरतां श्रेष्ठाः संप्रहार प्रचक्रिरे ॥१॥

एवमिति ॥१॥
सञ्जय उवाच ।

समं व्यूढेष्वनीकेषु सन्नद्धरुचिरध्वजम् ।
अपारमिव संदृश्य सागरप्रतिमं बलम् ॥२॥

तेषां मध्ये स्थितो राजन् पुत्रो दुर्योधनस्तव ।
अब्रवीत्तावकान् सर्वान् युद्ध्यध्वमिति दंशिताः ॥३॥

ते मनः क्रूरमाधाय समभित्यक्तजीविताः ।
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥४॥

ततो युद्धं समभवत्तुमुलं लोमहर्षणम् ।
तावकानां परेषां च व्यतिषक्तरथद्विपम् ॥५॥

मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजसः ।
सन्निपेतुरकुण्ठाग्रा नागेषु च हयेषु च ॥६॥

तथा प्रवृत्ते संग्रामे धनुरुद्यम्य दंशितः ।
अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः ॥७॥

सोभद्रे भीमसेने च सात्यकौ च महारथे ।
कैकेये च विराटे च धृष्टद्युम्ने च पार्षते ॥८॥

एतेषु नरवीरेषु चेदिमत्स्येषु चाभिभूः ।
ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः ॥९॥

अभिद्यत ततो व्यूहस्तस्मिन् वीरसमागमे ।
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥१०॥

व्यतिकरो मेलकः समागम इत्यर्थः ॥१०॥

सादिनो ध्वजिनश्चैव हतप्रवरवाजिनः ।
विप्रद्रुतरथानीकाः समपद्यन्त पाण्डवाः ॥११॥

अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् ।
वार्ष्णेयमब्रवीत् क्रुद्धो याहि यत्र पितामहः ॥१२॥

एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम् ।
नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः ॥१३॥

एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन ।
धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः ॥१४॥

पञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना ।
सोऽहं भीष्मं वधिष्यामि सैन्यहेतोर्जनार्दन ॥१५॥

दृढधन्वना भीष्मेण ॥१५॥

तमब्रवीद्वासुदेवो यत्तो भव धनञ्जय ।
एष त्वां प्रापयिष्यामि पितामहरथं प्रति ॥१६॥

यत्तः यत्नवान् ॥१६॥

एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् ।
प्रापयामास भीष्मस्य रथं प्रति जनेश्वर ॥१७॥

चलद्बहुपताकेन बलाकावर्णवाजिना ।
समुच्छ्रितमहाभीमनदद्वानरकेतुना ॥१८॥

महता मेघनादेन रथेनामिततेजसा ।
विनिघ्नन् कौरवानीकं शूरसेनांश्च पाण्डवः ॥१९॥

प्रायाच्छरणदः शीघ्रं सुहृदां हर्षवर्धनः ।
तमापतन्तं वेगेन प्रभिन्नमिव वारणम् ॥२०॥

त्रासयन्तं रणे शूरान् मर्दयन्तं च सायकैः ।
सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः ॥२१॥

सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम् ।
को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् ॥२२॥

द्रोणवैकर्तनाभ्यां वा रथी संयातुमर्हति ।
ततो भीष्मो महाराज सर्वलोकमहारथः ॥२३॥

अर्जुनं सप्तसप्तत्या नाराचानां समाचिनोत् ।
द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः ॥२४॥

दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः ।
सैन्धवो नवभिश्चैव शकुनिश्चापि पञ्चभिः ॥२५॥

विकर्णो दशभिर्भल्लै राजन् विव्याध पाण्डवम् ।
स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः ॥२६॥

न विव्यथे महाबाहुर्भिद्यमान इवाचलः ।
स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः ॥२७॥

द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः ।
शल्यं चैव त्रिभिर्बाणै राजानं चैव पञ्चभिः ॥२८॥

प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ ।
तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः ॥२९॥

द्रौपदेयाऽभिमन्युश्च परिवव्रुर्धनञ्जयम् ।
ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् ॥३०॥

अभ्यवर्तत पाञ्चाल्यः संयुक्तः सह सोमकैः ।
भीष्मस्तु रथिनां श्रेष्ठो राजन् विव्याध पाण्डवम् ॥३१॥

अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त तावकाः ।
तेषां तु निनदं श्रुत्वा सहितानां प्रहृष्टवत् ॥३२॥

प्रविवेश ततो मध्यं नरसिंहः प्रतापवान् ।
तेषां महारथानां स मध्यं प्राप्य धनञ्जयः ॥३३॥

चिक्रीड धनुषा राजँल्लक्षं कृत्वा महारथान् ।
ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः ॥३४॥

पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे ।
एष पाण्डुसुतस्तात कृष्णेन सहितो बली ॥३५॥

यततां सर्वसैन्यानां मूलं नः परिकृन्तति ।
त्वयि जीवति गाङ्गेय द्रोणे च रथिनां वरे ॥३६॥

त्वत्कृते चैव कर्णोऽपि न्यस्तशस्त्रो विशांपते ।
न युध्यति रणे पार्थं हितकामः सदा मम ॥३७॥

स तथा कुरु गाङ्गेय यथा हन्येत फाल्गुनः ।
एवमुक्तस्ततो राजन् पिता देवव्रतस्तव ॥३८॥

धिक् क्षात्रं धर्ममित्युक्त्वा प्रायात् पार्थरथं प्रति ।
उभौ श्वेतहयौ राजन् संसक्तौ प्रेक्ष्य पार्थिवाः ॥३९॥

सिंहनादान्भृशं चक्रुः शङ्खान् दध्मुश्च मारिष ।
द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः ॥४०॥

परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष ।
तथैव पाण्डवाः सर्वे परिवार्य धनञ्जयम् ॥४१॥

स्थिता युद्धाय महते ततो युद्धमवर्तत ।
गाङ्गेयस्तु रणे पार्थमानर्च्छन्नवभिः शरैः ॥४२॥

तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मभेदिभिः ।
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः ॥४३॥

अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः ।
शरजालं ततस्तत्तु शरजालेन मारिष ॥४४॥

वारयामास पार्थस्य भीष्मः शान्तनवस्तदा ।
उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ ॥४५॥

निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ ।
भीष्मचापविमुक्तानि शरजालानि सङ्घशः ॥४६॥

शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैः ।
तथैवार्जुनमुक्तानि शरजालानि सर्वशः ॥४७॥

गाङ्गेयशरनुन्नानि प्रापतन्त महीतले ।
अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः ॥४८॥

भीष्मोऽपि समरे पार्थं विव्याध निशितैः शरैः ।
अन्योन्यस्य हयान् विद्ध्वा ध्वजौ च सुमहाबलौ ॥४९॥

रथेषां रथचक्रे च चिक्रीडतुररिन्दमौ ।
ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः ॥५०॥

वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे ।
भीष्मचापच्युतैस्तैस्तु निर्विद्धो मधुसूदनः ॥५१॥

विरराज रणे राजन् सपुष्प इव किंशुकः ।
ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् ॥५२॥

सारथिं कुरुवृद्धस्य निर्बिभेद शितैः शरैः ।
यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति ॥५३॥

न शक्नुतां तदाऽन्योन्यमभिसन्धातुमाहवे ।
तौ मण्डलानि चित्राणि गतप्रत्यागतानि च ॥५४॥

अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् ।
अन्तरं च प्रहारेषु तर्कयन्तौ परस्परम् ॥५५॥

अन्तरं छिद्रं तर्कयन्तौ चिन्तयन्तौ ॥५५॥

राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः ।
उभौ सिंहरवोन्मिश्रं शङ्खंशब्दं च चक्रतुः ॥५६॥

अन्तरमार्गस्थौ छिद्रान्वेषणपरौ ॥५६॥

तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ ।
तयोः शङ्खनिनादेन रथनेमिस्वनेन च ॥५७॥

दारिता सहसा भूमिश्चकम्पे च ननाद च ।
नोभयोरन्तरं कश्चिद्ददृशे भरतर्षभ ॥५८॥

बलिनौ युद्धदुर्धर्षावन्योन्यसदृशावुभौ ।
चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः ॥५९॥

चिह्नं ध्वजः ॥५९॥

तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे ।
तयोर्नुवरयोर्दृष्ट्वा तादृशं तं पराक्रमम् ॥६०॥

विस्मयं सर्वभूतानि जग्मुर्भारत संयुगे ।
न तयोर्विवरं कश्चिद्रणे पश्यति भारत ॥६१॥

धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् ।
उभौ च शरजालेन तावदृश्यौ बभूवतुः ॥६२॥

प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे ।
तत्र देवाः सगन्धर्वाश्चारणाश्चर्षिभिः सह ॥६३॥

अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् ।
न शक्यौ युधि संरब्धौ जेतुमेतौ कथञ्चन ॥६४॥

सदेवासुरगन्धर्वैर्लोकैरपि महारथौ ।
आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् ॥६५॥

नैतादृशानि युद्धानि भविष्यन्ति कथञ्चन ।
न हि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता ॥६६॥

सधनुः सरथः साश्वः प्रवपन् सायकान् रणे ।
तथैव पाण्डवं युद्धे देवैरपि दुरासदम् ॥६७॥

न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् ।
आलोकादपि युद्धं हि सममेतद्भविष्यति ॥६८॥

आलोकात् आसंसारस्थितेः ॥६८॥

इति स्म वाचोऽश्रूयन्त प्रोच्चरन्त्यस्ततस्ततः ।
गाङ्गेयार्जुनयोः संख्ये स्तवयुक्ता विशांपते ॥६९॥

त्वदीयास्तु तदा योधाः पाण्डवेयाश्च भारत ।
अन्योन्यं समरे जघ्नुस्तयोस्तत्र पराक्रमे ॥७०॥

शितधारैस्तथा खड्गैर्विमलैश्च परश्वधैः ।
शरैरन्यैश्च बहुभिः शस्त्रैर्नानाविधैरपि ॥७१॥

उभयोः सेनयोः शूरा न्यकृन्तन्त परस्परम् ।
वर्तमाने तथा घोरे तस्मिन् युद्धे सुदारुणे ।
द्रोणपाञ्चाल्ययो राजन् महानासीत्समागमः ॥७२॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि भीष्मार्जुनयुद्धे द्विपञ्चाशत्तमोऽध्यायः ॥५२॥
त्रिपञ्चाशत्तमोऽध्यायः
धृतराष्ट्र उवाच ।

कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः ।
उभौ समीयतुर्यत्तौ तन्ममाचक्ष्व सञ्जय ॥१॥

कथमिति ॥१॥

दिष्टमेव परं मन्ये पौरुषादिति मे मतिः ।
यत्र शान्तनवो भीष्मो नातरद्युधि पाण्डवम् ॥२॥

भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान् ।
स कथं पाण्डवं युद्धे नातरत् सञ्जयौजसा ॥३॥

नातरत् न लङ्घितवान् ॥३॥

सञ्जय उवाच । शृणु राजन् स्थिरो भूत्वा युद्धमेतत्सुदारुणम् ।
न शक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥४॥

द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमविध्यत ।
सारथिं चास्य भल्लेन रथनीडादपातयत् ॥५॥

नीडात् स्थानात् ॥५॥

तथाऽस्य चतुरो वाहांश्चतुर्भिः सायकोत्तमैः ।
पीडयामास संक्रुद्धो धृष्टद्युम्नस्य मारिष ॥६॥

धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः ।
विव्याध प्रहसन्वीरस्तिष्ठ तिष्ठेति चाब्रवीत् ॥७॥

ततः पुनरमेयात्मा भारद्वाजः प्रतापवान् ।
शरैः प्रच्छा‌दयामास धृष्टद्युम्नममर्षणम् ॥८॥

आददे च शरं घोरं पार्षतान्तचिकीर्षया ।
शक्राशीनसमस्पर्शं कालदण्डमिवापरम् ॥९॥

हाहाकारो महानासीत् सर्वसैन्येषु भारत ।
तमिषुं सन्धितं दृष्ट्वा भारद्वाजेन संयुगे ॥१०॥

तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम् ।
यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः ॥११॥

तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः ।
चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह ॥१२॥

तत उच्चुक्रुशुः सर्वे पञ्चालाः पाण्डवैः सह ।
धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥१३॥

ततः शक्तिं महावेगां स्वर्णवैदूर्यभूषिताम् ।
द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी ॥१४॥

तामापतन्तीं सहसा शक्तिं कनकभूषिताम् ।
त्रिधा चिच्छेद समरे भारद्वाजो हसन्निव ॥१५॥

शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान् ।
ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर ॥१६॥

शरवर्षं ततस्तत्तु सन्निवार्य महायशाः ।
द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् ॥१७॥

स च्छिन्नधन्वा समरे गदां गुर्वीं महायशाः ।
द्रोणाय प्रेषयामास गिरिसारमयीं बली ॥१८॥

सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया ।
तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् ॥१९॥

लाघवाद्व्यसंयामास गदां हेमविभूषिताम् ।
व्यंसयित्वा गदां तां च प्रेषयामास पार्षतम् ॥२०॥

व्यंसयामास संसक्ताऽपि यथा न भवति तथा वञ्चयति स्म ॥२०॥

भल्लान् सुनिशितान् पीतान् रुक्मपुंखान् सुदारुणान् ।
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥२१॥

अथान्यद्धनुरादाय धृष्टद्युम्नो महारथः ।
द्रोणं युधि पराक्रम्य शरौर्विव्याध पञ्चभिः ॥२२॥

पीतान् पायितजलान् ॥२२॥

रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ ।
वसन्तसमये राजन् पुष्पिताविव किंशुकौ ॥२३॥

अमर्षितस्ततो राजन् पराक्रम्य चमूमुखे ।
द्रोणो द्रुपद‌पुत्रस्य पुनश्चिच्छेद कार्मुकम् ॥२४॥

अथैनं छिन्नधन्वानं शरैः सन्नतपर्वभिः ।
अभ्यवर्षदमेयात्मा वृष्ट्या मेघ इवाचलम् ॥२५॥

सारथिं चास्य भल्लेन रथनीडा‌दपातयत् ।
अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥२६॥

पातयामास समरे सिंहनादं ननाद च ।
ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत् ॥२७॥

स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
गदापाणिरवारोहत् ख्यापयन् पौरुषं महत् ॥२८॥

तामस्य विशिखैस्तूर्णं पातयामास भारत ।
रथादनवरूढस्य तद‌द्भुतमिवाभवत् ॥२९॥

ततः स विपुलं चर्म शतचन्द्रं च भानुमत् ।
खड्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली ॥३०॥

अभिदुद्राव वेगेन द्रोणस्य वधकाङ्क्षया ।
आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम् ॥३१॥

तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् ।
लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत ॥३२॥

यदेनं शरवर्षेण वारयामास पार्षतम् ।
न शशाक ततो गन्तुं बलवानपि संयुगे ॥३३॥

निवारितस्तु द्रोणेन धृष्टद्युम्नो महारथः ।
न्यवारयच्छरौघांस्तांश्चर्मणा कृतहस्तवत् ॥३४॥

ततो भीमो महाबाहुः सहसाऽभ्यपतद्बली ।
साहाय्यकारी समरे पार्षतस्य महात्मनः ॥३५॥

स द्रोणं निशितैर्बाणै राजन् विव्याध सप्तभिः ।
पार्षतं च रथं तूर्णं स्वकमारोहयत् तदा ॥३६॥

ततो दुर्योधनो राजन् भानुमन्तमचोदयत् ।
सैन्येन महता युक्तं भारद्वाजस्य रक्षणे ॥३७॥

ततः सा महती सेना कलिङ्गानां जनेश्वर ।
भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् ॥३८॥

पाञ्चाल्यमथ सन्त्यज्य द्रोणोऽपि रथिनां वरः ।
विराटद्रुपदौ वृद्धौ वारयामास संयुगे ॥३९॥

धृष्टद्युम्नोऽपि समरे धर्मराजानमभ्ययात् ।
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ॥४०॥

कलिङ्गानां च समरे भीमस्य च महात्मनः ।
जगतः प्रक्षयकरं घोररूपं भयावहम् ॥४१॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि धृष्टद्युम्नद्रोणयुद्धे त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥
चतुःपञ्चाशत्तमोऽध्यायः
धृतराष्ट्र उवाच ।

तथा प्रतिसमादिष्टः कालिङ्गो वाहिनीपतिः ।
कथमद्भुतकर्माणं भीमसेनं महाबलम् ॥१॥

तथेति ॥१॥

चरन्तं गदया वीरं दण्डहस्तमिवान्तकम् ।
योधयामास समरे कालिङ्गः सह सेनया ॥२॥

सञ्जय उवाच ।

पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः ।
महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ॥३॥

तामापतन्तीं महतीं कलिङ्गानां महाचमूम् ।
रथाश्वनागकलिलां प्रगृहीतमहायुधाम् ॥४॥

भीमसेनः कलिङ्गानामार्च्छद्भारत वाहिनीम् ।
केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ॥५॥

ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह ।
आससाद रणे भीमं व्यूढानीकेषु चेदिषु ॥६॥

रथैरनेकसाहस्रैः कलिङ्गानां नराधिप ।
अयुतेन गजानां च निषादैः सह केतुमान् ॥७॥

भीमसेनं रणे राजन् समन्तात् पर्यवारयत् ।
चेदिमत्स्यकरूषाश्च भीमसेनपदानुगाः ॥८॥

अभ्यधावन्त समरे निषादान् सह राजभिः ।
ततः प्रववृते युद्धं घोररूपं भयावहम् ॥९॥

न प्राजानन्त योधाः स्वान् परस्परजिघांसया ।
घोरमासीत्ततो युद्धं भीमस्य सहसा परैः ॥१०॥

यथेन्द्रस्य महाराज महत्या दैत्यसेनया ।
तस्य सैन्यस्य सङ्ग्रामे युध्यमानस्य भारत ॥११॥

बभूव सुमहान् शब्दः सागरस्येव गर्जतः ।
अन्योन्यं स्म तदा योधा विकर्षन्तो विशांपते ॥१२॥

महीं चक्रुश्चितां सर्वां शशलोहितसन्निभाम् ।
योधांश्च स्वान् परान्वापि नाभ्यजानन् जिघांसया ॥१३॥

स्वानप्याददते स्वाश्च शूराः परमदुर्जयाः ।
विमर्दः सुमहानासीदल्पानां बहुभिः सह ॥१४॥

कलिङ्गैः सह चेदीनां निषादैश्च विशांपते ।
कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः ॥१५॥

भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः ।
सर्वैः कलिङ्गैरासन्नः सन्निवृत्तेषु चेदिषु ॥१६॥

स्वबाहुबलमास्थाय संन्यवर्तत पाण्डवः ।
न चचाल रथोपस्थाद्भीमसेनो महाबलः ॥१७॥

शितैरवाकिरद्बाणैः कलिङ्गानां वरूथिनीम् ।
कालिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः ॥१८॥

शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः ।
ततो भीमो महाबाहुर्विधुन्वन् रुचिरं धनुः ॥१९॥

योधयामास कालिङ्गं स्वबाहुबलमाश्रितः ।
शक्रदेवस्तु समरे विसृजन् सायकान् बहून् ॥२०॥

अश्वान् जघान समरे भीमसेनस्य सायकैः ।
तं दृष्ट्वा विरथं तत्र भीमसेनमरिन्दमम् ॥२१॥

शक्रदेवोऽभिदुद्राव शरैरवकिरन् शितैः ।
भीमस्योपरि राजेन्द्र शक्रदेवो महाबलः ॥२२॥

ववर्ष शरवर्षाणि तपान्ते जलदो यथा ।
हताश्वे तु रथे तिष्ठन् भीमसेनो महाबलः ॥२३॥

शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् ।
स तया निहतो राजन् कालिङ्गतनयो रथात् ॥२४॥

विरथः सह सुतेन जगाम धरणीतलम् ।
हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः ॥२५॥

रथैरनेकसाहस्त्रैर्भीमस्यावारयद्दिशः ।
ततो भीमो महावेगां त्यक्त्वा गुर्वीं महागदाम् ॥२६॥

निस्त्रिंशमाददे घोरं चिकीर्षुः कर्म दारुणम् ।
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ ॥२७॥

नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् ।
कालिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य च ॥२८॥

प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् ।
प्राहिणोद्भीमसेनाय वधाकांक्षी जनेश्वरः ॥२९॥

तमापतन्तं वेगेन प्रेरितं निशितं शरम् ।
भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ॥३०॥

उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् ।
कालिङ्गोऽथ ततः क्रुद्धो भीमसेनाय संयुगे ॥३१॥

तोमरान् प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् ।
तानप्राप्तान् महाबाहुः खगतानेव पाण्डवः ॥३२॥

चिच्छेद सहसा राजन्नसंभ्रान्तो वरासिना ।
निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश ॥३३॥

भानुन्मतं ततो भीमः प्राद्रवत्पुरुषर्षभः ।
भानुमांस्तु ततो भीमं शरवर्षेण च्छादयन् ॥३४॥

भानुमन्तं कलिङ्गात्मजम् ॥३४॥

ननाद बलवन्नादं नादयानो नभस्तलम् ।
न च तं ममृषे भीमः सिंहनादं महाहवे ॥३५॥

ततः शब्देन महता विननाद महास्वनः ।
तेन नादेन वित्रस्ता कलिंगानां वरूथिनी ॥३६॥

न भीमं समरे मेने मानुषं भरतर्षभ ।
ततो भीमो महाबाहुर्नर्दित्वा विपुलं खनम् ॥३७॥

सासिर्वेगवदाप्लुत्य दन्ताभ्यां वारणोत्तमम् ।
आरुरोह ततो मध्यं नागराजस्य मारिष ॥३८॥

ततो मुमोच कालिङ्गः शक्तिं तामकरोद्द्विधा ।
खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ॥३९॥

सोऽन्तरायुधिनं हत्वा राजपुत्रमरिन्दमः ।
गुरुं भारसहं स्कन्धे नागस्यासिमपातयत् ॥४०॥

अन्तरायुधिनं गजारूढयोधम् ॥४०॥

छिन्नस्कन्धः स विनदन् पपात गजयूथपः ।
आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः ॥४१॥

ततस्तस्मादवप्लुत्य गजाद्भारत भारतः ।
खड्गपाणिरदीनात्मा तस्थौ भूमौ सुदंशितः ॥४२॥

स चचार बहून्मार्गानभितः पातयन् गजान् ।
अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ॥४३॥

आविद्धं भ्रामितम् ॥४३॥

अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः ।
पदातीनां च संधेषु विनिघ्नन् शोणितोक्षितः ॥४४॥

श्येनवद्व्यचरद्भीमो रणेऽरिषु बलोत्कटः ।
छिन्दंस्तेषां शरीराणि शिरांसि च महाबलः ॥४५॥

खड्गेन शितधारेण संयुगे गजयोधिनाम् ।
पदातिरेकः संक्रुद्धः शत्रूणां भयवर्धनः ॥४६॥

संमोहयामास स तान् कालान्तकयमोपमः ।
मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् ॥४७॥

कालान्तकयमोपमः प्रलयकालीननाशकयमतुल्यः ॥४७॥

सासिमुत्तमवेगेन विचरन्तं महारणे ।
निकृत्य रथिनां चाजौ रथेषाश्च युगानि च ॥४८॥

जघान रथिनश्चापि बलवान् रिपुमर्दनः ।
भीमसेनश्चरन् मार्गान् सुबहून् प्रत्यदृश्यत ॥४९॥

भ्रान्तमाविद्धमुद्भ्रान्तमाप्लुतं प्रसृतं प्लुतम् ।
संपातं समुदीर्णं च दर्शयामास पाण्डवः ॥५०॥

भ्रान्तमित्यादि भ्रान्तं मण्डलाकृति तदेव क्लमोपेतमाविद्धं भ्रान्तमेवोन्नतिसहितमुद्भ्रान्तम् आप्लुतं केवलमुत्प्लवनं प्रसृतं सर्वासु दिक्षु प्रसरणं प्लुतमेकस्यां दिशि सम्पातं वेगं समुदीर्णं सर्वान् प्रति समुद्यमम्॥५०॥

केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना ।
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ॥५१॥

छिन्नदन्ताग्रहस्ताश्च भिन्नकुंभास्तथा परे ।
वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः ॥५२॥

निपेतुरुर्व्यां च तथा विनदन्तो महारवान् ।
छिन्नांश्च तोमरान् राजन् महामात्रशिरांसि च ॥५३॥

तोमरान्बाणविशेषान् । महामात्रो हस्तिपकः ॥५३॥

परिस्तोमान्विचित्रांश्च कक्ष्याश्च कनकोज्ज्वलाः ।
ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा ॥५४॥

कणपान् मुद्गरान् ॥५४॥

तूणीरानथ यन्त्राणि विचित्राणि धनूंषि च ।
भिन्दिपालानि शुभ्राणि तोत्राणि चाङ्कुशैः सह ॥५५॥

यन्त्राणि सारिप्रभृतीनि तोत्राणि कर्णमूलतोदनानि ॥५५॥

घण्टाश्च विविधा राजन् हेमगर्भान्त्सरूनपि ।
पततः पातितांश्चैव पश्यामः सह सादिभिः ॥५६॥

छिन्नगात्रावरकरैर्निहतैश्चापि वारणैः ।
आसीद्भूमिः समास्तीर्णा पतितैर्भूधरैरिव ॥५७॥

गात्रावरैर्गात्रैः पूर्वकायैः अवरोधः कायैः । ‘द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरौ क्रमात्’ इति कोशः ॥५७॥

विमृद्यैवं महानागान् ममर्दान्यान्महाबलः ।
अश्वारोहवरांश्चैव पातयामास संयुगे ॥५८॥

तद्धोरमभवयुद्धं तस्य तेषां च भारत ।
खलीनान्यथ योक्त्राणि कक्ष्याश्च कनकोज्ज्वलाः ॥५९॥

खलीनानि अश्वस्य निवेश्यानि ‘कडिआळी’ इति प्रसिद्धानि । कक्ष्या गजमध्यबन्धनम् ॥५९॥

परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः ।
कवचान्यथ चर्माणि चित्राण्यास्तरणानि च ॥६०॥

आस्तरणानि पर्याच्छादनानि ॥६०॥

तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे ।
प्रासैर्यंत्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा ॥६१॥

अपविद्धानि पतितानि ॥६१॥

स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव ।
आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः ॥६२॥

पातयामास खड्गेन सध्वजानपि पाण्डवः ।
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः ॥६३॥

मार्गांश्च चरतश्चित्रं व्यस्मयन्त रणे जनाः ।
स जघान पदा कांश्चिद्व्याक्षिप्यान्यानपोथयत् ॥६४॥

खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन् ।
ऊरुवेगेन चाप्यन्यान् पातयामास भूतले ॥६५॥

अपरे चैनमालोक्य भयात् पञ्चत्वमागताः ।
एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् ॥६६॥

परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् ।
ततः कालिङ्गसैन्यानां प्रमुखे भरतर्षभ ॥६७॥

श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् ।
तमायान्तमभिप्रेक्ष्य कालिङ्गो नवभिः शरैः ॥६८॥

भीमसेनममेयात्मा प्रत्यविध्यत् स्तनान्तरे ।
कालिङ्गबाणाभिहतस्तोत्रार्दित इव द्विपः ॥६९॥

भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवैधितः ।
अथाशोकः समादाय रथं हेमपरिष्कृतम् ॥७०॥

अशोको विशोकः ॥७०॥

भीमं संपादयामास रथेन रथसारथिः ।
तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः ॥७१॥

कालिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत् ।
ततः श्रुतायुर्बलवान् भीमाय निशितान् शरान् ॥७२॥

प्रेषयामास संक्रुद्धो दर्शयन् पाणिलाघवम् ।
स कार्मुकवरोत्सृष्टैर्नवाभिर्निशितैः शरैः ॥७३॥

समाहतो महाराज कालिङ्गेन महात्मना ।
संचुक्रुशे भृशं भीमो दण्डाहत इवोरगः ॥७४॥

क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः ।
कालिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः ॥७५॥

क्षुराभ्यां चक्ररक्षौ च कालिंगस्य महाबलौ ।
सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ॥७६॥

ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः ।
केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ॥७७॥

ततः कलिङ्गाः संन्नद्धा भीमसेनममर्षणम् ।
अनीकैर्बहुसाहस्त्रैः क्षत्रियाः समवारयन् ॥७८॥

ततः शक्तिगदाखड्गतोमरर्ष्टिपरश्वधैः ।
कलिङ्गाश्च ततो राजन् भीमसेनमवाकिरन् ॥७९॥

संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम् ।
गदामादाय तरसा संनिपत्य महाबलः ॥८०॥

भीमः सप्त शतान् वीराननयद्यमसादनम् ।
पुनश्चैव द्विसाहस्रान् कलिङ्गानरिमर्दनः ॥८१॥

प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् ।
एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः ॥८२॥

बिभेद समरे तूर्णं प्रेक्ष्य भीष्मं महारथम् ।
हतारोहाश्च मातङ्गाः पाण्डवेन कृता रणे ॥८३॥

विप्रजग्मुरनीकेषु मेघा वातहता इव ।
मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः ॥८४॥

ततो भीमो महाबाहुः खड्गहस्तो महाभुजः ।
संप्रहृष्टो महाघोषं शङ्खं प्राध्मापयद्बली ॥८५॥

सर्वकालिङ्गसैन्यानां मनांसि समकंपयत् ।
मोहश्चापि कलिङ्गानामाविवेश परंतप ॥८६॥

प्राकंपन्त च सैन्यानि वाहनानि च सर्वशः ।
भीमेन समरे राजन् गजेन्द्रेणेव सर्वशः ॥८७॥

मार्गान् बहून् विचरता धावता च ततस्ततः ।
मुहुरुत्पतता चैव संमोहः समपद्यत ॥८८॥

भीमसेनभयत्रस्तं सैन्यं च समकम्पत ।
क्षोभ्यमाणमसंबाधं ग्राहेणेव महत्सरः ॥८९॥

त्रासितेषु च सर्वेषु भीमेनाद्भुतकर्मणा ।
पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः ॥९०॥

सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः ।
अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ॥९१॥

सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः ।
भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ॥९२॥

धर्मराजश्च तान् सर्वानुपजग्राह पाण्डवः ।
महता मेघवर्णेन नागानीकेन पृष्ठतः ॥९३॥

एवं संनोद्य सर्वाणि स्वान्यनीकानि पार्षतः ।
भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषैर्वृतः ॥९४॥

न हि पञ्चालराजस्य लोके कश्चन विद्यते ।
भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः ॥९५॥

सोऽपश्यच्च कलिङ्गेषु चरन्तमरिसूदनः ।
भीमसेनं महाबाहुं पार्षतः परवीरहा ॥९६॥

ननर्द बहुधा राजन् हृष्टश्चासीत् परंतपः ।
शङ्खं दध्मौ च समरे सिंहनादं ननाद च ॥९७॥

स च पारावताश्वस्य रथे हेमपरिष्कृते ।
कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् ॥९८॥

पारावताश्वस्य मर्कटतिन्दुकसमानवर्णाश्वस्य । ‘पारावतः कलरवे शैले मर्कटतिन्दुके’ इति विश्वः ॥९८॥

धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् ।
भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् ॥९९॥

तौ दूरात् सात्यकिं दृष्ट्वा धृष्टद्युम्नवृकोदरौ ।
कलिङ्गान् समरे वीरौ योधयेतां मनस्विनौ ॥१००॥

स तत्र गत्वा शैनेयो जवेन जयतां वरः ।
पार्थपार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः ॥१०१॥

स कृत्वा दारुणं कर्म प्रगृहीतशरासनः ।
आस्थितो रौद्रमात्मानं कलिङ्गानन्ववैक्षत ॥१०२॥

कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम् ।
रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् ॥१०३॥

अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम् ।
तां सन्ततार दुस्तारां भीमसेनो महाबलः ॥१०४॥

भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप ।
कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते ॥१०५॥

ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे ।
अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः ॥१०६॥

तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः ।
अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥१०७॥

परिवार्य तु ते सर्वे गाङ्गेयं तरसा रणे ।
त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरोजसा ॥१०८॥

आनर्च्छुः आच्छादितवन्तः ॥१०८॥

प्रत्यविध्यत तान् सर्वान् पिता देवव्रतस्तव ।
यतमानान् महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ॥१०९॥

ततः शरसहस्त्रेण सन्निवार्य महारथान् ।
हयान् काञ्चनसन्नाहान् भीमस्य न्यहनच्छरैः ॥११०॥

हताश्वे स रथे तिष्ठन् भीमसेनः प्रतापवान् ।
शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति ॥१११॥

अप्राप्तामथ तां शक्तिं पिता देवव्रतस्तव ।
त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत ॥११२॥

ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवान् गदाम् ।
भीमसेनस्ततस्तूर्णं पुप्लुवे मनुजर्षभ ॥११३॥

सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया ।
गाङ्गेयसारथिं तूर्णं पातयामास सायकैः ॥११४॥

भीष्मस्तु निहते तस्मिन् सारथौ रथिनां वरः ।
वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ॥११५॥

वातायमानैः इतस्ततो धावद्भिः ॥११५॥

भीमसेनस्ततो राजन्नपयाते महाव्रते ।
प्रजज्वाल यथा वह्निर्दहन् कक्षमिवैधितः ॥११६॥

स हत्वा सर्वकालिङ्गान् सेनामध्ये व्यतिष्ठत ।
नैनमभ्युत्सहन् केचित्तावका भरतर्षभ ॥११७॥

धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः ।
पश्यतां सर्वसैन्यानामपोवाह यशस्विनम् ॥११८॥

संपूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ ।
धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् ॥११९॥

अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः ।
प्रहर्षयन् यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः ॥१२०॥

दिष्ट्या कलिङ्गराजश्च राजपुत्रश्च केतुमान् ।
शक्रदेवश्च कालिंगः कलिंगाश्च मृधे हताः ॥१२१॥

स्वबाहुबलवीर्येण नागाश्वरथसंकुलः ।
महापुरुषभूयिष्ठो धीरयोधनिषेवितः ॥१२२॥

महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया ।
एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिन्द‌म ॥१२३॥

रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् ।
ततः स्वरथमास्थाय पुनरेव महारथः ।
तावकानवधीत् क्रुद्धो भीमस्य बलमादधत् ॥१२४॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीययुद्धदिवसे कलिङ्गराजवधे चतुष्पञ्चाशत्तमोऽध्यायः ॥५४॥
पञ्चपञ्चाशत्तमोऽध्यायः
सञ्जय उवाच ।

गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत ।
रथनागाश्वपत्तीनां सादिनां च महाक्षये ॥१॥

गतेति ॥१॥

द्रोणपुत्रेण शल्येन कृपेण च महात्मना ।
समसज्जत पाञ्चाल्यस्त्रिभिरेतैर्महारथैः ॥२॥

स लोकविदितानश्वान्निजघान महाबलः ।
द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः ॥३॥

ततः शल्यरथं तूर्णमास्थाय हतवाहनः ।
द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः ॥४॥

धृष्टद्युम्नं तु संयुक्तं द्रौणिना वीक्ष्य भारत ।
सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निंशितान् शरान् ॥५॥

स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः ।
अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभः ॥६॥

आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याधं पत्रिणा ।
शल्योऽथ दशभिश्चैव कृपश्च निशितैस्त्रिभिः ॥७॥

लक्ष्मणस्तव पौत्रस्तु सौभद्रं समवस्थितम् ।
अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ॥८॥

दौर्योधनिः सुसंक्रुद्धः सौभद्रं परवीरहा ।
विव्याध समरे राजंस्तद‌द्भुतमिवाभवत् ॥९॥

अभिमन्युः सुसंक्रुद्धो भ्रातरं भरतर्षभ ।
शरैः पञ्चाशतै राजन् क्षिप्रहस्तोऽभ्यविध्यत ॥१०॥

लक्ष्मणोऽपि पुनस्तस्य धनुश्चिच्छेद पत्रिणा ।
मुष्टिदेशे महाराज ततस्ते चुक्रुशुर्जनाः ॥११॥

तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा ।
अन्यदाद‌त्तवांश्चित्रं कार्मुकं वेगवत्तरम् ॥१२॥

तौ तत्र समरे युक्तौ कृतप्रतिकृतैषिणौ ।
अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ॥१३॥

ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम् ।
पीडितं तव पौत्रेण प्रायात् तत्र प्रजेश्वरः ॥१४॥

सन्निवृत्ते तव सुते सर्व एव जनाधिपाः ।
आर्जुनिं रथवंशेन समन्तात् पर्यवारयन् ॥१५॥

स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः ।
न स्म प्रव्यथते राजन् कृष्णतुल्यप्रराक्रमः ॥१६॥

सौमद्रमथ संसक्तं दृष्ट्वा तत्र धनञ्जयः ।
अभिदुद्राव वेगेन त्रातुकामः स्वमात्मजम् ॥१७॥

ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः ।
अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ॥१८॥

उद्भूतं सहसा भौमं नागाश्वरथपत्तिभिः ।
दिवाकररथं प्राप्य रजस्तीव्रमदृश्यत ॥१९॥

तानि नागसहस्राणि भूमिपालशतानि च ।
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ॥२०॥

प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः ।
कुरूणां चानयस्तीव्रः समदृश्यत दारुणः ॥२१॥

नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः ।
प्रजज्ञे भरतश्रेष्ठ शस्त्रसङ्घैः किरीटिनः ॥२२॥

सादिता रथनागाश्च हताश्वा रथिनो रणे ।
विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः ॥२३॥

विरथा रथिनश्चान्ये धावमानाः समन्ततः ।
तत्र तत्रैव दृश्यन्ते सायुधाः सङ्गदैर्भुजैः ॥२४॥

हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः ।
अर्जुनस्य भयाद्राजन् समन्ताद्विप्रदुद्रुवुः ॥२५॥

रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः ।
पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनसायकैः ॥२६॥

सगदानुद्यतान् बाहून् सखड्गांश्च विशांपते ।
सप्रासांश्च सतूणीरान् सशरान् सशरासनान् ॥२७॥

साङ्कुशान् सपताकांश्च तत्र तत्रार्जुनो नृणाम् ।
निचकर्त शरैरुग्रै रौद्रं वपुरधारयत् ॥२८॥

परिघाणां प्रदीप्तानां मुद्गराणां च मारिष ।
प्रासानां भिन्दिपालानां निस्त्रिंशानां च संयुगे ॥२९॥

परश्वधानां तीक्ष्णानां तोमराणां च भारत ।
वर्मणां चापविद्धानां काञ्चनानां च भूमिप ॥३०॥

ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः ।
छत्राणां हेमदण्डानां तोमराणां च भारत ॥३१॥

प्रतोदानां च योक्त्राणां कशानां चैव मारिष ।
राशयः स्मात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ॥३२॥

नासीत्तत्र पुमान् कश्चित्तव सैन्यस्य भारत ।
योऽर्जुनं समरे शूरं प्रत्युद्यायात् कथञ्चन ॥३३॥

यो यो हि समरे पार्थं प्रत्युद्याति विशांपते ।
स संख्ये विशिखैस्तीक्ष्णैः परलोकाय नीयते ॥३४॥

तेषु विद्रवमाणेषु तव योधेषु सर्वशः ।
अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ ॥३५॥

तत् प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव ।
अब्रवीत् समरे शूरं भारद्वाजं स्मयन्निव ॥३६॥

एष पाण्डुसुतो वीर कृष्णेन सहितो बली ।
तथा करोति सैन्यानि यथा कुर्याद्धनञ्जयः ॥३७॥

यथा कुर्याद्धनञ्जयः धनञ्जयोऽग्निरर्जुनो वा स यथा कुर्यादित्यसाधारण्योक्तिः ॥३७॥

न ह्येष समरे शक्यो विजेतुं हि कथञ्चन ।
यथाऽस्य दृश्यते रूपं कालान्तकयमोपमम् ॥३८॥

न निवर्तयितुं चापि शक्येयं महती चमूः ।
अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी ॥३९॥

अन्योन्यप्रेक्षया परस्परभङ्गदर्शनेन ॥३९॥

एष चास्तं गिरिश्रेष्ठं भानुमान् प्रतिपद्यते ।
चक्षूंषि सर्वलोकस्य संहरन्निव सर्वथा ॥४०॥

तत्रावहारं संप्राप्तं मन्येऽहं पुरुषर्षभ ।
श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथञ्चन ॥४१॥

एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् ।
अवहारमथो चक्रे तावकानां महारथः ॥४२॥

ततोऽवहारः सैन्यानां तव तेषां च भारत ।
अस्तं गच्छति सूर्येऽभूत् सन्ध्याकाले च वर्तति ॥४३॥

वर्तति वर्तमाने ॥४३॥
इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीययुद्धदिवसावहारे पञ्चपञ्चाशत्तमोऽध्यायः॥५५॥
षट्पञ्चाशत्तमोऽध्यायः

सञ्जय उवाच । प्रभातायां च शर्वर्यां भीष्मः शान्तनवस्तदा ।
अनीकान्यनुसंयाने व्यादिदेशाथ भारत ॥१॥

प्रभातायामिति ॥१॥

गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा ।
पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः ॥२॥

गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव ।
चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः ॥३॥

अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ ।
त्रैगर्तैरथ कैकेयैर्वाटधानेश्च संयुगे ॥४॥

भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष ।
मद्रकः सिन्धुसौवीरास्तथा पाञ्चनदाश्च ये ॥५॥

जयद्रथेन सहिता ग्रीवायां सन्निवेशिताः ।
पृष्ठे दुर्योधनो राजा सोदर्यैः सानुगेर्वृतः ॥६॥

विन्दानुविन्दावावन्त्यौ काम्बोजश्च शकैः सह ।
पुच्छमासन् महाराज शूरसेनाश्च सर्वशः ॥७॥

मागधाश्च कलिङ्गाश्च दासेरकगणैः सह ।
दक्षिणं पक्षमासाद्य स्थिना व्यूहस्य दंशिताः ॥८॥

कारूषाश्च विकुञ्जाश्च मुण्डाः कुण्डीवृषास्तथा ।
बृहद्बलेन सहिता वामं पार्श्वमवस्थिताः ॥९॥

व्यूढं दृष्ट्वा तु तत् सैन्यं सव्यसाची परंतपः ।
धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे ॥१०॥

अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम् ।
दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत ॥११॥

नानाशस्त्रौघसम्पन्नैर्नानादेश्यैर्नृपैर्वृतः ।
तदन्वेव विराटश्च द्रुपदश्च महारथः ॥१२॥

तदनन्तरमेवासीन्नीलो नीलायुधैः सह ।
नीलादनन्तरश्चैव धृष्टकेतुर्महाबलः ॥१३॥

चेदिकाशिकरूषैश्च पौरवैरपि संवृतः ।
धृष्टद्युम्नः शिखण्डी च पञ्चालाश्च प्रभद्रकाः ॥१४॥

मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत ।
तत्रैव धर्मराजोऽपि गजानीकेन संवृतः ॥१५॥

ततस्तु सात्यकी राजन् द्रौपद्याः पञ्च चात्मजाः ।
अभिमन्युस्ततः शूर इरावांश्च ततः परम् ॥१६॥

भैमसेनिस्ततो राजन् केकयाश्च महारथाः ।
ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः ॥१७॥

सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः ।
एवमेतं महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः ॥१८॥

वधार्थं तव पुत्राणां तत्पक्षं ये च सङ्गताः ।
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ॥१९॥

तावकानां परेषां च निघ्नतामितरेतरम् ।
हयौघाश्च रयौघाश्च तत्र तत्र विशांपते ॥२०॥

संपतन्तो व्यदृश्यन्त निघ्नन्तस्ते परस्परम् ।
धावतां च रथौघानां निघ्नतां च पृथक् पृथक् ॥२१॥

संप्रहारे सुतुमुले तव तेषां च भारत ॥२२॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीये युद्धदिवसे परस्परव्यूहरचनायां षट्पञ्चाशत्तमोऽध्यायः ॥५६॥
सप्तपञ्चाशत्तमोऽध्यायः

सञ्जय उवाच । ततो व्यूढेष्वनीकेषु तावकेषु परेषु च ।
धनञ्जयो रथानीकमवधीत् तव भारत ॥१॥

तत इति ॥१॥

शरैरतिरथो युद्धे दारयन् रथयूथपान् ।
ते वध्यमानाः पार्थेन कालेनेव युगक्षये ॥२॥

धार्तराष्ट्रा रणे यत्नात् पाण्डवान् प्रत्ययोधयन् ।
प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम् ॥३॥

मृत्युं कृत्वा निवर्तनं मृत्युरेव निवर्तनहेतुर्नान्य इत्यर्थः ॥३॥

एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् ।
बभञ्जुर्बहुशो राजंस्ते चासज्जन्त संयुग ॥४॥

द्रवद्भिरथ भग्नैश्च परिवर्तद्भिरेव च ।
पाण्डवैः कौरवेयैश्च न प्राज्ञायत किञ्चन ॥५॥

उदतिष्ठद्रजो भौमं छाद‌यानं दिवाकरम् ।
न दिशः प्रदिशो वाऽपि तत्र हन्युः कथं नराः ॥६॥

अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे ।
वर्तते च तथा युद्धं तत्र तत्र विशांपते ॥७॥

अनुमानेन ध्वजादिचिह्नेन संज्ञाभिः सङ्केतैश्च ॥७॥

न व्यूहो भिद्यते तत्र कौरवाणां कथञ्चन ।
रक्षितः सत्यसन्धेन भारद्वाजेन संयुगे ॥८॥

तथैव पाण्डवानां च रक्षितः सव्यसाचिना ।
नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः ॥९॥

सेनाग्रादपि निष्पत्य प्रायुध्यंस्तत्र मानवाः ।
उभयोः सेनयो राजन् व्यतिषक्तरथद्विपाः ॥१०॥

हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे ।
ऋष्टिभिर्विमलाभिश्च प्रासैरपि च संयुगे ॥११॥

रथी रथिनमासाद्य शरैः कनकभूषणैः ।
पातयामास समरे तस्मिन्नतिभयङ्करे ॥१२॥

गजारोहा गजारोहान्नाराचशरतोमरैः ।
संसक्तान् पातयामासुस्तव तेषां च सर्वशः ॥१३॥

कश्चिदुत्पत्य समरे वरवारणमास्थितः ।
केशपक्षे पराम्पृश्य जहार समरे शिरः ॥१४॥

अन्ये द्विरददन्ताग्रनिर्भिन्नहृदया रणे ।
वेमुश्च रुधिरं वीरा निःश्वसन्तः समन्ततः ॥१५॥

कश्चित्करिविषाणस्थो वीरो रणविशारदः ।
प्रावेपच्छक्तिनिर्भिन्नो गजशिक्षास्त्रवेदिना ॥१६॥

पत्तिसङ्घा रणे पत्तीन् भिन्दिपालपरश्वधैः ।
न्यपातयन्त संहृष्टाः परस्परकृतागसः ॥१७॥

रथी च समरे राजन्नासाद्य गजयूथपम् ।
सगजं पातयामास गजी च रथिनां वरम् ॥१८॥

रथिनं च हयारोहः प्रासेन भरतर्षभ ।
पातयामास समरे रथी च हयसादिनम् ॥१९॥

पदाती रथिनं संख्ये रथी चापि पदातिनम् ।
न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि ॥२०॥

गजारोहा हयारोहान् पातयाञ्चक्रिरे तदा ।
हयारोहा गजस्थांश्च तद‌द्भुतमिवाभवत् ॥२१॥

गजारोहवरैश्चापि तत्र तत्र पदातयः ।
पातिताः समदृश्यन्त तैश्चापि गजयोधिनः ॥२२॥

पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः ।
पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ॥२३॥

ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा ।
प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ॥२४॥

शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि ।
निस्त्रिंशैर्विमलैश्चापि स्वर्णपुह्णैः शरैस्तथा ॥२५॥

परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः ।
भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ॥२६॥

परिस्तोमैश्चित्रकम्बलैः कुथाभिस्तैरेव क्षुद्रैः कम्बलैः राङ्कवैः महाघनैर्महामूल्यैः स्रग्दामैः स्रग्रचितैर्दामभिः अनेन स्रजां बाहुल्यं दैर्घ्यं च दर्शितम् ॥२६॥

नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे ।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥२७॥

प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः ।
दिशश्च विमलाः सर्वाः सम्बभूवुर्जनेश्वर ॥२८॥

उत्थितान्यगणेयानि कबन्धानि समन्ततः ।
चिह्नभूतानि जगतो विनाशार्थाय भारत ॥२९॥

तस्मिन् युद्धे महारौद्रे वर्तमाने सुदारुणे ।
प्रत्यदृश्यन्त रथितो धावमानाः समन्ततः ॥३०॥

ततो भीष्मश्च द्रोणश्च सैन्धवश्च जयद्रथः ।
पुरुमित्रो जयो भोजः शल्यश्चापि ससौबलः ॥३१॥

एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः ।
पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः ॥३२॥

तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः ।
सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत ॥३३॥

तावकांस्तव पुत्रांश्च सहितान् सर्वराजभिः ।
द्रावयामासुराजौ ते त्रिदिशा दानवानिव ॥३४॥

तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः ।
रक्तोक्षिता घोररूपा विरेजुर्दानवा इव ॥३५॥

विनिर्जित्य रिपून् वीराः सेनयोरुभयोरपि ।
व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले ॥३६॥

महामात्राः प्रधानाः ॥३६॥

ततो रथसहस्रेण पुत्रो दुर्योधनस्तव ।
अभ्ययात् पाण्डवं युद्धे राक्षसं च घटोत्कचम् ॥३७॥

तथैव पाण्डवाः सर्वे महत्या सेनया सह ।
द्रोणभीष्मौ रणे यत्तौ प्रत्युद्ययुररिन्दमौ ॥३८॥

किरिटी च ययौ क्रुद्धः समन्तात्पार्थिवोत्तमान् ।
आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् ॥३९॥

ततः प्रववृते भूयः सङ्ग्रामो लोमहर्षणः ।
तावकानां परेषां च समरे विजयैषिणाम् ॥४०॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीये युद्धदिवसे संकुलयुद्धे सप्तपञ्चाशत्तमोऽध्यायः॥५७॥
अष्टपञ्चाशत्तमोऽध्यायः

सञ्जय उवाच । ततस्ते पार्थिवाः क्रुद्धाः फाल्गुनं वीक्ष्य संयुगे ।
रथैरनेकसाहस्रैः समन्तात् पर्यवारयन् ॥१॥

ततस्ते इति ॥१॥

अथैनं रथवृन्देन कोष्ठकीकृत्य भारत ।
शरैः सुबहुसाहस्त्रैः समन्तादभ्यवारयन् ॥२॥

कोष्ठकीकृत्य वेष्टयित्वा ॥२॥

शक्तीश्च विमलास्तीक्ष्णा गदाश्च परिघैः सह ।
प्रासान् परश्वधांश्चैव मुद्गरान् मुसलानपि ॥३॥

चिक्षिपुः समरे क्रुद्धाः फाल्गुनस्य रथं प्रति ।
शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम् ॥४॥

रुरोध सर्वतः पार्थः शरैः कनकभूषणैः ।
तत्र तल्लाघवं दृष्टा बीभत्सोरतिमानुषम् ॥५॥

देव-दानव-गन्धर्वाः पिशाचोरगराक्षसाः ।
साधु साध्विति राजेन्द्र फाल्गुनं प्रत्यपूजयन् ॥६॥

सात्यकिश्चाभिमन्युश्च महत्या सेनया वृत्तौ ।
गान्धारान् समरे शूरान् जग्मतुः सहसौबलान् ॥७॥

तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् ।
तिलशश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि ॥८॥

सात्यकिस्तु रथं त्यक्त्वा वर्तमाने भयावहे ।
अभिमन्यो रथं तूर्णमारुरोह परंतपः ॥९॥

तावेकरथसंयुक्तौ साबलेयस्य वाहिनीम् ।
व्यधमेतां शितस्तूर्णं शरैः सन्नतपर्वभिः ॥१०॥

द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् ।
नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ॥११॥

ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ ।
मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् ॥१२॥

तत्रासीत् सुमहद्युद्धं तुमुलं लोमहर्षणम् ।
यथा देवासुरं युद्धं पूर्वमासीत् सुदारुणम् ॥१३॥

कुर्वाणौ सुमहत् कर्म भीमसेनघटोत्कचौ ।
दुर्योधनस्ततोऽभ्येत्य तावुभावप्यवारयत् ॥१४॥

तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम् ।
अतीत्य पितरं युद्धे यदयुध्यत भारत ॥१५॥

भीमसेनस्तु संक्रुद्धो दुर्योधनममर्षणम् ।
हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः ॥१६॥

ततो दुर्योधनो राजा प्रहारवरपीडितः ।
निषसाद रथोपस्थे कश्मलं च जगाम ह ॥१७॥

तं विसंज्ञं विदित्वा तु त्वरमाणोऽस्य सारथिः ।
अपोवाह रणाद्राजंस्ततः सैन्यमभज्यत ॥१८॥

ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः ।
निघ्नन् भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः ॥१९॥

पार्षतश्च रथश्रेष्ठो धर्मपुत्रश्च पाण्डवः ।
द्रोणस्य पश्यतः सन्यं गाङ्गेयस्य च पश्यतः ॥२०॥

जघ्नतुर्विशिखैस्तीक्ष्णैः परानीकविनाशनैः ।
द्रवमाणं तु तत् सैन्यं तव पुत्रस्य संयुगे ॥२१॥

नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ ।
वार्यमाणं च भीष्मेण द्रोणेन च महात्मना ॥२२॥

विद्रवत्येव तत् सैन्यं पश्यतोर्द्रोणभीष्मयोः ।
ततो रथसहस्त्रेषु विद्रवत्सु ततस्ततः ॥२३॥

तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ ।
सौबलीं समरे सेनां शातयेतां समन्ततः ॥२४॥

शुशुभाते तदा तौ तु शैनेयकुरुपुङ्गवौ ।
अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले ॥२५॥

अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशांपते ।
ववर्ष शरवर्षेण धाराभिरिव तोयदः ॥२६॥

वध्यमानं ततस्तत्र शरैः पार्थस्य संयुगे ।
दुद्राव कौरवं सैन्यं विषादभयकंपितम् ॥२७॥

द्रवतस्तान् समालक्ष्य भीष्मद्रोणौ महारथौ ।
न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ ॥२८॥

ततो दुर्योधनो राजा समाश्वस्य विशांपते ।
न्यवर्तयत तत् सैन्यं द्रवमाणं समंततः ॥२९॥

यत्र यत्र सुतस्तुभ्यं यं यं पश्यति भारत ।
तत्र तत्र न्यवर्तन्त क्षत्रीयाणां महारथाः ॥३०॥

तान्निवृत्तान् समीक्ष्यैव ततोऽन्येऽपीतरे जनाः ।
अन्योन्यस्पर्धया राजन् लज्जया चावतस्थिरे ॥३१॥

पुनरावर्ततां तेषां वेग आसीद्विशांपते ।
पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति ॥३२॥

सन्निवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः ।
अब्रवीत् त्वरितो गत्वा भीष्मं शान्तनवं वचः ॥३३॥

पितामह निबोधेदं यत् त्वां वक्ष्यामि भारत ।
नानुरूपमहं मन्ये त्वयि जीवति कौरव ॥३४॥

द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृज्जने ।
कृपे चैव महेष्वासे द्रवते यद्वरूथिनी ॥३५॥

न पाण्डवान् प्रतिबलांस्तव मन्ये कथञ्चन ।
तथा द्रोणस्य संग्रामे द्रौणेश्चैव कृपस्य च ॥३६॥

अनुग्राह्याः पाण्डुसुतास्तव नूनं पितामह ।
यथेमां क्षमसे वीर वध्यमाना वरूथिनीम् ॥३७॥

सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे ।
न योत्स्ये पाण्डवान्संख्ये नापि पार्षतसात्यकी ॥३८॥

श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च ।
कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि ॥३९॥

चिन्तयानः अभविष्यमिति शेषः ॥३९॥

यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे ।
विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ ॥४०॥

एतच्छ्रुत्वा वचो भीष्मः प्रहसन् वै मुहुर्मुहुः ।
अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी ॥४१॥

बहुशोऽसि मया राजंस्तथ्यमुक्तो हितं वचः ।
अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः ॥४२॥

यत्तु शक्यं मया कर्तुं वृद्धेनाद्य नृपोत्तम ।
करिष्यामि यथाशक्ति प्रेक्षेदानीं सबान्धवः ॥४३॥

अद्य पाण्डुसुतानेकः ससैन्यान् सह बन्धुभिः ।
सोऽहं निवारयिष्यामि सर्वलोकस्य पश्यतः ॥४४॥

एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर ।
दध्मुः शङ्खान् मुदा युक्ता भेरीः सञ्जघ्निरे भृशम् ॥४५॥

पाण्डवा हि ततो राजन् श्रुत्वा तं निनदं महत् ।
दध्मुः शङ्खांश्च भेरीश्च मुरजांश्चाप्यनादयन् ॥४६॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीये युद्धदिवसे भीष्मदुर्योधनसंवादे अष्टपञ्चाशत्तमोऽध्यायः ॥५८॥
एकोनषष्टितमोऽध्यायः

धृतराष्ट्र उवाच । प्रतिज्ञाते ततस्तस्मिन् युद्धे भीष्मेण दारुणे ।
क्रोधितो मम पुत्रेण दुःखितेन विशेषतः ॥१॥

प्रतिज्ञाते इति ॥१॥

भीष्मः किमकरोत् तत्र पाण्डवेयेषु भारत ।
पितामहे वा पञ्चालास्तन्ममाचक्ष्व सञ्जय ॥२॥

सञ्जय उवाच ।

गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत ।
पश्चिमां दिशमास्थाय स्थिते चापि दिवाकरे ॥३॥

जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु ।
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव ॥४॥

अभ्ययाज्जवनैरश्वैः पाण्डवानामनीकिनीम् ।
महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः ॥५॥

प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम् ।
अस्माकं पाण्डवैः सार्धमनयात्तव भारत ॥६॥

धनुषां कूजतां तत्र तलानां चाभिहन्यताम् ।
महान् समभवच्छब्दो गिरीणामिव दीर्यताम् ॥७॥

तिष्ठ स्थितोऽस्मि विद्ध्यैनं निवर्तस्व स्थिरो भव ।
स्थिरोऽस्मि प्रहरस्वेति शब्दोऽश्रूयत सर्वशः ॥८॥

काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च ।
शिलानामिव शैलेषु पतितानामभूद्ध्वनिः ॥९॥

पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः ।
व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः ॥१०॥

हृतोत्तमाङ्गाः केचित्तु तथैवोद्यतकार्मुकाः ।
प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः ॥११॥

प्रावर्तत महावेगा नदी रुधिरवाहिनी ।
मातङ्गाङ्गशिला रौद्रा मांसशोणितकर्दमा ॥१२॥

वराश्वनरनागानां शरीरप्रभवा तदा ।
परलोकार्णवमुखी गृध्रगोमायुमोदिनी ॥१३॥

न दृष्टं न श्रुतं वापि युद्धमेतादृशं नृप ।
यथा तव सुतानां च पाण्डवानां च भारत ॥१४॥

नासीद्रथपथस्तत्र योधैर्युधि निपातितैः ।
गजैश्च पतितैर्नीलैर्गिरिशृङ्गैरिवावृतः ॥१५॥

विकीर्णैः कवचैश्चित्रैः शिरस्त्राणैश्च मारिष ।
शुशुभे तद्रणस्थानं शरदीव नभस्तलम् ॥१६॥

विनिर्भिन्नाः शरैः केचिदन्त्रापीडप्रकर्षिणः ।
अभीताः समरे शत्रूनभ्यधावन्त दर्पिताः ॥१७॥

तात भ्रातः सखे बन्धो वयस्य मम मातुल ।
मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे ॥१८॥

अथाभ्येहि त्वमागच्छ किं भीतोऽसि क्व यास्यसि ।
स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः ॥१९॥

तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः ।
मुमोच बाणान् दीप्ताग्रानहीनाशीविषानिव ॥२०॥

शरैरेकायनीकुर्वन् दिशः सर्वा यतव्रतः ।
जघान पाण्डवरथानादिश्य भरतर्षभ ॥२१॥

स नृत्यन्वै रथोपस्थे दर्शयन् पाणिलाघवम् ।
अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते ॥२२॥

अनेकशतसाहस्रं समपश्यन्त लाघवात् ॥२३॥

मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे ।
पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः ॥२४॥

उदीच्यां चैवमालोक्य दक्षिणस्यां पुनः प्रभो ।
एवं स समरे शूरो गाङ्गेयः प्रत्यदृश्यत ॥२५॥

न चैवं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् ।
विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् ॥२६॥

कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् ।
व्याक्रोशन्त रणे तत्र नरा बहुविधा बहु ॥२७॥

अमानुषेण रूपेण चरन्तं पितरं तव ।
शलभा इव राजानः पतन्ति विधिचोदिताः ॥२८॥

भीष्माग्निमभिसंक्रुद्धं विनाशाय सहस्रशः ।
न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे ॥२९॥

नरनागाश्वकायेषु बहुत्वाल्लघुयोधिनः ।
भिनत्त्येकेन बाणेन सुमुखेन पतत्त्रिणा ॥३०॥

गजकण्टकसन्नद्धं वज्रेणेव शिलोच्चयम् ।
द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि ॥३१॥

पिण्डितान् एकस्थान् वर्मितान्कवचिनः ॥३१॥

नाराचेन सुमुक्तेन निजघान पिता तव ।
यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन ॥३२॥

मुहूर्तदृष्टः स मया पतितो भुवि दृश्यते ।
एवं सा धर्मराजस्य वध्यमाना महाचमूः ॥३३॥

भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा ।
प्राकम्पत महासेना शरवर्षेण तापिता ॥३४॥

पश्यतो वासुदेवस्य पार्थस्याथ शिखण्डिनः ।
वर्तमानाऽपि ते वीरा द्रवमाणान्महारथान् ॥३५॥

नाशक्नुवन् वारयितुं भीष्मबाणप्रपीडितान् ।
महेन्द्रसमवीर्येण वध्यमाना महाचमूः ॥३६॥

अभज्यत महाराज न च द्वौ सह धावतः ।
आविद्धनरनागाश्वं पतितध्वजकूबरम् ॥३७॥

अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ।
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ॥३८॥

प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ।
विमुच्य कवचान्यन्ये पाण्डुपुत्रस्य सैनिकाः ॥३९॥

आक्रन्दे युद्धे ॥३९॥

विमुक्तकेशा धावन्तः प्रत्यदृश्यन्त भारत ।
तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथयूथपम् ॥४०॥

ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ।
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः ॥४१॥

उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ।
अयं स कालः संप्राप्तः पार्थ यस्तेऽभिकाङ्क्षितः ॥४२॥

प्रहरस्व नरव्याघ्र न चेन्मोहाद्विमुह्यसे ।
यत्त्वया कथितं वीर पुरा राज्ञां समागमे ॥४३॥

भीष्मद्रोणमुखान्सर्वान् धार्तराष्ट्रस्य सैनिकान् ।
सानुबन्धान् हनिष्यामि ये मां योत्स्यन्ति संयुगे ॥४४॥

इति तत् कुरु कौन्तेय सत्यं वाक्यमरिन्दम ।
बीभत्सो पश्य सैन्यं स्वं भज्यमानं ततस्ततः ॥४५॥

द्रवतश्च महीपालान् पश्य यौधिष्ठिरे बले ।
दृष्ट्वा हि भीष्मं समरे व्यात्ताननमिवान्तकम् ॥४६॥

भयार्ताः प्रपलायन्ते सिंहात् क्षुद्रमृगा इव ।
एवमुक्तः प्रत्युवाच वासुदेवं धनञ्जयः ॥४७॥

नोदयाश्वान् यतो भीष्मो विगाहैतद्बलार्णवम् ।
पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् ॥४८॥

सञ्जय उवाच ।

ततोऽश्वान् रजतप्रख्यान्नोदयामास माधवः ।
यतो भीष्मरथो राजन् दुष्प्रेक्ष्यो रश्मिवानिव ॥४९॥

ततस्तत् पुनरावृत्तं युधिष्ठिरबलं महत् ।
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे ॥५०॥

ततो भीष्मः कुरुश्रेष्ठ सिंहवद्विनदन्मुहुः ।
धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् ॥५१॥

क्षणेन स रथस्तस्य सहयः सहसारथिः ।
शरवर्षेण महता संछन्नो न प्रकाशते ॥५२॥

वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्त्ववान् ।
चोदयामास तानश्वान् विचितान् भीष्मसायकैः ॥५३॥

ततः पार्थो धनुर्गुह्य दिव्यं जलदनिःस्वनम् ।
पातयामास भीष्मस्य धनुश्छित्वा त्रिभिः शरैः ॥५४॥

स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः ।
निमिषान्तरमात्रेण सज्यं चक्रे पिता तव ॥५५॥

विचकर्ष ततो दोर्भ्यां धनुर्जलदनिःस्वनम् ।
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ॥५६॥

तस्य तत् पूजयामास लाघवं शान्तनोः सुतः ।
साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन ॥५७॥

त्वय्येवैतद्युक्तरूपं महत् कर्म धनञ्जय ।
प्रीतोऽस्मि सुभृशं पुत्र कुरु युद्धं मया सह ॥५८॥

इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः ।
मुमोच समरे वीरः शरान् पार्थरथं प्रति ॥५९॥

अदर्शयद्वासुदेवो हययाने परं बलम् ।
मोघान् कुर्वन् शरांस्तस्य मण्डलान्याचरल्लघु ॥६०॥

तथा भीष्मस्तु सुदृढं वासुदेवधनञ्जयौ ।
विव्याध निशितैर्बाणैः सर्वगात्रेषु भारत ॥६१॥

शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ ।
गोवृषाविव संरब्धौ विषाणैर्लिखिताङ्कितौ ॥६२॥

पुनश्चापि सुसंरब्धः शरैः शतसहस्रशः ।
कृष्णयोर्युधि संरब्धो भीष्मोऽथावारयद्दिशः ॥६३॥

वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः ।
मुहुरभ्यर्दयन् भीष्मः प्रहस्य स्वनवत्तदा ॥६४॥

ततस्तु कृष्णः समरे दृष्ट्वा भीष्मपराक्रमम् ।
संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् ॥६५॥

भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ।
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ॥६६॥

वरान् वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ।
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ॥६७॥

अमृष्यमाणो भगवान् केशवः परवीरहा ।
अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् ॥६८॥

एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान् ।
किं नु पाण्डुसुतान् युद्धे सबलान् सपदानुगान् ॥६९॥

द्रवते च महासैन्यं पाण्डवस्य महात्मनः ।
एते च कौरवास्तूर्णं प्रभग्नान् वीक्ष्य सोमकान् ॥७०॥

प्राद्रवन्ति रणे दृष्ट्वा हर्षयन्तः पितामहम् ।
सोऽहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः ॥७१॥

भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् ।
अर्जुनो हि शरैस्तीक्ष्णैर्वध्यमानोऽपि संयुगे ॥७२॥

कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात् ।
तथा चिन्तयतस्तस्य भूय एव पितामहः ।
प्रेषयामास संक्रुद्धः शरान् पार्थरथं प्रति ॥७३॥

तेषां बहुत्वात्तु भृशं शराणां दिशश्च सर्वाः पिहिता बभूवुः ।
न चान्तरिक्षं न दिशो न भूमिर्नभास्करोऽदृश्यत रश्मिमाली ॥७४॥

ववुश्च वातास्तुमुलाः सधूमा दिशश्च सर्वाः क्षुभिता बभूवुः ।
द्रोणो विकर्णोऽथ जयद्रथश्च भूरिश्रवाः कृतवर्मा कृपश्च ॥७५॥

श्रुतायुरम्बष्ठपतिश्च राजा विन्दानुविन्दौ च सुदक्षिणश्च ।
प्राच्याश्च सौवीरगणाश्च सर्वे वसातयः क्षुद्रकमालवाश्च ॥७६॥

किरीटिनं त्वरमाणाऽभिसस्रुर्निदेशगाः शान्तनवस्य राज्ञः ।
तं वाजिपादातरथौघजालैरनेकसाहस्त्रशतैर्ददर्श ॥७७॥

किरीटिनं संपरिवार्यमाणं शिनेर्नप्ता वारणयूथपैश्च ।
ततस्तु दृष्ट्वाऽर्जुनवासुदेवौ पदातिनागाश्वरथैः समन्तात् ॥७८॥

अभिद्रुतौ शस्त्रभृतां वरिष्ठौ शिनिप्रवीरोऽभिससार तूर्णम् ।
स तान्यनीकानि महाधनुष्मान् शिनिप्रवीरः सहसाऽभिपत्य ॥७९॥

चकार साहाय्यमथार्जुनस्य विष्णुर्यथा वृत्रनिषूदनस्य ।
विशीर्णनागाश्वरथध्वजौघं भीष्मेण वित्रासितसर्वयोधम् ॥८०॥

युधिष्ठिरानीकमभिद्रवन्तं प्रोवाच संदृश्य शिनिप्रवीरः ।
क्व क्षत्रिया यास्यथ नैष धर्मः सतां पुरस्तात् कथितः पुराणैः ॥८१॥

मा स्वां प्रतिज्ञां त्यजत प्रवीराः स्वं वीरधर्मं परिपालयध्वम् ।
तान्वासवानन्तरजो निशाम्य नरेन्द्रमुख्यान् द्रवतः समन्तात् ॥८२॥

पार्थस्य दृष्ट्वा मृदुयुद्धतां च भीष्मं च संख्ये समुदीर्यमाणम् ।
अमृष्यमाणः स ततो महात्मा यशस्विनं सर्वदशार्हभर्ता ॥८३॥

समुदीर्यमाणं वर्धमानप्रयत्नम् ॥८३॥

उवाच शैनेयमभिप्रशंसन् दृष्ट्वा कुरूनापततः समग्रान् ।
ये यान्ति ते यान्तु शिनिप्रवीर येऽपि स्थिताः सात्वन तेऽपि यान्तु ॥८४॥

भीष्मं रथात् पश्य निपात्यमानं द्रोणं च सङ्ख्ये सगणं मयाऽद्य ।
न मे रथी सात्वतकौरवाणां क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् ॥८५॥

तस्मादहं गृह्य रथाङ्गमुग्रं प्राणं हरिष्यामि महाव्रतस्य ।
निहत्य भीष्मं सगणं तथाऽऽजौ द्रोणं च शैनेयरथप्रवीरौ ॥८६॥

प्रीतिं करिष्यामि धनञ्जयस्य राज्ञश्च भीमस्य तथाऽश्विनोश्च ।
निहत्य सर्वान् धृतराष्ट्रपुत्रांस्तत्पक्षिणो ये च नरेन्द्रमुख्याः ॥८७॥

अश्विनोरश्विपुत्रयोर्नकुलसहदेवयोः ॥८७॥

राज्येन राजानमजातशत्रुं सम्पादयिष्याम्यहमद्य हृष्टः ।
ततः सुनाभं वसुदेवपुत्रः सूयप्रभं वज्रसमप्रभावम् ॥८८॥

क्षुरान्तमुद्यम्य भुजेन चक्रं रथादवप्लुत्य विसृज्य वाहान् ।
संकम्पयन् गां चरणैर्महात्मा वेगेन कृष्णः प्रससार भीष्मम् ॥८९॥

मदान्धमाजो समुदीर्णदर्पं सिंहो जिघांसन्निव वारणेन्द्रम् ।
सोऽभिद्रवन् भीष्ममनीकमध्ये क्रुद्धो महेन्द्रावरजः प्रमाथी ॥९०॥

व्यालम्बिपीतान्तपटश्चकाशे घनो यथा खे तडितावनद्धः ।
सुदर्शनं चास्य रराज शोरेस्तच्चक्रपद्मं सुभुजोरुनालम् ॥९१॥

यथादिपद्मं तरुणार्कवर्णं रराज नारायणनाभिजातम् ।
तत्कृष्णकोपोदयसूर्यबुद्धं क्षुरान्ततीक्ष्णाग्रसुजातपत्रम् ॥९२॥

तस्यैव देहोरुसरः प्ररूढं रराज नारायणबाहुनालम् ।
तमात्तचक्रं प्रणदन्तमुच्चैः कुद्धं महेन्द्रावरजं समीक्ष्य ॥९३॥

सर्वाणि भूतानि भृशं विनेदुः क्षयं कुरूणामिव चिन्तयित्वा ।
स वासुदेवः प्रगृहीतचक्रः संवर्तयिष्यन्निव सर्वलोकम् ॥९४॥

अभ्युत्पतन् लोकगुरुर्बभासे भूतानि धक्ष्यन्निव धूमकेतुः ।
तमाद्रवन्तं प्रगृहीतचक्रं दृष्ट्वा देवं शान्तनवस्तदानीम् ॥९५॥

असंभ्रमं तद्विचकर्ष दोर्भ्यां महाधनुर्गाण्डिवतुल्यघोषम् ।
उवाच भीष्मस्तमनन्तपौरुषं गोविन्दमाजावविमूढचेताः ॥९६॥

एह्येहि देवेश जगन्निवास नमोऽस्तु ते माधव चक्रपाणे ।
प्रसह्य मां पातय लोकनाथ रथोत्तमात् सर्वशरण्यसंख्ये ॥९७॥

त्वया हतस्यापि ममाद्य कृष्ण श्रेयः परस्मिन्निह चैव लोके ।
संभावितोऽस्म्यन्धकवृष्णिनाथ लोकैस्त्रिभिर्वीर तवाभियानात् ॥९८॥

रथादवप्लुत्य ततस्त्वरावान् पार्थोऽप्यनुद्रुत्य यदुप्रवीरम् ।
जग्राह पीनोत्तमलम्बबाहुं बाह्वोर्हरिं व्यायतपीनबाहुः ॥९९॥

निगृह्यमाणश्च तदाऽऽदिदेवो भृशं सरोषः किल चात्मयोगी ।
आदाय वेगेन जगाम विष्णुर्जिष्णुं महावात इवैकवृक्षम् ॥१००॥

पार्थस्तु विष्टभ्य बलेन पादौ भीष्मान्तिकं तूर्णमभिद्रवन्तम् ।
बलान्निजग्राह हरिं किरीटी पदेऽथ राजन् दशमे कथञ्चित् ॥१०१॥

अवस्थितं च प्रणिपत्य कृष्णं प्रीतोऽर्जुनः काञ्चनचित्रमाली ।
उवाच कोपं प्रतिसंहरेति गतिर्भवान् केशव पाण्डवानाम् ॥१०२॥

न हास्यते कर्म यथाप्रतिज्ञं पुत्रैः शपे केशव सोदरैश्च ।
अन्तं करिष्यामि यथा कुरूणां त्वयाऽहमिन्द्रानुजसंप्रयुक्तः ॥१०३॥

ततः प्रतिज्ञां समयं च तस्य जनार्दनः प्रीतमना निशम्य ।
स्थितः प्रिये कौरवसत्तमस्य रथं सचक्रः पुनरारुरोह ॥१०४॥

स तानभीषून् पुनराददानः प्रगृह्य शङ्खं द्विषतां निहन्ता ।
विनादयामास ततो दिशश्च स पाञ्चजन्यस्य रवेण शौरिः ॥१०५॥

व्याविद्धनिष्काङ्गदकुण्डलं तं रजोविकीर्णाञ्चितपद्मनेत्रम् ।
विशुद्धदंष्ट्रं प्रगृहीतशङ्खं विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः ॥१०६॥

मृदङ्गभेरीपणवप्रणादा नेमिस्वना दुन्दुभिनिःस्वनाश्च ।
ससिंहनादाश्च बभूवुरुग्राः सर्वेष्वनीकेषु ततः कुरूणाम् ॥१०७॥

गाण्डीवघोषः स्तनयित्नुकल्पो जगाम पार्थस्य नभो दिशश्च ।
जग्मुश्च बाणा विमलाः प्रसन्नाः सर्वा दिशः पाण्डवचापमुक्ताः ॥१०८॥

तं कौरवाणामधिपो जवेन भीष्मेण भूरिश्रवसा च सार्धम् ।
अभ्युद्ययावुद्यतबाणपाणिः कक्षं दिधक्षन्निव धूमकेतुः ॥१०९॥

अथार्जुनाय प्रजिघाय भल्लान् भूरिश्रवाः सप्त सुवर्णपुङ्खान् ।
दुर्योधनस्तोमरमुग्रवेगं शल्यो गदां शान्तनवश्च शक्तिम् ॥११०॥

प्रजिघाय प्रेषयामास ॥११०॥

स सप्तभिः सप्तशरप्रवेकान् संवार्य भूरिश्रवसा विसृष्टान् ।
शितेन दुर्योधनबाहुमुक्तं क्षुरेण तत्तोमरमुन्ममाथ ॥१११॥

शरप्रवेकान् बाणश्रेष्ठान् ॥१११॥

ततः शुभामापततीं स शक्तिं विद्युत्प्रभां शान्तनवेन मुक्ताम् ।
गदां च मद्राधिपबाहुमुक्तां द्वाभ्यां शराभ्यां निचकर्त वीरः ॥११२॥

ततो भुजाभ्यां बलवद्विकृष्य चित्रं धनुर्गाण्डिवमप्रमेयम् ।
माहेन्द्रमस्त्रं विधिवत्सुघोरं प्रादुश्चकाराद्भुतमन्तरिक्षे ॥११३॥

तेनोत्तमास्त्रेण ततो महात्मा सर्वाण्यनीकानि महाधनुष्मान् ।
शरौघजालैर्विमलाग्निवर्णैर्निवारयामास किरीटमाली ॥११४॥

शिलीमुखाः पार्थधनुःप्रमुक्ता रथान् ध्वजाग्राणि धनूंषि बाहून् ।
निकृत्य देहान्विविशुः परेषां नरेन्द्रनागेन्द्रतुरङ्गमाणाम् ॥११५॥

ततो दिशः सोऽनुदिशश्च पार्थः शरैः सुधारैः समरे वितत्य ।
गाण्डीवशब्देन मनांसि तेषां किरीटमाली व्यथयाञ्चकार ॥११६॥

तस्मिंस्तथा घोरतमे प्रवृत्ते शङ्खस्वना दुन्दुभिनिःस्वनाश्च ।
अन्तर्हिता गाण्डिवनिःस्वनेन बभूवुरुग्राश्वरथप्रणादाः ॥११७॥

गाण्डीवशब्दं तमथो विदित्वा विराटराजप्रमुखाः प्रवीराः ।
पाञ्चालराजो द्रुपदश्च वीरस्तं देशमाजग्मुरदीनसत्त्वाः॥११८॥

सर्वाणि सैन्यानि तु तावकानि यतो यतो गाण्डिवजः प्रणादः ।
ततस्ततः सन्नतिमेव जग्मुर्न तं प्रतीपोऽभिससार कश्चित् ॥११९॥

तस्मिन् सुघोरे नृपसंप्रहारे हताः प्रवीराः सरथाश्वसुताः ।
गजाश्च नाराचनिपाततप्ता महापताकाः शुभरुक्मकक्ष्याः ॥१२०॥

परीतसत्त्वाः सहसा निपेतुः किरीटिना भिन्नतनुत्रकायाः ।
दृढं हताः पत्रिभिरुग्रवेगैः पार्थेन भल्लैर्विमलैः शिताग्रैः ॥१२१॥

निकृत्तयन्त्रा निहतेन्द्रकीला ध्वजा महान्तो ध्वजिनीमुखेषु ।
पदातिसङ्घाश्च रथाश्च संख्ये हयाश्च नागाश्च धनञ्जयेन ॥१२२॥

बाणाहतास्तूर्णमपेतसत्त्वा विष्टभ्य गात्राणि निपेतुरुर्व्याम् ।
ऐन्द्रेण तेनास्त्रवरेण राजन् महाहवे भिन्नतनुत्रदेहाः ॥१२३॥

ततः शरौघैर्निशितैः किरीटिना नृदेहशस्त्रक्षतलोहितोदा ।
नदी सुघोरा नरमेदफेना प्रवर्तिता तत्र रणाजिरे वै ॥१२४॥

वेगेन साऽतीव पृथुप्रवाहा परेतनागाश्वशरीररोधा ।
नरेन्द्रमज्जोच्छ्रितमांसपङ्का प्रभूतरक्षोगणभूतसेविता ॥१२५॥

शिरःकपालाकुलकेशशाद्वला शरीरसङ्घातसहस्त्रवाहिनी ।
विशीर्णनानाकवचोर्मिसंकुला नराश्वनागास्थिनिकृत्तशर्करा ॥१२६॥

श्व-कङ्क-शालावृक-गृध्र-काकैः क्रव्यादसङ्घैश्च तरक्षुभिश्च ।
उपेतकूलां ददृशुर्मनुष्याः क्रूरां महावैतरणीप्रकाशाम् ॥१२७॥

प्रवर्तितामर्जुनबाणसङ्घैर्मेदोवसासृक्प्रवहां सुभीमाम् ।
हतप्रवीरां च तथैव दृष्ट्वा सेनां कुरूणामथ फाल्गुनेन ॥१२८॥

ते चेदि-पाञ्चाल-करू-षमत्स्याः पार्थाश्च सर्वे सहिताः प्रणेदुः ।
जयप्रगल्भाः पुरुषप्रवीराः संत्रासयन्तः कुरुवीरयोधान् ॥१२९॥

हतप्रवीराणि बलानि दृष्ट्वा किरीटिना शत्रुभयावहेन ।
वित्रास्य सेनां ध्वजिनीपतीनां सिंहो मृगाणामिव यूथसङ्घान् ॥१३०॥

विनेदतुस्तावतिहर्षयुक्तौ गाण्डीवधन्वा च जनार्दनश्च ।
ततो रविं संवृतरश्मिजालं दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः ॥१३१॥

तदैन्द्रमस्त्रं विततं च घोरमसह्यमुद्वीक्ष्य युगान्तकल्पम् ।
अथापयानं कुरवः सभीष्माः सद्रोणदुर्योधनबाह्लिकाश्च ॥१३२॥

चक्रुर्निशां सन्धिगतां समीक्ष्य विभावसोर्लोहितरागयुक्ताम् ।
अवाप्य कीर्तिं च यशश्च लोके विजित्य शत्रूंश्च धनञ्जयोऽपि ॥१३३॥

ययौ नरेन्द्रैः सह सोदरैश्च समाप्तकर्मा शिबिरं निशायाम् ।
ततः प्रजज्ञे तुमुलः कुरूणां निशामुखे घोरतमः प्रणादः ॥१३४॥

रणे रथानामयुतं निहत्य हता गजाः सप्तशतार्जुनेन ।
प्राच्याश्च सौवीरगणाश्च सर्वे निपातिताः क्षुद्रकमालवाश्च ॥१३५॥

महत् कृतं कर्म धनञ्जयेन कर्तुं यथा नार्हति कश्चिदन्यः ।
श्रुतायुरम्बष्ठपतिश्च राजा तथैव दुर्मर्षणचित्रसेनौ ॥१३६॥

द्रोणः कृपः सैन्धवबाह्लिकौ च भूरिश्रवाः शल्यशलौ च राजन् ।
अन्ये च योधाः शतशः समेताः क्रुद्धेन पार्थेन रणस्य मध्ये ॥१३७॥

स्वबाहुवीर्येण जिताः सभीष्माः किरीटिना लोकमहारथेन ।
इति ब्रुवन्तः शिबिराणि जग्मुः सर्वे गणा भारत ये त्वदीयाः ॥१३८॥

उल्कासहस्त्रैश्च सुसंप्रदीप्तैर्विभ्राजमानैश्च तथा प्रदीपैः ।
किरीटिवित्रासितसर्वयोधा चक्रे निवेशं ध्वजिनी कुरूणाम् ॥१३९॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीयदिवसावहारे एकोनषष्टितमोऽध्यायः ॥५९॥
षष्टितमोऽध्यायः

सञ्जय उवाच । व्युष्टां निशां भारत भारतानामनीकिनीनां प्रमुखे महात्मा ।
ययौ सपत्नान् प्रतिजातकोपो वृतः समग्रेण बलेन भीष्मः ॥१॥

व्युष्टामिति । व्युष्टां प्रभाताम् ॥१॥

तं द्रोण-दुर्योधन-बाह्लिकाश्च तथैव दुर्मर्षण-चित्रसेनौ ।
जयद्रथश्चातिबलो बलौघैर्नृपास्तथाऽन्ये प्रययुः समन्तात् ॥२॥

स तैर्महद्भिश्च महारथैश्च तेजस्विभिर्वीर्यवद्भिश्च राजन् ।
रराज राजा स तु राजमुख्यैर्वृतः स देवैरिव वज्रपाणिः ॥३॥

तस्मिन्ननीकप्रमुखे विषक्ता दोधूयमानाश्च महापताकाः ।
सुरक्तपीतासितपाण्डुराभा महागजस्कन्धगता विरेजुः ॥४॥

सा वाहिनी शान्तनवेन गुप्ता महारथैर्वारणवाजिभिश्च ।
बभौ सविद्युत्स्तनयित्नुकल्पा जलागमे द्यौरिव जातमेघा ॥५॥

ततो रणायाभिमुखी प्रयाता प्रत्यर्जुनं शान्तनवाभिगुप्ता ।
सेना महोग्रा सहसा कुरूणां वेगो यथा भीम इवापगायाः ॥६॥

तं व्यालनानाविधगूढसारं गजाश्वपादातरथौघपक्षम् ।
व्यूहं महामेघसमं महात्मा ददर्श दूरात् कपिराजकेतुः ॥७॥

व्यालो व्यूहविशेषस्तेन नानाविधं गूढसारं च ॥७॥

विनिर्ययौ केतुमता रथेन नरर्षभः श्वेतहयेन वीरः ।
वरूथिना सैन्यमुखे महात्मा वघे धृतः सर्वसपत्नयूनाम् ॥८॥

सूपस्करं सोत्तरबन्धुरेषं यत्तं यदूनामृषभेण संख्ये ।
कपिध्वजं प्रेक्ष्य विषेदुराजौ सहैव पुत्रैस्तव कौरवेयाः ॥९॥

सूपस्करं सुचक्रं सोत्तरबन्धुरेषम् उत्तरेणाच्छादनेन बन्धुरा रम्या ईषा तत्सहितम् ॥९॥

प्रकर्षता गुप्तमुदायुधेन किरीटिना लोकमहारथेन ।
तं व्यूहराजं ददृशुस्त्वदीयाश्चतुश्चतुर्व्यालसहस्त्रकर्णम् ॥१०॥

चतुश्चतुरावृत्त व्यालानां गजानां सहस्रं कर्णेषु विदिग्भागेषु यस्य तम् ॥१०॥

यथा हि पूर्वेऽहनि धर्मराज्ञा व्यूहः कृतः कौरवसत्तमेन ।
तथा न भूतो भुवि मानुषेषु न दृष्टपूर्वो न च संश्रुतश्च ॥११॥

ततो यथादेशमुपेत्य तस्थुः पाञ्चालमुख्याः सह चेदिमुख्यैः ।
ततः समादेशसमाहतानि भेरीसहस्त्राणि विनेदुराजौ ॥१२॥

शङ्खस्वनास्तूर्यरथस्वनाश्च सर्वेष्वनीकेषु ससिंहनादाः ।
ततः सबाणानि महास्वनानि विस्फार्यमाणानि धनूंषि वीरैः ॥१३॥

क्षणेन भेरीपणवप्रणादानन्तर्दधुः शङ्खमहास्वनाश्च ।
तच्छङ्खशब्दावृतमन्तरिक्षमुद्धूतभौमद्भुतरेणुजालम् ॥१४॥

महावितानावततप्रकाशमालोक्य वीराः सहसाऽभिपेतुः ।
रथी रथेनाभिहतः ससूतः पपात साश्वः सरथः सकेतुः ॥१५॥

गजो गजेनाभिहतः पपात पदातिना चाभिहतः पदातिः ।
आवर्तमानान्यभिवर्तमानैर्घोरीकृतान्यद्भुतदर्शनानि ॥१६॥

प्रासैश्च खड्गैश्च समाहतानि सदश्ववृन्दानि सदश्ववृन्दैः ।
सुवर्णतारागणभूषितानि सूर्यप्रभाभानि शरावराणि ॥१७॥

शरावराणि कवचानि ॥१७॥

विदार्यमाणानि परश्वधैश्च प्रासैश्च खड्गैश्च निपेतुरुर्व्याम् ।
गजैर्विषाणैर्वरहस्तरुग्णाः केचित्ससूता रथिनः प्रपेतुः ॥१८॥

गजर्षभाश्चापि रथर्षभेण निपातिता बाणहताः पृथिव्याम् ।
गजौघवेगोद्धतसादितानां श्रुत्वा विषेदुः सहसा मनुष्याः ॥१९॥

आर्तस्वनं सादिपदातियूनां विषाणगात्रावरताडितानाम् ।
संभ्रान्तनागाश्वरथे मुहूर्ते महाक्षये सादिपदातियूनाम् ॥२०॥

महारथैः संपरिवार्यमाणो ददर्श भीष्मः कपिराजकेतुम् ।
तं पञ्चतालोच्छ्रिततालकेतुः सदश्ववेगाद्भुतवीर्ययानः ॥२१॥

महास्त्रबाणाशनिदीप्तिमन्तं किरीटिनं शान्तनवोऽभ्यधावत् ।
तथैव शक्रप्रतिमप्रभावमिन्द्रात्मजं द्रोणमुखा विसस्रुः ॥२२॥

कृपश्च शल्यश्च विविंशतिश्च दुर्योधनः सौमदत्तिश्च राजन् ।
ततो रथानां प्रमुखादुपेत्य सर्वास्त्रवित् काञ्चनचित्रवर्मा ॥२३॥

जवेन शूरोऽभिससार सर्वांस्तानर्जुनस्यात्मसुतोऽभिमन्युः ।
तेषां महास्त्राणि महारथानामसह्यकर्मा विनिहत्य कार्ष्णिः ॥२४॥

बभौ महामन्त्रहुतार्चिमाली सदोगतः सन् भगवानिवाग्निः ।
ततः स तूर्णं रुधिरो‌दफेनां कृत्वा नदीमाशु रणे रिपूणाम् ॥२५॥

जगाम सौभद्रमतीत्य भीष्मो महारथं पार्थमदीनसत्त्वः ।
ततः प्रहस्याद्भुतविक्रमेण गाण्डीवमुक्तेन शिलाशितेन ॥२६॥

विपाठजालेन महास्त्रजालं विनाशयामास किरीटमाली ।
तमुत्तमं सर्वधनुर्धराणामसक्तकर्मा कपिराजकेतुः ॥२७॥

भीष्मं महात्माऽभिववर्ष तूर्णं शरौघजालैर्विमलैश्च भल्लैः ।
तथैव भीष्माहतमन्तरिक्षे महास्त्रजालं कपिराजकेतोः ॥२८॥

विशीर्यमाणं ददृशुस्त्वदीया दिवाकरेणेव तमोभिभूतम् ।
एवंविधं कार्मुकभीमनादमदीनवत्सत्पुरुषोत्तमाभ्याम् ।
ददर्श लोकः कुरुसृञ्जयाश्च तद्द्वैरथं भीष्मधनञ्जयाभ्याम् ॥२९॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि भीष्मार्जुनद्वैरथे षष्टितमोऽध्यायः ॥६०॥
एकषष्टितमोऽध्यायः

सञ्जय उवाच । द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिषः ।
पुत्रः सांयमनेश्चैव सौभद्रं पर्यवारयन् ॥१॥

द्रौणिरिति । सांयमनेः शलस्य पुत्रः ॥१॥

संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः ।
पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ॥२॥

नातिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे ।
बभूव सदृशः कार्ष्णेनांस्त्रे नापि च लाघवे ॥३॥

तथा तमात्मजं युद्धे विक्रमन्तमरिन्दमम् ।
दृष्ट्वा पार्थः सुसंयत्तं सिंहनाद‌मथानदत् ॥४॥

पीडयानं तु तत् सैन्यं पौत्रं तव विशांपते ।
दृष्ट्वा त्वदीया राजेन्द्र समन्तात् पर्यवारयन् ॥५॥

ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् ।
प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च ॥६॥

तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् ।
व्यदृश्यत महच्चापं समरे युध्यतः परैः ॥७॥

स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः ।
ध्वजं सांयमनैश्चैव सोऽष्टाभिश्चिच्छिदे ततः ॥८॥

रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना ।
शितेनोरगसंकाशां पत्रिणाऽपजहार ताम् ॥९॥

शल्यस्य च महावेगानस्यतः समरे शरान् ।
निवार्यार्जुनदायादो जघान चतुरो हयान् ॥१०॥

भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः ।
नाभ्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलोदयम् ॥११॥

ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः ।
पञ्चविंशतिसाहस्रास्तव पुत्रेण चोदिताः ॥१२॥

धनुर्वेद‌विदो मुख्या अजेयाः शत्रुभिर्युधि ।
सहपुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् ॥१३॥

तौ तु तत्र पितापुत्रौ परिक्षिप्तौ महारथौ ।
ददर्श राजन् पाञ्चाल्यः सेनापतिररिन्दम ॥१४॥

स वारणरथौघानां सहस्त्रैर्बहुभिर्वृतः ।
वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः ॥१५॥

धनुर्विस्फार्य संक्रुद्धो नोदयित्वा च वाहिनीम् ।
ययौ तं मद्रकानीकं केकयांश्च परंतप ॥१६॥

तेन कीर्तिमता गुप्तमनीकं दृढधन्वना ।
संरब्धरथनागाश्वं योत्स्यमानमशोभत ॥१७॥

सोऽर्जुनप्रमुखे यान्तं पाञ्चालकुलवर्धनः ।
त्रिभिः शारद्वतं बाणैर्जत्रुदेशे समार्पयत् ॥१८॥

ततः स मद्रकान् हत्वा दशैव दशभिः शरः ।
पृष्ठरक्षं जघानाशु भल्लेन कृतवर्मणः ॥१९॥

दमनं चापि दायादं पौरवस्य महात्मनः ।
जघान विमलाग्रेण नाराचेन परंतपः ॥२०॥

ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् ।
अविध्यस्त्रिंशता बाणैर्दशभिश्चास्य सारथिम् ॥२१॥

सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् ।
भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् ॥२२॥

अथैनं पञ्चविंशत्या क्षिप्रमेव समार्पयत् ।
अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ॥२३॥

स हताश्वे रथे तिष्ठन् ददर्श भरतर्षभ ।
पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः ॥२४॥

स प्रगृह्य महाघोरं निस्त्रिंशवरमायसम् ।
पदातिस्तूर्णमानर्च्छद्रथस्थं पुरुषर्षभः ॥२५॥

तं महौघमिवायान्तं खात् पतन्तमिवोरगम् ।
भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् ॥२६॥

दीप्यमानमिवादित्यं मत्तवारणविक्रमम् ।
अपश्यन् पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः ॥२७॥

तस्य पाञ्चालदायादः प्रतीपमभिधावतः ।
शितनिस्त्रिंशहस्तस्य शरावरणधारिणः ॥२८॥

बाणवेगमतीतस्य तथाऽभ्याशमुपेयुषः ।
त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः ॥२९॥

तस्य राजन् स निस्त्रिंशं सुप्रभं च शरावरम् ।
हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि ॥३०॥

तं निहत्य गदाग्रेण स लेभे परमां मुदम् ।
पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ॥३१॥

तस्मिन् हते महेष्वासे राजपुत्रे महारथे ।
हाहाकारो महानासीत्तव सैन्यस्य मारिष ॥३२॥

ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतमात्मजम् ।
अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् ॥३३॥

तौ तत्र समरे शूरौ समेतौ युद्धदुर्मदौ ।
ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा ॥३४॥

ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा ।
आजघान त्रिभिर्बाणैस्तोत्रैरिव महाद्विपम् ॥३५॥

तथैव पार्षतं शूरं शल्यः समितिशोभनः ।
आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत ॥३६॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थयुद्धदिवसे सांयमनिपुत्रवधे एकषष्टितमोऽध्यायः॥६१॥
द्विषष्टितमोऽध्यायः

धृतराष्ट्र उवाच । दैवमेव परं मन्ये पौरुषादपि सञ्जय ।
यत् सैन्यं मम पुत्रस्य पाण्डुसैन्येन बाध्यते ॥१॥

दैवमेवेति ॥१॥

नित्यं हि मामकांस्तात हतानेव हि शंससि ।
अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान् ॥२॥

हीनान् पुरुषकारेण मामकानद्य सञ्जय ।
पातितान् पात्यमानांश्च हतानेव च शंससि ॥३॥

युध्यमानान् यथाशक्ति घटमानानान् जयं प्रति ।
पाण्डवा हि जयन्त्येव जीयन्ते चैव मामकाः ॥४॥

सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च ।
श्रोष्यामि सततं तात दुःसहानि बहूनि च ॥५॥

तमुपायं न पश्यामि जीयेरन् येन पाण्डवान् ।
मामका विजयं युद्धे प्राप्नुयुर्येन सञ्जय ॥६॥

सञ्जय उवाच ।

क्षयं मनुष्यदेहानां गजवाजिरथक्षयम् ।
शृणु राजन् स्थिरो भूत्वा तवैवापनयो महान् ॥७॥

धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः ।
पीडयामास संक्रुद्धो मद्राधिपतिमायसैः ॥८॥

तत्राद्भुतमपश्याम पार्षतस्य पराक्रमम् ।
न्यवारयत यस्तूर्णं शल्यं समितिशोभनम् ॥९॥

नान्तरं दृश्यते तत्र तयोश्च रथिनोस्तदा ।
मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् ॥१०॥

ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे ।
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ॥११॥

अथैनं शरवर्षेण च्छादयामास संयुगे ।
गिरिं जलागमे यद्वज्जलदा जलवृष्टिभिः ॥१२॥

अभिमन्युस्ततः क्रुद्धो धृष्टद्युम्ने च पीडिते ।
अभिदुद्राव वेगेन मद्रराजरथं प्रति ॥१३॥

ततो मद्राधिपरथं कार्ष्णिः प्राप्यातिकोपनः ।
आर्तायनिममेयात्मा विव्याध निशितैः शरैः ॥१४॥

ततस्तु तावका राजन् परीप्सन्तोऽर्जुनिं रणे ।
मद्रराजरथं तूर्णं परिवार्यावतस्थिरे ॥१५॥

दुर्योधनो विकर्णश्च दुःशासनविविंशती ।
दुर्मर्षणो दुःसहश्च चित्रसेनोऽथ दुर्मुखः ॥१६॥

सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत ।
एते मद्राधिपरथं पालयन्तः स्थिता रणे ॥१७॥

तान् भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः ।
द्रौपदेयाऽभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ ॥१८॥

धार्तराष्ट्रान् दशरथान् दशैव प्रत्यवारयन् ।
नानारूपाणि शस्त्राणि विसृजन्तो विशांपते ॥१९॥

अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः ।
ते वै समेयुः सङ्ग्रामे राजन् दुर्मन्त्रिते तव ॥२०॥

तस्मिन् दशरथे कुद्धे वर्तमाने महाभये ।
तावकानां परेषां वा प्रेक्षका रथिनोऽभवन् ॥२१॥

शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः ।
अन्योन्यमभिनर्दन्तः संप्रहारं प्रचक्रिरे ॥२२॥

ते तदा जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः ।
अन्योन्यमभिमर्दन्तः स्पर्धमानाः परस्परम् ॥२३॥

अन्योन्यस्पर्धया राजन् ज्ञातयः सङ्गता मिथः ।
महास्त्राणि विमुञ्चन्तः समापेतुरमर्षिणः ॥२४॥

दुर्योधनस्तु सङ्क्रुद्धो धृष्टद्युम्नं महारणे ।
विव्याध निशितैर्बाणैश्चतुर्भिः समरे द्रुतम् ॥२५॥

दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः ।
दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः ॥२६॥

विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा ।
तान् प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः ॥२७॥

एकैकं पञ्चविंशत्या दर्शयन् पाणिलाघवम् ।
सत्यव्रतं च समरे पुरुमित्रं च भारत ॥२८॥

अभिमन्युरविध्यत् तु दशभिर्दशभिः शरैः ।
माद्रीपुत्रौ तु समरे मातुलं मातृनन्द‌नौ ॥२९॥

अविध्येतां शरैस्तीक्ष्णैस्तद‌द्भुतमिवाभवत् ।
ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौ ॥३०॥

शरैर्बहुभिरानर्छत् कृतप्रतिकृतैषिणौ ।
छाद्यमाना ततस्तौ तु माद्रीपुत्रौ न चेलतुः ॥३१॥

अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः ।
विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः ॥३२॥

तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् ।
भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन् भयात् ॥३३॥

दुर्योधनस्तु सङ्क्रुद्धो मागधं समचोदयत् ।
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ॥३४॥

गजानीकेन सहितस्तेन राजा सुयोधनः ।
मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् ॥३५॥

आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः ।
गदापाणिरवारोहद्रथात् सिंह इवोन्नदन् ॥३६॥

अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् ।
अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः ॥३७॥

स गजान् गदया निघ्नन् व्यचरत् समरे बली ।
भीमसेनो महाबाहुः सवज्र इव वासवः ॥३८॥

तस्य नादेन महता मनोहृदयकम्पिना ।
व्यत्यचेष्टन्त संहत्य गजा भीमस्य गर्जतः ॥३९॥

ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः ।
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥४०॥

पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान् ।
अभ्यवर्षन्त धावन्तो मेघा इव गिरीन् यथा ॥४१॥

क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैश्चाञ्जलिकैः शितैः ।
व्यहरन्नुत्तमाङ्गानि पाण्डवा गजयोधिनाम् ॥४२॥

शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः ।
अश्मवृष्टिरिवाभाति पाणिभिश्च सहांकुशैः ॥४३॥

हतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः ।
अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिखा इव ॥४४॥

धृष्टद्युम्नहतानन्यानपश्याम महागजान् ।
पततः पात्यमानांश्च पार्षतेन महात्मना ॥४५॥

मागधोऽथ महीपालो गजमैरावणोपमम् ।
प्रेषयामास समरे सौभद्रस्य रथं प्रति ॥४६॥

तमापतन्तं संप्रेक्ष्य मागधस्य महागजम् ।
जघानैकेषुणा वीरः सौभद्रः परवीरहा ॥४७॥

तस्यावर्जितनागस्य कार्ष्णिः परपुरञ्जयः ।
राज्ञो रजतपुङ्खेन भल्लेनापाहरच्छिरः ॥४८॥

विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः ।
व्यचरत्समरे मृद्नन् गजानिन्द्रो गिरीनिव ॥४९॥

एकप्रहारनिहतान् भीमसेनेन दन्तिनः ।
अपश्याम रणे तस्मिन् गिरीन्वज्रहतानिव ॥५०॥

भग्नदन्तान् भग्नकटान् भग्नसक्थांश्च वारणान् ।
भग्नपृष्ठत्रिकानन्यान्निहतान् पर्वतोपमान् ॥५१॥

नदतः सीदतश्चान्यान् विमुखान् समरे गतान् ।
विद्रुतान् भयसंविग्नांस्तथा विशकृतोऽपरान् ॥५२॥

भीमसेनस्य मार्गेषु पतितान् पर्वतोपमान् ।
अपश्यं निहतान्नागान् राजन्निष्ठीवतोऽपरान् ॥५३॥

वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः ।
विह्वलन्तो गता भूमिं शैला इव धरातले ॥५४॥

मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः ।
व्यचरत् समरे भीमो दण्डपाणिरिवान्तकः ॥५५॥

गजानां रुधिरक्लिन्नां गदां बिभ्रद्वृकोदरः ।
घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकधृक् ॥५६॥

संमथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः ।
सहसा प्राद्रवन् क्लिष्टा मृद्नन्तस्तव वाहिनीम् ॥५७॥

तं हि वीरं महेष्वासं सौभद्रप्रमुखा रथाः ।
पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः ॥५८॥

शोणिताक्तां गदां बिभ्रदुक्षितां गजशोणितैः ।
कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत ॥५९॥

व्यायच्छमानं गदया दिक्षु सर्वासु भारत ।
अपश्याम रणे भीमं नृत्यन्तमिव शंकरम् ॥६०॥

यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम् ।
अपश्याम महाराज रौद्रां विशसनीं गदाम् ॥६१॥

विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च ।
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥६२॥

यथा पशूनां संघातं यष्ट्या पालः प्रकालयेत् ।
तथा भीमो गजानीकं ग‌दया समकालयत् ॥६३॥

गदया वध्यमानास्ते मार्गणैश्च समन्ततः ।
स्वान्यनीकानि मृद्नन्तः प्राद्रवन् कुञ्जरास्तव ॥६४॥

महावात इवाभ्राणि विधमित्वा स वारणान् ।
अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् ॥६५॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसे भीमयुद्धे द्विषष्टितमोऽध्यायः ॥६२॥
त्रिषष्टितमोऽध्यायः

सञ्जय उवाच । हते तस्मिन्गजानीके पुत्रो दुर्योधनस्तव ।
भीमसेनं घ्नतेत्येवं सर्वसैन्यान्यचोदयत् ॥१॥

हते तस्मिन्निति ॥१॥

ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात् ।
अभ्यद्रवन् भीमसेनं नदन्तं भैरवान् रवान् ॥२॥

तं बलौघमपर्यन्तं देवैरपि सुदुःसहम् ।
आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि ॥३॥

रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् ।
अनन्तरथपादातं नरेन्द्रस्तिमितह्रदम् ॥४॥

तं भीमसेनः समरे महोद‌धिमिवापरम् ।
सेनासागरमक्षोभ्यं वेलेव समवारयत् ॥५॥

तदाश्चर्यमपश्याम पाण्डवस्य महात्मनः ।
भीमसेनस्य समरे राजन् कर्मातिमानुषम् ॥६॥

उदीर्णान्पार्थिवान्सर्वान्साश्वान्सरथकुञ्जरान् ।
असंभ्रमं भीमसेनो गदया समवारयत् ॥७॥

स संवार्य बलौघांस्तान् गदया रथिनां वरः ।
अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ॥८॥

तस्मिन्सुतुमुले घोरे काले परमदारुणे ।
भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः ॥९॥

द्रौपदेयाऽभिमन्युश्च शिखण्डी चापराजितः ।
न प्राजहन् भीमसेनं भये जाते महाबलम् ॥१०॥

ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम् ।
अधावत्तावकान् योधान् दण्डपाणिरिवान्तकः॥११॥

पोथयन् रथवृन्दानि वाजिवृन्दानि चाभिभूः ।
कर्षयन् रथवृन्दानि बाहुवेगेन पाण्डवः ॥१२॥

विनिघ्नन् व्यचरत्संख्ये युगान्ते कालवद्विभुः ।
ऊरुवेगेन संकर्षन् रथजालानि पाण्डवः ॥१३॥

बलानि संममर्दाशु नड्वलानीव कुञ्जरः ।
मृद्नन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ॥१४॥

सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातिनः ।
गदया व्यधमत्सर्वान्वातो वृक्षानिवौजसा ॥१५॥

भीमसेनो महाबाहुस्तव पुत्रस्य वै बले ।
साऽपि मज्जावसामांसैः प्रदिग्धा रुधिरेण च ॥१६॥

अदृश्यत महारौद्रो गदा नागाश्वपातनी ।
तत्र तत्र हतैश्चापि मनुष्य-गज-वाजिभिः ॥१७॥

रणाङ्गणं समभवन्मृत्योरावाससन्निभम् ।
पिनाकमिव रुद्रस्य कुद्धस्याभिघ्नतः पशून् ॥१८॥

यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् ।
ददृशुर्भीमसेनस्य रौद्रीं विशसनीं गदाम् ॥१९॥

आविद्ध्यतो गदां तस्य कौन्तेयस्य महात्मनः ।
बभौ रूपं महाघोरं कालस्येव युगक्षये ॥२०॥

तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः ।
दृष्ट्वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन् ॥२१॥

यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः ।
तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत ॥२२॥

प्रदारयन्तं सैन्यानि बलेनामितविक्रमम् ।
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ॥२३॥

तं तथा भीमकर्माणं प्रगृहीतमहागदम् ।
दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ॥२४॥

महता रथघोषेण रथेनादित्यवर्चसा ।
छादयन् शरवर्षेण पर्जन्य इव वृष्टिमान् ॥२५॥

तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् ।
भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षितः ॥२६॥

तस्मिन्क्षणे सात्यकिः सत्यसन्धः शिनिप्रवीरोऽभ्यपतत्पितामहम् ।
निघ्नन्नमित्रान् धनुषा दृढेन संकम्पयंस्तव पुत्रस्य सैन्यम् ॥२७॥

तं यान्तमश्वै रजतप्रकाशैः शरान् वपन्तं निशितान् सुपुङ्खान् ।
नाशक्नुवन् धारयितुं तदानीं सर्वे गणा भारत ये त्वदीयाः ॥२८॥

अविध्यदेनं दशभिः पृषत्कैरलम्बुषो राक्षसोऽसौ तदानीम् ।
शरैश्चतुर्भिः प्रतिविद्ध्य तं च नप्ता शिनेरभ्यपतद्रथेन ॥२९॥

अन्वागतं वृष्णिवरं निशम्य तं शत्रुमध्ये परिवर्तमानम् ।
प्रद्रावयन्तं कुरुपुङ्गवांश्च पुनः पुनश्च प्रणदन्तमाजौ ॥३०॥

योधास्त्वदीयाः शरवर्षैरवर्षन् मेघा यथा भूधरमम्बुवेगैः ।
तथाऽपि तं धारयितुं न शेकुर्मध्यन्दिने सूर्यमिवातपन्तम् ॥३१॥

न तत्र कश्चिन्नविषण्ण आसीदृते राजन्सोमदत्तस्य पुत्रात् ।
स वै समादाय धनुर्महात्मा भूरिश्रवा भारत सौमदत्तिः ॥३२॥

प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् ॥३३॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि सात्यकिभूरिश्रवःसमागमे त्रिषष्टितमोऽध्यायः ॥६३॥
चतुःषष्टितमोऽध्यायः

सञ्जय उवाच । ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः ।
प्राविध्यद्भृशसंक्रुद्धस्तोत्रैरिव महाद्विपम् ॥१॥

तत इति ॥१॥

कौरवं सात्यकिश्चैव शरैः सन्नतपर्वभिः ।
अवारयद‌मेयात्मा सर्वलोकस्य पश्यतः ॥२॥

ततो दुर्योधनो राजा सोद‌र्यैः परिवारितः ।
सौमदत्तिं रणे यत्तः समन्तात् पर्यवारयत् ॥३॥

तं चैव पाण्डवाः सर्वे सात्यकिं रभसं रणे ।
परिवार्य स्थिताः संख्ये समन्तात्सुमहौजसः ॥४॥

भीमसेनस्तु संक्रुद्धो गदामुद्यम्य भारत ।
दुर्योधनमुखान् सर्वान् पुत्रांस्ते पर्यवारयत् ॥५॥

रथैरनेकसाहस्त्रैः क्रोधामर्षसमन्वितः ।
नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् ॥६॥

विव्याध विशिखैः षड्भिः कङ्कपत्रैः शिलाशितैः ।
दुर्योधनश्च समरे भीमसेनं महारथम् ॥७॥

आजघानोरसि क्रुद्धो मार्गणैर्नवभिः शितैः ।
ततो भीमो महाबाहुः स्वरथं सुमहाबलः ॥८॥

आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् ।
एते महारथाः शूरा धार्तराष्ट्राः समागताः ॥९॥

मामेव भृशसंक्रुद्धा हन्तुमभ्युद्यता युधि ।
मनोरथद्रुमोऽस्माकं चिन्तितो बहुवार्षिकः ॥१०॥

सफलः सूत चाद्येह योऽहं पश्यामि सोदरान् ।
यत्राशोकसमुत्क्षिप्ता रेणवो रथनेमिभिः ॥११॥

प्रयास्यन्त्यन्तरिक्षं हि शरवृन्दैर्दिगन्तरे ।
तत्र तिष्ठति सन्नद्धः स्वयं राजा सुयोधनः ॥१२॥

भ्रातरश्चास्य सन्नद्धाः कुलपुत्रा मदोत्कटाः ।
एतानद्य हनिष्यामि पश्यतस्ते न संशयः ॥१३॥

तस्मान्ममाश्वान् संग्रामे यत्तः संयच्छ सारथे ।
एवमुक्त्वा ततः पार्थस्तव पुत्रं विशांपते ॥१४॥

विव्याध निशितैस्तीक्ष्णैः शरैः कनकभूषणैः ।
नन्दकं च त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ॥१५॥

तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम् ।
त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत ॥१६॥

भीमस्य च रणे राजन् धनुश्चिच्छेद भासुरम् ।
मुष्टिदेशे भृशं तीक्ष्णैस्त्रिभिर्भल्लैर्हसन्निव ॥१७॥

समरे प्रेक्ष्य यन्तारं विशोकं तु वृकोदरः ।
पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना ॥१८॥

अमृष्यमाणः संरब्धो धनुर्दिव्यं परामृशत् ।
पुत्रस्य ते महाराज वधार्थं भरतर्षभ ॥१९॥

समादधत्सुसंक्रुद्धः क्षुरग्रं लोमवाहिनम् ।
तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् ॥२०॥

सोपविद्ध्य धनुश्छिन्नं पुत्रस्ते क्रोधमूर्च्छितः ।
अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् ॥२१॥

सन्दधे विशिखं घोरं कालमृत्युसमप्रभम् ।
तेनाजघान संक्रुद्धो भीमसेनं स्तनान्तरे ॥२२॥

स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत् ।
स निषण्णो रथोपस्थे मूर्छामभिजगाम ह ॥२३॥

तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः ।
नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः ॥२४॥

ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् ।
पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि ॥२५॥

प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः ।
दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥२६॥

शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः ।
रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् ॥२७॥

प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश ।
सेनापतिः सुषेणश्च जलसन्धः सुलोचनः ॥२८॥

उग्रो भीमरथो भीमो वीरबाहुरलोलुपः ।
दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः ॥२९॥

विसृजन्तो बहुन् बाणान् क्रोधसंरक्तलोचनाः ।
भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् ॥३०॥

पुत्रांस्तु तव संप्रेक्ष्य भीमसेनो महाबलः ।
सृक्किणी विलिहन्वीरः पशुमध्ये यथा वृकः ॥३१॥

अभिपत्य महाबाहुर्गरुत्मानिव वेगितः ।
सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः ॥३२॥

संप्रहस्य च हृष्टात्मा त्रिभिर्बाणैर्महाभुजः ।
जलसन्धं विनिर्भिद्य सोऽनयद्यमसादनम् ॥३३॥

सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे ।
उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि ॥३४॥

पातयामास भल्लेन कुण्डलाभ्यां विभूषितम् ।
वीरबाहुं च सप्तत्या साश्वकेतुं ससारथिम् ॥३५॥

निनाय समरे वीरः परलोकाय पाण्डवः ।
भीमभीमरथौ चोभौ भीमसेनो हसन्निव ॥३६॥

पुत्रौ ते दुर्मदौ राजन्ननयद्यमसादनम् ।
ततः सुलोचनं भीमः क्षुरप्रेण महामृधे ॥३७॥

मिषतां सर्वसैन्यानामनयद्यमसादनम् ।
पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् ॥३८॥

शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः ।
विप्रद्रुता दिशो राजन् वध्यमाना महात्मना ॥३९॥

ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान् ।
एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् ॥४०॥

यथा प्राग्र्यान् यथा ज्येष्ठान् यथा शूरांश्च सङ्गतान् ।
निपातयत्युग्रधन्वा तं प्रगृह्णीत माचिरम् ॥४१॥

एवमुक्तास्ततः सर्वे धार्तराष्ट्रस्य सैनिकाः ।
अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम् ॥४२॥

भगदत्तः प्रभिन्नेन कुञ्जरेण विशांपते ।
अभ्ययात्सहसा तत्र यत्र भीमो व्यवस्थितः ॥४३॥

आपतन्नेव च रणे भीमसेनं शिलीमुखैः ।
अदृश्यं समरे चक्रे जीमूत इव भास्करम् ॥४४॥

अभिमन्युमुखास्तत्तु नामृष्यन्त महारथाः ।
भीमस्याच्छादनं संख्ये स्वबाहुबलमाश्रिताः ॥४५॥

त एनं शरवर्षेण समन्तात् पर्यवारयन् ।
गजं च शरवृष्ट्या तु बिभिदुस्ते समन्ततः ॥४६॥

स शस्त्रवृष्ट्याऽभिहतः समस्तैस्तैर्महारथैः ।
प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः ॥४७॥

सुतेजनैर्बाणैरिति शेषः ॥४७॥

सञ्जातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे ।
गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् ॥४८॥

सञ्चोदितो मदस्रावी भगदत्तेन वारणः ।
अभ्यधावत तान् सर्वान् कालोत्सृष्ट इवान्तकः ॥४९॥

द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम् ।
तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः ॥५०॥

असह्यं मन्यमानाश्च नातिप्रमनसोऽभवन् ।
ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे ॥५१॥

आजघान महाराज शरेणानतपर्वणा ।
सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः ॥५२॥

मूर्च्छयाऽभिपरीतात्मा ध्वजयष्टिं समाश्रयत् ।
तांस्तु भीतान् समालक्ष्य भीमसेनं च मूर्च्छितम् ॥५३॥

ननाद बलवन्नादं भगदत्तः प्रतापवान् ।
ततो घटोत्कचो राजन् प्रेक्ष्य भीमं तथागतम् ॥५४॥

संक्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत ।
स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम् ॥५५॥

अदृश्यत निमेषार्धाद्धोररूपं समास्थितः ।
ऐरावणं समारूढः स वै मायाकृतं स्वयम् ॥५६॥

तस्य चान्येऽपि दिङ्नागा बभूवुरनुयायिनः ।
अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः ॥५७॥

त्रय एते महानागा राक्षसैः समधिष्ठिताः ।
महाकायास्त्रिधा राजन् प्रस्रवन्तो मदं बहु ॥५८॥

तेजोवीर्यबलोपेता महाबलपराक्रमाः ।
घटोत्कचस्तु स्वं नागं चोदयामास तं तदा ॥५९॥

सगजं भगदत्तं तु हन्तुकामः परंतपः ।
ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः ॥६०॥

परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम् ।
भगदत्तस्य तं नागं विषाणैरभ्यपीडयन् ॥६१॥

स पीड्यमानस्तैर्नागैर्वेदनार्तः शराहतः ।
अनदत्सुमहानाद‌मिन्द्राशनिसमस्वनम् ॥६२॥

तस्य तं नदतो नादं सुघोरं भीमनिःस्वनम् ।
श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् ॥६३॥

एष युध्यति संग्रामे हैडिम्बेन दुरात्मना ।
भगदत्तो महेष्वासः कृच्छ्रे च परिवर्तते ॥६४॥

राक्षसश्च महाकायः स च राजाऽतिकोपनः ।
एतौ समेतौ समरे कालमृत्युसमावुभौ ॥६५॥

श्रूयते चैव हृष्टानां पाण्डवानां महास्वनः ।
हस्तिनश्चैव सुमहान् भीतस्य रुदितध्वनिः ॥६६॥

तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् ।
अरक्ष्यमाणः समरे क्षिप्रं प्राणान् विमोक्ष्यति ॥६७॥

ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे ।
महान् हि वर्तते रौद्रः संग्रामो लोमहर्षणः ॥६८॥

भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः ।
युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युत ॥६९॥

भीष्मस्य तद्वचः श्रुत्वा सर्व एव महारथाः ।
द्रोणभीष्मौ पुरस्कृत्य भगदत्तपरीप्सया ॥७०॥

उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत् ।
तान्‌ प्रयातान् समालोक्य युधिष्ठिरपुरोगमाः ॥७१॥

पञ्चालाः पाण्डवैः सार्धं पृष्टतोऽनुययुः परान् ।
तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् ॥७२॥

ननाद सुमहानादं विस्फोटमशनेरिव ।
तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः ॥७३॥

भीष्मः शान्तनवो भूयो भारद्वाजमभाषत ।
न रोचते मे सङ्ग्रामो हैडिम्बेन दुरात्मना ॥७४॥

बलवीर्यसमाविष्टः ससहायश्च सांप्रतम् ।
नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् ॥७५॥

लब्धलक्षः प्रहारी च वयं च श्रान्तवाहनाः ।
पञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः ॥७६॥

तन्न मे रोचते युद्धं पाण्डवैर्जितकाशिभिः ।
घुष्यतामवहारोऽद्य श्वो योत्स्यामः परैः सह ॥७७॥

पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः ।
उपायेनापयानं ते घटोत्कचभयार्दिताः ॥७८॥

कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः ।
सिंहनादान् भृशं चक्रुः शङ्खान् दध्मुश्च भारत ॥७९॥

एवं तदभवद्युद्धं दिवसं भरतर्षभ ।
पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् ॥८०॥

कौरवास्तु ततो राजन् प्रययुः शिबिरं स्वकम् ।
व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः ॥८१॥

शरविक्षतगात्रास्तु पाण्डुपुत्रा महारथाः ।
युद्धे सुमनसो भूत्वा जग्मुः स्वशिबिरं प्रति ॥८२॥

पुरस्कृत्य महाराज भीमसेनघटोत्कचौ ।
पूजयन्तस्तदाऽन्योन्यं मुदा परमया युताः ॥८३॥

नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् ।
सिंहनादांश्च कुर्वन्तो विमिश्रान् शङ्खनिःस्वनैः ॥८४॥

विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् ।
घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष ॥८५॥

घट्टयन्तः स्पृशन्तः ॥८५॥

प्रयाताः शिबिरायैव निशाकाले परंतप ।
दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च ॥८६॥

मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः ।
ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि ।
प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः ॥८७॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसावहारे चतुःषष्टितमोऽध्यायः ॥६४॥
पञ्चषष्टितमोऽध्यायः

धृतराष्ट्र उवाच । भयं मे सुमहज्जातं विस्मयश्चैव सञ्जय ।
श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् ॥१॥

भयमिति ॥१॥

पुत्राणां च पराभावं श्रुत्वा सञ्जय सर्वशः ।
चिन्ता मे महती सूत भविष्यति कथं त्विति ॥२॥

ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम ।
यथा हि दृश्यते सर्वं दैवयोगेन सञ्जय ॥३॥

यत्र भीष्ममुखान् सर्वान् शस्त्रज्ञान् योधसत्तमान् ।
पाण्डवानामनीकेषु योधयन्ति प्रहारिणः ॥४॥

केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः ।
केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते ॥५॥

येन क्षयं न गच्छन्ति दिवि तारागणा इव ।
पुनः पुनर्न मृष्यामि हतं सैन्यं तु पाण्डवैः ॥६॥

मय्येव दण्डः पतति दैवात्परमदारुणः ।
यथाऽवध्याः पाण्डुसुता यथा वध्याश्च मे सुताः ॥७॥

एतन्मे सर्वमाचक्ष्व याथातथ्येन सञ्जय ।
न हि पारं प्रपश्यामि दुःखस्यास्य कथञ्चन ॥८॥

समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः ।
पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् ॥९॥

घातयिष्यति मे सर्वान् पुत्रान् भीमो न संशयः ।
न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान् रणे ॥१०॥

ध्रुवं विनाशः संप्राप्तः पुत्राणां मम सञ्जय ।
तस्मान्मे कारणं सूत शक्तिं चैव विशेषतः ॥११॥

पृच्छतो वै यथातत्त्वं सर्वमाख्यातुमर्हसि ।
दुर्योधनश्च यच्चक्रे दृष्ट्वा स्वान् विमुखान् रणे ॥१२॥

भीष्मद्रोणौ कृपश्चैव सौबलश्च जयद्रथः ।
द्रौणिर्वाऽपि महेष्वासो विकर्णो वा महाबलः ॥१३॥

निश्चयो वाऽपि कस्तेषां तदा ह्यासीन्महात्मनाम् ।
विमुखेषु महाप्राज्ञ मम पुत्रेषु सञ्जय ॥१४॥

सञ्जय उवाच ।

शृणु राजन्नवहितः श्रुत्वा चैवावधारय ।
नैव मन्त्रकृतं किञ्चिन्नैव मायां तथाविधाम् ॥१५॥

न वै विभीषिकां काञ्चिद्राजन् कुर्वन्ति पाण्डवाः ।
युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे ॥१६॥

धर्मेण सर्वकार्याणि जीवितादीनि भारत ।
आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः ॥१७॥

न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः ।
श्रिया परमया युक्ता यतो धर्मस्ततो जयः ॥१८॥

तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव ।
तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा ॥१९॥

निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे ।
सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वर ॥२०॥

निकृतानीह पाण्डूनां नीचैरिव यथा नरैः ।
सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम् ॥२१॥

सापह्नवाः सदैवासन् पाण्डवाः पाण्डुपूर्वज ।
न चैतान् बहु मन्यन्ते पुत्रास्तव विशांपते ॥२२॥

सापह्नवाः अपरिख्यातकिल्बिषाः ॥२२॥

तस्य पापस्य सततं क्रियमाणस्य कर्मणः ।
सांप्रतं सुमहद्धोरं फलं प्राप्तं जनेश्वर ॥२३॥

स त्वं भुङ्क्ष्व महाराज सपुत्रः ससुहृज्जनः ।
नावबुध्यसि यद्राजन् वार्यमाणः सुहृज्जनैः ॥२४॥

विदुरेणाथ भीष्मेण द्रोणेन च महात्मना ।
तथा मया चाप्यसकृद्धार्यमाणो न बुध्यसे ॥२५॥

वाक्यं हितं च पथ्यं च मर्त्याः पथ्यमिवौषधम् ।
पुत्राणां मतमाज्ञाय जितान्‌ मन्यसि पाण्डवान् ॥२६॥

मन्यसि मन्यसे ॥२६॥

शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि ।
कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति ॥२७॥

तत्तेऽहं कथयिष्यामि यथाश्रुतमरिंदम ।
दुर्योधनेन संपृष्ट एतमर्थं पितामहः ॥२८॥

दृष्ट्वा भ्रातॄन् रणे सर्वान्निर्जितांस्तु महारथान् ।
शोकसंमूढहृदयो निशाकाले स्म कौरवः ॥२९॥

पितामहं महाप्राज्ञं विनयेनोपगम्य ह ।
यदब्रवीत् सुतस्तेऽसौ तन्मे शृणु जनेश्वर ॥३०॥

दुर्योधन उवाच । द्रोणश्च त्वं च शल्यश्च कृपो द्रौणिस्तथैव च ।
कृतवर्मा च हार्दिक्यः कांबोजश्च सुदक्षिणः ॥३१॥

भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् ।
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥३२॥

त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः ।
पाण्डवानां समस्ताश्च नातिष्ठन्त पराक्रमे ॥३३॥

तत्र मे संशयो जातस्तन्ममाचक्ष्व पृच्छतः ।
यं समाश्रित्य कौन्तेया जयन्त्यस्मान् क्षणे क्षणे॥३४॥

भीष्म उवाच ।

शृणु राजन् वचो मह्यं यथा वक्ष्यामि कौरव ।
बहुशश्च मयोक्तोऽसि न च मे तत्त्वया कृतम् ॥३५॥

मह्यं मम ॥३५॥

क्रियतां पाण्डवैः सार्धं शमो भरतसत्तम ।
एतत् क्षेममहं मन्ये पृथिव्यास्तव वा विभो ॥३६॥

भुङ्क्ष्वेमां पृथिवीं राजन् भ्रातृभिः सहितः सुखी ।
दर्हृदस्तापयन् सर्वान्नन्दयंश्चापि बान्धवान् ॥३७॥

न च मे क्रोशतस्तात श्रुतवानसि वै पुरा ।
तदिदं समनुप्राप्तं यत् पाण्डूनवमन्यसे ॥३८॥

यश्च हेतुरवध्यत्वे तेषामक्लिष्टकर्मणाम् ।
तं शृणुष्व महाबाहो मम कीर्तयतः प्रभो ॥३९॥

नास्ति लोकेषु तद्भूतं भविता नो भविष्यति ।
यो जयेत् पाण्डवान् सर्वान्पालिताञ्छार्ङ्गधन्वना ॥४०॥

यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः ।
पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम् ॥४१॥

पुरा किल सुराः सर्वे ऋषयश्च समागताः ।
पितामहमुपासेदुः पर्वते गन्धमादने ॥४२॥

तेषां मध्ये समासीनः प्रजापतिरपश्यत ।
विमानं प्रज्वलद्भासा स्थितं प्रवरमम्बरे ॥४३॥

ध्यानेनावेद्य तद्ब्रह्मा कृत्वा च नियतोऽञ्जलिम् ।
नमश्चकार हृष्टात्मा पुरुषं परमेश्वरम् ॥४४॥

ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् ।
स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महद‌द्भुतम् ॥४५॥

यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः ।
जगाद जगतः स्रष्टा परं परमधर्मवित् ॥४६॥

विश्वावसुर्विश्वमूर्तिर्विश्वेशो विष्वक्सेनो विश्वकर्मा वशी च ।
विश्वेश्वरो वासुदेवोऽसि तस्माद्योगात्मानं दैवतं त्वामुपैमि ॥४७॥

जय विश्व महादेव जय लोकहिते रत ।
जय योगीश्वर विभो जय योगपरावर ॥४८॥

पद्मगर्भ विशालाक्ष जय लोकेश्वरेश्वर ।
भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज ॥४९॥

असङ्ख्येयगुणाधार जय सर्वपरायण ।
नारायण सुदुष्पार जय शार्ङ्गधनुर्धर ॥५०॥

जय सर्वगुणोपेत विश्वमूर्ते निरामय ।
विश्वेश्वरमहाबाहो जय लोकार्थतत्पर ॥५१॥

महोरगवराहाद्य हरिकेश विभो जय ।
हरिवास दिशामीश विश्ववासामिताव्यय ॥५२॥

व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सत्क्रिय ।
असङ्ख्येयात्मभावज्ञ जय गम्भीरकामद ॥५३॥

अनन्त विदितब्रह्मन् नित्यभूतविभावन ।
कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयावह ॥५४॥

गुह्यात्मन्सर्वयोगात्मन् स्फुटसंभूतसंभव ।
भूताद्य लोकतत्त्वेश जय भूतविभावन ॥५५॥

आत्मयोने महाभाग कल्पसंक्षेपतत्पर ।
उद्भावन मनोभाव जय ब्रह्मजयप्रिय ॥५६॥

निसर्गसर्गनिरत कामेश परमेश्वर ।
अमृतोद्भव सद्भाव मुक्तात्मन् विजयप्रद ॥५७॥

प्रजापतिपते देव पद्मनाभ महाबल ।
आत्मभूत महाभूत सत्त्वात्मन् जय सर्वदा ॥५८॥

पादौ तव धरा देवी दिशो बाहू दिवं शिरः ।
मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी॥५९॥

बलं तपश्च सत्यं च कर्म धर्मात्मकं तव ।
तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसंभवाः ॥६०॥

अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती ।
वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् ॥६१॥

न संख्यानं परीमाणं न तेजो न पराक्रमम् ।
न बलं योगयोगीश जानीमस्ते न संभवम् ॥६२॥

त्वद्भक्तिनिरता देव नियमैस्त्वां समाश्रिताः ।
अर्चयामः सदा विष्णो परमेशं महेश्वरम् ॥६३॥

ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः ।
पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः ॥६४॥

एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् ।
पद्मनाभ विशालाक्ष कृष्ण दुःखप्रणाशन ॥६५॥

त्वं गतिः सर्वभूतानां त्वं नता त्वं जगद्गुरुः ।
त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा ॥६६॥

पृथिवी निर्भया देव त्वत्प्रसादात्सदाऽभवत् ।
तस्माद्भव विशालाक्ष यदुवंशविवर्धनः ॥६७॥

धर्मसंस्थापनार्थाय दैत्यानां च वधाय च ।
जगतो धारणार्थाय विज्ञाप्यं कुरु मे विभो ॥६८॥

यत्तत्परमक गुह्यं त्वत्प्रसादादिदं विभो ।
वासुदेव तदेतत्ते मयोद्गीतं यथातथम् ॥६९॥

सृष्ट्वा संकर्षणं देवं स्वयमात्मानमात्मना ।
कृष्ण त्वमात्मनास्त्राक्षीः प्रद्युम्नं चात्मसंभवम् ॥७०॥

प्रद्युम्नाद‌निरुद्धं त्वं यं विदुर्विष्णुमव्ययम् ।
अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् ॥७१॥

वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः ।
विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो ॥७२॥

तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै ।
धर्मं प्राप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः ॥७३॥

त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम ।
तैस्तैर्हि नामभिर्युक्ता गायन्ति परमात्मकम् ॥७४॥

स्थिताश्च सर्वे त्वयि भूतसंघाः कृत्वाऽऽश्रयं त्वां वरदं सुबाहो ।
अनादिमध्यान्तमपारयोगं लोकस्य सेतुं प्रवद‌न्ति विप्राः ॥७५॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि विश्वोपाख्याने पञ्चषष्टितमोऽध्यायः ॥६५॥
षट्षष्टितमोऽध्यायः

भीष्म उवाच । ततः स भगवान् देवो लोकानामीश्वरेश्वरः ।
ब्रह्माणं प्रत्युवाचेदं स्निग्धगंभीरया गिरा ॥१॥

तत इति ॥१॥

विदितं तात योगान्मे सर्वमेतत्तवेप्सितम् ।
तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत ॥२॥

ततो देवर्षिगन्धर्वा विस्मयं परमं गताः ।
कौतूहलपराः सर्वे पितामहमथाब्रुवन् ॥३॥

को न्वयं यो भगवता प्रणम्य विनयाद्विभो ।
वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् ॥४॥

एवमुक्तस्तु भगवान् प्रत्युवाच पितामहः ।
देवब्रह्मर्षिगन्धर्वान्सर्वान् मधुरया गिरा ॥५॥

यत्तत्परं भविष्यं च भवितव्यं च यत्परम् ।
भूतात्मा च प्रभुश्चैव ब्रह्म यच्च परं पदम् ॥६॥

तेनास्मि कृतसंवादः प्रसन्नेनं सुरर्षभाः ।
जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः ॥७॥

मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः ।
असुराणां वधार्थाय संभवस्व महीतले ॥८॥

संग्रामे निहता ये ते दैत्य-दानव-राक्षसाः ।
त इमे नृषु संभूता घोररूपा महाबलाः ॥९॥

तेषां वधार्थं भगवान्नरेण सहितो वशी ।
मानुषीं योनिमास्थाय चरिष्यति महतिले ॥१०॥

नरनारायणौ यौ तौ पुराणावृषिसत्तमौ ।
सहितौ मानुषे लोके संभूतावमितद्युती ॥११॥

अजेयौ समरे यत्तौ सहितैरमरैरपि ।
मूढास्त्वेतौ न जानन्ति नरनारायणावृषी ॥१२॥

तस्याहमग्रजः पुत्रः सर्वस्य जगतः प्रभुः ।
वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः ॥१३॥

तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः ।
नावज्ञेयो महावीर्यः शंख-चक्र-गदाधरः ॥१४॥

एतत् परमकं गुह्यमेतत् परमकं पदम् ।
एतत् परमकं ब्रह्म एतत् परमकं यशः ॥१५॥

एतदक्षरमव्यक्तमेतद्वै शाश्वतं महः ।
यत्तत्पुरुषसंज्ञं वै गीयते ज्ञायते न च ॥१६॥

एतत्परमकं तेज एतत्परमकं सुखम् ।
एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा ॥१७॥

तस्मात्सेन्द्रैः सुरैः सर्वैर्लोकैश्चामितविक्रमः ।
नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः ॥१८॥

यश्च मानुषमात्रोऽयमिति ब्रूयात्स मन्दधीः ।
हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् ॥१९॥

योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् ।
अवमन्येद्वासुदेवं तमाहुस्तामसं जनाः ॥२०॥

देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम् ।
पद्मनाभं न जानाति तमाहुस्तामसं बुधाः ॥२१॥

किरीटकौस्तुभधरं मित्राणामभयंकरम् ।
अवजानन्महात्मानं घोरे तमसि मज्जति ॥२२॥

एवं विदित्वा तत्त्वार्थं लोकानामश्विरेश्वरः ।
वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः ॥२३॥

भीष्म उवाच ।

एवमुक्त्वा स भगवान्देवान्सर्षिगणान् पुरा ।
विसृज्य सर्वभूतात्मा जगाम भवनं स्वकम् ॥२४॥

ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च ।
कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः ॥२५॥

एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम् ।
वासुदेवं कथयतां समवाये पुरातनम् ॥२६॥

रामस्य जामदग्न्यस्य मार्कण्डेयस्य धीमतः ।
व्यास-नारद‌द्योश्चापि सकाशाद्भरतर्षभ ॥२७॥

एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् ।
वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् ॥२८॥

यस्य चैवात्मजो ब्रह्मा सर्वस्य जगतः पिता ।
कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः ॥२९॥

वारितोऽसि मया तात मुनिभिर्वेदपारगैः ।
मा गच्छ संयुगं तेन वासुदेवेन धन्विना ॥३०॥

मां पाण्डवैः सार्धमिति तत्त्वं मोहान्न बुध्यसे ।
मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः ॥३१॥

यस्माद्द्विषसि गोविन्दं पाण्डवं तं धनञ्जयम् ।
नरनारायणौ देवौ कोऽन्यो द्विष्याद्धि मानवः ॥३२॥

तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः ।
सर्वलोकमयो नित्यः शास्ता धात्रीधरो ध्रुवः ॥३३॥

यो धारयति लोकांस्त्रींश्चराचरगुरुः प्रभुः ।
योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः ॥३४॥

राजन् सर्वमयो ह्येष तमोरागविवर्जितः ।
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ॥३५॥

तस्य माहात्म्ययोगेन योगेनात्ममयेन च ।
धृताः पाण्डुसुता राजन् जयश्चैषां भविष्यति ॥३६॥

श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः ।
बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति ॥३७॥

स एष शाश्वतो देवः सर्वगुह्यमयः शिवः ।
वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत ॥३८॥

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः ।
सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः ॥३९॥

कृतलक्षणैः स्वस्वगुणप्रख्यातैः ॥३९॥

द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ।
सात्वतं विधिमास्थाय गीतः सङ्कर्षणेन वै ॥४०॥

सात्वताः पञ्चरात्रागमविधिना पूजकास्तदीयं सात्वतम् ॥४०॥

स एष सर्वं सुरमर्त्यलोकं समुद्रकक्ष्यान्तरितां पुरीं च ।
युगे युगे मानुषं चैव वासं पुनः पुनः सृजते वासुदेवः ॥४१॥

कक्ष्या काञ्ची, पुरीं द्वारकाम् ॥४१॥
इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि विश्वोपाख्याने षट्षष्टितमोऽध्यायः ॥६६॥
सप्तषष्टितमोऽध्यायः

दुर्योधन उवाच । वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते ।
तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ॥१॥

वासुदेव इति ॥१॥

भीष्म उवाच । वासुदेवो महद्भूतं सर्वदैवतदैवतम् ।
न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ ॥२॥

मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत् ।
सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः ॥३॥

आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् ।
स सृष्ट्वा पृथिवीं देवीं सर्वलोकेश्वरः प्रभुः ॥४॥

अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः ।
सर्वतेजोमयो देवो योगात्सुष्वाप तत्र ह ॥५॥

मुखतः सोऽग्निमसृजत् प्राणाद्वायुमथापि च ।
सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युतः ॥६॥

एष लोकान् ससर्जादौ देवांश्च ऋषिभिः सह ।
निधनं चैव मृत्युं च प्रजानां प्रभवाप्ययौ ॥७॥

निधनं मरणं मृत्युं मरणप्रयोजनं प्रभव उत्पत्तिहेतुः अप्ययः प्रलयहेतुः ॥७॥

एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः ।
एष कर्ता च कार्यं च पूर्वदेवः स्वयंप्रभुः ॥८॥

भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् ।
उभे सन्ध्ये दिशः खं च नियमांश्च जनार्दनः ॥९॥

ऋषींश्चैव हि गोविन्दस्तपश्चैवाभ्यकल्पयत् ।
स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः ॥१०॥

अग्रजं सर्वभूतानां सङ्कर्षणमकल्पयत् ।
तस्मान्नारायणो जज्ञे देवदेवः सनातनः ॥११॥

नाभौ पद्मं बभूवास्य सर्वलोकस्य संभवात् ।
तस्मात्पितामहो जातस्तस्माज्जातास्त्विमाः प्रजाः ॥१२॥

शेषं चाकल्पयद्देवमनन्तं विश्वरूपिणम् ।
यो धारयति भूतानि धरां चेमां सपर्वताम् ॥१३॥

ध्यानयोगेन विप्राश्च तं विदन्ति महौजसम् ।
कर्णस्त्रोतोभवं चापि मधुं नाम महासुरम् ॥१४॥

कर्णात्स्रवतीति कर्णस्रोतः कर्णमलम् ॥१४॥

तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् ।
ब्रह्मणोऽपचितिं यातुं जघान पुरुषोत्तमः ॥१५॥

ब्रह्मणः सकाशादपाचतिं सत्कारं यातुं प्राप्तुम् । यान्तमिति पाठे ब्रह्मणः अपाचतिं क्षयं कर्तुमिति शेषः । यान्तं धावन्तम् ॥१५॥

तस्य तात वधादेव देवदानवमानवाः ।
मधुसूद‌नमित्याहुर्ऋषयश्च जनार्दनम् ॥१६॥

वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः ।
एष माता पिता चैव सर्वेषां प्राणिनां हरिः ॥१७॥

परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति ।
मुखतः सोऽसृजद्विप्रान् बाहुभ्यां क्षत्रियांस्तथा ॥१८॥

वैश्यांश्चाप्यूरुतो राजन् शूद्रान्वै पादतस्तथा ।
तपसा नियतो देवो निधानं सर्वदेहिनाम् ॥१९॥

ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च ।
योगभूतं परिचरन् केशवं महदाप्नुयात् ॥२०॥

केशवः परमं तेजः सर्वलोकपितामहः ।
एवमाहुर्हृषीकेशं मुनयो वै नराधिप ॥२१॥

एवमेनं विजानीहि आचार्यं पितरं गुरुम् ।
कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ॥२२॥

यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् ।
सदा नरः पठंश्चेदं स्वस्तिमान् स सुखी भवेत् ॥२३॥

ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः ।
भये महति मग्नांश्च पाति नित्यं जनार्दनः ॥२४॥

स तं युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत ।
सर्वात्मना महात्मानं केशवं जगदीश्वरम् ।
प्रपन्नः शरणं राजन् योगानां प्रभुमीश्वरम् ॥२५॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि विश्वोपाख्याने सप्तषष्टितमोऽध्यायः ॥६७॥
अष्टषष्टितमोऽध्यायः

भीष्म उवाच । शृणु चेदं महाराज ब्रह्मभूतं स्तवं मम ।
ब्रह्मर्षिभिश्च देवैश्च यः पुरा कथितो भुवि ॥१॥

शृण्विति । इदमिति सामान्ये नपुंसकम् ॥१॥

साध्यानामपि देवानां देवदेवेश्वरः प्रभुः ।
लोकभावनभावज्ञ इति त्वां नारदोऽब्रवीत् ॥२॥

भूतं भव्यं भविष्यं च मार्कण्डेयोऽभ्युवाच ह ।
यज्ञं त्वां चैव यज्ञानां तपश्च तपसामपि ॥३॥

देवानामपि देवं च त्वामाह भगवान् भृगुः ।
पुराणं चैव परमं विष्णो रूपं तवेति च ॥४॥

वासुदेवो वसूनां त्वं शक्रं स्थापयिता तथा ।
देव देवोऽसि देवानामिति द्वैपायनोऽब्रवीत् ॥५॥

पूर्वे प्रजानिसर्गे च दक्षमाहुः प्रजापतिम् ।
स्रष्टारं सर्वलोकानामङ्गिरास्त्वां तथाऽब्रवीत् ॥६॥

अव्यक्तं ते शरीरोत्थं व्यक्तं ते मनसि स्थितम् ।
देवास्त्वत्संभवाश्चैव देवलस्त्वसितोऽब्रवीत् ॥७॥

शिरसा ते दिवं व्याप्तं बाहुभ्यां पृथिवी तथा ।
जठरं ते त्रयो लोकाः पुरुषोऽसि सनातनः ॥८॥

एवं त्वामभिजानन्ति तपसा भाविता नराः ।
आत्मदर्शनतृप्तानामृषीणां चासि सत्तमः ॥९॥

राजर्षीणामुदाराणामाहवेष्वनिवर्तिनाम् ।
सर्वधर्मप्रधानानां त्वं गतिर्मधुसूदन ॥१०॥

इति नित्यं योगविद्भिर्भगवान् पुरुषोत्तमः ।
सनत्कुमारप्रमुखैः स्तूयतेऽभ्यर्च्यते हरिः ॥११॥

एष ते विस्तरस्तात सङ्क्षेपश्च प्रकीर्तितः ।
केशवस्य यथातत्त्वं सुप्रीतो भज केशवम् ॥१२॥

सञ्जय उवाच । पुण्यं श्रुत्वैतदाख्यानं महाराज सुतस्तव ।
केशवं बहु मेने स पाण्डवांश्च महारथान् ॥१३॥

तमब्रवीन्महाराज भीष्मः शान्तनवः पुनः ।
माहात्म्यं ते श्रुतं राजन् केशवस्य महात्मनः ॥१४॥

नरस्य च यथातत्त्वं यन्मां त्वं पृच्छसे नृप ।
यदर्थं नृषु संभूतौ नरनारायणावृषी ॥१५॥

अवध्यौ च यथा वीरौ संयुगेष्वपराजितौ ।
यथा च पाण्डवा राजन्नवध्या युधि कस्यचित् ॥१६॥

प्रीतिमान् हि दृढं कृष्णः पाण्डवेषु यशस्विषु ।
तस्माद्ब्रवीमि राजेन्द्र शमो भवतु पाण्डवैः ॥१७॥

पृथिवीं भुङ्क्ष्व सहितो भ्रातृभिर्बलिभिर्वशी ।
नरनारायणौ देवाववज्ञाय न शिष्यसि ॥१८॥

एवमुक्त्वा तव पिता तूष्णीमासीद्विशांपते ।
व्यसर्जयच्च राजानं शयनं च विवेश ह ॥१९॥

राजा च शिबिरं प्रायात् प्रणिपत्य महात्मने ।
शिश्ये च शयने शुभ्रे रात्रिं तां भरतर्षभ ॥२०॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि विश्वोपाख्याने अष्टषष्टितमोऽध्यायः ॥६८॥विश्वोपाख्यानं समाप्तम् ।
ऊनसप्ततितमोऽध्यायः

सञ्जय उवाच । व्युषितायां तु शर्वर्यामुदिते च दिवाकरे ।
उभे सेने महाराज युद्धायैव समीयतुः ॥१॥

व्युषितायामिति ॥१॥

अभ्यधावन्त संक्रुद्धाः परस्परजिगीषवः ।
ते सर्वे सहिता युद्धे समालोक्य परस्परम् ॥२॥

पाण्डवा धार्तराष्ट्राश्च राजन् दुर्मन्त्रिते तव ।
व्यूहौ च व्यूह्य संरब्धाः संप्रहृष्टाः प्रहारिणः ॥३॥

अरक्षन् मकरव्यूहं भीष्मो राजन् समन्ततः ।
तथैव पाण्डवा राजन्नरक्षन् व्यूहमात्मनः ॥४॥

स निर्ययौ महाराज पिता देवव्रतस्तव ।
महता रथवंशेन संवृतो रथिनां वरः ॥५॥

इतरेतरमन्वीयुर्यथाभागमवस्थिताः ।
रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा ॥६॥

तान् दृष्ट्वाऽभ्युद्यतान् संख्ये पाण्डवा हि यशस्विनः ।
श्येनेन व्यूहराजेन तेनाजय्यन संयुगे ॥७॥

अशोभत मुखे तस्य भीमसेनो महाबलः ।
नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः ॥८॥

शीर्षे तस्याभवद्वीरः सात्यकिः सत्यविक्रमः ।
विधुन्वन् गाण्डिवं पार्थो ग्रीवायामभवत्तदा ॥९॥

अक्षौहिण्या समं तत्र वामपक्षोऽभवत्तदा ।
महात्मा द्रुपदः श्रीमान् सह पुत्रेण संयुगे ॥१०॥

दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः ।
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् ॥११॥

पृष्ठे समभवच्छ्रीमान् स्वयं राजा युधिष्ठिरः ।
भ्रातृभ्यां सहितो वीरो यमाभ्यां चारुविक्रमः ॥१२॥

प्रविश्य तु रणे भीमो मकरं मुखतस्तदा ।
भीष्ममासाद्य सङ्ग्रामे च्छा‌दयामास सायकैः ॥१३॥

ततो भीष्मो महास्त्राणि पातयामास भारत ।
मोहयन् पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे ॥१४॥

संमुह्यति तदा सैन्ये त्वरमाणो धनञ्जयः ।
भीष्मं शरसहस्त्रेण विव्याध रणमूर्धनि ॥१५॥

प्रतिसंवार्य चास्त्राणि भीष्ममुक्तानि संयुगे ।
स्वेनानीकेन हृष्टेन युद्धाय समुपस्थितः ॥१६॥

ततो दुर्योधनो राजा भारद्वाजमभाषत ।
पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः ॥१७॥

भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः ।
आचार्य सततं हि त्वं हितकामो ममानघ ॥१८॥

वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् ।
देवानपि रणे जेतुं प्रार्थयामो न संशयः ॥१९॥

किमु पाण्डुसुतान् युद्धे हीनवीर्यपराक्रमान् ।
स तथा कुरु भद्रं ते यथा वध्यन्ति पाण्डवाः ॥२०॥

एवमुक्तस्तस्तो द्रोणस्तव पुत्रेण मारिष ।
अभिनत् पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः ॥२१॥

सात्यकिस्तु ततो द्रोणं वारयामास भारत ।
तयोः प्रववृते युद्धं घोररूपं भयावहम् ॥२२॥

शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान् ।
अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव ॥२३॥

भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत ।
संरक्षन् सात्यकिं राजन् द्रोणाच्छस्त्रभृतां वरात् ॥२४॥

ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष ।
भीमसेनं रणे क्रुद्धाश्छादयाञ्चक्रिरे शरैः ॥२५॥

तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश्च मारिष ।
विव्यधुर्निशितैर्बाणैः सर्वांस्तानुद्यतायुधान् ॥२६॥

द्रोणभीष्मौ तु संक्रुद्धावापतन्तौ महाबलौ ।
प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे ॥२७॥

प्रगृह्य बलवद्वीरो धनुर्जलद‌निःस्वनम् ।
अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् ॥२८॥

शिखण्डिनं समासाद्य भरतानां पितामहः ।
अवर्जयत सङ्ग्रामं स्त्रीत्वं तस्यानुसंस्मरन् ॥२९॥

ततो द्रोणो महाराज अभ्यद्रवत तं रणे ।
रक्षमाणस्तदा भीष्मं तव पुत्रेण चोदितः ॥३०॥

शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम् ।
अवर्जयत संत्रस्तो युगान्ताग्निमिवोल्बणम् ॥३१॥

ततो बलेन महता पुत्रस्तव विशांपते ।
जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः ॥३२॥

तथैव पाण्डवा राजन् पुरस्कृत्य धनञ्जयम् ।
भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् ॥३३॥

तद्युद्धमभवद्धोरं देवानां दानवैरिव ।
जयमाकाङ्क्षातां सङ्ख्ये यशश्च सुमहाद्भुतम् ॥३४॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धारम्भे ऊनसप्ततितमोऽध्यायः ॥६९॥
सप्ततितमोऽध्यायः

सञ्जय उवाच । अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा ।
भीमसेनभयादिच्छन् पुत्रांस्तारयितुं तव ॥१॥

अकरोदिति ॥१॥

पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत ।
कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् ॥२॥

तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये ।
अभवत्तुमुलः शब्दः संस्पृशन् गगनं महत् ॥३॥

नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च तुमुलं समपद्यत ॥४॥

युयुत्सवस्ते विक्रान्ता विजयाय महाबलाः ।
अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः ॥५॥

शिरसां पात्यमानानां समरे निशितैः शरैः ।
अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ ॥६॥

कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च ।
पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ ॥७॥

विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ।
सहस्ताभरणैश्चान्यैरभवच्छादिता मही ॥८॥

कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः ।
मुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः ॥९॥

गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते ।
आसीत् सर्वा समास्तीर्णा मुहूर्तेन वसुंधरा ॥१०॥

रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशिभिः ।
आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत् ॥११॥

स संप्रहारस्तुमुलः कटुकः शोणितोदकः ।
प्रावर्तत कुरूणां च पाण्डवानां च भारत ॥१२॥

तस्मिन् महाभये घोरे तुमुले लोमहर्षणे ।
ववृषुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः ॥१३॥

आक्रोशन् कुञ्जरास्तत्र शरवर्षप्रतापिताः ।
तावकानां परेषां च संयुगे भरतर्षभ ॥१४॥

संरब्धानां च वीराणां धीराणाममितौजसाम् ।
धनुर्ज्यातलशब्देन न प्राज्ञायत किंचन ॥१५॥

उत्थितेषु कबन्धेषु सर्वतः शोणितोद‌के ।
समरे पर्यधावन्त नृपा रिपुवधोद्यताः ॥१६॥

शरशक्तिगदाभिस्ते खड्गैश्चामिततेजसः ।
निजघ्नुः समरेऽन्योन्यं शूराः परिघबाहवः ॥१७॥

बभ्रमुः कुञ्जराश्चात्र शरैर्विद्धा निरंकुशाः ।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥१८॥

उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः ।
तावकानां परेषां च योधा भरतसत्तम ॥१९॥

वाहानामुत्तमाङ्गानां कार्मुकाणां च भारत ।
गदानां परिधाणां च हस्तानां चोरुभिः सह ॥२०॥

पादानां भूषणानां च केयूराणां च सङ्घशः ।
राशयस्तत्र दृश्यन्ते भीष्मभीमसमागमे ॥२१॥

अश्वानां कुञ्जराणां च रथानां चानिवर्तिनाम् ।
सङ्घाताः स्म प्रदृश्यन्ते तत्र तत्र विशांपते ॥२२॥

गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः ।
जघ्नुः परस्परं तत्र क्षत्रियाः काल आगते ॥२३॥

अपरे बाहुभिर्वीरा नियुद्धकुशला युधि ।
बहुधा समसज्जन्त आयसैः परिघैरिवः ॥२४॥

मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशांपते ।
अन्योन्यं जघ्निरे वीरास्तावकाः पाण्डवैः सह ॥२५॥

पतितैः पात्यमानैश्च विचेष्टद्भिश्च भूतले ।
घोरमायोधनं जज्ञे तत्र तत्र जनेश्वर ॥२६॥

विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः ।
अन्योन्यमभिधावन्तः परस्परवधैषिणः ॥२७॥

ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः ।
पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत ॥२८॥

तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम् ।
भीष्ममभ्यद्रवन् क्रुद्धास्ततो युद्धमवर्तत ॥२९॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि संकुलयुद्धे सप्ततितमोऽध्यायः ॥७०॥
एकसप्ततितमोऽध्यायः

सञ्जय उवाच । दृष्ट्वा भीष्मेण संसक्तान् भ्रातॄनन्यांश्च पार्थिवान् ।
समभ्यधावद्गाङ्गेयमुद्यतास्त्रो धनञ्जयः ॥१॥

दृष्ट्वेति ॥१॥

पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च ।
ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् ॥२॥

सिंहला‌ङ्गूलमाकाशे ज्वलन्तमिव पर्वतम् ।
असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् ॥३॥

बहुवर्णं विचित्रं च दिव्यं वानरलक्षणम् ।
अपश्याम महाराज ध्वजं गाण्डीवधन्वनः ॥४॥

विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे ।
ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महामृधे ॥५॥

अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः ।
सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् ॥६॥

चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् ।
दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः ॥७॥

स्तनयित्नुर्गर्जितम् ॥७॥

समभ्यधावद्गाङ्गेयं भैरवास्त्रो धनञ्जयः ।
दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः ॥८॥

कांदिग्भूताः श्रन्तपत्रा हताश्वा हतचेतसः ।
अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ ॥९॥

भीष्ममेवाभ्यलीयन्त सह सर्वैस्तवात्मजैः ।
तेषामार्तायनमभूद्भीष्मः शान्तनवो रणे ॥१०॥

समुत्पतन्ति वित्रस्ता रथेभ्यो रथिनस्तथा ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥११॥

श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।
सर्वसैन्यानि भीतानि व्यवालीयन्त भारत ॥१२॥

अथ काम्बोजजैरश्वैर्महद्भिः शीघ्रगामिभिः ।
गोपानां बहुसाहस्त्रैर्बालैर्गोपायनैर्वृतः ॥१३॥

मद्रसौवीरगान्धारैस्त्रैगर्तैश्च विशांपते ।
सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः ॥१४॥

नानानरगणौघैश्च दुःशासनपुरःसरः ।
जयद्रथश्च नृपतिः सहितः सर्वराजभिः ॥१५॥

हयारोहवराश्चैव तव पुत्रेण चोदिताः ।
चतुर्दश सहस्राणि सौबलं पर्यवारयन् ॥१६॥

ततस्ते सहिताः सर्वे विभक्तरथवाहनाः ।
अर्जुनं समरे जघ्नुस्तावका भरतर्षभ ॥१७॥

रथिभिर्वारणैरश्वैः पादातैश्च समीरितम् ।
घोरमायोधनं चक्रे महाभ्रसदृशं रजः ॥१८॥

तोमरप्रासनाराचगजाश्वरथयोधिनाम् ।
बलेन महता भीष्मः समसज्जत्किरीटिना ॥१९॥

आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः ।
अजातशत्रुर्मद्राणामृषभेण यशस्विना ॥२०॥

सहपुत्रः सहामात्यः शल्येन समसज्जत ।
विकर्णः सहदेवेन चित्रसेनः शिखण्डिना ॥२१॥

मत्स्या दुर्योधनं जग्मुः शकुनिं च विशांपते ।
द्रुपद‌श्चेकितानश्च सात्यकिश्च महारथः ॥२२॥

द्रोणेन समसज्जन्त सपुत्रेण महात्मना ।
कृपश्च कृतवर्मा च धृष्टद्युम्नमभिद्रुतौ ॥२३॥

एवं प्रव्रजिताश्वानि भ्रान्तनागरथानि च ।
सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः ॥२४॥

निरभ्रे विद्युतस्तीव्रा दिशश्च रजसाऽऽवृताः ।
प्रादुरासन् महोल्काश्च सनिर्घाता विशांपते ॥२५॥

प्रादुर्भूतो महावातः पांसुवर्षं पपात च ।
नभस्यन्तर्दधे सूर्यः सैन्येन रजसाऽऽवृतः ॥२६॥

प्रमोहः सर्वसत्त्वानामतीव समपद्यत ।
रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् ॥२७॥

वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् ।
सङ्घातः शरजालानां तुमुलः समपद्यत ॥२८॥

प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः ।
नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ ॥२९॥

आर्षभाणि विचित्राणि रुक्मजालावृतानि च ।
संपेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ ॥३०॥

सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः ।
दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च ॥३१॥

भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः ।
हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः ॥३२॥

परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः ।
रथान् विपरिकर्षान्तो हतेषु रथयोधिषु ॥३३॥

शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः ।
युगानि पर्यकर्षन्त तत्र तत्र स्म भारत ॥३४॥

अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः ।
एकेन बलिना राजन् वारणेन विमर्दिताः ॥३५॥

गन्धहस्तिमदस्रावमाघ्राय बहवो रणे ।
सन्निपाते बलौघानां वीतमाददिरे गजाः ॥३६॥

वीतमाददिरे प्रतिगजं मृद्नन्तो निर्वीर्यमपि गजं जगृहुः मत्तगजबुद्ध्येति भावः । ’वीतमसारगजे’ इति मेदिनी ॥३६॥

सतोमरैर्महामात्रैर्निपतद्भिर्गतासुभिः ।
बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः ॥३७॥

सन्निपाते बलौघानां प्रेषितैर्वरवारणैः ।
निपेतुर्युधि संभग्नाः सयोधाः सध्वजा गजाः ॥३८॥

नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे ।
व्यदृश्यन्त महाराज संभग्ना रथकूबराः ॥३९॥

विशीर्णरथसङ्घाश्च केशेष्वाक्षिप्य दन्तिभिः ।
द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे ॥४०॥

रथेषु च रथान् युद्धे संसक्तान् वरवारणाः ।
विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्द‌गाः ॥४१॥

तेषां तथा कर्षतां तु गजानां रूपमाबभौ ।
सरःसु नलिनीज़ालं विषक्तमिव कर्षताम् ॥४२॥

एवं संछादितं तत्र बभूवायोधनं महत् ।
सादिभिश्च पदातैश्च सध्वजैश्च महारथैः ॥४३॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि सङ्कुलयुद्धे एकसप्ततितमोऽध्यायः ॥७१॥
द्विसप्ततितमोऽध्यायः

सञ्जय उवाच । शिखण्डी सह मत्स्येन विराटेन विशांपते ।
भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् ॥१॥

शिखण्डीति ॥१॥

द्रोणं कृपं विकर्णं च महेष्वासं महाबलम् ।
राज्ञश्चान्यान् रणे शूरान् बहूनार्च्छद्धनञ्जयः ॥२॥

सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः ।
प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान् भूमिपर्षभ ॥३॥

पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् ।
दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत ॥४॥

सहदेवस्तु शकुनिमुलूकं च महारथम् ।
पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ ॥५॥

युधिष्ठिरो महाराज गजानीकं महारथः ।
समवर्तत सङ्ग्रामे पुत्रेण निकृतस्तव ॥६॥

माद्रीपुत्रस्तु नकुलः शूरसंक्रन्दनो युधि ।
त्रिगर्तानां बलैः सार्धं समसज्जत पाण्डवः ॥७॥

शूरसंक्रन्दनः शूराणां रोदकः शूरेन्द्रो वा ॥७॥

अभ्यवर्तन्त संक्रुद्धाः समरे शाल्वकेकयान् ।
सात्यकिश्चेकितानश्च सौभद्रश्च महारथः ॥८॥

धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः ।
पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः ॥९॥

सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः ।
द्रोणेन समरे राजन् समियायोग्रकर्मणा ॥१०॥

एवमेते महेष्वासास्तावकाः पाण्डवैः सह ।
समेत्य समरे शूराः संप्रहारं प्रचक्रिरे ॥११॥

मध्यंदिनगते सूर्ये नभस्याकुलतां गते ।
कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम् ॥१२॥

ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे ।
सपताका रथा रेजुर्वैयाघ्रपरिवारणाः ॥१३॥

समेतानां च समरे जिगीषूणां परस्परम् ।
बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् ॥१४॥

तत्राद्भुतमपश्याम संप्रहारं सुदारुणम् ।
यदकुर्वन् रणे शूराः सृञ्जयाः कुरुभिः सह ॥१५॥

नैव खं न दिशो राजन्न सूर्यं शत्रुतापन ।
विदिशो वाऽपि पश्यामः शरैर्मुक्तैः समन्ततः ॥१६॥

शक्तीनां विमलाग्राणां तोमराणां तथाऽस्यताम् ।
निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः ॥१७॥

कवचानां विचित्राणां भूषणानां प्रभास्तथा ।
खं दिशः प्रदिशश्चैव भासयामासुरोजसा ॥१८॥

ओजसा स्वप्रभावेण ॥१८॥

वपुर्भिश्च नरेन्द्राणां चन्द्रसूर्यसमप्रभैः ।
विरराज तदा राजंस्तत्र तत्र रणाङ्गणम् ॥१९॥

रथसङ्घा नरव्याघ्राः समायान्तश्च संयुगे ।
विरेजुः समरे राजन् ग्रहा इव नभस्तले ॥२०॥

भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् ।
अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः ॥२१॥

ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः ।
अभ्यघ्नन् समरे भीमं तैलधौताः सुतेजनाः ॥२२॥

तस्य शक्तिं महावेगां भीमसेनो महाबलः ।
क्रुद्धाशीविषसङ्काशां प्रेषयामास भारत ॥२३॥

तामापतन्तीं सहसा रुक्मदण्डां दुरासदाम् ।
चिच्छेद समरे भीष्मः शरैः सन्नतपर्वभिः ॥२४॥

ततोऽपरेण भल्लेन पीतेन निशितेन च ।
कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत ॥२५॥

सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे ।
आकर्णप्रहितैस्तीक्ष्णैर्निशितैस्तिग्मतेजनैः ॥२६॥

शरैर्बहुभिरानर्छत् पितरं ते जनेश्वर ।
ततः संघाय वै तीक्ष्णं शरं परमदारुणम् ॥२७॥

वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम् ।
तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ ॥२८॥

तेन तेनैव धावन्ति मनोमारुतरंहसः ।
ततः सर्वस्य सैन्यस्य निःस्वनस्तुमुलोऽभवत् ॥२९॥

हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम् ।
अभ्यद्रवत गृह्णीत हयान्यच्छत धावत ॥३०॥

इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति ।
एतस्मिन्नेव काले तु भीष्मः शान्तनवस्तदा ॥३१॥

न्यहनत् पाण्डवीं सेनामासुरीमिव वृत्रहा ।
ते वध्यमाना भीष्मेण पञ्चालाः सोमकैः सह ॥३२॥

स्थिरां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः ।
धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे ॥३३॥

अभ्यधावन् जिगीषन्तस्तव पुत्रस्य वाहिनीम् ।
तथैव कौरवा राजन् भीष्मद्रोणपुरोगमाः ॥३४॥

अभ्यधावन्त वेगेन ततो युद्धमवर्तत ॥३५॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे द्विसप्ततितमोऽध्यायः ॥७२॥
त्रिसप्ततितमोऽध्यायः

सञ्जय उवाच । विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्च्छन्महारथम् ।
विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः ॥१॥

विराट इति ॥१॥

तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवः शरैः ।
रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः ॥२॥

द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः ।
अविध्यदिषुभिः ष‌ड्भिर्दृढहस्तः स्तनान्तरे ॥३॥

कार्मुकं तस्य चिच्छेद फाल्गुनः परवीरहा ।
अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः ॥४॥

सोऽन्यत् कार्मुकमादाय वेगवान् क्रोधमूर्च्छितः ।
अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे ॥५॥

अविध्यत्फाल्गुनं राजन्नवत्या निशितैः शरैः ।
वासुदेवं च सप्तत्या विव्याध परमेषुभिः ॥६॥

ततः क्रोधाभिताम्राक्षः कृष्णेन सह फाल्गुनः ।
दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पुनःपुनः ॥७॥

धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ।
गाण्डीवधन्वा संक्रुद्धः शितान् सन्नतपर्वणः ॥८॥

जीवितान्तकरान् घोरान् समादत्त शिलीमुखान् ।
तैस्तूर्णं समरेऽविध्यद्द्रौणिं बलवतां वरः ॥९॥

तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे ।
न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना ॥१०॥

तथैव च शरान् द्रौणिः प्रविमुञ्चन्नविह्वलः ।
तस्थौ स समरे राजंस्त्रातुमिच्छन् महाव्रतम् ॥११॥

तस्य तत् सुमहत् कर्म शशंसुः कुरुसत्तमाः ।
यत् कृष्णाभ्यां समेताभ्यामभ्यापतत संयुगे ॥१२॥

स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः ।
अस्त्रग्रामं ससंहारं द्रोणात् प्राप्य सुदुर्लभम् ॥१३॥

ममैष आचार्यसुतो द्रोणस्यापि प्रियः सुतः ।
ब्राह्मणश्च विशेषेण माननीयो ममेति च ॥१४॥

समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः ।
कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति ॥१५॥

द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः श्वेतवाहनः ।
युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी ॥१६॥

दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः ।
भीमसेनं महेष्वासं रुक्मपुङ्खैः समार्पयत् ॥१७॥

भीमसेनः सुसंक्रुद्धः परासुकरणं दृढम् ।
चित्रं कार्मुकमादत्त शरांश्च निशितान् दश ॥१८॥

आकर्णप्रहितैस्तीक्ष्णैर्वेगवद्भिरजिह्मगैः ।
अविध्यत् तूर्णमव्यग्रः कुरुराजं महोरसि ॥१९॥

तस्य काञ्चनसूत्रस्थः शरैः संछादितो मणिः ।
रराजोरसि खे सूर्यो ग्रहैरिव समावृतः ॥२०॥

पुत्रस्तु तव तेजस्वी भीमसेनेन ताडितः ।
नामृष्यत यथा नागस्तलशब्दं मदोत्कटः ॥२१॥

ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः ।
भीमं विव्याध संक्रुद्धस्त्रासयानो वरूथिनीम् ॥२२॥

तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ ।
पुत्रौ ते देवसङ्काशौ व्यरोचेतां महाबलौ ॥२३॥

चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा ।
अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः ॥२४॥

सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि ।
नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् ॥२५॥

तं प्रत्यविध्यद्दशभिश्चित्रसेनः शिलीमुखैः ।
सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः ॥२६॥

स विद्धो विक्षरन् रक्तं शत्रुसंवारणं महत् ।
चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः ॥२७॥

भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् ।
ततस्ते तावका वीरा राजपुत्रा महारथाः ॥२८॥

समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः ।
तांश्च सर्वान् शरैस्तीक्ष्णैर्जघान परमास्त्रवित्॥२९॥

तस्य दृष्ट्वा तु तत् कर्म परिवव्रुः सुतास्तव ।
दहन्तं समरे सैन्यं वने कक्षं यथोल्बणम् ॥३०॥

अपेतशिशिरे काले समिद्धमिव पावकम् ।
अत्यरोचत सौभद्रस्तव सैन्यानि नाशयन् ॥३१॥

तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशांपते ।
लक्ष्मणोऽभ्यपतत्तूर्णं सात्वतीपुत्रमाहवे ॥३२॥

सात्वतीपुत्रम् अभिमन्युम् ॥३२॥

अभिमन्युस्तु संक्रुद्धो लक्ष्मणं शुभलक्षणम् ।
विव्याध निशितैः षड्भिः सारथिं च त्रिभिः शरैः ॥३३॥

तथैव लक्ष्मणो राजन् सौभद्रं निशितैः शरैः ।
अविध्यत महाराज तद‌द्भुतमिवाभवत् ॥३४॥

तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः ।
अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः ॥३५॥

हताश्वे तु रथे तिष्ठঁल्लक्ष्मणः परवीरहा ।
शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं प्रति ॥३६॥

तामापतन्तीं सहसा घोररूपां दुरासदाम् ।
अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् ॥३७॥

ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा ।
अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः ॥३८॥

ततः समाकुले तस्मिन् वर्तमाने महाभये ।
अभ्यद्रवन् जिघांसन्तः परस्परवधैषिणः ॥३९॥

तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः ।
जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् ॥४०॥

मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः ।
बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह ॥४१॥

ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् ।
सेनां जघान संक्रुद्धो दिव्यैरस्त्रैर्महाबलः ॥४२॥

हतैरश्वैर्गजैस्तत्र नरैरश्वैश्च पातितैः ।
रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी ॥४३॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वन्द्वयुद्धे त्रिसप्ततितमोऽध्यायः ॥७३॥
चतुःसप्ततितमोऽध्यायः

सञ्जय उवाच । अथ राजन् महाबाहुः सात्यकिर्युद्धदुर्मदः ।
विकृष्य चापं समरे भारसाहमनुत्तमम् ॥१॥

अथेति ॥१॥

प्रामुञ्चत्पुङ्खसंयुक्तान् शरानाशीविषोपमान् ।
प्रगाढं लघु चित्रं च दर्शयन् हस्तलाघवम् ॥२॥

तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः ।
आददानस्य भूयश्च संदधानस्य चापरान् ॥३॥

क्षिपतश्च परांस्तस्य रणे शत्रून्विनिघ्नतः ।
ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ॥४॥

तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः ।
रथानामयुतं तस्य प्रेषयामास भारत ॥५॥

तांस्तु सर्वान्महेष्वासान् सात्यकिः सत्यविक्रमः ।
जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ॥६॥

स कृत्वा दारुणं कर्म प्रगृहीतशरासनः ।
आससाद ततो वीरो भूरिश्रवसमाहवे ॥७॥

स हि संदृश्य सेनां ते युयुधानेन पातिताम् ।
अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः ॥८॥

इन्द्रायुधसवर्णं तु विस्फार्य सुमहद्धनुः ।
सृष्टवान् वज्रसङ्काशान् शरानाशीविषोपमान् ॥९॥

सहस्रशो महाराज दर्शयन् पाणिलाघवम् ।
शरांस्तान्मृत्युसंस्पर्शान्सात्यकेश्च पदानुगाः ॥१०॥

न विषेहुस्तदा राजन् दुद्रुवुस्ते समन्ततः ।
विहाय सात्यकिं राजन् समरे युद्धदुर्मदम् ॥११॥

तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः ।
महारथाः समाख्याताश्चित्रवर्मायुधध्वजाः ॥१२॥

समासाद्य महेष्वासं भूरिश्रवसमाहवे ।
ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे ॥१३॥

भो भो कौरवदायाद सहास्माभिर्महाबल ।
एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा ॥१४॥

अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे ।
वयं वा त्वां पराजित्य प्रीतिं धास्यामहे पितुः ॥१५॥

एवमुक्तस्तदा शूरैस्तानुवाच महाबलः ।
वीर्यश्लाघी नरश्रेष्ठस्तान् दृष्ट्वा समवस्थितान् ॥१६॥

साध्विदं कथ्यते वीरा यद्येवं मतिरद्य वः ।
युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ॥१७॥

एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः ।
महता शरवर्षेण अभ्यधावन्नरिन्दमम् ॥१८॥

सोऽपराह्णे महाराज संग्रामस्तुमुलोऽभवत् ।
एकस्य च बहूनां च समेतानां रणाजिरे ॥१९॥

तमेकं रथिनां श्रेष्ठं शरैस्ते समवाकिरन् ।
प्रावृषीव यथा मेरुं सिषिचुर्जलदा नृप ॥२०॥

तैस्तु मुक्तान् शरान् घोरान् यमदण्डाशनिप्रभान् ।
असंप्राप्तानसंभ्रान्तश्चिच्छेदाशु महारथः ॥२१॥

तत्राद्भुतमपश्याम सौमद‌त्तेः पराक्रमम् ।
यदेको बहुभिर्युद्धे समसज्जद‌भीतवत् ॥२२॥

विसृज्य शरवृष्टिं तां दश राजन्महारथाः ।
परिवार्य महाबाहुं निहन्तुमुपचक्रमुः ॥२३॥

सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत ।
चिच्छेद समरे राजन् युध्यमानो महारथैः ॥२४॥

अथैषां छिन्नधनुषां शरैः सन्नतपर्वभिः ।
चिच्छेद समरे राजन् शिरांसि भरतर्षभ ॥२५॥

ते हता न्यपतन् राजन् वज्रभग्ना इव द्रुमाः ।
तान् दृष्ट्वा निहतान्वीरो रणे पुत्रान्महाबलान् ॥२६॥

वार्ष्णेयो विनदन् राजन् भूरिश्रवसमभ्ययात् ।
रथं रथेन समरे पीडयित्वा महाबलौ ॥२७॥

तावन्योन्यं हि समरे निहत्य रथवाजिनः ।
विरथावभिवल्गन्तौ समेयातां महारथौ ॥२८॥

प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ ।
शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ॥२९॥

ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् ।
भीमसेनस्त्वरन् राजन् रथमारोपयत्तदा ॥३०॥

तवापि तनयो राजन् भूरिश्रवसमाहवे ।
आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् ॥३१॥

तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम् ।
अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ ॥३२॥

लोहितायति चादित्ये त्वरमाणो धनञ्जयः ।
पञ्चविंशतिसाहस्रान्निजघान महारथान् ॥३३॥

ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे ।
संप्राप्यैव गता नाशं शलभा इव पावकम् ॥३४॥

ततो मत्स्याः केकयाश्च धनुर्वेद‌विशारदाः ।
परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ॥३५॥

एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति ।
सर्वेषां चैव सैन्यानां प्रमोहः समजायत ॥३६॥

अवहारं ततश्चक्रे पिता देवव्रतस्तव ।
सन्ध्याकाले महाराज सैन्यानां श्रान्तवाहनः ॥३७॥

पाण्डवानां कुरूणां च परस्परसमागमे ।
ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् ॥३८॥

ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत ।
पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधि ॥३९॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसाबहारे चतुःसप्ततितमोऽध्यायः ॥७४॥
पञ्चसप्ततितमोऽध्यायः

सञ्जय उवाच । ते विश्रम्य ततो राजन् सहिताः कुरुपाण्डवाः ।
व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः ॥१॥

ते इति ॥१॥

तत्र शब्दो महानासीत्तव तेषां च भारत ।
युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ॥२॥

संनह्यतां पदातीनां हयानां चैव भारत ।
शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ॥३॥

ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत ।
व्यूहं व्यूह्य महाबाहो मकरं शत्रुनाशनम् ॥४॥

एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः ।
व्यादिदेश महाराज रथिनो रथिनां वरः ॥५॥

शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनञ्जयः ।
चक्षुषी सहदेवश्च नकुलश्च महारथः ॥६॥

तुण्डमासीन्महाराज भीमसेनो महाबलः ।
सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः ॥७॥

सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः ।
पृष्ठमासीन्महाराज विराटो वाहिनीपतिः ॥८॥

धृष्टद्युम्नेन सहितो महत्या सेनया वृतः ।
केकया भ्रातरः पञ्च वामपारर्श्वं समाश्रिताः ॥९॥

धृष्टकेतुर्नरव्याघ्रश्चेकितानश्च वीर्यवान् ।
दक्षिणं पक्षमाश्रित्य स्थितौ व्यूहस्य रक्षणे ॥१०॥

पा‌दयोस्तु महाराज स्थितः श्रीमान् महारथः ।
कुन्तिभोजः शतानीको महत्या सेनया वृतः ॥११॥

शिखण्डी तु महेष्वासः सोमकैः संवृतो बली ।
इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ॥१२॥

एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः ।
सूर्योदये महाराज पुनर्युद्धाय दंशिताः ॥१३॥

कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः ।
समुच्छ्रितैर्ध्वजैश्छत्रैः शस्त्रैश्च विमलैः शितैः ॥१४॥

व्यूढं दृष्ट्वा तु तत् सैन्यं पिता देवव्रतस्तव ।
क्रौञ्चेन महता राजन् प्रत्यव्यूहत वाहिनीम् ॥१५॥

तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत ।
अश्वत्थामा कृपश्चैव चक्षुरासीन्नरेश्वरः ॥१६॥

कृतवर्मा तु सहितः काम्बोजवरबाह्लिकैः ।
शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥१७॥

ग्रीवायां शूरसेनश्च तव पुत्रश्च मारिष ।
दुर्योधनो महाराज राजभिर्बहुभिर्वृतः ॥१८॥

प्राग्ज्योतिषस्तु सहितो मद्रसौवीरकेकयैः ।
उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः ॥१९॥

स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः ।
वामपक्षं समाश्रित्य दंशितः समवस्थितः ॥२०॥

तुषारा यवनाश्चैव शकाश्च सह चूचुपैः ।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत ॥२१॥

श्रुतायुश्च शतायुश्च सौमद‌त्तिश्च मारिष ।
व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ॥२२॥

ततो युद्धाय सञ्जग्मुः पाण्डवाः कौरवैः सह ।
सूर्योदये महाराज ततो युद्धमभून्महत् ॥२३॥

प्रतीयू रथिनो नागा नागांश्च रथिनो ययुः ।
हयारोहान् रथारोहा रथिनश्चापि सादिनः ॥२४॥

सादिनश्च हयान् राजन् रथिनश्च महारणे ।
हस्त्यारोहान् हयारोहा रथिनः सादिनस्तथा ॥२५॥

रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः ।
अन्योन्यं समरे राजन् प्रत्यधावन्नमर्षिताः ॥२६॥

भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः ।
शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ॥२७॥

तथा भीष्म-कृप-द्रोण-शल्य-दुर्योधनादिभिः ।
तवापि च बभौ सेना ग्रहैर्द्यौरिव संवृता ॥२८॥

भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी ।
अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ॥२९॥

द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः ।
विव्याध समरश्लाधी मर्माण्युद्दिश्य वीर्यवान् ॥३०॥

दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे ।
सारथिं प्रेषयामास यमस्य सदनं प्रति ॥३१॥

स सङ्गृह्य स्वयं वाहान् भारद्वाजः प्रतापवान् ।
व्यधमत् पाण्डवीं सेनां तूलराशिमिवानलः ॥३२॥

ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तमाः ।
सृञ्जयाः केकयैः सार्धं पलायनपराऽभवन् ॥३३॥

तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् ।
मुह्यते तत्र तत्रैव समदेव वराङ्गना ॥३४॥

अभिद्येतां ततो व्यूहौ तस्मिन् वीरवरक्षये ।
आसीद्व्यतिकरो घोरस्तव तेषां च भारत ॥३५॥

तदद्भुतमपश्याम तावकानां परैः सह ।
एकायनगताः सर्वे यदयुध्यन्त भारत ॥३६॥

प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशांपते ।
युयुधुः पाण्डवाश्चैव कौरवाश्च महाबलाः ॥३७॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धारम्भे पञ्चसप्ततितमोऽध्यायः ॥७५॥
षट्सप्ततितमोऽध्यायः

धृतराष्ट्र उवाच । एवं बहुगुणं सैन्यमेवं बहुविधं पुरा ।
व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय ॥१॥

एवमिति ॥१॥

हृष्टमस्माकमत्यन्तमभिकामं च नः सदा ।
प्रह्वमव्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् ॥२॥

नः अस्मात् अभिमानम् आकाङ्क्षमाणं प्रह्वं प्रणतम् ॥२॥

नातिवृद्धमबालं च न कृशं न च पीवरम् ।
लघुवृत्तायतप्रायं सारयोधमनामयम् ॥३॥

लघुवृत्तं शीघ्रकारि आयतप्रायं प्रांशुबहुलम् ॥३॥

आत्तसन्नाहशस्त्रं च बहुशस्त्रपरिग्रहम् ।
असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् ॥४॥

प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च ।
भिन्दिपालेषु शक्तीषु मुसलेषु च सर्वशः ॥५॥

कम्पनेषु च चापेषु कणपेषु च सर्वशः ।
क्षेपणीयेषु चित्रेषु मुष्टियुद्धेषु च क्षमम् ॥६॥

अपरोक्षं च विद्यासु व्यायामे च कृतश्रमम् ।
शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् ॥७॥

आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते ।
सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ॥८॥

आरोहे हस्त्यादीनां पर्यवस्कन्दे हस्त्यादिभ्योऽवतरणे ॥८॥

नागाश्वरथयानेषु बहुशः सुपरीक्षितम् ।
परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥९॥

न गोष्ठ्या नोपकारेण न च बन्धुनिमित्ततः ।
न सौहृदबलैर्वापि नाकुलीनपरिग्रहैः ॥१०॥

समृद्धजनमार्यं च तुष्टसम्बन्धिबान्धवम् ।
कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च ॥११॥

मनस्वि साहङ्कारम् ॥११॥

स्वजनैस्तु नरैर्मुख्यैर्बहुशो दृष्टकर्मभिः ।
लोकपालोपमैस्तात पालितं लोकविश्रुतम् ॥१२॥

बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः ।
अस्मानभिगतैः कामात् सबलैः सपदानुगैः ॥१३॥

महोदधिमिवापूर्णमापगाभिः समन्ततः ।
अपक्षैः पक्षिसङ्काशै रथैर्नागैश्च संवृतम् ॥१४॥

अपक्षैः पक्षशून्यैः तथाऽपि गत्या पक्षिसदृशैः ॥१४॥

नानायोधजलं भीमं वाहनोर्मितरङ्गिणम् ।
क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम् ॥१५॥

ध्वजभूषणसंबाधं रत्नपट्टसुसञ्चितम् ।
परिधावद्भिरश्वैश्च वायुवेगविकम्पितम् ॥१६॥

अपारमिव गर्जन्तं सागरप्रतिमं महत् ।
द्रोणभीष्माभिसंगुप्तं गुप्तं च कृतवर्मणा ॥१७॥

कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा ।
भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः ॥१८॥

गुप्तं प्रवीरैर्लोकैश्च सारवद्भिर्महात्मभिः ।
यदहन्यत सङ्ग्रामे दैवमत्र पुरातनम् ॥१९॥

नैतादृशं समुद्योगं दृष्टवन्तो हि मानुषाः ।
ऋषयो वा महाभागाः पुराणा भुवि सञ्जय ॥२०॥

ईदृशोऽपि बलौघस्तु संयुक्तः शस्त्रसंपदा ।
वध्यते यत्र सङ्ग्रामे किमन्यद्भागधेयतः ॥२१॥

विपरीतमिदं सर्वं प्रतिभाति हि सञ्जय ।
यत्रेदृशं बलं घोरं पाण्डवान्नातरद्रणे ॥२२॥

पाण्डवार्थाय नियतं देवास्तत्र समागताः ।
युध्यन्ते मामकं सैन्यं यथाऽवध्यत सञ्जय ॥२३॥

उक्तो हि विदुरेणाहं हितं पथ्यं च नित्यशः ।
न च जग्राह तन्मन्दः पुत्रो दुर्योधनो मम ॥२४॥

तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः ।
आसीद्यथागतं तात येन दृष्टमिदं पुरा ॥२५॥

अथवा भाव्यमेवं हि सञ्जयैतेन सर्वथा ।
पुरा धात्रा यथा सृष्टं तत्तथा नैतदन्यथा ॥२६॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि धृतराष्ट्रचिन्तायां षट्सप्ततितमोऽध्यायः ॥७६॥
सप्तसप्ततितमोऽध्यायः

सञ्जय उवाच । आत्मदोषात्त्वया राजन् प्राप्तं व्यसनमीदृशम् ।
न हि दुर्योधनस्तानि पश्यते भरतर्षभ ॥१॥

आत्मदोषादिति ॥१॥

यानि त्वं दृष्टवान् राजन् धर्मसङ्करकारिते ।
तव दोषात् पुरा वृत्तं द्यूतमेव विशांपते ॥२॥

तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः ।
त्वमेवाद्य फलं भुङ्क्षु कृत्वा किल्बिषमात्मना ॥३॥

आत्मनैव कृतं कर्म आत्मनैवोपभुज्यते ।
इह च प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् ॥४॥

तस्माद्राजन् स्थिरो भूत्वा प्राप्येदं व्यसनं महत् ।
शृणु युद्धं यथावृत्तं शंसतो मे नराधिप ॥५॥

भीमसेनः सुनिशितैर्बाणैर्भित्त्वा महाचमूम् ।
आससाद ततो वीरः सर्वान् दुर्योधनानुजान् ॥६॥

दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम् ।
जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम् ॥७॥

चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च ।
एतांश्चान्यांश्च सुबहून् समीपस्थान् महारथान् ॥८॥

धार्तराष्ट्रान् सुसङ्क्रुद्धान् दृष्ट्वा भीमो महारथः ।
भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् ॥९॥

अथालोक्य प्रविष्टं तमूचुस्ते सर्व एव तु ।
जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः ॥१०॥

स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः ।
प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः ॥११॥

संप्राप्य मध्यं सैन्यस्य न भीः पाण्डवमाविशत् ।
यथा देवासुरे युद्धे महेन्द्रं प्राप्य दानवान् ॥१२॥

ततः शतसहस्राणि रथिनां सर्वशः प्रभो ।
उद्यतानि शरैस्तीव्रैस्तमेकं परिवव्रिरे ॥१३॥

स तेषां प्रवरान् योधान् हस्त्यश्वरथसादिनः ।
जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् ॥१४॥

तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम् ।
समस्तानां बधे राजन् मतिं चक्रे महामनाः ॥१५॥

ततो रथं समुत्सृज्य गदामादाय पाण्डवः ।
जघान धार्तराष्ट्राणां तं बलौघं महार्णवम् ॥१६॥

भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः ।
द्रोणमुत्सृज्य तरसा प्रययौ यत्र सौबलः ॥१७॥

निवार्य महतीं सेनां तावकानां नरर्षभः ।
आससाद रथं शून्यं भीमसेनस्य संयुगे ॥१८॥

दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् ।
धृष्टद्युम्नो महाराज दुर्मना गतचेतनः ॥१९॥

अपृच्छद्बाष्पसंरुद्धो निःश्वसन् वाचमीरयन् ।
मम प्राणैः प्रियतमः क्व भीम इति दुःखितः ॥२०॥

विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः ।
संस्थाप्य मामिह बली पाण्डवेयः पराक्रमी ॥२१॥

प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् ।
मामुक्त्वा पुरुषव्याघ्रः प्रीतियुक्तमिदं वचः ॥२२॥

प्रतिपालय मां सूत नियम्याश्वान् मुहूर्तकम् ।
यावदेतान्निहन्म्यद्य य इमे मद्वधोद्यताः ॥२३॥

ततो दृष्ट्वा प्रधावन्तं गदाहस्तं महाबलम् ।
सर्वेषामेव सैन्यानां संहर्षः समजायत ॥२४॥

तस्मिन् सुतुमुले युद्धे वर्तमाने भयानके ।
भित्त्वा राजन् महाव्यूहं प्रविवेश वृकोदरः ॥२५॥

विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽथ पार्षतः ।
प्रत्युवाच ततः सूतं रणमध्ये महाबलः ॥२६॥

न हि मे जीवितेनापि विद्यतेऽद्य प्रयोजनम् ।
भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः ॥२७॥

यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति ।
एकायनगते भीमे मयि चावस्थिते युधि ॥२८॥

अस्वस्ति तस्य कुर्वन्ति देवाः शक्रपुरोगमाः ।
यः सहायान् परित्यज्य स्वस्तिमानाव्रजेद्गृहम् ॥२९॥

मम भीमः सखा चैव सम्बन्धी च महाबलः ।
भक्तोऽस्मान् भक्तिमांश्चाहं तमप्यरिनिषूदनम् ॥३०॥

सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः ।
निघ्नन्तं मां रिपून् पश्य दानवानिव वासवम् ॥३१॥

एवमुक्त्वा ततो वीरो ययौ मध्येन भारत ।
भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः ॥३२॥

स ददर्श तदा भीमं दहन्तं रिपुवाहिनीम् ।
वातो वृक्षानिव बलात् प्रभञ्जन्तं रणे रिपून् ॥३३॥

ते वध्यमानाः समरे रथिनः सादिनस्तथा ।
पादाता दन्तिनश्चैव चक्ररार्तस्वरं महत् ॥३४॥

हाहाकारश्च सञ्जज्ञे तव सैन्यस्य मारिष ।
वध्यतो भीमसेनेन कृतिना चित्रयोधिना ॥३५॥

ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् ।
अभीताः समवर्तन्त शस्त्रवृष्ट्या परन्तप ॥३६॥

अभिद्रुतं शस्त्रभृतां वरिष्ठं समन्ततः पाण्डवं लोकवीरः ।
सैन्येन घोरेण सुसंहितेन दृष्ट्वा बली पार्षतो भीमसेनम् ॥३७॥

अथोपगच्छच्छरविक्षताङ्गं पदातिनं क्रोधविषं वमन्तम् ।
आश्वासयन् पार्षतो भीमसेनं गदाहस्तं कालमिवान्तकाले ॥३८॥

विशल्यमेनं च चकार तूर्णमारोपयच्चात्मरथे महात्मा ।
भृशं परिष्वज्य च भीमसेनमाश्वासयामास स शत्रुमध्ये ॥३९॥

भ्रातॄनथोपेत्य तवापि पुत्रस्तस्मिन्विमर्दे महति प्रवृत्ते ।
अयं दुरात्मा द्रुपदस्य पुत्रः समागतो भीमसेनेन सार्धम् ॥४०॥

तं याम सर्वे महता बलेन मा वो रिपुः प्रार्थयतामनीकम् ।
श्रुत्वा तु वाक्यं तममृष्यमाणा ज्येष्ठाज्ञया नोदिता धार्तराष्ट्राः ॥४१॥

वधाय निष्पेतुरुदायुधास्ते युगक्षये केतवो यद्वदुग्राः ।
प्रगृह्य चास्त्राणि धनूंषि वीरा ज्यां नेमिघोषैः प्रविकम्पयन्तः ॥४२॥

शरैरवर्षन् द्रुपदस्य पुत्रं यथाऽम्बुदा भूधरं वारिजालैः ।
निहत्य तांश्चापि शरैः सुतीक्ष्णैर्न विव्यथे समरे चित्रयोधी ॥४३॥

समभ्युदीर्णांश्च तवात्मजांस्तथा निशम्य वीरानभितः स्थितान् रणे ।
जिघांसुरुग्रं द्रुपदात्मजो युवा प्रमोहनास्त्रं युयुजे महारथः ॥४४॥

क्रुद्धो भृशं तव पुत्रेषु राजन् दैत्येषु यद्वत्समरे महेन्द्रः ।
ततो व्यमुह्यन्त रणे नृवीराः प्रमोहनास्त्राहतबुद्धिसत्त्वाः ॥४५॥

प्रदुद्रुवुः कुरवश्चैव सर्वे सवाजिनागाः सरथाः समन्तात् ।
परीतकालानिव नष्टसंज्ञान् मोहोपेतांस्तव पुत्रान्निशम्य ॥४६॥

एतस्मिन्नेव काले तु द्रोणः शस्त्रभृतां वरः ।
द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः ॥४७॥

सोऽतिविद्धस्ततो राजन् रणे द्रोणेन पार्थिवः ।
अपायाद्द्रुपदो राजन् पूर्ववेरमनुस्मरन् ॥४८॥

जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् ।
तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः ॥४९॥

अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः ।
प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव ॥५०॥

ततो द्रोणो महाराज त्वरितोऽभ्याययौ रणात् ।
तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् ॥५१॥

धृष्टद्युम्नं च भीमं च विचरन्तो महारणे ।
मोहाविष्टांश्च ते पुत्रानपश्यत् स महारथः ॥५२॥

ततः प्रज्ञास्त्रमादाय मोहनास्त्रं व्यनांशयत् ।
अथ प्रत्यागतप्राणास्तव पुत्रा महारथाः ॥५३॥

पुनर्युद्धाय समरे प्रययुर्भीमपार्षतौ ।
ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् ॥५४॥

गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि ।
सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः ॥५५॥

प्रवृत्तिमधिगच्छन्तु न हि शुद्ध्यति मे मनः ।
त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः ॥५६॥

बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः ।
मध्यन्दिनगते सूर्ये प्रययुः सर्व एव हि ॥५७॥

केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान् ।
अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः ॥५८॥

ते कृत्वा समरव्यूहं सूचीमुखमरिन्दमाः ।
बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे ॥५९॥

तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान् ।
भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता ॥६०॥

न संवारयितुं शक्ता तव सेना जनाधिप ।
मदमूर्च्छान्वितात्मा वै प्रमदेवाध्वनि स्थिता ॥६१॥

तेऽभिजाता महेष्वासाः सुवर्णविकृतध्वजाः ।
परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ ॥६२॥

तौ च दृष्ट्वा महेष्वासावभिमन्युपुरोगमान् ।
बभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम् ॥६३॥

दृष्ट्वा तु सहसा यान्तं पाञ्चाल्यो गुरुमात्मनः ।
नाशंसत वधं वीरः पुत्राणां तव भारत ॥६४॥

ततो रथं समारोप्य कैकेयस्य वृकोदरम् ।
अभ्यधावत् सुसंक्रुद्रो द्रोणमिष्वस्त्रपारगम् ॥६५॥

तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान् ।
क्रुद्धश्चिच्छेद बाणेन धनुः शत्रुनिबर्हणः ॥६६॥

अन्यांश्च शतशो बाणान् प्रेषयामास पार्षते ।
दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन् ॥६७॥

अथान्यद्धनुरादाय पार्षतः परवीरहा ।
द्रोणं विव्याध विंशत्या रुक्मपुङ्खैः शिलाशितैः ॥६८॥

तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनः ।
हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः ॥६९॥

वैवस्वतक्षयं घोरं प्रेषयामास भारत ।
सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे ॥७०॥

हताश्वात् स रथात्तूर्णमवप्लुत्य महारथः ।
आरुरोह महाबाहुरभिमन्योर्महारथम् ॥७१॥

ततः सरथनागाश्वा समकम्पत वाहिनी ।
पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः ॥७२॥

तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा ।
नाशक्नुवन् वारयितुं समस्तास्ते महारथाः ॥७३॥

वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः ।
व्यभ्रमत्तत्र तत्रैव क्षोभ्यमाण इवार्णवः ॥७४॥

तथा दृष्ट्वा च तत्सैन्यं जहृषे तावकं बलम् ।
दृष्ट्वाऽऽचार्यं सुसंक्रुद्धं पतन्तं रिपुवाहिनीम् ।
चुक्रुशुः सर्वतो योधाः साधु साध्विति भारत ॥७५॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि संकुलयुद्धे द्रोणपराक्रमे सप्तसप्ततितमोऽध्यायः॥७७॥
अष्टसप्ततितमोऽध्यायः

सञ्जय उवाच । ततो दुर्योधनो राजा मोहात् प्रत्यागतस्तदा ।
शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम् ॥१॥

तत इति ॥१॥

एकीभूतास्ततश्चैव तव पुत्रा महारथाः ।
समेत्य समरे भीमं योधयामासुरुद्यताः ॥२॥

भीमसेनोऽपि समरे संप्राप्य स्वरथं पुनः ।
समारुह्य महाबाहुर्ययौ येन तवात्मजः ॥३॥

प्रगृह्य च महावेगं परासुकरणं दृढम् ।
सज्जं शरासनं संख्ये शरैर्विव्याध ते सुतम् ॥४॥

ततो दुर्योधनो राजा भीमसेनं महाबलम् ।
नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् ॥५॥

सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना ।
क्रोधसंरक्तनयनो वेगेनाक्षिप्य कार्मुकम् ॥६॥

दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ।
स तत्र शुशुभे राजा शिखरैर्गिरिराडिव ॥७॥

तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् ।
दुर्योधनानुजाः सर्वे शूराः संत्यक्तजीविताः ॥८॥

संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः ।
निश्चयं परमं कृत्वा निग्रहीतुं प्रचक्रमुः ॥९॥

तानापतत एवाजौ भीमसेनो महाबलः ।
प्रत्युद्ययौ महाराज गजः प्रतिगजानिव ॥१०॥

भृशं क्रुद्धश्च तेजस्वी नाराचेन समर्पयत् ।
चित्रसेनं महाराज तव पुत्रं महायशाः ॥११॥

तथेतरांस्तव सुतांस्ताडयामास भारत ।
शरैर्बहुविधैः संख्ये रुक्मपुङ्खैः सुतेजनैः ॥१२॥

ततः संस्थाप्य समरे तान्यनीकानि सर्वशः ।
अभिमन्युप्रभृतयस्ते द्वादश महारथाः ॥१३॥

प्रेषिता धर्मराजेन भीमसेनपदानुगाः ।
प्रतिजग्मुर्महाराज तव पुत्रान् महाबलान् ॥१४॥

दृष्ट्वा रथस्थांस्तान् शूरान् सूर्याग्निसमतेजसः ।
सर्वानेव महेष्वासान् भ्राजमानान् श्रिया वृतान् ॥१५॥

महाहवे दीप्यमानान् सुवर्णमुकुटोज्ज्वलान् ।
तत्यजुः समरे भीमं तव पुत्रा महाबलाः ॥१६॥

तान्नामृष्यत कौन्तेयो जीवमाना गता इति ।
अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् ॥१७॥

अथाभिमन्युं समरे भीमसेनेन सङ्गतम् ।
पार्षतेन च संप्रेक्ष्य तव सैन्ये महारथाः ॥१८॥

दुर्योधनप्रभृतयः प्रगृहीतशरासनाः ।
भृशमश्वैः प्रजवितैः प्रययुर्यत्र ते रथाः ॥१९॥

अपराह्णे महाराज प्रावर्तत महारणः ।
तावकानां च बलिनां परेषां चैव भारत ॥२०॥

अभिमन्युर्विकर्णस्य हयान् हत्वा महाहवे ।
अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्पयत् ॥२१॥

हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः ।
आरुरोह रथं राजंश्चित्रसेनस्य भारत ॥२२॥

स्थितावेकरथे तौ तु भ्रातरौ कुलवर्धनौ ।
आर्जुनिः शरजालेन च्छा‌दयामास भारत ॥२३॥

चित्रसेनो विकर्णश्च कार्ष्णिं पञ्चभिरायसैः ।
विव्याध तेन चाकम्पत् कार्ष्णिर्मेरुरिव स्थितः ॥२४॥

दुःशासनस्तु समरे केकयान् पञ्च मारिष ।
योधयामास राजेन्द्र तद‌द्भुतमिवाभवत् ॥२५॥

द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् ।
शरैराशीविषाकारैः पुत्रं तव विशांपते ॥२६॥

पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान् रणे ।
सायकैर्निशितै राजन्नाजघान पृथक् पृथक् ॥२७॥

तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः ।
गिरिः प्रस्त्रवणैर्यद्वद्गैरिकादिविमिश्रितैः ॥२८॥

भीष्मोऽपि समरे राजन् पाण्डवानामनीकिनीम् ।
कालयामास बलवान् पालः पशुगणानिव ॥२९॥

ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशांपते ।
दक्षिणेन वरूथिन्याः पार्थस्यारीन् विनिघ्नतः ॥३०॥

उत्तस्थुः समरे तत्र कबन्धानि समन्ततः ।
कुरूणां चैव सैन्येषु पाण्डवानां च भारत ॥३१॥

शोणितोदं शरावर्तं गजद्वीपं हयोर्मिणम् ।
रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् ॥३२॥

छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः ।
दृश्यन्ते पतितास्तत्र शतशोऽथ सहस्रशः ॥३३॥

निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः ।
भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा ॥३४॥

तत्राद्भुतमपश्याम तव तेषां च भारत ।
न तत्रासीत् पुमान् कश्चिद्यो युद्धं नाभिकाङ्क्षति ॥३५॥

एवं युयुधिरे वीराः प्रार्थयाना महद्यशः ।
तावकाः पाण्डवैः सार्धमाकाङ्क्षन्तो जयं युधि ॥३६॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि संकुलयुद्धे अष्टसप्ततितमोऽध्यायः ॥७८॥
ऊनाशीतितमोऽध्यायः

सञ्जय उवाच । ततो दुर्योधनो राजा लोहितायति भास्करे ।
सङ्ग्रामरभसो भीमं हन्तुकामोऽभ्यधावत ॥१॥

तत इति ॥१॥

तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् ।
भीमसेनः सुसङ्क्रुद्ध इदं वचनमब्रवीत् ॥२॥

अयं स कालः संप्राप्तो वर्षपूगाभिवाञ्छितः ।
अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् ॥३॥

अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः ।
द्रौपद्याश्च परिक्लेशं प्रणेष्यामि हते त्वयि ॥४॥

यत्पुरा मत्सरी भूत्वा पाण्डवानवमन्यसे ।
तस्य पापस्य गान्धारे पक्ष्य व्यसनमागतम् ॥५॥

कर्णस्य मतमास्थाय सौबलस्य च यत्पुरा ।
अचिन्त्य पाण्डवान् कामाद्यथेष्टं कृतवानसि ॥६॥

याचमानं च यन्मोहाद्दाशार्हमवमन्यसे ।
उलूकस्य समादेशं यद्ददासि च हृष्टवत् ॥७॥

तेन त्वां निहनिष्यामि सानुबन्धं सबान्धवम् ।
समीकरिष्ये तत्पापं यत्पुरा कृतवानसि ॥८॥

एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत् ।
समाधत्त शरान् घोरान्महाशनिसमप्रभान् ॥९॥

षड्विंशतिमसंक्रुद्धो मुमोचाशु सुयोधने ।
ज्वलिताग्निशिखाकारान् वज्रकल्पानजिह्मगान् ॥१०॥

ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे ।
चतुर्भिरश्वान् जवनाननयद्यमसादनम् ॥११॥

द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः ।
छत्रं चिच्छेद समरे राज्ञस्तस्य नरोत्तम ॥१२॥

षड्भिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् ।
छित्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः ॥१३॥

रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितात् ।
पपात सहसा भूमौ विद्युज्जलधरादिव ॥१४॥

ज्वलन्तं सूर्यसङ्काशं नागं मणिमयं शुभम् ।
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥१५॥

अथेनं दशभिर्बाणैस्तोत्रैरिव महाद्विपम् ।
आजघान रणे वीरं स्मयन्निव महारथः ॥१६॥

ततः स राजा सिन्धूनां रथश्रेष्ठो महारथः ।
दुर्योधनस्य जग्राह पार्ष्णिं सत्पुरुषैर्वृतः ॥१७॥

कृपश्च रथिनां श्रेष्ठः कौरव्यममितौजसम् ।
आरोपयद्रथं राजन् दुर्योधनममर्षणम् ॥१८॥

स गाढविद्धो व्यथितो भीमसेनेन संयुगे ।
निषसाद रथोपस्थे राजन् दुर्योधनस्तदा ॥१९॥

परिवार्य ततो भीमं जेतुकामो जयद्रथः ।
रथैरनेकसाहस्त्रैर्भीमस्यावारयद्दिशः ॥२०॥

धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान् ।
केकया द्रौपदेयाश्च तव पुत्रानयोधयन् ॥२१॥

चित्रसेनः सुचित्रश्च चित्राङ्गश्चित्रदर्शनः ।
चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ ॥२२॥

अष्टावेते महेष्वासाः सुकुमारा यशस्विनः ।
अभिमन्युरथं राजन् समन्तात् पर्यवारयन् ॥२३॥

आजघान ततस्तूर्णमभिमन्युर्महामनाः ।
एकैकं पञ्चभिर्बाणैः शितैः सन्नतपर्वभिः ॥२४॥

वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः ।
अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् ॥२५॥

ववृषुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः ।
स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः ॥२६॥

अभिमन्युर्महाराज तावकान् समकम्पयत् ।
यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् ॥२७॥

विकर्णस्य ततो भल्लान् प्रेषयामास भारत ।
चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् ॥२८॥

स तैर्विकर्णस्य रथात् पातयामास वीर्यवान् ।
ध्वजं सूतं हयांश्चैव नृत्यमान इवाहवे ॥२९॥

पुनश्चान्यान्शरान्पीतानकुण्ठाग्रान् शिलाशितान् ।
प्रेषयामास संक्रुद्धो विकर्णाय महाबलः ॥३०॥

ते विकर्णं समासाद्य कङ्कबर्हिणवाससः ।
भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः ॥३१॥

ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले ।
विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् ॥३२॥

विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः ।
अभ्यद्रवन्त समरे सौभद्रप्रमुखान् रथान् ॥३३॥

अभियात्वा तथैवान्यान् रथांस्तान् सूर्यवर्चसः ।
अविध्यन् समरेऽन्योन्यं संरंभाद्युद्धदुर्मदाः ॥३४॥

दुर्मुखः श्रुतकर्माणं विध्वा सप्तभिराशुगैः ।
ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः ॥३५॥

अश्वान् जांबूनदैर्जालैः प्रच्छन्नान् वातरंहसः ।
जघान षड्भिरासाद्य सारथिं चाभ्यपातयत् ॥३६॥

स हताश्वे रथे तिष्ठन् श्रुतकर्मा महारथः ।
शक्तिं चिक्षेप संक्रुद्धो महोल्कां ज्वलितामिव ॥३७॥

सा दुर्मुखस्य विमलं वर्म भित्त्वा यशस्विनः ।
विदार्य प्राविशद्भूमिं दीप्यमाना स्वतेजसा ॥३८॥

तं दृष्ट्वा विरथं तत्र सुतसोमो महारथः ।
पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् ॥३९॥

श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव ।
अभ्ययात् समरे राजन् हन्तुकामो यशस्विनम् ॥४०॥

तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महास्वनम् ।
चिच्छेद समरे तूर्णं जयत्सेनः सुतस्तव ॥४१॥

क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत ।
तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम् ॥४२॥

अभ्यपद्यत तेजस्वी सिंहवन्निनदन्मुहुः ।
शतानीकस्तु समरे दृढं विस्फार्य कार्मुकम् ॥४३॥

विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः ।
ननाद सुमहानादं प्रभिन्न इव वारणः ॥४४॥

अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना ।
शतानीको जयत्सेनं विव्याध हृदये भृशम् ॥४५॥

तथा तस्मिन् वर्तमाने दुष्कर्णो भ्रातुरन्तिके ।
चिच्छेद समरे चापं नाकुलेः क्रोधमूर्च्छितः ॥४६॥

अथान्यद्धनुरादाय भारसाहमनुत्तमम् ।
समादत्त शरान् घोरान् शतानीको महाबलः ॥४७॥

तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः ।
मुमोचास्मै शितान्बाणान् ज्वलितान्पन्नगानिव ॥४८॥

ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष ।
चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः ॥४९॥

अश्वान् मनोजवांस्तस्य कर्बुरान् वातरंहसः ।
जघान निशितैस्तूर्णं सर्वान् द्वाद‌शभिः शरैः ॥५०॥

अथापरेण भल्लेन सुयुक्तेनाशुपातिना ।
दुष्कर्णं सुदृढं क्रुद्धो विव्याध हृदये भृशम् ॥५१॥

स पपात ततो भूमौ वज्राहत इव द्रुमः ।
दुष्कर्णं व्यथितं दृष्ट्वा पञ्च राजन्महारथाः ॥५२॥

जिघांसन्तः शतानीकं सर्वतः पर्यवारयन् ।
छाद्यमानं शरव्रातैः शतानीकं यशस्विनम् ॥५३॥

अभ्यधावन्त संक्रुद्धाः केकयाः पञ्च सोदराः ।
तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः ॥५४॥

प्रत्युद्ययुर्महाराज गजानिव महागजाः ।
दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा ॥५५॥

शत्रुञ्जयः शत्रुसहः सर्वे क्रुद्धा यशस्विनः ।
प्रत्युद्याता महाराज केकयान् भ्रातरः समम् ॥५६॥

रथैर्नगरसंकाशैर्हयैर्युक्तैर्मनोजवैः ।
नानावर्णविचित्राभिः पताकाभिरलंकृतैः ॥५७॥

वरचापधरा वीरा विचित्रकवचध्वजाः ।
विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम् ॥५८॥

तेषां सुतुमुलं युद्धं व्यतिषक्तरथाद्विपम् ।
अवर्तत महारौद्रं निघ्नतामितरेतरम् ॥५९॥

अन्योन्यागस्कृतां राजन् धर्मराष्ट्रविवर्धनम् ।
मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम् ॥६०॥

रथिनः सादिनश्चाथ व्यकीर्यन्त सहस्रशः ।
ततः शान्तनवः कुद्धः शरैः सन्नतपर्वभिः॥६१॥

नाशयामास सेनां तां भीष्मस्तेषां महात्मनाम् ।
पञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम् ॥६२॥

एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम् ।
कृत्वाऽवहारं सैन्यानां ययौ स्वशिबिरं नृप ॥६३॥

धर्मराजोऽपि संप्रेक्ष्य धृष्टद्युम्नवृकोद‌रौ ।
मूर्ध्नि चैतावुपाघ्राय प्रहृष्टः शिबिरं ययौ ॥६४॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसावहारे ऊनाशीतितमोऽध्यायः ॥७९॥
अशीतितमोऽध्यायः

सञ्जय उवाच । अथ शूरा महाराज परस्परकृतागसः ।
जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ॥१॥

अथेति ॥१॥

विश्रम्य च यथान्यायं पूजयित्वा परस्परम् ।
सन्नद्धाः समदृश्यन्त भूयो युद्धचिकीर्षया ॥२॥

ततस्तव सुतो राजंश्चिन्तयाऽभिपरिप्लुतः ।
विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ॥३॥

सैन्यानि रौद्राणि भयानकानि व्यूढानि सम्यग्बहुलध्वजानि ।
विदार्य हत्वा च निपीड्य शूरास्ते पाण्डवानां त्वरिता महारथाः ॥४॥

संमोह्य सर्वान् युधि कीर्तिमन्तो व्यूहं च तं मकरं वज्रकल्पम् ।
प्रविश्य भीमेन रणे हतोऽस्मि घोरैः शरैर्मृत्युदण्डप्रकाशैः ॥५॥

कुद्धं तमुद्वीक्ष्य भयेन राजन् संमूर्च्छितो न लभे शान्तिमद्य ।
इच्छे प्रसादात्तव सत्यसन्ध प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ॥६॥

तेनैवमुक्तः प्रहसन्महात्मा दुर्योधनं मन्युगतं विदित्वा ।
तं प्रत्युवाचाविमना मनस्वी गङ्गासुतः शस्त्रभृतां वरिष्ठः ॥७॥

परेण यत्नेन विगाह्य सेनां सर्वात्मनाऽहं तव राजपुत्र ।
इच्छामि दातुं विजयं सुखं च न चात्मानं छादयेऽहं त्वदर्थे ॥८॥

एते तु रौद्रा बहवो महारथा यशस्विनः शूरतमाः कृतास्त्राः ।
ये पाण्डवानां समरे सहाया जितक्लमा रोषविषं वमन्ति ॥९॥

ते नैव शक्याः सहसा विजेतुं वीर्योद्धताः कृतवैरास्त्वया च ।
अहं सेनां प्रतियोत्स्यामि राजन् सर्वात्मना जीवितं त्यज्य वीर ॥१०॥

रणे तवार्थाय महानुभाव न जीवितं रक्ष्यतमं ममाद्य ।
सर्वांस्तवार्थाय सदेवदैत्यान् घोरान् दहेयं किमु शत्रुसेनाम् ॥११॥

तान् पाण्डवान् योधयिष्यामि राजन् प्रियं च ते सर्वमहं करिष्ये ।
श्रुत्वैव चैतद्वचनं तदानीं दुर्योधनः प्रीतमना बभूव ॥१२॥

सर्वाणि सैन्यानि ततः प्रहृष्टो निर्गच्छतेत्याह नृपांश्च सर्वान् ।
तदाज्ञया तानि विनिर्ययुर्द्रुतं गजाश्वपादातरथायुतानि ॥१३॥

प्रहर्षयुक्तानि तु तानि राजन् महान्ति नानाविधशस्त्रवन्ति ।
स्थितानि नागाश्वपदातिमन्ति विरेजुराजौ तव राजन् बलानि ॥१४॥

शस्त्रास्त्रविद्भिर्नरवीरयोधैरधिष्ठिताः सैन्यगणास्त्वदीयाः ।
रथौघपादातगजाश्वसङ्घैः प्रयाद्भिराजौ विधिवत्प्रणुन्नैः ॥१५॥

समुद्धतं वै तरुणार्कवर्णं रजो बभौ च्छादयत्सूर्यरश्मीन् ।
रेजुः पताका रथद‌न्तिसंस्था वातेरिता भ्राम्यमाणाः समन्तात् ॥१६॥

नानारङ्गाः समरे तत्र राजन् मेधैर्युता विद्युतः खे यथैव ।
वृन्दैः स्थिताश्चापि सुसंप्रयुक्ताश्चकाशिरे दन्तिगणाः समन्तात् ॥१७॥

धनूंषि विस्फारयतां नृपाणां बभूव शब्दस्तुमुलोऽतिघोरः ।
विमथ्यतो देवमहासुरौघर्यथाऽर्णवस्यादियुगे तदानीम् ॥१८॥

तदुग्रनागं बहुरूपवर्णं तवात्मजानां समुदीर्णमेवम् ।
बभूव सैन्यं रिपुसैन्यहन्तृ युगान्तमेघौघनिभं तदानीम् ॥१९॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि भीष्मदुर्योधनसंवादे अशीतितमोऽध्यायः ॥८०॥
एकाशीतितमोऽध्यायः

सञ्जय उवाच । अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम् ।
अब्रवीद्भरतश्रेष्ठः संप्रहर्षकरं वचः ॥१॥

अथेति ॥१॥

अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः ।
अश्वत्थामा विकर्णश्च भगद‌त्तोऽथ सौबलः ॥२॥

विन्दानुविन्दावावन्त्यौ बाह्लीकः सह बाह्लिकैः ।
त्रिगर्तराजो बलवान् मागधश्च सुदुर्जयः ॥३॥

बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः ।
रथाश्च बहुसाहस्राः शोभनाश्च महाध्वजाः ॥४॥

देशजाश्च हया राजन् स्वारूढा हय सादिभिः ।
गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः ॥५॥

पादाताश्च तथा शूरा नानाप्रहरणध्वजाः ।
नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः ॥६॥

एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः ।
देवानपि रणे जेतुं समर्था इति मे मतिः ॥७॥

अवश्यं हि मया राजंस्तव वाच्यं हितं सदा ।
अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥८॥

वासुदेवसहायाश्च महेन्द्रसमविक्रमाः ।
सर्वथाऽहं तु राजेन्द्र करिष्ये वचनं तव ॥९॥

पाण्डवांश्च रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः ।
एवमुक्त्वा ददावस्मै विशल्यकरणीं शुभाम् ॥१०॥

ओषधीं वीर्यसम्पन्नां विशल्यश्चाभवत्तदा ।
ततः प्रभाते विमले स्वेन सैन्येन वीर्यवान् ॥११॥

अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः ।
मण्डलं मनुजश्रेष्ठो नानाशस्त्रसमाकुलम् ॥१२॥

संपूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः ।
रथैरनेकसाहस्त्रैः समन्तात् परिवारितम् ॥१३॥

अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः ।
नागे नागे स्थाः सप्त सप्त चाश्वा रथे रथे ॥१४॥

अन्वश्वं दश धानुष्का धानुष्के दश चर्मिणः ।
एवं व्यूढं महाराज तव सैन्यं महारथैः ॥१५॥

स्थितं रणाय महते भीष्मेण युधि पालितम् ।
दशाश्वानां सहस्राणि दन्तिनां च तथैव च ॥१६॥

रथानामयुतं चापि पुत्राश्च तव दंशिताः ।
चित्रसेनादयः शूरा अभ्यरक्षन् पितामहम् ॥१७॥

रक्ष्यमाणः स तैः शूरैर्गोप्यमानाश्च तेन ते ।
सन्नद्धाः समदृश्यन्त राजानश्च महाबलाः ॥१८॥

दुर्योधनस्तु समरे दंशितो रथमास्थितः ।
व्यराजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे ॥१९॥

ततः शब्दो महानासीत् पुत्राणां तव भारत ।
रथघोषश्च विपुलो वादित्राणां च निःस्वनः ॥२०॥

भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि ।
मण्डलः स महाव्यूहो दुर्भेद्योऽमित्रघातनः ॥२१॥

सर्वतः शुशुभे राजन् रणेऽरीणां दुरासदः ।
मण्डलं तु समालोक्य व्यूहं परमदुर्जयम् ॥२२॥

स्वयं युधिष्ठिरो राजा वज्रं व्यूहमथाकरोत् ।
तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः ॥२३॥

रथिनः सादिनः सर्वे सिंहनादमथानदन् ।
बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः ॥२४॥

इतरेतरतः शूराः सहसैन्याः प्रहारिणः ।
भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम् ॥२५॥

स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् ।
नकुलः सहदेवश्च मद्रराजानमीयतुः ॥२६॥

विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ ।
सर्वे नृपास्तु समरे धनञ्जयमयोधयन् ॥२७॥

भीमसेनो रणे यान्तं हार्दिक्यं समवारयत् ।
चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभुः ॥२८॥

आर्जुनिः समरे राजंस्तव पुत्रानयोधयत् ।
प्राग्ज्योतिषो महेष्वासो हैडिम्बं राक्षसोत्तमम् ॥२९॥

अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् ।
अलम्बुषस्तदा राजन् सात्यकिं युद्धदुर्मदम् ॥३०॥

ससैन्यं समरे क्रुद्धो राक्षसः समुपाद्रवत् ।
भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् ॥३१॥

श्रुतायुषं च राजानं धर्मपुत्रो युधिष्ठिरः ।
चेकितानश्च समरे कृपमेवान्वयोधयत् ॥३२॥

शेषाः प्रतिययुर्यत्ता भीष्ममेव महारथम् ।
ततो राजसमूहास्ते परिवव्रुर्धनञ्जयम् ॥३३॥

शक्ति-तोमर-नाराच-गदा-परिघपाणयः ।
अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिद‌मब्रवीत् ॥३४॥

पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे ।
व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना ॥३५॥

युद्धाभिकामान् शूरांश्च पश्य माधव दंशितान् ।
त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव ॥३६॥

अद्यैतान्नाशयिष्यामि पश्यतस्ते जनार्दन ।
य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे ॥३७॥

एतदुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृज्य च ।
ववर्ष शरवर्षाणि नराधिपगणान् प्रति ॥३८॥

तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन् ।
तडागं वारिधाराभिर्यथा प्रावृषि तोयदाः ॥३९॥

हाहाकारो महानासीत् तव सैन्ये विशांपते ।
छाद्यमानौ रणे कृष्णौ शरैर्दृष्ट्वा महारणे ॥४०॥

देवा देवर्षयश्चैव गन्धर्वाश्च सहोरगैः ।
विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथागतौ ॥४१॥

ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदैरयत् ।
तत्राद्भुतमपश्याम विजयस्य पराक्रमम् ॥४२॥

शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत् ।
न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशांपते ॥४३॥

तेषां राजसहस्राणां हयानां दन्तिनां तथा ।
द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष ॥४४॥

ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः ।
अगाधे मज्जमानानां भीष्मः पोतोऽभवत्तदा ॥४५॥

आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् ।
सञ्चुक्षुभे महाराज वातैरिव महार्णवः ॥४६॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमयुद्धदिवसे एकाशीतितमोऽध्यायः ॥८१॥
द्व्यशीतितमोऽध्यायः

सञ्जय उवाच । तथा प्रवृत्ते संग्रामे निवृत्ते च सुशर्मणि ।
भग्नेषु चापि वीरेषु पाण्डवेन महात्मना ॥१॥

तथेति ॥१॥

क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव ।
प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति ॥२॥

दृष्ट्वा दुर्योधनो राजा रणे पार्थस्य विक्रमम् ।
त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् ॥३॥

तेषां तु प्रमुखे शूरं सुशर्माणं महाबलम् ।
मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्निव ॥४॥

एष भीष्मः शान्तनवो योद्धुकामो धनञ्जयम् ।
सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः ॥५॥

तं प्रयान्तं रणे वीरं सर्वसैन्येन भारतम् ।
संयत्ताः समरे सर्वे पालयध्वं पितामहम् ॥६॥

बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः ।
नरेन्द्राणां महाराज समाजग्मुः पितामहम् ॥७॥

ततः प्रयातः सहसा भीष्मः शान्तनवोऽर्जुनम् ।
रणे भारतमायान्तमाससाद महाबलः ॥८॥

महाश्वेताश्वयुक्तेन भीमवानरकेतुना ।
महता मेघनादेन रथेनातिविराजता ॥९॥

समरे सर्वसैन्यानामुपयान्तं धनञ्जयम् ।
अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् ॥१०॥

अभीषुहस्तं कृष्णं च दृष्ट्वाऽऽदित्यमिवापरम् ।
मध्यंदिनगतं संख्ये न शेकुः प्रतिवीक्षितुम् ॥११॥

तथा शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् ।
न शेकुः पाण्डवा द्रष्टुं श्वेतं ग्रहमिवोदितम् ॥१२॥

स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः ।
भ्रातृभिः सह पुत्रैश्च तथान्यैश्च महारथैः ॥१३॥

भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा ।
ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे ॥१४॥

तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः ।
अन्यदादत्त वेगेन धनुर्भारसहं दृढम् ॥१५॥

शरांश्चाशीविषाकारान् ज्वलितान् पन्नगानिव ।
द्रोणं त्रिभिश्च विव्याध चतुर्भिश्चास्य वाजिनः ॥१६॥

ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः ।
धनुरेकेषुणाऽविध्यत्तत्राक्रुध्यद्द्विजर्षभः ॥१७॥

तस्य द्रोणोऽवधीदश्वान् शरैः सन्नतपर्वभिः ।
अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा ॥१८॥

स हताश्वाद‌वप्लुत्य स्यन्दनाद्धतसारथिः ।
आरुरोह रथं तूर्णं पुत्रस्य रथिनां वरः ॥१९॥

ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ ।
महता शरवर्षेण वारयामासतुर्बलात् ॥२०॥

भारद्वाजस्ततः कुद्धः शरमाशीविषोपमम् ।
चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वरः ॥२१॥

स तस्य हृदयं भित्त्वा पीत्वा शोणितमाहवे ।
जगाम धरणीं बाणो लोहितार्द्रवरच्छदः ॥२२॥

स पपात रणे तूर्णं भारद्वाजशराहतः ।
धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः ॥२३॥

हतं तमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात् ।
उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् ॥२४॥

भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम् ।
दारयामास समरे शतशोऽथ सहस्रशः ॥२५॥

शिखण्डी तु महाराज द्रौणिमासाद्य संयुगे ।
आजघान भ्रवोर्मध्ये नाराचैस्त्रिभिराशुगैः ॥२६॥

स बभौ रथशार्दूलो ललाटे संस्थितैस्त्रिभिः ।
शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः ॥२७॥

अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छित्खण्डिनः ।
ध्वजं सूतमथो राजंस्तुरगानायुधानि च ॥२८॥

शरैर्बहुभिराच्छिद्य पातयामास संयुगे ।
स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः ॥२९॥

खड्गमादाय सुशितं विमलं च शरावरम् ।
श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः ॥३०॥

सखड्गस्य महाराज चरतस्तस्य संयुगे ।
नान्तरं ददृशे द्रौणिस्तद‌द्भुतमिवाभवत् ॥३१॥

ततः शरसहस्त्राणि बहूनि भरतर्षभ ।
प्रेषयामास समरे द्रौणिः परमकोपनः ॥३२॥

ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम् ।
चर्माच्छिनद‌सिं चास्य खण्डयामास संयुगे ॥३४॥

शितैस्तु बहुशो राजन् तं च विव्याध पत्त्रिभिः ।
शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः ॥३५॥

आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् ।
तमापतन्तं सहसा कालानलसमप्रभम् ॥३६॥

चिच्छेद समरे द्रौणिर्दर्शयन् पाणिलाघवम् ।
शिखण्डिनं च विव्याधः शरैबहुभिरायसैः ॥३७॥

शिखण्डी तु भृशं राजस्ताड्यमानः शितैः शरैः ।
आरुरोह रथं तूर्णं माधवस्य महात्मनः ॥३८॥

सात्यकिश्चापि संक्रुद्धो राक्षसं क्रूरमाहवे ।
अलंबुषं शरैस्तीक्ष्णैर्विव्याध बलिनां वरः ॥३९॥

राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत ।
अर्धचन्द्रेण समरे तं च विव्याध सायकैः ॥४०॥

मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत् ।
तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् ॥४१॥

असंभ्रमस्तु समरे वध्यमानः शितैः शरैः ।
ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत ॥४२॥

विजयाद्यदनुप्राप्तं माधवेन यशस्विना ।
तदस्त्रं भस्मसात् कृत्त्वा मायां तां राक्षसीं तदा ॥४३॥

अलंबुषं शरैरन्यैरभ्याकिरत सर्वतः ।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥४४॥

तत् तथा पीडितं तेन माधवेन यशस्विना ।
प्रदुद्राव भयाद्रक्षस्त्यक्त्वा सात्यकिमाहवे ॥४५॥

तमजेयं राक्षसेन्द्रं संख्ये मघवता अपि ।
शैनेयः प्राण‌दज्जित्वा योधानां तव पश्यताम् ॥४६॥

न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः ।
निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः ॥४७॥

एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली ।
धृष्टद्युम्नो महाराज पुत्रं तव जनेश्वरम् ॥४८॥

छादयामास समरे शरैः सन्नतपर्वभिः ।
स च्छाद्यमानो विशिखैर्दृष्टद्युम्नेत भारत ॥४९॥

विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वर ।
धृष्टद्युम्नं च समरे तूर्णं विव्याध पत्रिभिः ॥५०॥

षष्ठ्या च त्रिंशता चैव तद‌द्भुतमिवाभवन् ।
तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष ॥५१॥

हयांश्च चतुरः शीघ्रं निजघान महाबलः ।
शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः ॥५२॥

स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली ।
पदातिरसिमुद्यम्य प्राद्रवत् पार्षतं प्रति ॥५३॥

शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः ।
राजानं सर्वलोकस्य रथमारोपयन् स्वकम् ॥५४॥

ततो नृपं पराजित्य पार्षतः परवीरहा ।
न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरान् ॥५५॥

कृतवर्मा रणे भीमं शरैरार्छन्महारथः ।
प्रच्छा‌दयामास च तं महामेघो रविं यथा ॥५६॥

ततः प्रहस्य समरे भीमसेनः परन्तपः ।
प्रेषयामास संक्रुद्धः सायकान् कृतवर्मणे ॥५७॥

तैरर्द्यमानोऽतिरथः सात्त्वतः सत्यकोविदः ।
नाकम्पत महाराज भीमं चार्छच्छितैः शरैः ॥५८॥

तस्याश्वांश्चतुरो हत्वा भीमसेनो महारथः ।
सारथिं पातयामास सध्वजं सुपरिष्कृतम् ॥५९॥

शरैर्बहुविधैश्चैनमाचिनोत् परवीरहा ।
शकलीकृतसर्वाङ्गो हताश्वः प्रत्यदृश्यत ॥६०॥

हताश्वश्च ततस्तूर्णं वृषकस्य रथं ययौ ।
स्यालस्य ते महाराज तव पुत्रस्य पश्यतः ॥६१॥

भीमसेनोऽपि सङ्क्रुद्धस्तव सैन्यमुपाद्रवत् ।
निजघान च संक्रुद्धो दण्डपाणिरिवान्तकः ॥६२॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वैरथे द्व्यशीतितमोऽध्यायः ॥८२॥
त्र्यशीतितमोऽध्यायः

धृतराष्ट्र उवाच । बहूनि हि विचित्राणि द्वैरथानि स्म सञ्जय ।
पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः ॥१॥

बहूनीति ॥१॥

न चैव मामकं किञ्चित् हृष्टं शंससि सञ्जय ।
नित्यं पाण्डुसुतान् हृष्टानभग्नान् संप्रशंससि ॥२॥

जीयमानान् विमनसो मामकान् विगतौजसः ।
वदसे संयुगे सूत दिष्टमेतन्न संशयः ॥३॥

सञ्जय उवाच ।

यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः ।
दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ ॥४॥

गङ्गायाः सुरनद्या वै स्वादु भूत्वा यथोदकम् ।
महोदधेर्गुणाभ्यासाल्लवणत्वं निगच्छति ॥५॥

तथा तत् पौरुषं राजंस्तावकानां परन्तप ।
प्राप्य पाण्डुसुतान् वीरान् व्यर्थं भवति संयुगे ॥६॥

घटमानान् यथाशक्ति कुर्वाणान् कर्म दुष्करम् ।
न दोषेण कुरुश्रेष्ठ कौरवान् गन्तुमर्हसि ॥७॥

तवापराधात् सुमहान् सपुत्रस्य विशांपते ।
पृथिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः ॥८॥

आत्मदोषात् समुत्पन्नं शोचितुं नार्हसे नृप ।
न हि रक्षन्ति राजानः सर्वथाऽत्रापि जीवितम् ॥९॥

युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः ।
चमूं विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः ॥१०॥

पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः ।
तं त्वमेकमना भूत्वा शृणु देवासुरोपमम् ॥११॥

आवन्त्यौ तु महेष्वासौ महासेनौ महाबलौ ।
इरावन्तमभिप्रेक्ष्य समेयातां रणोत्कटौ ॥१२॥

तेषां प्रववृते युद्धं सुमहल्लोमहर्षणम् ।
इरावांस्तु सुसङ्क्रुद्धो भ्रातरौ देवरूपिणौ ॥१३॥

विव्याध निशितैस्तूर्णं शरैः सन्नतपर्वभिः ।
तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ ॥१४॥

युध्यतां हि तथा राजन् विशेषो न व्यदृश्यत ।
यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् ॥१५॥

इरावांस्तु ततो राजन्ननुविन्दस्य सायकैः ।
चतुर्भिश्चतुरो वाहाननयद्यमसादनम् ॥१६॥

भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष ।
चिच्छेद समरे राजंस्तद्‌द्भुतमिवाभवत् ॥१७॥

त्यक्त्वाऽनुविन्दोऽथ रथं विन्दस्य रथमास्थितः ।
धनुर्गृहीत्वा परमं भारसाधनमुत्तमम् ॥१८॥

तावेकस्थौ रणे वीगवावन्त्यौ रथिनां वरौ ।
शरान् मुमुचतुस्तूर्णमिरावति महात्मनि ॥१९॥

ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः ।
दिवाकरपथं प्राप्य च्छा‌दयामासुरम्बरम् ॥२०॥

इरावांस्तु रणे कुद्धो भ्रातरौ तौ महारथौ ।
ववर्ष शरवर्षेण सारथिं चाप्यपातयत् ॥२१॥

तस्मिंस्तु पतिते भूमौ गतसत्त्वे तु सारथौ ।
रथः प्रदुद्राव दिशः समुद्भ्रान्तहयस्ततः ॥२२॥

तौ स जित्वा महाराज नागराजसुतासुतः ।
पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् ॥२३॥

नागराजः कौरव्यस्तस्य सुता उलूपी तस्या सुत इरावान् ॥२३॥

सा वध्यमाना समरे धार्तराष्ट्री महाचमूः ।
वेगान् बहुविधांश्चक्रे विषं पीत्वेव मानवः ॥२४॥

हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत् ।
रथेनादित्यवर्णेन सध्वजेन महाबलः ॥२५॥

ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः ।
यथा वज्रधरः पूर्वं सङ्ग्रामे तारकामये ॥२६॥

तत्र देवाः सगन्धर्वा ऋषयश्च समागताः ।
विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः ॥२७॥

यथा सुरपतिः शक्रस्त्रासयामास दानवान् ।
तथैव समरे राजा द्रावयामास पाण्डवान् ॥२८॥

तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतोदिशम् ।
त्रातारं नाभ्यगच्छन्तः स्वेष्वनीकेषु भारत ॥२९॥

भैमसेनिं रथस्थं तु तत्रापश्याम भारत ।
शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः ॥३०॥

निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत ।
आसीन्निष्ठानका घोरस्तव सैन्यस्य संयुगे ॥३१॥

निष्ठानकः सव्यथः शब्दः ॥३१॥

घटोत्कचस्ततो राजन् भगदत्तं महारणे ।
शरैः प्रच्छा‌दयामास मेरुं गिरिमिवाम्बुदः ॥३२॥

निहत्य तान् शरान् राजा राक्षसस्य धनुश्च्युतान् ।
भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् ॥३३॥

स ताड्यमानो बहुभिः शरैः सन्नतपर्वभिः ।
न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः ॥३४॥

तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरांश्च चतुर्दश ।
प्रेषयामास समरे तांश्चिच्छेद स राक्षसः ॥३५॥

स तांश्छित्वा महाबाहुस्तोमरान्निशितैः शरैः ।
भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः ॥३६॥

ततः प्राग्ज्योतिषो राजा प्रहसन्निव भारत ।
तस्याश्वांश्चतुरः सङ्ख्ये पातयामास सायकैः ॥३७॥

स हताश्वे रथे तिष्ठन् राक्षसेन्द्रः प्रतापवान् ।
शक्तिं चिक्षेप वेगेन प्राग्ज्योतिषगजं प्रति ॥३८॥

तामापतन्तीं सहसा हेमदण्डां सुवेगिनीम् ।
त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम् ॥३९॥

शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् ।
यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः ॥४०॥

तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् ।
अजेयं समरे वीरं यमेन वरुणेन च ॥४१॥

पाण्डवीं समरे सेनां संममर्द स कुञ्जरः ।
यथा वनगजो राजन् मृद्नंश्चरति पद्मिनीम् ॥४२॥

मद्रेश्वरस्तु समरे यमाभ्यां समसज्जत ।
स्वस्रीयौ छादयाञ्चक्रे शरौघैः पाण्डुनन्दनौ ॥४३॥

सहदेवस्तु समरे मातुलं दृश्य संगतम् ।
अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् ॥४४॥

छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् ।
तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् ॥४५॥

ततः प्रहस्य समरे नकुलस्य महारथः ।
अश्वांश्च चतुरो राजंश्चतुर्भिः सायकोत्तमैः ॥४६॥

प्रेषयामास समरे यमस्य सदनं प्रति ।
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ॥४७॥

आरुरोह ततो यानं भ्रातुरेव यशस्विनः ।
एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मु ॥४८॥

मद्रराजरथं तूर्णं छादयामासतुः क्षणात् ।
स च्छाद्यमानो बहुभिः शरैः सन्नतपर्वभिः ॥४९॥

स्वस्त्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाऽचलः ।
प्रहसन्निव तां चापि शस्त्रवृष्टिं जघान ह ॥५०॥

सहदेवस्ततः क्रुद्धः शरमुद्गृह्य वीर्यवान् ।
मद्रराजमभिप्रेक्ष्व प्रेषयामास भारत ॥५१॥

स शरः प्रेषितस्तेन गरुडानिलवेगवान् ।
मद्रराजं विनिर्भिद्य निपपात महीतले ॥५२॥

स गाढविद्धो व्यथितो रथोपस्थे महारथः ।
निषसाद महाराज कश्मलं च जगाम ह ॥५३॥

तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे ।
अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् ॥५४॥

दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्मुखम् ।
सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् ॥५५॥

निर्जित्य मातुलं संख्ये माद्रीपुत्रौ महारथौ ।
दध्मतुर्मुदितौ शंखौ सिंहनादं च नेदतुः ॥५६॥

अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशांपते ।
यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ ॥५७॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वंद्वयुद्धे त्र्यशीतितमोऽध्यायः ॥८३॥
चतुरशीतितमोऽध्यायः

सञ्जय उवाच । ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे ।
श्रुतायुषमभिप्रेक्ष्य प्रेषयामास वाजिनः ॥१॥

तत इति ॥१॥

अभ्यधावत्ततो राजा श्रुतायुषमरिन्दमम् ।
विनिघ्नन् सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ॥२॥

स संवार्य रणे राजा प्रेषितान् धर्मसूनुना ।
शरान् सप्त महेष्वासः कौन्तेयाय समर्पयत् ॥३॥

ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ।
असूनिव विचिन्वन्तो देहे तस्य महात्मनः ॥४॥

पाण्डवस्तु भृशं क्रुद्धो विद्धस्तेन महात्मना ।
रणे वराहकर्णेन राजानं हृद्यविध्यत ॥५॥

अथापरेण भल्लेन केतुं तस्य महात्मनः ।
रथश्रेष्ठो रथात् तूर्णं भूमौ पार्थो न्यपातयत् ॥६॥

केतुं निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः ।
पाण्डवं विशिखैस्तीक्ष्णै राजन् विव्याध सप्तभिः ॥७॥

ततः क्रोधात् प्रजज्वाल धर्मपुत्रो युधिष्ठिरः ।
यथा युगान्ते भूतानि दिधक्षुरिव पावकः ॥८॥

क्रुद्धं तु पाण्डवं दृष्ट्वा देव-गन्धर्व-राक्षसाः ।
प्रविव्यथुर्महाराज व्याकुलं चाप्यभूज्जगत् ॥९॥

सर्वेषां चैव भूतानामिदमासीन्मनोगतम् ।
त्रील्लोঁकानद्य संक्रुद्धो नृपोऽयं धक्ष्यतीति वै ॥१०॥

ऋषयश्चैव देवाश्च चक्रुः स्वस्त्ययनं महत् ।
लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तदा ॥११॥

स च क्रोधसमाविष्टः सृक्किणी परिसंलिहन् ।
दधारात्मवपुर्घोरं युगान्तादित्यसन्निभम् ॥१२॥

ततः सैन्यानि सर्वाणि तावकानि विशांपते ।
निराशान्यभवंस्तत्र जीवितं प्रति भारत ॥१३॥

स तु धैर्येण तं कोपं सन्निवार्य महायशाः ।
श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महाधनुः ॥१४॥

अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे ।
निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः ॥१५॥

सत्वरं च रणे राजन् तस्य वाहान् महात्मनः ।
निजघान शरैः क्षिप्रं सूतं च सुमहाबलः ॥१६॥

हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञोऽस्य पौरुषम् ।
विप्रदुद्राव वेगेन श्रुतायुः समरे तदा ॥१७॥

तस्मिन् जिते महेष्वासे धर्मपुत्रेण संयुगे ।
दुर्योधनबलं राजन् सर्वमासीत् पराङ्मुखम् ॥१८॥

एतत् कृत्वा महाराज धर्मपुत्रो युधिष्ठिरः ।
व्यात्ताननो यथा कालस्तव सैन्यं जघान ह ॥१९॥

चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् ।
प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः ॥२०॥

सन्निवार्य शरांस्तांस्तु कृपः शारद्वतो युधि ।
चेकितानं रणे यत्तं राजन् विव्याध पत्रिभिः ॥२१॥

अथापरेण भल्लेन धनुश्चिच्छेद मारिष ।
सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् ॥२२॥

अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ।
सोऽवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः ॥२३॥

स तया वीरघातिन्या गद‌या गदिनां वरः ।
गौतमस्य हयान् हत्वा सारथिं च न्यपातयत् ॥२४॥

भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश ।
शरास्ते सात्वतं भित्त्वा प्राविशन् धरणीतलम् ॥२५॥

चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् ।
गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरन्दरः ॥२६॥

तामापतन्तीं विमलामश्मगर्भां महागदाम् ।
शरैरनेकसाहस्त्रैर्वारयामास गौतमः ॥२७॥

चेकितानस्ततः खड्गं क्रोधादुद्धृत्य भारत ।
लाघवं परमास्थाय गौतमं समुपाद्रवत् ॥२८॥

गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंयतः ।
वेगेन महता राजंश्चेकितानमुपाद्रवत् ॥२९॥

तावुभौ बलसम्पन्नौ निस्त्रिंशवरधारिणौ ।
निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं सन्ततक्षतुः॥३०॥

निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ ।
धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् ॥३१॥

मूर्छयाऽभिपरीताङ्गौ व्यायामेन तु मोहितौ ।
ततोऽभ्यधावद्वेगेन करकर्षः सुहृत्तया ॥३२॥

करकर्षः शिशुपालपुत्रः ॥३२॥

चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदः ।
रथमारोपयच्चैनं सर्वसैन्यस्य पश्यतः ॥३३॥

तथैव शकुनिः शूरः स्यालस्तव विशांपते ।
आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् ॥३४॥

सौमदत्तिं तथा क्रुद्धो धृष्टकेतुर्महाबलः ।
नवत्या सायकैः क्षिप्रं राजन् विव्याध वक्षसि ॥३५॥

सौमदत्तिरुरस्थैस्तैर्भृशं बाणैरशोभत ।
मध्यंदिने महाराज रश्मिभिस्तपनो यथा ॥३६॥

भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् ।
हतसूतहयं चक्रे विरथं सायकोत्तमैः ॥३७॥

विरथं तं समालोक्य हताश्वं हतसारथिम् ।
महता शरवर्षेण च्छाद‌यामास संयुगे ॥३८॥

स तु तं रथमुत्सृज्य धृष्टकेतुर्महामनाः ।
आरुरोह ततो यानं शतानीकस्य मारिष ॥३९॥

चित्रसेनो विकर्णश्च राजन् दुर्मर्षणस्तथा ।
रथिनो हेमसन्नाहाः सौभद्रमभिदुद्रुवुः ॥४०॥

अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत ।
शरीरस्य यथा राजन् वात-पित्त-कफैस्त्रिभिः ॥४१॥

विरथांस्तव पुत्रांस्तु कृत्वा राजन् महाहवे ।
न जघान नरव्याघ्रः स्मरन् भीमवचस्तदा ॥४२॥

ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः ।
संवृतं समरे भीष्मं देवैरपि दुरासदम् ॥४३॥

प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव ।
अभिमन्युं समुद्दिश्य बालमेकं महारथम् ॥४४॥

वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः ।
चोद‌याश्वान् हृषीकेश यत्रैते बहुला रथाः ॥४५॥

एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः ।
यथा हन्युर्न नः सेनां तथा माधव चोदय ॥४६॥

एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा ।
रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे ॥४७॥

निष्ठानको महानासीत्तव सैन्यस्य मारिष ।
यद‌र्जुनो रणे कुद्धः संयातस्तावकान् प्रति ॥४८॥

समासाद्य तु कौन्तेयो राज्ञस्तान् भीष्मरक्षिणः ।
सुशर्माणमथो राजन्निदं वचनमब्रवीत् ॥४९॥

जानामि त्वां युधां श्रेष्ठमत्यन्तं पूर्ववैरिणम् ।
अनयस्याद्य संप्राप्तं फलं पश्य सुदारुणम् ॥५०॥

अद्य ते दर्शायष्यामि पूर्वप्रेतान् पितामहान् ।
एवं सञ्जल्पतस्तस्य बीभत्सोः शत्रुघातिनः ॥५१॥

श्रुत्वाऽपि परुषं वाक्यं सुशर्मा रथयूथपः ।
न चैनमब्रवीत्किञ्चिच्छुभं वा यदि वाऽशुभम् ॥५२॥

अभिगम्यार्जुनं वीरं राजभिर्बहुभिर्वृतः ।
पुरस्तात् पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः ॥५३॥

परिवार्यार्जुनं संख्ये तव पुत्रैर्महारथः ।
शरैः संछादयामास मेघैरिव दिवाकरम् ॥५४॥

ततः प्रवृत्तः सुमहान् सङ्ग्रामः शोणितोदकः ।
तावकानां च समरे पाण्डवानां च भारत ॥५५॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमयुद्धदिवसे सुशर्मार्जुनसमागमे चतुरशीतितमोऽध्यायः ॥८४॥
पञ्चाशीतितमोऽध्यायः

सञ्जय उवाच । स ताड्यमानस्तु शरैर्धनञ्जयः पदा हतो नाग इव श्वसन् बली ।
बाणेन बाणेन महारथानां चिच्छेद चापानि रणे प्रसह्य ॥१॥

स इति ॥१॥

सञ्छिद्य चापानि च तानि राज्ञां तेषां रणे वीर्यवतां क्षणेन ।
विव्याध बाणैर्युगपन्महात्मा निःशेषतां तेष्वथ मन्यमानः ॥२॥

निपेतुराजौ रुधिरप्रदिग्धास्ते ताडिताः शक्रसुतेन राजन् ।
विभिन्नगात्राः पतितोत्तमाङ्गा गतासवश्छिन्नतनुत्रकायाः ॥३॥

महीं गताः पार्थबलाभिभूता विचित्ररूपा युगपद्विनेशुः ।
दृष्ट्वा हतांस्तान् युधि राजपुत्रांस्त्रिगर्तराजः प्रययौ रथेन ॥४॥

तेषां रथानामथ पृष्ठगोपा द्वात्रिंशदन्येऽभ्यपतन्त पार्थम् ।
तथैव ते तं परिवार्य पार्थं विकृष्य चापानि महारवाणि ॥५॥

अवीवृषन् बाणमहौधवृष्ट्या यथा गिरिं तोयधरा जलौघैः ।
संपीड्यमानस्तु शरौघवृष्ट्या धनञ्जयस्तान् युधि जातरोषः ॥६॥

षष्ठ्या शरैः संयति तैलधौतैर्जधान तानप्यथ पृष्ठगोपान् ।
रथाश्च तांस्तानवजित्य संख्ये धनञ्जयः प्रीतमना यशस्वी ॥७॥

अथात्वरद्भीष्मवधाय जिष्णुर्बलानि राजन् समरे निहत्य ।
त्रिगर्तराजो निहतान् समीक्ष्य महात्मना तानथ बन्धुवर्गान् ॥८॥

रणे पुरस्कृत्य नराधिपांस्तान् जगाम पार्थं त्वरितो वधाय ।
अभिद्रुतं चास्त्रभृतां वरिष्ठं धनञ्जयं वीक्ष्य शिखण्डिमुख्याः ॥९॥

अभ्युद्ययुस्ते शितशस्त्रहस्ता रिरक्षिषन्तो रथमर्जुनस्य ।
पार्थोऽपि तानापततः समीक्ष्य त्रिगर्तराज्ञा सहितान्नृवीरान् ॥१०॥

विध्वंसयित्वा समरे धनुष्मान् गाण्डीवमुक्तैर्निशितैः पृषत्कैः ।
भीष्मं यियासुर्युधि संददर्श दुर्योधनं सैन्धवादींश्च राज्ञः ॥११॥

संवारयिष्णूनभिवारयित्वा मुहूर्तमायोध्य बलेन वीरः ।
उत्सृज्य राजानमनन्तवीर्यो जयद्रथादींश्च नृपान् महौजाः ॥१२॥

ययौ ततो भीमबलो मनस्वी गाङ्गेयमाजौ शरचापपाणिः ।
युधिष्ठिरश्च प्रबलो महात्मा समाययौ त्वरितो जातकोपः ॥१३॥

मद्राधिपं समभित्यज्य संख्ये स्वभागमाप्तं तमनन्तकीर्तिः ।
सार्धं स माद्रीसुतभीमसेनैर्भीष्मं ययौ शान्तनवं रणाय ॥१४॥

तैः संप्रयुक्तैः स महारथाग्र्यैर्गङ्गासुतः समरे चित्रयोधी ।
न विव्यथे शान्तनवो महात्मा समागतैः पाण्डुसुतैः समस्तैः ॥१५॥

अथैत्य राजा युधि सत्यसन्धो जयद्रथोऽत्युग्रबलो मनस्वी ।
चिच्छेद चापानि महारथानां प्रसह्य तेषां धनुषा वरेण ॥१६॥

युधिष्ठिरं भीमसेनं यमौ च पार्थं कृष्णं युधि सञ्जातकोपः ।
दुर्योधनः क्रोधविषो महात्मा जघान बाणैरनलप्रकाशैः ॥१७॥

कृपेण शल्येन शलेन चैव तथा विभो चित्रसेनेन चाजौ ।
विद्धाः शरैस्तेऽतिविवृद्ध कोपैर्देवा यथा दैत्यगणैः समेतैः ॥१८॥

छिन्नायुधं शान्तनवेन राजा शिखण्डिनं प्रेक्ष्य च जातकोपः ।
अजातशत्रुः समरे महात्मा शिखण्डिनं क्रुद्ध उवाच वाक्यम् ॥१९॥

उक्त्वा तथा त्वं पितुरग्रतो मामहं हनिष्यामि महाव्रतं तम् ।
भीष्मं शरौघैर्विमलार्कवर्णैः सत्यं वदामीति कृता प्रतिज्ञा ॥२०॥

त्वया च नैनां सफलां करोषि देवव्रतं यन्न निहंसि युद्धे ।
मिथ्याप्रतिज्ञो भव माऽत्र वीर रक्ष स्वधर्मं स्वकुलं यशश्च ॥२१॥

प्रेक्षस्व भीष्मं युधि भीमवेगं सर्वांस्तपन्तं मम सैन्यसङ्घान् ।
शरौघजालैरतितिग्मवेगैः कालं यथा कालकृतं क्षणेन ॥२२॥

निकृत्तचापः समरेऽनपेक्षः पराजितः शान्तनवेन चाजौ ।
विहाय बन्धूनथ सोदरांश्च क्व यास्यसे नानुरूपं तवेदम् ॥२३॥

दृष्ट्वा हि भीष्मं तमनन्तवीर्यं भग्नं च सैन्यं द्रवमाणमेवम् ।
भीतोऽसि नूनं द्रुपदस्य पुत्र तथा हि ते मुखवर्णोऽप्रहृष्टः ॥२४॥

अज्ञायमाने च धनञ्जयेऽपि महाहवे संप्रसक्ते नृवीरे ।
कथं हि भीष्मात्प्रथितः पृथिव्यां भयं त्वमद्य प्रकरोषि वीर ॥२५॥

अज्ञायमाने पश्चात्स्थिते ॥२५॥

स धर्मराजस्य वचो निशम्य रूक्षाक्षरं विप्रलापानुबद्धम् ।
प्रत्यादेशं मन्यमानो महात्मा प्रतत्वरे भीष्मवधाय राजन् ॥२६॥

प्रत्यादेशं भर्त्सनम् ॥२६॥

तमापतन्तं महता जवेन शिखण्डिनं भीष्ममभिद्रवन्तम् ।
निवारयामास हि शल्य एनमस्त्रेण घोरेण सुदुर्जयेन ॥२७॥

स चापि दृष्ट्वा समुदीर्यमाणमस्त्रं युगान्ताग्निसमप्रकाशम् ।
न संमुमोह द्रुपदस्य पुत्रो राजन् महेन्द्रप्रतिमप्रभावः ॥२८॥

तस्थौ च तत्रैव महाधनुष्मान् शरैस्तदस्त्रं प्रतिबाधमानः ।
अथाददे वारुणमन्यदस्त्रं शिखण्ड्यथोग्रं प्रतिघातमस्य ॥२९॥

तदस्त्रमस्त्रेण विदार्यमाणं स्वस्थाः सुरा ददृशुः पार्थिवाश्च ।
भीष्मस्तु राजन् समरे महात्मा धनुश्च चित्रं ध्वजमेव चापि ॥३०॥

छित्त्वाऽनदत् पाण्डुसुतस्य वीरो युधिष्ठिरस्याजमीढस्य राज्ञः ।
ततः समुत्सृज्य धनुः सबाणं युधिष्ठिरं वीक्ष्य भयाभिभूतम् ॥३१॥

गदां प्रगृह्याभिपपात संख्ये जयद्रथं भीमसेनः पदातिः ।
तमापतन्तं सहसा जवेन जयद्रथं सगदं भीमसेनम् ॥३२॥

विव्याध घोरैर्यमदण्डकल्पैः शितैः शरैः पञ्चशतैः समन्तात् ।
अचिन्तयित्वा स शरांस्तरस्वी वृकोदरः क्रोधपरीतचेताः ॥३३॥

जघान वाहान् समरे समन्तात् पारावतान् सिन्धुराजस्य संख्ये ।
ततोऽभिवीक्ष्याप्रतिमप्रभावस्तवात्मजस्त्वरमाणो रथेन ॥३४॥

अभ्याययौ भीमसेनं निहन्तुं समुद्यतास्त्रो सुरराजकल्पः ।
भीमोऽप्यथैनं सहसा विनद्य प्रत्युद्ययौ गदया तर्जयानः ॥३५॥

समुद्यतां तां यमदण्डकल्पां दृष्ट्वा गदां ते कुरवः समन्तात् ।
विहाय सर्वे तव पुत्रमुग्रं पातं गदायाः परिहर्तुकामाः ॥३६॥

अपक्रान्तास्तुमुले संप्रमर्दे सुदारुणे भारत मोहनीये ।
अमूढचेतास्त्वथ चित्रसेनो महागदामापतन्तीं निरीक्ष्य ॥३७॥

रथं स्वमुत्सृज्य पदातिराजौ प्रगृह्य खड्गं विपुलं च चर्म ।
अवप्लुतः सिंह इवाचलाग्राज्जगामान्यं भूमिप भूमिदेशम् ॥३८॥

गदाऽपि सा प्राप्य रथं सुचित्रं साश्वं ससूतं विनिहत्य सङ्ख्ये ।
जगाम भूमिं ज्वलिता महोल्का भ्रष्टाम्बराद्गामिव संपतन्ती ॥३९॥

आश्चर्यभूतं सुमहत्त्वदीया दृष्ट्वैव तद्भारत संप्रहृष्टाः ।
सर्वे विनेदुः सहिताः समन्तात् पुपूजिरे तव पुत्रस्य शौर्यम् ॥४०॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमयुद्धदिवसे पञ्चाशीतितमोऽध्यायः ॥८५॥
षडशीतितमोऽध्यायः

सञ्जय उवाच । विरथं तं समासाद्य चित्रसेनं यशस्विनम् ।
रथमारोपयामास विकर्णस्तनयस्तव ॥१॥

विरथमिति ॥१॥

तस्मिंस्तथा वर्तमाने तुमुले सङ्कुले भृशम् ।
भीष्मः शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत् ॥२॥

ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः ।
मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् ॥३॥

युधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः ।
महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं ययौ ॥४॥

ततः शरसहस्राणि प्रमुञ्चन् पाण्डवो युधि ।
भीष्मं संछादयामास यथा मेघो दिवाकरम् ॥५॥

तेन सम्यक् प्रणीतानि शरजालानि मारिष ।
प्रतिजग्राह गाङ्गेयः शतशोऽथ सहस्रशः ॥६॥

तथैव शरजालानि भीष्मेणास्तानि मारिष ।
आकाशे समदृश्यन्त खगमानां व्रजा इव ॥७॥

निमेषार्धेन कौन्तेयं भीष्मः शान्तनवो युधि ।
अदृश्यं समरे चक्रे शरजालेन भागशः ॥८॥

ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः ।
नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम् ॥९॥

असंप्राप्तं ततस्तं तु क्षुरप्रेण महारथः ।
चिच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् ॥१०॥

तं तु च्छित्त्वा रणे भीष्मो नाराचं कालसंमितम् ।
निजघ्ने कौरवेन्द्रस्य हयान् काञ्चनभूषणान् ॥११॥

हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः ।
आरुरोह रथं तूर्णं नकुलस्य महात्मनः ॥१२॥

यमावपि हि संक्रुद्धः समासाद्य रणे तदा ।
शरैः संछादयामास भीष्मः परपुरञ्जयः ॥१३॥

तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ ।
जगाम परमां चिन्तां भीष्मस्य वधकाङ्क्षया ॥१४॥

ततो युधिष्ठिरो वश्यान् राज्ञस्तान्समचोदयत् ।
भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान् ॥१५॥

ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् ।
महता रथवंशेन परिवव्रुः पितामहम् ॥१६॥

स समन्तात् परिवृतः पिता देवव्रतस्तव ।
चिक्रीड धनुषा राजन् पातयानो महारथान् ॥१७॥

तं चरन्तं रणे पार्था ददृशुः कौरवं युधि ।
मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने ॥१८॥

तर्जयानं रणे वीरांस्त्रासयानं च सायकैः ।
दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव ॥१९॥

रणे भारतसिंहस्य ददृशुः क्षत्रिया गतिम् ।
अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः ॥२०॥

शिरांसि रथिनां भीष्मः पातयामास संयुगे ।
तालेभ्यः परिपक्वानि फलानि कुशलो नरः ।
यतद्भिश्च महराज शिरोभिर्धरणीतले ।
बभूव तुमुलः शब्दः पततामश्मनामिव ॥२२॥

तस्मिन् सुतुमुले युद्धे वर्तमाने भयानके ।
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥२३॥

भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् ।
एकमेकं समाहूय युद्धायैवावतस्थिरे ॥२४॥

शिखण्डी तु समासाद्य भरतानां पितामहम् ।
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् ॥२५॥

अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे ।
प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः ॥२६॥

सृञ्जयास्तु ततो दृष्ट्वा हृष्ट भीष्मं महारणे ।
सिंहनादांश्च विविधांश्चक्रुः शङ्खविमिश्रितान् ॥२७॥

ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ।
पश्चिमां दिशमासाद्य स्थिते सवितरि प्रभो॥२८॥

धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः ।
पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः ॥२९॥

शस्त्रैश्च बहुभी राजन् जघ्नतुस्तावकान् रणे ।
ते हन्यमानाः समरे तावका भरतर्षभ ॥३०॥

आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम् ।
यथोत्साहं तु समरे निजघ्नुस्तावका रणे ॥३१॥

तत्राक्रन्दो महानासीत्तावकानां महात्मनाम् ।
वध्यतां समरे राजन् पार्षतेन महात्मना ॥३२॥

तं श्रुत्वा निनदं घोरं तावकानां महारथौ ।
विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ ॥३३॥

तौ तस्य तुरगान् हत्वा त्वरमाणौ महारथौ ।
छादयामासतुरुभौ शरवर्षेण पार्षतम् ॥३४॥

अवप्लुत्याथ पाञ्चाल्यो रथात् तूर्णं महाबलः ।
आरुरोह रथं तूर्णं सात्यकेस्तु महात्मनः ॥३५॥

ततो युधिष्ठिरो राजा महत्या सेनया वृतः ।
आवन्त्यौ समरे कुद्धावभ्ययात्स परन्तपौ ॥३६॥

तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष ।
विन्दानुविन्दौ समरे परिवार्यावतस्थिवान् ॥३७॥

अर्जुनश्चापि संक्रुद्धः क्षत्रियान् क्षत्रियर्षभः ।
अयोधयत संग्रामे वज्रपाणिरिवासुरान् ॥३८॥

द्रोणस्तु समरे क्रुद्धः पुत्रस्य प्रियकृत् तव ।
व्यधमत् सर्वपञ्चालांस्तूलराशिमिवानलः ॥३९॥

दुर्योधनपुरोगास्तु पुत्रास्तव विशांपते ।
परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह ॥४०॥

ततो दुर्योधनो राजा लोहितायति भास्करे ।
अब्रवीत् तावकान् सर्वांस्त्वरध्वमिति भारत ॥४१॥

युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम् ।
अस्तं गिरिमथारूढे अप्रकाशति भास्करे ॥४२॥

प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी ।
गोमायुगणसंकीर्णा क्षणेन क्षणदामुखे ॥४३॥

शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम् ।
घोरमायोधनं जज्ञे भूतसङ्घैः समाकुलम् ॥४४॥

राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशिनः ।
समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः ॥४५॥

अर्जुनोथ सुशर्मादीन् राज्ञस्तान् सपदानुगान् ।
विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति ॥४६॥

युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तथा ।
ययौ स्वशिबिरं राजा निशायां सेनया वृतः ॥४७॥

भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान् रथान् ।
अवजित्य ततः संख्ये ययौ स्वशिबिरं प्रति ॥४८॥

दुर्योधनोऽपि नृपतिः परिवार्य महारणे ।
भीष्मं शान्तनवं तूर्णं प्रयातः शिबिरं प्रति ॥४९॥

द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः ।
परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति ॥५०॥

तथैव सात्यकी राजन् धृष्टद्युम्नश्च पार्षतः ।
परिवार्य रणे योधान् ययतुः शिबिरं प्रति ॥५१॥

एवमेते महाराज तावकाः पाण्डवैः सह ।
पर्यवर्तन्त सहिता निशाकाले परंतप ॥५२॥

ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा ।
न्यवसन्त महाराज पूजयन्तः परस्परम् ॥५३॥

रक्षां कृत्वा ततः शूरान्यस्य गुल्मान्यथाविधि ।
अपनीय च शल्यानि स्नात्वा च विविधैर्जलैः ॥५४॥

कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश्च बन्दिभिः ।
गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः ॥५५॥

मुहूर्तादिव तत् सर्वमभवत्स्वर्गसन्निभम् ।
न हि युद्धकथां काञ्चित्तत्राकुर्वन् महारथाः ॥५६॥

ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप ।
हस्त्यश्वबहुले रात्रौ प्रेक्षणीये बभूवतुः ॥५७॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धावहारे षडशीतितमोऽध्यायः ॥८६॥
सप्ताशीतितमोऽध्यायः

सञ्जय उवाच । परिणाम्य निशां तां तु सुखं प्राप्ता जनेश्वराः ।
कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः ॥१॥

परिणाम्येति । परिणाम्य गमयित्वा ॥१॥

ततः शब्दो महानासीत् सैन्ययोरुभयोर्नृप ।
निर्गच्छमानयोः संख्ये सागरप्रतिमो महान् ॥२॥

ततो दुर्योधनो राजा चित्रसेनो विविंशतिः ।
भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै नृप ॥३॥

एकीभूताः सुसंयत्ताः कौरवाणां महाचमूम् ।
व्यूहाय विदधू राजन् पाण्डवान् प्रति दंशिताः ॥४॥

भीष्मः कृत्वा महाव्यूहं पिता तव विशांपते ।
सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् ॥५॥

अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो ययौ ।
मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः ॥६॥

ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान् ।
पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः ॥७॥

द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् ।
मगधैश्च कलिङ्गैश्च पिशाचैश्च विशांपते ॥८॥

प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः ।
मेकलैः कुरुविन्दैश्च त्रैपुरैश्च समन्वितः ॥९॥

बृहद्बलात् ततः शूरस्त्रिगर्तः प्रस्थलाधिपः ।
काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः ॥१०॥

द्रौणिस्तु रभसः रस्त्रैगर्ताद भारत ।
प्रययौ सिंहनादेन नादयानो धरातलम् ॥११॥

तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा ।
द्रौणेरनन्तरं प्रायात् सोदर्यैः परिवारितः ॥१२॥

दुर्योधनादनु ततः कृपः शारद्वतो ययौ ।
एवमेष महाव्यूहः प्रययौ सागरोपमः ॥१३॥

रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि वा विभो ।
अङ्गदान्यत्र चित्राणि महार्हाणि धनूंषि च ॥१४॥

तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः ।
युधिष्ठिरोऽब्रवीत् तूर्णं पार्षतं पृतनापतिम् ॥१५॥

पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् ।
प्रतिव्यूहं त्वमपि हि कुरु पार्षत सत्वरम् ॥१६॥

ततः स पार्षतः क्रूरो व्यूहं चक्रे सुदारुणम् ।
शृङ्गाटकं महाराज परव्यूहविनाशनम् ॥१७॥

शृङ्गाटकं चतुष्पथाकारम् ॥१७॥

शृङ्गाभ्यां भीमसेनश्च सात्यकिश्च महारथः ।
रथैरनेकसाहस्रैस्तथा हयपदातिभिः ॥१८॥

शृङ्गाभ्यां शृङ्गयोः ॥१८॥

ताभ्यां बभौ नरश्रेष्ठः श्वेताश्वः कृष्णसारथिः ।
मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ॥१९॥

अथोत्तरे महेष्वासाः सहसैन्या नराधिपाः ।
व्यूह तं पूरयामासुर्व्यूहशास्त्रविशारदाः ॥२०॥

अभिमन्युस्ततः पश्चाद्विराटश्च महारथः ।
द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः ॥२१॥

एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः ।
अतिष्ठन् समरे शूरा योद्धुकामा जयैषिणः ॥२२॥

भेरीशब्दैश्च विमलैर्विभिश्रैः शङ्खनिःस्वनैः ।
क्ष्वेडितास्फोटितोत्कृष्टैर्नादिताः सर्वतो दिशः ॥२३॥

ततः शूराः समासाद्य समरे ते परस्परम् ।
नेत्रैरनिमिषै राजन्नवैक्षन्त परस्परम् ॥२४॥

नामभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम् ।
युद्धाय समवर्तन्त समाहूयेतरेतरम् ॥२५॥

ततः प्रववृते युद्धं घोररूपं भयावहम् ।
तावकानां परेषां च निघ्नतामितरेतरम् ॥२६॥

नाराचा निशिताः सङ्ख्ये संपतन्ति स्म भारत ।
व्यात्तानना भयकरा उरगा इव सङ्घशः ॥२७॥

निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः ।
अम्बुदेभ्यो यथा राजन् भ्राजमानाः शतह्रदाः ॥२८॥

गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषितैः ।
पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः ॥२९॥

निस्त्रिंशाश्च व्यदृश्यन्त विमलाम्बरसन्निभाः ।
आर्षभाणि विचित्राणि शतचन्द्राणि भारत ॥३०॥

अशोभन्त रणे राजन् पात्यमानानि सर्वशः ।
तेऽन्योन्यं समरे सेने युध्यमाने नराधिप ॥३१॥

अशोभेतां यथा देवदैत्यसेने समुद्यते ।
अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः ॥३२॥

रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे ।
युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः ॥३३॥

दंतिनां युध्यमानानां संघर्षात् पावकोऽभवत् ।
दन्तेषु भरतश्रेष्ठ सधूमः सर्वतोदिशम् ॥३४॥

प्रासैरभिहताः केचिद्गजयोधाः समन्ततः ।
पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव ॥३५॥

पादाताश्चाप्यदृश्यन्त निघ्नन्तोऽथ परस्परम् ।
चित्ररूपधराः शूरा नखरप्रासयोधिनः ॥३६॥

अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः ।
अस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् ॥३७॥

ततः शान्तनवो भीष्मो रथघोषेण नादयन् ।
अभ्यागमद्रणे पार्थान् धनुःशब्देन मोहयन् ॥३८॥

पाण्डवानां रथाश्चापि नदन्तो भैरवं स्वनम् ।
अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः ॥३९॥

ततः प्रववृते युद्धं तव तेषां च भारत ।
नराश्वरथनागानां व्यतिषक्तं परस्परम् ॥४०॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धारम्भे सप्ताशीतितमोऽध्यायः ॥८७॥
अष्टाशीतितमोऽध्यायः

सञ्जय उवाच । भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः ।
न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् ॥१॥

भीष्ममिति ॥१॥

ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् ।
अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः ॥२॥

स तु भीष्मो रणश्लाधी सोमकान्सहसृञ्जयान् ।
पञ्चालांश्च महेष्वासान् पातयामास सायकैः ॥३॥

ते वध्यमाना भीष्मेण पञ्चालाः सोमकैः सह ।
भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् ॥४॥

स तेषां रथिनां वीरो भीष्मः शांतनवो युधि ।
चिच्छेद सहसा राजन् ‌बाहूनथ शिरांसि च ॥५॥

विरथान् रथिनश्चक्रे पिता देवव्रतस्तव ।
पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् ॥६॥

निर्मनुष्यांश्च मातङ्गान् शयानान् पर्वतोपमान् ।
अपश्याम महाराज भीष्मास्त्रेण प्रमोहितान् ॥७॥

न तत्रासीत् पुमान्‌ कश्चित्पाण्डवानां विशांपते ।
अन्यत्र रथिनां श्रेष्ठाद्भीमसेनान्महाबलात् ॥८॥

स हि भीष्मं समासाद्य ताडयामास संयुगे ।
ततो निष्ठानको घोरो भीष्मभीमसमागमे ॥९॥

बभूव सर्वसैन्यानां घोररूपो भयानकः ।
तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् ॥१०॥

ततो दुर्योधनो राजा सोदर्यैः परिवारितः ।
भीष्मं जुगोप समरे वर्तमाने जनक्षये ॥११॥

भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः ।
प्रद्रुताश्वे रथे तस्मिन् द्रवमाणे समन्ततः ॥१२॥

सुनाभस्य शरेणाशु शिरश्चिच्छेद भारत ।
क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि ॥१३॥

हते तस्मिन् महाराज तव पुत्रे महारथे ।
नामृष्यन्त रणे शूराः सोदराः स संयुगे ॥१४॥

आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः ।
अपराजितः पण्डितको विशालाक्षः सुदुर्जयः ॥१५॥

पाण्डवं चित्रसन्नाहा विचित्रकवचध्वजाः ।
अभ्यद्रवन्त संग्रामे योद्धुकामारिमर्दनाः ॥१६॥

महोदरस्तु समरे भीमं विव्याध पत्रिभिः ।
नवभिर्वज्रसङ्काशैर्नमुचिं वृत्रहा यथा ॥१७॥

आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः ।
नवत्या कुण्डधारश्च विशालाक्षश्च पञ्चभिः ॥१८॥

अपराजितो महाराज पराजिष्णुर्महारथम् ।
शरैर्बहुभिरानर्च्छद्भीमसेनं महाबलम् ॥१९॥

रणे पण्डितकश्चैनं त्रिभिर्बाणैः समार्पयत् ।
स तन्न ममृषे भीमः शत्रुभिर्वधमाहवे ॥२०॥

धनुः प्रपीड्य वामेन करेणाभित्रकर्शनः ।
शिरश्चिच्छेद समरे शरेणानतपर्वणा ॥२१॥

अपराजितस्य सुनसं तव पुत्रस्य संयुगे ।
पराजितस्य भीमेन निपपात शिरो महीम् ॥२२॥

अथापरेण भल्लेन कुण्डधारं महारथम् ।
प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः॥२३॥

ततः पुनरमेयात्मा प्रसंधाय शिलीमुखम् ।
प्रेषयामास समरे पण्डितं प्रति भारत ॥२४॥

स शरः पण्डितं हत्वा विवेश धरणीतलम् ।
यथा नरं निहत्याशु भुजगः कालचोदितः ॥२५॥

विशालाक्षशिरश्छित्वा पातयामास भूतले ।
त्रिभिः शरैरदीनात्मा स्मरन् क्लेशं पुरातनम् ॥२६॥

महोदरं महेष्वासं नाराचेन स्तनान्तरे ।
विव्याध समरे राजन् स हतो न्यपतद्भुवि ॥२७॥

आदित्यकेतोः केतुं च छित्वा बाणेन संयुगे ।
भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद भारत ॥२८॥

बह्वाशिनं ततो भीमः शरेणानतपर्वणा ।
प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति ॥२९॥

प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशांपते ।
मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् ॥३०॥

ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः ।
अब्रवीत्तावकान्योधान्भीमोऽयं युधि वध्यताम् ॥३१॥

एवमेते महेष्वासाः पुत्रास्तव विशांपते ।
भ्रातॄन्संदृश्य निहतान् प्रास्मरंस्ते हि तद्वचः ॥३२॥

यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् ।
तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः ॥३३॥

लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप ।
न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् ॥३४॥

तथैव च वधार्थाय पुत्राणां पाण्डवो बली ।
नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् ॥३५॥

ततो दुर्योधनो राजा भीष्ममासाद्य संयुगे ।
दुःखेन महताऽऽविष्टो विललाप सुदुःखितः ॥३६॥

निहता भ्रातरः शूरा भीमसेनेन मे युधि ।
यतमानास्तथाऽन्येऽपि हन्यन्ते सर्वसैनिकाः ॥३७॥

भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते ।
सोऽहं कुपथमारूढः पश्य दैवमिदं मम ॥३८॥

एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव ।
दुर्योधनमिदं वाक्यमब्रवीत्साश्रुलोचनः ॥३९॥

उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च ।
गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् ॥४०॥

समयश्च मया पूर्वं कृतो वः शत्रुकर्शन ।
नाहं युधि नियोक्तव्यो नाप्याचार्यः कथञ्चन ॥४१॥

यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे ।
हनिष्यति रणे नित्यं सत्यमेतद्ब्रवीमि ते ॥४२॥

स त्वं राजन्स्थिरो भूत्वा रणे कृत्वा दृढां मतिम् ।
योधयस्व रणे पार्थान् स्वर्गं कृत्वा परायणम् ॥४३॥

न शक्याः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः ।
तस्माद्युद्धे स्थिरां कृत्वा मतिं युद्ध्यस्व भारत ॥४४॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि सुनाभादिधृतराष्ट्रपुत्रवधे अष्टाशीतितमोऽध्यायः ॥८८॥
ऊननवतितमोऽध्यायः

धृतराष्ट्र उवाच । दृष्ट्वा मे निहतान्पुत्रान्बहूनेकेन सञ्जय ।
भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे ॥१॥

दृष्ट्वेति ॥१॥

अहन्यहनि मे पुत्राः क्षयं गच्छन्ति सञ्जय ।
मन्येऽहं सर्वथा सूत दैवेनोपहता भृशम् ॥२॥

यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत ।
यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः ॥३॥

सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः ।
अश्वत्थाम्नस्तथा तात शूराणामनिवर्तिनाम् ॥४॥

अन्येषां चैव शूराणां मध्यगास्तनया मम ।
यदहन्यन्त संग्रामे किमन्यद्भागधेयतः ॥५॥

न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत ।
वार्यमाणो मया तात भीष्मेण विदुरेण च ॥६॥

गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया ।
नाबुध्यत पुरा मोहात्तस्य प्राप्तमिदं फलम् ॥७॥

यद्भीमसेनः समरे पुत्रान्मम विचेतसः ।
अहन्यहनि संक्रुद्धो नयते यमसादनम् ॥८॥

सञ्जय उवाच । इदं तत् समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् ।
न बुद्धवानसि विभो प्रोच्यमानं हितं तदा ॥९॥

निवारय सुतान्द्यूतात्पाण्डवान् मा द्रुहेति च ।
सुहृदां हितकामानां ब्रुवतां तत्तदेव च ॥१०॥

न शुश्रूषसि यद्वाक्यं मर्त्यः पथ्यमिवौषधम् ।
तदेव त्वामनुप्राप्तं वचनं साधुभाषितम् ॥११॥

विदुरद्रोणभीष्माणां तथाऽन्येषां हितैषिणाम् ।
अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः ॥१२॥

तदेतत् समनुप्राप्तं पूर्वमेव विशांपते ।
तस्मात् त्वं शृणु तत्त्वेन यथा युद्धमवर्तत ॥१३॥

मध्याह्ने सुमहारौद्रः संग्रामः समपद्यत ।
लोकक्षयकरो राजंस्तन्मे निगदतः शृणु ॥१४॥

ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् ।
संरब्धान्यभ्यवर्तन्त भीष्ममेव जिघांसया ॥१५॥

धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः ।
युक्तानीका महाराज भीष्ममेव समभ्ययुः ॥१६॥

विराटो द्रुपदश्चैव सहिताः सर्वसोमकैः ।
अभ्यद्रवन्त संग्रामे भीष्ममेव महारथम् ॥१७॥

केकया धृष्टकेतुश्च कुन्तिभोजश्च दंशितः ।
युक्तानीका महाराज भीष्ममेव समभ्ययुः ॥१८॥

अर्जुनो द्रौपदेयाश्च चेकितानश्च वीर्यवान् ।
दुर्योधनसमादिष्टान् राज्ञः सर्वान्समभ्ययुः ॥१९॥

अभिमन्युस्तथा शूरो हैडिम्बश्च महारथः ।
भीमसेनश्च संक्रुद्धस्तेऽभ्यधावन्त कौरवान् ॥२०॥

त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि ।
तथैव कौरवै राजन्नवध्यन्त परे रणे ॥२१॥

द्रोणस्तु रथिनः श्रेष्ठान्सोमकान्सृञ्जयैः सह ।
अभ्यधावत संक्रुद्धः प्रेषयिष्यन् यमक्षयम् ॥२२॥

तत्राक्रन्दो महानासीत् सृञ्जयानां महात्मनाम् ।
वध्यतां समरे राजन् भारद्वाजेन धन्विना ॥२३॥

द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे ।
विचेष्टन्तो ह्यदृश्यन्त व्याधिक्लिष्टा नरा इव ॥२४॥

कूजतां क्रन्दतां चैव स्तनतां चैव भारत ।
अनिशं शुश्रुवे शब्दः क्षुत्क्लिष्टानां नृणामिव ॥२५॥

कूजताम् अव्यक्तं ध्वनतां स्तनताम् उच्चैः शब्दायमानानाम् ॥२५॥

तथैव कौरवेयाणां भीमसेनो महाबलः ।
चकार कदनं घोरं क्रुद्धः काल इवापरः ॥२६॥

वध्यतां तत्र सैन्यानामन्योन्येन महारणे ।
प्रावर्तत नदी घोरा रुधिरौघप्रवाहिनी ॥२७॥

स संग्रामो महाराज घोररूपोऽभवन्महान् ।
कुरूणां पाण्डवानां च यमराष्ट्रविवर्धनः ॥२८॥

ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः ।
गजानीकं समासाद्य प्रेषयामास मृत्यवे ॥२९॥

तत्र भारत भीमेन नाराचाभिहता गजाः ।
पेतुर्नेदुश्च सेदुश्च दिशश्च परिबभ्रमुः ॥३०॥

छिन्नहस्ता महानागाश्छिन्नगात्राश्च मारिष ।
क्रौञ्चवद्व्यनदन् भीताः पृथिवीमधिशेरते ॥३१॥

नकुलः सहदेवश्च हयानीकमभिद्रुतौ ।
ते हयाः काञ्चनापीडा रुक्मभांडपरिच्छदाः ॥३२॥

वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ।
पतद्भिस्तुरगै राजन् समास्तीर्यत मेदिनी ॥३३॥

निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः ।
हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा ॥३४॥

अर्जुनेन हतैः सङ्ख्ये तथा भारत राजभिः ।
प्रबभौ वसुधा घोरा तत्र तत्र विशांपते ॥३५॥

रथैर्भग्नैर्ध्वजैश्छिन्नैर्निकृत्तैश्च महायुधैः ।
चामरैर्व्यजनैश्चैव छत्रैश्च सुमहाप्रभैः ॥३६॥

हारैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः ।
उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वशः ॥३७॥

निष्कैरुरोभूषणैः ॥३७॥

अनुकर्षैः शुभै राजन् योक्त्रैश्चैव सरश्मिभिः ।
संकीर्णा वसुधा भाति वसन्ते कुसुमैरिव ॥३८॥

योक्त्रैरीषायोजनरज्जुभिः रश्मिभिरश्वबंधनरज्जुभिः ॥३८॥

एवमेष क्षयो वृत्तः पाण्डूनामपि भारत ।
क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे ॥३९॥

अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि ।
तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः ॥४०॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे ऊननवतितमोऽध्यायः ॥८९॥
नवतितमोऽध्यायः

सञ्जय उवाच । वर्तमाने तथा रौद्रे राजन् वीरवरक्षये ।
शकुनिः सौबलः श्रीमान्पांडवान्समुपाद्रवत् ॥१॥

वर्तमान इति ॥१॥

तथैव सात्वतो राजन् हार्दिक्यः परवीरहा ।
अभ्यद्रवत संग्रामे पाण्डवानां वरूथिनीम् ॥२॥

ततः कांबोजमुख्यानां नदीजानां च वाजिनाम् ।
आरट्टानां महीजानां सिन्धुजानां च सर्वशः ॥३॥

वाजिनां वेगवतां वाजिनामश्वानां बहुभिर्गणैः परिवारयन्निति गणशब्दाध्याहारेण द्वयोः सम्बन्धः॥३॥

वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् ।
वाजिनां वहुभिः सङ्ख्ये समंतात्परिवारयन् ॥४॥

ये चापरे तित्तिरिजा जवना वातरंहसः ।
सुवर्णालङ्कृतैरेतैर्वर्मवद्भिः सुकल्पितैः ॥५॥

हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली ।
अभ्यवर्तत तत् सैन्यं हृष्टरूपः परंतपः ॥६॥

पाण्डवस्यार्जुनस्य सुत इरावान् ॥६॥

अर्जुनस्य सुतः श्रीमानिरावान्नाम वीर्यवान् ।
स्नुषायां नागराजस्य जातः पार्थेन धीमता ॥७॥

नागराजस्य ऐरावतस्य ॥७॥

ऐरावतेन सा दत्ता अनपत्या महात्मना ।
पत्यौ हते सुपर्णेन कृपणा दीनचेतना ॥८॥

भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् ।
एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः ॥९॥

स नागलोके संवृद्धो मात्रा च परिरक्षितः ।
पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना ॥१०॥

पितृव्येण अश्वसेनेन ॥१०॥

रूपवान् बलसंपन्नो गुणवान् सत्यविक्रमः ।
इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् ॥११॥

सोऽभिगम्य महाबाहुः पितरं सत्यविक्रमः ।
अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः ॥१२॥

न्यवेदयत चात्मानमर्जुनस्य महात्मनः ।
इरावानस्मि भद्रं ते पुत्रश्चाहं तव प्रभो ॥१३॥

मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् ।
तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः ॥१४॥

परिष्वज्य सुतं चापि आत्मनः सदृशं गुणैः ।
प्रीतिमाननयत् पार्थो देवराजनिवेशने ॥१५॥

सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप ।
प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत ॥१६॥

युद्धकाले त्वयाऽस्माकं साह्यं देयमिति प्रभो ।
बाढमित्येवमुक्त्वा तु युद्धकाल इहागतः ॥१७॥

साह्यं साहाय्यम् ॥१७॥

कामवर्णजवैरश्वैर्बहुभिः संवृतो नृप ।
ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः ॥१८॥

उत्पेतुः सहसा राजन् हंसा इव महोदधौ ।
ते त्वदीयान् समासाद्य हयसंघान्मनोजवान् ॥१९॥

क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् ।
निपेतुः सहसा राजन् सुवेगाभिहता भुवि ॥२०॥

निपतद्भिस्तथा तैश्च हयसङ्घैः परस्परम् ।
शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा ॥२१॥

तथैव तावका राजन् समेत्यान्योऽन्यमाहवे ।
परस्परवधं घोरं चक्रुस्ते हयसादिनः ॥२२॥

तस्मिंस्तथा वर्तमाने स‌ङ्कुले तुमुले भृशम् ।
उभयोरपि संशान्ता हयसङ्घाः समन्ततः ॥२३॥

प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः ।
विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् ॥२४॥

ततः क्षीणे हयानीके किञ्चिच्छेषे च भारत ।
सौबलस्यानुजाः शूरा निर्गता रणमूर्धनि ॥२५॥

वायुवेगसमस्पर्शान् जवे वायुसमांश्च ते ।
आरुह्य बलसंपन्नान्वयःस्थांस्तुरगोत्तमान् ॥२६॥

गजो गवाक्षो वृषभश्चर्मवानार्जवः शुकः ।
षडेते बलसंपन्ना निर्ययुर्महतो बलात् ॥२७॥

वार्यमाणाः शकुनिना तैश्च योधैर्महाबलैः ।
सन्नद्धा युद्धकुशला रौद्ररूपा महाबलाः ॥२८॥

तदनीकं महाबाहो भित्त्वा परमदुर्जयम् ।
बलेन महता युक्ताः स्वर्गाय विजयैषिणः॥२९॥

विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः ।
तान् प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् ॥३०॥

अब्रवीत्समरे योधान् विचित्रान्दारुणायुधान् ।
यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः ॥३१॥

हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् ।
बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः ॥३२॥

जघ्नुस्तेषां बलानीकं दुर्जयं समरे परैः ।
तदनीकमनीकेन समरे वीक्ष्य पातितम् ॥३३॥

अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे ।
इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन् ॥३४॥

ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् ।
ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् ॥३५॥

इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः ।
स्रवता रुधिरेणाक्तस्तोत्रैर्विद्ध इव द्विपः ॥३६॥

पुरतोऽपिं च पृष्ठे च पार्श्वयोश्च भृशाहतः ।
एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे ॥३७॥

इरावानपि संक्रुद्धः सर्वांस्तान्निशितैः शरैः ।
मोहयामास समरे विद्ध्वा परपुरञ्जयः ॥३८॥

प्रासानुत्कृष्य तरसा स्वशरीरादरिन्दमः ।
तैरेव ताडयामास सुबलस्यात्मजान् रणे ॥३९॥

विकृष्य च शितं खड्गं गृहीत्वा च शरावरम् ।
पदातिर्द्रुतमागच्छज्जिघांसुः सौबलान् युधि ॥४०॥

ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः ।
भूयः क्रोधसमाविष्टा इरावन्तमभिद्रुताः॥४१॥

इरावानपि खड्गेन दर्शयन् पाणिलाघवम् ।
अभ्यवर्तत तान् सर्वान् सौबलान् बलदर्पितः ॥४२॥

लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः ।
अन्तरं नाभ्यगच्छन्त चरन्तः शीघ्रगैर्हयैः ॥४३॥

भूमिष्ठमथ तं सङ्ख्ये संप्रदृश्य ततः पुनः ।
परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः ॥४४॥

अथाभ्याशगतानां स खड्गेनामित्रकर्शनः ।
असिहस्तापहस्ताभ्यां तेषां गात्राण्यकृन्तत ॥४५॥

असिहस्तो दक्षिणबाहुविभ्रान्तच्छेदः । अपहस्तो वामबाहुविभ्रान्तच्छेदः ॥४५॥

आयुधानि च सर्वेषां बाहूनपि विभूषितान् ।
अपतन्त निकृत्ताङ्गा मृता भूमौ गतासवः ॥४६॥

वृषभस्तु महाराज बहुधा विपरिक्षतः ।
अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् ॥४७॥

तान्सर्वान्पतितान् दृष्ट्वा भीतो दुर्योधनस्ततः ।
अभ्यधावत संक्रुद्धो राक्षसं घोरदर्शनम् ॥४८॥

आर्ष्यशृङ्गिं महेष्वासं मायाविनमरिन्दमम् ।
वैरिणं भीमसेनस्य पूर्वं बकवधेन वै ॥४९॥

पश्य वीर यथा ह्येष फाल्गुनस्य सुतो बली ।
मायावी विप्रियं कर्तुमकार्षीन्मे बलक्षयम् ॥५०॥

त्वं च कामगमस्तात मायास्त्रे च विशारदः ।
कृतवैरश्च पार्थेन तस्मादेनं रणे जहि ॥५१॥

बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः ।
प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा ॥५२॥

आरूढैर्युद्धकुशलैर्विमलप्रासयोधिभिः ।
वीरैः प्रहारिभिर्युक्तैः स्वैरनीकैः समावृतः ॥५३॥

हतशेषैर्महाराज द्विसाहस्रैर्हयोत्तमैः ।
निहन्तुकामः समरे इरावन्तं महाबलम् ॥५४॥

इरावानपि संकुद्धस्त्वरमाणः पराक्रमी ।
हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत् ॥५५॥

तमापतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः ।
त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे ॥५६॥

तेन मायामयाः सृष्टा हयास्तावन्त एव हि ।
स्वारूढा राक्षसैर्घोरैः शूलपट्टिशधारिभिः ॥५७॥

ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः ।
अचिराद्गमयामासुः प्रेतलोकं परस्परम् ॥५८॥

तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ ।
संग्रामे समतिष्ठेतां यथा वै वृत्रवासवौ ॥५९॥

आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् ।
इरावानथ संरब्धः प्रत्यधावन्महाबलः ॥६०॥

समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः ।
चिच्छेद कार्मुकं दीप्तं शरावापं च सत्त्वरम् ॥६१॥

स निकृत्तं धनुर्दष्ट्वा खं जवेन समाविशत् ।
इरावन्तमभिक्रुद्धं मोहयन्निव मायया ॥६२॥

ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् ।
विमोहयित्वा मायाभिस्तस्य गात्राणिसायकैः ॥६३॥

चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः ।
तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः ॥६४॥

संबभूव महाराज समवाप च यौवनम् ।
माया हि सहजा तेषां वयो रूपं च कामजम् ॥६५॥

एवं तद्राक्षसस्याङ्गं छिन्नं छिन्नं बभूव ह ।
इरावानपि संक्रुद्धो राक्षसं तं महाबलम् ॥६६॥

परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः ।
स तेन बलिना बीरश्छिद्यमान इरावता ॥६७॥

राक्षसोऽप्यनदद्धोरं स शब्दस्तुमुलोऽभवत् ।
परश्वधक्षतं रक्षः सुस्राव बहु शोणितम् ॥६८॥

ततश्चुक्रोध बलवांश्चक्रे वेगं च संयुगे ।
आर्ष्यशृङ्गिस्तथा दृष्ट्वा समरे शत्रुमूर्जितम् ॥६९॥

कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे ।
अर्जुनस्य सुतं वीरमिरावन्तं यशस्विनम् ॥७०॥

संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् ।
तां दृष्ट्वा तादृशीं मायां राक्षसस्य दुरात्मनः ॥७१॥

इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे ।
तस्य क्रोधाभिभूतस्य समरेष्वनिवर्तिनः ॥७२॥

योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् ।
स नागैर्बहुभी राजन्निरावान् संवृतो रणे ॥७३॥

दधार सुमहद्रूपमनन्त इव भोगवान् ।
ततो बहुविधैर्नागैश्छादयामास राक्षसम् ॥७४॥

छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः ।
सौपर्णं रूपमास्थाय भक्षयामास पन्नगान् ॥७५॥

मायया भक्षिते तस्मिन्नन्वये तस्य मातृके ।
विमोहितमिरावन्तं न्यहनद्राक्षसोऽसिना ॥७६॥

सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् ।
इरावतः शिरो रक्षः पातयामास भूतले ॥७७॥

तस्मिंस्तु विहते वीरे राक्षसेनार्जुनात्मजे ।
विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ॥७८॥

तस्मिन् महति संग्रामे तादृशे भैरवे पुनः ।
महान् व्यतिकरो घोरः सेनयोः समपद्यत ॥७९॥

गजा हयाः पदाताश्च विमिश्रा दन्तिभिर्हताः ।
रथाश्वा दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः ॥८०॥

तथा पत्तिरथौघाश्च हयाश्च बहवो रणे ।
रथिभिर्निहता राजंस्तव तेषां च संकुले ॥८१॥

अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् ।
जघान समरे शूरान् राज्ञस्तान् भीष्मरक्षिणः ॥८२॥

तथैव तावका राजन् सृञ्जयाश्च सहस्रशः ।
जुह्वतः समरे प्राणान्निजघ्नुरितरेतरम् ॥८३॥

मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः ।
बाहुभिः समयुध्यन्त समवेताः परस्परम् ॥८४॥

तथा मर्मातिगैर्भीष्मो निजघान महारथान् ।
कम्पयन् समरे सेनां पाण्डवानां परंतपः ॥८५॥

तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः ।
दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा ॥८६॥

तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् ।
अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम् ॥८७॥

तथैव भीमसेनस्य पार्षतस्य च भारत ।
रौद्रमासीद्रणे युद्धं सात्यकस्य च धन्विनः ॥८८॥

दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान् भयमाविशत् ।
एक एव रणे शक्तो निहन्तुं सर्वसैनिकान् ॥८९॥

किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः ।
इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः ॥९०॥

वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ ।
उभयोः सेनयोः शूरा नामृष्यन्त परस्परम् ॥९१॥

आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः ।
तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः ॥९२॥

आविष्टाः ग्रहाद्याविष्टाः ॥९२॥

न स्म पश्यामहे कञ्चित्प्राणान्यः परिरक्षति ।
संग्रामे दैत्यसङ्काशे तस्मिन् वीरवरक्षये॥९३॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि इरावद्वधे नवतितमोऽध्यायः ॥९०॥
एकनवतितमोऽध्यायः

धृतराष्ट्र उवाच । इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः ।
संग्रामे किमकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥१॥

इरावन्तमिति ॥१॥
सञ्जय उवाच ।

इरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः ।
व्यनदत् सुमहानादं भैमसेनिर्घटोत्कचः ॥२॥

नदतस्तस्य शब्देन पृथिवी सागराम्बरा ।
सपर्वतवना राजंश्चचाल सुभृशं तदा ॥३॥

अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा ।
तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत ॥४॥

ऊरुस्तंभः समभवद्वेपथुः खेद एव च ।
सर्व एव महाराज तावका दीनचेतसः ॥५॥

सर्वतः समचेष्टन्त सिंहभीता गजा इव ।
नर्दित्वा सुमहानादं निर्घातमिव राक्षसः ॥६॥

ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् ।
नानारूपप्रहरणैर्वृतो राक्षसपुङ्गवैः ॥७॥

आजघान सुसंक्रुद्धः कालान्तकयमोपमः ।
तमापतन्तं संप्रेक्ष्य सङ्क्रुद्धं भीमदर्शनम् ॥८॥

स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् ।
ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् ॥९॥

प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः ।
पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः ॥१०॥

कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् ।
तमापतन्तं संप्रेक्ष्य गजानीकेन संवृतम् ॥११॥

पुत्रं तव महाराज चुकोप स निशाचरः ।
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ॥१२॥

राक्षसानां च राजेन्द्र दुर्योधनबलस्य च ।
गजानीकं च संप्रेक्ष्य मेघवृन्दमिवोदितम् ॥१३॥

अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः ।
नदन्तो विविधान्नादान्मेघा इव सविद्युतः ॥१४॥

शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः ।
भिन्दिपालैस्तथा शूलैर्मुद्गरैः सपरश्वधैः ॥१५॥

पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् ।
भिन्नकुंभान्विरुधिरान्भिन्नगात्रांश्च वारणान् ॥१६॥

अपश्याम महाराज वध्यमानान्निशाचरैः ।
तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु ॥१७॥

दुर्योधनो महाराज राक्षसान् समुपाद्रवत् ।
अमर्षवशमापन्नस्त्यक्त्वा जीवितमात्मनः॥१८॥

मुमोच निशितान् बाणान् राक्षसेषु परंतप ।
जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् ॥१९॥

संकुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ।
वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् ॥२०॥

शरैश्चतुर्भिश्चतुरो निजघान महाबलः ।
ततः पुनरमेयात्मा शरवर्षं दुरासदम् ॥२१॥

मुमोच भरतश्रेष्ठो निशाचरबलं प्रति ।
तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष ॥२२॥

क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः ।
स विस्फार्य महच्चापमिन्द्राशनिसमप्रभम् ॥२३॥

अभिदुद्राव वेगेन दुर्योधनमरिन्दमम् ।
तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् ॥२४॥

न विव्यथे महाराज पुत्रो दुर्योधनस्तव ।
अथैनमब्रवीत् क्रुद्धः क्रूरः संरक्तलोचनः ॥२५॥

अद्यानृण्यं गमिष्यामि पितॄणां मातुरेव च ।
ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः ॥२६॥

यच्च ते पाण्डवा राजंश्छलहूते पराजिताः ।
यच्चैव द्रौपदी कृष्णा एकवस्त्रा रजस्वला ॥२७॥

सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया ।
तव च प्रियकामेन आश्रमस्था दुरात्मना ॥२८॥

सैन्धवेन परामृष्टा परिभूय पितॄन् मम ।
एतेषामपमानानामन्येषां च कुलाधम ॥२९॥

अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् ।
एवमुक्त्वा तु हैडिम्बो महद्विस्फार्य कार्मुकम्.॥३०॥

संदश्य दशनैरोष्ठं सृक्किणी परिसंलिहन् ।
शरवर्षेण महता दुर्योधनमवाकिरत् ।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥३१॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि हैडिम्बयुद्धे एकनवतितमोऽध्यायः ॥९१॥
द्विनवतितमोऽध्यायः

सञ्जय उवाच । ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि ।
दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः ॥१॥

तत इति ॥१॥

ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः ।
संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ ॥२॥

मुमोच निशिस्तांस्तीक्ष्णान्नाराचान् पञ्चविंशतिम् ।
तेऽपतन्सहसा राजंस्तस्मिन् राक्षसपुङ्गवे ॥३॥

आशीविषा इव क्रुद्धाः पर्वते गन्धमादने ।
स तैर्विद्धः स्रवन् रक्तं प्रभिन्न इव कुञ्जरः ॥४॥

दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः ।
जग्राह च महाशक्तिं गिरीणामपि दारिणीम् ॥५॥

संप्रदीप्तां महोल्काभामशनिं ज्वलितामिव ।
समुद्यच्छन् महाबाहुर्जिघांसुस्तनयं तव ॥६॥

तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् ।
कुञ्जरं गिरिसङ्काशं राक्षसं प्रत्यचोदयत् ॥७॥

सनागप्रवरेणाजौ बलिना शीघ्रगामिना ।
यतो दुर्योधनरथस्तं मार्गं प्रत्यवर्तत ॥८॥

रथं च वारयामास कुञ्जरेण सुतस्य ते ।
मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता ॥९॥

घटोत्कचो महाराज क्रोधसंरक्तलोचनः ।
उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे ॥१०॥

स तयाऽभिहतो राजंस्तेन बाहुप्रमुक्तया ।
सञ्जातरुधिरोत्पीडः पपात च ममार च ॥११॥

पतत्यथ गजे चापि वङ्गानामीश्वरो बली ।
जवेन समभिद्रुत्य जगाम धरणीतलम् ॥१२॥

दुर्योधनोऽपि संप्रेक्ष्य पतितं वरवारणम् ।
प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् ॥१३॥

क्षत्रधर्मं पुरस्कृत्य आत्मनश्चाभिमानिताम् ।
प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः ॥१४॥

संधाय च शितं बाणं कालाग्निसमतेजसम् ।
मुमोच परमक्रुद्धस्तस्मिन् घोरे निशाचरे ॥१५॥

तमापतन्तं संप्रेक्ष्य बाणमिन्द्राशनिप्रभम् ।
लाघवान्मोचयामास महात्मा वै घटोत्कचः॥१६॥

भूयश्च विननादोग्रं क्रोधसंरक्तलोचनः ।
त्रासयामास सैन्यानि युगान्ते जलदो यथा ॥१७॥

तं श्रुत्वा निनदं घोरं तस्य भीमस्य रक्षसः ।
आचार्यमुपसङ्गम्य भीष्मः शान्तनवोऽब्रवीत् ॥१८॥

यथैष निनदो घोरः श्रूयते राक्षसेरितः ।
हैडिम्बो युध्यते नून राज्ञा दुर्योधनेन ह ॥१९॥

नैष शक्यो हि सङ्ग्रामे जेतुं भूतेन केनचित् ।
तत्र गच्छत भद्रं वो राजानं परिरक्षत ॥२०॥

अभिद्रुतो महाभागो राक्षसेन महात्मना ।
एतद्धि वः परं कृत्यं सर्वेषां नः परंतपाः ॥२१॥

पितामहवचः श्रुत्वा त्वरमाणा महारथाः ।
उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः ॥२२॥

द्रोणश्च सोमदत्तश्च बाह्लीकोऽथ जयद्रथः ।
कृपो भूरिश्रवाः शल्य आवन्त्यः स बृहद्बलः ॥२३॥

अश्वत्थामा विकर्णश्च चित्रसेनो विविंशतिः ।
रथाश्चानेकसाहस्रा ये तेषामनुयायिनः ॥२४॥

अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव ।
तदनीकमनाधृष्यं पालितं तु महारथैः ॥२५॥

आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः ।
नाकम्पत महाबाहुर्मैनाक इव पर्वतः ॥२६॥

प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः ।
शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि ॥२७॥

ततः समभवद्युद्धं तुमुलं लोमहर्षणम् ।
राक्षसानां च मुख्यस्य दुर्योधनबलस्य च ॥२८॥

धनुषां कूजतां शब्दः सर्वतस्तुमुलो रणे ।
अश्रूयत महाराज वंशानां दह्यतामिव ॥२९॥

अस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् ।
शब्दः समभवद्राजन् गिरीणामिव भिद्यताम् ॥३०॥

वीरबाहुविसृष्टानां तोमराणां विशांपते ।
रूपमासीद्वियत्स्थानां सर्पाणामिव सर्पताम् ॥३१॥

ततः परमसंक्रुद्धो विस्फार्य सुमहद्धनुः ।
राक्षसेन्द्रो महाबाहुर्विनदन् भैरवं रवम् ॥३२॥

आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् ।
सोमदत्तस्य भल्लेन ध्वजं चोन्मथ्य चानदत् ॥३३॥

बाह्लीकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ।
कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः ॥३४॥

पूर्णायतविसृष्टेन सम्यक् प्रणिहितेन च ।
जत्रुदेशे समासाद्य विकर्णं समताडयत् ॥३५॥

न्यषीदत् स्वरथोपस्थे शोणितेन परिप्लुतः ।
ततः पुनरमेयात्मा नाराचान् दश पञ्च च ॥३६॥

भूरिश्रवसि संक्रुद्धः प्राहिणोद्भरतर्षभ ।
ते वर्म भित्त्वा तस्याशु विविशुर्धरणीतलम् ॥३७॥

विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् ।
तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् ॥३८॥

सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् ।
उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः ॥३९॥

चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः ।
जघान चतुरो वाहान् क्रोधसंरक्तलोचनः ॥४०॥

पूर्णायतविसृष्टेन पीतेन निशितेन च ।
निर्बिभेद महाराज राजपुत्रं बृहद्बलम् ॥४१॥

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।
भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः ॥४२॥

चिक्षेप निशितांस्तीक्ष्णाञ्छरानाशीविषोपमान् ।
बिभिदुस्ते महाराज शल्यं युद्धविशारदम् ॥४३॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि हैडिम्बयुद्धे द्विनवतितमोऽध्यायः ॥९२॥
त्रिनवतितमोऽध्यायः

सञ्जय उवाच । विमुखीकृत्य सर्वांस्तु तावकान् युधि राक्षसः ।
जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत् ॥१॥

विमुखीकृत्येति ॥१॥

तमापतन्तं संप्रेक्ष्य राजानं प्रति वेगितम् ।
अभ्यधावन् जिघांसन्तस्तावका युद्धदुर्मदाः ॥२॥

तालमात्राणि चापानि विकर्षन्तो महारथाः ।
तमेकमभ्यधावन्त नदन्तः सिंहसङ्घवत् ॥३॥

अथैनं शरवर्षेण समन्तात् पर्यवाकिरन् ।
पर्वतं वारिधाराभिः शरदीव बलाहकाः ॥४॥

स गाढविद्धो व्यथितस्तोत्रार्दित इव द्विपः ।
उत्पपात तदाऽऽकाशं समन्ताद्वैनतेयवत् ॥५॥

व्यनदत् सुमहानादं जीमूत इव शारदः ।
दिशः खं विदिशश्चैव नादयन् भैरवस्वनः ॥६॥

राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः ।
उवाच भरतश्रेष्ठ भीमसेनमरिन्दमम् ॥७॥

युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः ।
यथाऽस्य श्रूयते शब्दो नदतो भैरवं स्वनम् ॥८॥

अतिभारं च पश्यामि तस्मिन् राक्षसपुङ्गवे ।
पितामहश्च संक्रुद्धः पञ्चालान् हन्तुमुद्यतः ॥९॥

तेषां च रक्षणार्थाय युध्यते फाल्गुनः परैः ।
एतज्ज्ञात्वा महाबाहो कार्यद्वयमुपस्थितम् ॥१०॥

गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम् ।
भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः ॥११॥

प्रययौ सिंहनादेन त्रासयन् सर्वपार्थिवान् ।
वेगेन महता राजन् पर्वकाले यथोदधिः ॥१२॥

तमन्वगात् सत्यधृतिः सौचित्तिर्युद्धदुर्मदः ।
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥१३॥

अभिमन्युमुखाश्चैव द्रौपदेया महारथाः ।
क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च ॥१४॥

अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः ।
महता रथवंशेन हैडिम्बं पर्यवारयन् ॥१५॥

कुञ्जरैश्च सदा मत्तैः षट्सहस्त्रैः प्रहारिभिः ।
अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् ॥१६॥

सिंहनादेन महता नेभिघोषेण चैव ह ।
खुरशब्द‌निपातैश्च कम्पयन्तो वसुंधराम् ॥१७॥

तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् ।
भीमसेनभयोद्विग्नं विवर्णवदनं तथा ॥१८॥

ततः प्रववृते युद्धं तत्र तेषां महात्मनाम् ॥१९॥

तावकानां परेषां च संग्रामेष्वनिवर्तिनाम् ।
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः ॥२०॥

अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे ।
व्यतिष्वक्तं महारौद्रं युद्धं भीरुभयावहम् ॥२१॥

हया गजैः समाजग्मुः पादाता रथिभिः सह ।
अन्योन्यं समरे राजन्प्रार्थयानाः समभ्ययुः ॥२२॥

सहसा चाभवत्तीव्रं सन्निपातान्महद्रजः ।
गजाश्वरथपत्तीनां पदनेमिसमुद्धतम् ॥२३॥

धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत् ।
नैव स्वे न परे राजन् समजानन् परस्परम् ॥२४॥

पिता पुत्रं न जानीते पुत्रो वा पितरं तथा ।
निर्मर्यादे तथाभूते वैशसे लोमहर्षणे ॥२५॥

शस्त्राणां भरतश्रेठ मनुष्याणां च गर्जताम् ।
सुमहानभवच्छब्दः प्रेतानामिव भारत ॥२६॥

गजवाजिमनुष्याणां शोणितान्त्रतरङ्गिणी ।
प्रावर्तत नदी तत्र केशशैवलशाद्वला ॥२७॥

नराणां चैव कायेभ्यः शिरसां पततां रणे ।
शुश्रुवे सुमहाञ्छब्दः पततामश्मनामिव ॥२८॥

विशिरस्कैर्मनुष्यैश्च च्छिन्नगात्रैश्च वारणैः ।
अश्वैः संभिन्नदेहैश्च संकीर्णाऽभूद्वसुंधरा ॥२९॥

नानाविधानि शस्त्राणि विसृजन्तो महारथाः ।
अन्योन्यमभिधावन्तः संप्रहारार्थमुद्यताः ॥३०॥

हया हयान् समासाद्य प्रेषिता हयसादिभिः ।
समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः ॥३१॥

नरा नरान् समासाद्य क्रोधरक्तेक्षणा भृशम् ।
उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे ॥३२॥

प्रेषिताश्च महामात्रैर्वारणाः परवारणैः ।
अभ्यघ्नन्त विषाणाग्रैर्वारणानेव संयुगे ॥३३॥

ते जातरुधिरोत्पीडाः पताकाभिरलङ्कृताः ।
संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥३४॥

केचिद्भिन्ना विषाणाग्नैर्भिन्नकुंभाश्च तोमरैः ।
विनदन्तोऽभ्यधावन्त गर्जमाना घना इव ॥३५॥

केचिद्धस्तैर्द्विधा छिन्नैश्छिन्नगात्रास्तथाऽपरे ।
निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः ॥३६॥

पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः ।
मुमुचुः शोणितं भूरि धातूनिव महीधराः ॥३७॥

नाराचनिहतास्त्वन्ये तथा विद्धाश्च तोमरैः ।
विनदन्तोऽभ्यधावन्त विशृङ्गा इव पर्वताः ॥३८॥

केचित् क्रोधसमाविष्टा मदान्धा निरवग्रहाः ।
रथान् हयान् पदातींश्च ममृदुः शतशो रणे ॥३९॥

तथा हया हयारोहैस्ताडिताः प्रासतोमरैः ।
तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः ॥४०॥

रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः ।
परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् ॥४१॥

स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् ।
प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः ॥४२॥

तस्मिंस्तथा वर्तमाने संग्रामे लोमहर्षणे ।
धार्तराष्ट्रं महत् सैन्यं प्रायशो विमुखी कृतम् ॥४३॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि सङ्कुलयुद्धे त्रिनवतितमोऽध्यायः ॥९३॥
चतुर्नवतितमोऽध्यायः

सञ्जय उवाच । स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम् ।
अभ्यधावत संक्रुद्धो भीमसेनमरिन्दमम् ॥१॥

स्वसैन्यमिति ॥१॥

प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् ।
महता शरवर्षेण पाण्डवं समवाकिरत् ॥२॥

अर्धचन्द्रं च सन्धाय सुतीक्ष्णं लोमवाहिनम् ।
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ॥३॥

तदन्तरं च संप्रेक्ष्य त्वरमाणो महारथः ।
प्रसंदधे शितं बाणं गिरीणामपि दारणम् ॥४॥

तेनोरसि महाराज भीमसेनमताडयत् ।
स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन् ॥५॥

समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् ।
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः ॥६॥

क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः ।
अभिमन्युमुखाश्चापि पाण्डवानां महारथाः ॥७॥

समभ्यधावन् क्रोशन्तो राजानं जातसंभ्रमाः ।
संप्रेक्ष्यैतान्संपततः संकुद्धान्जातसंभ्रमान् ॥८॥

भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् ।
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत ॥९॥

संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे ।
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः ॥१०॥

भीमसेनं पुरस्कृत्य दुर्योधनमुपाद्रवन् ।
नानाविधानि शस्त्राणि विसृजन्तो जये धृताः ॥११॥

नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिपान् ।
तदाचार्यवचः श्रुत्वा सौमद‌त्तिपुरोगमाः ॥१२॥

तावकाः समवर्तन्त पाण्डवानामनीकिनीम् ।
कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः ॥१३॥

चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः ।
आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ॥१४॥

ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे ।
पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः ॥१५॥

एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम् ।
भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ॥१६॥

भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् ।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥१७॥

तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः ।
त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ॥१८॥

स गाढविद्धो व्यथितो वयोवृद्धश्च भारत ।
प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत् ॥१९॥

गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् ।
द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ ॥२०॥

तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ ।
भीमसेनो महाबाहुर्गदामादाय सत्वरम् ॥२१॥

अवप्लुत्य रथात् तूर्णं तस्थौ गिरिरिवाचलः ।
समुद्यम्य गदां गुर्वी यमदण्डोपमां रणे ॥२२॥

तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् ।
कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ॥२३॥

तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ ।
अभ्यधावत वेगेन त्वरमाणो वृकोदरः ॥२४॥

तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ।
समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ॥२५॥

भारद्वाजमुखाः सर्वे भीमसेनजिघांसया ।
नानाविधानि शस्त्राणि भीमस्योरस्यपातयन् ॥२६॥

सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः ।
तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम् ॥२७॥

अभिमन्युप्रभृतयः पाण्डवानां महारथाः ।
अभ्यधावन् परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥२८॥

अनूपाधिपतिः शूरो भीमस्य दयितः सखा ।
नीलो नीलांबुदप्रख्यः संक्रुद्धो द्रौणिमभ्ययात् ॥२९॥

स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन सः ।
स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा ॥३०॥

यथा शक्रो महाराज पुरा विव्याध दानवम् ।
विप्रचित्तिं दुराधर्षं देवतानां भयङ्करम् ॥३१॥

येन लोकत्रयं क्रोधात् त्रासितं स्वेन तेजसा ।
तथा नीलेन निर्भिन्नः सुमुक्तेन पतत्रिणा ॥३२॥

संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ।
स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम् ॥३३॥

दध्ने नीलविनाशाय मतिं मतिमतां वरः ।
ततः सन्धाय विमलान् भल्लान् कर्मारमार्जितान् ॥३४॥

जघान चतुरो वाहान् पातयामास च ध्वजम् ।
सप्तमेन च भल्लेन नीलं विव्याध वक्षसि ॥३५॥

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।
मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम् ॥३६॥

घटोत्कचोऽभिसंक्रुद्धो ज्ञातिभिः परिवारितः ।
अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् ॥३७॥

तथेतरे चाभ्यधावन् राक्षसा युद्धदुर्मदाः ।
तमापतन्तं संप्रेक्ष्य राक्षसं घोरदर्शनम् ॥३८॥

अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् ।
निजघान च संक्रुद्धो राक्षसान् भीमदर्शनान् ॥३९॥

येऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः ।
विमुखांश्चैव तान् दृष्ट्वा द्रौणिचापच्युतैः शरैः ॥४०॥

अक्रुद्ध्यत महाकायो भैमसेनिर्घटोत्कचः ।
प्रादुश्चक्रे ततो मायां घोररूपां सुदारुणाम् ॥४१॥

मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः ।
ततस्ते तावकाः सर्वे मायया विमुखीकृताः ॥४२॥

अन्योन्यं समपश्यन्त निकृत्ता मेदिनीतले ।
विचेष्टमानाः कृपणाः शोणितेन परिप्लुताः ॥४३॥

द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च ।
प्रायशश्च महेष्वासा ये प्रधानाः स्म कौरवाः ॥४४॥

द्रोणादींश्चापश्यन्तेति सम्बन्धः ॥४४॥

विध्वस्ता रथिनः सर्वे राजानश्च निपातिताः ।
हयाश्चैव हयारोहाः सन्निकृत्ताः सहस्रशः ॥४५॥

तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति ।
मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ॥४६॥

युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे ।
घटोत्कचप्रमुक्तेति नातिष्ठन्त विमोहिताः ॥४७॥

नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः ।
तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः ॥४८॥

घटोत्कचेन सहिताः सिंहनादान् प्रचक्रिरे ।
शङ्खदुन्दुभिनिर्घोषैः समन्तान्नेदिरे भृशम् ॥४९॥

एवं तव बलं सर्वं हैडिम्बेन दुरात्मना ।
सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ॥५०॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमयुद्धदिवसे घटोत्कचयुद्धे चतुर्नवतितमोऽध्यायः ॥९४॥
पञ्चनवतितमोऽध्यायः

सञ्जय उवाच । तस्मिन् महति संक्रन्दे राजा दुर्योधनस्तदा ।
गाङ्गेयमुपसङ्गम्य विनयेनाभिवाद्य च ॥१॥

तस्मिन्निति ॥१॥

तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे ।
घटोत्कचस्य विजयमात्मनश्च पराजयम् ॥२॥

कथयामास दुर्धर्षो विनिःश्वस्य पुनः पुनः ।
अब्रवीच्च तदा राजन् भीष्मं कुरुपितामहम् ॥३॥

भवन्तं समुपाश्रित्य वासुदेवं यथा परैः ।
पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो ॥४॥

एकादश समाख्याता अक्षौहिण्यश्च या मम ।
निदेशे तव तिष्ठन्ति मया सार्धं परंतप ॥५॥

सोऽहं भरतशार्दूल भीमसेनपुरोगमैः ।
घटोत्कचं समाश्रित्य पाण्डुर्वैर्युधि निर्जितः ॥६॥

तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः ।
तदिच्छामि महाभाग त्वत्प्रसादात् परंतप ॥७॥

राक्षसापसदं हन्तुं स्वयमेव पितामह ।
त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि ॥८॥

एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम ।
दुर्योधनमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् ॥९॥

शृणु राजन् मम वचो यत्त्वां वक्ष्यामि कौरव ।
यथा त्वया महाराज वर्तितव्यं परंतप ॥१०॥

आत्मा रक्ष्यो रणे तात सर्वावस्थास्वारिन्दम ।
धर्मराजेन संग्रामस्त्वया कार्यः सदाऽनघ ॥११॥

अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः ।
राजधर्मं पुरस्कृत्य राजा राजानमार्छति ॥१२॥

अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्त्वतः ।
शल्यश्च सौमद‌त्तिश्च विकर्णश्च महारथाः ॥१३॥

तव च भ्रातरः श्रेष्ठा दुःशासनपुरोगमाः ।
त्वदर्थे प्रतियोत्स्यामो राक्षसं तं महाबलम् ॥१४॥

रौद्रे तस्मिन् राक्षसेन्द्रे यदि तेऽनुशयो महान् ।
अयं वा गच्छतु रणे तस्य युद्धाय दुर्मतेः ॥१५॥

अनुशयः पश्चात्तापः ॥१५॥

भगदत्तो महीपालः पुरन्दरसमो युधि ।
एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् ॥१६॥

समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः ।
गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् ॥१७॥

वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् ।
राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा ॥१८॥

तव दिव्यानि चास्त्राणि विक्रमश्च परंतप ।
समागमश्च बहुभिः पुराभूदमरैः सह ॥१९॥

त्वं तस्य नृपशार्दूल प्रतियोद्धा महाहवे ।
स्वबलेनोच्छ्रितो राजन् जहि राक्षसपुङ्गवम् ॥२०॥

एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः ।
प्रययौ सिंहनादेन परानभिमुखो द्रुतम् ॥२१॥

तमाद्रवन्तं संप्रेक्ष्य गर्जन्तमिव तोयदम् ।
अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः ॥२२॥

भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः ।
द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च भारत ॥२३॥

चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा ।
सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् ॥२४॥

ततः समभवद्युद्धं घोररूपं भयानकम् ।
पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् ॥२५॥

प्रयुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः ।
ते निपेतुर्महाराज नागेषु च रथेषु च ॥२६॥

प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः ।
परस्परं समासाद्य संनिपेतुरभीतवत् ॥२७॥

मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे ।
बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् ॥२८॥

हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः ।
चोदिताः सादिभिः क्षिप्रं निपेतुरितरेतरम् ॥२९॥

पादाताश्च पदात्योधैस्ताडिताः शक्तितोमरैः ।
न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः ॥३०॥

रथिनश्च रथै राजन् कर्णिनालीकसायकैः ।
निहत्य समरे वीरान् सिंहनादान्विनेदिरे ॥३१॥

तस्मिंस्तथा वर्तमाने संग्रामे लोमहर्षणे ।
भगदत्तो महेष्वासो भीमसेनमथाद्रवत् ॥३२॥

कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम् ।
पर्वतेन यथा तोयं स्रवमाणेन सर्वशः ॥३३॥

किरञ्छरसहस्राणि सुप्रतीकशिरोगतः ।
ऐरावतस्थो मघवान् वारिधारा इवानघ ॥३४॥

स भीमं शरधाराभिस्ताडयामास पार्थिवः ।
पर्वतं वारिधाराभिस्तपान्ते जलदो यथा ॥३५॥

भीमसेनस्तु संक्रुद्धः पादरक्षान् परःशतान् ।
निजघान महेष्वासः संरब्धः शरवृष्टिभिः ॥३६॥

तान् दृष्ट्वा निहतान् क्रुद्धो भगदत्तः प्रतापवान् ।
चोदयामास नागेन्द्रं भीमसेनरथं प्रति ॥३७॥

स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा ।
अभ्यधावत वेगेन भीमसेनमरिन्दमम् ॥३८॥

तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथाः ।
अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः ॥३९॥

केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः ।
दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष ॥४०॥

चेदिपश्चित्रकेतुश्च संरब्धाः सर्व एव ते ।
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः ॥४१॥

तमेकं कुञ्जरं क्रुद्धाः समन्तात् पर्यवारयन् ।
स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः ॥४२॥

संजातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् ।
दशार्णाधिपतिश्चापि गजं भूमिधरोपमम् ॥४३॥

समास्थितोऽभिदुद्राव भगदत्तस्य वारणम् ।
तमापतन्तं समरे गजं गजपतिः स च ॥४४॥

दधार सुप्रतीकोऽपि वेलेव मकरालयम् ।
वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः ॥४५॥

साधु साध्विति सैन्यानि पाण्डवेयान्यपूजयन् ।
ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश ॥४६॥

प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम ।
वर्म मुख्यं तनुत्राणं शातकुम्भपरिष्कृतम् ॥४७॥

विदार्य प्राविशन् क्षिप्रं वल्मीकभिव पन्नगाः ।
स गाढविद्धो व्यथितो नागो भरतसत्तम ॥४८॥

उपावृत्तमदः क्षिप्रमभ्यवर्तत वेगितः ।
स प्रदुद्राव वेगेन प्रणदन्भैरवं रवम् ॥४९॥

संमर्दयानः स्वबलं वायुर्वृक्षानिवौजसा ।
तस्मिन्पराजिते नागे पाण्डवानां महारथाः ॥५०॥

सिंहनादं विनद्योच्चैर्युद्धायैवावतस्थिरे ।
ततो भीमं पुरस्कृत्य भगद‌त्तमुपाद्रवन् ॥५१॥

किरन्तो विविधान् बाणान् शस्त्राणि विविधानि च ।
तेषामापततां राजन् संक्रुद्धानाममर्षिणाम् ॥५२॥

श्रुत्वा स निनदं घोरममर्षाद्गतसाध्वसः ।
भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् ॥५३॥

अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि ।
तस्मिन् क्षणे समभवत्सांवर्तक इवानलः ॥५४॥

रथसङ्घांस्तथा नागान् हयांश्च हयसादिभिः ।
पादातांश्च सुसंक्रद्धः शतशोऽथ सहस्रशः ॥५५॥

अमृदूनात्समरे नागः संप्रधावंस्ततस्ततः ।
तेन संलोड्यमानं तु पाण्डवानां बलं महत् ॥५६॥

संचुकोच महाराज चर्मेवाग्नौ समाहितम् ।
भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता ॥५७॥

घटोत्कचोऽथ संक्रुद्धो भगदत्तमुपाद्रवत् ।
विकटः परुषो राजन् दीप्तास्यो दीप्तलोचनः ॥५८॥

रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव ।
जग्राह विमलं शूलं गिरीणामपि दारणम् ॥५९॥

नागं जिघांसुः सहसा चिक्षेप च महाबलः ।
स विस्फुलिङ्गमालाभिः समंतात्परिवेष्टितः ॥६०॥

तमापतन्तं सहसा दृष्ट्वा प्राग्ज्योतिषो नृपः ।
चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं सुदारुणम् ॥६१॥

चिच्छेद तन्महच्छूलं तेन बाणेन वेगवान् ।
उत्पपात द्विधा च्छिन्नं शूलं हेमपरिष्कृतम् ॥६२॥

महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता ।
शूलं निपतितं दृष्ट्वा द्विधा कृत्तं च पार्थिवः ॥६३॥

रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमाम् ।
चिक्षेप तां राक्षसस्य तिष्ठ तिष्ठेति चाब्रवीत् ॥६४॥

तामापतन्तीं संप्रेक्ष्य वियत्स्थामशनीमिव ।
उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च ॥६५॥

बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत ।
पश्यतः पार्थिवेन्द्रस्य तद‌द्भुतमिवाभवत् ॥६६॥

तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा ।
दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः ॥६७॥

पाण्डवाश्च महाराज भीमसेनपुरोगमाः ।
साधु साध्विति नादेन पृथिवीमन्वनादयन् ॥६८॥

तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् ।
नामृष्यत महेष्वासो भगदत्तः प्रतापवान् ॥६९॥

स विस्फार्य महच्चापमिन्द्राशनिसमप्रभम् ।
तर्जयामास वेगेन पाण्डवानां महारथान् ॥७०॥

विसृजन् विमलांस्तीक्ष्णान् नाराचान् ज्वलनप्रभान् ।
भीममेकेन विव्याध राक्षसं नवभिः शरैः ॥७१॥

अभिमन्युं त्रिभिश्चैव केकयान्पञ्चभिस्तथा ।
पूर्णायतविसृष्टेन शरेणानतपर्वणा ॥७२॥

बिभेद दक्षिणं बाहुं क्षत्रदेवस्य चाहवे ।
पपात सहसा तस्य सशरं धनुरुत्तमम् ॥७३॥

द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् ।
भीमसेनस्य च क्रोधान्निजघान तुरङ्गमान् ॥७४॥

ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः ।
निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः ॥७५॥

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।
विशोको भरतश्रेष्ठ भगदत्तेन संयुगे ॥७६॥

ततो भीमो महाबाहुर्विरथो रथिनां वरः ।
गदां प्रगृह्य वेगेन प्रचस्कन्द रथोत्तमात् ॥७७॥

प्रचस्कन्द अवततार ॥७७॥

तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम् ।
तावकानां भयं घोरं समपद्यत भारत ॥७८॥

एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः ।
आजगाम महाराज निघ्नन् शत्रून् समन्ततः ॥७९॥

यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ महाबलौ ।
प्राग्ज्योतिषेण संयुक्तौ भीमसेनघटोत्कचौ ॥८०॥

दृष्ट्वा च पाण्डवो भ्रातॄन्युध्यमानान्महारथान् ।
त्वरितो भरतश्रेष्ठ तत्रायुध्यत्किरञ्छरान् ॥८१॥

ततो दुर्योधनो राजा त्वरमाणो महारथः ।
सेनामचोदयत् क्षिप्रं रथनागाश्वसंकुलाम् ॥८२॥

तामापतन्तीं सहसा कौरवाणां महाचमूम् ।
अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः ॥८३॥

भगद‌त्तश्च समरे तेन नागेन भारत ।
विमृद्नन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् ॥८४॥

तदाऽऽसीत्सुमहद्युद्धं भगदत्तस्य मारिष ।
पञ्चालैः पाण्डवेयैश्च केकयैश्चोद्यतायुधैः ॥८५॥

भीमसेनोऽपि समरे तावुभौ केशवार्जुनौ ।
अश्रावयद्यथावृत्तभिरावद्वधमुत्तमम् ॥८६॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि भगदत्तयुद्धे पञ्चनवतितमोऽध्यायः ॥९५॥
षण्णवतितमोऽध्यायः

सञ्जय उवाच । पुत्रं विनिहतं श्रुत्वा इरावन्तं धनञ्जयः ।
दुःखेन महताऽऽविष्टो निःश्वसन्पन्नगो यथा ॥१॥

पुत्रमिति ॥१॥

अब्रवीत्समरे राजन्वासुदेवमिदं वचः ।
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान् पुरा ॥२॥

कुरूणां पाण्डवानां च क्षयं घोरं महामतिः ।
स ततो निवारितवान्धृतराष्ट्रं जनेश्वरम् ॥३॥

अन्ये च बहवो वीराः संग्रामे मधुसूदन ।
निहताः कौरवैः संख्ये तथाऽस्माभिश्च कौरवाः ॥४॥

अर्थहेतोर्नरश्रेष्ठो क्रियते कर्म कुत्सितम् ।
धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसङ्क्षयः ॥५॥

अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्धनम् ।
किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन् समागतान् ॥६॥

दुर्योधनापराधेन शकुनेः सौबलस्य च ।
क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च ॥७॥

इदानीं च विजानामि सुकृतं मधुसूदन ।
कृतं राज्ञा महाबाहो याचता च सुयोधनम् ॥८॥

राज्यार्धं पञ्च वा ग्रामान् नाकार्षीत् स च दुर्मतिः ।
दृष्ट्वा हि क्षत्रियान् शूरान् शयानान् धरणीतले ॥९॥

निन्दामि भृशमात्मानं धिगस्तु क्षत्रजीविकाम् ।
अशक्तमिति मामेते ज्ञास्यन्ते क्षत्रिया रणे ॥१०॥

युद्धं तु मे न रुचितं ज्ञातिभिर्मधुसूदन ।
सञ्चोदय हयान् शीघ्रं धार्तराष्ट्रचमूं प्रति ॥११॥

प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् ।
नायं यापयितुं कालो विद्यते माधव क्वचित् ॥१२॥

एवमुक्तस्तु पार्थेन केशवः परवीरहा ।
चोदयामास तानश्वान्पाण्डुरान् वातरंहसः ॥१३॥

अथ शब्दो महानासीत्तव सैन्यस्य भारत ।
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥१४॥

अपराह्णे महाराज संग्रामः समपद्यत ।
पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ॥१५॥

ततो राजंस्तव सुता भीमसेनमुपाद्रवन् ।
परिवार्य रणे द्रोणं वसवो वासवं यथा ॥१६॥

ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः ।
भगदत्तः सुशर्मा च धनञ्जयमुपाद्रवन् ॥१७॥

हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ ।
अम्बष्ठकस्तु नृपतिरभिमन्युमवस्थितः ॥१८॥

शेषास्त्वन्ये महाराज शेषानेव महारथान् ।
ततः प्रववृते युद्धं घोररूपं भयावहम् ॥१९॥

भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव जनेश्वर ।
प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ॥२०॥

पुत्रास्तु तव कौन्तेयं छादयाञ्चक्रिरे शरैः ।
प्रावृषीव महाराज जलदा इव पर्वतम् ॥२१॥

स च्छाद्यमानो बहुधा पुत्रैस्तव विशांपते ।
सृक्किणी संलिहन्वीरः शार्दूल इव दर्पितः ॥२२॥

व्यूढोरस्कं ततो भीमः पातयामास भारत ।
क्षुरप्रेण सुतीक्ष्णेन सोऽभवद्गतजीवितः ॥२३॥

अपरेण तु भल्लेन पीतेन निशितेन तु ।
अपातयत्कुण्डलिनं सिंहः क्षुद्रमृगं यथा ॥२४॥

ततः सुनिशितान्पीतान्समादत्त शिलीमुखान् ।
ससर्ज त्वरया युक्तः पुत्रांस्ते प्राप्य मारिष ॥२५॥

प्रेषिता भीमसेनेन शरास्ते दृढधन्वना ।
अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ॥२६॥

अनाधृष्टिं कुण्डभेदिं वैराटं दीर्घलोचनम् ।
दीर्घबाहुं सुबाहुं च तथैव कनकध्वजम् ॥२७॥

प्रपतन्त स्म वीरास्ते विरेजुर्भरतर्षभ ।
वसन्ते पुष्पशबलाश्चूताः प्रपतिता इव ॥२८॥

ततः प्रदुद्रुवुः शेषास्तव पुत्रा महाहवे ।
तं कालमिव मन्यन्तो भीमसेनं महाबलम् ॥२९॥

द्रोणस्तु समरे वीरं निर्दहन्तं सुतांस्तव ।
यथाद्रिं वारिधाराभिः समंताद्व्यकिरच्छरैः ॥३०॥

तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् ।
द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ॥३१॥

यथा गोवृषभो वर्षं सन्धारयति स्वात् पतत् ।
भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ॥३२॥

अद्भुतं च महाराज तत्र चक्रे वृकोदरः ।
यत्पुत्रांस्तेऽवधीत्संख्ये द्रोणं चैव न्यवारयत् ॥३३॥

पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः ।
मृगेष्विव महाराज चरन् व्याघ्रो महाबलः ॥३४॥

यथा हि पशुमध्यस्थो दारयेत पशून् वृकः ।
वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ॥३५॥

गाङ्गेयो भगदत्तश्च गौतमश्च महारथाः ।
पाण्डवं रभसं युद्धे वारयामासुरर्जुनरम् ॥३६॥

अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे ।
प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ॥३७॥

अभिमन्युस्तु राजानमम्बष्ठं लोकविश्रुतम् ।
विरथं रथिनां श्रेष्ठं वारयामास सायकैः ॥३८॥

विरथो वध्यमानस्तु सौभद्रेण यशस्विना ।
अवप्लुत्य रथात्तूर्णमम्बष्ठो वसुधाधिपः ॥३९॥

असिं चिक्षेप समरे सौभद्रस्य महात्मनः ।
आरुरोह रथं चैव हार्दिक्यस्य महाबलः ॥४०॥

आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः ।
लाघवाद्व्यंसयामास सौभद्रः परवीरहा ॥४१॥

व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा ।
साधु साध्विति सैन्यानां प्रणादोऽभूद्विशांपते ॥४२॥

धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् ।
तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ॥४३॥

तत्राक्रन्दो महानासीत्तव तेषां च भारत ।
निघ्नतां दृढमन्योन्यं कुर्वतां कर्म दुष्करम् ॥४४॥

अन्योन्यं हि रणे शूराः केशेष्वाक्षिप्य मानिनः ।
नखदन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ॥४५॥

तलैश्चैवाथ निस्त्रिंशैर्बाहुभिश्च सुसंस्थितैः ।
विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ॥४६॥

न्यहनच्च पिता पुत्रं पुत्रश्च पितरं तथा ।
व्याकुलीकृतसर्वांगा युयुधुस्तत्र मानवाः ॥४७॥

रणे चारूणि चापानि हेमपृष्ठानि मारिष ।
हतानामपविद्धानि कलापाश्च महाधनाः ॥४८॥

अपविद्धानि पतितानि ॥४८॥

जातरूपमयैः पुङ्खैः राजतैर्निशिताः शराः ।
तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ॥४९॥

हस्तिदन्तत्सरून् खड्गान् जातरूपपरिष्कृतान् ।
चर्माणि चापविद्धानि रुक्मचित्राणि धन्विनाम् ॥५०॥

सुवर्णविकृतप्रासान् पट्टिशान्हेमभूषितान् ।
जातरूपमयाश्चर्ष्टीः शक्तीश्च कनकोज्ज्वलाः ॥५१॥

सुसन्नाहाश्च पतिता मुसलानि गुरूणि च ।
परिघान्पट्टिशांश्चैव भिन्दिपालांश्च मारिष ॥५२॥

पतितान्विविधांश्चापांश्चित्रान्हेमपरिष्कृतान् ।
कुथा बहुविधाकाराश्चामरान् व्यजनानि च ॥५३॥

नानाविधानि शस्त्राणि प्रगृह्य पतिता नराः ।
जीवन्त इव दृश्यन्ते गतसत्त्वा महारथाः ॥५४॥

गदाविमथितैर्गात्रैपुर्सलैर्भिन्नमस्तकाः ।
गजवाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ॥५५॥

तथैवाश्वनृनागानां शरीरैर्विबभौ तदा ।
संछन्ना वसुधा राजन् पर्वतैरिव सर्वशः ॥५६॥

समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः ।
निस्त्रिंशैः पट्टिशैः प्रासैरयस्कुन्तैः परश्वधैः ॥५७॥

परिघैर्भिन्दिपालैश्च शतघ्नीभिश्च मारिष ।
शरीरैः शस्त्रनिर्भिन्नैः समास्तीर्यत मोदनी ॥५८॥

विशब्दैरल्पशब्दैश्च शोणितौघपरिप्लुतैः ।
गतासुभिरमित्रघ्न विबभौ निचिता मही ॥५९॥

सतलत्रैः सकेयूरैर्बाहुभिश्चन्द‌नोक्षितैः ।
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥६०॥

बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः ।
पातितैर्ऋषभाक्षाणां बभौ भारत मेदिनी ॥६१॥

कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः ।
रराज सुभृशं भूमिः शान्तार्चिभिरिवानलैः॥६२॥

विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः ।
विप्रकीर्णैः शरैश्चैव रुक्मपुङ्खैः समन्ततः ॥६३॥

रथैश्च सर्वतो भग्नैः किङ्किणीजालभूषितैः ।
वाजिभिश्च हतैर्बाणैः स्रस्तजिह्वैः सशोणितैः ॥६४॥

अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि ।
प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः॥६५॥

स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही ।
नानारूपैरलङ्कारैः प्रमदेवाभ्यलङ्कृता ॥६६॥

दन्तिभिश्चापरैस्तत्र सप्रासैर्गाढवेदनैः ।
करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ॥६७॥

विबभौ तद्रणस्थानं स्यन्दमानैरिवाचलैः ।
नानारागैः कम्बलैश्च परिस्तोमैश्च दन्तिनाम् ॥६८॥

वैदूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः ।
घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः ॥६९॥

विपाटितविचित्राभिः कुथाभिरङ्कुशैस्तथा ।
ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च ॥७०॥

यन्त्रैश्च बहुधाच्छिन्नैस्तोमरैश्चापि काञ्चनैः ।
अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः ॥७१॥

सादिनां भुजगैश्छिनैः पतितैः साङ्गदैस्तथा ।
प्रासैश्च विमलैस्तीक्ष्णौर्विमलाभिस्तथर्ष्टिभिः॥७२॥

उष्णीषैश्च तथा चित्रैर्विप्रविद्धैस्ततस्ततः ।
विचित्रैर्बाणवर्षैश्च जातरूपपरिष्कृतैः ॥७३॥

अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा ।
नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः ॥७४॥

छत्रैस्तथाऽपविद्धैश्च चामरैर्व्यजैनरपि ।
पद्मेन्दु तिभिश्चैव वदनैश्चारुकुण्डलैः ॥७५॥

क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः ।
अपविद्धैर्महाराज सुवर्णोज्ज्वलकुण्डलैः ॥७६॥

ग्रहनक्षत्रशबला द्यौरिवार्साद्वसुन्धरा ।
एवमेते महासेने मृदिते तत्र भारत ॥७७॥

परस्परं समासाद्य तव तेषां च संयुगे ।
तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत ॥७८॥

रात्रिः समभवत्तत्र नापश्याम ततोऽनुगान् ।
ततोऽवहारं सैन्यानां प्रचक्रुः कुरुपाण्डवाः ॥७९॥

रजनीमुखे सुरौद्रे तु वर्तमाने महाभये ।
अवहारं ततः कृत्वा सहिताः कुरुपाण्डवाः ।
न्यविशन्त यथाकालं गत्वा स्वशिबिरं तदा ॥८०॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धावहारे षण्णवतितमोऽध्यायः ॥९६॥
सप्तनवतितमोऽध्यायः

सञ्जय उवाच । ततो दुर्योधनो राजा शकुनिश्चापि सौबलः ।
दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः ॥१॥

तत इति ॥१॥

समागम्य महाराज मन्त्रं चक्रुर्विवक्षितम् ।
कथं पाण्डुसुताः संख्ये जेतव्याः सगणा इति ॥२॥

ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः ।
सूतपुत्रं समाभाष्य सौबलं च महाबलम् ॥३॥

द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे ।
न पार्थान् प्रतिबाधन्ते न जाने तच्च कारणम् ॥४॥

अवध्यमानास्ते चापि क्षपयन्ति बलं मम ।
सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे ॥५॥

निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि ।
सोऽहं संशयमापन्नः प्रहरिष्ये कथं रणे ॥६॥

कर्ण उवाच ।

मा शोच भरतश्रेष्ठ करिष्येऽहं प्रियं तव ॥७॥

भीष्मः शान्तनवस्तूर्णमपयातु महारणात् ।
निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत ॥८॥

अहं पार्थान् हनिष्यामि सहितान् सर्वसोमकैः ।
पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप ॥९॥

पाण्डवेषु दयां नित्यं स हि भीष्मः करोति व ।
अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् ॥१०॥

अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः ।
स कथं पाण्डवान्युद्धे जेष्यते तात संगतान् ॥११॥

सत्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति ।
अनुमान्य गुरुं वृद्धं शस्त्रं न्यासय भारत ॥१२॥

न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पांडवान् ।
मयैकेन रणे राजन् ससुहृद्गणबान्धवान् ॥१३॥

एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव ।
अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः ॥१४॥

अनुयात्रं यथा सर्वं सज्जीभवति सर्वशः ।
दुःशासन तथा क्षिप्रं सर्वमेवोपपादय ॥१५॥

एवमुक्त्वा ततो राजन् कर्णमाह जनेश्वरः ।
अनुमान्य रणे भीष्ममेषोऽहं द्विपदां वरम् ॥१६॥

आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिन्दम ।
अपक्रान्ते ततो भीष्मे प्रहरिष्यसि संयुगे ॥१७॥

निष्पपात ततस्तूर्णं पुत्रस्तव विशांपते ।
सहितो भ्रातृभिस्तैस्तु देवैरिव शतक्रतुः ॥१८॥

ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् ।
आरोहयद्धयं तूर्णं भ्राता दुःशासनस्तदा ॥१९॥

हयं हययानं रथमिति यावत् ॥१९॥

अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृप ।
धार्तराष्ट्रो महाराज विबभौ स पथि व्रजन् ॥२०॥

भण्डीपुष्पनिकाशेन तपनीयनिभेन च ।
अनुलिप्तः परार्द्ध्येन चन्दनेन सुगन्धिना ॥२१॥

भण्डीपुष्पं मञ्जिष्ठापुष्पम् ॥२१॥

अरजोम्बरसंवीतः सिंहखेलगतिर्नृप ।
शुशुभे विमलार्चिष्मान्नभसीव दिवाकरः ॥२२॥

तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति ।
अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः ॥२३॥

भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् ।
हयानन्ये समारुह्य गजानन्ये च भारत ॥२४॥

रथानन्ये नरश्रेष्ठं परिवव्रुः समन्ततः ।
आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः ॥२५॥

प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि ।
स पूज्यमानः कुरुभिः कौरवाणां महाबलः ॥२६॥

प्रययौ सदनं राजा गाङ्गेयस्य यशस्विनः ।
अन्वीयमानः सततं सोदरैः परिवारितः ॥२७॥

अन्वीयमानः अनुगम्यमानः ॥२७॥

दक्षिणं दक्षिणः काले संभृत्य स्वभुजं तदा ।
हस्तिहस्तोपमं शैक्षं सर्वशत्रुनिबर्हणम् ॥२८॥

दक्षिणं स्वभुजं संभृत्य समुद्धृत्य शैक्षं शस्त्रादिशिक्षासंपन्नम् ॥२८॥

प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान् सर्वतो दिशः ।
शुश्राव मधुरा वाचो नानादेशनिवासिनाम् ॥२९॥

संस्तूयमानः सूतैश्च मागधैश्च महायशाः ।
पूजयानश्च तान् सर्वान् सर्वलोकेश्वरेश्वरः ॥३०॥

प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचितैः ।
परिवव्रुर्महाराजं प्रज्वलद्भिः समन्ततः ॥३१॥

स तैः परिवृतो राजा प्रदीपैः काञ्चनैर्ज्वलन् ।
शुशुभे चन्द्रमा युक्तो दीप्तैरिव महाग्रहैः ॥३२॥

काञ्चनोष्णीषिणस्तत्र वेत्रझर्झरपाणयः ।
प्रोत्साहयन्तः शनकैस्तं जनं सर्वतो दिशम् ॥३३॥

संप्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् ।
अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः ॥३४॥

अभिवाद्य ततो भीष्मं निषण्णः परमासने ।
काञ्चने सर्वतोभद्रे स्पर्द्ध्यास्तरणसंवृते ॥३५॥

उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचन ।
त्वां वयं हि समाश्रित्य संयुगे शत्रुसूदन ॥३६॥

उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् ।
किमु पाण्डुसुतान् वीरान् ससुहृन्द्गाणबांधव ॥३७॥

तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो ।
जहि पाण्डुसुतान्वीरान्महेन्द्र इव दानवान् ॥३८॥

अहं सर्वान्महाराज निहनिष्यामि सोमकान् ।
पञ्चालान् केकयैः सार्धं करूषांश्चेति भारत ॥३९॥

त्वद्वचः सत्यमेवास्तु जहि पार्थान् समागतान् ।
सोमकांश्च महेष्वासान् सत्यवाग्भव भारत ॥४०॥

दयया यदि वा राजन् द्वेष्यभावान्मम प्रभो ।
मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् ॥४१॥

अनुजानीहि समरे कर्णमाहवशोभिनम् ।
स जेष्यति रणे पार्थान् ससुहृद्गणबांधवान् ॥४२॥

स एवमुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव ।
नोवाच वचनं किञ्चिद्भीष्मं सत्यपराक्रमम् ॥४३॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि भीष्मं प्रति दुर्योधनवाक्ये सप्तनवतितमोऽध्यायः॥९७॥
अष्टनवतितमोऽध्यायः

सञ्जय उवाच । वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धो महामनाः ।
दुःखेन महताऽऽविष्टो नोवाचाप्रियमण्वपि ॥१॥

वाक्शल्यैरिति ॥१॥

स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः ।
श्वसमानो यथा नागः प्रणुन्नो वाक्शलाकया ॥२॥

उद्धृत्य चक्षुषी कोपान्निर्दहन्निव भारत ।
सदेवासुरगन्धर्वं लोकं लोकविदां वरः ॥३॥

अब्रवीत् तव पुत्रं स सामपूर्वमिदं वचः ।
किं त्वं दुर्योधनैवं मां वाक्शल्यैरपकृन्तसि ॥४॥

घटपानं यथाशक्ति कुर्वाणं च तव प्रियम् ।
जुह्वानं समरे प्राणांस्तव वै प्रियकाम्यया ॥५॥

पर्याप्तं प्राप्तम् ॥५॥

यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत् ।
पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम् ॥६॥

यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा ।
अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम् ॥७॥

द्रवमाणेषु शूरेषु सोदरेषु तव प्रभो ।
सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम् ॥८॥

यच्च नः सहितान् सर्वान् विराटनगरे तदा ।
एक एव समुद्यातः पर्याप्तं तन्निदर्शनम् ॥९॥

द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे ।
वासांसि स समादत्त पर्याप्तं तन्निदर्शनम् ॥१०॥

तथा द्रौणिं महेष्वासं शारद्वतमथापि च ।
गोग्रहे जितवान्पूर्वं पर्याप्तं तन्निदर्शनम् ॥११॥

विजित्य च यदा कर्णं सदा पुरुषमानिनम् ।
उत्तरायै ददौ वस्त्रं पर्याप्तं तन्निर्शनम् ॥१२॥

निवातकवचान् युद्धे वासवेनापि दुर्जयान् ।
जितवान् समरे पार्थः पर्याप्तं तन्निदर्शनम् ॥१३॥

को हि शक्तो रणे जेतुं पाण्डवं रभसं तदा ।
यस्य गोप्ता जगद्गोप्ता शङ्खचक्रगदाधरः ॥१४॥

वासुदेवोऽनन्तशक्तिः सृष्टिसंहारकारकः ।
सर्वेश्वरो देवदेवः परमात्मा सनातनः ॥१५॥

उक्तोऽसि बहुशो राजन्नारदाद्यैर्महर्षिभिः ।
त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन ॥१६॥

मुमूर्षुर्हि नरः सर्वान् वृक्षान् पश्यति काञ्चनान् ।
तथा त्वमपि गान्धारे विपरीतानि पश्यसि ॥१७॥

स्वयं वैरं महत्कृत्वा पाण्डवैः सह सृञ्जयैः ।
युद्ध्यस्व तानद्य रणे पश्यामः पुरुषो भव ॥१८॥

अहं तु सोमकान् सर्वान् पञ्चालांश्च समागतान् ।
निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम् ॥१९॥

तैर्वाऽहं निहतः संख्ये गमिष्ये यमसादनम् ।
तान् वा निहत्य समरे प्रीतिं दास्याम्यहं तव ॥२०॥

पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि ।
वरदानात् पुमान् जातः सैषा वै स्त्री शिखण्डिनी ॥२१॥

तमहं न हनिष्यामि प्राणत्यागेऽपि भारत ।
याऽसौ प्राङ्निर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी ॥२२॥

सुखं स्वपिहि गान्धारे श्वोऽपि कर्ता महारणम् ।
यं जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी ॥२३॥

एवमुक्तस्तव सुतो निर्जगाम जनेश्वर ।
अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम्॥२४॥

आगम्य तु ततो राजा विसृज्य च महाजनम् ।
प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयङ्करः ॥२५॥

महाजनं जनसमूहं क्षयं गृहम् ॥२५॥

प्रविष्टः स निशां तां च गमयामास पार्थिव ।
प्रभातायां च शर्वर्यां प्रातरुत्थाय तान्नृपः ॥२६॥

राज्ञः समाज्ञापयत सेनां योजयतेति ह ।
अद्य भीष्मो रणे क्रुद्धो निहनिष्यति सोमकान् ॥२७॥

दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु ।
मन्यमानः स तं राजन् प्रत्यादेशमिवात्मनः ॥२८॥

प्रत्यादेशं निराकरणम् ॥२८॥

निर्वेदं परमं गत्वा विनिन्द्य परवश्यताम् ।
दीर्घं दध्यौ शान्तनवो योद्धुकामोऽर्जुनं रणे ॥२९॥

निर्वेदं खेदम्॥२९॥

इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम् ।
दुर्योधनो महाराज दुःशासनमचोदयत् ॥३०॥

दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः ।
द्वाविंशतिमनीकानि सर्वाण्येवाभिचोदय ॥३१॥

इदं हि समनुप्राप्तं वर्षपूगाभिचिन्तितम् ।
पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः ॥३२॥

तत्र कार्यतमं मन्ये भीष्मस्यैवाभिरक्षणम् ।
स नो गुप्तः सहायः स्याद्धन्यात् पार्थांश्च संयुगे ॥३३॥

अब्रवीद्धि विशुद्धात्मा नाहं हन्यां शिखण्डिनम् ।
स्त्रीपूर्वको ह्यसौ राजंस्तस्माद्वर्ज्यो मया रणे ॥३४॥

लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया ।
राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान् पुरा ॥३५॥

नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथञ्चन ।
हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥३६॥

अयं स्त्रीपूर्वको राजञ्छिखण्डी यदि ते श्रुतः ।
उद्योगे कथितं यत्तत्तथा जाता शिखण्डिनी ॥३७॥

उद्योगे युद्धात्प्राक् ॥३७॥

कन्या भूत्वा पुमान् जातः स च मां योधयिष्यति ।
तस्याहं प्रमुखे बाणान्नमुञ्चेयं कथञ्चन ॥३८॥

युद्धे हि क्षत्रियांस्तात पाण्डवानां जयैषिणः ।
सर्वानन्यान् हनिष्यामि संप्राप्तान् रणमूर्धनि ॥३९॥

एवं मां भरतश्रेष्ठ गाङ्गेयः प्राह शास्त्रवित् ।
तत्र सर्वात्मना मन्ये गाङ्गेयस्यैव पालनम् ॥४०॥

अरक्ष्यमाणं हि वृको हन्यात् सिंहं महाहवे ।
मा वृकेणेव गाङ्गेयं घातयेम शिखण्डिना ॥४१॥

मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः ।
यत्ता रक्षन्तु गाङ्गेयं तस्मिन् गुप्ते ध्रुवो जयः ॥४२॥

एतच्छ्रुत्वा तु ते सर्वे दुर्योधनवचस्तदा ।
सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् ॥४३॥

पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा ।
कंपयन्तो भुवं द्यां च क्षोभयन्तश्च पांडवान् ॥४४॥

ते रथैः सुप्रसंयुक्तैर्दन्तिभिश्च महारथाः ।
परिवार्य रणे भीष्मं दंशिताः समवस्थिताः ॥४५॥

यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम् ।
सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् ॥४६॥

ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत् ।
सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् ॥४७॥

गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः ।
रक्ष्यमाणः स पार्थेन तथाऽस्माभिर्विवर्जितः ॥४८॥

यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु ।
भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव ॥४९॥

भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ।
भीष्मं तु रथवंशेन दृष्ट्वा समभिसंवृतम् ॥५०॥

अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह ।
शिखण्डिनं नरव्याघ्रं भीष्मस्य प्रमुखे नृप ।
स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताहमित्युत ॥५१॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि भीष्मदुर्योधनसंवादे अष्टनवतितमोऽध्यायः ॥९८॥
ऊनशततमोऽध्यायः

सञ्जय उवाच । ततः शान्तनवो भीष्मो निर्ययौ सह सेनया ।
व्यूहं चाव्यूहत महत् सर्वतोभद्रमात्मनः ॥१॥

तत इति ॥१॥

कृपश्च कृतवर्मा च शैब्यश्चैव महारथः ।
शकुनिः सैन्धवश्चैव काम्बोजश्च सुदक्षिणः ॥२॥

भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत ।
अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः ॥३॥

द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष ।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः ॥४॥

अश्वत्थामा सोमदत्तश्चावन्त्यौ च महारथौ ।
महत्या सेनया युक्ता वामं पक्षमपालयन् ॥५॥

दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः ।
व्यूहमध्ये स्थितो राजन् पाण्डवान् प्रति भारत ॥६॥

अलम्बुषो रथश्रेष्ठः श्रुतायुश्च महारथः ।
पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ ॥७॥

एवं च तं तदा व्यूहं कृत्वा भारत तावकाः ।
सन्नद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः ॥८॥

ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः ।
नकुलः सहदेवश्च माद्रीपुत्रावुभावपि ॥९॥

अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः ॥१०॥

स्थिताः सैन्येन महता परानीकविनाशनाः ।
शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः ॥११॥

चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् ।
स्थिता रणे महाराज महत्या सेनया वृताः ॥१२॥

अभिमन्युर्महेष्वासो द्रुपदश्च महाबलः ।
युयुधानो महेष्वासो युधामन्युश्च वीर्यवान् ॥१३॥

केकया भ्रातरश्चैव स्थिता युद्धाय दंशिताः ।
एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् ॥१४॥

पाण्डवाः समरे शूराः स्थिता युद्धाय दंशिताः ।
तावकास्तु रणे यत्ताः सहसेना नराधिपाः ॥१५॥

अभ्युद्ययू रणे पार्थान् भीष्मं कृत्वाऽग्रतो नृप ।
तथैव पाण्डवा राजन् भीमसेनपुरोगमाः ॥१६॥

भीष्मं योद्धुमभीप्सन्तः संग्रामे विजयैषिणः ।
क्ष्वेडाः किलकिलाः शङ्खान् क्रकचान् गोविषाणिकाः ॥१७॥

भेरी-मृदङ्ग-पणवान्नादयन्तश्च पुष्करान् ।
पाण्डवा अभ्यवर्तन्त नदन्तो भैरवान् रवान् ॥१८॥

भेरी-मृदङ्ग-शङ्खानां दुन्दुभीनां च निःस्वनः ।
उत्कृष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः ॥१९॥

वयं प्रतिनदन्तस्तानगच्छाम त्वरान्विताः ।
सहसैवाभिसंक्रुद्धास्तदासीत् तुमुलं महत् ॥२०॥

ततोऽन्योन्यं प्रधावन्तः संप्रहारं प्रचक्रिरे ।
ततः शब्देन महता प्रचकम्पे वसुन्धरा ॥२१॥

पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः ।
सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत ॥२२॥

ववुश्च वातास्तुमुलाः शंसन्तः सुमहद्भयम् ।
घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे ॥२३॥

वेदयन्त्यो महाराज महद्वैशसमागतम् ।
दिशः प्रज्वलिता राजन् पांसुवर्षं पपात च ॥२४॥

रुधिरेण समुन्मिश्रमस्थिवर्षं तथैव च ।
रुदतां वाहनानां च नेत्रेभ्यः प्रापतज्जलम् ॥२५॥

सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशांपते ।
अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ ॥२६॥

रक्षसां पुरुषादानां नदतां भैरवान् रवान् ।
संपतन्तश्च दृश्यन्ते गोमायुबलवायसाः ॥२७॥

बलवायसाः बलोदग्राः काकाः ॥२७॥

श्वानश्च विविधैर्नादैर्वाशन्तस्तत्र मारिष ।
ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् ।
निपेतुः सहसा भूमौ वेदयन्त्यो महद्भयम् ॥२८॥

महान्त्यनीकानि महासमुच्छ्रये ततस्तयोः पाण्डवधार्तराष्ट्रयोः ।
चकम्पिरे शङ्खमृदङ्गनिःस्वनैः प्रकम्पितानीव वनानि वायुना ॥२९॥

महासमुच्छ्रये महति युद्धे । ’युद्धे समुच्छ्रयः पुमान्’ इति मेदिनी ॥२९॥

नरेन्द्रनागाश्वसमाकुलानामभ्यायतीनामशिवे मुहूर्ते ।
बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम् ॥३०॥

अभ्यायतीनामभिमुखमागच्छन्तीनाम् ॥३०॥
इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि परस्परव्यूहरचनायामुत्पातदर्शने ऊनशततमोऽध्यायः ॥९९॥
शततमोऽध्यायः

सञ्जय उवाच । अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः ।
अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ॥१॥

अभिमन्युरिति ॥१॥

न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् ॥२॥

शस्त्रौधिणं गाहमानं सेनासागरमक्षयम् ।
निवारयितुमप्याजौ त्वदीयाः कुरुनन्दन ॥३॥

तेन मुक्ता रणे राजन् शराः शत्रुनिबर्हणाः ।
क्षत्रियाननयन् शूरान्प्रेतराजनिवेशनम् ॥४॥

यमदण्डोपमान् घोरान् ज्वलिताशीविषोपमान् ।
सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ॥५॥

सरथान् रथिनस्तूर्णं हयांश्चैव ससादिनः ।
गजारोहांश्च सगजान्दारयामास फाल्गुनिः ॥६॥

तस्य तत् कुर्वतः कर्म महत् सङ्ख्ये महीभृतः ।
पूजयाञ्चक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ॥७॥

तान्यनीकानि सौभद्रो द्रावयामास भारत ।
तूलराशीनिवाकाशे मारुतः सर्वतो दिशम् ॥८॥

तेन विद्राव्यमाणानि तव सैन्यानि भारत ।
त्रातारं नाध्यगच्छन्त पङ्के मग्ना इव द्विपाः ॥९॥

विद्राव्य सर्वसैन्यानि तावकानि नरोत्तम ।
अभिमन्युः स्थितो राजन् विधूमोऽग्निरिव ज्वलन् ॥१०॥

न चैनं तावका राजन् विषेहुररिघातिनम् ।
प्रदीप्तं पावकं यद्वत् पतङ्गाः कालचोदिताः ॥११॥

प्रहरन् सर्वशत्रुभ्यः पाण्डवानां महारथः ।
अदृश्यत महेष्वासः सवज्र इव वासवः ॥१२॥

हेमपृष्ठं धनुश्चास्य ददृशे विचरद्दिशः ।
तोयदेषु यथा राजन् राजमाना शतहृदा ॥१३॥

शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे ।
वनात् फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ॥१४॥

तथैव चरतस्तस्य सौभद्रस्य महात्मनः ।
रथेन काञ्चनाङ्गेन ददृशुर्नान्तरं जनाः ॥१५॥

मोहयित्वा कृपं द्रोणं द्रौणिं च सबृहद्बलम् ।
सैन्धवं च महेष्वासो व्यचरल्लघु सुष्ठु च ॥१६॥

लघु सुष्ठु च शीघ्रं शोभनं च यथा स्यात्तथा ॥१६॥

मण्डलीकृतमेवास्य धनुः पश्याम भारत ।
सूर्यमण्डलसङ्काशं दहतस्तव वाहिनीम् ॥१७॥

तं दृष्ट्वा क्षत्रियाः शूराः प्रतपन्तं तरस्विनम् ।
द्विफाल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ॥१८॥

तेनार्दिता महाराज भारती सा महाचमूः ।
व्यभ्रमत्तत्र तत्रैव योषिन्मदवशादिव ॥१९॥

द्रावयित्वा महासैन्यं कम्पयित्वा महारथान् ।
नन्दयामास सुहृदो मयं जित्वेव वासवः ॥२०॥

तेन विद्राव्यमाणानि तव सैन्यानि संयुगे ।
चक्रुरार्तस्वनं घोरं पर्जन्यनिनदोपमम् ॥२१॥

तं श्रुत्वा निनदं घोरं तव सैन्यस्य भारत ।
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥२२॥

दुर्योधनस्तदा राजन्नार्ष्यशृङ्गिमभाषत ।
एष कर्ष्णिर्महाबाहो द्वितीय इव फाल्गुनः ॥२३॥

आर्ष्यशृङ्गिमलंबुषम् ॥२३॥

चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव ।
तस्य चान्यन्न पश्यामि संयुगे भेषजं महत् ॥२४॥

ऋते त्वां राक्षसश्रेष्ठं सर्वविद्यासु पारगम् ।
स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे ॥२५॥

वयं पार्थं हनिष्यामो भीष्मद्रोणपुरोगमाः ।
स एवमुक्तो बलवान् राक्षसेन्द्रः प्रतापवान् ॥२६॥

प्रययौ समरे तूर्णं तव पुत्रस्य शासनात् ।
नर्दमानो महानादं प्रावृषीव बलाहकः ॥२७॥

तस्य शब्देन महता पाण्डवानां बलं महत् ।
प्राचलत् सर्वतो राजन् वातोद्धूत इवार्णवः ॥२८॥

बहवश्च महाराज तस्य नादेन भीषिताः ।
प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले ॥२९॥

कार्ष्णिश्चापि मुदा युक्तः प्रगृह्य सशरं धनुः ।
नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ॥३०॥

ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनिं रणे ।
नातिदूरे स्थितां तस्य द्रावयामास वै चमूम् ॥३१॥

तां वध्यमानां च तथा पाण्डवानां महाचमूम् ।
प्रत्युद्ययौ रणे रक्षो देवसेनां यथा बलः ॥३२॥

विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष ।
रक्षसा घोररूपेण वध्यमानस्य संयुग ॥३३॥

ततः शरसहस्त्रैस्तां पाण्डवानां महाचमूम् ।
व्यद्रावयद्रणे रक्षो दर्शयतन् स्वपराक्रमम् ॥३४॥

सा वध्यमाना च तथा पाण्डवानामनीकिनी ।
रक्षसा घोररूपेण प्रदुद्राव रणे भयात् ॥३५॥

प्रमृद्य च रणे सेनां पद्मिनीं वारणो यथा ।
ततोऽभिदुद्राव रणे द्रौपदेयान् महाबलान् ॥३६॥

ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः ।
राक्षसं दुद्रुवुः संख्ये ग्रहाः पञ्च रविं यथा ॥३७॥

वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः ।
यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः ॥३८॥

प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः ।
सवपारशवैस्तूर्णैरकुण्ठाग्रैर्महाबलः ॥३९॥

सर्वपारशवैः सर्वलोहमयः ॥३९॥

स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः ।
मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् ॥४०॥

संस्यूतो ग्रथितः ॥४०॥

विषक्तैः स शरैश्चापि तपनीयपरिच्छदैः ।
आर्ष्यशृङ्गिर्बभौ राजन् दीप्तशृङ्ग इवाचलः ॥४१॥

ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे ।
विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः ॥४२॥

स निर्भिन्नः शरैघोरैर्भुजगैः कोपितैरिव ।
अलंबुषो भृशं राजन्नागेन्द्र इव चुक्रुधे ॥४३॥

सोऽतिविद्धो महाराज मुहूर्तमथ मारिष ।
प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः ॥४४॥

प्रतिलभ्य ततः संज्ञां क्रोधेन द्विगुणीकृतः ।
चिच्छेद सायकांस्तेषां ध्वजांश्चैव धनूंषि च ॥४५॥

एकैकं पञ्चभिर्बाणैराजघान स्मयान्निव ।
अलम्बुषो रथोपस्थे नृत्यन्निव महारथः ॥४६॥

त्वरमाणः सुसंरब्धो हयांस्तेषां महात्मनाम् ।
जघान राक्षसः क्रुद्धः सारथींश्च महाबलः ॥४७॥

बिभेद च सुसंरब्धः पुनश्चैनान्सुसंशितैः ।
शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः ॥४८॥

विरथांश्च महेष्वासान् कृत्वा तत्र स राक्षसः ।
अभिदुद्राव वेगेन हन्तुकामो निशाचरः ॥४९॥

तानर्दितान् रणे तेन राक्षसेन दुरात्मना ।
दृष्ट्वाऽर्जुनसुतः संख्ये राक्षसं समुपाद्रवत् ॥५०॥

तयोः समभवद्युद्धं वृत्रवासवयोरिव ।
ददृशुस्तावकाः सर्वे पाण्डवाश्च महारथाः ॥५१॥

तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम् ।
महाबलौ महाराज क्रोधसंरक्तलोचनौ ॥५२॥

परस्परमवेक्षेतां कालानलसमौ युधि ।
तयोः समागमो घोरो बभूव कटुकोदयः ॥५३॥

यथा देवासुरे युद्धे शक्रशम्बरयोः पुरा ॥५४॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि अलम्बुषाभिमन्युसमागमे शततमोऽध्यायः ॥१००॥
एकाधिकशततमोऽध्यायः

धृतराष्ट्र उवाच । आर्जुनिं समरे शूरं विनिघ्नन्तं महारथान् ।
अलम्बुषः कथं युद्धे प्रत्ययुध्यत सञ्जय ॥१॥

आर्जुनिमिति ॥१॥

आर्ष्यशृङ्गिं कथं चैव सौभद्रः परवीरहा ।
तन्ममाचक्ष्व तत्त्वेन यथावृत्तं स्म संयुगे ॥२॥

धनञ्जयश्च किं चक्रे मम सैन्येषु संयुगे ।
भीमो वा रथिनां श्रेष्ठो राक्षसो वा घटोत्कचः ॥३॥

नकुलः सहदेवो वा सात्यकिर्वा महारथः ।
एतदाचक्ष्व मे सत्यं कुशलो ह्यसि सञ्जय ॥४॥

सञ्जय उवाच ।

हन्त तेऽहं प्रवक्ष्यामि सङ्ग्रामं लोमहर्षणम् ।
यथाऽभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष ॥५॥

अर्जुनश्च यथा संख्ये भीमसेनश्च पाण्डवः ।
नकुलः सहदेवश्च रणे चक्रुः पराक्रमम् ॥६॥

तथैव तावकाः सर्वे भीष्मद्रोणपुरःसराः ।
अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत् ॥७॥

अलम्बुषस्तु समरे अभिमन्युं महारथम् ।
विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ॥८॥

अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् ।
अभिमन्युश्च वेगेन सिंहवद्विनदन्मुहुः ॥९॥

आर्ष्यशृङ्गिं महेष्वासं पितुरत्यन्तवैरिणम् ।
ततः समीयतुः संख्ये त्वरितौ नरराक्षसौ ॥१०॥

रथाभ्यां रथिनौ श्रेष्ठौ यथा वै देवदानवौ ।
मायावी राक्षसश्रेष्ठो दिव्यास्त्रश्चैव फाल्गुनिः ॥११॥

ततः कार्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः ।
आर्ष्यशृङ्गिं रणे विध्वा पुनर्विव्याध पञ्चभिः ॥१२॥

अलम्बुषोऽपि संक्रुद्धः कार्ष्णिं नवभिराशुगैः ।
हृदि विव्याध वेगेन तोत्रैरिव महाद्विपम् ॥१३॥

ततः शरसहस्त्रेण क्षिप्रकारी निशाचरः ।
अर्जुनस्य सुतं संख्ये पीडयामास भारत ॥१४॥

अभिमन्युस्ततः क्रुद्धो नवभिर्नतपर्वभिः ।
बिभेद निशितैबाणै राक्षसेन्द्रं महोरसि ॥१५॥

ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मसु ।
स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ॥१६॥

पुष्पितैः किंशुकै राजन् संस्तीर्ण इव पर्वतः ।
सन्धारयाणश्च शरान् हेमपुङ्खान् महाबलः ॥१७॥

विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः ।
ततः क्रुद्धो महाराज आर्ष्यशृङ्गिरमर्षणः ॥१८॥

महेन्द्रप्रतिमं कार्ष्णिं छादयामास पत्रिभिः ।
तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः ॥१९॥

अभिमन्युं विनिर्भिद्य प्राविशन्त धरातलम् ।
तथैवार्जुनिना मुक्ताः शराः कनकभूषणाः ॥२०॥

अलम्बुषं विनिर्भिद्य प्राविशन्त धरातलम् ।
सौभद्रस्तु रणे रक्षः शरैः सन्नतपर्वभिः ॥२१॥

चक्रे विमुखमासाद्य मयं शक्र इवाहवे ।
विमुखं च रणे रक्षो वध्यमानं रणेऽरिणा ॥२२॥

प्रादुश्चक्रे महामायां तामसीं परतापनाम् ।
ततस्ते तमसा सर्वे वृताश्चासन् महीपते ॥२३॥

नाभिमन्युमपश्यन्त नैव स्वान्न परान् रणे ।
अभिमन्युश्च तदृष्ट्वा घोररूपं महत्तमः ॥२४॥

प्रादुश्चक्रेऽस्त्रमत्युग्रं भास्करं कुरुनन्दनः ।
ततः प्रकाशमभवज्जगत् सर्वं महीपते ॥२५॥

तां चाभिजघ्निवान्मायां राक्षसस्य दुरात्मनः ।
सङ्कृद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः ॥२६॥

छाद‌यामास समरे शरैः सन्नतपर्वभिः ।
बह्वीस्तथान्या मायाश्च प्रयुक्तास्तेन रक्षसा ॥२७॥

सर्वास्त्रविद‌मेयात्मा वारयामास फाल्गुनिः ।
हतमायं ततो रक्षो वध्यमानं च सायकैः ॥२८॥

रथं तत्रैव सन्त्यज्य प्राद्रवन् महतो भयात् ।
तस्मिन् विनिर्जिते तूर्णं कूटयोधिनि राक्षसे ॥२९॥

आर्जुनिः समरे सैन्यं तावकं संममर्द ह ।
मदान्धो गन्धनागेन्द्रः सपद्मां पद्मिनीमिव ॥३०॥

ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाऽभिविद्रुतम् ।
महता शरवर्षेण सौभद्रं पर्यवारयत् ॥३१॥

कोष्ठीकृत्य च तं वीरं धार्तराष्ट्रा महारथाः ।
एकं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् ॥३२॥

स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः ।
सदृशो वासुदेवस्य विक्रमेण बलेन च ॥३३॥

उभयोः सदृशं कर्म स पितुर्मातुलस्य च ।
रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ॥३४॥

ततो धनञ्जयो वीरो विनिघ्नंस्तव सैनिकान् ।
आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः ॥३५॥

तथैव समरे राजन्पिता देवव्रतस्तव ।
आससाद रणे पार्थं स्वर्भानुरिव भास्करम् ॥३६॥

ततः सरथनागाश्वाः पुत्रास्तव जनेश्वर ।
परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः ॥३७॥

तथैव पाण्डवा राजन् परिवार्य धनञ्जयम् ।
रणाय महते युक्ता दंशिता भरतर्षभ ॥३८॥

शारद्वतस्ततो राजन् भीष्मस्य प्रमुखे स्थितम् ।
अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् ॥३९॥

प्रत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः ।
पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् ॥४०॥

गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः ।
हृदि विव्याध सङ्क्रुद्धः कङ्कपत्रपरिच्छदैः ॥४१॥

शैनेयोऽपि ततः कुद्धश्चापमानम्य वेगवान् ।
गौतमान्तकरं तूर्णं समाधत्त शिलीमुखम् ॥४२॥

समुत्सृज्याथ शैनेयो गौतमं रथिनां वरः ।
अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा ॥४४॥

तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत ।
अथैनं छिन्नधन्वानं ताडयामास सायकैः ॥४५॥

सोऽन्यत् कार्मुकमादाय शत्रुघ्नं भारसाधनम् ।
द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् ॥४६॥

स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः ।
निषसाद रथोपस्थे ध्वजयष्टिं समाश्रितः ॥४७॥

प्रतिलभ्य ततः संज्ञां द्रोणपुत्रः प्रतापवान् ।
वार्ष्णेयं समरे क्रुद्धो नाराचेन समार्पयत् ॥४८॥

शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् ।
वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा ॥४९॥

अथापरेण भल्लेन माधवस्य ध्वजोत्तमम् ।
चिच्छेद समरे द्रौणिः सिंहनादं मुमोच ह ॥५०॥

पुनश्चैनं शरैर्घोरैश्छादयामास भारत ।
निदाघान्ते महाराज यथा मेघो दिवाकरम् ॥५१॥

सात्यकोऽपि महाराज शरजालं निहत्य तत् ।
द्रौणिमभ्यकिरत्तूर्णं शरजालैरनेकधा ॥५२॥

तापयामास च द्रौणिं शैनेयः परवीरहा ।
विमुक्तो मेघजालेन यथैव तपनस्तथा ॥५३॥

शराणां च सहस्रेण पुनरेव समुद्यतः ।
सात्यकिश्छादयामास ननाद च महाबलः ॥५४॥

दृष्ट्वा पुत्रं च तं ग्रस्तं राहुणेव निशाकरम् ।
अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् ॥५५॥

विव्याध च सुतीक्ष्णेन पृषत्केन महामृधे ।
परीप्सन्स्वसुतं राजन् वार्ष्णेयेनाभिपीडितम् ॥५६॥

सात्यकिस्तु रणे हित्वा गुरुपुत्रं महारथम् ।
द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः ॥५७॥

तदन्तरममेयात्मा कौन्तेयः शत्रुतापनः ।
अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः ॥५८॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि अलम्बुषाभिमन्युयुद्धे एकाधिकशततमोऽध्यायः॥१०१॥
द्व्यधिकशतत्मोऽध्यायः

धृतराष्ट्र उवाच । कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः ।
समीयतू रणे यत्तौ तावुभौ पुरुषर्षभौ ॥१॥

कथमिति ॥१॥

प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः ।
आचार्यश्च रणे नित्यं प्रियः पार्थस्य सञ्जय ॥२॥

तावुभौ रथिनौ संख्ये हृष्टौ सिंहाविवोत्कटौ ।
कथं समीयतुर्यत्तौ भारद्वाजधनञ्जयौ ॥३॥

सञ्जय उवाच ।

न द्रोणः समरे पार्थं जानीते प्रियमात्मनः ।
क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे ॥४॥

न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् ।
निर्मर्यादं हि युध्यन्ते पितृभिर्भातृभिः सह ॥५॥

रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः ।
नाचिन्तयच्च तान् बाणान् पार्थचापच्युतान् युधि ॥६॥

शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे ।
स प्रजज्वाल रोषेण गहनेऽग्निरिवोर्जितः ॥७॥

ततोऽर्जुनं रणे द्रोणः शरैः सन्नतपर्वभिः ।
छादयामास राजेन्द्र नचिरादेव भारत ॥८॥

ततो दुर्योधनो राजा सुशर्माणमचोदयत् ।
द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात् ॥९॥

त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् ।
छादयामास समरे पार्थं बाणैरयोमुखैः ॥१०॥

ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे ।
हंसा इव महाराज शरत्काले नभस्तले ॥११॥

ते शराः प्राप्य कौन्तेयं समन्ताद्विविशुः प्रभो ।
फलभारनतं यद्वत्स्वादुवृक्षं विहङ्गमाः ॥१२॥

अर्जुनस्तु रणे नादं विनद्य रथिनां वरः ।
त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः ॥१३॥

ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।
पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः ॥१४॥

मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति ।
शरवृष्टिं ततस्तां तु शरवर्षैः समन्ततः ॥१५॥

प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः ।
तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् ॥१६॥

विमुक्तां बहुभिर्योधैः शस्त्रवृष्टिं दुरासदाम् ।
यदेको वारयामास मारुतोऽभ्रगणानिव ॥१७॥

कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः ।
अथ क्रुद्धो रणे पार्थस्त्रिगर्तान् प्रति भारत ॥१८॥

मुमोचास्त्रं महाराज वायव्यं पृतनामुखे ।
प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् ॥१९॥

पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् ।
ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम् ॥२०॥

शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह ।
द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे नराधिप ॥२१॥

प्रशशाम ततो वायुः प्रसन्नाश्च दिशो दश ।
ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् ॥२२॥

निरुत्साहान् रणे चक्रे विमुखान् विपराक्रमान् ।
ततो दुर्योधनश्चैव कृपश्च रथिनां वरः ॥२३॥

अश्वत्थामा तथा शल्यः काम्बोजश्च सुदक्षिणः ।
विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः ॥२४॥

महता रथवंशेन पार्थस्यावारयन् दिशः ।
तथैव भगदत्तश्च श्रुतायुश्च महाबलः ॥२५॥

गजानीकेन भीमस्य ताववारयतां दिशः ।
भूरिश्रवाः शैलश्चैव सौबलश्च विशांपते ॥२६॥

शरौघैर्विमलैस्तीक्ष्णैर्माद्रीपुत्राववारयन् ।
भीष्मस्तु संहतः संख्ये धार्तराष्ट्रैः ससैनिकैः ॥२७॥

युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् ।
आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः ॥२८॥

लेलिहन् सृक्किणी वीरो मृगराडिव कानने ।
भीमस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे ॥२९॥

अवप्लुत्य रथात् तूर्णं तव सैन्यान्यभीषयत् ।
तमुद्द्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः ॥३०॥

परिवव्रू रणे यत्ता भीमसेनं समन्ततः ।
गजमध्यमनुप्राप्तः पाण्डवः स व्यराजत ॥३१॥

मेघजालस्य महतो यथा मध्यगतो रविः ।
व्यधमत्स गजानीकं गदया पाण्डवर्षभः ॥३२॥

महाभ्रजालमतुलं मातरिश्वेव सन्ततम् ।
ते वध्यमाना बलिना भीमसेनेन दन्तिनः ॥३३॥

आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव ।
बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः ॥३४॥

फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि ।
विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् ॥३५॥

विषाणेन च तेनैव कुम्भेऽभ्याहत्य दन्तिनम् ।
पातयामास समरे दण्डहस्त इवान्तकः ॥३६॥

शोणिताक्तां गदां बिभ्रन्मेदोमज्जाकृतच्छविः ।
कृताभ्यङ्गः शोणितेन रुद्रवत्प्रत्यदृश्यत ॥३७॥

एवं ते वध्यमानाश्च हतशेषा महागजाः ।
प्राद्रवन्त दिशो राजन् विमृद्नंतः स्वकं बलम् ॥३८॥

द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ ।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥३९॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि भीमपराक्रमे द्व्यधिकशततमोऽध्यायः ॥१०२॥
त्र्यधिकशततमोऽध्यायः

सञ्जय उवाच । मध्यंदिने महाराज सङ्ग्रामः समपद्यत ।
लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः ॥१॥

मध्यन्दिन इति ॥१॥

गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् ।
व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः ॥२॥

संममर्द च तत्सैन्यं पिता देवव्रतस्तव ।
धान्यानामिव लूनानां प्रकरं गोगणा इव ॥३॥

भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम् ॥४॥

धृष्टद्युम्नं ततो विध्वा विराटं च शरैस्त्रिभिः ।
द्रुपदस्य च नाराचं प्रेषयामास भारत ॥५॥

तेन विद्धा महेष्वासा भीष्मेणामित्रकर्षिणा ।
चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः ॥६॥

शिखण्डी तं च विव्याध भरतानां पितामहम् ।
स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः ॥७॥

स्त्रीमयम् अयं भीष्मः स्त्री ध्यात्वा चिन्तयित्वा यद्वा स्त्रीमयं स्वार्थे मयट् ॥७॥

धृष्टद्युम्नस्तु समरे क्रोधेनाग्निरिव ज्वलन् ।
पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥८॥

द्रुपदः पञ्चविंशत्या विराटो दशभिः शरैः ।
शिखंडी पञ्चविंशत्या भीष्मं विव्याध सायकैः ॥९॥

सोऽतिविद्धो महाराज शोणितौघपरिप्लुतः ।
वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ ॥१०॥

तान् प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः ।
द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष ॥११॥

सोऽन्यत् कार्मुकमादाय भीष्मं विव्याध पञ्चभिः ।
सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि ॥१२॥

तथा भीमो महाराज द्रौपद्याः पञ्च चात्मजाः ।
केकया भ्रातरः पञ्च सात्यकिश्चैव सात्त्वतः ॥१३॥

अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरपुरोगमाः ।
रिरक्षिषन्तः पाञ्चाल्यं धृष्टद्युम्नपुरोगमाः॥१४॥

तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः ।
प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप ॥१५॥

तत्रासीत् सुमहद्युद्धं तव तेषां च सङ्कुलम् ।
नराश्वरथनागानां यमराष्ट्रविवर्धनम् ॥१६॥

रथी रथिनमासाद्य प्राहिणोद्यमसादनम् ।
तथेतरान् समासाद्य नरनागाश्वसादिनः ॥१७॥

अनयन् परलोकाय शरैः सन्नतपर्वभिः ।
शरैश्च विविधैर्घोरैस्तत्र तत्र विशांपते ॥१८॥

रथास्तु रथिभिर्हीना हतसारथयस्तथा ।
विप्रद्रुताश्च समरे दिशो जग्मुः समन्ततः ॥१९॥

मृद्नन्तस्ते नरान् राजन् हयांश्च सुबहून् रणे ।
वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः ॥२०॥

रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः ।
कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषणाः ॥२१॥

देवपुत्रसमाः सर्वे शौर्ये शक्रसमा युधि ।
ऋद्ध्या वैश्रवणं चाति नयेन च बृहस्पतिम् ॥२२॥

वैश्रवणं कुबेरं चाति अतिक्रान्ताः ॥२२॥

सर्वलोकेश्वराः शूरास्तत्र तत्र विशांपते ।
विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः ॥२३॥

दन्तिनश्च नरश्रेष्ठ हीनाः परमसादिभिः ।
मृद्नन्तः स्वान्यनीकानि निपेतुः सर्वशब्दगाः ॥२४॥

चर्मभिश्चामरैश्चित्रैः पताकाभिश्च मारिष ।
छत्रैः सितैर्हेमदण्डैश्चामरैश्च समन्ततः ॥२५॥

विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश ।
नवभेघप्रतीकाशा जलदोपमनिःस्वनाः ॥२६॥

तथैव दन्तिभिर्हीना गजारोहा विशांपते ।
प्रधावन्तोऽन्वदृश्यन्त तव तेषां च सङ्कुले ॥२७॥

नानादेशसमुत्थांश्च तुरगान् हेमभूषितान् ।
वातायमानानद्राक्षं शतशोऽथ सहस्रशः ॥२८॥

अद्राक्षमहं सञ्जयः ॥२८॥

अश्वारोहान् हतैरश्वैर्गृहीतासीन् समन्ततः ।
द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे ॥२९॥

गजो गजं समासाद्य द्रवमाणं महाहवे ।
ययौ प्रमृद्य तरसा पादातान् वाजिनस्तथा ॥३०॥

तथैव च रथान् राजन् प्रममर्द रणे गजः ।
रथाश्चैव समासाद्य पतितांस्तुरगान्भुवि ॥३१॥

व्यमृद्नन् समरे राजंस्तुरगांश्च नरान् रणे ।
एवं ते बहुधा राजन्प्रत्यमृद्नन्परस्परम् ॥३२॥

तस्मिन् रौद्रे तथा युद्धे वर्तमाने महाभये ।
प्रावर्तत नदी घोरा शोणितान्त्रतरङ्गिणी ॥३३॥

अस्थिसङ्घातसम्बाधा केशशैवलशाद्वला ।
रथहृदा शरावर्ता हयमीना दुरासदा ॥३४॥

शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला ।
कवचोष्णीषफेनौघा धनुर्वेगासिकच्छपा ॥३५॥

पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी ।
क्रव्यादहंससंकीर्णा यमराष्ट्रविवर्धनी ॥३६॥

तां नदीं क्षत्रियाः शूरा रथनागहयप्लवैः ।
प्रतेरुर्बहवो राजन् भयं त्यक्त्वा महारथाः ॥३७॥

अपोवाह रणे भीरून् कश्मलेनाभिसंवृतान् ।
यथा वैतरणी प्रेतान् प्रेतराजपुरं प्रति ॥३८॥

प्राक्रोशन् क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत् ।
दुर्योधनापराधेन गच्छन्ति क्षत्रियाः क्षयम् ॥३९॥

गुणवत्सु कथं द्वेषं धृतराष्ट्रो जनेश्वरः ।
कृतवान् पाण्डुपुत्रेषु पापात्मा लोभमोहितः ॥४०॥

एवं बहुविधा वाचः श्रूयन्ते स्म परस्परम् ।
पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः ॥४१॥

ता निशम्य ततो वाचः सर्वयोधैरुदाहृताः ।
आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव ॥४२॥

आगस्कृदपराधी ॥४२॥

भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत ।
युध्यध्वमनहङ्काराः किं चिरं कुरुथेति च ॥४३॥

ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह ।
अक्षद्यूतकृतं राजन् सुघोरं वैशसं तदा ॥४४॥

यत्पुरा न निगृह्णासि वार्यमाणो महात्मभिः ।
वैचित्रवीर्य तस्येदं फलं पश्य सुदारुणम् ॥४५॥

न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः ।
रक्षन्ति समरे प्राणान् कौरवा वापि संयुगे ॥४६॥

एतस्मात् कारणाद्घोरो वर्तते स्वजनक्षयः ।
देवाद्वा पुरुषव्याघ्र तव चापनयान्नृप ॥४७॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि सङ्कुलयुद्धे त्र्यधिकशततमोऽध्यायः ॥१०३॥
चतुरधिकशततमोऽध्यायः

सञ्जय उवाच । अर्जुनस्तान्नरव्याघ्रः सुशर्मानुचरान्नृपान् ।
अनयत् प्रेतराजस्य सदनं सायकैः शितैः ॥१॥

अर्जुन इति ॥१॥

सुशर्माऽपि ततो बाणैः पार्थं विव्याध संयुगे ।
वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः ॥२॥

तं निवार्य शरौघेण शक्रसूनुर्महारथः ।
सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् ॥३॥

ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।
व्यद्रवन्त रणे राजन् भये जाते महारथाः ॥४॥

उत्सृज्य तुरगान् केचिद्रथान् केचिच्च मारिष ।
गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश ॥५॥

अपरे तु तदाऽऽदाय वाजिनागरथान् रणे ।
त्वरया परया युक्ताः प्राद्रवन्त विशांपते ॥६॥

पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे ।
निरपेक्षा व्यधावन्त तेन तेन स्म भारत ॥७॥

तेन तेन पथा ॥७॥

वार्यमाणाः सुबहुशस्त्रैगर्तेन सुशर्मणा ।
तथाऽन्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे ॥८॥

तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव ।
पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतः ॥९॥

सर्वोद्योगेन महता धनञ्जयमुपाद्रवत् ।
त्रिगर्ताधिपतेरर्थे जीवितस्य विशाम्पते ॥१०॥

स एकः समरे तस्थौ किरन् बहुविधान् शरान् ।
भ्रातृभिः सहितः सर्वैः शेषा हि प्रद्रुता नराः ॥११॥

तथैव पाण्डवा राजन् सर्वोद्योगेन दंशिताः ।
प्रययुः फाल्गुनार्थाय यत्र भीष्मो व्यतिष्ठत ॥१२॥

ज्ञायमाना रणे वीर्यं घोरं गाण्डीवधन्वनः ।
हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः ॥१३॥

ततस्तालध्वजः शूरः पाण्डवानां वरूथिनी ।
छादयास समरे शरैः सन्नतपर्वभिः ॥१४॥

एकीभूतास्ततः सर्वे कुरवः सहः पाण्डवैः ।
अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे ॥१५॥

सात्यकिः कृतवर्माणं विध्वा पञ्चभिराशुगैः ।
अतिष्ठदाहवे शूरः किरन्बाणान् सहस्रशः ॥१६॥

तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः ।
पुनर्विव्याध सप्तत्या सारथिं चास्य पञ्चभिः ॥१७॥

भीमसेनस्तु राजानं बाह्लीकं प्रपितामहम् ।
विद्ध्वा नदन्महानादं शार्दूल इव कानने ॥१८॥

आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः ।
अतिष्ठदाहवे शूरः किरन्बाणान् सहस्रशः ॥१९॥

चित्रसेनं त्रिभिर्बाणैर्विव्याध समरे भृशम् ।
समागतौ तौ तु रणे महामात्रौ व्यरोचताम् ॥२०॥

महामात्रौ श्रेष्ठौ ॥२०॥

यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ ।
तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः ॥२१॥

ननाद बलवान्नादं सौभद्रः परवीरहा ।
हताश्वात्तु रथात् तूर्णं सोऽवप्लुत्य महारथः ॥२२॥

आरुरोह रथं तूर्णं दुर्मुखस्य विशाम्पते ।
द्रोणश्च द्रुपदं भित्त्वा शरैः सन्नतपर्वभिः ॥२३॥

सारथिं चास्य विव्याध त्वरमाणः पराक्रमी ।
पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे ॥२४॥

अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् ।
भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम् ॥२५॥

व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः ।
ससंभ्रमो महाराज संशयं परमं गतः ॥२६॥

अवप्लुत्य ततो वाहाद्बह्लीकः पुरुषोत्तमः ।
आरुरोह रथं तूर्णं लक्ष्मणस्य महारणे ॥२७॥

सात्यकिः कृतवर्माणं वारयित्वा महारणे ।
शरैर्बहुविधै राजन्नाससाद पितामहम् ॥२८॥

स विध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिः ।
नृत्यन्निव रथोपस्थे विधुन्वानो महद्धनुः ॥२९॥

भारतं भीष्मं लोमवाहिभिः लोमच्छेदकैः ॥२९॥

तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः ।
हेमचित्रां महावेगां नागकन्योपमां शुभाम् ॥३०॥

तामापतन्तीं सहसा मृत्युकल्पां सुदुर्जयाम् ।
व्यंसयामास वार्ष्णेयो लाघवेन महायशाः ॥३१॥

अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा ।
न्यपतद्धरणीपृष्ठे महोल्केव महाप्रभा ॥३२॥

वार्ष्णेयस्तु ततो राजन् स्वां शक्तिं कनकप्रभाम् ।
वेगवगृह्य चिक्षेप पितामहरथं प्रति ॥३३॥

वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे ।
अभिदुद्राव वेगेन कालरात्रिर्यथा नरम् ॥३४॥

तामापतन्तीं सहसा द्विधा चिच्छेद भारतः ।
क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सा व्यशीर्यत मेदिनीम् ॥३५॥

मेदिनी प्राप्येति शेषः ॥३५॥

छित्त्वा शक्तिं तु गाङ्गेयः सात्यकिं नवभिः शरैः ।
आजघानोरसि क्रुद्धः प्रहसञ्छत्रुकर्शनः ॥३६॥

ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वजाः ।
परिवब्रू रणे भीष्मं माधवत्राणकारणात् ॥३७॥

माधवः सात्यकिः ॥३७॥

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।
पाण्डवानां कुरूणां च समरे विजयैषिणाम् ॥३८॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि वार्ष्णेययुद्धे चतुरधिकशततमोऽध्यायः ॥१०४॥
पञ्चाधिकशततमोऽध्यायः

सञ्जय उवाच । दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम् ।
यथा मेघैर्महाराज तपान्ते दिवि भास्करम् ॥१॥

दृष्ट्वेति ॥१॥

दुर्योधनो महाराज दुःशासनमभाषत ।
एष शूरो महेष्वासो भीष्मः शूरनिषूदनः ॥२॥

छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ ।
तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः॥३॥

रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः ।
निहन्यात् समरे यत्तान् पञ्चालान् पाण्डवैः सह ॥४॥

तत्र कार्यतमं मन्ये भीष्मस्यैवाभिरक्षणम् ।
गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं महाव्रतः ॥५॥

स भवान् सर्वसैन्येन परिवार्य पितामहम् ।
समरे कर्म कुर्वाणं दुष्करं परिरक्षतु ॥६॥

स एवमुक्तः समरे पुत्रो दुःशासनस्तव ।
परिवार्य स्थितो भीष्मं सैन्येन महता वृतः ॥७॥

ततः शतसहस्त्राणां हयानां सुबलात्मजः ।
विमलप्रासहस्तानामृष्टितोमरधारिणाम् ॥८॥

तत इति । सैन्येनेति पूर्वस्मादनुकृष्यते हयानां सैन्येन परिवार्य न्यवारयदिति तृतीयेनान्वयः ॥८॥

दर्पितानां सुवेशानां बलस्थानां पताकिनाम् ।
शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः ॥९॥

नकुलं सहदेवं च धर्मराजं च पाण्डवम् ।
न्यवारयन्नरश्रेष्ठान् परिवार्य समन्ततः ॥१०॥

ततो दुर्योधनो राजा शूराणां हयसादिनाम् ।
अयुतं प्रेषयामास पाण्डवानां निवारणे ॥११॥

तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे ।
खुराहता धरा राजंश्चकम्पे च ननाद च ॥१२॥

खुरशब्दश्च सुमहान् वाजिनां शुश्रुवे तदा ।
महावंशवनस्येव दह्यमानस्य पर्वते ॥१३॥

उत्पतद्भिश्च तैस्तत्र समुद्भूतं महद्रजः ।
दिवाकररथं प्राप्य छादयामास भास्करम् ॥१४॥

वेगवद्भिर्हयैस्तैस्तु क्षोभिता पाण्डवी चमूः ।
निपतद्भिर्महावेगैर्हंसैरिव महत् सरः ॥१५॥

हेषतां चैव शब्देन न प्राज्ञायत किञ्चन ।
ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ॥१६॥

प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् ।
उधृत्तस्य महाराज प्रावृट्‌कालेऽतिपूर्यतः ॥१७॥

पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः ।
ततस्ते रथिनो राजन् शरैः सन्नतपर्वभिः ॥१८॥

न्यकृन्तत्तुत्तमाङ्गानि शरेण हयसादिनां ।
ते निपेतुर्महाराज निहता दृढधन्विभिः ॥१९॥

नागैरिव महानागा यथावद्भिरिगह्वरे ।
तेऽपि प्रासैः सुनिशितैः शरैः सन्नतपर्वभिः॥२०॥

न्यकृन्तत्तुत्तमाङ्गानि विचरन्तो दिशो दश ।
अभ्याहता हयारोहा ऋष्टिभिर्भरतर्षभ ॥२१॥

अत्यजन्नुत्तमाङ्गानि फलानीव महाद्रुमाः ।
ससादिनो हया राजंस्तत्र तत्र निषूदिताः ॥२२॥

पतिताः पात्यमानाश्च प्रत्यदृश्यन्त सर्वशः ।
वध्यमाना हयाश्चैव प्राद्रवन्त भयार्दिताः ॥२३॥

यथा सिंहं समासाद्य मृगाः प्राणपरायणाः ।
पाण्डवाश्च महाराज जित्वा शत्रून्महामृधे ॥२४॥

दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे ।
ततो दुर्योधनो दीनो दृष्ट्वा सैन्यं पराजितम् ॥२५॥

अब्रवीद्भरतश्रेष्ठ मद्रराजमिदं वचः ।
एष पाण्डुसुतो ज्येष्ठो यमाभ्यां सहितो रणे ॥२६॥

पश्यतां वो महाबाहो सेनां द्रावयति प्रभो ।
तं वारय महाबाहो वेलेव मकरालयम् ॥२७॥

त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः ।
पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान् ॥२८॥

महौघवेगं समरे वारयामास पाण्डवः ।
मद्रराजं च समरे धर्मराजो महारथः ॥३०॥

दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे ।
नकुलः सहदेवश्च तं सप्तभिरजिह्मगैः ॥३१॥

मद्रराजोऽपि तान् सर्वानाजघान त्रिभिस्त्रिभिः ।
युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः ॥३२॥

माद्रीपुत्रौ च संभ्रान्तौ द्वाभ्यां द्वाभ्यामताडयत् ।
ततो भीमो महाबाहुर्दृष्ट्वा राजानमाहवे ॥३३॥

मद्रराजरथं प्राप्तं मृत्योरास्यगतं यथा ।
अभ्यपद्यत सङ्ग्रामे युधिष्ठिरममित्रजित् ॥३४॥

ततो युद्धं महाघोरं प्रावर्तत सुदारुणम् ।
अपरां दिशमास्थाय पतमाने दिवाकरे ॥३५॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चाधिकशततमोऽध्यायः॥१०५॥
षडधिकशततमोऽध्यायः

सञ्जय उवाच । ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः ।
आजघान रणे पार्थान् सहसेनान्समन्ततः ॥१॥

तत इति ॥१॥

भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः ।
नकुलं च त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ॥२॥

युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत् ।
धृष्टद्युम्नं ततो विद्ध्वा ननाद सुमहाबलः ॥३॥

तं द्वादशाख्यैर्नकुलो माधवश्च त्रिभिः शरैः ।
धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च सप्तभिः ॥४॥

द्वादशाख्यैः द्वादशसङ्ख्यैः ॥४॥

युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् ।
द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत ॥५॥

एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः ।
तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः ॥६॥

तोत्रैरिव महानागं द्रोणं ब्राह्मणपुङ्गवम् ।
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ॥७॥

अभीषाहाः शूरसेनाः शिवयोऽथ वसातयः ।
सङ्ग्रामे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः ॥८॥

तथैवान्ये महीपाला नानादेशसमागताः ।
पाण्डवानभ्यवर्तन्त विविधायुधपाणयः ॥९॥

तथैव पाण्डवा राजन् परिवव्रुः पितामहम् ।
स समन्तात् परिवृतो रथौघैरपराजितः ॥१०॥

गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् ।
रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः ॥११॥

शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् ।
सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः ॥१२॥

कर्णिनालीकनाराचैश्छादयामास तद्बलम् ।
अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः ॥१३॥

मुण्डतालवनानीव चकार स रथव्रजान् ।
निर्मनुष्यान् रथान् राजन् गजानश्वांश्च संयुगे ॥१४॥

अकरोत् स महाबाहुः सर्वशस्त्रभृतां वरः ।
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः॥१५॥

निशम्य सर्वभूतानि समकम्पन्त भारत ।
अमोघा ह्यपतन् बाणाः पितुस्ते भरतर्षभ ॥१६॥

नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः ।
हतवीरान् रथान् राजन् संयुक्तान् जवनैर्हयैः ॥१७॥

अपश्याम महाराज ह्रियमाणान् रणाजिरे ।
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश ॥१८॥

महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ।
अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः ॥१९॥

सङ्ग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम् ।
निमग्नाः परलोकाय सवाजिरथकुञ्जराः ॥२०॥

भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च भारत ।
अपश्याम महाराज शतशोऽथ सहस्रशः ॥२१॥

सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः ।
शरैः सुकवचैश्छिनैः पट्टिशैश्च विशांपते ॥२२॥

गदाभिर्भिन्दिपालैश्च निशितैश्च शिलीमुखैः ।
अनुकर्षैरुपासङ्गेश्चक्रैर्भग्नैश्च मारिष ॥२३॥

तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः ॥२४॥

चापैश्च बहुधा च्छिन्नैः समास्तीर्यत मेदिनी ।
हतारोहा गजा राजन्हयाश्च हयसादिनः ॥२५॥

न्यपतन्त गतप्राणाः शतशोऽथ सहस्रशः ।
यतमानाश्च ते वीरा द्रवमाणान्महारथान् ॥२६॥

नाशक्नुवन् वारयितुं भीष्मबाणप्रपीडितान् ।
महेन्द्रसमवीर्येण वध्यमाना महाचमूः ॥२७॥

अभज्यत महाराज न च द्वौ सह धावतः ।
आविद्धरथनागाश्वं पतितध्वजसङ्कुलम् ॥२८॥

अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ।
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ॥२९॥

प्रियं सखायं चाक्रन्दे सखा दैवबलात् कृतः ।
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः ॥३०॥

प्रकीर्य केशान् धावन्तः प्रत्यदृश्यन्त सर्वशः ।
तद्गोकुलमिवोद्भ्रान्तमुद्भान्तरथकूबरम् ॥३१॥

ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ।
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः ॥३२॥

उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ।
अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस्तव ॥३३॥

प्रहरास्मिन्नरव्याघ्र न चेन्मोहाद्विमुह्यसे ।
यत्पुरा कथितं वीर राज्ञां तेषां समागमे ॥३४॥

विराटनगरे तात सञ्जयस्य समीपतः ।
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् ॥३५॥

सानुबन्धान् हनिष्यामि ये मां योत्स्यन्ति सङ्गरे ।
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम ॥३६॥

क्षत्रधर्ममनुस्मृत्य युध्यस्व विगतज्वरः ।
इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः ॥३७॥

अकाम इव बीभत्सुरिदं वचनमब्रवीत् ।
अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् ॥३८॥

दुःखानि वनवासे वा किं नु मे सुकुतं भवेत् ।
चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव ॥३९॥

पातयिष्यामि दुर्धर्षं भीष्मं कुरुपितामहम् ।
स चाश्वान् रजतप्रख्यां चोदयामास माधवः ॥४०॥

यतो भीष्मस्ततो राजन् दुष्प्रेक्ष्यो रश्मिवानिव ।
ततस्तत् पुनरवृत्तं युधिष्ठिरबलं महत् ॥४१॥

दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे ।
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः ॥४२॥

धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् ।
क्षणेन स रथस्तस्य सहयः सहसारथिः ॥४३॥

शरवर्षेण महता न प्राज्ञायत भारत ।
वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्वरः ॥४४॥

चोदयामास तानश्वान्विनुन्नान्भीष्मसायकैः ।
ततः पार्थो धनुर्गुह्य दिव्यं जलदनिः स्वनम् ॥४५॥

पातयामास भीष्मस्य धनुश्छित्वा शितैः शरैः ।
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः ॥४६॥

निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ।
चकर्ष च ततो दोर्भ्यां धनुर्जलदनिः स्वनम् ॥४७॥

अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ।
तस्य तत्पूजयामास लाघवं शान्तनोः सुतः ॥४८॥

गाङ्गेयस्त्वब्रवीत् पार्थं धन्विश्रेष्ठमरिन्दम ।
साधु साधु महाबाहो साधु कुन्तीसुतेति च ॥४९॥

समाभाष्यैवमपरं प्रगृह्य रुचिरं धनुः ।
मुमोच समरे भीष्मः शरान् पार्थरथं प्रति ॥५०॥

अदर्शयद्वासुदेवो हययाने परं बलम् ।
मोधान् कुर्वन् शरांस्तस्य मण्डलानि निदर्शयन् ॥५१॥

शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ ।
गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ ॥५२॥

वासुदेवस्तु संप्रेक्ष्य पार्थस्य मृदुयुद्धताम् ।
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ॥५३॥

प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ।
वरान्वरान् विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ॥५४॥

युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ।
नामृष्यत महाबाहुर्माधवः परवीरहा ॥५५॥

उत्सृज्य रजतप्रख्यान् हयान्पार्थस्य मारिष ।
वासुदेवस्ततो योगी प्रचस्कन्द महारथात् ॥५६॥

अभिदुद्राव भीष्मं स भुजप्रहरणो बली ।
प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः ॥५७॥

दारयन्निव पद्भ्यां स जगतीं जगदीश्वरः ।
क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः ॥५८॥

ग्रसन्त इव चेतांसि तावकानां महाहवे ।
दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यतमन्तिके ॥५९॥

हतो भीष्मो हतो भीष्मस्तत्र तत्र वचो महत् ।
अश्रूयत महाराज वासुदेवभयात्तदा ॥६०॥

पीतकौशेयसंवीतो मणिश्यामो जनार्दनः ।
शुशुमे विद्रवन् भीष्मं विद्युन्माली यथांऽबुदः ॥६१॥

मणिरिन्द्रनीभ ॥६१॥

स सिंह इव मातङ्गं यूथर्षभ इवर्षभम् ।
अभिदुद्राव वेगेन विनदन्यादवर्षभः ॥६२॥

तमापतन्तं संप्रेक्ष्य पुण्डरीकाक्षमाहवे ।
असंभ्रमं रणे भीष्मो विचकर्ष महद्धनुः ॥६३॥

उवाच चैव गोविन्दमसंभ्रान्तेन चेतसा ।
एह्येहि पुण्डरीकाक्ष देवदेव नमोऽस्तु ते ॥६४॥

मामद्य सात्वतश्रेष्ठ पातयस्व महाहवे ।
त्वया हि देव सङ्ग्रामे हतस्यापि ममानघ ॥६५॥

श्रेय एव परं कृष्ण लोके भवति सर्वतः ।
संभावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे ॥६६॥

सर्वतः इहामुत्र च ॥६६॥

प्रहरस्व यथेष्टं वै दासोऽस्मि तव चानघ ।
अन्वगेव ततः पार्थः समभिद्रुत्य केशवम् ॥६७॥

अन्वक्पश्चाद्गामी ॥६७॥

निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै ।
निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः ॥३८॥

जगामैवैनमादाय वेगेन पुरुषोत्तमः ।
पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा ॥६९॥

निजग्राह हृषीकेशं कथञ्चिद्दशमे पदे ।
तत एवमुवाचार्तः क्रोधपर्याकुलेक्षणम् ॥७०॥

निःश्वसन्तं यथा नागमर्जुनः प्रणयात्सखा ।
निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि ॥७१॥

यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव ।
मिथ्यावादीति लोकास्त्वां कथयिष्यन्ति माधव ॥७२॥

ममैष भारः सर्वो हि हनिष्यामि पितामहम् ।
शपे केशव शस्त्रेण सत्येन सुकृतेन च ॥७३॥

अन्तं यथा गमिष्यामि शत्रूणां शत्रुसुदन ।
अद्यैव पश्य दुर्धर्षं पात्यमानं महारथम् ॥७४॥

तारापतिमिवापूर्णमन्तकाले यदृच्छया ।
माधवस्तु वचः श्रुत्वा फाल्गुनस्य महात्मनः ॥७५॥

आपूर्णं कलाभिरिति शेषः ॥७५॥

न किञ्चिदुद्वा सक्रोध आरुरोह रथं पुनः ।
तौ रथस्थौ नरव्याघ्रौ भीष्मः शान्तनवः पुनः॥७६॥

ववर्ष शरवर्षेण मेघो वृष्ट्या यथाऽचलौ ।
प्राणानादत्त योधानां पिता देवव्रतस्तव ॥७७॥

गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये ।
यथा कुरूणां सैन्यानि बभञ्जुर्युधि पाण्डवाः ॥७८॥

तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता ।
हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः ॥७९॥

निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे ।
मध्यंगतमिवादित्यं प्रतपन्तं स्वतेजसा ॥८०॥

ते वध्यमाना भीष्मेण शतशोऽथ सहस्रशः ।
कुर्वाणं समरे कर्माण्यतिमानुषविक्रमम् ॥८१॥

तथा पाण्डवसैन्यानि द्राव्यमाणानि भारत ॥८२॥

त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव ।
पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे ॥८३॥

महारथं भारतदुष्प्रकम्पं शरौघेणं प्रतपन्तं नरेन्द्रान् ।
भीष्मं न शेकुः प्रतिवीक्षितुं ते शरार्चिषं सूर्यमिवातपन्तम् ॥८४॥

विमृद्नतस्तस्य तु पाण्डुसेनामस्तं जगामाथ सहस्ररश्मिः ।
ततो बलानां श्रमकर्शितानां मनोऽवहारं प्रति संबभूव ॥८५॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धसमाप्तौ षडधिकशततमोऽध्यायः॥१०६॥
सप्ताधिकशतमोऽध्यायः

सञ्जय उवाच । युध्यतामेव तेषां तु भास्करेऽस्तमुपागते ।
सन्ध्या समभवद्धोरा नापश्याम ततो रणम् ॥१॥

युध्यतामिति ॥१॥

ततो युधिष्ठिरो राजा सन्ध्यां संदृश्य भारत ।
वध्यमानं च भीष्मेण त्यक्तास्त्रं भयविह्वलम् ॥२॥

स्वसैन्यं च परावृत्तं पलायनपरायणम् ।
भीष्मं च युधि संरब्धं पीडयन्तं महारथम् ॥३॥

सोमकांश्च जितान् दृष्ट्वा निरुत्साहान् महारथान् ।
चिन्तयित्वा ततो राजा अवहारमरोचयत् ॥४॥

ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः ।
तथैव तव सैन्यानामवहारो ह्यभूत् तदा ॥५॥

ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाः ।
न्यविशन्त कुरुश्रेष्ठ सङ्ग्रामे क्षतविक्षताः ॥६॥

भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः ।
नालभन्त तदा शान्तिं भीष्मबाणप्रपीडिताः ॥७॥

भीष्मोऽपि समरे जित्वा पाण्डवान् सहृसृञ्जयान् ।
पूज्यमानस्तव सुतैवेन्द्यमानश्च भारत ॥८॥

न्यविशत् कुरुभिः सार्धं हृष्टरूपैः समन्ततः ।
ततो रात्रिः समभवत् सर्वभूतप्रमोहिनी ॥९॥

तस्मिन् रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह ।
सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् ॥१०॥

आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः ।
मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः ॥११॥

ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप ।
वासुदेवं समुद्वीक्ष्य वचनं चेदमाददे ॥१२॥

कृष्ण पश्य महात्मानं भीष्मं भीमपराक्रमम् ।
गजं नलवनानीव विमृद्नन्तं बलं मम ॥१३॥

न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् ।
लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् ॥१४॥

यथा घोरो महानागस्तक्षको वै विषोल्बणः ।
तथा भीष्मो रणे क्रुद्धस्तीक्ष्णशस्त्रः प्रतापवान् ॥१५॥

गृहीतचापः समरे प्रमुञ्चन्निशिताञ्छरान् ।
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् ॥१६॥

वरुणः पाशभृच्चापि सङ्गदो वा धनेश्वरः ।
न तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे ॥१७॥

सोऽहमेवंगते कृष्ण निमग्नः शोकसागरे ।
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे ॥१८॥

वनं यास्यामि दुर्धर्ष श्रेयो वै तत्र मे गतम् ।
न युद्धं रोचते कृष्ण हन्ति भीष्मो हि नः सदा ॥१९॥

यथा प्रज्वलितं वह्निं पतङ्गः समभिद्रवन् ।
एकतो मृत्युमभ्येति तथाऽहं भीष्ममीयिवान् ॥२०॥

एकत इति द्वितीयान्तात्तसिः । एकं केवलं मृत्युमेवाभ्येतीत्यर्थः ॥२०॥

क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी ।
भ्रातरश्चैव मे शूराः सायकैर्भृशपीडिताः ॥२१॥

मत्कृते भ्रातृसौहार्दाद्राज्यभ्रष्टा वनं गताः ।
परिक्लिष्टा तथा कृष्णा मत्कृते मधुसुदन ॥२२॥

जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् ।
जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् ॥२३॥

अद्येदानीम् ॥२३॥

यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशव ।
स्वधर्मस्याविरोधेन हितं व्याहर केशव ॥२४॥

एवं श्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम् ।
प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् ॥२५॥

धर्मपुत्र विषादं त्वं मा कृथाः सत्यसङ्गर ।
यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः ॥२६॥

अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ ।
माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिवेश्वरौ ॥२७॥

मां वा नियुंक्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव ।
त्वत्प्रयुक्तो महाराज किं न कुर्यां महाहवे ॥२८॥

हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् ।
पश्यतां धार्तराष्ट्राणां यदि नेच्छति फाल्गुनः ॥२९॥

यदि भीष्मे हते वीरे जयं पश्यसि पाण्डव ।
हन्ताऽस्म्येकरथेनाद्य कुरुवृद्धं पितामहम् ॥३०॥

पश्य मे विक्रमं राजन् महेन्द्रस्येव संयुगे ।
विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात् ॥३१॥

यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः ।
मदर्था भवदीया ये ये मदीयास्तवैव ते ॥३२॥

तव भ्राता मम सखा सम्बन्धी शिष्य एव च ।
मांसान्युत्कृत्य दास्यामि फाल्गुनार्थे महीपते ॥३३॥

एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत् ।
एष नः समयस्तात तारयेम परस्परम् ॥३४॥

स मां नियुंक्ष्व राजेन्द्र यथा योद्धा भवाम्यहं ।
प्रतिज्ञातमुपप्लव्ये यत्तत्पार्थेन पूर्वतः ॥३५॥

घातयिष्यामि गाङ्गेयमिति लोकस्य संनिधौ ।
परिरक्ष्यमिदं तावद्वचः पार्थस्य धीमतः ॥३६॥

अनुज्ञातं तु पार्थेन मया कार्यं न संशयः ।
अथवा फाल्गुस्यैष भारः परिमितो रणे ॥३७॥

स हनिष्यति सङ्ग्रामे भीष्मं परपुरञ्जयम् ।
अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः ॥३८॥

त्रिदशान् वा समुयुक्तान् सहितान्दैत्यदानवैः ।
निहन्यादर्जुनः संख्ये किमु भीष्मं नराधिप ॥३९॥

विपरीतो महावीर्यो गतसत्त्वोऽल्पजीवनः ।
भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते ॥४०॥

विपरीतः क्षुद्रेषु पराक्रमी गतसत्त्वो गतबुद्धिः ॥४०॥
युधिष्ठिर उवाच ।

एवमेतन्महाबाहो यथा वदसि माधव ।
सर्वे ह्येते न पर्याप्तास्तव वेगविधारणे ॥४१॥

नियतं समवाप्स्यामि सर्वमेतद्यथेप्सितम् ।
यस्य मे पुरुषव्याघ्र भवान् पक्षे व्यवस्थितः ॥४२॥

सेन्द्रानपि रणे देवान् जयेयं जयतां वर ।
त्वया नाथेन गोविन्द किमु भीष्मं महारथम् ॥४३॥

न तु त्वामनृतं कर्तुमुत्सहे स्वात्मगौरवात् ।
अयुध्यमानः साहाय्यं यथोक्तं कुरु माधव ॥४४॥

समयस्तु कृतः कश्चिन्मम भीष्मेण संयुगे ।
मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथञ्चन ॥४५॥

स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव ॥४६॥

तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः ।
भवता सहिताः सर्वे प्रयाम मधुसूदन ॥४७॥

तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् ।
न चिरात् सर्वे वार्ष्णेय मन्त्रं पृच्छाम कौरवम् ॥४८॥

स वक्ष्यति हितं वाक्यं सत्यमस्मान् जनार्दन ।
यथा च वक्ष्यते कृष्ण तथा कर्ताऽस्मि संयुगे ॥४९॥

स नो जयस्य दाता स्यान्मन्त्रस्य च दृढव्रतः ।
बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् ॥५०॥

तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव ।
पितुः पितरमिष्टं च धिगस्तु क्षत्रजीविकाम् ॥५१॥

सञ्जय उवाच ।

ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् ।
रोचते मे महाप्राज्ञ राजेन्द्र तव भाषितम् ॥५२॥

देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् ।
गम्यतां स वधोपायं प्रष्टुं सागरगासुतः ॥५३॥

वक्तुमर्हति सत्यं स त्वया पृष्टो विशषतः ।
ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् ॥५४॥

गत्वा शान्तनवं वृद्धं मन्त्रं पृच्छाम भारत ।
स वो दास्यति मन्त्रं यं तेन योत्स्यामहे परान् ॥५५॥

एवमामन्त्र्य ते वीराः पाण्डवाः पाण्डुपूर्वजम् ।
जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् ॥५६॥

विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति ।
प्रविश्य च तदा भीष्मं शिरोभिः प्रणिपेदिरे॥५७॥

पूजयन्तो महाराज पाण्डवा भरतर्षभम् ।
प्रणम्य शिरसा चैनं भीष्मं शरणमभ्ययुः ॥५८॥

तानुवाच महाबाहुर्भीष्मः कुरुपितामहः ।
स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय ॥५९॥

स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा ।
किं वा कार्यं करोम्यद्य युष्माकं प्रीतिवर्धनम् ॥६०॥

सर्वात्मनाऽपि कर्ताऽस्मि यदपि स्यात् सुदुष्करम् ।
तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः ॥६१॥

कथं जयेम सर्वज्ञ कथं राज्यं लभेमहि ॥६२॥

प्रजानां संशयो न स्यात् कथं तन्मे वद प्रभो ।
भवान् हि नो वधोपायं ब्रवीतु स्वयमात्मनः ॥६३॥

भवन्तं समरे वीर विषहेम कथं वयम् ।
न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह ॥६४॥

आददानं सन्दधानं विकर्षन्तं धनुर्न च ॥६५॥

पश्यामस्त्वां महाबाहो रथे सूर्यमिवापरम् ।
रथाश्वनरनागानां हन्तारं परवीरहन् ॥६६॥

कोऽथ वोत्सहते जेतुं त्वां पुमान् भरतर्षभ ।
वर्षता शरवर्षाणि संयुगे वैशसं कृतम् ॥६७॥

क्षयं नीता हि पृतना संयुगे महती मम ।
यया युधि जयेम त्वां यथा राज्यं भृशं मम ॥६८॥

मम सैन्यस्य च क्षेमं तन्मे ब्रूहि पितामह ।
ततोऽब्रवीच्छान्तनवःपाण्डवान् पाण्डुपूर्वजः ॥३९॥

न कथञ्चन कौन्तेय मयि जीवति संयुगे ।
जयो भवति सर्वज्ञ सत्यमेतद्ब्रवीमि ते ॥७०॥

निर्जिते मयि युद्धेन रणे जेष्यथ पाण्डवाः ।
क्षिप्रं मयि प्रहरध्वं यदीच्छथ रणे जयम् ॥७१॥

अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् ।
एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् ॥७२॥

युधिष्ठिर उवाच ।

ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि ॥७३॥

भवन्तं समरे क्रुद्धं दण्डहस्तमिवान्तकम् ।
शक्यो वज्रधरी जतुं वरुणोऽथ यमस्तथा ॥७४॥

भीष्म उवाच ।

सत्यमेतन्महाबाहो यथा वदसि पाण्डव ॥७५॥

नाहं जेतुं रणे शक्यः सेन्द्रैरपि सुरासुरैः ।
आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः ॥७६॥

ततो मां न्यस्तशस्त्रं तु एते हन्युर्महारथाः ।
निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे ॥७७॥

द्रवमाणे च भीते च तवास्मीति च वादिनि ।
स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रिणि ॥७८॥

अप्रशस्ते नरे चैव न युद्धं रोचते मम ।
इमं मे शृणु राजेन्द्र सङ्कल्पं पूर्वचिन्तितम् ॥७९॥

यथाऽभवच्च स्त्री पूर्वं पश्चात्पुंस्त्वं समांगतः ॥८१॥

जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् ।
अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम् ॥८२॥

मामेव विशिखैस्तीक्ष्णैरभिद्रवतु दंशितः ।
अमङ्गल्यध्वजे तस्मिन् स्त्रीपूर्वे च विशेषतः ॥८३॥

न प्रहर्तुमभीप्सामि गृहीतेषुः कथञ्चन ।
तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः ॥८४॥

शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ ।
न तं पश्यामि लोकेषु मां हन्याद्यः समुद्यतम् ॥८५॥

ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जयात् ।
एष तस्मात् पुरोधाय कञ्चिदन्यं ममाग्रतः ॥८६॥

आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः ।
मां पातयतु बीभत्सुरेवं तव जयो ध्रुवम् ॥८७॥

एतत्कुरुष्व कौन्तेय यथोक्तं मम सुव्रत ।
सङ्ग्रामे धार्तराष्ट्रांश्च हन्याः सर्वान्समागतान् ॥८८॥

सञ्जय उवाच ।

ते तु ज्ञात्वा ततः पार्था जग्मुः स्वशिबिरं प्रति ।
अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् ॥८९॥

तथोक्तवति गाङ्गेये परलोकाय दीक्षिते ।
अर्जुनो दुःखसन्तप्तः सव्रीडमिदमब्रवीत् ॥९०॥

गुरुणा कुरुवृद्धेन कृतप्रज्ञेनन धीमता ।
पितामहेन सङ्ग्रामे कथं योद्धाऽस्मि माधव ॥९१॥

क्रीडता हि मया बाल्ये वासुदेव महामनाः ।
पांसुरूषितगात्रेण महात्मा परुषीकृतः ॥९२॥

परुषीकृतः रूक्षीकृतः ॥९२॥

यस्याहमधिरुह्याङ्कं बालः किल गदाग्रज ।
तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः ॥९३॥

नाहं तातस्तव पितुस्तातोऽस्मि तव भारत ।
इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया ॥९४॥

कामं वध्यतु सैन्यं मे नाहं योत्स्ये महात्मना ।
जयो वाऽस्तु वधो वा मे कथं वा कृष्ण मन्यसे ॥९५॥

वासुदेव उवाच ।

प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे ।
क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि ॥९६॥

पातयैनं रथात् पार्थ क्षत्रियं युद्धदुर्मदम् ।
नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति ॥९७॥

युद्धदुर्मदं युद्धोत्सुकम् ॥९७॥

दृष्टमेतत् पुरा देवैर्गमिष्यति यमक्षयम् ।
यद्दृष्टं हि पुरा पार्थ तत्तथा न तदन्यथा ॥९८॥

गमिष्यति यमक्षयं भीष्म इति शेषः ॥९८॥

न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् ।
त्वदन्यः शक्नुयाद्योद्धुमपि वज्रधरः स्वयम् ॥९९॥

जहि भीष्मं स्थिरो भूत्वा शृणु चेदं वचो मम ।
यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः ॥१००॥

ज्यायांसमपि चेद्वृद्धं गुणैरपि समन्वितम् ।
आततायिनमायान्तं हन्याद्घातकमात्मनः ॥१०१॥

आततायिनमित्यस्य घातकमिति विशेषणमन्येभ्य आततायिभ्यो व्यवच्छेदायोक्तम् ॥१०१॥

शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय ।
योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः ॥१०२॥

अर्जुन उवाच ।

शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् ।
दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते ॥१०३॥

निधनं निधनहेतुः ॥१०३॥

ते वयं प्रमुखे तस्य पुरस्कृत्य शिखण्डिनम् ।
गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः ॥१०४॥

अहमन्यान् महेष्वासान् वारयिष्यामि सायकैः ।
शिखण्ड्यपि युधां श्रेष्ठं भीष्ममेवाभियोधयेत् ॥१०५॥

श्रुतं हि कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् ।
कन्या ह्येषा पुरा भूत्वा पुरुषः समपद्यत ॥१०६॥

इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः ।
अनुमान्य महात्मानं प्रययुर्हृष्टमानसाः ।
शयनानि यथास्वानि भेजिरे पुरुषर्षभाः ॥१०७॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसावहारोत्तरमन्त्रे सप्ताधिकशततमोऽध्यायः॥१०७॥
अष्टाधिकशततमोऽध्यायः

धृतराष्ट्र उवाच । कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे ।
पाण्डवांश्च कथं भीष्मस्तन्ममाचक्ष्व सञ्जय ॥१॥

कथमिति ॥१॥
सञ्जय उवाच ।

ततस्ते पाण्डवाः सर्वे सूर्यस्योदयनं प्रति ।
ताड्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ॥२॥

ध्मायत्सु दधिवर्णेषु जलजेषु समन्ततः ।
शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि ॥३॥

कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् ।
शिखण्डी सर्वसैन्यानामग्र आसीद्विशां पते ॥४॥

चक्ररक्षौ ततस्तस्य भीमसेनधनञ्जयौ ।
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् ॥५॥

सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः ।
धृष्टद्युम्नस्ततः पश्चात्पञ्चालैरभिरक्षितः ॥६॥

ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः ।
प्रययौ सिंहनादेन नादयन्भरतर्षभ ॥७॥

विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृतः ।
द्रुपदश्च महाबाहो ततः पश्चादुपाद्रवत् ॥८॥

केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् ।
जघनं पालयामासुः पाण्डुसैन्यस्य भारत ॥९॥

एवं व्यूह्य महासैन्यं पाण्डवास्तव वाहिनीम् ।
अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा जीवितमात्मनः ॥१०॥

तथैव कुरवो राजन् भीष्मं कृत्वा महारथम् ।
अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान् प्रति ॥११॥

पुत्रैस्तव दुराधर्षो रक्षितः सुमहाबलैः ।
ततो द्रोणो महेष्वासः पुत्रश्चास्य महाबलः ॥१२॥

भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः ।
कृपश्च कृतवर्मा च भगद‌त्तमनुव्रतौ ॥१३॥

काम्बोजराजो बलवांस्ततः पश्चात्सुदक्षिणः ।
मागधश्च जयत्सेनः सौबलश्च बृहद्बलः ॥१४॥

तथैवान्ये महेष्वासाः सुशर्मप्रमुखा नृपाः ।
जघनं पालयामासुस्तव सैन्यस्य भारत ॥१५॥

दिवसे दिवसे प्राप्ते भीष्मः शान्तनवो युधि ।
आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् ॥१६॥

ततः प्रववृते युद्धं तव तेषां च भारत ।
अन्योन्यं निघ्नतां राजन् यमराष्ट्रविवर्धनम् ॥१७॥

अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् ।
भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधान् शरान् ॥१८॥

तत्र भारत भीमेन ताडितास्तावकाः शरैः ।
रुधिरौधपरिक्लिन्नाः परलोकं ययुस्तदा ॥१९॥

नकुलः सहदेवश्च सात्यकिश्च महारथः ।
तव सैन्यं समासाद्य पीडयामासुरोजसा ॥२०॥

नाशक्नुवन् वारयितुं पाण्डवानां महद्बलम् ॥२१॥

ततस्तु तावकं सैन्यं वध्यमानं समन्ततः ।
सुसंप्राप्तं दश दिशः काल्यमानं महारथैः ॥२२॥

त्रातारं नाध्यगच्छन्त तावका भरतर्षभ ।
वध्यमानाः शितैर्बाणैः पाण्डवैः सह सृञ्जयैः ॥२३॥

धृतराष्ट्र उवाच ।

पीड्यमानं बलं दृष्ट्वा पार्थैर्भीष्मः पराक्रमी ।
यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय ॥२४॥

कथं वा पाण्डवान्युद्धे प्रत्युद्यातः परंतपः ।
विनिघ्नन् सोमकान् वीरस्तदाचक्ष्व ममानघ ॥२५॥

सञ्जय उवाच ।

आचक्षे ते महाराज यदकार्षीत् पिता तव ।
पीडिते तव पुत्रस्य सैन्ये पाण्डवसृञ्जयैः ॥२६॥

प्रहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज ।
अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् ॥२७॥

तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् ।
नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः ॥२८॥

स पाण्डवान्महेष्वासः पञ्चालांश्चैव सृञ्जयान् ।
नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा ॥२९॥

अभ्यवर्षत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः ।
स पाण्डवानां प्रवरान् पञ्च राजन् महारथान् ॥३०॥

आत्तशस्त्रो रणे यत्नाद्वारयामास सायकैः ।
नानाशस्त्रास्त्रवर्षैस्तान् वीर्यामर्षप्रवेरितैः ॥३१॥

निजघ्ने समरे क्रुद्धो हस्त्यश्वं चामितं बहु ।
रथिनोऽपातयद्राजन् रथेभ्यः पुरुषर्षभ ॥३२॥

सादिनश्चाश्वपृष्ठेभ्यः पादातांश्च समागतान् ॥३३॥

गजारोहान् गजेभ्यश्च परेषां जयकारिणः ।
तमेकं समरे भीष्मं त्वरमाणं महारथम्॥३४॥

पाण्डवाः समवर्तन्त वज्रहस्तमिवासुराः ।
शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्छरान्‌॥३५॥

दिक्ष्वदृश्यत सर्वासु घोरं सन्धारयन् वपुः ।
मण्डलीभूतमेवास्य नित्यं धनुरदृश्यत ॥३६॥

सङ्ग्रामे युध्यमानस्य शक्रचापोपमं महत् ।
तद्दृष्ट्वा समरे कर्म पुत्रास्तव विशांपते॥३७॥

विस्मयं परमं गत्वा पितामहमपूजयन् ।
पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव ॥३८॥

युध्यमानं रणे शूरं विरचित्तिमिवामराः ।
न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् ॥३९॥

दशमेऽहनि संप्राप्ते रथानीकं शिखण्डिनः ।
अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम् ॥४०॥

तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ।
आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ॥४१॥

स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् ।
अनिच्छन्निव सङ्क्रुद्धः प्रहसन्निद‌मब्रवीत् ॥४२॥

काममभ्यस वा मा वा न त्वां योत्स्ये कथञ्चन ।
यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी ॥४३॥

कामं स्वच्छन्दम् अभ्यस प्रक्षिप ॥४३॥

तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्च्छितः ।
उवाचैनं तथा भीष्मं सृक्किणी परिसंलिहन् ॥४४॥

जानामि त्वां महाबाहो क्षत्रियाणां क्षयं कर ।
मया श्रुतं च ते युद्धं जामदग्न्येन वै सह ॥४५॥

दिव्यश्च ते प्रभावोऽयं मया च बहुशः श्रुतः ।
जानन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह ॥४६॥

पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम ।
अद्य त्वां योधयिष्यामि रणे पुरुषसत्तम ॥४७॥

ध्रुवं च त्वां हनिष्यामि शपे सत्येन तेऽग्रतः ।
एतच्छ्रुत्वा च मद्वाक्यं यत्कृत्यं तत् समाचर ॥४८॥

काममभ्यस वा मा वा न म जीवन् प्रमोक्ष्यसे ।
सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिञ्जय ॥४९॥

सुदृष्टः क्रियतां न पुनर्द्रक्ष्यसि लोकमिममिति भावः ॥४९॥
सञ्जय उवाच ।

एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः ।
अविध्यत रणे भीष्मं प्रणुन्नं वाक्यसायकैः ॥५०॥

तस्य तद्वचनं श्रुत्वा सव्यसाची महारथः ।
कालोऽयमिति सञ्चिन्त्य शिखण्डिनमचोदयत् ॥५१॥

अहं त्वामनुयास्यामि परान्विद्रावयन् शरैः ।
अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् ॥५२॥

न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः ।
तस्मादद्य महाबाहो यत्नाद्भीष्ममभिद्रव ॥५३॥

अहत्वा समरे भीष्मं यदि यास्यीस मारिष ।
अवहास्योऽस्य लोकस्य भविष्यसि मया सह ॥५४॥

नावहास्या यथा वीर भवेम परमाहव ।
तथा कुरु रणे यत्नं साधयस्व पितामहम् ॥५५॥

साधयस्व स्वाकुरु जहि वा ॥५५॥

अहं ते रक्षणं युद्धे करिष्यामि महाबल ।
वारयन् रथिनः सर्वान्साधयस्व पितामहम् ॥५६॥

द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् ।
चित्रसेनं विकर्णं च सैन्धवं च जयद्रथम् ॥५७॥

विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् ।
भगदत्तं तथा शूरं मागधं च महाबलम् ॥५८॥

सौमदत्तिं तथा शूरमार्ष्यशृङ्गिं च राक्षसम् ।
त्रिगर्तराजं च रण सह सर्वैर्महारथैः ॥५९॥

अहमावारयिष्यामि वेलेव मकरालयम् ।
कुरूंश्च सहितान्सर्वान् युध्यमानान्महाबलान् ।
निवारयिष्यामि रणे साधयस्व पितामहम् ॥६०॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि भीष्मशिखण्डिसमागमे अष्टाधिकशततमोऽध्यायः॥१०८॥
नवाधिकशततमोऽध्यायः

धृतराष्ट्र उवाच । कथं शिखण्डी गाङ्गेयमभ्यधावत् पितामहम् ।
पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् ॥१॥

कथमिति ॥१॥

केऽरक्षन् पाण्डवानीके शिखण्डिनमुदायुधाः ।
त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः ॥२॥

कथं शान्तनवो भीष्मः स तस्मिन् दशमेऽहनि ।
अयुध्यत महावीर्यः पाण्डवैः सह सृञ्जयैः ॥३॥

न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिनम् ।
कच्चिन्न रथभङ्गोऽस्य धनुर्वाऽशीर्यतास्यतः ॥४॥

सञ्जय उवाच ।

नाशीर्यत धनुश्चास्य रथभङ्गो न चाप्यभूत् ।
युध्यमानस्य सङ्ग्रामे भीष्मस्य भरतर्षभ ॥५॥

निघ्नतः समरे शात्रून् शरैः सन्नतपर्वभिः ।
अनेकशतसाहस्रास्तावकानां महारथाः ॥६॥

तथा दन्तिगणा राजन् हयाश्चैव सुसज्जिताः ।
अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् ॥७॥

यथा तिज्ञं कौरव्ये स चापि समितिञ्जयः ।
पार्थानामकरोद्भीष्मः सततं समिति क्षयम् ॥८॥

समितिञ्जयः सङ्ग्रामजित् समितियुद्धे ॥८॥

युध्यमानं महेष्वासं विनिघ्नन्तं परान् शरैः ।
पञ्चालाः पाण्डवैः सार्धं सर्वे ते नाभ्यवारयन् ॥९॥

दशमेऽहनि सम्प्राप्ते ततस्तां रिपुवाहिनीम् ।
कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः ॥१०॥

न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज ।
अशक्नुवन्रणे जेतुं पाशहस्तमिवान्तकम् ॥११॥

अथोपायान्महाराज सव्यसाची धनञ्जयः ।
त्रासयन्रथिनः सर्वान् बीभत्सुरपराजितः ॥१२॥

सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः ।
शरौघान् विसृजन् पार्थो व्यचरत् कालवद्रणे ॥१३॥

तस्य शब्देन वित्रस्तास्तावका भरतर्षभ ।
सिंहस्येव मृगा राजन् व्यद्रवन्त महाभयात् ॥१४॥

जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् ।
दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः ॥१५॥

एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः ।
दहते मामकान्सर्वान् कृष्णवर्त्मेव काननम् ॥१६॥

पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः ।
पाण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे ॥१७॥

यथा पशुगणान् पालः सङ्कालयति कानने ।
तथेदं मामकं सैन्यं काल्यते शत्रुतापन ॥१८॥

धनञ्जयशरैर्भग्नं द्रवमाणं ततस्ततः ।
भीमोऽप्यव दुराधर्षो विद्रावयति मे बलम् ॥१९॥

सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ ।
अभिमन्युः सुविक्रान्तो वाहिनीं द्रवते मम ॥२०॥

द्रवते द्रावयति ॥२०॥

धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः ।
व्यद्रावयेतां सहसा सैन्यं मम महारणे ॥२१॥

वध्यमानस्य सैन्यस्य सर्वैरेतैर्महारथैः ।
नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत ॥२२॥

गतिं धाम आश्रयमिति यावत् स्थाने अवस्थाने ॥२२॥

ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रम ।
पर्याप्तस्तु भवान् शीघ्रं पीडितानां गतिर्भव ॥२३॥

सञ्जय उवाच ।

एवमुक्तो महाराज पिता देवव्रतस्तव ।
चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः ॥२४॥

तव संधारयन् पुत्रमब्रवीच्छान्तनोः सुतः ।
दुर्योधन विजानीहि स्थिरो भूत्वा विशांपते ॥२५॥

पूर्वकालं तव मया प्रतिज्ञातं महाबल ।
हत्वा दशसहस्राणि क्षत्रियाणां महात्मनाम् ॥२६॥

सङ्ग्रामाद्व्यपयातव्यमेतत्कर्म ममाह्निकम् ।
इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ ॥२७॥

आह्निकं दिवसकार्यम् ॥२७॥

अद्य चापि महत् कर्म प्रकरिष्ये महाबल ।
अहं वाऽद्य हतः शेष्ये हनिष्ये वाऽद्य पाण्डवान् ॥२८॥

शेष्ये स्वप्स्यामि ॥२८॥

अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं तव ।
भर्तृपिण्डकृतं राजन्निहतः पृतनामुखे ॥२९॥

इत्युक्त्वा भरतश्रेष्ठ क्षत्रियान् प्रवपञ्छरैः ।
आससाद दुराधर्षः पाण्डवानामनीकिनीम् ॥३०॥

दशमेऽहनि भीष्मस्तु दर्शयन् शक्तिमात्मनः ।
राजन् शतसहस्राणि सोऽवधीत्कुरुनन्दन ॥३२॥

पञ्चालानां च ये श्रेष्ठा राजपुत्रा महारथाः ।
तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः ॥३३॥

हत्वा दश सहस्राणि कुञ्जराणां तरस्विनाम् ।
सारोहाणां महाराज हयानां चायुतं तथा ॥३४॥

पूर्णे शतसहस्त्रे द्वे पादातानां नरोत्तमः ।
प्रजज्वाल रणे भीष्मो विधूम इव पावकः ॥३५॥

न चैनं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम् ।
उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् ॥३६॥

वधायाभ्यद्रवन् भीष्मं सृञ्जयाश्च महारथाः ॥३७॥

संयुद्ध्यमानो बहुभिर्भीष्मः शान्तनवस्तथा ।
अवकीर्णो महामेरुः शैलो मेघैरिवावृतः ॥३८॥

पुत्रास्तु तव गाङ्गेयं समन्तात् पर्यवारयन् ।
महत्या सेनया सार्धं ततो युद्धमवर्तत ॥३९॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि भीष्मदुर्योधनसंवादे नवाधिकशततमोऽध्यायः ॥१०९॥
दशाधिकशततमोऽध्ययः
सञ्जय उवाच ।

अर्जुनस्तु रणे राजन् दृष्ट्वा भीष्मस्य विक्रमम् ।
शिखण्डिनमथोवाच समभ्येहि पितामहम् ॥१॥

अर्जुन इति ॥१॥

अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् ॥२॥

अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ॥३॥

धृष्टद्युम्नस्तथा राजन् सौभद्रश्च महारथः ।
हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् ॥४॥

विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः ।
अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः ॥५॥

नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् ।
तथेतराणि सैन्यानि सर्वाण्येव विशांपते ॥६॥

समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ।
प्रत्युद्य-स्तावकाश्च समेतांस्तान्महारथान् ॥७॥

यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु ।
चित्रसेनो महाराज चेकितानं समभ्ययात् ॥८॥

भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा ।
धृष्टद्युम्नं महाराज भीष्मान्तिकसुपागतम् ॥९॥

त्वरमाणं रणे यत्तं कृतवर्मा न्यवारयत् ।
भीमसेनं सुसंक्रुद्धं गाङ्गेयस्य वधैषिणम् ॥१०॥

त्वरमाणो महाराज सौमदत्तिर्न्यवारयत् ।
तथैव नकुलं शूरं किरन्तं सायकान् बहून् ॥११॥

विकर्णो वारयामास इच्छन् भीष्मस्य जीवितम् ।
सहदेवं तथा राजन् यान्तं भीष्मरथं प्रति ॥१२॥

वारयामास संक्रुद्धः कृपः शारद्वतो युधि ।
राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् ॥१३॥

भीष्मस्य निधनं प्रेप्सुं दुर्मुखोऽभ्यद्रवद्बली ।
सात्यकिं समरे यान्तं तव पुत्रो न्यवारयत् ॥१४॥

अभिमन्युं महाराज यान्तं भीष्मरथं प्रति ।
सुदक्षिणो महाराज काम्बोजः प्रत्यवारयत् ॥१५॥

विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ ।
अश्वत्थामा ततः क्रुद्धो वारयामास भारत ॥१६॥

तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् ।
भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत् ॥१७॥

अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् ।
भीष्मप्रेप्सुं महाराज भासयन्तं दिशो दश ॥१८॥

रभसं कृतोत्साहम् ॥१८॥

दुःशासनो महेष्वासो वारयामास संयुगे ।
अन्ये च तावका योधाः पाण्डवानां महारथान् ॥१९॥

भीष्मस्याभिमुखान्यातान्वारयामासुराहवे ।
धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशंस्तु पुनः पुनः ॥२०॥

अभ्यद्रवत संरब्धो भीष्ममेकं महारथः ।
एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दन ॥२१॥

अभ्यद्रवत माभैष्ट भीष्मो हि प्राप्स्यते न वः ।
अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः ॥२२॥

किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः ।
इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः ॥२३॥

अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति ।
आगच्छमानान् समरे वार्योघान् प्रलयानिव ॥२४॥

प्रलयानिव प्रलयकालीनानिव ॥२४॥

अवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः ।
दुःशासनो महाराज भयं त्यक्त्वा महारथः ॥२५॥

भीष्मस्य जीविताकाङ्क्षी धनञ्जयमुपाद्रवत् ।
तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति ॥२६॥

अभ्यद्रवन्त सङ्ग्रामे तव पुत्रान् महारथाः ।
तत्राद्भुतमपश्याम चित्ररूपं विशांपते ॥२७॥

अद्भुतम् अभूतपूर्वम् ॥२७॥

दुःशासनरथं प्राप्य यत् पार्थो नात्यवर्तत ।
यथा वारयते वेला क्षुब्धतोयं महार्णवम् ॥२८॥

तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत् ।
उभौ तौ रथिनां श्रेष्ठावुभौ भारत दुर्जयौ ॥२९॥

उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत ।
तथा तौ जातसरम्भावन्योन्यवधकाङ्क्षिणौ ॥३०॥

समीयतुर्महासंख्ये मयशक्रौ यथा पुरा ।
दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः ॥३१॥

वासुदेवं च विंशत्या ताडयामास संयुगे ।
ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम् ॥३२॥

दुःशासनं शतेनाजौ नाराचानां समार्पयत् ।
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥३३॥

दुःशासनस्त्रिभिः क्रुद्धः पार्थं विव्याध पत्रिभिः ।
ललाटे भरतश्रेष्ठ शरैः सन्नतपर्वभिः ॥३४॥

ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवो रणे ।
यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः ॥३५॥

सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना ।
व्यराजत रणे पार्थः किंशुकः पुष्पवानिव ॥३६॥

दुःशासनं ततः कुद्धः पीडयामास पाण्डवः ।
पर्वणीव सुसंक्रुद्धो राहुः पूर्णं निशाकरम् ॥३७॥

पीड्यमानो बलवता पुरस्तव विशांपते ।
विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः ॥३८॥

तस्य पार्थो धनुश्छित्त्वा रथं चास्य त्रिभिःशरैः ।
आजघान ततः पश्चात् पुत्रं ते निशितैः शरैः ॥३९॥

सोऽन्यत् कार्मुकमादाय भीष्मस्य प्रमुखे स्थितः ।
अर्जुनं पञ्चविंशत्या बाह्वोरुरसि चार्पयत् ॥४०॥

तस्य कुद्धो महाराज पाण्डवः शत्रुतापनः ।
अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून् ॥४१॥

अप्रैषीत् उपसर्गात्पूर्वोऽडागमस्तु छान्दसः एवमन्यत्रापि ॥४१॥

अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव ।
यतमानस्य पार्थस्य तदद्भुतमिवाभवत् ॥४२॥

पार्थं च निशितैर्बाणैरविध्यत् तनयस्तव ।
ततः क्रुद्धो रणे पार्थः शरान् संधाय कार्मुके ॥४३॥

प्रेषयामास समरे स्वर्णपुङ्खाञ्छिलाशितान् ।
न्यमज्जंस्ते महाराज तस्य काये महात्मनः ॥४४॥

यथा हंसा महाराज तडागं प्राप्य भारत ।
पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना ॥४५॥

हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाव्रजत् ।
अगाधे मज्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा ॥४६॥

द्वीप आश्रयः ॥४६॥

प्रतिलभ्य ततः संज्ञां पुत्रस्तव विशांपते ।
अवारयत्ततः शूरो भूय एव पराक्रमी ॥४७॥

शरैः सुनिशितैः पार्थं यथा वृत्रं पुरन्दरः ।
निर्बिभेद महाकायो विव्यथे नैव चार्जुनः ॥४८॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि अर्जुनदुःशासनसमागमे दशाधिकशततमोऽध्यायः॥११०॥
एकादशाधिकशततमोऽध्यायः

सञ्जय उवाच । सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं रणे ।
आर्ष्यशृङ्गिर्महेष्वासो वारयामास संयुगे ॥१॥

सात्यकिमिति ॥१॥

माधवस्तु सुसंक्रुद्धो राक्षसं नवभिः शरैः ।
आजघान रणे राजन् प्रहसन्निव भारत ॥२॥

तथैव राक्षसो राजन् माधवं नवभिः शरैः ।
अर्दयामास राजेन्द्र संक्रुद्धः शिनिपुङ्गवम् ॥३॥

शैनेयः शरसङ्घं तु प्रेषयामास संयुगे ।
राक्षसाय सुसंक्रुद्धो माधवः परवीरहा ॥४॥

ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम् ।
विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च ॥५॥

माधवस्तु भृशं विद्धो राक्षसेन रणे तदा ।
वार्यमाणश्च तेजस्वी जहास च ननाद च ॥६॥

भगदत्तस्ततः कुद्धो माधवं निशितैः शरैः ।
ताडयामास समरे तोत्रैरिव महागजम् ॥७॥

विहाय राक्षसं युद्धे शैनेयो रथिनां वरः ।
प्राग्ज्योतिषाय चिक्षेप शरान् संनतपर्वणः ॥८॥

तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः ।
चिच्छेद शतधारेण भल्लेन कृतहस्तवत् ॥९॥

अथान्यद्धनुरादाय वेगवत् परवीरहा ।
भगदत्तं रणे क्रुद्धं विव्याध निशितैः शरैः ॥१०॥

सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् ।
शक्तिं कनकवैदूर्यभूषितामायसीं दृढाम् ॥११॥

यमदण्डोपमां घोरां चिक्षेप परमाहवे ।
तामापतन्तीं सहसा तस्य बाहुबलेरिताम् ॥१२॥

सात्यकिः समरे राजन्द्विधा चिच्छेद सायकैः ।
ततः पपात सहसा महोल्केव हतप्रभा ॥१३॥

शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशांपते ।
महता रथवंशेन वारयामास माधवम् ॥१४॥

तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम् ।
दुर्योधनो भृशं क्रुद्धो भ्रातॄन् सर्वानुवाच ह ॥१५॥

तथा कुरुत कौरव्या यथा वः सात्यको युधि ।
न जीवन् प्रतिनिर्याति महतोऽस्माद्रथव्रजात् ॥१६॥

तस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् ।
तथेति च वचस्तस्य परिगृह्य महारथाः ॥१७॥

शैनेयं योधयामासुर्भीष्मायाभ्युद्यतं रणे ।
काम्बोजराजो बलवान् वारयामास संयुगे ॥१८॥

आर्जुनिं नृपतिर्विद्ध्वा शरैः सन्नतपर्वभिः ।
पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृप ॥१९॥

सुदक्षिणस्तु समरे पुनर्विव्याध पञ्चभिः ।
सारथिं चास्य नवभिरिच्छन्भीष्मस्यजीवितम् ॥२०॥

तद्युद्धमासीत् सुमहत्तयोस्तत्र समागमे ।
यदाऽभ्यधावद्गाङ्गेयं शिखण्डी शत्रुकर्शनः ॥२१॥

विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम् ।
भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ ॥२२॥

अश्वत्थामा रणे क्रुद्धः सभियाद्रथसत्तमः ।
ततः प्रववृते युद्धं तयोस्तस्य च भारत ॥२३॥

विराटो दशभिर्मल्लैराजघान परन्तप ।
यतमानं महेष्वासं द्रौणिमाहवशोभिनम् ॥२४॥

द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तदा ।
गुरुपुत्रं समासाद्य प्रहरन्तौ महाबलौ ॥२५॥

अश्वत्थामा ततस्तौ तु विव्याध बहुभिः शरैः ।
विराटद्रुपदौ वीरौ भीष्मं प्रति समुद्यतौ ॥२६॥

तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत् ।
यद्द्रौणिसायकान् घोरान् प्रत्यवारयतां युधि ॥२७॥

सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात् ।
यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् ॥२८॥

कृपश्च समरे शूरो माद्रीपुत्रं महारथम् ।
आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः ॥२९॥

तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः ।
अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः ॥३०॥

सोऽन्यत् कार्मुकमादाय समरे भारसाधनम् ।
माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः ॥३१॥

आजघानोरसि कुद्ध इच्छन् भीष्मस्य जीवितम् ।
तथैव पाण्डवो राजञ्छारद्वतममर्षणम् ॥३२॥

आजघानोरसि कुद्धो भीष्मस्य वधकाङ्क्षया ।
तयोर्युद्धं समभवद्घोररूपं भयावहम् ॥३३॥

नकुलं तु रणे क्रुद्धो विकर्णः शत्रुतापनः ।
विव्याध सायकैः षष्ट्या रक्षन् भीष्मं महाबलम् ॥३४॥

नकुलोऽपि भृशं विद्धस्तव पुत्रेण धीमता ।
विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः ॥३५॥

तत्र तौ नरशार्दूलौ भीष्महेतोः परंतपौ ।
अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव ॥३६॥

घटोत्कचं रणे यान्तं निघ्नन्तं तव वाहिनीम् ।
दुर्मुखः समरे प्रायाद्भीष्महेतोः पराक्रमी ॥३७॥

हैडिम्बस्तु रणे राजन् दुर्मुखं शत्रुतापनम् ।
आजघानोरसि क्रुद्धः शरेणानतपर्वणा ॥३८॥

भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः ।
षष्ट्या वीरो नदन् हृष्टो विव्याध रणमूर्धनि ॥३९॥

धृष्टद्युम्नं तथा यान्तं भीष्मस्य वधकांक्षिणम् ।
हार्दिक्यो वारयामास रथश्रेष्ठं महारथः ॥४०॥

हार्दिक्यः पार्षतं चापि विद्ध्वा पञ्चभिरायसैः ।
पुनः पञ्चाशता तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्॥४१॥

आजघान महाबाहुः पार्षतं तं महारथम् ।
तं चैव पार्षतो राजन् हार्दिक्यं नवभिः शरैः ॥४२॥

विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रैरजिह्मगैः ।
तयोः समभवद्युद्धं भीष्महेतोर्महाहवे ॥४३॥

अन्योन्यातिशये युक्तं यथा वृत्रमहेन्द्रयोः ।
भीमसेनं तथा यान्तं भीष्मं प्रति महारथम् ॥४४॥

भूरिश्रवाभ्ययात्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ।
सौमदत्तिरथो भीममाजघान स्तनान्तरे ॥४५॥

नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे ।
उरःस्थेन बभौ तेन भीमसेनः प्रतापवान् ॥४६॥

स्कन्दशक्त्या यथा क्रौंचः पुरा नृपतिसत्तम ।
तौ शरान् सूर्यसङ्काशान् कर्मारपरिमार्जितान्॥४७॥

अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते नरर्षभौ ।
भीमो भीष्मवधाकाङ्क्षी सौमदत्तिं महारथम् ॥४८॥

तथा भीष्मजये गृध्रुः सौमदत्तिस्तु पाण्डवम् ।
कृतप्रतिकृते यत्तौ योधयामासतू रणे ॥४९॥

युधिष्ठिरं तु कौन्तेयं महत्या सेनया वृतम् ।
भीष्माभिमुखमायान्तं भारद्वाजो न्यवारयत् ॥५०॥

द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् ।
श्रुत्वा प्रभद्रका राजन् समकम्पन्त मारिष ॥५१॥

सा सेना महती राजन् पाण्डुपुत्रस्य संयुगे ।
द्रोणेन वारिता यत्ता न चचाल पदात्पदम् ॥५२॥

चेकितानं रणे यत्तं भीष्मं प्रति जनेश्वर ।
चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् ॥५३॥

भीष्महेतोः पराक्रान्तश्चित्रसेनः पराक्रमी ।
चेकितानं परं शक्त्या योधयामास भारत ॥५४॥

तथैव चेकितानोऽपि चित्रसेनमवारयत् ।
तद्युद्धमासीत् सुमहत्तयोस्तत्र समागमे ॥५५॥

अर्जुनो वार्यमाणस्तु बहुशस्तत्र भारत ।
विमुखीकृत्य पुत्रं ते सेनां तव ममर्द ह ॥५६॥

दुःशासनोऽपि परया शक्त्या पार्थमवारयत् ।
कथं भीष्मं न नो हन्यादिति निश्चित्य भारत ॥५७॥

सा वध्यमाना समरे पुत्रस्य तव वाहिनी ।
लोड्यते रथिभिः श्रेष्ठैस्तत्र तत्रैव भारत ॥५८॥

लोड्यते आकुलीक्रियते ॥५८॥
इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वन्द्वयुद्धे एकादशाधिकशततमोऽध्यायः ॥१११॥
द्वादशाधिकशततमोऽध्यायः

सञ्जय उवाच । अथ वीरो महेष्वासो मत्तवारणविक्रमः ।
समादाय महच्चापं मत्तवारणवारणम् ॥१॥

अथेति ॥१॥

विधुन्वानो नरश्रेष्ठो द्रावयाणो वरूथिनीम् ।
पृतनां पाण्डवेयानां गाहमानो महाबलः ॥२॥

निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् ।
प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत ॥३॥

अयं हि दिवसस्तात यत्र पार्थो महाबलः ।
जिघांसुः समरे भीष्मं परं यत्नं करिष्यति ॥४॥

उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव च ।
योगमस्त्राणि गच्छान्त क्रूरे मे वर्तते मतिः ॥५॥

दिक्ष्वशान्तानि घोराणि व्याहरन्ति मृगद्विजाः ।
नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति ॥६॥

घोराणि भयङ्कराणि अशान्तानि अनुपरतानि ॥६॥

नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः ।
रसते व्यथते भूमिः कम्पतीव च सर्वशः ॥७॥

रसते शब्दायते व्यथते बिभेतीव कम्पत इव च ॥७॥

कङ्कगृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः ।
शिवाश्चैवाशिवा घोरा वेदयन्त्यो महद्भयम् ॥८॥

पपात महती चोल्का मध्येनादित्यमण्डलात् ।
सकबन्धश्च परिघो भानुमावृत्य तिष्ठति ॥९॥

परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत् ।
वेदयानो भयं घोरं राज्ञां देहावकर्तनम् ॥१०॥

देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः ।
कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च ॥११॥

अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं दिवाकरम् ।
आवाक्शिराश्च भगवानुपातिष्ठत चन्द्रमाः ॥१२॥

अलक्ष्माणं प्रचण्डलक्षणलक्षितम् अवाक्शिरा अधोमुखकोटिद्वयः ॥१२॥

वपूंषि च नरेन्द्राणां विगताभानि लक्षये ।
धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः ॥१३॥

सेनयोरुभयोश्चापि समन्ताच्छ्रूयते महान् ।
पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निःस्वनः ॥१४॥

ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे ।
अपास्यान्यान् रणे योधानभ्येष्यति पितामहम् ॥१५॥

आस्थाय आलम्ब्य ॥१५॥

हृष्यन्ति रोमकूपाणि सीदतीव च मे मनः ।
चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् ॥१६॥

तं चेह निकृतियज्ञं पाञ्चाल्यं पापचेतसम् ।
पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः ॥१७॥

अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् ।
स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् ॥१८॥

अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महाबलः ।
न चामङ्गलिके तस्मिन् प्रहरेदापगासुतः ॥१९॥

एतद्विचिन्तयानस्य मज्जा सीदति मे भृशम् ।
अभ्युद्यतो रणे पार्थः कुरुवृद्धमुपाद्रवत् ॥२०॥

युधिष्ठिरस्य च क्रोधो भीष्मश्चार्जुनसङ्गतः ।
मम चास्त्रसमारम्भः प्रजानामशिवं ध्रुवम् ॥२१॥

अस्त्रसमारम्भः उद्यममात्रं न तु पूर्ववदस्त्राणामुपस्थितिः ॥२१॥

मनस्वी बलवान् शूरः कृतास्त्रो लघुविक्रमः ।
दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः ॥२२॥

अजेयः समरे चापि देवैरपि सवासवैः ।
बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः ॥२३॥

विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः ।
तस्य मार्गं परिहरन् द्रुतं गच्छ यतव्रत ॥२४॥

पश्याद्यतन्महाघोरे संयुगे वैशसं महत् ।
हेमचित्राणि शूराणां महान्ति च शुभानि च ॥२५॥

कवचान्यवदीर्यन्ते शरैः सन्नतपर्वभिः ।
छिद्यन्ते च ध्वजाग्राणि तोमराश्च धनूंषि च ॥२६॥

प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः ।
वैजयन्त्यश्च नागानां संक्रुद्धेन किरीटिना ॥२७॥

नायं संरक्षितुं कालः प्राणान् पुत्रोपजीविभिः ।
याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च ॥२८॥

हे पुत्र उपजीविभिरनुगतैः ॥२८॥

रथनागहयावर्तां महाघोरां सुदुर्गमाम् ।
रथेन संग्रामनदीं तरत्येष कपिध्वजः ॥२९॥

ब्रह्मण्यता दमो दानं तपश्च चरितं महत् ।
इहैव दृश्यते पार्थे भ्राता यस्य धनञ्जयः ॥३०॥

पार्थे युधिष्ठिरे ॥३०॥

भीमसेनश्च बलवान् माद्रीपुत्रौ च पाण्डवौ ।
वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः ॥३१॥

तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः ।
तपोदग्धशरीरस्य कोपो दहति भारतीम् ॥३२॥

तस्य धर्मस्य मन्युर्दैन्यं भारतीं सेनामिति शेषः ॥३२॥

एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः ।
दारयन् सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः॥३३॥

एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना ।
महोर्मिनद्धं सुमहत्तिमिनेव महाजलम् ॥३४॥

हाहा विलविलाशब्दाः श्रूयन्ते च चमृमुखे ।
याहि पाञ्चालदायादमह यास्ये युधिष्ठिरम् ॥३५॥

दुर्गमं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः ।
समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः ॥३६॥

सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ ।
पर्यरक्षन्त राजानं यमौ च मनुजेश्वरम् ॥३७॥

उपेन्द्रसदृशः श्यामो महाशाल इवोद्गतः ।
एष गच्छत्यनीकाग्रे द्वितीय इव फाल्गुनः ॥३८॥

उत्तमास्त्राणि चाधत्स्व गृहीत्वा च महद्धनुः ।
पार्षतं याहि राजानं युध्यस्व च वृकोदरम् ॥३९॥

कोहि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः ।
क्षत्रधर्मं तु संप्रेक्ष्य ततस्त्वां नियुनज्म्यहम् ॥४०॥

एष चातिरणे भीष्मो दहते वै महाचमूम् ।
युद्धेषु सदृशस्तात यमस्य वरुणस्य च ॥४१॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्रोणाश्वत्थामसंवादे द्वाद‌शाधिकशततमोऽध्यायः॥११२॥
त्रयोदशाधिकशततमोऽध्यायः

सञ्जय उवाच । भगदत्तः कृपः शल्यः कृतवर्मा तथैव च ।
विन्दानु‌विन्दावावन्त्यौ सैन्धवश्च जयद्रथः ॥१॥

भगदत्त इति ॥१॥

चित्रसेनो विकर्णश्च तथा दुर्मर्षणादयः ।
दशैते तावका योधा भीमसेनमयोधयन् ॥२॥

महत्या सेनया युक्ता नानादेशसमुत्थया ।
भीष्मस्य समरे राजन् प्रार्थयाना महद्यशः ॥३॥

शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत् ।
कृतवर्मा त्रिभिर्बाणैः कृपश्च नवभिः शरैः ॥४॥

चित्रसेनो विकर्णश्च भगदत्तश्च मारिष ।
दशभिर्दशभिर्बाणैर्भीमसेनमताडयन् ॥५॥

सैन्धवश्च त्रिभिर्बाणैर्भीमसेनमताडयत् ।
विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः ॥६॥

दुर्मर्षणस्तु विंशत्या पाण्डवं निशितैः शरैः ।
स तान् सर्वान् महाराज राजमानान् पृथक् पृथक् ॥७॥

प्रवीरान् सर्वलोकस्य धार्तराष्ट्रान् महारथान् ।
जघान समरे वीरः पाण्डवः परवीरहा ॥८॥

सप्तभिः शल्यमाविध्यत् कृतवर्माणमष्टभिः ।
कृपस्य सशरं चापं मध्ये चिच्छेद भारत ॥९॥

अथैनं छिन्नधन्वानं पुनर्विव्याध सप्तभिः ।
विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत् ॥१०॥

दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः ।
विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम् ॥११॥

विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः ।
अथान्यद्धनुरादाय गौतमो रथिनां वरः ॥१२॥

भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः ।
स विद्धो दशभिर्बाणैस्तोत्रैरिव महाद्विपः ॥१३॥

ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् ।
गौतमं ताडयामास शरैर्बहुभिराहवे ॥१४॥

सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः ।
प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः ॥१५॥

हताश्वात् तु रथात् तुर्णमवप्लुत्य महारथः ।
शरांश्चिक्षेप निशितान् भीमसेनस्य संयुगे ॥१६॥

तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद मारिष ।
भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः ॥१७॥

स छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
चित्रसेनरथं राजन्नारुरोह त्वरान्वितः ॥१८॥

अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः ।
महारथान् शरैर्विद्ध्वा वारयित्वा च मारिष ॥१९॥

विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः ।
तदा न ममृषे शल्यो भीमसेनस्य विक्रमम् ॥२०॥

स सन्धाय शरांस्तीक्ष्णान् कर्मारपरिमार्जितान् ।
भीमं विव्याध समरे तिष्ठ तिष्ठति चाब्रवीत् ॥२१॥

कर्मारं शस्त्रोल्लेखनयन्त्रम् ॥२१॥

कृपश्च कृतवर्मा च भगदत्तश्च वीर्यवान् ।
विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे ॥२२॥

दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान् ।
भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिन्दमाः ॥२३॥

स च तान् प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः ।
शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः ॥२४॥

तं शल्यो नवभिर्भित्त्वा पुनर्विव्याध पञ्चभिः ।
सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि ॥२५॥

विशोकं प्रेक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् ।
मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥२६॥

तथेतरान् महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ।
ताडयामास समरे सिंहवद्विननाद च ॥२७॥

ते हि यत्ता महेष्वासाः पाण्डवं युद्धकोविदम् ।
त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् ॥२८॥

सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे ।
पर्वतो वारिधाराभिर्वर्षमाणैरिवांबुदैः ॥२९॥

स तु क्रोधसमाविष्टः पाण्डवानां महारथः ।
मद्रेश्वरं त्रिभिर्बाणैर्भृशं विद्ध्वा महायशाः ॥३०॥

कृपं च नवभिर्बाणैर्भृशं विद्ध्वा समंततः ।
प्राग्ज्योतिषं शतैराजौ राजन् विव्याध सायकैः ॥३१॥

ततस्तु सशरं चापं सात्वतस्य महात्मनः ।
क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् ॥३२॥

सात्वतस्य कृतवर्मणः ॥३२॥

तथाऽन्यद्धनुरादाय कृतवर्मा वृकोद्रम् ।
आजघान भ्रुवोर्मध्ये नाराचेन परंतपः ॥३३॥

भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः ।
भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः ॥३४॥

द्वाभ्यां द्वाभ्यां तु विव्याध गौतमप्रभृतीन्रथान् ।
तेऽपि तं समरे राजन् विव्यधुर्निशितैः शरैः ॥३५॥

स तथा पीड्यमानोऽपि सर्वशस्त्रैर्महारथैः ।
मत्वा तृणेन तांस्तुल्यान् विचचार गतव्यथः ॥३६॥

मत्वा तृणेन तांस्तुल्यानिति तुल्यशब्दोपादानान्न द्वितीयाचतुर्थ्यौ किंतु तुल्यार्थैरतुलोपमाभ्यामिति तृतीया ॥३६॥

ते चापि रथिनां श्रेष्ठा भीमाय निशितान् शरान् ।
प्रेषयामासुरव्यग्राः शतशोऽथ सहस्रशः ॥३७॥

तस्य शक्तिं महावेगां भगदत्तो महारथः ।
चिक्षेप समरे वीरः स्वर्णदण्डां महामते ॥३८॥

तोमरं सैन्धवो राजा पट्टिशं च महाभुजः ।
शतघ्नीं च कृपो राजञ्छरं शल्यश्च संयुगे ॥३९॥

अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् ।
भीमसेनं समुद्दिश्य प्रेषयामासुरोजसा ॥४०॥

तोमरं च द्विधा चक्रे क्षुरप्रेणानिलात्मजः ।
पट्टिशं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् ॥४१॥

स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः ।
मद्रराजप्रयुक्तं च शरं छित्त्वा महारथः ॥४२॥

शक्तिं चिच्छेद सहसा भगद‌त्तेरितां रणे ।
तथेतरान् शरान् घोरान् शरैः सन्नतपर्वभिः ॥४३॥

भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत् ।
तांश्च सर्वान् महेष्वासांस्त्रिभिस्त्रिभिरताडयत् ॥४४॥

ततो धनञ्जयस्तत्र वर्तमाने महारणे ।
आजगाम रथेनाजौ भीमं दृष्ट्वा महारथम् ॥४५॥

निघ्नन्तं समरे शत्रून्योधयानं च सायकैः ।
तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ ॥४६॥

न शशंसुर्जयं तत्र तावकाः पुरुषर्षभाः ।
अथार्जुनो रणे भीमं योधयन्तं महारथान् ॥४७॥

भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम् ।
आससाद रणे वीरांस्तावकान् दश भारत ॥४८॥

ये स्म भीमं रणे राजन् योधयन्तो व्यवस्थिताः ।
बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया ॥४९॥

ततो दुर्योधनो राजा सुशर्माणमचोदयत् ।
अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः ॥५०॥

सुशर्मन् गच्छ शीघ्रं त्वं बलौघैः परिवारितः ।
जहि पाण्डुसुतावेतौ धनञ्जयवृकोदरौ ॥५१॥

तच्छ्रुत्वा वचनं तस्य त्रैगर्तः प्रस्थलाधिपः ।
अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ ॥५२॥

रथैरनेकसाहस्रैः समंतात् पर्यवारयत् ।
ततः प्रववृते युद्धमर्जुनस्य परैः सह ॥५३॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि भीमपराक्रमे त्रयोदशाधिकशततमोऽध्यायः ॥११३॥
चतुर्दशाधिकशततमोऽध्यायः

सञ्जय उवाच । अर्जुनस्तु रणे शल्यं यतमानं महारथम् ।
छा‌दयामास समरे शरैः सन्नतपर्वभिः ॥१॥

अर्जुन इति ॥१॥

सुशर्माणं कृपं चैव त्रिभिस्त्रिभिरविध्यत ।
प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् ॥२॥

चित्रसेनं विकर्णं च कृतवर्माणमेव च ।
दुर्मर्षणं च राजेन्द्र ह्यावन्त्यौ च महारथौ ॥३॥

एकैकं त्रिभिरानर्च्छत् कङ्कबर्हिणवाजितैः ।
शरैरतिरथो युद्धे पीडयन् वाहिनीं तव ॥४॥

जयद्रथो रणे पार्थं विद्ध्वा भारत सायकैः ।
भीमं विव्याध तरसा चित्रसेनरथे स्थितः ॥५॥

शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः ।
विव्यधाते महाराज बहुधा मर्मभेदिभिः ॥६॥

चित्रसेनादयश्चैव पुत्रास्तव विशांपते ।
पञ्चभिः पञ्चभिस्तूर्णं संयुगे निशितैः शरैः ॥७॥

आजघ्नुरर्जुनं संख्ये भीमसेनं च मारिष ।
तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ ॥८॥

अपीडयेतां समरे त्रिगर्तानां महद्बलम् ।
सुशर्माऽपि रणे पार्थं शरैर्नवभिराशुगैः ॥९॥

ननाद बलवन्नादं त्रासयानो महद्बलम् ।
अन्ये च रथिनः शूरा भीमसेनधनञ्जयौ ॥१०॥

विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः ।
तेषां च रथिनां मध्ये कौन्तेयौ भरतर्षभौ ॥११॥

क्रीडमानौ रथोदारौ चित्ररूपौ व्यदृश्यताम् ।
आमिषेप्सू गवां मध्ये सिंहाविव मदोत्कटौ ॥१२॥

छित्त्वा धनूंषि शूराणां शरांश्च बहुधा रणे ।
पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् ॥१३॥

रथाश्च बहवो भग्ना हयाश्च शतशो हताः ।
गजाश्च सगजारोहाः पेतुरुर्व्यां महाहवे ॥१४॥

रथिनः सादिनश्चापि तत्र तत्र निषूदिताः ।
दृश्यन्ते बहवो राजन् वेपमानाः समंततः ॥१५॥

हतैर्गजपदात्योघैर्वाजिभिश्च निषूदितैः ।
रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी ॥१६॥

छत्रैश्च बहुधा छिन्नैर्ध्वजैश्च विनिपातितैः ।
अंकुशैरपविद्धैश्च परिस्तोमैश्च भारत ॥१७॥

केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा ।
उष्णीषैरृष्टिभिश्चैव चामरव्यजनैरपि ॥१८॥

तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः ।
ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी ॥१९॥

तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् ।
शरैः संवार्य तान् वीरान् यज्जघान महाबलः ॥२०॥

पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनपराक्रमम् ।
गाङ्गेयस्य रथाभ्याशमुपजग्मे महाबलः ॥२१॥

कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः ।
विन्दानुविन्दावावन्त्यौ नाजहुः संयुगं तदा ॥२२॥

ततो भीमो महेष्वासः फाल्गुनश्च महारथः ।
कौरवाणां चमूं घोरां भृशं दुद्रुवत् रणे ॥२३॥

ततो बर्हिणवाजानामयुतान्यर्बुदानि च ।
धनञ्जयरथे तूर्णं पातयन्ति स्म भूमिपाः ॥२४॥

बर्हिणवाजानां मयूरपक्षवतां बाणानाम् ॥२४॥

ततस्तान् शरजालेन सन्निवार्य महारथान् ।
पार्थः समन्तात् समरे प्रेषयामास मृत्यवे ॥२५॥

शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः ।
आजघानोरसि क्रुद्धो भल्लैः सन्नतपर्वभिः ॥२६॥

तस्य पार्थो धनुश्छित्वा हस्तावापं च पञ्चभिः ।
अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि ॥२७॥

अथान्यद्धनुरादाय समरे भारसाधनम् ।
मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः ॥२८॥

त्रिभिः शरैर्महाराज वासुदेवं च पञ्चभिः ।
भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् ॥२९॥

ततो द्रोणो महाराज मागधश्च महारथः ।
दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः ॥३०॥

मागधो जयत्सेनः॥३०॥

यत्र पार्थो महाराज भीमसेनश्च पाण्डवः ।
कौरव्यस्य महासेनां जघ्नतुः सुमहारथौ ॥३१॥

जयत्सेनस्तु समरे भीमं भीमायुधं युधि ।
विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ ॥३२॥

तं भीमो दशभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ।
सारथिं चास्य भल्लेन रथनीडा‌दपातयत् ॥३३॥

उद्भ्रान्तैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः ।
मागधोऽपसृतो राजा सर्वसैन्यस्य पश्यतः ॥३४॥

अपसृतः पलायितः ॥३४॥

द्रोणश्च विवरं दृष्ट्वा भीमसेनं शिलीमुखैः ।
विव्याध बाणैर्निशितैः पञ्चषष्टिभिरायसैः ॥३५॥

तं भीमः समरश्लाघी गुरुं पितृसमं रणे ।
विव्याध पञ्चभिर्भल्लैस्तथा षष्ट्या च भारत ॥३६॥

अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः ।
व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथाऽनिलः ॥३७॥

ततो भीष्मश्च राजा च कौसल्यश्च बृहद्बलः ।
समवतन्त संक्रुद्धा भीमसेनधनञ्जयौ ॥३८॥

तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः ।
अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् ॥३९॥

शिखण्डी तु समासाद्य भरतानां पितामहम् ।
अभ्यद्रवत संहृष्टो भयं त्यक्त्वा महारथात् ॥४०॥

युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् ।
अयोधयन् रणे भीष्मं सहिताः सर्वसृञ्जयैः ॥४१॥

तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् ।
शिखण्डिप्रमुखान् पार्थान्योधयन्ति स्म संयुगे ॥४२॥

ततः प्रववृते युद्धं कौरवाणां भयावहम् ।
तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति ॥४३॥

तावकानां जये भीष्मो ग्लह आसीद्विशांपते ।
तत्र हि द्यूतमासक्तं विजयायेतराय वा ॥४४॥

धृष्टद्युम्नस्तु राजेन्द्र सर्वसैन्यान्यचोदयत् ।
अभ्यद्रवत गांगेयं मा भैष्ट रथसत्तमाः ॥४५॥

सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी ।
भीष्मं समभ्ययात् तूर्णं प्राणांस्त्यक्त्वा महाहवे ॥४६॥

भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् ।
आपतन्तीं महाराज वेलामिव महोदधिः ॥४७॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि भीमार्जुनपराक्रमे चतुर्दशाधिकशततमोऽध्यायः॥११४॥
पञ्चदशाधिकशततमोऽध्यायः

धृतराष्ट्र उवाच । कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय ।
अयुध्यत महावीर्यः पाण्डवैः सह सृञ्जयैः ॥१॥

कथमिति ॥१॥

कुरवश्च कथं युद्धे पाण्डवान् प्रत्यवारयन् ।
आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः ॥२॥

सञ्जय उवाच ।

कुरवः पाण्डवैः सार्धं यदयुध्यन्त भारत ।
यथा च तदभूद्युद्धं तत् तु वक्ष्यामि सांप्रतम् ॥३॥

गमिताः परलोकाय परमास्त्रैः किरीटिना ।
अहन्यहनि संक्रुद्धास्तावकानां महारथाः ॥४॥

यथाप्रतिज्ञं कौरव्यः स चापि समितिञ्जयः ।
पार्थानामकरोद्भीष्मः सततं समिति क्षयम् ॥५॥

कुरुभिः सहितं भीष्मं युध्यमानं परन्तप ।
अर्जुनं च सपाञ्चाल्यं संशयो विजयेऽभवत् ॥६॥

दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे ।
अवर्तत महारौद्रः सततं समिति क्षयः ॥७॥

तस्मिन्नयुतशो राजन् भूयशश्च परंतपः ।
भीष्मः शान्तनवो योधाञ्जघान परमास्त्रवित् ॥८॥

येषामज्ञातकल्पानि नामगोत्राणि पार्थिव ।
ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः ॥९॥

दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम् ।
निरविद्यत धर्मात्मा जीवितेन परन्तप ॥१०॥

निरविद्यत निर्वेदं जगाम ॥१०॥

स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखो रणे ।
न हन्यां मानवश्रेष्ठान् संग्रामे सुबहूनिति ॥११॥

चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव ।
अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् ॥१२॥

युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद ।
शृणुष्व वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः ॥१३॥

निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत ।
घ्नतश्च मे गतः कालः सुबहून् प्राणिनो रणे ॥१४॥

निर्विण्णो विरक्तः ॥१४॥

तस्मात् पार्थं पुरोधाय पञ्चालान् सृञ्जयांस्तथा ।
मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् ॥१५॥

तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः ।
भीष्मं प्रति ययौ राजा संग्रामे सह सृञ्जयैः॥१६॥

धृष्टद्युम्नस्ततो राजन् पाण्डवश्च युधिष्ठिरः ।
श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् ॥१७॥

अभिद्रवध्वं युद्ध्यध्वं भीष्मं जयत संयुगे ।
रक्षिताः सत्यसन्धेन जिष्णुना रिपुजिष्णुना ॥१८॥

अयं चापि महेष्वासः पार्षतो वाहिनीपतिः ।
भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् ॥१९॥

मा वो भीष्माद्भयं किञ्चिदस्त्वद्य युधि सृञ्जयाः ।
ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् ॥२०॥

ते तथा समयं कृत्वा दशमेऽहनि पाण्डवाः ।
ब्रह्मलोकपरा भूत्वा सञ्जग्मुः क्रोधमूर्च्छिताः॥२१॥

ब्रह्मलोकपराः बृहत्त्वान्महान्तं लोकं प्रति यतमानाः ॥२१॥

शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम् ।
भीष्मस्य पातने यत्नं परमं ते समास्थिताः ॥२२॥

ततस्तव सुतादिष्टा नानाजनपदेश्वराः ।
द्रोणेन सह पुत्रेण सहसेना महाबलाः ॥२३॥

दुःशासनश्च बलवान् सह सर्वैः सहोदरैः ।
भीष्मं समरमध्यस्थं पालयाञ्चक्रिरे तदा ॥२४॥

ततस्तु तावकाः शूराः पुरस्कृत्य महाव्रतम् ।
शिखण्डिप्रमुखान् पार्थान् योधयन्ति स्म संयुगे ॥२५॥

चेदिभिस्तु सपञ्चालैः सहितो वानरध्वजः ।
ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम् ॥२६॥

द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् ।
अभिमन्युः सहामात्यं दुर्योधनमयोधयत् ॥२७॥

विराटस्तु सहानीकः सहसेनं जयद्रथम् ।
वृद्धक्षत्रस्य दायादमाससाद परन्तप ॥२८॥

मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः ।
भीमसेनोऽभिगुप्तस्तु नागानीकमुपाद्रवत् ॥२९॥

अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् ।
द्रौणिं प्रति ययौ यत्तः पाञ्चाल्यः सह सोदरैः ॥३०॥

कर्णिकारध्वजं चैव सिंहकेतुररिन्दमः ।
प्रत्युज्जगाम सौभद्रं राजपुत्रो महद्बलः ॥३१॥

शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम् ।
राजभिः समरे पार्थमभिपेतुर्जिघांसवः ॥३२॥

तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे ।
संप्रधावत्स्वनीकेषु मेदिनी समकम्पत ॥३३॥

तान्यनीकान्यनीकेषु समसज्जन्त भारत ।
तावकानां परेषां च दृष्ट्वा शान्तनवं रणे ॥३४॥

ततस्तेषां प्रतप्तानामन्योन्यमभिधावताम् ।
प्रादुरासीन्महाशब्दो दिक्षु सर्वासु भारत ॥३५॥

शङ्खदुन्दुभिघोषश्च वारणानां च बृहितैः ।
सिंहनादश्च सैन्यानां दारुणः समपद्यत ॥३६॥

सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा ।
वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत ॥३७॥

रजोमेघास्तु सञ्जज्ञुः शस्त्रविद्युद्भिरावृताः ।
धनुषां चापि निर्घोषो दारुणः समपद्यत ॥३८॥

बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः ।
रथघोषश्च सञ्जज्ञे सेनयोरुभयोरपि ॥३९॥

पाशशक्त्यृष्टिसङ्घैश्च बाणौघैश्च समाकुलम् ।
निष्प्रकाशमिवाकाशं सेनयोः समपद्यत ॥४०॥

अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे ।
कुञ्जरान् कुञ्जरा जघ्नुः पादातांश्च पदातयः ॥४१॥

तत्रासीत सुमहद्युद्धं कुरूणां पाण्डवैः सह ।
भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा ॥४२॥

तेषां समागमो घोरो बभूव युधि संगतः ।
अन्योन्यस्य वधार्थाय जिगीषूणां महाहवे ॥४३॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि भीष्मोपदेशे पञ्चदशाधिकशततमोऽध्यायः ॥११५॥
षोडशाधिकशततमोऽध्यायः

सञ्जय उवाच । अभिमन्युर्महाराज तव पुत्रमयोधयत् ।
महत्या सेनया युक्तं भीष्महेतोः पराक्रमी ॥१॥

अभिमन्युरिति ॥१॥

दुर्योधनो रणे कार्ष्णि नवभिर्नतपर्वभिः ।
आजघानोरसि क्रुद्धः पुनश्चैनं त्रिभिः शरैः ॥२॥

तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्घोरां स्वसामिव ।
प्रेषयामास संकृद्धो दुर्योधनरथं प्रति ॥३॥

तामापतन्तीं सहसा घोररूपां विशांपते ।
द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः ॥४॥

तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः ।
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥५॥

पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे ।
दशभिर्भरतश्रेष्ठ भरतानां महारथः ॥६॥

तद्युद्धमभवद्धोरं चित्ररूपं च भारत ।
इन्द्रियप्रीतिजननं सर्वपार्थिवपूजितम् ॥७॥

भीष्मस्य निधनार्थाय पार्थस्य विजयाय च ।
युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ ॥८॥

सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः ।
आजघानोरसि क्रुद्धो नाराचेन परंतपः ॥९॥

शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत ।
अताडयदमेयात्मा नवभिः कङ्कवाजितैः ॥१०॥

अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः ।
त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् ॥११॥

सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतः ।
द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः ॥१२॥

पौरवो धृष्टकेतुं च शरैराच्छाद्य संयुगे ।
बहुधा दारयाञ्चक्रे महेष्वासं महारथः ॥१३॥

तथैव पौरवं युद्धे धृष्टकेतुर्महारथः ।
त्रिंशता निशितैर्बाणैर्विव्याधाशु महाभुजः ॥१४॥

पौरवस्तु धनुश्छित्वा धृष्टकेतोर्महारथः ।
ननाद बलवन्नादं विव्याध च शितैः शरैः ॥१५॥

सोऽन्यत् कार्मुकमादाय पौरवं निशितैः शरैः ।
आजघान महाराज त्रिसप्तत्या शिलीमुखैः ॥१६॥

तौ तु तत्र महेष्वासौ महामात्रौ महारथौ ।
महता शरवर्षेण परस्परमविध्यताम् ॥१७॥

अन्योन्यस्य धनुश्छित्वा हयान्हत्वा च भारत ।
विरथावसियुद्धाय समीयतुरमर्षणौ ॥१८॥

आर्षभे चर्मणी चित्रे शतचन्द्रपुरस्कृते ।
तारकाशतचित्रे च निस्त्रिंशौ सुमहाप्रभौ ॥१९॥

प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ ।
वासितासंगमे यत्तौ सिंहाविव महावने ॥२०॥

मण्डलानि विचित्राणि गतप्रत्यागतानि च ।
चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् ॥२१॥

पौरवो धृष्टकेतुं तु शंखदेशे महासिना ।
ताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥२२॥

चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् ।
आजघान शिताग्रेण जत्रुदेशे महासिना ॥२३॥

तावन्योन्यं महाराज समासाद्य महाहवे ।
अन्योन्यवेगाभिहतौ निपेततुररिन्दमौ ॥२४॥

ततः स्वरथमारोप्य पौरवं तनयस्तव ।
जयत्सेनो रथेनाजावपोवाह रणाजिरात् ॥२५॥

धृष्टकेतुं तु समरे माद्रीपुत्रः प्रतापवान् ।
अपोवाह रणे क्रुद्धः सहदेवः पराक्रमी ॥२६॥

चित्रसेनः सुशर्माणं विद्ध्वा बहुभिरायसैः ।
पुनर्विव्याध तं षष्ट्या पुनश्च नवभिः शरैः ॥२७॥

चित्रसेन इति । पाण्डवपक्षीयः सुशर्माऽयमपरो वार्धक्षेमिर्नतु त्रैगर्तः ॥२७॥

सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशांपते ।
दशभिर्दशभिश्चैव विव्याध निशितैः शरैः ॥२८॥

चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वभिः ।
आजघान रणे क्रुद्धः स च तं प्रत्यविध्यत ॥२९॥

भीष्मस्य समरे राजन्यशो मानं च वर्धयन् ।
सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् ॥३०॥

पार्थहेतोः पराक्रान्तो भीष्मस्यायोधनं प्रति ।
आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः ॥३१॥

पुनर्विव्याध विंशत्या शरैः सन्नतपर्वभिः ।
सौभद्रः कोसलेन्द्रं तु विव्याधाष्टभिरायसैः ॥३२॥

नाकम्पयत संग्रामे विव्याध च पुनः शरैः ।
कौसल्यस्य धनुश्चापि पुनश्चिच्छेद फाल्गुनिः ॥३३॥

आजघान शरैश्चापि त्रिंशता कङ्कपत्रिभिः ।
सोऽन्यत् कार्मुकमादाय राजपुत्रो बृहद्बलः ॥३४॥

फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः ।
तयोर्युद्धं समभवद्भीष्महेतोः परंतप ॥३५॥

संरब्धयोर्महाराज समरे चित्रयोधिनोः ।
यथा देवासुरे युद्धे बलिवासवयोरभूत् ॥३६॥

भीमसेनो गजानीकं योधयन् बह्वशोभत ।
यथा शक्रो वज्रपाणिर्दारयन् पर्वतोत्तमान् ॥३७॥

ते वध्यमाना भीमेन मातङ्गा गिरिसन्निभाः ।
निपेतुरुर्व्यां सहिता नादयन्तो वसुन्धराम् ॥३८॥

गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः ।
विरेजुर्वसुधां प्राप्ता विकीर्णा इव पर्वताः ॥३९॥

युधिष्ठिरो महेष्वासो मद्रराजानमाहवे ।
महत्या सेनया गुप्तं पीडयामास संगतम् ॥४०॥

मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् ।
पीडयामास संरब्धो भीष्महेतोः पराक्रमी ॥४१॥

विराटं सैन्धवो राजा विद्ध्वा सन्नतपर्वभिः ।
नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरार्पयत् ॥४२॥

विराटश्च महाराज सैन्धवं वाहिनीपतिः ।
त्रिंशद्भिर्निशितैर्बाणैराजघान स्तनान्तरे ॥४३॥

चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ ।
रेजतुश्चित्ररूपौ तौ सग्रामे मत्स्यसैन्धवौ ॥४४॥

द्रोणः पाञ्चालपुत्रेण समागम्य महारणे ।
महासमुदयं चक्रे शरैः सन्नतपर्वभिः ॥४५॥

समुदयं सङ्ग्रामम् । ’भवेत्समुदायः सङ्घे संयुगे च समुद्गमे’ इति मेदिनि ॥४५॥

ततो द्रोणो महाराज पार्षतस्य महद्धनुः ।
छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत ॥४६॥

सोऽन्यत् कार्मुकमादाय पार्षतः परवीरहा ।
द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् ॥४७॥

ताञ्छराञ्छरघातेन चिच्छेद स महारथः ।
द्रोणो द्रुपदपुत्राय प्राहिणोत् पञ्च सायकान् ॥४८॥

ततः क्रुद्धो महाराज पार्षतः परवीरहा ।
द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे ॥४९॥

तामापतन्तीं सहसा हेमपट्टविभूषिताम् ।
शरैः पञ्चाशता द्रोणो वारयामास संयुगे ॥५०॥

सा छिन्ना बहुधा राजन् द्रोणचापच्युतैः शरैः ।
चूर्णीकृता विशीर्यन्ती पपात वसुधातले ॥५१॥

गदां विनिहतां दृष्ट्वा पार्षतः शत्रुतापनः ।
द्रोणाय शक्तिं चिक्षेप सर्वपारसवीं शुभाम् ॥५२॥

तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत ।
पार्षतं च महेष्वासं पीडयामास संयुगे ॥५३॥

एवमेतन्महायुद्धं द्रोणपार्षतयोरभूत् ।
भीष्मं प्रति महाराज घोररूपं भयानकम् ॥५४॥

अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः ।
अभ्यद्रवत संयत्तो वने मत्तमिव द्विपम् ॥५५॥

प्रत्युद्ययौ च तं राजा भगदत्तः प्रतापवान् ।
त्रिधा भिन्नेन नागेन मदान्धेन महाबलः ॥५६ ।
तमापतन्तं सहसा महेन्द्रगजसन्निभम् ।
परं यत्नं समास्थाय बीभत्सुः प्रत्यपद्यत ॥५७॥

ततो गजगतो राजा भगदत्तः प्रतापवान् ।
अर्जुनं शरवर्षेण वारयामास संयुगे ॥५८॥

अर्जुनस्तु ततो नागमायान्तं रजतोपमैः ।
विमलैरायसैस्तीक्ष्णैरविध्यत महारणे ॥५९॥

शिखण्डिनं च कौन्तेयो याहि याहीत्यचोदयत् ।
भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् ॥६०॥

प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज ।
प्रययौ त्वरितो राजन् द्रुपदस्य रथं प्रति ॥६१॥

ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम् ।
शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत ॥६२॥

ततस्ते तावकाः शूराः पाण्डवं रभसं युधि ।
समभ्यधावन् क्रोशन्तस्तद‌द्भुतमिवाभवत् ॥६३॥

नानाविधान्यनीकानि पुत्राणां ते जनाधिप ।
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥६४॥

शिखण्डी तु समासाद्य भरतानां पितामहम् ।
इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् ॥६५॥

रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः ।
शरसङ्घमहाज्वालः क्षत्रियान् समरेऽदहत् ॥६६॥

यथाऽग्निः सुमहानिद्धः कक्षे चरति सानिलः ।
तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् ॥६७॥

सोमकांश्च रण भीष्मो जघ्ने पार्थपदानुगान् ।
न्यवारयत तत् सैन्यं पाण्डवस्य महारथः ॥६८॥

सुवर्णपुङ्खैरिषुभिः शितैः सन्नतपर्वभिः ।
नादयन् स दिशो भीष्मः प्रदिशश्च महाहवे ॥६९॥

पातयन् रथिनो राजन् हयांश्च सह सादिभिः ।
मुण्डतालवनानीव चकार स रथव्रजान् ॥७०॥

निर्मनुष्यान् रथान् राजन् गजानश्वांश्च संयुगे ।
चकार समरे भीष्मः सर्वशस्त्रभृतां वरः ॥७१॥

तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।
निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः ॥७२॥

अमोघा न्यपतन् बाणाः पितुस्ते मनुजेश्वर ।
नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः॥७३॥

निर्मनुष्यान् रथान् राजन् सुयुक्तान् जवनैर्हयैः ।
वातायमानानद्राक्षं ह्रियमाणान् विशांपते ॥७४॥

चेदिकाशिकरूषाणां सहस्राणि चतुर्दश ।
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥७५॥

अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः ।
संग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः ॥७६॥

जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम् ।
न तत्रासीद्रणे राजन् सोमकानां महारथः ॥७७॥

यः संप्राप्य रणे भीष्मं जीविते स्म मनो दधे ।
तांश्च सर्वान् रणे योधान् प्रेतराजपुरं प्रति ॥७८॥

नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् ।
न कश्चिदेनं समरे प्रत्युद्याति महारथः ॥७९॥

ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् ।
शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् ॥८०॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि संकुलयुद्धे षोडशाधिकशततमोऽध्यायः ॥११६॥
सप्तदशाधिकशततमोऽध्यायः

सञ्जय उवाच । शिखण्डी तु रणे भीष्ममासाद्य पुरुषर्षभम् ।
दशभिर्निशितैर्भल्लैराजघान स्तनान्तरे ॥१॥

शिखण्डीति ॥१॥

शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा ।
संप्रैक्षत कटाक्षेण निर्दहन्निव भारत ॥२॥

स्त्रीत्वं तस्य स्मरन् राजन्सर्वलोकस्य पश्यतः ।
नाजघान रणे भीष्मः स च तन्नावबुद्धवान् ॥३॥

अर्जुनस्तु महाराज शिखण्डिनमभाषत ।
अभिद्रवस्व त्वरितं जहि चैनं पितामहम् ॥४॥

किं ते विवक्षया वीर जहि भीष्मं महारथम् ।
न ह्यन्यमनुपश्यामि कञ्चिद्यौधिष्ठिरे बले ॥५॥

विवक्षया विचारेण संशयेन वा ॥५॥

यः शक्तः समरे भीष्मं प्रतियोद्धुमिहाहवे ।
ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते ॥६॥

एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ ।
शरैर्नानाविधैस्तूर्णं पितामहमवाकिरत् ॥७॥

अचिन्तयित्वा तान् बाणान् पिता देवव्रतस्तव ।
अर्जुनं समरे क्रुद्धं वारयामास सायकैः ॥८॥

तथैव च चमूं सर्वां पाण्डवानां महारथः ।
अप्रैषीत् स शरैस्तीक्ष्णैः परलोकाय मारिष ॥९॥

तथैव पाण्डवा राजन् सैन्येन महता वृताः ।
भीष्मं संछादयामासुर्मेघा इव दिवाकरम् ॥१०॥

स समन्तात् परिवृतो भारतो भरतर्षभ ।
निर्ददाह रणे शूरान् वने वह्निरिव ज्वलन् ॥११॥

तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् ।
अयोधयच्च यत् पार्थं जुगोप च पितामहम् ॥१२॥

कर्मणा तेन समरे तव पुत्रस्य धन्विनः ।
दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः ॥१३॥

यदेकः समरे पार्थान् सार्जुनान् समयोधयत् ।
न चैनं पाण्डवा युद्धे वारयामासुरुल्बणम् ॥१४॥

उल्बणमुग्रम् ॥१४॥

दुःशासनेन समरे रथिनो विरथीकृताः ।
सादिनश्च महेष्वासा हस्तिनश्च महाबलाः ॥१५॥

विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्वसुधातले ।
शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः ॥१६॥

यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणम् ।
तथा जज्वाल पुत्रस्ते पाण्डुसेनां विनिर्दहन्॥१७॥

तं भारतमहामात्रं पाण्डवानां महारथः ।
जेतुं नोत्सहते कश्चिन्नाभ्युद्यातुं कथञ्चन ॥१८॥

भारतमहामात्रं भरतवंशश्रेष्ठम् ॥१८॥

ऋते महेन्द्रतनयाच्छ्वेताश्वात् कृष्णसारथेः ।
स हि तं समरे राजन्निर्जित्य विजयोऽर्जुनः ॥१९॥

भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः ।
विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः ॥२०॥

पुनः पुनः समाश्वस्य प्रायुध्यत मदोत्कटः ।
अर्जुनस्तु रणे राजन् योधयन् संव्यराजत ॥२१॥

शिखण्डी तु रणे राजन् विव्याधैव पितामहम् ।
शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः ॥२२॥

न च स्म ते रुजं चक्रुः पितुस्तव जनेश्वर ।
स्मयमानस्तु गाङ्गेयस्तान् बाणान् जगृहे तदा ॥२३॥

उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति ।
तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः ॥२४॥

तं क्षत्रिया महाराज ददृशुर्घोरमाहवे ।
भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम् ॥२५॥

ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष ।
अभिद्रवत संग्रामे फाल्गुनं सर्वतो रणे ॥२६॥

भीष्मो वः समरे सर्वान् पालयिष्यति धर्मवित् ।
ते भयं सुमहत्त्यक्त्वा पाण्डवान् प्रति युध्यत ॥२७॥

हेमतालेन महता भीष्मस्तिष्ठति पालयन् ।
सर्वेषां धार्तराष्ट्राणां समरे शर्म वर्म च ॥२८॥

शर्म सुखहेतुत्वात् वर्म रक्षाहेतुत्वात् ॥२८॥

त्रिदशाऽपि समुद्युक्ता नालं भीष्मं समासितुम् ।
किमु पार्था महात्मानं मर्त्यभूता महाबलाः ॥२९॥

समासितुम् उपसर्पितुं नाशयितुं वा मर्त्यभूताः मर्त्यस्वरूपाः ॥२९॥

तस्माद्द्रवत मा योधाः फाल्गुनं प्राप्य संयुगे ।
अहमद्य रणे यत्तो योधयिष्यामि पाण्डवम् ॥३०॥

सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपैः ।
तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः॥३१॥

सर्वे योधाः सुसंरब्धा बलवन्तो महाबलाः ।
ते विदेहाः कलिङ्गाश्च दासेरकगणाश्च ह ॥३२॥

अभिपेतुर्निषादाश्च सौवीराश्च महारणे ।
बाह्लीका दरदाश्चैव प्रतीच्योदीच्यमालवाः ॥३३॥

अभीषाहाः शूरसेनाः शिवयोऽथ वसातयः ।
शाल्वाः शकास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह ॥३४॥

अभिपेतू रणे पार्थं पतङ्गा इव पावकम् ।
शलभा इव राजेन्द्र पार्थमप्रतिमं रणे ।
एतान् सर्वान् सहानीकान् महाराज महारथान् ॥३५॥

दिव्यान्यस्त्राणि सञ्चिन्त्य प्रसंधाय धनञ्जयः ।
स तैरस्त्रैर्महावेगैर्ददाह सुमहाबलः ॥३६॥

शरप्रतापैर्बीभत्सुः पतङ्गानिव पावकः ।
तस्य बाणसहस्राणि सृजतो दृढधन्विनः ॥३७॥

दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत ।
ते शरार्ता महाराज विप्रकीर्णमहाध्वजाः ॥३८॥

नाभ्यवर्तन्त राजानः सहिता वानरध्वजम् ।
सध्वजा रथिनः पेतुर्हयारोहा हयैः सह ॥३९॥

सगजाश्च गजारोहाः किरीटिशरताडिताः ।
ततोऽर्जुनभुजोत्सृष्टैरावृताऽऽसीद्वसुन्धरा ॥४०॥

विद्रवद्भिश्च बहुधा बलै राज्ञां समन्ततः ।
अथ पार्थो महाराज द्रावयित्वा वरूथिनीम् ॥४१॥

दुःशासनाय सुबहून् प्रेषयामास सायकान् ।
ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः ॥४२॥

धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः ।
हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत् ॥४३॥

विविंशतिं च विंशत्या विरथं कृतवान् प्रभुः ।
आजघान भृशं चैव पञ्चभिर्नतपर्वभिः ॥४४॥

कृपं विकर्णं शल्यं च विद्ध्वा बहुभिरायसैः ।
चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः ॥४५॥

एवं ते विरथाः सर्वे कृपः शल्यश्च मारिष ।
दुःशासनो विकर्णश्च तथैव च विविंशतिः ॥४६॥

संप्राद्रवन्त समरे निर्जिताः सव्यसाचिना ।
पूर्वाह्णे भरतश्रेष्ठ पराजित्य महारथान् ॥४७॥

प्रजज्वाल रणे पार्थो विधूम इव पावकः ।
तथैव शरवर्षेण भास्करो रश्मिवानिव ॥४८॥

अन्यानपि महाराज तापयामास पार्थिवान् ।
पराङ्मुखीकृत्य तथा शरवर्षैर्महारथान् ॥४९॥

प्रावर्तयत संग्रामे शोणितोदां महानदीम् ।
मध्येन कुरुसैन्यानां पाण्डवानां च भारत ॥५०॥

गजाश्च रथसङ्घाश्च बहुधा रथिभिर्हताः ।
रथाश्च निहता नागैर्हयाश्चैव पदातिभिः ॥५१॥

अंतराच्छिद्यमानानि शरीराणि शिरांसि च ।
निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् ॥५२॥

छन्नमायोधनं राजन् कुण्डलाङ्गदधारिभिः ।
पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः ॥५३॥

रथनेमिनिकृत्तैश्च गजैश्चैवावपोथितैः ।
पादाताश्चाप्यधावन्त साश्वाश्च हययोधिनः ॥५४॥

गजाश्च रथयोधाश्च परिपेतुः समन्ततः ।
विकीर्णाश्च रथा भूमौ भग्नचक्रयुगध्वजाः ॥५५॥

तद्गजाश्वरथौघानां रुधिरेण समुक्षितम् ।
छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् ॥५६॥

श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह ।
प्रणेदुर्भक्ष्यमासाद्य विकृताश्च मृगद्विजाः ॥५७॥

ववुर्बहुविधाश्चैव दिक्षु सर्वासु मारुताः ।
दृश्यमानेषु रक्षःसु भूतेषु च नदत्सु च ॥५८॥

काञ्चनानि च दामानि पताकाश्च महाधनाः ।
धूयमाना व्यदृश्यन्त सहसा मारुतेरिताः ॥५९॥

महाधना बहुमूल्याः ॥५९॥

श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः ।
विकीर्णाः समदृश्यन्त शतशोऽथ सहस्रशः ॥६०॥

सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः ।
क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः ॥६१॥

समन्ततश्च दृश्यन्ते पतिता धरणीतले ।
ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् ॥६२॥

अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् ।
तं शिखण्डी रणे यान्तमभ्यद्रवत दंशितः ॥६३॥

ततः समाहरद्भीष्मस्तदस्त्रं पावकोपमम् ।
त्वरितः पाण्डवो राजन् मध्यमः श्वेतवाहनः ।
निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम् ॥६४॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि संकुलयुद्धे सप्तदशाधिकशततमोऽध्यायः ॥११७॥
अष्टादशाधिकशततमोऽध्यायः

सञ्जय उवाच । समं व्यूढेष्वनीकेषु भूयिष्ठेष्वनिवर्तिनः ।
ब्रह्मलोकपराः सर्वे समपद्यन्त भारत ॥१॥

सममिति ॥१॥

न ह्यनीकमनीकेन समसज्जत सङ्कुले ।
रथा न रथिभिः सार्धं पादाता न पदातिभिः ॥२॥

अश्वा नाश्वैरयुध्यन्त गजा न गजयोधिभिः ।
उन्मत्तवन्महाराज युध्यन्ते तत्र भारत ॥३॥

महान् व्यतिकरो रौद्रः सेनयोः समपद्यत ।
नरनागगणेष्वेवं विकीर्णेषु च सर्वशः ॥४॥

व्यतिकरः क्षोभः ॥४॥

क्षये तस्मिन् महारौद्रे निर्विशेषमजायत ।
ततः शल्यः कृपश्चैव चित्रसेनश्च भारत ॥५॥

दुःशासनो विकर्णश्च रथानास्थाय भास्वरान् ।
पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् ॥६॥

सा वध्यमाना समरे पाण्डुसेना महात्मभिः ।
भ्राम्यते बहुधा राजन्मारुतेनेव नौर्जले ॥७॥

यथा हि शैशिरः कालो गवां मर्माणि कृन्तति ।
तथा पाण्डुसुतानां वै भीष्मो मर्माणि कृन्तति ॥८॥

तथैव तव सैन्यस्य पार्थेन च महात्मना ।
नवमेघप्रतीकाशाः पातिता बहुधा गजाः ॥९॥

मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः ।
इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः ॥१०॥

पेतुरार्तस्वरं घोरं कृत्वा तत्र महागजाः ।
आनद्धाभरणैः कायैर्निहतानां महात्मनाम् ॥११॥

छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः ।
तस्मिन्नेव महाराज महावीरवरक्षये ॥१२॥

भीष्मे च युधि विक्रान्ते पाण्डवे च धनञ्जये ।
ते पराक्रान्तमालोक्य राजन् युधि पितामहम् ॥१३॥

अभ्यवर्तन्त ते पुत्राः सर्वे सैन्यपुरस्कृताः ।
इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम् ॥१४॥

पाण्डवानभ्यवर्तन्त तस्मिन् वीरवरक्षये ।
पाण्डवाऽपि महाराज स्मरंतो विविधान्बहून् ॥१५॥

क्लेशान् कृतान् सपुत्रेण त्वया पूर्वं नराधिप ।
भयं त्यक्त्वा रणे शूरा ब्रह्मलोकाय तत्पराः ॥१६॥

तावकास्तव पुत्रांश्च योधयन्ति प्रहृष्टवत् ।
सेनापतिस्तु समरे प्राह सेनां महारथः ॥१७॥

अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह ।
सेनापतिवचः श्रुत्वा सोमकाः सृञ्जयाश्च ते ॥१८॥

अभ्यद्रवन्त गाङ्गेयं शरवृष्ट्या समाहताः ।
वध्यमानस्ततो राजन् पिता शान्तनवस्तव ॥१९॥

अमर्षवशमापन्नो योधयामास सृञ्जयान् ।
तस्य कीर्तिमतस्तात पुरा रामेण धीमता ॥२०॥

संप्रद‌त्तास्त्रशिक्षा वै परानीकविनाशनी ।
स तां शिक्षामधिष्ठाय कुर्वन् परबलक्षयम् ॥२१॥

अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ।
भीष्मो दश सहस्राणि जघान परवीरहा ॥२२॥

तस्मिंस्तु दशमे प्राप्ते दिवसे भरतर्षभ ।
भीष्मेणैकेन मत्स्येषु पञ्चालेषु च संयुगे ॥२३॥

गजाश्वममितं हत्वा हताः सप्त महारथाः ।
हत्त्वा पञ्च सहस्राणि रथानां प्रपितामहः ॥२४॥

नराणां च महायुद्धे सहस्राणि चतुर्दश ।
दन्तिनां च सहस्राणि हयानामयुतं पुनः ॥२५॥

शिक्षाबलेन निहतं पित्रा तव विशांपते ।
ततः सर्वमहीपानां क्षपयित्वा वरूथिनीम् ॥२६॥

विराटस्य प्रियो भ्राता शतानीको निपातितः ।
शतानीकं च समरे हत्वा भीष्मः प्रतापवान् ॥२७॥

सहस्राणि महाराज राज्ञां भल्लैरपातयत् ।
उद्विग्नाः समरे योधा विक्रोशन्ति धनञ्जयम् ॥२८॥

ये च केचन पार्थानामभियाता धनञ्जयम् ।
राजानो भीष्ममासाद्य गतास्ते यमसादनम् ॥२९॥

एवं दश दिशो भीष्मः शरजालैः समन्ततः ।
अतीत्य सेनां पार्थानामवतस्थे चमूमुखे ॥३०॥

स कृत्वा सुमहत् कर्म तस्मिन्वै दशमेऽहनि ।
सेनयोरन्तरे तिष्ठन् प्रगृहीतशरासनः ॥३१॥

न चैनं पार्थिवाः केचिच्छक्ता राजन्निरीक्षितुम् ।
मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि ॥३२॥

यथा दैत्यचमूं शक्रस्तापयामास संयुगे ।
तथा भीष्मः पाण्डवेयांस्तापयामास भारत ॥३३॥

तथा चैनं पराक्रान्तमालोक्य मधुसूदनः ।
उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम् ॥३४॥

एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः ।
सन्निहत्य बलादेनं विजयस्ते भविष्यति ॥३५॥

बलात् संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः ।
न हि भीष्मशरानन्यः सोढुमुत्सहते विभो ॥३६॥

ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः ।
सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः ॥३७॥

स चापि कुरुमुख्यानामृषभः पाण्डवेरितान् ।
शरव्रातैः शरव्रातान् बहुधा विदुधाव तान्॥३८॥

ततः पञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् ।
पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥३९॥

यमौ च चेकितानश्च केकयाः पञ्च चैव ह ।
सात्यकिश्च महाबाहुः सौभद्रोऽथ घटोत्कचः ॥४०॥

द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् ।
सुशर्मा च विराटश्च पाण्डवेया महाबलाः ॥४१॥

एते चान्ये च बहवः पीडिता भीष्मसायकैः ।
समुद्धृताः फाल्गुनेन निमग्नाः शोकसागरे ॥४२॥

ततः शिखण्डी वेगेन प्रगृह्य परमायुधम् ।
भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना ॥४३॥

ततोऽस्यानुचरान् हत्वा सर्वान् रणविभागवित् ।
भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः ॥४४॥

सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः ।
विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ ॥४५॥

दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना ।
अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः ॥४६॥

दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः ।
ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः ॥४७॥

बहुधा भीष्ममानर्च्छुर्मार्गणैः क्षतमार्गणैः ।
विधूय तान् बाणगणान्ये मुक्ताः पार्थिवोत्तमैः ॥४८॥

पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् ।
चक्रे शरविघातं च क्रीडन्निव पितामहः ॥४९॥

अदीनात्मा अक्षीणस्वभावः ॥४९॥

नाभिसन्धत्त पाञ्चाल्ये स्मयमानो मुहुर्मुहुः ।
स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणान् शिखण्डिने ॥५०॥

जघान द्रुपदानीके रथान् सप्त महारथः ।
ततः किलकिलाशब्दः क्षणेन समभूत्तदा ॥५१॥

मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् ।
ते नराश्वरथव्रातैर्मार्गणैश्च परन्तप ॥५२॥

तमेकं छाद‌यामासुर्मेघा इव दिवाकरम् ।
भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून् ॥५३॥

ततस्तस्य च तेषां च युद्धे देवासुरोपमे ।
किरीटीभीष्ममानर्च्छत्पुरस्कृत्यशिखण्डिनम् ॥५४॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि भीष्मपराक्रमे अष्टादशाधिकशततमोऽध्यायः॥११८॥
ऊनविंशत्यधिकशततमोऽध्यायः

सञ्जय उवाच । एवं ते पाण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् ।
विव्यधुः समरे भीष्मं परिवार्य समन्ततः ॥१॥

एवमिति ॥१॥

शतघ्नीभिः सुघोराभिः परिघैश्च परश्वधैः ।
मुद्गरैर्मुसलैः प्रासैः क्षेपणीयैश्च सर्वशः ॥२॥

शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः ।
नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च सर्वशः ॥३॥

अताडयन् रणे भीष्मं सहिताः सर्वसृञ्जयाः ।
स विशीर्णतनुत्राणः पीडितो बहुभिस्तदा ॥४॥

न विव्यथे तदा भीष्मो भिद्यमानेषु मर्मसु ।
सन्दीप्तशरचापाग्निरस्त्रप्रसृतमारुतः ॥५॥

नेमिनिर्ह्रादसन्तापो महास्त्रोदयपावकः ।
चित्रचापमहाज्वालो वीरक्षयमहेन्धनः ॥६॥

युगान्ताग्निसमप्रख्यः परेषां समपद्यत ।
विवृत्त्य रथसङ्घानामन्तरेण विनिःसृतः ॥७॥

दृश्यते स्म नरेन्द्राणां पुनर्मध्यगतश्चरन् ।
ततः पञ्चालराजं च धृष्टकेतुमचिन्त्य च ॥८॥

पाण्डवानीकिनीमध्यमाससाद विशांपते ।
ततः सात्यकिभीमौ च पाण्डवं च धनञ्जयम् ॥९॥

द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् ।
भीमघोषैर्महावेगैर्मर्मावरणभेदिभिः ॥१०॥

मर्मावरणं वर्म देहचर्म वा ॥१०॥

षडेतान्निशितैर्भीष्मः प्रविव्याधोत्तमैः शरैः ।
तस्य ते निशितान्बाणान्सन्निवार्य महारथाः ॥११॥

दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा ।
शिखण्डी तु महाबाणान्‌ यान्मुमोच महारथः ॥१२॥

न चक्रुस्ते रुजं तस्य स्वर्णपुङ्खाः शिलाशिताः ।
ततः किरीटी संरब्धो भीष्ममेवाभ्यधावत ॥१३॥

शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ।
भीष्मस्य धनुषश्छेद नामृष्यन्त महारथाः ॥१४॥

द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः ।
भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च ॥१५॥

सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः ।
तत्र शस्त्राणि दिव्यानि दर्शयन्तो महारथाः ॥१६॥

अभिपेतुर्भृशं क्रुद्धाश्छादयन्तश्च पाण्डवम् ।
तेषामापततां शब्दः शुश्रुवे फाल्गुनं प्रति ॥१७॥

उद्धृतानां यथा शब्दः समुद्राणां युगक्षये ।
घ्नतानयत गृह्णीत विद्ध्यध्वमवकर्तत ॥१८॥

इत्यासीत्तुमुलः शब्दः फाल्गुनस्य रथं प्रति ।
तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः ॥१९॥

अभ्यधावन् परीप्सन्तः फाल्गुनं भरतर्षभ ।
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥२०॥

विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः ।
अभिमन्युश्च संक्रुद्धः सप्तैते क्रोधमूर्छिताः ॥२१॥

समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः ।
तेषां समभवद्युद्धं तुमुलं लोमहर्षणम् ॥२२॥

संग्रामे भरतश्रेष्ठ देवानां दानवैरिव ।
शिखण्डी तु रणे श्रेष्ठो रक्ष्यमाणः किरीटिना ॥२३॥

अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे ।
सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे ॥२४॥

सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम् ।
तदप्यस्य शितैर्बाणैस्त्रिभिश्चिच्छेद फाल्गुनः ॥२५॥

एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनःपुनः ।
धनुश्चिच्छेद भीष्मस्य सव्यसाची परन्तपः ॥२६॥

आत्तमात्तं गृहीतं गृहीतम् ॥२६॥

स छिन्नधन्वा संक्रुद्धः सृक्किणी परिसंलिहन् ।
शक्तिं जग्राह तरसा गिरीणामपि दारणीम् ॥२७॥

तां च चिक्षेप संकुद्धः फाल्गुनस्य रथं प्रति ।
तामापतन्तीं संप्रेक्ष्य ज्वलन्तीमशनीमिव ॥२८॥

समादत्त शितान् भल्लान् पञ्च पाण्डवनन्दनः ।
तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः ॥२९॥

संक्रुद्धो भरतश्रेष्ठ भीष्मबाहुप्रवेरिताम् ।
सा पपात तथा च्छिन्ना संक्रुद्धेन किरीटिना ॥३०॥

मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा ।
छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः ॥३१॥

अचिन्तयद्रणे वीरो बुद्ध्या परपुरञ्जयः ।
शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् ॥३२॥

यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः ।
कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवान् ॥३३॥

अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः ।
पित्रा तुष्टेन मे पूर्वं यदा कालीमुदावहम् ॥३४॥

स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा ।
तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः ॥३५॥

एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः ।
ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् ॥३६॥

यत्ते व्यवसितं तात तदस्माकमपि प्रियम् ।
तत्कुरुष्व महाराज युद्धे बुद्धिं निवर्तय ॥३७॥

व्यवसितं निश्चितम् ॥३७॥

अस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः ।
अनुलोमः सुगन्धी च पृषतैश्च समन्वितः ॥३८॥

निधने समाप्तौ ॥३८॥

देवदुन्दुभयश्चैव संप्रणेदुर्महास्वनाः ।
पपात पुष्पवृष्टिश्च भीष्मस्योपरि मारिष ॥३९॥

न च तच्छुश्रुवे कश्चित्तेषां संवदतां नृप ।
ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा ॥४०॥

मुनितेजसा व्यासप्रभावेण ॥४०॥

संभ्रमश्च महानासीत् त्रिदशानां विशांपते ।
पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा ॥४१॥

इति देवगणानां च वाक्यं श्रुत्वा महातपाः ।
ततः शान्तनवो भीष्मो बीभत्सुं नात्यवर्तत ॥४२॥

भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः ।
शिखण्डी तु महाराज भरतानां पितामहम् ॥४३॥

आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः ।
स तेनाभिहतः संख्ये भीष्मः कुरुपितामहः ॥४४॥

नाकम्पत महाराज क्षितिकम्पे यथाचलः ।
ततः प्रहस्य बीभत्सुर्व्याक्षिपन् गाण्डिवं धनुः ॥४५॥

गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समर्पयत् ।
पुनः पुनः शतैरेनं त्वरमाणो धनञ्जयः ॥४६॥

सर्वगात्रेषु संक्रुद्धः सर्वमर्मस्वताडयत् ।
एवमन्यैरपि भृशं विद्ध्यमानः सहस्रशः ॥४७॥

तानप्याशु शरैर्भीष्मः प्रविव्याध महारथः ।
तैश्च मुक्ताञ्छरान् भीष्मो युधि सत्यपराक्रमः ॥४८॥

निवारयामास शरैः समं सन्नतपर्वभिः ।
शिखण्डी तु रणे बाणान् यान्मुमोच महारथः ॥४९॥

न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः ।
ततः किरीटी संक्रुद्धो भीष्ममेवाभ्यवर्तत ॥५०॥

शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ।
अथैनं नवभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ॥५१॥

सारथिं विशिखैश्चास्य दशभिः समकम्पयत् ।
सोऽन्यत् कार्मुकमादाय गाङ्गेयो बलवत्तरम् ॥५२॥

तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरघातयत् ।
निमेषार्धेन कौन्तेय आत्तमात्तं महारणे ॥५३॥

एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यथा ।
ततः शान्तनवो भीष्मो बीभत्सुं नात्यवर्तत ॥५४॥

अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ।
सोऽतिविद्धो महेष्वासो दुःशासनमभाषत ॥५५॥

एष पार्थो रणे कुद्धः पाण्डवानां महारथः ।
शरैरनेकसाहस्त्रैर्मामेवाभ्यहनद्रणे ॥५६॥

न चैष समरे शक्यो जेतुं वज्रभृता अपि ।
न चापि सहिता वीरा देवदानवराक्षसाः ॥५७॥

मां चापि शक्तां निर्जेतुं किमु मर्त्या महारथाः ।
एवं तयोः संवदतोः फाल्गुनो निशितैः शरैः ॥५८॥

शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे ।
ततो दुःशासनं भूयः स्मयमान इवाब्रवीत् ॥५९॥

अतिविद्धः शितैर्बाणैर्भृशं गाण्डीवधन्वना ।
वज्राशनिसमस्पर्शा अर्जुनेन शरा युधि ॥६०॥

मुक्ताः सर्वेऽव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः ।
निकृन्तमाना मर्माणि दृढावरणभेदिनः ॥६१॥

अव्यवच्छिन्नाः सन्तताः ॥६१॥

मुसला इव मे घ्नन्ति नेमे बाणाः शिखण्डिनः ।
वज्रदण्डसमस्पर्शा वज्रवेगदुरासदाः ॥६२॥

मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः ।
नाशयन्तीव मे प्राणान् यमदूता इवाहिताः ॥६३॥

गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः ।
भुजगा इव संक्रुद्धा लेलिहाना विषोल्बणाः ॥६४॥

समाविशंति मर्माणि नेमे बाणाः शिखण्डिनः ।
अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ॥६५॥

कृन्तन्ति मम गात्राणि माघमां सेगवा इव ।
सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः ॥६६॥

’माघमा कर्कटी प्रोक्ता तदपत्यं तु सेगवा’ ॥ यथा माघमां कर्कटीं मातरं सेगवास्तदपत्यानि कृन्तन्ति उदरस्थान्यपत्यानि पृष्ठं विदार्य बहिर्निर्गच्छेति तद्वदित्यर्थः । तेन प्राणापहारि वेदनाजनकत्वं बाणानां नेदं शिखण्डिबाणेषु संभवति तेषां मदङ्गे पुष्पतुल्यत्वात् ॥६६॥

वीरं गाण्डीवधन्वानमृते जिष्णुं कपिध्वजम् ।
इति बुवञ्छान्तनवौ दिधक्षुरिव पाण्डवान् ॥६७॥

शक्तिं भीष्मः स पार्थाय ततश्चिक्षेप भारत ।
तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत् ॥६८॥

पश्यतां कुरुवीराणां सर्वेषां तव भारत ।
चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् ॥६९॥

खड्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयाय वा ।
तस्य तच्छतधा चर्म व्यधमत्सायकैस्तथा ॥७०॥

अग्रे तेषां मृत्योरिति चतुर्थ्यर्थे षष्ठी । मृत्यवे इत्यर्थः ॥७०॥

रथादनवरूढस्य तद‌द्भुतमिवाभवत् ।
ततो युधिष्ठिरो राजा स्वान्यनीकान्यचोदयत् ॥७१॥

अभिद्रवत गाङ्गेयं मा वोऽस्तु भयमण्वपि ।
अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः ॥७२॥

पट्टिशैश्च सुनिस्त्रिंशैर्नाराचैश्च तथा शितैः ।
वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः ॥७३॥

सिंहनादस्ततो घोरः पाण्डवानामभूत्तदा ।
तथैव तव पुत्राश्च तेदुर्भीष्मजयैषिणः ॥७४॥

तमेकमभ्यरक्षन्त सिंहनादांश्च चक्रिरे ।
तत्रासीत् तुमुलं युद्धं तावकानां परैः सह ॥७५॥

दशमेऽहनिं राजेन्द्र भीष्मार्जुनसमागमे ।
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव ॥७६॥

सैन्यानां युध्यमानानां निघ्नतामितरेतरम् ।
असौम्यरूपा पृथिवी शोणिताक्ताऽभवत्तदा ॥७७॥

समं च विषमं चैव न प्राज्ञायत किञ्चन ।
योधानामयुतं हत्वा तस्मिन् स दशमेऽहनि ॥७८॥

अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु ।
ततः सेनामुखे तस्मिन् स्थितः पार्थो धनुर्धरः ॥७९॥

मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् ।
वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात् ॥८०॥

पीड्यमानाः शितैः शस्त्रैः प्राद्रवाम रणे तदा ।
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ॥८१॥

अभीषाहाः शूरसेनाः शिवयोऽथ वसातयः ।
शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह ॥८२॥

सर्व एते महात्मानः शरार्ता व्रणपीडिताः ।
संग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना ॥८३॥

ततस्तमेकं बहवः परिवार्य समन्ततः ।
परिकाल्य कुरून् सर्वान् शरवर्षैरवाकिरन् ॥८४॥

निपातयत गृह्णीत युध्यध्वमवकृन्तत ।
इत्यासीत् तुमुलः शब्दो राजन् भीष्मरथं प्रति ॥८५॥

निहत्य समरे राजन् शत‌शोऽथ सहस्रशः ।
न तस्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् ॥८६॥

एवंभूतस्तव पिता शरैर्विशकलीकृतः ।
शिताग्रैः फाल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात् ॥८७॥

किञ्चिच्छेषे दिनकरे पुत्राणां तव पश्यताम् ।
हाहेति दिवि देवानां पार्थिवानां च भारत ॥८८॥

पतमाने रथाद्भीष्मे बभूव सुमहास्वनः ।
संपतन्तमभिप्रेक्ष्य महात्मानं पितामहम् ॥८९॥

सह भीष्मेण सर्वेषां प्रापतन् हृद‌यानि नः ।
स पपात महाबाहुर्वसुधामनुनादयन् ॥९०॥

इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् ।
धरणीं न स पस्पर्श शरसङ्घैः समावृतः ॥९१॥

शरतल्पे महेष्वासं शयानं पुरुषर्षभम् ।
रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् ॥९२॥

अभ्यवर्षच्च पर्जन्यः प्राकम्पत च मेदिनी ।
पतन् स ददृशे चापि दक्षिणेन दिवाकरम् ॥९३॥

संज्ञः चोपालभद्वीरः कालं सञ्चिन्त्य भारत ।
अन्तरिक्षे च शुश्राव दिव्या वाचः समन्ततः ॥९४॥

कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः ।
कालकर्ता नरव्याघ्रः संप्राप्ते दक्षिणायने ॥९५॥

कालं मृत्युम् ॥९५॥

स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत् ।
धारयामास च प्राणान् पतितोऽपि महीतले ॥९६॥

उत्तरायणमन्विच्छन् भीष्मः कुरुपितामहः ।
तस्य तन्मतमाज्ञाय गङ्गा हिमवतः सुता ॥९७॥

महर्षीन् हंसरूपेण प्रेषयामास तत्र वै ।
ततः संपातिनो हंसास्त्वरिता मानसौकसः ॥९८॥

आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् ।
यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः ॥९९॥

ते तु भीष्मं समासाद्य ऋषयो हंसरूपिणः ।
अपश्यञ्छरतल्पस्थं भीष्मं कुरुकुलोद्वहम् ॥१००॥

ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम् ।
गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् ॥१०१॥

दक्षिणेन दक्षिणमार्गस्थं भास्करं च दृष्ट्वेत्यन्वयः ॥१०१॥

इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः ।
भीष्मः कथं महात्मा सन्संस्थाता दक्षिणायने ॥१०२॥

संस्थाता मरिष्यति ॥१०२॥

इत्युक्त्वा प्रस्थिता हंसा दक्षिणामभितो दिशम् ।
संप्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत ॥१०३॥

तानब्रवीच्छान्तनवो नाहं गन्ता कथञ्चन ।
दक्षिणावर्त आदित्ये एतन्मे मनसि स्थितम् ॥१०४॥

गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् ।
उदगायन आदित्ये हंसाः सत्यं ब्रवीमि वः ॥१०५॥

धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया ।
ऐश्वर्यभूतः प्राणानामुत्सर्गो हि यतो मम ॥१०६॥

ऐश्वर्येण स्वसामर्थ्येन भूतः प्राप्तः स्वच्छन्दमृत्युत्वात् ॥१०६॥

तस्मात्प्राणान् धारयिष्ये मुमूर्षुरुदगायने ।
यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना ॥१०७॥

छन्दतो मृत्युरित्येवं तस्य चास्तु वरस्तथा ।
धारयिष्ये ततः प्राणानुत्सर्गे नियते सति ॥१०८॥

इत्युक्त्वा तांस्तदा हंसान्स शेते शरतल्पगः ।
एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि ॥१०९॥

पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ।
तस्मिन्हते महासत्त्वे भरतानी पितामहे ॥११०॥

न किञ्चित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ ।
संमोहश्चैव तुमुलः कुरूणामभवत् तदा ॥१११॥

कृपदुर्योधनमुखा निःश्वस्य रुरुदुस्ततः ।
विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः ॥११२॥

दध्युश्चैव महाराज न युद्धे दधिरे मनः ।
ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् ॥११३॥

अवध्ये शन्तनोः पुत्रे हेते भीष्मे महौजसि ।
अभावः सहसा राजन् कुरुराजस्य तर्कितः ॥११४॥

हतप्रवीरास्तु वयं निकृत्ताश्च शितैः शरैः ।
कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना ॥११५॥

पाण्डवाश्च जयं लब्ध्वा परत्र च परां गतिम् ।
सर्वे दध्मुर्महाश‌ङ्खान् शूराः परिघबाहवः ॥११६॥

सोमकाश्च सपञ्चालाः प्राहृष्यन्त जनेश्वर ।
ततस्तूर्यसहस्रेषु नदत्सु स महाबलः ॥११७॥

आस्फोटयामास भृशं भीमरोनो ननाद च ।
सेनयोरुभयोश्चापि गाङ्गेये निहते विभौ ॥११८॥

संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समंततः ।
प्राक्रोशन्प्राद्रवंश्चान्ये जग्मुर्माहं तथापरे ॥११९॥

क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चान्येऽभ्यपूजयन् ।
ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम् ॥१२०॥

भरतानां च ये पूर्षे ते चैनं प्रशशंसिरे ।
महोपनिषदं चैव योगमास्थाय वीर्यवान् ॥१२१॥

जपन्‌ शान्तनवो धीमान् कालाकाङ्क्षी स्थितोऽभवत् ॥१२२॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि भीष्मनिपातने ऊनविंशत्यधिकशततमोऽध्यायः॥११९॥
विंशाधिकशततमोऽध्यायः

धृतराष्ट्र उवाच । कथमासंस्तदा योधा हीनो भीष्मेण सञ्जय ।
बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ॥१॥

कथमिति ॥१॥

तदैव निहतान् मन्ये कुरूनन्यांश्च पाण्डवैः ।
न प्राहरद्यदा भीष्मो घृणित्वाद्दुपदात्मजम् ॥२॥

ततो दुःखतरं मन्ये किमन्यत् प्रभविष्यति ।
अद्याहं पितरं श्रुत्वा निहतं स्म सुदुर्मतिः ॥३॥

अश्मसारमयं नूनं हृदयं मम सञ्जय ।
श्रुत्वा विनिहतं भीष्मं शतधा यन्न दर्यिते ॥४॥

यदन्यन्निहतेनाजौ भीष्मेण जयमिच्छता ।
चेष्टितं कुरुसिंहेन तन्मे कथय सुव्रत ॥५॥

पुनःपुनर्न मृष्यामि हतं देवव्रतं रणे ।
न हतो जामदग्न्येन दिव्यैरंस्त्रैरयं पुरा ॥६॥

सञ्जय उवाच ।

सायाह्ने निहतो भूमौ धार्तराष्ट्रान् विषादयन् ॥७॥

पञ्चालानां ददौ हर्षं भीष्मः कुरुपितामहः ।
स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा ॥८॥

भीष्मे रथात् प्रपतिते प्रच्युते धरणीतले ।
हाहेति तुमुलः शब्दो भूतानां समपद्यत ॥९॥

सीमावृक्षे निपतिने कुरूणां समितिञ्जये ।
सेनयोरुभयो राजन् क्षत्रियान् भयमाविशत् ॥१०॥

सीमावृक्षे इति । ननु कौरवाणां तावद्भीष्मे सेनापतौ पतिते भयमुचितं प्रधानविनाशे जयाशाविच्छेदात् । पाण्डवानां तु कथं भयमग्रे तेषां हर्षस्य कथनात् । उच्यते । पाण्डवानामपि महद्भयमुपपद्यत एव सन्धिवाञ्छाविच्छेदात् । अयं भावः । उभयोः सीमास्थानीयो भीष्मो जीवन्नस्माकं सन्धिं करिष्यति । तेन च पुत्रसुहृद्विनाशधनव्ययप्रत्यवाया न भविष्यन्ति । हते त्वेतस्मिन्सुतरां संध्याशाविच्छेद एव जात इति पुत्रसुहृद्विनाशादिप्रयुक्तं भयं युज्यत इति तस्माद्युक्तमुक्तं सेनयोरुभयोरिति । हर्षकथनं त्वापाततो ज्ञेयम् ॥१०॥

भीष्मं शान्तनवं दृष्ट्वा विशीर्णकवचध्वजम् ।
कुरवः पर्यवर्तन्त पाण्डवाश्च विशांपते ॥११॥

पर्यवर्तेत परिवृतवन्तः ॥११॥

खं तमः संवृतमभूदासीद्भानुर्गतप्रभः ।
ररास पृथिवी चैव भीष्मे शान्तनवे हते ॥१२॥

अयं ब्रह्मविदां श्रेष्ठो ह्ययं ब्रह्मविदां वरः ।
इत्यभाषन्त भूतानि शयानं पुरुषर्षभम् ॥१३॥

अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा ।
ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः ॥१४॥

इति स्म शरतल्पस्थं भरतानां महत्तमम् ।
ऋषयस्त्वभ्यभाषन्त सहिताः सिद्धचारणैः ॥१५॥

हते शान्तनवे भीष्मे भरतानां पितामहे ।
न किञ्चित्प्रत्यपद्यन्त पुत्रास्तव हि मारिष ॥१६॥

विषण्णवदनाश्चासन् हतश्रीकाश्च भारत ।
अतिष्ठन् व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः ॥१७॥

व्रीडिताः व्रीडावन्तः व्रीडा चान्यतः ह्रीश्चाकार्यकरणात् ॥१७॥

पाण्डवाश्च जयं लब्ध्वा संग्रामशिरसि स्थिताः ।
सर्वे दध्मुर्महाशंखान् हेमजालपरिष्कृतान् ॥१८॥

हर्षात् तूर्यसहस्त्रेषु वाद्यमानेषु चानघ ।
अपश्याम महाराज भीमसेनं महाबलम् ॥१९॥

विक्रीडमानं कौन्तेयं हर्षेण महता युतम् ।
निहत्य तरसा शत्रुं महाबलसमन्वितम् ॥२०॥

संमोहश्चापि तुमुलः कुरूणाप्रभवत् ततः ।
कर्णदुयाधनौ चापि निःश्वसेतां मुहर्मुहुः ॥२१॥

तथा निपतिते भीष्मे कौरवाणां पितामहे ।
हाहाभूतमभूत् सर्वं निर्मर्यादमवर्तत ॥२२॥

दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव ।
उत्तमं जवमास्थाय द्रोणानीकमुपाद्रवत् ॥२३॥

भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः ।
प्रययौ पुरुषव्याघ्रः स्वसैन्यं स विषादयन् ॥२४॥

तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन् ।
दुःशासनं महाराज किमयं वक्ष्यतीति च ॥२५॥

ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः ।
द्रोणस्तत्राप्रियं श्रुत्वा मुमोह भरतर्षभ ॥२६॥

स संज्ञामुपलभ्याशु भारद्वाजः प्रतापवान् ।
निवारयामास तदा स्वान्यनीकानि मारिष ॥२७॥

विनिवृत्तान् कुरून् दृष्ट्वा पाण्डवाऽपि स्वसैनिकान् ।
दूतैः शीघ्राश्वसंयुक्तैः समन्तात् पर्यवारयन् ॥२८॥

निवृत्तेषु च सैन्येषु पारम्पर्येण सर्वशः ।
निर्मुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः ॥२९॥

पारम्पर्येण क्रमेण ॥२९॥

व्युपरम्य ततो युद्धाद्योधाः शतसहस्रशः ।
उपतस्थुर्महात्मानं प्रजापतिमिवामराः ॥३०॥

ते तु भीष्मं समासाद्य शयानं भरतर्षभम् ।
अभिवाद्यावतिष्ठन्त पाण्डवाः कुरुभिः सह ॥३१॥

अथ पाण्डून् कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् ।
अभ्यभाषत धर्मात्मा भीष्मः शान्तनवस्तदा ॥३२॥

स्वागतं वो महाभागाः स्वागतं वो महारथाः ।
तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः ॥३३॥

अभिमन्त्र्याथ तानेवं शिरसा लम्बताऽब्रवीत् ।
शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम् ॥३४॥

उपधानम् उपबर्हम् ॥३४॥

ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च ।
उपधानानि मुख्यानि नैच्छत्तानि पितामहः ॥३५॥

अथाब्रवीन्नरव्याघ्रः प्रहसन्निव तान्नृपान् ।
नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः ॥३६॥

ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् ।
धनञ्जयं दीर्घबाहुं सर्वलोकमहारथम् ॥३७॥

धनञ्जय महाबाहो शिरो मे तात लम्बते ।
दीयतामुपधानं वैर्यदुक्तमिह मन्यसे ॥३८॥

इह वीरशय्यायाम् ॥३८॥

सञ्जय उवाच । समारोप्य महच्चापमभिवाद्य पितामहम् ।
नेत्र्भ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥३९॥

आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर ।
प्रेप्योऽहं तव दुर्धर्ष क्रियतां किं पितामह ॥४०॥

तमब्रवीच्छान्तनवः शिरो मे तातः लम्बते ।
उपधानं कुरुश्रेष्ठ फाल्गुनोपदधत्स्व मे ॥४१॥

शयनस्यानुरूपं वै शीघ्रं वीर प्रयच्छ मे ।
त्वं हि पार्थ समर्थो वै श्रेष्ठः सर्वधनुष्मताम् ॥४२॥

क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः ।
फाल्गुनोऽपि तथेत्युक्त्वा व्यवसायमरोचयत् ॥४३॥

व्यवसायमुचितोद्योगम् ॥४३॥

गृह्यानुमन्त्र्य गाण्डीवं शरान् सन्नतपर्वणः ।
अनुमान्य महात्मानं भरतानां महारथम् ॥४४॥

त्रिभिस्तीक्ष्णैर्महावेगैरन्वगृह्वाच्छिरः शरैः ।
अभिप्राये तु विदिते धर्मात्मा संव्यसाचिना ॥४५॥

अन्वगृह्णात् अवतष्टम्भे ॥४५॥

अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् ।
उपधानेन दत्तेन प्रत्यनन्दद्धनञ्जयम् ॥४६॥

प्राह सर्वान् समुद्वीक्ष्य भरतान् भारतं प्रति ।
कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् ॥४७॥

शयनस्यानुरूपं मे पाण्डवोपहितं त्वया ।
यद्यन्यथा प्रपद्येथाः शपेयं त्वामहं रुषा ॥४८॥

उपहितम् उपधानीयं दत्तम् ॥४८॥

एवमेव महाबाहो धर्मेषु परितिष्ठत ।
स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै ॥४९॥

एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः ।
राज्ञश्च राजपुत्रांश्च पाण्डवानभिसंस्थितान् ॥५०॥

पाण्डवानभिसंस्थितान् पाण्डवानां समीपवर्तिनः ॥५०॥

पश्यध्वमुपधानं मे पाण्डवेनाभिसंधितम् ।
शिश्येऽहमस्यां शय्यायां यावदावर्तनं रवेः ॥५१॥

ये तदा मां गमिष्यन्ति ते च प्रेक्ष्यन्ति मां नृपाः ।
दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः ॥५२॥

नूनं सप्ताश्वयुक्तेन रथेनोत्तमतेजसा ।
विमोक्ष्येऽहं तदा प्राणान् सुहृदः सुप्रियानिव ॥५३॥

परिखाः खन्यतामत्र ममावसदने नृपाः ।
उपासिष्ये विवस्वन्तमेवं शरशताचितः ॥५४॥

ममावसदने मन्निवासस्थाने ॥५४॥
सञ्जय उवाच ।

उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः ॥५५॥

सर्वोपकरणैर्युक्ताः कुशलैः साधु शिक्षिताः ।
तान्‌ दृष्ट्वा जाह्नवीपुत्रः प्रोवाच तनयं तव ॥५६॥

धनं दत्त्वा विसृज्यन्तां पूजयित्वा चिकित्सकाः ।
एवंगते मयेदानीं वैद्यैः कार्यभिहास्ति किम् ॥५७॥

क्षत्रधर्मे प्रशस्तां हि प्राप्तोऽस्मि परमां गतिम् ।
नैष धर्मो महीपालाः शरतल्पगतस्य मे ॥५८॥

एभिरेव शरैश्चाहं दग्धव्योऽस्मि नराधिपाः ।
तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव ॥५९॥

वैद्यान् विसर्जयामास पूजयित्वा यथार्हतः ।
ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वरोः ॥६०॥

स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः ।
उपधानं ततो दत्त्वा पितुस्ते मनुजेश्वराः ॥६१॥

सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः ।
उपगम्य महात्मानं शयानं शयने शुभे ॥६२॥

तेऽभिवाद्य ततो भीष्मं कृत्वा च त्रिः प्रदक्षिणम् ।
विधाय रक्षां भीष्मस्य सर्व एव समन्ततः ॥६३॥

वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः ।
निवेशायाभ्युषांगच्छन्सायाह्ने रुधिरोक्षिताः ॥६४॥

निविष्टान्पाण्डवांश्चैव प्रीयमाणान्महारथान् ।
भीष्मस्य पतने हृष्टानुपगम्य महाबलः ॥६५॥

उवाच माधवः काले धर्मपुत्रं युधिष्ठिरम् ।
दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः ॥६६॥

अवध्यो मानुषैरेव सत्यसन्धो महारथः ।
अथवा दैवतैः सार्धं सर्वशास्त्रस्य पारगः ॥६७॥

त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा ।
एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् ॥६८॥

चक्षुषा हन्तीति तथा तं दृष्टिमात्रेण हननक्षमम् ॥६८॥

तव प्रसादाद्विजयः क्रोधात् तव पराजयः ।
त्वं हि नः शरणं कृष्ण भक्तानामभयङ्करः ॥६९॥

अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव ।
रक्षिता समरे नित्यं नित्यं चापि हिते रतः ॥७०॥

सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः ।
एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः ।
तवैवैतद्युक्तरूपं वचनं पार्थिवोत्तम ॥७१॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि भीष्मोपधानदाने विंशाधिकशततमोऽध्यायः ॥१२०॥
एकविंशत्यधिकशततमोऽध्यायः
सञ्जय उवाच ।

व्युष्टायां तु महाराज शर्वर्यां सर्वपार्थिवाः ।
पाण्डवा धार्तराष्ट्राश्च उपातिष्ठन् पितामहम् ॥१॥

व्युष्टायामिति ॥१॥

तं वीरशयने वीरं शयानं कुरुसत्तम ।
अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम् ॥२॥

कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः ।
अवाकिरञ्छान्तनवं तत्र गत्वा सहस्त्रशः ॥३॥

स्त्रियो वृद्धास्तथा बालाः प्रेक्षकाश्च पृथग्जनाः ।
समभ्ययुः शान्तनवं भूतानीव तमोनुदम् ॥४॥

पृथग्जनाः प्राकृता जना भूतानि प्राणिनो गन्धर्वादीन् वा तमोनुदं सूर्यम् ॥४॥

तूर्याणि शतसंख्यानि तथैव नटनर्तकाः ।
शिल्पिनश्च तथाऽऽजग्मुः कुरुवृद्धं पितामहम् ॥५॥

उपारम्य च युद्धेभ्यः सन्नाहान्विप्रमुच्यते ।
आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः ॥६॥

अन्वासन्त दुराधर्षं देवव्रतमरिंदमम् ।
अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः ॥७॥

सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता ।
शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् ॥८॥

विबभौ च नृपाणां सा गङ्गासुतमुपासताम् ।
देवानामिव देवेशं पितामह‌मुपासताम् ॥९॥

भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ ।
अभितप्तः शरैश्चैव निःश्वसन्नुरतो यथा ॥१०॥

शराभितप्तकायोऽपि शस्त्रसंपातमूर्छितः ।
पानीयमिति संप्रेक्ष्य राज्ञस्तान् प्रत्यभाषत ॥११॥

ततस्ते क्षत्रिया राजन्नुपाजह्रुः समन्ततः ।
भक्ष्यानुच्चावचान्राजन्वारिकुंभांश्च शीतलान् ॥१२॥

उपानीनं तु पानीयं दृष्ट्वा शान्तनवोऽब्रवीत् ।
नाद्यातीता मया शक्या भोगाः केचन मानुषाः ॥१२॥

अपक्रान्तो मनुष्येभ्यः शरशय्यां गतो ह्यहम् ।
प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः ॥१३॥

एवमुक्त्वा शान्तनवो निन्दन् वाक्येन पार्थिवान् ।
अर्जुनं द्रष्टुमिच्छामीत्यभ्यभाषत भारत ॥१४॥

अथोपेत्य महाबाहुरभिवाद्य पितामहम् ।
अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत् ॥१५॥

तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम् ।
अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनञ्जयम् ॥१६॥

दह्यतीव शरीरं मे संवृतस्य तवेषुभिः ।
मर्माणि परिदूयन्ते मुखं च परिशुष्यति ॥१८॥

परिदूयन्ते परितप्यन्ते ॥१८॥

वेदनार्तशरीरस्य प्रयच्छापो ममार्जुन ।
त्वं हि शक्तो महेष्वास दायुमापो यथाविधि ॥१९॥

अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान् ।
अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥२०॥

तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।
वित्रेसुः सर्वभूतानि सर्वे श्रुत्वा च पार्थिवाः ॥२१॥

ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः ।
शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् ॥२२॥

सन्धाय च शरं दीप्तमभिमन्त्र्य स पाण्डवः ।
पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः ॥२३॥

अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे ।
उत्पपात ततो धारा वारिणो विमला शुभा ॥२४॥

शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च ।
अतर्पयत् ततः पार्थः शीतया जलधारया ॥२५॥

भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमम् ।
कर्मणां तेन पार्थस्य शक्रस्येव विकुर्वतः ॥२६॥

विकुर्वतो विशेषेण कुर्वतः ॥२६॥

विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः ।
तत् कूर्म प्रेक्ष्य बीभत्सोरतिमानुषविक्रमम् ॥२७॥

सप्रावेपन्त कुरवो गावः शीतार्दिता इव ।
विस्मयाच्चोत्तरीयाणि व्याविध्यन् सर्वतो नृपाः ॥२८॥

व्याविध्यन्भ्रामितवन्तः ॥२८॥

शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत् ।
तृप्तः शान्तनवश्चापि राजन् बीभत्सुमब्रवीत् ॥२९॥

सर्वपार्थिववीराणां सन्निधौ पूजयन्निव ।
नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन ॥३०॥

कथितो नारदेनासि पूर्वर्षिरमितद्युते ।
वासुदेवसहायस्त्वं महत् कर्म करिष्यसि ॥३१॥

यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् ।
विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः ॥३२॥

निधनं धनहेतुः तद्विदो देवरहस्यज्ञाः ॥३२॥

धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु ॥३३॥

मनुष्या जगति श्रेष्ठाः पक्षिणां पतगेश्वरः ।
सरितां सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ॥३४॥

जगति भूलोके ॥३४॥

आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान् वरः ।
जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम् ॥३५॥

न वै श्रुतं धार्तराष्ट्रेण वाक्यं मयोच्यमानं विदुरेण चैव ।
द्रोणेन रामेण जनार्दनेन मुहुर्मुहुः सञ्जयेनापि चोक्तम् ॥३६॥

परीतबुद्धिर्हि विसंशकल्पो दुर्योधनो न च तच्छ्रद्दधाति ।
स शेष्यते वै निहतश्चिराय शास्त्रातिगो भीमबलाभिभूतः ॥३७॥

एतच्छ्रुत्वा तद्वचः कौरवेन्द्रो दुर्योधनो दीनमना बभूव ।
तमब्रवीच्छान्तनवोऽभिवीक्ष्य निबोध राजन् भव वीतमन्युः ॥३८॥

दृष्टं दुर्योधनैतत् ते यथा पार्थेन धीमता ।
जलस्य धारा जनिता शीतस्यामृतगन्धिनः ॥३९॥

एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते ।
आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् ॥४०॥

ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः ।
धातुस्त्वष्टुश्च सवितुर्वैवस्वतमथापि वा॥४१॥

सर्वस्मिन् मानुषे लोके वेत्त्येको हि धनञ्जयः ।
कृष्णो वा देवकीपुत्रो नान्यो वेदेह कश्चन ॥४२॥

अशक्यः पाण्डवस्तात युद्धे जेतुं कथञ्चन ।
अमानुषाणि कर्माणि यस्यैतानि महात्मनः ॥४३॥

तेन सत्त्ववता सङ्ख्ये शूरेणाहवशोभिना ।
कृतिना समरे राजन् सन्धिर्भवतु माचिरम् ॥४४॥

यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसत्तम ।
तावत्पार्थेन शूरेण सन्धिस्ते तात युज्यताम् ॥४५॥

यावन्न ते चमूः सर्वाः शरैः सन्नतपर्वभिः ।
नाशयत्यर्जुनस्तावत्सन्धिस्ते तात य्रुज्यताम् ॥४६॥

यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः ।
नृपाश्च बहवो राजंस्तावत्सन्धिः प्रयुज्यताम् ॥४७॥

न निर्दहति ते यावत् क्रोधदीप्तेक्षणश्चमूम् ।
युधिष्ठिरो रणे तावत्सन्धिस्ते तात युज्यताम् ॥४८॥

नकुलः सहदेवश्च भीमसेनश्च पाण्डवः ।
यावच्चमूं महाराज नाशयन्ति न सर्वशः ॥४९॥

तावत् ते पाण्डवैर्वीरैः सौहार्दं मम रोचते ।
युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः ॥५०॥

एतत्तु रोचतां वाक्यं यदुक्तोऽसि मयाऽनघ ।
एतत् क्षेममहं मन्ये तव चैव कुलस्य च ॥५१॥

क्षेमं हितम्॥१४॥

त्यक्त्वा मन्युं व्युपशाम्यस्व पार्थैः पर्याप्तमेतद्यत् कृतं फल्गुनेन ।
भीष्मस्यान्तादस्तु वः सौहृदं च जीवन्तु शेषाः साधु राजन् प्रसीद ॥५२॥

फाल्गुनेन यत्कृतं एतदेतावदेव पर्याप्तमस्तु चशब्दादेतावतां भातॄणामन्तादपीति॥५२॥

राज्यस्यार्धं दीयतां पाण्डवानामिन्द्रप्रस्थं धर्मराजोऽभियातु ।
मा मित्रध्रुक् पार्थिवानां जघन्यः पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र॥५३॥

ममावसानाच्छान्तिरस्तु प्रजानां संगच्छन्तां पार्थिवाः प्रीतिमन्तः ।
पिता पुत्रं मातुलं भागिनेयो भ्राता चैव भ्रातरं प्रैतु राजन् ॥५४॥

न चेदेवं प्राप्तकालं वचो मे मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या ।
तप्स्यस्यन्ते एतदन्ताः स्थ सर्वे सत्यामेतां भारतीमीरयामि ॥५५॥

एतद्वाक्यं सौहृदादापगेयो मध्ये राज्ञां भारतं श्रावयित्वा ।
तूष्णीमासीच्छल्यसन्तप्तमर्मा योज्यात्मानं वेदनां सन्नियम्य ॥५६॥

योज्यं योगधारणायुक्तं कृत्वा॥५६॥
सञ्जय उवाच।

धर्मार्थसहितं वाक्यं श्रुत्वा हितमनामयम् ।
नारोचयत पुत्रस्ते मुमूर्षुरिव भेषजम् ॥५७॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि दुर्योधनं प्रति भीष्मवाक्ये एकविंशाधिकशततमोऽध्यायः ॥१२१॥
द्वाविंशाधिकशतत्मोऽध्ययः
सञ्जय उवाच।

ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान् पुनः ।
तूष्णींभूते महाराज भीष्मे शन्तनुनन्दने ॥१॥

तत इति॥१॥

श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः ।
ईषदागतसंत्रासस्त्वरयोपजगाम ह ॥२॥

स ददर्श महात्मानं शरतल्पगतं तदा ।
जन्मशय्यागतं वीरं कार्तिकेयमिव प्रभुम् ॥३॥

जन्मशय्यागतं जन्मकाले शरशय्यागतं शरजन्मत्वात्॥३॥

निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषः ।
भीष्म भीष्म महाबाहो इत्युवाच महाद्युतिः ॥४॥

राधेयोऽहं कुरुश्रेष्ठ नित्यमक्षिगतस्तव ।
द्वेष्योऽहं तव सर्वत्र इति चैनमुवाच ह ॥५॥

तच्छ्रुत्वा कुरुवृद्धो हि बली संवृतलोचनः ।
शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् ॥६॥

रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः ।
पितेव पुत्रं गाङ्गेयः परिरभ्यैकपाणिना ॥७॥

एह्येहि मे विप्रतीप स्पर्धसे त्वं मया सह ।
यदि मां नाधिगच्छेथा न ते श्रेयो ध्रुवं भवेत् ॥८॥

कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता ।
सूर्यजस्त्वं महाबाहो विदितो नारदान्मया ॥९॥

कृष्णद्वैपायनाच्चैव तच्च सत्यं न संशयः ।
न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते ॥१०॥

पुरुषेषु मानुषेषु एवं सत्यपि अतिसंभावितः पाण्डवानतिपीडयेरिति निश्चित्यातिरथोऽप्यर्धरथत्वेन गणित इति भावः ॥१०॥

तेजोवधनिमित्तं तु परुषं त्वाऽहमब्रुवम् ।
अकस्मात् पाण्डवान् सर्वानवाक्षिपसि सुव्रत॥११॥

येनासि बहुशो राज्ञा चोदितः सूतनन्दन ।
जातोऽसि धर्मलोपेन ततस्ते बुद्धिरीदृशी ॥१२॥

नीचाश्रयान्मत्सरेण द्वेषिणी गुमिनामपि ।
तेनासि बहुशो रूक्षं श्रावितः कुरुसंसदि ॥१३॥

जानामि समरे वीर्यं शत्रुभिर्दुःसहं भुवि ।
ब्रह्मण्यतां च शौर्यं च दाने च परमां स्थितिम् ॥१४॥

न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम ।
कुलभेदभयाच्चाहं सदा परुषमुक्तवान् ॥१५॥

इष्वस्त्रे चास्त्रसंधाने लाघवेऽस्त्रबले तथा ।
सदृशः फल्गुनेनासि कृष्णेन च महात्मना ॥१६॥

कर्ण काशिपुरं गत्वा त्वयैकेन धनुष्मता ।
कन्यार्थे कुरुराजस्य राजानो मृदिता युधि ॥१७॥

तथा च बलवान् राजा जरासन्धो दुरासदः ।
समरे समरश्लाघिन्न त्वया सदृशोऽभवत्॥१८॥

त्वया सदृशो नाभवत् त्वया जित इत्यर्थः। इयं कथा राजधर्मे। अनेन नागायुतबलत्वं कर्णस्य सूचितम्॥१८॥

ब्रह्मण्यः सत्त्वयोधी च तेजसा च बलेन च ।
देवगर्भसमः सङ्ख्ये मनुष्यैरधिको युधि ॥१९॥

युधि संप्रहारे॥१९॥

व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः ।
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ॥२०॥

सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन ।
संगच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् ॥२१॥

मया भवतु निर्वृत्तं वैरमादित्यनन्दन ।
पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः ॥२२॥

निर्वृत्तं समाप्तम्॥२२॥
कर्ण उवाच।

जानाम्येव महाबाहो सर्वमेतन्न संशयः ।
यथा वदसि मे भीष्म कौन्तेयोऽहं न सूतजः ॥२३॥

अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः ।
भुक्त्वा दुर्योधनैश्वर्यं न मिथ्याकर्तुमुत्सहे ॥२४॥

अवकीर्णस्त्यक्तः॥२४॥

वसुदेवसुतो यद्वत् पाण्डवाय दृढव्रतः ।
वसु चैव शरीरं च पुत्रदारं तथा यशः ॥२५॥

सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण ।
मा चैतद्व्याधिमरणं क्षत्रं स्यादिति कौरव ॥२६॥

कोपिताः पाण्डवा नित्यं समाश्रित्य सुयोधनम् ।
अवश्यभावी ह्यर्थोऽयं यो न शक्यो निवर्तितुम् ॥२७॥

दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ।
पृथिवीक्षयसंशीनि निमित्तानि पितामह ॥२८॥

निवर्तितुं निवर्तयितुम्॥२८॥

भवद्भिरुपलब्धानि कथितानि च संसदि ।
पाण्डवा वासुदेवश्च विदिता मम सर्वशः॥२९॥

अजेयाः पुरुषैरन्यैरिति तंश्चोत्सहामहे ।
विजयिष्ये रणे पाण्डूनिति मे निश्चितः मनः ॥३०॥

पाण्डूनर्जुनं विहाय चतुरः अर्जुनेन योत्स्ये अन्यान्विजेष्ये इति भावः॥३०॥

न च शक्यमवस्रष्टुं वैरमेतत् सुदारुणम् ।
धनञ्जयेन योत्स्येऽहं स्वधर्मप्रीतमानसः ॥३१॥

अनुजानीष्व मां तात युद्धाय कृतनिश्चयम् ।
अनुज्ञातस्त्वया वीर युद्ध्येयमिति मे मतिः ॥३२॥

दुरुक्तं विप्रतीपं वा रभसाच्चापलात् तथा ।
यन्मयेह कृतं किञ्चित्तन्मे त्वं क्षन्तुमर्हसि ॥३३॥

विप्रतीप विरुद्धम्॥३३॥
भीष्म उवाच।

न चेच्छक्यमवस्रष्टुं वैरमेतत् सुदारुणम् ।
अनुजानामि कर्ण त्वां युद्ध्यस्व स्वर्गकाम्यया ॥३४॥

निर्मन्युर्गतसंरम्भः कृतकर्मा रणे स्म ह ।
यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् ॥३५॥

अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि ।
क्षत्रधर्मजिताँल्लोकानवाप्स्यसि धनञ्जयात् ॥३६॥

युध्यस्व निरहङ्कारो बलवीर्यव्यपाश्रयः ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥३७॥

प्रशमे हि कृतो यत्नः सुमहान् सुचिरं मया ।
न चैव शकितः कर्तुं कर्ण सत्यं ब्रवीमि ते ॥३८॥

सञ्जय उवाच । इत्युक्तवति गाङ्गेये अभिवाद्योपमन्त्र्य च ।
राधेयो रथमारुह्य प्रायात् तव सुतं प्रति ॥३९॥

इति श्रीमहाभारते भीष्मपर्वणि भीष्मवधपर्वणि भीष्मकर्णसंवादे द्वाविंशाधिकशततमोऽध्यायः॥१२२॥
॥ समाप्तं भीष्मवधपर्व ॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in