द्रोणाभिषेकपर्व - १ - १संशप्तकवधपर्व - २ - २अभिमन्युवधपर्व - ३ - ३प्रतिज्ञापर्व - ४ - ४जयद्रथवधपर्व - ५ - ५घटोत्कचवधपर्व - ६ - ६द्रोणवधपर्व - ७ - ७नारायणास्त्रमोक्षपर्व - ८ - ८

द्रोणाभिषेकपर्व - १

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥१॥

प्रथमोऽध्यायः

जनमेजय उवाच। तमप्रतिमसत्त्वौजोबलवीर्यसमन्वितम् ।
हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना॥१॥

पूर्वस्मिन् पर्वणि विश्वरूपप्रदर्शनं तद्विदां चार्चिरादिमार्गापेक्षा च भीष्मकृतकालप्रतीक्षया दर्शिता । तत्रैव निष्कलं रूपं ‘तमेव शरणं गच्छ’। ‘तमेव चाद्यं पुरुषं प्रपद्ये’ । ‘ उत्तमः पुरुषस्त्वन्यः’ इत्यादिना उक्तम् । तदधिगमवतां च नास्ति तन्मार्गापेक्षेति द्रोणनिर्वाणनिदर्शनेन दर्शयिष्यन् द्रोणपर्व समारभते -तमप्रतिमसत्त्वौज इत्यादिना । तत्राख्यायिका योधोत्साहार्था महतामपि मृत्युरस्तीत्यादिना जगद‌नित्यत्वप्रदर्शनार्था च । तत्र सत्त्वं धैर्यं महत्यपि दुःखकारणे वैकल्यराहित्यम् । ओजो मानसं बलम् । बलं शरीरदार्ढ्यम् । वीर्यमुत्साहादिहेतुः । पराक्रमः पराभिभवसामर्थ्यम् ॥१॥

धृतराष्ट्रस्ततो राजा शोकव्याकुललोचनः ।
किमचेष्टत विप्रर्षे हते पितरि वीर्यवान्॥२॥

तस्य पुत्रो हि भगवान् भीष्मद्रोणमुखै रथैः ।
पराजित्य महेष्वासान् पाण्डवान् राज्यमिच्छति॥३॥

तस्मिन् हते तु भगवन् केतौ सर्वधनुष्मताम् ।
यदचेष्टत कौरव्यस्तन्मे ब्रूहि तपोधन॥४॥

केतौ चिह्नभूते । एवंभूतो धनुर्धरो न भवतीत्यन्येषामभिज्ञापके ॥४॥

वैशम्पायन उवाच। निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः ।
लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः॥५॥

चिन्ता ध्येयविषये मनोवृत्तिप्रवाहः । शोक इष्टस्य पुनः पुनर्मनसि निवेशनम् ॥५॥

तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत् ।
आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा॥६॥

दुःखं दुःखहेतुम् ॥६॥

शिबिरात् सञ्जयं प्राप्तं निशि नागाह्वयं पुरम् ।
आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत॥७॥

शिबिरात्तद्वतः कुरुक्षेत्रात् । पृच्छेर्द्विकर्मत्वात् पुत्राणां जयम् अन्वपृच्छतेति सम्बन्धः ॥७॥

श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम् ।
पुत्राणां जयमाकाङ्क्षन् विललापातुरो यथा॥८॥

धृतराष्ट्र उवाच। संशोच्य तु महात्मानं भीष्मं भीमपराक्रमम् ।
किमकार्षुः परं तात कुरवः कालचोदिताः॥९॥

तस्मिन् विनिहते शूरे दुराधर्षे महात्मनि ।
किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे॥१०॥

तदुदीर्णं महत् सैन्यं त्रैलोक्यस्यापि सञ्जय ।
भयमुत्पादयेत् तीव्रं पाण्डवानां महात्मनाम्॥११॥

को हि दौर्योधने सैन्ये पुमानासीन्महारथः ।
यं प्राप्य समरे वीरा न त्रस्यन्ति महाभये ॥१२॥

देवव्रते तु निहते कुरूणामृषभे तदा ।
किमकार्षुर्नृपतयस्तन्ममाचक्ष्व सञ्जय॥१३॥

सञ्जय उवाच। शृणु राजन्नेकमना वचनं ब्रुवतो मम ।
यत् ते पुत्रास्तदाऽकार्षुर्हते देवव्रते सृधे॥१४॥

निहते तु तदा भीष्मे राजन् सत्यपराक्रमे ।
तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक् पृथक्॥१५॥

प्राध्यायन्त पृथक् पृथक् एके पराजयं प्राप्ताः स्म इति अन्ये जयं प्राप्स्यन्त इति च ध्यानं कृतवन्तः ॥१५॥

विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशम्य ते ।
स्वधर्मं निन्दमानास्ते प्रणिपत्य महात्मने॥१६॥

विस्मिता गुरुवधेऽपि दोषाभावात् । प्रहृष्टा महाफलत्वाद्युद्धमरणस्य ॥१६॥

शयनं कल्पयामासुर्भीष्मायामितकर्मणे ।
सोपधानं नरव्याघ्र शरैः सन्नतपर्वभिः॥१७॥

विधाय रक्षां भीष्माय समाभाष्य परस्परम् ।
अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम्॥१८॥

क्रोधसंरक्तनयनाः समवेत्य परस्परम् ।
पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः॥१९॥

ततस्तूर्यनिनादैश्च भेरीणां निनदेन च ।
तावकानामनीकानि परेषां च विनिर्ययुः॥२०॥

व्यावृत्तेऽर्यम्णि राजेन्द्र पतिते जाह्नवीसुते ।
अमर्षवशमापन्नाः कालोपहतचेतसः॥२१॥

अर्यम्णि सूर्ये व्यावृत्ते अपराह्णावलम्बिनि ॥२१॥

अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः ।
निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सत्वराः॥२२॥

मोहात् तव सपुत्रस्य वधाच्छान्तनवस्य च ।
कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः॥२३॥

मोहाज्जयाशारूपात् शान्तनवस्य वधादिति परेषां बलवत्त्वात् । मृत्युसाद्भूता मृत्युवशाः मृत्युनहूता इत्यपि पाठः ॥२३॥

अजावय इवागोपा वने श्वापदसङ्कुले ।
भृशमुद्विग्नमनसो हीना देवव्रतेन ते॥२४॥

पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी ।
द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना॥२५॥

द्यौरिव निःश्रीका खमिव शून्या ॥२५॥

विपन्नसस्येव मही वाक्चैवासंस्कृता तथा ।
आसुरीव यथा सेना निगृहीते नृपे बलौ॥२६॥

विपन्नसस्येव निःसारा । असंस्कृता वाग्यथा कर्तव्ये असमर्था आसुरीव सेना व्याकुला । इवशब्दो वाक्यालंकारे ॥२६॥

विधवेव वरारोहा शुष्कतोयेव निम्नगा ।
वृकैरिव वने रुद्धा पृषती हतयूथपा॥२७॥

विधवेव निरलंकारा शुष्कतोयेव निरुपयोगा वृकैरिव निरुद्धा आसन्नमरणा पृषती चित्रमृगी ॥२७॥

शरभाहतसिंहेव महती गिरिकन्दरा ।
भारती भरतश्रेष्ठे पतिते जान्हवीसुते॥२८॥

विष्वग्वाताहता रुग्णा नौरिवासीन्महार्णवे ।
बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता॥२९॥

विष्वग्वाता अनेकदिग्वाता ॥२९॥

सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा ।
विपन्नभूयिष्ठनरा कृपणा ध्वस्तमानसा॥३०॥

तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः ।
पाताल इव मज्जन्तो हीना देवव्रतेन ते॥३१॥

तस्यां सेनायाम् ॥३१॥

कर्णं हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः ।
सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम्॥३२॥

रोचमानं विद्यातपोभ्यामिति शेषः ॥३२॥

बन्धुमापद्गतस्येव तमेवोपागमन्मनः ।
चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः॥३३॥

राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम् ।
स हि नायुध्यत तदा दशाहानि महायशाः॥३४॥

सामात्यबन्धुः कर्णो वै तमानयत मा चिरम् ।
भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः॥३५॥

रथेषु गण्यमानेषु बलविक्रमशालिषु ।
संख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः॥३६॥

रथातिरथसंख्यायां योऽग्रणीः शूरसंमतः ।
सासुरानपि देवेशान् रणे यो योद्धुमुत्सहेत्॥३७॥

स तु तेनैव कोपेन राजन् गाङ्गेयमुक्तवान् ।
त्वयि जीवति कौरव्य नाहं योत्स्ये कदाचन॥३८॥

त्वया तु पाण्डवेयेषु निहतेषु महामृधे ।
दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव॥३९॥

पाण्डवैर्वा हते भीष्मे त्वयि स्वर्गमुपेयुषि ।
हन्तास्म्येकरथेनैव कृत्स्नान् यान् मन्यसे रथान्॥४०॥

एवमुक्त्वा महाबाहुर्दशाहानि महायशाः ।
नायुध्यत ततः कर्णः पुत्रस्य तव संमते॥४१॥

भीष्मः समरविक्रान्तः पाण्डवेयस्य भारत ।
जघान समरे योधानसंख्येयपराक्रमः॥४२॥

तस्मिंस्तु निहते शूरे सत्यसन्धे महौजसि ।
त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम्॥४३॥

तावकास्तव पुत्राश्च सहिताः सर्वराजभिः ।
हा कर्ण इति चाक्रन्दन् कालोऽयमिति चाब्रुवन्॥४४॥

आक्रन्दन्नाहूतवन्तः कालोऽयं त्वत्पराक्रमस्येति शेषः ॥४४॥

एवं ते स्म हि राधेयं सूतपुत्रं तनुत्यजम् ।
चुक्रुशुः सहिता योधास्तत्र तत्र महाबलाः॥४५॥

जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम् ।
अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव॥४६॥

जामदग्न्येन अभ्यनुज्ञातं शिक्षितं नः अस्मत्सम्बंधिनाम् ॥४६॥

स हि सक्तो रणे राजंस्त्रातुमस्मान् महाभयात् ।
त्रिदशानिव गोविन्दः सततं सुमहाभयात्॥४७॥

वैशम्पायन उवाच। तथा तु सञ्जयं कर्णं कीर्तयन्तं पुनः पुनः ।
आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम्॥४८॥

धृतराष्ट्र उवाच। यत् तद्वैकर्तनं कर्णमगमद्वो मनस्तदा ।
अप्यपश्यत राधेयं सूतपुत्रं तनुत्यजम्॥४९॥

तनुत्यजं देहव्ययेनाप्यस्मद्धितैषिणम् । अपश्यत यगर्गाति शेषः ॥४९॥

अपि तन्न मृषाकार्षीत् कञ्चित् सत्यपराक्रमः ।
संभ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम्॥५०॥

तत् अस्मदीयानां चिन्तित ---- ॥५०॥

अपि तत् पूरयांचक्रे धनुर्धरवरो युधि ।
यत्तद्विनिहते भीष्मे कौरवाणामपाकृतम्॥५१॥

भीष्मे विनिहते सति तत् तदा यदपाकृतं ---नं तत्पूरयांचक्रे अपीत्यन्वयः ॥५१॥

तत् खण्डं पूरयन् कर्णः परेषामादधद्भयम् ।
स हि वै पुरुषव्याघ्रो लोके सञ्जय कथ्यते॥५२॥

खण्डं रिक्तम् ॥५२॥

आर्तानां बान्धवानां च क्रन्दतां च विशेषतः ।
परित्यज्य रणे प्राणांस्तत्राणार्थे च शर्म च ।
कृतवान् मम पुत्राणां जयाशां सफलामपि॥५३॥

कृतवान्नेवति शेषः ॥५३॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि धृतराष्ट्रप्रश्ने प्रथमोऽध्यायः॥१॥
द्वितीयोऽध्यायः

सञ्जय उवाच। हतं भीष्ममथाधिरथिर्विदित्वा भिन्नां नावमिवात्यगाधे कुरूणाम् ।
सोदर्यवद्व्यसनात् सूतपुत्रः सन्तारयिष्यंस्तव पुत्रस्य सेनाम्॥१॥

हतमिति । विदित्वा चारमुखात् उपयायादित्यपकृष्यते ॥१॥

श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं निपातितं शान्तनवं महारथम् ।
अथोपयायात् सहसाऽरिकर्षणो धनुर्धराणां प्रवरस्तदा नृप॥२॥

श्रुत्वा योधमुखात् अच्युतम् अस्खलितव्रतादिम् ॥२॥

हते तु भीष्मे रथसत्तमे परैर्निमज्जतीं नावमिवार्णवे कुरून् ।
पितेव पुत्रांस्त्वरितोऽभ्ययात् ततः संतारयिष्यंस्तव पुत्रस्य सेनाम्॥३॥

कर्ण उवाच। यस्मिन् धृतिर्बुद्धिपराक्रमौजः सत्यं स्मृतिर्वीरगुणाश्च सर्वे ।
अस्त्राणि दिव्यान्यथ संनतिर्ह्रीः प्रिया च वागनसूया च भीष्मे॥४॥

चन्द्रमसि लक्ष्मेव यस्मिन् धृत्यादिकं सनातनं सार्वकालिकमिति द्वयोरन्वयः ॥४॥

सदा कृतज्ञे द्विजशत्रुघातके सनातनं चन्द्रमसीव लक्ष्म ।
स चेत्प्रशान्तः परवीरहन्ता मन्ये हतानेव च सर्ववीरान्॥५॥

नेह ध्रुवं किंचन जातु विद्यते लोके ह्यस्मिन् कर्मणोऽनित्ययोगात् ।
सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीतार्य महाव्रते हते॥६॥

महाव्रते दृढब्रह्मचर्ये हते सति श्वः सूर्योद‌यो भविष्यतीति कस्य निश्चयः स्यात् । मृत्युजयिनोऽपि मृत्युश्चेत् काऽस्माकं जीविताशेत्यर्थः ॥६॥

वसुप्रभावे वसुवीर्यसंभवे गते वसूनेव वसुन्धराधिपे ।
वसूनि पुत्रांश्च वसुन्धरां तथा कुरूंश्च शोचध्वमिमां च वाहिनीम्॥७॥

वसुवीर्यसंभवे वसूनामिव वीर्यं यस्य शान्तनोस्तस्मात् संभवो जन्म यस्य ॥७॥

सञ्जय उवाच। महाप्रभावे वरदे निपातिते लोकेश्वरे शास्तरि चामितौजसि ।
पराजितेषु भरतेषु दुर्मनाः कर्णो भृशं न्यश्वसदश्रु वर्तयन्॥८॥

इदं च राधेयवचो निशम्य सुताश्च राजंस्तव सैनिकाश्च ह ।
परस्परं चुक्रुशुरार्तिजं मुहुस्तदाश्रु नेत्रैर्मुमुचुश्च शब्दवत्॥९॥

इदं यस्मिन् धृतिरित्यादिपूर्वोक्तमवधेयं वचनम् ॥९॥

प्रवर्तमाने तु पुनर्महाहवे विगाह्यमानासु चमूषु पार्थिवैः ।
अथाब्रवीद्धर्षकरं तदा वचो रथर्षभान् सर्वमहारथर्षभः॥१०॥

जगत्यनित्ये सततं प्रधावति प्रचिन्तयन्नस्थिरमद्य लक्षये ।
भवत्सु तिष्ठत्स्विह पातितो मृधे गिरिप्रकाशः कुरुपुङ्गवः कथम्॥११॥

प्रधावति मृत्यवे स्थिरं न किमपीति लक्षये ॥११॥

निपातिते शान्तनवे महारथे दिवाकरे भूतलमास्थिते यथा ।
न पार्थिवाः सोढुमलं धनञ्जयं गिरिप्रवोढारमिवानिलं द्रुमाः॥१२॥

हतप्रधानं त्विदमार्तरूपं परैर्हतोत्साहमनाथमद्य वै ।
मया कुरूणां परिपाल्यमाहवे बलं यथा तेन महात्मना तथा॥१३॥

समाहितं चात्मनि भारमीदृशं जगत् तथा नित्यमिदं च लक्षये ।
निपातितं चाहवशौण्डमाहवे कथं नु कुर्यामहमीदृशे भयम्॥१४॥

अहं तु तान् कुरुवृषभानजिह्मगैः प्रवेशयन् यमसदनं चरन् रणे ।
यशः परं जगति विभाव्य वर्तिता परैर्हतो भुवि शयिताऽथवा पुनः॥१५॥

प्रवेशयन् प्रापयन् प्रवेरयन्निति पाठेऽपि स एवार्थः । विभाव्य प्रकाश्य वर्तिता स्थाता ॥१५॥

युधिष्ठिरो धृतिमतिसत्यसत्त्ववान् वृकोदरो गजशततुल्यविक्रमः ।
तथाऽर्जुनस्त्रिदशवरात्मजो युवा न तद्बलं सुजयमिहामरैरपि॥१६॥

धृतिमतिसत्यसत्त्ववान् नित्ययोगे मतुप् ॥१६॥

यमौ रणे यत्र यमोपमौ बले ससात्यकिर्यत्र च देवकीसुतः ।
न तद्बलं कापुरुषोऽभ्युपेयिवान्निवर्तते मृत्युमुखान्न चासुभृत्॥१७॥

तद्बलम् अभ्युपेयिवान् कापुरुषो न निवर्तते । तत्र दृष्टान्तः। मृत्युमुखादिति । लुप्तोपमेयम् । असुभृत्प्राणी ॥१७॥

तपोऽभ्युदीर्णं तपसैव बाध्यते बलं बलेनैव तथा मनस्विभिः ।
मनश्च मे शत्रुनिवारणे ध्रुवं स्वरक्षणे चाचलवद्व्यवस्थितम्॥१८॥

नाहं कापुरुष इत्याह - तप इति ॥१८॥

एवं चैषां बाधमानः प्रभावं गत्वैवाहं ताञ्जयाम्यद्य सूत ।
मित्रद्रोहो मर्षणीयो न मेऽयं भग्ने सैन्ये यः समेयात् स मित्रम्॥१९॥

एवं मनस्यनुकूले सति । एषां शत्रूणां गत्वैव गमनानन्तरं तान् शत्रून् ॥१९॥

कर्तास्म्येतत् सत्पुरुषार्यकर्म त्यक्त्वा प्राणाननुयास्यामि भीष्मम् ।
सर्वान् सङ्ख्ये शत्रुसङ्घान् हनिष्ये हतस्तैर्वा वीरलोकं प्रपत्स्ये॥२०॥

सत्पुरुषाणां योग्यमार्यकर्म श्रेष्ठकार्यम् ॥२०॥

संप्राक्रुष्टे रुदितस्त्रीकुमारे पराहते पौरुषे धार्तराष्ट्रे ।
मया कृत्यमिति जानामि सूत तस्माद्राज्ञस्त्वद्य शत्रून् विजेष्ये॥२१॥

संप्राक्रुष्टे येन केनापि रक्ष रक्षेत्युक्ते सति मया कृत्यं कार्यं युद्धमिति शेषः ॥२१॥

कुरून् रक्षन् पाण्डुपुत्रान् जिघांसंस्त्यक्त्वा प्राणान् घोररूपे रणेऽस्मिन् ।
सर्वान् सङ्ख्ये शत्रुसङ्घान्निहत्य दास्याम्यहं धार्तराष्ट्राय राज्यम्॥२२॥

निबध्यतां मे कवचं विचित्रं हैमं शुभ्रं मणिरत्नावभासि ।
शिरस्त्राणं चार्कसमानभासं धनुःशरांश्चाग्निविषाहिकल्पान्॥२३॥

शुभ्रमुद्दीप्तम् ॥२३॥

उपासङ्गान् षोडश योजयन्तु धनूंषि दिव्यानि तथाऽऽहरन्तु ।
असींश्च शक्तीश्च गदाश्च गुर्वीः शङ्खं च जाम्बूनदचित्रनालम्॥२४॥

उपासंगान् शरपूर्णांस्तूणान् ॥२४॥

इमां रौक्मीं नागकक्ष्यां विचित्रां ध्वजं चित्रं दिव्यमिन्दीवराङ्कम् ।
श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयन्तु चित्रां मालां चारुबद्धां सलाजाम्॥२५॥

नागकक्ष्यां श्रृंखलां जैत्रं जयख्यापकम् । इंदीवराङ्कं कमलचिह्नम् ॥२५॥

अश्वानग्र्यान् पाण्डुराभ्रप्रकाशान् पुष्टान् स्नातान् मन्त्रपूताभिरद्भिः ।
तप्तैर्भाण्डैः काञ्चनैरभ्युपेतान् शीघ्राञ्शीघ्रं सूतपुत्रानयस्व॥२६॥

तप्तैरारोपितवर्णकेर्भांडैरलंकारैः ॥२६॥

रथं चाग्र्यं हेममालावनद्धं रत्नैश्चित्रं सूर्यचन्द्रप्रकाशैः ।
द्रव्यैर्युक्तं संप्रहारोपपन्नैर्वाहैर्युक्तं तूर्णमावर्तयस्व॥२७॥

संप्रहारोपपन्नैर्युद्धोचितैः आवतर्यस्व आनय ॥२७॥

चित्राणि चापानि च वेगवन्ति ज्याश्चोत्तमाः सन्नहनोपपन्नाः ।
तूणांश्च पूर्णान्महतः शराणामासाद्य गात्रावरणानि चैव॥२८॥

गात्रावरणानि कवचानि ॥२८॥

प्रायात्रिकं चानयताशु सर्वं दध्ना पूर्णं वीर कांस्यं च हैमम् ।
आनीय मालामवबध्य चाङ्गे प्रवादयन्त्वाशु जयाय भेरीः॥२९॥

प्रायात्रिकं प्रयात्रा युद्धार्थं प्रयाणं तत्रार्हम् ॥२९॥

प्रयाहि सूताशु यतः किरीटी वृकोदरो धर्मसुतो यमौ च ।
तान् वा हनिष्यामि समेत्य सङ्ख्ये भीष्माय गच्छामि हतो द्विषद्भिः॥३०॥

भीष्माय कर्मणि चतुर्थी ॥३०॥

यस्मिन् राजा सत्यधृतिर्युधिष्ठिरः समास्थितो भीमसेनार्जुनौ च ।
वासुदेवः सात्यकिः सृञ्जयाश्च मन्ये बलं तदजय्यं महीपैः॥३१॥

तं चेन्मृत्युः सर्वहरोऽभिरक्षेत् सदाऽप्रमत्तः समरे किरीटिनम् ।
तथाऽपि हन्ताऽस्मि समेत्य सङ्ख्ये यास्यामि वा भीष्मपथा यमाय॥३२॥

यमाय यमं द्रष्टुम् ॥३२॥

न त्वेवाहं न गमिष्यामि तेषां मध्ये शूराणां तत्र चाहं ब्रवीमि ।
मित्रद्रुहो दुर्बलभक्तयो ये पापात्मानो न ममैते सहायाः॥३३॥

सञ्जय उवाच। समृद्धिमन्तं रथमुत्तमं दृढं सकूबरं हेमपरिष्कृतं शुभम् ।
पताकिनं वातजवैर्हयोत्तमैर्युक्तं समास्थाय ययौ जयाय॥३४॥

संपूज्यमानः कुरुभिर्महात्मा रथर्षभो देवगणैर्यथेन्द्रः ।
ययौ तदायोधनमुग्रधन्वा यत्रावसानं भरतर्षभस्य॥३५॥

वरूथिना महता सध्वजेन सुवर्णमुक्तामणिरत्नमालिना ।
सदश्वयुक्तेन रथेन कर्णो मेघस्वनेनार्क इवामितौजाः॥३६॥

हुताशनाभः स हुताशनप्रभे शुभः शुभे वै स्वरथे धनुर्धरः ।
स्थितो रराजाधिरथिर्महारथः स्वयं विमाने सुरराडिवास्थितः॥३७॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि कर्णनिर्याणे द्वितीयोऽध्यायः ॥२॥
तृतीयोऽध्यायः

सञ्जय उवाच। शरतल्पे महात्मानं शयानममितौजसम् ।
महावातसमूहेन समुद्रमिव शोषितम्॥१॥

शरतल्पे इति ॥१॥

दृष्ट्वा पितामहं भीष्मं सर्वक्षत्रान्तकं गुरुम् ।
दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना॥२॥

जयाशा तव पुत्राणां संभग्ना शर्म वर्म च ।
अपाराणामिव द्वीपमगाधे गाधमिच्छताम्॥३॥

स्रोतसा यामुनेनेव शरौघेण परिप्लुतम् ।
महेन्द्रेणेव मैनाकमसह्यं भुवि पातितम्॥४॥

नभश्च्युतमिवादित्यं पतितं धरणीतले ।
शतक्रतुमिवाचिन्त्यं पुरा वृत्रेण निर्जितम्॥५॥

मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम् ।
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम्॥६॥

ककुदं श्रेष्ठम् ॥६॥

धनञ्जयशरैर्व्याप्तं पितरं ते महाव्रतम् ।
तं वीरशयने वीरं शयानं पुरुषर्षभम्॥७॥

भीष्ममाधिरथिर्दृष्ट्वा भरतानां महाद्युतिः ।
अवतीर्य रथादार्तो बाष्पव्याकुलिताक्षरम्॥८॥

अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत ।
कर्णोऽहमस्मि भद्रं ते वद मामभिभारत॥९॥

पुण्यया क्षेम्यया वाचा चक्षुषा चावलोकय ।
न नूनं सुकृतस्येह फलं कश्चित् समश्नुते॥१०॥

यत्र धर्मपरो वृद्धः शेते भुवि भवानिह ।
कोशसंचयने मन्त्रे व्यूहे प्रहरणेषु च॥११॥

नाहमन्यं प्रपश्यामि कुरूणां कुरुपुङ्गव ।
बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात्॥१२॥

योधांस्तु बहुधा हत्वा पितृलोकं गमिष्यति ।
अद्यप्रभृति संक्रुद्धा व्याघ्रा इव मृगक्षयम्॥१३॥

पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम् ।
अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनः॥१४॥

कुरवः सन्त्रसिष्यन्ति वज्रपाणेरिवासुराः ।
अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः॥१५॥

त्रासयिष्यति बाणानां कुरूनन्यांश्च पार्थिवान् ।
समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान् दहेत्॥१६॥

धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा बाणाः किरीटिनः ।
येन येन प्रसरतो वाय्वग्नी सहितौ वने॥१७॥

तेन तेन प्रदहतो भूरिगुल्मतृणद्रुमान् ।
यादृशोऽग्निः समुद्भूतस्तादृक् पार्थो न संशयः॥१८॥

यथा वायुर्नरव्याघ्र तथा कृष्णो न सशयः ।
नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च॥१९॥

रसतः शब्दं कुर्वतः ॥१९॥

श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यंति भारत ।
कपिध्वजस्योत्पततो रथस्यामित्रकर्षिणः॥२०॥

शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः ।
को ह्यर्जुनं योधयितुं त्वदन्यः पार्थिवोऽर्हति॥२१॥

यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः ।
अमानुषैश्च संग्रामस्त्र्यम्बकेण महात्मना॥२२॥

अमानुषैर्निवातकवचादिभिः ॥२२॥

तस्माच्चैव वरं प्राप्तो दुष्प्रापमकृतात्मभिः ।
कोऽन्यःशक्तो रणे जेतुं पूर्वं यो न जितस्त्वया॥२३॥

जितो येन रणे रामो भवता वीर्यशालिना ।
क्षत्रियान्तकरो घोरो देवदानवदर्पहा॥२४॥

तमद्याहं पाण्डवं युद्धशौण्डममृष्यमाणो भवता चानुशिष्टः ।
आशीविषं दृष्टिहरं सुघोरं शूरं शक्ष्याम्यस्त्रबलान्निहन्तुम्॥२५॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि कर्णवाक्ये तृतीयोऽध्यायः॥३॥
चतुर्थोऽध्यायः

सञ्जय उवाच। तस्य लालप्यमानस्य कुरुवृद्धः पितामहः ।
देशकालोचितं वाक्यमब्रवीत् प्रीतमानसः॥१॥

तस्येति ॥१॥

समुद्र इव सिंधूनां ज्योतिषामिव भास्करः ।
सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा॥२॥

पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भव ।
बान्धवास्त्वानुजीवन्तु सहस्राक्षमिवामराः॥३॥

मानहा भव शत्रूणां मित्राणां नन्दिवर्धनः ।
कौरवाणां भव गतिर्यथा विष्णुर्दिवौकसाम्॥४॥

स्वबाहुबलवीर्येण धार्तराष्ट्रजयैषिणा ।
कर्ण राजपुरं गत्वा काम्बोजा निर्जितास्त्वया॥५॥

गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः ।
अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया॥६॥

हिमवद्दुर्गनिलयाः किराता रणकर्कशाः ।
दुर्योधनस्य वशगास्त्वया कर्ण पुरा कृताः॥७॥

उत्कला मेकलाः पौण्ड्राः कलिङ्गान्ध्राश्च संयुगे ।
निषादाश्च त्रिगर्ताश्च बाल्हीकाश्च जितास्त्वया॥८॥

तत्र तत्र च संग्रामे दुर्योधनहितैषिणाः ।
बहवश्च जिताः कर्ण त्वया वीरा महौजसा॥९॥

यथा दुर्योधनस्तात सज्ञातिकुलबान्धवः ।
तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव॥१०॥

शिवेनाभिवदामि त्वां गच्छ युद्ध्यस्व शत्रुभिः ।
अनुशाधि कुरून् सङ्ख्ये धत्स्व दुर्योधने जयम्॥११॥

भवान् पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा ।
तवापि धर्मतः सर्वे यथा तस्य वयं तथा॥१२॥

यौनात् संबन्धकाल्लोके विशिष्टं संगतं सताम् ।
सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः॥१३॥

स सत्यसङ्गतो भूत्वा ममेदमिति निश्चितः ।
कुरूणां पालय बलं यथा दुर्योधनस्तथा॥१४॥

निशम्य वचनं तस्य चरणावभिवाद्य च ।
ययौ वैकर्तनः कर्णः समीपं सर्वधन्विनाम्॥१५॥

सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत् ।
व्यूढप्रहरणोरस्कं सैन्यं तत् समबृंहयत्॥१६॥

हृषिताः कुरवः सर्वे दुर्योधनपुरोगमाः ।
उपागतं महाबाहुं सर्वानीकपुरःसरम्॥१७॥

कर्णं दृष्ट्वा महात्मानं युद्धाय समुपस्थितम् ।
क्ष्वेडितास्फोटितरवैः सिंहनादवैरपि ।
धनुःशब्दैश्च विविधैः कुरवः समपूजयन्॥१८॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि कर्णाश्वासे चतुर्थोऽध्यायः॥४॥
पञ्चमोऽध्यायः

सञ्जय उवाच। रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम् ।
दृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत्॥१॥

रथस्थमिति ॥१॥

सनाथमिव मन्येऽहं भवता पालितं बलम् ।
अत्र किं नु समर्थं यद्धितं तत् संप्रधार्यताम्॥२॥

कर्ण उवाच। ब्रूहि नः पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप ।
यथा चार्थपतिः कृत्यं पश्यते न तथेतरः॥३॥

अर्थपतिः प्रधानस्वामी ॥३॥

ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर ।
नान्याय्यं हि भवान् वाक्यं बूयादिति मतिर्मम॥४॥

दुर्योधन उवाच। भीष्मः सेनाप्रणेतासीद्वयसा विक्रमेण च ।
श्रुतेन चोपसंपन्नः सर्वैर्योधगणैस्तथा॥५॥

तेनातियशसा कर्ण घ्नता शत्रुगणान्मम ।
सुयुद्धेन दशाहानि पालिताः स्मो महात्मना॥६॥

तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम् ।
कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम्॥७॥

न विना नायकं सेना मुहूर्तमपि तिष्ठति ।
आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले॥८॥

नेता कर्णधारः ॥८॥

यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा ।
द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम्॥९॥

अदेशिको यथा सार्थः सर्वः कृच्छ्रं समृच्छति ।
अनायका तथा सेना सर्वान् दोषान्समर्छति॥१०॥

अदेशिकोऽग्रेसररहितः ॥१०॥

स भवान् वीक्ष्य सर्वेषु मामकेषु महात्मसु ।
पश्य सेनापतिं युक्तमनु शान्तनवादिह॥११॥

यं हि सेनाप्रणेतारं भवान् वक्ष्यति संयुगे ।
तं वयं सहिताः सर्वे करिष्यामो न संशयः॥१२॥

कर्ण उवाच। सर्व एव महात्मान इमे पुरुषसत्तमाः ।
सेनापतित्वमर्हन्ति नात्र कार्या विचारणा॥१३॥

कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः ।
युक्ताः श्रुतज्ञा धीमन्त आहवेष्वनिवर्तिनः॥१४॥

संहननं शरीरम् ॥१४॥

युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः ।
एक एव तु कर्तव्यो यस्मिन् वैशेषिका गुणाः॥१५॥

अन्योन्यस्पर्धिनां ह्येषां यद्येकं यं करिष्यसि ।
शेषा विमनसो व्यक्तं न योत्स्यन्ति हितास्तव॥१६॥

अयं च सर्वयोधानामाचार्यः स्थविरो गुरुः ।
युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः॥१७॥

को हि तिष्ठति दुर्धर्षे द्रोणे शस्त्रभृतां वरे ।
सेनापतिःस्यादन्योस्माच्छुक्रांगिरसदर्शनात्॥१८॥

शुक्राङ्गिरसदर्शनात् शुक्रबृहस्पतितुल्यात् ॥१८॥

न च सोऽप्यस्ति ते योधः सर्वराजसु भारत ।
द्रोणं यः समरे यान्तमनुयास्यति संयुगे॥१९॥

एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि ।
एष बुद्धिमतां चैव श्रेष्ठो राजन् गुरुस्तव॥२०॥

एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु ।
जिगीषन्तो सुरान् संख्ये कार्तिकेमिवामराः॥२१॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि कर्णवाक्ये पञ्चमोऽध्यायः॥५॥
षष्ठोऽध्यायः

सञ्जय उवाच। कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा ।
सेनामध्यगतं द्रोणमिदं वचनमब्रवीत्॥१॥

कर्णस्येति ॥१॥

दुर्योधन उवाच। वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया ।
वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात्॥२॥

तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि ।
युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते॥३॥

स भवान् पातु नः सर्वान् देवानिव शतक्रतुः ।
भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम॥४॥

भवान्नेत्रं नेता येषां ते ॥४॥

रुद्राणामिव कापाली वसूनामिव पावकः ।
कुबेर इव यक्षाणां मरुतामिव वासवः॥५॥

वसिष्ठ इव विप्राणां तेजसामिव भास्करः ।
पितॄणामिव धर्मेन्द्रो यादसामिव चाम्बुराट्॥६॥

धर्मेन्द्रो यमः । अंबुराट् वरुणः ॥६॥

नक्षत्राणामिव शशी दितिजानामिवोशनाः ।
श्रेष्ठः सेनाप्रणेतॄणां स नः सेनापतिर्भव॥७॥

अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ ।
ताभिः शत्रून् प्रतिव्यूह्य जहीन्द्रो दानवानिव॥८॥

प्रयातु नो भवानग्रे देवानामिव पावकिः ।
अनुयास्यामहे त्वाजौ सौरभेया इवर्षभम्॥९॥

पावकिः स्कन्दः ॥९॥

उग्रधन्वा महेष्वासो दिव्यं विस्फारयन् धनुः ।
अग्रेभवं त्वां तु दृष्ट्वा नार्जुनः प्रहरिष्यति॥१०॥

ध्रुवं युधिष्ठिरं संख्ये सानुबन्धं सबान्धवम् ।
जेष्यामि पुरुषव्याघ्र भवान् सेनापतिर्यदि॥११॥

सञ्जय उवाच। एवमुक्ते ततो द्रोणं जयेत्यूचुर्नराधिपाः ।
सिंहनादेन महता हर्षयन्तस्तवात्मजम्॥१२॥

सैनिकाश्च मुदा युक्ता वर्धयन्ति द्विजोत्तमम् ।
दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः ।
दुर्योधनं ततो राजन् द्रोणो वचनमब्रवीत्॥१३॥

इति श्रीमहभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि द्रोणप्रोत्साहने षष्ठोऽध्यायः॥६॥
सप्तमोऽध्यायः

द्रोण उवाच। वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम् ।
त्रैय्यम्बकमथेष्वस्त्रं शस्त्राणि विविधानि च॥१॥

वेदमिति ॥१॥

ये चाप्युक्ता मयि गुणा भवद्भिर्जयकांक्षिभिः ।
चिकीर्षुस्तानहं सर्वान् योधयिष्यामि पाण्डवान्॥२॥

पार्षतं तु रणे राजन्न हनिष्ये कथंचन ।
स हि सृष्टो वधार्थाय ममैव पुरुषर्षभः॥३॥

योधयिष्यामि सैन्यानि नाशयन् सर्वसोमकान् ।
न च मां पाण्डवा युद्धे योधयिष्यन्ति हर्षिताः॥४॥

सञ्जय उवाच। स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः ।
द्रोणं तव सुतो राजन् विधिदृष्टेन कर्मणा॥५॥

अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः ।
सैनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः॥६॥

ततो वादित्रघोषेण शंखानां च महास्वनैः ।
प्रादुरासीत् कृते द्रोणे हर्षः सेनापतौ तदा॥७॥

ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च ।
संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम्॥८॥

जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा ।
सत्कृत्य विधिना द्रोणं मेनिरे पाण्डवाञ्जितान्॥९॥

सुभगानर्तितैः सौभाग्यवतीनृत्यैः ॥९॥

सञ्जय उवाच। सैनापत्यं तु संप्राप्य भारद्वाजो महारथः ।
युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह॥१०॥

सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजाः ।
दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः॥११॥

प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः ।
ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः॥१२॥

कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः ।
दुःशासनमुखा यत्ताः सव्यं पक्षमपालयन्॥१३॥

तेषां प्रपक्षाः कांबोजाः सुदक्षिणपुरःसराः ।
ययुरश्वैर्महावेगैः शकाश्च यवनैः सह॥१४॥

मद्रास्त्रिगर्ताः सांबष्ठाः प्रतीच्योदीच्यमालवाः ।
शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह॥१५॥

सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः ।
तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः॥१६॥

हर्षयन्तः स्वसैन्यानि ययुस्तव सुतैः सह ।
प्रवरः सर्वयोधानां बलेषु बलमादधत्॥१७॥

ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम् ।
तस्य दीप्तो महाकायः स्वान्यनीकानि हर्षयन्॥१८॥

हस्तिकक्ष्यो महाकेतुर्बभौ सूर्यसमद्युतिः ।
न भीष्मव्यसनं कश्चिद्दृष्ट्वा कर्णममन्यत॥१९॥

विशोकाश्चाभवन् सर्वे राजानः कुरुभिः सह ।
हृष्टाश्च बहवो योधास्तत्राजल्पन्त वेगतः॥२०॥

न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः ।
कर्णो हि समरे शक्तो जेतुं देवान् सवासवान्॥२१॥

किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् ।
भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना॥२२॥

तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यति संयुगे ।
एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशांपते॥२३॥

राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः ।
अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत्॥२४॥

परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम् ।
प्रीयमाणेन विहितो धर्मराजेन भारत॥२५॥

व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ ।
वानरध्वजमुच्छ्रित्य विष्वक्सेनधनञ्जयौ॥२६॥

ककुदं सर्वसैन्यानां धाम सर्वधनुष्मताम् ।
आदित्यपथगः केतुः पार्थस्यामिततेजसः॥२७॥

आदित्यपथगः आकाशगः ॥२७॥

दीपयामास तत् सैन्यं पाण्डवस्य महात्मनः ।
यथा प्रज्वलितः सूर्यो युगान्ते वै वसुन्धराम्॥२८॥

दीष्यन् दृश्येत हि तथा केतुः सवत्र धीमतः ।
योधानामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम्॥२९॥

वासुदेवश्च भूतानां चक्राणां च सुदर्शनम् ।
चत्वार्येतानि तेजांसि वहन् श्वेतहयो रथः॥३०॥

परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम् ।
एवं तौ सुमहात्मानौ बलसेनाग्रगावुभौ॥३१॥

तावकानां मुखे कर्णः परेषां च धनञ्जयः ।
ततो जयाभिसंरब्धौ परस्परवधैषिणौ॥३२॥

अवेक्षेतां तदाऽन्योन्यं समरे कर्णपाण्डवौ ।
ततः प्रयाते सहसा भारद्वाजे महारथे॥३३॥

आर्तनादेन घोरेण वसुधा समकम्पत ।
ततस्तुमुलमाकाशमावृणोत् सदिवाकरम्॥३४॥

वातोद्धूतं रजस्तीव्रं कौशेयनिकरोपमम् ।
ववर्ष द्यौरनभ्रापि मांसास्थिरुधिराण्युत॥३५॥

गृध्राः श्येना बकाः कङ्का वायसाश्च सहस्रशः ।
उपर्युपरि सेनां ते तदा पर्यपतन्नृप॥३६॥

गोमायवश्च प्राक्रोशन् भयदान्दारुणान् रवान् ।
अकार्षुरपसव्यं च बहुशः पृतनां तव॥३७॥

चिखादिषंतो मांसानि पिपासंतश्च शोणितम् ।
अपतद्दीप्यमाना च सनिर्घाता सकम्पना॥३८॥

उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्त्य सर्वशः ।
परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान्॥३९॥

भास्करस्याभवद्राजन् प्रयाते वाहिनीपतौ ।
एते चान्ये च बहवः प्रादुरासन् सुदारुणाः॥४०॥

उत्पाता युधि वीराणां जीवितक्षयकारिणः ।
ततः प्रववृते युद्धं परस्परवधैषिणाम्॥४१॥

कुरुपाण्डवसैन्यानां शब्देनापूरयज्जगत् ।
ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह॥४२॥

अभ्यघ्नन्निशितैः शस्त्रैर्जयगृद्धाः प्रहारिणः ।
स पाण्डवानां महतीं महेष्वासो महाद्युतिः॥४३॥

वेगेनाभ्यद्रवत्सेनां किरन् शरशतैः शितः ।
द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः॥४४॥

प्रत्यगृह्णंस्तदा राजञ्छरवर्षेः पृथक् पृथक् ।
विक्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः॥४५॥

व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः ।
बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे॥४६॥

अपीडयत् क्षणेनैव द्रोणः पाण्डवसृञ्जयान् ।
ते वध्यमाना द्रोणेन वासवेनेव दानवाः॥४७॥

पञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः ।
ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः॥४८॥

अभिनच्छरवर्षेण द्रोणानीकमनेकधा ।
द्रोणस्य शरवर्षाणि शरवर्षेण पार्षतः॥४९॥

सन्निवार्य ततः सर्वान् कुरूनप्यवधीद्बली ।
संयम्य तु ततो द्रोणः समवस्थाप्य चाहवे॥५०॥

स्वमनीकं महेष्वासः पार्षतं समुपाद्रवत् ।
स बाणवर्षं सुमहदसृजत् पार्षतं प्रति॥५१॥

मघवान् समभिक्रुद्धः सहसा दानवानिव ।
ते कंप्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः॥५२॥

पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः ।
तथा पर्यचरद्द्रोणः पाण्डवानां बले बली ।
अलातचक्रवद्राजंस्तदद्भुतमिवाभवत्॥५३॥

खचरनगरकल्पं कल्पितं शास्त्रदृष्ठ्या ।
चलदनिलपताकं ल्हादनं वल्गिताश्वम् ।
स्फटिकविमलकेतुं त्रासनं शात्रवाणाम् ।
रथवरमधिरूढः संजहारारिसेनाम्॥५४॥

ह्लादनं योद्धुरानन्दजननम् ॥५४॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि द्रोणपराक्रमे सप्तमोऽध्यायः॥७॥
अष्टमोऽध्यायः

सञ्जय उवाच। तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान् ।
व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन्॥१॥

तथेति ॥१॥

ततो युधिष्ठिरो राजा धृष्टद्युम्नधनञ्जयौ ।
अब्रवीत् सर्वतो यत्तैः कुंभयोनिर्निवार्यताम् ॥२॥

तत्रैनमर्जुनश्चैव पार्षतश्च सहानुगः ।
प्रत्यगृण्हात् ततः सर्वे समापेतुर्महारथाः॥३॥

केकया भीमसेनश्च सौभद्रोऽथ घटोत्कचः ।
युधिष्ठिरो यमौ मत्स्या द्रुपदस्यात्मजास्तथा॥४॥

द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्यकिः ।
चेकितानश्च संक्रुद्धो युयुत्सुश्च महारथः॥५॥

ये चान्ये पार्थिवा गजन् पाण्डवस्यानुयायिनः ।
कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः॥६॥

संरक्ष्यमाणां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे ।
व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत॥७॥

स तीव्रं कोपमास्थाय रथे समरदुर्जयः ।
व्यधमत् पाण्डवानीकमभ्राणीव सदागतिः॥८॥

रथानश्वान्नरान्नागानभिधावन्नितस्ततः ।
चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा॥९॥

तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः ।
आजानेया हया राजन्नविश्रान्ता ध्रुवं ययुः॥१०॥

तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम् ।
दृष्ट्वा संप्राद्रवन् योधाः पाण्डवस्य ततस्ततः॥११॥

तेषां प्राद्रवतां भीमः पुनरावर्ततामपि ।
पश्यतां तिष्ठतां चासीच्छब्दः परमदारुणः॥१२॥

भीमः शब्दः इति सम्बन्धः ॥१२॥

शूराणां हर्षजननो भीरूणां भयवर्धनः ।
द्यावापृथिव्योर्विवरं पूरयामास सर्वतः॥१३॥

ततः पुनरपि द्रोणो नाम विश्रावयन् युधि ।
अकरोद्रौद्रमात्मानं किरञ्छरशतैः परान्॥१४॥

स तथा तेष्वनीकेषु पाण्डुपुत्रस्य मारिष ।
कालवद्व्यचरद्द्रोणो युवेव स्थविरो बली॥१५॥

उत्कृत्य च शिरांस्युग्रान् बाहूनपि सुभूषणान् ।
कृत्वा शून्यान् रथोपस्थानुदक्रोशन्महारथान्॥१६॥

तस्य हर्षप्रणादेन बाणवेगेन वा विभो ।
प्राकम्पन्त रणे योधा गावः शीतार्दिता इव॥१७॥

द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च ।
धनुःशब्देन चाकाशे शब्दः समभवन्महान्॥१८॥

अथास्य धनुषो बाणा निश्चरन्तः सहस्रशः ।
व्याप्य सर्वा दिशः पेतुर्नागाश्वरथपत्तिषु॥१९॥

तं कार्मुकमहावेगमस्त्रज्वलितपावकम् ।
द्रोणमासादयांचक्रुः पञ्चालाः पाण्डवैः सह॥२०॥

तान् सकुञ्जरपत्त्यश्वान् प्राहिणोद्यमसादनम् ।
चक्रेऽचिरेण च द्रोणो महीं शोणितकर्दमाम्॥२१॥

तन्वता परमास्त्राणि शरान् सततमस्यता ।
द्रोणेन विहितं दिक्षु शरजालमदृश्यत॥२२॥

पदातिषु रथाश्वेषु वारणेषु च सर्वशः ।
तस्य विद्युदिवाभ्रेषु चरन् केतुरदृश्यत॥२३॥

सकेकयानां प्रवरांश्च पञ्च पञ्चालराजं च शरैः प्रमथ्य ।
युधिष्ठिरानीकमदीनसत्त्वो द्रोणोऽभ्ययात् कार्मुकबाणपाणिः॥२४॥

तं भीमसेनश्च धनञ्जयश्च शिनेश्च नप्ता द्रुपदात्मजश्च ।
शैब्यात्मजः काशिपतिः शिबिश्च दृष्ट्वा नदन्तो व्यकिरञ्छरौघैः॥२५॥

तेषामथ द्रोणधनुर्विमुक्ताः पतत्रिणः काञ्चनचित्रपुङ्खाः ।
भित्त्वा शरीराणि गजाश्वयूनां जग्मुर्महीं शोणितदिग्धवाजाः॥२६॥

सा योधसङ्घैश्च रथैश्च भूमिः शरैर्विभिन्नैर्गजवाजिभिश्च ।
प्रच्छाद्यमाना पतितैर्बभूव समावृता द्यौरिव कालमेघैः॥२७॥

शैनेयभीमार्जुनवाहिनीशं सौभद्रपाञ्चालसकाशिराजम् ।
अन्यांश्च वीरान् समरे ममर्द द्रोणः सुतानां तव भूतिकामः॥२८॥

एतानि चान्यानि च कौरवेन्द्र कर्माणि कृत्वा समरे महात्मा ।
प्रताप्य लोकानिव कालसूर्यो द्रोणो गतः स्वर्गमितो हि राजन्॥२९॥

एवं रुक्मरथः शूरो हत्वा शतसहस्रशः ।
पाण्डवानां रणे योधान् पार्षतेन निपातितः॥३०॥

अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम् ।
निहत्य पश्चाद्धृतिमानगच्छत् परमां गतिम्॥३१॥

पाण्डवैः सह पञ्चालैरशिवैः क्रूरकर्मभिः ।
हतो रुक्मरथो राजन् कृत्वा कर्म सुदुष्करम्॥३२॥

ततो निनादो भूतानामाकाशे समजायत ।
सैन्यानां च ततो राजन्नाचार्ये निहते युधि॥३३॥

द्यां धरां खं दिशो वापि प्रदिशश्चानुनादयन् ।
अहो धिगिति भूतानां शब्दः समभवद्भृशम्॥३४॥

देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः ।
ददृशुर्निहतं तत्र भारद्वाजं महारथम्॥३५॥

पांडवास्तु जयं लब्ध्वा सिंहनादान् प्रचक्रिरे ।
सिंहनादेन महता समकम्पत मेदिनी॥३६॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि द्रोणवधश्रवणे अष्टमोऽध्यायः॥८॥
नवमोऽध्यायः

धृतराष्ट्र उवाच। किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः ।
तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि॥१॥

किं कुर्वाणमिति ॥१॥

रथभङ्गो बभूवास्य धनुर्वाशीर्यतास्यतः ।
प्रमत्तो वाऽभवद्द्रोणस्ततो मृत्युमुपेयिवान्॥२॥

अस्यतः शरानिति शेषः ॥२॥

कथं तु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम् ।
किरन्तभिषुसङ्घातान् रुक्मपुंखाननेकशः॥३॥

क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् ।
दूरेषुपातिनं दान्तमस्त्रयुद्धेषु पारगम्॥४॥

पाञ्चालपुत्रो न्यवधीद्दिव्यास्त्रधरमच्युतम् ।
कुर्वाणं दारुणं कर्म रणे यत्तं महारथम्॥५॥

व्यक्तं हि दैवं बलवत्पौरुषादिति मे मतिः ।
यद्द्रोणो निहतः शूरः पार्षतेन महात्मना॥६॥

अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत् प्रतिष्ठितम् ।
तमिष्वस्त्रधराचार्यं द्रोणं शंससि मे हतम्॥७॥

इष्वस्त्रधराचार्यं धनुर्धराचार्यम् ॥७॥

श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारितम् ।
जातरूपपरिष्कारं नाद्य शोकसुपाददे॥८॥

न नूनं परदुःखेन म्रियते कोऽपि सञ्जय ।
यत्र द्रोणमहं श्रुत्वा हतं जीवामि मन्दधीः॥९॥

दैवमेव परं मन्ये नन्वनर्थं हि पौरुषम् ।
अश्मसारमयं नूनं हृदयं सुदृढं मम॥१०॥

अश्मसारो लोहम् ॥१०॥

यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते ।
ब्राह्मे दैवे तथेष्वस्त्रे यमुपासन् गुणार्थिनः॥११॥

विसर्पणं क्षेपणम् ॥११॥

ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हृतः ।
शोषणं सागरस्येव मेरोरिव विसर्पणम्॥१२॥

पतनं भास्करस्येव न मृष्ये द्रोणपातनम् ।
दुष्टानां प्रतिषेद्धासीद्धार्मिकाणां च रक्षिता॥१३॥

योऽहासीत् कृपणर्स्योथ प्राणानपि परंतपः ।
मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे॥१४॥

बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् ।
ते च शोणा बृहन्तोऽश्वाश्छन्ना जालैर्हिरण्मयैः॥१५॥

रथे वातजवायुक्ताः सर्वशस्त्रातिगा रणे ।
बलिनो ह्रेषिणो दान्ताः सैन्धवाः साधुवाहिनः॥१६॥

बलिनस्तेजस्विनः ॥१६॥

दृढाः संग्राममध्येषु कच्चिदासन्न विह्वलाः ।
करिणां बृंहतां युद्धे शंखदुन्दुभिनिःस्वनैः॥१७॥

ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः ।
आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः॥१८॥

हयाः पराजिताः शीघ्रा भारद्वाजरथोद्वहाः ।
ते स्म रुक्मरथे युक्ता नरवीरसमाहताः॥१९॥

कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् ।
जातरूपपरिष्कारमास्थाय रथमुत्तमम्॥२०॥

भारद्वाजः किमकरोद्युधि सत्यपराक्रमः ।
विद्यां यस्योपजीवन्ति सर्वलोकधनुर्धराः॥२१॥

स सत्यसन्धो बलवान् द्रोणः किमकरोद्युधि ।
दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम्॥२२॥

महामात्रं प्रधानम् ॥२२॥

के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः ।
ननु रुक्मरथं दृष्ट्वा प्राद्रवन्ति स्म पाण्डवाः॥२३॥

दिव्यमस्त्रं विकुर्वाणं रणे तस्मिन्महाबलम् ।
उताहो सर्वसैन्येन धर्मराजः सहानुजः॥२४॥

पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत् ।
नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः॥२५॥

पाञ्चाल्यप्रग्रहः पाञ्चाल्यः प्रग्रहो बन्धनरज्जुर्यस्य ॥२५॥

ततो द्रोणं समारोहत् पार्षतः पापकर्मकृत् ।
न ह्यहं परिपश्यामि वधे कञ्चन शुष्मिणः॥२६॥

शुष्मिणस्तेजस्विनः ॥२६॥

धृष्टद्युम्नादृते रौद्रात् पाल्यमानात् किरीटिना ।
तैर्वृतः सर्वतः शूरः पाञ्चाल्यापसदस्ततः॥२७॥

अपसदोऽधमः ॥२७॥

केकयैश्चेदिकारूपैर्मत्स्यैरन्यैश्च भूमिपैः ।
व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा॥२८॥

कर्मण्यसुकरे सक्तं जघानेति मतिर्मम ।
योऽधीत्य चतुरो वेदान् साङ्गानाख्यानपञ्चमान्॥२९॥

आख्यानं पुराणभारतादि ॥२९॥

ब्राह्मणानां प्रतिष्ठासीत् स्रोतसामिव सागरः ।
क्षत्रं च ब्रह्म चैवेह योऽभ्यतिष्ठत् परंतपः॥३०॥

स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् ।
अमर्षिणा मर्पितवान् क्लिश्यमानान्सदा मया॥३१॥

अनर्हमाणान् कौन्तेयान् कर्मणस्तस्य तत् फलम् ।
यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः॥३२॥

स सत्यसन्धः सुकृती श्रीकामौर्निहतः कथम् ।
दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः॥३३॥

स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः ।
क्षिप्रहस्तश्च बलवान् दृढधन्वाऽरिमर्दनः॥३४॥

न यस्य विजयाकांक्षी विषयं प्राप्य जीवति ।
यं द्वौ न जहतः शब्दौ जीवमानं कदाचन॥३५॥

ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुष्मताम् ।
अदीनं पुरुषव्याघ्रं ह्रीमन्तमपराजितम्॥३६॥

नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम् ।
कथं सञ्जय दुर्धर्षमनाधृष्ययशोबलम्॥३७॥

पश्यतां पुरुषेन्द्राणां समरे पार्षतोऽवधीत् ।
के पुरस्तादयुध्यन्त रक्षन्तो द्रोणमन्तिकात्॥३८॥

के तु पश्चादवर्तन्त गच्छतो दुर्गमां गतिम् ।
केऽरक्षन् दक्षिणं चक्रं सव्यं के च महात्मनः॥३९॥

पुरस्तात् के च वीरस्य युध्यमानस्य संयुगे ।
के च तस्मिंस्तनूंस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन्॥४०॥

द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् ।
कच्चिन्नैनं भयान्मन्दाः क्षत्रिया व्यजहन् रणे॥४१॥

रक्षितारस्ततः शून्ये कश्चित्तैर्न हतः परैः ।
न स पृष्ठमरेस्त्रासाद्रणे शौर्यात् प्रदर्शयेत्॥४२॥

परामप्यापदं प्राप्य स कथं निहतः परैः ।
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय॥४३॥

पराक्रमेद्यथाशक्त्या तच्च तस्मिन् प्रतिष्ठितम् ।
मुह्यते मे मनस्तात कथा तावन्निवार्यताम्॥४४॥

भूयस्तु लब्धसंज्ञस्त्वां परिपृच्छामि सञ्जय॥४५॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि धृतराष्ट्रशोके नवमोऽध्यायः॥९॥
दशमोऽध्यायः

वैशम्पायन उवाच। एतत् पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम् ।
जये निराशः पुत्राणां धृतराष्ट्रोऽपतत् क्षितौ॥१॥

एतदिति ॥१॥

तं विसंज्ञं निपतितं सिषिचुः परिचारिकाः ।
जलेनात्यर्थशीतेन वीजन्त्यः पुण्यगन्धिना ॥२॥

पतितं चैनमालोक्य समन्ताद्भरतस्त्रियः ।
परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः॥३॥

उत्थाप्य चैनं शनकै राजानं पृथिवीतलात् ।
आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराननाः ॥४॥

आसनं प्राप्य राजा तु मूर्छयाऽभिपरिप्लुतः ।
निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः॥५॥

स लब्ध्वा शनकैः संज्ञां वेपमानो महीपतिः ।
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥६॥

धृतराष्ट्र उवाच। यः स उद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः ।
अजातशत्रुमायान्तं कस्तं द्रोणादवारयत् ॥७॥

सः प्रसिद्धः तमजातशत्रुम् आयान्तं दृष्ट्वा द्रोणात् कः अवारयदित्यन्वयः । सार्धश्लोकद्वयमेकं वाक्यम् ॥७॥

प्रभिन्नमिव मातङ्गं यथा क्रुद्धं तरस्विनम् ।
प्रसन्नवदनं दृष्ट्वा प्रतिद्विरदगामिनम् ॥८॥

वासितासंगमे यद्वदजय्यं प्रति यूथपैः ।
निजघान रणे वीरान् वीरः पुरुषसत्तमः ॥९॥

यो ह्येको हि महावीर्यो निर्दहेद्धोरचक्षुषा ।
कृत्स्नं दुर्योधनबलं धृतिमान् सत्यसंगरः॥१०॥

चक्षुर्हणं जये सक्तमिष्वासधरमच्युतम् ।
दान्तं बहुमतं लोके के शूराः पर्यवारयन्॥११॥

के दुष्प्रधर्षं राजानमिष्वासधरमच्युतम् ।
समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः॥१२॥

तरसैवाभिपद्याथ यो वै द्रोणमुपाद्रवत् ।
यः करोति महत् कर्म शत्रूणां वै महाबलः॥१२॥

महाकायो महोत्साहो नागायुतसमो बले ।
तं भीमसेनमायान्तं के शूराः पर्यवारयन्॥१३॥

यदा अयात् यदा च दुर्योधनपुरोगमान् गार्ध्रपत्रैरभ्यषिञ्चत्तदा वो मनः कीदृशमभूदिति षष्ठेनान्वयः ॥१३॥

यदाऽऽयाज्जलदप्रख्यो रथः परमवीर्यवान् ।
पर्जन्य इव बीभत्सुस्तुमुलामशनीं सृजन्॥१४॥

विसृजञ्छरजालानि वर्षाणि मघवानिव ।
अवस्फूर्जन् दिशः सर्वास्तलनेमिस्वनेन च॥१५॥

चापविद्युत्प्रभो घोरो रथगुल्मचलाहकः ।
स नेमिघोषस्तनितः शरशब्दातिबन्धुरः॥१६॥

रोषनिर्जितजीमूतो मनोभिप्रायशीघ्रगः ।
मर्मातिगो बाणधरस्तुमुलः शोणितोदकैः॥१७॥

संप्लावयन् दिशः सर्वा मानवैरास्तरन् महीम् ।
भीमनिः स्वनितो रौद्रो दुर्योधनपुरोगमान्॥१८॥

युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः ।
गाण्डीवं धारयन् धीमान् कीदृशं वो मनस्तदा॥१९॥

इषुसंबाधमाकाशं कुर्वन् कपिवरध्वजः ।
यदायात् कथमासीत् तदा पार्थं समीक्षताम्॥२०॥

कच्चिद्गाण्डीवशब्देन न प्रणश्यति वै बलम् ।
यद्वः सभैरवं कुर्वन्नर्जुनो भृशमन्वयात्॥२२॥

कच्चिन्नापानुदत् प्राणानिषुभिर्वो धनञ्जयः ।
वातो वेगादिवाविध्यन्मेघान् शरगणैर्नृपान्॥२३॥

को हि गाण्डीवधन्वानं रणे सोढुं नरोऽर्हति ।
यमुपश्रुत्य सेनाग्रे जनः सर्वो विदीर्यते ॥२४॥

यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम् ।
के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन् भयात्॥२५॥

के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन् ।
अमानुषाणां जेतारं युद्धेष्वपि धनञ्जयम्॥२६॥

न च वेगं सिताश्वस्य विसहिष्यन्ति मामकाः ।
गाण्डीवस्य च निर्घोषं प्रावृड्जलदनिःस्वनम्॥२७॥

विष्वक्सेनो यस्य यन्ता यस्य योद्धा धनञ्जयः ।
अशक्यः स रथो जेतुं मन्ये देवासुरैरपि॥२८॥

सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः ।
मेधावी निपुणो धीमान् युधि सत्यपराक्रमः॥२९॥

आरावं विपुलं कुर्वन् व्यथयन् सर्वसैनिकान् ।
यदाऽऽयान्नकुलो द्रोणं के शूराः पर्यवारयन्॥३०॥

आशीविष इव क्रुद्धः सहदेवो यदाभ्ययात् ।
कदनं करिष्यन् शत्रूणां तेजसा दुर्जयो युधि॥३१॥

आर्यव्रतममोघेषुं ह्रीमन्तमपराजितम् ।
सहदेवं तमायान्तं के शूराः पर्यवारयन्॥३२॥

यस्तु सौवीरराजस्य प्रमथ्य महतीं चमूम् ।
आदत्त महिषीं भोजां काम्यां सर्वाङ्गशोभनाम्॥३३॥

सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम् ।
सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे॥३४॥

युयुधाने सात्यकौ ॥३४॥

बलिनं सत्यकर्माणमदीनमपराजितम् ।
वासुदेवसमं युद्धे वासुदेवादनन्तरम्॥३५॥

धनञ्जयोपदेशेन श्रेष्ठमिष्वस्त्रकर्मणि ।
पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत्॥३६॥

वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम् ।
रामेण सममस्त्रेषु यशसा विक्रमेण च॥३७॥

सत्यं धृतिर्मतिः शौर्यं ब्राह्मं चास्त्रमनुत्तमम् ।
सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे॥३८॥

सात्वते सात्यकौ ॥३८॥

तमेवंगुणसम्पन्नं दुर्वारमपि दैवतैः ।
समासाद्य महेष्वासं के शूराः पर्यवारयन्॥३९॥

पञ्चालेषूत्तमं वीरमुत्तमाभिजनप्रियम् ।
नित्यमुत्तमकर्माणमुत्तमौजसमाहवे॥४०॥

युक्तं धनञ्जयहिते ममानर्थार्थमुत्थितम् ।
त्यजन्तं तुमुले प्राणान् के शूराः समवारयन्॥४२॥

एकोपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः ।
धृष्टकेतुं समायान्तं द्रोणं कस्तं न्यवारयत्॥४३॥

योऽवधीत् केतुमान् वीरो राजपुत्रं दुरासदम् ।
अपरान्तगिरिद्वारे द्रोणात् कस्तं न्यवारयत्॥४४॥

स्त्रीपुंसयोर्नरव्याघ्रो यः स वेद गुणागुणान् ।
शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि॥४५॥

देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः ।
द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन्॥४६॥

यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनञ्जयात् ।
यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च सर्वदा॥४७॥

वासुदेवसमं वीर्ये धनञ्जयसमं बले ।
तेजसाऽऽदित्यसदृशं बृहस्पतिसमं मतौ॥४८॥

अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम् ।
द्रोणायाभिमुखं यान्तं के शूराः समवारयन्॥४९॥

तरुणस्तरुणप्रज्ञः सौभद्रः परवीरहा ।
यदाभ्यधावद्वै द्रोणं तदासीद्वो मनः कथम्॥५०॥

द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः ।
यद्द्रोणमाद्रवन् संख्ये के शूरास्तान्यवारयन्॥५१॥

एते द्वादश वर्षाणि क्रीडामुत्सृज्य बालकाः ।
अस्त्रार्थमवसन् भीष्मे बिभ्रतो व्रतमुत्तमम्॥५२॥

क्षत्रंजयः क्षत्रदेवः क्षत्रवर्मा च मानदः ।
धृष्टद्युम्नात्मजा वीराः के तान् द्रोणादवारयन्॥५३॥

शताद्विशिष्टं यं युद्धे सममन्यन्त वृष्णयः ।
चेकितानं महेष्वासं कस्तं द्रोणादवारयत्॥५४॥

वार्धक्षेभिः कलिङ्गानां यः कन्यामाहरद्युधि ।
अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत्॥५५॥

भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः ।
इन्द्रगोपकसङ्काशा रक्तवर्मायुधध्वजाः॥५६॥

मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः ।
तान् द्रोणं हन्तुमायातान् के वीराः पर्यवारयन्॥५७॥

यं योधयन्तो राजानो नाजयन् वारणावते ।
षण्मासानपि संरब्धा जिघांसन्तो युधांपतिम्॥५८॥

धनुष्मतां वरं शूरं सत्यसन्धं महाबलम् ।
द्रोणात् कस्तं नरव्याघ्रं युयुत्सुं पर्यवारयत्॥५९॥

यः पुत्रं काशिराजस्य वाराणस्यां महारथम् ।
समरे स्त्रीषु गृध्यन्तं भल्लेनापाहरद्रथात्॥६०॥

धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम् ।
युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च॥६१॥

निर्दहन्तं रणे योधान् दारयन्तं च सर्वतः ।
द्रोणाभिमुखमायान्तं के शूराः पर्यवारयन्॥६२॥

उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम् ।
शैखण्डिनं शस्त्रगुप्तं के च द्रोणादवारयन्॥६३॥

य इमां पृथिवीं कृत्स्नां चर्मवत् समवेष्टयत् ।
महता रथघोषेण मुख्यारिघ्नो महारथः॥६४॥

दशाश्वमेधानाजह्रे स्वन्नपानाप्तदाक्षिणान् ।
निरर्गलान्सर्वमेधान् पुत्रवत् पालयन् प्रजाः॥६५॥

गङ्गास्रोतसि यावत्यः सिकता अप्यशेषतः ।
तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे॥६६॥

न पूर्वे नापरे चक्रुरिदं केचन मानवाः ।
इतीदं चुक्रुशुर्देवाः कृते कर्मणि दुष्करे॥६७॥

पश्यामस्त्रिषु लोकेषु न तं सं स्थास्नुचारिषु ।
जातं चापि जनिष्यन्तं द्वितीयं चापि सांप्रतम्॥६८॥

स्थास्नुचारिषु स्थावरजङ्गमात्मकेषु समित्यस्य व्यवहितेन पश्याम इत्यनेन सम्बन्धः ॥६८॥

अन्यमौशीनराच्छैब्याद्धुरो वोढारमित्युत ।
गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः॥६९॥

तस्य नप्तारमायान्तं शैब्यं कः समवारयत् ।
द्रोणायाभिमुखं यत्तं व्यात्ताननमिवान्तकम्॥७०॥

विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः ।
प्रेप्सन्तं सुमरे द्रोणं के वीराः पर्यवारयन्॥७१॥

सद्यो वृकोदराज्जातो महाबलपराक्रमः ।
मायावी राक्षसो वीरो यस्मान्मम महद्भयम्॥७२॥

पार्थानां जयकामं तं पुत्राणां मम कण्टकम् ।
घटोत्कचं महात्मानं कस्तं द्रोणादवारयत्॥७३॥

एते चान्ये च बहवो येषामर्थाय सञ्जय ।
त्यक्तारः संयुगे प्राणान् किं तेषामजितं युधि॥७४॥

येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः ।
हितार्थी चापि पार्थानां कथं तेषां पराजयः॥७५॥

लोकानां गुरुरत्यर्थं लोकनाथः सनातनः ।
नारायणो रणे नाथो दिव्यो दिव्यात्मकः प्रभुः॥७६॥

यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः ।
तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः॥७७॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि धृतराष्ट्रवाक्ये दशमोऽध्यायः॥१०॥
एकादशोऽध्यायः

धृतराष्ट्र उवाच। शृणु दिव्यानि कर्माणि वासुदेवस्य सञ्जय ।
कृतवान्यानि गोविन्दो यथा नान्यः पुमान् क्वचित्॥१॥

शृण्विति ॥१॥

संवर्धता गोपकुले बालेनैव महात्मना ।
विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु सञ्जय॥२॥

उच्चैःश्रवस्तुल्यबलं वायुवेगसमं जवे ।
जघान हयराजं तं यमुनावनवासिनम्॥३॥

हयराजं केशिनम् ॥३॥

दानवं घोरकर्माणं गवां मृत्युमिवोत्थितम् ।
वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह॥४॥

प्रलम्बं नरकं जम्भं पीठं चापि महासुरम् ।
मुरुं चान्तकसङ्काशमवधीत् पुष्करेक्षणः॥५॥

तथा कंसो महातेजा जरासन्धेन पालितः ।
विक्रमेणैव कृष्णेन सगणः पातितो रणे॥६॥

विक्रमेणैव अस्रं विना ॥६॥

सुनामा रणविक्रान्तः समग्राक्षौहिणीपतिः ।
भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् ॥७॥

बलदेवद्वितीयेन कृष्णेनामित्रघातिना ।
तरस्वी समरे दग्धः ससैन्यः शूरसेनराट्॥८॥

दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः ।
आराधितः सदारेण स चास्मै प्रददौ वरान्॥९॥

तथा गान्धारराजस्य सुतां वीरः स्वयंवरे ।
निर्जित्य पृथिवीपालानावहत् पुष्करेक्षणः॥१०॥

अमृष्यमाणा राजानो यस्य जात्या हया इव ।
रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः॥११॥

जरासन्धं महाबाहुमुपायेन जनार्दनः ।
परेण घातयामास समग्राक्षौहिणीपतिम्॥१२॥

परेण भीमेन ॥१२॥

चेदिराजं च विक्रान्तं राजसेनापतिं बली ।
अर्घे विवदमानं च जघान पशुवत् तदा॥१३॥

सौभं दैत्यपुरं स्वस्थं शाल्वगुप्तं दुरासदम् ।
समुद्रकुक्षौ विक्रम्य पातयामास माधवः॥१४॥

अङ्गान् वङ्गान् कलिङ्गांश्च मागधान् काशिकोसलान् ।
वात्स्यगार्ग्यकरूषांश्च पौण्ड्रांश्चाप्यजयद्रणे॥१५॥

आवन्त्यान् दाक्षिणात्यांश्च पार्वतीयान् दशेरकान् ।
काश्मीरकानौरसिकान् पिशाचांश्च समुद्गलान्॥१६॥

काम्बोजान् वाटधानांश्च चोलान् पाण्ड्यांश्च सञ्जय ।
त्रिगर्तान् मालवांश्चैव दरदांश्च सुदुर्जयान्॥१७॥

नानादिग्भ्यश्च संप्राप्तान् खशांश्चैव शकांस्तथा ।
जितवान् पुण्डरीकाक्षो यवनं च सहानुगम्॥१८॥

प्रविश्य मकरावासं यादोगणनिषेवितम् ।
जिगाय वरुणं संख्ये सलिलान्तर्गतं पुरा॥१९॥

युधि पञ्चजनं हत्वा दैत्यं पातालवासिनम् ।
पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान्॥२०॥

खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम् ।
आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः॥२१॥

वैनतेयं समारुह्य त्रासयित्वाऽमरावतीम् ।
महेन्द्रभवनाद्वीरः पारिजातमुपानयत् ॥२२॥

तच्च मर्षितवान् शक्रो जानंस्तस्य पराक्रमम् ।
राज्ञां चाप्यजितं कञ्चित् कृष्णेनेह न शुश्रुम॥२३॥

यच्च तन्महदाश्चर्यं सभायां मम सञ्जय ।
कृतवान् पुण्डरीकाक्षः कस्तदन्य इहार्हति॥२४॥

यच्च भक्त्या प्रसन्नोऽहमद्राक्षं कृष्णमीश्वरम् ।
तन्मे सुविदितं सर्वे प्रत्यक्षमिव चागमम्॥२५॥

नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः ।
कर्मणां शक्यते गन्तुं हृषीकेशस्य सञ्जय॥२६॥

तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः ।
अगावहो निरुद्धश्च चारुदेष्णः ससारणः॥२७॥

उल्मुको निशठश्चैव झिल्लीबभ्रुश्च वीर्यवान् ।
पृथुश्च विपृथुश्चैव शमीकोऽथारिमेजयः॥२८॥

एतेऽन्ये बलवन्तश्च वृष्णिवीराः प्रहारिणः ।
कथञ्चित् पाण्डवानीकं श्रयेयुः समरे स्थिताः॥२९॥

आहूता वृष्णिवीरेण केशवेन महात्मना ।
ततः संशयितं सर्वं भवेदिति मतिर्मम॥३०॥

नागायुतबलो वीरः कैलासशिखरोपमः ।
वनमाली हली रामस्तत्र यत्र जनार्दनः ॥३१॥

यमाहुः सर्वपितरं वासुदेवं द्विजातयः ।
अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय सञ्जय॥३२॥

स यदा तात संनह्येत् पाण्डवार्थाय सञ्जय ।
न तदा प्रतिसंयोद्धा भविता तत्र कश्चन ॥३३॥

यदि स्म कुरवः सर्वे जयेयुर्नाम पाण्डवान् ।
वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम्॥३४॥

ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन् रणे ।
कौरवांश्च महाबाहुः कुन्त्यै दद्यात् स मेदिनीम्॥३५॥

यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः ।
रथस्य तस्य कः संख्ये प्रत्यनीको भवेद्रथः॥३६॥

न केनचिदुपायेन कुरूणां दृश्यते जयः ।
तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत॥३७॥

अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः ।
अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती॥३८॥

सर्वेष्वपि च लोकेषु वीभत्सुरपराजितः ।
प्राधान्येनैव भूयिष्ठममेयाः केशवे गुणाः॥३९॥

मोहाद्दुर्योधनः कृष्णं यो न वेत्तीह केशवम् ।
मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः॥४०॥

न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम् ।
पूर्वदेवौ महात्मानौ नरनारायणावुभौ॥४१॥

एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि ।
मनसाऽपि हि दुर्धर्षौ सेनामेतां यशस्विनौ॥४२॥

नाशयेतामिहेच्छन्तौ मानुषत्वाच्च नेच्छतः ।
युगस्येव विपर्यासो लोकानामिव मोहनम्॥४३॥

भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः ।
न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च॥४४॥

न क्रियाभिर्न चास्त्रेण मृत्योः कश्चिन्निवार्यते ।
लोकसंभावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ॥४५॥

भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि सञ्जय ।
यां तां श्रियमसूयामः पुरा दृष्ट्वा युधिष्ठिरे॥४६॥

अद्य तामनुजानीमो भीष्मद्रोणवधेन ह ।
मत्कृते चाप्यनुप्राप्तः कुरूणामेष संक्षयः॥४७॥

पक्वानां हि वधे सूत वज्रायन्ते तृणान्युत ।
अनन्तमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः॥४८॥

यस्य कोपान्महात्मानौ भीष्मद्रोणौ निपातितौ ।
प्राप्तः प्रकृतितो धर्मो न धर्मो मामकान् प्रति॥४९॥

क्रूरः सर्वविनाशाय कालोऽसौ नातिवर्तते ।
अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः॥५०॥

अन्यथैव प्रपद्यन्ते दैवादिति मतिर्मम ।
तस्मादपरिहार्येऽर्थे संप्राप्ते कृच्छ्र उत्तमे ।
अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे॥५१॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि धृतराष्ट्रविलापे एकादशोऽध्यायः॥११॥
द्वादशोऽध्यायः

सञ्जय उवाच। हन्त ते कथयिष्यामि सर्व प्रत्यक्षदर्शिवान् ।
यथा स न्यपतद्द्रोणः सूदितः पाण्डुसृञ्जयै॥१॥

हन्तेति ॥१॥

सेनापतित्वं संप्राप्य भारद्वाजो महारथः ।
मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत्॥२॥

यत् कौरवाणामृषभादापगेयादनन्तरम् ।
सैनापत्येन यद्राजन् मामद्य कृतवानसि॥३॥

सदृशं कर्मणस्तस्य फलं प्राप्नुहि भारत ।
करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि॥४॥

ततो दुर्योधनो राजा कर्णदुःशासनादिभिः ।
संमन्त्र्योवाच दुर्धर्षमाचार्यं जयतां वरम्॥५॥

ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम् ।
गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय॥६॥

ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः ।
सेनां प्रहर्षयन् सर्वामिदं वचनमब्रवीत्॥७॥

धन्यः कुन्तीसुतो राजन् यस्य ग्रहणमिच्छसि ।
न वधार्थं सुदुर्धर्षं वरमद्य प्रयाचसे॥८॥

किमर्थं च नरव्याघ्र न वधं तस्य कांक्षसे ।
नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम्॥९॥

एतां वधरूपां क्रियां मत्तो नाशंससि न संभावयसि ॥९॥

आहोस्वित् धर्मराजस्य द्वेष्टा तस्य न विद्यते ।
यदीच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनः॥१०॥

अथवा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान् ।
राज्यं संप्रति दत्त्वा च सौभ्रात्रं कर्तुमिच्छसि॥११॥

धन्यः कुन्तीसुतो राजा सुजातं चास्य धीमतः ।
अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान्॥१२॥

सुजातं शोभनं जन्म ॥१२॥

द्रोणेन चैवमुक्तस्य तव पुत्रस्य भारत ।
सहसा निःसृतो भावो योऽस्य नित्यं हृदि स्थितः॥१३॥

नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि ।
तस्मात्तव सुतो राजन् प्रहृष्टो वाक्यमब्रवीत्॥१४॥

वधे कुन्तिसुतस्याजौ नाचार्य विजयो मम ।
हते युधिष्ठिरे पार्था हन्युः सर्वान् हि नो ध्रुवम्॥१५॥

न च शक्या रणे सर्वे निहन्तुममरैरपि ।
य एव तेषां शेषः स्यात्स एवास्मान्न शेषयेत्॥१६॥

सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते ।
पुनर्यास्यन्त्यरण्याय पाण्डवास्तमनुव्रताः॥१७॥

सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति ।
अतो न वधमिच्छामि धर्मराजस्य कर्हिचित्॥१८॥

व्यक्तं नियतम् ॥१८॥

तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोर्थतत्त्ववित् ।
तं वरं सान्तरं तस्मै ददौ सञ्चिन्त्य बुद्धिमान्॥१९॥

द्रोण उवाच। न चेद्युधिष्ठिरं वीरः पालयत्यर्जुनो युधि ।
मन्यस्व पाण्डवश्रेष्ठमानीतं वशमात्मनः॥२०॥

न हि शक्यो रणे पांथः सेन्द्रैर्देवासुरैरपि ।
प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम्॥२१॥

आमर्षयामि उत्सहे ॥२१॥

असंशयं स मे शिष्यो मत्पूर्वश्चास्त्रकर्मणि ।
तरुणः सुकृतैर्युक्त एकायनगतश्च ह॥२२॥

मत्पूर्वः अहं पूर्वो गुरुर्यस्य एकायनगतः जयमरणान्यतरनिश्चयवान् ॥२२॥

अस्त्राणीन्द्राच्च रुद्राच्च भूयः स समवाप्तवान् ।
अमर्षितश्च ते राजंस्ततो नामर्षयाम्यहम्॥२३॥

स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते ।
अपनीते ततः पार्थे धर्मराजो जितस्त्वया॥२४॥

ग्रहणे हि जयस्तस्य न वधे पुरुषर्षभ ।
एतेन चाप्युपायेन ग्रहणं समुपैष्यसि॥२५॥

अहं गृहीत्वा राजानं सत्यधर्मपरायणम् ।
आनयिष्यामि ते राजन् वशमद्य न संशयः॥२६॥

यदि स्थास्यति संग्रामे मुहूर्तमपि मेऽग्रतः ।
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनञ्जये॥२७॥

फाल्गुनस्य समीपे तु न हि शक्यो युधिष्ठिरः ।
ग्रहीतुं समरे राजन् सेन्द्रैरपि सुरासुरैः॥२८॥

सञ्जय उवाच। सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे ।
गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः॥२९॥

पाण्डवेयेषु साक्षेपं द्रोणं जानाति ते सुतः ।
ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः॥३०॥

बहुलीकृतः प्रतिज्ञां न त्यजेदिति बहुषु प्रकाशितः ॥३०॥

ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् ।
सैन्यस्थानेषु सर्वेषु सुघोषितमरिन्दम॥३१॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि द्रोणप्रतिज्ञायां द्वादशोऽध्यायः॥१२॥
त्रयोदशोऽध्यायः

सञ्जय उवाच। सान्तरे तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे ।
ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम्॥१॥

सान्तरे इति ॥१॥

सिंहनादरवांश्चक्रुबार्हुशब्दांश्च कृत्स्नशः ।
तच्च सर्वं यथान्यायं धर्मराजेन भारत॥२॥

आप्तैराशु परिज्ञातं भारद्वाजचिकीर्षितम् ।
ततः सर्वान् समानाय्य भ्रातॄनन्यांश्च सर्वशः॥३॥

अब्रवीद्धर्मराजस्तु धनञ्जयमिदं वचः ।
श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम्॥४॥

यथा तन्न भवेत् सत्यं तथा नीतिर्विधीयताम् ।
सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रकार्षिणा॥५॥

तच्चान्तरं महेष्वास त्वयि तेन समाहितम् ।
स त्वमद्य महाबाहो युध्यस्व मदनन्तरम् ॥६॥

यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात् ।
अर्जुन उवाच। यथा मे न वधः कार्य आचार्यस्य कदाचन॥७॥

तथा तव परित्यागो न मे राजंश्चिकीर्षितः ।
अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि॥८॥

प्रतीपो नाहमाचार्ये भवेयं वै कथञ्चन ।
त्वां निगृह्याहवे राज्यं धार्तराष्ट्रोऽयमिच्छति॥९॥

न स तं जीवलोकेऽस्मिन् कामं प्राप्येत् कथञ्चन ।
प्रपतेत् द्यौः सनक्षत्रा पृथिवी शकली भवेत्॥१०॥

न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम् ।
यदि तस्य रणे साह्यं कुरुते वज्रभृत् स्वयम्॥११॥

विष्णुर्वा सहितो देवैर्न त्वां प्राप्स्यत्यसौ मृधे ।
मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि॥१२॥

द्रोणादस्त्रभृतां श्रेष्ठात् सर्वशस्त्रभृतामपि ।
अन्यच्च ब्रूयां राजेन्द्र प्रतिज्ञां मम निश्चलाम्॥१३॥

न स्मराम्यनृतं तावन्न स्मरामि पराजयम् ।
न स्मरामि प्रतिश्रुत्य किञ्चिदप्यनृतं कृतम्॥१४॥

सञ्जय उवाच। ततः शंखाश्च भेर्यश्च मृदंगाश्चानकैः सह ।
प्रावाद्यन्त महाराज पाण्डवानां निवेशने॥१५॥

सिंहनादश्च सञ्जज्ञे पाण्डवानां महात्मनाम् ।
धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः॥१६॥

श्रुत्वा शंखस्य निर्घोषं पाण्डवस्य महौजसः ।
त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे॥१७॥

ततो व्यूढान्यनीकानि तव तेषां च भारत ।
शनैरुपेयुरन्योन्यं योध्यमानानि संयुगे॥१८॥

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।
पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि॥१९॥

यतमानाः प्रयत्नेन द्रोणानीकविशातने ।
न शेकुः सृञ्जया युद्धे तद्धि द्रोणेन पालितम्॥२०॥

तथैव तव पुत्रस्य रथोदाराः प्रहारिणः ।
न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना॥२१॥

आस्तां ते स्तिमिते सेने रक्षमाणे परस्परम् ।
संप्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते ॥२२॥

संप्रसुप्ते कृतपत्रसंकोचे ॥२२॥

ततो रुक्मरथो राजन्नर्केणेव विराजता ।
वरूथिना विनिष्पत्य व्यचरत् पृतनामुखे॥२३॥

वरूथिना रथेन ॥२३॥

तमुद्यतं रथेनैकमाशुकारिणमाहवे ।
अनेकमिव संत्रासान्मेनिरे पाण्डुसृञ्जयाः॥२४॥

तेन सुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् ।
त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम्॥२५॥

मध्यं दिनमनुप्राप्तो गभस्तिशतसंवृतः ।
यथा दृश्येत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत॥२६॥

न चैनं पाण्डवेयानां कश्चिच्छक्नोति भारत ।
वीक्षितुं समरे कुद्धं महेन्द्रमिव दानवः॥२७॥

मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान् ।
धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः॥२८॥

स दिशः सर्वतो रुध्वा संवृत्य खमजिह्मगैः ।
पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम्॥२९॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि अर्जुनकृतयुधिष्ठिताश्वासने त्रयोदशोऽध्यायः॥१३॥
चतुर्दशोऽध्यायः

सञ्जय उवाच। ततः स पाण्डवानीके जनयन्सुमहद्भयम् ।
व्यचरत् पृतनां द्रोणो दहन् कक्षमिवानलः॥१॥

तत इति ॥१॥

निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम् ।
दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः॥२॥

सततं कृष्यतः संख्ये धनुषोऽस्याशुकारिणः ।
ज्याघोषः शुश्रुवेत्यर्थं विस्फूर्जितमिवाशनेः॥३॥

रथिनः सादिनश्चैव नागानश्वान् पदातिनः ।
रौद्रा हस्तवता मुक्ताः संमृद्नन्ति स्म सायकाः॥४॥

नानद्यमानः पर्जन्यः प्रवृद्धः शुचिसंक्षये ।
अश्मवर्षमिवावर्षत् परेषामावहद्भयम्॥५॥

शुचिसंक्षये ग्रीष्मान्ते ॥५॥

विचरन् स तदा राजन् सेनां संक्षोभयन् प्रभुः ।
वर्धयामास संत्रासं शात्रवाणाममानुषम् ॥६॥

तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् ।
भ्रमद्रथाम्बुदे चास्मिन् दृश्यते स्म पुनः पुनः॥७॥

स वीरः सत्यवान् प्राज्ञो धर्मनित्यः सदा पुनः ।
युगान्तकालवद्धोरां रौद्रां प्रावर्तयन्नदीम्॥८॥

अमर्षवेगप्रभवां क्रव्यादगणसंकुलाम् ।
बलौघैः सर्वतः पूर्णां ध्वजवृक्षापहारिणीम्॥९॥

शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम् ।
कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम्॥१०॥

मेदोमज्जास्थिसिकतामुष्णीषचयफेनिलाम् ।
संग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम्॥११॥

नरनागाश्वकलिलां शरवेगौघवाहिनीम् ।
शरीरदारुसंघट्टां रथकच्छपसंकुलाम्॥१२॥

उत्तमाङ्गैः पङ्कजिनीं निस्त्रिंशझषसंकुलाम् ।
रथनागह्रदोपेतां नानाभरणभूषिताम्॥१३॥

महारथशतावर्तां भूमिरेणूर्मिमालिनीम् ।
महावीर्यवतां संख्ये सुतरां भीरुदुस्तराम्॥१४॥

शरीरशतसम्बाधां गृध्रकङ्कनिषेविताम् ।
महारथसहस्त्राणि नयन्तीं यमसादनम्॥१५॥

शूलव्यालसमाकीर्णां प्राणिवाजिनिषेविताम् ।
छिन्नक्षत्रमहाहंसां मुकुटाण्डजसेविताम्॥१६॥

प्राणिन एव वाजिनः पक्षिणः ॥१६॥

चक्रकूर्मां गदानक्रां शरक्षुद्रझषाकुलाम् ।
बकगृध्रसृगालानां घोरसंघैर्निषेविताम्॥१७॥

निहतान् प्राणिनः संख्ये द्रोणेन बलिना रणे ।
वहन्ती पितृलोकाय शतशो राजसत्तमम्॥१८॥

शरीरशतसंबाधां केशशैवलशाद्वलाम् ।
नदीं प्रावर्तयद्राजन् भीरूणां भयवर्धिनीम्॥१९॥

तर्जयन्तमनीकानि तानि तानि महारथम् ।
सर्वतोऽभ्यद्रवन् द्रोणं युधिष्ठिरपुरोगमाः॥२०॥

तानभिद्रवतः शूरांस्तावका दृढविक्रमाः ।
सर्वतः प्रत्यगृह्णन्त तदभूल्लोमहर्षणम्॥२१॥

शतमायस्तु शकुनिः सहदेवं समाद्रवत् ।
सनियन्तृध्वजरथं विव्याध निशितैः शरैः॥२२॥

तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि ।
नातिक्रुद्धः शरैश्छित्त्वा षष्ट्या विव्याध सौबलम्॥२३॥

सौबलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात् ।
स तस्य गदया राजन् रथात् सूतमपातयत्॥२४॥

ततस्तौ विरथौ राजन् गदाहस्तौ महाबलौ ।
चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ॥२५॥

द्रोणः पाञ्चालराजानं विद्ध्वा दशभिराशुगैः ।
बहुभिस्तेन चाभ्यस्तस्तं विव्याध ततोऽधिकैः॥२६॥

अभ्यस्तो विद्धः ॥२६॥

विविंशतिं भीमसेनो विंशत्या निशितैः शरैः ।
विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत्॥२७॥

विविंशतस्तु सहसा व्यश्वकेतुशरासनम् ।
भीमं चक्रे महाराज ततः सैन्यान्यपूजयन्॥२८॥

स तन्न ममृषे वीरः रात्रोर्विक्रममाहवे ।
ततोऽस्य गदया दान्तान् हयान् सर्वानपातयत्॥२९॥

हताश्वात् सरथाद्राजन् गृह्य चर्म महाबलः ।
अभ्यायाद्भीमसेनं तु मत्तो मत्तमिव द्विपम्॥३०॥

शल्यस्तु नकुलं वीरः स्वस्त्रीयं प्रियमात्मनः ।
विव्याध प्रहसन् बाणैर्लालयन् कोपयन्निव॥३१॥

तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः ।
निपात्य नकुलः संख्ये शङ्खं दध्मौ प्रतापवान्॥३२॥

धृष्टकेतुः कृपेणास्तान् छित्त्वा बहुविधाञ्छरान् ।
कृपं विव्याध सप्तत्या लक्ष्म चास्याहरस्त्रिभिः॥३३॥

तं कृपः शरवर्षेण महता समवारयत् ।
विव्याध चरणे विप्रो धृष्टकेतुममर्षणम्॥३४॥

सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे ।
विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव॥३५॥

तं भोजः सप्तसप्तत्या विद्ध्वाशु निशितैः शरैः ।
नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम्॥३६॥

सेनापतिः सुशर्माणं भृशं मर्मस्वताडयत् ।
स चापि तं तोमरेण जनुदेशेऽभ्यताडयत्॥३७॥

वैकर्तनं तु समरे विराटः प्रत्यवारयत् ।
सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत्॥३८॥

तत् पौरुषमभूत् तत्र सूतपुत्रस्य दारुणम् ।
यत् सैन्यं वारयामास शरैः सन्नतपर्वभिः॥३९॥

द्रुपदस्तु स्वयं राजा भगद‌त्तेन सङ्गतः ।
तयोर्युद्धं महाराज चित्ररूपमिवाभवत्॥४०॥

भगदत्तस्तु राजानं द्रुपदं नतपर्वभिः ।
सनियन्तृध्वजरथं विव्याध पुरुषर्षभः॥४१॥

द्रुपदस्तु ततः क्रुद्धो भगदत्तं महारथम् ।
आजघानोरसि क्षिप्रं शरेणानतपर्वणा॥४२॥

युद्धं योधवरौ लोके सौमदत्तिशिखण्डिनौ ।
भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ॥४३॥

भूरिश्रवा रणे राजन् याज्ञसेनिं महारथम् ।
महता सायकौघेन छादयामास वीर्यवान्॥४४॥

शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशांपते ।
नवत्या सायकानां तु कम्पयामास भारत॥४५॥

राक्षसौ रौद्रकर्माणौ हैडिम्बालंबुषावुभौ ।
चक्रातेऽत्यद्भुतं युद्धं परस्परजयैषिणौ॥४६॥

मायाशतसृजौ दृप्तौ मायाभिरितरेतरम् ।
अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ॥४७॥

चेकितानोऽनुविन्देन युयुधे चातिभैरवम् ।
यथा देवासुरे युद्धे बलशक्रौ महाबलौ॥४८॥

लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम् ।
यथा विष्णुः पुरा राजन् हिरण्याक्षेण संयुगे॥४९॥

ततः प्रचलिताश्वेन विधिवत्कल्पितेन च ।
रथेनाभ्यपतद्राजन् सौभद्रं पौरवो नदन्॥५०॥

ततोऽभ्ययात् सत्वरितो युद्धाकांक्षी महाबलः ।
तेन चक्रे महद्युद्धमभिमन्युररिन्दमः॥५१॥

पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत् ।
तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत्॥५२॥

सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः ।
पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः॥५३॥

ततः प्रहर्षयन् सेनां सिंहवद्विनदन्मुहुः ।
समाद‌त्तार्जुनिस्तूर्णं पौरवान्तकरं शरम्॥५४॥

तं तु सन्धितमाज्ञाय सायकं घोरदर्शनम् ।
द्वाभ्यां शराभ्यां हार्दिक्यश्चिच्छेद सशरं धनुः॥५५॥

तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा ।
उद्बबर्ह सितं खड्गमाददानः शरावरम्॥५६॥

उद्वबर्ह उच्चकर्ष शरावरं चर्म ॥५६॥

स तेनानेकतारेण चर्मणा कृतहस्तवत् ।
भ्रान्तासिना चरन्मार्गान्दर्शयन्वीर्यमात्मनः॥५७॥

भ्रमितं पुनरुद्भ्रान्तमाधूतं पुनरुत्थितम् ।
चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत॥५८॥

स पौरवरथस्येषामाप्लुत्य सहसा नदन् ।
पौरवं रथमास्थाय केशपक्षे परामृशत्॥५९॥

जघानास्य पदा सूतमसिना पातयद्ध्वजम् ।
विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत्॥६०॥

तमागलितकेशान्तं ददृशुः सर्वपार्थिवाः ।
उक्षाणमिव सिंहेन पात्यमानमचेतसम्॥६१॥

तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत् ।
पौरवं पातितं दृष्ट्वा नामृष्यत जयद्रथः॥६२॥

स बर्हिबर्हावततं किंकिणीशतजालवत् ।
चर्म चादाय खड्गं च नदन् पर्यपतद्रथात्॥६३॥

ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम् ।
उत्पपात रथात् तूर्णं श्येनवन्निपपात च॥६४॥

प्रासपछि निस्त्रिंशाञ्छत्रुभिः संप्रचोदितान् ।
चिच्छे चासिना कार्ष्णिश्चर्मणा संरुरोध च॥६५॥

स दशायत्वा सैन्यानां स्वबाहुबलमात्मनः ।
तमुद्यम्य महाखड्गं चर्म चाथ पुनर्बली॥६६॥

वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम् ।
ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम्॥६७॥

तौ परस्परमासाद्य खड्गदन्तनखायुधौ ।
हृष्टवत्संप्रजह्राते व्याघ्रकेसरिणाविव॥६८॥

संपातेष्वभिघातेषु निपातेष्वसिचर्मणोः ।
न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः॥६९॥

अवक्षेपोऽसिनिर्ह्रादः शस्त्रान्तरनिदर्शनम् ।
बाह्यान्तरनिपातश्च निर्विशेषमदृश्यत॥७०॥

बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम् ।
ददृशाते महात्मानौ सपक्षाविव पर्वतौ॥७१॥

ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः ।
शरावरणपक्षान्ते प्रजहार जयद्रथः॥७२॥

रुक्मपत्रान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे ।
सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः॥७३॥

भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् ।
अदृश्यत निमेषेण स्वरथं पुनरास्थितः॥७४॥

तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम् ।
सहिताः सर्वराजानः परिवव्रुः समन्ततः॥७५॥

ततश्चर्म च खड्गं च समुत्क्षिप्य महाबलः ।
ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम्॥७६॥

सिन्धुराजं परित्यज्य सौभद्रः परवीरहा ।
तापयामास तत् सैन्यं भुवनं भास्करो यथा॥७७॥

तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम् ।
चिक्षेप समरे घोरां दीप्तामग्निशिखामिव॥७८॥

तामवप्लुत्य जग्राह विकोशं चाकरोदसिम् ।
वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम्॥७९॥

तस्य लाघवमाज्ञाय सत्त्वं चामिततेजसः ।
सहिताः सर्वराजानः सिंहनादमथानदन्॥८०॥

ततस्तामेव शल्यस्य सौभद्रः परवीरहा ।
मुमोच भुजवीर्येण वैदूर्यविकृतां शिताम् ॥८१॥

सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा ।
जघान सूतं शल्यस्य रथाच्चैनमपातयत्॥८२॥

ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः ।
सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ॥८३॥

यमौ च द्रौपदेयाश्च साधु साध्विति चुक्रुशुः ।
बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः॥८४॥

प्रादुरासन् हर्षयन्तः सौभद्रमपलायिनम् ।
तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम्॥८५॥

अथैनं सहसा सर्वे समन्तान्निशितैः शरैः ।
अभ्याकिरन्महाराज जलदा इव पर्वतम्॥८६॥

तेषां च प्रियमन्विच्छन् सूतस्य च पराभवम् ।
आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात्॥८७॥

पराभवं प्रेक्ष्येति शेषः ॥८७॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि अभिमन्युपराक्रमे चतुर्दशोऽध्यायः॥१४॥
पञ्चदशोऽध्यायः

धृतराष्ट्र उवाच। बहूनि सुविचित्राणि द्वन्द्वयुद्धानि सञ्जय ।
त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम्॥१॥

बहूनीति ॥१॥

आश्चर्यभूतं लोकेषु कथयिष्यन्ति मानवाः ।
कुरूणां पाण्डवानां च युद्धं देवासुरोपमम्॥२॥

न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम् ।
तस्मादार्तायनेर्युद्धं सौभद्रस्य च शंस मे॥३॥

सञ्जय उवाच। सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम् ।
समुत्क्षिप्य नदन् क्रुद्धः प्रचस्कन्द रथोत्तमात्॥४॥

तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम् ।
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम्॥५॥

सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महर्ती गदाम् ।
एह्येहीत्यब्रवीच्छल्यं यत्नाद्भीमेन वारितः॥६॥

वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान् ।
शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः॥७॥

तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम् ।
ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम्॥८॥

ततस्तूर्यनिनादाश्च शंखानां च सहस्रशः ।
सिंहनादाश्च संजज्ञुर्भेरीणां च महास्वनाः॥९॥

पश्यतां शतशो ह्यासीदन्योन्यमभिधावताम् ।
पाण्डवानां कुरूणां च साधु साध्विति निःस्वनः॥१०॥

न हि मद्राधिपादन्यः सर्वराजसु भारत ।
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे॥११॥

तथा मद्राधिपस्यापि गदावेगं महात्मनः ।
सोढुमुत्सहते लोके युधि कोऽन्यो वृकोदरात्॥१२॥

पट्टैर्जाम्बूनदैर्बद्धा बभूव जनहर्षणी ।
प्रजज्वाल तदा विद्धा भीमेन महती गदा॥१३॥

तथैव चरतो मार्गान्मण्डलानि च सर्वशः ।
महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा॥१४॥

तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः ।
आवर्तितगदाशृङ्गावुभौ शल्यवृकोदरौ॥१५॥

मण्डलावर्तमार्गेषु गदाविहरणेषु च ।
निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः॥१६॥

ताडिता भीमसेनेन शल्यस्य महती गदा ।
साग्निज्वाला महारौद्रा तदा तूर्णमशीर्यत॥१७॥

तथैव भीमसेनस्य द्विषताऽभिहता गदा ।
वर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवाबभौ॥१८॥

गदा क्षिप्ता तु समरे मद्रराजेन भारत ।
व्योम दीपयमाना सा ससृजे पावकं मुहुः॥१९॥

तथैव भीमसेनेन द्विषते प्रेषिता गदा ।
तापयामास तत् सैन्यं महोल्का पतती यथा॥२०॥

ते गदे गदिनां श्रेष्ठे समासाद्य परस्परम् ।
श्वसन्त्यौ नागकन्येव ससृजाते विभावसुम्॥२१॥

व इवार्थे ॥२१॥

नखैरिव महाव्याघ्रौ दन्तैरिव महागजौ ।
तौ विचरेतुरासाद्य गदाग्र्याभ्यां परस्परम्॥२२॥

ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ ।
ददृशाते महात्मानौ किंशुकाविव पुष्पितौ॥२३॥

शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः ।
गदाभिघातसंह्रादः शक्राशनिरवोपमः॥२४॥

गदया मद्रराजेन सव्यदक्षिणमाहतः ।
नाकम्पत तदा भीमो भिद्यमान इवाचलः॥२५॥

तथा भीमगदावेगैस्ताड्यमानो महाबलः ।
धैर्यान्मद्राधिपस्तस्थौ वज्रैर्गिरिरिवाहतः॥२६॥

आपेततुर्महावेगौ समुच्छ्रितगदावुभौ ।
पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः॥२७॥

अथाप्लुत्य पदान्यष्टौ सन्निपत्य गजाविव ।
सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः॥२८॥

तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ ।
युगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव॥२९॥

ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः ।
शल्यमभ्यपतत् तूर्णं कृतवर्मा महारथः॥३०॥

दृष्ट्वा चैनं महाराज गदयाऽभिनिपीडितम् ।
विचेष्टन्तं यथा नागं मूर्च्छयाऽभिपरिप्लुतम्॥३१॥

ततः स्वरथमारोप्य मद्राणामधिपं रणे ।
अपोवाह रणात् तूर्णं कृतवर्मा महारथः॥३२॥

क्षीबवद्विह्वलो वीरो निमेषात्पुनरुत्थितः ।
भीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत॥३३॥

क्षीबवन्मत्तवत् ॥३३॥

ततो मद्राधिपं दृष्ट्वा तव पुत्राः परा ङ्मुखम् ।
सनागपत्त्यश्वरथाः समकम्पन्त मारिष॥३४॥

ते पाण्डवैरर्द्यमानास्तावका जितकाशिभिः ।
भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव॥३५॥

निर्जित्य धार्तराष्ट्रांस्तु पाण्डवेया महारथाः ।
व्यरोचन्त रणे राजन् दीप्यमाना इवाग्नयः॥३६॥

सिंहनादान्भृशं चक्रुःशंखान् दध्मुश्च हर्षिताः ।
भेरीश्च वादयामासुर्मृदङ्गांश्चानकैः सह॥३७॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि शल्यापयाने पञ्चदशोऽध्यायः॥१५॥
षोडशोऽध्यायः

सञ्जय उवाच। तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान् ।
दधारैको रणे राजन् वृषसेनोऽस्त्रमायया॥१॥

तदिति । अस्त्रमायया अस्त्रकौशलेन ॥१॥

शरा दश दिशो मुक्ता वृषसेनेन संयुगे ।
विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान्॥२॥

तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः ।
भानोरिव महाराज घर्मकाले मरीचयः॥३॥

तेनार्दिता महाराज रथिनः सादिनस्तथा ।
निपेतुरुर्व्यां सहसा वातभग्ना इव द्रुमाः॥४॥

हयौघांश्च रथौघांश्च गजौघांश्च महारथः ।
अपातयद्रणे राजन् शतशोऽथ सहस्रशः॥५॥

दृष्ट्वा तमेकं समरे विचरन्तमभीतवत् ।
सहिताः सर्वराजानः परिवव्रुः समन्ततः॥६॥

नाकुलिस्तु शतानीको वृषसेनं समभ्ययात् ।
विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः॥७॥

तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत् ।
तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः॥८॥

कर्णात्मजं शरव्रातैरदृश्यं चक्रुरञ्जसा ।
तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः॥९॥

छादयन्तो महाराज द्रौपदेयान् महारथान् ।
शरैर्नानाविधैस्तूर्णं पर्वतान् जलदा इव॥१०॥

तान् पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः ।
पञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः॥११॥

तद्युद्धमभवद्धोरं सुमहल्लोमहर्षणम् ।
त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः॥१२॥

एवं युयुधिरे वीराः संरब्धाः कुरुपाण्डवाः ।
परस्परमुदीक्षन्तः परस्परकृतागसः॥१३॥

तेषां ददृशिरे कोपाद्वपूंष्यमिततेजसाम् ।
युयुत्सूनामिवाकाशे पतत्त्रिवरभोगिनाम्॥१४॥

पतत्त्रिवरभोगिनामिव पतत्त्रिवरो गरुडः। भोगिनः सर्पाः ॥१४॥

भीम-कर्ण-कृप-द्रोण-द्रौणि-पार्षत-सात्यकैः ।
बभासे स रणोद्देशः कालसूर्य इवोदितः॥१५॥

तदासीत् तुमुलं युद्धं निघ्नतामितरेतरम् ।
महाबलानां बलिभिर्दानवानां यथा सुरैः॥१६॥

ततो युधिष्ठिरानीकमुद्धृतार्णवनिःस्वनम् ।
त्वदीयमवधीत् सैन्यं संप्रद्रुतमहारथम्॥१७॥

तत् प्रभग्नं वलं दृष्ट्वा शत्रुभिर्भृशमर्दितम् ।
अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत॥१८॥

द्रुतेन पलायितेन ॥१८॥

ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः ।
प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत्॥१९॥

तमाविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः ।
तस्य द्रोणो धनुश्छित्त्वा तं द्रुतं समुपाद्रवत्॥२०॥

चक्ररक्षः कुमारस्तु पञ्चालानां यशस्करः ।
दधार द्रोणमायान्तं वेलेव सरितां पतिम्॥२१॥

द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम् ।
सिंहनादरवो ह्यासीत् साधु साध्विति भाषितम्॥२२॥

कुमारस्तु ततो द्रोणं सायकेन महाहवे ।
विव्याधोरसि संक्रुद्धः सिंहवच्च नदन्मुहुः॥२३॥

संवार्य चरणे द्रोणं कुमारस्तु महाबलः ।
शरैरनेकसाहस्त्रैः कृतहस्तो जितश्रमः॥२४॥

तं शूरमार्यव्रतिनं मन्त्रास्त्रेषु कृतश्रमम् ।
चक्ररक्षं परामृद्नात् कुमारं द्विजपुङ्गवः॥२५॥

स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन् दिशः ।
तव सैन्यस्य गोप्ताऽऽसीद्भारद्वाजो द्विजर्षभः॥२६॥

शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् ।
नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः॥२७॥

युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः ।
सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः॥२८॥

व्यक्षोभयद्रणे योधान् यथा मुख्यमभिद्रवन् ।
अभ्यवर्तत संप्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्॥२९॥

युगन्धरस्ततो राजन् भारद्वाजं महारथम् ।
वारयामास संक्रुद्धं वातोद्धतमिवार्णवम्॥३०॥

युधिष्ठिरं स विद्ध्वा तु शरैः सन्नतपर्वभिः ।
युगन्धरं तु भल्लेन रथनीडादपातयत्॥३१॥

ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः ।
याघ्रद‌त्तश्च पाञ्चाल्यः सिंहसेनश्च वीर्यवान्॥३२॥

एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम् ।
आवव्रुस्तस्य पन्थानं किरन्तः सायकान् बहून्॥३३॥

व्याघ्रदत्तस्तु पाञ्चाल्यो द्रोणं विव्याध मार्गणैः ।
पञ्चाशता शितै राजंस्तत उच्चुक्रुशुर्जनाः॥३४॥

त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम् ।
प्राहसत् सहसा हृष्टस्त्रासयन् वै महारथान्॥३५॥

ततो विस्फार्य नयने धनुर्ज्यामवमृज्य च ।
तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत्॥३६॥

ततस्तु सिंहसेनस्य शिरः कायात् सकुण्डलम् ।
व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामाहरद्बली॥३७॥

तान् प्रमृज्य शरव्रातैः पाण्डवानां महारथान् ।
युधिष्ठिररथाभ्याशे तस्थौ मृत्युरिवान्तकः॥३८॥

ततोऽभवन्महाशब्दो राजन् यौधिष्ठिरे बले ।
हतो राजेति योधानां समीपस्थे यतव्रते॥३९॥

अब्रुवन् सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम् ।
अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति॥४०॥

अस्मिन् महूर्ते द्रोणस्तु पाण्डवं गृह्य हर्षितः ।
आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे॥४१॥

एवं सञ्जल्पतां तेषां तावकानां महारथः ।
आयाज्जवेन कौन्तेयो रथघोषेण नादयन्॥४२॥

शोणितोदां रथावर्तां कृत्वा विशसने नदीम् ।
शूरास्थिचयसंकीर्णां प्रेतकूलापहारिणीम्॥४३॥

विशसने युद्धे ॥४३॥

तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम् ।
नदीमुत्तीर्य वेगेन कुरून् विद्राव्य पाण्डवः॥४४॥

ततः किरीटी सहसा द्रोणानीकमुपाद्रवत् ।
छादयन्निषुजालेन महता मोहयन्निव॥४५॥

शीघ्रमभ्यस्यतो बाणान् संदधानस्य चानिशम् ।
नान्तरं ददृशे कश्चित् कौन्तेयस्य यशखिनः॥४६॥

न दिशो नान्तरिक्षं च न द्योर्नैव च मेदिनी ।
अदृश्यन्त महाराज बाणभूता इवाभवन्॥४७॥

नादृश्यत तदा राजंस्तत्र किंचन संयुगे ।
बाणान्धकारे महति कृते गाण्डीवधन्वना॥४८॥

सूर्ये चास्तमनुप्राप्ते तमसा चाभिसंवृते ।
नाज्ञायत तदा शत्रुर्न सुहृन्न च कश्चन॥४९॥

ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः ।
तान् विदित्वा पुनस्त्रस्तानयुद्धमनसः परान्॥५०॥

स्वान्यनीकानि बीभत्सुः शनकैरवहारयत् ।
ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः॥५१॥

पञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यभिवर्षयः ।
एवं स्वशिबिरं प्रायाज्जित्वा शत्रून् धनञ्जयः॥५२॥

पृष्ठतः सर्वसैन्यानां मुदितो वै स केशवः॥५३॥

मसारगल्वर्कसुवर्णरूपैर्वज्रप्रवालस्फटिकैश्च मुख्यैः ।
चित्रे रथे पाण्डुसुतो बभासे नक्षत्रचित्रे वियतीव चन्द्रः॥५४॥

मसार इन्द्रनीलः गल्वर्कः पद्मरागः ॥५४॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि प्रथमदिवसावहारे षोडशोऽध्यायः॥१६॥
समाप्तं द्रोणाभिषेकपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in