जनमेजय उवाच।
तमप्रतिमसत्त्वौजोबलवीर्यसमन्वितम्
।
हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना॥१॥
पूर्वस्मिन् पर्वणि विश्वरूपप्रदर्शनं तद्विदां चार्चिरादिमार्गापेक्षा च भीष्मकृतकालप्रतीक्षया दर्शिता । तत्रैव निष्कलं रूपं 'तमेव शरणं गच्छ'। 'तमेव चाद्यं पुरुषं प्रपद्ये' । ' उत्तमः पुरुषस्त्वन्यः' इत्यादिना उक्तम् । तदधिगमवतां च नास्ति तन्मार्गापेक्षेति द्रोणनिर्वाणनिदर्शनेन दर्शयिष्यन् द्रोणपर्व समारभते -तमप्रतिमसत्त्वौज इत्यादिना । तत्राख्यायिका योधोत्साहार्था महतामपि मृत्युरस्तीत्यादिना जगदनित्यत्वप्रदर्शनार्था च । तत्र सत्त्वं धैर्यं महत्यपि दुःखकारणे वैकल्यराहित्यम् । ओजो मानसं बलम् । बलं शरीरदार्ढ्यम् । वीर्यमुत्साहादिहेतुः । पराक्रमः पराभिभवसामर्थ्यम् ॥१॥
धृतराष्ट्रस्ततो राजा शोकव्याकुललोचनः
।
किमचेष्टत विप्रर्षे हते पितरि वीर्यवान्॥२॥
तस्य पुत्रो हि भगवान् भीष्मद्रोणमुखै रथैः
।
पराजित्य महेष्वासान् पाण्डवान् राज्यमिच्छति॥३॥
तस्मिन् हते तु भगवन् केतौ सर्वधनुष्मताम्
।
यदचेष्टत कौरव्यस्तन्मे ब्रूहि तपोधन॥४॥
केतौ चिह्नभूते । एवंभूतो धनुर्धरो न भवतीत्यन्येषामभिज्ञापके ॥४॥
वैशम्पायन उवाच।
निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः
।
लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः॥५॥
चिन्ता ध्येयविषये मनोवृत्तिप्रवाहः । शोक इष्टस्य पुनः पुनर्मनसि निवेशनम् ॥५॥
तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत्
।
आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा॥६॥
दुःखं दुःखहेतुम् ॥६॥
शिबिरात् सञ्जयं प्राप्तं निशि नागाह्वयं पुरम्
।
आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत॥७॥
शिबिरात्तद्वतः कुरुक्षेत्रात् । पृच्छेर्द्विकर्मत्वात् पुत्राणां जयम् अन्वपृच्छतेति सम्बन्धः ॥७॥
श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम्
।
पुत्राणां जयमाकाङ्क्षन् विललापातुरो यथा॥८॥
धृतराष्ट्र उवाच।
संशोच्य तु महात्मानं भीष्मं भीमपराक्रमम्
।
किमकार्षुः परं तात कुरवः कालचोदिताः॥९॥
तस्मिन् विनिहते शूरे दुराधर्षे महात्मनि
।
किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे॥१०॥
तदुदीर्णं महत् सैन्यं त्रैलोक्यस्यापि सञ्जय
।
भयमुत्पादयेत् तीव्रं पाण्डवानां महात्मनाम्॥११॥
को हि दौर्योधने सैन्ये पुमानासीन्महारथः
।
यं प्राप्य समरे वीरा न त्रस्यन्ति महाभये ॥१२॥
देवव्रते तु निहते कुरूणामृषभे तदा
।
किमकार्षुर्नृपतयस्तन्ममाचक्ष्व सञ्जय॥१३॥
सञ्जय उवाच।
शृणु राजन्नेकमना वचनं ब्रुवतो मम
।
यत् ते पुत्रास्तदाऽकार्षुर्हते देवव्रते सृधे॥१४॥
निहते तु तदा भीष्मे राजन् सत्यपराक्रमे
।
तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक् पृथक्॥१५॥
प्राध्यायन्त पृथक् पृथक् एके पराजयं प्राप्ताः स्म इति अन्ये जयं प्राप्स्यन्त इति च ध्यानं कृतवन्तः ॥१५॥
विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशम्य ते
।
स्वधर्मं निन्दमानास्ते प्रणिपत्य महात्मने॥१६॥
विस्मिता गुरुवधेऽपि दोषाभावात् । प्रहृष्टा महाफलत्वाद्युद्धमरणस्य ॥१६॥
शयनं कल्पयामासुर्भीष्मायामितकर्मणे
।
सोपधानं नरव्याघ्र शरैः सन्नतपर्वभिः॥१७॥
विधाय रक्षां भीष्माय समाभाष्य परस्परम्
।
अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम्॥१८॥
क्रोधसंरक्तनयनाः समवेत्य परस्परम्
।
पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः॥१९॥
ततस्तूर्यनिनादैश्च भेरीणां निनदेन च
।
तावकानामनीकानि परेषां च विनिर्ययुः॥२०॥
व्यावृत्तेऽर्यम्णि राजेन्द्र पतिते जाह्नवीसुते
।
अमर्षवशमापन्नाः कालोपहतचेतसः॥२१॥
अर्यम्णि सूर्ये व्यावृत्ते अपराह्णावलम्बिनि ॥२१॥
अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः
।
निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सत्वराः॥२२॥
मोहात् तव सपुत्रस्य वधाच्छान्तनवस्य च
।
कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः॥२३॥
मोहाज्जयाशारूपात् शान्तनवस्य वधादिति परेषां बलवत्त्वात् । मृत्युसाद्भूता मृत्युवशाः मृत्युनहूता इत्यपि पाठः ॥२३॥
अजावय इवागोपा वने श्वापदसङ्कुले
।
भृशमुद्विग्नमनसो हीना देवव्रतेन ते॥२४॥
पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी
।
द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना॥२५॥
द्यौरिव निःश्रीका खमिव शून्या ॥२५॥
विपन्नसस्येव मही वाक्चैवासंस्कृता तथा
।
आसुरीव यथा सेना निगृहीते नृपे बलौ॥२६॥
विपन्नसस्येव निःसारा । असंस्कृता वाग्यथा कर्तव्ये असमर्था आसुरीव सेना व्याकुला । इवशब्दो वाक्यालंकारे ॥२६॥
विधवेव वरारोहा शुष्कतोयेव निम्नगा
।
वृकैरिव वने रुद्धा पृषती हतयूथपा॥२७॥
विधवेव निरलंकारा शुष्कतोयेव निरुपयोगा वृकैरिव निरुद्धा आसन्नमरणा पृषती चित्रमृगी ॥२७॥
शरभाहतसिंहेव महती गिरिकन्दरा
।
भारती भरतश्रेष्ठे पतिते जान्हवीसुते॥२८॥
विष्वग्वाताहता रुग्णा नौरिवासीन्महार्णवे
।
बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता॥२९॥
विष्वग्वाता अनेकदिग्वाता ॥२९॥
सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा
।
विपन्नभूयिष्ठनरा कृपणा ध्वस्तमानसा॥३०॥
तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः
।
पाताल इव मज्जन्तो हीना देवव्रतेन ते॥३१॥
तस्यां सेनायाम् ॥३१॥
कर्णं हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः
।
सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम्॥३२॥
रोचमानं विद्यातपोभ्यामिति शेषः ॥३२॥
बन्धुमापद्गतस्येव तमेवोपागमन्मनः
।
चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः॥३३॥
राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम्
।
स हि नायुध्यत तदा दशाहानि महायशाः॥३४॥
सामात्यबन्धुः कर्णो वै तमानयत मा चिरम्
।
भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः॥३५॥
रथेषु गण्यमानेषु बलविक्रमशालिषु
।
संख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः॥३६॥
रथातिरथसंख्यायां योऽग्रणीः शूरसंमतः
।
सासुरानपि देवेशान् रणे यो योद्धुमुत्सहेत्॥३७॥
स तु तेनैव कोपेन राजन् गाङ्गेयमुक्तवान्
।
त्वयि जीवति कौरव्य नाहं योत्स्ये कदाचन॥३८॥
त्वया तु पाण्डवेयेषु निहतेषु महामृधे
।
दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव॥३९॥
पाण्डवैर्वा हते भीष्मे त्वयि स्वर्गमुपेयुषि
।
हन्तास्म्येकरथेनैव कृत्स्नान् यान् मन्यसे रथान्॥४०॥
एवमुक्त्वा महाबाहुर्दशाहानि महायशाः
।
नायुध्यत ततः कर्णः पुत्रस्य तव संमते॥४१॥
भीष्मः समरविक्रान्तः पाण्डवेयस्य भारत
।
जघान समरे योधानसंख्येयपराक्रमः॥४२॥
तस्मिंस्तु निहते शूरे सत्यसन्धे महौजसि
।
त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम्॥४३॥
तावकास्तव पुत्राश्च सहिताः सर्वराजभिः
।
हा कर्ण इति चाक्रन्दन् कालोऽयमिति चाब्रुवन्॥४४॥
आक्रन्दन्नाहूतवन्तः कालोऽयं त्वत्पराक्रमस्येति शेषः ॥४४॥
एवं ते स्म हि राधेयं सूतपुत्रं तनुत्यजम्
।
चुक्रुशुः सहिता योधास्तत्र तत्र महाबलाः॥४५॥
जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम्
।
अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव॥४६॥
जामदग्न्येन अभ्यनुज्ञातं शिक्षितं नः अस्मत्सम्बंधिनाम् ॥४६॥
स हि सक्तो रणे राजंस्त्रातुमस्मान् महाभयात्
।
त्रिदशानिव गोविन्दः सततं सुमहाभयात्॥४७॥
वैशम्पायन उवाच।
तथा तु सञ्जयं कर्णं कीर्तयन्तं पुनः पुनः
।
आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम्॥४८॥
धृतराष्ट्र उवाच।
यत् तद्वैकर्तनं कर्णमगमद्वो मनस्तदा
।
अप्यपश्यत राधेयं सूतपुत्रं तनुत्यजम्॥४९॥
तनुत्यजं देहव्ययेनाप्यस्मद्धितैषिणम् । अपश्यत यगर्गाति शेषः ॥४९॥
अपि तन्न मृषाकार्षीत् कञ्चित् सत्यपराक्रमः
।
संभ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम्॥५०॥
तत् अस्मदीयानां चिन्तित ---- ॥५०॥
अपि तत् पूरयांचक्रे धनुर्धरवरो युधि
।
यत्तद्विनिहते भीष्मे कौरवाणामपाकृतम्॥५१॥
भीष्मे विनिहते सति तत् तदा यदपाकृतं ---नं तत्पूरयांचक्रे अपीत्यन्वयः ॥५१॥
तत् खण्डं पूरयन् कर्णः परेषामादधद्भयम्
।
स हि वै पुरुषव्याघ्रो लोके सञ्जय कथ्यते॥५२॥
खण्डं रिक्तम् ॥५२॥
आर्तानां बान्धवानां च क्रन्दतां च विशेषतः
।
परित्यज्य रणे प्राणांस्तत्राणार्थे च शर्म च
।
कृतवान् मम पुत्राणां जयाशां सफलामपि॥५३॥
कृतवान्नेवति शेषः ॥५३॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि धृतराष्ट्रप्रश्ने प्रथमोऽध्यायः॥१॥
सञ्जय उवाच।
हतं भीष्ममथाधिरथिर्विदित्वा भिन्नां नावमिवात्यगाधे कुरूणाम्
।
सोदर्यवद्व्यसनात् सूतपुत्रः सन्तारयिष्यंस्तव पुत्रस्य सेनाम्॥१॥
हतमिति । विदित्वा चारमुखात् उपयायादित्यपकृष्यते ॥१॥
श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं निपातितं शान्तनवं महारथम्
।
अथोपयायात् सहसाऽरिकर्षणो धनुर्धराणां प्रवरस्तदा नृप॥२॥
श्रुत्वा योधमुखात् अच्युतम् अस्खलितव्रतादिम् ॥२॥
हते तु भीष्मे रथसत्तमे परैर्निमज्जतीं नावमिवार्णवे कुरून्
।
पितेव पुत्रांस्त्वरितोऽभ्ययात् ततः संतारयिष्यंस्तव पुत्रस्य सेनाम्॥३॥
कर्ण उवाच।
यस्मिन् धृतिर्बुद्धिपराक्रमौजः सत्यं स्मृतिर्वीरगुणाश्च सर्वे
।
अस्त्राणि दिव्यान्यथ संनतिर्ह्रीः प्रिया च वागनसूया च भीष्मे॥४॥
चन्द्रमसि लक्ष्मेव यस्मिन् धृत्यादिकं सनातनं सार्वकालिकमिति द्वयोरन्वयः ॥४॥
सदा कृतज्ञे द्विजशत्रुघातके सनातनं चन्द्रमसीव लक्ष्म
।
स चेत्प्रशान्तः परवीरहन्ता मन्ये हतानेव च सर्ववीरान्॥५॥
नेह ध्रुवं किंचन जातु विद्यते लोके ह्यस्मिन् कर्मणोऽनित्ययोगात्
।
सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीतार्य महाव्रते हते॥६॥
महाव्रते दृढब्रह्मचर्ये हते सति श्वः सूर्योदयो भविष्यतीति कस्य निश्चयः स्यात् । मृत्युजयिनोऽपि मृत्युश्चेत् काऽस्माकं जीविताशेत्यर्थः ॥६॥
वसुप्रभावे वसुवीर्यसंभवे गते वसूनेव वसुन्धराधिपे
।
वसूनि पुत्रांश्च वसुन्धरां तथा कुरूंश्च शोचध्वमिमां च वाहिनीम्॥७॥
वसुवीर्यसंभवे वसूनामिव वीर्यं यस्य शान्तनोस्तस्मात् संभवो जन्म यस्य ॥७॥
सञ्जय उवाच।
महाप्रभावे वरदे निपातिते लोकेश्वरे शास्तरि चामितौजसि
।
पराजितेषु भरतेषु दुर्मनाः कर्णो भृशं न्यश्वसदश्रु वर्तयन्॥८॥
इदं च राधेयवचो निशम्य सुताश्च राजंस्तव सैनिकाश्च ह
।
परस्परं चुक्रुशुरार्तिजं मुहुस्तदाश्रु नेत्रैर्मुमुचुश्च शब्दवत्॥९॥
इदं यस्मिन् धृतिरित्यादिपूर्वोक्तमवधेयं वचनम् ॥९॥
प्रवर्तमाने तु पुनर्महाहवे विगाह्यमानासु चमूषु पार्थिवैः
।
अथाब्रवीद्धर्षकरं तदा वचो रथर्षभान् सर्वमहारथर्षभः॥१०॥
जगत्यनित्ये सततं प्रधावति प्रचिन्तयन्नस्थिरमद्य लक्षये
।
भवत्सु तिष्ठत्स्विह पातितो मृधे गिरिप्रकाशः कुरुपुङ्गवः कथम्॥११॥
प्रधावति मृत्यवे स्थिरं न किमपीति लक्षये ॥११॥
निपातिते शान्तनवे महारथे दिवाकरे भूतलमास्थिते यथा
।
न पार्थिवाः सोढुमलं धनञ्जयं गिरिप्रवोढारमिवानिलं द्रुमाः॥१२॥
हतप्रधानं त्विदमार्तरूपं परैर्हतोत्साहमनाथमद्य वै
।
मया कुरूणां परिपाल्यमाहवे बलं यथा तेन महात्मना तथा॥१३॥
समाहितं चात्मनि भारमीदृशं जगत् तथा नित्यमिदं च लक्षये
।
निपातितं चाहवशौण्डमाहवे कथं नु कुर्यामहमीदृशे भयम्॥१४॥
अहं तु तान् कुरुवृषभानजिह्मगैः प्रवेशयन् यमसदनं चरन् रणे
।
यशः परं जगति विभाव्य वर्तिता परैर्हतो भुवि शयिताऽथवा पुनः॥१५॥
प्रवेशयन् प्रापयन् प्रवेरयन्निति पाठेऽपि स एवार्थः । विभाव्य प्रकाश्य वर्तिता स्थाता ॥१५॥
युधिष्ठिरो धृतिमतिसत्यसत्त्ववान् वृकोदरो गजशततुल्यविक्रमः
।
तथाऽर्जुनस्त्रिदशवरात्मजो युवा न तद्बलं सुजयमिहामरैरपि॥१६॥
धृतिमतिसत्यसत्त्ववान् नित्ययोगे मतुप् ॥१६॥
यमौ रणे यत्र यमोपमौ बले ससात्यकिर्यत्र च देवकीसुतः
।
न तद्बलं कापुरुषोऽभ्युपेयिवान्निवर्तते मृत्युमुखान्न चासुभृत्॥१७॥
तद्बलम् अभ्युपेयिवान् कापुरुषो न निवर्तते । तत्र दृष्टान्तः। मृत्युमुखादिति । लुप्तोपमेयम् । असुभृत्प्राणी ॥१७॥
तपोऽभ्युदीर्णं तपसैव बाध्यते बलं बलेनैव तथा मनस्विभिः
।
मनश्च मे शत्रुनिवारणे ध्रुवं स्वरक्षणे चाचलवद्व्यवस्थितम्॥१८॥
नाहं कापुरुष इत्याह - तप इति ॥१८॥
एवं चैषां बाधमानः प्रभावं गत्वैवाहं ताञ्जयाम्यद्य सूत
।
मित्रद्रोहो मर्षणीयो न मेऽयं भग्ने सैन्ये यः समेयात् स मित्रम्॥१९॥
एवं मनस्यनुकूले सति । एषां शत्रूणां गत्वैव गमनानन्तरं तान् शत्रून् ॥१९॥
कर्तास्म्येतत् सत्पुरुषार्यकर्म त्यक्त्वा प्राणाननुयास्यामि भीष्मम्
।
सर्वान् सङ्ख्ये शत्रुसङ्घान् हनिष्ये हतस्तैर्वा वीरलोकं प्रपत्स्ये॥२०॥
सत्पुरुषाणां योग्यमार्यकर्म श्रेष्ठकार्यम् ॥२०॥
संप्राक्रुष्टे रुदितस्त्रीकुमारे पराहते पौरुषे धार्तराष्ट्रे
।
मया कृत्यमिति जानामि सूत तस्माद्राज्ञस्त्वद्य शत्रून् विजेष्ये॥२१॥
संप्राक्रुष्टे येन केनापि रक्ष रक्षेत्युक्ते सति मया कृत्यं कार्यं युद्धमिति शेषः ॥२१॥
कुरून् रक्षन् पाण्डुपुत्रान् जिघांसंस्त्यक्त्वा प्राणान् घोररूपे रणेऽस्मिन्
।
सर्वान् सङ्ख्ये शत्रुसङ्घान्निहत्य दास्याम्यहं धार्तराष्ट्राय राज्यम्॥२२॥
निबध्यतां मे कवचं विचित्रं हैमं शुभ्रं मणिरत्नावभासि
।
शिरस्त्राणं चार्कसमानभासं धनुःशरांश्चाग्निविषाहिकल्पान्॥२३॥
शुभ्रमुद्दीप्तम् ॥२३॥
उपासङ्गान् षोडश योजयन्तु धनूंषि दिव्यानि तथाऽऽहरन्तु
।
असींश्च शक्तीश्च गदाश्च गुर्वीः शङ्खं च जाम्बूनदचित्रनालम्॥२४॥
उपासंगान् शरपूर्णांस्तूणान् ॥२४॥
इमां रौक्मीं नागकक्ष्यां विचित्रां ध्वजं चित्रं दिव्यमिन्दीवराङ्कम्
।
श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयन्तु चित्रां मालां चारुबद्धां सलाजाम्॥२५॥
नागकक्ष्यां श्रृंखलां जैत्रं जयख्यापकम् । इंदीवराङ्कं कमलचिह्नम् ॥२५॥
अश्वानग्र्यान् पाण्डुराभ्रप्रकाशान् पुष्टान् स्नातान् मन्त्रपूताभिरद्भिः
।
तप्तैर्भाण्डैः काञ्चनैरभ्युपेतान् शीघ्राञ्शीघ्रं सूतपुत्रानयस्व॥२६॥
तप्तैरारोपितवर्णकेर्भांडैरलंकारैः ॥२६॥
रथं चाग्र्यं हेममालावनद्धं रत्नैश्चित्रं सूर्यचन्द्रप्रकाशैः
।
द्रव्यैर्युक्तं संप्रहारोपपन्नैर्वाहैर्युक्तं तूर्णमावर्तयस्व॥२७॥
संप्रहारोपपन्नैर्युद्धोचितैः आवतर्यस्व आनय ॥२७॥
चित्राणि चापानि च वेगवन्ति ज्याश्चोत्तमाः सन्नहनोपपन्नाः
।
तूणांश्च पूर्णान्महतः शराणामासाद्य गात्रावरणानि चैव॥२८॥
गात्रावरणानि कवचानि ॥२८॥
प्रायात्रिकं चानयताशु सर्वं दध्ना पूर्णं वीर कांस्यं च हैमम्
।
आनीय मालामवबध्य चाङ्गे प्रवादयन्त्वाशु जयाय भेरीः॥२९॥
प्रायात्रिकं प्रयात्रा युद्धार्थं प्रयाणं तत्रार्हम् ॥२९॥
प्रयाहि सूताशु यतः किरीटी वृकोदरो धर्मसुतो यमौ च
।
तान् वा हनिष्यामि समेत्य सङ्ख्ये भीष्माय गच्छामि हतो द्विषद्भिः॥३०॥
भीष्माय कर्मणि चतुर्थी ॥३०॥
यस्मिन् राजा सत्यधृतिर्युधिष्ठिरः समास्थितो भीमसेनार्जुनौ च
।
वासुदेवः सात्यकिः सृञ्जयाश्च मन्ये बलं तदजय्यं महीपैः॥३१॥
तं चेन्मृत्युः सर्वहरोऽभिरक्षेत् सदाऽप्रमत्तः समरे किरीटिनम्
।
तथाऽपि हन्ताऽस्मि समेत्य सङ्ख्ये यास्यामि वा भीष्मपथा यमाय॥३२॥
यमाय यमं द्रष्टुम् ॥३२॥
न त्वेवाहं न गमिष्यामि तेषां मध्ये शूराणां तत्र चाहं ब्रवीमि
।
मित्रद्रुहो दुर्बलभक्तयो ये पापात्मानो न ममैते सहायाः॥३३॥
सञ्जय उवाच।
समृद्धिमन्तं रथमुत्तमं दृढं सकूबरं हेमपरिष्कृतं शुभम्
।
पताकिनं वातजवैर्हयोत्तमैर्युक्तं समास्थाय ययौ जयाय॥३४॥
संपूज्यमानः कुरुभिर्महात्मा रथर्षभो देवगणैर्यथेन्द्रः
।
ययौ तदायोधनमुग्रधन्वा यत्रावसानं भरतर्षभस्य॥३५॥
वरूथिना महता सध्वजेन सुवर्णमुक्तामणिरत्नमालिना
।
सदश्वयुक्तेन रथेन कर्णो मेघस्वनेनार्क इवामितौजाः॥३६॥
हुताशनाभः स हुताशनप्रभे शुभः शुभे वै स्वरथे धनुर्धरः
।
स्थितो रराजाधिरथिर्महारथः स्वयं विमाने सुरराडिवास्थितः॥३७॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि कर्णनिर्याणे द्वितीयोऽध्यायः ॥२॥
सञ्जय उवाच।
शरतल्पे महात्मानं शयानममितौजसम्
।
महावातसमूहेन समुद्रमिव शोषितम्॥१॥
शरतल्पे इति ॥१॥
दृष्ट्वा पितामहं भीष्मं सर्वक्षत्रान्तकं गुरुम्
।
दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना॥२॥
जयाशा तव पुत्राणां संभग्ना शर्म वर्म च
।
अपाराणामिव द्वीपमगाधे गाधमिच्छताम्॥३॥
स्रोतसा यामुनेनेव शरौघेण परिप्लुतम्
।
महेन्द्रेणेव मैनाकमसह्यं भुवि पातितम्॥४॥
नभश्च्युतमिवादित्यं पतितं धरणीतले
।
शतक्रतुमिवाचिन्त्यं पुरा वृत्रेण निर्जितम्॥५॥
मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम्
।
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम्॥६॥
ककुदं श्रेष्ठम् ॥६॥
धनञ्जयशरैर्व्याप्तं पितरं ते महाव्रतम्
।
तं वीरशयने वीरं शयानं पुरुषर्षभम्॥७॥
भीष्ममाधिरथिर्दृष्ट्वा भरतानां महाद्युतिः
।
अवतीर्य रथादार्तो बाष्पव्याकुलिताक्षरम्॥८॥
अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत
।
कर्णोऽहमस्मि भद्रं ते वद मामभिभारत॥९॥
पुण्यया क्षेम्यया वाचा चक्षुषा चावलोकय
।
न नूनं सुकृतस्येह फलं कश्चित् समश्नुते॥१०॥
यत्र धर्मपरो वृद्धः शेते भुवि भवानिह
।
कोशसंचयने मन्त्रे व्यूहे प्रहरणेषु च॥११॥
नाहमन्यं प्रपश्यामि कुरूणां कुरुपुङ्गव
।
बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात्॥१२॥
योधांस्तु बहुधा हत्वा पितृलोकं गमिष्यति
।
अद्यप्रभृति संक्रुद्धा व्याघ्रा इव मृगक्षयम्॥१३॥
पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम्
।
अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनः॥१४॥
कुरवः सन्त्रसिष्यन्ति वज्रपाणेरिवासुराः
।
अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः॥१५॥
त्रासयिष्यति बाणानां कुरूनन्यांश्च पार्थिवान्
।
समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान् दहेत्॥१६॥
धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा बाणाः किरीटिनः
।
येन येन प्रसरतो वाय्वग्नी सहितौ वने॥१७॥
तेन तेन प्रदहतो भूरिगुल्मतृणद्रुमान्
।
यादृशोऽग्निः समुद्भूतस्तादृक् पार्थो न संशयः॥१८॥
यथा वायुर्नरव्याघ्र तथा कृष्णो न सशयः
।
नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च॥१९॥
रसतः शब्दं कुर्वतः ॥१९॥
श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यंति भारत
।
कपिध्वजस्योत्पततो रथस्यामित्रकर्षिणः॥२०॥
शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः
।
को ह्यर्जुनं योधयितुं त्वदन्यः पार्थिवोऽर्हति॥२१॥
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः
।
अमानुषैश्च संग्रामस्त्र्यम्बकेण महात्मना॥२२॥
अमानुषैर्निवातकवचादिभिः ॥२२॥
तस्माच्चैव वरं प्राप्तो दुष्प्रापमकृतात्मभिः
।
कोऽन्यःशक्तो रणे जेतुं पूर्वं यो न जितस्त्वया॥२३॥
जितो येन रणे रामो भवता वीर्यशालिना
।
क्षत्रियान्तकरो घोरो देवदानवदर्पहा॥२४॥
तमद्याहं पाण्डवं युद्धशौण्डममृष्यमाणो भवता चानुशिष्टः
।
आशीविषं दृष्टिहरं सुघोरं शूरं शक्ष्याम्यस्त्रबलान्निहन्तुम्॥२५॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि कर्णवाक्ये तृतीयोऽध्यायः॥३॥
सञ्जय उवाच।
तस्य लालप्यमानस्य कुरुवृद्धः पितामहः
।
देशकालोचितं वाक्यमब्रवीत् प्रीतमानसः॥१॥
तस्येति ॥१॥
समुद्र इव सिंधूनां ज्योतिषामिव भास्करः
।
सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा॥२॥
पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भव
।
बान्धवास्त्वानुजीवन्तु सहस्राक्षमिवामराः॥३॥
मानहा भव शत्रूणां मित्राणां नन्दिवर्धनः
।
कौरवाणां भव गतिर्यथा विष्णुर्दिवौकसाम्॥४॥
स्वबाहुबलवीर्येण धार्तराष्ट्रजयैषिणा
।
कर्ण राजपुरं गत्वा काम्बोजा निर्जितास्त्वया॥५॥
गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः
।
अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया॥६॥
हिमवद्दुर्गनिलयाः किराता रणकर्कशाः
।
दुर्योधनस्य वशगास्त्वया कर्ण पुरा कृताः॥७॥
उत्कला मेकलाः पौण्ड्राः कलिङ्गान्ध्राश्च संयुगे
।
निषादाश्च त्रिगर्ताश्च बाल्हीकाश्च जितास्त्वया॥८॥
तत्र तत्र च संग्रामे दुर्योधनहितैषिणाः
।
बहवश्च जिताः कर्ण त्वया वीरा महौजसा॥९॥
यथा दुर्योधनस्तात सज्ञातिकुलबान्धवः
।
तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव॥१०॥
शिवेनाभिवदामि त्वां गच्छ युद्ध्यस्व शत्रुभिः
।
अनुशाधि कुरून् सङ्ख्ये धत्स्व दुर्योधने जयम्॥११॥
भवान् पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा
।
तवापि धर्मतः सर्वे यथा तस्य वयं तथा॥१२॥
यौनात् संबन्धकाल्लोके विशिष्टं संगतं सताम्
।
सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः॥१३॥
स सत्यसङ्गतो भूत्वा ममेदमिति निश्चितः
।
कुरूणां पालय बलं यथा दुर्योधनस्तथा॥१४॥
निशम्य वचनं तस्य चरणावभिवाद्य च
।
ययौ वैकर्तनः कर्णः समीपं सर्वधन्विनाम्॥१५॥
सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत्
।
व्यूढप्रहरणोरस्कं सैन्यं तत् समबृंहयत्॥१६॥
हृषिताः कुरवः सर्वे दुर्योधनपुरोगमाः
।
उपागतं महाबाहुं सर्वानीकपुरःसरम्॥१७॥
कर्णं दृष्ट्वा महात्मानं युद्धाय समुपस्थितम्
।
क्ष्वेडितास्फोटितरवैः सिंहनादवैरपि
।
धनुःशब्दैश्च विविधैः कुरवः समपूजयन्॥१८॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि कर्णाश्वासे चतुर्थोऽध्यायः॥४॥
सञ्जय उवाच।
रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम्
।
दृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत्॥१॥
रथस्थमिति ॥१॥
सनाथमिव मन्येऽहं भवता पालितं बलम्
।
अत्र किं नु समर्थं यद्धितं तत् संप्रधार्यताम्॥२॥
कर्ण उवाच।
ब्रूहि नः पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप
।
यथा चार्थपतिः कृत्यं पश्यते न तथेतरः॥३॥
अर्थपतिः प्रधानस्वामी ॥३॥
ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर
।
नान्याय्यं हि भवान् वाक्यं बूयादिति मतिर्मम॥४॥
दुर्योधन उवाच।
भीष्मः सेनाप्रणेतासीद्वयसा विक्रमेण च
।
श्रुतेन चोपसंपन्नः सर्वैर्योधगणैस्तथा॥५॥
तेनातियशसा कर्ण घ्नता शत्रुगणान्मम
।
सुयुद्धेन दशाहानि पालिताः स्मो महात्मना॥६॥
तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम्
।
कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम्॥७॥
न विना नायकं सेना मुहूर्तमपि तिष्ठति
।
आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले॥८॥
नेता कर्णधारः ॥८॥
यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा
।
द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम्॥९॥
अदेशिको यथा सार्थः सर्वः कृच्छ्रं समृच्छति
।
अनायका तथा सेना सर्वान् दोषान्समर्छति॥१०॥
अदेशिकोऽग्रेसररहितः ॥१०॥
स भवान् वीक्ष्य सर्वेषु मामकेषु महात्मसु
।
पश्य सेनापतिं युक्तमनु शान्तनवादिह॥११॥
यं हि सेनाप्रणेतारं भवान् वक्ष्यति संयुगे
।
तं वयं सहिताः सर्वे करिष्यामो न संशयः॥१२॥
कर्ण उवाच।
सर्व एव महात्मान इमे पुरुषसत्तमाः
।
सेनापतित्वमर्हन्ति नात्र कार्या विचारणा॥१३॥
कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः
।
युक्ताः श्रुतज्ञा धीमन्त आहवेष्वनिवर्तिनः॥१४॥
संहननं शरीरम् ॥१४॥
युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः
।
एक एव तु कर्तव्यो यस्मिन् वैशेषिका गुणाः॥१५॥
अन्योन्यस्पर्धिनां ह्येषां यद्येकं यं करिष्यसि
।
शेषा विमनसो व्यक्तं न योत्स्यन्ति हितास्तव॥१६॥
अयं च सर्वयोधानामाचार्यः स्थविरो गुरुः
।
युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः॥१७॥
को हि तिष्ठति दुर्धर्षे द्रोणे शस्त्रभृतां वरे
।
सेनापतिःस्यादन्योस्माच्छुक्रांगिरसदर्शनात्॥१८॥
शुक्राङ्गिरसदर्शनात् शुक्रबृहस्पतितुल्यात् ॥१८॥
न च सोऽप्यस्ति ते योधः सर्वराजसु भारत
।
द्रोणं यः समरे यान्तमनुयास्यति संयुगे॥१९॥
एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि
।
एष बुद्धिमतां चैव श्रेष्ठो राजन् गुरुस्तव॥२०॥
एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु
।
जिगीषन्तो सुरान् संख्ये कार्तिकेमिवामराः॥२१॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि कर्णवाक्ये पञ्चमोऽध्यायः॥५॥
सञ्जय उवाच।
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा
।
सेनामध्यगतं द्रोणमिदं वचनमब्रवीत्॥१॥
कर्णस्येति ॥१॥
दुर्योधन उवाच।
वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया
।
वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात्॥२॥
तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि
।
युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते॥३॥
स भवान् पातु नः सर्वान् देवानिव शतक्रतुः
।
भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम॥४॥
भवान्नेत्रं नेता येषां ते ॥४॥
रुद्राणामिव कापाली वसूनामिव पावकः
।
कुबेर इव यक्षाणां मरुतामिव वासवः॥५॥
वसिष्ठ इव विप्राणां तेजसामिव भास्करः
।
पितॄणामिव धर्मेन्द्रो यादसामिव चाम्बुराट्॥६॥
धर्मेन्द्रो यमः । अंबुराट् वरुणः ॥६॥
नक्षत्राणामिव शशी दितिजानामिवोशनाः
।
श्रेष्ठः सेनाप्रणेतॄणां स नः सेनापतिर्भव॥७॥
अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ
।
ताभिः शत्रून् प्रतिव्यूह्य जहीन्द्रो दानवानिव॥८॥
प्रयातु नो भवानग्रे देवानामिव पावकिः
।
अनुयास्यामहे त्वाजौ सौरभेया इवर्षभम्॥९॥
पावकिः स्कन्दः ॥९॥
उग्रधन्वा महेष्वासो दिव्यं विस्फारयन् धनुः
।
अग्रेभवं त्वां तु दृष्ट्वा नार्जुनः प्रहरिष्यति॥१०॥
ध्रुवं युधिष्ठिरं संख्ये सानुबन्धं सबान्धवम्
।
जेष्यामि पुरुषव्याघ्र भवान् सेनापतिर्यदि॥११॥
सञ्जय उवाच।
एवमुक्ते ततो द्रोणं जयेत्यूचुर्नराधिपाः
।
सिंहनादेन महता हर्षयन्तस्तवात्मजम्॥१२॥
सैनिकाश्च मुदा युक्ता वर्धयन्ति द्विजोत्तमम्
।
दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः
।
दुर्योधनं ततो राजन् द्रोणो वचनमब्रवीत्॥१३॥
इति श्रीमहभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि द्रोणप्रोत्साहने षष्ठोऽध्यायः॥६॥
द्रोण उवाच।
वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम्
।
त्रैय्यम्बकमथेष्वस्त्रं शस्त्राणि विविधानि च॥१॥
वेदमिति ॥१॥
ये चाप्युक्ता मयि गुणा भवद्भिर्जयकांक्षिभिः
।
चिकीर्षुस्तानहं सर्वान् योधयिष्यामि पाण्डवान्॥२॥
पार्षतं तु रणे राजन्न हनिष्ये कथंचन
।
स हि सृष्टो वधार्थाय ममैव पुरुषर्षभः॥३॥
योधयिष्यामि सैन्यानि नाशयन् सर्वसोमकान्
।
न च मां पाण्डवा युद्धे योधयिष्यन्ति हर्षिताः॥४॥
सञ्जय उवाच।
स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः
।
द्रोणं तव सुतो राजन् विधिदृष्टेन कर्मणा॥५॥
अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः
।
सैनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः॥६॥
ततो वादित्रघोषेण शंखानां च महास्वनैः
।
प्रादुरासीत् कृते द्रोणे हर्षः सेनापतौ तदा॥७॥
ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च
।
संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम्॥८॥
जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा
।
सत्कृत्य विधिना द्रोणं मेनिरे पाण्डवाञ्जितान्॥९॥
सुभगानर्तितैः सौभाग्यवतीनृत्यैः ॥९॥
सञ्जय उवाच।
सैनापत्यं तु संप्राप्य भारद्वाजो महारथः
।
युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह॥१०॥
सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजाः
।
दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः॥११॥
प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः
।
ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः॥१२॥
कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः
।
दुःशासनमुखा यत्ताः सव्यं पक्षमपालयन्॥१३॥
तेषां प्रपक्षाः कांबोजाः सुदक्षिणपुरःसराः
।
ययुरश्वैर्महावेगैः शकाश्च यवनैः सह॥१४॥
मद्रास्त्रिगर्ताः सांबष्ठाः प्रतीच्योदीच्यमालवाः
।
शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह॥१५॥
सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः
।
तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः॥१६॥
हर्षयन्तः स्वसैन्यानि ययुस्तव सुतैः सह
।
प्रवरः सर्वयोधानां बलेषु बलमादधत्॥१७॥
ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम्
।
तस्य दीप्तो महाकायः स्वान्यनीकानि हर्षयन्॥१८॥
हस्तिकक्ष्यो महाकेतुर्बभौ सूर्यसमद्युतिः
।
न भीष्मव्यसनं कश्चिद्दृष्ट्वा कर्णममन्यत॥१९॥
विशोकाश्चाभवन् सर्वे राजानः कुरुभिः सह
।
हृष्टाश्च बहवो योधास्तत्राजल्पन्त वेगतः॥२०॥
न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः
।
कर्णो हि समरे शक्तो जेतुं देवान् सवासवान्॥२१॥
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान्
।
भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना॥२२॥
तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यति संयुगे
।
एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशांपते॥२३॥
राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः
।
अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत्॥२४॥
परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम्
।
प्रीयमाणेन विहितो धर्मराजेन भारत॥२५॥
व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ
।
वानरध्वजमुच्छ्रित्य विष्वक्सेनधनञ्जयौ॥२६॥
ककुदं सर्वसैन्यानां धाम सर्वधनुष्मताम्
।
आदित्यपथगः केतुः पार्थस्यामिततेजसः॥२७॥
आदित्यपथगः आकाशगः ॥२७॥
दीपयामास तत् सैन्यं पाण्डवस्य महात्मनः
।
यथा प्रज्वलितः सूर्यो युगान्ते वै वसुन्धराम्॥२८॥
दीष्यन् दृश्येत हि तथा केतुः सवत्र धीमतः
।
योधानामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम्॥२९॥
वासुदेवश्च भूतानां चक्राणां च सुदर्शनम्
।
चत्वार्येतानि तेजांसि वहन् श्वेतहयो रथः॥३०॥
परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम्
।
एवं तौ सुमहात्मानौ बलसेनाग्रगावुभौ॥३१॥
तावकानां मुखे कर्णः परेषां च धनञ्जयः
।
ततो जयाभिसंरब्धौ परस्परवधैषिणौ॥३२॥
अवेक्षेतां तदाऽन्योन्यं समरे कर्णपाण्डवौ
।
ततः प्रयाते सहसा भारद्वाजे महारथे॥३३॥
आर्तनादेन घोरेण वसुधा समकम्पत
।
ततस्तुमुलमाकाशमावृणोत् सदिवाकरम्॥३४॥
वातोद्धूतं रजस्तीव्रं कौशेयनिकरोपमम्
।
ववर्ष द्यौरनभ्रापि मांसास्थिरुधिराण्युत॥३५॥
गृध्राः श्येना बकाः कङ्का वायसाश्च सहस्रशः
।
उपर्युपरि सेनां ते तदा पर्यपतन्नृप॥३६॥
गोमायवश्च प्राक्रोशन् भयदान्दारुणान् रवान्
।
अकार्षुरपसव्यं च बहुशः पृतनां तव॥३७॥
चिखादिषंतो मांसानि पिपासंतश्च शोणितम्
।
अपतद्दीप्यमाना च सनिर्घाता सकम्पना॥३८॥
उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्त्य सर्वशः
।
परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान्॥३९॥
भास्करस्याभवद्राजन् प्रयाते वाहिनीपतौ
।
एते चान्ये च बहवः प्रादुरासन् सुदारुणाः॥४०॥
उत्पाता युधि वीराणां जीवितक्षयकारिणः
।
ततः प्रववृते युद्धं परस्परवधैषिणाम्॥४१॥
कुरुपाण्डवसैन्यानां शब्देनापूरयज्जगत्
।
ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह॥४२॥
अभ्यघ्नन्निशितैः शस्त्रैर्जयगृद्धाः प्रहारिणः
।
स पाण्डवानां महतीं महेष्वासो महाद्युतिः॥४३॥
वेगेनाभ्यद्रवत्सेनां किरन् शरशतैः शितः
।
द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः॥४४॥
प्रत्यगृह्णंस्तदा राजञ्छरवर्षेः पृथक् पृथक्
।
विक्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः॥४५॥
व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः
।
बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे॥४६॥
अपीडयत् क्षणेनैव द्रोणः पाण्डवसृञ्जयान्
।
ते वध्यमाना द्रोणेन वासवेनेव दानवाः॥४७॥
पञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः
।
ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः॥४८॥
अभिनच्छरवर्षेण द्रोणानीकमनेकधा
।
द्रोणस्य शरवर्षाणि शरवर्षेण पार्षतः॥४९॥
सन्निवार्य ततः सर्वान् कुरूनप्यवधीद्बली
।
संयम्य तु ततो द्रोणः समवस्थाप्य चाहवे॥५०॥
स्वमनीकं महेष्वासः पार्षतं समुपाद्रवत्
।
स बाणवर्षं सुमहदसृजत् पार्षतं प्रति॥५१॥
मघवान् समभिक्रुद्धः सहसा दानवानिव
।
ते कंप्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः॥५२॥
पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः
।
तथा पर्यचरद्द्रोणः पाण्डवानां बले बली
।
अलातचक्रवद्राजंस्तदद्भुतमिवाभवत्॥५३॥
खचरनगरकल्पं कल्पितं शास्त्रदृष्ठ्या
।
चलदनिलपताकं ल्हादनं वल्गिताश्वम्
।
स्फटिकविमलकेतुं त्रासनं शात्रवाणाम्
।
रथवरमधिरूढः संजहारारिसेनाम्॥५४॥
ह्लादनं योद्धुरानन्दजननम् ॥५४॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि द्रोणपराक्रमे सप्तमोऽध्यायः॥७॥
सञ्जय उवाच।
तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान्
।
व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन्॥१॥
तथेति ॥१॥
ततो युधिष्ठिरो राजा धृष्टद्युम्नधनञ्जयौ
।
अब्रवीत् सर्वतो यत्तैः कुंभयोनिर्निवार्यताम् ॥२॥
तत्रैनमर्जुनश्चैव पार्षतश्च सहानुगः
।
प्रत्यगृण्हात् ततः सर्वे समापेतुर्महारथाः॥३॥
केकया भीमसेनश्च सौभद्रोऽथ घटोत्कचः
।
युधिष्ठिरो यमौ मत्स्या द्रुपदस्यात्मजास्तथा॥४॥
द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्यकिः
।
चेकितानश्च संक्रुद्धो युयुत्सुश्च महारथः॥५॥
ये चान्ये पार्थिवा गजन् पाण्डवस्यानुयायिनः
।
कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः॥६॥
संरक्ष्यमाणां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे
।
व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत॥७॥
स तीव्रं कोपमास्थाय रथे समरदुर्जयः
।
व्यधमत् पाण्डवानीकमभ्राणीव सदागतिः॥८॥
रथानश्वान्नरान्नागानभिधावन्नितस्ततः
।
चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा॥९॥
तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः
।
आजानेया हया राजन्नविश्रान्ता ध्रुवं ययुः॥१०॥
तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम्
।
दृष्ट्वा संप्राद्रवन् योधाः पाण्डवस्य ततस्ततः॥११॥
तेषां प्राद्रवतां भीमः पुनरावर्ततामपि
।
पश्यतां तिष्ठतां चासीच्छब्दः परमदारुणः॥१२॥
भीमः शब्दः इति सम्बन्धः ॥१२॥
शूराणां हर्षजननो भीरूणां भयवर्धनः
।
द्यावापृथिव्योर्विवरं पूरयामास सर्वतः॥१३॥
ततः पुनरपि द्रोणो नाम विश्रावयन् युधि
।
अकरोद्रौद्रमात्मानं किरञ्छरशतैः परान्॥१४॥
स तथा तेष्वनीकेषु पाण्डुपुत्रस्य मारिष
।
कालवद्व्यचरद्द्रोणो युवेव स्थविरो बली॥१५॥
उत्कृत्य च शिरांस्युग्रान् बाहूनपि सुभूषणान्
।
कृत्वा शून्यान् रथोपस्थानुदक्रोशन्महारथान्॥१६॥
तस्य हर्षप्रणादेन बाणवेगेन वा विभो
।
प्राकम्पन्त रणे योधा गावः शीतार्दिता इव॥१७॥
द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च
।
धनुःशब्देन चाकाशे शब्दः समभवन्महान्॥१८॥
अथास्य धनुषो बाणा निश्चरन्तः सहस्रशः
।
व्याप्य सर्वा दिशः पेतुर्नागाश्वरथपत्तिषु॥१९॥
तं कार्मुकमहावेगमस्त्रज्वलितपावकम्
।
द्रोणमासादयांचक्रुः पञ्चालाः पाण्डवैः सह॥२०॥
तान् सकुञ्जरपत्त्यश्वान् प्राहिणोद्यमसादनम्
।
चक्रेऽचिरेण च द्रोणो महीं शोणितकर्दमाम्॥२१॥
तन्वता परमास्त्राणि शरान् सततमस्यता
।
द्रोणेन विहितं दिक्षु शरजालमदृश्यत॥२२॥
पदातिषु रथाश्वेषु वारणेषु च सर्वशः
।
तस्य विद्युदिवाभ्रेषु चरन् केतुरदृश्यत॥२३॥
सकेकयानां प्रवरांश्च पञ्च पञ्चालराजं च शरैः प्रमथ्य
।
युधिष्ठिरानीकमदीनसत्त्वो द्रोणोऽभ्ययात् कार्मुकबाणपाणिः॥२४॥
तं भीमसेनश्च धनञ्जयश्च शिनेश्च नप्ता द्रुपदात्मजश्च
।
शैब्यात्मजः काशिपतिः शिबिश्च दृष्ट्वा नदन्तो व्यकिरञ्छरौघैः॥२५॥
तेषामथ द्रोणधनुर्विमुक्ताः पतत्रिणः काञ्चनचित्रपुङ्खाः
।
भित्त्वा शरीराणि गजाश्वयूनां जग्मुर्महीं शोणितदिग्धवाजाः॥२६॥
सा योधसङ्घैश्च रथैश्च भूमिः शरैर्विभिन्नैर्गजवाजिभिश्च
।
प्रच्छाद्यमाना पतितैर्बभूव समावृता द्यौरिव कालमेघैः॥२७॥
शैनेयभीमार्जुनवाहिनीशं सौभद्रपाञ्चालसकाशिराजम्
।
अन्यांश्च वीरान् समरे ममर्द द्रोणः सुतानां तव भूतिकामः॥२८॥
एतानि चान्यानि च कौरवेन्द्र कर्माणि कृत्वा समरे महात्मा
।
प्रताप्य लोकानिव कालसूर्यो द्रोणो गतः स्वर्गमितो हि राजन्॥२९॥
एवं रुक्मरथः शूरो हत्वा शतसहस्रशः
।
पाण्डवानां रणे योधान् पार्षतेन निपातितः॥३०॥
अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम्
।
निहत्य पश्चाद्धृतिमानगच्छत् परमां गतिम्॥३१॥
पाण्डवैः सह पञ्चालैरशिवैः क्रूरकर्मभिः
।
हतो रुक्मरथो राजन् कृत्वा कर्म सुदुष्करम्॥३२॥
ततो निनादो भूतानामाकाशे समजायत
।
सैन्यानां च ततो राजन्नाचार्ये निहते युधि॥३३॥
द्यां धरां खं दिशो वापि प्रदिशश्चानुनादयन्
।
अहो धिगिति भूतानां शब्दः समभवद्भृशम्॥३४॥
देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः
।
ददृशुर्निहतं तत्र भारद्वाजं महारथम्॥३५॥
पांडवास्तु जयं लब्ध्वा सिंहनादान् प्रचक्रिरे
।
सिंहनादेन महता समकम्पत मेदिनी॥३६॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि द्रोणवधश्रवणे अष्टमोऽध्यायः॥८॥
धृतराष्ट्र उवाच।
किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः
।
तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि॥१॥
किं कुर्वाणमिति ॥१॥
रथभङ्गो बभूवास्य धनुर्वाशीर्यतास्यतः
।
प्रमत्तो वाऽभवद्द्रोणस्ततो मृत्युमुपेयिवान्॥२॥
अस्यतः शरानिति शेषः ॥२॥
कथं तु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम्
।
किरन्तभिषुसङ्घातान् रुक्मपुंखाननेकशः॥३॥
क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम्
।
दूरेषुपातिनं दान्तमस्त्रयुद्धेषु पारगम्॥४॥
पाञ्चालपुत्रो न्यवधीद्दिव्यास्त्रधरमच्युतम्
।
कुर्वाणं दारुणं कर्म रणे यत्तं महारथम्॥५॥
व्यक्तं हि दैवं बलवत्पौरुषादिति मे मतिः
।
यद्द्रोणो निहतः शूरः पार्षतेन महात्मना॥६॥
अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत् प्रतिष्ठितम्
।
तमिष्वस्त्रधराचार्यं द्रोणं शंससि मे हतम्॥७॥
इष्वस्त्रधराचार्यं धनुर्धराचार्यम् ॥७॥
श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारितम्
।
जातरूपपरिष्कारं नाद्य शोकसुपाददे॥८॥
न नूनं परदुःखेन म्रियते कोऽपि सञ्जय
।
यत्र द्रोणमहं श्रुत्वा हतं जीवामि मन्दधीः॥९॥
दैवमेव परं मन्ये नन्वनर्थं हि पौरुषम्
।
अश्मसारमयं नूनं हृदयं सुदृढं मम॥१०॥
अश्मसारो लोहम् ॥१०॥
यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते
।
ब्राह्मे दैवे तथेष्वस्त्रे यमुपासन् गुणार्थिनः॥११॥
विसर्पणं क्षेपणम् ॥११॥
ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हृतः
।
शोषणं सागरस्येव मेरोरिव विसर्पणम्॥१२॥
पतनं भास्करस्येव न मृष्ये द्रोणपातनम्
।
दुष्टानां प्रतिषेद्धासीद्धार्मिकाणां च रक्षिता॥१३॥
योऽहासीत् कृपणर्स्योथ प्राणानपि परंतपः
।
मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे॥१४॥
बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम्
।
ते च शोणा बृहन्तोऽश्वाश्छन्ना जालैर्हिरण्मयैः॥१५॥
रथे वातजवायुक्ताः सर्वशस्त्रातिगा रणे
।
बलिनो ह्रेषिणो दान्ताः सैन्धवाः साधुवाहिनः॥१६॥
बलिनस्तेजस्विनः ॥१६॥
दृढाः संग्राममध्येषु कच्चिदासन्न विह्वलाः
।
करिणां बृंहतां युद्धे शंखदुन्दुभिनिःस्वनैः॥१७॥
ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः
।
आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः॥१८॥
हयाः पराजिताः शीघ्रा भारद्वाजरथोद्वहाः
।
ते स्म रुक्मरथे युक्ता नरवीरसमाहताः॥१९॥
कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम्
।
जातरूपपरिष्कारमास्थाय रथमुत्तमम्॥२०॥
भारद्वाजः किमकरोद्युधि सत्यपराक्रमः
।
विद्यां यस्योपजीवन्ति सर्वलोकधनुर्धराः॥२१॥
स सत्यसन्धो बलवान् द्रोणः किमकरोद्युधि
।
दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम्॥२२॥
महामात्रं प्रधानम् ॥२२॥
के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः
।
ननु रुक्मरथं दृष्ट्वा प्राद्रवन्ति स्म पाण्डवाः॥२३॥
दिव्यमस्त्रं विकुर्वाणं रणे तस्मिन्महाबलम्
।
उताहो सर्वसैन्येन धर्मराजः सहानुजः॥२४॥
पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत्
।
नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः॥२५॥
पाञ्चाल्यप्रग्रहः पाञ्चाल्यः प्रग्रहो बन्धनरज्जुर्यस्य ॥२५॥
ततो द्रोणं समारोहत् पार्षतः पापकर्मकृत्
।
न ह्यहं परिपश्यामि वधे कञ्चन शुष्मिणः॥२६॥
शुष्मिणस्तेजस्विनः ॥२६॥
धृष्टद्युम्नादृते रौद्रात् पाल्यमानात् किरीटिना
।
तैर्वृतः सर्वतः शूरः पाञ्चाल्यापसदस्ततः॥२७॥
अपसदोऽधमः ॥२७॥
केकयैश्चेदिकारूपैर्मत्स्यैरन्यैश्च भूमिपैः
।
व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा॥२८॥
कर्मण्यसुकरे सक्तं जघानेति मतिर्मम
।
योऽधीत्य चतुरो वेदान् साङ्गानाख्यानपञ्चमान्॥२९॥
आख्यानं पुराणभारतादि ॥२९॥
ब्राह्मणानां प्रतिष्ठासीत् स्रोतसामिव सागरः
।
क्षत्रं च ब्रह्म चैवेह योऽभ्यतिष्ठत् परंतपः॥३०॥
स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान्
।
अमर्षिणा मर्पितवान् क्लिश्यमानान्सदा मया॥३१॥
अनर्हमाणान् कौन्तेयान् कर्मणस्तस्य तत् फलम्
।
यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः॥३२॥
स सत्यसन्धः सुकृती श्रीकामौर्निहतः कथम्
।
दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः॥३३॥
स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः
।
क्षिप्रहस्तश्च बलवान् दृढधन्वाऽरिमर्दनः॥३४॥
न यस्य विजयाकांक्षी विषयं प्राप्य जीवति
।
यं द्वौ न जहतः शब्दौ जीवमानं कदाचन॥३५॥
ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुष्मताम्
।
अदीनं पुरुषव्याघ्रं ह्रीमन्तमपराजितम्॥३६॥
नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम्
।
कथं सञ्जय दुर्धर्षमनाधृष्ययशोबलम्॥३७॥
पश्यतां पुरुषेन्द्राणां समरे पार्षतोऽवधीत्
।
के पुरस्तादयुध्यन्त रक्षन्तो द्रोणमन्तिकात्॥३८॥
के तु पश्चादवर्तन्त गच्छतो दुर्गमां गतिम्
।
केऽरक्षन् दक्षिणं चक्रं सव्यं के च महात्मनः॥३९॥
पुरस्तात् के च वीरस्य युध्यमानस्य संयुगे
।
के च तस्मिंस्तनूंस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन्॥४०॥
द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम्
।
कच्चिन्नैनं भयान्मन्दाः क्षत्रिया व्यजहन् रणे॥४१॥
रक्षितारस्ततः शून्ये कश्चित्तैर्न हतः परैः
।
न स पृष्ठमरेस्त्रासाद्रणे शौर्यात् प्रदर्शयेत्॥४२॥
परामप्यापदं प्राप्य स कथं निहतः परैः
।
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय॥४३॥
पराक्रमेद्यथाशक्त्या तच्च तस्मिन् प्रतिष्ठितम्
।
मुह्यते मे मनस्तात कथा तावन्निवार्यताम्॥४४॥
भूयस्तु लब्धसंज्ञस्त्वां परिपृच्छामि सञ्जय॥४५॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि धृतराष्ट्रशोके नवमोऽध्यायः॥९॥
वैशम्पायन उवाच।
एतत् पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम्
।
जये निराशः पुत्राणां धृतराष्ट्रोऽपतत् क्षितौ॥१॥
एतदिति ॥१॥
तं विसंज्ञं निपतितं सिषिचुः परिचारिकाः
।
जलेनात्यर्थशीतेन वीजन्त्यः पुण्यगन्धिना ॥२॥
पतितं चैनमालोक्य समन्ताद्भरतस्त्रियः
।
परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः॥३॥
उत्थाप्य चैनं शनकै राजानं पृथिवीतलात्
।
आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराननाः ॥४॥
आसनं प्राप्य राजा तु मूर्छयाऽभिपरिप्लुतः
।
निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः॥५॥
स लब्ध्वा शनकैः संज्ञां वेपमानो महीपतिः
।
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥६॥
धृतराष्ट्र उवाच।
यः स उद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः
।
अजातशत्रुमायान्तं कस्तं द्रोणादवारयत् ॥७॥
सः प्रसिद्धः तमजातशत्रुम् आयान्तं दृष्ट्वा द्रोणात् कः अवारयदित्यन्वयः । सार्धश्लोकद्वयमेकं वाक्यम् ॥७॥
प्रभिन्नमिव मातङ्गं यथा क्रुद्धं तरस्विनम्
।
प्रसन्नवदनं दृष्ट्वा प्रतिद्विरदगामिनम् ॥८॥
वासितासंगमे यद्वदजय्यं प्रति यूथपैः
।
निजघान रणे वीरान् वीरः पुरुषसत्तमः ॥९॥
यो ह्येको हि महावीर्यो निर्दहेद्धोरचक्षुषा
।
कृत्स्नं दुर्योधनबलं धृतिमान् सत्यसंगरः॥१०॥
चक्षुर्हणं जये सक्तमिष्वासधरमच्युतम्
।
दान्तं बहुमतं लोके के शूराः पर्यवारयन्॥११॥
के दुष्प्रधर्षं राजानमिष्वासधरमच्युतम्
।
समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः॥१२॥
तरसैवाभिपद्याथ यो वै द्रोणमुपाद्रवत्
।
यः करोति महत् कर्म शत्रूणां वै महाबलः॥१३॥
यदा अयात् यदा च दुर्योधनपुरोगमान् गार्ध्रपत्रैरभ्यषिञ्चत्तदा वो मनः कीदृशमभूदिति षष्ठेनान्वयः ॥१३॥
महाकायो महोत्साहो नागायुतसमो बले
।
तं भीमसेनमायान्तं के शूराः पर्यवारयन्॥१४॥
यदाऽऽयाज्जलदप्रख्यो रथः परमवीर्यवान्
।
पर्जन्य इव बीभत्सुस्तुमुलामशनीं सृजन्॥१५॥
विसृजञ्छरजालानि वर्षाणि मघवानिव
।
अवस्फूर्जन् दिशः सर्वास्तलनेमिस्वनेन च॥१६॥
चापविद्युत्प्रभो घोरो रथगुल्मचलाहकः
।
स नेमिघोषस्तनितः शरशब्दातिबन्धुरः॥१७॥
रोषनिर्जितजीमूतो मनोभिप्रायशीघ्रगः
।
मर्मातिगो बाणधरस्तुमुलः शोणितोदकैः॥१८॥
संप्लावयन् दिशः सर्वा मानवैरास्तरन् महीम्
।
भीमनिः स्वनितो रौद्रो दुर्योधनपुरोगमान्॥१९॥
युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः
।
गाण्डीवं धारयन् धीमान् कीदृशं वो मनस्तदा॥२०॥
इषुसंबाधमाकाशं कुर्वन् कपिवरध्वजः
।
यदायात् कथमासीत् तदा पार्थं समीक्षताम्॥२१॥
कच्चिद्गाण्डीवशब्देन न प्रणश्यति वै बलम्
।
यद्वः सभैरवं कुर्वन्नर्जुनो भृशमन्वयात्॥२२॥
कच्चिन्नापानुदत् प्राणानिषुभिर्वो धनञ्जयः
।
वातो वेगादिवाविध्यन्मेघान् शरगणैर्नृपान्॥२३॥
को हि गाण्डीवधन्वानं रणे सोढुं नरोऽर्हति
।
यमुपश्रुत्य सेनाग्रे जनः सर्वो विदीर्यते ॥२४॥
यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम्
।
के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन् भयात्॥२५॥
के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन्
।
अमानुषाणां जेतारं युद्धेष्वपि धनञ्जयम्॥२६॥
न च वेगं सिताश्वस्य विसहिष्यन्ति मामकाः
।
गाण्डीवस्य च निर्घोषं प्रावृड्जलदनिःस्वनम्॥२७॥
विष्वक्सेनो यस्य यन्ता यस्य योद्धा धनञ्जयः
।
अशक्यः स रथो जेतुं मन्ये देवासुरैरपि॥२८॥
सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः
।
मेधावी निपुणो धीमान् युधि सत्यपराक्रमः॥२९॥
आरावं विपुलं कुर्वन् व्यथयन् सर्वसैनिकान्
।
यदाऽऽयान्नकुलो द्रोणं के शूराः पर्यवारयन्॥३०॥
आशीविष इव क्रुद्धः सहदेवो यदाभ्ययात्
।
कदनं करिष्यन् शत्रूणां तेजसा दुर्जयो युधि॥३१॥
आर्यव्रतममोघेषुं ह्रीमन्तमपराजितम्
।
सहदेवं तमायान्तं के शूराः पर्यवारयन्॥३२॥
यस्तु सौवीरराजस्य प्रमथ्य महतीं चमूम्
।
आदत्त महिषीं भोजां काम्यां सर्वाङ्गशोभनाम्॥३३॥
सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम्
।
सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे॥३४॥
युयुधाने सात्यकौ ॥३४॥
बलिनं सत्यकर्माणमदीनमपराजितम्
।
वासुदेवसमं युद्धे वासुदेवादनन्तरम्॥३५॥
धनञ्जयोपदेशेन श्रेष्ठमिष्वस्त्रकर्मणि
।
पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत्॥३६॥
वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम्
।
रामेण सममस्त्रेषु यशसा विक्रमेण च॥३७॥
सत्यं धृतिर्मतिः शौर्यं ब्राह्मं चास्त्रमनुत्तमम्
।
सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे॥३८॥
सात्वते सात्यकौ ॥३८॥
तमेवंगुणसम्पन्नं दुर्वारमपि दैवतैः
।
समासाद्य महेष्वासं के शूराः पर्यवारयन्॥३९॥
पञ्चालेषूत्तमं वीरमुत्तमाभिजनप्रियम्
।
नित्यमुत्तमकर्माणमुत्तमौजसमाहवे॥४०॥
युक्तं धनञ्जयहिते ममानर्थार्थमुत्थितम्
।
यमवैश्रवणादित्यमहेन्द्र वरुणोपमम् ॥४१॥
महारथं समाख्यातं द्रोणायोद्यतमाहवे
।
त्यजन्तं तुमुले प्राणान् के शूराः समवारयन्॥४२॥
एकोपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः
।
धृष्टकेतुं समायान्तं द्रोणं कस्तं न्यवारयत्॥४३॥
योऽवधीत् केतुमान् वीरो राजपुत्रं दुरासदम्
।
अपरान्तगिरिद्वारे द्रोणात् कस्तं न्यवारयत्॥४४॥
स्त्रीपुंसयोर्नरव्याघ्रो यः स वेद गुणागुणान्
।
शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि॥४५॥
देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः
।
द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन्॥४६॥
यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनञ्जयात्
।
यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च सर्वदा॥४७॥
वासुदेवसमं वीर्ये धनञ्जयसमं बले
।
तेजसाऽऽदित्यसदृशं बृहस्पतिसमं मतौ॥४८॥
अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम्
।
द्रोणायाभिमुखं यान्तं के शूराः समवारयन्॥४९॥
तरुणस्तरुणप्रज्ञः सौभद्रः परवीरहा
।
यदाभ्यधावद्वै द्रोणं तदासीद्वो मनः कथम्॥५०॥
द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः
।
यद्द्रोणमाद्रवन् संख्ये के शूरास्तान्यवारयन्॥५१॥
एते द्वादश वर्षाणि क्रीडामुत्सृज्य बालकाः
।
अस्त्रार्थमवसन् भीष्मे बिभ्रतो व्रतमुत्तमम्॥५२॥
क्षत्रंजयः क्षत्रदेवः क्षत्रवर्मा च मानदः
।
धृष्टद्युम्नात्मजा वीराः के तान् द्रोणादवारयन्॥५३॥
शताद्विशिष्टं यं युद्धे सममन्यन्त वृष्णयः
।
चेकितानं महेष्वासं कस्तं द्रोणादवारयत्॥५४॥
वार्धक्षेभिः कलिङ्गानां यः कन्यामाहरद्युधि
।
अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत्॥५५॥
भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः
।
इन्द्रगोपकसङ्काशा रक्तवर्मायुधध्वजाः॥५६॥
मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः
।
तान् द्रोणं हन्तुमायातान् के वीराः पर्यवारयन्॥५७॥
यं योधयन्तो राजानो नाजयन् वारणावते
।
षण्मासानपि संरब्धा जिघांसन्तो युधांपतिम्॥५८॥
धनुष्मतां वरं शूरं सत्यसन्धं महाबलम्
।
द्रोणात् कस्तं नरव्याघ्रं युयुत्सुं पर्यवारयत्॥५९॥
यः पुत्रं काशिराजस्य वाराणस्यां महारथम्
।
समरे स्त्रीषु गृध्यन्तं भल्लेनापाहरद्रथात्॥६०॥
धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम्
।
युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च॥६१॥
निर्दहन्तं रणे योधान् दारयन्तं च सर्वतः
।
द्रोणाभिमुखमायान्तं के शूराः पर्यवारयन्॥६२॥
उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम्
।
शैखण्डिनं शस्त्रगुप्तं के च द्रोणादवारयन्॥६३॥
य इमां पृथिवीं कृत्स्नां चर्मवत् समवेष्टयत्
।
महता रथघोषेण मुख्यारिघ्नो महारथः॥६४॥
दशाश्वमेधानाजह्रे स्वन्नपानाप्तदाक्षिणान्
।
निरर्गलान्सर्वमेधान् पुत्रवत् पालयन् प्रजाः॥६५॥
गङ्गास्रोतसि यावत्यः सिकता अप्यशेषतः
।
तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे॥६६॥
न पूर्वे नापरे चक्रुरिदं केचन मानवाः
।
इतीदं चुक्रुशुर्देवाः कृते कर्मणि दुष्करे॥६७॥
पश्यामस्त्रिषु लोकेषु न तं सं स्थास्नुचारिषु
।
जातं चापि जनिष्यन्तं द्वितीयं चापि सांप्रतम्॥६८॥
स्थास्नुचारिषु स्थावरजङ्गमात्मकेषु समित्यस्य व्यवहितेन पश्याम इत्यनेन सम्बन्धः ॥६८॥
अन्यमौशीनराच्छैब्याद्धुरो वोढारमित्युत
।
गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः॥६९॥
तस्य नप्तारमायान्तं शैब्यं कः समवारयत्
।
द्रोणायाभिमुखं यत्तं व्यात्ताननमिवान्तकम्॥७०॥
विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः
।
प्रेप्सन्तं सुमरे द्रोणं के वीराः पर्यवारयन्॥७१॥
सद्यो वृकोदराज्जातो महाबलपराक्रमः
।
मायावी राक्षसो वीरो यस्मान्मम महद्भयम्॥७२॥
पार्थानां जयकामं तं पुत्राणां मम कण्टकम्
।
घटोत्कचं महात्मानं कस्तं द्रोणादवारयत्॥७३॥
एते चान्ये च बहवो येषामर्थाय सञ्जय
।
त्यक्तारः संयुगे प्राणान् किं तेषामजितं युधि॥७४॥
येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः
।
हितार्थी चापि पार्थानां कथं तेषां पराजयः॥७५॥
लोकानां गुरुरत्यर्थं लोकनाथः सनातनः
।
नारायणो रणे नाथो दिव्यो दिव्यात्मकः प्रभुः॥७६॥
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः
।
तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः॥७७॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि धृतराष्ट्रवाक्ये दशमोऽध्यायः॥१०॥
धृतराष्ट्र उवाच।
शृणु दिव्यानि कर्माणि वासुदेवस्य सञ्जय
।
कृतवान्यानि गोविन्दो यथा नान्यः पुमान् क्वचित्॥१॥
शृण्विति ॥१॥
संवर्धता गोपकुले बालेनैव महात्मना
।
विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु सञ्जय॥२॥
उच्चैःश्रवस्तुल्यबलं वायुवेगसमं जवे
।
जघान हयराजं तं यमुनावनवासिनम्॥३॥
हयराजं केशिनम् ॥३॥
दानवं घोरकर्माणं गवां मृत्युमिवोत्थितम्
।
वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह॥४॥
प्रलम्बं नरकं जम्भं पीठं चापि महासुरम्
।
मुरुं चान्तकसङ्काशमवधीत् पुष्करेक्षणः॥५॥
तथा कंसो महातेजा जरासन्धेन पालितः
।
विक्रमेणैव कृष्णेन सगणः पातितो रणे॥६॥
विक्रमेणैव अस्रं विना ॥६॥
सुनामा रणविक्रान्तः समग्राक्षौहिणीपतिः
।
भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् ॥७॥
बलदेवद्वितीयेन कृष्णेनामित्रघातिना
।
तरस्वी समरे दग्धः ससैन्यः शूरसेनराट्॥८॥
दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः
।
आराधितः सदारेण स चास्मै प्रददौ वरान्॥९॥
तथा गान्धारराजस्य सुतां वीरः स्वयंवरे
।
निर्जित्य पृथिवीपालानावहत् पुष्करेक्षणः॥१०॥
अमृष्यमाणा राजानो यस्य जात्या हया इव
।
रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः॥११॥
जरासन्धं महाबाहुमुपायेन जनार्दनः
।
परेण घातयामास समग्राक्षौहिणीपतिम्॥१२॥
परेण भीमेन ॥१२॥
चेदिराजं च विक्रान्तं राजसेनापतिं बली
।
अर्घे विवदमानं च जघान पशुवत् तदा॥१३॥
सौभं दैत्यपुरं स्वस्थं शाल्वगुप्तं दुरासदम्
।
समुद्रकुक्षौ विक्रम्य पातयामास माधवः॥१४॥
अङ्गान् वङ्गान् कलिङ्गांश्च मागधान् काशिकोसलान्
।
वात्स्यगार्ग्यकरूषांश्च पौण्ड्रांश्चाप्यजयद्रणे॥१५॥
आवन्त्यान् दाक्षिणात्यांश्च पार्वतीयान् दशेरकान्
।
काश्मीरकानौरसिकान् पिशाचांश्च समुद्गलान्॥१६॥
काम्बोजान् वाटधानांश्च चोलान् पाण्ड्यांश्च सञ्जय
।
त्रिगर्तान् मालवांश्चैव दरदांश्च सुदुर्जयान्॥१७॥
नानादिग्भ्यश्च संप्राप्तान् खशांश्चैव शकांस्तथा
।
जितवान् पुण्डरीकाक्षो यवनं च सहानुगम्॥१८॥
प्रविश्य मकरावासं यादोगणनिषेवितम्
।
जिगाय वरुणं संख्ये सलिलान्तर्गतं पुरा॥१९॥
युधि पञ्चजनं हत्वा दैत्यं पातालवासिनम्
।
पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान्॥२०॥
खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम्
।
आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः॥२१॥
वैनतेयं समारुह्य त्रासयित्वाऽमरावतीम्
।
महेन्द्रभवनाद्वीरः पारिजातमुपानयत् ॥२२॥
तच्च मर्षितवान् शक्रो जानंस्तस्य पराक्रमम्
।
राज्ञां चाप्यजितं कञ्चित् कृष्णेनेह न शुश्रुम॥२३॥
यच्च तन्महदाश्चर्यं सभायां मम सञ्जय
।
कृतवान् पुण्डरीकाक्षः कस्तदन्य इहार्हति॥२४॥
यच्च भक्त्या प्रसन्नोऽहमद्राक्षं कृष्णमीश्वरम्
।
तन्मे सुविदितं सर्वे प्रत्यक्षमिव चागमम्॥२५॥
नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः
।
कर्मणां शक्यते गन्तुं हृषीकेशस्य सञ्जय॥२६॥
तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः
।
अगावहो निरुद्धश्च चारुदेष्णः ससारणः॥२७॥
उल्मुको निशठश्चैव झिल्लीबभ्रुश्च वीर्यवान्
।
पृथुश्च विपृथुश्चैव शमीकोऽथारिमेजयः॥२८॥
एतेऽन्ये बलवन्तश्च वृष्णिवीराः प्रहारिणः
।
कथञ्चित् पाण्डवानीकं श्रयेयुः समरे स्थिताः॥२९॥
आहूता वृष्णिवीरेण केशवेन महात्मना
।
ततः संशयितं सर्वं भवेदिति मतिर्मम॥३०॥
नागायुतबलो वीरः कैलासशिखरोपमः
।
वनमाली हली रामस्तत्र यत्र जनार्दनः ॥३१॥
यमाहुः सर्वपितरं वासुदेवं द्विजातयः
।
अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय सञ्जय॥३२॥
स यदा तात संनह्येत् पाण्डवार्थाय सञ्जय
।
न तदा प्रतिसंयोद्धा भविता तत्र कश्चन ॥३३॥
यदि स्म कुरवः सर्वे जयेयुर्नाम पाण्डवान्
।
वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम्॥३४॥
ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन् रणे
।
कौरवांश्च महाबाहुः कुन्त्यै दद्यात् स मेदिनीम्॥३५॥
यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः
।
रथस्य तस्य कः संख्ये प्रत्यनीको भवेद्रथः॥३६॥
न केनचिदुपायेन कुरूणां दृश्यते जयः
।
तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत॥३७॥
अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः
।
अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती॥३८॥
सर्वेष्वपि च लोकेषु वीभत्सुरपराजितः
।
प्राधान्येनैव भूयिष्ठममेयाः केशवे गुणाः॥३९॥
मोहाद्दुर्योधनः कृष्णं यो न वेत्तीह केशवम्
।
मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः॥४०॥
न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम्
।
पूर्वदेवौ महात्मानौ नरनारायणावुभौ॥४१॥
एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि
।
मनसाऽपि हि दुर्धर्षौ सेनामेतां यशस्विनौ॥४२॥
नाशयेतामिहेच्छन्तौ मानुषत्वाच्च नेच्छतः
।
युगस्येव विपर्यासो लोकानामिव मोहनम्॥४३॥
भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः
।
न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च॥४४॥
न क्रियाभिर्न चास्त्रेण मृत्योः कश्चिन्निवार्यते
।
लोकसंभावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ॥४५॥
भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि सञ्जय
।
यां तां श्रियमसूयामः पुरा दृष्ट्वा युधिष्ठिरे॥४६॥
अद्य तामनुजानीमो भीष्मद्रोणवधेन ह
।
मत्कृते चाप्यनुप्राप्तः कुरूणामेष संक्षयः॥४७॥
पक्वानां हि वधे सूत वज्रायन्ते तृणान्युत
।
अनन्तमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः॥४८॥
यस्य कोपान्महात्मानौ भीष्मद्रोणौ निपातितौ
।
प्राप्तः प्रकृतितो धर्मो न धर्मो मामकान् प्रति॥४९॥
क्रूरः सर्वविनाशाय कालोऽसौ नातिवर्तते
।
अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः॥५०॥
अन्यथैव प्रपद्यन्ते दैवादिति मतिर्मम
।
तस्मादपरिहार्येऽर्थे संप्राप्ते कृच्छ्र उत्तमे
।
अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे॥५१॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि धृतराष्ट्रविलापे एकादशोऽध्यायः॥११॥
सञ्जय उवाच।
हन्त ते कथयिष्यामि सर्व प्रत्यक्षदर्शिवान्
।
यथा स न्यपतद्द्रोणः सूदितः पाण्डुसृञ्जयै॥१॥
हन्तेति ॥१॥
सेनापतित्वं संप्राप्य भारद्वाजो महारथः
।
मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत्॥२॥
यत् कौरवाणामृषभादापगेयादनन्तरम्
।
सैनापत्येन यद्राजन् मामद्य कृतवानसि॥३॥
सदृशं कर्मणस्तस्य फलं प्राप्नुहि भारत
।
करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि॥४॥
ततो दुर्योधनो राजा कर्णदुःशासनादिभिः
।
संमन्त्र्योवाच दुर्धर्षमाचार्यं जयतां वरम्॥५॥
ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम्
।
गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय॥६॥
ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः
।
सेनां प्रहर्षयन् सर्वामिदं वचनमब्रवीत्॥७॥
धन्यः कुन्तीसुतो राजन् यस्य ग्रहणमिच्छसि
।
न वधार्थं सुदुर्धर्षं वरमद्य प्रयाचसे॥८॥
किमर्थं च नरव्याघ्र न वधं तस्य कांक्षसे
।
नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम्॥९॥
एतां वधरूपां क्रियां मत्तो नाशंससि न संभावयसि ॥९॥
आहोस्वित् धर्मराजस्य द्वेष्टा तस्य न विद्यते
।
यदीच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनः॥१०॥
अथवा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान्
।
राज्यं संप्रति दत्त्वा च सौभ्रात्रं कर्तुमिच्छसि॥११॥
धन्यः कुन्तीसुतो राजा सुजातं चास्य धीमतः
।
अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान्॥१२॥
सुजातं शोभनं जन्म ॥१२॥
द्रोणेन चैवमुक्तस्य तव पुत्रस्य भारत
।
सहसा निःसृतो भावो योऽस्य नित्यं हृदि स्थितः॥१३॥
नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि
।
तस्मात्तव सुतो राजन् प्रहृष्टो वाक्यमब्रवीत्॥१४॥
वधे कुन्तिसुतस्याजौ नाचार्य विजयो मम
।
हते युधिष्ठिरे पार्था हन्युः सर्वान् हि नो ध्रुवम्॥१५॥
न च शक्या रणे सर्वे निहन्तुममरैरपि
।
य एव तेषां शेषः स्यात्स एवास्मान्न शेषयेत्॥१६॥
सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते
।
पुनर्यास्यन्त्यरण्याय पाण्डवास्तमनुव्रताः॥१७॥
सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति
।
अतो न वधमिच्छामि धर्मराजस्य कर्हिचित्॥१८॥
व्यक्तं नियतम् ॥१८॥
तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोर्थतत्त्ववित्
।
तं वरं सान्तरं तस्मै ददौ सञ्चिन्त्य बुद्धिमान्॥१९॥
द्रोण उवाच।
न चेद्युधिष्ठिरं वीरः पालयत्यर्जुनो युधि
।
मन्यस्व पाण्डवश्रेष्ठमानीतं वशमात्मनः॥२०॥
न हि शक्यो रणे पांथः सेन्द्रैर्देवासुरैरपि
।
प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम्॥२१॥
आमर्षयामि उत्सहे ॥२१॥
असंशयं स मे शिष्यो मत्पूर्वश्चास्त्रकर्मणि
।
तरुणः सुकृतैर्युक्त एकायनगतश्च ह॥२२॥
मत्पूर्वः अहं पूर्वो गुरुर्यस्य एकायनगतः जयमरणान्यतरनिश्चयवान् ॥२२॥
अस्त्राणीन्द्राच्च रुद्राच्च भूयः स समवाप्तवान्
।
अमर्षितश्च ते राजंस्ततो नामर्षयाम्यहम्॥२३॥
स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते
।
अपनीते ततः पार्थे धर्मराजो जितस्त्वया॥२४॥
ग्रहणे हि जयस्तस्य न वधे पुरुषर्षभ
।
एतेन चाप्युपायेन ग्रहणं समुपैष्यसि॥२५॥
अहं गृहीत्वा राजानं सत्यधर्मपरायणम्
।
आनयिष्यामि ते राजन् वशमद्य न संशयः॥२६॥
यदि स्थास्यति संग्रामे मुहूर्तमपि मेऽग्रतः
।
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनञ्जये॥२७॥
फाल्गुनस्य समीपे तु न हि शक्यो युधिष्ठिरः
।
ग्रहीतुं समरे राजन् सेन्द्रैरपि सुरासुरैः॥२८॥
सञ्जय उवाच।
सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे
।
गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः॥२९॥
पाण्डवेयेषु साक्षेपं द्रोणं जानाति ते सुतः
।
ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः॥३०॥
बहुलीकृतः प्रतिज्ञां न त्यजेदिति बहुषु प्रकाशितः ॥३०॥
ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत्
।
सैन्यस्थानेषु सर्वेषु सुघोषितमरिन्दम॥३१॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि द्रोणप्रतिज्ञायां द्वादशोऽध्यायः॥१२॥
सञ्जय उवाच।
सान्तरे तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे
।
ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम्॥१॥
सान्तरे इति ॥१॥
सिंहनादरवांश्चक्रुबार्हुशब्दांश्च कृत्स्नशः
।
तच्च सर्वं यथान्यायं धर्मराजेन भारत॥२॥
आप्तैराशु परिज्ञातं भारद्वाजचिकीर्षितम्
।
ततः सर्वान् समानाय्य भ्रातॄनन्यांश्च सर्वशः॥३॥
अब्रवीद्धर्मराजस्तु धनञ्जयमिदं वचः
।
श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम्॥४॥
यथा तन्न भवेत् सत्यं तथा नीतिर्विधीयताम्
।
सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रकार्षिणा॥५॥
तच्चान्तरं महेष्वास त्वयि तेन समाहितम्
।
स त्वमद्य महाबाहो युध्यस्व मदनन्तरम् ॥६॥
यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात्
।
अर्जुन उवाच।
यथा मे न वधः कार्य आचार्यस्य कदाचन॥७॥
तथा तव परित्यागो न मे राजंश्चिकीर्षितः
।
अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि॥८॥
प्रतीपो नाहमाचार्ये भवेयं वै कथञ्चन
।
त्वां निगृह्याहवे राज्यं धार्तराष्ट्रोऽयमिच्छति॥९॥
न स तं जीवलोकेऽस्मिन् कामं प्राप्येत् कथञ्चन
।
प्रपतेत् द्यौः सनक्षत्रा पृथिवी शकली भवेत्॥१०॥
न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम्
।
यदि तस्य रणे साह्यं कुरुते वज्रभृत् स्वयम्॥११॥
विष्णुर्वा सहितो देवैर्न त्वां प्राप्स्यत्यसौ मृधे
।
मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि॥१२॥
द्रोणादस्त्रभृतां श्रेष्ठात् सर्वशस्त्रभृतामपि
।
अन्यच्च ब्रूयां राजेन्द्र प्रतिज्ञां मम निश्चलाम्॥१३॥
न स्मराम्यनृतं तावन्न स्मरामि पराजयम्
।
न स्मरामि प्रतिश्रुत्य किञ्चिदप्यनृतं कृतम्॥१४॥
सञ्जय उवाच।
ततः शंखाश्च भेर्यश्च मृदंगाश्चानकैः सह
।
प्रावाद्यन्त महाराज पाण्डवानां निवेशने॥१५॥
सिंहनादश्च सञ्जज्ञे पाण्डवानां महात्मनाम्
।
धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः॥१६॥
श्रुत्वा शंखस्य निर्घोषं पाण्डवस्य महौजसः
।
त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे॥१७॥
ततो व्यूढान्यनीकानि तव तेषां च भारत
।
शनैरुपेयुरन्योन्यं योध्यमानानि संयुगे॥१८॥
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्
।
पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि॥१९॥
यतमानाः प्रयत्नेन द्रोणानीकविशातने
।
न शेकुः सृञ्जया युद्धे तद्धि द्रोणेन पालितम्॥२०॥
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः
।
न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना॥२१॥
आस्तां ते स्तिमिते सेने रक्षमाणे परस्परम्
।
संप्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते ॥२२॥
संप्रसुप्ते कृतपत्रसंकोचे ॥२२॥
ततो रुक्मरथो राजन्नर्केणेव विराजता
।
वरूथिना विनिष्पत्य व्यचरत् पृतनामुखे॥२३॥
वरूथिना रथेन ॥२३॥
तमुद्यतं रथेनैकमाशुकारिणमाहवे
।
अनेकमिव संत्रासान्मेनिरे पाण्डुसृञ्जयाः॥२४॥
तेन सुक्ताः शरा घोरा विचेरुः सर्वतोदिशम्
।
त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम्॥२५॥
मध्यं दिनमनुप्राप्तो गभस्तिशतसंवृतः
।
यथा दृश्येत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत॥२६॥
न चैनं पाण्डवेयानां कश्चिच्छक्नोति भारत
।
वीक्षितुं समरे कुद्धं महेन्द्रमिव दानवः॥२७॥
मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान्
।
धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः॥२८॥
स दिशः सर्वतो रुध्वा संवृत्य खमजिह्मगैः
।
पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम्॥२९॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि अर्जुनकृतयुधिष्ठिताश्वासने त्रयोदशोऽध्यायः॥१३॥
सञ्जय उवाच।
ततः स पाण्डवानीके जनयन्सुमहद्भयम्
।
व्यचरत् पृतनां द्रोणो दहन् कक्षमिवानलः॥१॥
तत इति ॥१॥
निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम्
।
दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः॥२॥
सततं कृष्यतः संख्ये धनुषोऽस्याशुकारिणः
।
ज्याघोषः शुश्रुवेत्यर्थं विस्फूर्जितमिवाशनेः॥३॥
रथिनः सादिनश्चैव नागानश्वान् पदातिनः
।
रौद्रा हस्तवता मुक्ताः संमृद्नन्ति स्म सायकाः॥४॥
नानद्यमानः पर्जन्यः प्रवृद्धः शुचिसंक्षये
।
अश्मवर्षमिवावर्षत् परेषामावहद्भयम्॥५॥
शुचिसंक्षये ग्रीष्मान्ते ॥५॥
विचरन् स तदा राजन् सेनां संक्षोभयन् प्रभुः
।
वर्धयामास संत्रासं शात्रवाणाममानुषम् ॥६॥
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम्
।
भ्रमद्रथाम्बुदे चास्मिन् दृश्यते स्म पुनः पुनः॥७॥
स वीरः सत्यवान् प्राज्ञो धर्मनित्यः सदा पुनः
।
युगान्तकालवद्धोरां रौद्रां प्रावर्तयन्नदीम्॥८॥
अमर्षवेगप्रभवां क्रव्यादगणसंकुलाम्
।
बलौघैः सर्वतः पूर्णां ध्वजवृक्षापहारिणीम्॥९॥
शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम्
।
कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम्॥१०॥
मेदोमज्जास्थिसिकतामुष्णीषचयफेनिलाम्
।
संग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम्॥११॥
नरनागाश्वकलिलां शरवेगौघवाहिनीम्
।
शरीरदारुसंघट्टां रथकच्छपसंकुलाम्॥१२॥
उत्तमाङ्गैः पङ्कजिनीं निस्त्रिंशझषसंकुलाम्
।
रथनागह्रदोपेतां नानाभरणभूषिताम्॥१३॥
महारथशतावर्तां भूमिरेणूर्मिमालिनीम्
।
महावीर्यवतां संख्ये सुतरां भीरुदुस्तराम्॥१४॥
शरीरशतसम्बाधां गृध्रकङ्कनिषेविताम्
।
महारथसहस्त्राणि नयन्तीं यमसादनम्॥१५॥
शूलव्यालसमाकीर्णां प्राणिवाजिनिषेविताम्
।
छिन्नक्षत्रमहाहंसां मुकुटाण्डजसेविताम्॥१६॥
प्राणिन एव वाजिनः पक्षिणः ॥१६॥
चक्रकूर्मां गदानक्रां शरक्षुद्रझषाकुलाम्
।
बकगृध्रसृगालानां घोरसंघैर्निषेविताम्॥१७॥
निहतान् प्राणिनः संख्ये द्रोणेन बलिना रणे
।
वहन्ती पितृलोकाय शतशो राजसत्तमम्॥१८॥
शरीरशतसंबाधां केशशैवलशाद्वलाम्
।
नदीं प्रावर्तयद्राजन् भीरूणां भयवर्धिनीम्॥१९॥
तर्जयन्तमनीकानि तानि तानि महारथम्
।
सर्वतोऽभ्यद्रवन् द्रोणं युधिष्ठिरपुरोगमाः॥२०॥
तानभिद्रवतः शूरांस्तावका दृढविक्रमाः
।
सर्वतः प्रत्यगृह्णन्त तदभूल्लोमहर्षणम्॥२१॥
शतमायस्तु शकुनिः सहदेवं समाद्रवत्
।
सनियन्तृध्वजरथं विव्याध निशितैः शरैः॥२२॥
तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि
।
नातिक्रुद्धः शरैश्छित्त्वा षष्ट्या विव्याध सौबलम्॥२३॥
सौबलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात्
।
स तस्य गदया राजन् रथात् सूतमपातयत्॥२४॥
ततस्तौ विरथौ राजन् गदाहस्तौ महाबलौ
।
चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ॥२५॥
द्रोणः पाञ्चालराजानं विद्ध्वा दशभिराशुगैः
।
बहुभिस्तेन चाभ्यस्तस्तं विव्याध ततोऽधिकैः॥२६॥
अभ्यस्तो विद्धः ॥२६॥
विविंशतिं भीमसेनो विंशत्या निशितैः शरैः
।
विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत्॥२७॥
विविंशतस्तु सहसा व्यश्वकेतुशरासनम्
।
भीमं चक्रे महाराज ततः सैन्यान्यपूजयन्॥२८॥
स तन्न ममृषे वीरः रात्रोर्विक्रममाहवे
।
ततोऽस्य गदया दान्तान् हयान् सर्वानपातयत्॥२९॥
हताश्वात् सरथाद्राजन् गृह्य चर्म महाबलः
।
अभ्यायाद्भीमसेनं तु मत्तो मत्तमिव द्विपम्॥३०॥
शल्यस्तु नकुलं वीरः स्वस्त्रीयं प्रियमात्मनः
।
विव्याध प्रहसन् बाणैर्लालयन् कोपयन्निव॥३१॥
तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः
।
निपात्य नकुलः संख्ये शङ्खं दध्मौ प्रतापवान्॥३२॥
धृष्टकेतुः कृपेणास्तान् छित्त्वा बहुविधाञ्छरान्
।
कृपं विव्याध सप्तत्या लक्ष्म चास्याहरस्त्रिभिः॥३३॥
तं कृपः शरवर्षेण महता समवारयत्
।
विव्याध चरणे विप्रो धृष्टकेतुममर्षणम्॥३४॥
सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे
।
विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव॥३५॥
तं भोजः सप्तसप्तत्या विद्ध्वाशु निशितैः शरैः
।
नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम्॥३६॥
सेनापतिः सुशर्माणं भृशं मर्मस्वताडयत्
।
स चापि तं तोमरेण जनुदेशेऽभ्यताडयत्॥३७॥
वैकर्तनं तु समरे विराटः प्रत्यवारयत्
।
सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत्॥३८॥
तत् पौरुषमभूत् तत्र सूतपुत्रस्य दारुणम्
।
यत् सैन्यं वारयामास शरैः सन्नतपर्वभिः॥३९॥
द्रुपदस्तु स्वयं राजा भगदत्तेन सङ्गतः
।
तयोर्युद्धं महाराज चित्ररूपमिवाभवत्॥४०॥
भगदत्तस्तु राजानं द्रुपदं नतपर्वभिः
।
सनियन्तृध्वजरथं विव्याध पुरुषर्षभः॥४१॥
द्रुपदस्तु ततः क्रुद्धो भगदत्तं महारथम्
।
आजघानोरसि क्षिप्रं शरेणानतपर्वणा॥४२॥
युद्धं योधवरौ लोके सौमदत्तिशिखण्डिनौ
।
भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ॥४३॥
भूरिश्रवा रणे राजन् याज्ञसेनिं महारथम्
।
महता सायकौघेन छादयामास वीर्यवान्॥४४॥
शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशांपते
।
नवत्या सायकानां तु कम्पयामास भारत॥४५॥
राक्षसौ रौद्रकर्माणौ हैडिम्बालंबुषावुभौ
।
चक्रातेऽत्यद्भुतं युद्धं परस्परजयैषिणौ॥४६॥
मायाशतसृजौ दृप्तौ मायाभिरितरेतरम्
।
अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ॥४७॥
चेकितानोऽनुविन्देन युयुधे चातिभैरवम्
।
यथा देवासुरे युद्धे बलशक्रौ महाबलौ॥४८॥
लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम्
।
यथा विष्णुः पुरा राजन् हिरण्याक्षेण संयुगे॥४९॥
ततः प्रचलिताश्वेन विधिवत्कल्पितेन च
।
रथेनाभ्यपतद्राजन् सौभद्रं पौरवो नदन्॥५०॥
ततोऽभ्ययात् सत्वरितो युद्धाकांक्षी महाबलः
।
तेन चक्रे महद्युद्धमभिमन्युररिन्दमः॥५१॥
पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत्
।
तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत्॥५२॥
सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः
।
पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः॥५३॥
ततः प्रहर्षयन् सेनां सिंहवद्विनदन्मुहुः
।
समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम्॥५४॥
तं तु सन्धितमाज्ञाय सायकं घोरदर्शनम्
।
द्वाभ्यां शराभ्यां हार्दिक्यश्चिच्छेद सशरं धनुः॥५५॥
तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा
।
उद्बबर्ह सितं खड्गमाददानः शरावरम्॥५६॥
उद्वबर्ह उच्चकर्ष शरावरं चर्म ॥५६॥
स तेनानेकतारेण चर्मणा कृतहस्तवत्
।
भ्रान्तासिना चरन्मार्गान्दर्शयन्वीर्यमात्मनः॥५७॥
भ्रमितं पुनरुद्भ्रान्तमाधूतं पुनरुत्थितम्
।
चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत॥५८॥
स पौरवरथस्येषामाप्लुत्य सहसा नदन्
।
पौरवं रथमास्थाय केशपक्षे परामृशत्॥५९॥
जघानास्य पदा सूतमसिना पातयद्ध्वजम्
।
विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत्॥६०॥
तमागलितकेशान्तं ददृशुः सर्वपार्थिवाः
।
उक्षाणमिव सिंहेन पात्यमानमचेतसम्॥६१॥
तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत्
।
पौरवं पातितं दृष्ट्वा नामृष्यत जयद्रथः॥६२॥
स बर्हिबर्हावततं किंकिणीशतजालवत्
।
चर्म चादाय खड्गं च नदन् पर्यपतद्रथात्॥६३॥
ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम्
।
उत्पपात रथात् तूर्णं श्येनवन्निपपात च॥६४॥
प्रासपछि निस्त्रिंशाञ्छत्रुभिः संप्रचोदितान्
।
चिच्छे चासिना कार्ष्णिश्चर्मणा संरुरोध च॥६५॥
स दशायत्वा सैन्यानां स्वबाहुबलमात्मनः
।
तमुद्यम्य महाखड्गं चर्म चाथ पुनर्बली॥६६॥
वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम्
।
ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम्॥६७॥
तौ परस्परमासाद्य खड्गदन्तनखायुधौ
।
हृष्टवत्संप्रजह्राते व्याघ्रकेसरिणाविव॥६८॥
संपातेष्वभिघातेषु निपातेष्वसिचर्मणोः
।
न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः॥६९॥
अवक्षेपोऽसिनिर्ह्रादः शस्त्रान्तरनिदर्शनम्
।
बाह्यान्तरनिपातश्च निर्विशेषमदृश्यत॥७०॥
बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम्
।
ददृशाते महात्मानौ सपक्षाविव पर्वतौ॥७१॥
ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः
।
शरावरणपक्षान्ते प्रजहार जयद्रथः॥७२॥
रुक्मपत्रान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे
।
सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः॥७३॥
भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट्
।
अदृश्यत निमेषेण स्वरथं पुनरास्थितः॥७४॥
तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम्
।
सहिताः सर्वराजानः परिवव्रुः समन्ततः॥७५॥
ततश्चर्म च खड्गं च समुत्क्षिप्य महाबलः
।
ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम्॥७६॥
सिन्धुराजं परित्यज्य सौभद्रः परवीरहा
।
तापयामास तत् सैन्यं भुवनं भास्करो यथा॥७७॥
तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम्
।
चिक्षेप समरे घोरां दीप्तामग्निशिखामिव॥७८॥
तामवप्लुत्य जग्राह विकोशं चाकरोदसिम्
।
वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम्॥७९॥
तस्य लाघवमाज्ञाय सत्त्वं चामिततेजसः
।
सहिताः सर्वराजानः सिंहनादमथानदन्॥८०॥
ततस्तामेव शल्यस्य सौभद्रः परवीरहा
।
मुमोच भुजवीर्येण वैदूर्यविकृतां शिताम् ॥८१॥
सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा
।
जघान सूतं शल्यस्य रथाच्चैनमपातयत्॥८२॥
ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः
।
सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ॥८३॥
यमौ च द्रौपदेयाश्च साधु साध्विति चुक्रुशुः
।
बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः॥८४॥
प्रादुरासन् हर्षयन्तः सौभद्रमपलायिनम्
।
तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम्॥८५॥
अथैनं सहसा सर्वे समन्तान्निशितैः शरैः
।
अभ्याकिरन्महाराज जलदा इव पर्वतम्॥८६॥
तेषां च प्रियमन्विच्छन् सूतस्य च पराभवम्
।
आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात्॥८७॥
पराभवं प्रेक्ष्येति शेषः ॥८७॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि अभिमन्युपराक्रमे चतुर्दशोऽध्यायः॥१४॥
धृतराष्ट्र उवाच।
बहूनि सुविचित्राणि द्वन्द्वयुद्धानि सञ्जय
।
त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम्॥१॥
बहूनीति ॥१॥
आश्चर्यभूतं लोकेषु कथयिष्यन्ति मानवाः
।
कुरूणां पाण्डवानां च युद्धं देवासुरोपमम्॥२॥
न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम्
।
तस्मादार्तायनेर्युद्धं सौभद्रस्य च शंस मे॥३॥
सञ्जय उवाच।
सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम्
।
समुत्क्षिप्य नदन् क्रुद्धः प्रचस्कन्द रथोत्तमात्॥४॥
तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम्
।
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम्॥५॥
सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महर्ती गदाम्
।
एह्येहीत्यब्रवीच्छल्यं यत्नाद्भीमेन वारितः॥६॥
वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान्
।
शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः॥७॥
तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम्
।
ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम्॥८॥
ततस्तूर्यनिनादाश्च शंखानां च सहस्रशः
।
सिंहनादाश्च संजज्ञुर्भेरीणां च महास्वनाः॥९॥
पश्यतां शतशो ह्यासीदन्योन्यमभिधावताम्
।
पाण्डवानां कुरूणां च साधु साध्विति निःस्वनः॥१०॥
न हि मद्राधिपादन्यः सर्वराजसु भारत
।
सोढुमुत्सहते वेगं भीमसेनस्य संयुगे॥११॥
तथा मद्राधिपस्यापि गदावेगं महात्मनः
।
सोढुमुत्सहते लोके युधि कोऽन्यो वृकोदरात्॥१२॥
पट्टैर्जाम्बूनदैर्बद्धा बभूव जनहर्षणी
।
प्रजज्वाल तदा विद्धा भीमेन महती गदा॥१३॥
तथैव चरतो मार्गान्मण्डलानि च सर्वशः
।
महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा॥१४॥
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः
।
आवर्तितगदाशृङ्गावुभौ शल्यवृकोदरौ॥१५॥
मण्डलावर्तमार्गेषु गदाविहरणेषु च
।
निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः॥१६॥
ताडिता भीमसेनेन शल्यस्य महती गदा
।
साग्निज्वाला महारौद्रा तदा तूर्णमशीर्यत॥१७॥
तथैव भीमसेनस्य द्विषताऽभिहता गदा
।
वर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवाबभौ॥१८॥
गदा क्षिप्ता तु समरे मद्रराजेन भारत
।
व्योम दीपयमाना सा ससृजे पावकं मुहुः॥१९॥
तथैव भीमसेनेन द्विषते प्रेषिता गदा
।
तापयामास तत् सैन्यं महोल्का पतती यथा॥२०॥
ते गदे गदिनां श्रेष्ठे समासाद्य परस्परम्
।
श्वसन्त्यौ नागकन्येव ससृजाते विभावसुम्॥२१॥
व इवार्थे ॥२१॥
नखैरिव महाव्याघ्रौ दन्तैरिव महागजौ
।
तौ विचरेतुरासाद्य गदाग्र्याभ्यां परस्परम्॥२२॥
ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ
।
ददृशाते महात्मानौ किंशुकाविव पुष्पितौ॥२३॥
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः
।
गदाभिघातसंह्रादः शक्राशनिरवोपमः॥२४॥
गदया मद्रराजेन सव्यदक्षिणमाहतः
।
नाकम्पत तदा भीमो भिद्यमान इवाचलः॥२५॥
तथा भीमगदावेगैस्ताड्यमानो महाबलः
।
धैर्यान्मद्राधिपस्तस्थौ वज्रैर्गिरिरिवाहतः॥२६॥
आपेततुर्महावेगौ समुच्छ्रितगदावुभौ
।
पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः॥२७॥
अथाप्लुत्य पदान्यष्टौ सन्निपत्य गजाविव
।
सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः॥२८॥
तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ
।
युगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव॥२९॥
ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः
।
शल्यमभ्यपतत् तूर्णं कृतवर्मा महारथः॥३०॥
दृष्ट्वा चैनं महाराज गदयाऽभिनिपीडितम्
।
विचेष्टन्तं यथा नागं मूर्च्छयाऽभिपरिप्लुतम्॥३१॥
ततः स्वरथमारोप्य मद्राणामधिपं रणे
।
अपोवाह रणात् तूर्णं कृतवर्मा महारथः॥३२॥
क्षीबवद्विह्वलो वीरो निमेषात्पुनरुत्थितः
।
भीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत॥३३॥
क्षीबवन्मत्तवत् ॥३३॥
ततो मद्राधिपं दृष्ट्वा तव पुत्राः परा ङ्मुखम्
।
सनागपत्त्यश्वरथाः समकम्पन्त मारिष॥३४॥
ते पाण्डवैरर्द्यमानास्तावका जितकाशिभिः
।
भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव॥३५॥
निर्जित्य धार्तराष्ट्रांस्तु पाण्डवेया महारथाः
।
व्यरोचन्त रणे राजन् दीप्यमाना इवाग्नयः॥३६॥
सिंहनादान्भृशं चक्रुःशंखान् दध्मुश्च हर्षिताः
।
भेरीश्च वादयामासुर्मृदङ्गांश्चानकैः सह॥३७॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि शल्यापयाने पञ्चदशोऽध्यायः॥१५॥
सञ्जय उवाच।
तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान्
।
दधारैको रणे राजन् वृषसेनोऽस्त्रमायया॥१॥
तदिति । अस्त्रमायया अस्त्रकौशलेन ॥१॥
शरा दश दिशो मुक्ता वृषसेनेन संयुगे
।
विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान्॥२॥
तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः
।
भानोरिव महाराज घर्मकाले मरीचयः॥३॥
तेनार्दिता महाराज रथिनः सादिनस्तथा
।
निपेतुरुर्व्यां सहसा वातभग्ना इव द्रुमाः॥४॥
हयौघांश्च रथौघांश्च गजौघांश्च महारथः
।
अपातयद्रणे राजन् शतशोऽथ सहस्रशः॥५॥
दृष्ट्वा तमेकं समरे विचरन्तमभीतवत्
।
सहिताः सर्वराजानः परिवव्रुः समन्ततः॥६॥
नाकुलिस्तु शतानीको वृषसेनं समभ्ययात्
।
विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः॥७॥
तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत्
।
तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः॥८॥
कर्णात्मजं शरव्रातैरदृश्यं चक्रुरञ्जसा
।
तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः॥९॥
छादयन्तो महाराज द्रौपदेयान् महारथान्
।
शरैर्नानाविधैस्तूर्णं पर्वतान् जलदा इव॥१०॥
तान् पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः
।
पञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः॥११॥
तद्युद्धमभवद्धोरं सुमहल्लोमहर्षणम्
।
त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः॥१२॥
एवं युयुधिरे वीराः संरब्धाः कुरुपाण्डवाः
।
परस्परमुदीक्षन्तः परस्परकृतागसः॥१३॥
तेषां ददृशिरे कोपाद्वपूंष्यमिततेजसाम्
।
युयुत्सूनामिवाकाशे पतत्त्रिवरभोगिनाम्॥१४॥
पतत्त्रिवरभोगिनामिव पतत्त्रिवरो गरुडः। भोगिनः सर्पाः ॥१४॥
भीम-कर्ण-कृप-द्रोण-द्रौणि-पार्षत-सात्यकैः
।
बभासे स रणोद्देशः कालसूर्य इवोदितः॥१५॥
तदासीत् तुमुलं युद्धं निघ्नतामितरेतरम्
।
महाबलानां बलिभिर्दानवानां यथा सुरैः॥१६॥
ततो युधिष्ठिरानीकमुद्धृतार्णवनिःस्वनम्
।
त्वदीयमवधीत् सैन्यं संप्रद्रुतमहारथम्॥१७॥
तत् प्रभग्नं वलं दृष्ट्वा शत्रुभिर्भृशमर्दितम्
।
अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत॥१८॥
द्रुतेन पलायितेन ॥१८॥
ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः
।
प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत्॥१९॥
तमाविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः
।
तस्य द्रोणो धनुश्छित्त्वा तं द्रुतं समुपाद्रवत्॥२०॥
चक्ररक्षः कुमारस्तु पञ्चालानां यशस्करः
।
दधार द्रोणमायान्तं वेलेव सरितां पतिम्॥२१॥
द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम्
।
सिंहनादरवो ह्यासीत् साधु साध्विति भाषितम्॥२२॥
कुमारस्तु ततो द्रोणं सायकेन महाहवे
।
विव्याधोरसि संक्रुद्धः सिंहवच्च नदन्मुहुः॥२३॥
संवार्य चरणे द्रोणं कुमारस्तु महाबलः
।
शरैरनेकसाहस्त्रैः कृतहस्तो जितश्रमः॥२४॥
तं शूरमार्यव्रतिनं मन्त्रास्त्रेषु कृतश्रमम्
।
चक्ररक्षं परामृद्नात् कुमारं द्विजपुङ्गवः॥२५॥
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन् दिशः
।
तव सैन्यस्य गोप्ताऽऽसीद्भारद्वाजो द्विजर्षभः॥२६॥
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम्
।
नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः॥२७॥
युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः
।
सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः॥२८॥
व्यक्षोभयद्रणे योधान् यथा मुख्यमभिद्रवन्
।
अभ्यवर्तत संप्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्॥२९॥
युगन्धरस्ततो राजन् भारद्वाजं महारथम्
।
वारयामास संक्रुद्धं वातोद्धतमिवार्णवम्॥३०॥
युधिष्ठिरं स विद्ध्वा तु शरैः सन्नतपर्वभिः
।
युगन्धरं तु भल्लेन रथनीडादपातयत्॥३१॥
ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः
।
याघ्रदत्तश्च पाञ्चाल्यः सिंहसेनश्च वीर्यवान्॥३२॥
एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम्
।
आवव्रुस्तस्य पन्थानं किरन्तः सायकान् बहून्॥३३॥
व्याघ्रदत्तस्तु पाञ्चाल्यो द्रोणं विव्याध मार्गणैः
।
पञ्चाशता शितै राजंस्तत उच्चुक्रुशुर्जनाः॥३४॥
त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम्
।
प्राहसत् सहसा हृष्टस्त्रासयन् वै महारथान्॥३५॥
ततो विस्फार्य नयने धनुर्ज्यामवमृज्य च
।
तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत्॥३६॥
ततस्तु सिंहसेनस्य शिरः कायात् सकुण्डलम्
।
व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामाहरद्बली॥३७॥
तान् प्रमृज्य शरव्रातैः पाण्डवानां महारथान्
।
युधिष्ठिररथाभ्याशे तस्थौ मृत्युरिवान्तकः॥३८॥
ततोऽभवन्महाशब्दो राजन् यौधिष्ठिरे बले
।
हतो राजेति योधानां समीपस्थे यतव्रते॥३९॥
अब्रुवन् सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम्
।
अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति॥४०॥
अस्मिन् महूर्ते द्रोणस्तु पाण्डवं गृह्य हर्षितः
।
आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे॥४१॥
एवं सञ्जल्पतां तेषां तावकानां महारथः
।
आयाज्जवेन कौन्तेयो रथघोषेण नादयन्॥४२॥
शोणितोदां रथावर्तां कृत्वा विशसने नदीम्
।
शूरास्थिचयसंकीर्णां प्रेतकूलापहारिणीम्॥४३॥
विशसने युद्धे ॥४३॥
तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम्
।
नदीमुत्तीर्य वेगेन कुरून् विद्राव्य पाण्डवः॥४४॥
ततः किरीटी सहसा द्रोणानीकमुपाद्रवत्
।
छादयन्निषुजालेन महता मोहयन्निव॥४५॥
शीघ्रमभ्यस्यतो बाणान् संदधानस्य चानिशम्
।
नान्तरं ददृशे कश्चित् कौन्तेयस्य यशखिनः॥४६॥
न दिशो नान्तरिक्षं च न द्योर्नैव च मेदिनी
।
अदृश्यन्त महाराज बाणभूता इवाभवन्॥४७॥
नादृश्यत तदा राजंस्तत्र किंचन संयुगे
।
बाणान्धकारे महति कृते गाण्डीवधन्वना॥४८॥
सूर्ये चास्तमनुप्राप्ते तमसा चाभिसंवृते
।
नाज्ञायत तदा शत्रुर्न सुहृन्न च कश्चन॥४९॥
ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः
।
तान् विदित्वा पुनस्त्रस्तानयुद्धमनसः परान्॥५०॥
स्वान्यनीकानि बीभत्सुः शनकैरवहारयत्
।
ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः॥५१॥
पञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यभिवर्षयः
।
एवं स्वशिबिरं प्रायाज्जित्वा शत्रून् धनञ्जयः॥५२॥
पृष्ठतः सर्वसैन्यानां मुदितो वै स केशवः॥५३॥
मसारगल्वर्कसुवर्णरूपैर्वज्रप्रवालस्फटिकैश्च मुख्यैः
।
चित्रे रथे पाण्डुसुतो बभासे नक्षत्रचित्रे वियतीव चन्द्रः॥५४॥
मसार इन्द्रनीलः गल्वर्कः पद्मरागः ॥५४॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि प्रथमदिवसावहारे षोडशोऽध्यायः॥१६॥