ते सेने शिबिरं गत्वा न्यविशेतां विशांपते
।
यथाभागं यथान्यायं यथागुल्म च सर्वशः॥१॥
ते सेने इति ॥१॥
कृत्वाऽवहारं सैन्यानां द्रोणः परमदुर्मनाः
।
दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत्॥२॥
उक्तमेतन्मया पूर्वं न तिष्ठति धनञ्जये
।
शक्यो ग्रहीतुं संग्रामे देवैरपि युधिष्ठिरः॥३॥
इति तद्वः प्रयततां कृतं पार्थेन संयुगे
।
मा विशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ॥४॥
अपनीते तु योगेन केनचिच्छ्वेतवाहने
।
तत एष्यति ते राजन् वशमेष युधिष्ठिरः॥५॥
योगेन उपायेन ॥५॥
कश्चिदाहूय तं संङ्ख्ये देशमन्यं प्रकर्षतु
।
तमजित्वा न कौन्तेयो निवर्तेत कथंचन॥६॥
एतस्मिन्नन्तरे शून्ये धर्मराजमहं नृप
।
ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः॥७॥
अर्जुनेन विहीनस्तु यदि नोत्सृजते रणम्
।
मामुपायान्तमालोक्य गृहीतं विद्धि पाण्डवम्॥८॥
एवं तेऽहं महाराज धर्मपुत्रं युधिष्ठिरम्
।
समानेष्यामि सगणं वशमद्य न संशयः॥९॥
यदि तिष्ठति संग्रामे मुहूर्तमपि पाण्डवः
।
अथापयाति संग्रामाद्विजयात्तद्विशिष्यते॥१०॥
सञ्जय उवाच।
द्रोणस्य तद्वचः श्रुत्वा त्रिगर्ताधिपतिस्तदा
।
भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत्॥११॥
वयं विनिकुता राजन् सदा गाण्डीवधन्वना
।
अनागःस्वपि चागस्तत्कृतमस्मासु तेन वै॥१२॥
ते वयं स्मरमाणास्तान् विनिकारान् पृथग्विधान्
।
कोधाग्निना दह्यमाना नशेमहि सदा निशि॥१३॥
स नो दिष्ट्यास्त्रसम्पन्नश्चक्षुर्विषयमागतः
।
कर्तारः स्म वयं कर्म यच्चिकीर्षाम हृद्गतम्॥१४॥
भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम्
।
वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः॥१५॥
अद्यास्त्वनर्जुना भूमिरत्रिगर्ताऽथ वा पुनः
।
सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति॥१६॥
एवं सत्यरथश्चोक्त्वा सत्यवर्मा च भारत
।
सत्यव्रतश्च सत्येषुः सत्यकर्मा तथैव च॥१७॥
सहिता भ्रातरः पञ्च रथानामयुतेन च
।
न्यवर्तन्त महाराज कृत्वा शपथमाहवे॥१८॥
मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः
।
सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः॥१९॥
मावेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि
।
रथानामयुतेनैव सोऽगमद्भातृभिः सह॥२०॥
नानाजनपदेभ्यश्च रथानामयुतं पुनः
।
समुत्थितं विशिष्टानां शपथार्थमुपागमत्॥२१॥
ततो ज्वलनमानर्च्य हुत्वा सर्वे पृथक् पृथक्
।
जगृहुः कुशचीराणि चित्राणि कवचानि च॥२२॥
ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः
।
मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः॥२३॥
यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः
।
योक्ष्यमाणास्तदाऽऽत्मानं यशसा विजयेन च॥२४॥
लोक्याः पुण्यलोकार्हाः ॥२४॥
ब्रह्मचर्यश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः
।
प्राप्यान् लोकान् सुयुद्धेन क्षिप्रमेव यियासवः॥२५॥
ब्रह्मचर्यं वेदव्रताचरणं श्रुतिर्वेदाध्ययनं ते एव मुखं प्रधानं येषु तैः कर्मभिरिति शेषः ॥२५॥
ब्राह्मणांस्तर्पयित्वा च निष्कान् दत्त्वा पृथक् पृथक्
।
गाश्च वासांसि च पुनः समाभाष्य परस्परम्॥२६॥
प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणव्रतम्
।
तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः॥२७॥
शृण्वतां सर्वभूतानामुच्चैर्वाचो बभाषिरे
।
सर्वे धनञ्जयवधे प्रतिज्ञां चापि चक्रिरे॥२८॥
ये वै लोकाश्चाव्रतिनां ये चैव ब्रह्मघातिनाम्
।
मद्यपस्य च ये लोका गुरुदाररतस्य च॥२९॥
ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः
।
शरणागतं च त्यजतो याचमानं तथा घ्नतः॥३०॥
अगारदाहिनां चैव ये च गां निघ्नतामपि
।
अपकारिणां च ये लोका ये च ब्रह्मद्विषामपि॥३१॥
स्वभार्यामृतुकालेषु मोहाद्वै नाभिगच्छताम्
।
श्राद्धमैथुनिकानां च ये चाप्यात्मापहारिणाम्॥३२॥
आत्मापहारिणां स्वजातिगोपकानाम् ॥३२॥
न्यासापहारिणां ये च श्रुतं नाशयतां च ये
।
क्लीबेन युध्यमानानां ये च नीचानुसारिणाम्॥३३॥
श्रुतं प्रतिज्ञातम् ॥३३॥
नास्तिकानां च ये लोका येऽग्निमातृपितृत्यजाम्
।
तानाप्नुयामहे लोकान् ये च पापकृतामपि॥३४॥
यद्यहत्वा वयं युद्धे निवर्तेम धनञ्जयम्
।
तेन चाभ्यर्दितास्त्रासाद्भवेम हि पराङ्मुखाः॥३५॥
यदि त्वसुकरं लोके कर्म कुर्याम संयुगे
।
इषाँल्लोकान् प्राप्नुयामो वयमद्य न संशयः॥३६॥
एवमुक्त्वा तदा राजंस्तेऽभ्यवर्तन्त संयुगे
।
आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति॥३७॥
आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरञ्जयः
।
धर्मराजमिदं वाक्यमपदान्तरमब्रवीत्॥३८॥
अपदान्तरमव्यवहितम् ॥३८॥
आहूतो न निवर्तेयमिति मे व्रतमाहितम्
।
संशप्तकाश्च मां राजन्नाह्वयन्ति महामृधे॥३९॥
एष च भ्रातृभिः सार्धं सुशर्माऽह्वयते रणे
।
वधाय सगणस्यास्य मामनुज्ञातुमर्हसि॥४०॥
नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ
।
सत्यं ते प्रतिजानामि हतान् विद्धि परान् युधि॥४१॥
युधिष्ठिर उवाच।
श्रुतं ते तत्त्वतस्तात यद्द्रोणस्य चिकीर्षितम्
।
यथा तदनृतं तस्य भवेत् तत्त्वं समाचर॥४२॥
द्रोणो हि बलवान् शूरः कृतास्त्रश्च जितश्रमः
।
प्रतिज्ञातं च तेनैतङ्ग्रहणं मे महारथ॥४३॥
अर्जुन उवाच।
अयं वै सत्यजिद्राजन्नद्य त्वां रक्षिता युधि
।
ध्रियमाणे च पाञ्चाल्ये नाचार्यः काममाप्स्यति॥४४॥
हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो
।
सर्वैरपि समेतैर्वा न स्थातव्यं कथञ्चन॥४५॥
सञ्जय उवाच।
अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फाल्गुनः
।
प्रेम्णा दृष्टश्च बहुधा ह्याशिषश्चास्य योजिताः॥४६॥
विहायैनं ततः पार्थस्त्रिगर्तान् प्रत्ययाद्बली
।
क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव॥४७॥
ततो दौर्योधनं सैन्यं मुदा परमया युतम्
।
ऋतेऽर्जुनं भृशं क्रुद्धं धर्मराजस्य निग्रहे॥४८॥
ततोऽन्योन्येन ते सैन्ये समाजग्मतुरोजसा
।
गङ्गासरय्वौ वेगेन प्रावृषीवोल्बणोदके॥४९॥
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि धनञ्जययाने सप्तदशोऽध्यायः॥१७॥
सञ्जय उवाच।
ततः संशप्तका राजन् समे देशे व्यवस्थिताः
।
व्यूह्यानीकं रथैरेव चन्द्राकारं मुदा युताः॥१॥
तत इति ॥१॥
ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष
।
उदक्रोशन्नरव्याघ्राः शब्देन महता तदा॥२॥
स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत्
।
आवृतत्वाच्च लोकस्य नासीत् तत्र प्रतिस्वनः॥३॥
सोऽतीव संप्रहृष्टांस्तानुपलभ्य धनञ्जयः
।
किंचिदभ्युत्स्मयन् कृष्णमिदं वचनमब्रवीत्॥४॥
पश्यैतान् देवकीमातर्मुमूर्षूनद्य संयुगे
।
भ्रातॄंस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान्॥५॥
अथवा हर्षकालोऽयं त्रैगर्तानामसंशयम्
।
कुनरैर्दुरवापान् हि लोकान् प्राप्स्यन्त्यनुत्तमान्॥६॥
एवमुक्त्वा महाबाहुहृषीकेशं ततोऽर्जुनः
।
आससाद रणे व्यूढां त्रिगर्तानामनीकिनीम्॥७॥
स देवदत्तमादाय शंखं हेमपरिष्कृतम्
।
दध्मौ वेगेन महता घोषणापूरयन् दिशः॥८॥
तेन शब्देन वित्रस्ता संशप्तकवरूथिनी
।
विचेष्टाऽवस्थिता संख्ये ह्यश्मसारमयी यथा॥९॥
वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः
।
विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः॥१०॥
उपलभ्य ततः संज्ञामवस्थाप्य च वाहिनीम्
।
युगपत् पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः॥११॥
तान्यर्जुनः सहस्राणि दशपञ्चभिराशुगैः
।
अनागतान्येव शरैश्चिच्छेदाशु पराक्रमी॥१२॥
ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः
।
प्राविध्यन्त ततःपार्थस्तानविध्यस्त्रिभिस्त्रिभिः॥१३॥
एकैकस्तु ततः पार्थं राजन् विव्याध पञ्चभिः
।
स च तान् प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी॥१४॥
भूय एव तु संक्रुद्धास्त्वर्जुनं सह केशवम्
।
आपूरयन् शरैस्तीक्ष्णैस्तडागमिव वृष्टिभिः॥१५॥
ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति
।
भ्रमराणामिव व्राताः फुल्लं द्रुमगणं वने॥१६॥
ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैः शरैः
।
अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम्॥१७॥
तैः किरीटी किरीटस्थैर्हेमपुङ्खैरजिह्मगैः
।
शातकुंभमयापीडो बभौ सूर्य इवोत्थितः॥१८॥
हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः
।
चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत्॥१९॥
ततः सुशर्मा दशभिः सुरथस्तु किरीटिनम्
।
सुधर्मा सुधनुश्चैव सुबाहुश्च समार्पयत्॥२०॥
तांस्तु सर्वान् पृथग्बाणैर्वानरप्रवरध्वजः
।
प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद सायकान्॥२१॥
सुधन्वनो धनुश्छित्त्वा हयांश्चास्यावधीच्छरैः
।
अथास्य सशिरस्त्राणं शिरः कायादपातयत्॥२२॥
तस्मिन्निपतिते वीरे त्रस्तास्तस्य पदानुगाः
।
व्यद्रवन्त भयाद्भीता यत्र दौर्योधनं बलम्॥२३॥
ततो जघान संक्रुद्धो वासविस्तां महाचमूम्
।
शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः॥२४॥
ततो भग्ने बले तस्मिन् विप्रलीने समंततः
।
सव्यसाचिनि संक्रुद्धे त्रैगर्तान् भयमाविशत्॥२५॥
ते वध्यमानाः पार्थेन शरैः सन्नतपर्वभिः
।
अमुह्यास्तत्र तत्रैव त्रस्ता मृगगणा इव॥२६॥
ततस्त्रिगर्तराट् क्रुद्धस्तानुवाच महारथान्
।
अलं द्रुतेन वः शूरानभयं कर्तुमर्हथ॥२७॥
शप्त्वाथ शपथान् घोरान्सर्वसैन्यस्य पश्यतः
।
गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यशः॥२८॥
नावहास्याः कथं लोके कर्मणानेन संयुगे
।
भवेम सहिताः सर्वे निवर्तध्वं यथाबलम्॥२९॥
एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः
।
शंखांश्च दध्मिरे वीरा हर्षयन्तः परस्परम्॥३०॥
ततस्ते संन्यवर्तन्त संशप्तकगणाः पुनः
।
नारायणाश्च गोपाला मृत्युं कृत्वा निवर्तनम्॥३१॥
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि सुधन्ववधे अष्टादशोऽध्यायः॥१८॥
सञ्जय उवाच।
दृष्ट्वा तु संनिवृत्तांस्तान् संशप्तकगणान् पुनः
।
वासुदेवं महात्मानमर्जुनः समभाषत॥१॥
दृष्ट्वेति ॥१॥
चोदयाश्वान् हृषीकेश संशप्तकगणान् प्रति
।
नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः॥२॥
पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च
।
अद्यैतान् पातयिष्यामि क्रुद्धो रुद्रः पशूनिव॥३॥
ततः कृष्णः स्मितं कृत्वा प्रतिनन्द्य शिवेन तम्
।
प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः॥४॥
स रथो भ्राजतेऽत्यर्थमुह्यमानो रणे तदा
।
उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः॥५॥
मण्डलानि ततश्चक्रे गतप्रत्यागतानि च
।
यथा शक्ररथो राजन् युद्धे देवासुरे पुरा॥६॥
अथ नारायणाः क्रुद्धा विविधायुधपाणयः
।
छादयन्तः शरव्रातैः परिववुर्धनञ्जयम्॥७॥
अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ
।
कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनञ्जयम्॥८॥
क्रुद्धस्तु फाल्गुनः संख्ये द्विगुणीकृतविक्रमः
।
गाण्डीवं धनुरामृज्य तूर्णं जग्राह संयुगे॥९॥
बद्ध्वा च भ्रुकुटिं वक्त्रे क्रोधस्य प्रतिलक्षणम्
।
देवदत्तं महाशंखं पूरयामास पाण्डवः॥१०॥
अथास्त्रमरिसंघघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः
।
ततो रूपसहस्त्राणि प्रादुरासन् पृथक् पृथक्॥११॥
आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः
।
अन्योन्येनार्जुनं मत्वा स्वमात्मानं च जघ्निरे॥१२॥
अयमर्जुनोऽयं गोविन्द इमौ पाण्डवयादवौ
।
इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे॥१३॥
मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम्
।
अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः॥१४॥
ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात्
।
कृत्वा तदस्त्रं तान् वीराननयद्यमसादनम्॥१५॥
अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि
।
मावेल्लकांस्त्रिगर्तांश्च योधेयांश्चार्दयच्छरैः॥१६॥
ते हन्यमाना वीरेण क्षत्रियाः कालचोदिताः
।
व्यसृजञ्छरजालानि पार्थे नानाविधानि च॥१७॥
न ध्वजो नार्जुनस्तत्र न रथो न च केशवः
।
प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः॥१८॥
ततस्ते लब्धलक्षत्वादन्योन्यमभिचुक्रुशुः
।
हतौ कृष्णाविति प्रीत्या वासांस्यादुधुवुस्तदा॥१९॥
भेरी-मृदङ्ग-शङ्खांश्च दध्मुर्वीराः सहस्रशः
।
सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष॥२०॥
ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत्
।
क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन्॥२१॥
तस्य तद्भाषितं श्रुत्वा त्वरमाणो धनञ्जयः
।
वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत्॥२२॥
ततः संशप्तकव्रातान् साश्वद्विपरथायुधान्
।
उवाह भगवान् वायुः शुष्कपर्णचयानिव॥२३॥
उह्यमानास्तु ते राजन् बह्वशोभन्त वायुना
।
प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष॥२४॥
तांस्तथा व्याकुलीकृत्य त्वरमाणो धनञ्जयः
।
जघान निशितैर्बाणैः सहस्राणि शतानि च॥२५॥
शिरांसि भल्लेरहरद्बाहूनपि च सायुधान्
।
हस्तिहस्तोपमांश्चोरून् शरैरुर्व्यामपातयत्॥२६॥
पृष्ठच्छिन्नान् विचरणान् बाहुपार्श्वेक्षणाकुलान्
।
नानाङ्गावयवैर्हीनांश्चकारारीन् धनञ्जयः॥२७॥
गन्धर्वनगराकारान् विधिवत्कल्पितान् रथान्
।
शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान्॥२८॥
मुण्डतालवनानीव तत्र तत्र चकाशिरे
।
छिन्ना रथध्वजव्राताः केचित्तत्र क्वचित्क्वचित्॥२९॥
सोत्तरायुधिनो नागाः सपताकांकुशध्वजाः
।
पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः॥३०॥
सोत्तरायुधिनः उपरिगतैर्योधैः सहिताः ॥३०॥
चामरापीडकवचाः स्रस्तांत्रनयनास्तथा
।
सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ॥३१॥
विप्रविद्धासिनखराश्छिन्नवर्मर्ष्टिशक्तयः
।
पत्तयश्छिन्नवर्माणः कृपणाः शेरते हताः॥३२॥
तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि
।
भ्रमद्भिर्निष्टनद्भिश्च क्रूरमायोधनं बभौ॥३३॥
रजश्च सुमहज्जातं शान्तं रुधिरवृष्टिभिः
।
मही चाप्यभवद्दुर्गा कबन्धशतसंकुला॥३४॥
तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे
।
आक्रडिमिव रुद्रस्य घ्नतः कालात्यये पशून्॥३५॥
ते वध्यमानाः पार्थेन व्याकुलाश्च रथद्विपाः
।
तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः॥३६॥
सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः
।
आस्तीर्णा संबभौ सर्वा प्रेतीभूतैः समंततः॥३७॥
एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि
।
व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत्॥३८॥
तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः
।
युधिष्ठिरं परीप्सन्तस्तदासीत् तुमुलं महत्॥३९॥
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि अर्जुनसंशप्तकयुद्धे ऊनविंशोऽध्यायः॥१९॥
सञ्जय उवाच।
परिणाम्य निशां तां तु भारद्वाजो महारथः
।
उक्त्वा सुबहुराजेन्द्र वचनं वै सुयोधनम्॥१॥
परिणाम्येति ॥१॥
विधाय योगं पार्थेन संशप्तकगणैः सह
।
निष्क्रान्ते च तदा पार्थे संशप्तकवधं प्रति॥२॥
व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम्
।
अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया॥३॥
व्यूढं दृष्ट्वा सुपर्णं तु भारद्वाजकृतं तदा
।
व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः॥४॥
मुखं त्वासीत् सुपर्णस्य भारद्वाजो महारथः
।
शिरो दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः॥५॥
चक्षुषी कृतवर्माऽऽसीद्गौतमश्चास्यतां वरः
।
भूतशर्मा क्षेमशर्मा करकाशश्च वीर्यवान्
।
कलिंगाः सिंहलाः प्राच्याः शूराभीरा दशेरकाः॥६॥
शका यवनकाम्बोजास्तथा हंसपथाश्च ये
।
ग्रीवायां शूरसेनाश्च दरदा मद्रकेकयाः॥७॥
गजाश्वरथपत्त्योघास्तस्थुः परमदंशिताः
।
भूरिश्रवास्तथा शल्यः सोमदत्तश्च बाल्हिकः॥८॥
अक्षौहिण्या वृता वीरा दक्षिणं पार्श्वमास्थिताः
।
विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः॥९॥
वामं पार्श्वं समाश्रित्य द्रोणपुत्राग्रतः स्थिताः
।
पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौण्ड्रमद्रकाः॥१०॥
गान्धाराः शकुनाः प्राच्याः पार्वतीया वसातयः
।
पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः॥११॥
महत्या सनया तस्थौ नानाजनपदोत्थया
।
जयद्रथो भीमरथः संपातिर्ऋषभो जयः॥१२॥
भूमिंजयो वृषक्राथो नैषधश्च महाबलः
।
वृता बलेन महता ब्रह्मलोकपरिष्कृताः॥१३॥
व्यूहस्योरसि ते राजन् स्थिता युद्धविशारदाः
।
द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः॥१४॥
वातोद्धूतार्णवाकारः प्रवृत्त इव लक्ष्यते
।
तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः॥१५॥
सविद्युत्स्तनिता मेघाः सर्वदिग्भ्य इवोष्णगे
।
तस्य प्राग्ज्योतिषो मध्ये विधिवत् कल्पितं गजम्॥१६॥
उष्णगे घर्मात्यये ॥१६॥
आस्थितः शुशुभे राजन्नंशुमानुदये यथा
।
माल्यदामवता राजन् श्वेतच्छत्रेण धार्यता॥१७॥
कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना
।
नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ॥१८॥
पौर्णमास्यां कृत्तिकायोगयुक्तेन इन्दुना शारदपूर्णचन्द्रेणेत्यर्थः ॥१८॥
अतिवृष्टो महामेघैर्यथा स्यात् पर्वतो महान्
।
नानानृपतिभिर्वीरैर्विविधायुधभूषणैः॥१९॥
समन्वितः पार्वतीयैः शक्रो देवगणैरिव
।
ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम्॥२०॥
अजय्यमरिभिः संख्ये पार्षतं वाक्यमब्रवीत्
।
ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो
।
पारावतसवर्णाश्व तथा नीतिर्विधीयताम्॥२१॥
धृष्टद्युम्न उवाच।
द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत
।
अहमावारयिष्यामि द्रोणमद्य सहानुगम्॥२२॥
मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि
।
न हि शक्तो रणे द्रोणो विजेतुं मां कथंचन॥२३॥
सञ्जय उवाच।
एवमुक्त्वा किरन् बाणान् द्रुपदस्य सुतो बली
।
पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत्॥२४॥
अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम्
।
क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव॥२५॥
अनिष्टदर्शनं स्वमृत्युहेतुत्वात् ॥२५॥
तं तु संप्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्षणः
।
प्रियं चिकीर्षुर्दोणस्य धृष्टद्युम्नमवारयत्॥२६॥
स संप्रहारस्तुमुलः सुघोरः समपद्यत
।
पार्षतस्य च शूरस्य दुर्मुखस्य च भारत॥२७॥
पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम्
।
भारद्वाजं शरौधेण महता समवारयत्॥२८॥
द्रोणमावारितं दृष्ट्वा भृशायस्तस्तवात्मजः
।
नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत्॥२९॥
भृशायस्तोऽतिप्रयत्नवान् ॥२९॥
तयोर्विषक्तयोः संख्ये पाञ्चाल्यकुरुमुख्ययोः
।
द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः॥३०॥
अनिलेन यथाऽभ्राणि विच्छिन्नानि समन्ततः
।
तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित् क्वचित्॥३१॥
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम्
।
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत॥३२॥
नैव स्वेन परे राजन्नाज्ञायन्त परस्परम्
।
अनुमानेन संज्ञाभिर्युद्धं तत् समवर्तत॥३३॥
चूडामणिषु निष्केषु भूषणेष्वपि वर्मसु
।
तेषामादित्यवर्णाभा रश्मयः प्रचकाशिरे॥३४॥
तत्प्रकीर्णपताकानां रथवारणवाजिनाम्
।
बलाकाशबलाभ्राभं ददृशे रूपमाहवे॥३५॥
नरानेव नरा जघ्नुरुदग्राश्च हया हयान्
।
रथांश्च रथिनो जघ्नुर्वारणा वरवारणान्॥३६॥
समुच्छ्रितपताकानां गजानां परमद्विपैः
।
क्षणेन तुमुलो घोरः संग्रामः समपद्यत॥३७॥
तेषां संसक्तगात्राणां कर्षतामितरेतरम्
।
दन्तसङ्घातसङ्घर्षात् सधूमोऽग्निरजायत॥३८॥
विप्रकीर्णपताकास्ते विषाणजनिताग्नयः
।
बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः॥३९॥
विक्षिपद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः
।
संबभूव मही कीर्णा मेघैर्द्यौरिव शारदी॥४०॥
तेषामाहन्यमानानां बाणतोमरऋष्टिभिः
।
वारणानां रवो जज्ञे मेघानामिव संप्लवे॥४१॥
तोमराभिहताः केचिद्बाणैश्च परमद्विपाः
।
वित्रेसुः सर्वनागानां शब्दमेवापरेऽव्रजन्॥४२॥
विषाणाभिहताश्चापि केचित्तत्र गजा गजैः
।
चक्रुरार्तस्वनं घोरमुत्पातजलदा इव॥४३॥
प्रतीपाः क्रियमाणाश्च वारणा वरवारणैः
।
उन्मथ्य पुनराजग्मुः प्रेरिताः परमांकुशैः॥४४॥
महामात्रैर्महामात्रास्ताडिताः शरतोमरैः
।
गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणांकुशाः॥४५॥
निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः
।
छिन्नाभ्राणीव संपेतुः संप्रविश्य परस्परम्॥४६॥
हतान् परिवहन्तश्च पतितान् पतितायुधान्
।
दिशो जग्मुर्महानागाः केचिदेकचरा इव ॥४७॥
एकचराः द्विपान्तरदर्शनासहाः ॥४७॥
ताडितास्ताड्यमानाश्च तोमरर्ष्ट्रिपरश्वधैः
।
पेतुरार्तस्वनं कृत्वा तदा विशसने गजाः॥४८॥
तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः
।
आहता सहसा भूमिश्चकम्पे च ननाद च॥४९॥
सादितैः सगजारोहैः सपताकैः समन्ततः
।
मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः॥५०॥
गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे
।
रथिभिः पातिता भल्लैर्विकीर्णांकुशतोमराः॥५१॥
क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः
।
परान् स्वांश्चापि मृद्नन्तः परिपेतुर्दिशो दश॥५२॥
गजाश्वरथयोधानां शरीरौघसमावृता
।
बभूव पृथिवी राजन् मांसशोणितकर्दमा॥५३॥
प्रमथ्य च विषाणाग्रैः समुत्क्षिप्ताश्च वारणैः
।
सचक्राश्च विचक्राश्च रथैरेव महारथाः॥५४॥
रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः
।
हतारोहाश्च मातङ्गा दिशो जग्मुर्भयातुराः॥५५॥
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा
।
इत्यासीत् तुमुलं युद्धं न प्राज्ञायत किञ्चन॥५६॥
आगुल्फेभ्योऽवसीदन्ते नरा लोहितकर्दमैः
।
दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः॥५७॥
शोणितैः सिच्यमानानि वस्त्राणि कवचानि च
।
छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत॥५८॥
हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः
।
संक्षुण्णाः पुनरावृत्य बहुधा रथनेमिभिः॥५९॥
सगजौघमहावेगः परासुनरशैवलः
।
रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः॥६०॥
तं वाहनमहानौभिर्योधा जयधनैषिणः
।
अवगह्याथ मज्जन्तो नैव मोहं प्रचक्रिरे॥६१॥
शरवर्षाभिवृष्टेषु योधेष्वञ्चितलक्ष्मसु
।
न तेष्वचित्ततां लेभे कश्चिदाहतलक्षणः॥६२॥
अचित्ततां मोहम् आहतलक्षणो ध्वस्तचिह्नः ॥६२॥
वर्तमाने तथा युद्धे घोररूपे भयङ्करे
।
मोहयित्वा परान् द्रोणो युधिष्ठिरमुपाद्रवत्॥६३॥
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि संकुलयुद्धे विंशोऽध्यायः॥२०॥
सञ्जय उवाच।
ततो युधिष्ठिरो द्रोणं दृष्ट्वाऽन्तिकमुपागतम्
।
महता शरवर्षेण प्रत्यगृह्णादभीतवत्॥१॥
तत इति ॥१॥
ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले
।
जिघृक्षति महासिंहे गजानामिव यूथपम्॥२॥
दृष्ट्वा द्रोणं ततः शूरः सत्यजित् सत्यविक्रमः
।
युधिष्ठिरमभिप्रेप्सुराचार्यं समुपाद्रवत्॥३॥
तत आचार्यपाञ्चाल्यौ युयुधाते महाबलौ
।
विक्षोभयन्तौ तत् सैन्यमिन्द्रवैरोचनाविव॥४॥
ततो द्रोणं महेष्वासः सत्यजित्सत्यविक्रमः
।
अविध्यन्निशिताग्रेण परमास्त्रं विदर्शयन्॥५॥
तथास्य सारथेः पञ्च शरान् सर्पविषोपमान्
।
अमुञ्चदन्तकप्रख्यान् संमुमोहास्य सारथिः॥६॥
अथास्य सहसाऽविध्यद्धयान् दशभिराशुगैः
।
दशभिर्दशभिः कुद्ध उभौ च पार्ष्णिसारथी॥७॥
मण्डलं तु समावृत्य विचरन् पृतनामुखे
।
ध्वजं चिच्छेद च क्रुद्धो द्रोणस्यामित्रकर्षणः॥८॥
द्रोणस्तु तत्समालोक्य चरितं तस्य संयुगे
।
मनसा चिन्तयामास प्राप्तकालमरिन्दमः॥९॥
ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः
।
अविध्यच्छीघ्रमाचार्यश्छित्त्वास्य सशरं धनुः॥१०॥
स शीघ्रतरमादाय धनुरन्यत् प्रतापवान्
।
द्रोणमभ्यहनद्राजंस्त्रिंशता कङ्कपत्रिभिः॥११॥
दृष्ट्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे
।
वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमार्दयत्॥१२॥
संछाद्यमानं समरे द्रोणं दृष्ट्वा महारथम्
।
चुक्रुशुः पाण्डवा राजन् वस्त्राणि दुधुवुश्च ह॥१३॥
वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे
।
विव्याध बलवान् राजंस्तदद्भुतमिवाभवत्॥१४॥
द्रोणस्तु शरवर्षेण च्छाद्यमानो महारथः
।
वेगं चक्रे महावेगः क्रोधादुद्धृत्य चक्षुषी॥१५॥
ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च
।
पड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीहृकम्॥१६॥
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम्
।
साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम्॥१७॥
स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दितो मृधे
।
ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान्॥१८॥
हयान् ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी
।
अवाकिरत् ततो द्रोणः शरवर्षै सहस्रशः॥१९॥
तथा संछिद्यमानेषु कार्मुकेषु पुनः पुनः
।
पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत्॥२०॥
स सत्यजितमालोक्य तथोदीर्णं महाहवे
।
अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः॥२१॥
तस्मिन् हते महामात्रे पञ्चालानां महारथे
।
अपायाज्जवनैरश्वैर्दोणात् त्रस्तो युधिष्ठिरः॥२२॥
पञ्चालाः केकया मत्स्याश्चेदिकारूषकोसलाः
।
युधिष्ठिरमभीप्सन्तो दृष्ट्वा द्रोणमुपाद्रवन्॥२३॥
ततो युधिष्ठिरं प्रेप्सुराचार्यः शत्रुपूगहा
।
व्यधमत्तान्यनीकानि तूलराशिमिवानलः॥२४॥
निर्दहन्तमनीकानि तानि तानि पुनः पुनः
।
द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत॥२५॥
सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः
।
षड्भिः ससूतं सहयं द्रोणं विद्ध्वाऽनददृशम् ॥२६॥
क्रूराय कर्मणे युक्तश्चिकीर्षुः कर्म दुष्करम्
।
अवाकिरच्छरशतैर्भारद्वाजं महारथम्॥२७॥
तस्य नानदतो द्रोणः शिरः कायात् सकुण्डलम्
।
क्षुरेणापाहरत् तूर्णं ततो मत्स्याः प्रदुद्रुवुः॥२९॥
मत्स्याञ्जित्वाऽजयच्चेदीन् करूषान् केकयानपि
।
पञ्चालान् सृञ्जयान् पाण्डून् भारद्वाज पुनः पुनः॥२८॥
तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम्
।
दृष्ट्वा रुक्मरथं वीरं समकंपन्त सृञ्जयाः॥३०॥
उत्तमं ह्याददानस्य धनुरस्वाशुकारिणः
।
ज्याघोषो निघ्नतोऽमित्रान् दिक्षु सर्वासु शुश्रुवे॥३१॥
नागानश्वान् पदातीश्च रथिनो गजसादिनः
।
रौद्रा हस्तवतामुक्ताः प्रमथ्नन्ति स्म सायकाः॥३२॥
नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये
।
अश्मवर्षभिवावर्षत् परेषां भयमादधत्॥३३॥
सर्वा दिशः समचरत् सैन्यं विक्षोभयन्निव
।
बली शूरो महेष्वासो मित्राणामभयंकरः॥३४॥
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम्
।
दिक्षु सर्वासु पश्यामो द्रोणस्यामिततेजसः॥३५॥
शोभमानां ध्वजे चास्य वेदीमद्राक्ष्म भारत
।
हिमवच्छिखराकारां चरतः संयुगे भृशम्॥३६॥
द्रोणस्तु पाण्डवानीके चकार कदनं महत्
।
यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः॥३७॥
स शूरः सत्यवाक् प्राज्ञो बलवान् सत्यविक्रमः
।
महानुभावः कल्पान्ते रौद्रां भीरुविभीषणाम्॥३८॥
कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम्
।
गजवाजिमहाग्राहामसिमीनां दुरासदाम्॥३९॥
वीरास्थिशर्करां रौद्रां भेरीमुरजकच्छपाम्
।
चर्मवर्मप्लवां घोरां केशशैवलशाद्वलाम्॥४०॥
शरौधिणीं धनुःस्रोतां बाहुपन्नगसंकुलाम्
।
रणभूमिवहां तीव्रां कुरुसृञ्जयवाहिनीन्॥४१॥
मनुष्यशीर्षपाषाणां शक्तिमीनां गदाडुपाम्
।
उष्णीषफेनवसनां विकीर्णान्त्रसरीसृपान्॥४२॥
वीरापहारिणीमुग्रां मांसशोणितकर्दमाम्
।
हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम्॥४३॥
क्रूरां शरीरसंघट्टां सादिनक्रां दुरत्ययात्
।
द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम्॥४४॥
क्रव्यादगणसंजुष्टां श्वशृगालगणायुताम्
।
निषेवितां महारौद्रैः पिशिताशैः समंततः॥४५॥
तं दहन्तमनीकानि रथोदारं कृतान्तवत्
।
सर्वतोऽभ्यद्रवन् द्रोणं कुन्तीपुत्रपुरोगमाः॥४६॥
ते द्रोणं सहिताः शूराः सर्वतः प्रत्यवारयन्
।
गभस्तिभिरिवादित्यं तपन्तं भुवनं यथा॥४७॥
तं तु शूरं महेष्वासं तावकाभ्युद्यतायुधाः
।
राजानो राजपुत्राश्च समन्तात् पर्यवारयन्॥४८॥
शिखण्डी तु ततो द्रोणं पञ्चभिर्नतपर्वभिः
।
क्षत्रवर्मा च विंशत्या वसुदानश्च पञ्चभिः॥४९॥
उत्तमौजास्त्रिभिर्बाणैः क्षत्रदेवश्च सप्तभिः
।
सात्यकिश्च शतेनाजौ युधामन्युस्तथाऽष्टभिः॥५०॥
युधिष्ठिरो द्वादशभिर्दोणं विव्याध सायकैः
।
धृष्टद्युम्नश्च दशभिश्चेकितानस्त्रिभिः शरैः॥५१॥
ततो द्रोणः सत्यसन्धः प्रभिन्न इव कुञ्जरः
।
अभ्यतीत्य रथानीकं दृढसेनमपातयत्॥५२॥
ततो राजानमासाद्य प्रहरन्तमभीतवत्
।
अविध्यन्नवभिः क्षेमं स हतः प्रापतद्रथात्॥५३॥
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन् दिशः
।
त्राता ह्यभवदन्येषां न त्रातव्यः कथञ्चन॥५४॥
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम्
।
वसुदानं च भल्लेन प्रैषयद्यमसादनम्॥५५॥
उभयत्र विद्ध्वेति शेषः ॥५५॥
अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम्
।
क्षत्रदेवं तु भल्लेन रथनीडादपातयत्॥५६॥
युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम्
।
विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत्॥५७॥
ततो युधिष्ठिरः क्षिप्रं गुरुतो राजसत्तमः
।
अपायाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात्॥५८॥
पाञ्चाल्यो नाम्ना ॥५८॥
तं द्रोणः सधनुष्कं तु साश्वयन्तारमाक्षिणोत्
।
स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात्॥५९॥
तस्मिन् हते राजपुत्रे पञ्चालानां यशस्करे
।
हतद्रोणं हतद्रोणमित्यासीन्निःस्वनो महान्॥६०॥
तांस्तथा भृशसंरब्धान् पञ्चालान् मत्स्यकेकयान्
।
सृञ्जयान् पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली॥६१॥
सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ
।
वार्धक्षेमिं चैत्रसेनिं सेनाबिन्दुं सुवर्चसम्॥६२॥
एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान्
।
सर्वान् द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः॥६३॥
तावकाञ्च महाराज जयं लब्ध्वा महाहवे
।
पाण्डवेयान् रणे जघ्नुर्द्रवमाणान् समन्ततः॥६४॥
ते दानवा इवेन्द्रेण वध्यमाना महात्मना
।
पञ्चालाः केकया मत्स्याः समकम्पन्त भारत॥६५॥
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्रोणयुद्धे एकविंशोऽध्यायः॥२१॥
धृतराष्ट्र उवाच।
भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे
।
पञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत॥१॥
भारद्वाजेति ॥१॥
आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम्
।
असेवितां कापुरुषैः सेवितां पुरुषर्षभैः॥२॥
स हि वीरोन्नतः शूरो यो भग्नेषु निवर्तते
।
अहो नासीत् पुमान् कश्चिद् दृष्ट्वा द्रोणं व्यवस्थितम्॥३॥
जुम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम्
।
त्यजन्तमाहवे प्राणान् सन्नद्धं चित्रयोधिनम्॥४॥
महेष्वासं नरव्याघ्रं द्विषतां भयवर्धनम्
।
कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम्॥५॥
भारद्वाजं तथाऽनीके दृष्ट्वा शूरमवस्थितम्
।
के शूराः संन्यवर्तन्त तन्ममाचक्ष्व सञ्जय॥५॥
सञ्जय उवाच।
तान् दृष्ट्वा चलितान् संख्ये प्रणुन्नान् द्रोणसायकैः
।
पञ्चालान् पाण्डवान् मत्स्यान् सृञ्जयांश्चेदिकेकयान्॥७॥
द्रोणचापविमुक्तेन शरौघेणाशुहारिणा
।
सिन्धोरिव महौघेन ह्रियमाणान्यथा प्लवान्॥८॥
कौरवाः सिंहनादेन नानावाद्यस्वनेन च
।
रथद्विपनरांश्चैव सर्वतः समवारयन्॥९॥
तान् पश्यन् सैन्यमध्यस्थो राजा स्वजनसंवृतः
।
दुर्योधनोऽब्रवीत् कर्णं प्रहृष्टः प्रहसन्निव॥१०॥
दुर्योधन उवाच।
पश्य राधेय पञ्चालान् प्रणुन्नान् द्रोणसायकैः
।
सिंहेनेव मृगान् वन्यांस्त्रासितान् दृढधन्वना॥११॥
नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः
।
यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः॥१२॥
अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना
।
पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः॥१३॥
सन्निरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना
।
एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः॥१४॥
भ्रमरैरारेव चाविष्टा द्रोणस्य निशितैः शरैः
।
अन्योन्यं समलीयन्त पलायनपरायणाः॥१५॥
एष भीमो महाक्रोधी हीनः पाण्डवसृञ्जयैः
।
मदीयैरावृतो योधैः कर्ण नन्दयतीव माम्॥१६॥
व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः
।
निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः॥१७॥
कर्ण उवाच।
नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत्
।
न चेमान् पुरुषव्याघ्र सिंहनादान् सहिष्यति॥१८॥
न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः
।
शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः॥१९॥
विषाग्निद्यूतसंक्लेशान् वनवासं च पाण्डवाः
।
स्मरमाणा न हास्यन्ति संग्राममिति मे मतिः॥२०॥
निवृत्तो हि महाबाहुरमितौजा वृकोदरः
।
वरान् वरान् हि कौन्तेयो रथोदारान् हनिष्यति॥२१॥
असिना धनुषा शक्त्या हयैर्नागैर्नरै रथैः
।
आयसेन च दण्डेन व्रातान् व्रातान्हनिष्यति॥२२॥
तमेनमनुवर्तन्ते सात्यकिप्रमुखा रथाः
।
पञ्चालाः केकया मत्स्याः पाण्डवाश्च विशेषतः॥२३॥
शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः
।
विनिघ्नन्तश्च भीमेन संरब्धेनाभिचोदिताः॥२४॥
ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुङ्गवाः
।
वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव॥२५॥
एकायनगता ह्येते पीडयेयुर्यतव्रतम्
।
अरक्षमाणं शलभा यथा दीपं मुमूर्षवः॥२६॥
असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे
।
अतिभारमहं मन्ये भारद्वाजे समाहितम्॥२७॥
शीघ्रमनुगमिष्यामो यत्र द्रोणो व्यवस्थितः
।
कोका इव महानागं मा वै हन्युर्यतव्रतम्॥२८॥
कोको वृकः ॥२८॥
सञ्जय उवाच।
राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्ततः
।
भ्रातृभिः सहितो राजन् प्रायाद्द्रोणरथं प्रति॥२९॥
तत्रारावो महानासीदेकं द्रोणं जिघांसताम्
।
पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः॥३०॥
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्रोणयुद्धे द्वाविंशोऽध्यायः॥२२॥
धृतराष्ट्र उवाच।
सर्वेषामेव मे ब्रूहि रथचिह्नानि सञ्जय
।
ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः॥१॥
सर्वेषामिति । रथचिह्नानि रथशब्दो हयोपलक्षणम् । रथान् हयान् चिह्नानि ध्वजांश्चेत्यर्थः ॥१॥
सञ्जय उवाच।
ऋक्षवर्णैर्हयैर्दृष्ट्वा व्यायच्छन्तं वृकोदरम्
।
रजताश्वस्ततः शूरः शैनेयः संन्यवर्तत॥२॥
व्यायच्छन्तं निवर्तमानम् ॥२॥
सारङ्गाश्वो युधामन्युः स्वयं प्रत्वरयन् हयान्
।
पर्यवर्तत दुर्धर्षः क्रुद्धो द्रोणरथं प्रति॥३॥
पारावतसवर्णैस्तु हेमभाण्डैर्महाजवैः
।
पाञ्चालराजस्य सुतो धृष्टद्युम्नो न्यवर्तत॥४॥
पितरं तु परिप्रेप्सुः क्षत्रधर्मा यतव्रतः
।
सिद्धिं चास्य परां कांक्षन् शोणाश्वः संन्यवर्तत॥५॥
शोणः कोकनदच्छविः ॥५॥
पद्मपत्रनिभांश्चाश्वान् मल्लिकाक्षान् स्वलंकृतान्
।
शैखण्डिः क्षत्रदेवस्तु स्वयं प्रत्वरयन् ययौ॥६॥
मल्लिकाक्षान्निर्मलेक्षणान् ॥६॥
दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः
।
वहन्तो नकुलं शीत्रं तावकानभिदुद्रुवुः॥७॥
कृष्णास्तु मेघसङ्काशा अवहदुत्तमौजसम्
।
दुर्धर्षायाभिसन्धाय क्रुद्धं युद्धाय भारत॥८॥
तथा तित्तिरिकल्माषा हया वातसमा जवे
।
अवहंस्तुमुले युद्धे सहदेवमुदायुधम्॥९॥
दन्तवर्णास्तु राजानं कालवाला युधिष्ठिरम्
।
भीमवेगा नरव्याघ्रमवहन् वातरंहसः॥१०॥
दन्तवर्णाः गजदन्तगौराः ॥१०॥
हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे
।
अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम्॥११॥
राज्ञस्त्वनन्तरो राजा पाञ्चाल्यो द्रुपदोऽभवत्
।
जातरूपमयच्छत्रः सर्वैस्तैरभिरक्षितः॥१२॥
ललामैर्हरिभिर्युक्तः सर्वशब्दक्षमैर्युधि
।
राज्ञां मध्ये महेष्वासः शान्तभीरभ्यवर्तत॥१३॥
तं विराटोऽन्वयाच्छीघ्रं सह सर्वैर्महारथैः
।
केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च॥१४॥
स्वैःस्वैः सैन्यैः परिवृता मत्स्यराजानमन्वयुः
।
तं तु पाटलिपुष्पाणां समवर्णा हयोत्तमाः॥१५॥
पाटलिपुष्पाणां समवर्णाः श्वेतरक्ताः ॥१५॥
वहमाना ध्यराजन्त मत्स्यस्यामित्रघातिनः
।
हीरद्रासमवर्णास्तु जवना हेममालिनः॥१६॥
पुत्रं विराटराजस्य सत्वरं समुदावहन्
।
इन्द्रगोपकवर्णैश्च भ्रातरः पञ्च केकयाः॥१७॥
विराटराजस्य पुत्रमुत्तरम् ॥१७॥
जातरूपसमाभासाः सर्वे लोहितकध्वजाः
।
ते हेममालिनः शूराः सर्वे युद्धविशारदाः॥१८॥
वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः
।
आमपात्रनिकाशास्तु पाञ्चाल्यममितौजसम्॥१९॥
आमपात्रनिकाशाः मलिनश्वेताः ॥१९॥
दत्तास्तुम्बुरुणा दिव्याः शिखण्डिनमुदावहन्
।
तथा द्वादश साहस्राः पञ्चालानां महारथाः॥२०॥
तेषां तु षट् सहस्राणि ये शिखण्डिनम् वयुः
।
पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष॥२१॥
आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः
।
धृष्टकेतुस्तु चेदीनामृषभोऽतिबलोदितः॥२२॥
सारंगशबलाः सारंगा एव अन्तरे बिन्दुचिताः ॥२२॥
काम्बोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः
।
बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः॥२३॥
पलालध्मसंकाशाः सैन्धवाः शीघ्रमावहन्
।
मल्लिकाक्षाः पद्मवर्णा बाल्हिजाताः स्वलंकृताः॥२४॥
पलालधूमसंकाशाः विशदनीलाः । ‘दीर्घग्रीवा मुखालंबमेहनाः पृथुलोचनाः । महान्तस्तनुरोमाणो बलिनः सैन्धवा हयाः’। पद्मवर्णा - ‘सितरक्तसमायोगात्पद्मवर्णः प्रकीर्त्यते । काम्बोजसमसंस्थाना बाल्हिजताश्च वाजिनः । विशेषः पुनरेतेषां दीर्घवृष्ठाङ्गतोच्यते’ ॥२४॥
शूरं शिखण्डिनः पुत्रमृक्षदेवमुदावहन्
।
रुक्मभाण्डप्रतिच्छन्नाः कौशेयसदृशा हयाः॥२५॥
कौशेयसदृशाः सितपीताः ॥२५॥
क्षमावन्तोऽवहन् संख्ये सेनाबिन्दुमरिन्दमम्
।
युवानमवहन् युद्धे क्रौञ्चवर्णा हयोत्तमाः॥२६॥
क्षमावन्तो विनीताः । सितलोमवेसराढ्याः कृष्णत्वग्गुह्यलोचनोष्ठखुराः । ये स्युर्मुनिभिर्वाहा निर्दिष्टाः क्रौञ्चवर्णास्ते' ॥२६॥
काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम्
।
श्वेतास्तु प्रतिविन्ध्यं तं कृष्णीग्रीवा मनोजवाः
।
यन्तुः प्रेष्यकरा राजन् राजपुत्रमुदावहन्॥२७॥
प्रेष्यवराः इच्छानुविधायिनः ॥२७॥
सुतसोमं तु यः सौम्यं पार्थः पुत्रमजीजनत्
।
माषपुष्पसवर्णास्तमवहन् वाजिनो रणे॥२८॥
माषपुष्पसवर्णा आपाण्डुपीताः ॥२८॥
सहस्रसोमप्रतिमो बभूव पुरे कुरूणामुदयेन्दुनाम्नि
।
तस्मिञ्जातः सोमसक्रन्दमध्ये यस्मात्तस्मात्सुतसोमोऽभवत्सः॥२९॥
सहस्रसोमप्रतिम सोमसहस्रसमः सौम्यतम इत्यर्थः । तस्मिन् उदयेन्दुनाम्नि उदयेन्दुपर्याये पुरे शक्रप्रस्थ एव । सोमसंक्रन्दः सोमाभिषवणं तस्य मध्ये तमधिकृत्य तत्पेनेनेत्यर्थः । तस्माद्धेतोः ॥२९॥
नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः
।
आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन्॥३०॥
शालपुष्पनिभा रक्तपीताः ॥३०॥
काञ्चनापिहितैर्योक्त्रैर्मयूरग्रीवसन्निभाः
।
द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमाहवे॥३१॥
योक्त्रैराबन्धैः । मयूरग्रीवो मरकतविशेषः ॥३१॥
श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः
।
ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः॥३२॥
यमाहुरध्यर्धगुणं कृष्णात् पार्थाच्च संयुगे
।
अभिमन्युं पिशंगास्तं कुमारमवहन् रणे॥३३॥
पिशङ्गाः कपिलाः ॥३३॥
एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः
।
तं बृहन्तो महाकाया युयुत्सुमवहन् रणे॥३४॥
पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम्
।
ऊहुः सुतमुले युद्धे हयाः कृष्णाः स्वलंकृताः॥३५॥
पलालकाण्डो निष्फलव्रीहिदण्डतद्वर्णा इति पूर्वेणान्वयः ॥३५॥
कुमारं शितिपादास्तु रुक्मचित्रैरुरच्छदैः
।
सौचित्तिमवहन् युद्धे यन्तुः प्रेष्यकरा हयाः॥३६॥
रुक्मपीठावकीर्णास्तु कौशेयसदृशा हयाः
।
सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन्॥३७॥
रुक्मपीठेन रुक्मवर्णेन पीठेन पृष्ठेनावकीर्णा व्याप्ताः ॥३७॥
रुक्ममालाधराः शूरा हेमपृष्ठाः स्वलङ्कृताः
।
काशिराजं नरश्रेष्ठं श्लाघनीयमुदावहन्॥३८॥
हेमष्पृष्ठाः श्वेता एव ॥३८॥
अस्त्राणां च धनुर्वेदे ब्राह्मे वेदे च पारगम्
।
तं स यधृतिमायान्तमरुणाः समुदावहन्॥३९॥
अरुणा अव्यक्तरागाः ॥३९॥
यः स पांचालसेनानीर्द्रोणमंशमकल्पयत्
।
पारावतसवर्णास्तं धृष्टद्युम्नमुदावहन्॥४०॥
धृष्टद्युम्नस्य पुनर्वचनं द्रोणहन्तृत्वदृढीकरणार्थम् ॥४०॥
तमन्वयात् सत्यधृतिः सौचित्तिर्युद्धदुर्मदः
।
श्रेणिमान् वसुदानश्च पुत्रः काश्यस्य चाभिभूः॥४१॥
युक्तैः परमकाम्बोजैर्जवनैर्हेममालिभिः
।
भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः॥४२॥
प्रभद्रकास्तु काम्बोजाः षट्सहस्राण्युदायुधाः
।
नानावर्णैर्हयैः श्रेष्ठैर्हेमवर्णरथध्वजाः॥४३॥
शरव्रातैर्विधुन्वन्तः शत्रून् विततकाकाः
।
समानमुत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः॥४४॥
बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः
।
ऊहुरम्लानमनसश्चेकितानं हयोत्तमाः॥४५॥
बभ्रुकौशेयवर्णाः पिङ्गगौराः ॥४५॥
इन्द्रायुधसवर्णस्तु कुन्तिभोजो हयोत्तमैः
।
आयात् सदश्वैः पुरुजिन्मातुलः सव्यसाचिनः॥४६॥
इन्द्रायुधसवर्णैस्त्रिवर्णैः ॥४६॥
अन्तरिक्षसवर्णास्तु तारका चित्रिता इव
।
राजानं रोचमानं ते हयाः संख्ये समावहन्॥४७॥
अन्तरिक्षसवर्णा नीलाः ॥४७॥
कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः
।
जारासन्धिं हयाः श्रेष्ठाः सहदेवमुदावहन्॥४८॥
कर्बुराश्चित्राः ॥४८॥
ये तु पुष्करनालस्य समवर्णा हयोत्तमाः
।
जवे श्येनसमाश्चित्राः सुदामानमुदावहन्॥४९॥
शशलोहितवर्णास्तु पाण्डुरोदतराजयः
।
पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन्॥५०॥
शशलोहितवर्णाः सितारुणाः ॥५०॥
पञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः
।
तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः॥५१॥
माषवर्णाश्च जवना बृहन्तो हेममालिनः
।
दधिपृष्ठाश्चित्रमुखाः पाञ्चाल्यमवहन् द्रुतम्॥५२॥
माषवर्णाः मलिनश्यामाः ॥५२॥
शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः
।
पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन्॥५३॥
भद्रकाः शोभनशिरसः शरकाण्डनिभाः सितगौराः ॥५३॥
रासभारुणवर्णाभाः पृष्टतो मूषिकप्रभाः
।
वल्गन्त इव संयत्ता व्याघ्रदत्तमुदावहन्॥५४॥
रासभारुणवर्णा अरुणमलिनाः मूषिकप्रभा मलिनचेताः ॥५४॥
हरयः कालकाश्चित्राश्चित्रमाल्यावभूषिताः
।
सुधन्वानं नरव्याघ्रं पाञ्चाल्यं समुदावहन्॥५५॥
कालकाः कृष्णमस्तकाः ॥५५॥
इन्द्राशनिसमस्पर्शा इन्द्रगोपकसन्निभाः
।
काये चित्रान्तराश्चित्राश्चित्रायुधमुदावहन्॥५६॥
चित्रान्तरा विचित्रावकाशाः । चित्रा अद्भुतदर्शनाः ॥५६॥
बिभ्रतो हेममालास्तु चक्रवाकोदरा हयाः
।
कोसलाधिपतेः पुत्र सुक्षत्रं वाजिनोऽवहन्॥५७॥
चक्रवाकोदरा ईषच्छ्वेताः ॥५७॥
शबलास्तु बृहन्तोऽश्वा दान्ता जांबूतदस्रजः
।
युद्धे सत्यधृतिं क्षेमिमवहन् प्रांशवः शुभाः॥५८॥
एकवर्णेन सर्वेण ध्वजेन कवचेन च
।
अश्वैश्च धनुषा चैव शुक्लैः शुक्लो न्यवर्ततः॥५९॥
समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम्
।
अश्वाः शशाङ्कसदृशाश्चन्द्रसेनमुदावहन्॥६०॥
नीलोत्पलसवर्णास्तु तपनीयविभूषिताः
।
शैब्यं चित्ररथं संख्ये चित्रमाल्याऽवहन् हयाः॥६१॥
कलायपुष्पवर्णास्तु श्वेतलोहेतराजयः
।
रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम्॥६२॥
कलायपुष्पवर्णाः मिश्रश्यामाः ॥६२॥
यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम्
।
तं पटच्चरहन्तारं शुकवर्णाऽवहन् हयाः॥६३॥
पटच्चराणामसुरविशेषाणां हन्तारं समुद्राधिपम् ॥६३॥
चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम्
।
ऊहुः किंशुकपुष्पाणां समवर्णा हयोत्तमाः॥६४॥
एकवर्णेन सर्वेण ध्वजेन कवचेन च
।
धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत॥६५॥
नानारूपै रत्नचिह्नैर्वरूथरथकार्मुकैः
।
वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत॥६६॥
ये तु पुष्करवर्णस्य तुल्यवर्णा हयोत्तमाः
।
ते रोचमानस्य सुतं हेमवर्णमुदावहन्॥६७॥
योधाश्च भद्रकाराश्च शरदण्डानुदण्डयः
।
श्वेताण्डाः कुटाण्डाभादण्डकेतुं हयाऽवहन्॥६८॥
योधा युद्धक्षमाः भद्रकाराः शोभनक्रियाः शरदण्डः शरप्रकाण्ड इव अनुदण्डिः पृष्ठवंशो येषां सितगौरपृष्टा इत्यर्थः ॥६८॥
केशवेन हते संख्ये पितर्यथ नराधिपे
।
भिन्ने कपाटे पाण्ड्यानां विद्रुतेषु च बन्धुषु॥६९॥
कपाटे नगरविशेषे ॥६९॥
भीष्मादवाप्य चास्त्राणि द्रोणाद्रामात् कुपात् तथा
।
अस्त्रैः समत्वं संप्राप्य रुक्मिकर्णार्जुनाच्युतैः॥७०॥
इयेष द्वारकां हन्तुं कृत्स्नां जेतुं च मेदिनीम्
।
निवारितस्ततः प्राज्ञैः सहृद्भिर्हितकाम्यया॥७१॥
वैरानुबन्धमुत्सृज्य स्वराज्यमनुशास्ति यः
।
ससागरध्वजः पाण्ड्यश्चन्द्ररश्मिनिभैर्हयैः॥७२॥
वैडूर्यजालसंछन्नैर्वीर्यद्रविणमाश्रितः
।
दिव्यं विस्फारयंश्चापं द्रोणमभ्यद्रवद्बली॥७३॥
आटरूषकवर्णाभा हयाः पाण्ड्यानुयायिनाम्
।
अवहन् रथमुख्यानामयुतानि चतुर्दश॥७४॥
आटरूषकवर्णाभाः आटरूषकस्य वासकस्य कुसुमं तद्वर्णसदृशवर्णाः ॥७४॥
नानावर्णेन रूपेण नानाकृतिमुखा हयाः
।
रथचक्रध्वजं वीरं घटोत्कचमुदावहन्॥७५॥
भारतानां समेतानामुत्सृज्यैको मतानि यः
।
गतो युधिष्ठिरं भक्त्या त्यक्त्वा सर्वमभीप्सितम्॥७६॥
यो बृहन्तः ॥७६॥
लोहिताक्षं महाबाहुं बृहन्तं तमरट्टजाः
।
महासत्वा महाकायाः सौवर्णस्यन्दने स्थितम्॥७७॥
हया अवहन् इति पूर्वस्मादनुकृष्यते ॥७७॥
सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम्
।
राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः॥७८॥
सुवर्णवर्णा इति पूर्वोत्तरान्वयि ॥७८॥
वर्णैरुच्चावचैरन्यैः सदश्वानां प्रभद्रकाः
।
संन्यवर्तन्त युद्धाय बहवो देवरूपिणः॥७९॥
ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः
।
प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः॥८०॥
अत्यरोचत तान् सर्वान् धृष्टद्युम्नः समागतान्
।
सर्वाण्यति च सैन्यानि भारद्वाजो व्यरोचतः॥८१॥
अतीव शुशुभे तस्य ध्वजः कुष्णाजिनोत्तरः
।
कमण्डलुर्महाराज जातरूपमयः शुभः॥८२॥
ध्वजं तु भीमसेनस्य वैढूर्यमणिलोचनम्
।
भ्राजमानं महासिंहं राजन्तं दृष्टवानहम्॥८३॥
ध्वजं तु कुरुराजस्य पाण्डवस्य महौजसः
।
दृष्टवानस्मि सौवर्णं सोमं ग्रहगणान्वतम्॥८४॥
नन्दोपनन्दकौ नाम्ना ॥८४॥
मृदङ्गौ चात्र विपुलौ दिव्यौ नन्दोपनन्दकौ
।
यन्त्रेणाहन्यमानौ च सुस्वनौ हर्षवर्धनौ॥८५॥
शरभं पृष्ठसौवर्णं नकुलस्य महाध्वजम्
।
अपश्याम रथेऽत्युग्रं भीषयाणमवस्थितम्॥८६॥
हंसस्तु राजतः श्रीमान् ध्वजे घण्टापताकवान्
।
सहदेवस्य दुर्धर्षो द्विषतां शोकवर्धनः॥८७॥
पञ्चानां द्रौपदेयानां प्रतिमाध्वजभूषणम्
।
धर्ममारुतशक्राणामश्विनोश्च महात्मनोः॥८८॥
अभिमन्योः कुमारस्य शार्ङ्गपक्षी हिरण्मयः
।
रथे ध्वजवरो राजंस्तप्तचामीकरोज्ज्वलः॥८९॥
घटोत्कचस्य राजेन्द्र ध्वजे गृध्रो व्यरोचत
।
अश्वाश्च कामगास्तस्य रावणस्य पुरा यथा॥९०॥
माहेन्द्रं च धनुर्दिव्यं धर्मराजे युधिष्ठिरे
।
वायव्यं भीमसेनस्य धनुर्दिव्यमभून्नृप॥९१॥
त्रैलोक्यरक्षणार्थाय ब्रह्मणा सृष्टमायुधम्
।
तद्दिव्यमजरं चैव फाल्गुनार्थाय वै धनुः॥९२॥
वैष्णवं नकुलायाथ सहदेवाय चाश्विजम्
।
घटोत्कचस्य पौलस्त्यं धनुर्दिव्यं भयानकम्॥९३॥
रौद्रमाग्नेयकौबेरं याम्यं गिरिशमेव च
।
पञ्चानां द्रौपदेयानां धनूरत्नानि भारत॥९४॥
रौद्रं धनुर्वरं श्रेष्ठं लेभे यद्रोहिणीसुतः
।
तत् तुष्टः प्रददौ रामः सौभद्राय महात्मने॥९५॥
एते चान्ये च बहवो ध्वजा हेमविभूषिताः
।
तत्रादृश्यन्त शूराणां द्विषतां शोकवर्धनाः॥९६॥
तदभूद्ध्वजसंबाधमकापुरुषसेवितम्
।
द्रोणानीकं महाराज पटे चित्रमिवार्पितम्॥९७॥
शुश्रुवुर्नामगोत्राणि वीराणां संयुगे तदा
।
द्रोणमाद्रवतां राजन् स्वयंवर इवाहवे॥९८॥
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि हयध्वजादिकथने त्रयोविंशोऽध्यायः॥२३॥
धृतराष्ट्र उवाच
।
व्यथयेयुरिमे सेनां देवानामपि सञ्जय
।
आहवे ये न्यवर्तन्त वृकोदरमुखा नृपाः॥१॥
व्यथयेयुरिति ॥१॥
संप्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः
।
तस्मिन्नेव च सर्वार्थाः प्रदृश्यन्ते पृथग्विधाः॥२॥
संप्रयुक्तः संबद्धः भवति उत्पद्यते तस्मिन् दिष्ट एव ॥२॥
दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी
।
अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः॥३॥
अत्रोदाहरणमाह दीर्घमिति ॥३॥
स एव महतीं सेनां समावर्तयदाहवे
।
किमन्यद्दैवसंयोगान्मम पुत्रस्य चाभवत्॥४॥
मम पुत्रस्य यदभवद्राज्यम् अर्थात्तदपि दैवसंयोगादित्यनुषङ्गः ॥४॥
युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः
।
स तथा कृष्यते तेन न यथा स्वयमिच्छति॥५॥
द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः
।
स पुनर्भागधेयेन सहायानुपलब्धवान्॥६॥
अद्य मे केकया लब्धाः काशिकाः कोसलाश्च ये
।
चेदयश्चापरे वङ्गा मामेव समुपाश्रिताः॥७॥
पृथिवी भूयसी तात मम पार्थस्य नो तथा
।
इति मामब्रवीत् सूत मन्दो दुर्योधनः पुरा॥८॥
तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः
।
निहतः पार्षतेनाजौ किमन्यद्भागधेयतः॥९॥
मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम्
।
सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान् ॥१०॥
समनुप्राप्तकृच्छ्रोऽहं मोहं परममागतः
।
भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे॥११॥
यन्मां क्षत्ताऽब्रवीत्तात प्रपश्यन् पुत्रगृद्धिनम्
।
दुर्योधनेन तत् सर्वं प्राप्तं सूत मया सह॥१२॥
नृशंसं तु परं तु स्यात्त्यक्त्वा दुर्योधनं यदि
।
पुत्रशेषं चिकीर्षेयं कृत्स्नं न मरणं व्रजेत्॥१३॥
दुर्योधनं त्यक्त्वा यदि पुत्रशेषं चिकीर्षेयं तत्परं केवलं नृशसं स्यात्कृत्स्नं मरणं तु न भवेदित्यन्वयः ॥१३॥
यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः
।
सोऽस्माच्च हीयते लोकात् क्षुद्रभावं च गच्छति॥१४॥
अद्य चाप्यस्य राष्ट्रस्य हतोत्साहस्य सञ्जय
।
अवशेषं न पश्यामि ककुदे मृदिते सति॥१५॥
कथं स्यादवशेषो हि धुर्ययोरभ्यतीतयोः
।
यौ नित्यमुपजीवामः क्षमिणौ पुरुषर्षभौ॥१६॥
व्यक्तमेव च मे शंस यथा युद्धमवर्तत
।
केऽयुध्यन् के व्यपाकुर्वन् के क्षुद्राः प्राद्रवन् भयात्॥१७॥
धनञ्जयं च मे शंस यद्यच्चक्रे रथर्षभः
।
तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च वृकोदरात्॥१८॥
भ्रातृव्यादमित्रात् ॥१८॥
यथाऽऽसीच्च निवृत्तेषु पाण्डवेयेषु सञ्जय
।
मम सैन्यावशेषस्य सन्निपातः सुदारुणः॥१९॥
कथं च वो मनस्तात निवृत्तेष्वभवत् तदा
।
मामकानां च ये शूराः के कांस्तत्र न्यवारयन्॥२०॥
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि धृतराष्ट्रवाक्ये चतुर्विंशोऽध्यायः॥२४॥
सञ्जय उवाच।
महद्भैरवमासीन्नः सन्निवृत्तेषु पाण्डुषु
।
दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवांबुदैः॥१॥
महदिति । भीरोर्भावो भैरवं भयमिति यावत् ॥१॥
तैश्चोद्भूतं रजस्तीव्रमवचक्रे चमूं तव
।
ततो हतममंस्याम द्रोणं दृष्टिपथे हते॥२॥
तांस्तु शूरान् महेष्वासान्क्रूरं कर्म चिकीर्षतः
।
दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूवुदत्॥३॥
यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः
।
वारयध्वं यथायोगं पाण्डवानामनीकिनीम्॥४॥
ततो दुर्मर्षणो भीममभ्यगच्छत् सुतस्तव
।
आराद्दृष्ट्वाकिरन् बाणैर्जिघूक्षुस्तस्य जीवितम्॥५॥
तं बाणैरवतस्तार क्रुद्धो मृत्युरिवाहवे
।
तं स भीमोऽतुदद्बाणैस्तदाऽऽसीत्तुमुलं महत्॥६॥
त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः
।
राज्यं मृत्युभयं त्यक्त्वा प्रत्यतिष्ठन् परान्युधि॥७॥
कृतवर्मा शिनेः पौत्रं द्रोणं प्रेप्सुं विशांपते
।
पर्यवारयदायान्तं शूरं समरशोभिनम्॥८॥
तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत्
।
कृतवर्मा च शैनेयं मत्ता मत्तामिव द्विपम्॥९॥
सैन्धवः क्षत्रवर्माणमायान्तं निशितैः शरैः
।
उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत्॥१०॥
क्षत्रवर्मा सिन्धुपतेञ्छित्त्वा केतनकार्मुके
।
नाराचैर्दशभिः क्रुद्धः सर्वमर्मस्वता डयत्॥११॥
अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत्
।
विव्याध क्षत्रवर्माणं रणे सर्वायसैः शरैः॥१२॥
युयुत्सुं पाण्डवार्थाय यतमानं महारथम्
।
सुबाहुर्भारतं शूरं यत्तो द्रोणादवारयत्॥१३॥
सुबाहोः सुधनुर्बाणावस्यतः परिघोपमौ
।
युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ॥१४॥
राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम्
।
वेलेव सागरं क्षुब्धं मद्रराट् समवारयत्॥१५॥
तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत्
।
मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वाऽनदद्भृशम्॥१६॥
तस्य नानदनः केतुमुच्चकर्त च कार्मुकम्
।
क्षुराभ्यां पाण्डवो ज्येष्ठस्तत उच्चुकुशुर्जनाः॥१७॥
तथैव राजा बाल्हीको राजानं द्रुपदं शरैः
।
आद्रवन्तं सहानीकः सहानीकं न्यवारयत्॥१८॥
तद्युद्धमभवद्धोरं वृद्धयोः सह सेनयोः
।
यथा महायूथपयोर्द्धिपयोः संपभिन्नयोः॥१९॥
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम्
।
सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम्॥२०॥
तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम्
।
मत्स्यानां केकयैः सार्धमभीताश्वरथाद्विपम्॥२१॥
उत्पिञ्जलकमत्यन्ताकुलम् ॥२१॥
नाकुालिं तु शतानीकं भूनकर्मा सभापतिः
।
अस्यन्तमिषुजालानि यान्तं द्रोणादरयत्॥२२॥
भूतकर्मासभापतिरिति द्विनामा ॥२२॥
ततो नकुलदायादस्त्रिभिर्भट्टैः सुसंशितैः
।
चक्रे विबाहुशिरसे भूतकर्माणमाहवे॥२३॥
सुतसोमं तु विक्रान्तमायान्तं तं शरौघिणम्
।
द्रोणायाभिमुखं वीरं विविंशतिरवारयत्॥२४॥
सुतसोमस्तु संक्रुद्धः स्वपितृव्यमाजिह्मगैः
।
विविंशतिं शरैर्भित्वा नाभ्यवर्तत दंशितः॥२५॥
अथ भीमरथः शाल्वमाशुगैरायसैः शितैः
।
षङिः साश्वनियन्तारमनयद्यमसादनम्॥२६॥
भीमरथो राजभ्राता ॥२६॥
श्रुतकर्माणमायान्तं मयूरसदृशैहेयैः
।
चैत्रसेनिर्महाराज तव पौत्रं न्यवारयत्॥२७॥
तौ पौत्रौ तव र्धर्षौ परस्परवधैषिणौ
।
पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम्॥२८॥
तिष्ठन्तमग्रे तं दृष्ट्वा प्रतिविन्ध्यं महाहवे
।
द्रौणिर्मानिं पितुः कुर्वन् मार्गणैः समवारयत्॥२९॥
तं क्रुद्धं प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः
।
सिंहलांगूललक्ष्माणं पितुरर्थे व्यवस्थितम्॥३०॥
प्रवपन्निव बीजानि बीजकाले नरर्षभः
।
द्रौणायनिं द्रौपदेयाः शरवर्षैरवाकिरन्॥३१॥
आजुान श्रुतकीर्तिं तु द्रौपदेयं महारथम्
।
द्रोणायाभिमुखं यान्तं दौःशासनिरवारयत्॥३२॥
तस्य कृष्णसमः कार्ष्णिस्त्रिभिर्भल्लैः सुसाशितैः
।
धनुर्ध्वजं च सूतं च छित्त्वा द्रोणान्तिकं ययौ॥३३॥
यस्तु शूरतमो राजन्नुभयोः सेनयोर्मतः
।
तं पटच्चरहन्तारं लक्ष्मणः समवारयत्॥३४॥
स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत
।
लक्ष्मणे शरजालानि विसृजन् बह्वशोभत॥३५॥
विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम्
।
पर्यवारयदायान्तं युवानं समरे युवा॥३६॥
ततस्ताभिषुजालेन याज्ञसेनिः समावृणोत्
।
विधूय तद्बाणजालं बभौ तव सुतोबली॥३७॥
अङ्गदोऽभिमुखं वीरमुत्तमौजसमाहवे
।
द्रोणायाभिमुखं यान्तं शरौघेण न्यवारयत्॥३८॥
स संप्रहारस्तुमुलस्तयोः पुरुषसिंहयोः
।
सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः॥३९॥
दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली
।
द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत्॥४०॥
स दुर्मुखं भ्रुवोर्मध्ये नाराचेनाभ्यताडयत्
।
तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम्॥४१॥
कर्णस्तु केकयान् भ्रातॄन् पञ्च लोहितकध्जान्
।
द्रोणायाभिमुखं यातान् शरवर्षैरवारयत्॥४२॥
ते चैनं भृशसंतप्ताः शरवर्षैरवाकिरन्
।
स च तांश्छादयामास शरजालैः पुनः पुनः॥४३॥
नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः
।
साश्वसूतध्वजरथाः परस्परशराचिताः॥४४॥
पुत्रास्ते दुर्जयश्चैव जयश्च विजयश्च ह
।
नीलकाश्यजयत्सेनांस्त्रयस्त्रीन् प्रत्यवारयन्॥४५॥
तद्युद्धमभवद्घोरमीक्षितृप्रीतिवर्धनम्
।
सिंहव्याघ्रतरक्षूणां यथर्क्षमहिषर्षभैः॥४६॥
क्षेमधूर्तिबृहन्तौ तु भ्रातरौ सात्वतं युधि
।
द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः॥४७॥
तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत्
।
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने॥४८॥
राजानं तु तथाऽम्बष्ठमेकं युद्धाभिनन्दिनम्
।
चेदिराजः शरानस्यन् क्रुद्धो द्रोणादवारयत्॥४९॥
ततोम्बष्ठोऽस्थिमेदिन्या निरभिद्यच्छलाकया
।
स त्यक्त्वा सशरं चापं रथाद्भूमिमुपागमत्॥५०॥
शलाकया शंकृना ॥५०॥
वार्धक्षोमं तु वार्ष्णेयं कृपः शारद्वतः शरैः
।
अक्षुद्रः क्षुद्रकैर्बाणैः क्रुद्धरूपमवारयत्॥५१॥
युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यांश्चित्रयोधिनौ
।
ते युद्धासक्तमनसो नान्यां बुबुधिरे क्रियाम्॥५२॥
सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम्
।
पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन्॥५३॥
स सौमदत्तेस्त्वरितश्चित्रेष्वसनकेतने
।
पुनः पताकां सूतं च छत्रं चापातयद्रथात्॥५४॥
अथाप्लुत्य रथात् तूर्णं यूपकेतुरमित्रहा
।
साश्वसूतध्वजरथं तं चकर्त वरासिना॥५५॥
रथं च स्वं समास्थाय धनुरादाय चापरम्
।
स्वयं यच्छन् हयान् राजन् व्यधमत् पाण्डवीं चमूम्॥५६॥
पाण्ड्यामिन्द्रमिवायान्तमसुरान् प्रति दुर्जयम्
।
समर्थः सायकौघेन वृषसेनो न्यवारयत्॥५७॥
गदापरिघनिस्त्रिंशपट्टिशायो घनोपलैः
।
कडङ्गरैर्भुशुण्डीभिः प्रासैस्तोमरसायकैः॥५८॥
अयोघना लगुडाः कडङ्गरैर्दण्डैः ॥५८॥
मुसलैर्मुद्गरैश्चक्रैर्भिन्दिपालपरश्वघैः
।
पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः॥५९॥
आतुदन् प्ररुजन् भञ्जन्निघ्नन् विद्रावयन् क्षिपन्
।
सेनां विभीषयन्नायाद्द्रोणप्रेप्सुर्घटोत्कचः॥६०॥
आनुदन् व्यथयन् । प्ररुजन् विध्यन् । भञ्जन् आमर्दयन् । निघ्नन् मारयन् । विद्रावयन् पलाययन् । क्षिपन् प्रेरयन् ॥६०॥
तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः
।
राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलंवुषः॥६१॥
तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः
।
तादृग्यादृक् पुरावृत्तं शम्बरामरराजयोः॥६२॥
एवं द्वन्द्वशतान्यासन् रथवारणवाजिनाम्
।
पदातीनां च भद्रं ते तव तेषां च संकुले॥६३॥
नैनादृशो दृष्टपूर्वः संग्रामो नैव च श्रुतः
।
द्रोणस्याभावभावे तु प्रसक्तानां यथाऽभवत्॥६४॥
अभावभावे मारणे रक्षणे च ॥६४॥
इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो
।
तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च॥६५॥
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वन्द्वयुद्धे पञ्चविंशोऽध्यायः॥२५॥
धृतराष्ट्र उवाच।
तेष्वेवं सन्निवृत्तेषु प्रत्युद्यातेषु भागशः
।
कथं युयुधिरे पार्था मामकाश्च तरस्विनः॥१॥
तेष्विति ॥१॥
किमर्जुनश्चाप्यकरोत् संशप्तकबलं प्रति
।
संशप्तका वा पार्थस्य किमकुर्वत सञ्जय॥२॥
सञ्जय उवाच।
तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः
।
स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः॥३॥
स नाग इव नागेन गोवृषेणेव गोवृषः
।
समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत्॥४॥
स युद्धकुशलः पार्थो बाहुर्वार्येण चान्वितः
।
अभिनत् कुञ्जरानीकमचिरेणैव मारिष॥५॥
ते गजा गिरिसंकाशाः क्षरन्तः सर्वतो मदम्
।
भीमसेनस्य नाराचैर्विमुखा विमदीकृताः॥६॥
विधमेदभ्रजालानि यथा वायुः समुद्धतः
।
व्यधमत्तान्यनीकानि तथैव पवनात्मजः॥७॥
स तेषु विसृजन्बाणान् भीमो नागेष्वशोभत
।
भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः॥८॥
ते भीमबाणाभिहताः संस्यूता विबभुर्गजाः
।
गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः॥९॥
तथा गजानां कदनं कुर्वाणमनिलात्मजम्
।
क्रुद्धो दुर्योधनोभ्येत्य प्रत्यविध्यच्छितैः शरैः॥१०॥
ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः
।
क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः॥११॥
स शराचितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम्
।
नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निवः॥१२॥
तस्य नागं मणिमयं रत्नचित्रध्वजे स्थितम्
।
मल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः॥१३॥
दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष
।
चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः॥१४॥
तमापतन्तं नागेन्द्रमम्बुदप्रतिमस्वनम्
।
कुंभान्तरे भामसेनो नाराचैरार्दयद्भृशम्॥१५॥
तस्य कायं विनिर्भिद्य न्यमज्जद्धरणीतले
।
ततः पपात द्विरदो वज्राहत इवाचलः॥१६॥
तस्यावर्जितनागस्य म्लेच्छस्याधः पतिष्यतः
।
शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः॥१७॥
आवर्जितः पतनप्रवणो नागो यस्य ॥१७॥
तस्मिन्निपतिते वीरे संप्राद्रवत साचमूः
।
संभ्रान्ताश्वद्विपरथा पदातीनवमृद्नती॥१८॥
तेष्वनीकेषु भग्नेषु विद्रवत्सु समंततः
।
प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत्॥१९॥
येन नागेन मघवानजयद्दैत्यदानवान्
।
तदन्वयेन नागेन भीमसेनमुपाद्रवत्॥२०॥
स नागप्रवरो भीमं सहसा समुपाद्रवत्
।
चरणाभ्यामथो द्वाभ्यां संहतेन करेण च॥२१॥
व्यावृत्तनयनः कुद्धः प्रमथन्निव पाण्डवम्
।
वृकोदररथं साश्वमविशेषमचूर्णयत्॥२२॥
पद्भ्यां भीमोऽप्यथो धावंस्तस्य गात्रेष्वलीयत
।
जानन्नञ्जलिकावेधं नापाक्रामत पाण्डवः॥२३॥
गात्राभ्यन्तरगो भूत्वा करेणाताडयन्मुहुः
।
लालयामास तं नागं वधाकाङ्क्षिणमव्ययम्॥२४॥
कुलालचक्रवन्नागस्तदा तूर्णमथाभ्रमत्
।
नागायुतबलः श्रीमान् कालयानो वृकोदरम्॥२५॥
भीमोऽपि निष्क्रम्य ततः सुप्रतीकाग्रतोऽभवत्
।
भीमं करेणावनम्य जानुभ्यामभ्यताडयत्॥२६॥
ग्रीवायां वेष्टयित्वैनं स गजो हन्तुमैहत
।
करवेष्टं भीमसेनो भ्रमं दत्त्वा व्यमोचयत्॥२७॥
पुनर्गात्राणि नागस्यः प्रविवेश वृकोदरः
।
यावत्प्रतिगजायातं स्वबले प्रत्यवैक्षत॥२८॥
भीमोऽपि नागगात्रेभ्यो विनिःसृत्यापयाज्जवात्
।
ततः सर्वस्य सैन्यस्य नादः समभवन्महान्॥२९॥
संहतेन सङ्कुचितेन ॥२९॥
अहो धिडिहतो भीमः कुञ्जरेणेति मारिष
।
तेन नागेन सन्त्रस्ता पाण्डवानामनीकिनी॥३०॥
सहसाऽभ्यद्रवद्राजन् यत्र तस्थौ वृकोदरः
।
ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम्॥३१॥
भगदत्तं सपाञ्चाल्यः सर्वतः समवारयत्
।
तं रथं रथिनां श्रेष्ठाः परिवार्य परंतपाः॥३२॥
अवाकिरन् शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः
।
सविघातं पृषत्कानामङ्कुशेन समाहरन्॥३३॥
गजेन पाण्डुपञ्चालान् व्यधमत् पर्वतेश्वरः
।
तदद्भुतमपश्याम भगदत्तस्य संयुगे॥३४॥
तथा वृद्धस्य चरितं कुञ्जरेण विशांपते
।
ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत्॥३५॥
तिर्यग्यातेन नागेन समदेनाशुगामिना
।
तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः॥३६॥
तिर्यग्यातेन पार्श्वतोगामिना ॥३६॥
सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा
।
प्राग्ज्योतिषपतेर्नागः सन्निवृत्यापसृत्य च॥३७॥
पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत्
।
तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः॥३८॥
जघान द्विरदस्थं तं शत्रुं प्रचलितासनम्
।
व्यवच्छिद्य तु राजानं भगदत्तं युधिष्ठिरः॥३९॥
व्यवच्छिद्य बिद्ध्वा ॥३९॥
रथानीकेन महता सर्वतः पर्यवारयत्
।
स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः॥४०॥
पर्वतं वनमध्यस्थो ज्वलन्निव हुताशनः
।
मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम्॥४१॥
किरतां शरवर्षाणि स नागः पर्यवर्तत
।
ततः प्राग्ज्योतिषो राजा परिगृह्य महागजम्॥४२॥
पर्यवर्तत भ्रान्तवान् ॥४२॥
प्रेषयामास सहसा युयुधानरथं प्रति
।
शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः॥४३॥
अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत्
।
बृहतः सैन्धवानश्वान् समुत्थाप्याथ सारथिः॥४४॥
समुत्थाप्य स्थिरीकृत्य ॥४४॥
तस्थौ सात्यकिमासाद्य संप्लतस्तं रथं प्रति
।
स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात्॥४५॥
निश्चक्राम ततः सर्वान् परिचिक्षेप पार्थिवान्
।
ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः॥४६॥
तमेकं द्विरदं संख्ये मेनिरे शतशो द्विपान्
।
ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः॥४७॥
ऐरावतस्थेन यथा देवराजेन दानवाः
।
तेषां प्रद्रवतां भीमः पञ्चालानामितस्ततः॥४८॥
गजवाजिकृतः शब्दः सुमहान् समजायत
।
भगदत्तेन समरे काल्यमानेषु पाण्डुषु॥४९॥
प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात्
।
तस्याभिद्रवतो वाहान् हस्तमुक्तेन वारिणा॥५०॥
सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः
।
ततस्तमभ्ययात् तूर्णं रुचिपर्वा कृती सुतः॥५१॥
समघ्नञ्छरवर्षेण रथस्थोऽन्तकसन्निभः
।
ततः स रुचिपर्वाणं शरेणानतपर्वणा॥५०॥
सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम्
।
तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुतः॥५१॥
चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन् द्विपम्
।
त एनं शरधाराभिर्धाराभिरिव तोयदाः॥५२॥
सिषिचुर्भैरवान्नादान् विनदन्तो जिघांसवः
।
ततः पार्ष्ण्यंकुशाङ्गुष्ठैः कृतिना चोदितो द्विपः॥५५॥
प्रसारितकरः प्रायात् स्तब्धकर्णेक्षणो द्रुतम्
।
सोऽधिष्ठाय पदा वाहान् युयुत्सोः सूतमारुजत्॥५६॥
युयुत्सुस्तु रथाद्राजन्नपात्रामत् त्वरान्वितः
।
ततः पाण्डवयोधास्ते नागराजं शरैर्दुतम्॥५७॥
सिषिचुर्भैरवान्नादान् विनदन्तो जिघांसवः
।
पुत्रस्तु तव संभ्रान्तः सौभद्रस्याप्लुतो रथम्॥५८॥
स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः
।
बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन्॥५९॥
तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः
।
त्रिभिस्त्रिभिर्दौपदेया धृष्टकेतुश्च विव्यधुः॥६०॥
सोऽतियत्नार्पितैर्बाणैराचितो द्विरदो बभौ
।
संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान्॥६१॥
नियन्तुःशिल्पयत्नाभ्यां प्रेरितोऽरिशरार्दितः
।
परिचिक्षेप तान्नागः स रिपून् सव्यदक्षिणम्॥६२॥
गोपाल इव दण्डेन यथा पशुगणान् वने
।
आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः॥६३॥
क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः
।
बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः॥६४॥
स नागराजः प्रवराङ्कुशाहतः पुरा सपक्षोऽद्रिवरो यथा नृप
।
भयं तदा रिपुषु समादधद्भृशं वणिग्जनानां क्षुभितो यथार्णवः॥६५॥
ततो ध्वनिर्द्विरदरथाश्वपार्थिवैर्भयाद्द्रवद्भिर्जनितोऽतिभैरवः
।
क्षितिं वियद् द्यां विदिशो दिशस्तथा समावृणोत् पार्थिव संयुगे ततः॥६६॥
वियदाकाशं द्यां स्वर्गम् ॥६६॥
स तेन नागप्रवरेण पार्थिवो भृशं जगाहे द्विषतामनीकिनीम्
।
पुरा सुगुप्तां विबुधैरिवाहवे विरोचनो देववरूथिनीमिव॥६७॥
भृशं ववौ ज्वलनसखोवियद्रजः समावृणोन्मुहुरपि चैव सैनिकान्
।
तमेकनागं गणशो यथा गजान् समन्ततो द्रुतमथ मेनिरे जनाः॥६८॥
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि भगदत्तयुद्धे षड्विंशोऽध्यायः॥२६॥
सञ्जय उवाच।
यन्मां पार्थस्य स ङ्ग्रामे कर्माणि परिपृच्छसि
।
तच्छ्रुणुष्व महाबाहो पार्थो यदकरोद्रणे॥१॥
यदिति ॥१॥
रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिःस्वनम्
।
भगदत्ते विकुर्वाणे कौन्तेयः कृष्णमब्रवीत्॥२॥
विकुर्वाणे विविधाः क्रिया कुर्वाणे ॥२॥
यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन
।
त्वरमाणो विनिष्क्रान्तो ध्रुवं तस्यैष निःस्वनः॥३॥
इन्द्रादनवरः संख्ये गजयानविशारदः
।
प्रथमो गजयोधानां पृथिव्यामिति मे मतिः॥४॥
स चापि द्विरदश्रेष्ठः सदाऽप्रतिगजो युधि
।
सर्वशस्त्रातिगः संख्ये कृतकर्मा जितक्लमः॥५॥
अप्रतिगज इति छेदः ॥५॥
सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ
।
स पाण्डवबलं सर्वमद्यैको नाशयिष्यति॥६॥
सहः सोढा पचाद्यच् ॥६॥
न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम्
।
त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः॥७॥
दृप्तं संख्ये द्विपबलाद्वयसा चापि विस्मितम्
।
अथैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम्॥८॥
विस्मितं रूढाहङ्कारम् ॥८॥
वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः
।
दीर्यते भगदत्तेन यत्र पाण्डववाहिनी॥९॥
तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः
।
संशप्तकाः समारोहन् सहस्राणि चतुर्दश॥१०॥
समारोहन् संवृतवन्तः ॥१०॥
दशैव तु सहस्राणि त्रिगर्तानां महारथाः
।
चत्वारि च सहस्त्राणि वासुदेवस्य चानुगाः॥११॥
दीर्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष
।
आहूयमानस्य च तैरभवद्दृदयं द्विधा॥१२॥
किं तु श्रेयस्करं कर्म भवेदद्येति चिन्तयन्
।
इह वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम्॥१३॥
तस्य बुद्ध्या विचार्यैवमर्जुनस्य कुरूद्वह
।
अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा॥१४॥
स सन्निवृत्तः सहसा कपिप्रवरकेतनः
।
एको रथसहस्राणि निहन्तुं वासवी रणे॥१५॥
साहि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः
।
अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत्॥१६॥
स तु दोलायमानोऽभूद्द्वैधीभावेन पाण्डवः
।
वधेन तु नराग्र्याणामकरोत् तां मृषा तदा॥१७॥
ततः शतसहस्राणि शराणां नतपर्वणाम्
।
असृजन्नर्जुने राजन् संशप्तकमहारथाः॥१८॥
नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः
।
न हया न रथा राजन् दृश्यन्ते स्म शरैश्चिताः॥१९॥
तदा मोहमनुप्राप्तः सिष्विदे हि जनार्दनः
।
ततस्तान् प्रायशः पार्थो ब्रह्मास्त्रेण निजघ्निवान्॥२०॥
शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः
।
केतवो वाजिनः सूता रथिनश्चापतन् क्षितौ॥२१॥
द्रुमाचलाग्राम्बुधरैः समकायाः सुकल्पिताः
।
हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः॥२२॥
वि विद्धकुथा नागाश्छिन्नभाण्डाः परासवः
।
सारोहास्तु रणे पेतुर्मथिता मार्गणैर्भृशम्॥२३॥
सर्ष्टिप्रासासिनखराः समुद्गरपरश्वधाः
।
विच्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना॥२४॥
बालादित्याग्बुजेन्दूनां तुल्यरूपाणि मारिष
।
संच्छिन्नान्यर्जुनशरैः शिरांस्तुर्व्यां प्रपेदिरे॥२५॥
जज्वालालङ्कता सेना पत्रिभिः प्राणिभोजनैः
।
नानारूपैस्तदाऽमित्रान् क्रुद्धे निघ्नति फाल्गुने॥२६॥
क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव
।
धनञ्जयं भूतगणाः साधु साध्वित्यपूजयन्॥२७॥
दृष्ट्वा तत् कर्म पार्थस्य वासवस्येव माधवः
।
विस्मयं परमं गत्वा प्राञ्जलिस्तमुवाच ह॥२८॥
कर्मैतत् पार्थ शक्रेण यमेन धनदेन च
।
दुष्करं समरे यत् ते कृतमद्येति मे मतिः॥३९॥
युगपच्चैव संग्रामे शतशोऽथ सहस्रशः
।
पतिता एव मे दृष्टाः संशप्तकमहारथाः॥४०॥
संशप्तकांस्ततो हत्वा भूयिष्ठा ये व्यवस्थिताः
।
भगदत्ताय याहीति कृष्णं पार्थोऽभ्यनोदयत्॥४२॥
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि संशप्तकवधे सप्तविंशोऽध्यायः॥२७॥
सञ्जय उवाच।
यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान्
।
संप्रैषीद्धेमसंछन्नान् द्रोणानीकाय संत्वरन्॥१॥
यियासत इति ॥१॥
तं प्रयान्तं कुरुश्रेष्ठं स्वान् भ्रातॄन् द्रोणतापितान्
।
सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात्॥२॥
ततः श्वेतहयः कृष्णमब्रवीदजितं जयः
।
एष मां भ्रातृभिः सार्धं सुशर्माऽऽह्वयतेऽच्युत॥३॥
दीर्यते चोत्तरेणैव तत् सैन्यं मधुसूदन
।
द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम्॥४॥
किं नु संशप्तकान् हन्मि स्वान् रक्षाम्यहितार्दितान्
।
इति मे त्वं मतं वेत्सि तत्र किं सुकृतं भवेत्॥५॥
एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत्
।
येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयव॥६॥
ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः
।
ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत॥७॥
त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिराशुगैः
।
साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम्॥८॥
ततो भुजगसंकाशां सुशर्मा शक्तिमायसीम्
।
चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम्॥९॥
शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः
।
सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तयत्॥१०॥
तं वासवमिवायान्तं भूरिवर्षं शरौधिणम्
।
राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत्॥११॥
भूरिवर्षमिति वासवविशेषणम् ॥११॥
ततो धनञ्जयो बाणैः सर्वानेव महारथान्
।
आयाद्विनिघ्नन् कौरव्यान् दहन्कक्षमिवानलः॥१२॥
तस्य वेगमसह्यं तं कुन्तीपुत्रस्य धीमतः
।
नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः॥१३॥
संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः
।
सुपर्णपातवद्राजन्नायात् प्राग्ज्योतिषं प्रति॥१३॥
यत्तदानामयज्जिष्णुर्भरतानामपापिनाम्
।
धनुः क्षेमकरं संख्ये द्विषतामश्रुवर्धनम्॥१५॥
तदेव तव पुत्रस्य राजन् दुर्द्यूतदेविनः
।
कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः॥१६॥
आयच्छद्गृहीतवान् यदेवार्जुनस्य धनुर्भरतानां क्षेमकरमासीत्तदेव त्वत्पुत्रनिमित्तं क्षत्रक्षयकरमभवदिति वाक्यार्थः ॥१६॥
तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी
।
व्यशीर्यत महाराज नौरिवासाद्य पर्वतम्॥१७॥
ततो दशसहस्राणि न्यवर्तन्त धनुष्मताम्
।
मतिं कृत्वा रणे क्रूरां वीरा जयपराजये॥१८॥
व्यपेतहृदयत्रासा आवब्रुस्तं महारथाः
।
आर्च्छत् पार्थो गुरुं भारं सर्वभारसहो युधि॥१९॥
यथा नलवनं क्रुद्धः प्रभिन्नः षष्टिहायनः
।
मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमूं तव॥२०॥
तस्मिन् प्रमथिते सैन्ये भगदत्तो नराधिपः
।
तेन नागेन सहसा धनञ्जयमुपाद्रवत्॥२१॥
तं रथेन नरव्याघ्रः प्रत्यगृह्णाद्धनञ्जयः
।
स सन्निपातस्तुमुलो बभूव रथनागयोः॥२२॥
कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च
।
सङ्ग्रामे चेरतुर्वीरौ भगदत्तधनञ्जयौ॥२३॥
ततो जीमूतसङ्काशान्नागादिन्द्र इव प्रभुः
।
अभ्यवर्षच्छरौघेण भगदत्तो धनञ्जयम्॥२४॥
स चापि शरवर्षं तं शरवर्षेण वासविः
।
अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान्॥२५॥
ततः प्राग्ज्योतिषो राजा शरवर्षं निवारयत्
।
शरैर्जघ्ने महाबाहुं पार्थं कृष्णं च मारिष॥२६॥
ततस्तु शरजालेन महताऽभ्यवकीर्य तौ
।
चोदयामास तं नागं वधायाच्युतपार्थयोः॥२७॥
तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम्
।
चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः॥२८॥
संप्राप्तमपि नेयेष परावृत्तं महाद्विपम्
।
सारोहं मृत्युसात् कर्तुं स्मरन् धर्मं धनञ्जयः॥२९॥
स तु नागो द्विपरथान् हयांश्चामृद्य मारिष
।
प्राहिणोन्मृत्युलोकाय ततः कुद्धो धनञ्जयः॥३०॥
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि भगदत्तयुद्धे अष्टाविंशोऽध्यायः॥२८॥
धृतराष्ट्र उवाच
।
तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः
।
प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम्॥१॥
तथा क्रुद्ध इति ॥१॥
सञ्जय उवाच।
प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ
।
मृत्युदंष्ट्रान्तिकं प्राप्तौ सर्वभूतानि मेनिरे॥२॥
तथा तु शरवर्षाणि पातयत्यनिशं प्रभो
।
गजस्कन्धान्महाराज कृष्णयोः स्यन्दनस्थयोः॥३॥
अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः
।
अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः॥४॥
अग्निस्पर्शसमास्तीक्ष्णा भगत्तेन चोदिताः
।
निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः सुवाससः॥५॥
तस्य पार्थो धनुश्छित्त्वा परिवारं निहत्य च
।
लालयन्निव राजानं भगदत्तमयोधयत्॥६॥
सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान् वै चतुर्दश
।
अप्रेषयत् सव्यसाची द्विधैकैकमथाच्छिनत्॥७॥
ततो नागस्य तद्धर्म व्यधमत् पाकशासनिः
।
शरजालेन महता तद्व्यशीर्यत भूतले॥८॥
शीर्णवर्मा स तु गजः शरैः सुभृशमर्दितः
।
बभौ धारानिपाताक्तो व्यभ्रः पर्वतराडिव॥९॥
ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम्
।
व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत्॥१०॥
ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः
।
विव्याध दशभिस्तूर्णमुत्स्मयन् पर्वतेश्वरम्॥११॥
सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः
।
भगदत्तस्ततः क्रुद्धः पाण्डवस्य जनाधिपः॥१२॥
व्यसृजत्तोमरान् मूर्ध्नि श्वेताश्वस्योन्ननाद च
।
तैरर्जुनस्य समरे किरीटं परिवर्तितम्॥१३॥
परिवृत्तं किरीटं तद्यमयन्नेव पाण्डवः
।
सुदृष्टः क्रियतां लोक इति राजानमब्रवीत्॥१४॥
एवमुक्तस्तु संक्रुद्धः शरवर्षेण पाण्डवम्
।
अभ्यवर्षत् स गोविन्दं धनुरादाय भास्वरम्॥१५॥
तस्य पार्थो धनुश्छित्त्वा तूणीरान् सन्निकृत्य च
।
त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत्॥१६॥
विद्धस्ततोऽतिव्यथितो वैष्णवास्त्रमुदीरयन्
।
अभिमन्त्र्यांकुशं क्रुद्धो व्यसृजत् पाण्डवोरसि॥१७॥
विसृष्टं भगदत्तेन तदस्त्रं सर्वघाति वै
।
उरसा प्रतिजग्राह पार्थं संच्छाद्य केशवः॥१८॥
वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि
।
पद्मकोशविचित्राढ्या सर्वर्तुकुसुमोत्कटा॥१९॥
ज्वलनार्केन्दुवर्णाभा पावकोज्ज्वलपल्लवा
।
तया पद्मपलाशिन्या वातकम्पितपत्रया॥२०॥
शुशुभेऽभ्यधिकं शौरिरतसीपुष्पसन्निभः
।
ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत॥२१॥
अयुध्यमानस्तुरगान् संयन्तास्मीति चानघ
।
इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि॥२२॥
यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे
।
ततस्त्वयैवं कार्यं स्यान्न तत्कार्यं मयि स्थिते॥२३॥
सबाणः सधनुश्चाहं ससुरासुरमानुषान्
।
शक्तो लोकानिमान् जेतुं तच्चापि विदितं तव॥२४॥
ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः
।
शृणु गुह्यमिदं पार्थ पुरा वृत्तं यथाऽनघ॥२५॥
चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः
।
आत्मानं प्रविभज्येह लोकानां हितमादधे॥२६॥
एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता
।
अपरा पश्यति जगत् कुर्वाणं साध्वसाधुनी॥२७॥
एका मूर्तिर्बदरिकाश्रमे नारायणरूपा अपरा परमात्मरूपा ॥२७॥
अपरा कुरुते कर्म मानुषं लोकमाश्रिता
।
शेते चतुर्थी त्वपरा निद्रां वर्षसहस्त्रिकम्॥२८॥
अपरा क्षेत्रज्ञरूपा अपरा जलशायिनी ॥२८॥
याऽसौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम
।
वरार्हेभ्यो वरान् श्रेष्ठांस्तस्मिन् काले ददाति सा॥२९॥
तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा
।
अयाचत वरं यन्मां नरकार्थाय तच्छृणु॥३०॥
देवानां दानवानां च अवध्यस्तनयोऽस्तु मे
।
उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि॥३१॥
एवं वरमहं श्रुत्वा जगत्यास्तनये तदा
।
अमोघमस्त्रं प्रायच्छं वैष्णवं परमं पुरा॥३२॥
अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे
।
नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति॥३३॥
अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः
।
भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा॥३४॥
तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी
।
स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः॥३५॥
तस्मात् प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम्
।
नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष॥३६॥
तन्मया त्वत्कृते चैतदन्यथा व्यपनामितम्
।
विमुक्तं परमास्त्रेण जहि पार्थ महासुरम्॥३७॥
व्यपनामितं स्वार्थे णिच् । व्यपनीतमित्यर्थः ॥३७॥
वैरिणं जहि दुर्धर्षं भगदत्तं सुरद्विषम्
।
यथाऽहं जघ्निवान् पूर्वं हितार्थं नरकं तथा॥३८॥
एवमुक्तस्तदा पार्थः केशवेन महात्मना
।
भगदत्तं शितैर्बाणैः सहसा समवाकिरत्॥३९॥
ततः पार्थो महाबाहुरसंभ्रान्तो महामनाः
।
कुम्भयोरन्तरे नागं नाराचेन समार्पयत्॥४०॥
स समासाद्य तं नागं बाणो वज्र इवाचलम्
।
अभ्यगात् सह पुङ्खेन वल्मीकमिव पन्नगः॥४१॥
स करी भगदत्तेन प्रेर्यमाणो मुहुर्मुहुः
।
न करोति वचस्तस्य दरिद्रस्येव योषिता॥४२॥
योषिता भागुरिमते टाप् ॥४२॥
स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ
।
नदन्नार्तस्वनं प्राणानुत्ससर्ज महाद्विपः॥४३॥
ततो गाण्डीवधन्वानमभ्यभाषत केशवः
।
अयं महत्तरः पार्थ पलितेन समावृतः॥४४॥
वलीसंछन्ननयनः शूरः परमदुर्जयः
।
अक्ष्णोरुन्मीलनार्थाय बद्धपट्टो ह्यसौ नृपः॥४५॥
देववाक्यात् प्रचिच्छेद शरेण भृशमर्जुनः
।
छिन्नमात्रेंऽशुके तस्मिन् रुद्धनेत्रो बभूव सः॥४६॥
तमोमयं जगन्मेने भगदत्तः प्रतापवान्
।
ततश्चन्द्रार्धबिम्बेन बाणेन नतपर्वणा॥४७॥
बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः
।
स भिन्नहृदयो राजा भगदत्तः किरीटिना॥४८॥
शरासनं शरांश्चैव गतासुः प्रमुमोच ह
।
शिरसस्तस्य विभ्रष्टं पपात च वरांशुकम्
।
नालताडनविभ्रष्टं पलाशं नलिनादिव॥४९॥
स हममाली तपनीयभाण्डात् पपात नागाद्गिरिसन्निकाशात्
।
सुपुष्पितो मारुतवेगरुग्णो महीधराग्रादिव कर्णिकारः॥५०॥
निहत्य तं नरपतिमिन्द्रविक्रमं सखायमिन्द्रस्य तदैन्द्रिराहवे
।
ततोऽपरांस्तव जयकाङ्क्षिणो नरान् बभञ्ज वायुर्बलवान् द्रुमानिव॥५१॥
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि भगदत्तवधे एकोनत्रिंशोऽध्यायः॥२९॥
सञ्जय उवाच।
प्रियमिन्द्रस्य सततं सखायममितौजसम्
।
हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत॥१॥
प्रियमिति ॥१॥
ततो गान्धारराजस्य सुतौ परपुरञ्जयौ
।
अर्देतामर्जुनं सङ्ख्ये भ्रातरौ वृषकाचलौ॥२॥
तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्विनौ
।
अविध्येतां महावेगैर्निशितैराशुगैर्भृशम्॥३॥
वृषकस्य हयान् सूतं धनुश्छत्रं रथं ध्वजम्
।
तिलशो व्यधमत् पार्थः सौबलस्य शितैः शरैः॥४॥
ततोऽर्जुनः शरव्रातैर्नानाप्रहरणैरपि
।
गान्धारानाकुलांश्चक्रे सौबलप्रमुखान् पुनः॥५॥
ततः पञ्चशतान् वीरान् गान्धारानुद्यतायुधान्
।
प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनञ्जयः॥६॥
हताश्वात् तु रथात् तूर्णमवतीर्य महाभुजः
।
आरुरोह रथं भ्रातुरन्यच्च धनुराददे॥७॥
तावेकरथमारूढौ भ्रातरौ वृषकाचलौ
।
शरवर्षेण बीभत्सुमविध्येतां मुहुर्मुहुः॥८॥
स्यालौ तव महात्मानौ राजानौ वृषकाचलौ
।
भृशं विजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव॥९॥
लब्धलक्षौ तु गान्धारावहतां पाण्डवं पुनः
।
निदाघवार्षिकौ मासौ लोकं घर्मांशुभिर्यथा॥१०॥
वर्षशब्दोयमृतुवचनः । निदाघर्तुसंबन्धिनावित्यर्थः । धर्मांशुभिस्तीक्ष्णकिरणैः ॥१०॥
तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ
।
संश्लिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणाऽर्जुनः॥११॥
तौ रथारिंसहसंकाशौ लोहिताक्षौ महाभुजौ
।
राजन् संपेततुर्वीरौ सोदर्यावेकलक्षणौ॥१२॥
तयोर्भूमिं गतौ देहौ रथाद्बन्धुजनप्रियौ
।
यशो दशदिशः पुण्यं गमयित्वा व्यवस्थितौ॥१३॥
दृष्ट्वा विनिहतौ संख्ये मातुलावपलायिनौ
।
भृशं मुमुचुरश्रूणि पुत्रास्तव विशांपते॥१४॥
निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः
।
कृष्णौ संमोहयन्मायां विदधे शकुनिस्ततः॥१५॥
लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः
।
गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः॥१६॥
सकंपनर्ष्टिनखरा मुसलानि परश्वधाः
।
क्षुराः क्षुरप्रनालीका वत्सदन्तास्थिसन्धयः॥१७॥
कम्पना यष्ट्यः । क्षुराः क्षुराकृतिफलकाः । क्षुरप्रास्तूपमध्यफलकाः । नालीका नलिकया क्षेप्याः । वत्सदन्ता गोपोतदन्ताकारफलकाः । अस्थिसन्धयो स्थिमयफलकाः ॥१७॥
चक्राणि विशिखाः प्रासा विविधान्यायुधानि च
।
प्रपेतुः शतशो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति॥१८॥
विशिखाः फणित्राकारफलकाः ॥१८॥
खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचित्रकाः
।
ऋक्षाः शालावृका गृध्राः कपयश्च सरीसृपाः॥१९॥
सृमरा गवयाः चित्रको व्याघ्रभेदः शालावृकाः श्वानः ॥१९॥
विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति
।
संक्रुद्धान्यभ्यधावन्त विविधानि वयांसि च॥२०॥
ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनञ्जयः
।
विसृजन्निषुजालानि सहसा तान्यताडयत्॥२१॥
ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः
।
विरुवन्तो महारावान् विनेशुः सर्वतो हताः॥२२॥
ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति
।
तस्माच्च तमसो वाचः क्रूरा पार्थमभर्त्सयन्॥२३॥
तत् तमो भैरवं घोरं भयकर्तृ महाहवे
।
उत्तमास्त्रेण महता ज्यौतिषेणार्जुनोऽवधीत्॥२४॥
हते तस्मिञ्जलौघास्तु प्रादुरासन् भयानकाः
।
अंभसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः॥२५॥
प्रायुंक्तांभस्ततस्तेन प्रायशोऽस्त्रेण शोषितम्
।
एवं बहुविधा मायाः सौबलस्य कृताः कृताः॥२६॥
जघानास्त्रबलेनाशु प्रहसन्नर्जुनस्तदा
।
तदा हतासु मायासु त्रस्तोऽर्जुनशराहतः॥२७॥
अपायाज्जवनैरश्वैः शकुनिः प्राकृतो यथा
।
ततोऽर्जुनोऽस्त्रविच्छैघ्र्यं दर्शयन्नात्मनोऽरिषु॥२८॥
अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम्
।
सा हन्यमाना पार्थेन तव पुत्रस्य वाहिनी॥२९॥
द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम्
।
द्रोणमेवान्वपद्यन्त केचित् तत्र नरर्षभाः॥३०॥
केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना
।
नापश्याम ततस्त्वेनं सैन्ये वै रजसावृते॥३१॥
एनम् अर्जुनम् ॥३१॥
गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया
।
शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निःस्वनम्॥३२॥
गाण्डीवस्य तु निर्घोषो व्यतिक्रम्यास्पृशद्दिवम्
।
ततः पुनर्दक्षिणतः संग्रामश्चित्रयोधिनाम्॥३३॥
सुयुद्धं चार्जुनस्यासीदहं तु द्रोणमन्वियाम्
।
यौधिष्ठिराभ्यनीकानि प्रहरन्ति ततस्ततः॥३४॥
नानाविधान्यनीकानि पुत्राणां तव भारत
।
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः॥३५॥
तं वासवमिवायान्तं भूरिवर्षं शरौधिणम्
।
महेष्वासा नरव्याघ्रा नोग्रं केचिदवारयन्॥३६॥
ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम्
।
स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः॥३७॥
तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः
।
शलभा इव संपेतुः संवृण्वाना दिशो दश॥३८॥
तुरगं रथिनं नागं पदातिमपि मारिष
।
विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः॥३९॥
न च द्वितीयं व्यसृजत् कुञ्जराश्वनरेषु सः
।
पृथगेकशरा रुग्णा निपेतुस्ते गतासवः॥४०॥
हतैर्मनुष्यैर्द्विरदैश्च सर्वतः शराभिसृष्टैश्च हयैर्निपातितैः
।
तदाऽश्वगोमायुबलाभिनादितं विचित्रमायोधशिरो बभूव तत्॥४१॥
शराभिसृष्टैर्बाणाभिहतैः । आयोधशिरो रणाङ्गनम् ॥४१॥
पिता सुतं त्यजति सुहृद्वरं सुहृत् तथैव पुत्रः पितरं शरातुरः
।
स्वरक्षणे कृतमतयस्तदा जनास्त्यजन्ति वाहानपि पार्थपीडिताः॥४२॥
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि शुकनिपलायने त्रिंशोऽध्यायः॥३०॥
धृतराष्ट्र उवाच।
तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण सञ्जय
।
चलितानां द्रुतानां च कथमासीन्मनो हि वः॥१॥
तेष्विति ॥१॥
अनीकानां प्रभग्नानामवस्थानमपश्यताम्
।
दुष्करं प्रतिसन्धानं तन्ममाचक्ष्व सञ्जय॥२॥
सञ्जय उवाच।
तथापि तव पुत्रस्य प्रियकामा विशांपते
।
यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः॥३॥
समुद्यतेषु चास्त्रेषु संप्राप्ते च सुधिष्ठिरे
।
अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत्॥४॥
अन्तरं भीमसेनस्य प्रापतन्नमितौजसः
।
सात्यकेश्चैव वीरस्य धृष्टद्युम्नस्य वा विभो॥५॥
अन्तरं छिद्रं प्रापतन् सृतवन्तः ॥५॥
द्रोणं द्रोणमिति क्रूराः पञ्चालाः समचोदयन्
।
मा द्रोणमिति पुत्रास्ते कुरून् सर्वानचोदयन्॥६॥
द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे
।
कुरूणां पाण्डवानां च द्रोणद्यूतमवर्तत॥७॥
यं यं प्रमथते द्रोणः पञ्चालानां रथव्रजम्
।
तत्र तत्र तु पाञ्चाल्यो धृष्टद्युम्नोऽभ्यवर्तत॥८॥
तथा भागविपर्यासैः संग्रामे भैरवे सति
।
वीराः समासदन् वीरान् कुर्वन्तो भैरवं रवम्॥९॥
समासदन् प्रतिगतवन्तः ॥९॥
अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः
।
अकम्पयन्ननीकानि स्मरन्तः क्लेशमात्मनः॥१०॥
ते त्वमर्षवशं प्राप्ता ह्रीमन्तः सत्त्वचोदिताः
।
त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे॥११॥
न्यवर्तन्त भयेभ्यो निवृत्ताः ॥११॥
अयसामिव संपातः शिलानामिव चाभवत्
।
दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम्॥१२॥
न तु स्मरन्ति संग्राममपि वृद्धास्तथाविधम्
।
दृष्टपूर्वं महाराज श्रुतपूर्वमथापि वा॥१३॥
प्राकम्पतेव पृथिवी तस्मिन् वीरावसादने
।
निवर्तता बलौघेन महता भारपीडिता॥१४॥
घूर्णतोऽपि बलौघस्य दिवं स्तब्ध्वेव निःस्वनः
।
अजातशत्रोस्तत्सैन्यमाविवेश सुभैरवः॥१७॥
समासाद्य तु पाण्डूनामनीकानि सहस्रशः
।
द्रोणेन चरता संख्ये प्रभग्नानि शितैः शरैः॥१८॥
तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा
।
पर्यवारयदासाद्य द्रोणं सेनापतिः स्वयम्॥१९॥
तदद्भुतमभूद्युद्धं द्रोणपाञ्चालयोस्तथा
।
नैव तस्योपमा काचिदिति मे निश्चिता मतिः॥२०॥
ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम्
।
शरस्फुलिङ्गश्चापार्चिर्दहन् कक्षमिवानलः॥२१॥
तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान्
।
पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत॥२२॥
नील किं बहुभिर्दग्धैस्तव योधैः शरार्चिषा
।
मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशु माम्॥२३॥
तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम्
।
व्याकोशपद्माभमुखो नीलो विव्याध सायकैः॥२४॥
तेनापि विद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः
।
धनुर्ध्वजं च छत्रं च द्विषतः स न्यकृन्तत॥२५॥
स प्लुतः स्यन्दनात्तस्मान्नीलश्चर्मवरासिभृत्
।
द्रौणायनेः शिरः कायाद्धर्तुमैच्छत् पतत्रिवत्॥२६॥
तस्योन्नतांसं सुनसं शिरः कायात् सकुण्डलम्
।
भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ॥२५॥
संपूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः
।
प्रांशुरुत्पलपत्राभो निहतो न्यपतद्भुवि॥२६॥
ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला
।
आचार्यपुत्रेण हते नीले ज्वलिततेजसि॥२७॥
अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः
।
कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष॥२८॥
दक्षिणेन तु सेनायाः कुरुते कदनं बली
।
संशप्तकावशेषस्य नारायणबलस्य च॥२९॥
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि नीलवधे एकत्रिंशोऽध्यायः॥३१॥
सञ्जय उवाच।
प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः
।
सोऽभ्याहनद्गुरुं षष्ट्या कर्णं च दशभिः शरैः॥१॥
प्रतिघातमिति ॥१॥
तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरजिह्मगैः
।
जीवितान्तमभिप्रेप्सुर्मर्माण्याशु जघान ह॥२॥
आनन्तर्यमभिप्रेप्सुः षड्विंशत्या समार्पयत्
।
कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः॥३॥
षड्भिर्दुर्योधनो राजा तत एनमथाकिरत्
।
भीमसेनोऽपि तान् सर्वान् प्रत्यविध्यन्महाबलः॥४॥
द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः
।
दुर्योधनं द्वादशभिर्द्रौणिमष्टाभिराशुगैः॥५॥
आरावं तुमुलं कुर्वन्नभ्यवर्तत तान् रणे
।
तस्मिन् संत्यजति प्राणान् मृत्युसाधारणीकृते॥६॥
अजातशत्रुस्तान् योधान् भीमं त्रातेत्यचोदयत्
।
ते ययुर्भीमसेनस्य समीपममितौजसः॥७॥
युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ
।
ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः॥८॥
महेष्वासवरैर्गुप्ता द्रोणानीकं बिभित्सवः
।
समापेतुर्महावीर्या भीमप्रभृतयो रथाः॥९॥
तान् प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः
।
महारथानतिबलान् वीरान् समरयोधिनः॥१०॥
बाह्यं मृत्युभयं कृत्वा तावकान् पाण्डवा ययुः
।
सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान्॥११॥
आसीच्छक्त्यसिसंपातो युद्धमासीत्परश्वधैः
।
प्रकृष्टमसियुद्धं च बभूव कटुकोदयम्॥१२॥
कटुकस्य परुषस्योदयो यत्र ॥१२॥
कुञ्जराणां च संपाते युद्धमासीत् सुदारुणम्
।
अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्शिराः॥१३॥
नरो बाणविनिर्भिन्नो रथादन्यश्च मारिष
।
तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः॥१४॥
शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः
।
अपरांश्चापरेऽमृद्नन् वारणाः पतितान्नरान्॥१५॥
विषाणैश्चावनिं गत्वा व्यभिन्दन् रथिनो बहून्
।
नरान्त्रैः केचिदपरे विषाणालग्नसंश्रयैः॥१६॥
अवनिं गत्त्वा अभिहत्य विषाणालग्नसंश्रयैः दन्तलग्नैकदेशैः ॥१६॥
बभ्रमुः समरे नागा मृद्नन्तः शतशो नरान्
।
कार्ष्णायसतनुत्राणान्नराश्वरथकुञ्जरान्॥१७॥
पतितान् पोथयांचक्रुर्द्विपाः स्थूलनलानिव
।
गृध्रपत्राधिवासांसि शयनानि नराधिपाः॥१८॥
गृध्रपक्षाधिवासांसि गृध्रपक्षास्तरणानि ॥१८॥
ह्रीमन्तः कालसंपर्कात् सुदुःखान्यनुशेरते
।
हन्ति स्मात्र पिता पुत्रं रथेनाभ्येत्य संयुगे॥१९॥
पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत
।
रथो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यां निपातितम्॥२०॥
युगार्धं च्छिन्नमादाय प्रदुद्राव तथा हयः
।
सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम्॥२१॥
गजेनाक्षिप्य बलिना रथः संचूर्णितः क्षितौ
।
रथिना ताडितो नागो नाराचेनापतत् अक्षता॥२२॥
सारोहश्चापतद्वाजी गजेनाभ्यहिता भृशम्
।
निर्मर्यादं महद्युद्धमवर्तत सुदारुणम्॥२३॥
हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि
।
प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः॥२४॥
इत्येवमुच्चरन्ति स्म श्रूयन्ते विविधा गिरः
।
नरस्याश्वस्य नागस्य समसज्जत शोणितम्॥२५॥
समसज्जत घनतामगमत् ॥२५॥
उपाशाम्यद्रजो भौमं भीरून् कश्मलमाविशत्
।
चक्रेण चक्रमासाद्य वीरो वीरस्य संयुगे॥२६॥
अतीतेषु पथे काले जहार गदया शिरः
।
आसीत् केशपरामर्शो मुष्टियुद्धं च दारुणम्॥२७॥
अतीतः इषुपथः शरावकाशो यत्र ॥२७॥
नखैर्दन्तैश्च शूराणामद्वीपे द्वीपमिच्छताम्
।
तत्राच्छिद्यत शूरस्य सखङ्गो बाहुरुद्यतः॥२८॥
अद्वीपे निराश्रये द्वीपमाश्रयम् ॥२८॥
सधनुश्चापरस्यापि सशरः सांकुशस्तथा
।
आक्रोशदन्यमन्योऽत्र तथान्यो विमुखोऽद्रवत्॥२९॥
आक्रोशत् आहूतवान् ॥२९॥
अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत्
।
सशब्दमद्रवच्चायः शब्दादन्योऽत्रसद्भृशम्॥३०॥
स्वानन्योऽथ परानन्यो जघान निशितैः शरैः
।
गिरिशृंगोपमश्चात्र नाराचेन निपातितः॥३१॥
मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णवे
।
तथैव रथिनं नागः क्षरन् गिरिरिवारुजन्॥३२॥
क्षरन्मदमिति शेषः । रथिनं तथैव सहाश्वं सहसारथिम् अर्थाद्रथं च पदा आरुजन् भूमौ अभ्यतिष्ठदित्यन्वयः ॥३२॥
अभ्यतिष्ठत् पदा भूमौ सहाश्वं सहसारथिम्
।
शूरान् प्रहरतो दृष्ट्वा कुतास्त्रान् रुधिरोक्षितान्॥३३॥
बहूनप्याविशन्मोहो भीरून् हृदयदुर्बलान्
।
सर्वमाविग्नमभवन्न प्राज्ञायत किंचन॥३४॥
सैन्येन रजसा ध्वस्तं निर्मर्यादमवर्तत
।
ततः सेनापतिः शीघ्रमयं काल इति ब्रुवन्॥३५॥
नित्याभित्वरितानेव त्वरयामास पाण्डवान्
।
कुर्वन्तः शासनं तस्य पाण्डवा बाहुशालिनः॥३६॥
सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति
।
गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत॥३७॥
विभीता अभीता ॥३७॥
इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति
।
ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः॥३८॥
दुर्धर्षस्य द्रोणस्य ॥३८॥
विन्दानुविन्दावावन्त्यौ शल्यश्चैतान्न्यवारयन्
।
ते त्वार्यधर्मसंरब्धा दुर्निवारा दुरासदाः॥३९॥
आर्यधर्मेण संरब्धाः सोद्यमाः ॥३९॥
शरार्ता न जहुर्दोणं पञ्चालाः पाण्डवैः सह
।
ततो द्रोणोतिसंक्रुद्धो विसृजञ्शतशः शरान्॥४०॥
चेदिपञ्चालपाण्डूनामकरोत् कदनं महत्
।
तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष॥४१॥
वज्रसंह्रादसंकाशस्त्रासयन् मानवान् बहून्
।
एतस्मिन्नन्तरे जिष्णुर्जित्वा संशप्तकान्बहून्॥४२॥
अभ्ययात्तत्र यत्रासौ द्रोणः पाण्डून् प्रमर्दति
।
ताञ्छरौघान्महावर्तान् शोणितोदान् महाह्रदान्॥४३॥
तीर्णः संशप्तकान् हत्वा प्रत्यदृश्यत फाल्गुनः
।
तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः॥४४॥
दीप्यमानमपश्याम तेजसा वानरध्वजम्
।
संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः॥४५॥
सपाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत्
।
प्रददाह कुरून् सर्वानर्जुनः शस्त्रतेजसा॥४६॥
युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः
।
तेन बाणसहस्रौघैर्गजाश्वरथयोधिनः॥४७॥
ताड्यमानाः क्षितिं जग्मुर्मुक्तकेशाः शरार्दिताः
।
केचिदार्तस्वनं चक्रुर्विनेशुरपरे पुनः॥४८॥
पार्थबाणहताः केचिन्निपेतुर्विगतासवः
।
तेषामुत्पतितान् कांश्चित् पतितांश्च पराङ्मुखान्॥४९॥
न जघानार्जुनो योधान् योधव्रतमनुस्मरन्
।
ते विकीर्णरथाश्चित्राः प्रायशश्च पराङ्मुखाः॥५०॥
कुरवः कर्ण कर्णेति हाहेति च विचुक्रुशुः
।
तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम्॥५१॥
मामैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम्
।
स भारतरथश्रेष्ठः सर्वभारतहर्षणः॥५२॥
प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वरः
।
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च॥५३॥
शरौघाञ्छरजालेन विदुधाव धनञ्जयः
।
तथैवाधिरथिस्तस्य बाणाञ्ज्वलिततेजसः॥५४॥
विदुधाव खण्डितवान् ॥५४॥
अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजन् शरान्
।
धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः॥५५॥
विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः
।
अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः॥५६॥
तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः
।
ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव॥५७॥
रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन्
।
ता भुजाग्रैर्महावेगा निसृष्टा भुजगोषमाः॥५८॥
दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति
।
ता निकृत्य शरव्रातैस्त्रिभिस्त्रिभिरजिह्मगैः॥५९॥
ननाद बलवान् कर्णः पार्थाय विसृजञ्छरान्
।
अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः॥६०॥
मृत्युसाधारणीकृते मरणतुल्यावस्थाङ्गमितेः ॥६०॥
कर्णादवरजं बाणैर्जघान निशितैः शरैः
।
ततः शत्रुञ्जयं हत्वा पार्थः षद्भिरजिह्मगैः॥६१॥
जहार सद्यो भल्लेन विपाटस्य शिरो रथात्
।
पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना॥६२॥
प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः
।
ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत्॥६३॥
वरासिना कर्णपक्षान् जघान दश पञ्च च
।
पुनस्तु रथमास्थाय धनुरादाय चापरम्॥६४॥
विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः
।
धृष्टद्युम्नोऽप्यसिवरं चर्मचादाय भास्वरम्॥६५॥
जघान चन्द्रवर्माणं बृहत्क्षत्रं च नैषधम्
।
ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम्॥६६॥
आदाय कर्णं विव्याध त्रिसप्तत्या नदन् रणे
।
शैनेयोऽप्यन्यदादाय धनुरिन्दुसमद्युतिः॥६७॥
सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदन्
।
भल्लाभ्यां साधुमुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम्॥६८॥
पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
।
ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः॥६९॥
निमज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात्
।
पत्त्यश्वरथमातङ्गास्त्वदीयाः शतशोऽपरे॥७०॥
कर्णमेवाभ्यधावन्त त्रास्यमानाः प्रहारिणः
।
धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च॥७१॥
नकुलः सहदेवश्च सात्यकिं जुगुपू रणे
।
एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम्॥७२॥
तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः
।
पदातिरथनागाश्वाः गजाश्वरथपत्तिभिः॥७३॥
प्राणांस्त्यक्त्वा युद्ध्यतामिति शेषः ॥७३॥
रथिनो नागपत्त्यश्वै रथपत्ती रथाद्विपैः
।
अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह॥७४॥
संयुक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः
।
एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम्
।
महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम्॥७५॥
अभीतानाम् अभिमुखागतानां भयहीनानां वा ॥७५॥
ततो हता नररथवाजिकुञ्जरैरनेकशो द्विपरथपत्तिवाजिनः
।
गजैर्गजा रथिभिरुदायुधा रथा हयैर्हयाः पत्तिगणैश्च पत्तयः॥७६॥
रथैर्द्धिपा द्विरदवरैर्महाहया हयैर्नरा वररथिभिश्च वाजिनः
।
निरस्तजिह्वादशनेक्षणाः क्षितौ क्षयं गताः प्रमथितवर्मभूषणाः॥७७॥
तथा परैर्बहुकरणैर्वरायुधैर्हता गताः प्रतिभयदर्शनाः क्षितिम्
।
विपोथिता हयगजपादताडिता भृशाकुला रथमुखनेमिभिः क्षताः॥७८॥
बहुकरणैरनेकप्रक्रियैः रथमुखानां रथमुख्यानां नेमिभिश्च क्रान्तैः ॥७८॥
प्रमोदने श्वापदपक्षिरक्षसां जनक्षये वर्तति तत्र दारुणे
।
महाबलास्ते कुपिताः परस्परं निषूदयन्तः प्रविचेरुरोजसा॥७९॥
ततो बले भृशलुलिते परस्परं निरीक्षमाणे रुधिरौघसंप्लुते
।
दिवाकरेऽस्तं गिरिमास्थिते शनैरुभे प्रयाते शिबिराय भारत॥८०॥
इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वितीयदिवसावहारे द्वात्रिंशोऽध्यायः॥३२॥