द्रोणाभिषेकपर्व - १ - १संशप्तकवधपर्व - २ - २अभिमन्युवधपर्व - ३ - ३प्रतिज्ञापर्व - ४ - ४जयद्रथवधपर्व - ५ - ५घटोत्कचवधपर्व - ६ - ६द्रोणवधपर्व - ७ - ७नारायणास्त्रमोक्षपर्व - ८ - ८

संशप्तकवधपर्व - २

सप्तदशोऽध्यायः

ते सेने शिबिरं गत्वा न्यविशेतां विशांपते ।
यथाभागं यथान्यायं यथागुल्म च सर्वशः॥१॥

ते सेने इति ॥१॥

कृत्वाऽवहारं सैन्यानां द्रोणः परमदुर्मनाः ।
दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत्॥२॥

उक्तमेतन्मया पूर्वं न तिष्ठति धनञ्जये ।
शक्यो ग्रहीतुं संग्रामे देवैरपि युधिष्ठिरः॥३॥

इति तद्वः प्रयततां कृतं पार्थेन संयुगे ।
मा विशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ॥४॥

अपनीते तु योगेन केनचिच्छ्वेतवाहने ।
तत एष्यति ते राजन् वशमेष युधिष्ठिरः॥५॥

योगेन उपायेन ॥५॥

कश्चिदाहूय तं संङ्ख्ये देशमन्यं प्रकर्षतु ।
तमजित्वा न कौन्तेयो निवर्तेत कथंचन॥६॥

एतस्मिन्नन्तरे शून्ये धर्मराजमहं नृप ।
ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः॥७॥

अर्जुनेन विहीनस्तु यदि नोत्सृजते रणम् ।
मामुपायान्तमालोक्य गृहीतं विद्धि पाण्डवम्॥८॥

एवं तेऽहं महाराज धर्मपुत्रं युधिष्ठिरम् ।
समानेष्यामि सगणं वशमद्य न संशयः॥९॥

यदि तिष्ठति संग्रामे मुहूर्तमपि पाण्डवः ।
अथापयाति संग्रामाद्विजयात्तद्विशिष्यते॥१०॥

सञ्जय उवाच। द्रोणस्य तद्वचः श्रुत्वा त्रिगर्ताधिपतिस्तदा ।
भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत्॥११॥

वयं विनिकुता राजन् सदा गाण्डीवधन्वना ।
अनागःस्वपि चागस्तत्कृतमस्मासु तेन वै॥१२॥

ते वयं स्मरमाणास्तान् विनिकारान् पृथग्विधान् ।
कोधाग्निना दह्यमाना नशेमहि सदा निशि॥१३॥

स नो दिष्ट्यास्त्रसम्पन्नश्चक्षुर्विषयमागतः ।
कर्तारः स्म वयं कर्म यच्चिकीर्षाम हृद्गतम्॥१४॥

भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम् ।
वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः॥१५॥

अद्यास्त्वनर्जुना भूमिरत्रिगर्ताऽथ वा पुनः ।
सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति॥१६॥

एवं सत्यरथश्चोक्त्वा सत्यवर्मा च भारत ।
सत्यव्रतश्च सत्येषुः सत्यकर्मा तथैव च॥१७॥

सहिता भ्रातरः पञ्च रथानामयुतेन च ।
न्यवर्तन्त महाराज कृत्वा शपथमाहवे॥१८॥

मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः ।
सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः॥१९॥

मावेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि ।
रथानामयुतेनैव सोऽगमद्भातृभिः सह॥२०॥

नानाजनपदेभ्यश्च रथानामयुतं पुनः ।
समुत्थितं विशिष्टानां शपथार्थमुपागमत्॥२१॥

ततो ज्वलनमानर्च्य हुत्वा सर्वे पृथक् पृथक् ।
जगृहुः कुशचीराणि चित्राणि कवचानि च॥२२॥

ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः ।
मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः॥२३॥

यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः ।
योक्ष्यमाणास्तदाऽऽत्मानं यशसा विजयेन च॥२४॥

लोक्याः पुण्यलोकार्हाः ॥२४॥

ब्रह्मचर्यश्रुतिमुखैः क्रतुभिश्चाप्तद‌क्षिणैः ।
प्राप्यान् लोकान् सुयुद्धेन क्षिप्रमेव यियासवः॥२५॥

ब्रह्मचर्यं वेदव्रताचरणं श्रुतिर्वेदाध्ययनं ते एव मुखं प्रधानं येषु तैः कर्मभिरिति शेषः ॥२५॥

ब्राह्मणांस्तर्पयित्वा च निष्कान् दत्त्वा पृथक् पृथक् ।
गाश्च वासांसि च पुनः समाभाष्य परस्परम्॥२६॥

प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणव्रतम् ।
तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः॥२७॥

शृण्वतां सर्वभूतानामुच्चैर्वाचो बभाषिरे ।
सर्वे धनञ्जयवधे प्रतिज्ञां चापि चक्रिरे॥२८॥

ये वै लोकाश्चाव्रतिनां ये चैव ब्रह्मघातिनाम् ।
मद्यपस्य च ये लोका गुरुदाररतस्य च॥२९॥

ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः ।
शरणागतं च त्यजतो याचमानं तथा घ्नतः॥३०॥

अगारदाहिनां चैव ये च गां निघ्नतामपि ।
अपकारिणां च ये लोका ये च ब्रह्मद्विषामपि॥३१॥

स्वभार्यामृतुकालेषु मोहाद्वै नाभिगच्छताम् ।
श्राद्धमैथुनिकानां च ये चाप्यात्मापहारिणाम्॥३२॥

आत्मापहारिणां स्वजातिगोपकानाम् ॥३२॥

न्यासापहारिणां ये च श्रुतं नाशयतां च ये ।
क्लीबेन युध्यमानानां ये च नीचानुसारिणाम्॥३३॥

श्रुतं प्रतिज्ञातम् ॥३३॥

नास्तिकानां च ये लोका येऽग्निमातृपितृत्यजाम् ।
तानाप्नुयामहे लोकान् ये च पापकृतामपि॥३४॥

यद्यहत्वा वयं युद्धे निवर्तेम धनञ्जयम् ।
तेन चाभ्यर्दितास्त्रासाद्भवेम हि पराङ्मुखाः॥३५॥

यदि त्वसुकरं लोके कर्म कुर्याम संयुगे ।
इषाँल्लोकान् प्राप्नुयामो वयमद्य न संशयः॥३६॥

एवमुक्त्वा तदा राजंस्तेऽभ्यवर्तन्त संयुगे ।
आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति॥३७॥

आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरञ्जयः ।
धर्मराजमिदं वाक्यमपदान्तरमब्रवीत्॥३८॥

अपदान्तरमव्यवहितम् ॥३८॥

आहूतो न निवर्तेयमिति मे व्रतमाहितम् ।
संशप्तकाश्च मां राजन्नाह्वयन्ति महामृधे॥३९॥

एष च भ्रातृभिः सार्धं सुशर्माऽह्वयते रणे ।
वधाय सगणस्यास्य मामनुज्ञातुमर्हसि॥४०॥

नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ ।
सत्यं ते प्रतिजानामि हतान् विद्धि परान् युधि॥४१॥

युधिष्ठिर उवाच। श्रुतं ते तत्त्वतस्तात यद्द्रोणस्य चिकीर्षितम् ।
यथा तदनृतं तस्य भवेत् तत्त्वं समाचर॥४२॥

द्रोणो हि बलवान् शूरः कृतास्त्रश्च जितश्रमः ।
प्रतिज्ञातं च तेनैतङ्ग्रहणं मे महारथ॥४३॥

अर्जुन उवाच। अयं वै सत्यजिद्राजन्नद्य त्वां रक्षिता युधि ।
ध्रियमाणे च पाञ्चाल्ये नाचार्यः काममाप्स्यति॥४४॥

हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो ।
सर्वैरपि समेतैर्वा न स्थातव्यं कथञ्चन॥४५॥

सञ्जय उवाच। अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फाल्गुनः ।
प्रेम्णा दृष्टश्च बहुधा ह्याशिषश्चास्य योजिताः॥४६॥

विहायैनं ततः पार्थस्त्रिगर्तान् प्रत्ययाद्बली ।
क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव॥४७॥

ततो दौर्योधनं सैन्यं मुदा परमया युतम् ।
ऋतेऽर्जुनं भृशं क्रुद्धं धर्मराजस्य निग्रहे॥४८॥

ततोऽन्योन्येन ते सैन्ये समाजग्मतुरोजसा ।
गङ्गासरय्वौ वेगेन प्रावृषीवोल्बणोदके॥४९॥

इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि धनञ्जययाने सप्तदशोऽध्यायः॥१७॥
अष्टदशोऽध्यायः

सञ्जय उवाच। ततः संशप्तका राजन् समे देशे व्यवस्थिताः ।
व्यूह्यानीकं रथैरेव चन्द्राकारं मुदा युताः॥१॥

तत इति ॥१॥

ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष ।
उदक्रोशन्नरव्याघ्राः शब्देन महता तदा॥२॥

स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत् ।
आवृतत्वाच्च लोकस्य नासीत् तत्र प्रतिस्वनः॥३॥

सोऽतीव संप्रहृष्टांस्तानुपलभ्य धनञ्जयः ।
किंचिदभ्युत्स्मयन् कृष्णमिदं वचनमब्रवीत्॥४॥

पश्यैतान् देवकीमातर्मुमूर्षूनद्य संयुगे ।
भ्रातॄंस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान्॥५॥

अथवा हर्षकालोऽयं त्रैगर्तानामसंशयम् ।
कुनरैर्दुरवापान् हि लोकान् प्राप्स्यन्त्यनुत्तमान्॥६॥

एवमुक्त्वा महाबाहुहृषीकेशं ततोऽर्जुनः ।
आससाद रणे व्यूढां त्रिगर्तानामनीकिनीम्॥७॥

स देवदत्तमादाय शंखं हेमपरिष्कृतम् ।
दध्मौ वेगेन महता घोषणापूरयन् दिशः॥८॥

तेन शब्देन वित्रस्ता संशप्तकवरूथिनी ।
विचेष्टाऽवस्थिता संख्ये ह्यश्मसारमयी यथा॥९॥

वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः ।
विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः॥१०॥

उपलभ्य ततः संज्ञामवस्थाप्य च वाहिनीम् ।
युगपत् पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः॥११॥

तान्यर्जुनः सहस्राणि दशपञ्चभिराशुगैः ।
अनागतान्येव शरैश्चिच्छेदाशु पराक्रमी॥१२॥

ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः ।
प्राविध्यन्त ततःपार्थस्तानविध्यस्त्रिभिस्त्रिभिः॥१३॥

एकैकस्तु ततः पार्थं राजन् विव्याध पञ्चभिः ।
स च तान् प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी॥१४॥

भूय एव तु संक्रुद्धास्त्वर्जुनं सह केशवम् ।
आपूरयन् शरैस्तीक्ष्णैस्तडागमिव वृष्टिभिः॥१५॥

ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति ।
भ्रमराणामिव व्राताः फुल्लं द्रुमगणं वने॥१६॥

ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैः शरैः ।
अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम्॥१७॥

तैः किरीटी किरीटस्थैर्हेमपुङ्खैरजिह्मगैः ।
शातकुंभमयापीडो बभौ सूर्य इवोत्थितः॥१८॥

हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः ।
चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत्॥१९॥

ततः सुशर्मा दशभिः सुरथस्तु किरीटिनम् ।
सुधर्मा सुधनुश्चैव सुबाहुश्च समार्पयत्॥२०॥

तांस्तु सर्वान् पृथग्बाणैर्वानरप्रवरध्वजः ।
प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद सायकान्॥२१॥

सुधन्वनो धनुश्छित्त्वा हयांश्चास्यावधीच्छरैः ।
अथास्य सशिरस्त्राणं शिरः कायादपातयत्॥२२॥

तस्मिन्निपतिते वीरे त्रस्तास्तस्य पदानुगाः ।
व्यद्रवन्त भयाद्भीता यत्र दौर्योधनं बलम्॥२३॥

ततो जघान संक्रुद्धो वासविस्तां महाचमूम् ।
शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः॥२४॥

ततो भग्ने बले तस्मिन् विप्रलीने समंततः ।
सव्यसाचिनि संक्रुद्धे त्रैगर्तान् भयमाविशत्॥२५॥

ते वध्यमानाः पार्थेन शरैः सन्नतपर्वभिः ।
अमुह्यास्तत्र तत्रैव त्रस्ता मृगगणा इव॥२६॥

ततस्त्रिगर्तराट् क्रुद्धस्तानुवाच महारथान् ।
अलं द्रुतेन वः शूरानभयं कर्तुमर्हथ॥२७॥

शप्त्वाथ शपथान् घोरान्सर्वसैन्यस्य पश्यतः ।
गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यशः॥२८॥

नावहास्याः कथं लोके कर्मणानेन संयुगे ।
भवेम सहिताः सर्वे निवर्तध्वं यथाबलम्॥२९॥

एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः ।
शंखांश्च दध्मिरे वीरा हर्षयन्तः परस्परम्॥३०॥

ततस्ते संन्यवर्तन्त संशप्तकगणाः पुनः ।
नारायणाश्च गोपाला मृत्युं कृत्वा निवर्तनम्॥३१॥

इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि सुधन्ववधे अष्टादशोऽध्यायः॥१८॥
ऊनविंशोऽध्यायः

सञ्जय उवाच। दृष्ट्वा तु संनिवृत्तांस्तान् संशप्तकगणान् पुनः ।
वासुदेवं महात्मानमर्जुनः समभाषत॥१॥

दृष्ट्वेति ॥१॥

चोदयाश्वान् हृषीकेश संशप्तकगणान् प्रति ।
नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः॥२॥

पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च ।
अद्यैतान् पातयिष्यामि क्रुद्धो रुद्रः पशूनिव॥३॥

ततः कृष्णः स्मितं कृत्वा प्रतिनन्द्य शिवेन तम् ।
प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः॥४॥

स रथो भ्राजतेऽत्यर्थमुह्यमानो रणे तदा ।
उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः॥५॥

मण्डलानि ततश्चक्रे गतप्रत्यागतानि च ।
यथा शक्ररथो राजन् युद्धे देवासुरे पुरा॥६॥

अथ नारायणाः क्रुद्धा विविधायुधपाणयः ।
छादयन्तः शरव्रातैः परिववुर्धनञ्जयम्॥७॥

अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ ।
कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनञ्जयम्॥८॥

क्रुद्धस्तु फाल्गुनः संख्ये द्विगुणीकृतविक्रमः ।
गाण्डीवं धनुरामृज्य तूर्णं जग्राह संयुगे॥९॥

बद्ध्वा च भ्रुकुटिं वक्त्रे क्रोधस्य प्रतिलक्षणम् ।
देवदत्तं महाशंखं पूरयामास पाण्डवः॥१०॥

अथास्त्रमरिसंघघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः ।
ततो रूपसहस्त्राणि प्रादुरासन् पृथक् पृथक्॥११॥

आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः ।
अन्योन्येनार्जुनं मत्वा स्वमात्मानं च जघ्निरे॥१२॥

अयमर्जुनोऽयं गोविन्द इमौ पाण्डवयाद‌वौ ।
इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे॥१३॥

मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम् ।
अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः॥१४॥

ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात् ।
कृत्वा तदस्त्रं तान् वीराननयद्यमसादनम्॥१५॥

अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि ।
मावेल्लकांस्त्रिगर्तांश्च योधेयांश्चार्दयच्छरैः॥१६॥

ते हन्यमाना वीरेण क्षत्रियाः कालचोदिताः ।
व्यसृजञ्छरजालानि पार्थे नानाविधानि च॥१७॥

न ध्वजो नार्जुनस्तत्र न रथो न च केशवः ।
प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः॥१८॥

ततस्ते लब्धलक्षत्वादन्योन्यमभिचुक्रुशुः ।
हतौ कृष्णाविति प्रीत्या वासांस्यादुधुवुस्तदा॥१९॥

भेरी-मृदङ्ग-शङ्खांश्च दध्मुर्वीराः सहस्रशः ।
सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष॥२०॥

ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत् ।
क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन्॥२१॥

तस्य तद्भाषितं श्रुत्वा त्वरमाणो धनञ्जयः ।
वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत्॥२२॥

ततः संशप्तकव्रातान् साश्वद्विपरथायुधान् ।
उवाह भगवान् वायुः शुष्कपर्णचयानिव॥२३॥

उह्यमानास्तु ते राजन् बह्वशोभन्त वायुना ।
प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष॥२४॥

तांस्तथा व्याकुलीकृत्य त्वरमाणो धनञ्जयः ।
जघान निशितैर्बाणैः सहस्राणि शतानि च॥२५॥

शिरांसि भल्लेरहरद्बाहूनपि च सायुधान् ।
हस्तिहस्तोपमांश्चोरून् शरैरुर्व्यामपातयत्॥२६॥

पृष्ठच्छिन्नान् विचरणान् बाहुपार्श्वेक्षणाकुलान् ।
नानाङ्गावयवैर्हीनांश्चकारारीन् धनञ्जयः॥२७॥

गन्धर्वनगराकारान् विधिवत्कल्पितान् रथान् ।
शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान्॥२८॥

मुण्डतालवनानीव तत्र तत्र चकाशिरे ।
छिन्ना रथध्वजव्राताः केचित्तत्र क्वचित्क्वचित्॥२९॥

सोत्तरायुधिनो नागाः सपताकांकुशध्वजाः ।
पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः॥३०॥

सोत्तरायुधिनः उपरिगतैर्योधैः सहिताः ॥३०॥

चामरापीडकवचाः स्रस्तांत्रनयनास्तथा ।
सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ॥३१॥

विप्रविद्धासिनखराश्छिन्नवर्मर्ष्टिशक्तयः ।
पत्तयश्छिन्नवर्माणः कृपणाः शेरते हताः॥३२॥

तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि ।
भ्रमद्भिर्निष्टनद्भिश्च क्रूरमायोधनं बभौ॥३३॥

रजश्च सुमहज्जातं शान्तं रुधिरवृष्टिभिः ।
मही चाप्यभवद्दुर्गा कबन्धशतसंकुला॥३४॥

तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे ।
आक्रडिमिव रुद्रस्य घ्नतः कालात्यये पशून्॥३५॥

ते वध्यमानाः पार्थेन व्याकुलाश्च रथद्विपाः ।
तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः॥३६॥

सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः ।
आस्तीर्णा संबभौ सर्वा प्रेतीभूतैः समंततः॥३७॥

एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि ।
व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत्॥३८॥

तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः ।
युधिष्ठिरं परीप्सन्तस्तदासीत् तुमुलं महत्॥३९॥

इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि अर्जुनसंशप्तकयुद्धे ऊनविंशोऽध्यायः॥१९॥
विंशोऽध्यायः

सञ्जय उवाच। परिणाम्य निशां तां तु भारद्वाजो महारथः ।
उक्त्वा सुबहुराजेन्द्र वचनं वै सुयोधनम्॥१॥

परिणाम्येति ॥१॥

विधाय योगं पार्थेन संशप्तकगणैः सह ।
निष्क्रान्ते च तदा पार्थे संशप्तकवधं प्रति॥२॥

व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम् ।
अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया॥३॥

व्यूढं दृष्ट्वा सुपर्णं तु भारद्वाजकृतं तदा ।
व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः॥४॥

मुखं त्वासीत् सुपर्णस्य भारद्वाजो महारथः ।
शिरो दुर्योधनो राजा सोद‌र्यैः सानुगैर्वृतः॥५॥

चक्षुषी कृतवर्माऽऽसीद्गौतमश्चास्यतां वरः ।
भूतशर्मा क्षेमशर्मा करकाशश्च वीर्यवान् ।
कलिंगाः सिंहलाः प्राच्याः शूराभीरा दशेरकाः॥६॥

शका यवनकाम्बोजास्तथा हंसपथाश्च ये ।
ग्रीवायां शूरसेनाश्च दरदा मद्रकेकयाः॥७॥

गजाश्वरथपत्त्योघास्तस्थुः परमदंशिताः ।
भूरिश्रवास्तथा शल्यः सोमदत्तश्च बाल्हिकः॥८॥

अक्षौहिण्या वृता वीरा दक्षिणं पार्श्वमास्थिताः ।
विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः॥९॥

वामं पार्श्वं समाश्रित्य द्रोणपुत्राग्रतः स्थिताः ।
पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौण्ड्रमद्रकाः॥१०॥

गान्धाराः शकुनाः प्राच्याः पार्वतीया वसातयः ।
पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः॥११॥

महत्या सनया तस्थौ नानाजनपदोत्थया ।
जयद्रथो भीमरथः संपातिर्ऋषभो जयः॥१२॥

भूमिंजयो वृषक्राथो नैषधश्च महाबलः ।
वृता बलेन महता ब्रह्मलोकपरिष्कृताः॥१३॥

व्यूहस्योरसि ते राजन् स्थिता युद्धविशारदाः ।
द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः॥१४॥

वातोद्धूतार्णवाकारः प्रवृत्त इव लक्ष्यते ।
तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः॥१५॥

सविद्युत्स्तनिता मेघाः सर्वदिग्भ्य इवोष्णगे ।
तस्य प्राग्ज्योतिषो मध्ये विधिवत् कल्पितं गजम्॥१६॥

उष्णगे घर्मात्यये ॥१६॥

आस्थितः शुशुभे राजन्नंशुमानुदये यथा ।
माल्यदामवता राजन् श्वेतच्छत्रेण धार्यता॥१७॥

कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना ।
नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ॥१८॥

पौर्णमास्यां कृत्तिकायोगयुक्तेन इन्दुना शारदपूर्णचन्द्रेणेत्यर्थः ॥१८॥

अतिवृष्टो महामेघैर्यथा स्यात् पर्वतो महान् ।
नानानृपतिभिर्वीरैर्विविधायुधभूषणैः॥१९॥

समन्वितः पार्वतीयैः शक्रो देवगणैरिव ।
ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम्॥२०॥

अजय्यमरिभिः संख्ये पार्षतं वाक्यमब्रवीत् ।
ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो ।
पारावतसवर्णाश्व तथा नीतिर्विधीयताम्॥२१॥

धृष्टद्युम्न उवाच। द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत ।
अहमावारयिष्यामि द्रोणमद्य सहानुगम्॥२२॥

मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि ।
न हि शक्तो रणे द्रोणो विजेतुं मां कथंचन॥२३॥

सञ्जय उवाच। एवमुक्त्वा किरन् बाणान् द्रुपदस्य सुतो बली ।
पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत्॥२४॥

अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम् ।
क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव॥२५॥

अनिष्टदर्शनं स्वमृत्युहेतुत्वात् ॥२५॥

तं तु संप्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्षणः ।
प्रियं चिकीर्षुर्दोणस्य धृष्टद्युम्नमवारयत्॥२६॥

स संप्रहारस्तुमुलः सुघोरः समपद्यत ।
पार्षतस्य च शूरस्य दुर्मुखस्य च भारत॥२७॥

पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम् ।
भारद्वाजं शरौधेण महता समवारयत्॥२८॥

द्रोणमावारितं दृष्ट्वा भृशायस्तस्तवात्मजः ।
नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत्॥२९॥

भृशायस्तोऽतिप्रयत्नवान् ॥२९॥

तयोर्विषक्तयोः संख्ये पाञ्चाल्यकुरुमुख्ययोः ।
द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः॥३०॥

अनिलेन यथाऽभ्राणि विच्छिन्नानि समन्ततः ।
तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित् क्वचित्॥३१॥

मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् ।
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत॥३२॥

नैव स्वेन परे राजन्नाज्ञायन्त परस्परम् ।
अनुमानेन संज्ञाभिर्युद्धं तत् समवर्तत॥३३॥

चूडामणिषु निष्केषु भूषणेष्वपि वर्मसु ।
तेषामादित्यवर्णाभा रश्मयः प्रचकाशिरे॥३४॥

तत्प्रकीर्णपताकानां रथवारणवाजिनाम् ।
बलाकाशबलाभ्राभं ददृशे रूपमाहवे॥३५॥

नरानेव नरा जघ्नुरुदग्राश्च हया हयान् ।
रथांश्च रथिनो जघ्नुर्वारणा वरवारणान्॥३६॥

समुच्छ्रितपताकानां गजानां परमद्विपैः ।
क्षणेन तुमुलो घोरः संग्रामः समपद्यत॥३७॥

तेषां संसक्तगात्राणां कर्षतामितरेतरम् ।
दन्तसङ्घातसङ्घर्षात् सधूमोऽग्निरजायत॥३८॥

विप्रकीर्णपताकास्ते विषाणजनिताग्नयः ।
बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः॥३९॥

विक्षिपद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः ।
संबभूव मही कीर्णा मेघैर्द्यौरिव शारदी॥४०॥

तेषामाहन्यमानानां बाणतोमरऋष्टिभिः ।
वारणानां रवो जज्ञे मेघानामिव संप्लवे॥४१॥

तोमराभिहताः केचिद्बाणैश्च परमद्विपाः ।
वित्रेसुः सर्वनागानां शब्दमेवापरेऽव्रजन्॥४२॥

विषाणाभिहताश्चापि केचित्तत्र गजा गजैः ।
चक्रुरार्तस्वनं घोरमुत्पातजलदा इव॥४३॥

प्रतीपाः क्रियमाणाश्च वारणा वरवारणैः ।
उन्मथ्य पुनराजग्मुः प्रेरिताः परमांकुशैः॥४४॥

महामात्रैर्महामात्रास्ताडिताः शरतोमरैः ।
गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणांकुशाः॥४५॥

निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः ।
छिन्नाभ्राणीव संपेतुः संप्रविश्य परस्परम्॥४६॥

हतान् परिवहन्तश्च पतितान् पतितायुधान् ।
दिशो जग्मुर्महानागाः केचिदेकचरा इव ॥४७॥

एकचराः द्विपान्तरदर्शनासहाः ॥४७॥

ताडितास्ताड्यमानाश्च तोमरर्ष्ट्रिपरश्वधैः ।
पेतुरार्तस्वनं कृत्वा तदा विशसने गजाः॥४८॥

तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः ।
आहता सहसा भूमिश्चकम्पे च ननाद च॥४९॥

सादितैः सगजारोहैः सपताकैः समन्ततः ।
मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः॥५०॥

गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे ।
रथिभिः पातिता भल्लैर्विकीर्णांकुशतोमराः॥५१॥

क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः ।
परान् स्वांश्चापि मृद्नन्तः परिपेतुर्दिशो दश॥५२॥

गजाश्वरथयोधानां शरीरौघसमावृता ।
बभूव पृथिवी राजन् मांसशोणितकर्दमा॥५३॥

प्रमथ्य च विषाणाग्रैः समुत्क्षिप्ताश्च वारणैः ।
सचक्राश्च विचक्राश्च रथैरेव महारथाः॥५४॥

रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः ।
हतारोहाश्च मातङ्गा दिशो जग्मुर्भयातुराः॥५५॥

जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ।
इत्यासीत् तुमुलं युद्धं न प्राज्ञायत किञ्चन॥५६॥

आगुल्फेभ्योऽवसीदन्ते नरा लोहितकर्दमैः ।
दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः॥५७॥

शोणितैः सिच्यमानानि वस्त्राणि कवचानि च ।
छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत॥५८॥

हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः ।
संक्षुण्णाः पुनरावृत्य बहुधा रथनेमिभिः॥५९॥

सगजौघमहावेगः परासुनरशैवलः ।
रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः॥६०॥

तं वाहनमहानौभिर्योधा जयधनैषिणः ।
अवगह्याथ मज्जन्तो नैव मोहं प्रचक्रिरे॥६१॥

शरवर्षाभिवृष्टेषु योधेष्वञ्चितलक्ष्मसु ।
न तेष्वचित्ततां लेभे कश्चिदाहतलक्षणः॥६२॥

अचित्ततां मोहम् आहतलक्षणो ध्वस्तचिह्नः ॥६२॥

वर्तमाने तथा युद्धे घोररूपे भयङ्करे ।
मोहयित्वा परान् द्रोणो युधिष्ठिरमुपाद्रवत्॥६३॥

इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि संकुलयुद्धे विंशोऽध्यायः॥२०॥
एकविंशोऽध्यायः

सञ्जय उवाच। ततो युधिष्ठिरो द्रोणं दृष्ट्वाऽन्तिकमुपागतम् ।
महता शरवर्षेण प्रत्यगृह्णादभीतवत्॥१॥

तत इति ॥१॥

ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले ।
जिघृक्षति महासिंहे गजानामिव यूथपम्॥२॥

दृष्ट्वा द्रोणं ततः शूरः सत्यजित् सत्यविक्रमः ।
युधिष्ठिरमभिप्रेप्सुराचार्यं समुपाद्रवत्॥३॥

तत आचार्यपाञ्चाल्यौ युयुधाते महाबलौ ।
विक्षोभयन्तौ तत् सैन्यमिन्द्रवैरोचनाविव॥४॥

ततो द्रोणं महेष्वासः सत्यजित्सत्यविक्रमः ।
अविध्यन्निशिताग्रेण परमास्त्रं विदर्शयन्॥५॥

तथास्य सारथेः पञ्च शरान् सर्पविषोपमान् ।
अमुञ्चदन्तकप्रख्यान् संमुमोहास्य सारथिः॥६॥

अथास्य सहसाऽविध्यद्धयान् दशभिराशुगैः ।
दशभिर्दशभिः कुद्ध उभौ च पार्ष्णिसारथी॥७॥

मण्डलं तु समावृत्य विचरन् पृतनामुखे ।
ध्वजं चिच्छेद च क्रुद्धो द्रोणस्यामित्रकर्षणः॥८॥

द्रोणस्तु तत्समालोक्य चरितं तस्य संयुगे ।
मनसा चिन्तयामास प्राप्तकालमरिन्दमः॥९॥

ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः ।
अविध्यच्छीघ्रमाचार्यश्छित्त्वास्य सशरं धनुः॥१०॥

स शीघ्रतरमादाय धनुरन्यत् प्रतापवान् ।
द्रोणमभ्यहनद्राजंस्त्रिंशता कङ्कपत्रिभिः॥११॥

दृष्ट्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे ।
वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमार्दयत्॥१२॥

संछाद्यमानं समरे द्रोणं दृष्ट्वा महारथम् ।
चुक्रुशुः पाण्डवा राजन् वस्त्राणि दुधुवुश्च ह॥१३॥

वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे ।
विव्याध बलवान् राजंस्तदद्भुतमिवाभवत्॥१४॥

द्रोणस्तु शरवर्षेण च्छाद्यमानो महारथः ।
वेगं चक्रे महावेगः क्रोधादुद्धृत्य चक्षुषी॥१५॥

ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च ।
पड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीहृकम्॥१६॥

अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् ।
साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम्॥१७॥

स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दितो मृधे ।
ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान्॥१८॥

हयान् ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी ।
अवाकिरत् ततो द्रोणः शरवर्षै सहस्रशः॥१९॥

तथा संछिद्यमानेषु कार्मुकेषु पुनः पुनः ।
पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत्॥२०॥

स सत्यजितमालोक्य तथोदीर्णं महाहवे ।
अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः॥२१॥

तस्मिन् हते महामात्रे पञ्चालानां महारथे ।
अपायाज्जवनैरश्वैर्दोणात् त्रस्तो युधिष्ठिरः॥२२॥

पञ्चालाः केकया मत्स्याश्चेदिकारूषकोसलाः ।
युधिष्ठिरमभीप्सन्तो दृष्ट्वा द्रोणमुपाद्रवन्॥२३॥

ततो युधिष्ठिरं प्रेप्सुराचार्यः शत्रुपूगहा ।
व्यधमत्तान्यनीकानि तूलराशिमिवानलः॥२४॥

निर्दहन्तमनीकानि तानि तानि पुनः पुनः ।
द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत॥२५॥

सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः ।
षड्भिः ससूतं सहयं द्रोणं विद्ध्वाऽनददृशम् ॥२६॥

क्रूराय कर्मणे युक्तश्चिकीर्षुः कर्म दुष्करम् ।
अवाकिरच्छरशतैर्भारद्वाजं महारथम्॥२७॥

तस्य नानदतो द्रोणः शिरः कायात् सकुण्डलम् ।
क्षुरेणापाहरत् तूर्णं ततो मत्स्याः प्रदुद्रुवुः॥२९॥

मत्स्याञ्जित्वाऽजयच्चेदीन् करूषान् केकयानपि ।
पञ्चालान् सृञ्जयान् पाण्डून् भारद्वाज पुनः पुनः॥२८॥

तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम् ।
दृष्ट्वा रुक्मरथं वीरं समकंपन्त सृञ्जयाः॥३०॥

उत्तमं ह्याददानस्य धनुरस्वाशुकारिणः ।
ज्याघोषो निघ्नतोऽमित्रान् दिक्षु सर्वासु शुश्रुवे॥३१॥

नागानश्वान् पदातीश्च रथिनो गजसादिनः ।
रौद्रा हस्तवतामुक्ताः प्रमथ्नन्ति स्म सायकाः॥३२॥

नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये ।
अश्मवर्षभिवावर्षत् परेषां भयमादधत्॥३३॥

सर्वा दिशः समचरत् सैन्यं विक्षोभयन्निव ।
बली शूरो महेष्वासो मित्राणामभयंकरः॥३४॥

तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् ।
दिक्षु सर्वासु पश्यामो द्रोणस्यामिततेजसः॥३५॥

शोभमानां ध्वजे चास्य वेदीमद्राक्ष्म भारत ।
हिमवच्छिखराकारां चरतः संयुगे भृशम्॥३६॥

द्रोणस्तु पाण्डवानीके चकार कदनं महत् ।
यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः॥३७॥

स शूरः सत्यवाक् प्राज्ञो बलवान् सत्यविक्रमः ।
महानुभावः कल्पान्ते रौद्रां भीरुविभीषणाम्॥३८॥

कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम् ।
गजवाजिमहाग्राहामसिमीनां दुरासदाम्॥३९॥

वीरास्थिशर्करां रौद्रां भेरीमुरजकच्छपाम् ।
चर्मवर्मप्लवां घोरां केशशैवलशाद्वलाम्॥४०॥

शरौधिणीं धनुःस्रोतां बाहुपन्नगसंकुलाम् ।
रणभूमिवहां तीव्रां कुरुसृञ्जयवाहिनीन्॥४१॥

मनुष्यशीर्षपाषाणां शक्तिमीनां गदाडुपाम् ।
उष्णीषफेनवसनां विकीर्णान्त्रसरीसृपान्॥४२॥

वीरापहारिणीमुग्रां मांसशोणितकर्दमाम् ।
हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम्॥४३॥

क्रूरां शरीरसंघट्टां सादिनक्रां दुरत्ययात् ।
द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम्॥४४॥

क्रव्यादगणसंजुष्टां श्वशृगालगणायुताम् ।
निषेवितां महारौद्रैः पिशिताशैः समंततः॥४५॥

तं दहन्तमनीकानि रथोदारं कृतान्तवत् ।
सर्वतोऽभ्यद्रवन् द्रोणं कुन्तीपुत्रपुरोगमाः॥४६॥

ते द्रोणं सहिताः शूराः सर्वतः प्रत्यवारयन् ।
गभस्तिभिरिवादित्यं तपन्तं भुवनं यथा॥४७॥

तं तु शूरं महेष्वासं तावकाभ्युद्यतायुधाः ।
राजानो राजपुत्राश्च समन्तात् पर्यवारयन्॥४८॥

शिखण्डी तु ततो द्रोणं पञ्चभिर्नतपर्वभिः ।
क्षत्रवर्मा च विंशत्या वसुदानश्च पञ्चभिः॥४९॥

उत्तमौजास्त्रिभिर्बाणैः क्षत्रदेवश्च सप्तभिः ।
सात्यकिश्च शतेनाजौ युधामन्युस्तथाऽष्टभिः॥५०॥

युधिष्ठिरो द्वादशभिर्दोणं विव्याध सायकैः ।
धृष्टद्युम्नश्च दशभिश्चेकितानस्त्रिभिः शरैः॥५१॥

ततो द्रोणः सत्यसन्धः प्रभिन्न इव कुञ्जरः ।
अभ्यतीत्य रथानीकं दृढसेनमपातयत्॥५२॥

ततो राजानमासाद्य प्रहरन्तमभीतवत् ।
अविध्यन्नवभिः क्षेमं स हतः प्रापतद्रथात्॥५३॥

स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन् दिशः ।
त्राता ह्यभवदन्येषां न त्रातव्यः कथञ्चन॥५४॥

शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् ।
वसुदानं च भल्लेन प्रैषयद्यमसादनम्॥५५॥

उभयत्र विद्ध्वेति शेषः ॥५५॥

अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम् ।
क्षत्रदेवं तु भल्लेन रथनीडादपातयत्॥५६॥

युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम् ।
विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत्॥५७॥

ततो युधिष्ठिरः क्षिप्रं गुरुतो राजसत्तमः ।
अपायाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात्॥५८॥

पाञ्चाल्यो नाम्ना ॥५८॥

तं द्रोणः सधनुष्कं तु साश्वयन्तारमाक्षिणोत् ।
स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात्॥५९॥

तस्मिन् हते राजपुत्रे पञ्चालानां यशस्करे ।
हतद्रोणं हतद्रोणमित्यासीन्निःस्वनो महान्॥६०॥

तांस्तथा भृशसंरब्धान् पञ्चालान् मत्स्यकेकयान् ।
सृञ्जयान् पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली॥६१॥

सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ ।
वार्धक्षेमिं चैत्रसेनिं सेनाबिन्दुं सुवर्चसम्॥६२॥

एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान् ।
सर्वान् द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः॥६३॥

तावकाञ्च महाराज जयं लब्ध्वा महाहवे ।
पाण्डवेयान् रणे जघ्नुर्द्रवमाणान् समन्ततः॥६४॥

ते दानवा इवेन्द्रेण वध्यमाना महात्मना ।
पञ्चालाः केकया मत्स्याः समकम्पन्त भारत॥६५॥

इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्रोणयुद्धे एकविंशोऽध्यायः॥२१॥
द्वाविंशोऽध्यायः

धृतराष्ट्र उवाच। भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे ।
पञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत॥१॥

भारद्वाजेति ॥१॥

आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम् ।
असेवितां कापुरुषैः सेवितां पुरुषर्षभैः॥२॥

स हि वीरोन्नतः शूरो यो भग्नेषु निवर्तते ।
अहो नासीत् पुमान् कश्चिद् दृष्ट्वा द्रोणं व्यवस्थितम्॥३॥

जुम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम् ।
त्यजन्तमाहवे प्राणान् सन्नद्धं चित्रयोधिनम्॥४॥

महेष्वासं नरव्याघ्रं द्विषतां भयवर्धनम् ।
कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम्॥५॥

भारद्वाजं तथाऽनीके दृष्ट्वा शूरमवस्थितम् ।
के शूराः संन्यवर्तन्त तन्ममाचक्ष्व सञ्जय॥५॥

सञ्जय उवाच। तान् दृष्ट्वा चलितान् संख्ये प्रणुन्नान् द्रोणसायकैः ।
पञ्चालान् पाण्डवान् मत्स्यान् सृञ्जयांश्चेदिकेकयान्॥७॥

द्रोणचापविमुक्तेन शरौघेणाशुहारिणा ।
सिन्धोरिव महौघेन ह्रियमाणान्यथा प्लवान्॥८॥

कौरवाः सिंहनादेन नानावाद्यस्वनेन च ।
रथद्विपनरांश्चैव सर्वतः समवारयन्॥९॥

तान् पश्यन् सैन्यमध्यस्थो राजा स्वजनसंवृतः ।
दुर्योधनोऽब्रवीत् कर्णं प्रहृष्टः प्रहसन्निव॥१०॥

दुर्योधन उवाच। पश्य राधेय पञ्चालान् प्रणुन्नान् द्रोणसायकैः ।
सिंहेनेव मृगान् वन्यांस्त्रासितान् दृढधन्वना॥११॥

नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः ।
यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः॥१२॥

अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना ।
पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः॥१३॥

सन्निरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना ।
एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः॥१४॥

भ्रमरैरारेव चाविष्टा द्रोणस्य निशितैः शरैः ।
अन्योन्यं समलीयन्त पलायनपरायणाः॥१५॥

एष भीमो महाक्रोधी हीनः पाण्डवसृञ्जयैः ।
मदीयैरावृतो योधैः कर्ण नन्दयतीव माम्॥१६॥

व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः ।
निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः॥१७॥

कर्ण उवाच। नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत् ।
न चेमान् पुरुषव्याघ्र सिंहनादान् सहिष्यति॥१८॥

न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः ।
शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः॥१९॥

विषाग्निद्यूतसंक्लेशान् वनवासं च पाण्डवाः ।
स्मरमाणा न हास्यन्ति संग्राममिति मे मतिः॥२०॥

निवृत्तो हि महाबाहुरमितौजा वृकोदरः ।
वरान् वरान् हि कौन्तेयो रथोदारान् हनिष्यति॥२१॥

असिना धनुषा शक्त्या हयैर्नागैर्नरै रथैः ।
आयसेन च दण्डेन व्रातान् व्रातान्हनिष्यति॥२२॥

तमेनमनुवर्तन्ते सात्यकिप्रमुखा रथाः ।
पञ्चालाः केकया मत्स्याः पाण्डवाश्च विशेषतः॥२३॥

शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः ।
विनिघ्नन्तश्च भीमेन संरब्धेनाभिचोदिताः॥२४॥

ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुङ्गवाः ।
वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव॥२५॥

एकायनगता ह्येते पीडयेयुर्यतव्रतम् ।
अरक्षमाणं शलभा यथा दीपं मुमूर्षवः॥२६॥

असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे ।
अतिभारमहं मन्ये भारद्वाजे समाहितम्॥२७॥

शीघ्रमनुगमिष्यामो यत्र द्रोणो व्यवस्थितः ।
कोका इव महानागं मा वै हन्युर्यतव्रतम्॥२८॥

कोको वृकः ॥२८॥

सञ्जय उवाच। राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्ततः ।
भ्रातृभिः सहितो राजन् प्रायाद्द्रोणरथं प्रति॥२९॥

तत्रारावो महानासीदेकं द्रोणं जिघांसताम् ।
पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः॥३०॥

इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्रोणयुद्धे द्वाविंशोऽध्यायः॥२२॥
त्रयोविंशोऽध्यायः

धृतराष्ट्र उवाच। सर्वेषामेव मे ब्रूहि रथचिह्नानि सञ्जय ।
ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः॥१॥

सर्वेषामिति । रथचिह्नानि रथशब्दो हयोपलक्षणम् । रथान् हयान् चिह्नानि ध्वजांश्चेत्यर्थः ॥१॥

सञ्जय उवाच। ऋक्षवर्णैर्हयैर्दृष्ट्वा व्यायच्छन्तं वृकोदरम् ।
रजताश्वस्ततः शूरः शैनेयः संन्यवर्तत॥२॥

व्यायच्छन्तं निवर्तमानम् ॥२॥

सारङ्गाश्वो युधामन्युः स्वयं प्रत्वरयन् हयान् ।
पर्यवर्तत दुर्धर्षः क्रुद्धो द्रोणरथं प्रति॥३॥

पारावतसवर्णैस्तु हेमभाण्डैर्महाजवैः ।
पाञ्चालराजस्य सुतो धृष्टद्युम्नो न्यवर्तत॥४॥

पितरं तु परिप्रेप्सुः क्षत्रधर्मा यतव्रतः ।
सिद्धिं चास्य परां कांक्षन् शोणाश्वः संन्यवर्तत॥५॥

शोणः कोकनदच्छविः ॥५॥

पद्मपत्रनिभांश्चाश्वान् मल्लिकाक्षान् स्वलंकृतान् ।
शैखण्डिः क्षत्रदेवस्तु स्वयं प्रत्वरयन् ययौ॥६॥

मल्लिकाक्षान्निर्मलेक्षणान् ॥६॥

दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः ।
वहन्तो नकुलं शीत्रं तावकानभिदुद्रुवुः॥७॥

कृष्णास्तु मेघसङ्काशा अवह‌दुत्तमौजसम् ।
दुर्धर्षायाभिसन्धाय क्रुद्धं युद्धाय भारत॥८॥

तथा तित्तिरिकल्माषा हया वातसमा जवे ।
अवहंस्तुमुले युद्धे सहदेवमुदायुधम्॥९॥

दन्तवर्णास्तु राजानं कालवाला युधिष्ठिरम् ।
भीमवेगा नरव्याघ्रमवहन् वातरंहसः॥१०॥

दन्तवर्णाः गजदन्तगौराः ॥१०॥

हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे ।
अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम्॥११॥

राज्ञस्त्वनन्तरो राजा पाञ्चाल्यो द्रुपदोऽभवत् ।
जातरूपमयच्छत्रः सर्वैस्तैरभिरक्षितः॥१२॥

ललामैर्हरिभिर्युक्तः सर्वशब्दक्षमैर्युधि ।
राज्ञां मध्ये महेष्वासः शान्तभीरभ्यवर्तत॥१३॥

तं विराटोऽन्वयाच्छीघ्रं सह सर्वैर्महारथैः ।
केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च॥१४॥

स्वैःस्वैः सैन्यैः परिवृता मत्स्यराजानमन्वयुः ।
तं तु पाटलिपुष्पाणां समवर्णा हयोत्तमाः॥१५॥

पाटलिपुष्पाणां समवर्णाः श्वेतरक्ताः ॥१५॥

वहमाना ध्यराजन्त मत्स्यस्यामित्रघातिनः ।
हीरद्रासमवर्णास्तु जवना हेममालिनः॥१६॥

पुत्रं विराटराजस्य सत्वरं समुदावहन् ।
इन्द्रगोपकवर्णैश्च भ्रातरः पञ्च केकयाः॥१७॥

विराटराजस्य पुत्रमुत्तरम् ॥१७॥

जातरूपसमाभासाः सर्वे लोहितकध्वजाः ।
ते हेममालिनः शूराः सर्वे युद्धविशारदाः॥१८॥

वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः ।
आमपात्रनिकाशास्तु पाञ्चाल्यममितौजसम्॥१९॥

आमपात्रनिकाशाः मलिनश्वेताः ॥१९॥

दत्तास्तुम्बुरुणा दिव्याः शिखण्डिनमुदावहन् ।
तथा द्वादश साहस्राः पञ्चालानां महारथाः॥२०॥

तेषां तु षट् सहस्राणि ये शिखण्डिनम् वयुः ।
पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष॥२१॥

आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः ।
धृष्टकेतुस्तु चेदीनामृषभोऽतिबलोदितः॥२२॥

सारंगशबलाः सारंगा एव अन्तरे बिन्दुचिताः ॥२२॥

काम्बोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः ।
बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः॥२३॥

पलालध्मसंकाशाः सैन्धवाः शीघ्रमावहन् ।
मल्लिकाक्षाः पद्मवर्णा बाल्हिजाताः स्वलंकृताः॥२४॥

पलालधूमसंकाशाः विशदनीलाः । ‘दीर्घग्रीवा मुखालंबमेहनाः पृथुलोचनाः । महान्तस्तनुरोमाणो बलिनः सैन्धवा हयाः’। पद्मवर्णा - ‘सितरक्तसमायोगात्पद्मवर्णः प्रकीर्त्यते । काम्बोजसमसंस्थाना बाल्हिजताश्च वाजिनः । विशेषः पुनरेतेषां दीर्घवृष्ठाङ्गतोच्यते’ ॥२४॥

शूरं शिखण्डिनः पुत्रमृक्षदेवमुदावहन् ।
रुक्मभाण्डप्रतिच्छन्नाः कौशेयसदृशा हयाः॥२५॥

कौशेयसदृशाः सितपीताः ॥२५॥

क्षमावन्तोऽवहन् संख्ये सेनाबिन्दुमरिन्दमम् ।
युवानमवहन् युद्धे क्रौञ्चवर्णा हयोत्तमाः॥२६॥

क्षमावन्तो विनीताः । सितलोमवेसराढ्याः कृष्णत्वग्गुह्यलोचनोष्ठखुराः । ये स्युर्मुनिभिर्वाहा निर्दिष्टाः क्रौञ्चवर्णास्ते' ॥२६॥

काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम् ।
श्वेतास्तु प्रतिविन्ध्यं तं कृष्णीग्रीवा मनोजवाः ।
यन्तुः प्रेष्यकरा राजन् राजपुत्रमुदावहन्॥२७॥

प्रेष्यवराः इच्छानुविधायिनः ॥२७॥

सुतसोमं तु यः सौम्यं पार्थः पुत्रमजीजनत् ।
माषपुष्पसवर्णास्तमवहन् वाजिनो रणे॥२८॥

माषपुष्पसवर्णा आपाण्डुपीताः ॥२८॥

सहस्रसोमप्रतिमो बभूव पुरे कुरूणामुदयेन्दुनाम्नि ।
तस्मिञ्जातः सोमसक्रन्दमध्ये यस्मात्तस्मात्सुतसोमोऽभवत्सः॥२९॥

सहस्रसोमप्रतिम सोमसहस्रसमः सौम्यतम इत्यर्थः । तस्मिन् उदयेन्दुनाम्नि उदयेन्दुपर्याये पुरे शक्रप्रस्थ एव । सोमसंक्रन्दः सोमाभिषवणं तस्य मध्ये तमधिकृत्य तत्पेनेनेत्यर्थः । तस्माद्धेतोः ॥२९॥

नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः ।
आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन्॥३०॥

शालपुष्पनिभा रक्तपीताः ॥३०॥

काञ्चनापिहितैर्योक्त्रैर्मयूरग्रीवसन्निभाः ।
द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमाहवे॥३१॥

योक्त्रैराबन्धैः । मयूरग्रीवो मरकतविशेषः ॥३१॥

श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः ।
ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः॥३२॥

यमाहुरध्यर्धगुणं कृष्णात् पार्थाच्च संयुगे ।
अभिमन्युं पिशंगास्तं कुमारमवहन् रणे॥३३॥

पिशङ्गाः कपिलाः ॥३३॥

एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः ।
तं बृहन्तो महाकाया युयुत्सुमवहन् रणे॥३४॥

पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम् ।
ऊहुः सुतमुले युद्धे हयाः कृष्णाः स्वलंकृताः॥३५॥

पलालकाण्डो निष्फलव्रीहिदण्डतद्वर्णा इति पूर्वेणान्वयः ॥३५॥

कुमारं शितिपादास्तु रुक्मचित्रैरुरच्छदैः ।
सौचित्तिमवहन् युद्धे यन्तुः प्रेष्यकरा हयाः॥३६॥

रुक्मपीठावकीर्णास्तु कौशेयसदृशा हयाः ।
सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन्॥३७॥

रुक्मपीठेन रुक्मवर्णेन पीठेन पृष्ठेनावकीर्णा व्याप्ताः ॥३७॥

रुक्ममालाधराः शूरा हेमपृष्ठाः स्वलङ्कृताः ।
काशिराजं नरश्रेष्ठं श्लाघनीयमुदावहन्॥३८॥

हेमष्पृष्ठाः श्वेता एव ॥३८॥

अस्त्राणां च धनुर्वेदे ब्राह्मे वेदे च पारगम् ।
तं स यधृतिमायान्तमरुणाः समुदावहन्॥३९॥

अरुणा अव्यक्तरागाः ॥३९॥

यः स पांचालसेनानीर्द्रोणमंशमकल्पयत् ।
पारावतसवर्णास्तं धृष्टद्युम्नमुदावहन्॥४०॥

धृष्टद्युम्नस्य पुनर्वचनं द्रोणहन्तृत्वदृढीकरणार्थम् ॥४०॥

तमन्वयात् सत्यधृतिः सौचित्तिर्युद्धदुर्मदः ।
श्रेणिमान् वसुदानश्च पुत्रः काश्यस्य चाभिभूः॥४१॥

युक्तैः परमकाम्बोजैर्जवनैर्हेममालिभिः ।
भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः॥४२॥

प्रभद्रकास्तु काम्बोजाः षट्सहस्राण्युदायुधाः ।
नानावर्णैर्हयैः श्रेष्ठैर्हेमवर्णरथध्वजाः॥४३॥

शरव्रातैर्विधुन्वन्तः शत्रून् विततकाकाः ।
समानमुत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः॥४४॥

बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः ।
ऊहुरम्लानमनसश्चेकितानं हयोत्तमाः॥४५॥

बभ्रुकौशेयवर्णाः पिङ्गगौराः ॥४५॥

इन्द्रायुधसवर्णस्तु कुन्तिभोजो हयोत्तमैः ।
आयात् सदश्वैः पुरुजिन्मातुलः सव्यसाचिनः॥४६॥

इन्द्रायुधसवर्णैस्त्रिवर्णैः ॥४६॥

अन्तरिक्षसवर्णास्तु तारका चित्रिता इव ।
राजानं रोचमानं ते हयाः संख्ये समावहन्॥४७॥

अन्तरिक्षसवर्णा नीलाः ॥४७॥

कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः ।
जारासन्धिं हयाः श्रेष्ठाः सहदेवमुदावहन्॥४८॥

कर्बुराश्चित्राः ॥४८॥

ये तु पुष्करनालस्य समवर्णा हयोत्तमाः ।
जवे श्येनसमाश्चित्राः सुदामानमुदावहन्॥४९॥

शशलोहितवर्णास्तु पाण्डुरोदतराजयः ।
पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन्॥५०॥

शशलोहितवर्णाः सितारुणाः ॥५०॥

पञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः ।
तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः॥५१॥

माषवर्णाश्च जवना बृहन्तो हेममालिनः ।
दधिपृष्ठाश्चित्रमुखाः पाञ्चाल्यमवहन् द्रुतम्॥५२॥

माषवर्णाः मलिनश्यामाः ॥५२॥

शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः ।
पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन्॥५३॥

भद्रकाः शोभनशिरसः शरकाण्डनिभाः सितगौराः ॥५३॥

रासभारुणवर्णाभाः पृष्टतो मूषिकप्रभाः ।
वल्गन्त इव संयत्ता व्याघ्रदत्तमुदावहन्॥५४॥

रासभारुणवर्णा अरुणमलिनाः मूषिकप्रभा मलिनचेताः ॥५४॥

हरयः कालकाश्चित्राश्चित्रमाल्यावभूषिताः ।
सुधन्वानं नरव्याघ्रं पाञ्चाल्यं समुदावहन्॥५५॥

कालकाः कृष्णमस्तकाः ॥५५॥

इन्द्राशनिसमस्पर्शा इन्द्रगोपकसन्निभाः ।
काये चित्रान्तराश्चित्राश्चित्रायुधमुदावहन्॥५६॥

चित्रान्तरा विचित्रावकाशाः । चित्रा अद्भुतदर्शनाः ॥५६॥

बिभ्रतो हेममालास्तु चक्रवाकोदरा हयाः ।
कोसलाधिपतेः पुत्र सुक्षत्रं वाजिनोऽवहन्॥५७॥

चक्रवाकोदरा ईषच्छ्वेताः ॥५७॥

शबलास्तु बृहन्तोऽश्वा दान्ता जांबूतदस्रजः ।
युद्धे सत्यधृतिं क्षेमिमवहन् प्रांशवः शुभाः॥५८॥

एकवर्णेन सर्वेण ध्वजेन कवचेन च ।
अश्वैश्च धनुषा चैव शुक्लैः शुक्लो न्यवर्ततः॥५९॥

समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम् ।
अश्वाः शशाङ्कसदृशाश्चन्द्रसेनमुदावहन्॥६०॥

नीलोत्पलसवर्णास्तु तपनीयविभूषिताः ।
शैब्यं चित्ररथं संख्ये चित्रमाल्याऽवहन् हयाः॥६१॥

कलायपुष्पवर्णास्तु श्वेतलोहेतराजयः ।
रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम्॥६२॥

कलायपुष्पवर्णाः मिश्रश्यामाः ॥६२॥

यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम् ।
तं पटच्चरहन्तारं शुकवर्णाऽवहन् हयाः॥६३॥

पटच्चराणामसुरविशेषाणां हन्तारं समुद्राधिपम् ॥६३॥

चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम् ।
ऊहुः किंशुकपुष्पाणां समवर्णा हयोत्तमाः॥६४॥

एकवर्णेन सर्वेण ध्वजेन कवचेन च ।
धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत॥६५॥

नानारूपै रत्नचिह्नैर्वरूथरथकार्मुकैः ।
वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत॥६६॥

ये तु पुष्करवर्णस्य तुल्यवर्णा हयोत्तमाः ।
ते रोचमानस्य सुतं हेमवर्णमुदावहन्॥६७॥

योधाश्च भद्रकाराश्च शरदण्डानुदण्डयः ।
श्वेताण्डाः कुटाण्डाभादण्डकेतुं हयाऽवहन्॥६८॥

योधा युद्धक्षमाः भद्रकाराः शोभनक्रियाः शरदण्डः शरप्रकाण्ड इव अनुद‌ण्डिः पृष्ठवंशो येषां सितगौरपृष्टा इत्यर्थः ॥६८॥

केशवेन हते संख्ये पितर्यथ नराधिपे ।
भिन्ने कपाटे पाण्ड्यानां विद्रुतेषु च बन्धुषु॥६९॥

कपाटे नगरविशेषे ॥६९॥

भीष्मादवाप्य चास्त्राणि द्रोणाद्रामात् कुपात् तथा ।
अस्त्रैः समत्वं संप्राप्य रुक्मिकर्णार्जुनाच्युतैः॥७०॥

इयेष द्वारकां हन्तुं कृत्स्नां जेतुं च मेदिनीम् ।
निवारितस्ततः प्राज्ञैः सहृद्भिर्हितकाम्यया॥७१॥

वैरानुबन्धमुत्सृज्य स्वराज्यमनुशास्ति यः ।
ससागरध्वजः पाण्ड्यश्चन्द्ररश्मिनिभैर्हयैः॥७२॥

वैडूर्यजालसंछन्नैर्वीर्यद्रविणमाश्रितः ।
दिव्यं विस्फारयंश्चापं द्रोणमभ्यद्रवद्बली॥७३॥

आटरूषकवर्णाभा हयाः पाण्ड्यानुयायिनाम् ।
अवहन् रथमुख्यानामयुतानि चतुर्द‌श॥७४॥

आटरूषकवर्णाभाः आटरूषकस्य वासकस्य कुसुमं तद्वर्णसदृशवर्णाः ॥७४॥

नानावर्णेन रूपेण नानाकृतिमुखा हयाः ।
रथचक्रध्वजं वीरं घटोत्कचमुदावहन्॥७५॥

भारतानां समेतानामुत्सृज्यैको मतानि यः ।
गतो युधिष्ठिरं भक्त्या त्यक्त्वा सर्वमभीप्सितम्॥७६॥

यो बृहन्तः ॥७६॥

लोहिताक्षं महाबाहुं बृहन्तं तमरट्टजाः ।
महासत्वा महाकायाः सौवर्णस्यन्दने स्थितम्॥७७॥

हया अवहन् इति पूर्वस्मादनुकृष्यते ॥७७॥

सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम् ।
राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः॥७८॥

सुवर्णवर्णा इति पूर्वोत्तरान्वयि ॥७८॥

वर्णैरुच्चावचैरन्यैः सदश्वानां प्रभद्रकाः ।
संन्यवर्तन्त युद्धाय बहवो देवरूपिणः॥७९॥

ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः ।
प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः॥८०॥

अत्यरोचत तान् सर्वान् धृष्टद्युम्नः समागतान् ।
सर्वाण्यति च सैन्यानि भारद्वाजो व्यरोचतः॥८१॥

अतीव शुशुभे तस्य ध्वजः कुष्णाजिनोत्तरः ।
कमण्डलुर्महाराज जातरूपमयः शुभः॥८२॥

ध्वजं तु भीमसेनस्य वैढूर्यमणिलोचनम् ।
भ्राजमानं महासिंहं राजन्तं दृष्टवानहम्॥८३॥

ध्वजं तु कुरुराजस्य पाण्डवस्य महौजसः ।
दृष्टवानस्मि सौवर्णं सोमं ग्रहगणान्वतम्॥८४॥

नन्दोपनन्दकौ नाम्ना ॥८४॥

मृदङ्गौ चात्र विपुलौ दिव्यौ नन्दोपनन्दकौ ।
यन्त्रेणाहन्यमानौ च सुस्वनौ हर्षवर्धनौ॥८५॥

शरभं पृष्ठसौवर्णं नकुलस्य महाध्वजम् ।
अपश्याम रथेऽत्युग्रं भीषयाणमवस्थितम्॥८६॥

हंसस्तु राजतः श्रीमान् ध्वजे घण्टापताकवान् ।
सहदेवस्य दुर्धर्षो द्विषतां शोकवर्धनः॥८७॥

पञ्चानां द्रौपदेयानां प्रतिमाध्वजभूषणम् ।
धर्ममारुतशक्राणामश्विनोश्च महात्मनोः॥८८॥

अभिमन्योः कुमारस्य शार्ङ्गपक्षी हिरण्मयः ।
रथे ध्वजवरो राजंस्तप्तचामीकरोज्ज्वलः॥८९॥

घटोत्कचस्य राजेन्द्र ध्वजे गृध्रो व्यरोचत ।
अश्वाश्च कामगास्तस्य रावणस्य पुरा यथा॥९०॥

माहेन्द्रं च धनुर्दिव्यं धर्मराजे युधिष्ठिरे ।
वायव्यं भीमसेनस्य धनुर्दिव्यमभून्नृप॥९१॥

त्रैलोक्यरक्षणार्थाय ब्रह्मणा सृष्टमायुधम् ।
तद्दिव्यमजरं चैव फाल्गुनार्थाय वै धनुः॥९२॥

वैष्णवं नकुलायाथ सहदेवाय चाश्विजम् ।
घटोत्कचस्य पौलस्त्यं धनुर्दिव्यं भयानकम्॥९३॥

रौद्रमाग्नेयकौबेरं याम्यं गिरिशमेव च ।
पञ्चानां द्रौपदेयानां धनूरत्नानि भारत॥९४॥

रौद्रं धनुर्वरं श्रेष्ठं लेभे यद्रोहिणीसुतः ।
तत् तुष्टः प्रददौ रामः सौभद्राय महात्मने॥९५॥

एते चान्ये च बहवो ध्वजा हेमविभूषिताः ।
तत्रादृश्यन्त शूराणां द्विषतां शोकवर्धनाः॥९६॥

तदभूद्ध्वजसंबाधमकापुरुषसेवितम् ।
द्रोणानीकं महाराज पटे चित्रमिवार्पितम्॥९७॥

शुश्रुवुर्नामगोत्राणि वीराणां संयुगे तदा ।
द्रोणमाद्रवतां राजन् स्वयंवर इवाहवे॥९८॥

इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि हयध्वजादिकथने त्रयोविंशोऽध्यायः॥२३॥
चतुर्विंशोऽध्यायः

धृतराष्ट्र उवाच ।
व्यथयेयुरिमे सेनां देवानामपि सञ्जय ।
आहवे ये न्यवर्तन्त वृकोदरमुखा नृपाः॥१॥

व्यथयेयुरिति ॥१॥

संप्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः ।
तस्मिन्नेव च सर्वार्थाः प्रदृश्यन्ते पृथग्विधाः॥२॥

संप्रयुक्तः संबद्धः भवति उत्पद्यते तस्मिन् दिष्ट एव ॥२॥

दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी ।
अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः॥३॥

अत्रोदाहरणमाह दीर्घमिति ॥३॥

स एव महतीं सेनां समावर्तयदाहवे ।
किमन्यद्दैवसंयोगान्मम पुत्रस्य चाभवत्॥४॥

मम पुत्रस्य यदभवद्राज्यम् अर्थात्तदपि दैवसंयोगादित्यनुषङ्गः ॥४॥

युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः ।
स तथा कृष्यते तेन न यथा स्वयमिच्छति॥५॥

द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः ।
स पुनर्भागधेयेन सहायानुपलब्धवान्॥६॥

अद्य मे केकया लब्धाः काशिकाः कोसलाश्च ये ।
चेदयश्चापरे वङ्गा मामेव समुपाश्रिताः॥७॥

पृथिवी भूयसी तात मम पार्थस्य नो तथा ।
इति मामब्रवीत् सूत मन्दो दुर्योधनः पुरा॥८॥

तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः ।
निहतः पार्षतेनाजौ किमन्यद्भागधेयतः॥९॥

मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम् ।
सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान् ॥१०॥

समनुप्राप्तकृच्छ्रोऽहं मोहं परममागतः ।
भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे॥११॥

यन्मां क्षत्ताऽब्रवीत्तात प्रपश्यन् पुत्रगृद्धिनम् ।
दुर्योधनेन तत् सर्वं प्राप्तं सूत मया सह॥१२॥

नृशंसं तु परं तु स्यात्त्यक्त्वा दुर्योधनं यदि ।
पुत्रशेषं चिकीर्षेयं कृत्स्नं न मरणं व्रजेत्॥१३॥

दुर्योधनं त्यक्त्वा यदि पुत्रशेषं चिकीर्षेयं तत्परं केवलं नृशसं स्यात्कृत्स्नं मरणं तु न भवेदित्यन्वयः ॥१३॥

यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः ।
सोऽस्माच्च हीयते लोकात् क्षुद्रभावं च गच्छति॥१४॥

अद्य चाप्यस्य राष्ट्रस्य हतोत्साहस्य सञ्जय ।
अवशेषं न पश्यामि ककुदे मृदिते सति॥१५॥

कथं स्यादवशेषो हि धुर्ययोरभ्यतीतयोः ।
यौ नित्यमुपजीवामः क्षमिणौ पुरुषर्षभौ॥१६॥

व्यक्तमेव च मे शंस यथा युद्धमवर्तत ।
केऽयुध्यन् के व्यपाकुर्वन् के क्षुद्राः प्राद्रवन् भयात्॥१७॥

धनञ्जयं च मे शंस यद्यच्चक्रे रथर्षभः ।
तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च वृकोदरात्॥१८॥

भ्रातृव्यादमित्रात् ॥१८॥

यथाऽऽसीच्च निवृत्तेषु पाण्डवेयेषु सञ्जय ।
मम सैन्यावशेषस्य सन्निपातः सुदारुणः॥१९॥

कथं च वो मनस्तात निवृत्तेष्वभवत् तदा ।
मामकानां च ये शूराः के कांस्तत्र न्यवारयन्॥२०॥

इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि धृतराष्ट्रवाक्ये चतुर्विंशोऽध्यायः॥२४॥
पञ्चविंशोऽध्यायः

सञ्जय उवाच। महद्भैरवमासीन्नः सन्निवृत्तेषु पाण्डुषु ।
दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवांबुदैः॥१॥

महदिति । भीरोर्भावो भैरवं भयमिति यावत् ॥१॥

तैश्चोद्भूतं रजस्तीव्रमवचक्रे चमूं तव ।
ततो हतममंस्याम द्रोणं दृष्टिपथे हते॥२॥

तांस्तु शूरान् महेष्वासान्क्रूरं कर्म चिकीर्षतः ।
दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूवुदत्॥३॥

यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः ।
वारयध्वं यथायोगं पाण्डवानामनीकिनीम्॥४॥

ततो दुर्मर्षणो भीममभ्यगच्छत् सुतस्तव ।
आराद्दृष्ट्वाकिरन् बाणैर्जिघूक्षुस्तस्य जीवितम्॥५॥

तं बाणैरवतस्तार क्रुद्धो मृत्युरिवाहवे ।
तं स भीमोऽतुदद्बाणैस्तदाऽऽसीत्तुमुलं महत्॥६॥

त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः ।
राज्यं मृत्युभयं त्यक्त्वा प्रत्यतिष्ठन् परान्युधि॥७॥

कृतवर्मा शिनेः पौत्रं द्रोणं प्रेप्सुं विशांपते ।
पर्यवारयदायान्तं शूरं समरशोभिनम्॥८॥

तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत् ।
कृतवर्मा च शैनेयं मत्ता मत्तामिव द्विपम्॥९॥

सैन्धवः क्षत्रवर्माणमायान्तं निशितैः शरैः ।
उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत्॥१०॥

क्षत्रवर्मा सिन्धुपतेञ्छित्त्वा केतनकार्मुके ।
नाराचैर्दशभिः क्रुद्धः सर्वमर्मस्वता डयत्॥११॥

अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत् ।
विव्याध क्षत्रवर्माणं रणे सर्वायसैः शरैः॥१२॥

युयुत्सुं पाण्डवार्थाय यतमानं महारथम् ।
सुबाहुर्भारतं शूरं यत्तो द्रोणादवारयत्॥१३॥

सुबाहोः सुधनुर्बाणावस्यतः परिघोपमौ ।
युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ॥१४॥

राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम् ।
वेलेव सागरं क्षुब्धं मद्रराट् समवारयत्॥१५॥

तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत् ।
मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वाऽनदद्भृशम्॥१६॥

तस्य नानदनः केतुमुच्चकर्त च कार्मुकम् ।
क्षुराभ्यां पाण्डवो ज्येष्ठस्तत उच्चुकुशुर्जनाः॥१७॥

तथैव राजा बाल्हीको राजानं द्रुपदं शरैः ।
आद्रवन्तं सहानीकः सहानीकं न्यवारयत्॥१८॥

तद्युद्धमभवद्धोरं वृद्धयोः सह सेनयोः ।
यथा महायूथपयोर्द्धिपयोः संपभिन्नयोः॥१९॥

विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् ।
सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम्॥२०॥

तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम् ।
मत्स्यानां केकयैः सार्धमभीताश्वरथाद्विपम्॥२१॥

उत्पिञ्जलकमत्यन्ताकुलम् ॥२१॥

नाकुालिं तु शतानीकं भूनकर्मा सभापतिः ।
अस्यन्तमिषुजालानि यान्तं द्रोणादरयत्॥२२॥

भूतकर्मासभापतिरिति द्विनामा ॥२२॥

ततो नकुलदायादस्त्रिभिर्भट्टैः सुसंशितैः ।
चक्रे विबाहुशिरसे भूतकर्माणमाहवे॥२३॥

सुतसोमं तु विक्रान्तमायान्तं तं शरौघिणम् ।
द्रोणायाभिमुखं वीरं विविंशतिरवारयत्॥२४॥

सुतसोमस्तु संक्रुद्धः स्वपितृव्यमाजिह्मगैः ।
विविंशतिं शरैर्भित्वा नाभ्यवर्तत दंशितः॥२५॥

अथ भीमरथः शाल्वमाशुगैरायसैः शितैः ।
षङिः साश्वनियन्तारमनयद्यमसादनम्॥२६॥

भीमरथो राजभ्राता ॥२६॥

श्रुतकर्माणमायान्तं मयूरसदृशैहेयैः ।
चैत्रसेनिर्महाराज तव पौत्रं न्यवारयत्॥२७॥

तौ पौत्रौ तव र्धर्षौ परस्परवधैषिणौ ।
पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम्॥२८॥

तिष्ठन्तमग्रे तं दृष्ट्वा प्रतिविन्ध्यं महाहवे ।
द्रौणिर्मानिं पितुः कुर्वन् मार्गणैः समवारयत्॥२९॥

तं क्रुद्धं प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः ।
सिंहलांगूललक्ष्माणं पितुरर्थे व्यवस्थितम्॥३०॥

प्रवपन्निव बीजानि बीजकाले नरर्षभः ।
द्रौणायनिं द्रौपदेयाः शरवर्षैरवाकिरन्॥३१॥

आजुान श्रुतकीर्तिं तु द्रौपदेयं महारथम् ।
द्रोणायाभिमुखं यान्तं दौःशासनिरवारयत्॥३२॥

तस्य कृष्णसमः कार्ष्णिस्त्रिभिर्भल्लैः सुसाशितैः ।
धनुर्ध्वजं च सूतं च छित्त्वा द्रोणान्तिकं ययौ॥३३॥

यस्तु शूरतमो राजन्नुभयोः सेनयोर्मतः ।
तं पटच्चरहन्तारं लक्ष्मणः समवारयत्॥३४॥

स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत ।
लक्ष्मणे शरजालानि विसृजन् बह्वशोभत॥३५॥

विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम् ।
पर्यवारयदायान्तं युवानं समरे युवा॥३६॥

ततस्ताभिषुजालेन याज्ञसेनिः समावृणोत् ।
विधूय तद्बाणजालं बभौ तव सुतोबली॥३७॥

अङ्गदोऽभिमुखं वीरमुत्तमौजसमाहवे ।
द्रोणायाभिमुखं यान्तं शरौघेण न्यवारयत्॥३८॥

स संप्रहारस्तुमुलस्तयोः पुरुषसिंहयोः ।
सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः॥३९॥

दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली ।
द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत्॥४०॥

स दुर्मुखं भ्रुवोर्मध्ये नाराचेनाभ्यताडयत् ।
तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम्॥४१॥

कर्णस्तु केकयान् भ्रातॄन् पञ्च लोहितकध्जान् ।
द्रोणायाभिमुखं यातान् शरवर्षैरवारयत्॥४२॥

ते चैनं भृशसंतप्ताः शरवर्षैरवाकिरन् ।
स च तांश्छादयामास शरजालैः पुनः पुनः॥४३॥

नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः ।
साश्वसूतध्वजरथाः परस्परशराचिताः॥४४॥

पुत्रास्ते दुर्जयश्चैव जयश्च विजयश्च ह ।
नीलकाश्यजयत्सेनांस्त्रयस्त्रीन् प्रत्यवारयन्॥४५॥

तद्युद्धमभवद्घोरमीक्षितृप्रीतिवर्धनम् ।
सिंहव्याघ्रतरक्षूणां यथर्क्षमहिषर्षभैः॥४६॥

क्षेमधूर्तिबृहन्तौ तु भ्रातरौ सात्वतं युधि ।
द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः॥४७॥

तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत् ।
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने॥४८॥

राजानं तु तथाऽम्बष्ठमेकं युद्धाभिनन्दिनम् ।
चेदिराजः शरानस्यन् क्रुद्धो द्रोणादवारयत्॥४९॥

ततोम्बष्ठोऽस्थिमेदिन्या निरभिद्यच्छलाकया ।
स त्यक्त्वा सशरं चापं रथाद्भूमिमुपागमत्॥५०॥

शलाकया शंकृना ॥५०॥

वार्धक्षोमं तु वार्ष्णेयं कृपः शारद्वतः शरैः ।
अक्षुद्रः क्षुद्रकैर्बाणैः क्रुद्धरूपमवारयत्॥५१॥

युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यांश्चित्रयोधिनौ ।
ते युद्धासक्तमनसो नान्यां बुबुधिरे क्रियाम्॥५२॥

सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम् ।
पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन्॥५३॥

स सौमद‌त्तेस्त्वरितश्चित्रेष्वसनकेतने ।
पुनः पताकां सूतं च छत्रं चापातयद्रथात्॥५४॥

अथाप्लुत्य रथात् तूर्णं यूपकेतुरमित्रहा ।
साश्वसूतध्वजरथं तं चकर्त वरासिना॥५५॥

रथं च स्वं समास्थाय धनुरादाय चापरम् ।
स्वयं यच्छन् हयान् राजन् व्यधमत् पाण्डवीं चमूम्॥५६॥

पाण्ड्यामिन्द्रमिवायान्तमसुरान् प्रति दुर्जयम् ।
समर्थः सायकौघेन वृषसेनो न्यवारयत्॥५७॥

गदापरिघनिस्त्रिंशपट्टिशायो घनोपलैः ।
कडङ्गरैर्भुशुण्डीभिः प्रासैस्तोमरसायकैः॥५८॥

अयोघना लगुडाः कडङ्गरैर्दण्डैः ॥५८॥

मुसलैर्मुद्गरैश्चक्रैर्भिन्दिपालपरश्वघैः ।
पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः॥५९॥

आतुदन् प्ररुजन् भञ्जन्निघ्नन् विद्रावयन् क्षिपन् ।
सेनां विभीषयन्नायाद्द्रोणप्रेप्सुर्घटोत्कचः॥६०॥

आनुदन् व्यथयन् । प्ररुजन् विध्यन् । भञ्जन् आमर्दयन् । निघ्नन् मारयन् । विद्रावयन् पलाययन् । क्षिपन् प्रेरयन् ॥६०॥

तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः ।
राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलंवुषः॥६१॥

तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः ।
तादृग्यादृक् पुरावृत्तं शम्बरामरराजयोः॥६२॥

एवं द्वन्द्वशतान्यासन् रथवारणवाजिनाम् ।
पदातीनां च भद्रं ते तव तेषां च संकुले॥६३॥

नैनादृशो दृष्टपूर्वः संग्रामो नैव च श्रुतः ।
द्रोणस्याभावभावे तु प्रसक्तानां यथाऽभवत्॥६४॥

अभावभावे मारणे रक्षणे च ॥६४॥

इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो ।
तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च॥६५॥

इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वन्द्वयुद्धे पञ्चविंशोऽध्यायः॥२५॥
षड्विंशोऽध्यायः

धृतराष्ट्र उवाच। तेष्वेवं सन्निवृत्तेषु प्रत्युद्यातेषु भागशः ।
कथं युयुधिरे पार्था मामकाश्च तरस्विनः॥१॥

तेष्विति ॥१॥

किमर्जुनश्चाप्यकरोत् संशप्तकबलं प्रति ।
संशप्तका वा पार्थस्य किमकुर्वत सञ्जय॥२॥

सञ्जय उवाच। तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः ।
स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः॥३॥

स नाग इव नागेन गोवृषेणेव गोवृषः ।
समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत्॥४॥

स युद्धकुशलः पार्थो बाहुर्वार्येण चान्वितः ।
अभिनत् कुञ्जरानीकमचिरेणैव मारिष॥५॥

ते गजा गिरिसंकाशाः क्षरन्तः सर्वतो मदम् ।
भीमसेनस्य नाराचैर्विमुखा विमदीकृताः॥६॥

विधमेदभ्रजालानि यथा वायुः समुद्धतः ।
व्यधमत्तान्यनीकानि तथैव पवनात्मजः॥७॥

स तेषु विसृजन्बाणान् भीमो नागेष्वशोभत ।
भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः॥८॥

ते भीमबाणाभिहताः संस्यूता विबभुर्गजाः ।
गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः॥९॥

तथा गजानां कदनं कुर्वाणमनिलात्मजम् ।
क्रुद्धो दुर्योधनोभ्येत्य प्रत्यविध्यच्छितैः शरैः॥१०॥

ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः ।
क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः॥११॥

स शराचितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् ।
नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निवः॥१२॥

तस्य नागं मणिमयं रत्नचित्रध्वजे स्थितम् ।
मल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः॥१३॥

दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष ।
चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः॥१४॥

तमापतन्तं नागेन्द्रमम्बुदप्रतिमस्वनम् ।
कुंभान्तरे भामसेनो नाराचैरार्दयद्भृशम्॥१५॥

तस्य कायं विनिर्भिद्य न्यमज्जद्धरणीतले ।
ततः पपात द्विरदो वज्राहत इवाचलः॥१६॥

तस्यावर्जितनागस्य म्लेच्छस्याधः पतिष्यतः ।
शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः॥१७॥

आवर्जितः पतनप्रवणो नागो यस्य ॥१७॥

तस्मिन्निपतिते वीरे संप्राद्रवत साचमूः ।
संभ्रान्ताश्वद्विपरथा पदातीनवमृद्नती॥१८॥

तेष्वनीकेषु भग्नेषु विद्रवत्सु समंततः ।
प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत्॥१९॥

येन नागेन मघवानजयद्दैत्यदानवान् ।
तदन्वयेन नागेन भीमसेनमुपाद्रवत्॥२०॥

स नागप्रवरो भीमं सहसा समुपाद्रवत् ।
चरणाभ्यामथो द्वाभ्यां संहतेन करेण च॥२१॥

व्यावृत्तनयनः कुद्धः प्रमथन्निव पाण्डवम् ।
वृकोदररथं साश्वमविशेषमचूर्णयत्॥२२॥

पद्भ्यां भीमोऽप्यथो धावंस्तस्य गात्रेष्वलीयत ।
जानन्नञ्जलिकावेधं नापाक्रामत पाण्डवः॥२३॥

गात्राभ्यन्तरगो भूत्वा करेणाताडयन्मुहुः ।
लालयामास तं नागं वधाकाङ्क्षिणमव्ययम्॥२४॥

कुलालचक्रवन्नागस्तदा तूर्णमथाभ्रमत् ।
नागायुतबलः श्रीमान् कालयानो वृकोदरम्॥२५॥

भीमोऽपि निष्क्रम्य ततः सुप्रतीकाग्रतोऽभवत् ।
भीमं करेणावनम्य जानुभ्यामभ्यताडयत्॥२६॥

ग्रीवायां वेष्टयित्वैनं स गजो हन्तुमैहत ।
करवेष्टं भीमसेनो भ्रमं दत्त्वा व्यमोचयत्॥२७॥

पुनर्गात्राणि नागस्यः प्रविवेश वृकोदरः ।
यावत्प्रतिगजायातं स्वबले प्रत्यवैक्षत॥२८॥

भीमोऽपि नागगात्रेभ्यो विनिःसृत्यापयाज्जवात् ।
ततः सर्वस्य सैन्यस्य नादः समभवन्महान्॥२९॥

संहतेन सङ्कुचितेन ॥२९॥

अहो धिडिहतो भीमः कुञ्जरेणेति मारिष ।
तेन नागेन सन्त्रस्ता पाण्डवानामनीकिनी॥३०॥

सहसाऽभ्यद्रवद्राजन् यत्र तस्थौ वृकोदरः ।
ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम्॥३१॥

भगदत्तं सपाञ्चाल्यः सर्वतः समवारयत् ।
तं रथं रथिनां श्रेष्ठाः परिवार्य परंतपाः॥३२॥

अवाकिरन् शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः ।
सविघातं पृषत्कानामङ्कुशेन समाहरन्॥३३॥

गजेन पाण्डुपञ्चालान् व्यधमत् पर्वतेश्वरः ।
तद‌द्भुतमपश्याम भगद‌त्तस्य संयुगे॥३४॥

तथा वृद्धस्य चरितं कुञ्जरेण विशांपते ।
ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत्॥३५॥

तिर्यग्यातेन नागेन समदेनाशुगामिना ।
तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः॥३६॥

तिर्यग्यातेन पार्श्वतोगामिना ॥३६॥

सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा ।
प्राग्ज्योतिषपतेर्नागः सन्निवृत्यापसृत्य च॥३७॥

पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत् ।
तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः॥३८॥

जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् ।
व्यवच्छिद्य तु राजानं भगदत्तं युधिष्ठिरः॥३९॥

व्यवच्छिद्य बिद्ध्वा ॥३९॥

रथानीकेन महता सर्वतः पर्यवारयत् ।
स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः॥४०॥

पर्वतं वनमध्यस्थो ज्वलन्निव हुताशनः ।
मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम्॥४१॥

किरतां शरवर्षाणि स नागः पर्यवर्तत ।
ततः प्राग्ज्योतिषो राजा परिगृह्य महागजम्॥४२॥

पर्यवर्तत भ्रान्तवान् ॥४२॥

प्रेषयामास सहसा युयुधानरथं प्रति ।
शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः॥४३॥

अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् ।
बृहतः सैन्धवानश्वान् समुत्थाप्याथ सारथिः॥४४॥

समुत्थाप्य स्थिरीकृत्य ॥४४॥

तस्थौ सात्यकिमासाद्य संप्लतस्तं रथं प्रति ।
स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात्॥४५॥

निश्चक्राम ततः सर्वान् परिचिक्षेप पार्थिवान् ।
ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः॥४६॥

तमेकं द्विरदं संख्ये मेनिरे शतशो द्विपान् ।
ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः॥४७॥

ऐरावतस्थेन यथा देवराजेन दानवाः ।
तेषां प्रद्रवतां भीमः पञ्चालानामितस्ततः॥४८॥

गजवाजिकृतः शब्दः सुमहान् समजायत ।
भगदत्तेन समरे काल्यमानेषु पाण्डुषु॥४९॥

प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् ।
तस्याभिद्रवतो वाहान् हस्तमुक्तेन वारिणा॥५०॥

सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः ।
ततस्तमभ्ययात् तूर्णं रुचिपर्वा कृती सुतः॥५१॥

समघ्नञ्छरवर्षेण रथस्थोऽन्तकसन्निभः ।
ततः स रुचिपर्वाणं शरेणानतपर्वणा॥५०॥

सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् ।
तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुतः॥५१॥

चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन् द्विपम् ।
त एनं शरधाराभिर्धाराभिरिव तोयदाः॥५२॥

सिषिचुर्भैरवान्नादान् विनदन्तो जिघांसवः ।
ततः पार्ष्ण्यंकुशाङ्गुष्ठैः कृतिना चोदितो द्विपः॥५५॥

प्रसारितकरः प्रायात् स्तब्धकर्णेक्षणो द्रुतम् ।
सोऽधिष्ठाय पदा वाहान् युयुत्सोः सूतमारुजत्॥५६॥

युयुत्सुस्तु रथाद्राजन्नपात्रामत् त्वरान्वितः ।
ततः पाण्डवयोधास्ते नागराजं शरैर्दुतम्॥५७॥

सिषिचुर्भैरवान्नादान् विनदन्तो जिघांसवः ।
पुत्रस्तु तव संभ्रान्तः सौभद्रस्याप्लुतो रथम्॥५८॥

स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः ।
बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन्॥५९॥

तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः ।
त्रिभिस्त्रिभिर्दौपदेया धृष्टकेतुश्च विव्यधुः॥६०॥

सोऽतियत्नार्पितैर्बाणैराचितो द्विरदो बभौ ।
संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान्॥६१॥

नियन्तुःशिल्पयत्नाभ्यां प्रेरितोऽरिशरार्दितः ।
परिचिक्षेप तान्नागः स रिपून् सव्यदक्षिणम्॥६२॥

गोपाल इव दण्डेन यथा पशुगणान् वने ।
आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः॥६३॥

क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः ।
बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः॥६४॥

स नागराजः प्रवराङ्कुशाहतः पुरा सपक्षोऽद्रिवरो यथा नृप ।
भयं तदा रिपुषु समादधद्भृशं वणिग्जनानां क्षुभितो यथार्णवः॥६५॥

ततो ध्वनिर्द्विरदरथाश्वपार्थिवैर्भयाद्द्रवद्भिर्जनितोऽतिभैरवः ।
क्षितिं वियद् द्यां विदिशो दिशस्तथा समावृणोत् पार्थिव संयुगे ततः॥६६॥

वियदाकाशं द्यां स्वर्गम् ॥६६॥

स तेन नागप्रवरेण पार्थिवो भृशं जगाहे द्विषतामनीकिनीम् ।
पुरा सुगुप्तां विबुधैरिवाहवे विरोचनो देववरूथिनीमिव॥६७॥

भृशं ववौ ज्वलनसखोवियद्रजः समावृणोन्मुहुरपि चैव सैनिकान् ।
तमेकनागं गणशो यथा गजान् समन्ततो द्रुतमथ मेनिरे जनाः॥६८॥

इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि भगदत्तयुद्धे षड्विंशोऽध्यायः॥२६॥
सप्तविंशोऽध्यायः

सञ्जय उवाच। यन्मां पार्थस्य स ङ्ग्रामे कर्माणि परिपृच्छसि ।
तच्छ्रुणुष्व महाबाहो पार्थो यदकरोद्रणे॥१॥

यदिति ॥१॥

रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिःस्वनम् ।
भगदत्ते विकुर्वाणे कौन्तेयः कृष्णमब्रवीत्॥२॥

विकुर्वाणे विविधाः क्रिया कुर्वाणे ॥२॥

यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन ।
त्वरमाणो विनिष्क्रान्तो ध्रुवं तस्यैष निःस्वनः॥३॥

इन्द्रादनवरः संख्ये गजयानविशारदः ।
प्रथमो गजयोधानां पृथिव्यामिति मे मतिः॥४॥

स चापि द्विरदश्रेष्ठः सदाऽप्रतिगजो युधि ।
सर्वशस्त्रातिगः संख्ये कृतकर्मा जितक्लमः॥५॥

अप्रतिगज इति छेदः ॥५॥

सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ ।
स पाण्डवबलं सर्वमद्यैको नाशयिष्यति॥६॥

सहः सोढा पचाद्यच् ॥६॥

न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम् ।
त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः॥७॥

दृप्तं संख्ये द्विपबलाद्वयसा चापि विस्मितम् ।
अथैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम्॥८॥

विस्मितं रूढाहङ्कारम् ॥८॥

वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः ।
दीर्यते भगदत्तेन यत्र पाण्डववाहिनी॥९॥

तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः ।
संशप्तकाः समारोहन् सह‌स्राणि चतुर्दश॥१०॥

समारोहन् संवृतवन्तः ॥१०॥

दशैव तु सहस्राणि त्रिगर्तानां महारथाः ।
चत्वारि च सहस्त्राणि वासुदेवस्य चानुगाः॥११॥

दीर्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष ।
आहूयमानस्य च तैरभवद्दृदयं द्विधा॥१२॥

किं तु श्रेयस्करं कर्म भवेदद्येति चिन्तयन् ।
इह वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम्॥१३॥

तस्य बुद्ध्या विचार्यैवमर्जुनस्य कुरूद्वह ।
अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा॥१४॥

स सन्निवृत्तः सहसा कपिप्रवरकेतनः ।
एको रथसहस्राणि निहन्तुं वासवी रणे॥१५॥

साहि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः ।
अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत्॥१६॥

स तु दोलायमानोऽभूद्द्वैधीभावेन पाण्डवः ।
वधेन तु नराग्र्याणामकरोत् तां मृषा तदा॥१७॥

ततः शतसहस्राणि शराणां नतपर्वणाम् ।
असृजन्नर्जुने राजन् संशप्तकमहारथाः॥१८॥

नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः ।
न हया न रथा राजन् दृश्यन्ते स्म शरैश्चिताः॥१९॥

तदा मोहमनुप्राप्तः सिष्विदे हि जनार्दनः ।
ततस्तान् प्रायशः पार्थो ब्रह्मास्त्रेण निजघ्निवान्॥२०॥

शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः ।
केतवो वाजिनः सूता रथिनश्चापतन् क्षितौ॥२१॥

द्रुमाचलाग्राम्बुधरैः समकायाः सुकल्पिताः ।
हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः॥२२॥

वि विद्धकुथा नागाश्छिन्नभाण्डाः परासवः ।
सारोहास्तु रणे पेतुर्मथिता मार्गणैर्भृशम्॥२३॥

सर्ष्टिप्रासासिनखराः समुद्गरपरश्वधाः ।
विच्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना॥२४॥

बालादित्याग्बुजेन्दूनां तुल्यरूपाणि मारिष ।
संच्छिन्नान्यर्जुनशरैः शिरांस्तुर्व्यां प्रपेदिरे॥२५॥

जज्वालालङ्कता सेना पत्रिभिः प्राणिभोजनैः ।
नानारूपैस्तदाऽमित्रान् क्रुद्धे निघ्नति फाल्गुने॥२६॥

क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव ।
धनञ्जयं भूतगणाः साधु साध्वित्यपूजयन्॥२७॥

दृष्ट्वा तत् कर्म पार्थस्य वासवस्येव माधवः ।
विस्मयं परमं गत्वा प्राञ्जलिस्तमुवाच ह॥२८॥

कर्मैतत् पार्थ शक्रेण यमेन धनदेन च ।
दुष्करं समरे यत् ते कृतमद्येति मे मतिः॥३९॥

युगपच्चैव संग्रामे शतशोऽथ सहस्रशः ।
पतिता एव मे दृष्टाः संशप्तकमहारथाः॥४०॥

संशप्तकांस्ततो हत्वा भूयिष्ठा ये व्यवस्थिताः ।
भगद‌त्ताय याहीति कृष्णं पार्थोऽभ्यनोदयत्॥४२॥

इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि संशप्तकवधे सप्तविंशोऽध्यायः॥२७॥
अष्टाविंशोऽध्यायः

सञ्जय उवाच। यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान् ।
संप्रैषीद्धेमसंछन्नान् द्रोणानीकाय संत्वरन्॥१॥

यियासत इति ॥१॥

तं प्रयान्तं कुरुश्रेष्ठं स्वान् भ्रातॄन् द्रोणतापितान् ।
सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात्॥२॥

ततः श्वेतहयः कृष्णमब्रवीदजितं जयः ।
एष मां भ्रातृभिः सार्धं सुशर्माऽऽह्वयतेऽच्युत॥३॥

दीर्यते चोत्तरेणैव तत् सैन्यं मधुसूदन ।
द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम्॥४॥

किं नु संशप्तकान् हन्मि स्वान् रक्षाम्यहितार्दितान् ।
इति मे त्वं मतं वेत्सि तत्र किं सुकृतं भवेत्॥५॥

एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत् ।
येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयव॥६॥

ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः ।
ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत॥७॥

त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिराशुगैः ।
साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम्॥८॥

ततो भुजगसंकाशां सुशर्मा शक्तिमायसीम् ।
चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम्॥९॥

शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः ।
सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तयत्॥१०॥

तं वासवमिवायान्तं भूरिवर्षं शरौधिणम् ।
राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत्॥११॥

भूरिवर्षमिति वासवविशेषणम् ॥११॥

ततो धनञ्जयो बाणैः सर्वानेव महारथान् ।
आयाद्विनिघ्नन् कौरव्यान् दहन्कक्षमिवानलः॥१२॥

तस्य वेगमसह्यं तं कुन्तीपुत्रस्य धीमतः ।
नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः॥१३॥

संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः ।
सुपर्णपातवद्राजन्नायात् प्राग्ज्योतिषं प्रति॥१३॥

यत्तदानामयज्जिष्णुर्भरतानामपापिनाम् ।
धनुः क्षेमकरं संख्ये द्विषतामश्रुवर्धनम्॥१५॥

तदेव तव पुत्रस्य राजन् दुर्द्यूतदेविनः ।
कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः॥१६॥

आयच्छद्‌गृहीतवान् यदेवार्जुनस्य धनुर्भरतानां क्षेमकरमासीत्तदेव त्वत्पुत्रनिमित्तं क्षत्रक्षयकरमभवदिति वाक्यार्थः ॥१६॥

तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी ।
व्यशीर्यत महाराज नौरिवासाद्य पर्वतम्॥१७॥

ततो दशसहस्राणि न्यवर्तन्त धनुष्मताम् ।
मतिं कृत्वा रणे क्रूरां वीरा जयपराजये॥१८॥

व्यपेतहृदयत्रासा आवब्रुस्तं महारथाः ।
आर्च्छत् पार्थो गुरुं भारं सर्वभारसहो युधि॥१९॥

यथा नलवनं क्रुद्धः प्रभिन्नः षष्टिहायनः ।
मृद्नीयात्तद्वदायस्तः पार्थोऽमृ‌द्नाच्चमूं तव॥२०॥

तस्मिन् प्रमथिते सैन्ये भगदत्तो नराधिपः ।
तेन नागेन सहसा धनञ्जयमुपाद्रवत्॥२१॥

तं रथेन नरव्याघ्रः प्रत्यगृह्णाद्धनञ्जयः ।
स सन्निपातस्तुमुलो बभूव रथनागयोः॥२२॥

कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च ।
सङ्ग्रामे चेरतुर्वीरौ भगद‌त्तधनञ्जयौ॥२३॥

ततो जीमूतसङ्काशान्नागादिन्द्र इव प्रभुः ।
अभ्यवर्षच्छरौघेण भगद‌त्तो धनञ्जयम्॥२४॥

स चापि शरवर्षं तं शरवर्षेण वासविः ।
अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान्॥२५॥

ततः प्राग्ज्योतिषो राजा शरवर्षं निवारयत् ।
शरैर्जघ्ने महाबाहुं पार्थं कृष्णं च मारिष॥२६॥

ततस्तु शरजालेन महताऽभ्यवकीर्य तौ ।
चोदयामास तं नागं वधायाच्युतपार्थयोः॥२७॥

तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम् ।
चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः॥२८॥

संप्राप्तमपि नेयेष परावृत्तं महाद्विपम् ।
सारोहं मृत्युसात् कर्तुं स्मरन् धर्मं धनञ्जयः॥२९॥

स तु नागो द्विपरथान् हयांश्चामृद्य मारिष ।
प्राहिणोन्मृत्युलोकाय ततः कुद्धो धनञ्जयः॥३०॥

इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि भगदत्तयुद्धे अष्टाविंशोऽध्यायः॥२८॥
एकोनत्रिंशोऽध्यायः

धृतराष्ट्र उवाच ।
तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः ।
प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम्॥१॥

तथा क्रुद्ध इति ॥१॥

सञ्जय उवाच। प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ ।
मृत्युदंष्ट्रान्तिकं प्राप्तौ सर्वभूतानि मेनिरे॥२॥

तथा तु शरवर्षाणि पातयत्यनिशं प्रभो ।
गजस्कन्धान्महाराज कृष्णयोः स्यन्दनस्थयोः॥३॥

अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः ।
अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः॥४॥

अग्निस्पर्शसमास्तीक्ष्णा भगत्तेन चोदिताः ।
निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः सुवाससः॥५॥

तस्य पार्थो धनुश्छित्त्वा परिवारं निहत्य च ।
लालयन्निव राजानं भगदत्तमयोधयत्॥६॥

सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान् वै चतुर्दश ।
अप्रेषयत् सव्यसाची द्विधैकैकमथाच्छिनत्॥७॥

ततो नागस्य तद्धर्म व्यधमत् पाकशासनिः ।
शरजालेन महता तद्व्यशीर्यत भूतले॥८॥

शीर्णवर्मा स तु गजः शरैः सुभृशमर्दितः ।
बभौ धारानिपाताक्तो व्यभ्रः पर्वतराडिव॥९॥

ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम् ।
व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत्॥१०॥

ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः ।
विव्याध दशभिस्तूर्णमुत्स्मयन् पर्वतेश्वरम्॥११॥

सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः ।
भगदत्तस्ततः क्रुद्धः पाण्डवस्य जनाधिपः॥१२॥

व्यसृजत्तोमरान् मूर्ध्नि श्वेताश्वस्योन्ननाद च ।
तैरर्जुनस्य समरे किरीटं परिवर्तितम्॥१३॥

परिवृत्तं किरीटं तद्यमयन्नेव पाण्डवः ।
सुदृष्टः क्रियतां लोक इति राजानमब्रवीत्॥१४॥

एवमुक्तस्तु संक्रुद्धः शरवर्षेण पाण्डवम् ।
अभ्यवर्षत् स गोविन्दं धनुरादाय भास्वरम्॥१५॥

तस्य पार्थो धनुश्छित्त्वा तूणीरान् सन्निकृत्य च ।
त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत्॥१६॥

विद्धस्ततोऽतिव्यथितो वैष्णवास्त्रमुदीरयन् ।
अभिमन्त्र्यांकुशं क्रुद्धो व्यसृजत् पाण्डवोरसि॥१७॥

विसृष्टं भगदत्तेन तदस्त्रं सर्वघाति वै ।
उरसा प्रतिजग्राह पार्थं संच्छाद्य केशवः॥१८॥

वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि ।
पद्मकोशविचित्राढ्या सर्वर्तुकुसुमोत्कटा॥१९॥

ज्वलनार्केन्दुवर्णाभा पावकोज्ज्वलपल्लवा ।
तया पद्मपलाशिन्या वातकम्पितपत्रया॥२०॥

शुशुभेऽभ्यधिकं शौरिरतसीपुष्पसन्निभः ।
ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत॥२१॥

अयुध्यमानस्तुरगान् संयन्तास्मीति चानघ ।
इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि॥२२॥

यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे ।
ततस्त्वयैवं कार्यं स्यान्न तत्कार्यं मयि स्थिते॥२३॥

सबाणः सधनुश्चाहं ससुरासुरमानुषान् ।
शक्तो लोकानिमान् जेतुं तच्चापि विदितं तव॥२४॥

ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः ।
शृणु गुह्यमिदं पार्थ पुरा वृत्तं यथाऽनघ॥२५॥

चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः ।
आत्मानं प्रविभज्येह लोकानां हितमादधे॥२६॥

एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता ।
अपरा पश्यति जगत् कुर्वाणं साध्वसाधुनी॥२७॥

एका मूर्तिर्बदरिकाश्रमे नारायणरूपा अपरा परमात्मरूपा ॥२७॥

अपरा कुरुते कर्म मानुषं लोकमाश्रिता ।
शेते चतुर्थी त्वपरा निद्रां वर्षसहस्त्रिकम्॥२८॥

अपरा क्षेत्रज्ञरूपा अपरा जलशायिनी ॥२८॥

याऽसौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम ।
वरार्हेभ्यो वरान् श्रेष्ठांस्तस्मिन् काले ददाति सा॥२९॥

तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा ।
अयाचत वरं यन्मां नरकार्थाय तच्छृणु॥३०॥

देवानां दानवानां च अवध्यस्तनयोऽस्तु मे ।
उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि॥३१॥

एवं वरमहं श्रुत्वा जगत्यास्तनये तदा ।
अमोघमस्त्रं प्रायच्छं वैष्णवं परमं पुरा॥३२॥

अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे ।
नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति॥३३॥

अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः ।
भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा॥३४॥

तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी ।
स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः॥३५॥

तस्मात् प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम् ।
नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष॥३६॥

तन्मया त्वत्कृते चैतदन्यथा व्यपनामितम् ।
विमुक्तं परमास्त्रेण जहि पार्थ महासुरम्॥३७॥

व्यपनामितं स्वार्थे णिच् । व्यपनीतमित्यर्थः ॥३७॥

वैरिणं जहि दुर्धर्षं भगदत्तं सुरद्विषम् ।
यथाऽहं जघ्निवान् पूर्वं हितार्थं नरकं तथा॥३८॥

एवमुक्तस्तदा पार्थः केशवेन महात्मना ।
भगदत्तं शितैर्बाणैः सहसा समवाकिरत्॥३९॥

ततः पार्थो महाबाहुरसंभ्रान्तो महामनाः ।
कुम्भयोरन्तरे नागं नाराचेन समार्पयत्॥४०॥

स समासाद्य तं नागं बाणो वज्र इवाचलम् ।
अभ्यगात् सह पुङ्खेन वल्मीकमिव पन्नगः॥४१॥

स करी भगदत्तेन प्रेर्यमाणो मुहुर्मुहुः ।
न करोति वचस्तस्य दरिद्रस्येव योषिता॥४२॥

योषिता भागुरिमते टाप् ॥४२॥

स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ ।
न‌दन्नार्तस्वनं प्राणानुत्ससर्ज महाद्विपः॥४३॥

ततो गाण्डीवधन्वानमभ्यभाषत केशवः ।
अयं महत्तरः पार्थ पलितेन समावृतः॥४४॥

वलीसंछन्ननयनः शूरः परमदुर्जयः ।
अक्ष्णोरुन्मीलनार्थाय बद्धपट्टो ह्यसौ नृपः॥४५॥

देववाक्यात् प्रचिच्छेद शरेण भृशमर्जुनः ।
छिन्नमात्रेंऽशुके तस्मिन् रुद्धनेत्रो बभूव सः॥४६॥

तमोमयं जगन्मेने भगदत्तः प्रतापवान् ।
ततश्चन्द्रार्धबिम्बेन बाणेन नतपर्वणा॥४७॥

बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः ।
स भिन्नहृद‌यो राजा भगदत्तः किरीटिना॥४८॥

शरासनं शरांश्चैव गतासुः प्रमुमोच ह ।
शिरसस्तस्य विभ्रष्टं पपात च वरांशुकम् ।
नालताडनविभ्रष्टं पलाशं नलिनादिव॥४९॥

स हममाली तपनीयभाण्डात् पपात नागाद्गिरिसन्निकाशात् ।
सुपुष्पितो मारुतवेगरुग्णो महीधराग्रादिव कर्णिकारः॥५०॥

निहत्य तं नरपतिमिन्द्रविक्रमं सखायमिन्द्रस्य तदैन्द्रिराहवे ।
ततोऽपरांस्तव जयकाङ्क्षिणो नरान् बभञ्ज वायुर्बलवान् द्रुमानिव॥५१॥

इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि भगदत्तवधे एकोनत्रिंशोऽध्यायः॥२९॥
त्रिंशोऽध्यायः

सञ्जय उवाच। प्रियमिन्द्रस्य सततं सखायममितौजसम् ।
हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत॥१॥

प्रियमिति ॥१॥

ततो गान्धारराजस्य सुतौ परपुरञ्जयौ ।
अर्देतामर्जुनं सङ्ख्ये भ्रातरौ वृषकाचलौ॥२॥

तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्विनौ ।
अविध्येतां महावेगैर्निशितैराशुगैर्भृशम्॥३॥

वृषकस्य हयान् सूतं धनुश्छत्रं रथं ध्वजम् ।
तिलशो व्यधमत् पार्थः सौबलस्य शितैः शरैः॥४॥

ततोऽर्जुनः शरव्रातैर्नानाप्रहरणैरपि ।
गान्धारानाकुलांश्चक्रे सौबलप्रमुखान् पुनः॥५॥

ततः पञ्चशतान् वीरान् गान्धारानुद्यतायुधान् ।
प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनञ्जयः॥६॥

हताश्वात् तु रथात् तूर्णमवतीर्य महाभुजः ।
आरुरोह रथं भ्रातुरन्यच्च धनुराददे॥७॥

तावेकरथमारूढौ भ्रातरौ वृषकाचलौ ।
शरवर्षेण बीभत्सुमविध्येतां मुहुर्मुहुः॥८॥

स्यालौ तव महात्मानौ राजानौ वृषकाचलौ ।
भृशं विजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव॥९॥

लब्धलक्षौ तु गान्धारावहतां पाण्डवं पुनः ।
निदाघवार्षिकौ मासौ लोकं घर्मांशुभिर्यथा॥१०॥

वर्षशब्दोयमृतुवचनः । निदाघर्तुसंबन्धिनावित्यर्थः । धर्मांशुभिस्तीक्ष्णकिरणैः ॥१०॥

तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ ।
संश्लिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणाऽर्जुनः॥११॥

तौ रथारिंसहसंकाशौ लोहिताक्षौ महाभुजौ ।
राजन् संपेततुर्वीरौ सोदर्यावेकलक्षणौ॥१२॥

तयोर्भूमिं गतौ देहौ रथाद्बन्धुजनप्रियौ ।
यशो दशदिशः पुण्यं गमयित्वा व्यवस्थितौ॥१३॥

दृष्ट्वा विनिहतौ संख्ये मातुलावपलायिनौ ।
भृशं मुमुचुरश्रूणि पुत्रास्तव विशांपते॥१४॥

निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः ।
कृष्णौ संमोहयन्मायां विदधे शकुनिस्ततः॥१५॥

लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः ।
गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः॥१६॥

सकंपनर्ष्टिनखरा मुसलानि परश्वधाः ।
क्षुराः क्षुरप्रनालीका वत्सदन्तास्थिसन्धयः॥१७॥

कम्पना यष्ट्यः । क्षुराः क्षुराकृतिफलकाः । क्षुरप्रास्तूपमध्यफलकाः । नालीका नलिकया क्षेप्याः । वत्सदन्ता गोपोतदन्ताकारफलकाः । अस्थिसन्धयो स्थिमयफलकाः ॥१७॥

चक्राणि विशिखाः प्रासा विविधान्यायुधानि च ।
प्रपेतुः शतशो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति॥१८॥

विशिखाः फणित्राकारफलकाः ॥१८॥

खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचित्रकाः ।
ऋक्षाः शालावृका गृध्राः कपयश्च सरीसृपाः॥१९॥

सृमरा गवयाः चित्रको व्याघ्रभेदः शालावृकाः श्वानः ॥१९॥

विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति ।
संक्रुद्धान्यभ्यधावन्त विविधानि वयांसि च॥२०॥

ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनञ्जयः ।
विसृजन्निषुजालानि सहसा तान्यताडयत्॥२१॥

ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः ।
विरुवन्तो महारावान् विनेशुः सर्वतो हताः॥२२॥

ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति ।
तस्माच्च तमसो वाचः क्रूरा पार्थमभर्त्सयन्॥२३॥

तत् तमो भैरवं घोरं भयकर्तृ महाहवे ।
उत्तमास्त्रेण महता ज्यौतिषेणार्जुनोऽवधीत्॥२४॥

हते तस्मिञ्जलौघास्तु प्रादुरासन् भयानकाः ।
अंभसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः॥२५॥

प्रायुंक्तांभस्ततस्तेन प्रायशोऽस्त्रेण शोषितम् ।
एवं बहुविधा मायाः सौबलस्य कृताः कृताः॥२६॥

जघानास्त्रबलेनाशु प्रहसन्नर्जुनस्तदा ।
तदा हतासु मायासु त्रस्तोऽर्जुनशराहतः॥२७॥

अपायाज्जवनैरश्वैः शकुनिः प्राकृतो यथा ।
ततोऽर्जुनोऽस्त्रविच्छैघ्र्यं दर्शयन्नात्मनोऽरिषु॥२८॥

अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम् ।
सा हन्यमाना पार्थेन तव पुत्रस्य वाहिनी॥२९॥

द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम् ।
द्रोणमेवान्वपद्यन्त केचित् तत्र नरर्षभाः॥३०॥

केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना ।
नापश्याम ततस्त्वेनं सैन्ये वै रजसावृते॥३१॥

एनम् अर्जुनम् ॥३१॥

गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया ।
शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निःस्वनम्॥३२॥

गाण्डीवस्य तु निर्घोषो व्यतिक्रम्यास्पृशद्दिवम् ।
ततः पुनर्दक्षिणतः संग्रामश्चित्रयोधिनाम्॥३३॥

सुयुद्धं चार्जुनस्यासीदहं तु द्रोणमन्वियाम् ।
यौधिष्ठिराभ्यनीकानि प्रहरन्ति ततस्ततः॥३४॥

नानाविधान्यनीकानि पुत्राणां तव भारत ।
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः॥३५॥

तं वासवमिवायान्तं भूरिवर्षं शरौधिणम् ।
महेष्वासा नरव्याघ्रा नोग्रं केचिदवारयन्॥३६॥

ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम् ।
स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः॥३७॥

तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः ।
शलभा इव संपेतुः संवृण्वाना दिशो दश॥३८॥

तुरगं रथिनं नागं पदातिमपि मारिष ।
विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः॥३९॥

न च द्वितीयं व्यसृजत् कुञ्जराश्वनरेषु सः ।
पृथगेकशरा रुग्णा निपेतुस्ते गतासवः॥४०॥

हतैर्मनुष्यैर्द्विरदैश्च सर्वतः शराभिसृष्टैश्च हयैर्निपातितैः ।
तदाऽश्वगोमायुबलाभिनादितं विचित्रमायोधशिरो बभूव तत्॥४१॥

शराभिसृष्टैर्बाणाभिहतैः । आयोधशिरो रणाङ्गनम् ॥४१॥

पिता सुतं त्यजति सुहृद्वरं सुहृत् तथैव पुत्रः पितरं शरातुरः ।
स्वरक्षणे कृतमतयस्तदा जनास्त्यजन्ति वाहानपि पार्थपीडिताः॥४२॥

इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि शुकनिपलायने त्रिंशोऽध्यायः॥३०॥
एकत्रिंशोऽध्यायः

धृतराष्ट्र उवाच। तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण सञ्जय ।
चलितानां द्रुतानां च कथमासीन्मनो हि वः॥१॥

तेष्विति ॥१॥

अनीकानां प्रभग्नानामवस्थानमपश्यताम् ।
दुष्करं प्रतिसन्धानं तन्ममाचक्ष्व सञ्जय॥२॥

सञ्जय उवाच। तथापि तव पुत्रस्य प्रियकामा विशांपते ।
यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः॥३॥

समुद्यतेषु चास्त्रेषु संप्राप्ते च सुधिष्ठिरे ।
अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत्॥४॥

अन्तरं भीमसेनस्य प्रापतन्नमितौजसः ।
सात्यकेश्चैव वीरस्य धृष्टद्युम्नस्य वा विभो॥५॥

अन्तरं छिद्रं प्रापतन् सृतवन्तः ॥५॥

द्रोणं द्रोणमिति क्रूराः पञ्चालाः समचोदयन् ।
मा द्रोणमिति पुत्रास्ते कुरून् सर्वानचोदयन्॥६॥

द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे ।
कुरूणां पाण्डवानां च द्रोणद्यूतमवर्तत॥७॥

यं यं प्रमथते द्रोणः पञ्चालानां रथव्रजम् ।
तत्र तत्र तु पाञ्चाल्यो धृष्टद्युम्नोऽभ्यवर्तत॥८॥

तथा भागविपर्यासैः संग्रामे भैरवे सति ।
वीराः समासदन् वीरान् कुर्वन्तो भैरवं रवम्॥९॥

समासदन् प्रतिगतवन्तः ॥९॥

अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः ।
अकम्पयन्ननीकानि स्मरन्तः क्लेशमात्मनः॥१०॥

ते त्वमर्षवशं प्राप्ता ह्रीमन्तः सत्त्वचोदिताः ।
त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे॥११॥

न्यवर्तन्त भयेभ्यो निवृत्ताः ॥११॥

अयसामिव संपातः शिलानामिव चाभवत् ।
दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम्॥१२॥

न तु स्मरन्ति संग्राममपि वृद्धास्तथाविधम् ।
दृष्टपूर्वं महाराज श्रुतपूर्वमथापि वा॥१३॥

प्राकम्पतेव पृथिवी तस्मिन् वीरावसादने ।
निवर्तता बलौघेन महता भारपीडिता॥१४॥

घूर्णतोऽपि बलौघस्य दिवं स्तब्ध्वेव निःस्वनः ।
अजातशत्रोस्तत्सैन्यमाविवेश सुभैरवः॥१७॥

समासाद्य तु पाण्डूनामनीकानि सहस्रशः ।
द्रोणेन चरता संख्ये प्रभग्नानि शितैः शरैः॥१८॥

तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा ।
पर्यवारयदासाद्य द्रोणं सेनापतिः स्वयम्॥१९॥

तदद्भुतमभूद्युद्धं द्रोणपाञ्चालयोस्तथा ।
नैव तस्योपमा काचिदिति मे निश्चिता मतिः॥२०॥

ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम् ।
शरस्फुलिङ्गश्चापार्चिर्दहन् कक्षमिवानलः॥२१॥

तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान् ।
पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत॥२२॥

नील किं बहुभिर्दग्धैस्तव योधैः शरार्चिषा ।
मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशु माम्॥२३॥

तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम् ।
व्याकोशपद्माभमुखो नीलो विव्याध सायकैः॥२४॥

तेनापि विद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः ।
धनुर्ध्वजं च छत्रं च द्विषतः स न्यकृन्तत॥२५॥

स प्लुतः स्यन्दनात्तस्मान्नीलश्चर्मवरासिभृत् ।
द्रौणायनेः शिरः कायाद्धर्तुमैच्छत् पतत्रिवत्॥२६॥

तस्योन्नतांसं सुनसं शिरः कायात् सकुण्डलम् ।
भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ॥२५॥

संपूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः ।
प्रांशुरुत्पलपत्राभो निहतो न्यपतद्भुवि॥२६॥

ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला ।
आचार्यपुत्रेण हते नीले ज्वलिततेजसि॥२७॥

अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः ।
कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष॥२८॥

दक्षिणेन तु सेनायाः कुरुते कदनं बली ।
संशप्तकावशेषस्य नारायणबलस्य च॥२९॥

इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि नीलवधे एकत्रिंशोऽध्यायः॥३१॥
द्वात्रिंशोऽध्यायः

सञ्जय उवाच। प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः ।
सोऽभ्याहनद्गुरुं षष्ट्या कर्णं च दशभिः शरैः॥१॥

प्रतिघातमिति ॥१॥

तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरजिह्मगैः ।
जीवितान्तमभिप्रेप्सुर्मर्माण्याशु जघान ह॥२॥

आनन्तर्यमभिप्रेप्सुः षड्विंशत्या समार्पयत् ।
कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः॥३॥

षड्भिर्दुर्योधनो राजा तत एनमथाकिरत् ।
भीमसेनोऽपि तान् सर्वान् प्रत्यविध्यन्महाबलः॥४॥

द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः ।
दुर्योधनं द्वादशभिर्द्रौणिमष्टाभिराशुगैः॥५॥

आरावं तुमुलं कुर्वन्नभ्यवर्तत तान् रणे ।
तस्मिन् संत्यजति प्राणान् मृत्युसाधारणीकृते॥६॥

अजातशत्रुस्तान् योधान् भीमं त्रातेत्यचोदयत् ।
ते ययुर्भीमसेनस्य समीपममितौजसः॥७॥

युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ ।
ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः॥८॥

महेष्वासवरैर्गुप्ता द्रोणानीकं बिभित्सवः ।
समापेतुर्महावीर्या भीमप्रभृतयो रथाः॥९॥

तान् प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः ।
महारथानतिबलान् वीरान् समरयोधिनः॥१०॥

बाह्यं मृत्युभयं कृत्वा तावकान् पाण्डवा ययुः ।
सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान्॥११॥

आसीच्छक्त्यसिसंपातो युद्धमासीत्परश्वधैः ।
प्रकृष्टमसियुद्धं च बभूव कटुकोदयम्॥१२॥

कटुकस्य परुषस्योदयो यत्र ॥१२॥

कुञ्जराणां च संपाते युद्धमासीत् सुदारुणम् ।
अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्शिराः॥१३॥

नरो बाणविनिर्भिन्नो रथादन्यश्च मारिष ।
तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः॥१४॥

शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः ।
अपरांश्चापरेऽमृद्नन् वारणाः पतितान्नरान्॥१५॥

विषाणैश्चावनिं गत्वा व्यभिन्दन् रथिनो बहून् ।
नरान्त्रैः केचिदपरे विषाणालग्नसंश्रयैः॥१६॥

अवनिं गत्त्वा अभिहत्य विषाणालग्नसंश्रयैः दन्तलग्नैकदेशैः ॥१६॥

बभ्रमुः समरे नागा मृद्नन्तः शतशो नरान् ।
कार्ष्णायसतनुत्राणान्नराश्वरथकुञ्जरान्॥१७॥

पतितान् पोथयांचक्रुर्द्विपाः स्थूलनलानिव ।
गृध्रपत्राधिवासांसि शयनानि नराधिपाः॥१८॥

गृध्रपक्षाधिवासांसि गृध्रपक्षास्तरणानि ॥१८॥

ह्रीमन्तः कालसंपर्कात् सुदुःखान्यनुशेरते ।
हन्ति स्मात्र पिता पुत्रं रथेनाभ्येत्य संयुगे॥१९॥

पुत्रश्च पितरं मोहान्निर्मर्याद‌मवर्तत ।
रथो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यां निपातितम्॥२०॥

युगार्धं च्छिन्नमादाय प्रदुद्राव तथा हयः ।
सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम्॥२१॥

गजेनाक्षिप्य बलिना रथः संचूर्णितः क्षितौ ।
रथिना ताडितो नागो नाराचेनापतत् अक्षता॥२२॥

सारोहश्चापतद्वाजी गजेनाभ्यहिता भृशम् ।
निर्मर्यादं महद्युद्धमवर्तत सुदारुणम्॥२३॥

हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि ।
प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः॥२४॥

इत्येवमुच्चरन्ति स्म श्रूयन्ते विविधा गिरः ।
नरस्याश्वस्य नागस्य समसज्जत शोणितम्॥२५॥

समसज्जत घनतामगमत् ॥२५॥

उपाशाम्यद्रजो भौमं भीरून् कश्मलमाविशत् ।
चक्रेण चक्रमासाद्य वीरो वीरस्य संयुगे॥२६॥

अतीतेषु पथे काले जहार गदया शिरः ।
आसीत् केशपरामर्शो मुष्टियुद्धं च दारुणम्॥२७॥

अतीतः इषुपथः शरावकाशो यत्र ॥२७॥

नखैर्दन्तैश्च शूराणामद्वीपे द्वीपमिच्छताम् ।
तत्राच्छिद्यत शूरस्य सखङ्गो बाहुरुद्यतः॥२८॥

अद्वीपे निराश्रये द्वीपमाश्रयम् ॥२८॥

सधनुश्चापरस्यापि सशरः सांकुशस्तथा ।
आक्रोशदन्यमन्योऽत्र तथान्यो विमुखोऽद्रवत्॥२९॥

आक्रोशत् आहूतवान् ॥२९॥

अन्यः प्राप्तस्य चान्यस्य शिरः कायाद‌पाहरत् ।
सशब्दमद्रवच्चायः शब्दादन्योऽत्रसद्भृशम्॥३०॥

स्वानन्योऽथ परानन्यो जघान निशितैः शरैः ।
गिरिशृंगोपमश्चात्र नाराचेन निपातितः॥३१॥

मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णवे ।
तथैव रथिनं नागः क्षरन् गिरिरिवारुजन्॥३२॥

क्षरन्मदमिति शेषः । रथिनं तथैव सहाश्वं सहसारथिम् अर्थाद्रथं च पदा आरुजन् भूमौ अभ्यतिष्ठदित्यन्वयः ॥३२॥

अभ्यतिष्ठत् पदा भूमौ सहाश्वं सहसारथिम् ।
शूरान् प्रहरतो दृष्ट्वा कुतास्त्रान् रुधिरोक्षितान्॥३३॥

बहूनप्याविशन्मोहो भीरून् हृदयदुर्बलान् ।
सर्वमाविग्नमभवन्न प्राज्ञायत किंचन॥३४॥

सैन्येन रजसा ध्वस्तं निर्मर्यादमवर्तत ।
ततः सेनापतिः शीघ्रमयं काल इति ब्रुवन्॥३५॥

नित्याभित्वरितानेव त्वरयामास पाण्डवान् ।
कुर्वन्तः शासनं तस्य पाण्डवा बाहुशालिनः॥३६॥

सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति ।
गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत॥३७॥

विभीता अभीता ॥३७॥

इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति ।
ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः॥३८॥

दुर्धर्षस्य द्रोणस्य ॥३८॥

विन्दानुविन्दावावन्त्यौ शल्यश्चैतान्न्यवारयन् ।
ते त्वार्यधर्मसंरब्धा दुर्निवारा दुरासदाः॥३९॥

आर्यधर्मेण संरब्धाः सोद्यमाः ॥३९॥

शरार्ता न जहुर्दोणं पञ्चालाः पाण्डवैः सह ।
ततो द्रोणोतिसंक्रुद्धो विसृजञ्शतशः शरान्॥४०॥

चेदिपञ्चालपाण्डूनामकरोत् कदनं महत् ।
तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष॥४१॥

वज्रसंह्रादसंकाशस्त्रासयन् मानवान् बहून् ।
एतस्मिन्नन्तरे जिष्णुर्जित्वा संशप्तकान्बहून्॥४२॥

अभ्ययात्तत्र यत्रासौ द्रोणः पाण्डून् प्रमर्दति ।
ताञ्छरौघान्महावर्तान् शोणितोदान् महाह्रदान्॥४३॥

तीर्णः संशप्तकान् हत्वा प्रत्यदृश्यत फाल्गुनः ।
तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः॥४४॥

दीप्यमानमपश्याम तेजसा वानरध्वजम् ।
संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः॥४५॥

सपाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत् ।
प्रददाह कुरून् सर्वानर्जुनः शस्त्रतेजसा॥४६॥

युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः ।
तेन बाणसहस्रौघैर्गजाश्वरथयोधिनः॥४७॥

ताड्यमानाः क्षितिं जग्मुर्मुक्तकेशाः शरार्दिताः ।
केचिदार्तस्वनं चक्रुर्विनेशुरपरे पुनः॥४८॥

पार्थबाणहताः केचिन्निपेतुर्विगतासवः ।
तेषामुत्पतितान् कांश्चित् पतितांश्च पराङ्मुखान्॥४९॥

न जघानार्जुनो योधान् योधव्रतमनुस्मरन् ।
ते विकीर्णरथाश्चित्राः प्रायशश्च पराङ्मुखाः॥५०॥

कुरवः कर्ण कर्णेति हाहेति च विचुक्रुशुः ।
तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम्॥५१॥

मामैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम् ।
स भारतरथश्रेष्ठः सर्वभारतहर्षणः॥५२॥

प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वरः ।
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च॥५३॥

शरौघाञ्छरजालेन विदुधाव धनञ्जयः ।
तथैवाधिरथिस्तस्य बाणाञ्ज्वलिततेजसः॥५४॥

विदुधाव खण्डितवान् ॥५४॥

अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजन् शरान् ।
धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः॥५५॥

विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः ।
अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः॥५६॥

तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः ।
ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव॥५७॥

रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन् ।
ता भुजाग्रैर्महावेगा निसृष्टा भुजगोषमाः॥५८॥

दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति ।
ता निकृत्य शरव्रातैस्त्रिभिस्त्रिभिरजिह्मगैः॥५९॥

ननाद बलवान् कर्णः पार्थाय विसृजञ्छरान् ।
अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः॥६०॥

मृत्युसाधारणीकृते मरणतुल्यावस्थाङ्गमितेः ॥६०॥

कर्णादवरजं बाणैर्जघान निशितैः शरैः ।
ततः शत्रुञ्जयं हत्वा पार्थः षद्भिरजिह्मगैः॥६१॥

जहार सद्यो भल्लेन विपाटस्य शिरो रथात् ।
पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना॥६२॥

प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः ।
ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत्॥६३॥

वरासिना कर्णपक्षान् जघान दश पञ्च च ।
पुनस्तु रथमास्थाय धनुरादाय चापरम्॥६४॥

विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः ।
धृष्टद्युम्नोऽप्यसिवरं चर्मचादाय भास्वरम्॥६५॥

जघान चन्द्रवर्माणं बृहत्क्षत्रं च नैषधम् ।
ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम्॥६६॥

आदाय कर्णं विव्याध त्रिसप्तत्या नदन् रणे ।
शैनेयोऽप्यन्यदादाय धनुरिन्दुसमद्युतिः॥६७॥

सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदन् ।
भल्लाभ्यां साधुमुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम्॥६८॥

पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ।
ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः॥६९॥

निमज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात् ।
पत्त्यश्वरथमातङ्गास्त्वदीयाः शतशोऽपरे॥७०॥

कर्णमेवाभ्यधावन्त त्रास्यमानाः प्रहारिणः ।
धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च॥७१॥

नकुलः सहदेवश्च सात्यकिं जुगुपू रणे ।
एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम्॥७२॥

तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः ।
पदातिरथनागाश्वाः गजाश्वरथपत्तिभिः॥७३॥

प्राणांस्त्यक्त्वा युद्ध्यतामिति शेषः ॥७३॥

रथिनो नागपत्त्यश्वै रथपत्ती रथाद्विपैः ।
अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह॥७४॥

संयुक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः ।
एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम् ।
महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम्॥७५॥

अभीतानाम् अभिमुखागतानां भयहीनानां वा ॥७५॥

ततो हता नररथवाजिकुञ्जरैरनेकशो द्विपरथपत्तिवाजिनः ।
गजैर्गजा रथिभिरुदायुधा रथा हयैर्हयाः पत्तिगणैश्च पत्तयः॥७६॥

रथैर्द्धिपा द्विरदवरैर्महाहया हयैर्नरा वररथिभिश्च वाजिनः ।
निरस्तजिह्वादशनेक्षणाः क्षितौ क्षयं गताः प्रमथितवर्मभूषणाः॥७७॥

तथा परैर्बहुकरणैर्वरायुधैर्हता गताः प्रतिभयदर्शनाः क्षितिम् ।
विपोथिता हयगजपादताडिता भृशाकुला रथमुखनेमिभिः क्षताः॥७८॥

बहुकरणैरनेकप्रक्रियैः रथमुखानां रथमुख्यानां नेमिभिश्च क्रान्तैः ॥७८॥

प्रमोदने श्वापदपक्षिरक्षसां जनक्षये वर्तति तत्र दारुणे ।
महाबलास्ते कुपिताः परस्परं निषूदयन्तः प्रविचेरुरोजसा॥७९॥

ततो बले भृशलुलिते परस्परं निरीक्षमाणे रुधिरौघसंप्लुते ।
दिवाकरेऽस्तं गिरिमास्थिते शनैरुभे प्रयाते शिबिराय भारत॥८०॥

इति श्रीमहाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वितीयदिवसावहारे द्वात्रिंशोऽध्यायः॥३२॥
॥समाप्तं संशप्तकवधपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in