सञ्जय उवाच।
पूर्वमस्मासु भग्नेषु फाल्गुनेनामितौजसा
।
द्रोणे च मोघसंकल्पे रक्षिते च युधिष्ठिरे॥१॥
पूर्वमिति ॥१॥
सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः
।
रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश॥२॥
रजस्वला धूलिव्याप्ताः ॥२॥
अवहारं ततः कृत्वा भारद्वाजस्य संमते
।
लब्धलक्षैः शरैर्भिन्ना भृशावहसिता रणे॥३॥
श्लाघमानेषु भूतेषु फाल्गुनस्यामितान् गुणान्
।
केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति॥४॥
अभिशस्ता इवाभूवन् ध्यानमूकत्वमास्थिताः
।
ततः प्रभातसमये द्रोणं दुर्योधनोऽब्रवीत्॥५॥
प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः
।
शृण्वतां सर्वयोधानां संरब्धो वाक्यकोविदः॥६॥
नूनं वयं वध्यपक्षे भवतो द्विजसत्तम
।
तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम्॥७॥
इच्छतस्तेन मुच्येत चक्षुःप्राप्तो रणे रिपुः
।
जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः॥८॥
वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि
।
आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथञ्चन॥९॥
विकृतवान् अन्यथा कृतवान् ॥९॥
ततोऽप्रीतस्तथोक्तः सन् भारद्वाजोऽब्रवीन्नृपम्
।
नार्हसे मां तथा ज्ञातुं घटमानं तव प्रिये॥१०॥
ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः
।
नालं लोका रणे जेतुं पाल्यमानं किरीटिना॥११॥
विश्वसृग्यत्र गोविन्दः पृतनानीस्तथाऽर्जुनः
।
तत्र कस्य बलं क्रामेदन्यत्र त्र्यंबकात् प्रभोः॥१२॥
सत्यं तात ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत्
।
अद्यैकं प्रवरं कञ्चित् पातयिष्ये महारथम्॥१३॥
तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि
।
योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम्॥१४॥
न ह्यज्ञातमसाध्यं वा तस्य संख्येऽस्ति किञ्चन
।
तेन ह्युपात्तं सकलं सर्वज्ञानमितस्ततः॥१५॥
कलाभिः सहितं सकलम् । इतोऽस्मत्तः ततोऽन्यतः ॥१५॥
द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः
।
आह्वयन्नर्जुनं संख्ये दक्षिणामभितो दिशम्॥१६॥
ततोऽर्जुनस्याथ परैः सार्धं समभवद्रणः
।
तादृशो यादृशो नान्यः श्रुतो दृष्टोऽपि वा क्वचित्॥१७॥
तत्र द्रोणेन विहितो व्यूहो राजन् व्यरोचत
।
चरन्मध्यंदिने सूर्यः प्रतपन्निव दुर्दृशः॥१८॥
तं चाभिमन्युर्वचनात् पितुर्ज्येष्ठस्य भारत
।
बिभेद दुर्भिदं संख्ये चक्रव्यूहमनेकधा॥१९॥
स कृत्वा दुष्करं कर्म हत्वा वीरान् सहस्रशः
।
षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः॥२०॥
षट्सु द्रोण-द्रौणि-कृप-कर्ण-भोज-शल्येषु ॥२०॥
सौभद्रः पृथिवीपाल जहौ प्राणान् परन्तपः
।
वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः
।
सौभद्रे निहते राजन्नवहारमकुर्महि॥२१॥
धृतराष्ट्र उवाच।
पुत्रं पुरुषसिंहस्य सञ्जयाप्राप्तयौवनम्
।
रणे विनिहतं श्रुत्वा भृशं में दीर्यते मनः॥२२॥
दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः
।
यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन्॥२३॥
धर्मकर्तृभिर्मन्वादिभिः ॥२३॥
बालमत्यन्तसुखिनं विचरन्तमभीतवत्
।
कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम्॥२४॥
बिभित्सता रथानीकं सौभद्रेणामितौजसा
।
विक्रीडितं यथा संख्ये तन्ममाचक्ष्व सञ्जय॥२५॥
सञ्जय उवाच।
यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम्
।
तत् ते कार्त्स्न्येन वक्ष्यामि शृणु राजन् समाहितः॥२६॥
विक्रीडितं कुमारेण यथानीकं बिभित्सता
।
आरुग्णाश्च यथा वीरा दुःसाध्याश्चापि विप्लवे॥२७॥
दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे
।
वनौकसामिवारण्ये त्वदीयानामभूद्भयम्॥२८॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि अभिमन्युवधसंक्षेपकथने त्रयस्त्रिंशोऽध्यायः॥३३॥
सञ्जय उवाच।
समरेऽत्युग्रकर्माणः कर्मभिर्व्यञ्जितश्रमाः
।
सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः॥१॥
समर इति ॥१॥
सत्त्वकर्मान्वयैर्बुद्ध्या कीर्त्या च यशसा श्रिया
।
नैव भूतो न भविता नैव तुल्यगुणः पुमान्॥२॥
कीर्तिः साधुतयान्यैः कथनम्। यशः परचित्तचमत्कृतो गुणौघः ॥२॥
सत्यधर्मरतो दान्तो विप्रपूजादिभिर्गुणैः
।
सदैव त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः॥३॥
युगान्ते चान्तको राजन् जामदग्न्यश्च वीर्यवान्
।
रथस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः॥४॥
प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः
।
उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ॥५॥
गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः
।
नकुलेऽप्रातिरूप्यं च शौर्यं च नियतानि षट्॥६॥
नैभृत्यं कृतकर्तव्याप्रकाशनम् । अप्रातिरूप्यं सौन्दर्यम् ॥६॥
श्रुत-गाम्भीर्य-माधुर्य-सत्य-रूप-पराक्रमैः
।
सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः॥७॥
ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः
।
अभिमन्यौ किलैकस्था दृश्यन्ते गुणसञ्चयाः॥८॥
युधिष्ठिरस्य वीर्येण कृष्णस्य चरितेन च
।
कर्मभिर्भीमसेनस्य सदृशो भीमकर्मणः॥९॥
धनञ्जयस्य रूपेण विक्रमेण श्रुतेन च
।
विनयात् सहदेवस्य सदृशो नकुलस्य च॥१०॥
धृतराष्ट्र उवाच
।
अभिमन्युमहं सूत सौभद्रमपराजितम्
।
श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः॥११॥
सञ्जय उवाच।
स्थिरो भव महाराज शोकं धारय दुर्धरम्
।
महान्तं बन्धुनाशं ते कथयिष्यामि तच्छृणु॥१२॥
चक्रव्यूहो महाराज आचार्येणाभिकल्पितः
।
तत्र शक्रोपमाः सर्वे राजानो विनिवेशिताः॥१३॥
आरास्थानेषु विन्यस्ताः कुमाराः सूर्यवर्चसः
।
संघातो राजपुत्राणां सर्वेषामभवत् तदा॥१४॥
कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः
।
रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः॥१५॥
सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः
।
चन्दनागुरुदिग्धाङ्गाः स्रग्विणः सूक्ष्मवाससः॥१६॥
सहिताः पर्यधावन्त कार्ष्णिं प्रति युयुत्सवः
।
तेषां दशसहस्त्राणि बभूवुर्दृढधन्विनाम्॥१७॥
पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम्
।
अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः॥१८॥
अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः
।
दुर्योधनस्तु राजेन्द्र सैन्यमध्ये व्यवस्थितः॥१९॥
कर्ण-दुःशासन-कृपैर्वृतो राजा महारथैः
।
देवराजोपमः श्रीमाञ्छ्वेतच्छत्राभिसंवृतः॥२०॥
चामरव्यजनाक्षेपैरुदयन्निव भास्करः
।
प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायकः॥२१॥
प्रमुखऽग्रे सैन्यस्य नायको द्रोणः । अवस्थितेतिच्छन्दोनुरोधाद्विसर्गलोपः ॥२१॥
सिन्धुराजस्तथाऽतिष्ठच्छ्रीमान्मेरुरिवाचलः
।
सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः॥२२॥
सुतास्तव महाराज त्रिंशत्त्रिदशसन्निभाः
।
गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा॥२३॥
पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः
।
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्॥२४॥
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम्॥२५॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि चक्रव्यूहनिर्माणे चतुस्त्रिंशोऽध्यायः॥३४॥
सञ्जय उवाच।
तदनीकमनाधृष्यं भारद्वाजेन रक्षितम्
।
पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः॥१॥
तदनीकमिति ॥१॥
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः
।
कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः॥२॥
आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान्
।
चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः॥३॥
युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः
।
उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः॥२॥
द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान्
।
केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः॥५॥
एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः
।
समभ्यधावन् सहसा भारद्वाजं युयुत्सवः॥६॥
समीपे वर्तमानांस्तान् भारद्वाजोऽतिवीर्यवान्
।
असंभ्रान्तः शरौघेण महता समवारयत्॥७॥
महौघः सलिलस्येव गिरिमासाद्य दुर्भिदम्
।
द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः॥८॥
पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः
।
न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः॥९॥
तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम्
।
यदेनं नाभ्यवर्तन्त पञ्चालाः सृञ्जयैः सह॥१०॥
तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः
।
बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम्॥११॥
अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः
।
अविषह्यं गुरुं भारं सौभद्रे समवासृजत्॥१२॥
वासुदेवादनवरं फाल्गुनाच्चामितौजसम्
।
अब्रवीत् परवीरघ्नमभिमन्युमिदं वचः॥१३॥
एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु
।
चक्रव्यूहस्य न वयं विद्मो भेदं कथञ्चन॥१४॥
त्वं वाऽर्जुनो वा कृष्णो वा भिन्द्यात् प्रद्युम्न एव वा
।
चक्रव्यूहं महाबाहो पञ्चमरे नोपपद्यते॥१५॥
अभिमन्यो वरं तात याचतां दातुमर्हसि
।
पितॄणां मातुलानां च सैन्यानां चैव सर्वशः॥१६॥
मातुलानां सात्यकिप्रभृतीनाम् ॥१६॥
धनञ्जयो हि नस्तात गर्हयेदेत्य संयुगात्
।
क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय॥१७॥
अभिमन्युरुवाच
।
द्रोणस्य दृढमत्युग्रमनीकप्रवरं युधि
।
पितॄणां जयमाकांक्षन्नवगाहेऽविलम्बितम्॥१८॥
उपदिष्टो हि मे पित्रा योगोऽनीकविशातने
।
नोत्सहे हि विनिर्गन्तुमहं कस्यांचिदापदि॥१९॥
योग उपायो युक्तिर्वा ॥१९॥
युधिष्ठिर उवाच
।
भिन्ध्यनीकं युधां श्रेष्ठ द्वारं सञ्जनयस्व नः
।
वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि॥२०॥
धनञ्जयसमं युद्धे त्वां वयं तात संयुगे
।
प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः॥२१॥
प्रणिधाय प्रविश्य ॥२१॥
भीम उवाच
।
अहं त्वाऽनुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः
।
पञ्चालाः केकया मत्स्यास्तथा सर्वे प्रभद्रकाः॥२२॥
सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः
।
वयं प्रध्वंसयिष्यामो निघ्नमाना वरान् वरान्॥२३॥
अभिमन्युरुवाच
।
अहमेतत् प्रवेक्ष्यामि द्रोणानीकं दुरासदम्
।
पतङ्ग इव संक्रुद्धो ज्वलितं जातवेदसम्॥२४॥
तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः
।
मातुलस्य च यत्प्रीतिं करिष्यति पितुश्च मे॥२५॥
शिशुनैकेन संग्रामे काल्यमानानि संघशः
।
द्रक्ष्यन्ति सर्वभूतानि द्विषत्सैन्यानि वै मया॥२६॥
नाहं पार्थेन जातः स्यां न च जातः सुभद्रया
।
यदि मे संयुगे कश्चिज्जीवितो नाद्य मुच्यते॥२७॥
यदि चैकरथेनाहं समग्रं क्षत्रमण्डलम्
।
न करोम्यष्टधा युद्धे न भवाम्यर्जुनात्मजः॥२८॥
युधिष्ठिर उवाच
।
एवं ते भाषमाणस्य बलं सौभद्र वर्धताम्
।
यत्समुत्सहसे भेत्तुं द्रोणानीक दुरासदम्॥२९॥
रक्षितं पुरुषव्याघ्रैर्महेष्वासैर्महाबलैः
।
साध्यरुद्रमरुत्तुल्यैर्वस्वग्न्यादित्यविक्रमैः॥३०॥
सञ्जय उवाच।
तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत्
।
सुमित्राश्वान् रणे क्षिप्रं द्रोणानीकाय चोदय॥३१॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि अभिमन्युप्रतिज्ञायां पञ्चत्रिंशोऽध्यायः॥३५॥
सञ्जय उवाच।
सौभद्रस्तद्वचः श्रुत्वा धर्मराजस्य धीमतः
।
अचोदयत यन्तारं द्रोणानीकाय भारत॥१॥
सौभद्र इति ॥१॥
तेन सञ्चोद्यमानस्तु याहि याहीति सारथिः
।
प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः॥२॥
अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः
।
संप्रधार्थ क्षणं बुद्ध्या ततस्त्वं योद्धुमर्हसि॥३॥
आचार्यो हि कृती द्रोणः परमास्त्र कृतश्रमः
।
अत्यन्तसुखसंवृद्धस्त्वं चायुद्धविशारदः॥४॥
ततोऽभिमन्युः प्रहसन् सारथिं वाक्यमब्रवीत्
।
सारथे को न्वयं द्रोणः समग्रं क्षत्रमेव वा॥५॥
ऐरावतगतं शक्रं सहामरगणैरहम्
।
अथवा रुद्रमीशानं सर्वभूतगणार्चितम्
।
योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः॥६॥
न ममैतद्द्विषत्सैन्यं कलामर्हति षोडशीम्
।
अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज॥७॥
पितरं चार्जुनं युद्धे न भीर्मामुपयास्यति
।
अभिमन्युश्च तां वाचं कदर्थीकृत्य सारथेः॥८॥
याहीत्येवाब्रवीदेनं द्रोणानीकाय मा चिरम्
।
ततः सन्नोदयामास हयानाशु त्रिहायनान्॥९॥
नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान्
।
ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः॥१०॥
द्रोणमभ्यद्रवन् राजन् महावेगपराक्रमम्
।
तमुदीक्ष्य तथा यान्तं सर्वे द्रोणपुरोगमाः
।
अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः॥११॥
स कर्णिकारप्रवरोच्छ्रितध्वजः सुवर्णवर्मार्जुनिरर्जुनाद्वरः
।
युयुत्सया द्रोणमुखान् महारथान् समासदत्सिंहशिशुर्यथा द्विपान्॥१२॥
ते विंशतिपदे यत्ताः संप्रहारं प्रचक्रिरे
।
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधाविव॥१३॥
विंशतिरिति व्यूहपर्यायः । तदुक्तम् - ‘विंशत्यंगतया व्यूहो विंशतिर्व्यपदिश्यते’ इति । विंशतेः पदे रक्षणे । ‘पदं व्यवसितत्राणस्थानलक्ष्मांघ्रिवस्तुषु’ इत्यमरः ॥१३॥
शूराणां युध्यमानानां निघ्नतामितरेतरम्
।
संग्रामस्तुमुलो राजन् प्रावर्तत सुदारुणः॥१४॥
प्रवर्तमाने संग्रामे तस्मिन्नतिभयंकरे
।
द्रोणस्य मिषतो व्यूहं भित्त्वा प्राविशदार्जुनिः॥१५॥
तं प्रविष्टं विनिघ्नन्तं शत्रुसंघान्महाबलम्
।
हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदायुधाः॥१६॥
नानावादित्रनिनदैः क्ष्वेडितोत्कृष्टगर्जितैः
।
हुंकारैः सिंहनादैश्च तिष्ठ तिष्ठेति निःस्वनैः॥१७॥
क्ष्वेडितं ध्वनिविशेषः । उत्क्रुष्टमाह्वानं गर्जितं हन्यन्तां हन्यन्तामिति वचः ॥१७॥
घोरैर्हलहलाशब्दैर्मा गास्तिष्ठैहि मामिति
।
असावहममित्रेति प्रवदन्तो मुहुर्मुहुः॥१८॥
बृंहितैः सिञ्जितैहासैः करनेमिस्वनैरपि
।
सन्नादयन्तो वसुधामभिदुद्रुवुरार्जुनिम्॥१९॥
तेषामापततां वीरः शीघ्रयोधी महाबलः
।
क्षिप्रास्त्रो न्यवधीद्राजन् मर्मज्ञो मर्मभेदिभिः॥२०॥
ते हन्यमाना विवशा नानालिङ्गैः शितैःशरैः
।
अभिपेतुः सुबहुशः शलभा इव पावकम्॥२१॥
ततस्तेषां शरीरैश्च शरीरावयवैश्च सः
।
सन्तस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे॥२२॥
बद्धगोधाङ्गुलित्राणान्सशरासनसायकान्
।
सासिचर्मांकुशाभीषून् सतोमरपरश्वधान्॥२३॥
सगदायोगुडप्रासान् सर्ष्टितोमरपट्टिशान्
।
समिंदिपालपरिघान् सशक्तिवरकम्पनान्॥२४॥
सप्रतोदमहाशंखान् सकुन्तान् सकचग्रहान्
।
समुद्गरक्षेपणीयान् सपाशपरिघोपलान्॥२५॥
कचग्रहोङ्कुशः ॥२५॥
सकेयूराङ्गदान् बाहून् हृद्यगन्धानुलेपनात्
।
सञ्चिच्छेदार्जुनिस्तूर्णं त्वदीयानां सहस्रशः॥२६॥
तैः स्फुरद्भिर्महाराज शुशुभे भूः सुलोहितैः
।
पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष॥२७॥
सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः
।
संदष्टौष्ठपुटैः क्रोधात् क्षरद्भिः शोणितं बहु॥२८॥
स चारुमुकुटोष्णीषैर्मणिरत्नविभूषितैः
।
विनालनलिनाकारैर्दिवाकरशशिप्रभः॥२९॥
हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः
।
द्विषच्छिरोभिः पृथिवीं स वै तस्तार फाल्गुनिः॥३०॥
गन्धर्वनगराकारान् विधिवत् कल्पितान् रथान्
।
वीषामुखान् द्वित्रिवेणून् न्यस्तदण्डकबन्धुरान्॥३१॥
विजंघाकूबरांस्तत्र विनेमिदशनानपि
।
विचक्रोपस्करोपस्थान् भग्नोपकरणानपि॥३२॥
उपस्थो रथक्रोडः ॥३२॥
प्रपातितोपस्तरणान् हतयोधान् सहस्रशः
।
शरैर्विशकलीकुर्वन् दिक्षु सर्वास्वदृश्यत॥३३॥
पुनर्द्विपान् द्विपारोहान्वैजयन्त्यंकुशध्वजान्
।
तूणान् वर्माण्यथो कक्ष्या ग्रैवेयांश्च सकंबलान्॥३४॥
घण्टाः शुण्डाविषाणाग्रान् छत्रमालाः पदानुगान्
।
शरैर्निशितधाराग्रैः शात्रवाणामशातयत्॥३५॥
वनायुजान् पार्वतीयान् काम्बोजानथ बाल्हिकान्
।
स्थिरवालधिकर्णाक्षान् जवनान् साधुवाहिनः॥३६॥
आरूढान् शिक्षितैर्योधैः शक्त्यृष्टिप्रासयोधिभिः
।
विध्वस्तचामरमुखान् विप्रविद्धप्रकीर्णकान्॥३७॥
निरस्तजिह्वानयनान्निष्कीर्णान्त्रयकृद्धनान्
।
हतारोहांच्छिन्नघण्टान् क्रव्यादगणमोदकान्॥३८॥
यकृत्कालखण्डम् ॥३८॥
निकृत्तचर्मकवचान् शकृन्मूत्रासृगाप्लुतान्
।
निपातयन्नश्ववरांस्तावकान् स व्यरोचत॥३९॥
एको विष्णुरिवाचिन्त्यं कृत्वा कर्म सुदुष्करम्
।
तथा निर्मथितं तेन त्र्यङ्गं तव बलं महत्॥४०॥
यथाऽसुरबलं घोरं त्र्यम्बकेन महौजसा
।
कृत्वा कर्म रणेऽसह्यं परैरार्जुनिराहवे॥४१॥
अभिनच्च पदात्योघांस्त्वदीयानेव सर्वशः
।
एवमेकेन तां सेनां सौभद्रेण शितैः शरैः॥४२॥
भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम्
।
त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश॥४३॥
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना रोमहर्षिणः
।
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये॥४४॥
गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः
।
हतान् पुत्रान् पितॄन् भ्रातॄन् बंधून् संबन्धिनस्तथा॥४५॥
प्रातिष्ठन्त समुत्सृस्य त्वरयन्तो हयद्विपान्॥४६॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि अभिमन्युपराक्रमे षट्त्रिंशोऽध्यायः॥३६॥
सञ्जय उवाच।
तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा
।
दुर्योधनो भृशं कुद्धः स्वयं सौभद्रमभ्ययात्॥१॥
तामिति ॥१॥
ततो राजानमावृत्तं सौभद्रं प्रति संयुगे
।
दृष्ट्वा द्रोणोऽब्रवीद्योधान् परीप्सध्वं नराधिपम्॥२॥
पुराभिमन्युर्लक्षं नः पश्यतां हन्ति वीर्यवान्
।
तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम्॥३॥
ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः
।
त्रास्यमाना भागद्वीरं परिवव्रुस्तवात्मजम्॥४॥
त्रास्यमानाः पालयिष्यन्तः ॥४॥
द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः
।
बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः॥५॥
पौरवो वृषसेनश्च विसृजन्तः शिताञ्छरान्
।
सौभद्रं शरवर्षेण महता समवाकिरन्॥६॥
संमोहयित्वा तमथ दुर्योधनममोचयन्
।
आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः॥७॥
ताञ्छरौघेण महता साश्वसूतान् महारथान्
।
विमुखीकृत्य सौभद्रः सिंहनादमथानदत्॥८॥
तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः
।
नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः॥९॥
त एनं कोष्ठकीकृत्य रथवंशेन मारिष
।
व्यसृजन्निषुजालानि नानालिङ्गानि सङ्घशः॥१०॥
तान्यन्तरिक्षे चिच्छेद पौत्रस्ते निशितैः शरैः
।
तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत्॥११॥
ततस्ते कोपितास्तेन शरैराशीविषोपमैः
।
परिवव्रुर्जिघांसन्तः सौभद्रमपराजितम्॥१२॥
समुद्रमिव पर्यस्तं त्वदीयं तं बलार्णवम्
।
दधारैकोऽर्जुनिर्बाणैर्वेलेव भरतर्षभ॥१३॥
पर्यस्तमुत्क्रान्तमर्यादम् ॥१३॥
शूराणां युध्यमानानां निघ्नतामितरेतरम्
।
अभिमन्योः परेषां च नासीत्कश्चित् पराङ्मुखः॥१४॥
तस्मिंस्तु घोरे संग्रामे वर्तमाने भयंकरे
।
दुःसहो नवभिर्बाणैरभिमन्युमविध्यत॥१५॥
दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः
।
द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः॥१६॥
विविंशतिस्तु सप्तत्या कृतवर्मा च सप्तभिः
।
बृहद्बलस्तथाष्टाभिरश्वत्थामा च सप्तभिः॥१७॥
भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः
।
द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः॥१८॥
स तु तान् प्रति विव्याध त्रिभिस्त्रिभिरजिह्मगैः
।
नृत्यन्निव महाराज चापहस्तः प्रतापवान्॥१९॥
ततोऽभिमन्युः संक्रुद्धस्त्रास्यमानस्तवात्मजैः
।
विदर्शयन् वै सुमहच्छिक्षौरसकृतं बलम्॥२०॥
शिक्षौरसकृतमभ्यासकृतं निसर्गभवं च ॥२०॥
गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः
।
दान्तैरश्मकदायादस्त्वरमाणो ह्यवारयत्॥२१॥
विव्याध दशभिर्बाणैस्तिष्ठ तिष्ठेति चाब्रवीत्
।
तस्याभिमन्युदर्शभिर्हयान् सूतं ध्वजं शरैः॥२२॥
बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत्
।
ततस्तस्मिन् हते वीरे सौभद्रेणाश्मकेश्वरे॥२३॥
सञ्चचाल बलं सर्वं पलायनपरायणम्
।
ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट् शलः॥२४॥
शल्या भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः
।
वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः॥२५॥
वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः
।
दुर्योधनश्च संक्रुद्धः शरवर्षैरवाकिरन्॥२६॥
सोऽतिविद्धो महेष्वासैरभिमन्युरजिह्मगैः
।
शरमादत्त कर्णाय वर्मकायावभेदिनम्॥२७॥
तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चानुगः
।
प्राविशद्धरणीं वेगाद्वल्मीकमिव पन्नगः॥२८॥
स तेनातिप्रहारेण व्यथितो विह्वलन्निव
।
संचचाल रणे कर्णः क्षितिकंपे यथाऽचलः॥२९॥
तथाऽन्यैर्निशितैर्बाणैः सुषेणं दीर्धलोचनम्
।
कुण्डभेदिं च संक्रुद्धस्त्रिभिस्त्रीनवधीद्बली॥३०॥
कर्णस्तं पञ्चविंशत्या नाराचानां समार्पयत्
।
अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः॥३१॥
स शराचितसर्वांगः क्रुद्धः शक्रात्मजात्मजः
।
विचरन् ददृशे सैन्ये पाशहस्त इवान्तकः॥३२॥
शल्यं च शरवर्षेण समीपस्थमवाकिरत्
।
उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन्॥३३॥
ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः
।
शल्यो राजन् रथोपस्थे निषसाद मुमोह च॥३४॥
तं हि दृष्ट्वा तथा विद्धं सौभद्रेण यशस्विना
।
संप्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः॥३५॥
संप्रेक्ष्य तं महाबाहुं रुक्मपुंखैः समावृतम्
।
त्वदीयाः प्रपलायन्ते मृगाः सिंहार्दिता इवः॥३६॥
स तु रणयशसाऽभिपूज्यमानः पितृसुरचारणसिद्धयक्षसङ्घैः
।
अवनितलगतैश्च भूतसङ्घैरतिविबभौ हुतभुग्यथाऽऽज्यसिक्तः॥३७॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि अभिमन्युपराक्रमे सप्तत्रिंशोऽध्यायः॥३७॥
धृतराष्ट्र उवाच।
तथा प्रमथमानं तं महेष्वासानजिह्मगैः
।
आर्जुनिं मामकाः संख्ये के त्वेन समवारयन्॥१॥
तथेति ॥१॥
सञ्जय उवाच।
श्रुणु राजन् कुमारस्य रणे विक्रीडितं महत्
।
बिभित्सतो रथानीकं भारद्वाजेन रक्षितम्॥२॥
मन्द्रेशं सादितं दृष्ट्वा सौभद्रेणाशुगै रणे
।
शल्यादवरजः क्रुद्धः किरन् बाणान् समभ्ययात्॥३॥
स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम्
।
उदकोशन्महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत्॥४॥
तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान्
।
छत्रं ध्वजं नियन्तारं त्रिवेणुं तल्पमेव च॥५॥
तल्पं रथगतशय्याम् ॥५॥
चक्रं युगं च तूणीरं ह्यनुकर्षं च सायकैः
।
पताकां चक्रगोप्तारौ सर्वोपकरणानि च॥६॥
लघुहस्तः प्रचिच्छेद ददृशे तं न कश्चन
।
स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः॥७॥
वायुनेव महाशैलः संभग्नोऽमिततेजसा
।
अनुगास्तस्य वित्रस्ताः प्राद्रवन् सर्वतो दिशः॥८॥
आर्जुनेः कर्म तद्दृष्ट्वा संप्रणेदुः समन्ततः
।
नोदन सर्वभूतानि साधु साध्विति भारत॥९॥
शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः
।
कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम्॥१०॥
अधिवासो निवासः ॥१०॥
अभ्यधावन्त संक्रुद्धा विविधायुधपाणयः
।
रथैरश्वैर्गजैश्चान्ये पद्भिश्चान्ये बलोत्कटाः॥११॥
बाणशब्देन महता रथनेमिस्वनेन च
।
हुंकारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः सगर्जितैः॥१२॥
ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम्
।
बुवन्तश्च न नो जीवन्मोक्ष्यसे जीवितादिति॥१३॥
तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव
।
यो योऽस्मै प्राहरत् पूर्वं तं तं विव्याध पत्रिभिः॥१४॥
संदर्शयिष्यन्नस्त्राणि विचित्राणि लघूनि च
।
आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत॥१५॥
वासुदेवादुपात्तं यदस्त्रं यच्च धनञ्जयात्
।
अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषवत्॥१६॥
अविशेषवत्तुल्यमित्यर्थः ॥१६॥
दूरमस्य गुरुं भारं साध्वसं च पुनः पुनः
।
संदधद्विसृजंश्चेषून्निर्विशेषमदृश्यत॥१७॥
चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत
।
सुदीप्तस्य शरत्काले सवितुर्मण्डलं यथा॥१८॥
ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः
।
महाशनिमुचः काले पयोदस्येव निःस्वनः॥१९॥
ह्रीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः
।
संमिमानयिषुर्वीरानिष्वस्त्रैश्चाप्ययुध्यत॥२०॥
मृदुर्भूत्वा महाराज दारुणः समपद्यत
।
वर्षाभ्यतीतो भगवाञ्छशरदीव दिवाकरः॥२१॥
शरान् विचित्रान् सुबहून् रुक्मपुङ्खाञ्छिलाशितान्
।
मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः॥२२॥
क्षुरप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः
।
नाराचैरर्धचन्द्राभैर्भल्लैरञ्जलिकैरपि॥२३॥
अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः
।
ततस्तत्सैन्यमभवद्विमुखं शरपीडितम्॥२४॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि अभिमन्युपराक्रमे अष्टत्रिंशोऽध्यायः॥३८॥
धृतराष्ट्र उवाच।
द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च सञ्जय
।
मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत्॥१॥
द्वैधीति ॥१॥
विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः
।
विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह॥२॥
सञ्जय उवाच।
हन्त ते संप्रवक्ष्यामि विमर्दमतिदारुणम्
।
एकस्य च बहूनां च यथाऽऽसीत् तुमुलो रणः॥३॥
अभिमन्युः कृतोत्साहः कृतोत्साहानरिन्दमान्
।
रथस्थो रथिनः सर्वांस्तावकानभ्यवर्षयत्॥४॥
द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम्
।
दुर्योधनं सौमदत्तिं शकुनिं च महाबलम्॥५॥
नानानृपान्नृपसुतान् सैन्यानि विविधानि च
।
अलातचक्रवत्सर्वांश्चरन् बाणैः समार्पयत्॥६॥
निघ्नन्नमित्रान् सौभद्रः परमास्त्रैः प्रतापवान्
।
अदर्शयत तेजस्वी दिक्षु सर्वासु भारत॥७॥
तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः
।
समकम्पन्त सैन्यानि त्वदीयानि सहस्रशः॥८॥
अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान्
।
हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम्॥९॥
घटयन्निव मर्माणि पुत्रस्य तव भारत
।
अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम्॥१०॥
एष गच्छति सौभद्रः पार्थानां प्रथितो युवा
।
नन्दयन् सुहृदः सर्वान् राजानं च युधिष्ठिरम्॥११॥
नकुलं सहदेवं च भीमसेनं च पाण्डवम्
।
बन्धून् सम्बन्धिनश्चान्यान् मध्यस्थान् सुहृदस्तथा॥१२॥
नास्य युद्धे समं मन्ये कञ्चिदन्यं धनुर्धरम्
।
इच्छन् हन्यादिमां सेनां किमर्थमपि नेच्छति॥१३॥
द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः
।
आर्जुनिं प्रति संक्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव॥१४॥
अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं नृपः
।
दुःशासनं मद्रराजं तांस्तथाऽन्यान् महारथान्॥१५॥
सर्वमूर्धाभिषिक्तानामाचार्यो ब्रहृवित्तमः
।
अर्जुनस्य सुतं मूढं नायं हन्तुमिहेच्छति॥१६॥
न ह्यस्य समरे युद्ध्येदन्तकोऽप्याततायिनः
।
किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः॥१७॥
अङ्गेत्यसूयायाम् ॥१७॥
अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति
।
शिष्याः पुत्राश्च दयितास्तदपत्यं च धर्मिणाम्॥१८॥
धर्मिणामिति सोल्लुण्ठम् ॥१८॥
संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः
।
आत्मसंभावितो मूढस्तं प्रमथ्नीत मा चिरम्॥१९॥
आत्मसंभावितोऽहमेवेति संभावनामारूढः ॥१९॥
एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः
।
संरब्धास्ते जिघांसन्तो भारद्वाजस्य पश्यतः॥२०॥
दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा
।
अब्रवीत् कुरुशार्दूल दुर्योधनमिदं वचः॥२१॥
अहमेनं हनिष्यामि महाराज ब्रवीमि ते
।
मिषतां पाण्डुपुत्राणां पञ्चालानां च पश्यताम्॥२२॥
ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम्
।
उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः॥२३॥
श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ
।
गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः॥२४॥
तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः
।
एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम्॥२५॥
तस्मादस्मिन् हते रात्रौ हताः सर्वेऽहितास्त
।
शिवेन मां ध्याहि राजन्नेष हन्मि रिपूस्तव॥२६॥
एवमुक्त्वाऽनदद्राजन् पुत्रो दुःशासनस्तव
।
सौभद्रमभ्ययात् क्रुद्धः शरवर्षैरवाकिरन्॥२७॥
तमतिक्रुद्धमायान्तं तव पुत्रमरिन्दमः
।
अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समार्पयत्॥२८॥
दुःशासनस्तु संक्रुद्धः प्रभिन्न इव कुञ्जरः
।
अयोधयत सौभद्रमभिमन्युश्च तं रणे॥२९॥
तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम्
।
चरमाणावयुध्येतां रथशिक्षाविशारदौ॥३०॥
अथ पणवमृदङ्गदुन्दुभीनां क्रकचमहानकभेरिझर्झराणाम्
।
निनदमतिभृशं नराः प्रचक्रुर्लवणजलोद्भवसिंहनादमिश्रम्॥३१॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि दुःशासनयुद्धे एकोनचत्वारिंशोऽध्यायः॥३९॥
सञ्जय उवाच।
शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम्
।
अभिमन्युः स्मयन् श्रीमान् दुःशासनमथाब्रवीत्॥१॥
शरेति ॥१॥
दिष्ट्या पश्यामि संग्रामे मानिनं शूरमागतम्
।
निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम्॥२॥
यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः
।
कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः॥३॥
जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषितः
।
अक्षकूटं समाश्रित्य सौबलस्यात्मनो बलम्॥४॥
तत्त्ववेदमनुप्राप्तं तस्य कोपान्महात्मनः
।
परवित्तापहारस्य क्रोधस्याप्रशमस्य च॥५॥
लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च
।
पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम्॥६॥
अत्याहितस्य जीवानपेक्षकर्मणः साहसस्येति यावत् ॥६॥
तत्त्वयेदमनुप्राप्तं प्रकोपाद्वै महात्मनाम्
।
स तस्योग्रमधर्मस्य फलं प्राप्नुहि दुर्मते॥७॥
शासितास्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः
।
अद्याहमनृणस्तस्य कोपस्य भविता रणे॥८॥
अमर्षितायाः कृष्णायाः कांक्षितस्य च मे पितुः
।
अद्य कौरव्य भीमस्य भविताऽस्म्यनृणो युधि॥९॥
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम्
।
एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम्॥१०॥
संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम्
।
तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम्॥११॥
जगाम सह पुङ्खेन वल्मीकमिव पन्नगः
।
अथैनं पञ्चविंशत्या पुनरेव समार्पयत्॥१२॥
शरैरग्निसमस्पर्शैराकर्णसमचोदितैः
।
स गाढविद्धो व्यथितो रथोपस्य उपाविशत्॥१३॥
दुःशासनो महाराज कश्मलं चाविशन्महत्
।
सारथिस्त्वरमाणस्तु दुःशासनमचेतनम्॥१४॥
रणमध्यादपोवाह सौभद्रशरपीडितम्
।
पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम्॥१५॥
पञ्चालाः केकयाश्चैव सिंहनादमथानदन्
।
वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः॥१६॥
प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः
।
अपश्यन् स्मयमानाश्च सौभद्रस्य विचेष्टितम्॥१७॥
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम्
।
धर्ममारुतशक्राणामश्विनोः प्रतिमास्तथा॥१८॥
धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः
।
सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ॥१९॥
केकया धृष्टकेतुश्च मत्स्याः पञ्चालसृञ्जयाः
।
पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः॥२०॥
अभ्यद्रवन्त त्वरिता द्रोणानीकं बिभित्सवः
।
ततोऽभवन्महायुद्धं त्वदीयानां परैः सह॥२१॥
जयमाकांक्षमाणानां शूराणामनिवर्तिनाम्
।
तथा तु वर्तमाने वै संग्रामेऽतिभयङ्करे॥२२॥
दुर्योधनो महाराज राधेयमिदमब्रवीत्
।
पश्य दुःशासनं वीरमभिमन्युवशं गतम्॥२३॥
प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान् रणे
।
अथ चैते सुसंरब्धाः सिंहा इव बलोत्कटाः॥२४॥
सौभद्रमुद्यतास्त्रातुमभ्यधावन्त पाण्डवाः
।
ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम्॥२५॥
अभ्यवर्षत संक्रुद्धः पुत्रस्य हितकृत् तव
।
तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः॥२६॥
अवज्ञापूर्वकं शूरः सौभद्रस्य रणाजिरे
।
अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः॥२७॥
अविध्यत्त्वरितो राजन् द्रोणं प्रेप्सुर्महामनाः
।
तं तथा नाशकत् कश्चिद्द्रोणाद्वारयितुं रथी॥२८॥
आरुजन्तं रथव्रातान् वज्रहस्तात्मजात्मजम्
।
ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुष्मताम्॥२९॥
सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन्
।
सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान्॥३०॥
समरे शत्रुदुर्धर्षमभिमन्युमपीडयत्
।
स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः॥३१॥
समरेऽमरसंकाशः सौभद्रो न व्यशीर्यत
।
ततः शिलाशितैस्तीक्ष्णैर्भल्लैरानतपर्वभिः॥३२॥
छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत्
।
धनुर्मण्डलनिर्मुक्तैः शरैराशीविषोपमैः॥३३॥
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव
।
कर्णोऽपि चास्य चिक्षेप बाणान् सन्नतपर्वणः॥३४॥
असंभ्रान्तश्च तान्सर्वानगृह्णात् फाल्गुनात्मजः
।
ततो मुहूर्तात् कर्णस्य बाणेनैकेन वीर्यवान्॥३५॥
सध्वजं कार्मुकं वीरश्छित्त्वा भूमावपातयत्
।
ततः कृछ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः॥३६॥
सौभद्रमभ्ययात् तुर्णं दृढमुद्यम्य कार्मुकम्
।
तत उच्चुक्रुशुः पार्थस्तेषां चानुचरा जनाः
।
वादित्राणि च संजघ्नुः सौभद्रं चापि तुष्टुवुः॥३७॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि कर्णदुःशासनपराभवे चत्वारिंशोऽध्यायः॥४०॥
सञ्जय उवाच।
सोऽतिगर्जन् धनुष्पाणिर्ज्यां विकर्षन् पुनः पुनः
।
तयोर्महात्मनोस्तूर्णं रथान्तरमवापतत्॥१॥
स इति ॥१॥
सोऽविध्यद्दशभिर्बाणैरभिमन्युं दुरासदम्
।
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव॥२॥
पितृपैतामहं कर्म कुर्वाणमतिमानुषम्
।
दृष्ट्वार्दितं शरैः कार्णीं त्वदीया हृषिता भवन्॥३॥
तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा
।
शिरः प्रच्यावयामास तद्रथात् प्रापतद्भुवि॥४॥
कर्णिकारमिवाधूतं वातेनापतितं नगात्
।
भ्रातरं निहतं दृष्ट्वा राजन् कर्णो व्यथां ययौ॥५॥
विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः
।
अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे॥६॥
ततस्तद्वितततं सैन्यं हस्त्यश्वरथपत्तिमत्
।
क्रुद्धोऽभिमन्युरभिनत्तिग्मतेजा महारथः॥७॥
कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना
।
अपायाज्जवनैरश्वैस्ततोऽनीकमभज्यत॥८॥
शलभैरिव चाकाशे धाराभिरिव चावृते
।
अभिमन्योः शरै राजन्न प्राज्ञायत किंचन॥९॥
तावकानां तु योधानां वध्यतां निशितैः शरैः
।
अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत॥१०॥
सौभद्रस्तु ततः शंखं प्रध्माप्य पुरुषर्षभः
।
शीघ्रमभ्यपतत् सेनां भारतीं भरतर्षभ॥११॥
स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून्
।
मध्यं भारतसैन्यानामार्जुनिः पर्यवर्तत॥१२॥
रथनागाश्वमनुजानर्दयन्निशितैः शरैः
।
संप्रविश्याकरोद्भूमिं कबन्धगणसंकुलाम्॥१३॥
सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः
।
स्वानेवाभिमुखान् घ्नन्तः प्राद्रवन् जीवितार्थिनः॥१४॥
ते घोरा रौद्रकर्माणो विपाठा बहवः शिताः
।
निघ्नन्तो रथनागाश्वान् जग्मुराशु वसुंधराम्॥१५॥
सायुधाः सांगुलित्राणाः सगदाः साङ्गदा रणे
।
दृश्यन्ते बाहवश्छिन्ना हेमाभरणभूषिताः॥१६॥
शराश्चापानि खड्गाश्च शरीराणि शिरांसि च
।
सकुण्डलानि स्रग्वीणि भूमावासन् सहस्रशः॥१७॥
सोपस्करैरधिष्ठानैरीषादण्डैश्च बन्धुरैः
।
अक्षैर्विमथितैश्चक्रैर्बहुधा पतितैर्युगैः॥१८॥
शक्तिचापासिभिश्चैव पतितैश्च महाध्वजैः
।
चर्मचापशरैश्चैव व्यवकीर्णैः समन्ततः॥१९॥
निहतैः क्षत्रियैरश्वैर्वारणैश्च विशांपते
।
अगम्यरूपा पृथिवी क्षणेनासीत् सुदारुणा॥२०॥
वध्यतां राजपुत्राणां क्रन्दतामितरेतरम्
।
प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः॥२१॥
स शब्दो भरतश्रेष्ठ दिशः सर्वा व्यनादयत्
।
सौभद्रश्चाद्रवत् सेनां घ्नन् वराश्वरथद्विपान्॥२२॥
कक्षमग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून्
।
मध्ये भारतसैन्यानामार्जुनिः प्रत्यदृश्यत॥२३॥
विचरन्तं दिशः सर्वाः प्रदिशश्चापि भारत
।
तं तदा नानुपश्यामः सैन्ये च रजसाऽऽवृते॥२४॥
आददानं गजाश्वानां नृणां चायूंषि भारत
।
क्षणेन भूयः पश्यामः सूर्यं मध्यंदिने यथा॥२५॥
अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान्
।
स वासवसमः संख्ये वासवस्यात्मजात्मजः
।
अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत॥२६॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि अभिमन्युपराक्रमे एकचत्वारिंशोऽध्यायः॥४१॥
धृतराष्ट्र उवाच।
बालमत्यन्तसुखिनं स्वबाहुबलर्पितम्
।
युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम्॥१॥
बालमिति ॥१॥
गाहमानमनीकानि सदश्वैश्च त्रिहायकैः
।
अपि यौधिष्ठिरात् सैन्यात् कश्चिदन्वपतद्बली॥२॥
सञ्जय उवाच।
युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ
।
धृष्टद्युम्नो विराटश्च द्रुपदश्च सकेकयः॥३॥
धृष्ठकेतुश्च संरब्धो मात्स्याश्चाभ्यपतन् रणे
।
तेनैव तु पथा यान्तः पितरो मातुलैः सह॥४॥
अभ्यद्रवन् परीप्सन्तो व्यूढानीकाः प्रहारिणः
।
तान् दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाभवन्॥५॥
ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम्
।
जामाता तव तेजस्वी संस्तंभयिषुराद्रवत्॥६॥
सैन्धवस्य महाराज पुत्रो राजा जयद्रथः
।
स पुत्रगृद्धिनः पार्थान् सह सैन्यानवारयत्॥७॥
उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन्
।
वार्धक्षत्रिरुपासेधत् प्रवणादिव कुञ्जरः॥८॥
प्रवणान्निम्नप्रदेशं प्राप्य ॥८॥
धृतराष्ट्र उवाच।
अतिभारमहं मन्ये सैन्धवे सञ्जयाहितम्
।
यदेकः पाण्डवान् क्रुद्धान् पुत्रप्रेप्सूनवारयत्॥९॥
अत्यद्भुतमहं मन्ये बलं शौर्यं च सैन्धवे
।
तस्य प्रब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः॥१०॥
बलं सामर्थ्यं शौर्यमुत्साहः । वीर्यं प्रभावम् ॥१०॥
किं दत्तं हुतमिष्टं वा किं सुतप्तमथो तपः
।
सिन्धुराजो हि येनैकः पाण्डवान् समवारयत्॥११॥
सञ्जय उवाच।
द्रौपदीहरणे यत्तद्भीमसनेन निर्जितः
।
मानात् स तप्तवान् राजा वरार्थी सुमहत् तपः॥१२॥
इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः सन्निवर्त्य सः
।
क्षुत्पिपासातपसहः कृशो धमनिसन्ततः॥१३॥
देवमाराधयच्छर्वं गृणन् ब्रह्म सनातनम्
।
भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम्॥१४॥
स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम्
।
वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि॥१५॥
एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः
।
उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान्॥१६॥
पाण्डवेयानहं संख्ये भीमवीर्यपराक्रमान्
।
वारयेयं रथेनैकः समस्तानिति भारत॥१७॥
एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत्
।
ददामि ते वरं सौम्य विना पार्थं धनञ्जयम्॥१८॥
वारयिष्यसि संग्रामे चतुरः पाण्डुनन्दनान्
।
एवमस्त्विति देवेशमुक्त्वाऽबुद्ध्यत पार्थिवः॥१९॥
स तेन वरदानेन दिव्येनास्त्रबलेन च
।
एकः संवारयामास पाण्डवानामनीकिनीम्॥२०॥
तस्य ज्यातलघोषेण क्षत्रियान् भयमाविशत्
।
परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत्॥२१॥
दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमाहितम्
।
उत्क्रुश्याभ्यद्रवन् राजन्येन यौधिष्ठिरं बलम्॥२२॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि जयद्रथयुद्धे द्विचत्वारिंशोऽध्यायः॥४२॥
सञ्जय उवाच।
यन्मां पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम्
।
शृणु तत् सर्वमाख्यास्ये यथा पाण्डूनयोधयत्॥१॥
यदिति ॥१॥
तमूहुर्वाजिनो वश्या सैन्धवाः साधुवाहिनः
।
विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपमरंहसः॥२॥
गन्धर्वनगराकारं विधिवत्कल्पितं रथम्
।
तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान्॥३॥
श्वेतच्छत्रपताकाभिश्चामरव्यजनेन च
।
स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे॥४॥
मुक्तावज्रमणिस्वर्णैर्भूषितं तमयस्मयम्
।
वरूथं विबभौ तस्य ज्योतिर्भिः स्वमिवावृतम्॥५॥
वरूथं रथवेष्टनम् ॥५॥
स विस्फार्य महच्चापं किरन्निषुगणान् बहून्
।
तत् खण्डं पूरयामास यद्व्यदारयदार्जुनिः॥६॥
स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम्
।
धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः॥७॥
द्रुपदं पञ्चभिस्तीक्ष्णैः सप्तभिश्च शिखण्डिनम्
।
केकयान् पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः॥८॥
युधिष्ठिरं तु सप्तत्या ततः शेषानपानुदत्
।
इषुजालेन महता तदद्भुतमिवाभवत्॥९॥
अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम्
।
चिच्छेद प्रहसन् राजा धर्मपुत्रः प्रतापवान्॥१०॥
आदिश्य एष छिनद्मीत्युद्दिश्य ॥१०॥
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्
।
विव्याध दशभिः पार्थं तांश्चैवान्यांस्त्रिभिस्त्रिभिः॥११॥
तत् तस्य लाघवं ज्ञात्वा भीमो भल्लौस्त्रिभिस्त्रिभिः
।
धनुर्ध्वजं च च्छत्रं च क्षितौ क्षिप्रमपातयत्॥१२॥
सोऽन्यदादाय बलवान् सज्जं कृत्वा च कार्मुकम्
।
भीमस्यापातयत् केतुं धनुरश्वांश्च मारिष॥१३॥
स हताश्वादवप्लुत्य च्छिन्नधन्वा रथोत्तमात्
।
सात्यकेराप्लुतो यानं गिर्यग्रमिव केसरी॥१४॥
ततस्त्वदीयाः संहृष्टाः साधु साध्विति वादिनः
।
सिन्धुराजस्य तत् कर्म प्रेक्ष्याश्रद्धेयमद्भुतम्॥१५॥
संक्रुद्धान् पाण्डवानेको यद्दधारास्त्रतेजसा
।
तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन्॥१६॥
सौभद्रेण हतैः पूर्वं सोत्तरायोधिभिर्द्विपैः
।
पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः॥१७॥
यतमानास्तु ते वीरा मात्स्यपञ्चालकेकयाः
।
पाण्डवाश्चान्वपद्यन्त प्रतिशेकुर्न सन्धवम्॥१८॥
यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः
।
तं तमेव वरं प्राप्य सैन्धवः प्रत्यवारयत्॥१९॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि जयद्रथयुद्धे त्रिचत्वारिंशोऽध्यायः॥४३॥
सञ्जय उवाच।
सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु
।
सुघोरमभवद्युद्धं त्वदीयानां परैः सह॥१॥
सैन्धवेनेति ॥१॥
प्रविश्याथार्जुनिः सेनां सत्यसन्धो दुरासदः
।
व्यक्षोभयत तेजस्वी मकरः सागरं यथा॥२॥
त तथा शरवर्षेण क्षोभयन्तमरिन्दमम्
।
यथा प्रधानाः सौभद्रमभ्ययू रथसत्तमाः॥३॥
तेषां तस्य च संमर्दो दारुणः समपद्यत
।
सृजतां शरवर्षाणि प्रसक्तममितौजसाम्॥६॥
रथव्रजेन संरुद्धस्तैरमित्रैस्तथार्जुनिः
।
वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम्॥७॥
तस्य विव्याध बलवान् शरैरश्वानजिह्मगैः
।
वातायमानैरथ तैरश्वैरपहृतो रणात्॥६॥
तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम्
।
रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः॥७॥
तं सिंहमिव संक्रुद्धं प्रमथ्नन्तं शरैररीन्
।
आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम्॥८॥
सोऽभिमन्युं शरैः षष्ट्या रुक्मपुंखैरवाकिरत्
।
अब्रवीच्च न मे जीवन् जीवतो युधि मोक्ष्यसे॥९॥
तमयस्मयवर्माणमिषुणा दूरपातिना
।
विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ॥१०॥
वसातीयं हतं दृष्ट्वा क्रुद्धाः क्षत्रियपुङ्गवाः
।
परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः॥११॥
विस्फारयन्तश्चापानि नानारूपाण्यनेकशः
।
तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह॥१२॥
तेषां शरान् सेष्वसनान् शरीराणि शिरांसि च
।
सकुण्डलानि स्रग्वीणि कुद्धश्चिच्छेद फाल्गुनिः॥१३॥
सखड्गाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः
।
अपश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः॥१४॥
स्त्रग्भिराभरणैर्वस्त्रैः पातितैश्च महाभुजैः
।
वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः॥१५॥
उपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः
।
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः॥१६॥
अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः
।
रथैश्च भग्नैर्नागैश्च हतैः कीर्णाऽभवन्मही॥१७॥
निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः
।
जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत॥१८॥
दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा
।
रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत॥१९॥
काञ्चनं यद्यदस्यासीद्धर्म चाभरणानि च
।
धनुषश्च शराणां च तदपश्याम केवलम्॥२०॥
तं तदा नाशकत् कश्चिच्चक्षुर्भ्यामभिवीक्षितुम्
।
आददानं शरैर्योधान् मध्ये सूर्यमिव स्थितम्॥२१॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि अभिमन्युपराक्रमे चतुश्चत्वारिंशोऽध्यायः॥४४॥
सञ्जय उवाच।
आददानस्त शूराणामायूंष्यभवदार्जुनिः
।
अन्तकः सर्वभूतानां प्राणान् काल इवागते॥१॥
आददान इति ॥१॥
स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली
।
अभिमन्युस्तदानीकं लोडयन् समदृश्यत॥२॥
प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः
।
सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणः॥३॥
सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः
।
प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन्॥४॥
अहं पूर्वमहं पूर्वमिति क्षत्रियपुङ्गवाः
।
स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम्॥५॥
क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम्
।
जग्राह तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे॥६॥
ये केचन गतास्तस्य समीपमपलायिनः
।
न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः॥७॥
महाग्राहगृहीतेव वातवेगभयार्दिता
।
समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे॥८॥
अथ रुक्मरथो नाम मद्रेश्वरसुतो बली
।
त्रस्तामाश्वासयन् सेनामत्रस्तो वाक्यमब्रवीत्॥९॥
अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते
।
अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः॥१०॥
एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान्
।
सुकल्पितेनोह्यमानः स्यन्दनेन विराजता॥११॥
सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत्
।
त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः॥१२॥
स तस्येष्वसनं छित्त्वा फाल्गुनिः सव्यदक्षिणौ
।
भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत्॥१३॥
दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम्
।
जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना॥१४॥
संग्रामदुर्मदा राजन् राजपुत्राः प्रहारिणः
।
वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः॥१५॥
तालमात्राणि चापानि विकर्षन्तो महाबलाः
।
आर्जुनिं शरवर्षेण समन्तात् पर्यवारयन्॥१६॥
आयच्छत्प्रयुक्तवान् रथमायां दुर्लक्ष्यां रथशिक्षाम् ॥१६॥
शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः
।
दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम्॥१७॥
छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत्
।
वैवस्वतस्य भवनं गतं ह्येनममन्यत॥१८॥
सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैः सुतैजनैः
।
अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः॥१९॥
ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष
।
आचितं समपश्याम श्वावधं शललारव॥२०॥
स गाढविद्धः क्रुद्धश्च तोत्रैर्गज इवार्दितः
।
गान्धर्वमस्त्रमायश्छद्रथमायां च भारत॥२१॥
अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम्
।
तुंब्रुरुप्रमुखेभ्यो वै तेनामोहयताहितान्॥२२॥
एकधा शतधा राजन् दृश्यते स्म सहस्रथा
।
अलातचक्रवत्संख्ये क्षिप्रमस्त्राणि दर्शयन्॥२३॥
रथचर्यास्त्रमायाभिर्मोहयित्वा परंतपः
।
बिभेद शतधा राजन् शरीराणि महीक्षिताम्॥२४॥
प्राणाः प्राणभृतां संख्ये प्रेषितानि शितैः शरैः
।
राजन् प्रापुरमुं लोकं शरीराण्यवनिं ययुः॥२५॥
धनूंष्यश्वान्नियन्तॄंश्च ध्वजान् बाहूंश्च साङ्गदान्
।
शिरांसि च सितैर्बाणैस्तेषां चिच्छेद फाल्गुनिः॥२६॥
चूतारामो यथा भग्नः पञ्चवर्षः फलोपगः
।
राजपुत्रशतं तद्वत्सौभद्रेण निपातितम्॥२७॥
फलोपगः फलोन्मुखः ॥२७॥
क्रुद्धाशीविषसङ्काशान् सुकुमारान् सुखोचितान्
।
एकेन निहतान् दृष्ट्वा भीतो दुर्योधनोऽभवत्॥२८॥
रथिनः कुञ्जरानश्वान् पदातींश्चापि मज्जतः
।
दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः॥२९॥
तयोः क्षणमिवापूर्णः संग्रामः समपद्यत
।
अथाभवत्ते विमुखः पुत्रः शरशताहतः॥३०॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि दुर्योधनपराजये पञ्चचत्वारिंशोऽध्यायः॥४५॥
धृतराष्ट्र उवाच।
यथा वदसि मे सूत एकस्य बहुभिः सह
।
संग्रामं तुमलं घोरं जयं चैव महात्मनः॥१॥
यथेति ॥१॥
अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम्
।
किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः॥२॥
दुर्योधने च विमुखे राजपुत्रशते हते
।
सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः॥३॥
प्रतिपत्तिं प्रतिविधानम् ॥३॥
सञ्जय उवाच।
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षणाः
।
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये॥४॥
हतान् भ्रातॄन् पितॄन् पुत्रान् सुहृत्संबन्धिबान्धवान्
।
उत्सृज्योत्सृज्य संजग्मुस्त्वरयन्तो हयद्विपान्॥५॥
तान् प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः
।
कृपो दुर्योधनः कर्णः कृतवर्माऽथ सौबलः॥६॥
अभ्यधावन्सुसंक्रुद्धाः सौभद्रमपराजितम्
।
ते तु पौत्रेण ते राजन् प्रायशो विमुखीकृताः॥७॥
एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः
।
इष्वस्त्रविन्महातेजा लक्ष्मणोऽर्जुनिमभ्ययात्॥८॥
तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत
।
अनुदुर्योधनं चान्ये न्यवर्तन्त महारथाः॥९॥
तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवांबुभिः
।
स तु तान् प्रममाथैको विष्वग्वातो यथाम्बुदान्॥१०॥
विष्वग्वातोऽशेषन्दिग्वातः ॥१०॥
पौत्रं तव च दुर्धर्षं लक्ष्मणं प्रियदर्शनम्
।
पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम्॥११॥
अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम्
।
आससाद रणे काष्णिर्मत्तो मत्तमिव द्विपम्॥१२॥
लक्ष्मणेन तु संगम्य सौभद्रः परवीरहा
।
शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पयत् ॥१३॥
संक्रुद्धो वै महाराज दण्डाहत इवोरगः
।
पौत्रस्तव महाराज तव पौत्रमभाषत॥१४॥
सुदृष्टः क्रियतां लोको ह्यमुं लोकं गमिष्यसि
।
पश्यतां बान्धवानां त्वां नयामि यमसादनम्॥१५॥
एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा
।
उद्बबर्ह महाबाहुर्निर्भुक्तोरगसन्निभम्॥१६॥
स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम्
।
सुनसं सुभ्रुकेशान्तं शिरोऽहार्षीत सकुण्डलम्॥१७॥
केशान्तं केशैमनोहरम् ‘अन्तः प्रान्तेऽन्तिके मध्ये स्वरूपे च मनोहरे’ इत्यभिधानात् ॥१७॥
लक्ष्मणं निहतं दृष्ट्वा हाहेत्युच्चुक्रुशुर्जनाः
।
ततो दुर्योधनः कुद्धः प्रिये पुत्रे निपातिते॥१८॥
हतैनमिति चुक्रोश क्षत्रियान् क्षत्रियर्षभः
।
ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः॥१९॥
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन्
।
तांस्तु विद्ध्वा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः॥२०॥
वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम्
।
आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः॥२१॥
कलिंगाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान्
।
तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशां पते॥२२॥
ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः
।
यथा वायुर्नित्यगतिर्जलदान् शतशोऽम्बरे॥२३॥
धृष्टं प्रगल्भम् ॥२३॥
ततः क्राथः शरव्रातैरार्जुनिं समवाकिरत्
।
अथेतरे सन्निवृत्ताः पुनर्द्रोणमुखा रथाः॥२४॥
परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः
।
तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमथार्दयत्॥२५॥
शरौघेणाप्रमेयेण त्वरमाणो जिघांसया
।
सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः॥२६॥
सच्छत्रध्वजयन्तारं रथं चाश्वान्न्यापातयत्
।
कुलशीलश्रुतिबलैः कीर्त्या चास्त्रबलेन च
।
युक्ते तस्मिन्हते वीराः प्रायशो विमुखाऽभवन्॥२७॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि लक्ष्मणवधे षट्चत्वारिंशोऽध्यायः॥४६॥
धृतराष्ट्र उवाच।
तथा प्रविष्टं तरुणं सौभद्रमपराजितम्
।
कुलानुरूपं कुर्वाणं संग्रामेष्वपराजितम्॥१॥
तथेति ॥१॥
आजानेयैः सुबलिभिर्यान्तमश्वैस्त्रिहायनैः
।
प्लवमानमिवाकाशे के शूराः समवारयन्॥२॥
सञ्जय उवाच।
अभिमन्युः प्रविश्यैतांस्तावकान्निशितैः शरैः
।
अकरोत् पार्थिवान् सर्वान् विमुखान् पाण्डुनन्दनः॥३॥
तं तु द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्वलः
।
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन्॥४॥
दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम्
।
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत्॥५॥
सौभद्रमितरे वीरमभ्यवर्षन् शरांबुभिः
।
तालमात्राणि चापानि विकर्षन्तो महाबलाः॥६॥
तांस्तु सर्वान् महेष्वासान् सर्वविद्यासु निष्ठितान्
।
व्यष्टंभयद्रणे बाणैः सौभद्रः परवीरहा॥७॥
द्रोणं पञ्चाशताऽविध्यद्विंशत्या च बृहद्बलम्
।
अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः॥८॥
रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः
।
अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः॥९॥
स कर्णं कर्णिना कर्णे पीतेन च शितेन च
।
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा॥१०॥
पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी
।
अथैनं दशभिर्बाणैः प्रत्यविध्यत् स्तनान्तरे॥११॥
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्
।
पुत्राणां तव वीराणां पश्यतामवधीद्बली॥१२॥
तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत्
।
वरं वरममित्राणामारुजन्तमभीतवत्॥१३॥
स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष
।
पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः॥१४॥
षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः
।
उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम्॥१५॥
स तु द्रौणिं त्रिसप्तत्या हेमपुंखैरजिह्मगैः
।
प्रत्यविध्यन्महातेजा बलवानपकारिणम्॥१६॥
तस्मिन् द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत्
।
अश्वत्थामा तथाऽष्टौ च परीप्सन् पितरं रणे॥१७॥
कर्णो द्वाविंशतिं भल्लान् कृतवर्मा च विंशतिम्
।
बृहद्बलस्तु पञ्चाशत् कृपः शारद्वतो दश॥१८॥
तांस्तु प्रत्यवधीत् सर्वान् दशभिर्दशभिः शरैः
।
तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः॥१९॥
तं कोसलानामधिपं कर्णिनाऽताडयद्धृदि
।
स तस्याश्वान् ध्वजं चापं सूतं चापातयत् क्षितौ॥२०॥
अथ कोसलराजस्तु विरथः खड्गचर्मभृत्
।
इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम्॥२१॥
स कोसलानामधिपं राजपुत्रं बृहद्बलम्
।
हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत्॥२२॥
बभञ्ज च सहस्राणि दश राज्ञां महात्मनाम्
।
सृजतामशिवा वाचः खड्गकार्मुकधारिणाम्॥२३॥
तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे
।
व्यष्टंभयन्महेष्वासो योधांस्तव शरांबुभिः॥२४॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि बृहद्बलवधे सप्तचत्वातिंशोऽध्यायः॥४७॥
सञ्जय उवाच।
स कर्णं कर्णीना कर्णे पुनर्विव्याध फाल्गुनिः
।
शरैः पञ्चाशता चैनमविध्यत् कोपयन् भृशम्॥१॥
सकर्णमिति ॥१॥
प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः
।
शरैराचितसर्वाङ्गो बहुशोभत भारत॥२॥
कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम्
।
कर्णोऽपि विबभौ शूरः शरैश्छिन्नोऽसृगाप्लुतः॥३॥
तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ
।
बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ॥४॥
अथ कर्णस्य सचिवान् षट् शूरांश्चित्रयोधिनः
।
साश्वसूतध्वजरथान् सौभद्रो निजघान ह॥५॥
तथेतरान् महेष्वासान् दशभिर्दशभिः शरैः
।
प्रत्यविध्यदसंभ्रान्तस्तदद्भुतमिवाभवत्॥६॥
मागधस्य तथा पुत्रं हत्वा षड्भिरजिह्मगैः
।
साश्वं ससूतं तरुणमश्वकेतुमपातयत्॥७॥
मार्तिकावतकं भोजं ततः कुञ्जरकेतनम्
।
क्षुरप्रेण समुन्मथ्य ननाद विसृजन् शरान्॥८॥
तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान्
।
सूतमेकेन विध्याध दशभिश्चार्जुनात्मजम्॥९॥
ततो दौःशासनिं कार्ष्णिर्विध्वा सप्तभिराशुगैः
।
संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत्॥१०॥
पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा
।
दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे॥११॥
एतावदुक्त्वा वचनं कर्मारपरिमार्जितम्
।
नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत्॥१२॥
तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत्
।
तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत्॥१३॥
हृद्यसंभ्रान्तवद्राजंस्तदद्भुतमिवाभवत्
।
तस्यार्जुनिर्ध्वजं छित्त्वा हत्वोभौ पार्ष्णिसारथी॥१४॥
तं विव्याधायसैः षड्भिः सोपाक्रामद्रथान्तरम्
।
शत्रुञ्जयं चन्द्रकेतुं मेघवेगं सुवर्चसम्॥१५॥
सूर्यभासं च पञ्चैतान् हत्वा विव्याध सौबलम्
।
तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत्॥१६॥
सर्व एनं विमथ्नीमः पुरैकैकं हिनस्ति नः
।
अथाब्रवीत् पुनर्द्रोणं कर्णो वैकर्तनो रणे॥१७॥
पुरा सर्वान् प्रमथ्नाति ब्रह्यस्य वधमाशु नः
।
ततो द्रोणो महेष्वासः सर्वांस्तान् प्रत्यभाषत॥१८॥
वधं वधोपायम् ॥१८॥
अस्ति वाऽस्यान्तरं किञ्चित् कुमारस्याथ पश्यत
।
अण्वप्यस्यान्तरं ह्यद्य चरतः सर्वतोदिशम्॥१९॥
शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत
।
धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते॥२०॥
संदधानस्य विशिखान् शीघ्रं चैव विमुञ्चतः
।
आरुजन्नपि मे प्राणान् मोहयन्नपि सायकैः॥२१॥
प्रहर्षयति मां भूयः सौभद्रः परवीरहा
।
अति मां नन्दयत्येष सौभद्रो विचरन् रणे॥२२॥
अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः
।
अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः॥२३॥
न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः
।
अथ कर्णः पुनर्द्रोणमाहार्जुनिशराहतः॥२४॥
स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना
।
तेजस्विनः कुमारस्य शराः परमदारुणाः॥२५॥
क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः
।
तमाचार्योऽब्रवीत् कर्णं शनकैः प्रहसन्निव॥२६॥
अभेद्यमस्य कवचं युवा चाशुपराक्रमः
।
उपदिष्टा मया चास्य पितुः कवचधारणा॥२७॥
तामेष निखिलां वेत्ति ध्रुवं परपुरञ्जयः
।
शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः॥२८॥
अभीषूंश्च हयांश्चैव तथोभौ पार्ष्णिसारथी
।
एतत्कुरु महेष्वास राधेय यदि शक्यते॥२९॥
अथैनं विमुखीकृत्य पश्चात् प्रहरणं कुरु
।
सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः॥३०॥
विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि
।
तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन्॥३१॥
अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत्
।
अश्वानस्यावधीद्भोजो गौतमः पार्ष्णिसारथी॥३२॥
शेषास्तु च्छिन्नधन्वानं शरवर्षैरवाकिरन्
।
त्वरमाणास्त्वराकाले विरथं षण्महारथाः॥३३॥
शरवर्षैरकरुणा बालमेकमवाकिरन्
।
सच्छिन्नधन्वा विरथः स्वधर्ममनुपालयन्॥३४॥
खड्गचर्मधरः श्रीमानुत्पपात विहायसा
।
मार्गैः सकौशिकाद्यैश्च लाघवेन बलेन च॥३५॥
कौशिकं सर्वतोभद्रम् ॥३५॥
आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव
।
मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः॥३६॥
विव्यधुस्तं महेष्वासं समरे छिद्रदर्शिनः
।
तस्य द्रोणोऽच्छिनन्मुष्टौ खड्गं मणिमयत्सरुम्॥३७॥
क्षुरप्रेण महातेजास्त्वरमाणः सपत्नजित्
।
राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम्॥३८॥
व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात् पुनः क्षितिम्
।
आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत॥३९॥
स चक्ररेणूज्ज्वलशोभिताङ्गोबभावतीवोज्ज्वलचक्रपाणिः
।
रणेऽभिमन्युः क्षणमास रौद्रः स वासुदेवानुकृतिं प्रकुर्वन्॥४०॥
स्रुतरुधिरकृतैकरागवस्त्रो भ्रुकुटिपुटाकुलितोऽतिसिंहनादः
।
प्रभुरमितबलो रणेऽभिमन्युर्नृपवरमध्यगतो भृशं व्यराजत्॥४१॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि अभिमन्युविरथकरणे अष्टचत्वारिंशोऽध्यायः॥४८॥
सञ्जय उवाच।
विष्णोः स्वसुर्नन्दकरः स विष्ण्वायुधभूषणः
।
रराजातिरथः संख्ये जनार्दन इवापरः॥१॥
विष्णोरिति ॥१॥
मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम्
।
वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि॥२॥
तच्चक्रं भृशमुद्विग्नाः सञ्चिच्छिदुरनेकधा
।
महारथस्ततः कार्ष्णिः संजग्राह महागदाम्॥३॥
विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कुतः
।
अभिमन्युर्गदापाणिरश्वत्थामानमार्दयत्॥४॥
स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव
।
अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः॥५॥
तस्याश्वान् गदया हत्वा तथोभौ पार्ष्णिसारथी
।
शराचिताङ्गः सौभद्रः श्वाविद्वत्समदृश्यत॥६॥
ततः सुबलदायादं कालिकेयमपोथयत्
।
जघान चास्यानुचरान् गान्धारान् सप्तसप्ततिम्॥७॥
पुनश्चैव वसातीयान् जघान रथिनो दश
।
केकयानां रथान् सप्त हत्वा च दश कुञ्जरान्॥८॥
दौःशासनिरथं साश्वं गदया समपोथयत्
।
ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष॥९॥
अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीद
।
तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ॥१०॥
भ्रातृव्यौ संप्रजह्राते पुरेव त्र्यम्बकान्धकौ
।
तावन्योन्यं गदाग्राभ्यामाहत्य पतितौ क्षितौ॥११॥
इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परन्तपौ
।
दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः॥१२॥
उत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत्
।
गदावेगेन महता व्यायामेन च मोहितः॥१३॥
विचेता न्यपतद्भूमौ सौभद्रः परवीरहा
।
एवं विनिहतो राजन्नेको बहुभिराहवे॥१४॥
क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः
।
अशोभत हतो वीरो व्याधैर्वनगजो यथा॥१५॥
तं तथा पतितं शूरं तावकाः पर्यवारयन्
।
दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये॥१६॥
विमृद्य नगशृङ्गाणि सन्निवृत्तमिवानिलम्
।
अस्तंगतमिवादित्यं तप्त्वा भारतवाहिनीम्॥१७॥
उपप्लुतं यथा सोमं संशुष्कमिव सागरम्
।
पूर्णचन्द्राभवदनं काकपक्षवृताक्षिकम्॥१८॥
उपप्लुतं राहुग्रस्तम् ॥१८॥
तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः
।
मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः॥१९॥
आसीत् परमको हर्षस्तावकानां विशांपते
।
इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम्॥२०॥
अन्तरिक्षे च भूतानि प्राक्रोशन्त विशाम्पते
।
दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात्॥२१॥
द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः
।
एकोऽयं निहतः शेते नैष धर्मो मतो हि नः॥२२॥
तस्मिन् विनिहते वीरे बह्वशोभत मेदिनी
।
द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी॥२३॥
रुक्मपुङ्खैश्च संपूर्णा रुधिरौघपरिप्लुता
।
उत्तमाङ्गैश्च शूराणां भ्राजमानैः सकुण्डलैः॥२४॥
विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता
।
चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः॥२५॥
तथाश्वनरनागानामलंकारैश्च सुप्रभैः
।
खड्गैः सुनिशितैः पीतैर्निर्मुकैर्भुजगैरिव॥२६॥
चापैश्च विविधैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः
।
विविधैश्चायुधैश्चान्यैः संवृता भूरशोभत॥२७॥
वाजिभिश्चापि निर्जीवैः श्वसद्भिः शोणितोक्षितैः
।
सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः॥२८॥
साङ्कुशैः समहामात्रैः सवर्मायुधकेतुभिः
।
पर्वतैरिव विध्वस्तैर्विशिखैर्मथितैर्गजैः॥२९॥
पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः
।
ह्रदैरिव प्रक्षुभितैर्हृतनागै रथोत्तमैः॥३०॥
पदातिसङ्घैश्च हतैर्विविधायुधभूषणैः
।
भीरूणां त्रासजननी घोररूपाऽभवन्मही॥३१॥
तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम्
।
तावकानां परा प्रीतिः पाण्डूनां चाभवद्यथा॥३२॥
अभिमन्यौ हते राजन् शिशुकेऽप्राप्तयौवने
।
संप्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः॥३३॥
दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते
।
अजातशत्रुस्तान् वीरानिदं वचनमब्रवीत्॥३४॥
स्वर्गमेष गतः शूरो यो हतो न पराङ्मुखः
।
संस्तंभयत मा भैष्ट विजेष्यामो रणे रिपून्॥३५॥
इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः
।
धर्मराजो युधां श्रेष्ठो ब्रुवन् दुःखमपानुदत्॥३६॥
युद्धे ह्याशीविषाकारान् राजपुत्रान् रणे रिपून्
।
पूर्वं निहत्य सङ्ग्रामे पश्चादार्जुनिरभ्ययात्॥३७॥
हत्वा दश सहस्त्राणि कौसल्यं च महारथम्
।
कृष्णार्जुनसमः कार्ष्णिः शक्रलोकं गतो ध्रुवम्॥३८॥
रथाश्वनरमातङ्गान् विनिहत्य सहस्रशः
।
अवितृप्तः स संग्रामादशोच्यः पुण्यकर्मकृत्
।
गतः पुण्यकृतां लोकान् शाश्वतान् पुण्यनिर्जितान् ॥३९॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि अभिमन्युवधे एकोनपञ्चाशत्तमोऽध्याय॥४९॥
सञ्जय उवाच।
वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः
।
निवेशायाभ्युपायामः सायाह्ने रुधिरोक्षिताः॥१॥
वयं त्विति ॥१॥
निरीक्षमाणास्तु वयं परे चायोधनं शनैः
।
अपयाता महाराज ग्लानिं प्राप्ता विचेतसः॥२॥
ततो निशाया दिवसस्य चाशिवः शिवारुतैः सन्धिरवर्तताद्भुतः
।
कुशेशयापीडनिभे दिवाकरे विलम्बमानेऽस्तमुपेत्य पर्वतम्॥३॥
वरासिशक्त्यृष्टिवरूथचर्मणां विभूषणानां च समाक्षिपन् प्रभाः
।
दिवं च भूमिं च समानयन्निव प्रियां तनुं भानुरुपैति पावकम्॥४॥
समाक्षिपन् संहरन् समानयन्नेकतां नयन् ॥४॥
महाभ्रकूटाचलशृङ्गसन्निभैर्गजैरनेकैरिव वज्रपातितैः
।
स वैजयन्त्यंकुशवर्मयन्तृभिर्निपातितैर्नष्टगतिश्चिता क्षितिः॥५॥
हतेश्वरैश्चूर्णितपत्त्युपस्करैर्हताश्वसूतैर्विपताककेतुभिः
।
महारथैर्भू शुशुभे विचूर्णितैः पुरैरिवामित्रहतैर्नराधिप॥६॥
पत्तयः पादरक्षाः उपस्करा उपकरणानि ॥६॥
रथाश्ववृन्दैः सह सादिभिर्हतैः प्रविद्धभाण्डाभरणैः पृथग्विधैः
।
निरस्तजिह्वादशनान्त्रलोचनैर्धरा बभौ घोरविरूपदर्शना॥७॥
प्रविद्धवर्माभरणाम्बरायुधा विपन्नहस्त्यश्वरथानुगा नराः
।
महार्हशय्यास्तरणोचितास्तदा क्षितावनाथा इव शेरते हताः॥८॥
अतीव हृष्टाः श्वशृगालवायसा बकाः सुपर्णाश्च वृकास्तरक्षवः
।
वयांस्यसृक्पान्यथ रक्षसां गणाः पिशाचसङ्घाश्च सुदारुणा रणे॥९॥
त्वचो विनिर्भिद्य पिबन् वसामसृक् तथैव मज्जाः पिशितानि चाश्नुवन्
।
वपां विलुंपन्ति हसन्ति गान्ति च प्रकर्षमाणाः कुणपान्यनेकशः॥१०॥
शरीरसङ्घातवहा ह्यसृग्जला रथोडुपा कुञ्जरशैलसङ्कटा
।
मनुष्यशीर्षोपलमांसकर्दमाप्रविद्धनानाविधशस्त्रमालिनी॥११॥
भयावहा वैतरणीव दुस्तरा प्रवर्तिता योधवरैस्तदा नदी
।
उवाह मध्येन रणाजिरे भृशं भयावहा जीवमृतप्रवाहिनी॥१२॥
पिबन्ति चाश्नन्ति च यत्र दुर्द्दशाः पिशाचसंघास्तु नदन्ति भैरवाः
।
सुनन्दिताः प्राणभृतां क्षयङ्कराः समानभक्षाः श्वसृगालपक्षिणः॥१३॥
तथा तदायोधनमुग्रदर्शनं निशामुखे पितृपतिराष्ट्रवर्धनम्
।
निरीक्षमाणाः शनकैर्जहुर्नराः समुत्थिता नृत्तकबन्धसंकुलम्॥१४॥
अपेतविध्वस्तमहार्हभूषणं निपातितं शक्रसमं महाबलम्
।
रणेऽभिमन्युं ददृशुस्तदा जना व्यपोढहव्यं सदसीव पावकम्॥१५॥
इति श्रीमहाभारते अभिमन्युवधपर्वणि तृतीयदिवसावहारे समरभूमिवर्णने पञ्चाशत्तमोऽध्यायः॥५०॥
सञ्जय उवाच।
हते तस्मिन् महावीर्ये सौभद्रे रथयूथपे
।
विमुक्तरथसन्नाहाः सर्वे निक्षिप्तकार्मुकाः ॥१॥
हते इति ॥१॥
उपोपविष्टा राजानं परिवार्य युधिष्ठिरम्
।
तदेव युद्धं ध्यायन्तः सौभद्रगतमानसाः ॥२॥
ततो युधिष्ठिरो राजा विललाप सुदुःखितः
।
अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे ॥३॥
द्रोणानीकमसम्बाधं मम प्रियचिकीर्षया
।
भित्त्वा व्यूहं प्रविष्टोऽसौ गोमध्यमिव केसरी ॥४॥
असम्बाधमप्रतीघातम् ॥४॥
यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे
।
प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः ॥५॥
अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः
।
क्षिप्रं ह्यभिमुखः सङ्ख्ये विसंज्ञो विमुखीकृतः ॥६॥
स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम्
।
प्राप्य दौःशासनिं कार्ष्णिः प्राप्तो वैवस्वतक्षयम् ॥७॥
कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम्
।
सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम् ॥८॥
किंस्विद्वयमपेतार्थमक्लिष्टमसमञ्जसम्
।
तावुभौ प्रतिवक्ष्यामो हृषीकेशधनञ्जयौ ॥९॥
असमञ्जसमयुक्तरूपम् ॥९॥
अहमेव सुभद्रायाः केशवार्जुनयोरपि
।
प्रियकामो जयाकांक्षी कृतवानिदमप्रियम् ॥१०॥
न लुब्धो बुध्यते दोषाँल्लोभान्मोहात् प्रवर्तते
।
मधुलिप्सुर्हि नापश्यं प्रपातमहमीदृशम् ॥११॥
यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च
।
भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः ॥१२॥
कथं हि बालस्तरुणो युद्धानामविशारदः
।
सदश्व इव सम्बाधे विषमे क्षेममर्हति ॥१३॥
संबाधे गहने ॥१३॥
नो चेद्धि वयमप्येनं महीमनु शयीमहि
।
बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा ॥१४॥
एनम् अभिमन्युम् । अनु चेन्न महीं शयीमहि तदा क्रोधदीप्तस्य बीभत्सोः कृपणेनावसन्नेन चक्षुषा दग्धा भवेमहीत्यन्वयः ॥१४॥
अलुब्धो गतिमान् ह्रीमान् क्षमावान् रूपवान् बली
।
वपुष्मान् मानकृद्वीरः प्रियः सत्यपराक्रमः ॥१५॥
यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः
।
निवातकवचान् जघ्ने कालकेयांश्च वीर्यवान् ॥१६॥
वपुष्मांस्तेजस्वी ॥१६॥
महेन्द्रशत्रवो येन हिरण्यपुरवासिनः
।
अक्ष्णोर्निमेषमात्रेण पौलोमाः सगणा हताः॥१७॥
परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः
।
तस्यास्माभिर्न शकितस्त्रातुमप्यात्मजो बली ॥१८॥
भयं तु सुमहत् प्राप्तं धार्तराष्ट्रान्महाबलान्
।
पार्थः पुत्रवधात् क्रुद्धः कौरवान् शोषयिष्यति ॥१९॥
क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयकारकः
।
व्यक्तं दुर्योधनो दृष्ट्वा शोचन् हास्यति जीवितम् ॥२०॥
न मे जयः प्रीतिकरो न राज्यं न चामरत्वं न सुरैः सलोकता
।
इमं समीक्ष्याप्रतिवीर्यपौरुषं निपातितं देववरात्मजात्मजम् ॥२१॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि युधिष्ठिरप्रलापे एकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥
सञ्जय उवाच।
अथैनं विलपन्तं तं कुन्तीपुत्रं युधिष्ठिरम्
।
कृष्णद्वैपायनस्तत्र आजगाम महानृषिः ॥१॥
अथैनं विलपन्तं तमित्यादेः शीघ्रं योद्धुमुपाक्रामदित्यन्तस्य ग्रन्थस्य तात्पर्यं ‘ह्यस्तनोद्यतनो वाऽपि कामरोगादिष्पवृत् । स्वदोषः पुरुषं हन्ति न शस्त्ररिपुमृत्यवः’ इति ॥१॥
अर्चयित्वा यथान्यायमुपविष्टं युधिष्ठिरः
।
अब्रवीच्छोकसन्तप्तो भ्रातुः पुत्रवधेन च ॥२॥
अधर्मयुक्तैर्बहुभिः परिवार्य महारथैः
।
युध्यमानो महेष्वासैः सौभद्रो निहतो रणे ॥३॥
बालश्च बालबुद्धिश्च सौभद्रः परवीरहा
।
अनुपायेन सङ्ग्रामे युध्यमानो विशेषतः ॥४॥
मया प्रोक्तः स सङ्ग्रामे द्वारं सञ्जनयस्व नः
।
प्रविष्टेऽभ्यन्तरे तस्मिन् सैन्धवेन निवारिताः ॥५॥
द्वारं सञ्जनयस्वेति मया उक्त इति सम्बन्धः । निवारिताः तमनुप्रविशन्त इति शेषः ॥५॥
ननु नाम समं युद्धमेष्टव्यं युद्धजीविभिः
।
इदं चैवासमं युद्धमीदृशं यत् कृतं परैः ॥६॥
तेनास्मि भृशसन्तप्तः शोकबाष्पसमाकुलः
।
शमं नैवाधिगच्छामि चिन्तयानः पुनः पुनः ॥७॥
सञ्जय उवाच।
तं तथा विलपन्तं वै शोकव्याकुलमानसम्
।
उवाच भगवान् व्यासो युधिष्ठिरमिदं वचः ॥८॥
व्यास उवाच
।
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद
।
व्यसनेषु न मुह्यन्ति त्वादृशा भरतर्षभ ॥९॥
स्वर्गमेष गतः शूरः शत्रून् हत्वा बहून् रणे
।
अबालसदृशं कर्म कृत्वा वै पुरुषोत्तमः ॥१०॥
अनतिक्रमणीयो वै विधिरेष युधिष्ठिर
।
देवदानवगन्धर्वान् मृत्युर्हरति भारत ॥११॥
विधिः स्वकर्म, स एव मृत्युः ॥११॥
युधिष्ठिर उवाच
।
इमे वै पृथिवीपालाः शेरते पृथिवीतले
।
निहताः पृतनामध्ये मृतसंज्ञा महाबलाः ॥१२॥
नागायुतबालाश्चान्ये वायुवेगबलास्तथा
।
त एते निहताः सङ्ख्ये तुल्यरूपा नरैर्नराः ॥१३॥
नैषां पश्यामि हन्तारं प्राणिनां संयुगे क्वचित्
।
विक्रमेणोपसम्पन्नास्तपोबलसमन्विताः ॥१४॥
जेतव्यमिति चान्योन्यं येषां नित्यं हृदि स्थितम्
।
अथ चेमे हताः प्राज्ञाः शेरते विगतायुषः ॥१५॥
अथेति । विगतायुष इति शब्देन देहवियोगे पुरुषस्य पारतन्त्र्यं प्रतीयते ॥१५॥
मृता इति च शब्दोऽयं वर्तते च ततोऽर्थवत्
।
इमे मृता महीपालाः प्रायशो भीमविक्रमाः ॥१६॥
मृता इति शब्देन धात्वर्थानुगमात् । प्राणत्यागे पुरुषस्यास्वातन्त्र्यं प्रतीयते । ततः पुरुषं किमन्यो मारयति । उत स्वयमेव स्वात्मानं मारयतीति प्रश्नार्थः ॥१६॥
निश्चेष्टा निरभीमानाः शूराः शत्रुवशङ्गताः
।
राजपुत्राश्च संरब्धा वैश्वानरमुखं गताः ॥१७॥
अत्र मे संशयः प्राप्तः कुतः संज्ञा मृता इति
।
कस्य मृत्युः कुतो मृत्युः कथं संहरते प्रजाः॥१८॥
कस्य मृत्युः क इति शेषः । अन्तिमपक्षे कुतो हेतोः पुमान् स्वयं स्वस्य मृत्युर्भवतीत्यर्थः ॥१८॥
हरत्यमरसङ्काश तन्मे ब्रूहि पितामह
।
सञ्जय उवाच।
तं तथा परिपृच्छन्तं कुन्तीपुत्रं युधिष्ठिरम्
।
आश्वासनमिदं वाक्यमुवाच भगवानृषिः ॥१९॥
व्यास उवाच
।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
अकम्पनस्य कथितं नारदेन पुरा नृप ॥२०॥
स चापि राजा राजेन्द्र पुत्रव्यसनमुत्तमम्
।
अप्रसह्यतमं लोके प्राप्तवानिति मे मतिः ॥२१॥
तदहं सम्प्रवक्ष्यामि मृत्योः प्रभवमुत्तमम्
।
ततस्त्वं मोक्ष्यसे दुःखात् स्नेहबन्धनसंश्रयात् ॥२२॥
समस्तपापराशिघ्नं शृणु कीर्तयतो मम
।
धन्यमाख्यानमायुष्यं शोकघ्नं पुष्टिवर्धनम् ॥२३॥
पवित्रमरिसङ्घघ्नं मङ्गलानां च मङ्गलम्
।
यथैव वेदाध्ययनमुपाख्यानमिदं तथा ॥२४॥
श्रवणीयं महाराज प्रातर्नित्यं नृपोत्तमैः
।
पुत्रानायुष्मतो राज्यमीहमानैः श्रियं तथा ॥२५॥
पुरा कृतयुगे तात आसीद्राजा ह्यकम्पनः
।
स शत्रुवशमापन्नो मध्ये सङ्ग्राममूर्धनि ॥२६॥
तस्य पुत्रो हरिर्नाम नारायणसमो बले
।
श्रीमान् कृतास्त्रो मेधावी युधि शक्रोपमो बली ॥२७॥
स शत्रुभिः परिवृतो बहुधा रणमूर्धनि
।
व्यस्यन् बाणसहस्राणि योधेषु च गजेषु च ॥२८॥
स कर्म दुष्करं कृत्वा सङ्ग्रामे शत्रुतापनः
।
शत्रुभिर्निहतः सङ्ख्ये पृतनायां युधिष्ठिर ॥२९॥
स राजा प्रेतकृत्यानि तस्य कृत्वा शुचान्वितः
।
शोचन्नहनि रात्रौ च नालभत् सुखमात्मनः ॥३०॥
तस्य शोकं विदित्वा तु पुत्रव्यसनसम्भवम्
।
आजगामाथ देवर्षिर्नारदोऽस्य समीपतः ॥३१॥
स तु राजा महाभागो दृष्ट्वा देवर्षिसत्तमम्
।
पूजयित्वा यथान्यायं कथामकथयत् तदा ॥३२॥
तस्य सर्वं समाचष्ट यथा वृत्तं नरेश्वरः
।
शत्रुभिर्विजयं सङ्ख्ये पुत्रस्य च वधं तथा ॥३३॥
मम पुत्रो महावीर्य इन्द्रविष्णुसमद्युतिः
।
शत्रुभिर्बहुभिः सङ्ख्ये पराक्रम्य हतो बली ॥३४॥
क एष मृत्युर्भगवन् किंवीर्यबलपौरुषः
।
एतदिच्छामि तत्त्वेन श्रोतुं मतिमतां वर ॥३५॥
तस्य तद्वचनं श्रुत्वा नारदो वरदः प्रभुः
।
आख्यानमिदमाचष्ट पुत्रशोकापहं महत् ॥३६॥
नारद उवाच
।
शृणु राजन् महाबाहो आख्यानं बहुविस्तरम्
।
यथा वृत्तं श्रुतं चैव मयाऽपि वसुधाधिप ॥३७॥
प्रजाः सृष्ट्वा तदा ब्रह्मा आदिसर्गे पितामहः
।
असंहृतं महातेजा दृष्ट्वा जगदिदं प्रभुः ॥३८॥
तस्य चिन्ता समुत्पन्ना सहारं प्रति पार्थिव
।
चिन्तयन्न ह्यसौ वेद संहारं वसुधाधिप ॥३९॥
तस्य रोषान्महाराज खेभ्योऽग्निरुदतिष्ठत
।
तेन सर्वा दिशो व्याप्ताः सान्तर्देशा दिधक्षता ॥४०॥
खेभ्यः श्रोत्रादिच्छिद्रेभ्यः ॥४०॥
ततो दिवं भुवं चैव ज्वालामालासमाकुलम्
।
चराचरं जगत् सर्वं ददाह भगवान् प्रभुः ॥४१॥
ततो हतानि भूतानि चराणि स्थावराणि च
।
महता क्रोधवेगेन त्रासयन्निव वीर्यवान् ॥४२॥
ततो रुद्रो जटी स्थाणुर्निशाचरपतिर्हरः
।
जगाम शरणं देवं ब्रह्माणं परमेष्ठिनम् ॥४३॥
तस्मिन्नापतिते स्थाणौ प्रजानां हितकाम्यया
।
अब्रवीत् परमो देवो ज्वलन्निव महामुनिः ॥४४॥
किं कुर्म कामं कामार्ह कामाज्जातोऽसि पुत्रक
।
करिष्यामि प्रियं सर्वं ब्रूहि स्थाणो यदिच्छसि ॥४५॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि द्विपञ्चाशत्तमोऽध्यायः॥ ५२ ॥
स्थाणुरुवाच
।
प्रजासर्गनिमित्तं हि कृतो यत्नस्त्वया विभो
।
त्वया सृष्टाश्च वृद्धाश्च भूतग्रामाः पृथग्विधाः ॥१॥
प्रजेति ॥१॥
तास्तवेह पुनः क्रोधात् प्रजा दह्यन्ति सर्वशः
।
ता दृष्ट्वा मम कारुण्यं प्रसीद भगवन् प्रभो ॥२॥
कारुण्यं जातमिति शेषः ॥२॥
ब्रह्मोवाच
।
संहर्तुं न च मे काम एतदेवं भवेदिति
।
पृथिव्या हितकामं तु ततो मां मन्युराविशत् ॥३॥
इयं हि मां सहादेवी भारार्ता समचुदत्
।
संहारार्थं महादेव भारेणाभिहता सती ॥४॥
ततोऽहं नाधिगच्छामि तथा बहुविधं तदा
।
संहारमप्रमेयस्य ततो मां मन्युराविशत् ॥५॥
अप्रमेयस्यानन्तस्य जगत इति शेषः । अहिंस्यस्येति वाऽर्थः ॥५॥
रुद्र उवाच
।
संहारार्थं प्रसीदस्व मा रुषो वसुधाधिप
।
मा प्रजाः स्थावराश्चैव जङ्गमाश्च व्यनीनशः ॥६॥
संहारार्थं मा रुषः रोषं मा कार्षीः । किं तु प्रसीदस्व ॥६॥
तव प्रसादाद्भगवन्निदं वर्तेत्त्रिधा जगत्
।
अनागतमतीतं च यच्च सम्प्रति वर्तते ॥७॥
तवेति अनागतादिप्रकारत्रययुक्तं सर्वदैव जगदस्तु न त्वस्य निरन्वयोच्छेदः कार्य इत्याशयः ॥७॥
भगवन् क्रोधसन्दीप्तः क्रोधादग्निमवासृजत्
।
स दहत्यश्मकूटानि द्रुमांश्च सरितस्तथा ॥८॥
पल्वलानि च सर्वाणि सर्वे चैव तृणोलपाः
।
स्थावरं जङ्गमं चैव निःशेषं कुरुते जगत् ॥९॥
तदेतद्भस्मसाद्भूतं जगत् स्थावरजङ्गमम्
।
प्रसीद भगवन् स त्वं रोषो न स्याद्वरो मम ॥१०॥
तव रोषो न स्यादिति मम मह्यं वरोऽस्त्विति योजना ॥१०॥
सर्वे हि सृष्टा नश्यन्ति तव देव कथञ्चन
।
तस्मान्निवर्ततां तेजस्त्वय्येवेदं प्रलीयताम् ॥११॥
तत् पश्य देव सुभृशं प्रजानां हितकाम्यया
।
यथेमे प्राणिनः सर्वे निवर्तेरंस्तथा कुरु ॥१२॥
उत्सन्नजननाः प्रक्षीणसन्तानाः ॥१२॥
अभावं नेह गच्छेयुरुत्सन्नजननाः प्रजाः
।
आदिदेव नियुक्तोऽस्मि त्वया लोकेषु लोककृत् ॥१३॥
आदीति । मां लोकसन्ताने नियोज्य कथं लोकान् नाशयसीत्यर्थः ॥१३॥
मा विनश्येज्जगन्नाथ जगत् स्थावरजङ्गमम्
।
प्रसादाभिमुखं देवं तस्मादेवं ब्रवीम्यहम् ॥१४॥
नारद उवाच
।
श्रुत्वा हि वचनं देवः प्रजानां हितकारणे
।
तेजः सन्धारयामास पुनरेवान्तरात्मनि ॥१५॥
ततोऽग्निमुपसंहृत्य भगवाँल्लोकसत्कृतः
।
प्रवृत्तं च निवृत्तं च कथयामास वै प्रभुः ॥१६॥
प्रवृत्तं कर्म सृष्टिहेतुं निवृत्तं कर्म मोक्षहेतुं कथयामास ॥१६॥
उपसंहरतस्तस्य तमग्निं रोषजं तथा
।
प्रादुर्बभूव विश्वेभ्यो गोभ्यो नारी महात्मनः ॥१७॥
गोभ्य इन्द्रियच्छिद्रेभ्यः ॥१७॥
कृष्णरक्ता तथा पिङ्गरक्तजिह्वास्यलोचना
।
कुण्डलाभ्यां च राजेन्द्र तप्ताभ्यां तप्तभूषणा ॥१८॥
सा निःसृत्य तथा खेभ्यो दक्षिणां दिशमाश्रिता
।
स्मयमाना च साऽवेक्ष्य देवौ विश्वेश्वरावुभौ ॥१९॥
देवौ ब्रह्मरुद्रौ ॥१९॥
तामाहूय तदा देवो लोकादिनिधनेश्वरः
।
मृत्यो इति महीपाल जहि चेमाः प्रजा इति ॥२०॥
देवो ब्रह्मा मरणं मृत्प्राणवियोगस्तमन्यस्येच्छतीति मृत्युरित्यर्थः । इति आहेति शेषः ॥२०॥
त्वं हि संहारबुद्ध्याथ प्रादुर्भूता रुषो मम
।
तस्मात् संहर सर्वास्त्वं प्रजाः सजडपण्डिताः ॥२१॥
रुषो रोषात् ॥२१॥
मम त्वं हि नियोगेन ततः श्रेयो ह्यवाप्स्यसि
।
एवमुक्ता तु सा तेन मृत्युः कमललोचना ॥२२॥
दध्यौ चात्यर्थमबला प्ररुरोद च सुस्वरम्
।
पाणिभ्यां प्रतिजग्राह तान्यणि पितामहः
।
सर्वभूतहितार्थाय तां चाप्यनुनयत् तदा ॥२३॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि मृत्युकथने त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥
नारद उवाच
।
विनीय दुःखमबला आत्मन्येव प्रजापतिम्
।
उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता पुनः ॥१॥
विनीयेति । लतेवेति त्वदेकशरण्यत्वे दृष्टान्तः ॥१॥
मृत्युरुवाच
।
त्वया सृष्टा कथं नारी ईदृशी वदतां वर
।
क्रूरं कर्माहितं कुर्यां तदेव किमु जानती ॥२॥
बिभेम्यहमधर्माद्धि प्रसीद भगवन् प्रभो
।
प्रियान् पुत्रान् वयस्यांश्च भ्रातॄन् मातॄः पितॄन् पतीन् ॥३॥
अपध्यास्यन्ति मे देवमृतेष्वेभ्यो बिभेम्यहम्
।
कृपणानां हि रुदतां ये पतन्त्यश्रुबिन्दवः॥४॥
प्रियादीन् --न्तीमिति शेषः । तत्संबन्धिनः अपध्यास्यन्ति । परानिष्टचिन्तनमपध्यानं मृतेषु मया मारितेषु लोकेषु सत्सु मे माम् ॥४॥
तेभ्योऽहं भगवन्भीता शरणं त्वाऽहमागता
।
यमस्य भवनं देव गच्छेयं न सुरोत्तम ॥५॥
यमः शास्ता मृत्युः प्राणवियोगकर्त्री देवता ॥५॥
कायेन विनयोपेता मूर्ध्नोदग्रनखेन च
।
एतदिच्छाम्यहं कामं त्वत्तो लोकपितामह ॥६॥
उदग्रनखेन अञ्जलिना विनयोपेता शरणागताऽस्मीत्यर्थः ॥६॥
इच्छेयं त्वत्प्रसादाद्धि तपस्तप्तुं प्रजेश्वर
।
प्रदिशेमं वरं देव त्वं मह्यं भगवन् प्रभो ॥७॥
त्वया ह्युक्ता गमिष्यामि धेनुकाश्रममुत्तमम्
।
तत्र तप्स्ये तपस्तीव्रं तवैवाराधने रता ॥८॥
न हि शक्ष्यामि देवेश प्राणान् प्राणभृतां प्रियान्
।
हर्तुं विलपमानानामधर्मादभिरक्ष माम् ॥९॥
ब्रह्मोवाच
।
मृत्यो सङ्कल्पिताऽसि त्वं प्रजासंहारहेतुना
।
गच्छ संहर सर्वास्त्वं प्रजा मा ते विचारणा ॥१०॥
भविता त्वेतदेवं हि नैतज्जात्वन्यथा भवेत्
।
भवत्वनिन्दिता लोके कुरुष्व वचनं मम ॥११॥
नारद उवाच
।
एवमुक्ताऽभवत् प्रीता प्राञ्जलिर्भगवन्मुखी
।
संहारे नाकरोद्बुद्धिं प्रजानां हितकाम्यया ॥१२॥
तूष्णीमासीत्तदा देवः प्रजानामीश्वरेश्वरः
।
प्रसादं चागमत्क्षिप्रमात्मनैव प्रजापतिः ॥१३॥
स्मयमानश्च देवेशो लोकान् सर्वानवेक्ष्य च
।
लोकास्त्वासन् यथापूर्वं दृष्टास्तेनापमन्युना ॥१४॥
अपमन्युना गतामर्षेणेत्यर्थः ॥१४॥
निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते
।
सा कन्यापि जगामाथ समीपात्तस्य धीमतः ॥१५॥
अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा
।
त्वरमाणा च राजेन्द्र मृत्युर्धेनुकमभ्यगात् ॥१६॥
अप्रतिश्रुत्यानङ्गीकृत्य ॥१६॥
सा तत्र परमं तीव्रं चचार व्रतमुत्तमम्
।
सा तदा ह्येकपादेन तस्थौ पद्मानि षोडश ॥१७॥
पद्म शतं कोट्यो वर्षाणि तानि शोडष पञ्च च ॥१७॥
पञ्च चाब्दानि कारुण्यात्प्रजानां तु हितैषिणी
।
इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः सन्निवर्त्य सा ॥१८॥
ततस्त्वेकेन पादेन पुनरन्यानि सप्त वै
।
तस्थौ पद्मानि षट् चैव सप्त चैकं च पार्थिव ॥१९॥
ततः पद्मायुतं तात मृगैः सह चचार सा
।
पुनर्गत्वा ततो नन्दां पुण्यां शीतामलोदकाम् ॥२०॥
अप्सु वर्षसहस्राणि सप्त चक्रं च साऽनयत्
।
धारयित्वा तु नियमं नन्दायां वीतकल्मषा ॥२१॥
सा पूर्वं कौशिकीं पुण्यां जगाम नियमैधिता
।
तत्र वायुजलाहारा चचार नियमं पुनः ॥२२॥
पञ्चगङ्गासु सा पुण्या कन्या वेतसकेषु च
।
तपोविशेषैर्बहुभिः कर्षयद्देहमात्मनः ॥२३॥
ततो गत्वा तु सा गङ्गां महामेरुं च केवलम्
।
तस्थौ चाश्मैव निश्चेष्टा प्राणायामपरायणा ॥२४॥
पुनर्हिमवतो मूर्ध्नि यत्र देवाः पुराऽयजन्
।
तत्राङ्गुष्ठेन सा तस्थौ निखर्वं परमा शुभा ॥२५॥
पुष्करेष्वथ गोकर्णे नैमिषे मलये तथा
।
अपाकर्षत् स्वकं देहं नियमैर्मानसप्रियैः ॥२६॥
अनन्यदेवता नित्यं दृढभक्ता पितामहे
।
तस्थौ पितामहं चैव तोषयामास धर्मतः ॥२७॥
ततस्तामब्रवीत् प्रीतो लोकानां प्रभवोऽव्ययः
।
सौम्येन मनसा राजन् प्रीतः प्रीतमनास्तदा ॥२८॥
मृत्यो किमिदमत्यन्तं तपांसि चरसीःत ह
।
ततोऽब्रवीत् पुनर्मृत्युर्भगवन्तं पितामहम् ॥२९॥
नाहं हन्यां प्रजा देव स्वस्थाश्चाक्रोशतीस्तथा
।
एतदिच्छामि सर्वेश त्वत्तो वरमहं प्रभो ॥३०॥
अधर्मभयभीताऽस्मि ततोऽहं तप आस्थिता
।
भीतायास्तु महाभाग प्रयच्छाभयमव्यय ॥३१॥
आर्तां चानागसी नारी याचामि भव मे गतिः
।
तामब्रवीत् ततो देवो भूतभव्यभविष्यवित् ॥३२॥
अधर्मो नास्ति ते मृत्यो संहरन्त्या इमाः प्रजाः
।
मया चोक्तं मृषा भद्रे भविता न कथञ्चन ॥३३॥
तस्मात् संहर कल्याणि प्रजाः सर्वाश्चतुर्विधाः
।
धर्मः सनातनश्च त्वां सर्वथा पावयिष्यति ॥३४॥
लोकपालो यमश्चैव सहाया व्याधयश्च ते
।
अहं च विबुधाश्चैव पुनर्दास्याम ते वरम् ॥३५॥
यथा त्वमेनसा मुक्ता विरजाः ख्यातिमेष्यसि
।
सैवमुक्ता महाराज कृताञ्जलिरिदं विभुम् ॥३६॥
पुनरेवाब्रवीद्वाक्यं प्रसाद्य शिरसा तदा
।
यद्येवमेतत् कर्तव्यं मया न स्याद्विना प्रभो ॥३७॥
तवाज्ञा मूर्ध्नि मे न्यस्ता यत् ते वक्ष्यामि तच्छृणु
।
लोभः क्रोधोऽभ्यसूयेर्ष्या द्रोहो मोहश्च देहिनाम् ॥३८॥
अह्नीश्चान्योन्यपरुषा देहं भिन्द्युः पृथग्विधाः
।
ब्रह्मोवाच
।
तथा भविष्यते मृत्यो साधु संहर भोः प्रजाः
।
अधर्मस्तेन भविता नापध्यास्याम्यहं शुभे ॥३९॥
अन्योन्यपरुषा वागिति शेषः ॥३९॥
यान्यश्रुबिन्दुनिकरे ममासंस्ते व्याधयः प्राणिनामात्मजाताः
।
ते मारयिष्यन्ति नरान् गतासून्नाधर्मस्ते भविता मा स्म भैषीः ॥४०॥
नाधर्मस्ते भविता प्राणिनां वै त्वं वै धर्मस्त्वं हि धर्मस्य चेशा
।
धर्म्या भूत्वा धर्मनित्या धरित्री तस्मात् प्राणान् सर्वथेमान्नियच्छ ॥४१॥
सर्वेषां वै प्राणिनां कामरोषौ सन्त्यज्य त्वं संहरस्वेह जीवान्
।
एवं धर्मस्त्वां भविष्यत्यनन्तो मिथ्यावृत्तान् मारयिष्यत्यधर्मः ॥४२॥
तेनात्मानं पावयस्वात्मना त्वं पापेऽत्मानं मज्जयिष्यन्त्यसत्यात्
।
तस्मात् कामं रोषमप्यागतं त्वं सन्त्यज्यान्तः संहरस्वेति जीवान् ॥४३॥
नारद उवाच
।
सा वै भीता मृत्युसंज्ञोपदेशाच्छापाद्भीता बाढमित्यब्रवीत् तम्
।
सा च प्राणं प्राणिनामन्तकाले कामक्रोधौ त्यज्य हरत्यसक्ता ॥४४॥
मृत्युस्त्वेषां व्याधयस्तत्प्रसूता व्याधी रोगो रुज्यते येन जन्तुः
।
सर्वेषां च प्राणिनां प्रायणान्ते तस्माच्छोकं मा कृथा निष्फलं त्वम् ॥४५॥
प्रायणान्ते आयुष्यकर्मणोऽवसाने ॥४५॥
सर्वे देवाः प्राणिभिः प्रायणान्ते गत्वा वृत्ताः सन्निवृत्तास्तथैव
।
एवं सर्वे प्राणिनस्तत्र गत्वा वृत्ता देवा मर्त्यवद्राजसिंह ॥४६॥
सर्वे इति । देवा इन्द्रियाणि प्राणिभिः जीवैः सह गत्वा तत्रैव परलोके वृत्ता वृत्तवन्तः । पुनर्भूत्वा सन्निवृत्ता भवन्ति । मर्त्यभावार्था एव देवा इन्द्रादयः । मर्त्यवदेव गत्वा वृक्ता भवन्ति । न तु निवृत्ता भवन्ति । मर्त्यभावाय कर्म देवा एव निवर्तन्ते । न त्वाजानदेवास्तेषां क्रममुक्तियोग्यत्वादिति भावः ॥४६॥
वायुर्भीमो भीमनादो महौजा भेत्ता देहान् प्राणिनां सर्वगोऽसौ
।
नो वा वृत्तिं नैव वृत्तिं कदाचित् प्राप्नोत्युग्रोऽनन्ततेजोविशिष्टः ॥४७॥
प्राणवायोरेव गत्यागती तदुपहिते प्राणिनि उपचर्येते न तु प्राणेभ्यो निष्कृष्टस्य तस्य ते स्त इत्याह - वायुरिति । प्राणिनश्चेतनस्य देहानेव भिनत्ति न तु तं यतोऽसौ सर्वगः। अत एवात्रवृत्त्यादिरहितश्चेति भावः ॥४७॥
सर्वे देवा मर्त्यसंज्ञाविशिष्टास्तमात् पुत्रं मा शुचो राजसिंह
।
स्वर्गं प्राप्तो मोदते ते तनूजो नित्यं रम्यान् वीरलोकानवाप्य ॥४८॥
सर्वे देवा इति । मर्त्यत्वं मरणधर्मत्वं ब्रह्मादीनामपि स्वाभाविकमस्त्यतोऽनर्थकः शोक इत्यर्थः ॥४८॥
त्यक्त्वा दुःखं सङ्गतः पुण्यकृद्भिरेषा मृत्युर्देवदिष्टा प्रजानाम्
।
प्राप्ते काले संहरन्ती यथावत्स्वयं कृता प्राणहरा प्रजानाम् ॥४९॥
स्वयमेव स्वस्येव मृत्युः। अथापि जनानां प्राणहरा मृत्युर्जनादन्येति कल्पना कृता अनभिज्ञैरिति शेषः ॥४९॥
आत्मानं वै प्राणिनो घ्नन्ति सर्वे नैतान् मृत्युर्दण्डपाणिर्हिनस्ति
।
तस्मान्मृतान्नानुशोचन्ति धीरा मृत्युं ज्ञात्वा निश्चयं ब्रह्मसृष्टम्
।
इत्थं सृष्टिं देवक्लृप्तां विदित्वा पुत्रान्नष्टाच्छोकमाशु त्यजस्व ॥५०॥
एतदेवाह - आत्मानमिति नष्टात् जातमिति शेषः ॥५०॥
द्वैपायन उवाच
।
एतच्छ्रुत्वाऽर्थवद्वाक्यं नारदेन प्रकाशितम्
।
उवाचाकम्पनो राजा सखायं नारदं तथा ॥५१॥
व्यपेतशोकः प्रीतोऽस्मि भगवन्नृषिसत्तम
।
श्रुत्वेतिहासं त्वत्तस्तु कृतार्थोऽस्म्यभिवादये ॥५२॥
तथोक्तो नारदस्तेन राज्ञा ऋषिवरोत्तमः
।
जगाम नन्दनं शीघ्रं देवर्षिरमितात्मवान् ॥५३॥
पुण्यं यशस्यं स्वर्ग्यं च धन्यमायुष्यमेव च
।
अस्येतिहासस्य सदा श्रवणं श्रावणं तथा ॥५४॥
एतदर्थपदं श्रुत्वा तदा राजा युधिष्ठिरः
।
क्षत्रधर्मं च विज्ञाय शूराणां च परां गतिम् ॥५५॥
सम्प्राप्तोऽसौ महावीर्यः स्वर्गलोकं महारथः
।
अभिमन्युः परान् हत्वा प्रमुखे सर्वधन्विनाम् ॥५६॥
युध्यमानो महेष्वासो हतः सोऽभिमुखो रणे
।
असिना गदया शक्त्या धनुषा च महारथः ॥५७॥
विरजाः सोमसूनुः स पुनस्तत्र प्रलीयते
।
तस्मात् परां धृतिं कृत्वा भ्रातृभिः सह पाण्डव
।
अप्रमत्तः सुसन्नद्धः शीघ्रं योद्धुमुपाक्रम ॥५८॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि मृत्युप्रजापतिसंवादे चतुष्पञ्चाशत्तमोऽध्यायः॥५४॥
सञ्जय उवाच।
श्रुत्वा मृत्युसमुत्पत्तिं कर्माण्यनुपमानि च
।
धर्मराजः पुनर्वाक्यं प्रसाद्यैनमथाब्रवीत् ॥१॥
श्रुत्वेति ॥१॥
युधिष्ठिर उवाच
।
गुरवः पुण्यकर्माणः शक्रप्रतिमविक्रमाः
।
स्थाने राजर्षयो ब्रह्मन्ननघाः सत्यवादिनः ॥२॥
ननु मृत्योः स्वाभाविकत्वेऽपि गुणवत्पुरुषवियोगो दुःखायेत्येवेत्याशंक्य ‘दुःखे दुःखाधिकान् पश्येत्तेन शाकोऽपनयिते’ इत्युक्तेः । शोकापनोदार्थम् अतीतान् गुणवत्तरान् पृच्छति - गुरव इति । सति शोभने स्थाने सत्यलोकादौ पुण्यकर्माणो गुरवो वसन्तीति शेषः । अवादिनः मौनिनः ॥२॥
भूय एव तु मां तथ्यैर्वचोभिरभिबृंहय
।
राजर्षीणां पुराणानां समाश्वासय कर्मभिः ॥३॥
गुणवत्तरत्वबुभुत्सया तेषां कर्माणि पृच्छति - भूय इति ॥३॥
कियन्त्यो दक्षिणा दत्ताः कैश्च दत्ता महात्मभिः
।
राजर्षिभिः पुण्यकृद्भिस्तद्भवान् प्रब्रवीतु मे ॥४॥
व्यास उवाच
।
शैब्यस्य नृपतेः पुत्रः सृञ्जयो नाम नामतः
।
सखायौ तस्य चैवोभौ ऋषी पर्वतनारदौ ॥५॥
तौ कदाचिद्गृहं तस्य प्रविष्टौ तद्दिदृक्षया
।
विधिवच्चार्चितौ तेन प्रीतौ तत्रोषतुः सुखम् ॥६॥
तं कदाचित्सुखासीनं ताभ्यां सह शुचिस्मिता
।
दुहिताभ्यागमत् कन्या सृञ्जयं वरवर्णिनी ॥७॥
तयाऽभिवादितः कन्यामभ्यनन्दद्यथाविधि
।
तत्सलिङ्गाभिराशीर्भिरिष्टाभिरभितः स्थिताम् ॥८॥
तत्सलिङ्गाभिस्तस्य अनुरूपाभिः अभितः पार्श्वतः ॥८॥
तां निरीक्ष्याब्रवीद्वाक्यं पर्वतः प्रहसन्निव
।
कस्येयं चञ्चलापाङ्गी सर्वलक्षणसंमता ॥९॥
उताहो भाः स्विदर्कस्य ज्वलनस्य शिखा त्वियम्
।
श्रीर्ह्रीः कीर्तिर्धृतिः पुष्टिः सिद्धिश्चन्द्रमसः प्रभा ॥१०॥
एवं ब्रुवाणं देवर्षिं नृपतिः सृञ्जयोऽब्रवीत्
।
ममेयं भगवन् कन्या मत्तो वरमभीप्सति ॥११॥
नारदस्त्वब्रवीदेनं देहि मह्यमिमां नृप
।
भार्यार्थं सुमहच्छ्रेयः प्राप्तुं चेदिच्छसे नृपः ॥१२॥
ददानीत्येव संहृष्टः सृञ्जयः प्राह नारदम्
।
पर्वतस्तु सुसङ्क्रुद्धो नारदं वाक्यमब्रवीत् ॥१३॥
हृदयेन मया पूर्वं वृतां वै वृतवानसि
।
यस्माद्धृता त्वया विप्र मा गाः स्वर्गं यथेप्सया ॥१४॥
हृदयनेति । मदवज्ञानान्मानुषीवरणाच्च स्वर्गतिस्ते प्रतिबद्धेत्यर्थः ॥१४॥
एवमुक्तो नारदस्तं प्रत्युवाचोत्तरं वचः
।
मनोवाग्बुद्धिसम्भाषा दत्ता चोदकपूर्वकम् ॥१५॥
मनोवागिति । वरलक्षणं वरणं वरः कन्यापरिग्रहस्तस्या लक्षणं साधकं प्रथितं सप्तविधं प्रसिद्धम् । तत्र वरस्य मनोः वचोभ्यां दातुर्बुद्ध्या उभयोः संभाषया लौकिकं वरवध्वोः सन्धानमुदकपूर्वकं दानेन पाणिग्रहणेन च मन्त्रवद्वैदिकं सन्धानं भवति । एषा षड्विधाऽपि मुख्या निष्ठा न भवति । किं तु सप्तमैव निश्चिता निष्ठा । ‘पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे’ इति वचनात् । सप्तमोद्देशेन भार्यात्वं भवति न ततः प्रागिति भावः ॥१५॥
पाणिग्रहणमन्त्राश्च प्रथितं वरलक्षणम्
।
न त्वेषा निश्चिता निष्ठा निष्ठा सप्तपदी स्मृता ॥१६॥
अनुत्पन्ने च कार्यार्थे मां त्वं व्याहृतवानसि
।
तस्मात्त्वमपि न स्वर्गं गमिष्यसि मया विना ॥१७॥
अन्योन्यमेवं शप्त्वा वै तस्थतुस्तत्र तौ तदा
।
अथ सोऽपि नृपो विप्रान् पानाच्छादनभोजनैः ॥१८॥
पुत्रकामः परं शक्त्या यत्नाच्चोपाचरच्छुचिः
।
तस्य प्रसन्ना विप्रेन्द्राः कदाचित् पुत्रमीप्सवः ॥१९॥
तपःस्वाध्यायनिरता वेदवेदाङ्गपारगाः
।
सहिता नारदं प्राहुर्देह्यस्मै पुत्रमीप्सितम् ॥२०॥
तथेत्युक्त्वा द्विजैरुक्तः सृञ्जयं नारदोऽब्रवीत्
।
तुभ्यं प्रसन्ना राजर्षे पुत्रमीप्सन्ति ब्राह्मणाः ॥२१॥
द्विजैरुक्तो नारदस्तथेत्युक्त्वा सृञ्जयमब्रवीदित्यन्वयः ॥२१॥
वरं वृणीष्व भद्रं ते यादृशं पुत्रमीप्सितम्
।
तथोक्तः प्राञ्जली राजा पुत्रं वव्रे गुणान्वितम् ॥२२॥
यस्य मूत्रादिकं काञ्चनं तं पुत्रं वव्रे इति सम्बन्धः ॥२२॥
यशस्विनं कीर्तिमन्तं तेजस्विनमरिन्दमम्
।
यस्य मूत्रं पुरीषं च क्लेदः स्वेदश्च काञ्चनम् ॥२३॥
क्लेदः श्लेष्मादिः ॥२३॥
सुवर्णष्ठीविरित्येवं तस्य नामाभवत् कृतम्
।
तस्मिन् वरप्रदानेन वर्धयत्यमितं धनम् ॥२४॥
सुवणष्ठीविरित्यनेन गण्डूषादिकमपि काञ्चनं भवतीति सूचितम् ॥२४॥
कारयामास नृपतिः सौवर्णं सर्वमीप्सितम्
।
गृहप्राकारदुर्गाणि ब्राह्मणावसाथान्यपि ॥२५॥
शय्यासनानि यानानि स्थाली पिठरभाजनम्
।
तस्य राज्ञोऽपि यद्वेश्म बाह्याश्चोपस्कराश्च ये ॥२६॥
सर्वं तत् काञ्चनमयं कालेन परिवर्धितम्
।
अथ दस्युगणाः श्रुत्वा दृष्ट्वा चैनं तथाविधम् ॥२७॥
सम्भूय तस्य नृपतेः समारब्धाश्चिकीर्षितुम्
।
केचित्तत्राब्रुवन् राज्ञः पुत्रं गृह्णीम वै स्वयम् ॥२८॥
चिकीर्षितुमपकारं कर्तुम् । कॄ हिंसायामित्यस्य रूपम् ॥२८॥
सोऽस्याकरः काञ्चनस्य तस्य यत्नं चरामहे
।
ततस्ते दस्यवो लुब्धाः प्रविश्य नृपतेर्गुहम् ॥२९॥
राजपुत्रं तथा जह्रुः सुवर्णष्ठीविनं बलात्
।
गृह्यैनमनुपायज्ञा नीत्वाऽरण्यमचेतसः ॥३०॥
हत्वा विशस्य चापश्यन् लुब्धा वसु न किञ्चन
।
तस्य प्राणैर्विमुक्तस्य नष्टं तद्वरदं वसु ॥३१॥
दस्यवश्च तदाऽन्योन्यं जघ्नुर्मूर्खा विचेतसः
।
हत्वा परस्परं नष्टाः कुमारं चाद्भुतं भुवि ॥३२॥
असम्भाव्यं गता घोरं नरकं दुष्टकारिणः
।
तं दृष्ट्वा निहतं पुत्रं वरदत्तं महातपाः ॥३३॥
विललाप सुदुःखार्तो बहुधा करुणं नृपः
।
विलपन्तं निशम्याथ पुत्रशोकहतं नृपम् ॥३४॥
प्रत्यदृश्यत देवर्षिर्नारदस्तस्य सन्निधौ
।
उवाच चैनं दुःखार्तं विलपन्तमचेतसम् ॥३५॥
सृञ्जयं नारदोऽभ्येत्य तन्निबोध युधिष्ठिर
।
कामानामवितृप्तस्त्वं सृञ्जयेह मरिष्यसि ॥३६॥
यस्य चैते वयं गेहे उषिता ब्रह्मवादिनः
।
आविक्षितं मरुत्तं च मृतं सृञ्जय शुश्रुम ॥३७॥
संवर्तो याजयामास स्पर्धया वै बृहस्पतेः
।
यस्मै राजर्षये प्रादाद्धनं स भगवान् प्रभुः ॥३८॥
हैमं हिमवतः पादं यियक्षोर्विविधैः सवैः
।
यस्य सेन्द्राऽमरगणा बृहस्पतिपुरोगमाः ॥३९॥
सवैः यज्ञैः ॥३९॥
देवा विश्वसृजः सर्वे यजनान्ते समासते
।
यज्ञवाटस्य सौवर्णाः सर्वे चासन् परिच्छदाः ॥४०॥
यस्य सर्वं तदा ह्यन्नं मनोभिप्रायगं शुचि
।
कामतो बुभुजुर्विप्राः सर्वे चान्नार्थिनो द्विजाः ॥४१॥
पयो दधि घृतं क्षौद्रं भक्ष्यं भोज्यं च शोभनम्
।
यस्य यज्ञेषु सर्वेषु वासांस्याभरणानि च ॥४२॥
ईप्सितान्युपतिष्ठन्ते प्रहृष्टान् वेदपारगान्
।
मरुतः परिवेष्टारो मरुत्तस्याभवन् गृहे ॥४३॥
आविक्षितस्य राजर्षेर्विश्वे देवाः सभासदः
।
यस्य वीर्यवतो राज्ञः सुवृष्ट्या सस्यसम्पदः ॥४४॥
हविर्भिस्तर्पिता येन सम्यक् क्लृप्तैर्दिवौकसः
।
ऋषीणां च पितॄणां च देवानां सुखजीविनाम् ॥४५॥
ब्रह्मचर्यश्रुतिमुखेः सर्वैर्दानैश्च सर्वदा
।
शयनासनपानानि स्वर्णराशीश्च दुस्त्यजाः ॥४६॥
तत् सर्वममितं वित्तं दत्तं विप्रेभ्य इच्छया
।
सोऽनुध्यातस्तु शक्रेण प्रजाःकृत्वा निरामयाः ॥४७॥
श्रद्दधानो जितान् लोकान् गतः पुण्यदुहोऽक्षयान्
।
सप्रजः सनृपामात्यः सदारापत्यबान्धवः ॥४८॥
यौवनेन सहस्त्राब्दं मरुत्तो राज्यमन्वशात्
।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ॥४९॥
चतुर्भद्रतरः धर्मज्ञानवैराग्यैश्वर्याणि चत्वारि भद्राणि । धर्मार्थकामबलानीत्यन्ये । ‘वित्तं दानसमेतं ज्ञानमगर्वं क्षमान्वितं शौर्यम् । भोगः संगविहीनो दुर्लभमेतच्चतुर्भद्रम्’ इति वा । त्वया त्वत्तः ॥४९॥
पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
।
अयज्वानमदाक्षिण्यमभिश्वै त्येति व्याहरन् ॥५०॥
तुभ्यं तव । मरुत्तात्त्वं निर्गुणस्त्वत्तोऽपि निर्गुणस्त्वत्पुत्र इति न तदर्थं शोको युक्त इति भावः । अयज्वानमदाक्षिण्यं पुत्रमभिलक्ष्य माऽनुतप्यथाः । हे श्वैत्य श्वित्यपुत्र इति 'व्याहरन्नारदः सृञ्जयं प्रतीति व्यासवाक्यम् ॥५०॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५॥
नारद उवाच
।
सुहोत्रं नाम राजानं मृतं सृञ्जय शुश्रुम
।
एकवीरमशक्यं तममरैरभिवीक्षितुम् ॥१॥
सुहोत्रमिति ॥१॥
यः प्राप्य राज्यं धर्मेण ऋत्विग्ब्रह्मपुरोहितान्
।
अपृच्छदात्मनः श्रेयः पृष्ट्वा तेषां मते स्थितः ॥२॥
प्रजानां पालनं धर्मो दानमिज्या द्विषज्जयः
।
एतत्सुहोत्रो विज्ञाय धर्मेणैच्छद्धनागमम् ॥३॥
धर्मेणाराधयन्देवान् बाणैः शत्रून् जयंस्तथा
।
सर्वाण्यपि च भूतानि स्वगुणैरप्यरञ्जयत् ॥४॥
यो भुक्त्वेमां वसुमतीं म्लेच्छाटविकवर्जिताम्
।
यस्मै ववर्ष पर्जन्यो हिरण्यं परिवत्सरान् ॥५॥
हैरण्यास्तत्र वाहिन्यः स्वैरिण्यो व्यवहन् पुरा
।
ग्राहान् कर्कटकांश्चैव मत्स्यांश्च विविधान् बहून् ॥६॥
हैरण्या हिरण्मयाः ग्राहादयोऽपि वाहिन्यो नद्यः स्वैरिण्यः सर्वजनोपयोग्याः ॥६॥
कामान् वर्षति पर्जन्यो रूपाणि विविधानि च
।
सौवर्णान्यप्रमेयाणि वाप्यश्च क्रोशसंमिताः ॥७॥
सहस्रं वामनान् कुब्जान्नक्रान् मकरकच्छपान्
।
सौवर्णान् विहितान् दृष्ट्वा ततोऽस्मयत वै तदा ॥८॥
तत् सुवर्णमपर्यन्तं राजर्षिः कुरुजाङ्गलेः
।
ईजानो वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत ॥९॥
सोऽश्वमेधसहस्रेण राजसूयशतेन च
।
पुण्यैः क्षत्रिययज्ञैश्च प्रभूतवरदक्षिणैः ॥१०॥
काम्यनैमित्तिकाजस्रैरिष्टां गतिमवाप्तवान्
।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ॥११॥
पुत्रान् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
।
अयज्वानमदाक्षिण्यमभिश्वैत्येति व्याहरन् ॥१२॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥
नारद उवाच
।
राजानं पौरवं वीरं मृतं सृञ्जय शुश्रुम
।
सहस्रं यः सहस्राणां श्वेतानश्वानवासृजत् ॥१॥
राजानमिति ॥१॥
तस्याश्वमेधे राजर्षेर्देशाद्देशात् समीयुषाम्
।
शिक्षाक्षरविधिज्ञानां नासीत् सङ्ख्या विपश्चिताम् ॥२॥
वेदविद्याव्रतस्नाता वदान्याः प्रियदर्शनाः
।
सुभिक्षाच्छादनगृहाः सुशय्यासनभोजनाः ॥३॥
नट-नर्तक-गन्धर्वैः पूर्णकैर्वर्धमानकैः
।
नित्योद्योगैश्च क्रीडद्भिस्तत्र स्म परिहर्षिताः ॥४॥
पूर्णकैः स्वर्णचूडैः डाङ्कुलता इति दाक्षिणात्यप्रतिद्धेः । वर्धमानकैः आरार्तिकहस्तैः ॥४॥
यज्ञे यज्ञे यथाकालं दक्षिणाः सोऽत्यकालयत्
।
द्विपा दशसहस्राख्याः प्रमदाः काञ्चनप्रभाः ॥५॥
सध्वजाः सपताकाश्च रथा हेममयास्तथा
।
यः सहस्रं सहस्राणि कन्या हेमविभूषिताः ॥६॥
धूर्युजाश्वगजारूढाः स्वगृहक्षेत्रगोशताः
।
शतं शतसहस्राणि स्वर्णमाली महात्मनाम् ॥७॥
धूर्युजा रथाः ॥७॥
नावां सहस्रानुचरान् दक्षिणामत्यकालयत्
।
हेमशृङ्ग्यो रौप्यखुराः सवत्साः कांस्यदोहनाः ॥८॥
दासीदासखरोष्ट्राश्च प्रादादाजाविकं बहु
।
रत्नानां विविधानां च विविधांश्चान्नपर्वतान् ॥९॥
तस्मिन् संवितते यज्ञे दक्षिणामत्यकालयत्
।
तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः ॥१०॥
अङ्गस्य यजमानस्य स्वधर्माधिगताः शुभाः
।
गुणोत्तरास्तु क्रतवस्तस्यासन्सार्वकामिकाः॥११॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
।
अयज्वानमदाक्षिण्यमभिश्वैत्येति व्याहरन् ॥१२॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥
नारद उवाच
।
शिबिमौशीनरं चापि मृतं सृञ्जय शुश्रुम
।
य इमां पृथिवीं सर्वां चर्मवत् पर्यवेष्टयत् ॥१॥
शिबिमिति । पर्यवेष्टयत् स्वाधीनामकरोत् ॥१॥
साद्रिद्वीपार्णवचनां रथघोषेण नादयन्
।
स शिबिर्वै रिपून्नित्यं मुख्यान्निघ्नन् सपत्नजित् ॥२॥
तेन यज्ञैर्बहुविधैरिष्टं पर्याप्तदक्षिणैः
।
स राजा वीर्यवान् धीमानवाप्य वसु पुष्कलम् ॥३॥
सर्वमूर्धाभिषिक्तानां संमतः सोऽभवद्युधि
।
अयजच्चाश्वमेघैर्यो विजित्य पृथिवीमिमाम् ॥४॥
निरर्गलैर्बहुफलैर्निष्ककोटिसहस्रदः
।
हस्त्यश्वपशुभिर्धान्यैर्मृगैर्गोजाविभिस्तथा ॥५॥
विविधां पृथिवीं पुण्यां शिबिर्ब्राह्मणसात् करोत्
।
यावत्यो वर्षतो धारा यावत्यो दिवि तारकाः ॥६॥
यावत्यः सिकता गाङ्ग्यो यावन्मेरोर्महोपलाः
।
उदन्वति च यावन्ति रत्नानि प्राणिनोऽपि च ॥७॥
तावतीरददद्गा वै शिबिरौशीनरोऽध्वरे ॥७॥
नो यन्तारं धुरस्तस्य कञ्चिदन्यं प्रजापतिः
।
भूतं भव्यं भवन्तं वा नाध्यगच्छन्नरोत्तमम् ॥८॥
त्रैकालिकेषु राजसु तदन्यं राजानं तस्य शिबेः धुरः कार्यभारस्य यन्तारं वोढारं प्रजापतिः स्त्रष्टा स्वसृष्टौ नाध्यगच्छत् ॥८॥
तस्यासन् विविधा यज्ञाः सर्वकामैः समन्विताः ॥९॥
हेमयूपासनगृहां हेमप्राकारतोरणाः
।
शुचि स्वाद्वन्नपानं च ब्राह्मणाः प्रयुतायुताः॥१०॥
नानाभक्ष्यैः प्रियकथाः पयोदधिमहाह्रदाः
।
तस्यासन् यज्ञवाटेषु नद्यः शुभ्रान्नपर्वताः ॥११॥
पिबत स्नात खादध्वमिति यद्रोचते जनाः
।
यस्मै प्रादाद्वरं रुद्रस्तुष्टः पुण्येन कर्मणा ॥१२॥
अक्षयं ददतो वित्तं श्रद्धा कीर्तिस्तथा क्रियाः
।
यथोक्तमेव भूतानां प्रियत्वं स्वर्गमुत्तमम् ॥१३॥
ददतो राज्ञो वित्तादिकमक्षयमस्त्विति रुद्रो वरं ददाविति सम्बन्धः ॥१३॥
एतान् लब्ध्वा वरानिष्टान् शिबिः काले दिवं गतः
।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ॥१४॥
पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
।
अयज्वानमदाक्षिण्यमभिश्वैत्येति व्याहरन् ॥१५॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये अष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥
नारद उवाच
।
रामं दाशरथिं चैव मृतं सृञ्जय शुश्रुम
।
यं प्रजा अन्वमोदन्त पिता पुत्रानिवौरसान् ॥१॥
राममिति । प्रजानां पुत्रवत्प्रियोऽभूदित्यर्थः ॥१॥
असङ्ख्येया गुणा यस्मिन्नासन्नमिततेजसि
।
यश्चतुर्दश वर्षाणि निदेशात् पितुरच्युतः ॥२॥
वने वनितया सार्धमवसल्लक्ष्मणाग्रजः
।
जघान च जनस्थाने राक्षसान् मनुजर्षभः ॥३॥
तपस्विनां रक्षणार्थं सहस्राणि चतुर्दश
।
तत्रैव वसतस्तस्य रावणो नाम राक्षसः ॥४॥
जहार भार्यां वैदेहीं संमोह्यैनं सहानुजम्
।
तमागस्कारिणं रामः पौलस्त्यमजितं परैः ॥५॥
जघान समरे क्रुद्धः पुरेव त्र्यम्बकोऽन्धकम्
।
सुरासुरैरवध्यं तं देवब्राह्मणकण्टकम् ॥६॥
जघान स महाबाहुः पौलस्त्यं सगणं रणे
।
स प्रजानुग्रहं कृत्वा त्रिदशैरभिपूजितः ॥७॥
व्याप्य कृत्स्नं जगत्कीर्त्या सुरर्षिगणसेवितः
।
स प्राप्य विविधं राज्यं सर्वभूतानुकम्पकः ॥८॥
आजहार महायज्ञं प्रजा धर्मेण पालयन्
।
निरर्गलं सजारूथ्यमश्वमेधं च तं विभुः ॥९॥
आजहार सुरेशस्य हविषा मुदमाहरत्
।
अन्यैश्च विविधैर्यज्ञैरीजे बहुगुणैर्नृपः ॥१०॥
क्षुत्पिपासेऽजयद्रामः सर्वरोगांश्च देहिनाम्
।
सततं गुणसम्पन्नो दीप्यमानः स्वतेजसा ॥११॥
अति सर्वाणि भूतानि रामो दाशरथिर्बभौ
।
ऋषीणां देवतानां च मानुषाणां च सर्वशः ॥१२॥
पृथिव्यां मानुषाणां प्रत्यक्षा देवादयो विचरन्ति पुण्यातिशयात् ॥१२॥
पृथिव्यां सहवासोऽभूद्रामे राज्यं प्रशासति
।
नाहीयत तदा प्राणः प्राणिनां न तदन्यथा ॥१३॥
प्राणो बलम् । प्राणादयश्च तदन्यथा प्राणाद्यन्यथा भावेन नाहीयन्त । अतिश्वासा निश्वासादयो रोगा नाभवन्नित्यर्थः ॥१३॥
प्राणोऽपानः समानश्च रामे राज्यं प्रशासति
।
पर्यदीप्यन्त तेजांसि तदनर्थाश्च नाभवन् ॥१४॥
दीर्घायुषः प्रजाः सर्वा युवा न म्रियते तदा
।
वेदैश्चतुर्भिः सुप्रीताः प्राप्नुवन्ति दिवौकसः ॥१५॥
हव्यं कव्यं च विविधं निष्पूर्तं हुतमेव च
।
अदंशमशका देशा नष्टव्यालसरीसृपाः ॥१६॥
निष्पूर्तं तटाकारामादि । हुतम् इष्टम् ॥१६॥
नाप्सु प्राणभृतां मृत्युर्नाकाले ज्वलनोऽदहत्
।
अधर्मरुचयो लुब्धा मूर्खा वा नाभवंस्तदा ॥१७॥
शिष्टेष्टप्राज्ञकर्माणः सर्वे वर्णास्तदाऽभवन्
।
स्वधां पूजां च रक्षोभिर्जनस्थाने प्रणाशिताम् ॥१८॥
प्रादान्निहत्य रक्षांसि पितृदेवेभ्य ईश्वरः
।
सहस्रपुत्राः पुरुषा दशवर्षशतायुषः ॥१९॥
न च ज्येष्ठाः कनिष्ठेभ्यस्तदा श्राद्धान्यकारयन्
।
श्यामो युवा लोहिताक्षो मत्तमातङ्गविक्रमः ॥२०॥
आजानुबाहुः सुभुजः सिंहस्कन्धो महाबलः
।
दशवर्षसहस्राणि दशवर्षशतानि च ॥२१॥
सर्वभूतमनःकान्तो रामो राज्यमकारयत्
।
रामो रामो राम इति प्रजानामभवत् कथा ॥२२॥
रामाद्रामं जगदभूद्रामे राज्यं प्रशासति
।
चतुर्विधाः प्रजा रामः स्वर्गं नीत्वा दिवं गतः ॥२३॥
राममभिरामम् ॥२३॥
आत्मानं सम्प्रतिष्ठाप्य राजवंशमिहाष्टधा
।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ॥२४॥
पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
।
अयज्वानमदाक्षिण्यमभिश्वैत्येति व्याहरन् ॥२५॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये एकोनषष्टितमोऽध्यायः ॥ ५९ ॥
नारद उवाच
।
भगीरथं च राजानं मृतं सृञ्जय शुश्रुम
।
येन भागीरथी गङ्गा चयनैः काञ्चनैश्चिता ॥१॥
भगीरथमिति । चयनैः काञ्चनैः चिता स्वर्णेष्टकमयैः क्रत्वर्थस्थंडिलैर्व्याप्ता चयनैरिष्टकासोपानैर्वा, कूलद्वये उद्गमात्संगमपर्यन्तं निचितेति वाऽर्थः ॥१॥
यः सहस्रं सहस्राणां कन्या हेमविभूषिताः
।
राज्ञश्च राजपुत्रांश्च ब्राह्मणेभ्यो ह्यमन्यत ॥२॥
राज्ञश्च राजपुत्रांश्चातिक्रम्येति शेषः । ब्राह्मणेभ्यः अमन्यत दत्तवान् ॥२॥
सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः
।
रथे रथे शतं नागाः सर्वे वै हेममालिनः ॥३॥
सहस्रमश्वाश्चैकैकं गजानां पृष्ठतोऽन्वयुः
।
अश्वे अश्वे शतं गावो गवां पश्चादजाविकम् ॥४॥
तेनाक्रान्ता जलौघेन दक्षिणा भूयसीर्ददत्
।
उपह्वरेऽतिव्यथिता तस्याङ्के निषसाद ह ॥५॥
येन हेतुना उपह्वरे समीपे भूयसीर्दक्षिणा ददत् राजा आस्ते तेन हेतुना गङ्गा जनौघभारेण आक्रान्ता वेत्रयष्टिवत्तीरप्रदेशे नतिं प्राप्ता सती अतिव्यथिताऽतस्तस्याङ्के निषसाद ह दक्षिणाभारेण तीरप्रदेशेऽवनते प्रवाहाम्बु राज्ञोङ्कपर्यन्तमागतामित्यर्थः ॥५॥
तथा भागीरथी गङ्गा उर्वशी चाभवत् पुरा
।
दुहितृत्वं गता राज्ञः पुत्रत्वमगमत् तदा ॥६॥
तथा तेन प्रकारेण गङ्गा ऊरुं भारमश्नुत इति वा राज्ञ ऊरुमश्नुते इति वा योगात् उर्वशी अभवत् । द्वितीयपक्षे पृषोदरादित्वादादेर्ह्रस्वत्वम् । पुत्रत्वं नरकात्त्राणकर्तृत्वम् ॥६॥
तां तु गाथां जगुः प्रीता गन्धर्वाः सूर्यवर्चसः
।
पितृदेवमनुष्याणां शृण्वतां वल्गुवादिनः ॥७॥
भगीरथं यजमानमैक्ष्वाकुं भूरिदक्षिणम्
।
गङ्गा समुद्रगा देवी वव्रे पितरमीश्वरम् ॥८॥
तस्य सेन्द्रैः सुरगणैर्देवैर्यज्ञः स्वलङ्कृतः
।
सम्यक्परिगृहीतश्च शान्तविघ्नो निरामयः ॥९॥
यो य इच्छेत विप्रो वै यत्र यत्रात्मनः प्रियम्
।
भगीरथस्तदा प्रीतस्तत्र तत्राददद्वशी ॥१०॥
वशी योगी योगप्रभावात् यो यत्र देशे यत् इच्छेत् स तत्र प्राप्नुयादित्यर्थः ॥१०॥
नादेयं ब्राह्मणस्यासीद्यस्य यत्स्यात् प्रियं धनम्
।
सोऽपि विप्रप्रसादेन ब्रह्मलोकं गतो नृपः ॥११॥
येन यातौ मखमुखौ दिशाशाविहपादपाः
।
तेनावस्थातुमिच्छन्ति तं गत्वा राजमीश्वरम् ॥१२॥
येनेति । पादपा मरीचिपा ऋषयः येन कारणेन यदर्थं यातौ उदितौ मखौ कर्मयज्ञयोगयज्ञौ मुखे प्राप्तिद्वारभूतौ ययोस्तौ मखमुखौ सूर्यतदन्तर्यामिणौ । अवस्थातुमुपस्थातुमिच्छन्ति तेनैव प्रयोजनेन तं भगीरथमवस्थातुमिच्छन्ति तत्र हेतुद्वयम् । गत्वा राजमितीश्वरमिति च गच्छतीति गत्वा त्रिजगती तस्यां राजत इति गत्वा राजः सूर्यः नृपश्च ईश्वरः ईशनशीलस्तदन्तर्यामी नृपश्च । अयं भावः - यत्सूर्यदर्शनेन फलं पापनाशादि तदस्य दर्शनेन भवति यच्च सूर्यान्तर्यामिणः उपासनेन फलं सत्यसङ्कल्पत्वादि तदस्योपासनेन भवतीति मरीचिपादीनामयमेव द्रष्टव्य उपास्यश्च जात इति ॥१२॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ॥१३॥
अयज्वानमदाक्षिण्यमभिश्वैत्येति व्याहरन् ॥१४॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये षष्टितमोऽध्यायः ॥ ६० ॥
नारद उवाच
।
दिलीपं चेदैलविलं मृतं सृञ्जय शुश्रुम
।
यस्य यज्ञशतेष्वासन् प्रयुतायुतशो द्विजाः
।
तन्त्रज्ञानार्थसम्पन्ना यज्वानः पुत्रपौत्रिणः ॥१॥
दिलीपमिति ॥१॥
य इमां वसुसम्पूर्णां वसुधां वसुधाधिपः
।
ईजानो वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत ॥२॥
तन्त्रं क्रिया सार्धश्लोकः ॥२॥
दिलीपस्य तु यज्ञेषु कृतः पन्था हिरण्मयः
।
तं धर्म इव कुर्वाणाः सेन्द्रा देवाः समागमन् ॥३॥
पन्था हिरण्मयः हिरण्मय्यः स्रुचो भवन्तीति विधिमार्गस्तत आरभ्य प्रवृत्त इत्यर्थः । धर्मे निमित्ते पुण्योत्पत्त्यर्थमिव देवास्तमलं कुर्वन्तीत्यर्थः ॥३॥
सहस्रं यत्र मातङ्गा गच्छन्ति पर्वतोपमाः
।
सौवर्णं चाभवत् सर्वं सदः परमभास्वरम् ॥४॥
रसानां चाभवन्कुल्या भक्ष्याणां चापि पर्वताः
।
सहस्रव्यामा नृपते यूपाश्चासन्हिरण्मयाः ॥५॥
चषालं प्रचषालं च यस्य यूपे हिरण्मये
।
नृत्यन्तेऽप्सरसस्तस्य षट्सहस्राणि सप्तधा ॥६॥
यत्र वीणां वादयति प्रीत्या विश्वावसुः स्वयम्
।
सर्वभूतान्यमन्यन्त राजानं सत्यशीलिनम् ॥७॥
रागखाण्डवभोज्यैश्च मत्ताः पतिषु शेरते
।
तदेतदद्भुतं मन्ये अन्यैर्न सदृशं नृपैः ॥८॥
रागखाण्डवं गुडोदनं पर्पटिकेति वैदर्भाः ॥८॥
यदप्सु युध्यमानस्य चक्रे न परिपेततुः
।
राजानं दृढधन्वानं दिलीपं सत्यवादिनम् ॥९॥
अप्सु न परिपेततुः न ममज्जतुः ॥९॥
येऽपश्यन्भूरिदाक्षिण्यं तेऽपि स्वर्गजितो नराः
।
पञ्च शब्दा न जीर्यन्ति खट्वाङ्गस्य निवेशने ॥१०॥
खट्वाङ्ग इति ऐलविलस्य दिलीपस्यैव नामान्तरम् ॥१०॥
स्वाध्यायघोषो ज्याघोषः पिबताश्नीत खादत
।
स चेन्ममार सृञ्चय चतुर्भद्रतरस्त्वया ॥११॥
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
।
अयज्वानमदाक्षिण्यमभिश्वैत्येति व्याहरन् ॥१२॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये एकषष्टितमोऽध्यायः ॥ ६१ ॥
नारद उवाच
।
मान्धाता चेद्यौवनाश्वो मृतः सृञ्जय शुश्रुम
।
देवासुरमनुष्याणां त्रैलोक्यविजयी नृपः ॥१॥
मान्धातेति ॥१॥
यं देवावश्विनौ गर्भात् पितुः पूर्वं चकर्षतुः
।
मृगयां विचरन् राजा तृषितः क्लान्तवाहनः ॥२॥
धूमं दृष्ट्वाऽगमत् सत्रं पृषदाज्यमवाप सः
।
तं दृष्ट्वा युवनाश्वस्य जठरे सूनुतां गतम् ॥३॥
गर्भाद्धि जह्रतुर्देवावश्विनौ भिषजां वरौ
।
तं दृष्ट्वा पितुरुत्सङ्गे शयानं देववर्चसम् ॥४॥
अन्योन्यमब्रुवन् देवाः कमयं धास्यतीति वै
।
मामेवायं धयत्वग्रे इति ह स्माह वासवः ॥५॥
ततोऽङ्गुलिभ्यो हीन्द्रस्य प्रादुरासीत् पयोऽमृतम्
।
मां धास्यतीति कारुण्याद्यदिन्द्रो ह्यन्वकम्पयत् ॥६॥
तस्मात्तु मान्धातेत्येवं नाम तस्याद्भुतं कृतम्
।
ततस्तु धारां पयसो घृतस्य च महात्मनः ॥७॥
तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत्
।
अपिबत् पाणिमिन्द्रस्य स चाप्यह्नाऽभ्यवर्धत ॥८॥
सोऽभवद्द्वादशसमो द्वादशाहेन वीर्यवान्
।
इमां च पृथिवीं कृत्स्नामेकाह्ना स व्यजीजयत् ॥९॥
द्वादशसमो द्वादशवार्षिकः शय इति पाठे द्वादशहस्तः व्यजीजयद्विजितवान् ॥९॥
धर्मात्मा धृतिमान् वीरः सत्यसन्धो जितेन्द्रियः
।
जनमेजयं सुधन्वानं गयं पूरुं बृहद्रथम् ॥१०॥
असितं च नृगं चैव मान्धाता मनुजोऽजयत्
।
उदेति च यतः सूर्यो यत्र च प्रतितिष्ठति ॥११॥
तत् सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते
।
सोऽश्वमेधशतैरिष्ट्वा राजसूयशतेन च ॥१२॥
अददद्रोहितान्मत्स्यान् ब्राह्मणेभ्यो विशाम्पते
।
हैरण्यान् योजनोत्सेधानायतान् शतयोजनम् ॥१३॥
रोहितान् लोहितान् लोहितभूप्रदेशान् पद्मरागखनिमतो वा मत्स्यान् देशविशेषान् हैरण्यान् स्वर्णाकरयुक्तान् जनोत्सेधान् जनेषु उत्सेध उच्छ्रायो येषां तान् मत्स्यदेशोत्पन्ने हि नद्यावद्यापि परंपरया पूर्वापरौ समुद्रौ गच्छत इति तेषामुच्छ्रितत्वं प्रसिद्धम् ॥१३॥
बहुप्रकारान् सुस्वादून् भक्ष्यभोज्यान्नपर्वतान्
।
अतिरिक्तं ब्राह्मणेभ्यो भुञ्जानो हीयते जनः ॥१४॥
अतिरिक्तमवशिष्टं भुञ्जानो जन एव हीयते न त्वन्नमित्यर्थः ॥१४॥
भक्ष्यान्नपाननिचयाः शुशुभुस्त्वन्नपर्वताः
।
घृतह्रदा सूपपङ्का दधिफेना गुडोदकाः ॥१५॥
रुरुधुः पर्वतान्नद्यो मधुक्षीरवहाः शुभाः
।
देवासुरा नरा यक्षा गन्धर्वोरगपक्षिणः ॥१६॥
विप्रास्तत्रागताश्चासन् वेदवेदाङ्गपारगाः
।
ब्राह्मणा ऋषयश्चापि नासंस्तत्राविपश्चितः ॥१७॥
समुद्रान्तां वसुमतीं वसुपूर्णां तु सर्वतः
।
स तां ब्राह्मणसात्कृत्वा जगामास्तं तदा नृपः ॥१८॥
गतः पुण्यकृतां लोकान् व्याप्य स्वयशसा दिशः
।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ॥१९॥
पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
।
अयज्वानमदाक्षिण्यमभिश्वैत्येति व्याहरन् ॥२०॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये द्विषष्टितमोऽध्यायः ॥ ६२ ॥
नारद उवाच
।
ययातिं नाहुषं चैव मृतं सृञ्जय शुश्रुम
।
राजसूयशतैरिष्ट्वा सोऽश्वमेधशतेन च ॥१॥
ययातिमिति ॥१॥
पुण्डरीकसहस्रेण वाजपेयशतैस्तथा
।
अतिरात्रसहस्रेण चातुर्मास्यैश्च कामतः
।
अग्निष्टोमैश्च विविधैः सत्रैश्च प्राज्यदक्षिणैः ॥२॥
प्राज्यदक्षिणैः बहुदक्षिणैः ॥२॥
अब्राह्मणानां यद्वित्तं पृथिव्यामस्ति किञ्चन
।
तत् सर्वं परिसङ्ख्याय ततो ब्राह्मणसात्करोत् ॥३॥
अब्राह्मणानां ब्राह्मणद्वेषिणां म्लेच्छानामिति यावत् परिसंख्याय अपहृत्य ॥३॥
सरस्वती पुण्यतमा नदीनां तथा समुद्राः सरितः साद्रयश्च
।
ईजानाय पुण्यतमाय राज्ञे घृतं पयो दुदुहुर्नाहुषाय ॥४॥
व्यूढे देवासुरे युद्धे कृत्वा देवसहायताम्
।
चतुर्धा व्यभजत् सर्वां चतुर्भ्यः पृथिवीमिमाम् ॥५॥
चतुर्भ्यः ऋत्विग्भ्यः प्राची दिग्धोतुर्दक्षिणाध्वर्योरित्यादि श्रुतेः ॥५॥
यज्ञैर्नानाविधैरिष्ट्वा प्रजामुत्पाद्य चोत्तमाम्
।
देवयान्यां चौशनस्यां शर्मिष्ठायां च धर्मतः ॥६॥
देवारण्येषु सर्वेषु विजहारामरोपमः
।
आत्मनः कामचारेण द्वितीय इव वासवः ॥७॥
यदा नाभ्यगमच्छान्तिं कामानां सर्ववेदवित्
।
ततो गाथामिमां गीत्वा सदारः प्राविशद्वनम् ॥८॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः
।
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥९॥
एवं कामान् परित्यज्य ययातिर्धृतिमेत्य च
।
पूरुं राज्ये प्रतिष्ठाप्य प्रयातो वनमीश्वरः ॥१०॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
।
अयज्वानमदाक्षिण्यमभिश्वैत्येति व्याहरन् ॥११॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये त्रिषष्टितमोऽध्यायः ॥ ६३ ॥
नारद उवाच
।
नाभागमम्बरीषं च मृतं सृञ्जय शुश्रुम
।
यः सहस्रं सहस्राणां राज्ञां चैकस्त्वयोधयत् ॥१॥
नाभागमिति ॥१॥
जिगीषमाणाः सङ्ग्रामे समन्ताद्वैरिणोऽभ्ययुः
।
अस्त्रयुद्धविदो घोराः सृजन्तश्चाशिवा गिरः ॥२॥
बललाघवशिक्षाभिस्तेषां सोऽस्त्रबलेन च
।
छत्रायुधध्वजरथांश्छित्त्वा प्रासान् गतव्यथः ॥३॥
त एनं मुक्तसन्नाहाः प्रार्थयन् जीवितैषिणः
।
शरण्यमीयुः शरणं तवास्म इति वादिनः ॥४॥
स तु तान् वशगान् कृत्वा जित्वा चेमां वसुन्धराम्
।
ईजे यज्ञशतैरिष्टैर्यथा शास्त्रं तथाऽनघ ॥५॥
बुभुजुः सर्वसंपन्नमन्नमन्ये जनाः सदा
।
तस्मिन् यज्ञे तु विप्रेन्द्राः सन्तृप्ताः परमार्चिताः ॥६॥
मोदकान् पूरिकापूपान् स्वादुपूर्णाश्च शष्कुलीः
।
करम्भान् पृथुमृद्वीका अन्नानि सुकृतानि च ॥७॥
सूपान् मैरेयकापूपान् रागखाण्डवपानकान्
।
मृष्टान्नानि सुयुक्तानि मृदूनि सुरभीणि च ॥८॥
घृतं मधु पयस्तोयं दधीनि रसवन्ति च
।
फलं मूलं च सुस्वादु द्विजास्तत्रोपभुञ्जते ॥९॥
मादनीयानि पापानि विदित्वा चात्मनः सुखम्
।
अपिबन्त यथाकामं पानपा गीतवादितैः ॥१०॥
मादनीयानि मदकराणि सुरादीनि पापानि पापहेतूनीति ज्ञात्वाऽपि सुखलिप्सवः पिबन्तीत्यर्थः ॥१०॥
तत्र स्म गाथां गायन्ति क्षीबा हृष्टाः पठन्ति च
।
नाभागस्तुतिसंयुक्ता ननृतुश्च सहस्रशः ॥११॥
तेषु यज्ञेष्वम्बरीषो दक्षिणामत्यकालयत्
।
राज्ञां शतसहस्राणि दश प्रयुतयाजिनाम् ॥१२॥
अत्यकालयद्दातुं निष्कासितवान् । जिता राजान एव सोपस्करदक्षिणात्वेन दत्ताः । तेषां राज्यानि ते राजानश्च ब्राह्मणसात्कृता इत्यर्थः ॥१२॥
हिरण्यकवचान् सर्वान् श्वेतच्छत्रप्रकीर्णकान्
।
हिरण्यस्यन्दनारूढान् सानुयात्रपरिच्छदान् ॥१३॥
ईजानो वितते यज्ञे दक्षिणामत्यकालयत्
।
मूर्धाभिषिक्तांश्च नृपान् राजपुत्रशतानि च ॥१४॥
सदण्डकोशनिचयान् ब्राह्मणेभ्यो ह्यमन्यत
।
नैवं पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे ॥१५॥
यदम्बरीषो नृपतिः करोत्यमितदक्षिणः
।
इत्येवमनुमोदन्ते प्रीता यस्य महर्षयः ॥१६॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
।
अयज्वानमदाक्षिण्यमभिश्वैत्येति व्याहरन् ॥१७॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये चतुःषष्टितमोऽध्यायः ॥ ६४ ॥
नारद उवाच
।
शशिबिन्दुं च राजानं मृतं सृञ्जय शुश्रुम
।
ईजे स विविधैर्यज्ञैः श्रीमान् सत्यपराक्रमः ॥१॥
शशिबिन्दुमिति ॥१॥
तस्य भार्यासहस्राणां शतमासीन्महात्मनः
।
एकैकस्यां च भार्यायां सहस्रं तनयाऽभवन् ॥२॥
ते कुमाराः पराक्रन्ताः सर्वे नियुतयाजिनः
।
राजानः क्रतुभिर्मुख्यैरीजाना वेदपारगाः ॥३॥
हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः
।
सर्वेऽश्वमेधैरीजानाः कुमाराः शशिबिन्दवः ॥४॥
तानश्वमेधे राजेन्द्रो ब्राह्मणेभ्योऽददत् पिता
।
शतं शतं रथगजा एकैकं पृष्ठतोऽन्वयुः ॥५॥
राजपुत्रं तदा कन्यास्तपनीयस्वलङ्कृताः
।
कन्यां कन्यां शतं नागा नागे नागे शतं रथाः ॥६॥
रथे रथे शतं चाश्वा बलिनो हेममालिनः
।
अश्वे अश्वे गोसहस्रं गवां पञ्चाशदाविकाः ॥७॥
एतद्धनमपर्याप्तमश्वमेधे महामखे
।
शशबिन्दुर्महाभागो ब्राह्मणेभ्यो ह्यमन्यत ॥८॥
वार्क्षाश्च यूपा यावन्त अश्वमेधे महामखे
।
ते तथैव पुनश्चान्ये तावन्तः काञ्चनाऽभवन् ॥९॥
भक्ष्यान्नपाननिचयाः पर्वताः क्रोशमुच्छ्रिताः
।
तस्याश्वमेधे निर्वृत्ते राज्ञः शिष्टास्त्रयोदश ॥१०॥
त्रयोदशात्र निचयाः शिष्टाः ॥१०॥
तुष्टपुष्टजनाकीर्णां शान्तविघ्नामनामयाम्
।
शशिबिन्दुरिमां भूमिं चिरं भुक्त्वा दिवं गतः ॥११॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ॥१२॥
अयज्वानमदाक्षिण्यमभिश्वैत्येति व्याहरन् ॥१३॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥
नारद उवाच
।
गयं चामूर्तरयसं मृतं सृञ्जय शुश्रुम
।
यो वै वर्षशतं राजा हुतशिष्टाशनोऽभवत् ॥१॥
गयमिति सष्टार्थः ॥१॥
तस्मै ह्यग्निर्वरं प्रादात् ततो वव्रे वरं गयः
।
तपसा ब्रह्मचर्येण व्रतेन नियमेन च ॥२॥
गुरूणां च प्रसादेन वेदानिच्छामि वेदितुम्
।
स्वधर्मेणाविहिंस्यान्यान् धनमिच्छामि चाक्षयम् ॥३॥
विप्रेषु ददतश्चैव श्रद्धा भवतु नित्यशः
।
अनन्यासु सवर्णासु पुत्रजन्म च मे भवेत् ॥४॥
अन्नं मे ददतः श्रद्धा धर्मे मे रमतां मनः
।
अविघ्नं चास्तु मे नित्यं धर्मकार्येषु पावक ॥५॥
तथा भविष्यतीत्युक्त्वा तत्रैवान्तरधीयत
।
गयो ह्यवाप्य तत्सर्वं धर्मेणारीनजीजयत् ॥६॥
स दर्शपौर्णमासीभ्यां कालेष्वाग्रयणेन च
।
चातुर्मास्यैश्च विविधैर्यज्ञैश्चावाप्तदक्षिणैः ॥७॥
अयजच्छ्रद्धया राजा परिसंवत्सरान् शतम्
।
गवां शतसहस्राणि शतमश्वशतानि च ॥८॥
शतं निष्कसहस्राणि गवां चाप्ययुतानि षट्
।
उत्थायोत्थाय स प्रादात् परिसंवत्सरान् शतम् ॥९॥
नक्षत्रेषु च सर्वेषु ददन्नक्षत्रदक्षिणाः
।
ईजे च विविधैर्यज्ञैर्यथा सोमोऽङ्गिरा यथा ॥१०॥
नक्षत्रविहिता दक्षिणाः ॥१०॥
सौवर्णां पृथिवीं कृत्वा य इमां मणिशर्कराम्
।
विप्रेभ्यः प्राददद्राजा सोऽश्वमेधे महामखे ॥११॥
जाम्बूनदमया यूपाः सर्वे रत्नपरिच्छदाः
।
गयस्यासन् समृद्धास्तु सर्वभूतमनोहराः ॥१२॥
सर्वकामसमृद्धं च प्रादादन्नं गयस्तदा
।
ब्राह्मणेभ्यः प्रहृष्टेभ्यः सर्वभूतेभ्य एव च ॥१३॥
स समुद्रवनद्वीपनदीनदवनेषु च
।
नगरेषु च राष्ट्रेषु दिवि व्योम्नि च येऽवसन् ॥१४॥
भूतग्रामाश्च विविधाः सन्तृप्ता यज्ञसम्पदा
।
गयस्य सदृशो यज्ञो नास्त्यन्य इति तेऽब्रुवन् ॥१५॥
षट्त्रिंशद्योजनायामा त्रिंशद्योजनमायता
।
पश्चात् पुरश्चतुर्विंशद्वेदी ह्यासीद्धिरण्मयी ॥१६॥
गयस्य यजमानस्य मुक्ता वज्रमणिस्तृता
।
प्रादात् स ब्राह्मणेभ्योऽथ वासांस्याभरणानि च ॥१७॥
यथोक्ता दक्षिणाश्चान्या विप्रेभ्यो भूरिदक्षिणः
।
यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः॥१८॥
कुल्याः कुशलवाहिन्यो रसानामभवंस्तदा
।
वस्त्राभरणगन्धानां राशयश्च पृथग्विधाः ॥१९॥
यस्य प्रभावाच्च गयस्त्रिषु लोकेषु विश्रुतः
।
वटश्चाक्षय्यकरणः पुण्यं ब्रह्मसरश्च तत् ॥२०॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
।
अयज्वानमदाक्षिण्यमभिश्वैत्येति व्याहरन् ॥२१॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये षट्षष्टितमोऽध्यायः ॥ ६६ ॥
नारद उवाच
।
साङ्कृतिं रन्तिदेवं च मृतं सृञ्जय शुश्रुम
।
यस्य द्विशतसाहस्रा आसन् सूदा महात्मनः ॥१॥
सांकृतिमिति ॥१॥
गृहानभ्यागतान् विप्रानतिथीन् परिवेषकाः
।
पद्दापक्वं दिवारात्रं वरान्नममृतोपमम् ॥२॥
न्यायेनाधिगतं वित्तं ब्राह्मणेभ्यो ह्यमन्यत
।
वेदानधीत्य धर्मेण यश्चक्रे द्विषतो वशे ॥३॥
उपस्थिताश्च पशवः स्वयं यं शंसितव्रतम्
।
बहवः स्वर्गमिच्छन्तो विधिवत् सत्रयाजिनम् ॥४॥
नदी महानसाद्यस्य प्रवृत्ता चर्मराशितः
।
तस्माच्चर्मण्वती पूर्वमग्निहोत्रेऽभवत् पुरा ॥५॥
ब्राह्मणेभ्योऽददन्निष्कान्सौवर्णान्स प्रभावतः
।
तुभ्यं निष्कं तुभ्यं निष्कमिति ह स्म प्रभाषते ॥६॥
तुभ्यं तुभ्यमिति प्रादान्निष्कान्निष्कान् सहस्रशः
।
ततः पुनः समाश्वास्य निष्कानेव प्रयच्छति ॥७॥
अल्पं दत्तं मयाऽद्येति निष्ककोटिं सहस्रशः
।
एकाह्ना दास्यति पुनः कोऽन्यस्तत् सप्रदास्यति ॥८॥
द्विजपाणिवियोगेन दुःखं मे शाश्वतं महत्
।
भविष्यति न सन्देह एवं राजाऽददद्वसु ॥९॥
सहस्रशश्च सौवर्णान् वृषभान् गोशतानुगान्
।
साष्टं शतं सुवर्णानां निष्कमाहुर्धनं तथा ॥१०॥
पारिभाषिकं निष्कमाह - सहस्रश इति ॥१०॥
अध्यर्धमासमददद्ब्राह्मणेभ्यः शतं समाः
।
अग्निहोत्रोपकरणं यज्ञोपकरणं च यत् ॥११॥
अध्यर्धमासं पक्षे पक्षे इत्यर्थः । शतं समा इति वाक्यशेषात् ॥११॥
ऋषिभ्यः करकान् कुम्भान् स्थालीः पिठरमेव च
।
शयनासनयानानि प्रासादांश्च गृहाणि च ॥१२॥
वृक्षांश्च विविधान् दद्यादन्नानि च धनानि च
।
सर्वं सौवर्णमेवासीद्रन्तिदेवस्य धीमतः ॥१३॥
वस्वोकसारा सलोप आर्षः । कनकमयानि ओकांसि सारो यस्याः सा तथा ॥१३॥
तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः
।
रन्तिदेवस्य तां दृष्ट्वा समृद्धिमतिमानुषीम् ॥१४॥
नैतादृशं दृष्टपूर्वं कुबेरसदनेष्वपि
।
धनं च पूर्यमाणं नः किं पुनर्मनुजेष्विति ॥१५॥
व्यक्तं वस्वोकसारेयमित्यूचुस्तत्र विस्मिताः
।
साङ्कृते रन्तिदेवस्य यां रात्रिमतिथिर्वसेत् ॥१६॥
आलभ्यन्त तदा गावः सहस्राण्येकविंशतिः
।
तत्र स्म सूदाः क्रोशन्ति सुपृष्टमणिकुण्डलाः ॥१७॥
सूपं भूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा
।
रन्तिदेवस्य यत्किञ्चित् सौवर्णमभवत् तदा ॥१८॥
तत् सर्वं वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत
।
प्रत्यक्षं तस्य हव्यानि प्रतिगृह्णन्ति देवताः ॥१९॥
कव्यानि पितरः काले सर्वकामान् द्विजोत्तमाः
।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ॥२०॥
पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
।
अयज्वानमदाक्षिण्यमभिश्वैत्येति व्याहरन् ॥२१॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये सप्तषष्टितमोऽध्यायः ॥ ६७ ॥
नारद उवाच
।
दौष्यन्तिं भरतं चापि मृतं सृञ्जय शुश्रुम
।
कर्माण्यसुकराण्यन्यैः कृतवान् यः शिशुर्वने ॥१॥
दौष्यन्तिमिति ॥१॥
हिमावदातान् यः सिंहान्नखदंष्ट्रायुधान् बली
।
निर्वीर्यांस्तरसा कृत्वा विचकर्ष बबन्ध च ॥२॥
क्रूरांश्चोग्रतरान् व्याघ्रान् दमित्वा चाकरोद्वशे
।
मनःशिला इव शिलाः संयुक्ता जतुराशिभिः ॥३॥
क्रूरानिति । यथा मनः शिलामयाः शिलाः जतुराशिभिर्लाक्षापुंजैर्युक्तास्तत्सदृशान् रक्तबिन्दुयुक्तान् रक्तपीतवर्णान् व्याघ्रविशेषान् वशेऽकरोदित्यर्थः ॥३॥
व्यालादींश्चातिबलवान् सुप्रतीकान् गजानपि
।
दंष्ट्रासु गृह्य विमुखान् शुष्कास्यानकरोद्वशे॥४॥
महिषानप्यतिबलो बलिनो विचकर्ष ह
।
सिंहानां च सुदृप्तानां शतान्याकर्षयद्बलात् ॥५॥
बलिनः सृमरान् खड्गान् नानासत्त्वानि चाप्युत
।
कृच्छ्रप्राणं वने बद्ध्वा दमयित्वाऽप्यवासृजत् ॥६॥
कृच्छ्रप्राणं संकटगतं यथा स्यात्तथा बद्ध्वा ॥६॥
तं सर्वदमनेत्याहुर्द्विजास्तेनास्य कर्मणा
।
तं प्रत्यषेधज्जननी मा सत्त्वानि विजीजहि ॥७॥
मा विजीजहि मा हिंसीः ॥७॥
सोऽश्वमेधशतेनेष्ट्वा यमुनामनुवीर्यवान्
।
त्रिशताश्वान् सरस्वत्यां गङ्गामनु चतुःशतान् ॥८॥
सोऽश्वमेधसहस्रेण राजसूयशतेन च
।
पुनरीजे महायज्ञैः समाप्तवरदक्षिणैः ॥९॥
अग्निष्टोमातिरात्राभ्यामिष्ट्वा विश्वजिता अपि
।
वाजपेयसहस्राणां सहस्रैश्च सुसंवृतैः ॥१०॥
इष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान् धनैः
।
सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ ॥११॥
जाम्बूनदस्य शुद्धस्य कनकस्य महायशाः
।
यस्य यूपः शतव्यामः परिणाहेन काञ्चनः ॥१२॥
व्यामो हस्तचतुष्टयम् । परिणाहेनदैर्व्येणम् ॥१२॥
समागम्य द्विजैः सार्धं सेन्द्रैर्देवैः समुच्छ्रितः
।
अलङ्कृतान्राजमानान् सर्वरत्नैर्मनोहरैः ॥१३॥
हैरण्यानश्वान् द्विरदान् रथानुष्ट्रानजाविकम्
।
दासीदासं धनं धान्यं गाः सवत्साः पयस्विनीः ॥१४॥
ग्रामान् गृहांश्च क्षेत्राणि विविधांश्च परिच्छदान्
।
कोटीशतायुतांश्चैव ब्राह्मणेभ्यो ह्यमन्यत ॥१५॥
चक्रवता ह्यदीनात्मा जितारिर्ह्यजितः परैः
।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ॥१६॥
पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः
।
अयज्वानमदाक्षिण्यमभिश्वैत्येति व्याहरन् ॥१७॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये अष्टषष्टितमोऽध्यायः ॥ ६८ ॥
नारद उवाच
।
पृथुं वैन्यं च राजानं मृतं सृञ्जय शुश्रुम
।
यमभ्यषिञ्चन् साम्राज्ये राजसूये महर्षयः ॥१॥
पृथुमिति ॥१॥
यत्नतः प्रथितेत्यूचुः सर्वानभिभवन् पृथुः
।
क्षतान्नस्त्रास्यते सर्वानित्येवं क्षत्त्रियोऽभवत् ॥२॥
प्रथिता पृथ्वी अननेति पृथुरित्यर्थः ॥२॥
पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन्
।
ततो राजेति नामास्य अनुरागादजायत ॥३॥
अकृष्टपच्या पृथिवी आसीद्वैन्यस्य कामधुक्
।
सर्वाः कामदुघा गावः पुटके पुटके मधु ॥४॥
आसन् हिरण्मया दर्भाः सुखस्पर्शाः सुखावहाः
।
तेषां चीराणि संवीताः प्रजास्तेष्वेव शेरते ॥५॥
तेषां दर्भाणामेव चीराणि वल्कलानि यैः प्रजाः संवीताः तान्येव परिधानीयानि शयनानि चेत्यर्थः॥५॥
फलान्यमृतकल्पानि स्वादूनि च मधूनि च
।
तेषामासीत्तदाहारो निराहाराश्च नाभवन् ॥६॥
अरोगाः सर्वसिद्धार्था मनुष्या ह्यकुतोभयाः
।
न्यवसन्त यथाकामं वृक्षेषु च गुहासु च ॥७॥
प्रविभागो न राष्ट्राणां पुराणां चाभवत्तदा
।
यथासुखं यथाकामं तथैता मुदिताः प्रजाः ॥८॥
तस्य संस्तम्भिता ह्यापः समुद्रमभियास्यतः
।
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥९॥
ध्वजभङ्गस्तोरणादिना ॥९॥
तं वनस्पतयः शैला देवासुरनरोरगाः
।
सप्तर्षयः पुण्यजना गन्धर्वाप्सरसोऽपि च ॥१०॥
पितरश्च सुखासीनमभिगम्येदमब्रुवन्
।
सम्राडसिक्षत्रियोऽसि राजा गोप्ता पितासि नः ॥११॥
देह्यस्मभ्यं महाराज प्रभुः सन्नीप्सितान् वरान्
।
यैर्वयं शाश्वतीस्तृप्तीर्वर्तयिष्यामहे सुखम् ॥१२॥
तथेत्युक्त्वा पृथुर्वैन्यो गृहीत्वाऽऽजगवं धनुः
।
शरांश्चाप्रतिमान् घोरांश्चिन्तयित्वाऽब्रवीन्महीम् ॥१३॥
एह्येहि वसुधे क्षिप्रं क्षरैभ्यः कांक्षितं पयः
।
ततो दास्यामि भद्रं ते अन्नं यस्य यथेप्सितम् ॥१४॥
वसुधोवाच
।
दुहितृत्वेन मां वीर सङ्कल्पयितुमर्हसि
।
तथेत्युक्त्वा पृथुः सर्वं विधानमकरोद्वशी ॥१५॥
ततो भूतनिकायास्तां वसुधां दुदुहुस्तदा
।
तां वनस्पतयः पूर्वं समुत्तस्थुर्दुधुक्षवः ॥१६॥
साऽतिष्ठद्वत्सला वत्सं दोग्धृपात्राणि चेच्छती
।
वत्सोऽभूत् पुष्पितः शालः प्लक्षो दोग्धाऽभवत् तदा ॥१७॥
छिन्नप्ररोहणं दुग्धं पात्रमौदुम्बरं शुभम्
।
उदयः पर्वतो वत्सो मेरुर्दोग्धा महागिरिः ॥१८॥
रत्नान्योषधयो दुग्धं पात्रमश्ममयं तथा
।
दोग्धा चासीत्तदा देवो दुग्धमूर्जस्करं प्रियम् ॥१९॥
दोग्धेति । चाद्वत्सोऽपि देव एव । प्रियं दुग्धं पात्रमप्यर्थान्मन एवेति कल्प्यम् । ग्रन्थान्तराद्वा वत्सपात्रे ज्ञेये । एवमन्यत्रापि ॥१९॥
असुरा दुदुहुर्मायामामपात्रे तु ते तदा
।
दोग्धा द्विमूर्धा तत्रासीद्वत्सश्चासीद्विरोचनः ॥२०॥
कृषिं च सस्यं च नरा दुदुहुः पृथिवीतले
।
स्वायंभुवो मनुर्वत्सस्तेषां दोग्धाऽभवत् पृथुः ॥२१॥
अलाबुपात्रे च तथा विषं दुग्धा वसुन्धरा
।
धृतराष्ट्रोऽभवद्दोग्धा तेषां वत्सस्तु तक्षकः ॥२२॥
सप्तर्षिभिर्ब्रह्म दुग्धा तथा चाक्लिष्टकर्मभिः
।
दोग्धा बृहस्पतिः पात्रं छन्दो वत्सश्च सोमराट् ॥२३॥
अन्तर्धानं चामपात्रे दुग्धा पुण्यजनैर्विराट्
।
दोग्धा वैश्रवणस्तेषां वत्सश्चासीद्वृषध्वजः ॥२४॥
विराट् पृथिवी ॥२४॥
पुण्यगन्धान् पद्मपात्रे गन्धर्वाप्सरसोऽदुहन्
।
वत्सश्चित्ररथस्तेषां दोग्धा विश्वरुचिः प्रभुः ॥२५॥
स्वधां रजतपात्रेषु दुदुहुः पितरश्च ताम्
।
वत्सो वैवस्वतस्तेषां यमो दोग्धाऽन्तकस्तदा ॥२६॥
एवं निकायैस्तैर्दुग्धा पयोऽभीष्टं हि सा विराट्
।
यैर्वर्तयन्ति ते ह्यद्य पात्रैर्वत्सैश्च नित्यशः ॥२७॥
यज्ञैश्च विविधैरिष्ट्वा पृथुवैन्यः प्रतापवान्
।
सन्तर्पयित्वा भूतानि सर्वैः कामैर्मनःप्रियैः ॥२८॥
हैरण्यानकरोद्राजा ये केचित् पार्थिवा भुवि
।
तान् ब्राह्मणेभ्यः प्रायच्छदश्वमेधे महामखे ॥२९॥
पार्थिवाः पृथ्वीसम्बन्धिपदार्थाः ॥२९॥
षष्टिनागसहस्राणि षष्टिनागशतानि च
।
सौवर्णानकरोद्राजा ब्राह्मणेभ्यश्च तान् ददौ ॥३०॥
इमां च पृथिवीं सर्वां मणिरत्नविभूषिताम्
।
सौवर्णीमकरोद्राजा ब्राह्मणेभ्यश्च तां ददौ॥३१॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया
।
पुत्रात् पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ॥३२॥
अयज्वानमदाक्षिण्यमभिश्वैत्येति व्याहरन् ॥३३॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये एकोनसप्ततितमोऽध्यायः ॥६९॥
नारद उवाच।
रामो महातपाः शूरो वीरलोकनमस्कृतः
।
जामग्न्योऽप्यतियशा अवितृप्तो मरिष्यति ॥१॥
ये मृतास्तेऽतीता ये वर्तमानास्तेऽपि मरिष्यन्त्येवेत्याह राम इति ॥१॥
यस्माद्यमनुपर्येति भूमिं कुर्वन्निमां सुखाम्
।
न चासीद्विक्रिया यस्य प्राप्य श्रियमनुत्तमाम् ॥२॥
यो रामः इमां पृथ्वीं सुखामनुपद्रवां कुर्वन् आद्यमादियुगविहितं धर्ममनुपर्येति स्म अनुप्रवर्तितवानित्यर्थः ॥२॥
यः क्षत्रियैः परामृष्टे वत्से पितरि चाब्रुवन्
।
ततोऽवधीत् कार्तवीर्यमजितं समरे परैः ॥३॥
क्षत्रियैः कार्तवीर्यपुत्रैः अब्रुवन्नविकत्थयन् ॥३॥
क्षत्रियाणां चतुःषष्टिमयुतानि सहस्रशः
।
तदा मृत्योः समेतानि एकेन धनुषाऽजयत् ॥४॥
मृत्योर्मृत्युमवधीकृत्य ॥४॥
ब्रह्मद्विषां चाथ तस्मिन् सहस्राणि चतुर्दश
।
पुनरन्यान्निजग्राह दन्तक्रूरं जघान ह ॥५॥
तस्मिंस्तन्मध्ये एव दन्तक्रूरं तद्देशाधिपतिम् ॥५॥
सहस्रं मुसलेनाहन् सहस्रमसिनाऽवधीत्
।
उद्बन्धनात् सहस्रं च सहस्रमुदके धृतम् ॥६॥
उद्बन्धनाद्वृक्षशाखावलम्बनात् ॥६॥
दन्तान् भंक्त्वा सहस्रस्य कर्णान्नासान्यकृतन्त
।
ततः सप्तसहस्राणां कटुधूपमपाययत् ॥७॥
शिष्टान् बद्ध्वा च हत्वा वै तेषां मूर्ध्नि विभिद्य च
।
गुणावतीमुत्तरेण खाण्डवाद्दक्षिणेन च
।
गिर्यन्ते शतसाहस्रा हैहयाः समरे हताः ॥८॥
सरथाश्वगजा वीरा निहतास्तत्र शेरते
।
पितुर्वधामर्षितेन जामदग्न्येन धीमता ॥९॥
निजघ्ने दशसाहस्रान् रामः परशुना तदा
।
न ह्यमृष्यत ता वाचो यास्तैर्भृशमुदीरिताः ॥१०॥
तैराश्रमवासिभिः ॥१०॥
भृगौ रामाभिधावेति यदाक्रन्दन् द्विजोत्तमाः
।
ततः काश्मीरदरदान् कुन्तिक्षुद्रकमालवान् ॥११॥
अङ्गवङ्गकलिङ्गांश्च विदेहांस्ताम्रलिप्तकान्
।
रक्षोवाहान् वीतिहोत्रांस्त्रिगर्तान् मार्तिकावतान् ॥१२॥
शिबीनन्यांश्च राजन्यान् देशान् देशान् सहस्रशः
।
निजघान शितैर्बाणैर्जामदग्न्यः प्रतापवान् ॥१३॥
कोटीशतसहस्राणि क्षत्रियाणां सहस्रशः
।
इन्द्रगोपकवर्णस्य बन्धुजीवनिभस्य च ॥१४॥
रुधिरस्य परीवाहैः पूरयित्वा सरांसि च
।
सर्वानष्टादश द्वीपान् वशमानीय भार्गवः ॥१५॥
ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः
।
वेदीमष्टनलोत्सेधां सौवर्णां विधिनिर्मिताम् ॥१६॥
अष्टनलेत्यत्र नलशब्दश्चतुर्हस्तवचनः ॥१६॥
सर्वरत्नशतैः पूर्णां पताकाशतमालिनीम्
।
ग्राम्यारण्यैः पशुगणैः सम्पूर्णां च महीमिमाम् ॥१७॥
रामस्य जामदग्न्यस्य प्रतिजग्राह कश्यपः
।
ततः शतसहस्राणि द्विपेन्द्रान् हेमभूषणान् ॥१८॥
निर्दस्युं पृथिवीं कृत्वा शिष्टेष्टजनसङ्कुलाम्
।
कश्यपाय ददौ रामो हयमेधे महामखे ॥१९॥
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः
।
इष्ट्वा क्रतुशतैर्वीरो ब्राह्मणेभ्यो ह्यमन्यत ॥२०॥
सप्तद्वीपां वसुमतीं मारीचोऽगृह्णत द्विजः
।
रामं प्रावाच निर्गच्छ वसुधातो ममाज्ञया ॥२१॥
स कश्यपस्य वचनात् प्रोत्सार्य सरितां पतिम्
।
इषुपाते युधां श्रेष्ठः कुर्वन् ब्राह्मणशासनम् ॥२२॥
अध्यावसद्गिरिश्रेष्ठं महेन्द्रं पर्वतोत्तमम्
।
एवं गुणशतैर्युक्तो भृगूणां कीर्तिवर्धनः ॥२३॥
जामदग्न्यो ह्यतियशा मरिष्यति महाद्युतिः
।
त्वया चतुर्भद्रतरः पुत्रात् पुण्यतरस्तव ॥२४॥
अयज्वानमदाक्षिण्यं मा पुत्रमनुतप्यथाः
।
एते चतुर्भद्रतरास्त्वया भद्रशताधिकाः
।
मृता नरवरश्रेष्ठ मरिष्यन्ति च सृञ्जय ॥२५॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये सप्ततितमोऽध्यायः ॥ ७० ॥
व्यास उवाच।
पुण्यमाख्यानमायुष्यं श्रुत्वा षोडशराजकरम्
।
अव्याहरन्नरपतिस्तूष्णीमासीत् स सृञ्जयः ॥ १ ॥
पुण्यमाख्यानमिति ॥१॥
तमब्रवीत् तथाऽसीनं नारदो भगवानृषिः
।
श्रुतं कीर्तयतो मह्यं गृहीतं ते महाद्युते ॥२॥
आहोस्विदन्ततो नष्टं श्रद्धां शूद्रीपताविव
।
स एवमुक्तः प्रत्याह प्राञ्जलिः सृञ्जयस्तदा ॥३॥
एतच्छ्रुत्वा महाबाहो धन्यमाख्यानमुत्तमम्
।
राजर्षीणां पुराणानां यज्वनां दक्षिणावताम् ॥४॥
विस्मयेन पुण्याख्यानश्रवणजनितचित्तविस्तारेण ॥४॥
विस्मयेन हते शोके तमसीवार्कतेजसा
।
विपाप्मास्यव्यथोपेतो ब्रूहि किं करवाण्यहम् ॥५॥
नारद उवाच
।
दिष्ट्याऽपहृतशोकस्त्वं वृणीष्वेह यदिच्छसि
।
तत् तत् प्रपत्स्यसे सर्वं न मृषावादिनो वयम् ॥६॥
सृञ्जय उवाच
।
एतेनैव प्रतीतोऽहं प्रसन्नो यद्भवान् मम
।
प्रसन्नो यस्य भगवान्न तस्यास्तीह दुर्लभम् ॥७॥
प्रतीतः प्रीतः ॥७॥
नारद उवाच
।
मृतं ददानि ते पुत्रं दस्युभिर्निहतं वृथा
।
उद्धृत्य नरकात् कष्टात् पशुवत्प्रोक्षितं यथा ॥८॥
व्यास उवाच
।
प्रादुरासीत् ततः पुत्रः सृञ्जयस्याद्भुतप्रभः
।
प्रसन्नेनर्षिणा दत्तः कुबेरतनयोपमः ॥९॥
ततः संगम्य पुत्रेण प्रीतिमानभवन्नृपः
।
ईजे च क्रतुभिः पुण्यैः समाप्तवरदक्षिणैः ॥१०॥
अकृतार्थश्च भीतश्च न च सान्नाहिको हतः
।
अयज्वा त्वनपत्यश्च ततोऽसौ जीवितः पुनः ॥११॥
सान्नाहिकः युद्धोद्यतः ॥११॥
शूरो वीरः कृतार्थश्च प्रताप्यारीन्सहस्रशः
।
अभिमन्युर्गतो वीरः पृतनाभिमुखो हतः ॥१२॥
ब्रह्मचर्येण यान् कांश्चित् प्रज्ञया च श्रुतेन च
।
इष्टैश्च क्रतुभिर्यान्ति तांस्ते पुत्रोऽक्षयान् गतः ॥१३॥
विद्वांसः कर्मभिः पुण्यैः स्वर्गमीहन्ति नित्यशः
।
न तु स्वर्गादयं लोकः काम्यते स्वर्गवासिभिः ॥१४॥
तस्मात् स्वर्गगतं पुत्रमर्जुनस्य हतं रणे
।
न चेहानयितुं शक्यं किञ्चिदप्राप्यमीहितम् ॥१५॥
अप्राप्यमीहितमीप्सितं किञ्चिदपि न शक्यं न सुलभम् ॥१५॥
यां योगिनो ध्यानविविक्तदर्शनाः प्रयान्ति यां चोत्तमयज्विनो जनाः
।
तपोभिरिद्धैरनुयान्ति यां तथा तामक्षयां ते तनयो गतो गतिम् ॥१६॥
अन्तात् पुनर्भागवतो विराजते राजेव वीरो ह्यमृतात्मरश्मिभिः
।
तामैन्दवीमात्मतनुं द्विजोचितां गतोऽभिमन्युर्न स शोकमर्हति ॥१७॥
अन्तान्मरणात् । भागवतः संवत्प्राप्तः। द्विजोचितां द्विजैरभिमताम् ॥१७॥
एवं ज्ञात्वा स्थिरो भूत्वा जह्यरीन् धैर्यमाप्नुहि
।
जीवन्त एव नः शोच्या न तु स्वर्गगतोऽनघ ॥१८॥
शोचतो हि महाराज अघमेवाभिवर्धते
।
तस्माच्छोकं परित्यज्य श्रेयसे प्रयतेद्बुधः ॥१९॥
अघं दुःखम् ॥१९॥
प्रहर्षमभिमानं च सुखप्राप्तिं च चिन्तयन्
।
एतद्बुद्ध्वा बुधाः शोकं न शोकः शोक उच्यते ॥२०॥
अभिमानं मानातिशयम् । चिन्तयन्नभिलषन् शोकं न कुर्वन्ताति शेषः । न शोकः शोक उच्यते किं त्वात्मैव शोक इत्यर्थः ॥२०॥
एवं विद्वन् समुत्तिष्ठ प्रयतो भव मा शुचः
।
श्रुतस्ते संभवो मृत्योस्तपांस्यनुपमानि च ॥२१॥
सर्वभूतसमत्वं च चञ्चलाश्च विभूतयः
।
सृञ्जयस्य तु तं पुत्रं मृतं संजीवितं पुनः ॥२२॥
सृञ्जयस्य पुत्रमुद्दिश्य चञ्चला विभूतयश्च श्रुता इति शेषानुषङ्गः ॥२२॥
एवं विद्वन्महाराज मा शुचः साधयाम्यहम्
।
एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत ॥२३॥
वागीशाने भगवति व्यासे व्यभ्रनभःप्रभे
।
गते मतिमतां श्रेष्ठे समाश्वास्य युधिष्ठिरम् ॥२४॥
पूर्वेषां पार्थिवेन्द्राणां महेन्द्रप्रतिमौजसाम्
।
न्यायाधिगतवित्तानां तां श्रुत्वा यज्ञसंपदम् ॥२५॥
संपूज्य मनसा विद्वान्विशोकोऽभूद्युधिष्ठिरः
।
पुनश्चाचिन्तयद्दीनः किंस्विद्वक्ष्ये धनञ्जयम् ॥२६॥
इति श्रीमहाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये एकसप्ततितमोऽध्यायः ॥ ७१ ॥