सञ्जय उवाच।
तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये
।
आदित्येऽस्तं गते श्रीमान् संध्याकाल उपस्थिते ॥१॥
तस्मिन्निति ॥१॥
व्यपयातेषु वासाय सर्वेषु भरतर्षभ
।
हत्वा संशप्तकव्रातान् दिव्यैरस्त्रैः कपिध्वजः ॥२॥
प्रायात्स शिबिरं जिष्णुर्जैत्रमास्थाय तं रथम्
।
गच्छन्नेव च गोविन्दं साश्रुकण्ठोऽभ्यभाषत ॥३॥
किं नु मे हृदयं त्रस्तं वाक्च सज्जति केशव
।
स्यन्दन्ति चाप्यनिष्टानि गात्रं सीदति चाप्युत ॥४॥
अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति
।
भुवि ये दिक्षु चात्युग्रा उत्पातास्त्रासयन्ति माम् ॥५॥
श्लिष्टमनुबद्धम् ॥५॥
बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः
।
अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम ॥६॥
वासुदेव उवाच
।
व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति
।
मा शुचः किञ्चिदेवान्यत् तत्रानिष्टं भविष्यति ॥७॥
सञ्जय उवाच।
ततः सन्ध्यामुपास्यैव वीरौ वीरावसादने
।
कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ ॥८॥
ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम्
।
वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् ॥९॥
ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा
।
बीभत्सुरब्रवीत् कृष्णमस्वस्थहृदयस्ततः ॥१०॥
नदन्ति नाद्य तूर्याणि मंगल्यानि जनार्दन
।
मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह ॥११॥
आडम्बरैस्तूर्यरवैः ॥११॥
वीणा नैवाद्य वाद्यन्ते शम्यातालस्वनैः सह
।
मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च ॥१२॥
स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः
।
योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः ॥१३॥
कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम्
।
अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव ॥१४॥
न हि शुद्ध्यति मे भावो दृष्ट्वा स्वजनमाकुलम्
।
अपि पाञ्चालराजस्य विराटस्य च मानद ॥१५॥
सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत
।
न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह
।
रणादायान्तमुचितं प्रत्युद्याति हसन्निव ॥१६॥
सञ्जय उवाच।
एवं संकथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम्
।
ददृशाते भृशास्वस्थान् पाण्डवान्नष्टचेतसः ॥१७॥
दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः
।
अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् ॥१८॥
मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते
।
न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ ॥१९॥
मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः
।
न च वस्तस्य भेत्ताऽस्ति विना सौभद्रमर्भकम् ॥२०॥
न चोपदिष्टस्तस्यासीन्मयानीकाद्विनिर्गमः
।
कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः ॥२१॥
भित्त्वाऽनीकं महेष्वासः परेषां बहुशो युधि
।
कच्चिन्न निहतः संख्ये सौभद्रः परवीरहा ॥२२॥
लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु
।
उपेन्द्रसदृशं ब्रूत कथमायोधने हतः ॥२३॥
सुकुमारं महेष्वासं वासवस्यात्मजात्मजम्
।
सदा मम प्रियं बूत कथमायोधने हतः ॥२४॥
सुभद्रायाः प्रियं पुत्रं द्रौपद्याः केशवस्य च
।
अम्बायाश्च प्रियं नित्यं कोऽवधीत् कालमोहितः ॥२५॥
सदृशो वृष्णिवीरस्य केशवस्य महात्मनः
।
विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः ॥२६॥
वार्ष्णेयीदयितं शूरं मया सततलालितम्
।
यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥२७॥
मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम्
।
मत्तद्विरदविक्रान्तं सिंहपोतमिवोद्गतम् ॥२८॥
स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा
।
बाल्येऽप्यतुलकर्माणं प्रियवाक्यममत्सरम् ॥२९॥
महोत्साहं महाबाहुं दीर्घराजीवलोचनम्
।
भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् ॥३०॥
कृतज्ञं ज्ञानसम्पन्नं कृतास्त्रमनिवर्तिनम्
।
युद्धाभिनन्दिनं नित्यं द्विषतां भयवर्धनम् ॥३१॥
स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम्
।
न च पूर्वं प्रहर्तारं संग्रामे नष्टसंभ्रमम् ॥३२॥
यदि पुत्रं न पश्यामि यास्यामि यमसादनम्
।
रथेषु गण्यमानेषु गणितं तं महारथम् ॥३३॥
मयाध्यर्धगुणं संख्ये तरुणं बाहुशालिनम्
।
प्रद्युम्नस्य प्रियं नित्यं केशवस्य ममैव च ॥३४॥
यदि पुत्रं न पश्यामि यास्यामि यमसादनम्
।
सुनसं सुललाटान्तं स्वक्षिभ्रूदशनच्छदम् ॥३५॥
अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे
।
तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् ॥३६॥
अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे
।
रूपं चाप्रतिमं तस्य त्रिदशैश्चापि दुर्लभम् ॥३७॥
अपश्यतो हि वीरस्य का शान्तिर्हृदयस्य मे
।
अभिवादनदक्षं तं पितॄणां वचने रतम् ॥३८॥
नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे
।
सुकुमारः सदा वीरो महार्हशयनोचितः ॥३९॥
भूमावनाथवच्छेते नूनं नाथवतां वरः
।
शयानं समुपासन्ति यं पुरा परमस्त्रियः ॥४०॥
तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः
।
यः पुरा बोध्यते सुप्तः सुत-मागध-बन्दिभिः ॥४१॥
बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वनैः
।
छत्रच्छायासमुचितं तस्य तद्वदनं शुमम् ॥४२॥
नूनमद्य रजोध्वस्तं रणरेणुः करिष्यति
।
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने ॥४३॥
भाग्यहीनस्य कालेन यथा मे नीयसे बलात्
।
सा च संयमनी नूनं सदा सुकृतिनां गतिः ॥४४॥
यथेति कथमर्थे ॥४४॥
स्वभाभिर्मोहिता रम्या त्वयाऽत्यर्थं विराजते
।
नूनं वैवस्वतश्च त्वां वरुणश्च प्रियातिथिम् ॥४५॥
शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम्
।
एवं विलप्य बहुधा भिन्नपोतो वणिग्यथा ॥४६॥
दुःखेन महताऽविष्टो युधिष्ठिरमपृच्छत
।
कच्चित्स कदनं कृत्वा परेषां कुरुनन्दन ॥४७॥
स्वर्गतोऽभिमुखः संख्ये युध्यमानो नरर्षभैः
।
स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः ॥४८॥
असहायः सहायार्थी मामनुध्यातवान् ध्रुवम्
।
पीड्यमानः शरैस्तीक्ष्णैः कर्णद्रोणकृपादिभिः ॥४९॥
नानालिङ्गैः सुधौताग्रैर्मम पुत्रोऽल्पचेतनः
।
इह मे स्यात् परित्राणं पितेति सः पुनः पुनः ॥५०॥
यदि मे पिता स्यात्तदा मे त्राणं स्यादित्यन्वयः ॥५०॥
इत्येवं विलपन्मन्ये नृशंसैर्भुवि पातितः
।
अथवा मत्प्रसूतः स स्वस्रीयो माधवस्य च ॥५१॥
सुभद्रायां च संभूतो न चैवं वक्तुमर्हति
।
वज्रसारमयं नूनं हृदयं सुदृढं मम ॥५२॥
अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते
।
कथं बाले महेष्वासा नृशंसा मर्मभेदिनः ॥५३॥
स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपन् शरान्
।
यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति ॥५४॥
उपायान्तं रिपून् हत्वा सोऽद्य मां किं न पश्यति
।
नूनं स पातितः शेते धरण्यां रुधिरोक्षितः ॥५५॥
शोभयन्मेदिनीं गात्रैरादित्य इव पातितः
।
सुभद्रामनुशोचामि या पुत्रमपलायिनम् ॥५६॥
रणे विनिहतं श्रुत्वा शोकार्ता वै विनंक्ष्यति
।
सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती ॥५७॥
द्रौपदी चैव दुःखार्ते ते च वक्ष्यामि किं त्वहम्
।
वज्रसारमयं नूनं हृदयं यन्न यास्यति ॥५८॥
सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम्
।
दृप्तानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः ॥५९॥
युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन्
।
अशक्नुवन्तो बीभत्सुं बालं हत्वा महारथाः ॥६०॥
किं मोदध्वमधर्मज्ञाः पाण्डवं दृश्यतां बलम्
।
किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे ॥६१॥
सिंहवन्नदथ प्रीताः शोककाल उपस्थिते
।
आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः ॥६२॥
अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम्
।
इति तान् परिभाषन् वै वैश्यापुत्रो महामतिः ॥६३॥
अपायाच्छत्रमुत्सृज्य कोपदुःखसमन्वितः
।
किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम ॥६४॥
अधाक्षं तानहं क्रूरांस्तदा सर्वान् महारथान्
।
सञ्जय उवाच।
पुत्रशोकार्दितं पार्थं ध्यायन्तं साश्रुलोचनम् ॥६५॥
निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम्
।
मैवमित्यब्रवीत् कृष्णस्तीव्रशोकसमन्वितम् ॥६६॥
सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम्
।
क्षत्रियाणां विशेषेण येषां युद्धेन जीविका ॥६७॥
एषा वै युध्यमानानां शूराणामनिवर्तिनाम्
।
विहिता सर्वशास्त्रज्ञैर्गतिर्मतिमतां वर ॥६८॥
ध्रुवं हि युद्धे मरणं शूराणामनिवर्तिनाम्
।
गतः पुण्यकृतां लोकानभिमन्युर्न संशयः ॥६९॥
एतच्च सर्ववीराणां कांक्षितं भरतर्षभ
।
संग्रामेऽभिमुखो मृत्युं प्राप्नुयादिति मानद ॥७०॥
स च वीरान् रणे हत्वा राजपुत्रान् महाबलान्
।
वीरैराकांक्षितं मृत्युं संप्राप्तोऽभिमुखं रणे ॥७१॥
मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः
।
धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः ॥७२॥
इमे ते भ्रातरः सर्वे दीना भरतसत्तम
।
त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव ॥७३॥
एतांश्च वचसा साम्ना समाश्वासय मानद
।
विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि ॥७४॥
एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा
।
ततोऽब्रवीत्तदा भ्रातॄन्सर्वान् पार्थः सगद्गदान् ॥७५॥
स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः
।
अभिमन्युर्यथावृत्तः श्रोतुमिच्छाम्यहं तथा ॥७६॥
सनागस्यन्दनहयान् द्रक्ष्यध्वं निहतान् मया
।
संग्रामे सानुबन्धांस्तान् मम पुत्रस्य वैरिणः ॥७७॥
कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम्
।
सौभद्रो निधनं गच्छेद्वज्रिणाऽपि समागतः ॥७८॥
यद्येवमहमज्ञास्यमशक्तान् रक्षणे मम
।
पुत्रस्य पाण्डुपञ्चालान् मया गुप्तो भवेत् ततः ॥७९॥
कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम्
।
नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः ॥८०॥
अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः
।
यत्राभिमन्युः समरे पश्यतां वो निपातितः ॥८१॥
आत्मानमेव गर्हेयं यदहं वै सुदुर्बलान्
।
युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्चयान् ॥८२॥
आहोस्विद्भूषणार्थाय वर्म शस्त्रायुधानि वः
।
वाचस्तु वक्तुं संसत्सु मम पुत्रमरक्षताम् ॥८३॥
एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान्
।
न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम् ॥८४॥
तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः
।
पुत्रशोकाभिसन्तप्तमश्रुपूर्णमुखं तदा ॥८५॥
न भाषितुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम्
।
अन्यत्र वासुदेवाद्वा ज्येष्ठाद्वा पाण्डुनन्दनात् ॥८६॥
सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ
।
बहुमानात् प्रियत्वाच्च तावेनं वक्तुमर्हतः ॥८७॥
ततस्तं पुत्रशोकेन भृशं पीडितमानसम्
।
राजीवलोचनं कुद्धं राजा वचनमब्रवीत् ॥८८॥
इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अर्जुनकोपे द्विसप्ततितमोऽध्यायः ॥ ७२ ॥
युधिष्ठिर उवाच
।
त्वयि याते महाबाहो संशप्तकबलं प्रति
।
प्रयत्नमकरोत् तीव्रमाचार्यो ग्रहणे मम ॥१॥
त्वयीति ॥१॥
व्यूढानीका वयं द्रोणं वारयामः स्म सर्वशः
।
प्रतिव्यूह्य रथानीकं यतमानं तथा रणे ॥२॥
स वार्यमाणो रथिभिर्मयि चापि सुरक्षिते
।
अस्मानभिजगामाशु पीडयन्निशितैः शरैः ॥३॥
ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः
।
प्रतिवीक्षितुमप्याजौ भेत्तुं तत् कुत एव तु ॥४॥
वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम्
।
उक्तवन्तः स्म तं तात भिन्ध्यनीकमिति प्रभो ॥५॥
स तथा नोदितोऽस्माभिः सदश्व इव वीर्यवान्
।
असह्यमपि तं भारं वोढुमेवोपचक्रमे ॥६॥
स तवास्त्रोपदेशेन वीर्येण च समन्वितः
।
प्राविशत्तद्बलं बालः सुपर्ण इव सागरम् ॥७॥
तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे
।
प्रवेष्टुकामास्तेनैव येन प्राविशच्चमूम् ॥८॥
ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः
।
वरदानेन रुद्रस्य सर्वान्नः समवारयत् ॥९॥
ततो द्रोणः कृपः कर्णो द्रौणिः कौसल्य एव च
।
कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन् ॥१०॥
कौसल्यो बृहद्वलः ॥१०॥
परिवार्य तु तैः सर्वैर्युधि बालो महारथैः
।
यतमानः परं शक्त्या बहुभिर्विरथीकृतः ॥११॥
ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम्
।
संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत् ॥१२॥
स तु हत्वा सहस्राणि नराश्वरथदन्तिनाम्
।
अष्टौ रथसहस्राणि नव दन्तिशतानि च ॥१३॥
राजपुत्रसहस्रे द्वे वीरांश्चालक्षितान् बहून्
।
बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य ह ॥१४॥
ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान्
।
एतावदेव निर्वृत्तमस्माकं शोकवर्धनम् ॥१५॥
स चैवं पुरुषव्याघ्र स्वर्गलोकमवाप्तवान्
।
ततोऽर्जुनो वचः श्रुत्वा धर्मराजेण भाषितम् ॥१६॥
हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि
।
विषण्णवदनाः सर्वे परिवार्य धनञ्जयम् ॥१७॥
नेत्रैरनिमिषैर्दीनाः प्रत्यवैक्षन् परस्परम्
।
प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्च्छितः ॥१८॥
कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः
।
पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान् ॥१९॥
उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत्
।
अर्जुन उवाच
।
सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम्
।
न चेद्वधभयाद्भीतो धार्तराष्ट्रान् प्रहास्यति ॥२०॥
न चास्मान् शरणं गच्छेत् कृष्णं वा पुरुषोत्तमम्
।
भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम् ॥२१॥
धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम्
।
पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम् ॥२२॥
रक्षमाणाश्च तं सङ्ख्ये ये मां योत्स्यन्ति केचन
।
अपि द्रोणकृपौ राजन् छादयिष्यामि ताञ्छरैः ॥२३॥
यद्येतदेवं संग्रामे न कुर्यां पुरुषर्षभाः
।
मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसंमतान् ॥२४॥
ये लोका मातृहंतॄणां ये चापि पितृघातिनाम्
।
गुरुदारगतानां ये पिशुनानां च ये सदा ॥२५॥
साधूनसूयतां ये च ये चापि परिवादिनाम्
।
ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम् ॥२६॥
भुक्तपूर्वां स्त्रियं ये च विन्दतामघशंसिनाम्
।
ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि ॥२७॥
भुक्तपूर्वामन्योपभुक्तां विन्दतां स्वीकुर्वताम् ॥२७॥
पायसं वा यवान्नं वा शाकं कृसरमेव वा
।
संयावापूपमांसानि ये च लोका वृथाश्नताम् ॥२८॥
तानन्हायाधिगच्छेयं न चेद्धन्यां जयद्रथम्
।
वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम् ॥२९॥
अवमन्यमानो यान् याति वृद्धान् साधून् गुरुंस्तथा
।
स्पृशतो ब्राह्मणं गां च पादेनाग्निं च या भवेत् ॥३०॥
याऽप्सु श्लेष्म पुरीषं च मूत्रं वा मुञ्चतां गतिः
।
तां गच्छेयं गतिं कष्टां न चेद्धन्यां जयद्रथम् ॥३१॥
नग्नस्य स्नायमानस्य या च वन्ध्यातिथेर्गतिः
।
उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः ॥३२॥
आत्मापहारिणां या च या च मिथ्याभिशंसिनाम्
।
भृत्यैः संदिश्यमानानां पुत्रदाराश्रितैस्तथा ॥३३॥
आत्मापहारिणाम् आत्मानमन्यथा प्रकाशयतां मिथ्याभिशंसिनाम् असद्दोषोक्त्या परान् दूषयतां संदिश्यमानानां नियुज्यमानानाम् ॥३३॥
असंविभज्य क्षुद्राणां या गतिर्मिष्टमश्नताम्
।
तां गच्छेयं गातिं घोरां न चेद्धन्यां जयन्द्रथम् ॥३४॥
संश्रितं चापि यस्त्यक्त्वा साधुं तद्वचने रतम्
।
न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम् ॥३५॥
अर्हते प्रातिवेश्याय श्रद्धं यो न ददाति च
।
अनर्हेभ्यश्च यो दद्याद्वृषल्लीपतये तथा ॥३६॥
वृषला शूद्रा कन्याभावे रजस्वला वा ॥३६॥
मद्यपो भिन्नमर्यादः कृतघ्नो भर्तृनिन्दकः
।
तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम् ॥३७॥
भुञ्जानानां तु सव्येन उत्सङ्गे चापि खादताम्
।
पालाशमासनं चैच तिन्दुकैर्दन्तधावनम् ॥३८॥
ये चावर्जयतां लोकाः स्वपतां च तथोषसि
।
शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः ॥३९॥
एककूपोदकग्रामे वेदध्वनिविवर्जिते
।
षण्मासं तत्र वसतां तथा शास्त्रं विनिन्दताम् ॥४०॥
दिवामैथुनिनां चापि दिवसेषु च शेरते
।
अगारदाहिनां चैव गरदानां च ये मताः ॥४१॥
अग्न्यातिथ्यविहीनाश्च गोपानेषु च विघ्नदाः
।
रजस्वलां सेवयन्तः कन्यां शुल्केन दायिनः ॥४२॥
या च वै बहुयाजिनां ब्राह्मणानां श्ववृत्तिनाम्
।
आस्यमैथुनिकानां च ये दिवा मैथुने रताः ॥४३॥
ब्राह्मणस्य प्रतिश्रुत्य यो वै लोभाद्ददाति न
।
तेषां गतिं गमिष्यामि श्वो न हन्यां जयद्रथम् ॥४४॥
धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः
।
ये चानुकीर्तितास्तेषां गतिं क्षिप्रमवाप्नुयाम् ॥४५॥
यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम्
।
इमां चाप्यपरां भूयः प्रतिक्षां मे निबोधत ॥४६॥
यद्यस्मिन्नहते पापे सूर्योऽस्तमुपयास्यति
।
इहैव संप्रवेष्टाऽहं ज्वलितं जातवेदसम् ॥४७॥
असुरसुरमनुष्याः पक्षिणो वोरगा वा पितृजनिचरा वा ब्रह्मदेवर्षयो वा
।
चरमचरमपीदं यत्परं चापि तस्मात्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः ॥४८॥
तदपि तेऽपीत्यर्थः ॥४८॥
यदि विशति रसातलं तदग्र्यं वियदपि देवपुरं दितेः पुरं वा
।
तदपि शरशतैरहं प्रभाते भृशमभिमन्युरिपोः शिरोऽभिहर्ता ॥४९॥
दितेरिति कार्ये कारणोपचाराद्दैत्यानामित्यर्थः ॥४९॥
एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम्
।
तस्य शब्दमतिकम्य धनुःशब्दोऽस्पृशद्दिवम् ॥५०॥
शब्दं शब्दान्तरम् ॥५०॥
अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः
।
प्रदध्मौ तत्र संक्रुद्धो देवदत्तं च फाल्गुनः ॥५१॥
स पाञ्चजन्योऽच्युतवक्त्रवायुना भृशं सुपूर्णोदरनिःसृतध्वनिः
।
जगत् सपातालवियद्दिगीश्वरं प्रकम्पयामास युगात्यये यथा ॥५२॥
ततो वादित्रघोषाश्च प्रादुरासन् सहस्रशः
।
सिंहनादश्च पाण्डूनां प्रतिज्ञाते महात्मना ॥५३॥
इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अर्जुनप्रतिज्ञायां त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥
सञ्जय उवाच।
श्रुत्वा तु तं महाशब्दं पाण्डूनां जयगृद्धिनाम्
।
चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः ॥१॥
श्रुत्वेति ॥१॥
शोकसंमूढहृदयो दुःखेनाभिपरिप्लुतः
।
मञ्जमान इवागाधे विपुले शोकसागरे ॥२॥
जगाम सभितिं राज्ञां सैन्धवो विमृशन् बहु
।
स तेषां नरदेवानां सकाशे पर्वदेवयन् ॥३॥
अभिमन्योः पितुर्भीतः सव्रीडो वाक्यमब्रवीत्
।
योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना ॥४॥
स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम्
।
तत् स्वस्ति वोऽस्तु यास्यामि स्वगृहं जीवितेप्सया ॥५॥
किलेत्यरुचौ ॥५॥
अथवास्त्रप्रतिबलास्त्रात मां क्षत्रियर्षभाः
।
पर्थेन प्रार्थितं वीरास्ते संदत्त ममाभयम् ॥६॥
द्रोण-दुर्योधन-कृपाः कर्ण-मद्रेश-बाल्हिकाः
।
दुःशासनादयः शक्तास्त्रातुं मामन्तकार्दितम् ॥७॥
किमङ्ग पुनरेकेन फाल्गुनेन जिघांसता
।
न त्रायेयुर्भवन्तो मां समस्ताः पतयः क्षितेः ॥८॥
प्रहर्षं पाण्डवेयानां श्रुत्वा मम महद्भयम्
।
सीदन्ति मम गात्राणि मुमूर्षोरिव पार्थिवाः ॥९॥
वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना
।
तथा हि हृष्टाः क्रोशन्ति शोककाले स्म पाण्डवाः ॥१०॥
तन्न देवा न गन्धर्वा नासुरोरगराक्षसाः
।
उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः ॥११॥
तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः
।
अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः ॥१२॥
एवं विलपमानं तं भयाद्व्याकुलचेतसम्
।
आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत् ॥१३॥
न भेतव्यं नरव्याघ्र को हि त्वां पुरुषर्षभ
।
मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि ॥१४॥
अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः
।
भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः ॥१५॥
पुरुमित्रो जयो भोजः काम्बोजश्च सुदक्षिणः
।
सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखश्च ह ॥१६॥
दुःशासनः सुबाहुश्च कालिङ्गश्चाप्युदायुधः
।
विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिश्च सौबलः ॥१७॥
एते चान्ये च बहवो नानाजनपदेश्वराः
।
ससैन्यास्त्वाभियास्यन्ति व्येतु ते मानसो ज्वरः ॥१८॥
त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युते
।
स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव ॥१९॥
अक्षौहिण्यो दशैका च मदीयास्तव रक्षणे
।
यत्ता योत्स्यन्ति मा भैस्त्वं सैन्धव व्येतु ते भयम् ॥२०॥
अक्षौहिण्य इति प्रत्यक्षौहिणीशेषमादायोक्तम् ॥२०॥
सञ्जय उवाच।
एवमाश्वासितो राजन् पुत्रेण तव सैन्धवः
।
दुर्योधनेन सहितो द्रोणं रात्रावुपागमत् ॥२१॥
उपसंग्रहणं कृत्वा द्रोणाय स विशांपते
।
उपोपविश्य प्रणतः पर्यपृच्छदिवं तदा ॥२२॥
उपसंग्रहणं पादाभिवन्दनम् ॥२२॥
निमित्ते दूरपातित्वे लघुत्वे दृढवेधने
।
मम ब्रवीतु भगवान् विशेषं फाल्गुनस्य च ॥२३॥
निमित्ते लक्ष्यभेदने ॥२३॥
विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः
।
अर्जुनस्यात्मनश्चैव याथातथ्यं प्रचक्ष्व मे ॥२४॥
द्रोण उवाच
।
स ममाचार्यकं तात तव चैवार्जुनस्य च
।
योगाद्दुःखोषितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः ॥२५॥
योगादभ्यासात् ॥२५॥
न तु ते युधि संत्रासः कार्यः पार्थात् कथञ्चन
।
अहं हि रक्षिता तात भयात्त्वां नात्र संशयः ॥२६॥
न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि
।
व्यूहयिष्यामि तं व्यूहं यं पार्थो न तरिष्यति ॥२७॥
तस्माद्युद्ध्यस्व मा भैस्त्वं स्वधर्ममनुपालय
।
पितृपैतामहं मार्गमनुयाहि महारथ ॥२८॥
अधीत्य विधिवद्वेदानग्नयः सुहुतास्त्वया
।
इष्टं बहुभिर्यज्ञैर्न ते मृत्युर्भयङ्करः ॥२९॥
दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्यतु
।
भुजवीर्यार्जितान् लोकान् दिव्यान् प्राप्स्यस्यनुत्तमान् ॥३०॥
कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः
।
अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम् ॥३१॥
पर्यायेण वयं सर्वे कालेन बलिना हताः
।
परलोकं गमिष्यामः स्वैः स्वैः कर्माभिरन्विताः ॥३२॥
तपस्ताप्त्वा तु यान् लोकान् प्राप्नुवन्ति तपस्विनः
।
क्षत्रधर्माश्रिता वीराः क्षत्रियाः प्राप्नुवन्ति तान् ॥३३॥
एवमाश्वासितो राजा भारद्वाजेन सैन्धवः
।
अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे ॥३४॥
ततः प्रहर्ष सैन्यानां तवाप्यासीद्विशांपते
।
वादित्राणां ध्वनिश्चोग्रः सिंहनादरवैः सह ॥३५॥
इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि जयद्रथाश्वासे चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥
सञ्जय उवाच।
प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा
।
वासुदेवो महाबाहुर्धनञ्जयमभाषत ॥१॥
प्रतिज्ञात इति ॥१॥
भ्रातॄणां मतमज्ञाय त्वया चाचा प्रतिश्रुतम्
।
सैन्धवं चास्मि हन्तेति तत्साहसमिदं कृतम् ॥२॥
अशब्दो निषेधे अज्ञात्वेत्यर्थः ॥२॥
असंमन्त्र्य मया सार्धमतिभारोऽयमुद्यतः
।
कथं तु सर्वलोकस्य नावहास्या भवेमहि ॥३॥
धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश्चराः
।
त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः ॥४॥
त्वया वै संप्रतिज्ञाते सिन्धुराजवधे प्रभा
।
सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः ॥५॥
तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः
।
नाकस्मात् सिंहनादोऽयमिति मत्वा व्यवस्थिताः ॥६॥
सुमहाञ्शब्दसंपातः कौरवाणां महाभुज
।
आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः ॥७॥
अभिमन्योर्वधं श्रुत्वा ध्रुवमार्तो धनञ्जयः
।
रार्त्रौ निर्यास्यति कोधादिति मत्वा व्यवस्थिताः ॥८॥
तैर्यतद्भिरियं सत्या श्रुता सत्यवतस्तव
।
प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन ॥९॥
ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव
।
आसन्सुयोधनामात्याः स च राजा जयद्रथः ॥१०॥
अथोत्थाय सहामात्यैर्दीनः शिबिरमात्मनः
।
आयात्सौवीरसिन्धूनामीश्वरो भृशदुःखितः ॥११॥
स मन्त्रकाले संमन्त्र्य सर्वां नैःश्रेयसीं कियाम्
।
सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि ॥१२॥
मामसौ पुत्र हन्तेति श्वोऽभियाता धनञ्जयः
।
प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम ॥१३॥
तां न देवा न गन्धर्वा नासुरोरगराक्षसाः
।
उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः ॥१४॥
ते मां रक्षत संग्रामे मा वो मूर्ध्नि धनञ्जयः
।
पदं कृत्वाऽप्नुयाल्लक्ष्यं तस्मादत्र विधीयताम् ॥१५॥
विधीयतां रक्षेति परतः सम्बध्यते ॥१५॥
अथ रक्षा न मे संख्ये क्रियते कुरुनन्दन
।
अनुजानीहि मां राजन् गमिष्यामि गृहान् प्रति ॥१६॥
एवमुक्तस्त्ववाक्शीर्षो विमनाः स सुयोधनः
।
श्रुत्वा तं समयं तस्य ध्यानमेवान्वपद्यत ॥१७॥
तमार्तमभिसंप्रेक्ष्य राजा किल स सैन्धवः
।
मृदु चात्महितं चैव सापेक्षमिदमुक्तवान् ॥१८॥
नेह पश्यामि भवतां तथावीर्यं धनुर्धरम्
।
योऽर्जुनस्यास्रमस्त्रेण प्रतिहन्यान्महाहवे ॥१९॥
वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः
।
कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः ॥२०॥
महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा
।
पदातिना महावीर्यो गिरौ हिमवति प्रभुः ॥२१॥
दानवानां सहस्राणि हिरण्यपुरवासिनाम्
।
जघानैकरथेनेव देवराजप्रचोदितः ॥२२॥
समायुक्तो हि कौन्तेयो वासुदेवेन धीमता
।
सामरानपि लोकांस्त्रीन् हन्यादिति मतिर्मम ॥२३॥
सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना
।
द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे ॥२४॥
स राज्ञा स्वयमाचार्यो भृशमत्रार्थितोऽर्जुन
।
संविधानं च विहितं रथाश्च किल सज्जिताः ॥२५॥
संविधानं प्रतिविधानम् ॥२५॥
कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः
।
कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः ॥२६॥
शकटः पद्मकश्चार्धो व्यूहो द्रोणेन निर्मितः
।
पद्मकर्णिकमध्यस्थः सूची पार्श्वे जयद्रथः ॥२७॥
पद्मव्यूहः पश्चार्धे पश्चाद्भागे यस्य सूची सूचीमुखो व्यूहः ॥२७॥
स्थास्यते रक्षितो वीरैः सिन्धुराट् स सुदुर्मदः
।
धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथौरसे ॥२८॥
अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः
।
एतानजित्वा षड्रथान्नैव प्राप्यो जयद्रथः॥२९॥
तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय
।
सहिता हि नरव्याघ्र न शक्या जेतुमञ्जसा ॥३०॥
भूयस्तु मन्त्रयिष्यामि नीतिमात्महिताय वै
।
मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये ॥३१॥
इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि कृष्णवाक्ये पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥
अर्जुन उवाच
।
षड्रथान् धार्तराष्ट्रस्य मन्यसे यान् बलाधिकान्
।
तेषां वाय ममार्धेन न तुल्यमिति मे मतिः ॥१॥
षड्रथानिति ॥१॥
अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन
।
मया द्रक्ष्यसि निर्भिन्नं जयद्रथबधैषिणा ॥२॥
द्रोणस्य मिषतश्चाहं सगणस्य विलप्यतः
।
मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले ॥३॥
यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः
।
मरुतश्च सहेन्द्रेण विश्वेदेवाः सहेश्वराः ॥४॥
पितरः सहगन्धर्वाः सुपर्णाः सागरादयः
।
द्यौर्वियत् पृथिवी चेयं दिशश्च सदिगीश्वराः ॥५॥
ग्रामारण्यानि भूतानि स्थावराणि चराणि च
।
त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन ॥६॥
तथापि बाणैर्निहतं श्वो द्रष्टाऽसि रणे मया
।
सत्येन च शपे कृष्ण तथैवायुधमालभे ॥७॥
यस्य गोप्ता महेष्वासस्तस्य पापस्य दुर्मतेः
।
तमेव प्रथमं द्रोणमभियास्यामि केशव ॥८॥
तस्मिन् द्यूतमिदं बद्धं मन्यते स सुयोधनः
।
तस्मात्तस्यैव सेनाग्रं भित्वा यास्यामि सैन्धवम् ॥९॥
तस्मिन् द्रोणे द्यूतं युद्धद्यूतम् । बद्धमिव बद्धम् एकान्तजयेन स्थिरीकृतम् ॥९॥
द्रष्टाऽसि श्वो महेष्वासान्नाराचैस्तिग्मतेजितैः
।
शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मया युधि ॥१०॥
नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम्
।
पतद्भ्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः ॥११॥
गाण्डीवप्रेषिता बाणा मनोऽनिलसमा जवे
।
नृनागाश्वान् विदेहासून कर्तारश्च सहस्रशः ॥१२॥
यमात् कुबेराद्वरुणादिन्द्राद्रुद्राच्च यन्मया
।
उपात्तमस्त्रं घोरं तद्द्रष्टारोऽत्र नरा युधि ॥१३॥
ब्राह्मणास्त्रेण चास्त्राणि हन्यमानानि संयुगे
।
मया द्रष्टाऽसि सर्वेषां सैन्धवस्याभिरक्षिणाम् ॥१४॥
शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः
।
आस्तीर्यमाणां पृथिवीं द्रष्टाऽसि श्वो मया युधि ॥१५॥
क्रव्यादांस्तर्पयिष्यामि द्रावयिष्यामि शात्रवान्
।
सुहृदो नन्दयिष्यामि प्रमथिष्यामि सैन्धवम् ॥१६॥
बह्वागस्कृत् कुसम्बन्धी पापदेशसमुद्भवः
।
मया सैन्धवको राजा हतः स्वान् शोचयिष्यति ॥१७॥
सर्वक्षीरान्नभोक्तारं पापाचारं रणाजिरे
।
मया सराजकं बाणैर्भिन्नं द्रक्ष्यसि सैन्धवम् ॥१८॥
तथा प्रभाते कर्ताऽस्मि यथा कृष्ण सुयोधनः
।
नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि ॥१९॥
गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ
।
त्वं च यन्ता हृषीकेश किं नु स्यादजितं मया ॥२०॥
तव प्रसादाद्भगवन् किं नावाप्तं रणे मम
।
अविषह्यं हृषीकेश किं जानन्मां विगर्हसे ॥२१॥
यथा लक्ष्म स्थिरं चन्द्रे समुद्रे च यथा जलम्
।
एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन ॥२२॥
मावमंस्था ममास्त्राणि मावमंस्था धनुर्दृढम्
।
मावमंस्था बलं बाह्वोर्मावमंस्था धनञ्जयम् ॥२३॥
तथाभियामि संग्रामं न जीयेयं जयामि च
।
तेन सत्येन संग्रामे हतं विद्धि जयद्रथम् ॥२४॥
न जीयेयं न केनापि जितोऽस्मि ॥२४॥
ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु सन्नतिः
।
श्रीर्ध्रुवाऽपि च यज्ञेषु ध्रुवो नारायणे जयः ॥२५॥
सञ्जय उवाच।
एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना
।
सन्दिदेशार्जुनो नर्दन् वासविः केशवं प्रभुम् ॥२६॥
यथा प्रभातां रजनीं कल्पितः स्याद्रथो मम
।
तथा कार्यं त्वया कृष्ण कार्यं हि महदुद्यतम् ॥२७॥
इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वण्यर्जुनवाक्ये षट्सप्ततितमोऽध्यायः ॥ ७६ ॥
सञ्जय उवाच
।
तां निशां दुःखशोकार्तौ निःश्वसन्ताविवोरगौ
।
निद्रां नैवोपलेभाते वासुदेवधनञ्जयौ ॥१॥
तामिति ॥१॥
नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः
।
व्यथिताश्चिन्तयामासुः किंस्विदेतद्भविष्यति ॥२॥
ववुच्च दारुणा वाता रूक्षा घोराभिशंसिनः
।
सकबन्धस्तथाऽदित्ये परिघः समदृश्यत ॥३॥
शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः
।
चचाल चापि पृथिवी सशैलवनकानना ॥४॥
चुक्षुभुश्च महाराज सागरा मकरालयाः
।
प्रतिस्स्रोतः प्रवृत्ताश्च तथा गन्तुं समुद्रगाः ॥५॥
रथाश्वनरनागानां प्रवृत्तमधरोत्तरम्
।
क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये ॥६॥
वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह
।
तान् दृष्ट्वा दारुणान् सर्वानुत्पाताँल्लोमहर्षणान् ॥७॥
सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभ
।
श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः ॥८॥
अथ कृष्णं महाबाहुरब्रवीत् पाकशासनिः
।
आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह ॥९॥
स्नुषां चास्या वयस्याश्च विशोकाः कुरु माधव
।
साम्ना सत्येन युक्तेन वचसाऽश्वासय प्रभो ॥१०॥
ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः
।
भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम् ॥११॥
वासुदेव उवाच
।
मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा
।
सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता ॥१२॥
कुले जातस्य धीरस्य क्षत्रियस्य विशेषतः
।
सदृशं मरणं ह्येतत् तव पुत्रस्य मा शुचः ॥१३॥
दिष्ट्या महारथो धीरः पितुस्तुल्यपराक्रमः
।
क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् ॥१४॥
जित्वा सुबहुशः शत्रून् प्रेषयित्वा च मृत्यवे
।
गतः पुण्यकृतां लोकान् सर्वकामदुहोऽक्षयान् ॥१५॥
तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयाऽपि च
।
सन्तो यां गतिमिच्छन्ति तां प्राप्तस्तव पुत्रकः ॥१६॥
वीरसूर्वीरपत्नी त्वं वीरजा वीरबान्धवा
।
मा शुचस्तनयं भद्रे गतः स परमां गतिम् ॥१७॥
प्राप्स्यते चाप्यसौ पापः सैन्धवो बालघातकः
।
अस्यावलेपस्य फल ससुहृद्गणबान्धवः ॥१८॥
अवलेपस्यापराधस्य ॥१८॥
व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत्
।
न हि मोक्ष्यति पार्थात् स प्रविष्टोऽप्यमरावतीम् ॥१९॥
श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम्
।
समन्तपञ्चकाद्बाह्यं विशोका भव मा रुदः ॥२०॥
क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम्
।
यां गतिं प्राप्नुयामेह ये चान्ये शस्त्रजीविनः ॥२१॥
व्यूढोरस्को महाबाहुरनिवर्ती रथप्रणुत्
।
गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि ॥२२॥
अनुयातश्च पितरं मातृपक्षं च वीर्यवान्
।
सहस्रशो रिपून् हत्वा हतः शूरो महारथः ॥२३॥
आश्वासयन्स्नुषां राज्ञि मा शुचः क्षत्रिये भूशम्
।
श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि ॥२४॥
यत् पार्थेन प्रतिज्ञातं तत् तथा न तदन्यथा
।
चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम् ॥२५॥
यदि च मनुजपन्नागाः पिशाचा रजनिचराः पतगाः सुरासुराश्च
।
रणगतमभियान्ति सिन्धुराजं न स भविता सह तैरपि प्रभाते ॥२६॥
अभियान्ति रक्षिष्यन्ति ॥२६॥
इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि सुभद्राश्वासने सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥
सञ्जय उवाच।
एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः
।
सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता ॥१॥
एतदिति ॥१॥
हा पुत्र मम मन्दायाः कथमेत्यासि संयुगम्
।
निधनं प्राप्तवांस्तात पितुस्तुल्यपराक्रमः ॥२॥
कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम्
।
मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना ॥३॥
नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम्
।
सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं नतोदरम् ॥४॥
चारूपचितसर्वांगं स्वक्षं शस्त्रक्षताचितम्
।
भूतानि त्वां निरीक्षन्ते नूनं चन्द्रमिवोदितम् ॥५॥
शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम्
।
भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः ॥६॥
योऽन्वास्यत पुरा वीरो वरस्रीभिर्महाभुजः
।
कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे ॥७॥
योऽस्तूयत पुरा हृष्टैः सूत-मागध-बन्दिभिः
।
सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्यते ॥८॥
पाण्डवेषु च नाथेषु वृष्णिवीरेषु वा विभो
।
पञ्चालेषु च वीरेषु हतः केनास्यनाथवत् ॥९॥
अतृप्तदर्शना पुत्र दर्शनस्य तवानघ
।
मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम् ॥१०॥
विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च
।
तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम् ॥११॥
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम्
।
धिग्वीर्यं वृष्णिवीराणां पञ्चालानां च धिग्बलम् ॥१२॥
धिक्केकयांस्तथा चेदीन् मत्स्यांश्चैवाथ सृञ्जयान्
।
ये त्वां रणगतं वीरं न शेकुरभिरक्षितुम् ॥१३॥
अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम्
।
अभिमन्युमपश्यन्ती शोकव्याकुललोचना ॥१४॥
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः
।
कथं त्वाऽतिरथं वीरं द्रक्ष्याम्यद्य निपातितम् ॥१५॥
एह्येहि तृषितो वत्स स्तनौ पूर्णौ पिबाशु मे
।
अङ्कमारुह्य मन्दाया ह्यतृप्तायाश्च दर्शने ॥१६॥
हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे
।
अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम् ॥१७॥
इमां ते तरुणीं भार्यां तवाधिभिरभिप्लुताम्
।
कथं संधारयिष्यामि विवत्सामिव धेनुकाम् ॥१८॥
अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक
।
विहाय फलकाले मां सुगृद्धां तव दर्शने ॥१९॥
नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा
।
यत्र त्वं केशवे नाथे संग्रामेऽनाथवद्धतः ॥२०॥
यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम्
।
चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम् ॥२१॥
कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि
।
सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि ॥२२॥
या गतिर्युध्यमानानां शूराणामनिवर्तिनाम्
।
हत्वाऽरीन्निहतानां च संग्रामे तां गतिं व्रज ॥२३॥
गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः
।
नैवेशिकं चाभिमतं ददतां या गतिः शुभा ॥२४॥
नैवेशिकं सोपकरणं गृहम् नैवेशिकायेति पाठे गृहाश्रमोन्मुखाय विद्याव्रतस्नाताय । अभिमतं विवाहोपयुक्तम् ॥२४॥
ब्राह्मणेभ्यः शरण्येभ्यो निधिं निदधतां च या
।
या चापि न्यस्तदण्डानां तां गतिं व्रज पुत्रक ॥२५॥
न्यस्तदण्डानां निरस्ताभिमानानां ‘दण्डोऽस्त्री लगुडे पुमान्’ इत्युपक्रम्य ‘दमे यमेऽभिमाने च’ इति मेदिनी ॥२५॥
ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः
।
एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक ॥२६॥
एकपत्न्यः पतिव्रताः ॥२६॥
राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती
।
चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः ॥२७॥
दीनानुकम्पिनां या च सततं संविभागिनाम्
।
पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक ॥२८॥
व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि
।
अमोघातिथिनां या च तां गतिं व्रज पुत्रक ॥२९॥
कृच्छ्रेषु या धारयतामात्मानं व्यसनेषु च
।
गतिः शोकाग्निदग्धानां तां गतिं व्रज पुत्रक ॥३०॥
मातापित्रोश्च शुश्रूषां कल्पयन्तीह ये सदा
।
स्वदारनिरतानां च या गतिस्तामवाप्नुहि ॥३१॥
ऋतुकाले स्वकां भार्यां गच्छतां या मनीषिणाम्
।
परस्त्रीभ्यो निवृत्तानां तां गतिं व्रज पुत्रक ॥३२॥
साम्ना ये सर्वभूतानि पश्यन्ति गतमत्सराः
।
नारुंतुदानां क्षमिणां या गतिस्तामवाप्नुहि ॥३३॥
मधुमांसनिवृत्तानां मदाद्दंभात्तथाऽनृतात्
।
परोपतापत्यक्तानां तां गतिं व्रज पुत्रक ॥३४॥
ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः
।
यां गतिं साधवो यान्ति गतिं व्रज पुत्रक ॥३५॥
एवं विलपतीं दीनां सुभद्रां शोककर्शिताम्
।
अन्वपद्यत पाञ्चाली वैरादिसहितां तदा ॥३६॥
ताः प्रकामं रुदित्वा च विलप्य च सुदुःखिताः
।
उन्मत्तवत्तदा राजन् विसंज्ञा न्यपतन् क्षितौ ॥३७॥
सोपचारस्तु कृष्णश्च दुःखितां भृशदुःखितः
।
सिक्त्वांभसा समाश्वास्य तत्तदुक्त्वा हितं वचः ॥३८॥
विसंज्ञकल्पां रुदतीं मर्मविद्धां प्रवेपतीम्
।
भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत् ॥३९॥
सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम्
।
गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुङ्गवः ॥४०॥
ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने
।
सर्वे ते तां गातिं यान्तु ह्यभिमन्योर्यशस्विनः ॥४१॥
कुर्याम तद्वयं कर्म क्रियासु सुहृदश्च नः
।
कृतवान् यादृगद्यैकस्तव पुत्रो महारथः ॥४२॥
एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम्
।
पार्थस्यैव महाबाहुः पार्श्वभागादरिन्दमः ॥४३॥
ततोऽभ्यनुज्ञाय नृपान् कृष्णो बन्धूंस्तथार्जुनम्
।
विवेशान्तःपुरे राजंस्ते च जग्मुर्यथालयम् ॥४४॥
इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि सुभद्राप्रविलापे अष्टसप्ततितमोऽध्यायः ॥ ७८ ॥
सञ्जय उवाच।
ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः
।
स्पृष्ट्वांऽभः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे ॥१॥
तत इति ॥१॥
संतस्तार शुमां शय्यां दर्भैर्वैदूर्यसन्निभः
।
ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः ॥२॥
लाजैरक्षतैः ॥२॥
अलंचकार तां शय्यां परिवार्यायुधोत्तमैः
।
ततः स्पृष्टोदके पार्थे विनीताः परिचारकाः ॥३॥
दर्शयन्तोऽन्तिके चक्रुर्नैशं त्रैयम्बकं बलिम्
।
ततः प्रीतमनाः पार्थो गन्धमाल्यैश्च माधवम् ॥४॥
अलंकृत्योपहारं तं नैशं तस्मै न्यवेदयत्
।
स्मयमानस्तु गोविन्दः फाल्गुनं प्रत्यभाषत ॥५॥
तस्मै त्र्यम्बकाय ॥५॥
सुप्यतां पार्थ भन्द्रं ते कल्याणाय व्रजाम्यहम्
।
स्थापयित्वा ततो द्वाःस्थान् गोप्तृंश्चात्तायुधान्नरान् ॥६॥
दारुकानुगतः श्रीमान् विवेश शिबिरं स्वकम्
।
शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन् ॥७॥
पार्थाय सर्वं भगवान् शोकदुःखापहं विधिम्
।
व्यदद्यात् पुण्डरीकाक्षस्तेजोद्युतिविवर्धनम् ॥८॥
पार्थाय तादर्थ्ये चतुर्थी । तेजः प्रतापः ॥८॥
योगमास्थाय युक्तात्मा सर्वेषामीश्वरेश्वरः
।
श्रेयस्कामः पृथुयशा विष्णुर्जिष्णुप्रियंकरः ॥९॥
न पाण्डवानां शिबिरे कश्चित् सुष्वाप तां निशाम्
।
प्रजागरः सर्वजनं ह्याविवेश विशांपते ॥१०॥
पुत्रशोकाभितप्तेन प्रतिज्ञातो महात्मना
।
सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना ॥११॥
तत् कथं नु महाबाहुर्वासविः परवीरहा
।
प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् ॥१२॥
कष्टं हीदं व्यवसितं पाण्डवेन महात्मना
।
स च राजा महावीर्यः पारयत्वर्जुनः सताम् ॥१३॥
पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता
।
भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च ॥१४॥
धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम्
।
स हत्वा सैन्धवं संख्ये पुनरेतु धनञ्जयः ॥१५॥
जित्वा रिपुगणांश्चैव पारयन्नर्जुनो व्रतम्
।
श्वोऽहत्वा सिन्धुराजं वै धूमकेतुं प्रवेक्ष्यति ॥१६॥
न ह्यासावनृतं कर्तुमलं पार्थो धनञ्जयः
।
धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने ॥१७॥
तस्मिन् हि विजयः कृत्स्नः पाण्डवेन समाहितः
।
यदि नोऽस्ति कृतं किञ्चिद्यदि दत्तं हुतं यदि ॥१८॥
फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन्
।
एवं कथयतां तेषां जयमाशंसतां प्रमो ॥१९॥
कृच्छ्रेण महता राजन् रजनी व्यत्यवर्तत
।
तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः ॥२०॥
स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत
।
अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना ॥२१॥
जयद्रथं वधिष्यामि श्वोभूत इति दारुक
।
तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति ॥२२॥
यथा जयद्रथं पार्थो न हन्यादिति संयुगे
।
अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् ॥२३॥
द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः
।
एको वीरः सहस्राक्षो दैत्यदानवदर्पहा ॥२४॥
सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम्
।
सोऽहं श्वस्तत् करिष्यामि यथा कुन्तीसुतोऽर्जुनः ॥२५॥
अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम्
।
न हि दारानमित्राणि ज्ञातयो न च बान्धवाः ॥२६॥
कश्चिदन्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात्
।
अनर्जुनमिमं लोकं मुहूर्तमपि दारुक ॥२७॥
उद्दीक्षितुं न शक्नोऽहं भविता न च तत् तथा
।
अहं विजित्य तान् सर्वान् सहसा सहयद्विपान् ॥२८॥
सहसा बलेन ॥२८॥
अर्जुनार्थे हनिष्यामि सकर्णान् ससुयोधनान्
।
श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे ॥२९॥
धनञ्जयार्थे समरे पराक्रान्तस्य दारुक
।
श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च ॥३०॥
साश्वद्विपरथान्याजौ विद्रविष्यामि दारुक
।
श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् ॥३१॥
मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम्
।
श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः ॥३२॥
ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः
।
यस्तं द्वेष्टि स मां द्वेष्टि यस्तं चातु स मामनु ॥३३॥
अनु अनुगतः ॥३३॥
इति संकल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः
।
यथा त्वं मे प्रभातायामस्यां निशि रथोत्तमम् ॥३४॥
कल्पयित्वा यथाशास्रमादाय व्रज संयतः
।
गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् ॥३५॥
आरोप्य वै रथे सूत सर्वोपकरणानि च
।
स्थानं च कल्पयित्वाऽथ रथोपस्थे ध्वजस्य मे ॥३६॥
वैनतेयस्य वीरस्य समरे रथशोभिनः
।
छत्रं जाम्बूनदैर्जालैरर्कज्वलनसप्रभैः ॥३७॥
विश्वकर्मकृतैर्दिव्यैरश्वानपि विभूषितान्
।
बलाहकं मेघपुष्पं शैब्यं सुग्रीवमेव च ॥३८॥
युक्तान् वाजिवरान् यत्तः कवची तिष्ठ दारुक
।
पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम् ॥३९॥
आषभेण ऋषभस्वरप्रकारेण ॥३९॥
श्रुत्वा च भैरवं नादमुपेयास्त्वं जवेन माम्
।
एकाह्नाऽहममर्षं च सर्वदुःखानि चैव ह ॥४०॥
भ्रातुः पैतृष्वसेयस्य व्यपनेष्यामि दारुक
।
सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे ॥४१॥
पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम्
।
यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति
।
आशंसे सारथे तत्र भविताऽस्य ध्रुवो जयः ॥४२॥
दारुक उवाच
।
जय एव ध्रुवस्तस्य कुत एव पराजयः
।
यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् ॥४३॥
एवं चैतत् करिष्यामि यथा मामनुशाससि
।
सुप्रभातामिमां रात्रिं जयाय विजयस्य हि ॥४४॥
श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि कृष्णदारुकसंभाषणे एकोनाशीतितमोऽध्यायः ॥ ७९ ॥
सञ्जय उवाच।
कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनञ्जयः
।
प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः ॥१॥
कुन्तीपुत्रस्त्विति ॥१॥
तं तु शोकेन संतप्तं स्वप्ने कपिवरध्वजम्
।
आससाद महातेजा ध्यायन्तं गरुडध्वजः ॥२॥
प्रत्युत्थानं च कृष्णस्य सर्वावस्थो धनञ्जयः
।
न लोपयति धर्मात्मा भक्त्या प्रेम्णा च सर्वदा ॥३॥
प्रत्युत्थाय च गोविन्दं स तस्मा आसनं ददौ
।
न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात् तदा ॥४॥
ततः कृष्णो महातेजा जानन् पार्थस्य निश्चयम्
।
कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत् ॥५॥
मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः
।
कालः सर्वाणि भूतानि नियच्छति परे विधौ ॥६॥
परेऽवश्यंभाविनि विधौ विधाने नियच्छति प्रवर्तयति ॥६॥
किमर्थं च विषादस्ते तद्ब्रूहि द्विपदां वर
।
न शोच्यं विदुषां श्रेष्ठ शोकः कार्यविनाशनः ॥७॥
न शोच्यं शोको नाचरणीयः ॥७॥
यत्तु कार्यं भवेत् कार्यं कर्मणा तत् समाचर
।
हीनचेष्टस्य यः शोकः स हि शत्रुर्धनञ्जय ॥८॥
कार्यं कृत्यं कार्यं करणीयं भवेत् इत्यन्वयः ॥८॥
शोचन्नन्दयते शत्रून् कर्शयत्यपि बान्धवान्
।
क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि ॥९॥
इत्युक्तो वासुदेवेन बीभत्सुरपराजितः
।
आबभाषे तदा विद्वानिदं वचनमर्थवत् ॥१०॥
मया प्रतिज्ञा महती जयद्रथवधे कृता
।
श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव ॥११॥
मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत
।
पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः ॥१२॥
दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः
।
हतावशेषास्तत्रेमा हन्त माधव संख्यया ॥१३॥
ताभिः परिवृतः संख्ये सर्वैश्चैव महारथैः
।
कथं शक्येत संद्रष्टुं दुरात्मा कृष्ण सैन्धवः ॥१४॥
प्रतिज्ञापारणं चापि न भविष्यति केशव
।
प्रतिज्ञायां च हीनायां कथं जीवति मद्विधः ॥१५॥
दुःखोपायस्य मे वीर विकांक्षा परिवर्तते
।
द्रुतं च याति सविता तत एतद्ब्रवीम्यहम् ॥१६॥
दुःखोपायस्य दुःखद्वारस्य प्रतिज्ञायाः विकांक्षा विसंवादः परिवर्तते प्रतिभाति ॥१६॥
शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः
।
संस्पृश्यांभस्ततः कृष्णः प्राङ्मुखः समवस्थितः ॥१७॥
इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः
।
हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे कृती ॥१८॥
पार्थ पाशुपतं नाम परमास्त्रं सनातनम्
।
येन सर्वान् मृधे दैत्यान् जघ्ने देवो महेश्वरः ॥१९॥
यदि तद्विदितं तेऽद्य श्वो हन्ताऽसि जयद्रथ
।
अथाज्ञातं प्रपद्यस्व मनसा वृषभध्वजम् ॥२०॥
तं देवं मनसा ध्यात्वा जोषमास्व धनञ्जय
।
ततस्तस्य प्रसादात्त्वं भक्तः प्राप्स्यसि तन्महत् ॥२१॥
ततः कृष्णवचः श्रुत्वा संस्पृश्यांभो धनञ्जयः
।
भूमावासीन एकाग्रो जगाम मनसा भवम् ॥२२॥
ततः प्रणिहितो ब्राह्मे मुहूर्ते शुभलक्षणे
।
आत्मानमर्जुनोऽपश्यद्गगने सहकेशवम् ॥२३॥
प्रणिहितः समाहितमनाः ॥२३॥
पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम्
।
ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम् ॥२४॥
वायुवेगगतिः पार्थः स्वं भेजे सहकेशवः
।
केशवेन गृहीतः स दक्षिणे विभुना भुजे ॥२५॥
प्रेक्षमाणो बहून् भावान् जगामाद्भुतदर्शनान्
।
उदीच्यां दिशि धर्मात्मा सोऽपश्यच्छ्वेतपर्वतम् ॥२६॥
कुबेरस्य विहारे च नलिनीं पद्मभूषिताम्
।
सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम् ॥२७॥
सदा पुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम्
।
सिंहव्याघ्रसमाकीर्णां नानामृगसमाकुलाम् ॥२८॥
पुण्याश्रमवतीं रम्यां मनोज्ञांडजसेविताम्
।
मन्दरस्य प्रदेशांश्च किन्नरोद्गीतनादितान् ॥२९॥
हेमरूप्यमयैः शृङ्गेर्नानौषधिविदीपितान्
।
तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान् ॥३०॥
स्निग्धांजनचयाकारं संप्राप्तः कालपर्वतम्
।
ब्रह्मतुङ्गनदीश्चान्यास्तथा जनपदानपि ॥३१॥
स तुङ्गं शतशृङ्गं च शर्यातिवनमेव च
।
पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च ॥३२॥
अथर्वणस्य मुनेः ॥३२॥
वृषदंशं च शैलेन्द्रं महामन्दरमेव च
।
अप्सरोभिः समाकीर्णं किन्नरैश्चोपशोभितम् ॥३३॥
तस्मिन् शैले व्रजन् पार्थः सकृष्णः समवैक्षत
।
शुभैः प्रस्त्रवणैर्जुष्टां हेमधातुविभूषिताम् ॥३४॥
चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम्
।
समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान् ॥३५॥
वियद्द्यां पृथिवीं चैव तथा विष्णुपदं व्रजन्
।
विस्मितः सह कृष्णेन क्षिप्तो बाण इवाभ्यगात् ॥३६॥
तथा च व्रजन् विष्णुपदमाकाशमभ्यगादित्यन्वयः ॥३६॥
ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम्
।
अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम् ॥३७॥
समासाद्य तु तं शैलं शैलाग्रे समवस्थितम्
।
तपोनित्यं महात्मानमपश्यद्वृषभध्वजम् ॥३८॥
सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा
।
शूलिनं जटिलं गौरं वल्कलाजिनवाससम् ॥३८॥
नयनानां सहस्रैश्च विचित्राङ्गं महौजसम्
।
पार्वत्या सहितं देवं भूतसङ्घैश्च भास्वरैः ॥४०॥
गीतवादित्रसन्नादैर्हास्यलास्यसमन्वितम्
।
वल्गितास्फोटितोत्कृष्टैः पुण्यैर्गन्धैश्च सेवितम् ॥४१॥
लास्यं नृत्यम् । बल्गितमितस्ततः प्रचारः । आस्फोटितं भुजाडम्बरः उत्कुष्टमुच्चैः स्वनितम् ॥४१॥
स्तूयमानं स्तवैर्दिव्यैर्ऋषिभिर्ब्रह्मवादिभिः
।
गोप्तारं सर्वभूतानामिष्वासधरमच्युतम् ॥४२॥
वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम्
।
पार्थेन सह धर्मात्मा गृणन् ब्रह्म सनातनम् ॥४३॥
लोकदिं विश्वकर्माणमजमीशानमव्ययम्
।
मनसः परमं योनिं स्वं वायुं ज्योतिषां निधिम् ॥४४॥
लोकानामादिमुपादानम् । विश्वं जगत्कर्म प्राप्यं यस्य । ईशानमप्रतिहतेच्छम् । अव्ययमविकारम् । मनसः परमं प्रवृत्तिनिवृत्तिकारणम्। योनिमुत्पत्तिस्थानं च । ज्योतिषां तेजसां निधिमधिष्ठानम् ॥४४॥
स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम्
।
देवदानवयक्षाणां मानवानां च साधनम् ॥४५॥
परां मूलभूतां प्रकृतिं प्रधानं साधनं सिद्धेर्निधानम् ॥४५॥
योगानां च परं धाम दृष्टं ब्रह्मविदां निधिम्
।
चराचरस्य स्रष्टारं प्रतिहर्तारमेव च ॥४६॥
योगानां योगदर्शिनां परं धाम परमाश्रयम् । दृष्टं साक्षाद्भूतं ब्रह्मतत्त्वं तद्विदां निधिं रहस्यम् ॥४६॥
कालकोपं महात्मानं शक्रसूर्यगुणोदयम्
।
ववन्दे तं तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः ॥४७॥
काल इव कोपो यस्य शक्रस्य गुणा ऐश्वर्यादयः सूर्यस्य गुणाः प्रतापादयः । तेषामुदयो यस्मात् ॥४७॥
यं प्रपद्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः
।
तमजं कारणात्मानं जग्मतुः शरणं भवम् ॥४८॥
कारणात्मानं कारणैकस्वभावम् ॥४८॥
अर्जुनश्चापि तं देवं भूयो भूयोऽप्यवन्दत
।
ज्ञात्वा तं सर्वभूतादिं भूतभव्यभवोद्भवम् ॥४९॥
ततस्तावागतौ दृष्ट्वा नरनारायणावुभौ
।
सुप्रसन्नमनाः शर्वः प्रोवाच प्रहसन्निव ॥५०॥
स्वागतं वो नरश्रेष्ठावुत्तिष्ठेतां गतक्लमौ
।
किं च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम् ॥५१॥
येन कार्येण संप्राप्तौ युवां तत्साधयामि किम्
।
व्रियतामात्मनः श्रेयस्तत् सर्वं प्रददानि वाम् ॥५२॥
ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली
।
वासुदेवार्जुनौ सर्वं तुष्टुवाते महामती ॥५३॥
भक्त्या स्तवेन दिव्येन महात्मानावनिन्दितौ
।
कृष्णार्जुनावूचतुः
।
नमो भवाय शर्वाय रुद्राय वरदाय च
।
पशूनां पतये नित्यमुग्राय च कपर्दिने ॥५५॥
भवः सर्वप्रभुत्वात् । शर्वः संहरणात् ॥५५॥
महादेवाय भीमाय त्र्यंबकाय च शान्तये
।
ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने ॥५६॥
शान्तिः शमप्रधानत्वात् ॥५६॥
कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे
।
पिनाकिने हविष्याय सत्याय विभवे सदा ॥५७॥
हविष्यः हविष्ययोग्यत्वात् । सत्याय सदैकस्वभावत्वात् । विभुर्व्यापकत्वात् ॥५७॥
विलोहिताय धूम्राय व्याधायानपराजिते
।
नित्यनीलशिखण्डाय शूलिने दिव्यचक्षुषे ॥५८॥
व्याधाय मृगहननात् । द्विरुक्तिर्द्विस्तथाकरणात् । अनान्प्राणिनः पराजयतीति अनपराजित्सर्वभूतोत्तमत्वात् । नीलशिखण्डो नीलकेशत्वात् ॥५८॥
होत्रे पोत्रे त्रिनेत्राय व्याधाय वसुरेतसे
।
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥५९॥
दीक्षितः भावेन हवनशीलत्वात् । वसुरेता अग्नौ रेतःक्षेपणात् ॥५९॥
वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे
।
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥६०॥
मुंडो दीक्षितत्वात् । ब्रह्मचारी रेतोविधारणात् ॥६०॥
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते
।
नमो नमस्ते सेव्याय भूतानां प्रभवे सदा ॥६१॥
भूतानां प्राणिनां प्रमथादीनाम् ॥६१॥
ब्रह्मवक्त्राय सर्वाय शंकराय शिवाय च
।
नमोऽस्तु वाचस्पतये प्रजानां पतये नमः ॥६२॥
ब्रह्मवक्त्रो वेदपूर्णमुखत्वात् । सर्वः सर्वस्वरूपत्वात् । शिवो मोक्षहेतुत्वात् । वाचस्पतिर्वाङ्मयप्रवर्तनात् ॥६२॥
नमो विश्वस्य पतये महतां पतये नमः
।
नमः सहस्रशिरसे सहस्रभुजमृत्यवे ॥६३॥
सहस्त्रभुजाय मृत्यवे च मन्यवे इति पाठः ॥६३॥
सहस्रनेत्रपादाय नमोऽसंख्येयकर्मणे
।
नमो हिरण्यवर्णाय हिरण्यकवचाय च
।
भक्तानुकम्पिने नित्यं सिध्यतां नो वरः प्रभो ॥६४॥
सञ्जय उवाच।
एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः
।
प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये ॥६५॥
इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अर्जुनस्वप्ने अशीतितमोऽध्यायः ॥ ८० ॥
सञ्जय उवाच।
ततः पार्थः प्रसन्नात्मा प्राञ्जलिर्वृषभध्वजम्
।
ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम् ॥१॥
तत इति ॥१॥
तं चोपहारं सुकृतं नैशं नैत्यकमात्मना
।
ददर्श त्र्यंबकाभ्याशे वासुदेवनिवेदितम् ॥२॥
आत्मना सुकृतं सूपकल्पितम् ॥२॥
ततोऽभिपूज्य मनसा कृष्णं शर्वं च पाण्डवः
।
इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शंकरम् ॥३॥
ततः पार्थस्य विज्ञाय वरार्थे वचनं तदा
।
वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत ॥४॥
स्वागतं वां नरश्रेष्ठौ विज्ञातं मनसेप्सितम्
।
येन कामेन संप्राप्तौ भवद्भ्यां तं ददाम्यहम् ॥५॥
सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ
।
तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा ॥६॥
येन देवारयः सर्वे मया युधि निपातिताः
।
तत आनीयतां कृष्णौ सशर धनुरुत्तमम् ॥७॥
तथेत्युक्त्वा तु तौ वीरौ सर्वपारिषदैः सह
।
प्रस्थितौ तत्सरो दिव्यं दिव्यैश्वर्यशतैर्युतम् ॥८॥
निर्दिष्टं यद्वृषाङ्केण पुण्यं सर्वार्थसाधकम्
।
तौ जग्मतुरसंभ्रान्तौ नरनारायणावृषी ॥९॥
ततस्तौ तत् सरो गत्वा सूर्यमण्डलसन्निभम्
।
नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ ॥१०॥
द्वितीयं चापरं नागं सहस्रशिरसं वरम्
।
वमन्तं विपुला ज्वाला ददृशातेऽग्निवर्चसम् ॥११॥
ततः कृष्णश्च पार्थश्च संस्पृश्यांभः कृताञ्जली
।
तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम् ॥१२॥
गृणन्तौ वेदविद्वांसौ तद्ब्रह्म शतरुद्रियम्
।
अप्रमेयं प्रणमतो गत्वा सर्वात्मना भवम् ॥१३॥
ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ
।
धनुर्बाणश्च शत्रुघ्नं तद्द्वंद्वं समपद्यत ॥१४॥
द्वन्द्वं युगलम् ॥१४॥
तौ तज्जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम्
।
आजह्रतुर्महात्मानौ ददतुश्च महात्मने ॥१५॥
ततः पार्श्वाद्वृषाङ्कस्य ब्रह्मचारी न्यवर्तत
।
पिंगाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः ॥१६॥
नीललोहितः भगवतोऽपराः तनुः ॥१६॥
स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः
।
विचकर्षाथ विधिवत्सशरं धनुरुत्तमम् ॥१७॥
स्थानं स्थापनकम् ॥१७॥
तस्य मौर्वीं च मुष्टिं च स्थानं चालक्ष्य पाण्डवः
।
श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः ॥१८॥
जग्राह मनसि कृतवान् ॥१८॥
स सरस्येव तं बाणं मुमोचातिबलः प्रभुः
।
चकार च पुनर्वीरस्तस्मिन् सरसि तद्धतुः ॥१९॥
ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा
।
वरमारण्यके दत्तं दर्शनं शंकरस्य च ॥२०॥
मनसा चिन्तयामास तन्मे संपद्यतामिति
।
तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः ॥२१॥
तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम्
।
ततः पाशुपतं दिव्यमवाप्य पुनरीश्वरात् ॥२२॥
संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत
।
ववन्दतुश्च संहृष्टौ शिरोभ्यां तं महेश्वरम् ॥२३॥
अनुज्ञातौ क्षणे तस्मिन् भवेनार्जुनकेशवौ
।
प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ ॥२४॥
तथा भवेनानुमतौ महासुरनिघातिना
।
इन्द्राविष्णू यथा प्रीतौ जंभस्य वधकांक्षिणौ ॥२५॥
इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अर्जुनस्य पुनः पाशुपतास्त्रप्राप्तौ एकाशीतितमोऽध्यायः॥ ८१ ॥
सञ्जय उवाच।
तयोः संवदतोरेवं कृष्णदारुकयोस्तथा
।
साऽत्यगाद्रजनी राजन्नथ राजाऽन्वबुध्यत ॥१॥
तयोरितिः ॥१॥
पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः
।
वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम् ॥२॥
मधुपर्किकाः माङ्गल्योपस्थापकाः पाणिस्वनिका हस्तेन तालस्वनं कुर्वते । मधुपर्किकाः मधुपर्कसमये पठन्त इति देवबोध ॥२॥
नर्तकाश्चाप्यनृत्यन्त जगुगातानि गायकाः
।
कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः ॥३॥
रक्तकण्ठिनो रञ्जकस्वराः ॥३॥
मृदंगा झर्झरा भेर्यः पणवानकगोमुखाः
।
आडम्बराश्च शंखाश्च दुन्दुभ्यश्च महास्वनाः ॥४॥
झर्झरा झिल्लिकाः भेर्यो बृहढ्ढक्काः पणवा मुरजाः । आनकाः पटहाः । गोमुखाः त्रागडाः । आडम्बराश्च क्षुद्रपटहाः । दुन्दुभ्यो ढक्काः ॥४॥
एवमेतानि सर्वाणि तथान्यान्यपि भारत
।
वादयन्ति सुसंहृष्टाः कुशलाः साधुशिक्षिताः ॥५॥
स मेघसमनिर्घोषो महान् शब्दोऽस्पृशाद्दिवम्
।
पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत् ॥६॥
प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे
।
उत्थायावश्यकार्यार्थं ययौ स्नानगृहं नृपः ॥७॥
ततः शुक्लाम्बराः स्नातास्तरुणाः शतमष्ट च
।
स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे ॥८॥
भद्रासने सूपविष्टः परिधायाम्बरं लघु
।
सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः ॥९॥
भद्रासने चतुःसमासने ॥९॥
उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः
।
आप्लुतः साधिवासेन जलेन स सुगन्धिना ॥१०॥
कषायेण सर्वोषध्यादिकल्केन ॥१०॥
राजहंसनिभं प्राप्य उष्णीषं शिथिलार्पितम्
।
जलक्षयनिमित्तं वै वेष्टयामास मूर्धनि ॥११॥
हरिणा चन्दनेनाङ्गमुपलिप्य महाभुजः
।
स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः ॥१२॥
अक्लिष्टमनुपहतं वसनं यस्य ॥१२॥
जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः
।
तत्राग्निशरणं दप्तिं प्रविवेश विनीतवत् ॥१३॥
दीप्तं ज्वलदग्निम् ॥१३॥
समिद्भिः सपवित्राभिरग्निमाहुतिभिस्तथा
।
मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात् ततः ॥१४॥
द्वितीयां पुरुषव्याघ्रः कक्ष्यां निर्गम्य पार्थिवः
।
ततो वेदविदो वृद्धानपश्यद्ब्राह्मणर्षभान् ॥१५॥
दान्तान् वेदव्रतस्नातान् स्नातानवभृथेषु च
।
सहस्रानुचरान् सौरान् सहस्रं चाष्ट चापरान् ॥१६॥
सौरान् सूर्योपासकान् ॥१६॥
अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः
।
तान् द्विजान् मधुसर्पिभ्यां फलैः श्रेष्ठैः सुमंगलैः ॥१७॥
प्रादात् काञ्चनमेकैकं निष्कं विप्राय पाण्डवः
।
अलंकृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः ॥१८॥
तथा गाः कपिला दोग्ध्रीः सवत्साः पाण्डुनन्दनः
।
हेमशृङ्गा रौप्यखुरा दत्वा तेभ्यः प्रदक्षिणम् ॥१९॥
प्रदक्षिणं कृत्वेति शेषः ॥१९॥
स्वस्तिकान् वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनाम्
।
माल्यं च जलकुंभांश्च ज्वलितं च हुताशनम् ॥२०॥
स्वस्तिकानालिङ्गनानि वर्धमानान् शरावान् नन्द्यावर्तान् संपुटिताद्यर्घपात्राणि ॥२०॥
पूर्णान्यक्षतपात्राणि रुचकं रोचनास्तथा
।
स्वलंकृताः शुभाः कन्या दधिसर्पिर्मधूदकम् ॥२१॥
रुचकं मातुलुङ्गकम् ॥२१॥
मङ्गल्यान् पक्षिणश्चैव यच्चान्यदपि पूजितम्
।
दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यां ततोऽगमत् ॥२२॥
ततस्तस्यां महाबाहोस्तिष्ठतः परिचारकाः
।
सौवर्णं सर्वतोभद्रं मुक्तावैदूर्यमण्डितम् ॥२३॥
परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत्
।
विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम् ॥२४॥
विश्वकर्मकृतं विश्वकर्मप्रणीतेन विधिना निर्मितम् ॥२४॥
तत्र तस्योपविष्टस्य भूषणानि महात्मनः
।
उपाजह्रुर्महार्हाणि प्रेष्याः शुभ्राणि सर्वशः ॥२५॥
मुक्ताभरणवेषस्य कौन्तेयस्य महात्मनः
।
रूपमासीन्महाराज द्विषतां शोकवर्धनम् ॥२६॥
चामरैश्चन्द्ररश्म्याभैर्हेमदण्डैः सुशोभनैः
।
दोध्यमानैः शुशुभे विद्युद्भिरिव तोयदः॥२७॥
संस्तूयमानः सूतैश्च वन्द्यमानश्च बन्दिभिः
।
उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः ॥२८॥
वन्द्यमानः स्तूयमानः स्तुत्यर्थस्य वदे रूपम् ॥२८॥
ततो मुहूर्तादासीत्तु स्यन्दनानां स्वनो महान्
।
नेमिघोषश्च रथिनां खुरघोषश्च वाजिनाम् ॥२९॥
ह्रादेन गजघण्टानां शंखानां निनदेन च
।
नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी ॥३०॥
ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः
।
शिरसा वन्दनीयं तमभिवाद्य जनेश्वरम् ॥३१॥
शुद्धान्तं कक्ष्याभ्यन्तरम् ॥३१॥
कुण्डलीबद्धनिस्त्रिंशः सन्नद्धकवचो युवा
।
अभिप्रणम्य शिरसा द्वाःस्थो धर्मात्मजाय वै ॥३२॥
न्यवेदयद्धृषीकेशमुपयान्तं महात्मने
।
सोऽब्रवीत् पुरुषव्याघ्रः स्वागतेनैव माधवम् ॥३३॥
स्वागतेनाप्रतिबद्धागमनेन ॥३३॥
अर्घ्यं चैवासनं चास्मै दीयतां परमार्चितम्
।
ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने
।
पूजयामास विधिवद्धर्मराजो युधिष्ठिरः ॥३४॥
इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि युधिष्ठिरसज्जतायां द्व्यशीतितमोऽध्यायः ॥ ८२ ॥
सञ्जय उवाच।
ततो युधिष्ठिरो राजा प्रतिनन्द्य जनार्दनम्
।
उवाच परमप्रीतः कौन्तेयो देवकीसुतम् ॥१॥
तत इति ॥१॥
सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन
।
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ॥२॥
वासुदेवोऽपि तद्युक्तं पर्यपृच्छद्युधिष्ठिरम्
।
ततश्च प्रकृतीः क्षत्ता न्यवेदयदुपस्थिताः ॥३॥
अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम्
।
विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम् ॥४॥
चेदिपं धृष्टकेतुं च द्रुपदं च महारथम्
।
शिखण्डिनं यमौ चैव चेकितानं सकेकयम् ॥५॥
युयुत्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम्
।
युधामन्युं सुबाहुं च द्रौपदेयांश्च सर्वशः ॥६॥
एते चान्ये च बहवः क्षत्रियाः क्षत्रियर्षभम्
।
उपतस्थुर्महात्मानं विविशुश्चासने शुभे ॥७॥
एकस्मिन्नासने वीरावुपविष्टौ महाबलौ
।
कृष्णश्च युयुधानश्च महात्मानौ महाद्युती ॥८॥
ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम्
।
अब्रवीत् पुण्डरीकाक्षमाभाष्य मधुरं वचः ॥९॥
एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः
।
प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च ॥१०॥
त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम्
।
क्लेशांश्च विविधान् कृष्ण सर्वांस्तानपि वेद नः ॥११॥
निराक्रियामपसारणम् ॥११॥
त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल
।
सुखमायत्तमत्यर्थं यात्रा च मधुसूदन ॥१२॥
यात्रा स्थितिः ॥१२॥
स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम
।
अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता ॥१३॥
स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात्
।
पारं तितीर्षतामद्य प्लवो नो भव माधव ॥१४॥
न हि तत् कुरुते संख्ये रथी रिपुवधोद्यतः
।
यथा वै कुरुते कृष्ण सारथिर्यत्नमास्थितः ॥१५॥
यथैव सर्वास्वापत्सु पासि वृष्णीञ्जनार्दन
।
तथैवास्मान् महाबाहो वृजिनात्त्रातुर्हसि ॥१६॥
वृजिनात् व्यसनात् ॥१६॥
त्वमगाधेऽप्लवे मग्नान् पाण्डवान् कुरुसागरे
।
समुद्धर प्लवो भूत्वा शंख-चक्र-गदाधर ॥१७॥
नमस्ते देवदेवेश सनातन विशातन
।
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम ॥१८॥
सनातन अनादिनिधन विशातन संहर्तः कृष्ण संसारकर्षक पुरुषोत्तम परात्मन् ॥१८॥
नारदस्त्वां समाचख्यौ पुराणमृषिसत्तमम्
।
वरदं शार्ङ्गिणं श्रेष्ठं तत् सत्यं कुरु माधव ॥१९॥
इत्युक्तः पुण्डरीकाक्षो धर्मराजेन संसदि
।
तोयमेघस्वनो वाग्मी प्रत्युवाच युधिष्ठिरम् ॥२०॥
वासुदेव उवाच
।
सामरेष्यपि लोकेषु सर्वेषु न तथाविधः
।
शरासनधरः कश्चिद्यथा पार्थो धनञ्जयः ॥२१॥
वीर्यवानस्त्रसंपन्नः पराक्रान्तो महाबलः
।
युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम् ॥२२॥
युद्धशौण्डः युद्धप्रवीणः ॥२२॥
स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः
।
सिंहर्षभगतिः श्रीमान् द्विषतस्ते हनिष्यति ॥२३॥
अहं च तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः
।
धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवेन्धनम् ॥२४॥
अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम्
।
अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः ॥२५॥
तस्याद्य गृध्राः श्येनाश्च चण्डयोमायवस्तथा
।
भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः ॥२६॥
यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाऽप्यसौ
।
राजधानीं यमस्याद्य हतः प्राप्स्यति संकुले ॥२७॥
निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति
।
विशोको विज्वरो राजन् भव भूतिपुरस्कृतः ॥२८॥
इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि श्रीकृष्णवाक्ये त्र्यशीतितमोऽध्यायः ॥ ८३ ॥
सञ्जय उवाच।
तथा तु वदतां तेषां प्रादुरासीद्धनञ्जयः
।
दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणनम् ॥१॥
तथेति ॥१॥
तं निविष्टं शुभां कक्ष्यामभिवन्द्याग्रतः स्थितम्
।
तमुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः ॥२॥
मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना
।
आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत ॥३॥
व्यक्तमर्जुनसंग्रामे ध्रुवस्ते विजयो महान्
।
यादृग्रूपा च ते च्छाया प्रसन्नश्च जनार्दनः ॥४॥
तमब्रवीत् ततो जिष्णुर्महदाश्चर्यमुत्तमम्
।
दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् ॥५॥
ततस्तत्कथयामास यथा दृष्टं धनञ्जयः
।
आश्वासनार्थं सुहृदां त्र्यम्बकेण समागमम् ॥६॥
ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः
।
नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन् ॥७॥
अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना
।
त्वरमाणाः सुसन्नद्धा हृष्टा युद्धाय निर्ययुः ॥८॥
अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः
।
हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् ॥९॥
रथेनैकेन दुर्धर्षो युयुधानजनार्दनौ
।
जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् ॥१०॥
तत्र गत्वा हृषीकेशः कल्पयामास सूतवत्
।
रथं रथवरस्याजौ वानरर्षभलक्षणम् ॥११॥
स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः
।
बभौ रथवरः क्लृप्तः शिशुर्दिवसकृद्यथा ॥१२॥
शिशुर्दिवसकृत् बालः सूर्यः सज्जपुरःसरः सामग्रीसमग्रः ॥१२॥
ततः पुरुषशार्दूलः सज्जं सज्जपुरःसरः
।
कृताह्निकाय पार्थाय न्यवेदयत तं रथम् ॥१३॥
तं तु लोकवरः पुंसां किरीटी हेमवर्मभृत्
।
चापबाणधरो वाहं प्रदक्षिणमवर्तत ॥१४॥
तपोविद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः
।
स्तूयमानो जयाशीर्भिरारुरोह महारथम् ॥१५॥
जैत्रैः सांग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम्
।
अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा ॥१६॥
स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः
।
विबभौ विमलोर्चिष्मान् मेराविव दिवाकरः ॥१७॥
मेरावुदयाद्रौ मनोनुकूलार्थेषु सुखसंवेदनं भवति ॥१७॥
अन्वारुरुहतुः पार्थं युयुधानजनार्दनौ
।
शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ ॥१८॥
अथ जग्राह गोविन्दो रश्मीन्रश्मिविदां वरः
।
मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः ॥१९॥
स ताभ्यां साहितः पार्थो रथप्रवरमास्थितः
।
सहितो बुधशुक्राभ्यां तमो निघ्नन् यथा शशी ॥२०॥
सैन्धवस्य वधं प्रेप्सुः प्रयातः शत्रुपूगहा
।
सहांबुपतिमित्राभ्यां यथेन्द्रस्तारकामये ॥२१॥
ततो वादित्रानिर्घोषैर्माङ्गल्यैश्च स्तवैः शुभैः
।
प्रयान्तमर्जुनं वीरं मागधाश्चैव तुष्टुवुः ॥२२॥
सजयाशीः सपुण्याहः सुतमागधनिःस्वनः
।
युक्तो वादित्रघोषेण तेषां रात्रिकरोऽभवत् ॥२३॥
प्रयतो मन्दः ॥२३॥
तमनुप्रयतो वायुः पुण्यगन्धवहः शुभः
।
ववौ संहर्षयन् पार्थं द्विषतश्चापि शोषयन्
।
ततस्तस्मिन् क्षणे राजन् विविधानि शुभानि च ॥२४॥
प्रादुरासन्निमित्तानि विजयाय बहूनि च
।
पाण्डवानां त्वदीयानां विपरीतानि मारिष ॥२५॥
दृष्ट्वाऽर्जुनो निमित्तानि विजयाय प्रदक्षिणम्
।
युयुधानं महेष्वासमिदं वचनमब्रवीत् ॥२६॥
प्रदक्षिणं छन्दोनुवर्तिनम् ॥२६॥
युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः
।
यथा हीमानि लिंगानि दृश्यन्ते शिनिपुङ्गव ॥२७॥
सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः
।
यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते ॥२८॥
यथा परमकं कृत्यं सैन्धवस्य वधो मम
।
तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणम् ॥२९॥
स त्वमद्य महाबाहो राजानं परिपालय
।
यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा ॥३०॥
न पश्यामि च तं लोके यस्त्वां युद्धे पराजयेत्
।
वासुदेवसमं युद्धे स्वयमप्यमरेश्वरः ॥३१॥
त्वयि चाहं पराश्वस्तः प्रद्युम्ने वा महारथे
।
शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ ॥३२॥
मय्यपेक्षा न कर्तव्या कथञ्चिदपि सात्वत
।
राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया ॥३३॥
अपेक्षा अनुरोधः ॥३३॥
न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः
।
किञ्चिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम् ॥३४॥
एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा
।
तथेत्युक्त्वाऽगमत् तत्र यत्र राजा युधिष्ठिरः ॥३५॥
इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अर्जुनवाक्ये चतुरशीतितमोऽध्यायः ॥ ८४ ॥