द्रोणाभिषेकपर्व - १ - १संशप्तकवधपर्व - २ - २अभिमन्युवधपर्व - ३ - ३प्रतिज्ञापर्व - ४ - ४जयद्रथवधपर्व - ५ - ५घटोत्कचवधपर्व - ६ - ६द्रोणवधपर्व - ७ - ७नारायणास्त्रमोक्षपर्व - ८ - ८

प्रतिज्ञापर्व - ४

द्विसप्ततितमोऽध्यायः

सञ्जय उवाच। तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये ।
आदित्येऽस्तं गते श्रीमान् संध्याकाल उपस्थिते ॥१॥

तस्मिन्निति ॥१॥

व्यपयातेषु वासाय सर्वेषु भरतर्षभ ।
हत्वा संशप्तकव्रातान् दिव्यैरस्त्रैः कपिध्वजः ॥२॥

प्रायात्स शिबिरं जिष्णुर्जैत्रमास्थाय तं रथम् ।
गच्छन्नेव च गोविन्दं साश्रुकण्ठोऽभ्यभाषत ॥३॥

किं नु मे हृदयं त्रस्तं वाक्च सज्जति केशव ।
स्यन्दन्ति चाप्यनिष्टानि गात्रं सीदति चाप्युत ॥४॥

अनिष्टं चैव मे श्लिष्टं हृद‌यान्नापसर्पति ।
भुवि ये दिक्षु चात्युग्रा उत्पातास्त्रासयन्ति माम् ॥५॥

श्लिष्टमनुबद्धम् ॥५॥

बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः ।
अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम ॥६॥

वासुदेव उवाच ।
व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति ।
मा शुचः किञ्चिदेवान्यत् तत्रानिष्टं भविष्यति ॥७॥

सञ्जय उवाच। ततः सन्ध्यामुपास्यैव वीरौ वीरावसादने ।
कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ ॥८॥

ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम् ।
वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् ॥९॥

ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा ।
बीभत्सुरब्रवीत् कृष्णमस्वस्थहृदयस्ततः ॥१०॥

नदन्ति नाद्य तूर्याणि मंगल्यानि जनार्दन ।
मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह ॥११॥

आडम्बरैस्तूर्यरवैः ॥११॥

वीणा नैवाद्य वाद्यन्ते शम्यातालस्वनैः सह ।
मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च ॥१२॥

स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः ।
योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः ॥१३॥

कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् ।
अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव ॥१४॥

न हि शुद्ध्यति मे भावो दृष्ट्वा स्वजनमाकुलम् ।
अपि पाञ्चालराजस्य विराटस्य च मानद ॥१५॥

सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत ।
न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह ।
रणादायान्तमुचितं प्रत्युद्याति हसन्निव ॥१६॥

सञ्जय उवाच। एवं संकथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम् ।
ददृशाते भृशास्वस्थान् पाण्डवान्नष्टचेतसः ॥१७॥

दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः ।
अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् ॥१८॥

मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते ।
न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ ॥१९॥

मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः ।
न च वस्तस्य भेत्ताऽस्ति विना सौभद्रमर्भकम् ॥२०॥

न चोपदिष्टस्तस्यासीन्मयानीकाद्विनिर्गमः ।
कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः ॥२१॥

भित्त्वाऽनीकं महेष्वासः परेषां बहुशो युधि ।
कच्चिन्न निहतः संख्ये सौभद्रः परवीरहा ॥२२॥

लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु ।
उपेन्द्रसदृशं ब्रूत कथमायोधने हतः ॥२३॥

सुकुमारं महेष्वासं वासवस्यात्मजात्मजम् ।
सदा मम प्रियं बूत कथमायोधने हतः ॥२४॥

सुभद्रायाः प्रियं पुत्रं द्रौपद्याः केशवस्य च ।
अम्बायाश्च प्रियं नित्यं कोऽवधीत् कालमोहितः ॥२५॥

सदृशो वृष्णिवीरस्य केशवस्य महात्मनः ।
विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः ॥२६॥

वार्ष्णेयीदयितं शूरं मया सततलालितम् ।
यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥२७॥

मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम् ।
मत्तद्विरदविक्रान्तं सिंहपोतमिवोद्गतम् ॥२८॥

स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा ।
बाल्येऽप्यतुलकर्माणं प्रियवाक्यममत्सरम् ॥२९॥

महोत्साहं महाबाहुं दीर्घराजीवलोचनम् ।
भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् ॥३०॥

कृतज्ञं ज्ञानसम्पन्नं कृतास्त्रमनिवर्तिनम् ।
युद्धाभिनन्दिनं नित्यं द्विषतां भयवर्धनम् ॥३१॥

स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम् ।
न च पूर्वं प्रहर्तारं संग्रामे नष्टसंभ्रमम् ॥३२॥

यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ।
रथेषु गण्यमानेषु गणितं तं महारथम् ॥३३॥

मयाध्यर्धगुणं संख्ये तरुणं बाहुशालिनम् ।
प्रद्युम्नस्य प्रियं नित्यं केशवस्य ममैव च ॥३४॥

यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ।
सुनसं सुललाटान्तं स्वक्षिभ्रूदशनच्छदम् ॥३५॥

अपश्यतस्तद्वद‌नं का शान्तिर्हृदयस्य मे ।
तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् ॥३६॥

अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे ।
रूपं चाप्रतिमं तस्य त्रिदशैश्चापि दुर्लभम् ॥३७॥

अपश्यतो हि वीरस्य का शान्तिर्हृदयस्य मे ।
अभिवादनदक्षं तं पितॄणां वचने रतम् ॥३८॥

नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे ।
सुकुमारः सदा वीरो महार्हशयनोचितः ॥३९॥

भूमावनाथवच्छेते नूनं नाथवतां वरः ।
शयानं समुपासन्ति यं पुरा परमस्त्रियः ॥४०॥

तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः ।
यः पुरा बोध्यते सुप्तः सुत-मागध-बन्दिभिः ॥४१॥

बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वनैः ।
छत्रच्छायासमुचितं तस्य तद्वदनं शुमम् ॥४२॥

नूनमद्य रजोध्वस्तं रणरेणुः करिष्यति ।
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने ॥४३॥

भाग्यहीनस्य कालेन यथा मे नीयसे बलात् ।
सा च संयमनी नूनं सदा सुकृतिनां गतिः ॥४४॥

यथेति कथमर्थे ॥४४॥

स्वभाभिर्मोहिता रम्या त्वयाऽत्यर्थं विराजते ।
नूनं वैवस्वतश्च त्वां वरुणश्च प्रियातिथिम् ॥४५॥

शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् ।
एवं विलप्य बहुधा भिन्नपोतो वणिग्यथा ॥४६॥

दुःखेन महताऽविष्टो युधिष्ठिरमपृच्छत ।
कच्चित्स कदनं कृत्वा परेषां कुरुनन्दन ॥४७॥

स्वर्गतोऽभिमुखः संख्ये युध्यमानो नरर्षभैः ।
स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः ॥४८॥

असहायः सहायार्थी मामनुध्यातवान् ध्रुवम् ।
पीड्यमानः शरैस्तीक्ष्णैः कर्णद्रोणकृपादिभिः ॥४९॥

नानालिङ्गैः सुधौताग्रैर्मम पुत्रोऽल्पचेतनः ।
इह मे स्यात् परित्राणं पितेति सः पुनः पुनः ॥५०॥

यदि मे पिता स्यात्तदा मे त्राणं स्यादित्यन्वयः ॥५०॥

इत्येवं विलपन्मन्ये नृशंसैर्भुवि पातितः ।
अथवा मत्प्रसूतः स स्वस्रीयो माधवस्य च ॥५१॥

सुभद्रायां च संभूतो न चैवं वक्तुमर्हति ।
वज्रसारमयं नूनं हृदयं सुदृढं मम ॥५२॥

अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते ।
कथं बाले महेष्वासा नृशंसा मर्मभेदिनः ॥५३॥

स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपन् शरान् ।
यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति ॥५४॥

उपायान्तं रिपून् हत्वा सोऽद्य मां किं न पश्यति ।
नूनं स पातितः शेते धरण्यां रुधिरोक्षितः ॥५५॥

शोभयन्मेदिनीं गात्रैरादित्य इव पातितः ।
सुभद्रामनुशोचामि या पुत्रमपलायिनम् ॥५६॥

रणे विनिहतं श्रुत्वा शोकार्ता वै विनंक्ष्यति ।
सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती ॥५७॥

द्रौपदी चैव दुःखार्ते ते च वक्ष्यामि किं त्वहम् ।
वज्रसारमयं नूनं हृदयं यन्न यास्यति ॥५८॥

सहस्रधा वधूं दृष्ट्वा रुद‌तीं शोककर्शिताम् ।
दृप्तानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः ॥५९॥

युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन् ।
अशक्नुवन्तो बीभत्सुं बालं हत्वा महारथाः ॥६०॥

किं मोदध्वमधर्मज्ञाः पाण्डवं दृश्यतां बलम् ।
किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे ॥६१॥

सिंहवन्नदथ प्रीताः शोककाल उपस्थिते ।
आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः ॥६२॥

अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम् ।
इति तान् परिभाषन् वै वैश्यापुत्रो महामतिः ॥६३॥

अपायाच्छत्रमुत्सृज्य कोपदुःखसमन्वितः ।
किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम ॥६४॥

अधाक्षं तानहं क्रूरांस्तदा सर्वान् महारथान् ।
सञ्जय उवाच। पुत्रशोकार्दितं पार्थं ध्यायन्तं साश्रुलोचनम् ॥६५॥

निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम् ।
मैवमित्यब्रवीत् कृष्णस्तीव्रशोकसमन्वितम् ॥६६॥

सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम् ।
क्षत्रियाणां विशेषेण येषां युद्धेन जीविका ॥६७॥

एषा वै युध्यमानानां शूराणामनिवर्तिनाम् ।
विहिता सर्वशास्त्रज्ञैर्गतिर्मतिमतां वर ॥६८॥

ध्रुवं हि युद्धे मरणं शूराणामनिवर्तिनाम् ।
गतः पुण्यकृतां लोकानभिमन्युर्न संशयः ॥६९॥

एतच्च सर्ववीराणां कांक्षितं भरतर्षभ ।
संग्रामेऽभिमुखो मृत्युं प्राप्नुयादिति मानद ॥७०॥

स च वीरान् रणे हत्वा राजपुत्रान् महाबलान् ।
वीरैराकांक्षितं मृत्युं संप्राप्तोऽभिमुखं रणे ॥७१॥

मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः ।
धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः ॥७२॥

इमे ते भ्रातरः सर्वे दीना भरतसत्तम ।
त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव ॥७३॥

एतांश्च वचसा साम्ना समाश्वासय मानद ।
विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि ॥७४॥

एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा ।
ततोऽब्रवीत्तदा भ्रातॄन्सर्वान् पार्थः सगद्गदान् ॥७५॥

स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः ।
अभिमन्युर्यथावृत्तः श्रोतुमिच्छाम्यहं तथा ॥७६॥

सनागस्यन्दनहयान् द्रक्ष्यध्वं निहतान् मया ।
संग्रामे सानुबन्धांस्तान् मम पुत्रस्य वैरिणः ॥७७॥

कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम् ।
सौभद्रो निधनं गच्छेद्वज्रिणाऽपि समागतः ॥७८॥

यद्येवमहमज्ञास्यमशक्तान् रक्षणे मम ।
पुत्रस्य पाण्डुपञ्चालान् मया गुप्तो भवेत् ततः ॥७९॥

कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम् ।
नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः ॥८०॥

अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः ।
यत्राभिमन्युः समरे पश्यतां वो निपातितः ॥८१॥

आत्मानमेव गर्हेयं यदहं वै सुदुर्बलान् ।
युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्चयान् ॥८२॥

आहोस्विद्भूषणार्थाय वर्म शस्त्रायुधानि वः ।
वाचस्तु वक्तुं संसत्सु मम पुत्रमरक्षताम्‌ ॥८३॥

एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान् ।
न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम् ॥८४॥

तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः ।
पुत्रशोकाभिसन्तप्तमश्रुपूर्णमुखं तदा ॥८५॥

न भाषितुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम् ।
अन्यत्र वासुदेवाद्वा ज्येष्ठाद्वा पाण्डुनन्दनात् ॥८६॥

सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ ।
बहुमानात् प्रियत्वाच्च तावेनं वक्तुमर्हतः ॥८७॥

ततस्तं पुत्रशोकेन भृशं पीडितमानसम् ।
राजीवलोचनं कुद्धं राजा वचनमब्रवीत् ॥८८॥

इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अर्जुनकोपे द्विसप्ततितमोऽध्यायः ॥ ७२ ॥
त्रिसप्ततितमोऽध्यायः

युधिष्ठिर उवाच ।
त्वयि याते महाबाहो संशप्तकबलं प्रति ।
प्रयत्नमकरोत् तीव्रमाचार्यो ग्रहणे मम ॥१॥

त्वयीति ॥१॥

व्यूढानीका वयं द्रोणं वारयामः स्म सर्वशः ।
प्रतिव्यूह्य रथानीकं यतमानं तथा रणे ॥२॥

स वार्यमाणो रथिभिर्मयि चापि सुरक्षिते ।
अस्मानभिजगामाशु पीडयन्निशितैः शरैः ॥३॥

ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः ।
प्रतिवीक्षितुमप्याजौ भेत्तुं तत् कुत एव तु ॥४॥

वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम् ।
उक्तवन्तः स्म तं तात भिन्ध्यनीकमिति प्रभो ॥५॥

स तथा नोदितोऽस्माभिः सदश्व इव वीर्यवान् ।
असह्यमपि तं भारं वोढुमेवोपचक्रमे ॥६॥

स तवास्त्रोपदेशेन वीर्येण च समन्वितः ।
प्राविशत्तद्बलं बालः सुपर्ण इव सागरम् ॥७॥

तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे ।
प्रवेष्टुकामास्तेनैव येन प्राविशच्चमूम् ॥८॥

ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः ।
वरदानेन रुद्रस्य सर्वान्नः समवारयत् ॥९॥

ततो द्रोणः कृपः कर्णो द्रौणिः कौसल्य एव च ।
कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन् ॥१०॥

कौसल्यो बृहद्वलः ॥१०॥

परिवार्य तु तैः सर्वैर्युधि बालो महारथैः ।
यतमानः परं शक्त्या बहुभिर्विरथीकृतः ॥११॥

ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम् ।
संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत् ॥१२॥

स तु हत्वा सहस्राणि नराश्वरथ‌दन्तिनाम् ।
अष्टौ रथसहस्राणि नव दन्तिशतानि च ॥१३॥

राजपुत्रसहस्रे द्वे वीरांश्चालक्षितान् बहून् ।
बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य ह ॥१४॥

ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान् ।
एतावदेव निर्वृत्तमस्माकं शोकवर्धनम् ॥१५॥

स चैवं पुरुषव्याघ्र स्वर्गलोकमवाप्तवान् ।
ततोऽर्जुनो वचः श्रुत्वा धर्मराजेण भाषितम् ॥१६॥

हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि ।
विषण्णवदनाः सर्वे परिवार्य धनञ्जयम् ॥१७॥

नेत्रैरनिमिषैर्दीनाः प्रत्यवैक्षन् परस्परम् ।
प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्च्छितः ॥१८॥

कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः ।
पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान् ॥१९॥

उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत् ।
अर्जुन उवाच ।
सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम् ।
न चेद्वधभयाद्भीतो धार्तराष्ट्रान् प्रहास्यति ॥२०॥

न चास्मान् शरणं गच्छेत् कृष्णं वा पुरुषोत्तमम् ।
भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम् ॥२१॥

धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम् ।
पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम् ॥२२॥

रक्षमाणाश्च तं सङ्ख्ये ये मां योत्स्यन्ति केचन ।
अपि द्रोणकृपौ राजन् छादयिष्यामि ताञ्छरैः ॥२३॥

यद्येतदेवं संग्रामे न कुर्यां पुरुषर्षभाः ।
मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसंमतान् ॥२४॥

ये लोका मातृहंतॄणां ये चापि पितृघातिनाम् ।
गुरुदारगतानां ये पिशुनानां च ये सदा ॥२५॥

साधूनसूयतां ये च ये चापि परिवादिनाम् ।
ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम् ॥२६॥

भुक्तपूर्वां स्त्रियं ये च विन्दतामघशंसिनाम् ।
ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि ॥२७॥

भुक्तपूर्वामन्योपभुक्तां विन्दतां स्वीकुर्वताम् ॥२७॥

पायसं वा यवान्नं वा शाकं कृसरमेव वा ।
संयावापूपमांसानि ये च लोका वृथाश्नताम् ॥२८॥

तानन्हायाधिगच्छेयं न चेद्धन्यां जयद्रथम् ।
वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम् ॥२९॥

अवमन्यमानो यान् याति वृद्धान् साधून् गुरुंस्तथा ।
स्पृशतो ब्राह्मणं गां च पादेनाग्निं च या भवेत् ॥३०॥

याऽप्सु श्लेष्म पुरीषं च मूत्रं वा मुञ्चतां गतिः ।
तां गच्छेयं गतिं कष्टां न चेद्धन्यां जयद्रथम् ॥३१॥

नग्नस्य स्नायमानस्य या च वन्ध्यातिथेर्गतिः ।
उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः ॥३२॥

आत्मापहारिणां या च या च मिथ्याभिशंसिनाम् ।
भृत्यैः संदिश्यमानानां पुत्रदाराश्रितैस्तथा ॥३३॥

आत्मापहारिणाम् आत्मानमन्यथा प्रकाशयतां मिथ्याभिशंसिनाम् असद्दोषोक्त्या परान् दूषयतां संदिश्यमानानां नियुज्यमानानाम् ॥३३॥

असंविभज्य क्षुद्राणां या गतिर्मिष्टमश्नताम् ।
तां गच्छेयं गातिं घोरां न चेद्धन्यां जयन्द्रथम् ॥३४॥

संश्रितं चापि यस्त्यक्त्वा साधुं तद्वचने रतम् ।
न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम् ॥३५॥

अर्हते प्रातिवेश्याय श्रद्धं यो न ददाति च ।
अनर्हेभ्यश्च यो दद्याद्वृषल्लीपतये तथा ॥३६॥

वृषला शूद्रा कन्याभावे रजस्वला वा ॥३६॥

मद्यपो भिन्नमर्यादः कृतघ्नो भर्तृनिन्दकः ।
तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम् ॥३७॥

भुञ्जानानां तु सव्येन उत्सङ्गे चापि खादताम् ।
पालाशमासनं चैच तिन्दुकैर्दन्तधावनम् ॥३८॥

ये चावर्जयतां लोकाः स्वपतां च तथोषसि ।
शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः ॥३९॥

एककूपोदकग्रामे वेदध्वनिविवर्जिते ।
षण्मासं तत्र वसतां तथा शास्त्रं विनिन्दताम् ॥४०॥

दिवामैथुनिनां चापि दिवसेषु च शेरते ।
अगारदाहिनां चैव गरदानां च ये मताः ॥४१॥

अग्न्यातिथ्यविहीनाश्च गोपानेषु च विघ्नदाः ।
रजस्वलां सेवयन्तः कन्यां शुल्केन दायिनः ॥४२॥

या च वै बहुयाजिनां ब्राह्मणानां श्ववृत्तिनाम् ।
आस्यमैथुनिकानां च ये दिवा मैथुने रताः ॥४३॥

ब्राह्मणस्य प्रतिश्रुत्य यो वै लोभाद्ददाति न ।
तेषां गतिं गमिष्यामि श्वो न हन्यां जयद्रथम् ॥४४॥

धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः ।
ये चानुकीर्तितास्तेषां गतिं क्षिप्रमवाप्नुयाम् ॥४५॥

यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम् ।
इमां चाप्यपरां भूयः प्रतिक्षां मे निबोधत ॥४६॥

यद्यस्मिन्नहते पापे सूर्योऽस्तमुपयास्यति ।
इहैव संप्रवेष्टाऽहं ज्वलितं जातवेदसम् ॥४७॥

असुरसुरमनुष्याः पक्षिणो वोरगा वा पितृजनिचरा वा ब्रह्मदेवर्षयो वा ।
चरमचरमपीदं यत्परं चापि तस्मात्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः ॥४८॥

तदपि तेऽपीत्यर्थः ॥४८॥

यदि विशति रसातलं तदग्र्यं वियदपि देवपुरं दितेः पुरं वा ।
तदपि शरशतैरहं प्रभाते भृशमभिमन्युरिपोः शिरोऽभिहर्ता ॥४९॥

दितेरिति कार्ये कारणोपचाराद्दैत्यानामित्यर्थः ॥४९॥

एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यद‌क्षिणम् ।
तस्य शब्दमतिकम्य धनुःशब्दोऽस्पृशद्दिवम् ॥५०॥

शब्दं शब्दान्तरम् ॥५०॥

अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः ।
प्रदध्मौ तत्र संक्रुद्धो देवदत्तं च फाल्गुनः ॥५१॥

स पाञ्चजन्योऽच्युतवक्त्रवायुना भृशं सुपूर्णोदरनिःसृतध्वनिः ।
जगत् सपातालवियद्दिगीश्वरं प्रकम्पयामास युगात्यये यथा ॥५२॥

ततो वादित्रघोषाश्च प्रादुरासन् सहस्रशः ।
सिंहनादश्च पाण्डूनां प्रतिज्ञाते महात्मना ॥५३॥

इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अर्जुनप्रतिज्ञायां त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥
चतुःसप्ततितमोऽध्यायः

सञ्जय उवाच। श्रुत्वा तु तं महाशब्दं पाण्डूनां जयगृद्धिनाम् ।
चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः ॥१॥

श्रुत्वेति ॥१॥

शोकसंमूढहृदयो दुःखेनाभिपरिप्लुतः ।
मञ्जमान इवागाधे विपुले शोकसागरे ॥२॥

जगाम सभितिं राज्ञां सैन्धवो विमृशन् बहु ।
स तेषां नरदेवानां सकाशे पर्वदेवयन् ॥३॥

अभिमन्योः पितुर्भीतः सव्रीडो वाक्यमब्रवीत् ।
योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना ॥४॥

स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम् ।
तत् स्वस्ति वोऽस्तु यास्यामि स्वगृहं जीवितेप्सया ॥५॥

किलेत्यरुचौ ॥५॥

अथवास्त्रप्रतिबलास्त्रात मां क्षत्रियर्षभाः ।
पर्थेन प्रार्थितं वीरास्ते संदत्त ममाभयम् ॥६॥

द्रोण-दुर्योधन-कृपाः कर्ण-मद्रेश-बाल्हिकाः ।
दुःशासनादयः शक्तास्त्रातुं मामन्तकार्दितम् ॥७॥

किमङ्ग पुनरेकेन फाल्गुनेन जिघांसता ।
न त्रायेयुर्भवन्तो मां समस्ताः पतयः क्षितेः ॥८॥

प्रहर्षं पाण्डवेयानां श्रुत्वा मम महद्भयम् ।
सीदन्ति मम गात्राणि मुमूर्षोरिव पार्थिवाः ॥९॥

वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना ।
तथा हि हृष्टाः क्रोशन्ति शोककाले स्म पाण्डवाः ॥१०॥

तन्न देवा न गन्धर्वा नासुरोरगराक्षसाः ।
उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः ॥११॥

तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः ।
अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः ॥१२॥

एवं विलपमानं तं भयाद्व्याकुलचेतसम् ।
आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत् ॥१३॥

न भेतव्यं नरव्याघ्र को हि त्वां पुरुषर्षभ ।
मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि ॥१४॥

अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः ।
भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः ॥१५॥

पुरुमित्रो जयो भोजः काम्बोजश्च सुदक्षिणः ।
सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखश्च ह ॥१६॥

दुःशासनः सुबाहुश्च कालिङ्गश्चाप्युदायुधः ।
विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिश्च सौबलः ॥१७॥

एते चान्ये च बहवो नानाजनपदेश्वराः ।
ससैन्यास्त्वाभियास्यन्ति व्येतु ते मानसो ज्वरः ॥१८॥

त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युते ।
स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव ॥१९॥

अक्षौहिण्यो दशैका च मदीयास्तव रक्षणे ।
यत्ता योत्स्यन्ति मा भैस्त्वं सैन्धव व्येतु ते भयम् ॥२०॥

अक्षौहिण्य इति प्रत्यक्षौहिणीशेषमादायोक्तम् ॥२०॥

सञ्जय उवाच। एवमाश्वासितो राजन् पुत्रेण तव सैन्धवः ।
दुर्योधनेन सहितो द्रोणं रात्रावुपागमत् ॥२१॥

उपसंग्रहणं कृत्वा द्रोणाय स विशांपते ।
उपोपविश्य प्रणतः पर्यपृच्छदिवं तदा ॥२२॥

उपसंग्रहणं पादाभिवन्दनम् ॥२२॥

निमित्ते दूरपातित्वे लघुत्वे दृढवेधने ।
मम ब्रवीतु भगवान् विशेषं फाल्गुनस्य च ॥२३॥

निमित्ते लक्ष्यभेदने ॥२३॥

विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः ।
अर्जुनस्यात्मनश्चैव याथातथ्यं प्रचक्ष्व मे ॥२४॥

द्रोण उवाच ।
स ममाचार्यकं तात तव चैवार्जुनस्य च ।
योगाद्दुःखोषितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः ॥२५॥

योगादभ्यासात् ॥२५॥

न तु ते युधि संत्रासः कार्यः पार्थात् कथञ्चन ।
अहं हि रक्षिता तात भयात्त्वां नात्र संशयः ॥२६॥

न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि ।
व्यूहयिष्यामि तं व्यूहं यं पार्थो न तरिष्यति ॥२७॥

तस्माद्युद्ध्यस्व मा भैस्त्वं स्वधर्ममनुपालय ।
पितृपैतामहं मार्गमनुयाहि महारथ ॥२८॥

अधीत्य विधिवद्वेदानग्नयः सुहुतास्त्वया ।
इष्टं बहुभिर्यज्ञैर्न ते मृत्युर्भयङ्करः ॥२९॥

दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्यतु ।
भुजवीर्यार्जितान् लोकान् दिव्यान् प्राप्स्यस्यनुत्तमान् ॥३०॥

कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः ।
अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम् ॥३१॥

पर्यायेण वयं सर्वे कालेन बलिना हताः ।
परलोकं गमिष्यामः स्वैः स्वैः कर्माभिरन्विताः ॥३२॥

तपस्ताप्त्वा तु यान् लोकान् प्राप्नुवन्ति तपस्विनः ।
क्षत्रधर्माश्रिता वीराः क्षत्रियाः प्राप्नुवन्ति तान् ॥३३॥

एवमाश्वासितो राजा भारद्वाजेन सैन्धवः ।
अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे ॥३४॥

ततः प्रहर्ष सैन्यानां तवाप्यासीद्विशांपते ।
वादित्राणां ध्वनिश्चोग्रः सिंहनादरवैः सह ॥३५॥

इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि जयद्रथाश्वासे चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥
पञ्चसप्ततितमोऽध्यायः

सञ्जय उवाच। प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा ।
वासुदेवो महाबाहुर्धनञ्जयमभाषत ॥१॥

प्रतिज्ञात इति ॥१॥

भ्रातॄणां मतमज्ञाय त्वया चाचा प्रतिश्रुतम् ।
सैन्धवं चास्मि हन्तेति तत्साहसमिदं कृतम् ॥२॥

अशब्दो निषेधे अज्ञात्वेत्यर्थः ॥२॥

असंमन्त्र्य मया सार्धमतिभारोऽयमुद्यतः ।
कथं तु सर्वलोकस्य नावहास्या भवेमहि ॥३॥

धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश्चराः ।
त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः ॥४॥

त्वया वै संप्रतिज्ञाते सिन्धुराजवधे प्रभा ।
सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः ॥५॥

तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः ।
नाकस्मात् सिंह‌नादोऽयमिति मत्वा व्यवस्थिताः ॥६॥

सुमहाञ्शब्दसंपातः कौरवाणां महाभुज ।
आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः ॥७॥

अभिमन्योर्वधं श्रुत्वा ध्रुवमार्तो धनञ्जयः ।
रार्त्रौ निर्यास्यति कोधादिति मत्वा व्यवस्थिताः ॥८॥

तैर्यतद्भिरियं सत्या श्रुता सत्यवतस्तव ।
प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन ॥९॥

ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव ।
आसन्सुयोधनामात्याः स च राजा जयद्रथः ॥१०॥

अथोत्थाय सहामात्यैर्दीनः शिबिरमात्मनः ।
आयात्सौवीरसिन्धूनामीश्वरो भृशदुःखितः ॥११॥

स मन्त्रकाले संमन्त्र्य सर्वां नैःश्रेयसीं कियाम् ।
सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि ॥१२॥

मामसौ पुत्र हन्तेति श्वोऽभियाता धनञ्जयः ।
प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम ॥१३॥

तां न देवा न गन्धर्वा नासुरोरगराक्षसाः ।
उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः ॥१४॥

ते मां रक्षत संग्रामे मा वो मूर्ध्नि धनञ्जयः ।
पदं कृत्वाऽप्नुयाल्लक्ष्यं तस्मादत्र विधीयताम् ॥१५॥

विधीयतां रक्षेति परतः सम्बध्यते ॥१५॥

अथ रक्षा न मे संख्ये क्रियते कुरुनन्दन ।
अनुजानीहि मां राजन् गमिष्यामि गृहान् प्रति ॥१६॥

एवमुक्तस्त्ववाक्शीर्षो विमनाः स सुयोधनः ।
श्रुत्वा तं समयं तस्य ध्यानमेवान्वपद्यत ॥१७॥

तमार्तमभिसंप्रेक्ष्य राजा किल स सैन्धवः ।
मृदु चात्महितं चैव सापेक्षमिदमुक्तवान् ॥१८॥

नेह पश्यामि भवतां तथावीर्यं धनुर्धरम् ।
योऽर्जुनस्यास्रमस्त्रेण प्रतिहन्यान्महाहवे ॥१९॥

वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः ।
कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः ॥२०॥

महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा ।
पदातिना महावीर्यो गिरौ हिमवति प्रभुः ॥२१॥

दानवानां सहस्राणि हिरण्यपुरवासिनाम् ।
जघानैकरथेनेव देवराजप्रचोदितः ॥२२॥

समायुक्तो हि कौन्तेयो वासुदेवेन धीमता ।
सामरानपि लोकांस्त्रीन् हन्यादिति मतिर्मम ॥२३॥

सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना ।
द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे ॥२४॥

स राज्ञा स्वयमाचार्यो भृशमत्रार्थितोऽर्जुन ।
संविधानं च विहितं रथाश्च किल सज्जिताः ॥२५॥

संविधानं प्रतिविधानम् ॥२५॥

कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः ।
कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः ॥२६॥

शकटः पद्मकश्चार्धो व्यूहो द्रोणेन निर्मितः ।
पद्मकर्णिकमध्यस्थः सूची पार्श्वे जयद्रथः ॥२७॥

पद्मव्यूहः पश्चार्धे पश्चाद्भागे यस्य सूची सूचीमुखो व्यूहः ॥२७॥

स्थास्यते रक्षितो वीरैः सिन्धुराट् स सुदुर्मदः ।
धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथौरसे ॥२८॥

अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः ।
एतानजित्वा षड्रथान्नैव प्राप्यो जयद्रथः॥२९॥

तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय ।
सहिता हि नरव्याघ्र न शक्या जेतुमञ्जसा ॥३०॥

भूयस्तु मन्त्रयिष्यामि नीतिमात्महिताय वै ।
मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये ॥३१॥

इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि कृष्णवाक्ये पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥
षट्सप्ततितमोऽध्यायः

अर्जुन उवाच ।
षड्रथान् धार्तराष्ट्रस्य मन्यसे यान् बलाधिकान् ।
तेषां वाय ममार्धेन न तुल्यमिति मे मतिः ॥१॥

षड्रथानिति ॥१॥

अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन ।
मया द्रक्ष्यसि निर्भिन्नं जयद्रथबधैषिणा ॥२॥

द्रोणस्य मिषतश्चाहं सगणस्य विलप्यतः ।
मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले ॥३॥

यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः ।
मरुतश्च सहेन्द्रेण विश्वेदेवाः सहेश्वराः ॥४॥

पितरः सहगन्धर्वाः सुपर्णाः सागरादयः ।
द्यौर्वियत् पृथिवी चेयं दिशश्च सदिगीश्वराः ॥५॥

ग्रामारण्यानि भूतानि स्थावराणि चराणि च ।
त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन ॥६॥

तथापि बाणैर्निहतं श्वो द्रष्टाऽसि रणे मया ।
सत्येन च शपे कृष्ण तथैवायुधमालभे ॥७॥

यस्य गोप्ता महेष्वासस्तस्य पापस्य दुर्मतेः ।
तमेव प्रथमं द्रोणमभियास्यामि केशव ॥८॥

तस्मिन् द्यूतमिदं बद्धं मन्यते स सुयोधनः ।
तस्मात्तस्यैव सेनाग्रं भित्वा यास्यामि सैन्धवम् ॥९॥

तस्मिन् द्रोणे द्यूतं युद्धद्यूतम् । बद्धमिव बद्धम् एकान्तजयेन स्थिरीकृतम् ॥९॥

द्रष्टाऽसि श्वो महेष्वासान्नाराचैस्तिग्मतेजितैः ।
शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मया युधि ॥१०॥

नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम् ।
पतद्भ्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः ॥११॥

गाण्डीवप्रेषिता बाणा मनोऽनिलसमा जवे ।
नृनागाश्वान् विदेहासून कर्तारश्च सहस्रशः ॥१२॥

यमात् कुबेराद्वरुणादिन्द्राद्रुद्राच्च यन्मया ।
उपात्तमस्त्रं घोरं तद्द्रष्टारोऽत्र नरा युधि ॥१३॥

ब्राह्मणास्त्रेण चास्त्राणि हन्यमानानि संयुगे ।
मया द्रष्टाऽसि सर्वेषां सैन्धवस्याभिरक्षिणाम् ॥१४॥

शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः ।
आस्तीर्यमाणां पृथिवीं द्रष्टाऽसि श्वो मया युधि ॥१५॥

क्रव्यादांस्तर्पयिष्यामि द्रावयिष्यामि शात्रवान् ।
सुहृदो नन्दयिष्यामि प्रमथिष्यामि सैन्धवम् ॥१६॥

बह्वागस्कृत् कुसम्बन्धी पापदेशसमुद्भवः ।
मया सैन्धवको राजा हतः स्वान् शोचयिष्यति ॥१७॥

सर्वक्षीरान्नभोक्तारं पापाचारं रणाजिरे ।
मया सराजकं बाणैर्भिन्नं द्रक्ष्यसि सैन्धवम् ॥१८॥

तथा प्रभाते कर्ताऽस्मि यथा कृष्ण सुयोधनः ।
नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि ॥१९॥

गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ ।
त्वं च यन्ता हृषीकेश किं नु स्यादजितं मया ॥२०॥

तव प्रसादाद्भगवन् किं नावाप्तं रणे मम ।
अविषह्यं हृषीकेश किं जानन्मां विगर्हसे ॥२१॥

यथा लक्ष्म स्थिरं चन्द्रे समुद्रे च यथा जलम् ।
एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन ॥२२॥

मावमंस्था ममास्त्राणि मावमंस्था धनुर्दृढम् ।
मावमंस्था बलं बाह्वोर्मावमंस्था धनञ्जयम् ॥२३॥

तथाभियामि संग्रामं न जीयेयं जयामि च ।
तेन सत्येन संग्रामे हतं विद्धि जयद्रथम् ॥२४॥

न जीयेयं न केनापि जितोऽस्मि ॥२४॥

ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु सन्नतिः ।
श्रीर्ध्रुवाऽपि च यज्ञेषु ध्रुवो नारायणे जयः ॥२५॥

सञ्जय उवाच। एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना ।
सन्दिदेशार्जुनो नर्दन् वासविः केशवं प्रभुम् ॥२६॥

यथा प्रभातां रजनीं कल्पितः स्याद्रथो मम ।
तथा कार्यं त्वया कृष्ण कार्यं हि महदुद्यतम् ॥२७॥

इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वण्यर्जुनवाक्ये षट्सप्ततितमोऽध्यायः ॥ ७६ ॥
सप्तसप्ततितमोऽध्यायः

सञ्जय उवाच ।
तां निशां दुःखशोकार्तौ निःश्वसन्ताविवोरगौ ।
निद्रां नैवोपलेभाते वासुदेवधनञ्जयौ ॥१॥

तामिति ॥१॥

नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः ।
व्यथिताश्चिन्तयामासुः किंस्विदेतद्भविष्यति ॥२॥

ववुच्च दारुणा वाता रूक्षा घोराभिशंसिनः ।
सकबन्धस्तथाऽदित्ये परिघः समदृश्यत ॥३॥

शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः ।
चचाल चापि पृथिवी सशैलवनकानना ॥४॥

चुक्षुभुश्च महाराज सागरा मकरालयाः ।
प्रतिस्स्रोतः प्रवृत्ताश्च तथा गन्तुं समुद्रगाः ॥५॥

रथाश्वनरनागानां प्रवृत्तमधरोत्तरम् ।
क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये ॥६॥

वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह ।
तान् दृष्ट्वा दारुणान् सर्वानुत्पाताँल्लोमहर्षणान् ॥७॥

सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभ ।
श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः ॥८॥

अथ कृष्णं महाबाहुरब्रवीत् पाकशासनिः ।
आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह ॥९॥

स्नुषां चास्या वयस्याश्च विशोकाः कुरु माधव ।
साम्ना सत्येन युक्तेन वचसाऽश्वासय प्रभो ॥१०॥

ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः ।
भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम् ॥११॥

वासुदेव उवाच ।
मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा ।
सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता ॥१२॥

कुले जातस्य धीरस्य क्षत्रियस्य विशेषतः ।
सदृशं मरणं ह्येतत् तव पुत्रस्य मा शुचः ॥१३॥

दिष्ट्या महारथो धीरः पितुस्तुल्यपराक्रमः ।
क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् ॥१४॥

जित्वा सुबहुशः शत्रून् प्रेषयित्वा च मृत्यवे ।
गतः पुण्यकृतां लोकान् सर्वकामदुहोऽक्षयान् ॥१५॥

तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयाऽपि च ।
सन्तो यां गतिमिच्छन्ति तां प्राप्तस्तव पुत्रकः ॥१६॥

वीरसूर्वीरपत्नी त्वं वीरजा वीरबान्धवा ।
मा शुचस्तनयं भद्रे गतः स परमां गतिम् ॥१७॥

प्राप्स्यते चाप्यसौ पापः सैन्धवो बालघातकः ।
अस्यावलेपस्य फल ससुहृद्गणबान्धवः ॥१८॥

अवलेपस्यापराधस्य ॥१८॥

व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत् ।
न हि मोक्ष्यति पार्थात् स प्रविष्टोऽप्यमरावतीम् ॥१९॥

श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम् ।
समन्तपञ्चकाद्बाह्यं विशोका भव मा रुदः ॥२०॥

क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम् ।
यां गतिं प्राप्नुयामेह ये चान्ये शस्त्रजीविनः ॥२१॥

व्यूढोरस्को महाबाहुरनिवर्ती रथप्रणुत् ।
गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि ॥२२॥

अनुयातश्च पितरं मातृपक्षं च वीर्यवान् ।
सहस्रशो रिपून् हत्वा हतः शूरो महारथः ॥२३॥

आश्वासयन्स्नुषां राज्ञि मा शुचः क्षत्रिये भूशम् ।
श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि ॥२४॥

यत् पार्थेन प्रतिज्ञातं तत् तथा न तदन्यथा ।
चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम् ॥२५॥

यदि च मनुजपन्नागाः पिशाचा रजनिचराः पतगाः सुरासुराश्च ।
रणगतमभियान्ति सिन्धुराजं न स भविता सह तैरपि प्रभाते ॥२६॥

अभियान्ति रक्षिष्यन्ति ॥२६॥
इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि सुभद्राश्वासने सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥
अष्टसप्ततितमोऽध्यायः

सञ्जय उवाच। एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः ।
सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता ॥१॥

एतदिति ॥१॥

हा पुत्र मम मन्दायाः कथमेत्यासि संयुगम् ।
निधनं प्राप्तवांस्तात पितुस्तुल्यपराक्रमः ॥२॥

कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम् ।
मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना ॥३॥

नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम् ।
सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं नतोदरम् ॥४॥

चारूपचितसर्वांगं स्वक्षं शस्त्रक्षताचितम् ।
भूतानि त्वां निरीक्षन्ते नूनं चन्द्रमिवोदितम् ॥५॥

शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम् ।
भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः ॥६॥

योऽन्वास्यत पुरा वीरो वरस्रीभिर्महाभुजः ।
कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे ॥७॥

योऽस्तूयत पुरा हृष्टैः सूत-मागध-बन्दिभिः ।
सोऽद्य क्रव्याद्गणैर्घोरैर्विनद‌द्भिरुपास्यते ॥८॥

पाण्डवेषु च नाथेषु वृष्णिवीरेषु वा विभो ।
पञ्चालेषु च वीरेषु हतः केनास्यनाथवत् ॥९॥

अतृप्तदर्शना पुत्र दर्शनस्य तवानघ ।
मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम् ॥१०॥

विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च ।
तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम् ॥११॥

धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् ।
धिग्वीर्यं वृष्णिवीराणां पञ्चालानां च धिग्बलम् ॥१२॥

धिक्केकयांस्तथा चेदीन् मत्स्यांश्चैवाथ सृञ्जयान् ।
ये त्वां रणगतं वीरं न शेकुरभिरक्षितुम् ॥१३॥

अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम् ।
अभिमन्युमपश्यन्ती शोकव्याकुललोचना ॥१४॥

स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः ।
कथं त्वाऽतिरथं वीरं द्रक्ष्याम्यद्य निपातितम् ॥१५॥

एह्येहि तृषितो वत्स स्तनौ पूर्णौ पिबाशु मे ।
अङ्कमारुह्य मन्दाया ह्यतृप्तायाश्च दर्शने ॥१६॥

हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे ।
अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम् ॥१७॥

इमां ते तरुणीं भार्यां तवाधिभिरभिप्लुताम् ।
कथं संधारयिष्यामि विवत्सामिव धेनुकाम् ॥१८॥

अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक ।
विहाय फलकाले मां सुगृद्धां तव दर्शने ॥१९॥

नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा ।
यत्र त्वं केशवे नाथे संग्रामेऽनाथवद्धतः ॥२०॥

यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम् ।
चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम् ॥२१॥

कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि ।
सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि ॥२२॥

या गतिर्युध्यमानानां शूराणामनिवर्तिनाम् ।
हत्वाऽरीन्निहतानां च संग्रामे तां गतिं व्रज ॥२३॥

गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः ।
नैवेशिकं चाभिमतं ददतां या गतिः शुभा ॥२४॥

नैवेशिकं सोपकरणं गृहम् नैवेशिकायेति पाठे गृहाश्रमोन्मुखाय विद्याव्रतस्नाताय । अभिमतं विवाहोपयुक्तम् ॥२४॥

ब्राह्मणेभ्यः शरण्येभ्यो निधिं निदधतां च या ।
या चापि न्यस्तदण्डानां तां गतिं व्रज पुत्रक ॥२५॥

न्यस्तदण्डानां निरस्ताभिमानानां ‘दण्डोऽस्त्री लगुडे पुमान्’ इत्युपक्रम्य ‘दमे यमेऽभिमाने च’ इति मेदिनी ॥२५॥

ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः ।
एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक ॥२६॥

एकपत्न्यः पतिव्रताः ॥२६॥

राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती ।
चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः ॥२७॥

दीनानुकम्पिनां या च सततं संविभागिनाम् ।
पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक ॥२८॥

व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि ।
अमोघातिथिनां या च तां गतिं व्रज पुत्रक ॥२९॥

कृच्छ्रेषु या धारयतामात्मानं व्यसनेषु च ।
गतिः शोकाग्निदग्धानां तां गतिं व्रज पुत्रक ॥३०॥

मातापित्रोश्च शुश्रूषां कल्पयन्तीह ये सदा ।
स्वदारनिरतानां च या गतिस्तामवाप्नुहि ॥३१॥

ऋतुकाले स्वकां भार्यां गच्छतां या मनीषिणाम् ।
परस्त्रीभ्यो निवृत्तानां तां गतिं व्रज पुत्रक ॥३२॥

साम्ना ये सर्वभूतानि पश्यन्ति गतमत्सराः ।
नारुंतुदानां क्षमिणां या गतिस्तामवाप्नुहि ॥३३॥

मधुमांसनिवृत्तानां मदाद्दंभात्तथाऽनृतात् ।
परोपतापत्यक्तानां तां गतिं व्रज पुत्रक ॥३४॥

ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः ।
यां गतिं साधवो यान्ति गतिं व्रज पुत्रक ॥३५॥

एवं विलपतीं दीनां सुभद्रां शोककर्शिताम् ।
अन्वपद्यत पाञ्चाली वैरादिसहितां तदा ॥३६॥

ताः प्रकामं रुदित्वा च विलप्य च सुदुःखिताः ।
उन्मत्तवत्तदा राजन् विसंज्ञा न्यपतन् क्षितौ ॥३७॥

सोपचारस्तु कृष्णश्च दुःखितां भृशदुःखितः ।
सिक्त्वांभसा समाश्वास्य तत्तदुक्त्वा हितं वचः ॥३८॥

विसंज्ञकल्पां रुदतीं मर्मविद्धां प्रवेपतीम् ।
भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत् ॥३९॥

सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम् ।
गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुङ्गवः ॥४०॥

ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने ।
सर्वे ते तां गातिं यान्तु ह्यभिमन्योर्यशस्विनः ॥४१॥

कुर्याम तद्वयं कर्म क्रियासु सुहृदश्च नः ।
कृतवान् यादृगद्यैकस्तव पुत्रो महारथः ॥४२॥

एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम् ।
पार्थस्यैव महाबाहुः पार्श्वभागादरिन्दमः ॥४३॥

ततोऽभ्यनुज्ञाय नृपान् कृष्णो बन्धूंस्तथार्जुनम् ।
विवेशान्तःपुरे राजंस्ते च जग्मुर्यथालयम् ॥४४॥

इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि सुभद्राप्रविलापे अष्टसप्ततितमोऽध्यायः ॥ ७८ ॥
एकोनाशीतितमोऽध्यायः

सञ्जय उवाच। ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः ।
स्पृष्ट्वांऽभः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे ॥१॥

तत इति ॥१॥

संतस्तार शुमां शय्यां दर्भैर्वैदूर्यसन्निभः ।
ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः ॥२॥

लाजैरक्षतैः ॥२॥

अलंचकार तां शय्यां परिवार्यायुधोत्तमैः ।
ततः स्पृष्टोदके पार्थे विनीताः परिचारकाः ॥३॥

दर्शयन्तोऽन्तिके चक्रुर्नैशं त्रैयम्बकं बलिम् ।
ततः प्रीतमनाः पार्थो गन्धमाल्यैश्च माधवम् ॥४॥

अलंकृत्योपहारं तं नैशं तस्मै न्यवेदयत् ।
स्मयमानस्तु गोविन्दः फाल्गुनं प्रत्यभाषत ॥५॥

तस्मै त्र्यम्बकाय ॥५॥

सुप्यतां पार्थ भन्द्रं ते कल्याणाय व्रजाम्यहम् ।
स्थापयित्वा ततो द्वाःस्थान् गोप्तृंश्चात्तायुधान्नरान् ॥६॥

दारुकानुगतः श्रीमान् विवेश शिबिरं स्वकम् ।
शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन् ॥७॥

पार्थाय सर्वं भगवान् शोकदुःखापहं विधिम् ।
व्यद‌द्यात् पुण्डरीकाक्षस्तेजोद्युतिविवर्धनम् ॥८॥

पार्थाय तादर्थ्ये चतुर्थी । तेजः प्रतापः ॥८॥

योगमास्थाय युक्तात्मा सर्वेषामीश्वरेश्वरः ।
श्रेयस्कामः पृथुयशा विष्णुर्जिष्णुप्रियंकरः ॥९॥

न पाण्डवानां शिबिरे कश्चित् सुष्वाप तां निशाम् ।
प्रजागरः सर्वजनं ह्याविवेश विशांपते ॥१०॥

पुत्रशोकाभितप्तेन प्रतिज्ञातो महात्मना ।
सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना ॥११॥

तत् कथं नु महाबाहुर्वासविः परवीरहा ।
प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् ॥१२॥

कष्टं हीदं व्यवसितं पाण्डवेन महात्मना ।
स च राजा महावीर्यः पारयत्वर्जुनः सताम् ॥१३॥

पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता ।
भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च ॥१४॥

धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम् ।
स हत्वा सैन्धवं संख्ये पुनरेतु धनञ्जयः ॥१५॥

जित्वा रिपुगणांश्चैव पारयन्नर्जुनो व्रतम् ।
श्वोऽहत्वा सिन्धुराजं वै धूमकेतुं प्रवेक्ष्यति ॥१६॥

न ह्यासावनृतं कर्तुमलं पार्थो धनञ्जयः ।
धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने ॥१७॥

तस्मिन् हि विजयः कृत्स्नः पाण्डवेन समाहितः ।
यदि नोऽस्ति कृतं किञ्चिद्यदि दत्तं हुतं यदि ॥१८॥

फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन् ।
एवं कथयतां तेषां जयमाशंसतां प्रमो ॥१९॥

कृच्छ्रेण महता राजन् रजनी व्यत्यवर्तत ।
तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः ॥२०॥

स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत ।
अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना ॥२१॥

जयद्रथं वधिष्यामि श्वोभूत इति दारुक ।
तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति ॥२२॥

यथा जयद्रथं पार्थो न हन्यादिति संयुगे ।
अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् ॥२३॥

द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः ।
एको वीरः सहस्राक्षो दैत्यदानवद‌र्पहा ॥२४॥

सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् ।
सोऽहं श्वस्तत् करिष्यामि यथा कुन्तीसुतोऽर्जुनः ॥२५॥

अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम् ।
न हि दारानमित्राणि ज्ञातयो न च बान्धवाः ॥२६॥

कश्चिदन्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात् ।
अनर्जुनमिमं लोकं मुहूर्तमपि दारुक ॥२७॥

उद्दीक्षितुं न शक्नोऽहं भविता न च तत् तथा ।
अहं विजित्य तान् सर्वान् सहसा सहयद्विपान् ॥२८॥

सहसा बलेन ॥२८॥

अर्जुनार्थे हनिष्यामि सकर्णान् ससुयोधनान् ।
श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे ॥२९॥

धनञ्जयार्थे समरे पराक्रान्तस्य दारुक ।
श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च ॥३०॥

साश्वद्विपरथान्याजौ विद्रविष्यामि दारुक ।
श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् ॥३१॥

मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम् ।
श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः ॥३२॥

ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः ।
यस्तं द्वेष्टि स मां द्वेष्टि यस्तं चातु स मामनु ॥३३॥

अनु अनुगतः ॥३३॥

इति संकल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः ।
यथा त्वं मे प्रभातायामस्यां निशि रथोत्तमम् ॥३४॥

कल्पयित्वा यथाशास्रमादाय व्रज संयतः ।
गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् ॥३५॥

आरोप्य वै रथे सूत सर्वोपकरणानि च ।
स्थानं च कल्पयित्वाऽथ रथोपस्थे ध्वजस्य मे ॥३६॥

वैनतेयस्य वीरस्य समरे रथशोभिनः ।
छत्रं जाम्बूनदैर्जालैरर्कज्वलनसप्रभैः ॥३७॥

विश्वकर्मकृतैर्दिव्यैरश्वानपि विभूषितान् ।
बलाहकं मेघपुष्पं शैब्यं सुग्रीवमेव च ॥३८॥

युक्तान् ‌वाजिवरान् यत्तः कवची तिष्ठ दारुक ।
पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम् ॥३९॥

आषभेण ऋषभस्वरप्रकारेण ॥३९॥

श्रुत्वा च भैरवं नादमुपेयास्त्वं जवेन माम् ।
एकाह्नाऽहममर्षं च सर्वदुःखानि चैव ह ॥४०॥

भ्रातुः पैतृष्वसेयस्य व्यपनेष्यामि दारुक ।
सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे ॥४१॥

पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम् ।
यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति ।
आशंसे सारथे तत्र भविताऽस्य ध्रुवो जयः ॥४२॥

दारुक उवाच ।
जय एव ध्रुवस्तस्य कुत एव पराजयः ।
यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् ॥४३॥

एवं चैतत् करिष्यामि यथा मामनुशाससि ।
सुप्रभातामिमां रात्रिं जयाय विजयस्य हि ॥४४॥

श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि कृष्णदारुकसंभाषणे एकोनाशीतितमोऽध्यायः ॥ ७९ ॥
अशीतितमोऽध्यायः

सञ्जय उवाच। कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनञ्जयः ।
प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः ॥१॥

कुन्तीपुत्रस्त्विति ॥१॥

तं तु शोकेन संतप्तं स्वप्ने कपिवरध्वजम् ।
आससाद महातेजा ध्यायन्तं गरुडध्वजः ॥२॥

प्रत्युत्थानं च कृष्णस्य सर्वावस्थो धनञ्जयः ।
न लोपयति धर्मात्मा भक्त्या प्रेम्णा च सर्वदा ॥३॥

प्रत्युत्थाय च गोविन्दं स तस्मा आसनं ददौ ।
न चासने स्वयं बुद्धिं बीभत्सुर्व्यद‌धात् तदा ॥४॥

ततः कृष्णो महातेजा जानन् पार्थस्य निश्चयम् ।
कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत् ॥५॥

मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः ।
कालः सर्वाणि भूतानि नियच्छति परे विधौ ॥६॥

परेऽवश्यंभाविनि विधौ विधाने नियच्छति प्रवर्तयति ॥६॥

किमर्थं च विषादस्ते तद्ब्रूहि द्विपदां वर ।
न शोच्यं विदुषां श्रेष्ठ शोकः कार्यविनाशनः ॥७॥

न शोच्यं शोको नाचरणीयः ॥७॥

यत्तु कार्यं भवेत् कार्यं कर्मणा तत् समाचर ।
हीनचेष्टस्य यः शोकः स हि शत्रुर्धनञ्जय ॥८॥

कार्यं कृत्यं कार्यं करणीयं भवेत् इत्यन्वयः ॥८॥

शोचन्नन्दयते शत्रून् कर्शयत्यपि बान्धवान् ।
क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि ॥९॥

इत्युक्तो वासुदेवेन बीभत्सुरपराजितः ।
आबभाषे तदा विद्वानिदं वचनमर्थवत् ॥१०॥

मया प्रतिज्ञा महती जयद्रथवधे कृता ।
श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव ॥११॥

मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत ।
पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः ॥१२॥

दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः ।
हतावशेषास्तत्रेमा हन्त माधव संख्यया ॥१३॥

ताभिः परिवृतः संख्ये सर्वैश्चैव महारथैः ।
कथं शक्येत संद्रष्टुं दुरात्मा कृष्ण सैन्धवः ॥१४॥

प्रतिज्ञापारणं चापि न भविष्यति केशव ।
प्रतिज्ञायां च हीनायां कथं जीवति मद्विधः ॥१५॥

दुःखोपायस्य मे वीर विकांक्षा परिवर्तते ।
द्रुतं च याति सविता तत एतद्ब्रवीम्यहम् ॥१६॥

दुःखोपायस्य दुःखद्वारस्य प्रतिज्ञायाः विकांक्षा विसंवादः परिवर्तते प्रतिभाति ॥१६॥

शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः ।
संस्पृश्यांभस्ततः कृष्णः प्राङ्मुखः समवस्थितः ॥१७॥

इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः ।
हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे कृती ॥१८॥

पार्थ पाशुपतं नाम परमास्त्रं सनातनम् ।
येन सर्वान् मृधे दैत्यान् जघ्ने देवो महेश्वरः ॥१९॥

यदि तद्विदितं तेऽद्य श्वो हन्ताऽसि जयद्रथ ।
अथाज्ञातं प्रपद्यस्व मनसा वृषभध्वजम् ॥२०॥

तं देवं मनसा ध्यात्वा जोषमास्व धनञ्जय ।
ततस्तस्य प्रसादात्त्वं भक्तः प्राप्स्यसि तन्महत् ॥२१॥

ततः कृष्णवचः श्रुत्वा संस्पृश्यांभो धनञ्जयः ।
भूमावासीन एकाग्रो जगाम मनसा भवम् ॥२२॥

ततः प्रणिहितो ब्राह्मे मुहूर्ते शुभलक्षणे ।
आत्मानमर्जुनोऽपश्यद्गगने सह‌केशवम् ॥२३॥

प्रणिहितः समाहितमनाः ॥२३॥

पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम् ।
ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम् ॥२४॥

वायुवेगगतिः पार्थः स्वं भेजे सहकेशवः ।
केशवेन गृहीतः स दक्षिणे विभुना भुजे ॥२५॥

प्रेक्षमाणो बहून् भावान् जगामाद्भुतदर्शनान् ।
उदीच्यां दिशि धर्मात्मा सोऽपश्यच्छ्वेतपर्वतम् ॥२६॥

कुबेरस्य विहारे च नलिनीं पद्मभूषिताम् ।
सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम् ॥२७॥

सदा पुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम् ।
सिंहव्याघ्रसमाकीर्णां नानामृगसमाकुलाम् ॥२८॥

पुण्याश्रमवतीं रम्यां मनोज्ञांडजसेविताम् ।
मन्दरस्य प्रदेशांश्च किन्नरोद्गीतनादितान् ॥२९॥

हेमरूप्यमयैः शृङ्गेर्नानौषधिविदीपितान् ।
तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान् ॥३०॥

स्निग्धांजनचयाकारं संप्राप्तः कालपर्वतम् ।
ब्रह्मतुङ्गनदीश्चान्यास्तथा जनपदानपि ॥३१॥

स तुङ्गं शतशृङ्गं च शर्यातिवनमेव च ।
पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च ॥३२॥

अथर्वणस्य मुनेः ॥३२॥

वृषदंशं च शैलेन्द्रं महामन्दरमेव च ।
अप्सरोभिः समाकीर्णं किन्नरैश्चोपशोभितम् ॥३३॥

तस्मिन् शैले व्रजन् पार्थः सकृष्णः समवैक्षत ।
शुभैः प्रस्त्रवणैर्जुष्टां हेमधातुविभूषिताम् ॥३४॥

चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम् ।
समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान् ॥३५॥

वियद्द्यां पृथिवीं चैव तथा विष्णुपदं व्रजन् ।
विस्मितः सह कृष्णेन क्षिप्तो बाण इवाभ्यगात् ॥३६॥

तथा च व्रजन् विष्णुपदमाकाशमभ्यगादित्यन्वयः ॥३६॥

ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम् ।
अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम् ॥३७॥

समासाद्य तु तं शैलं शैलाग्रे समवस्थितम् ।
तपोनित्यं महात्मानमपश्यद्वृषभध्वजम् ॥३८॥

सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा ।
शूलिनं जटिलं गौरं वल्कलाजिनवाससम् ॥३८॥

नयनानां सहस्रैश्च विचित्राङ्गं महौजसम् ।
पार्वत्या सहितं देवं भूतसङ्घैश्च भास्वरैः ॥४०॥

गीतवादित्रसन्नादैर्हास्यलास्यसमन्वितम् ।
वल्गितास्फोटितोत्कृष्टैः पुण्यैर्गन्धैश्च सेवितम् ॥४१॥

लास्यं नृत्यम् । बल्गितमितस्ततः प्रचारः । आस्फोटितं भुजाडम्बरः उत्कुष्टमुच्चैः स्वनितम् ॥४१॥

स्तूयमानं स्तवैर्दिव्यैर्ऋषिभिर्ब्रह्मवादिभिः ।
गोप्तारं सर्वभूतानामिष्वासधरमच्युतम् ॥४२॥

वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम् ।
पार्थेन सह धर्मात्मा गृणन् ब्रह्म सनातनम् ॥४३॥

लोकदिं विश्वकर्माणमजमीशानमव्ययम् ।
मनसः परमं योनिं स्वं वायुं ज्योतिषां निधिम् ॥४४॥

लोकानामादिमुपादानम् । विश्वं जगत्कर्म प्राप्यं यस्य । ईशानमप्रतिहतेच्छम् । अव्ययमविकारम् । मनसः परमं प्रवृत्तिनिवृत्तिकारणम्। योनिमुत्पत्तिस्थानं च । ज्योतिषां तेजसां निधिमधिष्ठानम् ॥४४॥

स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम् ।
देवदानवयक्षाणां मानवानां च साधनम् ॥४५॥

परां मूलभूतां प्रकृतिं प्रधानं साधनं सिद्धेर्निधानम् ॥४५॥

योगानां च परं धाम दृष्टं ब्रह्मविदां निधिम् ।
चराचरस्य स्रष्टारं प्रतिहर्तारमेव च ॥४६॥

योगानां योगदर्शिनां परं धाम परमाश्रयम् । दृष्टं साक्षाद्भूतं ब्रह्मतत्त्वं तद्विदां निधिं रहस्यम् ॥४६॥

कालकोपं महात्मानं शक्रसूर्यगुणोदयम् ।
ववन्दे तं तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः ॥४७॥

काल इव कोपो यस्य शक्रस्य गुणा ऐश्वर्यादयः सूर्यस्य गुणाः प्रतापादयः । तेषामुदयो यस्मात् ॥४७॥

यं प्रपद्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः ।
तमजं कारणात्मानं जग्मतुः शरणं भवम् ॥४८॥

कारणात्मानं कारणैकस्वभावम् ॥४८॥

अर्जुनश्चापि तं देवं भूयो भूयोऽप्यवन्दत ।
ज्ञात्वा तं सर्वभूतादिं भूतभव्यभवोद्भवम् ॥४९॥

ततस्तावागतौ दृष्ट्वा नरनारायणावुभौ ।
सुप्रसन्नमनाः शर्वः प्रोवाच प्रहसन्निव ॥५०॥

स्वागतं वो नरश्रेष्ठावुत्तिष्ठेतां गतक्लमौ ।
किं च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम् ॥५१॥

येन कार्येण संप्राप्तौ युवां तत्साधयामि किम् ।
व्रियतामात्मनः श्रेयस्तत् सर्वं प्रददानि वाम् ॥५२॥

ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली ।
वासुदेवार्जुनौ सर्वं तुष्टुवाते महामती ॥५३॥

भक्त्या स्तवेन दिव्येन महात्मानावनिन्दितौ ।
कृष्णार्जुनावूचतुः ।
नमो भवाय शर्वाय रुद्राय वरदाय च ।
पशूनां पतये नित्यमुग्राय च कपर्दिने ॥५५॥

भवः सर्वप्रभुत्वात् । शर्वः संहरणात् ॥५५॥

महादेवाय भीमाय त्र्यंबकाय च शान्तये ।
ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने ॥५६॥

शान्तिः शमप्रधानत्वात् ॥५६॥

कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे ।
पिनाकिने हविष्याय सत्याय विभवे सदा ॥५७॥

हविष्यः हविष्ययोग्यत्वात् । सत्याय सदैकस्वभावत्वात् । विभुर्व्यापकत्वात् ॥५७॥

विलोहिताय धूम्राय व्याधायानपराजिते ।
नित्यनीलशिखण्डाय शूलिने दिव्यचक्षुषे ॥५८॥

व्याधाय मृगहननात् । द्विरुक्तिर्द्विस्तथाकरणात् । अनान्प्राणिनः पराजयतीति अनपराजित्सर्वभूतोत्तमत्वात् । नीलशिखण्डो नीलकेशत्वात् ॥५८॥

होत्रे पोत्रे त्रिनेत्राय व्याधाय वसुरेतसे ।
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥५९॥

दीक्षितः भावेन हवनशीलत्वात् । वसुरेता अग्नौ रेतःक्षेपणात् ॥५९॥

वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे ।
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥६०॥

मुंडो दीक्षितत्वात् । ब्रह्मचारी रेतोविधारणात् ॥६०॥

विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ।
नमो नमस्ते सेव्याय भूतानां प्रभवे सदा ॥६१॥

भूतानां प्राणिनां प्रमथादीनाम् ॥६१॥

ब्रह्मवक्त्राय सर्वाय शंकराय शिवाय च ।
नमोऽस्तु वाचस्पतये प्रजानां पतये नमः ॥६२॥

ब्रह्मवक्त्रो वेदपूर्णमुखत्वात् । सर्वः सर्वस्वरूपत्वात् । शिवो मोक्षहेतुत्वात् । वाचस्पतिर्वाङ्मयप्रवर्तनात् ॥६२॥

नमो विश्वस्य पतये महतां पतये नमः ।
नमः सहस्रशिरसे सहस्रभुजमृत्यवे ॥६३॥

सहस्त्रभुजाय मृत्यवे च मन्यवे इति पाठः ॥६३॥

सहस्रनेत्रपादाय नमोऽसंख्येयकर्मणे ।
नमो हिरण्यवर्णाय हिरण्यकवचाय च ।
भक्तानुकम्पिने नित्यं सिध्यतां नो वरः प्रभो ॥६४॥

सञ्जय उवाच। एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः ।
प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये ॥६५॥

इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अर्जुनस्वप्ने अशीतितमोऽध्यायः ॥ ८० ॥
एकाशीतितमोऽध्यायः

सञ्जय उवाच। ततः पार्थः प्रसन्नात्मा प्राञ्जलिर्वृषभध्वजम् ।
ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम् ॥१॥

तत इति ॥१॥

तं चोपहारं सुकृतं नैशं नैत्यकमात्मना ।
ददर्श त्र्यंबकाभ्याशे वासुदेवनिवेदितम् ॥२॥

आत्मना सुकृतं सूपकल्पितम् ॥२॥

ततोऽभिपूज्य मनसा कृष्णं शर्वं च पाण्डवः ।
इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शंकरम् ॥३॥

ततः पार्थस्य विज्ञाय वरार्थे वचनं तदा ।
वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत ॥४॥

स्वागतं वां नरश्रेष्ठौ विज्ञातं मनसेप्सितम् ।
येन कामेन संप्राप्तौ भवद्भ्यां तं ददाम्यहम् ॥५॥

सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ ।
तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा ॥६॥

येन देवारयः सर्वे मया युधि निपातिताः ।
तत आनीयतां कृष्णौ सशर धनुरुत्तमम् ॥७॥

तथेत्युक्त्वा तु तौ वीरौ सर्वपारिषदैः सह ।
प्रस्थितौ तत्सरो दिव्यं दिव्यैश्वर्यशतैर्युतम् ॥८॥

निर्दिष्टं यद्वृषाङ्केण पुण्यं सर्वार्थसाधकम् ।
तौ जग्मतुरसंभ्रान्तौ नरनारायणावृषी ॥९॥

ततस्तौ तत् सरो गत्वा सूर्यमण्डलसन्निभम् ।
नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ ॥१०॥

द्वितीयं चापरं नागं सहस्रशिरसं वरम् ।
वमन्तं विपुला ज्वाला ददृशातेऽग्निवर्चसम् ॥११॥

ततः कृष्णश्च पार्थश्च संस्पृश्यांभः कृताञ्जली ।
तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम् ॥१२॥

गृणन्तौ वेदविद्वांसौ तद्ब्रह्म शतरुद्रियम् ।
अप्रमेयं प्रणमतो गत्वा सर्वात्मना भवम् ॥१३॥

ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ ।
धनुर्बाणश्च शत्रुघ्नं तद्द्वंद्वं समपद्यत ॥१४॥

द्वन्द्वं युगलम् ॥१४॥

तौ तज्जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम् ।
आजह्रतुर्महात्मानौ ददतुश्च महात्मने ॥१५॥

ततः पार्श्वाद्वृषाङ्कस्य ब्रह्मचारी न्यवर्तत ।
पिंगाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः ॥१६॥

नीललोहितः भगवतोऽपराः तनुः ॥१६॥

स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः ।
विचकर्षाथ विधिवत्सशरं धनुरुत्तमम् ॥१७॥

स्थानं स्थापनकम् ॥१७॥

तस्य मौर्वीं च मुष्टिं च स्थानं चालक्ष्य पाण्डवः ।
श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः ॥१८॥

जग्राह मनसि कृतवान् ॥१८॥

स सरस्येव तं बाणं मुमोचातिबलः प्रभुः ।
चकार च पुनर्वीरस्तस्मिन् सरसि तद्धतुः ॥१९॥

ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा ।
वरमारण्यके दत्तं दर्शनं शंकरस्य च ॥२०॥

मनसा चिन्तयामास तन्मे संपद्यतामिति ।
तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः ॥२१॥

तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम् ।
ततः पाशुपतं दिव्यमवाप्य पुनरीश्वरात् ॥२२॥

संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत ।
ववन्दतुश्च संहृष्टौ शिरोभ्यां तं महेश्वरम् ॥२३॥

अनुज्ञातौ क्षणे तस्मिन् भवेनार्जुनकेशवौ ।
प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ ॥२४॥

तथा भवेनानुमतौ महासुरनिघातिना ।
इन्द्राविष्णू यथा प्रीतौ जंभस्य वधकांक्षिणौ ॥२५॥

इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अर्जुनस्य पुनः पाशुपतास्त्रप्राप्तौ एकाशीतितमोऽध्यायः॥ ८१ ॥
द्व्यशीतितमोऽध्यायः

सञ्जय उवाच। तयोः संवदतोरेवं कृष्णदारुकयोस्तथा ।
साऽत्यगाद्रजनी राजन्नथ राजाऽन्वबुध्यत ॥१॥

तयोरितिः ॥१॥

पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः ।
वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम् ॥२॥

मधुपर्किकाः माङ्गल्योपस्थापकाः पाणिस्वनिका हस्तेन तालस्वनं कुर्वते । मधुपर्किकाः मधुपर्कसमये पठन्त इति देवबोध ॥२॥

नर्तकाश्चाप्यनृत्यन्त जगुगातानि गायकाः ।
कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः ॥३॥

रक्तकण्ठिनो रञ्जकस्वराः ॥३॥

मृदंगा झर्झरा भेर्यः पणवानकगोमुखाः ।
आडम्बराश्च शंखाश्च दुन्दुभ्यश्च महास्वनाः ॥४॥

झर्झरा झिल्लिकाः भेर्यो बृहढ्ढक्काः पणवा मुरजाः । आनकाः पटहाः । गोमुखाः त्रागडाः । आडम्बराश्च क्षुद्रपटहाः । दुन्दुभ्यो ढक्काः ॥४॥

एवमेतानि सर्वाणि तथान्यान्यपि भारत ।
वादयन्ति सुसंहृष्टाः कुशलाः साधुशिक्षिताः ॥५॥

स मेघसमनिर्घोषो महान् शब्दोऽस्पृशाद्दिवम् ।
पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत् ॥६॥

प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे ।
उत्थायावश्यकार्यार्थं ययौ स्नानगृहं नृपः ॥७॥

ततः शुक्लाम्बराः स्नातास्तरुणाः शतमष्ट च ।
स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे ॥८॥

भद्रासने सूपविष्टः परिधायाम्बरं लघु ।
सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः ॥९॥

भद्रासने चतुःसमासने ॥९॥

उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः ।
आप्लुतः साधिवासेन जलेन स सुगन्धिना ॥१०॥

कषायेण सर्वोषध्यादिकल्केन ॥१०॥

राजहंसनिभं प्राप्य उष्णीषं शिथिलार्पितम् ।
जलक्षयनिमित्तं वै वेष्टयामास मूर्धनि ॥११॥

हरिणा चन्दनेनाङ्गमुपलिप्य महाभुजः ।
स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः ॥१२॥

अक्लिष्टमनुपहतं वसनं यस्य ॥१२॥

जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः ।
तत्राग्निशरणं दप्तिं प्रविवेश विनीतवत् ॥१३॥

दीप्तं ज्वलद‌ग्निम् ॥१३॥

समिद्भिः सपवित्राभिरग्निमाहुतिभिस्तथा ।
मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात् ततः ॥१४॥

द्वितीयां पुरुषव्याघ्रः कक्ष्यां निर्गम्य पार्थिवः ।
ततो वेदविदो वृद्धानपश्यद्ब्राह्मणर्षभान् ॥१५॥

दान्तान् वेदव्रतस्नातान् स्नातानवभृथेषु च ।
सहस्रानुचरान् सौरान् सहस्रं चाष्ट चापरान् ॥१६॥

सौरान् सूर्योपासकान् ॥१६॥

अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः ।
तान् ‌द्विजान् मधुसर्पिभ्यां फलैः श्रेष्ठैः सुमंगलैः ॥१७॥

प्रादात् काञ्चनमेकैकं निष्कं विप्राय पाण्डवः ।
अलंकृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः ॥१८॥

तथा गाः कपिला दोग्ध्रीः सवत्साः पाण्डुनन्दनः ।
हेमशृङ्गा रौप्यखुरा दत्वा तेभ्यः प्रद‌क्षिणम् ॥१९॥

प्रद‌क्षिणं कृत्वेति शेषः ॥१९॥

स्वस्तिकान् वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनाम् ।
माल्यं च जलकुंभांश्च ज्वलितं च हुताशनम् ॥२०॥

स्वस्तिकानालिङ्गनानि वर्धमानान् शरावान् नन्द्यावर्तान् संपुटिताद्यर्घपात्राणि ॥२०॥

पूर्णान्यक्षतपात्राणि रुचकं रोचनास्तथा ।
स्वलंकृताः शुभाः कन्या दधिसर्पिर्मधूदकम् ॥२१॥

रुचकं मातुलुङ्गकम् ॥२१॥

मङ्गल्यान् पक्षिणश्चैव यच्चान्यदपि पूजितम् ।
दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यां ततोऽगमत् ॥२२॥

ततस्तस्यां महाबाहोस्तिष्ठतः परिचारकाः ।
सौवर्णं सर्वतोभद्रं मुक्तावैदूर्यमण्डितम् ॥२३॥

परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत् ।
विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम् ॥२४॥

विश्वकर्मकृतं विश्वकर्मप्रणीतेन विधिना निर्मितम् ॥२४॥

तत्र तस्योपविष्टस्य भूषणानि महात्मनः ।
उपाजह्रुर्महार्हाणि प्रेष्याः शुभ्राणि सर्वशः ॥२५॥

मुक्ताभरणवेषस्य कौन्तेयस्य महात्मनः ।
रूपमासीन्महाराज द्विषतां शोकवर्धनम् ॥२६॥

चामरैश्चन्द्ररश्म्याभैर्हेमदण्डैः सुशोभनैः ।
दोध्यमानैः शुशुभे विद्युद्भिरिव तोयदः॥२७॥

संस्तूयमानः सूतैश्च वन्द्यमानश्च बन्दि‌भिः ।
उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः ॥२८॥

वन्द्यमानः स्तूयमानः स्तुत्यर्थस्य वदे रूपम् ॥२८॥

ततो मुहूर्तादासीत्तु स्यन्दनानां स्वनो महान् ।
नेमिघोषश्च रथिनां खुरघोषश्च वाजिनाम् ॥२९॥

ह्रादेन गजघण्टानां शंखानां निनदेन च ।
नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी ॥३०॥

ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः ।
शिरसा वन्दनीयं तमभिवाद्य जनेश्वरम् ॥३१॥

शुद्धान्तं कक्ष्याभ्यन्तरम् ॥३१॥

कुण्डलीबद्धनिस्त्रिंशः सन्नद्धकवचो युवा ।
अभिप्रणम्य शिरसा द्वाःस्थो धर्मात्मजाय वै ॥३२॥

न्यवेदयद्धृषीकेशमुपयान्तं महात्मने ।
सोऽब्रवीत्‌ पुरुषव्याघ्रः स्वागतेनैव माधवम् ॥३३॥

स्वागतेनाप्रतिबद्धागमनेन ॥३३॥

अर्घ्यं चैवासनं चास्मै दीयतां परमार्चितम् ।
ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने ।
पूजयामास विधिवद्धर्मराजो युधिष्ठिरः ॥३४॥

इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि युधिष्ठिरसज्जतायां द्व्यशीतितमोऽध्यायः ॥ ८२ ॥
त्र्यशीतितमोऽध्यायः

सञ्जय उवाच। ततो युधिष्ठिरो राजा प्रतिनन्द्य जनार्दनम् ।
उवाच परमप्रीतः कौन्तेयो देवकीसुतम् ॥१॥

तत इति ॥१॥

सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन ।
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ॥२॥

वासुदेवोऽपि तद्युक्तं पर्यपृच्छद्युधिष्ठिरम् ।
ततश्च प्रकृतीः क्षत्ता न्यवेदयदुपस्थिताः ॥३॥

अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम् ।
विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम् ॥४॥

चेदिपं धृष्टकेतुं च द्रुपदं च महारथम् ।
शिखण्डिनं यमौ चैव चेकितानं सकेकयम् ॥५॥

युयुत्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम् ।
युधामन्युं सुबाहुं च द्रौपदेयांश्च सर्वशः ॥६॥

एते चान्ये च बहवः क्षत्रियाः क्षत्रियर्षभम् ।
उपतस्थुर्महात्मानं विविशुश्चासने शुभे ॥७॥

एकस्मिन्नासने वीरावुपविष्टौ महाबलौ ।
कृष्णश्च युयुधानश्च महात्मानौ महाद्युती ॥८॥

ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम् ।
अब्रवीत् पुण्डरीकाक्षमाभाष्य मधुरं वचः ॥९॥

एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः ।
प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च ॥१०॥

त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम् ।
क्लेशांश्च विविधान् कृष्ण सर्वांस्तानपि वेद नः ॥११॥

निराक्रियामपसारणम् ॥११॥

त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल ।
सुखमायत्तमत्यर्थं यात्रा च मधुसूदन ॥१२॥

यात्रा स्थितिः ॥१२॥

स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम ।
अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता ॥१३॥

स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात् ।
पारं तितीर्षतामद्य प्लवो नो भव माधव ॥१४॥

न हि तत् कुरुते संख्ये रथी रिपुवधोद्यतः ।
यथा वै कुरुते कृष्ण सारथिर्यत्नमास्थितः ॥१५॥

यथैव सर्वास्वापत्सु पासि वृष्णीञ्जनार्दन ।
तथैवास्मान् महाबाहो वृजिनात्त्रातुर्हसि ॥१६॥

वृजिनात् व्यसनात् ॥१६॥

त्वमगाधेऽप्लवे मग्नान् पाण्डवान् कुरुसागरे ।
समुद्धर प्लवो भूत्वा शंख-चक्र-गदाधर ॥१७॥

नमस्ते देवदेवेश सनातन विशातन ।
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम ॥१८॥

सनातन अनादिनिधन विशातन संहर्तः कृष्ण संसारकर्षक पुरुषोत्तम परात्मन् ॥१८॥

नारदस्त्वां समाचख्यौ पुराणमृषिसत्तमम् ।
वरदं शार्ङ्गिणं श्रेष्ठं तत् सत्यं कुरु माधव ॥१९॥

इत्युक्तः पुण्डरीकाक्षो धर्मराजेन संसदि ।
तोयमेघस्वनो वाग्मी प्रत्युवाच युधिष्ठिरम् ॥२०॥

वासुदेव उवाच ।
सामरेष्यपि लोकेषु सर्वेषु न तथाविधः ।
शरासनधरः कश्चिद्यथा पार्थो धनञ्जयः ॥२१॥

वीर्यवानस्त्रसंपन्नः पराक्रान्तो महाबलः ।
युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम् ॥२२॥

युद्धशौण्डः युद्धप्रवीणः ॥२२॥

स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः ।
सिंहर्षभगतिः श्रीमान् द्विषतस्ते हनिष्यति ॥२३॥

अहं च तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः ।
धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवेन्धनम् ॥२४॥

अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम् ।
अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः ॥२५॥

तस्याद्य गृध्राः श्येनाश्च चण्डयोमायवस्तथा ।
भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः ॥२६॥

यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाऽप्यसौ ।
राजधानीं यमस्याद्य हतः प्राप्स्यति संकुले ॥२७॥

निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति ।
विशोको विज्वरो राजन् भव भूतिपुरस्कृतः ॥२८॥

इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि श्रीकृष्णवाक्ये त्र्यशीतितमोऽध्यायः ॥ ८३ ॥
चतुरशीतितमोऽध्यायः

सञ्जय उवाच। तथा तु वदतां तेषां प्रादुरासीद्धनञ्जयः ।
दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणनम् ॥१॥

तथेति ॥१॥

तं निविष्टं शुभां कक्ष्यामभिवन्द्याग्रतः स्थितम् ।
तमुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः ॥२॥

मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना ।
आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत ॥३॥

व्यक्तमर्जुनसंग्रामे ध्रुवस्ते विजयो महान् ।
यादृग्रूपा च ते च्छाया प्रसन्नश्च जनार्दनः ॥४॥

तमब्रवीत् ततो जिष्णुर्महदाश्चर्यमुत्तमम् ।
दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् ॥५॥

ततस्तत्कथयामास यथा दृष्टं धनञ्जयः ।
आश्वासनार्थं सुहृदां त्र्यम्बकेण समागमम् ॥६॥

ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः ।
नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन्‌ ॥७॥

अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना ।
त्वरमाणाः सुसन्नद्धा हृष्टा युद्धाय निर्ययुः ॥८॥

अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः ।
हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् ॥९॥

रथेनैकेन दुर्धर्षो युयुधानजनार्दनौ ।
जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् ॥१०॥

तत्र गत्वा हृषीकेशः कल्पयामास सूतवत् ।
रथं रथवरस्याजौ वानरर्षभलक्षणम् ॥११॥

स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः ।
बभौ रथवरः क्लृप्तः शिशुर्दिवसकृद्यथा ॥१२॥

शिशुर्दिवसकृत् बालः सूर्यः सज्जपुरःसरः सामग्रीसमग्रः ॥१२॥

ततः पुरुषशार्दूलः सज्जं सज्जपुरःसरः ।
कृताह्निकाय पार्थाय न्यवेदयत तं रथम् ॥१३॥

तं तु लोकवरः पुंसां किरीटी हेमवर्मभृत् ।
चापबाणधरो वाहं प्रदक्षिणमवर्तत ॥१४॥

तपोविद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः ।
स्तूयमानो जयाशीर्भिरारुरोह महारथम् ॥१५॥

जैत्रैः सांग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम् ।
अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा ॥१६॥

स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः ।
विबभौ विमलोर्चिष्मान् मेराविव दिवाकरः ॥१७॥

मेरावुदयाद्रौ मनोनुकूलार्थेषु सुखसंवेदनं भवति ॥१७॥

अन्वारुरुहतुः पार्थं युयुधानजनार्दनौ ।
शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ ॥१८॥

अथ जग्राह गोविन्दो रश्मीन्रश्मिविदां वरः ।
मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः ॥१९॥

स ताभ्यां साहितः पार्थो रथप्रवरमास्थितः ।
सहितो बुधशुक्राभ्यां तमो निघ्नन् यथा शशी ॥२०॥

सैन्धवस्य वधं प्रेप्सुः प्रयातः शत्रुपूगहा ।
सहांबुपतिमित्राभ्यां यथेन्द्रस्तारकामये ॥२१॥

ततो वादित्रानिर्घोषैर्माङ्गल्यैश्च स्तवैः शुभैः ।
प्रयान्तमर्जुनं वीरं मागधाश्चैव तुष्टुवुः ॥२२॥

सजयाशीः सपुण्याहः सुतमाग‌धनिःस्वनः ।
युक्तो वादित्रघोषेण तेषां रात्रिकरोऽभवत् ॥२३॥

प्रयतो मन्दः ॥२३॥

तमनुप्रयतो वायुः पुण्यगन्धवहः शुभः ।
ववौ संहर्षयन् पार्थं द्विषतश्चापि शोषयन् ।
ततस्तस्मिन् क्षणे राजन् विविधानि शुभानि च ॥२४॥

प्रादुरासन्निमित्तानि विजयाय बहूनि च ।
पाण्डवानां त्वदीयानां विपरीतानि मारिष ॥२५॥

दृष्ट्वाऽर्जुनो निमित्तानि विजयाय प्रदक्षिणम् ।
युयुधानं महेष्वासमिदं वचनमब्रवीत् ॥२६॥

प्रदक्षिणं छन्दोनुवर्तिनम् ॥२६॥

युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः ।
यथा हीमानि लिंगानि दृश्यन्ते शिनिपुङ्गव ॥२७॥

सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः ।
यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते ॥२८॥

यथा परमकं कृत्यं सैन्धवस्य वधो मम ।
तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणम् ॥२९॥

स त्वमद्य महाबाहो राजानं परिपालय ।
यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा ॥३०॥

न पश्यामि च तं लोके यस्त्वां युद्धे पराजयेत् ।
वासुदेवसमं युद्धे स्वयमप्यमरेश्वरः ॥३१॥

त्वयि चाहं पराश्वस्तः प्रद्युम्ने वा महारथे ।
शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ ॥३२॥

मय्यपेक्षा न कर्तव्या कथञ्चिदपि सात्वत ।
राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया ॥३३॥

अपेक्षा अनुरोधः ॥३३॥

न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः ।
किञ्चिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम् ॥३४॥

एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा ।
तथेत्युक्त्वाऽगमत् तत्र यत्र राजा युधिष्ठिरः ॥३५॥

इति श्रीमहाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अर्जुनवाक्ये चतुरशीतितमोऽध्यायः ॥ ८४ ॥
॥ समाप्तं प्रतिक्षापर्व ॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in