धृतराष्ट्र उवाच।
श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः
।
अभिमन्यौ हते तत्र के वाऽयुध्यन्त मामकाः ॥१॥
श्वोभूते इति ॥१॥
जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः
।
कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः ॥२॥
पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम्
।
आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे ॥३॥
कपिराजध्वजं संख्ये विधुन्वानं महद्धनुः
।
दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वत मामकाः ॥४॥
पुत्रपरिद्यूनं पुत्रवधदुःखितम् ॥४॥
किं नु सञ्जय संग्रामे वृत्तं दुर्योधनं प्रति
।
परिदेवो महानद्य श्रुतो मे नाभिनन्दनम् ॥५॥
बभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः
।
न श्रूयन्तेऽद्य सर्वे ते सैन्धवस्य निवेशने ॥६॥
स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम
।
सूतमागधसङ्घानां नर्तकानां च सर्वशः ॥७॥
शब्देन नादिताऽभीक्ष्णमभवद्यत्र मे श्रुतिः
।
दीनानामद्य तं शब्दं न शृणोमि समीरितम् ॥८॥
यत्रेति तृतीयार्थे सप्तमी ॥८॥
निवेशने सत्यधृतेः सोमदत्तस्य सञ्जय
।
आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम् ॥९॥
तदद्य पुण्यहीनोऽहमार्तस्वरनिनादितम्
।
निवेशनं गतोत्साहं पुत्राणां मम लक्षये ॥१०॥
विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः
।
अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः ॥११॥
ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते
।
द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् ॥१२॥
वितण्डालापसंलापैर्द्रुतवादित्रवादितैः
।
गीतैश्च विविधैरिष्टै रमते यो दिवानिशम् ॥१३॥
स्वपक्षस्थापनहीनः प्रतिपक्षे प्रतिक्षेपो वितण्डा, आलापो भाषणम् । संलापो मिथोभाषणम् ॥१३॥
उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः
।
सूत तस्य गृहे शब्दो नाद्य द्रौणेर्यथा पुरा ॥१४॥
द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये
।
अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः ॥१५॥
विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः ॥१६॥
श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु
।
नित्यं प्रमुदितानां च तालगीतस्वनो महान् ॥१७॥
नृत्यतां श्रूयते तात गणानां सोऽद्य न स्वनः
।
सप्ततन्तून् वितन्वाना याजका यमुपासते ॥१८॥
गणानां सङ्घानाम् ॥१८॥
सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः
।
ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः ॥१९॥
द्रोणस्यासीदविरतो गृहे तं न शृणोम्यहम्
।
नानादेशसंमुत्थानां गीतानां योऽभवत्स्वनः ॥२०॥
वादित्रनादितानां च सोऽद्य न श्रूयते महान्
।
यदा प्रभृत्युपप्लव्याच्छान्तिमिच्छन् जनार्दनः ॥२९॥
आगतः सर्वभूतानामनुकम्पार्थमच्युतः
।
ततोऽहमब्रुवं सूतं मन्दं दुर्योधनं तदा ॥२२॥
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः
।
कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः ॥२३॥
तीर्थेन निदानेन उपायेन वा । कालप्राप्तं समयोचितम् ॥२३॥
शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम्
।
हितार्थमभिजल्पन्तं न तवास्ति रणे जयः ॥२४॥
प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम्
।
अनुनेयानि जल्पन्तमनयान्नान्वपद्यत ॥२५॥
अनुनेयानि अनुकूलानि ॥२५॥
ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः
।
अन्ववर्तत मां हित्वा कृष्टः कालेन दुर्मतिः ॥२६॥
न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसति
।
सैन्धवो नेच्छति द्यूतं भीष्मो न द्यूतमिच्छति ॥२७॥
शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथा
।
अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति सञ्जय ॥२८॥
एतेषां मतमादाय यदि वर्तेत पुत्रकः
।
सज्ञातिमित्रः ससुहृच्चिरं जीवेदनामयः ॥२९॥
श्लक्ष्णा मधुरसंभाषा ज्ञातिबन्धुप्रियंवदाः
।
कुलीनाः संमताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः ॥३०॥
श्लक्ष्णा ऋजवः ॥३०॥
धर्मापेक्षी नरो नित्यं सर्वत्र लभते सुखम्
।
प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते ॥३१॥
अर्हास्ते पृथिवीं भोक्तुं समर्थाः साधनेऽपि च
।
तेषामपि समुद्रान्ता पितृपैतामही मही ॥३२॥
साधने स्वीकरणे ॥३२॥
नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि
।
सन्ति मे ज्ञातयस्तात येषां श्रिष्यन्ति पाण्डवाः ॥३३॥
शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः
।
द्रोणस्याथ विकर्णस्य बाल्हीकस्य कृपस्य च ॥३४॥
अन्येषां चैव वृद्धानां भरतानां महात्मनाम्
।
त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हि ते ॥३५॥
कं वा त्वं मन्यसे तेषां यस्तान् ब्रूयादतोऽन्यथा
।
कृष्णो न धर्मं सञ्जह्यात् सर्वे ते हि तदन्वयाः ॥३६॥
मयाऽपि चोक्तास्ते वीरा वचनं धर्मसंहितम्
।
नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः ॥३७॥
इत्यहं विलपन् सूत बहुशः पुत्रमुक्तवान्
।
न च मे श्रुतबान् मूढो मन्ये कालस्य पर्ययम् ॥३८॥
वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः
।
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ॥३९॥
धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः
।
अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः ॥४०॥
चैद्यश्च चेकिनातश्च पुत्रः काश्यस्य चाभिभूः
।
द्रौपदेया विराटश्च द्रुपदश्च महारथः ॥४१॥
यमौ च पुरुषव्यातघ्रौ मन्त्री च मधुसूदनः
।
क एतान् जातु युध्येत लोकेऽस्मिन् वै जिजीविषुः ॥४२॥
दिव्यमस्त्रं विकुर्वाणान् प्रसहेद्वा परान् मम
।
अन्यो दुर्योधनात् कर्णाच्छकुनेश्चापि सौबलात् ॥४३॥
दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम्
।
येषामभीषुहस्तः स्याद्विष्वक्सेनो रथे स्थितः ॥४४॥
सन्नद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः
।
तेषामथ विलापानां नायं दुर्योधनः स्मरेत् ॥४५॥
हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ वै
।
तेषां विदुरवाक्यानां मुक्तानां दीर्घदर्शनात् ॥४६॥
दीर्घदर्शनादनागतानुसन्धानात् ॥४६॥
दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः
।
सेनां दृष्ट्वाऽभिभूता मे शैनैयेनार्जुनेन च ॥४७॥
शुन्यान् दृष्ट्वा रथोपस्थान् मन्ये शोचन्ति पुत्रकाः
।
हिमात्यये यथा कक्षं शुष्कं वातेरितो महान् ॥४८॥
अग्निर्दहेत्तथा सेनां मामिकां स धनञ्जयः
।
आचक्ष्व मम तत्सर्वं कुशलो ह्यसि सञ्जय ॥४९॥
यदुपायात सायाह्ने कृत्वा पार्थस्य किल्बिषम्
।
अभिमन्यौ हते तात कथमासीन्मनो हि वः ॥५०॥
यद्यदा उपायात यूयमिति शेषः ॥५०॥
न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः
।
अपकृत्य महत्तात सोढुं शक्ष्यन्ति मामकाः ॥५१॥
महदत्यर्थम् ॥५१॥
किन्नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत्
।
दुःशासनः सौबलश्च तेषामेवं गतेष्वपि ॥५२॥
तेषां मध्ये ॥५२॥
सर्वेषां समवेतानां पुत्राणां मम सञ्जय
।
यद्वृत्तं तात संग्रामे मन्दस्यापनयैर्भृशम् ॥५३॥
लोभानुगस्य दुर्बुद्धेः क्रोधेन विकृतात्मनः
।
राज्यकामस्य मूढस्य रागोपहतचेतसः
।
दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व सञ्जय ॥५४॥
रागो मात्सर्यं ‘रागस्तु मात्सर्ये लोहितादिषु’ इति मेदिनी ॥५४॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि धृतराष्ट्रवाक्ये पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥
सञ्जय उवाच।
हन्त ते संप्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान्
।
शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान् ॥१॥
हन्तेति ॥१॥
गतोदके सेतुबन्धो यादृक् तादृगयं तव
।
विलापो निष्फलो राजन्मा शुचो भरतर्षभ ॥२॥
अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः
।
मा शुचो भरतश्रेष्ठ दिष्टमेतत् पुरातनम् ॥३॥
यदि त्वं हि पुरा द्यूतात् कुन्तीपुत्रं युधिष्ठिरम्
।
निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत् ॥४॥
युद्धकाले पुनः प्राप्ते तदैव भवता यदि
।
निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत् ॥५॥
दुर्योधनं चाविधेयं बध्नीतेति पुरा यदि
।
कुरूनचोदयिष्यस्त्वं न त्वां व्यसनमाव्रजेत् ॥६॥
न ते बुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः
।
पञ्चाला वृष्णयः सर्वे ये चान्येऽपि नराधिपाः ॥७॥
ते तव बुद्धेर्व्यभिचारं वैषम्यम् उपलप्स्यन्त्यनुभविष्यन्ति ॥७॥
स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे
।
वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत् ॥८॥
त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम्
।
दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम् ॥९॥
तत्ते विलपितं सर्वं मया राजन्निशामितम्
।
अर्थे निविशमानस्य विषमिश्रं यथा मधु ॥१०॥
नामन्यत तदा कृष्णो राजानं पाण्डवं पुरा
।
न भीष्मं नैव च द्रोणं यथा त्वां मन्यतेऽच्युतः ॥११॥
मन्यते बहुमन्यते ॥११॥
अजानात् स यदा तु त्वां राजधर्मादधश्च्युतम्
।
तदाप्रभृति कृष्णस्त्वां न तथा बहु मन्यते ॥१२॥
परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे
।
तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुक ॥१३॥
पितृपैतामहं राज्यमपवृत्तं तदाऽनघ
।
अथ पार्थैर्जितां कृत्नां पृथिवीं प्रत्यपद्यथाः ॥१४॥
अपवृत्तं सांशयिकं यद्येवं न करिष्यति तर्हि ॥१४॥
पाण्डुना निर्जितं राज्यं कौरवाणां यशस्तथा
।
ततश्चाप्यधिकं भूयः पाण्डवैर्धर्मचारिभिः ॥१५॥
तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम्
।
यत्पित्र्याद्भ्रंशिता राज्यात्त्वयेहामिषगृद्धिना ॥१६॥
यत्पुनर्युद्धकाले त्वं पुत्रान् गर्हयसे नृप
।
बहुधा व्याहरन् दोषान्न तदद्योपपद्यते ॥१७॥
न हि रक्षन्ति राजानो युद्ध्यन्तो जीवितं रणे
।
चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः ॥१८॥
यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ
।
रक्षेरन् को नु तां युद्ध्येच्चमूमन्यत्र कौरवैः ॥१९॥
येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः
।
येषां च सात्यकिर्योद्धा येषां योद्धा वृकोदरः ॥२०॥
को हि तान् विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः
।
अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः ॥२१॥
यावत्तु शक्यते कर्तुमन्तरज्ञैर्जनाधिपैः
।
क्षत्रधर्मरतैः शूरैस्तावत् कुर्वन्ति कौरवाः ॥२२॥
अन्तरज्ञैरवसरवेदिभिः ॥२२॥
यथा तु पुरुषव्याघ्रैर्युद्धं परमसंकटम्
।
कुरूणां पाण्डवैः सार्धं तत्सर्वं श्रृणु तत्त्वतः ॥२३॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सञ्जयवाक्ये षडशीतितमोऽध्यायः ॥ ८६ ॥
सञ्जय उवाच
।
तस्यां निशायां व्युष्टायां द्रोणः शास्त्रभृतां वरः
।
स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः ॥१॥
तस्यामिति ॥१॥
शूराणां गर्जतां राजन् संक्रुद्धानाममर्षिणाम्
।
श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम् ॥२॥
विस्फार्य च धनूंष्यन्ये ज्याः परे परिमृज्य च
।
विनिःश्वसन्तः प्राकोशन् क्वेदानीं स धनञ्जयः ॥३॥
विकोशान् सुत्सरूनन्ये कृतधारान् समाहितान्
।
पीतानाकाशसंकाशानसीन् केचिच्च चिक्षिपुः ॥४॥
पीतान् पायितोदकान् ॥४॥
चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षया
।
संग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः ॥५॥
सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः
।
समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् ॥६॥
अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः
।
चक्रुः सम्बाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः ॥७॥
नानाप्रहरणैश्चान्ये विचित्रस्रगलङ्कृताः
।
संग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः ॥८॥
क्वार्जुनः क्व स गोविन्दः क्व च मानी वृकोदरः
।
क्व च ते सुहृदस्तेषामाह्वयन्ते रणे तदा ॥९॥
क्व चेति चकार इत्यर्थे इत्याह्वयन्त इत्यन्वयः ॥९॥
ततः शंखमुपाध्माय त्वरयन् वाजिनः स्वयम्
।
इतस्ततस्तान् रचयन् द्रोणश्चरति वेगितः ॥१०॥
तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु
।
भारद्वाजो महाराज जयद्रथमथाब्रवीत् ॥११॥
त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः
।
अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा ॥१२॥
शतं चाश्वसहस्राणां रथानामयुतानि षट्
।
द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश ॥१३॥
पदातीनां सहस्राणि दंशितान्येकविंशतिः
।
गव्यूतिषु त्रिमात्रासु मामनासाद्य तिष्ठत ॥१४॥
त्रिमात्रासु त्रिसंख्यासु तिसृष्वित्यर्थः ॥१४॥
तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः
।
किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव ॥१५॥
एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः
।
संप्रायात् सह गान्धारैर्वृतस्तैश्च महारथैः ॥१६॥
वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः
।
चामरापीडिनः सर्वे जाम्बूनदविभूषिताः ॥१७॥
जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः
।
ते चैकसप्त साहस्रास्त्रिसाहस्राश्च सैन्धवाः ॥१८॥
मत्तानां सुविरुढानां हस्त्यारोहैर्विशारदैः
।
नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् ॥१९॥
अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव
।
अग्रतः सर्वसैन्यानां युध्यमानो व्यवस्थितः ॥२०॥
ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ
।
सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ ॥२१॥
दीर्घो द्वादश गव्यूतिः पश्चार्धे पञ्च विस्तृतः
।
व्यूहस्तु चक्रशकटो भारद्वाजेन निर्मितः ॥२२॥
पश्चार्धे पश्चाद्भागे पञ्चगव्यूतिः चक्रशकटः चक्रगर्भः शकटः ॥२२॥
नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः
।
रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम् ॥२३॥
पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः
।
सूचीपद्मस्य गर्भस्थो गूढो व्यूहः कृतः पुनः ॥२४॥
एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः
।
सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः ॥२५॥
अनन्तरं च कांबोजो जलसन्धश्च मारिष
।
दुर्योधनश्च कर्णश्च तदनन्तरमेव च ॥२६॥
ततः शतसहस्राणि योधानामनिवर्तिनाम्
।
व्यवस्थितानि सर्वाणि शकटे मुखरक्षिणाम् ॥२७॥
तेषां च पृष्ठतो राजा बलेन महता वृतः
।
जयद्रथस्ततो राजा सूचीपार्श्वे व्यवस्थितः ॥२८॥
शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः
।
अनु तस्याभवद्भोजो जुगोपैनं ततः स्वयम् ॥२९॥
श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः
।
धनुर्विस्फारयन् द्रोणस्तस्थौ क्रुद्ध इवान्तकः ॥३०॥
पताकिनं शोणहयं वेदिकृष्णाजिनध्वजम्
।
द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् ॥३१॥
सिद्धचारणसंघानां विस्मयः सुमहानभूत्
।
द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् ॥३२॥
सशैलसागरवनां नानाजनपदाकुलाम्
।
ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे ॥३३॥
बहुरथमनुजाश्वपत्तिनागं प्रतिभयनिःस्वनमद्भुतानुरूपम्
।
अहितहृदयभेदनं महद्वै शकटमवेक्ष्य कृतं ननन्द राजा ॥३४॥
अद्भुतानुरूपमाश्चर्यरूपमेतत्समययोग्यं च ॥३४॥
इति श्रीहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि कौरवव्यूहनिर्माणे सप्ताशीतितमोऽध्यायः ॥८७॥
सञ्जय उवाच।
ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष
।
ताड्यमानासु भेरीषु मृदंगेषु नदत्सु च ॥१॥
अनीकानां च संह्रादे वादित्राणां च निःस्वने
।
प्रध्मापितेषु शंखेषु सन्नादे लोमहर्षणे ॥२॥
अभिहारयत्सु शनकैर्मरतेषु युयुत्सुषु
।
रौद्रे मुहूर्ते संप्राप्ते सव्यसाची व्यदृश्यत ॥३॥
तत इति ॥१॥ अभिहारयत्सु सन्नह्यमानेषु अभियुज्यमानेषु वा प्रहरत्स्विति केचित् ॥३॥
बलानां वायसानां च पुरस्तात् सव्यसाचिनः
।
बहुलानि सहस्त्राणि प्राक्रीडंस्तत्र भारत ॥४॥
मृगाश्च घोरसंनादाः शिवाश्चाशिवदर्शनाः
।
दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा ॥५॥
सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः सहस्रशः
।
चचाल च मही कृत्स्ना भये घोरे समुत्थिते ॥६॥
विष्वग्वाताः सनिर्घाता रूक्षाः शर्करकर्षिणः
।
ववुरायाति कौन्तेये संग्रामे समुपस्थिते ॥७॥
नाकुलिश्च शतानीको धृष्टद्युम्नश्च पार्षतः
।
पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा ॥८॥
ततो रथसहस्त्रेण द्विरदानां शतेन च
।
त्रिभिरश्वसहस्त्रैश्च पदातीनां शतैः शतैः ॥९॥
शतैःशतैर्दशसहस्त्रैः ॥९॥
अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव
।
अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत् ॥१०॥
अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम्
।
अहमावारयिष्यामि वेलेव मकरालयम् ॥११॥
अद्य पश्यन्तु संग्रामे धनञ्जयममर्षणम्
।
विषक्तं मयि दुर्धर्षमश्मकूटमिवाश्मनि ॥१२॥
तिष्ठध्वं रथिनो यूयं संग्राममभिकांक्षिणः
।
युध्यामि संहतानेतान् यशो मानं च वर्धयन् ॥१३॥
एवं ब्रुवन्महाराज महात्मा स महामतिः
।
महेष्वासैर्वृतो राजन् महेष्वासो व्यवस्थितः ॥१४॥
ततोन्तक इव क्रुद्धः सवज्र इव वासवः
।
दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः ॥१५॥
शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव
।
युगान्ताग्निरिवार्चिष्मान्प्रधक्ष्यन्वै पुनः प्रजाः ॥१६॥
क्रोधामर्षबलोद्धूतो निवातकवचान्तकः
।
जयो जेता स्थितः सत्ये पारयिष्यन् महाव्रतम् ॥१७॥
जयो नाम्ना ॥१७॥
आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत्
।
शुभ्रमाल्याम्बरधरः स्वंगश्चारुकुण्डलः ॥१८॥
रथप्रवरमास्थाय नरो नारायणानुगः
।
विधुन्वन् गाण्डिवं संख्ये बभौ सूर्य इवोदितः ॥१९॥
सोग्रानीकस्य महत इषुपाते धनञ्जयः
।
व्यवस्थाप्य रथं राजञ्शंखं दध्मौ प्रतापवान् ॥२०॥
अथ कृष्णोऽप्यसंभ्रान्तः पार्थेन सह मारिष
।
प्राध्मापयत्पाञ्चजन्यं शंखप्रवरमोजसा ॥२१॥
तयोः शंखप्रणादेन तव सैन्ये विशांपते
।
आसन् संहृष्टरोमाणः कम्पिता गतचेतसः ॥२२॥
यथा त्रस्यन्ति भूतानि सर्वाण्यशनिनिःस्वनात्
।
तथा शंखप्रणादेन वित्रेसुस्तव सैनिकाः ॥२३॥
प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः
।
एवं सवाहनं सर्वमाविग्नमभवद्बलम् ॥२४॥
सीदन्ति स्म नरा राजन् शंखशब्देन मारिष
।
विसंज्ञाश्चाभवन्केचित् केचिद्राजन् वितत्रसुः ॥२५॥
ततः कपिर्महानादं सह भूतैर्ध्वजालवैः
।
अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान् ॥२६॥
ततः शंखाश्च भेर्यश्च मृदंगाश्चानकैः सह
।
पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः ॥२७॥
नानावदित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः
।
सिंहनादैः समुत्कृष्टैः समाधूतैर्महारथैः ॥२८॥
समाधूतैः सञ्चालितैः ॥२८॥
तस्मिंस्तु तुमुले शब्दे भीरूणां भयवर्धने
।
अतीव हृष्टो दाशार्हमब्रवीत् पाकशासनिः ॥२९॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि अर्जुनरणप्रवेशे अष्टाशीतितमोऽध्यायः ॥ ८८ ॥
अर्जुन उवाच
।
चोदयाश्वान् हृषीकेश यत्र दुर्मर्षणः स्थितः
।
एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम् ॥१॥
चोदयाश्वानिति ॥१॥
सञ्जय उवाच।
एवमुक्तो महाबाहुः केशवः सव्यसाचिना
।
अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः ॥२॥
स संप्रहारस्तुमुलः संप्रवृत्तः सुदारुणः
।
एकस्य च बहूनां च रथनागनरक्षयः ॥३॥
ततः सायकवर्षेण पर्जन्य इव वृष्टिमान्
।
परानवाकिरन् पार्थः पर्वतानिव नीरदः ॥४॥
ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत्
।
अवाकिरन् बाणजालैस्तत्र कृष्णधनञ्जयौ ॥५॥
ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि
।
शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः ॥६॥
उद्भ्रान्तनयनैर्वक्त्रैः संदष्टौष्ठपुटैः शुभैः
।
सकुंडलशिरस्त्राणैर्वसुधा समकीर्यत ॥७॥
पुण्डरीकवनानीव विध्वस्तानि समंततः
।
विनिकर्णानि योधानां वदनानि चकाशिरे ॥८॥
तपनीयतनुत्राणाः संसिक्ता रुधिरेण च
।
संसक्ता इव दृश्यन्ते मेघसंघाः सविद्युतः ॥९॥
शिरसां पततां राजन् शब्दोऽभूद्वसुधातले
।
कालेन परिपक्वानां तालानां पततामिव ॥१०॥
ततः कबन्धं किञ्चित्तु धनुरालम्ब्य तिष्ठति
।
किंचित् खड्गं विनिष्कृप्य भुजेनोद्यम्य तिष्ठति ॥११॥
पतितानि न जानन्ति शिरांसि पुरुषर्षभाः
।
अमृष्यमाणाः संग्रामे कौन्तेयं जयगृद्धिनः ॥१२॥
हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च भेदिनी
।
बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत ॥१३॥
अयं पार्थः कुतः पार्थ एष पार्थ इति प्रभो
।
तव सैन्येषु योधानां पार्थभूतमिवाभवत् ॥१४॥
अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे
।
पार्थभूतममन्यन्त जगत् कालेन मोहिताः ॥१५॥
निष्टनन्तः सरुधिरा विसंज्ञा गाढवेदनाः
।
शयाना बहवो वीराः कीर्तयन्तः स्वबांधवान् ॥१६॥
सभिंदिपालाः सप्रासाः सशक्त्यृष्टिपरश्वधाः
।
सनिर्व्यूहाः सनिस्त्रिंशाः सशरासनतोमराः ॥२७॥
सबाणवर्माभरणाः सगदाः साङ्गदा रणे
।
महाभुजगसंकाशा बाहवः परिघोपमाः ॥१८॥
उद्वेषन्ति विचेष्टन्ति संचेष्टन्ति च सर्वशः
।
वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः ॥१९॥
यो यः स्म समरे पार्थं प्रतिसंचरते नरः
।
तस्य तस्यान्तको बाणः शरीरमुपसर्पति ॥२०॥
प्रतिसंचरते प्रत्युद्गच्छति ॥२०॥
नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा
।
न कश्चित्तत्र पार्थस्य ददृशेऽन्तरमण्वपि ॥२१॥
यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान्
।
लाघवात् पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः ॥२२॥
यत्तस्य अवहितस्य ॥२२॥
हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च
।
अभिनत् फाल्गुनो बाणौ रथिनं च ससारथिम् ॥२३॥
आवर्तमानमावृत्तं युध्यमानं च पाण्डवः
।
प्रमुखे तिष्ठमानं च न किञ्चिन्न निहन्ति सः ॥२४॥
यथोदयन् वै गगने सूर्यो हन्ति महत्तमः
।
तथाऽर्जुनो गजानीकमवधीत् कङ्कपत्रिभिः ॥२५॥
हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत
।
अन्तकाले यथा भूमिर्व्यवकीर्णा महीधरैः ॥२६॥
यथा मध्यन्दिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा
।
तथा धनञ्जयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः ॥२७॥
तत्तथा तव पुत्रस्य सैन्यं युधि परंतप
।
प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम् ॥२८॥
द्रुतं विद्रुतम् । आविग्नं भीतम् ॥२८॥
मारुतेनेव महता मेघानीकं व्यदीर्यत
।
प्रकाल्यमानं तत् सैन्यं नाशकत् प्रतिवीक्षितुम् ॥२९॥
प्रतोदैश्चापकोटीभिर्हुङ्कारैः साधुवाहितैः
।
कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च ॥३०॥
साधुवाहितैः सुष्ठुव्यापारितैः ॥३०॥
चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः
।
सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः ॥३१॥
पार्ष्ण्यंगुष्ठांकुशैर्नागं चोदयन्तस्तथा परे
।
शरैः संमोहिताश्चान्ये तमेवाभिमुखा ययुः ॥ तव योधा हतोत्साहा विभ्रान्तमनसस्तदा ॥३२॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि अर्जुनयुद्धे एकोननवतितमोऽध्यायः ॥ ८९ ॥
धृतराष्ट्र उवाच।
तस्मिन् प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना
।
के तु तत्र रणे वीराः प्रत्युदीयुर्धनञ्जयम् ॥१॥
तस्मिन्निति ॥१॥
आहोस्विच्छकटव्यूहं प्रविष्टा मेघनिश्चयाः
।
द्रोणमाश्रित्य तिष्ठन्तं प्राकारमकुतोभयम् ॥२॥
सञ्जय उवाच।
तथाऽर्जुनेन संभग्ने तस्मिस्तव बलेऽनघ
।
हतवीरे हतोत्साहे पलायनकृतक्षणे ॥३॥
पलायने कृतः क्षणोऽवसरो येन ॥३॥
पाकशासनिनाऽभीक्ष्णं वध्यमाने शरोत्तमैः
।
न तत्र कश्चित्संग्रामे शशाकार्जुनमीक्षितुम् ॥४॥
ततस्तव सुतो राजन् दृष्ट्वा सैन्यं तथागतम्
।
दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्यगात् ॥५॥
स काञ्चनविचित्रेण कवचेन समावृतः
।
जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः ॥६॥
नागानीकेन महता ग्रसन्निव महीमिमाम्
।
दुःशासनो महाराज सव्यसाचिनमावृणोत् ॥७॥
ह्रादेन गजघण्टानां शंखानां निनदेन च
।
ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनामा ॥८॥
भूर्दिशश्चान्तरिक्षं च शब्देनासीत् समावृतम्
।
स मुहूर्तं प्रतिभयो दारुणः समपद्यत ॥९॥
प्रतिभयो भयङ्करः दारुणः क्रूरः ॥९॥
तान् दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान्
।
व्यालम्बहस्तान् संरब्धान् सपक्षानिव पर्वतान् ॥१०॥
सिंहनादेन महता नरसिंहो धनञ्जयः
।
गजानीकममित्राणामभीतो व्यधमच्छरैः ॥११॥
महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम्
।
किरीटी तद्गजानीकं प्राविशन्मकरो यथा ॥१२॥
काष्ठातीत इवादित्यः प्रतपन् स युगक्षये
।
ददृशे दिक्षु सर्वासु पार्थः परपुरञ्जयः ॥१३॥
काष्ठातीतोऽतिक्रान्तदिङ्नियमः ॥१३॥
खुरशब्देन चाश्वानां नेमिघोषेण तेन च
।
तेन चोत्कृष्टशब्देन ज्यानिनादेन तेन च ॥१४॥
नानावादित्रशब्देन पाञ्चजन्यस्वनेन च
।
देवदत्तस्य घोषेण गाण्डीवनिनदेन च ॥१५॥
मन्दवेगा नरा नागा बभूवुस्ते विचेतसः
।
शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना ॥१६॥
ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः
।
अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः ॥१७॥
आरावं परमं कृत्वा वध्यमानाः किरीटिना
।
निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः ॥१८॥
अपरे दन्तवेष्टेषु कुंभेषु च कटेषु च
।
शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः ॥१९॥
दन्तवेष्टेषु दन्तमूलेषु कटेषु कटिषु ॥१९॥
गजस्कन्धगतानां च पुरुषाणां किरीटिना
।
च्छिद्यन्ते चोत्तमाङ्गानि भल्लैः सन्नतपर्वभिः ॥२०॥
सकुण्डलानां पततां शिरसां धरणीतले
।
पद्मानामिव संघातैः पार्थश्चक्रे निवेदनम् ॥२१॥
निवेशनमुपाहारम् ॥२१॥
यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः
।
भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे ॥२२॥
यन्त्रबद्धा यन्त्रैरालिखिताः ॥२२॥
केचिदेकेन बाणेन सुयुक्तेन सुपत्रिणा
।
द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले ॥२३॥
अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः
।
सारोहा न्यपतन् भूमौ द्रुमवन्त इवाचलाः ॥२४॥
मौर्वीं ध्वजं धनुश्चैव युगमीषां तथैव च
।
रथिनां कुट्टयामास भल्लैः सन्नतपर्वभिः ॥२५॥
न संदधन्न चाकर्षन्न विमुञ्चन्न चोद्वहन्
।
मण्डलेनैव धनुषा नुत्यन् पार्थः स्म दृश्यते ॥२६॥
अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः
।
मुहूर्तान्न्यपतन्नन्ये वारणा वसुधातले ॥२७॥
उत्थितान्यगणेयानि कबन्धानि समन्ततः
।
अदृश्यन्त महाराज तस्मिन् परमसंकुले ॥२८॥
सचापाः सांगुलित्राणाः सखड्गाः साङ्गदा रणे
।
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥२९॥
सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः
।
चकैर्विमथितैरक्षैर्भग्नैश्च बहुधा युगैः ॥३०॥
चर्मचापधरैश्चैव व्यवकीर्णैस्ततस्ततः
।
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ॥३१॥
निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः
।
अदृश्यत मही तत्र दारुणप्रतिदर्शना ॥३२॥
एवं दुःशासनबलं वध्यमानं किरीटिना
।
संप्राद्रवन्महाराज व्यथितं सहनायकम् ॥३३॥
ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः
।
द्रोणं त्रातारमाकांक्षन् शकटव्यूहमभ्यगात् ॥३४॥
इति श्रीमहामारते द्रोणपर्वणि जयद्रथवधपर्वणि दुःशासनसैन्यपराभवे नवतितमोऽध्यायः ॥ ९० ॥
सञ्जय उवाच।
दुःशासनबलं हत्वा सव्यसाची महारथः
।
सिन्धुराजं परीप्सन् वै द्रोणानीकमुपाद्रवत् ॥१॥
दुःशासनेति ॥१॥
स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम्
।
कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत् ॥२॥
शिवेन ध्याहि मां ब्रह्मन् स्वस्ति चैव वदस्व मे
।
भवत्प्रसादादिच्छामि प्रवेष्टुं दुर्भिदां चमूम् ॥३॥
भवान् पितृसमो मह्यं धर्मराजसमोऽपि च
।
तथा कृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते ॥४॥
अश्वत्थामा यथा तात रक्षणीयस्त्वयाऽनघ
।
तथाहमपि ते रक्ष्यः सदैव द्विजसत्तम ॥५॥
तव प्रसादादिच्छेयं सिन्धुराजानमाहवे
।
निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे प्रभो ॥६॥
सञ्जय उवाच।
एवमुक्तस्तदाचार्यः प्रत्युवाच स्मयन्निव
।
मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः ॥७॥
एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत्
।
सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम् ॥८॥
ततोऽर्जुनः शरव्रातान् द्रोणस्यावार्य सायकैः
।
द्रोणमभ्यद्रवद्बाणैर्घोररूपैर्महत्तरैः ॥९॥
विव्याध चरणे द्रोणमनुमान्य विशाम्पते
।
क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः ॥१०॥
तस्येषूनिषुभिश्छित्वा द्रोणो विव्याध तावुभौ
।
वियग्निज्वलितप्रख्यैरिषुभिः कृष्णपाण्डवौ ॥११॥
इयेष पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम्
।
तस्य चिन्तयतस्त्वेवं फाल्गुनस्य महात्मनः ॥१२॥
द्रोणः शरैरसम्भ्रान्तो ज्यां चिच्छेदाशु वीर्यवान्
।
विव्याध च हयानस्य ध्वजं सारथिमेव च ॥१३॥
अर्जुनं च शरैर्वीरः स्मयमानोऽभ्यवाकिरत्
।
एतस्मिन्नन्तरे पार्थः सज्यं कृत्वा महद्धनुः ॥१४॥
विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरः
।
मुमोच षट्शतान् बाणान् गृहीत्वैकमिव द्रुतम् ॥१५॥
पुनः सप्तशतानन्यान् सहस्रं चानिवर्तिनः
।
चिक्षेपायुतशश्चान्यांस्ते घ्नन् द्रोणस्य तां चमूम् ॥१६॥
तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना
।
मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः ॥१७॥
विसूताश्वध्वजाः पेतुः सञ्छिन्नायुधजीविताः
।
रथिनो रथमुख्येभ्यः सहसा शरपीडिताः ॥१८॥
चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः
।
तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम् ॥१९॥
गिर्यग्राम्बुदवेश्मनां वज्रानिलहुताशनैः चूर्णिताक्षिप्तदग्धानाम् इति यथासंख्यनान्वयः ॥१९॥
पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः
।
हंसा हिमवतः पृष्ठे वारिधिप्रहता इव ॥२०॥
रथाश्वद्विपपत्त्योधाः सलिलौघा इवाद्भुताः
।
युगान्तादित्यरश्म्याभैः पाण्डवास्त्रशरैर्हताः ॥२१॥
तं पाण्डवादित्यशरांशुजालं कुरुप्रवीरान् युधि निष्टपन्तम्
।
स द्रोणमेघः शरवृष्टिवेगैः प्राच्छादयन्मेघ इवार्करश्मीन् ॥२२॥
अथात्यर्थं विसृष्टेन द्विषतामसुभोजिना
।
आजघ्ने वक्षसि द्रोणो नाराचेन धनञ्जयम् ॥२३॥
स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः
।
धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः ॥२४॥
द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत्
।
अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः ॥२५॥
विशेषयिष्यन् शिष्यं च द्रोणो राजन् पराक्रमी
।
अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः ॥२६॥
प्रसक्तान् पततोऽद्राक्ष्म भारद्वाजस्य सायकान्
।
मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम् ॥२७॥
तेऽभ्ययुः समरे राजन् वासुदेवधनञ्जयौ
।
द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः ॥२८॥
तद्दृष्ट्वा तादृशं युद्धं द्रोणपाण्डवयोस्तदा
।
वासुदेवो महाबुद्धिः कार्यवत्तामचिन्तयत् ॥२९॥
कार्यवत्तां कृत्यबाहुल्यम् ॥२९॥
ततोऽब्रवीद्वासुदेवो धनञ्जयमिदं वचः
।
पार्थ पार्थ महाबाहो न नः कालात्ययो भवेत् ॥३०॥
द्रोणमुत्सृज्य गच्छामः कृत्यमेतन्महत्तरम्
।
पार्थश्चाप्यब्रवीत् कृष्णं यथेष्टमिति केशवम् ॥३१॥
ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजम्
।
परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान् ॥३२॥
ततोऽब्रवीत् स्वयं द्रोणः क्वेदं पाण्डव गम्यते
।
ननु नाम रणे शत्रुमजित्वा न निवर्तसे ॥३३॥
अर्जुन उवाच।
गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते
।
न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजयेत् ॥३४॥
सञ्जय उवाच।
एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः
।
त्वरायुक्तो महाबाहुस्त्वत्सैन्यं समुपाद्रवत् ॥३५॥
तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ
।
अन्वयातां महात्मानौ विशन्तं तावकं बलम् ॥३६॥
ततो जयो महाराज कृतवर्मा च सात्वतः
।
काम्बोजश्च श्रुतायुश्च धनञ्जयमवारयन् ॥३७॥
तेषां दश सहस्राणि रथानामनुयायिनाम्
।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥३८॥
मावेल्लका ललित्थाश्च केकया मद्रकास्तथा
।
नारायणाश्च गोपालाः काम्बोजानां च ये गणाः ॥३९॥
कर्णेन विजिताः पूर्वं सङ्ग्रामे शूरसंमताः
।
भारद्वाजं पुरस्कृत्य हृष्टात्मानोऽर्जुनं प्रति ॥४०॥
पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम्
।
त्यजन्तं तुमुले प्राणान् सन्नद्धं चित्रयोधिनम् ॥४१॥
गाहमानमनीकानि मातङ्गमिव यूथपम्
।
महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन् ॥४२॥
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्
।
अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च ॥४३॥
जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम्
।
न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितम् ॥४४॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि द्रोणातिक्रमे एकनवतितमोऽध्यायः ॥ ९१ ॥
सञ्जय उवाच।
सन्निरुद्धस्तु तैः पार्थो महाबलपराक्रमः
।
द्रुतं समनुयातश्च द्रोणेन रथिनां वरः ॥१॥
सन्निरुद्ध इति ॥१॥
किरन्निषुगणांस्तीक्ष्णान् स रश्मीनिव भास्करः
।
तापयामास तत् सैन्यं देहं व्याधिगणो यथा ॥२॥
अश्वो विद्धो रथश्छिन्नः सारोहः पातितो गजः
।
छत्राणि चापविद्धानि रथाश्चक्रैर्विना कुताः ॥३॥
विद्रुतानि च सैन्यानि शरार्तानि समन्ततः
।
इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन ॥४॥
तेषां संयच्छतां सङ्ख्ये परस्परमजिह्मगैः
।
अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् ॥५॥
तेषां संयच्छतां विधारयताम् ॥५॥
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसङ्गरः
।
अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः ॥६॥
तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः
।
अन्तेवासिनमाचार्यो महेष्वासं समार्पयत् ॥७॥
तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः
।
अभ्यधावदिषूनस्यन्निषुवेगविघातकान् ॥८॥
तस्याशुक्षिप्तान् भल्लाह्नि भल्लैः सन्नतपर्वभिः
।
प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् ॥९॥
तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि
।
यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः ॥१०॥
आचार्यकं शिक्षाम् ॥१०॥
क्षरन्निव महामेघो वारिधाराः सहस्रशः
।
द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः ॥११॥
अर्जुनः शरवर्षं तद्ब्रह्मास्त्रेणैव मारिष
।
प्रतिजग्राह तेजस्वी बाणैर्बाणान्निशातयन् ॥१२॥
द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत्
।
वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः ॥१३॥
पार्थस्तु प्रहसन् धीमानाचार्यं सशरौघिणम्
।
विसृजन्तं शितान् बाणानवारयत तं युधि ॥१४॥
अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ
।
आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् ॥१५॥
वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान्
।
किरीटमाली कौन्तेयो भोजानीकं व्यशातयत् ॥१६॥
सोन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम्
।
अभ्ययाद्वर्जयन् द्रोणं मैनाकमिव पर्वतम् ॥१७॥
ततो भोजो नरव्याघ्रो दुर्धर्षं कुरुसत्तमम्
।
अविध्यत् तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः ॥१८॥
तमर्जुनः शतेनाजौ राजन् विव्याध पत्रिणां
।
पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम् ॥१९॥
भोजस्तु प्रहसन् पार्थं वासुदेवं च माधवम्
।
एकैकं पञ्चविंशत्या सायकानां समार्पयत् ॥२०॥
तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः
।
शरैरग्निशिखाकारैः क्रुद्धाशीविषसन्निभैः ॥२१॥
अथान्यद्धनुरादाय कृतवर्मा महारथः
।
पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत ॥२२॥
पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः
।
तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे ॥२३॥
दृष्ट्वा विषक्तं कौन्तेयं कृतवर्मरथं प्रति
।
चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् ॥२४॥
ततः कृष्णोऽब्रवीत् पार्थं कृतवर्मणि मा दयाम्
।
कुरु सम्बन्धकं हित्वा प्रमथ्यैनं विशातय ॥२५॥
ततः स कृतवर्माणं मोहयित्वाऽर्जुनः शरैः
।
अभ्यगाज्जवनैरश्वैः काम्बोजानामनीकिनीम् ॥२६॥
अमर्षितस्तु हार्दिक्यः प्रविष्टे श्वेतवाहने
।
विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः ॥२७॥
चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ
।
पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः ॥२८॥
रथेषुभिः अदूरस्थायिभिर्बाणैः ॥२८॥
तावविध्यत्ततो भोजः कृतवर्मा शितैः शरैः
।
त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम् ॥२९॥
तावप्येनं विविधतुर्दशभिर्दशभिः शरैः
।
त्रिभिरेव युधामन्युरुत्तमौजास्त्रिभिस्तथा ॥३०॥
सञ्चिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च
।
अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्छितः ॥३१॥
कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत्
।
तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः ॥३२॥
तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम्
।
न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा ॥३३॥
धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ
।
अनीकान्यर्दयन् युद्धे त्वरितः श्वेतवाहनः ॥३४॥
नावधीत् कृतवर्माणं प्राप्तमप्यरिषूदनः
।
तं दृष्ट्वा तु तथा यान्तं शूरो राजा श्रुतायुधः ॥३५॥
अभ्यद्रवत्सुसङ्क्रुद्धो विधुन्वानो महद्धनुः
।
स पार्थं त्रिभिरानर्छत् सप्तत्या च जनार्दनम् ॥३६॥
क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत्
।
ततोऽर्जुनो नवत्या तु शराणां नतपर्वणाम् ॥३७॥
आजघान भृशं क्रुद्धस्तोत्रैरिव महाद्विपम्
।
स तन्न ममृषे राजन् पाण्डवेयस्य विक्रमम् ॥३८॥
अथैनं सप्तसप्तत्या नाराचानां समार्पयत्
।
तस्यार्जुनो धनुश्छित्वा शरावापं निकृत्य च ॥३९॥
आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः
।
अथान्यद्धनुरादाय स राजा क्रोधमूर्च्छितः ॥४०॥
वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत्
।
ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिन्दमः ॥४१॥
शरैरनेकसाहस्रैः पीडयामास भारत
।
अश्वांश्चास्यावधीस्तूर्णं सारथिं च महारथः ॥४२॥
विव्याध चैनं सप्तत्या नाराचानां महाबलः
।
हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः ॥४३॥
अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान्
।
वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः ॥४४॥
पर्णाशा जननी यस्य शीततोया महानदी
।
तस्य माताऽब्रवीद्राजन् वरुणं पुत्रकारणात् ॥४५॥
अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम
।
वरुणस्त्वब्रवीत् प्रीतो ददाम्यस्मै वरं हितम् ॥४६॥
दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति
।
नास्ति चाप्यमरत्वं वै मनुष्यस्य कथञ्चन ॥४७॥
सर्वेणावश्यमर्तव्यं जातेन सरितां वरे
।
दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा ॥४८॥
अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः
।
इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम् ॥४९॥
यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः
।
उवाच चैनं भगवान् पुनरेव जलेश्वरः ॥५०॥
अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति
।
हन्यादेषा प्रतीपं हि प्रयोक्तारमपि प्रभो ॥५१॥
न चाकरोत् स तद्वाक्यं प्राप्ते काले श्रुतायुधः
।
स तया वीरघातिन्या जनार्दनमताडयत् ॥५२॥
प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान्
।
नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः ॥५३॥
प्रत्युद्यान्ती तमेवैषा कृत्येव दुरधिष्ठिता
।
जघान चास्थितं वीरं श्रुतायुधममर्षणम् ॥५४॥
कृत्या अभिचारदेवता ॥५४॥
हत्वा श्रुतायुधं वीरं धरणीमन्वपद्यत
।
गदां निवर्तितां दृष्ट्वा निहतं च श्रुतायुधम् ॥५५॥
हाहाकारो महांस्तत्र सैन्यानां समजायत
।
स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिन्दमम् ॥५६॥
अयुध्यमानाय ततः केशवाय नराधिप
।
क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा ॥५७॥
यथोक्तं वरुणेनाजौ तथा स निधनं गतः
।
व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् ॥५८॥
पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः
।
स भग्न इव वातेन बहुशाखो वनस्पतिः॥५९॥
ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः
।
प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिन्दमम् ॥६०॥
ततः काम्बोजराजस्य पुत्रः शूरः सुदक्षिणः
।
अभ्ययाज्जवनैरश्वैः फाल्गुनं शत्रुसूदनम् ॥६१॥
तस्य पार्थः शरान् सप्त प्रेषयामास भारत
।
ते तं शूरं विनिर्भिद्य प्राविशन् धरणीतलम् ॥६२॥
सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे
।
अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः ॥६३॥
वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः
।
तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष ॥६४॥
भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः
।
स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत् ॥६५॥
सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः
।
स घण्टां प्राहिणोद्धोरां क्रुद्धो गाण्डीवधन्वने ॥६६॥
सा ज्वलन्ती महोल्केव तमासाद्य महारथम्
।
सविस्फुलिङ्गा निर्भिद्य निपपात महीतले ॥६७॥
शक्त्या त्वभिहतो गाढं मूर्च्छयाऽभिपरिप्लुतः
।
समाश्वास्य महातेजाः सृक्किणी परिलेलिहन् ॥६८॥
तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः
।
साश्वध्वजधनुःसूतां विव्याधाचिन्त्यविक्रमः ॥६९॥
रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः
।
सुदक्षिणं तं काम्बोजं मोघसङ्कल्पविक्रमम् ॥७०॥
बिभेद हृदि बाणेन पृथुधारेण पाण्डवः
।
स भिन्नवर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः ॥७१॥
पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः
।
गिरेः शिखरजः श्रीमान् सुशाखः सुप्रतिष्ठितः ॥७२॥
ध्वजः शक्रध्वाजः ॥७२॥
निर्भग्न इव वातेन कर्णिकारो हिमात्यये
।
शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः ॥७३॥
महार्हाभरणोपेतः सानुमानिव पर्वतः
।
सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः ॥७४॥
पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः
।
धारयन्नग्निसङ्काशां शिरसा काञ्चनीं स्रजम् ॥७५॥
अशोभत महाबाहुर्व्यसुर्भूमौ निपातितः
।
ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते
।
हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम् ॥७६॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि श्रुतायुधसुदक्षिणवधे द्विनवतितमोऽध्यायः ॥ ९२ ॥
सञ्जय उवाच।
हते सुदक्षिणे राजन् वीरे चैव श्रुतायुधे
।
जवेनाभ्यद्रवन् पार्थं कुपिताः सैनिकास्तव ॥१॥
हते इति ॥१॥
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः
।
अभ्यवर्षंस्ततो राजन् शरवर्षैर्धनञ्जयम् ॥२॥
तेषां षष्टिशतानन्यान् प्रामथ्नात् पाण्डवः शरैः
।
ते स्म भीताः पलायन्ते व्याघ्रात् क्षुद्रमृगा इव ॥३॥
ते निवृत्ताः पुनः पार्थं सर्वतः पर्यवारयन्
।
रणे सपत्नान्निघ्नन्तं जिगीषन्तं परान् युधि ॥४॥
तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः
।
शिरांसि पातयामास बाहूंश्चापि धनञ्जयः ॥५॥
शिरोभिः पातितैस्तत्र भूमिरासीन्निरन्तरा
।
अभ्रच्छायेव चैवासीत् ध्वांक्षगृध्रबलैर्युधि ॥६॥
तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ
।
श्रुतायुश्चाच्युतायुश्च धनञ्जयमयुध्यताम् ॥७॥
बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ
।
तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् ॥८॥
त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः
।
अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ ॥९॥
तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम्
।
पूरयामासतुः क्रुद्धौ तटागं जलदौ यथा ॥१०॥
श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनञ्जयम्
।
आजघान रथश्रेष्ठः पीतेन निशितेन च ॥११॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः
।
जगाम परमं मोहं मोहयन् केशवं रणे ॥१२॥
एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः
।
शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम् ॥१३॥
क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः
।
पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः ॥१४॥
ततः सर्वस्य सैन्यस्य तावकस्य विशाम्पते
।
सिंहनादो महानासीद्धतं मत्वा धनञ्जयम् ॥१५॥
कृष्णश्च भृशसन्तप्तो दृष्टा पार्थं विचेतनम्
।
आश्वासयत्सु हृद्याभिर्वाग्भिस्तत्र धनञ्जयम् ॥१६॥
ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनञ्जयम्
।
वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः ॥१७॥
स चक्रकूबररथं साश्वध्वजपताकिनम्
।
अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत् ॥१८॥
प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत
।
प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा ॥१९॥
सञ्छन्नं शरजालेन रथं दृष्ट्वा सकेशवम्
।
शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ ॥२०॥
प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः
।
तस्मादासन् सहस्राणि शराणां नतपर्वणाम् ॥२१॥
ते जघ्नुस्तौ महेष्वासौ ताभ्यां मुक्तांश्च सायकान्
।
विचेरुराकाशगताः पार्थबाणविदारिताः ॥२२॥
विचेरुरित्यत्र ताभ्यां युक्तांश्च सायकानिति प्रथमान्ततयाऽनुपठ्यते ॥२२॥
प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः
।
प्रतस्थे तत्र तत्रैव योधयन् वै महारथान् ॥२३॥
तौ च फाल्गुनबाणौघैर्विबाहुशिरसौ कृतौ
।
वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ ॥२४॥
श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः
।
लोकविस्मापनमभूत्समुद्रस्येव शोषणम् ॥२५॥
तयोः पदानुगान् हत्वा पुनः पञ्चाशतं रथान्
।
प्रत्यगाद्भारतीं सेनां निघ्नन् पार्थो वरान् वरान् ॥२६॥
श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम्
।
नियतायुश्च सङ्क्रुद्धो दीर्घायुश्चैव भारत ॥२७॥
पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः
।
किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ ॥२८॥
तावर्जुनो मुहूर्तेन शरैः सन्नतपर्वभिः
।
प्रैषयत् परमक्रुद्धो यमस्य सदनं प्रति ॥२९॥
लोडयन्तमनीकानि द्विपं पद्मसरो यथा
।
नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुङ्गवाः ॥३०॥
अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन्
।
क्रुद्धाः सहस्रशो राजन् शिक्षिता हस्तिसादिनः ॥३१॥
दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः
।
प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः ॥३२॥
तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः
।
निचकर्त शिरांस्युग्रो बाहूनपि सुभूषणान् ॥३३॥
तैः शिरोभिर्मही कीर्णां बाहुभिश्च सहाङ्गदैः
।
बभौ कनकपाषाणा भुजगैरिव संवृता ॥३४॥
बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च
।
पतमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः ॥३५॥
शरैः सहस्रशो विद्धा द्विपाः प्रसृतशोणिताः
।
अदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव ॥३६॥
निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः
।
गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः ॥३७॥
नानावेषधरा राजन् नानाशस्त्रौघसंवृताः
।
रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः ॥३८॥
शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः
।
सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः ॥३९॥
चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः
।
भृशं त्रस्ताश्च बहवः स्वानेव ममृदुर्गजाः ॥४०॥
सान्तरायुधिनश्चैव द्विपांस्तीक्ष्णविषोपमाः
।
विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः ॥४१॥
यवनाः पारदाश्चैव शकाश्च सह बाह्लिकैः
।
काकवर्णा दुराचाराः स्त्रीलोलाः कलहप्रियाः ॥४२॥
द्राविडास्तत्र युध्यन्ते मत्तमातङ्गविक्रमाः
।
गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः ॥४३॥
गोयोनिप्रभवा नन्दिन्यां जाताः ॥४३॥
दार्वातिसारा दरदाः पुण्ड्राश्चैव सहस्रशः
।
ते न शक्याः स्म सङ्ख्यातुं व्राताः शतसहस्रशः ॥४४॥
अभ्यवर्षन्त ते सर्वे पाण्डवं निशितैः शरैः
।
अवाकिरंश्च ते म्लेच्छा नानायुद्धविशारदाः ॥४५॥
तेषामपि ससर्जाशु शरवृष्टिं धनञ्जयः
।
सृष्टिस्तथाविधाह्यासीच्छलभानामिवायतिः ॥४६॥
सृष्टिः संसृष्टिः ॥४६॥
अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनञ्जयः
।
मुण्डार्धमुण्डाञ्जटिलानशुचीञ्जटिलाननान् ॥४७॥
जटिलाननान् जटिलानि रूढश्मश्रूण्याननानि येषाम् ॥४७॥
म्लेच्छानशातयत्सर्वान् समेतानस्त्रतेजसा
।
शरैश्च शतशो विद्धास्ते सङ्घा गिरिचारिणः
।
प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः ॥४८॥
गजाश्वसादिम्लेच्छानां पतितानां शितै शरैः
।
बकाः कङ्का वृका भूमावपिबन् रुधिरं मुदा
।
पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसङ्क्रमाम् ॥४९॥
प्रच्छन्नेन प्रच्छादनेन कृतो रचितः संक्रमो यस्याम् ॥४९॥
शरवर्षप्लवां घोरां केशशैवलशाद्वलाम्
।
प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम् ॥५०॥
छिन्नाङ्गुलीक्षुद्रमत्स्यां युगान्ते कालसन्निभाम्
।
प्राकरोद्गजसम्बाधां नदीमुत्तरशोणिताम् ॥५१॥
उत्तरशोणितां शोणितप्रधानाम् ॥५१॥
देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम्
।
यथास्थलं च निम्नं च न स्याद्वर्षति वासवे ॥५२॥
तथासीत् पृथिवी सर्वां शोणितेन परिप्लुता
।
षट्सहस्त्राह्नयान्वीरान् पुनर्दशशतान् वरान् ॥५३॥
हयान् अश्वारोहान् ॥५३॥
प्राहिणोन्मृत्युलोकाय क्षत्रियान् क्षत्रियर्षभः
।
शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः ॥५४॥
शेरते भूमिमासाद्य शैला वज्रहता इव
।
सवाजिरथमातङ्गान्निघ्नन् व्यचरदर्जुनः ॥५५॥
प्रभिन्न इव मातङ्गो मृद्नन्नलवनं यथा
।
भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम् ॥५६॥
निर्दहेदनलोऽरण्यं यथा वायुसमीरितः
।
सेनारण्यं तव तथा कृष्णानिलसमीरितः ॥५७॥
शरार्चिरदहत् क्रुद्धः पाण्डवाग्निर्धनञ्जयः
।
शून्यान् कुर्वन् रथोपस्थान् मानवैः संस्तरन् महीम् ॥५८॥
प्रानृत्यदिव सम्बाधे चापहस्तो धनञ्जयः
।
वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम् ॥५९॥
प्राविशद्भारतीं सेनां सङ्क्रुद्धो वै धनञ्जयः
।
तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत् ॥६०॥
तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः
।
न्यपातयद्धयान् शीघ्रं यतमानस्य मारिष ॥६१॥
धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे
।
अम्बष्ठस्तु गदां गृह्य कोपपर्याकुलेक्षणः ॥६२॥
आससाद रणे पार्थं केशवं च महारथम्
।
ततः सम्प्रहरन् वीरो गदामुद्यम्य भारत॥६३॥
रथमावार्य गदया केशवं समताडयत्
।
गदया ताडितं दृष्ट्वा केशवं परवीरहा ॥६४॥
अर्जुनोऽथ भृशं क्रुद्धः सोम्बष्ठं प्रति भारत
।
ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम् ॥६५॥
छादयामास समरे मेघः सूर्यमिवोदितम्
।
अथापरैः शरैश्चापि गदां तस्य महात्मनः ॥६६॥
अचूर्णयत् तदा पार्थस्तदद्भुतमिवाभवत्
।
अथ तां पतितां दृष्ट्वा गृह्यान्यां च महागदाम् ॥६७॥
अर्जुनं वासुदेवं च पुनः पुनरताडयत्
।
तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ ॥६८॥
चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा
।
स पपात हतो राजन् वसुधामनुनादयन् ॥३९॥
इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः
।
रथानीकावगाढश्च वारणाश्वशतैर्वृतः
।
अदृश्यत तदा पार्थो घनैः सूर्य इवावृतः ॥५७॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि अम्बष्ठवधे त्रिनवतितमोऽध्यायः ॥ ९३ ॥
सञ्जय उवाच।
ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया
।
द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम् ॥१॥
तत इति ॥१॥
काम्बोजस्य च दायादे हते राजन् सुदक्षिणे
।
श्रुतायुधे च विक्रान्ते निहते सव्यसाचिना ॥२॥
विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः
।
प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात् ॥३॥
त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत्
।
गतः स पुरुषव्याघ्रः प्रमथ्यैतां महाचमूम् ॥४॥
अथ बुद्ध्या समीक्षस्व किन्नु कार्यमनन्तरम्
।
अर्जुनस्य विघाताय दारुणेऽस्मिन् जनक्षये ॥५॥
यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः
।
तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः ॥६॥
असौ धनञ्जयाग्निर्हि कोपमारुतचोदितः
।
सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः ॥७॥
अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परन्तप
।
जयद्रथस्य गोप्तारः संशयं परमं गताः ॥८॥
स्थिरा बुद्धिर्नरेन्द्राणामासीद्ब्रह्मविदां वर
।
नातिक्रमिष्यति द्रोणं जातु जीवं धनञ्जयः ॥९॥
योऽसौ पार्थो व्यतिक्रान्तो मिषतस्ते महाद्युते
।
सर्वं ह्यद्यातुरं मन्ये नेदमस्ति बलं मम ॥१०॥
आतुरमनवस्थितम् ॥१०॥
जानामि त्वां महाभाग पाण्डवानां हिते रतम्
।
तथा मुह्यामि च ब्रह्मन् कार्यवत्तां विचिन्तयन् ॥११॥
यथाशक्ति च ते ब्रह्मन् वर्तये वृत्तिमुत्तमाम्
।
प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे ॥१२॥
नावबुध्यसे न स्मरसि ॥१२॥
अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम
।
पाण्डवान् सततं प्रीणास्यस्माकं विप्रिये रतान् ॥१३॥
नेच्छसि नानुरुध्यसे ॥१३॥
अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः
।
न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम् ॥१४॥
नादास्यच्चेद्वरं मह्यं भवान् पाण्डवनिग्रहे
।
नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान् ॥१५॥
मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना
।
आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे ॥१६॥
यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः
।
नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः ॥१७॥
स तथा कुरु शोणाश्व यथा मुच्येत सैन्धवः
।
मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम् ॥१८॥
द्रोण उवाच।
नाभ्यसूयामि ते वाक्यमश्वत्थाम्नाऽसि मे समः
।
सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशाम्पते ॥१९॥
सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः
।
अल्पं च विवरं कृत्वा तूर्णं याति धनञ्जयः ॥२०॥
किं न पश्यसि बाणौघान् क्रोशमात्रे किरीटिनः
।
पश्चाद्रथस्य पतितान् क्षिप्ताञ्शीघ्रं हि गच्छतः ॥२१॥
न चाहं शीघ्रयानेऽद्य समर्थो वयसाऽन्वितः
।
सेनामुखे च पार्थानामेतद्बलमुपस्थितम् ॥२२॥
युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम्
।
एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज ॥२३॥
धनञ्जयेन चोत्सृष्टो वर्तते प्रमुखे नृप
।
तस्माद्व्यूहमुखंहित्वा नाहं योत्स्यामि फाल्गुनम् ॥२४॥
चो यद्यर्थे । यदि धनञ्जयेनोत्सृष्टः प्रमुखे वर्तते तर्हि युधिष्ठिरो मे ग्राह्य इत्यन्वयः ॥२४॥
तुल्याभिजनकर्माणं शत्रुमेकं सहायवान्
।
गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः ॥२५॥
राजा शूरः कृती दक्षो नेतुं परपुरञ्जयः
।
वीरः स्वयं प्रयाह्यत्र यत्र पार्थो धनञ्जयः ॥२६॥
दुर्योधन उवाच।
कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरम्
।
धनञ्जयो मया शक्य आचार्य प्रतिबाधितुम् ॥२७॥
अपि शक्यो रणे जेतुं वज्रहस्तः पुरन्दरः
।
नार्जुनः समरे शक्यो जेतुं परपुरञ्जयः ॥२८॥
येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः
।
अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः ॥२९॥
सुदक्षिणश्च निहतः स च राजा श्रुतायुधः
।
श्रुतायुश्चाच्युतायुश्च म्लेच्छाश्चायुतशो हताः ॥३०॥
तं कथं पाण्डवं युद्धे दहन्तमिव पावकम्
।
प्रतियोत्स्यामि दुर्धर्षं तमहं शस्त्रकोविदम् ॥३१॥
क्षमं च मन्यसे युद्धं मम तेनाद्य संयुगे
।
परवानस्मि भवति प्रेष्यवद्रक्ष मद्यशः ॥३२॥
द्रोण उवाच।
सत्यं वदसि कौरव्य दुराधर्षो धनञ्जयः
।
अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि ॥३३॥
अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः
।
विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः ॥३४॥
एष ते कवचं राजंस्तथा बध्नामि काञ्चनम्
।
यथा न बाणा नास्त्राणि प्रहरिष्यन्ति ते रणे ॥३५॥
ते त्वाम् ॥३५॥
यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः
।
योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयं ॥३६॥
न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे
।
शरानर्पयितुं कश्चित् कवचे तव शक्ष्यति ॥३७॥
स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम्
।
त्वरमाणः स्वयं याहि नत्वाऽसौ विसहिष्यति ॥३८॥
सञ्जय उवाच।
एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम्
।
आबबन्धाद्भुततमं जपन्मन्त्रं यथाविधि ॥३९॥
रणे तस्मिन् सुमहति विजयस्य सुतस्य ते
।
विसिस्मापयिषुर्लोकान् विद्यया ब्रह्मवित्तमः ॥४०॥
द्रोण उवाच।
करोतु स्वस्ति ते ब्रह्म ब्रह्मा चापि द्विजातयः
।
सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत ॥४१॥
ययातिर्नाहुषश्चैव धुन्धुमारो भगीरथः
।
तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु ते सदा ॥४२॥
स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च
।
स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे ॥४३॥
स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा
।
लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ ॥४४॥
असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः
।
वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप ॥४५॥
धाता विधाता लोकेशो दिशश्च सदिगीश्वराः
।
स्वस्ति तेऽद्य प्रयच्छन्तु कार्तिकेयश्च षण्मुखः ॥४६॥
विवस्वान् भगवान् स्वस्ति करोतु तव सर्वशः
।
दिग्गजाश्चैव चत्वारः क्षितिश्च गगनं ग्रहाः ॥४७॥
चत्वार ऐरावतवामनाञ्जनसार्वभौमाः ॥४७॥
अधस्ताद्धरणीं योऽसौ सदा धारयते नृप
।
शेषश्च पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु ॥४८॥
गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः
।
पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः ॥४९॥
हृततेजोबलाः सर्वे तदा सेन्द्रा दिवौकसः
।
ब्रह्माणं शरणं जग्मुर्वृत्राद्भीता महासुरात् ॥५०॥
देवा ऊचुः
।
प्रमर्दितानां वृत्रेण देवानां देवसत्तम
।
गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात् ॥५१॥
अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान्
।
प्राह तथ्यमिदं वाक्यं विषण्णान् सुरसत्तमान् ॥५२॥
रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः
।
त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः ॥५३॥
त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा
।
वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात् ॥५४॥
अनुज्ञां वरम् ॥५४॥
स तस्यैव प्रसादाद्वो हन्यादेव रिपुर्बली
।
नागत्वा शङ्करस्थानं भगवान् दृश्यते हरः ॥५५॥
हन्याद्धन्तुमर्हति ॥५५॥
दृष्ट्वा जेष्यथ वृत्रं तं क्षिप्रं गच्छत मन्दरम्
।
यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः ॥५६॥
पिनाकी सर्वभूतेशो भगनेत्रनिपातनः
।
ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम् ॥५७॥
अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम्
।
सोऽब्रवीत् स्वागतं देवा ब्रूत किं करवाण्यहम् ॥५८॥
अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः
।
एवमुक्तास्तु ते सर्वे प्रत्यूचुस्तं दिवौकसः ॥५९॥
तेजो हृतं नो वृत्रेण गतिर्भव दिवौकसाम्
।
मूर्तीरीक्षस्व नो देव प्रहारैर्जर्जरीकृताः
।
शरणं त्वां प्रपन्नाः स्म गतिर्भव महेश्वर ॥६०॥
शर्व उवाच।
विदितं वो यथा देवाः कृत्येयं सुमहाबला
।
त्वष्टुस्तेजोभवा घोरा दुर्निवार्याऽकृतात्मभिः ॥६१॥
अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम्
।
ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम् ॥६२॥
बधानानेन मन्त्रेण मानसेन सुरेश्वर
।
वधायासुरमुख्यस्य वृत्रस्य सुरघातिनः ॥६३॥
मानसेन मनसोच्चारणीयेन ॥६३॥
द्रोण उवाच।
इत्युक्त्वा वरदः प्रादाद्वर्म तन्मन्त्रमेव च
।
स तेन वर्मणा गुप्तः प्रायाद्वृत्रचमूं प्रति ॥६४॥
नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे
।
न सन्धिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु ॥६५॥
ततो जघान समरे वृत्रं देवपतिः स्वयम्
।
तं च मन्त्रमयं बन्धं वर्म चाङ्गिरसे ददौ ॥६६॥
अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः
।
बृहस्पतिरथोवाच अग्निवेश्याय धीमते ॥६७॥
अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते
।
तवाद्य देहरक्षार्थं मन्त्रेण नृपसत्तम ॥६८॥
सञ्जय उवाच।
एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिम्
।
पुनरेव वचः प्राह शनैराचार्यपुङ्गवः ॥६९॥
ब्रह्मसूत्रेण बध्नामि कवचं तव भारत
।
हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे ॥७०॥
ब्रह्मसूत्रेण ब्रह्मणा सूचितेनोपदेशेन ॥७०॥
यथा च ब्रह्मणा बद्धं सङ्ग्रामे तारकामये
।
शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव ॥७१॥
बद्ध्वा तु कवचं तस्य मन्त्रेण विधिपूर्वकम्
।
प्रेषयामास राजानं युद्धाय महते द्विजः ॥७२॥
स सन्नद्धो महाबाहुराचार्येण महात्मना
।
रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम् ॥७३॥
तथा दन्तिसहस्त्रेण मत्तानां वीर्यशालिनाम्
।
अश्वानां नियुतेनैव तथाऽन्यैश्च महारथैः ॥७४॥
वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति
।
नानावादित्रघोषेण यथा वैरोचनिस्तथा ॥७५॥
ततः शब्दो महानासीत् सैन्यानां तव भारत
।
अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम् ॥७६॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि दुर्योधनकवचबन्धने चतुर्नवतितमोऽध्यायः ॥ ९४ ॥
सञ्जय उवाच।
प्रविष्टयोर्महाराज पार्थवार्ष्णेययो रणे
।
दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे ॥१॥
प्रविष्टयोरिति ॥१॥
जवेनाभ्यद्रवद्द्रोणं महता निःस्वनेन च
।
पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत ॥२॥
तद्युद्धमभवत् तीव्रं तुमुलं लोमहर्षणम्
।
कुरूणां पाण्डवानां च व्यूहस्य पुरतोऽद्भुतम् ॥३॥
राजन् कदाचिन्नास्माभिर्दृष्टं तादृङ्न च श्रुतम्
।
यादृङ्मध्यगते सूर्ये युद्धमासीद्विशाम्पते ॥४॥
धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः
।
द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् ॥५॥
वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम्
।
पार्षतप्रमुखान् पार्थानभ्यवर्षाम सायकैः ॥६॥
महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये
।
सेनाग्रे प्रचकाशेते रुचिरे रथभूषिते ॥७॥
हिमात्यये शिशिरे सेनाग्रे प्रधाने सेने ॥७॥
समेत्य तु महासेने चक्रतुर्वेगमुत्तमम्
।
जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके ॥८॥
नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः
।
गदाविद्युन्महारौद्रः सङ्ग्रामजलदो महान् ॥९॥
भारद्वाजानिलोद्धूतः शरधारासहस्रवान्
।
अभ्यवर्षन्महासैन्यः पाण्डुसेनाग्निमुद्धतम् ॥१०॥
समुद्रमिव घर्मान्ते विशन् घोरो महानिलः
।
व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः ॥११॥
तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन्
।
बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव ॥१२॥
वारयामास तान् द्रोणो जलौघमचलो यथा
।
पाण्डवान् समरे क्रुद्धान् पञ्चालांश्च सकेकयान् ॥१३॥
अथापरे च राजानः परिवृत्य समन्ततः
।
महाबला रणे शूराः पञ्चालानन्ववारयन् ॥१४॥
ततो रणे नरव्याघ्र पार्षतः पाण्डवैः सह
।
सञ्जघानासकृद्द्रोणं बिभित्सुररिवाहिनीम् ॥१५॥
यथैव शरवर्षाणि द्रोणो वर्षति पार्षते
।
तथैव शरवर्षाणि धृष्टद्युम्नोऽप्यवर्षत ॥१६॥
सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः
।
ज्याविद्युच्चापसंह्रादो धृष्टद्युम्नबलाहकः॥१७॥
शरधाराश्मवर्षाणि व्यसृजत् सर्वतो दिशम्
।
निघ्नन् रथवराश्वौघान् प्लावयामास वाहिनीम् ॥१८॥
प्लावयामास विद्रावितवान् ॥१८॥
यं यमार्च्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम्
।
ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः ॥१९॥
अपाकर्षत व्यावर्तितवान् ॥१९॥
तथा तु यतमानस्य द्रोणस्य युधि भारत
।
धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत ॥२०॥
भोजमेकेऽभ्यवर्तन्त जलसन्धं तथाऽपरे
।
पाण्डवैर्हन्यमानाश्च द्रोणमेवापरे ययुः ॥२१॥
सङ्घट्टयति सैन्यानि द्रोणस्तु रथिनां वरः
।
व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः ॥२२॥
संघट्टयति सम्मेलयति ॥२२॥
धार्तराष्ट्रास्तथा भूता वध्यन्ते पाण्डुसृञ्जयैः
।
अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव ॥२३॥
कालः स्म ग्रसते योधान् धृष्टद्युम्नेन मे हितान्
।
सङ्ग्रामे तुमुले तस्मिन्निति संमेनिरे जनाः ॥२४॥
कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः
।
द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी ॥२५॥
अर्करश्मिविमिश्रेषु शस्त्रेषु कवचेषु च
।
चक्षूंषि प्रत्यहन्यन्त सैन्येन रजसा तथा ॥२६॥
त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः
।
अमर्षितस्ततो द्रोणः पञ्चालान् व्यधमच्छरैः ॥२७॥
मृद्नतस्तान्यनीकानि निघ्नतश्चापि सायकैः
।
बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः ॥२८॥
रथं नागं हयं चापि पत्तिनश्च विशाम्पते
।
एकैकेनेषुणा सङ्ख्ये निर्बिभेद महारथः ॥२९॥
पाण्डवानां तु सैन्येषु नास्ति कश्चित् स भारत
।
दधार यो रणे बाणान् द्रोणचापच्युतान् प्रभा ॥३०॥
तत् पच्यमानमर्केण द्रोणसायकतापितम्
।
बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत ॥३१॥
तथैव पार्षतेनापि काल्यमानं बलं तव
।
अभवत् सर्वतो दीप्तं शुष्कं वनमिवाग्निना ॥३२॥
बाध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः
।
त्यक्त्वा प्राणान् परं शक्त्या युध्यन्ते सर्वतोमुखाः ॥३३॥
तावकानां परेषां च युध्यतां भरतर्षभ
।
नासीत् कश्चिन्महाराज योऽत्याक्षीत् संयुगं भयात् ॥३४॥
भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन्
।
विविंशतिश्चित्रसेनो विकर्णश्च महारथः ॥३५॥
विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान्
।
त्रयाणां तव पुत्राणां त्रय एवानुयायिनः ॥३६॥
बाल्हीकराजस्तेजस्वी कुलपुत्रो महारथः
।
सहसेनः सहामात्यो द्रौपदेयानवारयत्॥३७॥
शैब्यो गोवासनो राजा योधैर्दशशतावरैः
।
काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत् ॥३८॥
काश्यस्य काशिराजस्य ॥३८॥
अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम्
।
मद्राणामीश्वरः शल्यो राजा राजानमावृणोत् ॥३९॥
दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः
।
सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि ॥४०॥
स्वकेनाहमनीकेन सन्नद्धः कवचावृतः
।
चतुःशतैर्महेष्वासैश्चेकितानमवारयम् ॥४१॥
शकुनिस्तु सहानीको माद्रीपुत्रमवारयत्
।
गान्धारकैः सप्तशतैश्चापशक्त्यसिपाणिभिः ॥४२॥
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम्
।
प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतायुधौ ॥४३॥
शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम्
।
बाल्हीकः प्रतिसंयत्तः पराक्रान्तमवारयत् ॥४४॥
धृष्टद्युम्नं तु पाञ्चाल्यं क्रूरैः सार्धं प्रभ द्रकैः
।
आवन्त्यः सह सौवीरैः क्रुद्धरूपमवारयत् ॥४५॥
आवन्त्योऽन्यः ॥४५॥
घटोत्कचं तथा शूरं राक्षसं क्रूरकर्मिणम्
।
अलायुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे ॥४६॥
अलम्बुषं राक्षसेन्द्रं कुन्तिभोजो महारथः
।
सैन्येन महता युक्तः क्रुद्धरूपमवारयत् ॥४७॥
सैन्धवः पृष्ठतस्त्वासीत् सर्वसैन्यस्य भारत
।
रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः ॥४८॥
तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ
।
द्रौणिर्दक्षिणतो राजन् सूतपुत्रश्च वामतः ॥४९॥
पृष्ठगोपास्तु तस्यासन् सौमदत्तिपुरोगमाः
।
कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः ॥५०॥
नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः
।
सैन्धवस्य विधायैवं रक्षां युयुधिरे ततः॥५१॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सङ्कुलयुद्धे पञ्चनवतितमोऽध्यायः ॥ ९५ ॥
सञ्जय उवाच।
राजन् सङ्ग्राममाश्चर्यं शृणु कीर्तयतो मम
।
कुरूणां पाण्डवानां च यथा युद्धमवर्तत ॥१॥
राजन्निति ॥१॥
भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम्
।
अयोधयन् रणे पार्था द्रोणानीकं बिभित्सवः
।
रक्षमाणः स्वकं व्यूहं द्रोणोऽपि सह सैनिकैः
।
अयोधयद्रणे पार्थान् प्रार्थमानो महद्यशः ॥३॥
विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः
।
आजघ्नतुः सुसङ्क्रुद्धौ तव पुत्रहितैषिणौ ॥४॥
विराटश्च महाराज तावुभौ समरे स्थितौ
।
पराक्रान्तौ पराक्रम्य योधयामास सानुगौ ॥५॥
तेषां युद्धं समभवद्दारुणं शोणितोदकम्
।
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥६॥
बाल्हीकं रभसं युद्धे याज्ञसेनिर्महाबलः
।
आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः ॥७॥
बाल्हीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः
।
आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः ॥८॥
तद्युद्धमभवद्धोरं शरशक्तिसमाकुलम्
।
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥९॥
ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा
।
अभवत् संवृतं सर्वं न प्राज्ञायत किञ्चन ॥१०॥
शैव्यो गोवासनो युद्धे काश्यपुत्रं महारथम्
।
ससैन्यो योधयामास गजः प्रतिगजं यथा ॥११॥
बाल्हीकराजः सङ्क्रुद्धो द्रौपदेयान्महारथान्
।
मनः पञ्चेन्द्रियाणीव शुशुभे योधयन् रणे ॥१२॥
अयोधयंस्ते सुभृशं तं शरौघैः समन्ततः
।
इन्द्रियार्था यथा देहं शश्वद्देहवतां वर ॥१३॥
वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव
।
आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ॥१४॥
सोऽतिविद्धो बलवता महेष्वासेन धन्विना
।
ईषन्मूर्च्छां जगामाशु सात्यकिः सत्यविक्रमः ॥१५॥
समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम्
।
विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः
।
तावन्योन्यं दृढं विद्धावन्योन्यशरपीडितौ
।
रेजतुः समरे राजन् पुष्पिताविव किंशुकौ ॥१७॥
अलम्बुषस्तु सङ्क्रुद्धः कुन्तिभोजशरार्दितः
।
अशोभत भृशं लक्ष्म्या पुष्पाढ्य इव किंशुकः ॥१८॥
कुन्तिभोजं ततो रक्षौ विद्ध्वा बहुभिरायसैः
।
अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव ॥१९॥
ततस्तौ समरे शूरौ योधयन्तौ परस्परम्
।
ददृशुः सर्वसैन्यानि शक्रजम्भौ यथा पुरा ॥२०॥
शकुनिं रभसं युद्धे कृतवैरं च भारत
।
माद्रीपुत्रौ च संरब्धौ शरैश्चार्दयतां भृशम् ॥२१॥
तुमुलः स महान् राजन् प्रावर्तत जनक्षयः
।
त्वया सञ्जनितोऽत्यर्थं कर्णेन च विवर्धितः ॥२२॥
रक्षितस्तव पुत्रैश्च क्रोधमूलो हुताशनः
।
य इमां पृथिवीं राजन् दग्धुं सर्वां समुद्यतः ॥२३॥
हुताशनः प्रावर्ततेत्यनुषज्यते ॥२३॥
शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः
।
न स्म जानाति कर्तव्यं युद्धे किञ्चित्पराक्रमम् ॥२४॥
विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ
।
ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् ॥२५॥
स वध्यमानो बहुभिः शरैः सन्नतपर्वभिः
।
सम्प्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः ॥२६॥
घटोत्कचस्तथा शूरं राक्षसं तमलायुधम्
।
अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् ॥२७॥
तयोर्युद्धं महाराज चित्ररूपमिवाभवत्
।
यादृशं हि पुरा वृत्तं रामरावणयोर्मृधे ॥२८॥
ततो युधिष्ठिरो राजा मद्रराजानमाहवे
।
विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः ॥२९॥
ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप
।
यथा पूर्वं महद्युद्धं शम्बरामरराजयोः ॥३०॥
विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः
।
अयोधयन् भीमसेनं महत्या सेनया वृताः ॥३१॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि द्वन्द्वयुद्धे षण्णवतितमोऽध्यायः ॥ ९६ ॥
सञ्जय उवाच।
तथा तस्मिन् प्रवृत्ते तु सङ्ग्रामे लोमहर्षणे
।
कौरवेयांस्त्रिधाभूतान् पाण्डवाः समुपाद्रवन् ॥१॥
तथोत ॥१॥
जलसन्धं महाबाहुं भीमसेनोऽभ्यवर्तत
।
युधिष्ठिरः सहानीकः कृतवर्माणमाहवे ॥२॥
किरंस्तु शरवर्षाणि रोचमान इवांशुमान्
।
धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे ॥३॥
ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम्
।
कुरूणां पाण्डवानां च सङ्क्रुद्धानां परस्परम् ॥४॥
संक्षये तु तथाभूते वर्तमाने महाभये
।
द्वन्द्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् ॥५॥
द्रोणः पाञ्चालपुत्रेण बली बलवता सह
।
यदक्षिपत् पृषत्कौघांस्तदद्भुतमिवाभवत् ॥६॥
पुण्डरीकवनानीव विध्वस्तानि समन्ततः
।
चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः ॥७॥
विनिकीर्णानि वीराणामनीकेषु समन्ततः
।
वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च ॥८॥
तपनीयतनुत्राणाः संसिक्ता रुधिरेण च
।
संसक्ता इव दृश्यन्ते मेघसङ्घाः सविद्युतः ॥९॥
कुञ्जराश्वनरानन्ये पातयन्ति स्म पत्रिभिः
।
तालमात्राणि चापानि विकर्षन्तो महारथाः ॥१०॥
कुञ्जराश्वनरानिति काकाक्षिवदुभयत्र यथाविभक्ति संबध्यते ॥१०॥
असिचर्माणि चापानि शिरांसि कवचानि च
।
विप्रकीर्यन्त शूराणां सम्प्रहारे महात्मनाम् ॥११॥
उत्थितान्यगणेयानि कबन्धानि समन्ततः
।
अदृश्यन्त महाराज तस्मिन् परमसङ्कुले ॥१२॥
गृध्राः कङ्का बकाः श्येना वायसा जम्बुकास्तथा
।
बहुशः पिशिताशाश्च तत्रादृश्यन्त मारिष ॥१३॥
भक्षयन्तश्च मांसानि पिबन्तश्चापि शोणितम्
।
विलुम्पन्तश्च केशांश्च मज्जाश्च बहुधा नृप ॥१४॥
आकर्षन्तः शरीराणि शरीरावयवांस्तथा
।
नराश्वगजसङ्घानां शिरांसि च ततस्ततः ॥१५॥
कृतास्त्रा रणदीक्षाभिर्दीक्षिता रणशालिनः
।
रणे जयं प्रार्थयाना भृशं युयुधिरे तदा ॥१६॥
असिमार्गान् बहुविधान् विचेरुः सैनिका रण
।
ऋष्टिभिः शक्तिभिः प्रासैः शूल तोमरपट्टिशैः ॥१७॥
गदाभिः परिघैश्चान्यैरायुधश्च भुजैरपि
।
अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः ॥१८॥
रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः
।
मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः ॥१९॥
क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च वारणाः
।
उच्चुक्रुशुरथान्योन्यं जघ्नुरन्योन्यमेव च ॥२०॥
वर्तमान तथा युद्धे निर्मर्यादे विशाम्पते
।
धृष्टद्युम्नो हयानश्वैर्द्रोणस्य व्यत्यमिश्रयत् ॥२१॥
ते हयाः साध्वशोभन्त मिश्रिता वातरंहसः
।
पारावतसवर्णाश्च रक्तशोणाश्च संयुगे ॥२२॥
पारावतसवर्णास्ते रक्तशोणविमिश्रिताः
।
हयाः शुशुभिरे राजन् मेघा इव सविद्युतः ॥२३॥
धृष्टद्युम्नस्तु संम्प्रेक्ष्य द्रोणमभ्याशमागतम्
।
असिचर्माऽऽदद वीरो धनुरुत्सृज्य भारत ॥२४॥
चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा
।
ईषया समतिक्रम्य द्रोणस्य रथमाविशत् ॥२५॥
अतिष्ठद्युगमध्ये स युगसन्नहनेषु च
।
जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन् ॥२६॥
युगसन्नहनेषु युगबन्धेषु ॥२६॥
खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः
।
न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत् ॥२७॥
यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः
।
तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः ॥२८॥
ततः शरशतेनास्य शतचन्द्रं समाक्षिपत्
।
द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः ॥२९॥
हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान् बली
।
ध्वजं छत्रं च भल्लाभ्यां तथा तौ पार्ष्णिसारथी ॥३०॥
अथास्मै त्वरितो बाणमपरं जीवितान्तकम्
।
आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा ॥३१॥
तं चतुर्दशभिस्तीक्ष्णैर्बाणैश्चिच्छेद सात्यकिः
।
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नं व्यमोचयत् ॥३२॥
सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष
।
द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुङ्गवः ॥३३॥
सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यं च महाहवे
।
शराणां त्वरतो द्रोणः षड्विंशत्या समार्पयत् ॥३४॥
ततो द्रोणं शिनेः पौत्रो ग्रसन्तमपि सृञ्जयान्
।
प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे ॥३५॥
ततः सर्वे रथास्तूर्ण पाञ्चाल्या जयगृद्धिनः
।
सात्वताभिसृते द्रोणे धृष्टद्युम्नमवाक्षिपन् ॥३६॥
अवाक्षिपन् अपनीतवन्तः ॥३६॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि द्रोणधृष्टद्युम्नयुद्धे सप्तनवतितमोऽध्यायः ॥ ९७ ॥
धृतराष्ट्र उवाच।
बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते
।
तेन वृष्णिप्रवीरेण युयुधानेन सञ्जय ॥१॥
बाणे इति ॥१॥
अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः
।
नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि ॥२॥
सञ्जय उवाच।
सम्प्रद्रुतः क्रोधविषो व्यादितास्यशरासनः
।
तीक्ष्णधारेषुदशनः सितनाराचदंष्ट्रवान् ॥३॥
संरम्भामर्षताम्राक्षो महोरग इव श्वसन्
।
नरवीरः प्रभुदितः शोणैरश्वैर्महाजवैः ॥४॥
उत्पतद्भिरिवाकाशे क्रामद्भिरिव पर्वतम्
।
रुक्मपुङ्खाञ्छरानस्यन्युयुधानमुपाद्रवत् ॥५॥
शरपातमहावर्षं रथघोषबलाहकम्
।
कार्मुकाकर्षविक्षेपं नाराचबहुविद्युतम् ॥६॥
कार्मुकाकर्ष एव विक्षेप आसारप्रसाधनं यस्य ॥६॥
शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम्
।
द्रोणमेघमनावार्यं हयमारुतचोदितम् ॥७॥
दृष्ट्वैवाभिपतन्तं तं शूरः परपुरञ्जयः
।
उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः ॥८॥
एनं वै ब्राह्मणं शूर स्वकर्मण्यनवस्थितम्
।
आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयापहम् ॥९॥
शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत्
।
आचार्यं राजपुत्राणां सततं शूरमानिनम् ॥१०॥
ततो रजतसङ्काशा माधवस्य हयोत्तमाः
।
द्रोणस्याभिमुखाः शीघ्रमगच्छन् वातरंहसः ॥११॥
ततस्तौ द्रोणशैनयौ युयुधाते परन्तपौ
।
शरैरनेकसाहस्रैस्ताडयन्तौ परस्परम् ॥१२॥
इषुजालावृतं व्योम चक्रतुः पुरुषर्षभौ
।
पूरयामासतुर्वीरावुभौ दश दिशः शरैः ॥१३॥
मेघाविवातपापाये धाराभिरितरेतरम्
।
न स्म सूर्यस्तदा भाति न ववौ च समीरणः ॥१४॥
इषुजालावृतं घोरमन्धकारं समन्ततः
।
अनाधृष्यमिवान्येषां शूराणामभवत्तदा ॥१५॥
अन्धकारीकृते लोके द्रोणशनययोः शरैः
।
तयोः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा ॥१६॥
नान्तरं शरवृष्टीनां ददृशे नरसिंहयोः
।
इषूणां सन्निपातेन शब्दो धाराभिघातजः ॥१७॥
अन्तरमवच्छेदः ॥१७॥
शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः
।
नाराचैर्व्यतिविद्धानां शराणां रूपमाबभौ ॥१८॥
आशीविषविदष्टानां सर्पाणामिव भारत
।
तयोर्ज्यातलनिर्घोषः शुश्रुवे युद्धशौण्डयोः ॥१९॥
अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव
।
उभयोस्तौ रथौ राजंस्ते चाश्वस्तौ च सारथी ॥२०॥
रुक्मपुङ्खैः शरैश्छिन्नाश्चित्ररूपा बभुस्तदा
।
निर्मलानामजिह्मानां नाराचानां विशाम्पते ॥२१॥
निर्मुक्ताशीविषाभानां सम्पातोऽभूत्सुदारुणः
।
उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ ॥२२॥
उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ
।
स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ ॥२३॥
अन्योन्यमभ्यविध्येतां जीवितान्तकरैः शरैः
।
गर्जितोत्क्रुष्टसन्नादाः शङ्खदुन्दुभिनिःस्वनाः ॥२४॥
उपारमन्महाराज व्याजहार न कश्चन
।
तूष्णीम्भूतान्यनीकानि योधा युद्धादुपारमन् ॥२५॥
ददर्श द्वैरथं ताभ्यां जातकौतूहलो जनः
।
रथिनो हस्तियन्तारा हयारोहाः पदातयः ॥२६॥
अवैक्षन्ताचलैर्नेत्रैः परिवार्य नरर्षभौ
।
हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् ॥२७॥
तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः
।
मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः ॥२८॥
रथवाहिन्यो रथसेनाः ॥२८॥
ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः
।
वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः ॥२९॥
वैजयन्तीविलक्षणाभिः पताकाभिः परिस्तोमैवर्णकम्बलैः अङ्गकम्बलैः सूक्ष्मकम्बलैः ॥२९॥
विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः
।
जातरूपमयीभिश्च राजतीभिश्च मूर्धसु ॥३०॥
गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत
।
सबलाकाः सखद्योताः सैरावतशतह्रदाः ॥३१॥
ऐरावतमिन्द्रधनुः ‘ऐरावतो भ्रमातङ्गैः’ इत्युपक्रम्य ‘नपुंसकं महेन्द्रस्य ऋजुदीर्घशरासने’ इति मेदिनी ॥३१॥
अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः
।
अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः ॥३२॥
उष्णस्य पर्याये अपगमे वागुराः जालानि समूहा इति यावत् ॥३२॥
तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः
।
विमानाग्रगता देवा ब्रह्मसोमपुरोगमाः ॥३३॥
सिद्धचारणसङ्घाश्च विद्याधरमहोरगाः
।
गतप्रत्यागताक्षेपैश्चित्रैरस्त्रविघातिभिः ॥३४॥
प्रत्यागतं निवर्तनम् आक्षेपः प्रहरणम् ॥३४॥
विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः
।
हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ ॥३५॥
अन्योन्यमभिविध्येतां शरैस्तौ द्रोणसात्यकी
।
ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे ॥३६॥
पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युतेः
।
निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः ॥३७॥
सज्यं चकार तदपि चिच्छेदास्य च सात्यकिः
।
ततस्त्वरन् पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत ॥३८॥
सज्यं सज्यं धनुश्चास्य चिच्छेद निशितैः शरैः
।
एवमेकशतं छिन्नं धनुषां दृढधन्विना ॥३९॥
न चान्तरं तयोर्दृष्टं सन्धाने च्छेदनेऽपि च
।
ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् ॥४०॥
युयुधानस्य राजेन्द्र मनसैतदचिन्तयत्
।
एतदस्त्रबलं रामे कार्तवीर्ये धनञ्जये ॥४१॥
भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे
।
तं चास्य मनसा द्रोणः पूजयामास विक्रमम् ॥४२॥
लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः
।
तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः ॥४३॥
न तामालक्षयामासुर्लघुतां शीघ्रचारिणः
।
देवाश्च युयुधानस्य गन्धर्वाश्च विशाम्पते ॥४४॥
आलक्षयामासुर्लक्षितवन्तः ॥४४॥
सिद्धचारणसङ्घाश्च विदुर्द्रोणस्य कर्म तत्
।
ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः ॥४५॥
विदुर्नेत्यनुषज्यते ॥४५॥
अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत
।
तस्यास्त्राण्यस्त्रमायाभिः प्रतिहत्य स सात्यकिः ॥४६॥
जघान निशितैर्बाणैस्तदद्भुतमिवाभवत्
।
तस्यातिमानुषं कर्म दृष्ट्वाऽन्यैरसमं रणे ॥४७॥
युक्तं योगेन योगज्ञास्तावकाः समपूजयन्
।
यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः ॥४८॥
योगेन युक्त्या ॥४८॥
तमाचार्योऽथ सम्भ्रान्तोऽयोधयच्छत्रुतापनः
।
ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः ॥४९॥
वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत्
।
तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः ॥५०॥
दिव्यमस्त्रं महेष्वासो वारुणं समुदैरयत्
।
हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ ॥५१॥
न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि
।
अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते ॥५२॥
न यावदभ्यपद्येतां व्यावर्तदथ भास्करः
।
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः ॥५३॥
न यावदभ्यपद्येतां यावदेवन पराभूते । व्यावर्तन्मध्याह्नतः परावृत्तोऽभूत् ॥५३॥
नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम्
।
धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः ॥५४॥
मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा
।
दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः ॥५५॥
द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम्
।
ततो युद्धमभूद्राजंस्तेषां तव च धन्विनाम् ॥५६॥
रजसा संवृते लोके शरजालसमावृते
।
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन
।
सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत ॥५७॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि द्रोणसात्यकियुद्धे अष्टनवतितमोऽध्यायः ॥ ९८ ॥
सञ्जय उवाच।
विवर्तमाने त्वादित्ये तत्रास्तशिखरं प्रति
।
रजसा कीर्यमाणे च मन्दीभूते दिवाकरे ॥१॥
विवर्तमाने इति ॥१॥
तिष्ठतां युध्यमानानां पुनरावर्ततामपि
।
भज्यतां जयतां चैव जगाम तदहः शनैः ॥२॥
तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु
।
अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः ॥३॥
रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः
।
चकार तत्र पन्थानं ययौ येन जनार्दनः ॥४॥
यत्र यत्र रथो याति पाण्डवस्य महात्मनः
।
तत्र तत्रैव दीर्यन्ते सेनास्तव विशाम्पते ॥५॥
रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान्
।
उत्तमाधममध्यानि मण्डलानि विदर्शयन् ॥६॥
ते तु नामाङ्किताः पीताः कालज्वलनसन्निभाः
।
स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः ॥७॥
स्नायुनद्धाः सूक्ष्मचर्माग्रग्रथिताः ॥७॥
वैणवाश्चायसाश्चोग्रा ग्रसन्तो विविधानरीन्
।
रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे ॥८॥
रथस्थितोऽग्रतः क्रोशं यानस्यत्यर्जुनः शरान्
।
रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् ॥९॥
क्रोशं क्रोशमुद्दिश्य ॥९॥
तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः
।
तदागच्छद्धृषीकेशः कृत्स्नं विस्मापयन् जगत् ॥१०॥
न तथा गच्छति रथस्तपनस्य विशाम्पते
।
नेन्द्रस्य न तु रुद्रस्य नापि वैश्रवणस्य च ॥११॥
नान्यस्य समरे राजन् गतपूर्वस्तथा रथः
।
यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः ॥१२॥
प्रविश्य तु रणे राजन् केशवः परवीरहा
।
सेनामध्ये हयांस्तूर्णं चोदयामास भारत ॥१३॥
ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः
।
कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासासमन्विताः ॥१४॥
क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः
।
मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः ॥१५॥
हतानां वाजिनागानां रथानां च नरैः सह
।
उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः ॥१६॥
एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप
।
सहसेनौ समार्च्छेतां पाण्डवं क्लान्तवाहनम् ॥१७॥
तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम्
।
शराणां च शतैरश्वानविध्येतां मुदान्वितौ ॥१८॥
तावर्जुनो महाराज नवभिर्नतपर्वभिः
।
आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः ॥१९॥
ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम्
।
आच्छादयेतां संरब्धौ सिंहनादं च चक्रतुः ॥२०॥
तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः
।
चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ ॥२१॥
अथान्ये धनुषी राजन् प्रगृह्य समरे तदा
।
पाण्डवं भृशसङ्क्रुद्धावर्दयामासतुः शरैः ॥२२॥
तयोस्तु भृशसङ्क्रुद्धः शराभ्यां पाण्डुनन्दनः
।
धनुषी चिच्छिदे तूर्णं भूय एव धनञ्जयः ॥२३॥
तथान्यैर्विशिखैस्तूर्णं रुक्मपुङ्खैः शिलाशितैः
।
जघानाश्वांस्तथा सूतौ पार्ष्णी च सपदानुगौ ॥२४॥
सूतौ सारथी पार्ष्णी पृष्ठरक्षौ ॥२४॥
ज्येष्ठस्य च शिरः कायात् क्षुरप्रेणान्यकृन्तत
।
स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः ॥२५॥
विन्दं तु निहतं दृष्ट्वा ह्यनुविन्दः प्रतापवान्
।
हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः ॥२६॥
अभ्यवर्तत सङ्ग्रामे भ्रातुर्वधमनुस्मरन्
।
गदया रथिनां श्रेष्ठो नृत्यन्निव महारथः॥२७॥
अनुविन्दस्तु गदया ललाटे मधुसूदनम्
।
स्पृष्ट्वा नाकम्पयत् क्रुद्धो मैनाकमिव पर्वतम् ॥२८॥
तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः
।
निचकर्त स सञ्छिन्नः पपाताद्रिचयो यथा ॥२९॥
अद्रिचयो गिरिशृङ्गम् ॥२९॥
ततस्तौ निहतौ दृष्ट्वा तयो राजन् पदानुगाः
।
अभ्यद्रवन्त सङ्क्रुद्धाः किरन्तः शतशः शरान् ॥३०॥
तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ
।
व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये ॥३१॥
तयोः सेनामतिक्राम्य कृच्छ्रादिव धनञ्जयः
।
विबभौ जलदं हित्वा दिवाकर इवोदितः ॥३२॥
तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन् पुनः
।
अभ्यवर्तन्त पार्थं च समन्ताद्भरतर्षभ ॥३३॥
श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवं
।
सिंहनादेन महता सर्वतः पर्यवारयन् ॥३४॥
तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन् पुरुषर्षभः
।
शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् ॥३५॥
शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः
।
किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते ॥३६॥
ब्रूहि कृष्ण यथा तत्त्वं त्वं हि प्राज्ञतमः सदा
।
भवन्नेत्रा रणे शत्रून् विजेष्यन्तीह पाण्डवाः ॥३७॥
मम त्वनन्तरं कृत्यं यद्वै तत्त्वं निबोध मे
।
हयान् विमुच्य हि सुखं विशल्यान्कुरु माधव ॥३८॥
एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम्
।
ममाप्येतन्मतं पार्थ यदिदं ते प्रभाषितम् ॥३९॥
अर्जुन उवाच।
अहमावारयिष्यामि सर्वसैन्यानि केशव
।
त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम् ॥४०॥
सञ्जय उवाच।
सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनञ्जयः
।
गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः ॥४१॥
तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकांक्षिणः
।
इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनञ्जयम् ॥४२॥
तमेकं रथवंशेन महता पर्यवारयन्
।
विकर्षन्तश्च चापानि विसृजन्तश्च सायकान् ॥४३॥
शस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन्
।
छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् ॥४४॥
अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम्
।
नरसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः ॥४५॥
तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत
।
यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत् ॥४६॥
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः
।
इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत् ॥४७॥
तत्रान्तरिक्षे बाणानां प्रगाढानां विशाम्पते
।
सङ्घर्षेण महार्चिष्मान् पावकः समजायत ॥४८॥
प्रगाढानां व्यवगाढानाम् ॥४८॥
तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः
।
हयैर्नागैश्च सम्भिन्नैर्नदद्भिश्चारिकर्षणैः ॥४९॥
संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे
।
एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत ॥५०॥
शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम्
।
पदातिमत्सकलिलं शङ्खदुन्दुभिनिःस्वनम् ॥५१॥
शरा एवोर्मयो वेगा यस्य । ‘ऊर्मिः स्त्रीपुंसयोर्वीच्यां प्रकाशे वेगभङ्गयोः’ इति मेदिनी ॥५१॥
असङ्ख्येयमपारं च रथोर्मिणमतीव च
।
उष्णीषकमठं छत्रपताकाफेनमालिनम् ॥५२॥
रथा एवोर्मयो भङ्गा यत्र ॥५२॥
रणसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम्
।
वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत् ॥५३॥
वेलाभृतो मर्यादारूपः ॥५३॥
धृतराष्ट्र उवाच।
अर्जुने धरणीं प्राप्ते हयहस्ते च केशवे
।
एतदन्तरमासाद्य कथं पार्थो न घातितः ॥५४॥
सञ्जय उवाच।
सद्यः पार्थिव पार्थेन निरुद्धाः सर्वपार्थिवाः
।
रथस्था धरणीस्थेन वाक्यमच्छान्दसं यथा ॥५५॥
स पार्थः पार्थिवान् सर्वान् भूमिस्थोऽपि रथस्थितान्
।
एको निवारयामास लोभः सर्वगुणानिव ॥५६॥
ततो जनार्दनः सङ्ख्ये प्रिये पुरुषसत्तमम्
।
असम्भ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत् ॥५७॥
उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन
।
परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम् ॥५८॥
अलं पर्याप्तम् ॥५८॥
इदमस्तीत्यसम्भ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम्
।
अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम् ॥५९॥
अभिहत्य खात्वा वाजिपानमश्वपानीयम् ॥५९॥
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्
।
सुविस्तीर्णं प्रसन्नाम्भः प्रफुल्लवरपङ्कजम् ॥६०॥
हंसकारण्डवाकीर्णमित्यादि योग्यतया वर्णनम् ॥६०॥
कूर्ममत्स्यगणाकीर्णमगाधमृषिसेवितम्
।
आगच्छन्नारदमुनिर्दर्शनार्थं कृतं क्षणात् ॥६१॥
शरवंशं शरस्थूणं शराच्छादनमद्भुतम्
।
शरवेश्माकरोत् पार्थस्त्वष्टेवाद्भुतकर्मकृत् ॥६२॥
वंशः शालाधारकाष्ठं स्थूणा मध्यस्तंभः ॥६२॥
ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत्
।
शरवेश्मनि पार्थेन कृते तस्मिन् महात्मना ॥६३॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि विन्दानुविन्दवधे अर्जुनसरोनिर्माणे च एकोनशततमोऽध्यायः ॥ ९९ ॥
सञ्जय उवाच।
सलिले जनिते तस्मिन् कौन्तेयेन महात्मना
।
निस्तारिते द्विषत्सैन्ये कृते च शरवेश्मनि ॥१॥
सलिले इति ॥१॥
वासुदेवो रथात् तूर्णमवतीर्य महाद्युतिः
।
मोचयामास तुरगान् विनुन्नान् कङ्कपत्रिभिः ॥२॥
अदृष्टपूर्वं तद्दृष्ट्वा साधुवादो महानभूत्
।
सिद्धचारणसङ्घानां सैनिकानां च सर्वशः ॥३॥
पदातिनं तु कौन्तेयं युध्यमानं महारथाः
।
नाशक्नुवन् वारयितुं तदद्भुतमिवाभवत् ॥४॥
आपतत्सु रथौघेषु प्रभूतगजवाजिषु
।
नासम्भ्रमत्तदा पार्थस्तदस्य पुरुषानति ॥५॥
पुरुषानति पुरुषेभ्योऽतिशयः । असंभ्रमत् उपसर्गात्पूर्वमार्षोऽट् ॥५॥
व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः
।
न चाव्यथत धर्मात्मा वासविः परवीरहा ॥६॥
स तानि शरजालानि गदाः प्रासांश्चवीर्यवान्
।
आगतानग्रसत् पार्थः सरितः सागरो यथा ॥७॥
अस्त्रवेगेन महता पार्थो बाहुबलेन च
।
सर्वेषां पार्थिवेन्द्राणामग्रसत्तान् शरोत्तमान् ॥८॥
तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः
।
अपूजयन् महाराज कौरवा महदद्भुतम् ॥९॥
किमद्भुततमं लोके भविताऽप्यथवा ह्यभूत्
।
यदश्वान् पार्थगोविन्दौ मोचयामासतू रणे ॥१०॥
भयं विपुलमस्मासु तावधत्तां नरोत्तमौ
।
तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि ॥११॥
विदधतुर्दर्शितवन्तौ ॥११॥
अथ स्मयन् हृषीकेशः स्त्रीमध्य इव भारत
।
अर्जुनेन कृते सङ्ख्ये शरगर्भगृहे तथा ॥१२॥
उपावर्तयदव्यग्रस्तानश्वान् पुष्करेक्षणः
।
मिषतां सर्वसैन्यानां त्वदीयानां विशाम्पते ॥१३॥
उपावर्तयत् परिलोडितवान् ॥१३॥
तेषां श्रमं च ग्लानिं च वमथुं वेपथुं व्रणान्
।
सर्वं व्यपानुदत् कृष्णः कुशलो ह्यश्वकर्मणि ॥१४॥
श्रमं मनःकायखेदं ग्लानिं बलापचयं वमथुं फेनोद्गमम् ॥१४॥
शल्यानुवृत्य पाणिभ्यां परिमृज्य च तान् हयान्
।
उपावर्त्य यथान्यायं पाययामास वारि सः ॥१५॥
स ताँल्लब्धोदकान् स्नातान् जग्धान्नान् विगतक्लमान्
।
योजयामास संहृष्टः पुनरेव रथोत्तमे ॥१६॥
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः
।
समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् ॥१७॥
रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः
।
दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् ॥१८॥
विनिःश्वसन्तस्ते राजन् भग्नदंष्ट्रा इवोरगाः
।
धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन् पृथक् ॥१९॥
तत्सैन्यं सर्वतो दृष्ट्वा लोमहर्षणमद्भुतम्
।
त्वरध्वमिति चाक्रन्दन्नैतदस्तीति चाब्रुवन् ॥२०॥
सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ
।
बालः क्रीडनकेनेव कदर्थीकृत्य नो बलम् ॥२१॥
क्रोशतां यतमानानामसंसक्तौ परन्तपौ
।
दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु ॥२२॥
तौ प्रयातौ पुनर्दृष्ट्वा तदाऽन्ये सैनिकाऽब्रुवन्
।
त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ॥२३॥
रथयुक्तो हि दाशार्हो भिषतां सर्वधन्विनाम्
।
जयद्रथाय यात्येष कदर्थीकृत्य नो रणे ॥२४॥
तत्र केचिन्मिथो राजन् समभाषन्त भूमिपाः
।
अदृष्टपूर्वं सङ्ग्रामे तद्दृष्ट्वा महदद्भुतम् ॥२५॥
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः
।
दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी ॥२६॥
विलयं समनुप्राप्ता तच्च राजा न बुध्यते
।
इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत॥२७॥
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम्
।
तत् करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् ॥२८॥
ततः शीघ्रतरं प्रायात् पाण्डवः सैन्धवं प्रति
।
विवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः ॥२९॥
तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम्
।
नाशक्नुवन् वारयितुं योधाः क्रुद्धमिवान्तकम् ॥३०॥
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः
।
यथा मृगगणान् सिंहः सैन्धवार्थे व्यलोडयत् ॥३१॥
गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत्
।
बलाकाभं तु दाशार्हः पाञ्चजन्यं व्यनादयत् ॥३२॥
कौन्तेयेनाग्रतः सृष्टा न्यपतन् पृष्ठतः शराः
।
तूर्णात् तूर्णतरं ह्यश्वाः प्रावहन् वातरंहसः ॥३३॥
प्रावहन् अत्यक्रामन् ॥३३॥
ततो नृपतयः क्रुद्धाः परिवव्रुर्धनञ्जयम्
।
क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् ॥३४॥
सैन्येषु विप्रयातेषु धिष्ठितं पुरुषर्षभम्
।
दुर्योधनोऽन्वयात्पार्थं त्वरमाणो महाहवे ॥३५॥
धिष्ठितं किञ्चिदस्थितम् ॥३५॥
वातोद्धूतपताकं तं रथं जलदनिःस्वनम्
।
घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ॥३६॥
दिवाकरेऽथ रजसा सर्वतः संवृते भृशम्
।
शरार्ताश्च रणे योधाः शेकुः कृष्णौ न वीक्षितुम् ॥३७॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सैन्यविस्मये शततमोऽध्यायः ॥ १०० ॥
सञ्जय उवाच।
स्रंसन्त इव मज्जानस्तावकानां भयान्नृप
।
तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनञ्जयौ ॥१॥
स्रंसन्त इति ॥१॥
सर्वे तु प्रतिसंरब्धा ह्रीमन्तः सत्त्वचोदिताः
।
स्थिरीभूता महात्मानः प्रत्यगच्छन्धनञ्जयम् ॥२॥
ये गताः पाण्डवं युद्धे रोषामर्षसमन्विताः
।
तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव ॥३॥
अमर्षश्चिरानुबद्धः कोपः ॥३॥
असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः
।
नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम् ॥४॥
तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ
।
ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ ॥५॥
प्रभाकरौ चन्द्रादित्यौ ॥५॥
मत्स्याविव महाजालं विदार्य विगतक्लमौ
।
तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत् ॥६॥
विमुक्तौ शस्त्रसम्बाधाद्द्रोणानीकात् सुदुर्भिदात्
।
अदृश्येतां महात्मानौ कालसूर्याविवोदितौ ॥७॥
अस्त्रसम्बाधनिर्मुक्तौ विमुक्तौ शस्त्रसंकटात्
।
अदृश्येतां महात्मानौ शत्रुसम्बाधकारिणौ ॥८॥
विमुक्तौ ज्वलनस्पर्शां मकरास्याज्झषाविव
।
अक्षोभयेतां सेनां तौ समुद्रं मकराविव ॥९॥
तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः
।
नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम् ॥१०॥
तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती
।
नाशशंसुर्महाराज सिन्धुराजस्य जीवितम् ॥११॥
आशा बलवती राजन् सिन्धुराजस्य जीविते
।
द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो ॥१२॥
तामाशां विफलीकृत्य सन्तीर्णौ तौ परन्तपौ
।
द्रोणानीकं महाराज भोजानीकं च दुस्तरम् ॥१३॥
अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ
।
निराशाः सिन्धुराजस्य जीवितं न शशंसिरे ॥१४॥
मिथश्च समभाषेतामभीतौ भयवर्धनौ
।
जयद्रथवधे वाचस्तास्ताः कृष्णधनञ्जयौ ॥१५॥
असौ मध्ये कृतः षड्भिर्धार्तराष्ट्रैर्महारथैः
।
चक्षुर्विषयसंप्राप्तो न मे मोक्ष्यति सैन्धवः ॥१६॥
यद्यस्य समरे गोप्ता शक्रो देवगणैः सह
।
तथाप्येनं निहंस्याव इति कृष्णावभाषताम् ॥१७॥
इति कृष्णौ महाबाहू मिथः कथयतां तदा
।
सिन्धुराजमवेक्षन्तौ त्वत्पुत्रा बहु चुक्रुशुः ॥१८॥
अतीत्य मरुधन्वानं प्रयान्तौ तृषितौ गजौ
।
पीत्वा वारि समाश्वस्तौ तथैवास्तमरिन्दमौ ॥१९॥
मरुधन्वानं मरुस्थलम् ॥१९॥
व्याघ्रसिंहगजाकीर्णानतिक्रम्य च पर्वतान्
।
वणिजाविव दृश्येतां हीनमृत्यू जरातिगौ ॥२०॥
तथाहि मुखवर्णोऽयमनयोरिति मेनिरे
।
तावका वीक्ष्य मुक्तौ तौ विक्रोशन्ति स्म सर्वशः ॥२१॥
द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात्
।
अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ ॥२२॥
विमुक्तौ सागरप्रख्याद्द्रोणानीकादरिन्दमौ
।
अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा ॥२३॥
अस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितात्
।
रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे ॥२४॥
उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः
।
शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ ॥२५॥
द्रोणग्राहह्रदान्मुक्तौ शक्त्याशीविषसंकटात्
।
अयःशरोग्रमकरात् क्षत्रियप्रवरांभसः ॥२६॥
द्रोण एव ग्राहो यस्मिन् ह्रद इव ह्रदस्तस्मात् द्रोणानीकादित्यर्थः ॥२६॥
ज्याघोषतलनिर्ह्रादाद्गदानिस्त्रिंशविद्युतः
।
द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव ॥२७॥
द्रोणास्त्राण्येव मेघः ॥२७॥
बाहुभ्यामिव सन्तीर्णौ सिन्धुषष्ठाः समुद्रगाः
।
तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः ॥२८॥
सिन्धुः षष्ठो यासां ताश्च शतद्रुविपाशेरावीचन्द्रभागावितस्ताः ॥ एता हि नितान्तदुस्तराः समुद्रगा इति सरितां विशेषणं महानदीत्वद्योतनार्थम् ॥२८॥
इति कृष्णौ महेष्वासौ प्रशस्तौ लोकविश्रुतौ
।
सर्वभूतान्यमन्यन्त द्रोणास्त्रबलवारणात् ॥२९॥
प्रशस्तौ प्रकृष्टतमौ द्रोणास्त्रबलवारणविषयादतिशयनात् ॥२९॥
जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया
।
रुरुं निपाने लिप्सन्तौ व्याघ्राविव व्यतिष्ठताम् ॥३०॥
यथा हि मुखवर्णोऽयमनयोरिति मेनिरे
।
तव योधा महाराज हतमेव जयद्रथम् ॥३१॥
लोहिताक्षौ महाबाहू संयुक्तौ कृष्णपाण्डवौ
।
सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः ॥३२॥
शौरेरभीषुहस्तस्य पार्थस्य च धनुष्मतः
।
तयोरासीत् प्रभा राजन् सूर्यपावकयोरिव ॥३३॥
हर्ष एव तयोरासीद्द्रोणानीकप्रमुक्तयोः
।
समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा ॥३४॥
तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके
।
सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषम् ॥३५॥
तौ दृष्ट्वा तु व्यतिक्रान्तौ हृषीकेशधनञ्जयौ
।
सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव ॥३६॥
द्रोणेनाबद्धकवचो राजा दुर्योधनस्ततः
।
ययावेकरथेनाजौ हयसंस्कारवित् प्रभो ॥३७॥
कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः
।
अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप ॥३८॥
अग्रतः प्रमुखे ॥३८॥
ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत्
।
प्रावाद्यन्त व्यतिक्रान्ते तव पुत्रे धनञ्जयम् ॥३९॥
सिंहनादरवाश्चासन् शंखशब्दविमिश्रिताः
।
दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम् ॥४०॥
ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः
।
ते प्राहृष्यन्त समरे दृष्ट्वा पुत्रं तव प्रभो ॥४१॥
दृष्ट्वा दुर्योधनं कृष्णो व्यतिक्रान्तं सहानुगम्
।
अब्रवीदर्जुनं राजन् प्राप्तकालमिदं वचः ॥४२॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि दुर्योधनागमे एकाधिकशततमोऽध्यायः ॥१०१॥
वासुदेव उवाच।
दुर्योधनमतिक्रान्तमेतं पश्य धनञ्जय
।
अत्यद्भुतमिमं मन्ये नास्त्यस्य सदृशो रथः ॥१॥
दुर्योधनमिति । नास्तीत्यर्जुनोत्तेजनम् ॥१॥
दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः
।
दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः ॥२॥
अत्यन्तसुखसंवृद्धो मानितश्च महारथः
।
कृती च सततं पार्थ नित्यं द्वेष्टि च बान्धवान् ॥३॥
तेन युद्धमहं मन्ये प्राप्तकालं तवानघ
।
अत्र वो द्यूतमायत्तं विजयायेतराय वा ॥४॥
अत्र क्रोधविषं पार्थ विमुञ्च चिरसंभृतम्
।
एष मूलमनर्थानां पाण्डवानां महारथः ॥५॥
सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः
।
कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम् ॥६॥
आक्षेपं शरगोचरम् ॥६॥
दिष्ट्या त्विदानीं सप्राप्त एष ते बाणगोचरम्
।
यथाऽयं जीवितं जह्यात् तथा कुरु धनञ्जय ॥७॥
ऐश्वर्यमदसंमूढो नैष दुःखमुपेयिवान्
।
न च ते संयुगे वीर्यं जानाति पुरुषर्षभ ॥८॥
त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः
।
नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः ॥९॥
स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम्
।
जह्येनं त्वं महाबाहो यथा वृत्रं पुरन्दरः ॥१०॥
एष ह्यनर्थे सततं पराक्रान्तस्तवानघ
।
निकृत्या धर्मराजं च द्यूते वञ्चितवानयम् ॥११॥
बहूनि सुनृशंसानि कृतान्येतेन मानद
।
युष्मासु पापमतिना अपापेष्वेव नित्यदा ॥१२॥
तमनार्यं सदा क्रुद्धं पुरुषं कामरूपिणम्
।
आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन् ॥१३॥
निकृत्या राज्यहरणं वनवासं च पाण्डव
।
परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रमम् ॥१४॥
दिष्ट्यैष तव बाणानां गोचरे परिवर्तते
।
प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः ॥१५॥
कार्यस्य जयद्रथवधरूपस्य ॥१५॥
दिष्ट्या जानाति संग्रामे योद्धव्यं हि त्वया सह
।
दिष्ट्या च सफलाः पार्थ सर्वे कामा ह्यकामिताः ॥१६॥
तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम्
।
यथेन्द्रेण हतः पूर्वं जंभो देवासुरे मृधे ॥१७॥
अस्मिन् हते त्वया सैन्यमनाथं भिद्यतामिदम्
।
वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम् ॥१८॥
सञ्जय उवाच।
तं तथेत्यब्रवीत् पार्थः कृत्यरूपमिदं मम
।
सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः ॥१९॥
कृत्यरूपमत्यन्तकरणीयम् ॥१९॥
येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम्
।
अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे ॥२०॥
अपि तस्य ह्यनर्हायाः परिक्लेशस्य माधव
।
कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे ॥२१॥
पदं प्रतिपदम् ॥२१॥
इत्येवंवादिनौ कृष्णौ हृष्टौ श्वेतान्हयोत्तमान्
।
प्रेषयामासतुः संख्ये प्रेप्सन्तौ तं नराधिपम् ॥२२॥
तयोः समीपं संप्राप्य पुत्रस्ते भरतर्षभ
।
न चकार भयं प्राप्ते भये महति मारिष ॥२३॥
तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन्
।
यदर्जुन हृषीकेशौ प्रत्युद्यातौ न्यवारयत् ॥२४॥
ततः सर्वस्य सैन्यस्य तावकस्य विशांपते
।
महानादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे ॥२५॥
तस्मिन् जनसमुन्नादे प्रवृत्ते भैरवे सति
।
कदर्थीकृत्य ते पुत्रः प्रत्यभित्रमवारयत् ॥२६॥
आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना
।
संरंभमगमद्भूयः स च तस्मिन् परन्तपः ॥२७॥
तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनञ्जयौ
।
अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः ॥२८॥
दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष
।
प्रहसन्नेव पुत्रस्ते योद्धुकामः समाह्वयत् ॥२९॥
ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनञ्जयः
।
व्यक्रोशेतां महानादं दध्मतुश्चांबुजोत्तमौ ॥३०॥
तौ हृष्टरूपौ संप्रेक्ष्य कौरवेयास्तु सर्वशः
।
निराशाः समपद्यन्त पुत्रस्य तव जीविते ॥३१॥
शोकमापुः परे चैव कुरवः सर्व एव ते
।
अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् ॥३२॥
तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ
।
हतो राजा हतो राजेत्यूचिरे च भयार्दिताः ॥३३॥
जनस्य सन्निनादं तु श्रुत्वा दुर्योधनोऽब्रवीत्
।
व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे ॥३४॥
इत्युक्त्वा सैनिकान्सर्वान् जयापेक्षी नराधिपः
।
पार्थमाभाष्य संरंभादिदं वचनमब्रवीत् ॥३५॥
पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं पार्थिवमेव च
।
तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना ॥३६॥
यद्बलं तव वीर्यं च केशवस्य तथैव च
।
तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम् ॥३७॥
अस्मत्परोक्षं कर्माणि कृतानि प्रवदन्ति ते
।
स्वामिसत्कारयुक्तानि यानि तानीह दर्शय ॥३८॥
स्वामिसत्कारो वीरप्रधानोऽयमिति यदन्यैः सत्कारणं तेन युक्तानि योग्यतां गतानि ॥३८॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि दुर्योधनवचने द्व्यधिकशततमोऽध्यायः ॥१०२॥
सञ्जय उवाच।
एवमुक्त्वाऽर्जुनं राजा त्रिभिर्मर्मातिगैः शरैः
।
अभ्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् ॥१॥
एवमिति । एवमीदृशप्रभावम् ॥१॥
वासुदेवं च दशभिः प्रत्यविध्यत् स्तनान्तरे
।
प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत् ॥२॥
तं चतुर्दशभिः पार्थश्चित्रपुंखैः शिलाशितैः
।
अविध्यत्तूर्णमव्यग्रस्ते चाभ्रश्यन्त वर्मणि ॥३॥
तेषां नैष्फल्यमालोक्य पुनर्नव च पञ्च च
।
प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः ॥४॥
अष्टाविंशांस्तु तान् बाणानस्तान् विप्रेक्ष्य निष्फलान्
।
अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः ॥५॥
अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम्
।
त्वया संप्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ॥६॥
कच्चिद्गाण्डीवजः प्राणस्तथैव भरतर्षभ
।
मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव ॥७॥
न वा कच्चिदयं कालः प्राप्तः स्यादद्य पश्चिमः
।
तव चैवास्य शत्रोश्च तन्ममाचक्ष्य पृच्छतः ॥८॥
विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान्
।
व्यर्थान्निपतितान्संख्ये दुर्योधनरथं प्रति ॥९॥
वज्राशनिसमा घोराः परकायावभेदिनः
।
शराः कुर्वन्ति ते नार्थं पार्थ काऽद्य विडम्बना ॥१०॥
अर्जुन उवाच।
द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्र निवेशिता
।
अभेद्या हि ममास्त्राणामेषा कवचधारणा ॥११॥
अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि
।
एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात् ॥१२॥
न शक्यमेतत्कवचं बाणैर्भेत्तुं कथञ्चन
।
अपि वज्रेण गोविन्द स्वयं मघवता युधि ॥१३॥
जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम्
।
यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते ॥१४॥
तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव
।
न त्विदं वेद वै कश्चिद्यथा त्वं मधुसूदन ॥१५॥
एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम्
।
तिष्ठत्यभीतवत्संख्ये बिभ्रत्कवचधारणाम् ॥१६॥
यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव
।
स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् ॥१७॥
युक्तामन्यप्रयुक्ताम् ॥१७॥
पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन
।
पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् ॥१८॥
इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम्
।
तस्माद्बृहस्पतिः प्राप ततः प्राप पुरन्दरः ॥१९॥
पुनर्ददौ सुरपतिर्मह्यं वर्म ससंग्रहम्
।
दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम् ॥२०॥
ससंग्रहं सोपदेशम् । दैवं देवैः कृतम् ॥२०॥
नैनं गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया
।
सञ्जय उवाच।
एवमुक्त्वाऽर्जुनो बाणानभिमन्त्र्य व्यकर्षयत् ॥२१॥
मानवास्त्रेण गानार्हस्तीक्ष्णावरणभेदिना
।
विकृष्यमाणांस्तेनैव धनुर्मध्यगताञ्छरान् ॥२२॥
तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना
।
तान्निकृत्तानिषून् दृष्ट्वा दूरतो ब्रह्मवादिना ॥२३॥
न्यवेदयत् केशवाय विस्मितः श्वेतवाहनः
।
नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन ॥२४॥
अस्त्रं मामेव हन्याद्धि हन्याच्चापि बलं मम
।
ततो दुर्योधनः कृष्णौ नवभिर्नवभिः शरैः ॥२५॥
अविध्यत रणे राजञ्छरैराशीविषोपमैः
।
भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ ॥२६॥
शरवर्षेण महता ततोऽहृष्यन्त तावकाः
।
चक्रुर्वादित्रनिनदान् सिंहनादरवांस्तथा ॥२७॥
ततः क्रुद्धो रणे पार्थः सृक्किणी परिसंलिहन्
।
नापश्यच्च ततोऽस्यांगं यन्न स्याद्धर्मरक्षितम् ॥२८॥
ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः
।
हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी ॥२९॥
निर्देहान् निकृत्तावयवान् ॥२९॥
धनुरस्याच्छिनत्तूर्णं हस्तावापं च वीर्यवान्
।
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ॥३०॥
दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम्
।
आविद्ध्यद्धस्ततलयोरुभयोरर्जुनस्तदा ॥३१॥
प्रयत्नज्ञो हि कौन्तेयो नखमांसान्तरेषुभिः
।
स वेदनाभिराविग्नः पलायनपरायणः ॥३२॥
नखमांसान्तरे इषुभिराविध्यदिति पूर्वेणान्वयः सन्धिरार्षः ॥३२॥
तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः
।
समापेतुः परीप्सन्तो धनञ्जयशरार्दितम् ॥३३॥
तं रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः
।
पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम् ॥३४॥
अथ नार्जुनगोविन्दौ न रथो वा व्यदृश्यत
।
अस्त्रवर्षेण महता जनौघैश्चापि संवृतौ ॥३५॥
ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम्
।
तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः ॥३६॥
ते हता हन्यमानाश्च न्यगृह्णांस्तं रथोत्तमम्
।
स रथस्तंमितस्तस्थौ क्रोशमात्रे समन्ततः ॥३७॥
क्रोशमात्रे सैन्धवतोऽर्थात् ॥३७॥
ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत्
।
धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चांबुजम् ॥३८॥
ततो विस्फार्य बलवद्गांडीवं जघ्निवान् रिपून्
।
महता शरवर्षेण तलशब्देन चार्जुनः ॥३९॥
पाञ्चजन्यं च बलवान् दध्मौ तारेण केशवः
।
रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् ॥४०॥
तस्य शंखस्य नादेन धनुषो निःस्वनेन च
।
निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः ॥४१॥
तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः
।
जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः ॥४२॥
ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु
।
चक्रुर्नादान् महेष्वासाः कंपयन्तो वसुन्धराम् ॥४३॥
बाणशब्दरवांश्चोग्रान्विमिश्राञ्शंखनिःस्वनैः
।
प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि ॥४४॥
तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम्
।
प्रदध्मतुः शंखवरौ वासुदेवधनञ्जयौ ॥४५॥
तेन शब्देन महता पूरितेयं वसुन्धरा
।
सशैला सार्णवद्वीपा सपाताला विशांपते ॥४६॥
स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश
।
प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले ॥४७॥
तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ
।
संभ्रमं परमं प्राप्तास्त्वरमाणा महारथाः ॥४८॥
अथ कृष्णौ महाभागौ तावका वीक्ष्य दंशितौ
।
अभ्यद्रवन्त संक्रुद्धास्तदद्भुतमिवाभवत् ॥४९॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि दुर्योधनपराजये त्र्यधिकशततमोऽध्यायः ॥१०३॥
सञ्जय उवाच।
तावका हि समीक्ष्यैवं वृष्यन्धककुरूत्तमौ
।
प्रागत्वरन् जिघांसन्तस्तथैव विजयः परान् ॥१॥
तावका इति । प्रागग्र एव समीक्ष्येत्यन्वयः ॥१॥
सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः
।
दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः ॥२॥
वैयाघ्रैर्व्याघ्रचर्मचित्रैः ॥२॥
रुक्मपुंखैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते
।
कूजद्भिरतुलान्नादान् कोपितैस्तुरगैरिव ॥३॥
भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः
।
कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः ॥४॥
ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः
।
व्यराजयन् दश दिशो वैयाघ्रैर्हेमचन्द्रकैः ॥५॥
ते दंशिताः सुसंरब्धा रथैर्मेघौघनिःस्वनैः
।
समावृण्वन्दश दिशः पार्थस्य निशितैः शरैः ॥६॥
कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान्
।
व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश ॥७॥
कौलूतकाः कुलूतदेशजाः पार्वतीयसमानलक्षणाः ॥७॥
आजानेयैर्महावेगैर्नानादेशसमुत्थितैः
।
पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः ॥८॥
आजानेयैरिति । ‘गुडगन्धाः काये ये सुश्लक्ष्णाः कान्तितो जितक्रोधा । सारयुता जितेन्द्रियाः क्षुत्तृडाहितं चापि नो दुःखम् । जानन्त्याजनिया निर्दिष्टा वाजिनो धीरैः । वाहास्तु पार्वतीया बलान्विता स्निग्धकेशाश्च । वृतखुरा दृढपादा महाजवास्तेति विख्यात्ताः’ ॥ नदीजैर्नदीरिजैः । ‘अश्वाः सकर्णिकाराः क्वचन नदीतीरजाः समुद्दिष्टाः । पूर्वार्धेषूदग्राः पश्चार्धे चानताः किञ्चित्’ ॥८॥
कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः
।
धनञ्जयरथं शीघ्रं सर्वतः समुपाद्रवन् ॥९॥
ते प्रगृह्य महाशंखान् दध्मुः पुरुषसत्तमाः
।
पूरयन्तो दिवं राजन् पृथिवीं च ससागराम् ॥१०॥
तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ
।
प्रवरौ सर्वदेवानां सर्वशङ्खवरौ भुवि ॥११॥
देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः
।
शब्दस्तु देवदत्तस्य धनञ्जयसमीरितः ॥१२॥
पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत्
।
तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः ॥१३॥
सर्वशब्दानतिक्रम्य पूरयामास रोदसी
।
तस्मिंस्तथा वर्तमाने दारुणे नादसंकुले ॥१४॥
भीरूणां त्रासजनने शूराणां हर्षवर्धने
।
प्रवादितासु भेरीषु झर्झरेष्वानकेषु च ॥१५॥
मृदंगेष्वपि राजेन्द्र वाद्यमानेष्वनेकशः
।
महारथाः समाहूता दुर्योधनहितैषिणः ॥१६॥
अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः
।
नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः ॥१७॥
अमर्षिता महाशंखान् दध्मुर्वीरा महारथाः
।
कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च ॥१८॥
बभूव तव तत्सैन्यं शंखशब्दसमीरितम्
।
उद्विग्नरथनागाश्वमस्वस्थमिव वा विभो ॥१९॥
तत् प्रविद्धमिवाकाशं शूरैः शंखविनादितम्
।
बभूव भृशमुद्विग्नं निर्घातैरिव नादितम् ॥२०॥
प्रविद्धमाक्षिप्तम् ॥२०॥
स शब्दः सुमहान् राजन् दिशः सर्वा व्यनादयत्
।
त्रासयामास तत् सैन्यं युगान्त इव संभृतः ॥२१॥
ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः
।
जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् ॥२२॥
ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत्
।
अर्जुनं च त्रिभिर्भलैर्ध्वजमश्वांश्च पञ्चभिः ॥२३॥
तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत्
।
अत्यर्थमिव संक्रुद्धः प्रतिविद्धे जनार्दने ॥२४॥
कर्णं च दशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा
।
शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् ॥२५॥
गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पांडवम्
।
भूरिश्रवास्त्रिभिर्बाणैर्हेमपुंखैः शिलाशितैः ॥२६॥
कर्णो द्वात्रिंशता चैव वृषसेनश्च सप्तभिः
।
जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः ॥२७॥
मद्रराजश्च दशभिर्विव्यधुः फाल्गुनं रणे
।
ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत् ॥२८॥
वासुदेवं च विंशत्या पुनः पार्थे च पञ्चभिः
।
प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः ॥२९॥
प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम्
।
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिः शरैः ॥३०॥
शल्यस्य सशरं चापं मुष्टिदेशे व्यकृन्तत
।
सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः ॥३१॥
शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः
।
गौतमं पञ्चविंशत्या सैन्धवं च शतेन ह ॥३२॥
पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत्
।
भूरिश्रवास्तु संक्रुद्धः प्रतोदं चिच्छिदे हरेः ॥३३॥
अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह ॥३४॥
ततः शरशतैस्तीक्ष्णैस्तानरीन् श्वेतवाहनः
।
प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव ॥३५॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि संकुलयुद्धे चतुरधिकशततमोऽध्यायः ॥१०४॥
धृतराष्ट्र उवाच।
ध्वजान्बहुविधाकारान्भ्राजमानानति श्रिया
।
पार्थानां मामकानां च तान्ममाचक्ष्व सञ्जय ॥१॥
ध्वजानिति ॥१॥
सञ्जय उवाच।
ध्वजान्बहुविधाकारान्शृणु तेषां महात्मनाम्
।
रूपतो वर्णतश्चैव नामतश्च निबोध मे ॥२॥
रूपमाकारः ॥२॥
तेषां तु रथमुख्यानां रथेषु विविधा ध्वजाः
।
प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः ॥३॥
काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलंकृताः
।
काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः ॥४॥
अनेकवर्णा विविधा ध्वजाः परमशोभनाः
।
ते ध्वजाः संवृतास्तेषां पताकाभिः समंततः ॥५॥
नानावर्णविरागाभिः शुशुभुः सर्वतो वृताः
।
पताकाश्च ततस्तास्तु श्वसनेन समीरिताः ॥६॥
नृत्यमाना व्यदृश्यन्त रंगमध्ये विलासिकाः
।
इन्द्रायुधसवर्णाभाः पताका भरतर्षभ ॥७॥
दोधूयमाना रथिनां शोभयन्ति महारथान्
।
सिंहलांगूलमुग्रास्यं ध्वजं वानरलक्षणम् ॥८॥
धनञ्जयस्य संग्रामे प्रत्यदृश्यत भैरवम्
।
स वानरवरो राजन् पताकाभिरलंकृतः ॥९॥
त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः
।
तथैव सिंहलांगूलं द्रोणपुत्रस्य भारत ॥१०॥
ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम्
।
काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम् ॥११॥
ध्वजाग्रं ध्वजमुख्यं काञ्चनं काञ्चनमयम् ॥११॥
नन्दनं कौरवेन्द्राणां द्रौणेर्लक्ष्म समुच्छ्रितम्
।
हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजः ॥१२॥
आहवे खं महाराज ददृशे पूरयन्निव
।
पताका काञ्चनी स्रग्वी ध्वजे कर्णस्य संयुगे ॥१३॥
स्रग्वी स्रग्विणी ॥१३॥
नृत्यतीव रथोपस्थे श्वसनेन समीरिता
।
आचार्यस्य तु पाण्डूनां ब्राह्मणस्य तपस्विनः ॥१४॥
गोवृषो गौतमस्यासीत् कृपस्य सुपरिष्कृतः
।
स तेन भ्राजते राजन् गोवृषेण महारथः ॥१५॥
त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजता
।
मयूरो वृषसेनस्य काञ्चनो मणिरक्षवान् ॥१६॥
व्याहरिष्यन्निवातिष्ठत् सेनाग्रमुपशोभयन्
।
तेन तस्य रथो भाति मयूरेण महात्मनः ॥१७॥
व्याहरिष्यन् वदिष्यन् ॥१७॥
यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता
।
मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव ॥१८॥
सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम्
।
सा सीता भ्राजते तस्य रथमास्थाय मारिष ॥१९॥
सर्वबीजविरूढेव यथा सीता श्रिया वृता
।
वराहः सिन्धुराजस्य राजतोऽभिविराजते ॥२०॥
ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः
।
शुशुभे केतुना तेन राजतेन जयद्रथः ॥२१॥
अलोहितार्काभोऽनुपरक्तस्फटिकवर्णः । ‘अर्कोऽर्कपर्णे स्फटिके’ इति मेदिनी ॥२१॥
यथा देवासुरे युद्धे पुरा पूषा स्म शोभते
।
सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः ॥२२॥
ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते
।
स यूपः काञ्चनो राजन् सौमदत्तेर्विराजते ॥२३॥
राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः
।
शलस्य तु महाराज राजतो द्विरदो महान् ॥२४॥
केतुः काञ्चनचित्रांगैर्मयूरैरुपशोभितः
।
स केतुः शोभयामास सैन्यं ते भरतर्षभ ॥२५॥
यथा श्वेतो महानागो देवराजचमूं तथा
।
नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः ॥२६॥
किंकिणीशतसंह्रादो भ्राजंश्चित्रो रथोत्तमे
।
व्यभ्राजत भृशं राजन् पुत्रस्तव विशांपते ॥२७॥
ध्वजेन महता संख्ये कुरूणामृषभस्तदा
।
नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः ॥२८॥
व्यदीपयंस्ते पृतनां युगान्तादित्यसन्निभाः
।
दशमस्त्वर्जुनस्यासीदेक एव महाकपिः ॥२९॥
अदीप्यतार्जुनो येन हिमवानिव वह्निना
।
ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः ॥३०॥
हिमवानिव वह्निनेति तत्र किल पराशरेण वह्निः स्थापितः ॥३०॥
कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परन्तपाः
।
तथैव धनुरायच्छत् पार्थः शत्रुविनाशनः ॥३१॥
गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव
।
तवापराधाद्राजानो निहता बहुशो युधि ॥३२॥
नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः
।
तेषामासीद्व्यतिक्षेपो गर्जतामितरेतरम् ॥३३॥
व्यतिक्षेपः अन्योन्याभिघातः ॥३३॥
दुर्योधनमुखानां च पाण्डूनामृषभस्य च
।
तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः॥३४॥
यदेको बहुभिः सार्धं समागच्छदभीतवत्
।
अशोभत महाबाहुर्गाण्डीवं विक्षिपन् धनुः ॥३५॥
जिगीषुस्तान्नरव्याघ्रो जिघांसुश्च जयद्रथम्
।
तत्रार्जुनो नरव्याघ्रः शरैर्मुक्तैः सहस्रशः ॥३६॥
अदृश्यांस्तावकान् योधान् प्रचक्रे शत्रुतापनः
।
ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः ॥३७॥
अदृश्यं समरे चक्रुः सायकौघैः समन्ततः
।
संवृते नरसिंहैस्तु कुरूणामृषभेऽर्जुने
।
महानासीत् समुद्भूतस्तस्य सैन्यस्य निःस्वनः ॥३८॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि ध्वजवर्णने पञ्चाधिकशततमोऽध्यायः ॥१०५॥
धृतराष्ट्र उवाच।
अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः
।
पञ्चालाः कुरुभिः सार्धं किमकुर्वत सञ्जय ॥१॥
अर्जुने इति ॥१॥
सञ्जय उवाच।
अपराह्णे महाराज संग्रामे लोमहर्षणे
।
पञ्चालानां कुरूणां च द्रोणद्यूतमवर्तत ॥२॥
पञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः
।
अभ्यमुञ्चन्त गर्जन्तः शरवर्षाणि मारिष ॥३॥
ततस्तु तुमुलस्तेषां संग्रामोऽवर्तताद्भुतः
।
पञ्चालानां कुरूणां च घोरो देवासुरोपमः ॥४॥
सर्वे द्रोणरथं प्राप्य पञ्चालाः पाण्डवैः सह
।
तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् ॥५॥
द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः
।
कम्पयन्तोऽभ्यवर्तन्त वेगमास्याय मध्यमम् ॥ ६॥
कम्पयन्तो भुवमिति शेषः ॥६॥
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः
।
प्रवपन्निशितान् बाणान्महेन्द्राशनिसन्निभान् ॥७॥
तं तु प्रत्युद्ययौ शीघ्रं क्षेमधूर्तिर्महायशाः
।
विमुञ्चन्निशितान्बाणान् शतशोऽथ सहस्रशः ॥८॥
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः
।
त्वरितोऽभ्यद्रवद्रोणं महेन्द्र इव शम्बरम् ॥९॥
तमापतन्तं सहसा व्यादितास्यमिवान्तकम्
।
वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् ॥१०॥
युधिष्ठिरं महाराजं जिगीषुं समवस्थितम्
।
सहानीक ततो द्रोणो न्यवारयत वीर्यवान् ॥११॥
नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी
।
अभ्यगच्छत् समायान्तं विकर्णस्ते सुतः प्रभो ॥१२॥
सहदेवं तथा यान्तं दुर्मुखः शत्रुकर्षणः
।
शरैरनेकसाहस्रैः समवाकिरदाशुगैः ॥१३॥
सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत्
।
शरैः सुनिशितैस्तीक्ष्णैः कम्पयन् वै मुहुर्मुहुः ॥१४॥
द्रौपदेयान्नरव्याघ्रान् मुञ्चतः सायकोत्तमान्
।
संरब्धान् रथिनः श्रेष्ठान् सौमदत्तिरवारयत् ॥१५॥
सौमदत्तिः शलः ॥१५॥
भीमसेनं तदा कुद्धं भीमरूपो भयानकः
।
प्रत्यवारयदायान्तमार्ष्यशृङ्गिर्महारथः ॥१६॥
तयोः समभवद्युद्धं नरराक्षसयोर्मृधे
।
यादृगेव पुरा वृत्तं रामरावणयोर्नृप ॥१७॥
ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम्
।
आजघ्ने भरतश्रेष्ठः सर्वमर्मसु भारत ॥१८॥
तं द्रोणं पञ्चविंशत्या निजघान स्तनान्तरे
।
रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना ॥१९॥
भूय एव तु विंशत्या सायकानां समाचिनोत्
।
साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् ॥२०॥
ताञ्शरान् द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः
।
अवारयत धर्मात्मा दर्शयन् पाणिलाघवम् ॥२१॥
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे
।
चिच्छेद समरे धन्वी धनुस्तस्य महात्मनः ॥२२॥
अथैनं छिन्नधन्वानं त्वरमाणो महारथः
।
शरैरनेकसाहस्रैः पूरयामास सर्वतः ॥२३॥
अदृश्यं वीक्ष्य राजानं भारद्वाजस्य सायकैः
।
सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् ॥२४॥
केचिच्चैनममन्यन्त तथैव विमुखीकृतम्
।
हतो राजेति राजेन्द्र ब्राह्मणेन महात्मना ॥२५॥
हतो राजेति अमन्यन्तेत्यनुषङ्गः ॥२५॥
स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः
।
त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे ॥२६॥
आददेऽन्यद्धनुर्दिव्यं भास्वरं वेगवत्तरम्
।
ततस्तान् सायकांस्तत्र द्रोणनुन्नान् सहस्रशः ॥२७॥
चिच्छेद समरे वीरस्तदद्भुतमिवाभवत्
।
छित्वा तु ताञ्शरान् राजन्क्रोधसंरक्तलोचनः ॥२८॥
शक्तिं जग्राह समरे गिरीणामपि दारिणीम्
।
स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम् ॥२९॥
समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली
।
नादेन सर्वभूतानि त्रासयन्निव भारत ॥३०॥
शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे
।
स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् ॥३१॥
सा राजभुजनिर्मुक्ता निर्मुक्तोरगसन्निभा
।
प्रज्वालयन्ती गगनं दिशः सप्रदिशस्तथा ॥३२॥
द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा
।
तामापतन्तीं सहसा दृष्ट्वा द्रोणो विशांपते ॥३३॥
प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः
।
तदस्त्रं भस्मसात् कृत्वा तां शक्तिं घोरदर्शनाम् ॥३४॥
जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः
।
ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम् ॥३५॥
अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव मारिष
।
विद्ध्वा तं च रणे द्रोणं पञ्चभिर्नतपर्वभिः ॥३८॥
क्षुरप्रेण सुतीक्ष्णेन चिच्छेदास्य महद्धनुः
।
तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः ॥३७॥
गदां चिक्षेप सहसा धर्मपुत्राय मारिष
।
तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः ॥३८॥
गदामेवाग्रहीत् क्रुद्धश्चिक्षेप च परन्तप
।
ते गदे सहसा मुक्ते समासाद्य परस्परम् ॥३९॥
सङ्घर्षात् पावकं मुक्त्वा समेयातां महीतले
।
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष ॥४०॥
चतुर्भिर्निशितैस्तीक्ष्णैर्हयान् जघ्ने शरोत्तमैः
।
चिच्छेदैकेन भल्लेन धनुश्चेन्द्रध्वजोपमम् ॥४१॥
केतुमेकेन चिच्छेद पाण्डवं चादयन्त्रिभिः
।
हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः ॥४२॥
तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ
।
विरथं तं समालोक्य व्यायुधं च विशेषतः ॥४३॥
द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि वा विभो
।
मुञ्चंश्चेषुगणांस्तीक्ष्णान् लघुहस्तो दृढव्रतः ॥४४॥
अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः
।
तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना ॥४५॥
हाहेति सहसा शब्दः पाण्डूनां समजायत
।
हतो राजा हतो राजा भारद्वाजेन मारिष ॥४६॥
इत्यासीत् सुमहाञ्छन्दः पाण्डुसैन्यस्य भारत
।
ततस्त्वरितमारुह्य सहदेवरथं नृपः
।
अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः ॥४७॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि युधिष्ठिरापयाने षडधिकशततमोऽध्यायः ॥१०६॥
सञ्जय उवाच।
बृहत्क्षत्रमथायान्तं कैकेयं दृढविक्रमम्
।
क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः ॥१॥
बृहत्क्षत्रमिति ॥१॥
बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम्
।
आजघ्ने त्वरितो राजन् द्रोणानीकबिभित्सया ॥२॥
क्षेमधूर्तिस्तु संक्रुद्धः कैकेयस्य महात्मनः
।
धनुश्चिच्छेद भल्लेन पीतेन निशितेन ह ॥३॥
अथैनं छिन्नधन्वानं शरेणानतपर्वणा
।
विव्याध समरे तूर्णं प्रवरं सर्वधन्विनाम् ॥४॥
अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव
।
व्यश्वसूतरथं चक्रे क्षेमधूर्तिं महारथम् ॥५॥
ततोऽपरेण भल्लेन पीतेन निशितेन च
।
जहार नृपतेः कायाच्छिरो ज्वलितकुण्डलम् ॥६॥
तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम्
।
सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात् ॥७॥
तं निहत्य रणे दृष्टो बृहत्क्षत्रो महारथः
।
सहसाऽभ्यपतत् सैन्यं तावकं पार्थकारणात् ॥८॥
धृष्टकेतुं तथाऽऽयान्तं द्रोणहेतोः पराक्रमी
।
वीरधन्वा महेष्वासो वारयामास भारत ॥९॥
तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ
।
शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः ॥१०॥
तावुभौ नरशार्दूलौ युयुधाते परस्परम्
।
महावने तीव्रमदौ वारणाविव यूथपौ ॥११॥
गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ
।
युयुधाते महावीर्यौ परस्परजिघांसया ॥१२॥
तद्युद्धमासीत्तुमुलं प्रेक्षणीयं विशांपते
।
सिद्धचारणसंघानां विस्मयाद्भुतदर्शनम् ॥१३॥
वीरधन्वा ततः कुद्धो धृष्टकेतोः शरासनम्
।
द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत ॥१४॥
तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः
।
शक्तिं जग्राह विपुलां हेमदण्डामयस्मयीम् ॥१५॥
तां तु शक्तिं महावीर्यां दोर्भ्यामायम्य भारत
।
चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति ॥१६॥
तया तु वीरघातिन्या शक्त्या त्वभिहतो भृशं
।
निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम् ॥१७॥
तस्मिन्विनिहते वीरे त्रैगर्तानां महारथे
।
बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः ॥१८॥
सहदेवे ततः षष्टिं सायकान् दुर्मुखोऽक्षिपत्
।
ननाद व महानादं तर्जयन् पाण्डवं रणे ॥१९॥
माद्रेयस्तु ततः कुद्धो दुर्मुखं च शितैः शरैः
।
भ्राता भ्रातरमायान्तं विव्याध प्रहसन्निव ॥२०॥
तं रणे रभसं दृष्ट्वा सहदेवं महाबलम्
।
दुर्मुखो नवभिर्बाणैस्ताडयामास भारत ॥२१॥
दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः
।
जघान चतुरो बाहांश्चतुर्भिर्निशितैः शरैः ॥२२॥
अथापरेण भल्लेन पीतेन निशितेन ह
।
चिच्छेद सारथेः कायाच्छिरो ज्वलितकुंडलम् ॥२३॥
क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः
।
सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः ॥२४॥
हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा
।
आरुरोह रथं राजन्निरमित्रस्य भारत ॥२५॥
सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे
।
जघान पूतनामध्ये भल्लेन परवीरहा ॥२६॥
स पपात रथोपस्थान्निरमित्रो जनेश्वरः
।
त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम् ॥२७॥
तं तु हत्वा महाबाहुः सहदेवो व्यरोचत
।
यथा दाशरथी रामः खरं हत्वा महाबलम् ॥२८॥
हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर
।
राजपुत्रं हतं दृष्ट्वा निरमित्रं महारथम् ॥२९॥
नकुलस्ते सुतं राजन् विकर्णं पृथुलोचनम्
।
मुहूर्ताज्जितवान् लोके तदद्भुतमिवाभवत् ॥३०॥
सात्यकिं व्याघ्रदत्तस्तु शरैः सन्नतपर्वभिः
।
चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे ॥३१॥
तान्निवार्य शरान् शूरः शैनेयः कृतहस्तवत्
।
साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत् ॥३२॥
कुमारे निहते तस्मिन् मागधस्य सुते प्रभो
।
मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन् ॥३३॥
विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः
।
भिन्दिपालांस्तथा प्रासान् मुद्गरान्मुसलानपि ॥३४॥
अयोधयन् रणे शूराः सात्वतं युद्धदुर्मदम्
।
तांस्तु सर्वान् स बलवान् सात्यकिर्युद्धदुर्मदः ॥३५॥
नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभः
।
मागधान् द्रवतो दृष्ट्वा हतशेषान् समन्ततः ॥३६॥
बलं तेऽभज्यत विभो युयुधानशरार्दितम्
।
नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः ॥३७॥
विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः
।
भज्यमानं बलं राजन् सात्वतेन महात्मना ॥३८॥
नाभ्यवर्तत युद्धाय त्रासितं दीर्घवाहुना
।
ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी
।
सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे ॥३९॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि संकुलयुद्धे सप्ताधिकशततमोऽध्यायः ॥१०७॥
सञ्जय उवाच।
द्रौपदेयान्महेष्वासान् सौमदत्तिर्महायशाः
।
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥१॥
द्रौपदेयानिति॥१॥
ते पीडिता भृशं तेन रौद्रेण सहसा विभो
।
प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किंचन ॥२॥
नाकुलिश्च शतानीकः सौमदत्तिं नरर्षभम्
।
द्वाभ्यां विद्ध्वाऽनदद्धृष्टः शराभ्यां शत्रुकर्शनः ॥३॥
तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः
।
विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् ॥४॥
स तान् प्रति महाराज पञ्च चिक्षेप सायकान्
।
एकैकं हृदि चाजघ्ने एकैकेन महायशाः ॥५॥
ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना
।
परिवार्य रणे वीरं विव्यधुः सायकैर्भृशम् ॥६॥
आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः
।
प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति ॥७॥
भैमसेनिर्धनुश्छित्वा सौमदत्तेर्महात्मनः
।
ननाद बलवन्नादं विव्याध च शितैः शरैः ॥८॥
यौधिष्ठेरिर्ध्वजं तस्य छित्त्वा भूमावपातयत्
।
नाकुलिश्चाथ यन्तारं रथनीडादपाहरत् ॥९॥
साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम्
।
क्षुरप्रेण शिरो राजन्निचकर्त महात्मनः ॥१०॥
तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम्
।
भ्राजयत्तं रणोद्देशं बालसूर्यसमप्रभम् ॥११॥
सौमदत्तेः शिरो दृष्ट्वा निहतं तन्महात्मनः
।
वित्रस्तास्तावका राजन् प्रदुद्रुवुरनेकधा ॥१२॥
अलंबुषस्तु समरे भीमसेनं महाबलम्
।
योधयामास संक्रुद्धो लक्ष्मणं रावणिर्यथा ॥१३॥
संप्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ
।
विस्मयः सर्वभूतानां प्रहर्षः समजायत ॥१४॥
आर्ष्यशृंगिं ततो भीमो नवभिर्निशितैः शरैः
।
विव्याध प्रहसन् राजन् राक्षसेन्द्रममर्षणम् ॥१५॥
तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम्
।
अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः ॥१६॥
स भीमं पञ्चभिर्विद्वा शरः सन्नतपर्वभिः
।
भैमान् परिजघानाशु रथांस्त्रिशतमाहवे ॥१७॥
पुनश्चतुःशतान् हत्वा भीमं विव्याध पत्रिणा
।
सोऽतिविद्धस्तथा भीमो राक्षसेन महाबलः॥१८॥
निपपात रथोपस्थे मूर्च्छयाऽभिपरिप्लुतः
।
प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्च्छितः ॥१९॥
विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम्
।
अलंबुषं शरैस्तीक्ष्णैरर्दयामास सर्वतः ॥२०॥
स विद्धो वहुभिर्बाणैर्नीलाञ्जनचयोपमः
।
शुशुभे सर्वतो राजन् प्रफुल्ल इव किंशुकः ॥२१॥
स वध्यमानः समरे भीमचापच्युतैः शरैः
।
स्मरन् भ्रातृवधं चैव पाण्डवेन महात्मना ॥२२॥
घोरं रूपमथो कृत्वा भीमसेनमभाषत
।
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् ॥२३॥
बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली
।
परोक्षं मम तद्धृत्तं यद्भ्राता मे हतस्त्वया ॥२४॥
एवमुक्त्वा ततो भीममन्तर्धानं गतस्तदा
।
महता शरवर्षेण भृशं तं समवाकिरत् ॥२५॥
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा
।
आकाशं पूरयामास शरैः सन्नतपर्वभिः ॥२६॥
स वध्यमानो भीमेन निमेषाद्रथमास्थितः
।
जगाम धरणीं चैव क्षुद्रः खं सहसाऽगमत् ॥२७॥
उच्चावचानि रुपाणि चकार सुबहूनि च
।
अणुर्बृहत्पुनः स्थूलो नादान्मुञ्चन्निवाम्बुदः ॥२८॥
बृहत् बृहन्॥२८॥
उच्चावचास्तथा वाचो व्याजहार समंततः
।
निपेतुर्गगनाच्चैव शरधाराः सहस्रशः ॥२९॥
शक्तयः कणपाः प्रासाः शूलपट्टिशतोमराः
।
शतघ्न्यः परिघाश्चैव भिन्दिपालाः परश्वधाः ॥३०॥
शिलाः खड्गा गुडाश्चैव ऋष्टीर्वज्राणि चैव ह
।
सा राक्षसविसृष्टा तु शस्त्रवृष्टिः सुदारुणा ॥३१॥
ऋष्टीः ऋषयः॥३१॥
जघान पाण्डुपुत्रस्य सैनिकान् रणमूर्धनि
।
तेन पाण्डवसैन्यानां सुदिता युधि वारणाः ॥३२॥
हयाश्च बहवो राजन् पत्तयश्च तथा पुनः
।
रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः ॥३३॥
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम्
।
छत्रहंसां कर्दमिनीं बाहुपक्षगसंकुलाम् ॥३४॥
नदीं प्रावर्तयामास रक्षोगणसमाकुलाम्
।
वहन्तीं बहुधा राजंश्चेदिपञ्चालसृञ्जयान् ॥३५॥
तं तथा समरे राजन् विचरन्तमभीतवत्
।
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम् ॥३६॥
तावकानां तु सैन्यानां प्रहर्षः समजायत
।
वादित्रनिनदश्चोग्रः सुमहान् रोमहर्षणः ॥३७॥
तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः
।
नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥३८॥
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः
।
संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारुतिः ॥३९॥
ततः शरसहस्राणि प्रादुरासन् समन्ततः
।
तैः शरैस्तव सैन्यस्य विद्रवः सुमहानभूत् ॥४०॥
तदस्त्रं प्रेरितं तेन भीमसेनेन संयुगे
।
राक्षसस्य महामायां हत्वा राक्षसमार्दयत् ॥४१॥
स वध्यमानो बहुधा भीमसेनेन राक्षसः
।
सन्त्यज्य समरे भीमं द्रोणानीकमुपाद्रवत् ॥४२॥
तस्मिंस्तु निर्जिते राजन् राक्षसेन्द्रे महात्मना
।
अनादयन् सिंहनादैः पाण्डवाः सर्वतो दिशं ॥४३॥
अपूजयन् मारुतिं च संहृष्टास्ते महाबलम्
।
प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः ॥४४॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि अलंबुषपराजये अष्टाधिकशततमोऽध्यायः ॥१०८॥
सञ्जय उवाच।
अलंबुषं तथा युद्धे विचरन्तमभीतवत्
।
हैडिम्बिः प्रययौ तूर्णं विव्याध निशितैः शरैः ॥१॥
अलंबुषमिति ॥१॥
तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः
।
कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव ॥२॥
अलंबुषो भृशं क्रुद्धो घटोत्कचमताडयत्
।
तयोर्युद्धं समभवद्रक्षोग्रामणिमुख्ययोः ॥३॥
रक्षोग्रामणिमुख्ययोः रक्षःपतिप्रधानयोः ॥३॥
यादृगेव पुरा वृत्तं रामरावणयोः प्रभो
।
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे ॥४॥
अलंबुषमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः
।
तथैवालंबुषो राजन् हैडिम्बिं युद्धदुर्मदम् ॥५॥
विद्ध्वा विद्धाऽनवद्धृष्टः पूरयन् खं समन्ततः
।
तथा तौ भृशसंक्रुद्धौ राक्षसेन्द्रौ महाबलौ ॥६॥
निर्विशेषमयुध्येतां मायाभिरितरेतरम्
।
मायाशतसृजौ नित्यं मोहयन्ती परस्परम् ॥७॥
मायायुद्धेषु कुशलौ मायायुद्धमयुध्यताम्
।
यां यां घटोत्कचो युद्धे मायां दर्शयते नृप ॥८॥
तां तामलम्बुषो राजन्माययैव निजघ्निवान्
।
तं तथा युध्यमानं तु मायायुद्धविशारदम् ॥९॥
अलम्बुषं राक्षसेन्द्रं दृष्ट्वाऽक्रुध्यन्त पाण्डवाः
।
त एनं भृशसंविग्नाः सर्वतः प्रवरा रथैः ॥११॥
अभ्यद्रवन्त संक्रुद्धा भीमसेनादयो नृप
।
त एनं कोष्ठकीकृत्य रथवंशेन मारिष ॥११॥
सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम्
।
स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया ॥१२॥
तस्माद्रथव्रजन्मुक्तो वनदाहादिव द्विपः
।
स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम् ॥१३॥
मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः
।
युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ॥१४॥
नकुलं च त्रिसप्तत्या द्रौपदेयांश्च मारिष
।
पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह ॥१५॥
तं भीमसेनो नवभिः सहदेवस्तु पञ्चभिः
।
युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत ॥१६॥
नकुलस्तु चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः
।
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः ॥१७॥
पुनर्विव्याध सप्तत्या ननाद च महाबलः
।
तस्य नादेन महता कम्पितेयं वसुन्धरा ॥१८॥
सपर्वतवना राजन् सपादपजलाशया
।
सोऽतिविद्धो महेष्वासैः सर्वतस्तैर्महारथैः ॥१९॥
प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चामिः शरैः
।
तं शुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः ॥२०॥
हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः
।
सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः ॥२१॥
व्यसृजत् सायकांस्तूर्णं रुक्मपुंखान् शिलाशितान्
।
ते शरा नतपर्वाणो विविशू राक्षसं तदा ॥२२॥
रुषिताः पन्नगा यद्वद्गिरिशृङ्गं महाबलाः
।
ततस्ते पाण्डवा राजन्समंतान्निशिताञ्शरान् ॥२३॥
प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः
।
स विध्यमानः समरे पाण्डवैर्जितकाशिभिः ॥२४॥
मर्त्यधर्ममनुप्राप्तः कर्तव्यं नान्वपद्यत
।
ततः समरशौण्डो वै भैससेनिर्महाबलः ॥२५॥
मर्त्यधर्मं मरणयोग्यताम् ॥२५॥
समीक्ष्य तदवस्थं तं वधायास्य मनो दधे
।
वेगं चक्रे महान्तं च राक्षसेन्द्ररथं प्रति ॥२६॥
दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम्
।
रथाद्रथमभिद्रुत्य क्रुद्धो हैडिम्बिराक्षिपत् ॥२७॥
आक्षिपत् गृहीतवान् ॥२७॥
उद्वबर्ह रथाच्चापि पन्नगं गरुडो यथा
।
समुत्क्षिप्य च वाहुभ्यामाविद्ध्य च पुनः पुनः ॥२८॥
आविध्य भ्रामयित्वा ॥२८॥
निष्पिषेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि
।
बललाघवसम्पन्नः सम्पद्मो विक्रमेण च ॥२९॥
भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत्
।
स विस्फारितसर्वाङ्गश्चूर्णितास्थिर्विभीषणः ॥३०॥
विस्फारितानि पृथग्भूतानि सर्वाङ्गानि यस्य ॥३०॥
घटोत्कचेन धीरेण हतः शालकटङ्कटः
।
ततः सुमनसः पार्था हते तस्मिन्निशाचरे ॥३१॥
चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह
।
तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् ॥३२॥
अलम्बुषं तथा शूरा विशीर्णमिव पर्वतम्
।
हाहाकारमकार्षुश्च सैन्यानि भरतर्षभ ॥३३॥
जनाश्च तद्ददृशिरे रक्षःकौतूहलान्विताः
।
यदृच्छया निपतितं भूमावङ्गारकं यथा ॥३४॥
घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम्
।
मुमोच बलवन्नादं बलं हत्वेव वासवः ॥३५॥
स पूज्यमानः पितृभिः सबान्धवैर्घटोत्कचः कर्मणि दुष्करे कृते
।
रिपुं निहत्याभिननन्द वै तदा ह्यलम्बुषं पक्वमलम्बुषं यथा ॥३६॥
ततो निनादः सुमहान्समुत्थितः सशङ्खनानाविधबाणघोषवान्
।
निशम्य तं प्रत्यनदंस्तु पाण्डवास्ततो ध्वनिर्भुवनपथा स्पृशद्भृशम् ॥३७॥
भुवनं स्वर्लोकम् ॥३७॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि अलम्बुषवधे नवाधिकशततमोऽध्यायः ॥१०९॥
धृतराष्ट्र उवाच।
भारद्वाजं कथं युद्धे युयुधानो न्यवारयत्
।
सञ्जयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ॥१॥
भारद्वाजमिति ॥१॥
सञ्जय उवाच।
शृणु राजन् महाप्राज्ञ संग्रामं लोमहर्षणम्
।
द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः ॥२॥
वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष
।
अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम् ॥३॥
तमापतन्तं सहसा भारद्वाजं महारथम्
।
सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समापर्यत् ॥४॥
द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः
।
अविध्यत्पञ्चभिस्तूर्णं हेमपुंखैः शरैः शितैः ॥५॥
ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः
।
अभ्ययुधरणीं राजन् श्वसन्त इव पन्नगाः ॥६॥
दीर्घबाहुरभिक्रुद्धस्तोत्रार्दित इव द्विपः
।
द्रोणं पञ्चाशताऽविध्यन्नाराचैरग्निसन्निभैः ॥७॥
भारद्वाजो रणे विद्धो युयुधानेन सत्वरम्
।
सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत ॥८॥
ततः क्रुद्धो महेष्वासो भूय एव महाबलः
।
सात्वतं पीडयामास शरेणानतपर्वणा ॥९॥
स वध्यमानः समरे भारद्वाजेन सात्यकिः
।
नान्वपद्यत कर्तव्यं किञ्चिदेव विशाम्पते ॥१०॥
विषण्णवदनश्चापि युयुधानोऽभवन्नृप
।
भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान् ॥११॥
तं तु संप्रेक्ष्य ते पुत्राः सौनिकाश्च विशांपते
।
प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः ॥१२॥
तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम्
।
युधिष्ठिरोऽब्रवीद्राजा सर्वसैन्यानि भारत ॥१३॥
एष वृष्णिवरो वीरः सात्यकिः सत्यविक्रमः
।
ग्रस्यते युधि वीरेण भानुमानिव राहुणा ॥१४॥
अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते
।
धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिपः ॥१५॥
अभिद्रव द्रुतं द्रोणं किमु तिष्ठसि पार्षत
।
न पश्यसि भयं द्रोणाद्धोरं नः समुपस्थितम् ॥१६॥
असौ द्रोणो महेष्वासो युयुधानेन संयुगे
।
क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा ॥१७॥
तत्रैव सर्वे गच्छन्तु भीमसेनपुरोगमाः
।
त्वयैव सहिताः सर्वं युयुधानरथं प्रति ॥१८॥
पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः
।
सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम् ॥१९॥
एवमुक्त्वा ततो राजा सर्वसैन्येन भारत
।
अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात् ॥२०॥
तत्रारावो महानासीद्द्रोणमेक युयुत्सताम्
।
पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः ॥२१॥
ते समेत्य नरव्याघ्रा भारद्वाजं महारथम्
।
अभ्यवर्षन् शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः ॥२२॥
स्मयन्नेव तु तान् वीरान् द्रोणः प्रत्यग्रहीत् स्वयं
।
अतिथीनागतान् यद्वत् सलिलेनासनेन च ॥२३॥
तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः
।
आतिथेयं गृहं प्राप्य नृपतेऽतिथयो यथा ॥२४॥
भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम्
।
मध्यन्दिनमनुप्राप्तं सहस्त्रांशुमिव प्रभो ॥२५॥
तांस्तु सर्वान्महेष्वासान् द्रोणः शस्रभृतां वरः
।
अतापयच्छरव्रातैगभस्तिभिरिवांशुमान् ॥२६॥
वध्यमाना महाराज पाण्डवाः सृञ्जयास्तथा
।
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥२७॥
द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः
।
गभस्तय इवार्कस्य प्रतपन्तः समन्ततः ॥२८॥
तस्मिन्द्रोणेन निहताः पञ्चालाः पञ्चविंशतिः
।
महारथाः समाख्याता धृष्टद्युम्नस्य संमताः ॥२९॥
तस्मिन्नवसरे ॥२९॥
पाण्डूनां सर्वसैन्येषु पञ्चालानां तथैव च
।
द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान् वरान् ॥३०॥
केकयानां शतं हत्वा विद्राव्य च समन्ततः
।
द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः ॥३१॥
पञ्चालान् सृञ्जयान् मत्स्यान् केकयांश्च नराधिप
।
द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः ॥३२॥
तेषां समभवच्छब्दो विद्धानां द्रोणसायकैः
।
वनौकसामिवारण्ये व्याप्तानां धूमकेतुना ॥३३॥
तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप
।
एते द्रवन्ति पञ्चालाः पाण्डवाश्च ससैनिकाः ॥३४॥
तं तथा समरे द्रोणं निघ्नन्तं सोमकान् रणे
।
न चाप्यभिययुः केचिदपरे नैव विव्यधुः ॥३५॥
वर्तमाने तथा रौद्रे तस्मिन् वीरवरक्षये
।
अश्शृणोत् सहसा पार्थः पाञ्चजन्यस्य निःस्वनम् ॥३५॥
पूरितो वासुदेवेन शंखराट् स्वनते भृशम्
।
युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु ॥३५॥
नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति
।
गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः ॥३६॥
कश्मलाभिहतो राजा चिन्तयामास पाण्डवः
।
न नूनं स्वस्ति पार्थाय यथा नदति शखराट् ॥३९॥
कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः
।
एवं स चिन्तयित्वा तु व्याकुलेनान्तरात्मना ॥४०॥
अजातशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत
।
बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः
।
कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुङ्गवम् ॥४१॥
कृत्यस्य जयद्रथवधस्य अनन्तरापेक्षी अविघ्नाकाङ्क्षी ॥४१॥
युधिष्ठिर उवाच।
यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः
।
साम्पराये सुहृत्कृत्ये तस्य कालोऽयमागतः ॥४२॥
यः स धर्मो मैत्रीलक्षणः सांपराये आपत्काले ॥४२॥
सर्वेष्वपि च योधेषु चिन्तयन् शिनिपुङ्गव
।
त्वत्तः सुहृत्तमं कञ्चिन्नाभिजानामि सात्यके ॥४३॥
यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः
।
स कार्ये सांपराये तु नियोज्य इति मे मतिः ॥४४॥
यथा च केशवो नित्यं पाण्डवानां परायणम्
।
तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः ॥४५॥
सोऽहं भारं समाधास्ये त्ववि तं वोढुमर्हसि
।
अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि ॥४६॥
स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे
।
कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ ॥४७॥
वयस्यस्य स्निग्धत्य सहायार्थं सहायप्रयोजनम् ॥४७॥
त्वं हि सत्यव्रतः शूरो मित्राणामभयंकरः
।
लोके विख्यायसे वीर कर्मभिः सत्यवागिति ॥४८॥
सत्यव्रतो दृढनिश्चयः ॥४८॥
यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम्
।
पृथिवीं च द्विजातिभ्यो यो दद्यात् स समो भवेत् ॥४९॥
श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः
।
दत्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि ॥५०॥
एवं त्वामपि धर्मात्मन् प्रयाचेऽहं कृताञ्जलिः
।
पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो ॥५१॥
एक एव सदा कृष्णो मित्राणामभयंकरः
।
रणे सन्त्यजति प्राणान् द्वितीयस्त्वं च सात्यके ॥५२॥
विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः
।
शूर एव सहायः स्यान्नेतरः प्राकृतो जनः ॥५३॥
ईदृशे तु परामर्श वर्तमानस्य माधव
।
त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते ॥५४॥
श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः
।
मम सञ्जनयन् हर्षं पुनः पुनरकीर्तयत् ॥५५॥
लघुहस्तश्चित्रयोधी तथा लघुपराक्रमः
।
प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च सयुगे ॥५६॥
महास्कन्धो महोरस्को महाबाहुर्महाहनुः
।
महाबलो महावीर्यः स महात्मा महारथः ॥५७॥
शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे
।
युयुधानः सहायो मे प्रमथिष्यति कौरवान् ॥५८॥
अस्मदर्थं च राजेन्द्र संनोह्येद्यदि केशवः
।
रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः ॥५९॥
गदो वा सारणो वापि साम्बो वा सह वृष्णिभिः
।
सहायार्थं महाराज संग्रामोत्तममूर्धनि ॥६०॥
तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम्
।
साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्यो हि तत्समः ॥६१॥
इति द्वैतवने तात मामुवाच धनंजयः
।
परोक्षे त्वद्गुणांस्तथ्यान् कथयन्नार्यसंसदि ॥६२॥
तस्य त्वमेवं संकल्पं न वृथा कर्तुमर्हसि
।
धनञ्जयस्य वार्ष्णेय मम भीमस्य चोभयोः ॥६३॥
यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति
।
तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् ॥६४॥
न तत्सौहृदमन्येषु मया शैनेय लक्षितम्
।
यथा त्वमस्मान् भजसे वर्तमानानुपप्लवे ॥६५॥
उपप्लवे विमर्दे ॥६५॥
सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च
।
सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव ॥६६॥
सख्यादेरनुरूपमित्यनेनान्वयः ॥६६॥
सत्यस्य च महाबाहो अनुकम्पार्थमेव च
।
अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि ॥६७॥
सत्यस्याङ्गीकारस्य अनुकम्पार्थमर्जुनानुपालननिमित्तम् ॥६७॥
सुयोधनो हि सहसा गतो द्रोणेन दंशितः
।
पूर्वमेवानुयातास्ते कौरवाणां महारथाः ॥६८॥
सुमहान्निनदश्चैव श्रूयते विजयं प्रति
।
स शैनेय जवेनाशु गन्तुमर्हसि मानद ॥६९॥
भीमसेनो वयं चैव संयत्ताः सहसैनिकाः
।
द्रोणमावारयिष्यामो यदि त्वां प्रति यास्यति ॥७०॥
पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे
।
महान्तं च रणे शब्दं दीर्यमाणां च भारतीम् ॥७१॥
महामारुतवेगेन समुद्रमिव पर्वसु
।
धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना ॥७२॥
रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह
।
सैन्यं रजःसमुद्धूतमेतत् संपरिवर्तते ॥७३॥
संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः
।
अत्यन्तोपचितैः शूरैः फाल्गुनः परवीरहा ॥७४॥
नैतद्बलमसंवार्यं शक्यो जेतुं जयद्रथः
।
एते हि सैन्धवस्यार्थे सर्वे सन्त्यक्तजीविताः ॥७५॥
शरशक्तिध्वजवरं हयनागसमाकुलम्
।
पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम् ॥७६॥
शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान्
।
सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा ॥७७॥
नागानां शृणु शब्दं च पत्तीनां च सहस्रशः
।
सादिनां द्रवतां चैव शृणु कंपयतां महीम् ॥७८॥
पुरस्तात्सैन्धवानीकं दोणानीकं च पृष्ठतः
।
बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत् ॥७९॥
अपर्यन्ते बले मग्नो जह्यादपि च जीवितम्
।
तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः ॥८०॥
सर्वथाऽहमनुप्राप्तः सुकृच्छ्रं त्वयि जीवति
।
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः ॥८१॥
लघ्वस्त्रश्चित्रयाधी च प्रविष्टस्तात भारतीम्
।
सूर्योदये महाबाहुर्दिवसश्चातिवर्तते ॥८२॥
तन्न जानामि वार्ष्णेय यदि जीवति वा नवा
।
कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् ॥८३॥
एक एव च बीभत्सुः प्रविष्टस्तात भारतीम्
।
अविषह्यां महाबाहुः सुरैरपि महाहवे ॥८४॥
न हि मे वर्तते बुद्धिरद्य युद्धे कथञ्चन
।
द्रोणोऽपि रभसो युद्धे मम पीडयते बलम् ॥८५॥
प्रत्यक्षं ते महाबाहो यथाऽसौ चरति द्विजः
।
युगपच्च समेतानां कार्याणां त्वं विचक्षणः ॥८६॥
महार्थं लघुसंयुक्तं कर्तुमर्हसि मानद
।
तस्य मे सर्वकार्येषु कार्यमेतन्मतं महत् ॥८७॥
महार्थं महान्तमर्थं लघुसंयुक्तमविलम्बसंपन्नम् ॥८७॥
अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे
।
नाहं शोचामि दाशार्हं गोप्तारं जगतः पतिम् ॥८८॥
स हि शक्तो रणे तात त्रीन् लोकानपि सङ्गतान्
।
विजेतुं पुरुषव्याघ्रः सत्यमेतद्ब्रवीमि ते ॥८९॥
किं पुनर्धार्तराष्ट्रस्य बलमेतत् सुदुर्बलम्
।
अर्जुनस्त्वेष वार्ष्णेय पीडितो बहुभिर्युधि ॥९०॥
प्रजह्यात् समरे प्राणांस्तस्माद्विन्दामि कश्मलम्
।
तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा ॥९१॥
तादृशस्येदृशे काले मादृशेनाभिनोदितः
।
रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ ॥९२॥
प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः
।
अस्त्रे नारायणसमः संकर्षणसमो बले ॥९३॥
वीरतायां नरव्याघ्र धनञ्जयसमो ह्यसि
।
भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम् ॥९४॥
वीरतायामुत्साहकारणत्वे ॥९४॥
त्वामेव पुरुषव्याघ्रं लोके सन्तः प्रचक्षते
।
नाशक्यं विद्यते लोके सात्यकेरिति माधव ॥९५॥
तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबलः
।
संभावना हि लोकस्य मम पार्थस्य चोभयोः ॥९६॥
संभावनाऽस्तिताज्ञानं कुलशीलश्रुतादिषु ॥९६॥
नान्यथा तां महाबाहो संप्रकर्तुमिहार्हसि
।
परित्यज्य प्रियान् प्राणान्रणे चर विभीतवत् ॥९७॥
विभीतवदभीतः ॥९७॥
न हि शैनेय दाशार्हो रणे रक्षन्ति जीवितम्
।
अयुद्धमनवस्थानं संग्रामे च पलायनम् ॥९८॥
अनवस्थानमस्थैर्यम् ॥९८॥
भीरुणामसतां मार्गो नैष दाशार्हसेवितः
।
तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुङ्गवः ॥९९॥
वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः
।
कारणद्वयमेतद्धि जानंस्त्वामहमब्रुवम् ॥१००॥
मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम्
।
वासुदेवमतं चैव मम चैवार्जुनस्य च ॥१०१॥
सत्यमेतन्मयोक्तं ते याहि यत्र धनञ्जयः
।
एतद्वचनमाज्ञाय मम सत्यपराक्रम ॥१०२॥
प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः
।
प्रविश्य च यथान्यायं संगम्य च महारथैः
।
यथाहमात्मनः कर्म रणे सात्वत दर्शय ॥१०३॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि युधिष्ठिरवाक्ये दशाधिकशततमोऽध्यायः ॥११०॥
सञ्जय उवाच।
प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च
।
कालयुक्तं च चित्रं च न्याय्यं यच्चापि भाषितुम्॥१॥
प्रीतियुक्तमिति ॥१॥
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः
।
सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम्॥२॥
श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाऽच्युत
।
न्याययुक्तं च चित्रं च फाल्गुनार्थे यशस्करम्॥३॥
एवंविधे तथा काले मादृशं प्रेक्ष्य संमतम्
।
वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम्॥४॥
संमतमनुरक्तम् ॥४॥
न मे धनञ्जयस्यार्थे प्राणा रक्ष्याः कथञ्चन
।
त्वत्प्रयुक्तः पुनरहं किं न कुर्यां महाहवे ॥५॥
लोकत्रये योधयेयं सदेवासुरमानुषम्
।
त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत्सुदुर्बलम् ॥६॥
सुयोधनबलं त्वद्य योधयिष्ये समन्ततः
।
विजेष्ये च रणे राजन् सत्यमेतद्ब्रवीमि ते॥७॥
कुशल्यहं कुशलिनं समासाद्य धनञ्जयम्
।
हते जयद्रथे राजन् पुनरेष्यामि तेऽन्तिकम्॥८॥
अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप
।
वासुदेवस्य यद्वाक्यं फाल्गुनस्य च धीमतः ॥९॥
दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः
।
मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः ॥१०॥
अभिपरीतो यन्त्रितः ॥१०॥
अद्य माधव राजानमप्रमत्तोऽनुपालय
।
आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम्॥११॥
त्वयि चाहं महाबाहो प्रद्युम्ने वा महारथे
।
नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम् ॥१२॥
जानीषे हि रणे द्रोणं कुरुषु श्रेष्ठसम्मतम्
।
प्रतिज्ञातं हि तेनेदं पश्यमानेन वै प्रभो ॥१३॥
ग्रहणे धर्मराजस्य भारद्वाजोऽपि गृध्यति
।
शक्तश्चापि रणे द्रोणो निग्रहीतुं युधिष्ठिरम् ॥१४॥
एवं त्वयि समाधाय धर्मराजं नरोत्तमम्
।
अहमद्य गमिष्यामि सैन्धवस्य वधाय हि॥१५॥
एवमीदृश्यामपि कार्यगतौ समाधाय निक्षिप्य ॥१५॥
जयद्रथं च हत्वाऽहं द्रुतमेष्यामि माधव
।
धर्मराजं न चेद्द्रोणो निगृह्णीयाद्रणे बलात् ॥१६॥
निगृहीते नरश्रेष्ठे भारद्वाजेन माधव
।
सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत्॥१७॥
एवंगते नरश्रेष्ठे पाण्डवे सत्यवादिनि
।
अस्माकं गमनं व्यक्तं वनं प्रति भवेत् पुनः ॥१८॥
एवंगते ग्रहणं प्राप्ते ॥१८॥
सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति
।
यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम् ॥१९॥
व्यक्तं कदाचित् ॥१९॥
स त्वमद्य महाबाहो प्रियार्थं मम माधव
।
जयार्थं च यशोऽर्थं च रक्ष राजानमाहवे॥२०॥
स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना
।
भारद्वाजाद्भयं नित्यं मन्यमानेन वै प्रभो ॥२१॥
तस्यापि च महाबाहो नित्यं पश्यामि संयुगे
।
नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो॥२२॥
तस्य निक्षेपणस्य फलं साध्यं हि यस्मात् ॥२२॥
मां चापि मन्यते युद्धे भारद्वाजस्य धीमतः
।
सोऽहं संभावनां चैतामाचार्यवचनं च तत्॥२३॥
पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते
।
आचार्यो लघुहस्तत्वादभेद्यकवचावृतः ॥२४॥
उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः
।
यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः॥२५॥
तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथार्जुनः
।
कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि॥२६॥
यः प्रतीयाद्रणे द्रोणं यावद्गच्छामि पाण्डवम्
।
मा च ते भयमद्यास्तु राजन्नर्जुनसंभवम्॥२७॥
यावद्गच्छामि गमिष्यामि अर्जुनसंभवमर्जुनविषयम् ॥२७॥
न स जातु महाबाहुर्भारमुद्यम्य सीदति
।
ये च सौवीरका योधास्तथा सैन्धवपौरवाः॥२८॥
उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः
।
ये च कर्णमुखा राजन् रथोदाराः प्रकीर्तिताः ॥२९॥
एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम्
।
उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा ॥३०॥
सराक्षसगणा राजन् सकिन्नरमहोरगा
।
जंगमाः स्थावराः सर्वे नालं पार्थस्य संयुगे ॥३१॥
एवं ज्ञात्वा महाराज व्येतु ते भीर्धनञ्जये
।
यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ॥३२॥
न तत्र कर्मणो व्यापत् कथञ्चिदापे विद्यते
।
दैवं कृतास्त्रतां योगममर्षमपि चाहवे ॥३३॥
दैवममानुषतां योगमभिज्ञानम् ॥३३॥
कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय
।
मयि चाप्यपयाते वै गच्छ मानेऽर्जुनं प्रति ॥३४॥
द्रोणे चित्रास्त्रतां संख्ये राजंस्त्वमनुचिन्तय
।
आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति ॥३५॥
प्रतिज्ञामात्मनो रक्षन् सत्यां कर्तुं च भारत
।
कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि॥३६॥
यस्याहं प्रत्ययात् पार्थ गच्छेयं फाल्गुनं प्रति
।
न ह्यहं त्वां महाराज अनिक्षिप्य महाहवे ॥३७॥
कच्चिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते
।
एतद्विचार्थ बहुशो बुद्ध्या बुद्धिमतां वर॥३८॥
क्वचित् कस्मिंश्चित् अनिक्षिप्येत्यन्वयः ॥३८॥
दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम्॥३९॥
दृष्ट्वा निश्चित्य ॥३९॥
युधिष्ठिर उवाच।
एवमेतन्महाबाहो यथा वदसि माधव
।
न तु मे शुद्ध्यते भावः श्वेताश्वं प्रति मारिष॥४०॥
करिष्ये परमं यत्नमात्मनो रक्षणे ह्यहम्
।
गच्छ त्वं समनुज्ञातो यत्र यातो धनञ्जयः॥४१॥
आत्मसंरक्षणं संख्थे गमनं चार्जुनं प्रति
।
विचार्यैतत्स्वयं बुद्ध्या गमनं तत्र रोचय ॥४२॥
स त्वमातिष्ठ यानाय यत्र यातो धनञ्जयः
।
ममापि रक्षणं भीमः करिष्यति महाबलः ॥४३॥
आतिष्ठ प्रक्रमस्व ॥४३॥
पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः
।
द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः॥४४॥
केकया भ्रातरः पंच राक्षसश्च घटोत्कचः
।
विराटो द्रुपदश्चैव शिखण्डी च महारथः ॥४५॥
धृष्ट्रकेतुश्च बलवान् कुन्तिभोजश्च मातुलः
।
नकुलः सहदेवश्च पञ्चालाः सृञ्जयास्तथा॥४६॥
मातुलः पुरुजित् ॥४६॥
एते समाहितास्तात रक्षिष्यन्ति न संशयः
।
न द्रोणः सह सैन्येन कृतवर्मा च संयुगे ॥४७॥
समासादयितुं शक्तो न च मां धर्षयिष्यति
।
धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परन्तपः ॥४८॥
वारयिष्यति विक्रम्य वेलेव मकरालयम्
।
यत्र स्थास्यति संग्रामे पार्वतः परवीरहा ॥४९॥
द्रोणो न सैन्यं बलवत्कामेत् तत्र कथञ्चन
।
एष द्रोणविनाशाय समुत्पन्नो हुताशनात् ॥५०॥
कवची स शरी खड्गी धन्वी च वरभूषणः
।
विश्रब्धं गच्छ शैनेय मा कार्षीर्मयि संभ्रमम्
।
धृष्टद्युम्नो रणे कुद्धं द्रोणमावारविष्यति ॥५१॥
मयि मामधिकृत्य संभ्रममुद्वेगम् ॥५१॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि युधिष्ठिरसात्यकिवाक्ये एकादशाधिकशततमोऽध्यायः॥१११ ॥
सञ्जय उवाच।
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः
।
स पार्थाद्भयमाशंसन् परित्यागान्महीपतेः॥१॥
धर्मराजस्येति ॥१॥
अपवादं ह्यात्मनश्च लोकात् पश्यन् विशेषतः
।
ते मां भीतमिति ब्रूयुरायान्तं फाल्गुनं प्रति ॥२॥
निश्चित्य बहुधैवं स सात्यकेर्युद्धदुर्मदः
।
धर्मराजमिदं वाक्यमब्रवीत् पुरुषर्षभः ॥३॥
कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशांपते
।
अनुयास्यामि बीभत्सुं करिष्ये वचनं तव ॥४॥
न हि मे पाण्डवात् कश्चित्रिषु लोकेषु विद्यते
।
यो मे प्रियतरो राजन् सत्यमेतद्ब्रवीमि ते॥५॥
हलादितोमरान्तमर्शआद्यजन्तम् ॥५॥
तस्याहं पदवीं यास्ये सन्देशात्तव मानद
।
त्वत्कृते न च मे किंचिदकर्तव्यं कथञ्चन ॥६॥
यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर
।
तथा तवापि वचनं विशिष्टतरमेव मे ॥७॥
प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ
।
तयोः प्रिये स्थितं चैव विद्धि मां राजपुंगव ॥८॥
तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो
।
भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरपुंगव ॥९॥
द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम्
।
तत्र यास्यामि यत्रासौ राजन् राजा जयद्रथः॥१०॥
यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात्
।
गुप्तो रथवरश्रेष्ठैर्द्रोणिकर्णकृपादिभिः॥११॥
इतस्त्रियोजनं मन्ये तमध्वानं विशांपते
।
यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः ॥१२॥
वियोजनगतस्यापि तस्य यास्याम्यहं पदम्
।
आसैन्धववधाद्राजन् सुदृढेनान्तरात्मना ॥१३॥
आसैन्धववधात् सैन्धववधात्प्रागेव ॥१३॥
अनादिष्टस्तु गुरुणा को नु युध्येत मानवः
।
आदिष्टस्तु यथा राजन् को न युध्येत मादृशः॥१४॥
अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो
।
हलशक्तिगदाप्रासचर्मखड्गर्ष्टितोमरम् ॥१५॥
इष्वस्त्रवरसंबाधं क्षोभयिष्ये बलार्णवम्
।
यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि ॥१६॥
साहस्रं सहस्त्रप्रतिमम् ॥१६॥
कुलमाञ्जनकं नाम यत्रैते वीर्यशालिनः
।
आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डेः प्रहारिभिः॥१७॥
एते नागाः ॥१७॥
नागा मेघनिभा राजन् क्षरन्त इव तोयदाः
।
नैते जातु निवर्तेरन् प्रेषिता हस्तिसादिभिः ॥१८॥
अन्यत्र हि वधादेषां नास्ति राजन् पराजयः
।
अथ यान् रथिनो राजन् सहस्रमनुपश्यसि ॥१९॥
एते रुक्मरथा नाम राजपुत्रा महारथाः
।
रथेष्वस्त्रेषु निपुणा नागेषु च विशांपते॥२०॥
धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः
।
गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा ॥२१॥
खड्गप्रहरणे युक्ताः संपाते चासिचर्मणोः
।
शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम् ॥२२॥
संपाते विहरणे ॥२२॥
नित्यं हि समरे राजन् विजिगीषन्ति मानवान्
।
कर्णेन विहिता राजन् दुःशासनमनुव्रताः ॥२३॥
एतांस्तु वासुदेवोऽपि रथोदारान् प्रशंसति
।
सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः॥२४॥
तस्यैव वचनाद्राजन् निवृत्ताः श्वेतवाहनात्
।
ते न क्लान्ता न च श्रान्ता दृढावरणकार्मुकाः॥२५॥
मदर्थेऽधिष्ठिता नूनं धार्तराष्ट्रस्य शासनात्
।
एतान् प्रमथ्य संग्रामे प्रियार्थं तव कौरव ॥२६॥
प्रयास्यामि ततः पश्चात् पदवीं सव्यसाचिनः
।
यांस्त्वेतानपरान्राजन्नागान्सप्त शतानिमान्॥२७॥
प्रेक्षसे वर्मसंछन्नान् किरातैः समधिष्ठितान्
।
किरातराजो यान् प्रादाद्द्विरदान् सव्यसाचिनः ॥२८॥
स्वलंकृतांस्तदा प्रेष्यानिच्छन् जीवितमात्मनः
।
आसन्नेते पुरा राजंस्तव कर्मकरा दृढम् ॥२९॥
तदा दिग्विजये ॥२९॥
त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम्
।
एषामेते महामात्राः किराता युद्धदुर्मदाः ॥३०॥
हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः
।
एते विनिर्जिताः संख्ये संग्रामे सव्यसाचिना॥३१॥
मदर्थमद्य संयत्ता दुर्योधनवशानुगाः
।
एतान् हत्वा शरै राजन् किरातान् युद्धदुर्मदान् ॥३२॥
सैन्धवस्य वधे यत्तमनुयास्यामि पाण्डवम्
।
ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः ॥३३॥
अञ्जनस्य अरुणोपवाह्यस्य । ‘स्निग्धनीलाम्बुदप्रख्या बलिनो विपुलैः करैः । सुविभक्तमहाशीर्षाः करिणोञ्जनवंशजाः’ ॥३३॥
कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः
।
जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः ॥३४॥
लब्धरक्षा रणे राजन्नैरावणसमा युधि
।
उत्तरात् पर्वतादेते तीक्ष्णैर्दस्युभिरास्थिताः॥३५॥
उत्तरात्पर्वताच्च हिमाचलादागतैरर्थात् ॥३५॥
कर्कशैः प्रवरैर्योधैः कार्ष्णायसतनुच्छदैः
।
सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः ॥३५॥
उत्तरात्पर्वताच्च हिमाचलादागतैरर्थात् ॥३५॥
अनेकयोनयश्चान्ये तथा मानुषयोनयः
।
अनीकं समवेतानां धूम्रवर्णमुदीर्यते ॥३७॥
म्लेच्छानां पापकर्तॄणां हिमदुर्गनिवासिनाम्
।
एतद्दुर्योधनो लब्ध्वा समग्रं राजमण्डलम् ॥३८॥
कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम्
।
सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान् ॥३९॥
कृतार्थमथ चात्मानं मन्यते कालचोदितः
।
ते तु सर्वेऽद्य संप्राप्ता मम नाराचगोचरम् ॥४०॥
न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः
।
तेन संभाविता नित्यं परवीर्योपजीविना ॥४१॥
तेन दुर्योधनेन संभाविताः संवर्धिताः ॥४१॥
विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः
।
ये त्वेते रथिनो राजन् दृश्यन्ते काञ्चनध्वजाः॥४२॥
एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः
।
शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः ॥४३॥
संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः
।
अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत ॥४४॥
यत्ता मदर्थे तिष्ठन्ति कुरुवीराभिरक्षिताः
।
अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः॥४५॥
तानहं प्रमथिष्यामि तृणानीव हुताशनः
।
तस्मात् सर्वानुपासंगान् सर्वोपकरणानि च॥४६॥
तानुद्दिष्टान् ॥४६॥
रथे कुर्वन्तु मे राजन् यथावद्रथकल्पकाः
।
अस्मिंस्तु किल संमर्दे ग्राह्यं विविधमायुधम्॥४७॥
यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः
।
काम्बोजैर्हि समेष्यामि तीक्ष्णैराशीविषोपमैः॥४८॥
पंचगुणः पंचगुणसामग्रीकः ॥४८॥
नानाशस्त्रसमावायैर्विविधायुधयोधिभिः
।
किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः॥४९॥
नानाशस्त्राणां समावायः समूहो येषु ॥४९॥
लालितैः सततं राज्ञा दुर्योधनहितैषिभिः
।
शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः॥५०॥
अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः
।
तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः॥५१॥
समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः
।
तस्माद्वै वाजिनो मुख्या विश्रुताःशुभलक्षणाः॥५२॥
उपावृत्ताश्च पीताश्च पुनर्युज्यन्तु मे रथे
।
सञ्जय उवाच।
तस्य सर्वानुपासंगान् सर्वोपकरणानि च॥५३॥
पीताः पायितपेयाः ॥५३॥
रथे चास्थापयद्राजा शस्त्राणि विविधानि च
।
ततस्तान् सर्वतो युक्तान् सदश्वांश्चतुरो जनाः॥५४॥
रसवत्पाययामासुः पानं मदसमीरणम्
।
पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलंकृताम्॥५५॥
विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः
।
तान्युक्तान् रुक्मवर्णाभान् विनीताञ्शीघ्रगामिनः॥५६॥
संहृष्टमनसोऽव्यग्रान् विधिवत्कल्पितान्रथे
।
महाध्वजेन सिंहेन हेमकेसरमालिना ॥५७॥
महाध्वजेनेति विशेषणे तृतीया ॥५७॥
संवृते केतकैर्हेमैर्मणिविद्रुमचित्रितैः
।
पाण्डुराभ्रप्रकाशाभिः पताकाभिरलंकृते॥५८॥
केतकैः कुन्दघटितशलाकाभिः ॥५८॥
हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे
।
योजयामास विधिवद्धेमभाण्डविभूषितान् ॥५९॥
दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा
।
न्यवेदयद्रथं युक्तं वासवस्येव मातलिः॥६०॥
ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः
।
स्नातकानां सहस्रस्य स्वर्णनिष्क्रानथो ददौ॥६१॥
स्वर्णनिष्कान् दीनारान् ॥६१॥
आशीर्वादैः परिष्वक्तःसात्यकिः श्रीमतां वरः
।
ततः स मधुपर्कार्हः पीत्वा कैलातकं मधु ॥६२॥
लोहिताक्षो बभौ तत्र मदविह्वललोचनः
।
आलभ्य वीरकांस्यं च हर्षेण महताऽन्वितः॥६३॥
द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः
।
उत्सङ्गे धनुरादाय सशरं रथिनां वरः ॥६४॥
कृतस्वस्त्ययनो विप्रैः कवची समलंकृतः
।
लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः॥६५॥
युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः
।
तेन मूर्धन्युपाघ्रात आरुरोह महारथम् ॥६६॥
ततस्ते वाजिनो हृष्टाः सुपुष्ठा वातरंहसः
।
अजय्या जैत्रमूहुस्तं विकुर्वाणाः स्म सैन्धवाः॥६७॥
तथैव भीमसेनोऽपि धर्मराजेन पूजितः
।
प्रायात्सात्यकिना सार्थमभिवाद्य युविाष्ठरम्॥६८॥
तौ दृष्ट्वा प्रविविक्षन्तौ तव सेनामरिन्दमौ
।
संयत्तास्तावकाः सर्वे तस्थुर्द्रोणपुरोगमाः ॥६९॥
सन्नद्धमनुगच्छन्तं दृष्ट्वा भीमं स सात्यकिः
।
अभिनन्द्याब्रवीद्वीरस्तदा हर्षकरं वचः॥७०॥
त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते
।
अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम्॥७१॥
आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम्
।
जानीषे मम वीर्यं त्वं तव चाहमरिन्दम ॥७२॥
आयत्यामुतरकाले तदात्वे तत्क्षणे ॥७२॥
तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम्
।
तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये॥७३॥
अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम
।
एवमुक्तः प्रत्युवाच भीमसेनं स माधवः॥७४॥
गच्छ गच्छ ध्रुवं पार्थ ध्रुवो हि विजयो मम
।
यन्मे गुणानुरक्तश्च त्वमद्य वशमास्थितः ॥७५॥
निमित्तानि च धन्यानि यथा भीम वदन्ति माम्
।
निहते सैन्धवे पापे पाण्डवेन महात्मना ॥७६॥
परिष्वजिष्ये राजानं धर्मात्मानं युधिष्ठिरम्
।
एतावदुक्त्वा भीमं तु विसृज्य च महायशाः॥७७॥
संप्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव॥७८॥
तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप
।
भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत ॥७९॥
ततः प्रयातः सहसा तव सैन्यं स सात्याकः
।
दिदृक्षुरर्जुनं राजन् धर्मराजस्य शासनात्॥८०॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे द्वादशाधिकशततमोऽध्यायः ॥११२॥
सञ्जय उवाच।
प्रयाते तव सैन्यं तु युयुधाने युयुत्सया
।
धर्मराजो महाराज स्वेनानीकेन संवृतः॥१॥
प्रयाते इति ॥१॥
प्रायाद्द्रोणरथं प्रेप्सुर्युयुधानस्य पृष्ठतः
।
ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः॥२॥
प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः
।
आगच्छत प्रहरत द्रुतं विपरिधावत ॥३॥
यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः
।
महारथा हि बहवो यतिष्यन्त्यस्य निर्जये ॥४॥
इति ब्रुवन्तो वेगेन निपेतुस्ते महारथाः
।
वयं प्रतिजिगीषन्तस्तत्र तान् समभिद्रुताः ॥५॥
ततः शब्दो महानासीद्युयुधानरथं प्रति
।
आकीर्यमाणा धावन्ती तव पुत्रस्य वाहिनी॥६॥
सात्वतेन महाराज शतधाऽभिव्यशीर्यत
।
तस्यां विदीर्यमाणायां शिनेः पुत्रो महारथः॥७॥
सप्तवीरान् महेष्वासानग्रानीकेष्वपोथयत्
।
अथान्यानपि राजेन्द्र नानाजनपदेश्वरान् ॥८॥
शरैरनलसंकाशैर्निन्ये वीरान्यमक्षयम्
।
शतमेकेन विव्याध शतेनैकं च पत्रिणाम् ॥९॥
द्विपारोहान् द्विपांश्चैव हयारोहान् हयांस्तथा
।
रथिनः साश्वसुतांच जघानेशः पशूनिव॥१०॥
ईशो रुद्रः ॥१०॥
तं तथाऽद्भुतकर्माणं शरसंपातवर्षिणम्
।
न केचनाभ्यधावन् वै सात्यकिं तव सैनिकाः॥११॥
ते भीता मृद्यमानाश्च प्रसृष्टा दीर्घबाहुना
।
आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानिनम्॥१२॥
तमेकं बहुधाऽपश्यन् मोहितास्तस्य तेजसा
।
रथैर्विमथितैश्चैव भग्ननीडैश्च मारिष ॥१३॥
चक्रैर्विमथितैश्छत्रैर्ध्वजैश्च विनिपातितैः
।
अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः॥१४॥
बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशांपते
।
हस्तिहस्तोपमैश्चापि भुजङ्गाभोगसन्निभैः ॥१५॥
ऊरुभिः पृथिवी च्छन्ना मनुजानां नराधिप
।
शशाङ्कसन्निभैश्चैव वदनैश्चारुकुण्डलैः ॥१६॥
ऋषभस्येवाक्षीणि येषाम् ॥१६॥
पतितैर्ऋषभाक्षाणां सा बभावति मेदिनी
।
गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः ॥१७॥
रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः
।
तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः ॥१८॥
उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरंगमाः
।
गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना॥१९॥
नानाविधानि सैन्यानि तव हत्वा तु सात्वतः
।
प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम्॥२०॥
ततस्तेनैव मार्गेण येन यातो धनञ्जयः
।
इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः॥२१॥
भारद्वाजं समासाद्य युयुधानश्च सात्यकिः
।
न न्यवर्तत संक्रुद्धो वेलामिव जलाशयः॥२२॥
निवार्य तु रणे द्रोणो युयुधानं महारथम्
।
विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः॥२३॥
सात्यकिस्तु रणे द्रोणं राजन् विव्याध सप्तभिः
।
हेमपुंखैः शिलाधौतैः कङ्कबर्हिणवाजितैः॥२४॥
तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत्
।
स तं न ममृषे द्रोणं युयुधानो महारथः ॥२५॥
सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः
।
दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च ॥२६॥
युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः
।
एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान्॥२७॥
ध्वजमेकेन बाणेन विव्याध युधि मारिष
।
तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः॥२८॥
त्वरन् प्राच्छादयद्बाणैः शलभानामिव व्रजैः
।
तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः ॥२९॥
आच्छादयदसंभ्रान्तस्ततो द्रोण उवाच ह
।
तवाचार्यो रणं हित्वा गतः कापुरुषो यथा॥३०॥
युध्यमानं च मां हित्वा प्रदक्षिणमवर्तत
।
त्वं हि मे युध्यतो नाद्य जीवन् यास्यसि माधव॥३१॥
त्वं हि त्वमपि ॥३१॥
यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम्
।
सात्यकिरुवाच
।
धनञ्जयस्य पदवीं धर्मराजस्य शासनात्॥३२॥
गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत्
।
आचार्यानुगतो मार्गः शिष्यैरन्वास्यते सदा॥३३॥
तस्मादेव व्रजाम्याशु यथा मे स गुरुर्गतः
।
सञ्जय उवाच।
एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन् ॥३४॥
प्रयातः सहसा राजन् सारथिं चेदमब्रवीत्
।
द्रोणः करिष्यते यत्नं सर्वथा मम वारणे ॥३५॥
यत्तो याहि रणे सूत शृणु चेदं वचः परम्
।
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम्॥३६॥
अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महद्बलम्
।
तदनन्तरमेतच्च बाल्हिकानां महद्बलम् ॥३७॥
बाल्हिकाभ्याशतो युक्तं कर्णस्य च महद्बलम्
।
अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे॥३८॥
अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम्
।
एतदन्तरमासाद्य चोदयाश्वान् प्रहृष्टवत् ॥३९॥
मध्यमं जयमास्थाय वह मामत्र सारथे
।
बाल्हिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः॥४०॥
दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः
।
हस्त्यश्वरथसंबाधं यच्चानीकं विलोक्यते॥४१॥
नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम्
।
एतावदुक्त्वा यन्तारं ब्राह्मणं परिवर्जयन्॥४२॥
मध्यतो याहि यत्रोग्रं कर्णस्य च महद्बलम्
।
तं द्रोणोऽनुययौ क्रुद्धो विकिरन् विशिखान् बहून् ॥४३॥
युयुधानं महाभागं गच्छन्तमनिवर्तिनम्
।
कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः॥४४॥
प्राविशद्भारतीं सेनामपर्यन्तां च सात्यकिः
।
प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च ॥४५॥
अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत्
।
तमापतन्तं विशिखैः पड्भिराहत्य सात्यकिः॥४६॥
चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान्
।
ततः पुनः षोडशभिर्नतपर्वभिराशुगैः ॥४७॥
सात्यकिः कृतवर्माणं प्रत्यविध्यत् स्तनान्तरे
।
स ताड्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः ॥४८॥
भिन्नानि पृथग्भूतानि ॥४८॥
सात्वतेन महाराज कृतवर्मा न चक्षमे
।
स वत्सदन्तं सन्धाय जिह्मगानिलसन्निभम्॥४९॥
आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम्
।
स तस्य देहावरणं भित्वा देहं च सायकः ॥५०॥
स पुंखपत्रः पृथिवीं विवेश रुधिरोक्षितः
।
अथास्य बहुभिर्बाणैरच्छिनत् परमास्त्रवित् ॥५१॥
स मार्गणगणं राजन् कृतवर्मा शरासनम्
।
विव्याध च रणे राजन् सात्यकिं सत्यविक्रमम्॥५२॥
दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे
।
ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः॥५३॥
जघान दक्षिणं बाहुं सात्यकिः कृतवर्मणः
।
ततोऽन्यत् सुदृढं चापं पूर्णमायम्य सात्यकिः॥५४॥
व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः
।
सरथं कृतवर्माणं समन्तात् पर्यवारयत् ॥५५॥
छादयित्वा रणे राजन् हार्दिक्यं स तु सात्यकिः
।
अथास्य भल्लेन शिरः सारथेः समकृन्तत ॥५६॥
स पपात हतः सूतो हार्दिक्यस्य महारथात्
।
ततस्ते यन्तृरहिताः प्राद्रवंस्तुरगा भृशम् ॥५७॥
अथ भोजस्तु संभ्रान्तो निगृह्य तुरगान् स्वयम्
।
तस्थौ वीरो धनुष्पाणिस्तत् सैन्यान्यभ्यपूजयन् ॥५८॥
स मुहूर्तमिवाश्वस्य सदश्वान् समनोदयत्
।
व्यपेतभीरमित्राणामावहत् सुमहद्भयम् ॥५९॥
सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत्
।
युयुधानोऽपि राजेन्द्र भोजानीकाद्विनिःसृतः॥६०॥
प्रययौ त्वरितस्तूर्णं काम्बोजानां महाचमूम्
।
स तत्र बहुभिः शूरैः सन्निरुद्धो महारथैः ॥६१॥
न चचाल तदा राजन्सात्यकिः सत्यविक्रमः
।
संधाय च चमूं द्रोणो भाजे भारं निवश्य च॥६२॥
संधाय यथास्थानमानीय ॥६२॥
अभ्यधावद्रणे यत्तो युयुधानं युयुत्सया
।
तथा तमनुधावन्त युयुधानस्य पृष्ठतः ॥६३॥
न्यवारयन्त संहृष्टाः पाण्डुसैन्ये बृहत्तमाः
।
समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् ॥६४॥
पञ्चाला विगतोत्साहा भीमसेनपुरोगमाः
।
विक्रम्य वारिता राजन् वीरेण कृतवर्मणा ॥६५॥
यतमानांश्च तान् सर्वानीषद्विगतचेतसः
।
अभितस्तान् शरौघेण क्लान्तवाहानकारयत्॥६६॥
निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे
।
अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः ॥६७॥
आर्यवत् कुलीनवत् कुलीनत्वादिति यावत् ॥६७॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे त्रयोदशाधिकशततमोऽध्यायः ॥११३॥
धृतराष्ट्र उवाच।
एवं बहुगुणं सैन्यमेवं प्रविचितं बलम्
।
व्यूढमेवं यथान्यायमेवं बहु च सञ्जय ॥१॥
एवमिति । बहुगुणं बहवो गुणाः शौर्यादयः संध्यादयो वा यस्मिन् बलं प्रबलम् ॥१॥
नित्यं पूजितमस्माभिरभिकामं च नः सदा
।
प्रौढमत्यद्भुताकारं पुरस्ताद् दृष्टविक्रमम् ॥२॥
नः अभिकाममनुरक्तं प्रौढं प्रवृद्धम् अत्यद्भुताकारमनुपमसंस्थानं पुरस्तात् प्रागेव दृष्टः परीक्षोत्तीर्णो विक्रमो यस्य ॥२॥
नातिवृद्धमबालं च नाकृशं नातिपीवरम्
।
लघुवृत्तायतप्रायं सारगात्रमनामयम् ॥३॥
लघुनो मनोज्ञस्य वृत्तस्यायतमायामः प्रायः प्रचुरं यत्र, सारगात्रं निबिडावयवं सारगात्रमसरिशून्यमिति वा ॥३॥
आत्तसन्नाहसंछन्नं बहुशस्त्रपरिच्छदम्
।
शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् ॥४॥
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते
।
सम्यक् प्रहरणे याने व्यपयाने च कोविदम् ॥५॥
आरोहे अधिरोहणे, पर्यवस्कन्दे अवरोहणे, सरणे प्रसरणे, सान्तरप्लुते प्लवनान्तरितायां गतौ, याने प्रयाणे, व्यपयानेऽपसरणे ॥५॥
नागेभ्यश्वेषु बहुशो रथेषु च परीक्षितम्
।
परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥६॥
वेतनेन दिनमासवर्षदेयेन धनेन ॥६॥
न गोष्ठ्या नोपकारेण न संबन्धनिमित्ततः
।
नानाहूतं नाप्यभृतं मम सैन्यं बभूव ह ॥७॥
गोष्ठ्या संलापमात्रेण, उपकारेण प्राक्कृतेन उपपादितमुल्लासस्थापितमित्यनुषंगः अनाहूतं यदृच्छोपगतम् ॥७॥
कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम्
।
कृतमानोपचारं च यशस्वि च मनस्वि च ॥८॥
सचिवैश्चापरैर्मुख्यैर्बहुभिः पुण्यकर्मभिः
।
लोकपालोपमैस्तात पालितं नरसत्तमैः ॥९॥
बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः
।
अस्मानभिसृतैः कामान् सबलैः सपदानुगैः॥१०॥
महोदधिमिवापूर्णमापगाभिः समन्ततः
।
अपक्षैः पक्षिसंकाशै रथैरश्वैश्च सवृत्तम् ॥११॥
प्रभिन्नकरटैश्चैव द्विरदैरावृतं महत्
।
यदहन्यत मे सैन्यं किमन्यद्भागधेयतः॥१२॥
योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम्
।
क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम्॥१३॥
वाहनान्येवोर्मितरङ्गपरंपरा विद्यते यत्र । क्षेपण्यो यन्त्राणि ॥१३॥
ध्वजभूषणसंबाधरत्नोपलसुसंचितम्
।
वाहनैरभिधावद्भिर्वायुवेगविकंपितम् ॥१४॥
रत्नैरुपलैश्च सुसंचितं सुष्ठु संछादितं वाहनाभिधावनान्येव वायुवेगतया रूपितानि ॥१४॥
द्रोणगंभीरपातालं कृतवर्म महाह्रदम्
।
जलसन्धमहाग्राहं कर्णचन्द्रोदयोद्धतम् ॥१५॥
गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे
।
सञ्जयैकरथेनैव युयुधाने च मामकम् ॥१६॥
तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि
।
सात्वते व रथोदारे मम सैन्यस्य सञ्जय ॥१७॥
मम सैन्यस्य शेषमित्यन्वयः ॥१७॥
तौ तत्र समतिक्रान्तौ दृष्ट्वातीव तरस्विनौ
।
सिन्धुराजं तु संप्रेक्ष्य गाण्डीवस्येषुगोचरे ॥१८॥
किं नु वा कुरवः कृत्यं विदधुः कालचोदिताः
।
दारुणैकायनेऽकाले कथं वा प्रतिपेदिरे ॥१९॥
दारुणैकायने अतिभीषणेऽनन्यगतिके अकाले अतीते समये ॥१९॥
ग्रस्तान् हि कौरवान् मन्ये मृत्युना तात संगतान्
।
विक्रमोऽपि रणे तेषां न तथा दृश्यते हि वै॥२०॥
अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ
।
न च वारयिता कश्चित्तयोरस्तीह सञ्जय ॥२१॥
भृताश्च बहवो योधाः परीक्ष्यैव महारथाः
।
वेतनेन यथायोगं प्रियवादेन चापरे ॥२२॥
असत्कारभूतस्तात मम सैन्ये न विद्यते
।
कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् ॥२३॥
लभ्यते सैन्येनार्थात् ॥२३॥
न चायोधोऽभवत् कश्चिन्मम सैन्ये तु सञ्जय
।
अल्पदानभृतस्तात तथा चाभृतको नरः ॥२४॥
पूजितो हि यथाशक्त्या दानमानासनैर्मया
।
तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः॥२५॥
ते च प्राप्यैव संग्रामे निर्जिताः सव्यसाचिना
।
शैनयन परामृष्टाः किमन्यद्भागधेयतः ॥२६॥
रक्ष्यते यश्च संग्रामे ये च सञ्जय रक्षिणः
।
एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः॥२७॥
अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम्
।
पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत ॥२८॥
सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत्
।
किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत ॥२९॥
सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथिसत्तमौ
।
दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः ॥३०॥
धृतिं धारणाम् ॥३०॥
दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम्
।
शिनीनामृषभं चैव मन्ये शोचान्ति पुत्रकाः ॥३१॥
दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च
।
पलायमानांश्च कुरून् मन्ये शोचन्ति पुत्रकाः॥३२॥
विद्रुतान् रथिनो दृष्ट्वा निरुत्साहान् द्विषज्जये
।
पलायनकृतोत्साहान्मन्ये शोचन्ति पुत्रकाः॥३३॥
शून्यान् कृतान्रथोपस्थान्सात्वतेनार्जुनेन च
।
हतांश्च योधान् संदृश्य मन्ये शोचन्ति पुत्रकाः॥३४॥
व्यश्वनागरथान् दृष्ट्वा तत्र वीरान् सहस्रशः
।
धावमानान्रणेव्यग्रान्मन्ये शोचन्ति पुत्रकाः॥३५॥
व्यग्रान् अनेकाग्रान् अव्यग्रान् पलायनैकमनस इति वा ॥३५॥
महानागान् विद्रवतो दृष्ट्वाऽर्जुनशराहतान्
।
पतितान्पततश्चान्यान्मन्ये शोचन्ति पुत्रकाः॥३६॥
विहीनांश्च कृतानश्वान् विरथांश्चा कृतान्नरान्
।
तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः॥३७॥
हयौघान्निहतान् दृष्ट्वा द्रवमाणांस्ततस्ततः
।
रणे माधवपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः॥३८॥
पत्तिसंघान् रणे दृष्ट्वा धावमानांश्च सर्वशः
।
निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः॥३९॥
द्रोणस्य समतिक्रान्तावनीकमपराजितौ
।
क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः॥४०॥
संमूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनञ्जयौ
।
प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ॥४१॥
तस्मिन् प्रविष्टे पृतनां शिनीनां प्रवरे रथे
।
भोजानीकं व्यतिक्रान्ते किमकुर्वत कौरवाः॥४२॥
तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु
।
कथं युद्धमभूत् तत्र तन्ममाचक्ष्व सञ्जय ॥४३॥
द्रोणो हि बलवान् श्रेष्ठः कृतास्त्रो युद्धदुर्मदः
।
पञ्चालांस्ते महेष्वासं प्रत्यविध्यन् कथं रणे॥४४॥
बद्धवैरास्ततो द्रोणे धनञ्जयजयैषिणः
।
भारद्वाजसुतस्तेषु दृढवैरो महारथः ॥४५॥
अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति
।
तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि सञ्जय ॥४६॥
सञ्जय उवाच।
आत्मापराधात् संभूतं व्यसनं भरतर्षभ
।
प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि॥४७॥
पुरा यदुच्यसे प्राज्ञैः सहद्भिर्विदुरादिभिः
।
मा हार्षीः पाण्डवान् राजन्निति तन्न त्वया श्रुतम् ॥४८॥
सुहृदां हितकामानां वाक्यं यो न शृणोति ह
।
स महद्व्यसनं प्राप्य शोचते वै यथा भवान् ॥४९॥
याचितोऽसि पुरा राजन् दाशार्हेण शमं प्रति
।
न च तं लब्धवान् कामं त्वत्तः कृष्णो महायशाः ॥५०॥
तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च
।
द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् ॥५१॥
निर्गुणतां गुणवैषम्यं द्वैधीभावमनिश्चयम् ॥५१॥
तव जिह्ममभिप्रायं विदित्वा पाण्डवान् प्रति
।
आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम ॥५२॥
सर्वलोकस्य तत्त्वज्ञः सर्वलोकेश्वरः प्रभुः
।
वासुदेवस्ततो युद्धं कुरूणामकरोन्महत्॥५३॥
आत्मापराधात् सुमहान्प्राप्तस्ते विपुलः क्षयः
।
नैनं दुर्योधने दोषं कर्तुमर्हसि मानद ॥५४॥
सुमहान् विपुल इति पर्यायाभ्यां महत्त्वोद्रेकः ॥५४॥
न हि ते सुकृतं किञ्चिदादौ मध्ये च भारत
।
दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः॥५५॥
तस्मादवस्थितो भूत्वा ज्ञात्वा लोकस्य निर्णयम्
।
श्रुणु युद्धं यथावृत्तं घोरं देवासुरोपमम् ॥५६॥
निर्णयं नियतस्वभावम् ॥५६॥
प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे
।
भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव॥५७॥
आगच्छतस्तान् सहसा क्रुद्धरूपान् सहानुगान्
।
दधारैको रणे पाण्डून् कृतवर्मा महारथः ॥५८॥
यथोद्धृत्तं वारयते वेला वै सलिलार्णवम्
।
पाण्डुसैन्यं तथा संख्ये हार्दिक्यः सप्नवारयत्॥५९॥
तत्राद्भुतमपश्याम हार्दिक्यस्य पराक्रमम्
।
यदेनं सहिताः पार्था नातिचक्रमुराहवे॥६०॥
ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमाशुगैः
।
शङ्खं दध्मौ महाबाहुर्हर्षयन् सर्वपाण्डवान् ॥६१॥
सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः
।
शतेन नकुलश्चापि हार्दिक्यं समविध्यत॥६२॥
द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः
।
धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत् ॥६३॥
विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः
।
शिखंडी चैव हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः॥६४॥
पुनर्विव्याध विंशत्या सायकानां हसन्निव
।
कृतवर्मा ततो राजन् सर्वतस्तान् महारथान्॥६५॥
सर्वतः सर्वान् ॥६५॥
एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः
।
धनुर्ध्वजं चास्य तदा रथाद्भूमावपातयत्॥६६॥
अथैनं छिन्नधन्वानं त्वरमाणो महारथः
।
आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः॥६७॥
स गाढविद्धो बलवान् हार्दिक्यस्य शरोत्तमैः
।
चचाल रथमध्यस्थः क्षितिकम्पे यथाऽचलः॥६८॥
भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः
।
विसृजन्तः शरान् राजन् कृतवर्माणमार्दयन्॥६९॥
तं तथा कोष्ठकीकृत्य रथवंशेन मारिष
।
विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे॥७०॥
प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः
।
शक्तिं जग्राह समरे हेमदण्डामयस्मयीम्॥७१॥
चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति
।
सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसन्निभा॥७२॥
कृतवर्माणमभितः प्रजज्वाल सुदारुणा
।
तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम्॥७३॥
द्वाभ्यां शराभ्यां हार्दिक्यो निजघान द्विधा तदा
।
सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा ॥७४॥
द्विधा स्थानद्वये ॥७४॥
द्योतयन्ती दिशो राजन्महोल्केव नभश्च्युता
।
शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम्॥७५॥
ततोऽन्यद्धनुरादाय वेगवत् सुमहास्वनम्
।
भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् ॥७६॥
अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे
।
भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन च ॥७७॥
भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष
।
रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे॥७८॥
ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव
।
अभिहत्य दृढं युद्धे तान् सर्वान् प्रत्यविध्यत॥७९॥
त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान्
।
तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः॥८०॥
शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः
।
धनुश्चिच्छेद समरे प्रहसन्निव सात्वतः॥८१॥
शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरः
।
असिं जग्राह समरे शतचन्द्रं च भास्वरम् ॥८२॥
भ्रमयित्वा महच्चर्म चामीकरविभूषितम्
।
तमसिं प्रेषयामास कृतवर्मरथं प्रति ॥८३॥
स तस्य सशरं चापं छित्त्वा राजन् महानसिः
।
अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवांबरात्॥८४॥
एतस्मिन्नेव काले तु त्वरमाणं महारथाः
।
विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे॥८५॥
अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः
।
विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा ॥८६॥
विव्याध पाण्डवान् युद्धे त्रिभिस्त्रिभिरजिह्मगैः
।
शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च ॥८७॥
धनुरन्यत् समादाय शिखण्डी तु महायशाः
।
अवारयत् कूर्मनखैराशुगैर्हृदिकात्मजम्॥८८॥
कूर्मनखैः कूर्मनखाकृतिफलकैः ॥८८॥
ततः क्रुद्धो रणे राजन् हृदिकस्यात्मसंभवः
।
अभिदुद्राव वेगेन याज्ञसेनिं महारथम् ॥८९॥
भीष्मस्य समरे राजन् मृत्योर्हेतुं महात्मनः
।
विदर्शयन् बलं शूरः शार्दूल इव कुञ्जरम् ॥९०॥
तौ दिशां गजसंकाशौ ज्वलिताविव पावकौ
।
समापेततुरन्योन्यं शरसङ्घैररिन्दमौ॥९१॥
विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान्
।
विसृजन्तौ च शतशो गभस्तीनिव भास्करौ॥९२॥
तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ
।
युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव ॥९३॥
कृतवर्मा च समरे याज्ञसेनिं महारथम्
।
विद्ध्वेषुभिस्त्रिसप्तत्या पुनर्विव्याध सप्तभिः॥९४॥
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्
।
विसृज्य सशरं चापं मूर्च्छयाऽभिपरिप्लुतः॥९५॥
तं विषण्णं रणे दृष्ट्वा तावकाः पुरुषर्षभ
।
हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह॥९६॥
शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम्
।
अपोवाह रणाद्यन्ता त्वरमाणो महारथम्॥९७॥
सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम्
।
परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे॥९८॥
तत्राद्भुतं परं चक्रे कृतवर्मा महारथः
।
यदेकः समरे पार्थान् वारयामास सानुगान्॥९९॥
पार्थाञ्जित्वाऽजयच्चेदीन् पञ्चालान् सृञ्जयानपि
।
केकयांश्च महावीर्यान् कृतवर्मा महारथः॥१००॥
ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः
।
इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे ॥१११॥
जित्वा पाण्डुसुतान् युद्धे भीमसेनपुरोगमान्
।
हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः ॥११२॥
ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः
।
विमुखाः समपद्यन्त शरवृष्टिभिरार्दिताः ॥११३॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे कृतवर्मपराक्रमे चतुर्दशाधिकशततमोऽध्यायः ॥ ११४ ॥
सञ्जय उवाच।
शृणुष्वैकमना राजन् यन्मां त्वं परिपृच्छसि
।
द्राव्यमाणे बले तस्मिन् हार्दिक्येन महात्मना ॥१॥
शृणुष्वेति । हार्दिक्येन तावकैरन्यैश्च द्राव्यमाणे इत्युत्तरश्लोकेन सहान्वयः ॥१॥
लज्जयाऽवनते चापि प्रहृष्टैश्चापि तावकैः
।
द्वीपो य आसीत् पांडूनामगाधे गाधमिच्छताम्॥२॥
श्रुत्वा स निनदं भीमं तावकानां महाहवे
।
शैनेयस्त्वरितो राजन् कृतवर्माणमभ्ययात् ॥३॥
उवाच सारथिं तत्र क्रोधामर्षसमन्वितः
।
हार्दिक्याभिमुखं सूत कुरु मे रथमुत्तमम् ॥४॥
कुरुते कदनं पश्य पाण्डुसैन्ये ह्यमर्षितः
।
एनं जित्वा पुनः सूत यास्यामि विजयं प्रति॥५॥
एवमुक्ते तु वचने सूतस्तस्य महामते
।
निमेषान्तरमात्रेण कृतवर्माणमभ्ययात् ॥६॥
कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः
।
अवाकिरत्सुसंक्रुद्धस्ततोऽक्रुद्ध्यत्स सात्यकिः॥७॥
अथाशु निशितं भल्लं शैनेयः कृतवर्मणः
।
प्रेषयामास समरे शरांश्च चतुरोऽपरान् ॥८॥
ते तस्य जाघ्निरे वाहान् भल्लेनास्याच्छिद्धनुः
।
पृष्ठरक्षं तथा सूतमविध्यनिशितैः शरैः ॥९॥
ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः
।
सेनामस्यार्दयामास शरैः सन्नतपर्वभिः ॥१०॥
अभज्यताथ पृतना शैनेयशरपीडिता
।
ततः प्रायात्स त्वरितः सात्यकिः सत्यविक्रमः॥११॥
शृणु राजन् यदकरोत् तब सैन्येषु वीर्यवान्
।
अतीत्य स महाराज द्रोणानीकमहार्णवम् ॥१२॥
पराजित्य तु संहृष्टः कृतवर्माणमाहवे
।
यन्तारमब्रवीच्छूरः शनैर्याहीत्यसंभ्रमम्॥१३॥
दृष्ट्वा तु तव तत् सैन्यं रथाश्वद्विपसंकुलम्
।
पदातिजनसंपूर्णमब्रवीत् सारथिं पुनः ॥१४॥
यदेतन्मेधसंकाशं द्रोणानीकस्य सव्यतः
।
सुमहत् कुञ्जरानीकं यस्य रुक्मरथो सुखम् ॥१५॥
एते हि बहवः सूत दुर्निवाराश्च संयुगे
।
दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः ॥१६॥
राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः
।
त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः ॥१७॥
मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः
।
अत्र मां प्रापय क्षिप्रमश्वांचोदय सारथे ॥१८॥
त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः
।
ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः॥१९॥
रथेनादित्यवर्णेन भास्वरेण पताकिना
।
तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः॥२०॥
वायुवेगसमाः संख्ये कुन्देन्दुरजतप्रभाः
।
आपतन्तं रणे तं तु शंखवर्णैर्हयोत्तमैः॥२१॥
परिवव्रुस्ततः शूरा गजानीकेन सर्वतः
।
किरन्तो विविधांस्तीक्ष्णान् सायकान् लघुवेधिनः ॥२२॥
सात्वतो निशितैर्बाणैर्गजानीकमयोधयत्
।
पर्वतानिव वर्षेण तपान्ते जलदो महान् ॥२३॥
वज्राशनिसमस्पर्शर्वध्यमानाः शरैर्गजाः
।
प्राद्रवन् रणमुत्सृज्य शिनिवीरसमीरितैः॥२४॥
शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डिकाः
।
विशीर्णकर्णास्यकरा विनियन्तृपताकिनः ॥२५॥
पिण्डिका गण्डाः ॥२५॥
संभिन्नमर्मघण्टाश्च विनिकृत्तमहाध्वजाः
।
हतारोहा दिशो राजन् भेजिरे भ्रष्टकंबलाः॥२६॥
रुवन्तो विविधान्नादान् जलदोपमनिःस्वनाः
।
नाराचैर्वत्सदन्तैश्च भल्लैरञ्जलिकैस्तथा ॥२७॥
क्षुरप्रैरर्धचन्द्रैश्च सात्वतेन विदारिताः
।
क्षरन्तोऽसृक्र तथा सूत्रं पुरीषं च प्रदुद्रुवुः ॥२८॥
बभ्रमुश्चस्खलुश्चान्ये पेतुर्मम्लुस्तथाऽपरे
।
एवं तत् कुञ्जरानीकं युयुधानेन पीडितम् ॥२९॥
शरैरग्न्यर्कसंकाशैः प्रदुद्राव समन्ततः
।
तस्मिन्हते गजानीके जलसन्धो महाबलः॥३०॥
यत्तः संप्रापयन्नागं रजताश्वरथं प्रति
।
रुक्मवर्मधरः शूरस्तपनीयांगदः शुचिः ॥३१॥
कुण्डली मुकुटी खड्गी रक्तचन्दनरूपितः
।
शिरसा धारयन् दीप्तां तपनीयमयीं स्रजम्॥३२॥
उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम्
।
चापं च रुक्मविकृतं विधुन्वन् गजमूर्धनि ॥३३॥
कण्ठसूत्रं हारम् ॥३३॥
अशोभत महाराज सविद्यादेव तोयदः
।
तमापतन्तं सहसा मागधस्य गजोत्तमम्॥३४॥
सात्यकिर्वारयामास वेलेव मकरालयम्
।
नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः॥३५॥
अक्रुद्ध्यत रणे राजन् जलसंधो महाबलः
।
ततः क्रुद्धो महाराज मार्गणैर्भारसाधनैः॥३६॥
अविध्यत शिनेः पौत्रं जलसन्धो महोरसि
।
ततोऽपरेण भल्लेन पीतेन निशितेन च॥३७॥
अस्यतो वृष्णिवीरस्य निचकर्त शरासनम्
।
सात्यकिं छिन्नधन्वानं प्रहसन्निव भारत ॥३८॥
अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः
।
स विद्धो बहुभिर्बाणैर्जलसन्धेन वीर्यवान्॥३९॥
नाकम्पत महाबाहुस्तदद्भुतमिवाभवत्
।
अचिन्तयन् वै स शरान्नात्यर्थं सम्भ्रमाद्बली॥४०॥
धनुरन्यत् समादाय तिष्ठ तिष्ठेत्युवाच ह
।
एतावदुक्त्वा शैनेयो जलसन्धं महोरसि॥४१॥
विव्याध षष्ट्या सभृशं शराणां प्रहसन्निव
।
क्षुरप्रेण सुतीक्ष्णेन मुष्टिदेशे महद्धनुः॥४२॥
जलसंधस्य चिच्छेद विव्याध च त्रिभिः शरैः
।
जलसंधस्तु तत्त्यक्त्वा सारं वै शरासनम् ॥४३॥
तोमरं त्यसृजत्तूर्णं सात्यकिं प्रति मारिष
।
स निर्भिद्य भुजं सव्यं माधवस्य महारणे ॥४४॥
अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः
।
निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः॥४५॥
त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसन्धमताडयत्
।
प्रगृह्य तु ततः खड्गं जलसन्धो महाबलः॥४६॥
आर्षभं चर्म च महच्छतचन्द्रकसंङ्कुलम्
।
आविध्य च ततः खड्गं सात्वतायोत्ससर्ज ह॥४७॥
ततो ग्रहणानन्तरम् आविध्य भ्रामयित्वा ॥४७॥
शैनेयस्थ धनुश्छित्त्वा स खङ्गो न्यपतन्महीम्
।
अलातचक्रवच्चैव व्यरोचत महीं गतः ॥४८॥
अथान्यद्धनुरादाय सर्वकायावदारणम्
।
शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम्॥४९॥
विस्फार्य विव्यधे क्रुद्धो जलसन्धं शरेण ह
।
ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः ॥५०॥
सात्यकिर्जलसन्धस्य चिच्छेद प्रहसन्निव
।
तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात्॥५१॥
वसुन्धराधराद्भ्रष्टौ पञ्चशीर्षाविवोरगौ
।
ततः सुदंष्ट्रं सुमहच्चारुकुण्डलमण्डितम्॥५२॥
वसुन्धराधरात् पर्वतात् ॥५२॥
क्षुरेणास्य तृर्तायेन शिरश्चिच्छेद सात्यकिः
।
तत्पातितशिरोबाहुकबन्धं भीमदर्शनम् ॥५३॥
द्विरदं जलसन्धस्य रुधिरेणाभ्यषिञ्चत
।
जलसन्धं निहत्याजौ त्वरमाणस्तु सात्वतः॥५४॥
विमानं पातयामास गजस्कन्धाद्विशांपते
।
रुधिरेणावसिक्तांगो जलसन्धस्य कुञ्जरः॥५५॥
विलम्बमानमवहत् संश्लिष्टं परमासनम्
।
शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम्॥५६॥
घोरमार्तस्वरं कृत्वा विदुद्राव महागजः
।
हाहाकारो महानासीत्तव सैन्यस्य मारिष॥५७॥
जलसन्धं हतं दृष्ट्वा वृष्णीनामृषभेण तु
।
विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः॥५८॥
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये
।
एतस्मिन्नन्तरे राजन् द्रोणः शस्त्रभृतां वरः॥५९॥
अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम्
।
तमुदीर्णं तथा दृष्ट्वा शैनेयं नरपुङ्गवाः॥६०॥
द्रोणेनैव सह क्रुद्धाः सात्यकिं समुपाद्रवन्
।
ततः प्रववृते युद्धं कुरूणां सात्त्वतस्य च
।
द्रोणस्य च रणे राजन् घोरं देवासुरोपमम्॥६१॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवशे जलसन्धवधो नाम पञ्चदशाधिकशततमोऽध्यायः॥११५॥
सञ्जय उवाच।
ते किरन्तः शरव्रातान् सर्वे यत्ताः प्रहारिणः
।
त्वरमाणा महाराज युयुधानमयोधयन्॥१॥
ते किरन्त इति ॥१॥
तं द्रोणः सप्त सप्तत्या जघान निशितैः शरैः
।
दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः॥२॥
विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः
।
विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा॥३॥
दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः
।
चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष॥४॥
दुर्योधनश्च महता शरवर्षेण माधवम्
।
अपीडयद्रणे राजञ्शूराश्चान्ये महारथाः॥५॥
सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः
।
तान् प्रत्यविध्यद्वार्ष्णेयः पृथक् पृथगजिह्मगैः॥६॥
भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिः शरैः
।
विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः॥७॥
दुर्मर्षणं द्वादशभिरष्टाभिश्च विविंशतिम्
।
सत्यव्रतं च नवभिर्विजयं दशभिः शरैः॥८॥
ततो रुक्मांगदं चापं विधुन्वानो महारथः
।
अभ्ययात् सात्यकिस्तूर्णं पुत्रं तव महारथम्॥९॥
राजानं सर्वलोकस्य सर्वलोकमहारथम्
।
शरैरभ्याहनद्गाढं ततो युद्धमभूत्तयोः ॥१०॥
विमुञ्चन्तौ शरांस्तीक्ष्णान् सन्दधानौ च सायकान्
।
अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ ॥११॥
सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत
।
अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा ॥१२॥
चन्दनो रक्तचन्दनः ॥१२॥
सात्वतेन च बाणौघैर्निर्विद्धस्तनयस्तव
।
शातकुंभमयापीडो बभौ यूप इवोच्छ्रितः॥१३॥
माधवस्तु रणे राजन् कुरुराजस्य धन्विनः
।
धनुश्चिच्छेद समरे क्षुरप्रेण हसन्निव ॥१४॥
अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत्
।
निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा ॥१५॥
नामृष्यत रणे राजा शत्रोर्विजयलक्षणम्
।
अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् ॥१६॥
विव्याध सात्यकिं तूर्णं सायकानां शतेन ह
।
सोऽतिविद्धो बलवता तव पुत्रेण धन्विना ॥१७॥
अमर्षवशमापन्नस्तव पुत्रमपीडयत्
।
पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः॥१८॥
सात्यकिं शरवर्षेण छादयामासुरोजसा
।
स च्छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः ॥१९॥
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः
।
दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः ॥२०॥
प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम्
।
नागं मणिमयं चैव शरैर्ध्वजमपातयत् ॥२१॥
हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः
।
सारथिं पातयामास क्षुरप्रेण महायशाः॥२२॥
एतस्मिन्नन्तरे चैव कुरुराजं महारथम्
।
अवाकिरच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः॥२३॥
स वध्यमानः समरे शैनेयस्य शरोत्तमैः
।
प्राद्रवत् सहसा राजन् पुत्रो दुर्योधनस्तव॥२४॥
आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः
।
हाहाभूतं जगच्चासीद् दृष्ट्वा राजानमाहवे ॥२५॥
ग्रस्यमानं सात्यकिना खे सोममिव राहुणा
।
तं तु शब्दमथ श्रुत्वा कृतवर्मा महारथः ॥२६॥
अभ्ययात् सहसा तत्र यत्रास्ते माधवः प्रभुः
।
विधुन्वानो धनुः श्रेष्ठं चोदयंश्चैव वाजिनः॥२७॥
भर्त्सयन् साराथिं चाग्रे याहि याहीति सत्वरम्
।
तमापतन्तं संप्रेक्ष्य व्यादितास्यमिवान्तकम्॥२८॥
युयुधानो महाराज यन्तारमिदमब्रवीत्
।
कृतवर्मा रथेनैष द्रुतमापतते शरी ॥२९॥
प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम्
।
ततः प्रजविताश्वेन विधिवत् कल्पितेन च ॥३०॥
आससाद रणे भोजं प्रतिमानं धनुष्मताम्
।
ततः परमसंक्रुद्धौ ज्वलिताविव पावकौ ॥३१॥
समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ
।
कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् ॥३२॥
निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य पञ्चभिः
।
चतुरश्चतुरो वाहांश्चतुर्भिः परमेषुभिः॥३३॥
अविध्यत् साधुदान्तान् वे सैन्धवान् सात्वतस्य हि
।
रुक्मध्वजो रुक्मपृष्ठं महद्विस्फार्य कार्मुकम् ॥३४॥
रुक्माङ्गदी रुक्मवर्मा रुक्मपुंखैरवारयत्
।
ततोऽशीतिं शिनेः पौत्रः सायकान् कृतवर्मणे॥३५॥
प्राहिणोत्त्वरया युक्ता द्रष्टुकामो धनञ्जयम्
।
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः॥३६॥
समकम्पत दुर्धर्षः क्षितिकंपे यथाऽचलः
।
त्रिषष्ट्या चतुरोऽस्याश्वान् सप्तभिः सारथिं तथा ॥३७॥
विव्याध निशितैस्तूर्णं सात्यकिः सत्यविक्रमः
।
सुवर्णपुंखं विशिखं समाधाय च सात्यकिः॥३८॥
व्यसृजत्तं महाज्वालं संक्रुद्धमिव पन्नगम्
।
सोऽविध्यत् कृतवर्माणं यमदण्डोपमः शरः ॥३९॥
जांबूनदविचित्रं च वर्म निर्भिद्य भानुमत्
।
अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः॥४०॥
संजातरुधिरश्चाजौ सात्वतेषुभिरर्दितः
।
सशरं धनुरुत्सृज्य न्यपतत् स्यन्दनोत्तमात्॥४१॥
स सिंहदंष्ट्रो जानुभ्यां पतितोऽमितविक्रमः
।
शरार्दितः सात्यकिना रथोपस्थे नरर्षभः ॥४२॥
दंष्ट्राश्चतस्त्रो यस्य स्युर्दशनेभ्यः समुच्छ्रिताः । सिंहदंष्ट्रःस गदितश्चतुर्दंष्ट्रश्च सूरिभिः॥४२॥
सहस्रबाहुसदृशमक्षोभ्यमिव सागरम्
।
निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः॥४३॥
खड्गशक्तिधनुःकीर्णां गजाश्वरथसंकुलाम्
।
प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः ॥४४॥
प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुङ्गवः
।
अभ्यगाद्वाहिनीं हित्वा वृत्रहेवासुरीं चमूम्॥४५॥
समाश्वस्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः
।
तस्थौ स तत्र बलवान्वारयन्युधि पाण्डवान्॥४६॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे दुर्योधनकृतवर्मपराजये षोडशाधिकशततमोऽध्यायः ॥११६॥
सञ्जय उवाच।
काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः
।
भारद्वाजः शरव्रातैर्महद्भिः समवाकिरत्॥१॥
काल्यमानेष्विति ॥१॥
स संप्रहारस्तुमुलो द्रोणसात्वतयोरभूत्
।
पश्यतां सर्वसैन्यानां बलिवासवयोरिव॥२॥
ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः
।
त्रिभिराशीविषाकारैर्ललाटे समविध्यत ॥३॥
तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः
।
व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः ॥४॥
ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान्
।
भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे ॥५॥
तान्द्रोणचापनिर्मुक्तान् दाशार्हः पततः शरान्
।
द्वाभ्यां द्वाभ्यां सुपुंखाभ्यां चिच्छेद परमास्त्रवित्॥६॥
तामस्य लघुतां द्रोणः समवेक्ष्य विशांपते
।
प्रहस्य सहसाऽविध्यत्त्रिंशता शिनिपुंगवम् ॥७॥
पुनः पञ्चाशतेषूणां शितेन च समार्पयत्
।
लघुतां युयुधानस्य लाघवेन विशेषयन् ॥८॥
समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः
।
तथा द्रोणरथाद्राजन्नापतन्ति तनुच्छिदः ॥९॥
तथैव युयुधानेन सृष्टाः शतसहस्रशः
।
अवाकिरन् द्रोणरथं शरा रुधिरभोजनाः॥१०॥
लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष
।
विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ॥११॥
सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः
।
आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः॥१२॥
सारथिं च शतेनैव भारद्वाजस्य पश्यतः
।
लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः॥१३॥
सप्तत्या सारथिं विद्ध्वा तुरङ्गांश्च त्रिभिस्त्रिभिः
।
ध्वजमेकेन चिच्छेद माधवस्य रथे स्थितम्॥१४॥
अथापरेण भल्लेन हेमपुङ्गेन पत्रिणा
।
धनुश्चिच्छेद समरे माधवस्य महात्मनः॥१५॥
सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः
।
गदां जग्राह महतीं भारद्वाजाय चाक्षिपत् ॥१६॥
तामापतन्तीं सहसा पट्टबद्धामयस्मयीम्
।
न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः॥१७॥
अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः
।
विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः॥१८॥
स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत
।
तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः ॥१९॥
ततः शक्तिं गृहीत्वा तु रुक्मदण्डामयस्मयीम्
।
तरसा प्रेषयामास माधवस्य रथं प्रति ॥२०॥
अनासाद्य तु शैनेयं सा शक्तिः कालसन्निभा
।
भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना ॥२१॥
ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा
।
दक्षिणं भुजमासाद्य पीडयन् भरतर्षभ ॥२२॥
द्रोणोऽपि समरे राजन् माधवस्य महद्धनुः
।
अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम्॥२३॥
रथशक्त्या केतकपत्राकारमुखया शक्त्या ॥२३॥
मुमोह सारथिस्तस्य रथशक्त्या समाहतः
।
स रथोपस्थमासाद्य मुहूर्तं संन्यषीदत ॥२४॥
चकार सात्यकी राजन् सूतकर्मातिमानुषम्
।
अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम् ॥२५॥
ततः शरशतेनैव युयुधानो महारथः
।
अविध्यद्ब्राह्मणं संख्ये हृष्टरूपो विशांपते ॥२६॥
तस्य द्रोणः शरान् पञ्च प्रेषयामास भारत
।
ते घोराः कवचं भित्त्वा पपुः शोणितमाहवे ॥२७॥
निर्विद्धस्तु शरैर्घोरैरक्रुद्ध्यत् सात्यकिर्भृशम्
।
सायकान् व्यसृजच्चापि वीरो रुक्मरथं प्रति॥२८॥
ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि
।
अश्वान् व्यद्रावयद्बाणैर्हतसूतांस्ततस्ततः॥२९॥
स रथः प्रद्रुतः संख्ये मण्डलानि सहस्रशः
।
चकार राजतो राजन् भ्राजमान इवांशुमान्॥३०॥
अभिद्रवत गृह्णीत हयान् द्रोणस्य धावत
।
इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः ॥३१॥
ते सात्यकिमपास्याशु राजन् युधि महारथाः
।
यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन् ॥३२॥
तान् दृष्ट्वा प्रद्रुतान्संख्ये सात्वतेन शरार्दितान्
।
प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम् ॥३३॥
व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः
।
वातायमानैस्तैरश्वैर्नीतो वृष्णिशरार्दितः ॥३४॥
पाण्डुपाञ्चालसंभिन्नं व्यूहमालोक्य वीर्यवान्
।
शैनेये नाकरोद्यत्नं व्यूहमेवाभ्यरक्षत ॥३५॥
निवार्य पाण्डुपञ्चालान् द्रोणाग्निः प्रदहन्निव
।
तस्थौ क्रोधेध्मसंदीप्तः कालसूर्य इवोद्यतः ॥३६॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे सात्यकिपराक्रमे सप्तदशाधिकशततमोऽध्यायः ॥११७॥
सञ्जय उवाच।
ततः स सात्यकिर्धीमान्महात्मा वृष्णिपुङ्गवः
।
सुदर्शनं निहत्याजौ यन्तारं पुनरब्रवीत् ॥१॥
तत इति ॥१॥
रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम्
।
खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम् ॥२॥
प्राणापहारिणं रौद्रं वादित्रोत्क्रुष्टनादितम्
।
योधानामसुखस्पर्शं दुर्धर्षमजयैषिणाम् ॥३॥
तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम्
।
जलसन्धबलेनाजौ पुरुषादैरिवावृतम् ॥४॥
अतोऽन्यत् पृतनाशेषं मन्ये कुनदिकामिव
।
तर्तव्यामल्पसलिलां चोदयाश्वानसंभ्रमम्॥५॥
हस्तप्राप्तमहं मन्ये सांप्रतं सव्यसाचिनम्
।
निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे॥६॥
हार्दिक्यं योधवर्यं च मन्ये प्राप्तं धनञ्जयम्
।
न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः॥७॥
वह्नेरिव प्रदीप्तस्य वने शुष्कतृणोलपे
।
पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना॥८॥
पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम्
।
द्रवते तद्यथा सैन्यं तेन भग्नं महात्मना ॥९॥
रथैर्विपरिधावद्भिर्गजैरश्वैश्च सारथे
।
कौशेयारुणसङ्काशमेतदुद्धूयते रजः॥१०॥
अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम्
।
स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः॥११॥
यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै
।
अनस्तंगत आदित्ये हन्ता सैन्धवमर्जुनः॥१२॥
शनैर्विश्रम्भयन्नश्वान् याहि यत्रारिवाहिनी
।
यत्रैते सतलत्राणाः सुयोधनपुरोगमाः॥१३॥
विश्रंभयन् आश्वासयन् ॥१३॥
दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः
।
शरबाणासनधरा यवनाश्च प्रहारिणः॥१४॥
शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः
।
अन्ये च बहवो म्लेच्छा विविधायुधपाणयः॥१५॥
यत्रैते सतलत्राणाः सुयोधनपुरोगमाः
।
मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः॥१६॥
एतान् सरथनागाश्वान्निहत्याजौ सपत्तिनः
।
इदं दुर्गं महाघोरं तीर्णमेवोपधारय॥१७॥
सूत उवाच।
न संभ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम
।
यद्यपि स्यात्तव क्रुद्धो जामदग्न्योऽग्रतः स्थितः॥१८॥
द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा
।
तथापि संभ्रमो न स्यात्त्वामाश्रित्य महाभुज॥१९॥
त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन
।
दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः॥२०॥
शरबाणासनधरा यवनाश्च प्रहारिणः
।
शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः॥२१॥
अन्ये च बहवो म्लेच्छा विविधायुधपाणयः
।
न च मे संभ्रमः कश्चिद्भूतपूर्वः कथञ्चन॥२२॥
किमुतैतत् समासाद्य धीरसंयुगगोष्पदम्
।
आयुष्मन् कतरेण त्वां प्रापयामि धनञ्जयम्॥२३॥
केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः
।
केषां संयमनीमद्य गन्तुमुत्सहते मनः॥२४॥
के त्वां युधि पराक्रान्तं कालान्तकयमोपमम्
।
दृष्ट्वा विक्रमसंपन्नं विद्रविष्यन्ति संयुगे॥२५॥
केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज
।
सात्यकिरुवाच
।
मुण्डानेतान् हनिष्यामि दानवानिव वासवः॥२६॥
प्रतिक्षां पारयिष्यामि काम्बोजानेव मां वह
।
अद्यैषां कदनं कृत्वा प्रियं यास्यामि पाण्डवम्॥२७॥
पारयिष्यामि समापयिष्यामि ॥२७॥
अद्य द्रक्ष्यन्ति मे वीर्यं कौरवाः ससुयोधनाः
।
मुण्डानीके हते सूत सर्वसैन्येषु चासकृत्॥२८॥
अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे
।
श्रुत्वा विरावं बहुधा सन्तप्स्यति सुयोधनः॥२९॥
अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः
।
आचार्यस्य कृतं मार्गं दर्शयिष्यामि संयुगे ॥३०॥
श्वेताश्वस्य सकाशे कृतमभ्यस्तं मार्गमस्त्रशिक्षामाचार्यस्य द्रोणस्य दर्शयिष्यामीत्यन्वयः । अथवा आचार्यस्य विद्योपदेष्टुः श्वेताश्वस्य दर्शयिष्यामीति सामान्यकर्मकम् ॥३०॥
अद्य मद्बाणनिहतान् योधमुख्यान् सहस्रशः
।
दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति ॥३१॥
अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान्
।
अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः॥३२॥
मत्सायकचिताङ्गानां रुधिरं स्रवतां मुहुः
।
सैनिकानां वधं दृष्ट्वा सन्तप्स्यति सुयोधनः॥३३॥
अद्य में क्रुद्धरूपस्य निघ्नतश्च वरान् वरान्
।
द्विरर्जुनमिमं लोकं मंस्यतेऽद्य सुयोधनः॥३४॥
द्विरर्जुनं द्वावर्जुनौ यत्र नैरुक्तो वर्णागमः ॥३४॥
अद्य राजसहस्राणि निहतानि मया रणे
।
दृष्ट्वा दुर्योधनो राजा सन्तप्स्यति महामृधे॥३५॥
अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु
।
हत्वा राजसहस्त्राणि दर्शयिष्यामि राजसु॥३६॥
बलं वीर्यं कृतज्ञत्वं मम ज्ञास्यन्ति कौरवाः
।
सञ्जय उवाच।
एवमुक्तस्तदा सूतः शिक्षितान् साधुवाहिनः॥३७॥
शशाङ्कसन्निकाशान्वै वाजिनो व्यनुदद्भृशम्
।
ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः॥३८॥
प्रापयन् यवनाञ्शीघ्रं मनःपवनरंहसः
।
सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम्॥३९॥
बहवो लघुहस्ताश्च शरवर्षैरवाकिरन्
।
तेषामिषूनथास्त्राणि वेगवान्नतपर्वभिः॥४०॥
अच्छिनत् सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः
।
रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः॥४१॥
उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि
।
शैक्यायसानि वर्माणि कांस्यानि च समन्ततः॥४२॥
शैक्यायसानि शोणितायोमयानि ॥४२॥
भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम्
।
ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे ॥४३॥
शतशोऽभ्यपतंस्तत्र व्यसवो वसुधातले
।
सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः॥४४॥
सुपूर्णायतमुक्तैराकर्णज्योत्सृष्टैः अव्यवच्छिन्नपिण्डितैः अनवच्छिन्नसंहतैः ॥४४॥
पञ्च षट् सप्त चाष्टौ च बिभेद यवनाञ्शरैः
।
काम्बोजानां सहस्रैश्च शकानां च विशांपते॥४५॥
शबराणां किरातानां बर्बराणां तथैव च
।
अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम्॥४६॥
कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम्
।
दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धजैः॥४७॥
दीर्घकूर्चैर्मही कीर्णा विबर्हैरण्डजैरिव
।
रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ ॥४८॥
कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम्
।
वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः॥४९
।
ते सात्वतेन निहताः समावव्रुर्वसुन्धराम्
।
अल्पावशिष्टाः संभग्नाः कृच्छ्रमाणा विचेतसः॥५०॥
जिताः संख्ये महाराज युयुधानेन दंशिताः
।
पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरङ्गमान्॥५१॥
जवमुत्तममास्थाय सर्वतः प्राद्रवन् भयात्
।
काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत॥५२॥
यवनानां च तत्सैन्यं शकानां च महद्बलम्
।
ततः स पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः॥५३॥
प्रविष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत्
।
तत्तस्य समरे कर्म दृष्ट्वाऽन्यैरकृतं पुरा॥५४॥
चारणाः सहगन्धर्वाः पूजयांचक्रिरे भृशम्
।
तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशांपते
।
चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाभ्यपूजयन्॥५५॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे यवनपराजये एकोनविंशत्यधिकशततमोऽध्यायः ॥ ११९ ॥
सञ्जय उवाच।
जित्वा यवनकाम्बोजान्युयुधानस्ततोऽर्जुनम्
।
जगाम तव सैन्यस्य मध्येन रथिनां वरः॥१॥
जित्वेति ॥१॥
चारुदंष्ट्रो नरव्याघ्रो विचित्रकवचध्वजः
।
मृगं व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् ॥२॥
स रथेन चरन्मार्गान् धनुरभ्रामयद्भृशम्
।
रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसंकुलम् ॥३॥
रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः
।
रुक्मध्वजधनुः शूरो मेरुशृङ्गमिवाबभौ॥४॥
सधनुर्मण्डलः संख्ये तेजोभास्कररश्मिवान्
।
शरदीवोदितः सूर्यो नृसूर्यो विरराज ह ॥५॥
वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः
।
तावकानां बभौ मध्ये गवां मध्ये यथा वृषः॥६॥
मत्तद्विरदसंकाशं मत्तद्विरदगामिनम्
।
प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् ॥७॥
व्याघ्रा इव जिघांसन्तस्त्वदीयाः समुपाद्रवन्
।
द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम्॥८॥
जलसन्धार्णवं तीर्त्वा काम्बोजानां च वाहिनीम्
।
हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम् ॥९॥
परिवव्रुः सुसंक्रुद्धास्त्वदीयाः सात्यकिं रथाः
।
दुर्योधनश्चित्रसेनो दुःशासनविविंशती॥१०॥
शकुनिर्दुःसहश्चैव युवा दुर्धर्षणः क्रथः
।
अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः॥११॥
पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिणः
।
अथ शब्दो महानासीत्तव सैन्यस्य मारिष॥१२॥
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि
।
तानभिद्रवतः सर्वान् समीक्ष्य शिनिपुङ्गवः॥१३॥
शनैर्याहीति यन्तारमब्रवीत् प्रहसन्निव
।
इदमेतत्समुद्भूतं धार्तराष्ट्रस्य यद्बलम्॥१४॥
मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत्
।
नादयन् वै दिशः सर्वा रथघोषेण सारथे॥१५॥
पृथिवीं चान्तरिक्षं च कम्पयन् सागरानपि
।
एतद्बलार्णवं सूत वारयिष्ये महारणे॥१६॥
पौर्णमास्यामिवोद्धूतं वेलेव मकरालयम्
।
पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे॥१७॥
एष सैन्यानि शत्रूणां विधमामि शितैः शरैः
।
निहतानाहवे पश्य पदात्यश्वरथद्विपान् ॥१८॥
मच्छरैरग्निसंकाशैर्विद्धदेहान् सहस्रशः
।
इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः॥१९॥
समीपे सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः
।
जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः॥२०॥
तानेवं ब्रुवतो वीरान् सात्यकिर्निशितैः शरैः
।
जघान त्रिशतानश्वान् कुञ्जरांश्च चतुःशतान्॥२१॥
स संप्रहारस्तुमुलस्तस्य तेषां च धन्विनाम्
।
देवासुररणप्रख्यः प्रावर्तत जनक्षयः ॥२२॥
मेघजालनिभं सैन्यं तव पुत्रस्य मारिष
।
प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः॥२३॥
प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान्
।
असंभ्रमन् महाराज तावकानवधीद्बहून्॥२४॥
आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम्
।
न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो॥२५॥
रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः
।
शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः॥२६॥
संभ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः
।
तत् सैन्यमिषुभिस्तेन वध्यमानं समन्ततः॥२७॥
बभ्राम तत्र तत्रैव गावः शीतार्दिता इव
।
पदातिनं रथं नागं सादिनं तुरगं तथा ॥२८॥
अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः
।
न तादृक्कदनं राजन् कृतवांस्तत्र फाल्गुनः॥२९॥
यादृक् क्षयमनीकानामकरोत् सात्यकिर्नृप
।
अत्यर्जुनं शिनेःपौत्रो युध्यते पुरुषर्षभः॥३०॥
वीतभीर्लाघवोपेतः कृतित्वं संप्रदर्शयन्
।
ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः॥३१॥
विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान्
।
सात्यकिं च त्रिभिर्विद्ध्वा पुनरष्टाभिरेव च॥३२॥
दुःशासनः षोडशभिर्विव्याध शिनिपुङ्गवम्
।
शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः॥३३॥
दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम्
।
उत्स्मयन् वृष्णिशार्दूलस्तथा बाणैः समाहतः॥३४॥
तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः
।
गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः॥३५॥
शैनेयः श्येनवत्संख्ये व्यचरल्लघुविक्रमः
।
सौबलस्य धनुश्छित्वा हस्तावापं निकृत्य च॥३६॥
दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत् स्तनान्तरे
।
चित्रसेनं शतेनैव दशभिर्दुःसहं तथा ॥३७॥
दुःशासनं तु विंशत्या विव्याध शिनिपुङ्गवः
।
अथान्यद्धनुरादाय श्यालस्तव विशांपते॥३८॥
अष्टाभिः सात्यकिं विद्ध्वा पुनर्विव्याध पञ्चभिः
।
दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः॥३९॥
दुर्मुखश्च द्वादशभी राजन् विव्याध सात्यकिम्
।
दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम्॥४०॥
ततोऽस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम्
।
तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान् ॥४१॥
पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः
।
ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम् ॥४२॥
आजघानाशु भल्लेन स हतो न्यपतद्भुवि
।
पतिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो ॥४३॥
वातायमानैस्तैरश्वैरपानीयत सगरात्
।
ततस्तव सुतो राजन् सैनिकाश्च विशांपते ॥४४॥
राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन्
।
विद्रुतं तत्र तत् सैन्यं दृष्ट्वा भारत सात्यकिः॥४५॥
अवाकिरच्छरैस्तीक्ष्णै रुक्मपुंखैः शिलाशितैः
।
विद्राव्य सर्वसैन्यानि तावकानि सहस्रशः॥४६॥
प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति
।
तं शरानाददानं च रक्षमाणं च सारथिम्
।
आत्मानं पालयानं च तावकाः समपूजयन्॥४७॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे दुर्योधनपलायने विंशत्यधिकशततमोऽध्यायः ॥१२०॥
धृतराष्ट्र उवाच।
संप्रमृद्य महत् सैन्यं यान्तं शैनेयमर्जुनम्
।
निर्ह्रीका मम ते पुत्राः किमकुर्वत सञ्जय ॥१॥
संप्रमृद्येति ॥१॥
कथं वैषां तदा युद्धे धृतिरासीन्मुमूर्षताम्
।
शैनेयचरितं दृष्ट्वा यादृशं सव्यसाचिनः ॥२॥
किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः
।
कथं नु सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः ॥३॥
कथं च मम पुत्राणां जीवतां तत्र सञ्जय
।
शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व सञ्जय ॥४॥
अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम्
।
एकस्य बहुभिः सार्द्धं शत्रुभिस्तैर्महारथैः ॥५॥
विपरीतमहं मन्ये मन्दभाग्यं सुतं प्रति
।
यत्रावध्यन्त समरे सात्वतेन महारथाः ॥६॥
एकस्य हि न पर्याप्तं यत्सैन्यं तस्य सञ्जय
।
क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः ॥७॥
निर्जित्य समरे द्रोणं कृतिनं चित्रयोधिनम्
।
यथा पशुगणान् सिंहस्तद्वद्धन्ता सुतान् मम ॥८॥
कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे
।
युयुधानो न शकितो हन्तुं यत्पुरुषर्षभः ॥९॥
नैतदीदृशकं युद्धं कृतवांस्तत्र फाल्गुनः
।
यादृशं कृतवान् युद्धं शिनेर्नप्ता महायशाः ॥१०॥
सञ्जय उवाच।
तव दुर्मन्त्रिते राजन् दुर्योधनकृतेन च
।
शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत ॥११॥
दुर्योधनस्य कृतेन कर्मणा ॥११॥
ते पुनः संन्यवर्तन्त कृत्या संशप्तका मिथः
।
परां युद्धे मतिं क्रूरां तव पुत्रस्य शासनात् ॥१२॥
मतिं कृत्वेत्यन्वयः ॥१२॥
त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः
।
शककाम्बोजबाल्हीका यवनाः पारदास्तथा ॥१३॥
कुलिन्दास्तंगणाम्बष्ठाः पैशाचाश्च सबर्बराः
।
पार्वतीयाश्च राजेन्द्र क्रुद्धाः पाषाणपाणयः ॥१४॥
अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा
।
युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम् ॥१५॥
शूराः पञ्चाशता राजन् शैनेयं समुपाद्रवन्
।
ततो रथसहस्रेण महारथशतेन च ॥१६॥
द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः
।
शरवर्षाणि मुञ्चन्तो विविधानि महारथाः ॥१७॥
अभ्यद्रवन्त शैनेयमसंख्येयाश्च पत्तयः
।
तांश्च सञ्चोदयन् सर्वान् घ्नतैनमिति भारत ॥१८॥
दुःशासनो महाराज सात्यकिं पर्यवारयत्
।
तत्राद्भुतमपश्याम शैनेयचरितं महत् ॥१९॥
यदेको बहुभिः सार्धमसंभ्रान्तमयुध्यत
।
अवधीच्च रथानीकं द्विरदानां च तद्बलम् ॥२०॥
सादिनश्चैव तान् सर्वान् दस्यूनपि च सर्वशः
।
तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः ॥२१॥
अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः
।
कुञ्जरैर्मथितैश्चापि ध्वजैश्च विनिपातितैः ॥२२॥
वर्मभिश्च तथानीकैर्व्यवकीर्णा वसुन्धरा
।
स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष ॥२३॥
संच्छन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत
।
गिरिरूपधराश्चापि पतिताः कुञ्जरोत्तमाः ॥२४॥
अञ्जनस्य कुले जाता वामनस्य च भारत
।
सुप्रतीककुले जाता महापद्मकुले तथा ॥२५॥
वामनस्य यमोपवाह्यस्य । ‘चन्द्राः कान्तशिरोग्रीवा नीचस्कन्धा मनस्विनः । व्यूढोरस्काः सुनिश्चिन्ता वामनान्वयजा गजाः’॥ सुप्रतीकस्य ईशोपवाह्यस्य । ‘सुविभक्तमहाशीर्षा जीमूतसदृशप्रभाः । प्रभूतहस्ता बलिनः सुप्रतीककुलोद्भवाः’॥ महापद्मस्य कुमुदस्य कुले ॥ ‘चंडाः समायतत्वक्काः सुबद्धा बलिनोऽपि च । महापद्मान्वयभवा गजयुद्धप्रिया गजाः’॥२५॥
ऐरावतकुले चैव तथाऽन्येषु कुलेषु च
।
जाता दन्तिवरा राजन् शेरते बहवो हताः ॥२६॥
उदप्रा वर्षवन्तश्च गजा ऐरावतोद्भवाः‘॥ अन्येषु कुलेषु पुंडरीकपुष्पदन्तसार्वभौमीयेषु । ‘स्थिराः स्थूलशिरोदन्तनिःशंका बलिनोऽपि च ॥ शुक्रवर्णनखाः शूराः पुंडरीकोद्भवा गजाः । श्यामत्वग्दशनाश्चंडा लम्बोष्ठाश्चारुदर्शनाः ॥ पीनायताननकराः पुष्पदंतोद्भवा गजाः ॥ मंडलाकृतयः शूराः सुवर्माणः सुदर्शनाः । पीनायतास्याः पीताभाः सार्वभौमकुलोद्भवाः’॥२६॥
वनायुजान् पार्वतीयान् काम्बोजान् बाल्हिकानपि
।
तथा हयवरान् राजन्निजघ्ने तत्र सात्यकिः ॥२७॥
नानादेशसमुत्थांश्च नानाजातींश्च दन्तिनः
।
निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः ॥२८॥
तेषु प्रकाल्यमानेषु दस्यून् दुःशासनोऽब्रवीत्
।
निवर्तध्यमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥२९॥
तांश्चातिभग्नान् संप्रेक्ष्य पुत्रो दुःशासनस्तव
।
पाषाणयोधिनः शूरान् पार्वतीयानचोदयत् ॥३०॥
अश्मयुद्धेषु कुशला नैतज्जानाति सात्यकिः
।
अश्मयुद्धमजानन्तं हतैनं युद्धकामुकम् ॥३१॥
तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः
।
अभिद्रवत मा भैष्ट न वः प्राप्स्यति सात्यकिः ॥३२॥
ते पार्वतीया राजानः सर्वे पाषाणयोधिनः
।
अभ्यद्रवन्त शैनेयं राजानमिव मन्त्रिणः ॥३३॥
ततो गजशिरःप्रख्यैरुपलैः शैलवासिनः
।
उद्यतैर्युयुधानस्य पुरतस्तस्थुराहवे ॥३४॥
क्षेपणीयैस्तथाऽप्यन्ये सात्वतस्य वधैषिणः
।
चोदितास्तव पुत्रेण सर्वतो रुरुधुर्दिशः ॥३५॥
क्षेपणीयैः शनैः ॥३५॥
तेषामापततामेव शिलायुद्धं चिकीर्षताम्
।
सात्यकिः प्रतिसन्धाय निशितान् प्राहिणोच्छरान् ॥३६॥
तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम्
।
चिच्छेदोरगसङ्काशैर्नाराचैः शिनिपुंगवः ॥३७॥
तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः
।
प्रायः सैन्यान्यहन्यन्त हाहाभूतानि मारिष ॥३८॥
ततः पञ्चशतं शूराः समुद्यतमहाशिलाः
।
निकृत्तबाहयो राजन्निपेतुर्धरणीतले ॥३९॥
पुनर्दशशताश्चान्ये शतसाहस्रिणस्तथा
।
सोपलैर्बाहुभिश्छिन्नैः पेतुरप्राप्य सात्यकिम् ॥४०॥
पाषाणयोधिनः शूरान् यतमानानवस्थितान्
।
न्यवधीद्बहुसाहस्रांस्तदद्भुतमिवाभवत् ॥४१॥
ततः पुनर्व्यात्तमुखास्तेऽश्मवृष्टीः समन्ततः
।
अयोहस्ताः शूलहस्ता दरदास्तंगणाः खसाः ॥४२॥
व्यात्तमुखा म्लेच्छविशेषाः ॥४२॥
लंपाकाश्च कुलिंदाश्च चिक्षिपुस्तांश्च सात्यकिः
।
नाराचैः प्रतिचिच्छेद प्रतिपत्तिविशारदः ॥४३॥
अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः
।
शब्देन प्राद्रवन् संख्ये रथाश्वगजपत्तयः ॥४४॥
अद्रीणां प्रस्तराणाम् ॥४४॥
अश्मचूर्णैरवाकीर्णा मनुष्य-गज-वाजिनः
।
नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः ॥४५॥
हतशिष्टाः सरुधिरा भिन्नमस्तकपिण्डिकाः
।
कुञ्जरा वर्जयामासुर्युयुधानरथं तदा ॥४६॥
ततः शब्दः समभवत्तव सैन्यस्य मारिष
।
माधवेनार्द्यमानस्य सागरस्येव पर्वणि ॥४७॥
तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत्
।
एष सूत रणे क्रुद्धः सात्वतानां महारथः ॥४८॥
दारयन् बहुधा सैन्यं रणे चरति कालवत्
।
यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय ॥४९॥
पाषाणयोधिभिर्नूनं युयुधानः समागतः
।
तथाहि रथिनः सर्वे ह्रियन्ते विद्रुतैर्हयैः ॥५०॥
विशस्त्रकवचा रुग्णास्तत्र तत्र पतन्ति च
।
न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् ॥५१॥
इत्येतद्वचनं श्रुत्वा भारद्वाजस्य सारथिः
।
प्रत्युवाच ततो द्रोणं सर्वशस्त्रभृतां वरम् ॥५२॥
सैन्यं द्रवति चायुष्मन् कौरवेयं समन्ततः
।
पश्य योधान् रणे भग्नान् धावतो वै ततस्ततः ॥५३॥
इमे च संहताः शूराः पञ्चालाः पाण्डवैः सह
।
त्वामेव हि जिघांसन्त आद्रवन्ति समन्ततः ॥५४॥
अत्र कार्यं समाधत्स्व प्राप्तकालमरिन्दम
।
स्थाने वा गमने चापि दूरं यातश्च सात्यकिः ॥५५॥
तथैवं वदतस्तस्य भारद्वाजस्य सारथेः
।
प्रत्यदृश्यत शैनेयो निघ्नन् बहुविधान् रथान् ॥५६॥
ते वध्यमानाः समरे युयुधानेन तावकाः
।
युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः ॥५७॥
यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत
।
ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति ॥५८॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे एकविंशत्यधिकशततमोऽध्यायः॥१२१॥
सञ्जय उवाच।
दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम्
।
भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत् ॥१॥
दुःशासनरथमिति ॥१॥
दुःशासन रथाः सर्वे कस्माच्चैते प्रविद्रुताः
।
कच्चित्क्षेमं तु नृपतेः कचिज्जीवति सैन्धवः ॥२॥
राजपुत्रो भवानत्र राजभ्राता महारथः
।
किमर्थं द्रवते युद्धे यौवराज्यमवाप्य हि ॥३॥
न सन्ति पतयः सर्वे तेद्य षण्ढतिलैः समाः
।
दुःशासनैवं कस्मात्त्वं पूर्वमुक्त्वा पलायसे ॥५॥
स्वयं वैरं महत्कृत्वा पञ्चालैः पाण्डवैः सह
।
एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे ॥६॥
न जानीषे पुरा त्वं तु गृह्णन्नक्षान् दुरोदरे
।
शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः ॥७॥
अप्रियाणां हि वचसां पाण्डवस्य विशेषतः
।
द्रौपद्याश्च परिक्लेशस्त्वन्मूलोह्यभवत् पुरा ॥८॥
क्व ते मानश्च दर्पश्च क्व ते वीर्यं क्व गर्जितम्
।
आशीविषसमान् पार्थान् कोपयित्वा क्व यास्यसि ॥९॥
शोच्येयं भारती सेना राज्यं चैव सुयोधनः
।
यस्य त्वं कर्कशो भ्राता पलायनपरायणः ॥१०॥
नतु नाम त्वया वीर दीर्यमाणा भयार्दिता
।
स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी ॥११॥
स त्वमद्य रणं हित्वा भीतो हर्षयसे परान्
।
विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन ॥१२॥
कोऽन्यः स्थास्यति संग्रामे भीतो भीते व्यपाश्रये
।
एकेन सात्वतेनाद्य युध्यमानस्य तेन वै ॥१३॥
पलायने तव मतिः संग्रामाद्धि प्रवर्तते
।
यदा गाण्डीवधन्वानं भीमसेनं च कौरव ॥१४॥
यमौ वा युधि द्रष्टासि तदा त्वं किं करिष्यसि
।
युधि फाल्गुनबाणानां सूर्याग्निसमवर्चसाम् ॥१५॥
न तुल्याः सात्यकिशरा येषां भीतः पलायसे
।
त्वरितो वीर गच्छ त्वं गान्धार्युदरमाविश ॥१६॥
पृथिव्यां धावमानस्य नान्यत् पश्यामि जीवनम्
।
यदि तावत्कृता बुद्धिः पलायनपरायणा ॥१७॥
पृथिवी धर्मराजाय शमेनैव प्रदीयताम्
।
यावत्फाल्गुननाराचा निर्मुक्तोरगसन्निभाः ॥१८॥
नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः
।
यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे ॥१९॥
नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः
।
यावन्न क्रुद्ध्यते राजा धर्मपुत्रो युधिष्ठिरः ॥२०॥
कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः
।
यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम् ॥२१॥
सोदरांस्ते न गृह्णाति तावत्संशाम्य पाण्डवैः
।
पूर्वमुक्तश्च ते भ्राता भीष्मेणासौ सुयोधनः ॥२२॥
अजेयाः पाण्डवाः संख्ये सौम्य संशाम्य तैः सह
।
न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः ॥२३॥
स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः
।
तवापि शोणितं भीमः पास्यतीति मया श्रुतम् ॥२४॥
तच्चाप्यवितथं तस्य तत्तथैव भविष्यति
।
किं भीमस्य न जानासि विक्रमं त्वं सुबालिश ॥२५॥
यत्त्वया वैरमारब्धं संयुगे प्रपलायिना
।
गच्छ तूर्णं रथेनैव यत्र तिष्ठति सात्यकिः ॥२६॥
त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत
।
आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम् ॥२७॥
एवमुक्तस्तव सुतो नाब्रवीत्किञ्चिदप्यसौ
।
श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः ॥२८॥
सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम्
।
आसाद्य च रणे यत्तो युयुधानमयोधयत् ॥२९॥
द्रोणोऽपि रथिनां श्रेष्ठः पञ्चालान् पाण्डवांस्तथा
।
अभ्यद्रवत संक्रुद्धो जवमास्थाय मध्यमम् ॥३०॥
प्रविश्य च रणे द्रोणः पाण्डवानां वरूथिनीम्
।
द्रावयामास योधान् वै शतशोऽथ सहस्रशः ॥३१॥
ततो द्रोणो महाराज नाम विश्राव्य संयुगे
।
पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत् ॥३२॥
तं जयन्तमनीकानि भारद्वाजं ततस्ततः
।
पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात् ॥३३॥
स द्रोणं पञ्चभिर्विद्ध्वा शरैः सन्नतपर्वभिः
।
ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः ॥३४॥
तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे
।
यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत ॥३५॥
सन्निरुद्धं रणे द्रोणं पञ्चाला वीक्ष्य मारिष
।
आवव्रुः सर्वतो राजन् धर्मपुत्रजयैषिणः ॥३६॥
ते शरैरग्निसंकाशैस्तोमरैश्च महाधनैः
।
शस्त्रैश्च विविधै राजन् द्रोणमेकमवाकिरन् ॥३७॥
निहत्य तान् बाणगणैर्द्रौणो राजन्समन्ततः
।
महाजलधरान् व्योम्नि मातरिश्वेव चाबभौ ॥३८॥
ततः शरं महाघोरं सूर्यपावकसन्निभम्
।
संदधे परवीरघ्नो वीरकेतो रथं प्रति ॥३९॥
स भित्वा तु शरो राजन्पाञ्चालकुलनन्दनम्
।
अभ्यगाद्धरणीं तूर्णं लोहितार्द्रो ज्वलन्निव ॥४०॥
ततोऽपतद्रथात्तूर्णं पाञ्चालकुलनन्दनः
।
पर्वताग्रादिव महांश्चाम्पको वायुपीडितः ॥४१॥
तस्मिन् हते महेष्वासे राजपुत्रे महाबले
।
पञ्चालास्त्वरिता द्रोणं समंतात्पर्यवारयन् ॥४२॥
चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत
।
तथा चित्ररथश्चैव भ्रातृव्यसनकर्शिताः ॥४३॥
अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः
।
मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव ॥४४॥
स वध्यमानो बहुधा राजपुत्रैर्महारथैः
।
क्रोधमाहारयत्तेषामभावाय द्विजर्षभः ॥४५॥
ततः शरमयं जालं द्रोणस्तेषामवासृजत्
।
ते हन्यमाना द्रोणस्य शरैराकर्णचोदितैः ॥४६॥
कर्तव्यं नाभ्यजानन् वै कुमारा राजसत्तम
।
तान् विमूढान् रणे द्रोणः प्रहसन्निव भारत ॥४७॥
व्यश्वसूतरथांश्चके कुमारान् कुपितो रणे
।
अथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः ॥४८॥
पुष्पाणीय विचिन्वन्हि सोत्तमाङ्गान्यपातयत्
।
ते रथेभ्यो हताः पेतुः क्षितौ राजन् सुवर्चसः ॥४९॥
देवासुरे पुरा युद्धे यथा दैतेयदानवाः
।
तान्निहत्य रणे राजन् भारद्वाजः प्रतापवान् ॥५०॥
कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम्
।
पञ्चालान्निहतान् दृष्ट्वा देवकल्पान्महारथान् ॥५१॥
धृष्टद्युम्नो भृशोद्विग्नो नेत्राभ्यां पातयञ्जलम्
।
अभ्यवर्तत संग्रामे क्रुद्धो द्रोणरथं प्रति ॥५२॥
ततो हाहेति सहसा नादाः समभवन्नृप
।
पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः ॥५३॥
स च्छाद्यमानो बहुधा पार्षतेन महात्मना
।
न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत ॥५४॥
ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्च्छितः
।
आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम् ॥५५॥
स गाढविद्धो बलिना भारद्वाजो महायशाः
।
निषसाद रथोपस्थे कश्मलं च जगाम ह ॥५६॥
तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी
।
चापमुत्सृज्य शीघ्रं तु असिं जग्राह वीर्यवान् ॥५७॥
अवप्लुत्य रथाच्चापि त्वरितः स महारथः
।
आरुरोह रथं तूर्णं भारद्वाजस्य मारिष ॥५८॥
हर्तुमिच्छन् शिरः कायात्क्रोधसंरक्तलोचनः
।
प्रत्याश्वस्तस्ततो द्रोणो धनुर्गुह्य महारवम् ॥५९॥
आसन्नमागतं दृष्ट्वा धृष्टद्युम्नं जिघांसया
।
शरैर्वैतस्तिकै राजन्विव्याधासनवेधिभिः ॥६०॥
योधयामास समरे धृष्टद्युम्नं महारथम्
।
ते हि वैतस्तिका नाम शरा आसन्नयोधिनः ॥६१॥
द्रोणस्य विहिता राजन्यैर्धृष्टद्युम्नमाक्षिणोत्
।
स वध्यमानो बहुभिः सायकैस्तैर्महाबलः ॥६२॥
अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी
।
आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः ॥६३॥
विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः
।
द्रोणश्चापि महाराज शरैर्विव्याध पार्षतम् ॥६४॥
तदद्भुतमभूद्युद्धं द्रोणपाञ्चालयोस्तदा
।
त्रैलोक्यकांक्षिणोरासीच्छक्रप्रल्हादयोरिव ॥६५॥
मण्डलानि विचित्राणि यमकानीतराणि च
।
चरन्तौ युद्धमार्गज्ञौ ततक्षतुरथेषुभिः ॥६६॥
मोहयन्तौ मनांस्याजौ योधानां द्रोणपार्षतौ
।
सृजन्तौ शरवर्षाणि वर्षास्विव बलाहकौ ॥६७॥
छादयन्तौ महात्मानौ शरैर्व्योमदिशो महीम्
।
तदद्भुतं तयोर्युद्धं भूतसङ्घा ह्यपूजयन् ॥६८॥
क्षत्रियाश्च महाराज ये चान्ये तव सैनिकाः
।
अवश्यं समरे द्रोणो धृष्टद्युम्नेन सङ्गतः ॥६९॥
वशमेष्यति नो राजन् पञ्चाला इति चुक्रुशुः
।
द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः ॥७०॥
शिरः प्रच्यावयामास फलं पक्वं तरोरिव
।
ततस्तु प्रद्रुता वाहा राजंस्तस्य महात्मनः ॥७१॥
तेषु प्रद्रवमाणेषु पञ्चालान् सृञ्जयांस्तथा
।
अयोधयद्रणे द्रोणस्तत्र तत्र पराक्रमी ॥७२॥
विजित्य पाण्डुपञ्चालान्भारद्वाजः प्रतापवान्
।
स्वं व्यूहं पुनरास्थाय स्थितो भवदरिन्दमः
।
न चैनं पाण्डवा युद्धे जेतुमुत्सेहिरे प्रभो ॥७३॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे द्रोणपराक्रमे द्वाविंशत्यधिकशततमोऽध्यायः ॥१२२॥
सञ्जय उवाच।
ततो दुःशासनो राजन् शैनेयं समुपाद्रवत्
।
किरञ्शतसहस्राणि पर्जन्य इव वृष्टिमान् ॥१॥
ततो दुःशासन इति ॥१॥
स विद्ध्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः
।
नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम् ॥२॥
तं तु दुःशासनः शूरः सायकैरावृणोद्भृशम्
।
रथव्रातेन महता नानादेशोद्भवेन च ॥३॥
सर्वतो भरतश्रेष्ठ विसृजन्सायकान्बहून्
।
पर्जन्य इव घोषेण नादयन्वै दिशो दश ॥४॥
तमापतन्तमालोक्य सात्यकिः कौरवं रणे
।
अभिद्रुत्य महाबाहुश्छादयामास सायकैः ॥५॥
ते छाद्यमाना बाणैघैर्दुःशासनपुरोगमाः
।
प्राद्रवन्समरे भीतास्तव सैन्यस्य पश्यतः॥६॥
तेषु द्रवत्सु राजेन्द्र पुत्रो दुःशासनस्तव
।
तस्थौ व्यपेतभी राजन्सात्यकिं चार्दयच्छरैः ॥७॥
चतुर्भिर्वाजिनस्तस्य सारथिं च त्रिभिः शरैः
।
सात्यकिं च शतेनाजौ विद्ध्वा नादं मुमोच सः ॥८॥
ततः क्रुद्धो महाराज माधवस्तस्य संयुगे
।
रथं सूतं ध्वजं तं च चक्रेऽदृश्यमजिह्मगैः ॥९॥
स तु दुःशासनं शूरं सायकैरावृणोद्भृशम्
।
सशङ्कं समनुप्राप्तमूर्णनाभिरिवोर्णया ॥१०॥
त्वरन्समावृणोद्बाणैर्दुःशासनममित्रजित्
।
दृष्ट्वा दुःशासनं राजा तथा शरशताचितम् ॥११॥
त्रिगर्तांश्चोदयामास युयुधानरथं प्रति
।
तेऽगच्छन् युयुधानस्य समीपं क्रूरकर्मणः ॥१२॥
त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः
।
ते तु तं रथवंशेन महता पर्यवारयन् ॥१३॥
स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः
।
तेषां प्रपततां युद्धे शरवर्षाणि मुञ्चताम् ॥१४॥
योधान्पञ्चशतान्मुख्यानग्र्यानीके व्यपोथयत्
।
तेऽपतन्निहतास्तूर्णं शिनिप्रवरसायकैः ॥१५॥
महामारुतवेगेन भग्ना इव नगाद्द्रुमाः
।
नागैश्च बहुधा च्छिनैर्ध्वजैश्चैव विशांपते ॥१६॥
हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी
।
शैनेयशरसंकृत्तैः शोणितौघपरिप्लुतैः ॥१७॥
अशोभत महाराज किंशुकैरिव पुष्पितैः
।
ते वध्यमानाः समरे युयुधानेन तावकाः॥१८॥
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः
।
ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति ॥१९॥
भयात्पतगराजस्य गर्तानीव महोरगाः
।
हत्वा पञ्चशतान्योधाञ्छरैराशीविषोपमैः ॥२०॥
प्रायात्स शनकैर्वीरो धनञ्जयरथं प्रति
।
तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव ॥२१॥
विव्याध नवभिस्तूर्णं शरैः सन्नतपर्वभिः
।
स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः ॥२२॥
रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः
।
सात्यकिं तु महाराज प्रहसन्निव भारत ॥२३॥
दुःशासनखिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः
।
शैनेयस्तव पुत्रं तु हत्वा पञ्चभिराशुगैः ॥२४॥
धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ
।
ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते ॥२५॥
सर्वपारशीं शक्तिं विससर्ज जिघांसया
।
तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः ॥२६॥
चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः
।
अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर ॥२७॥
सात्यकिं च शरैर्विद्ध्या सिंहनादं ननर्द ह
।
सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव ॥२८॥
शरैरग्निशिखाकारैराजधान स्तनान्तरे
।
त्रिभिरेव महाभागः शरैः सन्नतपर्वभिः ॥२९॥
सर्वायसैस्तीक्ष्णवक्त्रैः पुनर्विव्याध चाष्टभिः
।
दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत ॥३०॥
सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे
।
त्रिभिरेव महाभागः शरैः सन्नतपर्वभिः ॥३१॥
ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः
।
सारथिं च सुसंक्रुद्धः शरैः सन्नतपर्वभिः ॥३२॥
धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः
।
ध्वजं च रथशक्तिं च भलाभ्यां परमास्त्रवित् ॥३३॥
चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी
।
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥३४॥
त्रिगर्तसेनापतिना स्वरथेनापवाहितः
।
तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत ॥३५॥
न जघान महाबाहुर्भीमसेनवचः स्मरन्
।
भीमसेनेन तु वधः सुतानां तथ भारत ॥३६॥
प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे
।
ततो दुःशासनं जित्वा सात्यकिः संयुगे प्रभो
।
जगाम त्वरितो राजन् येन यातो धनञ्जयः॥३७॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे दुःशासनपराजये त्रयोविंशत्यधिकशततमोऽध्यायः ॥१२३॥
धृतराष्ट्र उवाच।
किं तस्यां मम सेनायां नासन्केचिन्महारथाः
।
ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन् ॥१॥
किं तस्यामिति ॥१॥
एको हि समरे कर्म कृतवान् सत्यविक्रमः
।
शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव ॥२॥
अथवा शून्यमासीत्तद्येन यातः स सात्यकिः
।
हतभूयिष्ठमथवा येन यातः स सात्यकिः ॥३॥
यत्कृतं वृष्णिवीरेण कर्म शंससि मे रणे
।
नैतदुत्सहते कर्तुं कर्म शक्रोऽपि संजय ॥४॥
अश्रद्धेयमचिन्त्यं च कर्म तस्य महात्मनः
।
वृष्ण्यन्धकप्रवीरस्य श्रुत्वा मे व्यथितं मनः ॥५॥
न सन्ति तस्मात् पुत्रा मे यथा सञ्जय भाषसे
।
एको वै बहुलाः सेनाः प्रामृद्नात सत्यविक्रमः ॥६॥
कथं च युध्यमानानामपक्रान्तो महात्मनाम्
।
एको बहूनां शैनेयस्तन्ममाचक्ष्व सञ्जय ॥७॥
सञ्जय उवाच।
राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान्
।
तुमुलस्तव सैन्यानां युगान्तसदृशोऽभवत् ॥८॥
आहूतेषु समूहेषु तव सैन्यस्य मानद
।
नाभूल्लोके समः कश्चित्समूह इति मे मतिः ॥९॥
तत्र देवास्त्वभाषन्त चारणाश्च समागताः
।
एतदन्ताः समूहा वै भविष्यन्ति महीतले ॥१०॥
न च वै तादृशो व्यूह आसीत्कश्चिद्विशांपते
।
यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत् ॥११॥
चण्डवातविभिन्नानां समुद्राणामिव स्वनः
।
रणेऽभवद्बलौघानामन्योन्यमभिधावताम् ॥१२॥
पार्थिवानां समेतानां बहून्यासन्नरोत्तम
।
त्वद्बले पाण्डवानां च सहस्राणि शतानि च ॥१३॥
संरब्धानां प्रवीराणां समरे दृढकर्मणाम्
।
तत्रासीत्सुमहाशब्दस्तुमुलो लोमहर्षणः ॥१४॥
अथाक्रन्दद्भीमसेनो धृष्टद्युम्नश्च मारिष
।
नकुलः सहदेवश्च धर्मराजश्च पाण्डवः ॥१५॥
आगच्छत प्रहरत द्रुतं विपरिधावत
।
प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ ॥१६॥
यथा सुखेन गच्छेतां जयद्रथवधं प्रति
।
तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयन् ॥१७॥
तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः
।
ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम् ॥१८॥
क्षोभयध्वं महावेगाः पवनः सागरं यथा
।
भीमसेनेन ते राजन्पाञ्चाल्येन च नोदिताः ॥१९॥
आजघ्नुः कौरवान्सङ्ख्ये त्यक्त्वाऽसूनात्मनः प्रियान्
।
इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः ॥२०॥
स्वर्गेप्सवो मित्रकार्ये नाभ्यनन्दन्त जीवितम्
।
तथैव तावका राजन्प्रार्थयन्तो महद्यशः ॥२१॥
आर्यां युद्धे मतिं कृत्वा युद्धायैवावतस्थिरे
।
तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे ॥२२॥
जित्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनम्
।
कवचानां प्रभास्तत्र सूर्यरश्मिविराजिताः ॥२३॥
दृष्टीः सङ्ख्ये सैनिकानां प्रतिजघ्नुः समन्ततः
।
तथा प्रयतमानानां पाण्डवानां महात्मनाम् ॥२४॥
दुर्योधनो महाराज व्यगाहत महद्बलनम्
।
स सन्निपातस्तुमुलस्तेषां तस्य च भारत ॥२५॥
अभवत्सर्वभूतानामभावकरणो महान्
।
धृतराष्ट्र उवाच।
तथा यातेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् ॥२६॥
कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम्
।
एकस्य च बहूनां च सन्निपातो महाहवे ॥२७॥
विशेषतो नरपतेर्विषमः प्रतिभाति मे
।
सोत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः ॥२८॥
लक्ष्म्येति विशेषणे तृतीया ॥२८॥
एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः
।
सञ्जय उवाच।
राजन्संग्राममाश्चर्यं तव पुत्रस्य भारत ॥२९॥
एकस्य बहुभिः सार्धं शृणुष्व गदतो मम
।
दुर्योधनेन समरे पृतना पाण्डवी रणे ॥३०॥
नलिनी द्विरदेनेव समन्तात्प्रतिलोडिता
।
ततस्तां प्रहितां सेनां दृष्ट्वा पुत्रेण ते नृप ॥३१॥
भीमसेनपुरोगास्तं पञ्चालाः समुपाद्रवन्
।
स भीमसेनं दशभिः शरैर्विव्याध पाण्डवम् ॥३२॥
त्रिभिस्त्रिभिर्यमौ वीरौ धर्मराजं च सप्तभिः
।
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम्व् ॥३३॥
धृष्टद्युम्नं च विंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः
।
शतशश्चापरान्योधान्सद्विपांश्च रथान् रणे ॥३४॥
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः
।
न सन्दधन्विमुञ्चन्वा मण्डलीकृतकार्मुकः ॥३५॥
अदृश्यत रिपून्निघ्नञ्छिक्षयाऽस्त्रबलेन च
।
तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः ॥३६॥
अजस्रं मण्डलीभूतं ददृशुः समरे जनाः
।
ततो युधिष्ठिरो राजा भल्लाभ्यामच्छिनद्धनुः ॥३७॥
तव पुत्रस्य कौरव्य यतमानस्य संयुगे
।
विव्याध चैनं दशभिः सम्यगस्तैः शरोत्तमैः ॥३८॥
वर्म चाशु समासाद्य ते भित्त्वा क्षितिमाविशन्
।
ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम् ॥३९॥
यथा वृत्रवधे देवाः पुरा शक्रं महर्षयः
।
ततोऽन्यद्धनुरादाय तव पुत्रः प्रतापवान् ॥४०॥
तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात्
।
तमायान्तमभिप्रेक्ष्य तव पुत्रं महामृधे ॥४१॥
प्रत्युद्ययुः समुदिताः पञ्चाला जयगृद्धिनः
।
तान्द्रोणः प्रतिजग्राह परीप्सन् युधि पाण्डवम् ॥४२॥
चण्डवातोद्धुतान्मेघान् गिरिरम्बुमुचो यथा
।
तत्र राजन्महानासीत्संग्रामो लोमहर्षणः ॥४३॥
पाण्डवानां महाबाहो तावकानां च संयुगे
।
रुद्रस्याक्रीडसदृशः संहारः सर्वदेहिनाम् ॥४४॥
ततः शब्दो महानासीत्पुनर्येन धनञ्जयः
।
अतीव सर्वशब्देभ्यो लोमहर्षकरः प्रभो ॥४५॥
अर्जुनस्य महाबाहो तावकानां च धन्विनाम्
।
मध्ये भारतसैन्यस्य माधवस्य महारणे ॥४६॥
द्रोणस्यापि परैः सार्धं व्यूहद्वारे महारणे
।
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते
।
क्रुद्धेऽर्जुने तथा द्रोणे सात्वते च महारथे ॥४७॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे संकुलयुद्धे चतुर्विंशत्यधिकशततमोऽध्यायः॥१२४॥
सञ्जय उवाच।
अपराह्णे महाराज संग्रामः सुमहानभूत्
।
पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः ॥१॥
अपराह्ण इति ॥१॥
शोणाश्वं रथमास्थाय नरवीरः समाहितः
।
समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् ॥२॥
तव प्रियहिते युक्तो महेष्वासो महाबलः
।
चित्रपुंखैः शितैर्बाणैः फलशोत्तमसंभवः ॥३॥
वरान्वरान्हि योधानां विचिन्वन्निव भारत
।
आक्रीडत रणे राजन् भारद्वाजः प्रतापवान् ॥४॥
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः
।
भ्रातॄणां नृपपञ्चानां श्रेष्ठः समरकर्कशः ॥५॥
विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं भृशमार्दयत्
।
महामेघो यथा वर्षं विमुञ्चन्गन्धमादने ॥६॥
तस्य द्रोणो महाराज स्वर्णपुंखाञ्छिलाशितान्
।
प्रेषयामास संक्रुद्धः सायकान्दश पञ्च च ॥७॥
तांस्तु द्रोणविनिर्मुक्तान् कुद्धाशीविषसन्निभान्
।
एकैकं पञ्चभिर्बाणैर्युधि चिच्छेद हृष्टवत् ॥८॥
तदस्य लाघवं दृष्ट्वा प्रहस्य द्विजपुङ्गवः
।
प्रेषयामास विशिखानष्टौ सन्नतपर्वणः ॥९॥
तान् दृष्ट्वा पततस्तूर्णं द्रोणचापच्युताञ्शरान्
।
अवारयच्छरैरेव तावद्भिर्निशितैर्मृधे ॥१०॥
ततोऽभवन्महाराज तव सैन्यस्य विस्मयः
।
बृहत्क्षत्रेण तत् कर्म कृतं दृष्ट्वा सुदुष्करम् ॥११॥
ततो द्रोणो महाराज बृहत्क्षत्रं विशेषयन्
।
प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं सुदुर्जयम् ॥१२॥
कैकेयोऽस्त्रं समालोक्य मुक्तं द्रोणेन संयुगे
।
ब्रह्मास्त्रेणैव राजेन्द्र ब्राह्ममस्त्रमशातयत् ॥१३॥
ततोऽस्त्रे निहते ब्राह्मे बृहत्क्षत्रस्तु भारत
।
विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः ॥१४॥
तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समार्पयत्
।
स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् ॥१५॥
कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम
।
तथाऽत्यगान्महीं बाणो भित्त्वा कैकेयमाहवे ॥१६॥
सोऽतिविद्धो महाराज कैकेयो द्रोणसायकैः
।
क्रोधेन महताऽऽविष्टो व्यावृत्य नयने शुभे ॥१७॥
द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः
।
सारथिं चास्य बाणेन भृशं मर्मस्वताडयत् ॥१८॥
द्रोणस्तु बहुभिर्विद्धो बृहत्क्षत्रेण मारिष
।
असृजद्विशिखांस्तीक्ष्णान् कैकेयस्य रथं प्रति ॥१९॥
व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम्
।
अश्वांश्चतुर्भिर्न्यवधीच्चतुरोऽस्य पतत्रिभिः ॥२०॥
सूतं चैकेन बाणेन रथनीडादपातयत्
।
द्वाभ्यां ध्वजं च च्छत्रं च च्छित्वा भूमावपातयत् ॥२१॥
ततः साधुविसृष्टेन नाराचेन द्विजर्षभः
।
हृद्यविध्यद्बृहत्क्षत्रं स च्छिन्नहृदयोऽपतत् ॥२२॥
बृहत्क्षत्रे हते राजन् केकयानां महारथे
।
शैशुपालिरभिक्रुद्धो यन्तारमिदमब्रवीत् ॥२३॥
सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः
।
विनिघ्नन् केकयान् सर्वान् पञ्चालानां च वाहिनीम् ॥२४॥
तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम्
।
द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः ॥२५॥
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः
।
वधायाभ्यद्रवद्द्रोणं पतङ्ग इव पावकम् ॥२६॥
सोऽविध्यत तदा द्रोणं षष्ट्या साश्वरथध्वजम्
।
पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव ॥२७॥
तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन च
।
चकर्त गार्ध्रपत्रेण यतमानस्य शुष्मिणः ॥२८॥
अथान्यद्धनुरादाय शैशुपालिर्महारथः
।
विव्याध सायकैर्द्रोणं कङ्कबर्हिणवाजितैः ॥२९॥
तस्य द्रोणो हयान् हत्वा चतुर्भिश्चतुरः शरैः
।
सारथेश्च शिरः कायाच्चकर्त प्रहसन्निव ॥३०॥
अथैनं पञ्चविंशत्या सायकानां समार्पयत्
।
अवप्लुत्य रथाच्चैद्यो गदामादाय सत्वरः ॥३१॥
भारद्वाजाय चिक्षेप रुषितामिव पन्नगीम्
।
तामापतन्तीमालोक्य कालरात्रिमिवोद्यताम् ॥३२॥
अश्मसारमयीं गुर्वीं तपनीयविभूषिताम्
।
शरैरनेकसाहस्रैर्भारद्वाजोऽच्छिनच्छितैः ॥३३॥
सा छिन्ना बहुभिर्बाणैर्भारद्वाजेन मारिष
।
गदा पपात कौरव्य नादयन्ती धरातलम् ॥३४॥
गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः
।
तोमरं व्यसृजद्वीरः शक्तिं च कनकोज्ज्वलाम् ॥३५॥
तोमरं पञ्चभिर्भित्त्वा शक्तिं चिच्छेद पञ्चभिः
।
तौ जग्मतुर्महीं छिन्नौ सर्पाविव गरुत्मता ॥३६॥
ततोऽस्य विशिखं तीक्ष्णं वधाय वधकांक्षिणः
।
प्रेषयामास समरे भारद्वाजः प्रतापवान् ॥३७॥
स तस्य कवचं भित्त्वा हृदयं चामितौजसः
।
अभ्यगाद्धरणीं बाणो हंसः पद्मवनं यथा ॥३८॥
पतङ्गं हि ग्रसेच्चाषो यथा क्षुद्रं बुभुक्षितः
।
तथा द्रोणोऽप्रसच्छूरो धृष्टकेतुं महाहवे ॥३९॥
निहते चेदिराजे तु तत् खण्डं पित्र्यमाविशत्
।
अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् ॥४०॥
तमपि प्रहसन् द्रोणः शरैर्नित्ये यमक्षयम्
।
महाव्याघ्रो महारण्ये मृगशावं यथा बली ॥४१॥
तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत
।
जरासन्धसुतो वीरः स्वयं द्रोणमुपाद्रवत् ॥४२॥
स तु द्रोणं महाबाहुः शरधाराभिराहवे
।
अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा ॥४३॥
तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः
।
व्यसृजत् सायकांस्तूर्णं शतशोऽथ सहस्रशः ॥४४॥
छादयित्वा रणे द्रोणो रथस्वं रथिनां वरम्
।
जारासन्धिं जघानाशु मिषतां सर्वधन्विनाम् ॥४५॥
यो यः स्म नीयते तत्र तं द्रोणो ह्यन्तकोपमः
।
आदत्त सर्वभूतानि प्राप्ते काले यथाऽन्तकः ॥४६॥
ततो द्रोणो महाराज नाम विश्राव्य संयुगे
।
शरैरनेकसाहस्रैः पाण्डवेयान् समावृणोत् ॥४७॥
ते तु नामाङ्किता बाणा द्रोणेनास्ताः शिलाशिताः
।
नरान्नागान् हयांश्चैव निजघ्नुः शतशो मृधे ॥४८॥
ते वध्यमाना द्रोणेन शक्रेणेव महासुराः
।
समकम्पन्त पञ्चाला गावः शीतार्दिता इव ॥४९॥
ततो निष्ठानको घोरः पाण्डवानामजायत
।
द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ ॥५०॥
निष्टानकः कष्टस्वनः ॥५०॥
प्रताप्यमानाः सूर्येण हन्यमानाश्च सायकैः
।
अन्वपद्यन्त पञ्चालास्तदा सन्त्रस्तचेतसः ॥५१॥
मोहिता बाणजालेन भारद्वाजेन संयुगे
।
ऊरुग्राहगृहीतानां पञ्चालानां महारथाः ॥५२॥
ऊरुग्राहः ऊरुस्तम्भः ॥५२॥
चेदयश्च महाराज सुञ्जयाः काशिकोसलाः
।
अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया ॥५३॥
ब्रुवन्तश्च रणेऽन्योन्यं चेदिपञ्चालसृञ्जयाः
।
हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः ॥५४॥
यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम्
।
निनीषवो रणे द्रोणं यमस्य सदनं प्रति ॥५५॥
यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः
।
यमाय प्रेषयामास चेदिमुख्यान् विशेषतः ॥५६॥
तेषु प्रक्षीयमाणेषु चेदिमुख्येषु सर्वशः
।
पञ्चालाः समकम्पन्त द्रोणसायकपीडिताः ॥५७॥
प्राक्रोशन् भीमसेनं ते धृष्टद्युम्नं च भारत
।
दृष्ट्वा द्रोणस्य कर्माणि तथा रूपाणि मारिष ॥५८॥
ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत्
।
तथा हि युधि संक्रुद्धो दहति क्षत्रियर्षभान् ॥५९॥
धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परन्तपः
।
तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् ॥६०॥
द्रोणाग्निमस्त्रसंस्पर्शं प्रविष्टाः क्षत्रियर्षभाः
।
बहवो दुस्तरं घोरं यत्रादह्यन्त भारत ॥६१॥
यथाबलं यथोत्साहं यथासत्त्वं महाद्युतिः
।
मोहयन् सर्वभूतानि द्रोणो हन्ति बलानि नः ॥६२॥
तेषां तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः
।
अर्धचन्द्रेण चिच्छेद क्षत्रधर्मा महाबलः ॥६३॥
क्रोधसंविग्नमनसो द्रोणस्य सशरं धनुः
।
स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः ॥६४॥
अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम्
।
तत्राधाय शरं तीक्ष्णं परानीकविशातनम् ॥६५॥
आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत्
।
स हत्या क्षत्रधर्माणं जगाम धरणीतलम् ॥६६॥
स भिन्नहृदयो वाहान्न्यपतन्मेदिनीतले
।
ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते ॥६७॥
अथ द्रोणं समारोहच्चेकितानो महाबलः
।
स द्रोणं दशभिर्विद्ध्वा प्रत्यविद्ध्यत्स्तनान्तरे ॥६८॥
चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान्
।
तमाचार्यस्त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥६९॥
ध्वजं सप्तभिरुन्मथ्य यन्तारमवधीत्त्रिभिः
।
तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः ॥७०॥
समरे शरसंवाता भारद्वाजेन मारिष
।
चेकितानरथं दृष्ट्वा हताश्वं हतसारथिम् ॥७१॥
तान् समेतान् रणे शूरांश्चेदिपञ्चालसृञ्जयान्
।
समन्ताद्द्रावयन् द्रोणो बह्वशोभत मारिष ॥७२॥
आकर्णपलितः श्यामो वयसाऽशीतिपञ्चकः
।
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षयत् ॥७३॥
आकर्णमुपागतं पलितं केशादेः शौक्ल्यं यस्य वयसा कालपिण्डसंयोगेन अशीतिपञ्चकः चतुःशताब्दः अशीतिकापर इति पाठे अतिवृद्धतमः ॥७३॥
अथ द्रोणं महाराज विचरन्तमभीतवत्
।
वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम् ॥७४॥
ततोऽब्रवीन्महाबाहुर्द्रुपदो बुद्धिमान्नृप
।
लुब्धोऽयं क्षत्रियान् हन्ति व्याघ्रः क्षुद्रमृगानिव ॥७५॥
कृच्छ्रान् दुर्योधनो लोकान् पापः प्राप्स्यति दुर्मतिः
।
यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः ॥७६॥
शतशः शेरते भूमौ निकृत्ता गोवृषा इव
।
रुधिरेण परीताङ्गाः श्वशृगालादनीकृताः ॥७७॥
एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः
।
पुरस्कृत्य रणे पार्थान् द्रोणमभ्यद्द्रवद्द्रुतम् ॥७८॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि द्रोणपराक्रमे पञ्चविंशत्यधिकशततमोऽध्यायः॥१२५॥
सञ्जय उवाच।
व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः
।
सुदूरमन्वयुः पार्थाः पञ्चालाः सह सोमकैः ॥१॥
व्यूहेष्विति ॥१॥
वर्तमाने तथा रौद्रे संग्रामे लोमहर्षणे
।
संक्षये जगतस्तीव्रे युगान्त इव भारत ॥२॥
द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः
।
पञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु ॥३॥
नापश्यच्छरणं किञ्चिद्धर्मराजो युधिष्ठिरः
।
चिन्तयामास राजेन्द्र कथमेतद्भविष्यति ॥४॥
ततो वीक्ष्य दिशःसर्वाः सव्यसाचिदिदृक्षया
।
युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् ॥५॥
वानरर्षभलक्षणं वानरप्रधानं ध्वजं वरवानरकेतनमिति पाठो वा ॥५॥
सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम्
।
गांडीवस्य च निर्घोषमशृण्वन् व्यथितेन्द्रियः ॥६॥
अपश्यत् सात्यकिं चापि वृष्णीनां प्रवरं रथम्
।
चिन्तयाऽभिपरीतांगो धर्मराजो युधिष्ठिरः ॥७॥
नाध्यगच्छत्तदा शान्तिं तावपश्यनरोत्तमौ
।
लोकोपक्रोशभीरुत्वाद्धर्मराजो महामनाः ॥८॥
अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति
।
पदवीं प्रेषितश्चैव फाल्गुनस्य मया रणे ॥९॥
शैनेयः सात्यकिः सत्यो मित्राणामभयंकरः
।
तदिदं ह्येकमेवासीद्द्विधा जातं ममाद्य वै ॥१०॥
सत्यो दृढप्रतिज्ञः ॥१०॥
सात्यकिश्च हि विज्ञेयः पाण्डवश्च धनञ्जयः
।
सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम् ॥११॥
सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम्
।
करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि ॥१२॥
युयुधानमनन्विष्य लोको मां गर्हयिष्यति
।
चातुरन्वेषणं कृत्वा धर्मपुत्रो युधिष्ठिरः ॥१३॥
परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम्
।
लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम् ॥१४॥
पदवीं प्रेषायेष्यामि माधवस्य महात्मनः
।
यथैव च मम प्रीतिरर्जुने शत्रुसूदने ॥१५॥
तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे
।
अतिभारे नियुक्तश्च मया शैनेयनन्दनः ॥१६॥
स तु मित्रोपरोधेन गौरवात्सु महाबलः
।
प्रविष्टो भारतीं सेनां मकरः सागरं यथा ॥१७॥
असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम्
।
मिथः संयुध्यमानानां वृष्णिवीरेण धीमता ॥१८॥
प्राप्तकालं सुबलवन्निश्चितं बहुधा हि मे
।
तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः ॥१९॥
गमनं रोचते मह्यं यत्र यातौ महारथौ
।
न चाप्यसह्यं भीमस्य विद्यते भुवि किंचन ॥२०॥
शक्तो ह्येष रणे यत्तः पृथिव्यां सर्वधन्विनाम्
।
स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा ॥२१॥
यस्य बाहुवलं सर्वे समाश्रित्य महात्मनः
।
वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः ॥२२॥
इतो गते भीमसेने सात्वतं प्रति पाण्डवे
।
सनाथौ भवितारौ हि युधि सात्वतफाल्गुनौ ॥२३॥
कामं त्वशोचनीयौ तौ रणे सात्वतफाल्गुनौ
।
रक्षितौ वासुदेवेन स्वयं शस्त्रविशारदौ ॥२४॥
अवश्यं तु मया कार्यमात्मनः शोकनाशनम्
।
तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम् ॥२५॥
ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति
।
एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः ॥२६॥
सात्यकिं प्रति प्रतिविधानं कृतमित्यन्वयः ॥२६॥
यन्तारमब्रवीद्राजा भीमं प्रति नयस्व माम्
।
धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः ॥२७॥
रथं हेमपरिष्कारं भीमान्तिकमुपानयत्
।
भीमसेनमनुज्ञाप्य प्राप्तकालमचिन्तयत् ॥२८॥
कश्मलं प्राविशद्राजा बहु तत्र समादिशत्
।
स कश्मलसमाविष्टो भीममाहूय पार्थिवः ॥२९॥
अब्रवीद्वचनं राजन् कुन्तीपुत्रो युधिष्ठिरः
।
यः सदेवान्सगन्धर्वान् दैत्यांश्चैकरथोऽजयत् ॥३०॥
तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते
।
ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम् ॥३१॥
नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम्
।
पुराऽतिदुःखदीर्णानां भवान् गतिरभूद्धि नः ॥३२॥
उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते
।
न ह्यसाध्यमकार्यं वा विद्यते मम मानद ॥३३॥
आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः
।
तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन् ॥३४॥
भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः
।
यथा शंखस्य निर्घोषः पाञ्चजन्यस्य श्रूयते ॥३५॥
पूरितो वासुदेवेन संरब्धेन यशस्विना
।
नूनमद्य हतः शेते तवा भ्राता धनञ्जयः ॥३६॥
तस्मिन् विनिहते नूनं युध्यतेऽसौ जनार्दनः
।
यस्य सत्त्ववतो वीर्यं ह्युपजीवन्ति पाण्डवाः ॥३७॥
यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः
।
स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम् ॥३८॥
तस्य वै गमनं विद्मो भीम नावर्तनं पुनः
।
श्यामो युवा गुडाकेशो दर्शनीयो महारथः ॥३९॥
व्यूढोरस्को महाबाहुर्मत्तद्विरदविक्रमः
।
चकोरनेत्रस्ताम्रास्यो द्विषतां भयवर्धनः ॥४०॥
चकोरनेत्रो रक्तान्तायतनयनः ताम्रास्यो रक्तगौरमुखः ॥४०॥
तदिदं मम भद्रं ते शोकस्थानमरिन्दमम्
।
अर्जुनार्थे महाबाहो सात्वतस्य च कारणात् ॥४१॥
वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः
।
तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् ॥४२॥
तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम्
।
स तं महारथं पश्चादनुयातस्तथानुजम् ॥४३॥
तमपश्यन्महाबाहुमहं विन्दामि कश्मलम्
।
पार्थे तस्मिन्हते चैव युध्यते नूनमग्रणीः ॥४४॥
सहायो नास्य वै कश्चित्तेन विन्दामि कश्मलम्
।
तस्मिन्कृष्णो हते नूनं युध्यते युद्धकोविदः ॥४५॥
न हि मे शुध्यते भावस्तयोरेव परन्तप
।
स तत्र गच्छ कौन्तेय यत्र यातो धनञ्जयः ॥४६॥
सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे
।
वचनं मम धर्मज्ञ भ्राता ज्येष्ठो भवामि ते ॥४७॥
न तेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा
।
चिकीषुर्मत्प्रियं पार्थ स यातः सव्यसाचिनः
।
पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः ॥४८॥
दृष्ट्वा कुशलिनौ कृष्णौ सात्वतं चैव सात्यकिम्
।
संविदं चैव कुर्यास्त्वं सिंहनादेन पाण्डव ॥४९॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि युधिष्ठिरचिन्तायां षड्विंशत्यधिकशततमोऽध्यायः॥१२६॥
भीमसेन उवाच।
ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः
।
तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम् ॥१॥
ब्रह्मेति ॥१॥
आशां तु शिरसा बिभ्रदेष गच्छामि मा शुचः
।
समेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम् ॥२॥
संविदं ज्ञापनम् ॥२॥
सञ्जय उवाच।
एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम्
।
धृष्टद्युम्नाय बलवान् सृहृद्भ्यश्च पुनः पुनः ॥३॥
धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः
।
विदितं ते महाबाहो यथा द्रोणो महारथः ॥४॥
ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते
।
न च मे गमने कृत्यं तादृक् पार्षत विद्यते ॥५॥
यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः
।
एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं न चोत्सहे ॥६॥
आत्ययिकम् अतिशयितं हिशब्दोऽभिमुखाकरणे एवमनन्तरोक्तम् ॥६॥
प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः
।
धर्मराजस्य वचने स्थातव्यमविशंकया ॥७॥
यास्यामि पदवीं भ्रातुः सात्वतस्य च धीमतः
।
सोऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम् ॥८॥
एतद्धि सर्वकार्याणां परमं कृत्यमाहवे
।
तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम् ॥९॥
ईप्सितं ते करिष्यामि गच्छ पार्थोविचारयन्
।
नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथञ्चन ॥१०॥
निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे
।
ततो निक्षिप्य राजानं धृष्टद्युम्ने च पांडवम् ॥११॥
अभिवाद्य गुरुं ज्येष्ठं प्रययौ येन फाल्गुनः
।
परिष्वक्तश्च कौन्तेयो धर्मराजेन भारत ॥१२॥
आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः
।
कृत्वा प्रदक्षिणान्विप्रानर्चितांस्तुष्टमानसान् ॥१३॥
आलभ्य मंगलान्यष्टौ पीत्वा कैरातकं मधु
।
द्विगुणद्रविणो वीरो मदरक्तान्तलोचनः ॥१४॥
विप्रैः कृतस्वस्त्ययनो विजयोत्पादसूचितः
।
पश्यन्नेवात्मनो बुद्धिं विजयानन्दकारिणीम् ॥१५॥
विजयोत्पादसूचितः सूचितविजयात्पादः ॥१५॥
अनुलोमानिलैश्चाशु प्रदर्शितजयोदयः
।
भीमसेनो महाबाहुः कवची शुभकुण्डली ॥१६॥
साङ्गदी सतलत्राणः सरथी रथिनां वरः
।
तस्य कार्ष्णायसं वर्म हेमचित्रं महर्धिमत् ॥१७॥
विबभौ सर्वतः श्लिष्टं सविद्युदिव तोयदः
।
पीतरक्तासितसितैर्वासोभिश्च सुवोष्टितः ॥१८॥
कण्ठत्राणेन च बभौ सेन्द्रायुध इवांबुदः
।
प्रयाते भीमसेने तु तव सैन्यं युयुत्सया ॥१९॥
पाञ्चजन्यरवो घोरः पुनरासीद्विशांपते
।
तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत् ॥२०॥
पुनर्भीमं महाबाहुं धर्मपुत्रोऽभ्यभाषत
।
एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम् ॥२१॥
पृथिवीं चान्तरिक्षं च विनादयति शंखराट्
।
नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि ॥२२॥
कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः
।
आह कुन्ती नूनमार्या पापमद्य निदर्शनम् ॥२३॥
आर्या मान्या मातेति यावत् निदर्शनं निमित्तम् ॥२३॥
द्रौपदी च सुभद्रा च पश्यन्त्यौ सह बन्धुभिः
।
स भीम त्वरया युक्तो याहि यत्र धनञ्जयः ॥२४॥
मुह्यन्तीव हि मे सर्वा धनञ्जयदिदृक्षया
।
दिशश्च प्रदिशः पार्थ सात्वतस्य च कारणात् ॥२५॥
मुह्यन्ति मोहेनाद्रियन्ते ॥२५॥
गच्छ गच्छेति गुरुणा सोऽनुज्ञातो वृकोदरः
।
ततः पाण्डुसुतो राजन् भीमसेनः प्रतापवान् ॥२६॥
बद्धगोधांगुलित्राणः प्रगृहीतशरासनः
।
ज्येष्ठेन प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियंकरः ॥२७॥
आहत्य दुन्दुभिं भीमः शंखं प्रध्माप्य चासकृत्
।
विनद्य सिंहनादेन ज्यां विकर्षन् पुनः पुनः ॥२८॥
तेन शब्देन वीराणां पातयित्वा मनांस्युत
।
दर्शयन् घोरमात्मानममित्रान् सहसाऽभ्ययात् ॥२९॥
तमूहुर्जवना दान्ता विरुवन्तो हयोत्तमाः
।
विशोकेनाभिसंपन्ना मनोमारुतरंहसः ॥३०॥
आरुजन्विरुजन् पार्थो ज्यां विकर्षंश्च पाणिना
।
संप्रकर्षन् विकर्षंश्च सेनाग्रं समलोडयत् ॥३१॥
आरुजन् कृंतन् विरुजन्विध्यन् विकर्षन् अत्यर्थं कर्षन् संप्रकर्षन् सम्यक्प्रकर्षेण विलिखन् विकर्षन् विक्षिपन् ॥३१॥
तं प्रयान्तं महाबाहुं पञ्चालाः सहसोमकाः
।
पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः ॥३२॥
तं समेत्य महाराज तावकाः पर्यवारयन्
।
दुःशलश्चित्रसेनश्च कुण्डभेदी विविंशतिः ॥३३॥
दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा
।
विन्दानुविन्दौ सुमुखौ दीर्घबाहुः सुदर्शनः ॥३४॥
वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः
।
अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः ॥३५॥
शोभन्तो रथिनां श्रेष्ठाः सहसैन्यपदानुगाः
।
संयत्ताः समरे वीरा भीमसेनमुपाद्रवन् ॥३६॥
तैः समन्ताद्वृतः शूरैः समरेषु महारथः
।
तान् समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी
।
अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव ॥३७॥
ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन्
।
छादयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम् ॥३८॥
स तानतीत्य वेगेन द्रोणानीकमुपाद्रवत्
।
अग्रतश्च गजानीकं शरवर्षैरवाकिरत् ॥३९॥
सोऽचिरेणैव कालेन तद्गजानीकमाशुगैः
।
दिशः सर्वाः समभ्यस्य व्यधमत् पवनात्मजः ॥४०॥
त्रासिताः शरभस्येव गर्जितेन वने मृगाः
।
प्राद्रवन् द्विरदाः सर्वे नदन्तो भैरवान् रवान् ॥४१॥
पुनश्चातीव वेगेन द्रोणानीकमुपाद्रवत्
।
तमवारयदाचार्यो वेलोद्वृत्तमिवार्णवम् ॥४२॥
ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव
।
ऊर्ध्वरश्मिरिवादित्यो विबभौ तेन पाण्डवः ॥४३॥
स मन्यमानस्त्वाचार्यो ममायं फाल्गुनो यथा
।
भीमः करिष्यते पूजामित्युवाच वृकोदरम् ॥४४॥
भीमसेन न ते शक्या प्रवेष्टुमरिवाहिनी
।
मामनिर्जित्य समरे शत्रुमय महाबल ॥४५॥
यदि ते सोऽनुजः कृष्णः प्रविष्टोऽनुमते मम
।
अनीकं न तु शक्यं मे प्रवेष्टुमिह वै त्वया ॥४६॥
अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमपेतभीः
।
क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणस्त्वरन् ॥४७॥
तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम्
।
प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम् ॥४८॥
तेन वै परमां पूजां कुर्वता मानितो ह्यसि
।
नार्जुनोऽहं घृणी द्रोण भीमसेनोऽस्मि ते रिपुः ॥४९॥
पिता नस्त्वं गुरुर्बन्धुस्तथा पुत्रास्तु ते वयम्
।
इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः ॥५०॥
अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते
।
यदि त्वं शत्रुमात्मानं मन्यसे तत्तथास्त्विह ॥५१॥
एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम्
।
अथोद्भ्राम्य गदां भीमः कालदंडमिवांतकः ॥५२॥
द्रोणाय व्यसृजद्राजन् स रथादवपुप्लुवे
।
साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा ॥५३॥
प्रामुदूनाच्च बहून्योधान् वायुर्वृक्षानिवौजसा
।
तं पुनः परिवव्रुस्ते तव पुत्रा रथोत्तमम् ॥५४॥
अन्यं तु रथमास्थाय द्रोणः प्रहरतां वरः
।
व्यूहद्वारं समासाद्य युद्धाय समुपस्थितः ॥५५॥
ततः क्रुद्धो महाराज भीमसेनः पराक्रमी
।
अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत् ॥५६॥
ते वध्यमानाः समरे तव पुत्रा महारथाः
।
भीमं भीमबला युद्धे योधयन्ति जयैषिणः ॥५७॥
ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत्
।
सर्वपारसवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम् ॥५८॥
आपतन्तीं महाशक्तिं तव पुत्रप्रणोदिताम्
।
द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत् ॥५९॥
अथान्यैर्विशिखैस्तीक्ष्णैः संक्रुद्धः कुण्डभेदिनम्
।
सुषेणं दीर्धनेत्रं च त्रिभिस्त्रीनबधीद्बली ॥६०॥
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्
।
पुत्राणां तव वीराणां युध्यतामवधीत् पुनः ॥६१॥
अभयं रौद्रकर्माणं दुर्विमोचनमेव च
।
त्रिभिस्त्रीनवधीद्भीमः पुनरेव सुतांस्तव ॥६२॥
वध्यमाना महाराज पुत्रास्तव बलीयसा
।
भीमं प्रहरतां श्रेष्ठं समन्तात् पर्यवारयन् ॥६३॥
ते शरैर्भीमकर्माणं ववर्षुः पाण्डवं युधि
।
मेघा इवातपापाये धाराभिर्धरणीधरम् ॥६४॥
स तद्बाणमयं वर्षमश्मवर्षमिवाचलः
।
प्रतीच्छन् पाण्डुदायादो न प्राव्यथत शत्रुहा ॥६५॥
विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम्
।
प्रहसन्नेव कौन्तेयः शरैर्निन्ये यमक्षयम् ॥६६॥
ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ
।
विव्याध समरे तूर्णं स पपात ममार च ॥६७॥
सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः
।
दिशः सर्वाः समालोक्य व्यधमत् पाण्डुनंदनः ॥६८॥
ततो वै रथघोषेण गर्जितेन मृगा इव
।
भज्यमानाश्च समरे तव पुत्रा विशांपते ॥६९॥
प्राद्रवन् सहसा सर्वे भीमसेनभयार्दिताः
।
अनुयायाच्च कौन्तेयः पुत्राणां ते महद्बलम् ॥७०॥
विव्याध समरे राजन् कौरवेयान् समन्ततः
।
वध्यमाना महाराज भीमसेनेन तावकाः ॥७१॥
त्यक्त्वा भीमं रणाज्जग्मुश्चोदयन्तो हयोत्तमान्
।
तांस्तु निर्जित्य समरे भीमसेनो महाबलः ॥७२॥
सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः
।
तलशब्दं च सुमहत् कृत्वा भीमो महाबलः ॥७३॥
भीषयित्वा रथानीकं हत्वा योधान् वरान् वरान्
।
व्यतीत्य रथिनश्चापि द्रोणानीकमुपाद्रवत् ॥७५॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमसेनप्रवेशे भीमपराक्रमे सप्तविंशत्यधिकशततमोऽध्यायः ॥१२७॥
सञ्जय उवाच।
समुत्तीर्णं रथानीकं पाण्डवं विहसन् रणे
।
विवारयिषुराचार्यः शरवर्षैरवाकिरत् ॥१॥
समुत्तीर्णमिति ॥१॥
पिबन्निव शरौघांस्तान् द्रोणचापपरिच्युतान्
।
सोऽभ्यद्रवत सोदर्यान्मोहयन् बलमायया ॥२॥
बलमायया बलाविष्करणेन ॥२॥
तं मृधे वेगमास्थाय नृपाः परमधन्विनः
।
चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् ॥३॥
स तैस्तु संवृतो भीमः प्रहसन्निव भारत
।
उद्यच्छन् स गदां तेभ्यः सुघोरां सिंहवन्नदन् ॥४॥
अवासृजच्च वेगेन शत्रुपक्षविनाशिनीम्
।
इन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना
।
प्रामथ्नात्सा महाराज सैनिकांस्तव संयुगे ॥५॥
घोषेण महता राजन् पूरयन्तीव मेदिनीम्
।
ज्वलंती तेजसा भीमा त्रासयामास ते सुतान् ॥६॥
तां पतन्तीं महावेगां दृष्ट्वा तेजोऽभिसंवृताम्
।
प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान् रवान् ॥७॥
तं च शब्दमसह्यं वे तस्याः संलक्ष्य मारिष
।
प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा ॥८॥
ते हन्यमाना भीमेन गदाहस्तेन तावकाः
।
प्राद्रवन्त रणे भीता व्याघ्रघ्राता मृगा इव ॥९॥
स तान् विद्राव्य कौन्तेयः संख्येऽमित्रान् दुरासदान्
।
सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् ॥१०॥
तथा तु विप्रकुर्वाणं रथयूथपयूथपम्
।
भारद्वाजो महाराज भीमसेनं समभ्ययात् ॥११॥
भीमं तु समरे द्रोणो वारयित्वा शरोर्मिभिः
।
अकरोत्सहसा नादं पाण्डूनां भयमादधत् ॥१२॥
तद्युद्धमासीत् सुमहद्धोरं देवासुरोपमम्
।
द्रोणस्य च महाराज भीमस्य च महात्मनः ॥१३॥
यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः
।
वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः ॥१४॥
ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः
।
निमील्य नयने राजन् पदातिर्द्रोणमभ्ययात् ॥१५॥
अंसे शिरो भीमसेनः करौ कृत्वोरसि स्थिरौ
।
वेगमास्थाय बलवान् मनोनिलगरुत्मताम् ॥१६॥
यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया
।
तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् ॥१७॥
स वध्यमानः समरे रथं द्रोणस्य मारिष
।
ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः ॥१८॥
द्रोणस्तु सत्त्वरो राजन् क्षिप्तो भीमेन संयुगे
।
रथमन्यं समारुह्य व्यूहद्वारं ययौ पुनः ॥१९॥
तमायान्तं तथा दृष्ट्वा भग्नोत्साहं गुरुं तदा
।
गत्वा वेगात् पुनर्भीमो धुरं गृह्य रथस्य तु ॥२०॥
तमप्यतिरथं भीमश्चिक्षेप भृशरोषितः
।
एवमष्टौ रथाः क्षिप्ता भीमसेनेन लीलया ॥२१॥
व्यदृश्यत निमेषेण पुनः स्वरथमास्थितः
।
दृश्यते तावकैर्योधैर्विस्मयोत्फुल्ललोचनैः ॥२२॥
तस्मिन् क्षणे तस्य यन्ता तूर्णमश्वानचोदयत्
।
भीमसेनस्य कौरव्यस्तदद्भुतमिवाभवत् ॥२३॥
ततः स्वरथमास्थाय भीमसेनो महाबलः
।
अभ्यद्रवत वेगेन तव पुत्रस्य वाहिनीम् ॥२४॥
स मृदूनन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः
।
आगच्छद्दारयन् सेनां सिन्धुवेगो नगानिव ॥२५॥
भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम्
।
प्रमथ्य तरसा वीरस्तदप्यतिबलोऽभ्ययात् ॥२६॥
संत्रासयन्ननीकानि तलशब्देन पाण्डवः
।
अजयत् सर्वसैन्यानि शार्दूल इव गोवृषान् ॥२७॥
भोजानीकमतिक्रम्य दरदानां च वाहिनीम्
।
तथा म्लेच्छगणानन्यान्बहून्युद्धविशारदान् ॥२८॥
सात्यकिं चैव संप्रेक्ष्य युध्यमानं महारथम्
।
रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा ॥२९॥
भीमसेनो महाराज द्रष्टुकामो धनञ्जयम्
।
अतीत्य समरे योधांस्तावकान् पाण्डुनन्दनः ॥३०॥
सोऽपश्यदर्जुनं तत्र युध्यमानं महारथम्
।
सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी ॥३१॥
तं दृष्ट्वा पुरुषव्याघ्रश्चुक्रोश महतो रवान्
।
प्रावृट्काले महाराज नर्दन्निव बलाहकः ॥३२॥
तं तस्य निनदं घोरं पार्थः शुश्राव नर्दतः
।
वासुदेवश्च कौरव्य भीमसेनस्य संयुगे ॥३३॥
तौ श्रुत्वा युगपद्वीरौ निनदं तस्य शुष्मिणः
।
पुनः पुनः प्राणदतां दिदृक्षन्तौ वृकोदरम् ॥३४॥
ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह
।
अभ्ययातां महाराज नर्दन्तौ गोवृषाविव ॥३५॥
भीमसेनरवं श्रुत्वा फाल्गुनस्य च धन्विनः
।
अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः ॥३६॥
विशोकश्चाभवद्राजा श्रुत्वा तं निनदं तयोः
।
धनञ्जयस्य समरे जयमाशास्तवान्विभुः ॥३७॥
तथा तु नर्दमाने वै भीमसेने मदोत्कटे
।
स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः ॥३८॥
हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः
।
दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा ॥३९॥
न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव
।
दिष्ट्या जीवति संग्रामे सव्यसाची धनञ्जयः ॥४०॥
दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः
।
दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनञ्जयौ ॥४१॥
येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः
।
स हन्ता द्विषतां संख्ये दिष्ट्य जीवति फाल्गुनः ॥४२॥
यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः
।
स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फाल्गुनः ॥४३॥
निवातकवचा येन देवैरपि सुदुर्जयाः
।
निर्जिता धनुषैकेन दिष्ट्या पार्थः स जीवति ॥४४॥
कौरवान् सहितान् सर्वान् गोग्रहार्थे समागतान्
।
योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति ॥४५॥
कालकेयसहस्राणि चतुर्दश महारणे
।
योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति ॥४६॥
गन्धर्वराजं बलिनं दुर्योधनकृते च वै
।
जितवान् योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति ॥४७॥
किरीटमाली बलवाञ्छ्वेताश्वः कृष्णसारथिः
।
मम प्रियश्च सततं दिष्ट्या पार्थः स जीवति ॥४८॥
पुत्रशोकाभिसन्तप्तश्चिकीर्षन् कर्म दुष्करम्
।
जयद्रथवधान्वेषी प्रतिज्ञां कृतवान् हि यः ॥४९॥
कच्चित्स सैन्धवं संख्ये हनिष्यति धनञ्जयः
।
कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम् ॥५०॥
अनस्तमित आदित्ये समेष्याम्यहमर्जुनम्
।
कच्चित्सैन्धवको राजा दुर्योधनहिते रतः ॥५१॥
नन्दयिष्यत्यमित्रान्हि फाल्गुनेन निपातितः
।
कच्चिद्दुर्योधनो राजा फाल्गुनेन निपातितम् ॥५२॥
दृष्ट्वा सैन्धवकं संख्ये शममस्मासु धास्यति
।
दृष्ट्वा विनिहतान् भ्रातॄन् भीमसेनेन संयुगे
।
कच्चिद्दुर्योधनो मन्दः शममस्मासु धास्यति ॥५३॥
दृष्ट्वा चान्यान्महायोधान् पातितान् धरणीतले
।
कच्चिद्दुर्योधनो मन्दः पश्चात्तापं गमिष्यति ॥५४॥
कच्चिद्भीष्मेण नो वैरं शममेकेन यास्यति
।
शेषस्य रक्षणार्थं च सन्धास्यति सुयोधनः ॥५५॥
एवं बहुविधं तस्य राज्ञश्चिन्तयतस्तदा
।
कृपयाऽभिपरीतस्य घोरं युद्धमवर्तत ॥५६॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमसेनप्रवेशे युधिष्ठिरहर्षेऽष्टाविंशत्यधिकशततमोऽध्यायः ॥१२८॥
धृतराष्ट्र उवाच।
निनदन्तं तथा तं तु भीमसेनं महाबलम्
।
मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् ॥१॥
निनदन्तमिति ॥१॥
न हि पश्याम्यहं तं वै त्रिषु लोकेषु कञ्चन
।
क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे ॥२॥
गदां युयुत्समानस्य कालस्येवेह सञ्जय
।
न हि पश्याम्यहं युद्धे यस्तिष्ठेदग्रतः पुमान् ॥३॥
युयुत्समानस्य व्यापारयतः ॥३॥
रथं रथेन यो हन्यात् कुञ्जरं कुञ्जरेण च
।
कस्तस्य समरे स्थाता साक्षादपि पुरन्दरः ॥४॥
क्रुद्धस्य भीमसेनस्य मम पुत्रान् जिघांसतः
।
दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः ॥५॥
भीमसेनदवाग्नेस्तु मम पुत्रांस्तृणोपमान्
।
प्रधक्षतो रणमुखे केऽतिष्ठन्नग्रतो नराः ॥६॥
काल्यमानांस्तु पुत्रान् मे दृष्ट्वा भीमेन संयुगे
।
कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् ॥७॥
न मेऽर्जुनाद्भयं तादृक्कृष्णान्नापि च सात्वतात्
।
हुतभुग्जन्मनो नैव यादृग्भीमाद्भयं मम ॥८॥
भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः
।
के शूराः पर्यवतन्त तन्ममाचक्ष्व सञ्जय ॥९॥
सञ्जय उवाच।
तथा तु नर्दमानं तं भीमसेनं महाबलम्
।
तुमुलेनैव शब्देन कर्णोऽप्यभ्यद्रवद्बली ॥१०॥
व्याक्षिपन् सुमहच्चापमतिमात्रममर्षणः
।
कर्णः सुयुद्धमाकांक्षन् दर्शयिष्यन्बलं मृधे ॥११॥
रुरोध मार्गं भीमस्य वातस्येव महीरुहः
।
भीमोऽपि दृष्ट्वा सावेगं पुरो वैकर्तनं स्थितम् ॥१२॥
सावेगं सत्वरम् ॥१२॥
चुकोप बलवद्वीरश्चिक्षेपास्य शिलाशितान्
।
तान्प्रत्यगृह्णात्कर्णोऽपि प्रतीपं प्रापयच्छरान् ॥१३॥
ततस्तु सर्वयोधानां यततां प्रेक्षतां तदा
।
प्रावेपन्निव गात्राणि कर्णभीमसमागमे ॥१४॥
रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम्
।
भीमसेनस्य निनदं श्रुत्वा घोरं रणाजिरे ॥१५॥
खं च भूमिं च संरुद्धां मेनिरे क्षत्रियर्षभाः
।
पुनर्घोरेण नादेन पाण्डवस्य महात्मनः ॥१६॥
संरुद्धामेकतामापन्नाम् ॥१६॥
समरे सर्वयोधानां धनूंष्यभ्यपतान्क्षितौ
।
शस्त्राणि न्यपतन् दोर्भ्यः केषांचिच्चासवोऽद्रवन् ॥१७॥
वित्रस्तानि च सर्वाणि शकृन्सूत्रं प्रसुस्रुवुः
।
वाहनानि च सर्वाणि बभूवुर्विमनांसि च ॥१८॥
प्रादुरासन्निमित्तानि घोराणि सुबहून्युत
।
गृध्रकङ्कबलैश्चासीदन्तरिक्षं समावृतम् ॥१९॥
तस्मिन्सुतुमुले राजन् कर्णभीमसमागमे
।
ततः कर्णस्तु विंशत्या शराणां भीममार्दयत् ॥२०॥
विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः
।
प्रहस्य भीमसेनोऽपि कर्णं प्रत्याद्रवद्रणे ॥२१॥
सायकानां चतुःषष्ट्या क्षिप्रकारी महायशाः
।
तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत् ॥२२॥
असंप्राप्तांश्च तान् भीमः सायकैर्नतपर्वभिः
।
चिच्छेद बहुधा राजन् दर्शयन्पाणिलाघवम् ॥२३॥
तं कर्णश्छादयामास शरव्रातैरनेकशः
।
संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः ॥२४॥
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः
।
विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः ॥२५॥
अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः
।
विव्याध समरे भीमं भीमकर्मा महारथः ॥२६॥
तस्य भीमो भृशं क्रुद्धस्त्रीन् शरान्नतपर्वणः
।
निचखानोरसि क्रुद्धः सूतपुत्रस्य वेगतः ॥२७॥
तैः कर्णोऽराजत शरैरुरोमध्यगतैस्तदा
।
महीधर इवोदग्रस्त्रिशृंगो भरतर्षेभ ॥२८॥
सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः
।
धातुप्रस्यन्दिनः शैलाद्यथा गैरिकधातवः ॥२९॥
किंचिद्विचालितः कर्णः सुप्रहाराभिपीडितः
।
आकर्णपूर्णमाकृष्य भीमं विव्याध सायकैः ॥३०॥
चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः
।
स शरैरर्दितस्तेन कर्णेन दृढधन्धिना
।
धनुर्ज्यामच्छिनत्तूर्णं भीमस्तस्य क्षुरेण ह ॥३१॥
सारथिं चास्य भल्लेन रथनीडादपातयत्
।
वाहांश्च चतुरस्तस्य व्यसूंश्चक्रे महारथः ॥३२॥
हताश्वात्तु रथात्कर्णः समाप्लुत्य विशांपते
।
स्यन्दनं वृषसेनस्य तूर्णमापुप्लुवे भयात् ॥३३॥
निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान्
।
ननाद बलवान्नादं पर्जन्यनिनदोपमम् ॥३४॥
तस्य तं निनदं श्रुत्या प्रहृष्टोऽभूद्युधिष्ठिरः
।
कर्णं पराजितं मत्वा भीमसेनेन संयुगे ॥३५॥
समन्ताच्छंखनिनदं पाण्डुसेनाऽकरोत्तदा
।
शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यनदन्भृशम् ॥३६॥
स शंखबाणनिनदैर्हर्षाद्राजा स्ववाहिनीम्
।
चक्रे युधिष्ठिरः संख्ये हर्षनादैश्च संकुलाम् ॥३७॥
गाण्डीवं व्याक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत्
।
तमन्तर्धाय निनदं भीमस्य नदतो ध्वनिः
।
अश्रूयत तदा राजन् सर्वसैन्येषु दारुणः ॥३८॥
ततो व्यायच्छतामस्त्रैः पृथक् पृथगजिह्मगैः
।
मृदुपूर्वं तु राधेयो दृढपूर्वं तु पाण्डवः ॥३९॥
व्यायच्छतां प्रहरताम् ॥३९॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमप्रवेशे कर्णपराजये एकोनत्रिंशदधिकशततमोऽध्यायः ॥१२९॥
सञ्जय उवाच।
तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते
।
सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात् ॥१॥
तस्मिन्निति ॥१॥
त्वरन्नेकरथेनैव बहुकृत्यं विचिन्तयन्
।
स रथस्तव पुत्रस्य त्वरया परया युतः ॥२॥
तूर्णमभ्यद्रवद्द्रोणं मनोमारुतवेगवान्
।
उवाच चैनं पुत्रस्ते संरंभाद्रक्तलोचनः ॥३॥
संरंभात्प्रणयक्रोधात् ॥३॥
ससंभ्रममिदं वाक्यमब्रवीत्कुरुनन्दनः
।
अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः ॥४॥
विजित्य सर्वसैन्यानि सुमहान्ति महारथाः
।
संप्राप्ताः सिन्धुराजस्य समीपमनिवारिताः ॥५॥
व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः
।
यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः ॥६॥
कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद
।
आश्चर्यभूतं लोकेऽस्मिन् समुद्रस्येव शोषणम् ॥७॥
निर्जयस्तव विप्राग्र्य सात्वतेनार्जुनेन च
।
तथैव भीमसेनेन लोकः संवदते भृशम् ॥८॥
कथं द्रोणो जितः संख्ये धनुर्वेदस्य पारगः
।
इत्येवं ब्रुवते योधा अश्रद्धेयमिदं तव ॥९॥
नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे
।
यत्र त्वां पुरुषव्याघ्रं व्यतिक्रान्तास्त्रयो रथाः ॥१०॥
एवंगते तु कृत्येऽस्मिन् ब्रूहि यत्ते विवक्षितम्
।
यद्गतं गतमेवेदं शेषं चिन्तय मानद ॥११॥
यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम्
।
तत्संविधीयतां क्षिप्रं साधु सञ्चिन्त्य नो द्विज ॥१२॥
द्रोण उवाच।
चिन्त्यं बहुविधं तात यत्कृत्यं तच्छृणुष्व मे
।
त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः ॥१३॥
यावत्तेषां भयं पश्चात्तावदेषां पुरःसरम्
।
तद्गरीयस्तरं मन्ये यत्र कृष्णधनञ्जयौ ॥१४॥
सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः
।
तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम् ॥१५॥
स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनञ्जयात्
।
गतौ च सैन्धवं भीमौ युयुधानवृकोदरौ ॥१६॥
संप्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम्
।
न सभायां जयो वृत्तो नापि तत्र पराजयः॥१७॥
इह नो ग्लहमानानामद्य तावञ्जयाजयौ
।
यान्स्म तान्ग्लहते घोराञ्छकुनिः कुरुसंसदि ॥१८॥
तान् प्रसिद्धान् यानक्षान् अक्षान् मन्यमानः प्राग्ग्लहते स्म इत्यन्वयः ॥१८॥
अक्षान् स मन्यमानः प्राक् शरास्ते हि दुरासदाः
।
यत्र ते बहवस्तात कौरवेया व्यवस्थिताः ॥१९॥
यत्र सभायां तेऽमी ॥१९॥
सेनां दुरोदरं विद्धि शरानक्षान्विशांपते
।
ग्लहं च सैन्धवं राजंस्तत्र द्यूतस्य निश्चयः ॥२०॥
दुरोदरं द्यूतकारिणम् ॥२०॥
सैन्धवे तु महत् द्यूतं समासक्तं परैः सह
।
अत्र सर्वे महाराज त्यक्त्या जीवितमात्मनः ॥२१॥
सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ
।
तत्र नो ग्लहमानानां धुवौ जयपराजयौ ॥२२॥
यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम्
।
तत्र गच्छ स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः ॥२३॥
इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान्
।
निरोत्स्यामि च पञ्चालान् सहितान् पाण्डुसृञ्जयैः ॥२४॥
ततो दुर्योधनोऽगच्छत्तूर्णमाचार्यशासनात्
।
उद्यम्यात्मानमुग्राय कर्मणे सपदानुगः ॥२५॥
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ
।
बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् ॥२६॥
यौ तु पूर्वं महाराज वारितौ कृतवर्मणा
।
प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया ॥२७॥
पार्श्वे भित्त्वा चमूं वीरौ प्रविष्टौ तव वाहिनीम्
।
पार्श्वेन सैन्यमायान्तौ कुरुराजो ददर्श ह ॥२८॥
ताभ्यां दुर्योधनः सार्धमकरोत्संख्यमुत्तमम्
।
त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली ॥२९॥
तावेनमभ्यद्रवतामुभावुद्यतकार्मुकौ
।
महारथसमाख्यातौ क्षत्रियप्रवरौ युधि ॥२९॥
तमविध्यद्यधामन्युस्त्रिंशता कङ्कपत्रिभिः
।
विंशत्या सारथिं चास्य चतुर्भिश्चतुरो हयान् ॥३०॥
दुर्योधनो युधामन्योर्ध्वजमेकेषुणाऽच्छिनत्
।
एकेन कार्मुकं चास्य चकर्त तनयस्तव ॥३१॥
सारथिं चास्य भल्लेन रथनीडादपाहरत्
।
ततोऽविध्यच्छरैस्तीक्ष्णैश्चतुर्भिश्चतुरो हयान् ॥३२॥
युधामन्युश्च संक्रुद्धः शरांस्त्रिंशतमाहवे
।
व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे ॥३३॥
तथोत्तमौजाः संक्रुद्धः शरैर्हेमावभूषितैः
।
अविध्यत्सारथिं चास्य प्राहिणोद्यमसादनम् ॥३४॥
दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः
।
जघान चतुरोऽस्याश्वानुभौ तौ पार्ष्णिसारथी ॥३५॥
उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे
।
आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन् ॥३६॥
सरथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः
।
बहुभिस्ताडयामास ते हताः प्रापतन्भुवि ॥३७॥
हयेषु पतितेष्वस्य चिच्छेद परमेषुणा
।
युधामन्योर्धनुः शीघ्रं शरावापं च संयुगे ॥३८॥
हताश्वसूतात्स रथादवतीर्य नराधिपः
।
गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत ॥३९॥
तमापतन्तं संप्रेक्ष्य क्रुद्धं कुरुपतिं तदा
।
अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ ॥४०॥
ततः स हेमचित्रं तं गदया स्यन्दनं गदी
।
संक्रुद्धः पोथयामास साश्वसूतध्वजं नृप ॥४१॥
भंक्त्वा रथं स पुत्रस्ते हताश्वो हतसारथिः
।
मद्रराजरथं तूर्णमारुरोह परंतपः ॥४३॥
पञ्चालानां ततो मुख्यौ राजपुत्रौ महारथौ
।
रथावन्यौ समारुह्य बीभत्सुमभिजग्मतुः ॥४४॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि दुर्योधनयुद्धे त्रिंशदधिकशततमोऽध्यायः ॥१३०॥
सञ्जय उवाच।
वर्तमाने महाराज संग्रामे लोमहर्षणे
।
व्याकुलेषु च सर्वेषु पीड्यमानेषु सर्वशः ॥१॥
वर्तमान इति ॥१॥
राधेयो भीममानर्च्छद्युद्धाय भरतर्षभ
।
यथा नागो वने नागं मत्तो मत्तमभिद्रवन् ॥२॥
धृतराष्ट्र उवाच।
यौ तौ कर्णश्च भीमश्च संप्रयुद्धौ महाबलौ
।
अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः॥३॥
पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे
।
कथं भूयः स राधेयो भीममागान्महारथः॥४॥
भीमो वा सूततनयं प्रत्युद्यातः कथं रणे
।
महारथं समाख्यातं पृथिव्यां प्रवरं रथम् ॥५॥
भीष्मद्रोणावतिक्रम्य धर्मराजो युधिष्ठिरः
।
नान्यतो भयमादत्त विना कर्णान्महारथात्॥६॥
भयाद्यस्य महाबाहो न शेते बहुलाः समाः
।
चिन्तयन्नित्यशो वीर्यं राधेयस्य महात्मनः
।
तं कथं सूतपुत्रं तु भीमोऽयोधयताहवे ॥७॥
ब्रह्मण्यं वीर्यसंपन्नं समरेष्वनिवर्तिनम्
।
कथं कर्णं युधां श्रेष्ठं योधयामास पाण्डवः॥८॥
यौ तौ समीयतुर्वीरौ वैकर्तनवृकोदरौ
।
कथं तावत्र युद्ध्येतां महाबलपराक्रमौ ॥९॥
भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः
।
कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन्॥१०॥
पूर्वमुद्योगे दर्शितमुद्भावितं भ्रातृत्वं कुन्त्या वाक्यं च चतुर्णामवध्यत्वलक्षणं चानुस्मरन्नित्यन्वयः ॥१०॥
भीमो वा सूतपुत्रेण स्मरन् वैरं पुरा कृतम्
।
अयुध्यत कथं शूरः कर्णेन सह संयुगे ॥११॥
आशास्ते च सदा सूतपुत्रो दुर्योधनो मम
।
कर्णो जेष्यति संग्रामे समस्तान्पाण्डवानिति॥१२॥
जयाशा यत्र पुत्रस्य मम मन्दस्य संयुगे
।
स कथं भीमकर्माणं भीमसेनमयोधयत् ॥१३॥
यं समासाद्य पुत्रैर्मे कृतं वैरं महारथैः
।
तं सूततनयं तात कथं भीमो ह्ययोधयत्॥१४॥
अनेकान् विप्रकारांश्च सूतपुत्रसमुद्भवान्
।
स्मरमाणः कथं भीमो युयुधे सूतसूनुना॥१५॥
योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान्
।
तं सूततनयं युद्धे कथं भीमो ह्ययोधयत्॥१६॥
यो जातः कुण्डलाभ्यां च कवचेन सहैव च
।
तं सूतपुत्रं समरे भीमः कथमयोधयत् ॥१७॥
यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः
।
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय॥१८॥
सञ्जय उवाच।
भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम्
।
इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनञ्जयौ॥१९॥
तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः
।
अभ्यवर्षन्महाराज मेघो वृष्ठ्येव पर्वतम् ॥२०॥
फुल्लता पङ्कजेनेव वक्त्रेण विहसन् बली
।
आजुहाव रणे यान्तं भीममाधिरथिस्तदा॥२१॥
कर्ण उवाच।
भीमाहितैस्तव रणः स्वप्नेऽपि न विभावितः
।
तद्दर्शयसि कस्मान्मे पृष्ठं पार्थदिदृक्षया ॥२२॥
कुन्त्याः पुत्रस्य सदृशं नेदं पाण्डवनन्दन
।
तेन मामभितः स्थित्वा शरवर्षैरवाकिर॥२३॥
अभितः संमुखे ॥२३॥
भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि
।
अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् ॥२४॥
अवक्रगामिभिर्बाणौरभ्यवर्षन्महायशाः
।
दंशितं द्वैरथे यत्तं सर्वशस्त्रविशारदम् ॥२५॥
विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत्
।
हत्वा तस्यानुगांस्तं च हन्तुकामो महाबलः ॥२६॥
तस्मै व्यसृजदुग्राणि विविधानि परन्तपः
।
अमर्षात्पाण्डवः क्रुद्धः शरवर्षाणि मारिष॥२७॥
तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः
।
सूतपुत्रोऽस्त्रमायाभिरग्रसत्परमास्त्रवित् ॥२८॥
स यथावन्महाबाहुर्विद्यया वै सुपूजितः
।
आचार्यवन्महेष्वासः कर्णः पर्यचरद्बली॥२९॥
युध्यमानं तु संरम्भाद्भीमसेनं हसन्निव
।
अभ्यपद्यत कौन्तेयं कर्णो राजन् वृकोदरम्॥३०॥
तन्नाकृष्यत कौन्तेयः कर्णस्य स्मितमाहवे
।
युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः॥३१॥
तं भीमसेनः संप्राप्तं वत्सदन्तैः स्तनान्तरे
।
विव्याध बलवान् क्रुद्धस्तोत्रैरिव महाद्विपम्॥३२॥
पुनश्च सूतपुत्रं तु स्वर्णपुङ्खैः शिलाशितैः
।
सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः॥३३॥
कर्णो जाम्बूनदैर्जालैः संछन्नान्वातरंहसः
।
हयान् विव्याध भीमस्य पञ्चभिः पञ्चभिः शरैः॥३४॥
ततो बाणमयं जालं भीमसेनरथं प्रति
।
कर्णेन विहितं राजन्निमेषार्धाददृश्यत॥३५॥
सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा
।
प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः॥३६॥
तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम्
।
क्रुद्धश्चाप्यहनत्पार्थं नाराचैर्मर्मभेदिभिः॥३७॥
ततोचिंत्य महाबाहुः कर्णकार्मुकनिःसृतान्
।
समाश्लिष्यदसंभ्रान्तः सूतपुत्रं वृकोदरः॥३८॥
शरानिति शेषः। अचिन्त्य-अविगणय्येत्यर्थः ॥३८॥
स कर्णचापप्रभवान्निषूनाशीविषोपमान्
।
बिभ्रद्भीमो महाराज न जगाम व्यथां रणे ॥३९॥
ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः
।
विव्याध समरे कर्णं भीमसेनः प्रतापवान्॥४०॥
अयत्नेनैव तं कर्णः शरैर्भृशमवाकिरत्
।
भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम्॥४१॥
मृदुपूर्वं तु राधेयो भीममाजावयोधयत्
।
क्रोधपूर्वं तथा भीमः पूर्वं वैरमनुस्मरन्॥४२॥
तं भीमसेनो नामृष्यदवमानममर्षणः
।
स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रहा॥४३॥
ते शराः प्रेषितास्तेन भीमसेनेन संयुगे
।
निपेतुः सर्वतो वीरे कूजन्त इव पक्षिणः॥४४॥
हेमपुङ्खाः प्रसन्नाग्रा भीमसेनधनुश्च्युताः
।
प्राच्छादयंस्ते राधेयं शलभा इव पावकम्॥४५॥
कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः
।
राजन्व्यसृजदुग्राणि शरवर्षाणि भारत॥४६॥
तस्य तानशनिप्रख्यानिषून्समरशोभिनः
।
चिच्छेद बहुभिर्भल्लैरसंप्राप्तान् वृकोदरः॥४७॥
पुनश्च शरवर्षेण च्छादयामास भारत
।
कर्णो वैकर्तनो युद्धे भीमसेनमरिन्दमः॥४८॥
तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः
।
समाचिततनुं संख्ये श्वाविधं शललैरिव॥४९॥
हेमपुङ्खाञ्छिलाधौतान् कर्णचापच्युताञ्छरान्
।
दधार समरे वीरः स्वरश्मीनिव रश्मिवान् ॥५०॥
रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यराजत
।
समृद्धकुसुमापीडो वसन्तेऽशोकवृक्षवत्॥५१॥
तत्तु भीमो महाबाहोः कर्णस्य चरितं रणे
।
नामृष्यत महाबाहुः क्रोधादुद्धृत्तलोचनः॥५२॥
स कर्णं पञ्चविंशत्या नाराचानां समार्पयत्
।
महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः ॥५३॥
पुनरेव च विव्याध षड्भिरष्टाभिरेव च
।
मर्मस्वमरविक्रान्तः सूतपुत्रं तनुत्यजम् ॥५४॥
पुनरन्येन बाणेन भीमसेनः प्रतापवान्
।
चिच्छेद कार्मुकं तूर्णं कर्णस्य प्रहसन्निव॥५५॥
जघान चतुरश्चाश्वान् सूतं च त्वरितः शरैः
।
नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि॥५६॥
ते जग्मुर्धरणीमाशु कर्णं निर्भिद्य पत्रिणः
।
यथा जलधरं भित्त्वा दिवाकरमरीचयः॥५७॥
स वैक्लव्यं महत्प्राप्य छिन्नधन्वा शराहतः
।
तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम्॥५८॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि कर्णपराजये एकत्रिंशदधिकशततमोऽध्यायः ॥१३१॥
धृतराष्ट्र उवाच।
स्वयं शिष्यो महेशस्य भृगूत्तमधनुर्धरः
।
शिष्यत्वं प्राप्तवान् कर्णस्तस्य तुल्योऽस्त्रविद्यया ॥१॥
स्वयमिति ॥१॥
तद्विशिष्टोऽपि वा कर्णः शिष्यः शिष्यगुणैर्युतः
।
कुन्तीपुत्रेण भीमेन निर्जितः स तु लीलया॥२॥
यस्मिञ्जयाशा महर्ता पुत्राणां मम सञ्जय
।
तं भीमाद्विमुखं दृष्ट्वा किन्नु दुर्योधनोऽब्रवीत्॥३॥
कथं च युयुधे भीमो वीर्यश्लाघी महाबलः
।
कर्णो वा समरे तात किमकार्षीत्ततः परम्
।
भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम्॥४॥
सञ्जय उवाच।
रथमन्यं समास्थाय विधिवत्कल्पितं पुनः
।
अभ्ययात्पाण्डवं कर्णो वातोद्धूत इवार्णवः॥५॥
क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशांपते
।
भीमसेनममन्यन्त वैश्वानरमुखे हुतम् ॥६॥
चापशब्दं ततः कृत्वा तलशब्दं च भैरवम्
।
अभ्यद्रवत राधेयो भीमसेनरथं प्रति ॥७॥
पुनरेव तयो राजन् घोर आसीत समागमः
।
वैकर्तनस्य शूरस्य भीमस्य च महात्मनः॥८॥
संरब्धौ हि महाबाहू परस्परवधैषिणौ
।
अन्योन्यमीक्षां चक्राते दहन्ताविव लोचनैः॥९॥
क्रोधरक्तेक्षणौ तीव्रौ निःश्वसन्ताविवोरगौ
।
शूरावन्योन्यमासाद्य ततक्षतुररिन्दमौ॥१०॥
व्याघ्राविव सुसंरब्धौ श्येनाविव च शीघ्रगौ
।
शरभाविव संक्रुद्धौ युयुधाते परस्परम् ॥११॥
ततो भीमः स्मरन्क्लेशानक्षद्यूते वनेऽपि च
।
विराटनगरे चैव दुःखं प्राप्तमरिन्दमः॥१२॥
राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः
।
सततं च परिक्लेशान्सपुत्रेण त्वया कृतान् ॥१३॥
दग्धुमैच्छच्च यः कुन्तीमपुत्रां त्वमनागसम्
।
कृष्णायाश्च परिक्लेशं सभामध्ये दुरात्मभिः॥१४॥
केशपक्षग्रहं चैव दुःशासनकृतं तथा
।
परुषाणि च वाक्यानि कर्णेनोक्तानि भारत॥१५॥
पतिमन्यं परीप्सस्व न सन्ति पतयस्तव
।
पतिता नरके पार्थाः सर्वे षण्ढतिलोपमाः॥१६॥
समक्षं तव कौरव्य यदूचुः कौरवास्तदा
।
दासीभावेन कृष्णां च भोक्तुकामाः सुतास्तव॥१७॥
यच्चापि तान् प्रव्रजतः कृष्णाजिननिवासिनः
।
परुषाण्युक्तवान् कर्णः सभायां सन्निधौ तव॥१८॥
तृणीकृत्य यथा पार्थांस्तव पुत्रो ववल्ग ह
।
विषमस्थान्समस्थो हि संरब्धो गतचेतनः॥१९॥
बाल्यात्प्रभृति चारिघ्नः स्वानि दुःखानि चिन्तयन्
।
निरविद्यत धर्मात्मा जीवितेन वृकोदरः॥२०॥
ततो विस्फार्य सुमहद्धेमपृष्ठं दुरासदम्
।
चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात् ॥२१॥
स सायकमयैर्जालौर्भीमः कर्णरथं प्रति
।
भानुमद्भिः शिलाधौतैर्भानोः प्राच्छादयत्प्रभाम्॥२२॥
ततः प्रहस्याधिरथिस्तूर्णमस्य शिलाशितैः
।
व्यधमद्भीमसेनस्य शरजालानि पत्रिभिः॥२३॥
महारथो महाबाहुर्महाबाणैर्महाबलः
।
विव्याधाधिरथिर्भीमं नवभिर्निशितैस्तदा ॥२४॥
स तोत्रैरिव मातङ्गो वार्यमाणः पतत्रिभिः
।
अभ्यधावदसंभ्रान्तः सूतपुत्रं वृकोदरः ॥२५॥
तमापतन्तं वेगेन रभसं पाण्डवर्षभम्
।
कर्णः प्रत्युद्ययौ युद्धे मत्तो मत्तमिव द्विपम्॥२६॥
ततः प्रध्माप्य जलजं भेरीशतसमस्वनम्
।
अक्षुभ्यत बलं हर्षादुद्धूत इव सागरः ॥२७॥
तदुद्भूतं बलं दृष्ट्वा नागाश्वरथपत्तिमत्
।
भीमः कर्णं समासाद्य च्छादयामास सायकैः॥२८॥
अश्वानृक्षसवर्णांश्च हंसवर्णैर्हयोत्तमैः
।
व्यामिश्रयद्रणे कर्णः पाण्डवं छादयञ्छरैः॥२९॥
ऋक्षवर्णान्हयान्कर्कैर्मिश्रान्मारुतरंहसः
।
निरीक्ष्य तव पुत्राणां हाहाकृतमभूद्बलम्॥३०॥
कर्कैः श्वेतैरश्वैः ॥३०॥
ते हया बह्वशोभन्त मिश्रिता वातरंहसः
।
सितासिता महाराज यथा व्योम्नि बलाहकाः ॥३१॥
संरब्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ
।
संत्रस्ताः समकम्पन्त त्वदीयानां महारथाः॥३२॥
यमराष्ट्रोपमं घोरमासीदायोधनं तयोः
।
दुर्दर्शं भरतश्रेष्ठ प्रेतराजपुरं यथा॥३३॥
समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः
।
नालक्षयञ्जयं व्यक्तमेकस्यैव महारणे ॥३४॥
समाजं रङ्गं एकस्यैव कस्यचित् नान्यस्य ॥३४॥
तयोः प्रैक्षन्त संमर्दं सन्निकृष्टं महास्त्रयोः
।
तव दुर्मन्त्रिते राजन् सपुत्रस्य विशांपते ॥३५॥
छादयन्तौ हि शत्रुघ्नावन्योन्यं सायकैः शितैः
।
शरजालावृतं व्योम चक्रातेऽद्भुतविक्रमौ ॥३६॥
तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ
।
प्रेक्षणीयतरावास्तां वृष्टिमन्ताविवाम्बुदौ॥३७॥
सुवर्णविकृतान्बाणान्विमुंचन्तावरिन्दमौ
।
भाखरं व्योम चक्राते महोल्काभिरिव प्रभो॥३८॥
ताभ्यां मुक्ताः शरा राजन् गार्ध्रपत्राश्चकाशिरे
।
श्रेण्यः शरदि मत्तानां सारसानामिवाम्बरे॥३९॥
संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिन्दमम्
।
अतिभारममन्येतां भीमे कृष्णचनञ्जयौ ॥४०॥
तत्राधिरथिभीमाभ्यां शरैर्मुक्तैर्दृढं हताः
।
इषुपातमतिक्रम्य पेतुरश्व-नर-द्विपाः ॥४१॥
पतद्भिः पतितैश्चान्यैर्गतासुभिरनेकशः
।
कृतो राजन्महाराज पुत्राणां ते जनक्षयः॥४२॥
मनुष्याश्व-गजानां च शरीरैर्गतजीवितैः
।
क्षणेन भूमिः संजज्ञे संवृता भरतर्षभ ॥४३॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमकर्णयुद्धे द्वात्रिंशदधिकशततमोऽध्यायः॥१३२॥
धृतराष्ट्र उवाच।
अत्यद्भुतमहं मन्ये भीमसेनस्य विक्रमम्
।
यत्कर्णं योधयामास समरे लघुविक्रमम् ॥१॥
अत्यद्भुतमिति ॥१॥
त्रिदशानपि वा युक्तान्सर्वशस्त्रधरान्युधि
।
वारयेद्यो रणे कर्णः सयक्षासुरमानुषान् ॥२॥
स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया
।
नातरत्संयुगे पार्थं तन्ममाचक्ष्व सञ्जय ॥३॥
कथं च युद्धं संभूतं तयोः प्राणदुरोदरे
।
अत्र मन्ये समायत्तो जयो वाऽजय एव च ॥४॥
प्राणदुरोदरे प्राणद्यूते ॥४॥
कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः
।
जेतुमुत्सहते पार्थान्सगोविंदान्ससात्वतान्॥५॥
श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा
।
भीमसेनेन समरे मोह आविशतीय माम् ॥६॥
विनष्टान्कौरवान्मन्ये मम पुत्रस्य दुर्नयैः
।
न हि कर्णो महेष्वासान्पार्थाञ्जेष्यति सञ्जय ॥७॥
कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैः सह
।
सर्वत्र पाण्डवाः कर्णमजयन्त रणाजिरे ॥८॥
अजेयाः पाण्डवास्तात देवैरपि सवासवैः
।
न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम ॥९॥
धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः
।
मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते ॥१०॥
निकृत्या निकृतिप्रज्ञो राज्यं हत्वा महात्मनाम्
।
जितमित्येव मन्वानः पाण्डवानवमन्यते ॥११॥
पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना
।
धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः॥१२॥
शमकामः ससोदर्यो दीर्घप्रेक्षी युधिष्ठिरः
।
अशक्त इति मत्वा तु मम पुत्रैर्निराकृतः॥१३॥
तानि दुःखान्यनेकानि विप्रकारांश्च सर्वशः
।
हृदि कृत्वा महाबाहुर्भीमोऽयुध्यत सूतजम्॥१४॥
तस्मान्मे सञ्जय ब्रूहि कर्णभीमौ यथा रणे
।
अयुध्येतां युधि श्रेष्ठौ परस्परवधैषिणौ ॥१५॥
सञ्जय उवाच।
शृणु राजन्यथावृत्तं संग्रामं कर्णभीमयोः
।
परस्परवधप्रेप्सोर्वनकुञ्जरयोरिव ॥१६॥
राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिदमम्
।
पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः॥१७॥
महावेगैः प्रसन्नाग्रैः शातकुंभपरिष्कृतैः
।
अहनद्भरतश्रेष्ठ भीमं वैकर्तनः शरैः ॥१८॥
तस्यास्यतो धनुर्भीमश्चकर्त निशितैस्त्रिभिः
।
रथनीडाच्च यन्तारं भल्लेनापातयत्क्षितौ॥१९॥
स कांक्षन् भीमसेनस्य वधं वैकर्तनो भृशम्
।
शक्तिं कनकवैदूर्यचित्रदण्डां परामृशत् ॥२०॥
प्रगृह्य च महाशक्तिं कालशक्तिमिवापराम्
।
समुत्क्षिप्य च राधेयः सन्धाय च महाबलः॥२१॥
चिक्षेप भीमसेनाय जीवितान्तकरीमिव
।
शक्तिं विसृज्य राधेयः पुरन्दर इवाशनिम् ॥२२॥
ननाद सुमहानादं बलवान्सूतनन्दनः
।
तं च नादं ततः श्रुत्वा पुत्रास्ते हर्षिताऽभवन्॥२३॥
तां कर्णभुजनिर्मुक्तामर्कवैश्वानरप्रभाम्
।
शक्तिं वियति चिच्छेद भीमः सप्ताभिराशुगैः॥२४॥
छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसन्निभाम्
।
मार्गमाण इव प्राणान्सूतपुत्रस्य मारिष॥२५॥
प्राहिणोत्कृतसंरंभः शरान्बर्हिणवाससः
।
स्वर्णपुंखाञ्शिलाधौतान् यमदण्डोपमान्मृधे॥२६॥
कर्णोऽप्यन्यद्धनुर्गुह्य हेमपृष्ठं दुरासदन्
।
विकृष्य तन्महच्चापं व्यसृजत्सायकांस्तदा॥२७॥
तान्पाण्डुपुत्रश्चिच्छेद नवभिर्नतपर्वभिः
।
वसुषेणेन निर्मुक्तान्नव राजन्महाशरान् ॥२८॥
छित्त्वा भीमो महाराज नादं सिंह इवानदत्
।
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे॥२९॥
शार्दूलाविव चान्योन्यमामिषार्थेऽभ्यगर्जताम्
।
अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ॥३०॥
अन्योन्यमभिवीक्षन्ती गोष्ठेष्विव महर्षभौ
।
महागजाविवासाद्य विषाणाग्रैः परस्परम् ॥३१॥
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः
।
निर्दहन्तौ महाराज शस्त्रवृष्ट्या परस्परम् ॥३२॥
अन्योन्यमभिवीक्षन्तौ कोपाद्विवृतलोचनौ
।
प्रहसन्तौ तथाऽन्योन्यं भर्त्सयन्तौ मुहुर्मुहुः॥३३॥
शंखशब्दं च कुर्वाणौ युयुधाते परस्परम्
।
तस्य भीमःपुनश्चापं मुष्टौ चिच्छेद मारिष॥३४॥
शंखवर्णांश्च तानश्वान्बाणैर्निन्ये यमक्षयम्
।
सारथिं च तथाप्यस्य रथनीडादपातयत् ॥३५॥
ततो वैकर्तनः कर्णश्चिन्तां प्राप दुरत्ययाम्
।
स च्छाद्यमानः समरे हताश्वो हतसारथिः ॥३६॥
मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत
।
तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः ॥३७॥
वेपमान इव क्रोधाद्व्यादिदेशाथ दुर्जयम्
।
गच्छ दुर्जय राधेयं पुरो ग्रसति पाण्डवः॥३८॥
जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत्
।
एवमुक्तस्तथेत्युक्त्वा तव पुत्रं तवात्मजः॥३९॥
अभ्यद्रवद्भीमसेनं व्यासक्तं विकिरञ्छरैः
।
स भीमं नवभिर्बाणैरश्वानष्टभिरार्पयत् ॥४०॥
षड्भिः सूतं त्रिभिः केतुं पुनस्तं चापि सप्तभिः
।
भीमसेनोऽपि संक्रुद्धः साश्वयन्तारमाशुगैः॥४१॥
दुर्जयं भिन्नमर्माणमनयद्यमसादनम्
।
स्वलंकृतं क्षितौ क्षुण्णं चेष्टमानं यथोरगम्॥४२॥
रुदन्नार्तस्तव सुतं कर्णश्चक्रे प्रदक्षिणम्
।
स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम् ॥४३॥
समाचिनोद्बाणगणैः शतघ्नीभिश्च शङ्कुभिः
।
तथाऽप्यतिरथः कर्णो भिद्यमानोऽस्य सायकैः ॥४४॥
न जहौ समरे भीमं क्रुद्धरूपं परन्तपः ॥४५॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि कर्णभीमयुद्धे त्रयस्त्रिंशदधिकशततमोऽध्यायः॥१३३॥
सञ्जय उवाच।
सर्वथा विरथः कर्णः पुनर्भीमेन निर्जितः
।
रथमन्यं समास्थाय पुनर्विव्याध पाण्डवम्॥१॥
स इति ॥१॥
महागजाविवासाद्य विषाणाग्रैः परस्परम्
।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः॥२॥
अथ कर्णः शरव्रातैर्भीमसेनं समार्पयत्
।
ननाद च महानादं पुनर्विव्याध चोरसि ॥३॥
तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः
।
पुनर्विव्याध सप्तत्या शराणां नतपर्वणाम्॥४॥
कर्णं तु नवभिर्भीमो भित्त्वा राजंस्तनान्तरे
।
ध्वजमेकेन विव्याध सायकेन शितेन ह ॥५॥
सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत
।
तोत्रैरिव महानागं कशाभिरिव वाजिनम्॥६॥
सोऽतिविद्धो महाराज पाण्डवेन यशस्विना
।
सृक्किणी लेलिहन्वीरः क्रोधरक्तान्तलोचनः॥७॥
ततः शरं महाराज सर्वकायावदारणम्
।
प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम्॥८॥
स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः
।
अगच्छद्दारयन् भूमिं चित्रपुङ्खः शिलीमुखः॥९॥
ततो भीमो महाबाहुः क्रोधसंरक्तलोचनः
।
वज्रकल्पां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम्॥१०॥
प्राहिणोत्सूतपुत्राय षडस्रामविचारयन्
।
तया जघानाधिरथेः सदश्वान्साधुवाहिनः॥११॥
गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान्
।
ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ॥१२॥
ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनच्छरैः
।
हताश्वसूतमुत्सृज्य सरथं पतितध्वजम् ॥१३॥
विस्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः
।
तत्राद्भुतमपश्याम राधेयस्य पराक्रमम् ॥१४॥
विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम्
।
विरथं तं नरश्रेष्ठं दृष्ट्वाऽऽधिरथिमाहवे ॥१५॥
दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम्
।
एष दुर्मुख राधेयो भीमेन विरथीकृतः ॥१६॥
तं रथेन नरश्रेष्ठं संपादय महारथम्
।
ततो दुर्योधनवचः श्रुत्वा भारत दुर्मुखः॥१७॥
त्वरमाणोऽभ्ययात्कर्णं भीमं चावारयच्छरैः
।
दुर्मुखं प्रेक्ष्य संग्रामे सूतपुत्रपदानुगम्॥१८॥
वायुपुत्रः प्रहृष्टोऽभूत्सृक्किणी परिसंलिहन्
।
ततः कर्णं महाराज वारयित्वा शिलीमुखैः॥१९॥
दुर्मुखाय रथं तूर्णं प्रेषयामास पाण्डवः
।
तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः॥२०॥
सुमुखैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम्
।
ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते॥२१॥
आस्थितः प्रबभौ राजन् दीप्यमान इवांशुमान्
।
शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम्॥२२॥
दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत
।
तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम्॥२३॥
दीर्घमुष्णं श्वसन्वीरो न किञ्चित्प्रत्यपद्यत
।
तस्मिंस्तु विवरे राजन् नाराचान्गार्ध्रवाससः॥२४॥
प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश
।
ते तस्य कवचं भित्त्वा स्वर्णचित्रं महौजसः॥२५॥
हेमपुङ्खा महाराज व्यशोभन्त दिशो दश
।
अपिबन्सूतपुत्रस्य शोणितं रक्तभोजनाः॥२६॥
क्रुद्धा इव मनुष्येन्द्र भुजङ्गाः कालचोदिताः
।
प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः॥२७॥
अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः
।
तं प्रत्यविध्यद्राधेयो जांबूनदविभूषितैः॥२८॥
चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन्
।
ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः॥२९॥
प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव
।
ते व्यरोचन्त नाराचाः प्रविशन्तो वसुंधराम्॥३०॥
गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः
।
स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः ॥३१॥
सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा
।
स भीमस्त्रिभिरायत्तः सूतपुत्रं पतत्रिभिः॥३२॥
सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः
।
स विह्वलो महाराज कर्णो भीमशराहतः॥३३॥
सुष्ठु पर्णानां पत्राणां वेगो येषाम् ॥३३॥
प्राद्रवज्जवनैरश्वै रणं हित्वा महाभयात्
।
भीमसेनस्तु विस्फार्य चापं हेमपरिष्कृतम्॥३४॥
आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः॥३५॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि कर्णापयाने चतुस्त्रिंशदधिकशततमोऽध्यायः॥१३४॥
धृतराष्ट्र उवाच।
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम्
।
यत्राधिरथिरायत्तो नातरत्पाण्डवं रणे ॥१॥
दैवमिति ॥१॥
कर्णः पार्थान्सगोविंदान् जेतुमुत्सहते रणे
।
न च कर्णसमं योधं लोके पश्यामि कञ्चन॥२॥
इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः
।
कर्णो हि बलवाञ्छूरो दृढधन्वा जितक्लमः॥३॥
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा
।
वसुषेणसहायं मां नालं देवापि संयुगे ॥४॥
किं नु पांडुसुता राजन् गतसत्त्वा विचेतसः
।
तत्र तं निर्जितं दृष्ट्वा भुजङ्गमिव निर्विषम् ॥५॥
युद्धात्कर्णमपक्रान्तं किंस्विद्दुर्योधनोऽब्रवीत्
।
अहो दुर्मुखमेवैकं युद्धानामविशारदम्॥६॥
प्रावेशयद्धुतवहं पतङ्गमिव मोहितः
।
अश्वत्थामा मद्रराजः कृपः कर्णश्च संगताः॥७॥
न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य सञ्जय
।
तेऽपि चास्य महाघोरं बलं नागायुतोपमम्॥८॥
जानन्तो व्यवसायं च क्रूरं मारुततेजसः
।
किमर्थं क्रूरकर्माणं यमकालान्तकोपमम्॥९॥
यमः संयमनव्यापारः कालः कलनव्यापारः अन्तको मारणव्यापारः तदुपमम् ॥९॥
बलसंरंभवीर्यज्ञाः कोपयिष्यन्ति संयुगे
।
कर्णस्त्वेको महाबाहुः स्वबाहुबलदर्पितम् ॥१०॥
भीमसेनमनादृत्य रणेऽयुध्यत सूतजः
।
योऽजयत्समरे कर्णं पुरंदर इवासुरम् ॥११॥
न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे
।
द्रोणं यः संप्रमथ्यैकः प्रविष्टो मम वाहिनीम्॥१२॥
भीमो धनञ्जयान्वेषी कस्तमार्च्छेज्जिजीविषुः
।
को हि संजय भीमस्य स्थातुमुत्सहतेऽग्रतः॥१३॥
उद्यताशनिहस्तस्य महेन्द्रस्येव दानवः
।
प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः॥१४॥
न भीमसेनं संप्राप्य निवर्तेत कदाचन
।
पतङ्गा इव वह्निं ते प्राविशन्नल्पचेतसः ॥१५॥
ये भीमसेनं संक्रुद्धमन्वधावन्विमोहिताः
।
यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम्॥१६॥
उक्तं संरंभिणोऽग्रेण कुरूणां शृण्वतां तदा
।
तन्नूनमभिसञ्चिन्त्य दृष्ट्वा कर्णं च निर्जितम्॥१७॥
दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत्
।
यश्च संजय दुर्बुद्धिरब्रवीत्समितौ मुहुः ॥१८॥
कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान्
।
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम्॥१९॥
प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति पुत्रकः
।
दृष्ट्वा भ्रातॄन्हतान्संख्ये भीमसेनेन दंशितान् ॥२०॥
आत्मापराधे सुमहन्नूनं तप्यति पुत्रकः
।
को हि जीवितमन्विच्छन्प्रतीपं पांडवं व्रजेत् ॥२१॥
भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम्
।
वडवामुखमध्यस्थो मुच्येतापि हि मानवः॥२२॥
न भीममुखसंप्राप्तो मुच्येदिति मतिर्मम
।
न पार्था न च पञ्चाला न च केशवसात्यकी॥२३॥
जानते युधि संरब्धा जीवितं परिरक्षितुम्
।
अहो मम सुतानां हि विपन्नं सूत जीवितम्॥२४॥
सञ्जय उवाच।
यस्त्वं शोचसि कौरव्य वर्तमाने महाभये
।
त्वमस्य जगतो मूलं विनाशस्य न संशयः॥२५॥
स्वयं वैरं महत् कृत्वा पुत्राणां वचने स्थितः
।
उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम्॥२६॥
स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम्
।
तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम॥२७॥
यत्तु कुत्सयसे योधान्युध्यमानान्महाबलान्
।
तत्र ते वर्तयिष्यामि यथा युद्धमवर्तत॥२८॥
दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम्
।
नामृष्यन्त महेष्वासाः सोदर्याः पंच भारत॥२९॥
दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः
।
पाण्डवं चित्रसन्नाहास्तं प्रतीपमुपाद्रवन्॥३०॥
ते समन्तान्महाबाहुं परिवार्य वृकोदरम्
।
दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः॥३१॥
आगच्छतस्तान्सहसा कुमारान्देवरूपिणः
।
प्रतिजग्राह समरे भीमसेनो हसन्निव॥३२॥
तव दृष्ट्वा तु तनयान् भीमसेनपुरोगमान्
।
अभ्यवर्तत राधेयो भीमसेनं महाबलम् ॥३३॥
विसृजन्विशिखांस्तीक्ष्णान् स्वर्णपुङ्खाञ्छिलाशितान्
।
तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव ॥३४॥
कुरवस्तु ततः कर्णं परिवार्य समन्ततः
।
अवाकिरन् भीमसेनं शरैः सन्नतपर्वभिः॥३५॥
तान्बाणैः पञ्चविंशत्या साश्वान् राजन्नरर्षभान्
।
ससूतान् भीमधनुषो भीमो निन्ये यमक्षयम् ॥३६॥
प्रापतन्स्यन्दनेभ्यस्ते सार्धं सुतैर्गतासवः
।
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः॥३७॥
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम्
।
संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान् ॥३८॥
स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः
।
सूतपुत्रो महाराज भीमसेनमवैक्षत ॥३९॥
तं भीमसेनः संरंभात्क्रोधसंरक्तलोचनः
।
विस्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत ॥४०॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमसेनपराक्रमे पञ्चत्रिंशदधिकशततमोऽध्यायः॥१३५॥
सञ्जय उवाच।
तवात्मजांस्तु पतितान् दृष्ट्वा कर्णः प्रतापवान्
।
क्रोधेन महताऽऽविष्टो निर्विण्णोऽभूत्स जीवितात् ॥१॥
तवेति ॥१॥
आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा
।
यत्प्रत्यक्षं तव सुता भीमेन निहता रणे ॥२॥
भीमसेनस्ततः क्रुद्धः कर्णस्य निशिताञ्शरान्
।
निचस्वान स संभ्रान्तः पूर्ववैरमनुस्मरन् ॥३॥
स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव
।
पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः॥४॥
अविचिन्त्याथ तान् बाणान् कर्णेनास्तान् वृकोदरः
।
रणे विव्याध राधेयं शतेनानतपर्वणाम् ॥५॥
पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा मर्मसु पञ्चभिः
।
धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष ॥६॥
अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः
।
इषुभिश्छादयामास भीमसेनं परंतपः ॥७॥
तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम्
।
प्रजहास महाहासं कृते प्रतिकृते पुनः ॥८॥
प्रतिकृते प्रतिकर्मणि कृते सतीत्यन्वयः ॥८॥
इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः
।
तत् पपात महाराज स्वर्णपृष्ठं महास्वनम् ॥९॥
अवारोहद्रथात्तस्मादथ कर्णो महारथः
।
गदां गृहीत्वा समरे भीमाय प्राहिणोद्रुषा ॥१०॥
अवारोहत् अवातरत् ॥१०॥
तामापतन्तीमालक्ष्य भीमसेनो महागदाम्
।
शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः ॥११॥
ततो बाणसहस्राणि प्रेषयामास पाण्डवः
।
सूतपुत्रवधाकांक्षी त्वरमाणः पराक्रमी ॥१२॥
तानिषूनिषुभिः कर्णो वारयित्वा महामृधे
।
कवचं भीमसेनस्य पाटयामास सायकैः ॥१३॥
अथैनं पञ्चविंशत्या नाराचानां समार्पयत्
।
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ॥१४॥
ततो भीमो महाबाहुर्नवभिर्नतपर्वभिः
।
प्रेषयामास संक्रुद्धः सूतपुत्रस्य मारिष ॥१५॥
ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम्
।
अभ्ययुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः ॥१६॥
स च्छाद्यमानो बाणौघैर्भीमसेनधनुश्च्युतैः
।
पुनरेवाभवत्कर्णो भीमसेनात्पराङ्मुखः ॥१७॥
तं पराङ्मुखमालोक्य पदातिं सुतनन्दनम्
।
कौन्तेयशरसंछन्नं राजा दुर्योधनोऽब्रवीत् ॥१८॥
त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति
।
ततस्तव सुता राजञ्छ्रुत्वा भ्रातुर्वचो द्रुतम् ॥१९॥
अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिलीमुखान्
।
चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः ॥२०॥
चित्रोपचित्रः चित्रश्चासावुपचित्रश्चेति चित्रोपचित्रः ॥२०॥
चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः
।
तानापतत एवाशु भीमसेनो महारथः ॥२१॥
एकैकेन शरेणाजौ पातयामास ते सुतान्
।
ते हता न्यपतन्भूमौ वातरुग्णा इव द्रुमाः ॥२२॥
दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान्
।
अश्रुपूर्णमुखः कर्णः क्षत्तुः सस्मार तद्वचः ॥२३॥
रथं चान्यं समास्थाय विधिवत्कल्पितं पुनः
।
अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी ॥२४॥
तावन्योन्यं शरैर्भित्त्वा स्वर्णपुंखैः शिलाशितैः
।
व्यभ्राजेतां यथा मेघौ संस्यूतौ सूर्यरश्मिभिः ॥२५॥
षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः
।
व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः ॥२६॥
सूतपुत्रोऽपि कौन्तेयं शरैः सन्नतपर्वभिः
।
पञ्चाशता महाबाहुर्विव्याध भरतर्षभम् ॥२७॥
रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ
।
शोणिताक्तौ व्यराजेतां चन्द्रसूर्याविवोदितौ ॥२८॥
तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ
।
कर्णभीमौ व्यराजेतां निर्मुक्ताविव पन्नगौ ॥२९॥
व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम्
।
शरधारासृजौ वीरौ मेघाविव ववर्षतुः ॥३०॥
वारणाविव चान्योन्यं विषाणाभ्यामरिन्दमौ
।
निर्भिन्दन्तौ स्वगात्राणि सायकैश्चारु रेजतुः ॥३१॥
नादयन्तौ प्रहर्षन्तौ विक्रीडन्तौ परस्परम्
।
मण्डलानि विकुर्वाणौ रथाभ्यां रथिषूत्तमौ ॥३२॥
वृषाविवाथ नर्दन्तौ बलिनौ वासितान्तरे
।
सिंहाविव पराक्रान्तौ नरसिंहौ महाबलौ ॥३३॥
परस्परं वीक्षमाणौ क्रोधसंरक्तलोचनौ
।
युयुधाते महावीर्यौ शक्रवैरोचनी यथा ॥३४॥
ततो भीमो महाबाहुर्बाहुभ्यां विक्षिपन्धनुः
।
व्यराजत रणे राजन्सविद्युदिव तोयदः ॥३५॥
स नेमिघोषस्तनितश्चापविद्युच्छराम्बुभिः
।
भीमसेनमहामेघः कर्णपर्वतमावृणोत् ॥३६॥
ततः शरसहस्रेण सम्यगस्तेन भारत
।
पाण्डवो व्यकिरत्कर्णं भीमो भीमपराक्रमः ॥३७॥
तत्रापश्यंस्तव सुता भीमसेनस्य विक्रमम्
।
सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयञ्शरैः॥३८॥
स नन्दयन् रणे पार्थं केशवं च यशस्विनम्
।
सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत् ॥३९॥
विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः
।
पुत्रास्तव महाराज दृष्ट्वा विमनसोऽभवन् ॥४०॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमयुद्धे षट्त्रिंशदधिकशततमोऽध्यायः ॥१३६॥
सञ्जय उवाच।
भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिःस्वनं
।
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ॥१॥
भीमसेनस्येति ॥१॥
सोऽपक्रम्य मुहूर्तं तु भीमसेनस्य गोचरात्
।
पुत्रांस्तव ददर्शाथ भीमसेनेन पातितान् ॥२॥
तानवेक्ष्य नरश्रेष्ठ विमना दुःखितस्तदा
।
निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात् ॥३॥
स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः
।
बभौ कर्णः शरानस्यन् रश्मीनिव दिवाकरः ॥४॥
किरणैरिव सूर्यस्य महीध्रो भरतर्षभ
।
कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः ॥५॥
ते कर्णचापप्रभवाः शरा बर्हिणवाससः
।
विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम् ॥६॥
कर्णचापच्युता बाणाः संपतन्तस्ततस्ततः
।
रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव ॥७॥
चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात्
।
प्रभवन्तो व्यदृश्यन्त राजन्नधिरथेः शराः ॥८॥
खं पूरयन्महावेगात् खगमान् गृध्रवाससः
।
सुवर्णविकृतांश्चित्रान्मुचोचाधिरथिः शरान् ॥९॥
तमन्तकमिवायस्तमापतन्तं वृकोदरम्
।
त्यक्त्वा प्राणानतिक्रम्य विव्याध निशितैः शरैः ॥१०॥
तस्य वेगमसह्यं स दृष्ट्वा कर्णस्य पाण्डवः
।
महतश्च शरौघांस्तान्न्यवारयत वीर्यवान् ॥११॥
ततो विधम्याधिरथेः शरजालानि पाण्डवः
।
विव्याध कर्णं विंशत्या पुनरन्यैः शिलाशितैः ॥१२॥
यथैव हि स कर्णेन पार्थः प्रच्छादितः शरैः
।
तथैव स रणे कर्णं छादयामास पाण्डवः ॥१३॥
दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत
।
अभ्यनन्दंस्त्वदीयाश्च संप्रहृष्टाश्च चारणाः ॥१४॥
भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः
।
उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ ॥१५॥
कुरुपाण्डवप्रवरा दश राजन्महारथाः
।
साधु साध्विति वेगेन सिंहनादमथानदन् ॥१६॥
तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे
।
अभ्यभाषत पुत्रस्ते राजन्दुर्योधनस्त्वरन् ॥१७॥
राज्ञः संराजपुत्रांश्च सोदर्यांश्च विशेषतः
।
कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात् ॥१८॥
पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः
।
ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे ॥१९॥
दुर्योधनसमादिष्टाः सोदर्याः सप्त भारत
।
भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन् ॥२०॥
ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः
।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ॥२१॥
तेऽपीडयन् भीमसेनं क्रुद्धाः सप्त महारथाः
।
प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव ॥२२॥
ततो वेगेन कौन्तेयः पीडयित्वा शरासनम्
।
मुष्टिना पाण्डवो राजन् दृढेन सुपरिष्कृतम् ॥२३॥
मनुष्यसमतां ज्ञात्वा सप्त संधाय सायकान्
।
तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः ॥२४॥
निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव
।
भीमसेनो महाराज पूर्ववैरमनुस्मरन् ॥२५॥
ते क्षिप्ता भीमसेनेन शरा भारत भारतान्
।
विदार्य खं समुत्पेतुः स्वर्णपुंखाः शिलाशिताः ॥२६॥
तेषां विदार्य चेतांसि शरा हेमविभूषिताः
।
व्यराजन्त महाराज सुपर्णा इव खेचराः ॥२७॥
शोणिता दिग्धवाजाग्राः सप्त हेमपरिष्कृताः
।
पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः॥२८॥
ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन् क्षितौ
।
गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः ॥२९॥
शत्रुञ्जयः शत्रुसहश्चित्रश्चित्रायुधो दृढः
।
चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः ॥३०॥
पुत्राणां तव सर्वेषां निहतानां वृकोदरः
।
शोचत्यतिभृंशं दुःखाद्विकर्णं पाण्डवः प्रियम् ॥३१॥
प्रतिज्ञेयं मया वृत्ता निहन्तव्यास्तु संयुगे
।
विकर्ण तेनासि हतः प्रतिज्ञा रक्षिता मया ॥३२॥
त्वमागाः समरं वीर क्षात्रधर्ममनुस्मरन्
।
ततो विनिहतः संख्ये युद्धधर्मो हि निष्ठुरः ॥३३॥
विशेषतो हि नृपतेस्तथाऽस्माकं हिते रतः
।
न्यायतोऽन्यायतो वाऽपि हतः शेते महाद्युतिः ॥३४॥
अगाधबुद्धिर्गाङ्गेयः क्षितौ सुरगुरोः समः
।
त्याजितः समरे प्राणांस्तस्माद्युद्धं हि निष्ठुरं ॥३५॥
सञ्जय उवाच।
तान्निहत्य महाबाहू राधेयस्यैव पश्यतः
।
सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः ॥३६॥
स रवस्तस्य शूरस्य धर्मराजस्य भारत
।
आचख्याविव तद्युद्धं विजयं चात्मनो महत् ॥३७॥
तं श्रुत्वा तु महानादं भीमसेनस्य धन्विनः
।
बभूव परमा प्रीतिर्धर्मराजस्य धीमतः ॥३८॥
ततो हृष्टमना राजन्वादित्राणां महास्वनैः
।
सिंहनादरवं भ्रातुः प्रतिजग्राह पाण्डवः ॥३९॥
हर्षेण महता युक्तः कृतसंज्ञो वृकोदरे
।
अभ्ययात्समरे द्रोणं सर्वशस्त्रभृतां वरः ॥४०॥
कृतसंज्ञो गृहीतसंकेतः ॥४०॥
एकत्रिंशन्महाराज पुत्रांस्तव निपातितान्
।
हतान् दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः॥४१॥
तदिदं समनुप्राप्तं क्षत्तुर्निःश्रेयसं वचः
।
इति सञ्चिन्त्य ते पुत्रो नोत्तरं प्रत्यपद्यत ॥४२॥
निःश्रेयसं निश्चितं श्रेयःसाधनम् ॥४२॥
यद्यूतकाले दुर्बुद्धिरब्रवीत्तनयस्तव
।
सभामानाय्यपाञ्चालीं कर्णेन सहितोल्पधीः ॥४३॥
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः
।
प्रमुखे पाण्डुपुत्राणां तव चैव विशांपते ॥४४॥
शृण्वतस्तव राजेन्द्र कौरवाणां च सर्वशः
।
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः
।
पतिमन्यं वृणीष्वेति तस्येदं फलमागतम् ॥४५॥
यच्च षण्ढतिलादीनि परुषाणि तवात्मजैः
।
श्रावितास्ते महात्मानः पाण्डवाः कोपयिष्णुभिः ॥४६॥
तं भीमसेनः क्रोधाग्निं त्रयोदश समाः स्थितम्
।
उद्गिरंस्तव पुत्राणामन्तं गच्छति पाण्डवः ॥४७॥
विलपंश्च बहु क्षत्ता शमं नालभत त्वयि
।
सपुत्रो भरतश्रेष्ठ तस्य भुंक्ष्व फलोदयम् ॥४८॥
त्वया वृद्धेन धीरेण कार्यतत्त्वार्थदर्शिना
।
न कृतं सुहृदां वाक्यं दैवमत्र परायणम् ॥४९॥
तन्मा शुचो नरव्याघ्र तवैवापनयो महान्
।
विनाशहेतुः पुत्राणां भवानेव मतो मम ॥५०॥
हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान्
।
प्रवराश्चात्मजानां ते सुताश्चान्ये महारथाः ॥५१॥
यानन्यान् ददृशे भीमश्चक्षुर्विषयमागतान्
।
पुत्रांस्तथ महाराज त्वरया ताञ्जघान ह ॥५२॥
त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम्
।
सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च ॥५३॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमयुद्धे सप्तत्रिंशदधिकशततमोऽध्यायः ॥१३७॥
धृतराष्ट्र उवाच।
महानपनयः सूत ममैवात्र विशेषतः
।
स इदानीमनुप्राप्तो मन्ये सञ्जय शोचतः ॥१॥
महानिति ॥१॥
यद्गतं तद्गतमिति ममासीन्मनसि स्थितम्
।
इदानीमत्र किं कार्यं प्रकरिष्यामि सञ्जय ॥२॥
यथा ह्येष क्षयो वृत्तो ममापनयसंभवः
।
वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि सञ्जय ॥३॥
सञ्जय उवाच।
कर्णभीमौ महाराज पराक्रान्तौ महाबलौ
।
बाणवर्षाण्यसृजतां वृष्टिमन्ताविवाम्बुदौ ॥४॥
भीमनामांकिताबाणाः स्वर्णपुंखाः शिलाशिताः
।
विविशुः कर्णमासाद्य च्छिन्दन्त इव जीवितम् ॥५॥
तथैव कर्णनिर्मुक्ताः शरा बर्हिणवाससः
।
छादयांचक्रिरे वीरं शतशोऽथ सहस्रशः ॥६॥
तयोः शरैर्महाराज संपतद्भिः समन्ततः
।
बभूव तत्र सैन्यानां संक्षोभः सागरोत्तरः ॥७॥
सागरोत्तरः महत्तरः ॥७॥
भीमचापच्युतैर्बाणैस्तव सैन्यमरिन्दम
।
अवध्यत चमूमध्ये घोरैराशीविषोपमैः ॥८॥
वारणैः पतितै राजन्वाजिभिश्च नरैः सह
।
अदृश्यत मही कीर्णा वातभग्नैरिव द्रुमैः ॥९॥
ते वध्यमानाः समरे भीमचापच्युतैः शरैः
।
प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन् ॥१०॥
ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम्
।
प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः ॥११॥
शरैर्व्युदस्तमाक्षिप्तं प्रोत्सारितं दूरमपसारितम् ॥११॥
ते शूरा हतभूयिष्ठा हताश्व-रथ-वारणाः
।
उत्सृज्य भीमकर्णौ च सर्वतो व्यद्रवन्दिशः ॥१२॥
नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः
।
यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः ॥१३॥
एवं ब्रुवाणा योधास्ते तावका भयपीडिताः
।
शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः ॥१४॥
ततः प्रावर्तत नदी घोररूपा रणाजिरे
।
शूराणां हर्षजननी भीरूणां भयवर्धिनी ॥१५॥
वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा
।
संवृत्ता गतसत्त्वैश्च मनुष्यगजवाजिभिः ॥१६॥
सानुकर्षपताकैश्च द्विपाश्व-रथ-भूषणैः
।
स्यन्दनैरपविद्धैश्च भग्नचकाक्षकूबरैः ॥१७॥
जातरूपपरिष्कारैर्धनुर्भिः सुमहास्वनैः
।
सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः ॥१८॥
कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः
।
प्रास-तोमरसंघातैः खड्गैश्च सपरश्वधैः॥१९॥
सुवर्णविकृतैश्चापि गदा- मुसल-पट्टिशैः
।
ध्वजैश्च विविधाकारैः शक्तिभिः परिघैरपि ॥२०॥
शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी
।
कनकाङ्गदहारैश्च कुण्डलैर्मुकुटैस्तथा ॥२१॥
वलयैरपविद्धैश्च तत्रैवाङ्गुलिवेष्टकैः
।
चूडामणिभिरुष्णीषैः स्वर्णसूत्रैश्च मारिष ॥२२॥
तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत
।
वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि ॥२३॥
गजाश्वमनुजैर्भिन्नैः शोणिताक्तैश्च पत्रिभिः
।
तैस्तैश्च विविधैर्भिन्नैस्तत्र तत्र वसुंधरा ॥२४॥
पतितैरपविद्धैश्च विबभौ द्योरिव ग्रहैः
।
अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम् ॥२५॥
दृष्ट्वा चारणसिद्धानां विस्मयः समजायत
।
अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे ॥२६॥
आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम्
।
निपातितध्वजरथं हतवाजि- नर- द्विपम् ॥२७॥
गजाभ्यां संप्रयुक्ताभ्यामासीन्नलवनं यथा
।
मेघजालनिभं सैन्यमासीत्तव नराधिप
।
विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे ॥२८॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमकर्णयुद्धे अष्टत्रिंशदधिकशततमोऽध्यायः ॥१३८॥
सञ्जय उवाच।
ततः कर्णो महाराज भीमं विद्धा त्रिभिः शरैः
।
मुमोच शरवर्षाणि विचित्राणि बहूनि च ॥१॥
तत इति ॥१॥
वध्यमानो महाबाहुः सूतपुत्रेण पाण्डवः
।
न विव्यथे भीमसेनो भिद्यमान इवाचलः ॥२॥
स कर्णं कर्णिना कर्णे पीतेन निशितेन च
।
विव्याध सुभृशं संख्ये तैलधौतेन मारिष ॥३॥
स कुण्डलं महच्चारु कर्णस्यापातयद्भुवि
।
तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात् ॥४॥
अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे
।
आजघान भृशं क्रुद्धो हसन्निव घृकोदरः ॥५॥
पुनरस्य त्वरन् भीमो नाराचान् दश भारत
।
रणे प्रैषीन्महाबाहुर्निर्मुक्ताशीविषोपमान् ॥६॥
ते ललाटं विनिर्मिद्य सूतपुत्रस्य भारत
।
विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः ॥७॥
ललाटस्थैस्ततो बाणैः सूतपुत्रो व्यरोचत
।
नीलोत्पलमयीं मालां धारयन्वै यथा पुरा ॥८॥
सोऽतिविद्धो भृशं कर्णः पाण्डवेन तरस्विना
।
रथकूबरमालंब्य न्यमीलयत लोचने ॥९॥
स मुहूर्तात्पुनः संज्ञां लेभे कर्णः परंतपः
।
रुधिरोक्षितसंर्वागः क्रोधमाहारयत्परम् ॥१०॥
ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना
।
वेगं चक्रे महावेगो भीमसेनरथं प्रति ॥११॥
तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम्
।
अमर्षी बलवान् क्रुद्धः प्रेषयामास भारत ॥१२॥
ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः
।
समरे तमनादृत्य तस्य वीर्यमचिन्तयन् ॥१३॥
कर्णस्ततो महाराज पाण्डवं नवभिः शरैः
।
आजघानोरसि क्रुद्धः क्रुद्धरूपं परन्तप ॥१४॥
तावुभौ नरशार्दूलौ शार्दूलाविव दंष्ट्रिणौ
।
जीमूताविव चान्योन्यं प्रववर्षतुराहवे ॥१५॥
तलशब्दरवैश्चैव त्रासयेतां परस्परम्
।
शरजालैश्च विविधैस्त्रासयामासतुर्मृधे ॥१६॥
अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ
।
ततो भीमो महाबाहुः सूतपुत्रस्य भारत ॥१७॥
क्षुरप्रेण धनुश्छित्त्वा ननाद परवीरहा
।
तदपास्य धनुश्छिन्नं सूतपुत्रो महारथः ॥१८॥
अन्यत्कार्मुकमादत्त भारघ्नं वेगवत्तरम्
।
तदप्यथ निमेषार्धाच्चिच्छेदास्य वृकोदरः ॥१९॥
तृतीयं च चतुर्थं च पञ्चमं षष्ठमेव हि
।
सप्तमं चाष्टमं चैव नवमं दशमं तथा ॥२०॥
एकादशं द्वादशं च त्रयोदशमथापि च
।
चतुर्दशं पञ्चदशं षोडशं च वृकोदरः ॥२१॥
तथा सप्तदशं वेगादष्टादशमथापि वा
।
बहूनि भीमश्चिच्छेद कर्णस्यैवं धनूंषि हि ॥२२॥
निमेषार्धात्ततः कर्णो धनुर्हस्तो व्यतिष्ठत
।
दृष्ट्वा स कुरु-सौवीर-सिन्धुवीरबलक्षयम् ॥२३॥
सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम्
।
हस्त्यश्वरथदेहांश्च गतासुन्प्रेक्ष्य सर्वशः ॥२४॥
सूतपुत्रस्य संरंभाद्दीप्तं वपुरजायत
।
स विस्फार्य महच्चापं कार्तस्वरविभूषितम् ॥२५॥
भीमं प्रैक्षत राधेयो घोरं घोरेण चक्षुषा
।
ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरोचत ॥२६॥
मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः
।
मरीचिविकचस्येव राजन् भानुमतो वपुः ॥२७॥
आसीदाधिरथेर्घोरं वपुः शरशताचितम्
।
कराभ्यामाददानस्य संदधानस्य चाशुगान् ॥२८॥
कर्षतो मुञ्चतो बाणान्नान्तरं ददृशे रणे
।
अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम् ॥२९॥
कर्णस्यासीन्महीपाल सव्यदक्षिणमस्यतः
।
स्वर्णपुंखाः सुनिशिताः कर्णचापच्युताः शराः ॥३०॥
प्राच्छादयन्महाराज दिशः सूर्यस्य च प्रभाः
।
ततः कनकपुङ्खानां शराणां नतपर्वणाम् ॥३१॥
धनुश्च्युतानां वियति ददृशे बहुधा व्रजः
।
बाणासनादाधिरथेः प्रभवन्ति स्म सायकाः ॥३२॥
श्रेणीकृता व्यरोचन्त राजन् क्रौञ्चा इवाम्बरे
।
गार्धपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान् ॥३३॥
महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान्
।
ते तु चापबलोद्धूताः शातकुम्भविभूषिताः ॥३४॥
अजस्त्रमपतन्बाणा भीमसेनरथं प्रति
।
ते व्योम्नि रुक्मविकृता व्यकाशन्त सहस्रशः ॥३५॥
शलभानामिव व्राताः शराः कर्णसमीरिताः
।
चापादाधिरथेर्बाणाः प्रपतन्तश्चकाशिरे ॥३६॥
एको दीर्घ इवात्यर्थमाकाशे संस्थितः शरः
।
पर्वतं वारिधाराभिश्छादयन्निव तोयदः ॥३७॥
कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः
।
तत्र भारत भीमस्य बलं वीर्यं पराक्रमम्
।
व्यवसायं च पुत्रास्ते ददृशुः सहसैनिकाः ॥३८॥
तां समुद्रमिवोद्भूतां शरवृष्टिं समुत्थिताम्
।
अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत् ॥३९॥
रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशांपते
।
आकर्षान्मण्डलीभूतं शक्रचापमिवापरम् ॥४०॥
तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम्
।
सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः ॥४१॥
गगने रचिता माला काञ्चनीव व्यरोचत
।
ततो व्योम्नि विषक्तानि शरजालानि भागशः ॥४२॥
आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः
।
कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः
।
अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे ॥४४॥
तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः
।
न स्म सूर्यस्तदा भाति न स्म वाति समीरणः ॥४५॥
शरजालावृते व्योम्नि न प्राज्ञायत किञ्चन
।
स भीमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः ॥४६॥
उपारोहदनादृत्य तस्य वीर्यं महात्मनः
।
तयोर्विसृजतोस्तत्र शरजालानि मारिष ॥४७॥
उपारोहत्सन्निकर्षमगात् ॥४७॥
वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम्
।
अन्योन्यशरसंस्पर्शात्तयोर्मनुजसिंहयोः ॥४८॥
वायुभूतानि वातोद्भूतान्यतिवेगवन्ति वा ॥४८॥
आकाशे भरतश्रेष्ठ पावकः समजायत
।
तथा कर्णः शितान् बाणान् कर्मारपरिमार्जितान् ॥४९॥
सुवर्णविकृतान् क्रुद्धः प्राहिणोद्वधकांक्षया
।
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत् ॥५०॥
विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत्
।
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः ॥५१॥
अमर्षी बलवान् क्रुद्धो दिधक्षन्निव पावकः
।
ततश्चटचटाशब्दो गोधाघातादभूत्तयोः ॥५२॥
तलशब्दश्च सुमहान् सिंहनादश्च भैरवः
।
रथनेमिनिनादश्च ज्याशब्दश्चैव दारुणः ॥५३॥
योधा व्युपारमन्युद्धाद्दिदृक्षन्तः पराक्रमम्
।
कर्णपाण्डवयो राजन् परस्परवधैषिणोः ॥५४॥
देवर्षिसिद्धगन्धर्वाः साधु साध्वित्यपूजयन्
।
मुमुचुः पुष्पवर्षं च विद्याधरगणास्तथा ॥५५॥
ततो भीमो महाबाहुः संरम्भी दृढविक्रमः
।
अस्त्रैरस्त्राणि संवार्य शरैर्विव्याध सूतजम् ॥५६॥
कर्णोऽपि भीमसेनस्य निवार्येषून्महाबलः
।
प्राहिणोन्नव नाराचानाशीविषसमान् रणे ॥५७॥
तावद्भिरथ तान् भीमो व्योम्नि चिच्छेद पत्रिभिः
।
नाराचान् सुतपुत्रस्य तिष्ठ तिष्ठेति चाब्रवीत् ॥५८॥
ततो भीमो महाबाहुः शरं क्रुद्धान्तकोपमम्
।
मुमोचाधिरथेर्वीरो यमदण्डमिवापरम् ॥५९॥
तमापतन्तं चिच्छेद राधेयः प्रहसन्निव
।
त्रिभिः शरैः शरं राजन् पाण्डवस्य प्रतापवान् ॥६०॥
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः
।
तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत् ॥६१॥
युध्यमानस्य भीमस्य सूतपुत्रोऽस्त्रमायया
।
तस्येषुधी धनुर्ज्यां च बाणैः सन्नतपर्वभिः ॥६२॥
रश्मीन्योक्राणि चाश्वानां क्रुद्धः कर्णोऽच्छिनन्मृधे
।
तस्याश्वांश्च पुनर्हत्वा सूतं विव्याध पञ्चभिः ॥६३॥
सोऽपसृत्य तं सूतो युधामन्यो रथं ययौ
।
विहसन्निव भीमस्य क्रुद्धः कालानलद्युतिः ॥६४॥
ध्वजं चिच्छेद राधेयः पताकां च व्यपातयत्
।
स विधन्वा महाबाहुरथ शक्तिं परामृशत् ॥६५॥
तां व्यवासृजदाविध्य क्रुद्धः कर्णरथं प्रति
।
तामाधिरथिरायस्तः शक्तिं काञ्चनभूषणाम् ॥६६॥
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः
।
साऽपतद्दशधा छिन्ना कर्णस्य निशितैः शरैः ॥६७॥
अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः
।
सचर्मादत्त कौन्तेयो जातरूपपरिष्कृतम् ॥६८॥
खड्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयस्य वा
।
तदस्य तरसा क्रुद्धो व्यधमच्चर्म सुप्रभम् ॥६९॥
शरैर्बहुभिरत्युग्रैः प्रहसन्निव भारत
।
स विचर्मा महाराज विरथः क्रोधमूर्च्छितः ॥७०॥
असिं प्रासृजदाविध्य त्वरन् कर्णरथं प्रति
।
स धनुः सूतपुत्रस्य सज्यं छित्त्वा महानसिः ॥७१॥
पपात भुवि राजेन्द्र क्रुद्धः सर्प इवाम्बरात्
।
ततः प्रहस्याधिरथिरन्यदादाय कार्मुकम् ॥७२॥
शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम्
।
व्यायच्छत्स शरान्कर्णः कुन्तीपुत्रजिघांसया ॥७३॥
सहस्रशो महाराज रुक्मपुङ्खान्सुतेजनान्
।
स वध्यमानो बलवान् कर्णचापच्युतैः शरैः ॥७४॥
वैहायसं प्राक्रमद्वै कर्णस्य व्यथयन्मनः
।
स तस्य चरितं दृष्ट्वा संग्रामे विजयैषिणः ॥७५॥
वैहायसमाकाशम् ॥७५॥
लयमास्थाय राधेयो भीमसेनमवञ्चयत्
।
तं च दृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम् ॥७६॥
लयमङ्गसंकोचम् ॥७६॥
ध्वजमस्य समासाद्य तस्थौ भीमो महीतले
।
तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन् ॥७७॥
यदियेष रथात्कर्णं हर्तुं तार्क्ष्य इवोरगम
।
स च्छिन्नधन्वा विरथः स्वधर्ममनुपालयन् ॥७८॥
स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः
।
तद्विहत्यास्य राधेयस्तत एनं समभ्ययात् ॥७९॥
संरम्भात्पाण्डवं संख्ये युद्धाय समुपस्थितम्
।
तौ समेतौ महाराज स्पर्धमानौ महाबलौ ॥८०॥
जीमूताविव धर्मान्ते गर्जमानौ नरर्षभौ
।
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः ॥८१॥
अमृष्यमाणयोः संख्ये देवदानवयोरिव
।
क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः ॥८२॥
दृष्ट्वाऽर्जुनहतान्नागान् पतितान् पर्वतोपमान्
।
रथमार्गविघातार्थं व्यायुधः प्रविवेश ह ॥८३॥
हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च
।
पाण्डवो जीविताकांक्षी राधेयं नाभ्यहारयत् ॥८४॥
व्यवस्थानमथाकाङ्क्षन्धनञ्जयशरैर्हतम्
।
उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरञ्जयः ॥८५॥
महौषधिसमायुक्तं हनूमानिव पर्वतम्
।
तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः ॥८६॥
हस्त्यंगान्यथ कर्णाय प्राहिणोत्पाण्डुनन्दनः
।
चक्राण्यश्वांस्तथा चान्यद्यद्यत्पश्यति भूतले ॥८७॥
तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः
।
तदस्य सर्वं चिच्छेद क्षिप्तं क्षिप्तं शितैः शरैः ॥८८॥
तद्रथादिसाधनम् ॥८८॥
भीमोऽपि मुष्टिमुद्यम्य वज्रगर्भां सुदारुणाम्
।
हन्तुमैच्छत्सूतपुत्रं संस्मरन्नर्जुनं क्षणात् ॥८९॥
वज्रगर्भामन्तर्विहितांगुष्ठाम् ॥८९॥
शक्तोऽपि नावधीत्कर्णं समर्थः पाण्डुनन्दनः
।
रक्षमाणः प्रतिज्ञां तां या कृता सव्यसाचिना ॥९०॥
समर्थः समीचीनार्थो धर्मापेक्षीति यावत् ॥९०॥
तमेवं व्याकुलं भीमं भूयो भूयः शितैः शरैः
।
मूर्च्छयाऽभिपरीताङ्गमकरोत्सूतनन्दनः ॥९१॥
व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन्
।
धनुषोऽग्रेण तं कर्णः सोऽभिद्रुत्य परामृशत् ॥९२॥
धनुषा स्पृष्टमात्रेण क्रुद्धः सर्प इव श्वसन्
।
आच्छिद्य स धनुस्तस्य कर्णं मूर्धन्यताडयत् ॥९३॥
ताडितो भीमसेनेन क्रोधादारक्तलोचनः
।
विहसन्निव राधेयो वाक्यमेतदुवाच ह ॥९४॥
पुनः पुनस्तूबरक मूढ औदरिकेति च
।
अकृतास्त्रक मा योत्सीर्बाल संग्रामकातर ॥९५॥
तूबरको पुंश्चिह्नरहितः षंढ इति यावत् ‘तूबरोऽश्मश्रुपुरुषे’ इत्युपक्रम्य ‘पुरुषव्यञ्जनत्यक्ते’ इति मेदिनी । औदरिको बह्वाशी ॥९५॥
यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव
।
तत्र त्वं दुर्मते योग्यो न युद्धेषु कदाचन ॥९६॥
मूल-पुष्प-फलाहारो व्रतेषु नियमेषु च
।
उचितस्त्वं वने भीम न त्वं युद्धविशारदः ॥९७॥
व्रतेषु नियमेषु आगन्तुकेषु ॥९७॥
क्व युद्धं क्व मुनित्वं च वनं गच्छ वृकोदर
।
न त्वं युद्धोचितस्तात वनवासरतिर्भवान् ॥९८॥
सूदान् भृत्यजनान् दासांस्त्वं गृहे त्वरयन्भृशं
।
योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर ॥९९॥
मुनिर्भूत्वाऽथवा भीम फलान्यादत्स्व दुर्मते
।
वनाय व्रज कौन्तेय न त्वं युद्धविशारदः ॥१००॥
फलमूलाशने शक्तस्त्वं तथाऽतिथिपूजने
।
न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर ॥१०१॥
कौमारे यानि वृत्तानि विप्रियाणि विशांपते
।
तानि सर्वाणि चाप्येव रूक्षाण्यश्रावयद्भृशम् ॥१०२॥
अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः
।
प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा ॥१०३॥
संलीनं संकुचिताङ्गम् ॥१०३॥
योद्धव्यं मारिषान्यत्र न योद्धव्यं च मादृशैः
।
मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते ॥१०४॥
गच्छ वा यत्र तौ कृष्णौ तौ त्वां रक्षिष्यतो रणे
।
गृहं वा गच्छ कौन्तय किं ते युद्धेन बालक ॥१०५॥
कर्णस्य वचनं श्रुत्वा भीमसेनोऽतिदारुणं
।
उवाच कर्णं प्रहसन् सर्वेषां शृण्वतां वचः ॥१०६॥
जितस्त्वमसकृद्दुष्ट कत्थसे किं वृथाऽऽत्मना
।
जयाजयौ महेन्द्रस्य लोके दृष्टौ पुरातनैः ॥१०७॥
मल्लयुद्धं मया सार्धं कुरु दुष्कुलसंभव
।
महाबलो महाभोगी कीचको निहतो यथा ॥१०८॥
तथा त्वां घातयिष्यामि पश्यत्सु सर्वराजसु
।
भीमस्य मतमाज्ञाय कर्णो बुद्धिमतां वरः ॥१०९॥
विरराम रणात्तस्मात्पश्यतां सर्वधन्विनाम्
।
एवं तं विरथं कृत्वा कर्णो राजन् व्यकत्थयत् ॥११०॥
व्यकत्थयत् भर्त्सितवान् ॥११०॥
प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः
।
ततो राजञ्शिलाधौताञ्शरान् शाखामृगध्वजः ॥१११॥
प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः
।
ततः पार्थभुजोत्सृष्टाः शराः कनकभूषणाः ॥११२॥
गांडीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन्
।
स भुजङ्गैरिवाविष्टैर्गाण्डीवप्रेषितैः शरैः ॥११३॥
भीमसेनादपासेधत्सुतपुत्रं धनञ्जयः
।
सच्छिन्नधन्वा भीमेन धनञ्जयशराहतः॥११४॥
कर्णो भीमादपायासीद्रथेन महता द्रुतम्
।
भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः ॥११५॥
अन्वयाद्भ्रातरं संख्ये पाण्डवं सव्यसाचिनम्
।
ततः कर्णं समुद्दिश्य त्वरमाणो धनञ्जयः ॥११६॥
नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः
।
स गरुत्मानिवाकाशे प्रार्थयन् भुजगोत्तमम् ॥११७॥
नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः
।
तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा ॥११८॥
धनञ्जयभयात्कर्णमुज्जिहीर्षन्महारथः
।
ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोर्जुनः ॥११९॥
शिलीमुखैर्महाराज मा गास्तिष्ठेति चाब्रवीत्
।
स तु मत्तगजाकीर्णमनीकं रथसङ्कुलम् ॥१२०॥
तूर्णमभ्याविशद्दौणिर्धनञ्जयशरार्दितः
।
ततः सुवर्णपृष्ठानां चापानां कूजतां रणे ॥१२१॥
शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली
।
धनञ्जयस्तथा यान्तं पृष्ठतो द्रौणिमभ्यगात् ॥१२२॥
नातिदीर्घमिवाध्वानं शरैः संत्रासयन्बलम्
।
विदार्य देहान्नाराचैर्नरवारणवाजिनाम् ॥१२३॥
कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः
।
तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम् ॥१२४॥
पाकशासनिरायत्तः पार्थः स निजघान ह ॥१२५॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमकर्णयुद्धे एकोनचत्वारिंशदधिकशततमोऽध्यायः॥१३९॥
धृतराष्ट्र उवाच।
अहन्यहनि मे दीप्तं यशः पतति सञ्जय
।
हता मे बहवो योधा मन्ये कालस्य पर्ययम् ॥१॥
अहन्यहनीति ॥१॥
धनञ्जयः सुसंक्रुद्धः प्रविष्टो मामकं बलम्
।
रक्षितं द्रौणिकर्णाभ्यामप्रवेश्यं सुरैरपि ॥२॥
ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः
।
सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च ॥३॥
तदाप्रभृति मां शोको दहत्यग्निरिवाशयम्
।
ग्रस्तानिव प्रपश्यामि भूमिपालान् ससैन्धवान् ॥४॥
अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः
।
चक्षुर्विषयमापन्नः कथं जीवितमाप्नुयात् ॥५॥
अनुमानाच्च पश्यामि नास्ति सञ्जय सैन्धवः
।
युद्धं तु तद्यथावृत्तं तन्ममाचक्ष्व तत्त्वतः ॥६॥
यच्च विक्षोभ्य महतीं सेनामालोड्य चासकृत्
।
एकः प्रविष्टः संक्रुद्धो नलिनीमिव कुञ्जरः ॥७॥
तस्य मे वृष्णिवीरस्य ब्रूहि युद्धं यथातथम्
।
धनञ्जयार्थे यत्तस्य कुशलो हासि सञ्जय ॥८॥
सञ्जय उवाच।
तथा तु वैकर्तनपीडितं तं भीमं प्रयान्तं पुरुषप्रवीरम्
।
समीक्ष्य राजन्नरवीरमध्ये शिनिप्रवीरोऽनुययौ रथेन ॥९॥
नदन्यथा वज्रधरस्तपान्ते ज्वलन्यथा जलदान्ते च सूर्यः
।
निघ्नन्नमित्रान् धनुषा दृढेन स कम्पयंस्तव पुत्रस्य सेनाम् ॥१०॥
तं यान्तमश्वै रजतप्रकाशैरायोधने वीरतरं नदन्तम्
।
नाशक्नुवन्वारयितुं त्वदीयाः सर्वे रथा भारत माधवाग्र्यम् ॥११॥
अमर्षपूर्णस्त्वनिवृत्तयोधी शरासनी काञ्चनवर्मधारी
।
अलम्बुषः सात्यकिं माधवाग्र्यमवारयद्राजवरोऽभिपत्य ॥१२॥
तयोरभूद्भारत संप्रहारो यथाविधो नैव बभूव कश्चित्
।
प्रेक्षन्त एवाहवशोभिनौ तौ योधात्वदीयाश्च परे च सर्वे ॥१३॥
प्रेक्षन्तः प्रेक्षकाः बभूवेत्येतद्बहुवचनतया परिणतमनुषज्यते ॥१३॥
आविध्यदेनं दशभिः पृषत्कैरलम्बुषो राजवरः प्रसह्य
।
अनागतानेव तु तान् पृषत्कांश्चिच्छेद बाणैः शिनिपुङ्गवोऽपि ॥१४॥
प्रसह्य अनादृत्य ॥१४॥
पुनः स बाणैस्त्रिभिरग्निकल्पैराकर्णपूर्णैर्निशितैः सपुङ्खैः
।
विव्याध देहावरणं विदार्य ते सात्यकेराविविशुः शरीरम् ॥१५॥
तैः कायमस्यास्यग्न्यनिलप्रभावैर्विदार्य बाणैर्निशितैर्ज्वलद्भिः
।
आजघ्निवांस्तान् रजतप्रकाशानश्वांश्चतुर्भिश्चतुरः प्रसह्य ॥१६॥
तथा तु तेनाभिहतस्तरस्वी नप्ता शिनेश्चक्रधरप्रभावः
।
अलम्बुषस्योत्तमवेगवद्भिरश्वांश्चतुर्भिर्निजघान बाणैः ॥१७॥
अथास्य सूतस्य शिरो निकृत्य भल्लेन कालानलसन्निभेन
।
सकुण्डलं पूर्णशशिप्रकाशं भ्राजिष्णु वक्त्रं निचकर्त देहात् ॥१८॥
निहत्य तं पार्थिवपुत्रपौत्रं संख्ये यदूनामृषभः प्रमाथी
।
ततोऽन्वयादर्जुनमेव वीरः सैन्यानि राजंस्तव सन्निवार्य ॥१९॥
अन्वागतं वृष्णिवीरं समीक्ष्य तथाऽरिमध्ये परिवर्तमानम्
।
घ्नन्तं कुरूणामिषुभिर्बलानि पुनः पुनर्वायुमिवाभ्रपूगान् ॥२०॥
ततोऽवहन्सैन्धवाः साधु दान्ता गो-क्षीर-कुन्देन्दु-हिमप्रकाशाः
।
सुवर्णजालावतताः सदश्वा यतो यतः कामयते नृसिंहः ॥२१॥
अथात्मजास्ते सहिताभिपेतुरन्ये च योधास्त्वरितास्त्वदीयाः
।
कृत्वा मुखं भारत योधमुख्यं दुःशासनं त्वत्सुतमाजमीढ ॥२२॥
ते सर्वतः संपरिवार्य संख्ये शैनेयमाजघ्नुरनीकसाहाः
।
स चापि तान्प्रवरः सात्वतानां न्यवारयद्बाणजालेन वीरः ॥२३॥
निवार्य तांस्तूर्णममित्रघाती नप्ता शिनेः पत्रिभिरग्निकल्पैः
।
दुःशासनस्याभिजघान वाहानुद्यम्य बाणासनमाजमीढ ॥२४॥
ततोऽर्जुनो हर्षमवाप संख्ये कृष्णश्च दृष्ट्वा पुरुषप्रवीरम् ॥२५॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि अलम्बुषवधे चत्वारिंशदधिकशततमोऽध्यायः ॥१४०॥
सञ्जय उवाच।
तमुद्यतं महाबाहुं दुःशासनरथं प्रति
।
त्वरितं त्वरणीयेषु धनञ्जयजयैषिणम्॥१॥
तमिति । त्वरणीयेषु कृत्येषु ॥१॥
त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः
।
सेनासमुद्रमाविष्टमनन्तं पर्यवारयन् ॥२॥
अथैनं रथवंशेन सर्वतः सन्निवार्य ते
।
अवाकिरञ्छरव्रातैः क्रुद्धाः परमधन्विनः॥३॥
अजयद्राजपुत्रांस्तान् भ्राजमानान्महारणे
।
एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः॥४॥
संप्राप्य भारतीमध्यं तलघोषसमाकुलम्
।
असि-शक्ति-गदापूर्णमप्लवं सलिलं यथा ॥५॥
तत्राद्भुतमपश्याम शैनेयचरितं रणे
।
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्यामि लाघवात्॥६॥
उदीचीं दक्षिणां प्राचीं प्रतीचीं विदिशस्तथा
।
नृत्यन्निवाचरच्छूरो यथा रथशतं तथा॥७॥
तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः
।
त्रिगर्ताः संन्यवर्तन्त सन्तप्ताः स्वजनं प्रति॥८॥
तमन्ये शूरसेनानां शूराः संख्ये न्यवारयन्
।
नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः॥९॥
तैर्व्यवाहरदार्यात्मा मुहूर्तादेव सात्यकिः
।
ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः॥१०॥
तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम्
।
अथ पार्थं महाबाहुर्धनञ्जयमुपासदत्॥११॥
तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान्
।
तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत्॥१२॥
तमायान्तमभिप्रेक्ष्य केशवः पार्थमब्रवीत्
।
असावायाति शैनेयस्तव पार्थ पदानुगः॥१३॥
एष शिष्यः सखा चैव तव सत्यपराक्रमः
।
सर्वान् योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः॥१४॥
एष कौरवयोधानां कृत्वा घोरमुपद्रवम्
।
तव प्राणैः प्रियतमः किरीटिन्नेति सात्यकिः॥१५॥
एष द्रोणं तथा भोजं कृतवर्माणमेव च
।
कदर्थीकृत्य विशिखैः फाल्गुनाभ्येति सात्यकिः॥१६॥
धर्मराजप्रियान्वेषी हत्वा योधान् वरान् वरान्
।
शूरश्चैव कृतास्त्रश्च फाल्गुनाभ्येति सात्यकिः॥१७॥
कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः
।
तव दर्शनमन्विच्छन् पाण्डवाभ्येति सात्यकिः॥१८॥
बहूनेकरथेनाजौ योधयित्वा महारथान्
।
आचार्यप्रमुखान् पार्थ प्रयात्येष स सात्यकिः॥१९॥
स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम्
।
प्रेषितो धर्मराजेन पार्थैषोऽभ्येति सात्यकिः ॥२०॥
यस्य नास्ति समो योधः कौरवेषु कथञ्चन
।
सोऽयमायाति कौन्तेय सात्यकिर्युद्धदुर्मदः॥२१॥
कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव
।
निहत्य बहुलाःसेनाः पार्थैषोभ्येति सात्यकिः॥२२॥
एष राजसहस्राणां वक्त्रैः पङ्कजसन्निभैः
।
आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः॥२३॥
एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे
।
निहत्य जलसन्धं च क्षिप्रमायाति सात्यकिः॥२४॥
रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम्
।
तृणवद्व्यस्य कौरव्यानेष ह्यायाति सात्यकिः॥२५॥
ततः प्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत्
।
न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः॥२६॥
न हि जानामि वृत्तान्तं धर्मराजस्य केशव
।
सात्वतेन विहीनः स यदि जीवति वा न वा॥२७॥
एतेन हि महाबाहो रक्षितव्यः स पार्थिवः
।
तमेष कथमुत्सृज्य मम कृष्ण पदानुगः॥२८॥
राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः
।
प्रत्युद्याति च शैनेयमेष भूरिश्रवा रणे ॥२९॥
सोऽयं गुरुतरो भारः सैन्धवार्थे समाहितः
।
ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः॥३०॥
जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः
।
श्रान्तश्चैष महाबाहुरल्पप्राणश्च सांप्रतम्॥३१॥
परिश्रान्ता हयाश्चास्य हययन्ता च माधव
।
न च भूरिश्रवा श्रान्तः ससहायश्च केशव॥३२॥
अपीदानीं भवेदस्य क्षेममस्मिन् समागमे
।
कश्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः॥३३॥
गोष्पदं प्राप्य सीदेत महौजाः शिनिपुङ्गवः
।
अपि कौरवमुख्येन कृतास्त्रेण महात्मना॥३४॥
समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत्
।
व्यतिक्रममिमं मन्ये धर्मराजस्य केशव॥३५॥
आचार्याद्भयमुत्सृज्य यः प्रैषयत सात्यकिम्
।
ग्रहणं धर्मराजस्य खगः श्येन इवामिषम्॥३६॥
नित्यमाशंसते द्रोणः कच्चित् स्यात्कुशली नृपः॥३७॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यक्यर्जुनदर्शने एकचत्वारिंशदधिकशततमोऽध्यायः॥१४१॥
सञ्जय उवाच।
तमापतन्तं संप्रेक्ष्य सात्वतं युद्धदुर्मदम्
।
क्रोधाद्भूरिश्रवा राजन् सहसा समुपाद्रवत्॥१॥
तमिति ॥१॥
तमब्रवीन्महाराज कौरव्यः शिनिपुङ्गवम्
।
अद्य प्राप्तोऽसि दिष्ट्या मे चक्षुर्विषयमित्युत॥२॥
उतात्यर्थम् ॥२॥
चिराभिलषितं काममहं प्राप्स्यामि संयुगे
।
न हि मे मोक्ष्यसे जीवन् यदि नोत्सृजसे रणम्॥३॥
अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम्
।
नंदयिष्यामि दाशार्ह कुरुराजं सुयोधनम्॥४॥
अद्य मद्बाणनिर्दग्धं पतितं धरणीतले
।
द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ॥५॥
अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया
।
सव्रीडो भविता सद्यो येनासीह प्रवेशितः॥६॥
अद्य मे विक्रमं पार्थो विशास्यति धनञ्जयः
।
त्वथि भूमौ विनिहते शयाने रुधिरोक्षिते॥७॥
चिराभिलषितो ह्येष त्वया सह समागमः
।
पुरा देवासुरे युद्धे शक्रस्य बलिना यथा ॥८॥
अद्य युद्धं महाघोरं तव दास्यामि सात्वत
।
ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम्॥९॥
अद्य संयमनीं याता मया त्वं निहतो रणे
।
यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन ह॥१०॥
अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव
।
हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम्॥११॥
अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः
।
तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे॥१२॥
मच्चक्षुर्विषयं प्राप्तो न त्वं माधव मोक्ष्यसे
।
सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा॥१३॥
युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव
।
कौरवेय न संत्रासो विद्यते मम संयुगे॥१४॥
नाहं भीषयितुं शक्यो वाङ्मात्रेण तु केवलम्
।
स मां निहन्यात्संग्रामे यो मां कुर्यान्निरायुधम्॥१५॥
समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे
।
किं वृथोक्तेन बहुना कर्मणा तत्समाचर ॥१६॥
शाश्वतीः समाः सर्वकालम् । तुरवधारणे नित्यमेव असौ हन्यात् । जय एव तस्येत्यर्थः ॥१६॥
शारदस्येव मेघस्य गर्जितं निष्फलं हि ते
।
श्रुत्वा त्वद्गर्जितं वीर हास्यं हि मम जायते॥१७॥
चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव
।
त्वरते मे मतिस्तात तव युद्धाभिकांक्षिणी॥१८॥
नाहत्वाऽहं निवर्तिष्ये त्वामद्य पुरुषाधम
।
अन्योन्यं तौ तथा वाग्भिस्तक्षन्तौ नरपुङ्गवौ॥१९॥
जिघांसू परमक्रुद्धावभिजघ्नतुराहवे
।
समेतौ तौ महेष्वासौ शुष्मिणौ स्पर्धिनौ रणे॥२०॥
द्विरदाविव संक्रुद्धौ वासितार्थे मदोत्कटौ
।
भूरिश्रवाः सात्यकिश्च ववर्षतुररिन्दमौ॥२१॥
शरवर्षाणि घोराणि मेघाविव परस्परम्
।
सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः॥२२॥
जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः
।
दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान्॥२३॥
मुमोच निशितान्बाणान् जिघांसुः शिनिपुङ्गवम्
।
तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशांपते॥२४॥
अप्राप्तानस्त्रमायाभिरग्रसत् सात्यकिः प्रभो
।
तौ पृथक् शस्त्रवर्षाभ्यामवर्षेतां परस्परम्॥२५॥
उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ
।
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ॥२६॥
रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम्
।
निर्भिन्दंतौ हि गात्राणि विक्षरन्तौ च शोणितम्॥२७॥
व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ
।
एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ॥२८॥
परस्परमयुध्येतां वारणाविव यूथपौ
।
तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ॥२९॥
यियासन्तौ परं स्थानमन्योन्यं सञ्जगर्जतुः
।
सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम्॥३०॥
हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम्
।
संप्रैक्षन्त जनास्तौ तु युध्यमानौ युधांपती॥३१॥
यूथपौ वासिताहेतोः प्रयुद्धाविव कुञ्जरौ
।
अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च॥३२॥
विरथावसियुद्धाय समेयातां महारणे
।
आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे ॥३३॥
विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः
।
चरन्तौ विविधान्मार्गान् मण्डलानि च भागशः॥३४॥
मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ
।
सखड्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ॥३५॥
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतम्
।
संपातं समुदीर्णं च दर्शयन्तौ यशस्विनौ॥३६॥
असिभ्यां संप्रजह्राते परस्परमरिन्दमौ
।
उभौ छिद्रैषिणौ वीरावुभौ चित्रं ववल्गतुः॥३७॥
दर्शयन्तावुभौ शिक्षां लाघवं सौष्ठवं तथा
।
रणे रणकृतां श्रेष्ठावन्योन्यं पर्यकर्षताम्॥३८॥
मुहूर्तमिव राजेन्द्र समाहत्य परस्परम्
।
पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः॥३९॥
असिभ्यां चर्मणी चित्रे शतचन्द्रे नराधिप
।
निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः॥४०॥
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ
।
बाहुभिः समसज्जेतामायसैः परिघैरिव॥४१॥
तयो राजन् भुजाघातनिग्रहप्रग्रहास्तथा
।
शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः॥४२॥
भुजाघातो भुजस्फोटः, निग्रहो हस्तधारणं, प्रग्रहो गलहस्तकः ॥४२॥
तयोर्नृवरयो राजन्समरे युध्यमानयोः
।
भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव॥४३॥
द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ
।
भुजयोक्त्रावबन्धैश्च शिरोभ्यां चावघातनैः॥४४॥
भुजयोक्त्रावबन्धैर्बाहुपाशवेष्टनैः, अवघातनैस्ताडनेः ॥४४॥
पादावकर्षसन्धानैस्तोमरांकुशलासनैः
।
पादोदरविबन्धैश्च भूमावुद्भ्रमणैस्तथा॥४५॥
पादशब्दः प्रत्येकं सम्बध्यते । पादावकर्षैश्चरणावकर्पणैः, पादसंधानैश्चरणच्छंदितकैः, तोमरैरतिस्फोटनैः, अंकुशैरवलुञ्चनेः, पादोदरविबन्धैः पादाभ्यामुदरक्रोडीकरणैः, उद्भ्रमणैः परिवर्तनैः ॥४५॥
गतप्रत्यागताक्षेपैः पातनोत्थानसंप्लुतैः
।
युयुधाते महात्मानौ कुरुसात्वतपुङ्गवौ॥४६॥
गतैर्गमनैः, प्रत्यागतैरावर्तनैः, आक्षेपैरास्फालनैः, पातनैर्भूमिप्रापणैः, उत्थानैः उत्पतनैः, संप्लुतैः विस्फारानुबन्धैः ॥४६॥
द्वात्रिंशत्करणानि स्युर्यानि युद्धानि भारत
।
तान्यदर्शयतां तत्र युध्यमानौ महाबलौ॥४७॥
क्षीणायुधे सात्वते युध्यमाने ततोऽब्रवीदर्जुनं वासुदेवः
।
पश्यस्वैनं विरथं युध्यमानं रणे वरं सर्वधनुर्धराणाम्॥४८॥
प्रविष्टो भारतीं भित्वा तव पाण्डव पृष्ठतः
।
योधितश्च महावीर्यैः सर्वैर्भारत भारतैः॥४९॥
परिश्रान्तं युधां श्रेष्ठं संप्राप्तो भूरिदक्षिणः
।
युद्धाकांक्षी समायान्तं नैतत्सममिवार्जुन॥५०॥
सममनुरूपम् ॥५०॥
ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदः
।
उद्यम्याभ्यहनद्राजन्मत्तो मत्तमिव द्विपम्॥५१॥
अभ्यहनदास्फालितवान् ॥५१॥
रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः
।
केशवार्जुनयो राजन्समरे प्रेक्षमाणयोः॥५२॥
अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत
।
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम्॥५३॥
परिभ्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम्
।
तवान्तेवासिनं वीरं पालयार्जुन सात्यकिम्॥५४॥
न वशं यज्ञशीलस्य गच्छेदेष वरोऽर्जुन
।
त्वत्कृते पुरुषव्याघ्र तदाशु क्रियतां विभो॥५५॥
अथाब्रवीद्धृष्टमना वासुदेवं धनञ्जयः
।
पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुङ्गवम्॥५६॥
महाद्विपेनेव वने मत्तेन हरियूथपम्
।
सञ्जय उवाच।
इत्येवं भाषमाणे तु पाण्डवे वै धनञ्जये ॥५७॥
हाहाकारो महानासीत्सैन्यानां भरतर्षभ
।
तदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि॥५८॥
स सिंह इव मातङ्गं विकर्षन् भूरिदक्षिणः
।
व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि॥५९॥
अथ कोशाद्विनिष्कृष्य खड्गं भूरिश्रवा रणे
।
मूर्धजेषु निजग्राह पदा चोरस्यताडयत्॥६०॥
ततोऽस्य छेत्तुमारब्धः शिरः कायात्सकुण्डलम्
।
तावत्क्षणात्सात्वतोऽपि शिरः संभ्रमयंस्त्वरन्॥६१॥
यथा चक्रं तु कौलालो दण्डविद्धं तु भारत
।
सहैव भूरिश्रवसो बाहुना केशधारिणा॥६२॥
कुलाल एव कौलालः ॥६२॥
तं तथा परिकृष्यन्तं दृष्ट्वा सात्वतमाहवे
।
वासुदेवस्ततो राजन्भूयोऽर्जुनमभाषत॥६३॥
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम्
।
तव शिष्यं महाबाहो धनुष्यनवरं त्वया॥६४॥
असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे
।
विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम्॥६५॥
एवमुक्तो महाबाहुर्वासुदेवेन पाण्डवः
।
मनसा पूजयामास भूरिश्रवसमाहवे॥६६॥
विकर्षन्सात्वतश्रेष्ठं क्रीडमान इवाहवे
।
संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः॥६७॥
प्रवरं वृष्णिवीराणां यन्न हन्याद्धि सात्यकिम्
।
महाद्विपमिवारण्ये मृगेन्द्र इव कर्षति॥६८॥
न हन्याद्धन्तुं न शक्नोति द्वितीय इव शब्द एवार्थे कर्षत्येवेत्यन्वयः ॥६८॥
एवं तु मनसा राजन्पार्थः संपूज्य कौरवम्
।
वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत॥६९॥
सैन्धवे सक्तदृष्टित्वान्नैनं पश्यामि माधवम्
।
एतत्त्वसुकरं कर्म यादवार्थे करोम्यहम् ॥७०॥
इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः
।
ततः क्षुरप्रं निशितं गाण्डीवे समयोजयत्॥७१॥
पार्थबाहुविसृष्टः स महोल्केव नभश्च्युता
।
सखड्गं यज्ञशीलस्य साङ्गदं बाहुमच्छिनत्॥७२॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भूरिश्रवोबाहुच्छेदे द्विचत्वारिंशदधिकशततमोऽध्यायः॥१४२॥
सञ्जय उवाच।
स बाहुर्न्यपतद्भूमौ सखड्गः सशुभाङ्गदः
।
आदधज्जीवलोकस्य दुःखमद्भुतमुत्तमः॥१॥
स इति ॥१॥
प्रहरिष्यन्हृतो बाहुरदृश्येन किरीटिना
।
वेगेन न्यपतद्भूमौ पञ्चास्य इव पन्नगः॥२॥
स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः
।
उत्सृज्य सात्यकिं क्रोधाद्गर्हयामास पांडवम्॥३॥
भूरिश्रवा उवाच।
नृशंसं बत कौन्तेय कर्मेदं कृतवानसि
।
अपश्यतो विषक्तस्य यन्मे बाहुमचिच्छिदः॥४॥
विषक्तस्य अन्यासक्तस्य ॥४॥
किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम्
।
किं कुर्वाणो मया संख्ये हतो भूरिश्रवा रणे॥५॥
इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना
।
अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा ॥६॥
ननु नामास्त्रधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः
।
सोऽयुध्यमानस्य कथं रणे प्रहृतवानसि॥७॥
न प्रमत्ताय भीताय विरथाय प्रयाचते
।
व्यसने वर्तमानाय प्रहरन्ति मनस्विनः॥८॥
इदं तु नीचाचरितमसत्पुरुषसेवितम्
।
कथमाचरितं पार्थ पापकर्म सुदुष्करम्॥९॥
आर्येण सुकरं त्वाहुरार्यकर्म धनञ्जय
।
अनार्यकर्म त्वार्येण सुदुष्करतमं भुवि॥१०॥
येषु येषु नरव्याघ्र यत्र यत्र च वर्तते
।
आशु तच्छीलतामेति तदिदं त्वयि दृश्यते॥११॥
येषु येषु सत्स्वसत्सु वा यत्र यत्र शुभेऽशुभे वा कर्मणि ॥११॥
कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः
।
क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः॥१२॥
इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया
।
वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते॥१३॥
को हि नाम प्रमत्ताय परेण सह युद्ध्यते
।
ईदृशं व्यसनं दद्याद्यो न कृष्णसखा भवेत्॥१४॥
व्रात्याः संक्लिष्टकर्माणः प्रकृत्यैव च गर्हिताः
।
वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः॥१५॥
एवमुक्तो रणे पार्थो भूरिश्रवसमब्रवीत्
।
अर्जुन उवाच।
व्यक्तं हि जीर्यमाणोऽपि बुद्धिं जरयते नरः॥१६॥
अनर्थकमिदं सर्वं यत्त्वया व्याहतं प्रभो
।
जानन्नेव हृषीकेशं गर्हसे मां च पाण्डवम्॥१७॥
संग्रामाणां हि धर्मज्ञः सर्वशास्त्रार्थपारगः
।
न चाधर्ममहं कुर्यां जानंश्चैव हि मुह्यसे॥१८॥
युद्ध्यन्ति क्षत्रियाः शत्रून् स्वैः स्वैः परिवृता नराः
।
भ्रातृभिः पितृभिः पुत्रैस्तथा संबन्धिबान्धवैः॥१९॥
वयस्यैरथ मित्रैश्च ते च बाहुं समाश्रिताः
।
स कथं सात्यकिं शिष्यं सुखसम्बन्धिमेव च॥२०॥
अस्मदर्थे च युद्ध्यन्तं त्यक्त्वा प्राणान्सुदुस्त्यजान्
।
मम बाहुं रणे राजन् दक्षिणं युद्धदुर्मदम्॥२१॥
न चात्मा रक्षितव्यो वै राजन् रणगतेन हि
।
यो यस्य युज्यतेऽर्थेषु स वै रक्ष्यो नराधिप॥२२॥
तै रक्ष्यमाणैः स नृपो रक्षितव्यो महामृधे
।
यद्यहं सात्यकिं पश्ये वध्यमानं महारणे॥२३॥
ततस्तस्य वियोगेन पापं मेऽनर्थतो भवेत्
।
रक्षितश्च मया यस्मात्तस्मात्क्रुध्यसि किं मयि॥२४॥
यच्च मे गर्हसे राजन्नन्येन सह सङ्गतम्
।
अहं त्वया विनिकृतस्तत्र मे बुद्धिविभ्रमः॥२५॥
कवचं धुन्वतस्तुभ्यं रथं चारोहतः स्वयम्
।
धनुर्ज्यां कर्षतश्चैव युध्यतः सह शत्रुभिः॥२६॥
एवं रथगजाकीर्णे हयपत्तिसमाकुले
।
सिंहनादोद्धतरवे गंभीरे सैन्यसागरे ॥२७॥
स्वैः परैश्च समेतेभ्यः सात्वतेन च सङ्गमे
।
एकस्यैकेन हि कथं संग्रामः संभविष्यति॥२८॥
बहुभिः सह संगम्य निर्जित्य च महारथान्
।
श्रान्तश्च श्रान्तवाहश्च विमनाः शस्त्रपीडितः॥२९॥
ईदृशं सात्यकिं संख्ये निर्जित्य च महारथम्
।
अधिकत्वं विजानीषे स्ववीर्यवशमागतम्॥३०॥
यदिच्छसि शिरश्चास्य असिना हन्तुमाहवे
।
तथा कृच्छ्रगतं चैव सात्यकिं कः क्षमिष्यति॥३१॥
त्वं वै विगर्हयात्मानमात्मानं यो न रक्षसि
।
कथं करिष्यसे वीर यो वा त्वां संश्रयेज्जनः॥३२॥
सञ्जय उवाच।
एवमुक्तो महाबाहुर्यूपकेतुर्महायशाः
।
युयुधानं समुत्सृज्य रणे प्रायमुपाविशत्॥३३॥
प्रायम् आमरणानशनम्, उपाविशत् प्रारब्धवान् ॥३३॥
शरानास्तीर्यं सव्येन पाणिना पुण्यलक्षणः
।
यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत्॥३४॥
प्राणानसून् प्राणेषु वायुषु अजुहोदाहितवान् ॥३४॥
सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः
।
ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः॥३५॥
प्रसन्नमकल्मषम् ॥३५॥
ततः स सर्वसेनायां जनः कृष्णधनञ्जयौ
।
गर्हयामास तं चापि शशंस पुरुषर्षभम्॥३६॥
निन्द्यमानौ तथा कृष्णौ नोचतुः किंचिदप्रियम्
।
ततः प्रशस्यमानश्च नाहृष्यद्यूपकेतनः॥३७॥
तांस्तथा वादिनो राजन्पुत्रांस्तव धनञ्जयः
।
अमृष्यमाणो मनसा तेषां तस्य च भाषितम्॥३८॥
असंक्रुद्धमना वाचः स्मारयन्निव भारत
।
उवाच पाण्डुतनयः साक्षेपमिव फाल्गुनः॥३९॥
मम सर्वेऽपि राजानो जानन्त्येव महाव्रतम्
।
न शक्यो मामको हंतुं यो मे स्याद्बाणगोचरे॥४०॥
यूपकेतो निरीक्ष्यैतन्न मामहसि गर्हितुम्
।
न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम् ॥४१॥
आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः
।
यदहं बाहुमच्छैत्सं न स धर्मो विगर्हितः॥४२॥
न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः
।
अभिमन्योर्वधं तात धार्मिकः को न पूजयेत्॥४३॥
एवमुक्तः स पार्थेन शिरसा भूमिमस्पृशत्
।
पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम्॥४४॥
दक्षिणं कृत्तमात्मनः पाणिम् अस्यार्जुनस्य समीपे प्राहिणोत् प्रहितवान् ॥४४॥
एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः
।
यूपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः॥४५॥
अर्जुन उवाच।
या प्रीतिर्धर्मराजे मे भीमे च बलिनां वरे
।
नकुले सहदेवे च सा मे त्वयि शलाग्रज॥४६॥
मया त्वं समनुज्ञातः कृष्णेन च महात्मना
।
गच्छ पुण्यकृतांल्लोकाञ्छिबिरौशीनरो यथा॥४७॥
वासुदेव उवाच।
ये लोका मम विमलाः सकृद्विभाता ब्रह्माद्यैः सुरवृषभैरपीष्यमाणाः
।
तान् क्षिप्रं व्रज सतताग्निहोत्रयाजिन् मत्तुल्यो भव गरुडोत्तमाङ्गयानः॥४८॥
सकृद्विभाताः सहप्रकाशाः गरुडस्योत्तमाङ्गेन पृष्ठेन यानं यस्य ॥४८॥
सञ्जय उवाच।
उत्थितः स तु शैनेयो विमुक्तः सौमदत्तिना
।
खड्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः॥४९॥
निहतं पाण्डुपुत्रेण प्रसक्तं भूरिदक्षिणम्
।
इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम्॥५०॥
प्रसक्तमन्यासक्तम् ॥५०॥
निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम्
।
क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः॥५१॥
वार्यमाणः स कृष्णेन पार्थेन च महात्मना
।
भीमेन चक्ररक्षाभ्यामश्वत्थाम्ना कृपेण च॥५२॥
कर्णेन वृषसेनेन सैन्धवेन तथैव च
।
विक्रोशतां च सैन्यानामवधीत्तं धृतव्रतम्॥५३॥
प्रायोपविष्टाय रणे पार्थेन छिन्नबाहवे
।
सात्यकिः कौरवेयाय खड्गेनापाहरच्छिरः॥५४॥
नाभ्यनन्दन्त सैन्यानि सात्यकिं तेन कर्मणा
।
अर्जुनेन हतं पूर्वं यजघान कुरूद्वहम्॥५५॥
सहस्राक्षसमं चैव सिद्धचारणमानवाः
।
भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम्॥५६॥
अपूजयन्त तं देवा विस्मितास्तेऽस्य कर्मभिः
।
पक्षवादांश्च सुबहून्प्रावदंस्तव सैनिकाः॥५७॥
न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा
।
तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखतरो नृणाम्॥५८॥
हन्तव्यश्चैव वीरेण नात्र कार्या विचारणा
।
विहितो हास्य धात्रैव मृत्युः सात्यकिराहवे॥५९॥
सात्यकिरुवाच
।
न हन्तव्यो न हन्तव्य इति यन्मां प्रभाषत
।
धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः॥६०॥
यदा बालः सुमद्रायाः सुतः शस्त्रविना कृतः
।
युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः॥६१॥
मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिश्चिदेव हि
।
यो मां निष्पिष्य संग्रामे जीवन्हन्यात्पदा रुषा॥६२॥
क्षेपे निन्दायां जीवन्निति द्वितीयार्थे प्रथमा ॥६२॥
स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः
।
चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः॥६३॥
मन्यध्वं मृत इत्येवमेतद्वो बुद्धिलाघवम्
।
युक्तो हास्य प्रतीघातः कृतो मे कुरुपुङ्गवाः॥६४॥
यत्तु पार्थेन मां दृष्ट्वा प्रतिज्ञामभिरक्षता
।
सखड्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः॥६५॥
भवितव्यं हि यद्भावि देवं चेष्टयतीव च
।
सोऽयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम्॥६६॥
इवेत्येवार्थे दैवमेव चेष्टयतीत्यन्वयः ॥६६॥
अपि चायं पुरा गीतः श्लोको वाल्मीकिना भुवि
।
न हन्तव्याः स्त्रिय इति यद्ब्रवीषि प्लवङ्गम॥६७॥
सर्वकालं मनुष्येण व्यवसायवता सदा
।
पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् ॥६८॥
सञ्जय उवाच।
एवमुक्ते महाराज सर्वे कौरवपुङ्गवाः
।
न स्म किञ्चिदभाषन्त मनसा समपूजयन्॥६९॥
मन्त्राभिपूतस्य महाध्वरेषु यशस्विनो भूरिसहस्त्रदस्य च
।
मुनेरिवारण्यगतस्य तस्य न तत्र कश्चिद्वधमभ्यनन्दत्॥७०॥
सुनीलकेशं वरदस्य तस्य शूरस्य पारावतलोहिताक्षम्
।
अश्वस्य मेध्यस्य शिरो निकृत्तं न्यस्तं हविर्धानमिवान्तरेण॥७१॥
वरदस्यार्थितार्थप्रदातुः हविर्धानमन्तरेण हविर्गृहस्य मध्ये ॥७१॥
स तेजसा शस्त्रकृतेन पूतो महाहवे देहवरं विसृज्य
।
आक्रामदूर्ध्वं वरदो वरार्हो व्यावृत्त्य धर्मेण परेण रोदसी॥७२॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भूरिश्रवोवधे त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥१४३॥
धृतराष्ट्र उवाच।
अजितो द्रोणराधेयविकर्णकृतवर्मभिः
।
तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे॥१॥
अजित इति ॥१॥
स कथं कौरवेयेण समरेष्वनिवारितः
।
निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः॥२॥
सञ्जय उवाच।
शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा
।
यथा च भूरिश्रवसो यत्र ते संशयो नृप॥३॥
अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः
।
बुधस्यैको महेन्द्राभः पुत्र आसीत्पुरूरवाः॥४॥
पुरूरवस आयुस्तु आयुषो नहुषः सुतः
।
नहुषस्य ययातिस्तु राजा देवर्षिसंमतः॥५॥
ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः
।
यदोरभूदन्ववाये देवमीढ इति स्मृतः॥६॥
यादवस्तस्य तु सुतः शूरस्त्रैलोक्यसंमतः
।
शूरस्य शौरिर्नृवरो वसुदेवो महायशाः॥७॥
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि
।
तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृप॥८॥
एतस्मिन्नेव काले तु देवकस्य महात्मनः
।
दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे॥९॥
तत्र वै देवकीं देवीं वसुदेवार्थमाशु वै
।
निर्जित्य पार्थिवान्सर्वान् रथमारोपयच्छिनिः॥१०॥
तां दृष्ट्वा देवकीं शूरो रथस्थां पुरुषर्षभ
।
नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप॥११॥
तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम्
।
बाहुयुद्धं सुबलिनोः प्रसक्तं पुरुषर्षभः॥१२॥
शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः
।
असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः॥१३॥
मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः
।
कृपया च पुनस्तेन स जीवेति विसर्जितः॥१४॥
तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष
।
प्रासादयन्महादेवममर्षवशमास्थितः॥१५॥
तस्य तुष्टो महादेवो वराणां वरदः प्रभुः
।
वरेण च्छन्दयामास स तु वव्रे वरं नृपः॥१६॥
पुत्रमिच्छामि भगवन्यो निपात्य शिनेः सुतम्
।
मध्ये राजसहस्राणां पदा हन्याच्च संयुगे॥१७॥
तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव
।
एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत॥१८॥
स तेन वरदानेन लब्धवान्भूरिदक्षिणम्
।
अपातयच्च समरे सौमदत्तिः शिनेः सुतम्॥१९॥
पश्यतां सर्वसैन्यानां पदा चैनमताडयत्
।
एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि॥२०॥
न हि शक्यो रणे जेतुं सात्वतो मनुजर्षभैः
।
लब्धलक्ष्याश्च संग्रामे बहुशश्चित्रयोधिनः॥२१॥
देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः
।
स्ववीर्यविजये युक्ता नैते परपरिग्रहाः॥२२॥
परपरिग्रहाः पराधीनाः ॥२२॥
न तुल्यं वृष्णिभिरिह दृश्यते किञ्चन प्रभो
।
भूतं भव्यं भविष्यच्च बलेन भरतर्षभ॥२३॥
न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः
।
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः॥२४॥
जेतारो वृष्णिवीराणां किं पुनर्मानवा रणे
।
ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिस्वे चाप्यहिंसकाः॥२५॥
एतेषां रक्षितारश्च ये स्युः कस्यांचिदापदि
।
अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः॥२६॥
समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च
।
नित्यं देवपरा दान्तास्त्रातारश्चाविकत्थनाः॥२७॥
तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते
।
अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम्॥२८॥
चक्रं प्रतापः ॥२८॥
न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप
।
एतत्ते सर्वमाख्यातं यत्र ते संशयः प्रभो
।
कुरुराज नरश्रेष्ठ तव व्यपनयो महान्॥२९॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रशंसायां चतुश्चत्वारिंशदधिकशततमोऽध्यायः॥१४४॥
धृतराष्ट्र उवाच।
तदवस्थे हते तस्मिन् भूरिश्रवसि कौरवे
।
यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व सञ्जय॥१॥
तदवस्थ इति ॥१॥
सञ्जय उवाच।
भूरिश्रवसि संक्रान्ते परलोकाय भारत
।
वासुदेवं महाबाहुरर्जुनः समचूचुदत्॥२॥
चोदयाश्वान् भृशं कृष्ण यतो राजा जयद्रथः
।
श्रूयते पुण्डरीकाक्ष त्रिषु धर्मेषु वर्तते॥३॥
हे पुण्डरीकाक्ष स जयद्रथस्त्रिषु धर्मेषु वर्तते इति श्रयते के पुनस्ते त्रयो धर्माः । अत्रोच्यते - यदि युध्यमानो हन्यते तदा तूर्णं स्वर्गप्राप्तिरेव तस्य धर्मः । अथ पलायमानो हन्यते तदा नरकप्राप्तिरेव तस्य धर्मः । अथ मद्भयात्स्वदेशं गच्छति तदा यशःशरीरनाश एव तस्य धर्मः । यावदसौ युद्धाभिमुखः प्रथमधर्मे तिष्ठति तावदेव हन्तुमुचितः अतः । शीघ्रमश्वांश्चोदयेति ॥३॥
प्रतिज्ञां सफलां चापि कर्तुमर्हसि मेऽनघ
।
अस्तमेति महाबाहो त्वरमाणो दिवाकरः॥४॥
एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया
।
कार्यं संरक्ष्यते चैष कुरुसेना महारथैः॥५॥
यथा नाभ्येति सूर्योऽस्तं यथा सत्यं भवेद्वचः
।
चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम्॥६॥
ततः कृष्णो महाबाहू रजतप्रतिमान् हयान्
।
हयज्ञश्चोदयामास जयद्रथवधं प्रति॥७॥
हयज्ञः हयहृदयज्ञः ॥७॥
तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः
।
त्वरमाणा महाराज सेनामुख्याः समाद्रवन्॥८॥
आशुगैः मारुतैः ॥८॥
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट्
।
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः॥९॥
समासाद्य च बीभत्सुः सैन्धवं समुपस्थितम्
।
नेत्राभ्यां क्रोधदीप्ताभ्यां संप्रेक्षन्निर्दहन्निव॥१०॥
ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत्
।
अर्जुनं प्रेक्ष्य संयातं जयद्रथवधं प्रति॥११॥
अयं स वैकर्तन युद्धकालो विदर्शयस्वात्मबलं महात्मन्
।
यथा न वध्येत रणेऽर्जुनेन जयद्रथः कर्ण तथा कुरुष्व॥१२॥
अल्पावशेषो दिवसो नृवीर विघातयस्वाद्य रिपुं शरौघैः
।
दिनक्षयं प्राप्य नरप्रवीर ध्रुवो हि नः कर्णजयो भविष्यति॥१३॥
सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमनं प्रति
।
मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम्॥१४॥
अनर्जुनायां च भुवि मुहूर्तमपि मानद
।
जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः॥१५॥
विनष्टैः पाण्डवेयैश्च सशैलवनकाननाम्
।
वसुन्धरामिमां कर्ण भोक्ष्यामो हतकण्टकाम्॥१६॥
दैवेनोपहतः पार्थो विपरीतश्च मानद
।
कार्याकार्यमजानानः प्रतिज्ञां कृतवान् रणे॥१७॥
उपहतो मोहितः विपरीतोऽन्यथाभूतप्रकृतिः ॥१७॥
नूनमात्मविनाशाय पाण्डवेन किरीटिना
।
प्रतिज्ञेयं कृता कर्ण जयद्रथवधं प्रति॥१८॥
कथं जीवति दुर्धर्षे त्वयि राधेय फाल्गुनः
।
अनस्तंगत आदित्ये हन्यात्सैन्धवकं नृपम्॥१९॥
रक्षितं मद्रराजेन कृपेण च महात्मना
।
जयद्रथं रणमुखे कथं हन्याद्धनञ्जयः॥२०॥
द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च
।
कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः॥२१॥
युध्यन्ते बहवः शूरा लम्बते च दिवाकरः
।
शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद॥२२॥
स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः
।
द्रौणिना त्वं हि सहितो मद्रेशेन कृपेण च॥२३॥
युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे
।
एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष॥२४॥
दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम्
।
दृढलक्ष्येण वीरेण भीमसेनेन धन्विना॥२५॥
दृढलक्ष्येण दृढप्रहारेण ॥२५॥
भृशं भिन्नतनुः संख्ये शरजालैरनेकशः
।
स्थातव्यमिति तिष्ठामि रणे संप्रति मानद॥२६॥
नाङ्गमिंगति किञ्चिन्मे सन्तप्तस्य महेषुभिः
।
योत्स्यामि तु यथाशक्त्या त्वदर्थं जीवितं मम॥२७॥
यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम्
।
न हि मे युध्यमानस्य सायकानस्यतः शितान्॥२८॥
सैन्धवं प्राप्स्यते वीरः सव्यसाची धनञ्जयः
।
यत्तु भक्तिमता कार्यं सततं हितकाङ्क्षिणा॥२९॥
तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः
।
सैन्धवार्थे परं यत्नं करिष्याम्यद्य संयुगे॥३०॥
प्रतिष्ठितो अधीनः ॥३०॥
त्वत्प्रियार्थं महाराज जयो दैवे प्रतिष्ठितः
।
अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः॥३१॥
त्वदर्थे पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः
।
अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः॥३२॥
पश्यन्तु सर्वसैन्यानि दारुणं लोमहर्षणम्
।
कर्णकौरवयोरेवं रणे संभाषमाणयोः॥३३॥
अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम्
।
चिच्छेद निशितैर्बाणैः शूराणामनिवर्तिनाम्॥३४॥
भुजान्परिघसंकाशान्हस्तिहस्तोपमान् रणे
।
शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः॥३५॥
हस्तिहस्तान्हयग्रीवान् रथाक्षांश्च समन्ततः
।
शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान्॥३६॥
क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च
।
हयान्वारणमुख्यांश्च प्रापतन्त समन्ततः॥३७॥
ध्वजाश्छत्राणि चापानि चामराणि शिरांसि च
।
कक्षमग्निरिवोद्भूतः प्रदहंस्तव वाहिनीम्॥३८॥
अचिरेण महीं पार्थश्चकार रुधिरोत्तराम्
।
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली॥३९॥
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः
।
बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः॥४०॥
प्रबभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः
।
तं तथाऽवस्थितं दृष्ट्वा त्वदीया वीर्यसंपदा॥४१॥
नामृष्यन्त महेष्वासाः पाण्डवं पुरुषर्षभाः
।
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट्॥४२॥
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः
।
सन्नद्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम्॥४३॥
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिःस्वनैः
।
संग्रामकोविदं पार्थं सर्वे युद्धविशारदाः॥४४॥
अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम्
।
सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽच्युतार्जुनौ॥४५॥
सूर्यास्तमनमिच्छन्तो लोहितायति भास्करे
।
ते भुजैर्भोगिभोगाभैर्धनूंष्यानम्य सायकान्॥४६॥
मुमुचुः सूर्यरश्म्याभाञ्छतशः फाल्गुनं प्रति
।
ततस्तानस्यमानांश्च किरीटी युद्धदुर्मदः॥४७॥
द्विधा त्रिधाऽष्टधैकैकं छित्त्वा विव्याध तान् रथान्
।
सिंहलाङ्गूलकेतुस्तु दर्शयन्वीर्यमात्मनः॥४८॥
शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयत्
।
स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः॥४९॥
अतिष्ठद्रथमार्गेषु सैन्धवं प्रतिपालयन्
।
अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः॥५०॥
महता रथवंशेन सर्वतः प्रत्यवारयन्
।
विस्फारयंतश्चापानि विसृजन्तश्च सायकान्॥५१॥
सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते
।
ततः पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत॥५२॥
इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च
।
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च॥५३॥
एकैकं दशभिर्बाणैः सर्वानेव समार्पयत्
।
तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः॥५४॥
दुर्योधनस्तु विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः
।
त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः॥५५॥
विधुन्वतश्च चापानि सर्वतः प्रत्यवारयन्
।
श्लिष्टं च सर्वतश्चक्रू रथमण्डलमाशु ते॥५६॥
सूर्यास्तमनमिच्छन्तस्त्वरमाणा महारथाः
।
त एनमभिनर्दन्तो विधुन्वाना धनूंषि च॥५७॥
सिषिचुर्मार्गणैस्तीक्ष्णैर्गिरिं मेघा इवांबुभिः
।
ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन्॥५८॥
धनञ्जयस्य गात्रे तु शूराः परिघबाहवः
।
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली॥५९॥
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः
।
तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः॥६०॥
भिषतो भीमसेनस्य सात्वतस्य च भारत
।
तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्रणाजिरे ॥६१॥
सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः
।
सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष॥६२॥
भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः
।
तान्कर्णः प्रतिविव्याध पष्ट्या पष्ट्या महारथः॥६३॥
तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह
।
तत्राद्भुतमपश्याम सूतपुत्रस्य मारिष॥६४॥
यदेकः समरे क्रुद्धस्त्रीन् रथान्पर्यवारयत्
।
फाल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे॥६५॥
सायकानां शतेनैव सर्वमर्मस्वताडयत्
।
रुधिरोक्षितसर्वांगः सूतपुत्रः प्रतापवान्॥६६॥
शरैः पञ्चाशता वीरः फाल्गुनं प्रत्यविध्यत
।
तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः॥६७॥
ततः पार्थो धनुश्छित्त्वा विव्याधैनं स्तनांतरे
।
सायकैर्नवभिर्वीरस्त्वरमाणो धनञ्जयः॥६८॥
अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान्
।
सायकैरष्टसाहस्रैश्छादयामास पाण्डवम्॥६९॥
तां बाणवृष्टिमतुलां कर्णचापसमुत्थिताम्
।
व्यधमत्सायकैः पार्थः शलभानिव मारुतः॥७०॥
छादयामास च तदा सायकैरर्जुनो रणे
।
पश्यतां सर्वयोधानां दर्शयन् पाणिलाघवम्॥७१॥
वधार्थं चास्य समरे सायकं सूर्यवर्चसम्
।
चिक्षेप त्वरया युक्तस्त्वराकाले धनञ्जयः॥७२॥
तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम्
।
अर्धचन्द्रेण तीक्ष्णेन स च्छिन्नः प्रापतद्भुवि॥७३॥
कर्णोऽपि द्विषतां हन्ता छादयामास फाल्गुनम्
।
सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया॥७४॥
तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ
।
सायकैस्तु प्रतिच्छन्नं चक्रतुः खमजिह्मगैः॥७५॥
अदृश्यौ च शरौघैस्तौ निघ्नन्तावितरेतरम्
।
कर्ण पार्थोऽस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फाल्गुन॥७६॥
इत्येवं तर्जयन्तौ तौ वाक्शल्यैस्तुदतां तदा
।
युध्यतां समरे वीरौ चित्रं लघु च सुष्ठु च ॥७७॥
युध्यतां प्रेक्षणीयावित्यन्वयः ॥७७॥
प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे
।
प्रशस्यमानौ समरे सिद्ध-चारण-पन्नगैः॥७८॥
अयुध्येतां महाराज परस्परवधैषिणौ
।
ततो दुर्योधनो राजंस्तावकानभ्यभाषत॥७९॥
यत्नाद्रक्षत राधेयं नाहत्वा समरेऽर्जुनम्
।
निवर्तिष्यति राधेय इति मामुक्तवान् वृषः॥८०॥
एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम्
।
आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान्॥८१॥
अनयत्प्रेतलोकाय चतुर्भिः श्वेतवाहनः
।
सारथिं चास्य भल्लेन रथनीडादपातयत्॥८२॥
छादयामास स शरैस्तव पुत्रस्य पश्यतः
।
संछाद्यमानः समरे हताश्वो हतसारथिः॥८३॥
मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत
।
तं तथा विरथं दृष्ट्वा रथमारोप्य तं तदा॥८४॥
अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत्
।
मद्रराजश्च कौन्तेयमविध्यत्त्रिंशता शरैः॥८५॥
शारद्वतस्तु विंशत्या वासुदेवं समार्पयत्
।
धनञ्जयं द्वादशभिराजघान शिलीमुखैः॥८६॥
चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः
।
पृथक् पृथङ्महाराज विव्यधुः कृष्णपाण्डवौ॥८७॥
तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनञ्जयः
।
द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च॥८८॥
सैन्धवं दशभिर्बाणैर्वृषसेनं त्रिभिः शरैः
।
शारद्वतं च विंशत्या विद्ध्वा पार्थो ननाद ह॥८९॥
ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः
।
सहितास्तावकास्तूर्णमभिपेतुर्धनञ्जयम्॥९०॥
अथार्जुनः सर्वतो वारुणास्त्रं प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान्
।
तं प्रत्युदीयुः कुरवः पाण्डुपुत्रं रथैर्महार्हैः शरवर्षाण्यवर्षन्॥९१॥
ततस्तु तस्मिंस्तुमुले समुत्थिते सुदारुणे भारत मोहनीये
।
नोऽमुह्यत प्राप्य स राजपुत्रः किरीटमाली व्यसृजच्छरौघान्॥९२॥
प्राप्य युद्धमिति शेषः ॥९२॥
राज्यप्रेप्सुः सव्यसाची कुरूणां स्मरन्क्लेशान् द्वादशवर्षवृत्तान्
।
गाण्डीवमुक्तैरिषुभिर्महात्मा सर्वा दिशो व्यावृणोदप्रमेयः॥९३॥
प्रदीप्तोल्कमभवच्चान्तरिक्षं मृतेषु देहेष्वपतन्वयांसि
।
यत्पिङ्गलज्येन किरीटमाली क्रुद्धो रिपूनाजगवेन हन्ति॥९४॥
ततः किरीटी महता महायशाः शरासनेनास्य शराननीकजित्
।
हयप्रवेकोत्तमनागघूर्णितान् कुरुप्रवीरानिषुभिर्व्यपातयत्॥९५॥
आस्य समन्ततः क्षिप्त्वा ॥९५॥
गदाश्च गुर्वीः परिघानयस्मयानसींश्च शक्तीश्च रणे नराधिपाः
।
महान्ति शस्त्राणि च भीमदर्शनाः प्रगृह्य पार्थं सहसाऽभिदुद्रुवुः॥९६॥
ततो युगान्ताभ्रसमस्वनं महन्महेन्द्रचापप्रतिमं च गाण्डिवम्
।
चकर्ष दोर्भ्यां विहसन्भृशं ययौ दहंस्त्वदीयान् यमराष्ट्रवर्धनः॥९७॥
स तानुदीर्णान्सरथान्सवारणान्पदातिसङ्घांश्च महाधनुर्धरः
।
विपन्नसर्वायुधजीवितान् रणे चकार वीरो यमराष्ट्रवर्धनान्॥९८॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि संकुलयुद्धे पञ्चचत्वारिंशदधिकशततमोऽध्यायः॥१४५॥
सञ्जय उवाच।
शक्राशनिस्फोटसमं सुघोरं विकृष्यमाणस्य धनञ्जयेन ॥१॥
श्रुत्वेति ॥१॥
त्रासोद्विग्नं तथोद्भ्रान्तं त्वदीयं तद्बलं नृप
।
युगान्तवातसंक्षुब्धं चलद्वीचितरङ्गितम् ॥२॥
प्रलीनमीनमकरं सागरांभ इवाभवत्
।
स रणे व्यचरत्पार्थः प्रेक्षमाणो धनञ्जयः ॥३॥
युगपद्दिक्षु सर्वासु सर्वाण्यस्त्राणि दर्शयन्
।
आददानं महाराज सन्दधानं च पाण्डवम् ॥४॥
उत्कर्षन्तं सृजन्तं च न स्म पश्याम लाघवात्
।
ततः क्रुद्धो महाबाहुरैन्द्रमस्त्रं दुरासदम् ॥५॥
प्रादुश्चक्रे महाराज त्रासयन्सर्वभारतान्
।
ततः शराः प्रादुरासन्दिव्यास्त्रप्रतिमन्त्रिताः॥६॥
प्रदीप्ताश्च शिखिमुखाः शतशोऽथ सहस्रशः
।
आकर्णपूर्णनिर्मुक्तैरग्न्यर्कांशुनिभैः शरैः ॥७॥
नभोऽभवत्तद्दुष्प्रेक्ष्यमुल्काभिरिव संवृतम्
।
ततः शस्त्रान्धकारं तत्कौरवैः समुदीरितम् ॥८॥
अशक्यं मनसाऽप्यन्यैः पाण्डवः संभ्रमन्निव
।
नाशयामास विक्रम्य शरैर्दिव्यास्त्रमन्त्रितैः ॥९॥
नैशं तमोंऽशुभिः क्षिप्रं दिनादाविव भास्करः
।
ततस्तु तावकं सैन्यं दीप्तैः शरगभस्तिभिः ॥१०॥
आक्षिपत्पल्वलांबूनि निदाघार्क इव प्रभुः
।
ततो दिव्यास्त्रविदुषा प्रहिताः सायकांशवः ॥११॥
समाप्लवन् द्विषत्सैन्यं लोकं भानोरिवांशवः
।
अथापरे समुत्सृष्टा विशिखास्तिग्मतेजसः ॥१२॥
हृदयान्याशु वीराणां विविशुः प्रियबन्धुवत्
।
य एनमीयुः समरे त्वद्योधाः शूरमानिनः ॥१३॥
शलभा इव ते दीप्तमग्निं प्राप्य ययुः क्षयम्
।
एवं स मृद्नन् शत्रूणां जीवितानि यशांसि च ॥१४॥
पार्थश्चचार संग्रामे मृत्युर्विग्रहवानिव
।
सकिरीटानि वक्त्राणि सांगदान् विपुलान् भुजान् ॥१५॥
सकुण्डलयुगान्कर्णान्केषांचिदहरच्छरैः
।
सतोमरान् गजस्थानां सप्रासान्हयसादिनाम् ॥१६॥
सचर्मणः पदातीनां रथीनां च सधन्वनः
।
सप्रतोदान्नियन्तॄणां बाहूंश्चिच्छेद पाण्डवः ॥१७॥
प्रदीप्तोग्रशरार्चिष्मान्बभौ तत्र धनञ्जयः
।
सविस्फुलिङ्गाग्रशिखो ज्वलन्निव हुताशनः ॥१८॥
तं देवराजप्रतिमं सर्वशस्त्रभृतां वरम्
।
युगपद्दिक्षु सर्वासु रथस्थं पुरुषर्षभम् ॥१९॥
निक्षिपन्तं महास्त्राणि प्रेक्षणीयं धनञ्जयम्
।
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनादिनम् ॥२०॥
निरीक्षितुं न शेकुस्ते यत्नवन्तोऽपि पार्थिवाः
।
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे ॥२१॥
दीप्तोग्रसंभृतशरः किरीटी विरराज ह
।
वर्षास्विवोदीर्णजलः सेन्द्रधन्वांबुदो महान् ॥२२॥
महास्त्रसंप्लवे तस्मिञ्जिष्णुना संप्रवर्तिते
।
सुदुस्तरे महाघोरे ममज्जुर्योधपुङ्गवाः ॥२३॥
उत्कृत्तवदनैर्देहैः शरीरैः कृत्तबाहुभिः
।
भुजैश्च पाणिनिर्मुकैः पाणिभिर्व्यंगुलीकृतैः ॥२४॥
कृत्ताग्रहस्तैः करिभिः कृत्तदन्तैर्मदोत्कटैः
।
हयैश्च विधुरग्रीवै रथैश्च शकलीकृतैः ॥२५॥
निकृत्तान्त्रैः कृत्तपादैस्तथान्यैः कृत्तसन्धिभिः
।
निश्चेष्टैर्विस्फुरद्भिश्च शतशोऽथ सहस्रशः ॥२६॥
मृत्योराघातललितं तत्पार्थायोधनं महत्
।
अपश्याम महीपाल भीरूणां भयवर्धनम् ॥२७॥
आक्रीडमिव रुद्रस्य पुराऽभ्यर्दयतः पशून्
।
गजानां क्षुरनिर्मुक्तैः करैः सभुजगेव भूः ॥२८॥
क्वचिद्बभौ स्रग्विणीव वक्त्रपद्मैः समाचिता
।
विचित्रोष्णीषमुकुटैः केयूराङ्गदकुण्डलैः ॥२९॥
स्वर्णचित्रतनुत्रैश्च भाण्डैश्च गजवाजिनाम्
।
किरीटशतसंकीर्णा तत्र तत्र समाचिता ॥३०॥
विरराज भृशं चित्रा मही नववधूरिव
।
मज्जामेदः कर्दमिनीं शोणितौघतरङ्गिणीम् ॥३१॥
मर्मास्थिभिरगाधां च केशशैवलशाद्वलाम्
।
शिरोबाहूपलतटां रुग्णक्रोडास्थिसंकटाम् ॥३२॥
चित्रध्वजपताकाढ्यां छत्रचापोर्मिमालिनीम्
।
विगतासुमहाकायां गजदेहाभिसंकुलाम् ॥३३॥
रथोडुपशताकीर्णां ह्यसंघातरोधसम्
।
रथचक्रयुगेषाक्षकूबरैरतिदुर्गमाम् ॥३४॥
प्रासासिशक्तिपरशुविशिखाहिदुरासदाम्
।
बलकङ्कमहानक्रां गोमायुमकरोत्कटाम् ॥३५॥
गृध्रोदग्रमहाग्राहां शिवाविरुतभैरवाम्
।
नृत्यत्प्रेतपिशाचाद्यैर्भूताकीर्णां सहस्रशः ॥३६॥
गतासुयोधनिश्चेष्टशरीरशतवाहिनीम्
।
महाप्रतिभयां रौद्रां घोरां वैतरणीमिव ॥३७॥
नदीं प्रवर्तयामास भीरूणां भयवर्धिनीम्
।
तं दृष्ट्वा तस्य विक्रान्तमन्तकस्येव रूपिणः ॥३८॥
अभूतपूर्वं कुरुषु भयमागाद्रणाजिरे
।
तत आदाय वीराणामस्त्रैरस्त्राणि पाण्डवः ॥३९॥
आत्मानं रौद्रमाचष्ट रौद्रकर्मण्यधिष्ठितः
।
ततो रथवरान् राजन्नत्यतिक्रामदर्जुनः ॥४०॥
मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे
।
न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् ॥४१॥
प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः
।
संग्रामे संप्रपश्यामो हंसपंक्तिमिवाम्बरे ॥४२॥
विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वतः
।
दर्शयन् रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः ॥४३॥
स तान् रथवरान् राजन्नत्याक्रामत्तदार्जुनः
।
मोहयन्निव नाराचैर्जयद्रथवधेप्सया
।
विसृजन्दिक्षु सर्वासु शरानसितसारथिः ॥४४॥
सरथो व्यचरत्तूर्णं प्रेक्षणीयो धनञ्जयः
।
भ्रमन्त इव शूरस्य शरव्राता महात्मनः ॥४५॥
अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः
।
आददानं महेष्वासं सन्दधानं च सायकम् ॥४६॥
विसृजन्तं च कौन्तेयं नानुपश्याम वै तदा
।
तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे ॥४७॥
कदंबीकृत्य कौन्तेयो जयद्रथमुपाद्रवत्
।
विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् ॥४८॥
कदम्बीकृत्य कदम्बकुसुमानीव कृत्वा ॥४८॥
सैन्धवाभिमुखं यान्तं योधाः संप्रेक्ष्य पांडवम्
।
न्यवर्तन्त रणाद्वीरा निराशास्तस्य जीविते ॥४९॥
यो योऽभ्यधावदाक्रन्दे तावकः पाण्डवं रणे
।
तस्य तस्यान्तगा बाणाः शरीरे न्यपतन्प्रभो ॥५०॥
कबन्धसंकुलं चक्रे तव सैन्यं महारथः
।
अर्जुनो जयतां श्रेष्ठः शरैरग्न्यंशुसन्निभैः ॥५१॥
एवं तत्तव राजेन्द्र चतुरङ्गबलं तदा
।
व्याकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् ॥५२॥
द्रौणिं पञ्चाशताऽविध्यद्वृषसेनं त्रिभिः शरैः
।
कृपायमाणः कौन्तेयः कृपं नवभिरार्दयत् ॥५३॥
शल्यं षोडशभिर्बाणैः कर्णं द्वात्रिंशता शरैः
।
सैन्धवं तु चतुःषष्ट्या विद्ध्वा सिंह इवानदत् ॥५४॥
सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना
।
न च क्षमे सुसंक्रुद्धस्तोत्रार्दित इव द्विपः॥५५॥
स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान्
।
क्रुद्धाशीविषसंकाशान्कर्मारपरिमार्जितान् ॥५६॥
आकर्णपूर्णाञ्चिक्षेप फाल्गुनस्य रथं प्रति
।
त्रिभिस्तु विद्ध्वा गोविन्दं नाराचैः षड्भिरर्जुनम् ॥५७॥
अष्टभिर्वाजिनोऽविध्यत् ध्वजं चैकेन पत्रिणा
।
स विक्षिप्यार्जुनस्तूर्णं सैन्धवप्रहिताञ्शरान् ॥५८॥
युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह
।
सारथेश्च शिरः कायात् ध्वजं च समलंकृतम् ॥५९॥
स छिन्नयष्टिः सुमहान् धनञ्जयशराहतः
।
वराहः सिन्धुराजस्य पपाताग्निशिखोपमः ॥६०॥
एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे
।
अब्रवीत्पाण्डवं राजंस्त्वरमाणो जनार्दनः ॥६१॥
एष मध्ये कृतः षड्भिः पार्थवीरैर्महारथैः
।
जीवितेप्सुर्महाबाहो भीतस्तिष्ठति सैन्धवः॥६२॥
एताननिर्जित्य रणे षड्रथान्पुरुषर्षभ
।
न शक्यः सैन्धवो हन्तुं यतो निर्व्याजमर्जुन ॥६३॥
योगमत्र विधास्यामि सूर्यस्यावरणं प्रति
।
अस्तंगत इति व्यक्तं द्रक्ष्यत्येकः स सिन्धुराट्र ॥६४॥
हर्षेण जीविताकांक्षी विनाशार्थं तव प्रभो
।
न गोप्स्यति दुराचारः स आत्मानं कथंचन ॥६५॥
तत्र छिद्रे प्रहर्तव्यं त्वयाऽस्य कुरुसत्तम
।
व्यपेक्षा नैव कर्तव्या गतोऽस्तमिति भास्करः ॥६६॥
एवमस्त्विति बीभत्सुः केशवं प्रत्यभाषता
।
ततोऽसृजत्तमः कृष्णः सूर्यस्यावरणं प्रति ॥६७॥
योगी योगेन संयुक्तो योगिनामीश्वरो हरिः
।
सृष्टे तमसि कृष्णेन गतोऽस्तमिति भास्करः ॥६८॥
त्वदीया जहृषुर्योधाः पार्थनाशान्नराधिप
।
ते प्रहृष्टा रणे राजन्नापश्यन्सैनिका रविम् ॥६९॥
उन्नाम्य वक्राणि तदा स च राजा जयद्रथः
।
वीक्ष्यमाणे ततस्तस्मिन्सिन्धुराजे दिवाकरम् ॥७०॥
पुनरेवाब्रवीत्कृष्णो धनञ्जयमिदं वचः
।
पश्य सिन्धुपतिं वीरं प्रेक्षमाणं दिवाकरम् ॥७१॥
भयं हि विप्रमुच्यैतत्त्वत्तो भरतसत्तम
।
अयं कालो महाबाहो वधायास्य दुरात्मनः ॥७२॥
छिन्धि मूर्धानमस्याशु कुरु साफल्यमात्मनः
।
इत्येवं केशवेनोक्तः पाण्डुपुत्रः प्रतापवान् ॥७३॥
न्यवधीत्तावकं सैन्यं शरैरर्काग्निसन्निभैः
।
कृपं विव्याध विंशत्या कर्णं पञ्चाशता शरैः ॥७४॥
शल्यं दुर्योधनं चैव षड्भिः षड्भिरताडयत्
।
वृषसेनं तथाऽष्टाभिः षष्ट्या सैन्धवमेव च ॥७५॥
तथैव च महाबाहुस्त्वदीयान्पाण्डुनन्दनः
।
गाढं विद्ध्वा शरै राजन् जयद्रथमुपाद्रवत् ॥७६॥
तं समीपस्थितं दृष्ट्वा लेलिहानमिवानलम्
।
जयद्रथस्य गोप्तारः संशयं परमं गताः ॥७७॥
ततः सर्वे महाराज तव योधा जयैषिणः
।
सिषिचुः शरधाराभिः पाकशासनिमाहवे ॥७८॥
संछाद्यमानः कौन्तेयः शरजालैरनेकशः
।
अक्रुध्यत्स महाबाहुरजितः कुरुनन्दनः ॥७९॥
ततः शरमयं जालं तुमुलं पाकशासनिः
।
व्यसृजत्पुरुषव्याघ्रस्तव सैन्यजिघांसया ॥८०॥
ते हन्यमाना वीरेण योधा राजन् रणे तव
।
प्रजहुः सैन्धवं भीता द्वौ समं नाप्यधावताम् ॥८१॥
तत्राद्भुतमपश्याम कुन्तीपुत्रस्य विक्रमम्
।
तादृङ्न भावी भूतो वा यच्चकार महायशाः ॥८२॥
द्विपान्द्विपगतांश्चैव हयान्हयगतानपि
।
तथा सरथिनश्चैव न्यहन् रुद्रः पशूनिव ॥८३॥
न तत्र समरे कश्चिन्मया दृष्टो नराधिप
।
गजो वाजी नरो वापि यो न पार्थशराहतः ॥८४॥
रजसा तमसा चैव योधाः संच्छन्नचक्षुषः
।
कश्मलं प्राविशन्घोरं नान्वजानन्परस्परम् ॥८५॥
ते शरैर्भिन्नमर्माणः सैनिकाः पार्थचोदितैः
।
बभ्रमुश्चस्खलुः पेतुः सेदुर्मम्लुश्च भारत ॥८६॥
तस्मिन्महाभीषणके प्रजानामिव संक्षये
।
रणे महति दुष्पारे वर्तमाने सुदारुणे ॥८७॥
शोणितस्य प्रसेकेन शीघ्रत्वादनिलस्य च
।
अशाम्यत्तद्रजो भौममसृक् सिक्ते धरातले ॥८८॥
आनाभि निरमज्जंश्च रथचक्राणि शोणिते
।
मत्ता वेगवता राजंस्तावकानां रणाङ्गने॥८९॥
हस्तिनश्च हतारोहा दारिताङ्गाः सहस्रशः
।
स्वान्यनीकानि मृद्नन्त आर्तनादाः प्रदुद्रुवुः॥९०॥
हयाश्च पतितारोहाः पत्तयश्च नराधिप
।
प्रदुद्रुवुर्भयाद्राजन्धनञ्जयशराहताः॥९१॥
मुक्तकेशा विकवचाः क्षरन्तः क्षतजं क्षतैः
।
प्रापलायन्त संत्रस्तास्त्यक्त्वा रणशिरो जनाः॥९२॥
ऊरुग्राहगृहीताश्च केचित्तत्राभवन् भुवि
।
हतानां चापरे मध्ये द्विरदानां निलिल्यिरे॥९३॥
एवं तव बलं राजन्द्रावयित्वा धनञ्जयः
।
न्यवधीत्सायकैर्घोरैः सिन्धुराजस्य रक्षिणः॥९४॥
द्रौणिं कृपं कर्णशल्यौ वृषसेनं सुयोधनम्
।
छादयामास तीव्रेण शरजालेन पाण्डवः॥९५॥
न गृह्णन्नक्षिपन् राजन्मुञ्चन्नापि च सन्दधत्
।
अदृश्यतार्जुनः संख्ये शीघ्रास्त्रत्वात्कथञ्चन॥९६॥
धनुर्मण्डलमेवास्य दृश्यते स्मास्यतः सदा
।
सायकाश्च व्यदृश्यन्त निश्चरन्तः समन्ततः॥९४॥
कर्णस्य तु धनुश्छित्त्वा वृषसेनस्य चैव ह
।
शल्यस्य सूतं भल्लेन रथनीडादपातयत् ॥९८॥
गाढविद्धावुभौ कृत्वा शरैः स्वस्त्रीयमातुलौ
।
अर्जुनो जयतां श्रेष्ठो द्रौणिशारद्वतौ रणे ॥९९॥
एवं तान्व्याकुलीकृत्य त्वयानां महारथान्
।
उज्जहार शरं घोरं पाण्डवोऽनलसन्निभम् ॥१००॥
इन्द्राशनिसमप्रख्यं दिव्यमस्त्राभिमन्त्रितम्
।
सर्वभारसहं शश्वद्गन्धमाल्यार्चितं महत् ॥१०१॥
वज्रेणास्त्रेण संयोज्य विधिवत्कुरुनन्दनः
।
समादधन्महाबाहुर्गाण्डीवे क्षिप्रमर्जुनः॥१०२॥
तस्मिन्सन्धीयमाने तु शरे ज्वलनतेजसि
।
अन्तरिक्षे महानादो भूतानामभवन्नृप ॥१०३॥
अब्रवीच्च पुनस्तत्र त्वरमाणो जनार्दनः
।
धनञ्जय शिरश्छिन्धि सैन्धवस्य दुरात्मनः॥१०४॥
अस्तं महीधरश्रेष्ठं यियासति दिवाकरः
।
शृणुष्वैतच्च वाक्यं मे जयद्रथवधं प्रति॥१०५॥
वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः
।
स कालेनेह महता सैन्धवं प्राप्तवान्सुतम् ॥१०६॥
जयद्रथममित्रघ्नं वागुवाचाशरीरिणी
।
नृपमन्तर्हिता वाणी मेघदुन्दुभिनिःस्वना॥१०७॥
तवात्मजो मनुष्येन्द्र कुलशीलदमादिभिः
।
गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः॥१०८॥
क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः
।
किं त्वस्य युध्यमानस्य संग्रामे क्षत्रियर्षभः॥१०९॥
शिरश्छेत्स्यति संक्रुद्धः शत्रुश्चालक्षितो भुवि
।
एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिन्दमः॥११०॥
ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिचोदितः
।
संग्रामे युध्यमानस्य वहतो महतीं धुरम् ॥१११॥
धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः
।
तस्यापि शतधा मूर्धा फलिष्यति न संशयः॥११२॥
एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम्
।
वृद्धक्षत्रो वनं यातस्तपश्चोग्रं समास्थितः ॥११३॥
सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम्
।
समन्तपञ्चकादस्माद्बहिर्वानरकेतन ॥११४॥
तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे
।
दिव्येनास्त्रेण रिपुघोरेणाद्भुतकर्मणा॥११५॥
सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज
।
उत्सङ्गे पातयस्वास्य वृद्धक्षत्रस्य भारत ॥११६॥
अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले
।
तवापि शतधा मूर्धा फलिष्यति न संशयः॥११७॥
यथा चेदं न जानीयात्स राजा तपसि स्थितः
।
तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः॥११८॥
न ह्यसाध्यमकार्यं वा विद्यते तव किंचन
।
समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन ॥११९॥
एतच्छ्रुत्वा तु वचनं सृक्किणी परिसंलिहन्
।
इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम् ॥१२०॥
सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम्
।
विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे घृतम् ॥१२१॥
स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः
।
छित्त्वा शिरः सिन्धुपतेरुत्पपात विहायसम्॥१२२॥
तच्छिरः सिन्धुराजस्य शरैरूर्ध्वमवाहयत्
।
दुर्हृदामप्रहर्षाय सुहृदां हर्षणाय च ॥१२३॥
शरैः कदम्बकीकृत्य काले तस्मिंश्च पाण्डवः
।
योधयामास तांश्चैव पाण्डवः षण्महारथान्॥१२४॥
ततः सुमहदाश्चर्यं तत्रापश्याम भारत
।
समन्तपञ्चकाद्बाह्यं शिरो यद्व्यहरत्ततः॥१२५॥
एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः
।
सन्ध्यामुपास्ते तेजस्वी सम्बन्धी तव मारिष॥१२६॥
उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम्
।
सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् ॥१२७॥
तस्योत्सङ्गे निपतितं शिरस्तश्चारुकुण्डलम्
।
वृद्धक्षत्रस्य नृपतेरलक्षितमरिन्दम॥१२८॥
कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य भारत
।
प्रोत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम्॥१२९॥
ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतले
।
गते तस्यापि शतधा मूर्धाऽगच्छदरिन्दम ॥१३०॥
ततः सर्वाणि सैन्यानि विस्मयं जग्मुरुत्तमम्
।
वासुदेवं च बीभत्सुं प्रशशंसुर्महारथम् ॥१३१॥
ततो विनिहते राजन् सिन्धुराजे किरीटिना
।
तमस्तद्वासुदेवेन संहृतं भरतर्षभ ॥१३२॥
पश्चाज्ज्ञातं महीपाल तव पुत्रैः सहानुगैः
।
वासुदेवप्रयुक्तेयं मायेति नृपसत्तम ॥१३३॥
एवं स निहतो राजन्पार्थेनामिततेजसा
।
अक्षौहिणीरष्ट हत्वा जामाता तव सैन्धवः॥१३४॥
हतं जयद्रथं दृष्ट्वा तव पुत्रा नराधिप
।
दुःखादश्रूणि मुमुचुर्निराशाश्चाभवञ्जये॥१३५॥
ततो जयद्रथे राजन्हते पार्थेन केशवः
।
दध्मौ शंखं महाबाहुरर्जुनश्च परन्तपः॥१३६॥
भीमश्च वृष्णिसिंहश्च युधामन्युश्च भारत
।
उत्तमौजाश्च विक्रान्तः शंखान्दध्मुः पृथक्पृथक्॥१३७॥
श्रुत्वा महान्तं तं शब्दं धर्मराजो युधिष्ठिरः
।
सैन्धवं निहतं मेने फाल्गुनेन महात्मना॥१३८॥
ततो वादित्रघोषेण स्वान्योधान्पर्यहर्षयत्
।
अभ्यवर्तत संग्रामे भारद्वाजं युयुत्सया॥१३९॥
ततः प्रववृते राजन्नस्तं गच्छति भास्करे
।
द्रोणस्य सोमकैः सार्धं संग्रामो लोमहर्षणः॥१४०॥
ते तु सर्वे प्रयत्नेन भारद्वाजं जिघांसवः
।
सैन्धवे निहते राजन्नयुध्यन्त महारथाः॥१४१॥
पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च
।
अयोधयंस्तु ते द्रोणं जयोन्मत्तास्ततस्ततः॥१४२॥
अर्जुनोऽपि ततो योधांस्तावकान् रथसत्तमान्
।
अयोधयन्महाबाहुर्हत्वा सैन्धवकं नृपम् ॥१४३॥
स देवशत्रूनिव देवराजः किरीटमाली व्यधमत्समन्तात्
।
यथा तमांस्यभ्युदितस्तमोघ्नः पूर्वप्रतिज्ञां समवाप्य वीरः॥१४४॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि जयद्रथवधे षट्चत्वारिंशदधिकशततमोऽध्यायः ॥१४६॥
धृतराष्ट्र उवाच।
तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना
।
मामका यदकुर्वन्त तन्ममाचक्ष्व सञ्जय॥१॥
तस्मिन्विनिहते वीर इत्यादे ‘राजन्कर्मस्थिते नरे’ इत्यन्तस्य ग्रन्थस्य पुरुषेण यत्नः कार्यः फलं तु दैवाधीनमिति तात्पर्यार्थः ॥१॥
सञ्जय उवाच।
सैन्धवं निहतं दृष्ट्वा रणे पार्थेन भारत
।
अमर्षवशमापन्नः कृपः शारद्वतस्ततः॥२॥
महता शरवर्षेण पाण्डवं समवाकिरत्
।
द्रौणिश्चाभ्यद्रवद्राजन्रथमास्थाय फाल्गुनम्॥३॥
तावेतौ रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमौ
।
उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम्॥४॥
स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः
।
पीड्यमानः परामार्तिमगमद्रथिनां वरः॥५॥
सोऽजिघांसुर्गुरुं संख्ये गुरोस्तनयमेव च
।
चकाराचार्यकं तत्र कुन्तीपुत्रो धनञ्जयः॥६॥
अजिघांसुः हन्तुमनिच्छन् । आचार्यकं गुरोः सम्मानम् ॥६॥
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च
।
मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत्॥७॥
तमेवाह - अस्त्रैरिति । मन्दवेगान् अत्यनाकृष्टचापत्वादल्पवेगान् ॥७॥
ते चापि भृशमभ्यघ्नन्विशिखाः पार्थचोदिताः
।
बहुत्वात्तु परामार्तिं शराणां तावगच्छताम्॥८॥
ते चापि ते बाणास्तथापि ॥८॥
अथ शारद्वतो राजन्कौन्तेयशरपीडितः
।
अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह॥९॥
अवासीदत् अवसन्नः ॥९॥
विह्वलं तमभिज्ञाय भर्तारं शरपीडितम्
।
हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत्॥१०॥
भर्तारं सारथेरेव ॥१०॥
तस्मिन् भग्ने महाराज कृपे शारद्वते युधि
।
अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम्॥११॥
दृष्ट्वा शारद्वतं पार्थो मूच्छितं शरपीडितम्
।
रथ एव महेष्वासः सकृपं पर्यदेवयत्॥१२॥
अश्रुपूर्णमुखो दीनो वचनं चेदमब्रवीत्
।
पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान्॥१३॥
इदं कुलक्षयगुरुद्रोहादिकम् ॥१३॥
कुलान्तकरणे पापे जातमात्रे सुयोधने
।
नीयतां परलोकाय साध्वयं कुलपांसनः॥१४॥
अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम्
।
तदिदं समनुप्राप्तं वचनं सत्यवादिनः॥१५॥
तत्कृते ह्यद्य पश्यामि शरतल्पगतं गुरुम्
।
धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम्॥१६॥
शरतल्पगतं शरपञ्जरगतम् ॥१६॥
को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः
।
ऋषिपुत्रो ममाचार्यो द्रोणस्य परमः सखा॥१७॥
एष शेते रथोपस्थ कृपो मद्बाणपीडितः
।
अकामयानेन मया विशिखैरर्दितो भृशम्॥१८॥
अवसीदन् रथोपस्थे प्राणान्पीडयतीव मे
।
पुत्रशोकाभितप्तेन शरैरभ्यर्दितेन च॥१९॥
अभ्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै
।
शोचयत्येष नियतं भूयः पुत्रवधाद्धि माम्॥२०॥
अभ्यस्तः असकृन्निहतः दशधर्मगतेन दुरवस्थागतेन । शोचयति शोकं कारयति । एष द्रोणः । भूयोऽधिकं पुत्रवधात् ॥२०॥
कृपणं स्वरथे सन्नं पश्य कृष्ण यथागतम्
।
उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः॥२१॥
यथागतं यं प्रकारं प्राप्तम् उपाकृत्य अधीत्य ॥२१॥
प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते
।
ये च विद्यामुपादाय गुरुभ्यः पुरुषाधमाः॥२२॥
घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः
।
तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम्॥२३॥
आचार्यं शरवर्षेण रथे सादयता कृपम्
।
यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः॥२४॥
उपाकुर्वन् आध्यापयन् ॥२४॥
न कथञ्चन कौरव्य प्रहर्तव्यं गुराविति
।
तदिदं वचनं साधोराचार्यस्य महात्मनः॥२५॥
नानुष्ठितं तमेवाजी विशिखैरभिवर्षता
।
नमस्तस्मै सुपूज्याय गौतमायापलायिने॥२६॥
धिगस्तु मम वार्ष्णेय यदस्मै प्रहराम्यहम्
।
तथा विलपमाने तु सव्यसाचिनि तं प्रति॥२७॥
सैन्धवं निहतं दृष्ट्वा राधेयः समुपाद्रवत्
।
तमापतन्तं राधेयमर्जुनस्य रथं प्रति॥२८॥
पाञ्चाल्यौ सात्यकिश्चैव सहसा समुपाद्रवन्
।
उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः॥२९॥
प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत्
।
एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति॥३०॥
न मृष्यति हतं नूनं भूरिश्रवसमाहवे
।
यत्र यात्येष तत्र त्वं चोदयाश्वान् जनार्दन॥३१॥
न सौमदत्तिपदवीं गमयेत्सात्यकिं वृषः
।
एवमुक्तो महाबाहुः केशवः सव्यसाचिना॥३२॥
वृषः कर्णः ॥३२॥
प्रत्युवाच महातेजाः कालयुक्तमिदं वचः
।
अलमेष महाबाहुः कर्णायैकोऽपि पाण्डव॥३३॥
किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः
।
न च तावत्क्षमः पार्थ तव कर्णेन सङ्गरः॥३४॥
प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी
।
त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन्॥३५॥
वासवी शक्तिरिति शेषः ॥३५॥
अतः कर्णः प्रयात्वत्र सात्वतस्य यथातथा
।
अहं ज्ञास्यामि कौन्तेय कालमस्य दुरात्मनः
।
यत्रैनं विशिखैस्तीक्ष्णैः पातयिष्यसि भूतले॥३६॥
यथा प्रयाति तथा प्रयात्विति योज्यं ज्ञास्यामि ज्ञापयिष्यामि यत्र काले ॥३६॥
धृतराष्ट्र उवाच।
योऽसौ कर्णेन वीरस्य वार्ष्णेयस्य समागमः
।
हते तु भूरिश्रवसि सैन्धवे च निपातिते॥३७॥
सात्यकिश्चापि विरथः कंसमारूढवान् रथम्
।
चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व सञ्जय॥३८॥
सञ्जय उवाच।
हन्त ते वर्तयिष्यामि यथा वृत्तं महारणे
।
शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः॥३९॥
वर्तयिष्यामि कथयिष्यामि ॥३९॥
पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो
।
विजेतव्यो यथा वीरः सात्यकिः सौमदत्तिना॥४०॥
पूर्वं पूर्वेद्युः ॥४०॥
अतीतानागते राजन्स हि वेत्ति जनार्दनः
।
ततः सूतं समाहूय दारुकं संदिदेश ह॥४१॥
रथो मे युज्यतां कल्यमिति राजन्महाबलः
।
न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः॥४२॥
कल्यं प्रातः ॥४२॥
मानवा वाऽपि जेतारः कृष्णयोः सन्ति केचन
।
पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः॥४३॥
तयोः प्रभावमतुलं शृणु युद्धं तु तत्तथा
।
सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतं रणे॥४४॥
दध्मौ शङ्खं महानादमार्षभेणाथ माधवः
।
दारुकोऽवेत्य संदेशं श्रुत्वा शङ्खस्य च स्वनम्॥४५॥
आर्षभेण स्वार्थे तद्धितः । ऋषभस्वरेण ऋषभपुरोद्भवेनेति प्राञ्चः ॥४५॥
रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम्
।
स केशवस्यानुमते रथं दारुकसंयुतम्॥४६॥
आरुरोह शिनेः पौत्रो ज्वलनादित्यसन्निभम्
।
कामगैः शैब्यसुग्रीवमेघपुष्पबलाहकैः॥४७॥
हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः
।
युक्तं समारुह्य च तं विमानप्रतिमं रथम्॥४८॥
अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून्
।
चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ॥४९॥
धनञ्जयरथं हित्वा राधेयं प्रत्युदीयतुः
।
राधेयोऽपि महाराज शरवर्षं समुत्सृजन्॥५०॥
अभ्यद्रवत्सुसंक्रुद्धो रणे शैनेयमच्युतम्
।
नैव दैवं न गान्धर्वं नासुरं न च राक्षसम्॥५१॥
तादृशं भुवि नो युद्धं दिवि वा श्रुतमित्युत
।
उपारमत तत्सैन्यं सरथाश्व-नर-द्विपम्॥५२॥
तयोर्दृष्ट्वा महाराज कर्म संमूढचेतसः
।
सर्वे च समपश्यन्त तद्युद्धमतिमानुषम्॥५३॥
तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च
।
गतप्रत्यागतावृत्तैर्मण्डलैः सन्निवर्तनैः ॥५४॥
सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः
।
नभस्तलगताश्चैव देव-गन्धर्व-दानवाः॥५५॥
काश्यपेयस्य दारुकस्य ॥५५॥
अतीवावहिता द्रष्टुं कर्णशैनेययो रणम्
।
मित्रार्थे तौ पराक्रान्तौ शुष्मिणौ स्पर्धिनौ रणे॥५६॥
कर्णश्चामरसंकाशो युयुधानश्च सात्यकिः
।
अन्योन्यं तौ महाराज शरवर्षैरवर्षताम्॥५७॥
प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः
।
अमृष्यमाणो निधनं कौरव्यजलसन्धयोः॥५८॥
कर्णः शोकसमाविष्टो महोरग इव श्वसन्
।
स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा॥५९॥
अभ्यधावत वेगेन पुनः पुनररिन्दम
।
तं तु सक्रोधमालोक्य सात्यकिः प्रत्ययुद्ध्यत॥६०॥
महता शरवर्षेण गजं प्रति गजो यथा
।
तौ समेतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ॥६१॥
अन्योन्यं सन्ततक्षाते रणेऽनुपमविक्रमौ
।
ततः कर्णं शिनेः पौत्रः सर्वपारसवैः शरैः॥६२॥
बिभेद सर्वगात्रेषु पुनः पुनररिन्दम
।
सारथिं चास्य भल्लेन रथनीडादपातयत्॥६३॥
अश्वांश्च चतुरः श्वेतान्निजघान शितैः शरैः
।
छित्त्वा ध्वजं रथं चैव शतधा पुरुषर्षभ॥६४॥
चकार विरथं कर्णं तव पुत्रस्य पश्यतः
।
ततो विमनसो राजंस्तावकास्ते महारथाः॥६५॥
वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा
।
द्रोणपुत्रञ्च शैनेयं सर्वतः पर्यवारयन्॥६६॥
ततः पर्याकुलं सर्वं न प्राज्ञायत किञ्चन
।
तथा सात्यकिना वीरे विरथे सूतजे कृते॥६७॥
हाहाकारस्ततो राजन्सर्वसैन्येष्वभून्महान्
।
कर्णोऽपि विरथो राजन्सात्वतेन कृतः शरैः॥६८॥
दुर्योधनरथं तूर्णमारुरोह विनिःश्वसन्
।
मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम्॥६९॥
कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन्
।
तथा तु विरथं कर्णं पुत्रांश्च तव पार्थिव॥७०॥
दुःशासनमुखान्वीरान्नावधीत्सात्यकिर्वशी
।
रक्षन्प्रतिज्ञां भीमेन पार्थेन च पुराकृताम्॥७१॥
विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत्
।
भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः॥७२॥
अनुद्यूते च पार्थेन वधः कर्णस्य संश्रुतः
।
वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा॥७३॥
अनुद्यूते पुनर्द्यूते ॥७३॥
नाशक्नुवंस्ततो हन्तुं सात्यकिं प्रवरा रथाः
।
द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः॥७४॥
निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः
।
कांक्षता परलोकं च धर्मराजस्य च प्रियम्॥७५॥
कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुतापनः
।
जितवान्सर्वसैन्यानि तावकानि हसन्निव॥७६॥
कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः
।
शैनेयो वा नरव्याघ्र चतुर्थस्तु न विद्यते॥७७॥
धृतराष्ट्र उवाच।
अजय्यं वासुदेवस्य रथमास्थाय सात्यकिः
।
विरथं कृतवान्कर्णं वासुदेवसमो युधि॥७८॥
दारुकेण समायुक्तः स्वबाहुबलदर्पितः
।
कच्चिदन्यं समारूढः सात्यकिः शत्रुतापनः॥७९॥
एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम्
।
असह्यं तमहं मन्ये तन्ममाचक्ष्व सञ्जय॥८०॥
सञ्जय उवाच।
शृणु राजन्यथावृत्तं रथमन्यं महामतिः
।
दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम्॥८१॥
आयसैः काञ्चनैश्चापि पट्टैः सन्नद्धकूबरम्
।
तारासहस्रखचितं सिंहध्वजपताकिनम्॥८२॥
अश्वैतजवैर्युक्तं हेमभाण्डपरिच्छदैः
।
सैन्धवैरिन्दुसंकाशैः सर्वशब्दातिगैर्दृढैः॥८३॥
चित्रकाश्चनसन्नाहैर्वाजिमुख्यैर्विशांपते
।
घण्टाजालाकुलरवं शक्ति-तोमरविद्युतम्॥८४॥
युक्तं सांग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदैः
।
रथं संपादयामास मेघगंभीरनिःस्वनम्॥८५॥
तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत्
।
दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम्॥८६॥
कर्णस्यापि रथं राजञ्शंख-गोक्षीरपाण्डुरैः
।
चित्रकाञ्चनसन्नाहैः सदश्वैर्येगवत्तरैः॥८७॥
हेमकक्ष्याध्वजोपेतं क्लप्तयन्त्रपताकिनम्
।
अग्र्यं रथं सुयंतारं बहुशस्त्रपरिच्छदम्॥८८॥
उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून्
।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि॥८९॥
भूयश्चापि निबोधेमं तवापनयजं क्षयम्
।
एकत्रिंशत्तव सुता भीमसेनेन पातिताः॥९०॥
दुर्मुखं प्रमुख कृत्वा सततं चित्रयोधिनम्
।
शतशो निहताः शूराः सात्वतेनार्जुनेन च॥९१॥
भीष्मं प्रमुखतः कृत्वा भगदत्तं च भारत
।
एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव॥९२॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि कर्णसात्यकियुद्धे सप्तचत्वारिंशदधिकशततमोऽध्यायः॥१४७ ॥
धृतराष्ट्र उवाच।
तथा गतेषु शूरेषु तेषां मम च सञ्जय
।
किं वै भीमस्तदाऽकार्षीत्तन्ममाचक्ष्व सञ्जय॥१॥
तथेति ॥१॥
सञ्जय उवाच।
विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः
।
अमर्षवशमापन्नः फाल्गुनं वाक्यमब्रवीत्॥२॥
पुनः पुनस्तूबरक मूढ औदरिकेति च
।
अकृतास्त्रक मा योत्सीर्बाल संग्रामकातर॥३॥
इति मामब्रवीत्कर्णः पश्यतस्ते धनञ्जय
।
एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत॥४॥
एतद्व्रतं महाबाहो त्वया सह कृतं मया
।
तथैतन्मम कौन्तेय यथा तव न संशयः॥५॥
तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम
।
यथा भवति तत्सत्यं तथा कुरु धनञ्जय॥६॥
तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः
।
ततोऽर्जुनोऽब्रवीत्कर्णं किंचिदभ्येत्य संयुगे॥७॥
कर्ण कर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत
।
अधर्मबुद्धे शृणु मे यत्त्वां वक्ष्यामि सांप्रतम्॥८॥
द्विविधं कर्म शूराणां युद्धे जयपराजयौ
।
तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः॥९॥
मुमूर्षुर्युयुधानेन विरथो विकलेन्द्रियः
।
मद्वध्यस्त्वमिति ज्ञात्वा जित्वा जीवन्विसर्जितः॥१०॥
यदृच्छया रणे भीमं युध्यमानं महाबलम्
।
कथञ्चिद्विरथं कृत्वा यत्त्वं रूक्षमभाषथाः॥११॥
अधर्मस्त्वेष सुमहाननार्यचरितं च तत्
।
नारिं जित्वाऽतिकत्थन्ते न च जल्पन्ति दुर्वचः॥१२॥
न च कञ्चन निन्दन्ति सन्तः शूरा नरर्षभाः
।
त्वं तु प्राकृतविज्ञानस्वत्तद्वदसि सूतज॥१३॥
बह्वबद्धमकर्ण्यं च चापलादपरीक्षितम्
।
युध्यमानं पराक्रान्तं शूरमार्यव्रते रतम्॥१४॥
यदवोचोऽप्रियं भीमं नैतत्सत्यं वचस्तव
।
पश्यतां सर्वसैन्यानां केशवस्य ममैव च॥१५॥
विरथो भीमसेनेन कृतोऽसि बहुशो रणे
।
न च त्वां परुषं किञ्चिदुक्तवान्पाण्डुनन्दनः॥१६॥
यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः
।
परोक्षं यच्च सौभद्रो युष्माभिर्निहतो मम॥१७॥
तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि
।
त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते॥१८॥
तस्माद्वध्योऽसि मे मूढ सभृत्य-सुत-बान्धवः
।
कुरु त्वं सर्वकृत्यानि महत् ते भयमागतम्॥१९॥
हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे
।
ये चान्येप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः॥२०॥
वृषसेनं ते तव पुत्रमिति शेषः । बुद्धिमोहेन बुद्धिविभ्रमेण ॥२०॥
तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे
।
त्वां च मूढा कृतप्रज्ञमतिमानिनमाहवे॥२१॥
दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम्
।
अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु॥२२॥
महान्सुतुमुलः शब्दो बभूव रथिनां तदा
।
तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये॥२३॥
मन्दरश्मिः सहस्रांशुरस्तं गिरिमुपाद्रवत्
।
ततो राजन्हृषीकेशः संग्रामशिरसि स्थितम्॥२४॥
तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्यैनमब्रवीत्
।
दिष्ट्या संपादिता जिष्णो प्रतिज्ञा महती त्वया॥२५॥
दिष्ट्या विनिहतः पापो वृद्धक्षत्रः सहात्मजः
।
धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत॥२६॥
सीदेत समरे जिष्णो नात्र कार्या विचारणा
।
न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित्॥२७॥
त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम्
।
महाप्रभावा बहवस्त्वया तुल्याधिकाऽपि वा॥२८॥
समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात्
।
ते त्वां प्राप्य रणे क्रुद्धा नाभ्यवर्तन्त दंशिताः॥२९॥
तव वीर्यं बलं चैव रुद्रशकान्तकोपमम्
।
नेदृशं शक्नुयात्कश्चिद्रणे कर्तुं पराक्रमम्॥३०॥
यादृशं कृतवानद्य त्वमेकः शत्रुतापनः
।
एवमेव हते कर्णे सानुबन्धे दुरात्मनि॥३१॥
वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम्
।
तमर्जुनः प्रत्युवाच प्रसादात्तव माधव॥३२॥
प्रतिज्ञेयं मया तीर्णा विबुधैरपि दुस्तरा
।
अनाश्चर्यो जयस्तेषां येषां नाथोऽसि केशव॥३३॥
त्वत्प्रसादान्महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः
।
तव प्रभावो वार्ष्णेय तवैव विजयः प्रभो॥३४॥
वर्धनीयास्तव वयं सदैव मधुसूदन
।
एवमुक्तस्ततः कृष्णः शनकैर्वाहयन्हयान्॥३५॥
दर्शयामास पार्थाय क्रूरमायोधनं महत्
।
श्रीकृष्ण उवाच।
प्रार्थयन्तो जयं युद्धे प्रथितं च महद्यशः॥३६॥
पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः
।
विकीर्णशस्त्राभरणा विपन्नाश्व-रथ-द्विपाः
।
संछिन्नभिन्नमर्माणो वैक्लव्यं परमं गताः॥३७॥
ससत्त्वा गतसत्त्वाश्च प्रभया परया युताः
।
सजीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः॥३८॥
तेषां शरैः स्वर्णपुंखैः शस्त्रैश्च विविधैः शितैः
।
वाहनैरायुधैश्चैव संपूर्णां पश्य मेदिनीम्॥३९॥
वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः
।
उष्णीषैर्मुकुटैः स्रग्भिश्चूडामणिभिरम्बरैः॥४०॥
कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सप्रभैः
।
अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी॥४१॥
अनुकर्षैरुपासङ्गैः पताकाभिर्ध्वजैस्तथा
।
उपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः॥४२॥
चक्रैः प्रमथितश्चित्रैरक्षैश्च बहुधा रणे
।
युगैर्योक्तैः कलापैश्च धनुर्भिः सायकैस्तथा॥४३॥
परिस्तोमैः कुथाभिश्च परिघैरङ्कुशैस्तथा
।
शक्तिभिर्भिन्दिपालैश्च तूर्णैः शूलैः परश्वधैः॥४४॥
प्रासैश्च तोमरैश्चैव कुन्तैर्यष्टिभिरेव च
।
शतघ्नीभिर्भुशुण्डीभिः खड्गैः परशुभिस्तथा॥४५॥
मुसलैर्मुद्गरैश्चैव गदाभिः कुणपैस्तथा
।
सुवर्णविकृताभिश्च कशाभिर्भरतर्षभ॥४६॥
घण्टाभिश्च गजेन्द्राणां भाण्डैश्च विविधैरपि
।
स्रग्भिश्च नानाभरणैर्वस्त्रैश्चैव महाधनैः॥४७॥
अपविद्धैर्बभौ भूमिर्गृहैर्द्यौरिव शारदी
।
पृथिव्यां पृथिवीहेतोः पृथिवीपतयो हताः॥४८॥
पृथिवीमुपगुह्याङ्गैः सुप्ताः कान्तामिव प्रियाम्
।
इमांश्च गिरिकूटाभान्नागानैरावतोपमान्॥४९॥
क्षरतः शोणितं भूरि शस्त्रच्छेददरीमुखैः
।
दरीमुखैरिव गिरीन् गैरिकांबुपरिस्रवान्॥५०॥
तांश्च बाणहतान्वीर पश्य निष्टनतः क्षितौ
।
हयांश्च पतितान्पश्य स्वर्णभाण्डविभूषितान्॥५१॥
गन्धर्वनगराकारान् रथांश्च निहतेश्वरान्
।
छिन्नध्वजपताकाक्षान्विचक्रान्हतसारथीन्॥५२॥
निकृत्तकूबरयुगान्भग्नेषान्बन्धुरान्प्रभो
।
पश्य पार्थ हयान्भूमौ विमानोपमदर्शनान्॥५३॥
पतींश्च निहतान्वीर शतशोऽथ सहस्रशः
।
धनुर्भृतश्चर्मभृतः शयानान् रुधिरोक्षितान्॥५४॥
महीमालिंग्य सर्वाङ्गैः पांसुध्वस्तशिरोरुहान्
।
पश्य योधान्महाबाहो त्वच्छरैर्भिन्नविग्रहान्॥५५॥
निपातितद्विप-रथ-वाजिसंकुल-मसृग्वसा-पिशितसमृद्धकर्दमम्
।
निशाचर-श्व-वृक-पिशाचमोदनं महीतलं नरवर पश्य दुर्द्दशम्॥५६॥
इदं महत्त्वय्युपपद्यते प्रभो रणाजिरे कर्म यशोभिवर्धनम्
।
शतक्रतौ चापि च देवसत्तमे महाहवे जघ्नुषि दैत्यदानवान्॥५७॥
सञ्जय उवाच।
एवं सन्दर्शयन् कृष्णो रणभूमिं किरीटिने
।
स्वैः समेतः समुदितैः पाञ्चजन्यं व्यनादयत्॥५८॥
स दर्शयन्नेव किरीटिनेऽरिहा जनार्दनस्तामरिभूमिमञ्जसा
।
अजातशत्रुं समुपेत्य पाण्डवं निवेदयामास हतं जयद्रथम्॥५८॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ १४८ ॥
सञ्जय उवाच।
ततो राजानमभ्येत्य धर्मपुत्रं युधिष्ठिरम्
।
ववन्दे स प्रहृष्टात्मा हते पार्थेन सैन्धवे॥१॥
तत इति ॥१॥
दिष्ट्या वर्धसि राजेन्द्र हतशत्रुर्नरोत्तम
।
दिष्ट्या निस्तीर्णवांश्चैव प्रतिज्ञामनुजस्तव॥२॥
स त्वेवमुक्तः कृष्णेन हृष्टः परपुरंजयः
।
ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत॥३॥
पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः
।
प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम्॥४॥
अब्रवीद्वासुदेवं च पाण्डवं च धनञ्जयम्
।
प्रियमेतदुपश्रुत्य त्वत्तः पुष्करलोचन॥५॥
नान्तं गच्छामि हर्षस्य तितीर्षुरुदधेरिव
।
अत्यद्भुतमिदं कृष्ण कृतं पार्थेन धीमता॥६॥
दिष्ट्या पश्यामि संग्रामे तीर्णभारौ महारथौ
।
दिष्ट्या विनिहतः पापः सैन्धवः पुरुषाधमः॥७॥
कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता
।
त्वया गुप्तेन गोविन्द घ्नता पापं जयद्रथम्॥८॥
गुप्तेन अर्जुनेनेति शेषः ॥८॥
किन्तु नात्यद्भुतं तेषां येषां नस्त्वं समाश्रयः
।
न तेषां दुष्कृतं किञ्चित्त्रिषु लोकेषु विद्यते॥९॥
सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन
।
त्वत्प्रसादाद्धि गोविन्द वयं जेष्यामहे रिपून्॥१०॥
स्थितः सर्वात्मना नित्यं प्रियेषु च हितेषु च
।
त्वां चैवास्माभिराश्रित्य कृतः शस्त्रसमुद्यमः॥११॥
सुरैरिवासुरवधे शक्रं शक्रानुजाहवे
।
असंभाव्यमिदं कर्म देवैरपि जनार्दन॥१२॥
त्वद्बुद्धिबलवीर्येण कृतवानेषु फाल्गुनः
।
बाल्यात्प्रभृति ते कृष्ण कर्माणि श्रुतवानहम्॥१३॥
अमानुषाणि दिव्यानि महान्ति च बहूनि च
।
तदैवाज्ञासिषं शत्रून्हतान्प्राप्तां च मेदिनीम्॥१४॥
त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन
।
सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः॥१५॥
त्वत्प्रसादाद्धृषीकेश जगत्स्थावरजगङ्गमम्
।
स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते॥१६॥
एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम्
।
त्वत्प्रसादान्महाबाहो जगत्प्राप्तं नरोत्तम॥१७॥
एकार्णवमिति । त्वत्प्रसादात् त्वदीक्षावशात् प्राप्तमभिव्यक्तनामरूपत्वमिति शेषः ॥१७॥
स्रष्टारं सर्वलोकानां परमात्मानमव्ययम्
।
ये पश्यन्ति हृषीकेशं न ते मुह्यन्ति कर्हिचित्॥१८॥
पुराणं परमं देवं देवदेवं सनातनम्
।
ये प्रपन्नाः सुरगुरुं न ते मुह्यन्ति कर्हिचित्॥१९॥
अनादिनिधनं देवं लोककर्तारमव्ययम्
।
ये भक्तास्त्वां हृषीकेश दुर्गाण्यतितरन्ति ते॥२०॥
परं पुराणं पुरुषं पराणां परमं च यत्
।
प्रपद्यतस्तत्परमं परा भूतिर्विधीयते॥२१॥
यत्परं मायातोऽपीति शेषः । अत एव पुराणं नित्यसिद्धम् । पुरुषं सर्वासु पूर्षु शयानम् । पराणां हिरण्यगर्भादीनामपि परमं मा बुद्धिस्ततोऽपि परं बुद्धेरविषयमित्यर्थः । तत्परमं सर्वोत्कृष्टमात्मानं प्रपद्यतः प्रपन्नस्य परा भूतिर्महदैश्वर्यं ‘एषाऽस्य परमा संपत्’ इति श्रुतिप्रसिद्धं प्रत्यक्षतो विधीयते स्वसंवेद्यं भवति ॥२१॥
गायन्ति चतुरो वेदा यश्च वेदेषु गीयते
।
तं प्रपद्य महात्मानं भूतिमश्नाम्यनुत्तमाम्॥२२॥
चतुरश्चत्वारः ॥२२॥
परमेश परेशेश तिर्यगीश नरेश्वर
।
सर्वेश्वरेश्वरेशेश नमस्ते पुरुषोत्तम॥२३॥
परा उत्कृष्टा मा संपत् ब्रह्मलोकोरुभोग्यमित्यर्थः । तत्परं सर्वोत्कृष्टमात्मा स चासावीशश्चेति समासः । सकलभोग्यस्वरूपोऽप्यच्युतस्वभाव इत्यर्थः । परेशः मायाशबलः स चासावीशश्चेति शाबल्यं प्राप्तोऽप्यविकृतः । एवं तिर्यक्त्वनरत्वरूपजीवत्वंप्राप्तोऽप्यविकृत इति तिर्यगीशनरेश्वरपदयोरर्थः । एतदेवाभ्यासेन द्रढयति । सर्वं वियदादि जडम् ईश्वरा भोक्तारो जीवाः ईश्वरेशो जीवानां नियन्ता तेषामीशः जगज्जीवेश्वराणामपि सत्तास्फूर्तिप्रदः अत एव पुरुषोत्तमः विराडादिभ्यः शुद्धचिन्मात्रस्तुरीय इत्यर्थः ॥२३॥
त्वमीशेशेश्वरेशान प्रभो वर्धस्व माधव
।
प्रभवाप्यय सर्वस्य सर्वात्मन्पृथुलोचन॥२४॥
कं त्वमेवंविधं पुरुषोत्तमं नमस्करोषीत्याशंक्याह- त्वमिति । हे ईशेश रुद्राद्याराध्य । ईश्वरा राजानस्तेषामपीशानो धर्मः । ‘तदेतत्क्षत्रस्य क्षत्रं यद्धर्मः’ इति श्रुतेस्तस्यापि प्रभो ‘धर्मस्य प्रभुरच्युतः’ इति स्मृतेः । सर्वस्य स्वातिरिक्तस्य प्रभवाप्यय उत्पत्तिप्रलयाधिष्ठानभूत अत एव सर्वात्मन् ॥२४॥
धनञ्जयसखा यश्च धनञ्जयहितश्च यः
।
धनञ्जयस्य गोप्ता तं प्रपद्य सुखमेधते॥२५॥
सखा वयस्यः । हितः प्रियकृत् । गोप्ता दुःखानिवारकः ॥२५॥
मार्कण्डेयः पुराणर्षिश्चरितज्ञस्तवानघ
।
माहात्म्यमनुभावं च पुरा कीर्तितवान्मुनिः॥२६॥
असितो देवलश्चैव नारदश्च महातपाः
।
पितामहश्च मे व्यासस्त्वामाहुर्विधिमुत्तमम्॥२७॥
त्वं तेजस्त्वं परं ब्रह्म त्वं सत्यं त्वं महत्तपः
।
त्वं श्रेयस्त्वं यशश्चाग्र्यं कारणं जगतस्तथा
।
त्वया सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम्॥२८॥
प्रलये समनुप्राप्ते त्वां वै निविशते पुनः
।
अनादिनिधनं देवं विश्वस्येशं जगत्पते॥२९॥
धातारमजमव्यक्तमाहुर्वेदविदो जनाः
।
भूतात्मानं महात्मानमनन्तं विश्वतोमुखम्॥३०॥
अपि देवा न जानन्ति गुह्यमाद्यं जगत्पतिम्
।
नारायणं परं देवं परमात्मानमीश्वरम्॥३१॥
ज्ञानयोनिं हरिं विष्णुं मुमुक्षूणां परायणम्
।
परं पुराणं पुरुषं पुराणानां परं च यत्॥३२॥
एवमादिगुणानां ते कर्मणां दिवि चेह च
।
अतीतभूतभव्यानां संख्याताऽत्र न विद्यते॥३३॥
सर्वतो रक्षणीयाः स्म शक्रेणेव दिवौकसः
।
यैस्त्वं सर्वगुणोपेतः सुहृन्न उपपादितः॥३४॥
इत्येवं धर्मराजेन हरिरुक्तो महायशाः
।
अनुरूपमिदं वाक्यं प्रत्युवाच जनार्दनः॥३५॥
भवता तपसोग्रेण धर्मेण परमेण च
।
साधुत्वादार्जवाच्चैव हतः पापो जयद्रथः॥३६॥
अयं च पुरुषव्याघ्र त्वदनुध्यानसंवृतः
।
हत्वा योधसहस्राणि न्यहन् जिष्णुर्जयद्रथम्॥३७॥
कृतित्वे बाहुवीर्ये च तथैवासंभ्रमेऽपि च
।
शीघ्रताऽमोघबुद्धित्वे नास्ति पार्थसमः क्वचित्॥३८॥
तदयं भरतश्रेष्ठ भ्राता तेऽद्य यदर्जुनः
।
सैन्यक्षयं रणे कृत्वा सिन्धुराजशिरोहरत्॥३९॥
ततो धर्मसुतो जिष्णुं परिष्वज्य विशांपते
।
प्रमृज्य वदनं तस्य पर्याश्वासयत प्रभुः॥४०॥
अतीव सुमहत्कर्म कृतवानसि फाल्गुन
।
असह्यं चाविषह्यं च दैवेरपि सवासवैः॥४१॥
दिष्ट्या निस्तीर्णभारोऽसि हतारश्चासि शत्रुहन्
।
दिष्ट्या सत्या प्रतिज्ञेयं कृता हत्वा जयद्रथम्॥४२॥
एवमुक्त्वा गुडाकेशं धर्मराजो महायशाः
।
पस्पर्श पुण्यगन्धेन पृष्ठे हस्तेन पार्थिवः॥४३॥
एवमुक्तौ महात्मानावुभौ केशवपाण्डवौ
।
तावब्रूतां तदा कृष्णौ राजानं पृथिवीपतिम्॥४४॥
तव कोपाग्निना दग्धः पापो राजा जयद्रथः
।
उत्तीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे॥४५॥
उत्तीर्णं लङ्घितम् ॥४५॥
हन्यन्ते निहताश्चैव विनक्ष्यन्ति च भारत
।
तव क्रोधहता ह्येते कौरवाः शत्रुसूदन॥४६॥
त्वां हि चक्षुर्हणं वीरं कोपयित्वा सुयोधनः
।
समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः॥४७॥
चक्षुर्हणं क्रोधदृष्टिमात्रेण हन्तारम् ॥४७॥
तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः
।
शरतल्पगतः शेते भीष्मः कुरुपितामहः॥४८॥
दुर्लभो विजयस्तेषां संग्रामे रिपुघातिनाम्
।
याता मृत्युवशं ते वै येषां क्रुद्धोऽसि पाण्डव॥४९॥
राज्यं प्राणाः श्रियः पुत्राः सौख्यानि विविधानि च
।
अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद॥५०॥
विनष्टान् कौरवान्मन्ये सपुत्रपशुबान्धवान्
।
राजधर्मपरे नित्यं त्वयि क्रुद्धे परन्तप॥५१॥
ततो भीमो महाबाहुः सात्यकिश्च महारथः
।
अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ॥५२॥
क्षितावास्तां महेष्वासौ पाञ्चाल्यपरिवारितौ
।
तौ दृष्ट्वा मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ॥५३॥
अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी
।
दिष्ट्या पश्यामि वां शूरौ विमुक्तौ सैन्यसागरात्॥५४॥
द्रोणग्राहदुराधर्षाद्धार्दिक्यमकरालयात्
।
दिष्ट्या विनिर्जिताः संख्ये पृथिव्यां सर्वपार्थिवाः॥५५॥
युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे
।
दिष्ट्या द्रोणो जितः संख्ये हार्दिक्यश्च महाबलः॥५६॥
दिष्ट्या विकर्णिभिः कर्णो रणे नीतः पराभवम्
।
विमुखश्च कृतः शल्यो युवाभ्यां पुरुषर्षभौ॥५७॥
दिष्ट्या युवां कुशलिनौ संग्रामात्पुनरागतौ
।
पश्यामि रथिनां श्रेष्ठावुभौ युद्धविशारदौ॥५८॥
मम वाक्यकरौ वीरौ मम गौरवयन्त्रितौ
।
सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि वामहम्॥५९॥
समरश्लाघिनौ वीरौ समरेष्वपराजितौ
।
मम वाक्यसमौ चैव दिष्ट्या पश्यामि वामहम्॥६०॥
इत्युक्त्वा पाण्डवो राजन् युयुधानवृकोदरौ
।
सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुमोच ह॥६१॥
ततः प्रमुदितं सर्वं बलमासीद्विशाम्पते
।
पाण्डवानां रणे हृष्टं युद्धाय तु मनो दधे॥६२॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि युधिष्ठिरहर्षे एकोनपञ्चाशदधिकशततमोऽध्यायः ॥१४९॥
सञ्जय उवाच।
सैन्धवे निहते राजन् पुत्रस्तव सुयोधनः
।
अश्रुपूर्णमुखो दीनो निरुत्साहो द्विषज्जये॥१॥
सैन्धवे इति ॥१॥
दुर्मना निःश्वसन् दुष्टो भग्नदंष्ट्र इवोरगः
।
आगस्कृत्सर्वलोकस्य पुत्रस्तेऽर्तिं परामगात्॥२॥
आर्तिमिति च्छेदः ॥२॥
दृष्ट्वा तत्कदनं घोरं स्वबलस्य कृतं महत्
।
जिष्णुना भीमसेनेन सात्वतेन च संयुगे॥३॥
स विवर्णः कृशो दीनो बाष्पविप्लुतलोचनः
।
अमन्यतार्जुनसमो न योद्धा भुवि विद्यते॥४॥
न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च
।
क्रुद्धस्य समरे स्थातुं पर्याप्ता इति मारिष॥५॥
निर्जित्य हि रणे पार्थः सर्वान्मम महारथान्
।
अवधीत्सैन्धवं संख्ये न च कश्चिदवारयत्॥६॥
सर्वथा हतमेवेदं कौरवाणां महद्बलम्
।
न ह्यस्य विद्यते त्राता साक्षादपि पुरन्दरः॥७॥
यमुपाश्रित्य संग्रामे कृतः शस्त्रसमुद्यमः
।
स कर्णो निर्जितः संख्ये हतश्चैव जयद्रथः॥८॥
यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम्
।
तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि॥९॥
एवं क्लान्तमना राजन्नुपायाद्द्रोणमीक्षितुम्
।
आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ॥१०॥
ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत्
।
परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः॥११॥
दुर्योधन उवाच।
पश्य मूर्धाभिषिक्तानामाचार्य कदनं महत्
।
कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम्॥१२॥
तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः
।
पाञ्चाल्यैः सहितः सर्वैः सेनाग्रमभिवर्तते॥१३॥
प्रलुब्धः प्रकृष्टो लुब्धकस्तद्वद्वञ्चकत्वात् ॥१३॥
अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना
।
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः॥१४॥
अस्मद्विजयकामानां सुहृदामुपकारिणाम्
।
गन्तास्मि कथमानृण्यं गतानां यमसादनम्॥१५॥
ये मदर्थं परीप्सन्ते वसुधां वसुधाधिपाः
।
ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते॥१६॥
सोऽहं कापुरुषः कृत्वा मित्राणां क्षयमीदृशम्
।
अश्वमेधसहस्रेण पावितुं न समुत्सहे॥१७॥
मम लुब्धस्य पापस्य तथा धर्मापचायिनः
।
व्यायामेन जिगीषन्तः प्राप्ता वैवस्वतक्षयम्॥१८॥
धर्मापचायिनः धर्मक्षेपकस्य ॥१८॥
कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः
।
विवरं नाशकद्द्वातुं मम पार्थिवसंसदि॥१९॥
योऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम्
।
शयानं नाशकं त्रातुं भीष्ममायोधने हतम्॥२०॥
तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम्
।
किं वक्ष्यति हि दुर्धर्षः समेत्य परलोकजित्॥२१॥
जलसन्धं महेष्वासं पश्य सात्यकिना हतम्
।
मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम्॥२२॥
काम्बोजं निहतं दृष्ट्वा तथाऽलम्बुषमेव च
।
अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम॥२३॥
व्यायच्छन्तो हताः शूरा मदर्थे येऽपराङ्मुखाः
।
यतमानाः परं शक्त्या विजेतुमहितान्मम॥२४॥
तेषां गत्वाहमानृण्यमद्य शक्त्या परन्तप
।
तर्पयिष्यामि तानेव जलेन यमुनामनु॥२५॥
सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर
।
इष्टापूर्तेन च शपे वीर्येण च सुतैरपि॥२६॥
निहत्य तान् रणे सर्वान् पश्चालान् पाण्डवैः सह
।
शान्तिं लब्धाऽस्मि तेषां वा रणे गन्ता सलोकताम्॥२७॥
सोऽहं तत्र गमिष्यामि यत्र ते पुरुषर्षभाः
।
हता मदर्थे संग्रामे युद्ध्यमानाः किरीटिना॥२८॥
न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः
।
श्रेयो हि पाण्डून्मन्यन्ते न तथाऽस्मान्महाभुज॥२९॥
स्वयं हि मृत्युर्विहितः सत्यसन्धेन संयुगे
।
भवानुपेक्षां कुरुते शिष्यत्वादर्जुनस्य हि॥३०॥
अतो विनिहताः सर्वे येऽस्मज्जयचिकीर्षवः
।
कर्णमेव तु पश्यामि संप्रत्यस्मज्जयैषिणम्॥३१॥
यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः
।
मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति॥३२॥
तादृग्रूपं कृतमिदं मम कार्यं सुहृत्तमैः
।
मोहाल्लब्धस्य पापस्य जिह्मस्य धनमीहतः॥३३॥
हतो जयद्रथश्चैव सौमदत्तिश्च वीर्यवान्
।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः॥३४॥
सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः
।
हता मदर्थे संग्रामे युद्ध्यमानाः किरीटिना॥३५॥
न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान्
।
आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान्॥३६॥
आचार्यः पाण्डुपुत्राणामित्यपालम्भः ॥३६॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि दुर्योधनानुतापे पञ्चाशदधिकशततमोऽध्यायः॥१५०॥
धृतराष्ट्र उवाच।
सिन्धुराजे हते तात समरे सव्यसाचिना
।
तथैव भूरिश्रवसि किमासीद्वो मनस्तदा॥१॥
सिन्धुराज इति ॥१॥
दुर्योधनेन च द्रोणस्तथोक्तः कुरुसंसदि
।
किमुक्तवान्परं तस्मै तन्ममाचक्ष्व सञ्जय॥२॥
सञ्जय उवाच।
निष्टानको महानासीत्सैन्यानां तव भारत
।
सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च॥३॥
निष्टानकः सव्यथः शब्दः ॥३॥
मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे
।
येन मन्त्रेण निहताः शतशः क्षत्रियर्षभाः॥४॥
द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः
।
मुहूर्तमिव तद्ध्यात्वा भृशमार्तोऽभ्यभाषत॥५॥
द्रोण उवाच।
दुर्योधन किमेवं मां वाक्शरैरपि कृन्तसि
।
अजय्यं सततं संख्ये ब्रुवाणं सव्यचाचिनम्॥६॥
एतेनैवार्जुनं ज्ञातुमलं कौरव संयुगे
।
यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना॥७॥
अवध्यं निहतं दृष्ट्वा संयुगे देवदानवैः
।
तदैवाज्ञासिषमहं नेयमस्तीति भारती॥८॥
इयं सेना नास्तीत्यस्य नष्टेत्यर्थः ॥८॥
यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्महि
।
तस्मिन्निपतिते शूरे किं शेषं पर्युपास्महे॥९॥
यां स्म तान् ग्लहते तात शकुनिः कुरुसंसदि
।
अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः॥१०॥
ग्लहते पातयति ॥१०॥
त एते घ्नन्ति नस्तात विशिखाः पार्थचोदिताः
।
तांस्तदाऽऽख्यायमानस्त्वं विदुरेण न बुद्धवान्॥११॥
यास्ता विजयतश्चापि विदुरस्य महात्मनः
।
धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः॥१२॥
तदिदं वर्तते घोरमागतं वैशसं महत्
।
तस्यावमानाद्वाक्यस्य दुर्योधन कृते तव॥१३॥
योऽवमन्य वचः पथ्यं सुहृदामाप्तकारिणाम्
।
स्वमतं कुरुते मूढः स शोच्यो न चिरादिव॥१४॥
यच्च नः प्रेक्षमाणानां कृष्णामानाय्य तत्सभाम्
।
अनर्हन्तीं कुले जातां सर्वधर्मानुचारिणीम्॥१५॥
तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं महत्
।
नोचेत्पापं परे लोके त्वमर्च्छेथास्ततोऽधिकम्॥१६॥
नोचेदिति । परलोकेऽधिकः पापिनां क्लेश इह त्वल्पेनैव भोगेन निस्तार इति भावः ॥१६॥
यच्च तान्पाण्डवान् द्यूते विषमेण विजित्य ह
।
प्राव्राजयस्तदारण्ये रौरवाजिनवाससः॥१७॥
पुत्राणामिव चैतेषां धर्ममाचरतां सदा
।
द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः॥१८॥
पाण्डवानामयं कोपस्त्वया शकुनिना सह
।
आहृतो धृतराष्ट्रस्य संमते कुरुसंसदि॥१९॥
दुःशासनेन संयुक्तः कर्णेन परिवर्धितः
।
क्षत्तुर्वाक्यमनादृत्य त्वयाऽभ्यस्तः पुनः पुनः॥२०॥
अभ्यस्त आवर्तितः ॥२०॥
यत्ताः सर्वे पराभूताः पर्यवारयताऽर्जुनम्
।
सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः॥२१॥
कथं त्वयि च कर्णे च कृपे शल्ये च जीवति
।
अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत्॥२२॥
युध्यन्तः सर्वराजानस्तेजस्तिग्ममुपासते
।
सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः॥२३॥
मय्येव हि विशेषेण तथा दुर्योधन त्वयि
।
आशंसत परित्राणमर्जुनात्स महीपतिः॥२४॥
ततस्तस्मिन्परित्राणमलब्धवति फाल्गुनात्
।
न किञ्चिदनुपश्यामि जीवितस्थानमात्मनः॥२५॥
मज्जन्तमिव चात्मान धृष्टद्युम्नस्य किल्बिषे
।
पश्याम्यहत्वा पञ्चालान्सह तेन शिखण्डिना॥२६॥
तन्मां किमभितप्यन्तं वाक्शरैरेव कृन्तसि
।
अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत॥२७॥
सौवर्णं सत्यसन्धस्य ध्वजमक्लिष्टकर्मणः
।
अपश्यन्युधि भीष्मस्य कथमाशंससे जयम्॥२८॥
मध्ये महारथानां च यत्राहन्यत सैन्धवः
।
हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे॥२९॥
कृप एव च दुर्धर्षो यदि जीवति पार्थिव
।
यो नागात्सिंन्धुराजस्य वर्त्म तं पूजयाम्यहम्॥३०॥
यत्रापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै
।
दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम्॥३१॥
अवध्यकल्पं संग्रामे देवैरपि सवासवैः
।
न ते वसुन्धराऽस्तीति तदाऽहं चिन्तये नृप॥३२॥
इमानि पाण्डवानां च सृञ्जयानां च भारत
।
अनीकान्याद्रवन्ते मां सहितान्यद्य भारत॥३३॥
नाहत्वा सर्वपञ्चालान्कवचस्य विमोक्षणम्
।
कर्ताऽस्मि समरे कर्म धार्तराष्ट्र हितं तव॥३४॥
राजन् ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे
।
न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता॥३५॥
यच्च पित्राऽनुशिष्टोऽसि तद्वचः परिपालय
।
आनृशंस्ये दमे सत्ये चाजवे च स्थिरो भव॥३६॥
धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन्
।
धर्मप्रधानकार्याणि कुर्याश्चेति पुनः पुनः॥३७॥
चक्षुर्मनोभ्यां सन्तोष्या विप्राः पूज्याश्च शक्तितः
।
न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः॥३८॥
एष त्वहमनीकानि प्रविशाम्यरिसूदन
।
रणाय महते राजंस्त्वया वाक्शरपीडितः॥३९॥
त्वं च दुर्योधन बलं यदि शक्तोऽसि पालय
।
रात्रावपि च योत्स्यन्ते संरब्धाः कुरुसृञ्जयाः॥४०॥
एवमुक्त्वा ततः प्रायाद्द्रोणः पाण्डवसृञ्जयान्
।
मुष्णन् क्षत्रियतेजांसि नक्षत्राणामिवांशुमान्॥४१॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि द्रोणवाक्ये एकपञ्चाशदधिकशततमोऽध्यायः॥१५१॥
सञ्जय उवाच।
ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः
।
अमर्षवशमापन्नो युद्धायैव मनो दधे॥१॥
तत इति ॥१॥
अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव
।
पश्य कृष्णसहायेन पाण्डवेन किरीटिना॥२॥
आचार्यविहितं व्यूहं भित्त्वा देवैः सुदुर्भिदम्
।
तव व्यायच्छमानस्य द्रोणस्य च महात्मनः॥३॥
मिषतां योधमुख्यानां सैन्धवो विनिपातितः
।
पश्य राधेय पृथ्वीशाः पृथिव्यां प्रवरा युधि॥४॥
पार्थेनैकेन निहताः सिंहेनेवेतरे मृगाः
।
मम व्यायच्छमानस्य द्रोणस्य च महात्मनः॥५॥
अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह
।
कथं नियच्छमानस्य द्रोणस्य युधि फाल्गुनः॥६॥
भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे
।
प्रतिज्ञाया गतः पारं हत्वा सैन्धवमर्जुनः॥७॥
पश्य राधेय पृथ्वीशान् पृथिव्यां पातितान्बहून्
।
पार्थेन निहतान्संख्ये महेन्द्रोपमविक्रमान्॥८॥
अनिच्छतः कथं वीर द्रोणस्य युधि पाण्डवः
।
भिन्द्यात्सुदुर्भिदं व्यूहं यतमानस्य शुष्मिणः॥९॥
दयितः फाल्गुनो नित्यमाचार्यस्य महात्मनः
।
ततोऽस्य दत्तवान्द्वारमयुद्धेनैव शत्रुहन्॥१०॥
अभयं सिन्धुराजाय दत्त्वा द्रोणः परंतपः
।
प्रादात्किरीटिने द्वारं पश्य निर्गुणतां मयि॥११॥
यद्यदास्यदनुज्ञां वै पूर्वमेव गृहान्प्रति
।
प्रस्थातुं सिन्धुराजस्य नाभविष्यज्जनक्षयः॥१२॥
जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति
।
मयाऽनार्येण संरुद्धो द्रोणात्प्राप्याभयं सखे॥१३॥
अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो रणे
।
भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम्॥१४॥
कर्ण उवाच।
आचार्यं मा विगर्हस्व शक्त्याऽसौ युद्ध्यते द्विजः
।
यथाबलं यथोत्साहं त्यक्त्वा जीवितमात्मनः॥१५॥
यद्येनं समतिक्रम्य प्रविष्टः श्वेतवाहनः
।
नात्र सूक्ष्मोऽपि दोषः स्यादाचार्यस्य कथंचन॥१६॥
कृती दक्षो युवा शूरः कृतास्त्रो लघुविक्रमः
।
दिव्यास्त्रयुक्तमास्थाय रथं वानरलक्षणम्॥१७॥
कृष्णेन च गृहीताश्वमभेद्यकवचावृतः
।
गाण्डीवमजरं दिव्यं धनुरादाय वीर्यवान्॥१८॥
प्रवर्षन्निशितान्बाणान् बाहुद्रविणदर्पितः
।
यदर्जुनोऽभ्ययाद्द्रोणमुपपन्नं हि तस्य तत्॥१९॥
आचार्यः स्थविरो राजन् शीघ्रयाने तथाऽक्षमः
।
बाहुव्यायामचेष्टायामशक्तस्तु नराधिप॥२०॥
तेनैवमभ्यतिक्रान्तः श्वेताश्वः कृष्णसारथिः
।
तस्य दोषं न पश्यामि द्रोणस्यानेन हेतुना॥२१॥
अजय्यान्पाण्डवान्मन्ये द्रोणेनास्त्रविदा मृघे
।
तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः॥२२॥
दैवादिष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित्
।
यतो नो युध्यमानानां परं शक्त्या सुयोधन॥२३॥
अन्यथाभावः पराजयो दैवादिष्टः। नतु द्रोणापराधज इति भावः ॥२३॥
सैन्धवो निहतो युद्धे दैवमत्र परं स्मृतम्
।
परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे॥२४॥
हत्वाऽस्माकं पौरुषं वै देवं पश्चात्करोतिनः
।
सततं चेष्टमानानां निकृत्या विक्रमेण च॥२५॥
दैवोपसृष्टः पुरुषो यत्कर्म कुरुते क्वचित्
।
कृतं कृतं हि तत्कर्म दैवेन विनिपात्यते॥२६॥
दैवोपसृष्टो दुर्दैवग्रस्तः ॥२६॥
यत्कर्तव्यं मनुष्येण व्यवसायवता सदा
।
तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता॥२७॥
निकृत्या वञ्चिताः पार्था विषयोगैश्च भारत
।
दग्धा जतुगृहे चापि द्यूतेन च पराजिताः॥२८॥
राजनीतिं व्यपाश्रित्य प्रहिताश्चैव काननम्
।
यत्नेन च कृतं तत्तद्दैवेन विनिपातितम्॥२९॥
युध्यस्व यत्नमास्थाय दैवं कृत्वा निरर्थकम्
।
यततस्तव तेषां च दैवं मार्गेण यास्यति॥३०॥
दैवमविगणय्य यत्नमेवातिष्ठेत्याह – युध्यस्वेति । सुदृढोद्यमाद्दैवमपि मार्गेणानुकूलेन यास्यतीत्यर्थः ॥३०॥
न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित्
।
दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरुद्वह॥३१॥
तेषां जयहेतुः सुकृतं तव वा पराजयहेतुः दुष्कृतं नास्तीत्याह - न तेषामिति ॥३१॥
दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा
।
अनन्यकर्म दैवं हि जागर्ति स्वपतामपि॥३२॥
दैवमिति । अनन्यकर्म दैवमपि स्वकृतमेव न त्वन्यदस्ति ह्यस्तनो दोषोऽद्यतनेन गुणविशेषेण निराकर्तुं शक्यः । एवं दैवमपि यत्नेन बाधितुं शक्यमित्यर्थः ॥३२॥
बहूनि तव सैन्यानि योधाश्च बहवस्तव
।
न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत॥३३॥
तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः
।
शङ्के देवस्य तत्त्कर्म पौरुषं येन नाशितम्॥३४॥
देवानामिन्द्रियाणामध्यक्षभूतं विज्ञानं दैवं धीबलमित्यर्थः पौरुषं शारीरं बलम् ॥३४॥
सञ्जय उवाच।
एवं संभाषमाणानां बहु तत्तज्जनाधिप
।
पाण्डवानामनीकानि समदृश्यन्त संयुगे॥३५॥
ततः प्रववृते युद्ध व्यतिषक्तरथ-द्विपम्
।
तावकानां परैः सार्धं राजन् दुर्मन्त्रिते तव॥३६॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि पुनर्युद्धारंभे द्विपञ्चाशदधिकशततमोऽध्यायः॥१५२॥