द्रोणाभिषेकपर्व - १ - १संशप्तकवधपर्व - २ - २अभिमन्युवधपर्व - ३ - ३प्रतिज्ञापर्व - ४ - ४जयद्रथवधपर्व - ५ - ५घटोत्कचवधपर्व - ६ - ६द्रोणवधपर्व - ७ - ७नारायणास्त्रमोक्षपर्व - ८ - ८

जयद्रथवधपर्व - ५

पञ्चाशीतितमोऽध्यायः

धृतराष्ट्र उवाच। श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः ।
अभिमन्यौ हते तत्र के वाऽयुध्यन्त मामकाः ॥१॥

श्वोभूते इति ॥१॥

जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः ।
कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः ॥२॥

पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम् ।
आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे ॥३॥

कपिराजध्वजं संख्ये विधुन्वानं महद्धनुः ।
दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वत मामकाः ॥४॥

पुत्रपरिद्यूनं पुत्रवधदुःखितम् ॥४॥

किं नु सञ्जय संग्रामे वृत्तं दुर्योधनं प्रति ।
परिदेवो महानद्य श्रुतो मे नाभिनन्दनम् ॥५॥

बभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः ।
न श्रूयन्तेऽद्य सर्वे ते सैन्धवस्य निवेशने ॥६॥

स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम ।
सूतमागधसङ्घानां नर्तकानां च सर्वशः ॥७॥

शब्देन नादिताऽभीक्ष्णमभवद्यत्र मे श्रुतिः ।
दीनानामद्य तं शब्दं न शृणोमि समीरितम् ॥८॥

यत्रेति तृतीयार्थे सप्तमी ॥८॥

निवेशने सत्यधृतेः सोमद‌त्तस्य सञ्जय ।
आसीनोऽहं पुरा तात शब्द‌मश्रौषमुत्तमम् ॥९॥

तदद्य पुण्यहीनोऽहमार्तस्वरनिनादितम् ।
निवेशनं गतोत्साहं पुत्राणां मम लक्षये ॥१०॥

विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः ।
अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः ॥११॥

ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते ।
द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् ॥१२॥

वितण्डालापसंलापैर्द्रुतवादित्रवादितैः ।
गीतैश्च विविधैरिष्टै रमते यो दिवानिशम् ॥१३॥

स्वपक्षस्थापनहीनः प्रतिपक्षे प्रतिक्षेपो वितण्डा, आलापो भाषणम् । संलापो मिथोभाषणम् ॥१३॥

उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः ।
सूत तस्य गृहे शब्दो नाद्य द्रौणेर्यथा पुरा ॥१४॥

द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये ।
अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः ॥१५॥

विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः ॥१६॥

श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु ।
नित्यं प्रमुदितानां च तालगीतस्वनो महान् ॥१७॥

नृत्यतां श्रूयते तात गणानां सोऽद्य न स्वनः ।
सप्ततन्तून् वितन्वाना याजका यमुपासते ॥१८॥

गणानां सङ्घानाम् ॥१८॥

सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः ।
ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः ॥१९॥

द्रोणस्यासीदविरतो गृहे तं न शृणोम्यहम् ।
नानादेशसंमुत्थानां गीतानां योऽभवत्स्वनः ॥२०॥

वादित्रनादितानां च सोऽद्य न श्रूयते महान् ।
यदा प्रभृत्युपप्लव्याच्छान्तिमिच्छन् जनार्दनः ॥२९॥

आगतः सर्वभूतानामनुकम्पार्थमच्युतः ।
ततोऽहमब्रुवं सूतं मन्दं दुर्योधनं तदा ॥२२॥

वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ।
कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः ॥२३॥

तीर्थेन निदानेन उपायेन वा । कालप्राप्तं समयोचितम् ॥२३॥

शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् ।
हितार्थमभिजल्पन्तं न तवास्ति रणे जयः ॥२४॥

प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम् ।
अनुनेयानि जल्पन्तमनयान्नान्वपद्यत ॥२५॥

अनुनेयानि अनुकूलानि ॥२५॥

ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः ।
अन्ववर्तत मां हित्वा कृष्टः कालेन दुर्मतिः ॥२६॥

न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसति ।
सैन्धवो नेच्छति द्यूतं भीष्मो न द्यूतमिच्छति ॥२७॥

शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथा ।
अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति सञ्जय ॥२८॥

एतेषां मतमादाय यदि वर्तेत पुत्रकः ।
सज्ञातिमित्रः ससुहृच्चिरं जीवेदनामयः ॥२९॥

श्लक्ष्णा मधुरसंभाषा ज्ञातिबन्धुप्रियंवदाः ।
कुलीनाः संमताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः ॥३०॥

श्लक्ष्णा ऋजवः ॥३०॥

धर्मापेक्षी नरो नित्यं सर्वत्र लभते सुखम् ।
प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते ॥३१॥

अर्हास्ते पृथिवीं भोक्तुं समर्थाः साधनेऽपि च ।
तेषामपि समुद्रान्ता पितृपैतामही मही ॥३२॥

साधने स्वीकरणे ॥३२॥

नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि ।
सन्ति मे ज्ञातयस्तात येषां श्रिष्यन्ति पाण्डवाः ॥३३॥

शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः ।
द्रोणस्याथ विकर्णस्य बाल्हीकस्य कृपस्य च ॥३४॥

अन्येषां चैव वृद्धानां भरतानां महात्मनाम् ।
त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हि ते ॥३५॥

कं वा त्वं मन्यसे तेषां यस्तान् ब्रूयादतोऽन्यथा ।
कृष्णो न धर्मं सञ्जह्यात् सर्वे ते हि तदन्वयाः ॥३६॥

मयाऽपि चोक्तास्ते वीरा वचनं धर्मसंहितम् ।
नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः ॥३७॥

इत्यहं विलपन् सूत बहुशः पुत्रमुक्तवान् ।
न च मे श्रुतबान् मूढो मन्ये कालस्य पर्ययम् ॥३८॥

वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः ।
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ॥३९॥

धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः ।
अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः ॥४०॥

चैद्यश्च चेकिनातश्च पुत्रः काश्यस्य चाभिभूः ।
द्रौपदेया विराटश्च द्रुपदश्च महारथः ॥४१॥

यमौ च पुरुषव्यातघ्रौ मन्त्री च मधुसूदनः ।
क एतान् जातु युध्येत लोकेऽस्मिन् वै जिजीविषुः ॥४२॥

दिव्यमस्त्रं विकुर्वाणान् प्रसहेद्वा परान् मम ।
अन्यो दुर्योधनात् कर्णाच्छकुनेश्चापि सौबलात् ॥४३॥

दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम् ।
येषामभीषुहस्तः स्याद्विष्वक्सेनो रथे स्थितः ॥४४॥

सन्नद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः ।
तेषामथ विलापानां नायं दुर्योधनः स्मरेत् ॥४५॥

हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ वै ।
तेषां विदुरवाक्यानां मुक्तानां दीर्घदर्शनात् ॥४६॥

दीर्घदर्शनादनागतानुसन्धानात् ॥४६॥

दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः ।
सेनां दृष्ट्वाऽभिभूता मे शैनैयेनार्जुनेन च ॥४७॥

शुन्यान् दृष्ट्वा रथोपस्थान् मन्ये शोचन्ति पुत्रकाः ।
हिमात्यये यथा कक्षं शुष्कं वातेरितो महान् ॥४८॥

अग्निर्दहेत्तथा सेनां मामिकां स धनञ्जयः ।
आचक्ष्व मम तत्सर्वं कुशलो ह्यसि सञ्जय ॥४९॥

यदुपायात सायाह्ने कृत्वा पार्थस्य किल्बिषम् ।
अभिमन्यौ हते तात कथमासीन्मनो हि वः ॥५०॥

यद्यदा उपायात यूयमिति शेषः ॥५०॥

न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः ।
अपकृत्य महत्तात सोढुं शक्ष्यन्ति मामकाः ॥५१॥

महदत्यर्थम् ॥५१॥

किन्नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत् ।
दुःशासनः सौबलश्च तेषामेवं गतेष्वपि ॥५२॥

तेषां मध्ये ॥५२॥

सर्वेषां समवेतानां पुत्राणां मम सञ्जय ।
यद्वृत्तं तात संग्रामे मन्दस्यापनयैर्भृशम् ॥५३॥

लोभानुगस्य दुर्बुद्धेः क्रोधेन विकृतात्मनः ।
राज्यकामस्य मूढस्य रागोपहतचेतसः ।
दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व सञ्जय ॥५४॥

रागो मात्सर्यं ‘रागस्तु मात्सर्ये लोहितादिषु’ इति मेदिनी ॥५४॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि धृतराष्ट्रवाक्ये पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥
षडशीतितमोऽध्यायः

सञ्जय उवाच। हन्त ते संप्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान् ।
शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान् ॥१॥

हन्तेति ॥१॥

गतोदके सेतुबन्धो यादृक् तादृगयं तव ।
विलापो निष्फलो राजन्मा शुचो भरतर्षभ ॥२॥

अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः ।
मा शुचो भरतश्रेष्ठ दिष्टमेतत् पुरातनम् ॥३॥

यदि त्वं हि पुरा द्यूतात् कुन्तीपुत्रं युधिष्ठिरम् ।
निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत् ॥४॥

युद्धकाले पुनः प्राप्ते तदैव भवता यदि ।
निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत् ॥५॥

दुर्योधनं चाविधेयं बध्नीतेति पुरा यदि ।
कुरूनचोदयिष्यस्त्वं न त्वां व्यसनमाव्रजेत् ॥६॥

न ते बुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः ।
पञ्चाला वृष्णयः सर्वे ये चान्येऽपि नराधिपाः ॥७॥

ते तव बुद्धेर्व्यभिचारं वैषम्यम् उपलप्स्यन्त्यनुभविष्यन्ति ॥७॥

स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे ।
वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत् ॥८॥

त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम् ।
दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम् ॥९॥

तत्ते विलपितं सर्वं मया राजन्निशामितम् ।
अर्थे निविशमानस्य विषमिश्रं यथा मधु ॥१०॥

नामन्यत तदा कृष्णो राजानं पाण्डवं पुरा ।
न भीष्मं नैव च द्रोणं यथा त्वां मन्यतेऽच्युतः ॥११॥

मन्यते बहुमन्यते ॥११॥

अजानात् स यदा तु त्वां राजधर्मादधश्च्युतम् ।
तदाप्रभृति कृष्णस्त्वां न तथा बहु मन्यते ॥१२॥

परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे ।
तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुक ॥१३॥

पितृपैतामहं राज्यमपवृत्तं तदाऽनघ ।
अथ पार्थैर्जितां कृत्नां पृथिवीं प्रत्यपद्यथाः ॥१४॥

अपवृत्तं सांशयिकं यद्येवं न करिष्यति तर्हि ॥१४॥

पाण्डुना निर्जितं राज्यं कौरवाणां यशस्तथा ।
ततश्चाप्यधिकं भूयः पाण्डवैर्धर्मचारिभिः ॥१५॥

तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम् ।
यत्पित्र्याद्भ्रंशिता राज्यात्त्वयेहामिषगृद्धिना ॥१६॥

यत्पुनर्युद्धकाले त्वं पुत्रान् गर्हयसे नृप ।
बहुधा व्याहरन् दोषान्न तदद्योपपद्यते ॥१७॥

न हि रक्षन्ति राजानो युद्ध्यन्तो जीवितं रणे ।
चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः ॥१८॥

यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ ।
रक्षेरन् को नु तां युद्ध्येच्चमूमन्यत्र कौरवैः ॥१९॥

येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः ।
येषां च सात्यकिर्योद्धा येषां योद्धा वृकोदरः ॥२०॥

को हि तान् विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः ।
अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः ॥२१॥

यावत्तु शक्यते कर्तुमन्तरज्ञैर्जनाधिपैः ।
क्षत्रधर्मरतैः शूरैस्तावत् कुर्वन्ति कौरवाः ॥२२॥

अन्तरज्ञैरवसरवेदिभिः ॥२२॥

यथा तु पुरुषव्याघ्रैर्युद्धं परमसंकटम् ।
कुरूणां पाण्डवैः सार्धं तत्सर्वं श्रृणु तत्त्वतः ॥२३॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सञ्जयवाक्ये षडशीतितमोऽध्यायः ॥ ८६ ॥
सप्ताशीतितमोऽध्यायः

सञ्जय उवाच ।
तस्यां निशायां व्युष्टायां द्रोणः शास्त्रभृतां वरः ।
स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः ॥१॥

तस्यामिति ॥१॥

शूराणां गर्जतां राजन् संक्रुद्धानाममर्षिणाम् ।
श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम् ॥२॥

विस्फार्य च धनूंष्यन्ये ज्याः परे परिमृज्य च ।
विनिःश्वसन्तः प्राकोशन् क्वेदानीं स धनञ्जयः ॥३॥

विकोशान् सुत्सरूनन्ये कृतधारान् समाहितान् ।
पीतानाकाशसंकाशानसीन् केचिच्च चिक्षिपुः ॥४॥

पीतान् पायितोदकान् ॥४॥

चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षया ।
संग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः ॥५॥

सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः ।
समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम् ॥६॥

अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः ।
चक्रुः सम्बाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः ॥७॥

नानाप्रहरणैश्चान्ये विचित्रस्रगलङ्कृताः ।
संग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः ॥८॥

क्वार्जुनः क्व स गोविन्दः क्व च मानी वृकोदरः ।
क्व च ते सुहृदस्तेषामाह्वयन्ते रणे तदा ॥९॥

क्व चेति चकार इत्यर्थे इत्याह्वयन्त इत्यन्वयः ॥९॥

ततः शंखमुपाध्माय त्वरयन् वाजिनः स्वयम् ।
इतस्ततस्तान् रचयन् द्रोणश्चरति वेगितः ॥१०॥

तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु ।
भारद्वाजो महाराज जयद्रथमथाब्रवीत् ॥११॥

त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः ।
अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा ॥१२॥

शतं चाश्वसहस्राणां रथानामयुतानि षट् ।
द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश ॥१३॥

पदातीनां सहस्राणि दंशितान्येकविंशतिः ।
गव्यूतिषु त्रिमात्रासु मामनासाद्य तिष्ठत ॥१४॥

त्रिमात्रासु त्रिसंख्यासु तिसृष्वित्यर्थः ॥१४॥

तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः ।
किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव ॥१५॥

एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः ।
संप्रायात् सह गान्धारैर्वृतस्तैश्च महारथैः ॥१६॥

वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः ।
चामरापीडिनः सर्वे जाम्बूनदविभूषिताः ॥१७॥

जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः ।
ते चैकसप्त साहस्रास्त्रिसाहस्राश्च सैन्धवाः ॥१८॥

मत्तानां सुविरुढानां हस्त्यारोहैर्विशारदैः ।
नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम् ॥१९॥

अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव ।
अग्रतः सर्वसैन्यानां युध्यमानो व्यवस्थितः ॥२०॥

ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ ।
सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ ॥२१॥

दीर्घो द्वादश गव्यूतिः पश्चार्धे पञ्च विस्तृतः ।
व्यूहस्तु चक्रशकटो भारद्वाजेन निर्मितः ॥२२॥

पश्चार्धे पश्चाद्भागे पञ्चगव्यूतिः चक्रशकटः चक्रगर्भः शकटः ॥२२॥

नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः ।
रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम् ॥२३॥

पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः ।
सूचीपद्मस्य गर्भस्थो गूढो व्यूहः कृतः पुनः ॥२४॥

एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः ।
सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः ॥२५॥

अनन्तरं च कांबोजो जलसन्धश्च मारिष ।
दुर्योधनश्च कर्णश्च तदनन्तरमेव च ॥२६॥

ततः शतसहस्राणि योधानामनिवर्तिनाम् ।
व्यवस्थितानि सर्वाणि शकटे मुखरक्षिणाम् ॥२७॥

तेषां च पृष्ठतो राजा बलेन महता वृतः ।
जयद्रथस्ततो राजा सूचीपार्श्वे व्यवस्थितः ॥२८॥

शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः ।
अनु तस्याभवद्भोजो जुगोपैनं ततः स्वयम् ॥२९॥

श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः ।
धनुर्विस्फारयन् द्रोणस्तस्थौ क्रुद्ध इवान्तकः ॥३०॥

पताकिनं शोणहयं वेदिकृष्णाजिनध्वजम् ।
द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन् ॥३१॥

सिद्धचारणसंघानां विस्मयः सुमहानभूत् ।
द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम् ॥३२॥

सशैलसागरवनां नानाजनपदाकुलाम् ।
ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे ॥३३॥

बहुरथमनुजाश्वपत्तिनागं प्रतिभयनिःस्वनमद्भुतानुरूपम् ।
अहितहृदयभेदनं मह‌द्वै शकटमवेक्ष्य कृतं ननन्द राजा ॥३४॥

अद्भुतानुरूपमाश्चर्यरूपमेतत्समययोग्यं च ॥३४॥
इति श्रीहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि कौरवव्यूहनिर्माणे सप्ताशीतितमोऽध्यायः ॥८७॥
अष्टाशीतितमोऽध्यायः

सञ्जय उवाच। ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष ।
ताड्यमानासु भेरीषु मृदंगेषु नदत्सु च ॥१॥

अनीकानां च संह्रादे वादित्राणां च निःस्वने ।
प्रध्मापितेषु शंखेषु सन्नादे लोमहर्षणे ॥२॥

अभिहारयत्सु शनकैर्मरतेषु युयुत्सुषु ।
रौद्रे मुहूर्ते संप्राप्ते सव्यसाची व्यदृश्यत ॥३॥

तत इति ॥१॥ अभिहारयत्सु सन्नह्यमानेषु अभियुज्यमानेषु वा प्रहरत्स्विति केचित् ॥३॥

बलानां वायसानां च पुरस्तात् सव्यसाचिनः ।
बहुलानि सहस्त्राणि प्राक्रीडंस्तत्र भारत ॥४॥

मृगाश्च घोरसंनादाः शिवाश्चाशिवदर्शनाः ।
दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा ॥५॥

सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः सहस्रशः ।
चचाल च मही कृत्स्ना भये घोरे समुत्थिते ॥६॥

विष्वग्वाताः सनिर्घाता रूक्षाः शर्करकर्षिणः ।
ववुरायाति कौन्तेये संग्रामे समुपस्थिते ॥७॥

नाकुलिश्च शतानीको धृष्टद्युम्नश्च पार्षतः ।
पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा ॥८॥

ततो रथसहस्त्रेण द्विरदानां शतेन च ।
त्रिभिरश्वसहस्त्रैश्च पदातीनां शतैः शतैः ॥९॥

शतैःशतैर्दशसहस्त्रैः ॥९॥

अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव ।
अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत् ॥१०॥

अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम् ।
अहमावारयिष्यामि वेलेव मकरालयम् ॥११॥

अद्य पश्यन्तु संग्रामे धनञ्जयममर्षणम् ।
विषक्तं मयि दुर्धर्षमश्मकूटमिवाश्मनि ॥१२॥

तिष्ठध्वं रथिनो यूयं संग्राममभिकांक्षिणः ।
युध्यामि संहतानेतान् यशो मानं च वर्धयन् ॥१३॥

एवं ब्रुवन्महाराज महात्मा स महामतिः ।
महेष्वासैर्वृतो राजन् महेष्वासो व्यवस्थितः ॥१४॥

ततोन्तक इव क्रुद्धः सवज्र इव वासवः ।
दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः ॥१५॥

शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव ।
युगान्ताग्निरिवार्चिष्मान्प्रधक्ष्यन्वै पुनः प्रजाः ॥१६॥

क्रोधामर्षबलोद्धूतो निवातकवचान्तकः ।
जयो जेता स्थितः सत्ये पारयिष्यन् महाव्रतम् ॥१७॥

जयो नाम्ना ॥१७॥

आमुक्तकवचः खड्गी जाम्बूनद‌किरीटभृत् ।
शुभ्रमाल्याम्बरधरः स्वंग‌श्चारुकुण्डलः ॥१८॥

रथप्रवरमास्थाय नरो नारायणानुगः ।
विधुन्वन् ‌गाण्डिवं संख्ये बभौ सूर्य इवोदितः ॥१९॥

सोग्रानीकस्य महत इषुपाते धनञ्जयः ।
व्यवस्थाप्य रथं राजञ्शंखं दध्मौ प्रतापवान् ॥२०॥

अथ कृष्णोऽप्यसंभ्रान्तः पार्थेन सह मारिष ।
प्राध्मापयत्पाञ्चजन्यं शंखप्रवरमोजसा ॥२१॥

तयोः शंखप्रणादेन तव सैन्ये विशांपते ।
आसन् संहृष्टरोमाणः कम्पिता गतचेतसः ॥२२॥

यथा त्रस्यन्ति भूतानि सर्वाण्यशनिनिःस्वनात् ।
तथा शंखप्रणादेन वित्रेसुस्तव सैनिकाः ॥२३॥

प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः ।
एवं सवाहनं सर्वमाविग्नमभवद्बलम् ॥२४॥

सीदन्ति स्म नरा राजन् शंखशब्देन मारिष ।
विसंज्ञाश्चाभवन्केचित् केचिद्राजन् वितत्रसुः ॥२५॥

ततः कपिर्महानादं सह भूतैर्ध्वजालवैः ।
अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान् ॥२६॥

ततः शंखाश्च भेर्यश्च मृदंगाश्चानकैः सह ।
पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः ॥२७॥

नानावदित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः ।
सिंहनादैः समुत्कृष्टैः समाधूतैर्महारथैः ॥२८॥

समाधूतैः सञ्चालितैः ॥२८॥

तस्मिंस्तु तुमुले शब्दे भीरूणां भयवर्धने ।
अतीव हृष्टो दाशार्हमब्रवीत् पाकशासनिः ॥२९॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि अर्जुनरणप्रवेशे अष्टाशीतितमोऽध्यायः ॥ ८८ ॥
एकोननवतितमोऽध्यायः

अर्जुन उवाच ।
चोदयाश्वान् हृषीकेश यत्र दुर्मर्षणः स्थितः ।
एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम् ॥१॥

चोदयाश्वानिति ॥१॥

सञ्जय उवाच। एवमुक्तो महाबाहुः केशवः सव्यसाचिना ।
अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः ॥२॥

स संप्रहारस्तुमुलः संप्रवृत्तः सुदारुणः ।
एकस्य च बहूनां च रथनागनरक्षयः ॥३॥

ततः सायकवर्षेण पर्जन्य इव वृष्टिमान् ।
परानवाकिरन् पार्थः पर्वतानिव नीरदः ॥४॥

ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत् ।
अवाकिरन् बाणजालैस्तत्र कृष्णधनञ्जयौ ॥५॥

ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि ।
शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः ॥६॥

उद्भ्रान्तनयनैर्वक्त्रैः संदष्टौष्ठपुटैः शुभैः ।
सकुंडलशिरस्त्राणैर्वसुधा समकीर्यत ॥७॥

पुण्डरीकवनानीव विध्वस्तानि समंततः ।
विनिकर्णानि योधानां वदनानि चकाशिरे ॥८॥

तपनीयतनुत्राणाः संसिक्ता रुधिरेण च ।
संसक्ता इव दृश्यन्ते मेघसंघाः सविद्युतः ॥९॥

शिरसां पततां राजन् शब्दोऽभूद्वसुधातले ।
कालेन परिपक्वानां तालानां पततामिव ॥१०॥

ततः कबन्धं किञ्चित्तु धनुरालम्ब्य तिष्ठति ।
किंचित् खड्गं विनिष्कृप्य भुजेनोद्यम्य तिष्ठति ॥११॥

पतितानि न जानन्ति शिरांसि पुरुषर्षभाः ।
अमृष्यमाणाः संग्रामे कौन्तेयं जयगृद्धिनः ॥१२॥

हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च भेदिनी ।
बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत ॥१३॥

अयं पार्थः कुतः पार्थ एष पार्थ इति प्रभो ।
तव सैन्येषु योधानां पार्थभूतमिवाभवत् ॥१४॥

अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे ।
पार्थभूतममन्यन्त जगत् कालेन मोहिताः ॥१५॥

निष्टनन्तः सरुधिरा विसंज्ञा गाढवेदनाः ।
शयाना बहवो वीराः कीर्तयन्तः स्वबांधवान् ॥१६॥

सभिंदिपालाः सप्रासाः सशक्त्यृष्टिपरश्वधाः ।
सनिर्व्यूहाः सनिस्त्रिंशाः सशरासनतोमराः ॥२७॥

सबाणवर्माभरणाः सगदाः साङ्गदा रणे ।
महाभुजगसंकाशा बाहवः परिघोपमाः ॥१८॥

उद्वेषन्ति विचेष्टन्ति संचेष्टन्ति च सर्वशः ।
वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः ॥१९॥

यो यः स्म समरे पार्थं प्रतिसंचरते नरः ।
तस्य तस्यान्तको बाणः शरीरमुपसर्पति ॥२०॥

प्रतिसंचरते प्रत्युद्गच्छति ॥२०॥

नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा ।
न कश्चित्तत्र पार्थस्य ददृशेऽन्तरमण्वपि ॥२१॥

यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान् ।
लाघवात् पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः ॥२२॥

यत्तस्य अवहितस्य ॥२२॥

हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च ।
अभिनत् फाल्गुनो बाणौ रथिनं च ससारथिम् ॥२३॥

आवर्तमानमावृत्तं युध्यमानं च पाण्डवः ।
प्रमुखे तिष्ठमानं च न किञ्चिन्न निहन्ति सः ॥२४॥

यथोदयन् वै गगने सूर्यो हन्ति महत्तमः ।
तथाऽर्जुनो गजानीकमवधीत् कङ्कपत्रिभिः ॥२५॥

हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत ।
अन्तकाले यथा भूमिर्व्यवकीर्णा महीधरैः ॥२६॥

यथा मध्यन्दिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा ।
तथा धनञ्जयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः ॥२७॥

तत्तथा तव पुत्रस्य सैन्यं युधि परंतप ।
प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम् ॥२८॥

द्रुतं विद्रुतम् । आविग्नं भीतम् ॥२८॥

मारुतेनेव महता मेघानीकं व्यदीर्यत ।
प्रकाल्यमानं तत् सैन्यं नाशकत् प्रतिवीक्षितुम् ॥२९॥

प्रतोदैश्चापकोटीभिर्हुङ्कारैः साधुवाहितैः ।
कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च ॥३०॥

साधुवाहितैः सुष्ठुव्यापारितैः ॥३०॥

चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः ।
सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः ॥३१॥

पार्ष्ण्यंगुष्ठांकुशैर्नागं चोदयन्तस्तथा परे ।
शरैः संमोहिताश्चान्ये तमेवाभिमुखा ययुः ॥ तव योधा हतोत्साहा विभ्रान्तमनसस्तदा ॥३२॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि अर्जुनयुद्धे एकोननवतितमोऽध्यायः ॥ ८९ ॥
नवतितमोऽध्यायः

धृतराष्ट्र उवाच। तस्मिन् प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना ।
के तु तत्र रणे वीराः प्रत्युदीयुर्धनञ्जयम् ॥१॥

तस्मिन्निति ॥१॥

आहोस्विच्छकटव्यूहं प्रविष्टा मेघनिश्चयाः ।
द्रोणमाश्रित्य तिष्ठन्तं प्राकारमकुतोभयम् ॥२॥

सञ्जय उवाच। तथाऽर्जुनेन संभग्ने तस्मिस्तव बलेऽनघ ।
हतवीरे हतोत्साहे पलायनकृतक्षणे ॥३॥

पलायने कृतः क्षणोऽवसरो येन ॥३॥

पाकशासनिनाऽभीक्ष्णं वध्यमाने शरोत्तमैः ।
न तत्र कश्चित्संग्रामे शशाकार्जुनमीक्षितुम् ॥४॥

ततस्तव सुतो राजन् दृष्ट्वा सैन्यं तथागतम् ।
दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्यगात् ॥५॥

स काञ्चनविचित्रेण कवचेन समावृतः ।
जाम्बूनद‌शिरस्त्राणः शूरस्तीव्रपराक्रमः ॥६॥

नागानीकेन महता ग्रसन्निव महीमिमाम् ।
दुःशासनो महाराज सव्यसाचिनमावृणोत् ॥७॥

ह्रादेन गजघण्टानां शंखानां निनदेन च ।
ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनामा ॥८॥

भूर्दिशश्चान्तरिक्षं च शब्देनासीत् समावृतम् ।
स मुहूर्तं प्रतिभयो दारुणः समपद्यत ॥९॥

प्रतिभयो भयङ्करः दारुणः क्रूरः ॥९॥

तान् दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान् ।
व्यालम्बहस्तान् संरब्धान् सपक्षानिव पर्वतान् ॥१०॥

सिंहनादेन महता नरसिंहो धनञ्जयः ।
गजानीकममित्राणामभीतो व्यधमच्छरैः ॥११॥

महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम् ।
किरीटी तद्गजानीकं प्राविशन्मकरो यथा ॥१२॥

काष्ठातीत इवादित्यः प्रतपन् स युगक्षये ।
ददृशे दिक्षु सर्वासु पार्थः परपुरञ्जयः ॥१३॥

काष्ठातीतोऽतिक्रान्तदिङ्नियमः ॥१३॥

खुरशब्देन चाश्वानां नेमिघोषेण तेन च ।
तेन चोत्कृष्टशब्देन ज्यानिनादेन तेन च ॥१४॥

नानावादित्रशब्देन पाञ्चजन्यस्वनेन च ।
देवदत्तस्य घोषेण गाण्डीवनिनदेन च ॥१५॥

मन्दवेगा नरा नागा बभूवुस्ते विचेतसः ।
शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना ॥१६॥

ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः ।
अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः ॥१७॥

आरावं परमं कृत्वा वध्यमानाः किरीटिना ।
निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः ॥१८॥

अपरे दन्तवेष्टेषु कुंभेषु च कटेषु च ।
शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः ॥१९॥

दन्तवेष्टेषु दन्तमूलेषु कटेषु कटिषु ॥१९॥

गजस्कन्धगतानां च पुरुषाणां किरीटिना ।
च्छिद्यन्ते चोत्तमाङ्गानि भल्लैः सन्नतपर्वभिः ॥२०॥

सकुण्डलानां पततां शिरसां धरणीतले ।
पद्मानामिव संघातैः पार्थश्चक्रे निवेदनम् ॥२१॥

निवेशनमुपाहारम् ॥२१॥

यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः ।
भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे ॥२२॥

यन्त्रबद्धा यन्त्रैरालिखिताः ॥२२॥

केचिदेकेन बाणेन सुयुक्तेन सुपत्रिणा ।
द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले ॥२३॥

अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः ।
सारोहा न्यपतन् भूमौ द्रुमवन्त इवाचलाः ॥२४॥

मौर्वीं ध्वजं धनुश्चैव युगमीषां तथैव च ।
रथिनां कुट्टयामास भल्लैः सन्नतपर्वभिः ॥२५॥

न संदधन्न चाकर्षन्न विमुञ्चन्न चोद्वहन् ।
मण्डलेनैव धनुषा नुत्यन् पार्थः स्म दृश्यते ॥२६॥

अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः ।
मुहूर्तान्न्यपतन्नन्ये वारणा वसुधातले ॥२७॥

उत्थितान्यगणेयानि कबन्धानि समन्ततः ।
अदृश्यन्त महाराज तस्मिन् परमसंकुले ॥२८॥

सचापाः सांगुलित्राणाः सखड्गाः साङ्गदा रणे ।
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥२९॥

सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ।
चकैर्विमथितैरक्षैर्भग्नैश्च बहुधा युगैः ॥३०॥

चर्मचापधरैश्चैव व्यवकीर्णैस्ततस्ततः ।
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ॥३१॥

निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः ।
अदृश्यत मही तत्र दारुणप्रतिदर्शना ॥३२॥

एवं दुःशासनबलं वध्यमानं किरीटिना ।
संप्राद्रवन्महाराज व्यथितं सहनायकम् ॥३३॥

ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः ।
द्रोणं त्रातारमाकांक्षन् शकटव्यूहमभ्यगात् ॥३४॥

इति श्रीमहामारते द्रोणपर्वणि जयद्रथवधपर्वणि दुःशासनसैन्यपराभवे नवतितमोऽध्यायः ॥ ९० ॥
एकनवतितमोऽध्यायः

सञ्जय उवाच। दुःशासनबलं हत्वा सव्यसाची महारथः ।
सिन्धुराजं परीप्सन् वै द्रोणानीकमुपाद्रवत् ॥१॥

दुःशासनेति ॥१॥

स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम् ।
कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत् ॥२॥

शिवेन ध्याहि मां ब्रह्मन् स्वस्ति चैव वदस्व मे ।
भवत्प्रसादादिच्छामि प्रवेष्टुं दुर्भिदां चमूम् ॥३॥

भवान् पितृसमो मह्यं धर्मराजसमोऽपि च ।
तथा कृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते ॥४॥

अश्वत्थामा यथा तात रक्षणीयस्त्वयाऽनघ ।
तथाहमपि ते रक्ष्यः सदैव द्विजसत्तम ॥५॥

तव प्रसादादिच्छेयं सिन्धुराजानमाहवे ।
निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे प्रभो ॥६॥

सञ्जय उवाच। एवमुक्तस्तदाचार्यः प्रत्युवाच स्मयन्निव ।
मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः ॥७॥

एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत् ।
सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम् ॥८॥

ततोऽर्जुनः शरव्रातान् द्रोणस्यावार्य सायकैः ।
द्रोणमभ्यद्रवद्बाणैर्घोररूपैर्महत्तरैः ॥९॥

विव्याध चरणे द्रोणमनुमान्य विशाम्पते ।
क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः ॥१०॥

तस्येषूनिषुभिश्छित्वा द्रोणो विव्याध तावुभौ ।
वियग्निज्वलितप्रख्यैरिषुभिः कृष्णपाण्डवौ ॥११॥

इयेष पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम् ।
तस्य चिन्तयतस्त्वेवं फाल्गुनस्य महात्मनः ॥१२॥

द्रोणः शरैरसम्भ्रान्तो ज्यां चिच्छेदाशु वीर्यवान् ।
विव्याध च हयानस्य ध्वजं सारथिमेव च ॥१३॥

अर्जुनं च शरैर्वीरः स्मयमानोऽभ्यवाकिरत् ।
एतस्मिन्नन्तरे पार्थः सज्यं कृत्वा महद्धनुः ॥१४॥

विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरः ।
मुमोच षट्शतान् बाणान् गृहीत्वैकमिव द्रुतम् ॥१५॥

पुनः सप्तशतानन्यान् सहस्रं चानिवर्तिनः ।
चिक्षेपायुतशश्चान्यांस्ते घ्नन् द्रोणस्य तां चमूम् ॥१६॥

तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना ।
मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः ॥१७॥

विसूताश्वध्वजाः पेतुः सञ्छिन्नायुधजीविताः ।
रथिनो रथमुख्येभ्यः सहसा शरपीडिताः ॥१८॥

चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः ।
तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम् ॥१९॥

गिर्यग्राम्बुदवेश्मनां वज्रानिलहुताशनैः चूर्णिताक्षिप्तदग्धानाम् इति यथासंख्यनान्वयः ॥१९॥

पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः ।
हंसा हिमवतः पृष्ठे वारिधिप्रहता इव ॥२०॥

रथाश्वद्विपपत्त्योधाः सलिलौघा इवाद्भुताः ।
युगान्तादित्यरश्म्याभैः पाण्डवास्त्रशरैर्हताः ॥२१॥

तं पाण्डवादित्यशरांशुजालं कुरुप्रवीरान् युधि निष्टपन्तम् ।
स द्रोणमेघः शरवृष्टिवेगैः प्राच्छादयन्मेघ इवार्करश्मीन् ॥२२॥

अथात्यर्थं विसृष्टेन द्विषतामसुभोजिना ।
आजघ्ने वक्षसि द्रोणो नाराचेन धनञ्जयम् ॥२३॥

स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः ।
धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः ॥२४॥

द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत् ।
अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः ॥२५॥

विशेषयिष्यन् शिष्यं च द्रोणो राजन् पराक्रमी ।
अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः ॥२६॥

प्रसक्तान् पततोऽद्राक्ष्म भारद्वाजस्य सायकान् ।
मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम् ॥२७॥

तेऽभ्ययुः समरे राजन् वासुदेवधनञ्जयौ ।
द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः ॥२८॥

तद्दृष्ट्वा तादृशं युद्धं द्रोणपाण्डवयोस्तदा ।
वासुदेवो महाबुद्धिः कार्यवत्तामचिन्तयत् ॥२९॥

कार्यवत्तां कृत्यबाहुल्यम् ॥२९॥

ततोऽब्रवीद्वासुदेवो धनञ्जयमिदं वचः ।
पार्थ पार्थ महाबाहो न नः कालात्ययो भवेत् ॥३०॥

द्रोणमुत्सृज्य गच्छामः कृत्यमेतन्महत्तरम् ।
पार्थश्चाप्यब्रवीत् कृष्णं यथेष्टमिति केशवम् ॥३१॥

ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजम् ।
परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान् ॥३२॥

ततोऽब्रवीत् स्वयं द्रोणः क्वेदं पाण्डव गम्यते ।
ननु नाम रणे शत्रुमजित्वा न निवर्तसे ॥३३॥

अर्जुन उवाच। गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते ।
न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजयेत् ॥३४॥

सञ्जय उवाच। एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः ।
त्वरायुक्तो महाबाहुस्त्वत्सैन्यं समुपाद्रवत् ॥३५॥

तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
अन्वयातां महात्मानौ विशन्तं तावकं बलम् ॥३६॥

ततो जयो महाराज कृतवर्मा च सात्वतः ।
काम्बोजश्च श्रुतायुश्च धनञ्जयमवारयन् ॥३७॥

तेषां दश सहस्राणि रथानामनुयायिनाम् ।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥३८॥

मावेल्लका ललित्थाश्च केकया मद्रकास्तथा ।
नारायणाश्च गोपालाः काम्बोजानां च ये गणाः ॥३९॥

कर्णेन विजिताः पूर्वं सङ्ग्रामे शूरसंमताः ।
भारद्वाजं पुरस्कृत्य हृष्टात्मानोऽर्जुनं प्रति ॥४०॥

पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम् ।
त्यजन्तं तुमुले प्राणान् सन्नद्धं चित्रयोधिनम् ॥४१॥

गाहमानमनीकानि मातङ्गमिव यूथपम् ।
महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन् ॥४२॥

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।
अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च ॥४३॥

जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम् ।
न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितम् ॥४४॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि द्रोणातिक्रमे एकनवतितमोऽध्यायः ॥ ९१ ॥
द्विनवतितमोऽध्यायः

सञ्जय उवाच। सन्निरुद्धस्तु तैः पार्थो महाबलपराक्रमः ।
द्रुतं समनुयातश्च द्रोणेन रथिनां वरः ॥१॥

सन्निरुद्ध इति ॥१॥

किरन्निषुगणांस्तीक्ष्णान् स रश्मीनिव भास्करः ।
तापयामास तत् सैन्यं देहं व्याधिगणो यथा ॥२॥

अश्वो विद्धो रथश्छिन्नः सारोहः पातितो गजः ।
छत्राणि चापविद्धानि रथाश्चक्रैर्विना कुताः ॥३॥

विद्रुतानि च सैन्यानि शरार्तानि समन्ततः ।
इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन ॥४॥

तेषां संयच्छतां सङ्ख्ये परस्परमजिह्मगैः ।
अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् ॥५॥

तेषां संयच्छतां विधारयताम् ॥५॥

सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसङ्गरः ।
अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः ॥६॥

तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः ।
अन्तेवासिनमाचार्यो महेष्वासं समार्पयत् ॥७॥

तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः ।
अभ्यधावदिषूनस्यन्निषुवेगविघातकान् ॥८॥

तस्याशुक्षिप्तान् भल्लाह्नि भल्लैः सन्नतपर्वभिः ।
प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् ॥९॥

तद‌द्भुतमपश्याम द्रोणस्याचार्यकं युधि ।
यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः ॥१०॥

आचार्यकं शिक्षाम् ॥१०॥

क्षरन्निव महामेघो वारिधाराः सहस्रशः ।
द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः ॥११॥

अर्जुनः शरवर्षं तद्ब्रह्मास्त्रेणैव मारिष ।
प्रतिजग्राह तेजस्वी बाणैर्बाणान्निशातयन् ॥१२॥

द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत् ।
वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः ॥१३॥

पार्थस्तु प्रहसन् धीमानाचार्यं सशरौघिणम् ।
विसृजन्तं शितान्‌ बाणानवारयत तं युधि ॥१४॥

अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ ।
आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् ॥१५॥

वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान् ।
किरीटमाली कौन्तेयो भोजानीकं व्यशातयत् ॥१६॥

सोन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम् ।
अभ्ययाद्वर्जयन् द्रोणं मैनाकमिव पर्वतम् ॥१७॥

ततो भोजो नरव्याघ्रो दुर्धर्षं कुरुसत्तमम् ।
अविध्यत् तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः ॥१८॥

तमर्जुनः शतेनाजौ राजन् विव्याध पत्रिणां ।
पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम् ॥१९॥

भोजस्तु प्रहसन् पार्थं वासुदेवं च माधवम् ।
एकैकं पञ्चविंशत्या सायकानां समार्पयत् ॥२०॥

तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः ।
शरैरग्निशिखाकारैः क्रुद्धाशीविषसन्निभैः ॥२१॥

अथान्यद्धनुरादाय कृतवर्मा महारथः ।
पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत ॥२२॥

पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः ।
तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे ॥२३॥

दृष्ट्वा विषक्तं कौन्तेयं कृतवर्मरथं प्रति ।
चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् ॥२४॥

ततः कृष्णोऽब्रवीत् पार्थं कृतवर्मणि मा दयाम् ।
कुरु सम्बन्धकं हित्वा प्रमथ्यैनं विशातय ॥२५॥

ततः स कृतवर्माणं मोहयित्वाऽर्जुनः शरैः ।
अभ्यगाज्जवनैरश्वैः काम्बोजानामनीकिनीम् ॥२६॥

अमर्षितस्तु हार्दिक्यः प्रविष्टे श्वेतवाहने ।
विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः ॥२७॥

चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ ।
पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः ॥२८॥

रथेषुभिः अदूरस्थायिभिर्बाणैः ॥२८॥

तावविध्यत्ततो भोजः कृतवर्मा शितैः शरैः ।
त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम् ॥२९॥

तावप्येनं विविधतुर्दशभिर्दशभिः शरैः ।
त्रिभिरेव युधामन्युरुत्तमौजास्त्रिभिस्तथा ॥३०॥

सञ्चिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च ।
अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्छितः ॥३१॥

कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् ।
तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः ॥३२॥

तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम् ।
न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा ॥३३॥

धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ ।
अनीकान्यर्दयन् युद्धे त्वरितः श्वेतवाहनः ॥३४॥

नावधीत् कृतवर्माणं प्राप्तमप्यरिषूदनः ।
तं दृष्ट्वा तु तथा यान्तं शूरो राजा श्रुतायुधः ॥३५॥

अभ्यद्रवत्सुसङ्क्रुद्धो विधुन्वानो महद्धनुः ।
स पार्थं त्रिभिरानर्छत् सप्तत्या च जनार्दनम् ॥३६॥

क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत् ।
ततोऽर्जुनो नवत्या तु शराणां नतपर्वणाम् ॥३७॥

आजघान भृशं क्रुद्धस्तोत्रैरिव महाद्विपम् ।
स तन्न ममृषे राजन् पाण्डवेयस्य विक्रमम् ॥३८॥

अथैनं सप्तसप्तत्या नाराचानां समार्पयत् ।
तस्यार्जुनो धनुश्छित्वा शरावापं निकृत्य च ॥३९॥

आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः ।
अथान्यद्धनुरादाय स राजा क्रोधमूर्च्छितः ॥४०॥

वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत् ।
ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिन्दमः ॥४१॥

शरैरनेकसाहस्रैः पीडयामास भारत ।
अश्वांश्चास्यावधीस्तूर्णं सारथिं च महारथः ॥४२॥

विव्याध चैनं सप्तत्या नाराचानां महाबलः ।
हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः ॥४३॥

अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान् ।
वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः ॥४४॥

पर्णाशा जननी यस्य शीततोया महानदी ।
तस्य माताऽब्रवीद्राजन् वरुणं पुत्रकारणात् ॥४५॥

अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम ।
वरुणस्त्वब्रवीत् प्रीतो ददाम्यस्मै वरं हितम् ॥४६॥

दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति ।
नास्ति चाप्यमरत्वं वै मनुष्यस्य कथञ्चन ॥४७॥

सर्वेणावश्यमर्तव्यं जातेन सरितां वरे ।
दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा ॥४८॥

अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः ।
इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम् ॥४९॥

यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः ।
उवाच चैनं भगवान् पुनरेव जलेश्वरः ॥५०॥

अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति ।
हन्यादेषा प्रतीपं हि प्रयोक्तारमपि प्रभो ॥५१॥

न चाकरोत् स तद्वाक्यं प्राप्ते काले श्रुतायुधः ।
स तया वीरघातिन्या जनार्दनमताडयत् ॥५२॥

प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान् ।
नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः ॥५३॥

प्रत्युद्यान्ती तमेवैषा कृत्येव दुरधिष्ठिता ।
जघान चास्थितं वीरं श्रुतायुधममर्षणम् ॥५४॥

कृत्या अभिचारदेवता ॥५४॥

हत्वा श्रुतायुधं वीरं धरणीमन्वपद्यत ।
गदां निवर्तितां दृष्ट्वा निहतं च श्रुतायुधम् ॥५५॥

हाहाकारो महांस्तत्र सैन्यानां समजायत ।
स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिन्दमम् ॥५६॥

अयुध्यमानाय ततः केशवाय नराधिप ।
क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा ॥५७॥

यथोक्तं वरुणेनाजौ तथा स निधनं गतः ।
व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् ॥५८॥

पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः ।
स भग्न इव वातेन बहुशाखो वनस्पतिः॥५९॥

ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः ।
प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिन्दमम् ॥६०॥

ततः काम्बोजराजस्य पुत्रः शूरः सुदक्षिणः ।
अभ्ययाज्जवनैरश्वैः फाल्गुनं शत्रुसूदनम् ॥६१॥

तस्य पार्थः शरान् सप्त प्रेषयामास भारत ।
ते तं शूरं विनिर्भिद्य प्राविशन् धरणीतलम् ॥६२॥

सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे ।
अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः ॥६३॥

वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः ।
तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष ॥६४॥

भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः ।
स तु पार्थं त्रिभिर्विद्ध्वा सिंहनाद‌मथानदत् ॥६५॥

सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः ।
स घण्टां प्राहिणोद्धोरां क्रुद्धो गाण्डीवधन्वने ॥६६॥

सा ज्वलन्ती महोल्केव तमासाद्य महारथम् ।
सविस्फुलिङ्गा निर्भिद्य निपपात महीतले ॥६७॥

शक्त्या त्वभिहतो गाढं मूर्च्छयाऽभिपरिप्लुतः ।
समाश्वास्य महातेजाः सृक्किणी परिलेलिहन् ॥६८॥

तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः ।
साश्वध्वजधनुःसूतां विव्याधाचिन्त्यविक्रमः ॥६९॥

रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः ।
सुदक्षिणं तं काम्बोजं मोघसङ्कल्पविक्रमम् ॥७०॥

बिभेद हृदि बाणेन पृथुधारेण पाण्डवः ।
स भिन्नवर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः ॥७१॥

पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः ।
गिरेः शिखरजः श्रीमान् सुशाखः सुप्रतिष्ठितः ॥७२॥

ध्वजः शक्रध्वाजः ॥७२॥

निर्भग्न इव वातेन कर्णिकारो हिमात्यये ।
शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः ॥७३॥

महार्हाभरणोपेतः सानुमानिव पर्वतः ।
सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः ॥७४॥

पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः ।
धारयन्नग्निसङ्काशां शिरसा काञ्चनीं स्रजम् ॥७५॥

अशोभत महाबाहुर्व्यसुर्भूमौ निपातितः ।
ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते ।
हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम्‌ ॥७६॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि श्रुतायुधसुदक्षिणवधे द्विनवतितमोऽध्यायः ॥ ९२ ॥
त्रिनवतितमोऽध्यायः

सञ्जय उवाच। हते सुदक्षिणे राजन् वीरे चैव श्रुतायुधे ।
जवेनाभ्यद्रवन् पार्थं कुपिताः सैनिकास्तव ॥१॥

हते इति ॥१॥

अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ।
अभ्यवर्षंस्ततो राजन् शरवर्षैर्धनञ्जयम् ॥२॥

तेषां षष्टिशतानन्यान् प्रामथ्नात् पाण्डवः शरैः ।
ते स्म भीताः पलायन्ते व्याघ्रात् क्षुद्रमृगा इव ॥३॥

ते निवृत्ताः पुनः पार्थं सर्वतः पर्यवारयन् ।
रणे सपत्नान्निघ्नन्तं जिगीषन्तं परान् युधि ॥४॥

तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः ।
शिरांसि पातयामास बाहूंश्चापि धनञ्जयः ॥५॥

शिरोभिः पातितैस्तत्र भूमिरासीन्निरन्तरा ।
अभ्रच्छायेव चैवासीत् ध्वांक्षगृध्रबलैर्युधि ॥६॥

तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ ।
श्रुतायुश्चाच्युतायुश्च धनञ्जयमयुध्यताम् ॥७॥

बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ ।
तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् ॥८॥

त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः ।
अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ ॥९॥

तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् ।
पूरयामासतुः क्रुद्धौ तटागं जलदौ यथा ॥१०॥

श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनञ्जयम् ।
आजघान रथश्रेष्ठः पीतेन निशितेन च ॥११॥

सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः ।
जगाम परमं मोहं मोहयन् केशवं रणे ॥१२॥

एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः ।
शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम् ॥१३॥

क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः ।
पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः ॥१४॥

ततः सर्वस्य सैन्यस्य तावकस्य विशाम्पते ।
सिंहनादो महानासीद्धतं मत्वा धनञ्जयम् ॥१५॥

कृष्णश्च भृशसन्तप्तो दृष्टा पार्थं विचेतनम् ।
आश्वासयत्सु हृद्याभिर्वाग्भिस्तत्र धनञ्जयम् ॥१६॥

ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनञ्जयम् ।
वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः ॥१७॥

स चक्रकूबररथं साश्वध्वजपताकिनम् ।
अदृश्यं चक्रतुर्युद्धे तद‌द्भुतमिवाभवत् ॥१८॥

प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत ।
प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा ॥१९॥

सञ्छन्नं शरजालेन रथं दृष्ट्वा सकेशवम् ।
शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ ॥२०॥

प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः ।
तस्मादासन् सहस्राणि शराणां नतपर्वणाम् ॥२१॥

ते जघ्नुस्तौ महेष्वासौ ताभ्यां मुक्तांश्च सायकान् ।
विचेरुराकाशगताः पार्थबाणविदारिताः ॥२२॥

विचेरुरित्यत्र ताभ्यां युक्तांश्च सायकानिति प्रथमान्ततयाऽनुपठ्यते ॥२२॥

प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः ।
प्रतस्थे तत्र तत्रैव योधयन् वै महारथान् ॥२३॥

तौ च फाल्गुनबाणौघैर्विबाहुशिरसौ कृतौ ।
वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ ॥२४॥

श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः ।
लोकविस्मापनमभूत्समुद्रस्येव शोषणम् ॥२५॥

तयोः पदानुगान् हत्वा पुनः पञ्चाशतं रथान् ।
प्रत्यगाद्भारतीं सेनां निघ्नन् पार्थो वरान् वरान् ॥२६॥

श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम् ।
नियतायुश्च सङ्क्रुद्धो दीर्घायुश्चैव भारत ॥२७॥

पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः ।
किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ ॥२८॥

तावर्जुनो मुहूर्तेन शरैः सन्नतपर्वभिः ।
प्रैषयत् परमक्रुद्धो यमस्य सदनं प्रति ॥२९॥

लोडयन्तमनीकानि द्विपं पद्मसरो यथा ।
नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुङ्गवाः ॥३०॥

अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन् ।
क्रुद्धाः सहस्रशो राजन् शिक्षिता हस्तिसादिनः ॥३१॥

दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः ।
प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः ॥३२॥

तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः ।
निचकर्त शिरांस्युग्रो बाहूनपि सुभूषणान् ॥३३॥

तैः शिरोभिर्मही कीर्णां बाहुभिश्च सहाङ्गदैः ।
बभौ कनकपाषाणा भुजगैरिव संवृता ॥३४॥

बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च ।
पतमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः ॥३५॥

शरैः सहस्रशो विद्धा द्विपाः प्रसृतशोणिताः ।
अदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव ॥३६॥

निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः ।
गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः ॥३७॥

नानावेषधरा राजन् नानाशस्त्रौघसंवृताः ।
रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः ॥३८॥

शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः ।
सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः ॥३९॥

चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः ।
भृशं त्रस्ताश्च बहवः स्वानेव ममृदुर्गजाः ॥४०॥

सान्तरायुधिनश्चैव द्विपांस्तीक्ष्णविषोपमाः ।
विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः ॥४१॥

यवनाः पारदाश्चैव शकाश्च सह बाह्लिकैः ।
काकवर्णा दुराचाराः स्त्रीलोलाः कलहप्रियाः ॥४२॥

द्राविडास्तत्र युध्यन्ते मत्तमातङ्गविक्रमाः ।
गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः ॥४३॥

गोयोनिप्रभवा नन्दिन्यां जाताः ॥४३॥

दार्वातिसारा दरदाः पुण्ड्राश्चैव सहस्रशः ।
ते न शक्याः स्म सङ्ख्यातुं व्राताः शतसहस्रशः ॥४४॥

अभ्यवर्षन्त ते सर्वे पाण्डवं निशितैः शरैः ।
अवाकिरंश्च ते म्लेच्छा नानायुद्धविशारदाः ॥४५॥

तेषामपि ससर्जाशु शरवृष्टिं धनञ्जयः ।
सृष्टिस्तथाविधाह्यासीच्छलभानामिवायतिः ॥४६॥

सृष्टिः संसृष्टिः ॥४६॥

अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनञ्जयः ।
मुण्डार्धमुण्डाञ्जटिलानशुचीञ्जटिलाननान् ॥४७॥

जटिलाननान् जटिलानि रूढश्मश्रूण्याननानि येषाम् ॥४७॥

म्लेच्छानशातयत्सर्वान् समेतानस्त्रतेजसा ।
शरैश्च शतशो विद्धास्ते सङ्घा गिरिचारिणः ।
प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः ॥४८॥

गजाश्वसादिम्लेच्छानां पतितानां शितै शरैः ।
बकाः कङ्का वृका भूमावपिबन् रुधिरं मुदा ।
पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसङ्क्रमाम् ॥४९॥

प्रच्छन्नेन प्रच्छादनेन कृतो रचितः संक्रमो यस्याम् ॥४९॥

शरवर्षप्लवां घोरां केशशैवलशाद्वलाम् ।
प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम् ॥५०॥

छिन्नाङ्गुलीक्षुद्रमत्स्यां युगान्ते कालसन्निभाम् ।
प्राकरोद्गजसम्बाधां नदीमुत्तरशोणिताम् ॥५१॥

उत्तरशोणितां शोणितप्रधानाम् ॥५१॥

देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् ।
यथास्थलं च निम्नं च न स्याद्वर्षति वासवे ॥५२॥

तथासीत् पृथिवी सर्वां शोणितेन परिप्लुता ।
षट्सहस्त्राह्नयान्वीरान् पुनर्दशशतान् वरान् ॥५३॥

हयान् अश्वारोहान् ॥५३॥

प्राहिणोन्मृत्युलोकाय क्षत्रियान् क्षत्रियर्षभः ।
शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः ॥५४॥

शेरते भूमिमासाद्य शैला वज्रहता इव ।
सवाजिरथमातङ्गान्निघ्नन् व्यचरदर्जुनः ॥५५॥

प्रभिन्न इव मातङ्गो मृद्नन्नलवनं यथा ।
भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम् ॥५६॥

निर्दहेदनलोऽरण्यं यथा वायुसमीरितः ।
सेनारण्यं तव तथा कृष्णानिलसमीरितः ॥५७॥

शरार्चिरदहत् क्रुद्धः पाण्डवाग्निर्धनञ्जयः ।
शून्यान् कुर्वन् रथोपस्थान् मानवैः संस्तरन् महीम् ॥५८॥

प्रानृत्यदिव सम्बाधे चापहस्तो धनञ्जयः ।
वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम् ॥५९॥

प्राविशद्भारतीं सेनां सङ्क्रुद्धो वै धनञ्जयः ।
तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत् ॥६०॥

तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ।
न्यपातयद्धयान् शीघ्रं यतमानस्य मारिष ॥६१॥

धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे ।
अम्बष्ठस्तु गदां गृह्य कोपपर्याकुलेक्षणः ॥६२॥

आससाद रणे पार्थं केशवं च महारथम् ।
ततः सम्प्रहरन् वीरो गदामुद्यम्य भारत॥६३॥

रथमावार्य गदया केशवं समताडयत् ।
गदया ताडितं दृष्ट्वा केशवं परवीरहा ॥६४॥

अर्जुनोऽथ भृशं क्रुद्धः सोम्बष्ठं प्रति भारत ।
ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम् ॥६५॥

छा‌दयामास समरे मेघः सूर्यमिवोदितम् ।
अथापरैः शरैश्चापि गदां तस्य महात्मनः ॥६६॥

अचूर्णयत् तदा पार्थस्तद‌द्भुतमिवाभवत् ।
अथ तां पतितां दृष्ट्वा गृह्यान्यां च महागदाम् ॥६७॥

अर्जुनं वासुदेवं च पुनः पुनरताडयत् ।
तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ ॥६८॥

चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा ।
स पपात हतो राजन् वसुधामनुनादयन् ॥३९॥

इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः ।
रथानीकावगाढश्च वारणाश्वशतैर्वृतः ।
अदृश्यत तदा पार्थो घनैः सूर्य इवावृतः ॥५७॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि अम्बष्ठवधे त्रिनवतितमोऽध्यायः ॥ ९३ ॥
चतुर्नवतितमोऽध्यायः

सञ्जय उवाच। ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया ।
द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम् ॥१॥

तत इति ॥१॥

काम्बोजस्य च दायादे हते राजन् सुदक्षिणे ।
श्रुतायुधे च विक्रान्ते निहते सव्यसाचिना ॥२॥

विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः ।
प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात् ॥३॥

त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत् ।
गतः स पुरुषव्याघ्रः प्रमथ्यैतां महाचमूम् ॥४॥

अथ बुद्ध्या समीक्षस्व किन्नु कार्यमनन्तरम् ।
अर्जुनस्य विघाताय दारुणेऽस्मिन् जनक्षये ॥५॥

यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः ।
तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः ॥६॥

असौ धनञ्जयाग्निर्हि कोपमारुतचोदितः ।
सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः ॥७॥

अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परन्तप ।
जयद्रथस्य गोप्तारः संशयं परमं गताः ॥८॥

स्थिरा बुद्धिर्नरेन्द्राणामासीद्ब्रह्मविदां वर ।
नातिक्रमिष्यति द्रोणं जातु जीवं धनञ्जयः ॥९॥

योऽसौ पार्थो व्यतिक्रान्तो मिषतस्ते महाद्युते ।
सर्वं ह्यद्यातुरं मन्ये नेदमस्ति बलं मम ॥१०॥

आतुरमनवस्थितम् ॥१०॥

जानामि त्वां महाभाग पाण्डवानां हिते रतम् ।
तथा मुह्यामि च ब्रह्मन् कार्यवत्तां विचिन्तयन् ॥११॥

यथाशक्ति च ते ब्रह्मन् वर्तये वृत्तिमुत्तमाम् ।
प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे ॥१२॥

नावबुध्यसे न स्मरसि ॥१२॥

अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम ।
पाण्डवान् सततं प्रीणास्यस्माकं विप्रिये रतान् ॥१३॥

नेच्छसि नानुरुध्यसे ॥१३॥

अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः ।
न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम् ॥१४॥

नादास्यच्चेद्वरं मह्यं भवान् पाण्डवनिग्रहे ।
नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान् ॥१५॥

मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना ।
आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे ॥१६॥

यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः ।
नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः ॥१७॥

स तथा कुरु शोणाश्व यथा मुच्येत सैन्धवः ।
मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम् ॥१८॥

द्रोण उवाच। नाभ्यसूयामि ते वाक्यमश्वत्थाम्नाऽसि मे समः ।
सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशाम्पते ॥१९॥

सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः ।
अल्पं च विवरं कृत्वा तूर्णं याति धनञ्जयः ॥२०॥

किं न पश्यसि बाणौघान् क्रोशमात्रे किरीटिनः ।
पश्चाद्रथस्य पतितान् क्षिप्ताञ्शीघ्रं हि गच्छतः ॥२१॥

न चाहं शीघ्रयानेऽद्य समर्थो वयसाऽन्वितः ।
सेनामुखे च पार्थानामेतद्बलमुपस्थितम् ॥२२॥

युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम् ।
एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज ॥२३॥

धनञ्जयेन चोत्सृष्टो वर्तते प्रमुखे नृप ।
तस्माद्व्यूहमुखंहित्वा नाहं योत्स्यामि फाल्गुनम् ॥२४॥

चो यद्यर्थे । यदि धनञ्जयेनोत्सृष्टः प्रमुखे वर्तते तर्हि युधिष्ठिरो मे ग्राह्य इत्यन्वयः ॥२४॥

तुल्याभिजनकर्माणं शत्रुमेकं सहायवान् ।
गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः ॥२५॥

राजा शूरः कृती दक्षो नेतुं परपुरञ्जयः ।
वीरः स्वयं प्रयाह्यत्र यत्र पार्थो धनञ्जयः ॥२६॥

दुर्योधन उवाच। कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरम् ।
धनञ्जयो मया शक्य आचार्य प्रतिबाधितुम् ॥२७॥

अपि शक्यो रणे जेतुं वज्रहस्तः पुरन्दरः ।
नार्जुनः समरे शक्यो जेतुं परपुरञ्जयः ॥२८॥

येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः ।
अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः ॥२९॥

सुदक्षिणश्च निहतः स च राजा श्रुतायुधः ।
श्रुतायुश्चाच्युतायुश्च म्लेच्छाश्चायुतशो हताः ॥३०॥

तं कथं पाण्डवं युद्धे दहन्तमिव पावकम् ।
प्रतियोत्स्यामि दुर्धर्षं तमहं शस्त्रकोविदम् ॥३१॥

क्षमं च मन्यसे युद्धं मम तेनाद्य संयुगे ।
परवानस्मि भवति प्रेष्यवद्रक्ष मद्यशः ॥३२॥

द्रोण उवाच। सत्यं वदसि कौरव्य दुराधर्षो धनञ्जयः ।
अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि ॥३३॥

अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः ।
विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः ॥३४॥

एष ते कवचं राजंस्तथा बध्नामि काञ्चनम् ।
यथा न बाणा नास्त्राणि प्रहरिष्यन्ति ते रणे ॥३५॥

ते त्वाम् ॥३५॥

यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः ।
योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयं ॥३६॥

न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे ।
शरानर्पयितुं कश्चित् कवचे तव शक्ष्यति ॥३७॥

स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम् ।
त्वरमाणः स्वयं याहि नत्वाऽसौ विसहिष्यति ॥३८॥

सञ्जय उवाच। एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम् ।
आबबन्धाद्भुततमं जपन्मन्त्रं यथाविधि ॥३९॥

रणे तस्मिन् सुमहति विजयस्य सुतस्य ते ।
विसिस्मापयिषुर्लोकान् विद्यया ब्रह्मवित्तमः ॥४०॥

द्रोण उवाच। करोतु स्वस्ति ते ब्रह्म ब्रह्मा चापि द्विजातयः ।
सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत ॥४१॥

ययातिर्नाहुषश्चैव धुन्धुमारो भगीरथः ।
तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु ते सदा ॥४२॥

स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च ।
स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे ॥४३॥

स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा ।
लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ ॥४४॥

असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः ।
वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप ॥४५॥

धाता विधाता लोकेशो दिशश्च सदिगीश्वराः ।
स्वस्ति तेऽद्य प्रयच्छन्तु कार्तिकेयश्च षण्मुखः ॥४६॥

विवस्वान् भगवान् स्वस्ति करोतु तव सर्वशः ।
दिग्गजाश्चैव चत्वारः क्षितिश्च गगनं ग्रहाः ॥४७॥

चत्वार ऐरावतवामनाञ्जनसार्वभौमाः ॥४७॥

अधस्ताद्धरणीं योऽसौ सदा धारयते नृप ।
शेषश्च पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु ॥४८॥

गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः ।
पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः ॥४९॥

हृततेजोबलाः सर्वे तदा सेन्द्रा दिवौकसः ।
ब्रह्माणं शरणं जग्मुर्वृत्राद्भीता महासुरात् ॥५०॥

देवा ऊचुः ।
प्रमर्दितानां वृत्रेण देवानां देवसत्तम ।
गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात् ॥५१॥

अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान् ।
प्राह तथ्यमिदं वाक्यं विषण्णान् सुरसत्तमान् ॥५२॥

रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः ।
त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः ॥५३॥

त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा ।
वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात् ॥५४॥

अनुज्ञां वरम् ॥५४॥

स तस्यैव प्रसादाद्वो हन्यादेव रिपुर्बली ।
नागत्वा शङ्करस्थानं भगवान् दृश्यते हरः ॥५५॥

हन्याद्धन्तुमर्हति ॥५५॥

दृष्ट्वा जेष्यथ वृत्रं तं क्षिप्रं गच्छत मन्दरम् ।
यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः ॥५६॥

पिनाकी सर्वभूतेशो भगनेत्रनिपातनः ।
ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम् ॥५७॥

अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम् ।
सोऽब्रवीत् स्वागतं देवा ब्रूत किं करवाण्यहम् ॥५८॥

अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः ।
एवमुक्तास्तु ते सर्वे प्रत्यूचुस्तं दिवौकसः ॥५९॥

तेजो हृतं नो वृत्रेण गतिर्भव दिवौकसाम् ।
मूर्तीरीक्षस्व नो देव प्रहारैर्जर्जरीकृताः ।
शरणं त्वां प्रपन्नाः स्म गतिर्भव महेश्वर ॥६०॥

शर्व उवाच। विदितं वो यथा देवाः कृत्येयं सुमहाबला ।
त्वष्टुस्तेजोभवा घोरा दुर्निवार्याऽकृतात्मभिः ॥६१॥

अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम् ।
ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम् ॥६२॥

बधानानेन मन्त्रेण मानसेन सुरेश्वर ।
वधायासुरमुख्यस्य वृत्रस्य सुरघातिनः ॥६३॥

मानसेन मनसोच्चारणीयेन ॥६३॥

द्रोण उवाच। इत्युक्त्वा वरदः प्रादाद्वर्म तन्मन्त्रमेव च ।
स तेन वर्मणा गुप्तः प्रायाद्वृत्रचमूं प्रति ॥६४॥

नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे ।
न सन्धिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु ॥६५॥

ततो जघान समरे वृत्रं देवपतिः स्वयम् ।
तं च मन्त्रमयं बन्धं वर्म चाङ्गिरसे ददौ ॥६६॥

अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः ।
बृहस्पतिरथोवाच अग्निवेश्याय धीमते ॥६७॥

अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते ।
तवाद्य देहरक्षार्थं मन्त्रेण नृपसत्तम ॥६८॥

सञ्जय उवाच। एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिम् ।
पुनरेव वचः प्राह शनैराचार्यपुङ्गवः ॥६९॥

ब्रह्मसूत्रेण बध्नामि कवचं तव भारत ।
हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे ॥७०॥

ब्रह्मसूत्रेण ब्रह्मणा सूचितेनोपदेशेन ॥७०॥

यथा च ब्रह्मणा बद्धं सङ्ग्रामे तारकामये ।
शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव ॥७१॥

बद्ध्वा तु कवचं तस्य मन्त्रेण विधिपूर्वकम् ।
प्रेषयामास राजानं युद्धाय महते द्विजः ॥७२॥

स सन्नद्धो महाबाहुराचार्येण महात्मना ।
रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम् ॥७३॥

तथा दन्तिसहस्त्रेण मत्तानां वीर्यशालिनाम् ।
अश्वानां नियुतेनैव तथाऽन्यैश्च महारथैः ॥७४॥

वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति ।
नानावादित्रघोषेण यथा वैरोचनिस्तथा ॥७५॥

ततः शब्दो महानासीत् सैन्यानां तव भारत ।
अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम् ॥७६॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि दुर्योधनकवचबन्धने चतुर्नवतितमोऽध्यायः ॥ ९४ ॥
पञ्चनवतितमोऽध्यायः

सञ्जय उवाच। प्रविष्टयोर्महाराज पार्थवार्ष्णेययो रणे ।
दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे ॥१॥

प्रविष्टयोरिति ॥१॥

जवेनाभ्यद्रवद्द्रोणं महता निःस्वनेन च ।
पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत ॥२॥

तद्युद्धमभवत् तीव्रं तुमुलं लोमहर्षणम् ।
कुरूणां पाण्डवानां च व्यूहस्य पुरतोऽद्भुतम् ॥३॥

राजन् कदाचिन्नास्माभिर्दृष्टं तादृङ्न च श्रुतम् ।
यादृङ्मध्यगते सूर्ये युद्धमासीद्विशाम्पते ॥४॥

धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः ।
द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् ॥५॥

वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम् ।
पार्षतप्रमुखान् पार्थानभ्यवर्षाम सायकैः ॥६॥

महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये ।
सेनाग्रे प्रचकाशेते रुचिरे रथभूषिते ॥७॥

हिमात्यये शिशिरे सेनाग्रे प्रधाने सेने ॥७॥

समेत्य तु महासेने चक्रतुर्वेगमुत्तमम् ।
जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके ॥८॥

नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः ।
गदाविद्युन्महारौद्रः सङ्ग्रामजलदो महान् ॥९॥

भारद्वाजानिलोद्धूतः शरधारासहस्रवान् ।
अभ्यवर्षन्महासैन्यः पाण्डुसेनाग्निमुद्धतम् ॥१०॥

समुद्रमिव घर्मान्ते विशन् घोरो महानिलः ।
व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः ॥११॥

तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन् ।
बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव ॥१२॥

वारयामास तान् द्रोणो जलौघमचलो यथा ।
पाण्डवान् समरे क्रुद्धान् पञ्चालांश्च सकेकयान् ॥१३॥

अथापरे च राजानः परिवृत्य समन्ततः ।
महाबला रणे शूराः पञ्चालानन्ववारयन् ॥१४॥

ततो रणे नरव्याघ्र पार्षतः पाण्डवैः सह ।
सञ्जघानासकृद्द्रोणं बिभित्सुररिवाहिनीम् ॥१५॥

यथैव शरवर्षाणि द्रोणो वर्षति पार्षते ।
तथैव शरवर्षाणि धृष्टद्युम्नोऽप्यवर्षत ॥१६॥

सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः ।
ज्याविद्युच्चापसंह्रादो धृष्टद्युम्नबलाहकः॥१७॥

शरधाराश्मवर्षाणि व्यसृजत् सर्वतो दिशम् ।
निघ्नन् रथवराश्वौघान् प्लावयामास वाहिनीम् ॥१८॥

प्लावयामास विद्रावितवान् ॥१८॥

यं यमार्च्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम् ।
ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः ॥१९॥

अपाकर्षत व्यावर्तितवान् ॥१९॥

तथा तु यतमानस्य द्रोणस्य युधि भारत ।
धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत ॥२०॥

भोजमेकेऽभ्यवर्तन्त जलसन्धं तथाऽपरे ।
पाण्डवैर्हन्यमानाश्च द्रोणमेवापरे ययुः ॥२१॥

सङ्घट्टयति सैन्यानि द्रोणस्तु रथिनां वरः ।
व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः ॥२२॥

संघट्टयति सम्मेलयति ॥२२॥

धार्तराष्ट्रास्तथा भूता वध्यन्ते पाण्डुसृञ्जयैः ।
अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव ॥२३॥

कालः स्म ग्रसते योधान् धृष्टद्युम्नेन मे हितान् ।
सङ्ग्रामे तुमुले तस्मिन्निति संमेनिरे जनाः ॥२४॥

कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः ।
द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी ॥२५॥

अर्करश्मिविमिश्रेषु शस्त्रेषु कवचेषु च ।
चक्षूंषि प्रत्यहन्यन्त सैन्येन रजसा तथा ॥२६॥

त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः ।
अमर्षितस्ततो द्रोणः पञ्चालान् व्यधमच्छरैः ॥२७॥

मृद्नतस्तान्यनीकानि निघ्नतश्चापि सायकैः ।
बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः ॥२८॥

रथं नागं हयं चापि पत्तिनश्च विशाम्पते ।
एकैकेनेषुणा सङ्ख्ये निर्बिभेद महारथः ॥२९॥

पाण्डवानां तु सैन्येषु नास्ति कश्चित् स भारत ।
दधार यो रणे बाणान् द्रोणचापच्युतान् प्रभा ॥३०॥

तत् पच्यमानमर्केण द्रोणसायकतापितम् ।
बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत ॥३१॥

तथैव पार्षतेनापि काल्यमानं बलं तव ।
अभवत् सर्वतो दीप्तं शुष्कं वनमिवाग्निना ॥३२॥

बाध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः ।
त्यक्त्वा प्राणान् परं शक्त्या युध्यन्ते सर्वतोमुखाः ॥३३॥

तावकानां परेषां च युध्यतां भरतर्षभ ।
नासीत् कश्चिन्महाराज योऽत्याक्षीत् संयुगं भयात् ॥३४॥

भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन् ।
विविंशतिश्चित्रसेनो विकर्णश्च महारथः ॥३५॥

विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान् ।
त्रयाणां तव पुत्राणां त्रय एवानुयायिनः ॥३६॥

बाल्हीकराजस्तेजस्वी कुलपुत्रो महारथः ।
सहसेनः सहामात्यो द्रौपदेयानवारयत्॥३७॥

शैब्यो गोवासनो राजा योधैर्दशशतावरैः ।
काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत् ॥३८॥

काश्यस्य काशिराजस्य ॥३८॥

अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम् ।
मद्राणामीश्वरः शल्यो राजा राजानमावृणोत् ॥३९॥

दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः ।
सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि ॥४०॥

स्वकेनाहमनीकेन सन्नद्धः कवचावृतः ।
चतुःशतैर्महेष्वासैश्चेकितानमवारयम् ॥४१॥

शकुनिस्तु सहानीको माद्रीपुत्रमवारयत् ।
गान्धारकैः सप्तशतैश्चापशक्त्यसिपाणिभिः ॥४२॥

विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् ।
प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतायुधौ ॥४३॥

शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम् ।
बाल्हीकः प्रतिसंयत्तः पराक्रान्तमवारयत् ॥४४॥

धृष्टद्युम्नं तु पाञ्चाल्यं क्रूरैः सार्धं प्रभ द्रकैः ।
आवन्त्यः सह सौवीरैः क्रुद्धरूपमवारयत् ॥४५॥

आवन्त्योऽन्यः ॥४५॥

घटोत्कचं तथा शूरं राक्षसं क्रूरकर्मिणम् ।
अलायुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे ॥४६॥

अलम्बुषं राक्षसेन्द्रं कुन्तिभोजो महारथः ।
सैन्येन महता युक्तः क्रुद्धरूपमवारयत् ॥४७॥

सैन्धवः पृष्ठतस्त्वासीत् सर्वसैन्यस्य भारत ।
रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः ॥४८॥

तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ ।
द्रौणिर्दक्षिणतो राजन् सूतपुत्रश्च वामतः ॥४९॥

पृष्ठगोपास्तु तस्यासन् सौमद‌त्तिपुरोगमाः ।
कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः ॥५०॥

नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ।
सैन्धवस्य विधायैवं रक्षां युयुधिरे ततः॥५१॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सङ्कुलयुद्धे पञ्चनवतितमोऽध्यायः ॥ ९५ ॥
षण्णवतितमोऽध्यायः

सञ्जय उवाच। राजन् सङ्ग्राममाश्चर्यं शृणु कीर्तयतो मम ।
कुरूणां पाण्डवानां च यथा युद्धमवर्तत ॥१॥

राजन्निति ॥१॥

भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् ।
अयोधयन् रणे पार्था द्रोणानीकं बिभित्सवः ।
रक्षमाणः स्वकं व्यूहं द्रोणोऽपि सह सैनिकैः ।
अयोधयद्रणे पार्थान् प्रार्थमानो महद्यशः ॥३॥

विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः ।
आजघ्नतुः सुसङ्क्रुद्धौ तव पुत्रहितैषिणौ ॥४॥

विराटश्च महाराज तावुभौ समरे स्थितौ ।
पराक्रान्तौ पराक्रम्य योधयामास सानुगौ ॥५॥

तेषां युद्धं समभवद्दारुणं शोणितोदकम् ।
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥६॥

बाल्हीकं रभसं युद्धे याज्ञसेनिर्महाबलः ।
आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः ॥७॥

बाल्हीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः ।
आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः ॥८॥

तद्युद्धमभवद्धोरं शरशक्तिसमाकुलम् ।
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥९॥

ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा ।
अभवत् संवृतं सर्वं न प्राज्ञायत किञ्चन ॥१०॥

शैव्यो गोवासनो युद्धे काश्यपुत्रं महारथम् ।
ससैन्यो योधयामास गजः प्रतिगजं यथा ॥११॥

बाल्हीकराजः सङ्क्रुद्धो द्रौपदेयान्महारथान् ।
मनः पञ्चेन्द्रियाणीव शुशुभे योधयन् रणे ॥१२॥

अयोधयंस्ते सुभृशं तं शरौघैः समन्ततः ।
इन्द्रियार्था यथा देहं शश्वद्देहवतां वर ॥१३॥

वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव ।
आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ॥१४॥

सोऽतिविद्धो बलवता महेष्वासेन धन्विना ।
ईषन्मूर्च्छां जगामाशु सात्यकिः सत्यविक्रमः ॥१५॥

समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम् ।
विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः ।
तावन्योन्यं दृढं विद्धावन्योन्यशरपीडितौ ।
रेजतुः समरे राजन् पुष्पिताविव किंशुकौ ॥१७॥

अलम्बुषस्तु सङ्क्रुद्धः कुन्तिभोजशरार्दितः ।
अशोभत भृशं लक्ष्म्या पुष्पाढ्य इव किंशुकः ॥१८॥

कुन्तिभोजं ततो रक्षौ विद्ध्वा बहुभिरायसैः ।
अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव ॥१९॥

ततस्तौ समरे शूरौ योधयन्तौ परस्परम् ।
ददृशुः सर्वसैन्यानि शक्रजम्भौ यथा पुरा ॥२०॥

शकुनिं रभसं युद्धे कृतवैरं च भारत ।
माद्रीपुत्रौ च संरब्धौ शरैश्चार्दयतां भृशम् ॥२१॥

तुमुलः स महान् राजन् प्रावर्तत जनक्षयः ।
त्वया सञ्जनितोऽत्यर्थं कर्णेन च विवर्धितः ॥२२॥

रक्षितस्तव पुत्रैश्च क्रोधमूलो हुताशनः ।
य इमां पृथिवीं राजन् दग्धुं सर्वां समुद्यतः ॥२३॥

हुताशनः प्रावर्ततेत्यनुषज्यते ॥२३॥

शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः ।
न स्म जानाति कर्तव्यं युद्धे किञ्चित्पराक्रमम् ॥२४॥

विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ ।
ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् ॥२५॥

स वध्यमानो बहुभिः शरैः सन्नतपर्वभिः ।
सम्प्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः ॥२६॥

घटोत्कचस्तथा शूरं राक्षसं तमलायुधम् ।
अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् ॥२७॥

तयोर्युद्धं महाराज चित्ररूपमिवाभवत् ।
यादृशं हि पुरा वृत्तं रामरावणयोर्मृधे ॥२८॥

ततो युधिष्ठिरो राजा मद्रराजानमाहवे ।
विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः ॥२९॥

ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप ।
यथा पूर्वं महद्युद्धं शम्बरामरराजयोः ॥३०॥

विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः ।
अयोधयन् भीमसेनं महत्या सेनया वृताः ॥३१॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि द्वन्द्वयुद्धे षण्णवतितमोऽध्यायः ॥ ९६ ॥
सप्तनवतितमोऽध्यायः

सञ्जय उवाच। तथा तस्मिन् प्रवृत्ते तु सङ्ग्रामे लोमहर्षणे ।
कौरवेयांस्त्रिधाभूतान् पाण्डवाः समुपाद्रवन् ॥१॥

तथोत ॥१॥

जलसन्धं महाबाहुं भीमसेनोऽभ्यवर्तत ।
युधिष्ठिरः सहानीकः कृतवर्माणमाहवे ॥२॥

किरंस्तु शरवर्षाणि रोचमान इवांशुमान् ।
धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे ॥३॥

ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम् ।
कुरूणां पाण्डवानां च सङ्क्रुद्धानां परस्परम् ॥४॥

संक्षये तु तथाभूते वर्तमाने महाभये ।
द्वन्द्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् ॥५॥

द्रोणः पाञ्चालपुत्रेण बली बलवता सह ।
यदक्षिपत् पृषत्कौघांस्तद‌द्भुतमिवाभवत् ॥६॥

पुण्डरीकवनानीव विध्वस्तानि समन्ततः ।
चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः ॥७॥

विनिकीर्णानि वीराणामनीकेषु समन्ततः ।
वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च ॥८॥

तपनीयतनुत्राणाः संसिक्ता रुधिरेण च ।
संसक्ता इव दृश्यन्ते मेघसङ्घाः सविद्युतः ॥९॥

कुञ्जराश्वनरानन्ये पातयन्ति स्म पत्रिभिः ।
तालमात्राणि चापानि विकर्षन्तो महारथाः ॥१०॥

कुञ्जराश्वनरानिति काकाक्षिवदुभयत्र यथाविभक्ति संबध्यते ॥१०॥

असिचर्माणि चापानि शिरांसि कवचानि च ।
विप्रकीर्यन्त शूराणां सम्प्रहारे महात्मनाम् ॥११॥

उत्थितान्यगणेयानि कबन्धानि समन्ततः ।
अदृश्यन्त महाराज तस्मिन् परमसङ्कुले ॥१२॥

गृध्राः कङ्का बकाः श्येना वायसा जम्बुकास्तथा ।
बहुशः पिशिताशाश्च तत्रादृश्यन्त मारिष ॥१३॥

भक्षयन्तश्च मांसानि पिबन्तश्चापि शोणितम् ।
विलुम्पन्तश्च केशांश्च मज्जाश्च बहुधा नृप ॥१४॥

आकर्षन्तः शरीराणि शरीरावयवांस्तथा ।
नराश्वगजसङ्घानां शिरांसि च ततस्ततः ॥१५॥

कृतास्त्रा रणदीक्षाभिर्दीक्षिता रणशालिनः ।
रणे जयं प्रार्थयाना भृशं युयुधिरे तदा ॥१६॥

असिमार्गान् बहुविधान् विचेरुः सैनिका रण ।
ऋष्टिभिः शक्तिभिः प्रासैः शूल तोमरपट्टिशैः ॥१७॥

गदाभिः परिघैश्चान्यैरायुधश्च भुजैरपि ।
अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः ॥१८॥

रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः ।
मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः ॥१९॥

क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च वारणाः ।
उच्चुक्रुशुरथान्योन्यं जघ्नुरन्योन्यमेव च ॥२०॥

वर्तमान तथा युद्धे निर्मर्यादे विशाम्पते ।
धृष्टद्युम्नो हयानश्वैर्द्रोणस्य व्यत्यमिश्रयत् ॥२१॥

ते हयाः साध्वशोभन्त मिश्रिता वातरंहसः ।
पारावतसवर्णाश्च रक्तशोणाश्च संयुगे ॥२२॥

पारावतसवर्णास्ते रक्तशोणविमिश्रिताः ।
हयाः शुशुभिरे राजन् मेघा इव सविद्युतः ॥२३॥

धृष्टद्युम्नस्तु संम्प्रेक्ष्य द्रोणमभ्याशमागतम् ।
असिचर्माऽऽदद वीरो धनुरुत्सृज्य भारत ॥२४॥

चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा ।
ईषया समतिक्रम्य द्रोणस्य रथमाविशत् ॥२५॥

अतिष्ठद्युगमध्ये स युगसन्नहनेषु च ।
जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन् ॥२६॥

युगसन्नहनेषु युगबन्धेषु ॥२६॥

खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः ।
न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत् ॥२७॥

यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः ।
तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः ॥२८॥

ततः शरशतेनास्य शतचन्द्रं समाक्षिपत् ।
द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः ॥२९॥

हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान् बली ।
ध्वजं छत्रं च भल्लाभ्यां तथा तौ पार्ष्णिसारथी ॥३०॥

अथास्मै त्वरितो बाणमपरं जीवितान्तकम् ।
आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा ॥३१॥

तं चतुर्दशभिस्तीक्ष्णैर्बाणैश्चिच्छेद सात्यकिः ।
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नं व्यमोचयत् ॥३२॥

सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष ।
द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुङ्गवः ॥३३॥

सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यं च महाहवे ।
शराणां त्वरतो द्रोणः षड्विंशत्या समार्पयत् ॥३४॥

ततो द्रोणं शिनेः पौत्रो ग्रसन्तमपि सृञ्जयान् ।
प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे ॥३५॥

ततः सर्वे रथास्तूर्ण पाञ्चाल्या जयगृद्धिनः ।
सात्वताभिसृते द्रोणे धृष्टद्युम्नमवाक्षिपन् ॥३६॥

अवाक्षिपन् अपनीतवन्तः ॥३६॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि द्रोणधृष्टद्युम्नयुद्धे सप्तनवतितमोऽध्यायः ॥ ९७ ॥
अष्टनवतितमोऽध्यायः

धृतराष्ट्र उवाच। बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते ।
तेन वृष्णिप्रवीरेण युयुधानेन सञ्जय ॥१॥

बाणे इति ॥१॥

अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः ।
नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि ॥२॥

सञ्जय उवाच। सम्प्रद्रुतः क्रोधविषो व्यादितास्यशरासनः ।
तीक्ष्णधारेषुदशनः सितनाराचदंष्ट्रवान् ॥३॥

संरम्भामर्षताम्राक्षो महोरग इव श्वसन् ।
नरवीरः प्रभुदितः शोणैरश्वैर्महाजवैः ॥४॥

उत्पतद्भिरिवाकाशे क्रामद्भिरिव पर्वतम् ।
रुक्मपुङ्खाञ्छरानस्यन्युयुधानमुपाद्रवत् ॥५॥

शरपातमहावर्षं रथघोषबलाहकम् ।
कार्मुकाकर्षविक्षेपं नाराचबहुविद्युतम् ॥६॥

कार्मुकाकर्ष एव विक्षेप आसारप्रसाधनं यस्य ॥६॥

शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम् ।
द्रोणमेघमनावार्यं हयमारुतचोदितम् ॥७॥

दृष्ट्वैवाभिपतन्तं तं शूरः परपुरञ्जयः ।
उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः ॥८॥

एनं वै ब्राह्मणं शूर स्वकर्मण्यनवस्थितम् ।
आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयापहम् ॥९॥

शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् ।
आचार्यं राजपुत्राणां सततं शूरमानिनम् ॥१०॥

ततो रजतसङ्काशा माधवस्य हयोत्तमाः ।
द्रोणस्याभिमुखाः शीघ्रमगच्छन् वातरंहसः ॥११॥

ततस्तौ द्रोणशैनयौ युयुधाते परन्तपौ ।
शरैरनेकसाहस्रैस्ताडयन्तौ परस्परम् ॥१२॥

इषुजालावृतं व्योम चक्रतुः पुरुषर्षभौ ।
पूरयामासतुर्वीरावुभौ दश दिशः शरैः ॥१३॥

मेघाविवातपापाये धाराभिरितरेतरम् ।
न स्म सूर्यस्तदा भाति न ववौ च समीरणः ॥१४॥

इषुजालावृतं घोरमन्धकारं समन्ततः ।
अनाधृष्यमिवान्येषां शूराणामभवत्तदा ॥१५॥

अन्धकारीकृते लोके द्रोणशनययोः शरैः ।
तयोः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा ॥१६॥

नान्तरं शरवृष्टीनां ददृशे नरसिंहयोः ।
इषूणां सन्निपातेन शब्दो धाराभिघातजः ॥१७॥

अन्तरमवच्छेदः ॥१७॥

शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः ।
नाराचैर्व्यतिविद्धानां शराणां रूपमाबभौ ॥१८॥

आशीविषविदष्टानां सर्पाणामिव भारत ।
तयोर्ज्यातलनिर्घोषः शुश्रुवे युद्धशौण्डयोः ॥१९॥

अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव ।
उभयोस्तौ रथौ राजंस्ते चाश्वस्तौ च सारथी ॥२०॥

रुक्मपुङ्खैः शरैश्छिन्नाश्चित्ररूपा बभुस्तदा ।
निर्मलानामजिह्मानां नाराचानां विशाम्पते ॥२१॥

निर्मुक्ताशीविषाभानां सम्पातोऽभूत्सुदारुणः ।
उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ ॥२२॥

उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ ।
स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ ॥२३॥

अन्योन्यमभ्यविध्येतां जीवितान्तकरैः शरैः ।
गर्जितोत्क्रुष्टसन्नादाः शङ्खदुन्दुभिनिःस्वनाः ॥२४॥

उपारमन्महाराज व्याजहार न कश्चन ।
तूष्णीम्भूतान्यनीकानि योधा युद्धादुपारमन् ॥२५॥

ददर्श द्वैरथं ताभ्यां जातकौतूहलो जनः ।
रथिनो हस्तियन्तारा हयारोहाः पदातयः ॥२६॥

अवैक्षन्ताचलैर्नेत्रैः परिवार्य नरर्षभौ ।
हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् ॥२७॥

तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः ।
मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः ॥२८॥

रथवाहिन्यो रथसेनाः ॥२८॥

ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः ।
वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः ॥२९॥

वैजयन्तीविलक्षणाभिः पताकाभिः परिस्तोमैवर्णकम्बलैः अङ्गकम्बलैः सूक्ष्मकम्बलैः ॥२९॥

विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः ।
जातरूपमयीभिश्च राजतीभिश्च मूर्धसु ॥३०॥

गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत ।
सबलाकाः सखद्योताः सैरावतशतह्रदाः ॥३१॥

ऐरावतमिन्द्रधनुः ‘ऐरावतो भ्रमातङ्गैः’ इत्युपक्रम्य ‘नपुंसकं महेन्द्रस्य ऋजुदीर्घशरासने’ इति मेदिनी ॥३१॥

अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः ।
अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः ॥३२॥

उष्णस्य पर्याये अपगमे वागुराः जालानि समूहा इति यावत् ॥३२॥

तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः ।
विमानाग्रगता देवा ब्रह्मसोमपुरोगमाः ॥३३॥

सिद्धचारणसङ्घाश्च विद्याधरमहोरगाः ।
गतप्रत्यागताक्षेपैश्चित्रैरस्त्रविघातिभिः ॥३४॥

प्रत्यागतं निवर्तनम् आक्षेपः प्रहरणम् ॥३४॥

विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः ।
हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ ॥३५॥

अन्योन्यमभिविध्येतां शरैस्तौ द्रोणसात्यकी ।
ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे ॥३६॥

पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युतेः ।
निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः ॥३७॥

सज्यं चकार तदपि चिच्छेदास्य च सात्यकिः ।
ततस्त्वरन् पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत ॥३८॥

सज्यं सज्यं धनुश्चास्य चिच्छेद निशितैः शरैः ।
एवमेकशतं छिन्नं धनुषां दृढधन्विना ॥३९॥

न चान्तरं तयोर्दृष्टं सन्धाने च्छेदनेऽपि च ।
ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् ॥४०॥

युयुधानस्य राजेन्द्र मनसैतदचिन्तयत् ।
एतदस्त्रबलं रामे कार्तवीर्ये धनञ्जये ॥४१॥

भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे ।
तं चास्य मनसा द्रोणः पूजयामास विक्रमम् ॥४२॥

लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः ।
तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः ॥४३॥

न तामालक्षयामासुर्लघुतां शीघ्रचारिणः ।
देवाश्च युयुधानस्य गन्धर्वाश्च विशाम्पते ॥४४॥

आलक्षयामासुर्लक्षितवन्तः ॥४४॥

सिद्धचारणसङ्घाश्च विदुर्द्रोणस्य कर्म तत् ।
ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः ॥४५॥

विदुर्नेत्यनुषज्यते ॥४५॥

अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत ।
तस्यास्त्राण्यस्त्रमायाभिः प्रतिहत्य स सात्यकिः ॥४६॥

जघान निशितैर्बाणैस्तदद्भुतमिवाभवत् ।
तस्यातिमानुषं कर्म दृष्ट्वाऽन्यैरसमं रणे ॥४७॥

युक्तं योगेन योगज्ञास्तावकाः समपूजयन् ।
यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः ॥४८॥

योगेन युक्त्या ॥४८॥

तमाचार्योऽथ सम्भ्रान्तोऽयोधयच्छत्रुतापनः ।
ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः ॥४९॥

वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत् ।
तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः ॥५०॥

दिव्यमस्त्रं महेष्वासो वारुणं समुदैरयत् ।
हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ ॥५१॥

न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि ।
अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते ॥५२॥

न यावदभ्यपद्येतां व्यावर्तदथ भास्करः ।
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः ॥५३॥

न यावदभ्यपद्येतां यावदेवन पराभूते । व्यावर्तन्मध्याह्नतः परावृत्तोऽभूत् ॥५३॥

नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् ।
धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः ॥५४॥

मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा ।
दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः ॥५५॥

द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम् ।
ततो युद्धमभूद्राजंस्तेषां तव च धन्विनाम् ॥५६॥

रजसा संवृते लोके शरजालसमावृते ।
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन ।
सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत ॥५७॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि द्रोणसात्यकियुद्धे अष्टनवतितमोऽध्यायः ॥ ९८ ॥
एकोनशततमोऽध्यायः

सञ्जय उवाच। विवर्तमाने त्वादित्ये तत्रास्तशिखरं प्रति ।
रजसा कीर्यमाणे च मन्दीभूते दिवाकरे ॥१॥

विवर्तमाने इति ॥१॥

तिष्ठतां युध्यमानानां पुनरावर्ततामपि ।
भज्यतां जयतां चैव जगाम तदहः शनैः ॥२॥

तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु ।
अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः ॥३॥

रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः ।
चकार तत्र पन्थानं ययौ येन जनार्दनः ॥४॥

यत्र यत्र रथो याति पाण्डवस्य महात्मनः ।
तत्र तत्रैव दीर्यन्ते सेनास्तव विशाम्पते ॥५॥

रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान् ।
उत्तमाधममध्यानि मण्डलानि विदर्शयन् ॥६॥

ते तु नामाङ्किताः पीताः कालज्वलनसन्निभाः ।
स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः ॥७॥

स्नायुनद्धाः सूक्ष्मचर्माग्रग्रथिताः ॥७॥

वैणवाश्चायसाश्चोग्रा ग्रसन्तो विविधानरीन् ।
रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे ॥८॥

रथस्थितोऽग्रतः क्रोशं यानस्यत्यर्जुनः शरान् ।
रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् ॥९॥

क्रोशं क्रोशमुद्दिश्य ॥९॥

तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः ।
तदागच्छद्धृषीकेशः कृत्स्नं विस्मापयन् जगत् ॥१०॥

न तथा गच्छति रथस्तपनस्य विशाम्पते ।
नेन्द्रस्य न तु रुद्रस्य नापि वैश्रवणस्य च ॥११॥

नान्यस्य समरे राजन् गतपूर्वस्तथा रथः ।
यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः ॥१२॥

प्रविश्य तु रणे राजन् केशवः परवीरहा ।
सेनामध्ये हयांस्तूर्णं चोदयामास भारत ॥१३॥

ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः ।
कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासासमन्विताः ॥१४॥

क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः ।
मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः ॥१५॥

हतानां वाजिनागानां रथानां च नरैः सह ।
उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः ॥१६॥

एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप ।
सहसेनौ समार्च्छेतां पाण्डवं क्लान्तवाहनम् ॥१७॥

तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् ।
शराणां च शतैरश्वानविध्येतां मुदान्वितौ ॥१८॥

तावर्जुनो महाराज नवभिर्नतपर्वभिः ।
आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः ॥१९॥

ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम् ।
आच्छादयेतां संरब्धौ सिंहनादं च चक्रतुः ॥२०॥

तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः ।
चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ ॥२१॥

अथान्ये धनुषी राजन् प्रगृह्य समरे तदा ।
पाण्डवं भृशसङ्क्रुद्धावर्दयामासतुः शरैः ॥२२॥

तयोस्तु भृशसङ्क्रुद्धः शराभ्यां पाण्डुनन्दनः ।
धनुषी चिच्छिदे तूर्णं भूय एव धनञ्जयः ॥२३॥

तथान्यैर्विशिखैस्तूर्णं रुक्मपुङ्खैः शिलाशितैः ।
जघानाश्वांस्तथा सूतौ पार्ष्णी च सपदानुगौ ॥२४॥

सूतौ सारथी पार्ष्णी पृष्ठरक्षौ ॥२४॥

ज्येष्ठस्य च शिरः कायात् क्षुरप्रेणान्यकृन्तत ।
स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः ॥२५॥

विन्दं तु निहतं दृष्ट्वा ह्यनुविन्दः प्रतापवान् ।
हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः ॥२६॥

अभ्यवर्तत सङ्ग्रामे भ्रातुर्वधमनुस्मरन् ।
गदया रथिनां श्रेष्ठो नृत्यन्निव महारथः॥२७॥

अनुविन्दस्तु गदया ललाटे मधुसूदनम् ।
स्पृष्ट्वा नाकम्पयत् क्रुद्धो मैनाकमिव पर्वतम् ॥२८॥

तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः ।
निचकर्त स सञ्छिन्नः पपाताद्रिचयो यथा ॥२९॥

अद्रिचयो गिरिशृङ्गम् ॥२९॥

ततस्तौ निहतौ दृष्ट्वा तयो राजन् पदानुगाः ।
अभ्यद्रवन्त सङ्क्रुद्धाः किरन्तः शतशः शरान् ॥३०॥

तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ ।
व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये ॥३१॥

तयोः सेनामतिक्राम्य कृच्छ्रादिव धनञ्जयः ।
विबभौ जलदं हित्वा दिवाकर इवोदितः ॥३२॥

तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन् पुनः ।
अभ्यवर्तन्त पार्थं च समन्ताद्भरतर्षभ ॥३३॥

श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवं ।
सिंहनादेन महता सर्वतः पर्यवारयन् ॥३४॥

तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन् पुरुषर्षभः ।
शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् ॥३५॥

शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः ।
किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते ॥३६॥

ब्रूहि कृष्ण यथा तत्त्वं त्वं हि प्राज्ञतमः सदा ।
भवन्नेत्रा रणे शत्रून् विजेष्यन्तीह पाण्डवाः ॥३७॥

मम त्वनन्तरं कृत्यं यद्वै तत्त्वं निबोध मे ।
हयान् विमुच्य हि सुखं विशल्यान्कुरु माधव ॥३८॥

एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम् ।
ममाप्येतन्मतं पार्थ यदिदं ते प्रभाषितम् ॥३९॥

अर्जुन उवाच। अहमावारयिष्यामि सर्वसैन्यानि केशव ।
त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम् ॥४०॥

सञ्जय उवाच। सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनञ्जयः ।
गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः ॥४१॥

तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकांक्षिणः ।
इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनञ्जयम् ॥४२॥

तमेकं रथवंशेन महता पर्यवारयन् ।
विकर्षन्तश्च चापानि विसृजन्तश्च सायकान् ॥४३॥

शस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन् ।
छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् ॥४४॥

अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् ।
नरसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः ॥४५॥

तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत ।
यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत् ॥४६॥

अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः ।
इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत् ॥४७॥

तत्रान्तरिक्षे बाणानां प्रगाढानां विशाम्पते ।
सङ्घर्षेण महार्चिष्मान् पावकः समजायत ॥४८॥

प्रगाढानां व्यवगाढानाम् ॥४८॥

तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः ।
हयैर्नागैश्च सम्भिन्नैर्नदद्भिश्चारिकर्षणैः ॥४९॥

संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे ।
एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत ॥५०॥

शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम् ।
पदातिमत्सकलिलं शङ्खदुन्दुभिनिःस्वनम् ॥५१॥

शरा एवोर्मयो वेगा यस्य । ‘ऊर्मिः स्त्रीपुंसयोर्वीच्यां प्रकाशे वेगभङ्गयोः’ इति मेदिनी ॥५१॥

असङ्ख्येयमपारं च रथोर्मिणमतीव च ।
उष्णीषकमठं छत्रपताकाफेनमालिनम् ॥५२॥

रथा एवोर्मयो भङ्गा यत्र ॥५२॥

रणसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम् ।
वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत् ॥५३॥

वेलाभृतो मर्यादारूपः ॥५३॥

धृतराष्ट्र उवाच। अर्जुने धरणीं प्राप्ते हयहस्ते च केशवे ।
एतदन्तरमासाद्य कथं पार्थो न घातितः ॥५४॥

सञ्जय उवाच। सद्यः पार्थिव पार्थेन निरुद्धाः सर्वपार्थिवाः ।
रथस्था धरणीस्थेन वाक्यमच्छान्दसं यथा ॥५५॥

स पार्थः पार्थिवान् सर्वान् भूमिस्थोऽपि रथस्थितान् ।
एको निवारयामास लोभः सर्वगुणानिव ॥५६॥

ततो जनार्दनः सङ्ख्ये प्रिये पुरुषसत्तमम् ।
असम्भ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत् ॥५७॥

उद‌पानमिहाश्वानां नालमस्ति रणेऽर्जुन ।
परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम् ॥५८॥

अलं पर्याप्तम् ॥५८॥

इदमस्तीत्यसम्भ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम् ।
अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम् ॥५९॥

अभिहत्य खात्वा वाजिपानमश्वपानीयम् ॥५९॥

हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।
सुविस्तीर्णं प्रसन्नाम्भः प्रफुल्लवरपङ्कजम् ॥६०॥

हंसकारण्डवाकीर्णमित्यादि योग्यतया वर्णनम् ॥६०॥

कूर्ममत्स्यगणाकीर्णमगाधमृषिसेवितम् ।
आगच्छन्नारदमुनिर्दर्शनार्थं कृतं क्षणात् ॥६१॥

शरवंशं शरस्थूणं शराच्छादनमद्भुतम् ।
शरवेश्माकरोत् पार्थस्त्वष्टेवाद्भुतकर्मकृत् ॥६२॥

वंशः शालाधारकाष्ठं स्थूणा मध्यस्तंभः ॥६२॥

ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत् ।
शरवेश्मनि पार्थेन कृते तस्मिन् महात्मना ॥६३॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि विन्दानुविन्दवधे अर्जुनसरोनिर्माणे च एकोनशततमोऽध्यायः ॥ ९९ ॥
शततमोऽध्यायः

सञ्जय उवाच। सलिले जनिते तस्मिन् कौन्तेयेन महात्मना ।
निस्तारिते द्विषत्सैन्ये कृते च शरवेश्मनि ॥१॥

सलिले इति ॥१॥

वासुदेवो रथात् तूर्णमवतीर्य महाद्युतिः ।
मोचयामास तुरगान् विनुन्नान् कङ्कपत्रिभिः ॥२॥

अदृष्टपूर्वं तद्दृष्ट्वा साधुवादो महानभूत् ।
सिद्धचारणसङ्घानां सैनिकानां च सर्वशः ॥३॥

पदातिनं तु कौन्तेयं युध्यमानं महारथाः ।
नाशक्नुवन् वारयितुं तद‌द्भुतमिवाभवत् ॥४॥

आपतत्सु रथौघेषु प्रभूतगजवाजिषु ।
नासम्भ्रमत्तदा पार्थस्तदस्य पुरुषानति ॥५॥

पुरुषानति पुरुषेभ्योऽतिशयः । असंभ्रमत् उपसर्गात्पूर्वमार्षोऽट् ॥५॥

व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः ।
न चाव्यथत धर्मात्मा वासविः परवीरहा ॥६॥

स तानि शरजालानि गदाः प्रासांश्चवीर्यवान् ।
आगतानग्रसत् पार्थः सरितः सागरो यथा ॥७॥

अस्त्रवेगेन महता पार्थो बाहुबलेन च ।
सर्वेषां पार्थिवेन्द्राणामग्रसत्तान् शरोत्तमान् ॥८॥

तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः ।
अपूजयन् महाराज कौरवा महद‌द्भुतम् ॥९॥

किमद्भुततमं लोके भविताऽप्यथवा ह्यभूत् ।
यदश्वान् पार्थगोविन्दौ मोचयामासतू रणे ॥१०॥

भयं विपुलमस्मासु तावधत्तां नरोत्तमौ ।
तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि ॥११॥

विदधतुर्दर्शितवन्तौ ॥११॥

अथ स्मयन् हृषीकेशः स्त्रीमध्य इव भारत ।
अर्जुनेन कृते सङ्ख्ये शरगर्भगृहे तथा ॥१२॥

उपावर्तयदव्यग्रस्तानश्वान् पुष्करेक्षणः ।
मिषतां सर्वसैन्यानां त्वदीयानां विशाम्पते ॥१३॥

उपावर्तयत् परिलोडितवान् ॥१३॥

तेषां श्रमं च ग्लानिं च वमथुं वेपथुं व्रणान् ।
सर्वं व्यपानुदत् कृष्णः कुशलो ह्यश्वकर्मणि ॥१४॥

श्रमं मनःकायखेदं ग्लानिं बलापचयं वमथुं फेनोद्गमम् ॥१४॥

शल्यानुवृत्य पाणिभ्यां परिमृज्य च तान् हयान् ।
उपावर्त्य यथान्यायं पाययामास वारि सः ॥१५॥

स ताँल्लब्धोदकान् स्नातान् जग्धान्नान् विगतक्लमान् ।
योजयामास संहृष्टः पुनरेव रथोत्तमे ॥१६॥

स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः ।
समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् ॥१७॥

रथं रथवरस्याजौ युक्तं लब्धोद‌कैर्हयैः ।
दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् ॥१८॥

विनिःश्वसन्तस्ते राजन् भग्नदंष्ट्रा इवोरगाः ।
धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन् पृथक् ॥१९॥

तत्सैन्यं सर्वतो दृष्ट्वा लोमहर्षणमद्भुतम् ।
त्वरध्वमिति चाक्रन्दन्नैतदस्तीति चाब्रुवन् ॥२०॥

सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ ।
बालः क्रीडनकेनेव कदर्थीकृत्य नो बलम् ॥२१॥

क्रोशतां यतमानानामसंसक्तौ परन्तपौ ।
दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु ॥२२॥

तौ प्रयातौ पुनर्दृष्ट्वा तदाऽन्ये सैनिकाऽब्रुवन् ।
त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ॥२३॥

रथयुक्तो हि दाशार्हो भिषतां सर्वधन्विनाम् ।
जयद्रथाय यात्येष कदर्थीकृत्य नो रणे ॥२४॥

तत्र केचिन्मिथो राजन् समभाषन्त भूमिपाः ।
अदृष्टपूर्वं सङ्ग्रामे तद्दृष्ट्वा महदद्भुतम् ॥२५॥

सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः ।
दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी ॥२६॥

विलयं समनुप्राप्ता तच्च राजा न बुध्यते ।
इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत॥२७॥

सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् ।
तत् करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् ॥२८॥

ततः शीघ्रतरं प्रायात् पाण्डवः सैन्धवं प्रति ।
विवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः ॥२९॥

तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् ।
नाशक्नुवन् वारयितुं योधाः क्रुद्धमिवान्तकम् ॥३०॥

विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः ।
यथा मृगगणान् सिंहः सैन्धवार्थे व्यलोडयत् ॥३१॥

गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत् ।
बलाकाभं तु दाशार्हः पाञ्चजन्यं व्यनादयत् ॥३२॥

कौन्तेयेनाग्रतः सृष्टा न्यपतन् पृष्ठतः शराः ।
तूर्णात् तूर्णतरं ह्यश्वाः प्रावहन् वातरंहसः ॥३३॥

प्रावहन् अत्यक्रामन् ॥३३॥

ततो नृपतयः क्रुद्धाः परिवव्रुर्धनञ्जयम् ।
क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् ॥३४॥

सैन्येषु विप्रयातेषु धिष्ठितं पुरुषर्षभम् ।
दुर्योधनोऽन्वयात्पार्थं त्वरमाणो महाहवे ॥३५॥

धिष्ठितं किञ्चिदस्थितम् ॥३५॥

वातोद्धूतपताकं तं रथं जलदनिःस्वनम् ।
घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ॥३६॥

दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् ।
शरार्ताश्च रणे योधाः शेकुः कृष्णौ न वीक्षितुम् ॥३७॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सैन्यविस्मये शततमोऽध्यायः ॥ १०० ॥
एकाधिकशततमोऽध्यायः

सञ्जय उवाच। स्रंसन्त इव मज्जानस्तावकानां भयान्नृप ।
तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनञ्जयौ ॥१॥

स्रंसन्त इति ॥१॥

सर्वे तु प्रतिसंरब्धा ह्रीमन्तः सत्त्वचोदिताः ।
स्थिरीभूता महात्मानः प्रत्यगच्छन्धनञ्जयम् ॥२॥

ये गताः पाण्डवं युद्धे रोषामर्षसमन्विताः ।
तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव ॥३॥

अमर्षश्चिरानुबद्धः कोपः ॥३॥

असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः ।
नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम् ॥४॥

तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ ।
ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ ॥५॥

प्रभाकरौ चन्द्रादित्यौ ॥५॥

मत्स्याविव महाजालं विदार्य विगतक्लमौ ।
तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत् ॥६॥

विमुक्तौ शस्त्रसम्बाधाद्द्रोणानीकात् सुदुर्भिदात् ।
अदृश्येतां महात्मानौ कालसूर्याविवोदितौ ॥७॥

अस्त्रसम्बाधनिर्मुक्तौ विमुक्तौ शस्त्रसंकटात् ।
अदृश्येतां महात्मानौ शत्रुसम्बाधकारिणौ ॥८॥

विमुक्तौ ज्वलनस्पर्शां मकरास्याज्झषाविव ।
अक्षोभयेतां सेनां तौ समुद्रं मकराविव ॥९॥

तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः ।
नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम् ॥१०॥

तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती ।
नाशशंसुर्महाराज सिन्धुराजस्य जीवितम् ॥११॥

आशा बलवती राजन् सिन्धुराजस्य जीविते ।
द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो ॥१२॥

तामाशां विफलीकृत्य सन्तीर्णौ तौ परन्तपौ ।
द्रोणानीकं महाराज भोजानीकं च दुस्तरम् ॥१३॥

अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ ।
निराशाः सिन्धुराजस्य जीवितं न शशंसिरे ॥१४॥

मिथश्च समभाषेतामभीतौ भयवर्धनौ ।
जयद्रथवधे वाचस्तास्ताः कृष्णधनञ्जयौ ॥१५॥

असौ मध्ये कृतः षड्भिर्धार्तराष्ट्रैर्महारथैः ।
चक्षुर्विषयसंप्राप्तो न मे मोक्ष्यति सैन्धवः ॥१६॥

यद्यस्य समरे गोप्ता शक्रो देवगणैः सह ।
तथाप्येनं निहंस्याव इति कृष्णावभाषताम् ॥१७॥

इति कृष्णौ महाबाहू मिथः कथयतां तदा ।
सिन्धुराजमवेक्षन्तौ त्वत्पुत्रा बहु चुक्रुशुः ॥१८॥

अतीत्य मरुधन्वानं प्रयान्तौ तृषितौ गजौ ।
पीत्वा वारि समाश्वस्तौ तथैवास्तमरिन्दमौ ॥१९॥

मरुधन्वानं मरुस्थलम् ॥१९॥

व्याघ्रसिंहगजाकीर्णानतिक्रम्य च पर्वतान् ।
वणिजाविव दृश्येतां हीनमृत्यू जरातिगौ ॥२०॥

तथाहि मुखवर्णोऽयमनयोरिति मेनिरे ।
तावका वीक्ष्य मुक्तौ तौ विक्रोशन्ति स्म सर्वशः ॥२१॥

द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात् ।
अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ ॥२२॥

विमुक्तौ सागरप्रख्याद्द्रोणानीकादरिन्द‌मौ ।
अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा ॥२३॥

अस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितात् ।
रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे ॥२४॥

उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः ।
शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ ॥२५॥

द्रोणग्राहह्रदान्मुक्तौ शक्त्याशीविषसंकटात् ।
अयःशरोग्रमकरात् क्षत्रियप्रवरांभसः ॥२६॥

द्रोण एव ग्राहो यस्मिन् ह्रद इव ह्रदस्तस्मात् द्रोणानीकादित्यर्थः ॥२६॥

ज्याघोषतलनिर्ह्रादाद्गदानिस्त्रिंशविद्युतः ।
द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव ॥२७॥

द्रोणास्त्राण्येव मेघः ॥२७॥

बाहुभ्यामिव सन्तीर्णौ सिन्धुषष्ठाः समुद्रगाः ।
तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः ॥२८॥

सिन्धुः षष्ठो यासां ताश्च शतद्रुविपाशेरावीचन्द्रभागावितस्ताः ॥ एता हि नितान्तदुस्तराः समुद्रगा इति सरितां विशेषणं महानदीत्वद्योतनार्थम् ॥२८॥

इति कृष्णौ महेष्वासौ प्रशस्तौ लोकविश्रुतौ ।
सर्वभूतान्यमन्यन्त द्रोणास्त्रबलवारणात् ॥२९॥

प्रशस्तौ प्रकृष्टतमौ द्रोणास्त्रबलवारणविषयाद‌तिशयनात् ॥२९॥

जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया ।
रुरुं निपाने लिप्सन्तौ व्याघ्राविव व्यतिष्ठताम् ॥३०॥

यथा हि मुखवर्णोऽयमनयोरिति मेनिरे ।
तव योधा महाराज हतमेव जयद्रथम् ॥३१॥

लोहिताक्षौ महाबाहू संयुक्तौ कृष्णपाण्डवौ ।
सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनद‌तां मुहुः ॥३२॥

शौरेरभीषुहस्तस्य पार्थस्य च धनुष्मतः ।
तयोरासीत् प्रभा राजन् सूर्यपावकयोरिव ॥३३॥

हर्ष एव तयोरासीद्द्रोणानीकप्रमुक्तयोः ।
समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा ॥३४॥

तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके ।
सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषम् ॥३५॥

तौ दृष्ट्वा तु व्यतिक्रान्तौ हृषीकेशधनञ्जयौ ।
सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव ॥३६॥

द्रोणेनाबद्धकवचो राजा दुर्योधनस्ततः ।
ययावेकरथेनाजौ हयसंस्कारवित् प्रभो ॥३७॥

कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः ।
अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप ॥३८॥

अग्रतः प्रमुखे ॥३८॥

ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत् ।
प्रावाद्यन्त व्यतिक्रान्ते तव पुत्रे धनञ्जयम् ॥३९॥

सिंहनादरवाश्चासन् शंखशब्दविमिश्रिताः ।
दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम् ॥४०॥

ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः ।
ते प्राहृष्यन्त समरे दृष्ट्वा पुत्रं तव प्रभो ॥४१॥

दृष्ट्वा दुर्योधनं कृष्णो व्यतिक्रान्तं सहानुगम् ।
अब्रवीद‌र्जुनं राजन् प्राप्तकालमिदं वचः ॥४२॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि दुर्योधनागमे एकाधिकशततमोऽध्यायः ॥१०१॥
द्व्यधिकशततमोऽध्यायः

वासुदेव उवाच। दुर्योधनमतिक्रान्तमेतं पश्य धनञ्जय ।
अत्यद्भुतमिमं मन्ये नास्त्यस्य सदृशो रथः ॥१॥

दुर्योधनमिति । नास्तीत्यर्जुनोत्तेजनम् ॥१॥

दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः ।
दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः ॥२॥

अत्यन्तसुखसंवृद्धो मानितश्च महारथः ।
कृती च सततं पार्थ नित्यं द्वेष्टि च बान्धवान् ॥३॥

तेन युद्धमहं मन्ये प्राप्तकालं तवानघ ।
अत्र वो द्यूतमायत्तं विजयायेतराय वा ॥४॥

अत्र क्रोधविषं पार्थ विमुञ्च चिरसंभृतम् ।
एष मूलमनर्थानां पाण्डवानां महारथः ॥५॥

सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः ।
कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम् ॥६॥

आक्षेपं शरगोचरम् ॥६॥

दिष्ट्या त्विदानीं सप्राप्त एष ते बाणगोचरम् ।
यथाऽयं जीवितं जह्यात् तथा कुरु धनञ्जय ॥७॥

ऐश्वर्यमदसंमूढो नैष दुःखमुपेयिवान् ।
न च ते संयुगे वीर्यं जानाति पुरुषर्षभ ॥८॥

त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः ।
नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः ॥९॥

स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम् ।
जह्येनं त्वं महाबाहो यथा वृत्रं पुरन्दरः ॥१०॥

एष ह्यनर्थे सततं पराक्रान्तस्तवानघ ।
निकृत्या धर्मराजं च द्यूते वञ्चितवानयम् ॥११॥

बहूनि सुनृशंसानि कृतान्येतेन मानद ।
युष्मासु पापमतिना अपापेष्वेव नित्यदा ॥१२॥

तमनार्यं सदा क्रुद्धं पुरुषं कामरूपिणम् ।
आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन् ॥१३॥

निकृत्या राज्यहरणं वनवासं च पाण्डव ।
परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रमम् ॥१४॥

दिष्ट्यैष तव बाणानां गोचरे परिवर्तते ।
प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः ॥१५॥

कार्यस्य जयद्रथवधरूपस्य ॥१५॥

दिष्ट्या जानाति संग्रामे योद्धव्यं हि त्वया सह ।
दिष्ट्या च सफलाः पार्थ सर्वे कामा ह्यकामिताः ॥१६॥

तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम् ।
यथेन्द्रेण हतः पूर्वं जंभो देवासुरे मृधे ॥१७॥

अस्मिन् हते त्वया सैन्यमनाथं भिद्यतामिदम् ।
वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम् ॥१८॥

सञ्जय उवाच। तं तथेत्यब्रवीत् पार्थः कृत्यरूपमिदं मम ।
सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः ॥१९॥

कृत्यरूपमत्यन्तकरणीयम् ॥१९॥

येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम् ।
अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे ॥२०॥

अपि तस्य ह्यनर्हायाः परिक्लेशस्य माधव ।
कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे ॥२१॥

पदं प्रतिपदम् ॥२१॥

इत्येवंवादिनौ कृष्णौ हृष्टौ श्वेतान्हयोत्तमान् ।
प्रेषयामासतुः संख्ये प्रेप्सन्तौ तं नराधिपम् ॥२२॥

तयोः समीपं संप्राप्य पुत्रस्ते भरतर्षभ ।
न चकार भयं प्राप्ते भये महति मारिष ॥२३॥

तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन् ।
यदर्जुन हृषीकेशौ प्रत्युद्यातौ न्यवारयत् ॥२४॥

ततः सर्वस्य सैन्यस्य तावकस्य विशांपते ।
महानादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे ॥२५॥

तस्मिन् जनसमुन्नादे प्रवृत्ते भैरवे सति ।
कदर्थीकृत्य ते पुत्रः प्रत्यभित्रमवारयत् ॥२६॥

आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना ।
संरंभमगमद्भूयः स च तस्मिन् परन्तपः ॥२७॥

तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनञ्जयौ ।
अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः ॥२८॥

दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष ।
प्रहसन्नेव पुत्रस्ते योद्धुकामः समाह्वयत् ॥२९॥

ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनञ्जयः ।
व्यक्रोशेतां महानादं दध्मतुश्चांबुजोत्तमौ ॥३०॥

तौ हृष्टरूपौ संप्रेक्ष्य कौरवेयास्तु सर्वशः ।
निराशाः समपद्यन्त पुत्रस्य तव जीविते ॥३१॥

शोकमापुः परे चैव कुरवः सर्व एव ते ।
अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् ॥३२॥

तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ ।
हतो राजा हतो राजेत्यूचिरे च भयार्दिताः ॥३३॥

जनस्य सन्निनादं तु श्रुत्वा दुर्योधनोऽब्रवीत् ।
व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे ॥३४॥

इत्युक्त्वा सैनिकान्सर्वान् जयापेक्षी नराधिपः ।
पार्थमाभाष्य संरंभादिदं वचनमब्रवीत् ॥३५॥

पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं पार्थिवमेव च ।
तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना ॥३६॥

यद्बलं तव वीर्यं च केशवस्य तथैव च ।
तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम् ॥३७॥

अस्मत्परोक्षं कर्माणि कृतानि प्रवदन्ति ते ।
स्वामिसत्कारयुक्तानि यानि तानीह दर्शय ॥३८॥

स्वामिसत्कारो वीरप्रधानोऽयमिति यदन्यैः सत्कारणं तेन युक्तानि योग्यतां गतानि ॥३८॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि दुर्योधनवचने द्व्यधिकशततमोऽध्यायः ॥१०२॥
त्र्यधिकशततमोऽध्यायः

सञ्जय उवाच। एवमुक्त्वाऽर्जुनं राजा त्रिभिर्मर्मातिगैः शरैः ।
अभ्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् ॥१॥

एवमिति । एवमीदृशप्रभावम् ॥१॥

वासुदेवं च दशभिः प्रत्यविध्यत् स्तनान्तरे ।
प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत् ॥२॥

तं चतुर्दशभिः पार्थश्चित्रपुंखैः शिलाशितैः ।
अविध्यत्तूर्णमव्यग्रस्ते चाभ्रश्यन्त वर्मणि ॥३॥

तेषां नैष्फल्यमालोक्य पुनर्नव च पञ्च च ।
प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः ॥४॥

अष्टाविंशांस्तु तान् बाणानस्तान् विप्रेक्ष्य निष्फलान् ।
अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः ॥५॥

अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम् ।
त्वया संप्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ॥६॥

कच्चिद्गाण्डीवजः प्राणस्तथैव भरतर्षभ ।
मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव ॥७॥

न वा कच्चिदयं कालः प्राप्तः स्यादद्य पश्चिमः ।
तव चैवास्य शत्रोश्च तन्ममाचक्ष्य पृच्छतः ॥८॥

विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान् ।
व्यर्थान्निपतितान्संख्ये दुर्योधनरथं प्रति ॥९॥

वज्राशनिसमा घोराः परकायावभेदिनः ।
शराः कुर्वन्ति ते नार्थं पार्थ काऽद्य विडम्बना ॥१०॥

अर्जुन उवाच। द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्र निवेशिता ।
अभेद्या हि ममास्त्राणामेषा कवचधारणा ॥११॥

अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि ।
एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात् ॥१२॥

न शक्यमेतत्कवचं बाणैर्भेत्तुं कथञ्चन ।
अपि वज्रेण गोविन्द स्वयं मघवता युधि ॥१३॥

जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम् ।
यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते ॥१४॥

तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव ।
न त्विदं वेद वै कश्चिद्यथा त्वं मधुसूदन ॥१५॥

एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम् ।
तिष्ठत्यभीतवत्संख्ये बिभ्रत्कवचधारणाम् ॥१६॥

यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव ।
स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् ॥१७॥

युक्तामन्यप्रयुक्ताम् ॥१७॥

पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन ।
पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् ॥१८॥

इद‌मङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम् ।
तस्माद्बृहस्पतिः प्राप ततः प्राप पुरन्दरः ॥१९॥

पुनर्ददौ सुरपतिर्मह्यं वर्म ससंग्रहम् ।
दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम् ॥२०॥

ससंग्रहं सोपदेशम् । दैवं देवैः कृतम् ॥२०॥

नैनं गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया ।
सञ्जय उवाच। एवमुक्त्वाऽर्जुनो बाणानभिमन्त्र्य व्यकर्षयत् ॥२१॥

मानवास्त्रेण गानार्हस्तीक्ष्णावरणभेदिना ।
विकृष्यमाणांस्तेनैव धनुर्मध्यगताञ्छरान् ॥२२॥

तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना ।
तान्निकृत्तानिषून् दृष्ट्वा दूरतो ब्रह्मवादिना ॥२३॥

न्यवेदयत् केशवाय विस्मितः श्वेतवाहनः ।
नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन ॥२४॥

अस्त्रं मामेव हन्याद्धि हन्याच्चापि बलं मम ।
ततो दुर्योधनः कृष्णौ नवभिर्नवभिः शरैः ॥२५॥

अविध्यत रणे राजञ्छरैराशीविषोपमैः ।
भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ ॥२६॥

शरवर्षेण महता ततोऽहृष्यन्त तावकाः ।
चक्रुर्वादित्रनिनदान् सिंहनादरवांस्तथा ॥२७॥

ततः क्रुद्धो रणे पार्थः सृक्किणी परिसंलिहन् ।
नापश्यच्च ततोऽस्यांगं यन्न स्याद्धर्मरक्षितम् ॥२८॥

ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः ।
हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी ॥२९॥

निर्देहान् निकृत्तावयवान् ॥२९॥

धनुरस्याच्छिनत्तूर्णं हस्तावापं च वीर्यवान् ।
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ॥३०॥

दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् ।
आविद्ध्यद्धस्ततलयोरुभयोरर्जुनस्तदा ॥३१॥

प्रयत्नज्ञो हि कौन्तेयो नखमांसान्तरेषुभिः ।
स वेदनाभिराविग्नः पलायनपरायणः ॥३२॥

नखमांसान्तरे इषुभिराविध्यदिति पूर्वेणान्वयः सन्धिरार्षः ॥३२॥

तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः ।
समापेतुः परीप्सन्तो धनञ्जयशरार्दितम् ॥३३॥

तं रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः ।
पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम् ॥३४॥

अथ नार्जुनगोविन्दौ न रथो वा व्यदृश्यत ।
अस्त्रवर्षेण महता जनौघैश्चापि संवृतौ ॥३५॥

ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् ।
तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः ॥३६॥

ते हता हन्यमानाश्च न्यगृह्णांस्तं रथोत्तमम् ।
स रथस्तंमितस्तस्थौ क्रोशमात्रे समन्ततः ॥३७॥

क्रोशमात्रे सैन्धवतोऽर्थात् ॥३७॥

ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत् ।
धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चांबुजम् ॥३८॥

ततो विस्फार्य बलवद्गांडीवं जघ्निवान् रिपून् ।
महता शरवर्षेण तलशब्देन चार्जुनः ॥३९॥

पाञ्चजन्यं च बलवान् दध्मौ तारेण केशवः ।
रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् ॥४०॥

तस्य शंखस्य नादेन धनुषो निःस्वनेन च ।
निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः ॥४१॥

तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः ।
जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः ॥४२॥

ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु ।
चक्रुर्नादान् महेष्वासाः कंपयन्तो वसुन्धराम् ॥४३॥

बाणशब्दरवांश्चोग्रान्विमिश्राञ्शंखनिःस्वनैः ।
प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि ॥४४॥

तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् ।
प्रदध्मतुः शंखवरौ वासुदेवधनञ्जयौ ॥४५॥

तेन शब्देन महता पूरितेयं वसुन्धरा ।
सशैला सार्णवद्वीपा सपाताला विशांपते ॥४६॥

स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश ।
प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले ॥४७॥

तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ ।
संभ्रमं परमं प्राप्तास्त्वरमाणा महारथाः ॥४८॥

अथ कृष्णौ महाभागौ तावका वीक्ष्य दंशितौ ।
अभ्यद्रवन्त संक्रुद्धास्तदद्भुतमिवाभवत् ॥४९॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि दुर्योधनपराजये त्र्यधिकशततमोऽध्यायः ॥१०३॥
चतुरधिकशततमोऽध्यायः

सञ्जय उवाच। तावका हि समीक्ष्यैवं वृष्यन्धककुरूत्तमौ ।
प्रागत्वरन् जिघांसन्तस्तथैव विजयः परान् ॥१॥

तावका इति । प्रागग्र एव समीक्ष्येत्यन्वयः ॥१॥

सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः ।
दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः ॥२॥

वैयाघ्रैर्व्याघ्रचर्मचित्रैः ॥२॥

रुक्मपुंखैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते ।
कूजद्भिरतुलान्नादान् कोपितैस्तुरगैरिव ॥३॥

भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः ।
कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः ॥४॥

ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः ।
व्यराजयन् दश दिशो वैयाघ्रैर्हेमचन्द्रकैः ॥५॥

ते दंशिताः सुसंरब्धा रथैर्मेघौघनिःस्वनैः ।
समावृण्वन्दश दिशः पार्थस्य निशितैः शरैः ॥६॥

कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान् ।
व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश ॥७॥

कौलूतकाः कुलूतदेशजाः पार्वतीयसमानलक्षणाः ॥७॥

आजानेयैर्महावेगैर्नानादेशसमुत्थितैः ।
पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः ॥८॥

आजानेयैरिति । ‘गुडगन्धाः काये ये सुश्लक्ष्णाः कान्तितो जितक्रोधा । सारयुता जितेन्द्रियाः क्षुत्तृडाहितं चापि नो दुःखम् । जानन्त्याजनिया निर्दिष्टा वाजिनो धीरैः । वाहास्तु पार्वतीया बलान्विता स्निग्धकेशाश्च । वृतखुरा दृढपादा महाजवास्तेति विख्यात्ताः’ ॥ नदीजैर्नदीरिजैः । ‘अश्वाः सकर्णिकाराः क्वचन नदीतीरजाः समुद्दिष्टाः । पूर्वार्धेषूदग्राः पश्चार्धे चानताः किञ्चित्’ ॥८॥

कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः ।
धनञ्जयरथं शीघ्रं सर्वतः समुपाद्रवन् ॥९॥

ते प्रगृह्य महाशंखान् दध्मुः पुरुषसत्तमाः ।
पूरयन्तो दिवं राजन् पृथिवीं च ससागराम् ॥१०॥

तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ ।
प्रवरौ सर्वदेवानां सर्वशङ्खवरौ भुवि ॥११॥

देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः ।
शब्दस्तु देवदत्तस्य धनञ्जयसमीरितः ॥१२॥

पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् ।
तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः ॥१३॥

सर्वशब्दानतिक्रम्य पूरयामास रोदसी ।
तस्मिंस्तथा वर्तमाने दारुणे नादसंकुले ॥१४॥

भीरूणां त्रासजनने शूराणां हर्षवर्धने ।
प्रवादितासु भेरीषु झर्झरेष्वानकेषु च ॥१५॥

मृदंगेष्वपि राजेन्द्र वाद्यमानेष्वनेकशः ।
महारथाः समाहूता दुर्योधनहितैषिणः ॥१६॥

अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः ।
नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः ॥१७॥

अमर्षिता महाशंखान् दध्मुर्वीरा महारथाः ।
कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च ॥१८॥

बभूव तव तत्सैन्यं शंखशब्दसमीरितम् ।
उद्विग्नरथनागाश्वमस्वस्थमिव वा विभो ॥१९॥

तत् प्रविद्धमिवाकाशं शूरैः शंखविनादितम् ।
बभूव भृशमुद्विग्नं निर्घातैरिव नादितम् ॥२०॥

प्रविद्धमाक्षिप्तम् ॥२०॥

स शब्दः सुमहान् राजन् दिशः सर्वा व्यनादयत् ।
त्रासयामास तत् सैन्यं युगान्त इव संभृतः ॥२१॥

ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः ।
जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् ॥२२॥

ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत् ।
अर्जुनं च त्रिभिर्भलैर्ध्वजमश्वांश्च पञ्चभिः ॥२३॥

तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत् ।
अत्यर्थमिव संक्रुद्धः प्रतिविद्धे जनार्दने ॥२४॥

कर्णं च दशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा ।
शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् ॥२५॥

गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पांडवम् ।
भूरिश्रवास्त्रिभिर्बाणैर्हेमपुंखैः शिलाशितैः ॥२६॥

कर्णो द्वात्रिंशता चैव वृषसेनश्च सप्तभिः ।
जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः ॥२७॥

मद्रराजश्च दशभिर्विव्यधुः फाल्गुनं रणे ।
ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत् ॥२८॥

वासुदेवं च विंशत्या पुनः पार्थे च पञ्चभिः ।
प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः ॥२९॥

प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम् ।
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिः शरैः ॥३०॥

शल्यस्य सशरं चापं मुष्टिदेशे व्यकृन्तत ।
सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः ॥३१॥

शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः ।
गौतमं पञ्चविंशत्या सैन्धवं च शतेन ह ॥३२॥

पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत् ।
भूरिश्रवास्तु संक्रुद्धः प्रतोदं चिच्छिदे हरेः ॥३३॥

अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह ॥३४॥

ततः शरशतैस्तीक्ष्णैस्तानरीन् श्वेतवाहनः ।
प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव ॥३५॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि संकुलयुद्धे चतुरधिकशततमोऽध्यायः ॥१०४॥
पञ्चाधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। ध्वजान्बहुविधाकारान्भ्राजमानानति श्रिया ।
पार्थानां मामकानां च तान्ममाचक्ष्व सञ्जय ॥१॥

ध्वजानिति ॥१॥

सञ्जय उवाच। ध्वजान्बहुविधाकारान्शृणु तेषां महात्मनाम् ।
रूपतो वर्णतश्चैव नामतश्च निबोध मे ॥२॥

रूपमाकारः ॥२॥

तेषां तु रथमुख्यानां रथेषु विविधा ध्वजाः ।
प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः ॥३॥

काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलंकृताः ।
काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः ॥४॥

अनेकवर्णा विविधा ध्वजाः परमशोभनाः ।
ते ध्वजाः संवृतास्तेषां पताकाभिः समंततः ॥५॥

नानावर्णविरागाभिः शुशुभुः सर्वतो वृताः ।
पताकाश्च ततस्तास्तु श्वसनेन समीरिताः ॥६॥

नृत्यमाना व्यदृश्यन्त रंगमध्ये विलासिकाः ।
इन्द्रायुधसवर्णाभाः पताका भरतर्षभ ॥७॥

दोधूयमाना रथिनां शोभयन्ति महारथान् ।
सिंहलांगूलमुग्रास्यं ध्वजं वानरलक्षणम् ॥८॥

धनञ्जयस्य संग्रामे प्रत्यदृश्यत भैरवम् ।
स वानरवरो राजन् पताकाभिरलंकृतः ॥९॥

त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः ।
तथैव सिंहलांगूलं द्रोणपुत्रस्य भारत ॥१०॥

ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम् ।
काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम् ॥११॥

ध्वजाग्रं ध्वजमुख्यं काञ्चनं काञ्चनमयम् ॥११॥

नन्दनं कौरवेन्द्राणां द्रौणेर्लक्ष्म समुच्छ्रितम् ।
हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजः ॥१२॥

आहवे खं महाराज ददृशे पूरयन्निव ।
पताका काञ्चनी स्रग्वी ध्वजे कर्णस्य संयुगे ॥१३॥

स्रग्वी स्रग्विणी ॥१३॥

नृत्यतीव रथोपस्थे श्वसनेन समीरिता ।
आचार्यस्य तु पाण्डूनां ब्राह्मणस्य तपस्विनः ॥१४॥

गोवृषो गौतमस्यासीत् कृपस्य सुपरिष्कृतः ।
स तेन भ्राजते राजन् गोवृषेण महारथः ॥१५॥

त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजता ।
मयूरो वृषसेनस्य काञ्चनो मणिरक्षवान् ॥१६॥

व्याहरिष्यन्निवातिष्ठत् सेनाग्रमुपशोभयन् ।
तेन तस्य रथो भाति मयूरेण महात्मनः ॥१७॥

व्याहरिष्यन् वदिष्यन् ॥१७॥

यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता ।
मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव ॥१८॥

सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम् ।
सा सीता भ्राजते तस्य रथमास्थाय मारिष ॥१९॥

सर्वबीजविरूढेव यथा सीता श्रिया वृता ।
वराहः सिन्धुराजस्य राजतोऽभिविराजते ॥२०॥

ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः ।
शुशुभे केतुना तेन राजतेन जयद्रथः ॥२१॥

अलोहितार्काभोऽनुपरक्तस्फटिकवर्णः । ‘अर्कोऽर्कपर्णे स्फटिके’ इति मेदिनी ॥२१॥

यथा देवासुरे युद्धे पुरा पूषा स्म शोभते ।
सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः ॥२२॥

ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते ।
स यूपः काञ्चनो राजन् सौमद‌त्तेर्विराजते ॥२३॥

राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः ।
शलस्य तु महाराज राजतो द्विरदो महान् ॥२४॥

केतुः काञ्चनचित्रांगैर्मयूरैरुपशोभितः ।
स केतुः शोभयामास सैन्यं ते भरतर्षभ ॥२५॥

यथा श्वेतो महानागो देवराजचमूं तथा ।
नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः ॥२६॥

किंकिणीशतसंह्रादो भ्राजंश्चित्रो रथोत्तमे ।
व्यभ्राजत भृशं राजन् पुत्रस्तव विशांपते ॥२७॥

ध्वजेन महता संख्ये कुरूणामृषभस्तदा ।
नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः ॥२८॥

व्यदीपयंस्ते पृतनां युगान्तादित्यसन्निभाः ।
दशमस्त्वर्जुनस्यासीदेक एव महाकपिः ॥२९॥

अदीप्यतार्जुनो येन हिमवानिव वह्निना ।
ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः ॥३०॥

हिमवानिव वह्निनेति तत्र किल पराशरेण वह्निः स्थापितः ॥३०॥

कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परन्तपाः ।
तथैव धनुरायच्छत् पार्थः शत्रुविनाशनः ॥३१॥

गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव ।
तवापराधाद्राजानो निहता बहुशो युधि ॥३२॥

नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः ।
तेषामासीद्व्यतिक्षेपो गर्जतामितरेतरम् ॥३३॥

व्यतिक्षेपः अन्योन्याभिघातः ॥३३॥

दुर्योधनमुखानां च पाण्डूनामृषभस्य च ।
तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः॥३४॥

यदेको बहुभिः सार्धं समागच्छदभीतवत् ।
अशोभत महाबाहुर्गाण्डीवं विक्षिपन् धनुः ॥३५॥

जिगीषुस्तान्नरव्याघ्रो जिघांसुश्च जयद्रथम् ।
तत्रार्जुनो नरव्याघ्रः शरैर्मुक्तैः सहस्रशः ॥३६॥

अदृश्यांस्तावकान् योधान् प्रचक्रे शत्रुतापनः ।
ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः ॥३७॥

अदृश्यं समरे चक्रुः सायकौघैः समन्ततः ।
संवृते नरसिंहैस्तु कुरूणामृषभेऽर्जुने ।
महानासीत् समुद्भूतस्तस्य सैन्यस्य निःस्वनः ॥३८॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि ध्वजवर्णने पञ्चाधिकशततमोऽध्यायः ॥१०५॥
षडधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः ।
पञ्चालाः कुरुभिः सार्धं किमकुर्वत सञ्जय ॥१॥

अर्जुने इति ॥१॥

सञ्जय उवाच। अपराह्णे महाराज संग्रामे लोमहर्षणे ।
पञ्चालानां कुरूणां च द्रोणद्यूतमवर्तत ॥२॥

पञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः ।
अभ्यमुञ्चन्त गर्जन्तः शरवर्षाणि मारिष ॥३॥

ततस्तु तुमुलस्तेषां संग्रामोऽवर्तताद्भुतः ।
पञ्चालानां कुरूणां च घोरो देवासुरोपमः ॥४॥

सर्वे द्रोणरथं प्राप्य पञ्चालाः पाण्डवैः सह ।
तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् ॥५॥

द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः ।
कम्पयन्तोऽभ्यवर्तन्त वेगमास्याय मध्यमम् ॥ ६॥

कम्पयन्तो भुवमिति शेषः ॥६॥

तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः ।
प्रवपन्निशितान् बाणान्महेन्द्राशनिसन्निभान् ॥७॥

तं तु प्रत्युद्ययौ शीघ्रं क्षेमधूर्तिर्महायशाः ।
विमुञ्चन्निशितान्बाणान् शतशोऽथ सहस्रशः ॥८॥

धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः ।
त्वरितोऽभ्यद्रवद्रोणं महेन्द्र इव शम्बरम् ॥९॥

तमापतन्तं सहसा व्यादितास्यमिवान्तकम् ।
वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् ॥१०॥

युधिष्ठिरं महाराजं जिगीषुं समवस्थितम् ।
सहानीक ततो द्रोणो न्यवारयत वीर्यवान् ॥११॥

नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी ।
अभ्यगच्छत् समायान्तं विकर्णस्ते सुतः प्रभो ॥१२॥

सहदेवं तथा यान्तं दुर्मुखः शत्रुकर्षणः ।
शरैरनेकसाहस्रैः समवाकिरदाशुगैः ॥१३॥

सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत् ।
शरैः सुनिशितैस्तीक्ष्णैः कम्पयन् वै मुहुर्मुहुः ॥१४॥

द्रौपदेयान्नरव्याघ्रान् मुञ्चतः सायकोत्तमान् ।
संरब्धान् रथिनः श्रेष्ठान् सौमदत्तिरवारयत् ॥१५॥

सौमदत्तिः शलः ॥१५॥

भीमसेनं तदा कुद्धं भीमरूपो भयानकः ।
प्रत्यवारयदायान्तमार्ष्यशृङ्गिर्महारथः ॥१६॥

तयोः समभवद्युद्धं नरराक्षसयोर्मृधे ।
यादृगेव पुरा वृत्तं रामरावणयोर्नृप ॥१७॥

ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् ।
आजघ्ने भरतश्रेष्ठः सर्वमर्मसु भारत ॥१८॥

तं द्रोणं पञ्चविंशत्या निजघान स्तनान्तरे ।
रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना ॥१९॥

भूय एव तु विंशत्या सायकानां समाचिनोत् ।
साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् ॥२०॥

ताञ्शरान् द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः ।
अवारयत धर्मात्मा दर्शयन् पाणिलाघवम् ॥२१॥

ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे ।
चिच्छेद समरे धन्वी धनुस्तस्य महात्मनः ॥२२॥

अथैनं छिन्नधन्वानं त्वरमाणो महारथः ।
शरैरनेकसाहस्रैः पूरयामास सर्वतः ॥२३॥

अदृश्यं वीक्ष्य राजानं भारद्वाजस्य सायकैः ।
सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् ॥२४॥

केचिच्चैनममन्यन्त तथैव विमुखीकृतम् ।
हतो राजेति राजेन्द्र ब्राह्मणेन महात्मना ॥२५॥

हतो राजेति अमन्यन्तेत्यनुषङ्गः ॥२५॥

स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः ।
त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे ॥२६॥

आददेऽन्यद्धनुर्दिव्यं भास्वरं वेगवत्तरम् ।
ततस्तान् सायकांस्तत्र द्रोणनुन्नान् सहस्रशः ॥२७॥

चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् ।
छित्वा तु ताञ्शरान् राजन्क्रोधसंरक्तलोचनः ॥२८॥

शक्तिं जग्राह समरे गिरीणामपि दारिणीम् ।
स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम् ॥२९॥

समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली ।
नादेन सर्वभूतानि त्रासयन्निव भारत ॥३०॥

शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे ।
स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् ॥३१॥

सा राजभुजनिर्मुक्ता निर्मुक्तोरगसन्निभा ।
प्रज्वालयन्ती गगनं दिशः सप्रदिशस्तथा ॥३२॥

द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा ।
तामापतन्तीं सहसा दृष्ट्वा द्रोणो विशांपते ॥३३॥

प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः ।
तदस्त्रं भस्मसात् कृत्वा तां शक्तिं घोरदर्शनाम् ॥३४॥

जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः ।
ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम् ॥३५॥

अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव मारिष ।
विद्ध्वा तं च रणे द्रोणं पञ्चभिर्नतपर्वभिः ॥३८॥

क्षुरप्रेण सुतीक्ष्णेन चिच्छेदास्य महद्धनुः ।
तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः ॥३७॥

गदां चिक्षेप सहसा धर्मपुत्राय मारिष ।
तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः ॥३८॥

गदामेवाग्रहीत् क्रुद्धश्चिक्षेप च परन्तप ।
ते गदे सहसा मुक्ते समासाद्य परस्परम् ॥३९॥

सङ्घर्षात् पावकं मुक्त्वा समेयातां महीतले ।
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष ॥४०॥

चतुर्भिर्निशितैस्तीक्ष्णैर्हयान् जघ्ने शरोत्तमैः ।
चिच्छेदैकेन भल्लेन धनुश्चेन्द्रध्वजोपमम् ॥४१॥

केतुमेकेन चिच्छेद पाण्डवं चादयन्त्रिभिः ।
हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः ॥४२॥

तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ ।
विरथं तं समालोक्य व्यायुधं च विशेषतः ॥४३॥

द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि वा विभो ।
मुञ्चंश्चेषुगणांस्तीक्ष्णान् लघुहस्तो दृढव्रतः ॥४४॥

अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः ।
तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना ॥४५॥

हाहेति सहसा शब्दः पाण्डूनां समजायत ।
हतो राजा हतो राजा भारद्वाजेन मारिष ॥४६॥

इत्यासीत् सुमहाञ्छन्दः पाण्डुसैन्यस्य भारत ।
ततस्त्वरितमारुह्य सहदेवरथं नृपः ।
अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः ॥४७॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि युधिष्ठिरापयाने षडधिकशततमोऽध्यायः ॥१०६॥
सप्ताधिकशततमोऽध्यायः

सञ्जय उवाच। बृहत्क्षत्रमथायान्तं कैकेयं दृढविक्रमम् ।
क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः ॥१॥

बृहत्क्षत्रमिति ॥१॥

बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम् ।
आजघ्ने त्वरितो राजन् द्रोणानीकबिभित्सया ॥२॥

क्षेमधूर्तिस्तु संक्रुद्धः कैकेयस्य महात्मनः ।
धनुश्चिच्छेद भल्लेन पीतेन निशितेन ह ॥३॥

अथैनं छिन्नधन्वानं शरेणानतपर्वणा ।
विव्याध समरे तूर्णं प्रवरं सर्वधन्विनाम् ॥४॥

अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव ।
व्यश्वसूतरथं चक्रे क्षेमधूर्तिं महारथम् ॥५॥

ततोऽपरेण भल्लेन पीतेन निशितेन च ।
जहार नृपतेः कायाच्छिरो ज्वलितकुण्डलम् ॥६॥

तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम् ।
सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात् ॥७॥

तं निहत्य रणे दृष्टो बृहत्क्षत्रो महारथः ।
सहसाऽभ्यपतत् सैन्यं तावकं पार्थकारणात् ॥८॥

धृष्टकेतुं तथाऽऽयान्तं द्रोणहेतोः पराक्रमी ।
वीरधन्वा महेष्वासो वारयामास भारत ॥९॥

तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ ।
शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः ॥१०॥

तावुभौ नरशार्दूलौ युयुधाते परस्परम् ।
महावने तीव्रमदौ वारणाविव यूथपौ ॥११॥

गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ ।
युयुधाते महावीर्यौ परस्परजिघांसया ॥१२॥

तद्युद्धमासीत्तुमुलं प्रेक्षणीयं विशांपते ।
सिद्धचारणसंघानां विस्मयाद्भुतदर्शनम् ॥१३॥

वीरधन्वा ततः कुद्धो धृष्टकेतोः शरासनम् ।
द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत ॥१४॥

तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः ।
शक्तिं जग्राह विपुलां हेमदण्डामयस्मयीम् ॥१५॥

तां तु शक्तिं महावीर्यां दोर्भ्यामायम्य भारत ।
चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति ॥१६॥

तया तु वीरघातिन्या शक्त्या त्वभिहतो भृशं ।
निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम् ॥१७॥

तस्मिन्विनिहते वीरे त्रैगर्तानां महारथे ।
बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः ॥१८॥

सहदेवे ततः षष्टिं सायकान् दुर्मुखोऽक्षिपत् ।
ननाद व महानादं तर्जयन् पाण्डवं रणे ॥१९॥

माद्रेयस्तु ततः कुद्धो दुर्मुखं च शितैः शरैः ।
भ्राता भ्रातरमायान्तं विव्याध प्रहसन्निव ॥२०॥

तं रणे रभसं दृष्ट्वा सहदेवं महाबलम् ।
दुर्मुखो नवभिर्बाणैस्ताडयामास भारत ॥२१॥

दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः ।
जघान चतुरो बाहांश्चतुर्भिर्निशितैः शरैः ॥२२॥

अथापरेण भल्लेन पीतेन निशितेन ह ।
चिच्छेद सारथेः कायाच्छिरो ज्वलितकुंडलम् ॥२३॥

क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः ।
सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः ॥२४॥

हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा ।
आरुरोह रथं राजन्निरमित्रस्य भारत ॥२५॥

सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे ।
जघान पूतनामध्ये भल्लेन परवीरहा ॥२६॥

स पपात रथोपस्थान्निरमित्रो जनेश्वरः ।
त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम् ॥२७॥

तं तु हत्वा महाबाहुः सहदेवो व्यरोचत ।
यथा दाशरथी रामः खरं हत्वा महाबलम् ॥२८॥

हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर ।
राजपुत्रं हतं दृष्ट्वा निरमित्रं महारथम् ॥२९॥

नकुलस्ते सुतं राजन् विकर्णं पृथुलोचनम् ।
मुहूर्ताज्जितवान् लोके तद‌द्भुतमिवाभवत् ॥३०॥

सात्यकिं व्याघ्रद‌त्तस्तु शरैः सन्नतपर्वभिः ।
चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे ॥३१॥

तान्निवार्य शरान् शूरः शैनेयः कृतहस्तवत् ।
साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत् ॥३२॥

कुमारे निहते तस्मिन् मागधस्य सुते प्रभो ।
मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन् ॥३३॥

विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः ।
भिन्दिपालांस्तथा प्रासान् मुद्गरान्मुसलानपि ॥३४॥

अयोधयन् रणे शूराः सात्वतं युद्धदुर्मदम् ।
तांस्तु सर्वान् स बलवान् सात्यकिर्युद्धदुर्मदः ॥३५॥

नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभः ।
मागधान् द्रवतो दृष्ट्वा हतशेषान् समन्ततः ॥३६॥

बलं तेऽभज्यत विभो युयुधानशरार्दितम् ।
नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः ॥३७॥

विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः ।
भज्यमानं बलं राजन् सात्वतेन महात्मना ॥३८॥

नाभ्यवर्तत युद्धाय त्रासितं दीर्घवाहुना ।
ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी ।
सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे ॥३९॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि संकुलयुद्धे सप्ताधिकशततमोऽध्यायः ॥१०७॥
अष्टाधिकशततमोऽध्यायः

सञ्जय उवाच। द्रौपदेयान्महेष्वासान् सौमदत्तिर्महायशाः ।
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥१॥

द्रौपदेयानिति॥१॥

ते पीडिता भृशं तेन रौद्रेण सहसा विभो ।
प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किंचन ॥२॥

नाकुलिश्च शतानीकः सौमदत्तिं नरर्षभम् ।
द्वाभ्यां विद्ध्वाऽनदद्धृष्टः शराभ्यां शत्रुकर्शनः ॥३॥

तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः ।
विव्यधुः समरे तूर्णं सौमद‌त्तिममर्षणम् ॥४॥

स तान् प्रति महाराज पञ्च चिक्षेप सायकान् ।
एकैकं हृदि चाजघ्ने एकैकेन महायशाः ॥५॥

ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना ।
परिवार्य रणे वीरं विव्यधुः सायकैर्भृशम् ॥६॥

आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः ।
प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति ॥७॥

भैमसेनिर्धनुश्छित्वा सौमदत्तेर्महात्मनः ।
ननाद बलवन्नादं विव्याध च शितैः शरैः ॥८॥

यौधिष्ठेरिर्ध्वजं तस्य छित्त्वा भूमावपातयत् ।
नाकुलिश्चाथ यन्तारं रथनीडाद‌पाहरत् ॥९॥

साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् ।
क्षुरप्रेण शिरो राजन्निचकर्त महात्मनः ॥१०॥

तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम् ।
भ्राजयत्तं रणोद्देशं बालसूर्यसमप्रभम् ॥११॥

सौमदत्तेः शिरो दृष्ट्वा निहतं तन्महात्मनः ।
वित्रस्तास्तावका राजन् प्रदुद्रुवुरनेकधा ॥१२॥

अलंबुषस्तु समरे भीमसेनं महाबलम् ।
योधयामास संक्रुद्धो लक्ष्मणं रावणिर्यथा ॥१३॥

संप्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ ।
विस्मयः सर्वभूतानां प्रहर्षः समजायत ॥१४॥

आर्ष्यशृंगिं ततो भीमो नवभिर्निशितैः शरैः ।
विव्याध प्रहसन् राजन् राक्षसेन्द्रममर्षणम् ॥१५॥

तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम् ।
अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः ॥१६॥

स भीमं पञ्चभिर्विद्वा शरः सन्नतपर्वभिः ।
भैमान् परिजघानाशु रथांस्त्रिशतमाहवे ॥१७॥

पुनश्चतुःशतान् हत्वा भीमं विव्याध पत्रिणा ।
सोऽतिविद्धस्तथा भीमो राक्षसेन महाबलः॥१८॥

निपपात रथोपस्थे मूर्च्छयाऽभिपरिप्लुतः ।
प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्च्छितः ॥१९॥

विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् ।
अलंबुषं शरैस्तीक्ष्णैरर्दयामास सर्वतः ॥२०॥

स विद्धो वहुभिर्बाणैर्नीलाञ्जनचयोपमः ।
शुशुभे सर्वतो राजन् प्रफुल्ल इव किंशुकः ॥२१॥

स वध्यमानः समरे भीमचापच्युतैः शरैः ।
स्मरन् भ्रातृवधं चैव पाण्डवेन महात्मना ॥२२॥

घोरं रूपमथो कृत्वा भीमसेनमभाषत ।
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् ॥२३॥

बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली ।
परोक्षं मम तद्धृत्तं यद्भ्राता मे हतस्त्वया ॥२४॥

एवमुक्त्वा ततो भीममन्तर्धानं गतस्तदा ।
महता शरवर्षेण भृशं तं समवाकिरत् ॥२५॥

भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा ।
आकाशं पूरयामास शरैः सन्नतपर्वभिः ॥२६॥

स वध्यमानो भीमेन निमेषाद्रथमास्थितः ।
जगाम धरणीं चैव क्षुद्रः खं सहसाऽगमत् ॥२७॥

उच्चावचानि रुपाणि चकार सुबहूनि च ।
अणुर्बृहत्पुनः स्थूलो नादान्मुञ्चन्निवाम्बुदः ॥२८॥

बृहत् बृहन्॥२८॥

उच्चावचास्तथा वाचो व्याजहार समंततः ।
निपेतुर्गगनाच्चैव शरधाराः सहस्रशः ॥२९॥

शक्तयः कणपाः प्रासाः शूलपट्टिशतोमराः ।
शतघ्न्यः परिघाश्चैव भिन्दिपालाः परश्वधाः ॥३०॥

शिलाः खड्गा गुडाश्चैव ऋष्टीर्वज्राणि चैव ह ।
सा राक्षसविसृष्टा तु शस्त्रवृष्टिः सुदारुणा ॥३१॥

ऋष्टीः ऋषयः॥३१॥

जघान पाण्डुपुत्रस्य सैनिकान् रणमूर्धनि ।
तेन पाण्डवसैन्यानां सुदिता युधि वारणाः ॥३२॥

हयाश्च बहवो राजन् पत्तयश्च तथा पुनः ।
रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः ॥३३॥

शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् ।
छत्रहंसां कर्दमिनीं बाहुपक्षगसंकुलाम् ॥३४॥

नदीं प्रावर्तयामास रक्षोगणसमाकुलाम् ।
वहन्तीं बहुधा राजंश्चेदिपञ्चालसृञ्जयान् ॥३५॥

तं तथा समरे राजन् विचरन्तमभीतवत् ।
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम् ॥३६॥

तावकानां तु सैन्यानां प्रहर्षः समजायत ।
वादित्रनिनदश्चोग्रः सुमहान् रोमहर्षणः ॥३७॥

तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः ।
नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥३८॥

ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः ।
संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारुतिः ॥३९॥

ततः शरसहस्राणि प्रादुरासन् समन्ततः ।
तैः शरैस्तव सैन्यस्य विद्रवः सुमहानभूत् ॥४०॥

तदस्त्रं प्रेरितं तेन भीमसेनेन संयुगे ।
राक्षसस्य महामायां हत्वा राक्षसमार्दयत् ॥४१॥

स वध्यमानो बहुधा भीमसेनेन राक्षसः ।
सन्त्यज्य समरे भीमं द्रोणानीकमुपाद्रवत् ॥४२॥

तस्मिंस्तु निर्जिते राजन् राक्षसेन्द्रे महात्मना ।
अनादयन् सिंहनादैः पाण्डवाः सर्वतो दिशं ॥४३॥

अपूजयन् मारुतिं च संहृष्टास्ते महाबलम् ।
प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः ॥४४॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि अलंबुषपराजये अष्टाधिकशततमोऽध्यायः ॥१०८॥
नवाधिकशततमोऽध्यायः

सञ्जय उवाच। अलंबुषं तथा युद्धे विचरन्तमभीतवत् ।
हैडिम्बिः प्रययौ तूर्णं विव्याध निशितैः शरैः ॥१॥

अलंबुषमिति ॥१॥

तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः ।
कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव ॥२॥

अलंबुषो भृशं क्रुद्धो घटोत्कचमताडयत् ।
तयोर्युद्धं समभवद्रक्षोग्रामणिमुख्ययोः ॥३॥

रक्षोग्रामणिमुख्ययोः रक्षःपतिप्रधानयोः ॥३॥

यादृगेव पुरा वृत्तं रामरावणयोः प्रभो ।
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे ॥४॥

अलंबुषमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः ।
तथैवालंबुषो राजन् हैडिम्बिं युद्धदुर्मदम् ॥५॥

विद्ध्वा विद्धाऽनवद्‌धृष्टः पूरयन् खं समन्ततः ।
तथा तौ भृशसंक्रुद्धौ राक्षसेन्द्रौ महाबलौ ॥६॥

निर्विशेषमयुध्येतां मायाभिरितरेतरम् ।
मायाशतसृजौ नित्यं मोहयन्ती परस्परम् ॥७॥

मायायुद्धेषु कुशलौ मायायुद्धमयुध्यताम् ।
यां यां घटोत्कचो युद्धे मायां दर्शयते नृप ॥८॥

तां तामलम्बुषो राजन्माययैव निजघ्निवान् ।
तं तथा युध्यमानं तु मायायुद्धविशारदम् ॥९॥

अलम्बुषं राक्षसेन्द्रं दृष्ट्वाऽक्रुध्यन्त पाण्डवाः ।
त एनं भृशसंविग्नाः सर्वतः प्रवरा रथैः ॥११॥

अभ्यद्रवन्त संक्रुद्धा भीमसेनादयो नृप ।
त एनं कोष्ठकीकृत्य रथवंशेन मारिष ॥११॥

सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् ।
स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया ॥१२॥

तस्माद्रथव्रजन्मुक्तो वनदाहादिव द्विपः ।
स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम् ॥१३॥

मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः ।
युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ॥१४॥

नकुलं च त्रिसप्तत्या द्रौपदेयांश्च मारिष ।
पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह ॥१५॥

तं भीमसेनो नवभिः सहदेवस्तु पञ्चभिः ।
युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत ॥१६॥

नकुलस्तु चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः ।
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः ॥१७॥

पुनर्विव्याध सप्तत्या ननाद च महाबलः ।
तस्य नादेन महता कम्पितेयं वसुन्धरा ॥१८॥

सपर्वतवना राजन् सपाद‌पजलाशया ।
सोऽतिविद्धो महेष्वासैः सर्वतस्तैर्महारथैः ॥१९॥

प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चामिः शरैः ।
तं शुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः ॥२०॥

हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः ।
सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः ॥२१॥

व्यसृजत् सायकांस्तूर्णं रुक्मपुंखान् शिलाशितान् ।
ते शरा नतपर्वाणो विविशू राक्षसं तदा ॥२२॥

रुषिताः पन्नगा यद्वद्गिरिशृङ्गं महाबलाः ।
ततस्ते पाण्डवा राजन्समंतान्निशिताञ्शरान् ॥२३॥

प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः ।
स विध्यमानः समरे पाण्डवैर्जितकाशिभिः ॥२४॥

मर्त्यधर्ममनुप्राप्तः कर्तव्यं नान्वपद्यत ।
ततः समरशौण्डो वै भैससेनिर्महाबलः ॥२५॥

मर्त्यधर्मं मरणयोग्यताम् ॥२५॥

समीक्ष्य तदवस्थं तं वधायास्य मनो दधे ।
वेगं चक्रे महान्तं च राक्षसेन्द्ररथं प्रति ॥२६॥

दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम् ।
रथाद्रथमभिद्रुत्य क्रुद्धो हैडिम्बिराक्षिपत् ॥२७॥

आक्षिपत् गृहीतवान् ॥२७॥

उद्वबर्ह रथाच्चापि पन्नगं गरुडो यथा ।
समुत्क्षिप्य च वाहुभ्यामाविद्ध्य च पुनः पुनः ॥२८॥

आविध्य भ्रामयित्वा ॥२८॥

निष्पिषेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि ।
बललाघवसम्पन्नः सम्पद्मो विक्रमेण च ॥२९॥

भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् ।
स विस्फारितसर्वाङ्गश्चूर्णितास्थिर्विभीषणः ॥३०॥

विस्फारितानि पृथग्भूतानि सर्वाङ्गानि यस्य ॥३०॥

घटोत्कचेन धीरेण हतः शालकटङ्कटः ।
ततः सुमनसः पार्था हते तस्मिन्निशाचरे ॥३१॥

चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह ।
तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् ॥३२॥

अलम्बुषं तथा शूरा विशीर्णमिव पर्वतम् ।
हाहाकारमकार्षुश्च सैन्यानि भरतर्षभ ॥३३॥

जनाश्च तद्ददृशिरे रक्षःकौतूहलान्विताः ।
यदृच्छया निपतितं भूमावङ्गारकं यथा ॥३४॥

घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम् ।
मुमोच बलवन्नादं बलं हत्वेव वासवः ॥३५॥

स पूज्यमानः पितृभिः सबान्धवैर्घटोत्कचः कर्मणि दुष्करे कृते ।
रिपुं निहत्याभिननन्द वै तदा ह्यलम्बुषं पक्वमलम्बुषं यथा ॥३६॥

ततो निनादः सुमहान्समुत्थितः सशङ्खनानाविधबाणघोषवान् ।
निशम्य तं प्रत्यनदंस्तु पाण्डवास्ततो ध्वनिर्भुवनपथा स्पृशद्भृशम् ॥३७॥

भुवनं स्वर्लोकम् ॥३७॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि अलम्बुषवधे नवाधिकशततमोऽध्यायः ॥१०९॥
दशाधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। भारद्वाजं कथं युद्धे युयुधानो न्यवारयत् ।
सञ्जयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ॥१॥

भारद्वाजमिति ॥१॥

सञ्जय उवाच। शृणु राजन् महाप्राज्ञ संग्रामं लोमहर्षणम् ।
द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः ॥२॥

वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष ।
अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम् ॥३॥

तमापतन्तं सहसा भारद्वाजं महारथम् ।
सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समापर्यत् ॥४॥

द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः ।
अविध्यत्पञ्चभिस्तूर्णं हेमपुंखैः शरैः शितैः ॥५॥

ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः ।
अभ्ययुधरणीं राजन् श्वसन्त इव पन्नगाः ॥६॥

दीर्घबाहुरभिक्रुद्धस्तोत्रार्दित इव द्विपः ।
द्रोणं पञ्चाशताऽविध्यन्नाराचैरग्निसन्निभैः ॥७॥

भारद्वाजो रणे विद्धो युयुधानेन सत्वरम् ।
सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत ॥८॥

ततः क्रुद्धो महेष्वासो भूय एव महाबलः ।
सात्वतं पीडयामास शरेणानतपर्वणा ॥९॥

स वध्यमानः समरे भारद्वाजेन सात्यकिः ।
नान्वपद्यत कर्तव्यं किञ्चिदेव विशाम्पते ॥१०॥

विषण्णवदनश्चापि युयुधानोऽभवन्नृप ।
भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान् ॥११॥

तं तु संप्रेक्ष्य ते पुत्राः सौनिकाश्च विशांपते ।
प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः ॥१२॥

तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम् ।
युधिष्ठिरोऽब्रवीद्राजा सर्वसैन्यानि भारत ॥१३॥

एष वृष्णिवरो वीरः सात्यकिः सत्यविक्रमः ।
ग्रस्यते युधि वीरेण भानुमानिव राहुणा ॥१४॥

अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते ।
धृष्टद्युम्नं च पाञ्चाल्यमिद‌माह जनाधिपः ॥१५॥

अभिद्रव द्रुतं द्रोणं किमु तिष्ठसि पार्षत ।
न पश्यसि भयं द्रोणाद्धोरं नः समुपस्थितम् ॥१६॥

असौ द्रोणो महेष्वासो युयुधानेन संयुगे ।
क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा ॥१७॥

तत्रैव सर्वे गच्छन्तु भीमसेनपुरोगमाः ।
त्वयैव सहिताः सर्वं युयुधानरथं प्रति ॥१८॥

पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः ।
सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम् ॥१९॥

एवमुक्त्वा ततो राजा सर्वसैन्येन भारत ।
अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात् ॥२०॥

तत्रारावो महानासीद्द्रोणमेक युयुत्सताम् ।
पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः ॥२१॥

ते समेत्य नरव्याघ्रा भारद्वाजं महारथम् ।
अभ्यवर्षन् शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः ॥२२॥

स्मयन्नेव तु तान् ‌वीरान् द्रोणः प्रत्यग्रहीत् स्वयं ।
अतिथीनागतान् यद्वत् सलिलेनासनेन च ॥२३॥

तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः ।
आतिथेयं गृहं प्राप्य नृपतेऽतिथयो यथा ॥२४॥

भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम् ।
मध्यन्दिनमनुप्राप्तं सहस्त्रांशुमिव प्रभो ॥२५॥

तांस्तु सर्वान्महेष्वासान् द्रोणः शस्रभृतां वरः ।
अतापयच्छरव्रातैगभस्तिभिरिवांशुमान् ॥२६॥

वध्यमाना महाराज पाण्डवाः सृञ्जयास्तथा ।
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥२७॥

द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः ।
गभस्तय इवार्कस्य प्रतपन्तः समन्ततः ॥२८॥

तस्मिन्द्रोणेन निहताः पञ्चालाः पञ्चविंशतिः ।
महारथाः समाख्याता धृष्टद्युम्नस्य संमताः ॥२९॥

तस्मिन्नवसरे ॥२९॥

पाण्डूनां सर्वसैन्येषु पञ्चालानां तथैव च ।
द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान् वरान् ॥३०॥

केकयानां शतं हत्वा विद्राव्य च समन्ततः ।
द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः ॥३१॥

पञ्चालान् सृञ्जयान् मत्स्यान् केकयांश्च नराधिप ।
द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः ॥३२॥

तेषां समभवच्छब्दो विद्धानां द्रोणसायकैः ।
वनौकसामिवारण्ये व्याप्तानां धूमकेतुना ॥३३॥

तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप ।
एते द्रवन्ति पञ्चालाः पाण्डवाश्च ससैनिकाः ॥३४॥

तं तथा समरे द्रोणं निघ्नन्तं सोमकान् रणे ।
न चाप्यभिययुः केचिदपरे नैव विव्यधुः ॥३५॥

वर्तमाने तथा रौद्रे तस्मिन् वीरवरक्षये ।
अश्शृणोत् सहसा पार्थः पाञ्चजन्यस्य निःस्वनम् ॥३५॥

पूरितो वासुदेवेन शंखराट् स्वनते भृशम् ।
युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु ॥३५॥

नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति ।
गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः ॥३६॥

कश्मलाभिहतो राजा चिन्तयामास पाण्डवः ।
न नूनं स्वस्ति पार्थाय यथा नदति शखराट् ॥३९॥

कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः ।
एवं स चिन्तयित्वा तु व्याकुलेनान्तरात्मना ॥४०॥

अजातशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत ।
बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः ।
कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुङ्गवम् ॥४१॥

कृत्यस्य जयद्रथवधस्य अनन्तरापेक्षी अविघ्नाकाङ्क्षी ॥४१॥

युधिष्ठिर उवाच। यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः ।
साम्पराये सुहृत्कृत्ये तस्य कालोऽयमागतः ॥४२॥

यः स धर्मो मैत्रीलक्षणः सांपराये आपत्काले ॥४२॥

सर्वेष्वपि च योधेषु चिन्तयन् शिनिपुङ्गव ।
त्वत्तः सुहृत्तमं कञ्चिन्नाभिजानामि सात्यके ॥४३॥

यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः ।
स कार्ये सांपराये तु नियोज्य इति मे मतिः ॥४४॥

यथा च केशवो नित्यं पाण्डवानां परायणम् ।
तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः ॥४५॥

सोऽहं भारं समाधास्ये त्ववि तं वोढुमर्हसि ।
अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि ॥४६॥

स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे ।
कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ ॥४७॥

वयस्यस्य स्निग्धत्य सहायार्थं सहायप्रयोजनम् ॥४७॥

त्वं हि सत्यव्रतः शूरो मित्राणामभयंकरः ।
लोके विख्यायसे वीर कर्मभिः सत्यवागिति ॥४८॥

सत्यव्रतो दृढनिश्चयः ॥४८॥

यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम् ।
पृथिवीं च द्विजातिभ्यो यो दद्यात् स समो भवेत् ॥४९॥

श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः ।
दत्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि ॥५०॥

एवं त्वामपि धर्मात्मन् प्रयाचेऽहं कृताञ्जलिः ।
पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो ॥५१॥

एक एव सदा कृष्णो मित्राणामभयंकरः ।
रणे सन्त्यजति प्राणान् ‌द्वितीयस्त्वं च सात्यके ॥५२॥

विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः ।
शूर एव सहायः स्यान्नेतरः प्राकृतो जनः ॥५३॥

ईदृशे तु परामर्श वर्तमानस्य माधव ।
त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते ॥५४॥

श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः ।
मम सञ्जनयन् हर्षं पुनः पुनरकीर्तयत् ॥५५॥

लघुहस्तश्चित्रयोधी तथा लघुपराक्रमः ।
प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च सयुगे ॥५६॥

महास्कन्धो महोरस्को महाबाहुर्महाहनुः ।
महाबलो महावीर्यः स महात्मा महारथः ॥५७॥

शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे ।
युयुधानः सहायो मे प्रमथिष्यति कौरवान् ॥५८॥

अस्मदर्थं च राजेन्द्र संनोह्येद्यदि केशवः ।
रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः ॥५९॥

गदो वा सारणो वापि साम्बो वा सह वृष्णिभिः ।
सहायार्थं महाराज संग्रामोत्तममूर्धनि ॥६०॥

तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम् ।
साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्यो हि तत्समः ॥६१॥

इति द्वैतवने तात मामुवाच धनंजयः ।
परोक्षे त्वद्‌गुणांस्तथ्यान् कथयन्नार्यसंसदि ॥६२॥

तस्य त्वमेवं संकल्पं न वृथा कर्तुमर्हसि ।
धनञ्जयस्य वार्ष्णेय मम भीमस्य चोभयोः ॥६३॥

यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति ।
तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् ॥६४॥

न तत्सौहृदमन्येषु मया शैनेय लक्षितम् ।
यथा त्वमस्मान् भजसे वर्तमानानुपप्लवे ॥६५॥

उपप्लवे विमर्दे ॥६५॥

सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च ।
सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव ॥६६॥

सख्यादेरनुरूपमित्यनेनान्वयः ॥६६॥

सत्यस्य च महाबाहो अनुकम्पार्थमेव च ।
अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि ॥६७॥

सत्यस्याङ्गीकारस्य अनुकम्पार्थमर्जुनानुपालननिमित्तम् ॥६७॥

सुयोधनो हि सहसा गतो द्रोणेन दंशितः ।
पूर्वमेवानुयातास्ते कौरवाणां महारथाः ॥६८॥

सुमहान्निनदश्चैव श्रूयते विजयं प्रति ।
स शैनेय जवेनाशु गन्तुमर्हसि मानद ॥६९॥

भीमसेनो वयं चैव संयत्ताः सहसैनिकाः ।
द्रोणमावारयिष्यामो यदि त्वां प्रति यास्यति ॥७०॥

पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे ।
महान्तं च रणे शब्दं दीर्यमाणां च भारतीम् ॥७१॥

महामारुतवेगेन समुद्रमिव पर्वसु ।
धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना ॥७२॥

रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह ।
सैन्यं रजःसमुद्धूतमेतत् संपरिवर्तते ॥७३॥

संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः ।
अत्यन्तोपचितैः शूरैः फाल्गुनः परवीरहा ॥७४॥

नैतद्बलमसंवार्यं शक्यो जेतुं जयद्रथः ।
एते हि सैन्धवस्यार्थे सर्वे सन्त्यक्तजीविताः ॥७५॥

शरशक्तिध्वजवरं हयनागसमाकुलम् ।
पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम् ॥७६॥

शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान् ।
सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा ॥७७॥

नागानां शृणु शब्दं च पत्तीनां च सहस्रशः ।
सादिनां द्रवतां चैव शृणु कंपयतां महीम् ॥७८॥

पुरस्तात्सैन्धवानीकं दोणानीकं च पृष्ठतः ।
बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत् ॥७९॥

अपर्यन्ते बले मग्नो जह्यादपि च जीवितम् ।
तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः ॥८०॥

सर्वथाऽहमनुप्राप्तः सुकृच्छ्रं त्वयि जीवति ।
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः ॥८१॥

लघ्वस्त्रश्चित्रयाधी च प्रविष्टस्तात भारतीम् ।
सूर्योदये महाबाहुर्दिवसश्चातिवर्तते ॥८२॥

तन्न जानामि वार्ष्णेय यदि जीवति वा नवा ।
कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् ॥८३॥

एक एव च बीभत्सुः प्रविष्टस्तात भारतीम् ।
अविषह्यां महाबाहुः सुरैरपि महाहवे ॥८४॥

न हि मे वर्तते बुद्धिरद्य युद्धे कथञ्चन ।
द्रोणोऽपि रभसो युद्धे मम पीडयते बलम् ॥८५॥

प्रत्यक्षं ते महाबाहो यथाऽसौ चरति द्विजः ।
युगपच्च समेतानां कार्याणां त्वं विचक्षणः ॥८६॥

महार्थं लघुसंयुक्तं कर्तुमर्हसि मानद ।
तस्य मे सर्वकार्येषु कार्यमेतन्मतं महत् ॥८७॥

महार्थं महान्तमर्थं लघुसंयुक्तमविलम्बसंपन्नम् ॥८७॥

अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे ।
नाहं शोचामि दाशार्हं गोप्तारं जगतः पतिम् ॥८८॥

स हि शक्तो रणे तात त्रीन् लोकानपि सङ्गतान् ।
विजेतुं पुरुषव्याघ्रः सत्यमेतद्ब्रवीमि ते ॥८९॥

किं पुनर्धार्तराष्ट्रस्य बलमेतत् सुदुर्बलम् ।
अर्जुनस्त्वेष वार्ष्णेय पीडितो बहुभिर्युधि ॥९०॥

प्रजह्यात् समरे प्राणांस्तस्माद्विन्दामि कश्मलम् ।
तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा ॥९१॥

तादृशस्येदृशे काले मादृशेनाभिनोदितः ।
रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ ॥९२॥

प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः ।
अस्त्रे नारायणसमः संकर्षणसमो बले ॥९३॥

वीरतायां नरव्याघ्र धनञ्जयसमो ह्यसि ।
भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम् ॥९४॥

वीरतायामुत्साहकारणत्वे ॥९४॥

त्वामेव पुरुषव्याघ्रं लोके सन्तः प्रचक्षते ।
नाशक्यं विद्यते लोके सात्यकेरिति माधव ॥९५॥

तत्त्वां यद‌भिवक्ष्यामि तत्कुरुष्व महाबलः ।
संभावना हि लोकस्य मम पार्थस्य चोभयोः ॥९६॥

संभावनाऽस्तिताज्ञानं कुलशीलश्रुतादिषु ॥९६॥

नान्यथा तां महाबाहो संप्रकर्तुमिहार्हसि ।
परित्यज्य प्रियान् प्राणान्रणे चर विभीतवत् ॥९७॥

विभीतवदभीतः ॥९७॥

न हि शैनेय दाशार्हो रणे रक्षन्ति जीवितम् ।
अयुद्धमनवस्थानं संग्रामे च पलायनम् ॥९८॥

अनवस्थानमस्थैर्यम् ॥९८॥

भीरुणामसतां मार्गो नैष दाशार्हसेवितः ।
तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुङ्गवः ॥९९॥

वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः ।
कारणद्वयमेतद्धि जानंस्त्वामहमब्रुवम् ॥१००॥

मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम् ।
वासुदेवमतं चैव मम चैवार्जुनस्य च ॥१०१॥

सत्यमेतन्मयोक्तं ते याहि यत्र धनञ्जयः ।
एतद्वचनमाज्ञाय मम सत्यपराक्रम ॥१०२॥

प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः ।
प्रविश्य च यथान्यायं संगम्य च महारथैः ।
यथाहमात्मनः कर्म रणे सात्वत दर्शय ॥१०३॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि युधिष्ठिरवाक्ये दशाधिकशततमोऽध्यायः ॥११०॥
एकादशाधिकशततमोऽध्यायः

सञ्जय उवाच। प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च ।
कालयुक्तं च चित्रं च न्याय्यं यच्चापि भाषितुम्॥१॥

प्रीतियुक्तमिति ॥१॥

धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः ।
सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम्॥२॥

श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाऽच्युत ।
न्याययुक्तं च चित्रं च फाल्गुनार्थे यशस्करम्॥३॥

एवंविधे तथा काले मादृशं प्रेक्ष्य संमतम् ।
वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम्॥४॥

संमतमनुरक्तम् ॥४॥

न मे धनञ्जयस्यार्थे प्राणा रक्ष्याः कथञ्चन ।
त्वत्प्रयुक्तः पुनरहं किं न कुर्यां महाहवे ॥५॥

लोकत्रये योधयेयं सदेवासुरमानुषम् ।
त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत्सुदुर्बलम् ॥६॥

सुयोधनबलं त्वद्य योधयिष्ये समन्ततः ।
विजेष्ये च रणे राजन् सत्यमेतद्ब्रवीमि ते॥७॥

कुशल्यहं कुशलिनं समासाद्य धनञ्जयम् ।
हते जयद्रथे राजन् पुनरेष्यामि तेऽन्तिकम्‌॥८॥

अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप ।
वासुदेवस्य यद्वाक्यं फाल्गुनस्य च धीमतः ॥९॥

दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः ।
मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः ॥१०॥

अभिपरीतो यन्त्रितः ॥१०॥

अद्य माधव राजानमप्रमत्तोऽनुपालय ।
आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम्॥११॥

त्वयि चाहं महाबाहो प्रद्युम्ने वा महारथे ।
नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम् ॥१२॥

जानीषे हि रणे द्रोणं कुरुषु श्रेष्ठसम्मतम् ।
प्रतिज्ञातं हि तेनेदं पश्यमानेन वै प्रभो ॥१३॥

ग्रहणे धर्मराजस्य भारद्वाजोऽपि गृध्यति ।
शक्तश्चापि रणे द्रोणो निग्रहीतुं युधिष्ठिरम् ॥१४॥

एवं त्वयि समाधाय धर्मराजं नरोत्तमम् ।
अहमद्य गमिष्यामि सैन्धवस्य वधाय हि॥१५॥

एवमीदृश्यामपि कार्यगतौ समाधाय निक्षिप्य ॥१५॥

जयद्रथं च हत्वाऽहं द्रुतमेष्यामि माधव ।
धर्मराजं न चेद्द्रोणो निगृह्णीयाद्रणे बलात् ॥१६॥

निगृहीते नरश्रेष्ठे भारद्वाजेन माधव ।
सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत्॥१७॥

एवंगते नरश्रेष्ठे पाण्डवे सत्यवादिनि ।
अस्माकं गमनं व्यक्तं वनं प्रति भवेत् पुनः ॥१८॥

एवंगते ग्रहणं प्राप्ते ॥१८॥

सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति ।
यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम् ॥१९॥

व्यक्तं कदाचित् ॥१९॥

स त्वमद्य महाबाहो प्रियार्थं मम माधव ।
जयार्थं च यशोऽर्थं च रक्ष राजानमाहवे॥२०॥

स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना ।
भारद्वाजाद्भयं नित्यं मन्यमानेन वै प्रभो ॥२१॥

तस्यापि च महाबाहो नित्यं पश्यामि संयुगे ।
नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो॥२२॥

तस्य निक्षेपणस्य फलं साध्यं हि यस्मात् ॥२२॥

मां चापि मन्यते युद्धे भारद्वाजस्य धीमतः ।
सोऽहं संभावनां चैतामाचार्यवचनं च तत्॥२३॥

पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते ।
आचार्यो लघुहस्तत्वादभेद्यकवचावृतः ॥२४॥

उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः ।
यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः॥२५॥

तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथार्जुनः ।
कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि॥२६॥

यः प्रतीयाद्रणे द्रोणं यावद्गच्छामि पाण्डवम् ।
मा च ते भयमद्यास्तु राजन्नर्जुनसंभवम्॥२७॥

यावद्गच्छामि गमिष्यामि अर्जुनसंभवमर्जुनविषयम् ॥२७॥

न स जातु महाबाहुर्भारमुद्यम्य सीदति ।
ये च सौवीरका योधास्तथा सैन्धवपौरवाः॥२८॥

उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः ।
ये च कर्णमुखा राजन् रथोदाराः प्रकीर्तिताः ॥२९॥

एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम् ।
उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा ॥३०॥

सराक्षसगणा राजन् सकिन्नरमहोरगा ।
जंगमाः स्थावराः सर्वे नालं पार्थस्य संयुगे ॥३१॥

एवं ज्ञात्वा महाराज व्येतु ते भीर्धनञ्जये ।
यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ॥३२॥

न तत्र कर्मणो व्यापत् कथञ्चिदापे विद्यते ।
दैवं कृतास्त्रतां योगममर्षमपि चाहवे ॥३३॥

दैवममानुषतां योगमभिज्ञानम् ॥३३॥

कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय ।
मयि चाप्यपयाते वै गच्छ मानेऽर्जुनं प्रति ॥३४॥

द्रोणे चित्रास्त्रतां संख्ये राजंस्त्वमनुचिन्तय ।
आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति ॥३५॥

प्रतिज्ञामात्मनो रक्षन् सत्यां कर्तुं च भारत ।
कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि॥३६॥

यस्याहं प्रत्ययात् पार्थ गच्छेयं फाल्गुनं प्रति ।
न ह्यहं त्वां महाराज अनिक्षिप्य महाहवे ॥३७॥

कच्चिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते ।
एतद्विचार्थ बहुशो बुद्ध्या बुद्धिमतां वर॥३८॥

क्वचित् कस्मिंश्चित् अनिक्षिप्येत्यन्वयः ॥३८॥

दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम्॥३९॥

दृष्ट्वा निश्चित्य ॥३९॥

युधिष्ठिर उवाच। एवमेतन्महाबाहो यथा वदसि माधव ।
न तु मे शुद्ध्यते भावः श्वेताश्वं प्रति मारिष॥४०॥

करिष्ये परमं यत्नमात्मनो रक्षणे ह्यहम् ।
गच्छ त्वं समनुज्ञातो यत्र यातो धनञ्जयः॥४१॥

आत्मसंरक्षणं संख्थे गमनं चार्जुनं प्रति ।
विचार्यैतत्स्वयं बुद्ध्या गमनं तत्र रोचय ॥४२॥

स त्वमातिष्ठ यानाय यत्र यातो धनञ्जयः ।
ममापि रक्षणं भीमः करिष्यति महाबलः ॥४३॥

आतिष्ठ प्रक्रमस्व ॥४३॥

पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः ।
द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः॥४४॥

केकया भ्रातरः पंच राक्षसश्च घटोत्कचः ।
विराटो द्रुपदश्चैव शिखण्डी च महारथः ॥४५॥

धृष्ट्रकेतुश्च बलवान् कुन्तिभोजश्च मातुलः ।
नकुलः सहदेवश्च पञ्चालाः सृञ्जयास्तथा॥४६॥

मातुलः पुरुजित् ॥४६॥

एते समाहितास्तात रक्षिष्यन्ति न संशयः ।
न द्रोणः सह सैन्येन कृतवर्मा च संयुगे ॥४७॥

समासादयितुं शक्तो न च मां धर्षयिष्यति ।
धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परन्तपः ॥४८॥

वारयिष्यति विक्रम्य वेलेव मकरालयम् ।
यत्र स्थास्यति संग्रामे पार्वतः परवीरहा ॥४९॥

द्रोणो न सैन्यं बलवत्कामेत् तत्र कथञ्चन ।
एष द्रोणविनाशाय समुत्पन्नो हुताशनात् ॥५०॥

कवची स शरी खड्गी धन्वी च वरभूषणः ।
विश्रब्धं गच्छ शैनेय मा कार्षीर्मयि संभ्रमम् ।
धृष्टद्युम्नो रणे कुद्धं द्रोणमावारविष्यति ॥५१॥

मयि मामधिकृत्य संभ्रममुद्वेगम् ॥५१॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि युधिष्ठिरसात्यकिवाक्ये एकादशाधिकशततमोऽध्यायः॥१११ ॥
द्वादशाधिकशततमोऽध्यायः

सञ्जय उवाच। धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः ।
स पार्थाद्भयमाशंसन् परित्यागान्महीपतेः॥१॥

धर्मराजस्येति ॥१॥

अपवादं ह्यात्मनश्च लोकात् पश्यन् विशेषतः ।
ते मां भीतमिति ब्रूयुरायान्तं फाल्गुनं प्रति ॥२॥

निश्चित्य बहुधैवं स सात्यकेर्युद्धदुर्मदः ।
धर्मराजमिदं वाक्यमब्रवीत् पुरुषर्षभः ॥३॥

कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशांपते ।
अनुयास्यामि बीभत्सुं करिष्ये वचनं तव ॥४॥

न हि मे पाण्डवात् कश्चित्रिषु लोकेषु विद्यते ।
यो मे प्रियतरो राजन् सत्यमेतद्ब्रवीमि ते॥५॥

हलादितोमरान्तमर्शआद्यजन्तम् ॥५॥

तस्याहं पदवीं यास्ये सन्देशात्तव मानद ।
त्वत्कृते न च मे किंचिदकर्तव्यं कथञ्चन ॥६॥

यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर ।
तथा तवापि वचनं विशिष्टतरमेव मे ॥७॥

प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ ।
तयोः प्रिये स्थितं चैव विद्धि मां राजपुंगव ॥८॥

तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो ।
भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरपुंगव ॥९॥

द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम् ।
तत्र यास्यामि यत्रासौ राजन् राजा जयद्रथः॥१०॥

यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात् ।
गुप्तो रथवरश्रेष्ठैर्द्रोणिकर्णकृपादिभिः॥११॥

इतस्त्रियोजनं मन्ये तमध्वानं विशांपते ।
यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः ॥१२॥

वियोजनगतस्यापि तस्य यास्याम्यहं पदम् ।
आसैन्धववधाद्राजन् सुदृढेनान्तरात्मना ॥१३॥

आसैन्धववधात् सैन्धववधात्प्रागेव ॥१३॥

अनादिष्टस्तु गुरुणा को नु युध्येत मानवः ।
आदिष्टस्तु यथा राजन् को न युध्येत मादृशः॥१४॥

अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो ।
हलशक्तिगदाप्रासचर्मखड्गर्ष्टितोमरम् ॥१५॥

इष्वस्त्रवरसंबाधं क्षोभयिष्ये बलार्णवम् ।
यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि ॥१६॥

साहस्रं सहस्त्रप्रतिमम् ॥१६॥

कुलमाञ्जनकं नाम यत्रैते वीर्यशालिनः ।
आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डेः प्रहारिभिः॥१७॥

एते नागाः ॥१७॥

नागा मेघनिभा राजन् क्षरन्त इव तोयदाः ।
नैते जातु निवर्तेरन् प्रेषिता हस्तिसादिभिः ॥१८॥

अन्यत्र हि वधादेषां नास्ति राजन् पराजयः ।
अथ यान् रथिनो राजन् सहस्रमनुपश्यसि ॥१९॥

एते रुक्मरथा नाम राजपुत्रा महारथाः ।
रथेष्वस्त्रेषु निपुणा नागेषु च विशांपते॥२०॥

धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः ।
गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा ॥२१॥

खड्गप्रहरणे युक्ताः संपाते चासिचर्मणोः ।
शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम् ॥२२॥

संपाते विहरणे ॥२२॥

नित्यं हि समरे राजन् ‌विजिगीषन्ति मानवान् ।
कर्णेन विहिता राजन् दुःशासनमनुव्रताः ॥२३॥

एतांस्तु वासुदेवोऽपि रथोदारान् प्रशंसति ।
सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः॥२४॥

तस्यैव वचनाद्राजन् निवृत्ताः श्वेतवाहनात् ।
ते न क्लान्ता न च श्रान्ता दृढावरणकार्मुकाः॥२५॥

मदर्थेऽधिष्ठिता नूनं धार्तराष्ट्रस्य शासनात् ।
एतान् प्रमथ्य संग्रामे प्रियार्थं तव कौरव ॥२६॥

प्रयास्यामि ततः पश्चात् पदवीं सव्यसाचिनः ।
यांस्त्वेतानपरान्राजन्नागान्सप्त शतानिमान्॥२७॥

प्रेक्षसे वर्मसंछन्नान् किरातैः समधिष्ठितान् ।
किरातराजो यान् प्रादाद्द्विरदान् सव्यसाचिनः ॥२८॥

स्वलंकृतांस्तदा प्रेष्यानिच्छन् जीवितमात्मनः ।
आसन्नेते पुरा राजंस्तव कर्मकरा दृढम् ॥२९॥

तदा दिग्विजये ॥२९॥

त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम् ।
एषामेते महामात्राः किराता युद्धदुर्मदाः ॥३०॥

हस्तिशिक्षाविद‌श्चैव सर्वे चैवाग्नियोनयः ।
एते विनिर्जिताः संख्ये संग्रामे सव्यसाचिना॥३१॥

मदर्थमद्य संयत्ता दुर्योधनवशानुगाः ।
एतान् हत्वा शरै राजन् किरातान् युद्धदुर्मदान् ॥३२॥

सैन्धवस्य वधे यत्तमनुयास्यामि पाण्डवम् ।
ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः ॥३३॥

अञ्जनस्य अरुणोपवाह्यस्य । ‘स्निग्धनीलाम्बुदप्रख्या बलिनो विपुलैः करैः । सुविभक्तमहाशीर्षाः करिणोञ्जनवंशजाः’ ॥३३॥

कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः ।
जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः ॥३४॥

लब्धरक्षा रणे राजन्नैरावणसमा युधि ।
उत्तरात् पर्वतादेते तीक्ष्णैर्दस्युभिरास्थिताः॥३५॥

उत्तरात्पर्वताच्च हिमाचलादागतैरर्थात् ॥३५॥

कर्कशैः प्रवरैर्योधैः कार्ष्णायसतनुच्छदैः ।
सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः ॥३५॥

उत्तरात्पर्वताच्च हिमाचलादागतैरर्थात् ॥३५॥

अनेकयोनयश्चान्ये तथा मानुषयोनयः ।
अनीकं समवेतानां धूम्रवर्णमुदीर्यते ॥३७॥

म्लेच्छानां पापकर्तॄणां हिमदुर्गनिवासिनाम् ।
एतद्दुर्योधनो लब्ध्वा समग्रं राजमण्डलम् ॥३८॥

कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् ।
सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान् ॥३९॥

कृतार्थमथ चात्मानं मन्यते कालचोदितः ।
ते तु सर्वेऽद्य संप्राप्ता मम नाराचगोचरम् ॥४०॥

न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः ।
तेन संभाविता नित्यं परवीर्योपजीविना ॥४१॥

तेन दुर्योधनेन संभाविताः संवर्धिताः ॥४१॥

विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः ।
ये त्वेते रथिनो राजन् दृश्यन्ते काञ्चनध्वजाः॥४२॥

एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः ।
शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः ॥४३॥

संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः ।
अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत ॥४४॥

यत्ता मदर्थे तिष्ठन्ति कुरुवीराभिरक्षिताः ।
अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः॥४५॥

तानहं प्रमथिष्यामि तृणानीव हुताशनः ।
तस्मात् सर्वानुपासंगान् सर्वोपकरणानि च॥४६॥

तानुद्दिष्टान् ॥४६॥

रथे कुर्वन्तु मे राजन् यथावद्रथकल्पकाः ।
अस्मिंस्तु किल संमर्दे ग्राह्यं विविधमायुधम्॥४७॥

यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः ।
काम्बोजैर्हि समेष्यामि तीक्ष्णैराशीविषोपमैः॥४८॥

पंचगुणः पंचगुणसामग्रीकः ॥४८॥

नानाशस्त्रसमावायैर्विविधायुधयोधिभिः ।
किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः॥४९॥

नानाशस्त्राणां समावायः समूहो येषु ॥४९॥

लालितैः सततं राज्ञा दुर्योधनहितैषिभिः ।
शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः॥५०॥

अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः ।
तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः॥५१॥

समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः ।
तस्माद्वै वाजिनो मुख्या विश्रुताःशुभलक्षणाः॥५२॥

उपावृत्ताश्च पीताश्च पुनर्युज्यन्तु मे रथे ।
सञ्जय उवाच। तस्य सर्वानुपासंगान् सर्वोपकरणानि च॥५३॥

पीताः पायितपेयाः ॥५३॥

रथे चास्थापयद्राजा शस्त्राणि विविधानि च ।
ततस्तान् सर्वतो युक्तान् सदश्वांश्चतुरो जनाः॥५४॥

रसवत्पाययामासुः पानं मदसमीरणम् ।
पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलंकृताम्॥५५॥

विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः ।
तान्युक्तान् रुक्मवर्णाभान् विनीताञ्शीघ्रगामिनः॥५६॥

संहृष्टमनसोऽव्यग्रान् विधिवत्कल्पितान्रथे ।
महाध्वजेन सिंहेन हेमकेसरमालिना ॥५७॥

महाध्वजेनेति विशेषणे तृतीया ॥५७॥

संवृते केतकैर्हेमैर्मणिविद्रुमचित्रितैः ।
पाण्डुराभ्रप्रकाशाभिः पताकाभिरलंकृते॥५८॥

केतकैः कुन्दघटितशलाकाभिः ॥५८॥

हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे ।
योजयामास विधिवद्धेमभाण्डविभूषितान् ॥५९॥

दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा ।
न्यवेदयद्रथं युक्तं वासवस्येव मातलिः॥६०॥

ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः ।
स्नातकानां सहस्रस्य स्वर्णनिष्क्रानथो ददौ॥६१॥

स्वर्णनिष्कान् दीनारान् ॥६१॥

आशीर्वादैः परिष्वक्तःसात्यकिः श्रीमतां वरः ।
ततः स मधुपर्कार्हः पीत्वा कैलातकं मधु ॥६२॥

लोहिताक्षो बभौ तत्र मद‌विह्वललोचनः ।
आलभ्य वीरकांस्यं च हर्षेण महताऽन्वितः॥६३॥

द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः ।
उत्सङ्गे धनुरादाय सशरं रथिनां वरः ॥६४॥

कृतस्वस्त्ययनो विप्रैः कवची समलंकृतः ।
लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः॥६५॥

युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः ।
तेन मूर्धन्युपाघ्रात आरुरोह महारथम् ॥६६॥

ततस्ते वाजिनो हृष्टाः सुपुष्ठा वातरंहसः ।
अजय्या जैत्रमूहुस्तं विकुर्वाणाः स्म सैन्धवाः॥६७॥

तथैव भीमसेनोऽपि धर्मराजेन पूजितः ।
प्रायात्सात्यकिना सार्थमभिवाद्य युविाष्ठरम्॥६८॥

तौ दृष्ट्वा प्रविविक्षन्तौ तव सेनामरिन्द‌मौ ।
संयत्तास्तावकाः सर्वे तस्थुर्द्रोणपुरोगमाः ॥६९॥

सन्नद्धमनुगच्छन्तं दृष्ट्वा भीमं स सात्यकिः ।
अभिनन्द्याब्रवीद्वीरस्तदा हर्षकरं वचः॥७०॥

त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते ।
अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम्॥७१॥

आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम् ।
जानीषे मम वीर्यं त्वं तव चाहमरिन्दम ॥७२॥

आयत्यामुतरकाले तदात्वे तत्क्षणे ॥७२॥

तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम् ।
तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये॥७३॥

अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम ।
एवमुक्तः प्रत्युवाच भीमसेनं स माधवः॥७४॥

गच्छ गच्छ ध्रुवं पार्थ ध्रुवो हि विजयो मम ।
यन्मे गुणानुरक्तश्च त्वमद्य वशमास्थितः ॥७५॥

निमित्तानि च धन्यानि यथा भीम वदन्ति माम् ।
निहते सैन्धवे पापे पाण्डवेन महात्मना ॥७६॥

परिष्वजिष्ये राजानं धर्मात्मानं युधिष्ठिरम् ।
एतावदुक्त्वा भीमं तु विसृज्य च महायशाः॥७७॥

संप्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव॥७८॥

तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप ।
भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत ॥७९॥

ततः प्रयातः सहसा तव सैन्यं स सात्याकः ।
दिदृक्षुरर्जुनं राजन् धर्मराजस्य शासनात्॥८०॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे द्वादशाधिकशततमोऽध्यायः ॥११२॥
त्रयोदशाधिकशततमोऽध्यायः

सञ्जय उवाच। प्रयाते तव सैन्यं तु युयुधाने युयुत्सया ।
धर्मराजो महाराज स्वेनानीकेन संवृतः॥१॥

प्रयाते इति ॥१॥

प्रायाद्द्रोणरथं प्रेप्सुर्युयुधानस्य पृष्ठतः ।
ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः॥२॥

प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः ।
आगच्छत प्रहरत द्रुतं विपरिधावत ॥३॥

यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः ।
महारथा हि बहवो यतिष्यन्त्यस्य निर्जये ॥४॥

इति ब्रुवन्तो वेगेन निपेतुस्ते महारथाः ।
वयं प्रतिजिगीषन्तस्तत्र तान् समभिद्रुताः ॥५॥

ततः शब्दो महानासीद्युयुधानरथं प्रति ।
आकीर्यमाणा धावन्ती तव पुत्रस्य वाहिनी॥६॥

सात्वतेन महाराज शतधाऽभिव्यशीर्यत ।
तस्यां विदीर्यमाणायां शिनेः पुत्रो महारथः॥७॥

सप्तवीरान् महेष्वासानग्रानीकेष्वपोथयत् ।
अथान्यानपि राजेन्द्र नानाजनपदेश्वरान् ॥८॥

शरैरनलसंकाशैर्निन्ये वीरान्यमक्षयम् ।
शतमेकेन विव्याध शतेनैकं च पत्रिणाम् ॥९॥

द्विपारोहान् ‌द्विपांश्चैव हयारोहान् हयांस्तथा ।
रथिनः साश्वसुतांच जघानेशः पशूनिव॥१०॥

ईशो रुद्रः ॥१०॥

तं तथाऽद्भुतकर्माणं शरसंपातवर्षिणम् ।
न केचनाभ्यधावन् वै सात्यकिं तव सैनिकाः॥११॥

ते भीता मृद्यमानाश्च प्रसृष्टा दीर्घबाहुना ।
आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानिनम्॥१२॥

तमेकं बहुधाऽपश्यन् मोहितास्तस्य तेजसा ।
रथैर्विमथितैश्चैव भग्ननीडैश्च मारिष ॥१३॥

चक्रैर्विमथितैश्छत्रैर्ध्वजैश्च विनिपातितैः ।
अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः॥१४॥

बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशांपते ।
हस्तिहस्तोपमैश्चापि भुजङ्गाभोगसन्निभैः ॥१५॥

ऊरुभिः पृथिवी च्छन्ना मनुजानां नराधिप ।
शशाङ्कसन्निभैश्चैव वदनैश्चारुकुण्डलैः ॥१६॥

ऋषभस्येवाक्षीणि येषाम् ॥१६॥

पतितैर्ऋषभाक्षाणां सा बभावति मेदिनी ।
गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः ॥१७॥

रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः ।
तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः ॥१८॥

उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरंगमाः ।
गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना॥१९॥

नानाविधानि सैन्यानि तव हत्वा तु सात्वतः ।
प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम्॥२०॥

ततस्तेनैव मार्गेण येन यातो धनञ्जयः ।
इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः॥२१॥

भारद्वाजं समासाद्य युयुधानश्च सात्यकिः ।
न न्यवर्तत संक्रुद्धो वेलामिव जलाशयः॥२२॥

निवार्य तु रणे द्रोणो युयुधानं महारथम् ।
विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः॥२३॥

सात्यकिस्तु रणे द्रोणं राजन् विव्याध सप्तभिः ।
हेमपुंखैः शिलाधौतैः कङ्कबर्हिणवाजितैः॥२४॥

तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत् ।
स तं न ममृषे द्रोणं युयुधानो महारथः ॥२५॥

सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः ।
दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च ॥२६॥

युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः ।
एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान्॥२७॥

ध्वजमेकेन बाणेन विव्याध युधि मारिष ।
तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः॥२८॥

त्वरन् प्राच्छादयद्बाणैः शलभानामिव व्रजैः ।
तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः ॥२९॥

आच्छादयदसंभ्रान्तस्ततो द्रोण उवाच ह ।
तवाचार्यो रणं हित्वा गतः कापुरुषो यथा॥३०॥

युध्यमानं च मां हित्वा प्रदक्षिणमवर्तत ।
त्वं हि मे युध्यतो नाद्य जीवन् यास्यसि माधव॥३१॥

त्वं हि त्वमपि ॥३१॥

यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम् ।
सात्यकिरुवाच ।
धनञ्जयस्य पदवीं धर्मराजस्य शासनात्॥३२॥

गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत् ।
आचार्यानुगतो मार्गः शिष्यैरन्वास्यते सदा॥३३॥

तस्मादेव व्रजाम्याशु यथा मे स गुरुर्गतः ।
सञ्जय उवाच। एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन् ॥३४॥

प्रयातः सहसा राजन् सारथिं चेदमब्रवीत् ।
द्रोणः करिष्यते यत्नं सर्वथा मम वारणे ॥३५॥

यत्तो याहि रणे सूत शृणु चेदं वचः परम् ।
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम्॥३६॥

अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महद्बलम् ।
तदनन्तरमेतच्च बाल्हिकानां महद्बलम् ॥३७॥

बाल्हिकाभ्याशतो युक्तं कर्णस्य च महद्बलम् ।
अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे॥३८॥

अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् ।
एतदन्तरमासाद्य चोदयाश्वान् प्रहृष्टवत् ॥३९॥

मध्यमं जयमास्थाय वह मामत्र सारथे ।
बाल्हिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः॥४०॥

दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः ।
हस्त्यश्वरथसंबाधं यच्चानीकं विलोक्यते॥४१॥

नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम् ।
एतावदुक्त्वा यन्तारं ब्राह्मणं परिवर्जयन्॥४२॥

मध्यतो याहि यत्रोग्रं कर्णस्य च महद्बलम् ।
तं द्रोणोऽनुययौ क्रुद्धो विकिरन् विशिखान् बहून् ॥४३॥

युयुधानं महाभागं गच्छन्तमनिवर्तिनम् ।
कर्णस्य सैन्यं सुमहद‌भिहत्य शितैः शरैः॥४४॥

प्राविशद्भारतीं सेनामपर्यन्तां च सात्यकिः ।
प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च ॥४५॥

अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत् ।
तमापतन्तं विशिखैः पड्भिराहत्य सात्यकिः॥४६॥

चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान् ।
ततः पुनः षोडशभिर्नतपर्वभिराशुगैः ॥४७॥

सात्यकिः कृतवर्माणं प्रत्यविध्यत् स्तनान्तरे ।
स ताड्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः ॥४८॥

भिन्नानि पृथग्भूतानि ॥४८॥

सात्वतेन महाराज कृतवर्मा न चक्षमे ।
स वत्सदन्तं सन्धाय जिह्मगानिलसन्निभम्॥४९॥

आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम् ।
स तस्य देहावरणं भित्वा देहं च सायकः ॥५०॥

स पुंखपत्रः पृथिवीं विवेश रुधिरोक्षितः ।
अथास्य बहुभिर्बाणैरच्छिनत् परमास्त्रवित् ॥५१॥

स मार्गणगणं राजन् कृतवर्मा शरासनम् ।
विव्याध च रणे राजन् सात्यकिं सत्यविक्रमम्॥५२॥

दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे ।
ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः॥५३॥

जघान दक्षिणं बाहुं सात्यकिः कृतवर्मणः ।
ततोऽन्यत् सुदृढं चापं पूर्णमायम्य सात्यकिः॥५४॥

व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः ।
सरथं कृतवर्माणं समन्तात् पर्यवारयत् ॥५५॥

छादयित्वा रणे राजन् हार्दिक्यं स तु सात्यकिः ।
अथास्य भल्लेन शिरः सारथेः समकृन्तत ॥५६॥

स पपात हतः सूतो हार्दिक्यस्य महारथात् ।
ततस्ते यन्तृरहिताः प्राद्रवंस्तुरगा भृशम् ॥५७॥

अथ भोजस्तु संभ्रान्तो निगृह्य तुरगान् स्वयम् ।
तस्थौ वीरो धनुष्पाणिस्तत् सैन्यान्यभ्यपूजयन् ॥५८॥

स मुहूर्तमिवाश्वस्य सदश्वान् समनोदयत् ।
व्यपेतभीरमित्राणामावहत् सुमहद्भयम् ॥५९॥

सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत् ।
युयुधानोऽपि राजेन्द्र भोजानीकाद्विनिःसृतः॥६०॥

प्रययौ त्वरितस्तूर्णं काम्बोजानां महाचमूम् ।
स तत्र बहुभिः शूरैः सन्निरुद्धो महारथैः ॥६१॥

न चचाल तदा राजन्सात्यकिः सत्यविक्रमः ।
संधाय च चमूं द्रोणो भाजे भारं निवश्य च॥६२॥

संधाय यथास्थानमानीय ॥६२॥

अभ्यधाव‌द्रणे यत्तो युयुधानं युयुत्सया ।
तथा तमनुधावन्त युयुधानस्य पृष्ठतः ॥६३॥

न्यवारयन्त संहृष्टाः पाण्डुसैन्ये बृहत्तमाः ।
समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् ॥६४॥

पञ्चाला विगतोत्साहा भीमसेनपुरोगमाः ।
विक्रम्य वारिता राजन् वीरेण कृतवर्मणा ॥६५॥

यतमानांश्च तान् सर्वानीषद्विगतचेतसः ।
अभितस्तान् शरौघेण क्लान्तवाहानकारयत्॥६६॥

निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे ।
अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः ॥६७॥

आर्यवत् कुलीनवत् कुलीनत्वादिति यावत् ॥६७॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे त्रयोदशाधिकशततमोऽध्यायः ॥११३॥
चतुर्दशाधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। एवं बहुगुणं सैन्यमेवं प्रविचितं बलम् ।
व्यूढमेवं यथान्यायमेवं बहु च सञ्जय ॥१॥

एवमिति । बहुगुणं बहवो गुणाः शौर्यादयः संध्यादयो वा यस्मिन् बलं प्रबलम् ॥१॥

नित्यं पूजितमस्माभिरभिकामं च नः सदा ।
प्रौढमत्यद्भुताकारं पुरस्ताद् दृष्टविक्रमम् ॥२॥

नः अभिकाममनुरक्तं प्रौढं प्रवृद्धम् अत्यद्भुताकारमनुपमसंस्थानं पुरस्तात् प्रागेव दृष्टः परीक्षोत्तीर्णो विक्रमो यस्य ॥२॥

नातिवृद्धमबालं च नाकृशं नातिपीवरम् ।
लघुवृत्तायतप्रायं सारगात्रमनामयम् ॥३॥

लघुनो मनोज्ञस्य वृत्तस्यायतमायामः प्रायः प्रचुरं यत्र, सारगात्रं निबिडावयवं सारगात्रमसरिशून्यमिति वा ॥३॥

आत्तसन्नाहसंछन्नं बहुशस्त्रपरिच्छदम् ।
शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् ॥४॥

आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते ।
सम्यक् प्रहरणे याने व्यपयाने च कोविदम् ॥५॥

आरोहे अधिरोहणे, पर्यवस्कन्दे अवरोहणे, सरणे प्रसरणे, सान्तरप्लुते प्लवनान्तरितायां गतौ, याने प्रयाणे, व्यपयानेऽपसरणे ॥५॥

नागेभ्यश्वेषु बहुशो रथेषु च परीक्षितम् ।
परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥६॥

वेतनेन दिनमासवर्षदेयेन धनेन ॥६॥

न गोष्ठ्या नोपकारेण न संबन्धनिमित्ततः ।
नानाहूतं नाप्यभृतं मम सैन्यं बभूव ह ॥७॥

गोष्ठ्या संलापमात्रेण, उपकारेण प्राक्कृतेन उपपादितमुल्लासस्थापितमित्यनुषंगः अनाहूतं यदृच्छोपगतम् ॥७॥

कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम् ।
कृतमानोपचारं च यशस्वि च मनस्वि च ॥८॥

सचिवैश्चापरैर्मुख्यैर्बहुभिः पुण्यकर्मभिः ।
लोकपालोपमैस्तात पालितं नरसत्तमैः ॥९॥

बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः ।
अस्मानभिसृतैः कामान् सबलैः सपदानुगैः॥१०॥

महोदधिमिवापूर्णमापगाभिः समन्ततः ।
अपक्षैः पक्षिसंकाशै रथैरश्वैश्च सवृत्तम् ॥११॥

प्रभिन्नकरटैश्चैव द्विरदैरावृतं महत् ।
यदहन्यत मे सैन्यं किमन्यद्भागधेयतः॥१२॥

योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम् ।
क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम्॥१३॥

वाहनान्येवोर्मितरङ्गपरंपरा विद्यते यत्र । क्षेपण्यो यन्त्राणि ॥१३॥

ध्वजभूषणसंबाधरत्नोपलसुसंचितम् ।
वाहनैरभिधावद्भिर्वायुवेगविकंपितम् ॥१४॥

रत्नैरुपलैश्च सुसंचितं सुष्ठु संछादितं वाहनाभिधावनान्येव वायुवेगतया रूपितानि ॥१४॥

द्रोणगंभीरपातालं कृतवर्म महाह्रदम् ।
जलसन्धमहाग्राहं कर्णचन्द्रोदयोद्धतम् ॥१५॥

गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे ।
सञ्जयैकरथेनैव युयुधाने च मामकम् ॥१६॥

तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि ।
सात्वते व रथोदारे मम सैन्यस्य सञ्जय ॥१७॥

मम सैन्यस्य शेषमित्यन्वयः ॥१७॥

तौ तत्र समतिक्रान्तौ दृष्ट्वातीव तरस्विनौ ।
सिन्धुराजं तु संप्रेक्ष्य गाण्डीवस्येषुगोचरे ॥१८॥

किं नु वा कुरवः कृत्यं विद‌धुः कालचोदिताः ।
दारुणैकायनेऽकाले कथं वा प्रतिपेदिरे ॥१९॥

दारुणैकायने अतिभीषणेऽनन्यगतिके अकाले अतीते समये ॥१९॥

ग्रस्तान् हि कौरवान् मन्ये मृत्युना तात संगतान् ।
विक्रमोऽपि रणे तेषां न तथा दृश्यते हि वै॥२०॥

अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ ।
न च वारयिता कश्चित्तयोरस्तीह सञ्जय ॥२१॥

भृताश्च बहवो योधाः परीक्ष्यैव महारथाः ।
वेतनेन यथायोगं प्रियवादेन चापरे ॥२२॥

असत्कारभूतस्तात मम सैन्ये न विद्यते ।
कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् ॥२३॥

लभ्यते सैन्येनार्थात् ॥२३॥

न चायोधोऽभवत् कश्चिन्मम सैन्ये तु सञ्जय ।
अल्पदानभृतस्तात तथा चाभृतको नरः ॥२४॥

पूजितो हि यथाशक्त्या दानमानासनैर्मया ।
तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः॥२५॥

ते च प्राप्यैव संग्रामे निर्जिताः सव्यसाचिना ।
शैनयन परामृष्टाः किमन्यद्भागधेयतः ॥२६॥

रक्ष्यते यश्च संग्रामे ये च सञ्जय रक्षिणः ।
एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः॥२७॥

अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम् ।
पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत ॥२८॥

सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत् ।
किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत ॥२९॥

सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथिसत्तमौ ।
दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः ॥३०॥

धृतिं धारणाम् ॥३०॥

दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम् ।
शिनीनामृषभं चैव मन्ये शोचान्ति पुत्रकाः ॥३१॥

दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च ।
पलायमानांश्च कुरून् मन्ये शोचन्ति पुत्रकाः॥३२॥

विद्रुतान् रथिनो दृष्ट्वा निरुत्साहान् द्विषज्जये ।
पलायनकृतोत्साहान्मन्ये शोचन्ति पुत्रकाः॥३३॥

शून्यान् कृतान्रथोपस्थान्सात्वतेनार्जुनेन च ।
हतांश्च योधान् संदृश्य मन्ये शोचन्ति पुत्रकाः॥३४॥

व्यश्वनागरथान् दृष्ट्वा तत्र वीरान् सहस्रशः ।
धावमानान्रणेव्यग्रान्मन्ये शोचन्ति पुत्रकाः॥३५॥

व्यग्रान् अनेकाग्रान् अव्यग्रान् पलायनैकमनस इति वा ॥३५॥

महानागान् विद्रवतो दृष्ट्वाऽर्जुनशराहतान् ।
पतितान्पततश्चान्यान्मन्ये शोचन्ति पुत्रकाः॥३६॥

विहीनांश्च कृतानश्वान् विरथांश्चा कृतान्नरान् ।
तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः॥३७॥

हयौघान्निहतान् दृष्ट्वा द्रवमाणांस्ततस्ततः ।
रणे माधवपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः॥३८॥

पत्तिसंघान् रणे दृष्ट्वा धावमानांश्च सर्वशः ।
निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः॥३९॥

द्रोणस्य समतिक्रान्तावनीकमपराजितौ ।
क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः॥४०॥

संमूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनञ्जयौ ।
प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ॥४१॥

तस्मिन् प्रविष्टे पृतनां शिनीनां प्रवरे रथे ।
भोजानीकं व्यतिक्रान्ते किमकुर्वत कौरवाः॥४२॥

तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु ।
कथं युद्धमभूत् तत्र तन्ममाचक्ष्व सञ्जय ॥४३॥

द्रोणो हि बलवान् श्रेष्ठः कृतास्त्रो युद्धदुर्मदः ।
पञ्चालांस्ते महेष्वासं प्रत्यविध्यन् कथं रणे॥४४॥

बद्धवैरास्ततो द्रोणे धनञ्जयजयैषिणः ।
भारद्वाजसुतस्तेषु दृढवैरो महारथः ॥४५॥

अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति ।
तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि सञ्जय ॥४६॥

सञ्जय उवाच। आत्मापराधात् संभूतं व्यसनं भरतर्षभ ।
प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि॥४७॥

पुरा यदुच्यसे प्राज्ञैः सहद्भिर्विदुरादिभिः ।
मा हार्षीः पाण्डवान् राजन्निति तन्न त्वया श्रुतम् ॥४८॥

सुहृदां हितकामानां वाक्यं यो न शृणोति ह ।
स महद्व्यसनं प्राप्य शोचते वै यथा भवान् ॥४९॥

याचितोऽसि पुरा राजन् दाशार्हेण शमं प्रति ।
न च तं लब्धवान् कामं त्वत्तः कृष्णो महायशाः ॥५०॥

तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च ।
द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् ॥५१॥

निर्गुणतां गुणवैषम्यं द्वैधीभावमनिश्चयम् ॥५१॥

तव जिह्ममभिप्रायं विदित्वा पाण्डवान् प्रति ।
आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम ॥५२॥

सर्वलोकस्य तत्त्वज्ञः सर्वलोकेश्वरः प्रभुः ।
वासुदेवस्ततो युद्धं कुरूणामकरोन्महत्॥५३॥

आत्मापराधात् सुमहान्प्राप्तस्ते विपुलः क्षयः ।
नैनं दुर्योधने दोषं कर्तुमर्हसि मानद ॥५४॥

सुमहान् विपुल इति पर्यायाभ्यां महत्त्वोद्रेकः ॥५४॥

न हि ते सुकृतं किञ्चिदादौ मध्ये च भारत ।
दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः॥५५॥

तस्मादवस्थितो भूत्वा ज्ञात्वा लोकस्य निर्णयम् ।
श्रुणु युद्धं यथावृत्तं घोरं देवासुरोपमम् ॥५६॥

निर्णयं नियतस्वभावम् ॥५६॥

प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे ।
भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव॥५७॥

आगच्छतस्तान् सहसा क्रुद्धरूपान् सहानुगान् ।
दधारैको रणे पाण्डून् कृतवर्मा महारथः ॥५८॥

यथोद्धृत्तं वारयते वेला वै सलिलार्णवम् ।
पाण्डुसैन्यं तथा संख्ये हार्दिक्यः सप्नवारयत्॥५९॥

तत्राद्भुतमपश्याम हार्दिक्यस्य पराक्रमम् ।
यदेनं सहिताः पार्था नातिचक्रमुराहवे॥६०॥

ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमाशुगैः ।
शङ्खं दध्मौ महाबाहुर्हर्षयन् सर्वपाण्डवान् ॥६१॥

सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः ।
शतेन नकुलश्चापि हार्दिक्यं समविध्यत॥६२॥

द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः ।
धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत् ॥६३॥

विराटो द्रुपद‌श्चैव याज्ञसेनिश्च पञ्चभिः ।
शिखंडी चैव हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः॥६४॥

पुनर्विव्याध विंशत्या सायकानां हसन्निव ।
कृतवर्मा ततो राजन् सर्वतस्तान् महारथान्॥६५॥

सर्वतः सर्वान् ॥६५॥

एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः ।
धनुर्ध्वजं चास्य तदा रथाद्भूमावपातयत्॥६६॥

अथैनं छिन्नधन्वानं त्वरमाणो महारथः ।
आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः॥६७॥

स गाढविद्धो बलवान् हार्दिक्यस्य शरोत्तमैः ।
चचाल रथमध्यस्थः क्षितिकम्पे यथाऽचलः॥६८॥

भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः ।
विसृजन्तः शरान् राजन् कृतवर्माणमार्दयन्॥६९॥

तं तथा कोष्ठकीकृत्य रथवंशेन मारिष ।
विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे॥७०॥

प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः ।
शक्तिं जग्राह समरे हेमदण्डामयस्मयीम्॥७१॥

चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति ।
सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसन्निभा॥७२॥

कृतवर्माणमभितः प्रजज्वाल सुदारुणा ।
तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम्॥७३॥

द्वाभ्यां शराभ्यां हार्दिक्यो निजघान द्विधा तदा ।
सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा ॥७४॥

द्विधा स्थानद्वये ॥७४॥

द्योतयन्ती दिशो राजन्महोल्केव नभश्च्युता ।
शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम्॥७५॥

ततोऽन्यद्धनुरादाय वेगवत् सुमहास्वनम् ।
भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् ॥७६॥

अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे ।
भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन च ॥७७॥

भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष ।
रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे॥७८॥

ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव ।
अभिहत्य दृढं युद्धे तान् सर्वान् प्रत्यविध्यत॥७९॥

त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान् ।
तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः॥८०॥

शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः ।
धनुश्चिच्छेद समरे प्रहसन्निव सात्वतः॥८१॥

शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरः ।
असिं जग्राह समरे शतचन्द्रं च भास्वरम् ॥८२॥

भ्रमयित्वा महच्चर्म चामीकरविभूषितम् ।
तमसिं प्रेषयामास कृतवर्मरथं प्रति ॥८३॥

स तस्य सशरं चापं छित्त्वा राजन् महानसिः ।
अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवांबरात्॥८४॥

एतस्मिन्नेव काले तु त्वरमाणं महारथाः ।
विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे॥८५॥

अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः ।
विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा ॥८६॥

विव्याध पाण्डवान् युद्धे त्रिभिस्त्रिभिरजिह्मगैः ।
शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च ॥८७॥

धनुरन्यत् समादाय शिखण्डी तु महायशाः ।
अवारयत् कूर्मनखैराशुगैर्हृदिकात्मजम्॥८८॥

कूर्मनखैः कूर्मनखाकृतिफलकैः ॥८८॥

ततः क्रुद्धो रणे राजन् हृदिकस्यात्मसंभवः ।
अभिदुद्राव वेगेन याज्ञसेनिं महारथम् ॥८९॥

भीष्मस्य समरे राजन् मृत्योर्हेतुं महात्मनः ।
विदर्शयन् बलं शूरः शार्दूल इव कुञ्जरम् ॥९०॥

तौ दिशां गजसंकाशौ ज्वलिताविव पावकौ ।
समापेततुरन्योन्यं शरसङ्घैररिन्द‌मौ॥९१॥

विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान् ।
विसृजन्तौ च शतशो गभस्तीनिव भास्करौ॥९२॥

तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ ।
युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव ॥९३॥

कृतवर्मा च समरे याज्ञसेनिं महारथम् ।
विद्ध्वेषुभिस्त्रिसप्तत्या पुनर्विव्याध सप्तभिः॥९४॥

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं मूर्च्छयाऽभिपरिप्लुतः॥९५॥

तं विषण्णं रणे दृष्ट्वा तावकाः पुरुषर्षभ ।
हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह॥९६॥

शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम् ।
अपोवाह रणाद्यन्ता त्वरमाणो महारथम्॥९७॥

सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम् ।
परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे॥९८॥

तत्राद्भुतं परं चक्रे कृतवर्मा महारथः ।
यदेकः समरे पार्थान् वारयामास सानुगान्॥९९॥

पार्थाञ्जित्वाऽजयच्चेदीन् पञ्चालान् सृञ्जयानपि ।
केकयांश्च महावीर्यान् कृतवर्मा महारथः॥१००॥

ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः ।
इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे ॥१११॥

जित्वा पाण्डुसुतान् युद्धे भीमसेनपुरोगमान् ।
हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः ॥११२॥

ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः ।
विमुखाः समपद्यन्त शरवृष्टिभिरार्दिताः ॥११३॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे कृतवर्मपराक्रमे चतुर्दशाधिकशततमोऽध्यायः ॥ ११४ ॥
पञ्चदशाधिकशततमोऽध्यायः

सञ्जय उवाच। शृणुष्वैकमना राजन् यन्मां त्वं परिपृच्छसि ।
द्राव्यमाणे बले तस्मिन् हार्दिक्येन महात्मना ॥१॥

शृणुष्वेति । हार्दिक्येन तावकैरन्यैश्च द्राव्यमाणे इत्युत्तरश्लोकेन सहान्वयः ॥१॥

लज्जयाऽवनते चापि प्रहृष्टैश्चापि तावकैः ।
द्वीपो य आसीत् पांडूनामगाधे गाधमिच्छताम्॥२॥

श्रुत्वा स निनदं भीमं तावकानां महाहवे ।
शैनेयस्त्वरितो राजन् कृतवर्माणमभ्ययात् ॥३॥

उवाच सारथिं तत्र क्रोधामर्षसमन्वितः ।
हार्दिक्याभिमुखं सूत कुरु मे रथमुत्तमम् ॥४॥

कुरुते कदनं पश्य पाण्डुसैन्ये ह्यमर्षितः ।
एनं जित्वा पुनः सूत यास्यामि विजयं प्रति॥५॥

एवमुक्ते तु वचने सूतस्तस्य महामते ।
निमेषान्तरमात्रेण कृतवर्माणमभ्ययात् ॥६॥

कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः ।
अवाकिरत्सुसंक्रुद्धस्ततोऽक्रुद्ध्यत्स सात्यकिः॥७॥

अथाशु निशितं भल्लं शैनेयः कृतवर्मणः ।
प्रेषयामास समरे शरांश्च चतुरोऽपरान् ॥८॥

ते तस्य जाघ्निरे वाहान् भल्लेनास्याच्छिद्धनुः ।
पृष्ठरक्षं तथा सूतमविध्यनिशितैः शरैः ॥९॥

ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः ।
सेनामस्यार्दयामास शरैः सन्नतपर्वभिः ॥१०॥

अभज्यताथ पृतना शैनेयशरपीडिता ।
ततः प्रायात्स त्वरितः सात्यकिः सत्यविक्रमः॥११॥

शृणु राजन् यदकरोत् तब सैन्येषु वीर्यवान् ।
अतीत्य स महाराज द्रोणानीकमहार्णवम् ॥१२॥

पराजित्य तु संहृष्टः कृतवर्माणमाहवे ।
यन्तारमब्रवीच्छूरः शनैर्याहीत्यसंभ्रमम्॥१३॥

दृष्ट्वा तु तव तत् सैन्यं रथाश्वद्विपसंकुलम् ।
पदातिजनसंपूर्णमब्रवीत् सारथिं पुनः ॥१४॥

यदेतन्मेधसंकाशं द्रोणानीकस्य सव्यतः ।
सुमहत् कुञ्जरानीकं यस्य रुक्मरथो सुखम् ॥१५॥

एते हि बहवः सूत दुर्निवाराश्च संयुगे ।
दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः ॥१६॥

राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः ।
त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः ॥१७॥

मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः ।
अत्र मां प्रापय क्षिप्रमश्वांचोदय सारथे ॥१८॥

त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः ।
ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः॥१९॥

रथेनादित्यवर्णेन भास्वरेण पताकिना ।
तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः॥२०॥

वायुवेगसमाः संख्ये कुन्देन्दुरजतप्रभाः ।
आपतन्तं रणे तं तु शंखवर्णैर्हयोत्तमैः॥२१॥

परिवव्रुस्ततः शूरा गजानीकेन सर्वतः ।
किरन्तो विविधांस्तीक्ष्णान् सायकान् लघुवेधिनः ॥२२॥

सात्वतो निशितैर्बाणैर्गजानीकमयोधयत् ।
पर्वतानिव वर्षेण तपान्ते जलदो महान् ॥२३॥

वज्राशनिसमस्पर्शर्वध्यमानाः शरैर्गजाः ।
प्राद्रवन् रणमुत्सृज्य शिनिवीरसमीरितैः॥२४॥

शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डिकाः ।
विशीर्णकर्णास्यकरा विनियन्तृपताकिनः ॥२५॥

पिण्डिका गण्डाः ॥२५॥

संभिन्नमर्मघण्टाश्च विनिकृत्तमहाध्वजाः ।
हतारोहा दिशो राजन् भेजिरे भ्रष्टकंबलाः॥२६॥

रुवन्तो विविधान्नादान् जलदोपमनिःस्वनाः ।
नाराचैर्वत्सदन्तैश्च भल्लैरञ्जलिकैस्तथा ॥२७॥

क्षुरप्रैरर्धचन्द्रैश्च सात्वतेन विदारिताः ।
क्षरन्तोऽसृक्र तथा सूत्रं पुरीषं च प्रदुद्रुवुः ॥२८॥

बभ्रमुश्चस्खलुश्चान्ये पेतुर्मम्लुस्तथाऽपरे ।
एवं तत् कुञ्जरानीकं युयुधानेन पीडितम् ॥२९॥

शरैरग्न्यर्कसंकाशैः प्रदुद्राव समन्ततः ।
तस्मिन्हते गजानीके जलसन्धो महाबलः॥३०॥

यत्तः संप्रापयन्नागं रजताश्वरथं प्रति ।
रुक्मवर्मधरः शूरस्तपनीयांगदः शुचिः ॥३१॥

कुण्डली मुकुटी खड्गी रक्तचन्दनरूपितः ।
शिरसा धारयन् दीप्तां तपनीयमयीं स्रजम्॥३२॥

उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम् ।
चापं च रुक्मविकृतं विधुन्वन् गजमूर्धनि ॥३३॥

कण्ठसूत्रं हारम् ॥३३॥

अशोभत महाराज सविद्यादेव तोयदः ।
तमापतन्तं सहसा मागधस्य गजोत्तमम्॥३४॥

सात्यकिर्वारयामास वेलेव मकरालयम् ।
नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः॥३५॥

अक्रुद्ध्यत रणे राजन् जलसंधो महाबलः ।
ततः क्रुद्धो महाराज मार्गणैर्भारसाधनैः॥३६॥

अविध्यत शिनेः पौत्रं जलसन्धो महोरसि ।
ततोऽपरेण भल्लेन पीतेन निशितेन च॥३७॥

अस्यतो वृष्णिवीरस्य निचकर्त शरासनम् ।
सात्यकिं छिन्नधन्वानं प्रहसन्निव भारत ॥३८॥

अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः ।
स विद्धो बहुभिर्बाणैर्जलसन्धेन वीर्यवान्॥३९॥

नाकम्पत महाबाहुस्तद‌द्भुतमिवाभवत् ।
अचिन्तयन् वै स शरान्नात्यर्थं सम्भ्रमाद्बली॥४०॥

धनुरन्यत् समादाय तिष्ठ तिष्ठेत्युवाच ह ।
एतावदुक्त्वा शैनेयो जलसन्धं महोरसि॥४१॥

विव्याध षष्ट्या सभृशं शराणां प्रहसन्निव ।
क्षुरप्रेण सुतीक्ष्णेन मुष्टिदेशे महद्धनुः॥४२॥

जलसंधस्य चिच्छेद विव्याध च त्रिभिः शरैः ।
जलसंधस्तु तत्त्यक्त्वा सारं वै शरासनम् ॥४३॥

तोमरं त्यसृजत्तूर्णं सात्यकिं प्रति मारिष ।
स निर्भिद्य भुजं सव्यं माधवस्य महारणे ॥४४॥

अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः ।
निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः॥४५॥

त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसन्धमताडयत् ।
प्रगृह्य तु ततः खड्गं जलसन्धो महाबलः॥४६॥

आर्षभं चर्म च महच्छतचन्द्रकसंङ्कुलम् ।
आविध्य च ततः खड्गं सात्वतायोत्ससर्ज ह॥४७॥

ततो ग्रहणानन्तरम् आविध्य भ्रामयित्वा ॥४७॥

शैनेयस्थ धनुश्छित्त्वा स खङ्गो न्यपतन्महीम् ।
अलातचक्रवच्चैव व्यरोचत महीं गतः ॥४८॥

अथान्यद्धनुरादाय सर्वकायावदारणम् ।
शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम्॥४९॥

विस्फार्य विव्यधे क्रुद्धो जलसन्धं शरेण ह ।
ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः ॥५०॥

सात्यकिर्जलसन्धस्य चिच्छेद प्रहसन्निव ।
तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात्॥५१॥

वसुन्धराधराद्भ्रष्टौ पञ्चशीर्षाविवोरगौ ।
ततः सुदंष्ट्रं सुमहच्चारुकुण्डलमण्डितम्॥५२॥

वसुन्धराधरात् पर्वतात् ॥५२॥

क्षुरेणास्य तृर्तायेन शिरश्चिच्छेद सात्यकिः ।
तत्पातितशिरोबाहुकबन्धं भीमदर्शनम् ॥५३॥

द्विरदं जलसन्धस्य रुधिरेणाभ्यषिञ्चत ।
जलसन्धं निहत्याजौ त्वरमाणस्तु सात्वतः॥५४॥

विमानं पातयामास गजस्कन्धाद्विशांपते ।
रुधिरेणावसिक्तांगो जलसन्धस्य कुञ्जरः॥५५॥

विलम्बमानमवहत् संश्लिष्टं परमासनम् ।
शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम्॥५६॥

घोरमार्तस्वरं कृत्वा विदुद्राव महागजः ।
हाहाकारो महानासीत्तव सैन्यस्य मारिष॥५७॥

जलसन्धं हतं दृष्ट्वा वृष्णीनामृषभेण तु ।
विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः॥५८॥

पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ।
एतस्मिन्नन्तरे राजन् द्रोणः शस्त्रभृतां वरः॥५९॥

अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम् ।
तमुदीर्णं तथा दृष्ट्वा शैनेयं नरपुङ्गवाः॥६०॥

द्रोणेनैव सह क्रुद्धाः सात्यकिं समुपाद्रवन् ।
ततः प्रववृते युद्धं कुरूणां सात्त्वतस्य च ।
द्रोणस्य च रणे राजन् घोरं देवासुरोपमम्॥६१॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवशे जलसन्धवधो नाम पञ्चदशाधिकशततमोऽध्यायः॥११५॥
षोडशाधिकशततमोऽध्यायः

सञ्जय उवाच। ते किरन्तः शरव्रातान् सर्वे यत्ताः प्रहारिणः ।
त्वरमाणा महाराज युयुधानमयोधयन्॥१॥

ते किरन्त इति ॥१॥

तं द्रोणः सप्त सप्तत्या जघान निशितैः शरैः ।
दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः॥२॥

विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः ।
विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा॥३॥

दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः ।
चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष॥४॥

दुर्योधनश्च महता शरवर्षेण माधवम् ।
अपीडयद्रणे राजञ्शूराश्चान्ये महारथाः॥५॥

सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः ।
तान् प्रत्यविध्यद्वार्ष्णेयः पृथक् पृथगजिह्मगैः॥६॥

भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिः शरैः ।
विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः॥७॥

दुर्मर्षणं द्वादशभिरष्टाभिश्च विविंशतिम् ।
सत्यव्रतं च नवभिर्विजयं दशभिः शरैः॥८॥

ततो रुक्मांगदं चापं विधुन्वानो महारथः ।
अभ्ययात् सात्यकिस्तूर्णं पुत्रं तव महारथम्॥९॥

राजानं सर्वलोकस्य सर्वलोकमहारथम् ।
शरैरभ्याहनद्गाढं ततो युद्धमभूत्तयोः ॥१०॥

विमुञ्चन्तौ शरांस्तीक्ष्णान् सन्दधानौ च सायकान् ।
अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ ॥११॥

सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत ।
अस्रवद्रुधिरं भूरि स्वरसं चन्द‌नो यथा ॥१२॥

चन्दनो रक्तचन्दनः ॥१२॥

सात्वतेन च बाणौघैर्निर्विद्धस्तनयस्तव ।
शातकुंभमयापीडो बभौ यूप इवोच्छ्रितः॥१३॥

माधवस्तु रणे राजन् कुरुराजस्य धन्विनः ।
धनुश्चिच्छेद समरे क्षुरप्रेण हसन्निव ॥१४॥

अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् ।
निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा ॥१५॥

नामृष्यत रणे राजा शत्रोर्विजयलक्षणम् ।
अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् ॥१६॥

विव्याध सात्यकिं तूर्णं सायकानां शतेन ह ।
सोऽतिविद्धो बलवता तव पुत्रेण धन्विना ॥१७॥

अमर्षवशमापन्नस्तव पुत्रमपीडयत् ।
पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः॥१८॥

सात्यकिं शरवर्षेण छाद‌यामासुरोजसा ।
स च्छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः ॥१९॥

एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ।
दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः ॥२०॥

प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् ।
नागं मणिमयं चैव शरैर्ध्वजमपातयत् ॥२१॥

हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ।
सारथिं पातयामास क्षुरप्रेण महायशाः॥२२॥

एतस्मिन्नन्तरे चैव कुरुराजं महारथम् ।
अवाकिरच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः॥२३॥

स वध्यमानः समरे शैनेयस्य शरोत्तमैः ।
प्राद्रवत् सहसा राजन् पुत्रो दुर्योधनस्तव॥२४॥

आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः ।
हाहाभूतं जगच्चासीद् दृष्ट्वा राजानमाहवे ॥२५॥

ग्रस्यमानं सात्यकिना खे सोममिव राहुणा ।
तं तु शब्दमथ श्रुत्वा कृतवर्मा महारथः ॥२६॥

अभ्ययात् सहसा तत्र यत्रास्ते माधवः प्रभुः ।
विधुन्वानो धनुः श्रेष्ठं चोदयंश्चैव वाजिनः॥२७॥

भर्त्सयन्‌ साराथिं चाग्रे याहि याहीति सत्वरम् ।
तमापतन्तं संप्रेक्ष्य व्यादितास्यमिवान्तकम्॥२८॥

युयुधानो महाराज यन्तारमिदमब्रवीत् ।
कृतवर्मा रथेनैष द्रुतमापतते शरी ॥२९॥

प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् ।
ततः प्रजविताश्वेन विधिवत् कल्पितेन च ॥३०॥

आससाद रणे भोजं प्रतिमानं धनुष्मताम् ।
ततः परमसंक्रुद्धौ ज्वलिताविव पावकौ ॥३१॥

समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ ।
कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् ॥३२॥

निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य पञ्चभिः ।
चतुरश्चतुरो वाहांश्चतुर्भिः परमेषुभिः॥३३॥

अविध्यत् साधुदान्तान् वे सैन्धवान् सात्वतस्य हि ।
रुक्मध्वजो रुक्मपृष्ठं महद्विस्फार्य कार्मुकम् ॥३४॥

रुक्माङ्गदी रुक्मवर्मा रुक्मपुंखैरवारयत् ।
ततोऽशीतिं शिनेः पौत्रः सायकान्‌ कृतवर्मणे॥३५॥

प्राहिणोत्त्वरया युक्ता द्रष्टुकामो धनञ्जयम् ।
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः॥३६॥

समकम्पत दुर्धर्षः क्षितिकंपे यथाऽचलः ।
त्रिषष्ट्या चतुरोऽस्याश्वान् सप्तभिः सारथिं तथा ॥३७॥

विव्याध निशितैस्तूर्णं सात्यकिः सत्यविक्रमः ।
सुवर्णपुंखं विशिखं समाधाय च सात्यकिः॥३८॥

व्यसृजत्तं महाज्वालं संक्रुद्धमिव पन्नगम् ।
सोऽविध्यत् कृतवर्माणं यमदण्डोपमः शरः ॥३९॥

जांबूनदविचित्रं च वर्म निर्भिद्य भानुमत् ।
अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः॥४०॥

संजातरुधिरश्चाजौ सात्वतेषुभिरर्दितः ।
सशरं धनुरुत्सृज्य न्यपतत् स्यन्दनोत्तमात्॥४१॥

स सिंहदंष्ट्रो जानुभ्यां पतितोऽमितविक्रमः ।
शरार्दितः सात्यकिना रथोपस्थे नरर्षभः ॥४२॥

दंष्ट्राश्चतस्त्रो यस्य स्युर्दशनेभ्यः समुच्छ्रिताः । सिंहदंष्ट्रःस गदितश्चतुर्दंष्ट्रश्च सूरिभिः॥४२॥

सहस्रबाहुसदृशमक्षोभ्यमिव सागरम् ।
निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः॥४३॥

खड्गशक्तिधनुःकीर्णां गजाश्वरथसंकुलाम् ।
प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः ॥४४॥

प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुङ्गवः ।
अभ्यगाद्वाहिनीं हित्वा वृत्रहेवासुरीं चमूम्॥४५॥

समाश्वस्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः ।
तस्थौ स तत्र बलवान्वारयन्युधि पाण्डवान्॥४६॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे दुर्योधनकृतवर्मपराजये षोडशाधिकशततमोऽध्यायः ॥११६॥
सप्तदशाधिकशततमोऽध्यायः

सञ्जय उवाच। काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः ।
भारद्वाजः शरव्रातैर्महद्भिः समवाकिरत्॥१॥

काल्यमानेष्विति ॥१॥

स संप्रहारस्तुमुलो द्रोणसात्वतयोरभूत् ।
पश्यतां सर्वसैन्यानां बलिवासवयोरिव॥२॥

ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः ।
त्रिभिराशीविषाकारैर्ललाटे समविध्यत ॥३॥

तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः ।
व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः ॥४॥

ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान् ।
भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे ॥५॥

तान्द्रोणचापनिर्मुक्तान् दाशार्हः पततः शरान् ।
द्वाभ्यां द्वाभ्यां सुपुंखाभ्यां चिच्छेद परमास्त्रवित्॥६॥

तामस्य लघुतां द्रोणः समवेक्ष्य विशांपते ।
प्रहस्य सहसाऽविध्यत्त्रिंशता शिनिपुंगवम् ॥७॥

पुनः पञ्चाशतेषूणां शितेन च समार्पयत् ।
लघुतां युयुधानस्य लाघवेन विशेषयन् ॥८॥

समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः ।
तथा द्रोणरथाद्राजन्नापतन्ति तनुच्छिदः ॥९॥

तथैव युयुधानेन सृष्टाः शतसहस्रशः ।
अवाकिरन् द्रोणरथं शरा रुधिरभोजनाः॥१०॥

लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष ।
विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ॥११॥

सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः ।
आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः॥१२॥

सारथिं च शतेनैव भारद्वाजस्य पश्यतः ।
लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः॥१३॥

सप्तत्या सारथिं विद्ध्वा तुरङ्गांश्च त्रिभिस्त्रिभिः ।
ध्वजमेकेन चिच्छेद माधवस्य रथे स्थितम्॥१४॥

अथापरेण भल्लेन हेमपुङ्गेन पत्रिणा ।
धनुश्चिच्छेद समरे माधवस्य महात्मनः॥१५॥

सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः ।
गदां जग्राह महतीं भारद्वाजाय चाक्षिपत् ॥१६॥

तामापतन्तीं सह‌सा पट्टबद्धामयस्मयीम् ।
न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः॥१७॥

अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः ।
विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः॥१८॥

स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत ।
तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः ॥१९॥

ततः शक्तिं गृहीत्वा तु रुक्मदण्डामयस्मयीम् ।
तरसा प्रेषयामास माधवस्य रथं प्रति ॥२०॥

अनासाद्य तु शैनेयं सा शक्तिः कालसन्निभा ।
भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना ॥२१॥

ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा ।
दक्षिणं भुजमासाद्य पीडयन् भरतर्षभ ॥२२॥

द्रोणोऽपि समरे राजन् माधवस्य महद्धनुः ।
अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम्॥२३॥

रथशक्त्या केतकपत्राकारमुखया शक्त्या ॥२३॥

मुमोह सारथिस्तस्य रथशक्त्या समाहतः ।
स रथोपस्थमासाद्य मुहूर्तं संन्यषीदत ॥२४॥

चकार सात्यकी राजन् सूतकर्मातिमानुषम् ।
अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम् ॥२५॥

ततः शरशतेनैव युयुधानो महारथः ।
अविध्यद्ब्राह्मणं संख्ये हृष्टरूपो विशांपते ॥२६॥

तस्य द्रोणः शरान् पञ्च प्रेषयामास भारत ।
ते घोराः कवचं भित्त्वा पपुः शोणितमाहवे ॥२७॥

निर्विद्धस्तु शरैर्घोरैरक्रुद्ध्यत् सात्यकिर्भृशम् ।
सायकान् व्यसृजच्चापि वीरो रुक्मरथं प्रति॥२८॥

ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि ।
अश्वान् व्यद्रावयद्बाणैर्हतसूतांस्ततस्ततः॥२९॥

स रथः प्रद्रुतः संख्ये मण्डलानि सहस्रशः ।
चकार राजतो राजन् भ्राजमान इवांशुमान्॥३०॥

अभिद्रवत गृह्णीत हयान् द्रोणस्य धावत ।
इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः ॥३१॥

ते सात्यकिमपास्याशु राजन् युधि महारथाः ।
यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन् ॥३२॥

तान्‌ दृष्ट्वा प्रद्रुतान्संख्ये सात्वतेन शरार्दितान् ।
प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम् ॥३३॥

व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः ।
वातायमानैस्तैरश्वैर्नीतो वृष्णिशरार्दितः ॥३४॥

पाण्डुपाञ्चालसंभिन्नं व्यूहमालोक्य वीर्यवान् ।
शैनेये नाकरोद्यत्नं व्यूहमेवाभ्यरक्षत ॥३५॥

निवार्य पाण्डुपञ्चालान् द्रोणाग्निः प्रदहन्निव ।
तस्थौ क्रोधेध्मसंदीप्तः कालसूर्य इवोद्यतः ॥३६॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे सात्यकिपराक्रमे सप्तदशाधिकशततमोऽध्यायः ॥११७॥
अष्टादशाधिकशततमोऽध्यायः

सञ्जय उवाच। द्रोणं स जित्वा पुरुषप्रवीरस्तथैव हार्दिक्यमुखांस्त्वदीयान् ।
प्रहस्य सूतं वचनं बभाषे शिनिप्रवीरः कुरुपुङ्गवाग्र्य ॥१॥

द्रोणमिति ॥१॥

निमित्तमात्रं वयमद्य सूत दग्धारयः केशवफाल्गुनाभ्याम् ।
हतान्निहन्मेह नरर्षभेण वयं सुरेशात्मसमुद्भवेन ॥२॥

तमेवमुक्त्या शिनिपुङ्गवस्तदा महामृधे सोऽग्र्यधनुर्धरोऽरिहा ।
किरन् समन्तात् सहसा शरान् बली समापतच्छ्येन इवामिषं यथा ॥३॥

तं यान्तमश्वैः शशिशंखवर्णैर्विगाह्य सैन्यं पुरुषप्रवीरम् ।
नाशक्नुवन् वारयितुं समन्तादादित्यरश्मिप्रतिमं रथाग्र्यम् ॥४॥

असह्यविक्रान्तमदीनसत्त्वं सर्वे गणा भारत ये त्वदीयाः ।
सहस्रनेत्रप्रतिमप्रभावं दिवीव सूर्यं जलदव्यपाय ॥५॥

अमर्षपूर्णस्त्वतिचित्रयोधी शरासनी काञ्चनवर्मधारी ।
सुदर्शनः सात्यकिमापतन्तं न्यवारयद्राजवरः प्रसह्य ॥६॥

तयोरभूद्भारत संप्रहारः सुदारुणस्तं समतिप्रशंसन् ।
योधास्त्वदीयाश्च हि सोमकाश्च वृत्रेन्द्रयोर्युद्धमिवामरौघाः ॥७॥

शरैः सुतीक्ष्णैः शतशोऽभ्यविध्यत् सुदर्शनः सात्वतमुख्यमाजौ ।
अनागतानेव तु तान् पृषत्कांश्चिच्छेद राजञ्शिनिपुङ्गवोऽपि ॥८॥

तथैव शक्रप्रतिमोऽपि सात्यकिः सुदर्शने यान् क्षिपति स्म सायकान् ।
द्विधा त्रिधा तानकरोत् सुदर्शनः शरोत्तमैः स्यन्दनवर्यमास्थितः ॥९॥

तान् वीक्ष्य बाणान्निहतांस्तदानीं सुदर्शनः सात्यकिबाणवेगैः ।
क्रोधाद्दिधक्षन्निव तिग्मतेजाः शरानमुञ्चत्तपनीयचित्रान् ॥१०॥

पुनः स बाणैस्त्रिभिरग्निकल्पैराकर्णपूर्णनिशितैः सुपुङ्खैः ।
विव्याध देहावरणं विभिद्य ते सात्यकेराविविशुः शरीरम् ॥११॥

तथैव तस्यावनिपालपुत्रः सन्धाय बाणैरपरैर्ध्वलद्भिः ।
आजघ्निवांस्तान् रजतप्रकाशांश्चतुर्भिरश्वांश्चतुरः प्रसह्य ॥१२॥

तथा तु तेनाभिहतस्तरस्वी नप्ता शिनेरिन्द्रसमानवीर्यः ।
सुदर्शनस्येषुगणैः सुतीक्ष्णैर्हयानिहत्याशु ननाद नादम् ॥१३॥

अथास्य सूतस्य शिरो निकृत्य भल्लेन शक्राशनिसन्निभेन ।
सुदर्शनस्यापि शिनिप्रवीरः क्षुरेण कालानलसन्निभेन ॥१४॥

सकुण्डलं पूर्णशशिप्रकाशं भ्राजिष्णु वक्त्रं विचकर्त देहात् ।
यथा पुरा वज्रधरः प्रसह्य बलस्य संख्येऽतिबलस्य राजन् ॥१५॥

निहत्य तं पार्थिवपुत्रपौत्रं रणे यदूनामृषभस्तरस्वी ।
मुदा समेतः परया महात्मा रराज राजन् सुरराजकल्पः ॥१६॥

ततो ययावर्जुन एव येन निवार्य सैन्यं तव मार्गणौघैः ।
सदश्वयुक्तेन रथेन राजँल्लोकं विसिस्मापयिषुर्नृवीरः ॥१७॥

तत्तस्य विस्मापयनीयमग्र्यमपूजयन् योधवराः समेताः ।
प्रवर्तमानानिषुगोचरेऽरीन् ददाह बाणैर्हुतभुग्यथैव ॥१८॥

अग्र्यं प्रधानं कर्म ॥१८॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सुदर्शनवधे अष्टादशाधिकशततमोऽध्यायः ॥११८॥
एकोनविंशत्यधिकशततमोऽध्यायः

सञ्जय उवाच। ततः स सात्यकिर्धीमान्महात्मा वृष्णिपुङ्गवः ।
सुदर्शनं निहत्याजौ यन्तारं पुनरब्रवीत् ॥१॥

तत इति ॥१॥

रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम् ।
खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम् ॥२॥

प्राणापहारिणं रौद्रं वादित्रोत्क्रुष्टनादितम् ।
योधानामसुखस्पर्शं दुर्धर्षमजयैषिणाम् ॥३॥

तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम् ।
जलसन्धबलेनाजौ पुरुषादैरिवावृतम् ॥४॥

अतोऽन्यत् पृतनाशेषं मन्ये कुनदिकामिव ।
तर्तव्यामल्पसलिलां चोदयाश्वानसंभ्रमम्॥५॥

हस्तप्राप्तमहं मन्ये सांप्रतं सव्यसाचिनम् ।
निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे॥६॥

हार्दिक्यं योधवर्यं च मन्ये प्राप्तं धनञ्जयम् ।
न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः॥७॥

वह्नेरिव प्रदीप्तस्य वने शुष्कतृणोलपे ।
पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना॥८॥

पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम् ।
द्रवते तद्यथा सैन्यं तेन भग्नं महात्मना ॥९॥

रथैर्विपरिधावद्भिर्गजैरश्वैश्च सारथे ।
कौशेयारुणसङ्काशमेतदुद्धूयते रजः॥१०॥

अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम् ।
स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः॥११॥

यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै ।
अनस्तंगत आदित्ये हन्ता सैन्धवमर्जुनः॥१२॥

शनैर्विश्रम्भयन्नश्वान् याहि यत्रारिवाहिनी ।
यत्रैते सतलत्राणाः सुयोधनपुरोगमाः॥१३॥

विश्रंभयन् आश्वासयन् ॥१३॥

दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः ।
शरबाणासनधरा यवनाश्च प्रहारिणः॥१४॥

शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः ।
अन्ये च बहवो म्लेच्छा विविधायुधपाणयः॥१५॥

यत्रैते सतलत्राणाः सुयोधनपुरोगमाः ।
मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः॥१६॥

एतान् सरथनागाश्वान्निहत्याजौ सपत्तिनः ।
इदं दुर्गं महाघोरं तीर्णमेवोपधारय॥१७॥

सूत उवाच। न संभ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम ।
यद्यपि स्यात्तव क्रुद्धो जामदग्न्योऽग्रतः स्थितः॥१८॥

द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा ।
तथापि संभ्रमो न स्यात्त्वामाश्रित्य महाभुज॥१९॥

त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन ।
दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः॥२०॥

शरबाणासनधरा यवनाश्च प्रहारिणः ।
शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः॥२१॥

अन्ये च बहवो म्लेच्छा विविधायुधपाणयः ।
न च मे संभ्रमः कश्चिद्भूतपूर्वः कथञ्चन॥२२॥

किमुतैतत् समासाद्य धीरसंयुगगोष्पदम् ।
आयुष्मन् कतरेण त्वां प्रापयामि धनञ्जयम्॥२३॥

केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः ।
केषां संयमनीमद्य गन्तुमुत्सहते मनः॥२४॥

के त्वां युधि पराक्रान्तं कालान्तकयमोपमम् ।
दृष्ट्वा विक्रमसंपन्नं विद्रविष्यन्ति संयुगे॥२५॥

केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज ।
सात्यकिरुवाच ।
मुण्डानेतान् हनिष्यामि दानवानिव वासवः॥२६॥

प्रतिक्षां पारयिष्यामि काम्बोजानेव मां वह ।
अद्यैषां कदनं कृत्वा प्रियं यास्यामि पाण्डवम्॥२७॥

पारयिष्यामि समापयिष्यामि ॥२७॥

अद्य द्रक्ष्यन्ति मे वीर्यं कौरवाः ससुयोधनाः ।
मुण्डानीके हते सूत सर्वसैन्येषु चासकृत्॥२८॥

अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे ।
श्रुत्वा विरावं बहुधा सन्तप्स्यति सुयोधनः॥२९॥

अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः ।
आचार्यस्य कृतं मार्गं दर्शयिष्यामि संयुगे ॥३०॥

श्वेताश्वस्य सकाशे कृतमभ्यस्तं मार्गमस्त्रशिक्षामाचार्यस्य द्रोणस्य दर्शयिष्यामीत्यन्वयः । अथवा आचार्यस्य विद्योपदेष्टुः श्वेताश्वस्य दर्शयिष्यामीति सामान्यकर्मकम् ॥३०॥

अद्य मद्बाणनिहतान् योधमुख्यान् सहस्रशः ।
दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति ॥३१॥

अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान् ।
अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः॥३२॥

मत्सायकचिताङ्गानां रुधिरं स्रवतां मुहुः ।
सैनिकानां वधं दृष्ट्वा सन्तप्स्यति सुयोधनः॥३३॥

अद्य में क्रुद्धरूपस्य निघ्नतश्च वरान् वरान् ।
द्विरर्जुनमिमं लोकं मंस्यतेऽद्य सुयोधनः॥३४॥

द्विरर्जुनं द्वावर्जुनौ यत्र नैरुक्तो वर्णागमः ॥३४॥

अद्य राजसहस्राणि निहतानि मया रणे ।
दृष्ट्वा दुर्योधनो राजा सन्तप्स्यति महामृधे॥३५॥

अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु ।
हत्वा राजसहस्त्राणि दर्शयिष्यामि राजसु॥३६॥

बलं वीर्यं कृतज्ञत्वं मम ज्ञास्यन्ति कौरवाः ।
सञ्जय उवाच। एवमुक्तस्तदा सूतः शिक्षितान् साधुवाहिनः॥३७॥

शशाङ्कसन्निकाशान्वै वाजिनो व्यनुदद्भृशम् ।
ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः॥३८॥

प्रापयन् यवनाञ्शीघ्रं मनःपवनरंहसः ।
सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम्॥३९॥

बहवो लघुहस्ताश्च शरवर्षैरवाकिरन् ।
तेषामिषूनथास्त्राणि वेगवान्नतपर्वभिः॥४०॥

अच्छिनत् सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः ।
रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः॥४१॥

उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि ।
शैक्यायसानि वर्माणि कांस्यानि च समन्ततः॥४२॥

शैक्यायसानि शोणितायोमयानि ॥४२॥

भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम् ।
ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे ॥४३॥

शतशोऽभ्यपतंस्तत्र व्यसवो वसुधातले ।
सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः॥४४॥

सुपूर्णायतमुक्तैराकर्णज्योत्सृष्टैः अव्यवच्छिन्नपिण्डितैः अनवच्छिन्नसंहतैः ॥४४॥

पञ्च षट् सप्त चाष्टौ च बिभेद यवनाञ्शरैः ।
काम्बोजानां सहस्रैश्च शकानां च विशांपते॥४५॥

शबराणां किरातानां बर्बराणां तथैव च ।
अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम्॥४६॥

कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम् ।
दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धजैः॥४७॥

दीर्घकूर्चैर्मही कीर्णा विबर्हैरण्डजैरिव ।
रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ ॥४८॥

कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम् ।
वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः॥४९ ।
ते सात्वतेन निहताः समावव्रुर्वसुन्धराम् ।
अल्पावशिष्टाः संभग्नाः कृच्छ्रमाणा विचेतसः॥५०॥

जिताः संख्ये महाराज युयुधानेन दंशिताः ।
पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरङ्गमान्॥५१॥

जवमुत्तममास्थाय सर्वतः प्राद्रवन् भयात् ।
काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत॥५२॥

यवनानां च तत्सैन्यं शकानां च महद्बलम् ।
ततः स पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः॥५३॥

प्रविष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत् ।
तत्तस्य समरे कर्म दृष्ट्वाऽन्यैरकृतं पुरा॥५४॥

चारणाः सहगन्धर्वाः पूजयांचक्रिरे भृशम् ।
तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशांपते ।
चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाभ्यपूजयन्॥५५॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे यवनपराजये एकोनविंशत्यधिकशततमोऽध्यायः ॥ ११९ ॥
विंशत्यधिकशततमोऽध्यायः

सञ्जय उवाच। जित्वा यवनकाम्बोजान्युयुधानस्ततोऽर्जुनम् ।
जगाम तव सैन्यस्य मध्येन रथिनां वरः॥१॥

जित्वेति ॥१॥

चारुदंष्ट्रो नरव्याघ्रो विचित्रकवचध्वजः ।
मृगं व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् ॥२॥

स रथेन चरन्मार्गान् धनुरभ्रामयद्भृशम् ।
रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसंकुलम् ॥३॥

रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः ।
रुक्मध्वजधनुः शूरो मेरुशृङ्गमिवाबभौ॥४॥

सधनुर्मण्डलः संख्ये तेजोभास्कररश्मिवान् ।
शरदीवोदितः सूर्यो नृसूर्यो विरराज ह ॥५॥

वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः ।
तावकानां बभौ मध्ये गवां मध्ये यथा वृषः॥६॥

मत्तद्विरदसंकाशं मत्तद्विरद‌गामिनम् ।
प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् ॥७॥

व्याघ्रा इव जिघांसन्तस्त्वदीयाः समुपाद्रवन् ।
द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम्॥८॥

जलसन्धार्णवं तीर्त्वा काम्बोजानां च वाहिनीम् ।
हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम् ॥९॥

परिवव्रुः सुसंक्रुद्धास्त्वदीयाः सात्यकिं रथाः ।
दुर्योधनश्चित्रसेनो दुःशासनविविंशती॥१०॥

शकुनिर्दुःसहश्चैव युवा दुर्धर्षणः क्रथः ।
अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः॥११॥

पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिणः ।
अथ शब्दो महानासीत्तव सैन्यस्य मारिष॥१२॥

मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ।
तानभिद्रवतः सर्वान् समीक्ष्य शिनिपुङ्गवः॥१३॥

शनैर्याहीति यन्तारमब्रवीत् प्रहसन्निव ।
इदमेतत्समुद्भूतं धार्तराष्ट्रस्य यद्बलम्॥१४॥

मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् ।
नादयन् वै दिशः सर्वा रथघोषेण सारथे॥१५॥

पृथिवीं चान्तरिक्षं च कम्पयन् सागरानपि ।
एतद्बलार्णवं सूत वारयिष्ये महारणे॥१६॥

पौर्णमास्यामिवोद्धूतं वेलेव मकरालयम् ।
पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे॥१७॥

एष सैन्यानि शत्रूणां विधमामि शितैः शरैः ।
निहतानाहवे पश्य पदात्यश्वरथद्विपान् ॥१८॥

मच्छरैरग्निसंकाशैर्विद्धदेहान् सहस्रशः ।
इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः॥१९॥

समीपे सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः ।
जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः॥२०॥

तानेवं ब्रुवतो वीरान् सात्यकिर्निशितैः शरैः ।
जघान त्रिशतानश्वान् कुञ्जरांश्च चतुःशतान्॥२१॥

स संप्रहारस्तुमुलस्तस्य तेषां च धन्विनाम् ।
देवासुररणप्रख्यः प्रावर्तत जनक्षयः ॥२२॥

मेघजालनिभं सैन्यं तव पुत्रस्य मारिष ।
प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः॥२३॥

प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान् ।
असंभ्रमन् महाराज तावकानवधीद्बहून्॥२४॥

आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम् ।
न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो॥२५॥

रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः ।
शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः॥२६॥

संभ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः ।
तत् सैन्यमिषुभिस्तेन वध्यमानं समन्ततः॥२७॥

बभ्राम तत्र तत्रैव गावः शीतार्दिता इव ।
पदातिनं रथं नागं सादिनं तुरगं तथा ॥२८॥

अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः ।
न तादृक्कदनं राजन् कृतवांस्तत्र फाल्गुनः॥२९॥

यादृक् क्षयमनीकानामकरोत् सात्यकिर्नृप ।
अत्यर्जुनं शिनेःपौत्रो युध्यते पुरुषर्षभः॥३०॥

वीतभीर्लाघवोपेतः कृतित्वं संप्रदर्शयन् ।
ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः॥३१॥

विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान् ।
सात्यकिं च त्रिभिर्विद्ध्वा पुनरष्टाभिरेव च॥३२॥

दुःशासनः षोडशभिर्विव्याध शिनिपुङ्गवम् ।
शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः॥३३॥

दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् ।
उत्स्मयन् वृष्णिशार्दूलस्तथा बाणैः समाहतः॥३४॥

तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः ।
गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः॥३५॥

शैनेयः श्येनवत्संख्ये व्यचरल्लघुविक्रमः ।
सौबलस्य धनुश्छित्वा हस्तावापं निकृत्य च॥३६॥

दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत् स्तनान्तरे ।
चित्रसेनं शतेनैव दशभिर्दुःसहं तथा ॥३७॥

दुःशासनं तु विंशत्या विव्याध शिनिपुङ्गवः ।
अथान्यद्धनुरादाय श्यालस्तव विशांपते॥३८॥

अष्टाभिः सात्यकिं विद्ध्वा पुनर्विव्याध पञ्चभिः ।
दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः॥३९॥

दुर्मुखश्च द्वादशभी राजन् विव्याध सात्यकिम् ।
दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम्॥४०॥

ततोऽस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम् ।
तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान् ॥४१॥

पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः ।
ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम् ॥४२॥

आजघानाशु भल्लेन स हतो न्यपतद्भुवि ।
पतिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो ॥४३॥

वातायमानैस्तैरश्वैरपानीयत सगरात् ।
ततस्तव सुतो राजन् सैनिकाश्च विशांपते ॥४४॥

राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् ।
विद्रुतं तत्र तत् सैन्यं दृष्ट्वा भारत सात्यकिः॥४५॥

अवाकिरच्छरैस्तीक्ष्णै रुक्मपुंखैः शिलाशितैः ।
विद्राव्य सर्वसैन्यानि तावकानि सहस्रशः॥४६॥

प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति ।
तं शरानाददानं च रक्षमाणं च सारथिम् ।
आत्मानं पालयानं च तावकाः समपूजयन्॥४७॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे दुर्योधनपलायने विंशत्यधिकशततमोऽध्यायः ॥१२०॥
एकविंशत्यधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। संप्रमृद्य महत् सैन्यं यान्तं शैनेयमर्जुनम् ।
निर्ह्रीका मम ते पुत्राः किमकुर्वत सञ्जय ॥१॥

संप्रमृद्येति ॥१॥

कथं वैषां तदा युद्धे धृतिरासीन्मुमूर्षताम् ।
शैनेयचरितं दृष्ट्वा यादृशं सव्यसाचिनः ॥२॥

किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः ।
कथं नु सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः ॥३॥

कथं च मम पुत्राणां जीवतां तत्र सञ्जय ।
शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व सञ्जय ॥४॥

अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम् ।
एकस्य बहुभिः सार्द्धं शत्रुभिस्तैर्महारथैः ॥५॥

विपरीतमहं मन्ये मन्दभाग्यं सुतं प्रति ।
यत्रावध्यन्त समरे सात्वतेन महारथाः ॥६॥

एकस्य हि न पर्याप्तं यत्सैन्यं तस्य सञ्जय ।
क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः ॥७॥

निर्जित्य समरे द्रोणं कृतिनं चित्रयोधिनम् ।
यथा पशुगणान् सिंहस्तद्वद्धन्ता सुतान् मम ॥८॥

कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे ।
युयुधानो न शकितो हन्तुं यत्पुरुषर्षभः ॥९॥

नैतदीदृशकं युद्धं कृतवांस्तत्र फाल्गुनः ।
यादृशं कृतवान् युद्धं शिनेर्नप्ता महायशाः ॥१०॥

सञ्जय उवाच। तव दुर्मन्त्रिते राजन् दुर्योधनकृतेन च ।
शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत ॥११॥

दुर्योधनस्य कृतेन कर्मणा ॥११॥

ते पुनः संन्यवर्तन्त कृत्या संशप्तका मिथः ।
परां युद्धे मतिं क्रूरां तव पुत्रस्य शासनात् ॥१२॥

मतिं कृत्वेत्यन्वयः ॥१२॥

त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः ।
शककाम्बोजबाल्हीका यवनाः पारदास्तथा ॥१३॥

कुलिन्दास्तंगणाम्बष्ठाः पैशाचाश्च सबर्बराः ।
पार्वतीयाश्च राजेन्द्र क्रुद्धाः पाषाणपाणयः ॥१४॥

अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा ।
युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम् ॥१५॥

शूराः पञ्चाशता राजन् शैनेयं समुपाद्रवन् ।
ततो रथसहस्रेण महारथशतेन च ॥१६॥

द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः ।
शरवर्षाणि मुञ्चन्तो विविधानि महारथाः ॥१७॥

अभ्यद्रवन्त शैनेयमसंख्येयाश्च पत्तयः ।
तांश्च सञ्चोदयन् सर्वान् घ्नतैनमिति भारत ॥१८॥

दुःशासनो महाराज सात्यकिं पर्यवारयत् ।
तत्राद्भुतमपश्याम शैनेयचरितं महत् ॥१९॥

यदेको बहुभिः सार्धमसंभ्रान्तमयुध्यत ।
अवधीच्च रथानीकं द्विरदानां च तद्बलम् ॥२०॥

सादिनश्चैव तान् सर्वान् दस्यूनपि च सर्वशः ।
तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः ॥२१॥

अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः ।
कुञ्जरैर्मथितैश्चापि ध्वजैश्च विनिपातितैः ॥२२॥

वर्मभिश्च तथानीकैर्व्यवकीर्णा वसुन्धरा ।
स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष ॥२३॥

संच्छन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत ।
गिरिरूपधराश्चापि पतिताः कुञ्जरोत्तमाः ॥२४॥

अञ्जनस्य कुले जाता वामनस्य च भारत ।
सुप्रतीककुले जाता महापद्मकुले तथा ॥२५॥

वामनस्य यमोपवाह्यस्य । ‘चन्द्राः कान्तशिरोग्रीवा नीचस्कन्धा मनस्विनः । व्यूढोरस्काः सुनिश्चिन्ता वामनान्वयजा गजाः’॥ सुप्रतीकस्य ईशोपवाह्यस्य । ‘सुविभक्तमहाशीर्षा जीमूतसदृशप्रभाः । प्रभूतहस्ता बलिनः सुप्रतीककुलोद्भवाः’॥ महापद्मस्य कुमुदस्य कुले ॥ ‘चंडाः समायतत्वक्काः सुबद्धा बलिनोऽपि च । महापद्मान्वयभवा गजयुद्धप्रिया गजाः’॥२५॥

ऐरावतकुले चैव तथाऽन्येषु कुलेषु च ।
जाता दन्तिवरा राजन् शेरते बहवो हताः ॥२६॥

उदप्रा वर्षवन्तश्च गजा ऐरावतोद्भवाः‘॥ अन्येषु कुलेषु पुंडरीकपुष्पदन्तसार्वभौमीयेषु । ‘स्थिराः स्थूलशिरोदन्तनिःशंका बलिनोऽपि च ॥ शुक्रवर्णनखाः शूराः पुंडरीकोद्भवा गजाः । श्यामत्वग्दशनाश्चंडा लम्बोष्ठाश्चारुदर्शनाः ॥ पीनायताननकराः पुष्पदंतोद्भवा गजाः ॥ मंडलाकृतयः शूराः सुवर्माणः सुदर्शनाः । पीनायतास्याः पीताभाः सार्वभौमकुलोद्भवाः’॥२६॥

वनायुजान् पार्वतीयान् काम्बोजान् बाल्हिकानपि ।
तथा हयवरान् राजन्निजघ्ने तत्र सात्यकिः ॥२७॥

नानादेशसमुत्थांश्च नानाजातींश्च दन्तिनः ।
निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः ॥२८॥

तेषु प्रकाल्यमानेषु दस्यून् दुःशासनोऽब्रवीत् ।
निवर्तध्यमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥२९॥

तांश्चातिभग्नान् संप्रेक्ष्य पुत्रो दुःशासनस्तव ।
पाषाणयोधिनः शूरान् पार्वतीयानचोदयत् ॥३०॥

अश्मयुद्धेषु कुशला नैतज्जानाति सात्यकिः ।
अश्मयुद्धमजानन्तं हतैनं युद्धकामुकम् ॥३१॥

तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः ।
अभिद्रवत मा भैष्ट न वः प्राप्स्यति सात्यकिः ॥३२॥

ते पार्वतीया राजानः सर्वे पाषाणयोधिनः ।
अभ्यद्रवन्त शैनेयं राजानमिव मन्त्रिणः ॥३३॥

ततो गजशिरःप्रख्यैरुपलैः शैलवासिनः ।
उद्यतैर्युयुधानस्य पुरतस्तस्थुराहवे ॥३४॥

क्षेपणीयैस्तथाऽप्यन्ये सात्वतस्य वधैषिणः ।
चोदितास्तव पुत्रेण सर्वतो रुरुधुर्दिशः ॥३५॥

क्षेपणीयैः शनैः ॥३५॥

तेषामापततामेव शिलायुद्धं चिकीर्षताम् ।
सात्यकिः प्रतिसन्धाय निशितान् प्राहिणोच्छरान् ॥३६॥

तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम् ।
चिच्छेदोरगसङ्काशैर्नाराचैः शिनिपुंगवः ॥३७॥

तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः ।
प्रायः सैन्यान्यहन्यन्त हाहाभूतानि मारिष ॥३८॥

ततः पञ्चशतं शूराः समुद्यतमहाशिलाः ।
निकृत्तबाहयो राजन्निपेतुर्धरणीतले ॥३९॥

पुनर्दशशताश्चान्ये शतसाहस्रिणस्तथा ।
सोपलैर्बाहुभिश्छिन्नैः पेतुरप्राप्य सात्यकिम् ॥४०॥

पाषाणयोधिनः शूरान् यतमानानवस्थितान् ।
न्यवधीद्बहुसाहस्रांस्तद‌द्भुतमिवाभवत् ॥४१॥

ततः पुनर्व्यात्तमुखास्तेऽश्मवृष्टीः समन्ततः ।
अयोहस्ताः शूलहस्ता दरदास्तंगणाः खसाः ॥४२॥

व्यात्तमुखा म्लेच्छविशेषाः ॥४२॥

लंपाकाश्च कुलिंदाश्च चिक्षिपुस्तांश्च सात्यकिः ।
नाराचैः प्रतिचिच्छेद प्रतिपत्तिविशारदः ॥४३॥

अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः ।
शब्देन प्राद्रवन् संख्ये रथाश्वगजपत्तयः ॥४४॥

अद्रीणां प्रस्तराणाम् ॥४४॥

अश्मचूर्णैरवाकीर्णा मनुष्य-गज-वाजिनः ।
नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः ॥४५॥

हतशिष्टाः सरुधिरा भिन्नमस्तकपिण्डिकाः ।
कुञ्जरा वर्जयामासुर्युयुधानरथं तदा ॥४६॥

ततः शब्दः समभवत्तव सैन्यस्य मारिष ।
माधवेनार्द्यमानस्य सागरस्येव पर्वणि ॥४७॥

तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत् ।
एष सूत रणे क्रुद्धः सात्वतानां महारथः ॥४८॥

दारयन् बहुधा सैन्यं रणे चरति कालवत् ।
यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय ॥४९॥

पाषाणयोधिभिर्नूनं युयुधानः समागतः ।
तथाहि रथिनः सर्वे ह्रियन्ते विद्रुतैर्हयैः ॥५०॥

विशस्त्रकवचा रुग्णास्तत्र तत्र पतन्ति च ।
न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् ॥५१॥

इत्येतद्वचनं श्रुत्वा भारद्वाजस्य सारथिः ।
प्रत्युवाच ततो द्रोणं सर्वशस्त्रभृतां वरम् ॥५२॥

सैन्यं द्रवति चायुष्मन् कौरवेयं समन्ततः ।
पश्य योधान् रणे भग्नान् धावतो वै ततस्ततः ॥५३॥

इमे च संहताः शूराः पञ्चालाः पाण्डवैः सह ।
त्वामेव हि जिघांसन्त आद्रवन्ति समन्ततः ॥५४॥

अत्र कार्यं समाधत्स्व प्राप्तकालमरिन्दम ।
स्थाने वा गमने चापि दूरं यातश्च सात्यकिः ॥५५॥

तथैवं वदतस्तस्य भारद्वाजस्य सारथेः ।
प्रत्यदृश्यत शैनेयो निघ्नन् बहुविधान् रथान् ॥५६॥

ते वध्यमानाः समरे युयुधानेन तावकाः ।
युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः ॥५७॥

यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत ।
ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति ॥५८॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे एकविंशत्यधिकशततमोऽध्यायः॥१२१॥
द्वाविंशत्यधिकशततमोऽध्यायः

सञ्जय उवाच। दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम् ।
भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत् ॥१॥

दुःशासनरथमिति ॥१॥

दुःशासन रथाः सर्वे कस्माच्चैते प्रविद्रुताः ।
कच्चित्क्षेमं तु नृपतेः कचिज्जीवति सैन्धवः ॥२॥

राजपुत्रो भवानत्र राजभ्राता महारथः ।
किमर्थं द्रवते युद्धे यौवराज्यमवाप्य हि ॥३॥

न सन्ति पतयः सर्वे तेद्य षण्ढतिलैः समाः ।
दुःशासनैवं कस्मात्त्वं पूर्वमुक्त्वा पलायसे ॥५॥

स्वयं वैरं महत्कृत्वा पञ्चालैः पाण्डवैः सह ।
एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे ॥६॥

न जानीषे पुरा त्वं तु गृह्णन्नक्षान्‌ दुरोदरे ।
शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः ॥७॥

अप्रियाणां हि वचसां पाण्डवस्य विशेषतः ।
द्रौपद्याश्च परिक्लेशस्त्वन्मूलोह्यभवत् पुरा ॥८॥

क्व ते मानश्च दर्पश्च क्व ते वीर्यं क्व गर्जितम् ।
आशीविषसमान् पार्थान् कोपयित्वा क्व यास्यसि ॥९॥

शोच्येयं भारती सेना राज्यं चैव सुयोधनः ।
यस्य त्वं कर्कशो भ्राता पलायनपरायणः ॥१०॥

नतु नाम त्वया वीर दीर्यमाणा भयार्दिता ।
स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी ॥११॥

स त्वमद्य रणं हित्वा भीतो हर्षयसे परान् ।
विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन ॥१२॥

कोऽन्यः स्थास्यति संग्रामे भीतो भीते व्यपाश्रये ।
एकेन सात्वतेनाद्य युध्यमानस्य तेन वै ॥१३॥

पलायने तव मतिः संग्रामाद्धि प्रवर्तते ।
यदा गाण्डीवधन्वानं भीमसेनं च कौरव ॥१४॥

यमौ वा युधि द्रष्टासि तदा त्वं किं करिष्यसि ।
युधि फाल्गुनबाणानां सूर्याग्निसमवर्चसाम् ॥१५॥

न तुल्याः सात्यकिशरा येषां भीतः पलायसे ।
त्वरितो वीर गच्छ त्वं गान्धार्युदरमाविश ॥१६॥

पृथिव्यां धावमानस्य नान्यत् पश्यामि जीवनम् ।
यदि तावत्कृता बुद्धिः पलायनपरायणा ॥१७॥

पृथिवी धर्मराजाय शमेनैव प्रदीयताम् ।
यावत्फाल्गुननाराचा निर्मुक्तोरगसन्निभाः ॥१८॥

नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः ।
यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे ॥१९॥

नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः ।
यावन्न क्रुद्ध्यते राजा धर्मपुत्रो युधिष्ठिरः ॥२०॥

कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः ।
यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम् ॥२१॥

सोदरांस्ते न गृह्णाति तावत्संशाम्य पाण्डवैः ।
पूर्वमुक्तश्च ते भ्राता भीष्मेणासौ सुयोधनः ॥२२॥

अजेयाः पाण्डवाः संख्ये सौम्य संशाम्य तैः सह ।
न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः ॥२३॥

स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः ।
तवापि शोणितं भीमः पास्यतीति मया श्रुतम् ॥२४॥

तच्चाप्यवितथं तस्य तत्तथैव भविष्यति ।
किं भीमस्य न जानासि विक्रमं त्वं सुबालिश ॥२५॥

यत्त्वया वैरमारब्धं संयुगे प्रपलायिना ।
गच्छ तूर्णं रथेनैव यत्र तिष्ठति सात्यकिः ॥२६॥

त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत ।
आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम् ॥२७॥

एवमुक्तस्तव सुतो नाब्रवीत्किञ्चिदप्यसौ ।
श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः ॥२८॥

सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम् ।
आसाद्य च रणे यत्तो युयुधानमयोधयत् ॥२९॥

द्रोणोऽपि रथिनां श्रेष्ठः पञ्चालान् पाण्डवांस्तथा ।
अभ्यद्रवत संक्रुद्धो जवमास्थाय मध्यमम् ॥३०॥

प्रविश्य च रणे द्रोणः पाण्डवानां वरूथिनीम् ।
द्रावयामास योधान् वै शतशोऽथ सहस्रशः ॥३१॥

ततो द्रोणो महाराज नाम विश्राव्य संयुगे ।
पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत् ॥३२॥

तं जयन्तमनीकानि भारद्वाजं ततस्ततः ।
पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात् ॥३३॥

स द्रोणं पञ्चभिर्विद्ध्वा शरैः सन्नतपर्वभिः ।
ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः ॥३४॥

तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे ।
यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत ॥३५॥

सन्निरुद्धं रणे द्रोणं पञ्चाला वीक्ष्य मारिष ।
आवव्रुः सर्वतो राजन् धर्मपुत्रजयैषिणः ॥३६॥

ते शरैरग्निसंकाशैस्तोमरैश्च महाधनैः ।
शस्त्रैश्च विविधै राजन् द्रोणमेकमवाकिरन् ॥३७॥

निहत्य तान् बाणगणैर्द्रौणो राजन्समन्ततः ।
महाजलधरान् व्योम्नि मातरिश्वेव चाबभौ ॥३८॥

ततः शरं महाघोरं सूर्यपावकसन्निभम् ।
संदधे परवीरघ्नो वीरकेतो रथं प्रति ॥३९॥

स भित्वा तु शरो राजन्पाञ्चालकुलनन्दनम् ।
अभ्यगाद्धरणीं तूर्णं लोहितार्द्रो ज्वलन्निव ॥४०॥

ततोऽपतद्रथात्तूर्णं पाञ्चालकुलनन्दनः ।
पर्वताग्रादिव महांश्चाम्पको वायुपीडितः ॥४१॥

तस्मिन् हते महेष्वासे राजपुत्रे महाबले ।
पञ्चालास्त्वरिता द्रोणं समंतात्पर्यवारयन् ॥४२॥

चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत ।
तथा चित्ररथश्चैव भ्रातृव्यसनकर्शिताः ॥४३॥

अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः ।
मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव ॥४४॥

स वध्यमानो बहुधा राजपुत्रैर्महारथैः ।
क्रोधमाहारयत्तेषामभावाय द्विजर्षभः ॥४५॥

ततः शरमयं जालं द्रोणस्तेषामवासृजत् ।
ते हन्यमाना द्रोणस्य शरैराकर्णचोदितैः ॥४६॥

कर्तव्यं नाभ्यजानन् वै कुमारा राजसत्तम ।
तान् विमूढान् रणे द्रोणः प्रहसन्निव भारत ॥४७॥

व्यश्वसूतरथांश्चके कुमारान् कुपितो रणे ।
अथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः ॥४८॥

पुष्पाणीय विचिन्वन्हि सोत्तमाङ्गान्यपातयत् ।
ते रथेभ्यो हताः पेतुः क्षितौ राजन् सुवर्चसः ॥४९॥

देवासुरे पुरा युद्धे यथा दैतेयदानवाः ।
तान्निहत्य रणे राजन् भारद्वाजः प्रतापवान् ॥५०॥

कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम् ।
पञ्चालान्निहतान् दृष्ट्वा देवकल्पान्महारथान् ॥५१॥

धृष्टद्युम्नो भृशोद्विग्नो नेत्राभ्यां पातयञ्जलम् ।
अभ्यवर्तत संग्रामे क्रुद्धो द्रोणरथं प्रति ॥५२॥

ततो हाहेति सहसा नादाः समभवन्नृप ।
पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः ॥५३॥

स च्छाद्यमानो बहुधा पार्षतेन महात्मना ।
न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत ॥५४॥

ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्च्छितः ।
आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम् ॥५५॥

स गाढविद्धो बलिना भारद्वाजो महायशाः ।
निषसाद रथोपस्थे कश्मलं च जगाम ह ॥५६॥

तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी ।
चापमुत्सृज्य शीघ्रं तु असिं जग्राह वीर्यवान् ॥५७॥

अवप्लुत्य रथाच्चापि त्वरितः स महारथः ।
आरुरोह रथं तूर्णं भारद्वाजस्य मारिष ॥५८॥

हर्तुमिच्छन् शिरः कायात्क्रोधसंरक्तलोचनः ।
प्रत्याश्वस्तस्ततो द्रोणो धनुर्गुह्य महारवम् ॥५९॥

आसन्नमागतं दृष्ट्वा धृष्टद्युम्नं जिघांसया ।
शरैर्वैतस्तिकै राजन्विव्याधासनवेधिभिः ॥६०॥

योधयामास समरे धृष्टद्युम्नं महारथम् ।
ते हि वैतस्तिका नाम शरा आसन्नयोधिनः ॥६१॥

द्रोणस्य विहिता राजन्यैर्धृष्टद्युम्नमाक्षिणोत् ।
स वध्यमानो बहुभिः सायकैस्तैर्महाबलः ॥६२॥

अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी ।
आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः ॥६३॥

विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः ।
द्रोणश्चापि महाराज शरैर्विव्याध पार्षतम् ॥६४॥

तद‌द्भुतमभूद्युद्धं द्रोणपाञ्चालयोस्तदा ।
त्रैलोक्यकांक्षिणोरासीच्छक्रप्रल्हादयोरिव ॥६५॥

मण्डलानि विचित्राणि यमकानीतराणि च ।
चरन्तौ युद्धमार्गज्ञौ ततक्षतुरथेषुभिः ॥६६॥

मोहयन्तौ मनांस्याजौ योधानां द्रोणपार्षतौ ।
सृजन्तौ शरवर्षाणि वर्षास्विव बलाहकौ ॥६७॥

छादयन्तौ महात्मानौ शरैर्व्योमदिशो महीम् ।
तदद्भुतं तयोर्युद्धं भूतसङ्घा ह्यपूजयन् ॥६८॥

क्षत्रियाश्च महाराज ये चान्ये तव सैनिकाः ।
अवश्यं समरे द्रोणो धृष्टद्युम्नेन सङ्गतः ॥६९॥

वशमेष्यति नो राजन् पञ्चाला इति चुक्रुशुः ।
द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः ॥७०॥

शिरः प्रच्यावयामास फलं पक्वं तरोरिव ।
ततस्तु प्रद्रुता वाहा राजंस्तस्य महात्मनः ॥७१॥

तेषु प्रद्रवमाणेषु पञ्चालान् सृञ्जयांस्तथा ।
अयोधयद्रणे द्रोणस्तत्र तत्र पराक्रमी ॥७२॥

विजित्य पाण्डुपञ्चालान्भारद्वाजः प्रतापवान् ।
स्वं व्यूहं पुनरास्थाय स्थितो भवदरिन्दमः ।
न चैनं पाण्डवा युद्धे जेतुमुत्सेहिरे प्रभो ॥७३॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे द्रोणपराक्रमे द्वाविंशत्यधिकशततमोऽध्यायः ॥१२२॥
त्रयोविंशत्यधिकशततमोऽध्यायः

सञ्जय उवाच। ततो दुःशासनो राजन् शैनेयं समुपाद्रवत् ।
किरञ्शतसहस्राणि पर्जन्य इव वृष्टिमान् ॥१॥

ततो दुःशासन इति ॥१॥

स विद्ध्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः ।
नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम् ॥२॥

तं तु दुःशासनः शूरः सायकैरावृणोद्भृशम् ।
रथव्रातेन महता नानादेशोद्भवेन च ॥३॥

सर्वतो भरतश्रेष्ठ विसृजन्सायकान्बहून् ।
पर्जन्य इव घोषेण नादयन्वै दिशो दश ॥४॥

तमापतन्तमालोक्य सात्यकिः कौरवं रणे ।
अभिद्रुत्य महाबाहुश्छादयामास सायकैः ॥५॥

ते छाद्यमाना बाणैघैर्दुःशासनपुरोगमाः ।
प्राद्रवन्समरे भीतास्तव सैन्यस्य पश्यतः॥६॥

तेषु द्रवत्सु राजेन्द्र पुत्रो दुःशासनस्तव ।
तस्थौ व्यपेतभी राजन्सात्यकिं चार्दयच्छरैः ॥७॥

चतुर्भिर्वाजिनस्तस्य सारथिं च त्रिभिः शरैः ।
सात्यकिं च शतेनाजौ विद्ध्वा नादं मुमोच सः ॥८॥

ततः क्रुद्धो महाराज माधवस्तस्य संयुगे ।
रथं सूतं ध्वजं तं च चक्रेऽदृश्यमजिह्मगैः ॥९॥

स तु दुःशासनं शूरं सायकैरावृणोद्भृशम् ।
सशङ्कं समनुप्राप्तमूर्णनाभिरिवोर्णया ॥१०॥

त्वरन्समावृणोद्बाणैर्दुःशासनममित्रजित् ।
दृष्ट्वा दुःशासनं राजा तथा शरशताचितम् ॥११॥

त्रिगर्तांश्चोदयामास युयुधानरथं प्रति ।
तेऽगच्छन् युयुधानस्य समीपं क्रूरकर्मणः ॥१२॥

त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः ।
ते तु तं रथवंशेन महता पर्यवारयन् ॥१३॥

स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः ।
तेषां प्रपततां युद्धे शरवर्षाणि मुञ्चताम् ॥१४॥

योधान्पञ्चशतान्मुख्यानग्र्यानीके व्यपोथयत् ।
तेऽपतन्निहतास्तूर्णं शिनिप्रवरसायकैः ॥१५॥

महामारुतवेगेन भग्ना इव नगाद्द्रुमाः ।
नागैश्च बहुधा च्छिनैर्ध्वजैश्चैव विशांपते ॥१६॥

हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी ।
शैनेयशरसंकृत्तैः शोणितौघपरिप्लुतैः ॥१७॥

अशोभत महाराज किंशुकैरिव पुष्पितैः ।
ते वध्यमानाः समरे युयुधानेन तावकाः॥१८॥

त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ।
ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति ॥१९॥

भयात्पतगराजस्य गर्तानीव महोरगाः ।
हत्वा पञ्चशतान्योधाञ्छरैराशीविषोपमैः ॥२०॥

प्रायात्स शनकैर्वीरो धनञ्जयरथं प्रति ।
तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव ॥२१॥

विव्याध नवभिस्तूर्णं शरैः सन्नतपर्वभिः ।
स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः ॥२२॥

रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः ।
सात्यकिं तु महाराज प्रहसन्निव भारत ॥२३॥

दुःशासनखिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ।
शैनेयस्तव पुत्रं तु हत्वा पञ्चभिराशुगैः ॥२४॥

धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ ।
ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते ॥२५॥

सर्वपारशीं शक्तिं विससर्ज जिघांसया ।
तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः ॥२६॥

चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः ।
अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर ॥२७॥

सात्यकिं च शरैर्विद्ध्या सिंहनादं ननर्द ह ।
सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव ॥२८॥

शरैरग्निशिखाकारैराजधान स्तनान्तरे ।
त्रिभिरेव महाभागः शरैः सन्नतपर्वभिः ॥२९॥

सर्वायसैस्तीक्ष्णवक्त्रैः पुनर्विव्याध चाष्टभिः ।
दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत ॥३०॥

सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे ।
त्रिभिरेव महाभागः शरैः सन्नतपर्वभिः ॥३१॥

ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः ।
सारथिं च सुसंक्रुद्धः शरैः सन्नतपर्वभिः ॥३२॥

धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः ।
ध्वजं च रथशक्तिं च भलाभ्यां परमास्त्रवित् ॥३३॥

चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी ।
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥३४॥

त्रिगर्तसेनापतिना स्वरथेनापवाहितः ।
तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत ॥३५॥

न जघान महाबाहुर्भीमसेनवचः स्मरन् ।
भीमसेनेन तु वधः सुतानां तथ भारत ॥३६॥

प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे ।
ततो दुःशासनं जित्वा सात्यकिः संयुगे प्रभो ।
जगाम त्वरितो राजन् येन यातो धनञ्जयः॥३७॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे दुःशासनपराजये त्रयोविंशत्यधिकशततमोऽध्यायः ॥१२३॥
चतुर्विंशत्यधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। किं तस्यां मम सेनायां नासन्केचिन्महारथाः ।
ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन् ॥१॥

किं तस्यामिति ॥१॥

एको हि समरे कर्म कृतवान् सत्यविक्रमः ।
शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव ॥२॥

अथवा शून्यमासीत्तद्येन यातः स सात्यकिः ।
हतभूयिष्ठमथवा येन यातः स सात्यकिः ॥३॥

यत्कृतं वृष्णिवीरेण कर्म शंससि मे रणे ।
नैतदुत्सहते कर्तुं कर्म शक्रोऽपि संजय ॥४॥

अश्रद्धेयमचिन्त्यं च कर्म तस्य महात्मनः ।
वृष्ण्यन्धकप्रवीरस्य श्रुत्वा मे व्यथितं मनः ॥५॥

न सन्ति तस्मात् पुत्रा मे यथा सञ्जय भाषसे ।
एको वै बहुलाः सेनाः प्रामृद्नात सत्यविक्रमः ॥६॥

कथं च युध्यमानानामपक्रान्तो महात्मनाम् ।
एको बहूनां शैनेयस्तन्ममाचक्ष्व सञ्जय ॥७॥

सञ्जय उवाच। राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान् ।
तुमुलस्तव सैन्यानां युगान्तसदृशोऽभवत् ॥८॥

आहूतेषु समूहेषु तव सैन्यस्य मानद ।
नाभूल्लोके समः कश्चित्समूह इति मे मतिः ॥९॥

तत्र देवास्त्वभाषन्त चारणाश्च समागताः ।
एतदन्ताः समूहा वै भविष्यन्ति महीतले ॥१०॥

न च वै तादृशो व्यूह आसीत्कश्चिद्विशांपते ।
यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत् ॥११॥

चण्डवातविभिन्नानां समुद्राणामिव स्वनः ।
रणेऽभवद्बलौघानामन्योन्यमभिधावताम् ॥१२॥

पार्थिवानां समेतानां बहून्यासन्नरोत्तम ।
त्वद्बले पाण्डवानां च सह‌स्राणि शतानि च ॥१३॥

संरब्धानां प्रवीराणां समरे दृढकर्मणाम् ।
तत्रासीत्सुमहाशब्दस्तुमुलो लोमहर्षणः ॥१४॥

अथाक्रन्दद्भीमसेनो धृष्टद्युम्नश्च मारिष ।
नकुलः सहदेवश्च धर्मराजश्च पाण्डवः ॥१५॥

आगच्छत प्रहरत द्रुतं विपरिधावत ।
प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ ॥१६॥

यथा सुखेन गच्छेतां जयद्रथवधं प्रति ।
तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयन् ॥१७॥

तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः ।
ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम् ॥१८॥

क्षोभयध्वं महावेगाः पवनः सागरं यथा ।
भीमसेनेन ते राजन्पाञ्चाल्येन च नोदिताः ॥१९॥

आजघ्नुः कौरवान्सङ्ख्ये त्यक्त्वाऽसूनात्मनः प्रियान् ।
इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः ॥२०॥

स्वर्गेप्सवो मित्रकार्ये नाभ्यनन्दन्त जीवितम् ।
तथैव तावका राजन्प्रार्थयन्तो महद्यशः ॥२१॥

आर्यां युद्धे मतिं कृत्वा युद्धायैवावतस्थिरे ।
तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे ॥२२॥

जित्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनम् ।
कवचानां प्रभास्तत्र सूर्यरश्मिविराजिताः ॥२३॥

दृष्टीः सङ्ख्ये सैनिकानां प्रतिजघ्नुः समन्ततः ।
तथा प्रयतमानानां पाण्डवानां महात्मनाम् ॥२४॥

दुर्योधनो महाराज व्यगाहत महद्बलनम् ।
स सन्निपातस्तुमुलस्तेषां तस्य च भारत ॥२५॥

अभवत्सर्वभूतानामभावकरणो महान् ।
धृतराष्ट्र उवाच। तथा यातेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् ॥२६॥

कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् ।
एकस्य च बहूनां च सन्निपातो महाहवे ॥२७॥

विशेषतो नरपतेर्विषमः प्रतिभाति मे ।
सोत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः ॥२८॥

लक्ष्म्येति विशेषणे तृतीया ॥२८॥

एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः ।
सञ्जय उवाच। राजन्संग्राममाश्चर्यं तव पुत्रस्य भारत ॥२९॥

एकस्य बहुभिः सार्धं शृणुष्व गदतो मम ।
दुर्योधनेन समरे पृतना पाण्डवी रणे ॥३०॥

नलिनी द्विरदेनेव समन्तात्प्रतिलोडिता ।
ततस्तां प्रहितां सेनां दृष्ट्वा पुत्रेण ते नृप ॥३१॥

भीमसेनपुरोगास्तं पञ्चालाः समुपाद्रवन् ।
स भीमसेनं दशभिः शरैर्विव्याध पाण्डवम् ॥३२॥

त्रिभिस्त्रिभिर्यमौ वीरौ धर्मराजं च सप्तभिः ।
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम्व् ॥३३॥

धृष्टद्युम्नं च विंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः ।
शतशश्चापरान्योधान्सद्विपांश्च रथान् रणे ॥३४॥

शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ।
न सन्दधन्विमुञ्चन्वा मण्डलीकृतकार्मुकः ॥३५॥

अदृश्यत रिपून्निघ्नञ्छिक्षयाऽस्त्रबलेन च ।
तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः ॥३६॥

अजस्रं मण्डलीभूतं ददृशुः समरे जनाः ।
ततो युधिष्ठिरो राजा भल्लाभ्यामच्छिनद्धनुः ॥३७॥

तव पुत्रस्य कौरव्य यतमानस्य संयुगे ।
विव्याध चैनं दशभिः सम्यगस्तैः शरोत्तमैः ॥३८॥

वर्म चाशु समासाद्य ते भित्त्वा क्षितिमाविशन् ।
ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम् ॥३९॥

यथा वृत्रवधे देवाः पुरा शक्रं महर्षयः ।
ततोऽन्यद्धनुरादाय तव पुत्रः प्रतापवान् ॥४०॥

तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ।
तमायान्तमभिप्रेक्ष्य तव पुत्रं महामृधे ॥४१॥

प्रत्युद्ययुः समुदिताः पञ्चाला जयगृद्धिनः ।
तान्द्रोणः प्रतिजग्राह परीप्सन् युधि पाण्डवम् ॥४२॥

चण्डवातोद्धुतान्मेघान् गिरिरम्बुमुचो यथा ।
तत्र राजन्महानासीत्संग्रामो लोमहर्षणः ॥४३॥

पाण्डवानां महाबाहो तावकानां च संयुगे ।
रुद्रस्याक्रीडसदृशः संहारः सर्वदेहिनाम् ॥४४॥

ततः शब्दो महानासीत्पुनर्येन धनञ्जयः ।
अतीव सर्वशब्देभ्यो लोमहर्षकरः प्रभो ॥४५॥

अर्जुनस्य महाबाहो तावकानां च धन्विनाम् ।
मध्ये भारतसैन्यस्य माधवस्य महारणे ॥४६॥

द्रोणस्यापि परैः सार्धं व्यूहद्वारे महारणे ।
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते ।
क्रुद्धेऽर्जुने तथा द्रोणे सात्वते च महारथे ॥४७॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रवेशे संकुलयुद्धे चतुर्विंशत्यधिकशततमोऽध्यायः॥१२४॥
पञ्चविंशत्यधिकशततमोऽध्यायः

सञ्जय उवाच। अपराह्णे महाराज संग्रामः सुमहानभूत् ।
पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः ॥१॥

अपराह्ण इति ॥१॥

शोणाश्वं रथमास्थाय नरवीरः समाहितः ।
समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् ॥२॥

तव प्रियहिते युक्तो महेष्वासो महाबलः ।
चित्रपुंखैः शितैर्बाणैः फलशोत्तमसंभवः ॥३॥

वरान्वरान्हि योधानां विचिन्वन्निव भारत ।
आक्रीडत रणे राजन् भारद्वाजः प्रतापवान् ॥४॥

तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः ।
भ्रातॄणां नृपपञ्चानां श्रेष्ठः समरकर्कशः ॥५॥

विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं भृशमार्दयत् ।
महामेघो यथा वर्षं विमुञ्चन्गन्धमादने ॥६॥

तस्य द्रोणो महाराज स्वर्णपुंखाञ्छिलाशितान् ।
प्रेषयामास संक्रुद्धः सायकान्दश पञ्च च ॥७॥

तांस्तु द्रोणविनिर्मुक्तान् कुद्धाशीविषसन्निभान् ।
एकैकं पञ्चभिर्बाणैर्युधि चिच्छेद हृष्टवत् ॥८॥

तदस्य लाघवं दृष्ट्वा प्रहस्य द्विजपुङ्गवः ।
प्रेषयामास विशिखानष्टौ सन्नतपर्वणः ॥९॥

तान् दृष्ट्वा पततस्तूर्णं द्रोणचापच्युताञ्शरान् ।
अवारयच्छरैरेव तावद्भिर्निशितैर्मृधे ॥१०॥

ततोऽभवन्महाराज तव सैन्यस्य विस्मयः ।
बृहत्क्षत्रेण तत् कर्म कृतं दृष्ट्वा सुदुष्करम् ॥११॥

ततो द्रोणो महाराज बृहत्क्षत्रं विशेषयन् ।
प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं सुदुर्जयम् ॥१२॥

कैकेयोऽस्त्रं समालोक्य मुक्तं द्रोणेन संयुगे ।
ब्रह्मास्त्रेणैव राजेन्द्र ब्राह्ममस्त्रमशातयत् ॥१३॥

ततोऽस्त्रे निहते ब्राह्मे बृहत्क्षत्रस्तु भारत ।
विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः ॥१४॥

तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समार्पयत् ।
स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् ॥१५॥

कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम ।
तथाऽत्यगान्महीं बाणो भित्त्वा कैकेयमाहवे ॥१६॥

सोऽतिविद्धो महाराज कैकेयो द्रोणसायकैः ।
क्रोधेन महताऽऽविष्टो व्यावृत्य नयने शुभे ॥१७॥

द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ।
सारथिं चास्य बाणेन भृशं मर्मस्वताडयत् ॥१८॥

द्रोणस्तु बहुभिर्विद्धो बृहत्क्षत्रेण मारिष ।
असृजद्विशिखांस्तीक्ष्णान् कैकेयस्य रथं प्रति ॥१९॥

व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम् ।
अश्वांश्चतुर्भिर्न्यवधीच्चतुरोऽस्य पतत्रिभिः ॥२०॥

सूतं चैकेन बाणेन रथनीडाद‌पातयत् ।
द्वाभ्यां ध्वजं च च्छत्रं च च्छित्वा भूमावपातयत् ॥२१॥

ततः साधुविसृष्टेन नाराचेन द्विजर्षभः ।
हृद्यविध्यद्बृहत्क्षत्रं स च्छिन्नहृद‌योऽपतत् ॥२२॥

बृहत्क्षत्रे हते राजन् केकयानां महारथे ।
शैशुपालिरभिक्रुद्धो यन्तारमिदमब्रवीत् ॥२३॥

सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः ।
विनिघ्नन् केकयान् सर्वान् पञ्चालानां च वाहिनीम् ॥२४॥

तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम् ।
द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः ॥२५॥

धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः ।
वधायाभ्यद्रवद्द्रोणं पतङ्ग इव पावकम् ॥२६॥

सोऽविध्यत तदा द्रोणं षष्ट्या साश्वरथध्वजम् ।
पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुद‌न्निव ॥२७॥

तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन च ।
चकर्त गार्ध्रपत्रेण यतमानस्य शुष्मिणः ॥२८॥

अथान्यद्धनुरादाय शैशुपालिर्महारथः ।
विव्याध सायकैर्द्रोणं कङ्कबर्हिणवाजितैः ॥२९॥

तस्य द्रोणो हयान् हत्वा चतुर्भिश्चतुरः शरैः ।
सारथेश्च शिरः कायाच्चकर्त प्रहसन्निव ॥३०॥

अथैनं पञ्चविंशत्या सायकानां समार्पयत् ।
अवप्लुत्य रथाच्चैद्यो गदामादाय सत्वरः ॥३१॥

भारद्वाजाय चिक्षेप रुषितामिव पन्नगीम् ।
तामापतन्तीमालोक्य कालरात्रिमिवोद्यताम् ॥३२॥

अश्मसारमयीं गुर्वीं तपनीयविभूषिताम् ।
शरैरनेकसाहस्रैर्भारद्वाजोऽच्छिनच्छितैः ॥३३॥

सा छिन्ना बहुभिर्बाणैर्भारद्वाजेन मारिष ।
गदा पपात कौरव्य नादयन्ती धरातलम् ॥३४॥

गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः ।
तोमरं व्यसृजद्वीरः शक्तिं च कनकोज्ज्वलाम् ॥३५॥

तोमरं पञ्चभिर्भित्त्वा शक्तिं चिच्छेद पञ्चभिः ।
तौ जग्मतुर्महीं छिन्नौ सर्पाविव गरुत्मता ॥३६॥

ततोऽस्य विशिखं तीक्ष्णं वधाय वधकांक्षिणः ।
प्रेषयामास समरे भारद्वाजः प्रतापवान् ॥३७॥

स तस्य कवचं भित्त्वा हृदयं चामितौजसः ।
अभ्यगाद्धरणीं बाणो हंसः पद्मवनं यथा ॥३८॥

पतङ्गं हि ग्रसेच्चाषो यथा क्षुद्रं बुभुक्षितः ।
तथा द्रोणोऽप्रसच्छूरो धृष्टकेतुं महाहवे ॥३९॥

निहते चेदिराजे तु तत् खण्डं पित्र्यमाविशत् ।
अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् ॥४०॥

तमपि प्रहसन् द्रोणः शरैर्नित्ये यमक्षयम् ।
महाव्याघ्रो महारण्ये मृगशावं यथा बली ॥४१॥

तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत ।
जरासन्धसुतो वीरः स्वयं द्रोणमुपाद्रवत् ॥४२॥

स तु द्रोणं महाबाहुः शरधाराभिराहवे ।
अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा ॥४३॥

तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः ।
व्यसृजत् सायकांस्तूर्णं शतशोऽथ सहस्रशः ॥४४॥

छादयित्वा रणे द्रोणो रथस्वं रथिनां वरम् ।
जारासन्धिं जघानाशु मिषतां सर्वधन्विनाम् ॥४५॥

यो यः स्म नीयते तत्र तं द्रोणो ह्यन्तकोपमः ।
आदत्त सर्वभूतानि प्राप्ते काले यथाऽन्तकः ॥४६॥

ततो द्रोणो महाराज नाम विश्राव्य संयुगे ।
शरैरनेकसाहस्रैः पाण्डवेयान् समावृणोत् ॥४७॥

ते तु नामाङ्किता बाणा द्रोणेनास्ताः शिलाशिताः ।
नरान्नागान् हयांश्चैव निजघ्नुः शतशो मृधे ॥४८॥

ते वध्यमाना द्रोणेन शक्रेणेव महासुराः ।
समकम्पन्त पञ्चाला गावः शीतार्दिता इव ॥४९॥

ततो निष्ठानको घोरः पाण्डवानामजायत ।
द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ ॥५०॥

निष्टानकः कष्टस्वनः ॥५०॥

प्रताप्यमानाः सूर्येण हन्यमानाश्च सायकैः ।
अन्वपद्यन्त पञ्चालास्तदा सन्त्रस्तचेतसः ॥५१॥

मोहिता बाणजालेन भारद्वाजेन संयुगे ।
ऊरुग्राहगृहीतानां पञ्चालानां महारथाः ॥५२॥

ऊरुग्राहः ऊरुस्तम्भः ॥५२॥

चेदयश्च महाराज सुञ्जयाः काशिकोसलाः ।
अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया ॥५३॥

ब्रुवन्तश्च रणेऽन्योन्यं चेदिपञ्चालसृञ्जयाः ।
हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः ॥५४॥

यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम् ।
निनीषवो रणे द्रोणं यमस्य सदनं प्रति ॥५५॥

यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः ।
यमाय प्रेषयामास चेदिमुख्यान् विशेषतः ॥५६॥

तेषु प्रक्षीयमाणेषु चेदिमुख्येषु सर्वशः ।
पञ्चालाः समकम्पन्त द्रोणसायकपीडिताः ॥५७॥

प्राक्रोशन् भीमसेनं ते धृष्टद्युम्नं च भारत ।
दृष्ट्वा द्रोणस्य कर्माणि तथा रूपाणि मारिष ॥५८॥

ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत् ।
तथा हि युधि संक्रुद्धो दहति क्षत्रियर्षभान् ॥५९॥

धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परन्तपः ।
तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् ॥६०॥

द्रोणाग्निमस्त्रसंस्पर्शं प्रविष्टाः क्षत्रियर्षभाः ।
बहवो दुस्तरं घोरं यत्रादह्यन्त भारत ॥६१॥

यथाबलं यथोत्साहं यथासत्त्वं महाद्युतिः ।
मोहयन् सर्वभूतानि द्रोणो हन्ति बलानि नः ॥६२॥

तेषां तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः ।
अर्धचन्द्रेण चिच्छेद क्षत्रधर्मा महाबलः ॥६३॥

क्रोधसंविग्नमनसो द्रोणस्य सशरं धनुः ।
स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः ॥६४॥

अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम् ।
तत्राधाय शरं तीक्ष्णं परानीकविशातनम् ॥६५॥

आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत् ।
स हत्या क्षत्रधर्माणं जगाम धरणीतलम् ॥६६॥

स भिन्नहृदयो वाहान्न्यपतन्मेदिनीतले ।
ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते ॥६७॥

अथ द्रोणं समारोहच्चेकितानो महाबलः ।
स द्रोणं दशभिर्विद्ध्वा प्रत्यविद्ध्यत्स्तनान्तरे ॥६८॥

चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान् ।
तमाचार्यस्त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥६९॥

ध्वजं सप्तभिरुन्मथ्य यन्तारमवधीत्त्रिभिः ।
तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः ॥७०॥

समरे शरसंवाता भारद्वाजेन मारिष ।
चेकितानरथं दृष्ट्वा हताश्वं हतसारथिम् ॥७१॥

तान् समेतान् रणे शूरांश्चेदिपञ्चालसृञ्जयान् ।
समन्ताद्द्रावयन् द्रोणो बह्वशोभत मारिष ॥७२॥

आकर्णपलितः श्यामो वयसाऽशीतिपञ्चकः ।
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षयत् ॥७३॥

आकर्णमुपागतं पलितं केशादेः शौक्ल्यं यस्य वयसा कालपिण्डसंयोगेन अशीतिपञ्चकः चतुःशताब्दः अशीतिकापर इति पाठे अतिवृद्धतमः ॥७३॥

अथ द्रोणं महाराज विचरन्तमभीतवत् ।
वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम् ॥७४॥

ततोऽब्रवीन्महाबाहुर्द्रुपदो बुद्धिमान्नृप ।
लुब्धोऽयं क्षत्रियान् हन्ति व्याघ्रः क्षुद्रमृगानिव ॥७५॥

कृच्छ्रान् दुर्योधनो लोकान् पापः प्राप्स्यति दुर्मतिः ।
यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः ॥७६॥

शतशः शेरते भूमौ निकृत्ता गोवृषा इव ।
रुधिरेण परीताङ्गाः श्वशृगालादनीकृताः ॥७७॥

एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः ।
पुरस्कृत्य रणे पार्थान् द्रोणमभ्यद्द्रवद्द्रुतम् ॥७८॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि द्रोणपराक्रमे पञ्चविंशत्यधिकशततमोऽध्यायः॥१२५॥
षड्विंशत्यधिकशततमोऽध्यायः

सञ्जय उवाच। व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः ।
सुदूरमन्वयुः पार्थाः पञ्चालाः सह सोमकैः ॥१॥

व्यूहेष्विति ॥१॥

वर्तमाने तथा रौद्रे संग्रामे लोमहर्षणे ।
संक्षये जगतस्तीव्रे युगान्त इव भारत ॥२॥

द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः ।
पञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु ॥३॥

नापश्यच्छरणं किञ्चिद्धर्मराजो युधिष्ठिरः ।
चिन्तयामास राजेन्द्र कथमेतद्भविष्यति ॥४॥

ततो वीक्ष्य दिशःसर्वाः सव्यसाचिदिदृक्षया ।
युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् ॥५॥

वानरर्षभलक्षणं वानरप्रधानं ध्वजं वरवानरकेतनमिति पाठो वा ॥५॥

सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम् ।
गांडीवस्य च निर्घोषमशृण्वन् व्यथितेन्द्रियः ॥६॥

अपश्यत् सात्यकिं चापि वृष्णीनां प्रवरं रथम् ।
चिन्तयाऽभिपरीतांगो धर्मराजो युधिष्ठिरः ॥७॥

नाध्यगच्छत्तदा शान्तिं तावपश्यनरोत्तमौ ।
लोकोपक्रोशभीरुत्वाद्धर्मराजो महामनाः ॥८॥

अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति ।
पदवीं प्रेषितश्चैव फाल्गुनस्य मया रणे ॥९॥

शैनेयः सात्यकिः सत्यो मित्राणामभयंकरः ।
तदिदं ह्येकमेवासीद्द्विधा जातं ममाद्य वै ॥१०॥

सत्यो दृढप्रतिज्ञः ॥१०॥

सात्यकिश्च हि विज्ञेयः पाण्डवश्च धनञ्जयः ।
सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम् ॥११॥

सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् ।
करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि ॥१२॥

युयुधानमनन्विष्य लोको मां गर्हयिष्यति ।
चातुरन्वेषणं कृत्वा धर्मपुत्रो युधिष्ठिरः ॥१३॥

परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ।
लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम् ॥१४॥

पदवीं प्रेषायेष्यामि माधवस्य महात्मनः ।
यथैव च मम प्रीतिरर्जुने शत्रुसूदने ॥१५॥

तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे ।
अतिभारे नियुक्तश्च मया शैनेयनन्दनः ॥१६॥

स तु मित्रोपरोधेन गौरवात्सु महाबलः ।
प्रविष्टो भारतीं सेनां मकरः सागरं यथा ॥१७॥

असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम् ।
मिथः संयुध्यमानानां वृष्णिवीरेण धीमता ॥१८॥

प्राप्तकालं सुबलवन्निश्चितं बहुधा हि मे ।
तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः ॥१९॥

गमनं रोचते मह्यं यत्र यातौ महारथौ ।
न चाप्यसह्यं भीमस्य विद्यते भुवि किंचन ॥२०॥

शक्तो ह्येष रणे यत्तः पृथिव्यां सर्वधन्विनाम् ।
स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा ॥२१॥

यस्य बाहुवलं सर्वे समाश्रित्य महात्मनः ।
वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः ॥२२॥

इतो गते भीमसेने सात्वतं प्रति पाण्डवे ।
सनाथौ भवितारौ हि युधि सात्वतफाल्गुनौ ॥२३॥

कामं त्वशोचनीयौ तौ रणे सात्वतफाल्गुनौ ।
रक्षितौ वासुदेवेन स्वयं शस्त्रविशारदौ ॥२४॥

अवश्यं तु मया कार्यमात्मनः शोकनाशनम् ।
तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम् ॥२५॥

ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति ।
एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः ॥२६॥

सात्यकिं प्रति प्रतिविधानं कृतमित्यन्वयः ॥२६॥

यन्तारमब्रवीद्राजा भीमं प्रति नयस्व माम् ।
धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः ॥२७॥

रथं हेमपरिष्कारं भीमान्तिकमुपानयत् ।
भीमसेनमनुज्ञाप्य प्राप्तकालमचिन्तयत् ॥२८॥

कश्मलं प्राविशद्राजा बहु तत्र समादिशत् ।
स कश्मलसमाविष्टो भीममाहूय पार्थिवः ॥२९॥

अब्रवीद्वचनं राजन् कुन्तीपुत्रो युधिष्ठिरः ।
यः सदेवान्सगन्धर्वान् दैत्यांश्चैकरथोऽजयत् ॥३०॥

तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते ।
ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम् ॥३१॥

नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम् ।
पुराऽतिदुःखदीर्णानां भवान्‌ गतिरभूद्धि नः ॥३२॥

उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते ।
न ह्यसाध्यमकार्यं वा विद्यते मम मानद ॥३३॥

आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः ।
तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन् ॥३४॥

भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः ।
यथा शंखस्य निर्घोषः पाञ्चजन्यस्य श्रूयते ॥३५॥

पूरितो वासुदेवेन संरब्धेन यशस्विना ।
नूनमद्य हतः शेते तवा भ्राता धनञ्जयः ॥३६॥

तस्मिन् विनिहते नूनं युध्यतेऽसौ जनार्दनः ।
यस्य सत्त्ववतो वीर्यं ह्युपजीवन्ति पाण्डवाः ॥३७॥

यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः ।
स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम् ॥३८॥

तस्य वै गमनं विद्मो भीम नावर्तनं पुनः ।
श्यामो युवा गुडाकेशो दर्शनीयो महारथः ॥३९॥

व्यूढोरस्को महाबाहुर्मत्तद्विरदविक्रमः ।
चकोरनेत्रस्ताम्रास्यो द्विषतां भयवर्धनः ॥४०॥

चकोरनेत्रो रक्तान्तायतनयनः ताम्रास्यो रक्तगौरमुखः ॥४०॥

तदिदं मम भद्रं ते शोकस्थानमरिन्दमम् ।
अर्जुनार्थे महाबाहो सात्वतस्य च कारणात् ॥४१॥

वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः ।
तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् ॥४२॥

तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम् ।
स तं महारथं पश्चाद‌नुयातस्तथानुजम् ॥४३॥

तमपश्यन्महाबाहुमहं विन्दामि कश्मलम् ।
पार्थे तस्मिन्हते चैव युध्यते नूनमग्रणीः ॥४४॥

सहायो नास्य वै कश्चित्तेन विन्दामि कश्मलम् ।
तस्मिन्कृष्णो हते नूनं युध्यते युद्धकोविदः ॥४५॥

न हि मे शुध्यते भावस्तयोरेव परन्तप ।
स तत्र गच्छ कौन्तेय यत्र यातो धनञ्जयः ॥४६॥

सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे ।
वचनं मम धर्मज्ञ भ्राता ज्येष्ठो भवामि ते ॥४७॥

न तेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा ।
चिकीषुर्मत्प्रियं पार्थ स यातः सव्यसाचिनः ।
पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः ॥४८॥

दृष्ट्वा कुशलिनौ कृष्णौ सात्वतं चैव सात्यकिम् ।
संविदं चैव कुर्यास्त्वं सिंहनादेन पाण्डव ॥४९॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि युधिष्ठिरचिन्तायां षड्विंशत्यधिकशततमोऽध्यायः॥१२६॥
सप्तविंशत्यधिकशततमोऽध्यायः

भीमसेन उवाच। ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः ।
तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम् ॥१॥

ब्रह्मेति ॥१॥

आशां तु शिरसा बिभ्रदेष गच्छामि मा शुचः ।
समेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम् ॥२॥

संविदं ज्ञापनम् ॥२॥

सञ्जय उवाच। एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम् ।
धृष्टद्युम्नाय बलवान् सृहृद्भ्यश्च पुनः पुनः ॥३॥

धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः ।
विदितं ते महाबाहो यथा द्रोणो महारथः ॥४॥

ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते ।
न च मे गमने कृत्यं तादृक् पार्षत विद्यते ॥५॥

यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः ।
एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं न चोत्सहे ॥६॥

आत्ययिकम् अतिशयितं हिशब्दोऽभिमुखाकरणे एवमनन्तरोक्तम् ॥६॥

प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः ।
धर्मराजस्य वचने स्थातव्यमविशंकया ॥७॥

यास्यामि पदवीं भ्रातुः सात्वतस्य च धीमतः ।
सोऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम् ॥८॥

एतद्धि सर्वकार्याणां परमं कृत्यमाहवे ।
तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम् ॥९॥

ईप्सितं ते करिष्यामि गच्छ पार्थोविचारयन् ।
नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथञ्चन ॥१०॥

निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे ।
ततो निक्षिप्य राजानं धृष्टद्युम्ने च पांडवम् ॥११॥

अभिवाद्य गुरुं ज्येष्ठं प्रययौ येन फाल्गुनः ।
परिष्वक्तश्च कौन्तेयो धर्मराजेन भारत ॥१२॥

आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः ।
कृत्वा प्रदक्षिणान्विप्रानर्चितांस्तुष्टमानसान् ॥१३॥

आलभ्य मंगलान्यष्टौ पीत्वा कैरातकं मधु ।
द्विगुणद्रविणो वीरो मदरक्तान्तलोचनः ॥१४॥

विप्रैः कृतस्वस्त्ययनो विजयोत्पादसूचितः ।
पश्यन्नेवात्मनो बुद्धिं विजयानन्द‌कारिणीम् ॥१५॥

विजयोत्पादसूचितः सूचितविजयात्पादः ॥१५॥

अनुलोमानिलैश्चाशु प्रदर्शितजयोदयः ।
भीमसेनो महाबाहुः कवची शुभकुण्डली ॥१६॥

साङ्गदी सतलत्राणः सरथी रथिनां वरः ।
तस्य कार्ष्णायसं वर्म हेमचित्रं महर्धिमत् ॥१७॥

विबभौ सर्वतः श्लिष्टं सविद्युदिव तोयदः ।
पीतरक्तासितसितैर्वासोभिश्च सुवोष्टितः ॥१८॥

कण्ठत्राणेन च बभौ सेन्द्रायुध इवांबुदः ।
प्रयाते भीमसेने तु तव सैन्यं युयुत्सया ॥१९॥

पाञ्चजन्यरवो घोरः पुनरासीद्विशांपते ।
तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत् ॥२०॥

पुनर्भीमं महाबाहुं धर्मपुत्रोऽभ्यभाषत ।
एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम् ॥२१॥

पृथिवीं चान्तरिक्षं च विनादयति शंखराट् ।
नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि ॥२२॥

कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः ।
आह कुन्ती नूनमार्या पापमद्य निदर्शनम् ॥२३॥

आर्या मान्या मातेति यावत् निदर्शनं निमित्तम् ॥२३॥

द्रौपदी च सुभद्रा च पश्यन्त्यौ सह बन्धुभिः ।
स भीम त्वरया युक्तो याहि यत्र धनञ्जयः ॥२४॥

मुह्यन्तीव हि मे सर्वा धनञ्जयदिदृक्षया ।
दिशश्च प्रदिशः पार्थ सात्वतस्य च कारणात् ॥२५॥

मुह्यन्ति मोहेनाद्रियन्ते ॥२५॥

गच्छ गच्छेति गुरुणा सोऽनुज्ञातो वृकोदरः ।
ततः पाण्डुसुतो राजन् भीमसेनः प्रतापवान् ॥२६॥

बद्धगोधांगुलित्राणः प्रगृहीतशरासनः ।
ज्येष्ठेन प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियंकरः ॥२७॥

आहत्य दुन्दुभिं भीमः शंखं प्रध्माप्य चासकृत् ।
विनद्य सिंहनादेन ज्यां विकर्षन् पुनः पुनः ॥२८॥

तेन शब्देन वीराणां पातयित्वा मनांस्युत ।
दर्शयन् घोरमात्मानममित्रान् सह‌साऽभ्ययात् ॥२९॥

तमूहुर्जवना दान्ता विरुवन्तो हयोत्तमाः ।
विशोकेनाभिसंपन्ना मनोमारुतरंहसः ॥३०॥

आरुजन्विरुजन् पार्थो ज्यां विकर्षंश्च पाणिना ।
संप्रकर्षन् विकर्षंश्च सेनाग्रं समलोडयत् ॥३१॥

आरुजन् कृंतन् विरुजन्विध्यन् विकर्षन् अत्यर्थं कर्षन् संप्रकर्षन् सम्यक्प्रकर्षेण विलिखन् विकर्षन् विक्षिपन् ॥३१॥

तं प्रयान्तं महाबाहुं पञ्चालाः सहसोमकाः ।
पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः ॥३२॥

तं समेत्य महाराज तावकाः पर्यवारयन् ।
दुःशलश्चित्रसेनश्च कुण्डभेदी विविंशतिः ॥३३॥

दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा ।
विन्दानुविन्दौ सुमुखौ दीर्घबाहुः सुदर्शनः ॥३४॥

वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः ।
अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः ॥३५॥

शोभन्तो रथिनां श्रेष्ठाः सहसैन्यपदानुगाः ।
संयत्ताः समरे वीरा भीमसेनमुपाद्रवन् ॥३६॥

तैः समन्ताद्वृतः शूरैः समरेषु महारथः ।
तान् समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी ।
अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव ॥३७॥

ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन् ।
छादयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम् ॥३८॥

स तानतीत्य वेगेन द्रोणानीकमुपाद्रवत् ।
अग्रतश्च गजानीकं शरवर्षैरवाकिरत् ॥३९॥

सोऽचिरेणैव कालेन तद्गजानीकमाशुगैः ।
दिशः सर्वाः समभ्यस्य व्यधमत् पवनात्मजः ॥४०॥

त्रासिताः शरभस्येव गर्जितेन वने मृगाः ।
प्राद्रवन् द्विरदाः सर्वे नदन्तो भैरवान् रवान् ॥४१॥

पुनश्चातीव वेगेन द्रोणानीकमुपाद्रवत् ।
तमवारयदाचार्यो वेलोद्वृत्तमिवार्णवम् ॥४२॥

ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव ।
ऊर्ध्वरश्मिरिवादित्यो विबभौ तेन पाण्डवः ॥४३॥

स मन्यमानस्त्वाचार्यो ममायं फाल्गुनो यथा ।
भीमः करिष्यते पूजामित्युवाच वृकोदरम् ॥४४॥

भीमसेन न ते शक्या प्रवेष्टुमरिवाहिनी ।
मामनिर्जित्य समरे शत्रुमय महाबल ॥४५॥

यदि ते सोऽनुजः कृष्णः प्रविष्टोऽनुमते मम ।
अनीकं न तु शक्यं मे प्रवेष्टुमिह वै त्वया ॥४६॥

अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमपेतभीः ।
क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणस्त्वरन् ॥४७॥

तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम् ।
प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम् ॥४८॥

तेन वै परमां पूजां कुर्वता मानितो ह्यसि ।
नार्जुनोऽहं घृणी द्रोण भीमसेनोऽस्मि ते रिपुः ॥४९॥

पिता नस्त्वं गुरुर्बन्धुस्तथा पुत्रास्तु ते वयम् ।
इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः ॥५०॥

अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते ।
यदि त्वं शत्रुमात्मानं मन्यसे तत्तथास्त्विह ॥५१॥

एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम् ।
अथोद्भ्राम्य गदां भीमः कालदंडमिवांतकः ॥५२॥

द्रोणाय व्यसृजद्राजन् स रथादवपुप्लुवे ।
साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा ॥५३॥

प्रामुदूनाच्च बहून्योधान् वायुर्वृक्षानिवौजसा ।
तं पुनः परिवव्रुस्ते तव पुत्रा रथोत्तमम् ॥५४॥

अन्यं तु रथमास्थाय द्रोणः प्रहरतां वरः ।
व्यूहद्वारं समासाद्य युद्धाय समुपस्थितः ॥५५॥

ततः क्रुद्धो महाराज भीमसेनः पराक्रमी ।
अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत् ॥५६॥

ते वध्यमानाः समरे तव पुत्रा महारथाः ।
भीमं भीमबला युद्धे योधयन्ति जयैषिणः ॥५७॥

ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत् ।
सर्वपारसवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम् ॥५८॥

आपतन्तीं महाशक्तिं तव पुत्रप्रणोदिताम् ।
द्विधा चिच्छेद तां भीमस्तद‌द्भुतमिवाभवत् ॥५९॥

अथान्यैर्विशिखैस्तीक्ष्णैः संक्रुद्धः कुण्डभेदिनम् ।
सुषेणं दीर्धनेत्रं च त्रिभिस्त्रीनबधीद्बली ॥६०॥

ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् ।
पुत्राणां तव वीराणां युध्यतामवधीत् पुनः ॥६१॥

अभयं रौद्रकर्माणं दुर्विमोचनमेव च ।
त्रिभिस्त्रीनवधीद्भीमः पुनरेव सुतांस्तव ॥६२॥

वध्यमाना महाराज पुत्रास्तव बलीयसा ।
भीमं प्रहरतां श्रेष्ठं समन्तात् पर्यवारयन् ॥६३॥

ते शरैर्भीमकर्माणं ववर्षुः पाण्डवं युधि ।
मेघा इवातपापाये धाराभिर्धरणीधरम् ॥६४॥

स तद्बाणमयं वर्षमश्मवर्षमिवाचलः ।
प्रतीच्छन् पाण्डुदायादो न प्राव्यथत शत्रुहा ॥६५॥

विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम् ।
प्रहसन्नेव कौन्तेयः शरैर्निन्ये यमक्षयम् ॥६६॥

ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ ।
विव्याध समरे तूर्णं स पपात ममार च ॥६७॥

सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः ।
दिशः सर्वाः समालोक्य व्यधमत् पाण्डुनंदनः ॥६८॥

ततो वै रथघोषेण गर्जितेन मृगा इव ।
भज्यमानाश्च समरे तव पुत्रा विशांपते ॥६९॥

प्राद्रवन् सहसा सर्वे भीमसेनभयार्दिताः ।
अनुयायाच्च कौन्तेयः पुत्राणां ते महद्बलम् ॥७०॥

विव्याध समरे राजन् कौरवेयान् समन्ततः ।
वध्यमाना महाराज भीमसेनेन तावकाः ॥७१॥

त्यक्त्वा भीमं रणाज्जग्मुश्चोदयन्तो हयोत्तमान् ।
तांस्तु निर्जित्य समरे भीमसेनो महाबलः ॥७२॥

सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः ।
तलशब्दं च सुमहत् कृत्वा भीमो महाबलः ॥७३॥

भीषयित्वा रथानीकं हत्वा योधान् वरान् वरान् ।
व्यतीत्य रथिनश्चापि द्रोणानीकमुपाद्रवत् ॥७५॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमसेनप्रवेशे भीमपराक्रमे सप्तविंशत्यधिकशततमोऽध्यायः ॥१२७॥
अष्टाविंशत्यधिकशततमोऽध्यायः

सञ्जय उवाच। समुत्तीर्णं रथानीकं पाण्डवं विहसन् रणे ।
विवारयिषुराचार्यः शरवर्षैरवाकिरत् ॥१॥

समुत्तीर्णमिति ॥१॥

पिबन्निव शरौघांस्तान् द्रोणचापपरिच्युतान् ।
सोऽभ्यद्रवत सोदर्यान्मोहयन् बलमायया ॥२॥

बलमायया बलाविष्करणेन ॥२॥

तं मृधे वेगमास्थाय नृपाः परमधन्विनः ।
चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् ॥३॥

स तैस्तु संवृतो भीमः प्रहसन्निव भारत ।
उद्यच्छन् स गदां तेभ्यः सुघोरां सिंहवन्नदन् ॥४॥

अवासृजच्च वेगेन शत्रुपक्षविनाशिनीम् ।
इन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना ।
प्रामथ्नात्सा महाराज सैनिकांस्तव संयुगे ॥५॥

घोषेण महता राजन् पूरयन्तीव मेदिनीम् ।
ज्वलंती तेजसा भीमा त्रासयामास ते सुतान् ॥६॥

तां पतन्तीं महावेगां दृष्ट्वा तेजोऽभिसंवृताम् ।
प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान् रवान् ॥७॥

तं च शब्दमसह्यं वे तस्याः संलक्ष्य मारिष ।
प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा ॥८॥

ते हन्यमाना भीमेन गदाहस्तेन तावकाः ।
प्राद्रवन्त रणे भीता व्याघ्रघ्राता मृगा इव ॥९॥

स तान् विद्राव्य कौन्तेयः संख्येऽमित्रान् दुरासदान् ।
सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् ॥१०॥

तथा तु विप्रकुर्वाणं रथयूथपयूथपम् ।
भारद्वाजो महाराज भीमसेनं समभ्ययात् ॥११॥

भीमं तु समरे द्रोणो वारयित्वा शरोर्मिभिः ।
अकरोत्सहसा नादं पाण्डूनां भयमादधत् ॥१२॥

तद्युद्धमासीत् सुमहद्धोरं देवासुरोपमम् ।
द्रोणस्य च महाराज भीमस्य च महात्मनः ॥१३॥

यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः ।
वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः ॥१४॥

ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः ।
निमील्य नयने राजन् पदातिर्द्रोणमभ्ययात् ॥१५॥

अंसे शिरो भीमसेनः करौ कृत्वोरसि स्थिरौ ।
वेगमास्थाय बलवान् मनोनिलगरुत्मताम् ॥१६॥

यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया ।
तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् ॥१७॥

स वध्यमानः समरे रथं द्रोणस्य मारिष ।
ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः ॥१८॥

द्रोणस्तु सत्त्वरो राजन् क्षिप्तो भीमेन संयुगे ।
रथमन्यं समारुह्य व्यूहद्वारं ययौ पुनः ॥१९॥

तमायान्तं तथा दृष्ट्वा भग्नोत्साहं गुरुं तदा ।
गत्वा वेगात् पुनर्भीमो धुरं गृह्य रथस्य तु ॥२०॥

तमप्यतिरथं भीमश्चिक्षेप भृशरोषितः ।
एवमष्टौ रथाः क्षिप्ता भीमसेनेन लीलया ॥२१॥

व्यदृश्यत निमेषेण पुनः स्वरथमास्थितः ।
दृश्यते तावकैर्योधैर्विस्मयोत्फुल्ललोचनैः ॥२२॥

तस्मिन् क्षणे तस्य यन्ता तूर्णमश्वानचोदयत् ।
भीमसेनस्य कौरव्यस्तद‌द्भुतमिवाभवत् ॥२३॥

ततः स्वरथमास्थाय भीमसेनो महाबलः ।
अभ्यद्रवत वेगेन तव पुत्रस्य वाहिनीम् ॥२४॥

स मृदूनन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः ।
आगच्छद्दारयन् सेनां सिन्धुवेगो नगानिव ॥२५॥

भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम् ।
प्रमथ्य तरसा वीरस्तदप्यतिबलोऽभ्ययात् ॥२६॥

संत्रासयन्ननीकानि तलशब्देन पाण्डवः ।
अजयत् सर्वसैन्यानि शार्दूल इव गोवृषान् ॥२७॥

भोजानीकमतिक्रम्य दरदानां च वाहिनीम् ।
तथा म्लेच्छगणानन्यान्बहून्युद्धविशारदान् ॥२८॥

सात्यकिं चैव संप्रेक्ष्य युध्यमानं महारथम् ।
रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा ॥२९॥

भीमसेनो महाराज द्रष्टुकामो धनञ्जयम् ।
अतीत्य समरे योधांस्तावकान् पाण्डुनन्दनः ॥३०॥

सोऽपश्यदर्जुनं तत्र युध्यमानं महारथम् ।
सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी ॥३१॥

तं दृष्ट्वा पुरुषव्याघ्रश्चुक्रोश महतो रवान् ।
प्रावृ‌ट्काले महाराज नर्दन्निव बलाहकः ॥३२॥

तं तस्य निनदं घोरं पार्थः शुश्राव नर्दतः ।
वासुदेवश्च कौरव्य भीमसेनस्य संयुगे ॥३३॥

तौ श्रुत्वा युगपद्वीरौ निनदं तस्य शुष्मिणः ।
पुनः पुनः प्राणदतां दिदृक्षन्तौ वृकोदरम् ॥३४॥

ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह ।
अभ्ययातां महाराज नर्दन्तौ गोवृषाविव ॥३५॥

भीमसेनरवं श्रुत्वा फाल्गुनस्य च धन्विनः ।
अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः ॥३६॥

विशोकश्चाभवद्राजा श्रुत्वा तं निनदं तयोः ।
धनञ्जयस्य समरे जयमाशास्तवान्विभुः ॥३७॥

तथा तु नर्दमाने वै भीमसेने मदोत्कटे ।
स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः ॥३८॥

हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः ।
दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा ॥३९॥

न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव ।
दिष्ट्या जीवति संग्रामे सव्यसाची धनञ्जयः ॥४०॥

दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः ।
दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनञ्जयौ ॥४१॥

येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः ।
स हन्ता द्विषतां संख्ये दिष्ट्य जीवति फाल्गुनः ॥४२॥

यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः ।
स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फाल्गुनः ॥४३॥

निवातकवचा येन देवैरपि सुदुर्जयाः ।
निर्जिता धनुषैकेन दिष्ट्या पार्थः स जीवति ॥४४॥

कौरवान् सहितान् सर्वान् गोग्रहार्थे समागतान् ।
योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति ॥४५॥

कालकेयसहस्राणि चतुर्दश महारणे ।
योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति ॥४६॥

गन्धर्वराजं बलिनं दुर्योधनकृते च वै ।
जितवान् योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति ॥४७॥

किरीटमाली बलवाञ्छ्वेताश्वः कृष्णसारथिः ।
मम प्रियश्च सततं दिष्ट्या पार्थः स जीवति ॥४८॥

पुत्रशोकाभिसन्तप्तश्चिकीर्षन् कर्म दुष्करम् ।
जयद्रथवधान्वेषी प्रतिज्ञां कृतवान् हि यः ॥४९॥

कच्चित्स सैन्धवं संख्ये हनिष्यति धनञ्जयः ।
कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम् ॥५०॥

अनस्तमित आदित्ये समेष्याम्यहमर्जुनम् ।
कच्चित्सैन्धवको राजा दुर्योधनहिते रतः ॥५१॥

नन्दयिष्यत्यमित्रान्हि फाल्गुनेन निपातितः ।
कच्चिद्दुर्योधनो राजा फाल्गुनेन निपातितम् ॥५२॥

दृष्ट्वा सैन्धवकं संख्ये शममस्मासु धास्यति ।
दृष्ट्वा विनिहतान् भ्रातॄन् भीमसेनेन संयुगे ।
कच्चिद्दुर्योधनो मन्दः शममस्मासु धास्यति ॥५३॥

दृष्ट्वा चान्यान्महायोधान् पातितान् धरणीतले ।
कच्चिद्दुर्योधनो मन्दः पश्चात्तापं गमिष्यति ॥५४॥

कच्चिद्भीष्मेण नो वैरं शममेकेन यास्यति ।
शेषस्य रक्षणार्थं च सन्धास्यति सुयोधनः ॥५५॥

एवं बहुविधं तस्य राज्ञश्चिन्तयतस्तदा ।
कृपयाऽभिपरीतस्य घोरं युद्धमवर्तत ॥५६॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमसेनप्रवेशे युधिष्ठिरहर्षेऽष्टाविंशत्यधिकशततमोऽध्यायः ॥१२८॥
एकोनत्रिंशद‌धिकशततमोऽध्यायः

धृतराष्ट्र उवाच। निनदन्तं तथा तं तु भीमसेनं महाबलम् ।
मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् ॥१॥

निनदन्तमिति ॥१॥

न हि पश्याम्यहं तं वै त्रिषु लोकेषु कञ्चन ।
क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे ॥२॥

गदां युयुत्समानस्य कालस्येवेह सञ्जय ।
न हि पश्याम्यहं युद्धे यस्तिष्ठेदग्रतः पुमान् ॥३॥

युयुत्समानस्य व्यापारयतः ॥३॥

रथं रथेन यो हन्यात् कुञ्जरं कुञ्जरेण च ।
कस्तस्य समरे स्थाता साक्षादपि पुरन्दरः ॥४॥

क्रुद्धस्य भीमसेनस्य मम पुत्रान् जिघांसतः ।
दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः ॥५॥

भीमसेनदवाग्नेस्तु मम पुत्रांस्तृणोपमान् ।
प्रधक्षतो रणमुखे केऽतिष्ठन्नग्रतो नराः ॥६॥

काल्यमानांस्तु पुत्रान् मे दृष्ट्वा भीमेन संयुगे ।
कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् ॥७॥

न मेऽर्जुनाद्भयं तादृक्कृष्णान्नापि च सात्वतात् ।
हुतभुग्जन्मनो नैव यादृग्भीमाद्भयं मम ॥८॥

भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः ।
के शूराः पर्यवतन्त तन्ममाचक्ष्व सञ्जय ॥९॥

सञ्जय उवाच। तथा तु नर्दमानं तं भीमसेनं महाबलम् ।
तुमुलेनैव शब्देन कर्णोऽप्यभ्यद्रवद्बली ॥१०॥

व्याक्षिपन् सुमहच्चापमतिमात्रममर्षणः ।
कर्णः सुयुद्ध‌माकांक्षन् दर्शयिष्यन्बलं मृधे ॥११॥

रुरोध मार्गं भीमस्य वातस्येव महीरुहः ।
भीमोऽपि दृष्ट्वा सावेगं पुरो वैकर्तनं स्थितम् ॥१२॥

सावेगं सत्वरम् ॥१२॥

चुकोप बलवद्वीरश्चिक्षेपास्य शिलाशितान् ।
तान्प्रत्यगृह्णात्कर्णोऽपि प्रतीपं प्रापयच्छरान् ॥१३॥

ततस्तु सर्वयोधानां यततां प्रेक्षतां तदा ।
प्रावेपन्निव गात्राणि कर्णभीमसमागमे ॥१४॥

रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् ।
भीमसेनस्य निनदं श्रुत्वा घोरं रणाजिरे ॥१५॥

खं च भूमिं च संरुद्धां मेनिरे क्षत्रियर्षभाः ।
पुनर्घोरेण नादेन पाण्डवस्य महात्मनः ॥१६॥

संरुद्धामेकतामापन्नाम् ॥१६॥

समरे सर्वयोधानां धनूंष्यभ्यपतान्क्षितौ ।
शस्त्राणि न्यपतन् दोर्भ्यः केषांचिच्चासवोऽद्रवन् ॥१७॥

वित्रस्तानि च सर्वाणि शकृन्सूत्रं प्रसुस्रुवुः ।
वाहनानि च सर्वाणि बभूवुर्विमनांसि च ॥१८॥

प्रादुरासन्निमित्तानि घोराणि सुबहून्युत ।
गृध्रकङ्कबलैश्चासीदन्तरिक्षं समावृतम् ॥१९॥

तस्मिन्सुतुमुले राजन् कर्णभीमसमागमे ।
ततः कर्णस्तु विंशत्या शराणां भीममार्दयत् ॥२०॥

विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः ।
प्रहस्य भीमसेनोऽपि कर्णं प्रत्याद्रवद्रणे ॥२१॥

सायकानां चतुःषष्ट्या क्षिप्रकारी महायशाः ।
तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत् ॥२२॥

असंप्राप्तांश्च तान् भीमः सायकैर्नतपर्वभिः ।
चिच्छेद बहुधा राजन् दर्शयन्पाणिलाघवम् ॥२३॥

तं कर्णश्छादयामास शरव्रातैरनेकशः ।
संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः ॥२४॥

चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः ।
विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः ॥२५॥

अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः ।
विव्याध समरे भीमं भीमकर्मा महारथः ॥२६॥

तस्य भीमो भृशं क्रुद्धस्त्रीन् शरान्नतपर्वणः ।
निचखानोरसि क्रुद्धः सूतपुत्रस्य वेगतः ॥२७॥

तैः कर्णोऽराजत शरैरुरोमध्यगतैस्तदा ।
महीधर इवोदग्रस्त्रिशृंगो भरतर्षेभ ॥२८॥

सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः ।
धातुप्रस्यन्दिनः शैलाद्यथा गैरिकधातवः ॥२९॥

किंचिद्विचालितः कर्णः सुप्रहाराभिपीडितः ।
आकर्णपूर्णमाकृष्य भीमं विव्याध सायकैः ॥३०॥

चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः ।
स शरैरर्दितस्तेन कर्णेन दृढधन्धिना ।
धनुर्ज्यामच्छिनत्तूर्णं भीमस्तस्य क्षुरेण ह ॥३१॥

सारथिं चास्य भल्लेन रथनीडाद‌पातयत् ।
वाहांश्च चतुरस्तस्य व्यसूंश्चक्रे महारथः ॥३२॥

हताश्वात्तु रथात्कर्णः समाप्लुत्य विशांपते ।
स्यन्दनं वृषसेनस्य तूर्णमापुप्लुवे भयात् ॥३३॥

निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान् ।
ननाद बलवान्नादं पर्जन्यनिनदोपमम् ॥३४॥

तस्य तं निनदं श्रुत्या प्रहृष्टोऽभूद्युधिष्ठिरः ।
कर्णं पराजितं मत्वा भीमसेनेन संयुगे ॥३५॥

समन्ताच्छंखनिनदं पाण्डुसेनाऽकरोत्तदा ।
शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यनदन्भृशम् ॥३६॥

स शंखबाणनिनदैर्हर्षाद्राजा स्ववाहिनीम् ।
चक्रे युधिष्ठिरः संख्ये हर्षनादैश्च संकुलाम् ॥३७॥

गाण्डीवं व्याक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् ।
तमन्तर्धाय निनदं भीमस्य नदतो ध्वनिः ।
अश्रूयत तदा राजन् सर्वसैन्येषु दारुणः ॥३८॥

ततो व्यायच्छतामस्त्रैः पृथक् पृथगजिह्मगैः ।
मृदुपूर्वं तु राधेयो दृढपूर्वं तु पाण्डवः ॥३९॥

व्यायच्छतां प्रहरताम् ॥३९॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमप्रवेशे कर्णपराजये एकोनत्रिंशद‌धिकशततमोऽध्यायः ॥१२९॥
त्रिंशदधिकशततमोऽध्यायः

सञ्जय उवाच। तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते ।
सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात् ॥१॥

तस्मिन्निति ॥१॥

त्वरन्नेकरथेनैव बहुकृत्यं विचिन्तयन् ।
स रथस्तव पुत्रस्य त्वरया परया युतः ॥२॥

तूर्णमभ्यद्रवद्द्रोणं मनोमारुतवेगवान् ।
उवाच चैनं पुत्रस्ते संरंभाद्रक्तलोचनः ॥३॥

संरंभात्प्रणयक्रोधात् ॥३॥

ससंभ्रममिदं वाक्यमब्रवीत्कुरुनन्दनः ।
अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः ॥४॥

विजित्य सर्वसैन्यानि सुमहान्ति महारथाः ।
संप्राप्ताः सिन्धुराजस्य समीपमनिवारिताः ॥५॥

व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः ।
यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः ॥६॥

कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद ।
आश्चर्यभूतं लोकेऽस्मिन् समुद्रस्येव शोषणम् ॥७॥

निर्जयस्तव विप्राग्र्य सात्वतेनार्जुनेन च ।
तथैव भीमसेनेन लोकः संवदते भृशम् ॥८॥

कथं द्रोणो जितः संख्ये धनुर्वेदस्य पारगः ।
इत्येवं ब्रुवते योधा अश्रद्धेयमिदं तव ॥९॥

नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे ।
यत्र त्वां पुरुषव्याघ्रं व्यतिक्रान्तास्त्रयो रथाः ॥१०॥

एवंगते तु कृत्येऽस्मिन् ब्रूहि यत्ते विवक्षितम् ।
यद्गतं गतमेवेदं शेषं चिन्तय मानद ॥११॥

यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम् ।
तत्संविधीयतां क्षिप्रं साधु सञ्चिन्त्य नो द्विज ॥१२॥

द्रोण उवाच। चिन्त्यं बहुविधं तात यत्कृत्यं तच्छृणुष्व मे ।
त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः ॥१३॥

यावत्तेषां भयं पश्चात्तावदेषां पुरःसरम् ।
तद्गरीयस्तरं मन्ये यत्र कृष्णधनञ्जयौ ॥१४॥

सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः ।
तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम् ॥१५॥

स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनञ्जयात् ।
गतौ च सैन्धवं भीमौ युयुधानवृकोदरौ ॥१६॥

संप्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम् ।
न सभायां जयो वृत्तो नापि तत्र पराजयः॥१७॥

इह नो ग्लहमानानामद्य तावञ्जयाजयौ ।
यान्स्म तान्ग्लहते घोराञ्छकुनिः कुरुसंसदि ॥१८॥

तान् प्रसिद्धान् यानक्षान् अक्षान् मन्यमानः प्राग्ग्लहते स्म इत्यन्वयः ॥१८॥

अक्षान् स मन्यमानः प्राक् शरास्ते हि दुरासदाः ।
यत्र ते बहवस्तात कौरवेया व्यवस्थिताः ॥१९॥

यत्र सभायां तेऽमी ॥१९॥

सेनां दुरोदरं विद्धि शरानक्षान्विशांपते ।
ग्लहं च सैन्धवं राजंस्तत्र द्यूतस्य निश्चयः ॥२०॥

दुरोदरं द्यूतकारिणम् ॥२०॥

सैन्धवे तु महत् द्यूतं समासक्तं परैः सह ।
अत्र सर्वे महाराज त्यक्त्या जीवितमात्मनः ॥२१॥

सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ ।
तत्र नो ग्लहमानानां धुवौ जयपराजयौ ॥२२॥

यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम् ।
तत्र गच्छ स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः ॥२३॥

इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान् ।
निरोत्स्यामि च पञ्चालान् सहितान् पाण्डुसृञ्जयैः ॥२४॥

ततो दुर्योधनोऽगच्छत्तूर्णमाचार्यशासनात् ।
उद्यम्यात्मानमुग्राय कर्मणे सपदानुगः ॥२५॥

चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् ॥२६॥

यौ तु पूर्वं महाराज वारितौ कृतवर्मणा ।
प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया ॥२७॥

पार्श्वे भित्त्वा चमूं वीरौ प्रविष्टौ तव वाहिनीम् ।
पार्श्वेन सैन्यमायान्तौ कुरुराजो ददर्श ह ॥२८॥

ताभ्यां दुर्योधनः सार्धमकरोत्संख्यमुत्तमम् ।
त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली ॥२९॥

तावेनमभ्यद्रवतामुभावुद्यतकार्मुकौ ।
महारथसमाख्यातौ क्षत्रियप्रवरौ युधि ॥२९॥

तमविध्यद्यधामन्युस्त्रिंशता कङ्कपत्रिभिः ।
विंशत्या सारथिं चास्य चतुर्भिश्चतुरो हयान् ॥३०॥

दुर्योधनो युधामन्योर्ध्वजमेकेषुणाऽच्छिनत् ।
एकेन कार्मुकं चास्य चकर्त तनयस्तव ॥३१॥

सारथिं चास्य भल्लेन रथनीडादपाहरत् ।
ततोऽविध्यच्छरैस्तीक्ष्णैश्चतुर्भिश्चतुरो हयान् ॥३२॥

युधामन्युश्च संक्रुद्धः शरांस्त्रिंशतमाहवे ।
व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे ॥३३॥

तथोत्तमौजाः संक्रुद्धः शरैर्हेमावभूषितैः ।
अविध्यत्सारथिं चास्य प्राहिणोद्यमसादनम् ॥३४॥

दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः ।
जघान चतुरोऽस्याश्वानुभौ तौ पार्ष्णिसारथी ॥३५॥

उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे ।
आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन् ॥३६॥

सरथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः ।
बहुभिस्ताडयामास ते हताः प्रापतन्भुवि ॥३७॥

हयेषु पतितेष्वस्य चिच्छेद परमेषुणा ।
युधामन्योर्धनुः शीघ्रं शरावापं च संयुगे ॥३८॥

हताश्वसूतात्स रथादवतीर्य नराधिपः ।
गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत ॥३९॥

तमापतन्तं संप्रेक्ष्य क्रुद्धं कुरुपतिं तदा ।
अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ ॥४०॥

ततः स हेमचित्रं तं गदया स्यन्दनं गदी ।
संक्रुद्धः पोथयामास साश्वसूतध्वजं नृप ॥४१॥

भंक्त्वा रथं स पुत्रस्ते हताश्वो हतसारथिः ।
मद्रराजरथं तूर्णमारुरोह परंतपः ॥४३॥

पञ्चालानां ततो मुख्यौ राजपुत्रौ महारथौ ।
रथावन्यौ समारुह्य बीभत्सुमभिजग्मतुः ॥४४॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि दुर्योधनयुद्धे त्रिंशदधिकशततमोऽध्यायः ॥१३०॥
एकत्रिंशदधिकशततमोऽध्यायः

सञ्जय उवाच। वर्तमाने महाराज संग्रामे लोमहर्षणे ।
व्याकुलेषु च सर्वेषु पीड्यमानेषु सर्वशः ॥१॥

वर्तमान इति ॥१॥

राधेयो भीममानर्च्छद्युद्धाय भरतर्षभ ।
यथा नागो वने नागं मत्तो मत्तमभिद्रवन् ॥२॥

धृतराष्ट्र उवाच। यौ तौ कर्णश्च भीमश्च संप्रयुद्धौ महाबलौ ।
अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः॥३॥

पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे ।
कथं भूयः स राधेयो भीममागान्महारथः॥४॥

भीमो वा सूततनयं प्रत्युद्यातः कथं रणे ।
महारथं समाख्यातं पृथिव्यां प्रवरं रथम् ॥५॥

भीष्मद्रोणावतिक्रम्य धर्मराजो युधिष्ठिरः ।
नान्यतो भयमादत्त विना कर्णान्महारथात्॥६॥

भयाद्यस्य महाबाहो न शेते बहुलाः समाः ।
चिन्तयन्नित्यशो वीर्यं राधेयस्य महात्मनः ।
तं कथं सूतपुत्रं तु भीमोऽयोधयताहवे ॥७॥

ब्रह्मण्यं वीर्यसंपन्नं समरेष्वनिवर्तिनम् ।
कथं कर्णं युधां श्रेष्ठं योधयामास पाण्डवः॥८॥

यौ तौ समीयतुर्वीरौ वैकर्तनवृकोदरौ ।
कथं तावत्र युद्ध्येतां महाबलपराक्रमौ ॥९॥

भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः ।
कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन्॥१०॥

पूर्वमुद्योगे दर्शितमुद्भावितं भ्रातृत्वं कुन्त्या वाक्यं च चतुर्णामवध्यत्वलक्षणं चानुस्मरन्नित्यन्वयः ॥१०॥

भीमो वा सूतपुत्रेण स्मरन् वैरं पुरा कृतम् ।
अयुध्यत कथं शूरः कर्णेन सह संयुगे ॥११॥

आशास्ते च सदा सूतपुत्रो दुर्योधनो मम ।
कर्णो जेष्यति संग्रामे समस्तान्पाण्डवानिति॥१२॥

जयाशा यत्र पुत्रस्य मम मन्दस्य संयुगे ।
स कथं भीमकर्माणं भीमसेनमयोधयत् ॥१३॥

यं समासाद्य पुत्रैर्मे कृतं वैरं महारथैः ।
तं सूततनयं तात कथं भीमो ह्ययोधयत्॥१४॥

अनेकान् विप्रकारांश्च सूतपुत्रसमुद्भवान् ।
स्मरमाणः कथं भीमो युयुधे सूतसूनुना॥१५॥

योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान् ।
तं सूततनयं युद्धे कथं भीमो ह्ययोधयत्॥१६॥

यो जातः कुण्डलाभ्यां च कवचेन सहैव च ।
तं सूतपुत्रं समरे भीमः कथमयोधयत् ॥१७॥

यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः ।
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय॥१८॥

सञ्जय उवाच। भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम् ।
इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनञ्जयौ॥१९॥

तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः ।
अभ्यवर्षन्महाराज मेघो वृष्ठ्येव पर्वतम् ॥२०॥

फुल्लता पङ्कजेनेव वक्त्रेण विहसन् बली ।
आजुहाव रणे यान्तं भीममाधिरथिस्तदा॥२१॥

कर्ण उवाच। भीमाहितैस्तव रणः स्वप्नेऽपि न विभावितः ।
तद्दर्शयसि कस्मान्मे पृष्ठं पार्थदिदृक्षया ॥२२॥

कुन्त्याः पुत्रस्य सदृशं नेदं पाण्डवनन्दन ।
तेन मामभितः स्थित्वा शरवर्षैरवाकिर॥२३॥

अभितः संमुखे ॥२३॥

भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि ।
अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् ॥२४॥

अवक्रगामिभिर्बाणौरभ्यवर्षन्महायशाः ।
दंशितं द्वैरथे यत्तं सर्वशस्त्रविशारदम् ॥२५॥

विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत् ।
हत्वा तस्यानुगांस्तं च हन्तुकामो महाबलः ॥२६॥

तस्मै व्यसृजदुग्राणि विविधानि परन्तपः ।
अमर्षात्पाण्डवः क्रुद्धः शरवर्षाणि मारिष॥२७॥

तस्य तानीषुवर्षाणि मत्तद्विरद‌गामिनः ।
सूतपुत्रोऽस्त्रमायाभिरग्रसत्परमास्त्रवित् ॥२८॥

स यथावन्महाबाहुर्विद्यया वै सुपूजितः ।
आचार्यवन्महेष्वासः कर्णः पर्यचरद्बली॥२९॥

युध्यमानं तु संरम्भाद्भीमसेनं हसन्निव ।
अभ्यपद्यत कौन्तेयं कर्णो राजन् वृकोदरम्॥३०॥

तन्नाकृष्यत कौन्तेयः कर्णस्य स्मितमाहवे ।
युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः॥३१॥

तं भीमसेनः संप्राप्तं वत्सदन्तैः स्तनान्तरे ।
विव्याध बलवान् क्रुद्धस्तोत्रैरिव महाद्विपम्॥३२॥

पुनश्च सूतपुत्रं तु स्वर्णपुङ्खैः शिलाशितैः ।
सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः॥३३॥

कर्णो जाम्बूनदैर्जालैः संछन्नान्वातरंहसः ।
हयान् विव्याध भीमस्य पञ्चभिः पञ्चभिः शरैः॥३४॥

ततो बाणमयं जालं भीमसेनरथं प्रति ।
कर्णेन विहितं राजन्निमेषार्धाददृश्यत॥३५॥

सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा ।
प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः॥३६॥

तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम् ।
क्रुद्धश्चाप्यहनत्पार्थं नाराचैर्मर्मभेदिभिः॥३७॥

ततोचिंत्य महाबाहुः कर्णकार्मुकनिःसृतान् ।
समाश्लिष्यदसंभ्रान्तः सूतपुत्रं वृकोदरः॥३८॥

शरानिति शेषः। अचिन्त्य-अविगणय्येत्यर्थः ॥३८॥

स कर्णचापप्रभवान्निषूनाशीविषोपमान् ।
बिभ्रद्भीमो महाराज न जगाम व्यथां रणे ॥३९॥

ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः ।
विव्याध समरे कर्णं भीमसेनः प्रतापवान्॥४०॥

अयत्नेनैव तं कर्णः शरैर्भृशमवाकिरत् ।
भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम्॥४१॥

मृदुपूर्वं तु राधेयो भीममाजावयोधयत् ।
क्रोधपूर्वं तथा भीमः पूर्वं वैरमनुस्मरन्॥४२॥

तं भीमसेनो नामृष्यदवमानममर्षणः ।
स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रहा॥४३॥

ते शराः प्रेषितास्तेन भीमसेनेन संयुगे ।
निपेतुः सर्वतो वीरे कूजन्त इव पक्षिणः॥४४॥

हेमपुङ्खाः प्रसन्नाग्रा भीमसेनधनुश्च्युताः ।
प्राच्छादयंस्ते राधेयं शलभा इव पावकम्॥४५॥

कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः ।
राजन्व्यसृजदुग्राणि शरवर्षाणि भारत॥४६॥

तस्य तानशनिप्रख्यानिषून्समरशोभिनः ।
चिच्छेद बहुभिर्भल्लैरसंप्राप्तान् वृकोदरः॥४७॥

पुनश्च शरवर्षेण च्छादयामास भारत ।
कर्णो वैकर्तनो युद्धे भीमसेनमरिन्दमः॥४८॥

तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः ।
समाचिततनुं संख्ये श्वाविधं शललैरिव॥४९॥

हेमपुङ्खाञ्छिलाधौतान् कर्णचापच्युताञ्छरान् ।
दधार समरे वीरः स्वरश्मीनिव रश्मिवान् ॥५०॥

रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यराजत ।
समृद्धकुसुमापीडो वसन्तेऽशोकवृक्षवत्॥५१॥

तत्तु भीमो महाबाहोः कर्णस्य चरितं रणे ।
नामृष्यत महाबाहुः क्रोधादुद्धृत्तलोचनः॥५२॥

स कर्णं पञ्चविंशत्या नाराचानां समार्पयत् ।
महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः ॥५३॥

पुनरेव च विव्याध षड्भिरष्टाभिरेव च ।
मर्मस्वमरविक्रान्तः सूतपुत्रं तनुत्यजम् ॥५४॥

पुनरन्येन बाणेन भीमसेनः प्रतापवान् ।
चिच्छेद कार्मुकं तूर्णं कर्णस्य प्रहसन्निव॥५५॥

जघान चतुरश्चाश्वान् सूतं च त्वरितः शरैः ।
नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि॥५६॥

ते जग्मुर्धरणीमाशु कर्णं निर्भिद्य पत्रिणः ।
यथा जलधरं भित्त्वा दिवाकरमरीचयः॥५७॥

स वैक्लव्यं महत्प्राप्य छिन्नधन्वा शराहतः ।
तथा पुरुषमानी स प्रत्यपाया‌द्रथान्तरम्॥५८॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि कर्णपराजये एकत्रिंशदधिकशततमोऽध्यायः ॥१३१॥
द्वात्रिंशद‌धिकशततमोऽध्यायः

धृतराष्ट्र उवाच। स्वयं शिष्यो महेशस्य भृगूत्तमधनुर्धरः ।
शिष्यत्वं प्राप्तवान् कर्णस्तस्य तुल्योऽस्त्रविद्यया ॥१॥

स्वयमिति ॥१॥

तद्विशिष्टोऽपि वा कर्णः शिष्यः शिष्यगुणैर्युतः ।
कुन्तीपुत्रेण भीमेन निर्जितः स तु लीलया॥२॥

यस्मिञ्जयाशा महर्ता पुत्राणां मम सञ्जय ।
तं भीमाद्विमुखं दृष्ट्वा किन्नु दुर्योधनोऽब्रवीत्॥३॥

कथं च युयुधे भीमो वीर्यश्लाघी महाबलः ।
कर्णो वा समरे तात किमकार्षीत्ततः परम् ।
भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम्॥४॥

सञ्जय उवाच। रथमन्यं समास्थाय विधिवत्कल्पितं पुनः ।
अभ्ययात्पाण्डवं कर्णो वातोद्धूत इवार्णवः॥५॥

क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशांपते ।
भीमसेनममन्यन्त वैश्वानरमुखे हुतम् ॥६॥

चापशब्दं ततः कृत्वा तलशब्दं च भैरवम् ।
अभ्यद्रवत राधेयो भीमसेनरथं प्रति ॥७॥

पुनरेव तयो राजन् घोर आसीत समागमः ।
वैकर्तनस्य शूरस्य भीमस्य च महात्मनः॥८॥

संरब्धौ हि महाबाहू परस्परवधैषिणौ ।
अन्योन्यमीक्षां चक्राते दहन्ताविव लोचनैः॥९॥

क्रोधरक्तेक्षणौ तीव्रौ निःश्वसन्ताविवोरगौ ।
शूरावन्योन्यमासाद्य ततक्षतुररिन्दमौ॥१०॥

व्याघ्राविव सुसंरब्धौ श्येनाविव च शीघ्रगौ ।
शरभाविव संक्रुद्धौ युयुधाते परस्परम् ॥११॥

ततो भीमः स्मरन्क्लेशानक्षद्यूते वनेऽपि च ।
विराटनगरे चैव दुःखं प्राप्तमरिन्दमः॥१२॥

राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः ।
सततं च परिक्लेशान्सपुत्रेण त्वया कृतान् ॥१३॥

दग्धुमैच्छच्च यः कुन्तीमपुत्रां त्वमनागसम् ।
कृष्णायाश्च परिक्लेशं सभामध्ये दुरात्मभिः॥१४॥

केशपक्षग्रहं चैव दुःशासनकृतं तथा ।
परुषाणि च वाक्यानि कर्णेनोक्तानि भारत॥१५॥

पतिमन्यं परीप्सस्व न सन्ति पतयस्तव ।
पतिता नरके पार्थाः सर्वे षण्ढतिलोपमाः॥१६॥

समक्षं तव कौरव्य यदूचुः कौरवास्तदा ।
दासीभावेन कृष्णां च भोक्तुकामाः सुतास्तव॥१७॥

यच्चापि तान् प्रव्रजतः कृष्णाजिननिवासिनः ।
परुषाण्युक्तवान् कर्णः सभायां सन्निधौ तव॥१८॥

तृणीकृत्य यथा पार्थांस्तव पुत्रो ववल्ग ह ।
विषमस्थान्समस्थो हि संरब्धो गतचेतनः॥१९॥

बाल्यात्प्रभृति चारिघ्नः स्वानि दुःखानि चिन्तयन् ।
निरविद्यत धर्मात्मा जीवितेन वृकोदरः॥२०॥

ततो विस्फार्य सुमहद्धेमपृष्ठं दुरासदम् ।
चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात् ॥२१॥

स सायकमयैर्जालौर्भीमः कर्णरथं प्रति ।
भानुमद्भिः शिलाधौतैर्भानोः प्राच्छादयत्प्रभाम्॥२२॥

ततः प्रहस्याधिरथिस्तूर्णमस्य शिलाशितैः ।
व्यधमद्भीमसेनस्य शरजालानि पत्रिभिः॥२३॥

महारथो महाबाहुर्महाबाणैर्महाबलः ।
विव्याधाधिरथिर्भीमं नवभिर्निशितैस्तदा ॥२४॥

स तोत्रैरिव मातङ्गो वार्यमाणः पतत्रिभिः ।
अभ्यधावदसंभ्रान्तः सूतपुत्रं वृकोदरः ॥२५॥

तमापतन्तं वेगेन रभसं पाण्डवर्षभम् ।
कर्णः प्रत्युद्ययौ युद्धे मत्तो मत्तमिव द्विपम्॥२६॥

ततः प्रध्माप्य जलजं भेरीशतसमस्वनम् ।
अक्षुभ्यत बलं हर्षादुद्धूत इव सागरः ॥२७॥

तदुद्भूतं बलं दृष्ट्वा नागाश्वरथपत्तिमत् ।
भीमः कर्णं समासाद्य च्छादयामास सायकैः॥२८॥

अश्वानृक्षसवर्णांश्च हंसवर्णैर्हयोत्तमैः ।
व्यामिश्रयद्रणे कर्णः पाण्डवं छादयञ्छरैः॥२९॥

ऋक्षवर्णान्हयान्कर्कैर्मिश्रान्मारुतरंहसः ।
निरीक्ष्य तव पुत्राणां हाहाकृतमभूद्बलम्॥३०॥

कर्कैः श्वेतैरश्वैः ॥३०॥

ते हया बह्वशोभन्त मिश्रिता वातरंहसः ।
सितासिता महाराज यथा व्योम्नि बलाहकाः ॥३१॥

संरब्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ ।
संत्रस्ताः समकम्पन्त त्वदीयानां महारथाः॥३२॥

यमराष्ट्रोपमं घोरमासीदायोधनं तयोः ।
दुर्दर्शं भरतश्रेष्ठ प्रेतराजपुरं यथा॥३३॥

समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः ।
नालक्षयञ्जयं व्यक्तमेकस्यैव महारणे ॥३४॥

समाजं रङ्गं एकस्यैव कस्यचित् नान्यस्य ॥३४॥

तयोः प्रैक्षन्त संमर्दं सन्निकृष्टं महास्त्रयोः ।
तव दुर्मन्त्रिते राजन् सपुत्रस्य विशांपते ॥३५॥

छादयन्तौ हि शत्रुघ्नावन्योन्यं सायकैः शितैः ।
शरजालावृतं व्योम चक्रातेऽद्भुतविक्रमौ ॥३६॥

तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ ।
प्रेक्षणीयतरावास्तां वृष्टिमन्ताविवाम्बुदौ॥३७॥

सुवर्णविकृतान्बाणान्विमुंचन्तावरिन्द‌मौ ।
भाखरं व्योम चक्राते महोल्काभिरिव प्रभो॥३८॥

ताभ्यां मुक्ताः शरा राजन् ‌गार्ध्रपत्राश्चकाशिरे ।
श्रेण्यः शरदि मत्तानां सारसानामिवाम्बरे॥३९॥

संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिन्दमम् ।
अतिभारममन्येतां भीमे कृष्णचनञ्जयौ ॥४०॥

तत्राधिरथिभीमाभ्यां शरैर्मुक्तैर्दृढं हताः ।
इषुपातमतिक्रम्य पेतुरश्व-नर-द्विपाः ॥४१॥

पतद्भिः पतितैश्चान्यैर्गतासुभिरनेकशः ।
कृतो राजन्महाराज पुत्राणां ते जनक्षयः॥४२॥

मनुष्याश्व-गजानां च शरीरैर्गतजीवितैः ।
क्षणेन भूमिः संजज्ञे संवृता भरतर्षभ ॥४३॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमकर्णयुद्धे द्वात्रिंशद‌धिकशततमोऽध्यायः॥१३२॥
त्रयस्त्रिंशद‌धिकशततमोऽध्यायः

धृतराष्ट्र उवाच। अत्यद्भुतमहं मन्ये भीमसेनस्य विक्रमम् ।
यत्कर्णं योधयामास समरे लघुविक्रमम् ॥१॥

अत्यद्भुतमिति ॥१॥

त्रिदशानपि वा युक्तान्सर्वशस्त्रधरान्युधि ।
वारयेद्यो रणे कर्णः सयक्षासुरमानुषान् ॥२॥

स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया ।
नातरत्संयुगे पार्थं तन्ममाचक्ष्व सञ्जय ॥३॥

कथं च युद्धं संभूतं तयोः प्राणदुरोदरे ।
अत्र मन्ये समायत्तो जयो वाऽजय एव च ॥४॥

प्राणदुरोदरे प्राणद्यूते ॥४॥

कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः ।
जेतुमुत्सहते पार्थान्सगोविंदान्ससात्वतान्॥५॥

श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा ।
भीमसेनेन समरे मोह आविशतीय माम् ॥६॥

विनष्टान्कौरवान्मन्ये मम पुत्रस्य दुर्नयैः ।
न हि कर्णो महेष्वासान्पार्थाञ्जेष्यति सञ्जय ॥७॥

कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैः सह ।
सर्वत्र पाण्डवाः कर्णमजयन्त रणाजिरे ॥८॥

अजेयाः पाण्डवास्तात देवैरपि सवासवैः ।
न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम ॥९॥

धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः ।
मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते ॥१०॥

निकृत्या निकृतिप्रज्ञो राज्यं हत्वा महात्मनाम् ।
जितमित्येव मन्वानः पाण्डवानवमन्यते ॥११॥

पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना ।
धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः॥१२॥

शमकामः ससोदर्यो दीर्घप्रेक्षी युधिष्ठिरः ।
अशक्त इति मत्वा तु मम पुत्रैर्निराकृतः॥१३॥

तानि दुःखान्यनेकानि विप्रकारांश्च सर्वशः ।
हृदि कृत्वा महाबाहुर्भीमोऽयुध्यत सूतजम्॥१४॥

तस्मान्मे सञ्जय ब्रूहि कर्णभीमौ यथा रणे ।
अयुध्येतां युधि श्रेष्ठौ परस्परवधैषिणौ ॥१५॥

सञ्जय उवाच। शृणु राजन्यथावृत्तं संग्रामं कर्णभीमयोः ।
परस्परवधप्रेप्सोर्वनकुञ्जरयोरिव ॥१६॥

राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिदमम् ।
पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः॥१७॥

महावेगैः प्रसन्नाग्रैः शातकुंभपरिष्कृतैः ।
अहनद्भरतश्रेष्ठ भीमं वैकर्तनः शरैः ॥१८॥

तस्यास्यतो धनुर्भीमश्चकर्त निशितैस्त्रिभिः ।
रथनीडाच्च यन्तारं भल्लेनापातयत्क्षितौ॥१९॥

स कांक्षन् भीमसेनस्य वधं वैकर्तनो भृशम् ।
शक्तिं कनकवैदूर्यचित्रदण्डां परामृशत् ॥२०॥

प्रगृह्य च महाशक्तिं कालशक्तिमिवापराम् ।
समुत्क्षिप्य च राधेयः सन्धाय च महाबलः॥२१॥

चिक्षेप भीमसेनाय जीवितान्तकरीमिव ।
शक्तिं विसृज्य राधेयः पुरन्दर इवाशनिम् ॥२२॥

ननाद सुमहानादं बलवान्सूतनन्दनः ।
तं च नादं ततः श्रुत्वा पुत्रास्ते हर्षिताऽभवन्॥२३॥

तां कर्णभुजनिर्मुक्तामर्कवैश्वानरप्रभाम् ।
शक्तिं वियति चिच्छेद भीमः सप्ताभिराशुगैः॥२४॥

छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसन्निभाम् ।
मार्गमाण इव प्राणान्सूतपुत्रस्य मारिष॥२५॥

प्राहिणोत्कृतसंरंभः शरान्बर्हिणवाससः ।
स्वर्णपुंखाञ्शिलाधौतान् यमदण्डोपमान्मृधे॥२६॥

कर्णोऽप्यन्यद्धनुर्गुह्य हेमपृष्ठं दुरासदन् ।
विकृष्य तन्महच्चापं व्यसृजत्सायकांस्तदा॥२७॥

तान्पाण्डुपुत्रश्चिच्छेद नवभिर्नतपर्वभिः ।
वसुषेणेन निर्मुक्तान्नव राजन्महाशरान् ॥२८॥

छित्त्वा भीमो महाराज नादं सिंह इवानदत् ।
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे॥२९॥

शार्दूलाविव चान्योन्यमामिषार्थेऽभ्यगर्जताम् ।
अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ॥३०॥

अन्योन्यमभिवीक्षन्ती गोष्ठेष्विव महर्षभौ ।
महागजाविवासाद्य विषाणाग्रैः परस्परम् ॥३१॥

शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ।
निर्दहन्तौ महाराज शस्त्रवृष्ट्या परस्परम् ॥३२॥

अन्योन्यमभिवीक्षन्तौ कोपाद्विवृतलोचनौ ।
प्रहसन्तौ तथाऽन्योन्यं भर्त्सयन्तौ मुहुर्मुहुः॥३३॥

शंखशब्दं च कुर्वाणौ युयुधाते परस्परम् ।
तस्य भीमःपुनश्चापं मुष्टौ चिच्छेद मारिष॥३४॥

शंखवर्णांश्च तानश्वान्बाणैर्निन्ये यमक्षयम् ।
सारथिं च तथाप्यस्य रथनीडा‌दपातयत् ॥३५॥

ततो वैकर्तनः कर्णश्चिन्तां प्राप दुरत्ययाम् ।
स च्छाद्यमानः समरे हताश्वो हतसारथिः ॥३६॥

मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत ।
तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः ॥३७॥

वेपमान इव क्रोधाद्व्यादिदेशाथ दुर्जयम् ।
गच्छ दुर्जय राधेयं पुरो ग्रसति पाण्डवः॥३८॥

जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत् ।
एवमुक्तस्तथेत्युक्त्वा तव पुत्रं तवात्मजः॥३९॥

अभ्यद्रवद्भीमसेनं व्यासक्तं विकिरञ्छरैः ।
स भीमं नवभिर्बाणैरश्वानष्टभिरार्पयत् ॥४०॥

षड्भिः सूतं त्रिभिः केतुं पुनस्तं चापि सप्तभिः ।
भीमसेनोऽपि संक्रुद्धः साश्वयन्तारमाशुगैः॥४१॥

दुर्जयं भिन्नमर्माणमनयद्यमसादनम् ।
स्वलंकृतं क्षितौ क्षुण्णं चेष्टमानं यथोरगम्॥४२॥

रुदन्नार्तस्तव सुतं कर्णश्चक्रे प्रदक्षिणम् ।
स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम् ॥४३॥

समाचिनोद्बाणगणैः शतघ्नीभिश्च शङ्कुभिः ।
तथाऽप्यतिरथः कर्णो भिद्यमानोऽस्य सायकैः ॥४४॥

न जहौ समरे भीमं क्रुद्धरूपं परन्तपः ॥४५॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि कर्णभीमयुद्धे त्रयस्त्रिंशद‌धिकशततमोऽध्यायः॥१३३॥
चतुस्त्रिंशदधिकशततमोऽध्यायः

सञ्जय उवाच। सर्वथा विरथः कर्णः पुनर्भीमेन निर्जितः ।
रथमन्यं समास्थाय पुनर्विव्याध पाण्डवम्॥१॥

स इति ॥१॥

महागजाविवासाद्य विषाणाग्रैः परस्परम् ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः॥२॥

अथ कर्णः शरव्रातैर्भीमसेनं समार्पयत् ।
ननाद च महानादं पुनर्विव्याध चोरसि ॥३॥

तं भीमो दशभिर्बाणैः प्रत्यविध्यद‌जिह्मगैः ।
पुनर्विव्याध सप्तत्या शराणां नतपर्वणाम्॥४॥

कर्णं तु नवभिर्भीमो भित्त्वा राजंस्तनान्तरे ।
ध्वजमेकेन विव्याध सायकेन शितेन ह ॥५॥

सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत ।
तोत्रैरिव महानागं कशाभिरिव वाजिनम्॥६॥

सोऽतिविद्धो महाराज पाण्डवेन यशस्विना ।
सृक्किणी लेलिहन्वीरः क्रोधरक्तान्तलोचनः॥७॥

ततः शरं महाराज सर्वकायावदारणम् ।
प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम्॥८॥

स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः ।
अगच्छद्दारयन् भूमिं चित्रपुङ्खः शिलीमुखः॥९॥

ततो भीमो महाबाहुः क्रोधसंरक्तलोचनः ।
वज्रकल्पां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम्॥१०॥

प्राहिणोत्सूतपुत्राय षडस्रामविचारयन् ।
तया जघानाधिरथेः सदश्वान्साधुवाहिनः॥११॥

गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान् ।
ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ॥१२॥

ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनच्छरैः ।
हताश्वसूतमुत्सृज्य सरथं पतितध्वजम् ॥१३॥

विस्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः ।
तत्राद्भुतमपश्याम राधेयस्य पराक्रमम् ॥१४॥

विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम् ।
विरथं तं नरश्रेष्ठं दृष्ट्वाऽऽधिरथिमाहवे ॥१५॥

दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम् ।
एष दुर्मुख राधेयो भीमेन विरथीकृतः ॥१६॥

तं रथेन नरश्रेष्ठं संपादय महारथम् ।
ततो दुर्योधनवचः श्रुत्वा भारत दुर्मुखः॥१७॥

त्वरमाणोऽभ्ययात्कर्णं भीमं चावारयच्छरैः ।
दुर्मुखं प्रेक्ष्य संग्रामे सूतपुत्रपदानुगम्॥१८॥

वायुपुत्रः प्रहृष्टोऽभूत्सृक्किणी परिसंलिहन् ।
ततः कर्णं महाराज वारयित्वा शिलीमुखैः॥१९॥

दुर्मुखाय रथं तूर्णं प्रेषयामास पाण्डवः ।
तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः॥२०॥

सुमुखैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम् ।
ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते॥२१॥

आस्थितः प्रबभौ राजन् दीप्यमान इवांशुमान् ।
शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम्॥२२॥

दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत ।
तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम्॥२३॥

दीर्घमुष्णं श्वसन्वीरो न किञ्चित्प्रत्यपद्यत ।
तस्मिंस्तु विवरे राजन् नाराचान्गार्ध्रवाससः॥२४॥

प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश ।
ते तस्य कवचं भित्त्वा स्वर्णचित्रं महौजसः॥२५॥

हेमपुङ्खा महाराज व्यशोभन्त दिशो दश ।
अपिबन्सूतपुत्रस्य शोणितं रक्तभोजनाः॥२६॥

क्रुद्धा इव मनुष्येन्द्र भुजङ्गाः कालचोदिताः ।
प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः॥२७॥

अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः ।
तं प्रत्यविध्यद्राधेयो जांबूनद‌विभूषितैः॥२८॥

चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन् ।
ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः॥२९॥

प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव ।
ते व्यरोचन्त नाराचाः प्रविशन्तो वसुंधराम्॥३०॥

गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः ।
स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः ॥३१॥

सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा ।
स भीमस्त्रिभिरायत्तः सूतपुत्रं पतत्रिभिः॥३२॥

सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः ।
स विह्वलो महाराज कर्णो भीमशराहतः॥३३॥

सुष्ठु पर्णानां पत्राणां वेगो येषाम् ॥३३॥

प्राद्रवज्जवनैरश्वै रणं हित्वा महाभयात् ।
भीमसेनस्तु विस्फार्य चापं हेमपरिष्कृतम्॥३४॥

आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः॥३५॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि कर्णापयाने चतुस्त्रिंशदधिकशततमोऽध्यायः॥१३४॥
पञ्चत्रिंशदधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
यत्राधिरथिरायत्तो नातरत्पाण्डवं रणे ॥१॥

दैवमिति ॥१॥

कर्णः पार्थान्सगोविंदान् जेतुमुत्सहते रणे ।
न च कर्णसमं योधं लोके पश्यामि कञ्चन॥२॥

इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः ।
कर्णो हि बलवाञ्छूरो दृढधन्वा जितक्लमः॥३॥

इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा ।
वसुषेणसहायं मां नालं देवापि संयुगे ॥४॥

किं नु पांडुसुता राजन् गतसत्त्वा विचेतसः ।
तत्र तं निर्जितं दृष्ट्वा भुजङ्गमिव निर्विषम् ॥५॥

युद्धात्कर्णमपक्रान्तं किंस्विद्दुर्योधनोऽब्रवीत् ।
अहो दुर्मुखमेवैकं युद्धानामविशारदम्॥६॥

प्रावेशयद्धुतवहं पतङ्गमिव मोहितः ।
अश्वत्थामा मद्रराजः कृपः कर्णश्च संगताः॥७॥

न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य सञ्जय ।
तेऽपि चास्य महाघोरं बलं नागायुतोपमम्॥८॥

जानन्तो व्यवसायं च क्रूरं मारुततेजसः ।
किमर्थं क्रूरकर्माणं यमकालान्तकोपमम्॥९॥

यमः संयमनव्यापारः कालः कलनव्यापारः अन्तको मारणव्यापारः तदुपमम् ॥९॥

बलसंरंभवीर्यज्ञाः कोपयिष्यन्ति संयुगे ।
कर्णस्त्वेको महाबाहुः स्वबाहुबलदर्पितम् ॥१०॥

भीमसेनमनादृत्य रणेऽयुध्यत सूतजः ।
योऽजयत्समरे कर्णं पुरंदर इवासुरम् ॥११॥

न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे ।
द्रोणं यः संप्रमथ्यैकः प्रविष्टो मम वाहिनीम्॥१२॥

भीमो धनञ्जयान्वेषी कस्तमार्च्छेज्जिजीविषुः ।
को हि संजय भीमस्य स्थातुमुत्सहतेऽग्रतः॥१३॥

उद्यताशनिहस्तस्य महेन्द्रस्येव दानवः ।
प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः॥१४॥

न भीमसेनं संप्राप्य निवर्तेत कदाचन ।
पतङ्गा इव वह्निं ते प्राविशन्नल्पचेतसः ॥१५॥

ये भीमसेनं संक्रुद्धमन्वधावन्विमोहिताः ।
यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम्॥१६॥

उक्तं संरंभिणोऽग्रेण कुरूणां शृण्वतां तदा ।
तन्नूनमभिसञ्चिन्त्य दृष्ट्वा कर्णं च निर्जितम्॥१७॥

दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् ।
यश्च संजय दुर्बुद्धिरब्रवीत्समितौ मुहुः ॥१८॥

कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् ।
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम्॥१९॥

प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति पुत्रकः ।
दृष्ट्वा भ्रातॄन्हतान्संख्ये भीमसेनेन दंशितान् ॥२०॥

आत्मापराधे सुमहन्नूनं तप्यति पुत्रकः ।
को हि जीवितमन्विच्छन्प्रतीपं पांडवं व्रजेत् ॥२१॥

भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् ।
वडवामुखमध्यस्थो मुच्येतापि हि मानवः॥२२॥

न भीममुखसंप्राप्तो मुच्येदिति मतिर्मम ।
न पार्था न च पञ्चाला न च केशवसात्यकी॥२३॥

जानते युधि संरब्धा जीवितं परिरक्षितुम् ।
अहो मम सुतानां हि विपन्नं सूत जीवितम्॥२४॥

सञ्जय उवाच। यस्त्वं शोचसि कौरव्य वर्तमाने महाभये ।
त्वमस्य जगतो मूलं विनाशस्य न संशयः॥२५॥

स्वयं वैरं महत् कृत्वा पुत्राणां वचने स्थितः ।
उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम्॥२६॥

स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम् ।
तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम॥२७॥

यत्तु कुत्सयसे योधान्युध्यमानान्महाबलान् ।
तत्र ते वर्तयिष्यामि यथा युद्धमवर्तत॥२८॥

दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम् ।
नामृष्यन्त महेष्वासाः सोदर्याः पंच भारत॥२९॥

दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः ।
पाण्डवं चित्रसन्नाहास्तं प्रतीपमुपाद्रवन्॥३०॥

ते समन्तान्महाबाहुं परिवार्य वृकोदरम् ।
दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः॥३१॥

आगच्छतस्तान्सहसा कुमारान्देवरूपिणः ।
प्रतिजग्राह समरे भीमसेनो हसन्निव॥३२॥

तव दृष्ट्वा तु तनयान् भीमसेनपुरोगमान् ।
अभ्यवर्तत राधेयो भीमसेनं महाबलम् ॥३३॥

विसृजन्विशिखांस्तीक्ष्णान् स्वर्णपुङ्खाञ्छिलाशितान् ।
तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव ॥३४॥

कुरवस्तु ततः कर्णं परिवार्य समन्ततः ।
अवाकिरन् भीमसेनं शरैः सन्नतपर्वभिः॥३५॥

तान्बाणैः पञ्चविंशत्या साश्वान् राजन्नरर्षभान् ।
ससूतान् भीमधनुषो भीमो निन्ये यमक्षयम् ॥३६॥

प्रापतन्स्यन्दनेभ्यस्ते सार्धं सुतैर्गतासवः ।
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः॥३७॥

तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् ।
संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान् ॥३८॥

स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः ।
सूतपुत्रो महाराज भीमसेनमवैक्षत ॥३९॥

तं भीमसेनः संरंभात्क्रोधसंरक्तलोचनः ।
विस्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत ॥४०॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमसेनपराक्रमे पञ्चत्रिंशदधिकशततमोऽध्यायः॥१३५॥
षट्त्रिंशदधिकशततमोऽध्यायः

सञ्जय उवाच। तवात्मजांस्तु पतितान् दृष्ट्वा कर्णः प्रतापवान् ।
क्रोधेन महताऽऽविष्टो निर्विण्णोऽभूत्स जीवितात् ॥१॥

तवेति ॥१॥

आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा ।
यत्प्रत्यक्षं तव सुता भीमेन निहता रणे ॥२॥

भीमसेनस्ततः क्रुद्धः कर्णस्य निशिताञ्शरान् ।
निचस्वान स संभ्रान्तः पूर्ववैरमनुस्मरन् ॥३॥

स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव ।
पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः॥४॥

अविचिन्त्याथ तान् बाणान् कर्णेनास्तान् वृकोदरः ।
रणे विव्याध राधेयं शतेनानतपर्वणाम् ॥५॥

पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा मर्मसु पञ्चभिः ।
धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष ॥६॥

अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः ।
इषुभिश्छादयामास भीमसेनं परंतपः ॥७॥

तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम् ।
प्रजहास महाहासं कृते प्रतिकृते पुनः ॥८॥

प्रतिकृते प्रतिकर्मणि कृते सतीत्यन्वयः ॥८॥

इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः ।
तत् पपात महाराज स्वर्णपृष्ठं महास्वनम् ॥९॥

अवारोहद्रथात्तस्मादथ कर्णो महारथः ।
गदां गृहीत्वा समरे भीमाय प्राहिणोद्रुषा ॥१०॥

अवारोहत् अवातरत् ॥१०॥

तामापतन्तीमालक्ष्य भीमसेनो महागदाम् ।
शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः ॥११॥

ततो बाणसहस्राणि प्रेषयामास पाण्डवः ।
सूतपुत्रवधाकांक्षी त्वरमाणः पराक्रमी ॥१२॥

तानिषूनिषुभिः कर्णो वारयित्वा महामृधे ।
कवचं भीमसेनस्य पाटयामास सायकैः ॥१३॥

अथैनं पञ्चविंशत्या नाराचानां समार्पयत् ।
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ॥१४॥

ततो भीमो महाबाहुर्नवभिर्नतपर्वभिः ।
प्रेषयामास संक्रुद्धः सूतपुत्रस्य मारिष ॥१५॥

ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम् ।
अभ्ययुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः ॥१६॥

स च्छाद्यमानो बाणौघैर्भीमसेनधनुश्च्युतैः ।
पुनरेवाभवत्कर्णो भीमसेनात्पराङ्मुखः ॥१७॥

तं पराङ्मुखमालोक्य पदातिं सुतनन्दनम् ।
कौन्तेयशरसंछन्नं राजा दुर्योधनोऽब्रवीत् ॥१८॥

त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति ।
ततस्तव सुता राजञ्छ्रुत्वा भ्रातुर्वचो द्रुतम् ॥१९॥

अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिलीमुखान् ।
चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः ॥२०॥

चित्रोपचित्रः चित्रश्चासावुपचित्रश्चेति चित्रोपचित्रः ॥२०॥

चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः ।
तानापतत एवाशु भीमसेनो महारथः ॥२१॥

एकैकेन शरेणाजौ पातयामास ते सुतान् ।
ते हता न्यपतन्भूमौ वातरुग्णा इव द्रुमाः ॥२२॥

दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान् ।
अश्रुपूर्णमुखः कर्णः क्षत्तुः सस्मार तद्वचः ॥२३॥

रथं चान्यं समास्थाय विधिवत्कल्पितं पुनः ।
अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी ॥२४॥

तावन्योन्यं शरैर्भित्त्वा स्वर्णपुंखैः शिलाशितैः ।
व्यभ्राजेतां यथा मेघौ संस्यूतौ सूर्यरश्मिभिः ॥२५॥

षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः ।
व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः ॥२६॥

सूतपुत्रोऽपि कौन्तेयं शरैः सन्नतपर्वभिः ।
पञ्चाशता महाबाहुर्विव्याध भरतर्षभम् ॥२७॥

रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ ।
शोणिताक्तौ व्यराजेतां चन्द्रसूर्याविवोदितौ ॥२८॥

तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ ।
कर्णभीमौ व्यराजेतां निर्मुक्ताविव पन्नगौ ॥२९॥

व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम् ।
शरधारासृजौ वीरौ मेघाविव ववर्षतुः ॥३०॥

वारणाविव चान्योन्यं विषाणाभ्यामरिन्दमौ ।
निर्भिन्दन्तौ स्वगात्राणि सायकैश्चारु रेजतुः ॥३१॥

नादयन्तौ प्रहर्षन्तौ विक्रीडन्तौ परस्परम् ।
मण्डलानि विकुर्वाणौ रथाभ्यां रथिषूत्तमौ ॥३२॥

वृषाविवाथ नर्दन्तौ बलिनौ वासितान्तरे ।
सिंहाविव पराक्रान्तौ नरसिंहौ महाबलौ ॥३३॥

परस्परं वीक्षमाणौ क्रोधसंरक्तलोचनौ ।
युयुधाते महावीर्यौ शक्रवैरोचनी यथा ॥३४॥

ततो भीमो महाबाहुर्बाहुभ्यां विक्षिपन्धनुः ।
व्यराजत रणे राजन्सविद्युदिव तोयदः ॥३५॥

स नेमिघोषस्तनितश्चापविद्युच्छराम्बुभिः ।
भीमसेनमहामेघः कर्णपर्वतमावृणोत् ॥३६॥

ततः शरसहस्रेण सम्यगस्तेन भारत ।
पाण्डवो व्यकिरत्कर्णं भीमो भीमपराक्रमः ॥३७॥

तत्रापश्यंस्तव सुता भीमसेनस्य विक्रमम् ।
सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयञ्शरैः॥३८॥

स नन्दयन् रणे पार्थं केशवं च यशस्विनम् ।
सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत् ॥३९॥

विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः ।
पुत्रास्तव महाराज दृष्ट्वा विमनसोऽभवन् ॥४०॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमयुद्धे षट्त्रिंशदधिकशततमोऽध्यायः ॥१३६॥
सप्तत्रिंशदधिकशततमोऽध्यायः

सञ्जय उवाच। भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिःस्वनं ।
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ॥१॥

भीमसेनस्येति ॥१॥

सोऽपक्रम्य मुहूर्तं तु भीमसेनस्य गोचरात् ।
पुत्रांस्तव ददर्शाथ भीमसेनेन पातितान् ॥२॥

तानवेक्ष्य नरश्रेष्ठ विमना दुःखितस्तदा ।
निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात् ॥३॥

स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः ।
बभौ कर्णः शरानस्यन् रश्मीनिव दिवाकरः ॥४॥

किरणैरिव सूर्यस्य महीध्रो भरतर्षभ ।
कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः ॥५॥

ते कर्णचापप्रभवाः शरा बर्हिणवाससः ।
विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम् ॥६॥

कर्णचापच्युता बाणाः संपतन्तस्ततस्ततः ।
रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव ॥७॥

चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात् ।
प्रभवन्तो व्यदृश्यन्त राजन्नधिरथेः शराः ॥८॥

खं पूरयन्महावेगात् खगमान् गृध्रवाससः ।
सुवर्णविकृतांश्चित्रान्मुचोचाधिरथिः शरान् ॥९॥

तमन्तकमिवायस्तमापतन्तं वृकोदरम् ।
त्यक्त्वा प्राणानतिक्रम्य विव्याध निशितैः शरैः ॥१०॥

तस्य वेगमसह्यं स दृष्ट्वा कर्णस्य पाण्डवः ।
महतश्च शरौघांस्तान्न्यवारयत वीर्यवान् ॥११॥

ततो विधम्याधिरथेः शरजालानि पाण्डवः ।
विव्याध कर्णं विंशत्या पुनरन्यैः शिलाशितैः ॥१२॥

यथैव हि स कर्णेन पार्थः प्रच्छादितः शरैः ।
तथैव स रणे कर्णं छादयामास पाण्डवः ॥१३॥

दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत ।
अभ्यनन्दंस्त्वदीयाश्च संप्रहृष्टाश्च चारणाः ॥१४॥

भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः ।
उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ ॥१५॥

कुरुपाण्डवप्रवरा दश राजन्महारथाः ।
साधु साध्विति वेगेन सिंहनादमथानदन् ॥१६॥

तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे ।
अभ्यभाषत पुत्रस्ते राजन्दुर्योधनस्त्वरन् ॥१७॥

राज्ञः संराजपुत्रांश्च सोदर्यांश्च विशेषतः ।
कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात् ॥१८॥

पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः ।
ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे ॥१९॥

दुर्योधनसमादिष्टाः सोदर्याः सप्त भारत ।
भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन् ॥२०॥

ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः ।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ॥२१॥

तेऽपीडयन् भीमसेनं क्रुद्धाः सप्त महारथाः ।
प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव ॥२२॥

ततो वेगेन कौन्तेयः पीडयित्वा शरासनम् ।
मुष्टिना पाण्डवो राजन् दृढेन सुपरिष्कृतम् ॥२३॥

मनुष्यसमतां ज्ञात्वा सप्त संधाय सायकान् ।
तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः ॥२४॥

निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव ।
भीमसेनो महाराज पूर्ववैरमनुस्मरन् ॥२५॥

ते क्षिप्ता भीमसेनेन शरा भारत भारतान् ।
विदार्य खं समुत्पेतुः स्वर्णपुंखाः शिलाशिताः ॥२६॥

तेषां विदार्य चेतांसि शरा हेमविभूषिताः ।
व्यराजन्त महाराज सुपर्णा इव खेचराः ॥२७॥

शोणिता दिग्धवाजाग्राः सप्त हेमपरिष्कृताः ।
पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः॥२८॥

ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन् क्षितौ ।
गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः ॥२९॥

शत्रुञ्जयः शत्रुसहश्चित्रश्चित्रायुधो दृढः ।
चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः ॥३०॥

पुत्राणां तव सर्वेषां निहतानां वृकोदरः ।
शोचत्यतिभृंशं दुःखाद्विकर्णं पाण्डवः प्रियम् ॥३१॥

प्रतिज्ञेयं मया वृत्ता निहन्तव्यास्तु संयुगे ।
विकर्ण तेनासि हतः प्रतिज्ञा रक्षिता मया ॥३२॥

त्वमागाः समरं वीर क्षात्रधर्ममनुस्मरन् ।
ततो विनिहतः संख्ये युद्धधर्मो हि निष्ठुरः ॥३३॥

विशेषतो हि नृपतेस्तथाऽस्माकं हिते रतः ।
न्यायतोऽन्यायतो वाऽपि हतः शेते महाद्युतिः ॥३४॥

अगाधबुद्धिर्गाङ्गेयः क्षितौ सुरगुरोः समः ।
त्याजितः समरे प्राणांस्तस्माद्युद्धं हि निष्ठुरं ॥३५॥

सञ्जय उवाच। तान्निहत्य महाबाहू राधेयस्यैव पश्यतः ।
सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः ॥३६॥

स रवस्तस्य शूरस्य धर्मराजस्य भारत ।
आचख्याविव तद्युद्धं विजयं चात्मनो महत् ॥३७॥

तं श्रुत्वा तु महानादं भीमसेनस्य धन्विनः ।
बभूव परमा प्रीतिर्धर्मराजस्य धीमतः ॥३८॥

ततो हृष्टमना राजन्वादित्राणां महास्वनैः ।
सिंहनादरवं भ्रातुः प्रतिजग्राह पाण्डवः ॥३९॥

हर्षेण महता युक्तः कृतसंज्ञो वृकोदरे ।
अभ्ययात्समरे द्रोणं सर्वशस्त्रभृतां वरः ॥४०॥

कृतसंज्ञो गृहीतसंकेतः ॥४०॥

एकत्रिंशन्महाराज पुत्रांस्तव निपातितान् ।
हतान् दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः॥४१॥

तदिदं समनुप्राप्तं क्षत्तुर्निःश्रेयसं वचः ।
इति सञ्चिन्त्य ते पुत्रो नोत्तरं प्रत्यपद्यत ॥४२॥

निःश्रेयसं निश्चितं श्रेयःसाधनम् ॥४२॥

यद्यूतकाले दुर्बुद्धिरब्रवीत्तनयस्तव ।
सभामानाय्यपाञ्चालीं कर्णेन सहितोल्पधीः ॥४३॥

यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः ।
प्रमुखे पाण्डुपुत्राणां तव चैव विशांपते ॥४४॥

शृण्वतस्तव राजेन्द्र कौरवाणां च सर्वशः ।
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः ।
पतिमन्यं वृणीष्वेति तस्येदं फलमागतम् ॥४५॥

यच्च षण्ढतिलादीनि परुषाणि तवात्मजैः ।
श्रावितास्ते महात्मानः पाण्डवाः कोपयिष्णुभिः ॥४६॥

तं भीमसेनः क्रोधाग्निं त्रयोदश समाः स्थितम् ।
उद्गिरंस्तव पुत्राणामन्तं गच्छति पाण्डवः ॥४७॥

विलपंश्च बहु क्षत्ता शमं नालभत त्वयि ।
सपुत्रो भरतश्रेष्ठ तस्य भुंक्ष्व फलोदयम् ॥४८॥

त्वया वृद्धेन धीरेण कार्यतत्त्वार्थदर्शिना ।
न कृतं सुहृदां वाक्यं दैवमत्र परायणम् ॥४९॥

तन्मा शुचो नरव्याघ्र तवैवापनयो महान् ।
विनाशहेतुः पुत्राणां भवानेव मतो मम ॥५०॥

हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान् ।
प्रवराश्चात्मजानां ते सुताश्चान्ये महारथाः ॥५१॥

यानन्यान् ददृशे भीमश्चक्षुर्विषयमागतान् ।
पुत्रांस्तथ महाराज त्वरया ताञ्जघान ह ॥५२॥

त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम् ।
सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च ॥५३॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमयुद्धे सप्तत्रिंशदधिकशततमोऽध्यायः ॥१३७॥
अष्टात्रिंशदधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। महानपनयः सूत ममैवात्र विशेषतः ।
स इदानीमनुप्राप्तो मन्ये सञ्जय शोचतः ॥१॥

महानिति ॥१॥

यद्गतं तद्गतमिति ममासीन्मनसि स्थितम् ।
इदानीमत्र किं कार्यं प्रकरिष्यामि सञ्जय ॥२॥

यथा ह्येष क्षयो वृत्तो ममापनयसंभवः ।
वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि सञ्जय ॥३॥

सञ्जय उवाच। कर्णभीमौ महाराज पराक्रान्तौ महाबलौ ।
बाणवर्षाण्यसृजतां वृष्टिमन्ताविवाम्बुदौ ॥४॥

भीमनामांकिताबाणाः स्वर्णपुंखाः शिलाशिताः ।
विविशुः कर्णमासाद्य च्छिन्दन्त इव जीवितम् ॥५॥

तथैव कर्णनिर्मुक्ताः शरा बर्हिणवाससः ।
छादयांचक्रिरे वीरं शतशोऽथ सहस्रशः ॥६॥

तयोः शरैर्महाराज संपतद्भिः समन्ततः ।
बभूव तत्र सैन्यानां संक्षोभः सागरोत्तरः ॥७॥

सागरोत्तरः महत्तरः ॥७॥

भीमचापच्युतैर्बाणैस्तव सैन्यमरिन्दम ।
अवध्यत चमूमध्ये घोरैराशीविषोपमैः ॥८॥

वारणैः पतितै राजन्वाजिभिश्च नरैः सह ।
अदृश्यत मही कीर्णा वातभग्नैरिव द्रुमैः ॥९॥

ते वध्यमानाः समरे भीमचापच्युतैः शरैः ।
प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन् ॥१०॥

ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम् ।
प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः ॥११॥

शरैर्व्युदस्तमाक्षिप्तं प्रोत्सारितं दूरमपसारितम् ॥११॥

ते शूरा हतभूयिष्ठा हताश्व-रथ-वारणाः ।
उत्सृज्य भीमकर्णौ च सर्वतो व्यद्रवन्दिशः ॥१२॥

नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः ।
यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः ॥१३॥

एवं ब्रुवाणा योधास्ते तावका भयपीडिताः ।
शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः ॥१४॥

ततः प्रावर्तत नदी घोररूपा रणाजिरे ।
शूराणां हर्षजननी भीरूणां भयवर्धिनी ॥१५॥

वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा ।
संवृत्ता गतसत्त्वैश्च मनुष्यगजवाजिभिः ॥१६॥

सानुकर्षपताकैश्च द्विपाश्व-रथ-भूषणैः ।
स्यन्दनैरपविद्धैश्च भग्नचकाक्षकूबरैः ॥१७॥

जातरूपपरिष्कारैर्धनुर्भिः सुमहास्वनैः ।
सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः ॥१८॥

कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः ।
प्रास-तोमरसंघातैः खड्गैश्च सपरश्वधैः॥१९॥

सुवर्णविकृतैश्चापि गदा- मुसल-पट्टिशैः ।
ध्वजैश्च विविधाकारैः शक्तिभिः परिघैरपि ॥२०॥

शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी ।
कनकाङ्गदहारैश्च कुण्डलैर्मुकुटैस्तथा ॥२१॥

वलयैरपविद्धैश्च तत्रैवाङ्गुलिवेष्टकैः ।
चूडामणिभिरुष्णीषैः स्वर्णसूत्रैश्च मारिष ॥२२॥

तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत ।
वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि ॥२३॥

गजाश्वमनुजैर्भिन्नैः शोणिताक्तैश्च पत्रिभिः ।
तैस्तैश्च विविधैर्भिन्नैस्तत्र तत्र वसुंधरा ॥२४॥

पतितैरपविद्धैश्च विबभौ द्योरिव ग्रहैः ।
अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम् ॥२५॥

दृष्ट्वा चारणसिद्धानां विस्मयः समजायत ।
अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे ॥२६॥

आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम् ।
निपातितध्वजरथं हतवाजि- नर- द्विपम् ॥२७॥

गजाभ्यां संप्रयुक्ताभ्यामासीन्नलवनं यथा ।
मेघजालनिभं सैन्यमासीत्तव नराधिप ।
विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे ॥२८॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमकर्णयुद्धे अष्टत्रिंशदधिकशततमोऽध्यायः ॥१३८॥
एकोनचत्वारिंशदधिकशततमोऽध्यायः

सञ्जय उवाच। ततः कर्णो महाराज भीमं विद्धा त्रिभिः शरैः ।
मुमोच शरवर्षाणि विचित्राणि बहूनि च ॥१॥

तत इति ॥१॥

वध्यमानो महाबाहुः सूतपुत्रेण पाण्डवः ।
न विव्यथे भीमसेनो भिद्यमान इवाचलः ॥२॥

स कर्णं कर्णिना कर्णे पीतेन निशितेन च ।
विव्याध सुभृशं संख्ये तैलधौतेन मारिष ॥३॥

स कुण्डलं महच्चारु कर्णस्यापातयद्भुवि ।
तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात् ॥४॥

अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे ।
आजघान भृशं क्रुद्धो हसन्निव घृकोदरः ॥५॥

पुनरस्य त्वरन् भीमो नाराचान् दश भारत ।
रणे प्रैषीन्महाबाहुर्निर्मुक्ताशीविषोपमान् ॥६॥

ते ललाटं विनिर्मिद्य सूतपुत्रस्य भारत ।
विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः ॥७॥

ललाटस्थैस्ततो बाणैः सूतपुत्रो व्यरोचत ।
नीलोत्पलमयीं मालां धारयन्वै यथा पुरा ॥८॥

सोऽतिविद्धो भृशं कर्णः पाण्डवेन तरस्विना ।
रथकूबरमालंब्य न्यमीलयत लोचने ॥९॥

स मुहूर्तात्पुनः संज्ञां लेभे कर्णः परंतपः ।
रुधिरोक्षितसंर्वागः क्रोधमाहारयत्परम् ॥१०॥

ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना ।
वेगं चक्रे महावेगो भीमसेनरथं प्रति ॥११॥

तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम् ।
अमर्षी बलवान् क्रुद्धः प्रेषयामास भारत ॥१२॥

ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः ।
समरे तमनादृत्य तस्य वीर्यमचिन्तयन् ॥१३॥

कर्णस्ततो महाराज पाण्डवं नवभिः शरैः ।
आजघानोरसि क्रुद्धः क्रुद्धरूपं परन्तप ॥१४॥

तावुभौ नरशार्दूलौ शार्दूलाविव दंष्ट्रिणौ ।
जीमूताविव चान्योन्यं प्रववर्षतुराहवे ॥१५॥

तलशब्दरवैश्चैव त्रासयेतां परस्परम् ।
शरजालैश्च विविधैस्त्रासयामासतुर्मृधे ॥१६॥

अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ ।
ततो भीमो महाबाहुः सूतपुत्रस्य भारत ॥१७॥

क्षुरप्रेण धनुश्छित्त्वा ननाद परवीरहा ।
तदपास्य धनुश्छिन्नं सूतपुत्रो महारथः ॥१८॥

अन्यत्कार्मुकमादत्त भारघ्नं वेगवत्तरम् ।
तदप्यथ निमेषार्धाच्चिच्छेदास्य वृकोदरः ॥१९॥

तृतीयं च चतुर्थं च पञ्चमं षष्ठमेव हि ।
सप्तमं चाष्टमं चैव नवमं दशमं तथा ॥२०॥

एकादशं द्वादशं च त्रयोदशमथापि च ।
चतुर्दशं पञ्चदशं षोडशं च वृकोदरः ॥२१॥

तथा सप्तदशं वेगादष्टादशमथापि वा ।
बहूनि भीमश्चिच्छेद कर्णस्यैवं धनूंषि हि ॥२२॥

निमेषार्धात्ततः कर्णो धनुर्हस्तो व्यतिष्ठत ।
दृष्ट्वा स कुरु-सौवीर-सिन्धुवीरबलक्षयम् ॥२३॥

सवर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम् ।
हस्त्यश्वरथदेहांश्च गतासुन्प्रेक्ष्य सर्वशः ॥२४॥

सूतपुत्रस्य संरंभाद्दीप्तं वपुरजायत ।
स विस्फार्य महच्चापं कार्तस्वरविभूषितम् ॥२५॥

भीमं प्रैक्षत राधेयो घोरं घोरेण चक्षुषा ।
ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरोचत ॥२६॥

मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ।
मरीचिविकचस्येव राजन् भानुमतो वपुः ॥२७॥

आसीदाधिरथेर्घोरं वपुः शरशताचितम् ।
कराभ्यामाददानस्य संदधानस्य चाशुगान् ॥२८॥

कर्षतो मुञ्चतो बाणान्नान्तरं ददृशे रणे ।
अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम् ॥२९॥

कर्णस्यासीन्महीपाल सव्यदक्षिणमस्यतः ।
स्वर्णपुंखाः सुनिशिताः कर्णचापच्युताः शराः ॥३०॥

प्राच्छादयन्महाराज दिशः सूर्यस्य च प्रभाः ।
ततः कनकपुङ्खानां शराणां नतपर्वणाम् ॥३१॥

धनुश्च्युतानां वियति ददृशे बहुधा व्रजः ।
बाणासनादाधिरथेः प्रभवन्ति स्म सायकाः ॥३२॥

श्रेणीकृता व्यरोचन्त राजन् क्रौञ्चा इवाम्बरे ।
गार्धपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान् ॥३३॥

महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान् ।
ते तु चापबलोद्धूताः शातकुम्भविभूषिताः ॥३४॥

अजस्त्रमपतन्बाणा भीमसेनरथं प्रति ।
ते व्योम्नि रुक्मविकृता व्यकाशन्त सहस्रशः ॥३५॥

शलभानामिव व्राताः शराः कर्णसमीरिताः ।
चापादाधिरथेर्बाणाः प्रपतन्तश्चकाशिरे ॥३६॥

एको दीर्घ इवात्यर्थमाकाशे संस्थितः शरः ।
पर्वतं वारिधाराभिश्छादयन्निव तोयदः ॥३७॥

कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः ।
तत्र भारत भीमस्य बलं वीर्यं पराक्रमम् ।
व्यवसायं च पुत्रास्ते ददृशुः सहसैनिकाः ॥३८॥

तां समुद्रमिवोद्भूतां शरवृष्टिं समुत्थिताम् ।
अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत् ॥३९॥

रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशांपते ।
आकर्षान्मण्डलीभूतं शक्रचापमिवापरम् ॥४०॥

तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम् ।
सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः ॥४१॥

गगने रचिता माला काञ्चनीव व्यरोचत ।
ततो व्योम्नि विषक्तानि शरजालानि भागशः ॥४२॥

आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः ।
कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः ।
अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे ॥४४॥

तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः ।
न स्म सूर्यस्तदा भाति न स्म वाति समीरणः ॥४५॥

शरजालावृते व्योम्नि न प्राज्ञायत किञ्चन ।
स भीमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः ॥४६॥

उपारोहदनादृत्य तस्य वीर्यं महात्मनः ।
तयोर्विसृजतोस्तत्र शरजालानि मारिष ॥४७॥

उपारोहत्सन्निकर्षमगात् ॥४७॥

वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम् ।
अन्योन्यशरसंस्पर्शात्तयोर्मनुजसिंहयोः ॥४८॥

वायुभूतानि वातोद्भूतान्यतिवेगवन्ति वा ॥४८॥

आकाशे भरतश्रेष्ठ पावकः समजायत ।
तथा कर्णः शितान् बाणान् कर्मारपरिमार्जितान् ॥४९॥

सुवर्णविकृतान् क्रुद्धः प्राहिणोद्वधकांक्षया ।
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत् ॥५०॥

विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत् ।
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः ॥५१॥

अमर्षी बलवान् क्रुद्धो दिधक्षन्निव पावकः ।
ततश्चटचटाशब्दो गोधाघातादभूत्तयोः ॥५२॥

तलशब्दश्च सुमहान् सिंहनादश्च भैरवः ।
रथनेमिनिनादश्च ज्याशब्दश्चैव दारुणः ॥५३॥

योधा व्युपारमन्युद्धाद्दिदृक्षन्तः पराक्रमम् ।
कर्णपाण्डवयो राजन् परस्परवधैषिणोः ॥५४॥

देवर्षिसिद्धगन्धर्वाः साधु साध्वित्यपूजयन् ।
मुमुचुः पुष्पवर्षं च विद्याधरगणास्तथा ॥५५॥

ततो भीमो महाबाहुः संरम्भी दृढविक्रमः ।
अस्त्रैरस्त्राणि संवार्य शरैर्विव्याध सूतजम् ॥५६॥

कर्णोऽपि भीमसेनस्य निवार्येषून्महाबलः ।
प्राहिणोन्नव नाराचानाशीविषसमान् रणे ॥५७॥

तावद्भिरथ तान् भीमो व्योम्नि चिच्छेद पत्रिभिः ।
नाराचान् सुतपुत्रस्य तिष्ठ तिष्ठेति चाब्रवीत् ॥५८॥

ततो भीमो महाबाहुः शरं क्रुद्धान्तकोपमम् ।
मुमोचाधिरथेर्वीरो यमदण्डमिवापरम् ॥५९॥

तमापतन्तं चिच्छेद राधेयः प्रहसन्निव ।
त्रिभिः शरैः शरं राजन् पाण्डवस्य प्रतापवान् ॥६०॥

पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः ।
तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत् ॥६१॥

युध्यमानस्य भीमस्य सूतपुत्रोऽस्त्रमायया ।
तस्येषुधी धनुर्ज्यां च बाणैः सन्नतपर्वभिः ॥६२॥

रश्मीन्योक्राणि चाश्वानां क्रुद्धः कर्णोऽच्छिनन्मृधे ।
तस्याश्वांश्च पुनर्हत्वा सूतं विव्याध पञ्चभिः ॥६३॥

सोऽपसृत्य तं सूतो युधामन्यो रथं ययौ ।
विहसन्निव भीमस्य क्रुद्धः कालानलद्युतिः ॥६४॥

ध्वजं चिच्छेद राधेयः पताकां च व्यपातयत् ।
स विधन्वा महाबाहुरथ शक्तिं परामृशत् ॥६५॥

तां व्यवासृजदाविध्य क्रुद्धः कर्णरथं प्रति ।
तामाधिरथिरायस्तः शक्तिं काञ्चनभूषणाम् ॥६६॥

आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः ।
साऽपतद्दशधा छिन्ना कर्णस्य निशितैः शरैः ॥६७॥

अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः ।
सचर्मादत्त कौन्तेयो जातरूपपरिष्कृतम् ॥६८॥

खड्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयस्य वा ।
तदस्य तरसा क्रुद्धो व्यधमच्चर्म सुप्रभम् ॥६९॥

शरैर्बहुभिरत्युग्रैः प्रहसन्निव भारत ।
स विचर्मा महाराज विरथः क्रोधमूर्च्छितः ॥७०॥

असिं प्रासृजदाविध्य त्वरन् कर्णरथं प्रति ।
स धनुः सूतपुत्रस्य सज्यं छित्त्वा महानसिः ॥७१॥

पपात भुवि राजेन्द्र क्रुद्धः सर्प इवाम्बरात् ।
ततः प्रहस्याधिरथिरन्यदादाय कार्मुकम् ॥७२॥

शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम् ।
व्यायच्छत्स शरान्कर्णः कुन्तीपुत्रजिघांसया ॥७३॥

सहस्रशो महाराज रुक्मपुङ्खान्सुतेजनान् ।
स वध्यमानो बलवान् कर्णचापच्युतैः शरैः ॥७४॥

वैहायसं प्राक्रमद्वै कर्णस्य व्यथयन्मनः ।
स तस्य चरितं दृष्ट्वा संग्रामे विजयैषिणः ॥७५॥

वैहायसमाकाशम् ॥७५॥

लयमास्थाय राधेयो भीमसेनमवञ्चयत् ।
तं च दृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम् ॥७६॥

लयमङ्गसंकोचम् ॥७६॥

ध्वजमस्य समासाद्य तस्थौ भीमो महीतले ।
तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन् ॥७७॥

यदियेष रथात्कर्णं हर्तुं तार्क्ष्य इवोरगम ।
स च्छिन्नधन्वा विरथः स्वधर्ममनुपालयन् ॥७८॥

स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः ।
तद्विहत्यास्य राधेयस्तत एनं समभ्ययात् ॥७९॥

संरम्भात्पाण्डवं संख्ये युद्धाय समुपस्थितम् ।
तौ समेतौ महाराज स्पर्धमानौ महाबलौ ॥८०॥

जीमूताविव धर्मान्ते गर्जमानौ नरर्षभौ ।
तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः ॥८१॥

अमृष्यमाणयोः संख्ये देवदानवयोरिव ।
क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः ॥८२॥

दृष्ट्वाऽर्जुनहतान्नागान् पतितान् पर्वतोपमान् ।
रथमार्गविघातार्थं व्यायुधः प्रविवेश ह ॥८३॥

हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च ।
पाण्डवो जीविताकांक्षी राधेयं नाभ्यहारयत् ॥८४॥

व्यवस्थानमथाकाङ्क्षन्धनञ्जयशरैर्हतम् ।
उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरञ्जयः ॥८५॥

महौषधिसमायुक्तं हनूमानिव पर्वतम् ।
तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः ॥८६॥

हस्त्यंगान्यथ कर्णाय प्राहिणोत्पाण्डुनन्दनः ।
चक्राण्यश्वांस्तथा चान्यद्यद्यत्पश्यति भूतले ॥८७॥

तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः ।
तदस्य सर्वं चिच्छेद क्षिप्तं क्षिप्तं शितैः शरैः ॥८८॥

तद्रथादिसाधनम् ॥८८॥

भीमोऽपि मुष्टिमुद्यम्य वज्रगर्भां सुदारुणाम् ।
हन्तुमैच्छत्सूतपुत्रं संस्मरन्नर्जुनं क्षणात् ॥८९॥

वज्रगर्भामन्तर्विहितांगुष्ठाम् ॥८९॥

शक्तोऽपि नावधीत्कर्णं समर्थः पाण्डुनन्दनः ।
रक्षमाणः प्रतिज्ञां तां या कृता सव्यसाचिना ॥९०॥

समर्थः समीचीनार्थो धर्मापेक्षीति यावत् ॥९०॥

तमेवं व्याकुलं भीमं भूयो भूयः शितैः शरैः ।
मूर्च्छयाऽभिपरीताङ्गमकरोत्सूतनन्दनः ॥९१॥

व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन् ।
धनुषोऽग्रेण तं कर्णः सोऽभिद्रुत्य परामृशत् ॥९२॥

धनुषा स्पृष्टमात्रेण क्रुद्धः सर्प इव श्वसन् ।
आच्छिद्य स धनुस्तस्य कर्णं मूर्धन्यताडयत् ॥९३॥

ताडितो भीमसेनेन क्रोधादारक्तलोचनः ।
विहसन्निव राधेयो वाक्यमेतदुवाच ह ॥९४॥

पुनः पुनस्तूबरक मूढ औदरिकेति च ।
अकृतास्त्रक मा योत्सीर्बाल संग्रामकातर ॥९५॥

तूबरको पुंश्चिह्नरहितः षंढ इति यावत् ‘तूबरोऽश्मश्रुपुरुषे’ इत्युपक्रम्य ‘पुरुषव्यञ्जनत्यक्ते’ इति मेदिनी । औदरिको बह्वाशी ॥९५॥

यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव ।
तत्र त्वं दुर्मते योग्यो न युद्धेषु कदाचन ॥९६॥

मूल-पुष्प-फलाहारो व्रतेषु नियमेषु च ।
उचितस्त्वं वने भीम न त्वं युद्धविशारदः ॥९७॥

व्रतेषु नियमेषु आगन्तुकेषु ॥९७॥

क्व युद्धं क्व मुनित्वं च वनं गच्छ वृकोदर ।
न त्वं युद्धोचितस्तात वनवासरतिर्भवान् ॥९८॥

सूदान् भृत्यजनान् दासांस्त्वं गृहे त्वरयन्भृशं ।
योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर ॥९९॥

मुनिर्भूत्वाऽथवा भीम फलान्यादत्स्व दुर्मते ।
वनाय व्रज कौन्तेय न त्वं युद्धविशारदः ॥१००॥

फलमूलाशने शक्तस्त्वं तथाऽतिथिपूजने ।
न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर ॥१०१॥

कौमारे यानि वृत्तानि विप्रियाणि विशांपते ।
तानि सर्वाणि चाप्येव रूक्षाण्यश्रावयद्भृशम् ॥१०२॥

अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः ।
प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा ॥१०३॥

संलीनं संकुचिताङ्गम् ॥१०३॥

योद्धव्यं मारिषान्यत्र न योद्धव्यं च मादृशैः ।
मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते ॥१०४॥

गच्छ वा यत्र तौ कृष्णौ तौ त्वां रक्षिष्यतो रणे ।
गृहं वा गच्छ कौन्तय किं ते युद्धेन बालक ॥१०५॥

कर्णस्य वचनं श्रुत्वा भीमसेनोऽतिदारुणं ।
उवाच कर्णं प्रहसन् सर्वेषां शृण्वतां वचः ॥१०६॥

जितस्त्वमसकृद्दुष्ट कत्थसे किं वृथाऽऽत्मना ।
जयाजयौ महेन्द्रस्य लोके दृष्टौ पुरातनैः ॥१०७॥

मल्लयुद्धं मया सार्धं कुरु दुष्कुलसंभव ।
महाबलो महाभोगी कीचको निहतो यथा ॥१०८॥

तथा त्वां घातयिष्यामि पश्यत्सु सर्वराजसु ।
भीमस्य मतमाज्ञाय कर्णो बुद्धिमतां वरः ॥१०९॥

विरराम रणात्तस्मात्पश्यतां सर्वधन्विनाम् ।
एवं तं विरथं कृत्वा कर्णो राजन् व्यकत्थयत् ॥११०॥

व्यकत्थयत् भर्त्सितवान् ॥११०॥

प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः ।
ततो राजञ्शिलाधौताञ्शरान् शाखामृगध्वजः ॥१११॥

प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः ।
ततः पार्थभुजोत्सृष्टाः शराः कनकभूषणाः ॥११२॥

गांडीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन् ।
स भुजङ्गैरिवाविष्टैर्गाण्डीवप्रेषितैः शरैः ॥११३॥

भीमसेनादपासेधत्सुतपुत्रं धनञ्जयः ।
सच्छिन्नधन्वा भीमेन धनञ्जयशराहतः॥११४॥

कर्णो भीमादपायासीद्रथेन महता द्रुतम् ।
भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः ॥११५॥

अन्वयाद्भ्रातरं संख्ये पाण्डवं सव्यसाचिनम् ।
ततः कर्णं समुद्दिश्य त्वरमाणो धनञ्जयः ॥११६॥

नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः ।
स गरुत्मानिवाकाशे प्रार्थयन् भुजगोत्तमम् ॥११७॥

नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः ।
तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा ॥११८॥

धनञ्जयभयात्कर्णमुज्जिहीर्षन्महारथः ।
ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोर्जुनः ॥११९॥

शिलीमुखैर्महाराज मा गास्तिष्ठेति चाब्रवीत् ।
स तु मत्तगजाकीर्णमनीकं रथसङ्कुलम् ॥१२०॥

तूर्णमभ्याविशद्दौणिर्धनञ्जयशरार्दितः ।
ततः सुवर्णपृष्ठानां चापानां कूजतां रणे ॥१२१॥

शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली ।
धनञ्जयस्तथा यान्तं पृष्ठतो द्रौणिमभ्यगात् ॥१२२॥

नातिदीर्घमिवाध्वानं शरैः संत्रासयन्बलम् ।
विदार्य देहान्नाराचैर्नरवारणवाजिनाम् ॥१२३॥

कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः ।
तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम् ॥१२४॥

पाकशासनिरायत्तः पार्थः स निजघान ह ॥१२५॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भीमकर्णयुद्धे एकोनचत्वारिंशदधिकशततमोऽध्यायः॥१३९॥
चत्वारिंशदधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। अहन्यहनि मे दीप्तं यशः पतति सञ्जय ।
हता मे बहवो योधा मन्ये कालस्य पर्ययम् ॥१॥

अहन्यहनीति ॥१॥

धनञ्जयः सुसंक्रुद्धः प्रविष्टो मामकं बलम् ।
रक्षितं द्रौणिकर्णाभ्यामप्रवेश्यं सुरैरपि ॥२॥

ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः ।
सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च ॥३॥

तदाप्रभृति मां शोको दहत्यग्निरिवाशयम् ।
ग्रस्तानिव प्रपश्यामि भूमिपालान् ससैन्धवान् ॥४॥

अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः ।
चक्षुर्विषयमापन्नः कथं जीवितमाप्नुयात् ॥५॥

अनुमानाच्च पश्यामि नास्ति सञ्जय सैन्धवः ।
युद्धं तु तद्यथावृत्तं तन्ममाचक्ष्व तत्त्वतः ॥६॥

यच्च विक्षोभ्य महतीं सेनामालोड्य चासकृत् ।
एकः प्रविष्टः संक्रुद्धो नलिनीमिव कुञ्जरः ॥७॥

तस्य मे वृष्णिवीरस्य ब्रूहि युद्धं यथातथम् ।
धनञ्जयार्थे यत्तस्य कुशलो हासि सञ्जय ॥८॥

सञ्जय उवाच। तथा तु वैकर्तनपीडितं तं भीमं प्रयान्तं पुरुषप्रवीरम् ।
समीक्ष्य राजन्नरवीरमध्ये शिनिप्रवीरोऽनुययौ रथेन ॥९॥

नदन्यथा वज्रधरस्तपान्ते ज्वलन्यथा जलदान्ते च सूर्यः ।
निघ्नन्नमित्रान् धनुषा दृढेन स कम्पयंस्तव पुत्रस्य सेनाम् ॥१०॥

तं यान्तमश्वै रजतप्रकाशैरायोधने वीरतरं नदन्तम् ।
नाशक्नुवन्वारयितुं त्वदीयाः सर्वे रथा भारत माधवाग्र्यम् ॥११॥

अमर्षपूर्णस्त्वनिवृत्तयोधी शरासनी काञ्चनवर्मधारी ।
अलम्बुषः सात्यकिं माधवाग्र्यमवारयद्राजवरोऽभिपत्य ॥१२॥

तयोरभूद्भारत संप्रहारो यथाविधो नैव बभूव कश्चित् ।
प्रेक्षन्त एवाहवशोभिनौ तौ योधात्वदीयाश्च परे च सर्वे ॥१३॥

प्रेक्षन्तः प्रेक्षकाः बभूवेत्येतद्बहुवचनतया परिणतमनुषज्यते ॥१३॥

आविध्यदेनं दशभिः पृषत्कैरलम्बुषो राजवरः प्रसह्य ।
अनागतानेव तु तान् पृषत्कांश्चिच्छेद बाणैः शिनिपुङ्गवोऽपि ॥१४॥

प्रसह्य अनादृत्य ॥१४॥

पुनः स बाणैस्त्रिभिरग्निकल्पैराकर्णपूर्णैर्निशितैः सपुङ्खैः ।
विव्याध देहावरणं विदार्य ते सात्यकेराविविशुः शरीरम् ॥१५॥

तैः कायमस्यास्यग्न्यनिलप्रभावैर्विदार्य बाणैर्निशितैर्ज्वलद्भिः ।
आजघ्निवांस्तान् रजतप्रकाशानश्वांश्चतुर्भिश्चतुरः प्रसह्य ॥१६॥

तथा तु तेनाभिहतस्तरस्वी नप्ता शिनेश्चक्रधरप्रभावः ।
अलम्बुषस्योत्तमवेगवद्भिरश्वांश्चतुर्भिर्निजघान बाणैः ॥१७॥

अथास्य सूतस्य शिरो निकृत्य भल्लेन कालानलसन्निभेन ।
सकुण्डलं पूर्णशशिप्रकाशं भ्राजिष्णु वक्त्रं निचकर्त देहात् ॥१८॥

निहत्य तं पार्थिवपुत्रपौत्रं संख्ये यदूनामृषभः प्रमाथी ।
ततोऽन्वयादर्जुनमेव वीरः सैन्यानि राजंस्तव सन्निवार्य ॥१९॥

अन्वागतं वृष्णिवीरं समीक्ष्य तथाऽरिमध्ये परिवर्तमानम् ।
घ्नन्तं कुरूणामिषुभिर्बलानि पुनः पुनर्वायुमिवाभ्रपूगान् ॥२०॥

ततोऽवहन्सैन्धवाः साधु दान्ता गो-क्षीर-कुन्देन्दु-हिमप्रकाशाः ।
सुवर्णजालावतताः सदश्वा यतो यतः कामयते नृसिंहः ॥२१॥

अथात्मजास्ते सहिताभिपेतुरन्ये च योधास्त्वरितास्त्वदीयाः ।
कृत्वा मुखं भारत योधमुख्यं दुःशासनं त्वत्सुतमाजमीढ ॥२२॥

ते सर्वतः संपरिवार्य संख्ये शैनेयमाजघ्नुरनीकसाहाः ।
स चापि तान्प्रवरः सात्वतानां न्यवारयद्बाणजालेन वीरः ॥२३॥

निवार्य तांस्तूर्णममित्रघाती नप्ता शिनेः पत्रिभिरग्निकल्पैः ।
दुःशासनस्याभिजघान वाहानुद्यम्य बाणासनमाजमीढ ॥२४॥

ततोऽर्जुनो हर्षमवाप संख्ये कृष्णश्च दृष्ट्वा पुरुषप्रवीरम् ॥२५॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि अलम्बुषवधे चत्वारिंशदधिकशततमोऽध्यायः ॥१४०॥
एकचत्वारिंशदधिकशततमोऽध्यायः

सञ्जय उवाच। तमुद्यतं महाबाहुं दुःशासनरथं प्रति ।
त्वरितं त्वरणीयेषु धनञ्जयजयैषिणम्॥१॥

तमिति । त्वरणीयेषु कृत्येषु ॥१॥

त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः ।
सेनासमुद्रमाविष्टमनन्तं पर्यवारयन् ॥२॥

अथैनं रथवंशेन सर्वतः सन्निवार्य ते ।
अवाकिरञ्छरव्रातैः क्रुद्धाः परमधन्विनः॥३॥

अजयद्राजपुत्रांस्तान् भ्राजमानान्महारणे ।
एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः॥४॥

संप्राप्य भारतीमध्यं तलघोषसमाकुलम् ।
असि-शक्ति-गदापूर्णमप्लवं सलिलं यथा ॥५॥

तत्राद्भुतमपश्याम शैनेयचरितं रणे ।
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्यामि लाघवात्॥६॥

उदीचीं दक्षिणां प्राचीं प्रतीचीं विदिशस्तथा ।
नृत्यन्निवाचरच्छूरो यथा रथशतं तथा॥७॥

तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः ।
त्रिगर्ताः संन्यवर्तन्त सन्तप्ताः स्वजनं प्रति॥८॥

तमन्ये शूरसेनानां शूराः संख्ये न्यवारयन् ।
नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः॥९॥

तैर्व्यवाहरदार्यात्मा मुहूर्तादेव सात्यकिः ।
ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः॥१०॥

तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम् ।
अथ पार्थं महाबाहुर्धनञ्जयमुपासदत्॥११॥

तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान् ।
तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत्॥१२॥

तमायान्तमभिप्रेक्ष्य केशवः पार्थमब्रवीत् ।
असावायाति शैनेयस्तव पार्थ पदानुगः॥१३॥

एष शिष्यः सखा चैव तव सत्यपराक्रमः ।
सर्वान् योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः॥१४॥

एष कौरवयोधानां कृत्वा घोरमुपद्रवम् ।
तव प्राणैः प्रियतमः किरीटिन्नेति सात्यकिः॥१५॥

एष द्रोणं तथा भोजं कृतवर्माणमेव च ।
कदर्थीकृत्य विशिखैः फाल्गुनाभ्येति सात्यकिः॥१६॥

धर्मराजप्रियान्वेषी हत्वा योधान् वरान् वरान् ।
शूरश्चैव कृतास्त्रश्च फाल्गुनाभ्येति सात्यकिः॥१७॥

कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः ।
तव दर्शनमन्विच्छन् पाण्डवाभ्येति सात्यकिः॥१८॥

बहूनेकरथेनाजौ योधयित्वा महारथान् ।
आचार्यप्रमुखान् पार्थ प्रयात्येष स सात्यकिः॥१९॥

स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम् ।
प्रेषितो धर्मराजेन पार्थैषोऽभ्येति सात्यकिः ॥२०॥

यस्य नास्ति समो योधः कौरवेषु कथञ्चन ।
सोऽयमायाति कौन्तेय सात्यकिर्युद्धदुर्मदः॥२१॥

कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव ।
निहत्य बहुलाःसेनाः पार्थैषोभ्येति सात्यकिः॥२२॥

एष राजसहस्राणां वक्त्रैः पङ्कजसन्निभैः ।
आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः॥२३॥

एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे ।
निहत्य जलसन्धं च क्षिप्रमायाति सात्यकिः॥२४॥

रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम् ।
तृणवद्व्यस्य कौरव्यानेष ह्यायाति सात्यकिः॥२५॥

ततः प्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत् ।
न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः॥२६॥

न हि जानामि वृत्तान्तं धर्मराजस्य केशव ।
सात्वतेन विहीनः स यदि जीवति वा न वा॥२७॥

एतेन हि महाबाहो रक्षितव्यः स पार्थिवः ।
तमेष कथमुत्सृज्य मम कृष्ण पदानुगः॥२८॥

राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः ।
प्रत्युद्याति च शैनेयमेष भूरिश्रवा रणे ॥२९॥

सोऽयं गुरुतरो भारः सैन्धवार्थे समाहितः ।
ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः॥३०॥

जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः ।
श्रान्तश्चैष महाबाहुरल्पप्राणश्च सांप्रतम्॥३१॥

परिश्रान्ता हयाश्चास्य हययन्ता च माधव ।
न च भूरिश्रवा श्रान्तः ससहायश्च केशव॥३२॥

अपीदानीं भवेदस्य क्षेममस्मिन् समागमे ।
कश्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः॥३३॥

गोष्पदं प्राप्य सीदेत महौजाः शिनिपुङ्गवः ।
अपि कौरवमुख्येन कृतास्त्रेण महात्मना॥३४॥

समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत् ।
व्यतिक्रममिमं मन्ये धर्मराजस्य केशव॥३५॥

आचार्याद्भयमुत्सृज्य यः प्रैषयत सात्यकिम् ।
ग्रहणं धर्मराजस्य खगः श्येन इवामिषम्॥३६॥

नित्यमाशंसते द्रोणः कच्चित् स्यात्कुशली नृपः॥३७॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यक्यर्जुनदर्शने एकचत्वारिंशदधिकशततमोऽध्यायः॥१४१॥
द्विचत्वारिंशदधिकशततमोऽध्यायः

सञ्जय उवाच। तमापतन्तं संप्रेक्ष्य सात्वतं युद्धदुर्मदम् ।
क्रोधाद्भूरिश्रवा राजन् सहसा समुपाद्रवत्॥१॥

तमिति ॥१॥

तमब्रवीन्महाराज कौरव्यः शिनिपुङ्गवम् ।
अद्य प्राप्तोऽसि दिष्ट्या मे चक्षुर्विषयमित्युत॥२॥

उतात्यर्थम् ॥२॥

चिराभिलषितं काममहं प्राप्स्यामि संयुगे ।
न हि मे मोक्ष्यसे जीवन् यदि नोत्सृजसे रणम्॥३॥

अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम् ।
नंदयिष्यामि दाशार्ह कुरुराजं सुयोधनम्॥४॥

अद्य मद्बाणनिर्दग्धं पतितं धरणीतले ।
द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ॥५॥

अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया ।
सव्रीडो भविता सद्यो येनासीह प्रवेशितः॥६॥

अद्य मे विक्रमं पार्थो विशास्यति धनञ्जयः ।
त्वथि भूमौ विनिहते शयाने रुधिरोक्षिते॥७॥

चिराभिलषितो ह्येष त्वया सह समागमः ।
पुरा देवासुरे युद्धे शक्रस्य बलिना यथा ॥८॥

अद्य युद्धं महाघोरं तव दास्यामि सात्वत ।
ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम्॥९॥

अद्य संयमनीं याता मया त्वं निहतो रणे ।
यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन ह॥१०॥

अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव ।
हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम्॥११॥

अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः ।
तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे॥१२॥

मच्चक्षुर्विषयं प्राप्तो न त्वं माधव मोक्ष्यसे ।
सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा॥१३॥

युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव ।
कौरवेय न संत्रासो विद्यते मम संयुगे॥१४॥

नाहं भीषयितुं शक्यो वाङ्मात्रेण तु केवलम् ।
स मां निहन्यात्संग्रामे यो मां कुर्यान्निरायुधम्॥१५॥

समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे ।
किं वृथोक्तेन बहुना कर्मणा तत्समाचर ॥१६॥

शाश्वतीः समाः सर्वकालम् । तुरवधारणे नित्यमेव असौ हन्यात् । जय एव तस्येत्यर्थः ॥१६॥

शारदस्येव मेघस्य गर्जितं निष्फलं हि ते ।
श्रुत्वा त्वद्गर्जितं वीर हास्यं हि मम जायते॥१७॥

चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव ।
त्वरते मे मतिस्तात तव युद्धाभिकांक्षिणी॥१८॥

नाहत्वाऽहं निवर्तिष्ये त्वामद्य पुरुषाधम ।
अन्योन्यं तौ तथा वाग्भिस्तक्षन्तौ नरपुङ्गवौ॥१९॥

जिघांसू परमक्रुद्धावभिजघ्नतुराहवे ।
समेतौ तौ महेष्वासौ शुष्मिणौ स्पर्धिनौ रणे॥२०॥

द्विरदाविव संक्रुद्धौ वासितार्थे मदोत्कटौ ।
भूरिश्रवाः सात्यकिश्च ववर्षतुररिन्दमौ॥२१॥

शरवर्षाणि घोराणि मेघाविव परस्परम् ।
सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः॥२२॥

जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः ।
दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान्॥२३॥

मुमोच निशितान्बाणान् जिघांसुः शिनिपुङ्गवम् ।
तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशांपते॥२४॥

अप्राप्तानस्त्रमायाभिरग्रसत् सात्यकिः प्रभो ।
तौ पृथक् शस्त्रवर्षाभ्यामवर्षेतां परस्परम्॥२५॥

उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ ।
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ॥२६॥

रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम् ।
निर्भिन्दंतौ हि गात्राणि विक्षरन्तौ च शोणितम्॥२७॥

व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ ।
एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ॥२८॥

परस्परमयुध्येतां वारणाविव यूथपौ ।
तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ॥२९॥

यियासन्तौ परं स्थानमन्योन्यं सञ्जगर्जतुः ।
सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम्॥३०॥

हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम् ।
संप्रैक्षन्त जनास्तौ तु युध्यमानौ युधांपती॥३१॥

यूथपौ वासिताहेतोः प्रयुद्धाविव कुञ्जरौ ।
अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च॥३२॥

विरथावसियुद्धाय समेयातां महारणे ।
आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे ॥३३॥

विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः ।
चरन्तौ विविधान्मार्गान् मण्डलानि च भागशः॥३४॥

मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ ।
सखड्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ॥३५॥

भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतम् ।
संपातं समुदीर्णं च दर्शयन्तौ यशस्विनौ॥३६॥

असिभ्यां संप्रजह्राते परस्परमरिन्दमौ ।
उभौ छिद्रैषिणौ वीरावुभौ चित्रं ववल्गतुः॥३७॥

दर्शयन्तावुभौ शिक्षां लाघवं सौष्ठवं तथा ।
रणे रणकृतां श्रेष्ठावन्योन्यं पर्यकर्षताम्॥३८॥

मुहूर्तमिव राजेन्द्र समाहत्य परस्परम् ।
पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः॥३९॥

असिभ्यां चर्मणी चित्रे शतचन्द्रे नराधिप ।
निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः॥४०॥

व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ।
बाहुभिः समसज्जेतामायसैः परिघैरिव॥४१॥

तयो राजन् भुजाघातनिग्रहप्रग्रहास्तथा ।
शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः॥४२॥

भुजाघातो भुजस्फोटः, निग्रहो हस्तधारणं, प्रग्रहो गलहस्तकः ॥४२॥

तयोर्नृवरयो राजन्समरे युध्यमानयोः ।
भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव॥४३॥

द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ ।
भुजयोक्त्रावबन्धैश्च शिरोभ्यां चावघातनैः॥४४॥

भुजयोक्त्रावबन्धैर्बाहुपाशवेष्टनैः, अवघातनैस्ताडनेः ॥४४॥

पादावकर्षसन्धानैस्तोमरांकुशलासनैः ।
पादोदरविबन्धैश्च भूमावुद्भ्रमणैस्तथा॥४५॥

पादशब्दः प्रत्येकं सम्बध्यते । पादावकर्षैश्चरणावकर्पणैः, पादसंधानैश्चरणच्छंदितकैः, तोमरैरतिस्फोटनैः, अंकुशैरवलुञ्चनेः, पादोदरविबन्धैः पादाभ्यामुदरक्रोडीकरणैः, उद्भ्रमणैः परिवर्तनैः ॥४५॥

गतप्रत्यागताक्षेपैः पातनोत्थानसंप्लुतैः ।
युयुधाते महात्मानौ कुरुसात्वतपुङ्गवौ॥४६॥

गतैर्गमनैः, प्रत्यागतैरावर्तनैः, आक्षेपैरास्फालनैः, पातनैर्भूमिप्रापणैः, उत्थानैः उत्पतनैः, संप्लुतैः विस्फारानुबन्धैः ॥४६॥

द्वात्रिंशत्करणानि स्युर्यानि युद्धानि भारत ।
तान्यदर्शयतां तत्र युध्यमानौ महाबलौ॥४७॥

क्षीणायुधे सात्वते युध्यमाने ततोऽब्रवीदर्जुनं वासुदेवः ।
पश्यस्वैनं विरथं युध्यमानं रणे वरं सर्वधनुर्धराणाम्॥४८॥

प्रविष्टो भारतीं भित्वा तव पाण्डव पृष्ठतः ।
योधितश्च महावीर्यैः सर्वैर्भारत भारतैः॥४९॥

परिश्रान्तं युधां श्रेष्ठं संप्राप्तो भूरिदक्षिणः ।
युद्धाकांक्षी समायान्तं नैतत्सममिवार्जुन॥५०॥

सममनुरूपम् ॥५०॥

ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदः ।
उद्यम्याभ्यहनद्राजन्मत्तो मत्तमिव द्विपम्॥५१॥

अभ्यहनदास्फालितवान् ॥५१॥

रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः ।
केशवार्जुनयो राजन्समरे प्रेक्षमाणयोः॥५२॥

अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत ।
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम्॥५३॥

परिभ्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम् ।
तवान्तेवासिनं वीरं पालयार्जुन सात्यकिम्॥५४॥

न वशं यज्ञशीलस्य गच्छेदेष वरोऽर्जुन ।
त्वत्कृते पुरुषव्याघ्र तदाशु क्रियतां विभो॥५५॥

अथाब्रवीद्धृष्टमना वासुदेवं धनञ्जयः ।
पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुङ्गवम्॥५६॥

महाद्विपेनेव वने मत्तेन हरियूथपम् ।
सञ्जय उवाच। इत्येवं भाषमाणे तु पाण्डवे वै धनञ्जये ॥५७॥

हाहाकारो महानासीत्सैन्यानां भरतर्षभ ।
तदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि॥५८॥

स सिंह इव मातङ्गं विकर्षन् भूरिदक्षिणः ।
व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि॥५९॥

अथ कोशाद्विनिष्कृष्य खड्गं भूरिश्रवा रणे ।
मूर्धजेषु निजग्राह पदा चोरस्यताडयत्॥६०॥

ततोऽस्य छेत्तुमारब्धः शिरः कायात्सकुण्डलम् ।
तावत्क्षणात्सात्वतोऽपि शिरः संभ्रमयंस्त्वरन्॥६१॥

यथा चक्रं तु कौलालो दण्डविद्धं तु भारत ।
सहैव भूरिश्रवसो बाहुना केशधारिणा॥६२॥

कुलाल एव कौलालः ॥६२॥

तं तथा परिकृष्यन्तं दृष्ट्वा सात्वतमाहवे ।
वासुदेवस्ततो राजन्भूयोऽर्जुनमभाषत॥६३॥

पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् ।
तव शिष्यं महाबाहो धनुष्यनवरं त्वया॥६४॥

असत्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे ।
विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम्॥६५॥

एवमुक्तो महाबाहुर्वासुदेवेन पाण्डवः ।
मनसा पूजयामास भूरिश्रवसमाहवे॥६६॥

विकर्षन्सात्वतश्रेष्ठं क्रीडमान इवाहवे ।
संहर्षयति मां भूयः कुरूणां कीर्तिवर्धनः॥६७॥

प्रवरं वृष्णिवीराणां यन्न हन्याद्धि सात्यकिम् ।
महाद्विपमिवारण्ये मृगेन्द्र इव कर्षति॥६८॥

न हन्याद्धन्तुं न शक्नोति द्वितीय इव शब्द एवार्थे कर्षत्येवेत्यन्वयः ॥६८॥

एवं तु मनसा राजन्पार्थः संपूज्य कौरवम् ।
वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत॥६९॥

सैन्धवे सक्तदृष्टित्वान्नैनं पश्यामि माधवम् ।
एतत्त्वसुकरं कर्म यादवार्थे करोम्यहम् ॥७०॥

इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः ।
ततः क्षुरप्रं निशितं गाण्डीवे समयोजयत्॥७१॥

पार्थबाहुविसृष्टः स महोल्केव नभश्च्युता ।
सखड्गं यज्ञशीलस्य साङ्गदं बाहुमच्छिनत्॥७२॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भूरिश्रवोबाहुच्छेदे द्विचत्वारिंशदधिकशततमोऽध्यायः॥१४२॥
त्रिचत्वारिंशदधिकशततमोऽध्यायः

सञ्जय उवाच। स बाहुर्न्यपतद्भूमौ सखड्गः सशुभाङ्गदः ।
आदधज्जीवलोकस्य दुःखमद्भुतमुत्तमः॥१॥

स इति ॥१॥

प्रहरिष्यन्हृतो बाहुरदृश्येन किरीटिना ।
वेगेन न्यपतद्भूमौ पञ्चास्य इव पन्नगः॥२॥

स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः ।
उत्सृज्य सात्यकिं क्रोधाद्गर्हयामास पांडवम्॥३॥

भूरिश्रवा उवाच। नृशंसं बत कौन्तेय कर्मेदं कृतवानसि ।
अपश्यतो विषक्तस्य यन्मे बाहुमचिच्छिदः॥४॥

विषक्तस्य अन्यासक्तस्य ॥४॥

किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम् ।
किं कुर्वाणो मया संख्ये हतो भूरिश्रवा रणे॥५॥

इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना ।
अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा ॥६॥

ननु नामास्त्रधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः ।
सोऽयुध्यमानस्य कथं रणे प्रहृतवानसि॥७॥

न प्रमत्ताय भीताय विरथाय प्रयाचते ।
व्यसने वर्तमानाय प्रहरन्ति मनस्विनः॥८॥

इदं तु नीचाचरितमसत्पुरुषसेवितम् ।
कथमाचरितं पार्थ पापकर्म सुदुष्करम्॥९॥

आर्येण सुकरं त्वाहुरार्यकर्म धनञ्जय ।
अनार्यकर्म त्वार्येण सुदुष्करतमं भुवि॥१०॥

येषु येषु नरव्याघ्र यत्र यत्र च वर्तते ।
आशु तच्छीलतामेति तदिदं त्वयि दृश्यते॥११॥

येषु येषु सत्स्वसत्सु वा यत्र यत्र शुभेऽशुभे वा कर्मणि ॥११॥

कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः ।
क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः॥१२॥

इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया ।
वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते॥१३॥

को हि नाम प्रमत्ताय परेण सह युद्ध्यते ।
ईदृशं व्यसनं दद्याद्यो न कृष्णसखा भवेत्॥१४॥

व्रात्याः संक्लिष्टकर्माणः प्रकृत्यैव च गर्हिताः ।
वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः॥१५॥

एवमुक्तो रणे पार्थो भूरिश्रवसमब्रवीत् ।
अर्जुन उवाच। व्यक्तं हि जीर्यमाणोऽपि बुद्धिं जरयते नरः॥१६॥

अनर्थकमिदं सर्वं यत्त्वया व्याहतं प्रभो ।
जानन्नेव हृषीकेशं गर्हसे मां च पाण्डवम्॥१७॥

संग्रामाणां हि धर्मज्ञः सर्वशास्त्रार्थपारगः ।
न चाधर्ममहं कुर्यां जानंश्चैव हि मुह्यसे॥१८॥

युद्ध्यन्ति क्षत्रियाः शत्रून् स्वैः स्वैः परिवृता नराः ।
भ्रातृभिः पितृभिः पुत्रैस्तथा संबन्धिबान्धवैः॥१९॥

वयस्यैरथ मित्रैश्च ते च बाहुं समाश्रिताः ।
स कथं सात्यकिं शिष्यं सुखसम्बन्धिमेव च॥२०॥

अस्मदर्थे च युद्ध्यन्तं त्यक्त्वा प्राणान्सुदुस्त्यजान् ।
मम बाहुं रणे राजन् दक्षिणं युद्धदुर्मदम्॥२१॥

न चात्मा रक्षितव्यो वै राजन् रणगतेन हि ।
यो यस्य युज्यतेऽर्थेषु स वै रक्ष्यो नराधिप॥२२॥

तै रक्ष्यमाणैः स नृपो रक्षितव्यो महामृधे ।
यद्यहं सात्यकिं पश्ये वध्यमानं महारणे॥२३॥

ततस्तस्य वियोगेन पापं मेऽनर्थतो भवेत् ।
रक्षितश्च मया यस्मात्तस्मात्क्रुध्यसि किं मयि॥२४॥

यच्च मे गर्हसे राजन्नन्येन सह सङ्गतम् ।
अहं त्वया विनिकृतस्तत्र मे बुद्धिविभ्रमः॥२५॥

कवचं धुन्वतस्तुभ्यं रथं चारोहतः स्वयम् ।
धनुर्ज्यां कर्षतश्चैव युध्यतः सह शत्रुभिः॥२६॥

एवं रथगजाकीर्णे हयपत्तिसमाकुले ।
सिंहनादोद्धतरवे गंभीरे सैन्यसागरे ॥२७॥

स्वैः परैश्च समेतेभ्यः सात्वतेन च सङ्गमे ।
एकस्यैकेन हि कथं संग्रामः संभविष्यति॥२८॥

बहुभिः सह संगम्य निर्जित्य च महारथान् ।
श्रान्तश्च श्रान्तवाहश्च विमनाः शस्त्रपीडितः॥२९॥

ईदृशं सात्यकिं संख्ये निर्जित्य च महारथम् ।
अधिकत्वं विजानीषे स्ववीर्यवशमागतम्॥३०॥

यदिच्छसि शिरश्चास्य असिना हन्तुमाहवे ।
तथा कृच्छ्रगतं चैव सात्यकिं कः क्षमिष्यति॥३१॥

त्वं वै विगर्हयात्मानमात्मानं यो न रक्षसि ।
कथं करिष्यसे वीर यो वा त्वां संश्रयेज्जनः॥३२॥

सञ्जय उवाच। एवमुक्तो महाबाहुर्यूपकेतुर्महायशाः ।
युयुधानं समुत्सृज्य रणे प्रायमुपाविशत्॥३३॥

प्रायम् आमरणानशनम्, उपाविशत् प्रारब्धवान् ॥३३॥

शरानास्तीर्यं सव्येन पाणिना पुण्यलक्षणः ।
यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत्॥३४॥

प्राणानसून् प्राणेषु वायुषु अजुहोदाहितवान् ॥३४॥

सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः ।
ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः॥३५॥

प्रसन्नमकल्मषम् ॥३५॥

ततः स सर्वसेनायां जनः कृष्णधनञ्जयौ ।
गर्हयामास तं चापि शशंस पुरुषर्षभम्॥३६॥

निन्द्यमानौ तथा कृष्णौ नोचतुः किंचिदप्रियम् ।
ततः प्रशस्यमानश्च नाहृष्यद्यूपकेतनः॥३७॥

तांस्तथा वादिनो राजन्पुत्रांस्तव धनञ्जयः ।
अमृष्यमाणो मनसा तेषां तस्य च भाषितम्॥३८॥

असंक्रुद्धमना वाचः स्मारयन्निव भारत ।
उवाच पाण्डुतनयः साक्षेपमिव फाल्गुनः॥३९॥

मम सर्वेऽपि राजानो जानन्त्येव महाव्रतम् ।
न शक्यो मामको हंतुं यो मे स्याद्बाणगोचरे॥४०॥

यूपकेतो निरीक्ष्यैतन्न मामहसि गर्हितुम् ।
न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम् ॥४१॥

आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः ।
यदहं बाहुमच्छैत्सं न स धर्मो विगर्हितः॥४२॥

न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः ।
अभिमन्योर्वधं तात धार्मिकः को न पूजयेत्॥४३॥

एवमुक्तः स पार्थेन शिरसा भूमिमस्पृशत् ।
पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम्॥४४॥

दक्षिणं कृत्तमात्मनः पाणिम् अस्यार्जुनस्य समीपे प्राहिणोत् प्रहितवान् ॥४४॥

एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः ।
यूपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः॥४५॥

अर्जुन उवाच। या प्रीतिर्धर्मराजे मे भीमे च बलिनां वरे ।
नकुले सहदेवे च सा मे त्वयि शलाग्रज॥४६॥

मया त्वं समनुज्ञातः कृष्णेन च महात्मना ।
गच्छ पुण्यकृतांल्लोकाञ्छिबिरौशीनरो यथा॥४७॥

वासुदेव उवाच। ये लोका मम विमलाः सकृद्विभाता ब्रह्माद्यैः सुरवृषभैरपीष्यमाणाः ।
तान् क्षिप्रं व्रज सतताग्निहोत्रयाजिन् मत्तुल्यो भव गरुडोत्तमाङ्गयानः॥४८॥

सकृद्विभाताः सहप्रकाशाः गरुडस्योत्तमाङ्गेन पृष्ठेन यानं यस्य ॥४८॥

सञ्जय उवाच। उत्थितः स तु शैनेयो विमुक्तः सौमदत्तिना ।
खड्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः॥४९॥

निहतं पाण्डुपुत्रेण प्रसक्तं भूरिदक्षिणम् ।
इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम्॥५०॥

प्रसक्तमन्यासक्तम् ॥५०॥

निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम् ।
क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः॥५१॥

वार्यमाणः स कृष्णेन पार्थेन च महात्मना ।
भीमेन चक्ररक्षाभ्यामश्वत्थाम्ना कृपेण च॥५२॥

कर्णेन वृषसेनेन सैन्धवेन तथैव च ।
विक्रोशतां च सैन्यानामवधीत्तं धृतव्रतम्॥५३॥

प्रायोपविष्टाय रणे पार्थेन छिन्नबाहवे ।
सात्यकिः कौरवेयाय खड्गेनापाहरच्छिरः॥५४॥

नाभ्यनन्दन्त सैन्यानि सात्यकिं तेन कर्मणा ।
अर्जुनेन हतं पूर्वं यजघान कुरूद्वहम्॥५५॥

सहस्राक्षसमं चैव सिद्धचारणमानवाः ।
भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम्॥५६॥

अपूजयन्त तं देवा विस्मितास्तेऽस्य कर्मभिः ।
पक्षवादांश्च सुबहून्प्रावदंस्तव सैनिकाः॥५७॥

न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा ।
तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखतरो नृणाम्॥५८॥

हन्तव्यश्चैव वीरेण नात्र कार्या विचारणा ।
विहितो हास्य धात्रैव मृत्युः सात्यकिराहवे॥५९॥

सात्यकिरुवाच ।
न हन्तव्यो न हन्तव्य इति यन्मां प्रभाषत ।
धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः॥६०॥

यदा बालः सुमद्रायाः सुतः शस्त्रविना कृतः ।
युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः॥६१॥

मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिश्चिदेव हि ।
यो मां निष्पिष्य संग्रामे जीवन्हन्यात्पदा रुषा॥६२॥

क्षेपे निन्दायां जीवन्निति द्वितीयार्थे प्रथमा ॥६२॥

स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः ।
चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः॥६३॥

मन्यध्वं मृत इत्येवमेतद्वो बुद्धिलाघवम् ।
युक्तो हास्य प्रतीघातः कृतो मे कुरुपुङ्गवाः॥६४॥

यत्तु पार्थेन मां दृष्ट्वा प्रतिज्ञामभिरक्षता ।
सखड्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः॥६५॥

भवितव्यं हि यद्भावि देवं चेष्टयतीव च ।
सोऽयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम्॥६६॥

इवेत्येवार्थे दैवमेव चेष्टयतीत्यन्वयः ॥६६॥

अपि चायं पुरा गीतः श्लोको वाल्मीकिना भुवि ।
न हन्तव्याः स्त्रिय इति यद्ब्रवीषि प्लवङ्गम॥६७॥

सर्वकालं मनुष्येण व्यवसायवता सदा ।
पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् ॥६८॥

सञ्जय उवाच। एवमुक्ते महाराज सर्वे कौरवपुङ्गवाः ।
न स्म किञ्चिदभाषन्त मनसा समपूजयन्॥६९॥

मन्त्राभिपूतस्य महाध्वरेषु यशस्विनो भूरिसहस्त्रदस्य च ।
मुनेरिवारण्यगतस्य तस्य न तत्र कश्चिद्वधमभ्यनन्दत्॥७०॥

सुनीलकेशं वरदस्य तस्य शूरस्य पारावतलोहिताक्षम् ।
अश्वस्य मेध्यस्य शिरो निकृत्तं न्यस्तं हविर्धानमिवान्तरेण॥७१॥

वरदस्यार्थितार्थप्रदातुः हविर्धानमन्तरेण हविर्गृहस्य मध्ये ॥७१॥

स तेजसा शस्त्रकृतेन पूतो महाहवे देहवरं विसृज्य ।
आक्रामदूर्ध्वं वरदो वरार्हो व्यावृत्त्य धर्मेण परेण रोदसी॥७२॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि भूरिश्रवोवधे त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥१४३॥
चतुश्चत्वारिंशदधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। अजितो द्रोणराधेयविकर्णकृतवर्मभिः ।
तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे॥१॥

अजित इति ॥१॥

स कथं कौरवेयेण समरेष्वनिवारितः ।
निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः॥२॥

सञ्जय उवाच। शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा ।
यथा च भूरिश्रवसो यत्र ते संशयो नृप॥३॥

अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः ।
बुधस्यैको महेन्द्राभः पुत्र आसीत्पुरूरवाः॥४॥

पुरूरवस आयुस्तु आयुषो नहुषः सुतः ।
नहुषस्य ययातिस्तु राजा देवर्षिसंमतः॥५॥

ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः ।
यदोरभूदन्ववाये देवमीढ इति स्मृतः॥६॥

यादवस्तस्य तु सुतः शूरस्त्रैलोक्यसंमतः ।
शूरस्य शौरिर्नृवरो वसुदेवो महायशाः॥७॥

धनुष्यनवरः शूरः कार्तवीर्यसमो युधि ।
तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृप॥८॥

एतस्मिन्नेव काले तु देवकस्य महात्मनः ।
दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे॥९॥

तत्र वै देवकीं देवीं वसुदेवार्थमाशु वै ।
निर्जित्य पार्थिवान्सर्वान् रथमारोपयच्छिनिः॥१०॥

तां दृष्ट्वा देवकीं शूरो रथस्थां पुरुषर्षभ ।
नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप॥११॥

तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम् ।
बाहुयुद्धं सुबलिनोः प्रसक्तं पुरुषर्षभः॥१२॥

शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः ।
असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः॥१३॥

मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः ।
कृपया च पुनस्तेन स जीवेति विसर्जितः॥१४॥

तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष ।
प्रासादयन्महादेवममर्षवशमास्थितः॥१५॥

तस्य तुष्टो महादेवो वराणां वरदः प्रभुः ।
वरेण च्छन्दयामास स तु वव्रे वरं नृपः॥१६॥

पुत्रमिच्छामि भगवन्यो निपात्य शिनेः सुतम् ।
मध्ये राजसहस्राणां पदा हन्याच्च संयुगे॥१७॥

तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव ।
एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत॥१८॥

स तेन वरदानेन लब्धवान्भूरिदक्षिणम् ।
अपातयच्च समरे सौमदत्तिः शिनेः सुतम्॥१९॥

पश्यतां सर्वसैन्यानां पदा चैनमताडयत् ।
एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि॥२०॥

न हि शक्यो रणे जेतुं सात्वतो मनुजर्षभैः ।
लब्धलक्ष्याश्च संग्रामे बहुशश्चित्रयोधिनः॥२१॥

देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः ।
स्ववीर्यविजये युक्ता नैते परपरिग्रहाः॥२२॥

परपरिग्रहाः पराधीनाः ॥२२॥

न तुल्यं वृष्णिभिरिह दृश्यते किञ्चन प्रभो ।
भूतं भव्यं भविष्यच्च बलेन भरतर्षभ॥२३॥

न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः ।
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः॥२४॥

जेतारो वृष्णिवीराणां किं पुनर्मानवा रणे ।
ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिस्वे चाप्यहिंसकाः॥२५॥

एतेषां रक्षितारश्च ये स्युः कस्यांचिदापदि ।
अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः॥२६॥

समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च ।
नित्यं देवपरा दान्तास्त्रातारश्चाविकत्थनाः॥२७॥

तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते ।
अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम्॥२८॥

चक्रं प्रतापः ॥२८॥

न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप ।
एतत्ते सर्वमाख्यातं यत्र ते संशयः प्रभो ।
कुरुराज नरश्रेष्ठ तव व्यपनयो महान्॥२९॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि सात्यकिप्रशंसायां चतुश्चत्वारिंशदधिकशततमोऽध्यायः॥१४४॥
पञ्चचत्वारिंशदधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। तदवस्थे हते तस्मिन् भूरिश्रवसि कौरवे ।
यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व सञ्जय॥१॥

तदवस्थ इति ॥१॥

सञ्जय उवाच। भूरिश्रवसि संक्रान्ते परलोकाय भारत ।
वासुदेवं महाबाहुरर्जुनः समचूचुदत्॥२॥

चोदयाश्वान् भृशं कृष्ण यतो राजा जयद्रथः ।
श्रूयते पुण्डरीकाक्ष त्रिषु धर्मेषु वर्तते॥३॥

हे पुण्डरीकाक्ष स जयद्रथस्त्रिषु धर्मेषु वर्तते इति श्रयते के पुनस्ते त्रयो धर्माः । अत्रोच्यते - यदि युध्यमानो हन्यते तदा तूर्णं स्वर्गप्राप्तिरेव तस्य धर्मः । अथ पलायमानो हन्यते तदा नरकप्राप्तिरेव तस्य धर्मः । अथ मद्भयात्स्वदेशं गच्छति तदा यशःशरीरनाश एव तस्य धर्मः । यावदसौ युद्धाभिमुखः प्रथमधर्मे तिष्ठति तावदेव हन्तुमुचितः अतः । शीघ्रमश्वांश्चोदयेति ॥३॥

प्रतिज्ञां सफलां चापि कर्तुमर्हसि मेऽनघ ।
अस्तमेति महाबाहो त्वरमाणो दिवाकरः॥४॥

एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया ।
कार्यं संरक्ष्यते चैष कुरुसेना महारथैः॥५॥

यथा नाभ्येति सूर्योऽस्तं यथा सत्यं भवेद्वचः ।
चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम्॥६॥

ततः कृष्णो महाबाहू रजतप्रतिमान् हयान् ।
हयज्ञश्चोदयामास जयद्रथवधं प्रति॥७॥

हयज्ञः हयहृदयज्ञः ॥७॥

तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः ।
त्वरमाणा महाराज सेनामुख्याः समाद्रवन्॥८॥

आशुगैः मारुतैः ॥८॥

दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् ।
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः॥९॥

समासाद्य च बीभत्सुः सैन्धवं समुपस्थितम् ।
नेत्राभ्यां क्रोधदीप्ताभ्यां संप्रेक्षन्निर्दहन्निव॥१०॥

ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत् ।
अर्जुनं प्रेक्ष्य संयातं जयद्रथवधं प्रति॥११॥

अयं स वैकर्तन युद्धकालो विदर्शयस्वात्मबलं महात्मन् ।
यथा न वध्येत रणेऽर्जुनेन जयद्रथः कर्ण तथा कुरुष्व॥१२॥

अल्पावशेषो दिवसो नृवीर विघातयस्वाद्य रिपुं शरौघैः ।
दिनक्षयं प्राप्य नरप्रवीर ध्रुवो हि नः कर्णजयो भविष्यति॥१३॥

सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमनं प्रति ।
मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम्॥१४॥

अनर्जुनायां च भुवि मुहूर्तमपि मानद ।
जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः॥१५॥

विनष्टैः पाण्डवेयैश्च सशैलवनकाननाम् ।
वसुन्धरामिमां कर्ण भोक्ष्यामो हतकण्टकाम्॥१६॥

दैवेनोपहतः पार्थो विपरीतश्च मानद ।
कार्याकार्यमजानानः प्रतिज्ञां कृतवान् रणे॥१७॥

उपहतो मोहितः विपरीतोऽन्यथाभूतप्रकृतिः ॥१७॥

नूनमात्मविनाशाय पाण्डवेन किरीटिना ।
प्रतिज्ञेयं कृता कर्ण जयद्रथवधं प्रति॥१८॥

कथं जीवति दुर्धर्षे त्वयि राधेय फाल्गुनः ।
अनस्तंगत आदित्ये हन्यात्सैन्धवकं नृपम्॥१९॥

रक्षितं मद्रराजेन कृपेण च महात्मना ।
जयद्रथं रणमुखे कथं हन्याद्धनञ्जयः॥२०॥

द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च ।
कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः॥२१॥

युध्यन्ते बहवः शूरा लम्बते च दिवाकरः ।
शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद॥२२॥

स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः ।
द्रौणिना त्वं हि सहितो मद्रेशेन कृपेण च॥२३॥

युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे ।
एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष॥२४॥

दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम् ।
दृढलक्ष्येण वीरेण भीमसेनेन धन्विना॥२५॥

दृढलक्ष्येण दृढप्रहारेण ॥२५॥

भृशं भिन्नतनुः संख्ये शरजालैरनेकशः ।
स्थातव्यमिति तिष्ठामि रणे संप्रति मानद॥२६॥

नाङ्गमिंगति किञ्चिन्मे सन्तप्तस्य महेषुभिः ।
योत्स्यामि तु यथाशक्त्या त्वदर्थं जीवितं मम॥२७॥

यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम् ।
न हि मे युध्यमानस्य सायकानस्यतः शितान्॥२८॥

सैन्धवं प्राप्स्यते वीरः सव्यसाची धनञ्जयः ।
यत्तु भक्तिमता कार्यं सततं हितकाङ्क्षिणा॥२९॥

तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः ।
सैन्धवार्थे परं यत्नं करिष्याम्यद्य संयुगे॥३०॥

प्रतिष्ठितो अधीनः ॥३०॥

त्वत्प्रियार्थं महाराज जयो दैवे प्रतिष्ठितः ।
अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः॥३१॥

त्वदर्थे पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः ।
अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः॥३२॥

पश्यन्तु सर्वसैन्यानि दारुणं लोमहर्षणम् ।
कर्णकौरवयोरेवं रणे संभाषमाणयोः॥३३॥

अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम् ।
चिच्छेद निशितैर्बाणैः शूराणामनिवर्तिनाम्॥३४॥

भुजान्परिघसंकाशान्हस्तिहस्तोपमान् रणे ।
शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः॥३५॥

हस्तिहस्तान्हयग्रीवान् रथाक्षांश्च समन्ततः ।
शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान्॥३६॥

क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च ।
हयान्वारणमुख्यांश्च प्रापतन्त समन्ततः॥३७॥

ध्वजाश्छत्राणि चापानि चामराणि शिरांसि च ।
कक्षमग्निरिवोद्भूतः प्रदहंस्तव वाहिनीम्॥३८॥

अचिरेण महीं पार्थश्चकार रुधिरोत्तराम् ।
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली॥३९॥

आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ।
बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः॥४०॥

प्रबभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः ।
तं तथाऽवस्थितं दृष्ट्वा त्वदीया वीर्यसंपदा॥४१॥

नामृष्यन्त महेष्वासाः पाण्डवं पुरुषर्षभाः ।
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट्॥४२॥

अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ।
सन्नद्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम्॥४३॥

नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिःस्वनैः ।
संग्रामकोविदं पार्थं सर्वे युद्धविशारदाः॥४४॥

अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम् ।
सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽच्युतार्जुनौ॥४५॥

सूर्यास्तमनमिच्छन्तो लोहितायति भास्करे ।
ते भुजैर्भोगिभोगाभैर्धनूंष्यानम्य सायकान्॥४६॥

मुमुचुः सूर्यरश्म्याभाञ्छतशः फाल्गुनं प्रति ।
ततस्तानस्यमानांश्च किरीटी युद्धदुर्मदः॥४७॥

द्विधा त्रिधाऽष्टधैकैकं छित्त्वा विव्याध तान् रथान् ।
सिंहलाङ्गूलकेतुस्तु दर्शयन्वीर्यमात्मनः॥४८॥

शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयत् ।
स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः॥४९॥

अतिष्ठद्रथमार्गेषु सैन्धवं प्रतिपालयन् ।
अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः॥५०॥

महता रथवंशेन सर्वतः प्रत्यवारयन् ।
विस्फारयंतश्चापानि विसृजन्तश्च सायकान्॥५१॥

सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते ।
ततः पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत॥५२॥

इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च ।
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च॥५३॥

एकैकं दशभिर्बाणैः सर्वानेव समार्पयत् ।
तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः॥५४॥

दुर्योधनस्तु विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः ।
त एनमभिगर्जन्तो विध्यन्तश्च पुनः पुनः॥५५॥

विधुन्वतश्च चापानि सर्वतः प्रत्यवारयन् ।
श्लिष्टं च सर्वतश्चक्रू रथमण्डलमाशु ते॥५६॥

सूर्यास्तमनमिच्छन्तस्त्वरमाणा महारथाः ।
त एनमभिनर्दन्तो विधुन्वाना धनूंषि च॥५७॥

सिषिचुर्मार्गणैस्तीक्ष्णैर्गिरिं मेघा इवांबुभिः ।
ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन्॥५८॥

धनञ्जयस्य गात्रे तु शूराः परिघबाहवः ।
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली॥५९॥

आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ।
तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः॥६०॥

भिषतो भीमसेनस्य सात्वतस्य च भारत ।
तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्रणाजिरे ॥६१॥

सूतपुत्रं महाबाहुः सर्वसैन्यस्य पश्यतः ।
सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष॥६२॥

भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः ।
तान्कर्णः प्रतिविव्याध पष्ट्या पष्ट्या महारथः॥६३॥

तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह ।
तत्राद्भुतमपश्याम सूतपुत्रस्य मारिष॥६४॥

यदेकः समरे क्रुद्धस्त्रीन् रथान्पर्यवारयत् ।
फाल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे॥६५॥

सायकानां शतेनैव सर्वमर्मस्वताडयत् ।
रुधिरोक्षितसर्वांगः सूतपुत्रः प्रतापवान्॥६६॥

शरैः पञ्चाशता वीरः फाल्गुनं प्रत्यविध्यत ।
तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः॥६७॥

ततः पार्थो धनुश्छित्त्वा विव्याधैनं स्तनांतरे ।
सायकैर्नवभिर्वीरस्त्वरमाणो धनञ्जयः॥६८॥

अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान् ।
सायकैरष्टसाहस्रैश्छादयामास पाण्डवम्॥६९॥

तां बाणवृष्टिमतुलां कर्णचापसमुत्थिताम् ।
व्यधमत्सायकैः पार्थः शलभानिव मारुतः॥७०॥

छादयामास च तदा सायकैरर्जुनो रणे ।
पश्यतां सर्वयोधानां दर्शयन् पाणिलाघवम्॥७१॥

वधार्थं चास्य समरे सायकं सूर्यवर्चसम् ।
चिक्षेप त्वरया युक्तस्त्वराकाले धनञ्जयः॥७२॥

तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम् ।
अर्धचन्द्रेण तीक्ष्णेन स च्छिन्नः प्रापतद्भुवि॥७३॥

कर्णोऽपि द्विषतां हन्ता छादयामास फाल्गुनम् ।
सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया॥७४॥

तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ ।
सायकैस्तु प्रतिच्छन्नं चक्रतुः खमजिह्मगैः॥७५॥

अदृश्यौ च शरौघैस्तौ निघ्नन्तावितरेतरम् ।
कर्ण पार्थोऽस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फाल्गुन॥७६॥

इत्येवं तर्जयन्तौ तौ वाक्शल्यैस्तुदतां तदा ।
युध्यतां समरे वीरौ चित्रं लघु च सुष्ठु च ॥७७॥

युध्यतां प्रेक्षणीयावित्यन्वयः ॥७७॥

प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे ।
प्रशस्यमानौ समरे सिद्ध-चारण-पन्नगैः॥७८॥

अयुध्येतां महाराज परस्परवधैषिणौ ।
ततो दुर्योधनो राजंस्तावकानभ्यभाषत॥७९॥

यत्नाद्रक्षत राधेयं नाहत्वा समरेऽर्जुनम् ।
निवर्तिष्यति राधेय इति मामुक्तवान् वृषः॥८०॥

एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम् ।
आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान्॥८१॥

अनयत्प्रेतलोकाय चतुर्भिः श्वेतवाहनः ।
सारथिं चास्य भल्लेन रथनीडादपातयत्॥८२॥

छादयामास स शरैस्तव पुत्रस्य पश्यतः ।
संछाद्यमानः समरे हताश्वो हतसारथिः॥८३॥

मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत ।
तं तथा विरथं दृष्ट्वा रथमारोप्य तं तदा॥८४॥

अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत् ।
मद्रराजश्च कौन्तेयमविध्यत्त्रिंशता शरैः॥८५॥

शारद्वतस्तु विंशत्या वासुदेवं समार्पयत् ।
धनञ्जयं द्वादशभिराजघान शिलीमुखैः॥८६॥

चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः ।
पृथक् पृथङ्महाराज विव्यधुः कृष्णपाण्डवौ॥८७॥

तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनञ्जयः ।
द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च॥८८॥

सैन्धवं दशभिर्बाणैर्वृषसेनं त्रिभिः शरैः ।
शारद्वतं च विंशत्या विद्ध्वा पार्थो ननाद ह॥८९॥

ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः ।
सहितास्तावकास्तूर्णमभिपेतुर्धनञ्जयम्॥९०॥

अथार्जुनः सर्वतो वारुणास्त्रं प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान् ।
तं प्रत्युदीयुः कुरवः पाण्डुपुत्रं रथैर्महार्हैः शरवर्षाण्यवर्षन्॥९१॥

ततस्तु तस्मिंस्तुमुले समुत्थिते सुदारुणे भारत मोहनीये ।
नोऽमुह्यत प्राप्य स राजपुत्रः किरीटमाली व्यसृजच्छरौघान्॥९२॥

प्राप्य युद्धमिति शेषः ॥९२॥

राज्यप्रेप्सुः सव्यसाची कुरूणां स्मरन्क्लेशान् द्वादशवर्षवृत्तान् ।
गाण्डीवमुक्तैरिषुभिर्महात्मा सर्वा दिशो व्यावृणोदप्रमेयः॥९३॥

प्रदीप्तोल्कमभवच्चान्तरिक्षं मृतेषु देहेष्वपतन्वयांसि ।
यत्पिङ्गलज्येन किरीटमाली क्रुद्धो रिपूनाजगवेन हन्ति॥९४॥

ततः किरीटी महता महायशाः शरासनेनास्य शराननीकजित् ।
हयप्रवेकोत्तमनागघूर्णितान् कुरुप्रवीरानिषुभिर्व्यपातयत्॥९५॥

आस्य समन्ततः क्षिप्त्वा ॥९५॥

गदाश्च गुर्वीः परिघानयस्मयानसींश्च शक्तीश्च रणे नराधिपाः ।
महान्ति शस्त्राणि च भीमदर्शनाः प्रगृह्य पार्थं सहसाऽभिदुद्रुवुः॥९६॥

ततो युगान्ताभ्रसमस्वनं महन्महेन्द्रचापप्रतिमं च गाण्डिवम् ।
चकर्ष दोर्भ्यां विहसन्भृशं ययौ दहंस्त्वदीयान् यमराष्ट्रवर्धनः॥९७॥

स तानुदीर्णान्सरथान्सवारणान्पदातिसङ्घांश्च महाधनुर्धरः ।
विपन्नसर्वायुधजीवितान् रणे चकार वीरो यमराष्ट्रवर्धनान्॥९८॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि संकुलयुद्धे पञ्चचत्वारिंशदधिकशततमोऽध्यायः॥१४५॥
षडधिकशततमोऽध्यायः
सञ्जय उवाच।

शक्राशनिस्फोटसमं सुघोरं विकृष्यमाणस्य धनञ्जयेन ॥१॥

श्रुत्वेति ॥१॥

त्रासोद्विग्नं तथोद्भ्रान्तं त्वदीयं तद्बलं नृप ।
युगान्तवातसंक्षुब्धं चलद्वीचितरङ्गितम् ॥२॥

प्रलीनमीनमकरं सागरांभ इवाभवत् ।
स रणे व्यचरत्पार्थः प्रेक्षमाणो धनञ्जयः ॥३॥

युगपद्दिक्षु सर्वासु सर्वाण्यस्त्राणि दर्शयन् ।
आददानं महाराज सन्दधानं च पाण्डवम् ॥४॥

उत्कर्षन्तं सृजन्तं च न स्म पश्याम लाघवात् ।
ततः क्रुद्धो महाबाहुरैन्द्रमस्त्रं दुरासदम् ॥५॥

प्रादुश्चक्रे महाराज त्रासयन्सर्वभारतान् ।
ततः शराः प्रादुरासन्दिव्यास्त्रप्रतिमन्त्रिताः॥६॥

प्रदीप्ताश्च शिखिमुखाः शतशोऽथ सहस्रशः ।
आकर्णपूर्णनिर्मुक्तैरग्न्यर्कांशुनिभैः शरैः ॥७॥

नभोऽभवत्तद्दुष्प्रेक्ष्यमुल्काभिरिव संवृतम् ।
ततः शस्त्रान्धकारं तत्कौरवैः समुदीरितम् ॥८॥

अशक्यं मनसाऽप्यन्यैः पाण्डवः संभ्रमन्निव ।
नाशयामास विक्रम्य शरैर्दिव्यास्त्रमन्त्रितैः ॥९॥

नैशं तमोंऽशुभिः क्षिप्रं दिनादाविव भास्करः ।
ततस्तु तावकं सैन्यं दीप्तैः शरगभस्तिभिः ॥१०॥

आक्षिपत्पल्वलांबूनि निदाघार्क इव प्रभुः ।
ततो दिव्यास्त्रविदुषा प्रहिताः सायकांशवः ॥११॥

समाप्लवन् द्विषत्सैन्यं लोकं भानोरिवांशवः ।
अथापरे समुत्सृष्टा विशिखास्तिग्मतेजसः ॥१२॥

हृदयान्याशु वीराणां विविशुः प्रियबन्धुवत् ।
य एनमीयुः समरे त्वद्योधाः शूरमानिनः ॥१३॥

शलभा इव ते दीप्तमग्निं प्राप्य ययुः क्षयम् ।
एवं स मृद्नन् शत्रूणां जीवितानि यशांसि च ॥१४॥

पार्थश्चचार संग्रामे मृत्युर्विग्रहवानिव ।
सकिरीटानि वक्त्राणि सांगदान् विपुलान् भुजान् ॥१५॥

सकुण्डलयुगान्कर्णान्केषांचिदहरच्छरैः ।
सतोमरान् गजस्थानां सप्रासान्हयसादिनाम् ॥१६॥

सचर्मणः पदातीनां रथीनां च सधन्वनः ।
सप्रतोदान्नियन्तॄणां बाहूंश्चिच्छेद पाण्डवः ॥१७॥

प्रदीप्तोग्रशरार्चिष्मान्बभौ तत्र धनञ्जयः ।
सविस्फुलिङ्गाग्रशिखो ज्वलन्निव हुताशनः ॥१८॥

तं देवराजप्रतिमं सर्वशस्त्रभृतां वरम् ।
युगपद्दिक्षु सर्वासु रथस्थं पुरुषर्षभम् ॥१९॥

निक्षिपन्तं महास्त्राणि प्रेक्षणीयं धनञ्जयम् ।
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनादिनम् ॥२०॥

निरीक्षितुं न शेकुस्ते यत्नवन्तोऽपि पार्थिवाः ।
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे ॥२१॥

दीप्तोग्रसंभृतशरः किरीटी विरराज ह ।
वर्षास्विवोदीर्णजलः सेन्द्रधन्वांबुदो महान् ॥२२॥

महास्त्रसंप्लवे तस्मिञ्जिष्णुना संप्रवर्तिते ।
सुदुस्तरे महाघोरे ममज्जुर्योधपुङ्गवाः ॥२३॥

उत्कृत्तवदनैर्देहैः शरीरैः कृत्तबाहुभिः ।
भुजैश्च पाणिनिर्मुकैः पाणिभिर्व्यंगुलीकृतैः ॥२४॥

कृत्ताग्रहस्तैः करिभिः कृत्तदन्तैर्मदोत्कटैः ।
हयैश्च विधुरग्रीवै रथैश्च शकलीकृतैः ॥२५॥

निकृत्तान्त्रैः कृत्तपादैस्तथान्यैः कृत्तसन्धिभिः ।
निश्चेष्टैर्विस्फुरद्भिश्च शतशोऽथ सहस्रशः ॥२६॥

मृत्योराघातललितं तत्पार्थायोधनं महत् ।
अपश्याम महीपाल भीरूणां भयवर्धनम् ॥२७॥

आक्रीडमिव रुद्रस्य पुराऽभ्यर्दयतः पशून् ।
गजानां क्षुरनिर्मुक्तैः करैः सभुजगेव भूः ॥२८॥

क्वचिद्बभौ स्रग्विणीव वक्त्रपद्मैः समाचिता ।
विचित्रोष्णीषमुकुटैः केयूराङ्गदकुण्डलैः ॥२९॥

स्वर्णचित्रतनुत्रैश्च भाण्डैश्च गजवाजिनाम् ।
किरीटशतसंकीर्णा तत्र तत्र समाचिता ॥३०॥

विरराज भृशं चित्रा मही नववधूरिव ।
मज्जामेदः कर्दमिनीं शोणितौघतरङ्गिणीम् ॥३१॥

मर्मास्थिभिरगाधां च केशशैवलशाद्वलाम् ।
शिरोबाहूपलतटां रुग्णक्रोडास्थिसंकटाम् ॥३२॥

चित्रध्वजपताकाढ्यां छत्रचापोर्मिमालिनीम् ।
विगतासुमहाकायां गजदेहाभिसंकुलाम् ॥३३॥

रथोडुपशताकीर्णां ह्यसंघातरोधसम् ।
रथचक्रयुगेषाक्षकूबरैरतिदुर्गमाम् ॥३४॥

प्रासासिशक्तिपरशुविशिखाहिदुरासदाम् ।
बलकङ्कमहानक्रां गोमायुमकरोत्कटाम् ॥३५॥

गृध्रोदग्रमहाग्राहां शिवाविरुतभैरवाम् ।
नृत्यत्प्रेतपिशाचाद्यैर्भूताकीर्णां सहस्रशः ॥३६॥

गतासुयोधनिश्चेष्टशरीरशतवाहिनीम् ।
महाप्रतिभयां रौद्रां घोरां वैतरणीमिव ॥३७॥

नदीं प्रवर्तयामास भीरूणां भयवर्धिनीम् ।
तं दृष्ट्वा तस्य विक्रान्तमन्तकस्येव रूपिणः ॥३८॥

अभूतपूर्वं कुरुषु भयमागाद्रणाजिरे ।
तत आदाय वीराणामस्त्रैरस्त्राणि पाण्डवः ॥३९॥

आत्मानं रौद्रमाचष्ट रौद्रकर्मण्यधिष्ठितः ।
ततो रथवरान् राजन्नत्यतिक्रामदर्जुनः ॥४०॥

मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे ।
न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् ॥४१॥

प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः ।
संग्रामे संप्रपश्यामो हंसपंक्तिमिवाम्बरे ॥४२॥

विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वतः ।
दर्शयन् रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः ॥४३॥

स तान् रथवरान् राजन्नत्याक्रामत्तदार्जुनः ।
मोहयन्निव नाराचैर्जयद्रथवधेप्सया ।
विसृजन्दिक्षु सर्वासु शरानसितसारथिः ॥४४॥

सरथो व्यचरत्तूर्णं प्रेक्षणीयो धनञ्जयः ।
भ्रमन्त इव शूरस्य शरव्राता महात्मनः ॥४५॥

अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः ।
आददानं महेष्वासं सन्दधानं च सायकम् ॥४६॥

विसृजन्तं च कौन्तेयं नानुपश्याम वै तदा ।
तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे ॥४७॥

कदंबीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् ।
विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् ॥४८॥

कदम्बीकृत्य कदम्बकुसुमानीव कृत्वा ॥४८॥

सैन्धवाभिमुखं यान्तं योधाः संप्रेक्ष्य पांडवम् ।
न्यवर्तन्त रणाद्वीरा निराशास्तस्य जीविते ॥४९॥

यो योऽभ्यधावदाक्रन्दे तावकः पाण्डवं रणे ।
तस्य तस्यान्तगा बाणाः शरीरे न्यपतन्प्रभो ॥५०॥

कबन्धसंकुलं चक्रे तव सैन्यं महारथः ।
अर्जुनो जयतां श्रेष्ठः शरैरग्न्यंशुसन्निभैः ॥५१॥

एवं तत्तव राजेन्द्र चतुरङ्गबलं तदा ।
व्याकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् ॥५२॥

द्रौणिं पञ्चाशताऽविध्यद्वृषसेनं त्रिभिः शरैः ।
कृपायमाणः कौन्तेयः कृपं नवभिरार्दयत् ॥५३॥

शल्यं षोडशभिर्बाणैः कर्णं द्वात्रिंशता शरैः ।
सैन्धवं तु चतुःषष्ट्या विद्ध्वा सिंह इवानदत् ॥५४॥

सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना ।
न च क्षमे सुसंक्रुद्धस्तोत्रार्दित इव द्विपः॥५५॥

स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान् ।
क्रुद्धाशीविषसंकाशान्कर्मारपरिमार्जितान् ॥५६॥

आकर्णपूर्णाञ्चिक्षेप फाल्गुनस्य रथं प्रति ।
त्रिभिस्तु विद्ध्वा गोविन्दं नाराचैः षड्भिरर्जुनम् ॥५७॥

अष्टभिर्वाजिनोऽविध्यत् ध्वजं चैकेन पत्रिणा ।
स विक्षिप्यार्जुनस्तूर्णं सैन्धवप्रहिताञ्शरान् ॥५८॥

युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह ।
सारथेश्च शिरः कायात् ध्वजं च समलंकृतम् ॥५९॥

स छिन्नयष्टिः सुमहान् धनञ्जयशराहतः ।
वराहः सिन्धुराजस्य पपाताग्निशिखोपमः ॥६०॥

एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे ।
अब्रवीत्पाण्डवं राजंस्त्वरमाणो जनार्दनः ॥६१॥

एष मध्ये कृतः षड्भिः पार्थवीरैर्महारथैः ।
जीवितेप्सुर्महाबाहो भीतस्तिष्ठति सैन्धवः॥६२॥

एताननिर्जित्य रणे षड्रथान्पुरुषर्षभ ।
न शक्यः सैन्धवो हन्तुं यतो निर्व्याजमर्जुन ॥६३॥

योगमत्र विधास्यामि सूर्यस्यावरणं प्रति ।
अस्तंगत इति व्यक्तं द्रक्ष्यत्येकः स सिन्धुराट्र ॥६४॥

हर्षेण जीविताकांक्षी विनाशार्थं तव प्रभो ।
न गोप्स्यति दुराचारः स आत्मानं कथंचन ॥६५॥

तत्र छिद्रे प्रहर्तव्यं त्वयाऽस्य कुरुसत्तम ।
व्यपेक्षा नैव कर्तव्या गतोऽस्तमिति भास्करः ॥६६॥

एवमस्त्विति बीभत्सुः केशवं प्रत्यभाषता ।
ततोऽसृजत्तमः कृष्णः सूर्यस्यावरणं प्रति ॥६७॥

योगी योगेन संयुक्तो योगिनामीश्वरो हरिः ।
सृष्टे तमसि कृष्णेन गतोऽस्तमिति भास्करः ॥६८॥

त्वदीया जहृषुर्योधाः पार्थनाशान्नराधिप ।
ते प्रहृष्टा रणे राजन्नापश्यन्सैनिका रविम् ॥६९॥

उन्नाम्य वक्राणि तदा स च राजा जयद्रथः ।
वीक्ष्यमाणे ततस्तस्मिन्सिन्धुराजे दिवाकरम् ॥७०॥

पुनरेवाब्रवीत्कृष्णो धनञ्जयमिदं वचः ।
पश्य सिन्धुपतिं वीरं प्रेक्षमाणं दिवाकरम् ॥७१॥

भयं हि विप्रमुच्यैतत्त्वत्तो भरतसत्तम ।
अयं कालो महाबाहो वधायास्य दुरात्मनः ॥७२॥

छिन्धि मूर्धानमस्याशु कुरु साफल्यमात्मनः ।
इत्येवं केशवेनोक्तः पाण्डुपुत्रः प्रतापवान् ॥७३॥

न्यवधीत्तावकं सैन्यं शरैरर्काग्निसन्निभैः ।
कृपं विव्याध विंशत्या कर्णं पञ्चाशता शरैः ॥७४॥

शल्यं दुर्योधनं चैव षड्भिः षड्भिरताडयत् ।
वृषसेनं तथाऽष्टाभिः षष्ट्या सैन्धवमेव च ॥७५॥

तथैव च महाबाहुस्त्वदीयान्पाण्डुनन्दनः ।
गाढं विद्ध्वा शरै राजन् जयद्रथमुपाद्रवत् ॥७६॥

तं समीपस्थितं दृष्ट्वा लेलिहानमिवानलम् ।
जयद्रथस्य गोप्तारः संशयं परमं गताः ॥७७॥

ततः सर्वे महाराज तव योधा जयैषिणः ।
सिषिचुः शरधाराभिः पाकशासनिमाहवे ॥७८॥

संछाद्यमानः कौन्तेयः शरजालैरनेकशः ।
अक्रुध्यत्स महाबाहुरजितः कुरुनन्दनः ॥७९॥

ततः शरमयं जालं तुमुलं पाकशासनिः ।
व्यसृजत्पुरुषव्याघ्रस्तव सैन्यजिघांसया ॥८०॥

ते हन्यमाना वीरेण योधा राजन् रणे तव ।
प्रजहुः सैन्धवं भीता द्वौ समं नाप्यधावताम् ॥८१॥

तत्राद्भुतमपश्याम कुन्तीपुत्रस्य विक्रमम् ।
तादृङ्न भावी भूतो वा यच्चकार महायशाः ॥८२॥

द्विपान्द्विपगतांश्चैव हयान्हयगतानपि ।
तथा सरथिनश्चैव न्यहन् रुद्रः पशूनिव ॥८३॥

न तत्र समरे कश्चिन्मया दृष्टो नराधिप ।
गजो वाजी नरो वापि यो न पार्थशराहतः ॥८४॥

रजसा तमसा चैव योधाः संच्छन्नचक्षुषः ।
कश्मलं प्राविशन्घोरं नान्वजानन्परस्परम् ॥८५॥

ते शरैर्भिन्नमर्माणः सैनिकाः पार्थचोदितैः ।
बभ्रमुश्चस्खलुः पेतुः सेदुर्मम्लुश्च भारत ॥८६॥

तस्मिन्महाभीषणके प्रजानामिव संक्षये ।
रणे महति दुष्पारे वर्तमाने सुदारुणे ॥८७॥

शोणितस्य प्रसेकेन शीघ्रत्वादनिलस्य च ।
अशाम्यत्तद्रजो भौममसृक् सिक्ते धरातले ॥८८॥

आनाभि निरमज्जंश्च रथचक्राणि शोणिते ।
मत्ता वेगवता राजंस्तावकानां रणाङ्गने॥८९॥

हस्तिनश्च हतारोहा दारिताङ्गाः सहस्रशः ।
स्वान्यनीकानि मृद्नन्त आर्तनादाः प्रदुद्रुवुः॥९०॥

हयाश्च पतितारोहाः पत्तयश्च नराधिप ।
प्रदुद्रुवुर्भयाद्राजन्धनञ्जयशराहताः॥९१॥

मुक्तकेशा विकवचाः क्षरन्तः क्षतजं क्षतैः ।
प्रापलायन्त संत्रस्तास्त्यक्त्वा रणशिरो जनाः॥९२॥

ऊरुग्राहगृहीताश्च केचित्तत्राभवन् भुवि ।
हतानां चापरे मध्ये द्विरदानां निलिल्यिरे॥९३॥

एवं तव बलं राजन्द्रावयित्वा धनञ्जयः ।
न्यवधीत्सायकैर्घोरैः सिन्धुराजस्य रक्षिणः॥९४॥

द्रौणिं कृपं कर्णशल्यौ वृषसेनं सुयोधनम् ।
छादयामास तीव्रेण शरजालेन पाण्डवः॥९५॥

न गृह्णन्नक्षिपन् राजन्मुञ्चन्नापि च सन्दधत् ।
अदृश्यतार्जुनः संख्ये शीघ्रास्त्रत्वात्कथञ्चन॥९६॥

धनुर्मण्डलमेवास्य दृश्यते स्मास्यतः सदा ।
सायकाश्च व्यदृश्यन्त निश्चरन्तः समन्ततः॥९४॥

कर्णस्य तु धनुश्छित्त्वा वृषसेनस्य चैव ह ।
शल्यस्य सूतं भल्लेन रथनीडादपातयत् ॥९८॥

गाढविद्धावुभौ कृत्वा शरैः स्वस्त्रीयमातुलौ ।
अर्जुनो जयतां श्रेष्ठो द्रौणिशारद्वतौ रणे ॥९९॥

एवं तान्व्याकुलीकृत्य त्वयानां महारथान् ।
उज्जहार शरं घोरं पाण्डवोऽनलसन्निभम् ॥१००॥

इन्द्राशनिसमप्रख्यं दिव्यमस्त्राभिमन्त्रितम् ।
सर्वभारसहं शश्वद्गन्धमाल्यार्चितं महत् ॥१०१॥

वज्रेणास्त्रेण संयोज्य विधिवत्कुरुनन्दनः ।
समादधन्महाबाहुर्गाण्डीवे क्षिप्रमर्जुनः॥१०२॥

तस्मिन्सन्धीयमाने तु शरे ज्वलनतेजसि ।
अन्तरिक्षे महानादो भूतानामभवन्नृप ॥१०३॥

अब्रवीच्च पुनस्तत्र त्वरमाणो जनार्दनः ।
धनञ्जय शिरश्छिन्धि सैन्धवस्य दुरात्मनः॥१०४॥

अस्तं महीधरश्रेष्ठं यियासति दिवाकरः ।
शृणुष्वैतच्च वाक्यं मे जयद्रथवधं प्रति॥१०५॥

वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः ।
स कालेनेह महता सैन्धवं प्राप्तवान्सुतम् ॥१०६॥

जयद्रथममित्रघ्नं वागुवाचाशरीरिणी ।
नृपमन्तर्हिता वाणी मेघदुन्दुभिनिःस्वना॥१०७॥

तवात्मजो मनुष्येन्द्र कुलशीलदमादिभिः ।
गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः॥१०८॥

क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः ।
किं त्वस्य युध्यमानस्य संग्रामे क्षत्रियर्षभः॥१०९॥

शिरश्छेत्स्यति संक्रुद्धः शत्रुश्चालक्षितो भुवि ।
एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिन्दमः॥११०॥

ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिचोदितः ।
संग्रामे युध्यमानस्य वहतो महतीं धुरम् ॥१११॥

धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः ।
तस्यापि शतधा मूर्धा फलिष्यति न संशयः॥११२॥

एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम् ।
वृद्धक्षत्रो वनं यातस्तपश्चोग्रं समास्थितः ॥११३॥

सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम् ।
समन्तपञ्चकादस्माद्बहिर्वानरकेतन ॥११४॥

तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे ।
दिव्येनास्त्रेण रिपुघोरेणाद्भुतकर्मणा॥११५॥

सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज ।
उत्सङ्गे पातयस्वास्य वृद्धक्षत्रस्य भारत ॥११६॥

अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले ।
तवापि शतधा मूर्धा फलिष्यति न संशयः॥११७॥

यथा चेदं न जानीयात्स राजा तपसि स्थितः ।
तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः॥११८॥

न ह्यसाध्यमकार्यं वा विद्यते तव किंचन ।
समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन ॥११९॥

एतच्छ्रुत्वा तु वचनं सृक्किणी परिसंलिहन् ।
इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम् ॥१२०॥

सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम् ।
विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे घृतम् ॥१२१॥

स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः ।
छित्त्वा शिरः सिन्धुपतेरुत्पपात विहायसम्॥१२२॥

तच्छिरः सिन्धुराजस्य शरैरूर्ध्वमवाहयत् ।
दुर्हृदामप्रहर्षाय सुहृदां हर्षणाय च ॥१२३॥

शरैः कदम्बकीकृत्य काले तस्मिंश्च पाण्डवः ।
योधयामास तांश्चैव पाण्डवः षण्महारथान्॥१२४॥

ततः सुमहदाश्चर्यं तत्रापश्याम भारत ।
समन्तपञ्चकाद्बाह्यं शिरो यद्व्यहरत्ततः॥१२५॥

एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः ।
सन्ध्यामुपास्ते तेजस्वी सम्बन्धी तव मारिष॥१२६॥

उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम् ।
सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् ॥१२७॥

तस्योत्सङ्गे निपतितं शिरस्तश्चारुकुण्डलम् ।
वृद्धक्षत्रस्य नृपतेरलक्षितमरिन्दम॥१२८॥

कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य भारत ।
प्रोत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम्॥१२९॥

ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतले ।
गते तस्यापि शतधा मूर्धाऽगच्छदरिन्दम ॥१३०॥

ततः सर्वाणि सैन्यानि विस्मयं जग्मुरुत्तमम् ।
वासुदेवं च बीभत्सुं प्रशशंसुर्महारथम् ॥१३१॥

ततो विनिहते राजन् सिन्धुराजे किरीटिना ।
तमस्तद्वासुदेवेन संहृतं भरतर्षभ ॥१३२॥

पश्चाज्ज्ञातं महीपाल तव पुत्रैः सहानुगैः ।
वासुदेवप्रयुक्तेयं मायेति नृपसत्तम ॥१३३॥

एवं स निहतो राजन्पार्थेनामिततेजसा ।
अक्षौहिणीरष्ट हत्वा जामाता तव सैन्धवः॥१३४॥

हतं जयद्रथं दृष्ट्वा तव पुत्रा नराधिप ।
दुःखादश्रूणि मुमुचुर्निराशाश्चाभवञ्जये॥१३५॥

ततो जयद्रथे राजन्हते पार्थेन केशवः ।
दध्मौ शंखं महाबाहुरर्जुनश्च परन्तपः॥१३६॥

भीमश्च वृष्णिसिंहश्च युधामन्युश्च भारत ।
उत्तमौजाश्च विक्रान्तः शंखान्दध्मुः पृथक्पृथक्॥१३७॥

श्रुत्वा महान्तं तं शब्दं धर्मराजो युधिष्ठिरः ।
सैन्धवं निहतं मेने फाल्गुनेन महात्मना॥१३८॥

ततो वादित्रघोषेण स्वान्योधान्पर्यहर्षयत् ।
अभ्यवर्तत संग्रामे भारद्वाजं युयुत्सया॥१३९॥

ततः प्रववृते राजन्नस्तं गच्छति भास्करे ।
द्रोणस्य सोमकैः सार्धं संग्रामो लोमहर्षणः॥१४०॥

ते तु सर्वे प्रयत्नेन भारद्वाजं जिघांसवः ।
सैन्धवे निहते राजन्नयुध्यन्त महारथाः॥१४१॥

पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च ।
अयोधयंस्तु ते द्रोणं जयोन्मत्तास्ततस्ततः॥१४२॥

अर्जुनोऽपि ततो योधांस्तावकान् रथसत्तमान् ।
अयोधयन्महाबाहुर्हत्वा सैन्धवकं नृपम् ॥१४३॥

स देवशत्रूनिव देवराजः किरीटमाली व्यधमत्समन्तात् ।
यथा तमांस्यभ्युदितस्तमोघ्नः पूर्वप्रतिज्ञां समवाप्य वीरः॥१४४॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि जयद्रथवधे षट्चत्वारिंशदधिकशततमोऽध्यायः ॥१४६॥
सप्तचत्वारिंशदधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना ।
मामका यदकुर्वन्त तन्ममाचक्ष्व सञ्जय॥१॥

तस्मिन्विनिहते वीर इत्यादे ‘राजन्कर्मस्थिते नरे’ इत्यन्तस्य ग्रन्थस्य पुरुषेण यत्नः कार्यः फलं तु दैवाधीनमिति तात्पर्यार्थः ॥१॥

सञ्जय उवाच। सैन्धवं निहतं दृष्ट्वा रणे पार्थेन भारत ।
अमर्षवशमापन्नः कृपः शारद्वतस्ततः॥२॥

महता शरवर्षेण पाण्डवं समवाकिरत् ।
द्रौणिश्चाभ्यद्रवद्राजन्रथमास्थाय फाल्गुनम्॥३॥

तावेतौ रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमौ ।
उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम्॥४॥

स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः ।
पीड्यमानः परामार्तिमगमद्रथिनां वरः॥५॥

सोऽजिघांसुर्गुरुं संख्ये गुरोस्तनयमेव च ।
चकाराचार्यकं तत्र कुन्तीपुत्रो धनञ्जयः॥६॥

अजिघांसुः हन्तुमनिच्छन् । आचार्यकं गुरोः सम्मानम् ॥६॥

अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च ।
मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत्॥७॥

तमेवाह - अस्त्रैरिति । मन्दवेगान् अत्यनाकृष्टचापत्वादल्पवेगान् ॥७॥

ते चापि भृशमभ्यघ्नन्विशिखाः पार्थचोदिताः ।
बहुत्वात्तु परामार्तिं शराणां तावगच्छताम्॥८॥

ते चापि ते बाणास्तथापि ॥८॥

अथ शारद्वतो राजन्कौन्तेयशरपीडितः ।
अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह॥९॥

अवासीदत् अवसन्नः ॥९॥

विह्वलं तमभिज्ञाय भर्तारं शरपीडितम् ।
हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत्॥१०॥

भर्तारं सारथेरेव ॥१०॥

तस्मिन् भग्ने महाराज कृपे शारद्वते युधि ।
अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम्॥११॥

दृष्ट्वा शारद्वतं पार्थो मूच्छितं शरपीडितम् ।
रथ एव महेष्वासः सकृपं पर्यदेवयत्॥१२॥

अश्रुपूर्णमुखो दीनो वचनं चेदमब्रवीत् ।
पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान्॥१३॥

इदं कुलक्षयगुरुद्रोहादिकम् ॥१३॥

कुलान्तकरणे पापे जातमात्रे सुयोधने ।
नीयतां परलोकाय साध्वयं कुलपांसनः॥१४॥

अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम् ।
तदिदं समनुप्राप्तं वचनं सत्यवादिनः॥१५॥

तत्कृते ह्यद्य पश्यामि शरतल्पगतं गुरुम् ।
धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम्॥१६॥

शरतल्पगतं शरपञ्जरगतम् ॥१६॥

को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः ।
ऋषिपुत्रो ममाचार्यो द्रोणस्य परमः सखा॥१७॥

एष शेते रथोपस्थ कृपो मद्बाणपीडितः ।
अकामयानेन मया विशिखैरर्दितो भृशम्॥१८॥

अवसीदन् रथोपस्थे प्राणान्पीडयतीव मे ।
पुत्रशोकाभितप्तेन शरैरभ्यर्दितेन च॥१९॥

अभ्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै ।
शोचयत्येष नियतं भूयः पुत्रवधाद्धि माम्॥२०॥

अभ्यस्तः असकृन्निहतः दशधर्मगतेन दुरवस्थागतेन । शोचयति शोकं कारयति । एष द्रोणः । भूयोऽधिकं पुत्रवधात् ॥२०॥

कृपणं स्वरथे सन्नं पश्य कृष्ण यथागतम् ।
उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः॥२१॥

यथागतं यं प्रकारं प्राप्तम् उपाकृत्य अधीत्य ॥२१॥

प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते ।
ये च विद्यामुपादाय गुरुभ्यः पुरुषाधमाः॥२२॥

घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः ।
तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम्॥२३॥

आचार्यं शरवर्षेण रथे सादयता कृपम् ।
यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः॥२४॥

उपाकुर्वन् आध्यापयन् ॥२४॥

न कथञ्चन कौरव्य प्रहर्तव्यं गुराविति ।
तदिदं वचनं साधोराचार्यस्य महात्मनः॥२५॥

नानुष्ठितं तमेवाजी विशिखैरभिवर्षता ।
नमस्तस्मै सुपूज्याय गौतमायापलायिने॥२६॥

धिगस्तु मम वार्ष्णेय यदस्मै प्रहराम्यहम् ।
तथा विलपमाने तु सव्यसाचिनि तं प्रति॥२७॥

सैन्धवं निहतं दृष्ट्वा राधेयः समुपाद्रवत् ।
तमापतन्तं राधेयमर्जुनस्य रथं प्रति॥२८॥

पाञ्चाल्यौ सात्यकिश्चैव सहसा समुपाद्रवन् ।
उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः॥२९॥

प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत् ।
एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति॥३०॥

न मृष्यति हतं नूनं भूरिश्रवसमाहवे ।
यत्र यात्येष तत्र त्वं चोदयाश्वान् जनार्दन॥३१॥

न सौमदत्तिपदवीं गमयेत्सात्यकिं वृषः ।
एवमुक्तो महाबाहुः केशवः सव्यसाचिना॥३२॥

वृषः कर्णः ॥३२॥

प्रत्युवाच महातेजाः कालयुक्तमिदं वचः ।
अलमेष महाबाहुः कर्णायैकोऽपि पाण्डव॥३३॥

किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः ।
न च तावत्क्षमः पार्थ तव कर्णेन सङ्गरः॥३४॥

प्रज्वलन्ती महोल्केव तिष्ठत्यस्य हि वासवी ।
त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन्॥३५॥

वासवी शक्तिरिति शेषः ॥३५॥

अतः कर्णः प्रयात्वत्र सात्वतस्य यथातथा ।
अहं ज्ञास्यामि कौन्तेय कालमस्य दुरात्मनः ।
यत्रैनं विशिखैस्तीक्ष्णैः पातयिष्यसि भूतले॥३६॥

यथा प्रयाति तथा प्रयात्विति योज्यं ज्ञास्यामि ज्ञापयिष्यामि यत्र काले ॥३६॥

धृतराष्ट्र उवाच। योऽसौ कर्णेन वीरस्य वार्ष्णेयस्य समागमः ।
हते तु भूरिश्रवसि सैन्धवे च निपातिते॥३७॥

सात्यकिश्चापि विरथः कंसमारूढवान् रथम् ।
चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व सञ्जय॥३८॥

सञ्जय उवाच। हन्त ते वर्तयिष्यामि यथा वृत्तं महारणे ।
शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः॥३९॥

वर्तयिष्यामि कथयिष्यामि ॥३९॥

पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो ।
विजेतव्यो यथा वीरः सात्यकिः सौमदत्तिना॥४०॥

पूर्वं पूर्वेद्युः ॥४०॥

अतीतानागते राजन्स हि वेत्ति जनार्दनः ।
ततः सूतं समाहूय दारुकं संदिदेश ह॥४१॥

रथो मे युज्यतां कल्यमिति राजन्महाबलः ।
न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः॥४२॥

कल्यं प्रातः ॥४२॥

मानवा वाऽपि जेतारः कृष्णयोः सन्ति केचन ।
पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः॥४३॥

तयोः प्रभावमतुलं शृणु युद्धं तु तत्तथा ।
सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतं रणे॥४४॥

दध्मौ शङ्खं महानादमार्षभेणाथ माधवः ।
दारुकोऽवेत्य संदेशं श्रुत्वा शङ्खस्य च स्वनम्॥४५॥

आर्षभेण स्वार्थे तद्धितः । ऋषभस्वरेण ऋषभपुरोद्भवेनेति प्राञ्चः ॥४५॥

रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम् ।
स केशवस्यानुमते रथं दारुकसंयुतम्॥४६॥

आरुरोह शिनेः पौत्रो ज्वलनादित्यसन्निभम् ।
कामगैः शैब्यसुग्रीवमेघपुष्पबलाहकैः॥४७॥

हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः ।
युक्तं समारुह्य च तं विमानप्रतिमं रथम्॥४८॥

अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून् ।
चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ॥४९॥

धनञ्जयरथं हित्वा राधेयं प्रत्युदीयतुः ।
राधेयोऽपि महाराज शरवर्षं समुत्सृजन्॥५०॥

अभ्यद्रवत्सुसंक्रुद्धो रणे शैनेयमच्युतम् ।
नैव दैवं न गान्धर्वं नासुरं न च राक्षसम्॥५१॥

तादृशं भुवि नो युद्धं दिवि वा श्रुतमित्युत ।
उपारमत तत्सैन्यं सरथाश्व-नर-द्विपम्॥५२॥

तयोर्दृष्ट्वा महाराज कर्म संमूढचेतसः ।
सर्वे च समपश्यन्त तद्युद्धमतिमानुषम्॥५३॥

तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च ।
गतप्रत्यागतावृत्तैर्मण्डलैः सन्निवर्तनैः ॥५४॥

सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः ।
नभस्तलगताश्चैव देव-गन्धर्व-दानवाः॥५५॥

काश्यपेयस्य दारुकस्य ॥५५॥

अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् ।
मित्रार्थे तौ पराक्रान्तौ शुष्मिणौ स्पर्धिनौ रणे॥५६॥

कर्णश्चामरसंकाशो युयुधानश्च सात्यकिः ।
अन्योन्यं तौ महाराज शरवर्षैरवर्षताम्॥५७॥

प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः ।
अमृष्यमाणो निधनं कौरव्यजलसन्धयोः॥५८॥

कर्णः शोकसमाविष्टो महोरग इव श्वसन् ।
स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा॥५९॥

अभ्यधावत वेगेन पुनः पुनररिन्दम ।
तं तु सक्रोधमालोक्य सात्यकिः प्रत्ययुद्ध्यत॥६०॥

महता शरवर्षेण गजं प्रति गजो यथा ।
तौ समेतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ॥६१॥

अन्योन्यं सन्ततक्षाते रणेऽनुपमविक्रमौ ।
ततः कर्णं शिनेः पौत्रः सर्वपारसवैः शरैः॥६२॥

बिभेद सर्वगात्रेषु पुनः पुनररिन्दम ।
सारथिं चास्य भल्लेन रथनीडादपातयत्॥६३॥

अश्वांश्च चतुरः श्वेतान्निजघान शितैः शरैः ।
छित्त्वा ध्वजं रथं चैव शतधा पुरुषर्षभ॥६४॥

चकार विरथं कर्णं तव पुत्रस्य पश्यतः ।
ततो विमनसो राजंस्तावकास्ते महारथाः॥६५॥

वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा ।
द्रोणपुत्रञ्च शैनेयं सर्वतः पर्यवारयन्॥६६॥

ततः पर्याकुलं सर्वं न प्राज्ञायत किञ्चन ।
तथा सात्यकिना वीरे विरथे सूतजे कृते॥६७॥

हाहाकारस्ततो राजन्सर्वसैन्येष्वभून्महान् ।
कर्णोऽपि विरथो राजन्सात्वतेन कृतः शरैः॥६८॥

दुर्योधनरथं तूर्णमारुरोह विनिःश्वसन् ।
मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम्॥६९॥

कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन् ।
तथा तु विरथं कर्णं पुत्रांश्च तव पार्थिव॥७०॥

दुःशासनमुखान्वीरान्नावधीत्सात्यकिर्वशी ।
रक्षन्प्रतिज्ञां भीमेन पार्थेन च पुराकृताम्॥७१॥

विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत् ।
भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः॥७२॥

अनुद्यूते च पार्थेन वधः कर्णस्य संश्रुतः ।
वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा॥७३॥

अनुद्यूते पुनर्द्यूते ॥७३॥

नाशक्नुवंस्ततो हन्तुं सात्यकिं प्रवरा रथाः ।
द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः॥७४॥

निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः ।
कांक्षता परलोकं च धर्मराजस्य च प्रियम्॥७५॥

कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुतापनः ।
जितवान्सर्वसैन्यानि तावकानि हसन्निव॥७६॥

कृष्णो वापि भवेल्लोके पार्थो वापि धनुर्धरः ।
शैनेयो वा नरव्याघ्र चतुर्थस्तु न विद्यते॥७७॥

धृतराष्ट्र उवाच। अजय्यं वासुदेवस्य रथमास्थाय सात्यकिः ।
विरथं कृतवान्कर्णं वासुदेवसमो युधि॥७८॥

दारुकेण समायुक्तः स्वबाहुबलदर्पितः ।
कच्चिदन्यं समारूढः सात्यकिः शत्रुतापनः॥७९॥

एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम् ।
असह्यं तमहं मन्ये तन्ममाचक्ष्व सञ्जय॥८०॥

सञ्जय उवाच। शृणु राजन्यथावृत्तं रथमन्यं महामतिः ।
दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम्॥८१॥

आयसैः काञ्चनैश्चापि पट्टैः सन्नद्धकूबरम् ।
तारासहस्रखचितं सिंहध्वजपताकिनम्॥८२॥

अश्वैतजवैर्युक्तं हेमभाण्डपरिच्छदैः ।
सैन्धवैरिन्दुसंकाशैः सर्वशब्दातिगैर्दृढैः॥८३॥

चित्रकाश्चनसन्नाहैर्वाजिमुख्यैर्विशांपते ।
घण्टाजालाकुलरवं शक्ति-तोमरविद्युतम्॥८४॥

युक्तं सांग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदैः ।
रथं संपादयामास मेघगंभीरनिःस्वनम्॥८५॥

तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत् ।
दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम्॥८६॥

कर्णस्यापि रथं राजञ्शंख-गोक्षीरपाण्डुरैः ।
चित्रकाञ्चनसन्नाहैः सदश्वैर्येगवत्तरैः॥८७॥

हेमकक्ष्याध्वजोपेतं क्लप्तयन्त्रपताकिनम् ।
अग्र्यं रथं सुयंतारं बहुशस्त्रपरिच्छदम्॥८८॥

उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून् ।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि॥८९॥

भूयश्चापि निबोधेमं तवापनयजं क्षयम् ।
एकत्रिंशत्तव सुता भीमसेनेन पातिताः॥९०॥

दुर्मुखं प्रमुख कृत्वा सततं चित्रयोधिनम् ।
शतशो निहताः शूराः सात्वतेनार्जुनेन च॥९१॥

भीष्मं प्रमुखतः कृत्वा भगदत्तं च भारत ।
एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव॥९२॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि कर्णसात्यकियुद्धे सप्तचत्वारिंशदधिकशततमोऽध्यायः॥१४७ ॥
अष्टचत्वारिंशदधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। तथा गतेषु शूरेषु तेषां मम च सञ्जय ।
किं वै भीमस्तदाऽकार्षीत्तन्ममाचक्ष्व सञ्जय॥१॥

तथेति ॥१॥

सञ्जय उवाच। विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः ।
अमर्षवशमापन्नः फाल्गुनं वाक्यमब्रवीत्॥२॥

पुनः पुनस्तूबरक मूढ औदरिकेति च ।
अकृतास्त्रक मा योत्सीर्बाल संग्रामकातर॥३॥

इति मामब्रवीत्कर्णः पश्यतस्ते धनञ्जय ।
एवं वक्ता च मे वध्यस्तेन चोक्तोऽस्मि भारत॥४॥

एतद्व्रतं महाबाहो त्वया सह कृतं मया ।
तथैतन्मम कौन्तेय यथा तव न संशयः॥५॥

तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम ।
यथा भवति तत्सत्यं तथा कुरु धनञ्जय॥६॥

तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः ।
ततोऽर्जुनोऽब्रवीत्कर्णं किंचिदभ्येत्य संयुगे॥७॥

कर्ण कर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत ।
अधर्मबुद्धे शृणु मे यत्त्वां वक्ष्यामि सांप्रतम्॥८॥

द्विविधं कर्म शूराणां युद्धे जयपराजयौ ।
तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः॥९॥

मुमूर्षुर्युयुधानेन विरथो विकलेन्द्रियः ।
मद्वध्यस्त्वमिति ज्ञात्वा जित्वा जीवन्विसर्जितः॥१०॥

यदृच्छया रणे भीमं युध्यमानं महाबलम् ।
कथञ्चिद्विरथं कृत्वा यत्त्वं रूक्षमभाषथाः॥११॥

अधर्मस्त्वेष सुमहाननार्यचरितं च तत् ।
नारिं जित्वाऽतिकत्थन्ते न च जल्पन्ति दुर्वचः॥१२॥

न च कञ्चन निन्दन्ति सन्तः शूरा नरर्षभाः ।
त्वं तु प्राकृतविज्ञानस्वत्तद्वदसि सूतज॥१३॥

बह्वबद्धमकर्ण्यं च चापलादपरीक्षितम् ।
युध्यमानं पराक्रान्तं शूरमार्यव्रते रतम्॥१४॥

यदवोचोऽप्रियं भीमं नैतत्सत्यं वचस्तव ।
पश्यतां सर्वसैन्यानां केशवस्य ममैव च॥१५॥

विरथो भीमसेनेन कृतोऽसि बहुशो रणे ।
न च त्वां परुषं किञ्चिदुक्तवान्पाण्डुनन्दनः॥१६॥

यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः ।
परोक्षं यच्च सौभद्रो युष्माभिर्निहतो मम॥१७॥

तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि ।
त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते॥१८॥

तस्माद्वध्योऽसि मे मूढ सभृत्य-सुत-बान्धवः ।
कुरु त्वं सर्वकृत्यानि महत् ते भयमागतम्॥१९॥

हन्तास्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे ।
ये चान्येप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः॥२०॥

वृषसेनं ते तव पुत्रमिति शेषः । बुद्धिमोहेन बुद्धिविभ्रमेण ॥२०॥

तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे ।
त्वां च मूढा कृतप्रज्ञमतिमानिनमाहवे॥२१॥

दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम् ।
अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु॥२२॥

महान्सुतुमुलः शब्दो बभूव रथिनां तदा ।
तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये॥२३॥

मन्दरश्मिः सहस्रांशुरस्तं गिरिमुपाद्रवत् ।
ततो राजन्हृषीकेशः संग्रामशिरसि स्थितम्॥२४॥

तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्यैनमब्रवीत् ।
दिष्ट्या संपादिता जिष्णो प्रतिज्ञा महती त्वया॥२५॥

दिष्ट्या विनिहतः पापो वृद्धक्षत्रः सहात्मजः ।
धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत॥२६॥

सीदेत समरे जिष्णो नात्र कार्या विचारणा ।
न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित्॥२७॥

त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम् ।
महाप्रभावा बहवस्त्वया तुल्याधिकाऽपि वा॥२८॥

समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात् ।
ते त्वां प्राप्य रणे क्रुद्धा नाभ्यवर्तन्त दंशिताः॥२९॥

तव वीर्यं बलं चैव रुद्रशकान्तकोपमम् ।
नेदृशं शक्नुयात्कश्चिद्रणे कर्तुं पराक्रमम्॥३०॥

यादृशं कृतवानद्य त्वमेकः शत्रुतापनः ।
एवमेव हते कर्णे सानुबन्धे दुरात्मनि॥३१॥

वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम् ।
तमर्जुनः प्रत्युवाच प्रसादात्तव माधव॥३२॥

प्रतिज्ञेयं मया तीर्णा विबुधैरपि दुस्तरा ।
अनाश्चर्यो जयस्तेषां येषां नाथोऽसि केशव॥३३॥

त्वत्प्रसादान्महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः ।
तव प्रभावो वार्ष्णेय तवैव विजयः प्रभो॥३४॥

वर्धनीयास्तव वयं सदैव मधुसूदन ।
एवमुक्तस्ततः कृष्णः शनकैर्वाहयन्हयान्॥३५॥

दर्शयामास पार्थाय क्रूरमायोधनं महत् ।
श्रीकृष्ण उवाच। प्रार्थयन्तो जयं युद्धे प्रथितं च महद्यशः॥३६॥

पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः ।
विकीर्णशस्त्राभरणा विपन्नाश्व-रथ-द्विपाः ।
संछिन्नभिन्नमर्माणो वैक्लव्यं परमं गताः॥३७॥

ससत्त्वा गतसत्त्वाश्च प्रभया परया युताः ।
सजीवा इव लक्ष्यन्ते गतसत्त्वा नराधिपाः॥३८॥

तेषां शरैः स्वर्णपुंखैः शस्त्रैश्च विविधैः शितैः ।
वाहनैरायुधैश्चैव संपूर्णां पश्य मेदिनीम्॥३९॥

वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः ।
उष्णीषैर्मुकुटैः स्रग्भिश्चूडामणिभिरम्बरैः॥४०॥

कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सप्रभैः ।
अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी॥४१॥

अनुकर्षैरुपासङ्गैः पताकाभिर्ध्वजैस्तथा ।
उपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः॥४२॥

चक्रैः प्रमथितश्चित्रैरक्षैश्च बहुधा रणे ।
युगैर्योक्तैः कलापैश्च धनुर्भिः सायकैस्तथा॥४३॥

परिस्तोमैः कुथाभिश्च परिघैरङ्कुशैस्तथा ।
शक्तिभिर्भिन्दिपालैश्च तूर्णैः शूलैः परश्वधैः॥४४॥

प्रासैश्च तोमरैश्चैव कुन्तैर्यष्टिभिरेव च ।
शतघ्नीभिर्भुशुण्डीभिः खड्गैः परशुभिस्तथा॥४५॥

मुसलैर्मुद्गरैश्चैव गदाभिः कुणपैस्तथा ।
सुवर्णविकृताभिश्च कशाभिर्भरतर्षभ॥४६॥

घण्टाभिश्च गजेन्द्राणां भाण्डैश्च विविधैरपि ।
स्रग्भिश्च नानाभरणैर्वस्त्रैश्चैव महाधनैः॥४७॥

अपविद्धैर्बभौ भूमिर्गृहैर्द्यौरिव शारदी ।
पृथिव्यां पृथिवीहेतोः पृथिवीपतयो हताः॥४८॥

पृथिवीमुपगुह्याङ्गैः सुप्ताः कान्तामिव प्रियाम् ।
इमांश्च गिरिकूटाभान्नागानैरावतोपमान्॥४९॥

क्षरतः शोणितं भूरि शस्त्रच्छेददरीमुखैः ।
दरीमुखैरिव गिरीन् गैरिकांबुपरिस्रवान्॥५०॥

तांश्च बाणहतान्वीर पश्य निष्टनतः क्षितौ ।
हयांश्च पतितान्पश्य स्वर्णभाण्डविभूषितान्॥५१॥

गन्धर्वनगराकारान् रथांश्च निहतेश्वरान् ।
छिन्नध्वजपताकाक्षान्विचक्रान्हतसारथीन्॥५२॥

निकृत्तकूबरयुगान्भग्नेषान्बन्धुरान्प्रभो ।
पश्य पार्थ हयान्भूमौ विमानोपमदर्शनान्॥५३॥

पतींश्च निहतान्वीर शतशोऽथ सहस्रशः ।
धनुर्भृतश्चर्मभृतः शयानान् रुधिरोक्षितान्॥५४॥

महीमालिंग्य सर्वाङ्गैः पांसुध्वस्तशिरोरुहान् ।
पश्य योधान्महाबाहो त्वच्छरैर्भिन्नविग्रहान्॥५५॥

निपातितद्विप-रथ-वाजिसंकुल-मसृग्वसा-पिशितसमृद्धकर्दमम् ।
निशाचर-श्व-वृक-पिशाचमोदनं महीतलं नरवर पश्य दुर्द्दशम्॥५६॥

इदं महत्त्वय्युपपद्यते प्रभो रणाजिरे कर्म यशोभिवर्धनम् ।
शतक्रतौ चापि च देवसत्तमे महाहवे जघ्नुषि दैत्यदानवान्॥५७॥

सञ्जय उवाच। एवं सन्दर्शयन् कृष्णो रणभूमिं किरीटिने ।
स्वैः समेतः समुदितैः पाञ्चजन्यं व्यनादयत्॥५८॥

स दर्शयन्नेव किरीटिनेऽरिहा जनार्दनस्तामरिभूमिमञ्जसा ।
अजातशत्रुं समुपेत्य पाण्डवं निवेदयामास हतं जयद्रथम्॥५८॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ १४८ ॥
एकोनपञ्चाशदधिकशततमोऽध्यायः

सञ्जय उवाच। ततो राजानमभ्येत्य धर्मपुत्रं युधिष्ठिरम् ।
ववन्दे स प्रहृष्टात्मा हते पार्थेन सैन्धवे॥१॥

तत इति ॥१॥

दिष्ट्या वर्धसि राजेन्द्र हतशत्रुर्नरोत्तम ।
दिष्ट्या निस्तीर्णवांश्चैव प्रतिज्ञामनुजस्तव॥२॥

स त्वेवमुक्तः कृष्णेन हृष्टः परपुरंजयः ।
ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत॥३॥

पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः ।
प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम्॥४॥

अब्रवीद्वासुदेवं च पाण्डवं च धनञ्जयम् ।
प्रियमेतदुपश्रुत्य त्वत्तः पुष्करलोचन॥५॥

नान्तं गच्छामि हर्षस्य तितीर्षुरुदधेरिव ।
अत्यद्भुतमिदं कृष्ण कृतं पार्थेन धीमता॥६॥

दिष्ट्या पश्यामि संग्रामे तीर्णभारौ महारथौ ।
दिष्ट्या विनिहतः पापः सैन्धवः पुरुषाधमः॥७॥

कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता ।
त्वया गुप्तेन गोविन्द घ्नता पापं जयद्रथम्॥८॥

गुप्तेन अर्जुनेनेति शेषः ॥८॥

किन्तु नात्यद्भुतं तेषां येषां नस्त्वं समाश्रयः ।
न तेषां दुष्कृतं किञ्चित्त्रिषु लोकेषु विद्यते॥९॥

सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन ।
त्वत्प्रसादाद्धि गोविन्द वयं जेष्यामहे रिपून्॥१०॥

स्थितः सर्वात्मना नित्यं प्रियेषु च हितेषु च ।
त्वां चैवास्माभिराश्रित्य कृतः शस्त्रसमुद्यमः॥११॥

सुरैरिवासुरवधे शक्रं शक्रानुजाहवे ।
असंभाव्यमिदं कर्म देवैरपि जनार्दन॥१२॥

त्वद्बुद्धिबलवीर्येण कृतवानेषु फाल्गुनः ।
बाल्यात्प्रभृति ते कृष्ण कर्माणि श्रुतवानहम्॥१३॥

अमानुषाणि दिव्यानि महान्ति च बहूनि च ।
तदैवाज्ञासिषं शत्रून्हतान्प्राप्तां च मेदिनीम्॥१४॥

त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन ।
सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः॥१५॥

त्वत्प्रसादाद्धृषीकेश जगत्स्थावरजगङ्गमम् ।
स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते॥१६॥

एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम् ।
त्वत्प्रसादान्महाबाहो जगत्प्राप्तं नरोत्तम॥१७॥

एकार्णवमिति । त्वत्प्रसादात् त्वदीक्षावशात् प्राप्तमभिव्यक्तनामरूपत्वमिति शेषः ॥१७॥

स्रष्टारं सर्वलोकानां परमात्मानमव्ययम् ।
ये पश्यन्ति हृषीकेशं न ते मुह्यन्ति कर्हिचित्॥१८॥

पुराणं परमं देवं देवदेवं सनातनम् ।
ये प्रपन्नाः सुरगुरुं न ते मुह्यन्ति कर्हिचित्॥१९॥

अनादिनिधनं देवं लोककर्तारमव्ययम् ।
ये भक्तास्त्वां हृषीकेश दुर्गाण्यतितरन्ति ते॥२०॥

परं पुराणं पुरुषं पराणां परमं च यत् ।
प्रपद्यतस्तत्परमं परा भूतिर्विधीयते॥२१॥

यत्परं मायातोऽपीति शेषः । अत एव पुराणं नित्यसिद्धम् । पुरुषं सर्वासु पूर्षु शयानम् । पराणां हिरण्यगर्भादीनामपि परमं मा बुद्धिस्ततोऽपि परं बुद्धेरविषयमित्यर्थः । तत्परमं सर्वोत्कृष्टमात्मानं प्रपद्यतः प्रपन्नस्य परा भूतिर्महदैश्वर्यं ‘एषाऽस्य परमा संपत्’ इति श्रुतिप्रसिद्धं प्रत्यक्षतो विधीयते स्वसंवेद्यं भवति ॥२१॥

गायन्ति चतुरो वेदा यश्च वेदेषु गीयते ।
तं प्रपद्य महात्मानं भूतिमश्नाम्यनुत्तमाम्॥२२॥

चतुरश्चत्वारः ॥२२॥

परमेश परेशेश तिर्यगीश नरेश्वर ।
सर्वेश्वरेश्वरेशेश नमस्ते पुरुषोत्तम॥२३॥

परा उत्कृष्टा मा संपत् ब्रह्मलोकोरुभोग्यमित्यर्थः । तत्परं सर्वोत्कृष्टमात्मा स चासावीशश्चेति समासः । सकलभोग्यस्वरूपोऽप्यच्युतस्वभाव इत्यर्थः । परेशः मायाशबलः स चासावीशश्चेति शाबल्यं प्राप्तोऽप्यविकृतः । एवं तिर्यक्त्वनरत्वरूपजीवत्वंप्राप्तोऽप्यविकृत इति तिर्यगीशनरेश्वरपदयोरर्थः । एतदेवाभ्यासेन द्रढयति । सर्वं वियदादि जडम् ईश्वरा भोक्तारो जीवाः ईश्वरेशो जीवानां नियन्ता तेषामीशः जगज्जीवेश्वराणामपि सत्तास्फूर्तिप्रदः अत एव पुरुषोत्तमः विराडादिभ्यः शुद्धचिन्मात्रस्तुरीय इत्यर्थः ॥२३॥

त्वमीशेशेश्वरेशान प्रभो वर्धस्व माधव ।
प्रभवाप्यय सर्वस्य सर्वात्मन्पृथुलोचन॥२४॥

कं त्वमेवंविधं पुरुषोत्तमं नमस्करोषीत्याशंक्याह- त्वमिति । हे ईशेश रुद्राद्याराध्य । ईश्वरा राजानस्तेषामपीशानो धर्मः । ‘तदेतत्क्षत्रस्य क्षत्रं यद्धर्मः’ इति श्रुतेस्तस्यापि प्रभो ‘धर्मस्य प्रभुरच्युतः’ इति स्मृतेः । सर्वस्य स्वातिरिक्तस्य प्रभवाप्यय उत्पत्तिप्रलयाधिष्ठानभूत अत एव सर्वात्मन् ॥२४॥

धनञ्जयसखा यश्च धनञ्जयहितश्च यः ।
धनञ्जयस्य गोप्ता तं प्रपद्य सुखमेधते॥२५॥

सखा वयस्यः । हितः प्रियकृत् । गोप्ता दुःखानिवारकः ॥२५॥

मार्कण्डेयः पुराणर्षिश्चरितज्ञस्तवानघ ।
माहात्म्यमनुभावं च पुरा कीर्तितवान्मुनिः॥२६॥

असितो देवलश्चैव नारदश्च महातपाः ।
पितामहश्च मे व्यासस्त्वामाहुर्विधिमुत्तमम्॥२७॥

त्वं तेजस्त्वं परं ब्रह्म त्वं सत्यं त्वं महत्तपः ।
त्वं श्रेयस्त्वं यशश्चाग्र्यं कारणं जगतस्तथा ।
त्वया सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम्॥२८॥

प्रलये समनुप्राप्ते त्वां वै निविशते पुनः ।
अनादिनिधनं देवं विश्वस्येशं जगत्पते॥२९॥

धातारमजमव्यक्तमाहुर्वेदविदो जनाः ।
भूतात्मानं महात्मानमनन्तं विश्वतोमुखम्॥३०॥

अपि देवा न जानन्ति गुह्यमाद्यं जगत्पतिम् ।
नारायणं परं देवं परमात्मानमीश्वरम्॥३१॥

ज्ञानयोनिं हरिं विष्णुं मुमुक्षूणां परायणम् ।
परं पुराणं पुरुषं पुराणानां परं च यत्॥३२॥

एवमादिगुणानां ते कर्मणां दिवि चेह च ।
अतीतभूतभव्यानां संख्याताऽत्र न विद्यते॥३३॥

सर्वतो रक्षणीयाः स्म शक्रेणेव दिवौकसः ।
यैस्त्वं सर्वगुणोपेतः सुहृन्न उपपादितः॥३४॥

इत्येवं धर्मराजेन हरिरुक्तो महायशाः ।
अनुरूपमिदं वाक्यं प्रत्युवाच जनार्दनः॥३५॥

भवता तपसोग्रेण धर्मेण परमेण च ।
साधुत्वादार्जवाच्चैव हतः पापो जयद्रथः॥३६॥

अयं च पुरुषव्याघ्र त्वदनुध्यानसंवृतः ।
हत्वा योधसहस्राणि न्यहन् जिष्णुर्जयद्रथम्॥३७॥

कृतित्वे बाहुवीर्ये च तथैवासंभ्रमेऽपि च ।
शीघ्रताऽमोघबुद्धित्वे नास्ति पार्थसमः क्वचित्॥३८॥

तदयं भरतश्रेष्ठ भ्राता तेऽद्य यदर्जुनः ।
सैन्यक्षयं रणे कृत्वा सिन्धुराजशिरोहरत्॥३९॥

ततो धर्मसुतो जिष्णुं परिष्वज्य विशांपते ।
प्रमृज्य वदनं तस्य पर्याश्वासयत प्रभुः॥४०॥

अतीव सुमहत्कर्म कृतवानसि फाल्गुन ।
असह्यं चाविषह्यं च दैवेरपि सवासवैः॥४१॥

दिष्ट्या निस्तीर्णभारोऽसि हतारश्चासि शत्रुहन् ।
दिष्ट्या सत्या प्रतिज्ञेयं कृता हत्वा जयद्रथम्॥४२॥

एवमुक्त्वा गुडाकेशं धर्मराजो महायशाः ।
पस्पर्श पुण्यगन्धेन पृष्ठे हस्तेन पार्थिवः॥४३॥

एवमुक्तौ महात्मानावुभौ केशवपाण्डवौ ।
तावब्रूतां तदा कृष्णौ राजानं पृथिवीपतिम्॥४४॥

तव कोपाग्निना दग्धः पापो राजा जयद्रथः ।
उत्तीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे॥४५॥

उत्तीर्णं लङ्घितम् ॥४५॥

हन्यन्ते निहताश्चैव विनक्ष्यन्ति च भारत ।
तव क्रोधहता ह्येते कौरवाः शत्रुसूदन॥४६॥

त्वां हि चक्षुर्हणं वीरं कोपयित्वा सुयोधनः ।
समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः॥४७॥

चक्षुर्हणं क्रोधदृष्टिमात्रेण हन्तारम् ॥४७॥

तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः ।
शरतल्पगतः शेते भीष्मः कुरुपितामहः॥४८॥

दुर्लभो विजयस्तेषां संग्रामे रिपुघातिनाम् ।
याता मृत्युवशं ते वै येषां क्रुद्धोऽसि पाण्डव॥४९॥

राज्यं प्राणाः श्रियः पुत्राः सौख्यानि विविधानि च ।
अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद॥५०॥

विनष्टान् कौरवान्मन्ये सपुत्रपशुबान्धवान् ।
राजधर्मपरे नित्यं त्वयि क्रुद्धे परन्तप॥५१॥

ततो भीमो महाबाहुः सात्यकिश्च महारथः ।
अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ॥५२॥

क्षितावास्तां महेष्वासौ पाञ्चाल्यपरिवारितौ ।
तौ दृष्ट्वा मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ॥५३॥

अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी ।
दिष्ट्या पश्यामि वां शूरौ विमुक्तौ सैन्यसागरात्॥५४॥

द्रोणग्राहदुराधर्षाद्धार्दिक्यमकरालयात् ।
दिष्ट्या विनिर्जिताः संख्ये पृथिव्यां सर्वपार्थिवाः॥५५॥

युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे ।
दिष्ट्या द्रोणो जितः संख्ये हार्दिक्यश्च महाबलः॥५६॥

दिष्ट्या विकर्णिभिः कर्णो रणे नीतः पराभवम् ।
विमुखश्च कृतः शल्यो युवाभ्यां पुरुषर्षभौ॥५७॥

दिष्ट्या युवां कुशलिनौ संग्रामात्पुनरागतौ ।
पश्यामि रथिनां श्रेष्ठावुभौ युद्धविशारदौ॥५८॥

मम वाक्यकरौ वीरौ मम गौरवयन्त्रितौ ।
सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि वामहम्॥५९॥

समरश्लाघिनौ वीरौ समरेष्वपराजितौ ।
मम वाक्यसमौ चैव दिष्ट्या पश्यामि वामहम्॥६०॥

इत्युक्त्वा पाण्डवो राजन् युयुधानवृकोदरौ ।
सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुमोच ह॥६१॥

ततः प्रमुदितं सर्वं बलमासीद्विशाम्पते ।
पाण्डवानां रणे हृष्टं युद्धाय तु मनो दधे॥६२॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि युधिष्ठिरहर्षे एकोनपञ्चाशदधिकशततमोऽध्यायः ॥१४९॥
पञ्चाशदधिकशततमोऽध्यायः

सञ्जय उवाच। सैन्धवे निहते राजन् पुत्रस्तव सुयोधनः ।
अश्रुपूर्णमुखो दीनो निरुत्साहो द्विषज्जये॥१॥

सैन्धवे इति ॥१॥

दुर्मना निःश्वसन् दुष्टो भग्नदंष्ट्र इवोरगः ।
आगस्कृत्सर्वलोकस्य पुत्रस्तेऽर्तिं परामगात्॥२॥

आर्तिमिति च्छेदः ॥२॥

दृष्ट्वा तत्कदनं घोरं स्वबलस्य कृतं महत् ।
जिष्णुना भीमसेनेन सात्वतेन च संयुगे॥३॥

स विवर्णः कृशो दीनो बाष्पविप्लुतलोचनः ।
अमन्यतार्जुनसमो न योद्धा भुवि विद्यते॥४॥

न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च ।
क्रुद्धस्य समरे स्थातुं पर्याप्ता इति मारिष॥५॥

निर्जित्य हि रणे पार्थः सर्वान्मम महारथान् ।
अवधीत्सैन्धवं संख्ये न च कश्चिदवारयत्॥६॥

सर्वथा हतमेवेदं कौरवाणां महद्बलम् ।
न ह्यस्य विद्यते त्राता साक्षादपि पुरन्दरः॥७॥

यमुपाश्रित्य संग्रामे कृतः शस्त्रसमुद्यमः ।
स कर्णो निर्जितः संख्ये हतश्चैव जयद्रथः॥८॥

यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम् ।
तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि॥९॥

एवं क्लान्तमना राजन्नुपायाद्द्रोणमीक्षितुम् ।
आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ॥१०॥

ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत् ।
परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः॥११॥

दुर्योधन उवाच। पश्य मूर्धाभिषिक्तानामाचार्य कदनं महत् ।
कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम्॥१२॥

तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः ।
पाञ्चाल्यैः सहितः सर्वैः सेनाग्रमभिवर्तते॥१३॥

प्रलुब्धः प्रकृष्टो लुब्धकस्तद्वद्वञ्चकत्वात् ॥१३॥

अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना ।
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः॥१४॥

अस्मद्विजयकामानां सुहृदामुपकारिणाम् ।
गन्तास्मि कथमानृण्यं गतानां यमसादनम्॥१५॥

ये मदर्थं परीप्सन्ते वसुधां वसुधाधिपाः ।
ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते॥१६॥

सोऽहं कापुरुषः कृत्वा मित्राणां क्षयमीदृशम् ।
अश्वमेधसहस्रेण पावितुं न समुत्सहे॥१७॥

मम लुब्धस्य पापस्य तथा धर्मापचायिनः ।
व्यायामेन जिगीषन्तः प्राप्ता वैवस्वतक्षयम्॥१८॥

धर्मापचायिनः धर्मक्षेपकस्य ॥१८॥

कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः ।
विवरं नाशकद्द्वातुं मम पार्थिवसंसदि॥१९॥

योऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम् ।
शयानं नाशकं त्रातुं भीष्ममायोधने हतम्॥२०॥

तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम् ।
किं वक्ष्यति हि दुर्धर्षः समेत्य परलोकजित्॥२१॥

जलसन्धं महेष्वासं पश्य सात्यकिना हतम् ।
मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम्॥२२॥

काम्बोजं निहतं दृष्ट्वा तथाऽलम्बुषमेव च ।
अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम॥२३॥

व्यायच्छन्तो हताः शूरा मदर्थे येऽपराङ्मुखाः ।
यतमानाः परं शक्त्या विजेतुमहितान्मम॥२४॥

तेषां गत्वाहमानृण्यमद्य शक्त्या परन्तप ।
तर्पयिष्यामि तानेव जलेन यमुनामनु॥२५॥

सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर ।
इष्टापूर्तेन च शपे वीर्येण च सुतैरपि॥२६॥

निहत्य तान् रणे सर्वान् पश्चालान् पाण्डवैः सह ।
शान्तिं लब्धाऽस्मि तेषां वा रणे गन्ता सलोकताम्॥२७॥

सोऽहं तत्र गमिष्यामि यत्र ते पुरुषर्षभाः ।
हता मदर्थे संग्रामे युद्ध्यमानाः किरीटिना॥२८॥

न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः ।
श्रेयो हि पाण्डून्मन्यन्ते न तथाऽस्मान्महाभुज॥२९॥

स्वयं हि मृत्युर्विहितः सत्यसन्धेन संयुगे ।
भवानुपेक्षां कुरुते शिष्यत्वादर्जुनस्य हि॥३०॥

अतो विनिहताः सर्वे येऽस्मज्जयचिकीर्षवः ।
कर्णमेव तु पश्यामि संप्रत्यस्मज्जयैषिणम्॥३१॥

यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः ।
मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति॥३२॥

तादृग्रूपं कृतमिदं मम कार्यं सुहृत्तमैः ।
मोहाल्लब्धस्य पापस्य जिह्मस्य धनमीहतः॥३३॥

हतो जयद्रथश्चैव सौमदत्तिश्च वीर्यवान् ।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः॥३४॥

सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः ।
हता मदर्थे संग्रामे युद्ध्यमानाः किरीटिना॥३५॥

न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान् ।
आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान्॥३६॥

आचार्यः पाण्डुपुत्राणामित्यपालम्भः ॥३६॥
इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि दुर्योधनानुतापे पञ्चाशदधिकशततमोऽध्यायः॥१५०॥
एकपञ्चाशदधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। सिन्धुराजे हते तात समरे सव्यसाचिना ।
तथैव भूरिश्रवसि किमासीद्वो मनस्तदा॥१॥

सिन्धुराज इति ॥१॥

दुर्योधनेन च द्रोणस्तथोक्तः कुरुसंसदि ।
किमुक्तवान्परं तस्मै तन्ममाचक्ष्व सञ्जय॥२॥

सञ्जय उवाच। निष्टानको महानासीत्सैन्यानां तव भारत ।
सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च॥३॥

निष्टानकः सव्यथः शब्दः ॥३॥

मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे ।
येन मन्त्रेण निहताः शतशः क्षत्रियर्षभाः॥४॥

द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः ।
मुहूर्तमिव तद्ध्यात्वा भृशमार्तोऽभ्यभाषत॥५॥

द्रोण उवाच। दुर्योधन किमेवं मां वाक्शरैरपि कृन्तसि ।
अजय्यं सततं संख्ये ब्रुवाणं सव्यचाचिनम्॥६॥

एतेनैवार्जुनं ज्ञातुमलं कौरव संयुगे ।
यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना॥७॥

अवध्यं निहतं दृष्ट्वा संयुगे देवदानवैः ।
तदैवाज्ञासिषमहं नेयमस्तीति भारती॥८॥

इयं सेना नास्तीत्यस्य नष्टेत्यर्थः ॥८॥

यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्महि ।
तस्मिन्निपतिते शूरे किं शेषं पर्युपास्महे॥९॥

यां स्म तान् ग्लहते तात शकुनिः कुरुसंसदि ।
अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः॥१०॥

ग्लहते पातयति ॥१०॥

त एते घ्नन्ति नस्तात विशिखाः पार्थचोदिताः ।
तांस्तदाऽऽख्यायमानस्त्वं विदुरेण न बुद्धवान्॥११॥

यास्ता विजयतश्चापि विदुरस्य महात्मनः ।
धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः॥१२॥

तदिदं वर्तते घोरमागतं वैशसं महत् ।
तस्यावमानाद्वाक्यस्य दुर्योधन कृते तव॥१३॥

योऽवमन्य वचः पथ्यं सुहृदामाप्तकारिणाम् ।
स्वमतं कुरुते मूढः स शोच्यो न चिरादिव॥१४॥

यच्च नः प्रेक्षमाणानां कृष्णामानाय्य तत्सभाम् ।
अनर्हन्तीं कुले जातां सर्वधर्मानुचारिणीम्॥१५॥

तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं महत् ।
नोचेत्पापं परे लोके त्वमर्च्छेथास्ततोऽधिकम्॥१६॥

नोचेदिति । परलोकेऽधिकः पापिनां क्लेश इह त्वल्पेनैव भोगेन निस्तार इति भावः ॥१६॥

यच्च तान्पाण्डवान् द्यूते विषमेण विजित्य ह ।
प्राव्राजयस्तदारण्ये रौरवाजिनवाससः॥१७॥

पुत्राणामिव चैतेषां धर्ममाचरतां सदा ।
द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः॥१८॥

पाण्डवानामयं कोपस्त्वया शकुनिना सह ।
आहृतो धृतराष्ट्रस्य संमते कुरुसंसदि॥१९॥

दुःशासनेन संयुक्तः कर्णेन परिवर्धितः ।
क्षत्तुर्वाक्यमनादृत्य त्वयाऽभ्यस्तः पुनः पुनः॥२०॥

अभ्यस्त आवर्तितः ॥२०॥

यत्ताः सर्वे पराभूताः पर्यवारयताऽर्जुनम् ।
सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः॥२१॥

कथं त्वयि च कर्णे च कृपे शल्ये च जीवति ।
अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत्॥२२॥

युध्यन्तः सर्वराजानस्तेजस्तिग्ममुपासते ।
सिन्धुराजं परित्रातुं स वो मध्ये कथं हतः॥२३॥

मय्येव हि विशेषेण तथा दुर्योधन त्वयि ।
आशंसत परित्राणमर्जुनात्स महीपतिः॥२४॥

ततस्तस्मिन्परित्राणमलब्धवति फाल्गुनात् ।
न किञ्चिद‌नुपश्यामि जीवितस्थानमात्मनः॥२५॥

मज्जन्तमिव चात्मान धृष्टद्युम्नस्य किल्बिषे ।
पश्याम्यहत्वा पञ्चालान्सह तेन शिखण्डिना॥२६॥

तन्मां किमभितप्यन्तं वाक्शरैरेव कृन्तसि ।
अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत॥२७॥

सौवर्णं सत्यसन्धस्य ध्वजमक्लिष्टकर्मणः ।
अपश्यन्युधि भीष्मस्य कथमाशंससे जयम्॥२८॥

मध्ये महारथानां च यत्राहन्यत सैन्धवः ।
हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे॥२९॥

कृप एव च दुर्धर्षो यदि जीवति पार्थिव ।
यो नागात्सिंन्धुराजस्य वर्त्म तं पूजयाम्यहम्॥३०॥

यत्रापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै ।
दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम्॥३१॥

अवध्यकल्पं संग्रामे देवैरपि सवासवैः ।
न ते वसुन्धराऽस्तीति तदाऽहं चिन्तये नृप॥३२॥

इमानि पाण्डवानां च सृञ्जयानां च भारत ।
अनीकान्याद्रवन्ते मां सहितान्यद्य भारत॥३३॥

नाहत्वा सर्वपञ्चालान्कवचस्य विमोक्षणम् ।
कर्ताऽस्मि समरे कर्म धार्तराष्ट्र हितं तव॥३४॥

राजन् ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे ।
न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता॥३५॥

यच्च पित्राऽनुशिष्टोऽसि तद्वचः परिपालय ।
आनृशंस्ये दमे सत्ये चाजवे च स्थिरो भव॥३६॥

धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन् ।
धर्मप्रधानकार्याणि कुर्याश्चेति पुनः पुनः॥३७॥

चक्षुर्मनोभ्यां सन्तोष्या विप्राः पूज्याश्च शक्तितः ।
न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः॥३८॥

एष त्वहमनीकानि प्रविशाम्यरिसूदन ।
रणाय महते राजंस्त्वया वाक्शरपीडितः॥३९॥

त्वं च दुर्योधन बलं यदि शक्तोऽसि पालय ।
रात्रावपि च योत्स्यन्ते संरब्धाः कुरुसृञ्जयाः॥४०॥

एवमुक्त्वा ततः प्रायाद्द्रोणः पाण्डवसृञ्जयान् ।
मुष्णन् क्षत्रियतेजांसि नक्षत्राणामिवांशुमान्॥४१॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि द्रोणवाक्ये एकपञ्चाशदधिकशततमोऽध्यायः॥१५१॥
द्विपञ्चाशदधिकशततमोऽध्यायः

सञ्जय उवाच। ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः ।
अमर्षवशमापन्नो युद्धायैव मनो दधे॥१॥

तत इति ॥१॥

अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव ।
पश्य कृष्णसहायेन पाण्डवेन किरीटिना॥२॥

आचार्यविहितं व्यूहं भित्त्वा देवैः सुदुर्भिदम् ।
तव व्यायच्छमानस्य द्रोणस्य च महात्मनः॥३॥

मिषतां योधमुख्यानां सैन्धवो विनिपातितः ।
पश्य राधेय पृथ्वीशाः पृथिव्यां प्रवरा युधि॥४॥

पार्थेनैकेन निहताः सिंहेनेवेतरे मृगाः ।
मम व्यायच्छमानस्य द्रोणस्य च महात्मनः॥५॥

अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह ।
कथं नियच्छमानस्य द्रोणस्य युधि फाल्गुनः॥६॥

भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे ।
प्रतिज्ञाया गतः पारं हत्वा सैन्धवमर्जुनः॥७॥

पश्य राधेय पृथ्वीशान् पृथिव्यां पातितान्बहून् ।
पार्थेन निहतान्संख्ये महेन्द्रोपमविक्रमान्॥८॥

अनिच्छतः कथं वीर द्रोणस्य युधि पाण्डवः ।
भिन्द्यात्सुदुर्भिदं व्यूहं यतमानस्य शुष्मिणः॥९॥

दयितः फाल्गुनो नित्यमाचार्यस्य महात्मनः ।
ततोऽस्य दत्तवान्द्वारमयुद्धेनैव शत्रुहन्॥१०॥

अभयं सिन्धुराजाय दत्त्वा द्रोणः परंतपः ।
प्रादात्किरीटिने द्वारं पश्य निर्गुणतां मयि॥११॥

यद्यदास्यदनुज्ञां वै पूर्वमेव गृहान्प्रति ।
प्रस्थातुं सिन्धुराजस्य नाभविष्यज्जनक्षयः॥१२॥

जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति ।
मयाऽनार्येण संरुद्धो द्रोणात्प्राप्याभयं सखे॥१३॥

अद्य मे भ्रातरः क्षीणाश्चित्रसेनाद‌यो रणे ।
भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम्॥१४॥

कर्ण उवाच। आचार्यं मा विगर्हस्व शक्त्याऽसौ युद्ध्यते द्विजः ।
यथाबलं यथोत्साहं त्यक्त्वा जीवितमात्मनः॥१५॥

यद्येनं समतिक्रम्य प्रविष्टः श्वेतवाहनः ।
नात्र सूक्ष्मोऽपि दोषः स्यादाचार्यस्य कथंचन॥१६॥

कृती दक्षो युवा शूरः कृतास्त्रो लघुविक्रमः ।
दिव्यास्त्रयुक्तमास्थाय रथं वानरलक्षणम्॥१७॥

कृष्णेन च गृहीताश्वमभेद्यकवचावृतः ।
गाण्डीवमजरं दिव्यं धनुरादाय वीर्यवान्॥१८॥

प्रवर्षन्निशितान्बाणान् बाहुद्रविणदर्पितः ।
यदर्जुनोऽभ्ययाद्द्रोणमुपपन्नं हि तस्य तत्॥१९॥

आचार्यः स्थविरो राजन् शीघ्रयाने तथाऽक्षमः ।
बाहुव्यायामचेष्टायामशक्तस्तु नराधिप॥२०॥

तेनैवमभ्यतिक्रान्तः श्वेताश्वः कृष्णसारथिः ।
तस्य दोषं न पश्यामि द्रोणस्यानेन हेतुना॥२१॥

अजय्यान्पाण्डवान्मन्ये द्रोणेनास्त्रविदा मृघे ।
तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः॥२२॥

दैवादिष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित् ।
यतो नो युध्यमानानां परं शक्त्या सुयोधन॥२३॥

अन्यथाभावः पराजयो दैवादिष्टः। नतु द्रोणापराधज इति भावः ॥२३॥

सैन्धवो निहतो युद्धे दैवमत्र परं स्मृतम् ।
परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे॥२४॥

हत्वाऽस्माकं पौरुषं वै देवं पश्चात्करोतिनः ।
सततं चेष्टमानानां निकृत्या विक्रमेण च॥२५॥

दैवोपसृष्टः पुरुषो यत्कर्म कुरुते क्वचित् ।
कृतं कृतं हि तत्कर्म दैवेन विनिपात्यते॥२६॥

दैवोपसृष्टो दुर्दैवग्रस्तः ॥२६॥

यत्कर्तव्यं मनुष्येण व्यवसायवता सदा ।
तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता॥२७॥

निकृत्या वञ्चिताः पार्था विषयोगैश्च भारत ।
दग्धा जतुगृहे चापि द्यूतेन च पराजिताः॥२८॥

राजनीतिं व्यपाश्रित्य प्रहिताश्चैव काननम् ।
यत्नेन च कृतं तत्तद्दैवेन विनिपातितम्॥२९॥

युध्यस्व यत्नमास्थाय दैवं कृत्वा निरर्थकम् ।
यततस्तव तेषां च दैवं मार्गेण यास्यति॥३०॥

दैवमविगणय्य यत्नमेवातिष्ठेत्याह – युध्यस्वेति । सुदृढोद्यमाद्दैवमपि मार्गेणानुकूलेन यास्यतीत्यर्थः ॥३०॥

न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित् ।
दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरुद्वह॥३१॥

तेषां जयहेतुः सुकृतं तव वा पराजयहेतुः दुष्कृतं नास्तीत्याह - न तेषामिति ॥३१॥

दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा ।
अनन्यकर्म दैवं हि जागर्ति स्वपतामपि॥३२॥

दैवमिति । अनन्यकर्म दैवमपि स्वकृतमेव न त्वन्यदस्ति ह्यस्तनो दोषोऽद्यतनेन गुणविशेषेण निराकर्तुं शक्यः । एवं दैवमपि यत्नेन बाधितुं शक्यमित्यर्थः ॥३२॥

बहूनि तव सैन्यानि योधाश्च बहवस्तव ।
न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत॥३३॥

तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः ।
शङ्के देवस्य तत्त्कर्म पौरुषं येन नाशितम्॥३४॥

देवानामिन्द्रियाणामध्यक्षभूतं विज्ञानं दैवं धीबलमित्यर्थः पौरुषं शारीरं बलम् ॥३४॥

सञ्जय उवाच। एवं संभाषमाणानां बहु तत्तज्जनाधिप ।
पाण्डवानामनीकानि समदृश्यन्त संयुगे॥३५॥

ततः प्रववृते युद्ध व्यतिषक्तरथ-द्विपम् ।
तावकानां परैः सार्धं राजन् दुर्मन्त्रिते तव॥३६॥

इति श्रीमहाभारते द्रोणपर्वणि जयद्रथवधपर्वणि पुनर्युद्धारंभे द्विपञ्चाशदधिकशततमोऽध्यायः॥१५२॥
समाप्तं जयद्रथवधपर्व

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in