द्रोणाभिषेकपर्व - १ - १संशप्तकवधपर्व - २ - २अभिमन्युवधपर्व - ३ - ३प्रतिज्ञापर्व - ४ - ४जयद्रथवधपर्व - ५ - ५घटोत्कचवधपर्व - ६ - ६द्रोणवधपर्व - ७ - ७नारायणास्त्रमोक्षपर्व - ८ - ८

घटोत्कचवधपर्व - ६

त्रिपञ्चाशदधिकशततमोऽध्यायः

सञ्जय उवाच। तदुदीर्णं गजानीकं बलं तव जनाधिप ।
पाण्डुसेनामतिक्रम्य योधयामास सर्वतः॥१॥

तदुदीर्णमित्यारभ्य रात्रियुद्धे जयद्रथवधात्क्रोधहर्षविवशाः कौरवपाण्डवा इवान्येऽपि निर्मर्यादं प्रवर्तन्ते इति प्रदर्शनार्थम् ॥१॥

पञ्चालाः कुरवश्चैव योधयन्तः परस्परम् ।
यमराष्ट्राय महते परलोकाय दीक्षिताः॥२॥

शूराः शूरैः समागम्य शर-तोमर-शक्तिभिः ।
विव्यधुः समरेऽन्योन्यं निन्युश्चैव यमक्षयम्॥३॥

रथिनां रथिभिः सार्धं रुधिरस्रावदारुणम् ।
प्रावर्तत महद्युद्धं निघ्नतामितरेतरम्॥४॥

वारणाश्च महाराज समासाद्य परस्परम् ।
विषाणैर्दारयामासुः सुसंक्रुद्धा मदोत्कटाः॥५॥

हयारोहान्हयारोहाः प्रास-शक्ति-परश्वधैः ।
बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः॥६॥

पत्तयश्च महाबाहो शतशः शस्त्रपाणयः ।
अन्योन्यमार्दयन् राजन्नित्यं यत्ताः पराक्रमे॥७॥

गोत्राणां नामधेयानां कुलानां चैव मारिष ।
श्रवणाद्धि विजानीमः पञ्चालान्कुरुभिः सह॥८॥

गोत्रं पित्रादि नाम शैनेय सात्यके इत्यादि कुलं पांड्यपांचाल्येत्यादि ॥८॥

तेऽन्योन्यं समरे योधाः शर-शक्ति-परश्वधैः ।
प्रैषयन्परलोकाय विचरन्तो ह्यभीतवत्॥९॥

शरा दश दिशो राजंस्तेषां मुक्ताः सहस्रशः ।
न भ्राजन्ते यथातत्त्वं भास्करेऽस्तंगतेऽपि च॥१०॥

तथा प्रयुध्यमानेषु पाण्डवेयेषु भारत ।
दुर्योधनो महाराज व्यवागाहत तद्बलम्॥११॥

सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः ।
मर्तव्यमिति सञ्चिन्त्य प्राविशच्च द्विषद्बलम्॥१२॥

नादयन् रथघोषेण कम्पयन्निव मेदिनीम् ।
अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम्॥१३॥

स सन्निपातस्तुमुलस्तस्य तेषां च भारत ।
अभवत्सर्वसैन्यानामभावकरणो महान्॥१४॥

यथा मध्यन्दिने सूर्यं प्रतपन्तं गभस्तिभिः ।
तथा तव सुतं मध्ये प्रतपन्तं शरार्चिभिः॥१५॥

न शेकुर्भ्रातरं युद्धे पाण्डवाः समुदीक्षितुम् ।
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये॥१६॥

भ्रातरं दुर्योधनम् ॥१६॥

पर्यधावन्त पञ्चाला वध्यमाना महात्मना ।
रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना॥१७॥

अद्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः ।
न तादृशं रणे कर्म कृतवन्तस्तु तावकाः॥१८॥

यादृशं कृतवान् राजा पुत्रस्तव विशांपते ।
पुत्रेण तव सा सेना पाण्डवी मथिता रणे॥१९॥

नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा ।
श्रीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी॥२०॥

बभूव पाण्डवी सेना तव पुत्रस्य तेजसा ।
पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत॥२१॥

भीमसेनपुरोगास्तु पञ्चालाः समुपाद्रवन् ।
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः॥२२॥

विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ।
धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः॥२३॥

केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः ।
सात्वतं पञ्चभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः॥२४॥

घटोत्कचं च समरे विद्ध्वा सिंह इवानदत् ।
शतशश्चापरान्योधान्सद्विपांश्च महारणे॥२५॥

सम्यगस्तैः दृढं प्रक्षिप्तैः ॥२५॥

शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ।
सा तेन पाण्डवी सेना वध्यमाना शिलीमुखैः॥२६॥

तव पुत्रेण संग्रामे विदुद्राव नराधिप ।
तं तपन्तमिवादित्यं कुरुराजं महाहवे॥२७॥

नाशकन्वीक्षितुं राजन्पाण्डुपुत्रस्य सैनिकाः ।
ततो युधिष्ठिरो राजा कुपितो राजसत्तम॥२८॥

अभ्यधावत्कुरुपात तव पुत्रं जिघांसया ।
तावुभौ युधि कौरव्यौ समीयतुररिन्दमा॥२९॥

स्वार्थहेतोः पराक्रान्तौ दुर्योधनयुधिष्ठिरौ ।
ततो दुर्योधनः क्रुद्धः शरैः सन्नतपर्वभिः॥३०॥

विव्याध दशभिस्तूर्णं ध्वजं चिच्छेद चेषुणा ।
इन्द्रसेनं त्रिभिश्चैव ललाटे जघ्निवान्नृप॥३१॥

सारथिं दयितं राज्ञः पाण्डवस्य महात्मनः ।
धनुश्च पुनरन्येन चकर्तास्य महारथः॥३२॥

चतुर्भिश्चतुरश्चैव बाणैर्विव्याध वाजिनः ।
ततो युधिष्ठिरः क्रुद्धो निमेषादिव कार्मुकम्॥३३॥

अन्यदादाय वेगेन कौरवं प्रत्यवारयत् ।
तस्य तान्निघ्नतः शत्रून् रुक्मपृष्ठं महद्धनुः॥३४॥

भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ।
विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः॥३५॥

मर्म भित्त्वा तु ते सर्वे संलग्नाः क्षितिमाविशन् ।
ततः परिवृता योधाः परिवव्रुर्युधिष्ठिरम्॥३६॥

वृत्रहत्यै यथा देवाः परिवव्रुः पुरन्दरम् ।
ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष ।
शरं च सूर्यरश्म्याभमत्युग्रमनिवारणम्॥३७॥

वृत्रहत्यै इति वध्यस्तुत्यै ॥३७॥

हा हतोऽसीति राजानमुक्त्वाऽमुञ्चद्युधिष्ठिरः ।
स तेनाकर्णमुक्तेन विद्धो बाणेन कौरवः॥३८॥

निषसाद रथोपस्थे भृशं संमूढचेतनः ।
ततः पाञ्चाल्यसेनानां भृशमासीद्रवो महान्॥३९॥

हतो राजेति राजेन्द्र मुदितानां समन्ततः ।
बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष॥४०॥

बाणशब्दरवः बाणशब्दसहितो रवः प्राणिशब्दः ॥४०॥

अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे ।
हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम्॥४१॥

तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ।
प्रत्युद्ययुस्तं त्वरिताः पञ्चाला जयगृद्धिनः॥४२॥

तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम् ।
चण्डवातोद्धुतान्मेघान्निघ्नन् रश्मिमुचो यथा॥४३॥

रश्मिमुचः सूर्यः इगुपधलक्षणकप्रत्ययान्तः शब्दः बहुवचनमेवैतत्प्रलयसूचकमिति वा ॥४३॥

ततो राजन्महानासीत्संग्रामो भूरिवर्धनः ।
तावकानां परेषां च समेतानां युयुत्सया॥४४॥

भूरिवर्धनः बहुच्छेदनः ॥४४॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे दुर्योधनपराभवे त्रिपञ्चाशदधिकशततमोऽध्यायः॥१५३॥
चतुष्पञ्चशदधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो बली ।
उक्त्वा दुर्योधनं मन्दं मम शास्त्रातिगं सुतम्॥१॥

यत्तदेति । शास्त्रातिगं शास्त्रमाज्ञा ॥१॥

प्रविश्य विचरन्तं च रथे शूरमवस्थितम् ।
कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन्॥२॥

केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महाहवे ।
के चोत्तरमरक्षन्त निघ्नतः शात्रवान्बहून्॥३॥

के चास्य पृष्ठतोऽन्वासन् वीरा वीरस्य योधिनः ।
के पुरस्तादवर्तन्त रथिनस्तस्य शत्रवः॥४॥

मन्ये तानस्पृशच्छीतमतिवेलमनार्तवम् ।
मन्ये ते समवेपन्त गावो वै शिशिरे यथा॥५॥

यत्प्राविशन्महेष्वासः पञ्चालानपराजितः ।
नृत्यन् स रथमार्गेषु सर्वशस्त्रभृतां वरः॥६॥

निर्दहन् सर्वसैन्यानि पञ्चालानां रथर्षभः ।
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान्॥७॥

धूमकेतुरग्निः ॥७॥

सञ्जय उवाच। सायान्हे सैन्धवं हत्वा राज्ञा पार्थः समेत्य च ।
सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम्॥८॥

तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः ।
पृथक्चमूभ्यां संयत्तौ द्रोणमेवाभ्यधावताम्॥९॥

तथैव नकुलो धीमान्सहदेवश्च दुर्जयः ।
धृष्टद्युम्नः सहानीको विराटश्च सकेकयः॥१०॥

मत्स्याः शाल्वाः ससेनाश्च द्रोणमेव ययुर्युधि ।
द्रुपदश्च तथा राजा पञ्चालैरभिरक्षितः॥११॥

धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत ।
द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः॥१२॥

ससैन्यास्ते न्यवर्तन्त द्रोणमेव महाद्युतिम् ।
प्रभद्रकाश्च पञ्चालाः षट्सहस्राः प्रहारिणः॥१३॥

द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम् ।
तथेतरे नरव्याघ्राः पाण्डवानां महारथाः॥१४॥

सहिताः संन्यवर्तन्त द्रोणमेव द्विजर्षभम् ।
तेषु शूरेषु युद्धाय गतेषु भरतर्षभ॥१५॥

संन्यवर्तन्त संमुखं नितरामवर्तन्त ॥१५॥

बभूव रजनी घोरा भीरूणां भयवर्धिनी ।
योधानामशिवा रौद्रा राजन्नन्तकगामिनी॥१६॥

कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा ।
तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः॥१७॥

न्यवेदयन्भयं घोरं सज्वालकवलैर्मुखैः ।
उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम्॥१८॥

विशेषतः कौरवाणां ध्वजिन्यामतिदारुणाः ।
ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान्॥१९॥

भेरीशब्देन महता मृदङ्गानां स्वनेन च ।
गजानां बृंहितैश्चापि तुरङ्गाणां च हेषितैः॥२०॥

खुरशब्द‌न्निपातैश्च तुमुलः सर्वतोऽभवत् ।
ततः समभवद्युद्धं सन्ध्यायामतिदारुणम्॥२१॥

द्रोणस्य च महाराज सृञ्जयानां च सर्वशः ।
तमसा चावृते लोके न प्राज्ञायत किञ्चन॥२२॥

सैन्येन रजसा चैव समन्तादुत्थितेन ह ।
नरस्याश्वस्य नागस्य समसज्जत शोणितम्॥२३॥

नापश्याम रजो भौमं कश्मलेनाभिसंवृताः ।
रात्रौ वंशवनस्येव दह्यमानस्य पर्वते॥२४॥

घोरश्चटचटाशब्दः शस्त्राणां पततामभूत् ।
मृदङ्गानकनिर्ह्रादैर्झर्झरैः पटहैस्तथा॥२५॥

फेत्कारैर्ह्रेषितैः शब्दैः सर्वमेवाकुलं बभौ ।
नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते॥२६॥

उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे ।
भौमं रजोऽथ राजेन्द्र शोणितेन प्रणाशितम्॥२७॥

शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽभ्यगात् ।
ततः सा भारती सेना मणिहेमविभूषिता॥२८॥

तमोऽभ्यगान्नाशमिति शेषः ॥२८॥

द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ ।
गोमायुबलसंघुष्टा शक्तिध्वजसमाकुला॥२९॥

वारणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता ।
तत्राभवन्महाशब्दस्तुमुलो लोमहर्षणः॥३०॥

समावृण्वन्दिशः सर्वा महेन्द्राशनिनिःस्वनः ।
सा निशीथे महाराज सेनाऽदृश्यत भारती॥३१॥

अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता ।
तत्र नागा रथाश्चैव जांबूनदविभूषिताः॥३२॥

निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः ।
ऋष्टि-शक्ति-गदा-बाण-मुसल-प्रास-पट्टिशाः॥३३॥

संपतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः ।
दुर्योधनपुरोवातां रथनागबलाहकाम्॥३४॥

वादित्रघोषस्तनितां चापविद्युद्ध्वजैर्वृताम् ।
द्रोणपाण्डवपर्जन्यां खड्गशक्तिगदाशनिम्॥३५॥

शरधारास्त्रपवनां भृशं शीतोष्णसंकुलाम् ।
घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लवाम्॥३६॥

तां प्राविशन्नतिभयां सेनां युद्धचिकीर्षवः ।
तस्मिन् रात्रिमुखे घोरे महाशब्दनिनादिते॥३७॥

भीरूणां त्रासजनने शूराणां हर्षवर्धने ।
रात्रियुद्धे महाघोरे वर्तमाने सुदारुणे॥३८॥

द्रोणमभ्यद्रवन् क्रुद्धाः सहिताः पाण्डुसृञ्जयाः ।
ये ये प्रमुखतो राजन्नावर्तन्त महारथाः॥३९॥

तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम् ।
तानि नागसहस्त्राणि रथानामयुतानि च॥४०॥

पदातिहयसङ्घानां प्रयुतान्यर्बुदानि च ।
द्रोणेनैकेन नाराचैर्निर्भिन्नानि निशामुखे॥४१॥

इति श्रीमहाभारते द्रोणपर्वणि धटोत्कचवधपर्वणि रात्रियुद्धे चतुःपञ्चाशदधिकशततमोऽध्यायः॥१५४॥
पञ्चपञ्चाशदधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि ।
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा॥१॥

तस्मिन्निति ॥१॥

दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम ।
यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत॥२॥

निहते सैन्धवे वीरे भूरिश्रवसि चैव ह ।
यदाभ्यगान्महातेजाः पञ्चालानपराजितः॥३॥

किममन्यत दुर्धर्षे प्रविष्टे शत्रुतापने ।
दुर्योधनस्तु किं कृत्यं प्राप्तकालममन्यत॥४॥

के च तं वरदं वीरमन्वयुर्द्विजसत्तमम् ।
के चास्य पृष्ठतोऽगच्छन् वीराः शूरस्य युध्यतः॥५॥

के पुरस्ताद्वर्तन्त निघ्नन्तः शात्रवान् रणे ।
मन्येऽहं पाण्डवान् सर्वान् भारद्वाजशरार्दितान्॥६॥

शिशिरे कंपमाना वै कृशा गाव इव प्रभो ।
प्रविश्य स महेष्वासः पञ्चालानरिमर्दनः ।
कथं तु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान्॥७॥

गावः गाः ॥७॥

सर्वेषु योधेषु च सङ्गतेषु रात्रौ समेतेषु महारथेषु ।
संलोड्यमानेषु पृथग्बलेषु के वस्तदानीं मतिमन्त आसन्॥८॥

हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि ।
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान्॥९॥

तेषां संलोड्यमानानां पाण्डवैर्हतचेतसाम् ।
अन्धे तमसि मग्नानामभवत्का मतिस्तदा॥१०॥

प्रहृष्टांश्चाप्युदग्रांश्च संतुष्टांश्चैव पाण्डवान् ।
शंससीहाप्रहृष्टांश्च विभ्रष्टांश्चैव मामकान्॥११॥

कथमेषां तदा तत्र पार्थानामपलायिनाम् ।
प्रकाशमभवद्रात्रौ कथं कुरुषु सञ्जय॥१२॥

सञ्जय उवाच। रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे ।
द्रोणमभ्यद्रवन्सर्वे पाण्डवाः सह सोमकैः॥१३॥

ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान् ।
संप्रैषयत्प्रेतलोकं सर्वानिषुभिराशुगैः॥१४॥

तस्य प्रमुखतो राजन् येऽवर्तन्त महारथाः ।
तान्सर्वान्प्रेषयामास पितृलोकं स भारत॥१५॥

प्रमथ्नन्तं तदा वीरान्भारद्वाजं महारथम् ।
अभ्यवर्तत संक्रुद्धः शिबी राजा प्रतापवान्॥१६॥

तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथम् ।
विव्याध दशभिर्बाणैः सर्वपारशवैः शितैः॥१७॥

तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः ।
सारथिं चास्य भल्लेन स्मयमानो न्यपातयत्॥१८॥

तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः ।
अथास्य सशिरस्त्राणं शिरः कायादपाहरत्॥१९॥

ततोऽस्य सारथिं क्षिप्रमन्यं दुर्योधनोऽदिशत् ।
स तेन संगृहीताश्वः पुनरभ्यद्रवद्रिपून्॥२०॥

कलिङ्गानामनीकेन कालिङ्गस्य सुतो रणे ।
पूर्वं पितृवधात्क्रुद्धो भीमसेनसुपाद्रवत्॥२१॥

स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ।
विशोकं त्रिभिरानर्च्छत् ध्वजमेकेन पत्त्रिणा॥२२॥

कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः ।
रथाद्रथमभिद्रुत्य मुष्टिनाऽभिजघान ह॥२३॥

तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा ।
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक् पृथक्॥१४॥

तं कर्णो भ्रातरश्चास्य नामृष्यन्त परंतप ।
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः॥२५॥

ततः शत्रुरथं त्यक्ता भीमो ध्रुवरथं गतः ।
ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत्॥२६॥

स तथा पाण्डुपुत्रेण बलिनाऽभिहतोऽपतत् ।
तं निहत्य महाराज भीमसेनो महाबलः॥२७॥

जयरातरथं प्राप्य मुहुः सिंह इवानदत् ।
जयरातमथाक्षिप्य नदन्सव्येन पाणिना॥२८॥

तलेन नाशयामास कर्णस्यैवाग्रतः स्थितः ।
कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत्॥२९॥

ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः ।
कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः॥३०॥

तामापतन्तीं चिच्छेद शकुनिस्तैलपायिना ।
एतत्कृत्वा महत्कर्म रणेऽद्भुतपराक्रमः॥३१॥

पुनः स्वरथमास्थाय दुद्राव तव वाहिनीम् ।
तमायान्तं जिघांसन्तं भीमं क्रुद्धमिवान्तकम्॥३२॥

न्यवारयन्महाबाहुं तव पुत्रा विशांपते ।
महता शरवर्षेण च्छादयन्तो महारथाः॥३३॥

दुर्मदस्तु ततो भीमः प्रहसन्निव संयुगे ।
सारथिं च ह्ययांश्चैव शरैर्निन्ये यमक्षयम्॥३४॥

दुर्मदस्तु ततो यानं दुष्कर्णस्यावचक्रमे ।
तावेकरथमारूढौ भ्रातरौ परतापनौ॥३५॥

संग्रामशिरसो मध्ये भीमं द्वावप्यधावताम् ।
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम्॥३६॥

ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ ।
रथमेकं समारुह्य भीमं बाणैरविध्यताम्॥३७॥

ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च ।
कृपस्य सोमदत्तस्य बाल्हीकस्य च पाण्डवः॥३८॥

दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम् ।
पादप्रहारेण धरां प्रावेशयदरिन्दिमः॥३९॥

ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ ।
मुष्टिनाऽऽहत्य संक्रुद्धो ममर्द च ननर्द च॥४०॥

ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाऽब्रुवन् ।
रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु युध्यति॥४१॥

एवमुक्त्वा पलायन्ते सर्वे भारत पार्थिवाः ।
विसंज्ञा वाहयन्वाहान्न च द्वौ सह धावतः॥४२॥

ततो बले भृशलुलिते निशामुखे सुपूजितो नृपवृषभैर्वृकोदरः ।
महाबलः कमलविबुद्धलोचनो युधिष्ठिरं नृपतिमपूजयद्बली॥४३॥

कमलविबुद्धलोचनो विलसत्पद्मनेत्रः ॥४३॥

ततो यमौ द्रुपद-विराट-केकया युधिष्ठिरश्चापि परां मुदं ययुः ।
वृकोदरं भृशमनुपूजयंश्च ते यथाऽन्धके प्रतिनिहते हरं सुराः॥४४॥

ततः सुतास्ते वरुणात्मजोपमा रुषान्विताः सह गुरुणा महात्मना ।
वृकोदरं सरथपदातिकुञ्जरा युयुत्सवो भृशमभिपर्यवारयन्॥४५॥

गुरुणा द्रोणेन ॥४५॥

ततोऽभवत्तिमिरघनैरिवावृते महाभये भयदमतीव दारुणम् ।
निशामुखे वृकबलगृध्रमोदनं महात्मनां नृपवरयुद्धमद्भुतम्॥४६॥

तिमिराण्येव घनास्तैः ॥४६॥
इति श्रीमहाभारते द्रोणवधपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे भीमपराक्रमे पञ्चपञ्चाशदधिकशततमोऽध्यायः॥१५५॥
षट्पञ्चाशदधिकशततमोऽध्यायः

सञ्जय उवाच। प्रायोपविष्टे तु हते पुत्रे सात्यकिना तदा ।
सोमद‌त्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत्॥१॥

प्राय इति ॥१॥

क्षत्रधर्मः पुरा दृष्टो यस्तु देवैर्महात्मभिः ।
तं त्वं सात्वत सन्त्यज्य दस्युधर्मे कथं रतः॥२॥

पराङ्मुखाय दीनाय न्यस्तशस्त्रायं सात्यके ।
क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे॥३॥

द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ ।
प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत॥४॥

कथं प्रायोपविष्टाय पार्थेन छिन्नबाहवे ।
नृशंसं पतनीयं च तादृशं कृतवानसि॥५॥

पतनीयं पातहेतुः पापम् ॥५॥

कर्मणस्तस्य दुर्वृत्त फलं प्राप्नुहि संयुगे ।
अद्य च्छेत्स्यामि ते मूढ शिरो विक्रम्य पत्रिणा॥६॥

शपे सात्वतपुत्राभ्यामिष्टेन सुकृतेन च ।
अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम्॥७॥

अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम् ।
न हन्यान्नरके घोरे पतेयं वृष्णिपांसन॥८॥

एवमुक्त्वा सुसंक्रुद्धः सोमदत्तो महाबलः ।
दध्मौ शङ्खं च तारेण सिंहनादं ननाद च॥९॥

तारेणोच्चस्वरेण ॥९॥

ततः कमलपत्राक्षः सिंहदंष्ट्रो दुरासदः ।
सात्यकिर्भृशसंक्रुद्धः सोमदत्तमथाब्रवीत्॥१०॥

कौरवेय न मे त्रासः कथंचिदपि विद्यते ।
त्वया सार्धमथान्यैश्च युध्यतो हृदि कश्चन॥११॥

यदि सर्वेण सैन्येन गुप्तो मां योधयिष्यसि ।
तथापि न व्यथा काचित्त्वयि स्यान्मम कौरव॥१२॥

युद्धसारेण वाक्येन असतां संमतेन च ।
नाहं भीषयितुं शक्यः क्षत्रवृत्ते स्थितस्त्वया॥१३॥

यदि तेऽस्ति युयुत्साऽद्य मया सह नराधिप ।
निर्दयो निशितैर्बाणैः प्रहर प्रहरामि ते॥१४॥

हतो भूरिश्रवा वीरस्तव पुत्रो महारथः ।
शलश्चैव महाराज भ्रातृव्यसनकर्षितः॥१५॥

त्वां चाप्यद्य वधिष्यामि सहपुत्रं सबान्धवम् ।
तिष्ठेदानीं रणे यत्तः कौरवोऽसि महारथः॥१६॥

यस्मिन्दानं दमः शौचमहिंसा ह्रीर्धृतिः क्षमा ।
अनपायानि सर्वाणि नित्यं राज्ञियुधिष्ठिरे॥१७॥

दानम् - स्वद्रव्यस्य परस्वत्वापादनम् । दमो - मनसो यथेष्टं विनियोगयोग्यता । शौचम् - सङ्करवर्जनम् । अहिंसा - सर्वभूतानामनभिद्रोहः । ह्रीः -अकर्तव्यान्निवर्तको धर्मः । क्षमा - अपकारिण्यकोपः ॥१७॥

मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा ।
सकर्णसौबलः संख्ये विनाशसुपयास्यसि॥१८॥

शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह ।
यदि त्वां ससुतं पापं न हन्यां युधि रोषितः॥१९॥

कृष्णचरणैः कृष्णयोश्चरणैः ॥१९॥

अपयास्यसि चेत्युक्त्वा रणं मुक्तो भविष्यसि ।
एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ॥२०॥

प्रवृत्तौ शरसंपातं कर्तुं पुरुषसत्तमौ ।
ततो रथसहस्त्रेण नागानामयुतेन च॥२१॥

दुर्योधनः सोमदत्तं परिवार्य समन्ततः ।
शकुनिश्च सुसंक्रुद्धः सर्वशस्त्रभृतां वरः॥२२॥

पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः ।
स्यालस्तव महाबाहुर्वज्रसंहननो युवा॥२३॥

साग्रं शतसहस्रं तु हयानां तस्य धीमतः ।
सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत॥२४॥

रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम् ।
तं छाद्यमानं विशिखैर्दृष्ट्वा सन्नतपर्वभिः॥२५॥

धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम् ।
चण्डवाताभिसृष्टानामुदधीनामिव स्वनः॥२६॥

आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम् ।
विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः॥२७॥

सात्यकिर्नवभिश्चैनमवधीत्कुरुपुङ्गवम् ।
सोऽतिविद्धो बलवता समरे दृढधन्विना॥२८॥

रथोपस्थं समासाद्य मुमोह गतचेतनः ।
तं विमूढं समालक्ष्य सारथिस्त्वरया युतः॥२९॥

अपोवाह रणाद्वीरं सोमदत्तं महारथम् ।
तं विसंज्ञं समालक्ष्य युयुधानशरार्दितम्॥३०॥

अभ्यद्रवत्ततो द्रोणो यदुवीरजिघांसया ।
तमायान्तमभिप्रेक्ष्य युधिष्ठिरपुरोगमाः॥३१॥

परिवव्रुर्महात्मानं परीप्सन्तो यदूत्तमम् ।
ततः प्रववृते युद्धं द्रोणस्य सह पाण्डवैः॥३२॥

शारद्वती कृपी । खचरान्वाणान् । खचरं राक्षसम् ॥३२॥

बलेरिव सुरैः पूर्वं त्रैलोक्यजयकाङ्क्षया ।
ततः सायकजालेन पाण्डवानीकमावृणोत्॥३३॥

भारद्वाजो महातेजा विव्याध च युधिष्ठिरम् ।
सात्यकिं दशभिर्बाणैर्विंशत्या पार्षतं शरैः॥३४॥

भीमसेनं च नवभिर्नकुलं पञ्चभिस्तथा ।
सहदेवं तथाऽष्टाभिः शतेन च शिखण्डिनम्॥३५॥

द्रौपदेयान्महाबाहुः पञ्चभिः पञ्चभिः शरैः ।
विराटं मत्स्यमष्टाभिर्द्रुपदं दशभिः शरैः॥३६॥

युधामन्युं त्रिभिः षड्भिरुत्तमौजसमाहवे ।
अन्यांश्च सैनिकान्विद्ध्वा युधिष्ठिरमुपाद्रवत्॥३७॥

ते वध्यमाना द्रोणेन पाण्डुपुत्रस्य सैनिकाः ।
प्राद्रवन्वै भयाद्राजन् सार्तनादा दिशो दश॥३८॥

काल्यमानं तु तत्सैन्यं दृष्ट्वा द्रोणेन फाल्गुनः ।
किञ्चिदागतसंरंभो गुरुं पार्थोऽभ्ययाद्द्रुतम्॥३९॥

दृष्ट्वा द्रोणस्तु बीभत्सुमभिधावन्तमाहवे ।
संन्यवर्तत तत्सैन्यं पुनर्यौधिष्ठिरं बलम्॥४०॥

ततो युद्धमभूद्भूयो भारद्वाजस्य पाण्डवैः ।
द्रोणस्तव सुतै राजन्सर्वतः परिवारितः॥४१॥

व्यधमत्पाण्डुसैन्यानि तूलराशिमिवानलः ।
तं ज्वलन्तमिवादित्यं दीप्तानलसमद्युतिम्॥४२॥

राजन्ननिशमत्यन्तं दृष्ट्वा द्रोणं शरार्चिषम् ।
मण्डलीकृतधन्वानं तपन्तमिव भास्करम्॥४३॥

दहन्तमहितान्सैन्ये नैनं कश्चिदवारयत् ।
यो यो हि प्रमुखे तस्य तस्थौ द्रोणस्य पूरुषः॥४७॥

तस्य तस्य शिरश्छित्त्वा ययुर्दोणशराः क्षितिम् ।
एवं सा पाण्डवी सेना वध्यमाना महात्मना॥४८॥

प्रदुद्राव पुनर्भीता पश्यतः सव्यसाचिनः ।
संप्रभग्नं चलं दृष्ट्वा द्रोणेन निशि भारत॥४९॥

गोविन्दमब्रवीज्जिष्णुर्गच्छ द्रोणरथं प्रति ।
ततो रजत-रजत-गोक्षीर-कुन्देन्दुसदृशप्रभान्॥५०॥

चोदयामास दाशार्हो हयान्द्रोणरथं प्रति ।
भीमसेनोऽपि तं दृष्ट्वा यान्तं द्रोणाय फाल्गुनम्॥५१॥

स्वसारथिमुवाचेदं द्रोणानीकाय मां वह ।
सोऽपि तस्य वचः श्रुत्वा विशोको वाहयद्धयान्॥५२॥

पृष्ठतः सत्यसन्धस्य जिष्णोर्भरतसत्तम ।
तौ दृष्ट्वा भ्रातरौ यत्तौ द्रोणानीकमभिद्रुतौ ॥५३॥

पञ्चालाः सृञ्जया मत्स्याश्चेदिकारूषकोसलाः ।
अन्वगच्छन्महाराज केकयाश्च महारथाः॥५४॥

ततो राजन्नभूद्घोरः संग्रामो लोमहर्षणः ।
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं च वृकोदरः॥५२॥

महद्भ्यां रथवृन्दाभ्यां बलं जगृहतुस्तव ।
तौ दृष्ट्वा पुरुषव्याघ्रौ भीमसेनधनञ्जयौ॥५३॥

धृष्टद्युम्नोऽभ्ययाद्राजन् सात्यकिश्च महाबलः ।
चण्डवाताभिपन्नानामुदधीनामिव स्वनः॥५४॥

आसीद्राजन्बलौघानां तदाऽन्योन्यमभिघ्नताम् ।
सौमदत्तिवधात्क्रुद्धो दृष्ट्वा सात्यकिमाहवे॥५५॥

द्रौणिरभ्यद्रवद्राजन्वधाय कृतनिश्चयः ।
तमापतन्तं संप्रेक्ष्य शैनेयस्य रथं प्रति॥५६॥

भैमसेनिः सुसंक्रुद्धः प्रत्यभित्रमवारयत् ।
कार्ष्णायसं महाघोरमृक्षचर्मपरिच्छदम्॥५७॥

कार्ष्णायसं तीक्ष्णलोहमयम् ॥५७॥

महान्तं रथमास्थाय त्रिंशन्नल्वांतरान्तरम् ।
विक्षिप्तयन्त्रसन्नाहं महामेघौघनिःस्वनम्॥५८॥

युक्तं गजनिभैर्वाहैर्न हयैर्नापि वारणैः ।
विक्षिप्तपक्षचरणविवृताक्षेण कूजता॥५९॥

न हयैर्नापि वारणैर्गजैः किं तु पिशाचैः ॥५९॥

ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजितम् ।
लोहितार्द्रपताकं तु अन्त्रमालाविभूषितम्॥६०॥

अष्टचक्रसमायुक्तमास्थाय विपुलं रथम् ।
शूलमुद्गरधारिण्या शैलपादपहस्तया॥६१॥

रक्षसां घोररूपाणामक्षौहिण्या समावृतः ।
तमुद्यतमहाचापं निशम्य व्यथिता नृपाः॥६२॥

युगान्तकालसमये दण्डहस्तमिवान्तकम् ।
ततस्तं गिरिशृङ्गाभं भीमरूपं भयावहम्॥६३॥

दंष्ट्राकरालोग्रमुखं शंकुकर्णं महाहनुम् ।
ऊर्ध्वकेशं विरूपाक्षं दीप्तास्यं निम्नितोदरम्॥६४॥

महाश्वभ्रगलद्वारं किरीटच्छन्नमूर्धजम् ।
त्रासनं सर्वभूतानां व्यात्ताननमिवान्तकम्॥६५॥

वीक्ष्य दीप्तमिवायान्तं रिपुविक्षोभकारिणम् ।
तमुद्यतमहाचापं राक्षसेन्द्रं घटोत्कचम्॥६६॥

भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी ।
वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी॥६७॥

घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः ।
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम्॥६८॥

ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः ।
सन्ध्याकालाधिकबलैः प्रयुक्ता राक्षसैः क्षितौ॥६९॥

आयसानि च चक्राणि भुशुण्ड्यः प्रास-तोमराः ।
पतन्त्यविरताः शूलाः शतघ्न्यः पट्टिशास्तथा॥७०॥

तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः ।
तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः॥७१॥

तत्रैकोऽस्त्रवलश्लाघी द्रौणिर्मानी न विव्यथे ।
व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम्॥७२॥

विहतायां तु मायायाममर्षी स घटोत्कचः ।
विससर्ज शरान्घोरांस्तेश्वत्थामानमाविशन्॥७३॥

भुजङ्गा इव वेगेन वल्मीकं क्रोधमूर्च्छिताः ।
ते शरा रुधिराक्ताङ्गा भित्त्वा शारद्वतीसुतम्॥७४॥

विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः ।
अश्वत्थामा तु संक्रुद्धो लघुहस्तः प्रतापवान्॥७५॥

घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः ।
घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु॥७६॥

चक्रं शतसहस्त्रारमगृह्णाद्व्यथितो भृशम् ।
क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम्॥७७॥

अश्वत्थाम्नि स चिक्षेप भैमसेनिर्जिघांसया ।
वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः॥७८॥

अभाग्यस्येव संकल्पस्तन्मोघमपतद्भुवि ।
घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम्॥७९॥

द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ।
घटोत्कचसुतः श्रीमान् भिन्नाञ्जनचयोपमः॥८०॥

रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् ।
पौत्रेण भीमसेनस्य शरैरञ्जनपर्वणा॥८१॥

बभौ मेघेन धाराभिर्गिरिर्मेरुरिवावृतः ।
अश्वत्थामा त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः॥८२॥

ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः ।
द्वाभ्यां तु रथयन्तारौ त्रिभिश्चास्य त्रिवेणुकम्॥८३॥

धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ।
विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम्॥८४॥

विशिखेन सुतीक्ष्णेन खड्गमस्य द्विधाऽकरोत् ।
गदां हेमाङ्गदां राजंस्तूर्णं हैडिम्बिसूनुना॥८५॥

भ्राम्योत्क्षिप्ता शरैः साऽपि द्रौणिनाभ्याहताऽपतत् ।
ततोऽन्तरिक्षमुत्प्लुत्य कालमेघ इवोन्नदन्॥८६॥

ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात् ।
ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि॥८७॥

मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ।
सोऽवतीर्य पुरस्तस्थौ रथे हेमविभूषिते॥८८॥

महीगत इवात्युग्रः श्रीमानञ्जनपर्वतः ।
तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम्॥८९॥

जघानाञ्जनपर्वाणं महेश्वर इवान्धकम् ।
अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम्॥९०॥

द्रौणेः सकाशमभ्येत्य रोषात्प्रज्वलिताङ्गदः ।
प्राह वाक्यमसंभ्रान्तो वीरं शारद्वतीसुतम्॥९१॥

दहन्तं पाण्डवानीकं वनमग्निमिवोच्छ्रितम् ।
घटोत्कच उवाच। तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि॥९२॥

त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा ।
अश्वत्थामोवाच ।
गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम॥९३॥

गच्छ वत्सेति पुत्रेणेति च भीमसेनसम्बन्धात् ॥९३॥

न हि पुत्रेण हैडिम्बे पिता न्याय्यः प्रबाधितुम् ।
कामं खलु न रोषो मे हैडिम्बे विद्यते त्वयि॥९४॥

किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत ।
सञ्जय उवाच। श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः॥९५॥

आत्मानमपि हन्यात्किमु पुत्रमतो जीवनार्थी त्वं निवर्तस्वेति भावः ॥९५॥

अश्वत्थामानमायस्तो भैमसेनिरभाषत ।
किमहं कातरो द्रौणे पृथग्जन इवाहवे॥९६॥

आयस्तो कोपितः ॥९६॥

यन्मां भीषयसे वाग्भिरसदेतद्वचस्तव ।
भीमात्खलु समुत्पन्नः कुरूणां विपुले कुले॥९७॥

पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम् ।
रक्षसामधिराजोऽहं दशग्रीवसमो बले॥९८॥

तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ।
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे॥९९॥

इत्युक्त्वा क्रोधताम्राक्षो राक्षसः सुमहाबलः ।
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी॥१००॥

रथाक्षमात्रैरिषुभिरभ्यवर्षद्धटोत्कचः ।
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः॥१०१॥

शरवृश्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत् ।
ततोन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत्॥१०२॥

अथास्त्रसंमर्दकृतैर्विस्फुलिङ्गैस्तदा बभौ ।
विभावरीमुखे व्योम खद्योतैरिव चित्रितम्॥१०३॥

निशाम्य निहतां मायां द्रौणिना रणमानिना ।
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः॥१०४॥

सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः ।
शूलप्रासासिमुसलजलप्रस्स्रवणो महान्॥१०५॥

तमञ्जनगिरिप्रख्यं द्रौणिर्दृष्ट्वा महीधरम् ।
प्रपतद्भिश्च बहुभिः शस्त्रसङ्घैर्न विव्यथे॥१०६॥

ततो हसन्निव द्रौणिर्वज्रमस्त्रमुदैरयत् ।
स तेनास्त्रेण शैलेन्द्रः क्षिप्तः क्षिप्रं व्यनश्यत॥१०७॥

ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि ।
अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे॥१०८॥

अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः ।
व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम्॥१०९॥

स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वशः ।
शतं रथसहस्त्राणां जघान द्विपदां वरः॥११०॥

स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम् ।
घटोत्कचमसंभ्रान्तं राक्षसैर्बहुभिर्वृतम्॥१११॥

सिंहशार्दूलसदृशैर्मत्तद्विरद‌विक्रमैः ।
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि॥११२॥

विकृतास्यशिरोग्रीवैर्हिडिम्बानुचरैः सह ।
पौलस्त्यैर्यातुधानैश्च तामसैश्चेन्द्रविक्रमैः॥११३॥

नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः ।
महाबलैर्भीमरवैः संरंभोद्वृत्तलोचनैः॥११४॥

उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः ।
विषण्णमभिसंप्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत्॥११५॥

तिष्ठ दुर्योधनाद्य त्वं न कार्यः संभ्रमस्त्वया ।
सहैभिर्भातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः॥११६॥

निहनिष्याम्यमित्रांस्ते न तवास्ति पराजयः ।
सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम्॥११७॥

दुर्योधन उवाच। न त्वेतद‌द्भुतं मन्ये यत्ते महदिदं मनः ।
अस्मासु च परा भक्तिस्तव गौतमिनन्दन॥११८॥

सञ्जय उवाच। अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत् ।
वृतं रथसहस्रेण हयानां रणशोभिनाम्॥११९॥

षष्ठ्या रथसहस्त्रैश्च प्रयाहि त्वं धनञ्जयम् ।
कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च॥१२०॥

उदीच्याः कृतवर्मा च पुरुमित्रः सुतापनः ।
दुःशासनो निकुंभश्च कुण्डभेदी पराक्रमः॥१२१॥

पुरञ्जयो दृढरथः पताकी हेमकम्पनः ।
शल्यारुणींद्रसेनाश्च सञ्जयो विजयो जयः॥१२२॥

कमलाक्षः परक्राथी जयवर्मा सुदर्शनः ।
एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट्॥१२३॥

जहि भीमं यमौ चोभौ धर्मराजं च मातुल ।
असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता॥१२४॥

दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान् ।
जहि मातुल कौन्तेयानसुरानिव पावकिः॥१२५॥

एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः ।
पिप्रीषुस्ते सुतान् राजन्दिधक्षुश्चैव पाण्डवान्॥१२६॥

अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे ।
विभावर्यां सुतुमुलं शक्रप्रह्लाद‌दयोरिव॥१२७॥

ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम् ।
जघानोरसि संक्रुद्धो विषाग्निप्रतिमैर्दृढैः॥१२८॥

स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः ।
चचाल रथमध्यस्थो वातोद्भूत इव द्रुमः॥१२९॥

भूयश्चाञ्जलिकेनाथ मार्गणेन महाप्रभम् ।
द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः॥१३०॥

ततोऽन्यद्द्रौणिरादाय धनुर्भारसहं महत् ।
ववर्ष विशिखांस्तीक्ष्णान् वारिधारा इवांबुदः॥१३१॥

ततः शारद्वतीपुत्रः प्रेषयामास भारत ।
सुवर्णपुंखाञ्छत्रुघ्नान् खचरान् खचरं प्रति॥१३२॥

तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् ।
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम्॥१३३॥

विधम्य राक्षसान्बाणैः साश्वसूतरथद्विपान् ।
ददाह भगवान्वह्निर्भूतानीव युगक्षये॥१३४॥

स दग्ध्वाऽक्षौहिणीं बाणैर्नैर्ऋतीं रुरुचे नृप ।
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः॥१३५॥

युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः ।
रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान्॥१३६॥

वसुरुल्बणः अग्निः प्रलयकालिकः ॥१३६॥

ततो घटोत्कचः क्रुद्धो रक्षसां भीमकर्मणाम् ।
द्रौणिं हतेति महतीं चोदयामास तां चमूम्॥१३७॥

घटोत्कचस्य तामाज्ञां प्रतिगृह्याथ राक्षसाः ।
दंष्ट्रोज्ज्वला महावक्त्रा घोररूपा भयानकाः॥१३८॥

व्यात्तानना घोरजिह्वाः क्रोधताम्रेक्षणा भृशम् ।
सिंहनादेन महता नादयन्तो वसुन्धराम्॥१३९॥

हन्तुमभ्यद्रवन्द्रौणिं नानाप्रहरणायुधाः ।
शक्तीः शतघ्नीः परिधानशनीः शूलपट्टिशान्॥१४०॥

खड्गान् गदाभिन्दिपालान् मुसलानि परश्वधान् ।
प्रासानसींस्तोमरांश्च कणपान्कम्पनाञ्छितान्॥१४१॥

स्थूलान् भुशुण्ड्यश्मगदास्थूणान् कार्ष्णायसांस्तथा ।
मुद्गरांश्च महाघोरान् समरे शत्रुदारणान्॥१४२॥

द्रौणिमूर्धन्यसंत्रस्ता राक्षसा भीमविक्रमाः ।
चिक्षिपुः क्रोधताम्राक्षाः शतशोथ सहस्रशः॥१४३॥

तच्छस्त्रवर्षं सुमहद्द्रोणपुत्रस्य मूर्धनि ।
पतमानं समीक्ष्याथ योधास्ते व्यथिताऽभवन्॥१४४॥

द्रोणपुत्रस्तु विक्रान्तस्तद्वर्षं घोरमुच्छ्रितम् ।
शरैर्विध्वंसयामास वज्रकल्पैः शिलाशितैः॥१४५॥

ततोऽन्यौर्विशिखैस्तूर्णं स्वर्णपुंखैर्महामनाः ।
निजघ्ने राक्षसान्द्रौणिर्दिव्यास्त्रप्रतिमन्त्रितैः॥१४६॥

तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् ।
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम्॥१४७॥

ते राक्षसाः सुसंक्रुद्धा द्रोणपुत्रेण ताडिताः ।
क्रुद्धाः स्म प्राद्रवन्द्रौणिं जिघांसन्तो महाबलाः॥१४८॥

तत्राद्भुतमिमं द्रौणिर्दर्शयामास विक्रमम् ।
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत॥१४९॥

यदेको राक्षसीं सेनां क्षणाद्द्रौणिर्महास्त्रवित् ।
ददाह ज्वलितैर्बाणै राक्षसेन्द्रस्य पश्यतः॥१५०॥

स हत्वा राक्षसानीकं रराज द्रौणिराहवे ।
युगान्ते सर्वभूतानि संवर्तक इवानलः॥१५१॥

तं दहन्तमनीकानि शरैराशीविषोपमैः ।
तेषु राजसहस्त्रेषु पाण्डवेयेषु भारत॥१५२॥

नैनं निरीक्षितुं कश्चिदशक्नोद्द्रौणिमाहवे ।
ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात्॥१५३॥

स पुनर्भरतश्रेष्ठ क्रोधादुद्भ्रान्तलोचनः ।
तलं तलेन संहत्य संदश्य दशनच्छदम्॥१५४॥

स्वं सूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह ।
स ययौ घोररूपेण सुपताकेन भास्वता॥१५५॥

द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः ।
स विनद्य महानादं सिंहवद्भीमविक्रमः॥१५६॥

चिक्षेपाविध्य संग्रामे द्रोणपुत्राय राक्षसः ।
अष्टघण्टां महाघोरामशनिं देवनिर्मिताम्॥१५७॥

तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः ।
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे॥१५८॥

साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा ।
विवेश वसुधां भित्त्वा साऽशनिर्भृशदारुणा॥१५९॥

द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन् ।
यदवप्लुत्य जग्राह घोरां शङ्करनिर्मिताम्॥१६०॥

धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप ।
धनुर्घोरं समादाय महदिन्द्रायुधोपमम् ।
मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि॥१६१॥

धृष्टद्युम्नस्त्वसंभ्रान्तो मुमोचाशीविषोपमान् ।
सुवर्णपुंखान्विशिखान्द्रोणपुत्रस्य वक्षसि॥१६२॥

ततो मुमोच नाराचान्द्रौणिस्तांश्च सहस्रशः ।
तावप्यग्निशिखप्रख्यैर्जघ्नतुस्तस्य मार्गणान्॥१६३॥

अतितीव्रं महद्युद्धं तयोः पुरुषसिंहयोः ।
योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ॥१६४॥

ततो रथसहस्त्रेण द्विरदानां शतैस्त्रिभिः ।
षड्भिर्वाजिसहस्त्रैश्च भीमस्तं देशमागमत्॥१६५॥

ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् ।
अयोधयत धर्मात्मा द्रौणिरक्लिष्टविक्रमः॥१६६॥

तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम् ।
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत॥१६७॥

निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् ।
अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत्॥१६८॥

मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च ।
यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च॥१६९॥

प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः ।
निपेतुर्द्विरदा भूमौ सशृङ्गा इव पर्वताः॥१७०॥

निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः ।
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः॥१७१॥

क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ ।
द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये॥१७२॥

प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम् ।
छत्रहंसावलीजुष्टां फेनचामरमालिनीम्॥१७३॥

कङ्कगृध्रमहाग्राहां नैकायुधझषाकुलाम् ।
विस्तीर्णगजपाषाणां हताश्वमकराकुलाम्॥१७४॥

रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम् ।
शरमीनां महारौद्रां प्रासशक्त्यृष्टिडुण्डुभाम्॥१७५॥

मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम् ।
केशशैवलकल्माषां भीरूणां कश्मलावहाम्॥१७६॥

नागेन्द्रहययोधानां शरीरव्ययसंभवाम् ।
शोणितौघमहाघोरां द्रौणिः प्रावर्तयन्नदीम्॥१७७॥

योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् ।
श्वापदातिमहाघोरां यमराष्ट्रमहोदधिम्॥१७८॥

निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बिमार्दयत् ।
पुनरप्यतिसंक्रुद्धः सवृकोदरपार्षतान्॥१७९॥

स नाराचगणैः पार्थान्द्रौणिर्विद्ध्वा महाबलः ।
जघान सुरथं नाम द्रुपदस्य सुतं विभुः॥१८०॥

पुनः शत्रुञ्जयं नाम द्रुपदस्यात्मजं रणे ।
बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान्॥१८१॥

श्रुताह्वयं च राजानं द्रौणिर्निन्ये यमक्षयम् ।
त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खैर्हेममालिनम्॥१८२॥

जघान स पृषध्रं च चन्द्रसेनं च मारिष ।
कुन्तिभोजसुतांश्चासौ दशभिर्दश जघ्निवान्॥१८३॥

अश्वत्थामा सुसंक्रुद्धः सन्धायोग्रमजिह्मगम् ।
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम्॥१८४॥

यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ।
स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः॥१८५॥

विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते ।
तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः॥१८६॥

द्रौणेः सकाशाद्राजेन्द्र व्यपनिन्ये रथोत्तमम् ।
ततः पराङ्मुखनृपं सैन्यं यौधिष्ठिरं नृप॥१८७॥

पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह ।
पूजितः सर्वभूतेषु तव पुत्रैश्च भारत॥१८८॥

अथ शरशतभिन्नकृत्तदेहैर्हतपतितैः क्षणदाचरैः समन्तात् ।
निधनमुपगतैर्मही कृताऽभूद्गिरिशिखरैरिव दुर्गमाऽतिरौद्रा॥१८९॥

तं सिद्धगन्धर्वपिशाचसंघा नागाः सुपर्णाः पितरो वयांसि ।
रक्षोगणा भूतगणाश्च द्रौणिमपूजयन्नप्सरसः सुराश्च॥१९०॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे षट्पञ्चाशदधिकशततमोऽध्यायः॥१५६॥
सप्तपञ्चाशदधिकशततमोऽध्यायः

सञ्जय उवाच। द्रुपदस्यात्मजान् दृष्ट्वा कुन्तिभोजसुतांस्तथा ।
द्रोणपुत्रेण निहतान् राक्षसांश्च सहस्रशः॥१॥

द्रुपदस्येति ॥१॥

युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः ।
युयुधानश्च संयत्ता युद्धायैव मनो दधुः॥२॥

सोमदत्तः पुनः क्रुद्धो दृष्ट्वा सात्यकिमाहवे ।
महता शरवर्षेण च्छादयामास भारत॥३॥

ततः समभवद्युद्धमतीव भयवर्धनम् ।
त्वदीयानां परेषां च घोरं विजयकांक्षिणाम्॥४॥

तं दृष्ट्वा समुपायान्तं रुक्मपुङ्खैः शिलाशितैः ।
दशभिःसात्वतस्यार्थे भीमो विव्याध सायकैः॥५॥

सोमद‌त्तोऽपि तं वीरं शतेन प्रत्यविध्यत ।
सात्वतस्त्वभिसंक्रुद्धः पुत्राधिभिरभिप्लुतम्॥६॥

वृद्धं वृद्धगुणैर्युक्तं ययातिमिव नाहुषम् ।
विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातनैः॥७॥

शक्त्या चैन विनिर्भिद्य पुनर्विव्याध सप्तभिः ।
ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम्॥८॥

मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि ।
सात्त्वतोऽप्यग्निसंकाशं मुमोच शरमुत्तमम्॥९॥

सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि ।
युगपत्पेततुर्वीरे घोरौ परिघमार्गणौ॥१०॥

शरीरे सोमदत्तस्य स पपात महारथः ।
व्यामोहिते तु तनये बाल्हीकस्तमुपाद्रवत्॥११॥

विसृजञ्छरवर्षाणि कालवर्षीव तोयदः ।
भीमोऽथ सात्वतस्यार्थे बाल्हीकं नवभिःशरैः॥१२॥

प्रपीडयन्महात्मानं विव्याध रणमूर्धनि ।
प्रातिपेयस्तु संक्रुद्धः शक्तिं भीमस्य वक्षसि॥१३॥

निचखान महाबाहुः पुरन्दर इवाशनिम् ।
स तथाऽभिहतो भीमश्चकंपे च मुमोह च॥१४॥

प्राप्य चेतश्च बलवान् गदामस्मै ससर्ज ह ।
सा पांडवेन प्रहिता बाल्हीकस्य शिरोऽहरत्॥१५॥

स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट् ।
तस्मिन्विनिहते वीरे बाल्हीके पुरुषर्षभ॥१६॥

पुत्रास्तेऽभ्यर्दयन् भीमं दश दाशरथेः समाः ।
नागद‌त्तो दृढरथो महाबाहुरयोभुजः॥१७॥

दृढः सुहस्तो विरजाः प्रमाथ्युग्रोऽनुयाय्यपि ।
तान्दृष्ट्वा चुक्रुधे भीमो जगृहे भारसाधनान्॥१८॥

एकमेकं समुद्दिश्य पातयामास मर्मसु ।
ते विद्धा व्यसवः पेतुः स्यन्दनेभ्यो हतौजसः॥१९॥

चण्डवातप्रभग्नास्तु पर्वताग्रान्महीरुहाः ।
नाराचैदर्शभिर्भीमस्तां निहत्य तवात्मजान्॥२०॥

कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत् ।
ततो वृकरथो नाम भ्राता कर्णस्य विश्रुतः॥२१॥

जघान भीमं नाराचैस्तमप्यभ्यद्रवद्बली ।
ततः सप्त रथान्वीरः स्यालानां तव भारत॥२२॥

निहत्य भीमो नाराचैः शतचन्द्रमपोथयत् ।
अमर्षयन्तो निहतं शतचन्द्रं महारथम्॥२३॥

शकुनेर्भ्रातरो वीरा गवाक्षः शरभो विभुः ।
सुभगो भानुदत्तश्च शूराः पञ्च महारथाः॥२४॥

अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन् ।
स ताड्यमानो नाराचैर्वृष्टिवेगैरिवाचलः॥२५॥

जघान पञ्चभिर्बाणैः पञ्चैवातिरथान्बली ।
तान् दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः॥२६॥

ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत् ।
मिषतः कुंभयोनेस्तु पुत्राणां तव चानघ॥२७॥

अम्बष्ठान्मालवाञ्छूरांस्त्रिगर्तान्स शिबीनपि ।
प्राहिणोन्मृत्युलोकाय क्रुद्धो युद्धे युधिष्ठिरः॥२८॥

अभीषाहाञ्छूरसेनान् बाह्लीकान् सवसातिकान् ।
निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम्॥२९॥

यौधेयान्मालवान् राजन्मद्रकाणां गणा युधि ।
प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः॥३०॥

हताहरत गृह्णीत विध्यत व्यवकृन्तत ।
इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति॥३१॥

सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम् ।
चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत्॥३२॥

द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम् ।
विव्याध सोऽपि तद्दिव्यमस्त्रमस्त्रेण जघ्निवान्॥३३॥

तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे ।
वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च॥३४॥

चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम् ।
क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः॥३५॥

जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन् ।
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसंभवः॥३६॥

प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत ।
जिघांसुर्धर्मतनयं तव पुत्रहिते रतः॥३७॥

पतिः कुरूणां गजसिंहगामी विशालवक्षाः पृथुलोहिताक्षः ।
प्रादुश्चकारास्त्रमहीनतेजा माहेन्द्रमन्यत्स जघान तेन॥३८॥

पतिः कुरूणां युधिष्ठिरः ॥३८॥

विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः ।
युधिष्ठिरवधं प्रेप्सुर्ब्राह्ममस्त्रमुदैरयत्॥३९॥

ततो नाज्ञासिषं किञ्चिद्घोरेण तमसाऽऽवृते ।
सर्वभूतानि च परं त्रासं जग्मुर्महीपते॥४०॥

ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः ।
ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत्॥४१॥

ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ ।
द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ॥४२॥

ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम् ।
व्यधमत्क्रोधताम्राक्षो वायव्यास्त्रेण भारत॥४३॥

ते हन्यमाना द्रोणेन पञ्चालाः प्राद्रवन्भयात् ।
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः॥४४॥

ततः किरीटी भीमश्च सहसा संन्यवर्तताम् ।
महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तदा॥४५॥

बीभत्सुर्दक्षिणं पार्श्वमुत्तरं च वृकोद्ररः ।
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम्॥४६॥

केकयाः सृञ्जयाश्चैव पञ्चालाश्च महौजसः ।
अन्वगच्छन्महाराज मत्स्याश्च सह सात्वतैः॥४७॥

ततः सा भारती सेना वध्यमाना किरीटिना ।
तमसा निद्रया चैव पुनरेव व्यदीर्यत॥४८॥

द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च ।
नाशक्यन्त महाराज योधा वारयितुं तदा॥४९॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे द्रोणयुधिष्ठिरयुद्धे सप्तपञ्चाशदधिकशततमोऽध्यायः॥१५७॥
अष्टपञ्चाशदधिकशततमोऽध्यायः

सञ्जय उवाच। उदीर्यमाणं तदृष्ट्वा पाण्डवानां महद्बलम् ।
अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत्॥१॥

उदीर्यमाणं तद्दृष्ट्वेति तथा परुषितं दृष्ट्वेति च स्पष्टार्थावध्यायौ ॥१॥

अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल ।
त्रायस्व समरे कर्ण सर्वान्योधान्महारथान्॥२॥

पञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः ।
वृतान्समन्तात्संक्रुद्धैर्निःश्वसद्भिरिवोरगैः॥३॥

एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः ।
शक्रोपमाश्च बहवः पञ्चालानां रथव्रजाः॥४॥

कर्ण उवाच। परित्रातुमिह प्राप्तो यदि पार्थं पुरन्दरः ।
तमप्याशु पराजित्य ततो हन्तास्मि पाण्डवम्॥५॥

सत्यं ते प्रतिजानामि समाश्वसिहि भारत ।
हन्तास्मि पाण्डुतनयान् पञ्चालांश्च समागतान्॥६॥

जयं ते प्रतिदास्यामि वासवस्येव पावकिः ।
प्रियं तव मया कार्यमिति जीवामि पार्थिव॥७॥

सर्वेषामेव पार्थानां फाल्गुनो बलवत्तरः ।
तस्यामोघां विमोक्ष्यामि शक्तिं शक्रविनिर्मिताम्॥८॥

तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद ।
तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः॥९॥

मयि जीवति कौरव्य विषादं मा कृथाः क्वचित् ।
अहं जेष्यामि समरे सहितान्सर्वपाण्डवान्॥१०॥

पंचालान्केकयांश्चैव वृष्णींश्चापि समागतान् ।
बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम्॥११॥

सञ्जय उवाच। एवं ब्रुवाणं कर्णं तु कृपः शारद्वतोऽब्रवीत् ।
स्मयान्निव महाबाहुः सूतपुत्रमिदं वचः॥१२॥

शोभनं शोभनं कर्ण सनाथः कुरुपुङ्गवः ।
त्वया नाथेन राधेय वचसा यदि सिध्यति॥१३॥

बहुशः कत्थसे कर्ण कौरवस्य समीपतः ।
न तु ते विक्रमः कश्चिद्दृश्यते फलमेव वा॥१४॥

समागमः पाण्डुसुतैर्दृष्टस्ते बहुशो युधि ।
सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन॥१५॥

ह्रियमाणे तदा कर्ण गन्धर्वैधृतराष्ट्रजे ।
तदाऽयुध्यन्त सैन्यानि त्वमेकोऽग्रेऽपलायिथाः॥१६॥

विराटनगरे चापि समेताः सर्वकौरवाः ।
विराटनगरे चापि समेताः सर्वकौरवाः॥१७॥

पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः ।
एकस्याप्यसमर्थस्त्वं फाल्गुनस्य रणाजिरे॥१८॥

कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान् ।
अब्रुवन्कर्ण युध्यस्व कत्थसे बहुसूतज॥१९॥

अनुक्त्वा विक्रमेद्यस्तु तद्वै सत्पुरुषव्रतम् ।
गर्जित्वा सूतपुत्र त्वं शारदाभ्रमिवाफलम्॥२०॥

निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते ।
तावद्गर्जस्व राधेय यावत्पार्थं न पश्यसि ।
आरात्पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं पुनः॥२१॥

त्वमनासाद्य तान्बाणान् फाल्गुनस्य विगर्जसि ।
पार्थसायकविद्धस्य दुर्लभं गर्जितं तव॥२२॥

बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः ।
धनुषा फाल्गुनः शूरः कर्णः शूरो मनोरथैः॥२३॥

तोषितो येन रुद्रोऽपि कः पार्थं प्रतिघातयेत् ।
एवं संरुषितस्तेन तदा शारद्वतेन ह॥२४॥

कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत् ।
शूरा गर्जन्ति सततं प्रावृषीव बलाहकाः॥२५॥

फलं चाशु प्रयच्छन्ति बजिमुप्तमृताविव ।
दोषमत्र न पश्यामि शूराणां रणमूर्धनि॥२६॥

तत्तद्विकत्थमानानां भारं चोद्वहतां मृधे ।
यं भारं पुरुषो वोढुं मनसा हि व्यवस्यति॥२७॥

दैवमस्य ध्रुवं तत्र साहाय्यायोपपद्यते ।
व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन्॥२८॥

हत्वा पाण्डुसुतानाजौ सकृष्णान् सहसात्वतान् ।
गर्जामि यद्यहं विप्र तव किं तत्र नश्यति॥२९॥

वृथा शूरा न गर्जन्ति शारदा इव तोयदाः ।
सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पंडिताः॥३०॥

सोऽहमद्य रणे यत्तौ सहितौ कृष्णपाण्डवौ ।
उत्सहे मनसा जेतुं ततो गर्जामि गौतम॥३१॥

पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगान् ।
हत्वा पाण्डुसुतानाजौ सहकृष्णान् ससात्वतान्॥३२॥

दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम् ।
कृप उवाच। मनोरथप्रलापा मे न ग्राह्यास्तव सुतज॥३३॥

सदा क्षिपसि वै कृष्णौ धर्मराजं च पांडवम् ।
ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ॥३४॥

देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम् ।
दंशितानामपि रणे अजेसौ कृष्णपाण्डवौ॥३५॥

ब्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकः ।
नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः॥३६॥

धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः ।
भ्रातरश्चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः॥३७॥

गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः ।
संबन्धिनश्चेन्द्रवीर्याः स्वनुरक्ताः प्रहारिणः॥३८॥

धृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजयः ।
चंद्रसेनो रुद्रसेनः कीर्तिधर्मा ध्रुवो धरः॥३९॥

वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुतेजनः ।
द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित्॥४०॥

येषामर्थाय संयत्तो मत्स्यराजः सहानुजः ।
शतानीकः सूर्यदत्तः श्रुतानीकः श्रुतध्वजः॥४१॥

बलानीको जयानीको जयाश्वो रथवाहनः ।
चन्द्रोदयः समरथो विराटभ्रातरः शुभाः॥४२॥

यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः ।
येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः॥४३॥

एते चान्ये च बहवो गणाः पाण्डुसुतस्य वै ।
कामं खलु जगत्सर्वं सदेवासुरमानुषम्॥४४॥

सयक्षराक्षसगणं सभूतभुजगद्विपम् ।
निःशेषमस्त्रवीर्येण कुर्वाते भीमफाल्गुनौ॥४५॥

युधिष्ठिरश्च पृथिवीं निर्दहेद्धोरचक्षुषा ।
अप्रमेयबलः शौरिर्येषामर्थे च दंशितः॥४६॥

कथं तान्संयुगे कर्ण जेतुमुत्सहसे परान् ।
महानपनयस्त्वेष नित्यं हि तव सूतज॥४७॥

यस्त्वमुत्सहसे योद्धुं समरे शौरिणा सह ।
सञ्जय उवाच। एवमुक्तस्तु राधेयः प्रहसन् भरतर्षभ॥४८॥

अब्रवीच्च तदा कर्णो गुरुं शारद्वतं कृपम् ।
सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचः॥४९॥

एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै ।
अजय्याश्च रणे पार्था देवैरपि सवासवैः॥५०॥

सदैत्ययक्षगन्धर्वैः पिशाचोरगराक्षसैः ।
तथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तया॥५१॥

मम ह्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विज ।
एतया निहनिष्यामि सव्यसाचिनमाहवे॥५२॥

हते तु पाण्डवे कृष्णे भ्रातरश्चास्य सोदराः ।
अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथञ्चन॥५३॥

तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा ।
अयत्नात्कौरवेन्द्रस्य वशे स्थास्यति गौतम॥५४॥

सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयः ।
एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम॥५५॥

त्वं तु विप्रश्च वृद्धश्च अशक्तश्चापि संयुगे ।
कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे॥५६॥

यद्येवं वक्ष्यसे भूयो ममाप्रियमिह द्विज ।
ततस्ते खड्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते॥५७॥

यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगे ।
भीषयन्सर्वसैन्यानि कौरवेयाणि दुर्मते॥५८॥

अत्रापि शृणु मे वाक्यं यथावद्ब्रुवतो द्विज ।
दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयः॥५९॥

दुःशासनो वृषसेनो मद्रराजस्त्वमेव च ।
सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः॥६०॥

तिष्ठेयुर्दंशिता यत्र सर्वे युद्धविशारदाः ।
जयेदेतान्नरः को नु शक्रतुल्यबलोऽप्यरिः॥६१॥

शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवः ।
धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि॥६२॥

एते स्थास्यन्ति संग्रामे पाण्डवानां वधार्थिनः ।
जयमाकांक्षमाणा हि कौरवेयस्य दंशिताः॥६३॥

दैवायत्तमहं मन्ये जयं सुबलिनामपि ।
यत्र भीष्मो महाबाहुः शेते शरशताचितः॥६४॥

विकर्णश्चित्रसेनश्च बाल्हीकोऽथ जयद्रथः ।
भूरिश्रवा जयश्चैव जलसन्धः सुदक्षिणः॥६५॥

शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान् ।
एते चान्ये च राजानो देवैरपि सुदुर्जयाः॥६६॥

निहताः समरे शूराः पाण्डवैर्बलवत्तराः ।
किमन्यद्दैवसंयोगान्मन्यसे पुरुषाधम॥६७॥

यांश्च तांस्तौषि सततं दुर्योधनरिपून्द्विज ।
तेषामपि हताः शूराः शतशोऽथ सहस्रशः॥६८॥

क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह ।
प्रभावं नात्र पश्यामि पाण्डवानां कथञ्चन॥६९॥

यस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधम ।
यतिष्येऽहं यथाशक्ति योद्धुं तैः सह संयुगः॥७०॥

दुर्योधनहितार्थाय ‘जयो दैवे प्रतिष्ठितः’॥७१॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे कृपकर्णवाक्ये अष्टपञ्चाशदधिकशततमोऽध्यायः॥१५८॥
एकोनषष्ट्यधिकशततमोऽध्यायः

सञ्जय उवाच। तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम् ।
खड्गमद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम्॥१॥

तथेति ॥१॥

ततः परमसंक्रुद्धः सिंहो मत्तमिव द्विपम् ।
प्रेक्षतः कुरुराजस्य द्रौणिः कर्णं समभ्ययात्॥२॥

अश्वत्थामोवाच ।
यदर्जुनगुणांस्तथ्यान्कीर्तयानं नराधम ।
शूरं द्वेषात्सुदुर्बुद्धे त्वं भर्त्सयसि मातुलम्॥३॥

विकत्थमानः शौर्येण सर्वलोकधनुर्धरम् ।
दर्पोत्सेधगृहीतोऽद्य न कञ्चिद्गणयन्मृधे॥४॥

कंचिद्धनुर्धरं न गणयान्नित्यन्वयः ॥४॥

क्व ते वीर्यं क्व चास्त्राणि यं त्वां निर्जित्य संयुगे ।
गाण्डीवधन्वा हतवान्प्रेक्षतस्ते जयद्रथम्॥५॥

येन साक्षान्महादेवो योधितः समरे पुरा ।
तमिच्छसि वृथा जेतुं सूताधम मनोरथैः॥६॥

यं हि कृष्णेन सहितं सर्वशस्त्रभृतां वरम् ।
जेतुं न शक्ताः सहिताः सेन्द्रा अपि सुरासुराः॥७॥

लोकैकवीरमजितमर्जुनं सूत संयुगे ।
किं पुनस्त्वं सुदुर्बुद्धे सहैभिर्वसुधाधिपैः॥८॥

कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम ।
एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते॥९॥

सञ्जय उवाच। तमुद्यतं तु वेगेन राजा दुर्योधनः स्वयम् ।
न्यवारयन्महातेजाः कृपश्च द्विपदां वरः॥१०॥

कर्ण उवाच। शूरोऽयं समरश्लाधी दुर्मतिश्च द्विजाधमः ।
आसादयतु मद्वीर्यं मुञ्चमं कुरुसत्तम॥११॥

अश्वत्थामोवाच ।
तवैतत्क्षम्यतेऽस्माभिः सुतात्मज सुदुर्मते ।
दर्पमुत्सिक्तमेतत्ते फाल्गुनो नाशयिष्यति॥१२॥

दुर्योधन उवाच। अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद ।
कोपः खलु न कर्तव्यः सूतपुत्रं कथंचन॥१३॥

त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबले ।
महत्कार्यं समासक्तं प्रसीद द्विजसत्तम॥१४॥

एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः ।
आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समंततः॥१५॥

सञ्जय उवाच। प्रसाद्यमानस्तु ततो राज्ञा द्रौणिर्महामनाः ।
प्रससाद महाराज क्रोधवेगसमन्वितः॥१६॥

ततः कृपोऽप्युवाचेदमाचार्यः सुमहामनाः ।
सौम्यस्वभावाद्राजेन्द्र क्षिप्रमागतमार्दवः॥१७॥

कृप उवाच। तवैतत्क्षम्यतेऽस्माभिः सुतात्मज सुदुर्मते ।
दर्पमुत्सिक्तमेतत्ते फाल्गुनो नाशयिष्यति॥१८॥

सञ्जय उवाच। ततस्ते पाण्डवा राजन्पञ्चालाश्च यशस्विनः ।
आजग्मुः सहिताः कर्णं तर्जयन्तः समन्ततः॥१९॥

कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान् ।
कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव॥२०॥

पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः ।
ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः॥२१॥

भीषणं सुमहाराज सिंहनादविराजितम् ।
ततस्ते पाण्डवा राजन्पञ्चालाश्च यशस्विनः॥२२॥

दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन् ।
अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे॥२३॥

युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम ।
अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाऽब्रुवन्॥२४॥

हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः ।
सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता॥२५॥

अत्यन्तवैरी पार्थानां सततं पापपूरुषः ।
एष मूलमनर्थानां दुर्योधनमते स्थितः॥२६॥

घ्नतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन् ।
महता शरवर्षेण च्छादयन्तो महारथाः॥२७॥

वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः ।
तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान्॥२८॥

न विव्यथे सूतपुत्रो न च त्रासमगच्छत ।
दृष्ट्वा संहारकल्पं तमुद्भूतं सैन्यसागरम्॥२९॥

पिप्रीषुस्तव पुत्राणां संग्रामेष्वपराजितः ।
सायकौघेन बलवान् क्षिप्रकारी महाबलः॥३०॥

वारयामास तत्सैन्यं समन्ताद्भरतर्षभ ।
ततस्तु शरवर्षेण पार्थिवास्तमवारयन्॥३१॥

धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः ।
अयोधयन्त राधेयं शक्रं दैत्यगणा इव॥३२॥

शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम् ।
शरवर्षेण महता समन्तद्व्यकिरत्प्रभो॥३३॥

तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम् ।
यथा देवासुरे युद्धे शक्रस्य सह दानवैः॥३४॥

तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम् ।
यदेनं सर्वतो यत्ता नाप्नुवन्ति परे युधि॥३५॥

निवार्य च शरौघांस्तान्पार्थिवानां महारथः ।
युगेष्वीषासु च्छत्रेषु ध्वजेषु च हयेषु च॥३६॥

आत्मनामांकितान्घोरान् राधेयः प्राहिणोच्छरान् ।
ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः॥३७॥

बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव ।
हयानां वध्यमानानां गजानां रथिनां तथा॥३८॥

तत्र तत्राभ्यवेक्षाम संघान्कर्णेन ताडितान् ।
शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः॥३९॥

आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् ।
हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः॥४०॥

बभूवायोधनं रौद्रं वैवस्वतपुरोपमम् ।
ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम्॥४१॥

अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह ।
युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः॥४२॥

पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम् ।
कार्तिकेयेन विध्वस्तामासुरीं पृतनामिव॥४३॥

दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता ।
अभियात्येष वीभत्सुः सुतपुत्रजिघांसया॥४४॥

तद्यथा प्रेक्षमाणानां सूतपुत्रं महारथम् ।
न हन्यात्पांडवः संख्ये तथा नीतिर्विधीयताम्॥४५॥

ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः ।
प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया॥४६॥

आयान्तं वीक्ष्य कौन्तेयं शक्रं दैत्यचमूमिव ।
बीभत्सुरपि राजेन्द्र पञ्चालैरभिसंवृतः॥४७॥

प्रत्युद्ययौ तदा कर्णं यथा वृत्रं शतक्रतुः ।
धृतराष्ट्र उवाच। संरब्धं फाल्गुनं दृष्ट्वा कालान्तकयमोपमम्॥४८॥

कर्णो वैकर्तनः सूत प्रत्यपद्यत् किमुत्तरम् ।
यो ह्यस्पर्धत पार्थेन नित्यमेव महारथः॥४९॥

आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणम् ।
स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम्॥५०॥

कर्णो वैकर्तनः सूत किमुत्तरमपद्यत ।
सञ्जय उवाच। आयान्तं पाण्डवं दृष्ट्वा गजं प्रतिगजो यथा॥५१॥

असंभ्रान्तो रणे कर्णः प्रत्युदीयाद्धनञ्जयम् ।
तमापतन्तं वेगेन वैकर्तनमजिह्मगैः॥५२॥

छादयामास पार्थोऽथ कर्णस्तु विजयं शरैः ।
स कर्णं शरजालेन च्छादयामास पाण्डवः॥५३॥

ततः कर्णः सुसंरब्धः शरैस्त्रिभिरविध्यत ।
तस्य तल्लाघवं पार्थो नामृष्यत महाबलः॥५४॥

तस्मै बाणाञ्शिलाधौतान् प्रसन्नाग्रानजिह्मगान् ।
प्राहिणोत्सूतपुत्राय त्रिशतं शत्रुतापनः॥५५॥

विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् ।
सव्ये भुजाग्रे बलवान्नाराचेन हसन्निव॥५६॥

तस्य विद्धस्य बाणेन कराच्चापं पपात ह ।
पुनरादाय तच्चापं निमेषार्धान्महाबलः॥५७॥

छा‌दयामास बाणौघैः फाल्गुनं कृतहस्तवत् ।
शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत॥५८॥

व्यधमच्छरवर्षेण स्मयन्निव धनञ्जयः ।
तौ परस्परमासाद्य शरवर्षेण पार्थिव॥५९॥

छाद‌येतां महेष्वासौ कृतप्रतिकृतैषिणौ ।
तद‌द्भुतं महद्युद्धं कर्णपाण्डवयोर्मृधे॥६०॥

क्रुद्धयोर्वासिताहेतोर्वन्ययोर्गजयोरिव ।
ततः पार्थो महेष्वासौ दृष्ट्वा कर्णस्य विक्रमम्॥६१॥

मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयान्वितः ।
अश्वांश्च चतुरो भल्लैरनयद्यमसादनम्॥६२॥

सारथेश्च शिरः कायादहरच्छत्रुतापनः ।
अथैनं छिन्नधन्वानं हताश्वं हतसारथिम्॥६३॥

विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः ।
हताश्वात्तु रथात्तूर्णमवप्लुत्य नरर्षभः॥६४॥

आरुरोह रथं तूर्णं कृपस्य शरपीडितः ।
स नुन्नोऽर्जुनबाणौधैराचितः शल्यको यथा॥६५॥

जीवितार्थमभिप्रेप्सुः कृपस्य रथमारुहत् ।
राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ॥६६॥

धनञ्जयशरैर्नुन्नाः प्राद्रवन्त दिशो दिश ।
द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप॥६७॥

निवर्तयामास तदा वाक्यमेतदुवाच ह ।
अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः॥६८॥

एष पार्थवधायाहं स्वयं गच्छामि संयुगे ।
अहं पार्थान्हनिष्यामि सपञ्चालान्ससोमकान्॥६९॥

अद्य मे युध्यमानस्य सह गाण्डीवधन्वना ।
द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये॥७०॥

अद्य मद्बाणजालानि विमुक्तानि सहस्रशः ।
द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः॥७१॥

अद्य बाणमयं वर्षं सृजतो मम धन्विनः ।
जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः॥७२॥

जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः ।
तिष्ठध्वं समरे शूरा भयं त्यजत फाल्गुनात्॥७३॥

न हि मद्वीर्यमासाद्य फाल्गुनः प्रसहिष्यति ।
यथा वेलां समासाद्य सागरो मकरालयः॥७४॥

इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः ।
फाल्गुनं प्रति दुर्धर्षः क्रोधात्संरक्तलोचनः॥७५॥

तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा ।
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह॥७६॥

एष राजा महाबाहुरमर्षी क्रोधमूर्च्छितः ।
पतङ्गवृत्तिमास्थाय फाल्गुनं योद्धुमिच्छति॥७७॥

यावन्नः पश्यमानानां प्राणान्पार्थेन संगतः ।
न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम्॥७८॥

यावत्फाल्गुनबाणानां गोचरं नाद्य गच्छति ।
कौरवः पार्थिवो वीरस्तावद्वारय संयुगे॥७९॥

यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसन्निभैः ।
न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम्॥८०॥

अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद ।
स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान्॥८१॥

दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना ।
युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः॥८२॥

मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः ।
दुर्योधनमिदं वाक्यं त्वरितः समभाषत॥८३॥

मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि ।
मामनादृत्य कौरव्य तव नित्यं हितैषिणम्॥८४॥

न हि ते संभ्रमः कार्यः पार्थस्य विजयं प्रति ।
अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन॥८५॥

दुर्योधन उवाच। आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति ।
त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम॥८६॥

मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि ।
धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत्॥८७॥

धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः ।
सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः॥८८॥

को हि शस्त्रविदां मुख्यो महेश्वरसो.. युधि ।
शत्रुं न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः॥८९॥

अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान् ।
तवास्त्रगोचरे शक्ताः स्थातुं देवा न दानवाः॥९०॥

पञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान् ।
वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः॥९१॥

एते हि सोमका विप्र पञ्चालाश्च यशस्विनः ।
मम सैन्येषु संक्रुद्धा विचरन्ति दवाग्निवत्॥९२॥

तान्वारय महाबाहो केकयांश्च नरोत्तम ।
पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना॥९३॥

अश्वत्थामंस्त्वरायुक्तो याहि शीघ्रमरिन्दम ।
आदौ वा यदि वा पश्चात्तवेदं कर्म मारिष॥९४॥

त्वमुत्पन्नो महाबाहो पञ्चालानां वधं प्रति ।
करिष्यसि जगत्सर्वमपञ्चालं किलोद्यतः॥९५॥

एवं सिद्धाऽब्रुवन्वाचो भविष्यति च तत्तथा ।
तस्मात्त्वं पुरुषव्याघ्र पञ्चालाञ्जहि सानुगान्॥९६॥

न तेऽस्रगोचरे शक्ताः स्थातुं देवाः सवासवाः ।
किमु पार्थाः सपञ्चालाः सत्यमेतद्ब्रवीमि ते॥९७॥

न त्वां समर्थाः संग्रामे पाण्डवाः सह सोमकैः ।
बलाद्योधयितुं वीर सत्यमेतद्ब्रवीमि ते॥९८॥

गच्छ गच्छ महाबाहो न नः कालात्ययो भवेत् ।
इयं हि द्रवते सेना पार्थसायकपीडिता॥९९॥

शक्तो ह्यसि महाबाहो दिव्येन स्वेन तेजसा ।
निग्रहे पाण्डुपुत्राणां पञ्चालानां च मानद॥१००॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे दुर्योधनवाक्ये एकोनषष्ट्यधिकशततमोऽध्यायः॥१५९॥
षष्ट्यधिकशततमोऽध्यायः

सञ्जय उवाच। दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः ।
चकारारिवधे यत्नमिन्द्रो दैत्यवधे यथा ।
प्रत्युवाच महाबाहुस्तव पुत्रमिदं वचः॥१॥

दुर्योधनेनेति ॥१॥

सत्यमेतन्महाबाहो यथा वदसि कौरव ।
प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे॥२॥

तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह ।
शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत्॥३॥

अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च ।
निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम॥४॥

ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह ।
क्षपयेयुर्महाबाहो न स्याम यदि संयुगे॥५॥

युध्यतां पाण्डवाञ्छक्त्या तेषां चास्मान्युयुत्सताम् ।
तेजस्तेजः समासाद्य प्रशमं यातु भारत॥६॥

अशक्या तरसा जेतुं पाण्डवानामनीकिनी ।
जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते॥७॥

आत्मार्थं युध्यमानास्ते समर्थाः पांडुनन्दनाः ।
किमर्थं तव सैन्यानि न हनिष्यन्ति भारत॥८॥

त्वं तु लुब्धतमो राजन्निकृतिज्ञश्च कौरव ।
सर्वाभिशंकी मानी च ततोऽस्मानभिशंकसे॥९॥

त्वं त्विति । निकृतिर्वचनं तज्ज्ञत्वादस्मानप्यात्मवत्पश्यसीत्यर्थः॥९॥

मन्ये त्वं कुत्सितो राजन्पापात्मा पापपूरुषः ।
अन्यानपि स नः क्षुद्र शंकसे पापभावितः॥१०॥

अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः ।
एष गच्छामि संग्रामं त्वत्कृते कुरुनन्दन॥११॥

योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान् ।
पञ्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा॥१२॥

पाण्डवेयैश्च संग्रामे त्वत्प्रियार्थमरिन्दम ।
अद्य मद्बाणनिर्दग्धाः पञ्चालाः सोमकास्तथा॥१३॥

सिंहेनेवार्दिता गावो विद्रविष्यन्ति सर्वशः ।
अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम्॥१४॥

अश्वत्थाममयं लोकं मंस्यते सह सोमकैः ।
आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः॥१५॥

दृष्ट्वा विनिहतान्संख्ये पञ्चालान्सोमकैः सह ।
ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत॥१६॥

न हि ते वीर मोक्ष्यन्ते मद्बाह्वन्तरमागताः ।
एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव॥१७॥

अभ्यवर्तत युद्धाय त्रासयन्सर्वधन्विनः ।
चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः॥१८॥

ततोऽब्रवीत्सकैकेयान् पञ्चालान् गौतमीसुतः ।
प्रहरध्वमितः सर्वे मम गात्रे महारथाः॥१९॥

स्थिरीभूताश्च युद्ध्यध्वं दर्शयन्तोऽस्त्रलाघवम् ।
एवमुक्तास्तु ते सर्वे शस्त्रवृष्टीरपातयन्॥२०॥

द्रौणिं प्रति महाराज जलं जलधरा इव ।
तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत्॥२१॥

प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य च प्रभो ।
ते हन्यमानाः समरे पञ्चालाः सोमकास्तथा॥२२॥

परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश ।
तान्दृष्ट्वा द्रवतः शूरान्पञ्चालान्सहसोमकान्॥२३॥

धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्रणे ।
ततः काञ्चनचित्राणां सजलांबुदनादिनाम्॥२४॥

वृतः शतेन शूराणां रथानामनिवर्तिनाम् ।
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः॥२५॥

द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान् ।
आचार्यपुत्र दुर्बुद्धे किमन्यैर्निहतैस्तव॥२६॥

समागच्छ मया सार्धं यदि शूरोऽसि संयुगे ।
अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः॥२७॥

ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान् ।
मर्मभिद्भिः शरैस्तीक्ष्णैर्जघान भरतर्षभ॥२८॥

ते तु पंक्तीकृता द्रौणिं शरा विविशुराशुगाः ।
रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः॥२९॥

मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम् ।
सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः॥३०॥

मानी द्रौणिरसंभ्रान्तो बाणपाणिरभाषत ।
धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय॥३१॥

यावत्त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ।
द्रौणिरेवमथाभाष्य पार्षतं परवीरहा॥३२॥

छादयामास बाणौघैः समन्ताल्लघुहस्तवत् ।
स बाध्यमानः समरे द्रौणिना युद्धदुर्मदः॥३३॥

द्रौणिं पाञ्चालतनयो वाग्भिरातर्जयत्तदा ।
न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च॥३४॥

द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते ।
ततस्त्वाऽहं न हन्म्यद्य द्रोणे जीवति संयुगे॥३५॥

इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते ।
निहत्य पितरं तेऽद्य ततस्त्वामपि संयुगे॥३६॥

नेष्यामि प्रेतलोकाय ह्येतन्मे मनसि स्थितम् ।
यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च॥३७॥

तां दर्शय स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे ।
यो हि ब्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः॥३८॥

स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधमः ।
इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः॥३९॥

क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ।
निर्दहन्निव चक्षुर्भ्यां पार्षतं सोऽभ्यवैक्षत॥४०॥

छादयामास च शरैर्निःश्वसन्पन्नगो यथा ।
स च्छाद्यमानः समरे द्रौणिना राजसत्तम॥४१॥

सर्वपाञ्चालसेनाभिः संवृतो रथसत्तमः ।
नाकंपत महाबाहुः स्ववीर्यं समुपाश्रितः॥४२॥

सायकांश्चैव विविधानश्वत्थाम्नि मुमोच ह ।
तौ पुनः संन्यवर्तेतां प्राणद्यूतपणे रणे॥४३॥

निपीडयन्तौ बाणौघैः परस्परममर्षिणौ ।
उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः॥४४॥

द्रौणिपार्षतयोर्युद्धं घोररूपं भयानकम् ।
दृष्ट्वा संपूजयामासुः सिद्धचारणवातिकाः॥४५॥

शरौघैः पूरयन्तौ तावाकाशं च दिशस्तथा ।
अलक्ष्यौ समयुध्येतां महत्कृत्वा शरैस्तमः॥४६॥

नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ ।
परस्परवधे यत्तौ सर्वभूतभयङ्करौ॥४७॥

अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च ।
संपूज्यमानौ समरे योधमुख्यैः सहस्रशः॥४८॥

तौ प्रबुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव ।
उभयोः सेनयोर्हर्षस्तुमुलः समपद्यत॥४९॥

सिंहनादरवाश्चासन्दध्मुः शङ्खांश्च सैनिकाः ।
वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः॥५०॥

तस्मिंस्तु तुमुले युद्धे भीरूणां भयवर्धने ।
मुहूर्तमपि तद्युद्धं समरूपं तदाऽभवत्॥५१॥

ततो द्रौणिर्महाराज पार्षतस्य महात्मनः ।
ध्वजं धनुस्तथा छत्रमुभौ च पार्ष्णिसारथी॥५२॥

सूतमश्वांश्च चतुरो निहत्याभ्यद्रवद्रणे ।
पञ्चालांश्चैव तान्सर्वान्बाणैः सन्नतपर्वभिः॥५३॥

व्यद्रावयदमेयात्मा शतशोऽथ सहस्रशः ।
ततस्तु विव्यथे सेना पाण्डवी भरतर्षभ॥५४॥

दृष्ट्वा द्रौणेर्महत्कर्म वासवस्येव संयुगे ।
शतेन च शतं हत्वा पञ्चालानां महारथः॥५५॥

त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन्वै महारथान् ।
द्रौणिर्दुपदपुत्रस्य फाल्गुनस्य च पश्यतः॥५६॥

नाशयामास पञ्चालान् भूयिष्ठं ये व्यवस्थिताः ।
ते वध्यमानाः पञ्चालाः समरे सह सृञ्जयैः॥५७॥

अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः ।
स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः॥५८॥

ननाद सुमहानादं तपान्ते जलदो यथा ।
स निहत्य बहूञ्छूरानश्वत्थामा व्यरोचत ।
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः॥५९॥

संपूज्यमानो युधि कौरवेयैर्निर्जित्य संख्येऽरिगणान्सहस्रशः ।
व्यरोचत द्रोणसुतः प्रतापवान् यथा सुरेन्द्रोऽरिगणान्निहत्य वै॥६०॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे अश्वत्थामपराक्रमे षष्ट्यधिकशततमोऽध्यायः॥१६०॥
एकषष्ट्यधिकशततमोऽध्यायः

सञ्जय उवाच। ततो युधिष्ठिरश्चैव भीमसेनश्च पाण्डवः ।
द्रोणपुत्रं महाराज समन्तात्पर्यवारयन्॥१॥

तत इति ॥१॥

ततो दुर्योधनो राजा भारद्वाजेन संवृतः ।
अभ्ययात्पाण्डवान्संख्ये ततो युद्धमवर्तत॥२॥

घोररूपं महाराज भीरूणां भयवर्धनम् ।
अंबष्ठान्मालवान्वङ्गाञ्छिबींस्त्रैगर्तकानपि॥३॥

प्राहिणोन्मृत्युलोकाय गणान् क्रुद्धो वृकोदरः ।
अभीषाहाञ्छूरसेनान्क्षत्रियान् युद्धदुर्मदान्॥४॥

निकृत्य पृथिवीं चक्रे भीमः शोणितकर्दमाम् ।
यौधेयानद्रिजान् राजन्मद्रकान्मालवानपि॥५॥

प्राहिणोन्मृत्युलोकाय किरीटी निशितैः शरैः ।
प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः॥६॥

निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः ।
निकृत्तैर्हस्तिहस्तैश्च चेष्टमानैरितस्ततः॥७॥

रराज वसुधाऽऽकीर्णा विसर्पद्भिरिवोरगैः ।
क्षिप्तैः कनकचित्रैश्च नृपच्छत्रैः क्षितिर्बभौ॥८॥

द्यौरिवादित्यचन्द्राद्यैर्ग्रहैः कीर्णा युगक्षये ।
हत प्रहरताभीता विध्यत व्यवकृन्तत॥९॥

इत्यासूत्तुमुलः शब्दः शोणाश्वस्य रथं प्रति ।
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण संयुगे॥१०॥

व्यधमत्तान्महावायुर्मेघानिव दुरत्ययः ।
ते हन्यमाना द्रोणेन पञ्चालाः प्राद्रवन्भयात्॥११॥

पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ।
ततः किरीटी भीमश्च सहसा संन्यवर्तताम्॥१२॥

महता रथवंशेन परिगृह्य बलं महत् ।
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः॥१३॥

भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ।
तौ तथा सृञ्जयाश्चैव पञ्चालाश्च महौजसः॥१४॥

अन्वगच्छन्महाराज मत्स्यैश्च सह सोमकैः ।
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः॥१५॥

महत्या सेनया राजन् जग्मुर्द्रोणरथं प्रति ।
ततः सा भारती सेना हन्यमाना किरीटिना॥१६॥

तमसा निद्रया चैव पुनरेव व्यदीर्यत ।
द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च॥१७॥

नाशक्यन्त महाराज योधा वारयितुं तदा ।
सा पाण्डुपुत्रस्य शरैर्दीर्यमाणा महाचमूः॥१८॥

तमसा संवृते लोके व्यद्रवत्सर्वतोमुखी ।
उत्सृज्य शतशो वाहांस्तत्र केचिन्नराधिपाः ।
प्राद्रवन्त महाराज भयाविष्टाः समन्ततः॥१९॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे संकुलयुद्धे एकषष्ट्यधिकशततमोऽध्यायः॥१६१॥
द्विषष्ट्यधिकशततमोऽध्यायः

सञ्जय उवाच। सोमदत्तं तु संप्रेक्ष्य विधुन्वानं महद्धनुः ।
सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह॥१॥

सोमदत्तमित्यध्यायः स्पष्टार्थः ॥१॥

न ह्यहत्वा रणे शत्रं सोमदत्तं महाबलम् ।
निवर्तिष्ये रणात्सूत सत्यमेतद्वचो मम॥२॥

ततः संप्रैषयद्यन्ता सैन्धवांस्तान्मनोजवान् ।
तुरङ्गमाञ्छङ्खवर्णान्सर्वशब्दातिगान् रणे॥३॥

तेऽवहन् युयुधानं तु मनोमारुतरंहसः ।
यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम्॥४॥

तमापतन्तं संप्रेक्ष्य सात्वतं रभसं रणे ।
सोमदत्तो महाबाहुरसंभ्रान्तो न्यवर्तत॥५॥

विमुञ्चञ्छरवर्षाणि पर्जन्य इव वृष्टिमान् ।
छादयामास शैनेयं जलदो भास्करं यथा॥६॥

असंभ्रान्तश्च समरे सात्यकिः कुरुपुङ्गवम् ।
छा‌यामास बाणौघैः समन्ताद्भरतर्षभ॥७॥

सोमद‌त्तस्तु तं षष्ठ्या विव्याधोरसि माधवम् ।
सात्यकिश्चापि तं राजन्नविध्यत्सायकैः शितैः॥८॥

तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ ।
सुपुष्पौ पुष्पसमये पुष्पिताविव किंशुकौ॥९॥

रुधिरोक्षितसर्वांगौ कुरुवृष्णियशस्करौ ।
परस्परमवेक्षेतां दहन्ताविव लोचनैः॥१०॥

रथमण्डलमार्गेषु चरन्तावरिमर्दनौ ।
घोररूपौ हितावास्तां वृष्टिमन्ताविवांबुदौ॥११॥

शरसंभिन्नगात्रौ तु सर्वतः शकलीकृतौ ।
श्वाविधाविव राजेन्द्र दृश्येतां शरविक्षतौ॥१२॥

सुवर्णपुंखैरिषुभिराचितौ तौ व्यराजताम् ।
खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती॥१३॥

संप्रदीपितसर्वाङ्गौ सायकैस्तैर्महारथौ ।
अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ॥१४॥

ततो युधि महाराज सोमदत्तो महारथः ।
अर्धचन्द्रेण चिच्छेद माधवस्य महद्धनुः॥१५॥

अथैनं पञ्चविंशत्या सायकानां समार्पयत् ।
त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः॥१६॥

अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम् ।
पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत॥१७॥

ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम् ।
बाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव॥१८॥

बाल्हीकस्य सोमदत्तस्य ॥१८॥

सोमदत्तस्त्वसंभ्रान्तो दृष्ट्वा केतुं निपातितम् ।
शैनेयं पञ्चविंशत्या सायकानां समाचिनोत्॥१९॥

सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः ।
धनुश्चिच्छेद भल्लेन क्षुरप्रेण शितेन ह॥२०॥

अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम् ।
आचिनोद्बहुधा राजन्भग्नदंष्ट्रमिव द्विपम्॥२१॥

अथान्यद्धनुरादाय सोमदत्तो महारथः ।
सात्यकिं छा‌दयामास शरवृष्ट्या महाबलः॥२२॥

सोमदत्तं तु संक्रुद्धो रणे विव्याध सात्यकिः ।
सात्यकिं शरजालेन सोमद‌त्तोऽप्यपीडयत्॥२३॥

दशभिः सात्वतस्यार्थे भीमोऽहन्बाह्लिकात्मजम् ।
सोमदत्तोऽप्यसंभ्रान्तो भीममार्च्छच्छितैः शरैः॥२४॥

ततस्तु सात्वतस्यार्थे भीमसेनो नवं दृढम् ।
मुमोच परिघं घोरं सोमदत्तस्य वक्षसि॥२५॥

तमापतन्तं वेगेन परिघं घोरदर्शनम् ।
द्विधा चिच्छेद समरे प्रहसन्निव कौरवः॥२६॥

स पपात द्विधा च्छिन्न आयसः परिघो महान् ।
महीधरस्येव महच्छिखरं वज्रदारितम्॥२७॥

ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे ।
धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः॥२८॥

ततश्चतुर्भिश्च शरैस्तूर्णं तांस्तुरगोत्तमान् ।
समीपं प्रेषयामास प्रेतराजस्य भारत॥२९॥

सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा ।
जहार नरशार्दूलः प्रहसञ्छिनिपुङ्गवः॥३०॥

ततः शरं महाघोरं ज्वलन्तमिव पावकम् ।
मुमोच सात्वतो राजन्स्वर्णपुङ्खं शिलाशितम्॥३१॥

स विमुक्तो बलवता शैनेयेन शरोत्तमः ।
घोरस्तस्योरसि विभो निपपाताशु भारत॥३२॥

सोऽतिविद्धो महाराज सात्वतेन महारथः ।
सोमद‌त्तो महाबाहुर्निपपात ममार च॥३३॥

तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः ।
महता शरवर्षेण युयुधानमुपाद्रवन्॥३४॥

छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः ।
पाण्डवाश्च महाराज सह सर्वैः प्रभद्रकैः ।
महत्या सेनया सार्धं द्रोणानीकमुपाद्रवन्॥३५॥

ततो युधिष्ठिरः कुद्धस्तावकानां महाबलम् ।
शरैर्विद्रावयामास भारद्वाजस्य पश्यतः॥३६॥

सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम् ।
अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः॥३७॥

ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः ।
युधिष्ठिरोऽपि संक्रुद्धः प्रतिविव्याध पञ्चभिः॥३८॥

सोऽतिविद्धो महाबाहुः सृक्किणी परिसंलिहन् ।
युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च॥३९॥

स च्छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः ।
अन्यदादत्त वेगेन कार्मुकं समरे दृढम्॥४०॥

ततः शरसहस्त्रेण द्रोणं विव्याध पार्थिवः ।
साश्वसूतध्वजरथं तदद्भुतमिवाभवत्॥४१॥

ततो मुहूर्तं व्यथितः शरपातप्रपीडितः ।
निषसाद रथोपस्थे द्रोणो भरतसत्तम॥४२॥

प्रतिलभ्य ततः संज्ञां मुहूर्ताद्द्विजसत्तमः ।
क्रोधेन महताऽऽविष्टो वायव्यास्त्रमवासृजत्॥४३॥

असंभ्रान्तस्ततः पार्थो धनुराकृष्य वीर्यवान् ।
ततस्तदस्त्रमस्त्रेण स्तंभयामास भारत॥४४॥

चिच्छेद च धनुर्दीर्घं ब्राह्मणस्य च पाण्डवः ।
ततोऽन्यद्धनुरादत्त द्रोणः क्षत्रियमर्दनः॥४५॥

तदप्यस्य शितैर्भल्लैश्चिच्छेद कुरुपुङ्गवः ।
ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम्॥४६॥

युधिष्ठिर महाबाहो यत्त्वां वक्ष्यामि तच्छृणु ।
उपारमस्व युद्धे त्वं द्रोणाद्भरतसत्तम॥४७॥

यतते हि सदा द्रोणो ग्रहणे तव संयुगे ।
नानुरूपमहं मन्ये युद्धमस्य त्वया सह॥४८॥

योऽस्य सृष्टो विनाशाय स एवैनं हनिष्यति ।
परिवर्ज्य गुरुं याहि यत्र राजा सुयोधनः॥४९॥

राजा राज्ञा हि योद्धव्यो नाराज्ञा युद्धमिष्यते ।
तत्र त्वं गच्छ कौन्तेय हस्त्यश्वरथसंवृतः॥५०॥

यावन्मात्रेण च मया सहायेन धनञ्जयः ।
भीमश्च रथशार्दूलो युध्यते कौरवैः सह॥५१॥

वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः ।
मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम्॥५२॥

प्रायाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः ।
विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः॥५३॥

रथघोषेण महता नादयन्वसुधातलम् ।
पर्जन्य इव घर्मान्ते नादयन्वै दिशो दश॥५४॥

भीमस्य निघ्नतः शत्रून् पार्ष्णिं जग्राह पाण्डवः ।
द्रोणोऽपि पाण्डुपञ्चालान् व्यधमद्रजनीमुखे॥५५॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे द्विषष्ट्यधिकशततमोऽध्यायः॥१६२॥
त्रिषष्ट्यधिकशततमोऽध्यायः

सञ्जय उवाच। वर्तमाने तथा युद्धे घोररूपे भयावहे ।
तमसा संवृते लोके रजसा च महीपते॥१॥

वर्तमान इति ॥१॥

नापश्यन्त रणे योधाः परस्परमवस्थिताः ।
अनुमानेन संज्ञाभिर्युद्धं तद्ववृधे महत्॥२॥

नरनागाश्वमथनं परमं लोमहर्षणम् ।
द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः॥३॥

अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम ।
वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः॥४॥

तमसा संवृते चैव समन्ताद्विप्रदुद्रुवुः ।
ते सर्वतो विद्रवन्तो योधा विध्वस्तचेतनाः॥५॥

अहन्यन्त महाराज धावमानाश्च संयुगे ।
महारथसहस्त्राणि जघ्नुरन्योन्यमाहवे॥६॥

अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते ।
ततः सर्वाणि सैन्यानि सेना गोपाश्च भारत ।
व्यमुह्यन्त रणे तत्र तमसा संवृते सति॥७॥

अन्धे आन्ध्यहेतौ ॥७॥

धृतराष्ट्र उवाच। तेषां संलोड्यमानानां पाण्डवैर्विहतौजसाम् ।
अन्धे तमसि मग्नानामासीत्किं वो मनस्तदा॥८॥

वो युष्मत्सम्बन्धिनां मनः किं किंविधं, कातरं धृष्टं वेत्यर्थः ॥८॥

कथं प्रकाशस्तेषां वा मम सैन्यस्य वा पुनः ।
बभूव लोके तमसा तथा सञ्जय संवृते॥९॥

सञ्जय उवाच। ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै ।
सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत्॥१०॥

तत इति । द्रोण इत्यपकृष्यते । केषां सैन्यानां व्यूहमित्यध्याहृत्य योज्यम् ॥१०॥

द्रोणः पुरस्ताज्जघने तु शल्यस्तथा द्रौणिः कृतवर्मा सौबलश्च ।
स्वयं तु सर्वाणि बलानि राजन् राजाऽभ्ययाद्गोपयन्वै निशायाम्॥११॥

उवाच सर्वांश्च पदातिसङ्घान् दुर्योधनः पार्थिवसांत्वपूर्वम् ।
उत्सृज्य सर्वे परमायुधानि गृह्णीत हस्तैर्ज्वलितान्प्रदीपान्॥१२॥

ते चोदिताः पार्थिवसत्तमेन ततः प्रहृष्टा जगृहुः प्रदीपान् ।
देवर्षिगन्धर्वसुरर्षिसङ्घा विद्याधराश्चाप्सरसां गणाश्च॥१३॥

देवर्षीति भुवि पदातिभिर्दीपेषु गृहीतेषु दिविस्था देवा अपि दीपाञ्जगृहुर्युद्धोत्सवप्रेक्षकाः ॥१३॥

नागाः सयक्षोरगकिन्नराश्च हृष्टा दिविस्था जगृहुः प्रदीपान् ।
दिग्दैवतेभ्यश्च समापतन्तोऽदृश्यन्त दीपाः ससुगन्धितैलाः॥१४॥

दिग्दैवतेभ्य इत्यन्तरिक्षस्थानामपि देवानामागमनमुक्तम् ॥१४॥

विशेषतो नारदपर्वताभ्यां सम्बोध्यमानाः कुरुपाण्डवार्थम् ।
सा भूय एव ध्वजिनी विभक्ता व्यरोचताग्निप्रभया निशायाम्॥१५॥

महाधनैराभरणैश्च दिव्यैः शस्त्रैश्च दीप्तैरपि संपतद्भिः ।
रथे रथे पञ्च विदीपकास्तु प्रदीपकास्तत्र गजे त्रयश्च॥१६॥

प्रत्यश्वमेकश्च महाप्रदीपः कृतास्तु तैः पाण्डवैः कौरवेयैः ।
क्षणेन सर्वे विहिताः प्रदीपा व्यादीपयन्तो ध्वजिनीं तवाशु॥१७॥

सर्वास्तु सेना व्यतिसेव्यमानाः पदातिभिः पावकतैलहस्तैः ।
प्रकाश्यमाना ददृशुर्निशायां यथाऽन्तरिक्षे जलदास्तडिद्भिः॥१८॥

प्रकाशितायां तु ततो ध्वजिन्यां द्रोणोऽग्निकल्पः प्रतपन्समन्तात् ।
रराज राजेन्द्र सुवर्णवर्मा मध्यं गतः सूर्य इवांशुमाली॥१९॥

जाम्बूनदेष्वाभरणेषु चैव निष्केषु शुद्धेषु शरासनेषु ।
पीतेषु शस्त्रेषु च पावकस्य प्रतिप्रभास्तत्र तदा बभूवुः॥२०॥

गदाश्च शैक्याः परिघाश्च शुभ्रा रथेषु शक्त्यश्च विवर्तमानाः ।
प्रतिप्रभारश्मिभिराजमीढ पुनः पुनः सञ्जनयन्ति दीपान्॥२१॥

छत्राणि वालव्यजनानि खड्गा दीप्ता महोल्काश्च तथैव राजन् ।
व्याघृर्णमानाश्च सुवर्णमाला व्यायच्छतां तत्र तदा विरेजुः॥२२॥

शस्त्रप्रभाभिश्च विराजमानं दीपप्रभाभिश्च तदा बलं तत् ।
प्रकाशितं चाभरणप्रभाभिर्भृशं प्रकाशं नृपते बभूव॥२३॥

पीतानि शस्त्राण्यसृगुक्षितानि वीरावधूतानि तनुच्छदानि ।
दीप्तां प्रभां प्राजनयन्त तत्र तपात्यये विद्युदिवान्तरिक्षे॥२४॥

प्रकम्पितानामभिघातवेगैरभिघ्नतां चापततां जवेन ।
वक्त्राण्यकाशन्त तदा नराणां वाय्वीरितानीव महाम्बुजानि॥२५॥

महावने दारुमये प्रदीप्ते यथा प्रभा भास्करस्यापि नश्येत् ।
तथा तदाऽऽसीद्ध्वजिनी प्रदीप्ता महाभया भारत भीमरूपा॥२६॥

तत्संप्रदीप्तं बलमस्मदीयं निशम्य पार्थास्त्वरितास्तथैव ।
सर्वेषु सैन्येषु पदातिसंघानचोदयंस्तेऽपि चक्रुः प्रदीपान्॥२७॥

गजे गजे सप्त कृताः प्रदीपा रथे रथे चैव दश प्रदीपाः ।
द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये ध्वजेषु चान्ये जघनेषु चान्ये॥२८॥

सेनासु सर्वासु च पार्श्वतोऽन्ये पश्चात्पुरस्ताच्च समन्ततश्च ।
मध्ये तथान्ये ज्वलिताग्निहस्ता व्यदीपयन्पाण्डुसुतस्य सेनाम्॥२९॥

मध्ये तथाऽन्ये ज्वलिताग्निहस्ताः सेनाद्वयेऽपि स्म नरा विचेरुः ।
सर्वेषु सैन्येषु पदातिसंघा विमिश्रिता हस्तिरथाश्ववृन्दैः॥३०॥

व्यदीपयंस्ते ध्वजिनीं प्रदीप्तास्तथा बलं पाण्डवेयाभिगुप्तम् ।
तेन प्रदीप्तेन तथा प्रदीप्तं बलं तवासीद्बलवद्बलेन॥३१॥

भाः कुर्वता भानुमता शतेन दिवाकरेणाग्निरिवाभिगुप्तः ।
तयोः प्रभाः पृथिवीमन्तरिक्षं सर्वा व्यतिक्रम्य दिशश्च वृद्धाः॥३२॥

तेन प्रकाशेन भृशं प्रकाशं बभूव तेषां तव चैव सैन्यम् ।
तेन प्रकाशेन दिवं गतेन संबोधिता देवगणाश्च राजन्॥३३॥

गन्धर्वयक्षासुरसिद्धसंघाः समागमन्नप्सरसश्च सर्वाः ।
तद्देवगन्धर्वसमाकुलं च यक्षासुरेन्द्राप्सरसां गणैश्च॥३४॥

हतैश्च शूरैर्दिवमारुहद्भिरायोधनं दिव्यकल्पं बभूव ।
रथाश्वनागाकुलदीपदीप्तं संरब्धयोधं हतविद्रुताश्वम्॥३५॥

महद्बलं व्यूढरथाश्वनागं सुरासुरव्यूहसमं बभूव ।
तच्छक्तिसंघाकुलचण्डवातं महारथाभ्रं गजवाजिघोषम्॥३६॥

शस्त्रौधवर्षं रुधिराम्बुधारं निशि प्रवृत्तं रथदुर्दिनं तत् ।
तस्मिन्महाग्निप्रतिमो महात्मा सन्तापयन्पाण्डवान्विप्रमुख्यः॥३७॥

गभस्तिभिर्मध्यगतो यथार्को वर्षात्यये तद्वदभून्नरेन्द्र॥३८॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे दीपोद्योतने त्रिषष्ट्यधिकशततमोऽध्यायः॥१६३॥
चतुःषष्ट्यधिकशततमोऽध्यायः

सञ्जय उवाच। प्रकाशिते तदा लोके रजसा तमसावृते ।
समाजग्मुरथो वीराः परस्परवधैषिणः॥१॥

प्रकाशिते इति ॥१॥

ते समेत्य रणे राजन् शस्त्रप्रासासिधारिणः ।
परस्परमुदैक्षन्त परस्परकृतागसः॥२॥

प्रदीपानां सहस्रैश्च दीप्यमानैः समंततः ।
रत्नाचितैः स्वर्णदण्डैर्गन्धतैलावसिञ्चितैः॥३॥

देवगन्धर्वदीपाद्यैः प्रभाभिरधिकोज्ज्वलैः ।
विरराज तदा भूमिर्ग्रहैर्द्यौरिव भारत॥४॥

उल्काशतैः प्रज्वलितै रणभूमिर्व्यराजत ।
दह्यमानेव लोकानामभावे च वसुन्धरा॥५॥

लोकानामभावे प्रलये इव ॥५॥

व्यदीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समंततः ।
वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः॥६॥

असज्जन्त ततो वीरा वीरेष्वेव पृथक् पृथक् ।
नागा नागैः समाजग्मुस्तुरगा हयसादिभिः ।
रथा रथवरैरेव समाजग्मुर्मुदा युताः ।
तस्मिन् रात्रिमुखे घोरे तव पुत्रस्य शासनात्॥८॥

चतुरङ्गस्य सैन्यस्य संपातश्च महानभूत् ।
ततोऽर्जुनो महाराज कौरवाणामनीकिनीम्॥९॥

व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान् ।
धृतराष्ट्र उवाच। तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम्॥१०॥

अमृष्यमाणे दुर्धर्षे कथमासीन्मनो हि वः ।
किमकुर्वत सैन्यानि प्रविष्टे परपीडने॥११॥

दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ।
के चैनं समरे वीरं प्रत्युद्ययुररिन्दमाः॥१२॥

द्रोणं च के व्यरक्षन्त प्रविष्टे श्वेतवाहने ।
केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः॥१३॥

के पृष्ठतश्चाप्यभवन्वीरा वीरान्विनिघ्नतः ।
के पुरस्तादङ्गच्छन्त निघ्नन्तः शात्रवान् रणे॥१४॥

यत्प्राविशन्महेष्वासः पञ्चालानपराजितः ।
नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान्॥१५॥

यो ददाह शरैर्द्रोणः पञ्चालानां रथव्रजान् ।
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान्॥१६॥

अव्यग्रानेव हि परान्कथयस्यपराजितान् ।
हृष्टानुदीर्णान्संग्रामे न तथा सूत मामकान्॥१७॥

हतांश्चैव विदीर्णांश्च विप्रकीर्णांश्च शंससि ।
रथिनो विरथांश्चैव कृतान् युद्धेषु मामकान्॥१८॥

सञ्जय उवाच। द्रोणस्य मतमाज्ञाय योद्धकामस्य तां निशांम् ।
दुर्योधनो महाराज वश्यान् भ्रातॄनुवाच ह॥१९॥

कर्णं च वृषसेनं च मद्रराजं च कौरव ।
दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः॥२०॥

द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षन्तु पृष्ठतः ।
हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा॥२१॥

त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः ।
तांश्चैव पुरतः सर्वान्पुत्रस्ते समचोदयत्॥२२॥

आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पांडवाः ।
तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान् रणे॥२३॥

द्रोणो हि बलवान् युद्धे क्षिप्रहस्तः प्रतापवान् ।
निर्जयेत्त्रिदशान् युद्धे किमु पार्थान्ससोमकान्॥२४॥

ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः ।
द्रोणं रक्षत पाञ्चालाद्धृष्टद्युम्नान्महारथात्॥२५॥

पाण्डवीयेषु सैन्येषु न तं पश्याम कञ्चन ।
यो योधयेद्रणे द्रोणं धृष्टद्युम्नादृते नृपः॥२६॥

तस्मात्सर्वात्मना मन्ये भारद्वाजस्य रक्षणम् ।
सुगुप्तः पाण्डवान् हन्यात् सृञ्जयांश्च ससोमकान्॥२७॥

सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे ।
धृष्टद्युम्नं रणे द्रौणिर्हनिष्यति न संशयः॥२८॥

तथाऽर्जुनं च राधेयो हनिष्यति महारथः ।
भीमसेनमहं चापि युद्धे जेष्याभि दीक्षितः॥२९॥

शेषांश्च पाण्डवान् योधाः प्रसभं हीनतेजसः ।
सोऽयं मम जयो व्यक्तो दीर्घकालं भविष्यति॥३०॥

तस्माद्रक्षत संग्रामे द्रोणमेव महारथम् ।
इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्योधनस्तव॥३१॥

व्यादिदेश तथा सैन्यं तस्मिंस्तमसि दारुणे ।
ततः प्रववृते युद्धं रात्रौ भरतसत्तम॥३२॥

उभयोः सेनयोर्घोरं परस्परजिगीषया ।
अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः॥३३॥

नानाशस्त्रसमावायैरन्योन्यं समपीडयन् ।
द्रौणिः पाञ्चालराजं च भारद्वाजश्च सृञ्जयान्॥३४॥

छादयांचक्रिरे संख्ये शरैः सन्नतपर्वभिः ।
पाण्डुपाञ्चालसैन्यानां कौरवाणां च भारत॥३५॥

आसीन्निष्टानको घोरो निघ्नतामितरेतरम् ।
नैवास्माभिस्तथा पूर्वैर्दृष्टपूर्वं तथाविधम्॥३६॥

श्रुतं वा यादृशं युद्धमासीद्रौद्रं भयानकम्॥३७॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे संकुलयुद्धे चतुःषष्ट्यधिकशततमोऽध्यायः॥१६४॥
पञ्चषष्ट्यधिकशततमोऽध्यायः

सञ्जय उवाच। वर्तमाने तदा रौद्रे रात्रियुद्धे विशांपते ।
सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः॥१॥

वर्तमाने इति ॥१॥

अब्रवीत्पाण्डवांश्चैव पञ्चालांश्चैव सोमकान् ।
अभिद्रवत संयात द्रोणमेव जिघांसया॥२॥

राज्ञस्ते वचनाद्राजन्पञ्चालाः सृञ्जयास्तथा ।
द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान् रवान्॥३॥

तं तु ते प्रतिगर्जन्तः प्रत्युद्यातास्त्वमर्षिताः ।
यथाशक्ति यथोत्साहं यथासत्त्वं च संयुगे॥४॥

कृतवर्मा तु हार्दिक्यो युधिष्ठिरमुपाद्रवत् ।
द्रोणं प्रति समायान्तं मत्तो मत्तमिव द्विपम्॥५॥

शैनेयं शरवर्षाणि विकिरन्तं समन्ततः ।
अभ्ययात्कौरवो राजन् भूरिः संग्राममूर्धनि॥६॥

सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम् ।
कर्णो वैकर्तनो राजन्वारयामास पाण्डवम्॥७॥

भीमसेनमथायान्तं व्यादितास्यमिवान्तकम् ।
स्वयं दुर्योधनो राजा प्रतीपं मृत्युमाव्रजत्॥८॥

नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम् ।
शकुनिः सौबलो राजन्वारयामास सत्वरः॥९॥

शिखण्डिनमथायान्तं रथेन रथिनां वरम् ।
कृपः शारद्वतो राजन्वारयामास संयुगे॥१०॥

प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयः ।
दुःशासनो महाराज यत्तो यत्तमवारयत्॥११॥

भैमसेनिमथायान्तं मायाशतविशारदम् ।
अश्वत्थामा महाराज राक्षसं प्रत्यषेधयत्॥१२॥

भैमसेनिं घटोत्कचम् ॥१२॥

द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम् ।
वारयामास समरे द्रोणप्रेप्सुं महारथम्॥१३॥

विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति ।
मद्रराजः सुसंक्रुद्धो वारयामास भारत॥१४॥

शतानीकमथायान्तं नाकुलिं रभसं रणे ।
चित्रसेनो रुरोधाशु शरैर्द्रोणपरीप्सया॥१५॥

अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम् ।
अलंबुषो महाराज राक्षसेन्द्रो न्यवारयत्॥१६॥

तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान् रणे ।
धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत्॥१७॥

तथान्यान्पाण्डुपुत्राणां समायातान्महारथान् ।
तावका रथिनो राजन्वारयामासुरोजसा॥१८॥

गजारोहा गजैस्तूर्णं सन्निपत्य महामृधे ।
योधयन्तश्च मृद्मन्तः शतशोऽथ सहस्रशः॥१९॥

निशीथे तुरगा राजन्द्रावयन्तः परस्परम् ।
समदृश्यन्त वेगेन पक्षवन्तो यथाऽद्रयः॥२०॥

सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः ।
समागच्छन्महाराज विनदन्तः पृथक् पृथक्॥२१॥

नरास्तु बहवस्तत्र समाजग्मुः परस्परम् ।
गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च संयुगे॥२२॥

कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम् ।
वारयामास संक्रुद्धो वेलेवोद्धृतमर्णवम्॥२३॥

युधिष्ठिरस्तु हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः ।
पुनर्विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत्॥२४॥

कृतवर्मा तु संक्रुद्धो धर्मपुत्रस्य मारिष ।
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः॥२५॥

अथान्यद्धनुरादाय धर्मपुत्रो महारथः ।
हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत्॥२६॥

माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष ।
प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः॥२७॥

माधवः कृतवर्मा ॥२७॥

तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च ।
प्राहिणोन्निशितान्बाणान्पञ्च राजच्छिलाशितान्॥२८॥

ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम् ।
प्राविशन्धरणीं भित्त्वा वल्मीकमिव पन्नगाः॥२९॥

अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् ।
विव्याध पाण्डवं षष्ट्या सुतं च नवभिः शरैः॥३०॥

तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम् ।
चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद्धनुः॥३१॥

सा हेमचित्रा महती पाण्डवेन प्रवेरिता ।
निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम्॥३२॥

एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः ।
हार्दिक्यं छादयामास शरैः सन्नतपर्वभिः॥३३॥

ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी ।
व्यश्वसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम्॥३४॥

ततस्तु पाण्डवो ज्येष्ठः खड्गं चर्म समाददे ।
तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे॥३५॥

तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम् ।
अप्रैषीत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः॥३५॥

तमापतन्तं सहसा धर्मराजभुजच्युतम् ।
द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव॥३६॥

ततः शरशतेनाजौ धर्मपुत्रमवाकिरत् ।
कवचं चास्य संक्रुद्धः शरैस्तीक्ष्णैरदारयत्॥३७॥

हार्दिक्यं शरसंछन्नं कवचं तन्महाधनम् ।
व्यशीर्यत रणे राजंस्ताराजालमिवाम्बरात्॥३८॥

स च्छिन्नधन्वा विरथः शर्णिवर्मा शरार्दितः ।
अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः॥४०॥

कृतवर्मा तु निर्जित्य धर्मात्मानं युधिष्ठिरम् ।
पुनर्द्रोणस्य जुगुपे चक्रमेव महात्मनः॥४१॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे युधिष्ठिरापयानं नाम पञ्चषष्ट्यधिकशततमोऽध्यायः॥१६५॥
षड्षष्ट्यधिकशततमोऽध्यायः

सञ्जय उवाच। भूरिस्तु समरे राजञ्शैनेयं रथिनां वरम् ।
आपतन्तमपासेधत्प्रयाणादिव कुञ्जरम्॥१॥

भूरिरिति । प्रयाणाद्यानस्थानात् । प्रवणादिति पाठे प्रवणं प्रकृष्टं वनं जलम् ॥१॥

अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः ।
विव्याध हृदये तस्य प्रास्त्रवत्तस्य शोणितम्॥२॥

तस्य सात्यकेः । तस्य तस्माद्धृदयात् ॥२॥

तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम् ।
दशभिर्निशितैस्तीक्ष्णैरविध्यत भुजान्तरे॥३॥

तावन्योन्यं महाराज ततक्षाते शरैर्भृशम् ।
क्रोधसंरक्तनयनौ क्रोधाद्विस्फार्य कार्मुके॥४॥

तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा ।
क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः॥५॥

तावन्योन्यं शरै राजन्संछाद्य समवस्थितौ ।
मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत्॥६॥

ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव ।
धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः॥७॥

अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः ।
विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्॥८॥

सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः ।
धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत॥९॥

स विद्ध्वा सात्वतं बाणैस्त्रिभिरेव विशांपते ।
धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव॥१०॥

छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्च्छितः ।
प्रजहार महावेगां शक्तिं तस्य महोरसि॥११॥

स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात् ।
लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया॥१२॥

लोहिताङ्गः कुजः । यदृच्छया दैवेनेत्यभूतोपमा ॥१२॥

तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः ।
अभ्यधावत वेगेन शैनेयं प्रति संयुगे॥१३॥

तिष्ठ तिष्ठेति चाभाष्य शैनेयं स नराधिप ।
अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः॥१४॥

तमापतन्तं संरब्धं शैनेयस्य रथं प्रति ।
घटोत्कचोऽब्रवीद्राजन्नादं मुक्त्वा महारथः॥१५॥

तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ।
एष त्वां निहनिष्यामि महिषं षण्मुखो यथा॥१६॥

महिषमसुरम् ॥१६॥

युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ।
इत्युक्त्वा क्रोधताम्राक्षो राक्षसः परवीरहा॥१७॥

द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ।
रथाक्षमात्रैरिषुभिरभ्यवर्षद्धटोत्कचः॥१८॥

रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ।
शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः॥१९॥

शातयामास समरे तरसा द्रौणिरुत्स्मयन् ।
ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः॥२०॥

समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिन्दमम् ।
स शरैराचितस्तेन राक्षसो रणमूर्धनि॥२१॥

व्यकाशत महाराज श्वाविच्छललतो यथा ।
ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान्॥२२॥

श्वाविच्छल्यकः शललतः शललाभिः ॥२२॥

शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिप्रभैः ।
क्षुरप्रैरर्धचन्द्रैश्च नाराचैः सशिलीमुखैः॥२३॥

वराहकर्णैर्नालीकैर्विकर्णैश्चाभ्यवीवृषत् ।
तां शस्त्रवृष्टिमतुलां वज्राशनिसमस्वनाम्॥२४॥

पतन्तीमुपरि क्रुद्धा द्रौणिरव्यथितेन्द्रियः ।
सुदुःसहां शरैर्घोरैर्दिव्यास्त्रप्रतिमन्त्रितैः॥२५॥

व्यधमत्सुमहातेजा महाभ्राणीव मारुतः ।
ततोन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत्॥२६॥

घोररूपो महाराज योधानां हर्षवर्धनः ।
ततोऽस्त्रसंघर्षकृतैर्विस्फुलिङ्गैः समन्ततः॥२७॥

बभौ निशामुखे व्योम खद्योतैरिव संवृतम् ।
स मार्गणगणैर्द्रोणिर्दिशः प्रच्छाद्य सर्वतः॥२८॥

प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत् ।
ततः प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे॥२९॥

विगाढे रजनीमध्ये शक्रप्रह्लादयोरिव ।
ततो घटोत्कचो बाणैर्दशभिर्द्रौणिमाहवे॥३०॥

जघानोरसि संक्रुद्धः कालज्वलनसन्निभैः ।
स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः॥३१॥

चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः ।
स मोहमनुसंप्राप्तो ध्वजयष्टिं समाश्रितः॥३२॥

ततो हाहाकृतं सैन्यं तव सर्वं जनाधिप ।
हतं स्म मेनिरे सर्वे तावकास्तं विशांपते॥३३॥

तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे ।
पञ्चालाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे॥३४॥

प्रतिलभ्य ततः संज्ञामश्वत्थामा महाबलः ।
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः॥३५॥

मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् ।
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम्॥३६॥

स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः ।
विवेश वसुधामुग्रः सपुंखः पृथिवीपते॥३७॥

सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् ।
राक्षसेन्द्रः सुबलवान्द्रौणिना रणशालिना॥३८॥

दृष्ट्वा विमूढं हैडिम्बं सारथिस्तु रणाजिरात् ।
द्रौणेः सकाशात्संभ्रान्तस्त्वपनिन्ये त्वरान्वितः॥३९॥

तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम् ।
ननाद सुमहानादं द्रोणपुत्रो महारथः॥४०॥

पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत ।
वपुषाऽतिप्रजज्वाल मध्याह्न इव भास्करः॥४१॥

भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति ।
स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः॥४२॥

तं भीमसेनो दशभिः शरैर्विव्याध मारिष ।
दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत॥४३॥

तौ सायकैरवच्छिन्नावदृश्येतां रणाजिरे ।
मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ॥४४॥

अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः ।
पञ्चभिर्भरतश्रेष्ठ तिष्ठतिष्ठेति चाब्रवीत्॥४५॥

तस्य भीमो धनुश्छित्त्वा ध्वजं च दशभिः शरैः ।
विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम्॥४६॥

ततो दुर्योधनः क्रुद्धो धनुरन्यन्महत्तरम् ।
गृहीत्वा भरतश्रेष्ठो भीमसेनं शितैः शरैः ।
अपीडयद्रणमुखे पश्यतां सर्वधन्विनाम्॥४७॥

तान्निहत्य शरान्भीमो दुर्योधनधनुश्च्युतान् ।
कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्॥४८॥

दुर्योधनस्तु संक्रुद्धो भीमसेनस्य मारिष ।
क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत॥४९॥

अथान्यद्धनुरादाय भीमसेनो महाबलः ।
विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः॥५०॥

तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत् ।
द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा॥५१॥

आत्तमात्तं महाराज भीमस्य धनुराच्छिनत् ।
तव पुत्रो महाराज जितकाशी मदोत्कटः॥५२॥

स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः ।
शक्तिं चिक्षेप समरे सर्वपारसवीं शुभाम्॥५३॥

मृत्योरिव स्वसारं हि दीप्तां वह्निशिखामिव ।
सीमन्तमिव कुर्वन्तीं नभसोऽग्निसमप्रभाम्॥५४॥

अप्राप्तामेव तां शक्तिं त्रिधा चिच्छेद कौरवः ।
पश्यतः सर्वलोकस्य भीमस्य च महात्मनः॥५५॥

ततो भीमो महाराज गदां गुर्वीं महाप्रभाम् ।
चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति॥५६॥

ततः सा सहसा वाहांस्तव पुत्रस्य संयुगे ।
सारथिं च गदा गुर्वी ममर्दास्य रथं पुनः॥५७॥

पुत्रस्तु तव राजेन्द्र भीमाद्भीतः प्रणश्य च ।
आरुरोह रथं चान्यं नन्दकस्य महात्मनः॥५८॥

प्रणश्य निलीनो भूत्वा ॥५८॥

ततो भीमो हतं मत्वा तव पुत्रं महारथम् ।
सिंहनादं महच्चक्रे तर्जयन्निशि कौरवान्॥५९॥

तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम् ।
ततोऽतिचुक्रुशुः सर्वे ते हाहेति समन्ततः॥६०॥

तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम् ।
भीमसेनस्य नादं च श्रुत्वा राजन् महात्मनः॥६१॥

ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम् ।
अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः॥६२॥

पञ्चालाः केकया मत्स्याः सृञ्जयाश्च विशांपते ।
सर्वोद्योगेनाभिजग्मुर्द्रोणमेव युयुत्सया॥६३॥

तत्रासीत्सुमहद्युद्धं द्रोणस्याथ परैः सह ।
घोरे तमसि मग्नानां निघ्नतामितरेतरम्॥६४॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे दुर्योधनापयाने षड्षष्ट्यधिकशततमोऽध्यायः॥१६६॥
सप्तषष्ट्यधिकशततमोऽध्यायः

सञ्जय उवाच। सहदेवमथायान्तं द्रोणप्रेप्सुं विशांपते ।
कर्णो वैकर्तनो युद्धे वारयामास भारत॥१॥

सहदेवमथायान्तमिति शतानीकमिति । चाध्यायौ स्पष्टार्थौ ॥१॥

सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः ।
पुनर्विव्याध दशभिर्विशिखैर्नतपर्वभिः॥२॥

तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम् ।
सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत्॥३॥

ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान् ।
कर्णं विव्याध विंशत्या तद‌द्भुतमिवाभवत्॥४॥

तस्य कर्णो हयान्हत्वा शरैः सन्नतपर्वभिः ।
सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम्॥५॥

विरथः सहदेवस्तु खड्गं चर्म समाददे ।
तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव॥६॥

अथ गुर्वीं महाधोरां हेमचित्रां महागदाम् ।
प्रेषयामास संक्रुद्धो वैकर्तनरथं प्रति॥७॥

तामापतन्तीं सहसा सहदेवप्रचोदिताम् ।
व्यष्टंभयच्छरैः कर्णो भूमौ चैनामपातयत्॥८॥

गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः ।
शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः॥९॥

ससंभ्रमं ततस्तूर्णमवप्लुत्य रथोत्तमात् ।
सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम्॥१०॥

रथचक्रं प्रगृह्याजौ मुमोचाधिरथं प्रति ।
तदाऽपतद्वै सहसा कालचक्रमिवोद्यतम्॥११॥

शरैरनेकसाहस्त्रैराच्छिनत्सूतनन्दनः ।
तस्मिंस्तु निहते चक्रे सूतजेन महात्मना॥१२॥

ईषादण्डकयोक्रांश्च युगानि विविधानि च ।
हस्त्यंगानि तथाश्वांश्च मृतांश्च पुरुषान्बहून्॥१३॥

चिक्षेप कर्णमुद्दिश्य कर्णस्तान्व्यधमच्छरैः ।
स निरायुधमात्मानं ज्ञात्वा माद्रवतीसुतः॥१४॥

वार्यमाणस्तु विशिखैः सहदेवो रणं जहौ ।
तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ॥१५॥

अब्रवीत्प्रहसन्वाक्यं सहदेवं विशांपते ।
मा युध्यस्व रणेऽधीर विशिष्टै रथिभिः सह॥१६॥

सदृशैर्युध्य माद्रेय वचो मे मा विशंकिथाः ।
अथैनं धनुषोऽग्रेण तुदन्भूयोऽब्रवीद्वचः॥१७॥

एषोऽर्जुनो रणे तूर्णं युध्यते कुरुभिः सह ।
तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे॥१८॥

एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः ।
प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रदहन्निव॥१९॥

वधं प्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा ।
कुन्त्याः स्मृत्वा वचो राजन् सत्यसन्धो महायशाः॥२०॥

सहदेवस्ततो राजन्विमनाः शरपीडितः ।
कर्णवाक्शरतप्तश्च जीवितान्निरविद्यत॥२१॥

आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः ।
जनमेजयस्य समरे त्वरायुक्तो महारथः॥२२॥

विराटं सहसेनं तु द्रोणं वै द्रुतमागतम् ।
मद्रराजः शरौघेण च्छादयामास धन्विनम्॥२३॥

तयोः समभवद्युद्धं समरे दृढधन्विनोः ।
यादृशं ह्यभवद्राजन् जंभवासवयोः पुरा॥२४॥

मद्रराजो महाराज विराटं वाहिनीपतिम् ।
आजघ्ने त्वरितस्तूर्णं शतेन नतपर्वणाम्॥२५॥

प्रतिविव्याध तं राजन्नवभिर्निशितैः शरैः ।
पुनश्चैनं त्रिसप्तत्या भूयश्चैव शतेन तु॥२६॥

तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः ।
सुतं ध्वजं च समरे शराभ्यां संन्यपातयत्॥२७॥

हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ।
तस्थौ विस्फारयंश्चापं विमुञ्चंश्च शिताञ्छरान्॥२८॥

शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम् ।
रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः॥२९॥

शतानीकमथायान्तं मद्रराजो महामृधे ।
विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम्॥३०॥

तस्मिंस्तु निहते वीरे विराटो रथसत्तमः ।
आरुरोह रथं तूर्णं तमेव ध्वजमालिनम्॥३१॥

ततो विस्फार्य नयने क्रोधाद्द्विगुणविक्रमः ।
मद्रराजरथं तूर्णं छा‌यामास पत्रिभिः॥३२॥

ततो मद्राधिपः क्रुद्धः शरेणानतपर्वणा ।
आजघानोरसि दृढं विराटं वाहिनीपतिम्॥३३॥

सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् ।
कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ॥३४॥

सारथिस्तमपोवाह समरे शरविक्षतम् ।
ततः सा महती सेना प्राद्रवन्निशि भारत॥३५॥

वध्यमाना शरशतैः शल्येनाहवशोभिना ।
तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनञ्जयौ॥३६॥

प्रयातौ तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः ।
तौ तु प्रत्युद्ययौ राजन् राक्षसेन्द्रो ह्यलंबुषः॥३७॥

अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम् ।
तुरङ्गममुखैर्युक्तं पिशाचैर्घोरदर्शनैः॥३८॥

लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम् ।
कार्ष्णायसमयं घोरमृक्षचर्मसमावृतम्॥३९॥

रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता ।
ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजता॥४०॥

स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः ।
रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट्र॥४१॥

किरन्बाणगणान् राजञ्शतशोऽर्जुनमूर्धनि ।
अतितीव्रं महद्युद्धं नरराक्षसयोस्तदा॥४२॥

द्रष्टॄणां प्रीतिजननं सर्वेषां तत्र भारत ।
गृध्र-काक-बलोलूक-कङ्क-गोमायुहर्षणम्॥४३॥

तमर्जुनः शतनव पत्रिणां समताडयत् ।
नवभिश्च शितैर्बाणैर्ध्वजं चिच्छेद भारत॥४४॥

सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम् ।
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान्॥४५॥

पुनः सज्यं कृतं चापं तदप्यस्य द्विधाऽच्छिनत् ।
विरथस्योद्यतं खड्गं शरेणास्य द्विधाऽकरोत्॥४६॥

अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ ।
पार्थोऽविध्यद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात्॥४७॥

तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ ।
किरञ्शरगणान् राजन्नरवारणवाजिषु॥४८॥

वध्यमाना महाराज पाण्डवेन यशस्विना ।
सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव दुमाः॥४९॥

तेषु तूत्साद्यमानेषु फाल्गुनन महात्मना ।
संप्राद्रवद्बलं सर्वं पुत्राणां ते विशांपते॥५०॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे लंबुषपराभवे सप्तषष्ट्यधिकशततमोऽध्यायः॥१६७॥
अष्टषष्ट्यधिकशततमोऽध्यायः

सञ्जय उवाच। शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव ।
चित्रसेनस्तव सुतो वारयामास भारत॥१॥

शतानीकमिति ॥१॥

नाकुलिश्चित्रसेनं तु विद्ध्वा पञ्चभिराशुगैः ।
स तु तं प्रति विव्याध दशभिर्निशितैः शरैः॥२॥

चित्रसेनो महाराज शतानीकं पुनर्युधि ।
नवभिर्निशितैर्बाणैराजघान स्तनान्तरे॥३॥

नाकुलिस्तस्य विशिखैर्वर्मसन्नतपर्वभिः ।
गात्रात्संच्यावयामास तद‌द्भुतमिवाभवत्॥४॥

सोपेतवर्मा पुत्रस्ते विरराज भृशं नृप ।
उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः॥५॥

ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः ।
धनुश्चैव महाराज यतमानस्य संयुगे॥६॥

स च्छिन्नधन्वा समरे विवर्मा च महारथः ।
धनुरन्यन्महाराज जग्राहारिविदारणम्॥७॥

ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः ।
विव्याध समरे क्रुद्धो भरतानां महारथः॥८॥

शतानीकोऽथ संक्रुद्धश्चित्रसेनस्य मारिष ।
जघान चतुरो वाहान्सारथिं च नरोत्तमः॥९॥

अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः ।
नाकलिं पञ्चविंशत्या शराणामार्दयद्बली॥१०॥

तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे ।
अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम्॥११॥

स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः॥१२॥

द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम् ।
वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा॥१३॥

यज्ञसेनस्तु समरे कर्णपुत्रं महारथम् ।
षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ॥१४॥

वृषसेनस्तु संक्रुद्धो यज्ञसेनं रथे स्थितम् ।
बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे॥१५॥

तावुभौ शरनुन्नाङ्गौ शरकण्टकितौ रणे ।
व्यभ्राजेतां महाराज श्वाविधौ शललैरिव॥१६॥

रुक्मपुंखैः प्रसन्नाग्रैः शरैश्छिन्नतनुच्छदौ ।
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे॥१७॥

तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ ।
किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे॥१८॥

वृषसेनस्ततो राजन् द्रुपदं नवाभः शरैः ।
विद्ध्वा विव्याध सप्तत्या पुनरन्यैस्त्रिभिस्त्रिभिः॥१९॥

ततः शरसहस्त्राणि विमुञ्चन्विबभौ तदा ।
कर्णपुत्रो महाराज वर्षमाण इवांबुदः॥२०॥

द्रुपदस्तु ततः क्रुद्धो वृषसेनस्य कार्मुकम् ।
द्विधा चिच्छेद भल्लेन पीतेन निशितेन च॥२१॥

सोऽन्यत्कार्मुकमादाय रुक्मबद्धं नवं दृढम् ।
तूणादाकृष्य विमलं भल्लं पीतं शितं दृढम्॥२२॥

कार्मुके योजयित्वा तं द्रुपदं सन्निरीक्ष्य च ।
आकर्णपूर्णं मुमुचे त्रासयन्सर्वसोमकान्॥२३॥

हृदयं तस्य भित्त्वा च जगाम वसुधातलम् ।
कश्मलं प्राविशद्राजा वृषसेनशराहतः॥२४॥

सारथिस्तमपोवाह स्मरन्सारथिचेष्टितम् ।
तस्मिन्प्रभग्ने राजेन्द्र पञ्चालानां महारथे॥२५॥

ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम् ।
संप्राद्रवत्तदा राजन्निशीथे भैरवे सति॥२६॥

प्रदीपैरपरित्यक्तैर्ध्वलद्भिस्तैः समन्ततः ।
व्यराजत मही राजन् वीताभ्रा द्यौरिव ग्रहैः॥२७॥

तथाऽङ्गदैर्निपतितैर्व्यराजत वसुंधरा ।
प्रावृट्काले महाराज विद्युद्भिरिव तोयदः॥२८॥

ततः कर्णसुतान्त्रस्ताः सोमका विप्रदुद्रुवुः ।
यथेन्द्रभयवित्रस्ता दानवास्तारकामये॥२९॥

तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः ।
व्यराजन्त महाराज प्रदीपैरवभासिताः॥३०॥

तांस्तु निर्जित्य समरे कर्णपुत्रोऽप्यरोचत ।
मध्यंदिनमनुप्राप्तो घर्मांशुरिव भारत॥३१॥

तेषु राजसहस्त्रेषु तावकेषु परेषु च ।
एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान्॥३२॥

स विजित्य रणे शूरान्सोमकानां महारथान् ।
जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः॥३३॥

प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून् ।
दुःशासनस्तव सुतः प्रत्यगच्छन्महारथः॥३४॥

तयोः समागमो राजंश्चित्ररूपो बभूव ह ।
व्यपेतजलदे व्योम्नि बुधभास्करयोरिव॥३५॥

प्रतिविध्यं तु समरे कुर्वाणं कर्म दुष्करम् ।
दुःशासनस्त्रिभिर्बाणैर्ललाटे समविध्यत॥३६॥

सोऽतिविद्धो बलवता तव पुत्रेण धन्विना ।
विरराज महाबाहुः सशृङ्ग इव पर्वतः॥३७॥

दुःशासनं तु समरे प्रतिविन्ध्यो महारथः ।
नवभिः सायकैर्विद्ध्वा पुनर्विव्याध सप्तभिः॥३८॥

तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम् ।
प्रतिविन्ध्यहयानुग्रैः पातयामास सायकैः॥३९॥

सारथिं चास्य भल्लेन ध्वजं च समपातयत् ।
रथं च तिलशो राजन् व्यधमत्तस्य धन्विनः॥४०॥

पताकाश्च सतूणीरा रश्मीन्योक्त्राणि च प्रभो ।
चिच्छेद तिलशः क्रुद्धः शरैः सन्नतपर्वभिः॥४१॥

विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः ।
अयोधयत्तव सुतं किरञ्शरशतान्बहून्॥४२॥

क्षुरप्रेण धनुस्तस्य चिच्छेद तनयस्तव ।
अथैनं दशभिर्बाणैश्छिन्नधन्वानमार्दयत्॥४३॥

तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः ।
अन्ववर्तन्त वेगेन महत्या सेनया सह॥४४॥

आप्लुतः सततो यानं सुतसोमस्य भास्वरम् ।
धनुर्गृह्य महाराज विव्याध तनयं तव॥४५॥

ततस्तु तावकाः सर्वे परिवार्य सुतं तव ।
अभ्यवर्तन्त संग्रामे महत्या सेनया वृताः॥४६॥

ततः प्रववृते युद्धं तव तेषां च भारत ।
निशीथे दारुणे काले यमराष्ट्रविवर्धनम्॥४७॥

इति श्रीमहाभारते घटोत्कचवधपर्वणि रात्रियुद्धे शतानीकादियुद्धे अष्टषष्ट्यधिकशततमोऽध्यायः॥१६८॥
ऊनसप्तत्यधिकशततमोऽध्यायः

सञ्जय उवाच। नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव ।
अभ्ययात्सौबलःक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्॥१॥

नकुलमिति ॥१॥

कृतवैरौ तु तौ वीरावन्योन्यवधकांक्षिणौ ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः॥२॥

यथैव नकुलो राजन् शरवर्षाण्यमुञ्चत ।
तथैव सौबलश्चापि शिक्षां सन्दर्शयन्युधि॥३॥

तावुभौ समरे शूरौ शरकण्टकिनौ तदा ।
व्यराजेतां महाराज श्वाविधौ शललैरिव॥४॥

रुक्मपुंखैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ ।
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे॥५॥

तपनीयनिभौ चित्रौ कल्पवृक्षाविव द्रुमौ ।
किंशुकाविव चोत्फुल्लौ प्रकाशेते रणाजिरे॥६॥

तावुभौ समरे शूरौ शरकण्टकिनौ तदा ।
व्यराजेतां महाराज कण्टकैरिव शाल्मली॥७॥

सुजिह्यं प्रेक्षमाणौ च राजन्विवृतलोचनौ ।
क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम्॥८॥

स्यालस्तु तव संक्रुद्धो माद्रीपुत्रं हसन्निव ।
कर्णिनैकेन विव्याध हृदये निशितेन ह॥९॥

नकुलस्तु भृशं विद्धः स्यालेन तव धन्विना ।
निषसाद रथोपस्थे कश्मलं चाविशन्महत्॥१०॥

अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम् ।
ननाद शकुनी राजंस्तपान्ते जलदो यथा॥११॥

प्रतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः ।
अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः॥१२॥

संक्रुद्धः शकुनिं षष्ठ्या विव्याध भरतर्षभ ।
पुनश्चैनं शतेनैव नाराचानां स्तनान्तरे॥१३॥

अथास्य सशरं चापं मुष्टिदेशेऽच्छिनत्तदा ।
ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत्॥१४॥

विशिखेन च तीक्ष्णेन पीतेन निशितेन च ।
ऊरू निर्भिद्य चैकेन नकुलः पाण्डुनन्दनः॥१५॥

ऊरू इति । मण्डलं चरतः शकुनेर्द्वावूरू एकेनैव बाणेन बिभेद ॥१५॥

श्येनं सपक्षं व्याधेन पातयामास तं तदा ।
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्॥१६॥

यथा खे श्येनं पक्षाभ्यां सहितं वामदक्षिणगामिनं पातयेदेवमिति लुप्तोपमा । व्याधेन बाणेन विध्यत्यनेनेति व्याधो बाणः ॥१६॥

ध्वजयष्टिं परिक्लिश्य कामुकः कामिनीं यथा ।
तं विसंज्ञं निपतितं दृष्ट्वा स्यालं तवानघ॥१७॥

परिक्लिश्य क्लेशेन ध्वजयष्टिं श्रित इति शेषः ॥१७॥

अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात् ।
ततः संचुक्रुशुः पार्था ये च तेषां पदानुगाः॥१८॥

निर्जित्य च रणे शत्रुं नकुलः शत्रुतापनः ।
अब्रवीत्सारथिं क्रुद्धो द्रोणानीकाय मां वह॥१९॥

तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य सारथिः ।
प्रायात्तेन तदा राजन् यत्र द्रोणो व्यवस्थितः॥२०॥

शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशांपते ।
कृपः शारद्वतो यत्तः प्रत्यगच्छत्सवेगितः॥२१॥

गौतमं द्रुतमायान्तं द्रोणानकिमरिन्दमम् ।
विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव॥२२॥

तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः ।
पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव॥२३॥

महद्युद्धं तयोरासीद्घोररूपं भयानकम् ।
यथा देवासुरे युद्धे शंबरामरराजयोः॥२४॥

शरजालावृतं व्योम चक्रतुस्तौ महारथौ ।
मेघाविव तपापाये वीरौ समरदुर्मदौ॥२५॥

प्रकृत्या घोररूपं तदासीद्धोरतरं पुनः ।
रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम्॥२६॥

कालरात्रिनिभा ह्यासीद्घोररूपा भयानका ।
शिखण्डी तु महाराज गौतमस्य महद्धनुः॥२७॥

अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा ।
तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम्॥२८॥

स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम् ।
तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः॥२९॥

साऽपतन्मेदिनीं दीप्ता भासयन्ती महाप्रभा ।
अथान्यद्धनुरादाय गौतमो रथिनां वरः॥३०॥

प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम् ।
स च्छाद्यमानः समरे गौतमेन यशस्विना॥३१॥

न्यषीदत रथोपस्थे शिखण्डी रथिनां वरः ।
सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि॥३२॥

आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत ।
विमुखं तु रणे दृष्ट्वा याज्ञसेनिं महारथम्॥३३॥

पञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः ।
तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम्॥३४॥

महत्या सेनया सार्धं ततो युद्धमवर्तत ।
रथानां च रणे राजन्नन्योन्यमभिधावताम्॥३५॥

बभूव तुमुलः शब्दो मेघानां गर्जतामिव ।
द्रवतां सादिनां चैव गजानां च विशांपते॥३६॥

अन्योन्यमभितो राजन् क्रूरमायोधनं बभौ ।
पत्तीनां द्रवतां चैव पादशब्देन मेदिनी॥३७॥

अकम्पत महाराज भयत्रस्तेव चाङ्गना ।
रथिनो रथमारुह्य प्रद्रुता वेगवत्तरम्॥३८॥

रथिन इति । प्रद्रुता रथिनो वेगवत्तरं रथमारुह्य तत्पतिमगृह्णन् शलभानिव वायसा इति उत्तरेण सह योज्यम् । रथं रथान् रथिनो रथपत्तीनति वा ॥३८॥

अगृह्णन्बहवो राजञ्शलभान्वायसा इव ।
तथा गजान्प्रभिन्नांश्च संप्रभिन्ना महागजाः॥३९॥

तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत ।
सादी सादिनमासाद्य पत्तयश्च पदातिनम्॥४०॥

समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः ।
धावतां द्रवतां चैव पुनरावर्ततामपि॥४१॥

बभूव तत्र सैन्यानां शब्दः सुविपुलो निशि ।
दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु॥४२॥

अदृश्यन्त महाराज महोल्का इव खाच्च्य्युताः ।
सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता॥४३॥

दिवसप्रतिमा राजन्बभूव रणमूर्धनि ।
आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति॥४४॥

तथा नष्टं तमो घोरं दीपैर्दीप्तैरितस्ततः ।
दिवं च पृथिवीं चैव दिशश्च प्रदिशस्तथा॥४५॥

रजसा तमसा व्याप्ता द्योतिताः प्रभया पुनः ।
अस्त्राणां कवचानां च मणीनां च महात्मनाम्॥४६॥

अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः ।
तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे॥४७॥

न किंचिद्विदुरात्मानमयमस्मीति भारत ।
अवधीत्समरे पुत्रं पिता भरतसत्तम॥४८॥

पुत्रश्च पितरं मोहात्सखायं च सखा तथा ।
स्वीस्त्रीयं पातुलश्चापि स्वस्त्रीयश्चापि मातुलम्॥४९॥

स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम् ।
निर्मर्यादमभूद्युद्धं रात्रौ भीरुभयानकम्॥५०॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे संकुलयुद्धे ऊनसप्तत्यधिकशततमोऽध्यायः॥१६९॥
सप्तत्यधिकशततमोऽध्यायः

सञ्जय उवाच। तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे ।
धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत॥१॥

तस्मिन्निति ॥१॥

संदधानो धनुःश्रेष्ठं ज्यां विकर्षन्पुनः पुनः ।
अभ्यद्रवत द्रोणस्य रथं रुक्मविभूषितम्॥२॥

धृष्टद्युम्नमथायान्तं द्रोणस्यान्तचिकीर्षया ।
परिवव्रुर्महाराज पञ्चालाः पाण्डवैः सह॥३॥

तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम् ।
पुत्रास्ते सर्वतो यत्ता ररक्षुद्रौणमाहवे॥४॥

बलार्णवौ ततस्तौ तु समेयातां निशामुखे ।
वातोद्धूतौ क्षुब्धसत्त्वौ भैरवौ सागराविव॥५॥

ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः ।
विव्याध हृदये तूर्णं सिंहनादं ननाद च॥६॥

तं द्रोणः पञ्चविंशत्या विद्ध्वा भारत संयुगे ।
चिच्छेदान्येन भल्लेन धनुरस्य महास्वनम्॥७॥

धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ ।
उत्ससर्ज धनुस्तूर्णं सन्दश्य दशनच्छदम्॥८॥

ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान् ।
आददेऽन्यद्धनुः श्रेष्ठं द्रोणस्यान्ताचकर्षिया॥९॥

विकृष्य च धनुश्चित्रमाकर्णात्परवीरहा ।
द्रोणस्यान्तकरं घोरं व्यसृजत्सायकं ततः॥१०॥

स विसृष्टो बलवता शरो घोरो महामृधे ।
भासयामास तत्सैन्यं दिवाकर इवोदितः॥११॥

तं तु दृष्ट्वा शरं घोरं देव-गन्धर्व-मानवाः ।
स्वस्त्यस्तु समरे राजन् द्रोणायेत्यब्रुवन्वचः॥१२॥

तं तु सायकमायान्तमाचार्यस्य रथं प्रति ।
कर्णो द्वादशधा राजंश्चिच्छेद कृतहस्तवत्॥१३॥

स च्छिन्नो बहुधा राजन् सुतपुत्रेण धन्विना ।
निपपात शरस्तूर्णं निर्विषो भुजगो यथा॥१४॥

धृष्टद्युम्नं ततः कर्णो विव्याध दशभिः शरैः ।
पञ्चभिर्दोणपुत्रस्तु स्वयं द्रोणस्तु सप्तभिः॥१५॥

शल्यश्च दशभिर्बाणैस्त्रिभिर्दुःशासनस्तथा ।
दुर्योधनस्तु विंशत्या शकुनिश्चापि पञ्चभिः॥१६॥

पाञ्चाल्यं त्वरयाऽविध्यन्सर्व एव महारथाः ।
स विद्धः सप्तभिर्वीरैर्द्रोणस्यार्थे महाहवे॥१७॥

सर्वानसंभ्रमाद्राजन् प्रत्यविद्ध्यन्त्रिभिस्त्रिभिः ।
द्रोणं द्रौणिं च कर्णं च विव्याध च तवात्मजम्॥१८॥

ते भिन्ना धन्विना तेन धृष्टद्युम्नं पुनर्मृधे ।
विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः॥१९॥

द्रुमसेनस्तु संक्रुद्धो राजन्विव्याध पत्रिणा ।
त्रिभिश्चान्यैः शरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्॥२०॥

स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः ।
स्वर्णपुङ्खैः शिलाधौतैः प्राणान्तकरणैर्युधि॥२१॥

भल्लेनान्येन तु पुनः सुवर्णोज्वलकुण्डलम् ।
निचकर्त शिरः कायाद्द्रुमसेनस्य वीर्यवान्॥२२॥

तच्छिरो न्यपतद्भूमौ सन्दष्टौष्ठपुटं रणे ।
महावातसमुद्भूतं पक्वं तालफलं यथा॥२३॥

तान्स विद्ध्वा पुनर्योधान् वीरः सुनिशितैः शरैः ।
राधेयस्याच्छिनद्भल्लैः कार्मुकं चित्रयोधिनः॥२४॥

न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा ।
निकर्तनमिवात्युग्रं लांगूलस्य महाहरिः॥२५॥

हरिः सिंहः ॥२५॥

सोऽन्यद्धनुः समादाय क्रोधरक्तेक्षणः श्वसन् ।
अभ्यद्रवच्छरौघैस्तं धृष्टद्युम्नं महाबलम्॥२६॥

दृष्ट्वा कर्णं तु संरब्धं ते वीराः षड्रथर्षभाः ।
पाञ्चाल्यपुत्रं त्वरिताः परिवव्रुर्जिघांसया॥२७॥

षड्रथर्षभाः दुर्योधन-दुःशासन-द्रोण-कर्ण-शल्य-शकुनयः ॥२७॥

षण्णां योधप्रवीराणां तावकानां पुरस्कृतम् ।
मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नममंस्महि॥२८॥

एतस्मिन्नेव काले तु दाशार्हो विकिरञ्छरान् ।
धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत॥२९॥

तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम् ।
राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः॥३०॥

तं सात्यकिर्महाराज विव्याध दशभिः शरैः ।
पश्यतां सर्ववीराणां मां गास्तिष्ठेति चाब्रवीत्॥३१॥

स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः ।
आसीत्समागमो राजन् बलिवासवयोरिव॥३२॥

त्रासयन् रथघोषेण क्षत्रियान् क्षत्रियर्षभः ।
राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत॥३३॥

कम्पयन्निव घोषेण धनुषो वसुधां बली ।
सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत्॥३४॥

विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि ।
कर्णः शरशतैश्चापि शैनेयं प्रत्यविद्ध्यत॥३५॥

तथैव युद्ध्यमानोऽपि वृष्णीनां प्रवरो युधि ।
अभ्यवर्षच्छरैः कर्णं तद्युद्धमभवत्समम्॥३६॥

तावकाश्च महाराज कर्णपुत्रश्च दंशितः ।
सात्यकिं विव्यधुस्तूर्णं समंतान्निशितैः शरैः॥३७॥

अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य वा विभो ।
अविद्ध्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे॥३८॥

तेन बाणेन निर्विद्धो वृषसेनो विशांपते ।
न्यपतत्स रथे मूढो धनुरुत्सृज्य वीर्यवान्॥३९॥

ततः कर्णो हतं मत्वा वृषसेनं महारथम् ।
पुत्रशोकाभिसन्तप्तः सात्यकिं प्रत्यपीडयत्॥४०॥

पीड्यमानस्तु कर्णेन युयुधानो महारथः ।
विव्याध बहुभिः कर्णं त्वरमाणः पुनः पुनः॥४१॥

स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः ।
स हस्तावायधनुषी तयोश्चिच्छेद सात्वतः॥४२॥

तावन्ये धनुषी सज्ये कृत्वा शत्रुभयंकरे ।
युयुधानमविध्येतां समंतान्निशितैः शरैः॥४३॥

वर्तमाने तु संग्रामे तस्मिन्वीरवरक्षये ।
अतीव शुश्रुवे राजन् गाण्डीवस्य महास्वनः॥४४॥

श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निःस्वनम् ।
सूतपुत्रोऽब्रवीद्राजन् दुर्योधनमिदं वचः॥४५॥

एष सर्वां चमूं हत्वा मुख्यांश्चैव नरर्षभान् ।
पौरवांश्च महेष्वासो विक्षिपन्नुत्तमं धनुः॥४६॥

पार्थो विजयते तत्र गाण्डीवनिनदो महान् ।
श्रूयते रथघोषश्च वासवस्येव नर्दतः॥४७॥

करोति पाण्डवो व्यक्तं कर्मौपयिकमात्मनः ।
एषा विदार्यते राजन्बहुधा भारती चमूः॥४८॥

औपयिकं युक्तम् ॥४८॥

विप्रकीर्णान्यनेकानि न हि तिष्ठन्ति कर्हिचित् ।
वातेनेव समुद्धूतमभ्रजालं विदीर्यते॥४९॥

सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे ।
द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः॥५०॥

विद्धानां शतशो राजन् श्रूयते निःस्वनो महान् ।
शृणु दुन्दुभिनिर्घोषमर्जुनस्य रथं प्रति॥५१॥

निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे ।
हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान्॥५२॥

शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति ।
अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वतां वरः॥५३॥

इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान् ।
एष पाञ्चालराजस्य पुत्रो द्रोणेन संगतः॥५४॥

इह सात्यकिरूपं लक्ष्यं लभ्यते चेत् अयं वशीक्रियते चेदित्यर्थः ॥५४॥

सर्वतः संवृतो योधैः शूरैश्च रथसत्तमैः ।
सात्यकिं यदि हन्याम धृष्टद्युम्नं च पार्षतम्॥५५॥

सात्यकिधृष्टद्युम्नौ पाण्डवसेनायां सारभूतावभिमन्युवद्बहुभिर्मिलित्वा हन्तव्यावित्याह - सात्यकिमित्यादिना ॥५५॥

असंशयं महाराज ध्रुवो नो विजयो भवेत् ।
सौभद्रवदिमौ वीरौ परिवार्य महारथौ॥५६॥

प्रयतामो महाराज निहन्तुं वृष्णिपार्षतौ ।
सव्यसाची पुरोभ्येति द्रोणानीकाय भारत॥५७॥

संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुङ्गवैः ।
तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः॥५८॥

यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम् ।
ते त्वरध्वं तथा शूराः शराणां मोक्षणे भृशम्॥५९॥

यथा त्विह व्रजत्येष परलोकाय माधवः ।
तथा कुरु महाराज सुनीत्या सुप्रयुक्तया॥६०॥

माधवो मधुवंशजः सात्यकिः ॥६०॥

कर्णस्य मतमास्थाय पुत्रस्ते प्राह सौबलम् ।
यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम्॥६१॥

वृतः सहस्त्रैर्दशभिर्गजानामनिवर्तिनाम् ।
रथैश्च दशसाहस्त्रैस्तूर्णं याहि धनञ्जयम्॥६२॥

दुःशासनो दुर्विषहः सुबाहुर्दुःप्रधर्षणः ।
एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः॥६३॥

जहि कृष्णौ महाबाहो धर्मराजं च मातुल ।
नकुलं सहदेवं च भीमसेनं तथैव च॥६४॥

देवानामिव देवेन्द्र जयाशा त्वयि मे स्थिता ।
जहि मातुल कौन्तेयानसुरानिव पावकिः॥६५॥

पावकिः स्कन्दः ॥६५॥

एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः ।
महत्या सेनया सार्धं सह पुत्रैश्च ते विभो॥६६॥

प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान् ।
ततः प्रववृते युद्धं तावकानां परैः सह॥६७॥

प्रयाते सौबले राजन्पाण्डवानामनीकिनीम् ।
बलेन महता युक्तः सूतपुत्रस्तु सात्वतम्॥६८॥

अभ्ययात्त्वरितो युद्धे किरञ्शरशतान्बहून् ।
तथैव पार्थिवाः सर्वे सात्यकिं पर्यवारयन्॥६९॥

भारद्वाजस्ततो गत्वा धृष्टद्युम्नरथं प्रति ।
महद्युद्धं तदासीत्तु द्रोणस्य निशि भारत ।
धृष्टद्युम्नेन वीरेण पञ्चालैश्च सहाद्भुतम्॥७०॥

इति श्रीमहाभारते घटोत्कचवधपर्वणि रात्रियुद्धे संकुलयुद्धे सप्तत्यधिकशततमोऽध्यायः॥१७०॥
एकसप्तत्यधिकशततमोऽध्यायः

सञ्जय उवाच। ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः ।
अमृष्यमाणाः संरब्धा युयुधानरथं प्रति॥१॥

तत इति ॥१॥

ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः ।
सादिभिश्च गजैश्चैव परिवव्रुः समन्ततः॥२॥

अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः ।
सिंहनादांस्ततश्चक्रुस्तर्जयन्ति स्म सात्यकिम्॥३॥

तेऽभ्यवर्षञ्छरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम् ।
त्वरमाणा महावीरा माधवस्य वधैषिणः॥४॥

तान् दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा ।
प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून्॥५॥

तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः ।
निचकर्त शिरांस्युग्रैः शरैः सन्नतपर्वभिः॥६॥

हस्तिहस्तान्हयग्रीवा बाहूनपि च सायुधान् ।
क्षुरप्रैश्छा‌दयामास तावकानां स माधवः॥७॥

पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत ।
बभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो॥८॥

एतेषां युयुधानेन युध्यतां युधि भारत ।
बभूव तुमुलः शब्दः प्रेतानां क्रन्दतामिव॥९॥

तेन शब्देन महता पूरिताऽभूद्वसुन्धरा ।
रात्रिः समभवच्चैव तीव्ररूपा भयावहा॥१०॥

दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम् ।
श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणे॥११॥

सुतस्तवाव्रवीद्राजन् सारथिं रथिनां वरः ।
यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः॥१२॥

तेन संचोद्यमानस्तु ततस्तांस्तुरगोत्तमान् ।
सुतः संचोदयामास युयुधानरथं प्रति॥१३॥

ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः ।
शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत्॥१४॥

ततः पूर्णायतोत्सृष्टैः शरैः शोणितभोजनैः ।
दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत॥१५॥

दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः ।
शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः॥१६॥

ततः समभवद्युद्धं तुमुलं भरतर्षभ ।
पञ्चालानां च सर्वेषां भरतानां च दारुणम्॥१७॥

शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम् ।
सायकानामशीत्या तु विव्याधोरसि भारत॥१८॥

ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम् ।
सारथिं च रथात्तूर्णं पातयामास पत्रिणा॥१९॥

हताश्वे तु रथे तिष्ठन्पुत्रस्तव विशांपते ।
मुमोच निशितान्बाणान् शैनेयस्य रथं प्रति॥२०॥

शरान्पञ्चाशतस्तांस्तु शैनेयः कृतहस्तवत् ।
चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते॥२१॥

अथापरेण भल्लेन मुष्टिदेशे महद्धनुः ।
चिच्छेद तरसा युद्धे तव पुत्रस्य माधवः॥२२॥

विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः ।
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः॥२३॥

दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम् ।
द्रावयामास विशिखैर्निशामध्ये विशांपते॥२४॥

शकुनिश्चार्जुनं राजन्परिवार्य समंततः ।
रथैरनेकसाहस्त्रैर्गजैश्चापि सहस्रशः॥२५॥

तथा हयसहस्त्रैश्च नानाशस्त्रैरवाकिरत् ।
ते महास्त्राणि सर्वाणि विकिरन्तोऽर्जुनं प्रति॥२६॥

अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः ।
तान्यर्जुनः सहस्राणि रथवारणवाजिनाम्॥२७॥

प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम् ।
ततस्तु समरे शूरः शकुनिः सौबलस्तदा॥२८॥

विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव ।
पुनश्चैव शतेनास्य संरुरोध महारथम्॥२९॥

तमर्जुनस्तु विंशत्या विव्याध युधि भारत ।
अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत॥३०॥

निवार्य तान्बाणगणैर्युधि राजन्धनञ्जयः ।
जघान तावकान्योधान्वज्रपाणिरिवासुरान्॥३१॥

भुजैश्छिन्नैर्महीपाल हस्तिहस्तोपमैर्मृधे ।
समाकीर्णा मही भाति पञ्चास्यैरिव पन्नगैः॥३२॥

शिरोभिः सकिरीटैश्च सुनसैश्चारुकुण्डलैः ।
संदष्टौष्ठपुटैः क्रुद्धैस्तथैवोद्धृतलोचनैः॥३३॥

निष्कचूडामणिधरैः क्षत्रियाणां प्रियंवदैः ।
पङ्कजैरिव विन्यस्तैः पर्वतैर्विबभौ मही॥३४॥

कृत्वा तत्कर्म बीभत्सुरुग्रमुग्रपराक्रमः ।
विव्याध शकुनिं भूयः पञ्चभिर्नतपर्वभिः॥३५॥

अताडयदुलूकं च त्रिभिरेव तथा शरैः ।
उलूकस्तु तथा विद्धो वासुदेवमताडयत्॥३६॥

ननाद च महानादं पूरयन्निव मेदिनीम् ।
अर्जुनः शकुनेश्चापं सायकैरच्छिनद्रणे॥३७॥

निन्ये च चतुरो वाहान्यमस्य सदनं प्रति ।
ततो रथादवप्लुत्य सौबलो भरतर्षभ॥३८॥

उलूकस्य रथं तूर्णमारुरोह विशांपते ।
तावेकरथमारूढौ पितापुत्रौ महारथौ॥३९॥

पार्थं सिषिचतुर्बाणैर्गिरिं मेघाविवाम्बुभिः ।
तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः॥४०॥

विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः ।
अनिलेन यथाऽभ्राणि विच्छिन्नानि समन्ततः॥४१॥

विच्छिन्नानि तथा राजन् बलान्यासन् विशांपते ।
तद्बलं भरतश्रेष्ठ वध्यमानं तदा निशि॥४२॥

प्रदुद्राव दिशः सर्वा वीक्ष्यमाणं भयार्दितम् ।
उत्सृज्य वाहान्समरे चोदयन्तस्तथा परे॥४३॥

संभ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे ।
विजित्य समरे योधांस्तावकान् भरतर्षभ॥४४॥

दध्मतुर्मुदितौ शंखौ वासुदेवधनञ्जयौ ।
धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः॥४५॥

चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह ।
तन्निधाय धनुर्भूमौ द्रोणः क्षत्रियमर्दनः॥४६॥

आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम् ।
धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः॥४७॥

सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे ।
तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः॥४८॥

व्यधमत्कौरवीं सेनामासुरीं मघवानिव ।
वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष॥४९॥

प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी ।
उभयोः सेनयोर्मध्ये नराश्वद्विपवाहिनी॥५०॥

यथा वैतरणी राजन् यमराजपुरं प्रति ।
द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान्॥५१॥

अभ्यराजत तेजस्वी शक्रो देवगणेष्विव ।
अथ दध्मुर्महाशंखान्धृष्टद्युम्नशिखण्डिनौ॥५२॥

यमौ च युयुधानश्च पाण्डवश्च वृकोदरः ।
जित्वा रथसहस्राणि तावकानां महारथाः॥५३॥

सिंहनादवांश्चक्रुः पाण्डवा जितकाशिनः ।
पश्यतस्तव पुत्रस्य कर्णस्य च रणोत्कटाः ।
तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशांपते॥५४॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे संकुलयुद्धे एकसप्तत्यधिकशततमोऽध्यायः॥१७१॥
द्विसप्तत्यधिकशततमोऽध्यायः

सञ्जय उवाच। विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः ।
क्रोधेन महताऽऽविष्टः पुत्रस्तव विशांपते॥१॥

विद्रुतमिति ॥१॥

अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम् ।
अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत्॥२॥

भवद्भ्यामिह संग्रामः क्रुद्धाभ्यां संप्रवर्तितः ।
आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना॥३॥

निहन्यमानां पाण्डूनां बलेन मम वाहिनीम् ।
भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः॥४॥

यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि ।
आवां पाण्डुसुतान्संख्ये जेष्याव इति मानदौ॥५॥

तदैवाहं वचः श्रुत्वा भवद्भ्यामनुसंमतम् ।
नाकरिष्यमिदं पार्थैर्वैरं योधविनाशनम्॥६॥

यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ ।
युध्यतामनुरूपेण विक्रमेण सुविक्रमौ॥७॥

वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते ।
प्रावर्तयेतां संग्रामं घट्टिताविव पन्नगौ॥८॥

घट्टितौ मर्दितौ ॥८॥

ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ ।
शैनेयप्रमुखान्पार्थानभिदुद्रुवत् रणे॥९॥

तथैव सहिताः पार्थाः सर्वसैन्येन संवृताः ।
अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः॥१०॥

अथ द्रोणो महेष्वासो दशभिः शिनिपुङ्गवम् ।
अविध्यत्त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः॥११॥

कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः ।
दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः॥१२॥

एते कौरव संक्रन्दे शैनेयं पर्यवाकिरन् ।
दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम्॥१३॥

संक्रंदे युद्धे ॥१३॥

विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः ।
तत्र द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशांपते॥१४॥

रश्मिभिर्भास्करो राजंस्तमांसीव समन्ततः ।
द्रोणेन वध्यमानानां पञ्चालानां विशांपते॥१५॥

शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम् ।
पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान्॥१६॥

भागिनेयान् वयस्यांश्च तथा सम्बन्धिबान्धवान् ।
उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः॥१७॥

अपरे मोहिता मोहात्तमेवाभिमुखा ययुः ।
पाण्डवानां रणे योधाः परलोकं गताः परे॥१८॥

सा तथा पाण्डवी सेना पीड्यमाना महात्मना ।
निशि संप्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः॥१९॥

पश्यतो भीमसेनस्य विजयस्याच्युतस्य च ।
यमयोर्धर्मपुत्रस्य पार्षतस्य च पश्यतः॥२०॥

तमसा संवृते लोके न प्राज्ञायत किंचन ।
कौरवाणां प्रकाशेन दृश्यन्ते विद्रुताः परे॥२१॥

द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ ।
जघ्नतुः पृष्ठतो राजन्किरन्तौ सायकान्बहून्॥२२॥

पञ्चालेषु प्रभग्नेषु क्षीयमाणेषु सर्वतः ।
द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी॥२३॥

पञ्चालांश्चैव सहितौ जघ्नतुः सायकैर्भृशम् ।
एतयोः शरवर्षेण प्रभग्ना नो महारथाः॥२५॥

वार्यमाणाऽपि कौन्तेय पृतना नावतिष्ठते ।
तां तु विद्रवतीं दृष्ट्वा ऊचतुः केशवार्जुनौ॥२६॥

मा विद्रवत वित्रस्ता भयं त्यजत पाण्डवाः ।
तावावां सर्वसैन्यैश्च व्यूहैः सम्यगुदायुधैः॥२७॥

द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम् ।
एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ॥२८॥

उपेक्षितौ तव बलैर्नाशयेतां निशामिमाम् ।
तयोः संवद‌तोरेवं भीमकर्मा महाबलः॥२९॥

आयाद्वृकोदरः शीघ्रं पुनरावर्त्य वाहिनीम् ।
वृकोदरमथायान्तं दृष्ट्वा तत्र जनार्दनः ।
पुनरेवाब्रवीद्राजन्हर्षयन्निव पाण्डवम्॥३०॥

एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः ।
अभ्यवर्तत वेगेन द्रोणकर्णौ महारथौ॥३१॥

एतेन सहितो युद्ध्य पञ्चालैश्च महारथैः ।
आश्वासनार्थं सैन्यानां सर्वेषां पाण्डुनन्दन॥३२॥

ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ ।
द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि॥३३॥

सञ्जय उवाच। ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् ।
ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि॥३४॥

स संप्रहारस्तुमुलो निशि प्रत्यभवन्महान् ।
यथा सागरयो राजंश्चन्द्रोदयविवृद्धयोः॥३५॥

तत उत्सृज्य पाणिभ्यां प्रदीपांस्तव वाहिनी ।
युयुधे पाण्डवैः सार्धमुन्मत्तवदसंकुला॥३६॥

रजसा तमसा चैव संवृते भृशदारुणे ।
केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः॥३७॥

अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः ।
प्रहरद्भिर्महाराज स्वयंवर इवाहवे॥३८॥

निःशब्द‌मासीत्सहसा पुनः शब्दो महानभूत् ।
क्रुद्धानां युध्यमानानां जीयतां जयतामपि॥३९॥

यत्र यत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम ।
तत्र तत्र स्म शूरास्ते निपतन्ति पतङ्गवत्॥४०॥

तथा संयुध्यमानानां विगाढासीन्महानिशा ।
पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः॥४१॥

इति श्रीमहाभारते घटोत्कचवधपर्वणि रात्रियुद्धे संकुलयुद्धे द्विसप्तत्यधिकशततमोऽध्यायः॥१७२॥
त्रिसप्तत्यधिकशततमोऽध्यायः

सञ्जय उवाच। ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा ।
आजघानोरसि शरैर्दशभिर्मर्मभेदिभिः॥१॥

तत इति ॥१॥

प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोऽपि मारिष ।
दशभिः सायकैर्हृष्टस्तिष्ठ तिष्ठेति चाब्रवीत्॥२॥

तावन्योन्यं शरैः संख्ये संछाद्य सुमहारथैः ।
पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम्॥३॥

ततः पञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे ।
सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः॥४॥

कार्मुकप्रवरं चापि प्रचिच्छेद शितैः शरैः ।
सारथिं चास्य भल्लेन रथनीडादपातयत्॥५॥

धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः ।
गृहीत्वा परिघं घोरं कर्णस्याश्वानपीपिबत्॥६॥

विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः ।
ततो युधिष्ठिरानीकं पद्भ्यामेवान्वपद्यत॥७॥

आरुरोह रथं चापि सहदेवस्य मारिष ।
प्रयातुकामः कर्णाय वारितो धर्मसूनुना॥८॥

कर्णस्तु सुमहातेजाः सिंहनादविमिश्रितम् ।
धनुःशब्दं महच्चक्रे दध्मौ तारेण चांबुजम्॥९॥

दृष्ट्वा विनिर्जितं युद्धे पार्षतं ते महारथाः ।
अमर्षवशमापन्नाः पञ्चालाः सहसोमकाः॥१०॥

सूतपुत्रवधार्थाय शस्त्राण्यादाय सर्वशः ।
प्रययुः कर्णमुद्दिश्य मृत्युं कृत्वा निवर्तनम्॥११॥

कर्णस्यापि रथे वाहानन्यान् सुतोऽभ्ययोजयत् ।
शङ्खवर्णान्महावेगान् सैन्धवान्साधुवाहिनः॥१२॥

लब्धलक्षस्तु राधेयः पञ्चालानां महारथान् ।
अभ्यपीडयदायस्तः शरैर्मेघ इवाचलम्॥१३॥

आयस्तः प्रयत्नवान् ॥१३॥

सा पीड्यमाना कर्णेन पञ्चालानां महाचमूः ।
संप्राद्रवत्सुसंत्रस्ता सिंहेनेवार्दिता मृगी॥१४॥

पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले ।
रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः॥१५॥

धावमानस्य योधस्य क्षुरप्रैः स महामृधे ।
बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम्॥१६॥

ऊरू चिच्छेद चान्यस्य गजस्थस्य विशांपते ।
वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष॥१७॥

नाज्ञासिषुर्धावमाना बहवश्च महारथाः ।
संछिन्नान्यात्मगात्राणि वाहनानि च संयुगे॥१८॥

ते वध्यमानाः समरे पञ्चालाः सृञ्जयैः सह ।
तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मोनरे॥१९॥

अतिभयात्तृणचलनमात्रेणापि कर्णं प्राप्तं मेनिरे ॥१९॥

अपि स्वं समरे योधं धावमानं विचेतसम् ।
कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते॥२०॥

तान्यनीकानि भग्नानि द्रवमाणानि भारत ।
अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्छरान्॥२१॥

अवेक्ष्यमाणास्त्वन्योन्यं सुसंमूढा विचेतसः ।
नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना॥२२॥

कर्णेनाभ्याहता राजन्पञ्चालाः परमेषुभिः ।
द्रोणेन च दिशः सर्वा वीक्ष्यमाणाः प्रदुद्रुवुः॥२३॥

ततो युधिष्टिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम् ।
अपयाने मनः कृत्वा फाल्गुनं वाक्यमब्रवीत्॥२४॥

पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम् ।
निशीथे दारुणे काले तपन्तमिव भास्करम्॥२५॥

कर्णसायकनुन्नानां क्रोशतामेष निःस्वनः ।
अनिशं श्रूयते पार्थ त्वद्बन्धूनामनाथवत्॥२६॥

यथा विसृजतश्चास्य संदधानस्य चाशुगान् ।
पश्यामि नान्तरं पार्थ क्षपयिष्यति नो ध्रुवम्॥२७॥

यदत्रानन्तरं कार्यं प्राप्तकालं च पश्यसि ।
कर्णस्य वधसंयुक्तं तत्कुरुष्व धनञ्जय॥२८॥

एवमुक्तो महाराज पार्थः कृष्णमथाब्रवीत् ।
भीतः कुन्तीसुतो राजा राधेयस्याद्य विक्रमात्॥२९॥

एवंगते प्राप्तकालं कर्णानीके पुनः पुनः ।
भवान् व्यवस्यतु क्षिप्रं द्रवते हि वरूथिनी॥३०॥

द्रोणसायकनुन्नानां भग्नानां मधुसूदन ।
कर्णेन त्रास्यमानानामवस्थानं न विद्यते॥३१॥

पश्यामि च तथा कर्णं विचरन्तमभीतवत् ।
द्रवमाणान् रथोदारान्किरन्तं निशितैः शरैः॥३२॥

नैनं शक्ष्यामि संसोढुं चरन्तं रणमूर्धनि ।
प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः॥३३॥

स भवांस्तत्र यात्वाशु यत्र कर्णो महारथः ।
अहमेनं हनिष्यामि मां वैष मधुसूदन॥३४॥

श्रीवासुदेव उवाच। पश्यामि कर्णं कौन्तेय देवराजमिवाहवे ।
विचरन्तं नरव्याघ्रमतिमानुषविक्रमम्॥३५॥

नैतस्यान्योऽस्ति संग्रामे प्रत्युद्याता धनञ्जय ।
ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात्॥३६॥

न तु तावदहं मन्ये प्राप्तकालं तवानघ ।
समागमं महाबाहो सूतपुत्रेण संयुगे॥३७॥

दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी ।
त्वदर्थं हि महाबाहो सूतपुत्रेण संयुगे॥३८॥

रक्ष्यते शक्तिरेषा हि रौद्रं रूपं बिभर्ति च ।
घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः॥३९॥

स हि भीमेन बलिना जातः सुरपराक्रमः ।
तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च॥४०॥

सततं चानुरक्तो वो हितैषी च घटोत्कचः ।
विजेष्यति रणे कर्णमिति मे नात्र संशयः॥४१॥

एवमुक्तो महाबाहुः पार्थः पुष्करलोचनः ।
आजुहावाथ तद्रक्षस्तच्चासीत्प्रादुरग्रतः॥४२॥

कवची सशरः खड्गी सधन्वा च विशांपते ।
अभिवाद्य ततः कृष्णं पाण्डवं च धनञ्जयम् ।
अब्रवीच्च तदा कृष्णमयमस्म्यनुशाधि माम्॥४३॥

ततस्तं मेघसंकाशं दीप्तास्यं दीप्तकुण्डलम् ।
अभ्यभाषत हैडिम्बिं दाशार्हः प्रहसन्निव॥४४॥

श्रीवासुदेव उवाच। घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक ।
प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्यचित्॥४५॥

स भवान्मज्जमानानां बन्धूनां त्वं प्लवो भव ।
विविधानि तवास्त्राणि सन्ति माया च राक्षसी॥४६॥

पश्य कर्णेन हैडिंबे पाण्डवानामनीकिनी ।
काल्यमाना यथा गावः पालेन रणमूर्धनि॥४७॥

एष कर्णो महेष्वासो मतिमान् दृढविक्रमः ।
पाण्डवानामनीकेषु निहन्ति क्षत्रियर्षभान्॥४८॥

किरन्तः शरवर्षाणि महान्ति दृढधन्विनः ।
न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा॥४९॥

निशीथे सूतपुत्रेण शरवर्षेण पीडिताः ।
एते द्रवन्ति पञ्चालाः सिंहेनेवार्दिता मृगाः॥५०॥

एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे ।
निषेद्धा विद्यते नान्यस्त्वामृते भीमविक्रम॥५१॥

स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः ।
मातुलानां पितॄणां च तेजसोऽस्त्रबलस्य च॥५२॥

एतदर्थे हि हैडिंबे पुत्रानिच्छन्ति मानवाः ।
कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान्॥५३॥

इच्छन्ति पितरः पुत्रान् स्वार्थहेतोर्घटोत्कच ।
इहलोकात्परे लोके तारयिष्यन्ति ये हिताः॥५४॥

तव ह्यत्र बलं भीमं मायाश्च तव दुस्तराः ।
संग्रामे युध्यमानस्य सततं भीमनन्दन॥५५॥

पाण्डवानां प्रभग्नानां कर्णेन निशि सायकैः ।
मज्जतां धार्तराष्ट्रेषु भव पारं परंतप॥५६॥

रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः ।
बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः॥५७॥

जहि कर्णं महेष्वासं निशीथे मायया रणे ।
पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः॥५८॥

सञ्जय उवाच। केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम् ।
अभ्यभाषतं कौरव्य घटोत्कचमरिन्दमम्॥५९॥

घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः ।
मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः॥६०॥

तद्भवान्यातु कर्णेन द्वैरथं युध्यतां निशि ।
सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः॥६१॥

जहि कर्णं रणे शूरं सात्वतेन सहायवान् ।
यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान्॥६२॥

घटोत्कच उवाच। अलमेवास्मि कर्णाय द्रोणायालं च भारत ।
अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम्॥६३॥

अद्य दास्यामि संग्रामं सूतपुत्राय तं निशि ।
यं जनाः संप्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति॥६४॥

न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीम् ।
सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः॥६५॥

सञ्जय उवाच। एवमुक्त्वा महाबाहुर्हैडिम्बिर्वरवीरहा ।
अभ्ययात्तमुले कर्णं तव सैन्यं विभीषयन्॥६६॥

तमापतन्तं संक्रुद्धं दीप्तास्यं दीप्तमूर्धजम् ।
प्रहसन्पुरुषव्याघ्रः प्रतिजग्राह सूतजः॥६७॥

तयोः समभवद्युद्धं कर्णराक्षसयोर्मृधे ।
गर्जतो राजशार्दूल शक्रप्रह्राद‌योरिव॥६८॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे घटोत्कचप्रोत्साहने त्रिसप्तत्यधिकशततमोऽध्यायः॥१७३॥
चतुस्सप्तत्यधिकशततमोऽध्यायः

सञ्जय उवाच। दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति ।
आयान्तं तु तथायुक्तं जिघांसुं कर्णमाहवे॥१॥

दृष्ट्वेति ॥१॥

अब्रवीत्तत्र पुत्रस्ते दुःशासनमिदं वचः ।
एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम्॥२॥

अभियाति द्रुतं कर्णं तद्वारय महारथम् ।
वृतः सैन्येन महता याहि यत्र महाबलः॥३॥

कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति ।
रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद॥४॥

मा कर्णं राक्षसो घोरः प्रमादान्नाशयिष्यति ।
एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली॥५॥

दुर्योधनमुपागम्य प्राह प्रहरतां वरः ।
दुर्योधन तवामित्रान्प्रख्यातान् युद्धदुर्मदान्॥६॥

पाण्डवान् हन्तुमिच्छामि त्वयाऽऽज्ञप्तः सहानुगान् ।
जटासुरो मम पिता रक्षसां ग्रामणीः पुरा॥७॥

अयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः ।
तस्यापचितिमिच्छामि शत्रुशोणितपूजया॥ शत्रुमांसैश्च राजेन्द्र मामनुज्ञातुमर्हसि॥८॥

अपचितिं निष्कृतिम् ॥८॥

तमब्रवीत्ततो राजा प्रीयमाणः पुनः पुनः ।
द्रोणकर्णादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे॥९॥

त्वं तु गच्छ मयाऽऽज्ञप्तो जहि युद्धे घटोत्कचम् ।
राक्षसं क्रूरकर्माणं रक्षोमानुषसंभवम्॥१०॥

पाण्डवानां हितं नित्यं हस्त्यश्वरथघातिनम् ।
वैहायसगतं युद्धे प्रेषयेर्यमसादनम्॥११॥

तथेत्युक्त्वा महाकायः समाहूय घटोत्कचम् ।
जाटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत्॥१२॥

अलंबुषं च कर्णं च कुरुसैन्यं च दुस्तरम् ।
हैडिम्बिः प्रममाथैको महावातोऽम्बुदानिव॥१३॥

ततो मायाबलं दृष्ट्वा रक्षस्तूर्णमलम्बुषः ।
घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्पयत्॥१४॥

विद्ध्वा च बहुभिर्बाणैर्भैमसेनिं महाबलः ।
व्यद्रावयच्छरव्रातैः पाण्डवानामनीकिनीम्॥१५॥

तेन विद्राव्यमाणानि पाण्डुसैन्यानि भारत ।
निशीथे विप्रकीर्यन्ते वातनुन्ना घना इव॥१६॥

घटोत्कचशरैर्नुन्ना तथैव तव वाहिनी ।
निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः॥१७॥

अलंबुषस्ततः क्रुद्धो भैमसेनिं महामृधे ।
आजघ्ने दशभिर्बाणैस्तोत्रैरिव महाद्विपम्॥१८॥

तिलशस्तस्य संवाहं सुतं सर्वायुधानि च ।
घटोत्कचः प्रचिच्छेद प्रणदंश्चातिदारुणम्॥१९॥

ततः कर्णं शरव्रातैः कुरूनन्यान्सहस्रशः ।
अलंबुषं चाभ्यवर्षन्मेघो मेरुमिवाचलम्॥२०॥

ततः संचुक्षुभे सैन्यं कुरूणां राक्षसार्दितम् ।
उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह॥२१॥

जाटासुरिर्महाराज विरथो हतसारथिः ।
घटोत्कचं रणे क्रुद्धो मुष्टिनाऽभ्यहनद्दृढम्॥२२॥

मुष्टिनाऽभ्याहतस्तेन प्रचचाल घटोत्कचः ।
क्षितिकम्पे यथा शैलः सवृक्षस्तृणगुल्मवान्॥२३॥

ततः स परिघाभेन द्विट्सङ्घघ्नेन बाहुना ।
जाटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम्॥२४॥

तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत् ।
दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष च भूतले॥२५॥

जाटासुरिर्मोक्षयित्वा आत्मानं च घटोत्कचात् ।
पुनरुत्थाय वेगेन घटोत्कचमुपाद्रवत्॥२६॥

अलंबुषोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम् ।
घटोत्कचं रणे रोषान्निष्पिपेष च भूतले॥२७॥

तयोः समभवद्युद्धं गर्जतोरतिकाययोः ।
घटोत्कचालम्बुषयोस्तुमुलं लोमहर्षणम्॥२८॥

विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ ।
युयुधाते महावीर्याविन्द्रवैरोचनाविव॥२९॥

पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षकौ ।
पुनर्मेघमहावातौ पुनर्वज्रमहाचलौ॥३०॥

पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ ।
एवं मायाशतसृजावन्योन्यवधकांक्षिणौ॥३१॥

भृशं चित्रमयुध्येतामलंबुषघटोत्कचौ ।
परिधैश्च गदाभिश्च प्रास-मुद्गर-पट्टिशैः॥३२॥

मुसलैः पर्वताग्रैश्च तावन्योन्यं विजघ्नतुः ।
हयाभ्यां च गजाभ्यां च रथाभ्यां च पदातिभिः॥३३॥

युयुधाते महामायौ राक्षसप्रवरौ युधि ।
ततो घटोत्कचो राजन्नलम्बुषवधेप्सया॥३४॥

उत्पपात भृशं क्रुद्धः श्येनवन्निपपात च ।
गृहीत्वा च महाकायं राक्षसेन्द्रमलम्बुषम्॥३५॥

उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे ।
ततो घटोत्कचः खड्गमुद्धृत्याद्भुतदर्शनम्॥३६॥

रौद्रस्य कायाद्धि शिरो भीमं विकृतदर्शनम् ।
स्फुरतस्तस्य समरे नदतश्चातिभैरवम्॥३७॥

निचकर्त महाराज शत्रोरमितविक्रमः ।
शिरस्तच्चापि संगृह्य केशेषु रुधिरोक्षितम्॥३८॥

ययौ घटोत्कचस्तूर्णं दुर्योधनरथं प्रति ।
अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः॥३९॥

शिरो रथेऽस्य निक्षिप्य विकृताननमूर्धजम् ।
प्राणदद्भैरवं नादं प्रावृषीव बलाहकः॥४०॥

अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः ।
एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः॥४१॥

पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथाऽऽत्मनः ।
‘स्वधर्ममर्थं कामं च त्रितयं योऽभिवाञ्छति॥४२॥

निष्ठां नाशम् ॥४२॥

रिक्तपाणिर्न पश्येत राजानं ब्राह्मणं स्त्रियम्' ।
तिष्ठस्व तावत्सुप्रीतो यावत्कर्णं वधाम्यहम्॥४३॥

एवमुक्त्वा ततः प्रायात्कर्णं प्रति नरेश्वर ।
किरञ्छरगणांस्तीक्ष्णान् रुषितो रणमूर्धनि॥४४॥

ततः समभवद्युद्धं घोररूपं भयानकम् ।
विस्मापनं महाराज नरराक्षसयोर्मृधे॥४५॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे अलंबुषवधे चतुःसप्तत्यधिकशततमोऽध्यायः॥१७४॥
पञ्चसप्तत्यधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। यत्तद्वैकर्तनः कर्णो राक्षसश्च घटोत्कचः ।
निशीथे समसज्जेतां तद्युद्धमभवत्कथम्॥१॥

यदिति ॥१॥

कीदृशं चाभवद्रूपं तस्य घोरस्य रक्षसः ।
रथश्च कीदृशस्तस्य हयाः सर्वायुधानि च॥२॥

किंप्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा ।
कीदृशं वर्म चैवास्य शिरस्त्राणं च कीदृशम्॥३॥

वर्ष्मेति पाठे शरीरम् ॥३॥

पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि सञ्जय ।
सञ्जय उवाच। लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः॥४॥

निम्नितोदरः निम्नितं पृष्ठवंशसंलग्नमशनहीनस्येवोदरं यस्येत्यर्थः ॥४॥

ऊर्ध्वरोमा हरिश्मश्रुः शंकुकर्णो महाहनुः ।
आकर्णदारितास्यश्च तीक्ष्णदंष्ट्रः करालवान्॥५॥

करालवान् उन्नतदन्तचतुष्कः ॥५॥

सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः ।
नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयंकरः॥६॥

महाकायो यो महाबाहुर्महाशीर्षो महाबलः ।
विकृतः परुषस्पर्शो विकचोद्वृद्धपिण्डकः॥७॥

विकचश्चासावुद्वृद्धः पिण्डो दृढाङ्गः को मूर्धा यस्य स विकचोद्वृद्धपिण्डकः । पाठान्तरे विकटे विकृते उद्वृद्धे दृढे पिण्डके जङ्घोर्ध्वप्रदेशौ यस्य स विकटोद्वृद्धपिण्डकः ॥७॥

स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान् ।
तथैव हस्ताभरणी महामायोऽङ्गदी तथा॥८॥

स्थूलस्फिकू शिथिलोपचयः स्फिक्प्रदेशे एव शिथिलः श्लथ उपचयो वृद्धिर्यस्य । पाठान्तरे शिखिलः शिखावान् उपचयो ललाटप्रान्तो यस्येत्यर्थः । अङ्गदीतिसाहचर्याद्धस्ताभरणी कटकमुद्रिकादिमान् ॥८॥

उरसा धारयन्निष्कमग्निमालां यथाऽचलः ।
तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम्॥९॥

तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत ।
कुण्डले बालसूर्याभे मालां हेममयीं शुभाम्॥१०॥

धारयन्विपुलं कांस्यं कवचं च महाप्रभम् ।
किंकिणीशतनिर्घोषं रक्तध्वजपताकिनम्॥११॥

ऋक्षचर्मावनद्धाङ्गं नल्वमात्रं महारथम् ।
सर्वायुधवरोपेतमास्थितं ध्वजमालिनम्॥१२॥

नल्वो हस्तचतुःशतम् ॥१२॥

अष्टचक्रसमायुक्तं मेघगंभीरनिःस्वनम् ।
मत्तमातङ्गसंकाशा लोहिताक्षा विभीषणाः॥१३॥

कामवर्णजवा युक्ता बलवन्तः शतं हयाः ।
वहन्तो राक्षसं घोरं वालवन्तो जितश्रमाः॥१४॥

वालाः स्कन्धवालाः केसराणीति यावत् ॥१४॥

विपुलाभिः सटाभिस्ते ह्रेषमाणा मुहुर्मुहुः ।
राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुंडलः॥१५॥

रश्मिभिः सूर्यरश्म्याभैः सञ्जग्राह हयान् रणे ।
स तेन सहितस्तस्थावरुणेन यथा रविः॥१६॥

संसक्त इव चाभ्रेण यथाऽद्रिर्महता महान् ।
दिवःस्पृक् सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः॥१७॥

रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभभीषणः ।
वासवाशनिनिर्घोषं दृढज्यमतिविक्षिपन्॥१८॥

व्यक्तं किष्कुपरीणाहं द्वादशारत्निकार्मुकम् ।
रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन्दिशः॥१९॥

किष्कुर्हस्तस्तन्मितः परीणाहो विस्तारो यस्य अरत्निर्निरष्टमांशः करः ॥१९॥

तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात् ।
तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः॥२०॥

अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः ।
तेन वित्रास्यमानानि तव सैन्यानि भारत॥२१॥

समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः ।
तमापतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम्॥२२॥

उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत् ।
ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात्॥२३॥

मातङ्ग इव मातङ्गं यूथर्षभमिवर्षभः ।
स सन्निपातस्तुमुलस्तयोरासीद्विशांपते॥२४॥

कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव ।
तौ प्रगृह्य महावेगे धनुषी भीमनिःस्वने॥२५॥

प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः ।
ततः पूर्णायतोत्सृष्टैरिषुभिर्नतपर्वभिः॥२६॥

न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी ।
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ॥२७॥

रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः ।
सञ्छिन्दन्तौ च गात्राणि सन्दधानौ च सायकान्॥२८॥

रथशक्तिभिः रथाक्षमात्रैरिति प्रागुक्तैः, रथाक्षतुल्यैरित्यर्थः । ‘रथः स्यन्दनदेहयोः’ इति कोशाद्देहानुकूलशक्तिमद्भिरिति वा ॥२८॥

दहन्तौ च शरोल्काभिर्दुष्प्रेक्ष्यौ च बभूवतुः ।
तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ॥२९॥

विभ्राजेतां यथा वारि स्रवन्तौ गैरिकाचलौ ।
तौ शराग्रविनुन्नाङ्गौ निर्भिन्दन्तौ परस्परम्॥३०॥

नाकम्पयेतामन्योन्यं यतमानौ महाद्युती ।
तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत्॥३१॥

प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे ।
तस्य सन्दधतस्तीक्ष्णाञ्छरांश्चासक्तमस्यतः॥३२॥

तस्य घटोत्कचस्य आसक्तमन्योन्यसंसक्तं यथा स्यात्तथा शरानस्यतः । आशक्तमिति पाठे यावच्छक्ति आर्षोऽच्प्रत्ययः समासान्तः ॥३२॥

धनुर्घोषेण वित्रस्ताः स्वे परे च तदाऽभवन् ।
घटोत्कचं यदा कर्णो विशेषयति नो नृप॥३३॥

ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः ।
कर्णेन संधितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः॥३४॥

प्रादुश्चक्रे महामायां राक्षसीं पाण्डुनन्दनः ।
शूलमुद्गरधारिण्या शैलपादपहस्तया॥३५॥

रक्षसां घोररूपाणां महत्या सेनया वृतः ।
तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः॥३६॥

भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम् ।
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः॥३७॥

प्रसुस्रुवुर्गजा मूत्रं विव्यधुश्च नरा भृशम् ।
ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः॥३८॥

अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः ।
आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः॥३९॥

पतन्त्यविरलाःशूलाः शतघ्न्यः पट्टिशास्तथा ।
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिप॥४०॥

पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः ।
तत्रैकोऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे॥४१॥

व्यधमच्च शरैर्मायां तां घटोत्कचनिर्मिताम् ।
मायायां तु प्रहीणायाममर्षाच्च घटोत्कचः॥४२॥

विससर्ज शरान् घोरान्सूतपुत्रं त आविशन् ।
ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे॥४३॥

विविशुर्धरणीं बाणाः संक्रुद्धा इव पन्नगाः ।
सूतपुत्रस्तु संक्रुद्धो लघुहस्तः प्रतापवान्॥४४॥

घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः ।
घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु॥४५॥

चक्रं दिव्यं सहस्त्रारमगृह्णाद्व्यथितो भृशम् ।
क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम्॥४६॥

चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया ।
प्रविद्धमतिवेगेन विक्षिप्तं कर्णसायकैः॥४७॥

अभाग्यस्येव संकल्पस्तन्मोघमपतद्भुवि ।
घटोत्कचस्तु संक्रुद्धो दृष्ट्वा चक्रं निपातितम्॥४८॥

कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ।
सूतपुत्रस्त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः॥४९॥

घटोत्कचरथं तूर्णं छादयामास पत्रिभिः ।
घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा॥५०॥

क्षिप्ता भ्राम्य शरैः साऽपि कर्णेनाभ्याहताऽपतत् ।
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन्॥५१॥

प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात् ।
ततो मायाविनं कर्णो भीमसेनसुतं दिवि॥५२॥

मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ।
तस्य सर्वान्हयान् हत्वा संछिद्य शतधा रथम्॥५३॥

अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान् ।
न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम्॥५४॥

सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा ।
न हयान्न रथं तस्य न ध्वजं न घटोत्कचम्॥५५॥

दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम् ।
स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन्॥५६॥

मायायुद्धेन मायावी सूतपुत्रमयोधयत् ।
सोऽयोधयत्तदा कर्णं मायया लाघवेन च॥५७॥

अलक्ष्यमाणानि दिवि शरजालानि चापतन् ।
भैमसेनिर्महामायो मायया कुरुसत्तम॥५८॥

विचचार महाकायो मोहयन्निव भारत ।
स तु कृत्वा विरूपाणि वदनान्यशुभानि च॥५९॥

अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया ।
पुनश्चापि महाकायः संछिन्नः शतधा रणे॥६०॥

गतसत्त्वो निरुत्साहः पतितः खाद्ध्यदृश्यत ।
तं हतं मन्यमानाः स्म प्राणदन्कुरुपुङ्गवाः॥६१॥

अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत ।
पुनश्चापि महाकायः शतशीर्षः शतोदर॥६२॥

व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः ।
अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः॥६३॥

सागरोर्मिरिवोद्धूतस्तिर्यगूर्ध्वमवर्तत ।
वसुधां दारयित्वा च पुनरप्सु न्यमज्जत॥६४॥

अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः ।
सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते॥६५॥

क्षितिं खं च दिशश्चैव माययाऽभ्येत्य दंशितः ।
गत्वा कर्णरथाभ्याशं व्यचरत्कुण्डलाननः॥६६॥

प्राह वाक्यमसंभ्रान्तः सूतपुत्रं विशांपते ।
तिष्ठेदानीं क्व मे जीवन्सूतपुत्र गमिष्यसि॥६७॥

युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ।
इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम्॥६८॥

उत्पपातान्तरिक्षं च जहास च सुविस्तरम् ।
कर्णमभ्यहनच्चैव गजेन्द्रमिव केसरी॥६९॥

रथाक्षमात्रैरिषुभिरभ्यवर्षद्धटोत्कचः ।
रथिनामृषभं कर्णं धाराभिरिव तोयदः॥७०॥

शरवृष्टिं च तां कर्णो दूरात्प्राप्तामशातयत् ।
दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ॥७१॥

घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ।
सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसंकटैः॥७२॥

शूलप्रासासिमुसलजलप्रस्रवणो महान् ।
तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम्॥७३॥

प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे ।
स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदैरयत्॥७४॥

ततः सोऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत ।
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि॥७५॥

अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत् ।
अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः॥७६॥

व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषः ।
स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः॥७७॥

जघानास्त्रं महाराज घटोत्कचसमीरितम् ।
ततः प्रहस्य समरे भैमसेनिर्महाबलः॥७८॥

प्रादुश्चक्रे महामायां कर्णं प्रति महारथम् ।
स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम्॥७९॥

घटोत्कचमसंभ्रान्तं राक्षसैर्बहुभिर्वृतम् ।
सिंहशार्दूलसदृशैर्मत्तमातङ्गविक्रमैः॥८०॥

गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा ।
नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः॥८१॥

वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम् ।
दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम्॥८२॥

घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिराशुगैः ।
ननाद भैरवं नादं भीषयन्सर्वपार्थिवान्॥८३॥

भूयश्चाञ्जलिकेनाथ स मार्गणगणं महत् ।
कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः॥८४॥

अथान्यद्धनुरादाय दृढं भारसहं महत् ।
विचकर्ष बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम्॥८५॥

ततः कर्णो महाराज प्रेषयामास सायकान् ।
सुवर्णपुङ्खाञ्छत्रुघ्नान् खेचरान् राक्षसान्प्रति॥८६॥

तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् ।
सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम्॥८७॥

विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः ।
ददाह भगवान्वह्निर्भूतानीव युगक्षये॥८८॥

स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः ।
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः॥८९॥

तेषु राजसहस्त्रेषु पाण्डवेयेषु मारिष ।
नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिवः॥९०॥

ऋते घटोत्कचाद्राजन् राक्षसेन्द्रान्महाबलात् ।
भीमवीर्यबलोपेतात् क्रुद्धाद्वैवस्वतादिव॥९१॥

तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत ।
महोल्काभ्यां यथा राजन् सार्चिषः स्नेहबिन्दवः॥९२॥

उल्काभ्यां सर्जरसमिश्रोमुल्काभ्यां ततो हि दीप्तस्य सर्जरसस्य कणाः सस्नेहत्वात्सार्चिष एव पतन्तीति प्रसिद्धम् ॥९२॥

तलं तलेन संहत्य सन्दश्य दशनच्छदम् ।
रथमास्थाय च पुनर्मायया निर्मितं तदा॥९३॥

युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः ।
स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मां वह॥९४॥

स ययौ घोररूपेण रथेन रथिनां वरः ।
द्वैरथं सूतपुत्रेण पुनरेव विशांपते॥९५॥

स चिक्षेप पुनः क्रुद्धः सूतपुत्राय राक्षसः ।
अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम्॥९६॥

द्वियोजनसमुत्सेधां योजनायामविस्तराम् ।
आयसीं निचितां शूलैः कदम्बमिव केसरैः॥९७॥

तामवप्लुत्य जग्राह कर्णो न्यस्य महद्धनुः ।
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे॥९८॥

साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा ।
विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः॥९९॥

कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा ।
यदवप्लुत्य जग्राह देवसृष्टां महाशनिम्॥१००॥

एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः ।
ततो मुमोच नाराचान्सूतपुत्रः परन्तप॥१०१॥

अशक्यं कर्तुमन्येन सर्वभूतेषु मानद ।
यदकार्षीत्तदा कर्णः संग्रामे भीमदर्शने॥१०२॥

स हन्यमानो नाराचैर्धाराभिरिव पर्वतः ।
गन्धर्वनगराकारः पुनरन्तरधीयत॥१०३॥

एवं स वै महाकायो मायया लाघवेन च ।
अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः॥१०४॥

निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा ।
असंभ्रान्तस्तदा कर्णस्तद्रक्षः प्रत्ययुध्यत॥१०५॥

ततः क्रुद्धो महाराज भैमसेनिर्महाबलः ।
चकार बहुधाऽऽत्मानं भीषयाणो महारथान्॥१०६॥

ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः ।
अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः॥१०७॥

स कीर्यमाणो विशिखैः कर्णचापच्युतैः शरैः ।
नागराडिव दुष्प्रेक्ष्यस्तत्रैवान्तरधीयत॥१०८॥

राक्षसाश्च पिशाचाश्च यातुधानास्तथैव च ।
शालावृकाश्च बहवो वृकाश्च विकृताननाः॥१०९॥

ते कर्णं क्षपयिष्यन्तः सर्वतः समुपाद्रवन् ।
अथैनं वाग्भिरुग्राभिस्त्रासयांचक्रिरे तदा॥११०॥

उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः ।
तेषामनेकैरेकैकं कर्णो विव्याध सायकैः॥१११॥

प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम् ।
आजघान हयानस्य शरैः सन्नतपर्वभिः॥११२॥

ते भग्ना विक्षताङ्गाश्च भिन्नपृष्ठाश्च सायकैः ।
वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः॥११३॥

स भग्नमायो हैडिम्बिः कर्णं वैकर्तनं तदा ।
एष ते विदधे मृत्युमित्युक्त्वाऽन्तरधीयत॥११४॥

इति श्रीमहाभारते द्रोणप्रर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे कर्णघटोत्कचयुद्धे पञ्चसप्तत्यधिकशततमोऽध्यायः॥१७५॥
षट्सप्तत्यधिकशततमोऽध्यायः

सञ्जय उवाच। तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मृधे ।
अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत॥१॥

महत्या सेनया युक्तो दुर्योधनमुपागमत् ।
राक्षसानां विरूपाणां सहस्त्रैः परिवारितः॥२॥

नानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन् ।
तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः॥३॥

किर्मीरश्च महातेजा हिडिंबश्च सखा तदा ।
स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन्॥४॥

विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे ।
स मत्त इव मातङ्गः संक्रुद्ध इव चोरगः॥५॥

दुर्योधनमिदं वाक्यमब्रवीद्युद्धलालसः ।
विदितं ते महराज यथा भीमेन राक्षसाः॥६॥

हिडिम्बबककिर्मीरा निहता मम बान्धवाः ।
परामर्शश्च कन्याया हिडिम्बायाः कृतः पुरा॥७॥

किमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह ।
तमहं सगणं राजन्सवाजिरथकुञ्जरम्॥८॥

हैडिंम्बिं च सहामात्यं हन्तुमभ्यागतः स्वयम् ।
अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान्॥९॥

हत्वा संभक्षयिष्यामि सर्वैरनुचरैः सह ।
निवारय बलं सर्वं वयं योत्स्याम पाण्डवान्॥१०॥

तस्यैतद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा ।
प्रतिगृह्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः॥११॥

त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान्॥१२॥

न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः ।
एवमस्त्विति राजानमुक्त्वा राक्षसपुङ्गवः ।
अभ्ययात्त्वरितो भैमिं सहितः पुरुषादकैः॥१३॥

दीप्यमानेन वपुषा रथेनादित्यवर्चसा ।
तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः॥१४॥

तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितः ।
ऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः॥१५॥

तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः ।
शतं युक्ता महाकाया मांसशोणितभोजनाः॥१६॥

तस्यापि रथनिर्घोषो महामेघरवोपमः ।
तस्यापि सुमहच्चापं दृढज्यं कनकोज्ज्वलम्॥१७॥

तस्याप्यक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः ।
सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः॥१८॥

तस्यापि गोमायुबलाभिगुप्तो बभूव केतुर्ज्वलनार्कतुल्यः ।
स चापि रूपेण घटोत्कचस्य श्रीमत्तमो व्याकुलदीपितास्यः॥१९॥

दीप्ताङ्गदो दीप्तकिरीटमाली बद्धस्त्रगुष्णीषनिबद्धखड्गः ।
गदी भुशुण्डी मुसली हली च शरासनी वारणतुल्यवर्ष्मा॥२०॥

रथेन तेनानलवर्चसा तदा विद्रावयन्पाण्डववाहिनीं ताम् ।
रराज संख्ये परिवर्तमानो विद्युन्माली मेघ इवान्तरिक्षे॥२१॥

ते चापि सर्वप्रवरा नरेन्द्रा महाबला वर्मिणश्चर्मिणश्च ।
हर्षान्विता युयुधुस्तस्य राजन् समन्ततः पाण्डवयोधवीराः॥२२॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे अलायुधयुद्धे षट्सप्तत्यधिकशततमोऽध्यायः॥१७६॥
सप्तसप्तत्यधिकशततमोऽध्यायः

सञ्जय उवाच। तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे ।
हर्षमाहारयांचक्रुः कुरवः सर्व एव ते॥१॥

तमिति ॥१॥

तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः ।
अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम्॥२॥

पुनर्जातमिवात्मानं मन्वानाः पुरुषर्षभाः ।
अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन्॥३॥

तस्मिंस्त्वमानुषे युद्धे वर्तमाने महाभये ।
कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने॥४॥

उपप्रैक्षन्त पञ्चालाः स्मयमानाः सराजकाः ।
तथैव तावका राजन्वीक्षमाणास्ततस्ततः॥५॥

चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः ।
तत्कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रणाजिरे॥६॥

इदमस्मत्सैन्यम् ॥६॥

सर्वमाविग्नमभवद्धाहाभूतमचेतनम् ।
तव सैन्यं महाराज निराशं कर्णजीविते॥७॥

दुर्योधनस्तु संप्रेक्ष्य कर्णमार्तिं परां गतम् ।
अलायुधं राक्षसेन्द्रं समाहूयेदमब्रवीत्॥८॥

एष वैकर्तनः कर्णो हैडिम्बेन समागतः ।
कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे॥९॥

पश्यैतान्पार्थिवान् शूरान्निहतान् भैमसेनिना ।
नानाशस्त्रैरभिहतान्पादपानिव दन्तिना॥१०॥

तवैष भागः समरे राजमध्ये मया कृतः ।
तवैवानुमते वीर तं विक्रम्य निबर्हय॥११॥

पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः ।
मायाबलं समाश्रित्य कर्षयत्यरिकर्शन॥१२॥

एवमुक्तः स राज्ञा तु राक्षसो भीमविक्रमः ।
तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत्॥१३॥

ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो ।
प्रत्यमित्रमुपायान्तमर्दयामास मार्गणैः॥१४॥

तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः ।
मत्तयोर्वासिताहेतोर्द्विपयोरिव कानने॥१५॥

रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः ।
अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा॥१६॥

तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम् ।
अलायुधेन समरे सिंहेनेव गवां पतिम्॥१७॥

रथेनादित्यवपुषा भीमः प्रहरतां वरः ।
किरञ्छरौघान्प्रययावलायुधरथं प्रति॥१८॥

तमायान्तमभिप्रेक्ष्य स तदाऽलायुधः प्रभो ।
घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत्॥१९॥

तं भीमः सहसाऽभ्येत्य राक्षसान्तकरः प्रभो ।
सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत्॥२०॥

तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः ।
अभ्यवर्षन्त कौन्तेयं पुनः पुनररिन्दम॥२१॥

तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन् ।
नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः॥२२॥

स ताड्यमानो बहुभिर्भीमसेनो महाबलः ।
पञ्चभिः पञ्चभिःसर्वांस्तानविध्यच्छितैः शरैः॥२३॥

ते वध्यमाना भीमेन राक्षसाः क्रूरबुद्धयः ।
विनेदुस्तुमुलान्नादान्दुद्रुवुस्ते दिशो दश॥२४॥

तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम् ।
अभिदुद्राव वेगेन शरैश्चैनमवाकिरत्॥२५॥

तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः ।
अलायुधस्तु तानस्तान् भीमेन विशिखान्रणे॥२६॥

चिच्छेद कांश्चित्समरे त्वरया कांश्चिद‌ग्रहीत् ।
स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः॥२७॥

गदां चिक्षेप वेगेन वज्रपातोपमां तदा ।
तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः॥२८॥

गदया ताडयामास सा गदा भीममाव्रजत् ।
स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत्॥२९॥

तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः ।
ते चापि राक्षसाः सर्वे रजन्यां भीमरूपिणः॥३०॥

शासनाद्राक्षसेन्द्रस्य निजघ्न रथकुञ्जरान् ।
पञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः॥३१॥

न शान्तिं लेभिरे तत्र राक्षसैर्भृशपीडिताः ।
तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवम्॥३२॥

अब्रवीत्पुण्डरीकाक्षो धनञ्जयमिदं वचः ।
पश्य भीमं महाबाहुं राक्षसेन्द्रवशं गतम्॥३३॥

प‌दमस्यानुगच्छ त्वं मा विचारय पाण्डव ।
धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ॥३४॥

सहितौ द्रौपदेयाश्च कर्णं यान्तु महारथाः ।
नकुलः सहदेवश्च युयुधानश्च वीर्यवान्॥३५॥

इतरान् राक्षसान् घ्नन्तु शासनात्तव पाण्डव ।
त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम्॥३६॥

वारयस्व नरव्याघ्र महद्धि भयमागतम् ।
एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः॥३७॥

जग्मुर्वैकर्तनं कर्णं राक्षसांश्चैव तान् रणे ।
अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः॥३८॥

धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान् ।
हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः॥३९॥

जघान मिषतः संख्ये भीमसेनस्य राक्षसः ।
सोऽवर्तार्य रथोपस्थाद्धताश्वो हतसारथिः॥४०॥

तस्मै गुर्वीं गदां घोरां विनदन्नुत्ससर्ज ह ।
ततस्तां भीमनिर्घोषामापतन्तीं महागदाम्॥४१॥

गदया राक्षसो घोरो निजघान ननाद च ।
तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम्॥४२॥

भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत् ।
तयोः समभवद्युद्धं तुमुलं नररक्षसोः॥४३॥

गदानिपातसंह्रादैर्भुवं कम्पयतोर्भृशम् ।
गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम्॥४४॥

मुष्टिभिर्वज्रसंह्रादैरन्योन्यमभिजघ्नतुः ।
रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः॥४५॥

यथासन्नमुपादाय निजघ्नतुरमर्षणौ ।
तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम्॥४६॥

मत्ताविव महानागौ चकृषाते पुनः पुनः ।
तदपश्यद्धृषीकेशः पाण्डवानां हिते रतः॥४७॥

स भीमसेनरक्षार्थं हैडिम्बिं पर्यचोदयत्॥४८॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे अलायुधयुद्धे सप्तसप्तत्यधिकशततमोऽध्यायः॥१७७॥
अष्टसप्तत्यधिकशततमोऽध्यायः

सञ्जय उवाच। संदृश्य समरे भीमं रक्षसा ग्रस्तमन्तिकात् ।
वासुदेवोऽब्रवीद्राजन् घटोत्कचमिदं वचः॥१॥

संदृश्येति ॥१॥

पश्य भीमं महाबाहो रक्षसा ग्रस्तमाहवे ।
पश्यतां सर्वसैन्यानां तव चैव महाद्युते॥२॥

स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम् ।
जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि॥३॥

स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान् ।
युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः॥४॥

तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः ।
अलायुधस्य चैवोग्रं हैडिम्बेश्चापि भारत॥५॥

अलायुधस्य योधांश्च राक्षसान् भीमदर्शनान् ।
वेगेनापततः शूरान्प्रगृहीतशरासनान्॥६॥

आत्तायुधः सुसंक्रुद्धो युयुधानो महारथः ।
नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः॥७॥

सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान् ।
परिचिक्षेप बीभत्सुः सर्वतः प्रकिरञ्छरान्॥८॥

कर्णश्च समरे राजन् व्यद्रावयत पार्थिवान् ।
धृष्टद्युम्नशिखंड्यादीन्पञ्चालानां महारथान्॥९॥

तान्वध्यमानान्दृष्ट्वाऽथ भीमो भीमपराक्रमः ।
अभ्ययात्त्वरितः कर्णं विशिखान्प्रकिरन् रणे॥१०॥

ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः ।
नकुलः सहदेवश्च सात्यकिश्च महारथः॥११॥

ते कर्णं योधयामासुः पञ्चाला द्रोणमेव तु ।
अलायुधस्तु संक्रुद्धो घटोत्कचमरिंदमम् ।
परिघेणातिकायेन ताडयामास मूर्धनि॥१२॥

स तु तेन प्रहारेण भैमसेनिर्महाबलः ।
ईषन्मूर्छितमात्मानमस्तंभयत वीर्यवान्॥१३॥

ततो दीप्ताग्निसंकाशां शतघण्टामलंकृताम् ।
चिक्षेप तस्मै समरे गदां काञ्चनभूषिताम्॥१४॥

सा हयांश्च रथं चास्य सारथिं च महास्वना ।
चूर्णयामास वेगेन विसृष्टा भीमकर्मणा॥१५॥

स भग्नहयचक्राक्षाद्विशीर्णध्वजकूबरात् ।
उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम्॥१६॥

स समास्थाय मायां तु ववर्ष रुधिरं बहु ।
विद्युद्विभ्राजितं चासीत्तुमुलाभ्राकुलं नभः॥१७॥

ततो वज्रनिपाताश्च साशनिस्तनयित्नवः ।
महांश्चटचटाशब्दस्तत्रासीच्च महाहवे॥१८॥

तां प्रेक्ष्य महतीं मायां राक्षसो राक्षसस्य च ।
ऊर्ध्वमुत्पत्य हैडिम्बिस्तां मायां माययाऽवधीत्॥१९॥

सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि ।
अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे॥२०॥

अश्मवर्षं स तं घोरं शरवर्षेण वीर्यवान् ।
दिक्षु विध्वंसयामास तद‌द्भुतमिवाभवत्॥२१॥

ततो नानाप्रहरणैरन्योन्यमभिवर्षताम् ।
आयसैः परिधैः शूलैर्गदामुसलमुद्गरैः॥२२॥

पिनाकैः करवालैश्च तोमरप्रासकम्पनैः ।
नाराचैर्निशितैर्भलैः शरैश्चकैः परश्वधैः ।
अयोगुडैर्भिन्दिपालैर्गोशीर्षोलूखलैरपि॥२३॥

उत्पाटितैर्महाशाखैर्विविधैर्जगतीरुहैः ।
शमीपीलुकदंबैश्च चम्पकैश्चैव भारत॥२४॥

इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः ।
पलाशैश्चारिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः॥२५॥

महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः ।
विपुलैः पर्वताग्रैश्च नानाधातुभिराचितैः॥२६॥

तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव ।
युद्धं समभवद्धोरं भैम्यलायुधयोर्नृप॥२७॥

हरीन्द्रयोर्यथाराजन्वालिसुग्रीवयोः पुरा ।
तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा ।
प्रगृह्य च शितौ खड्गावन्योन्यमभिपेततुः॥२८॥

हरीन्द्रयोः सिंहमुख्ययोः ॥२८॥

तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ ।
भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ॥२९॥

तौ स्विन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप ।
रुधिरं च महाकायावतिवृष्टाविवांबुदौ॥३०॥

अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम् ।
बलेनाक्षिप्य हैडिम्बिश्चकर्तास्य शिरो महत्॥३१॥

सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम् ।
तदा सुतुमुलं नादं ननाद सुमहाबलः॥३२॥

हतं दृष्ट्वा महाकायं बकज्ञातिमरिन्दमम् ।
पञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे॥३३॥

ततो भेरीसहस्राणि शंखानामयुतानि च ।
अवादयन्पाण्डवेया राक्षसे निहते युधि॥३४॥

अतीव सा निशा तेषां बभूव विजयावहा ।
विद्योतमाना विबभौ समन्ताद्दीपमालिनी॥३५॥

अलायुधस्य तु शिरो भैमसेनिर्महाबलः ।
दुर्योधनस्य प्रमुखे चिक्षेप गतचेतसः॥३६॥

अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम् ।
बभूव परमोद्विग्नः सह सैन्येन भारत॥३७॥

तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि ।
हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम्॥३८॥

ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः ।
जीवितं चिरकालं हि भ्रातॄणां चाप्यमन्यत॥३९॥

स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै ।
प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत॥४०॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे अलायुधवधे अष्टसप्तत्यधिकशततमोऽध्यायः॥१७८॥
ऊनाशीत्यधिकशततमोऽध्यायः

सञ्जय उवाच। निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः ।
ननाद विविधान्नादान्वाहिन्याः प्रमुखे तव॥१॥

निहत्येति ॥१॥

तस्य तं तुमुलं शब्दं श्रुत्वा कुञ्जरकम्पनम् ।
तावकानां महाराज भयमासीत्सुदारुणम्॥२॥

अलायुधविषक्तं तु भैमसेनिं महाबलम् ।
दृष्ट्वा कर्णो महाबाहुः पञ्चालान्समुपाद्रवत्॥३॥

दशभिर्दशभिर्बाणैर्धृष्टद्युम्नशिखण्डिनौ ।
दृढैः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः॥४॥

ततः परमनाराचैर्युधामन्यूत्तमौजसौ ।
सात्यकिं च रथोदारं कम्पयामास मार्गणैः॥५॥

तेषामप्यस्यतां संख्ये सर्वेषां सव्यदक्षिणम् ।
मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप॥६॥

तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह ।
मेघानामिव घर्मान्ते बभूव तुमुलो निशि॥७॥

ज्यानेमिघोषस्तनयित्नुमान्वै धनुस्तडिन्मण्डलकेतुशृङ्गः ।
शरौघवर्षाकुलवृष्टिमांश्च संग्राममेघः स बभूव राजन्॥८॥

केतुश्रृंगं ‘ध्वजशिखरम् श्रृंगं प्रभुत्वे शिखरे’ इति मेदिनी ॥८॥

तद‌द्भुतं शैल इवाप्रकम्पो वर्षं महाशैलसमानसारः ।
विध्वंसयामास रणे नरेन्द्र वैकर्तनः शत्रुगणावमर्दी॥९॥

ततोऽतुलैर्वज्रनिपातकल्पैः शितैः शरैः काञ्चनचित्रपुङ्खैः ।
शत्रून् व्यपोहत्समरे महात्मा वैकर्तनः पुत्रहिते रतस्ते॥१०॥

संछिन्नभिन्नध्वजिनश्च केचित्केचिच्छरैरर्दितभिन्नदेहाः ।
केचिद्विसूताविह याश्च केचिद्वैकर्तनेनाशु कृता बभूवुः॥११॥

अविन्दमानास्त्वथ शर्म संख्ये यौधिष्ठिरं ते बलमभ्यपद्यन् ।
तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च घटोत्कचो रोषमतीव चक्रे॥१२॥

आस्थाय तं काञ्चनरत्नचित्रं रथोत्तमं सिंहवत्संननाद ।
वैकर्तनं कर्णमुपेत्य चापि विव्याध वज्रप्रतिमैः पृषत्कैः॥१३॥

तौ कर्णिनाराचशिलीमुखैश्च नालीकदण्डासनवत्सदन्तैः ।
वराहकर्णैः सविपाठशृङ्गैः क्षुरप्रवर्षैश्च विनेदतुः खम्॥१४॥

तद्बाणधारावृतमन्तरिक्षं तिर्यग्गताभिः समरे रराज ।
सुवर्णपुंखज्वलितप्रभाभिर्विचित्रपुष्पाभिरिव प्रजाभिः॥१५॥

तिर्यग्गताभिरिषुपंक्तिभिरिति शेषः ॥१५॥

समाहितावप्रतिमप्रभावावन्योन्यमाजघ्नतुरुत्तमास्त्रैः ।
तयोर्हि वीरोत्तमयोर्न कश्चिद्ददर्श तस्मिन्समरे विशेषम्॥१६॥

अतीव तच्चित्रमतुल्यरूपं बभूव युद्धं रविभीमसुन्वोः ।
समाकुलं शस्त्रनिपातघोरं दिवीव राह्वंशुमतोः प्रमत्तम्॥१७॥

सञ्जय उवाच। घटोत्कचं यदा कर्णो न विशेषयते नृप ।
ततः प्रादुश्चकारोग्रमस्त्रमस्त्रविदां वरः॥१८॥

तेनास्त्रेणावधीत्तस्य रथं सहयसारथिम् ।
विरथश्चापि हैडिम्बिः क्षिप्रमन्तरधीयत॥१९॥

धृतराष्ट्र उवाच। तस्मिन्नन्तर्हिते तूर्णं कूटयोधिनि राक्षसे ।
सामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व सञ्जय॥२०॥

प्रतिपन्नं कर्तव्यत्वेन ज्ञातमनुष्ठितं च ॥२०॥

सञ्जय उवाच। अन्तर्हितं राक्षसेन्द्रं विदित्वा संप्राक्रोशन्कुरवः सर्व एव ।
कथं नायं राक्षसः कूटयोधी हन्यात्कर्णं समरेऽदृश्यमानः॥२१॥

ततः कर्णो लघुचित्रास्त्रयोधी सर्वा दिशः प्रावृणोद्बाणजालैः ।
न वै किञ्चित्प्रापतत्तत्र भूतं तमोभूते सायकैरन्तरिक्षे॥२२॥

नैवाददानो न च संदधानो न चेषुधीः स्पृश्यमानः कराग्रैः ।
अदृश्यद्वै लाघवात्सूतपुत्रः सर्वं बाणैश्छादयानोऽन्तरिक्षम्॥२३॥

अदृश्यत् अदृश्यत ॥२३॥

ततो मायां दारुणामन्तरिक्षेघोरां भीमां विहितां राक्षसेन ।
अपश्याम लोहिताभ्रप्रकाशां देदीप्यन्तीमग्निशिखामिवोग्राम्॥२४॥

ततस्तस्यां विद्युतः प्रादुरासन्नुल्काश्चापि ज्वलिताः कौरवेन्द्र ।
घोषश्चास्याः प्रादुरासीत्सुघोरः सहस्रशो नदतां दुन्दुभीनाम्॥२५॥

ततः शराः प्रापतन् रुक्मपुङ्खाः शक्त्यृष्टिप्रासमुसलान्यायुधानि ।
परश्वधास्तैलधौताश्च खड्गाः प्रदीप्ताग्रास्तोमराः पट्टिशाश्च॥२६॥

मयूखिनः परिघा लोहबद्धा गदाश्चित्राः शितधाराश्च शूलाः ।
गुर्व्यो गदा हेमपट्टावनद्धाः शतघ्न्यश्च प्रादुरासन्समन्तात्॥२७॥

महाशिलाश्चापतंस्तत्र तत्र सहस्रशः साशनयश्च वज्राः ।
चक्राणि चानेकशतक्षुराणि प्रादुर्बभूवुर्ज्वलनप्रभाणि॥२८॥

तां शक्तिपाषाणपरश्वधानां प्रासासिवज्राशनिमुद्गराणाम् ।
वृष्टिं विशालां ज्वलितां पतन्तीं कर्णः शरौघैर्न शशाक हन्तुम्॥२९॥

शराहतानां पततां हयानां वज्राहतानां च तथा गजानाम् ।
शिलाहतानां च महारथानां महान्निनादः पततां बभूव॥३०॥

सुभीमनानाविधशखपातैर्घटोत्कचेनाभिहतं समन्तात् ।
दौर्योधनं वै बलमार्तरूपमावर्तमानं ददृशे भ्रमत्तत्॥३१॥

हाहाकृतं संपरिवर्तमानं संलीयमानं च विषण्णरूपम् ।
ते त्वार्यभावात्पुरुषप्रवीराः पराङ्मुखा नो बभूवुस्तदानीम्॥३२॥

तां राक्षसीं भीमरूपां सुघोरां वृष्टिं महाशस्त्रमयीं पतन्तीम् ।
दृष्ट्वा बलौघांश्च निपात्यमानान् महद्भयं तव पुत्रान्विवेश॥३३॥

शिवाश्च वैश्वानरदीप्तजिह्वाः सुभीमनादाः शतशो नदन्तीः ।
रक्षोगणान्नर्दतश्चापि वीक्ष्य नरेन्द्रयोधा व्यथिता बभूवुः॥३४॥

ते दीप्तजिह्वानलतीक्ष्णदंष्ट्रा विभीषणाः शैलनिकाशकायाः ।
नभोगताः शक्तिविषक्तहस्ता मेघा व्यमुञ्चन्निव वृष्टिमुग्राम्॥३५॥

तैराहतास्ते शरशक्तिशूलैर्गदाभिरुग्रैः परिघैश्च दीप्तैः ।
वज्रैः पिनाकैरशनिप्रहारैः शतघ्निचक्रैर्मथिताश्च पेतुः॥३६॥

शूला भुशुंड्योऽश्मगुडाः शतघ्न्यः स्थूलाश्च कार्ष्णायसपट्टनद्धाः ।
तेऽवाकिरंस्तव पुत्रस्य सैन्यं ततो रौद्रं कश्मलं प्रादुरासीत्॥३७॥

विकीर्णान्त्रा विहतैरुत्तमाङ्गैः संभग्नाङ्गाः शिश्यिरे तत्र शूराः ।
छिन्ना हयाः कुञ्जराश्चापि भग्नाः संचूर्णिताश्चैव रथाः शिलाभिः॥३८॥

एवं महच्छत्रवर्षं सृजन्तस्ते यातुधाना भुवि घोररूपाः ।
मायाः सृष्टास्तत्र घटोत्कचेन नामुञ्चन्वै याचमानं न भीतम्॥३९॥

तस्मिन् घोरे कुरुवीरावमर्दे कालोत्सृष्टे क्षत्रियाणामभावे ।
ते वै भग्नाः सहसा व्यद्रवन्त प्राक्रोशन्तः कौरवाः सर्व एव॥४०॥

पलायध्वं कुरवो नैतदस्ति सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे ।
तथा तेषां मज्जतां भारतानां तस्मिन् द्वीपः सूतपुत्रो बभूव॥४१॥

तस्मिन् संक्रन्दे तुमुले वर्तमाने सैन्ये भग्ने लीयमाने कुरूणाम् ।
अनीकानां प्रविभागे प्रकाशे नाज्ञायन्ते कुरवो नेतरे च॥४२॥

निर्मर्यादे विद्रवे घोररूपे सर्वा दिशः प्रेक्षमाणाः स्म शून्याः ।
तां शस्त्रवृष्टिमुरसा गाहमानं कर्णं स्मैकं तत्र राजन्नपश्यन्॥४३॥

उरसा हार्दबलेन ॥४३॥

ततो बाणैरावृणोदन्तरिक्षं दिव्यां मायां योधयन् राक्षसस्य ।
ह्रीमान्कुर्वन् दुष्करं चार्यकर्म नैवामुह्यत्संयुगे सूतपुत्रः॥४४॥

ततो भीताः समुदैक्षन्त कर्णं राजन्सर्वे सैन्धवा बाह्लिकाश्च ।
असंमोहं पूजयन्तोऽस्य संख्ये संपश्यन्तो विजयं राक्षसस्य॥४५॥

तेनोत्सृष्टा चक्रयुक्ता शतघ्नी समं सर्वांश्चतुरोऽश्वाञ्जघान ।
ते जानुभिर्जगतीमन्वपद्यन् गतासवो निर्देशनाक्षिजिह्वाः॥४६॥

ततो हताश्वादवरुह्य यानादन्तर्मनाः कुरुषु प्राद्रवत्सु ।
दिव्ये चास्त्रे मायया वध्यमाने नैवामुह्यच्चिन्तयन्प्राप्तकालम्॥४७॥

ततोऽब्रुवन् कुरवः सर्व एव कर्णं दृष्ट्वा घोररूपां च मायाम् ।
शक्त्या रक्षो जहि कर्णाद्य तूर्णं नश्यन्त्येते कुरवो धार्तराष्ट्राः॥४८॥

करिष्यतः किञ्च नो भीमपार्थौ तपन्तमेनं जहि पापं निशीथे ।
यो नः संग्रामाद्घोररूपाद्विमुञ्चेत्स नः पार्थान् सबलान् योधयेत॥४९॥

तस्मादेनं राक्षसं घोररूपं शक्त्या जहि त्वं दत्तया वासवेन ।
मा कौरवाः सर्व एवेन्द्रकल्पा रात्रियुद्धे कर्ण नेशुः सयोधाः॥५०॥

स वध्यमानो रक्षसा वै निशीथे दृष्ट्वा राजंस्त्रास्यमानं बलं च ।
महच्छ्रुत्वा निनदं कौरवाणां मतिं दध्रे शक्तिमोक्षाय कर्णः॥५१॥

स वै क्रुद्धः सिंह इवात्यमर्षी नामर्षयन्प्रतिघातं रणेऽसौ ।
शक्तिं श्रेष्ठां वैजयन्तीमसह्यां समाददे तस्य वधं चिकीर्षन्॥५२॥

याऽसौ राजन्निहिता वर्षपूगान् वधायाजौ सत्कृता फाल्गुनस्य ।
यां वै प्रादात्सूतपुत्राय शक्रः शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय॥५३॥

तां वै शक्तिं लेलिहानां प्रदीप्तां पाशैर्युक्तामन्तकस्येव जिह्वाम् ।
मृत्योः स्वसारं ज्वलितामिवोल्कां वैकर्तनः प्राहिणोद्राक्षसाय॥५४॥

तामुत्तमां परकायावहन्त्रीं दृष्ट्वा शक्तिं बाहुसंस्थां ज्वलन्तीम् ।
भीतं रक्षो विप्रदुद्राव राजन् कृत्वाऽऽत्मानं विन्ध्यतुल्यप्रमाणम्॥५५॥

दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां नेदुर्भूतान्यन्तरिक्षे नरेन्द्र ।
ववुर्वातास्तुमुलाश्चापि राजन् सनिर्घाता चाशनिर्गां जगाम॥५६॥

सा तां मायां भस्म कृत्वा ज्वलन्ती भित्त्वा गाढं हृदयं राक्षसस्य ।
ऊर्ध्वं ययौ दीप्यमाना निशायां नक्षत्राणामन्तराण्याविवेश॥५७॥

स निर्भिन्नो विविधैरस्त्रपूगैर्दिव्यैर्नागैर्मानुषै राक्षसैश्च ।
नदन्नादान्विविधान्भैरवांश्च प्राणानिष्टांस्त्याजितः शक्रशक्त्या॥५८॥

इदं चान्यच्चित्रमाश्चर्यरूपं चकारासौ कर्म शत्रुक्षयाय ।
तस्मिन्काले शक्तिनिर्भिन्नमर्मा बभौ राजञ्शैलमेघप्रकाशः॥५९॥

ततोऽन्तरिक्षादपतद्गतासुः स राक्षसेन्द्रो भुवि भिन्नदेहः ।
अवाक्शिराः स्तब्धगात्रो विजिह्वो घटोत्कचो महदास्थाय रूपम्॥६०॥

स तद्रूपं भैरवं भीमकर्मा भीमं कृत्वा भैमसेनिः पपात ।
हतोऽप्येवं तव सैन्यैकदेशमपोथयत्स्वेन देहेन राजन्॥६१॥

पतद्रक्षः स्वेन कायेन तूर्णमतिप्रमाणेन विवर्धता च ।
प्रियं कुर्वन्पाण्डवानां गतासुरक्षौहिणीं तव तूर्णं जघान॥६२॥

ततो मिश्राः प्राणद‌न्सिंहनादैर्भेर्यः शङ्खा सुरजाश्चानकाश्च ।
दग्धां मायां निहतं राक्षसं च दृष्ट्वा हृष्टाः प्राणदन्कौरवेयाः॥६३॥

ततः कर्णः कुरुभिः पूज्यमानो यथा शक्रो वृत्रवधे मरुद्भिः ।
अन्वारूढस्तव पुत्रस्य यानं हृष्टश्चापि प्राविशत्तत्स्वसैन्यम्॥६४॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे घटोत्कचवधे ऊनाशीत्यधिकशततमोऽध्यायः॥१७९॥
अशीत्यधिकशततमोऽध्यायः

सञ्जय उवाच। हैडिम्बिं निहतं दृष्ट्वा विशीर्णभिव पर्वतम् ।
बभूवुः पाण्डवाः सर्वे शोकबाष्पाकुलेक्षणाः॥१॥

हैडिम्बिमिति ॥१॥

वासुदेवस्तु हर्षेण महताऽभिपरिप्लुतः ।
ननाद सिंहनादं वै पर्यष्वजत फाल्गुनम्॥२॥

स विनद्य महानादमभीषून्सन्नियम्य च ।
ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः॥३॥

ततः परिष्वज्य पुनः पार्थमास्फोट्य चासकृत् ।
रथोपस्थगतो धीमान्प्राणदत्पुनरच्युतः॥४॥

प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलः ।
अर्जुनोऽथाब्रवीद्राजन्नातिदृष्टमना इव॥५॥

अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन ।
शोकस्थाने तु संप्राप्ते हैडिम्बस्य वधेन तु॥६॥

विमुखानीह सैन्यानि हतं दृष्ट्वा घटोत्कचम् ।
वयं च भृशमुद्विग्ना हैडिम्बेस्तु निपातनात्॥७॥

नैतत्कारणमल्पं हि भविष्यति जनार्दन ।
तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर॥८॥

यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिन्दम ।
धैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन॥९॥

धैर्यस्य वैकृतमस्मत्पक्षक्षयेण तव हर्षोऽस्मद्धैर्यविनाशक इत्यर्थः ॥९॥

समुद्रस्येव संशोषं मेरोरिव विसर्पणम् ।
तथैतदद्य मन्येऽहं तव कर्म जनार्दन॥१०॥

श्रीवासुदेव उवाच। अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनञ्जय ।
अतीव मनसः सद्यः प्रसादकरमुत्तमम्॥११॥

शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते ।
कर्णं निहतमेवाजौ विद्धि सद्यो धनञ्जय॥१२॥

शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह ।
य एनमभितस्तिष्ठेत्कार्तिकेयमिवाहवे॥१३॥

दिष्ट्याऽपनीतकवचो दिष्ट्याऽपहृतकुण्डलः ।
दिष्ट्या सा व्यंसिता शक्तिरमोघाऽस्य घटोत्कचे॥१४॥

यदि हि स्यात्सकवचस्तथैव स्यात्सकुण्डलः ।
सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्रणे॥१५॥

वासवो वा कुबेरो वा वरुणो वा जलेश्वरः ।
यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम्॥१६॥

गाण्डीवमुद्यम्य भवांश्चक्रं चाहं सुदर्शनम् ।
न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम्॥१७॥

त्वद्धितार्थं तु शक्रेण मायापहृतकुण्डलः ।
विहीनकवचश्चायं कृतः परपुरञ्जयः॥१८॥

उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते ।
प्रादाच्छक्राय कर्णो वै तेन वैकर्तनः स्मृतः॥१९॥

आशीविष इव क्रुद्धो जृंभितो मन्त्रतेजसा ।
तथाऽद्य भाति कर्णो मे शान्तज्वाल इवानलः॥२०॥

यदाप्रभृति कर्णाय शक्तिर्दत्ता महात्मना ।
वासवेन महाबाहो क्षिप्ता याऽसौ घटोत्कचे॥२१॥

कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च ।
तां प्राप्यामन्यत वृषः सततं त्वां हतं रणे॥२२॥

कुण्डलाभ्यां निमाय विनिमयं कृत्वा ॥२२॥

एवं गतोऽपि शक्योऽयं हन्तुं नान्येन केनचित् ।
ऋते त्वां पुरुषव्याघ्र शपे सत्येन चानघ॥२३॥

ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः ।
रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषः स्मृतः॥२४॥

वृषो धर्मप्रधानः ॥२४॥

युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः ।
केसरीव वने नर्दन्मातङ्ग इव यूथपान्॥२५॥

विमदान् रथशार्दूलान्कुरुते रणमूर्धनि ।
मध्यंगत इवादित्यो यो न शक्यो निरीक्षितुम्॥२६॥

त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः ।
शरजालसहस्त्रांशुः शरदीव दिवाकरः॥२७॥

तपान्ते जलदो यद्वच्छरधाराः क्षरन्मुहुः ।
दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान्॥२८॥

त्रिद‌शैरपि चास्यद्भिः शरवर्षं समन्ततः ।
अशक्यस्तदयं जेतुं स्त्रवद्भिर्मांसशोणितम्॥२९॥

कवचेन विहीनश्च कुण्डलाभ्यां च पाण्डव ।
सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया॥३०॥

एको हि योगोऽस्य भवेद्वधायच्छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम् ।
कृच्छ्रं प्राप्तं रथचक्रे विमग्ने हन्याः पूर्वं त्वं तु संज्ञां विचार्य॥३१॥

न ह्युद्यतास्त्रं युधि हन्यादजय्यमप्येकवीरो बलभित्सवज्रः ।
जरासन्धश्चेदिराजो महात्मा महाबाहुश्चैकलव्यो निषादः॥३२॥

एकैकशो निहताः सर्व एते योगैस्तैस्तैस्त्वद्धितार्थं मयैव ।
अथापरे निहता राक्षसेन्द्रा हिडिम्ब-किर्मीर-बकप्रधानाः ।
अलायुधः परचक्रावमर्दीघटोत्कचश्चोग्रकर्मा तरस्वी॥३३॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे घटोत्कचवधे श्रीकृष्णहर्षे अशीत्यधिकशततमोऽध्यायः॥१८०॥
एकाशीत्यधिकशततमोऽध्यायः

अर्जुन उवाच। कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन ।
जरासन्धप्रभृतयो घातिताः पृथिवीश्वराः॥१॥

कथमिति । योगैरुपायैः ॥१॥

श्रीवासुदेव उवाच। जरासन्धश्चेदिराजो नैषादिश्च महाबलः ।
यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयङ्कराः॥२॥

दुर्योधनस्तानवश्यं वृणुयाद्रथसत्तमान् ।
तेऽस्मासु नित्यविद्विष्टाः संश्रयेयुश्च कौरवान्॥३॥

ते हि वीरा महेष्वासाः कृतास्त्रा दृढयोधिनः ।
धार्तराष्ट्रचमूं कृत्स्नां रक्षेयुरमरा इव॥४॥

सूतपुत्रो जरासन्धश्चेदिराजो निषादजः ।
सुयोधनं समाश्रित्य जयेयुः पृथिवीमिमाम्॥५॥

योगैरपि हता यैस्ते तन्मे शृणु धनञ्जय ।
अजय्या हि विना योगैर्मृधे ते दैवतैरपि॥६॥

एकैको हि पृथक् तेषां समस्तां सुरवाहिनीम् ।
योधयेत् समरे पार्थ लोकपालाभिरक्षिताम्॥७॥

जरासन्धो हि रुषितो रौहिणेयप्रधर्षितः ।
अस्मद्वधार्थं चिक्षेप गदां वै सर्वघातिनीम्॥८॥

सीमन्तमिव कुर्वाणां नभसः पावकप्रभाम् ।
अदृश्यता पतन्ती सा शक्रमुक्ता यथाऽशनिः॥९॥

तामापतन्तीं दृष्ट्वेव गदां रोहिणिनन्दनः ।
प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत्॥१०॥

अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि ।
दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान्॥११॥

तत्र सा राक्षसी घोरा जरानाम्नी सुविक्रमा ।
संदधे सा हि सञ्जातं जरासन्धमरिन्दमम्॥१२॥

द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक् पृथक् ।
जरया सन्धितो यस्माज्जरासन्धस्ततोऽभवत्॥१३॥

सा तु भूमिं गता पार्थ हता ससुतबान्धवा ।
गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी॥१४॥

विनाभूतः स गदया जरासन्धो महामृधे ।
निहतो भीमसेनेन पश्यतस्ते धनञ्जय॥१५॥

सगदया गदासहितया राक्षस्या विनाभूतः। अयं भावः - गदयैव स दुर्जयः कदाचिज्जितश्चेत्पुना राक्षस्या संधातुं शक्य इत्युभयनाशेन जरासन्धो नष्ट इति ॥१५॥

यदि हि स्याद्गदापाणिर्जरासन्धः प्रतापवान् ।
सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम॥१६॥

त्वद्धितार्थं च नैषादिरङ्गुष्ठेन वियोजितः ।
द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः॥१७॥

स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः ।
अतिमानी वनचरो बभौ राम इवापरः॥१८॥

एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः ।
सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित्॥१९॥

किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम् ।
दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम्॥२०॥

त्वद्धितार्थं तु स मया हतः संग्राममूर्धनि ।
चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव॥२१॥

स चाप्यशक्यः संग्रामे जेतुं सर्वसुरासुरैः ।
वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम्॥२२॥

त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया ।
हिडिम्बबककिर्मीरा भीमसेनेन पातिताः॥ रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः॥२३॥

हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः॥२४॥

हैडिंबश्चाप्युपायेन शक्त्या कर्णेन घातितः ।
यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे॥२५॥

मया वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः ।
मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया॥२६॥

एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः ।
धर्मस्य लोप्ता पापात्मा तस्मादेष निपातितः॥२७॥

व्यंसिता चाप्युपायेन शक्रदत्ता मयाऽनघ ।
ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डवः॥२८॥

व्यंसिता व्यर्थी कृता शक्तिरिति शेषः ॥२८॥

धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया ।
ब्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीर्धृतिः क्षमाः॥२९॥

यत्र तत्र रमे नित्यमहं सत्येन ते शपे ।
न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति॥३०॥

उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि ।
सुयोधनं चापि रणे हनिष्यति वृकोदरः॥३१॥

तस्यापि च वधोपायं वक्ष्यामि तव पांडव ।
वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति॥३२॥

विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ।
लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव॥ दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः॥३३॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे कृष्णवाक्ये एकाशित्यधिकशततमोऽध्यायः॥१८१॥
द्व्यशीत्यधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। एकवीरवधेऽमोघा शक्तिः सुतात्मजे यदा ।
कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवाम्॥१॥

एकवीरवधे इति ॥१॥

तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः ।
एकवीरवधे कस्माद्युद्धेन जयमादधे॥२॥

आहूतो न निवर्तेयमिति तस्य महाव्रतम् ।
स्वयं मार्गयितव्यः स सूतपुत्रेण फाल्गुनः॥३॥

ततो द्वैरथमानीय फाल्गुनं शक्रदत्तया ।
जघान न वृषः कस्मात्तन्ममाचक्ष्व सञ्जय॥४॥

नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः ।
शत्रुभिर्व्यंसितः पापः कथं नु स जयेदरीन्॥५॥

या ह्यस्य परमा शक्तिर्जयस्य च परायणम् ।
सा शक्तिर्वासुदेवेन व्यंसिता च घटोत्कचे॥६॥

कुणेर्यथा हस्तगतं ह्रियेत्फलं बलीयसा ।
तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे॥७॥

यथा वराहस्य शुनश्च युध्यतोस्तयोरभावे श्वपचस्य लाभः ।
मन्ये विद्वन्वासुदेवस्य तद्वद्युद्धे लाभः कर्णहैडिम्बयोर्वै॥८॥

घटोत्कचो यदि हन्याद्धि कर्णं परो लाभः स भवेत्पाण्डवानाम् ।
वैकर्तनो वा यदि तं निहन्यात्तथापि कृत्यं शक्तिनाशात्कृतं स्यात्॥९॥

इति प्राज्ञः प्रज्ञयैतद्विचिन्त्य घटोत्कचं सूतपुत्रेण युद्धे ।
अघातयद्वासुदेवो नृसिंहः प्रियं कुर्वन्पाण्डवानां हितं च॥१०॥

सञ्जय उवाच। एतच्चिकीर्षितं ज्ञात्वा कर्णस्य मधुसूदनः ।
नियोजयामास तदा द्वैरथे राक्षसेश्वरम्॥११॥

एतत्प्रकृतशक्त्त्यार्जुनहननम् ॥११॥

घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः ।
अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव॥१२॥

तदैव कृतकार्या हि वयं स्याम कुरूद्वह ।
न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात्॥१३॥

साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद्भुवि ।
विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम्॥१४॥

तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव ।
जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः॥१५॥

स विशेषात्त्वमोघायाः कृष्णोऽरक्षत पाण्डवम् ।
हन्यात्क्षिप्रं हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः॥१६॥

धृतराष्ट्र उवाच। विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः ।
यस्यैष समतिक्रान्तो वधोपायो जयं प्रति॥१७॥

एष कृत्स्नः जयं प्रति अर्जुनस्येत्यर्थः ॥१७॥

स वा कर्णो महाबुद्धिः सर्वशस्त्रभृतां वरः ।
न मुक्तवान्कथं सूत ताममोघां धनञ्जये॥१८॥

तवापि समतिक्रान्तमेतद्गावल्गणे कथम् ।
एतमर्थं महाबुद्धे यत्त्वया नावबोधितः॥१९॥

सञ्जय उवाच। दुर्योधनस्य शकुनेर्मम दुःशासनस्य च ।
रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना॥२०॥

श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनञ्जयम् ।
प्रेष्यवत्पाण्डुपञ्चालानुपभोक्ष्यामहे ततः॥२१॥

अथवा निहते पार्थे पाण्डवान्यतमं ततः ।
स्थापयेद्यदि वार्ष्णेयस्तस्मात्कृष्णो हि हन्यताम्॥२२॥

कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः ।
शाखा इवेतरे पार्थाः पञ्चालाः पत्रसंज्ञिताः॥२३॥

कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पांडवाः ।
कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः॥२४॥

तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज ।
कृष्णं हि विद्धि पाण्डूनां मूलं सर्वत्र सर्वदा॥२५॥

हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम् ।
कृत्स्ना वसुमती राजन्वशे तस्य न संशयः॥२६॥

यदि हि स निहतः शयीत भूमौ यदुकुलपाण्डवनन्दनो महात्मा ।
ननु तव वसुधा नरेन्द्र सर्वा गिरिसमुद्रवना वशं व्रजेत॥२७॥

सा तु बुद्धिः कृताऽप्येवं जाग्रति त्रिदशेश्वरे ।
अप्रमेये हृषीकेश युद्धकालेऽप्यमुह्यत॥२८॥

अर्जुनं चापि राधेयात्सदा रक्षति केशवः ।
न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे॥२९॥

अन्यांश्चास्मै रथोदारानुपास्थापयदच्युतः ।
अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो॥३०॥

यश्चैवं रक्षते पार्थं कर्णात्कृष्णो महामनाः ।
आत्मानं स कथं राजन्न रक्षेत्पुरुषोत्तमः॥३१॥

परिचिन्त्य तु पश्यामि चक्रायुधमरिन्दमम् ।
न सोऽस्ति त्रिषु लोकेषु यो जयेत जनार्दनम्॥३२॥

सञ्जय उवाच। ततः कृष्णं महाबाहुं सात्यकिः सत्यविक्रमः ।
पप्रच्छ रथशार्दूलः कर्णं प्रति महारथः॥३३॥

अयं च प्रत्ययः कर्णे शक्तिश्चामितविक्रमा ।
किमर्थं सूतपुत्रेण न मुक्ता फाल्गुने तु सा॥३४॥

श्रीवासुदेव उवाच। दुःशासनश्च कर्णश्च शकुनिश्च ससैन्धवः ।
सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः॥३५॥

कर्ण कर्ण महेष्वास रणेऽमितपराक्रम ।
नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर॥२६॥

ऋते महारथात्कर्ण कुन्तीपुत्राद्धनञ्जयात् ।
स हि तेषामतियशा देवानामिव वासवः॥३७॥

तस्मिन्विनिहते पार्थे पाण्डवाः सृञ्जयैः सह ।
भविष्यन्ति गतात्मानः सुरा इव निरग्नयः॥३८॥

निरग्नयोऽग्निं विना मुखहीना इवेत्यर्थः ॥३८॥

तथेति च प्रतिज्ञातं कर्णेन शिनिपुङ्गव ।
हृदि नित्यं च कर्णस्य वधो गांडीवधन्वनः॥३९॥

अहमेव तु राधेयं मोहयामि युधां वर ।
ततो नावासृजच्छक्तिं पाण्डवे श्वेतवाहने॥४०॥

अहमेवेत्यादिग्रन्थो भगवतो भक्तपक्षपातित्वप्रदर्शनार्थो न केवलमर्जुनार्थ इति भावः ॥४०॥

फाल्गुनस्य हि सा मृत्युरिताचतयतोऽनिशम् ।
न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर॥४१॥

घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुङ्गव ।
मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनञ्जयम्॥४२॥

न पिता न च म माता न यूयं भ्रातरस्तथा ।
न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे॥४३॥

त्रैलोक्यराज्याद्यत्किञ्चिद्भवेदन्यत्सुदुर्लभम् ।
नेच्छेयं सात्वताहं तद्विना पार्थं धनञ्जयम्॥४४॥

अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत् ।
मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनञ्जयम्॥४५॥

अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः ।
न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम्॥४६॥

सञ्जय उवाच। इति सात्यकये प्राह तदा देवकिनन्दनः ।
धनञ्जयहिते युक्तस्तत्प्रिये सततं रतः॥४७॥

हिते आमुष्मिके श्रेयसि प्रिये ऐहिके कल्याणे ॥४७॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे कृष्णवाक्ये द्व्यशीत्यधिकशततमोऽध्यायः॥१८२॥
त्र्यशीत्यधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। कर्णदुर्योधनादीनां शकुनेः सौबलस्य च ।
अपनीतं महत्तात तव चैव विशेषतः॥१॥

कर्णेति । महज्जयालम्बनममोघशक्तिरूपमिति शेषः । अपनीतं नाशितम् । महदपनीतमन्याय इति वा ॥१॥

यदि जानीथ तां शक्तिमेकघ्नीं सततं रणे ।
अनिवार्यामसह्यां च देवैरपि सवासवैः॥२॥

सा किमर्थं तु कर्णेन प्रवृत्ते समरे पुरा ।
न देवकीसुते मुक्ता फाल्गुने वाऽपि सञ्जय॥३॥

सञ्जय उवाच। संग्रामाद्विनिवृत्तानां सर्वेषां नो विशांपते ।
रात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽयं समजायत॥४॥

प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा ।
शक्तिरेषा हि मोक्तव्या कर्ण कर्णेति नित्यशः॥५॥

ततः प्रभातसमये राजन्कर्णस्य दैवतैः ।
अन्येषां चैव योधानां सा बुद्धिर्नाश्यते पुनः॥६॥

दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थया ।
न जघान रणे पार्थं कृष्णं वा देवकीसुतम्॥७॥

तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता ।
दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान्॥८॥

कृष्णे वा देवकीपुत्रे मोहितो देवमायया ।
पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभा॥९॥

धृतराष्ट्र उवाच। दैवेनोपहता यूयं स्वबुद्ध्या केशवस्य च ।
गता हि वासवी हत्वा तृणभूतं घटोत्कचम्॥१०॥

कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः ।
तेन वै दुष्प्रणीतेन गता वैवस्वतक्षयम्॥११॥

दुष्प्रणीतेन दुर्नयेन ॥११॥

भूय एव तु मे शंस यथा युद्धमवर्तत ।
कुरूणां पाण्डवानां च हैडिम्बे निहते तदा॥१२॥

ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः ।
सृञ्जयाः सह पञ्चालैस्तेऽप्यकुर्वन्कथं रणम्॥१३॥

सौमदत्तेर्वधाद्द्रोणमायान्तं सैन्धवस्य च ।
अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम्॥१४॥

जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम् ।
कथं प्रत्युद्ययौ द्रोणमस्यन्तं पाण्डुसृञ्जयाः॥१५॥

आचार्यं ये च तेऽरक्षन् दुर्योधनपुरोगमाः ।
द्रौणि-कर्ण-कृपास्तात ते वाऽकुर्वन्किमाहवे॥१६॥

भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ ।
समार्च्छन्मामका युद्धे कथं सञ्जय शंस मे॥१७॥

सिन्धुराजवधेनेमे घटोत्कचवधेन ते ।
अमर्पितः सुसंक्रुद्धा रणं चक्रुः कथं निशि॥१८॥

सञ्जय उवाच। हते घटोत्कचे राजन्कर्णेन निशि राक्षसे ।
प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु॥१९॥

आपतत्सु च वेगेन वध्यमाने बलेऽपि च ।
विगाढायां रजन्यां च राजा दैन्यं परं गतः॥२०॥

अब्रवीच्च महाबाहुर्भीमसेनमिदं वचः ।
आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम्॥२१॥

हैडिंबेश्चैव घातेन मोहो मामाविशन्महान् ।
एवं भीमं समादिश्य स्वरथे समुपाविशत्॥२२॥

अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनः पुनः ।
कश्मलं प्राविशद्धोरं दृष्ट्वा कर्णस्य विक्रमम्॥२३॥

तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत् ।
मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यते॥२४॥

वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे ।
उत्तिष्ठ राजन्युद्ध्यस्व वह गुर्वीं धुरं विभो॥२५॥

त्वयि वैक्लव्यमापन्ने संशयो विजये भवेत् ।
श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः॥२६॥

विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत् ।
विदिता मे महाबाहो धर्माणां परमा गतिः॥२७॥

ब्रह्महत्या फलं तस्य यः कृतं नाऽवबुध्यते ।
अस्माकं हि वनस्थानां हैडिम्बेन महात्मना॥२८॥

बालेनापि सता तेन कृतं साह्यं जनार्दन ।
अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं श्वेतवाहनम्॥२९॥

असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः ।
उषितश्च सहास्माभिर्यावन्नासीद्धनञ्जयः॥३०॥

गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताः ।
पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना॥३१॥

आरम्भाच्चैव युद्धानां यदेष कृतवान् प्रभो ।
मदर्थे दुष्करं कर्म कृतं तेन महाहवे॥३२॥

स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दन ।
सैव मे परमा प्रतिः राक्षसेन्द्रे घटोत्कचे॥३३॥

भक्तश्च मे महाबाहुः प्रियोऽस्याहं प्रियश्च मे ।
तेन विन्दामि वार्ष्णेय कश्मलं शोकतापितः॥३४॥

पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः ।
द्रोणकर्णौ तु संयत्तौ पश्य युद्धे महारथौ॥३५॥

निशीथे पाण्डवं सैन्यमेतत्सैन्यप्रमर्दितम् ।
गजाभ्यामिव मत्ताभ्यां यथा नलवनं महत्॥३६॥

एतत्सैन्यप्रमर्दितम् - एतयोः सैन्याभ्यां प्रमर्दितमिति विग्रहः ॥३६॥

अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव ।
चित्रास्त्रतां च पार्थस्य विक्रमन्ति स्म कौरवाः॥३७॥

एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः ।
निहत्य राक्षसं युद्धे हृष्टाः नर्दन्ति संयुगे॥३८॥

कथं वाऽस्मासु जीवत्सु त्वयि चैव जनार्दन ।
हैडिम्बिः प्राप्तवान्मृत्युं सूतपुत्रेण सङ्गतः॥३९॥

कदर्थी कृत्य नः सर्वान्पश्यतः सव्यसाचिनः ।
निहतो राक्षसः कृष्ण भैमसेनिर्महाबलः॥४०॥

यदाऽभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिः ।
नासीत्तत्र रणे कृष्ण सव्यसाची महारथः॥४१॥

निरुद्धाश्च वयं सर्वे सैन्धवेन दुरात्मना ।
निमित्तमभवद्द्रोणः स पुत्रस्तत्र कर्मणि॥४२॥

उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम् ।
व्यायच्छतश्च खड्गेन द्विधा खड्गं चकार ह॥४३॥

व्यसने वर्तमानस्य कृतवर्मा नृशंसवत् ।
अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथी॥४४॥

तथेतरे महेष्वासाः सौभद्रं युद्ध्यपातयन् ।
अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना॥४५॥

सैन्धवो यादद्वश्रेष्ठ तच्च नातिप्रियं मम ।
यदि शत्रुवधो न्याय्यो भवेत्कर्तुं हि पांडवैः॥४६॥

कर्णद्रोणौ रणे पूर्वं हन्तव्याविति मे मतिः ।
एतौ हि मूलं दुःखानामस्माकं पुरुषर्षभ॥४७॥

एतौ रणे समासाद्य समाश्वस्तः सुयोधनः ।
यत्र वध्यो भवेद्द्रोणः सूतपुत्रश्च सानुगः॥४८॥

तत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम् ।
अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः॥४९॥

ततो यास्याम्यहं वीरः स्वयं कर्णजिघांसया ।
भीमसेनो महाबाहुर्द्रोणानीकेन सङ्गतः॥५०॥

एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः ।
स विस्फार्य महच्चापं शंखं प्रध्माप्य भैरवम्॥५१॥

ततो रथसहस्रेण गजानां च शतैस्त्रिभिः ।
वाजिभिः पञ्चसाहस्त्रैः पञ्चालैः सप्रभद्रकैः॥५२॥

वृतः शिखण्डी त्वरितो राजानं पृष्ठतोऽन्वयात् ।
ततो भेरीः समाजघ्नुः शंखान्दध्मुश्च दंशिताः॥५३॥

पञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः ।
ततोऽब्रवीन्महाबाहुर्वासुदेवो धनञ्जयम्॥५४॥

एष प्रयाति त्वरितः क्रोधाविष्टो युधिष्ठिरः ।
जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते॥५५॥

एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत् ।
दूरं प्रयान्तं राजानमन्वगच्छज्जनार्दनः॥५६॥

तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसया ।
शोकोपहतसंकल्पं दह्यमानमिवाग्निना॥५७॥

अभिगम्याब्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम् ।
व्यास उवाच। कर्णमासाद्य संग्रामे दिष्ट्या जीवति फाल्गुनः॥५८॥

सव्यसाचिवधाकांक्षी शक्तिं रक्षितवान् हि सः ।
न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तेन महारणे॥५९॥

सृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः ।
वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः॥६०॥

वासवीं समरे शक्तिं ध्रुवं मुञ्चेद्युधिष्ठिर ।
ततो भवेत्ते व्यसनं घोरं भरतसत्तम॥६१॥

दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद ।
वासवीं कारणं कृत्वा कालेनोपहतो ह्यसौ॥६२॥

तवैव कारणाद्रक्षो निहतं तात संयुगे ।
मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः॥६३॥

प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर ।
भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः॥६४॥

कौरवान्समरे राजन्प्रतियुध्यस्व भारत ।
पञ्चमे दिवसे तात पृथिवी ते भविष्यति॥६५॥

नित्यं च पुरुषव्याघ्र धर्ममेवानुचिन्तय ।
आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव॥६६॥

सेवेथाः परमप्रीतो ‘यतो धर्मस्ततो जयः’ ।
इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत॥६७॥

इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे व्यासवाक्ये त्र्यशीत्यधिकशततमोऽध्यायः॥१८३
समाप्तं घटोत्कचवधपर्व॥६॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in