सञ्जय उवाच।
तदुदीर्णं गजानीकं बलं तव जनाधिप
।
पाण्डुसेनामतिक्रम्य योधयामास सर्वतः॥१॥
तदुदीर्णमित्यारभ्य रात्रियुद्धे जयद्रथवधात्क्रोधहर्षविवशाः कौरवपाण्डवा इवान्येऽपि निर्मर्यादं प्रवर्तन्ते इति प्रदर्शनार्थम् ॥१॥
पञ्चालाः कुरवश्चैव योधयन्तः परस्परम्
।
यमराष्ट्राय महते परलोकाय दीक्षिताः॥२॥
शूराः शूरैः समागम्य शर-तोमर-शक्तिभिः
।
विव्यधुः समरेऽन्योन्यं निन्युश्चैव यमक्षयम्॥३॥
रथिनां रथिभिः सार्धं रुधिरस्रावदारुणम्
।
प्रावर्तत महद्युद्धं निघ्नतामितरेतरम्॥४॥
वारणाश्च महाराज समासाद्य परस्परम्
।
विषाणैर्दारयामासुः सुसंक्रुद्धा मदोत्कटाः॥५॥
हयारोहान्हयारोहाः प्रास-शक्ति-परश्वधैः
।
बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः॥६॥
पत्तयश्च महाबाहो शतशः शस्त्रपाणयः
।
अन्योन्यमार्दयन् राजन्नित्यं यत्ताः पराक्रमे॥७॥
गोत्राणां नामधेयानां कुलानां चैव मारिष
।
श्रवणाद्धि विजानीमः पञ्चालान्कुरुभिः सह॥८॥
गोत्रं पित्रादि नाम शैनेय सात्यके इत्यादि कुलं पांड्यपांचाल्येत्यादि ॥८॥
तेऽन्योन्यं समरे योधाः शर-शक्ति-परश्वधैः
।
प्रैषयन्परलोकाय विचरन्तो ह्यभीतवत्॥९॥
शरा दश दिशो राजंस्तेषां मुक्ताः सहस्रशः
।
न भ्राजन्ते यथातत्त्वं भास्करेऽस्तंगतेऽपि च॥१०॥
तथा प्रयुध्यमानेषु पाण्डवेयेषु भारत
।
दुर्योधनो महाराज व्यवागाहत तद्बलम्॥११॥
सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः
।
मर्तव्यमिति सञ्चिन्त्य प्राविशच्च द्विषद्बलम्॥१२॥
नादयन् रथघोषेण कम्पयन्निव मेदिनीम्
।
अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम्॥१३॥
स सन्निपातस्तुमुलस्तस्य तेषां च भारत
।
अभवत्सर्वसैन्यानामभावकरणो महान्॥१४॥
यथा मध्यन्दिने सूर्यं प्रतपन्तं गभस्तिभिः
।
तथा तव सुतं मध्ये प्रतपन्तं शरार्चिभिः॥१५॥
न शेकुर्भ्रातरं युद्धे पाण्डवाः समुदीक्षितुम्
।
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये॥१६॥
भ्रातरं दुर्योधनम् ॥१६॥
पर्यधावन्त पञ्चाला वध्यमाना महात्मना
।
रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना॥१७॥
अद्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः
।
न तादृशं रणे कर्म कृतवन्तस्तु तावकाः॥१८॥
यादृशं कृतवान् राजा पुत्रस्तव विशांपते
।
पुत्रेण तव सा सेना पाण्डवी मथिता रणे॥१९॥
नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा
।
श्रीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी॥२०॥
बभूव पाण्डवी सेना तव पुत्रस्य तेजसा
।
पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत॥२१॥
भीमसेनपुरोगास्तु पञ्चालाः समुपाद्रवन्
।
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः॥२२॥
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम्
।
धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः॥२३॥
केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः
।
सात्वतं पञ्चभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः॥२४॥
घटोत्कचं च समरे विद्ध्वा सिंह इवानदत्
।
शतशश्चापरान्योधान्सद्विपांश्च महारणे॥२५॥
सम्यगस्तैः दृढं प्रक्षिप्तैः ॥२५॥
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः
।
सा तेन पाण्डवी सेना वध्यमाना शिलीमुखैः॥२६॥
तव पुत्रेण संग्रामे विदुद्राव नराधिप
।
तं तपन्तमिवादित्यं कुरुराजं महाहवे॥२७॥
नाशकन्वीक्षितुं राजन्पाण्डुपुत्रस्य सैनिकाः
।
ततो युधिष्ठिरो राजा कुपितो राजसत्तम॥२८॥
अभ्यधावत्कुरुपात तव पुत्रं जिघांसया
।
तावुभौ युधि कौरव्यौ समीयतुररिन्दमा॥२९॥
स्वार्थहेतोः पराक्रान्तौ दुर्योधनयुधिष्ठिरौ
।
ततो दुर्योधनः क्रुद्धः शरैः सन्नतपर्वभिः॥३०॥
विव्याध दशभिस्तूर्णं ध्वजं चिच्छेद चेषुणा
।
इन्द्रसेनं त्रिभिश्चैव ललाटे जघ्निवान्नृप॥३१॥
सारथिं दयितं राज्ञः पाण्डवस्य महात्मनः
।
धनुश्च पुनरन्येन चकर्तास्य महारथः॥३२॥
चतुर्भिश्चतुरश्चैव बाणैर्विव्याध वाजिनः
।
ततो युधिष्ठिरः क्रुद्धो निमेषादिव कार्मुकम्॥३३॥
अन्यदादाय वेगेन कौरवं प्रत्यवारयत्
।
तस्य तान्निघ्नतः शत्रून् रुक्मपृष्ठं महद्धनुः॥३४॥
भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष
।
विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः॥३५॥
मर्म भित्त्वा तु ते सर्वे संलग्नाः क्षितिमाविशन्
।
ततः परिवृता योधाः परिवव्रुर्युधिष्ठिरम्॥३६॥
वृत्रहत्यै यथा देवाः परिवव्रुः पुरन्दरम्
।
ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष
।
शरं च सूर्यरश्म्याभमत्युग्रमनिवारणम्॥३७॥
वृत्रहत्यै इति वध्यस्तुत्यै ॥३७॥
हा हतोऽसीति राजानमुक्त्वाऽमुञ्चद्युधिष्ठिरः
।
स तेनाकर्णमुक्तेन विद्धो बाणेन कौरवः॥३८॥
निषसाद रथोपस्थे भृशं संमूढचेतनः
।
ततः पाञ्चाल्यसेनानां भृशमासीद्रवो महान्॥३९॥
हतो राजेति राजेन्द्र मुदितानां समन्ततः
।
बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष॥४०॥
बाणशब्दरवः बाणशब्दसहितो रवः प्राणिशब्दः ॥४०॥
अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे
।
हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम्॥४१॥
तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात्
।
प्रत्युद्ययुस्तं त्वरिताः पञ्चाला जयगृद्धिनः॥४२॥
तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम्
।
चण्डवातोद्धुतान्मेघान्निघ्नन् रश्मिमुचो यथा॥४३॥
रश्मिमुचः सूर्यः इगुपधलक्षणकप्रत्ययान्तः शब्दः बहुवचनमेवैतत्प्रलयसूचकमिति वा ॥४३॥
ततो राजन्महानासीत्संग्रामो भूरिवर्धनः
।
तावकानां परेषां च समेतानां युयुत्सया॥४४॥
भूरिवर्धनः बहुच्छेदनः ॥४४॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे दुर्योधनपराभवे त्रिपञ्चाशदधिकशततमोऽध्यायः॥१५३॥
धृतराष्ट्र उवाच।
यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो बली
।
उक्त्वा दुर्योधनं मन्दं मम शास्त्रातिगं सुतम्॥१॥
यत्तदेति । शास्त्रातिगं शास्त्रमाज्ञा ॥१॥
प्रविश्य विचरन्तं च रथे शूरमवस्थितम्
।
कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन्॥२॥
केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महाहवे
।
के चोत्तरमरक्षन्त निघ्नतः शात्रवान्बहून्॥३॥
के चास्य पृष्ठतोऽन्वासन् वीरा वीरस्य योधिनः
।
के पुरस्तादवर्तन्त रथिनस्तस्य शत्रवः॥४॥
मन्ये तानस्पृशच्छीतमतिवेलमनार्तवम्
।
मन्ये ते समवेपन्त गावो वै शिशिरे यथा॥५॥
यत्प्राविशन्महेष्वासः पञ्चालानपराजितः
।
नृत्यन् स रथमार्गेषु सर्वशस्त्रभृतां वरः॥६॥
निर्दहन् सर्वसैन्यानि पञ्चालानां रथर्षभः
।
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान्॥७॥
धूमकेतुरग्निः ॥७॥
सञ्जय उवाच।
सायान्हे सैन्धवं हत्वा राज्ञा पार्थः समेत्य च
।
सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम्॥८॥
तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः
।
पृथक्चमूभ्यां संयत्तौ द्रोणमेवाभ्यधावताम्॥९॥
तथैव नकुलो धीमान्सहदेवश्च दुर्जयः
।
धृष्टद्युम्नः सहानीको विराटश्च सकेकयः॥१०॥
मत्स्याः शाल्वाः ससेनाश्च द्रोणमेव ययुर्युधि
।
द्रुपदश्च तथा राजा पञ्चालैरभिरक्षितः॥११॥
धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत
।
द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः॥१२॥
ससैन्यास्ते न्यवर्तन्त द्रोणमेव महाद्युतिम्
।
प्रभद्रकाश्च पञ्चालाः षट्सहस्राः प्रहारिणः॥१३॥
द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम्
।
तथेतरे नरव्याघ्राः पाण्डवानां महारथाः॥१४॥
सहिताः संन्यवर्तन्त द्रोणमेव द्विजर्षभम्
।
तेषु शूरेषु युद्धाय गतेषु भरतर्षभ॥१५॥
संन्यवर्तन्त संमुखं नितरामवर्तन्त ॥१५॥
बभूव रजनी घोरा भीरूणां भयवर्धिनी
।
योधानामशिवा रौद्रा राजन्नन्तकगामिनी॥१६॥
कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा
।
तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः॥१७॥
न्यवेदयन्भयं घोरं सज्वालकवलैर्मुखैः
।
उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम्॥१८॥
विशेषतः कौरवाणां ध्वजिन्यामतिदारुणाः
।
ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान्॥१९॥
भेरीशब्देन महता मृदङ्गानां स्वनेन च
।
गजानां बृंहितैश्चापि तुरङ्गाणां च हेषितैः॥२०॥
खुरशब्दन्निपातैश्च तुमुलः सर्वतोऽभवत्
।
ततः समभवद्युद्धं सन्ध्यायामतिदारुणम्॥२१॥
द्रोणस्य च महाराज सृञ्जयानां च सर्वशः
।
तमसा चावृते लोके न प्राज्ञायत किञ्चन॥२२॥
सैन्येन रजसा चैव समन्तादुत्थितेन ह
।
नरस्याश्वस्य नागस्य समसज्जत शोणितम्॥२३॥
नापश्याम रजो भौमं कश्मलेनाभिसंवृताः
।
रात्रौ वंशवनस्येव दह्यमानस्य पर्वते॥२४॥
घोरश्चटचटाशब्दः शस्त्राणां पततामभूत्
।
मृदङ्गानकनिर्ह्रादैर्झर्झरैः पटहैस्तथा॥२५॥
फेत्कारैर्ह्रेषितैः शब्दैः सर्वमेवाकुलं बभौ
।
नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते॥२६॥
उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे
।
भौमं रजोऽथ राजेन्द्र शोणितेन प्रणाशितम्॥२७॥
शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽभ्यगात्
।
ततः सा भारती सेना मणिहेमविभूषिता॥२८॥
तमोऽभ्यगान्नाशमिति शेषः ॥२८॥
द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ
।
गोमायुबलसंघुष्टा शक्तिध्वजसमाकुला॥२९॥
वारणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता
।
तत्राभवन्महाशब्दस्तुमुलो लोमहर्षणः॥३०॥
समावृण्वन्दिशः सर्वा महेन्द्राशनिनिःस्वनः
।
सा निशीथे महाराज सेनाऽदृश्यत भारती॥३१॥
अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता
।
तत्र नागा रथाश्चैव जांबूनदविभूषिताः॥३२॥
निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः
।
ऋष्टि-शक्ति-गदा-बाण-मुसल-प्रास-पट्टिशाः॥३३॥
संपतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः
।
दुर्योधनपुरोवातां रथनागबलाहकाम्॥३४॥
वादित्रघोषस्तनितां चापविद्युद्ध्वजैर्वृताम्
।
द्रोणपाण्डवपर्जन्यां खड्गशक्तिगदाशनिम्॥३५॥
शरधारास्त्रपवनां भृशं शीतोष्णसंकुलाम्
।
घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लवाम्॥३६॥
तां प्राविशन्नतिभयां सेनां युद्धचिकीर्षवः
।
तस्मिन् रात्रिमुखे घोरे महाशब्दनिनादिते॥३७॥
भीरूणां त्रासजनने शूराणां हर्षवर्धने
।
रात्रियुद्धे महाघोरे वर्तमाने सुदारुणे॥३८॥
द्रोणमभ्यद्रवन् क्रुद्धाः सहिताः पाण्डुसृञ्जयाः
।
ये ये प्रमुखतो राजन्नावर्तन्त महारथाः॥३९॥
तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम्
।
तानि नागसहस्त्राणि रथानामयुतानि च॥४०॥
पदातिहयसङ्घानां प्रयुतान्यर्बुदानि च
।
द्रोणेनैकेन नाराचैर्निर्भिन्नानि निशामुखे॥४१॥
इति श्रीमहाभारते द्रोणपर्वणि धटोत्कचवधपर्वणि रात्रियुद्धे चतुःपञ्चाशदधिकशततमोऽध्यायः॥१५४॥
धृतराष्ट्र उवाच।
तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि
।
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा॥१॥
तस्मिन्निति ॥१॥
दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम
।
यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत॥२॥
निहते सैन्धवे वीरे भूरिश्रवसि चैव ह
।
यदाभ्यगान्महातेजाः पञ्चालानपराजितः॥३॥
किममन्यत दुर्धर्षे प्रविष्टे शत्रुतापने
।
दुर्योधनस्तु किं कृत्यं प्राप्तकालममन्यत॥४॥
के च तं वरदं वीरमन्वयुर्द्विजसत्तमम्
।
के चास्य पृष्ठतोऽगच्छन् वीराः शूरस्य युध्यतः॥५॥
के पुरस्ताद्वर्तन्त निघ्नन्तः शात्रवान् रणे
।
मन्येऽहं पाण्डवान् सर्वान् भारद्वाजशरार्दितान्॥६॥
शिशिरे कंपमाना वै कृशा गाव इव प्रभो
।
प्रविश्य स महेष्वासः पञ्चालानरिमर्दनः
।
कथं तु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान्॥७॥
गावः गाः ॥७॥
सर्वेषु योधेषु च सङ्गतेषु रात्रौ समेतेषु महारथेषु
।
संलोड्यमानेषु पृथग्बलेषु के वस्तदानीं मतिमन्त आसन्॥८॥
हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि
।
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान्॥९॥
तेषां संलोड्यमानानां पाण्डवैर्हतचेतसाम्
।
अन्धे तमसि मग्नानामभवत्का मतिस्तदा॥१०॥
प्रहृष्टांश्चाप्युदग्रांश्च संतुष्टांश्चैव पाण्डवान्
।
शंससीहाप्रहृष्टांश्च विभ्रष्टांश्चैव मामकान्॥११॥
कथमेषां तदा तत्र पार्थानामपलायिनाम्
।
प्रकाशमभवद्रात्रौ कथं कुरुषु सञ्जय॥१२॥
सञ्जय उवाच।
रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे
।
द्रोणमभ्यद्रवन्सर्वे पाण्डवाः सह सोमकैः॥१३॥
ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान्
।
संप्रैषयत्प्रेतलोकं सर्वानिषुभिराशुगैः॥१४॥
तस्य प्रमुखतो राजन् येऽवर्तन्त महारथाः
।
तान्सर्वान्प्रेषयामास पितृलोकं स भारत॥१५॥
प्रमथ्नन्तं तदा वीरान्भारद्वाजं महारथम्
।
अभ्यवर्तत संक्रुद्धः शिबी राजा प्रतापवान्॥१६॥
तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथम्
।
विव्याध दशभिर्बाणैः सर्वपारशवैः शितैः॥१७॥
तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः
।
सारथिं चास्य भल्लेन स्मयमानो न्यपातयत्॥१८॥
तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः
।
अथास्य सशिरस्त्राणं शिरः कायादपाहरत्॥१९॥
ततोऽस्य सारथिं क्षिप्रमन्यं दुर्योधनोऽदिशत्
।
स तेन संगृहीताश्वः पुनरभ्यद्रवद्रिपून्॥२०॥
कलिङ्गानामनीकेन कालिङ्गस्य सुतो रणे
।
पूर्वं पितृवधात्क्रुद्धो भीमसेनसुपाद्रवत्॥२१॥
स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः
।
विशोकं त्रिभिरानर्च्छत् ध्वजमेकेन पत्त्रिणा॥२२॥
कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः
।
रथाद्रथमभिद्रुत्य मुष्टिनाऽभिजघान ह॥२३॥
तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा
।
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक् पृथक्॥१४॥
तं कर्णो भ्रातरश्चास्य नामृष्यन्त परंतप
।
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः॥२५॥
ततः शत्रुरथं त्यक्ता भीमो ध्रुवरथं गतः
।
ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत्॥२६॥
स तथा पाण्डुपुत्रेण बलिनाऽभिहतोऽपतत्
।
तं निहत्य महाराज भीमसेनो महाबलः॥२७॥
जयरातरथं प्राप्य मुहुः सिंह इवानदत्
।
जयरातमथाक्षिप्य नदन्सव्येन पाणिना॥२८॥
तलेन नाशयामास कर्णस्यैवाग्रतः स्थितः
।
कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत्॥२९॥
ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः
।
कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः॥३०॥
तामापतन्तीं चिच्छेद शकुनिस्तैलपायिना
।
एतत्कृत्वा महत्कर्म रणेऽद्भुतपराक्रमः॥३१॥
पुनः स्वरथमास्थाय दुद्राव तव वाहिनीम्
।
तमायान्तं जिघांसन्तं भीमं क्रुद्धमिवान्तकम्॥३२॥
न्यवारयन्महाबाहुं तव पुत्रा विशांपते
।
महता शरवर्षेण च्छादयन्तो महारथाः॥३३॥
दुर्मदस्तु ततो भीमः प्रहसन्निव संयुगे
।
सारथिं च ह्ययांश्चैव शरैर्निन्ये यमक्षयम्॥३४॥
दुर्मदस्तु ततो यानं दुष्कर्णस्यावचक्रमे
।
तावेकरथमारूढौ भ्रातरौ परतापनौ॥३५॥
संग्रामशिरसो मध्ये भीमं द्वावप्यधावताम्
।
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम्॥३६॥
ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ
।
रथमेकं समारुह्य भीमं बाणैरविध्यताम्॥३७॥
ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च
।
कृपस्य सोमदत्तस्य बाल्हीकस्य च पाण्डवः॥३८॥
दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम्
।
पादप्रहारेण धरां प्रावेशयदरिन्दिमः॥३९॥
ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ
।
मुष्टिनाऽऽहत्य संक्रुद्धो ममर्द च ननर्द च॥४०॥
ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाऽब्रुवन्
।
रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु युध्यति॥४१॥
एवमुक्त्वा पलायन्ते सर्वे भारत पार्थिवाः
।
विसंज्ञा वाहयन्वाहान्न च द्वौ सह धावतः॥४२॥
ततो बले भृशलुलिते निशामुखे सुपूजितो नृपवृषभैर्वृकोदरः
।
महाबलः कमलविबुद्धलोचनो युधिष्ठिरं नृपतिमपूजयद्बली॥४३॥
कमलविबुद्धलोचनो विलसत्पद्मनेत्रः ॥४३॥
ततो यमौ द्रुपद-विराट-केकया युधिष्ठिरश्चापि परां मुदं ययुः
।
वृकोदरं भृशमनुपूजयंश्च ते यथाऽन्धके प्रतिनिहते हरं सुराः॥४४॥
ततः सुतास्ते वरुणात्मजोपमा रुषान्विताः सह गुरुणा महात्मना
।
वृकोदरं सरथपदातिकुञ्जरा युयुत्सवो भृशमभिपर्यवारयन्॥४५॥
गुरुणा द्रोणेन ॥४५॥
ततोऽभवत्तिमिरघनैरिवावृते महाभये भयदमतीव दारुणम्
।
निशामुखे वृकबलगृध्रमोदनं महात्मनां नृपवरयुद्धमद्भुतम्॥४६॥
तिमिराण्येव घनास्तैः ॥४६॥
इति श्रीमहाभारते द्रोणवधपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे भीमपराक्रमे पञ्चपञ्चाशदधिकशततमोऽध्यायः॥१५५॥
सञ्जय उवाच।
प्रायोपविष्टे तु हते पुत्रे सात्यकिना तदा
।
सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत्॥१॥
प्राय इति ॥१॥
क्षत्रधर्मः पुरा दृष्टो यस्तु देवैर्महात्मभिः
।
तं त्वं सात्वत सन्त्यज्य दस्युधर्मे कथं रतः॥२॥
पराङ्मुखाय दीनाय न्यस्तशस्त्रायं सात्यके
।
क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे॥३॥
द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ
।
प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत॥४॥
कथं प्रायोपविष्टाय पार्थेन छिन्नबाहवे
।
नृशंसं पतनीयं च तादृशं कृतवानसि॥५॥
पतनीयं पातहेतुः पापम् ॥५॥
कर्मणस्तस्य दुर्वृत्त फलं प्राप्नुहि संयुगे
।
अद्य च्छेत्स्यामि ते मूढ शिरो विक्रम्य पत्रिणा॥६॥
शपे सात्वतपुत्राभ्यामिष्टेन सुकृतेन च
।
अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम्॥७॥
अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम्
।
न हन्यान्नरके घोरे पतेयं वृष्णिपांसन॥८॥
एवमुक्त्वा सुसंक्रुद्धः सोमदत्तो महाबलः
।
दध्मौ शङ्खं च तारेण सिंहनादं ननाद च॥९॥
तारेणोच्चस्वरेण ॥९॥
ततः कमलपत्राक्षः सिंहदंष्ट्रो दुरासदः
।
सात्यकिर्भृशसंक्रुद्धः सोमदत्तमथाब्रवीत्॥१०॥
कौरवेय न मे त्रासः कथंचिदपि विद्यते
।
त्वया सार्धमथान्यैश्च युध्यतो हृदि कश्चन॥११॥
यदि सर्वेण सैन्येन गुप्तो मां योधयिष्यसि
।
तथापि न व्यथा काचित्त्वयि स्यान्मम कौरव॥१२॥
युद्धसारेण वाक्येन असतां संमतेन च
।
नाहं भीषयितुं शक्यः क्षत्रवृत्ते स्थितस्त्वया॥१३॥
यदि तेऽस्ति युयुत्साऽद्य मया सह नराधिप
।
निर्दयो निशितैर्बाणैः प्रहर प्रहरामि ते॥१४॥
हतो भूरिश्रवा वीरस्तव पुत्रो महारथः
।
शलश्चैव महाराज भ्रातृव्यसनकर्षितः॥१५॥
त्वां चाप्यद्य वधिष्यामि सहपुत्रं सबान्धवम्
।
तिष्ठेदानीं रणे यत्तः कौरवोऽसि महारथः॥१६॥
यस्मिन्दानं दमः शौचमहिंसा ह्रीर्धृतिः क्षमा
।
अनपायानि सर्वाणि नित्यं राज्ञियुधिष्ठिरे॥१७॥
दानम् - स्वद्रव्यस्य परस्वत्वापादनम् । दमो - मनसो यथेष्टं विनियोगयोग्यता । शौचम् - सङ्करवर्जनम् । अहिंसा - सर्वभूतानामनभिद्रोहः । ह्रीः -अकर्तव्यान्निवर्तको धर्मः । क्षमा - अपकारिण्यकोपः ॥१७॥
मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा
।
सकर्णसौबलः संख्ये विनाशसुपयास्यसि॥१८॥
शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह
।
यदि त्वां ससुतं पापं न हन्यां युधि रोषितः॥१९॥
कृष्णचरणैः कृष्णयोश्चरणैः ॥१९॥
अपयास्यसि चेत्युक्त्वा रणं मुक्तो भविष्यसि
।
एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ॥२०॥
प्रवृत्तौ शरसंपातं कर्तुं पुरुषसत्तमौ
।
ततो रथसहस्त्रेण नागानामयुतेन च॥२१॥
दुर्योधनः सोमदत्तं परिवार्य समन्ततः
।
शकुनिश्च सुसंक्रुद्धः सर्वशस्त्रभृतां वरः॥२२॥
पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः
।
स्यालस्तव महाबाहुर्वज्रसंहननो युवा॥२३॥
साग्रं शतसहस्रं तु हयानां तस्य धीमतः
।
सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत॥२४॥
रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम्
।
तं छाद्यमानं विशिखैर्दृष्ट्वा सन्नतपर्वभिः॥२५॥
धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम्
।
चण्डवाताभिसृष्टानामुदधीनामिव स्वनः॥२६॥
आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम्
।
विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः॥२७॥
सात्यकिर्नवभिश्चैनमवधीत्कुरुपुङ्गवम्
।
सोऽतिविद्धो बलवता समरे दृढधन्विना॥२८॥
रथोपस्थं समासाद्य मुमोह गतचेतनः
।
तं विमूढं समालक्ष्य सारथिस्त्वरया युतः॥२९॥
अपोवाह रणाद्वीरं सोमदत्तं महारथम्
।
तं विसंज्ञं समालक्ष्य युयुधानशरार्दितम्॥३०॥
अभ्यद्रवत्ततो द्रोणो यदुवीरजिघांसया
।
तमायान्तमभिप्रेक्ष्य युधिष्ठिरपुरोगमाः॥३१॥
परिवव्रुर्महात्मानं परीप्सन्तो यदूत्तमम्
।
ततः प्रववृते युद्धं द्रोणस्य सह पाण्डवैः॥३२॥
शारद्वती कृपी । खचरान्वाणान् । खचरं राक्षसम् ॥३२॥
बलेरिव सुरैः पूर्वं त्रैलोक्यजयकाङ्क्षया
।
ततः सायकजालेन पाण्डवानीकमावृणोत्॥३३॥
भारद्वाजो महातेजा विव्याध च युधिष्ठिरम्
।
सात्यकिं दशभिर्बाणैर्विंशत्या पार्षतं शरैः॥३४॥
भीमसेनं च नवभिर्नकुलं पञ्चभिस्तथा
।
सहदेवं तथाऽष्टाभिः शतेन च शिखण्डिनम्॥३५॥
द्रौपदेयान्महाबाहुः पञ्चभिः पञ्चभिः शरैः
।
विराटं मत्स्यमष्टाभिर्द्रुपदं दशभिः शरैः॥३६॥
युधामन्युं त्रिभिः षड्भिरुत्तमौजसमाहवे
।
अन्यांश्च सैनिकान्विद्ध्वा युधिष्ठिरमुपाद्रवत्॥३७॥
ते वध्यमाना द्रोणेन पाण्डुपुत्रस्य सैनिकाः
।
प्राद्रवन्वै भयाद्राजन् सार्तनादा दिशो दश॥३८॥
काल्यमानं तु तत्सैन्यं दृष्ट्वा द्रोणेन फाल्गुनः
।
किञ्चिदागतसंरंभो गुरुं पार्थोऽभ्ययाद्द्रुतम्॥३९॥
दृष्ट्वा द्रोणस्तु बीभत्सुमभिधावन्तमाहवे
।
संन्यवर्तत तत्सैन्यं पुनर्यौधिष्ठिरं बलम्॥४०॥
ततो युद्धमभूद्भूयो भारद्वाजस्य पाण्डवैः
।
द्रोणस्तव सुतै राजन्सर्वतः परिवारितः॥४१॥
व्यधमत्पाण्डुसैन्यानि तूलराशिमिवानलः
।
तं ज्वलन्तमिवादित्यं दीप्तानलसमद्युतिम्॥४२॥
राजन्ननिशमत्यन्तं दृष्ट्वा द्रोणं शरार्चिषम्
।
मण्डलीकृतधन्वानं तपन्तमिव भास्करम्॥४३॥
दहन्तमहितान्सैन्ये नैनं कश्चिदवारयत्
।
यो यो हि प्रमुखे तस्य तस्थौ द्रोणस्य पूरुषः॥४७॥
तस्य तस्य शिरश्छित्त्वा ययुर्दोणशराः क्षितिम्
।
एवं सा पाण्डवी सेना वध्यमाना महात्मना॥४८॥
प्रदुद्राव पुनर्भीता पश्यतः सव्यसाचिनः
।
संप्रभग्नं चलं दृष्ट्वा द्रोणेन निशि भारत॥४९॥
गोविन्दमब्रवीज्जिष्णुर्गच्छ द्रोणरथं प्रति
।
ततो रजत-रजत-गोक्षीर-कुन्देन्दुसदृशप्रभान्॥५०॥
चोदयामास दाशार्हो हयान्द्रोणरथं प्रति
।
भीमसेनोऽपि तं दृष्ट्वा यान्तं द्रोणाय फाल्गुनम्॥५१॥
स्वसारथिमुवाचेदं द्रोणानीकाय मां वह
।
सोऽपि तस्य वचः श्रुत्वा विशोको वाहयद्धयान्॥५२॥
पृष्ठतः सत्यसन्धस्य जिष्णोर्भरतसत्तम
।
तौ दृष्ट्वा भ्रातरौ यत्तौ द्रोणानीकमभिद्रुतौ ॥५३॥
पञ्चालाः सृञ्जया मत्स्याश्चेदिकारूषकोसलाः
।
अन्वगच्छन्महाराज केकयाश्च महारथाः॥५४॥
ततो राजन्नभूद्घोरः संग्रामो लोमहर्षणः
।
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं च वृकोदरः॥५२॥
महद्भ्यां रथवृन्दाभ्यां बलं जगृहतुस्तव
।
तौ दृष्ट्वा पुरुषव्याघ्रौ भीमसेनधनञ्जयौ॥५३॥
धृष्टद्युम्नोऽभ्ययाद्राजन् सात्यकिश्च महाबलः
।
चण्डवाताभिपन्नानामुदधीनामिव स्वनः॥५४॥
आसीद्राजन्बलौघानां तदाऽन्योन्यमभिघ्नताम्
।
सौमदत्तिवधात्क्रुद्धो दृष्ट्वा सात्यकिमाहवे॥५५॥
द्रौणिरभ्यद्रवद्राजन्वधाय कृतनिश्चयः
।
तमापतन्तं संप्रेक्ष्य शैनेयस्य रथं प्रति॥५६॥
भैमसेनिः सुसंक्रुद्धः प्रत्यभित्रमवारयत्
।
कार्ष्णायसं महाघोरमृक्षचर्मपरिच्छदम्॥५७॥
कार्ष्णायसं तीक्ष्णलोहमयम् ॥५७॥
महान्तं रथमास्थाय त्रिंशन्नल्वांतरान्तरम्
।
विक्षिप्तयन्त्रसन्नाहं महामेघौघनिःस्वनम्॥५८॥
युक्तं गजनिभैर्वाहैर्न हयैर्नापि वारणैः
।
विक्षिप्तपक्षचरणविवृताक्षेण कूजता॥५९॥
न हयैर्नापि वारणैर्गजैः किं तु पिशाचैः ॥५९॥
ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजितम्
।
लोहितार्द्रपताकं तु अन्त्रमालाविभूषितम्॥६०॥
अष्टचक्रसमायुक्तमास्थाय विपुलं रथम्
।
शूलमुद्गरधारिण्या शैलपादपहस्तया॥६१॥
रक्षसां घोररूपाणामक्षौहिण्या समावृतः
।
तमुद्यतमहाचापं निशम्य व्यथिता नृपाः॥६२॥
युगान्तकालसमये दण्डहस्तमिवान्तकम्
।
ततस्तं गिरिशृङ्गाभं भीमरूपं भयावहम्॥६३॥
दंष्ट्राकरालोग्रमुखं शंकुकर्णं महाहनुम्
।
ऊर्ध्वकेशं विरूपाक्षं दीप्तास्यं निम्नितोदरम्॥६४॥
महाश्वभ्रगलद्वारं किरीटच्छन्नमूर्धजम्
।
त्रासनं सर्वभूतानां व्यात्ताननमिवान्तकम्॥६५॥
वीक्ष्य दीप्तमिवायान्तं रिपुविक्षोभकारिणम्
।
तमुद्यतमहाचापं राक्षसेन्द्रं घटोत्कचम्॥६६॥
भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी
।
वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी॥६७॥
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः
।
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम्॥६८॥
ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः
।
सन्ध्याकालाधिकबलैः प्रयुक्ता राक्षसैः क्षितौ॥६९॥
आयसानि च चक्राणि भुशुण्ड्यः प्रास-तोमराः
।
पतन्त्यविरताः शूलाः शतघ्न्यः पट्टिशास्तथा॥७०॥
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः
।
तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः॥७१॥
तत्रैकोऽस्त्रवलश्लाघी द्रौणिर्मानी न विव्यथे
।
व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम्॥७२॥
विहतायां तु मायायाममर्षी स घटोत्कचः
।
विससर्ज शरान्घोरांस्तेश्वत्थामानमाविशन्॥७३॥
भुजङ्गा इव वेगेन वल्मीकं क्रोधमूर्च्छिताः
।
ते शरा रुधिराक्ताङ्गा भित्त्वा शारद्वतीसुतम्॥७४॥
विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः
।
अश्वत्थामा तु संक्रुद्धो लघुहस्तः प्रतापवान्॥७५॥
घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः
।
घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु॥७६॥
चक्रं शतसहस्त्रारमगृह्णाद्व्यथितो भृशम्
।
क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम्॥७७॥
अश्वत्थाम्नि स चिक्षेप भैमसेनिर्जिघांसया
।
वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः॥७८॥
अभाग्यस्येव संकल्पस्तन्मोघमपतद्भुवि
।
घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम्॥७९॥
द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम्
।
घटोत्कचसुतः श्रीमान् भिन्नाञ्जनचयोपमः॥८०॥
रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट्
।
पौत्रेण भीमसेनस्य शरैरञ्जनपर्वणा॥८१॥
बभौ मेघेन धाराभिर्गिरिर्मेरुरिवावृतः
।
अश्वत्थामा त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः॥८२॥
ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः
।
द्वाभ्यां तु रथयन्तारौ त्रिभिश्चास्य त्रिवेणुकम्॥८३॥
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान्
।
विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम्॥८४॥
विशिखेन सुतीक्ष्णेन खड्गमस्य द्विधाऽकरोत्
।
गदां हेमाङ्गदां राजंस्तूर्णं हैडिम्बिसूनुना॥८५॥
भ्राम्योत्क्षिप्ता शरैः साऽपि द्रौणिनाभ्याहताऽपतत्
।
ततोऽन्तरिक्षमुत्प्लुत्य कालमेघ इवोन्नदन्॥८६॥
ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात्
।
ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि॥८७॥
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः
।
सोऽवतीर्य पुरस्तस्थौ रथे हेमविभूषिते॥८८॥
महीगत इवात्युग्रः श्रीमानञ्जनपर्वतः
।
तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम्॥८९॥
जघानाञ्जनपर्वाणं महेश्वर इवान्धकम्
।
अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम्॥९०॥
द्रौणेः सकाशमभ्येत्य रोषात्प्रज्वलिताङ्गदः
।
प्राह वाक्यमसंभ्रान्तो वीरं शारद्वतीसुतम्॥९१॥
दहन्तं पाण्डवानीकं वनमग्निमिवोच्छ्रितम्
।
घटोत्कच उवाच।
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि॥९२॥
त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा
।
अश्वत्थामोवाच
।
गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम॥९३॥
गच्छ वत्सेति पुत्रेणेति च भीमसेनसम्बन्धात् ॥९३॥
न हि पुत्रेण हैडिम्बे पिता न्याय्यः प्रबाधितुम्
।
कामं खलु न रोषो मे हैडिम्बे विद्यते त्वयि॥९४॥
किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत
।
सञ्जय उवाच।
श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः॥९५॥
आत्मानमपि हन्यात्किमु पुत्रमतो जीवनार्थी त्वं निवर्तस्वेति भावः ॥९५॥
अश्वत्थामानमायस्तो भैमसेनिरभाषत
।
किमहं कातरो द्रौणे पृथग्जन इवाहवे॥९६॥
आयस्तो कोपितः ॥९६॥
यन्मां भीषयसे वाग्भिरसदेतद्वचस्तव
।
भीमात्खलु समुत्पन्नः कुरूणां विपुले कुले॥९७॥
पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम्
।
रक्षसामधिराजोऽहं दशग्रीवसमो बले॥९८॥
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि
।
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे॥९९॥
इत्युक्त्वा क्रोधताम्राक्षो राक्षसः सुमहाबलः
।
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी॥१००॥
रथाक्षमात्रैरिषुभिरभ्यवर्षद्धटोत्कचः
।
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः॥१०१॥
शरवृश्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत्
।
ततोन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत्॥१०२॥
अथास्त्रसंमर्दकृतैर्विस्फुलिङ्गैस्तदा बभौ
।
विभावरीमुखे व्योम खद्योतैरिव चित्रितम्॥१०३॥
निशाम्य निहतां मायां द्रौणिना रणमानिना
।
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः॥१०४॥
सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः
।
शूलप्रासासिमुसलजलप्रस्स्रवणो महान्॥१०५॥
तमञ्जनगिरिप्रख्यं द्रौणिर्दृष्ट्वा महीधरम्
।
प्रपतद्भिश्च बहुभिः शस्त्रसङ्घैर्न विव्यथे॥१०६॥
ततो हसन्निव द्रौणिर्वज्रमस्त्रमुदैरयत्
।
स तेनास्त्रेण शैलेन्द्रः क्षिप्तः क्षिप्रं व्यनश्यत॥१०७॥
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि
।
अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे॥१०८॥
अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः
।
व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम्॥१०९॥
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वशः
।
शतं रथसहस्त्राणां जघान द्विपदां वरः॥११०॥
स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम्
।
घटोत्कचमसंभ्रान्तं राक्षसैर्बहुभिर्वृतम्॥१११॥
सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः
।
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि॥११२॥
विकृतास्यशिरोग्रीवैर्हिडिम्बानुचरैः सह
।
पौलस्त्यैर्यातुधानैश्च तामसैश्चेन्द्रविक्रमैः॥११३॥
नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः
।
महाबलैर्भीमरवैः संरंभोद्वृत्तलोचनैः॥११४॥
उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः
।
विषण्णमभिसंप्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत्॥११५॥
तिष्ठ दुर्योधनाद्य त्वं न कार्यः संभ्रमस्त्वया
।
सहैभिर्भातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः॥११६॥
निहनिष्याम्यमित्रांस्ते न तवास्ति पराजयः
।
सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम्॥११७॥
दुर्योधन उवाच।
न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः
।
अस्मासु च परा भक्तिस्तव गौतमिनन्दन॥११८॥
सञ्जय उवाच।
अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत्
।
वृतं रथसहस्रेण हयानां रणशोभिनाम्॥११९॥
षष्ठ्या रथसहस्त्रैश्च प्रयाहि त्वं धनञ्जयम्
।
कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च॥१२०॥
उदीच्याः कृतवर्मा च पुरुमित्रः सुतापनः
।
दुःशासनो निकुंभश्च कुण्डभेदी पराक्रमः॥१२१॥
पुरञ्जयो दृढरथः पताकी हेमकम्पनः
।
शल्यारुणींद्रसेनाश्च सञ्जयो विजयो जयः॥१२२॥
कमलाक्षः परक्राथी जयवर्मा सुदर्शनः
।
एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट्॥१२३॥
जहि भीमं यमौ चोभौ धर्मराजं च मातुल
।
असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता॥१२४॥
दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान्
।
जहि मातुल कौन्तेयानसुरानिव पावकिः॥१२५॥
एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः
।
पिप्रीषुस्ते सुतान् राजन्दिधक्षुश्चैव पाण्डवान्॥१२६॥
अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे
।
विभावर्यां सुतुमुलं शक्रप्रह्लाददयोरिव॥१२७॥
ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम्
।
जघानोरसि संक्रुद्धो विषाग्निप्रतिमैर्दृढैः॥१२८॥
स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः
।
चचाल रथमध्यस्थो वातोद्भूत इव द्रुमः॥१२९॥
भूयश्चाञ्जलिकेनाथ मार्गणेन महाप्रभम्
।
द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः॥१३०॥
ततोऽन्यद्द्रौणिरादाय धनुर्भारसहं महत्
।
ववर्ष विशिखांस्तीक्ष्णान् वारिधारा इवांबुदः॥१३१॥
ततः शारद्वतीपुत्रः प्रेषयामास भारत
।
सुवर्णपुंखाञ्छत्रुघ्नान् खचरान् खचरं प्रति॥१३२॥
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम्
।
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम्॥१३३॥
विधम्य राक्षसान्बाणैः साश्वसूतरथद्विपान्
।
ददाह भगवान्वह्निर्भूतानीव युगक्षये॥१३४॥
स दग्ध्वाऽक्षौहिणीं बाणैर्नैर्ऋतीं रुरुचे नृप
।
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः॥१३५॥
युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः
।
रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान्॥१३६॥
वसुरुल्बणः अग्निः प्रलयकालिकः ॥१३६॥
ततो घटोत्कचः क्रुद्धो रक्षसां भीमकर्मणाम्
।
द्रौणिं हतेति महतीं चोदयामास तां चमूम्॥१३७॥
घटोत्कचस्य तामाज्ञां प्रतिगृह्याथ राक्षसाः
।
दंष्ट्रोज्ज्वला महावक्त्रा घोररूपा भयानकाः॥१३८॥
व्यात्तानना घोरजिह्वाः क्रोधताम्रेक्षणा भृशम्
।
सिंहनादेन महता नादयन्तो वसुन्धराम्॥१३९॥
हन्तुमभ्यद्रवन्द्रौणिं नानाप्रहरणायुधाः
।
शक्तीः शतघ्नीः परिधानशनीः शूलपट्टिशान्॥१४०॥
खड्गान् गदाभिन्दिपालान् मुसलानि परश्वधान्
।
प्रासानसींस्तोमरांश्च कणपान्कम्पनाञ्छितान्॥१४१॥
स्थूलान् भुशुण्ड्यश्मगदास्थूणान् कार्ष्णायसांस्तथा
।
मुद्गरांश्च महाघोरान् समरे शत्रुदारणान्॥१४२॥
द्रौणिमूर्धन्यसंत्रस्ता राक्षसा भीमविक्रमाः
।
चिक्षिपुः क्रोधताम्राक्षाः शतशोथ सहस्रशः॥१४३॥
तच्छस्त्रवर्षं सुमहद्द्रोणपुत्रस्य मूर्धनि
।
पतमानं समीक्ष्याथ योधास्ते व्यथिताऽभवन्॥१४४॥
द्रोणपुत्रस्तु विक्रान्तस्तद्वर्षं घोरमुच्छ्रितम्
।
शरैर्विध्वंसयामास वज्रकल्पैः शिलाशितैः॥१४५॥
ततोऽन्यौर्विशिखैस्तूर्णं स्वर्णपुंखैर्महामनाः
।
निजघ्ने राक्षसान्द्रौणिर्दिव्यास्त्रप्रतिमन्त्रितैः॥१४६॥
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम्
।
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम्॥१४७॥
ते राक्षसाः सुसंक्रुद्धा द्रोणपुत्रेण ताडिताः
।
क्रुद्धाः स्म प्राद्रवन्द्रौणिं जिघांसन्तो महाबलाः॥१४८॥
तत्राद्भुतमिमं द्रौणिर्दर्शयामास विक्रमम्
।
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत॥१४९॥
यदेको राक्षसीं सेनां क्षणाद्द्रौणिर्महास्त्रवित्
।
ददाह ज्वलितैर्बाणै राक्षसेन्द्रस्य पश्यतः॥१५०॥
स हत्वा राक्षसानीकं रराज द्रौणिराहवे
।
युगान्ते सर्वभूतानि संवर्तक इवानलः॥१५१॥
तं दहन्तमनीकानि शरैराशीविषोपमैः
।
तेषु राजसहस्त्रेषु पाण्डवेयेषु भारत॥१५२॥
नैनं निरीक्षितुं कश्चिदशक्नोद्द्रौणिमाहवे
।
ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात्॥१५३॥
स पुनर्भरतश्रेष्ठ क्रोधादुद्भ्रान्तलोचनः
।
तलं तलेन संहत्य संदश्य दशनच्छदम्॥१५४॥
स्वं सूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह
।
स ययौ घोररूपेण सुपताकेन भास्वता॥१५५॥
द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः
।
स विनद्य महानादं सिंहवद्भीमविक्रमः॥१५६॥
चिक्षेपाविध्य संग्रामे द्रोणपुत्राय राक्षसः
।
अष्टघण्टां महाघोरामशनिं देवनिर्मिताम्॥१५७॥
तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः
।
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे॥१५८॥
साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा
।
विवेश वसुधां भित्त्वा साऽशनिर्भृशदारुणा॥१५९॥
द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन्
।
यदवप्लुत्य जग्राह घोरां शङ्करनिर्मिताम्॥१६०॥
धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप
।
धनुर्घोरं समादाय महदिन्द्रायुधोपमम्
।
मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि॥१६१॥
धृष्टद्युम्नस्त्वसंभ्रान्तो मुमोचाशीविषोपमान्
।
सुवर्णपुंखान्विशिखान्द्रोणपुत्रस्य वक्षसि॥१६२॥
ततो मुमोच नाराचान्द्रौणिस्तांश्च सहस्रशः
।
तावप्यग्निशिखप्रख्यैर्जघ्नतुस्तस्य मार्गणान्॥१६३॥
अतितीव्रं महद्युद्धं तयोः पुरुषसिंहयोः
।
योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ॥१६४॥
ततो रथसहस्त्रेण द्विरदानां शतैस्त्रिभिः
।
षड्भिर्वाजिसहस्त्रैश्च भीमस्तं देशमागमत्॥१६५॥
ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम्
।
अयोधयत धर्मात्मा द्रौणिरक्लिष्टविक्रमः॥१६६॥
तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम्
।
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत॥१६७॥
निमेषान्तरमात्रेण साश्वसूतरथद्विपाम्
।
अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत्॥१६८॥
मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च
।
यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च॥१६९॥
प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः
।
निपेतुर्द्विरदा भूमौ सशृङ्गा इव पर्वताः॥१७०॥
निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः
।
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः॥१७१॥
क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ
।
द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये॥१७२॥
प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम्
।
छत्रहंसावलीजुष्टां फेनचामरमालिनीम्॥१७३॥
कङ्कगृध्रमहाग्राहां नैकायुधझषाकुलाम्
।
विस्तीर्णगजपाषाणां हताश्वमकराकुलाम्॥१७४॥
रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम्
।
शरमीनां महारौद्रां प्रासशक्त्यृष्टिडुण्डुभाम्॥१७५॥
मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम्
।
केशशैवलकल्माषां भीरूणां कश्मलावहाम्॥१७६॥
नागेन्द्रहययोधानां शरीरव्ययसंभवाम्
।
शोणितौघमहाघोरां द्रौणिः प्रावर्तयन्नदीम्॥१७७॥
योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम्
।
श्वापदातिमहाघोरां यमराष्ट्रमहोदधिम्॥१७८॥
निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बिमार्दयत्
।
पुनरप्यतिसंक्रुद्धः सवृकोदरपार्षतान्॥१७९॥
स नाराचगणैः पार्थान्द्रौणिर्विद्ध्वा महाबलः
।
जघान सुरथं नाम द्रुपदस्य सुतं विभुः॥१८०॥
पुनः शत्रुञ्जयं नाम द्रुपदस्यात्मजं रणे
।
बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान्॥१८१॥
श्रुताह्वयं च राजानं द्रौणिर्निन्ये यमक्षयम्
।
त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खैर्हेममालिनम्॥१८२॥
जघान स पृषध्रं च चन्द्रसेनं च मारिष
।
कुन्तिभोजसुतांश्चासौ दशभिर्दश जघ्निवान्॥१८३॥
अश्वत्थामा सुसंक्रुद्धः सन्धायोग्रमजिह्मगम्
।
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम्॥१८४॥
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम्
।
स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः॥१८५॥
विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते
।
तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः॥१८६॥
द्रौणेः सकाशाद्राजेन्द्र व्यपनिन्ये रथोत्तमम्
।
ततः पराङ्मुखनृपं सैन्यं यौधिष्ठिरं नृप॥१८७॥
पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह
।
पूजितः सर्वभूतेषु तव पुत्रैश्च भारत॥१८८॥
अथ शरशतभिन्नकृत्तदेहैर्हतपतितैः क्षणदाचरैः समन्तात्
।
निधनमुपगतैर्मही कृताऽभूद्गिरिशिखरैरिव दुर्गमाऽतिरौद्रा॥१८९॥
तं सिद्धगन्धर्वपिशाचसंघा नागाः सुपर्णाः पितरो वयांसि
।
रक्षोगणा भूतगणाश्च द्रौणिमपूजयन्नप्सरसः सुराश्च॥१९०॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे षट्पञ्चाशदधिकशततमोऽध्यायः॥१५६॥
सञ्जय उवाच।
द्रुपदस्यात्मजान् दृष्ट्वा कुन्तिभोजसुतांस्तथा
।
द्रोणपुत्रेण निहतान् राक्षसांश्च सहस्रशः॥१॥
द्रुपदस्येति ॥१॥
युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः
।
युयुधानश्च संयत्ता युद्धायैव मनो दधुः॥२॥
सोमदत्तः पुनः क्रुद्धो दृष्ट्वा सात्यकिमाहवे
।
महता शरवर्षेण च्छादयामास भारत॥३॥
ततः समभवद्युद्धमतीव भयवर्धनम्
।
त्वदीयानां परेषां च घोरं विजयकांक्षिणाम्॥४॥
तं दृष्ट्वा समुपायान्तं रुक्मपुङ्खैः शिलाशितैः
।
दशभिःसात्वतस्यार्थे भीमो विव्याध सायकैः॥५॥
सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत
।
सात्वतस्त्वभिसंक्रुद्धः पुत्राधिभिरभिप्लुतम्॥६॥
वृद्धं वृद्धगुणैर्युक्तं ययातिमिव नाहुषम्
।
विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातनैः॥७॥
शक्त्या चैन विनिर्भिद्य पुनर्विव्याध सप्तभिः
।
ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम्॥८॥
मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि
।
सात्त्वतोऽप्यग्निसंकाशं मुमोच शरमुत्तमम्॥९॥
सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि
।
युगपत्पेततुर्वीरे घोरौ परिघमार्गणौ॥१०॥
शरीरे सोमदत्तस्य स पपात महारथः
।
व्यामोहिते तु तनये बाल्हीकस्तमुपाद्रवत्॥११॥
विसृजञ्छरवर्षाणि कालवर्षीव तोयदः
।
भीमोऽथ सात्वतस्यार्थे बाल्हीकं नवभिःशरैः॥१२॥
प्रपीडयन्महात्मानं विव्याध रणमूर्धनि
।
प्रातिपेयस्तु संक्रुद्धः शक्तिं भीमस्य वक्षसि॥१३॥
निचखान महाबाहुः पुरन्दर इवाशनिम्
।
स तथाऽभिहतो भीमश्चकंपे च मुमोह च॥१४॥
प्राप्य चेतश्च बलवान् गदामस्मै ससर्ज ह
।
सा पांडवेन प्रहिता बाल्हीकस्य शिरोऽहरत्॥१५॥
स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट्
।
तस्मिन्विनिहते वीरे बाल्हीके पुरुषर्षभ॥१६॥
पुत्रास्तेऽभ्यर्दयन् भीमं दश दाशरथेः समाः
।
नागदत्तो दृढरथो महाबाहुरयोभुजः॥१७॥
दृढः सुहस्तो विरजाः प्रमाथ्युग्रोऽनुयाय्यपि
।
तान्दृष्ट्वा चुक्रुधे भीमो जगृहे भारसाधनान्॥१८॥
एकमेकं समुद्दिश्य पातयामास मर्मसु
।
ते विद्धा व्यसवः पेतुः स्यन्दनेभ्यो हतौजसः॥१९॥
चण्डवातप्रभग्नास्तु पर्वताग्रान्महीरुहाः
।
नाराचैदर्शभिर्भीमस्तां निहत्य तवात्मजान्॥२०॥
कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत्
।
ततो वृकरथो नाम भ्राता कर्णस्य विश्रुतः॥२१॥
जघान भीमं नाराचैस्तमप्यभ्यद्रवद्बली
।
ततः सप्त रथान्वीरः स्यालानां तव भारत॥२२॥
निहत्य भीमो नाराचैः शतचन्द्रमपोथयत्
।
अमर्षयन्तो निहतं शतचन्द्रं महारथम्॥२३॥
शकुनेर्भ्रातरो वीरा गवाक्षः शरभो विभुः
।
सुभगो भानुदत्तश्च शूराः पञ्च महारथाः॥२४॥
अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन्
।
स ताड्यमानो नाराचैर्वृष्टिवेगैरिवाचलः॥२५॥
जघान पञ्चभिर्बाणैः पञ्चैवातिरथान्बली
।
तान् दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः॥२६॥
ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत्
।
मिषतः कुंभयोनेस्तु पुत्राणां तव चानघ॥२७॥
अम्बष्ठान्मालवाञ्छूरांस्त्रिगर्तान्स शिबीनपि
।
प्राहिणोन्मृत्युलोकाय क्रुद्धो युद्धे युधिष्ठिरः॥२८॥
अभीषाहाञ्छूरसेनान् बाह्लीकान् सवसातिकान्
।
निकृत्य पृथिवीं राजा चक्रे शोणितकर्दमाम्॥२९॥
यौधेयान्मालवान् राजन्मद्रकाणां गणा युधि
।
प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः॥३०॥
हताहरत गृह्णीत विध्यत व्यवकृन्तत
।
इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति॥३१॥
सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम्
।
चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत्॥३२॥
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम्
।
विव्याध सोऽपि तद्दिव्यमस्त्रमस्त्रेण जघ्निवान्॥३३॥
तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे
।
वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च॥३४॥
चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम्
।
क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः॥३५॥
जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन्
।
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसंभवः॥३६॥
प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत
।
जिघांसुर्धर्मतनयं तव पुत्रहिते रतः॥३७॥
पतिः कुरूणां गजसिंहगामी विशालवक्षाः पृथुलोहिताक्षः
।
प्रादुश्चकारास्त्रमहीनतेजा माहेन्द्रमन्यत्स जघान तेन॥३८॥
पतिः कुरूणां युधिष्ठिरः ॥३८॥
विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः
।
युधिष्ठिरवधं प्रेप्सुर्ब्राह्ममस्त्रमुदैरयत्॥३९॥
ततो नाज्ञासिषं किञ्चिद्घोरेण तमसाऽऽवृते
।
सर्वभूतानि च परं त्रासं जग्मुर्महीपते॥४०॥
ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः
।
ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत्॥४१॥
ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ
।
द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ॥४२॥
ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम्
।
व्यधमत्क्रोधताम्राक्षो वायव्यास्त्रेण भारत॥४३॥
ते हन्यमाना द्रोणेन पञ्चालाः प्राद्रवन्भयात्
।
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः॥४४॥
ततः किरीटी भीमश्च सहसा संन्यवर्तताम्
।
महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तदा॥४५॥
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं च वृकोद्ररः
।
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम्॥४६॥
केकयाः सृञ्जयाश्चैव पञ्चालाश्च महौजसः
।
अन्वगच्छन्महाराज मत्स्याश्च सह सात्वतैः॥४७॥
ततः सा भारती सेना वध्यमाना किरीटिना
।
तमसा निद्रया चैव पुनरेव व्यदीर्यत॥४८॥
द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च
।
नाशक्यन्त महाराज योधा वारयितुं तदा॥४९॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे द्रोणयुधिष्ठिरयुद्धे सप्तपञ्चाशदधिकशततमोऽध्यायः॥१५७॥
सञ्जय उवाच।
उदीर्यमाणं तदृष्ट्वा पाण्डवानां महद्बलम्
।
अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत्॥१॥
उदीर्यमाणं तद्दृष्ट्वेति तथा परुषितं दृष्ट्वेति च स्पष्टार्थावध्यायौ ॥१॥
अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल
।
त्रायस्व समरे कर्ण सर्वान्योधान्महारथान्॥२॥
पञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः
।
वृतान्समन्तात्संक्रुद्धैर्निःश्वसद्भिरिवोरगैः॥३॥
एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः
।
शक्रोपमाश्च बहवः पञ्चालानां रथव्रजाः॥४॥
कर्ण उवाच।
परित्रातुमिह प्राप्तो यदि पार्थं पुरन्दरः
।
तमप्याशु पराजित्य ततो हन्तास्मि पाण्डवम्॥५॥
सत्यं ते प्रतिजानामि समाश्वसिहि भारत
।
हन्तास्मि पाण्डुतनयान् पञ्चालांश्च समागतान्॥६॥
जयं ते प्रतिदास्यामि वासवस्येव पावकिः
।
प्रियं तव मया कार्यमिति जीवामि पार्थिव॥७॥
सर्वेषामेव पार्थानां फाल्गुनो बलवत्तरः
।
तस्यामोघां विमोक्ष्यामि शक्तिं शक्रविनिर्मिताम्॥८॥
तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद
।
तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः॥९॥
मयि जीवति कौरव्य विषादं मा कृथाः क्वचित्
।
अहं जेष्यामि समरे सहितान्सर्वपाण्डवान्॥१०॥
पंचालान्केकयांश्चैव वृष्णींश्चापि समागतान्
।
बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम्॥११॥
सञ्जय उवाच।
एवं ब्रुवाणं कर्णं तु कृपः शारद्वतोऽब्रवीत्
।
स्मयान्निव महाबाहुः सूतपुत्रमिदं वचः॥१२॥
शोभनं शोभनं कर्ण सनाथः कुरुपुङ्गवः
।
त्वया नाथेन राधेय वचसा यदि सिध्यति॥१३॥
बहुशः कत्थसे कर्ण कौरवस्य समीपतः
।
न तु ते विक्रमः कश्चिद्दृश्यते फलमेव वा॥१४॥
समागमः पाण्डुसुतैर्दृष्टस्ते बहुशो युधि
।
सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन॥१५॥
ह्रियमाणे तदा कर्ण गन्धर्वैधृतराष्ट्रजे
।
तदाऽयुध्यन्त सैन्यानि त्वमेकोऽग्रेऽपलायिथाः॥१६॥
विराटनगरे चापि समेताः सर्वकौरवाः
।
विराटनगरे चापि समेताः सर्वकौरवाः॥१७॥
पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः
।
एकस्याप्यसमर्थस्त्वं फाल्गुनस्य रणाजिरे॥१८॥
कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान्
।
अब्रुवन्कर्ण युध्यस्व कत्थसे बहुसूतज॥१९॥
अनुक्त्वा विक्रमेद्यस्तु तद्वै सत्पुरुषव्रतम्
।
गर्जित्वा सूतपुत्र त्वं शारदाभ्रमिवाफलम्॥२०॥
निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते
।
तावद्गर्जस्व राधेय यावत्पार्थं न पश्यसि
।
आरात्पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं पुनः॥२१॥
त्वमनासाद्य तान्बाणान् फाल्गुनस्य विगर्जसि
।
पार्थसायकविद्धस्य दुर्लभं गर्जितं तव॥२२॥
बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः
।
धनुषा फाल्गुनः शूरः कर्णः शूरो मनोरथैः॥२३॥
तोषितो येन रुद्रोऽपि कः पार्थं प्रतिघातयेत्
।
एवं संरुषितस्तेन तदा शारद्वतेन ह॥२४॥
कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत्
।
शूरा गर्जन्ति सततं प्रावृषीव बलाहकाः॥२५॥
फलं चाशु प्रयच्छन्ति बजिमुप्तमृताविव
।
दोषमत्र न पश्यामि शूराणां रणमूर्धनि॥२६॥
तत्तद्विकत्थमानानां भारं चोद्वहतां मृधे
।
यं भारं पुरुषो वोढुं मनसा हि व्यवस्यति॥२७॥
दैवमस्य ध्रुवं तत्र साहाय्यायोपपद्यते
।
व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन्॥२८॥
हत्वा पाण्डुसुतानाजौ सकृष्णान् सहसात्वतान्
।
गर्जामि यद्यहं विप्र तव किं तत्र नश्यति॥२९॥
वृथा शूरा न गर्जन्ति शारदा इव तोयदाः
।
सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पंडिताः॥३०॥
सोऽहमद्य रणे यत्तौ सहितौ कृष्णपाण्डवौ
।
उत्सहे मनसा जेतुं ततो गर्जामि गौतम॥३१॥
पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगान्
।
हत्वा पाण्डुसुतानाजौ सहकृष्णान् ससात्वतान्॥३२॥
दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम्
।
कृप उवाच।
मनोरथप्रलापा मे न ग्राह्यास्तव सुतज॥३३॥
सदा क्षिपसि वै कृष्णौ धर्मराजं च पांडवम्
।
ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ॥३४॥
देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम्
।
दंशितानामपि रणे अजेसौ कृष्णपाण्डवौ॥३५॥
ब्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकः
।
नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः॥३६॥
धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः
।
भ्रातरश्चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः॥३७॥
गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः
।
संबन्धिनश्चेन्द्रवीर्याः स्वनुरक्ताः प्रहारिणः॥३८॥
धृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजयः
।
चंद्रसेनो रुद्रसेनः कीर्तिधर्मा ध्रुवो धरः॥३९॥
वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुतेजनः
।
द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित्॥४०॥
येषामर्थाय संयत्तो मत्स्यराजः सहानुजः
।
शतानीकः सूर्यदत्तः श्रुतानीकः श्रुतध्वजः॥४१॥
बलानीको जयानीको जयाश्वो रथवाहनः
।
चन्द्रोदयः समरथो विराटभ्रातरः शुभाः॥४२॥
यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः
।
येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः॥४३॥
एते चान्ये च बहवो गणाः पाण्डुसुतस्य वै
।
कामं खलु जगत्सर्वं सदेवासुरमानुषम्॥४४॥
सयक्षराक्षसगणं सभूतभुजगद्विपम्
।
निःशेषमस्त्रवीर्येण कुर्वाते भीमफाल्गुनौ॥४५॥
युधिष्ठिरश्च पृथिवीं निर्दहेद्धोरचक्षुषा
।
अप्रमेयबलः शौरिर्येषामर्थे च दंशितः॥४६॥
कथं तान्संयुगे कर्ण जेतुमुत्सहसे परान्
।
महानपनयस्त्वेष नित्यं हि तव सूतज॥४७॥
यस्त्वमुत्सहसे योद्धुं समरे शौरिणा सह
।
सञ्जय उवाच।
एवमुक्तस्तु राधेयः प्रहसन् भरतर्षभ॥४८॥
अब्रवीच्च तदा कर्णो गुरुं शारद्वतं कृपम्
।
सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचः॥४९॥
एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै
।
अजय्याश्च रणे पार्था देवैरपि सवासवैः॥५०॥
सदैत्ययक्षगन्धर्वैः पिशाचोरगराक्षसैः
।
तथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तया॥५१॥
मम ह्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विज
।
एतया निहनिष्यामि सव्यसाचिनमाहवे॥५२॥
हते तु पाण्डवे कृष्णे भ्रातरश्चास्य सोदराः
।
अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथञ्चन॥५३॥
तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा
।
अयत्नात्कौरवेन्द्रस्य वशे स्थास्यति गौतम॥५४॥
सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयः
।
एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम॥५५॥
त्वं तु विप्रश्च वृद्धश्च अशक्तश्चापि संयुगे
।
कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे॥५६॥
यद्येवं वक्ष्यसे भूयो ममाप्रियमिह द्विज
।
ततस्ते खड्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते॥५७॥
यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगे
।
भीषयन्सर्वसैन्यानि कौरवेयाणि दुर्मते॥५८॥
अत्रापि शृणु मे वाक्यं यथावद्ब्रुवतो द्विज
।
दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयः॥५९॥
दुःशासनो वृषसेनो मद्रराजस्त्वमेव च
।
सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः॥६०॥
तिष्ठेयुर्दंशिता यत्र सर्वे युद्धविशारदाः
।
जयेदेतान्नरः को नु शक्रतुल्यबलोऽप्यरिः॥६१॥
शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवः
।
धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि॥६२॥
एते स्थास्यन्ति संग्रामे पाण्डवानां वधार्थिनः
।
जयमाकांक्षमाणा हि कौरवेयस्य दंशिताः॥६३॥
दैवायत्तमहं मन्ये जयं सुबलिनामपि
।
यत्र भीष्मो महाबाहुः शेते शरशताचितः॥६४॥
विकर्णश्चित्रसेनश्च बाल्हीकोऽथ जयद्रथः
।
भूरिश्रवा जयश्चैव जलसन्धः सुदक्षिणः॥६५॥
शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान्
।
एते चान्ये च राजानो देवैरपि सुदुर्जयाः॥६६॥
निहताः समरे शूराः पाण्डवैर्बलवत्तराः
।
किमन्यद्दैवसंयोगान्मन्यसे पुरुषाधम॥६७॥
यांश्च तांस्तौषि सततं दुर्योधनरिपून्द्विज
।
तेषामपि हताः शूराः शतशोऽथ सहस्रशः॥६८॥
क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह
।
प्रभावं नात्र पश्यामि पाण्डवानां कथञ्चन॥६९॥
यस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधम
।
यतिष्येऽहं यथाशक्ति योद्धुं तैः सह संयुगः॥७०॥
दुर्योधनहितार्थाय ‘जयो दैवे प्रतिष्ठितः’॥७१॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे कृपकर्णवाक्ये अष्टपञ्चाशदधिकशततमोऽध्यायः॥१५८॥
सञ्जय उवाच।
तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम्
।
खड्गमद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम्॥१॥
तथेति ॥१॥
ततः परमसंक्रुद्धः सिंहो मत्तमिव द्विपम्
।
प्रेक्षतः कुरुराजस्य द्रौणिः कर्णं समभ्ययात्॥२॥
अश्वत्थामोवाच
।
यदर्जुनगुणांस्तथ्यान्कीर्तयानं नराधम
।
शूरं द्वेषात्सुदुर्बुद्धे त्वं भर्त्सयसि मातुलम्॥३॥
विकत्थमानः शौर्येण सर्वलोकधनुर्धरम्
।
दर्पोत्सेधगृहीतोऽद्य न कञ्चिद्गणयन्मृधे॥४॥
कंचिद्धनुर्धरं न गणयान्नित्यन्वयः ॥४॥
क्व ते वीर्यं क्व चास्त्राणि यं त्वां निर्जित्य संयुगे
।
गाण्डीवधन्वा हतवान्प्रेक्षतस्ते जयद्रथम्॥५॥
येन साक्षान्महादेवो योधितः समरे पुरा
।
तमिच्छसि वृथा जेतुं सूताधम मनोरथैः॥६॥
यं हि कृष्णेन सहितं सर्वशस्त्रभृतां वरम्
।
जेतुं न शक्ताः सहिताः सेन्द्रा अपि सुरासुराः॥७॥
लोकैकवीरमजितमर्जुनं सूत संयुगे
।
किं पुनस्त्वं सुदुर्बुद्धे सहैभिर्वसुधाधिपैः॥८॥
कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम
।
एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते॥९॥
सञ्जय उवाच।
तमुद्यतं तु वेगेन राजा दुर्योधनः स्वयम्
।
न्यवारयन्महातेजाः कृपश्च द्विपदां वरः॥१०॥
कर्ण उवाच।
शूरोऽयं समरश्लाधी दुर्मतिश्च द्विजाधमः
।
आसादयतु मद्वीर्यं मुञ्चमं कुरुसत्तम॥११॥
अश्वत्थामोवाच
।
तवैतत्क्षम्यतेऽस्माभिः सुतात्मज सुदुर्मते
।
दर्पमुत्सिक्तमेतत्ते फाल्गुनो नाशयिष्यति॥१२॥
दुर्योधन उवाच।
अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद
।
कोपः खलु न कर्तव्यः सूतपुत्रं कथंचन॥१३॥
त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबले
।
महत्कार्यं समासक्तं प्रसीद द्विजसत्तम॥१४॥
एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः
।
आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समंततः॥१५॥
सञ्जय उवाच।
प्रसाद्यमानस्तु ततो राज्ञा द्रौणिर्महामनाः
।
प्रससाद महाराज क्रोधवेगसमन्वितः॥१६॥
ततः कृपोऽप्युवाचेदमाचार्यः सुमहामनाः
।
सौम्यस्वभावाद्राजेन्द्र क्षिप्रमागतमार्दवः॥१७॥
कृप उवाच।
तवैतत्क्षम्यतेऽस्माभिः सुतात्मज सुदुर्मते
।
दर्पमुत्सिक्तमेतत्ते फाल्गुनो नाशयिष्यति॥१८॥
सञ्जय उवाच।
ततस्ते पाण्डवा राजन्पञ्चालाश्च यशस्विनः
।
आजग्मुः सहिताः कर्णं तर्जयन्तः समन्ततः॥१९॥
कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान्
।
कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव॥२०॥
पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः
।
ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः॥२१॥
भीषणं सुमहाराज सिंहनादविराजितम्
।
ततस्ते पाण्डवा राजन्पञ्चालाश्च यशस्विनः॥२२॥
दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन्
।
अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे॥२३॥
युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम
।
अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाऽब्रुवन्॥२४॥
हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः
।
सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता॥२५॥
अत्यन्तवैरी पार्थानां सततं पापपूरुषः
।
एष मूलमनर्थानां दुर्योधनमते स्थितः॥२६॥
घ्नतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन्
।
महता शरवर्षेण च्छादयन्तो महारथाः॥२७॥
वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः
।
तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान्॥२८॥
न विव्यथे सूतपुत्रो न च त्रासमगच्छत
।
दृष्ट्वा संहारकल्पं तमुद्भूतं सैन्यसागरम्॥२९॥
पिप्रीषुस्तव पुत्राणां संग्रामेष्वपराजितः
।
सायकौघेन बलवान् क्षिप्रकारी महाबलः॥३०॥
वारयामास तत्सैन्यं समन्ताद्भरतर्षभ
।
ततस्तु शरवर्षेण पार्थिवास्तमवारयन्॥३१॥
धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः
।
अयोधयन्त राधेयं शक्रं दैत्यगणा इव॥३२॥
शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम्
।
शरवर्षेण महता समन्तद्व्यकिरत्प्रभो॥३३॥
तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम्
।
यथा देवासुरे युद्धे शक्रस्य सह दानवैः॥३४॥
तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम्
।
यदेनं सर्वतो यत्ता नाप्नुवन्ति परे युधि॥३५॥
निवार्य च शरौघांस्तान्पार्थिवानां महारथः
।
युगेष्वीषासु च्छत्रेषु ध्वजेषु च हयेषु च॥३६॥
आत्मनामांकितान्घोरान् राधेयः प्राहिणोच्छरान्
।
ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः॥३७॥
बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव
।
हयानां वध्यमानानां गजानां रथिनां तथा॥३८॥
तत्र तत्राभ्यवेक्षाम संघान्कर्णेन ताडितान्
।
शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः॥३९॥
आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम्
।
हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः॥४०॥
बभूवायोधनं रौद्रं वैवस्वतपुरोपमम्
।
ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम्॥४१॥
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह
।
युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः॥४२॥
पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम्
।
कार्तिकेयेन विध्वस्तामासुरीं पृतनामिव॥४३॥
दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता
।
अभियात्येष वीभत्सुः सुतपुत्रजिघांसया॥४४॥
तद्यथा प्रेक्षमाणानां सूतपुत्रं महारथम्
।
न हन्यात्पांडवः संख्ये तथा नीतिर्विधीयताम्॥४५॥
ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः
।
प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया॥४६॥
आयान्तं वीक्ष्य कौन्तेयं शक्रं दैत्यचमूमिव
।
बीभत्सुरपि राजेन्द्र पञ्चालैरभिसंवृतः॥४७॥
प्रत्युद्ययौ तदा कर्णं यथा वृत्रं शतक्रतुः
।
धृतराष्ट्र उवाच।
संरब्धं फाल्गुनं दृष्ट्वा कालान्तकयमोपमम्॥४८॥
कर्णो वैकर्तनः सूत प्रत्यपद्यत् किमुत्तरम्
।
यो ह्यस्पर्धत पार्थेन नित्यमेव महारथः॥४९॥
आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणम्
।
स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम्॥५०॥
कर्णो वैकर्तनः सूत किमुत्तरमपद्यत
।
सञ्जय उवाच।
आयान्तं पाण्डवं दृष्ट्वा गजं प्रतिगजो यथा॥५१॥
असंभ्रान्तो रणे कर्णः प्रत्युदीयाद्धनञ्जयम्
।
तमापतन्तं वेगेन वैकर्तनमजिह्मगैः॥५२॥
छादयामास पार्थोऽथ कर्णस्तु विजयं शरैः
।
स कर्णं शरजालेन च्छादयामास पाण्डवः॥५३॥
ततः कर्णः सुसंरब्धः शरैस्त्रिभिरविध्यत
।
तस्य तल्लाघवं पार्थो नामृष्यत महाबलः॥५४॥
तस्मै बाणाञ्शिलाधौतान् प्रसन्नाग्रानजिह्मगान्
।
प्राहिणोत्सूतपुत्राय त्रिशतं शत्रुतापनः॥५५॥
विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान्
।
सव्ये भुजाग्रे बलवान्नाराचेन हसन्निव॥५६॥
तस्य विद्धस्य बाणेन कराच्चापं पपात ह
।
पुनरादाय तच्चापं निमेषार्धान्महाबलः॥५७॥
छादयामास बाणौघैः फाल्गुनं कृतहस्तवत्
।
शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत॥५८॥
व्यधमच्छरवर्षेण स्मयन्निव धनञ्जयः
।
तौ परस्परमासाद्य शरवर्षेण पार्थिव॥५९॥
छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ
।
तदद्भुतं महद्युद्धं कर्णपाण्डवयोर्मृधे॥६०॥
क्रुद्धयोर्वासिताहेतोर्वन्ययोर्गजयोरिव
।
ततः पार्थो महेष्वासौ दृष्ट्वा कर्णस्य विक्रमम्॥६१॥
मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयान्वितः
।
अश्वांश्च चतुरो भल्लैरनयद्यमसादनम्॥६२॥
सारथेश्च शिरः कायादहरच्छत्रुतापनः
।
अथैनं छिन्नधन्वानं हताश्वं हतसारथिम्॥६३॥
विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः
।
हताश्वात्तु रथात्तूर्णमवप्लुत्य नरर्षभः॥६४॥
आरुरोह रथं तूर्णं कृपस्य शरपीडितः
।
स नुन्नोऽर्जुनबाणौधैराचितः शल्यको यथा॥६५॥
जीवितार्थमभिप्रेप्सुः कृपस्य रथमारुहत्
।
राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ॥६६॥
धनञ्जयशरैर्नुन्नाः प्राद्रवन्त दिशो दिश
।
द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप॥६७॥
निवर्तयामास तदा वाक्यमेतदुवाच ह
।
अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः॥६८॥
एष पार्थवधायाहं स्वयं गच्छामि संयुगे
।
अहं पार्थान्हनिष्यामि सपञ्चालान्ससोमकान्॥६९॥
अद्य मे युध्यमानस्य सह गाण्डीवधन्वना
।
द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये॥७०॥
अद्य मद्बाणजालानि विमुक्तानि सहस्रशः
।
द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः॥७१॥
अद्य बाणमयं वर्षं सृजतो मम धन्विनः
।
जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः॥७२॥
जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः
।
तिष्ठध्वं समरे शूरा भयं त्यजत फाल्गुनात्॥७३॥
न हि मद्वीर्यमासाद्य फाल्गुनः प्रसहिष्यति
।
यथा वेलां समासाद्य सागरो मकरालयः॥७४॥
इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः
।
फाल्गुनं प्रति दुर्धर्षः क्रोधात्संरक्तलोचनः॥७५॥
तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा
।
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह॥७६॥
एष राजा महाबाहुरमर्षी क्रोधमूर्च्छितः
।
पतङ्गवृत्तिमास्थाय फाल्गुनं योद्धुमिच्छति॥७७॥
यावन्नः पश्यमानानां प्राणान्पार्थेन संगतः
।
न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम्॥७८॥
यावत्फाल्गुनबाणानां गोचरं नाद्य गच्छति
।
कौरवः पार्थिवो वीरस्तावद्वारय संयुगे॥७९॥
यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसन्निभैः
।
न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम्॥८०॥
अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद
।
स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान्॥८१॥
दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना
।
युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः॥८२॥
मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः
।
दुर्योधनमिदं वाक्यं त्वरितः समभाषत॥८३॥
मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि
।
मामनादृत्य कौरव्य तव नित्यं हितैषिणम्॥८४॥
न हि ते संभ्रमः कार्यः पार्थस्य विजयं प्रति
।
अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन॥८५॥
दुर्योधन उवाच।
आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति
।
त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम॥८६॥
मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि
।
धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत्॥८७॥
धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः
।
सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः॥८८॥
को हि शस्त्रविदां मुख्यो महेश्वरसो.. युधि
।
शत्रुं न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः॥८९॥
अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान्
।
तवास्त्रगोचरे शक्ताः स्थातुं देवा न दानवाः॥९०॥
पञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान्
।
वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः॥९१॥
एते हि सोमका विप्र पञ्चालाश्च यशस्विनः
।
मम सैन्येषु संक्रुद्धा विचरन्ति दवाग्निवत्॥९२॥
तान्वारय महाबाहो केकयांश्च नरोत्तम
।
पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना॥९३॥
अश्वत्थामंस्त्वरायुक्तो याहि शीघ्रमरिन्दम
।
आदौ वा यदि वा पश्चात्तवेदं कर्म मारिष॥९४॥
त्वमुत्पन्नो महाबाहो पञ्चालानां वधं प्रति
।
करिष्यसि जगत्सर्वमपञ्चालं किलोद्यतः॥९५॥
एवं सिद्धाऽब्रुवन्वाचो भविष्यति च तत्तथा
।
तस्मात्त्वं पुरुषव्याघ्र पञ्चालाञ्जहि सानुगान्॥९६॥
न तेऽस्रगोचरे शक्ताः स्थातुं देवाः सवासवाः
।
किमु पार्थाः सपञ्चालाः सत्यमेतद्ब्रवीमि ते॥९७॥
न त्वां समर्थाः संग्रामे पाण्डवाः सह सोमकैः
।
बलाद्योधयितुं वीर सत्यमेतद्ब्रवीमि ते॥९८॥
गच्छ गच्छ महाबाहो न नः कालात्ययो भवेत्
।
इयं हि द्रवते सेना पार्थसायकपीडिता॥९९॥
शक्तो ह्यसि महाबाहो दिव्येन स्वेन तेजसा
।
निग्रहे पाण्डुपुत्राणां पञ्चालानां च मानद॥१००॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे दुर्योधनवाक्ये एकोनषष्ट्यधिकशततमोऽध्यायः॥१५९॥
सञ्जय उवाच।
दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः
।
चकारारिवधे यत्नमिन्द्रो दैत्यवधे यथा
।
प्रत्युवाच महाबाहुस्तव पुत्रमिदं वचः॥१॥
दुर्योधनेनेति ॥१॥
सत्यमेतन्महाबाहो यथा वदसि कौरव
।
प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे॥२॥
तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह
।
शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत्॥३॥
अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च
।
निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम॥४॥
ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह
।
क्षपयेयुर्महाबाहो न स्याम यदि संयुगे॥५॥
युध्यतां पाण्डवाञ्छक्त्या तेषां चास्मान्युयुत्सताम्
।
तेजस्तेजः समासाद्य प्रशमं यातु भारत॥६॥
अशक्या तरसा जेतुं पाण्डवानामनीकिनी
।
जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते॥७॥
आत्मार्थं युध्यमानास्ते समर्थाः पांडुनन्दनाः
।
किमर्थं तव सैन्यानि न हनिष्यन्ति भारत॥८॥
त्वं तु लुब्धतमो राजन्निकृतिज्ञश्च कौरव
।
सर्वाभिशंकी मानी च ततोऽस्मानभिशंकसे॥९॥
त्वं त्विति । निकृतिर्वचनं तज्ज्ञत्वादस्मानप्यात्मवत्पश्यसीत्यर्थः॥९॥
मन्ये त्वं कुत्सितो राजन्पापात्मा पापपूरुषः
।
अन्यानपि स नः क्षुद्र शंकसे पापभावितः॥१०॥
अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः
।
एष गच्छामि संग्रामं त्वत्कृते कुरुनन्दन॥११॥
योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान्
।
पञ्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा॥१२॥
पाण्डवेयैश्च संग्रामे त्वत्प्रियार्थमरिन्दम
।
अद्य मद्बाणनिर्दग्धाः पञ्चालाः सोमकास्तथा॥१३॥
सिंहेनेवार्दिता गावो विद्रविष्यन्ति सर्वशः
।
अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम्॥१४॥
अश्वत्थाममयं लोकं मंस्यते सह सोमकैः
।
आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः॥१५॥
दृष्ट्वा विनिहतान्संख्ये पञ्चालान्सोमकैः सह
।
ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत॥१६॥
न हि ते वीर मोक्ष्यन्ते मद्बाह्वन्तरमागताः
।
एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव॥१७॥
अभ्यवर्तत युद्धाय त्रासयन्सर्वधन्विनः
।
चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः॥१८॥
ततोऽब्रवीत्सकैकेयान् पञ्चालान् गौतमीसुतः
।
प्रहरध्वमितः सर्वे मम गात्रे महारथाः॥१९॥
स्थिरीभूताश्च युद्ध्यध्वं दर्शयन्तोऽस्त्रलाघवम्
।
एवमुक्तास्तु ते सर्वे शस्त्रवृष्टीरपातयन्॥२०॥
द्रौणिं प्रति महाराज जलं जलधरा इव
।
तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत्॥२१॥
प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य च प्रभो
।
ते हन्यमानाः समरे पञ्चालाः सोमकास्तथा॥२२॥
परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश
।
तान्दृष्ट्वा द्रवतः शूरान्पञ्चालान्सहसोमकान्॥२३॥
धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्रणे
।
ततः काञ्चनचित्राणां सजलांबुदनादिनाम्॥२४॥
वृतः शतेन शूराणां रथानामनिवर्तिनाम्
।
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः॥२५॥
द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान्
।
आचार्यपुत्र दुर्बुद्धे किमन्यैर्निहतैस्तव॥२६॥
समागच्छ मया सार्धं यदि शूरोऽसि संयुगे
।
अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः॥२७॥
ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान्
।
मर्मभिद्भिः शरैस्तीक्ष्णैर्जघान भरतर्षभ॥२८॥
ते तु पंक्तीकृता द्रौणिं शरा विविशुराशुगाः
।
रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः॥२९॥
मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम्
।
सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः॥३०॥
मानी द्रौणिरसंभ्रान्तो बाणपाणिरभाषत
।
धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय॥३१॥
यावत्त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम्
।
द्रौणिरेवमथाभाष्य पार्षतं परवीरहा॥३२॥
छादयामास बाणौघैः समन्ताल्लघुहस्तवत्
।
स बाध्यमानः समरे द्रौणिना युद्धदुर्मदः॥३३॥
द्रौणिं पाञ्चालतनयो वाग्भिरातर्जयत्तदा
।
न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च॥३४॥
द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते
।
ततस्त्वाऽहं न हन्म्यद्य द्रोणे जीवति संयुगे॥३५॥
इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते
।
निहत्य पितरं तेऽद्य ततस्त्वामपि संयुगे॥३६॥
नेष्यामि प्रेतलोकाय ह्येतन्मे मनसि स्थितम्
।
यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च॥३७॥
तां दर्शय स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे
।
यो हि ब्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः॥३८॥
स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधमः
।
इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः॥३९॥
क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्
।
निर्दहन्निव चक्षुर्भ्यां पार्षतं सोऽभ्यवैक्षत॥४०॥
छादयामास च शरैर्निःश्वसन्पन्नगो यथा
।
स च्छाद्यमानः समरे द्रौणिना राजसत्तम॥४१॥
सर्वपाञ्चालसेनाभिः संवृतो रथसत्तमः
।
नाकंपत महाबाहुः स्ववीर्यं समुपाश्रितः॥४२॥
सायकांश्चैव विविधानश्वत्थाम्नि मुमोच ह
।
तौ पुनः संन्यवर्तेतां प्राणद्यूतपणे रणे॥४३॥
निपीडयन्तौ बाणौघैः परस्परममर्षिणौ
।
उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः॥४४॥
द्रौणिपार्षतयोर्युद्धं घोररूपं भयानकम्
।
दृष्ट्वा संपूजयामासुः सिद्धचारणवातिकाः॥४५॥
शरौघैः पूरयन्तौ तावाकाशं च दिशस्तथा
।
अलक्ष्यौ समयुध्येतां महत्कृत्वा शरैस्तमः॥४६॥
नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ
।
परस्परवधे यत्तौ सर्वभूतभयङ्करौ॥४७॥
अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च
।
संपूज्यमानौ समरे योधमुख्यैः सहस्रशः॥४८॥
तौ प्रबुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव
।
उभयोः सेनयोर्हर्षस्तुमुलः समपद्यत॥४९॥
सिंहनादरवाश्चासन्दध्मुः शङ्खांश्च सैनिकाः
।
वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः॥५०॥
तस्मिंस्तु तुमुले युद्धे भीरूणां भयवर्धने
।
मुहूर्तमपि तद्युद्धं समरूपं तदाऽभवत्॥५१॥
ततो द्रौणिर्महाराज पार्षतस्य महात्मनः
।
ध्वजं धनुस्तथा छत्रमुभौ च पार्ष्णिसारथी॥५२॥
सूतमश्वांश्च चतुरो निहत्याभ्यद्रवद्रणे
।
पञ्चालांश्चैव तान्सर्वान्बाणैः सन्नतपर्वभिः॥५३॥
व्यद्रावयदमेयात्मा शतशोऽथ सहस्रशः
।
ततस्तु विव्यथे सेना पाण्डवी भरतर्षभ॥५४॥
दृष्ट्वा द्रौणेर्महत्कर्म वासवस्येव संयुगे
।
शतेन च शतं हत्वा पञ्चालानां महारथः॥५५॥
त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन्वै महारथान्
।
द्रौणिर्दुपदपुत्रस्य फाल्गुनस्य च पश्यतः॥५६॥
नाशयामास पञ्चालान् भूयिष्ठं ये व्यवस्थिताः
।
ते वध्यमानाः पञ्चालाः समरे सह सृञ्जयैः॥५७॥
अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः
।
स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः॥५८॥
ननाद सुमहानादं तपान्ते जलदो यथा
।
स निहत्य बहूञ्छूरानश्वत्थामा व्यरोचत
।
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः॥५९॥
संपूज्यमानो युधि कौरवेयैर्निर्जित्य संख्येऽरिगणान्सहस्रशः
।
व्यरोचत द्रोणसुतः प्रतापवान् यथा सुरेन्द्रोऽरिगणान्निहत्य वै॥६०॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे अश्वत्थामपराक्रमे षष्ट्यधिकशततमोऽध्यायः॥१६०॥
सञ्जय उवाच।
सोमदत्तं तु संप्रेक्ष्य विधुन्वानं महद्धनुः
।
सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह॥१॥
सोमदत्तमित्यध्यायः स्पष्टार्थः ॥१॥
न ह्यहत्वा रणे शत्रं सोमदत्तं महाबलम्
।
निवर्तिष्ये रणात्सूत सत्यमेतद्वचो मम॥२॥
ततः संप्रैषयद्यन्ता सैन्धवांस्तान्मनोजवान्
।
तुरङ्गमाञ्छङ्खवर्णान्सर्वशब्दातिगान् रणे॥३॥
तेऽवहन् युयुधानं तु मनोमारुतरंहसः
।
यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम्॥४॥
तमापतन्तं संप्रेक्ष्य सात्वतं रभसं रणे
।
सोमदत्तो महाबाहुरसंभ्रान्तो न्यवर्तत॥५॥
विमुञ्चञ्छरवर्षाणि पर्जन्य इव वृष्टिमान्
।
छादयामास शैनेयं जलदो भास्करं यथा॥६॥
असंभ्रान्तश्च समरे सात्यकिः कुरुपुङ्गवम्
।
छायामास बाणौघैः समन्ताद्भरतर्षभ॥७॥
सोमदत्तस्तु तं षष्ठ्या विव्याधोरसि माधवम्
।
सात्यकिश्चापि तं राजन्नविध्यत्सायकैः शितैः॥८॥
तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ
।
सुपुष्पौ पुष्पसमये पुष्पिताविव किंशुकौ॥९॥
रुधिरोक्षितसर्वांगौ कुरुवृष्णियशस्करौ
।
परस्परमवेक्षेतां दहन्ताविव लोचनैः॥१०॥
रथमण्डलमार्गेषु चरन्तावरिमर्दनौ
।
घोररूपौ हितावास्तां वृष्टिमन्ताविवांबुदौ॥११॥
शरसंभिन्नगात्रौ तु सर्वतः शकलीकृतौ
।
श्वाविधाविव राजेन्द्र दृश्येतां शरविक्षतौ॥१२॥
सुवर्णपुंखैरिषुभिराचितौ तौ व्यराजताम्
।
खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती॥१३॥
संप्रदीपितसर्वाङ्गौ सायकैस्तैर्महारथौ
।
अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ॥१४॥
ततो युधि महाराज सोमदत्तो महारथः
।
अर्धचन्द्रेण चिच्छेद माधवस्य महद्धनुः॥१५॥
अथैनं पञ्चविंशत्या सायकानां समार्पयत्
।
त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः॥१६॥
अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम्
।
पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत॥१७॥
ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम्
।
बाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव॥१८॥
बाल्हीकस्य सोमदत्तस्य ॥१८॥
सोमदत्तस्त्वसंभ्रान्तो दृष्ट्वा केतुं निपातितम्
।
शैनेयं पञ्चविंशत्या सायकानां समाचिनोत्॥१९॥
सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः
।
धनुश्चिच्छेद भल्लेन क्षुरप्रेण शितेन ह॥२०॥
अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम्
।
आचिनोद्बहुधा राजन्भग्नदंष्ट्रमिव द्विपम्॥२१॥
अथान्यद्धनुरादाय सोमदत्तो महारथः
।
सात्यकिं छादयामास शरवृष्ट्या महाबलः॥२२॥
सोमदत्तं तु संक्रुद्धो रणे विव्याध सात्यकिः
।
सात्यकिं शरजालेन सोमदत्तोऽप्यपीडयत्॥२३॥
दशभिः सात्वतस्यार्थे भीमोऽहन्बाह्लिकात्मजम्
।
सोमदत्तोऽप्यसंभ्रान्तो भीममार्च्छच्छितैः शरैः॥२४॥
ततस्तु सात्वतस्यार्थे भीमसेनो नवं दृढम्
।
मुमोच परिघं घोरं सोमदत्तस्य वक्षसि॥२५॥
तमापतन्तं वेगेन परिघं घोरदर्शनम्
।
द्विधा चिच्छेद समरे प्रहसन्निव कौरवः॥२६॥
स पपात द्विधा च्छिन्न आयसः परिघो महान्
।
महीधरस्येव महच्छिखरं वज्रदारितम्॥२७॥
ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे
।
धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः॥२८॥
ततश्चतुर्भिश्च शरैस्तूर्णं तांस्तुरगोत्तमान्
।
समीपं प्रेषयामास प्रेतराजस्य भारत॥२९॥
सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा
।
जहार नरशार्दूलः प्रहसञ्छिनिपुङ्गवः॥३०॥
ततः शरं महाघोरं ज्वलन्तमिव पावकम्
।
मुमोच सात्वतो राजन्स्वर्णपुङ्खं शिलाशितम्॥३१॥
स विमुक्तो बलवता शैनेयेन शरोत्तमः
।
घोरस्तस्योरसि विभो निपपाताशु भारत॥३२॥
सोऽतिविद्धो महाराज सात्वतेन महारथः
।
सोमदत्तो महाबाहुर्निपपात ममार च॥३३॥
तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः
।
महता शरवर्षेण युयुधानमुपाद्रवन्॥३४॥
छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः
।
पाण्डवाश्च महाराज सह सर्वैः प्रभद्रकैः
।
महत्या सेनया सार्धं द्रोणानीकमुपाद्रवन्॥३५॥
ततो युधिष्ठिरः कुद्धस्तावकानां महाबलम्
।
शरैर्विद्रावयामास भारद्वाजस्य पश्यतः॥३६॥
सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम्
।
अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः॥३७॥
ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः
।
युधिष्ठिरोऽपि संक्रुद्धः प्रतिविव्याध पञ्चभिः॥३८॥
सोऽतिविद्धो महाबाहुः सृक्किणी परिसंलिहन्
।
युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च॥३९॥
स च्छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः
।
अन्यदादत्त वेगेन कार्मुकं समरे दृढम्॥४०॥
ततः शरसहस्त्रेण द्रोणं विव्याध पार्थिवः
।
साश्वसूतध्वजरथं तदद्भुतमिवाभवत्॥४१॥
ततो मुहूर्तं व्यथितः शरपातप्रपीडितः
।
निषसाद रथोपस्थे द्रोणो भरतसत्तम॥४२॥
प्रतिलभ्य ततः संज्ञां मुहूर्ताद्द्विजसत्तमः
।
क्रोधेन महताऽऽविष्टो वायव्यास्त्रमवासृजत्॥४३॥
असंभ्रान्तस्ततः पार्थो धनुराकृष्य वीर्यवान्
।
ततस्तदस्त्रमस्त्रेण स्तंभयामास भारत॥४४॥
चिच्छेद च धनुर्दीर्घं ब्राह्मणस्य च पाण्डवः
।
ततोऽन्यद्धनुरादत्त द्रोणः क्षत्रियमर्दनः॥४५॥
तदप्यस्य शितैर्भल्लैश्चिच्छेद कुरुपुङ्गवः
।
ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम्॥४६॥
युधिष्ठिर महाबाहो यत्त्वां वक्ष्यामि तच्छृणु
।
उपारमस्व युद्धे त्वं द्रोणाद्भरतसत्तम॥४७॥
यतते हि सदा द्रोणो ग्रहणे तव संयुगे
।
नानुरूपमहं मन्ये युद्धमस्य त्वया सह॥४८॥
योऽस्य सृष्टो विनाशाय स एवैनं हनिष्यति
।
परिवर्ज्य गुरुं याहि यत्र राजा सुयोधनः॥४९॥
राजा राज्ञा हि योद्धव्यो नाराज्ञा युद्धमिष्यते
।
तत्र त्वं गच्छ कौन्तेय हस्त्यश्वरथसंवृतः॥५०॥
यावन्मात्रेण च मया सहायेन धनञ्जयः
।
भीमश्च रथशार्दूलो युध्यते कौरवैः सह॥५१॥
वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः
।
मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम्॥५२॥
प्रायाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः
।
विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः॥५३॥
रथघोषेण महता नादयन्वसुधातलम्
।
पर्जन्य इव घर्मान्ते नादयन्वै दिशो दश॥५४॥
भीमस्य निघ्नतः शत्रून् पार्ष्णिं जग्राह पाण्डवः
।
द्रोणोऽपि पाण्डुपञ्चालान् व्यधमद्रजनीमुखे॥५५॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे द्विषष्ट्यधिकशततमोऽध्यायः॥१६२॥
सञ्जय उवाच।
वर्तमाने तथा युद्धे घोररूपे भयावहे
।
तमसा संवृते लोके रजसा च महीपते॥१॥
वर्तमान इति ॥१॥
नापश्यन्त रणे योधाः परस्परमवस्थिताः
।
अनुमानेन संज्ञाभिर्युद्धं तद्ववृधे महत्॥२॥
नरनागाश्वमथनं परमं लोमहर्षणम्
।
द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः॥३॥
अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम
।
वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः॥४॥
तमसा संवृते चैव समन्ताद्विप्रदुद्रुवुः
।
ते सर्वतो विद्रवन्तो योधा विध्वस्तचेतनाः॥५॥
अहन्यन्त महाराज धावमानाश्च संयुगे
।
महारथसहस्त्राणि जघ्नुरन्योन्यमाहवे॥६॥
अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते
।
ततः सर्वाणि सैन्यानि सेना गोपाश्च भारत
।
व्यमुह्यन्त रणे तत्र तमसा संवृते सति॥७॥
अन्धे आन्ध्यहेतौ ॥७॥
धृतराष्ट्र उवाच।
तेषां संलोड्यमानानां पाण्डवैर्विहतौजसाम्
।
अन्धे तमसि मग्नानामासीत्किं वो मनस्तदा॥८॥
वो युष्मत्सम्बन्धिनां मनः किं किंविधं, कातरं धृष्टं वेत्यर्थः ॥८॥
कथं प्रकाशस्तेषां वा मम सैन्यस्य वा पुनः
।
बभूव लोके तमसा तथा सञ्जय संवृते॥९॥
सञ्जय उवाच।
ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै
।
सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत्॥१०॥
तत इति । द्रोण इत्यपकृष्यते । केषां सैन्यानां व्यूहमित्यध्याहृत्य योज्यम् ॥१०॥
द्रोणः पुरस्ताज्जघने तु शल्यस्तथा द्रौणिः कृतवर्मा सौबलश्च
।
स्वयं तु सर्वाणि बलानि राजन् राजाऽभ्ययाद्गोपयन्वै निशायाम्॥११॥
उवाच सर्वांश्च पदातिसङ्घान् दुर्योधनः पार्थिवसांत्वपूर्वम्
।
उत्सृज्य सर्वे परमायुधानि गृह्णीत हस्तैर्ज्वलितान्प्रदीपान्॥१२॥
ते चोदिताः पार्थिवसत्तमेन ततः प्रहृष्टा जगृहुः प्रदीपान्
।
देवर्षिगन्धर्वसुरर्षिसङ्घा विद्याधराश्चाप्सरसां गणाश्च॥१३॥
देवर्षीति भुवि पदातिभिर्दीपेषु गृहीतेषु दिविस्था देवा अपि दीपाञ्जगृहुर्युद्धोत्सवप्रेक्षकाः ॥१३॥
नागाः सयक्षोरगकिन्नराश्च हृष्टा दिविस्था जगृहुः प्रदीपान्
।
दिग्दैवतेभ्यश्च समापतन्तोऽदृश्यन्त दीपाः ससुगन्धितैलाः॥१४॥
दिग्दैवतेभ्य इत्यन्तरिक्षस्थानामपि देवानामागमनमुक्तम् ॥१४॥
विशेषतो नारदपर्वताभ्यां सम्बोध्यमानाः कुरुपाण्डवार्थम्
।
सा भूय एव ध्वजिनी विभक्ता व्यरोचताग्निप्रभया निशायाम्॥१५॥
महाधनैराभरणैश्च दिव्यैः शस्त्रैश्च दीप्तैरपि संपतद्भिः
।
रथे रथे पञ्च विदीपकास्तु प्रदीपकास्तत्र गजे त्रयश्च॥१६॥
प्रत्यश्वमेकश्च महाप्रदीपः कृतास्तु तैः पाण्डवैः कौरवेयैः
।
क्षणेन सर्वे विहिताः प्रदीपा व्यादीपयन्तो ध्वजिनीं तवाशु॥१७॥
सर्वास्तु सेना व्यतिसेव्यमानाः पदातिभिः पावकतैलहस्तैः
।
प्रकाश्यमाना ददृशुर्निशायां यथाऽन्तरिक्षे जलदास्तडिद्भिः॥१८॥
प्रकाशितायां तु ततो ध्वजिन्यां द्रोणोऽग्निकल्पः प्रतपन्समन्तात्
।
रराज राजेन्द्र सुवर्णवर्मा मध्यं गतः सूर्य इवांशुमाली॥१९॥
जाम्बूनदेष्वाभरणेषु चैव निष्केषु शुद्धेषु शरासनेषु
।
पीतेषु शस्त्रेषु च पावकस्य प्रतिप्रभास्तत्र तदा बभूवुः॥२०॥
गदाश्च शैक्याः परिघाश्च शुभ्रा रथेषु शक्त्यश्च विवर्तमानाः
।
प्रतिप्रभारश्मिभिराजमीढ पुनः पुनः सञ्जनयन्ति दीपान्॥२१॥
छत्राणि वालव्यजनानि खड्गा दीप्ता महोल्काश्च तथैव राजन्
।
व्याघृर्णमानाश्च सुवर्णमाला व्यायच्छतां तत्र तदा विरेजुः॥२२॥
शस्त्रप्रभाभिश्च विराजमानं दीपप्रभाभिश्च तदा बलं तत्
।
प्रकाशितं चाभरणप्रभाभिर्भृशं प्रकाशं नृपते बभूव॥२३॥
पीतानि शस्त्राण्यसृगुक्षितानि वीरावधूतानि तनुच्छदानि
।
दीप्तां प्रभां प्राजनयन्त तत्र तपात्यये विद्युदिवान्तरिक्षे॥२४॥
प्रकम्पितानामभिघातवेगैरभिघ्नतां चापततां जवेन
।
वक्त्राण्यकाशन्त तदा नराणां वाय्वीरितानीव महाम्बुजानि॥२५॥
महावने दारुमये प्रदीप्ते यथा प्रभा भास्करस्यापि नश्येत्
।
तथा तदाऽऽसीद्ध्वजिनी प्रदीप्ता महाभया भारत भीमरूपा॥२६॥
तत्संप्रदीप्तं बलमस्मदीयं निशम्य पार्थास्त्वरितास्तथैव
।
सर्वेषु सैन्येषु पदातिसंघानचोदयंस्तेऽपि चक्रुः प्रदीपान्॥२७॥
गजे गजे सप्त कृताः प्रदीपा रथे रथे चैव दश प्रदीपाः
।
द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये ध्वजेषु चान्ये जघनेषु चान्ये॥२८॥
सेनासु सर्वासु च पार्श्वतोऽन्ये पश्चात्पुरस्ताच्च समन्ततश्च
।
मध्ये तथान्ये ज्वलिताग्निहस्ता व्यदीपयन्पाण्डुसुतस्य सेनाम्॥२९॥
मध्ये तथाऽन्ये ज्वलिताग्निहस्ताः सेनाद्वयेऽपि स्म नरा विचेरुः
।
सर्वेषु सैन्येषु पदातिसंघा विमिश्रिता हस्तिरथाश्ववृन्दैः॥३०॥
व्यदीपयंस्ते ध्वजिनीं प्रदीप्तास्तथा बलं पाण्डवेयाभिगुप्तम्
।
तेन प्रदीप्तेन तथा प्रदीप्तं बलं तवासीद्बलवद्बलेन॥३१॥
भाः कुर्वता भानुमता शतेन दिवाकरेणाग्निरिवाभिगुप्तः
।
तयोः प्रभाः पृथिवीमन्तरिक्षं सर्वा व्यतिक्रम्य दिशश्च वृद्धाः॥३२॥
तेन प्रकाशेन भृशं प्रकाशं बभूव तेषां तव चैव सैन्यम्
।
तेन प्रकाशेन दिवं गतेन संबोधिता देवगणाश्च राजन्॥३३॥
गन्धर्वयक्षासुरसिद्धसंघाः समागमन्नप्सरसश्च सर्वाः
।
तद्देवगन्धर्वसमाकुलं च यक्षासुरेन्द्राप्सरसां गणैश्च॥३४॥
हतैश्च शूरैर्दिवमारुहद्भिरायोधनं दिव्यकल्पं बभूव
।
रथाश्वनागाकुलदीपदीप्तं संरब्धयोधं हतविद्रुताश्वम्॥३५॥
महद्बलं व्यूढरथाश्वनागं सुरासुरव्यूहसमं बभूव
।
तच्छक्तिसंघाकुलचण्डवातं महारथाभ्रं गजवाजिघोषम्॥३६॥
शस्त्रौधवर्षं रुधिराम्बुधारं निशि प्रवृत्तं रथदुर्दिनं तत्
।
तस्मिन्महाग्निप्रतिमो महात्मा सन्तापयन्पाण्डवान्विप्रमुख्यः॥३७॥
गभस्तिभिर्मध्यगतो यथार्को वर्षात्यये तद्वदभून्नरेन्द्र॥३८॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे दीपोद्योतने त्रिषष्ट्यधिकशततमोऽध्यायः॥१६३॥
सञ्जय उवाच।
प्रकाशिते तदा लोके रजसा तमसावृते
।
समाजग्मुरथो वीराः परस्परवधैषिणः॥१॥
प्रकाशिते इति ॥१॥
ते समेत्य रणे राजन् शस्त्रप्रासासिधारिणः
।
परस्परमुदैक्षन्त परस्परकृतागसः॥२॥
प्रदीपानां सहस्रैश्च दीप्यमानैः समंततः
।
रत्नाचितैः स्वर्णदण्डैर्गन्धतैलावसिञ्चितैः॥३॥
देवगन्धर्वदीपाद्यैः प्रभाभिरधिकोज्ज्वलैः
।
विरराज तदा भूमिर्ग्रहैर्द्यौरिव भारत॥४॥
उल्काशतैः प्रज्वलितै रणभूमिर्व्यराजत
।
दह्यमानेव लोकानामभावे च वसुन्धरा॥५॥
लोकानामभावे प्रलये इव ॥५॥
व्यदीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समंततः
।
वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः॥६॥
असज्जन्त ततो वीरा वीरेष्वेव पृथक् पृथक्
।
नागा नागैः समाजग्मुस्तुरगा हयसादिभिः
।
रथा रथवरैरेव समाजग्मुर्मुदा युताः
।
तस्मिन् रात्रिमुखे घोरे तव पुत्रस्य शासनात्॥८॥
चतुरङ्गस्य सैन्यस्य संपातश्च महानभूत्
।
ततोऽर्जुनो महाराज कौरवाणामनीकिनीम्॥९॥
व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान्
।
धृतराष्ट्र उवाच।
तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम्॥१०॥
अमृष्यमाणे दुर्धर्षे कथमासीन्मनो हि वः
।
किमकुर्वत सैन्यानि प्रविष्टे परपीडने॥११॥
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत
।
के चैनं समरे वीरं प्रत्युद्ययुररिन्दमाः॥१२॥
द्रोणं च के व्यरक्षन्त प्रविष्टे श्वेतवाहने
।
केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः॥१३॥
के पृष्ठतश्चाप्यभवन्वीरा वीरान्विनिघ्नतः
।
के पुरस्तादङ्गच्छन्त निघ्नन्तः शात्रवान् रणे॥१४॥
यत्प्राविशन्महेष्वासः पञ्चालानपराजितः
।
नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान्॥१५॥
यो ददाह शरैर्द्रोणः पञ्चालानां रथव्रजान्
।
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान्॥१६॥
अव्यग्रानेव हि परान्कथयस्यपराजितान्
।
हृष्टानुदीर्णान्संग्रामे न तथा सूत मामकान्॥१७॥
हतांश्चैव विदीर्णांश्च विप्रकीर्णांश्च शंससि
।
रथिनो विरथांश्चैव कृतान् युद्धेषु मामकान्॥१८॥
सञ्जय उवाच।
द्रोणस्य मतमाज्ञाय योद्धकामस्य तां निशांम्
।
दुर्योधनो महाराज वश्यान् भ्रातॄनुवाच ह॥१९॥
कर्णं च वृषसेनं च मद्रराजं च कौरव
।
दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः॥२०॥
द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षन्तु पृष्ठतः
।
हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा॥२१॥
त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः
।
तांश्चैव पुरतः सर्वान्पुत्रस्ते समचोदयत्॥२२॥
आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पांडवाः
।
तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान् रणे॥२३॥
द्रोणो हि बलवान् युद्धे क्षिप्रहस्तः प्रतापवान्
।
निर्जयेत्त्रिदशान् युद्धे किमु पार्थान्ससोमकान्॥२४॥
ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः
।
द्रोणं रक्षत पाञ्चालाद्धृष्टद्युम्नान्महारथात्॥२५॥
पाण्डवीयेषु सैन्येषु न तं पश्याम कञ्चन
।
यो योधयेद्रणे द्रोणं धृष्टद्युम्नादृते नृपः॥२६॥
तस्मात्सर्वात्मना मन्ये भारद्वाजस्य रक्षणम्
।
सुगुप्तः पाण्डवान् हन्यात् सृञ्जयांश्च ससोमकान्॥२७॥
सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे
।
धृष्टद्युम्नं रणे द्रौणिर्हनिष्यति न संशयः॥२८॥
तथाऽर्जुनं च राधेयो हनिष्यति महारथः
।
भीमसेनमहं चापि युद्धे जेष्याभि दीक्षितः॥२९॥
शेषांश्च पाण्डवान् योधाः प्रसभं हीनतेजसः
।
सोऽयं मम जयो व्यक्तो दीर्घकालं भविष्यति॥३०॥
तस्माद्रक्षत संग्रामे द्रोणमेव महारथम्
।
इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्योधनस्तव॥३१॥
व्यादिदेश तथा सैन्यं तस्मिंस्तमसि दारुणे
।
ततः प्रववृते युद्धं रात्रौ भरतसत्तम॥३२॥
उभयोः सेनयोर्घोरं परस्परजिगीषया
।
अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः॥३३॥
नानाशस्त्रसमावायैरन्योन्यं समपीडयन्
।
द्रौणिः पाञ्चालराजं च भारद्वाजश्च सृञ्जयान्॥३४॥
छादयांचक्रिरे संख्ये शरैः सन्नतपर्वभिः
।
पाण्डुपाञ्चालसैन्यानां कौरवाणां च भारत॥३५॥
आसीन्निष्टानको घोरो निघ्नतामितरेतरम्
।
नैवास्माभिस्तथा पूर्वैर्दृष्टपूर्वं तथाविधम्॥३६॥
श्रुतं वा यादृशं युद्धमासीद्रौद्रं भयानकम्॥३७॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे संकुलयुद्धे चतुःषष्ट्यधिकशततमोऽध्यायः॥१६४॥
सञ्जय उवाच।
वर्तमाने तदा रौद्रे रात्रियुद्धे विशांपते
।
सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः॥१॥
वर्तमाने इति ॥१॥
अब्रवीत्पाण्डवांश्चैव पञ्चालांश्चैव सोमकान्
।
अभिद्रवत संयात द्रोणमेव जिघांसया॥२॥
राज्ञस्ते वचनाद्राजन्पञ्चालाः सृञ्जयास्तथा
।
द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान् रवान्॥३॥
तं तु ते प्रतिगर्जन्तः प्रत्युद्यातास्त्वमर्षिताः
।
यथाशक्ति यथोत्साहं यथासत्त्वं च संयुगे॥४॥
कृतवर्मा तु हार्दिक्यो युधिष्ठिरमुपाद्रवत्
।
द्रोणं प्रति समायान्तं मत्तो मत्तमिव द्विपम्॥५॥
शैनेयं शरवर्षाणि विकिरन्तं समन्ततः
।
अभ्ययात्कौरवो राजन् भूरिः संग्राममूर्धनि॥६॥
सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम्
।
कर्णो वैकर्तनो राजन्वारयामास पाण्डवम्॥७॥
भीमसेनमथायान्तं व्यादितास्यमिवान्तकम्
।
स्वयं दुर्योधनो राजा प्रतीपं मृत्युमाव्रजत्॥८॥
नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम्
।
शकुनिः सौबलो राजन्वारयामास सत्वरः॥९॥
शिखण्डिनमथायान्तं रथेन रथिनां वरम्
।
कृपः शारद्वतो राजन्वारयामास संयुगे॥१०॥
प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयः
।
दुःशासनो महाराज यत्तो यत्तमवारयत्॥११॥
भैमसेनिमथायान्तं मायाशतविशारदम्
।
अश्वत्थामा महाराज राक्षसं प्रत्यषेधयत्॥१२॥
भैमसेनिं घटोत्कचम् ॥१२॥
द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम्
।
वारयामास समरे द्रोणप्रेप्सुं महारथम्॥१३॥
विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति
।
मद्रराजः सुसंक्रुद्धो वारयामास भारत॥१४॥
शतानीकमथायान्तं नाकुलिं रभसं रणे
।
चित्रसेनो रुरोधाशु शरैर्द्रोणपरीप्सया॥१५॥
अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम्
।
अलंबुषो महाराज राक्षसेन्द्रो न्यवारयत्॥१६॥
तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान् रणे
।
धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत्॥१७॥
तथान्यान्पाण्डुपुत्राणां समायातान्महारथान्
।
तावका रथिनो राजन्वारयामासुरोजसा॥१८॥
गजारोहा गजैस्तूर्णं सन्निपत्य महामृधे
।
योधयन्तश्च मृद्मन्तः शतशोऽथ सहस्रशः॥१९॥
निशीथे तुरगा राजन्द्रावयन्तः परस्परम्
।
समदृश्यन्त वेगेन पक्षवन्तो यथाऽद्रयः॥२०॥
सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः
।
समागच्छन्महाराज विनदन्तः पृथक् पृथक्॥२१॥
नरास्तु बहवस्तत्र समाजग्मुः परस्परम्
।
गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च संयुगे॥२२॥
कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम्
।
वारयामास संक्रुद्धो वेलेवोद्धृतमर्णवम्॥२३॥
युधिष्ठिरस्तु हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः
।
पुनर्विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत्॥२४॥
कृतवर्मा तु संक्रुद्धो धर्मपुत्रस्य मारिष
।
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः॥२५॥
अथान्यद्धनुरादाय धर्मपुत्रो महारथः
।
हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत्॥२६॥
माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष
।
प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः॥२७॥
माधवः कृतवर्मा ॥२७॥
तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च
।
प्राहिणोन्निशितान्बाणान्पञ्च राजच्छिलाशितान्॥२८॥
ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम्
।
प्राविशन्धरणीं भित्त्वा वल्मीकमिव पन्नगाः॥२९॥
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्
।
विव्याध पाण्डवं षष्ट्या सुतं च नवभिः शरैः॥३०॥
तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम्
।
चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद्धनुः॥३१॥
सा हेमचित्रा महती पाण्डवेन प्रवेरिता
।
निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम्॥३२॥
एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः
।
हार्दिक्यं छादयामास शरैः सन्नतपर्वभिः॥३३॥
ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी
।
व्यश्वसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम्॥३४॥
ततस्तु पाण्डवो ज्येष्ठः खड्गं चर्म समाददे
।
तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे॥३५॥
तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम्
।
अप्रैषीत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः॥३५॥
तमापतन्तं सहसा धर्मराजभुजच्युतम्
।
द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव॥३६॥
ततः शरशतेनाजौ धर्मपुत्रमवाकिरत्
।
कवचं चास्य संक्रुद्धः शरैस्तीक्ष्णैरदारयत्॥३७॥
हार्दिक्यं शरसंछन्नं कवचं तन्महाधनम्
।
व्यशीर्यत रणे राजंस्ताराजालमिवाम्बरात्॥३८॥
स च्छिन्नधन्वा विरथः शर्णिवर्मा शरार्दितः
।
अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः॥४०॥
कृतवर्मा तु निर्जित्य धर्मात्मानं युधिष्ठिरम्
।
पुनर्द्रोणस्य जुगुपे चक्रमेव महात्मनः॥४१॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे युधिष्ठिरापयानं नाम पञ्चषष्ट्यधिकशततमोऽध्यायः॥१६५॥
सञ्जय उवाच।
भूरिस्तु समरे राजञ्शैनेयं रथिनां वरम्
।
आपतन्तमपासेधत्प्रयाणादिव कुञ्जरम्॥१॥
भूरिरिति । प्रयाणाद्यानस्थानात् । प्रवणादिति पाठे प्रवणं प्रकृष्टं वनं जलम् ॥१॥
अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः
।
विव्याध हृदये तस्य प्रास्त्रवत्तस्य शोणितम्॥२॥
तस्य सात्यकेः । तस्य तस्माद्धृदयात् ॥२॥
तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम्
।
दशभिर्निशितैस्तीक्ष्णैरविध्यत भुजान्तरे॥३॥
तावन्योन्यं महाराज ततक्षाते शरैर्भृशम्
।
क्रोधसंरक्तनयनौ क्रोधाद्विस्फार्य कार्मुके॥४॥
तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा
।
क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः॥५॥
तावन्योन्यं शरै राजन्संछाद्य समवस्थितौ
।
मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत्॥६॥
ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव
।
धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः॥७॥
अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः
।
विव्याध हृदये तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्॥८॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः
।
धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत॥९॥
स विद्ध्वा सात्वतं बाणैस्त्रिभिरेव विशांपते
।
धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव॥१०॥
छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्च्छितः
।
प्रजहार महावेगां शक्तिं तस्य महोरसि॥११॥
स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात्
।
लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया॥१२॥
लोहिताङ्गः कुजः । यदृच्छया दैवेनेत्यभूतोपमा ॥१२॥
तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः
।
अभ्यधावत वेगेन शैनेयं प्रति संयुगे॥१३॥
तिष्ठ तिष्ठेति चाभाष्य शैनेयं स नराधिप
।
अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः॥१४॥
तमापतन्तं संरब्धं शैनेयस्य रथं प्रति
।
घटोत्कचोऽब्रवीद्राजन्नादं मुक्त्वा महारथः॥१५॥
तिष्ठ तिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि
।
एष त्वां निहनिष्यामि महिषं षण्मुखो यथा॥१६॥
महिषमसुरम् ॥१६॥
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे
।
इत्युक्त्वा क्रोधताम्राक्षो राक्षसः परवीरहा॥१७॥
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी
।
रथाक्षमात्रैरिषुभिरभ्यवर्षद्धटोत्कचः॥१८॥
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः
।
शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः॥१९॥
शातयामास समरे तरसा द्रौणिरुत्स्मयन्
।
ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः॥२०॥
समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिन्दमम्
।
स शरैराचितस्तेन राक्षसो रणमूर्धनि॥२१॥
व्यकाशत महाराज श्वाविच्छललतो यथा
।
ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान्॥२२॥
श्वाविच्छल्यकः शललतः शललाभिः ॥२२॥
शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिप्रभैः
।
क्षुरप्रैरर्धचन्द्रैश्च नाराचैः सशिलीमुखैः॥२३॥
वराहकर्णैर्नालीकैर्विकर्णैश्चाभ्यवीवृषत्
।
तां शस्त्रवृष्टिमतुलां वज्राशनिसमस्वनाम्॥२४॥
पतन्तीमुपरि क्रुद्धा द्रौणिरव्यथितेन्द्रियः
।
सुदुःसहां शरैर्घोरैर्दिव्यास्त्रप्रतिमन्त्रितैः॥२५॥
व्यधमत्सुमहातेजा महाभ्राणीव मारुतः
।
ततोन्तरिक्षे बाणानां संग्रामोऽन्य इवाभवत्॥२६॥
घोररूपो महाराज योधानां हर्षवर्धनः
।
ततोऽस्त्रसंघर्षकृतैर्विस्फुलिङ्गैः समन्ततः॥२७॥
बभौ निशामुखे व्योम खद्योतैरिव संवृतम्
।
स मार्गणगणैर्द्रोणिर्दिशः प्रच्छाद्य सर्वतः॥२८॥
प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत्
।
ततः प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे॥२९॥
विगाढे रजनीमध्ये शक्रप्रह्लादयोरिव
।
ततो घटोत्कचो बाणैर्दशभिर्द्रौणिमाहवे॥३०॥
जघानोरसि संक्रुद्धः कालज्वलनसन्निभैः
।
स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः॥३१॥
चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः
।
स मोहमनुसंप्राप्तो ध्वजयष्टिं समाश्रितः॥३२॥
ततो हाहाकृतं सैन्यं तव सर्वं जनाधिप
।
हतं स्म मेनिरे सर्वे तावकास्तं विशांपते॥३३॥
तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे
।
पञ्चालाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे॥३४॥
प्रतिलभ्य ततः संज्ञामश्वत्थामा महाबलः
।
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः॥३५॥
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम्
।
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम्॥३६॥
स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः
।
विवेश वसुधामुग्रः सपुंखः पृथिवीपते॥३७॥
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्
।
राक्षसेन्द्रः सुबलवान्द्रौणिना रणशालिना॥३८॥
दृष्ट्वा विमूढं हैडिम्बं सारथिस्तु रणाजिरात्
।
द्रौणेः सकाशात्संभ्रान्तस्त्वपनिन्ये त्वरान्वितः॥३९॥
तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम्
।
ननाद सुमहानादं द्रोणपुत्रो महारथः॥४०॥
पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत
।
वपुषाऽतिप्रजज्वाल मध्याह्न इव भास्करः॥४१॥
भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति
।
स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः॥४२॥
तं भीमसेनो दशभिः शरैर्विव्याध मारिष
।
दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत॥४३॥
तौ सायकैरवच्छिन्नावदृश्येतां रणाजिरे
।
मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ॥४४॥
अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः
।
पञ्चभिर्भरतश्रेष्ठ तिष्ठतिष्ठेति चाब्रवीत्॥४५॥
तस्य भीमो धनुश्छित्त्वा ध्वजं च दशभिः शरैः
।
विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम्॥४६॥
ततो दुर्योधनः क्रुद्धो धनुरन्यन्महत्तरम्
।
गृहीत्वा भरतश्रेष्ठो भीमसेनं शितैः शरैः
।
अपीडयद्रणमुखे पश्यतां सर्वधन्विनाम्॥४७॥
तान्निहत्य शरान्भीमो दुर्योधनधनुश्च्युतान्
।
कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्॥४८॥
दुर्योधनस्तु संक्रुद्धो भीमसेनस्य मारिष
।
क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत॥४९॥
अथान्यद्धनुरादाय भीमसेनो महाबलः
।
विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः॥५०॥
तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत्
।
द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा॥५१॥
आत्तमात्तं महाराज भीमस्य धनुराच्छिनत्
।
तव पुत्रो महाराज जितकाशी मदोत्कटः॥५२॥
स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः
।
शक्तिं चिक्षेप समरे सर्वपारसवीं शुभाम्॥५३॥
मृत्योरिव स्वसारं हि दीप्तां वह्निशिखामिव
।
सीमन्तमिव कुर्वन्तीं नभसोऽग्निसमप्रभाम्॥५४॥
अप्राप्तामेव तां शक्तिं त्रिधा चिच्छेद कौरवः
।
पश्यतः सर्वलोकस्य भीमस्य च महात्मनः॥५५॥
ततो भीमो महाराज गदां गुर्वीं महाप्रभाम्
।
चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति॥५६॥
ततः सा सहसा वाहांस्तव पुत्रस्य संयुगे
।
सारथिं च गदा गुर्वी ममर्दास्य रथं पुनः॥५७॥
पुत्रस्तु तव राजेन्द्र भीमाद्भीतः प्रणश्य च
।
आरुरोह रथं चान्यं नन्दकस्य महात्मनः॥५८॥
प्रणश्य निलीनो भूत्वा ॥५८॥
ततो भीमो हतं मत्वा तव पुत्रं महारथम्
।
सिंहनादं महच्चक्रे तर्जयन्निशि कौरवान्॥५९॥
तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम्
।
ततोऽतिचुक्रुशुः सर्वे ते हाहेति समन्ततः॥६०॥
तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम्
।
भीमसेनस्य नादं च श्रुत्वा राजन् महात्मनः॥६१॥
ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम्
।
अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः॥६२॥
पञ्चालाः केकया मत्स्याः सृञ्जयाश्च विशांपते
।
सर्वोद्योगेनाभिजग्मुर्द्रोणमेव युयुत्सया॥६३॥
तत्रासीत्सुमहद्युद्धं द्रोणस्याथ परैः सह
।
घोरे तमसि मग्नानां निघ्नतामितरेतरम्॥६४॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे दुर्योधनापयाने षड्षष्ट्यधिकशततमोऽध्यायः॥१६६॥
सञ्जय उवाच।
सहदेवमथायान्तं द्रोणप्रेप्सुं विशांपते
।
कर्णो वैकर्तनो युद्धे वारयामास भारत॥१॥
सहदेवमथायान्तमिति शतानीकमिति । चाध्यायौ स्पष्टार्थौ ॥१॥
सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः
।
पुनर्विव्याध दशभिर्विशिखैर्नतपर्वभिः॥२॥
तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम्
।
सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत्॥३॥
ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान्
।
कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत्॥४॥
तस्य कर्णो हयान्हत्वा शरैः सन्नतपर्वभिः
।
सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम्॥५॥
विरथः सहदेवस्तु खड्गं चर्म समाददे
।
तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव॥६॥
अथ गुर्वीं महाधोरां हेमचित्रां महागदाम्
।
प्रेषयामास संक्रुद्धो वैकर्तनरथं प्रति॥७॥
तामापतन्तीं सहसा सहदेवप्रचोदिताम्
।
व्यष्टंभयच्छरैः कर्णो भूमौ चैनामपातयत्॥८॥
गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः
।
शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः॥९॥
ससंभ्रमं ततस्तूर्णमवप्लुत्य रथोत्तमात्
।
सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम्॥१०॥
रथचक्रं प्रगृह्याजौ मुमोचाधिरथं प्रति
।
तदाऽपतद्वै सहसा कालचक्रमिवोद्यतम्॥११॥
शरैरनेकसाहस्त्रैराच्छिनत्सूतनन्दनः
।
तस्मिंस्तु निहते चक्रे सूतजेन महात्मना॥१२॥
ईषादण्डकयोक्रांश्च युगानि विविधानि च
।
हस्त्यंगानि तथाश्वांश्च मृतांश्च पुरुषान्बहून्॥१३॥
चिक्षेप कर्णमुद्दिश्य कर्णस्तान्व्यधमच्छरैः
।
स निरायुधमात्मानं ज्ञात्वा माद्रवतीसुतः॥१४॥
वार्यमाणस्तु विशिखैः सहदेवो रणं जहौ
।
तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ॥१५॥
अब्रवीत्प्रहसन्वाक्यं सहदेवं विशांपते
।
मा युध्यस्व रणेऽधीर विशिष्टै रथिभिः सह॥१६॥
सदृशैर्युध्य माद्रेय वचो मे मा विशंकिथाः
।
अथैनं धनुषोऽग्रेण तुदन्भूयोऽब्रवीद्वचः॥१७॥
एषोऽर्जुनो रणे तूर्णं युध्यते कुरुभिः सह
।
तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे॥१८॥
एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः
।
प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रदहन्निव॥१९॥
वधं प्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा
।
कुन्त्याः स्मृत्वा वचो राजन् सत्यसन्धो महायशाः॥२०॥
सहदेवस्ततो राजन्विमनाः शरपीडितः
।
कर्णवाक्शरतप्तश्च जीवितान्निरविद्यत॥२१॥
आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः
।
जनमेजयस्य समरे त्वरायुक्तो महारथः॥२२॥
विराटं सहसेनं तु द्रोणं वै द्रुतमागतम्
।
मद्रराजः शरौघेण च्छादयामास धन्विनम्॥२३॥
तयोः समभवद्युद्धं समरे दृढधन्विनोः
।
यादृशं ह्यभवद्राजन् जंभवासवयोः पुरा॥२४॥
मद्रराजो महाराज विराटं वाहिनीपतिम्
।
आजघ्ने त्वरितस्तूर्णं शतेन नतपर्वणाम्॥२५॥
प्रतिविव्याध तं राजन्नवभिर्निशितैः शरैः
।
पुनश्चैनं त्रिसप्तत्या भूयश्चैव शतेन तु॥२६॥
तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः
।
सुतं ध्वजं च समरे शराभ्यां संन्यपातयत्॥२७॥
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः
।
तस्थौ विस्फारयंश्चापं विमुञ्चंश्च शिताञ्छरान्॥२८॥
शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम्
।
रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः॥२९॥
शतानीकमथायान्तं मद्रराजो महामृधे
।
विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम्॥३०॥
तस्मिंस्तु निहते वीरे विराटो रथसत्तमः
।
आरुरोह रथं तूर्णं तमेव ध्वजमालिनम्॥३१॥
ततो विस्फार्य नयने क्रोधाद्द्विगुणविक्रमः
।
मद्रराजरथं तूर्णं छायामास पत्रिभिः॥३२॥
ततो मद्राधिपः क्रुद्धः शरेणानतपर्वणा
।
आजघानोरसि दृढं विराटं वाहिनीपतिम्॥३३॥
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्
।
कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ॥३४॥
सारथिस्तमपोवाह समरे शरविक्षतम्
।
ततः सा महती सेना प्राद्रवन्निशि भारत॥३५॥
वध्यमाना शरशतैः शल्येनाहवशोभिना
।
तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनञ्जयौ॥३६॥
प्रयातौ तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः
।
तौ तु प्रत्युद्ययौ राजन् राक्षसेन्द्रो ह्यलंबुषः॥३७॥
अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम्
।
तुरङ्गममुखैर्युक्तं पिशाचैर्घोरदर्शनैः॥३८॥
लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम्
।
कार्ष्णायसमयं घोरमृक्षचर्मसमावृतम्॥३९॥
रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता
।
ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजता॥४०॥
स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः
।
रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट्र॥४१॥
किरन्बाणगणान् राजञ्शतशोऽर्जुनमूर्धनि
।
अतितीव्रं महद्युद्धं नरराक्षसयोस्तदा॥४२॥
द्रष्टॄणां प्रीतिजननं सर्वेषां तत्र भारत
।
गृध्र-काक-बलोलूक-कङ्क-गोमायुहर्षणम्॥४३॥
तमर्जुनः शतनव पत्रिणां समताडयत्
।
नवभिश्च शितैर्बाणैर्ध्वजं चिच्छेद भारत॥४४॥
सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम्
।
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान्॥४५॥
पुनः सज्यं कृतं चापं तदप्यस्य द्विधाऽच्छिनत्
।
विरथस्योद्यतं खड्गं शरेणास्य द्विधाऽकरोत्॥४६॥
अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ
।
पार्थोऽविध्यद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात्॥४७॥
तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ
।
किरञ्शरगणान् राजन्नरवारणवाजिषु॥४८॥
वध्यमाना महाराज पाण्डवेन यशस्विना
।
सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव दुमाः॥४९॥
तेषु तूत्साद्यमानेषु फाल्गुनन महात्मना
।
संप्राद्रवद्बलं सर्वं पुत्राणां ते विशांपते॥५०॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे लंबुषपराभवे सप्तषष्ट्यधिकशततमोऽध्यायः॥१६७॥
सञ्जय उवाच।
शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव
।
चित्रसेनस्तव सुतो वारयामास भारत॥१॥
शतानीकमिति ॥१॥
नाकुलिश्चित्रसेनं तु विद्ध्वा पञ्चभिराशुगैः
।
स तु तं प्रति विव्याध दशभिर्निशितैः शरैः॥२॥
चित्रसेनो महाराज शतानीकं पुनर्युधि
।
नवभिर्निशितैर्बाणैराजघान स्तनान्तरे॥३॥
नाकुलिस्तस्य विशिखैर्वर्मसन्नतपर्वभिः
।
गात्रात्संच्यावयामास तदद्भुतमिवाभवत्॥४॥
सोपेतवर्मा पुत्रस्ते विरराज भृशं नृप
।
उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः॥५॥
ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः
।
धनुश्चैव महाराज यतमानस्य संयुगे॥६॥
स च्छिन्नधन्वा समरे विवर्मा च महारथः
।
धनुरन्यन्महाराज जग्राहारिविदारणम्॥७॥
ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः
।
विव्याध समरे क्रुद्धो भरतानां महारथः॥८॥
शतानीकोऽथ संक्रुद्धश्चित्रसेनस्य मारिष
।
जघान चतुरो वाहान्सारथिं च नरोत्तमः॥९॥
अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः
।
नाकलिं पञ्चविंशत्या शराणामार्दयद्बली॥१०॥
तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे
।
अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम्॥११॥
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः
।
आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः॥१२॥
द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम्
।
वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा॥१३॥
यज्ञसेनस्तु समरे कर्णपुत्रं महारथम्
।
षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ॥१४॥
वृषसेनस्तु संक्रुद्धो यज्ञसेनं रथे स्थितम्
।
बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे॥१५॥
तावुभौ शरनुन्नाङ्गौ शरकण्टकितौ रणे
।
व्यभ्राजेतां महाराज श्वाविधौ शललैरिव॥१६॥
रुक्मपुंखैः प्रसन्नाग्रैः शरैश्छिन्नतनुच्छदौ
।
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे॥१७॥
तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ
।
किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे॥१८॥
वृषसेनस्ततो राजन् द्रुपदं नवाभः शरैः
।
विद्ध्वा विव्याध सप्तत्या पुनरन्यैस्त्रिभिस्त्रिभिः॥१९॥
ततः शरसहस्त्राणि विमुञ्चन्विबभौ तदा
।
कर्णपुत्रो महाराज वर्षमाण इवांबुदः॥२०॥
द्रुपदस्तु ततः क्रुद्धो वृषसेनस्य कार्मुकम्
।
द्विधा चिच्छेद भल्लेन पीतेन निशितेन च॥२१॥
सोऽन्यत्कार्मुकमादाय रुक्मबद्धं नवं दृढम्
।
तूणादाकृष्य विमलं भल्लं पीतं शितं दृढम्॥२२॥
कार्मुके योजयित्वा तं द्रुपदं सन्निरीक्ष्य च
।
आकर्णपूर्णं मुमुचे त्रासयन्सर्वसोमकान्॥२३॥
हृदयं तस्य भित्त्वा च जगाम वसुधातलम्
।
कश्मलं प्राविशद्राजा वृषसेनशराहतः॥२४॥
सारथिस्तमपोवाह स्मरन्सारथिचेष्टितम्
।
तस्मिन्प्रभग्ने राजेन्द्र पञ्चालानां महारथे॥२५॥
ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम्
।
संप्राद्रवत्तदा राजन्निशीथे भैरवे सति॥२६॥
प्रदीपैरपरित्यक्तैर्ध्वलद्भिस्तैः समन्ततः
।
व्यराजत मही राजन् वीताभ्रा द्यौरिव ग्रहैः॥२७॥
तथाऽङ्गदैर्निपतितैर्व्यराजत वसुंधरा
।
प्रावृट्काले महाराज विद्युद्भिरिव तोयदः॥२८॥
ततः कर्णसुतान्त्रस्ताः सोमका विप्रदुद्रुवुः
।
यथेन्द्रभयवित्रस्ता दानवास्तारकामये॥२९॥
तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः
।
व्यराजन्त महाराज प्रदीपैरवभासिताः॥३०॥
तांस्तु निर्जित्य समरे कर्णपुत्रोऽप्यरोचत
।
मध्यंदिनमनुप्राप्तो घर्मांशुरिव भारत॥३१॥
तेषु राजसहस्त्रेषु तावकेषु परेषु च
।
एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान्॥३२॥
स विजित्य रणे शूरान्सोमकानां महारथान्
।
जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः॥३३॥
प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून्
।
दुःशासनस्तव सुतः प्रत्यगच्छन्महारथः॥३४॥
तयोः समागमो राजंश्चित्ररूपो बभूव ह
।
व्यपेतजलदे व्योम्नि बुधभास्करयोरिव॥३५॥
प्रतिविध्यं तु समरे कुर्वाणं कर्म दुष्करम्
।
दुःशासनस्त्रिभिर्बाणैर्ललाटे समविध्यत॥३६॥
सोऽतिविद्धो बलवता तव पुत्रेण धन्विना
।
विरराज महाबाहुः सशृङ्ग इव पर्वतः॥३७॥
दुःशासनं तु समरे प्रतिविन्ध्यो महारथः
।
नवभिः सायकैर्विद्ध्वा पुनर्विव्याध सप्तभिः॥३८॥
तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम्
।
प्रतिविन्ध्यहयानुग्रैः पातयामास सायकैः॥३९॥
सारथिं चास्य भल्लेन ध्वजं च समपातयत्
।
रथं च तिलशो राजन् व्यधमत्तस्य धन्विनः॥४०॥
पताकाश्च सतूणीरा रश्मीन्योक्त्राणि च प्रभो
।
चिच्छेद तिलशः क्रुद्धः शरैः सन्नतपर्वभिः॥४१॥
विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः
।
अयोधयत्तव सुतं किरञ्शरशतान्बहून्॥४२॥
क्षुरप्रेण धनुस्तस्य चिच्छेद तनयस्तव
।
अथैनं दशभिर्बाणैश्छिन्नधन्वानमार्दयत्॥४३॥
तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः
।
अन्ववर्तन्त वेगेन महत्या सेनया सह॥४४॥
आप्लुतः सततो यानं सुतसोमस्य भास्वरम्
।
धनुर्गृह्य महाराज विव्याध तनयं तव॥४५॥
ततस्तु तावकाः सर्वे परिवार्य सुतं तव
।
अभ्यवर्तन्त संग्रामे महत्या सेनया वृताः॥४६॥
ततः प्रववृते युद्धं तव तेषां च भारत
।
निशीथे दारुणे काले यमराष्ट्रविवर्धनम्॥४७॥
इति श्रीमहाभारते घटोत्कचवधपर्वणि रात्रियुद्धे शतानीकादियुद्धे अष्टषष्ट्यधिकशततमोऽध्यायः॥१६८॥
सञ्जय उवाच।
नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव
।
अभ्ययात्सौबलःक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्॥१॥
नकुलमिति ॥१॥
कृतवैरौ तु तौ वीरावन्योन्यवधकांक्षिणौ
।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः॥२॥
यथैव नकुलो राजन् शरवर्षाण्यमुञ्चत
।
तथैव सौबलश्चापि शिक्षां सन्दर्शयन्युधि॥३॥
तावुभौ समरे शूरौ शरकण्टकिनौ तदा
।
व्यराजेतां महाराज श्वाविधौ शललैरिव॥४॥
रुक्मपुंखैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ
।
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे॥५॥
तपनीयनिभौ चित्रौ कल्पवृक्षाविव द्रुमौ
।
किंशुकाविव चोत्फुल्लौ प्रकाशेते रणाजिरे॥६॥
तावुभौ समरे शूरौ शरकण्टकिनौ तदा
।
व्यराजेतां महाराज कण्टकैरिव शाल्मली॥७॥
सुजिह्यं प्रेक्षमाणौ च राजन्विवृतलोचनौ
।
क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम्॥८॥
स्यालस्तु तव संक्रुद्धो माद्रीपुत्रं हसन्निव
।
कर्णिनैकेन विव्याध हृदये निशितेन ह॥९॥
नकुलस्तु भृशं विद्धः स्यालेन तव धन्विना
।
निषसाद रथोपस्थे कश्मलं चाविशन्महत्॥१०॥
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम्
।
ननाद शकुनी राजंस्तपान्ते जलदो यथा॥११॥
प्रतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः
।
अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः॥१२॥
संक्रुद्धः शकुनिं षष्ठ्या विव्याध भरतर्षभ
।
पुनश्चैनं शतेनैव नाराचानां स्तनान्तरे॥१३॥
अथास्य सशरं चापं मुष्टिदेशेऽच्छिनत्तदा
।
ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत्॥१४॥
विशिखेन च तीक्ष्णेन पीतेन निशितेन च
।
ऊरू निर्भिद्य चैकेन नकुलः पाण्डुनन्दनः॥१५॥
ऊरू इति । मण्डलं चरतः शकुनेर्द्वावूरू एकेनैव बाणेन बिभेद ॥१५॥
श्येनं सपक्षं व्याधेन पातयामास तं तदा
।
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्॥१६॥
यथा खे श्येनं पक्षाभ्यां सहितं वामदक्षिणगामिनं पातयेदेवमिति लुप्तोपमा । व्याधेन बाणेन विध्यत्यनेनेति व्याधो बाणः ॥१६॥
ध्वजयष्टिं परिक्लिश्य कामुकः कामिनीं यथा
।
तं विसंज्ञं निपतितं दृष्ट्वा स्यालं तवानघ॥१७॥
परिक्लिश्य क्लेशेन ध्वजयष्टिं श्रित इति शेषः ॥१७॥
अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात्
।
ततः संचुक्रुशुः पार्था ये च तेषां पदानुगाः॥१८॥
निर्जित्य च रणे शत्रुं नकुलः शत्रुतापनः
।
अब्रवीत्सारथिं क्रुद्धो द्रोणानीकाय मां वह॥१९॥
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य सारथिः
।
प्रायात्तेन तदा राजन् यत्र द्रोणो व्यवस्थितः॥२०॥
शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशांपते
।
कृपः शारद्वतो यत्तः प्रत्यगच्छत्सवेगितः॥२१॥
गौतमं द्रुतमायान्तं द्रोणानकिमरिन्दमम्
।
विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव॥२२॥
तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः
।
पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव॥२३॥
महद्युद्धं तयोरासीद्घोररूपं भयानकम्
।
यथा देवासुरे युद्धे शंबरामरराजयोः॥२४॥
शरजालावृतं व्योम चक्रतुस्तौ महारथौ
।
मेघाविव तपापाये वीरौ समरदुर्मदौ॥२५॥
प्रकृत्या घोररूपं तदासीद्धोरतरं पुनः
।
रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम्॥२६॥
कालरात्रिनिभा ह्यासीद्घोररूपा भयानका
।
शिखण्डी तु महाराज गौतमस्य महद्धनुः॥२७॥
अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा
।
तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम्॥२८॥
स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम्
।
तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः॥२९॥
साऽपतन्मेदिनीं दीप्ता भासयन्ती महाप्रभा
।
अथान्यद्धनुरादाय गौतमो रथिनां वरः॥३०॥
प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम्
।
स च्छाद्यमानः समरे गौतमेन यशस्विना॥३१॥
न्यषीदत रथोपस्थे शिखण्डी रथिनां वरः
।
सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि॥३२॥
आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत
।
विमुखं तु रणे दृष्ट्वा याज्ञसेनिं महारथम्॥३३॥
पञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः
।
तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम्॥३४॥
महत्या सेनया सार्धं ततो युद्धमवर्तत
।
रथानां च रणे राजन्नन्योन्यमभिधावताम्॥३५॥
बभूव तुमुलः शब्दो मेघानां गर्जतामिव
।
द्रवतां सादिनां चैव गजानां च विशांपते॥३६॥
अन्योन्यमभितो राजन् क्रूरमायोधनं बभौ
।
पत्तीनां द्रवतां चैव पादशब्देन मेदिनी॥३७॥
अकम्पत महाराज भयत्रस्तेव चाङ्गना
।
रथिनो रथमारुह्य प्रद्रुता वेगवत्तरम्॥३८॥
रथिन इति । प्रद्रुता रथिनो वेगवत्तरं रथमारुह्य तत्पतिमगृह्णन् शलभानिव वायसा इति उत्तरेण सह योज्यम् । रथं रथान् रथिनो रथपत्तीनति वा ॥३८॥
अगृह्णन्बहवो राजञ्शलभान्वायसा इव
।
तथा गजान्प्रभिन्नांश्च संप्रभिन्ना महागजाः॥३९॥
तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत
।
सादी सादिनमासाद्य पत्तयश्च पदातिनम्॥४०॥
समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः
।
धावतां द्रवतां चैव पुनरावर्ततामपि॥४१॥
बभूव तत्र सैन्यानां शब्दः सुविपुलो निशि
।
दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु॥४२॥
अदृश्यन्त महाराज महोल्का इव खाच्च्य्युताः
।
सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता॥४३॥
दिवसप्रतिमा राजन्बभूव रणमूर्धनि
।
आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति॥४४॥
तथा नष्टं तमो घोरं दीपैर्दीप्तैरितस्ततः
।
दिवं च पृथिवीं चैव दिशश्च प्रदिशस्तथा॥४५॥
रजसा तमसा व्याप्ता द्योतिताः प्रभया पुनः
।
अस्त्राणां कवचानां च मणीनां च महात्मनाम्॥४६॥
अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः
।
तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे॥४७॥
न किंचिद्विदुरात्मानमयमस्मीति भारत
।
अवधीत्समरे पुत्रं पिता भरतसत्तम॥४८॥
पुत्रश्च पितरं मोहात्सखायं च सखा तथा
।
स्वीस्त्रीयं पातुलश्चापि स्वस्त्रीयश्चापि मातुलम्॥४९॥
स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम्
।
निर्मर्यादमभूद्युद्धं रात्रौ भीरुभयानकम्॥५०॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे संकुलयुद्धे ऊनसप्तत्यधिकशततमोऽध्यायः॥१६९॥
सञ्जय उवाच।
तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे
।
धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत॥१॥
तस्मिन्निति ॥१॥
संदधानो धनुःश्रेष्ठं ज्यां विकर्षन्पुनः पुनः
।
अभ्यद्रवत द्रोणस्य रथं रुक्मविभूषितम्॥२॥
धृष्टद्युम्नमथायान्तं द्रोणस्यान्तचिकीर्षया
।
परिवव्रुर्महाराज पञ्चालाः पाण्डवैः सह॥३॥
तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम्
।
पुत्रास्ते सर्वतो यत्ता ररक्षुद्रौणमाहवे॥४॥
बलार्णवौ ततस्तौ तु समेयातां निशामुखे
।
वातोद्धूतौ क्षुब्धसत्त्वौ भैरवौ सागराविव॥५॥
ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः
।
विव्याध हृदये तूर्णं सिंहनादं ननाद च॥६॥
तं द्रोणः पञ्चविंशत्या विद्ध्वा भारत संयुगे
।
चिच्छेदान्येन भल्लेन धनुरस्य महास्वनम्॥७॥
धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ
।
उत्ससर्ज धनुस्तूर्णं सन्दश्य दशनच्छदम्॥८॥
ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान्
।
आददेऽन्यद्धनुः श्रेष्ठं द्रोणस्यान्ताचकर्षिया॥९॥
विकृष्य च धनुश्चित्रमाकर्णात्परवीरहा
।
द्रोणस्यान्तकरं घोरं व्यसृजत्सायकं ततः॥१०॥
स विसृष्टो बलवता शरो घोरो महामृधे
।
भासयामास तत्सैन्यं दिवाकर इवोदितः॥११॥
तं तु दृष्ट्वा शरं घोरं देव-गन्धर्व-मानवाः
।
स्वस्त्यस्तु समरे राजन् द्रोणायेत्यब्रुवन्वचः॥१२॥
तं तु सायकमायान्तमाचार्यस्य रथं प्रति
।
कर्णो द्वादशधा राजंश्चिच्छेद कृतहस्तवत्॥१३॥
स च्छिन्नो बहुधा राजन् सुतपुत्रेण धन्विना
।
निपपात शरस्तूर्णं निर्विषो भुजगो यथा॥१४॥
धृष्टद्युम्नं ततः कर्णो विव्याध दशभिः शरैः
।
पञ्चभिर्दोणपुत्रस्तु स्वयं द्रोणस्तु सप्तभिः॥१५॥
शल्यश्च दशभिर्बाणैस्त्रिभिर्दुःशासनस्तथा
।
दुर्योधनस्तु विंशत्या शकुनिश्चापि पञ्चभिः॥१६॥
पाञ्चाल्यं त्वरयाऽविध्यन्सर्व एव महारथाः
।
स विद्धः सप्तभिर्वीरैर्द्रोणस्यार्थे महाहवे॥१७॥
सर्वानसंभ्रमाद्राजन् प्रत्यविद्ध्यन्त्रिभिस्त्रिभिः
।
द्रोणं द्रौणिं च कर्णं च विव्याध च तवात्मजम्॥१८॥
ते भिन्ना धन्विना तेन धृष्टद्युम्नं पुनर्मृधे
।
विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः॥१९॥
द्रुमसेनस्तु संक्रुद्धो राजन्विव्याध पत्रिणा
।
त्रिभिश्चान्यैः शरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्॥२०॥
स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः
।
स्वर्णपुङ्खैः शिलाधौतैः प्राणान्तकरणैर्युधि॥२१॥
भल्लेनान्येन तु पुनः सुवर्णोज्वलकुण्डलम्
।
निचकर्त शिरः कायाद्द्रुमसेनस्य वीर्यवान्॥२२॥
तच्छिरो न्यपतद्भूमौ सन्दष्टौष्ठपुटं रणे
।
महावातसमुद्भूतं पक्वं तालफलं यथा॥२३॥
तान्स विद्ध्वा पुनर्योधान् वीरः सुनिशितैः शरैः
।
राधेयस्याच्छिनद्भल्लैः कार्मुकं चित्रयोधिनः॥२४॥
न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा
।
निकर्तनमिवात्युग्रं लांगूलस्य महाहरिः॥२५॥
हरिः सिंहः ॥२५॥
सोऽन्यद्धनुः समादाय क्रोधरक्तेक्षणः श्वसन्
।
अभ्यद्रवच्छरौघैस्तं धृष्टद्युम्नं महाबलम्॥२६॥
दृष्ट्वा कर्णं तु संरब्धं ते वीराः षड्रथर्षभाः
।
पाञ्चाल्यपुत्रं त्वरिताः परिवव्रुर्जिघांसया॥२७॥
षड्रथर्षभाः दुर्योधन-दुःशासन-द्रोण-कर्ण-शल्य-शकुनयः ॥२७॥
षण्णां योधप्रवीराणां तावकानां पुरस्कृतम्
।
मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नममंस्महि॥२८॥
एतस्मिन्नेव काले तु दाशार्हो विकिरञ्छरान्
।
धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत॥२९॥
तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम्
।
राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः॥३०॥
तं सात्यकिर्महाराज विव्याध दशभिः शरैः
।
पश्यतां सर्ववीराणां मां गास्तिष्ठेति चाब्रवीत्॥३१॥
स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः
।
आसीत्समागमो राजन् बलिवासवयोरिव॥३२॥
त्रासयन् रथघोषेण क्षत्रियान् क्षत्रियर्षभः
।
राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत॥३३॥
कम्पयन्निव घोषेण धनुषो वसुधां बली
।
सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत्॥३४॥
विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि
।
कर्णः शरशतैश्चापि शैनेयं प्रत्यविद्ध्यत॥३५॥
तथैव युद्ध्यमानोऽपि वृष्णीनां प्रवरो युधि
।
अभ्यवर्षच्छरैः कर्णं तद्युद्धमभवत्समम्॥३६॥
तावकाश्च महाराज कर्णपुत्रश्च दंशितः
।
सात्यकिं विव्यधुस्तूर्णं समंतान्निशितैः शरैः॥३७॥
अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य वा विभो
।
अविद्ध्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे॥३८॥
तेन बाणेन निर्विद्धो वृषसेनो विशांपते
।
न्यपतत्स रथे मूढो धनुरुत्सृज्य वीर्यवान्॥३९॥
ततः कर्णो हतं मत्वा वृषसेनं महारथम्
।
पुत्रशोकाभिसन्तप्तः सात्यकिं प्रत्यपीडयत्॥४०॥
पीड्यमानस्तु कर्णेन युयुधानो महारथः
।
विव्याध बहुभिः कर्णं त्वरमाणः पुनः पुनः॥४१॥
स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः
।
स हस्तावायधनुषी तयोश्चिच्छेद सात्वतः॥४२॥
तावन्ये धनुषी सज्ये कृत्वा शत्रुभयंकरे
।
युयुधानमविध्येतां समंतान्निशितैः शरैः॥४३॥
वर्तमाने तु संग्रामे तस्मिन्वीरवरक्षये
।
अतीव शुश्रुवे राजन् गाण्डीवस्य महास्वनः॥४४॥
श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निःस्वनम्
।
सूतपुत्रोऽब्रवीद्राजन् दुर्योधनमिदं वचः॥४५॥
एष सर्वां चमूं हत्वा मुख्यांश्चैव नरर्षभान्
।
पौरवांश्च महेष्वासो विक्षिपन्नुत्तमं धनुः॥४६॥
पार्थो विजयते तत्र गाण्डीवनिनदो महान्
।
श्रूयते रथघोषश्च वासवस्येव नर्दतः॥४७॥
करोति पाण्डवो व्यक्तं कर्मौपयिकमात्मनः
।
एषा विदार्यते राजन्बहुधा भारती चमूः॥४८॥
औपयिकं युक्तम् ॥४८॥
विप्रकीर्णान्यनेकानि न हि तिष्ठन्ति कर्हिचित्
।
वातेनेव समुद्धूतमभ्रजालं विदीर्यते॥४९॥
सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे
।
द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः॥५०॥
विद्धानां शतशो राजन् श्रूयते निःस्वनो महान्
।
शृणु दुन्दुभिनिर्घोषमर्जुनस्य रथं प्रति॥५१॥
निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे
।
हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान्॥५२॥
शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति
।
अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वतां वरः॥५३॥
इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान्
।
एष पाञ्चालराजस्य पुत्रो द्रोणेन संगतः॥५४॥
इह सात्यकिरूपं लक्ष्यं लभ्यते चेत् अयं वशीक्रियते चेदित्यर्थः ॥५४॥
सर्वतः संवृतो योधैः शूरैश्च रथसत्तमैः
।
सात्यकिं यदि हन्याम धृष्टद्युम्नं च पार्षतम्॥५५॥
सात्यकिधृष्टद्युम्नौ पाण्डवसेनायां सारभूतावभिमन्युवद्बहुभिर्मिलित्वा हन्तव्यावित्याह - सात्यकिमित्यादिना ॥५५॥
असंशयं महाराज ध्रुवो नो विजयो भवेत्
।
सौभद्रवदिमौ वीरौ परिवार्य महारथौ॥५६॥
प्रयतामो महाराज निहन्तुं वृष्णिपार्षतौ
।
सव्यसाची पुरोभ्येति द्रोणानीकाय भारत॥५७॥
संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुङ्गवैः
।
तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः॥५८॥
यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम्
।
ते त्वरध्वं तथा शूराः शराणां मोक्षणे भृशम्॥५९॥
यथा त्विह व्रजत्येष परलोकाय माधवः
।
तथा कुरु महाराज सुनीत्या सुप्रयुक्तया॥६०॥
माधवो मधुवंशजः सात्यकिः ॥६०॥
कर्णस्य मतमास्थाय पुत्रस्ते प्राह सौबलम्
।
यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम्॥६१॥
वृतः सहस्त्रैर्दशभिर्गजानामनिवर्तिनाम्
।
रथैश्च दशसाहस्त्रैस्तूर्णं याहि धनञ्जयम्॥६२॥
दुःशासनो दुर्विषहः सुबाहुर्दुःप्रधर्षणः
।
एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः॥६३॥
जहि कृष्णौ महाबाहो धर्मराजं च मातुल
।
नकुलं सहदेवं च भीमसेनं तथैव च॥६४॥
देवानामिव देवेन्द्र जयाशा त्वयि मे स्थिता
।
जहि मातुल कौन्तेयानसुरानिव पावकिः॥६५॥
पावकिः स्कन्दः ॥६५॥
एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः
।
महत्या सेनया सार्धं सह पुत्रैश्च ते विभो॥६६॥
प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान्
।
ततः प्रववृते युद्धं तावकानां परैः सह॥६७॥
प्रयाते सौबले राजन्पाण्डवानामनीकिनीम्
।
बलेन महता युक्तः सूतपुत्रस्तु सात्वतम्॥६८॥
अभ्ययात्त्वरितो युद्धे किरञ्शरशतान्बहून्
।
तथैव पार्थिवाः सर्वे सात्यकिं पर्यवारयन्॥६९॥
भारद्वाजस्ततो गत्वा धृष्टद्युम्नरथं प्रति
।
महद्युद्धं तदासीत्तु द्रोणस्य निशि भारत
।
धृष्टद्युम्नेन वीरेण पञ्चालैश्च सहाद्भुतम्॥७०॥
इति श्रीमहाभारते घटोत्कचवधपर्वणि रात्रियुद्धे संकुलयुद्धे सप्तत्यधिकशततमोऽध्यायः॥१७०॥
सञ्जय उवाच।
ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः
।
अमृष्यमाणाः संरब्धा युयुधानरथं प्रति॥१॥
तत इति ॥१॥
ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः
।
सादिभिश्च गजैश्चैव परिवव्रुः समन्ततः॥२॥
अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः
।
सिंहनादांस्ततश्चक्रुस्तर्जयन्ति स्म सात्यकिम्॥३॥
तेऽभ्यवर्षञ्छरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम्
।
त्वरमाणा महावीरा माधवस्य वधैषिणः॥४॥
तान् दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा
।
प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून्॥५॥
तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः
।
निचकर्त शिरांस्युग्रैः शरैः सन्नतपर्वभिः॥६॥
हस्तिहस्तान्हयग्रीवा बाहूनपि च सायुधान्
।
क्षुरप्रैश्छादयामास तावकानां स माधवः॥७॥
पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत
।
बभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो॥८॥
एतेषां युयुधानेन युध्यतां युधि भारत
।
बभूव तुमुलः शब्दः प्रेतानां क्रन्दतामिव॥९॥
तेन शब्देन महता पूरिताऽभूद्वसुन्धरा
।
रात्रिः समभवच्चैव तीव्ररूपा भयावहा॥१०॥
दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम्
।
श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणे॥११॥
सुतस्तवाव्रवीद्राजन् सारथिं रथिनां वरः
।
यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः॥१२॥
तेन संचोद्यमानस्तु ततस्तांस्तुरगोत्तमान्
।
सुतः संचोदयामास युयुधानरथं प्रति॥१३॥
ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः
।
शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत्॥१४॥
ततः पूर्णायतोत्सृष्टैः शरैः शोणितभोजनैः
।
दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत॥१५॥
दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः
।
शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः॥१६॥
ततः समभवद्युद्धं तुमुलं भरतर्षभ
।
पञ्चालानां च सर्वेषां भरतानां च दारुणम्॥१७॥
शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम्
।
सायकानामशीत्या तु विव्याधोरसि भारत॥१८॥
ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम्
।
सारथिं च रथात्तूर्णं पातयामास पत्रिणा॥१९॥
हताश्वे तु रथे तिष्ठन्पुत्रस्तव विशांपते
।
मुमोच निशितान्बाणान् शैनेयस्य रथं प्रति॥२०॥
शरान्पञ्चाशतस्तांस्तु शैनेयः कृतहस्तवत्
।
चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते॥२१॥
अथापरेण भल्लेन मुष्टिदेशे महद्धनुः
।
चिच्छेद तरसा युद्धे तव पुत्रस्य माधवः॥२२॥
विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः
।
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः॥२३॥
दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम्
।
द्रावयामास विशिखैर्निशामध्ये विशांपते॥२४॥
शकुनिश्चार्जुनं राजन्परिवार्य समंततः
।
रथैरनेकसाहस्त्रैर्गजैश्चापि सहस्रशः॥२५॥
तथा हयसहस्त्रैश्च नानाशस्त्रैरवाकिरत्
।
ते महास्त्राणि सर्वाणि विकिरन्तोऽर्जुनं प्रति॥२६॥
अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः
।
तान्यर्जुनः सहस्राणि रथवारणवाजिनाम्॥२७॥
प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम्
।
ततस्तु समरे शूरः शकुनिः सौबलस्तदा॥२८॥
विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव
।
पुनश्चैव शतेनास्य संरुरोध महारथम्॥२९॥
तमर्जुनस्तु विंशत्या विव्याध युधि भारत
।
अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत॥३०॥
निवार्य तान्बाणगणैर्युधि राजन्धनञ्जयः
।
जघान तावकान्योधान्वज्रपाणिरिवासुरान्॥३१॥
भुजैश्छिन्नैर्महीपाल हस्तिहस्तोपमैर्मृधे
।
समाकीर्णा मही भाति पञ्चास्यैरिव पन्नगैः॥३२॥
शिरोभिः सकिरीटैश्च सुनसैश्चारुकुण्डलैः
।
संदष्टौष्ठपुटैः क्रुद्धैस्तथैवोद्धृतलोचनैः॥३३॥
निष्कचूडामणिधरैः क्षत्रियाणां प्रियंवदैः
।
पङ्कजैरिव विन्यस्तैः पर्वतैर्विबभौ मही॥३४॥
कृत्वा तत्कर्म बीभत्सुरुग्रमुग्रपराक्रमः
।
विव्याध शकुनिं भूयः पञ्चभिर्नतपर्वभिः॥३५॥
अताडयदुलूकं च त्रिभिरेव तथा शरैः
।
उलूकस्तु तथा विद्धो वासुदेवमताडयत्॥३६॥
ननाद च महानादं पूरयन्निव मेदिनीम्
।
अर्जुनः शकुनेश्चापं सायकैरच्छिनद्रणे॥३७॥
निन्ये च चतुरो वाहान्यमस्य सदनं प्रति
।
ततो रथादवप्लुत्य सौबलो भरतर्षभ॥३८॥
उलूकस्य रथं तूर्णमारुरोह विशांपते
।
तावेकरथमारूढौ पितापुत्रौ महारथौ॥३९॥
पार्थं सिषिचतुर्बाणैर्गिरिं मेघाविवाम्बुभिः
।
तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः॥४०॥
विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः
।
अनिलेन यथाऽभ्राणि विच्छिन्नानि समन्ततः॥४१॥
विच्छिन्नानि तथा राजन् बलान्यासन् विशांपते
।
तद्बलं भरतश्रेष्ठ वध्यमानं तदा निशि॥४२॥
प्रदुद्राव दिशः सर्वा वीक्ष्यमाणं भयार्दितम्
।
उत्सृज्य वाहान्समरे चोदयन्तस्तथा परे॥४३॥
संभ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे
।
विजित्य समरे योधांस्तावकान् भरतर्षभ॥४४॥
दध्मतुर्मुदितौ शंखौ वासुदेवधनञ्जयौ
।
धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः॥४५॥
चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह
।
तन्निधाय धनुर्भूमौ द्रोणः क्षत्रियमर्दनः॥४६॥
आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम्
।
धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः॥४७॥
सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे
।
तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः॥४८॥
व्यधमत्कौरवीं सेनामासुरीं मघवानिव
।
वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष॥४९॥
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी
।
उभयोः सेनयोर्मध्ये नराश्वद्विपवाहिनी॥५०॥
यथा वैतरणी राजन् यमराजपुरं प्रति
।
द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान्॥५१॥
अभ्यराजत तेजस्वी शक्रो देवगणेष्विव
।
अथ दध्मुर्महाशंखान्धृष्टद्युम्नशिखण्डिनौ॥५२॥
यमौ च युयुधानश्च पाण्डवश्च वृकोदरः
।
जित्वा रथसहस्राणि तावकानां महारथाः॥५३॥
सिंहनादवांश्चक्रुः पाण्डवा जितकाशिनः
।
पश्यतस्तव पुत्रस्य कर्णस्य च रणोत्कटाः
।
तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशांपते॥५४॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे संकुलयुद्धे एकसप्तत्यधिकशततमोऽध्यायः॥१७१॥
सञ्जय उवाच।
विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः
।
क्रोधेन महताऽऽविष्टः पुत्रस्तव विशांपते॥१॥
विद्रुतमिति ॥१॥
अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम्
।
अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत्॥२॥
भवद्भ्यामिह संग्रामः क्रुद्धाभ्यां संप्रवर्तितः
।
आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना॥३॥
निहन्यमानां पाण्डूनां बलेन मम वाहिनीम्
।
भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः॥४॥
यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि
।
आवां पाण्डुसुतान्संख्ये जेष्याव इति मानदौ॥५॥
तदैवाहं वचः श्रुत्वा भवद्भ्यामनुसंमतम्
।
नाकरिष्यमिदं पार्थैर्वैरं योधविनाशनम्॥६॥
यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ
।
युध्यतामनुरूपेण विक्रमेण सुविक्रमौ॥७॥
वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते
।
प्रावर्तयेतां संग्रामं घट्टिताविव पन्नगौ॥८॥
घट्टितौ मर्दितौ ॥८॥
ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ
।
शैनेयप्रमुखान्पार्थानभिदुद्रुवत् रणे॥९॥
तथैव सहिताः पार्थाः सर्वसैन्येन संवृताः
।
अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः॥१०॥
अथ द्रोणो महेष्वासो दशभिः शिनिपुङ्गवम्
।
अविध्यत्त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः॥११॥
कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः
।
दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः॥१२॥
एते कौरव संक्रन्दे शैनेयं पर्यवाकिरन्
।
दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम्॥१३॥
संक्रंदे युद्धे ॥१३॥
विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः
।
तत्र द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशांपते॥१४॥
रश्मिभिर्भास्करो राजंस्तमांसीव समन्ततः
।
द्रोणेन वध्यमानानां पञ्चालानां विशांपते॥१५॥
शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम्
।
पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान्॥१६॥
भागिनेयान् वयस्यांश्च तथा सम्बन्धिबान्धवान्
।
उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः॥१७॥
अपरे मोहिता मोहात्तमेवाभिमुखा ययुः
।
पाण्डवानां रणे योधाः परलोकं गताः परे॥१८॥
सा तथा पाण्डवी सेना पीड्यमाना महात्मना
।
निशि संप्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः॥१९॥
पश्यतो भीमसेनस्य विजयस्याच्युतस्य च
।
यमयोर्धर्मपुत्रस्य पार्षतस्य च पश्यतः॥२०॥
तमसा संवृते लोके न प्राज्ञायत किंचन
।
कौरवाणां प्रकाशेन दृश्यन्ते विद्रुताः परे॥२१॥
द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ
।
जघ्नतुः पृष्ठतो राजन्किरन्तौ सायकान्बहून्॥२२॥
पञ्चालेषु प्रभग्नेषु क्षीयमाणेषु सर्वतः
।
द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी॥२३॥
पञ्चालांश्चैव सहितौ जघ्नतुः सायकैर्भृशम्
।
एतयोः शरवर्षेण प्रभग्ना नो महारथाः॥२५॥
वार्यमाणाऽपि कौन्तेय पृतना नावतिष्ठते
।
तां तु विद्रवतीं दृष्ट्वा ऊचतुः केशवार्जुनौ॥२६॥
मा विद्रवत वित्रस्ता भयं त्यजत पाण्डवाः
।
तावावां सर्वसैन्यैश्च व्यूहैः सम्यगुदायुधैः॥२७॥
द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम्
।
एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ॥२८॥
उपेक्षितौ तव बलैर्नाशयेतां निशामिमाम्
।
तयोः संवदतोरेवं भीमकर्मा महाबलः॥२९॥
आयाद्वृकोदरः शीघ्रं पुनरावर्त्य वाहिनीम्
।
वृकोदरमथायान्तं दृष्ट्वा तत्र जनार्दनः
।
पुनरेवाब्रवीद्राजन्हर्षयन्निव पाण्डवम्॥३०॥
एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः
।
अभ्यवर्तत वेगेन द्रोणकर्णौ महारथौ॥३१॥
एतेन सहितो युद्ध्य पञ्चालैश्च महारथैः
।
आश्वासनार्थं सैन्यानां सर्वेषां पाण्डुनन्दन॥३२॥
ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ
।
द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि॥३३॥
सञ्जय उवाच।
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्
।
ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि॥३४॥
स संप्रहारस्तुमुलो निशि प्रत्यभवन्महान्
।
यथा सागरयो राजंश्चन्द्रोदयविवृद्धयोः॥३५॥
तत उत्सृज्य पाणिभ्यां प्रदीपांस्तव वाहिनी
।
युयुधे पाण्डवैः सार्धमुन्मत्तवदसंकुला॥३६॥
रजसा तमसा चैव संवृते भृशदारुणे
।
केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः॥३७॥
अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः
।
प्रहरद्भिर्महाराज स्वयंवर इवाहवे॥३८॥
निःशब्दमासीत्सहसा पुनः शब्दो महानभूत्
।
क्रुद्धानां युध्यमानानां जीयतां जयतामपि॥३९॥
यत्र यत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम
।
तत्र तत्र स्म शूरास्ते निपतन्ति पतङ्गवत्॥४०॥
तथा संयुध्यमानानां विगाढासीन्महानिशा
।
पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः॥४१॥
इति श्रीमहाभारते घटोत्कचवधपर्वणि रात्रियुद्धे संकुलयुद्धे द्विसप्तत्यधिकशततमोऽध्यायः॥१७२॥
सञ्जय उवाच।
ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा
।
आजघानोरसि शरैर्दशभिर्मर्मभेदिभिः॥१॥
तत इति ॥१॥
प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोऽपि मारिष
।
दशभिः सायकैर्हृष्टस्तिष्ठ तिष्ठेति चाब्रवीत्॥२॥
तावन्योन्यं शरैः संख्ये संछाद्य सुमहारथैः
।
पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम्॥३॥
ततः पञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे
।
सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः॥४॥
कार्मुकप्रवरं चापि प्रचिच्छेद शितैः शरैः
।
सारथिं चास्य भल्लेन रथनीडादपातयत्॥५॥
धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः
।
गृहीत्वा परिघं घोरं कर्णस्याश्वानपीपिबत्॥६॥
विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः
।
ततो युधिष्ठिरानीकं पद्भ्यामेवान्वपद्यत॥७॥
आरुरोह रथं चापि सहदेवस्य मारिष
।
प्रयातुकामः कर्णाय वारितो धर्मसूनुना॥८॥
कर्णस्तु सुमहातेजाः सिंहनादविमिश्रितम्
।
धनुःशब्दं महच्चक्रे दध्मौ तारेण चांबुजम्॥९॥
दृष्ट्वा विनिर्जितं युद्धे पार्षतं ते महारथाः
।
अमर्षवशमापन्नाः पञ्चालाः सहसोमकाः॥१०॥
सूतपुत्रवधार्थाय शस्त्राण्यादाय सर्वशः
।
प्रययुः कर्णमुद्दिश्य मृत्युं कृत्वा निवर्तनम्॥११॥
कर्णस्यापि रथे वाहानन्यान् सुतोऽभ्ययोजयत्
।
शङ्खवर्णान्महावेगान् सैन्धवान्साधुवाहिनः॥१२॥
लब्धलक्षस्तु राधेयः पञ्चालानां महारथान्
।
अभ्यपीडयदायस्तः शरैर्मेघ इवाचलम्॥१३॥
आयस्तः प्रयत्नवान् ॥१३॥
सा पीड्यमाना कर्णेन पञ्चालानां महाचमूः
।
संप्राद्रवत्सुसंत्रस्ता सिंहेनेवार्दिता मृगी॥१४॥
पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले
।
रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः॥१५॥
धावमानस्य योधस्य क्षुरप्रैः स महामृधे
।
बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम्॥१६॥
ऊरू चिच्छेद चान्यस्य गजस्थस्य विशांपते
।
वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष॥१७॥
नाज्ञासिषुर्धावमाना बहवश्च महारथाः
।
संछिन्नान्यात्मगात्राणि वाहनानि च संयुगे॥१८॥
ते वध्यमानाः समरे पञ्चालाः सृञ्जयैः सह
।
तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मोनरे॥१९॥
अतिभयात्तृणचलनमात्रेणापि कर्णं प्राप्तं मेनिरे ॥१९॥
अपि स्वं समरे योधं धावमानं विचेतसम्
।
कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते॥२०॥
तान्यनीकानि भग्नानि द्रवमाणानि भारत
।
अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्छरान्॥२१॥
अवेक्ष्यमाणास्त्वन्योन्यं सुसंमूढा विचेतसः
।
नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना॥२२॥
कर्णेनाभ्याहता राजन्पञ्चालाः परमेषुभिः
।
द्रोणेन च दिशः सर्वा वीक्ष्यमाणाः प्रदुद्रुवुः॥२३॥
ततो युधिष्टिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम्
।
अपयाने मनः कृत्वा फाल्गुनं वाक्यमब्रवीत्॥२४॥
पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम्
।
निशीथे दारुणे काले तपन्तमिव भास्करम्॥२५॥
कर्णसायकनुन्नानां क्रोशतामेष निःस्वनः
।
अनिशं श्रूयते पार्थ त्वद्बन्धूनामनाथवत्॥२६॥
यथा विसृजतश्चास्य संदधानस्य चाशुगान्
।
पश्यामि नान्तरं पार्थ क्षपयिष्यति नो ध्रुवम्॥२७॥
यदत्रानन्तरं कार्यं प्राप्तकालं च पश्यसि
।
कर्णस्य वधसंयुक्तं तत्कुरुष्व धनञ्जय॥२८॥
एवमुक्तो महाराज पार्थः कृष्णमथाब्रवीत्
।
भीतः कुन्तीसुतो राजा राधेयस्याद्य विक्रमात्॥२९॥
एवंगते प्राप्तकालं कर्णानीके पुनः पुनः
।
भवान् व्यवस्यतु क्षिप्रं द्रवते हि वरूथिनी॥३०॥
द्रोणसायकनुन्नानां भग्नानां मधुसूदन
।
कर्णेन त्रास्यमानानामवस्थानं न विद्यते॥३१॥
पश्यामि च तथा कर्णं विचरन्तमभीतवत्
।
द्रवमाणान् रथोदारान्किरन्तं निशितैः शरैः॥३२॥
नैनं शक्ष्यामि संसोढुं चरन्तं रणमूर्धनि
।
प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः॥३३॥
स भवांस्तत्र यात्वाशु यत्र कर्णो महारथः
।
अहमेनं हनिष्यामि मां वैष मधुसूदन॥३४॥
श्रीवासुदेव उवाच।
पश्यामि कर्णं कौन्तेय देवराजमिवाहवे
।
विचरन्तं नरव्याघ्रमतिमानुषविक्रमम्॥३५॥
नैतस्यान्योऽस्ति संग्रामे प्रत्युद्याता धनञ्जय
।
ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात्॥३६॥
न तु तावदहं मन्ये प्राप्तकालं तवानघ
।
समागमं महाबाहो सूतपुत्रेण संयुगे॥३७॥
दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी
।
त्वदर्थं हि महाबाहो सूतपुत्रेण संयुगे॥३८॥
रक्ष्यते शक्तिरेषा हि रौद्रं रूपं बिभर्ति च
।
घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः॥३९॥
स हि भीमेन बलिना जातः सुरपराक्रमः
।
तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च॥४०॥
सततं चानुरक्तो वो हितैषी च घटोत्कचः
।
विजेष्यति रणे कर्णमिति मे नात्र संशयः॥४१॥
एवमुक्तो महाबाहुः पार्थः पुष्करलोचनः
।
आजुहावाथ तद्रक्षस्तच्चासीत्प्रादुरग्रतः॥४२॥
कवची सशरः खड्गी सधन्वा च विशांपते
।
अभिवाद्य ततः कृष्णं पाण्डवं च धनञ्जयम्
।
अब्रवीच्च तदा कृष्णमयमस्म्यनुशाधि माम्॥४३॥
ततस्तं मेघसंकाशं दीप्तास्यं दीप्तकुण्डलम्
।
अभ्यभाषत हैडिम्बिं दाशार्हः प्रहसन्निव॥४४॥
श्रीवासुदेव उवाच।
घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक
।
प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्यचित्॥४५॥
स भवान्मज्जमानानां बन्धूनां त्वं प्लवो भव
।
विविधानि तवास्त्राणि सन्ति माया च राक्षसी॥४६॥
पश्य कर्णेन हैडिंबे पाण्डवानामनीकिनी
।
काल्यमाना यथा गावः पालेन रणमूर्धनि॥४७॥
एष कर्णो महेष्वासो मतिमान् दृढविक्रमः
।
पाण्डवानामनीकेषु निहन्ति क्षत्रियर्षभान्॥४८॥
किरन्तः शरवर्षाणि महान्ति दृढधन्विनः
।
न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा॥४९॥
निशीथे सूतपुत्रेण शरवर्षेण पीडिताः
।
एते द्रवन्ति पञ्चालाः सिंहेनेवार्दिता मृगाः॥५०॥
एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे
।
निषेद्धा विद्यते नान्यस्त्वामृते भीमविक्रम॥५१॥
स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः
।
मातुलानां पितॄणां च तेजसोऽस्त्रबलस्य च॥५२॥
एतदर्थे हि हैडिंबे पुत्रानिच्छन्ति मानवाः
।
कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान्॥५३॥
इच्छन्ति पितरः पुत्रान् स्वार्थहेतोर्घटोत्कच
।
इहलोकात्परे लोके तारयिष्यन्ति ये हिताः॥५४॥
तव ह्यत्र बलं भीमं मायाश्च तव दुस्तराः
।
संग्रामे युध्यमानस्य सततं भीमनन्दन॥५५॥
पाण्डवानां प्रभग्नानां कर्णेन निशि सायकैः
।
मज्जतां धार्तराष्ट्रेषु भव पारं परंतप॥५६॥
रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः
।
बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः॥५७॥
जहि कर्णं महेष्वासं निशीथे मायया रणे
।
पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः॥५८॥
सञ्जय उवाच।
केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम्
।
अभ्यभाषतं कौरव्य घटोत्कचमरिन्दमम्॥५९॥
घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः
।
मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः॥६०॥
तद्भवान्यातु कर्णेन द्वैरथं युध्यतां निशि
।
सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः॥६१॥
जहि कर्णं रणे शूरं सात्वतेन सहायवान्
।
यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान्॥६२॥
घटोत्कच उवाच।
अलमेवास्मि कर्णाय द्रोणायालं च भारत
।
अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम्॥६३॥
अद्य दास्यामि संग्रामं सूतपुत्राय तं निशि
।
यं जनाः संप्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति॥६४॥
न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीम्
।
सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः॥६५॥
सञ्जय उवाच।
एवमुक्त्वा महाबाहुर्हैडिम्बिर्वरवीरहा
।
अभ्ययात्तमुले कर्णं तव सैन्यं विभीषयन्॥६६॥
तमापतन्तं संक्रुद्धं दीप्तास्यं दीप्तमूर्धजम्
।
प्रहसन्पुरुषव्याघ्रः प्रतिजग्राह सूतजः॥६७॥
तयोः समभवद्युद्धं कर्णराक्षसयोर्मृधे
।
गर्जतो राजशार्दूल शक्रप्रह्रादयोरिव॥६८॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे घटोत्कचप्रोत्साहने त्रिसप्तत्यधिकशततमोऽध्यायः॥१७३॥
सञ्जय उवाच।
दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति
।
आयान्तं तु तथायुक्तं जिघांसुं कर्णमाहवे॥१॥
दृष्ट्वेति ॥१॥
अब्रवीत्तत्र पुत्रस्ते दुःशासनमिदं वचः
।
एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम्॥२॥
अभियाति द्रुतं कर्णं तद्वारय महारथम्
।
वृतः सैन्येन महता याहि यत्र महाबलः॥३॥
कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति
।
रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद॥४॥
मा कर्णं राक्षसो घोरः प्रमादान्नाशयिष्यति
।
एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली॥५॥
दुर्योधनमुपागम्य प्राह प्रहरतां वरः
।
दुर्योधन तवामित्रान्प्रख्यातान् युद्धदुर्मदान्॥६॥
पाण्डवान् हन्तुमिच्छामि त्वयाऽऽज्ञप्तः सहानुगान्
।
जटासुरो मम पिता रक्षसां ग्रामणीः पुरा॥७॥
अयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः
।
तस्यापचितिमिच्छामि शत्रुशोणितपूजया॥ शत्रुमांसैश्च राजेन्द्र मामनुज्ञातुमर्हसि॥८॥
अपचितिं निष्कृतिम् ॥८॥
तमब्रवीत्ततो राजा प्रीयमाणः पुनः पुनः
।
द्रोणकर्णादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे॥९॥
त्वं तु गच्छ मयाऽऽज्ञप्तो जहि युद्धे घटोत्कचम्
।
राक्षसं क्रूरकर्माणं रक्षोमानुषसंभवम्॥१०॥
पाण्डवानां हितं नित्यं हस्त्यश्वरथघातिनम्
।
वैहायसगतं युद्धे प्रेषयेर्यमसादनम्॥११॥
तथेत्युक्त्वा महाकायः समाहूय घटोत्कचम्
।
जाटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत्॥१२॥
अलंबुषं च कर्णं च कुरुसैन्यं च दुस्तरम्
।
हैडिम्बिः प्रममाथैको महावातोऽम्बुदानिव॥१३॥
ततो मायाबलं दृष्ट्वा रक्षस्तूर्णमलम्बुषः
।
घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्पयत्॥१४॥
विद्ध्वा च बहुभिर्बाणैर्भैमसेनिं महाबलः
।
व्यद्रावयच्छरव्रातैः पाण्डवानामनीकिनीम्॥१५॥
तेन विद्राव्यमाणानि पाण्डुसैन्यानि भारत
।
निशीथे विप्रकीर्यन्ते वातनुन्ना घना इव॥१६॥
घटोत्कचशरैर्नुन्ना तथैव तव वाहिनी
।
निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः॥१७॥
अलंबुषस्ततः क्रुद्धो भैमसेनिं महामृधे
।
आजघ्ने दशभिर्बाणैस्तोत्रैरिव महाद्विपम्॥१८॥
तिलशस्तस्य संवाहं सुतं सर्वायुधानि च
।
घटोत्कचः प्रचिच्छेद प्रणदंश्चातिदारुणम्॥१९॥
ततः कर्णं शरव्रातैः कुरूनन्यान्सहस्रशः
।
अलंबुषं चाभ्यवर्षन्मेघो मेरुमिवाचलम्॥२०॥
ततः संचुक्षुभे सैन्यं कुरूणां राक्षसार्दितम्
।
उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह॥२१॥
जाटासुरिर्महाराज विरथो हतसारथिः
।
घटोत्कचं रणे क्रुद्धो मुष्टिनाऽभ्यहनद्दृढम्॥२२॥
मुष्टिनाऽभ्याहतस्तेन प्रचचाल घटोत्कचः
।
क्षितिकम्पे यथा शैलः सवृक्षस्तृणगुल्मवान्॥२३॥
ततः स परिघाभेन द्विट्सङ्घघ्नेन बाहुना
।
जाटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम्॥२४॥
तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत्
।
दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष च भूतले॥२५॥
जाटासुरिर्मोक्षयित्वा आत्मानं च घटोत्कचात्
।
पुनरुत्थाय वेगेन घटोत्कचमुपाद्रवत्॥२६॥
अलंबुषोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम्
।
घटोत्कचं रणे रोषान्निष्पिपेष च भूतले॥२७॥
तयोः समभवद्युद्धं गर्जतोरतिकाययोः
।
घटोत्कचालम्बुषयोस्तुमुलं लोमहर्षणम्॥२८॥
विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ
।
युयुधाते महावीर्याविन्द्रवैरोचनाविव॥२९॥
पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षकौ
।
पुनर्मेघमहावातौ पुनर्वज्रमहाचलौ॥३०॥
पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ
।
एवं मायाशतसृजावन्योन्यवधकांक्षिणौ॥३१॥
भृशं चित्रमयुध्येतामलंबुषघटोत्कचौ
।
परिधैश्च गदाभिश्च प्रास-मुद्गर-पट्टिशैः॥३२॥
मुसलैः पर्वताग्रैश्च तावन्योन्यं विजघ्नतुः
।
हयाभ्यां च गजाभ्यां च रथाभ्यां च पदातिभिः॥३३॥
युयुधाते महामायौ राक्षसप्रवरौ युधि
।
ततो घटोत्कचो राजन्नलम्बुषवधेप्सया॥३४॥
उत्पपात भृशं क्रुद्धः श्येनवन्निपपात च
।
गृहीत्वा च महाकायं राक्षसेन्द्रमलम्बुषम्॥३५॥
उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे
।
ततो घटोत्कचः खड्गमुद्धृत्याद्भुतदर्शनम्॥३६॥
रौद्रस्य कायाद्धि शिरो भीमं विकृतदर्शनम्
।
स्फुरतस्तस्य समरे नदतश्चातिभैरवम्॥३७॥
निचकर्त महाराज शत्रोरमितविक्रमः
।
शिरस्तच्चापि संगृह्य केशेषु रुधिरोक्षितम्॥३८॥
ययौ घटोत्कचस्तूर्णं दुर्योधनरथं प्रति
।
अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः॥३९॥
शिरो रथेऽस्य निक्षिप्य विकृताननमूर्धजम्
।
प्राणदद्भैरवं नादं प्रावृषीव बलाहकः॥४०॥
अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः
।
एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः॥४१॥
पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथाऽऽत्मनः
।
‘स्वधर्ममर्थं कामं च त्रितयं योऽभिवाञ्छति॥४२॥
निष्ठां नाशम् ॥४२॥
रिक्तपाणिर्न पश्येत राजानं ब्राह्मणं स्त्रियम्'
।
तिष्ठस्व तावत्सुप्रीतो यावत्कर्णं वधाम्यहम्॥४३॥
एवमुक्त्वा ततः प्रायात्कर्णं प्रति नरेश्वर
।
किरञ्छरगणांस्तीक्ष्णान् रुषितो रणमूर्धनि॥४४॥
ततः समभवद्युद्धं घोररूपं भयानकम्
।
विस्मापनं महाराज नरराक्षसयोर्मृधे॥४५॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे अलंबुषवधे चतुःसप्तत्यधिकशततमोऽध्यायः॥१७४॥
धृतराष्ट्र उवाच।
यत्तद्वैकर्तनः कर्णो राक्षसश्च घटोत्कचः
।
निशीथे समसज्जेतां तद्युद्धमभवत्कथम्॥१॥
यदिति ॥१॥
कीदृशं चाभवद्रूपं तस्य घोरस्य रक्षसः
।
रथश्च कीदृशस्तस्य हयाः सर्वायुधानि च॥२॥
किंप्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा
।
कीदृशं वर्म चैवास्य शिरस्त्राणं च कीदृशम्॥३॥
वर्ष्मेति पाठे शरीरम् ॥३॥
पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि सञ्जय
।
सञ्जय उवाच।
लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः॥४॥
निम्नितोदरः निम्नितं पृष्ठवंशसंलग्नमशनहीनस्येवोदरं यस्येत्यर्थः ॥४॥
ऊर्ध्वरोमा हरिश्मश्रुः शंकुकर्णो महाहनुः
।
आकर्णदारितास्यश्च तीक्ष्णदंष्ट्रः करालवान्॥५॥
करालवान् उन्नतदन्तचतुष्कः ॥५॥
सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः
।
नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयंकरः॥६॥
महाकायो यो महाबाहुर्महाशीर्षो महाबलः
।
विकृतः परुषस्पर्शो विकचोद्वृद्धपिण्डकः॥७॥
विकचश्चासावुद्वृद्धः पिण्डो दृढाङ्गः को मूर्धा यस्य स विकचोद्वृद्धपिण्डकः । पाठान्तरे विकटे विकृते उद्वृद्धे दृढे पिण्डके जङ्घोर्ध्वप्रदेशौ यस्य स विकटोद्वृद्धपिण्डकः ॥७॥
स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान्
।
तथैव हस्ताभरणी महामायोऽङ्गदी तथा॥८॥
स्थूलस्फिकू शिथिलोपचयः स्फिक्प्रदेशे एव शिथिलः श्लथ उपचयो वृद्धिर्यस्य । पाठान्तरे शिखिलः शिखावान् उपचयो ललाटप्रान्तो यस्येत्यर्थः । अङ्गदीतिसाहचर्याद्धस्ताभरणी कटकमुद्रिकादिमान् ॥८॥
उरसा धारयन्निष्कमग्निमालां यथाऽचलः
।
तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम्॥९॥
तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत
।
कुण्डले बालसूर्याभे मालां हेममयीं शुभाम्॥१०॥
धारयन्विपुलं कांस्यं कवचं च महाप्रभम्
।
किंकिणीशतनिर्घोषं रक्तध्वजपताकिनम्॥११॥
ऋक्षचर्मावनद्धाङ्गं नल्वमात्रं महारथम्
।
सर्वायुधवरोपेतमास्थितं ध्वजमालिनम्॥१२॥
नल्वो हस्तचतुःशतम् ॥१२॥
अष्टचक्रसमायुक्तं मेघगंभीरनिःस्वनम्
।
मत्तमातङ्गसंकाशा लोहिताक्षा विभीषणाः॥१३॥
कामवर्णजवा युक्ता बलवन्तः शतं हयाः
।
वहन्तो राक्षसं घोरं वालवन्तो जितश्रमाः॥१४॥
वालाः स्कन्धवालाः केसराणीति यावत् ॥१४॥
विपुलाभिः सटाभिस्ते ह्रेषमाणा मुहुर्मुहुः
।
राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुंडलः॥१५॥
रश्मिभिः सूर्यरश्म्याभैः सञ्जग्राह हयान् रणे
।
स तेन सहितस्तस्थावरुणेन यथा रविः॥१६॥
संसक्त इव चाभ्रेण यथाऽद्रिर्महता महान्
।
दिवःस्पृक् सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः॥१७॥
रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभभीषणः
।
वासवाशनिनिर्घोषं दृढज्यमतिविक्षिपन्॥१८॥
व्यक्तं किष्कुपरीणाहं द्वादशारत्निकार्मुकम्
।
रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन्दिशः॥१९॥
किष्कुर्हस्तस्तन्मितः परीणाहो विस्तारो यस्य अरत्निर्निरष्टमांशः करः ॥१९॥
तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात्
।
तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः॥२०॥
अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः
।
तेन वित्रास्यमानानि तव सैन्यानि भारत॥२१॥
समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः
।
तमापतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम्॥२२॥
उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत्
।
ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात्॥२३॥
मातङ्ग इव मातङ्गं यूथर्षभमिवर्षभः
।
स सन्निपातस्तुमुलस्तयोरासीद्विशांपते॥२४॥
कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव
।
तौ प्रगृह्य महावेगे धनुषी भीमनिःस्वने॥२५॥
प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः
।
ततः पूर्णायतोत्सृष्टैरिषुभिर्नतपर्वभिः॥२६॥
न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी
।
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ॥२७॥
रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः
।
सञ्छिन्दन्तौ च गात्राणि सन्दधानौ च सायकान्॥२८॥
रथशक्तिभिः रथाक्षमात्रैरिति प्रागुक्तैः, रथाक्षतुल्यैरित्यर्थः । ‘रथः स्यन्दनदेहयोः’ इति कोशाद्देहानुकूलशक्तिमद्भिरिति वा ॥२८॥
दहन्तौ च शरोल्काभिर्दुष्प्रेक्ष्यौ च बभूवतुः
।
तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ॥२९॥
विभ्राजेतां यथा वारि स्रवन्तौ गैरिकाचलौ
।
तौ शराग्रविनुन्नाङ्गौ निर्भिन्दन्तौ परस्परम्॥३०॥
नाकम्पयेतामन्योन्यं यतमानौ महाद्युती
।
तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत्॥३१॥
प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे
।
तस्य सन्दधतस्तीक्ष्णाञ्छरांश्चासक्तमस्यतः॥३२॥
तस्य घटोत्कचस्य आसक्तमन्योन्यसंसक्तं यथा स्यात्तथा शरानस्यतः । आशक्तमिति पाठे यावच्छक्ति आर्षोऽच्प्रत्ययः समासान्तः ॥३२॥
धनुर्घोषेण वित्रस्ताः स्वे परे च तदाऽभवन्
।
घटोत्कचं यदा कर्णो विशेषयति नो नृप॥३३॥
ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः
।
कर्णेन संधितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः॥३४॥
प्रादुश्चक्रे महामायां राक्षसीं पाण्डुनन्दनः
।
शूलमुद्गरधारिण्या शैलपादपहस्तया॥३५॥
रक्षसां घोररूपाणां महत्या सेनया वृतः
।
तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः॥३६॥
भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम्
।
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः॥३७॥
प्रसुस्रुवुर्गजा मूत्रं विव्यधुश्च नरा भृशम्
।
ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः॥३८॥
अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः
।
आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः॥३९॥
पतन्त्यविरलाःशूलाः शतघ्न्यः पट्टिशास्तथा
।
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिप॥४०॥
पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः
।
तत्रैकोऽस्त्रबलश्लाघी कर्णो मानी न विव्यथे॥४१॥
व्यधमच्च शरैर्मायां तां घटोत्कचनिर्मिताम्
।
मायायां तु प्रहीणायाममर्षाच्च घटोत्कचः॥४२॥
विससर्ज शरान् घोरान्सूतपुत्रं त आविशन्
।
ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे॥४३॥
विविशुर्धरणीं बाणाः संक्रुद्धा इव पन्नगाः
।
सूतपुत्रस्तु संक्रुद्धो लघुहस्तः प्रतापवान्॥४४॥
घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः
।
घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु॥४५॥
चक्रं दिव्यं सहस्त्रारमगृह्णाद्व्यथितो भृशम्
।
क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम्॥४६॥
चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया
।
प्रविद्धमतिवेगेन विक्षिप्तं कर्णसायकैः॥४७॥
अभाग्यस्येव संकल्पस्तन्मोघमपतद्भुवि
।
घटोत्कचस्तु संक्रुद्धो दृष्ट्वा चक्रं निपातितम्॥४८॥
कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम्
।
सूतपुत्रस्त्वसंभ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः॥४९॥
घटोत्कचरथं तूर्णं छादयामास पत्रिभिः
।
घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा॥५०॥
क्षिप्ता भ्राम्य शरैः साऽपि कर्णेनाभ्याहताऽपतत्
।
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन्॥५१॥
प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात्
।
ततो मायाविनं कर्णो भीमसेनसुतं दिवि॥५२॥
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः
।
तस्य सर्वान्हयान् हत्वा संछिद्य शतधा रथम्॥५३॥
अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान्
।
न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम्॥५४॥
सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा
।
न हयान्न रथं तस्य न ध्वजं न घटोत्कचम्॥५५॥
दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम्
।
स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन्॥५६॥
मायायुद्धेन मायावी सूतपुत्रमयोधयत्
।
सोऽयोधयत्तदा कर्णं मायया लाघवेन च॥५७॥
अलक्ष्यमाणानि दिवि शरजालानि चापतन्
।
भैमसेनिर्महामायो मायया कुरुसत्तम॥५८॥
विचचार महाकायो मोहयन्निव भारत
।
स तु कृत्वा विरूपाणि वदनान्यशुभानि च॥५९॥
अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया
।
पुनश्चापि महाकायः संछिन्नः शतधा रणे॥६०॥
गतसत्त्वो निरुत्साहः पतितः खाद्ध्यदृश्यत
।
तं हतं मन्यमानाः स्म प्राणदन्कुरुपुङ्गवाः॥६१॥
अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत
।
पुनश्चापि महाकायः शतशीर्षः शतोदर॥६२॥
व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः
।
अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः॥६३॥
सागरोर्मिरिवोद्धूतस्तिर्यगूर्ध्वमवर्तत
।
वसुधां दारयित्वा च पुनरप्सु न्यमज्जत॥६४॥
अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः
।
सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते॥६५॥
क्षितिं खं च दिशश्चैव माययाऽभ्येत्य दंशितः
।
गत्वा कर्णरथाभ्याशं व्यचरत्कुण्डलाननः॥६६॥
प्राह वाक्यमसंभ्रान्तः सूतपुत्रं विशांपते
।
तिष्ठेदानीं क्व मे जीवन्सूतपुत्र गमिष्यसि॥६७॥
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे
।
इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम्॥६८॥
उत्पपातान्तरिक्षं च जहास च सुविस्तरम्
।
कर्णमभ्यहनच्चैव गजेन्द्रमिव केसरी॥६९॥
रथाक्षमात्रैरिषुभिरभ्यवर्षद्धटोत्कचः
।
रथिनामृषभं कर्णं धाराभिरिव तोयदः॥७०॥
शरवृष्टिं च तां कर्णो दूरात्प्राप्तामशातयत्
।
दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ॥७१॥
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः
।
सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसंकटैः॥७२॥
शूलप्रासासिमुसलजलप्रस्रवणो महान्
।
तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम्॥७३॥
प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे
।
स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदैरयत्॥७४॥
ततः सोऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत
।
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि॥७५॥
अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत्
।
अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः॥७६॥
व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषः
।
स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः॥७७॥
जघानास्त्रं महाराज घटोत्कचसमीरितम्
।
ततः प्रहस्य समरे भैमसेनिर्महाबलः॥७८॥
प्रादुश्चक्रे महामायां कर्णं प्रति महारथम्
।
स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम्॥७९॥
घटोत्कचमसंभ्रान्तं राक्षसैर्बहुभिर्वृतम्
।
सिंहशार्दूलसदृशैर्मत्तमातङ्गविक्रमैः॥८०॥
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा
।
नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः॥८१॥
वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम्
।
दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम्॥८२॥
घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिराशुगैः
।
ननाद भैरवं नादं भीषयन्सर्वपार्थिवान्॥८३॥
भूयश्चाञ्जलिकेनाथ स मार्गणगणं महत्
।
कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः॥८४॥
अथान्यद्धनुरादाय दृढं भारसहं महत्
।
विचकर्ष बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम्॥८५॥
ततः कर्णो महाराज प्रेषयामास सायकान्
।
सुवर्णपुङ्खाञ्छत्रुघ्नान् खेचरान् राक्षसान्प्रति॥८६॥
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम्
।
सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम्॥८७॥
विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः
।
ददाह भगवान्वह्निर्भूतानीव युगक्षये॥८८॥
स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः
।
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः॥८९॥
तेषु राजसहस्त्रेषु पाण्डवेयेषु मारिष
।
नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिवः॥९०॥
ऋते घटोत्कचाद्राजन् राक्षसेन्द्रान्महाबलात्
।
भीमवीर्यबलोपेतात् क्रुद्धाद्वैवस्वतादिव॥९१॥
तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत
।
महोल्काभ्यां यथा राजन् सार्चिषः स्नेहबिन्दवः॥९२॥
उल्काभ्यां सर्जरसमिश्रोमुल्काभ्यां ततो हि दीप्तस्य सर्जरसस्य कणाः सस्नेहत्वात्सार्चिष एव पतन्तीति प्रसिद्धम् ॥९२॥
तलं तलेन संहत्य सन्दश्य दशनच्छदम्
।
रथमास्थाय च पुनर्मायया निर्मितं तदा॥९३॥
युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः
।
स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मां वह॥९४॥
स ययौ घोररूपेण रथेन रथिनां वरः
।
द्वैरथं सूतपुत्रेण पुनरेव विशांपते॥९५॥
स चिक्षेप पुनः क्रुद्धः सूतपुत्राय राक्षसः
।
अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम्॥९६॥
द्वियोजनसमुत्सेधां योजनायामविस्तराम्
।
आयसीं निचितां शूलैः कदम्बमिव केसरैः॥९७॥
तामवप्लुत्य जग्राह कर्णो न्यस्य महद्धनुः
।
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे॥९८॥
साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा
।
विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः॥९९॥
कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा
।
यदवप्लुत्य जग्राह देवसृष्टां महाशनिम्॥१००॥
एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः
।
ततो मुमोच नाराचान्सूतपुत्रः परन्तप॥१०१॥
अशक्यं कर्तुमन्येन सर्वभूतेषु मानद
।
यदकार्षीत्तदा कर्णः संग्रामे भीमदर्शने॥१०२॥
स हन्यमानो नाराचैर्धाराभिरिव पर्वतः
।
गन्धर्वनगराकारः पुनरन्तरधीयत॥१०३॥
एवं स वै महाकायो मायया लाघवेन च
।
अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः॥१०४॥
निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा
।
असंभ्रान्तस्तदा कर्णस्तद्रक्षः प्रत्ययुध्यत॥१०५॥
ततः क्रुद्धो महाराज भैमसेनिर्महाबलः
।
चकार बहुधाऽऽत्मानं भीषयाणो महारथान्॥१०६॥
ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः
।
अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः॥१०७॥
स कीर्यमाणो विशिखैः कर्णचापच्युतैः शरैः
।
नागराडिव दुष्प्रेक्ष्यस्तत्रैवान्तरधीयत॥१०८॥
राक्षसाश्च पिशाचाश्च यातुधानास्तथैव च
।
शालावृकाश्च बहवो वृकाश्च विकृताननाः॥१०९॥
ते कर्णं क्षपयिष्यन्तः सर्वतः समुपाद्रवन्
।
अथैनं वाग्भिरुग्राभिस्त्रासयांचक्रिरे तदा॥११०॥
उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः
।
तेषामनेकैरेकैकं कर्णो विव्याध सायकैः॥१११॥
प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम्
।
आजघान हयानस्य शरैः सन्नतपर्वभिः॥११२॥
ते भग्ना विक्षताङ्गाश्च भिन्नपृष्ठाश्च सायकैः
।
वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः॥११३॥
स भग्नमायो हैडिम्बिः कर्णं वैकर्तनं तदा
।
एष ते विदधे मृत्युमित्युक्त्वाऽन्तरधीयत॥११४॥
इति श्रीमहाभारते द्रोणप्रर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे कर्णघटोत्कचयुद्धे पञ्चसप्तत्यधिकशततमोऽध्यायः॥१७५॥
सञ्जय उवाच।
तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे
।
हर्षमाहारयांचक्रुः कुरवः सर्व एव ते॥१॥
तमिति ॥१॥
तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः
।
अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम्॥२॥
पुनर्जातमिवात्मानं मन्वानाः पुरुषर्षभाः
।
अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन्॥३॥
तस्मिंस्त्वमानुषे युद्धे वर्तमाने महाभये
।
कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने॥४॥
उपप्रैक्षन्त पञ्चालाः स्मयमानाः सराजकाः
।
तथैव तावका राजन्वीक्षमाणास्ततस्ततः॥५॥
चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः
।
तत्कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रणाजिरे॥६॥
इदमस्मत्सैन्यम् ॥६॥
सर्वमाविग्नमभवद्धाहाभूतमचेतनम्
।
तव सैन्यं महाराज निराशं कर्णजीविते॥७॥
दुर्योधनस्तु संप्रेक्ष्य कर्णमार्तिं परां गतम्
।
अलायुधं राक्षसेन्द्रं समाहूयेदमब्रवीत्॥८॥
एष वैकर्तनः कर्णो हैडिम्बेन समागतः
।
कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे॥९॥
पश्यैतान्पार्थिवान् शूरान्निहतान् भैमसेनिना
।
नानाशस्त्रैरभिहतान्पादपानिव दन्तिना॥१०॥
तवैष भागः समरे राजमध्ये मया कृतः
।
तवैवानुमते वीर तं विक्रम्य निबर्हय॥११॥
पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः
।
मायाबलं समाश्रित्य कर्षयत्यरिकर्शन॥१२॥
एवमुक्तः स राज्ञा तु राक्षसो भीमविक्रमः
।
तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत्॥१३॥
ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो
।
प्रत्यमित्रमुपायान्तमर्दयामास मार्गणैः॥१४॥
तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः
।
मत्तयोर्वासिताहेतोर्द्विपयोरिव कानने॥१५॥
रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः
।
अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा॥१६॥
तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम्
।
अलायुधेन समरे सिंहेनेव गवां पतिम्॥१७॥
रथेनादित्यवपुषा भीमः प्रहरतां वरः
।
किरञ्छरौघान्प्रययावलायुधरथं प्रति॥१८॥
तमायान्तमभिप्रेक्ष्य स तदाऽलायुधः प्रभो
।
घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत्॥१९॥
तं भीमः सहसाऽभ्येत्य राक्षसान्तकरः प्रभो
।
सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत्॥२०॥
तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः
।
अभ्यवर्षन्त कौन्तेयं पुनः पुनररिन्दम॥२१॥
तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन्
।
नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः॥२२॥
स ताड्यमानो बहुभिर्भीमसेनो महाबलः
।
पञ्चभिः पञ्चभिःसर्वांस्तानविध्यच्छितैः शरैः॥२३॥
ते वध्यमाना भीमेन राक्षसाः क्रूरबुद्धयः
।
विनेदुस्तुमुलान्नादान्दुद्रुवुस्ते दिशो दश॥२४॥
तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम्
।
अभिदुद्राव वेगेन शरैश्चैनमवाकिरत्॥२५॥
तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः
।
अलायुधस्तु तानस्तान् भीमेन विशिखान्रणे॥२६॥
चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत्
।
स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः॥२७॥
गदां चिक्षेप वेगेन वज्रपातोपमां तदा
।
तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः॥२८॥
गदया ताडयामास सा गदा भीममाव्रजत्
।
स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत्॥२९॥
तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः
।
ते चापि राक्षसाः सर्वे रजन्यां भीमरूपिणः॥३०॥
शासनाद्राक्षसेन्द्रस्य निजघ्न रथकुञ्जरान्
।
पञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः॥३१॥
न शान्तिं लेभिरे तत्र राक्षसैर्भृशपीडिताः
।
तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवम्॥३२॥
अब्रवीत्पुण्डरीकाक्षो धनञ्जयमिदं वचः
।
पश्य भीमं महाबाहुं राक्षसेन्द्रवशं गतम्॥३३॥
पदमस्यानुगच्छ त्वं मा विचारय पाण्डव
।
धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ॥३४॥
सहितौ द्रौपदेयाश्च कर्णं यान्तु महारथाः
।
नकुलः सहदेवश्च युयुधानश्च वीर्यवान्॥३५॥
इतरान् राक्षसान् घ्नन्तु शासनात्तव पाण्डव
।
त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम्॥३६॥
वारयस्व नरव्याघ्र महद्धि भयमागतम्
।
एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः॥३७॥
जग्मुर्वैकर्तनं कर्णं राक्षसांश्चैव तान् रणे
।
अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः॥३८॥
धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान्
।
हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः॥३९॥
जघान मिषतः संख्ये भीमसेनस्य राक्षसः
।
सोऽवर्तार्य रथोपस्थाद्धताश्वो हतसारथिः॥४०॥
तस्मै गुर्वीं गदां घोरां विनदन्नुत्ससर्ज ह
।
ततस्तां भीमनिर्घोषामापतन्तीं महागदाम्॥४१॥
गदया राक्षसो घोरो निजघान ननाद च
।
तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम्॥४२॥
भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत्
।
तयोः समभवद्युद्धं तुमुलं नररक्षसोः॥४३॥
गदानिपातसंह्रादैर्भुवं कम्पयतोर्भृशम्
।
गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम्॥४४॥
मुष्टिभिर्वज्रसंह्रादैरन्योन्यमभिजघ्नतुः
।
रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः॥४५॥
यथासन्नमुपादाय निजघ्नतुरमर्षणौ
।
तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम्॥४६॥
मत्ताविव महानागौ चकृषाते पुनः पुनः
।
तदपश्यद्धृषीकेशः पाण्डवानां हिते रतः॥४७॥
स भीमसेनरक्षार्थं हैडिम्बिं पर्यचोदयत्॥४८॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे अलायुधयुद्धे सप्तसप्तत्यधिकशततमोऽध्यायः॥१७७॥
सञ्जय उवाच।
संदृश्य समरे भीमं रक्षसा ग्रस्तमन्तिकात्
।
वासुदेवोऽब्रवीद्राजन् घटोत्कचमिदं वचः॥१॥
संदृश्येति ॥१॥
पश्य भीमं महाबाहो रक्षसा ग्रस्तमाहवे
।
पश्यतां सर्वसैन्यानां तव चैव महाद्युते॥२॥
स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम्
।
जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि॥३॥
स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान्
।
युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः॥४॥
तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः
।
अलायुधस्य चैवोग्रं हैडिम्बेश्चापि भारत॥५॥
अलायुधस्य योधांश्च राक्षसान् भीमदर्शनान्
।
वेगेनापततः शूरान्प्रगृहीतशरासनान्॥६॥
आत्तायुधः सुसंक्रुद्धो युयुधानो महारथः
।
नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः॥७॥
सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान्
।
परिचिक्षेप बीभत्सुः सर्वतः प्रकिरञ्छरान्॥८॥
कर्णश्च समरे राजन् व्यद्रावयत पार्थिवान्
।
धृष्टद्युम्नशिखंड्यादीन्पञ्चालानां महारथान्॥९॥
तान्वध्यमानान्दृष्ट्वाऽथ भीमो भीमपराक्रमः
।
अभ्ययात्त्वरितः कर्णं विशिखान्प्रकिरन् रणे॥१०॥
ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः
।
नकुलः सहदेवश्च सात्यकिश्च महारथः॥११॥
ते कर्णं योधयामासुः पञ्चाला द्रोणमेव तु
।
अलायुधस्तु संक्रुद्धो घटोत्कचमरिंदमम्
।
परिघेणातिकायेन ताडयामास मूर्धनि॥१२॥
स तु तेन प्रहारेण भैमसेनिर्महाबलः
।
ईषन्मूर्छितमात्मानमस्तंभयत वीर्यवान्॥१३॥
ततो दीप्ताग्निसंकाशां शतघण्टामलंकृताम्
।
चिक्षेप तस्मै समरे गदां काञ्चनभूषिताम्॥१४॥
सा हयांश्च रथं चास्य सारथिं च महास्वना
।
चूर्णयामास वेगेन विसृष्टा भीमकर्मणा॥१५॥
स भग्नहयचक्राक्षाद्विशीर्णध्वजकूबरात्
।
उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम्॥१६॥
स समास्थाय मायां तु ववर्ष रुधिरं बहु
।
विद्युद्विभ्राजितं चासीत्तुमुलाभ्राकुलं नभः॥१७॥
ततो वज्रनिपाताश्च साशनिस्तनयित्नवः
।
महांश्चटचटाशब्दस्तत्रासीच्च महाहवे॥१८॥
तां प्रेक्ष्य महतीं मायां राक्षसो राक्षसस्य च
।
ऊर्ध्वमुत्पत्य हैडिम्बिस्तां मायां माययाऽवधीत्॥१९॥
सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि
।
अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे॥२०॥
अश्मवर्षं स तं घोरं शरवर्षेण वीर्यवान्
।
दिक्षु विध्वंसयामास तदद्भुतमिवाभवत्॥२१॥
ततो नानाप्रहरणैरन्योन्यमभिवर्षताम्
।
आयसैः परिधैः शूलैर्गदामुसलमुद्गरैः॥२२॥
पिनाकैः करवालैश्च तोमरप्रासकम्पनैः
।
नाराचैर्निशितैर्भलैः शरैश्चकैः परश्वधैः
।
अयोगुडैर्भिन्दिपालैर्गोशीर्षोलूखलैरपि॥२३॥
उत्पाटितैर्महाशाखैर्विविधैर्जगतीरुहैः
।
शमीपीलुकदंबैश्च चम्पकैश्चैव भारत॥२४॥
इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः
।
पलाशैश्चारिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः॥२५॥
महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः
।
विपुलैः पर्वताग्रैश्च नानाधातुभिराचितैः॥२६॥
तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव
।
युद्धं समभवद्धोरं भैम्यलायुधयोर्नृप॥२७॥
हरीन्द्रयोर्यथाराजन्वालिसुग्रीवयोः पुरा
।
तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा
।
प्रगृह्य च शितौ खड्गावन्योन्यमभिपेततुः॥२८॥
हरीन्द्रयोः सिंहमुख्ययोः ॥२८॥
तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ
।
भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ॥२९॥
तौ स्विन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप
।
रुधिरं च महाकायावतिवृष्टाविवांबुदौ॥३०॥
अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम्
।
बलेनाक्षिप्य हैडिम्बिश्चकर्तास्य शिरो महत्॥३१॥
सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम्
।
तदा सुतुमुलं नादं ननाद सुमहाबलः॥३२॥
हतं दृष्ट्वा महाकायं बकज्ञातिमरिन्दमम्
।
पञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे॥३३॥
ततो भेरीसहस्राणि शंखानामयुतानि च
।
अवादयन्पाण्डवेया राक्षसे निहते युधि॥३४॥
अतीव सा निशा तेषां बभूव विजयावहा
।
विद्योतमाना विबभौ समन्ताद्दीपमालिनी॥३५॥
अलायुधस्य तु शिरो भैमसेनिर्महाबलः
।
दुर्योधनस्य प्रमुखे चिक्षेप गतचेतसः॥३६॥
अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम्
।
बभूव परमोद्विग्नः सह सैन्येन भारत॥३७॥
तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि
।
हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम्॥३८॥
ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः
।
जीवितं चिरकालं हि भ्रातॄणां चाप्यमन्यत॥३९॥
स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै
।
प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत॥४०॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे अलायुधवधे अष्टसप्तत्यधिकशततमोऽध्यायः॥१७८॥
सञ्जय उवाच।
निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः
।
ननाद विविधान्नादान्वाहिन्याः प्रमुखे तव॥१॥
निहत्येति ॥१॥
तस्य तं तुमुलं शब्दं श्रुत्वा कुञ्जरकम्पनम्
।
तावकानां महाराज भयमासीत्सुदारुणम्॥२॥
अलायुधविषक्तं तु भैमसेनिं महाबलम्
।
दृष्ट्वा कर्णो महाबाहुः पञ्चालान्समुपाद्रवत्॥३॥
दशभिर्दशभिर्बाणैर्धृष्टद्युम्नशिखण्डिनौ
।
दृढैः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः॥४॥
ततः परमनाराचैर्युधामन्यूत्तमौजसौ
।
सात्यकिं च रथोदारं कम्पयामास मार्गणैः॥५॥
तेषामप्यस्यतां संख्ये सर्वेषां सव्यदक्षिणम्
।
मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप॥६॥
तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह
।
मेघानामिव घर्मान्ते बभूव तुमुलो निशि॥७॥
ज्यानेमिघोषस्तनयित्नुमान्वै धनुस्तडिन्मण्डलकेतुशृङ्गः
।
शरौघवर्षाकुलवृष्टिमांश्च संग्राममेघः स बभूव राजन्॥८॥
केतुश्रृंगं ‘ध्वजशिखरम् श्रृंगं प्रभुत्वे शिखरे’ इति मेदिनी ॥८॥
तदद्भुतं शैल इवाप्रकम्पो वर्षं महाशैलसमानसारः
।
विध्वंसयामास रणे नरेन्द्र वैकर्तनः शत्रुगणावमर्दी॥९॥
ततोऽतुलैर्वज्रनिपातकल्पैः शितैः शरैः काञ्चनचित्रपुङ्खैः
।
शत्रून् व्यपोहत्समरे महात्मा वैकर्तनः पुत्रहिते रतस्ते॥१०॥
संछिन्नभिन्नध्वजिनश्च केचित्केचिच्छरैरर्दितभिन्नदेहाः
।
केचिद्विसूताविह याश्च केचिद्वैकर्तनेनाशु कृता बभूवुः॥११॥
अविन्दमानास्त्वथ शर्म संख्ये यौधिष्ठिरं ते बलमभ्यपद्यन्
।
तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च घटोत्कचो रोषमतीव चक्रे॥१२॥
आस्थाय तं काञ्चनरत्नचित्रं रथोत्तमं सिंहवत्संननाद
।
वैकर्तनं कर्णमुपेत्य चापि विव्याध वज्रप्रतिमैः पृषत्कैः॥१३॥
तौ कर्णिनाराचशिलीमुखैश्च नालीकदण्डासनवत्सदन्तैः
।
वराहकर्णैः सविपाठशृङ्गैः क्षुरप्रवर्षैश्च विनेदतुः खम्॥१४॥
तद्बाणधारावृतमन्तरिक्षं तिर्यग्गताभिः समरे रराज
।
सुवर्णपुंखज्वलितप्रभाभिर्विचित्रपुष्पाभिरिव प्रजाभिः॥१५॥
तिर्यग्गताभिरिषुपंक्तिभिरिति शेषः ॥१५॥
समाहितावप्रतिमप्रभावावन्योन्यमाजघ्नतुरुत्तमास्त्रैः
।
तयोर्हि वीरोत्तमयोर्न कश्चिद्ददर्श तस्मिन्समरे विशेषम्॥१६॥
अतीव तच्चित्रमतुल्यरूपं बभूव युद्धं रविभीमसुन्वोः
।
समाकुलं शस्त्रनिपातघोरं दिवीव राह्वंशुमतोः प्रमत्तम्॥१७॥
सञ्जय उवाच।
घटोत्कचं यदा कर्णो न विशेषयते नृप
।
ततः प्रादुश्चकारोग्रमस्त्रमस्त्रविदां वरः॥१८॥
तेनास्त्रेणावधीत्तस्य रथं सहयसारथिम्
।
विरथश्चापि हैडिम्बिः क्षिप्रमन्तरधीयत॥१९॥
धृतराष्ट्र उवाच।
तस्मिन्नन्तर्हिते तूर्णं कूटयोधिनि राक्षसे
।
सामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व सञ्जय॥२०॥
प्रतिपन्नं कर्तव्यत्वेन ज्ञातमनुष्ठितं च ॥२०॥
सञ्जय उवाच।
अन्तर्हितं राक्षसेन्द्रं विदित्वा संप्राक्रोशन्कुरवः सर्व एव
।
कथं नायं राक्षसः कूटयोधी हन्यात्कर्णं समरेऽदृश्यमानः॥२१॥
ततः कर्णो लघुचित्रास्त्रयोधी सर्वा दिशः प्रावृणोद्बाणजालैः
।
न वै किञ्चित्प्रापतत्तत्र भूतं तमोभूते सायकैरन्तरिक्षे॥२२॥
नैवाददानो न च संदधानो न चेषुधीः स्पृश्यमानः कराग्रैः
।
अदृश्यद्वै लाघवात्सूतपुत्रः सर्वं बाणैश्छादयानोऽन्तरिक्षम्॥२३॥
अदृश्यत् अदृश्यत ॥२३॥
ततो मायां दारुणामन्तरिक्षेघोरां भीमां विहितां राक्षसेन
।
अपश्याम लोहिताभ्रप्रकाशां देदीप्यन्तीमग्निशिखामिवोग्राम्॥२४॥
ततस्तस्यां विद्युतः प्रादुरासन्नुल्काश्चापि ज्वलिताः कौरवेन्द्र
।
घोषश्चास्याः प्रादुरासीत्सुघोरः सहस्रशो नदतां दुन्दुभीनाम्॥२५॥
ततः शराः प्रापतन् रुक्मपुङ्खाः शक्त्यृष्टिप्रासमुसलान्यायुधानि
।
परश्वधास्तैलधौताश्च खड्गाः प्रदीप्ताग्रास्तोमराः पट्टिशाश्च॥२६॥
मयूखिनः परिघा लोहबद्धा गदाश्चित्राः शितधाराश्च शूलाः
।
गुर्व्यो गदा हेमपट्टावनद्धाः शतघ्न्यश्च प्रादुरासन्समन्तात्॥२७॥
महाशिलाश्चापतंस्तत्र तत्र सहस्रशः साशनयश्च वज्राः
।
चक्राणि चानेकशतक्षुराणि प्रादुर्बभूवुर्ज्वलनप्रभाणि॥२८॥
तां शक्तिपाषाणपरश्वधानां प्रासासिवज्राशनिमुद्गराणाम्
।
वृष्टिं विशालां ज्वलितां पतन्तीं कर्णः शरौघैर्न शशाक हन्तुम्॥२९॥
शराहतानां पततां हयानां वज्राहतानां च तथा गजानाम्
।
शिलाहतानां च महारथानां महान्निनादः पततां बभूव॥३०॥
सुभीमनानाविधशखपातैर्घटोत्कचेनाभिहतं समन्तात्
।
दौर्योधनं वै बलमार्तरूपमावर्तमानं ददृशे भ्रमत्तत्॥३१॥
हाहाकृतं संपरिवर्तमानं संलीयमानं च विषण्णरूपम्
।
ते त्वार्यभावात्पुरुषप्रवीराः पराङ्मुखा नो बभूवुस्तदानीम्॥३२॥
तां राक्षसीं भीमरूपां सुघोरां वृष्टिं महाशस्त्रमयीं पतन्तीम्
।
दृष्ट्वा बलौघांश्च निपात्यमानान् महद्भयं तव पुत्रान्विवेश॥३३॥
शिवाश्च वैश्वानरदीप्तजिह्वाः सुभीमनादाः शतशो नदन्तीः
।
रक्षोगणान्नर्दतश्चापि वीक्ष्य नरेन्द्रयोधा व्यथिता बभूवुः॥३४॥
ते दीप्तजिह्वानलतीक्ष्णदंष्ट्रा विभीषणाः शैलनिकाशकायाः
।
नभोगताः शक्तिविषक्तहस्ता मेघा व्यमुञ्चन्निव वृष्टिमुग्राम्॥३५॥
तैराहतास्ते शरशक्तिशूलैर्गदाभिरुग्रैः परिघैश्च दीप्तैः
।
वज्रैः पिनाकैरशनिप्रहारैः शतघ्निचक्रैर्मथिताश्च पेतुः॥३६॥
शूला भुशुंड्योऽश्मगुडाः शतघ्न्यः स्थूलाश्च कार्ष्णायसपट्टनद्धाः
।
तेऽवाकिरंस्तव पुत्रस्य सैन्यं ततो रौद्रं कश्मलं प्रादुरासीत्॥३७॥
विकीर्णान्त्रा विहतैरुत्तमाङ्गैः संभग्नाङ्गाः शिश्यिरे तत्र शूराः
।
छिन्ना हयाः कुञ्जराश्चापि भग्नाः संचूर्णिताश्चैव रथाः शिलाभिः॥३८॥
एवं महच्छत्रवर्षं सृजन्तस्ते यातुधाना भुवि घोररूपाः
।
मायाः सृष्टास्तत्र घटोत्कचेन नामुञ्चन्वै याचमानं न भीतम्॥३९॥
तस्मिन् घोरे कुरुवीरावमर्दे कालोत्सृष्टे क्षत्रियाणामभावे
।
ते वै भग्नाः सहसा व्यद्रवन्त प्राक्रोशन्तः कौरवाः सर्व एव॥४०॥
पलायध्वं कुरवो नैतदस्ति सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे
।
तथा तेषां मज्जतां भारतानां तस्मिन् द्वीपः सूतपुत्रो बभूव॥४१॥
तस्मिन् संक्रन्दे तुमुले वर्तमाने सैन्ये भग्ने लीयमाने कुरूणाम्
।
अनीकानां प्रविभागे प्रकाशे नाज्ञायन्ते कुरवो नेतरे च॥४२॥
निर्मर्यादे विद्रवे घोररूपे सर्वा दिशः प्रेक्षमाणाः स्म शून्याः
।
तां शस्त्रवृष्टिमुरसा गाहमानं कर्णं स्मैकं तत्र राजन्नपश्यन्॥४३॥
उरसा हार्दबलेन ॥४३॥
ततो बाणैरावृणोदन्तरिक्षं दिव्यां मायां योधयन् राक्षसस्य
।
ह्रीमान्कुर्वन् दुष्करं चार्यकर्म नैवामुह्यत्संयुगे सूतपुत्रः॥४४॥
ततो भीताः समुदैक्षन्त कर्णं राजन्सर्वे सैन्धवा बाह्लिकाश्च
।
असंमोहं पूजयन्तोऽस्य संख्ये संपश्यन्तो विजयं राक्षसस्य॥४५॥
तेनोत्सृष्टा चक्रयुक्ता शतघ्नी समं सर्वांश्चतुरोऽश्वाञ्जघान
।
ते जानुभिर्जगतीमन्वपद्यन् गतासवो निर्देशनाक्षिजिह्वाः॥४६॥
ततो हताश्वादवरुह्य यानादन्तर्मनाः कुरुषु प्राद्रवत्सु
।
दिव्ये चास्त्रे मायया वध्यमाने नैवामुह्यच्चिन्तयन्प्राप्तकालम्॥४७॥
ततोऽब्रुवन् कुरवः सर्व एव कर्णं दृष्ट्वा घोररूपां च मायाम्
।
शक्त्या रक्षो जहि कर्णाद्य तूर्णं नश्यन्त्येते कुरवो धार्तराष्ट्राः॥४८॥
करिष्यतः किञ्च नो भीमपार्थौ तपन्तमेनं जहि पापं निशीथे
।
यो नः संग्रामाद्घोररूपाद्विमुञ्चेत्स नः पार्थान् सबलान् योधयेत॥४९॥
तस्मादेनं राक्षसं घोररूपं शक्त्या जहि त्वं दत्तया वासवेन
।
मा कौरवाः सर्व एवेन्द्रकल्पा रात्रियुद्धे कर्ण नेशुः सयोधाः॥५०॥
स वध्यमानो रक्षसा वै निशीथे दृष्ट्वा राजंस्त्रास्यमानं बलं च
।
महच्छ्रुत्वा निनदं कौरवाणां मतिं दध्रे शक्तिमोक्षाय कर्णः॥५१॥
स वै क्रुद्धः सिंह इवात्यमर्षी नामर्षयन्प्रतिघातं रणेऽसौ
।
शक्तिं श्रेष्ठां वैजयन्तीमसह्यां समाददे तस्य वधं चिकीर्षन्॥५२॥
याऽसौ राजन्निहिता वर्षपूगान् वधायाजौ सत्कृता फाल्गुनस्य
।
यां वै प्रादात्सूतपुत्राय शक्रः शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय॥५३॥
तां वै शक्तिं लेलिहानां प्रदीप्तां पाशैर्युक्तामन्तकस्येव जिह्वाम्
।
मृत्योः स्वसारं ज्वलितामिवोल्कां वैकर्तनः प्राहिणोद्राक्षसाय॥५४॥
तामुत्तमां परकायावहन्त्रीं दृष्ट्वा शक्तिं बाहुसंस्थां ज्वलन्तीम्
।
भीतं रक्षो विप्रदुद्राव राजन् कृत्वाऽऽत्मानं विन्ध्यतुल्यप्रमाणम्॥५५॥
दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां नेदुर्भूतान्यन्तरिक्षे नरेन्द्र
।
ववुर्वातास्तुमुलाश्चापि राजन् सनिर्घाता चाशनिर्गां जगाम॥५६॥
सा तां मायां भस्म कृत्वा ज्वलन्ती भित्त्वा गाढं हृदयं राक्षसस्य
।
ऊर्ध्वं ययौ दीप्यमाना निशायां नक्षत्राणामन्तराण्याविवेश॥५७॥
स निर्भिन्नो विविधैरस्त्रपूगैर्दिव्यैर्नागैर्मानुषै राक्षसैश्च
।
नदन्नादान्विविधान्भैरवांश्च प्राणानिष्टांस्त्याजितः शक्रशक्त्या॥५८॥
इदं चान्यच्चित्रमाश्चर्यरूपं चकारासौ कर्म शत्रुक्षयाय
।
तस्मिन्काले शक्तिनिर्भिन्नमर्मा बभौ राजञ्शैलमेघप्रकाशः॥५९॥
ततोऽन्तरिक्षादपतद्गतासुः स राक्षसेन्द्रो भुवि भिन्नदेहः
।
अवाक्शिराः स्तब्धगात्रो विजिह्वो घटोत्कचो महदास्थाय रूपम्॥६०॥
स तद्रूपं भैरवं भीमकर्मा भीमं कृत्वा भैमसेनिः पपात
।
हतोऽप्येवं तव सैन्यैकदेशमपोथयत्स्वेन देहेन राजन्॥६१॥
पतद्रक्षः स्वेन कायेन तूर्णमतिप्रमाणेन विवर्धता च
।
प्रियं कुर्वन्पाण्डवानां गतासुरक्षौहिणीं तव तूर्णं जघान॥६२॥
ततो मिश्राः प्राणदन्सिंहनादैर्भेर्यः शङ्खा सुरजाश्चानकाश्च
।
दग्धां मायां निहतं राक्षसं च दृष्ट्वा हृष्टाः प्राणदन्कौरवेयाः॥६३॥
ततः कर्णः कुरुभिः पूज्यमानो यथा शक्रो वृत्रवधे मरुद्भिः
।
अन्वारूढस्तव पुत्रस्य यानं हृष्टश्चापि प्राविशत्तत्स्वसैन्यम्॥६४॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे घटोत्कचवधे ऊनाशीत्यधिकशततमोऽध्यायः॥१७९॥
धृतराष्ट्र उवाच।
एकवीरवधेऽमोघा शक्तिः सुतात्मजे यदा
।
कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवाम्॥१॥
एकवीरवधे इति ॥१॥
तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः
।
एकवीरवधे कस्माद्युद्धेन जयमादधे॥२॥
आहूतो न निवर्तेयमिति तस्य महाव्रतम्
।
स्वयं मार्गयितव्यः स सूतपुत्रेण फाल्गुनः॥३॥
ततो द्वैरथमानीय फाल्गुनं शक्रदत्तया
।
जघान न वृषः कस्मात्तन्ममाचक्ष्व सञ्जय॥४॥
नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः
।
शत्रुभिर्व्यंसितः पापः कथं नु स जयेदरीन्॥५॥
या ह्यस्य परमा शक्तिर्जयस्य च परायणम्
।
सा शक्तिर्वासुदेवेन व्यंसिता च घटोत्कचे॥६॥
कुणेर्यथा हस्तगतं ह्रियेत्फलं बलीयसा
।
तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे॥७॥
यथा वराहस्य शुनश्च युध्यतोस्तयोरभावे श्वपचस्य लाभः
।
मन्ये विद्वन्वासुदेवस्य तद्वद्युद्धे लाभः कर्णहैडिम्बयोर्वै॥८॥
घटोत्कचो यदि हन्याद्धि कर्णं परो लाभः स भवेत्पाण्डवानाम्
।
वैकर्तनो वा यदि तं निहन्यात्तथापि कृत्यं शक्तिनाशात्कृतं स्यात्॥९॥
इति प्राज्ञः प्रज्ञयैतद्विचिन्त्य घटोत्कचं सूतपुत्रेण युद्धे
।
अघातयद्वासुदेवो नृसिंहः प्रियं कुर्वन्पाण्डवानां हितं च॥१०॥
सञ्जय उवाच।
एतच्चिकीर्षितं ज्ञात्वा कर्णस्य मधुसूदनः
।
नियोजयामास तदा द्वैरथे राक्षसेश्वरम्॥११॥
एतत्प्रकृतशक्त्त्यार्जुनहननम् ॥११॥
घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः
।
अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव॥१२॥
तदैव कृतकार्या हि वयं स्याम कुरूद्वह
।
न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात्॥१३॥
साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद्भुवि
।
विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम्॥१४॥
तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव
।
जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः॥१५॥
स विशेषात्त्वमोघायाः कृष्णोऽरक्षत पाण्डवम्
।
हन्यात्क्षिप्रं हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः॥१६॥
धृतराष्ट्र उवाच।
विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः
।
यस्यैष समतिक्रान्तो वधोपायो जयं प्रति॥१७॥
एष कृत्स्नः जयं प्रति अर्जुनस्येत्यर्थः ॥१७॥
स वा कर्णो महाबुद्धिः सर्वशस्त्रभृतां वरः
।
न मुक्तवान्कथं सूत ताममोघां धनञ्जये॥१८॥
तवापि समतिक्रान्तमेतद्गावल्गणे कथम्
।
एतमर्थं महाबुद्धे यत्त्वया नावबोधितः॥१९॥
सञ्जय उवाच।
दुर्योधनस्य शकुनेर्मम दुःशासनस्य च
।
रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना॥२०॥
श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनञ्जयम्
।
प्रेष्यवत्पाण्डुपञ्चालानुपभोक्ष्यामहे ततः॥२१॥
अथवा निहते पार्थे पाण्डवान्यतमं ततः
।
स्थापयेद्यदि वार्ष्णेयस्तस्मात्कृष्णो हि हन्यताम्॥२२॥
कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः
।
शाखा इवेतरे पार्थाः पञ्चालाः पत्रसंज्ञिताः॥२३॥
कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पांडवाः
।
कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः॥२४॥
तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज
।
कृष्णं हि विद्धि पाण्डूनां मूलं सर्वत्र सर्वदा॥२५॥
हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम्
।
कृत्स्ना वसुमती राजन्वशे तस्य न संशयः॥२६॥
यदि हि स निहतः शयीत भूमौ यदुकुलपाण्डवनन्दनो महात्मा
।
ननु तव वसुधा नरेन्द्र सर्वा गिरिसमुद्रवना वशं व्रजेत॥२७॥
सा तु बुद्धिः कृताऽप्येवं जाग्रति त्रिदशेश्वरे
।
अप्रमेये हृषीकेश युद्धकालेऽप्यमुह्यत॥२८॥
अर्जुनं चापि राधेयात्सदा रक्षति केशवः
।
न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे॥२९॥
अन्यांश्चास्मै रथोदारानुपास्थापयदच्युतः
।
अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो॥३०॥
यश्चैवं रक्षते पार्थं कर्णात्कृष्णो महामनाः
।
आत्मानं स कथं राजन्न रक्षेत्पुरुषोत्तमः॥३१॥
परिचिन्त्य तु पश्यामि चक्रायुधमरिन्दमम्
।
न सोऽस्ति त्रिषु लोकेषु यो जयेत जनार्दनम्॥३२॥
सञ्जय उवाच।
ततः कृष्णं महाबाहुं सात्यकिः सत्यविक्रमः
।
पप्रच्छ रथशार्दूलः कर्णं प्रति महारथः॥३३॥
अयं च प्रत्ययः कर्णे शक्तिश्चामितविक्रमा
।
किमर्थं सूतपुत्रेण न मुक्ता फाल्गुने तु सा॥३४॥
श्रीवासुदेव उवाच।
दुःशासनश्च कर्णश्च शकुनिश्च ससैन्धवः
।
सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः॥३५॥
कर्ण कर्ण महेष्वास रणेऽमितपराक्रम
।
नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर॥२६॥
ऋते महारथात्कर्ण कुन्तीपुत्राद्धनञ्जयात्
।
स हि तेषामतियशा देवानामिव वासवः॥३७॥
तस्मिन्विनिहते पार्थे पाण्डवाः सृञ्जयैः सह
।
भविष्यन्ति गतात्मानः सुरा इव निरग्नयः॥३८॥
निरग्नयोऽग्निं विना मुखहीना इवेत्यर्थः ॥३८॥
तथेति च प्रतिज्ञातं कर्णेन शिनिपुङ्गव
।
हृदि नित्यं च कर्णस्य वधो गांडीवधन्वनः॥३९॥
अहमेव तु राधेयं मोहयामि युधां वर
।
ततो नावासृजच्छक्तिं पाण्डवे श्वेतवाहने॥४०॥
अहमेवेत्यादिग्रन्थो भगवतो भक्तपक्षपातित्वप्रदर्शनार्थो न केवलमर्जुनार्थ इति भावः ॥४०॥
फाल्गुनस्य हि सा मृत्युरिताचतयतोऽनिशम्
।
न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर॥४१॥
घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुङ्गव
।
मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनञ्जयम्॥४२॥
न पिता न च म माता न यूयं भ्रातरस्तथा
।
न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे॥४३॥
त्रैलोक्यराज्याद्यत्किञ्चिद्भवेदन्यत्सुदुर्लभम्
।
नेच्छेयं सात्वताहं तद्विना पार्थं धनञ्जयम्॥४४॥
अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत्
।
मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनञ्जयम्॥४५॥
अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः
।
न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम्॥४६॥
सञ्जय उवाच।
इति सात्यकये प्राह तदा देवकिनन्दनः
।
धनञ्जयहिते युक्तस्तत्प्रिये सततं रतः॥४७॥
हिते आमुष्मिके श्रेयसि प्रिये ऐहिके कल्याणे ॥४७॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे कृष्णवाक्ये द्व्यशीत्यधिकशततमोऽध्यायः॥१८२॥
धृतराष्ट्र उवाच।
कर्णदुर्योधनादीनां शकुनेः सौबलस्य च
।
अपनीतं महत्तात तव चैव विशेषतः॥१॥
कर्णेति । महज्जयालम्बनममोघशक्तिरूपमिति शेषः । अपनीतं नाशितम् । महदपनीतमन्याय इति वा ॥१॥
यदि जानीथ तां शक्तिमेकघ्नीं सततं रणे
।
अनिवार्यामसह्यां च देवैरपि सवासवैः॥२॥
सा किमर्थं तु कर्णेन प्रवृत्ते समरे पुरा
।
न देवकीसुते मुक्ता फाल्गुने वाऽपि सञ्जय॥३॥
सञ्जय उवाच।
संग्रामाद्विनिवृत्तानां सर्वेषां नो विशांपते
।
रात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽयं समजायत॥४॥
प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा
।
शक्तिरेषा हि मोक्तव्या कर्ण कर्णेति नित्यशः॥५॥
ततः प्रभातसमये राजन्कर्णस्य दैवतैः
।
अन्येषां चैव योधानां सा बुद्धिर्नाश्यते पुनः॥६॥
दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थया
।
न जघान रणे पार्थं कृष्णं वा देवकीसुतम्॥७॥
तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता
।
दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान्॥८॥
कृष्णे वा देवकीपुत्रे मोहितो देवमायया
।
पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभा॥९॥
धृतराष्ट्र उवाच।
दैवेनोपहता यूयं स्वबुद्ध्या केशवस्य च
।
गता हि वासवी हत्वा तृणभूतं घटोत्कचम्॥१०॥
कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः
।
तेन वै दुष्प्रणीतेन गता वैवस्वतक्षयम्॥११॥
दुष्प्रणीतेन दुर्नयेन ॥११॥
भूय एव तु मे शंस यथा युद्धमवर्तत
।
कुरूणां पाण्डवानां च हैडिम्बे निहते तदा॥१२॥
ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः
।
सृञ्जयाः सह पञ्चालैस्तेऽप्यकुर्वन्कथं रणम्॥१३॥
सौमदत्तेर्वधाद्द्रोणमायान्तं सैन्धवस्य च
।
अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम्॥१४॥
जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम्
।
कथं प्रत्युद्ययौ द्रोणमस्यन्तं पाण्डुसृञ्जयाः॥१५॥
आचार्यं ये च तेऽरक्षन् दुर्योधनपुरोगमाः
।
द्रौणि-कर्ण-कृपास्तात ते वाऽकुर्वन्किमाहवे॥१६॥
भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ
।
समार्च्छन्मामका युद्धे कथं सञ्जय शंस मे॥१७॥
सिन्धुराजवधेनेमे घटोत्कचवधेन ते
।
अमर्पितः सुसंक्रुद्धा रणं चक्रुः कथं निशि॥१८॥
सञ्जय उवाच।
हते घटोत्कचे राजन्कर्णेन निशि राक्षसे
।
प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु॥१९॥
आपतत्सु च वेगेन वध्यमाने बलेऽपि च
।
विगाढायां रजन्यां च राजा दैन्यं परं गतः॥२०॥
अब्रवीच्च महाबाहुर्भीमसेनमिदं वचः
।
आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम्॥२१॥
हैडिंबेश्चैव घातेन मोहो मामाविशन्महान्
।
एवं भीमं समादिश्य स्वरथे समुपाविशत्॥२२॥
अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनः पुनः
।
कश्मलं प्राविशद्धोरं दृष्ट्वा कर्णस्य विक्रमम्॥२३॥
तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत्
।
मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यते॥२४॥
वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे
।
उत्तिष्ठ राजन्युद्ध्यस्व वह गुर्वीं धुरं विभो॥२५॥
त्वयि वैक्लव्यमापन्ने संशयो विजये भवेत्
।
श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः॥२६॥
विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत्
।
विदिता मे महाबाहो धर्माणां परमा गतिः॥२७॥
ब्रह्महत्या फलं तस्य यः कृतं नाऽवबुध्यते
।
अस्माकं हि वनस्थानां हैडिम्बेन महात्मना॥२८॥
बालेनापि सता तेन कृतं साह्यं जनार्दन
।
अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं श्वेतवाहनम्॥२९॥
असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः
।
उषितश्च सहास्माभिर्यावन्नासीद्धनञ्जयः॥३०॥
गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताः
।
पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना॥३१॥
आरम्भाच्चैव युद्धानां यदेष कृतवान् प्रभो
।
मदर्थे दुष्करं कर्म कृतं तेन महाहवे॥३२॥
स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दन
।
सैव मे परमा प्रतिः राक्षसेन्द्रे घटोत्कचे॥३३॥
भक्तश्च मे महाबाहुः प्रियोऽस्याहं प्रियश्च मे
।
तेन विन्दामि वार्ष्णेय कश्मलं शोकतापितः॥३४॥
पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः
।
द्रोणकर्णौ तु संयत्तौ पश्य युद्धे महारथौ॥३५॥
निशीथे पाण्डवं सैन्यमेतत्सैन्यप्रमर्दितम्
।
गजाभ्यामिव मत्ताभ्यां यथा नलवनं महत्॥३६॥
एतत्सैन्यप्रमर्दितम् - एतयोः सैन्याभ्यां प्रमर्दितमिति विग्रहः ॥३६॥
अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव
।
चित्रास्त्रतां च पार्थस्य विक्रमन्ति स्म कौरवाः॥३७॥
एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः
।
निहत्य राक्षसं युद्धे हृष्टाः नर्दन्ति संयुगे॥३८॥
कथं वाऽस्मासु जीवत्सु त्वयि चैव जनार्दन
।
हैडिम्बिः प्राप्तवान्मृत्युं सूतपुत्रेण सङ्गतः॥३९॥
कदर्थी कृत्य नः सर्वान्पश्यतः सव्यसाचिनः
।
निहतो राक्षसः कृष्ण भैमसेनिर्महाबलः॥४०॥
यदाऽभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिः
।
नासीत्तत्र रणे कृष्ण सव्यसाची महारथः॥४१॥
निरुद्धाश्च वयं सर्वे सैन्धवेन दुरात्मना
।
निमित्तमभवद्द्रोणः स पुत्रस्तत्र कर्मणि॥४२॥
उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम्
।
व्यायच्छतश्च खड्गेन द्विधा खड्गं चकार ह॥४३॥
व्यसने वर्तमानस्य कृतवर्मा नृशंसवत्
।
अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथी॥४४॥
तथेतरे महेष्वासाः सौभद्रं युद्ध्यपातयन्
।
अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना॥४५॥
सैन्धवो यादद्वश्रेष्ठ तच्च नातिप्रियं मम
।
यदि शत्रुवधो न्याय्यो भवेत्कर्तुं हि पांडवैः॥४६॥
कर्णद्रोणौ रणे पूर्वं हन्तव्याविति मे मतिः
।
एतौ हि मूलं दुःखानामस्माकं पुरुषर्षभ॥४७॥
एतौ रणे समासाद्य समाश्वस्तः सुयोधनः
।
यत्र वध्यो भवेद्द्रोणः सूतपुत्रश्च सानुगः॥४८॥
तत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम्
।
अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः॥४९॥
ततो यास्याम्यहं वीरः स्वयं कर्णजिघांसया
।
भीमसेनो महाबाहुर्द्रोणानीकेन सङ्गतः॥५०॥
एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः
।
स विस्फार्य महच्चापं शंखं प्रध्माप्य भैरवम्॥५१॥
ततो रथसहस्रेण गजानां च शतैस्त्रिभिः
।
वाजिभिः पञ्चसाहस्त्रैः पञ्चालैः सप्रभद्रकैः॥५२॥
वृतः शिखण्डी त्वरितो राजानं पृष्ठतोऽन्वयात्
।
ततो भेरीः समाजघ्नुः शंखान्दध्मुश्च दंशिताः॥५३॥
पञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः
।
ततोऽब्रवीन्महाबाहुर्वासुदेवो धनञ्जयम्॥५४॥
एष प्रयाति त्वरितः क्रोधाविष्टो युधिष्ठिरः
।
जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते॥५५॥
एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत्
।
दूरं प्रयान्तं राजानमन्वगच्छज्जनार्दनः॥५६॥
तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसया
।
शोकोपहतसंकल्पं दह्यमानमिवाग्निना॥५७॥
अभिगम्याब्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम्
।
व्यास उवाच।
कर्णमासाद्य संग्रामे दिष्ट्या जीवति फाल्गुनः॥५८॥
सव्यसाचिवधाकांक्षी शक्तिं रक्षितवान् हि सः
।
न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तेन महारणे॥५९॥
सृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः
।
वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः॥६०॥
वासवीं समरे शक्तिं ध्रुवं मुञ्चेद्युधिष्ठिर
।
ततो भवेत्ते व्यसनं घोरं भरतसत्तम॥६१॥
दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद
।
वासवीं कारणं कृत्वा कालेनोपहतो ह्यसौ॥६२॥
तवैव कारणाद्रक्षो निहतं तात संयुगे
।
मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः॥६३॥
प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर
।
भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः॥६४॥
कौरवान्समरे राजन्प्रतियुध्यस्व भारत
।
पञ्चमे दिवसे तात पृथिवी ते भविष्यति॥६५॥
नित्यं च पुरुषव्याघ्र धर्ममेवानुचिन्तय
।
आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव॥६६॥
सेवेथाः परमप्रीतो ‘यतो धर्मस्ततो जयः’
।
इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत॥६७॥
इति श्रीमहाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि रात्रियुद्धे व्यासवाक्ये त्र्यशीत्यधिकशततमोऽध्यायः॥१८३