सञ्जय उवाच।
व्यासेनैवमथोक्तस्तु धर्मराजो युधिष्ठिरः
।
स्वयं कर्णवधाद्वीरो निवृत्तो भरतर्षभ॥१॥
व्यासेनैवमिति ततो दुर्योधन इति चाध्यायौ स्पष्टार्थौ ॥१॥
घटोत्कचे तु निहते सूतपुत्रेण तां निशाम्
।
दुःखामर्षवशं प्राप्तो धर्मराजो युधिष्ठिरः॥२॥
दृष्ट्वा भीमेन महतीं वार्यमाणां चमूं तव
।
धृष्टद्युम्नमुवाचेदं कुंभयोनिं निवारय॥३॥
त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात्
।
सशरः कवची खड्गी धन्वी च परतापनः॥४॥
अभिद्रव रणे हृष्टो मा च ते भीः कथंचन
।
जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधरः॥५॥
अभिद्रवन्तु संहृष्टाः कुंभयोनिं समंततः
।
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः॥६॥
द्रुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ
।
सात्यकिः केकयाश्चैव पाण्डवश्च धनञ्जयः॥७॥
अभिद्रवन्तु वेगेन कुंभयोनिवधेप्सया
।
तथैव रथिनः सर्वे हस्त्यश्वं यच्च किञ्चन॥८॥
पदाताश्च रणे द्रोणं पातयन्तु महारथम्
।
तथाऽऽज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना॥९॥
अभ्यद्रवन्त वेगेन कुंभयोनिवधेप्सया
।
आगच्छतस्तान्सहसा सर्वोद्योगेन पांडवान्॥१०॥
प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः
।
ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान्॥११॥
अभ्यद्रवत्सुसंक्रुद्ध इच्छन्द्रोणस्य जीवितम्
।
ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम्॥१२॥
पाण्डवानां कुरूणां च गर्जतामितरेतरम्
।
निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे॥१३॥
नाभ्यपद्यन्त समरे काञ्चिच्चेष्टां महारथाः
।
त्रियामा रजनी चैषा घोररूपा भयानका॥१४॥
सहस्त्रयामप्रतिमा बभूव प्राणहारिणी
।
वध्यतां च तथा तेषां क्षतानां च विशेषतः॥१५॥
अर्धरात्रिः समाजज्ञे निद्रान्धानां विशेषतः
।
सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः॥१६॥
तव चैव परेषां च गतास्त्रा विगतेषवः
।
ते तदा पारयन्तश्च ह्रीमन्तश्च विशेषतः॥१७॥
स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम्
।
अस्त्राण्यन्ये समुत्सृज्य निद्रांधाः शेरते जनाः॥१८॥
रथेष्वन्ये गजेष्वन्ये हयेष्वन्ये च भारत
।
निद्रान्धा नो बुबुधिरे काञ्चिच्चेष्टां नराधिप॥१९॥
तानन्ये समरे योधाः प्रेषयन्तो यमक्षयम्
।
स्वप्नायमानांस्त्वपरे परानतिविचेतसः॥२०॥
आत्मानं समरे जघ्नुः स्वानेव च परानपि
।
नानावाचो विमुञ्चन्तो निद्रांधास्ते महारणे॥२१॥
अस्माकं च महाराज परेभ्यो बहवो जनाः
।
योद्धव्यमिति तिष्ठन्तो निद्रासंरक्तलोचनाः॥२२॥
संसर्पन्तो रणे केचिन्निद्रान्धास्ते तथा परान्
।
जघ्नुः शूरा रणे शूरांस्तस्मिंस्तमसि दारुणे॥२३॥
हन्यमानमथात्मानं परेभ्यो बहवो जनाः
।
नाभ्यजानन्त समरे निद्रया मोहिता भृशम्॥२४॥
तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः
।
उवाच वाक्यं बीभत्सुरुच्चैः सन्नादयन् दिशः॥२५॥
श्रान्ता भवन्तो निद्रांधाः सर्व एव सवाहनाः
।
तमसा च वृते सैन्ये रजसा बहुलेन च॥२६॥
ते यूयं यदि मन्यध्वमुपारमत सैनिकाः
।
निमीलयत चात्रैव रणभूमौ मुहूर्तकम्॥२७॥
ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः
।
संसाधयिष्यथान्योन्यं संग्रामं कुरुपाण्डवाः॥२८॥
तद्वचः सर्वधर्मज्ञा धार्मिकस्य विशांपते
।
अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन्॥२९॥
चुक्रुशुः कर्ण कर्णेति तथा दुर्योधनेति च
।
उपारमत पाण्डूनां विरता हि वरूथिनी॥३०॥
तथा विक्रोशमानस्य फाल्गुनस्य ततस्ततः
।
उपारमत पाण्डूनां सेना तव च भारत॥३१॥
तामस्य वाचं देवाश्च ऋषयश्च महात्मनः
।
सर्वसैन्यानि चाक्षुद्रां प्रहृष्टाः प्रत्यपूजयन्॥३२॥
तत्संपूज्य वचोऽक्रूरं सर्वसैन्यानि भारत
।
मुहूर्तमस्वपन् राजन् श्रान्तानि भरतर्षभ॥३३॥
सा तु संप्राप्य विश्रामं ध्वजिनी तव भारत
।
सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत्॥३४॥
त्वयि वेदास्तथाऽस्त्राणि त्वयि बुद्धिपराक्रमौ
।
धर्मस्त्वयि महाबाहो दया भूतेषु चानघ॥३५॥
यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते
।
मनसश्च प्रियानर्थान् वीरक्षिप्रमवाप्नुहि॥३६॥
इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः
।
निद्रया समवाक्षिप्तास्तूष्णीमासन्विशांपते॥३७॥
अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे
।
गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ॥३८॥
सायुधाः सगदाश्चैव सखड्गाः सपरश्वधाः
।
सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक् पृथक्॥३९॥
गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणगुण्ठितैः
।
निद्रान्धा वसुधां चक्रुर्घाणनिःश्वासशीतलाम्॥४०॥
सुप्ताः शुशुभिरे तत्र निःश्वसन्तो महीतले
।
विकीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः॥४१॥
स मां च विषमां चक्रुः खुराग्रैर्विकृतां महीम्
।
हयाः काञ्चनयोक्त्रास्ते केसरालम्बिभिर्युगैः॥४२॥
सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः
।
एवं हयाश्च नागाश्च योधाश्च भरतर्षभ
।
युद्धाद्विरम्य सुषुपुः श्रमेण महताऽन्विताः॥४३॥
तत्तथा निद्रया भग्नमबोधं प्रास्वपद्भृशम्
।
कुशलैः शिल्पिभिर्व्यस्तं पटे चित्रमिवाद्भुतम्॥४४॥
ते क्षत्रियाः कुण्डलिनो युवानः परस्परं सायकविक्षताङ्गाः
।
कुम्भेषु लीनाः सुषुपुर्गजानां कुचेषु लग्ना इव कामिनीनाम्॥४५॥
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना
।
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता॥४६॥
दशशताक्षककुब्दरिनिःसृतः किरणकेसरभासुरपिञ्जरः
।
तिमिरवारणयूथविदारणः समुदियादुदयाचलकेसरी॥४७॥
हरवृषोत्तमगात्रसमद्युतिः स्मरशरासनपूर्णसमप्रभः
।
नववधूस्मितचारुमनोहरः प्रविसृतः कुमुदाकरबान्धवः॥४८॥
ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः
।
अरुणं दर्शयामास ग्रसन् ज्योतिःप्रभां प्रभुः॥४९॥
अरुणस्य तु तस्यानु जातरूपसमप्रभम्
।
रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत्॥५०॥
उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः
।
पर्यगच्छञ्छनैः सर्वा दिशः खं च क्षितिं तथा॥५१॥
ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत्
।
अप्रख्यमप्रकाशं च जगामाशु तमस्तथा॥५२॥
प्रतिप्रकाशिते लोके दिवाभूते निशाकरे
।
विचेरुर्न विचेरुश्च राजन्नक्तञ्चरास्ततः॥५३॥
बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः
।
बुबुधे शतपत्राणां वनं सूर्यांशुभिर्यथा॥५४॥
यथा चन्द्रोदयोद्धूतः क्षुभितः सागरोऽभवत्
।
तथा चन्द्रोदयोद्धूतः स बभूव बलार्णवः॥५५॥
ततः प्रववृते युद्धं पुनरेव विशांपते
।
लोके लोकविनाशाय परं लोकमभीप्सताम्॥५६॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि रात्रियुद्धे सैन्यनिद्रायां चतुरशीत्यधिकशततमोऽध्यायः॥१८४॥
सञ्जय उवाच।
ततो दुर्योधनो द्रोणमभिगम्याब्रवीदिदम्
।
अमर्षवशमापन्नो जनयन्हर्षतेजसी॥१॥
तत इति ॥१॥
दुर्योधन उवाच।
न मर्षणीयाः संग्रामे विश्रमन्तः श्रमान्विताः
।
सपत्ना ग्लानमनसो लब्धलक्षा विशेषतः॥२॥
यत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया
।
त एते परिविश्रान्ताः पाण्डवा बलवत्तराः॥३॥
सर्वथा परिहीनाः स्म तेजसा च बलेन च
।
भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः॥४॥
दिव्यान्यस्त्राणि सर्वाणि ब्राह्मादीनि च यानि ह
।
तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः॥५॥
न पाण्डवेया न वयं नान्ये लोके धनुर्धराः
।
युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते॥६॥
ससुरासुरगन्धर्वानिमाँल्लोकान् द्विजोत्तम
।
सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः॥७॥
स भवान्मर्षयत्येतांस्त्वत्तो भीतान्विशेषतः
।
शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम्॥८॥
सञ्जय उवाच।
एवमुद्धर्षितो द्रोणः कोपितश्च सुतेन ते
।
समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः॥९॥
स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे
।
अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना॥१०॥
अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः
।
यद्भवान्मन्यते चापि शुभं वा यदि वाऽशुभम्॥११॥
तद्वै कर्तास्मि कौरव्य वचनात्तव नान्यथा
।
निहत्य सर्वपञ्चालान् युद्धे कृत्वा पराक्रमम्॥१२॥
विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे
।
मन्यसे यच्च कौन्तेयमर्जुनं शान्तमाहवे॥१३॥
तस्य वीर्यं महाबाहो शृणु सत्येन कौरव
।
तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः॥१४॥
उत्सहन्ते रणे जेतुं कुपितं सव्यसाचिनम्
।
खाण्डवेयेन भगवान्प्रत्युद्यातः सुरेश्वरः॥१५॥
सायकैर्वारितश्चापि वर्षमाणो महात्मना
।
यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः॥१६॥
निहताः पुरुषेन्द्रेण तच्चापि विदितं तव
।
गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः॥१७॥
यूयं तैर्ह्रीयमाणाश्च मोक्षिता दृढधन्वना
।
निवातकवचाश्चापि देवानां शत्रवस्तथा॥१८॥
सुरैरवध्याः संग्रामे तेन वीरेण निर्जिताः
।
दानवानां सहस्राणि हिरण्यपुरवासिनाम्॥१९॥
विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम्
।
प्रत्यक्षं चैव ते सर्वं यथाबलमिदं तव॥२०॥
क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशांपते
।
सञ्जय उवाच।
तं तदाऽभिप्रशंसन्तमर्जुनं कुपितस्तदा॥२१॥
द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत्
।
अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे॥२२॥
हनिष्यामोऽर्जुनं संख्ये द्विधा कृत्वाऽद्य भारतीम्
।
तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव॥२३॥
अन्ववर्तत राजानं स्वस्ति तेऽस्विति चाब्रवीत्
।
को हि गांडीवधन्वानं ज्वलन्तमिव तेजसा॥२४॥
अक्षयं क्षपयेत्कश्चिशित्क्षत्रियः क्षत्रियर्षभम्
।
तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः॥२५॥
नासुरोरगरक्षांसि क्षपयेयुः सहायुधम्
।
मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत॥२६॥
युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान्
।
त्वं तु सर्वाभिशंकित्वान्निष्ठुरः पापनिश्चयः॥२७॥
श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि
।
गच्छ त्वमपि कौन्तेयमात्मार्थे जहि मा चिरम्॥२८॥
त्वमप्याशंसये योद्धुं कुलजः क्षत्रियो ह्यसि
।
इमान्किं क्षत्रियान्सर्वान्घातयिष्यस्यनागसः॥२९॥
त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम्
।
एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः॥३०॥
दुर्द्यूतदेवी गान्धारे प्रयात्वर्जुनमाहवे
।
एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः॥३१॥
देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान्
।
त्वया कथितमत्त्यर्थं कर्णेन सह हृष्टवत्॥३२॥
असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः
।
अहं च तात कर्णश्च भ्राता दुःशासनश्च मे॥३३॥
पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः
।
इति ते कत्थमानस्य श्रुतं संसदि संसदि॥३४॥
अनुतिष्ठ प्रतिज्ञां तां सत्यवाक् भव तैः सह
।
एष ते पाण्डवः शत्रुरविशङ्कोऽग्रतः स्थितः॥३५॥
क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात्
।
दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम्॥३६॥
कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम्
।
इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे
।
द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा॥३७॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि द्रोणदुर्योधनभाषणे पञ्चाशीत्यधिकशततमोऽध्यायः॥१८५॥
सञ्जय उवाच।
त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत
।
कुरूणां पाण्डवानां च संमृष्टानां विशांपते॥१॥
त्रिभागमात्रशेषायां मुहूर्तत्रयावशिष्टायाम् । तत्र सूर्योदयोत्तरं त्रयोदश्यां द्रोणस्य नाशः । त्रयोदश्यां शुक्लायां युद्धारंभस्य ‘हेमन्ते प्रथमे मासे शुक्लपक्षे त्रयोदशीम् । प्रवृत्तं भारतं युद्धम्’ - इति भारतसावित्र्यामुक्तस्य चोपपत्तिः सिद्ध्यति ॥१॥
अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः
।
अरुणोऽभ्युदयांचक्रे ताम्रीकुर्वन्निवाम्बरम्॥२॥
प्राच्यां दिशि सहस्रांशोररुणेनारुणीकृतम्
।
तापनीयं यथा चक्रं भ्राजते रविमण्डलम्॥३॥
ततो रथाश्वांश्च मनुष्ययानान्युत्सृज्य सर्वे कुरुपाण्डुयोधाः
।
दिवाकरस्याभिमुखं जपन्तः सन्ध्यागताः प्राञ्जलयो बभूवुः॥४॥
ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान्
।
अभ्यद्रवत्सपञ्चालान्दुर्योधनपुरोगमः॥५॥
द्वैधीकृतान्कुरून् दृष्ट्वा माधवोऽर्जुनमब्रवीत्
।
सपत्नान्सव्यतः कृत्वा अपसव्यमिमं कुरु॥६॥
स माधवमनुज्ञाय कुरुष्वेति धनञ्जयः
।
द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत॥७॥
अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरञ्जयः
।
आजिशीर्षगतं पार्थं भीमसेनोऽभ्युवाच ह॥८॥
भीमसेन उवाच।
अर्जुनार्जुन बीभत्सो शृणुष्वैतद्वचो मम
।
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागत॥९॥
अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे
।
असंभावितरूपस्त्वं सुनृशंसं करिष्यसि॥१०॥
सत्य-श्री-धर्म-यशसां वीर्येणानृण्यमाप्नुहि
।
भिन्ध्यनीकं युधां श्रेष्ठ अपसव्यमिमान्कुरु॥११॥
सञ्जय उवाच।
स सव्यसाची भीमेन चोदितः केशवेन च
।
कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत्॥१२॥
तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान्
।
पराक्रान्तं पराक्रम्य ततः क्षत्रियपुङ्गवाः॥१३॥
नाशक्नुवन्वारयितुं वर्धमानमिवानलम्
।
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः॥१४॥
अभ्यवर्षञ्छरव्रातैः कुन्तीपुत्रं धनञ्जयम्
।
तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः॥१५॥
कदर्थी कृत्य राजेन्द्र शरवर्षैरवाकिरत्
।
अस्त्रैरस्त्राणि संवार्य लघुहस्तो जितेन्द्रियः॥१६॥
सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः
।
उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च॥१७॥
तमश्च घोरं शब्दश्च तदा समभवन्महान्
।
न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथागते॥१८॥
सैन्येन रजसा मूढं सर्वमन्धमिवाभवत्
।
नैव ते न वयं राजन्प्राज्ञासिष्म परस्परम्॥१९॥
उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः
।
विरथा रथिनो राजन्समासाद्य परस्परम्॥२०॥
केशेषु समसज्जन्त कवचेषु भुजेषु च
।
हताश्वा हतसुताश्च निश्चेष्टा रथिनो हताः॥२१॥
जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः
।
हतान् गजान्समाश्लिष्य पर्वतानिव वाजिनः॥२२॥
गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः
।
ततस्त्वभ्यवसृत्यैव संग्रामादुत्तरां दिशम्॥२३॥
आतिष्ठ बाहवे द्रोणो विधूमोऽग्निरिव ज्वलन्
।
तमाजिशीर्षादेकान्तमपक्रान्तं निशम्य तु॥२४॥
समकम्पन्त सैन्यानि पाण्डवानां विशांपते
।
भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा॥२५॥
द्रोणं दृष्ट्वा परे त्रेसुश्चेरुर्मम्लुश्च भारत
।
आह्वयन्तं परानीकं प्रभिन्नमिव वारणम्॥२६॥
नैनमाशंसिरे जेतुं दानवा वासवं यथा
।
केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः॥२७॥
विस्मिताश्चाभवन्केचित् केचिदासन्नमर्षिताः
।
हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नराधिपाः॥२८॥
अपरे दशनैरोष्ठान् दशनक्रोधमूच्छिताः
।
व्याक्षिपन्नायुधान्यन्ये ममृदुश्चापरे भुजान्॥२९॥
अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः
।
पञ्चालास्तु विशेषेण द्रोणसायकपीडिताः॥३०॥
समसजन्त राजेन्द्र समरे भृशवेदनाः
।
ततो विराटद्रुपदौ द्रोणं प्रति ययू रणे॥३१॥
तथा चरन्तं संग्रामे भृशं समरदुर्जयम्
।
द्रुपदस्य ततः पौत्रास्त्रय एव विशांपते॥३२॥
चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि
।
तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः॥३३॥
त्रिभिर्दोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि
।
ततो द्रोणोऽजयद्युद्धे चेदिकैकेयसृञ्जयान्॥३४॥
मत्स्यांश्चैवाजयत्कृत्स्नान् भारद्वाजो महारथान्
।
ततस्तु द्रुपदः क्रोधाच्छरवर्षमवासृजत्॥३५॥
द्रोणं प्रति महाराज विराटश्चैव संयुगे
।
तं निहत्येषुवर्षं तु द्रोणः क्षत्रियमर्दनः॥३६॥
तौ शरैश्छादयामास विराटद्रुपदावुभौ
।
द्रोणेन च्छाद्यमानौ तु क्रुद्धौ संग्राममूर्धनि॥३७॥
द्रोणं शरैर्विव्यधतुः परमं क्रोधमास्थितौ
।
ततो द्रोणो महाराज क्रोधामर्षसमन्वितः॥३८॥
भल्लाभ्यां भृशतीक्ष्णाभ्यां चिच्छेद धनुषी तयोः
।
ततो विराटः कुपितः समरे तोमरान्दश॥३९॥
दश चिक्षेप च शरान्द्रोणस्य वधकांक्षया
।
शक्तिं च द्रुपदो घोरामायसीं स्वर्णभूषिताम्॥४०॥
चिक्षेप भुजगेन्द्राभां क्रुद्धो द्रोणरथं प्रति
।
ततो भल्लैः सुनिशितैश्छित्त्वा तांस्तोमरान्दश॥४१॥
शक्तिं कनकवैदूर्यां द्रोणाश्चिच्छेद सायकैः
।
ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः॥४२॥
द्रुपदं च विराटं च प्रेषयामास मृत्यवे
।
हते विराटे द्रुपदे केकयेषु तथैव च॥४३॥
तथैव चेदिमत्स्येषु पञ्चालेषु तथैव च
।
हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु॥४४॥
द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः
।
शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः॥४५॥
शशाप शपथं कृतवान् ॥४५॥
इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु
।
द्रोणो यस्याद्य मुच्येत यं वा द्रोणः पराभवेद॥४६॥
इष्टापूर्तात्तथा क्षात्रादिति । इष्टं यागहोमादि । आपूर्तं क्षेत्रारामादि । क्षात्रं द्रुपदकुलोप्तन्नत्वात् । ब्राह्मण्यं याजोपयाजयोर्ब्राह्मणयोस्तपसा ब्राह्मणरूपादग्नेश्च जातत्वात् । एतत्सर्वं तस्य नश्यतु । यस्य शत्रुर्द्रोणो न मुच्येत मरणं न प्राप्नुयात्। यं वा मां वा द्रोणो यदि पराभवेदिति ॥४६॥
इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम्
।
आयाद्द्रोणं सहानीकः पाञ्चाल्यः परवीरहा॥४७॥
पञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्पाण्डवैः सह
।
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः॥४८॥
सोदर्योश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे
।
रक्ष्यमाणं तथा द्रोणं सर्वैस्तैस्तु महारथैः॥४९॥
यतमानास्तु पञ्चाला न शेकुः प्रतिवीक्षितुम्
।
तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष॥५०॥
स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभः
।
भीमसेन उवाच।
द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः॥५१॥
कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम्
।
पितृपुत्रवधं प्राप्य पुमान्कः परिपालयेत्॥५२॥
अवस्थितमरिमुक्तविधं शपथं शापित्वाऽपिः कः परिपालयेत्कस्तद्धननं न कुर्यादपि तु सर्वोऽपि तद्धननं कुर्यादेवेति सार्धः श्लोकः ॥५२॥
विशेषतस्तु शपथं शपित्वा राजसंसदि
।
एष वैश्वानर इव समिद्धः स्वेन तेजसा॥५३॥
शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा
।
पुरा करोति निःशेषां पाण्डवानामनीकिनीम्॥५४॥
स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम्
।
इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः॥५५॥
शरैः पूर्णायतोत्सृष्टैर्द्रावयंस्तव वाहिनीम्
।
धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम्॥५६॥
आससाद रणे द्रोणं तदासीत्तुमुलं महत्
।
नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम्॥५७॥
यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान्
।
संसक्तान्येव चादृश्यन् रथवृन्दानि मारिषः॥५८॥
हतानि च विकीर्णानि शरीराणि शरीरिणाम्
।
केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः॥५९॥
विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतः परे
।
तथा संसक्तयुद्धं तदभवद्भृशदारुणम्
।
अथ संध्यागतः सूर्यः क्षणेन समपद्यत॥६०॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि संकुलयुद्धे षडशीत्यधिकशततमोऽध्यायः॥१८६॥
सञ्जय उवाच।
ते तथैव महाराज दंशिता रणमूर्धनि
।
सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे॥१॥
ते तथैवेति । सहस्रांशुं विकीर्णकरसहस्रं उदेष्यन्तमित्यर्थः । आदित्यं सूर्यम् ॥१॥
उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे
।
प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत॥२॥
द्वन्द्वानि तत्र यान्यासन्संसक्तानि पुरोदयात्
।
तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत॥३॥
रथैर्हया हयैर्नागाः पादातैश्चापि कुञ्जराः
।
हयैर्हयाः समाजग्मुः पादाताश्च पदातिभिः॥४॥
रथा रथैरिभैर्नागास्तथैव भरतर्षभ
।
संसक्ताश्च वियुक्ताश्च योधाः संन्यपतन् रणे॥५॥
ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा
।
क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन्॥६॥
शंखभेरीमृदङ्गानां कुञ्जराणां च गर्जताम्
।
विस्फारितविकृष्टानां कार्मुकाणां च कूजताम्॥७॥
शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ
।
द्रवतां च पदातीनां शस्त्राणां पततामपि॥८॥
हयानां ह्रेषतां चापि रथानां च निवर्तताम्
।
क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत्॥९॥
विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महांस्तदा
।
नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः॥१०॥
भूमावश्रूयत महांस्तदाऽऽसीत्कृपणं महत्
।
पततां पात्यमानानां पत्त्यश्वरथदन्तिनाम्॥११॥
तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः
।
स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वान् परेषां परे परान्॥१२॥
स्वे कौरवाः स्वान् स्वमृत्यान्परे पाण्डवाः स्वान् स्वभृत्यान् । स्वे इत्यनुवर्तते । परेषां पाण्डवानां स्वान् स्वे कौरवाः । परेषां पाण्डवानां परान् कौरवान् परे पाण्डवा जघ्नुरित्यन्वयः । परेषामित्युभयत्र संबध्यते । स्वपरविभागो वक्तुः संजयस्यानुरोधात् ॥१२॥
वीरबाहुविमृष्टाश्च योधेषु च गजेषु च
।
राशयः प्रत्यदृश्यन्त वाससां नेजनेष्विव॥१३॥
वीरेति । निज्यन्ते प्रक्षाल्यन्ते वासांसि येषु ते प्रदेशा नेजनानि तेषु यथा वाससां राशयो भवन्त्येवमुद्यतानां प्रतिकूलं पिष्टानां च खड्गानां राशयः प्रत्यदृश्यन्त । निज्यतां क्षालनैः उद्यमोद्यम्य शिलायां स्फाल्यमानानाम् । श्लोकद्वयम् ॥१३॥
उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः
।
स एव शब्दस्तद्रूपो वाससां निज्यतामिव॥१४॥
अर्धासिभिस्तथा खड्गैस्तोमरैः सपरश्वधैः
।
निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम्॥१५॥
अर्धासिभिरेकधारैः ॥१५॥
गजाश्वकायप्रभवां नरदेहप्रवाहिनीम्
।
शस्त्रमत्स्यसुसंपूर्णां मांसशोणितकर्दमाम्॥१६॥
आर्तनादस्वनवतीं पताकाशस्त्रफेनिलाम्
।
नदीं प्रावर्तयन्वीराः परलोकौघगामिनीम्॥१७॥
शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः
।
विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः॥१८॥
बाहुभिः कवचैश्चित्रैः शिरोभिश्चारुकुण्डलैः
।
युद्धोपकरणैश्चान्यैस्तत्र तत्र चकाशिरे॥१९॥
क्रव्यादसङ्घैराकीर्णं मृतैरर्धमृतैरपि
।
नासीद्रथपथस्तत्र सर्वमायोधनं प्रति॥२०॥
मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय वाजिनः
।
कथंचिदवहन् श्रान्ता वेपमानाः शरार्दिताः॥२१॥
कुलसत्त्वबलोपेता वाजिनो वारणोपमाः
।
विह्वलं तूर्णमुद्धान्तं सभयं भारतातुरम्॥२२॥
बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ
।
तावेवास्तां निलयनं तावार्तायनमेव च॥२३॥
निलयनमाश्रयः आर्तायनमार्तानां भयवारणं स्वीयानां शत्रूणां तु तावेव मृत्युकरावित्यर्थः॥२३॥
तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम्
।
आविग्नमभवत्सर्वं कौरवाणां महद्बलम्॥२४॥
पञ्चालानां च संसक्तं न प्राज्ञायत किञ्चन
।
अन्तकाक्रीडसदृशं भीरूणां भयवर्धनम्॥२५॥
पृथिव्यां राजवंश्यानामुत्थिते महति क्षये
।
न तत्र कर्णं द्रोणं वा नार्जुनं न युधिष्ठिरम्॥२६॥
न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम्
।
न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ॥२७॥
न कृपं मद्रराजं च कृतवर्माणमेव च
।
न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा॥२८॥
पश्याम राजन्संसक्तान्सैन्येन रजसा वृतान्
।
संभ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते॥२९॥
द्वितीयाभिव संप्राप्ताममन्यन्त निशां तदा
।
न ज्ञायन्ते कौरवेया न पञ्चाला न पाण्डवाः॥३०॥
न दिशो द्यौर्न चोर्वी च न समं विषमं तथा
।
हस्तसंस्पर्शमापन्नान्परानप्यथवा स्वकान्॥३१॥
न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः
।
उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च॥३२॥
प्राशाम्यत रजो भौमं शीघ्रत्वादनिलस्य च
।
तत्र नागा हया योधा रथिनोऽथ पदातयः॥३३॥
पारिजातवनानीव व्यरोचन् रुधिरोक्षिताः
।
ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा॥३४॥
पाण्डवैः समसजज्जन्त चतुर्भिश्चतुरो रथाः
।
दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत॥३५॥
चतुरश्वत्वारः भ्रात्रा दुःशासनेन ॥३५॥
वृकोदरेण राधेयो भारद्वाजेन चार्जुनः
।
तद्धोरं महदाश्चर्यं सर्वे प्रैक्षन्त सर्वतः॥३६॥
रथर्षभाणामुग्राणां सन्निपातममानुषम्
।
रथमार्गैर्विचित्रैस्तैर्विचित्ररथसंकुलम्॥३७॥
अपश्यन् रथिनो युद्धं विचित्रं चित्रयोधिनाम्
।
यतमानाः पराक्रान्ताः परस्परजिगीषवः॥३८॥
जीमूता इव घर्मान्ते शरवर्षैरवाकिरन्
।
ते रथान्सूर्यसङ्काशानास्थिताः पुरुषर्षभाः॥३९॥
अशोभन्त यथा मेघाः शारदाश्चलविद्युतः
।
योधास्ते तु महाराज क्रोधामर्षसमन्विताः॥४०॥
स्पर्धिनश्च महेष्वासाः कृतयत्ना धनुर्धराः
।
अभ्यगच्छंस्तथाऽन्योन्यं मत्ता गजवृषा इव॥४१॥
न नूनं देहभेदोऽस्ति काले राजन्ननागते
।
यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः॥४२॥
बाहुभिश्चरणैच्छिन्नैः शिरोभिश्च सकुण्डलैः
।
कार्मुकैर्विशिखैः प्रासैः खड्गैः परशुपट्टिशैः॥४३॥
नालीकैः क्षुद्रनाराचैर्नखरैः शक्तितोमरैः
।
अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः॥४४॥
विचित्रैर्विविधाकारैः शरीरावरणैरपि
।
विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः॥४५॥
शून्यैश्चैव नगाकारैर्हतयोधध्वजै रथैः
।
अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः॥४६॥
वातायमानैरसकृद्धतवीरैरलङ्कृतैः
।
व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः॥४७॥
छत्रैराभरणैर्वस्त्रैर्माल्यैश्च ससुगन्धिभिः
।
हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः॥४८॥
उरस्थैर्मणिभिर्निष्कैश्चूडामणिभिरेव च
।
आसीदायोधनं तत्र नभस्तारागणैरिव॥४९॥
ततो दुर्योधनस्यासीन्नकुलेन समागमः
।
अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च॥५०॥
अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम्
।
किरञ्छरशतैर्हृष्टस्तत्र नादो महानभूत्॥५१॥
अपसव्यं कृतं संख्ये भ्रातृव्येनात्यमर्षिणा
।
नामृष्यत तमप्याजौ प्रतिचक्रेऽपसव्यतः॥५२॥
पुत्रस्तव महाराज राजा दुर्योधनो द्रुतम्
।
ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम्॥५३॥
न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित्
।
स सर्वतो निवार्यैनं शरजालेन पीडयन्॥५४॥
विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन्
।
तिष्ठ तिष्ठेति नकुलो बभाषे तनयं तव
।
संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितं च तत्॥५५॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि नकुलयुद्धे सप्ताशीत्यधिकशततमोऽध्याय॥१८७॥
सञ्जय उवाच।
ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत्
।
रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम्॥१॥
तत इति ॥१॥
तस्यापतत एवाशु भल्लेनामित्रकर्शनः
।
माद्रीपुत्रः शिरो यन्तुः सशिरस्त्राणमच्छिनत्॥२॥
नैनं दुःशासनः सूतं नापि कश्चन सैनिकः
।
कृत्तोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान्॥३॥
यदा त्वसंगृहीतत्वात्प्रयान्त्यश्वा यथासुखम्
।
ततो दुःशासनः सूतं बुबुधे गतचेतसम्॥४॥
स हयान्सन्निगृह्याजौ स्वयं हयविशारदः
।
युयुधे रथिनां श्रेष्ठो लघुचित्रं च सुष्ठु च॥५॥
तदस्यापूजयन् कर्म स्वे परे चापि संयुगे
।
हतसुतरथेनाजौ व्यचरद्यदभीतवत्॥६॥
सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत्
।
पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः॥७॥
स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम्
।
धनुषा कर्म कुर्वंस्तु रश्मींश्च पुनरुत्सृजत्॥८॥
छिद्रेष्वेतेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत्
।
परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवाप तत्॥९॥
वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितः
।
आकर्णपूर्णैरभ्यघ्नन्बाह्वोरुरसि चानदत्॥१०॥
स निवृत्तस्ततः कर्णः संघट्टित इवोरगः
।
भीममावारयामास विकिरन्निशिताञ्छरान्॥११॥
ततोऽभूत्तुमुलं युद्धं भीमराधेययोस्तदा
।
तौ वृषाविव नर्दन्तौ विवृत्तनयनावुभौ॥१२॥
वेगेन महताऽन्योन्यं संरब्धावभिपेततुः
।
अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः॥१३॥
विच्छिन्नशरपातत्वाद्गदायुद्धमवर्तत
।
गदया भीमसेनस्तु कर्णस्य रथकूबरम्॥१४॥
विभेद शतधा राजंस्तदद्भुतमिवाभवत्
।
ततो भीमस्य राधेयो गदामाविध्य वीर्यवान्॥१५॥
अवासृजद्रथे तां तु बिभेद गदया गदाम्
।
ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम्॥१६॥
तां गदां बहुभिः कर्णः सुपुङ्खैः सुप्रवेजितैः
।
प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत्॥१७॥
व्यालीव मन्त्राभिहता कर्णबाणैरभिद्रुता
।
तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः॥१८॥
पपात सारथिश्चास्य मुमोह च गदाहतः
।
स कर्णं सायकानष्टौ व्यसृजत्क्रोधमूर्च्छितः॥१९॥
तैस्तस्य निशितैस्तीक्ष्णैर्भीमसेनो महाबलः
।
चिच्छेद परवीरघ्नः प्रहसन्निव भारत॥२०॥
ध्वजं शरासनं चैव शरावापञ्च भारत
।
कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम्॥२१॥
ततः पुनस्तु राधेयो हयानस्य रथेषुभिः
।
ऋक्षवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी॥२२॥
स विपन्नरथो भीमो नकुलस्याप्लुतो रथम्
।
हरिर्यथा गिरेः शृङ्गं समाक्रामदरिन्दमः॥२३॥
तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ
।
आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि॥२४॥
लघुसन्धानयोगाभ्यां रथयोश्च रणेन च
।
मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च॥२५॥
उपारमन्त ते सर्वे योधा भरतसत्तम
।
अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः॥२६॥
विचित्रान्पृतनामध्ये रथमार्गानुदीर्य तौ
।
अन्योन्यमपसव्यं च कर्तुं वीरौ तदेषतुः॥२७॥
पराक्रमं तयोर्योधा ददृशुस्ते सुविस्मिताः
।
तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत्॥२८॥
आमिषार्थे महाराज गगने श्येनयोरिव
।
यद्यच्चकार द्रोणस्तु कुन्तीपुत्राजगीषया॥२९॥
तत्तप्रतिजघानाशु प्रहसंस्तस्य पाण्डवः
।
यदा द्रोणो न शक्नोति पाण्डवं स्म विशेषुतुम्॥३०॥
ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः
।
ऐन्द्रं पाशपतं त्वाष्ट्रं वायव्यमथ वारुणम्॥३१॥
मुक्तं मुक्तं द्रोणचापात्तज्जघान धनञ्जयः
।
अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः॥३२॥
ततोऽस्तैः परमैर्दिव्यैर्दोणः पार्थमवाकिरत्
।
यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया॥३३॥
तस्य तस्य विघाताय तत्तद्धि कुरुतेऽर्जुनः
।
स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि॥३४॥
अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत्
।
मेने चात्मानमधिकं पृथिव्यामधि भारत॥३५॥
तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः परंतपः
।
वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम्॥३६॥
यतमानोऽर्जुनं प्रीत्या प्रत्यवारयदुत्स्मयन्
।
ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः॥३७॥
ऋषयः सिद्धसङ्घाश्च व्यतिष्ठन्त दिदृक्षया
।
तदप्सरोभिराकीर्णं यक्ष-गन्धर्वसंकुलम्॥३८॥
श्रीमदाकाशमभवद्भयो मेघाकुलं यथा
।
तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः॥३९॥
द्रोण-पार्थस्तवोपेता व्यश्रूयन्त नराधिप
।
विसृज्यमानेष्वस्त्रेषु ज्वालयत्सु दिशो दश॥४०॥
अब्रुवंस्तत्र सिद्धाश्च ऋषयश्च समागताः
।
नैवेदं मानुषं युद्धं नासुरं न च राक्षसम्॥४१॥
न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम्
।
विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम्॥४२॥
अति पाण्डवमाचार्यो द्रोणं चाप्यति पांडवः
।
नानयोरन्तरं शक्यं द्रष्टुमन्येन केनचित्॥४३॥
यदि रुद्रो द्विधा कृत्य युध्येतात्मानमात्मना
।
तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते॥४४॥
ज्ञानमेकस्थमाचार्ये, ज्ञानं योगश्च पाण्डवे
।
शौर्यमेकस्थमाचार्ये, बलं शौर्यं च पाण्डवे॥४५॥
ज्ञानमेकस्थमिति । आचार्यो ज्ञानस्य शौर्यस्य चावधिरित्यर्थः । अर्जुनस्तु योगेन बलेन चाधिकः । कृष्णसारथिगाण्डीवदिव्यरथध्वजबुद्ध्यादिभिर्यौवनेन च युक्तत्वात् । तथा च योगबलाभ्यामाचार्यसाम्यं प्राप्त इत्यर्थः ॥४५॥
नेमौ शक्यौ महेष्वासौ युद्धे क्षपयितुं परैः
।
इच्छमानौ पुनरिमौ हन्येतां सामरं जगत्॥४६॥
इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ
।
अन्तर्हितानि भूतानि प्रकाशानि च सर्वशः॥४७॥
ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः
।
संतापयन् रणे पार्थं भूतान्यन्तर्हितानि च॥४८॥
ततश्चचाल पृथिवी सपर्वत-वन-द्रुमा
।
ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः॥४९॥
ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः
।
सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना॥५०॥
ततः पार्थोऽप्यसंभ्रान्तस्तदस्त्रं प्रतिजघ्निवान्
।
ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत्॥५१॥
यदा न गम्यते पारं तयोरन्यतरस्य वा
।
ततः संकुलयुद्धेन तद्युद्धं व्याकुलीकृतम्॥५२॥
पारमवधिः आर्षं क्लीबत्वम् । अन्यतरेणेति शेषः । गम्यते प्राप्यते अन्योन्ययुद्धे । ततस्तदा संकुलयुद्धमनियतयोधं युद्धम् ॥५२॥
नाज्ञायत ततः किञ्चित्पुनरेव विशांपते
।
प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मृधे॥५३॥
शरजालैः समाकीर्णे मेघजालैरिवाम्बरे
।
नापतच्च ततः कश्चिदन्तरिक्षचरस्तदा॥५४॥
नापतत् बाणैरन्तरिक्षस्य पूरितत्वादिति भावः ॥५४॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि संकुलयुद्धे अष्टाशीत्यधिकशततमोऽध्यायः॥१८८॥
सञ्जय उवाच।
तस्मिस्तथा वर्तमाने गजाश्वनरसंक्षये
।
दुःशासनो महाराज धृष्टद्युम्नमयोधयत्॥१॥
तस्मिन्निति ॥१॥
स तु रुक्मरथासक्तो दुःशासनशरार्दितः
।
अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत॥२॥
क्षणेन स रथस्तस्य सध्वजः सहसारथिः
।
नादृश्यत महाराज पार्षतस्य शरैश्चितः॥३॥
दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः
।
नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः॥४॥
स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः
।
किरञ्छरसहस्राणि द्रोणमेवाभ्ययाद्रणे॥५॥
अभ्यपद्यत हार्दिक्यः कृतवर्मा त्वनन्तरम्
।
सोदर्याणां त्रयश्चैव त एनं पर्यवारयन्॥६॥
त्रयो धृष्टद्युम्नोऽन्यौ द्वौ च ॥६॥
तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ
।
द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम्॥७॥
संप्रहारमकुर्वंस्ते सर्वे च सुमहारथाः
।
अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः॥८॥
शुद्धात्मानः शुद्धवृत्ता राजन् स्वर्गपुरस्कृताः
।
आर्यं युद्धमकुर्वन्त परस्परजिगीषवः॥९॥
शुक्लाभिजनकर्माणो मतिमन्तो जनाधिप
।
धर्मयुद्धमयुध्यन्त प्रेप्सन्तो गतिमुत्तमाम्॥१०॥
शुक्लः शुद्धोऽभिजनो वंशो येषां ते स्वयंशोधितकर्माणश्च ॥१०॥
न तत्रासीदधर्मिष्ठमशस्तं युद्धमेव च
।
नात्र कर्णी न नालीको न लिप्तो न च बस्तिकः॥११॥
अशस्तमप्रशस्यम् । प्रशस्यत्वमाह - नात्रेति । कर्णी विलोमकण्टकद्वययुक्तः। स हि उद्ध्रियमाणोऽन्त्राण्युद्धरति । नालीकः अल्पत्वाद्देहमग्नः सन् दुरुद्धरः। न लिप्तो विषेणेति शेषः । बस्तिकः शल्यदण्डसन्धौ शिथिलस्तस्योद्धरणे शल्यं बस्तिमध्ये मज्जति दण्डमात्रं निःसरति [अन्ये बस्तक इति पठित्वा शृङ्गघटित इति व्याचख्युः] ॥११॥
न सूची कपिशो नैव न गवास्थिर्गजास्थिजः
।
इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः॥१२॥
सूचीकीर्णसजातीयो बहुकण्टकः [कपिशस्तुल्यो मर्कटास्थिमयो वेति प्राञ्चः] कार्ष्णायसमयः सह्यदृढेऽप्याघातेऽन्तर्बहुप्रविशति । ‘कपिशस्त्रिषु श्यामे’ इति मेदिनी । गवास्थिजो गजास्थिजस्तन्मयफलकश्च बाणो विषलिप्तवज्ज्ञेयः । श्लिष्टो द्विशल्यः क्षतद्वयकरत्वाद्धेयः । पूर्तिमलिनशल्यः सोऽपि क्षतपोषकश्चर्चितो वा । जिह्मगोऽन्यल्लक्ष्यत्वेन प्रदर्श्यान्यत्र पातितः ॥१२॥
ऋजून्येक विशुद्धानि सर्वे शस्त्राण्यधारयन्
।
सुयुद्धेन पराँल्लोकानीप्सन्तः कीर्तिमेव च॥१३॥
तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम्
।
चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह॥१४॥
धृष्टद्युम्नस्तु तान् दृष्ट्वा तव राजन् रथर्षभान्
।
यमाभ्यां वारितान्वीराञ्छीघ्रास्त्रो द्रोणमभ्ययात्॥१५॥
निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः
।
समसज्जन्त चत्वारो वाताः पर्वतयोरिव॥१६॥
द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुङ्गवौ
।
समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत॥१७॥
दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम्
।
यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत्॥१८॥
दुर्योधनो महाराज किरञ्छोणितभोजनान्
।
तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत॥१९॥
तौ परस्परमासाद्य समीपे कुरुमाधवौ
।
हसमानौ नृशार्दूलावभीतौ समसज्जताम्॥२०॥
बाल्यवृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ
।
अन्योन्यं प्रेक्षमाणौ च स्मयमानौ पुनः पुनः॥२१॥
अथ दुर्योधनो राजा सात्यकिं समभाषत
।
प्रियं सखायं सततं गर्हयन् वृत्तमात्मनः॥२२॥
धिक् क्रोधं धिक्सखे लोभं घिङ्मोहं धिगमर्षितम्
।
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम्॥२३॥
यत्र मामभिसंधत्से त्वां चाहं शिनिपुङ्गव
।
त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव॥२४॥
स्मरामि तानि सर्वाणि बाल्यवृत्तानि यानि नौ
।
तानि सर्वाणि जीर्णानि सांप्रतं नो रणाजिरे॥२५॥
किमन्यत्क्रोधलोभाभ्यां युद्धमेवाद्य सात्वत
।
तं तथावादिनं तत्र सात्यकिः प्रत्यभाषत॥२६॥
प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रविव
।
नेयं सभा राजपुत्र नाचार्यस्य निवेशनम्॥२७॥
यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः
।
दुर्योधन उवाच।
क्क सा क्रीडा गताऽस्माकं बाल्ये वै शिनिपुङ्गव॥२८॥
क्व च युद्धमिदं भूयः ‘कालो हि दुरतिक्रमः’
।
किंनु नो विद्यते कृत्यं धनेन धनलिप्सया॥२९॥
यत्र युध्यामहे सर्वे धनलोभात्समागताः
।
सञ्जय उवाच।
तं तथावादिनं तत्र राजानं माधवोऽब्रवीत्॥३०॥
एवं वृत्तं सदा क्षात्रं युध्यन्तीह गुरूनपि
।
यदि तेऽहं प्रियो राजन् जहि मां मा चिरं कृथाः॥३१॥
त्वत्कृते सुकृतांल्लोकान् गच्छेयं भरतर्षभ
।
या ते शक्तिर्बलं यच्च तत्क्षिप्रं मयि दर्शय॥३२॥
नेच्छामि तदहं द्रष्टुं मित्राणां व्यसनं महत्
।
इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः॥३३॥
अभ्ययात्तूर्णमव्यग्रो दयां नाकुरुतात्मनि
।
तमायान्तं महाबाहुं प्रत्यगृह्णात्तवात्मजः॥३४॥
शरैश्चावाकिरद्राजञ्शैनेयं तनयस्तव
।
ततः प्रववृते युद्धं कुरुमाधवसिंहयोः॥३५॥
अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः
।
ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम्॥३६॥
दुर्योधनः प्रत्यविध्यत्कुपितो दशभिः शरैः
।
तं सात्यकिः प्रत्यविध्यत्तथैवावाकिरच्छरैः॥३७॥
यञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह
।
सात्यकिं तु रणे राजन्प्रहसंस्तनयस्तव॥३८॥
आकर्णपूर्णैर्निशितैर्विव्याध त्रिंशता शरैः
।
ततोऽस्य सशरं चापं क्षुरप्रेण द्विधाऽच्छिनत्॥३९॥
सोऽन्यत्कार्मुकमादाय लघुहस्तस्ततो दृढम्
।
सात्यकिर्व्यसृजच्चापि शरश्रेणीं सुतस्य ते॥४०॥
तामापतन्तीं सहसा शरश्रेणीं जिघांसया
।
चिच्छेद बहुधा राजा तत उच्चुक्रुशुर्जनाः॥४१॥
सात्यकिं च त्रिसप्तत्या पीडयामास वेगितः
।
स्वर्णपुङ्खैः शिलाधौतैराकर्णापूर्णनिःसृतैः॥४२॥
तस्य संदधतश्चेषु संहितेषु च कार्मुकम्
।
आच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाप्यवीविधत्॥४३॥
स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरे
।
दुर्योधनो महाराज दाशार्हशरपीडितः॥४४॥
समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात्
।
विसृजन्निषुजालानि युयुधानरथं प्रति॥४५॥
तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति
।
सततं विसृजन् राजंस्तत्संकुलमवर्तत॥४६॥
तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च शरीरिषु
।
अग्नेरिव महाकक्षैः शब्दः समभवन्महान्॥४७॥
तयोः शरसहसैश्च संछन्नं वसुधातलम्
।
अगम्यरूपं च शरैराकाशं समपद्यत॥४८॥
तत्राप्यधिकमालक्ष्य माधवं रथसत्तमम्
।
क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव॥४९॥
न तु तं मर्षयामास भीमसेनो महाबलः
।
सोभ्ययात्त्वरितःकर्णं विसृजन्सायकान्बहून्॥५०॥
तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव
।
धनुः शरांश्च चिच्छेद सुतं चाभ्यहनच्छरैः॥५१॥
भीमसेनस्तु संक्रुद्धो गदामादाय पाण्डवः
।
ध्वजं धनुश्च सूतं च संममर्दाहवे रिपोः॥५२॥
रथचक्रं च कर्णस्य बभञ्ज स महाबलः
।
भग्नचक्रे रथेऽतिष्ठदकम्पः शैलराडिव॥५३॥
एकचक्रं रथं तस्य तमूहुः सुचिरं हयाः
।
एकचक्रमिवार्कस्य रथं सप्त हया यथा॥५४॥
अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत
।
विविधैरिपुजालैश्च नानाशस्त्रैश्च संयुगे॥५५॥
भीमसेनस्तु संक्रुद्धः सूतपुत्रमयोधयत्
।
तस्मिंस्तथा वर्तमाने क्रुद्धो धर्मसुतोऽब्रवीत्॥५६॥
पञ्चालानां नरव्याघ्रान्मत्स्यांश्च पुरुषर्षभान्
।
ये नः प्राणाः शिरो ये च ये नो योधा महारथाः॥५७॥
त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः
।
किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः॥५८॥
तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः
।
क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः॥५९॥
जयन्तो वध्यमानाश्च गतिमिष्टां गमिष्यथ
।
जित्वा वा बहुभिर्यज्ञैर्यजध्वं भूरिदक्षिणैः॥६०॥
हता वा देवसाद्भूत्वा लोकान्प्राप्स्यथ पुष्कलान्
।
ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः॥६१॥
क्षात्रधर्मं पुरस्कृत्य त्वरिता द्रोणमभ्ययुः
।
पञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्निशितैः शरैः॥६२॥
भीमसेनपुरोगाश्चाप्येकतः पर्यवारयन्
।
आसंस्तु पाण्डुपुत्राणां त्रयो जिह्मा महारथाः॥६३॥
यमौ च भीमसेनश्च प्राक्रोशंस्ते धनञ्जयम्
।
अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद॥६४॥
तत एनं हनिष्यन्ति पञ्चाला हतरक्षिणम्
।
कौरवेयांस्ततः पार्थः सहसा समुपाद्रवत्॥६५॥
पञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान्
।
ममर्दुस्तरसा वीराः पञ्चमेऽहनि भारत॥६६॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि संकुलयुद्धे ऊननवत्यधिकशततमोऽध्यायः॥१८९॥
सञ्जय उवाच।
पञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत्
।
यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा॥१॥
पञ्चालानामिति ॥१॥
द्रोणास्त्रेण महाराज वध्यमानाः परे युधि
।
नात्रसन्त रणे द्रोणात्सत्त्ववन्तो महारथाः॥२॥
युध्यमाना महाराज पञ्चालाः सृञ्जयास्तथा
।
द्रोणमेवाभ्ययुर्युद्धे योधयन्तो महारथाः॥३॥
तेषां तु च्छाद्यमानानां पञ्चालानां समन्ततः
।
अभवद्भैरवो नादो वध्यतां शरवृष्टिभिः॥४॥
वध्यमानेषु संग्रामे पञ्चालेषु महात्मना
।
उदीर्यमाणे द्रोणास्त्रे पाण्डवान्भयमाविशत्॥५॥
दृष्ट्वाऽश्वन रयोधानां विपुलं च क्षयं युधि
।
पाण्डवेया महाराज नाशशंसुर्जयं तदा॥६॥
कच्चिद्द्रोणो न नः सर्वान् क्षपयेत्परमास्त्रवित्
।
समिद्धः शिशिरापाये दहन्कक्षमिवानलः॥७॥
न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम्
।
न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित्॥८॥
त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान्
।
मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत्॥९॥
नैष युद्धे न संग्रामे जेतुं शक्यः कथञ्चन
।
सधनुर्धन्विनां श्रेष्ठो देवैरपि सवासवैः॥१०॥
न्यस्तशस्त्रस्तु संग्रामे शक्यो हन्तुं भवेन्नृभिः
।
आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डवाः॥११॥
यथा न संयुगे सर्वान्न हन्याद्रुक्मवाहनः
।
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम॥१२॥
तं हतं संयुगे कश्चिदस्मै शंसतु मानवः
।
एतन्नारोचयद्राजन् कुन्तीपुत्रो धनञ्जयः॥१३॥
अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः
।
ततो भीमो महाबाहुरनीके स्वे महागजम्॥१४॥
जघान गदया राजन्नश्वत्थामानमित्युत
।
परप्रमथनं घोरं मालवस्येन्द्रवर्मणः॥१५॥
भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे
।
अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह॥१६॥
अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत्
।
कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा॥१७॥
भीमसेनवचः श्रुत्वा द्रोणस्तत्परमाप्रियम्
।
मनसा सन्नगात्रोऽभूद्यथा सैकतमम्भसि॥१८॥
शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै
।
हतः स इति च श्रुत्वा नैव धैर्यादकम्पत॥१९॥
स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत्
।
अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः॥२०॥
स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः
।
अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम्॥२१॥
तं विंशतिसहस्राणि पञ्चालानां नरर्षभाः
।
तथा चरन्तं संग्रामे सर्वतोऽवाकिरञ्छरैः॥२२॥
शरैस्तैराचितं द्रोणं नापश्याम महारथम्
।
भास्करं जलदैरुद्धं वर्षास्विव विशांपते॥२३॥
विधूय तान्बाणगणान्पञ्चालानां महारथः
।
प्रादुश्चके ततो द्रोणो ब्राह्ममस्त्रं परंतपः॥२४॥
वधाय तेषां शूराणां पञ्चालानाममर्षितः
।
ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसैनिकान्॥२५॥
शिरांस्यपातयच्चापि पञ्चालानां महामृधे
।
तथैव परिघाकारान्बाहून्कनकभूषणान्॥२६॥
ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः
।
मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः॥२७॥
कुञ्जराणां च पततां हयौघानां च भारत
।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा॥२८॥
हत्वा विंशतिसाहस्रान्पञ्चालानां रथव्रजान्
।
अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन्॥२९॥
तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान्
।
वसुदानस्य भल्लेन शिरः कायादपाहरत्॥३०॥
पुनः पञ्चशतान्मत्स्यान् षट्सहस्त्रांश्च सृञ्जयान्
।
हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः॥३१॥
क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम्
।
ऋषयोऽभ्यागतास्तूर्णं हव्यवाहपुरोगमाः॥३२॥
विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः
।
वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः॥३३॥
सिकताः पृश्नयो गर्गा वालखिल्या मरीचिपाः
।
भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः॥३४॥
त एनमब्रुवन्सर्वे द्रोणमाहवशोभिनम्
।
अधर्मतः कृतं युद्धं समयो निधनस्य ते॥३५॥
न्यस्यायुधं रणे द्रोण समीक्षास्मानवस्थितान्
।
नातः क्रूरतरं कर्म पुनः कर्तुमिहार्हसि॥३६॥
वेदवेदाङ्गविदुषः सत्यधर्मरतस्य ते
।
ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते॥३७॥
त्यजायुधममोघेषो तिष्ठ वर्त्मनि शाश्वते
।
परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे॥३८॥
ब्रह्मास्त्रेण त्वया दग्धा अनस्त्रज्ञा नरा भुवि
।
यदेतदीदृशं विप्र कृतं कर्म न साधु तत्॥३९॥
न्यस्यायुधं रणे विप्र द्रोण मा त्वं चिरं कृथाः
।
मा पापिष्ठतरं कर्म करिष्यसि पुनर्द्विज॥४०॥
इति तेषां वचः श्रुत्वा भीमसेनवचश्च तत्
।
धृष्टद्युम्नं च संप्रेक्ष्य रणे स विमनाऽभवत्॥४१॥
संदिह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम्
।
अहतं वा हतं वेति पप्रच्छ सुतमात्मनः॥४२॥
स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम्
।
त्रयाणामपि लोकानामैश्वर्यार्थे कथञ्चन॥४३॥
तस्मात्तं परिपप्रच्छ नान्यं कञ्चिद्द्विजर्षभः
।
तस्मिंस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे॥४४॥
ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधां पतिम्
।
द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत्॥४५॥
यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः
।
सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति॥४६॥
स भवांस्त्रातु नो द्रोणात्सत्याज्ज्यायोऽनृतं वचः
।
अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः॥४७॥
तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम्
।
श्रुत्वैवं तु महाराज वधोपायं महात्मनः॥४८॥
गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः॥४९॥
अश्वत्थामेति विख्यातो गजः शक्रगजोपमः
।
निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम्॥५०॥
अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति
।
नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः॥५१॥
स त्वं गोविंदवाक्यानि मानयस्व जयैषिणः
।
द्रोणाय निहतं शंस राजञ्शारद्वतीसुतम्॥५२॥
त्वयोक्तो नैव युध्येत जातु राजन्द्विजर्षभः
।
सत्यवान् हि त्रिलोकेऽस्मिन् भवान् ख्यातो जनाधिप॥५३॥
तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः
।
भावित्वाच्च महाराज वक्तुं समुपचक्रमे॥५४॥
तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः
।
अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत॥५५॥
तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुलमुच्छ्रितः
।
बभूवैवं च तेनोक्ते तस्य वाहाः स्पृशन्महीम्॥५६॥
युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः
।
पुत्रव्यसनसन्तप्तो निराशो जीवितेऽभवत्॥५७॥
आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम्
।
ऋषिवाक्येन मन्वानः श्रुत्वा च निहतं सुतम्॥५८॥
विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च
।
योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिन्दमः॥५९॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि युधिष्ठिरासत्यकथने नवत्यधिकशततमोऽध्यायः॥१९०॥
सञ्जय उवाच।
तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम्
।
पञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत्॥१॥
तं दृष्ट्वेति ॥१॥
य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे
।
लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात्॥२॥
स धनुर्जैत्रमादाय घोरं जलदनिःस्वनम्
।
दृढज्यमजरं दिव्यं शरं चाशीविषोपमम्॥३॥
सन्दधे कार्मुके तस्मिंस्ततस्तमनलोपनम्
।
द्रोणं जिघंसुः पाञ्चाल्यो महाज्वालमिवानलम्॥४॥
तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे
।
द्योततो भास्करस्येव घनान्ते परिवेषिणः॥५॥
पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः
।
अन्तकालमनुप्राप्तं मेनिरे वीक्ष्य सैनिकाः॥६॥
तमिषुं संहतम् तेन भारद्वाजः प्रतापवान्
।
दृष्ट्वाऽमन्यत देहस्य कालपर्यायमागतम्॥७॥
ततः प्रयत्नमातिष्ठदाचार्यस्तस्य वारणे
।
न चास्यास्त्राणि राजेन्द्र प्रादुरासन्महात्मनः॥८॥
तस्य त्वहानि चत्वारि क्षपा चैकाऽस्यतो गता
।
तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्त्रिणः॥९॥
स शरक्षयमासाद्य पुत्रशोकेन चार्दितः
।
विविधानां च दिव्यानामस्त्राणामप्रसादतः॥१०॥
उत्स्रष्टुकामः शस्त्राणि ऋषिवाक्यप्रचोदितः
।
तेजसा पूर्यमाणश्च युयुधे न यथा पुरा॥११॥
भूयश्चान्यत्समादाय दिव्यमाङ्गिरसं धनुः
।
शरांश्च ब्रह्मदण्डाभान् धृष्टद्युम्नमयोधयत्॥१२॥
ततस्तं शरवर्षेण महता समवाकिरत्
।
व्यशातयच्च संक्रुद्धो धृष्टद्युम्नममर्षणम्॥१३॥
शरांश्च शतधा तस्य द्रोणश्चिच्छेद सायकैः
।
ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत्॥१४॥
धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम्
।
शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे॥१५॥
सोऽतिविद्धो महेष्वासोऽसंभ्रान्त इव संयुगे
।
भल्लेन शितधारेण चिच्छेदास्य पुनर्धनुः॥१६॥
यच्चास्य बाणविकृतं धनूंषि च विशांपते
।
सर्वं चिच्छेद दुर्धर्षो गदां खड्गं च वर्जयन्॥१७॥
धृष्टद्युम्न्नं च विव्याध नवभिर्निशितैः शरैः
।
जीवितान्तकरः क्रुद्धः क्रुद्धरूपः परंतपः॥१८॥
धृष्टद्युम्नोऽथ तस्याश्वान् स्वरथाश्वैर्महारथः
।
व्यामिश्रयदमेयात्मा ब्राह्ममस्त्रमुदीरयन्॥१९॥
ते मिश्रा बह्वशोभन्त जवना वातरंहसः
।
पारावतसवर्णाश्च शोणाश्च भरतर्षभ॥२०॥
यथा सविद्युतो मेघा नदन्तो जलदागमे
।
तथा रेजुर्महाराज मिश्रिता रणमूर्धनि॥२१॥
ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च
।
प्राणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः॥२२॥
स छिन्नधन्वा पाञ्चाल्यो निकृत्तध्वजसारथिः
।
उत्तमामापदं प्राप्य गदां वीरः परामृशत्॥२३॥
तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः
।
निजघान शरैर्दोणः क्रुद्धः सत्यपराक्रमः॥२४॥
तां तु दृष्ट्वा नरव्याघ्रो द्रोणेन निहतां शरैः
।
विमलं खड्गमादत्त शतचन्द्रं च भानुमत्॥२५॥
असंशयं तथाभूतः पाञ्चाल्यः साध्वमन्यत
।
वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः॥२६॥
ततः स रथनीडस्थं स्वरथस्य रथेषया
।
अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत्॥२७॥
चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः
।
इयेष वक्षो भेत्तुं स भारद्वाजस्य संयुगे॥२८॥
सोऽतिष्ठद्युगमध्ये वै युगसन्नहनेषु च
।
जघनार्धेषु चाश्वानां तत्सैन्याः समपूजयन्॥२९॥
तिष्ठतो युगपालीषु शोणानप्यधितिष्ठतः
।
नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत्॥३०॥
क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः
।
तद्वदासीदभीसारो द्रोणपार्षतयो रणे॥३१॥
तस्य पारावतानश्वान् रथशक्त्या पराभिनत्
।
सर्वानेकैकशो द्रोणो रक्तानश्वान्विवर्जयन्॥३२॥
ते हता न्यपतन् भूमौ धृष्टद्युम्नस्य वाजिनः
।
शोणास्तु पर्यमुच्यन्त रथबन्धाद्विशांपते॥३३॥
तान्हयान्निहतान् दृष्ट्वा द्विजाग्र्येण स पार्षतः
।
नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः॥३४॥
विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः
।
द्रोणमभ्यपतद्राजन् वैनतेय इवोरगम्॥३५॥
तस्य रूपं बभौ राजन् भारद्वाजं जिघांसतः
।
यथा रूपं पुरा विष्णोर्हिरण्यकशिपोर्वेधे॥३६॥
स तदा विविधान्मार्गान्प्रवरांश्चैकविंशतिम्
।
दर्शयामास कौरव्य पार्षतो विचरन् रणे॥३७॥
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम्
।
परिवृत्तं निवृत्तं च खड्गं चर्म च धारयन्॥३८॥
संपातं समुदीर्णं च दर्शयामास पार्षतः
।
भारतं कौशिकं चैव सात्वतं चैव शिक्षया॥३९॥
दर्शयन् व्यचरद्युद्धे द्रोणस्यान्तचिकीर्षया
।
चरतस्तस्य तान् मार्गान् विचित्रान् खड्गचर्मिणः॥४०॥
व्यस्मयन्त रणे योधा देवताश्च समागताः
।
ततः शरसहस्त्रेण शतचन्द्रमपातयत्॥४१॥
चर्म खड्गं च संबाधे धृष्टद्युम्नस्य स द्विजः
।
ये तु वैतस्तिका नाम शरा आसन्नयोधिनः॥४२॥
खड्गं चर्म च धारयन् भ्रान्तादित्रयोदशविधं संचरणं दर्शयामासेति संबंधः । ‘मण्डलाकारतः खड्गभ्रामणं भ्रान्तमुच्यते ॥ तदेव बाहुमुद्यम्य कृतमुद्भ्रान्तमीरितम् ॥१॥ भ्रमणं स्वस्य परितः खड्गस्याविद्धमुच्यते ॥ परप्रयुक्तशस्त्रस्य वारणार्थमिदं त्रयम् ॥२॥ शत्रोराक्रमणार्थाय गमनं त्वाप्लुतं मतम् ॥ खड्गस्याग्रेण तद्देहस्पर्शनं प्रसृतं मतम् ॥३॥ वंचयित्वा रिपौ शस्त्रपातनं गदितं सृतम् ॥ परिवृत्तं भवेच्छत्रोर्वामदक्षिणभागतः ॥४॥ पश्चात्पदापसरणं निवृत्तं संप्रचक्षते ॥३८॥ अन्योन्यताडनं प्राहुः संपातमुभयोरपि ॥५॥ आधिक्यमात्मनो यत्तत्समुदीर्णमुदीरितम् ॥ अङ्गप्रत्यङ्गदेशेषु भ्रामणं भारतं स्मृतम् ॥६॥ विचित्रखड्गसंचारदर्शनं कौशिकं स्मृतम् ॥ निलीय चर्माण क्षेपो यदसेः सात्वतं हि तत्’ ॥७॥॥३९॥ संबाधे रणसंकटे वैतस्तिकाः वितस्तिप्रमाणाः ॥४२॥
निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः
।
ऋते शारद्वतात्पार्थाद्द्रौणेर्वैकर्तनात्तथा॥४३॥
प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च भारत
।
अथास्येषु समाधत्त दृढं परमसंमतम्॥४४॥
अन्तेवासिनमाचार्यो जिघांसुः पुत्रसंमितम्
।
तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुङ्गवः॥४५॥
पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः
।
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत्॥४६॥
चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम्
।
द्रोणकर्णान्तरगतं कृपस्यापि च भारत॥४७॥
अपश्येतां महात्मानौ विष्वक्सेनधनञ्जयौ
।
अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधु साध्विति॥४८॥
दिव्यान्यस्त्राणि सर्वेषां युधि निघ्नन्तमच्युतम्
।
अभिपत्य ततः सेनां विष्वक्सेनधनञ्जयौ॥४९॥
धनञ्जयस्ततः कृष्णमब्रवीत्पश्य केशव
।
आचार्यरथमुख्यानां मध्ये क्रीडन्मधूद्वहः॥५०॥
आनंदयति मां भूयः सात्यकिः परवीरहा
।
माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम्॥५१॥
यच्छिक्षयाऽनुद्धतः सन्रणे चरति सात्यकिः
।
महारथानुपक्रीडन् वृष्णीनां कीर्तिवर्धनः॥५२॥
तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः
।
अजय्यं समरे दृष्ट्वा साधु साध्विति सात्यकिम्
।
योधाश्चोभयतः सर्वे कर्मभिः समपूजयन्॥५३॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि संकुलयुद्धे एकनवत्यधिकशततमोऽध्यायः॥१९१॥
सञ्जय उवाच।
सात्वतस्य तु तत्कर्म दृष्ट्वा दुर्योधनादयः
।
शैनेयं सर्वतः क्रुद्धा वारयामासुरञ्जसा॥१॥
सात्वतस्येति ॥१॥
कृपकर्णौ च समरे पुत्राश्च तव मारिष
।
शैनेयं त्वरयाऽभ्येत्य विनिघ्नन्निशितैः शरैः॥२॥
युधिष्ठिरस्ततो राजा माद्रीपुत्रौ च पाण्डवौ
।
भीमसेनश्च बलवान्सात्यकिं पर्यवारयन्॥३॥
कर्णश्च शरवर्षेण गौतमश्च महारथः
।
दुर्योधनादयस्ते च शैनेयं पर्यवारयन्॥४॥
तां वृष्टिं सहसा राजन्नुत्थितां घोररूपिणीम्
।
वारयामास शैनेयो योधयंस्तान्महारथान्॥५॥
तेषामस्त्राणि दिव्यानि संहितानि महात्मनाम्
।
वारयामास विधिवद्दिव्यैरस्त्रैर्महामृधे॥६॥
क्रूरमायोधनं जज्ञे तस्मिन् राजसमागमे
।
रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तान्पशून्पुरा॥७॥
हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत
।
छत्राणां चापविद्धानां चामराणां च सञ्चयैः॥८॥
राशयः स्म व्यदृश्यन्त तत्र तत्र रणाजिरे
।
भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः॥९॥
सादिभिश्च हतैः शूरैः संकीर्णा वसुधाऽभवत्
।
बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम॥१०॥
चेष्टंतो विविधाश्चेष्टा व्यदृश्यन्त महाहवे
।
वर्तमाने तथा युद्धे घोरे देवासुरोपमे॥११॥
अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः
।
अभिद्रवत संयत्ताः कुंभयोनिं महारथाः॥१२॥
एषो हि पार्षतो वीरो भारद्वाजेन सङ्गतः
।
घटते च यथाशक्ति भारद्वाजस्य नाशने॥१३॥
एषो हीति सन्धिरार्षः ॥१३॥
यादृशानि हि रूपाणि दृश्यन्तेऽस्य महारणे
।
अद्य द्रोणं रणे क्रुद्धो घातयिष्यति पार्षतः॥१४॥
ते यूयं सहिता भूत्वा युध्यध्वं कुंभसंभवम्
।
युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः॥१५॥
अभ्यद्रवन्त संयत्ता भारद्वाजजिघांसवः
।
तान्समापततः सर्वान् भारद्वाजो महारथः॥१६॥
अभ्यवर्तत वेगेन मर्तव्यमिति निश्चितः
।
प्रयाते सत्यसन्धे तु समकम्पत मेदिनी॥१७॥
ववुर्वाताः सनिर्घातास्त्रासयाना वरूथिनीम्
।
पपात महती चोल्का आदित्यान्निश्चरन्त्युत॥१८॥
दीपयन्ती उभे सेने शंसन्तीव महद्भयम्
।
जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष॥१९॥
रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन्
।
हतौजा इव चाप्यासीद्भारद्वाजो महारथः॥२०॥
प्रास्फुरन्नयनं चास्य वामबाहुस्तथैव च
।
विमनाश्चाभवद्युद्धे दृष्ट्वा पार्पतमग्रतः॥२१॥
ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति
।
सुयुद्धेन ततः प्राणानुत्स्त्रष्टुमुपचक्रमे॥२२॥
ब्रह्मवादानां वेदतुल्यानां वचनानाम् । द्वितीयार्थे षष्ठी श्रुत्वेति शेषः ॥२२॥
ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः
।
निर्दहन् क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे॥२३॥
हत्वा विंशतिसाहस्त्रान् क्षत्रियानरिमर्दनः
।
दशायुतानि करिणामवधीद्विशिखैः शितैः॥२४॥
सोऽतिष्ठदाहवे यत्तो विधूमोऽग्निरिव ज्वलन्
।
क्षत्रियाणामभावाय ब्राह्ममस्त्रं समास्थितः॥२५॥
पाञ्चाल्यं विरथं भीमो हतसर्वायुधं बली
।
सुविषण्णं महात्मानं त्वरमाणः समभ्ययात्॥२६॥
ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः
।
अब्रवीदभिसंप्रेक्ष्य द्रोणमस्यन्तमन्तिकात्॥२७॥
न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान्
।
त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः॥२८॥
स तथोक्तो महाबाहुः सर्वभारसहं धनुः
।
अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम्॥२९॥
संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे
।
विवारयिषुराचार्यं शरवर्षैरवाकिरत्॥३०॥
तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ
।
उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः॥३१॥
स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे
।
निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः॥३२॥
सवसातीञ्शिबींश्चैव बाल्हीकान्कौरवानपि
।
रक्षिष्यमाणान्संग्रामे द्रोणं व्यधमदच्युतः॥३३॥
धृष्टद्युम्नस्तथा राजन् गभस्तिभिरिवांशुमान्
।
बभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः॥३४॥
तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः
।
मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात्॥३५॥
ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम्
।
शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत्॥३६॥
यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः
।
स्वकर्मभिरसन्तुष्टा न स्म क्षत्रं क्षयं व्रजेत्॥३७॥
अहिंसां सर्वभूतेषु धर्मं ज्यायस्तरं विदुः
।
तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः॥३८॥
श्वपाकवन्म्लेच्छगणान् हत्वा चान्यान्पृथग्विधान्
।
अज्ञानान्मूढवद्ब्रह्मन्पुत्र-दार-धनेप्सया॥३९॥
एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यया
।
स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम्॥४०॥
यस्यार्थे शस्त्रमादाय यमपेक्ष्य च जीवसि
।
स चाद्य पतितः शेते पृष्ठेनावेदितस्तव॥४१॥
धर्मराजस्य तद्वाक्यं नाभिशङ्कितुमर्हसि
।
एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्धनुः॥४२॥
सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभाषत
।
कर्ण कर्ण महेष्वास कृप दुर्योधनेति च॥४३॥
संग्रामे क्रियतां यत्नो ब्रवीम्येष पुनः पुनः
।
पाण्डवेभ्यः शिवं वोऽस्तु शस्त्रमभ्युत्सृजाम्यहम्॥४४॥
इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च
।
उत्सृज्य च रणे शस्त्रं रथोपस्थे निविश्य च॥४५॥
अभयं सर्वभूतानां प्रददौ योगमीयिवान्
।
तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः प्रतापवान्॥४६॥
सशरं तद्धनुर्घोरं संन्यस्याथ रथे ततः
।
खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात्॥४७॥
हाहाकृतानि भूतानि मानुषाणीतराणि च
।
द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम्॥४८॥
हाहाकारं भृशं चक्रुरहो धिगिति चाब्रुवन्
।
द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साङ्ख्यमास्थितः॥४९॥
तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः
।
पुराणं पुरुषं विष्णुं जगाम मनसा परम्॥५०॥
मुखं किञ्चित्समुन्नाम्य विष्टभ्य उरमग्रतः
।
निमीलिताक्षः सत्त्वस्थो निक्षिप्य हृदि धारणाम् ॥५१॥
मुखमिति उरम् उरः अग्रतः अधरहनोरग्रेण विष्टभ्य हृदि धारणं विषयाणां स्मरणं निक्षिप्य निरस्य अत एव सत्त्वस्थः रजस्तमोमलशून्ये शुद्धे सत्त्वे स्फटिककल्पे स्थितः । तत्र स्थितो भूत्वा ओमित्यनेन प्रतीकेन एकाक्षरं वासुदेवाख्यं ब्रह्म स्मरित्वा स्मृत्वा तद्बलेनाचार्यो दिवमाक्रामदिति सार्धद्वयोः संबन्धः ॥५१॥
ओमित्येकाक्षरं ब्रह्म ज्योतिर्भूतो महातपाः
।
स्मरित्वा देवदेवेशमक्षरं परमं प्रभुम्॥५२॥
दिवमाक्रामदाचार्यः साक्षात्सद्भिर्दुराक्रमाम्
।
द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथागते॥५३॥
एकाग्रमिव चासीच्च ज्योतिर्भिः पूरितं नभः
।
समपद्यत चार्काभे भारद्वाजदिवाकरे॥५४॥
निमेषमात्रेण च तत् ज्योतिरन्तरधीयत
।
आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम्॥५५॥
ब्रह्मलोकगते द्रोणे धृष्टद्युम्ने च मोहिते
।
वयमेव तदाऽद्राक्ष्म पञ्च मानुषयोनयः॥५६॥
योगयुक्तं महात्मानं गच्छन्तं परमां गतिम्
।
अहं धनञ्जयः पार्थो भारद्वाजस्य चात्मजः॥५७॥
वासुदेवश्च वार्ष्णेयो धर्मपुत्रश्च पाण्डवः
।
अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः॥५८॥
महिमानं महाराज योगयुक्तस्य गच्छतः
।
ब्रह्मलोकं महद्दिव्यं देवगुह्यं हि तत्परम्॥५९॥
गतिं परमिकां प्राप्तमजानन्तो नृयोनयः
।
नापश्यन्गच्छमानं हि तं सार्धमृषिपुङ्गवैः॥६०॥
आचार्यं योगमास्थाय ब्रह्मलोकमरिन्दमम्
।
वितुन्नाङ्गं शरव्रातैर्न्यस्तायुधमसृक्क्षरम्॥६१॥
धिक्कृतः पार्षतस्तं तु सर्वभूतैः परामृशत्
।
तस्य मूर्धानमालम्ब्य गतसत्त्वस्य देहिनः॥६२॥
किञ्चिदब्रुवतः कायाद्विचकर्तासिना शिरः
।
हर्षेण महता युक्तो भारद्वाजे निपातिते॥६३॥
सिंहनादरवं चक्रे भ्रामयन्खड्गमाहवे
।
आकर्णपलितश्यामो ‘वयसाऽशीतिपञ्चकः’॥६४॥
अशीतीनां पञ्चकमस्यास्तीति विग्रहः । चतुःशतवार्षिक इत्यर्थः । यद्वा तत्तत्कालोचितस्य पुरुषायुषस्य विंशत्या भक्तस्य भागत्रयोनवयस्क इत्यर्थः ॥६४॥
त्वत्कृते व्यचरत्सङ्ख्ये स तु षोडशवर्षवत्
।
उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनञ्जयः॥६५॥
जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज
।
न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह॥६६॥
उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाव्रजत्
।
क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः॥६७॥
धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम्
।
शोणितेन परिक्लिन्नो रथाद्भूमिमथापतत्॥६८॥
लोहिताङ्ग इवादित्यो दुर्धर्षः समपद्यत
।
एवं तं निहतं सङ्ख्ये ददृशे सैनिको जनः॥६९॥
धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरोऽहरत्
।
तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत्॥७०॥
ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः
।
पलायनकृतोत्साहा दुद्रुवुः सर्वतोदिशम्॥७१॥
द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत्
।
अहमेव तदाऽद्राक्षं द्रोणस्य निधनं नृप॥७२॥
ऋषेः प्रसादात्कृष्णस्य सत्यवत्याः सुतस्य च
।
विधूमामिह संयान्तीमुल्कां प्रज्वलितामिव॥७३॥
अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम्
।
हते द्रोणे निरुत्साहाः कुरुपाण्डवसृञ्जयाः॥७४॥
अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत
।
निहता हतभूयिष्ठाः संग्रामे निशितैः शरैः॥७५॥
तावका निहते द्रोणे गतासव इवाभवन्
।
पराजयमथावाप्य परत्र च महद्भयम्॥७६॥
परत्र च महद्भयमिति पलायनस्य परलोकविरुद्धत्वात् ॥७६॥
उभयेनैव ते हीना नाविन्दन् धृतिमात्मनः
।
अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः॥७७॥
उभयेन लोकद्वयेन हीना रहिताः ॥७७॥
नान्वगच्छन्महाराज कबन्धायुतसंकुले
।
पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः॥७८॥
बाणशंखरवांश्चक्रुः सिंहनादांश्च पुष्कलान्
।
भीमसेनस्ततो राजन् धृष्टद्युम्नश्च पार्षतः॥७९॥
वरूथिन्यामनृत्येतां परिष्वज्य परस्परम्
।
अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम्॥८०॥
भूयोऽहं त्वां विजयिनं परिष्वज्यामि पार्षत
।
सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे॥८१॥
एतावदुक्त्वा भीमस्तु हर्षेण महता युतः
।
बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः॥८२॥
तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि
।
क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः॥८३॥
पाण्डवास्तु जयं लब्ध्वा हृष्टा ह्यासन्विशांपते
।
अरिक्षयं च संग्रामे तेन ते सुखमाप्नुवन्॥८४॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि द्विनवत्यधिकशततमोऽध्यायः॥१९२॥