द्रोणाभिषेकपर्व - १ - १संशप्तकवधपर्व - २ - २अभिमन्युवधपर्व - ३ - ३प्रतिज्ञापर्व - ४ - ४जयद्रथवधपर्व - ५ - ५घटोत्कचवधपर्व - ६ - ६द्रोणवधपर्व - ७ - ७नारायणास्त्रमोक्षपर्व - ८ - ८

द्रोणवधपर्व - ७

चतुरशीत्यधिकशततमोऽध्यायः

सञ्जय उवाच। व्यासेनैवमथोक्तस्तु धर्मराजो युधिष्ठिरः ।
स्वयं कर्णवधाद्वीरो निवृत्तो भरतर्षभ॥१॥

व्यासेनैवमिति ततो दुर्योधन इति चाध्यायौ स्पष्टार्थौ ॥१॥

घटोत्कचे तु निहते सूतपुत्रेण तां निशाम् ।
दुःखामर्षवशं प्राप्तो धर्मराजो युधिष्ठिरः॥२॥

दृष्ट्वा भीमेन महतीं वार्यमाणां चमूं तव ।
धृष्टद्युम्नमुवाचेदं कुंभयोनिं निवारय॥३॥

त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात् ।
सशरः कवची खड्गी धन्वी च परतापनः॥४॥

अभिद्रव रणे हृष्टो मा च ते भीः कथंचन ।
जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधरः॥५॥

अभिद्रवन्तु संहृष्टाः कुंभयोनिं समंततः ।
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः॥६॥

द्रुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ ।
सात्यकिः केकयाश्चैव पाण्डवश्च धनञ्जयः॥७॥

अभिद्रवन्तु वेगेन कुंभयोनिवधेप्सया ।
तथैव रथिनः सर्वे हस्त्यश्वं यच्च किञ्चन॥८॥

पदाताश्च रणे द्रोणं पातयन्तु महारथम् ।
तथाऽऽज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना॥९॥

अभ्यद्रवन्त वेगेन कुंभयोनिवधेप्सया ।
आगच्छतस्तान्सहसा सर्वोद्योगेन पांडवान्॥१०॥

प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः ।
ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान्॥११॥

अभ्यद्रवत्सुसंक्रुद्ध इच्छन्द्रोणस्य जीवितम् ।
ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम्॥१२॥

पाण्डवानां कुरूणां च गर्जतामितरेतरम् ।
निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे॥१३॥

नाभ्यपद्यन्त समरे काञ्चिच्चेष्टां महारथाः ।
त्रियामा रजनी चैषा घोररूपा भयानका॥१४॥

सहस्त्रयामप्रतिमा बभूव प्राणहारिणी ।
वध्यतां च तथा तेषां क्षतानां च विशेषतः॥१५॥

अर्धरात्रिः समाजज्ञे निद्रान्धानां विशेषतः ।
सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः॥१६॥

तव चैव परेषां च गतास्त्रा विगतेषवः ।
ते तदा पारयन्तश्च ह्रीमन्तश्च विशेषतः॥१७॥

स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम् ।
अस्त्राण्यन्ये समुत्सृज्य निद्रांधाः शेरते जनाः॥१८॥

रथेष्वन्ये गजेष्वन्ये हयेष्वन्ये च भारत ।
निद्रान्धा नो बुबुधिरे काञ्चिच्चेष्टां नराधिप॥१९॥

तानन्ये समरे योधाः प्रेषयन्तो यमक्षयम् ।
स्वप्नायमानांस्त्वपरे परानतिविचेतसः॥२०॥

आत्मानं समरे जघ्नुः स्वानेव च परानपि ।
नानावाचो विमुञ्चन्तो निद्रांधास्ते महारणे॥२१॥

अस्माकं च महाराज परेभ्यो बहवो जनाः ।
योद्धव्यमिति तिष्ठन्तो निद्रासंरक्तलोचनाः॥२२॥

संसर्पन्तो रणे केचिन्निद्रान्धास्ते तथा परान् ।
जघ्नुः शूरा रणे शूरांस्तस्मिंस्तमसि दारुणे॥२३॥

हन्यमानमथात्मानं परेभ्यो बहवो जनाः ।
नाभ्यजानन्त समरे निद्रया मोहिता भृशम्॥२४॥

तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः ।
उवाच वाक्यं बीभत्सुरुच्चैः सन्नादयन् दिशः॥२५॥

श्रान्ता भवन्तो निद्रांधाः सर्व एव सवाहनाः ।
तमसा च वृते सैन्ये रजसा बहुलेन च॥२६॥

ते यूयं यदि मन्यध्वमुपारमत सैनिकाः ।
निमीलयत चात्रैव रणभूमौ मुहूर्तकम्॥२७॥

ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः ।
संसाधयिष्यथान्योन्यं संग्रामं कुरुपाण्डवाः॥२८॥

तद्वचः सर्वधर्मज्ञा धार्मिकस्य विशांपते ।
अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन्॥२९॥

चुक्रुशुः कर्ण कर्णेति तथा दुर्योधनेति च ।
उपारमत पाण्डूनां विरता हि वरूथिनी॥३०॥

तथा विक्रोशमानस्य फाल्गुनस्य ततस्ततः ।
उपारमत पाण्डूनां सेना तव च भारत॥३१॥

तामस्य वाचं देवाश्च ऋषयश्च महात्मनः ।
सर्वसैन्यानि चाक्षुद्रां प्रहृष्टाः प्रत्यपूजयन्॥३२॥

तत्संपूज्य वचोऽक्रूरं सर्वसैन्यानि भारत ।
मुहूर्तमस्वपन् राजन् श्रान्तानि भरतर्षभ॥३३॥

सा तु संप्राप्य विश्रामं ध्वजिनी तव भारत ।
सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत्॥३४॥

त्वयि वेदास्तथाऽस्त्राणि त्वयि बुद्धिपराक्रमौ ।
धर्मस्त्वयि महाबाहो दया भूतेषु चानघ॥३५॥

यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते ।
मनसश्च प्रियानर्थान् वीर‌क्षिप्रमवाप्नुहि॥३६॥

इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः ।
निद्रया समवाक्षिप्तास्तूष्णीमासन्विशांपते॥३७॥

अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे ।
गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ॥३८॥

सायुधाः सगदाश्चैव सखड्गाः सपरश्वधाः ।
सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक् पृथक्॥३९॥

गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणगुण्ठितैः ।
निद्रान्धा वसुधां चक्रुर्घाणनिःश्वासशीतलाम्॥४०॥

सुप्ताः शुशुभिरे तत्र निःश्वसन्तो महीतले ।
विकीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः॥४१॥

स मां च विषमां चक्रुः खुराग्रैर्विकृतां महीम् ।
हयाः काञ्चनयोक्त्रास्ते केसरालम्बिभिर्युगैः॥४२॥

सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः ।
एवं हयाश्च नागाश्च योधाश्च भरतर्षभ ।
युद्धाद्विरम्य सुषुपुः श्रमेण महताऽन्विताः॥४३॥

तत्तथा निद्रया भग्नमबोधं प्रास्वपद्भृशम् ।
कुशलैः शिल्पिभिर्व्यस्तं पटे चित्रमिवाद्भुतम्॥४४॥

ते क्षत्रियाः कुण्डलिनो युवानः परस्परं सायकविक्षताङ्गाः ।
कुम्भेषु लीनाः सुषुपुर्गजानां कुचेषु लग्ना इव कामिनीनाम्॥४५॥

ततः कुमुद‌नाथेन कामिनीगण्डपाण्डुना ।
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता॥४६॥

दशशताक्षककुब्दरिनिःसृतः किरणकेसरभासुरपिञ्जरः ।
तिमिरवारणयूथविदारणः समुदियादु‌दयाचलकेसरी॥४७॥

हरवृषोत्तमगात्रसमद्युतिः स्मरशरासनपूर्णसमप्रभः ।
नववधूस्मितचारुमनोहरः प्रविसृतः कुमुदाकरबान्धवः॥४८॥

ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः ।
अरुणं दर्शयामास ग्रसन् ज्योतिःप्रभां प्रभुः॥४९॥

अरुणस्य तु तस्यानु जातरूपसमप्रभम् ।
रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत्॥५०॥

उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः ।
पर्यगच्छञ्छनैः सर्वा दिशः खं च क्षितिं तथा॥५१॥

ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत् ।
अप्रख्यमप्रकाशं च जगामाशु तमस्तथा॥५२॥

प्रतिप्रकाशिते लोके दिवाभूते निशाकरे ।
विचेरुर्न विचेरुश्च राजन्नक्तञ्चरास्ततः॥५३॥

बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः ।
बुबुधे शतपत्राणां वनं सूर्यांशुभिर्यथा॥५४॥

यथा चन्द्रोदयोद्धूतः क्षुभितः सागरोऽभवत् ।
तथा चन्द्रोदयोद्धूतः स बभूव बलार्णवः॥५५॥

ततः प्रववृते युद्धं पुनरेव विशांपते ।
लोके लोकविनाशाय परं लोकमभीप्सताम्॥५६॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि रात्रियुद्धे सैन्यनिद्रायां चतुरशीत्यधिकशततमोऽध्यायः॥१८४॥
पञ्चाशीत्यधिकशततमोऽध्यायः

सञ्जय उवाच। ततो दुर्योधनो द्रोणमभिगम्याब्रवीदिदम् ।
अमर्षवशमापन्नो जनयन्हर्षतेजसी॥१॥

तत इति ॥१॥

दुर्योधन उवाच। न मर्षणीयाः संग्रामे विश्रमन्तः श्रमान्विताः ।
सपत्ना ग्लानमनसो लब्धलक्षा विशेषतः॥२॥

यत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया ।
त एते परिविश्रान्ताः पाण्डवा बलवत्तराः॥३॥

सर्वथा परिहीनाः स्म तेजसा च बलेन च ।
भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः॥४॥

दिव्यान्यस्त्राणि सर्वाणि ब्राह्मादीनि च यानि ह ।
तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः॥५॥

न पाण्डवेया न वयं नान्ये लोके धनुर्धराः ।
युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते॥६॥

ससुरासुरगन्धर्वानिमाँल्लोकान् द्विजोत्तम ।
सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः॥७॥

स भवान्मर्षयत्येतांस्त्वत्तो भीतान्विशेषतः ।
शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम्॥८॥

सञ्जय उवाच। एवमुद्धर्षितो द्रोणः कोपितश्च सुतेन ते ।
समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः॥९॥

स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे ।
अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना॥१०॥

अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः ।
यद्भवान्मन्यते चापि शुभं वा यदि वाऽशुभम्॥११॥

तद्वै कर्तास्मि कौरव्य वचनात्तव नान्यथा ।
निहत्य सर्वपञ्चालान् युद्धे कृत्वा पराक्रमम्॥१२॥

विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे ।
मन्यसे यच्च कौन्तेयमर्जुनं शान्तमाहवे॥१३॥

तस्य वीर्यं महाबाहो शृणु सत्येन कौरव ।
तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः॥१४॥

उत्सहन्ते रणे जेतुं कुपितं सव्यसाचिनम् ।
खाण्डवेयेन भगवान्प्रत्युद्यातः सुरेश्वरः॥१५॥

सायकैर्वारितश्चापि वर्षमाणो महात्मना ।
यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः॥१६॥

निहताः पुरुषेन्द्रेण तच्चापि विदितं तव ।
गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः॥१७॥

यूयं तैर्ह्रीयमाणाश्च मोक्षिता दृढधन्वना ।
निवातकवचाश्चापि देवानां शत्रवस्तथा॥१८॥

सुरैरवध्याः संग्रामे तेन वीरेण निर्जिताः ।
दानवानां सहस्राणि हिरण्यपुरवासिनाम्॥१९॥

विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् ।
प्रत्यक्षं चैव ते सर्वं यथाबलमिदं तव॥२०॥

क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशांपते ।
सञ्जय उवाच। तं तदाऽभिप्रशंसन्तमर्जुनं कुपितस्तदा॥२१॥

द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत् ।
अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे॥२२॥

हनिष्यामोऽर्जुनं संख्ये द्विधा कृत्वाऽद्य भारतीम् ।
तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव॥२३॥

अन्ववर्तत राजानं स्वस्ति तेऽस्विति चाब्रवीत् ।
को हि गांडीवधन्वानं ज्वलन्तमिव तेजसा॥२४॥

अक्षयं क्षपयेत्कश्चिशित्क्षत्रियः क्षत्रियर्षभम् ।
तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः॥२५॥

नासुरोरगरक्षांसि क्षपयेयुः सहायुधम् ।
मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत॥२६॥

युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान् ।
त्वं तु सर्वाभिशंकित्वान्निष्ठुरः पापनिश्चयः॥२७॥

श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि ।
गच्छ त्वमपि कौन्तेयमात्मार्थे जहि मा चिरम्॥२८॥

त्वमप्याशंसये योद्धुं कुलजः क्षत्रियो ह्यसि ।
इमान्किं क्षत्रियान्सर्वान्घातयिष्यस्यनागसः॥२९॥

त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम् ।
एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः॥३०॥

दुर्द्यूतदेवी गान्धारे प्रयात्वर्जुनमाहवे ।
एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः॥३१॥

देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् ।
त्वया कथितमत्त्यर्थं कर्णेन सह हृष्टवत्॥३२॥

असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः ।
अहं च तात कर्णश्च भ्राता दुःशासनश्च मे॥३३॥

पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः ।
इति ते कत्थमानस्य श्रुतं संसदि संसदि॥३४॥

अनुतिष्ठ प्रतिज्ञां तां सत्यवाक् भव तैः सह ।
एष ते पाण्डवः शत्रुरविशङ्कोऽग्रतः स्थितः॥३५॥

क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात् ।
दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम्॥३६॥

कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम् ।
इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे ।
द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा॥३७॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि द्रोणदुर्योधनभाषणे पञ्चाशीत्यधिकशततमोऽध्यायः॥१८५॥
षडशीत्यधिकशततमोऽध्यायः

सञ्जय उवाच। त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत ।
कुरूणां पाण्डवानां च संमृष्टानां विशांपते॥१॥

त्रिभागमात्रशेषायां मुहूर्तत्रयावशिष्टायाम् । तत्र सूर्योदयोत्तरं त्रयोदश्यां द्रोणस्य नाशः । त्रयोदश्यां शुक्लायां युद्धारंभस्य ‘हेमन्ते प्रथमे मासे शुक्लपक्षे त्रयोदशीम् । प्रवृत्तं भारतं युद्धम्’ - इति भारतसावित्र्यामुक्तस्य चोपपत्तिः सिद्ध्यति ॥१॥

अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः ।
अरुणोऽभ्युदयांचक्रे ताम्रीकुर्वन्निवाम्बरम्॥२॥

प्राच्यां दिशि सहस्रांशोररुणेनारुणीकृतम् ।
तापनीयं यथा चक्रं भ्राजते रविमण्डलम्॥३॥

ततो रथाश्वांश्च मनुष्ययानान्युत्सृज्य सर्वे कुरुपाण्डुयोधाः ।
दिवाकरस्याभिमुखं जपन्तः सन्ध्यागताः प्राञ्जलयो बभूवुः॥४॥

ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान् ।
अभ्यद्रवत्सपञ्चालान्दुर्योधनपुरोगमः॥५॥

द्वैधीकृतान्कुरून् दृष्ट्वा माधवोऽर्जुनमब्रवीत् ।
सपत्नान्सव्यतः कृत्वा अपसव्यमिमं कुरु॥६॥

स माधवमनुज्ञाय कुरुष्वेति धनञ्जयः ।
द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत॥७॥

अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरञ्जयः ।
आजिशीर्षगतं पार्थं भीमसेनोऽभ्युवाच ह॥८॥

भीमसेन उवाच। अर्जुनार्जुन बीभत्सो शृणुष्वैतद्वचो मम ।
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागत॥९॥

अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे ।
असंभावितरूपस्त्वं सुनृशंसं करिष्यसि॥१०॥

सत्य-श्री-धर्म-यशसां वीर्येणानृण्यमाप्नुहि ।
भिन्ध्यनीकं युधां श्रेष्ठ अपसव्यमिमान्कुरु॥११॥

सञ्जय उवाच। स सव्यसाची भीमेन चोदितः केशवेन च ।
कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत्॥१२॥

तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान् ।
पराक्रान्तं पराक्रम्य ततः क्षत्रियपुङ्गवाः॥१३॥

नाशक्नुवन्वारयितुं वर्धमानमिवानलम् ।
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः॥१४॥

अभ्यवर्षञ्छरव्रातैः कुन्तीपुत्रं धनञ्जयम् ।
तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः॥१५॥

कदर्थी कृत्य राजेन्द्र शरवर्षैरवाकिरत् ।
अस्त्रैरस्त्राणि संवार्य लघुहस्तो जितेन्द्रियः॥१६॥

सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः ।
उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च॥१७॥

तमश्च घोरं शब्दश्च तदा समभवन्महान् ।
न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथागते॥१८॥

सैन्येन रजसा मूढं सर्वमन्धमिवाभवत् ।
नैव ते न वयं राजन्प्राज्ञासिष्म परस्परम्॥१९॥

उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः ।
विरथा रथिनो राजन्समासाद्य परस्परम्॥२०॥

केशेषु समसज्जन्त कवचेषु भुजेषु च ।
हताश्वा हतसुताश्च निश्चेष्टा रथिनो हताः॥२१॥

जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः ।
हतान् गजान्समाश्लिष्य पर्वतानिव वाजिनः॥२२॥

गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः ।
ततस्त्वभ्यवसृत्यैव संग्रामादुत्तरां दिशम्॥२३॥

आतिष्ठ बाहवे द्रोणो विधूमोऽग्निरिव ज्वलन् ।
तमाजिशीर्षादेकान्तमपक्रान्तं निशम्य तु॥२४॥

समकम्पन्त सैन्यानि पाण्डवानां विशांपते ।
भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा॥२५॥

द्रोणं दृष्ट्वा परे त्रेसुश्चेरुर्मम्लुश्च भारत ।
आह्वयन्तं परानीकं प्रभिन्नमिव वारणम्॥२६॥

नैनमाशंसिरे जेतुं दानवा वासवं यथा ।
केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः॥२७॥

विस्मिताश्चाभवन्केचित् केचिदासन्नमर्षिताः ।
हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नराधिपाः॥२८॥

अपरे दशनैरोष्ठान् दशनक्रोधमूच्छिताः ।
व्याक्षिपन्नायुधान्यन्ये ममृदुश्चापरे भुजान्॥२९॥

अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः ।
पञ्चालास्तु विशेषेण द्रोणसायकपीडिताः॥३०॥

समसजन्त राजेन्द्र समरे भृशवेदनाः ।
ततो विराटद्रुपदौ द्रोणं प्रति ययू रणे॥३१॥

तथा चरन्तं संग्रामे भृशं समरदुर्जयम् ।
द्रुपदस्य ततः पौत्रास्त्रय एव विशांपते॥३२॥

चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि ।
तेषां द्रुपद‌पौत्राणां त्रयाणां निशितैः शरैः॥३३॥

त्रिभिर्दोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि ।
ततो द्रोणोऽजयद्युद्धे चेदिकैकेयसृञ्जयान्॥३४॥

मत्स्यांश्चैवाजयत्कृत्स्नान् भारद्वाजो महारथान् ।
ततस्तु द्रुपदः क्रोधाच्छरवर्षमवासृजत्॥३५॥

द्रोणं प्रति महाराज विराटश्चैव संयुगे ।
तं निहत्येषुवर्षं तु द्रोणः क्षत्रियमर्दनः॥३६॥

तौ शरैश्छादयामास विराटद्रुपदावुभौ ।
द्रोणेन च्छाद्यमानौ तु क्रुद्धौ संग्राममूर्धनि॥३७॥

द्रोणं शरैर्विव्यधतुः परमं क्रोधमास्थितौ ।
ततो द्रोणो महाराज क्रोधामर्षसमन्वितः॥३८॥

भल्लाभ्यां भृशतीक्ष्णाभ्यां चिच्छेद धनुषी तयोः ।
ततो विराटः कुपितः समरे तोमरान्दश॥३९॥

दश चिक्षेप च शरान्द्रोणस्य वधकांक्षया ।
शक्तिं च द्रुपदो घोरामायसीं स्वर्णभूषिताम्॥४०॥

चिक्षेप भुजगेन्द्राभां क्रुद्धो द्रोणरथं प्रति ।
ततो भल्लैः सुनिशितैश्छित्त्वा तांस्तोमरान्दश॥४१॥

शक्तिं कनकवैदूर्यां द्रोणाश्चिच्छेद सायकैः ।
ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः॥४२॥

द्रुपदं च विराटं च प्रेषयामास मृत्यवे ।
हते विराटे द्रुपदे केकयेषु तथैव च॥४३॥

तथैव चेदिमत्स्येषु पञ्चालेषु तथैव च ।
हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु॥४४॥

द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः ।
शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः॥४५॥

शशाप शपथं कृतवान् ॥४५॥

इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु ।
द्रोणो यस्याद्य मुच्येत यं वा द्रोणः पराभवेद॥४६॥

इष्टापूर्तात्तथा क्षात्रादिति । इष्टं यागहोमादि । आपूर्तं क्षेत्रारामादि । क्षात्रं द्रुपदकुलोप्तन्नत्वात् । ब्राह्मण्यं याजोपयाजयोर्ब्राह्मणयोस्तपसा ब्राह्मणरूपादग्नेश्च जातत्वात् । एतत्सर्वं तस्य नश्यतु । यस्य शत्रुर्द्रोणो न मुच्येत मरणं न प्राप्नुयात्। यं वा मां वा द्रोणो यदि पराभवेदिति ॥४६॥

इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् ।
आयाद्द्रोणं सहानीकः पाञ्चाल्यः परवीरहा॥४७॥

पञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्पाण्डवैः सह ।
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः॥४८॥

सोदर्योश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे ।
रक्ष्यमाणं तथा द्रोणं सर्वैस्तैस्तु महारथैः॥४९॥

यतमानास्तु पञ्चाला न शेकुः प्रतिवीक्षितुम् ।
तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष॥५०॥

स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभः ।
भीमसेन उवाच। द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः॥५१॥

कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम् ।
पितृपुत्रवधं प्राप्य पुमान्कः परिपालयेत्॥५२॥

अवस्थितमरिमुक्तविधं शपथं शापित्वाऽपिः कः परिपालयेत्कस्तद्धननं न कुर्यादपि तु सर्वोऽपि तद्धननं कुर्यादेवेति सार्धः श्लोकः ॥५२॥

विशेषतस्तु शपथं शपित्वा राजसंसदि ।
एष वैश्वानर इव समिद्धः स्वेन तेजसा॥५३॥

शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा ।
पुरा करोति निःशेषां पाण्डवानामनीकिनीम्॥५४॥

स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम् ।
इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः॥५५॥

शरैः पूर्णायतोत्सृष्टैर्द्रावयंस्तव वाहिनीम् ।
धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम्॥५६॥

आससाद रणे द्रोणं तदासीत्तुमुलं महत् ।
नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम्॥५७॥

यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान् ।
संसक्तान्येव चादृश्यन् रथवृन्दानि मारिषः॥५८॥

हतानि च विकीर्णानि शरीराणि शरीरिणाम् ।
केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः॥५९॥

विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतः परे ।
तथा संसक्तयुद्धं तदभवद्भृशदारुणम् ।
अथ संध्यागतः सूर्यः क्षणेन समपद्यत॥६०॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि संकुलयुद्धे षडशीत्यधिकशततमोऽध्यायः॥१८६॥
सप्ताशीत्यधिकशततमोऽध्यायः

सञ्जय उवाच। ते तथैव महाराज दंशिता रणमूर्धनि ।
सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे॥१॥

ते तथैवेति । सहस्रांशुं विकीर्णकरसहस्रं उदेष्यन्तमित्यर्थः । आदित्यं सूर्यम् ॥१॥

उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे ।
प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत॥२॥

द्वन्द्वानि तत्र यान्यासन्संसक्तानि पुरोदयात् ।
तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत॥३॥

रथैर्हया हयैर्नागाः पादातैश्चापि कुञ्जराः ।
हयैर्हयाः समाजग्मुः पादाताश्च पदातिभिः॥४॥

रथा रथैरिभैर्नागास्तथैव भरतर्षभ ।
संसक्ताश्च वियुक्ताश्च योधाः संन्यपतन् रणे॥५॥

ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा ।
क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन्॥६॥

शंखभेरीमृदङ्गानां कुञ्जराणां च गर्जताम् ।
विस्फारितविकृष्टानां कार्मुकाणां च कूजताम्॥७॥

शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ ।
द्रवतां च पदातीनां शस्त्राणां पततामपि॥८॥

हयानां ह्रेषतां चापि रथानां च निवर्तताम् ।
क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत्॥९॥

विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महांस्तदा ।
नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः॥१०॥

भूमावश्रूयत महांस्तदाऽऽसीत्कृपणं महत् ।
पततां पात्यमानानां पत्त्यश्वरथदन्तिनाम्॥११॥

तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः ।
स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वान् परेषां परे परान्॥१२॥

स्वे कौरवाः स्वान् स्वमृत्यान्परे पाण्डवाः स्वान् स्वभृत्यान् । स्वे इत्यनुवर्तते । परेषां पाण्डवानां स्वान् स्वे कौरवाः । परेषां पाण्डवानां परान् कौरवान् परे पाण्डवा जघ्नुरित्यन्वयः । परेषामित्युभयत्र संबध्यते । स्वपरविभागो वक्तुः संजयस्यानुरोधात् ॥१२॥

वीरबाहुविमृष्टाश्च योधेषु च गजेषु च ।
राशयः प्रत्यदृश्यन्त वाससां नेजनेष्विव॥१३॥

वीरेति । निज्यन्ते प्रक्षाल्यन्ते वासांसि येषु ते प्रदेशा नेजनानि तेषु यथा वाससां राशयो भवन्त्येवमुद्यतानां प्रतिकूलं पिष्टानां च खड्गानां राशयः प्रत्यदृश्यन्त । निज्यतां क्षालनैः उद्यमोद्यम्य शिलायां स्फाल्यमानानाम् । श्लोकद्वयम् ॥१३॥

उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः ।
स एव शब्दस्तद्रूपो वाससां निज्यतामिव॥१४॥

अर्धासिभिस्तथा खड्गैस्तोमरैः सपरश्वधैः ।
निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम्॥१५॥

अर्धासिभिरेकधारैः ॥१५॥

गजाश्वकायप्रभवां नरदेहप्रवाहिनीम् ।
शस्त्रमत्स्यसुसंपूर्णां मांसशोणितकर्दमाम्॥१६॥

आर्तनादस्वनवतीं पताकाशस्त्रफेनिलाम् ।
नदीं प्रावर्तयन्वीराः परलोकौघगामिनीम्॥१७॥

शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः ।
विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः॥१८॥

बाहुभिः कवचैश्चित्रैः शिरोभिश्चारुकुण्डलैः ।
युद्धोपकरणैश्चान्यैस्तत्र तत्र चकाशिरे॥१९॥

क्रव्यादसङ्घैराकीर्णं मृतैरर्धमृतैरपि ।
नासीद्रथपथस्तत्र सर्वमायोधनं प्रति॥२०॥

मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय वाजिनः ।
कथंचिदवहन् श्रान्ता वेपमानाः शरार्दिताः॥२१॥

कुलसत्त्वबलोपेता वाजिनो वारणोपमाः ।
विह्वलं तूर्णमुद्धान्तं सभयं भारतातुरम्॥२२॥

बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ ।
तावेवास्तां निलयनं तावार्तायनमेव च॥२३॥

निलयनमाश्रयः आर्तायनमार्तानां भयवारणं स्वीयानां शत्रूणां तु तावेव मृत्युकरावित्यर्थः॥२३॥

तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम् ।
आविग्नमभवत्सर्वं कौरवाणां महद्बलम्॥२४॥

पञ्चालानां च संसक्तं न प्राज्ञायत किञ्चन ।
अन्तकाक्रीडसदृशं भीरूणां भयवर्धनम्॥२५॥

पृथिव्यां राजवंश्यानामुत्थिते महति क्षये ।
न तत्र कर्णं द्रोणं वा नार्जुनं न युधिष्ठिरम्॥२६॥

न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम् ।
न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ॥२७॥

न कृपं मद्रराजं च कृतवर्माणमेव च ।
न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा॥२८॥

पश्याम राजन्संसक्तान्सैन्येन रजसा वृतान् ।
संभ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते॥२९॥

द्वितीयाभिव संप्राप्ताममन्यन्त निशां तदा ।
न ज्ञायन्ते कौरवेया न पञ्चाला न पाण्डवाः॥३०॥

न दिशो द्यौर्न चोर्वी च न समं विषमं तथा ।
हस्तसंस्पर्शमापन्नान्परानप्यथवा स्वकान्॥३१॥

न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः ।
उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च॥३२॥

प्राशाम्यत रजो भौमं शीघ्रत्वाद‌निलस्य च ।
तत्र नागा हया योधा रथिनोऽथ पदातयः॥३३॥

पारिजातवनानीव व्यरोचन् रुधिरोक्षिताः ।
ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा॥३४॥

पाण्डवैः समसजज्जन्त चतुर्भिश्चतुरो रथाः ।
दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत॥३५॥

चतुरश्वत्वारः भ्रात्रा दुःशासनेन ॥३५॥

वृकोदरेण राधेयो भारद्वाजेन चार्जुनः ।
तद्धोरं महदाश्चर्यं सर्वे प्रैक्षन्त सर्वतः॥३६॥

रथर्षभाणामुग्राणां सन्निपातममानुषम् ।
रथमार्गैर्विचित्रैस्तैर्विचित्ररथसंकुलम्॥३७॥

अपश्यन् रथिनो युद्धं विचित्रं चित्रयोधिनाम् ।
यतमानाः पराक्रान्ताः परस्परजिगीषवः॥३८॥

जीमूता इव घर्मान्ते शरवर्षैरवाकिरन् ।
ते रथान्सूर्यसङ्काशानास्थिताः पुरुषर्षभाः॥३९॥

अशोभन्त यथा मेघाः शारदाश्चलविद्युतः ।
योधास्ते तु महाराज क्रोधामर्षसमन्विताः॥४०॥

स्पर्धिनश्च महेष्वासाः कृतयत्ना धनुर्धराः ।
अभ्यगच्छंस्तथाऽन्योन्यं मत्ता गजवृषा इव॥४१॥

न नूनं देहभेदोऽस्ति काले राजन्ननागते ।
यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः॥४२॥

बाहुभिश्चरणैच्छिन्नैः शिरोभिश्च सकुण्डलैः ।
कार्मुकैर्विशिखैः प्रासैः खड्गैः परशुपट्टिशैः॥४३॥

नालीकैः क्षुद्रनाराचैर्नखरैः शक्तितोमरैः ।
अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः॥४४॥

विचित्रैर्विविधाकारैः शरीरावरणैरपि ।
विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः॥४५॥

शून्यैश्चैव नगाकारैर्हतयोधध्वजै रथैः ।
अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः॥४६॥

वातायमानैरसकृद्धतवीरैरलङ्कृतैः ।
व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः॥४७॥

छत्रैराभरणैर्वस्त्रैर्माल्यैश्च ससुगन्धिभिः ।
हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः॥४८॥

उरस्थैर्मणिभिर्निष्कैश्चूडामणिभिरेव च ।
आसीदायोधनं तत्र नभस्तारागणैरिव॥४९॥

ततो दुर्योधनस्यासीन्नकुलेन समागमः ।
अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च॥५०॥

अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम् ।
किरञ्छरशतैर्हृष्टस्तत्र नादो महानभूत्॥५१॥

अपसव्यं कृतं संख्ये भ्रातृव्येनात्यमर्षिणा ।
नामृष्यत तमप्याजौ प्रतिचक्रेऽपसव्यतः॥५२॥

पुत्रस्तव महाराज राजा दुर्योधनो द्रुतम् ।
ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम्॥५३॥

न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित् ।
स सर्वतो निवार्यैनं शरजालेन पीडयन्॥५४॥

विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् ।
तिष्ठ तिष्ठेति नकुलो बभाषे तनयं तव ।
संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितं च तत्॥५५॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि नकुलयुद्धे सप्ताशीत्यधिकशततमोऽध्याय॥१८७॥
अष्टाशीत्यधिकशततमोऽध्यायः

सञ्जय उवाच। ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् ।
रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम्॥१॥

तत इति ॥१॥

तस्यापतत एवाशु भल्लेनामित्रकर्शनः ।
माद्रीपुत्रः शिरो यन्तुः सशिरस्त्राणमच्छिनत्॥२॥

नैनं दुःशासनः सूतं नापि कश्चन सैनिकः ।
कृत्तोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान्॥३॥

यदा त्वसंगृहीतत्वात्प्रयान्त्यश्वा यथासुखम् ।
ततो दुःशासनः सूतं बुबुधे गतचेतसम्॥४॥

स हयान्सन्निगृह्याजौ स्वयं हयविशारदः ।
युयुधे रथिनां श्रेष्ठो लघुचित्रं च सुष्ठु च॥५॥

तदस्यापूजयन् कर्म स्वे परे चापि संयुगे ।
हतसुतरथेनाजौ व्यचरद्यदभीतवत्॥६॥

सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत् ।
पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः॥७॥

स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम् ।
धनुषा कर्म कुर्वंस्तु रश्मींश्च पुनरुत्सृजत्॥८॥

छिद्रेष्वेतेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत् ।
परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवाप तत्॥९॥

वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितः ।
आकर्णपूर्णैरभ्यघ्नन्बाह्वोरुरसि चानदत्॥१०॥

स निवृत्तस्ततः कर्णः संघट्टित इवोरगः ।
भीममावारयामास विकिरन्निशिताञ्छरान्॥११॥

ततोऽभूत्तुमुलं युद्धं भीमराधेययोस्तदा ।
तौ वृषाविव नर्दन्तौ विवृत्तनयनावुभौ॥१२॥

वेगेन महताऽन्योन्यं संरब्धावभिपेततुः ।
अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः॥१३॥

विच्छिन्नशरपातत्वाद्गदायुद्धमवर्तत ।
गदया भीमसेनस्तु कर्णस्य रथकूबरम्॥१४॥

विभेद शतधा राजंस्तद‌द्भुतमिवाभवत् ।
ततो भीमस्य राधेयो गदामाविध्य वीर्यवान्॥१५॥

अवासृजद्रथे तां तु बिभेद गदया गदाम् ।
ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम्॥१६॥

तां गदां बहुभिः कर्णः सुपुङ्खैः सुप्रवेजितैः ।
प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत्॥१७॥

व्यालीव मन्त्राभिहता कर्णबाणैरभिद्रुता ।
तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः॥१८॥

पपात सारथिश्चास्य मुमोह च गदाहतः ।
स कर्णं सायकानष्टौ व्यसृजत्क्रोधमूर्च्छितः॥१९॥

तैस्तस्य निशितैस्तीक्ष्णैर्भीमसेनो महाबलः ।
चिच्छेद परवीरघ्नः प्रहसन्निव भारत॥२०॥

ध्वजं शरासनं चैव शरावापञ्च भारत ।
कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम्॥२१॥

ततः पुनस्तु राधेयो हयानस्य रथेषुभिः ।
ऋक्षवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी॥२२॥

स विपन्नरथो भीमो नकुलस्याप्लुतो रथम् ।
हरिर्यथा गिरेः शृङ्गं समाक्रामदरिन्दमः॥२३॥

तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ ।
आचार्यशिष्यौ राजेन्द्र कृतप्रहरणौ युधि॥२४॥

लघुसन्धानयोगाभ्यां रथयोश्च रणेन च ।
मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च॥२५॥

उपारमन्त ते सर्वे योधा भरतसत्तम ।
अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः॥२६॥

विचित्रान्पृतनामध्ये रथमार्गानुदीर्य तौ ।
अन्योन्यमपसव्यं च कर्तुं वीरौ तदेषतुः॥२७॥

पराक्रमं तयोर्योधा ददृशुस्ते सुविस्मिताः ।
तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत्॥२८॥

आमिषार्थे महाराज गगने श्येनयोरिव ।
यद्यच्चकार द्रोणस्तु कुन्तीपुत्राजगीषया॥२९॥

तत्तप्रतिजघानाशु प्रहसंस्तस्य पाण्डवः ।
यदा द्रोणो न शक्नोति पाण्डवं स्म विशेषुतुम्॥३०॥

ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः ।
ऐन्द्रं पाशपतं त्वाष्ट्रं वायव्यमथ वारुणम्॥३१॥

मुक्तं मुक्तं द्रोणचापात्तज्जघान धनञ्जयः ।
अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः॥३२॥

ततो‍ऽस्तैः परमैर्दिव्यैर्दोणः पार्थमवाकिरत् ।
यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया॥३३॥

तस्य तस्य विघाताय तत्तद्धि कुरुतेऽर्जुनः ।
स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि॥३४॥

अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत् ।
मेने चात्मानमधिकं पृथिव्यामधि भारत॥३५॥

तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः परंतपः ।
वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम्॥३६॥

यतमानोऽर्जुनं प्रीत्या प्रत्यवारयदुत्स्मयन् ।
ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः॥३७॥

ऋषयः सिद्धसङ्घाश्च व्यतिष्ठन्त दिदृक्षया ।
तदप्सरोभिराकीर्णं यक्ष-गन्धर्वसंकुलम्॥३८॥

श्रीमदाकाशमभवद्भयो मेघाकुलं यथा ।
तत्र स्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः॥३९॥

द्रोण-पार्थस्तवोपेता व्यश्रूयन्त नराधिप ।
विसृज्यमानेष्वस्त्रेषु ज्वालयत्सु दिशो दश॥४०॥

अब्रुवंस्तत्र सिद्धाश्च ऋषयश्च समागताः ।
नैवेदं मानुषं युद्धं नासुरं न च राक्षसम्॥४१॥

न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम् ।
विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम्॥४२॥

अति पाण्डवमाचार्यो द्रोणं चाप्यति पांडवः ।
नानयोरन्तरं शक्यं द्रष्टुमन्येन केनचित्॥४३॥

यदि रुद्रो द्विधा कृत्य युध्येतात्मानमात्मना ।
तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते॥४४॥

ज्ञानमेकस्थमाचार्ये, ज्ञानं योगश्च पाण्डवे ।
शौर्यमेकस्थमाचार्ये, बलं शौर्यं च पाण्डवे॥४५॥

ज्ञानमेकस्थमिति । आचार्यो ज्ञानस्य शौर्यस्य चावधिरित्यर्थः । अर्जुनस्तु योगेन बलेन चाधिकः । कृष्णसारथिगाण्डीवदिव्यरथध्वजबुद्ध्यादिभिर्यौवनेन च युक्तत्वात् । तथा च योगबलाभ्यामाचार्यसाम्यं प्राप्त इत्यर्थः ॥४५॥

नेमौ शक्यौ महेष्वासौ युद्धे क्षपयितुं परैः ।
इच्छमानौ पुनरिमौ हन्येतां सामरं जगत्॥४६॥

इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ ।
अन्तर्हितानि भूतानि प्रकाशानि च सर्वशः॥४७॥

ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः ।
संतापयन् रणे पार्थं भूतान्यन्तर्हितानि च॥४८॥

ततश्चचाल पृथिवी सपर्वत-वन-द्रुमा ।
ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः॥४९॥

ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः ।
सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना॥५०॥

ततः पार्थोऽप्यसंभ्रान्तस्तदस्त्रं प्रतिजघ्निवान् ।
ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत्॥५१॥

यदा न गम्यते पारं तयोरन्यतरस्य वा ।
ततः संकुलयुद्धेन तद्युद्धं व्याकुलीकृतम्॥५२॥

पारमवधिः आर्षं क्लीबत्वम् । अन्यतरेणेति शेषः । गम्यते प्राप्यते अन्योन्ययुद्धे । ततस्तदा संकुलयुद्धमनियतयोधं युद्धम् ॥५२॥

नाज्ञायत ततः किञ्चित्पुनरेव विशांपते ।
प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्मृधे॥५३॥

शरजालैः समाकीर्णे मेघजालैरिवाम्बरे ।
नापतच्च ततः कश्चिदन्तरिक्षचरस्तदा॥५४॥

नापतत् बाणैरन्तरिक्षस्य पूरितत्वादिति भावः ॥५४॥
इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि संकुलयुद्धे अष्टाशीत्यधिकशततमोऽध्यायः॥१८८॥
ऊननवत्यधिकशततमोऽध्यायः

सञ्जय उवाच। तस्मिस्तथा वर्तमाने गजाश्वनरसंक्षये ।
दुःशासनो महाराज धृष्टद्युम्नमयोधयत्॥१॥

तस्मिन्निति ॥१॥

स तु रुक्मरथासक्तो दुःशासनशरार्दितः ।
अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत॥२॥

क्षणेन स रथस्तस्य सध्वजः सहसारथिः ।
नादृश्यत महाराज पार्षतस्य शरैश्चितः॥३॥

दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः ।
नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः॥४॥

स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः ।
किरञ्छरसहस्राणि द्रोणमेवाभ्ययाद्रणे॥५॥

अभ्यपद्यत हार्दिक्यः कृतवर्मा त्वनन्तरम् ।
सोदर्याणां त्रयश्चैव त एनं पर्यवारयन्॥६॥

त्रयो धृष्टद्युम्नोऽन्यौ द्वौ च ॥६॥

तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ ।
द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम्॥७॥

संप्रहारमकुर्वंस्ते सर्वे च सुमहारथाः ।
अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः॥८॥

शुद्धात्मानः शुद्धवृत्ता राजन् स्वर्गपुरस्कृताः ।
आर्यं युद्धमकुर्वन्त परस्परजिगीषवः॥९॥

शुक्लाभिजनकर्माणो मतिमन्तो जनाधिप ।
धर्मयुद्धमयुध्यन्त प्रेप्सन्तो गतिमुत्तमाम्॥१०॥

शुक्लः शुद्धोऽभिजनो वंशो येषां ते स्वयंशोधितकर्माणश्च ॥१०॥

न तत्रासीदधर्मिष्ठमशस्तं युद्धमेव च ।
नात्र कर्णी न नालीको न लिप्तो न च बस्तिकः॥११॥

अशस्तमप्रशस्यम् । प्रशस्यत्वमाह - नात्रेति । कर्णी विलोमकण्टकद्वययुक्तः। स हि उद्ध्रियमाणोऽन्त्राण्युद्धरति । नालीकः अल्पत्वाद्देहमग्नः सन् दुरुद्धरः। न लिप्तो विषेणेति शेषः । बस्तिकः शल्यदण्डसन्धौ शिथिलस्तस्योद्धरणे शल्यं बस्तिमध्ये मज्जति दण्डमात्रं निःसरति [अन्ये बस्तक इति पठित्वा शृङ्गघटित इति व्याचख्युः] ॥११॥

न सूची कपिशो नैव न गवास्थिर्गजास्थिजः ।
इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः॥१२॥

सूचीकीर्णसजातीयो बहुकण्टकः [कपिशस्तुल्यो मर्कटास्थिमयो वेति प्राञ्चः] कार्ष्णायसमयः सह्यदृढेऽप्याघातेऽन्तर्बहुप्रविशति । ‘कपिशस्त्रिषु श्यामे’ इति मेदिनी । गवास्थिजो गजास्थिजस्तन्मयफलकश्च बाणो विषलिप्तवज्ज्ञेयः । श्लिष्टो द्विशल्यः क्षतद्वयकरत्वाद्धेयः । पूर्तिमलिनशल्यः सोऽपि क्षतपोषकश्चर्चितो वा । जिह्मगोऽन्यल्लक्ष्यत्वेन प्रदर्श्यान्यत्र पातितः ॥१२॥

ऋजून्येक विशुद्धानि सर्वे शस्त्राण्यधारयन् ।
सुयुद्धेन पराँल्लोकानीप्सन्तः कीर्तिमेव च॥१३॥

तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम् ।
चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह॥१४॥

धृष्टद्युम्नस्तु तान् दृष्ट्वा तव राजन् रथर्षभान् ।
यमाभ्यां वारितान्वीराञ्छीघ्रास्त्रो द्रोणमभ्ययात्॥१५॥

निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः ।
समसज्जन्त चत्वारो वाताः पर्वतयोरिव॥१६॥

द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुङ्गवौ ।
समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत॥१७॥

दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम् ।
यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत्॥१८॥

दुर्योधनो महाराज किरञ्छोणितभोजनान् ।
तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत॥१९॥

तौ परस्परमासाद्य समीपे कुरुमाधवौ ।
हसमानौ नृशार्दूलावभीतौ समसज्जताम्॥२०॥

बाल्यवृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ ।
अन्योन्यं प्रेक्षमाणौ च स्मयमानौ पुनः पुनः॥२१॥

अथ दुर्योधनो राजा सात्यकिं समभाषत ।
प्रियं सखायं सततं गर्हयन् वृत्तमात्मनः॥२२॥

धिक् क्रोधं धिक्सखे लोभं घिङ्मोहं धिगमर्षितम् ।
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम्॥२३॥

यत्र मामभिसंधत्से त्वां चाहं शिनिपुङ्गव ।
त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव॥२४॥

स्मरामि तानि सर्वाणि बाल्यवृत्तानि यानि नौ ।
तानि सर्वाणि जीर्णानि सांप्रतं नो रणाजिरे॥२५॥

किमन्यत्क्रोधलोभाभ्यां युद्धमेवाद्य सात्वत ।
तं तथावादिनं तत्र सात्यकिः प्रत्यभाषत॥२६॥

प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रविव ।
नेयं सभा राजपुत्र नाचार्यस्य निवेशनम्॥२७॥

यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः ।
दुर्योधन उवाच। क्क सा क्रीडा गताऽस्माकं बाल्ये वै शिनिपुङ्गव॥२८॥

क्व च युद्धमिदं भूयः ‘कालो हि दुरतिक्रमः’ ।
किंनु नो विद्यते कृत्यं धनेन धनलिप्सया॥२९॥

यत्र युध्यामहे सर्वे धनलोभात्समागताः ।
सञ्जय उवाच। तं तथावादिनं तत्र राजानं माधवोऽब्रवीत्॥३०॥

एवं वृत्तं सदा क्षात्रं युध्यन्तीह गुरूनपि ।
यदि तेऽहं प्रियो राजन् जहि मां मा चिरं कृथाः॥३१॥

त्वत्कृते सुकृतांल्लोकान् गच्छेयं भरतर्षभ ।
या ते शक्तिर्बलं यच्च तत्क्षिप्रं मयि दर्शय॥३२॥

नेच्छामि तदहं द्रष्टुं मित्राणां व्यसनं महत् ।
इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः॥३३॥

अभ्ययात्तूर्णमव्यग्रो दयां नाकुरुतात्मनि ।
तमायान्तं महाबाहुं प्रत्यगृह्णात्तवात्मजः॥३४॥

शरैश्चावाकिरद्राजञ्शैनेयं तनयस्तव ।
ततः प्रववृते युद्धं कुरुमाधवसिंहयोः॥३५॥

अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः ।
ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम्॥३६॥

दुर्योधनः प्रत्यविध्यत्कुपितो दशभिः शरैः ।
तं सात्यकिः प्रत्यविध्यत्तथैवावाकिरच्छरैः॥३७॥

यञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह ।
सात्यकिं तु रणे राजन्प्रहसंस्तनयस्तव॥३८॥

आकर्णपूर्णैर्निशितैर्विव्याध त्रिंशता शरैः ।
ततोऽस्य सशरं चापं क्षुरप्रेण द्विधाऽच्छिनत्॥३९॥

सोऽन्यत्कार्मुकमादाय लघुहस्तस्ततो दृढम् ।
सात्यकिर्व्यसृजच्चापि शरश्रेणीं सुतस्य ते॥४०॥

तामापतन्तीं सहसा शरश्रेणीं जिघांसया ।
चिच्छेद बहुधा राजा तत उच्चुक्रुशुर्जनाः॥४१॥

सात्यकिं च त्रिसप्तत्या पीडयामास वेगितः ।
स्वर्णपुङ्खैः शिलाधौतैराकर्णापूर्णनिःसृतैः॥४२॥

तस्य संदधतश्चेषु संहितेषु च कार्मुकम् ।
आच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाप्यवीविधत्॥४३॥

स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरे ।
दुर्योधनो महाराज दाशार्हशरपीडितः॥४४॥

समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात् ।
विसृजन्निषुजालानि युयुधानरथं प्रति॥४५॥

तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति ।
सततं विसृजन् राजंस्तत्संकुलमवर्तत॥४६॥

तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च शरीरिषु ।
अग्नेरिव महाकक्षैः शब्दः समभवन्महान्॥४७॥

तयोः शरसहसैश्च संछन्नं वसुधातलम् ।
अगम्यरूपं च शरैराकाशं समपद्यत॥४८॥

तत्राप्यधिकमालक्ष्य माधवं रथसत्तमम् ।
क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव॥४९॥

न तु तं मर्षयामास भीमसेनो महाबलः ।
सोभ्ययात्त्वरितःकर्णं विसृजन्सायकान्बहून्॥५०॥

तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव ।
धनुः शरांश्च चिच्छेद सुतं चाभ्यहनच्छरैः॥५१॥

भीमसेनस्तु संक्रुद्धो गदामादाय पाण्डवः ।
ध्वजं धनुश्च सूतं च संममर्दाहवे रिपोः॥५२॥

रथचक्रं च कर्णस्य बभञ्ज स महाबलः ।
भग्नचक्रे रथेऽतिष्ठदकम्पः शैलराडिव॥५३॥

एकचक्रं रथं तस्य तमूहुः सुचिरं हयाः ।
एकचक्रमिवार्कस्य रथं सप्त हया यथा॥५४॥

अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत ।
विविधैरिपुजालैश्च नानाशस्त्रैश्च संयुगे॥५५॥

भीमसेनस्तु संक्रुद्धः सूतपुत्रमयोधयत् ।
तस्मिंस्तथा वर्तमाने क्रुद्धो धर्मसुतोऽब्रवीत्॥५६॥

पञ्चालानां नरव्याघ्रान्मत्स्यांश्च पुरुषर्षभान् ।
ये नः प्राणाः शिरो ये च ये नो योधा महारथाः॥५७॥

त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः ।
किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः॥५८॥

तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः ।
क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः॥५९॥

जयन्तो वध्यमानाश्च गतिमिष्टां गमिष्यथ ।
जित्वा वा बहुभिर्यज्ञैर्यजध्वं भूरिदक्षिणैः॥६०॥

हता वा देवसाद्भूत्वा लोकान्प्राप्स्यथ पुष्कलान् ।
ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः॥६१॥

क्षात्रधर्मं पुरस्कृत्य त्वरिता द्रोणमभ्ययुः ।
पञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्निशितैः शरैः॥६२॥

भीमसेनपुरोगाश्चाप्येकतः पर्यवारयन् ।
आसंस्तु पाण्डुपुत्राणां त्रयो जिह्मा महारथाः॥६३॥

यमौ च भीमसेनश्च प्राक्रोशंस्ते धनञ्जयम् ।
अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद॥६४॥

तत एनं हनिष्यन्ति पञ्चाला हतरक्षिणम् ।
कौरवेयांस्ततः पार्थः सहसा समुपाद्रवत्॥६५॥

पञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान् ।
ममर्दुस्तरसा वीराः पञ्चमेऽहनि भारत॥६६॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि संकुलयुद्धे ऊननवत्यधिकशततमोऽध्यायः॥१८९॥
नवत्यधिकशततमोऽध्यायः

सञ्जय उवाच। पञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत् ।
यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा॥१॥

पञ्चालानामिति ॥१॥

द्रोणास्त्रेण महाराज वध्यमानाः परे युधि ।
नात्रसन्त रणे द्रोणात्सत्त्ववन्तो महारथाः॥२॥

युध्यमाना महाराज पञ्चालाः सृञ्जयास्तथा ।
द्रोणमेवाभ्ययुर्युद्धे योधयन्तो महारथाः॥३॥

तेषां तु च्छाद्यमानानां पञ्चालानां समन्ततः ।
अभवद्भैरवो नादो वध्यतां शरवृष्टिभिः॥४॥

वध्यमानेषु संग्रामे पञ्चालेषु महात्मना ।
उदीर्यमाणे द्रोणास्त्रे पाण्डवान्भयमाविशत्॥५॥

दृष्ट्वाऽश्वन रयोधानां विपुलं च क्षयं युधि ।
पाण्डवेया महाराज नाशशंसुर्जयं तदा॥६॥

कच्चिद्द्रोणो न नः सर्वान् क्षपयेत्परमास्त्रवित् ।
समिद्धः शिशिरापाये दहन्कक्षमिवानलः॥७॥

न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम् ।
न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित्॥८॥

त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान् ।
मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत्॥९॥

नैष युद्धे न संग्रामे जेतुं शक्यः कथञ्चन ।
सधनुर्धन्विनां श्रेष्ठो देवैरपि सवासवैः॥१०॥

न्यस्तशस्त्रस्तु संग्रामे शक्यो हन्तुं भवेन्नृभिः ।
आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डवाः॥११॥

यथा न संयुगे सर्वान्न हन्याद्रुक्मवाहनः ।
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम॥१२॥

तं हतं संयुगे कश्चिदस्मै शंसतु मानवः ।
एतन्नारोचयद्राजन् कुन्तीपुत्रो धनञ्जयः॥१३॥

अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः ।
ततो भीमो महाबाहुरनीके स्वे महागजम्॥१४॥

जघान गदया राजन्नश्वत्थामानमित्युत ।
परप्रमथनं घोरं मालवस्येन्द्रवर्मणः॥१५॥

भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे ।
अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह॥१६॥

अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत् ।
कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा॥१७॥

भीमसेनवचः श्रुत्वा द्रोणस्तत्परमाप्रियम् ।
मनसा सन्नगात्रोऽभूद्यथा सैकतमम्भसि॥१८॥

शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै ।
हतः स इति च श्रुत्वा नैव धैर्यादकम्पत॥१९॥

स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत् ।
अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः॥२०॥

स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः ।
अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम्॥२१॥

तं विंशतिसहस्राणि पञ्चालानां नरर्षभाः ।
तथा चरन्तं संग्रामे सर्वतोऽवाकिरञ्छरैः॥२२॥

शरैस्तैराचितं द्रोणं नापश्याम महारथम् ।
भास्करं जलदैरुद्धं वर्षास्विव विशांपते॥२३॥

विधूय तान्बाणगणान्पञ्चालानां महारथः ।
प्रादुश्चके ततो द्रोणो ब्राह्ममस्त्रं परंतपः॥२४॥

वधाय तेषां शूराणां पञ्चालानाममर्षितः ।
ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसैनिकान्॥२५॥

शिरांस्यपातयच्चापि पञ्चालानां महामृधे ।
तथैव परिघाकारान्बाहून्कनकभूषणान्॥२६॥

ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः ।
मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः॥२७॥

कुञ्जराणां च पततां हयौघानां च भारत ।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा॥२८॥

हत्वा विंशतिसाहस्रान्पञ्चालानां रथव्रजान् ।
अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन्॥२९॥

तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान् ।
वसुदानस्य भल्लेन शिरः कायादपाहरत्॥३०॥

पुनः पञ्चशतान्मत्स्यान् षट्सहस्त्रांश्च सृञ्जयान् ।
हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः॥३१॥

क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम् ।
ऋषयोऽभ्यागतास्तूर्णं हव्यवाहपुरोगमाः॥३२॥

विश्वामित्रो जमद‌ग्निर्भरद्वाजोऽथ गौतमः ।
वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः॥३३॥

सिकताः पृश्नयो गर्गा वालखिल्या मरीचिपाः ।
भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः॥३४॥

त एनमब्रुवन्सर्वे द्रोणमाहवशोभिनम् ।
अधर्मतः कृतं युद्धं समयो निधनस्य ते॥३५॥

न्यस्यायुधं रणे द्रोण समीक्षास्मानवस्थितान् ।
नातः क्रूरतरं कर्म पुनः कर्तुमिहार्हसि॥३६॥

वेदवेदाङ्गविदुषः सत्यधर्मरतस्य ते ।
ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते॥३७॥

त्यजायुधममोघेषो तिष्ठ वर्त्मनि शाश्वते ।
परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे॥३८॥

ब्रह्मास्त्रेण त्वया दग्धा अनस्त्रज्ञा नरा भुवि ।
यदेतदीदृशं विप्र कृतं कर्म न साधु तत्॥३९॥

न्यस्यायुधं रणे विप्र द्रोण मा त्वं चिरं कृथाः ।
मा पापिष्ठतरं कर्म करिष्यसि पुनर्द्विज॥४०॥

इति तेषां वचः श्रुत्वा भीमसेनवचश्च तत् ।
धृष्टद्युम्नं च संप्रेक्ष्य रणे स विमनाऽभवत्॥४१॥

संदिह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम् ।
अहतं वा हतं वेति पप्रच्छ सुतमात्मनः॥४२॥

स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम् ।
त्रयाणामपि लोकानामैश्वर्यार्थे कथञ्चन॥४३॥

तस्मात्तं परिपप्रच्छ नान्यं कञ्चिद्द्विजर्षभः ।
तस्मिंस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे॥४४॥

ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधां पतिम् ।
द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत्॥४५॥

यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः ।
सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति॥४६॥

स भवांस्त्रातु नो द्रोणात्सत्याज्ज्यायोऽनृतं वचः ।
अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः॥४७॥

तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम् ।
श्रुत्वैवं तु महाराज वधोपायं महात्मनः॥४८॥

गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः॥४९॥

अश्वत्थामेति विख्यातो गजः शक्रगजोपमः ।
निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम्॥५०॥

अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति ।
नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः॥५१॥

स त्वं गोविंदवाक्यानि मानयस्व जयैषिणः ।
द्रोणाय निहतं शंस राजञ्शारद्वतीसुतम्॥५२॥

त्वयोक्तो नैव युध्येत जातु राजन्द्विजर्षभः ।
सत्यवान् हि त्रिलोकेऽस्मिन् भवान् ख्यातो जनाधिप॥५३॥

तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः ।
भावित्वाच्च महाराज वक्तुं समुपचक्रमे॥५४॥

तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः ।
अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत॥५५॥

तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुलमुच्छ्रितः ।
बभूवैवं च तेनोक्ते तस्य वाहाः स्पृशन्महीम्॥५६॥

युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः ।
पुत्रव्यसनसन्तप्तो निराशो जीवितेऽभवत्॥५७॥

आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम् ।
ऋषिवाक्येन मन्वानः श्रुत्वा च निहतं सुतम्॥५८॥

विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च ।
योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिन्दमः॥५९॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि युधिष्ठिरासत्यकथने नवत्यधिकशततमोऽध्यायः॥१९०॥
एकनवत्यधिकशततमोऽध्यायः

सञ्जय उवाच। तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् ।
पञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत्॥१॥

तं दृष्ट्वेति ॥१॥

य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे ।
लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात्॥२॥

स धनुर्जैत्रमादाय घोरं जलदनिःस्वनम् ।
दृढज्यमजरं दिव्यं शरं चाशीविषोपमम्॥३॥

सन्दधे कार्मुके तस्मिंस्ततस्तमनलोपनम् ।
द्रोणं जिघंसुः पाञ्चाल्यो महाज्वालमिवानलम्॥४॥

तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे ।
द्योततो भास्करस्येव घनान्ते परिवेषिणः॥५॥

पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः ।
अन्तकालमनुप्राप्तं मेनिरे वीक्ष्य सैनिकाः॥६॥

तमिषुं संहतम् तेन भारद्वाजः प्रतापवान् ।
दृष्ट्वाऽमन्यत देहस्य कालपर्यायमागतम्॥७॥

ततः प्रयत्नमातिष्ठदाचार्यस्तस्य वारणे ।
न चास्यास्त्राणि राजेन्द्र प्रादुरासन्महात्मनः॥८॥

तस्य त्वहानि चत्वारि क्षपा चैकाऽस्यतो गता ।
तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्त्रिणः॥९॥

स शरक्षयमासाद्य पुत्रशोकेन चार्दितः ।
विविधानां च दिव्यानामस्त्राणामप्रसादतः॥१०॥

उत्स्रष्टुकामः शस्त्राणि ऋषिवाक्यप्रचोदितः ।
तेजसा पूर्यमाणश्च युयुधे न यथा पुरा॥११॥

भूयश्चान्यत्समादाय दिव्यमाङ्गिरसं धनुः ।
शरांश्च ब्रह्मदण्डाभान् धृष्टद्युम्नमयोधयत्॥१२॥

ततस्तं शरवर्षेण महता समवाकिरत् ।
व्यशातयच्च संक्रुद्धो धृष्टद्युम्नममर्षणम्॥१३॥

शरांश्च शतधा तस्य द्रोणश्चिच्छेद सायकैः ।
ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत्॥१४॥

धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम् ।
शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे॥१५॥

सोऽतिविद्धो महेष्वासोऽसंभ्रान्त इव संयुगे ।
भल्लेन शितधारेण चिच्छेदास्य पुनर्धनुः॥१६॥

यच्चास्य बाणविकृतं धनूंषि च विशांपते ।
सर्वं चिच्छेद दुर्धर्षो गदां खड्गं च वर्जयन्॥१७॥

धृष्टद्युम्न्नं च विव्याध नवभिर्निशितैः शरैः ।
जीवितान्तकरः क्रुद्धः क्रुद्धरूपः परंतपः॥१८॥

धृष्टद्युम्नोऽथ तस्याश्वान् स्वरथाश्वैर्महारथः ।
व्यामिश्रयद‌मेयात्मा ब्राह्ममस्त्रमुदीरयन्॥१९॥

ते मिश्रा बह्वशोभन्त जवना वातरंहसः ।
पारावतसवर्णाश्च शोणाश्च भरतर्षभ॥२०॥

यथा सविद्युतो मेघा नदन्तो जलदागमे ।
तथा रेजुर्महाराज मिश्रिता रणमूर्धनि॥२१॥

ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च ।
प्राणाशयद‌मेयात्मा धृष्टद्युम्नस्य स द्विजः॥२२॥

स छिन्नधन्वा पाञ्चाल्यो निकृत्तध्वजसारथिः ।
उत्तमामापदं प्राप्य गदां वीरः परामृशत्॥२३॥

तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः ।
निजघान शरैर्दोणः क्रुद्धः सत्यपराक्रमः॥२४॥

तां तु दृष्ट्वा नरव्याघ्रो द्रोणेन निहतां शरैः ।
विमलं खड्गमादत्त शतचन्द्रं च भानुमत्॥२५॥

असंशयं तथाभूतः पाञ्चाल्यः साध्वमन्यत ।
वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः॥२६॥

ततः स रथनीडस्थं स्वरथस्य रथेषया ।
अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत्॥२७॥

चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः ।
इयेष वक्षो भेत्तुं स भारद्वाजस्य संयुगे॥२८॥

सोऽतिष्ठद्युगमध्ये वै युगसन्नहनेषु च ।
जघनार्धेषु चाश्वानां तत्सैन्याः समपूजयन्॥२९॥

तिष्ठतो युगपालीषु शोणानप्यधितिष्ठतः ।
नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत्॥३०॥

क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः ।
तद्वदासी‌दभीसारो द्रोणपार्षतयो रणे॥३१॥

तस्य पारावतानश्वान् रथशक्त्या पराभिनत् ।
सर्वानेकैकशो द्रोणो रक्तानश्वान्विवर्जयन्॥३२॥

ते हता न्यपतन् भूमौ धृष्टद्युम्नस्य वाजिनः ।
शोणास्तु पर्यमुच्यन्त रथबन्धाद्विशांपते॥३३॥

तान्हयान्निहतान् दृष्ट्वा द्विजाग्र्येण स पार्षतः ।
नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः॥३४॥

विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः ।
द्रोणमभ्यपतद्राजन् वैनतेय इवोरगम्॥३५॥

तस्य रूपं बभौ राजन् भारद्वाजं जिघांसतः ।
यथा रूपं पुरा विष्णोर्हिरण्यकशिपोर्वेधे॥३६॥

स तदा विविधान्मार्गान्प्रवरांश्चैकविंशतिम् ।
दर्शयामास कौरव्य पार्षतो विचरन् रणे॥३७॥

भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ।
परिवृत्तं निवृत्तं च खड्गं चर्म च धारयन्॥३८॥

संपातं समुदीर्णं च दर्शयामास पार्षतः ।
भारतं कौशिकं चैव सात्वतं चैव शिक्षया॥३९॥

दर्शयन् व्यचरद्युद्धे द्रोणस्यान्तचिकीर्षया ।
चरतस्तस्य तान् मार्गान् विचित्रान् खड्गचर्मिणः॥४०॥

व्यस्मयन्त रणे योधा देवताश्च समागताः ।
ततः शरसहस्त्रेण शतचन्द्रमपातयत्॥४१॥

चर्म खड्गं च संबाधे धृष्टद्युम्नस्य स द्विजः ।
ये तु वैतस्तिका नाम शरा आसन्नयोधिनः॥४२॥

खड्गं चर्म च धारयन् भ्रान्तादित्रयोदशविधं संचरणं दर्शयामासेति संबंधः । ‘मण्डलाकारतः खड्गभ्रामणं भ्रान्तमुच्यते ॥ तदेव बाहुमुद्यम्य कृतमुद्भ्रान्तमीरितम् ॥१॥ भ्रमणं स्वस्य परितः खड्गस्याविद्धमुच्यते ॥ परप्रयुक्तशस्त्रस्य वारणार्थमिदं त्रयम् ॥२॥ शत्रोराक्रमणार्थाय गमनं त्वाप्लुतं मतम् ॥ खड्गस्याग्रेण तद्देहस्पर्शनं प्रसृतं मतम् ॥३॥ वंचयित्वा रिपौ शस्त्रपातनं गदितं सृतम् ॥ परिवृत्तं भवेच्छत्रोर्वामदक्षिणभागतः ॥४॥ पश्चात्पदापसरणं निवृत्तं संप्रचक्षते ॥३८॥ अन्योन्यताडनं प्राहुः संपातमुभयोरपि ॥५॥ आधिक्यमात्मनो यत्तत्समुदीर्णमुदीरितम् ॥ अङ्गप्रत्यङ्गदेशेषु भ्रामणं भारतं स्मृतम् ॥६॥ विचित्रखड्गसंचारदर्शनं कौशिकं स्मृतम् ॥ निलीय चर्माण क्षेपो यदसेः सात्वतं हि तत्’ ॥७॥॥३९॥ संबाधे रणसंकटे वैतस्तिकाः वितस्तिप्रमाणाः ॥४२॥

निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः ।
ऋते शारद्वतात्पार्थाद्द्रौणेर्वैकर्तनात्तथा॥४३॥

प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च भारत ।
अथास्येषु समाधत्त दृढं परमसंमतम्॥४४॥

अन्तेवासिनमाचार्यो जिघांसुः पुत्रसंमितम् ।
तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुङ्गवः॥४५॥

पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः ।
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत्॥४६॥

चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम् ।
द्रोणकर्णान्तरगतं कृपस्यापि च भारत॥४७॥

अपश्येतां महात्मानौ विष्वक्सेनधनञ्जयौ ।
अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधु साध्विति॥४८॥

दिव्यान्यस्त्राणि सर्वेषां युधि निघ्नन्तमच्युतम् ।
अभिपत्य ततः सेनां विष्वक्सेनधनञ्जयौ॥४९॥

धनञ्जयस्ततः कृष्णमब्रवीत्पश्य केशव ।
आचार्यरथमुख्यानां मध्ये क्रीडन्मधूद्वहः॥५०॥

आनंदयति मां भूयः सात्यकिः परवीरहा ।
माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम्॥५१॥

यच्छिक्षयाऽनुद्धतः सन्रणे चरति सात्यकिः ।
महारथानुपक्रीडन् वृष्णीनां कीर्तिवर्धनः॥५२॥

तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः ।
अजय्यं समरे दृष्ट्वा साधु साध्विति सात्यकिम् ।
योधाश्चोभयतः सर्वे कर्मभिः समपूजयन्॥५३॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि संकुलयुद्धे एकनवत्यधिकशततमोऽध्यायः॥१९१॥
द्विनवत्यधिकशततमोऽध्यायः

सञ्जय उवाच। सात्वतस्य तु तत्कर्म दृष्ट्वा दुर्योधनादयः ।
शैनेयं सर्वतः क्रुद्धा वारयामासुरञ्जसा॥१॥

सात्वतस्येति ॥१॥

कृपकर्णौ च समरे पुत्राश्च तव मारिष ।
शैनेयं त्वरयाऽभ्येत्य विनिघ्नन्निशितैः शरैः॥२॥

युधिष्ठिरस्ततो राजा माद्रीपुत्रौ च पाण्डवौ ।
भीमसेनश्च बलवान्सात्यकिं पर्यवारयन्॥३॥

कर्णश्च शरवर्षेण गौतमश्च महारथः ।
दुर्योधनादयस्ते च शैनेयं पर्यवारयन्॥४॥

तां वृष्टिं सहसा राजन्नुत्थितां घोररूपिणीम् ।
वारयामास शैनेयो योधयंस्तान्महारथान्॥५॥

तेषामस्त्राणि दिव्यानि संहितानि महात्मनाम् ।
वारयामास विधिवद्दिव्यैरस्त्रैर्महामृधे॥६॥

क्रूरमायोधनं जज्ञे तस्मिन् राजसमागमे ।
रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तान्पशून्पुरा॥७॥

हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत ।
छत्राणां चापविद्धानां चामराणां च सञ्चयैः॥८॥

राशयः स्म व्यदृश्यन्त तत्र तत्र रणाजिरे ।
भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः॥९॥

सादिभिश्च हतैः शूरैः संकीर्णा वसुधाऽभवत् ।
बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम॥१०॥

चेष्टंतो विविधाश्चेष्टा व्यदृश्यन्त महाहवे ।
वर्तमाने तथा युद्धे घोरे देवासुरोपमे॥११॥

अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः ।
अभिद्रवत संयत्ताः कुंभयोनिं महारथाः॥१२॥

एषो हि पार्षतो वीरो भारद्वाजेन सङ्गतः ।
घटते च यथाशक्ति भारद्वाजस्य नाशने॥१३॥

एषो हीति सन्धिरार्षः ॥१३॥

यादृशानि हि रूपाणि दृश्यन्तेऽस्य महारणे ।
अद्य द्रोणं रणे क्रुद्धो घातयिष्यति पार्षतः॥१४॥

ते यूयं सहिता भूत्वा युध्यध्वं कुंभसंभवम् ।
युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः॥१५॥

अभ्यद्रवन्त संयत्ता भारद्वाजजिघांसवः ।
तान्समापततः सर्वान् भारद्वाजो महारथः॥१६॥

अभ्यवर्तत वेगेन मर्तव्यमिति निश्चितः ।
प्रयाते सत्यसन्धे तु समकम्पत मेदिनी॥१७॥

ववुर्वाताः सनिर्घातास्त्रासयाना वरूथिनीम् ।
पपात महती चोल्का आदित्यान्निश्चरन्त्युत॥१८॥

दीपयन्ती उभे सेने शंसन्तीव महद्भयम् ।
जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष॥१९॥

रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन् ।
हतौजा इव चाप्यासीद्भारद्वाजो महारथः॥२०॥

प्रास्फुरन्नयनं चास्य वामबाहुस्तथैव च ।
विमनाश्चाभवद्युद्धे दृष्ट्वा पार्पतमग्रतः॥२१॥

ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति ।
सुयुद्धेन ततः प्राणानुत्स्त्रष्टुमुपचक्रमे॥२२॥

ब्रह्मवादानां वेदतुल्यानां वचनानाम् । द्वितीयार्थे षष्ठी श्रुत्वेति शेषः ॥२२॥

ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः ।
निर्दहन् क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे॥२३॥

हत्वा विंशतिसाहस्त्रान् क्षत्रियानरिमर्दनः ।
दशायुतानि करिणामवधीद्विशिखैः शितैः॥२४॥

सोऽतिष्ठदाहवे यत्तो विधूमोऽग्निरिव ज्वलन् ।
क्षत्रियाणामभावाय ब्राह्ममस्त्रं समास्थितः॥२५॥

पाञ्चाल्यं विरथं भीमो हतसर्वायुधं बली ।
सुविषण्णं महात्मानं त्वरमाणः समभ्ययात्॥२६॥

ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः ।
अब्रवीदभिसंप्रेक्ष्य द्रोणमस्यन्तमन्तिकात्॥२७॥

न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान् ।
त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः॥२८॥

स तथोक्तो महाबाहुः सर्वभारसहं धनुः ।
अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम्॥२९॥

संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे ।
विवारयिषुराचार्यं शरवर्षैरवाकिरत्॥३०॥

तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ ।
उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः॥३१॥

स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे ।
निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः॥३२॥

सवसातीञ्शिबींश्चैव बाल्हीकान्कौरवानपि ।
रक्षिष्यमाणान्संग्रामे द्रोणं व्यधमदच्युतः॥३३॥

धृष्टद्युम्नस्तथा राजन् गभस्तिभिरिवांशुमान् ।
बभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः॥३४॥

तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः ।
मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात्॥३५॥

ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम् ।
शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत्॥३६॥

यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः ।
स्वकर्मभिरसन्तुष्टा न स्म क्षत्रं क्षयं व्रजेत्॥३७॥

अहिंसां सर्वभूतेषु धर्मं ज्यायस्तरं विदुः ।
तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः॥३८॥

श्वपाकवन्म्लेच्छगणान् हत्वा चान्यान्पृथग्विधान् ।
अज्ञानान्मूढवद्ब्रह्मन्पुत्र-दार-धनेप्सया॥३९॥

एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यया ।
स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम्॥४०॥

यस्यार्थे शस्त्रमादाय यमपेक्ष्य च जीवसि ।
स चाद्य पतितः शेते पृष्ठेनावेदितस्तव॥४१॥

धर्मराजस्य तद्वाक्यं नाभिशङ्कितुमर्हसि ।
एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्धनुः॥४२॥

सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभाषत ।
कर्ण कर्ण महेष्वास कृप दुर्योधनेति च॥४३॥

संग्रामे क्रियतां यत्नो ब्रवीम्येष पुनः पुनः ।
पाण्डवेभ्यः शिवं वोऽस्तु शस्त्रमभ्युत्सृजाम्यहम्॥४४॥

इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च ।
उत्सृज्य च रणे शस्त्रं रथोपस्थे निविश्य च॥४५॥

अभयं सर्वभूतानां प्रददौ योगमीयिवान् ।
तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः प्रतापवान्॥४६॥

सशरं तद्धनुर्घोरं संन्यस्याथ रथे ततः ।
खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात्॥४७॥

हाहाकृतानि भूतानि मानुषाणीतराणि च ।
द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम्॥४८॥

हाहाकारं भृशं चक्रुरहो धिगिति चाब्रुवन् ।
द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साङ्ख्यमास्थितः॥४९॥

तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः ।
पुराणं पुरुषं विष्णुं जगाम मनसा परम्॥५०॥

मुखं किञ्चित्समुन्नाम्य विष्टभ्य उरमग्रतः ।
निमीलिताक्षः सत्त्वस्थो निक्षिप्य हृदि धारणाम् ॥५१॥

मुखमिति उरम् उरः अग्रतः अधरहनोरग्रेण विष्टभ्य हृदि धारणं विषयाणां स्मरणं निक्षिप्य निरस्य अत एव सत्त्वस्थः रजस्तमोमलशून्ये शुद्धे सत्त्वे स्फटिककल्पे स्थितः । तत्र स्थितो भूत्वा ओमित्यनेन प्रतीकेन एकाक्षरं वासुदेवाख्यं ब्रह्म स्मरित्वा स्मृत्वा तद्बलेनाचार्यो दिवमाक्रामदिति सार्धद्वयोः संबन्धः ॥५१॥

ओमित्येकाक्षरं ब्रह्म ज्योतिर्भूतो महातपाः ।
स्मरित्वा देवदेवेशमक्षरं परमं प्रभुम्॥५२॥

दिवमाक्रामदाचार्यः साक्षात्सद्भिर्दुराक्रमाम् ।
द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथागते॥५३॥

एकाग्रमिव चासीच्च ज्योतिर्भिः पूरितं नभः ।
समपद्यत चार्काभे भारद्वाजदिवाकरे॥५४॥

निमेषमात्रेण च तत् ज्योतिरन्तरधीयत ।
आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम्॥५५॥

ब्रह्मलोकगते द्रोणे धृष्टद्युम्ने च मोहिते ।
वयमेव तदाऽद्राक्ष्म पञ्च मानुषयोनयः॥५६॥

योगयुक्तं महात्मानं गच्छन्तं परमां गतिम् ।
अहं धनञ्जयः पार्थो भारद्वाजस्य चात्मजः॥५७॥

वासुदेवश्च वार्ष्णेयो धर्मपुत्रश्च पाण्डवः ।
अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः॥५८॥

महिमानं महाराज योगयुक्तस्य गच्छतः ।
ब्रह्मलोकं महद्दिव्यं देवगुह्यं हि तत्परम्॥५९॥

गतिं परमिकां प्राप्तमजानन्तो नृयोनयः ।
नापश्यन्गच्छमानं हि तं सार्धमृषिपुङ्गवैः॥६०॥

आचार्यं योगमास्थाय ब्रह्मलोकमरिन्दमम् ।
वितुन्नाङ्गं शरव्रातैर्न्यस्तायुधमसृक्क्षरम्॥६१॥

धिक्कृतः पार्षतस्तं तु सर्वभूतैः परामृशत् ।
तस्य मूर्धानमालम्ब्य गतसत्त्वस्य देहिनः॥६२॥

किञ्चिदब्रुवतः कायाद्विचकर्तासिना शिरः ।
हर्षेण महता युक्तो भारद्वाजे निपातिते॥६३॥

सिंहनादरवं चक्रे भ्रामयन्खड्गमाहवे ।
आकर्णपलितश्यामो ‘वयसाऽशीतिपञ्चकः’॥६४॥

अशीतीनां पञ्चकमस्यास्तीति विग्रहः । चतुःशतवार्षिक इत्यर्थः । यद्वा तत्तत्कालोचितस्य पुरुषायुषस्य विंशत्या भक्तस्य भागत्रयोनवयस्क इत्यर्थः ॥६४॥

त्वत्कृते व्यचरत्सङ्ख्ये स तु षोडशवर्षवत् ।
उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनञ्जयः॥६५॥

जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज ।
न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह॥६६॥

उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाव्रजत् ।
क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः॥६७॥

धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम् ।
शोणितेन परिक्लिन्नो रथाद्भूमिमथापतत्॥६८॥

लोहिताङ्ग इवादित्यो दुर्धर्षः समपद्यत ।
एवं तं निहतं सङ्ख्ये ददृशे सैनिको जनः॥६९॥

धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरोऽहरत् ।
तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत्॥७०॥

ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः ।
पलायनकृतोत्साहा दुद्रुवुः सर्वतोदिशम्॥७१॥

द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत् ।
अहमेव तदाऽद्राक्षं द्रोणस्य निधनं नृप॥७२॥

ऋषेः प्रसादात्कृष्णस्य सत्यवत्याः सुतस्य च ।
विधूमामिह संयान्तीमुल्कां प्रज्वलितामिव॥७३॥

अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम् ।
हते द्रोणे निरुत्साहाः कुरुपाण्डवसृञ्जयाः॥७४॥

अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत ।
निहता हतभूयिष्ठाः संग्रामे निशितैः शरैः॥७५॥

तावका निहते द्रोणे गतासव इवाभवन् ।
पराजयमथावाप्य परत्र च महद्भयम्॥७६॥

परत्र च महद्भयमिति पलायनस्य परलोकविरुद्धत्वात् ॥७६॥

उभयेनैव ते हीना नाविन्दन् धृतिमात्मनः ।
अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः॥७७॥

उभयेन लोकद्वयेन हीना रहिताः ॥७७॥

नान्वगच्छन्महाराज कबन्धायुतसंकुले ।
पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः॥७८॥

बाणशंखरवांश्चक्रुः सिंहनादांश्च पुष्कलान् ।
भीमसेनस्ततो राजन् धृष्टद्युम्नश्च पार्षतः॥७९॥

वरूथिन्यामनृत्येतां परिष्वज्य परस्परम् ।
अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम्॥८०॥

भूयोऽहं त्वां विजयिनं परिष्वज्यामि पार्षत ।
सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे॥८१॥

एतावदुक्त्वा भीमस्तु हर्षेण महता युतः ।
बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः॥८२॥

तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि ।
क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः॥८३॥

पाण्डवास्तु जयं लब्ध्वा हृष्टा ह्यासन्विशांपते ।
अरिक्षयं च संग्रामे तेन ते सुखमाप्नुवन्॥८४॥

इति श्रीमहाभारते द्रोणपर्वणि द्रोणवधपर्वणि द्विनवत्यधिकशततमोऽध्यायः॥१९२॥
समाप्तं द्रोणवधपर्व

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in