द्रोणाभिषेकपर्व - १ - १संशप्तकवधपर्व - २ - २अभिमन्युवधपर्व - ३ - ३प्रतिज्ञापर्व - ४ - ४जयद्रथवधपर्व - ५ - ५घटोत्कचवधपर्व - ६ - ६द्रोणवधपर्व - ७ - ७नारायणास्त्रमोक्षपर्व - ८ - ८

नारायणास्त्रमोक्षपर्व - ८

त्रिनवत्यधिकशततमोऽध्यायः

सञ्जय उवाच। ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः ।
हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः॥१॥

तत इति ॥१॥

उदीर्णांश्च परान्दृष्ट्वा कम्पमानाः पुनः पुनः ।
अश्रुपूर्णेक्षणास्त्रस्ता दीनास्त्वासन्विशांपते॥२॥

विचेतसो हतोत्साहाः कश्मलाभिहतौजसः ।
आर्तस्वरेण महता पुत्रं ते पर्यवारयन्॥३॥

रजस्वला वेपमाना वीक्षमाणा दिशो दश ।
अनुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते॥४॥

स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव ।
अशक्नुवन्नवस्थातुमपायात्तनयस्तव॥५॥

क्षुत्पिपासापरिम्लानास्ते योधास्तव भारत ।
आदित्येनेव संतप्ता भृशं विमनसोऽभवन्॥६॥

भास्करस्येव पतनं समुद्रस्येव शोषणम् ।
विपर्यासं यथा मेरोर्वासवस्येव निर्जयम्॥७॥

अमर्षणीयं तदृष्ट्वा भारद्वाजस्य पातनम् ।
त्रस्तरूपतरा राजन् कौरवाः प्राद्रवन्भयात्॥८॥

गान्धारराजः शकुनिस्त्रस्तस्त्रस्ततरैः सह ।
हतं रुक्मरथं श्रुत्वा प्राद्रवत्सहितो रथैः॥९॥

वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम् ।
परिगृह्य महासेनां सूतपुत्रोऽपयाद्भयात्॥१०॥

रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम् ।
मद्राणामीश्वरःशल्यो वीक्षमाणोऽपयाद्भयात्॥११॥

हतप्रवीरैर्भूयिष्ठैर्ध्वजैर्बहुपताकिभिः ।
वृतः शारद्वतोऽगच्छत्कष्टं कष्टमिति बुवन्॥१२॥

भोजानीकेन शिष्टेन कलिङ्गारट्टबाल्हिकैः ।
कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः॥१३॥

पदातिगणसंयुक्तस्त्रस्तो राजन्भयार्दितः ।
उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम्॥१४॥

दर्शनीयो युवा चैच शौर्येण कृतलक्षणः ।
दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः॥१५॥

रथानामयुतं गृह्य त्रिसाहस्रं च दन्तिनाम् ।
वृषसेनो ययौ तूर्णं दृष्ट्वा द्रोणं निपातितम्॥१६॥

गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः ।
दुर्योधनो महाराज प्रायात्तत्र महारथः॥१७॥

संशप्तकगणाद्गृह्य हतशेषान्किरीटिना ।
सुशर्मा प्राद्रवद्राजन् दृष्ट्वा द्रोणं निपातितम्॥१८॥

गजान्रथान्समारुह्य व्युदस्य च हयाञ्जनाः ।
प्राद्रवन् सर्वतः सङ्ख्ये दृष्ट्वा रुक्मरथं हतम्॥१९॥

त्वरयन्तः पितॄनन्ये भ्रातॄनन्येऽथ मातुलान् ।
पुत्रानन्ये वयस्यांश्च प्राद्रवन्कुरवस्तदा॥२०॥

चोदयन्तश्च सैन्यानि स्वस्त्रीयांश्च तथाऽपरे ।
सम्बन्धिनस्तथाऽन्ये च प्राद्रवन्त दिशो दश॥२१॥

प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः ।
नेदमस्तीति मन्वाना हतोत्साहा हतौजसः॥२२॥

उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो ।
अन्योन्यं ते समाक्रोशन्सैनिका भरतर्षभ॥२३॥

तिष्ठ तिष्ठेति न च ते स्वयं तत्रावतस्थिरे ।
धुर्यानुन्मुच्य च रथाद्धतसुतात्स्वलंकृतान् ।
अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन्॥२४॥

द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि ।
प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात्॥२५॥

तस्यासीत्सुमहद्युद्धं शिखण्डिप्रमुखैर्गणैः ।
प्रभद्रकैश्च पाञ्चालैश्चेदिभिश्च सकेकयैः॥२६॥

हत्वा बहुविधाः सेनाः पाण्डूनां युद्धदुर्मदः ।
कथञ्चित्सङ्कटान्मुक्तो मत्तद्विरविक्रमः॥२७॥

द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम् ।
दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम्॥२८॥

किमियं द्रवते सेना त्रस्तरूपेव भारत ।
द्रवमाणां च राजेन्द्र नावस्थापयसे रणे॥२९॥

त्वं चापि न यथा पूर्वं प्रकृतिस्थो नराधिप ।
कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिव॥३०॥

अन्येष्वपि च युद्धेषु नैव सेनाऽद्रवत्तदा ।
कच्चित्क्षेमं महाबाहो तव सैन्यस्य भारत॥३१॥

कस्मिन्निदं हते राजन् रथसिंहे बलं तव ।
एतामवस्थां संप्राप्तं तन्ममाचक्ष्व कौरव॥३२॥

तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम् ।
घोरमप्रियमाख्यातुं नाशक्नोत्पार्थिवर्षभः॥३३॥

भिन्ना नौरिव ते पुत्रो मग्नः शोकमहार्णवे ।
बाष्पेणापिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम्॥३४॥

ततः शारद्वतं राजा सव्रीडमिदमब्रवीत् ।
शंसात्र भद्रं ते सर्वं यथा सैन्यमिदं द्रुतम्॥३५॥

अथ शारद्वतो राजन्नार्तिमार्च्छन्पुनः पुनः ।
शशंस द्रोणपुत्राय यथा द्रोणो निपातितः॥३६॥

कृप उवाच। वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम् ।
प्रावर्तयाम संग्रामं पञ्चालैरेव केवलम्॥३७॥

ततः प्रवृत्ते संग्रामे विमिश्राः कुरुसोमकाः ।
अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन्॥३८॥

वर्तमाने तथा युद्धे क्षीयमाणेषु संयुगे ।
धार्तराष्ट्रेषु संक्रुद्धः पिता तेऽस्त्रमुदैरयत्॥३९॥

ततो द्रोणो ब्राह्ममस्त्रं विकुर्वाणो नरर्षभः ।
व्यहनच्छात्रवान् भल्लैः शतशोऽथ सहस्रशः॥४०॥

पाण्डवाः केकया मत्स्याः पञ्चालाश्च विशेषतः ।
सङ्ख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः॥४१॥

सहस्रं नरसिंहानां द्विसाहस्रं च दन्तिनाम् ।
द्रोणो ब्रह्मास्त्रयोगेन प्रेषयामास मृत्यवे॥४२॥

आकर्णपलितःश्यामो ‘वयसाऽशीतिपञ्चकः’ ।
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत्॥४३॥

क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु ।
अमर्षवशमापन्नाः पञ्चाला विमुखाऽभवन्॥४४॥

तेषु किञ्चित्प्रभग्नेषु विमुखेषु सपत्नजित् ।
दिव्यमस्त्रं विकुर्वाणो बभूवार्क इवोदितः॥४५॥

स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान् ।
मध्यं गत इवादित्यो दुष्प्रेक्ष्यस्ते पिताऽभवत्॥४६॥

ते दह्यमाना द्रोणेन सूर्येणेव विराजता ।
दुग्धवीर्या निरुत्साहा बभूवुर्गतचेतसः॥४७॥

तान् दृष्ट्वा पीडितान्बाणैर्द्रोणेन मधुसूदनः ।
जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत्॥४८॥

नैष जातु नरैः शक्यो जेतुं शस्त्रभृतां वरः ।
अपि वृत्रहणा सङ्ख्ये रथयूथपयूथपः॥४९॥

ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः ।
यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः॥५०॥

अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम ।
हतं तं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः॥५१॥

एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनञ्जयः ।
अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः॥५२॥

भीमसेनस्तु सव्रीडमन्ब्रवीत् पितरं तव ।
अश्वत्थामा हत इति तं नाबुध्यत ते पिता॥५३॥

स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत ।
हतं वाप्यहतं वाऽऽजौ त्वां पिता पुत्रवत्सलः॥५४॥

तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः ।
अश्वत्थामानमायोधे हतं दृष्ट्वा महागजम्॥५५॥

भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः ।
उपसृत्य तदा द्रोणमुच्चैरिदमुवाच ह॥५६॥

यस्यार्थे शस्त्रमादत्से यमवेक्ष्य च जीवसि ।
पुत्रस्ते दयितो नित्यं सोऽश्वत्थामा निपातितः॥५७॥

शेते विनिहतो भूमौ वने सिंहशिशुर्यथा॥५८॥

जानन्नप्यनृतस्याथ दोषान्स द्विजसत्तमम् ।
अव्यक्तमब्रवीद्राजा हतः कुञ्जर इत्युत॥५९॥

स त्वां निहतमाक्रन्दे श्रुत्वा संतापतापिप्तः ।
नियम्य दिव्यान्यस्त्राणि नायुध्यत यथा पुरा॥६०॥

तं दृष्ट्वा परमोद्विग्नं शोकातुरमचेतसम् ।
पाञ्चालराजस्य सुतः क्रूरकर्मा समाद्रवत्॥६१॥

तं दृष्ट्वा विहितं मृत्युं लोकतत्त्वविचक्षणः ।
दिव्यान्यस्त्राण्यथोत्सृज्यरणे प्रायमुपाविशत्॥६२॥

ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा ।
पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः॥६३॥

न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन् ।
तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत्॥६४॥

उद्यम्य त्वरितो बाहुं ब्रुवाणश्च पुनः पुनः ।
जीवन्तमानयाचार्यं मा वधीरिति धर्मवित्॥६५॥

तथा निवार्यमाणेन कौरवैरर्जुनेन च ।
हत एव नृशंसेन पिता तव नरर्षभ॥६६॥

सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः ।
वयं चापि निरुत्साहा हते पितरि तेऽनघ॥६७॥

सञ्जय उवाच। तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे ।
क्रोधमाहारयत्तीव्रं पदाहत इवोरगः॥६८॥

ततः क्रुद्धो रणे द्रौणिर्भृशं जज्वाल मारिष ।
यथेन्धनं महत्प्राप्य प्राज्वलद्धव्यवाहनः॥६९॥

तलं तलेन निष्पिष्य दन्तैर्दन्तानुपास्पृशत् ।
निःश्वसन्नुरगो यद्वल्लोहिताक्षोऽभवत्तदा॥७०॥

इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वण्यश्वत्थामक्रोधे त्रिनवत्यधिकशततमोऽध्यायः॥१९३॥
चतुर्नवत्यधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन सञ्जय ।
ब्रह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत्॥१॥

अधर्मर्णेति ॥१॥

मानवं वारुणाग्नेयं ब्रह्ममस्त्रं च वीर्यवान् ।
ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम्॥२॥

तमधर्मेण धर्मिष्टं धृष्टद्युम्नेन संयुगे ।
श्रुत्वा निहतमाचार्यं सोऽश्वत्थामा किमब्रवीत्॥३॥

येन रामादवाप्येह धनुर्वेदं महात्मना ।
प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुणकाङ्क्षिणा॥४॥

एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम् ।
इच्छन्ति पुरुषाः पुत्रं लोके नान्यं कथञ्चन॥५॥

आचार्याणां भवन्त्येव रहस्यानि महात्मनाम् ।
तानि पुत्राय वा दद्युः शिष्यायानुगताय वा॥६॥

स शिष्यः प्राप्य तत्सर्वं सविशेषं च सञ्जय ।
शूरः शारद्वतीपुत्रः सङ्ख्ये द्रोणादनन्तरः॥७॥

रामस्य तु समः शस्त्रे पुरंदरसमो युधि ।
कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ॥८॥

महीधरसमः स्थैर्ये तेजसाऽग्निसमो युवा ।
समुद्र इव गाम्भीर्ये क्रोधे चाशीविषोपमः॥९॥

स रथी प्रथमो लोके दृढधन्वा जितक्लमः ।
शीघ्रोऽनिल इवाक्रन्दे चरन् क्रुद्ध इवान्तकः॥१०॥

अस्यता येन संग्रामे धरण्यभिनिपीडिता ।
यो न व्यथति संग्रामे वीरः सत्यपराक्रमः॥११॥

वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः ।
महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा॥१२॥

तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे ।
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्॥१३॥

धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना ।
यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत्॥१४॥

तं नृशंसेन पापेन क्रूरेणादीर्घदर्शिना ।
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्॥१५॥

इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि धृतराष्ट्रप्रश्ने चतुर्नवत्यधिकशततमोऽध्यायः॥१९४॥
पञ्चनवत्यधिकशततमोऽध्यायः

सञ्जय उवाच। छद्मना निहतं श्रुत्वा पितरं पापकर्मणा ।
बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ॥१॥

छद्मनेति ॥१॥

तस्य क्रुद्धस्य राजेन्द्र वपुर्दीप्तमदृश्यत ।
अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये॥२॥

अश्रुपूर्णे ततो नेत्रे व्यपमृज्य पुनः पुनः ।
उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः॥३॥

पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो नियातितः ।
धर्मध्वजवता पापं कृतं तद्विदितं मम॥४॥

धर्मध्वजवता दांभिकेन तत् अनृतवचनरूपं पापम् ॥४॥

अनार्यं सुनृशंसं च धर्मपुत्रस्य मे श्रुतम् ।
युद्धेष्वपि प्रवृत्तानां ध्रुवं जयपराजयौ॥५॥

अनार्यं नीचयोग्यं कर्म धर्मपुत्रस्येत्युपालंभः ॥५॥

द्वयमेतद्भवेद्राजन् वधस्तत्र प्रशस्यते ।
न्यायवृत्तो वधो यस्तु संग्रामे युध्यतो भवेत्॥६॥

न स दुःखाय भवति तथा दृष्टो हि स द्विजैः ।
गतः स वीरलोकाय पिता मम न संशयः॥७॥

न शोच्यः पुरुषव्याघ्र यस्तदा निधनं गतः ।
यत्तु धर्मप्रवृत्तः सन्केशग्रहणमाप्तवान्॥८॥

पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति ।
मयि जीवति यत्तातः केशग्रहमवाप्तवान्॥९॥

कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम् ।
कामात्क्रोधादविज्ञानाद्धर्षाद्बाल्येन वा पुनः॥१०॥

बाल्येन चापलेन ॥१०॥

विधर्मकाणि कुर्वन्ति तथा परिभवन्ति च ।
तदिदं पार्षतेनेह महदाधर्मिकं कृतम्॥११॥

विधर्मकाणि धर्मविरुद्धानि ॥११॥

अवज्ञाय च मां नूनं नृशंसेन दुरात्मना ।
तस्यानुबन्धं द्रष्टाऽसौ धृष्टद्युम्नः सुदारुणम्॥१२॥

अनुबन्धं फलम् ॥१२॥

अकार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः ।
यो ह्यसौ छद्मनाऽऽचार्यं शस्त्रं संन्यासयत्तदा॥१३॥

पाण्डवश्च अनुबन्धं द्रष्टेत्यनुषज्यते ॥१३॥

तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम् ।
शपे सत्येन कौरव्य इष्टापूर्तेन चैव ह॥१४॥

अहत्वा सर्वपञ्चालान् जीवेयं न कथञ्चन ।
सर्वोपायैर्यतिष्यामि पञ्चालानामहं वधे॥१५॥

धृष्टद्युम्नं च समरे हन्ताऽहं पापकारिणम् ।
कर्मणा येन तेनेह मृदुना दारुणेन च॥१६॥

पञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव ।
यदर्थं पुरुषव्याघ्र पुत्रानिच्छन्ति मानवाः॥१७॥

प्रेत्य चेह च संप्राप्तास्त्रायन्ते महतो भयात् ।
पित्रा तु मम साऽवस्था प्राप्ता निर्बन्धुना यथा॥१८॥

मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति ।
धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक् पराक्रमम्॥१९॥

यं स्म द्रोणः सुतं प्राप्य केशग्रहमवाप्तवान् ।
स तथाऽहं करिष्यामि यथा भरतसत्तम॥२०॥

परलोकगतस्यापि भविष्याम्यनृणः पितुः ।
आर्येण हि न वक्तव्या कदाचित्स्तुतिरात्मनः॥२१॥

पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम् ।
अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः॥२२॥

मृद्नतः सर्वसैन्यानि युगान्तमिव कुर्वतः ।
न हि देवा न गन्धर्वा नासुरा न च राक्षसाः॥२३॥

अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभाः ।
मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वाऽस्त्रवित्क्वचित्॥२४॥

अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान् ।
प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः॥२५॥

मयूखानां मयूखवताम् ॥२५॥

भृशमिष्वसनादद्य मत्प्रयुक्ता महाहवे ।
दर्शयन्तः शरा वीर्यं प्रमथिष्यन्ति पाण्डवान्॥२६॥

अद्य सर्वा दिशो राजन्धाराभिरिव संकुलाः ।
आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह॥२७॥

विकिरञ्छरजालानि सर्वतो भैरवस्वनान् ।
शत्रून्निपातयिष्यामि महावात इव द्रुमान्॥२८॥

न हि जानाति बीभत्सुस्तदस्त्रं न जनार्दनः ।
न भीमसेनो न यमौ न च राजा युधिष्ठिरः॥२९॥

न पार्षतो दुरात्माऽसौ न शिखण्डी न सात्यकिः ।
यदिदं मयि कौरव्यं सकल्यं सनिवर्तनम्॥३०॥

कल्यः प्रयोगः निवर्तनमुपसंहारः ॥३०॥

नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम् ।
उपहारः पुरा दत्तो ब्रह्मरूप उपस्थितः॥३१॥

ब्रह्मरूपो वेदरूपः वैदिकैर्मन्त्रैःस्तुतवानित्यर्थः । उपस्थित इति तदन्यस्योपहारस्य तदानीमभावो दर्शितः ॥३१॥

तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ ।
वव्रे पिता मे परममस्त्रं नारायणं ततः॥३२॥

अथैनमब्रवीद्राजन् भगवान्देवसत्तमः ।
भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित् ।
न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथञ्चन ।
न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते॥३४॥

न चैतच्छक्यते ज्ञातुं केन वध्येदिति प्रभो ।
अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रयोजयेत्॥३५॥

अथ संख्ये रथस्यैव शस्त्राणां च विसर्जनम् ।
प्रयाचतां च शत्रूणां गमनं शरणस्य च॥३६॥

रथस्यैव विसर्जनं शस्त्राणामपि विसर्जनं च प्रयाचतां मा वधीरिति याचमानानां शरणस्य गमनं त्वमेव शरणं न इति कीर्तनं च ॥३६॥

एते प्रशमने योगा महास्त्रस्य परंतप ।
सर्वथा पीडितो हिंस्यादवध्यान्पीडयन् रणे॥३७॥

पीडितः पीडितं शस्त्रान्तरेण बाधितं पुंस्त्वमार्षम् ॥३७॥

तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः ।
त्वं वधिष्यसि सर्वाणि शस्त्रवर्षाण्यनेकशः॥३८॥

अनेनास्त्रेण संग्रामे तेजसा च ज्वलिष्यसि ।
एवमुक्त्वा स भगवान् दिवमाचक्रमे प्रभुः॥३९॥

एतन्नारायणादस्त्रं तत्प्राप्तं पितृबन्धुना ।
तेनाहं पाण्डवांश्चैव पञ्चालान्मत्स्यकेकयान्॥४०॥

पितृ-बन्धुना मया ॥४०॥

विद्रावयिष्यामि रणे शचीपतिरिवासुरान् ।
यथायथाऽहमिच्छेयं तथा भूत्वा शरा मम॥४१॥

निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत ।
यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः॥४२॥

अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् ।
परश्वधांश्च निशितानुत्स्रक्ष्येऽहमसंशयम्॥४३॥

सोऽहं नारायणास्त्रेण महता शत्रुतापनः ।
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान्॥४४॥

मित्र-ब्रह्म-गुरुद्रोही जाल्मकः सुविगर्हितः ।
पाञ्चालापस‌श्चाद्य न मे जीवन्विमोक्ष्यते॥४५॥

जाल्मको मूर्खः ॥४५॥

तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी ।
ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः॥४६॥

भेरीश्चाभ्यहनन्हृष्टा डिण्डिभांश्च सहस्रशः ।
तथा ननाद वसुधा खुरनेमिप्रपीडिता॥४७॥

स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत् ।
तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम्॥४८॥

समेत्य रथिनां श्रेष्ठाः सहिताश्चाप्यमन्त्रयन् ।
तथोक्त्वा द्रोणपुत्रस्तु वार्युपस्पृश्य भारत॥४९॥

प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा॥५०॥

इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि अश्वत्थामक्रोधे पञ्चनवत्यधिकशततमोऽध्यायः॥१९५॥
षण्णवत्यधिकशततमोऽध्यायः

सञ्जय उवाच। प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे प्रभो ।
प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान्॥१॥

प्रादुरिति । सपृषतः सजलबिन्दुः अनभ्रे अप्रावृषि काले ॥१॥

चचाल पृथिवी चापि चुक्षुभे च महोदधिः ।
प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः॥२॥

शिखराणि व्यशीर्यन्त गिरीणां तत्र भारत ।
अपसव्यं मृगाश्चैव पाण्डुसेनां प्रचक्रिरे॥३॥

तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत् ।
संपतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत्॥४॥

देवदानवगन्धर्वास्त्रस्तास्त्वासन्विशांपते ।
कथंकथाऽभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत्॥५॥

कथंकथा कथं कर्तव्यं कथं कर्तव्यमित्येवं शब्दः ॥५॥

व्यथिताः सर्वराजानस्त्रस्ताश्चासन्विशांपते ।
तद्दृष्ट्वा घोररूपं वै द्रौणेरस्त्रं भयावहम्॥६॥

धृतराष्ट्र उवाच। निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे ।
भृशं शोकाभितप्तेन पितुर्वधममृष्यता॥७॥

कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे ।
को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व सञ्जय॥८॥

रक्षणे मन्त्रः क आसीदिति संबन्धः ॥८॥

सञ्जय उवाच। प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान् युधिष्ठिरः ।
पुनश्च तुमुलं शब्दं श्रुत्वाऽर्जुनमथाब्रवीत्॥९॥

युधिष्ठिर उवाच। आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे ।
निहते वज्रहस्तेन यथा वृत्रे महासुरे॥१०॥

नाशंसन्तो जयं युद्धे दीनात्मानो धनञ्जय ।
आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो रणात्॥११॥

केचिद्भ्रान्तै रथैस्तूर्णं निहतैः पार्ष्णियन्तृभिः ।
विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः॥१२॥

भग्ननीडैराकुलाश्वैः प्रारुह्यान्यान्विचेतसः ।
भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथान्॥१३॥

भग्ननीडैरिति । स्पार्हैरिति पाठेऽतिस्पृहणीयैः ॥१३॥

भग्नाक्षयुगचक्रैश्च व्याकृष्यन्त समन्ततः ।
रथान्विशीर्णानुत्सृज्य पद्भिः केचिच्चविद्रुताः॥१४॥

हयपृष्ठगताश्चान्ये कृष्यन्तेऽर्धच्युतासनाः ।
गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः॥१५॥

शरातैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश ।
विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः॥१६॥

संच्छिन्ना नेमिभिश्चैव मृदिताश्च हयद्विपैः ।
क्रोशन्तस्तात पुत्रोत पलायन्ते परे भयात्॥१७॥

नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः ।
पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान्॥१८॥

जलेन क्लेदयन्त्यन्ये विमुच्य कवचान्यपि ।
अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम्॥१९॥

पुनरावर्तितं केन यदि जानासि शंस मे ।
हयानां ह्रेषतां शब्दः कुञ्जराणां च बृंहताम्॥२०॥

रथनेमिस्वनैश्चात्र विमिश्रः श्रूयते महान् ।
एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे॥२१॥

मुहुर्मुहुरुदीर्यन्ते कम्पयन्त्यपि मामकान् ।
य एष तुमुलः शब्दः श्रूयते लोमहर्षणः॥२२॥

सेन्द्रानप्येष लोकांस्त्रीन् ग्रसेदिति मतिर्मम ।
मन्ये वज्रधरस्यैष निनादो भैरवस्वनः॥२३॥

द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः ।
प्रहृष्टरोमकूपाश्च संविग्ना रथपुङ्गवाः॥२४॥

धनञ्जय गुरुं श्रुत्वा तत्र नादं सुभीषणम् ।
क एष कौरवान्दीर्णानवस्थाप्य महारथः॥२५॥

निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा ।
अर्जुन उवाच। उद्यम्यात्मानमुग्राय कर्मणे वीर्यमास्थिताः॥२६॥

धमन्ति कौरवाःशंखान्यस्य वीर्यं समाश्रिताः ।
यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते॥२७॥

धार्तराष्ट्रानवस्थाप्य क एष नदतीति हि ।
ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम्॥२८॥

व्याघ्रास्यमुग्रकर्माणं कुरूणामभयङ्करम् ।
यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम्॥२९॥

यस्मिन्निति । दशशतमित्यनेन सर्वगोधनं ददाविति ज्ञेयम् । अन्यथा एकधेन्वर्थं द्रुपदं प्रति द्रोणगमनस्यासंभवः । यद्वा भाविनीं संपदमभिलक्ष्यैतद्दानं द्रष्टव्यं पुत्रोत्पत्तिकाले तस्य निर्धनत्वोक्तेः ॥२९॥

ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति ।
जातमात्रेण वीरेण येनोच्चैःश्रवसा यथा॥३०॥

ह्रेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः ।
तच्छ्रुत्वाऽन्तर्हितं भूतं नाम तस्याकरोत्तदा॥३१॥

अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव ।
यो ह्यनाथ इवाक्रम्य पार्षतेन हतस्तथा॥३२॥

कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः ।
गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत्॥३३॥

तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः ।
उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात्॥३४॥

धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः ।
चिरं स्थास्यति चाकीर्तिस्त्रैलोक्ये सचराचरे॥३५॥

रामे वालिवधाद्यद्वदेवं द्रोणे निपातिते ।
सर्वधर्मोपपन्नोऽयं स मे शिष्यश्च पाण्डवः॥३६॥

नायं वदति मिथ्येति प्रत्ययं कृतवांस्त्वयि ।
स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम्॥३७॥

सत्यं कञ्चुकं सत्याभासमनृतम् ॥३७॥

आचार्य उक्तो भवता हतः कुञ्जर इत्युत ।
ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः॥३८॥

आसीत्सुविह्वलो राजन्यथा दृष्टस्त्वया विभुः ।
स तु शोकसमाविष्टो विमुखः पुत्रवत्सलः॥३९॥

शाश्वतं धर्ममुत्सृज्य गुरुः शस्त्रेण घातितः ।
न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान्॥४०॥

रक्षत्विदानीं सामात्यो यदि शक्तोऽसि पार्षतम् ।
ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना॥४१॥

सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम् ।
सौहार्दं सर्वभूतेषु यः करोत्यतिमानुषः ।
सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे॥४२॥

विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि ।
अपाकीर्य स्वयं धर्मं शिष्येण निहतो गुरुः॥४३॥

यदा गतं वयो भूयः शिष्टमल्पतरं च नः ।
तस्येदानीं विकारोऽयमधर्मोऽयं कृतो महान्॥४४॥

पितेव नित्यं सौहार्दात्पितेवं हि च धर्मतः ।
सोल्पकालस्य राज्यस्य कारणाद्धातितो गुरुः॥४५॥

सौहार्दाद्धर्मतो गुरुत्वाद्वा द्विगुणः पितुरित्यर्थः ॥४५॥

धृतराष्ट्रेण भीष्माय द्रोणाय च विशांपते ।
विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः॥४६॥

संप्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः ।
अवृणीत सदा पुत्रान्मामेवाभ्यधिकं गुरुः॥४७॥

अवेक्षमाणस्त्वां मां च न्यस्तास्त्रश्चाहवे हतः ।
न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः॥४८॥

तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः ।
कृतो ह्यनार्यैरस्माभी राज्यार्थे लुब्धबुद्धिभिः॥४९॥

अहो बत महत्पापं कृतं कर्म सुदारुणम् ।
यद्राज्यसुखलोभेन द्रोणोऽयं साधुघातितः॥५०॥

पुत्रान्भ्रातॄन्पिन्तॄदाराञ्जीवितं चैव वासविः ।
त्यजेत्सर्वं मम प्रेम्णा जानात्येवं हि मे गुरुः॥५१॥

स मया राज्यकामेन हन्यमानो ह्युपेक्षितः ।
तस्माद‌र्वाक्शिराराजन्प्राप्तोस्मि नरकं प्रभो॥५२॥

ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं महामुनिम् ।
घातयित्वाऽद्य राज्यार्थे मृतं श्रेयो न जीवितम् ।
॥५३॥

इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि अर्जुनवाक्ये षण्णवत्यधिकशततमोऽध्यायः॥१९६॥
सप्तनवत्यधिकशततमोऽध्यायः

सञ्जय उवाच। अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः ।
अप्रियं वा प्रियं वापि महाराज धनञ्जयम्॥१॥

अर्जुनस्येति सांगावेदा इति चाध्यायौ स्पष्टार्थौ ॥१॥

ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत ।
कुत्सयन्निव कौन्तेयमर्जुनं भरतर्षभ॥२॥

सुनिर्यथाऽरण्यगतो भाषते धर्मसंहितम् ।
न्यस्तदण्डो यथा पार्थ ब्राह्मणः संशितव्रतः॥३॥

क्षतत्राता क्षताज्जीवन् क्षंता स्त्रीष्वपि साधुषु ।
क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियः॥४॥

स भवान् क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः ।
अविपश्चिद्यथा वाचं व्याहरन्नाद्य शोभसे॥५॥

पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः ।
न चाति वर्तसे धर्मं वेलामिव महोदधिः॥६॥

न पूजयेत्त्वां को न्वद्य यन्त्रयोदशवार्षिकम् ।
अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकांक्षसे॥७॥

दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते ।
आनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत॥८॥

यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः ।
द्रौपदी च परामृष्टा सभामानीय शत्रुभिः॥९॥

वनं प्रवाजिताश्चास्म वल्कलाजिनवाससः ।
अनर्हमाणास्तं भावं त्रयोदश समाः परैः॥१०॥

एतान्यमर्षस्थानानि मर्षितानि मयाऽनघ ।
क्षत्रधर्मप्रसक्तेन सर्वमेतद‌नुष्ठितम्॥११॥

तमधर्ममपाकृष्टं स्मृत्वाऽद्य सहितस्त्वया ।
सानुबन्धान्हनिष्यामि क्षुद्रान् राज्यहरानहम्॥१२॥

त्वया हि कथितं पूर्वं युद्धायाभ्यागता वयम् ।
घटामहे यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे॥१३॥

धर्ममन्विच्छसि ज्ञातुं मिथ्यावचनमेव ते ।
भयार्दितानामस्माकं वाचा मर्माणि कृंतसि॥१४॥

वपन् व्रणे क्षारमिव क्षतानां शत्रुकर्शन ।
विदीर्यते मे हृदयं त्वया वाक्शल्यपीडितम्॥१५॥

अधर्ममेनं विपुलं धार्मिकः सन्न बुद्ध्यसे ।
यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि॥१६॥

वासुदेवे स्थिते चापि द्रोणपुत्रं प्रशंससि ।
यः कलां षोडशीं पूर्णां धनञ्जय न तेऽर्हति॥१७॥

स्वयमेवात्मनो दोषान् ब्रुवाणः किन्न लज्जसे ।
दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान्॥१८॥

आविध्यैतां गदां गुर्वीं भीमां काञ्चनमालिनीम् ।
गिरिप्रकाशान् क्षितिजान् भञ्जेयमनिलो यथा॥१९॥

द्रावयेयं शरैश्चापि सेन्द्रान्देवान्समागतान् ।
सराक्षसगणान्पार्थ सासुरोरगमानवान्॥२०॥

स त्वमेवंविधं जानन् भ्रातरं मां नरर्षभ ।
द्रोणपुत्राद्भयं कर्तुं नार्हस्यमितविक्रम॥२१॥

अथवा तिष्ठ बीभत्सो सह सर्वैः सहोदरैः ।
अहमेनं गदापाणिर्जेष्याम्येको महाहवे॥२२॥

ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत् ।
संक्रुद्धमिव नर्दन्तं हिरण्यकशिपुर्हरिम्॥२३॥

धृष्टद्युम्न उवाच। बीभत्सो विप्रकर्माणि विदितानि मनीषिणाम् ।
याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ॥२४॥

षष्ठमध्ययनं नाम, तेषां कस्मिन्प्रतिष्ठितः ।
हतो द्रोणो मया ह्येवं किं मां पार्थ विगर्हसे॥२५॥

अपक्रान्तः स्वधर्माच्च क्षात्रधर्मं व्यपाश्रितः ।
अमानुषेण हन्त्यस्मानस्त्रेण क्षुद्रकर्मकृत्॥२६॥

तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम् ।
माययैव निहन्याद्यो न युक्तं पार्थ तत्र किम्॥२७॥

तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा ।
कुरुते भैरवं नादं तत्र किं मम हीयते॥२८॥

न चाद्भुतमिदं मन्ये यद्द्रौणिर्युद्धसंज्ञया ।
घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन्॥२९॥

यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम् ।
तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात्॥३०॥

यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणे ।
तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनञ्जय॥३१॥

यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्च्छितः ।
सर्वोपायैर्न स कथं वध्यः पुरुषसत्तमः॥३२॥

विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम् ।
जानन्धर्मार्थतत्त्वज्ञ किं मामर्जुन गर्हसे॥३३॥

नृशंसः स मयाऽऽक्रम्य रथ एव निपातितः ।
तन्मामनिंद्यं बीभत्सो किमर्थं नाभिनन्दसे॥३४॥

कालानलसमं पार्थ ज्वलनार्कविषोपमम् ।
भीमं द्रोणशिरश्छिन्नं न प्रशंसास मे कथम्॥३५॥

योऽसौ ममैव नान्यस्य बान्धवान् युधि जघ्निवान् ।
छित्त्वाऽपि तस्य मूर्धानं नैवास्मि विगतज्वरः॥३६॥

तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया ।
निषाद‌विषये क्षिप्तं जयद्रथारीरो यथा॥३७॥

अथावधश्च शत्रूणामधर्मः श्रूयतेऽर्जुन ।
क्षत्रियस्य हि धर्मोऽयं हन्याद्धन्येत वा पुनः॥३८॥

स शत्रुर्निहतः संख्ये मया धर्मेण पाण्डव ।
यथा त्वया हतः शूरो भगदत्तः पितुः सखा॥३९॥

पितामहं रणे हत्वा मन्यसे धर्ममात्मनः ।
मया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे॥४०॥

संबन्धावनतं पार्थ न मां त्वं वक्तुमर्हसि ।
स्वगात्रकृतसोपानं निषण्णमिव दन्तिनम्॥४१॥

क्षमामि ते सर्वमेव वाग्व्यतिक्रममर्जुन ।
द्रौपद्या द्रौपदेयानां कृते नान्येन हेतुना॥४२॥

कुलक्रमागतं वैरं ममाचार्येण विश्रुतम् ।
तथा जानात्ययं लोको न यूयं पाण्डुनन्दनाः॥४३॥

नानृती पाण्डवो ज्येष्ठो नाहं वाऽधार्मिकोऽर्जुन ।
शिष्यद्रोही हतः पापो युध्यस्व विजयस्तव॥४४॥

इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि धृष्टद्युम्नवाक्ये सप्तनवत्यधिकशततमोऽध्यायः॥१९७॥
अष्टनवत्यधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। साङ्गा वेदा यथान्यायं येनाधीता महात्मना ।
यस्मिन्साक्षाद्धनुर्वेदो ह्रीनिषेवे प्रतिष्ठितः॥१॥

साङ्गा इति ॥१॥

यस्य प्रसादात्कुर्वन्ति कर्माणि पुरुषर्षभाः ।
अमानुषाणि संग्रामे देवैरसुकराणि च॥२॥

तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मणा ।
नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना॥३॥

नामर्षं तत्र कुर्वन्ति धिक्क्षात्रं धिगमर्षिताम् ।
पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः॥४॥

श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व सञ्जय ।
सञ्जय उवाच। श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः॥५॥

तूष्णीं बभूवू राजानः सर्व एव विशांपते ।
अर्जुनस्तु कटाक्षेण जिह्मं विप्रेक्ष्य पार्षतम्॥६॥

स बाष्पमतिनिःश्वस्य धिग्धिगित्येव चाब्रवीत् ।
युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथाऽपरे॥७॥

आसन् सुव्रीडिता राजन् सात्यकिस्त्वब्रवीदिदम् ।
नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम्॥८॥

भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् ।
एते त्वां पाण्डवाः सर्वे कुत्सयन्ति विवित्सया॥९॥

कर्मणा तेन पापेन श्वपाकं ब्राह्मणा इव ।
एतत्कृत्वा महत्पापं निन्दितः सर्वसाधुभिः॥१०॥

न लज्जसे कथं वक्तुं समितिं प्राप्य शोभनाम् ।
कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते॥११॥

गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे ।
वाच्यस्त्वमसि पार्थैश्च सर्वैश्चांधकवृष्णिभिः॥१२॥

यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि ।
अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन्॥१३॥

वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता ।
कस्त्वेतद्व्यवसेदार्यस्त्वदन्यः पुरुषाधम॥१४॥

निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः ।
सप्तावरे तथा पूर्वे बान्धवास्ते निमज्जिताः॥१५॥

यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् ।
उक्तवांश्चापि यत्पार्थे भीष्मं प्रति नरर्षभ॥१६॥

तथाऽन्तो विहितस्तेन स्वयमेव महात्मना ।
तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः॥१७॥

नान्यः पाञ्चाल्यपुत्रेभ्यो विद्यते भुवि पापकृत् ।
स चापि सृष्टः पित्रा ते भीष्मस्यांतकरः किल॥१८॥

शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः ।
पञ्चालाश्चलिता धर्मात्क्षुद्रा मित्र-गुरुद्रुहः॥१९॥

त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः ।
पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि॥२०॥

शिरस्ते पोथयिष्यामि गदया वज्रकल्पया ।
त्वां च ब्रह्महणं दृष्ट्वा जनः सूर्यमवेक्षते॥२१॥

ब्रह्महत्या हि ते पापं प्रायश्चित्तार्थमात्मनः ।
पाञ्चालक सुदुर्वृत्त ममैव गुरुमग्रतः॥२२॥

गुरोर्गुरुं च भूयोऽपि क्षिपन्नैव हि लज्जसे ।
तिष्ठ तिष्ठ सहस्वैकं गदापातमिमं मम॥२३॥

तव चापि सहिष्येऽहं गदापाताननेकशः ।
सात्त्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम्॥२४॥

संरब्धं सात्यकिं प्राह संक्रुद्धः प्रहसन्निव ।
धृष्टद्युम्न उवाच। श्रूयते श्रूयते चेति क्षम्यते चेति माधव॥२५॥

सदाऽनार्योऽशुभः साधुं पुरुषं क्षेप्तुमिच्छति ।
क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम्॥२६॥

क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते ।
स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः॥२७॥

आकेशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि ।
यः स भूरिश्रवाश्छिन्नभुजः प्रायगतस्त्वया॥२८॥

वार्यमाणेन हि हतस्ततः पापतरं नु किम् ।
गाहमानो मया द्रोणो दिव्येनास्त्रेण संयुगे॥२९॥

विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम् ।
अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम्॥३०॥

छिन्नबाहुं परैर्हन्यात्सात्यके स कथं वदेत् ।
निहत्य त्वां पदा भूमौ स विकर्षति वीर्यवान्॥३१॥

किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः ।
त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः॥३२॥

यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् ।
यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम्॥३३॥

किरञ्छरसहस्राणि तत्र तत्र प्रयाम्यहम् ।
स त्वमेवंविधं कृत्वा कर्मचाण्डालवत्स्वयम्॥३४॥

वक्तुमर्हसि वक्तव्यः कस्मात्त्वं परुषाण्यथ ।
कर्ता त्वं कर्मणो ह्यस्य नाहं वृष्णिकुलाधम॥३५॥

पापानां च त्वमावासः कर्मणां मा पुनर्वद ।
जोषमास्व न मां भूयो वक्तुमर्हस्यतः परम्॥३६॥

अधरोत्तरमेतद्धि यन्मां त्वं वक्तुमर्हसि ।
अथ वक्ष्यसि मां मौर्ख्याद्भूयः परुषमीदृशम्॥३७॥

गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम् ।
न चैवं मूर्ख धर्मेण केवलेनैव शक्यते॥३८॥

तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम् ।
वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः॥३९॥

द्रौपदी च परिक्लिष्टा तथाऽधर्मेण सात्यके ।
प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया॥४०॥

सर्वस्वमपकृष्टं च तथाऽधर्मेण बालिश ।
अधर्मेणापकृष्टश्च मद्रराजः परेरितः॥४१॥

अधर्मेण तथा बालः सौभद्रो विनिपातितः ।
इतोऽप्यधर्मेण हतो भीष्मः परपुरञ्जयः॥४२॥

भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः ।
एवं परैराचरितं पाण्डवेयैश्च संयुगे॥४३॥

रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत ।
दुर्ज्ञेयः स परो धर्मस्तथाऽधर्मश्च दुर्विदः॥४४॥

युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम् ।
सञ्जय उवाच। एवमादीनि वाक्यानि क्रूराणि परुषाणि च॥४५॥

श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत् ।
तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम्॥४६॥

विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः ।
ततोऽभिपत्य पाञ्चाल्यं संरंभेणेदमब्रवीत्॥४७॥

न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् ।
तमापतन्तं सहसा महाबलममर्षणम्॥४८॥

पाञ्चाल्यायाभिसंक्रुद्धमन्तकायान्तकोपमम् ।
चोदितो वासुदेवेन भीमसेनो महाबलः॥४९॥

अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत् ।
द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली॥५०॥

प्रस्पन्द‌मानमादाय जगाम बलिनं बलात् ।
स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुङ्गवः॥५१॥

निगृहीतः पदे षष्ठे बलेन बलिनां वरः ।
अवरुह्य रथात्तूर्णं ध्रियमाणं बलीयसा॥५२॥

उवाच श्लक्ष्णया वाचा सहदेवो विशांपते ।
अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते॥५३॥

परमन्धकवृष्णिभ्यः पञ्चालेभ्यश्च मारिष ।
तथैवान्धकवृष्णीनां तथैव च विशेषतः॥५४॥

कृष्णस्य च तथाऽस्मत्तो मित्रमन्यन्न विद्यते ।
पञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम्॥५५॥

नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः ।
स भवानीदृशं मित्रं मन्यते च यथा भवान्॥५६॥

भवन्तश्च यथाऽस्माकं भवतां च तथा वयम् ।
स एवं सर्वधर्मज्ञ मित्रधर्ममनुस्मरन्॥५७॥

नियच्छ मन्युं पाञ्चाल्यात् प्रशाम्य शिनिपुङ्गव ।
पार्षतस्य क्षम त्वं वै क्षमतां पार्षतश्च ते॥५८॥

वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत् ।
प्रशाम्यमाने शैनेये सहदेवेन मारिष॥५९॥

पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत् ।
मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम्॥६०॥

आसादयतु मामेष धराधरमिवानिलः ।
यावदस्य शितैर्बाणैः संरंभं विनयाम्यहम्॥६१॥

युद्धश्रद्धां च कौन्तेय जीवितं चास्य संयुगे ।
किं नु शक्यं मया कर्तुं कार्यं यदिदमुद्यतम्॥६२॥

सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः ।
अथवा फाल्गुनः सर्वान्वारयिष्यति संयुगे॥६३॥

अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः ।
मन्यते च्छिन्नबाहुं मां भूरिश्रवसमाहवे॥६४॥

उत्सृजैनमहं चैनमेष वा मां हनिष्यति ।
शृण्वन्पाञ्चालवाक्यानि सात्यकिः सर्पवच्छ्वसन्॥६५॥

भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली ।
तौ वृषाविव नर्दन्तौ बलिनौ बाहुशालिनौ॥६६॥

त्वरया वासुदेवश्च धर्मराजश्च मारिष ।
यत्नेन महता वीरौ वारयामासतुस्ततः॥६७॥

निवार्य परमेष्वासौ कोपसंरक्तलोचनौ ।
युयुत्सूनपरान्संख्ये प्रतीयुः क्षत्रियर्षभाः॥६८॥

इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि धृष्टद्युम्नसात्यकिक्रोधे अष्टनवत्यधिकशततमोऽध्यायः॥१९८॥
नवनवत्यधिकशततमोऽध्यायः

सञ्जय उवाच। ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः ।
युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः॥१॥

तत इति ॥१॥

ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम् ।
अश्वकिंपुरुषाकीर्णं शरासनलतावृतम्॥२॥

क्रव्यादपक्षिसंघुष्टं भूतयक्षगणाकुलम् ।
निहत्य शात्रवान् भल्लैः सोऽचिनोद्देहपर्वतम् ।
ततो वेगेन महता विनद्य स नरर्षभः ।
प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम्॥४॥

यस्माद्युध्यन्तमाचार्यं धर्मकञ्चुकमास्थितः ।
मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः॥५॥

तस्मात्संपश्यतस्तस्य द्रावयिष्यामि वाहिनीम् ।
विद्राव्य सर्वान् हन्ताऽस्मि जाल्मं पाञ्चाल्यमेव तु॥६॥

सर्वानेतान् हनिष्यामि यदि योत्स्यन्ति मां रणे ।
सत्यं ते प्रतिजानामि परिवर्तय वाहिनीम्॥७॥

तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत् ।
सिंहनादेन महता व्यपोह्य सुमहद्भयम्॥८॥

ततः समागमो राजन्कुरुपाण्डवसेनयोः ।
पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव॥९॥

संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः ।
उदग्रा पाण्डुपञ्चाला द्रोणस्य निधनेन च॥१०॥

तेषां परमहृष्टानां जयमात्मनि पश्यताम् ।
संरब्धानां महावेगः प्रादुरासीद्विशांपते॥११॥

यथा शिलोच्चये शैलः सागरैः सागरो यथा ।
प्रतिहन्येत राजेन्द्र तथाऽऽसन्कुरुपाण्डवाः॥१२॥

ततः शङ्खसहस्राणि भेरीणामयुतानि च ।
अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः॥१३॥

यथा निर्मथ्यमानस्य सागरस्य तु निःस्वनः ।
अभवत्तव सैन्यस्य सुमहानद्भुतोपमः॥१४॥

प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा ।
अभिसन्धाय पांडूनां पञ्चालानां च वाहिनीम्॥१५॥

प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः ।
पाण्डवान्क्षपयिष्यन्तो दीप्तास्याः पन्नगा इव॥१६॥

ते दिशः खं च सैन्यं च समावृण्वन्महाहवे ।
मुहूर्ताद्भास्करस्येव लोके राजन् गभस्तयः॥१७॥

तथाऽपरे द्योतमाना ज्योतींषीवामलाम्बरे ।
प्रादुरासन्महाराज कार्ष्णायसमया गुडाः॥१८॥

चतुश्चक्रा द्विचक्राश्च शतघ्न्यो बहुला गदाः ।
चक्राणि च क्षुरान्तानि मंडलानीव भास्वतः॥१९॥

शस्त्राकृतिभिराकीर्णमतीव पुरुषर्षभ ।
दृष्ट्वाऽन्तरिक्षमाविग्नाः पाण्डुपञ्चालसृञ्जयाः॥२०॥

यथायथा ह्ययुध्यन्त पाण्डवानां महारथाः ।
तथातथा तदस्त्रं वै व्यवर्धत जनाधिप॥२१॥

वध्यमानास्तदाऽस्त्रेण तेन नारायणेन वै ।
दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे॥२२॥

यथा हि शिशिरापाये दहेत्कक्षं हुताशनः ।
तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो॥२३॥

आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति च प्रभो ।
जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः॥२४॥

द्रवमाणं तु तत् सैन्यं दृष्ट्वा विगतचेतनम् ।
मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम्॥२५॥

धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया ।
सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो महान्॥२६॥

वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम् ।
श्रेयो ह्युपदिशत्येष लोकस्य किमुतात्मनः॥२७॥

संग्रामस्तु न कर्तव्यः सर्वसैन्यान् ब्रवीमि वः ।
अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम्॥२८॥

भीष्मद्रोणार्णवं तीर्त्वा संग्रामे भीरुदुस्तरे ।
विमज्जिष्यामि सलिले सगणो द्रौणिगोष्पदे॥२९॥

कामः संपद्यतामस्य बीभत्सोराशु मां प्रति ।
कल्याणवृत्तिराचार्यो मया युधि निपातितः॥३०॥

येन बालः स सौभद्रो युद्धानामविशारदः ।
समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः॥३१॥

येनाविब्रुवता प्रश्नं तथा कृष्णा सभां गता ।
उपेक्षिता सपुत्रेण दासभावं नियच्छती॥३२॥

जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फाल्गुनः ।
कवचेन तथा गुप्तो रक्षार्थं सैन्धवस्य च॥३३॥

येन ब्रह्मास्त्रविदुषा पञ्चालाः सत्यजिन्मुखाः ।
कुर्वाणा मज्जये यत्नं समूला विनिपातिताः॥३४॥

येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः ।
निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः॥३५॥

अस्माभिरस्मदीयैर्विदुरादिभिर्निवार्यमाणेन निषिध्यमानेनापि तद्वनमनुगन्तुं प्रवेष्टुम् एषिता अनुमता नतु प्रतिषिद्धा इत्यर्थः ॥३५॥

योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम् ।
हतस्तदर्थे मरणं गमिष्यामि सबान्धवः॥३६॥

सौहृदं कुर्वाण इति सानुशयम् ॥३६॥

एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः ।
निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत्॥३७॥

शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत ।
एष योगोऽत्र विहितः प्रतिषेधे महात्मना॥३८॥

द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत ।
एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान्॥३९॥

यथायथा हि युध्यन्ते योधा ह्यस्त्रमिदं प्रति ।
तथातथा भवन्त्येते कौरवा बलवत्तराः॥४०॥

निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये ।
तान्नैतदस्त्रं संग्रामे निहनिष्यति मानवान्॥४१॥

यत्त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन ।
निहनिष्यति तान्सर्वान् रसातलगतानपि॥४२॥

ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत ।
ईषुः सर्वे समुत्स्रष्टुं मनोभिः करणेन च॥४३॥

तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पांडवः ।
भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः॥४४॥

न कथंचन शस्त्राणि मोक्तव्यानीह केनचित् ।
अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः॥४५॥

गदयाऽप्यनया गुर्व्या हेमविग्रहया रणे ।
कालवत्प्रहरिष्यामि द्रौणेरस्त्रं विशातयन्॥४६॥

न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह ।
यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते॥४७॥

पश्यतेमौ हि मे बाहू नागराजकरोपमौ ।
समर्थौ पर्वतस्यापि शैशिरस्य निपातने॥४८॥

नागायुतसमप्राणो ह्यहमेको नरेष्विह ।
शक्रो यथाऽप्रतिद्वन्द्वो दिवि देवेषु विश्रुतः॥४९॥

अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि ।
ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे॥५०॥

यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते ।
अद्यैतत्प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु॥५१॥

अर्जुनार्जुन बीभत्सो न न्यस्यं गाण्डिवं त्वया ।
शशाङ्कस्येव ते पङ्को नैर्मल्यं पातयिष्यति॥५२॥

अर्जुन उवाच। भीम नारायणास्त्रे मे गोषु च ब्राह्मणेषु च ।
एतेषु गाण्डिवं न्यस्यमेतद्धि व्रतमुत्तमम्॥५३॥

एवमुक्तस्ततो भीमो द्रोणपुत्रमरिन्दमम् ।
अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा॥५४॥

स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः ।
निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत्॥५५॥

ततो द्रौणिः प्रहस्यैनं द्रवन्तमभिभाष्य च ।
अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः॥५६॥

पन्नगैरिव दीप्तास्यैर्वमद्भिर्ज्वलनं रणे ।
अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः॥५७॥

तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे ।
खद्योतैरावृतस्येव पर्वतस्य दिनक्षये॥५८॥

तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति ।
अवर्धत महाराज यथाग्निरनिलोद्धतः॥५९॥

विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम् ।
पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत्॥६०॥

ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले ।
अवारोहन् रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः॥६१॥

तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च ।
तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत्॥६२॥

हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः ।
भीमसेनमपश्यन्त तेजसा संवृतं तथा॥६३॥

इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पाण्डवसैन्यास्त्रत्यागे नवनवत्यधिकशततमोऽध्यायः॥१९९॥
द्विशततमोऽध्यायः

सञ्जय उवाच। भीमसेनं समाकीर्णं दृष्ट्वाऽस्त्रेण धनञ्जयः ।
तेजसः प्रतिघातार्थं वारुणेन समावृणोत्॥१॥

भीमसेनमिति ॥१॥

नालक्षयत तत् कश्चिद्वारुणास्त्रेण संवृतम् ।
अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः॥२॥

साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः ।
अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः॥३॥

यथा रात्रिक्षये राजन् ज्योतींष्यस्तगिरं प्रति ।
समापेतुस्तथा बाणा भीमसेनरथं प्रति॥४॥

स हि भीमो रथश्चास्य हयाः सुतश्च मारिष ।
संवृता द्रोणपुत्रेण पावकान्तर्गताऽभवन्॥५॥

यथा जग्ध्वा जगत्कृत्स्नं समये सचराचरम् ।
गच्छेद्वन्हिर्विभोरास्यं तथाऽस्त्रं भीममावृणोत्॥६॥

सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः ।
तथा प्रविष्टं तत्तेजो न प्राज्ञायत पाण्डवम्॥७॥

विकीर्णमस्त्रं तदृष्ट्वा तथा भीमरथं प्रति ।
उदीर्यमाणं द्रौणिं च निष्प्रतिद्वन्द्वमाहवे॥८॥

सर्वसैन्यं च पाण्डूनां न्यस्तशस्त्रमचेतनम् ।
युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथान्॥९॥

अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती ।
अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः॥१०॥

ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसंभवम् ।
विगाह्य तौ सुबलिनौ माययाऽविशतां तथा॥११॥

न्यस्तशस्त्रौ ततस्तौ तु नादहत्सोस्त्रजोऽनलः ।
वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः॥१२॥

ततश्चकृषतुर्भीमं सर्वशस्त्रायुधानि च ।
नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात्॥१३॥

आकृष्यमाणः कौन्तयो नदत्येव महारवम् ।
वर्धते चैव तद्घोरं द्रौणेरस्त्रं सुदुर्जयम्॥१४॥

तमब्रवीद्वासुदेवः किमिदं पाण्डुनन्दन ।
वार्यमाणोऽपि कौन्तेय यद्युद्धान्न निवर्तसे॥१५॥

यदि युद्धेन जेयाः स्युरिमे कौरवनन्दनाः ।
वयमप्यत्र युध्येम तथा चेमे नरर्षभाः॥१६॥

रथेभ्यस्त्ववतीर्णाः स्म सर्व एव हि तावकाः ।
तस्मात्त्वमपि कौन्तेय रथात्तूर्णमपाक्रम॥१७॥

एवमुक्त्वा तु तं कृष्णो रथाद्भूमिमवर्तयत् ।
निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम्॥१८॥

यदाऽपकृष्टः स रथान्न्यासितश्चायुधं भुवि ।
ततो नारायणास्त्रं तत् प्रशान्तं शत्रुतापनम्॥१९॥

सञ्जय उवाच। तस्मिन्प्रशान्ते विधिना तेन तेजसि दुःसहे ।
बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च॥२०॥

प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः ।
वाहनानि च हृष्टानि प्रशान्तेऽस्त्रे सुदुर्जये॥२१॥

व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत ।
बभौ भीमो निशापाये धीमान्सूर्य इवोदितः॥२२॥

हतशेषं बलं तत्तु पाण्डवानामतिष्ठत ।
अस्त्रव्युपरमाद्धृष्टं तव पुत्रजिघांसया॥२३॥

व्यवस्थिते बले तस्मिन्नस्त्रे प्रतिहते तथा ।
दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत्॥२४॥

अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रयोजय ।
अवस्थिता हि पञ्चालाः पुनरेते जयैषिणः॥२५॥

अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष ।
सुदीनमभिनिःश्वस्य राजानमिदमब्रवीत्॥२६॥

नैतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते ।
आवृतं हि निवर्तेत प्रयोक्तारं न संशयः॥२७॥

एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान् ।
अन्यथा विहितः संख्ये वधः शत्रोर्जनाधिप॥२८॥

पराजयो वा मृत्युर्वा श्रेयान्मृत्युर्न निर्जयः ।
विजिताश्चारयो ह्येते शस्त्रोत्सर्गान्मृतोपमाः॥२९॥

दुर्योधन उवाच। आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रयुज्यते ।
अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर॥३०॥

त्वयि शस्त्राणि दिव्यानि त्र्यम्बके चामितौजसि ।
इच्छतो न हि ते मुच्येत् संक्रुद्धो हि पुरन्दरः॥३१॥

धृतराष्ट्र उवाच। तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते ।
तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः॥३२॥

दृष्ट्वा पार्थांश्च संग्रामे युद्धाय समुपस्थितान् ।
नारायणास्त्रनिर्मुक्तांश्चरतः पृतनामुखे॥३३॥

सञ्जय उवाच। जानन्पितुः स निधनं सिंहलाङ्गुलकेतनः ।
सक्रोधो भयमुत्सृज्य सोऽभिदुद्राव पार्षतम्॥३४॥

अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभ ।
पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभः॥३५॥

धृष्टद्युम्नस्ततो राजन् ज्वलन्तमिव पावकम् ।
द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम्॥३६॥

सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः ।
हयांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैः शरैः॥३७॥

विद्ध्वा विद्ध्वाऽनदद्द्रौणिं कम्पयन्निव मेदिनीम् ।
आददे सर्वलोकस्य प्राणानिव महारणे॥३८॥

पार्षतस्तु बली राजन्कृतास्त्रः कृतनिश्चयः ।
द्रौणिमेवाभिदुद्राव मृत्युं कृत्वा निवर्तनम्॥३९॥

ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि ।
अवासृजद‌मेयात्मा पाञ्चाल्यो रथिनां वरः॥४०॥

तं द्रौणिः समरे क्रुद्धं छादयामास पत्रिभिः ।
विव्याध चैनं दशभिः पितुर्वधमनुस्मरन्॥४१॥

द्वाभ्यां च सुविसृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके ।
छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत्॥४२॥

व्यश्वसुतरथं चैनं द्रौणिश्चक्रे महाहवे ।
तस्य चानुचरान्सर्वान् क्रुद्धः प्राद्रावयच्छरैः॥४३॥

ततः प्रदुद्रुवे सैन्यं पञ्चालानां विशांपते ।
संभ्रान्तरूपमार्तं च न परस्परमैक्षत॥४४॥

दृष्ट्वा तु विमुखान्योधान्धृष्टद्युम्नं च पीडितम् ।
शैनेयोऽचोदयत्तूर्णं रथं द्रौणिरथं प्रति॥४५॥

अष्टभिर्निशितैर्बाणैरश्वत्थामानमार्दयत् ।
विंशत्या पुनराहत्य नानारूपैरमर्षणः॥४६॥

विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान् ।
धनुर्ध्वजं च संयत्तश्चिच्छेद कृतहस्तवत्॥४७॥

स साश्वं व्यधमच्चापि रथं हेमपरिष्कृतम् ।
हृदि विव्याध समरे त्रिंशता सायकैर्भृशम्॥४८॥

एवं स पीडितो राजन्नश्वत्थामा महाबलः ।
शरजालैः परिवृतः कर्तव्यं नान्वपद्यत॥४९॥

एवं गते गुरोः पुत्रे तव पुत्रो महारथः ।
कृपकर्णादिभिः सार्धं शरैः सात्वतमावृणोत्॥५०॥

दुर्योधनस्तु विंशत्या कृपः शारद्वतस्त्रिभिः ।
कृतवर्माऽथ दशभिः कर्णः पञ्चाशता शरैः॥५१॥

दुःशासनः शतेनैव वृषसेनश्च सप्तभिः ।
सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः॥५२॥

ततः स सात्यकी राजन्सर्वानेव महारथान् ।
विरथान्विमुखांश्चैव क्षणेनैवाकरोन्नृप॥५३॥

अश्वत्थामा तु संप्राप्य चेतनां भरतर्षभ ।
चिन्तयामास दुःखार्तो निःश्वसंश्च पुनः पुनः॥५४॥

अथो रथान्तरं द्रौणिः समारुह्य परंतपः ।
सात्यकिं वारयामास किरञ्शरशतान्बहून्॥५५॥

तमापतन्तं संप्रेक्ष्य भारद्वाजसुतं रणे ।
विरथं विमुखं चैव पुनश्चक्रे महारथः॥५६॥

ततस्ते पाण्डवा राजन् दृष्ट्वा सात्यकिविक्रमम् ।
शंखशब्दान्भृशं चक्रुः सिंहनादांश्च नेदिरे॥५७॥

एवं तं विरथं कृत्वा सात्यकिः सत्यविक्रमः ।
जघान वृषसेनस्य त्रिसाहस्त्रान्महारथान्॥५८॥

अयुतं दन्तिनां सार्धं कृपस्य निजघान सः ।
पञ्चायुतानि चाश्वानां शकुनेर्निजघान ह॥५९॥

ततो द्रौणिर्महाराज रथमारुह्य वीर्यवान् ।
सात्यकिं प्रतिसंक्रुद्धः प्रययौ तद्वधेप्सया॥६०॥

पुनस्तमागतं दृष्ट्वा शैनेयो निशितैः शरैः ।
अदारयत्क्रूरतरैः पुनः पुनररिंदम॥६१॥

सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः ।
युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत्॥६२॥

शैनेयाभ्युपपत्तिं ते जानाम्याचार्यघातिनि ।
न चैनं त्रास्यसि मया ग्रस्तमात्मानमेव च॥६३॥

शपेऽऽत्मनाऽहं शैनेय सत्येन तपसा तथा ।
अहत्वा सर्वपञ्चालान्यदि शान्तिमहं लभे॥६४॥

यद्बलं पाण्डवेयानां वृष्णीनामपि यद्बलम् ।
क्रियतां सर्वमेवेह निहनिष्यामि सोमकान्॥६५॥

एवमुक्त्वार्करश्म्याभं सुतीक्ष्णं तं शरोत्तमम् ।
व्यसृजत्सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः॥६६॥

स तं निर्भिद्य तेनास्तः सायकः सशरावरम् ।
विवेश वसुधां भित्त्वा श्वसन्बिलमिवोरगः॥६७॥

स भिन्नकवचः शूरस्तोत्रार्दित इव द्विपः ।
विमुच्य सशरं चापं भूरिव्रणपरिस्रवः॥६८॥

सीदन् रुधिरसिक्तश्च रथोपस्थ उपाविशत् ।
सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम्॥६९॥

अथान्येन सुपुङ्खेन शरेणानतपर्वणा ।
आजघान भ्रुवोर्मध्ये धृष्टद्युम्नं परन्तपः॥७०॥

स पूर्वमतिविद्धश्च भृशं पश्चाच्च पीडितः ।
ससादाथ च पाञ्चाल्यो व्यपाश्रयत च ध्वजम्॥७१॥

तं नागमिव सिंहेन दृष्ट्वा राजञ्शरार्दितम् ।
जवेनाभ्यद्रवञ्छूराः पञ्च पाण्डवतो रथाः॥७२॥

किरीटी भीमसेनश्च वृद्धक्षत्रश्च पौरवः ।
युवराजश्च चेदीनां मालवश्च सुदर्शनः॥७३॥

एते हाहाकृताः सर्वे प्रगृहीतशरासनाः ।
वीरं द्रौणायनिं वीराः सर्वतः पर्यवारयन्॥७४॥

ते विंशतिपदे यत्ता गुरुपुत्रममर्षणम् ।
पञ्चभिः पञ्चभिर्बाणैरभ्यघ्नन्सर्वतः समम्॥७५॥

आशीविषाभैर्विंशत्या पञ्चभिस्तु शितैः शरैः ।
चिच्छेद युगपद्द्रौणिः पञ्चविंशतिसायकान्॥७६॥

सप्तभिस्तु शितैर्बाणैः पौरवं द्रौणिरार्दयत् ।
मालवं त्रिभिरेकन पार्थं षड्बिर्वृकोदरम्॥७७॥

ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः ।
युगपच्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः॥७८॥

युवराजश्च विंशत्या द्रौणिं विव्याध पत्रिभिः ।
पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभिस्त्रिभिः॥७९॥

ततोऽर्जुनं षड्भिरथाजघान द्रौणायनिर्दशभिर्वासुदेवम् ।
भीमं दशार्धैर्युवराजं चतुर्भिर्द्वाभ्यां द्वाभ्यां मालवं पौरवं च॥८०॥

सूतं विद्ध्वा भीमसेनस्य षड्भिर्द्वाभ्यां विद्ध्वा कार्मुकं च ध्वजं च ।
पुनः पार्थं शरवर्षेण विद्ध्वा द्रौणिर्घोरं सिंहनादं ननाद॥८१॥

तस्यास्यतस्तान्निशितान्पीतधारान् द्रौणेः शरान्पृष्ठतश्चाग्रतश्च ।
धरा वियद्द्यौः प्रदिशो दिशश्च च्छन्ना बाणैरभवन्घोररूपैः॥८२॥

आसन्नस्य स्वरथं तीव्रतेजाः सुदर्शनस्येन्द्रकेतुप्रकाशौ ।
भुजौ शिरश्चेन्द्रसमानवीर्यस्त्रिभिः शरैर्युगपत्संचकर्त॥८३॥

स पौरवं रथशक्त्या निहत्य छित्त्वा रथं तिलशश्चास्य बाणैः ।
छित्त्वा च बाहू वरचन्दनाक्तौ भल्लेन कायाच्छिर उच्चकर्त॥८४॥

युवानमिन्दीवरदामवर्णं चेदिप्रभुं युवराजं प्रसह्य ।
बाणैस्त्वरावान्प्रज्वलिताग्निकल्पैर्विद्ध्वा प्रादान्मृत्यवे साश्वसूतम्॥८५॥

मालवं पौरवं चैव युवराजं च चेदिपम् ।
दृष्ट्वा समक्षं निहतं द्रोणपुत्रेण पाण्डवः॥८६॥

भीमसेनो महाबाहुः क्रोधमाहारयत्परम् ।
ततः शरशतैस्तीक्ष्णैः संक्रुद्धाशीविषोपमैः॥८७॥

छादयामास समरे द्रोणपुत्रं परंतपः ।
ततो द्रौणिर्महातेजाः शरवर्षं निहत्य तम्॥७८॥

विव्याध निशितैर्बाणैर्भीमसेनममर्षणः ।
ततो भीमो महाबाहुर्द्रौणेर्युधि महाबलः॥८९॥

क्षुरप्रेण धनुश्छित्त्वा द्रौणिं विव्याध पत्रिणा ।
त‌दपास्य धनुश्छिन्नं द्रोणपुत्रो महामनाः॥९०॥

अन्यत्कार्मुकमादाय भीमं विव्याध पत्रिभिः ।
तौ द्रौणिभीमौ समरे पराक्रान्तौ महाबलौ॥९१॥

अवर्षतां शरवर्षं वृष्टिमन्ताविवाम्बुदौ ।
भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः॥९२॥

द्रौणिं संछादयामासुर्घनौघा इव भास्करम् ।
तथैव द्रौणिनिर्मुक्तैर्भीमः सन्नतपर्वभिः॥९३॥

अवाकीर्यत स क्षिप्रं शरैः शतसहस्रशः ।
स च्छाद्यमानः समरे द्रौणिना रणशालिना॥९४॥

न विव्यथे महाराज तद‌द्भुतमिवाभवत् ।
ततो भीमो महाबाहुः कार्तस्वरविभूषितान्॥९५॥

नाराचान्दश संप्रैषीद्यमदण्डनिभाञ्छितान् ।
ते जत्रुदेशमासाद्य द्रोणपुत्रस्य मारिष॥९६॥

निर्भिद्य विविशुस्तूर्णं वल्मीकमिव पन्नगाः ।
सोऽतिविद्धो भृशं द्रौणिः पांडवेन महात्मना॥९७॥

ध्वजयष्टिं समासाद्य न्यमीलयत लोचने ।
स मुहूर्तात्पुनः संज्ञां लब्ध्वा द्रौणिर्नराधिप॥९८॥

क्रोधं परममातस्थौ समरे रुधिरोक्षितः ।
दृढं सोऽभिहतस्तेन पाण्डवेन महात्मना॥९९॥

वेगं चक्रे महाबाहुर्भीमसेनरथं प्रति ।
तत आकर्णपूर्णानां शराणां तिग्मतेजसाम्॥१००॥

शतमाशीविषाभानां प्रेषयामास भारत ।
भीमोऽपि समरश्लाधी तस्य वीर्यमचिन्तयत्॥१०१॥

तूर्णं प्रासृजदुग्राणि शरवर्षाणि पाण्डवः ।
ततो द्रौणिर्महाराज छित्त्वाऽस्य विशिखैर्धनुः॥१०२॥

आजघानोरसि क्रुद्धः पाण्डवं निशितैः शरैः ।
ततोऽन्यद्धनुरादाय भीमसेनो ह्यमर्षणः॥१०३॥

विव्याध निशितैर्बाणैर्द्रौणिं पञ्चभिराहवे ।
जीमूताविव घर्मान्ते तौ शरौघप्रवर्षिणौ॥१०४॥

अन्योन्यक्रोधताम्राक्षौ छादयामासतुर्युधि ।
तलशब्दैस्ततो घोरैस्त्रासयन्तौ परस्परम्॥१०५॥

अयुध्येतां सुसंरब्धौ कृतप्रतिकृतैषिणौ ।
ततो विस्फार्य सुमहच्चापं रुक्मविभूषितम्॥१०६॥

भीमं प्रैक्षत स द्रौणिः शरानस्यन्तमन्तिकात् ।
शरद्यहर्मध्यगतो दीप्तार्चिरिव भास्करः॥१०७॥

आददानस्य विशिखान्संदधानस्य चाशुगान् ।
विकर्षतो मुञ्चतश्च नान्तरं ददृशुर्जनाः॥१०८॥

अलातचक्रप्रतिमं तस्य मण्डलमायुधम् ।
द्रौणेरासीन्महाराज बाणान्विसृजतस्तदा॥१०९॥

धनुश्च्युताः शरास्तस्य शतशोऽथ सहस्रशः ।
आकाशे प्रत्यदृश्यन्त शलभानामिवायतीः॥११०॥

ते तु द्रौणिविनिर्मुक्ताः शरा हेमविभूषिताः ।
अजस्रमन्वकीर्यन्त घोरा भीमरथं प्रति॥१११॥

तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् ।
बलं वीर्यं प्रभावं च व्यवसायं च भारत॥११२॥

तां स मेघादिवोद्भूतां बाणवृष्टिं समन्ततः ।
जलवृष्टिं महाघोरां तपान्त इव चिन्तयन्॥११३॥

द्रोणपुत्रवधप्रेप्सुर्भीमो भीमपराक्रमः ।
अमुञ्चच्छरवर्षाणि प्रावृषीव बलाहकः॥११४॥

तद्रुक्मपृष्ठं भीमस्य धनुर्घोरं महारणे ।
विकृष्यमाणं विबभौ शक्रचापमिवापरम्॥११५॥

तस्माच्छराः प्रादुरासञ्छतशोऽथ सहस्रशः ।
संछादयन्तः समरे द्रौणिमाहवशोभिनम्॥११६॥

तयोर्विसृजतोरेवं शरजालानि मारिष ।
वायुरप्यन्तरा राजन्नाशक्नोत्प्रतिसर्पितुम्॥११७॥

तथा द्रौणिर्महाराज शरान्हेमविभूषितान् ।
तैलधौतान्प्रसन्नाग्रान्प्राहिणोद्वधकाङ्क्षया॥११८॥

तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत् ।
विशेषयन्द्रोणसुतं तिष्ठ तिष्ठेति चाब्रवीत्॥११९॥

पुनश्च शरवर्षाणि घोराण्युग्राणि पाण्डवः ।
व्यसृजद्बलवान् क्रुद्धो द्रोणपुत्रवधेप्सया॥१२०॥

ततोऽस्त्रमायया तूर्णं शरवृष्टिं निवार्य ताम् ।
धनुश्चिच्छेद भीमस्य द्रोणपुत्रो महास्त्रवित्॥१२१॥

शरैश्चैनं सुबहुभिः क्रुद्धः सङ्ख्ये पराभिनत् ।
स छिन्नधन्वा बलवान् रथशक्तिं सुदारुणाम्॥१२२॥

वेगेनाविध्य चिक्षेप द्रोणपुत्ररथं प्रति ।
तामापतन्तीं सहसा महोल्काभां शितैः शरैः॥१२३॥

चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् ।
एतस्मिन्नन्तरे भीमो दृढमादाय कार्मुकम्॥१२४॥

द्रौणिं विव्याध विशिखैः स्मयमानो वृकोदरः ।
ततो द्रौणिर्महाराज भीमसेनस्य सारथिम्॥१२५॥

ललाटे दारयामास शरेणानतपर्वणा ।
सोऽतिविद्धो बलवता द्रोणपुत्रेण सारथिः॥१२६॥

व्यामोहमगमद्राजन्रश्मीनुत्सृज्य वाजिनाम् ।
ततोऽश्वाः प्राद्रवंस्तूर्णं मोहिते रथसारथौ॥१२७॥

भीमसेनस्य राजेन्द्र पश्यतां सर्वधन्विनाम् ।
तं दृष्ट्वा प्रद्रुतैरश्वैरपकृष्टं रणाजिरात्॥१२८॥

दध्मौ प्रमुदितः शङ्खं बृहन्तमपराजितः ।
ततः सर्वे च पञ्चाला भीमसेनश्च पाण्डवः॥१२९॥

धृष्टद्युम्नरथं त्यक्त्वा भीताः संप्राद्रवन्दिशः ।
तान्प्रभग्नांस्ततो द्रौणिः पृष्ठतो विकिरञ्शरान्॥१३०॥

अभ्यवर्तत वेगेन कालयन्पाण्डुवाहिनीम् ।
ते वध्यमानाः समरे द्रोणपुत्रेण पार्थिवाः॥१३१॥

द्रोणपुत्रभयाद्राजन्दिशः सर्वाश्च भेजिरे॥१३२॥

इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वण्यश्वत्थामपराक्रमे द्विशततमोऽध्यायः॥२००॥
एकाधिकद्विशततमोऽध्यायः

सञ्जय उवाच। तत् प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनञ्जयः ।
न्यवारयदमेयात्मा द्रोणपुत्रजयेप्सया॥१॥

यथा शिवमयो विष्णुरेवं विष्णुमयं जगदिति स्मृतौ दार्शन्तिकं जगतो विष्णुमयत्वं पूर्वयोः पर्वणोर्विष्णोर्विश्वरूपप्रकाशनेन व्याख्यातम् । अथ दृष्टान्तीकृतं विष्णोः शिवमयत्वं व्याचिरव्यासुः शतरुद्रियमारभते - तदुपोद्धातत्वेनाश्वत्थामास्त्राभिभवं तावद्दर्शयति - तत्प्रभग्नं बलं दृष्ट्वेत्यादिना ॥१॥

ततस्ते सैनिका राजन्नैव तत्रावतस्थिरे ।
संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च॥२॥

ततस्ते तव ॥२॥

एक एव च बीभत्सुः सोमकावयवैः सह ।
मत्स्यैरन्यैश्च संधाय कौरवान्संन्यवर्तत॥३॥

सोमकावयवैः सोमकानामवयवरूपैर्माण्डलिकैः ॥३॥

ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम् ।
सव्यसाची महेष्वासमश्वत्थामानमब्रवीत्॥४॥

या शक्तिर्यच्च विज्ञानं यद्वीर्यं यच्च पौरुषम् ।
धार्तराष्ट्रेषु या प्रीतिर्द्वेषोऽस्मासु च यच्च ते॥५॥

यच्च भूयोऽस्ति तेजस्ते तत् सर्वं मयि दर्शय ।
स एव द्रोणहन्ता ते दर्पं छेत्स्यति पार्षतः॥६॥

कालानलसमप्रख्यं द्विषतामन्तकोपमम् ।
समासादय पाञ्चाल्यं मां चापि सहकेशवम्॥७॥

उद्धृत्तस्य उच्छास्त्रवर्तिनः ॥७॥

दर्पं नाशयितास्म्यद्य तवोद्वृत्तस्य संयुगे॥७॥

उद्धृत्तस्य उच्छास्त्रवर्तिनः ॥७॥

धृतराष्ट्र उवाच। आचार्यपुत्रो मानार्हो बलवांश्चापि सञ्जय ।
प्रीतिर्धनञ्जये चास्य प्रियश्चापि महात्मनः॥८॥

न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम् ।
अथ कस्मात्स कौन्तेयः सखायं रूक्षमुक्तवान्॥९॥

सञ्जय उवाच। युवराजे हते चैव वृद्धक्षत्रे च पौरवे ।
इष्वस्त्रविधिसम्पन्ने मालवे च सुदर्शने॥१०॥

युवराजे चेदिपतौ ॥१०॥

धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते ।
युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते॥११॥

अन्तर्भेदे च सञ्जाते दुःखं संस्मृत्य च प्रभो ।
अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत॥१२॥

अन्तर्भेदे हृदयवैक्लव्ये । दुःखं पुत्रवधादिजम् ॥१२॥

तस्मादनर्हमश्लीलमप्रियं द्रौणिमुक्तवान् ।
मान्यमाचार्यतनयं रूक्षं कापुरुषं यथा॥१३॥

अश्लीलं जुगुप्सितम् । आप्रियं परुषम् ॥१३॥

एवमुक्तः श्वसन् क्रोधान्महेष्वासतमो नृप ।
पार्थेन परुषं वाक्यं सर्वमर्मभिदा गिरा॥१४॥

द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः ।
स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान्॥१५॥

देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे ।
दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः॥१६॥

सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् ।
सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा॥१७॥

ततस्तुमुलमाकाशे शरवर्षमजायत ।
पावकार्चिः परीतं तत्पार्थमेवाभिपुप्लुवे॥१८॥

उल्काश्च गगनात्पेतुर्दिशश्च न चकाशिरे ।
तमश्च सहसा रौद्रं चमूमवततार ताम्॥१९॥

रक्षांसि च पिशाचाश्च विनेदुरतिसङ्गताः ।
ववुश्चाशिशिरा वाताः सूर्यो नैव तताप च॥२०॥

वायसाश्चापि चाक्रन्दन्दिक्षु सर्वासु भैरवम् ।
रुधिरं चापि वर्षंतो विनेदुस्तोयदा दिवि॥२१॥

पक्षिणः पशवो गावो विनेदुश्चापि सुव्रताः ।
परमं प्रयतात्मानो न शान्तिमुपलेभिरे॥२२॥

प्रयतात्मानो योगिनोऽपि समाधिच्युता बभूवुरित्यर्थः ॥२२॥

भ्रान्तसर्वमहाभूतमावर्तितदिवाकरम् ।
त्रैलोक्यमभिसंतप्तं ज्वराविष्टमिवाभवत्॥२३॥

आवर्तितदिवाकरं विश्वं सर्वं भ्रमतीवेत्यमन्यतेत्यर्थः ॥२३॥

अस्त्रतेजोभिसंतप्तं नागा भूमिशयास्तथा ।
निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः॥२४॥

जलजानि च सत्त्वानि दह्यमानानि भारत ।
न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः॥२५॥

दिग्भ्यः प्रदिग्भ्यः खाद्भूमेः सर्वतः शरवृष्टयः ।
उच्चावचानि पेतुर्वै गरुडानिलरंहसैः॥२६॥

तैः शरैर्द्रोणपुत्रस्य वज्रवेगैः समाहताः ।
प्रदग्धा रिपवः पेतुरग्निदग्धा इव द्रुमाः॥२७॥

दह्यमाना महाभागाः पेतुरुर्व्यां समन्ततः ।
नदन्तो भैरवान्नादाञ्जलदोपमनिःस्वनान्॥२८॥

अपरे प्रद्रुता नागा भयत्रस्ता विशांपते ।
त्रेसुर्दिशो यथा पूर्वं वने दावाग्निसंवृताः॥२९॥

त्रेमुः शब्दं चक्रुः । यथा वने इति सम्बन्धः ॥२९॥

द्रुमाणां शिखराणीव दावदग्धानि मारिष ।
अश्ववृन्दान्यदृश्यन्त रथवृन्दानि भारत॥३०॥

अपतन्त रथौघाश्च तत्र तत्र सहस्रशः ।
तत् सैन्यं भयसंविग्नं ददाह युधि भारत॥३१॥

युगान्ते सर्वभूतानि संवर्तक इवानलः ।
दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे॥३२॥

युगान्ते प्रलये। संवर्तकः संहारकः ॥३२॥

प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे ।
ततस्तूर्यसहस्राणि नानालिङ्गानि भारत॥३३॥

तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः ।
कृत्स्ना ह्यक्षौहिणी राजन् सव्यसाची च पाण्डवः॥३४॥

तमसा संवृते लोके नादृश्यन्त महाहवे ।
नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम्॥३५॥

यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा ।
अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत्॥३६॥

सर्वास्त्रप्रतिघातार्थं विहितं पद्मयोनिना ।
ततो मुहूर्तादिव तत्तमो व्युपशशाम ह॥३७॥

प्रववौ चानिलः शीतो दिशश्च विमला बभुः ।
तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम्॥३८॥

अनभिज्ञेयरूपां च प्रदग्धामस्त्रतेजसा ।
ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ॥३९॥

सहितौ प्रत्यदृश्येतां नभसीव तमोनुदौ ।
ततो गाण्डीवधन्वा च केशवश्चाक्षतावुभौ॥४०॥

तमोनुदौ चन्द्रसूर्यौ॥४०॥

सपताकध्वजहयः सानुकर्षवरायुधः ।
प्रबभौ सरथो युक्तस्तावकानां भयंकरः॥४१॥

ततः किलकिलाशब्दः शङ्खभेरीस्वनैः सह ।
पाण्डवानां प्रहृष्टानां क्षणेन समजायत॥४२॥

हताविति तयोरासीत्सेनयोरुभयोर्मतिः ।
तरसाऽभ्यागतौ दृष्ट्वा सहितौ केशवार्जुनौ॥४३॥

तयोर्विषये ॥४३॥

तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ ।
दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिता भृशम्॥४४॥

विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः ।
मुहूर्तं चिन्तयामास किं त्वेतदिति मारिष॥४५॥

चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः ।
निःश्वसन् दीर्घमुष्णं च विमनाश्चाभवत्ततः॥४६॥

सञ्जय उवाच। ततो द्रौणिर्धनुस्त्यक्त्वा रथात्प्रस्कन्द्य वेगितः ।
धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा संप्राद्रवद्रणात्॥४७॥

पूर्वदेवानां ब्रह्मविष्णुरुद्राणां मध्ये एतौ विष्णुरूपिणावृषी नरनारायणौ परमोचितौ अत्यन्ततपःसंपन्नौ ॥४७॥

ततः स्निग्धाम्बुदाभासं वेदावासमकल्मषम् ।
वेदव्यासं सरस्वत्यावासं व्यासं ददर्श ह॥४८॥

वेदानां व्यासं शाखाप्रशाखाभेदेन विभाजकम्। सरस्वत्या अङ्गोपवेदस्मृत्यादिरूपाया आवासम्। व्यासमिति पाठे विस्तारम् ॥४८॥

तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वहम् ।
सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत्॥४८॥

वेदानां व्यासं शाखाप्रशाखाभेदेन विभाजकम्। सरस्वत्या अङ्गोपवेदस्मृत्यादिरूपाया आवासम्। व्यासमिति पाठे विस्तारम् ॥४८॥

भो भो माया यदृच्छा वा न विद्मः किमिदं भवेत् ।
अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः॥५०॥

मायानष्टयोरप्यनष्टत्वेन दर्शनम्। यदृच्छा अश्वशक्तेरनियमः ॥५०॥

अधरोत्तरमेतद्वा लोकानां वा पराभवः ।
यदिमौ जीवतः कृष्णौ ‘कालो हि दुरतिक्रमः’॥५१॥

अधरोत्तरं विपरीतम् ॥५१॥

नासुरा न च गन्धर्वा न पिशाचा न राक्षसाः ।
न सर्पा यक्षपतगा न मनुष्याः कथंचन॥५२॥

उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम् ।
तदिदं केवलं हत्वा शान्तमक्षौहिणीं ज्वलत्॥५३॥

सर्वघाति मया मुक्तमस्त्रं परमदारुणम् ।
केनेमौ मर्त्यधर्माणौ नावधीत्केशवार्जुनौ॥५४॥

एतत्प्रब्रूहि भगन्मया पृष्टो यथातथम् ।
श्रोतुमिच्छामि तत्त्वेन सर्वमेतन्महामुने॥५५॥

व्यास उवाच। महान्तमेवमर्थं मां यं त्वं पृच्छसि विस्मयात् ।
तं प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु॥५६॥

योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः ।
अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत्॥५७॥

स तपस्तीव्रमातस्थे शिशिरं गिरिमास्थितः ।
ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसन्निभः॥५८॥

शिशिरं गिरिं हिमाचलम्॥५८॥

षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च ।
अशोषयत्तदाऽऽत्मानं वायुभक्षोऽम्बुजेक्षणः॥५९॥

अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् ।
द्यावापृथिव्योर्विवरं तेजसा समपूरयत्॥६०॥

स तेन तपसा तात ब्रह्मभूतो यदाऽभवत् ।
ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम्॥६१॥

ब्रह्मभूतो ब्रह्मवदत्यन्तं निर्लेपः । ईश्वरं निमितं योनिमुपादानम् । पतिं पालयितारम् ॥६१॥

ददर्श भृशदुर्धर्षं सर्वदेवैरभिष्टुतम् ।
अणीयांसमणुभ्यश्च बृहद्भ्यश्च बृहत्तमम्॥६२॥

रुद्रमीशानवृषभं हरं शंभुं कपर्दिनम् ।
चेकितानं परां योनिं तिष्ठतो गच्छतश्च ह॥६३॥

ईशानानां ब्रह्मादीनामपि वृषभं श्रेष्ठं कपर्दिनं जटाजूटवन्तं चेकितानं चेतयन्तम् । परां प्रकृष्टां योनिमधिष्ठानं तिष्ठतः स्थावरस्य, गच्छतो जंगमस्य ॥६३॥
वयोतिगैर्वृद्धेः ॥६३॥

दुर्वारणं दुर्दृशं तिग्ममन्युं महात्मानं सर्वहरं प्रचेतसम् ।
दिव्यं चापमिषुधी चाददानं हिरण्यवर्माणमनन्तवीर्यम्॥६४॥

दुर्वारणं दुर्निषेधं दुर्दृशं विरूपाक्षम्। तिग्ममन्युं तीव्रकोपं दुष्टेषु। प्रचेतसम् उदारचित्तं साधुषु ॥६४॥

पिनाकिनं वज्रिणं दीप्तशूलं परश्वधिं गदिनं चायतासिम् ।
शुभ्रं जटिलं मुसलिनं चन्द्रमौजिं व्याघ्राजिनं परिघिणं दण्डपाणिम्॥६५॥

परश्वधिनं परश्वधवन्तम् ॥६५॥

शुभाङ्गदं नागयज्ञोपवीतं विश्वैर्गणैः शोभितं भूतसङ्घैः ।
एकीभूतं तपसां सन्निधानं वयोतिगैः सुष्टुतमिष्टवाग्भिः॥६६॥

जलं दिशं खं क्षितिं चन्द्रसूर्यौ तथा वाय्वग्नी प्रमिमाणं जगच्च ।
नालं द्रष्टुं यं जना भिन्नवृत्ता ब्रह्मद्विषन्नघ्नममृतस्य योनिम्॥६७॥

जगत्प्रमिमाणं परिमापर्यन्तं कालम् । यं भिन्नवृत्ता दुराचाराः द्रष्टुं नालम् । यतो ब्रह्मद्विषघ्नम् । अमृतस्य मोक्षस्य योनिं कारणम् ॥६७॥

यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः क्षीणे पापे मनसा वीतशोकाः ।
तं निष्पतन्तं तपसा धर्ममीड्यं तद्भक्त्या वै विश्वरूपं ददर्श ।
दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः संहृष्टात्मा मुमुदे वासुदेवः॥६८॥

ददर्श वासुदेव इत्युत्तरेण संबन्धः॥६८॥

अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम् ।
ततो नारायणो दृष्ट्वा ववन्दे विश्वसंभवम्॥६९॥

वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम् ।
क्रीडमानं महात्मानं भूतसङ्घगणैर्वृतम्॥७०॥

अजमीशानमव्यक्तं कारणात्मानमच्युतम् ।
अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने ।
पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान्॥७१॥

श्रीनारायण उवाच। त्वत्संभूता भूतकृतो वरेण्य गोप्तारोऽस्य भुवनस्यादिदेव ।
आविश्येमां धरणीं येऽभ्यरक्षन् पुरा पुराणीं तव देवसृष्टिम्॥७२॥

भूतकृतः प्रजापतयः हे वरेण्य मोक्षकामैर्वरणीय ॥७२॥

सुरासुरान्नागरक्षःपिशाचान्नरान्सुपर्णानथ गन्धर्वयक्षान् ।
पृथग्विधान्भूतसङ्घांश्च विश्वांस्त्वत्संभूतान्विद्म सर्वांस्तथैव ।
ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं पैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम्॥७३॥

ऐन्द्रम् इंद्रदैवत्यं कर्म तुभ्यं त्वदर्थमेव सर्वेषां देवानां नाम्ना त्वमेव तर्पणीय इत्यर्थः ॥७३॥

रूपं ज्योतिः शब्द आकाशवायुः स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी ।
कालो ब्रह्मा ब्रह्म च ब्राह्मणाश्च त्वत्संभूतं स्थास्नु चरिष्णु चेदम्॥७४॥

आकाश इति लुप्तविभक्तिकम् । स्वाद्यं रसः ब्रह्म वेदाः यज्ञाश्च स्थास्नु स्थावरं चरिष्णु जङ्गमम् ॥७४॥

अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं ताभिश्चैक्यं संक्षये यान्ति भूयः ।
एवं विद्वान्प्रभवं चाप्ययं च मत्वा भूतानां त्व सायुज्यमेति॥७५॥

अद्भ्यः समुद्रेभ्यः स्तोकाः वर्षबिन्दवः संक्षये प्रलये एकार्णवे सायुज्यं ऐक्यम् ॥७५॥

दिव्यामृतौ मानसौ द्वौ सुपर्णौ वाचा शाखाः पिप्पलाः सप्त गोपाः ।
दशाप्यन्ये ये पुरं धारयन्ति त्वया सृष्टास्त्वं हि तेभ्यः परो हि॥७६॥

रूपं ज्योतिरिति द्वाभ्यां श्लोकाभ्यां सर्वस्य ब्रह्मप्रभवत्वं ब्रह्मप्रलयत्वं चोक्तंम् । इह सर्वस्मादन्यद्ब्रह्मणो रूपं विविनक्ति दिव्येति । दिवि हार्दाकाशे भवौ दिव्यौ शुद्धाशुद्धसत्त्वप्रधानायां मूलप्रकृतौ मायाविद्याख्यायां चित्प्रतिबिम्बाविति यावत् । तौ च तावावृतौ दिव्यावृतौ ईश्वरजीवौ। अथापि मानसौ मनस्येव शास्तृशास्यभावेनाभिव्यक्तौ द्वौ सुपर्णौ पक्षिवदुपाध्यसंगिनौ तयोरधिष्ठेयाः सप्त पिप्पला अश्वत्थाः । वाचा शाखाः वाङ्मात्रेण शाखावत् । खे आकाशे शेरते ते शाखाः। ‘शाखाः खशयाः’ इति यास्कः ‘वाचारंभणं विकारः’ इति श्रुतेरनृता इत्यर्थः । महदहंकारपञ्चतन्मात्राख्याः प्रकृतीमानसौ प्रागुक्तौ । ताभ्यां सहैकादश । तथा दश इन्द्रियाणि तेषामेकादशानां गोप्तारः गोप्तेति पाठे एकवचनमार्षम् । तानि हि संसारजाश्वत्थमूला वासना वर्धयन्ति । के ते दश ये पुरं पाञ्चभौतिकं शरीरं धारयन्ति तेभ्यश्व षड्विंशतेरन्यः परमात्मा सप्तविंशस्त्वमसीत्यर्थः ॥७६॥

भूतं भव्यं भविता चाप्यधृष्यं त्वत्संभूता भुवनानीह विश्वा ।
भक्तं च मां भजमानं भजस्व मा रीरिषो मामहिताहितेन॥७७॥

भूतमिति । संभूता संभूतानि । विश्वा विश्वानि । उभयत्र सुपश्छान्दसोऽडादेशः । भजस्व इष्टकामपूरणेन पालय । मा रीरिषः मा हिंसीः मां केन अहिताहितेन अहितानां कामादीनाम् आहितम् आधानं मच्चेतसि प्रवेशनं तेनेत्यर्थः ॥७७॥

आत्मानं त्वामात्मनो न व्यबोधं विद्वानेवं गच्छति ब्रह्म शुक्रम् ।
अस्तौषं त्वां तव संमानमिच्छन् विचिन्वन्वै सदृशं देववर्य ।
सुदुर्लभान्देहि वरान्ममेष्टानभिष्टुतः प्रविकार्षीश्च मायाम्॥७८॥

आत्मानमिति। आत्मनो जीवस्य आत्मानं निरुपाधिस्वरूपं प्रत्यञ्चमत एवानन्यबोधं नास्ति अन्योऽहंकारादिर्बोधोः यस्मिंस्तमनन्यबोधमनन्यभावमिति पाठेऽपि स एवार्थः । एतादृशं त्वां विद्वान् शुक्रम् उपाध्यसंपर्कान्निरवद्यं ब्रह्म गच्छति प्राप्नोति उपाधिप्रहाणेन। अहं तु अहंकारविशिष्टस्तव शंभोः संमानमर्चनं कर्तुमिच्छंस्त्वामस्तौषं स्तुतवानस्मि । कीदृशं सदृशं स्तुतियोग्यं त्वां विचिन्वन् अन्वेषयन्। स्ववृषमिति पाठे स्वधर्मरूपं स्वधर्मप्राप्यं हे देववर्य ईशस्यापि त्वं दुरराधिगम इत्यर्थः । मायां च प्रविकार्षीः प्रकर्येण विकृतवानसि । तां मामुद्दिश्य मा प्रविकार्षीरित्यनुषङ्गेणान्वयः ॥७८॥

व्यास उवाच। तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृत् ।
अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः॥७९॥

अर्हते योग्याय ऋषिणा नारायणेन संस्तुतः ॥७९॥

श्रीभगवानुवाच ।
मत्प्रसादान्मनुष्येषु देव-गन्धर्वयोनिषु ।
अप्रमेयबलात्मा त्वं नारायण भविष्यसि॥८०॥

न च त्वां प्रसहिष्यन्ति देवासुरमहोरगाः ।
न पिशाचा न गन्धर्वा न यक्षा न च राक्षसाः॥८१॥

न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः ।
न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति॥८२॥

वियोनिजाः सिंहव्याघ्रादयः ॥८२॥

न शस्त्रेण न वज्रेण नाग्निना न च वायुना ।
न चार्द्रेण न शुष्केण त्रसेन स्थावरेण च॥८३॥

त्रसेन जंगमेन ॥८३॥

कश्चित्तव रुजां कर्ता मत्प्रसादात्कथञ्चन ।
अपि वै समरं गत्वा भविष्यसि ममाधिकः॥८४॥

गत्वा प्राप्य ॥८४॥

एवमेते वरा लब्धाः पुरस्ताद्विद्धि शौरिणा ।
स एष देवश्चरति मायया मोहयञ्जगत्॥८५॥

तस्यैव तपसा जातं नरं नाम महामुनिम् ।
तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा॥८६॥

तावेतौ पूर्वदेवानां परमोपचितावृषी ।
लोकयात्राविधानार्थं सञ्जयेते युगे युगे॥८७॥

तथैव कर्मणा कृत्स्नं महतस्तपसोऽपि च ।
तेजो मन्युं च बिभ्रंस्त्वं जातो रौद्रो महामते॥८८॥

स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् ।
अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया॥८९॥

देववत् नारायणवत् अवाकर्षः अवमतं कृशं कृतवानसि आत्मानं शरीरम् ॥८९॥

शुभ्रमत्र हविः कृत्वा महापुरुषविग्रहम् ।
ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद॥९०॥

शुत्रं दीप्तिमत् ॥९०॥

स तथा पूज्यमानस्ते पूर्वदेहेऽप्यतूतुषत् ।
पुष्कलांश्च वरान्प्रादात्तव विद्वन् हृदि स्थितान्॥९१॥

जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः ।
ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे॥९२॥

तयोर्नरनारायणयोः। अथापि तव तयोश्च विशेषहेतुं श्रणु इत्याह - ताभ्यामिति । लिंगे सूक्ष्मशरीरे। अर्चायां प्रतिमायाम्। अयं भावः - ‘चतुर्णां सन्निधानेन यत्फलं तदशाश्वतम् । द्वयोस्तु सन्निधानेन शाश्वतं प्राप्यते पदम्’ शत दक्षस्मृतेः । प्रतिमायां शिवार्चकस्य आत्ममनइन्द्रियविषयाणां चतुर्णां सान्निध्यमस्ति । लिंगे तदर्चकस्य तु आत्ममनसोर्द्वयोरेव सान्निध्यमस्तीति तयोरर्चकत्वसाम्येऽपि प्रकारभेदात्फलभे‌दभागितेति ॥९२॥

सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् ।
आत्मयोगाश्च तस्मिन् वै शास्त्रयोगाश्च शाश्वताः॥९३॥

लिंगार्चनादेव सर्वं ब्रह्मेति जानातीत्याह - सर्वेति । ज्ञात्वा शास्त्रात् पूर्वं ज्ञात्वा पश्चादनुभवेनापि जानातीत्यर्थः । अत एव कृष्णे आत्मयोगाख्यं जीवब्रह्मैक्यविज्ञानं शास्त्रयोगाख्यं परोक्षज्ञानं च तत्कारणीभूतं पुष्कलमस्तीत्याह - आत्मेति ॥९३॥

एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः ।
प्रार्थयन्ते परं लोके स्थाणुमेकं स सर्वकृत्॥९४॥

स एष रुद्रभक्तश्च केशवो रुद्रसंभवः ।
कृष्ण एव हि यष्टव्यो यज्ञैश्चैव सनातनः॥९५॥

कृष्णः भक्तानां सहेतुकं संसारं कर्षतीति योगात्स एवाराध्यः ॥९५॥

सर्वभूतभवं ज्ञात्वा लिङ्गमर्चति यः प्रभोः ।
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः॥९६॥

सञ्जय उवाच। तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः ।
नमश्चकार रुद्राय बहु मेने च केशवम्॥९७॥

हृष्टरोमा च वश्यात्मा सोऽभिवाद्य महर्षये ।
वरूथिनीमभिप्रेक्ष्य ह्यवहारमकारयत्॥९८॥

ततः प्रत्यवहारोऽभूत्पाण्डवानां विशांपते ।
कौरवाणां च दीनानां द्रोणे युधि निपातिते॥९९॥

महर्षये व्यासाय ॥९९॥

युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम् ।
ब्रह्मलोकं गतो राजन् ब्राह्मणो वेद‌पारगः॥१००॥

इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि व्यासवाक्ये शतरुद्रीये एकाधिकद्विशततमोऽध्यायः॥२०१॥
द्व्यधिकशततमोऽध्यायः

धृतराष्ट्र उवाच। तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै ।
मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम्॥१॥

तस्मिन्निति । तदेवं विष्णोः शिवमयत्वं व्याख्याय विष्णुत्राणात्तन्मयस्य जगतस्त्राणमपि शैवमेव कर्मेत्युक्तम् । तस्मिन्नित्यत आरभ्य पर्वसमाप्तिपर्यन्तस्य प्रन्यस्य तात्पर्यमपि भूभारावतारेहतुरपि शिव एवेति ॥१॥

सञ्जय उवाच। तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै ।
कौरवेषु च भग्नेषु कुन्तीपुत्रो धनञ्जयः॥२॥

दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम् ।
यदृच्छयाऽऽगतं व्यासं पप्रच्छ भरतर्षभ॥३॥

यदृच्छया दैवेन ॥३॥

अर्जुन उवाच। संग्रामे न्यहनं शत्रूञ्शरौघैर्विमलैरहम् ।
अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम्॥४॥

न्यहनं शत्रूनित्यत्र निघ्नतः शत्रूनिति पाठे शरौघैः शत्रुन्निघ्नत ममाग्रतो यान्तं पुरुषमहं लक्षये इत्यन्वयः ॥४॥

ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते ।
तस्यां दिशि विदीर्यन्ते शत्रवो मे महामुने॥५॥

तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः ।
तेन भग्नानि सैन्यानि पृष्ठतोऽनुव्रजाम्यहम्॥६॥

भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः ।
शूलपाणिर्मया दृष्टस्तेजसा सूर्यसन्निभः॥७॥

न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति ।
शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा॥८॥

व्यास उवाच। प्रजापतीनां प्रथमं तैजसं पुरुषं प्रभुम् ।
भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम्॥९॥

प्रजानां सर्गस्थित्यन्तकर्तृत्वेन पतीनां ब्रह्मविष्णुरुद्राणां प्रथमं प्रथयितारं कारणमित्यर्थः । तैजसं स्वार्थे तद्धितः चिन्मात्ररूपं पुरुषं सर्वपूर्षु शरीरगुहासु शयानमत एव प्रभुमन्तर्यामित्वेन शास्तारं भुवनं द्यौः भूः पृथिवी भुवमन्तरिक्षं त्रैलोक्यशरीरमित्यर्थः । दैवं द्योतमानं सर्वलोकेश्वरम् । प्रभुमिति राजवद्बहिः स्थित्वापि नियमयन्तमित्यर्थः ॥९॥

ईशानं वरदं पार्थ दृष्टवानसि शंकरम् ।
तं गच्छ शरणं देवं वरदं भुवनेश्वरम्॥१०॥

ईशानमनन्याधिपतिं वरदं श्रेष्ठानामपि खण्डयितारं भुवनेश्वरं भुवनव्यापिनम् ॥१०॥

महादेवं महात्मानमीशानं जटिलं विभुम् ।
त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम्॥११॥

जटिलं शिखिनमिति रूपभेदाभिप्रायेण विशेषणद्वयं योज्यम् ॥११॥

महादेवं हरं स्थाणुं वरदं भुवनेश्वरम् ।
जगत्प्रधानमजितं जगत्प्रीतिमधीश्वरम्॥१२॥

जगत्प्रीतिं जगदानन्दकरम् । अधीश्वरमीश्वरादप्यधिकं निरुपाधिचिन्मात्रामत्यर्थः ॥१२॥

जगद्योनिं जगद्बीजं जयिनं जगतो गतिम् ।
विश्वात्मानं विश्वसृजं विश्वमूर्तिं यशस्विनम्॥१३॥

जगद्योनिं जगद्बीजमिति जगतां मातृपितृरूपम् ॥१३॥

विश्वेश्वरं विश्वनरं कर्मणामीश्वरं प्रभुम् ।
शम्भुं स्वयंभुं भूतेशं भूतभव्यभवोद्भवम्॥१४॥

विश्वनरं विश्वस्य नेतारम् भूतस्य भव्यस्य भवस्य वर्तमानस्य चोद्भवम् ॥१४॥

योगं योगेश्वरं सर्वं सर्वलोकेश्वरेश्वरम् ।
सर्वश्रेष्ठं जगच्छ्रेष्ठं वरिष्ठं परमेष्ठिनम्॥१५॥

योगं कर्मयोगादिरूपम्। योगेश्वरं योगिनामीशं योगानां फलप्रदं वा सर्वं सर्वात्मकम् ॥१५॥

लोकत्रयविधातारमेकं लोकत्रयाश्रयम् ।
शुद्धात्मानं भवं भीमं शशाङ्ककृतशेखरम्॥१६॥

शाश्वतं भूधरं देवं सर्ववागीश्वरेश्वरम् ।
सुदुर्जयं जगन्नाथं जन्म-मृत्यु-जरातिगम्॥१७॥

सुदुर्जयम् अत्यन्तं दुष्प्रापमनधिकारिभिः ॥१७॥

ज्ञानात्मानं ज्ञानगम्यं ज्ञानश्रेष्ठं सुदुर्विदम् ।
दातारं चैव भक्तानां प्रसादविहितान्वरान्॥१८॥

ज्ञानात्मानं ज्ञानस्वरूपं ज्ञानगभ्यं परविद्याप्राप्यं ज्ञानश्रेष्ठं चिन्मात्ररूपत्वेनैव प्रशस्यतमम् । अत एव सुदुर्विदमविषयत्वाद्दुर्ज्ञेयम् ॥१८॥

तस्य पारिषदा दिव्या रूपैर्नानाविधैर्विभोः ।
वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः॥१९॥

पारिषदा गणाः ॥१९॥

महाकाया महोत्साहा महाकर्णास्तथाऽपरे ।
आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः॥२०॥

ईदृशैः स महादेवः पूज्यमानो महेश्वरः ।
स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः॥२१॥

तस्मिन्घोरे सदा पार्थ संग्रामे रोमहर्षणे ।
द्रौणि-कर्ण-कृपैर्गुप्तां महेष्वासैः प्रहारिभिः॥२२॥

कस्तां सेनां तदा पार्थ मनसाऽपि प्रधर्षयेत् ।
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात्॥२३॥

प्रधर्षयेत् अभिभवेत् ॥२३॥

स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते ।
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते॥२४॥

गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः ।
विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च॥२५॥

तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि ।
ये चान्ये मानवा लोके ये च स्वर्गजितो नराः॥२६॥

ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् ।
अनन्यभावेन सदा सर्वेशं समुपासते॥२७॥

भक्ताः भजन्त शत भक्ताः ॥२७॥

इहलोके सुखं प्राप्य ते यांति परमां गतिम् ।
नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा॥२८॥

नमस्करणं प्रह्वीभावस्तं कुरुष्व । शितिकण्ठाय नीलग्रीवाय कनिष्ठाय सूक्ष्मायेति प्राञ्चः । कनी दीप्तौ दीप्ततमाय ॥२८॥

रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ।
कपर्दिने करालाय हर्यक्षवरदाय च॥२९॥

इर्यक्षः पिंगाक्षः कुबेरः ॥२९॥

याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च ।
काम्याय हरिनेत्राय स्थाणवे पुरुषाय च॥३०॥

याम्याय यामकर्त्रे कालाय । अव्यक्तकेशाय अव्यक्तं मायाशबलं केशवद्रश्मिमात्रं यस्य । सद्वृत्ते भक्ते शंकराय सुखकराय ॥३०॥

हरिकेशाय मुण्डाय कृशायोत्तारणाय च ।
भास्कराय सुतीर्थाय देवदेवाय रंहसे॥३१॥

मुण्डाय यजमानमूर्तित्वात् । कृशाय तपोनिष्ठत्वात् उत्तारणाय संसारादिति शेषः। रंहसे वेगवते॥३१॥

बहुरूपाय सर्वाय प्रियाय प्रियवाससे ।
उप्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे॥३२॥

सर्वे अयाः शुभावहा विधयः प्रियाः यस्य । तस्मै सर्वाय प्रियाय प्रियवाससे सोमाय वाससः सोमदैवत्यत्वात् उष्णीषिणे शिरोवेष्टनवते मीढुषे वृष्टिकर्त्रे ॥३२॥

गिरिशाय प्रशान्ताय पतये चीरवाससे ।
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम्॥३३॥

गिरिशाय पर्वतशायिने । चीरं वल्कलं हिरण्यबाहवे सुवर्णालंकृतभुजाय ॥३३॥

पर्जन्यपतये चैव भूतानां पतये नमः ।
वृक्षाणां पतये चैव गवां च पतये नमः॥३४॥

वृक्षैरावृतकायाय सेनान्ये मध्यमाय च ।
स्रुवहस्ताय देवाय धन्विने भार्गवाय च॥३५॥

वृक्षैर्व्रश्चनयोग्यैर्देहैरावृतकायाय आच्छादितस्वरूपाय मध्यमाय अन्तर्यामिणे स्रुवहस्ताय अध्वर्यवे भार्गवाय रामाय॥३५॥

बहुरूपाय विश्वस्य पतये मुञ्जवाससे ।
सहस्रशिरसे चैव सहस्रनयनाय च॥३६॥

मुंजो वल्कलं तृणतन्तवो वा तन्मयवाससे ॥३६॥

सहस्रबाहवे चैव सहस्रचरणाय च ।
शरणं गच्छ कौन्तेय वरदं भुवनेश्वरम्॥३७॥

उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् ।
प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम्॥३८॥

अव्यग्रमनाकुलम् ॥३८॥

कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् ।
वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम्॥३९॥

कपर्दिनं जटाजूटवन्तम् । वृषावर्तं वृषाणां श्रेष्ठानां ब्रह्मादीनामावर्तयितारम् । तानपि भ्रामयन्तं माययेत्यर्थः। वृषनाभं सर्वलोकाश्रयत्वेन प्रशस्ततमगर्भम् । वृषध्वजं नन्दिवाहनम् । वृषदर्पं वृषः समर्थस्त्रैलोक्यसंहारक्षमो दर्पोऽहंकारो यस्य तम्। वृषस्य धर्मस्य पतिम्। तत्फलप्रदातृत्वेन वृषो धर्म एव परापररूपो विश्ववपुषः श्रृंगभूत उच्चतरो यस्य तम्। अत एव वृषर्षभं वृषाणां फलवर्षिणामिन्द्रादीनामृषभं श्रेष्ठम् ॥३९॥

वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् ।
वृषायुधं वृषशरं वृषभूतं वृषेश्वरम्॥४०॥

वृषो बलीवर्दोङ्के ध्वजे यस्य तं वृषाङ्कम् । वृषभोदारं वृषभेषु धर्मेण भासमानेषु उदारं बहुफलप्रदम् । अत एव वृषभं वृषेण धर्मेण निमित्तेन भानं साक्षात्कारो यस्य तं वृषभं योगधर्मैकगम्यम्। वृषभेक्षणं स्पष्टार्थम् । वृषायुधं श्रेष्ठप्रहरणम् । वृषो विष्णुः शरो यस्य तं वृषशरम् । वृषभूतं धर्मैकवपुषम्। वृषस्य दक्षयज्ञस्येश्वरं नियन्तारम् ॥४०॥

महोदरं महाकायं द्वीपिचर्मनिवासिनम् ।
लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम्॥४१॥

महदनेककोटिब्रह्माण्डाश्रयभूतमुदरं यस्य तं महोदरम् । महाकायं त्रैलोक्यशरीरं द्वीपिचर्मनिवासिनं व्याघ्रचर्मणा नितरां छादितम् ॥४१॥

त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम् ।
पिनाकिनं खड्गधरं लोकानां पतिमीश्वरम्॥४२॥

खड्गधरं खड्गमात्रधरम् ॥४२॥

प्रपद्ये शरणं देवं शरण्यं चीरवाससम् ।
नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा॥४३॥

सुवाससे नमस्तुभ्यं सुव्रताय सुधन्विने ।
धनुर्धराय देवाय प्रियधन्वाय धन्विने॥४४॥

सुधन्विने शोभना धन्विनो धनुर्धराः पार्षदा अस्य सन्ति तस्मै । स्वयमपि धनुर्धराय । अत एव प्रियधन्वाय धनुःप्रियाय । धन्वधनुःप्रेरकत्वेनास्यास्तीति तस्मै बाणाय ॥४४॥

धन्वन्तराय धनुषे धन्वाचार्याय ते नमः ।
उग्रायुधाय देवाय नमः सुरवराय च॥४५॥

धन्वन्तराय धनुषि अन्तरे मध्येऽस्तीति धन्वन्तरं मौर्वी तद्रूपाय । सन्धिरार्षः । धनुषे धनुःस्वरूपाय । धन्वाचार्याय धनुर्वेद‌गुरवे ॥४५॥

नमोऽस्तु बहुरूपाय नमोऽस्तु बहुधन्विने ।
नमोऽस्तु स्थाणवे नित्यं नमस्तस्मै तपस्विने॥४६॥

नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः ।
वनस्पतीनां पतये नराणां पतये नमः॥४७॥

भगघ्नाय भगनेत्रभिदे ॥४७॥

मातॄणां पतये चैव गणानां पतये नमः ।
गवां च पतये नित्यं यज्ञानां पतये नमः॥४८॥

अपां च पतये नित्यं देवानां पतये नमः ।
पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च॥४९॥

नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः ।
कर्माणि यानि दिव्यानि महादेवस्य धीमतः॥५०॥

तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम् ।
न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः॥५१॥

सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः ।
दक्षस्य यजमानस्य विधिवत्संभृतं पुरा॥५२॥

गुहागताः पातालगता अपीत्यर्थः । न सुखमेधन्तीत्युक्तं तदेवाह - दक्षस्येत्यादिना ॥५२॥

विव्याध कुपितो यज्ञं निर्देयस्त्वभवत्तदा ।
धनुषा बाणमुत्सृज्य सघोषं विननाद च॥५३॥

ते न शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा ।
विद्रुते सहसा यज्ञे कुपिते च महेश्वरे॥५४॥

तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः ।
बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः॥५५॥

आपश्चुक्षुभिरे सर्वाश्चकंपे च वसुन्धरा ।
पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः॥५६॥

अन्धेन तमसा लोका न प्राकाशन्त संवृताः ।
जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः॥५७॥

तमसा संवृता न प्राकाशन्त न प्राज्ञायन्त ॥५७॥

चुक्षुभुर्भयभीताश्च शान्तिं चक्रुस्तथैव च ।
ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः॥५८॥

चक्रुरृषय इति संबन्धः ॥५८॥

पूषाणमभ्यद्रवत शंकरः प्रहसन्निव ।
पुरोडाशं भक्षयतो दशनान् वै व्यशातयुत्॥५९॥

पूषाणे पूषणम् ॥५९॥

ततो निश्चक्रमुर्देवा वेपमाना नताः स्म ते ।
पुनश्च संदधे दीप्तान्देवानां निशिताञ्शरान्॥६०॥

नता लीनाः सन्तः निश्चक्रमुर्यज्ञदेशादपक्रान्ताः देवानां लीनानामपि वधायेति शेषः॥६०॥

सधूमान्सस्फुलिङ्गांश्च विद्युत्तोयदसन्निभान् ।
तं दृष्ट्वा तु सुराः सर्वे प्रणिपत्य महेश्वरम्॥६१॥

तं शरान्मुञ्चन्तमिति शेषः ॥६१॥

रुद्रस्य यज्ञभागं च विशिष्टं ते त्वकल्पयन् ।
भयेन त्रिदशा राजञ्छरणं च प्रपेदिरे॥६२॥

तेन चैवातिकोपेन स यज्ञः सन्धितस्तदा ।
भग्नाश्चापि सुरा आसन् भीताश्चाद्यापि तं प्रति॥६३॥

अतिकोपेन अतिक्रान्तकोपेन शान्तेनेत्यर्थः । ततःप्रभृति पूर्वं भग्नाः सन्तोऽद्यापि भीताः सन्तीत्यर्थः ॥६३॥

असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि ।
आयसं राजतं चैव सौवर्णं परमं महत्॥६४॥

सौवर्णं कमलाक्षस्य तारकाक्षस्य राजतम् ।
तृतीयं तु पुरं तेषां विद्युन्मालिन आयसम्॥६५॥

न शक्तस्तानि मघवान् भेत्तुं सर्वायुधैरपि ।
अथ सर्वे सुरा रुद्रं जग्मुः शरणमर्दिताः॥६६॥

ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः ।
ब्रह्मदत्तवरा ह्येते घोरास्त्रिपुरवासिनः॥६७॥

पीडयन्त्यधिकं लोकं यस्मात्ते वरदर्पिताः ।
त्वदृते देवदेवेश नान्यः शक्तः कथञ्चन॥६८॥

हन्तुं दैत्यान्महादेव जहि तांस्त्वं सुरद्विषः ।
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु॥६९॥

निपातयिष्यसे चैतानसुरान् भुवनेश्वर ।
स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया॥७०॥

गन्धमादनविन्ध्यौ च कृत्वा वंशध्वजौ हरः ।
पृथ्वीं ससागरवनां रथं कृत्वा तु शङ्करः॥७१॥

वंशध्वजौ अल्पौ ध्वजौ पार्श्वद्वयस्थौ । महाध्वजस्तु मेरुरिति वक्ष्यते ॥७१॥

अक्षं कृत्वा तु नागेन्द्रं शेषं नाम त्रिलोचनः ।
चक्रे कृत्वा तु चन्द्रार्कौ देवदेवः पिनाकधृक्॥७२॥

अणी कृत्वैलपत्रं च पुष्पदन्तं च त्र्यम्बकः ।
यूपं कृत्वा तु मलयमवनाहं च तक्षकम्॥७३॥

अणी युगान्तबन्धने द्वी नागौ। यूपं युगम् अवनाहं त्रिवेणुयुगबन्धनरज्जुम् ॥७३॥

योक्त्रांगानि च सत्त्वानि कृत्वा शर्वः प्रतापवान् ।
वेदान् कृत्वाऽथ चतुरश्चतुरश्वान्महेश्वरः॥७४॥

योक्त्राणि । अङ्गानि चाकर्षादीनि । सत्त्वानि सरीसृपपर्वतादीनि च ॥७४॥

उपवेदान् खलीनांश्च कृत्वा लोकत्रयेश्वरः ।
गायत्रीं प्रग्रहं कृत्वा सावित्रीं च महेश्वरः॥७५॥

उपवेदान् आयुर्वेदधनुर्वेदगान्धर्ववेदपश्चिमाम्नायान् । खलीनान् कडीयाळीतिप्रसिद्धान् । गायत्रीसावित्र्यौ प्रग्रहं रश्मीन् ॥७५॥

कृत्वोङ्कारं प्रतोदं च ब्रह्माणं चैव सारथिम् ।
गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा तु वासुकिम्॥७६॥

विष्णुं शरोत्तमं कृत्वा शल्यमग्निं तथैव च ।
वायुं कृत्वाऽथ वाजाभ्यां पुङ्खे वैवस्वतं यमम्॥७७॥

वाजाभ्यां पक्षाभ्यां पक्षयोरित्यर्थः ॥७७॥

विद्युत्कृत्वाऽथ निश्राणं मेरुं कृत्वाथ वै ध्वजम् ।
आरुह्य स रथं दिव्यं सर्वदेवमयं शिवः॥७८॥

विद्युत् विद्युतं निश्राणं निशितम् ॥७८॥

त्रिपुरस्य वधार्थाय स्थाणुः प्रहरतां वरः ।
असुराणामन्तकरः श्रीमानतुलविक्रमः॥७९॥

स्तूयमानः सुरैः पार्थ ऋषिभिश्च तपोधनैः ।
स्थानं माहेश्वरं कृत्वा दिव्यमप्रतिमं प्रभुः॥८०॥

स्थानं स्थीयतेऽस्मिन्निति योगाद्व्यूहम् ॥८०॥

अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान् ।
यदा त्रीणि समेतानि अन्तरिक्षे पुराणि च॥८१॥

स्थाणुरचलः समेतानि समसूत्रगतानि ॥८१॥

त्रिपर्वणा त्रिशल्येन तदा तानि बिभेद सः ।
पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम्॥८२॥

त्रिपर्वणा त्रीणि विष्णुवायुवैवस्वताख्यानि शरपक्षपुंखरूपाणि पर्वाणि यस्य तेन। त्रिशल्येन गार्हपत्यदक्षिणाग्न्याहवनीयरूपाग्नित्रयशल्येन ॥८२॥

शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम् ।
पुराणि दग्धवन्तं तं देवी याता प्रवीक्षितुम्॥८३॥

पुराणीत्यादिसार्धः । पूर्वं दक्षयज्ञविध्वंसनमुक्तं तस्य तात्पर्यम् - ईश्वरेऽनर्पितो यज्ञो विध्वंसते । ततश्च यज्ञकर्ता ऋत्विजश्च नश्यतीत्युक्तं तेनेश्वरप्रीत्यर्थं कर्माणि कार्याणीति दर्शितम् । ततस्त्रिपुरवध उक्तस्तस्य तात्पर्यं स्थूलसूक्ष्मकारणानि त्रीणि शरीराणि पुराणि क्रमाद्बहुप्रीत्यल्पसुखकरत्वाभ्यां मोहमयत्वेन च सौवर्णराजतायसानि । कामाद‌योऽसुराः शमादयो देवास्तेषां प्रीतिकरो रुद्र आत्मा शरीरं पृथिव्याख्यं रथमास्थाय तस्य चालके चन्द्रसूर्याख्ये मनश्चक्षुषी चक्रे । वेदाश्च गम्यस्थानप्रापकत्वेन हयाः शरो विष्ण्वधिष्ठिता सूक्ष्मबुद्धिस्तदैकाग्र्येण शरीरत्रयभेदे तुर्ये ब्रह्मणि साक्षात्कृते सति कामादयो नश्यन्ति फलभूताश्च शमाद‌यो वर्धन्ते । तेषु च वर्धमानेषु रुद्रो बालवद्रागद्वेषशून्यो ब्रह्मविद्यापरनाम्न्या उमाया वशगो भवतीत्येतदत्र प्रदर्श्यते॥८३॥

बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः ।
उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्सुरान्॥८४॥

असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः ।
बाहुं सवज्रं तं तस्य क्रुद्धस्यास्तंभयत्प्रभुः॥८५॥

असूयतश्च शक्रस्येत्यादितात्पर्यं - ब्रह्मभूतं द्विषन्तः कर्मठास्तेन योगमहिम्ना निर्जिताः सन्तस्तमेव शरणं गच्छन्तीति ॥८५॥

प्रहस्य भगवांस्तूर्णं सर्वलोकेश्वरो विभुः ।
ततः स स्तंभितभुजः शक्रो देवगणैर्वृतः॥८६॥

जगाम ससुरस्तूर्णं ब्रह्माणं प्रभुमव्ययम् ।
ते तं प्रणम्य शिरसा प्रोचुः प्राञ्जलयस्तदा॥८७॥

किमप्यङ्कगतं ब्रह्मन् पार्वत्या भूतमद्भूतम् ।
बालरूपधरं दृष्ट्वा नास्माभिरभिलक्षितः॥८८॥

तस्मात्त्वां प्रष्टुमिच्छामो निर्जिता येन वै वयम् ।
अयुध्यता हि बालेन लीलया सपुरंदराः॥८९॥

तेषां तद्वचनं श्रुत्वा ब्रह्मा ब्रह्मविदां वरः ।
ध्यात्वा स शंभुं भगवान्बालं चामिततेजसम्॥९०॥

उवाच भगवान्ब्रह्मा शक्रादींश्च सुरोत्तमान् ।
चराचरस्य जगतः प्रभुः स भगवान्हरः॥९१॥

तस्मात्परतरं नान्यत्किंचिदस्ति महेश्वरात् ।
यो दृष्टो ह्युमया सार्धं युष्माभिरमितद्युतिः॥९२॥

स पार्वत्याः कृते शर्वः कृतवान्बालरूपताम् ।
ते मया सहिता यूयं प्रापयध्वं तमेव हि॥९३॥

स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः ।
न संबुबुधिरे चैनं देवास्तं भुवनेश्वरम्॥९४॥

सप्रजापतयः सर्वे बालार्कसदृशप्रभम् ।
अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा स च महेश्वरम्॥९५॥

अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः ।
ब्रह्मोवाच ।
त्वं यज्ञो भुवनस्यास्य त्वं गतिस्त्वं परायणम्॥९६॥

गतिः पालकः । परायणं लयस्थानम् ॥९६॥

त्वं भवस्त्वं महादेवस्त्वं धाम परमं पदम् ।
त्वया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम्॥९७॥

भव उत्पत्तिकारणम् ॥९७॥

भगवन्भूतभव्येश लोकनाथ जगत्पते ।
प्रसादं कुरु शक्रस्य त्वया क्रोधार्दितस्य वै॥९८॥

ईशः शिक्षकः। नाथः नायकः । पतिः पालकः ॥९८॥

व्यास उवाच। पद्मयोनिवचः श्रुत्वा ततः प्रीतो महेश्वरः ।
प्रसादाभिमुखो भूत्वा अट्टहासमथाकरोत्॥९९॥

ततः प्रसाद‌यामासुरुमां रुद्रं च ते सुराः ।
अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः॥१००॥

तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः ।
देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः॥१०१॥

स वै रुद्रः स च शिवः सोऽग्निः सर्वश्च सर्ववित् ।
स चेन्द्रश्चैव वायुश्च सोऽश्विनौ च स विद्युतः॥१०२॥

स वै रुद्र इत्यादिना पुनरेव सार्वात्म्यमुच्यते ॥१०२॥

स भवः स च पर्जन्यो महादेवः सनातनः ।
स चंद्रमाः स चेशानः स सूर्यो वरुणश्च सः॥१०३॥

स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि तु ।
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः॥१०४॥

धाता च स विधाता च विश्वात्मा विश्वकर्मकृत् ।
सर्वासां देवतानां च धारयत्यवपुर्वपुः॥१०५॥

सर्वदेवैः स्तुतो देवः सैकधा बहुधा च सः ।
शतधा सहस्रधा चैव भूयः शतसहस्रधा॥१०६॥

द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः ।
घोरा चान्या शिवा चान्या ते तनू बहुधा पुनः॥१०७॥

घोरा तु यातुधानस्य सोऽग्निर्विष्णुः स भास्करः ।
सौम्या तु पुनरेवास्य आपो ज्योतींषि चंद्रमाः॥१०८॥

वेदाः साङ्गोपनिषदः पुराणाध्यात्मनिश्चयाः ।
यत्र परमं गुह्यं स वैः देवो महेश्वरः॥१०९॥

ईदृशश्च महादेवो भूयांश्च भगवानजः ।
न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः॥११०॥

अपि वर्षसहस्रेण सततं पाण्डुनन्दन ।
सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान्॥१११॥

स मोचयति सुप्रीतः शरण्यः शरणागतान् ।
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान्॥११२॥

स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः ।
सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते॥११३॥

स चैव व्यापृतो लोके मनुष्याणां शुभाशुभे ।
ऐश्वर्याच्चैव कामानामीश्वरश्च स उच्यते॥११४॥

महेश्वरश्च महतां भूतानामीश्वरश्च सः ।
बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत्॥११५॥

तस्य देवस्य यद्वक्त्रं समुद्रे तदधिष्ठितम् ।
वडवामुखेति विख्यातं पिबत्तोयमयं हविः॥११६॥

द्वे तनू इत्युक्ते तनू पुनर्व्याख्याति - तस्य देवस्येति । वडवामुखारव्या घोरा तनुः ॥११६॥

एष चैव श्मशानेषु देवो वसति नित्यशः ।
यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम्॥११७॥

एष चैवेति । अघोरा श्मशानाख्या काशी ‘या ते रुद्र शिवा तनूरघोरा पापकाशिनी’ इति लिंगादपापस्य ब्रह्मणः प्रकाशकत्वात् । एतच्चान्यत्राप्यविमुक्ताख्यां तामेव प्रकृत्याऽऽम्नातम् । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति। तस्मादविमुक्तमेव निषेवेताविमुक्तं न विमुञ्चेदिति। तत्र श्मशाने काश्याम् एनं रुद्रं जना उपासकाः यजन्ति आराधयन्ति। एतदपि तत्रैव श्रुतम् । य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्त उपास्यः सोऽविमुक्ते प्रतिष्ठित इति। वीरस्थाने वीराणां षड्वर्गजयिनां संन्यासिनां स्थाने अविमुक्ते । यथोक्तं यतीन्प्रकृत्य स्मृतिषु - “अष्टौ मासान् विहारः स्याद्वार्षिकांश्चतुरो वसेत्। अविमुक्ते प्रविष्टानां विहारो नैव विद्यते' इति। न चात्र श्मशानशब्दार्थो लोकप्रसिद्धो ग्रहीतुं युक्तः। तस्याशुचित्वेन यागभूमित्वासंभवेन यजन्त्येनं जनास्तत्रेति वाक्यशेषविरोधात्। न च वीरस्थाने इत्युक्तेरसुराणां निन्द्यमार्गजुषां तदपि यजनस्थानमिति वाच्यम् । आनुशासनिके उमामहेश्वरसंवादे श्मशानसदृशं पवित्रं स्थानं त्रैलोक्ये नास्तीति महेश्वरवचसैव स्थापितत्वात् तस्मान्महाश्मशानमिति लोकप्रसिद्धेः पवित्रं देवयजनस्थानं श्मशानाख्यं वाराणस्येव । अत्रैव संवर्तादीनामज्ञातवासो जाबालादौ श्रूयमाणो दानधर्मेषु मैत्रेयभिक्षायामाश्वमेधीये संवर्तमरुत्तीये चोपबृंहित इति सर्वमनवद्यम् ॥११७॥

अस्य दीप्तानि रूपाणि घोराणि च बहूनि च ।
लोके यान्यस्य पूज्यन्ते मनुष्याः प्रवदन्ति च॥११८॥

अस्येति । चादघोराणि ॥११८॥

नामधेयानि लोकेषु बहून्यस्य यथार्थवत् ।
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मणस्तथा॥११९॥

निरुच्यन्ते -

‘ऐश्वर्याच्चैव कामानामीश्वरश्च स उच्यते ।
महेश्वरश्च महतां भूतानामीश्वरश्च सः ।

इत्येवंजातीयकैः श्लोकैर्व्याख्यायन्ते ॥११९॥

वेदे चास्य समाम्नातं शतरुद्रियमुत्तमम् ।
नाम्ना चानन्तरुद्रेति ह्युपस्थानं महात्मनः॥१२०॥

शतरुद्रियं ‘नमस्ते रुद्रमन्यवे’ इति याजुषः प्रपाठकः। उपस्थानं रुद्रोपस्थानमन्त्रभूतम् ॥१२०॥

सकामानां प्रभुर्देवो ये दिव्या ये च मानुषाः ।
स विभुः स प्रभुर्देवो विश्वं व्याप्नोति वै महत्॥१२१॥

कामानां दिव्यानां मानुषार्णा च स प्रभुर्दाता विभुर्व्यापकः । विश्वं व्याप्नोति कनककुण्डलवत् । न त्वाकाशवद्विभुमात्रं नापि प्रधानवत् ॥१२१॥

ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा सुनयस्तथा ।
प्रथमो ह्येष देवानां सुखादस्थानलोऽभवत्॥१२२॥

यतः प्रभुरीश्वरश्चेतन इति यावत्। ज्येष्ठं प्रशस्ततमं त्रिविधपरिच्छेदशून्यं भूतं नित्यसिद्धम्। एष एव प्रथमः प्रजापतिः ॥१२२॥

सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः ।
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः॥१२३॥

पशून् जीवान् अत्र पाति पालयति । पिबति सादरं पश्यति शोषयति चेत्यर्थानभिप्रेत्य डत्यन्तस्य पातेः पतिशब्द उत्पन्नस्तेन पशुपतिशब्दस्याप्यर्थत्रयमित्यग्रे विज्ञेयम् ॥१२३॥

दिव्यं च ब्रह्मचर्येण लिङ्गमस्य यथा स्थितम् ।
महयत्येष लोकांश्च महेश्वर इति स्मृतः॥१२४॥

ब्रह्मचर्येण दिव्यत्वात् । यथास्थितत्वाच्च लिंगमित्यप्यस्य नाम । आलिंगत्ययं प्रपञ्चं सत्तास्फूर्तिप्रदानेनालिंगत्येनं प्रपञ्चः प्रलीयमान इति हेतोरयं लिङ्गपदवाच्यः दिव्यत्वादसङ्गत्वाद्यथास्थितत्वात्कूटस्थत्वाच्च प्रधानादन्यत्वमित्यर्थः। महयन् पूजयन् स चासौ ईश्वरश्चेति महेश्वरः ॥१२४॥

ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा ।
लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम्॥१२५॥

लिङ्गयति सर्वान्कामान् गमयति। अतः सर्वोत्कृष्टत्वादूर्ध्वमूर्ध्वत्वाच्च ऋष्यादीनामर्च्यं लिंगति भक्तसमर्पितं पत्रपुष्पादि गच्छति प्राप्नोतीत्यनेन हेतुना लिङ्गमित्युत्तरस्यार्थः ॥१२५॥

पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः ।
सुखी प्रीतश्च भवति प्रहृष्टश्चैव शङ्करः॥१२६॥

यदस्य बहुधा रूपं भूतभव्यभवस्थितम् ।
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः॥१२७॥

भये वर्तमानम् ॥१२७॥

एकाक्षो जाज्वलन्नास्ते सर्वतोऽक्षिमयोऽपि वा ।
क्रोधाद्यश्चाविशल्लोकांस्तस्मात्सर्व इति स्मृतः॥१२८॥

एकमक्ष्यस्य वह्निमयं जाज्वलदत्यन्तं दीप्तमास्ते यत्र प्रविष्टं सर्वं तत्तादात्म्यं प्राप्नोतीत्यनेन सरंत्येनं भूतानीति वा सरत्ययं सर्वाणि भूतान्यनन्तलोचनत्वादिति वा सर्वः। जाज्वलन्नित्यस्यैव विवरणं - क्रोधादिति । शर्व इति तालव्यादिपाठेऽपि शृणोति हिनस्तीति शर्व इति निर्वचनम् ॥१२८॥

धूम्ररूपं च यत्तस्य धूर्जटिस्तेन चोच्यते ।
विश्वेदेवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः॥१२९॥

धूम्रा क्रोधवती जटिः स्वरूपमस्येति विग्रहे वर्णलोपाद्धूर्जटिरित्याह - धूम्रेति । रूपशब्दो देववाचीत्यभिप्रेत्याह - विश्वे इति ॥१२९॥

तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः ।
द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः॥१३०॥

त्रैलोक्यं भजते पालयतीति त्र्यंबक इत्याह - तिस्त्र इति ॥१३०॥

स मेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु ।
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः॥१३१॥

समेधयतीति यस्माद्धनादिवर्धनेन लोकानां शिवंकरस्तस्माच्छिव इत्यर्थः ॥१३१॥

सहस्राक्षोऽयुताक्षो वा सर्वतोऽक्षिमयोऽपि वा ।
यच्च विश्वं महत् पाति महादेवस्ततः स्मृतः॥१३१॥

समेधयतीति यस्माद्धनादिवर्धनेन लोकानां शिवंकरस्तस्माच्छिव इत्यर्थः ॥१३१॥

महत्पूर्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत् ।
स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः॥१३२॥

महान्ति पुरुषभेदेन बहुत्वाद्विभुत्वाद्वा व्यापकाख्यानि देवशब्दितानीन्द्रियाण्यस्येति वा महतो विश्वस्य देवो राजा वा महादेव इत्यभिप्रेत्याह - सहस्रेति ॥१३२॥

सूर्याचन्द्रमसोर्लोके प्रकाशन्ते रुचश्च याः ।
ताः केशसंज्ञितास्त्र्यक्षे व्योमकेशस्ततः स्मृतः॥१३३॥

स ईक्षां चक्रे स प्राणमसृजत्प्राणाच्छ्रद्धामित्यादिना श्रुतौ ईक्षणकर्ता ईश्वरो महानुक्तः । प्राणो जीवोपाधिस्तेन जीव उक्तः। श्रद्धादिकं जीवस्य लिङ्गशरीरं चरमं कार्यम् । तत्र महत ईशात्प्रागुपाध्यस्पृष्टेन रूपेण तत उपहितेन साक्षिरूपेण तदुपाध्यभिमानिना कर्त्रादिरूपेण चास्थितोऽपि स्थितलिङ्गः अविक्रियस्वरूपतया तिष्ठतीति योगात् स्थाणुरित्युच्यत इत्याह- महदिति ॥१३३॥

भूतं भव्यं भविष्यं च सर्वं जगदशेषतः ।
भव एव ततो यस्माद्भूतभव्यभवोद्भवः॥१३५॥

कपिः श्रेष्ठ इति प्रोक्तो धर्मश्च वृष उच्यते ।
स देवदेवो भगवान्कीर्त्यतेऽतो वृषाकपिः॥१३६॥

ब्रह्माणमिन्द्रं वरुणं यमं धनदमेव च ।
निगृह्य हरते यस्मात्तस्माद्धर इति स्मृतः॥१३७॥

निमीलिताभ्यां नेत्राभ्यां बलाद्देवो महेश्वरः ।
ललाटे नेत्रमसृजत्तेन त्र्यक्षः स उच्यते॥१३८॥

विषमस्थः शरीरेषु समश्च प्राणिनामिह ।
स वायुर्विषमस्थेषु प्राणोपानः शरीरिषु॥१३९॥

शरीरेषु विषमैर्दशविधै रूपैस्तिष्ठतीति विषमस्थः प्राणिनां देहाभिमानिनां सर्वेषां समः प्रियत्वात् न ह्यात्मनि कदाचिप्यप्रियत्वं कस्यापि दृष्टं स एष शिव एव वायुरूपी प्राणापानादिभेदेन विषमस्थेषु पुण्यपापिषु शरीरिषु जीवेषु स्थितः सर्वसम इत्यर्थः ॥१३९॥

पूजयेद्विग्रहं यस्तु लिङ्गं चापि महात्मनः ।
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते॥१४०॥

विग्रहं प्रतिमाम् ॥१४०॥

ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः ।
आत्मनोऽर्धं तथा चाग्निः सोमोऽर्धं पुनरुच्यते॥१४१॥

ऊरुभ्यामित्यादिश्लोकत्रयेण पुनस्तनूद्वयं विभजते - ऊरुभ्यामिति । तत्राद्यश्लोकेऽग्निरिति भोक्ता सोम इति च भोग्यमुच्यते । अत्र मुखबाहूरुपादेभ्यो जाताश्चत्वारो वर्णाः कर्मफलभूतवृष्ट्यादिचारेण समस्तप्राणिकल्याणकरत्वाद्रुद्रस्य शिवा तनूरित्युच्यते । तत्र ऊरुशब्देन तदारभ्याधस्तनः प्रदेश उच्यते। तत्रार्धमाग्नेयं परिशेषादर्धं सोमः वैश्यो भोक्ता शूद्रो भोज्यम् इत्यर्थः। आत्मनो रुद्रस्य तथा च ऊरुभ्यामुपरि अर्धं शिरोभागो ब्राह्मणोऽग्निर्भोक्ता परिशेषादर्धं बाहुभागः क्षत्रियः सोमो भोज्यं तथा पुनरप्येतदुच्यते अर्धमाग्नेयमर्धं सोम इति तेन ब्रह्मक्षत्रे भोक्तारौ वैश्यशूद्रौ भोज्यौ तथा च भोक्त्रा भोज्यं रक्ष्यं भोज्येन च भोक्ता वर्धनीय इति तथा च चातुर्वर्ण्यं त्रैलोक्यस्थितिहेतुत्वादात्मनो रुदस्य शिवा तनुरित्यर्थः ॥१४१॥

तैजसी महती दीप्ता देवेभ्योऽस्य शिवा तनुः ।
भास्वती मानुषेष्वस्य तनुर्घोराऽग्निरुच्यते॥१४२॥

तैजसीति। ‘न ह वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति’ इति श्रुतेर्देवानां भोग्या सोमरूपास्य शिवा तनुः स्वर्गेऽस्ति तथा भुवि मानुषेषु घोरा भोक्त्री जठराग्निरूपा सर्वानर्थनिदानभूताऽस्तीति भावः ॥१४२॥

ब्रह्मचर्यं चरत्येष शिवा याऽस्य तनुस्तया ।
याऽस्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः॥१४३॥

ब्रह्मचर्यमिति । एष मानुषः तया तन्वा ब्रह्मचर्यं चरति याऽस्य शिवा तनूर्दैवी संपत् शमदमादिरूपा सर्वानर्थनिदानं घोरतरा कामक्रोधादिरूपा याऽस्य शिवस्य मूर्तिस्तया स सर्वानत्ति क्रोधाद्याविष्टो हि पित्रादीनपि हिनस्तीति प्रसिद्धम् ॥१४३॥

यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् ।
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते॥१४४॥

एवमस्यैव कारयितृत्वादयमेवाराध्योऽस्माद्भेतव्यमित्याशयेनाह - यन्निर्दहतीति । निर्दहत्यग्निवत् तीक्ष्णः शस्त्रवत् उग्रो यमवत् प्रतापवान् कालवच्च भूत्वा सर्वान् रोदयति रुणद्धि वा सर्वग्रासित्वाद्रुद्र इत्युच्यते अयमेव भयकृद्भयनाशनश्चेत्याराधनीयो न तु हेलनीय इति भावः ॥१४४॥

एष देवो महादेवो योऽसौ पार्थ तवाग्रतः ।
संग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृक्॥१४५॥

सिन्धुराजवधार्थाय प्रतिज्ञाते त्वयाऽनघ ।
कृष्णेन दर्शितः स्वप्ने यस्तु शैलेन्द्रमूर्धनि॥१४६॥

एष वै भगवान्देवः संग्रामे याति तेऽग्रतः ।
येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः॥१४७॥

धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संमितम् ।
देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम्॥१४८॥

सर्वार्थसाधनं पुण्यं सर्वकिल्विषनाशनम् ।
सर्वपापप्रशमनं सर्वदुःखभयापहम्॥१४९॥

चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा ।
विजित्य शत्रून्सर्वान्स रुद्रलोके महीयते॥१५०॥

चतुर्विधं शुद्धशबलसूत्रविराट्भेदेन भगवद्रूपस्य चातुर्विध्यात्स्तोत्रमप्यस्य चतुर्विधम् ॥१५०॥

चरितं महात्मनो नित्यं सांग्रामिकमिदं स्मृतम् ।
पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः॥१५१॥

भक्तो विश्वेश्वरं देवं मानुषेषु च यः सदा ।
वरांन्कामान्स लभते प्रसन्ने व्यम्बके नरः॥१५२॥

गच्छ युद्ध्यस्व कौन्तेय न तवास्ति पराजयः ।
यस्य मन्त्री च गोप्ता च पार्श्वस्थो हि जनार्दनः॥१५३॥

सञ्जय उवाच। एवमुक्त्वाऽर्जुनं संख्ये पराशरसुतस्तदा ।
जगाम भरतश्रेष्ठ यथागतमरिन्दम॥१५४॥

युद्धं कृत्वा महद्धोरं पञ्चाहानि महाबलः ।
ब्राह्मणो निहतो राजन् ब्रह्मलोकमवाप्तवान्॥१५५॥

स्वधीते यत्फलं वेदे तद‌स्मिन्नपि पर्वणि ।
क्षत्रियाणामभीरूणां युक्तमत्र महद्यशः॥१५६॥

य इदं पठते पर्व शृणुयाद्वापि नित्यशः ।
स मुच्यते महापापैः कृतैर्घोरैश्च कर्मभिः॥१५७॥

यज्ञावाप्तिर्बाह्मणस्येह नित्यं घोरे युद्धे क्षत्रियाणां यशश्च ।
शेषौ वर्णौ काममिष्टं लभेते पुत्रान्पौत्रान्नित्यमिष्टांस्तथैव॥१५८॥

इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि द्व्यधिकद्विशततमोऽध्यायः॥२०२॥
समाप्तं नारायणास्त्रमोक्षपर्व।

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in