सञ्जय उवाच।
ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः
।
हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः॥१॥
तत इति ॥१॥
उदीर्णांश्च परान्दृष्ट्वा कम्पमानाः पुनः पुनः
।
अश्रुपूर्णेक्षणास्त्रस्ता दीनास्त्वासन्विशांपते॥२॥
विचेतसो हतोत्साहाः कश्मलाभिहतौजसः
।
आर्तस्वरेण महता पुत्रं ते पर्यवारयन्॥३॥
रजस्वला वेपमाना वीक्षमाणा दिशो दश
।
अनुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते॥४॥
स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव
।
अशक्नुवन्नवस्थातुमपायात्तनयस्तव॥५॥
क्षुत्पिपासापरिम्लानास्ते योधास्तव भारत
।
आदित्येनेव संतप्ता भृशं विमनसोऽभवन्॥६॥
भास्करस्येव पतनं समुद्रस्येव शोषणम्
।
विपर्यासं यथा मेरोर्वासवस्येव निर्जयम्॥७॥
अमर्षणीयं तदृष्ट्वा भारद्वाजस्य पातनम्
।
त्रस्तरूपतरा राजन् कौरवाः प्राद्रवन्भयात्॥८॥
गान्धारराजः शकुनिस्त्रस्तस्त्रस्ततरैः सह
।
हतं रुक्मरथं श्रुत्वा प्राद्रवत्सहितो रथैः॥९॥
वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम्
।
परिगृह्य महासेनां सूतपुत्रोऽपयाद्भयात्॥१०॥
रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम्
।
मद्राणामीश्वरःशल्यो वीक्षमाणोऽपयाद्भयात्॥११॥
हतप्रवीरैर्भूयिष्ठैर्ध्वजैर्बहुपताकिभिः
।
वृतः शारद्वतोऽगच्छत्कष्टं कष्टमिति बुवन्॥१२॥
भोजानीकेन शिष्टेन कलिङ्गारट्टबाल्हिकैः
।
कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः॥१३॥
पदातिगणसंयुक्तस्त्रस्तो राजन्भयार्दितः
।
उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम्॥१४॥
दर्शनीयो युवा चैच शौर्येण कृतलक्षणः
।
दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः॥१५॥
रथानामयुतं गृह्य त्रिसाहस्रं च दन्तिनाम्
।
वृषसेनो ययौ तूर्णं दृष्ट्वा द्रोणं निपातितम्॥१६॥
गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः
।
दुर्योधनो महाराज प्रायात्तत्र महारथः॥१७॥
संशप्तकगणाद्गृह्य हतशेषान्किरीटिना
।
सुशर्मा प्राद्रवद्राजन् दृष्ट्वा द्रोणं निपातितम्॥१८॥
गजान्रथान्समारुह्य व्युदस्य च हयाञ्जनाः
।
प्राद्रवन् सर्वतः सङ्ख्ये दृष्ट्वा रुक्मरथं हतम्॥१९॥
त्वरयन्तः पितॄनन्ये भ्रातॄनन्येऽथ मातुलान्
।
पुत्रानन्ये वयस्यांश्च प्राद्रवन्कुरवस्तदा॥२०॥
चोदयन्तश्च सैन्यानि स्वस्त्रीयांश्च तथाऽपरे
।
सम्बन्धिनस्तथाऽन्ये च प्राद्रवन्त दिशो दश॥२१॥
प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः
।
नेदमस्तीति मन्वाना हतोत्साहा हतौजसः॥२२॥
उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो
।
अन्योन्यं ते समाक्रोशन्सैनिका भरतर्षभ॥२३॥
तिष्ठ तिष्ठेति न च ते स्वयं तत्रावतस्थिरे
।
धुर्यानुन्मुच्य च रथाद्धतसुतात्स्वलंकृतान्
।
अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन्॥२४॥
द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि
।
प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात्॥२५॥
तस्यासीत्सुमहद्युद्धं शिखण्डिप्रमुखैर्गणैः
।
प्रभद्रकैश्च पाञ्चालैश्चेदिभिश्च सकेकयैः॥२६॥
हत्वा बहुविधाः सेनाः पाण्डूनां युद्धदुर्मदः
।
कथञ्चित्सङ्कटान्मुक्तो मत्तद्विरविक्रमः॥२७॥
द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम्
।
दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम्॥२८॥
किमियं द्रवते सेना त्रस्तरूपेव भारत
।
द्रवमाणां च राजेन्द्र नावस्थापयसे रणे॥२९॥
त्वं चापि न यथा पूर्वं प्रकृतिस्थो नराधिप
।
कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिव॥३०॥
अन्येष्वपि च युद्धेषु नैव सेनाऽद्रवत्तदा
।
कच्चित्क्षेमं महाबाहो तव सैन्यस्य भारत॥३१॥
कस्मिन्निदं हते राजन् रथसिंहे बलं तव
।
एतामवस्थां संप्राप्तं तन्ममाचक्ष्व कौरव॥३२॥
तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम्
।
घोरमप्रियमाख्यातुं नाशक्नोत्पार्थिवर्षभः॥३३॥
भिन्ना नौरिव ते पुत्रो मग्नः शोकमहार्णवे
।
बाष्पेणापिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम्॥३४॥
ततः शारद्वतं राजा सव्रीडमिदमब्रवीत्
।
शंसात्र भद्रं ते सर्वं यथा सैन्यमिदं द्रुतम्॥३५॥
अथ शारद्वतो राजन्नार्तिमार्च्छन्पुनः पुनः
।
शशंस द्रोणपुत्राय यथा द्रोणो निपातितः॥३६॥
कृप उवाच।
वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम्
।
प्रावर्तयाम संग्रामं पञ्चालैरेव केवलम्॥३७॥
ततः प्रवृत्ते संग्रामे विमिश्राः कुरुसोमकाः
।
अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन्॥३८॥
वर्तमाने तथा युद्धे क्षीयमाणेषु संयुगे
।
धार्तराष्ट्रेषु संक्रुद्धः पिता तेऽस्त्रमुदैरयत्॥३९॥
ततो द्रोणो ब्राह्ममस्त्रं विकुर्वाणो नरर्षभः
।
व्यहनच्छात्रवान् भल्लैः शतशोऽथ सहस्रशः॥४०॥
पाण्डवाः केकया मत्स्याः पञ्चालाश्च विशेषतः
।
सङ्ख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः॥४१॥
सहस्रं नरसिंहानां द्विसाहस्रं च दन्तिनाम्
।
द्रोणो ब्रह्मास्त्रयोगेन प्रेषयामास मृत्यवे॥४२॥
आकर्णपलितःश्यामो ‘वयसाऽशीतिपञ्चकः’
।
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत्॥४३॥
क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु
।
अमर्षवशमापन्नाः पञ्चाला विमुखाऽभवन्॥४४॥
तेषु किञ्चित्प्रभग्नेषु विमुखेषु सपत्नजित्
।
दिव्यमस्त्रं विकुर्वाणो बभूवार्क इवोदितः॥४५॥
स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान्
।
मध्यं गत इवादित्यो दुष्प्रेक्ष्यस्ते पिताऽभवत्॥४६॥
ते दह्यमाना द्रोणेन सूर्येणेव विराजता
।
दुग्धवीर्या निरुत्साहा बभूवुर्गतचेतसः॥४७॥
तान् दृष्ट्वा पीडितान्बाणैर्द्रोणेन मधुसूदनः
।
जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत्॥४८॥
नैष जातु नरैः शक्यो जेतुं शस्त्रभृतां वरः
।
अपि वृत्रहणा सङ्ख्ये रथयूथपयूथपः॥४९॥
ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः
।
यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः॥५०॥
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम
।
हतं तं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः॥५१॥
एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनञ्जयः
।
अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः॥५२॥
भीमसेनस्तु सव्रीडमन्ब्रवीत् पितरं तव
।
अश्वत्थामा हत इति तं नाबुध्यत ते पिता॥५३॥
स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत
।
हतं वाप्यहतं वाऽऽजौ त्वां पिता पुत्रवत्सलः॥५४॥
तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः
।
अश्वत्थामानमायोधे हतं दृष्ट्वा महागजम्॥५५॥
भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः
।
उपसृत्य तदा द्रोणमुच्चैरिदमुवाच ह॥५६॥
यस्यार्थे शस्त्रमादत्से यमवेक्ष्य च जीवसि
।
पुत्रस्ते दयितो नित्यं सोऽश्वत्थामा निपातितः॥५७॥
शेते विनिहतो भूमौ वने सिंहशिशुर्यथा॥५८॥
जानन्नप्यनृतस्याथ दोषान्स द्विजसत्तमम्
।
अव्यक्तमब्रवीद्राजा हतः कुञ्जर इत्युत॥५९॥
स त्वां निहतमाक्रन्दे श्रुत्वा संतापतापिप्तः
।
नियम्य दिव्यान्यस्त्राणि नायुध्यत यथा पुरा॥६०॥
तं दृष्ट्वा परमोद्विग्नं शोकातुरमचेतसम्
।
पाञ्चालराजस्य सुतः क्रूरकर्मा समाद्रवत्॥६१॥
तं दृष्ट्वा विहितं मृत्युं लोकतत्त्वविचक्षणः
।
दिव्यान्यस्त्राण्यथोत्सृज्यरणे प्रायमुपाविशत्॥६२॥
ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा
।
पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः॥६३॥
न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन्
।
तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत्॥६४॥
उद्यम्य त्वरितो बाहुं ब्रुवाणश्च पुनः पुनः
।
जीवन्तमानयाचार्यं मा वधीरिति धर्मवित्॥६५॥
तथा निवार्यमाणेन कौरवैरर्जुनेन च
।
हत एव नृशंसेन पिता तव नरर्षभ॥६६॥
सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः
।
वयं चापि निरुत्साहा हते पितरि तेऽनघ॥६७॥
सञ्जय उवाच।
तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे
।
क्रोधमाहारयत्तीव्रं पदाहत इवोरगः॥६८॥
ततः क्रुद्धो रणे द्रौणिर्भृशं जज्वाल मारिष
।
यथेन्धनं महत्प्राप्य प्राज्वलद्धव्यवाहनः॥६९॥
तलं तलेन निष्पिष्य दन्तैर्दन्तानुपास्पृशत्
।
निःश्वसन्नुरगो यद्वल्लोहिताक्षोऽभवत्तदा॥७०॥
इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वण्यश्वत्थामक्रोधे त्रिनवत्यधिकशततमोऽध्यायः॥१९३॥
सञ्जय उवाच।
छद्मना निहतं श्रुत्वा पितरं पापकर्मणा
।
बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ॥१॥
छद्मनेति ॥१॥
तस्य क्रुद्धस्य राजेन्द्र वपुर्दीप्तमदृश्यत
।
अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये॥२॥
अश्रुपूर्णे ततो नेत्रे व्यपमृज्य पुनः पुनः
।
उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः॥३॥
पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो नियातितः
।
धर्मध्वजवता पापं कृतं तद्विदितं मम॥४॥
धर्मध्वजवता दांभिकेन तत् अनृतवचनरूपं पापम् ॥४॥
अनार्यं सुनृशंसं च धर्मपुत्रस्य मे श्रुतम्
।
युद्धेष्वपि प्रवृत्तानां ध्रुवं जयपराजयौ॥५॥
अनार्यं नीचयोग्यं कर्म धर्मपुत्रस्येत्युपालंभः ॥५॥
द्वयमेतद्भवेद्राजन् वधस्तत्र प्रशस्यते
।
न्यायवृत्तो वधो यस्तु संग्रामे युध्यतो भवेत्॥६॥
न स दुःखाय भवति तथा दृष्टो हि स द्विजैः
।
गतः स वीरलोकाय पिता मम न संशयः॥७॥
न शोच्यः पुरुषव्याघ्र यस्तदा निधनं गतः
।
यत्तु धर्मप्रवृत्तः सन्केशग्रहणमाप्तवान्॥८॥
पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति
।
मयि जीवति यत्तातः केशग्रहमवाप्तवान्॥९॥
कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम्
।
कामात्क्रोधादविज्ञानाद्धर्षाद्बाल्येन वा पुनः॥१०॥
बाल्येन चापलेन ॥१०॥
विधर्मकाणि कुर्वन्ति तथा परिभवन्ति च
।
तदिदं पार्षतेनेह महदाधर्मिकं कृतम्॥११॥
विधर्मकाणि धर्मविरुद्धानि ॥११॥
अवज्ञाय च मां नूनं नृशंसेन दुरात्मना
।
तस्यानुबन्धं द्रष्टाऽसौ धृष्टद्युम्नः सुदारुणम्॥१२॥
अनुबन्धं फलम् ॥१२॥
अकार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः
।
यो ह्यसौ छद्मनाऽऽचार्यं शस्त्रं संन्यासयत्तदा॥१३॥
पाण्डवश्च अनुबन्धं द्रष्टेत्यनुषज्यते ॥१३॥
तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम्
।
शपे सत्येन कौरव्य इष्टापूर्तेन चैव ह॥१४॥
अहत्वा सर्वपञ्चालान् जीवेयं न कथञ्चन
।
सर्वोपायैर्यतिष्यामि पञ्चालानामहं वधे॥१५॥
धृष्टद्युम्नं च समरे हन्ताऽहं पापकारिणम्
।
कर्मणा येन तेनेह मृदुना दारुणेन च॥१६॥
पञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव
।
यदर्थं पुरुषव्याघ्र पुत्रानिच्छन्ति मानवाः॥१७॥
प्रेत्य चेह च संप्राप्तास्त्रायन्ते महतो भयात्
।
पित्रा तु मम साऽवस्था प्राप्ता निर्बन्धुना यथा॥१८॥
मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति
।
धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक् पराक्रमम्॥१९॥
यं स्म द्रोणः सुतं प्राप्य केशग्रहमवाप्तवान्
।
स तथाऽहं करिष्यामि यथा भरतसत्तम॥२०॥
परलोकगतस्यापि भविष्याम्यनृणः पितुः
।
आर्येण हि न वक्तव्या कदाचित्स्तुतिरात्मनः॥२१॥
पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम्
।
अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः॥२२॥
मृद्नतः सर्वसैन्यानि युगान्तमिव कुर्वतः
।
न हि देवा न गन्धर्वा नासुरा न च राक्षसाः॥२३॥
अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभाः
।
मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वाऽस्त्रवित्क्वचित्॥२४॥
अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान्
।
प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः॥२५॥
मयूखानां मयूखवताम् ॥२५॥
भृशमिष्वसनादद्य मत्प्रयुक्ता महाहवे
।
दर्शयन्तः शरा वीर्यं प्रमथिष्यन्ति पाण्डवान्॥२६॥
अद्य सर्वा दिशो राजन्धाराभिरिव संकुलाः
।
आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह॥२७॥
विकिरञ्छरजालानि सर्वतो भैरवस्वनान्
।
शत्रून्निपातयिष्यामि महावात इव द्रुमान्॥२८॥
न हि जानाति बीभत्सुस्तदस्त्रं न जनार्दनः
।
न भीमसेनो न यमौ न च राजा युधिष्ठिरः॥२९॥
न पार्षतो दुरात्माऽसौ न शिखण्डी न सात्यकिः
।
यदिदं मयि कौरव्यं सकल्यं सनिवर्तनम्॥३०॥
कल्यः प्रयोगः निवर्तनमुपसंहारः ॥३०॥
नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम्
।
उपहारः पुरा दत्तो ब्रह्मरूप उपस्थितः॥३१॥
ब्रह्मरूपो वेदरूपः वैदिकैर्मन्त्रैःस्तुतवानित्यर्थः । उपस्थित इति तदन्यस्योपहारस्य तदानीमभावो दर्शितः ॥३१॥
तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ
।
वव्रे पिता मे परममस्त्रं नारायणं ततः॥३२॥
अथैनमब्रवीद्राजन् भगवान्देवसत्तमः
।
भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित्
।
न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथञ्चन
।
न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते॥३४॥
न चैतच्छक्यते ज्ञातुं केन वध्येदिति प्रभो
।
अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रयोजयेत्॥३५॥
अथ संख्ये रथस्यैव शस्त्राणां च विसर्जनम्
।
प्रयाचतां च शत्रूणां गमनं शरणस्य च॥३६॥
रथस्यैव विसर्जनं शस्त्राणामपि विसर्जनं च प्रयाचतां मा वधीरिति याचमानानां शरणस्य गमनं त्वमेव शरणं न इति कीर्तनं च ॥३६॥
एते प्रशमने योगा महास्त्रस्य परंतप
।
सर्वथा पीडितो हिंस्यादवध्यान्पीडयन् रणे॥३७॥
पीडितः पीडितं शस्त्रान्तरेण बाधितं पुंस्त्वमार्षम् ॥३७॥
तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः
।
त्वं वधिष्यसि सर्वाणि शस्त्रवर्षाण्यनेकशः॥३८॥
अनेनास्त्रेण संग्रामे तेजसा च ज्वलिष्यसि
।
एवमुक्त्वा स भगवान् दिवमाचक्रमे प्रभुः॥३९॥
एतन्नारायणादस्त्रं तत्प्राप्तं पितृबन्धुना
।
तेनाहं पाण्डवांश्चैव पञ्चालान्मत्स्यकेकयान्॥४०॥
पितृ-बन्धुना मया ॥४०॥
विद्रावयिष्यामि रणे शचीपतिरिवासुरान्
।
यथायथाऽहमिच्छेयं तथा भूत्वा शरा मम॥४१॥
निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत
।
यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः॥४२॥
अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान्
।
परश्वधांश्च निशितानुत्स्रक्ष्येऽहमसंशयम्॥४३॥
सोऽहं नारायणास्त्रेण महता शत्रुतापनः
।
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान्॥४४॥
मित्र-ब्रह्म-गुरुद्रोही जाल्मकः सुविगर्हितः
।
पाञ्चालापसश्चाद्य न मे जीवन्विमोक्ष्यते॥४५॥
जाल्मको मूर्खः ॥४५॥
तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी
।
ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः॥४६॥
भेरीश्चाभ्यहनन्हृष्टा डिण्डिभांश्च सहस्रशः
।
तथा ननाद वसुधा खुरनेमिप्रपीडिता॥४७॥
स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत्
।
तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम्॥४८॥
समेत्य रथिनां श्रेष्ठाः सहिताश्चाप्यमन्त्रयन्
।
तथोक्त्वा द्रोणपुत्रस्तु वार्युपस्पृश्य भारत॥४९॥
प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा॥५०॥
इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि अश्वत्थामक्रोधे पञ्चनवत्यधिकशततमोऽध्यायः॥१९५॥
सञ्जय उवाच।
प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे प्रभो
।
प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान्॥१॥
प्रादुरिति । सपृषतः सजलबिन्दुः अनभ्रे अप्रावृषि काले ॥१॥
चचाल पृथिवी चापि चुक्षुभे च महोदधिः
।
प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः॥२॥
शिखराणि व्यशीर्यन्त गिरीणां तत्र भारत
।
अपसव्यं मृगाश्चैव पाण्डुसेनां प्रचक्रिरे॥३॥
तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत्
।
संपतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत्॥४॥
देवदानवगन्धर्वास्त्रस्तास्त्वासन्विशांपते
।
कथंकथाऽभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत्॥५॥
कथंकथा कथं कर्तव्यं कथं कर्तव्यमित्येवं शब्दः ॥५॥
व्यथिताः सर्वराजानस्त्रस्ताश्चासन्विशांपते
।
तद्दृष्ट्वा घोररूपं वै द्रौणेरस्त्रं भयावहम्॥६॥
धृतराष्ट्र उवाच।
निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे
।
भृशं शोकाभितप्तेन पितुर्वधममृष्यता॥७॥
कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे
।
को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व सञ्जय॥८॥
रक्षणे मन्त्रः क आसीदिति संबन्धः ॥८॥
सञ्जय उवाच।
प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान् युधिष्ठिरः
।
पुनश्च तुमुलं शब्दं श्रुत्वाऽर्जुनमथाब्रवीत्॥९॥
युधिष्ठिर उवाच।
आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे
।
निहते वज्रहस्तेन यथा वृत्रे महासुरे॥१०॥
नाशंसन्तो जयं युद्धे दीनात्मानो धनञ्जय
।
आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो रणात्॥११॥
केचिद्भ्रान्तै रथैस्तूर्णं निहतैः पार्ष्णियन्तृभिः
।
विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः॥१२॥
भग्ननीडैराकुलाश्वैः प्रारुह्यान्यान्विचेतसः
।
भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथान्॥१३॥
भग्ननीडैरिति । स्पार्हैरिति पाठेऽतिस्पृहणीयैः ॥१३॥
भग्नाक्षयुगचक्रैश्च व्याकृष्यन्त समन्ततः
।
रथान्विशीर्णानुत्सृज्य पद्भिः केचिच्चविद्रुताः॥१४॥
हयपृष्ठगताश्चान्ये कृष्यन्तेऽर्धच्युतासनाः
।
गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः॥१५॥
शरातैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश
।
विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः॥१६॥
संच्छिन्ना नेमिभिश्चैव मृदिताश्च हयद्विपैः
।
क्रोशन्तस्तात पुत्रोत पलायन्ते परे भयात्॥१७॥
नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः
।
पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान्॥१८॥
जलेन क्लेदयन्त्यन्ये विमुच्य कवचान्यपि
।
अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम्॥१९॥
पुनरावर्तितं केन यदि जानासि शंस मे
।
हयानां ह्रेषतां शब्दः कुञ्जराणां च बृंहताम्॥२०॥
रथनेमिस्वनैश्चात्र विमिश्रः श्रूयते महान्
।
एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे॥२१॥
मुहुर्मुहुरुदीर्यन्ते कम्पयन्त्यपि मामकान्
।
य एष तुमुलः शब्दः श्रूयते लोमहर्षणः॥२२॥
सेन्द्रानप्येष लोकांस्त्रीन् ग्रसेदिति मतिर्मम
।
मन्ये वज्रधरस्यैष निनादो भैरवस्वनः॥२३॥
द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः
।
प्रहृष्टरोमकूपाश्च संविग्ना रथपुङ्गवाः॥२४॥
धनञ्जय गुरुं श्रुत्वा तत्र नादं सुभीषणम्
।
क एष कौरवान्दीर्णानवस्थाप्य महारथः॥२५॥
निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा
।
अर्जुन उवाच।
उद्यम्यात्मानमुग्राय कर्मणे वीर्यमास्थिताः॥२६॥
धमन्ति कौरवाःशंखान्यस्य वीर्यं समाश्रिताः
।
यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते॥२७॥
धार्तराष्ट्रानवस्थाप्य क एष नदतीति हि
।
ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम्॥२८॥
व्याघ्रास्यमुग्रकर्माणं कुरूणामभयङ्करम्
।
यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम्॥२९॥
यस्मिन्निति । दशशतमित्यनेन सर्वगोधनं ददाविति ज्ञेयम् । अन्यथा एकधेन्वर्थं द्रुपदं प्रति द्रोणगमनस्यासंभवः । यद्वा भाविनीं संपदमभिलक्ष्यैतद्दानं द्रष्टव्यं पुत्रोत्पत्तिकाले तस्य निर्धनत्वोक्तेः ॥२९॥
ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति
।
जातमात्रेण वीरेण येनोच्चैःश्रवसा यथा॥३०॥
ह्रेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः
।
तच्छ्रुत्वाऽन्तर्हितं भूतं नाम तस्याकरोत्तदा॥३१॥
अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव
।
यो ह्यनाथ इवाक्रम्य पार्षतेन हतस्तथा॥३२॥
कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः
।
गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत्॥३३॥
तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः
।
उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात्॥३४॥
धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः
।
चिरं स्थास्यति चाकीर्तिस्त्रैलोक्ये सचराचरे॥३५॥
रामे वालिवधाद्यद्वदेवं द्रोणे निपातिते
।
सर्वधर्मोपपन्नोऽयं स मे शिष्यश्च पाण्डवः॥३६॥
नायं वदति मिथ्येति प्रत्ययं कृतवांस्त्वयि
।
स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम्॥३७॥
सत्यं कञ्चुकं सत्याभासमनृतम् ॥३७॥
आचार्य उक्तो भवता हतः कुञ्जर इत्युत
।
ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः॥३८॥
आसीत्सुविह्वलो राजन्यथा दृष्टस्त्वया विभुः
।
स तु शोकसमाविष्टो विमुखः पुत्रवत्सलः॥३९॥
शाश्वतं धर्ममुत्सृज्य गुरुः शस्त्रेण घातितः
।
न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान्॥४०॥
रक्षत्विदानीं सामात्यो यदि शक्तोऽसि पार्षतम्
।
ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना॥४१॥
सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम्
।
सौहार्दं सर्वभूतेषु यः करोत्यतिमानुषः
।
सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे॥४२॥
विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि
।
अपाकीर्य स्वयं धर्मं शिष्येण निहतो गुरुः॥४३॥
यदा गतं वयो भूयः शिष्टमल्पतरं च नः
।
तस्येदानीं विकारोऽयमधर्मोऽयं कृतो महान्॥४४॥
पितेव नित्यं सौहार्दात्पितेवं हि च धर्मतः
।
सोल्पकालस्य राज्यस्य कारणाद्धातितो गुरुः॥४५॥
सौहार्दाद्धर्मतो गुरुत्वाद्वा द्विगुणः पितुरित्यर्थः ॥४५॥
धृतराष्ट्रेण भीष्माय द्रोणाय च विशांपते
।
विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः॥४६॥
संप्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः
।
अवृणीत सदा पुत्रान्मामेवाभ्यधिकं गुरुः॥४७॥
अवेक्षमाणस्त्वां मां च न्यस्तास्त्रश्चाहवे हतः
।
न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः॥४८॥
तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः
।
कृतो ह्यनार्यैरस्माभी राज्यार्थे लुब्धबुद्धिभिः॥४९॥
अहो बत महत्पापं कृतं कर्म सुदारुणम्
।
यद्राज्यसुखलोभेन द्रोणोऽयं साधुघातितः॥५०॥
पुत्रान्भ्रातॄन्पिन्तॄदाराञ्जीवितं चैव वासविः
।
त्यजेत्सर्वं मम प्रेम्णा जानात्येवं हि मे गुरुः॥५१॥
स मया राज्यकामेन हन्यमानो ह्युपेक्षितः
।
तस्मादर्वाक्शिराराजन्प्राप्तोस्मि नरकं प्रभो॥५२॥
ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं महामुनिम्
।
घातयित्वाऽद्य राज्यार्थे मृतं श्रेयो न जीवितम्
।
॥५३॥
इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि अर्जुनवाक्ये षण्णवत्यधिकशततमोऽध्यायः॥१९६॥
सञ्जय उवाच।
अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः
।
अप्रियं वा प्रियं वापि महाराज धनञ्जयम्॥१॥
अर्जुनस्येति सांगावेदा इति चाध्यायौ स्पष्टार्थौ ॥१॥
ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत
।
कुत्सयन्निव कौन्तेयमर्जुनं भरतर्षभ॥२॥
सुनिर्यथाऽरण्यगतो भाषते धर्मसंहितम्
।
न्यस्तदण्डो यथा पार्थ ब्राह्मणः संशितव्रतः॥३॥
क्षतत्राता क्षताज्जीवन् क्षंता स्त्रीष्वपि साधुषु
।
क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियः॥४॥
स भवान् क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः
।
अविपश्चिद्यथा वाचं व्याहरन्नाद्य शोभसे॥५॥
पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः
।
न चाति वर्तसे धर्मं वेलामिव महोदधिः॥६॥
न पूजयेत्त्वां को न्वद्य यन्त्रयोदशवार्षिकम्
।
अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकांक्षसे॥७॥
दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते
।
आनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत॥८॥
यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः
।
द्रौपदी च परामृष्टा सभामानीय शत्रुभिः॥९॥
वनं प्रवाजिताश्चास्म वल्कलाजिनवाससः
।
अनर्हमाणास्तं भावं त्रयोदश समाः परैः॥१०॥
एतान्यमर्षस्थानानि मर्षितानि मयाऽनघ
।
क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम्॥११॥
तमधर्ममपाकृष्टं स्मृत्वाऽद्य सहितस्त्वया
।
सानुबन्धान्हनिष्यामि क्षुद्रान् राज्यहरानहम्॥१२॥
त्वया हि कथितं पूर्वं युद्धायाभ्यागता वयम्
।
घटामहे यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे॥१३॥
धर्ममन्विच्छसि ज्ञातुं मिथ्यावचनमेव ते
।
भयार्दितानामस्माकं वाचा मर्माणि कृंतसि॥१४॥
वपन् व्रणे क्षारमिव क्षतानां शत्रुकर्शन
।
विदीर्यते मे हृदयं त्वया वाक्शल्यपीडितम्॥१५॥
अधर्ममेनं विपुलं धार्मिकः सन्न बुद्ध्यसे
।
यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि॥१६॥
वासुदेवे स्थिते चापि द्रोणपुत्रं प्रशंससि
।
यः कलां षोडशीं पूर्णां धनञ्जय न तेऽर्हति॥१७॥
स्वयमेवात्मनो दोषान् ब्रुवाणः किन्न लज्जसे
।
दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान्॥१८॥
आविध्यैतां गदां गुर्वीं भीमां काञ्चनमालिनीम्
।
गिरिप्रकाशान् क्षितिजान् भञ्जेयमनिलो यथा॥१९॥
द्रावयेयं शरैश्चापि सेन्द्रान्देवान्समागतान्
।
सराक्षसगणान्पार्थ सासुरोरगमानवान्॥२०॥
स त्वमेवंविधं जानन् भ्रातरं मां नरर्षभ
।
द्रोणपुत्राद्भयं कर्तुं नार्हस्यमितविक्रम॥२१॥
अथवा तिष्ठ बीभत्सो सह सर्वैः सहोदरैः
।
अहमेनं गदापाणिर्जेष्याम्येको महाहवे॥२२॥
ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत्
।
संक्रुद्धमिव नर्दन्तं हिरण्यकशिपुर्हरिम्॥२३॥
धृष्टद्युम्न उवाच।
बीभत्सो विप्रकर्माणि विदितानि मनीषिणाम्
।
याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ॥२४॥
षष्ठमध्ययनं नाम, तेषां कस्मिन्प्रतिष्ठितः
।
हतो द्रोणो मया ह्येवं किं मां पार्थ विगर्हसे॥२५॥
अपक्रान्तः स्वधर्माच्च क्षात्रधर्मं व्यपाश्रितः
।
अमानुषेण हन्त्यस्मानस्त्रेण क्षुद्रकर्मकृत्॥२६॥
तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम्
।
माययैव निहन्याद्यो न युक्तं पार्थ तत्र किम्॥२७॥
तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा
।
कुरुते भैरवं नादं तत्र किं मम हीयते॥२८॥
न चाद्भुतमिदं मन्ये यद्द्रौणिर्युद्धसंज्ञया
।
घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन्॥२९॥
यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम्
।
तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात्॥३०॥
यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणे
।
तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनञ्जय॥३१॥
यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्च्छितः
।
सर्वोपायैर्न स कथं वध्यः पुरुषसत्तमः॥३२॥
विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम्
।
जानन्धर्मार्थतत्त्वज्ञ किं मामर्जुन गर्हसे॥३३॥
नृशंसः स मयाऽऽक्रम्य रथ एव निपातितः
।
तन्मामनिंद्यं बीभत्सो किमर्थं नाभिनन्दसे॥३४॥
कालानलसमं पार्थ ज्वलनार्कविषोपमम्
।
भीमं द्रोणशिरश्छिन्नं न प्रशंसास मे कथम्॥३५॥
योऽसौ ममैव नान्यस्य बान्धवान् युधि जघ्निवान्
।
छित्त्वाऽपि तस्य मूर्धानं नैवास्मि विगतज्वरः॥३६॥
तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया
।
निषादविषये क्षिप्तं जयद्रथारीरो यथा॥३७॥
अथावधश्च शत्रूणामधर्मः श्रूयतेऽर्जुन
।
क्षत्रियस्य हि धर्मोऽयं हन्याद्धन्येत वा पुनः॥३८॥
स शत्रुर्निहतः संख्ये मया धर्मेण पाण्डव
।
यथा त्वया हतः शूरो भगदत्तः पितुः सखा॥३९॥
पितामहं रणे हत्वा मन्यसे धर्ममात्मनः
।
मया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे॥४०॥
संबन्धावनतं पार्थ न मां त्वं वक्तुमर्हसि
।
स्वगात्रकृतसोपानं निषण्णमिव दन्तिनम्॥४१॥
क्षमामि ते सर्वमेव वाग्व्यतिक्रममर्जुन
।
द्रौपद्या द्रौपदेयानां कृते नान्येन हेतुना॥४२॥
कुलक्रमागतं वैरं ममाचार्येण विश्रुतम्
।
तथा जानात्ययं लोको न यूयं पाण्डुनन्दनाः॥४३॥
नानृती पाण्डवो ज्येष्ठो नाहं वाऽधार्मिकोऽर्जुन
।
शिष्यद्रोही हतः पापो युध्यस्व विजयस्तव॥४४॥
इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि धृष्टद्युम्नवाक्ये सप्तनवत्यधिकशततमोऽध्यायः॥१९७॥
धृतराष्ट्र उवाच।
साङ्गा वेदा यथान्यायं येनाधीता महात्मना
।
यस्मिन्साक्षाद्धनुर्वेदो ह्रीनिषेवे प्रतिष्ठितः॥१॥
साङ्गा इति ॥१॥
यस्य प्रसादात्कुर्वन्ति कर्माणि पुरुषर्षभाः
।
अमानुषाणि संग्रामे देवैरसुकराणि च॥२॥
तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मणा
।
नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना॥३॥
नामर्षं तत्र कुर्वन्ति धिक्क्षात्रं धिगमर्षिताम्
।
पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः॥४॥
श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व सञ्जय
।
सञ्जय उवाच।
श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः॥५॥
तूष्णीं बभूवू राजानः सर्व एव विशांपते
।
अर्जुनस्तु कटाक्षेण जिह्मं विप्रेक्ष्य पार्षतम्॥६॥
स बाष्पमतिनिःश्वस्य धिग्धिगित्येव चाब्रवीत्
।
युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथाऽपरे॥७॥
आसन् सुव्रीडिता राजन् सात्यकिस्त्वब्रवीदिदम्
।
नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम्॥८॥
भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम्
।
एते त्वां पाण्डवाः सर्वे कुत्सयन्ति विवित्सया॥९॥
कर्मणा तेन पापेन श्वपाकं ब्राह्मणा इव
।
एतत्कृत्वा महत्पापं निन्दितः सर्वसाधुभिः॥१०॥
न लज्जसे कथं वक्तुं समितिं प्राप्य शोभनाम्
।
कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते॥११॥
गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे
।
वाच्यस्त्वमसि पार्थैश्च सर्वैश्चांधकवृष्णिभिः॥१२॥
यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि
।
अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन्॥१३॥
वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता
।
कस्त्वेतद्व्यवसेदार्यस्त्वदन्यः पुरुषाधम॥१४॥
निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः
।
सप्तावरे तथा पूर्वे बान्धवास्ते निमज्जिताः॥१५॥
यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम्
।
उक्तवांश्चापि यत्पार्थे भीष्मं प्रति नरर्षभ॥१६॥
तथाऽन्तो विहितस्तेन स्वयमेव महात्मना
।
तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः॥१७॥
नान्यः पाञ्चाल्यपुत्रेभ्यो विद्यते भुवि पापकृत्
।
स चापि सृष्टः पित्रा ते भीष्मस्यांतकरः किल॥१८॥
शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः
।
पञ्चालाश्चलिता धर्मात्क्षुद्रा मित्र-गुरुद्रुहः॥१९॥
त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः
।
पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि॥२०॥
शिरस्ते पोथयिष्यामि गदया वज्रकल्पया
।
त्वां च ब्रह्महणं दृष्ट्वा जनः सूर्यमवेक्षते॥२१॥
ब्रह्महत्या हि ते पापं प्रायश्चित्तार्थमात्मनः
।
पाञ्चालक सुदुर्वृत्त ममैव गुरुमग्रतः॥२२॥
गुरोर्गुरुं च भूयोऽपि क्षिपन्नैव हि लज्जसे
।
तिष्ठ तिष्ठ सहस्वैकं गदापातमिमं मम॥२३॥
तव चापि सहिष्येऽहं गदापाताननेकशः
।
सात्त्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम्॥२४॥
संरब्धं सात्यकिं प्राह संक्रुद्धः प्रहसन्निव
।
धृष्टद्युम्न उवाच।
श्रूयते श्रूयते चेति क्षम्यते चेति माधव॥२५॥
सदाऽनार्योऽशुभः साधुं पुरुषं क्षेप्तुमिच्छति
।
क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम्॥२६॥
क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते
।
स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः॥२७॥
आकेशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि
।
यः स भूरिश्रवाश्छिन्नभुजः प्रायगतस्त्वया॥२८॥
वार्यमाणेन हि हतस्ततः पापतरं नु किम्
।
गाहमानो मया द्रोणो दिव्येनास्त्रेण संयुगे॥२९॥
विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम्
।
अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम्॥३०॥
छिन्नबाहुं परैर्हन्यात्सात्यके स कथं वदेत्
।
निहत्य त्वां पदा भूमौ स विकर्षति वीर्यवान्॥३१॥
किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः
।
त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः॥३२॥
यदा तदा हतः शूरः सौमदत्तिः प्रतापवान्
।
यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम्॥३३॥
किरञ्छरसहस्राणि तत्र तत्र प्रयाम्यहम्
।
स त्वमेवंविधं कृत्वा कर्मचाण्डालवत्स्वयम्॥३४॥
वक्तुमर्हसि वक्तव्यः कस्मात्त्वं परुषाण्यथ
।
कर्ता त्वं कर्मणो ह्यस्य नाहं वृष्णिकुलाधम॥३५॥
पापानां च त्वमावासः कर्मणां मा पुनर्वद
।
जोषमास्व न मां भूयो वक्तुमर्हस्यतः परम्॥३६॥
अधरोत्तरमेतद्धि यन्मां त्वं वक्तुमर्हसि
।
अथ वक्ष्यसि मां मौर्ख्याद्भूयः परुषमीदृशम्॥३७॥
गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम्
।
न चैवं मूर्ख धर्मेण केवलेनैव शक्यते॥३८॥
तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम्
।
वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः॥३९॥
द्रौपदी च परिक्लिष्टा तथाऽधर्मेण सात्यके
।
प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया॥४०॥
सर्वस्वमपकृष्टं च तथाऽधर्मेण बालिश
।
अधर्मेणापकृष्टश्च मद्रराजः परेरितः॥४१॥
अधर्मेण तथा बालः सौभद्रो विनिपातितः
।
इतोऽप्यधर्मेण हतो भीष्मः परपुरञ्जयः॥४२॥
भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः
।
एवं परैराचरितं पाण्डवेयैश्च संयुगे॥४३॥
रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत
।
दुर्ज्ञेयः स परो धर्मस्तथाऽधर्मश्च दुर्विदः॥४४॥
युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम्
।
सञ्जय उवाच।
एवमादीनि वाक्यानि क्रूराणि परुषाणि च॥४५॥
श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत्
।
तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम्॥४६॥
विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः
।
ततोऽभिपत्य पाञ्चाल्यं संरंभेणेदमब्रवीत्॥४७॥
न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम्
।
तमापतन्तं सहसा महाबलममर्षणम्॥४८॥
पाञ्चाल्यायाभिसंक्रुद्धमन्तकायान्तकोपमम्
।
चोदितो वासुदेवेन भीमसेनो महाबलः॥४९॥
अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत्
।
द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली॥५०॥
प्रस्पन्दमानमादाय जगाम बलिनं बलात्
।
स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुङ्गवः॥५१॥
निगृहीतः पदे षष्ठे बलेन बलिनां वरः
।
अवरुह्य रथात्तूर्णं ध्रियमाणं बलीयसा॥५२॥
उवाच श्लक्ष्णया वाचा सहदेवो विशांपते
।
अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते॥५३॥
परमन्धकवृष्णिभ्यः पञ्चालेभ्यश्च मारिष
।
तथैवान्धकवृष्णीनां तथैव च विशेषतः॥५४॥
कृष्णस्य च तथाऽस्मत्तो मित्रमन्यन्न विद्यते
।
पञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम्॥५५॥
नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः
।
स भवानीदृशं मित्रं मन्यते च यथा भवान्॥५६॥
भवन्तश्च यथाऽस्माकं भवतां च तथा वयम्
।
स एवं सर्वधर्मज्ञ मित्रधर्ममनुस्मरन्॥५७॥
नियच्छ मन्युं पाञ्चाल्यात् प्रशाम्य शिनिपुङ्गव
।
पार्षतस्य क्षम त्वं वै क्षमतां पार्षतश्च ते॥५८॥
वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत्
।
प्रशाम्यमाने शैनेये सहदेवेन मारिष॥५९॥
पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत्
।
मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम्॥६०॥
आसादयतु मामेष धराधरमिवानिलः
।
यावदस्य शितैर्बाणैः संरंभं विनयाम्यहम्॥६१॥
युद्धश्रद्धां च कौन्तेय जीवितं चास्य संयुगे
।
किं नु शक्यं मया कर्तुं कार्यं यदिदमुद्यतम्॥६२॥
सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः
।
अथवा फाल्गुनः सर्वान्वारयिष्यति संयुगे॥६३॥
अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः
।
मन्यते च्छिन्नबाहुं मां भूरिश्रवसमाहवे॥६४॥
उत्सृजैनमहं चैनमेष वा मां हनिष्यति
।
शृण्वन्पाञ्चालवाक्यानि सात्यकिः सर्पवच्छ्वसन्॥६५॥
भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली
।
तौ वृषाविव नर्दन्तौ बलिनौ बाहुशालिनौ॥६६॥
त्वरया वासुदेवश्च धर्मराजश्च मारिष
।
यत्नेन महता वीरौ वारयामासतुस्ततः॥६७॥
निवार्य परमेष्वासौ कोपसंरक्तलोचनौ
।
युयुत्सूनपरान्संख्ये प्रतीयुः क्षत्रियर्षभाः॥६८॥
इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि धृष्टद्युम्नसात्यकिक्रोधे अष्टनवत्यधिकशततमोऽध्यायः॥१९८॥
सञ्जय उवाच।
ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः
।
युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः॥१॥
तत इति ॥१॥
ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम्
।
अश्वकिंपुरुषाकीर्णं शरासनलतावृतम्॥२॥
क्रव्यादपक्षिसंघुष्टं भूतयक्षगणाकुलम्
।
निहत्य शात्रवान् भल्लैः सोऽचिनोद्देहपर्वतम्
।
ततो वेगेन महता विनद्य स नरर्षभः
।
प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम्॥४॥
यस्माद्युध्यन्तमाचार्यं धर्मकञ्चुकमास्थितः
।
मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः॥५॥
तस्मात्संपश्यतस्तस्य द्रावयिष्यामि वाहिनीम्
।
विद्राव्य सर्वान् हन्ताऽस्मि जाल्मं पाञ्चाल्यमेव तु॥६॥
सर्वानेतान् हनिष्यामि यदि योत्स्यन्ति मां रणे
।
सत्यं ते प्रतिजानामि परिवर्तय वाहिनीम्॥७॥
तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत्
।
सिंहनादेन महता व्यपोह्य सुमहद्भयम्॥८॥
ततः समागमो राजन्कुरुपाण्डवसेनयोः
।
पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव॥९॥
संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः
।
उदग्रा पाण्डुपञ्चाला द्रोणस्य निधनेन च॥१०॥
तेषां परमहृष्टानां जयमात्मनि पश्यताम्
।
संरब्धानां महावेगः प्रादुरासीद्विशांपते॥११॥
यथा शिलोच्चये शैलः सागरैः सागरो यथा
।
प्रतिहन्येत राजेन्द्र तथाऽऽसन्कुरुपाण्डवाः॥१२॥
ततः शङ्खसहस्राणि भेरीणामयुतानि च
।
अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः॥१३॥
यथा निर्मथ्यमानस्य सागरस्य तु निःस्वनः
।
अभवत्तव सैन्यस्य सुमहानद्भुतोपमः॥१४॥
प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा
।
अभिसन्धाय पांडूनां पञ्चालानां च वाहिनीम्॥१५॥
प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः
।
पाण्डवान्क्षपयिष्यन्तो दीप्तास्याः पन्नगा इव॥१६॥
ते दिशः खं च सैन्यं च समावृण्वन्महाहवे
।
मुहूर्ताद्भास्करस्येव लोके राजन् गभस्तयः॥१७॥
तथाऽपरे द्योतमाना ज्योतींषीवामलाम्बरे
।
प्रादुरासन्महाराज कार्ष्णायसमया गुडाः॥१८॥
चतुश्चक्रा द्विचक्राश्च शतघ्न्यो बहुला गदाः
।
चक्राणि च क्षुरान्तानि मंडलानीव भास्वतः॥१९॥
शस्त्राकृतिभिराकीर्णमतीव पुरुषर्षभ
।
दृष्ट्वाऽन्तरिक्षमाविग्नाः पाण्डुपञ्चालसृञ्जयाः॥२०॥
यथायथा ह्ययुध्यन्त पाण्डवानां महारथाः
।
तथातथा तदस्त्रं वै व्यवर्धत जनाधिप॥२१॥
वध्यमानास्तदाऽस्त्रेण तेन नारायणेन वै
।
दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे॥२२॥
यथा हि शिशिरापाये दहेत्कक्षं हुताशनः
।
तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो॥२३॥
आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति च प्रभो
।
जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः॥२४॥
द्रवमाणं तु तत् सैन्यं दृष्ट्वा विगतचेतनम्
।
मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम्॥२५॥
धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया
।
सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो महान्॥२६॥
वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम्
।
श्रेयो ह्युपदिशत्येष लोकस्य किमुतात्मनः॥२७॥
संग्रामस्तु न कर्तव्यः सर्वसैन्यान् ब्रवीमि वः
।
अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम्॥२८॥
भीष्मद्रोणार्णवं तीर्त्वा संग्रामे भीरुदुस्तरे
।
विमज्जिष्यामि सलिले सगणो द्रौणिगोष्पदे॥२९॥
कामः संपद्यतामस्य बीभत्सोराशु मां प्रति
।
कल्याणवृत्तिराचार्यो मया युधि निपातितः॥३०॥
येन बालः स सौभद्रो युद्धानामविशारदः
।
समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः॥३१॥
येनाविब्रुवता प्रश्नं तथा कृष्णा सभां गता
।
उपेक्षिता सपुत्रेण दासभावं नियच्छती॥३२॥
जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फाल्गुनः
।
कवचेन तथा गुप्तो रक्षार्थं सैन्धवस्य च॥३३॥
येन ब्रह्मास्त्रविदुषा पञ्चालाः सत्यजिन्मुखाः
।
कुर्वाणा मज्जये यत्नं समूला विनिपातिताः॥३४॥
येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः
।
निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः॥३५॥
अस्माभिरस्मदीयैर्विदुरादिभिर्निवार्यमाणेन निषिध्यमानेनापि तद्वनमनुगन्तुं प्रवेष्टुम् एषिता अनुमता नतु प्रतिषिद्धा इत्यर्थः ॥३५॥
योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम्
।
हतस्तदर्थे मरणं गमिष्यामि सबान्धवः॥३६॥
सौहृदं कुर्वाण इति सानुशयम् ॥३६॥
एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः
।
निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत्॥३७॥
शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत
।
एष योगोऽत्र विहितः प्रतिषेधे महात्मना॥३८॥
द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत
।
एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान्॥३९॥
यथायथा हि युध्यन्ते योधा ह्यस्त्रमिदं प्रति
।
तथातथा भवन्त्येते कौरवा बलवत्तराः॥४०॥
निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये
।
तान्नैतदस्त्रं संग्रामे निहनिष्यति मानवान्॥४१॥
यत्त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन
।
निहनिष्यति तान्सर्वान् रसातलगतानपि॥४२॥
ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत
।
ईषुः सर्वे समुत्स्रष्टुं मनोभिः करणेन च॥४३॥
तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पांडवः
।
भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः॥४४॥
न कथंचन शस्त्राणि मोक्तव्यानीह केनचित्
।
अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः॥४५॥
गदयाऽप्यनया गुर्व्या हेमविग्रहया रणे
।
कालवत्प्रहरिष्यामि द्रौणेरस्त्रं विशातयन्॥४६॥
न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह
।
यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते॥४७॥
पश्यतेमौ हि मे बाहू नागराजकरोपमौ
।
समर्थौ पर्वतस्यापि शैशिरस्य निपातने॥४८॥
नागायुतसमप्राणो ह्यहमेको नरेष्विह
।
शक्रो यथाऽप्रतिद्वन्द्वो दिवि देवेषु विश्रुतः॥४९॥
अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि
।
ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे॥५०॥
यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते
।
अद्यैतत्प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु॥५१॥
अर्जुनार्जुन बीभत्सो न न्यस्यं गाण्डिवं त्वया
।
शशाङ्कस्येव ते पङ्को नैर्मल्यं पातयिष्यति॥५२॥
अर्जुन उवाच।
भीम नारायणास्त्रे मे गोषु च ब्राह्मणेषु च
।
एतेषु गाण्डिवं न्यस्यमेतद्धि व्रतमुत्तमम्॥५३॥
एवमुक्तस्ततो भीमो द्रोणपुत्रमरिन्दमम्
।
अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा॥५४॥
स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः
।
निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत्॥५५॥
ततो द्रौणिः प्रहस्यैनं द्रवन्तमभिभाष्य च
।
अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः॥५६॥
पन्नगैरिव दीप्तास्यैर्वमद्भिर्ज्वलनं रणे
।
अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः॥५७॥
तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे
।
खद्योतैरावृतस्येव पर्वतस्य दिनक्षये॥५८॥
तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति
।
अवर्धत महाराज यथाग्निरनिलोद्धतः॥५९॥
विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम्
।
पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत्॥६०॥
ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले
।
अवारोहन् रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः॥६१॥
तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च
।
तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत्॥६२॥
हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः
।
भीमसेनमपश्यन्त तेजसा संवृतं तथा॥६३॥
इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पाण्डवसैन्यास्त्रत्यागे नवनवत्यधिकशततमोऽध्यायः॥१९९॥
सञ्जय उवाच।
भीमसेनं समाकीर्णं दृष्ट्वाऽस्त्रेण धनञ्जयः
।
तेजसः प्रतिघातार्थं वारुणेन समावृणोत्॥१॥
भीमसेनमिति ॥१॥
नालक्षयत तत् कश्चिद्वारुणास्त्रेण संवृतम्
।
अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः॥२॥
साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः
।
अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः॥३॥
यथा रात्रिक्षये राजन् ज्योतींष्यस्तगिरं प्रति
।
समापेतुस्तथा बाणा भीमसेनरथं प्रति॥४॥
स हि भीमो रथश्चास्य हयाः सुतश्च मारिष
।
संवृता द्रोणपुत्रेण पावकान्तर्गताऽभवन्॥५॥
यथा जग्ध्वा जगत्कृत्स्नं समये सचराचरम्
।
गच्छेद्वन्हिर्विभोरास्यं तथाऽस्त्रं भीममावृणोत्॥६॥
सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः
।
तथा प्रविष्टं तत्तेजो न प्राज्ञायत पाण्डवम्॥७॥
विकीर्णमस्त्रं तदृष्ट्वा तथा भीमरथं प्रति
।
उदीर्यमाणं द्रौणिं च निष्प्रतिद्वन्द्वमाहवे॥८॥
सर्वसैन्यं च पाण्डूनां न्यस्तशस्त्रमचेतनम्
।
युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथान्॥९॥
अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती
।
अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः॥१०॥
ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसंभवम्
।
विगाह्य तौ सुबलिनौ माययाऽविशतां तथा॥११॥
न्यस्तशस्त्रौ ततस्तौ तु नादहत्सोस्त्रजोऽनलः
।
वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः॥१२॥
ततश्चकृषतुर्भीमं सर्वशस्त्रायुधानि च
।
नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात्॥१३॥
आकृष्यमाणः कौन्तयो नदत्येव महारवम्
।
वर्धते चैव तद्घोरं द्रौणेरस्त्रं सुदुर्जयम्॥१४॥
तमब्रवीद्वासुदेवः किमिदं पाण्डुनन्दन
।
वार्यमाणोऽपि कौन्तेय यद्युद्धान्न निवर्तसे॥१५॥
यदि युद्धेन जेयाः स्युरिमे कौरवनन्दनाः
।
वयमप्यत्र युध्येम तथा चेमे नरर्षभाः॥१६॥
रथेभ्यस्त्ववतीर्णाः स्म सर्व एव हि तावकाः
।
तस्मात्त्वमपि कौन्तेय रथात्तूर्णमपाक्रम॥१७॥
एवमुक्त्वा तु तं कृष्णो रथाद्भूमिमवर्तयत्
।
निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम्॥१८॥
यदाऽपकृष्टः स रथान्न्यासितश्चायुधं भुवि
।
ततो नारायणास्त्रं तत् प्रशान्तं शत्रुतापनम्॥१९॥
सञ्जय उवाच।
तस्मिन्प्रशान्ते विधिना तेन तेजसि दुःसहे
।
बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च॥२०॥
प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः
।
वाहनानि च हृष्टानि प्रशान्तेऽस्त्रे सुदुर्जये॥२१॥
व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत
।
बभौ भीमो निशापाये धीमान्सूर्य इवोदितः॥२२॥
हतशेषं बलं तत्तु पाण्डवानामतिष्ठत
।
अस्त्रव्युपरमाद्धृष्टं तव पुत्रजिघांसया॥२३॥
व्यवस्थिते बले तस्मिन्नस्त्रे प्रतिहते तथा
।
दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत्॥२४॥
अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रयोजय
।
अवस्थिता हि पञ्चालाः पुनरेते जयैषिणः॥२५॥
अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष
।
सुदीनमभिनिःश्वस्य राजानमिदमब्रवीत्॥२६॥
नैतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते
।
आवृतं हि निवर्तेत प्रयोक्तारं न संशयः॥२७॥
एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान्
।
अन्यथा विहितः संख्ये वधः शत्रोर्जनाधिप॥२८॥
पराजयो वा मृत्युर्वा श्रेयान्मृत्युर्न निर्जयः
।
विजिताश्चारयो ह्येते शस्त्रोत्सर्गान्मृतोपमाः॥२९॥
दुर्योधन उवाच।
आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रयुज्यते
।
अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर॥३०॥
त्वयि शस्त्राणि दिव्यानि त्र्यम्बके चामितौजसि
।
इच्छतो न हि ते मुच्येत् संक्रुद्धो हि पुरन्दरः॥३१॥
धृतराष्ट्र उवाच।
तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते
।
तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः॥३२॥
दृष्ट्वा पार्थांश्च संग्रामे युद्धाय समुपस्थितान्
।
नारायणास्त्रनिर्मुक्तांश्चरतः पृतनामुखे॥३३॥
सञ्जय उवाच।
जानन्पितुः स निधनं सिंहलाङ्गुलकेतनः
।
सक्रोधो भयमुत्सृज्य सोऽभिदुद्राव पार्षतम्॥३४॥
अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभ
।
पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभः॥३५॥
धृष्टद्युम्नस्ततो राजन् ज्वलन्तमिव पावकम्
।
द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम्॥३६॥
सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः
।
हयांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैः शरैः॥३७॥
विद्ध्वा विद्ध्वाऽनदद्द्रौणिं कम्पयन्निव मेदिनीम्
।
आददे सर्वलोकस्य प्राणानिव महारणे॥३८॥
पार्षतस्तु बली राजन्कृतास्त्रः कृतनिश्चयः
।
द्रौणिमेवाभिदुद्राव मृत्युं कृत्वा निवर्तनम्॥३९॥
ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि
।
अवासृजदमेयात्मा पाञ्चाल्यो रथिनां वरः॥४०॥
तं द्रौणिः समरे क्रुद्धं छादयामास पत्रिभिः
।
विव्याध चैनं दशभिः पितुर्वधमनुस्मरन्॥४१॥
द्वाभ्यां च सुविसृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके
।
छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत्॥४२॥
व्यश्वसुतरथं चैनं द्रौणिश्चक्रे महाहवे
।
तस्य चानुचरान्सर्वान् क्रुद्धः प्राद्रावयच्छरैः॥४३॥
ततः प्रदुद्रुवे सैन्यं पञ्चालानां विशांपते
।
संभ्रान्तरूपमार्तं च न परस्परमैक्षत॥४४॥
दृष्ट्वा तु विमुखान्योधान्धृष्टद्युम्नं च पीडितम्
।
शैनेयोऽचोदयत्तूर्णं रथं द्रौणिरथं प्रति॥४५॥
अष्टभिर्निशितैर्बाणैरश्वत्थामानमार्दयत्
।
विंशत्या पुनराहत्य नानारूपैरमर्षणः॥४६॥
विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान्
।
धनुर्ध्वजं च संयत्तश्चिच्छेद कृतहस्तवत्॥४७॥
स साश्वं व्यधमच्चापि रथं हेमपरिष्कृतम्
।
हृदि विव्याध समरे त्रिंशता सायकैर्भृशम्॥४८॥
एवं स पीडितो राजन्नश्वत्थामा महाबलः
।
शरजालैः परिवृतः कर्तव्यं नान्वपद्यत॥४९॥
एवं गते गुरोः पुत्रे तव पुत्रो महारथः
।
कृपकर्णादिभिः सार्धं शरैः सात्वतमावृणोत्॥५०॥
दुर्योधनस्तु विंशत्या कृपः शारद्वतस्त्रिभिः
।
कृतवर्माऽथ दशभिः कर्णः पञ्चाशता शरैः॥५१॥
दुःशासनः शतेनैव वृषसेनश्च सप्तभिः
।
सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः॥५२॥
ततः स सात्यकी राजन्सर्वानेव महारथान्
।
विरथान्विमुखांश्चैव क्षणेनैवाकरोन्नृप॥५३॥
अश्वत्थामा तु संप्राप्य चेतनां भरतर्षभ
।
चिन्तयामास दुःखार्तो निःश्वसंश्च पुनः पुनः॥५४॥
अथो रथान्तरं द्रौणिः समारुह्य परंतपः
।
सात्यकिं वारयामास किरञ्शरशतान्बहून्॥५५॥
तमापतन्तं संप्रेक्ष्य भारद्वाजसुतं रणे
।
विरथं विमुखं चैव पुनश्चक्रे महारथः॥५६॥
ततस्ते पाण्डवा राजन् दृष्ट्वा सात्यकिविक्रमम्
।
शंखशब्दान्भृशं चक्रुः सिंहनादांश्च नेदिरे॥५७॥
एवं तं विरथं कृत्वा सात्यकिः सत्यविक्रमः
।
जघान वृषसेनस्य त्रिसाहस्त्रान्महारथान्॥५८॥
अयुतं दन्तिनां सार्धं कृपस्य निजघान सः
।
पञ्चायुतानि चाश्वानां शकुनेर्निजघान ह॥५९॥
ततो द्रौणिर्महाराज रथमारुह्य वीर्यवान्
।
सात्यकिं प्रतिसंक्रुद्धः प्रययौ तद्वधेप्सया॥६०॥
पुनस्तमागतं दृष्ट्वा शैनेयो निशितैः शरैः
।
अदारयत्क्रूरतरैः पुनः पुनररिंदम॥६१॥
सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः
।
युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत्॥६२॥
शैनेयाभ्युपपत्तिं ते जानाम्याचार्यघातिनि
।
न चैनं त्रास्यसि मया ग्रस्तमात्मानमेव च॥६३॥
शपेऽऽत्मनाऽहं शैनेय सत्येन तपसा तथा
।
अहत्वा सर्वपञ्चालान्यदि शान्तिमहं लभे॥६४॥
यद्बलं पाण्डवेयानां वृष्णीनामपि यद्बलम्
।
क्रियतां सर्वमेवेह निहनिष्यामि सोमकान्॥६५॥
एवमुक्त्वार्करश्म्याभं सुतीक्ष्णं तं शरोत्तमम्
।
व्यसृजत्सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः॥६६॥
स तं निर्भिद्य तेनास्तः सायकः सशरावरम्
।
विवेश वसुधां भित्त्वा श्वसन्बिलमिवोरगः॥६७॥
स भिन्नकवचः शूरस्तोत्रार्दित इव द्विपः
।
विमुच्य सशरं चापं भूरिव्रणपरिस्रवः॥६८॥
सीदन् रुधिरसिक्तश्च रथोपस्थ उपाविशत्
।
सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम्॥६९॥
अथान्येन सुपुङ्खेन शरेणानतपर्वणा
।
आजघान भ्रुवोर्मध्ये धृष्टद्युम्नं परन्तपः॥७०॥
स पूर्वमतिविद्धश्च भृशं पश्चाच्च पीडितः
।
ससादाथ च पाञ्चाल्यो व्यपाश्रयत च ध्वजम्॥७१॥
तं नागमिव सिंहेन दृष्ट्वा राजञ्शरार्दितम्
।
जवेनाभ्यद्रवञ्छूराः पञ्च पाण्डवतो रथाः॥७२॥
किरीटी भीमसेनश्च वृद्धक्षत्रश्च पौरवः
।
युवराजश्च चेदीनां मालवश्च सुदर्शनः॥७३॥
एते हाहाकृताः सर्वे प्रगृहीतशरासनाः
।
वीरं द्रौणायनिं वीराः सर्वतः पर्यवारयन्॥७४॥
ते विंशतिपदे यत्ता गुरुपुत्रममर्षणम्
।
पञ्चभिः पञ्चभिर्बाणैरभ्यघ्नन्सर्वतः समम्॥७५॥
आशीविषाभैर्विंशत्या पञ्चभिस्तु शितैः शरैः
।
चिच्छेद युगपद्द्रौणिः पञ्चविंशतिसायकान्॥७६॥
सप्तभिस्तु शितैर्बाणैः पौरवं द्रौणिरार्दयत्
।
मालवं त्रिभिरेकन पार्थं षड्बिर्वृकोदरम्॥७७॥
ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः
।
युगपच्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः॥७८॥
युवराजश्च विंशत्या द्रौणिं विव्याध पत्रिभिः
।
पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभिस्त्रिभिः॥७९॥
ततोऽर्जुनं षड्भिरथाजघान द्रौणायनिर्दशभिर्वासुदेवम्
।
भीमं दशार्धैर्युवराजं चतुर्भिर्द्वाभ्यां द्वाभ्यां मालवं पौरवं च॥८०॥
सूतं विद्ध्वा भीमसेनस्य षड्भिर्द्वाभ्यां विद्ध्वा कार्मुकं च ध्वजं च
।
पुनः पार्थं शरवर्षेण विद्ध्वा द्रौणिर्घोरं सिंहनादं ननाद॥८१॥
तस्यास्यतस्तान्निशितान्पीतधारान् द्रौणेः शरान्पृष्ठतश्चाग्रतश्च
।
धरा वियद्द्यौः प्रदिशो दिशश्च च्छन्ना बाणैरभवन्घोररूपैः॥८२॥
आसन्नस्य स्वरथं तीव्रतेजाः सुदर्शनस्येन्द्रकेतुप्रकाशौ
।
भुजौ शिरश्चेन्द्रसमानवीर्यस्त्रिभिः शरैर्युगपत्संचकर्त॥८३॥
स पौरवं रथशक्त्या निहत्य छित्त्वा रथं तिलशश्चास्य बाणैः
।
छित्त्वा च बाहू वरचन्दनाक्तौ भल्लेन कायाच्छिर उच्चकर्त॥८४॥
युवानमिन्दीवरदामवर्णं चेदिप्रभुं युवराजं प्रसह्य
।
बाणैस्त्वरावान्प्रज्वलिताग्निकल्पैर्विद्ध्वा प्रादान्मृत्यवे साश्वसूतम्॥८५॥
मालवं पौरवं चैव युवराजं च चेदिपम्
।
दृष्ट्वा समक्षं निहतं द्रोणपुत्रेण पाण्डवः॥८६॥
भीमसेनो महाबाहुः क्रोधमाहारयत्परम्
।
ततः शरशतैस्तीक्ष्णैः संक्रुद्धाशीविषोपमैः॥८७॥
छादयामास समरे द्रोणपुत्रं परंतपः
।
ततो द्रौणिर्महातेजाः शरवर्षं निहत्य तम्॥७८॥
विव्याध निशितैर्बाणैर्भीमसेनममर्षणः
।
ततो भीमो महाबाहुर्द्रौणेर्युधि महाबलः॥८९॥
क्षुरप्रेण धनुश्छित्त्वा द्रौणिं विव्याध पत्रिणा
।
तदपास्य धनुश्छिन्नं द्रोणपुत्रो महामनाः॥९०॥
अन्यत्कार्मुकमादाय भीमं विव्याध पत्रिभिः
।
तौ द्रौणिभीमौ समरे पराक्रान्तौ महाबलौ॥९१॥
अवर्षतां शरवर्षं वृष्टिमन्ताविवाम्बुदौ
।
भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः॥९२॥
द्रौणिं संछादयामासुर्घनौघा इव भास्करम्
।
तथैव द्रौणिनिर्मुक्तैर्भीमः सन्नतपर्वभिः॥९३॥
अवाकीर्यत स क्षिप्रं शरैः शतसहस्रशः
।
स च्छाद्यमानः समरे द्रौणिना रणशालिना॥९४॥
न विव्यथे महाराज तदद्भुतमिवाभवत्
।
ततो भीमो महाबाहुः कार्तस्वरविभूषितान्॥९५॥
नाराचान्दश संप्रैषीद्यमदण्डनिभाञ्छितान्
।
ते जत्रुदेशमासाद्य द्रोणपुत्रस्य मारिष॥९६॥
निर्भिद्य विविशुस्तूर्णं वल्मीकमिव पन्नगाः
।
सोऽतिविद्धो भृशं द्रौणिः पांडवेन महात्मना॥९७॥
ध्वजयष्टिं समासाद्य न्यमीलयत लोचने
।
स मुहूर्तात्पुनः संज्ञां लब्ध्वा द्रौणिर्नराधिप॥९८॥
क्रोधं परममातस्थौ समरे रुधिरोक्षितः
।
दृढं सोऽभिहतस्तेन पाण्डवेन महात्मना॥९९॥
वेगं चक्रे महाबाहुर्भीमसेनरथं प्रति
।
तत आकर्णपूर्णानां शराणां तिग्मतेजसाम्॥१००॥
शतमाशीविषाभानां प्रेषयामास भारत
।
भीमोऽपि समरश्लाधी तस्य वीर्यमचिन्तयत्॥१०१॥
तूर्णं प्रासृजदुग्राणि शरवर्षाणि पाण्डवः
।
ततो द्रौणिर्महाराज छित्त्वाऽस्य विशिखैर्धनुः॥१०२॥
आजघानोरसि क्रुद्धः पाण्डवं निशितैः शरैः
।
ततोऽन्यद्धनुरादाय भीमसेनो ह्यमर्षणः॥१०३॥
विव्याध निशितैर्बाणैर्द्रौणिं पञ्चभिराहवे
।
जीमूताविव घर्मान्ते तौ शरौघप्रवर्षिणौ॥१०४॥
अन्योन्यक्रोधताम्राक्षौ छादयामासतुर्युधि
।
तलशब्दैस्ततो घोरैस्त्रासयन्तौ परस्परम्॥१०५॥
अयुध्येतां सुसंरब्धौ कृतप्रतिकृतैषिणौ
।
ततो विस्फार्य सुमहच्चापं रुक्मविभूषितम्॥१०६॥
भीमं प्रैक्षत स द्रौणिः शरानस्यन्तमन्तिकात्
।
शरद्यहर्मध्यगतो दीप्तार्चिरिव भास्करः॥१०७॥
आददानस्य विशिखान्संदधानस्य चाशुगान्
।
विकर्षतो मुञ्चतश्च नान्तरं ददृशुर्जनाः॥१०८॥
अलातचक्रप्रतिमं तस्य मण्डलमायुधम्
।
द्रौणेरासीन्महाराज बाणान्विसृजतस्तदा॥१०९॥
धनुश्च्युताः शरास्तस्य शतशोऽथ सहस्रशः
।
आकाशे प्रत्यदृश्यन्त शलभानामिवायतीः॥११०॥
ते तु द्रौणिविनिर्मुक्ताः शरा हेमविभूषिताः
।
अजस्रमन्वकीर्यन्त घोरा भीमरथं प्रति॥१११॥
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम्
।
बलं वीर्यं प्रभावं च व्यवसायं च भारत॥११२॥
तां स मेघादिवोद्भूतां बाणवृष्टिं समन्ततः
।
जलवृष्टिं महाघोरां तपान्त इव चिन्तयन्॥११३॥
द्रोणपुत्रवधप्रेप्सुर्भीमो भीमपराक्रमः
।
अमुञ्चच्छरवर्षाणि प्रावृषीव बलाहकः॥११४॥
तद्रुक्मपृष्ठं भीमस्य धनुर्घोरं महारणे
।
विकृष्यमाणं विबभौ शक्रचापमिवापरम्॥११५॥
तस्माच्छराः प्रादुरासञ्छतशोऽथ सहस्रशः
।
संछादयन्तः समरे द्रौणिमाहवशोभिनम्॥११६॥
तयोर्विसृजतोरेवं शरजालानि मारिष
।
वायुरप्यन्तरा राजन्नाशक्नोत्प्रतिसर्पितुम्॥११७॥
तथा द्रौणिर्महाराज शरान्हेमविभूषितान्
।
तैलधौतान्प्रसन्नाग्रान्प्राहिणोद्वधकाङ्क्षया॥११८॥
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत्
।
विशेषयन्द्रोणसुतं तिष्ठ तिष्ठेति चाब्रवीत्॥११९॥
पुनश्च शरवर्षाणि घोराण्युग्राणि पाण्डवः
।
व्यसृजद्बलवान् क्रुद्धो द्रोणपुत्रवधेप्सया॥१२०॥
ततोऽस्त्रमायया तूर्णं शरवृष्टिं निवार्य ताम्
।
धनुश्चिच्छेद भीमस्य द्रोणपुत्रो महास्त्रवित्॥१२१॥
शरैश्चैनं सुबहुभिः क्रुद्धः सङ्ख्ये पराभिनत्
।
स छिन्नधन्वा बलवान् रथशक्तिं सुदारुणाम्॥१२२॥
वेगेनाविध्य चिक्षेप द्रोणपुत्ररथं प्रति
।
तामापतन्तीं सहसा महोल्काभां शितैः शरैः॥१२३॥
चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम्
।
एतस्मिन्नन्तरे भीमो दृढमादाय कार्मुकम्॥१२४॥
द्रौणिं विव्याध विशिखैः स्मयमानो वृकोदरः
।
ततो द्रौणिर्महाराज भीमसेनस्य सारथिम्॥१२५॥
ललाटे दारयामास शरेणानतपर्वणा
।
सोऽतिविद्धो बलवता द्रोणपुत्रेण सारथिः॥१२६॥
व्यामोहमगमद्राजन्रश्मीनुत्सृज्य वाजिनाम्
।
ततोऽश्वाः प्राद्रवंस्तूर्णं मोहिते रथसारथौ॥१२७॥
भीमसेनस्य राजेन्द्र पश्यतां सर्वधन्विनाम्
।
तं दृष्ट्वा प्रद्रुतैरश्वैरपकृष्टं रणाजिरात्॥१२८॥
दध्मौ प्रमुदितः शङ्खं बृहन्तमपराजितः
।
ततः सर्वे च पञ्चाला भीमसेनश्च पाण्डवः॥१२९॥
धृष्टद्युम्नरथं त्यक्त्वा भीताः संप्राद्रवन्दिशः
।
तान्प्रभग्नांस्ततो द्रौणिः पृष्ठतो विकिरञ्शरान्॥१३०॥
अभ्यवर्तत वेगेन कालयन्पाण्डुवाहिनीम्
।
ते वध्यमानाः समरे द्रोणपुत्रेण पार्थिवाः॥१३१॥
द्रोणपुत्रभयाद्राजन्दिशः सर्वाश्च भेजिरे॥१३२॥
इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वण्यश्वत्थामपराक्रमे द्विशततमोऽध्यायः॥२००॥
सञ्जय उवाच।
तत् प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनञ्जयः
।
न्यवारयदमेयात्मा द्रोणपुत्रजयेप्सया॥१॥
यथा शिवमयो विष्णुरेवं विष्णुमयं जगदिति स्मृतौ दार्शन्तिकं जगतो विष्णुमयत्वं पूर्वयोः पर्वणोर्विष्णोर्विश्वरूपप्रकाशनेन व्याख्यातम् । अथ दृष्टान्तीकृतं विष्णोः शिवमयत्वं व्याचिरव्यासुः शतरुद्रियमारभते - तदुपोद्धातत्वेनाश्वत्थामास्त्राभिभवं तावद्दर्शयति - तत्प्रभग्नं बलं दृष्ट्वेत्यादिना ॥१॥
ततस्ते सैनिका राजन्नैव तत्रावतस्थिरे
।
संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च॥२॥
ततस्ते तव ॥२॥
एक एव च बीभत्सुः सोमकावयवैः सह
।
मत्स्यैरन्यैश्च संधाय कौरवान्संन्यवर्तत॥३॥
सोमकावयवैः सोमकानामवयवरूपैर्माण्डलिकैः ॥३॥
ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम्
।
सव्यसाची महेष्वासमश्वत्थामानमब्रवीत्॥४॥
या शक्तिर्यच्च विज्ञानं यद्वीर्यं यच्च पौरुषम्
।
धार्तराष्ट्रेषु या प्रीतिर्द्वेषोऽस्मासु च यच्च ते॥५॥
यच्च भूयोऽस्ति तेजस्ते तत् सर्वं मयि दर्शय
।
स एव द्रोणहन्ता ते दर्पं छेत्स्यति पार्षतः॥६॥
कालानलसमप्रख्यं द्विषतामन्तकोपमम्
।
समासादय पाञ्चाल्यं मां चापि सहकेशवम्॥७॥
उद्धृत्तस्य उच्छास्त्रवर्तिनः ॥७॥
दर्पं नाशयितास्म्यद्य तवोद्वृत्तस्य संयुगे॥७॥
उद्धृत्तस्य उच्छास्त्रवर्तिनः ॥७॥
धृतराष्ट्र उवाच।
आचार्यपुत्रो मानार्हो बलवांश्चापि सञ्जय
।
प्रीतिर्धनञ्जये चास्य प्रियश्चापि महात्मनः॥८॥
न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम्
।
अथ कस्मात्स कौन्तेयः सखायं रूक्षमुक्तवान्॥९॥
सञ्जय उवाच।
युवराजे हते चैव वृद्धक्षत्रे च पौरवे
।
इष्वस्त्रविधिसम्पन्ने मालवे च सुदर्शने॥१०॥
युवराजे चेदिपतौ ॥१०॥
धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते
।
युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते॥११॥
अन्तर्भेदे च सञ्जाते दुःखं संस्मृत्य च प्रभो
।
अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत॥१२॥
अन्तर्भेदे हृदयवैक्लव्ये । दुःखं पुत्रवधादिजम् ॥१२॥
तस्मादनर्हमश्लीलमप्रियं द्रौणिमुक्तवान्
।
मान्यमाचार्यतनयं रूक्षं कापुरुषं यथा॥१३॥
अश्लीलं जुगुप्सितम् । आप्रियं परुषम् ॥१३॥
एवमुक्तः श्वसन् क्रोधान्महेष्वासतमो नृप
।
पार्थेन परुषं वाक्यं सर्वमर्मभिदा गिरा॥१४॥
द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः
।
स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान्॥१५॥
देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे
।
दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः॥१६॥
सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम्
।
सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा॥१७॥
ततस्तुमुलमाकाशे शरवर्षमजायत
।
पावकार्चिः परीतं तत्पार्थमेवाभिपुप्लुवे॥१८॥
उल्काश्च गगनात्पेतुर्दिशश्च न चकाशिरे
।
तमश्च सहसा रौद्रं चमूमवततार ताम्॥१९॥
रक्षांसि च पिशाचाश्च विनेदुरतिसङ्गताः
।
ववुश्चाशिशिरा वाताः सूर्यो नैव तताप च॥२०॥
वायसाश्चापि चाक्रन्दन्दिक्षु सर्वासु भैरवम्
।
रुधिरं चापि वर्षंतो विनेदुस्तोयदा दिवि॥२१॥
पक्षिणः पशवो गावो विनेदुश्चापि सुव्रताः
।
परमं प्रयतात्मानो न शान्तिमुपलेभिरे॥२२॥
प्रयतात्मानो योगिनोऽपि समाधिच्युता बभूवुरित्यर्थः ॥२२॥
भ्रान्तसर्वमहाभूतमावर्तितदिवाकरम्
।
त्रैलोक्यमभिसंतप्तं ज्वराविष्टमिवाभवत्॥२३॥
आवर्तितदिवाकरं विश्वं सर्वं भ्रमतीवेत्यमन्यतेत्यर्थः ॥२३॥
अस्त्रतेजोभिसंतप्तं नागा भूमिशयास्तथा
।
निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः॥२४॥
जलजानि च सत्त्वानि दह्यमानानि भारत
।
न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः॥२५॥
दिग्भ्यः प्रदिग्भ्यः खाद्भूमेः सर्वतः शरवृष्टयः
।
उच्चावचानि पेतुर्वै गरुडानिलरंहसैः॥२६॥
तैः शरैर्द्रोणपुत्रस्य वज्रवेगैः समाहताः
।
प्रदग्धा रिपवः पेतुरग्निदग्धा इव द्रुमाः॥२७॥
दह्यमाना महाभागाः पेतुरुर्व्यां समन्ततः
।
नदन्तो भैरवान्नादाञ्जलदोपमनिःस्वनान्॥२८॥
अपरे प्रद्रुता नागा भयत्रस्ता विशांपते
।
त्रेसुर्दिशो यथा पूर्वं वने दावाग्निसंवृताः॥२९॥
त्रेमुः शब्दं चक्रुः । यथा वने इति सम्बन्धः ॥२९॥
द्रुमाणां शिखराणीव दावदग्धानि मारिष
।
अश्ववृन्दान्यदृश्यन्त रथवृन्दानि भारत॥३०॥
अपतन्त रथौघाश्च तत्र तत्र सहस्रशः
।
तत् सैन्यं भयसंविग्नं ददाह युधि भारत॥३१॥
युगान्ते सर्वभूतानि संवर्तक इवानलः
।
दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे॥३२॥
युगान्ते प्रलये। संवर्तकः संहारकः ॥३२॥
प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे
।
ततस्तूर्यसहस्राणि नानालिङ्गानि भारत॥३३॥
तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः
।
कृत्स्ना ह्यक्षौहिणी राजन् सव्यसाची च पाण्डवः॥३४॥
तमसा संवृते लोके नादृश्यन्त महाहवे
।
नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम्॥३५॥
यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा
।
अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत्॥३६॥
सर्वास्त्रप्रतिघातार्थं विहितं पद्मयोनिना
।
ततो मुहूर्तादिव तत्तमो व्युपशशाम ह॥३७॥
प्रववौ चानिलः शीतो दिशश्च विमला बभुः
।
तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम्॥३८॥
अनभिज्ञेयरूपां च प्रदग्धामस्त्रतेजसा
।
ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ॥३९॥
सहितौ प्रत्यदृश्येतां नभसीव तमोनुदौ
।
ततो गाण्डीवधन्वा च केशवश्चाक्षतावुभौ॥४०॥
तमोनुदौ चन्द्रसूर्यौ॥४०॥
सपताकध्वजहयः सानुकर्षवरायुधः
।
प्रबभौ सरथो युक्तस्तावकानां भयंकरः॥४१॥
ततः किलकिलाशब्दः शङ्खभेरीस्वनैः सह
।
पाण्डवानां प्रहृष्टानां क्षणेन समजायत॥४२॥
हताविति तयोरासीत्सेनयोरुभयोर्मतिः
।
तरसाऽभ्यागतौ दृष्ट्वा सहितौ केशवार्जुनौ॥४३॥
तयोर्विषये ॥४३॥
तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ
।
दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिता भृशम्॥४४॥
विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः
।
मुहूर्तं चिन्तयामास किं त्वेतदिति मारिष॥४५॥
चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः
।
निःश्वसन् दीर्घमुष्णं च विमनाश्चाभवत्ततः॥४६॥
सञ्जय उवाच।
ततो द्रौणिर्धनुस्त्यक्त्वा रथात्प्रस्कन्द्य वेगितः
।
धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा संप्राद्रवद्रणात्॥४७॥
पूर्वदेवानां ब्रह्मविष्णुरुद्राणां मध्ये एतौ विष्णुरूपिणावृषी नरनारायणौ परमोचितौ अत्यन्ततपःसंपन्नौ ॥४७॥
ततः स्निग्धाम्बुदाभासं वेदावासमकल्मषम्
।
वेदव्यासं सरस्वत्यावासं व्यासं ददर्श ह॥४८॥
वेदानां व्यासं शाखाप्रशाखाभेदेन विभाजकम्। सरस्वत्या अङ्गोपवेदस्मृत्यादिरूपाया आवासम्। व्यासमिति पाठे विस्तारम् ॥४८॥
तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वहम्
।
सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत्॥४८॥
वेदानां व्यासं शाखाप्रशाखाभेदेन विभाजकम्। सरस्वत्या अङ्गोपवेदस्मृत्यादिरूपाया आवासम्। व्यासमिति पाठे विस्तारम् ॥४८॥
भो भो माया यदृच्छा वा न विद्मः किमिदं भवेत्
।
अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः॥५०॥
मायानष्टयोरप्यनष्टत्वेन दर्शनम्। यदृच्छा अश्वशक्तेरनियमः ॥५०॥
अधरोत्तरमेतद्वा लोकानां वा पराभवः
।
यदिमौ जीवतः कृष्णौ ‘कालो हि दुरतिक्रमः’॥५१॥
अधरोत्तरं विपरीतम् ॥५१॥
नासुरा न च गन्धर्वा न पिशाचा न राक्षसाः
।
न सर्पा यक्षपतगा न मनुष्याः कथंचन॥५२॥
उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम्
।
तदिदं केवलं हत्वा शान्तमक्षौहिणीं ज्वलत्॥५३॥
सर्वघाति मया मुक्तमस्त्रं परमदारुणम्
।
केनेमौ मर्त्यधर्माणौ नावधीत्केशवार्जुनौ॥५४॥
एतत्प्रब्रूहि भगन्मया पृष्टो यथातथम्
।
श्रोतुमिच्छामि तत्त्वेन सर्वमेतन्महामुने॥५५॥
व्यास उवाच।
महान्तमेवमर्थं मां यं त्वं पृच्छसि विस्मयात्
।
तं प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु॥५६॥
योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः
।
अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत्॥५७॥
स तपस्तीव्रमातस्थे शिशिरं गिरिमास्थितः
।
ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसन्निभः॥५८॥
शिशिरं गिरिं हिमाचलम्॥५८॥
षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च
।
अशोषयत्तदाऽऽत्मानं वायुभक्षोऽम्बुजेक्षणः॥५९॥
अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत्
।
द्यावापृथिव्योर्विवरं तेजसा समपूरयत्॥६०॥
स तेन तपसा तात ब्रह्मभूतो यदाऽभवत्
।
ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम्॥६१॥
ब्रह्मभूतो ब्रह्मवदत्यन्तं निर्लेपः । ईश्वरं निमितं योनिमुपादानम् । पतिं पालयितारम् ॥६१॥
ददर्श भृशदुर्धर्षं सर्वदेवैरभिष्टुतम्
।
अणीयांसमणुभ्यश्च बृहद्भ्यश्च बृहत्तमम्॥६२॥
रुद्रमीशानवृषभं हरं शंभुं कपर्दिनम्
।
चेकितानं परां योनिं तिष्ठतो गच्छतश्च ह॥६३॥
ईशानानां ब्रह्मादीनामपि वृषभं श्रेष्ठं कपर्दिनं जटाजूटवन्तं चेकितानं चेतयन्तम् । परां प्रकृष्टां योनिमधिष्ठानं तिष्ठतः स्थावरस्य, गच्छतो जंगमस्य ॥६३॥
वयोतिगैर्वृद्धेः ॥६३॥
दुर्वारणं दुर्दृशं तिग्ममन्युं महात्मानं सर्वहरं प्रचेतसम्
।
दिव्यं चापमिषुधी चाददानं हिरण्यवर्माणमनन्तवीर्यम्॥६४॥
दुर्वारणं दुर्निषेधं दुर्दृशं विरूपाक्षम्। तिग्ममन्युं तीव्रकोपं दुष्टेषु। प्रचेतसम् उदारचित्तं साधुषु ॥६४॥
पिनाकिनं वज्रिणं दीप्तशूलं परश्वधिं गदिनं चायतासिम्
।
शुभ्रं जटिलं मुसलिनं चन्द्रमौजिं व्याघ्राजिनं परिघिणं दण्डपाणिम्॥६५॥
परश्वधिनं परश्वधवन्तम् ॥६५॥
शुभाङ्गदं नागयज्ञोपवीतं विश्वैर्गणैः शोभितं भूतसङ्घैः
।
एकीभूतं तपसां सन्निधानं वयोतिगैः सुष्टुतमिष्टवाग्भिः॥६६॥
जलं दिशं खं क्षितिं चन्द्रसूर्यौ तथा वाय्वग्नी प्रमिमाणं जगच्च
।
नालं द्रष्टुं यं जना भिन्नवृत्ता ब्रह्मद्विषन्नघ्नममृतस्य योनिम्॥६७॥
जगत्प्रमिमाणं परिमापर्यन्तं कालम् । यं भिन्नवृत्ता दुराचाराः द्रष्टुं नालम् । यतो ब्रह्मद्विषघ्नम् । अमृतस्य मोक्षस्य योनिं कारणम् ॥६७॥
यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः क्षीणे पापे मनसा वीतशोकाः
।
तं निष्पतन्तं तपसा धर्ममीड्यं तद्भक्त्या वै विश्वरूपं ददर्श
।
दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः संहृष्टात्मा मुमुदे वासुदेवः॥६८॥
ददर्श वासुदेव इत्युत्तरेण संबन्धः॥६८॥
अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम्
।
ततो नारायणो दृष्ट्वा ववन्दे विश्वसंभवम्॥६९॥
वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम्
।
क्रीडमानं महात्मानं भूतसङ्घगणैर्वृतम्॥७०॥
अजमीशानमव्यक्तं कारणात्मानमच्युतम्
।
अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने
।
पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान्॥७१॥
श्रीनारायण उवाच।
त्वत्संभूता भूतकृतो वरेण्य गोप्तारोऽस्य भुवनस्यादिदेव
।
आविश्येमां धरणीं येऽभ्यरक्षन् पुरा पुराणीं तव देवसृष्टिम्॥७२॥
भूतकृतः प्रजापतयः हे वरेण्य मोक्षकामैर्वरणीय ॥७२॥
सुरासुरान्नागरक्षःपिशाचान्नरान्सुपर्णानथ गन्धर्वयक्षान्
।
पृथग्विधान्भूतसङ्घांश्च विश्वांस्त्वत्संभूतान्विद्म सर्वांस्तथैव
।
ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं पैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम्॥७३॥
ऐन्द्रम् इंद्रदैवत्यं कर्म तुभ्यं त्वदर्थमेव सर्वेषां देवानां नाम्ना त्वमेव तर्पणीय इत्यर्थः ॥७३॥
रूपं ज्योतिः शब्द आकाशवायुः स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी
।
कालो ब्रह्मा ब्रह्म च ब्राह्मणाश्च त्वत्संभूतं स्थास्नु चरिष्णु चेदम्॥७४॥
आकाश इति लुप्तविभक्तिकम् । स्वाद्यं रसः ब्रह्म वेदाः यज्ञाश्च स्थास्नु स्थावरं चरिष्णु जङ्गमम् ॥७४॥
अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं ताभिश्चैक्यं संक्षये यान्ति भूयः
।
एवं विद्वान्प्रभवं चाप्ययं च मत्वा भूतानां त्व सायुज्यमेति॥७५॥
अद्भ्यः समुद्रेभ्यः स्तोकाः वर्षबिन्दवः संक्षये प्रलये एकार्णवे सायुज्यं ऐक्यम् ॥७५॥
दिव्यामृतौ मानसौ द्वौ सुपर्णौ वाचा शाखाः पिप्पलाः सप्त गोपाः
।
दशाप्यन्ये ये पुरं धारयन्ति त्वया सृष्टास्त्वं हि तेभ्यः परो हि॥७६॥
रूपं ज्योतिरिति द्वाभ्यां श्लोकाभ्यां सर्वस्य ब्रह्मप्रभवत्वं ब्रह्मप्रलयत्वं चोक्तंम् । इह सर्वस्मादन्यद्ब्रह्मणो रूपं विविनक्ति दिव्येति । दिवि हार्दाकाशे भवौ दिव्यौ शुद्धाशुद्धसत्त्वप्रधानायां मूलप्रकृतौ मायाविद्याख्यायां चित्प्रतिबिम्बाविति यावत् । तौ च तावावृतौ दिव्यावृतौ ईश्वरजीवौ। अथापि मानसौ मनस्येव शास्तृशास्यभावेनाभिव्यक्तौ द्वौ सुपर्णौ पक्षिवदुपाध्यसंगिनौ तयोरधिष्ठेयाः सप्त पिप्पला अश्वत्थाः । वाचा शाखाः वाङ्मात्रेण शाखावत् । खे आकाशे शेरते ते शाखाः। ‘शाखाः खशयाः’ इति यास्कः ‘वाचारंभणं विकारः’ इति श्रुतेरनृता इत्यर्थः । महदहंकारपञ्चतन्मात्राख्याः प्रकृतीमानसौ प्रागुक्तौ । ताभ्यां सहैकादश । तथा दश इन्द्रियाणि तेषामेकादशानां गोप्तारः गोप्तेति पाठे एकवचनमार्षम् । तानि हि संसारजाश्वत्थमूला वासना वर्धयन्ति । के ते दश ये पुरं पाञ्चभौतिकं शरीरं धारयन्ति तेभ्यश्व षड्विंशतेरन्यः परमात्मा सप्तविंशस्त्वमसीत्यर्थः ॥७६॥
भूतं भव्यं भविता चाप्यधृष्यं त्वत्संभूता भुवनानीह विश्वा
।
भक्तं च मां भजमानं भजस्व मा रीरिषो मामहिताहितेन॥७७॥
भूतमिति । संभूता संभूतानि । विश्वा विश्वानि । उभयत्र सुपश्छान्दसोऽडादेशः । भजस्व इष्टकामपूरणेन पालय । मा रीरिषः मा हिंसीः मां केन अहिताहितेन अहितानां कामादीनाम् आहितम् आधानं मच्चेतसि प्रवेशनं तेनेत्यर्थः ॥७७॥
आत्मानं त्वामात्मनो न व्यबोधं विद्वानेवं गच्छति ब्रह्म शुक्रम्
।
अस्तौषं त्वां तव संमानमिच्छन् विचिन्वन्वै सदृशं देववर्य
।
सुदुर्लभान्देहि वरान्ममेष्टानभिष्टुतः प्रविकार्षीश्च मायाम्॥७८॥
आत्मानमिति। आत्मनो जीवस्य आत्मानं निरुपाधिस्वरूपं प्रत्यञ्चमत एवानन्यबोधं नास्ति अन्योऽहंकारादिर्बोधोः यस्मिंस्तमनन्यबोधमनन्यभावमिति पाठेऽपि स एवार्थः । एतादृशं त्वां विद्वान् शुक्रम् उपाध्यसंपर्कान्निरवद्यं ब्रह्म गच्छति प्राप्नोति उपाधिप्रहाणेन। अहं तु अहंकारविशिष्टस्तव शंभोः संमानमर्चनं कर्तुमिच्छंस्त्वामस्तौषं स्तुतवानस्मि । कीदृशं सदृशं स्तुतियोग्यं त्वां विचिन्वन् अन्वेषयन्। स्ववृषमिति पाठे स्वधर्मरूपं स्वधर्मप्राप्यं हे देववर्य ईशस्यापि त्वं दुरराधिगम इत्यर्थः । मायां च प्रविकार्षीः प्रकर्येण विकृतवानसि । तां मामुद्दिश्य मा प्रविकार्षीरित्यनुषङ्गेणान्वयः ॥७८॥
व्यास उवाच।
तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृत्
।
अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः॥७९॥
अर्हते योग्याय ऋषिणा नारायणेन संस्तुतः ॥७९॥
श्रीभगवानुवाच
।
मत्प्रसादान्मनुष्येषु देव-गन्धर्वयोनिषु
।
अप्रमेयबलात्मा त्वं नारायण भविष्यसि॥८०॥
न च त्वां प्रसहिष्यन्ति देवासुरमहोरगाः
।
न पिशाचा न गन्धर्वा न यक्षा न च राक्षसाः॥८१॥
न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः
।
न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति॥८२॥
वियोनिजाः सिंहव्याघ्रादयः ॥८२॥
न शस्त्रेण न वज्रेण नाग्निना न च वायुना
।
न चार्द्रेण न शुष्केण त्रसेन स्थावरेण च॥८३॥
त्रसेन जंगमेन ॥८३॥
कश्चित्तव रुजां कर्ता मत्प्रसादात्कथञ्चन
।
अपि वै समरं गत्वा भविष्यसि ममाधिकः॥८४॥
गत्वा प्राप्य ॥८४॥
एवमेते वरा लब्धाः पुरस्ताद्विद्धि शौरिणा
।
स एष देवश्चरति मायया मोहयञ्जगत्॥८५॥
तस्यैव तपसा जातं नरं नाम महामुनिम्
।
तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा॥८६॥
तावेतौ पूर्वदेवानां परमोपचितावृषी
।
लोकयात्राविधानार्थं सञ्जयेते युगे युगे॥८७॥
तथैव कर्मणा कृत्स्नं महतस्तपसोऽपि च
।
तेजो मन्युं च बिभ्रंस्त्वं जातो रौद्रो महामते॥८८॥
स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत्
।
अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया॥८९॥
देववत् नारायणवत् अवाकर्षः अवमतं कृशं कृतवानसि आत्मानं शरीरम् ॥८९॥
शुभ्रमत्र हविः कृत्वा महापुरुषविग्रहम्
।
ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद॥९०॥
शुत्रं दीप्तिमत् ॥९०॥
स तथा पूज्यमानस्ते पूर्वदेहेऽप्यतूतुषत्
।
पुष्कलांश्च वरान्प्रादात्तव विद्वन् हृदि स्थितान्॥९१॥
जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः
।
ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे॥९२॥
तयोर्नरनारायणयोः। अथापि तव तयोश्च विशेषहेतुं श्रणु इत्याह - ताभ्यामिति । लिंगे सूक्ष्मशरीरे। अर्चायां प्रतिमायाम्। अयं भावः - ‘चतुर्णां सन्निधानेन यत्फलं तदशाश्वतम् । द्वयोस्तु सन्निधानेन शाश्वतं प्राप्यते पदम्’ शत दक्षस्मृतेः । प्रतिमायां शिवार्चकस्य आत्ममनइन्द्रियविषयाणां चतुर्णां सान्निध्यमस्ति । लिंगे तदर्चकस्य तु आत्ममनसोर्द्वयोरेव सान्निध्यमस्तीति तयोरर्चकत्वसाम्येऽपि प्रकारभेदात्फलभेदभागितेति ॥९२॥
सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम्
।
आत्मयोगाश्च तस्मिन् वै शास्त्रयोगाश्च शाश्वताः॥९३॥
लिंगार्चनादेव सर्वं ब्रह्मेति जानातीत्याह - सर्वेति । ज्ञात्वा शास्त्रात् पूर्वं ज्ञात्वा पश्चादनुभवेनापि जानातीत्यर्थः । अत एव कृष्णे आत्मयोगाख्यं जीवब्रह्मैक्यविज्ञानं शास्त्रयोगाख्यं परोक्षज्ञानं च तत्कारणीभूतं पुष्कलमस्तीत्याह - आत्मेति ॥९३॥
एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः
।
प्रार्थयन्ते परं लोके स्थाणुमेकं स सर्वकृत्॥९४॥
स एष रुद्रभक्तश्च केशवो रुद्रसंभवः
।
कृष्ण एव हि यष्टव्यो यज्ञैश्चैव सनातनः॥९५॥
कृष्णः भक्तानां सहेतुकं संसारं कर्षतीति योगात्स एवाराध्यः ॥९५॥
सर्वभूतभवं ज्ञात्वा लिङ्गमर्चति यः प्रभोः
।
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः॥९६॥
सञ्जय उवाच।
तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः
।
नमश्चकार रुद्राय बहु मेने च केशवम्॥९७॥
हृष्टरोमा च वश्यात्मा सोऽभिवाद्य महर्षये
।
वरूथिनीमभिप्रेक्ष्य ह्यवहारमकारयत्॥९८॥
ततः प्रत्यवहारोऽभूत्पाण्डवानां विशांपते
।
कौरवाणां च दीनानां द्रोणे युधि निपातिते॥९९॥
महर्षये व्यासाय ॥९९॥
युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम्
।
ब्रह्मलोकं गतो राजन् ब्राह्मणो वेदपारगः॥१००॥
इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि व्यासवाक्ये शतरुद्रीये एकाधिकद्विशततमोऽध्यायः॥२०१॥
धृतराष्ट्र उवाच।
तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै
।
मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम्॥१॥
तस्मिन्निति । तदेवं विष्णोः शिवमयत्वं व्याख्याय विष्णुत्राणात्तन्मयस्य जगतस्त्राणमपि शैवमेव कर्मेत्युक्तम् । तस्मिन्नित्यत आरभ्य पर्वसमाप्तिपर्यन्तस्य प्रन्यस्य तात्पर्यमपि भूभारावतारेहतुरपि शिव एवेति ॥१॥
सञ्जय उवाच।
तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै
।
कौरवेषु च भग्नेषु कुन्तीपुत्रो धनञ्जयः॥२॥
दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम्
।
यदृच्छयाऽऽगतं व्यासं पप्रच्छ भरतर्षभ॥३॥
यदृच्छया दैवेन ॥३॥
अर्जुन उवाच।
संग्रामे न्यहनं शत्रूञ्शरौघैर्विमलैरहम्
।
अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम्॥४॥
न्यहनं शत्रूनित्यत्र निघ्नतः शत्रूनिति पाठे शरौघैः शत्रुन्निघ्नत ममाग्रतो यान्तं पुरुषमहं लक्षये इत्यन्वयः ॥४॥
ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते
।
तस्यां दिशि विदीर्यन्ते शत्रवो मे महामुने॥५॥
तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः
।
तेन भग्नानि सैन्यानि पृष्ठतोऽनुव्रजाम्यहम्॥६॥
भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः
।
शूलपाणिर्मया दृष्टस्तेजसा सूर्यसन्निभः॥७॥
न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति
।
शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा॥८॥
व्यास उवाच।
प्रजापतीनां प्रथमं तैजसं पुरुषं प्रभुम्
।
भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम्॥९॥
प्रजानां सर्गस्थित्यन्तकर्तृत्वेन पतीनां ब्रह्मविष्णुरुद्राणां प्रथमं प्रथयितारं कारणमित्यर्थः । तैजसं स्वार्थे तद्धितः चिन्मात्ररूपं पुरुषं सर्वपूर्षु शरीरगुहासु शयानमत एव प्रभुमन्तर्यामित्वेन शास्तारं भुवनं द्यौः भूः पृथिवी भुवमन्तरिक्षं त्रैलोक्यशरीरमित्यर्थः । दैवं द्योतमानं सर्वलोकेश्वरम् । प्रभुमिति राजवद्बहिः स्थित्वापि नियमयन्तमित्यर्थः ॥९॥
ईशानं वरदं पार्थ दृष्टवानसि शंकरम्
।
तं गच्छ शरणं देवं वरदं भुवनेश्वरम्॥१०॥
ईशानमनन्याधिपतिं वरदं श्रेष्ठानामपि खण्डयितारं भुवनेश्वरं भुवनव्यापिनम् ॥१०॥
महादेवं महात्मानमीशानं जटिलं विभुम्
।
त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम्॥११॥
जटिलं शिखिनमिति रूपभेदाभिप्रायेण विशेषणद्वयं योज्यम् ॥११॥
महादेवं हरं स्थाणुं वरदं भुवनेश्वरम्
।
जगत्प्रधानमजितं जगत्प्रीतिमधीश्वरम्॥१२॥
जगत्प्रीतिं जगदानन्दकरम् । अधीश्वरमीश्वरादप्यधिकं निरुपाधिचिन्मात्रामत्यर्थः ॥१२॥
जगद्योनिं जगद्बीजं जयिनं जगतो गतिम्
।
विश्वात्मानं विश्वसृजं विश्वमूर्तिं यशस्विनम्॥१३॥
जगद्योनिं जगद्बीजमिति जगतां मातृपितृरूपम् ॥१३॥
विश्वेश्वरं विश्वनरं कर्मणामीश्वरं प्रभुम्
।
शम्भुं स्वयंभुं भूतेशं भूतभव्यभवोद्भवम्॥१४॥
विश्वनरं विश्वस्य नेतारम् भूतस्य भव्यस्य भवस्य वर्तमानस्य चोद्भवम् ॥१४॥
योगं योगेश्वरं सर्वं सर्वलोकेश्वरेश्वरम्
।
सर्वश्रेष्ठं जगच्छ्रेष्ठं वरिष्ठं परमेष्ठिनम्॥१५॥
योगं कर्मयोगादिरूपम्। योगेश्वरं योगिनामीशं योगानां फलप्रदं वा सर्वं सर्वात्मकम् ॥१५॥
लोकत्रयविधातारमेकं लोकत्रयाश्रयम्
।
शुद्धात्मानं भवं भीमं शशाङ्ककृतशेखरम्॥१६॥
शाश्वतं भूधरं देवं सर्ववागीश्वरेश्वरम्
।
सुदुर्जयं जगन्नाथं जन्म-मृत्यु-जरातिगम्॥१७॥
सुदुर्जयम् अत्यन्तं दुष्प्रापमनधिकारिभिः ॥१७॥
ज्ञानात्मानं ज्ञानगम्यं ज्ञानश्रेष्ठं सुदुर्विदम्
।
दातारं चैव भक्तानां प्रसादविहितान्वरान्॥१८॥
ज्ञानात्मानं ज्ञानस्वरूपं ज्ञानगभ्यं परविद्याप्राप्यं ज्ञानश्रेष्ठं चिन्मात्ररूपत्वेनैव प्रशस्यतमम् । अत एव सुदुर्विदमविषयत्वाद्दुर्ज्ञेयम् ॥१८॥
तस्य पारिषदा दिव्या रूपैर्नानाविधैर्विभोः
।
वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः॥१९॥
पारिषदा गणाः ॥१९॥
महाकाया महोत्साहा महाकर्णास्तथाऽपरे
।
आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः॥२०॥
ईदृशैः स महादेवः पूज्यमानो महेश्वरः
।
स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः॥२१॥
तस्मिन्घोरे सदा पार्थ संग्रामे रोमहर्षणे
।
द्रौणि-कर्ण-कृपैर्गुप्तां महेष्वासैः प्रहारिभिः॥२२॥
कस्तां सेनां तदा पार्थ मनसाऽपि प्रधर्षयेत्
।
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात्॥२३॥
प्रधर्षयेत् अभिभवेत् ॥२३॥
स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते
।
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते॥२४॥
गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः
।
विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च॥२५॥
तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि
।
ये चान्ये मानवा लोके ये च स्वर्गजितो नराः॥२६॥
ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम्
।
अनन्यभावेन सदा सर्वेशं समुपासते॥२७॥
भक्ताः भजन्त शत भक्ताः ॥२७॥
इहलोके सुखं प्राप्य ते यांति परमां गतिम्
।
नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा॥२८॥
नमस्करणं प्रह्वीभावस्तं कुरुष्व । शितिकण्ठाय नीलग्रीवाय कनिष्ठाय सूक्ष्मायेति प्राञ्चः । कनी दीप्तौ दीप्ततमाय ॥२८॥
रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे
।
कपर्दिने करालाय हर्यक्षवरदाय च॥२९॥
इर्यक्षः पिंगाक्षः कुबेरः ॥२९॥
याम्यायाव्यक्तकेशाय सद्वृत्ते शंकराय च
।
काम्याय हरिनेत्राय स्थाणवे पुरुषाय च॥३०॥
याम्याय यामकर्त्रे कालाय । अव्यक्तकेशाय अव्यक्तं मायाशबलं केशवद्रश्मिमात्रं यस्य । सद्वृत्ते भक्ते शंकराय सुखकराय ॥३०॥
हरिकेशाय मुण्डाय कृशायोत्तारणाय च
।
भास्कराय सुतीर्थाय देवदेवाय रंहसे॥३१॥
मुण्डाय यजमानमूर्तित्वात् । कृशाय तपोनिष्ठत्वात् उत्तारणाय संसारादिति शेषः। रंहसे वेगवते॥३१॥
बहुरूपाय सर्वाय प्रियाय प्रियवाससे
।
उप्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे॥३२॥
सर्वे अयाः शुभावहा विधयः प्रियाः यस्य । तस्मै सर्वाय प्रियाय प्रियवाससे सोमाय वाससः सोमदैवत्यत्वात् उष्णीषिणे शिरोवेष्टनवते मीढुषे वृष्टिकर्त्रे ॥३२॥
गिरिशाय प्रशान्ताय पतये चीरवाससे
।
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम्॥३३॥
गिरिशाय पर्वतशायिने । चीरं वल्कलं हिरण्यबाहवे सुवर्णालंकृतभुजाय ॥३३॥
पर्जन्यपतये चैव भूतानां पतये नमः
।
वृक्षाणां पतये चैव गवां च पतये नमः॥३४॥
वृक्षैरावृतकायाय सेनान्ये मध्यमाय च
।
स्रुवहस्ताय देवाय धन्विने भार्गवाय च॥३५॥
वृक्षैर्व्रश्चनयोग्यैर्देहैरावृतकायाय आच्छादितस्वरूपाय मध्यमाय अन्तर्यामिणे स्रुवहस्ताय अध्वर्यवे भार्गवाय रामाय॥३५॥
बहुरूपाय विश्वस्य पतये मुञ्जवाससे
।
सहस्रशिरसे चैव सहस्रनयनाय च॥३६॥
मुंजो वल्कलं तृणतन्तवो वा तन्मयवाससे ॥३६॥
सहस्रबाहवे चैव सहस्रचरणाय च
।
शरणं गच्छ कौन्तेय वरदं भुवनेश्वरम्॥३७॥
उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम्
।
प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम्॥३८॥
अव्यग्रमनाकुलम् ॥३८॥
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम्
।
वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम्॥३९॥
कपर्दिनं जटाजूटवन्तम् । वृषावर्तं वृषाणां श्रेष्ठानां ब्रह्मादीनामावर्तयितारम् । तानपि भ्रामयन्तं माययेत्यर्थः। वृषनाभं सर्वलोकाश्रयत्वेन प्रशस्ततमगर्भम् । वृषध्वजं नन्दिवाहनम् । वृषदर्पं वृषः समर्थस्त्रैलोक्यसंहारक्षमो दर्पोऽहंकारो यस्य तम्। वृषस्य धर्मस्य पतिम्। तत्फलप्रदातृत्वेन वृषो धर्म एव परापररूपो विश्ववपुषः श्रृंगभूत उच्चतरो यस्य तम्। अत एव वृषर्षभं वृषाणां फलवर्षिणामिन्द्रादीनामृषभं श्रेष्ठम् ॥३९॥
वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम्
।
वृषायुधं वृषशरं वृषभूतं वृषेश्वरम्॥४०॥
वृषो बलीवर्दोङ्के ध्वजे यस्य तं वृषाङ्कम् । वृषभोदारं वृषभेषु धर्मेण भासमानेषु उदारं बहुफलप्रदम् । अत एव वृषभं वृषेण धर्मेण निमित्तेन भानं साक्षात्कारो यस्य तं वृषभं योगधर्मैकगम्यम्। वृषभेक्षणं स्पष्टार्थम् । वृषायुधं श्रेष्ठप्रहरणम् । वृषो विष्णुः शरो यस्य तं वृषशरम् । वृषभूतं धर्मैकवपुषम्। वृषस्य दक्षयज्ञस्येश्वरं नियन्तारम् ॥४०॥
महोदरं महाकायं द्वीपिचर्मनिवासिनम्
।
लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम्॥४१॥
महदनेककोटिब्रह्माण्डाश्रयभूतमुदरं यस्य तं महोदरम् । महाकायं त्रैलोक्यशरीरं द्वीपिचर्मनिवासिनं व्याघ्रचर्मणा नितरां छादितम् ॥४१॥
त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम्
।
पिनाकिनं खड्गधरं लोकानां पतिमीश्वरम्॥४२॥
खड्गधरं खड्गमात्रधरम् ॥४२॥
प्रपद्ये शरणं देवं शरण्यं चीरवाससम्
।
नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा॥४३॥
सुवाससे नमस्तुभ्यं सुव्रताय सुधन्विने
।
धनुर्धराय देवाय प्रियधन्वाय धन्विने॥४४॥
सुधन्विने शोभना धन्विनो धनुर्धराः पार्षदा अस्य सन्ति तस्मै । स्वयमपि धनुर्धराय । अत एव प्रियधन्वाय धनुःप्रियाय । धन्वधनुःप्रेरकत्वेनास्यास्तीति तस्मै बाणाय ॥४४॥
धन्वन्तराय धनुषे धन्वाचार्याय ते नमः
।
उग्रायुधाय देवाय नमः सुरवराय च॥४५॥
धन्वन्तराय धनुषि अन्तरे मध्येऽस्तीति धन्वन्तरं मौर्वी तद्रूपाय । सन्धिरार्षः । धनुषे धनुःस्वरूपाय । धन्वाचार्याय धनुर्वेदगुरवे ॥४५॥
नमोऽस्तु बहुरूपाय नमोऽस्तु बहुधन्विने
।
नमोऽस्तु स्थाणवे नित्यं नमस्तस्मै तपस्विने॥४६॥
नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः
।
वनस्पतीनां पतये नराणां पतये नमः॥४७॥
भगघ्नाय भगनेत्रभिदे ॥४७॥
मातॄणां पतये चैव गणानां पतये नमः
।
गवां च पतये नित्यं यज्ञानां पतये नमः॥४८॥
अपां च पतये नित्यं देवानां पतये नमः
।
पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च॥४९॥
नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः
।
कर्माणि यानि दिव्यानि महादेवस्य धीमतः॥५०॥
तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम्
।
न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः॥५१॥
सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः
।
दक्षस्य यजमानस्य विधिवत्संभृतं पुरा॥५२॥
गुहागताः पातालगता अपीत्यर्थः । न सुखमेधन्तीत्युक्तं तदेवाह - दक्षस्येत्यादिना ॥५२॥
विव्याध कुपितो यज्ञं निर्देयस्त्वभवत्तदा
।
धनुषा बाणमुत्सृज्य सघोषं विननाद च॥५३॥
ते न शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा
।
विद्रुते सहसा यज्ञे कुपिते च महेश्वरे॥५४॥
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः
।
बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः॥५५॥
आपश्चुक्षुभिरे सर्वाश्चकंपे च वसुन्धरा
।
पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः॥५६॥
अन्धेन तमसा लोका न प्राकाशन्त संवृताः
।
जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः॥५७॥
तमसा संवृता न प्राकाशन्त न प्राज्ञायन्त ॥५७॥
चुक्षुभुर्भयभीताश्च शान्तिं चक्रुस्तथैव च
।
ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः॥५८॥
चक्रुरृषय इति संबन्धः ॥५८॥
पूषाणमभ्यद्रवत शंकरः प्रहसन्निव
।
पुरोडाशं भक्षयतो दशनान् वै व्यशातयुत्॥५९॥
पूषाणे पूषणम् ॥५९॥
ततो निश्चक्रमुर्देवा वेपमाना नताः स्म ते
।
पुनश्च संदधे दीप्तान्देवानां निशिताञ्शरान्॥६०॥
नता लीनाः सन्तः निश्चक्रमुर्यज्ञदेशादपक्रान्ताः देवानां लीनानामपि वधायेति शेषः॥६०॥
सधूमान्सस्फुलिङ्गांश्च विद्युत्तोयदसन्निभान्
।
तं दृष्ट्वा तु सुराः सर्वे प्रणिपत्य महेश्वरम्॥६१॥
तं शरान्मुञ्चन्तमिति शेषः ॥६१॥
रुद्रस्य यज्ञभागं च विशिष्टं ते त्वकल्पयन्
।
भयेन त्रिदशा राजञ्छरणं च प्रपेदिरे॥६२॥
तेन चैवातिकोपेन स यज्ञः सन्धितस्तदा
।
भग्नाश्चापि सुरा आसन् भीताश्चाद्यापि तं प्रति॥६३॥
अतिकोपेन अतिक्रान्तकोपेन शान्तेनेत्यर्थः । ततःप्रभृति पूर्वं भग्नाः सन्तोऽद्यापि भीताः सन्तीत्यर्थः ॥६३॥
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि
।
आयसं राजतं चैव सौवर्णं परमं महत्॥६४॥
सौवर्णं कमलाक्षस्य तारकाक्षस्य राजतम्
।
तृतीयं तु पुरं तेषां विद्युन्मालिन आयसम्॥६५॥
न शक्तस्तानि मघवान् भेत्तुं सर्वायुधैरपि
।
अथ सर्वे सुरा रुद्रं जग्मुः शरणमर्दिताः॥६६॥
ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः
।
ब्रह्मदत्तवरा ह्येते घोरास्त्रिपुरवासिनः॥६७॥
पीडयन्त्यधिकं लोकं यस्मात्ते वरदर्पिताः
।
त्वदृते देवदेवेश नान्यः शक्तः कथञ्चन॥६८॥
हन्तुं दैत्यान्महादेव जहि तांस्त्वं सुरद्विषः
।
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु॥६९॥
निपातयिष्यसे चैतानसुरान् भुवनेश्वर
।
स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया॥७०॥
गन्धमादनविन्ध्यौ च कृत्वा वंशध्वजौ हरः
।
पृथ्वीं ससागरवनां रथं कृत्वा तु शङ्करः॥७१॥
वंशध्वजौ अल्पौ ध्वजौ पार्श्वद्वयस्थौ । महाध्वजस्तु मेरुरिति वक्ष्यते ॥७१॥
अक्षं कृत्वा तु नागेन्द्रं शेषं नाम त्रिलोचनः
।
चक्रे कृत्वा तु चन्द्रार्कौ देवदेवः पिनाकधृक्॥७२॥
अणी कृत्वैलपत्रं च पुष्पदन्तं च त्र्यम्बकः
।
यूपं कृत्वा तु मलयमवनाहं च तक्षकम्॥७३॥
अणी युगान्तबन्धने द्वी नागौ। यूपं युगम् अवनाहं त्रिवेणुयुगबन्धनरज्जुम् ॥७३॥
योक्त्रांगानि च सत्त्वानि कृत्वा शर्वः प्रतापवान्
।
वेदान् कृत्वाऽथ चतुरश्चतुरश्वान्महेश्वरः॥७४॥
योक्त्राणि । अङ्गानि चाकर्षादीनि । सत्त्वानि सरीसृपपर्वतादीनि च ॥७४॥
उपवेदान् खलीनांश्च कृत्वा लोकत्रयेश्वरः
।
गायत्रीं प्रग्रहं कृत्वा सावित्रीं च महेश्वरः॥७५॥
उपवेदान् आयुर्वेदधनुर्वेदगान्धर्ववेदपश्चिमाम्नायान् । खलीनान् कडीयाळीतिप्रसिद्धान् । गायत्रीसावित्र्यौ प्रग्रहं रश्मीन् ॥७५॥
कृत्वोङ्कारं प्रतोदं च ब्रह्माणं चैव सारथिम्
।
गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा तु वासुकिम्॥७६॥
विष्णुं शरोत्तमं कृत्वा शल्यमग्निं तथैव च
।
वायुं कृत्वाऽथ वाजाभ्यां पुङ्खे वैवस्वतं यमम्॥७७॥
वाजाभ्यां पक्षाभ्यां पक्षयोरित्यर्थः ॥७७॥
विद्युत्कृत्वाऽथ निश्राणं मेरुं कृत्वाथ वै ध्वजम्
।
आरुह्य स रथं दिव्यं सर्वदेवमयं शिवः॥७८॥
विद्युत् विद्युतं निश्राणं निशितम् ॥७८॥
त्रिपुरस्य वधार्थाय स्थाणुः प्रहरतां वरः
।
असुराणामन्तकरः श्रीमानतुलविक्रमः॥७९॥
स्तूयमानः सुरैः पार्थ ऋषिभिश्च तपोधनैः
।
स्थानं माहेश्वरं कृत्वा दिव्यमप्रतिमं प्रभुः॥८०॥
स्थानं स्थीयतेऽस्मिन्निति योगाद्व्यूहम् ॥८०॥
अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान्
।
यदा त्रीणि समेतानि अन्तरिक्षे पुराणि च॥८१॥
स्थाणुरचलः समेतानि समसूत्रगतानि ॥८१॥
त्रिपर्वणा त्रिशल्येन तदा तानि बिभेद सः
।
पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम्॥८२॥
त्रिपर्वणा त्रीणि विष्णुवायुवैवस्वताख्यानि शरपक्षपुंखरूपाणि पर्वाणि यस्य तेन। त्रिशल्येन गार्हपत्यदक्षिणाग्न्याहवनीयरूपाग्नित्रयशल्येन ॥८२॥
शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम्
।
पुराणि दग्धवन्तं तं देवी याता प्रवीक्षितुम्॥८३॥
पुराणीत्यादिसार्धः । पूर्वं दक्षयज्ञविध्वंसनमुक्तं तस्य तात्पर्यम् - ईश्वरेऽनर्पितो यज्ञो विध्वंसते । ततश्च यज्ञकर्ता ऋत्विजश्च नश्यतीत्युक्तं तेनेश्वरप्रीत्यर्थं कर्माणि कार्याणीति दर्शितम् । ततस्त्रिपुरवध उक्तस्तस्य तात्पर्यं स्थूलसूक्ष्मकारणानि त्रीणि शरीराणि पुराणि क्रमाद्बहुप्रीत्यल्पसुखकरत्वाभ्यां मोहमयत्वेन च सौवर्णराजतायसानि । कामादयोऽसुराः शमादयो देवास्तेषां प्रीतिकरो रुद्र आत्मा शरीरं पृथिव्याख्यं रथमास्थाय तस्य चालके चन्द्रसूर्याख्ये मनश्चक्षुषी चक्रे । वेदाश्च गम्यस्थानप्रापकत्वेन हयाः शरो विष्ण्वधिष्ठिता सूक्ष्मबुद्धिस्तदैकाग्र्येण शरीरत्रयभेदे तुर्ये ब्रह्मणि साक्षात्कृते सति कामादयो नश्यन्ति फलभूताश्च शमादयो वर्धन्ते । तेषु च वर्धमानेषु रुद्रो बालवद्रागद्वेषशून्यो ब्रह्मविद्यापरनाम्न्या उमाया वशगो भवतीत्येतदत्र प्रदर्श्यते॥८३॥
बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः
।
उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्सुरान्॥८४॥
असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः
।
बाहुं सवज्रं तं तस्य क्रुद्धस्यास्तंभयत्प्रभुः॥८५॥
असूयतश्च शक्रस्येत्यादितात्पर्यं - ब्रह्मभूतं द्विषन्तः कर्मठास्तेन योगमहिम्ना निर्जिताः सन्तस्तमेव शरणं गच्छन्तीति ॥८५॥
प्रहस्य भगवांस्तूर्णं सर्वलोकेश्वरो विभुः
।
ततः स स्तंभितभुजः शक्रो देवगणैर्वृतः॥८६॥
जगाम ससुरस्तूर्णं ब्रह्माणं प्रभुमव्ययम्
।
ते तं प्रणम्य शिरसा प्रोचुः प्राञ्जलयस्तदा॥८७॥
किमप्यङ्कगतं ब्रह्मन् पार्वत्या भूतमद्भूतम्
।
बालरूपधरं दृष्ट्वा नास्माभिरभिलक्षितः॥८८॥
तस्मात्त्वां प्रष्टुमिच्छामो निर्जिता येन वै वयम्
।
अयुध्यता हि बालेन लीलया सपुरंदराः॥८९॥
तेषां तद्वचनं श्रुत्वा ब्रह्मा ब्रह्मविदां वरः
।
ध्यात्वा स शंभुं भगवान्बालं चामिततेजसम्॥९०॥
उवाच भगवान्ब्रह्मा शक्रादींश्च सुरोत्तमान्
।
चराचरस्य जगतः प्रभुः स भगवान्हरः॥९१॥
तस्मात्परतरं नान्यत्किंचिदस्ति महेश्वरात्
।
यो दृष्टो ह्युमया सार्धं युष्माभिरमितद्युतिः॥९२॥
स पार्वत्याः कृते शर्वः कृतवान्बालरूपताम्
।
ते मया सहिता यूयं प्रापयध्वं तमेव हि॥९३॥
स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः
।
न संबुबुधिरे चैनं देवास्तं भुवनेश्वरम्॥९४॥
सप्रजापतयः सर्वे बालार्कसदृशप्रभम्
।
अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा स च महेश्वरम्॥९५॥
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः
।
ब्रह्मोवाच
।
त्वं यज्ञो भुवनस्यास्य त्वं गतिस्त्वं परायणम्॥९६॥
गतिः पालकः । परायणं लयस्थानम् ॥९६॥
त्वं भवस्त्वं महादेवस्त्वं धाम परमं पदम्
।
त्वया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम्॥९७॥
भव उत्पत्तिकारणम् ॥९७॥
भगवन्भूतभव्येश लोकनाथ जगत्पते
।
प्रसादं कुरु शक्रस्य त्वया क्रोधार्दितस्य वै॥९८॥
ईशः शिक्षकः। नाथः नायकः । पतिः पालकः ॥९८॥
व्यास उवाच।
पद्मयोनिवचः श्रुत्वा ततः प्रीतो महेश्वरः
।
प्रसादाभिमुखो भूत्वा अट्टहासमथाकरोत्॥९९॥
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः
।
अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः॥१००॥
तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः
।
देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः॥१०१॥
स वै रुद्रः स च शिवः सोऽग्निः सर्वश्च सर्ववित्
।
स चेन्द्रश्चैव वायुश्च सोऽश्विनौ च स विद्युतः॥१०२॥
स वै रुद्र इत्यादिना पुनरेव सार्वात्म्यमुच्यते ॥१०२॥
स भवः स च पर्जन्यो महादेवः सनातनः
।
स चंद्रमाः स चेशानः स सूर्यो वरुणश्च सः॥१०३॥
स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि तु
।
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः॥१०४॥
धाता च स विधाता च विश्वात्मा विश्वकर्मकृत्
।
सर्वासां देवतानां च धारयत्यवपुर्वपुः॥१०५॥
सर्वदेवैः स्तुतो देवः सैकधा बहुधा च सः
।
शतधा सहस्रधा चैव भूयः शतसहस्रधा॥१०६॥
द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः
।
घोरा चान्या शिवा चान्या ते तनू बहुधा पुनः॥१०७॥
घोरा तु यातुधानस्य सोऽग्निर्विष्णुः स भास्करः
।
सौम्या तु पुनरेवास्य आपो ज्योतींषि चंद्रमाः॥१०८॥
वेदाः साङ्गोपनिषदः पुराणाध्यात्मनिश्चयाः
।
यत्र परमं गुह्यं स वैः देवो महेश्वरः॥१०९॥
ईदृशश्च महादेवो भूयांश्च भगवानजः
।
न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः॥११०॥
अपि वर्षसहस्रेण सततं पाण्डुनन्दन
।
सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान्॥१११॥
स मोचयति सुप्रीतः शरण्यः शरणागतान्
।
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान्॥११२॥
स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः
।
सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते॥११३॥
स चैव व्यापृतो लोके मनुष्याणां शुभाशुभे
।
ऐश्वर्याच्चैव कामानामीश्वरश्च स उच्यते॥११४॥
महेश्वरश्च महतां भूतानामीश्वरश्च सः
।
बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत्॥११५॥
तस्य देवस्य यद्वक्त्रं समुद्रे तदधिष्ठितम्
।
वडवामुखेति विख्यातं पिबत्तोयमयं हविः॥११६॥
द्वे तनू इत्युक्ते तनू पुनर्व्याख्याति - तस्य देवस्येति । वडवामुखारव्या घोरा तनुः ॥११६॥
एष चैव श्मशानेषु देवो वसति नित्यशः
।
यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम्॥११७॥
एष चैवेति । अघोरा श्मशानाख्या काशी ‘या ते रुद्र शिवा तनूरघोरा पापकाशिनी’ इति लिंगादपापस्य ब्रह्मणः प्रकाशकत्वात् । एतच्चान्यत्राप्यविमुक्ताख्यां तामेव प्रकृत्याऽऽम्नातम् । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति। तस्मादविमुक्तमेव निषेवेताविमुक्तं न विमुञ्चेदिति। तत्र श्मशाने काश्याम् एनं रुद्रं जना उपासकाः यजन्ति आराधयन्ति। एतदपि तत्रैव श्रुतम् । य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्त उपास्यः सोऽविमुक्ते प्रतिष्ठित इति। वीरस्थाने वीराणां षड्वर्गजयिनां संन्यासिनां स्थाने अविमुक्ते । यथोक्तं यतीन्प्रकृत्य स्मृतिषु - “अष्टौ मासान् विहारः स्याद्वार्षिकांश्चतुरो वसेत्। अविमुक्ते प्रविष्टानां विहारो नैव विद्यते' इति। न चात्र श्मशानशब्दार्थो लोकप्रसिद्धो ग्रहीतुं युक्तः। तस्याशुचित्वेन यागभूमित्वासंभवेन यजन्त्येनं जनास्तत्रेति वाक्यशेषविरोधात्। न च वीरस्थाने इत्युक्तेरसुराणां निन्द्यमार्गजुषां तदपि यजनस्थानमिति वाच्यम् । आनुशासनिके उमामहेश्वरसंवादे श्मशानसदृशं पवित्रं स्थानं त्रैलोक्ये नास्तीति महेश्वरवचसैव स्थापितत्वात् तस्मान्महाश्मशानमिति लोकप्रसिद्धेः पवित्रं देवयजनस्थानं श्मशानाख्यं वाराणस्येव । अत्रैव संवर्तादीनामज्ञातवासो जाबालादौ श्रूयमाणो दानधर्मेषु मैत्रेयभिक्षायामाश्वमेधीये संवर्तमरुत्तीये चोपबृंहित इति सर्वमनवद्यम् ॥११७॥
अस्य दीप्तानि रूपाणि घोराणि च बहूनि च
।
लोके यान्यस्य पूज्यन्ते मनुष्याः प्रवदन्ति च॥११८॥
अस्येति । चादघोराणि ॥११८॥
नामधेयानि लोकेषु बहून्यस्य यथार्थवत्
।
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मणस्तथा॥११९॥
निरुच्यन्ते -
‘ऐश्वर्याच्चैव कामानामीश्वरश्च स उच्यते
।
महेश्वरश्च महतां भूतानामीश्वरश्च सः
।
’
इत्येवंजातीयकैः श्लोकैर्व्याख्यायन्ते ॥११९॥
वेदे चास्य समाम्नातं शतरुद्रियमुत्तमम्
।
नाम्ना चानन्तरुद्रेति ह्युपस्थानं महात्मनः॥१२०॥
शतरुद्रियं ‘नमस्ते रुद्रमन्यवे’ इति याजुषः प्रपाठकः। उपस्थानं रुद्रोपस्थानमन्त्रभूतम् ॥१२०॥
सकामानां प्रभुर्देवो ये दिव्या ये च मानुषाः
।
स विभुः स प्रभुर्देवो विश्वं व्याप्नोति वै महत्॥१२१॥
कामानां दिव्यानां मानुषार्णा च स प्रभुर्दाता विभुर्व्यापकः । विश्वं व्याप्नोति कनककुण्डलवत् । न त्वाकाशवद्विभुमात्रं नापि प्रधानवत् ॥१२१॥
ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा सुनयस्तथा
।
प्रथमो ह्येष देवानां सुखादस्थानलोऽभवत्॥१२२॥
यतः प्रभुरीश्वरश्चेतन इति यावत्। ज्येष्ठं प्रशस्ततमं त्रिविधपरिच्छेदशून्यं भूतं नित्यसिद्धम्। एष एव प्रथमः प्रजापतिः ॥१२२॥
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः
।
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः॥१२३॥
पशून् जीवान् अत्र पाति पालयति । पिबति सादरं पश्यति शोषयति चेत्यर्थानभिप्रेत्य डत्यन्तस्य पातेः पतिशब्द उत्पन्नस्तेन पशुपतिशब्दस्याप्यर्थत्रयमित्यग्रे विज्ञेयम् ॥१२३॥
दिव्यं च ब्रह्मचर्येण लिङ्गमस्य यथा स्थितम्
।
महयत्येष लोकांश्च महेश्वर इति स्मृतः॥१२४॥
ब्रह्मचर्येण दिव्यत्वात् । यथास्थितत्वाच्च लिंगमित्यप्यस्य नाम । आलिंगत्ययं प्रपञ्चं सत्तास्फूर्तिप्रदानेनालिंगत्येनं प्रपञ्चः प्रलीयमान इति हेतोरयं लिङ्गपदवाच्यः दिव्यत्वादसङ्गत्वाद्यथास्थितत्वात्कूटस्थत्वाच्च प्रधानादन्यत्वमित्यर्थः। महयन् पूजयन् स चासौ ईश्वरश्चेति महेश्वरः ॥१२४॥
ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा
।
लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम्॥१२५॥
लिङ्गयति सर्वान्कामान् गमयति। अतः सर्वोत्कृष्टत्वादूर्ध्वमूर्ध्वत्वाच्च ऋष्यादीनामर्च्यं लिंगति भक्तसमर्पितं पत्रपुष्पादि गच्छति प्राप्नोतीत्यनेन हेतुना लिङ्गमित्युत्तरस्यार्थः ॥१२५॥
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः
।
सुखी प्रीतश्च भवति प्रहृष्टश्चैव शङ्करः॥१२६॥
यदस्य बहुधा रूपं भूतभव्यभवस्थितम्
।
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः॥१२७॥
भये वर्तमानम् ॥१२७॥
एकाक्षो जाज्वलन्नास्ते सर्वतोऽक्षिमयोऽपि वा
।
क्रोधाद्यश्चाविशल्लोकांस्तस्मात्सर्व इति स्मृतः॥१२८॥
एकमक्ष्यस्य वह्निमयं जाज्वलदत्यन्तं दीप्तमास्ते यत्र प्रविष्टं सर्वं तत्तादात्म्यं प्राप्नोतीत्यनेन सरंत्येनं भूतानीति वा सरत्ययं सर्वाणि भूतान्यनन्तलोचनत्वादिति वा सर्वः। जाज्वलन्नित्यस्यैव विवरणं - क्रोधादिति । शर्व इति तालव्यादिपाठेऽपि शृणोति हिनस्तीति शर्व इति निर्वचनम् ॥१२८॥
धूम्ररूपं च यत्तस्य धूर्जटिस्तेन चोच्यते
।
विश्वेदेवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः॥१२९॥
धूम्रा क्रोधवती जटिः स्वरूपमस्येति विग्रहे वर्णलोपाद्धूर्जटिरित्याह - धूम्रेति । रूपशब्दो देववाचीत्यभिप्रेत्याह - विश्वे इति ॥१२९॥
तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः
।
द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः॥१३०॥
त्रैलोक्यं भजते पालयतीति त्र्यंबक इत्याह - तिस्त्र इति ॥१३०॥
स मेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु
।
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः॥१३१॥
समेधयतीति यस्माद्धनादिवर्धनेन लोकानां शिवंकरस्तस्माच्छिव इत्यर्थः ॥१३१॥
सहस्राक्षोऽयुताक्षो वा सर्वतोऽक्षिमयोऽपि वा
।
यच्च विश्वं महत् पाति महादेवस्ततः स्मृतः॥१३१॥
समेधयतीति यस्माद्धनादिवर्धनेन लोकानां शिवंकरस्तस्माच्छिव इत्यर्थः ॥१३१॥
महत्पूर्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत्
।
स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः॥१३२॥
महान्ति पुरुषभेदेन बहुत्वाद्विभुत्वाद्वा व्यापकाख्यानि देवशब्दितानीन्द्रियाण्यस्येति वा महतो विश्वस्य देवो राजा वा महादेव इत्यभिप्रेत्याह - सहस्रेति ॥१३२॥
सूर्याचन्द्रमसोर्लोके प्रकाशन्ते रुचश्च याः
।
ताः केशसंज्ञितास्त्र्यक्षे व्योमकेशस्ततः स्मृतः॥१३३॥
स ईक्षां चक्रे स प्राणमसृजत्प्राणाच्छ्रद्धामित्यादिना श्रुतौ ईक्षणकर्ता ईश्वरो महानुक्तः । प्राणो जीवोपाधिस्तेन जीव उक्तः। श्रद्धादिकं जीवस्य लिङ्गशरीरं चरमं कार्यम् । तत्र महत ईशात्प्रागुपाध्यस्पृष्टेन रूपेण तत उपहितेन साक्षिरूपेण तदुपाध्यभिमानिना कर्त्रादिरूपेण चास्थितोऽपि स्थितलिङ्गः अविक्रियस्वरूपतया तिष्ठतीति योगात् स्थाणुरित्युच्यत इत्याह- महदिति ॥१३३॥
भूतं भव्यं भविष्यं च सर्वं जगदशेषतः
।
भव एव ततो यस्माद्भूतभव्यभवोद्भवः॥१३५॥
कपिः श्रेष्ठ इति प्रोक्तो धर्मश्च वृष उच्यते
।
स देवदेवो भगवान्कीर्त्यतेऽतो वृषाकपिः॥१३६॥
ब्रह्माणमिन्द्रं वरुणं यमं धनदमेव च
।
निगृह्य हरते यस्मात्तस्माद्धर इति स्मृतः॥१३७॥
निमीलिताभ्यां नेत्राभ्यां बलाद्देवो महेश्वरः
।
ललाटे नेत्रमसृजत्तेन त्र्यक्षः स उच्यते॥१३८॥
विषमस्थः शरीरेषु समश्च प्राणिनामिह
।
स वायुर्विषमस्थेषु प्राणोपानः शरीरिषु॥१३९॥
शरीरेषु विषमैर्दशविधै रूपैस्तिष्ठतीति विषमस्थः प्राणिनां देहाभिमानिनां सर्वेषां समः प्रियत्वात् न ह्यात्मनि कदाचिप्यप्रियत्वं कस्यापि दृष्टं स एष शिव एव वायुरूपी प्राणापानादिभेदेन विषमस्थेषु पुण्यपापिषु शरीरिषु जीवेषु स्थितः सर्वसम इत्यर्थः ॥१३९॥
पूजयेद्विग्रहं यस्तु लिङ्गं चापि महात्मनः
।
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते॥१४०॥
विग्रहं प्रतिमाम् ॥१४०॥
ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः
।
आत्मनोऽर्धं तथा चाग्निः सोमोऽर्धं पुनरुच्यते॥१४१॥
ऊरुभ्यामित्यादिश्लोकत्रयेण पुनस्तनूद्वयं विभजते - ऊरुभ्यामिति । तत्राद्यश्लोकेऽग्निरिति भोक्ता सोम इति च भोग्यमुच्यते । अत्र मुखबाहूरुपादेभ्यो जाताश्चत्वारो वर्णाः कर्मफलभूतवृष्ट्यादिचारेण समस्तप्राणिकल्याणकरत्वाद्रुद्रस्य शिवा तनूरित्युच्यते । तत्र ऊरुशब्देन तदारभ्याधस्तनः प्रदेश उच्यते। तत्रार्धमाग्नेयं परिशेषादर्धं सोमः वैश्यो भोक्ता शूद्रो भोज्यम् इत्यर्थः। आत्मनो रुद्रस्य तथा च ऊरुभ्यामुपरि अर्धं शिरोभागो ब्राह्मणोऽग्निर्भोक्ता परिशेषादर्धं बाहुभागः क्षत्रियः सोमो भोज्यं तथा पुनरप्येतदुच्यते अर्धमाग्नेयमर्धं सोम इति तेन ब्रह्मक्षत्रे भोक्तारौ वैश्यशूद्रौ भोज्यौ तथा च भोक्त्रा भोज्यं रक्ष्यं भोज्येन च भोक्ता वर्धनीय इति तथा च चातुर्वर्ण्यं त्रैलोक्यस्थितिहेतुत्वादात्मनो रुदस्य शिवा तनुरित्यर्थः ॥१४१॥
तैजसी महती दीप्ता देवेभ्योऽस्य शिवा तनुः
।
भास्वती मानुषेष्वस्य तनुर्घोराऽग्निरुच्यते॥१४२॥
तैजसीति। ‘न ह वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति’ इति श्रुतेर्देवानां भोग्या सोमरूपास्य शिवा तनुः स्वर्गेऽस्ति तथा भुवि मानुषेषु घोरा भोक्त्री जठराग्निरूपा सर्वानर्थनिदानभूताऽस्तीति भावः ॥१४२॥
ब्रह्मचर्यं चरत्येष शिवा याऽस्य तनुस्तया
।
याऽस्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः॥१४३॥
ब्रह्मचर्यमिति । एष मानुषः तया तन्वा ब्रह्मचर्यं चरति याऽस्य शिवा तनूर्दैवी संपत् शमदमादिरूपा सर्वानर्थनिदानं घोरतरा कामक्रोधादिरूपा याऽस्य शिवस्य मूर्तिस्तया स सर्वानत्ति क्रोधाद्याविष्टो हि पित्रादीनपि हिनस्तीति प्रसिद्धम् ॥१४३॥
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान्
।
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते॥१४४॥
एवमस्यैव कारयितृत्वादयमेवाराध्योऽस्माद्भेतव्यमित्याशयेनाह - यन्निर्दहतीति । निर्दहत्यग्निवत् तीक्ष्णः शस्त्रवत् उग्रो यमवत् प्रतापवान् कालवच्च भूत्वा सर्वान् रोदयति रुणद्धि वा सर्वग्रासित्वाद्रुद्र इत्युच्यते अयमेव भयकृद्भयनाशनश्चेत्याराधनीयो न तु हेलनीय इति भावः ॥१४४॥
एष देवो महादेवो योऽसौ पार्थ तवाग्रतः
।
संग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृक्॥१४५॥
सिन्धुराजवधार्थाय प्रतिज्ञाते त्वयाऽनघ
।
कृष्णेन दर्शितः स्वप्ने यस्तु शैलेन्द्रमूर्धनि॥१४६॥
एष वै भगवान्देवः संग्रामे याति तेऽग्रतः
।
येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः॥१४७॥
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संमितम्
।
देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम्॥१४८॥
सर्वार्थसाधनं पुण्यं सर्वकिल्विषनाशनम्
।
सर्वपापप्रशमनं सर्वदुःखभयापहम्॥१४९॥
चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा
।
विजित्य शत्रून्सर्वान्स रुद्रलोके महीयते॥१५०॥
चतुर्विधं शुद्धशबलसूत्रविराट्भेदेन भगवद्रूपस्य चातुर्विध्यात्स्तोत्रमप्यस्य चतुर्विधम् ॥१५०॥
चरितं महात्मनो नित्यं सांग्रामिकमिदं स्मृतम्
।
पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः॥१५१॥
भक्तो विश्वेश्वरं देवं मानुषेषु च यः सदा
।
वरांन्कामान्स लभते प्रसन्ने व्यम्बके नरः॥१५२॥
गच्छ युद्ध्यस्व कौन्तेय न तवास्ति पराजयः
।
यस्य मन्त्री च गोप्ता च पार्श्वस्थो हि जनार्दनः॥१५३॥
सञ्जय उवाच।
एवमुक्त्वाऽर्जुनं संख्ये पराशरसुतस्तदा
।
जगाम भरतश्रेष्ठ यथागतमरिन्दम॥१५४॥
युद्धं कृत्वा महद्धोरं पञ्चाहानि महाबलः
।
ब्राह्मणो निहतो राजन् ब्रह्मलोकमवाप्तवान्॥१५५॥
स्वधीते यत्फलं वेदे तदस्मिन्नपि पर्वणि
।
क्षत्रियाणामभीरूणां युक्तमत्र महद्यशः॥१५६॥
य इदं पठते पर्व शृणुयाद्वापि नित्यशः
।
स मुच्यते महापापैः कृतैर्घोरैश्च कर्मभिः॥१५७॥
यज्ञावाप्तिर्बाह्मणस्येह नित्यं घोरे युद्धे क्षत्रियाणां यशश्च
।
शेषौ वर्णौ काममिष्टं लभेते पुत्रान्पौत्रान्नित्यमिष्टांस्तथैव॥१५८॥
इति श्रीमहाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि द्व्यधिकद्विशततमोऽध्यायः॥२०२॥