हरिवंशपर्व - १विष्णुपर्व - २भविष्यपर्व - ३

हरिवंशपर्व

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥

आदिसर्गकथनम्

श्रीगणेशाय नमः ॥ श्रीवेदव्यासाय नमः ॥ श्रीगुरुभ्यो नमः ॥

यं वक्त्रं मुकुरा इवेन्द्रियमनोमायाः पराग्दृश्यताम् ।
निन्युस्तत्स्थाविमादिनापि च विराट्सूत्रेशभावङ्गतम् ॥ तं प्रत्यग्दृगदृश्यमक्षरमणुं त्यक्तोपनेत्रत्रयाः ।
श्रीगोपालमुपास्महे श्रुतिशिरोवंशीरवैर्दर्शितम् ॥१॥

बाह्यः स्तेनाभिभाषी वहिरुदवेसितं पाति तर्कःप्रतिष्ठो ।
मीमांसा प्रातिहार्यं भजति गुणगणं यस्य संख्यातिसांख्यः॥ हृत्पीठे योगशुद्धे निहितमुपनिषद्वाहवृन्दैः परं मे ।
भाग्यं श्रीलक्ष्मणार्यो जगति विजयते यस्य लेशः शिवाद्याः ॥२॥

व्याचक्रे चित्तशुध्दय्यै शतपत्रहृदयं यः पुराणेतिहासैश्चित्तैकाग्र्यैकबीजं फणिपतिविहितं योगशास्त्रं च भाष्यैः ।
मूलध्वान्तापहत्यै श्रुतिशिखरगिरां ब्रह्मसूत्रै रहस्यम् ।
वेदव्यास सः भूयादखिलभवभयध्वस्तयेऽस्मिद्विधानां ॥३॥

हरिविधिवसिष्टशक्तिपराशरव्यासशुकदेवान् ।
वैशम्पायनमुग्रश्रवसं च नुमः पुराणगुरुमुख्यान् ॥४॥

कणभक्षमक्षचरणं जैमिनिकपिलौ पतञ्जलिं च नुमः ।
श्रीमद्व्यासवचोम्बुधि नय सीकरवर्षिणोमुदिरान् ॥५॥

सर्वविद्येशतामाविश्चिकीर्षू पूर्वपूरुषौ ।
श्रीनारायणधीरेशरूपौ हरिहरौ नुमः ॥६॥

बहून्समाहृत्य विभिन्नदेश्यान्कोशान्विनिश्चित्य च पाठमग्र्यम् ।
प्राचां गुरूणामनुसृत्य वाचमारभ्यतेऽयं हरिवंशदीपः ॥७॥

टीकान्तराणीन्दिरविप्रभाणि बाह्यार्थरत्नानि चकासयन्तु ।
अन्तर्निगूढार्थचयप्रकाशे दीपः क्षमो भारतमन्दिरेऽस्मिन् ॥८॥

ईशप्रसादादवितुं स्ववंश्यान्भगीरथेनेव मया प्रणीता ।
एषा महाभारततीर्थगङ्गा लोकत्रयीजाड्यमलं धुनोतु ॥९॥

उत्तानेष्विह कोशविग्रहबलं पद्येषु नैवाश्रितम् ।
गंभीरेषु न सेतवो न विहिताः कूटा न न स्फोटिताः ।
न च्छिन्ना न तमश्चराऽऽननततिर्भक्तान नाल्हादिता ।
नोदीनाश्च विभीषणा न विहिताः श्रीलक्ष्मणार्यश्रितैः ॥१०॥

इह खलु भगवान् पाराशर्यः परमकारुणिकः सकलसंसारानर्थसङ्कटात् जडाञ्जन्तूनुद्दिधीर्षुः सर्वश्रुतिरहस्य प्रकाशकं महाभारताख्यमितिहासं प्रणिनाय । तत्र शतं पर्वाणि । तेष्वन्तिमं पर्वत्रयं हरिवंशरूपम् । यथोक्तमनुक्रमणिकाध्याये -

हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम् ।
विष्णुपर्व शिशोश्वर्या विष्णोः कंसवधस्तथा ।
भविष्यं पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ।
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना ॥

इति (आ.प.अ १, श्लो ८२-८३)। तथा ग्रन्थसङ्ख्याया अपि

एकं शतसहस्रं च मानुषेषु प्रतिष्ठितम् ।

इत्युक्तायाः हरिवंशेनैव पुरणात् । हरिवंशान्ते

भविष्योत्तरमेतत्ते कथितं भारतं मया ।

इत्युपसंहाराच्च भारतान्तर्गतत्वमस्य । यच्च शाखान्तरस्थं शाखान्तरे प्रयोजनवशात्पठ्यते । यथा बह्वृचेषु श्रीसूक्तमेधासूक्तादि तत्खिलमित्युच्यते तथात्राष्टादशपर्वात्मनीतिहासे हरिवंशाख्यं खिलं विष्णुपुराणं भविष्यपुराणरूपं तत्र तत्र सूचितस्य कृष्णमाहात्म्यस्य मोक्षधर्मोपयोगिनो वैराग्यस्य चोपबृंहणार्थ पठितं "पुराणं खिलसंज्ञितम्” इति तत्र पुराणशब्दप्रयोगात् । एवं च यथाऽध्वर्युवेदविहितोऽपि सोमयागो वेदान्तरहिताभ्यां स्तोत्रशास्त्राभ्यां विना न पूर्यते एवं भारतपारायणमपि हरिवंशं विना न पूर्यत इति ज्ञापनार्थं पर्वसङ्ख्यायां श्लोकसङ्ख्यायां चास्यान्तर्भाव उक्तः । अन्यथा तत्र संख्यान्तरमेवावक्ष्यदित्यास्तां तावत् । टीकान्तरोक्तप्रकारास्त्विह विस्तरभयादमूलत्वाच्च न लिख्यन्ते ।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥१॥

ग्रन्थादौ विघ्नविघाताय प्रचयगमनाय च कृतं मङ्गलं शिष्यशिक्षायै पुनः स्मारयति - नारायणमिति। नरेण अनाद्यविद्यावता जीवेन स्वकर्मद्वारा सृष्टं नारं शरीरं तदेव अयनं प्रवेशस्थानं यस्य सः तं नारायणं जीवान्नियमयितुमन्तःप्रविष्टं शास्तारम्। तथा च श्रुतिः- “अन्तः प्रविष्टः शास्ता जनानाम्” इति। तथा नरं जीवं हिरण्यगर्भं तत उत्तमं [नरोत्तमम्] हिरण्यगर्भादुत्कृष्टतरोऽन्तर्यामी तत उत्कृष्टतमस्तु शुद्धश्चिदात्मा तमिति। एवशब्दस्तेषामवश्यं नमस्कार्यत्वमाह- चशब्दः समुच्चयार्थः। एतेषां नरनारायणनरोत्तमानां तत्त्वप्रद्योतनीं [देवीम्] सरस्वतीं च नमस्कृत्यैव ततो व्यासस्तयैव सरस्वत्या लोकानुग्रहार्थमाविष्टो [जयम्] जयत्यविद्यामनेनेति जयसंज्ञमविद्याध्वान्तनाशकं ग्रन्थम्। उदीरयेत् पठेदित्यर्थः॥१॥

द्वैपायनोष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च ।
यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन॥२॥

द्वैपायनोष्ठ इत्यादयोऽन्यत्रस्थाः षट् श्लोका विभूतिकथनार्थमत्र पठ्यन्ते। अप्रमेयम् अद्भुतं पुण्यं धर्मवृद्धिकरं पवित्रं दृष्टारिष्टनाशकं पापहरं दुर्वासनाहरं शिवं सुखप्रदं पुष्करम् आदितीर्थं ततोऽपि पावनमित्यर्थः॥२॥

जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः ।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति॥३॥

यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे बहुविश्रुताय ।
पुण्यां च भारतकथां शृणुयाच्च तद्वत्तुल्यं फलं भवति तस्य च तस्य चैव॥४॥

शताश्वमेधस्य यदत्र पुण्यं चतुःसहस्रस्य शतक्रतोश्च ।
भवेदनन्तं हरिवंशदानात् प्रकीर्तितं व्यासमहर्षिणा च॥५॥

शताश्वमेधसंज्ञस्य चतुःसहस्रस्य चत्वारि सहस्राणि सत्रपरिवेषणानि अक्षम्यान्नप्रदानानि यस्मिन् कृत्ये तस्य। “सहस्रं सत्रपरिवेषणम्" इति श्रुतिः। शतक्रतोश्च इन्द्रपदप्रापकं यत्कर्म तस्य दानात् अर्थतः पाठतश्च परिशोधनात्। “दैप् शोधने” (१ भ्वा.प.से.)॥५॥

यद्वाजपेयेन तु राजसूयाद् दृष्टं फलं हस्तिरथेन चान्यत् ।
तल्लभ्यते व्यासवचः प्रमाणं गीतं च वाल्मीकिमहर्षिणा च॥६॥

हस्तिरथेन हस्तियुक्तरथदानेन॥६॥

यो हरिवंशं लेखयति यथाविधिना महातपाः सपदि ।
स जयति हरिपदकमलं मधुपो हि यथा रसेन लुब्धः॥७॥

स जयति आक्रमते॥७॥

पितामहाद्यं प्रवदन्ति षष्ठं महर्षिमक्षय्यविभूतियुक्तम् ।
नारायणस्यांशजमेकपुत्रं द्वैपायनं वेद महानिधानम्॥८॥

आद्यं पुरुषमित्यादि व्यासवाक्यमवतारयिष्यन् सूतः व्यासं नमस्करोति- पितामहाद्यमिति। अहं तं द्वैपायनं व्यासं वेद उपासे। विदेरुतमैकवचनं विदेरुपास्त्यर्थत्वं च सर्ववेदप्रसिद्धम्। तस्य विशेषणं महानिधानमिति। निधीयते स्थाप्यतेऽस्मिन् सर्वमर्थजातमिति निधानं वेद ईश्वरो वा। महत् निधानं यस्मिन्निति वेदस्येश्वरस्याधिष्ठानमित्यर्थः। तं कं यस्मात् षष्ठं पितामहस्य ब्रह्मण आद्यं पितामहाद्यं नारायणं प्रवदन्ति। एवं हि पितृपितामहादिक्रमेण व्यासपराशरशक्तिवसिष्ठब्रह्मभ्यः पञ्चभ्यः षष्ठो विष्णुरिति भवति। परे तुयं पितामहात्षष्ठं वदन्तीति संयोज्य वसिष्ठब्रह्मणोर्मध्ये मनुं मित्रावरुणौ वा कल्पयित्वा व्यासं ब्रह्मणः षष्ठमाहुः। परे- पितामहपदेनैव विष्णुं गृह्णन्ति। महर्षिम्- ऋषिर्विप्रः काव्येनेति श्रुतेर्महान्तं काव्यस्य कर्तारं मन्त्रद्रष्टारं वा। अक्षय्यविभूतियुक्तम् अनन्तयोगैश्वर्ययुक्तम्। [नारायणस्यांशजम्] नारायणस्यांशाज्जातम् अंशजम्। एकः शुकः श्रेष्ठो वा पुत्रो यस्य तम् [एकपुत्रम्]। यद्वा- व्यास एव अहं मनुरभवं सूर्यश्चेति वामदेववत्प्रत्यगभिन्नं ब्रह्मानुसन्दधानः स्वात्मानमेव नमस्करोति। तथा च दृष्टं मह्यमेव नमो नम इति। अस्मिन् पक्षे द्वैपायनं व्यासम् अहं महानिधानं ब्रह्म वेद जाने इति स्वरूपानुवादेन ब्रह्मभावो विधीयते। यद्वा- द्विपो गजस्तस्येदमसाधारणं गुण्डादण्डादिलक्षणं तदेव अयनं ज्ञापकं यस्य तं द्वैपायनं गजाननम्। यद्वा- द्वीपी व्याघ्रः तस्येदं चर्म द्वैपं तदेवायनं यस्येति। "द्वीपि चर्मपरीधाना शुष्कमांसातिभैरवा।" इति स्मृत्युक्तः शक्तिविग्रहो द्वैपायनः तम्। यद्वा- द्वीपेषु सप्तसु अयनं चिह्नं प्रकाशकस्वरूपं यस्य न तु पातालादिष्विति द्वैपायनः। स्वार्थे तद्धितः। द्वैपायनः सूर्यः। यद्वा- द्वैपं गजचर्मायनं ज्ञापकं यस्य तत् द्वैपायनं गजचर्मधरं महेश्वरम्। यद्वा- अभ्यर्हितत्वात् द्वीपम् अयनं स्थानं यस्य। स्वार्थे तद्धितः। द्वैपायनः श्वेतद्वीपपतिर्विष्णुः। तं वेद उपासे। अत्र सर्वेषामपीश्वरत्वात् पितामहात्वषष्ठत्वं घटते। तथाहि- सदसच्छब्दवाच्यान्मायाशबलात् ब्रह्मणो अव्यक्तम् अव्यक्तान्महत् महतोऽहङ्कारः अहङ्कारात्पञ्च तन्मात्राणि पञ्चतन्मात्राभ्यः पञ्च महाभूतानि तेभ्यश्चतुर्मुखशरीरमिति सृष्टिक्रमस्यागमसिद्धस्यालोचनायामारोहक्रमेण तेषां पितामहात्षष्ठत्वं घटते। महर्षिमिति सर्वज्ञत्वमुक्तम्। नारायणः परं ब्रह्म तस्य अंश इवांशो मायायां चित्प्रतिबिम्बः तेन निर्वृतत्वादेव मायाशबलं नारायणस्यांशजम् एको हिरण्यगर्भाख्यः पुत्रो यस्य तम्। “यो ब्रह्माणं विदधाति पूर्वम्” (श्वेताश्व०६।१८) इति श्रुतेः। महानिधानं सर्वकारणं महत्परमं लयस्थानम्॥८॥

आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ।
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्॥९॥

ग्रन्थप्रवृत्तिबीजभूतं शौनकप्रश्नं मङ्गलाचरणपूर्वकमवतारयति- आद्यं पुरुषमिति॥ हरिं नमस्कृत्य शौनकः सौतिं पप्रच्छेति तृतीयचतुर्थगतयोर्वाक्ययोरन्वयः। अत्र भूबीजाङ्कुरतरुफलोपमाः पञ्च ब्रह्मपुरुषाः क्रमेण (१)शुद्धचैतन्यम्, (२)मायाशबलाः, (३)सूत्रात्मा, (४)विराट्, (५)विष्णुः चेति संज्ञां लभन्ते। तत्र भूस्थानीयं शुद्धचैतन्यमाद्यं पुरुषम् इत्यनुसन्धत्ते। ईशानमिति। द्वितीयं मायाशबलं बीजस्थानीयम्। "मायिनं तु महेश्वरम्" (श्वेताश्व० ४।१०) इति श्रुतेः। पुरुहूतं पुरुष्टुतमित्यङ्कुरोपमं तृतीयं सूत्रात्मानम्। स हि पुरुभिर्बहुभिर्यजमानैर्यज्ञे हूयते स्तूयते च बहुभिरिष्टं चेत्यपि द्रष्टव्यम्। यदाह यास्कः- "यदेनमृग्भिः शंसन्ति यजुर्भिर्यजन्ति सामाभिः स्तुवन्ति" इति। तथा श्रूतावपि सूत्रात्मानं प्रकृत्य- "तद्यदिदमाहुरमुं यजेत्येतस्यैव सा विसृष्टिः" इति तस्यैव सर्वयष्टव्यदेवतात्वमाम्नायते। किमेतत् पुरुषत्रयं पृथक् सिद्धमुत प्रथमेऽस्मिन्नेव जलाशये तरङ्गबुद्बुदाविवेतरौ कल्पितौ इत्याशङ्क्याह- ऋतमेकाक्षरं ब्रह्मेति। ऋतं सत्यम् अबाधितम् एकं मायासम्पर्कराहित्यात्। अत एव ब्रह्म त्रिविधपरिच्छेदशुन्यं यदेव रूपं वस्तु तदेव व्यक्ताव्यक्तं सूत्रेशानरूपम्। किं व्यक्ताव्यक्ते तस्य परिणामौ नेत्याह- सनातनं सर्वदैकरूपं कूटस्थं रज्वां दण्डधारादिवद्व्यक्ताव्यक्ते तत्रोत्पद्यते इत्यर्थः॥९॥

असच्च सदसच्चैव यद्विश्वं सदसत्परम् ।
परावराणां स्रष्टारं पुराणं परमव्ययम्॥१०॥

चतुर्थं तरूपमं विराट्पुरुषमाह- असदिति। यत् सदसत्परं कार्यकारणाभ्यां सूत्रेशानाभ्यामन्यच्छुद्धं ब्रह्म तदेव विश्वं विराडाख्यम्। एतदेव विश्वं विशिनष्टि- असदिति। सतो विलक्षणम् अनिर्वचनीयं यस्मात् सदसच्चासत् दृश्यमानत्वात् असच्च। "ने नानास्ति किञ्चन" (बृह० ४।४।१९) इति श्रित्या ब्रह्मज्ञानोत्तरं तद्बाधाय दर्शितत्वात्। तस्मादिदमसदनिर्वचनीयमेव न हि परस्परविरुद्धाभ्यां सत्त्वासत्त्वाभ्यामाक्रान्तं किञ्चिद्वस्त्वस्ति। एवं सूत्रेशानयोरप्यनिर्वचनीयत्वं बोध्यं विश्वहेतुत्वात् कार्यकारणयोः समसत्ताकत्वनियमात्। आद्यः पुरुषस्तु नानिर्वचनीयः। तत्र कारणत्वस्यौपचारिकत्वात्। यथोक्तम् -

अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम् ।
अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुच्यते॥

इति। फलोपमं पञ्चमं विष्णुमाह- परावराणां स्रष्टारमिति। परे सूत्रात्मानः अवरे विराजः तेषां स्रष्टारम्। परिणतानेकबीजगर्भाद्वृक्षस्थादपि फलादनेके वटाङ्कुरास्तरवश्च सम्भवन्ति। एवं कार्योपाधिपरिच्छिन्नादपि चतुर्भुजादेः पापेपरार्धं सूत्रादयः सम्भवन्तीत्युक्तम्। तस्य परावराणां स्रष्टुत्वं पुराणं पुरापि नवं फलवदयं जन्यो न भवतीर्यर्थः। तत एव परम् अत्यन्तम् अव्ययम् अपक्षयशून्यम्। एतेन वियदादिवद्भगवन्मूर्तेर्नियुक्तम्। तथा च स्मृतिः -

देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ।
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते

॥१०॥

मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् ।
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम्॥११॥

मङ्गल्यमानन्दावहं मङ्गलम् आनन्दरूपं विष्णुं व्यापनशीलं, वरेण्यं मुमुक्षुभिर्वरणीयम्, अनघम् आगन्तुकदोषशून्यं, शुचिं स्वभावशुद्धं, हृषीकेशम् इन्द्रियाणां प्रवर्तकं, चराचरस्य गुरुं हितोपदेष्टारं, हारिं सर्वपापहरम्॥११॥

नैमिषारण्ये कुलपतिः शौनकस्तु महामुनिः ।
सौतिं पप्रच्छ धर्मात्मा सर्वशास्त्रविशारदः॥१२॥

नैमिषारण्य इत्यक्षराधिक्यमार्षम्। कुलपतिः - "एकादशसहस्राणि योऽन्नदानादिना भरेत्। स वै कुलपतिर्नाम वेदवेदाङ्गपारगः॥" इत्युक्तलक्षणः। योगसिद्धिमानित्यर्थः। सिद्धौ हेतुः महामुनिः ध्याननिष्टः। अत्रापि हेतुः- धर्मात्मेति। तत्र हेतुः सर्वशास्त्रविशारदः इति। एतेन सर्वशास्त्रविदामनुष्टितक्रतूनां ध्यायिनां प्राप्तयोगेश्वर्याणां कृतकृत्यानामप्येतत् श्रोतुं योग्यमित्यर्थः। यथोक्तं- "आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे। कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः॥" इति। सौतिः सूतः। "अग्निकुण्डसमद्भूत सूत निर्मलमानस।" इति पौराणिकप्रसिद्धेरग्निजो लोमहर्षणस्तस्य पुत्रम् उग्रश्रवसं न तु "ब्राह्मण्यां क्षत्रियात्सूतः" (याज्ञ्य० १।९३) इति स्मृत्युक्तं तद्धितानर्थक्यापत्तेः॥१२॥

शौनक उवाच सौते सुमहदाख्यानं भवता परिकीर्तितम् ।
भारतानां च सर्वेषां पार्थिवानां तथैव च॥१३॥

देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
दैत्यानामथ सिद्धानां गुह्यकानां तथैव च॥१४॥

अत्यद्भुतानि कर्माणि विक्रमा धर्मनिश्चयाः ।
विचित्राश्च कथायोगा जन्म चाग्र्यमनुत्तमम्॥१५॥

अग्र्यं गर्भवासादिक्लेशरहितं द्रोणादीनां जन्म अनुत्तमं रेतःसम्बन्धं विना केवलं धर्म सामर्थ्यादग्निप्रभृतिभ्यो धृष्टद्युम्नादीनामत्यद्भुतानि व्यासजन्मादौ दिवैवान्धकारसृष्ट्यादीनि॥१५॥

कथितं भवता पुण्यं पुराणं श्लक्ष्णया गिरा ।
मनःकर्णसुखं सौते प्रीणात्यमृतसम्मितम्॥१६॥

भवता कथितं पुराणं मम मनः प्रीणातीति सम्बन्धः॥१६॥

तत्र जन्म कुरूणां वै त्वयोक्तं लौमहर्षणे ।
न तु वृष्ण्यन्धकानां च तद्भवान्वक्तुमर्हति॥१७॥

तत्र पुराणे॥१७॥

सौतिरुवाच जनमेजयेन यत्पृष्टः शिष्यो व्यासस्य धर्मवित् ।
तत्तेऽहं सम्प्रवक्ष्यामि वृष्णीनां वंशमादितः॥१८॥

जनमेजय इत्यक्षराधिक्यमार्षम्। यत् यथा तत्तथा॥१८॥

श्रुत्वेतिहासं कार्त्स्न्येन भारतानां स भारतः ।
जनमेजयो महाप्राज्ञो वैशम्पायनमब्रवीत्॥१९॥

इति ह एवं किल आस पूर्व वृत्तं स्वस्वगुरोः सकाशात् पूर्वः पूर्व आचार्योऽधिगतवानिति कथ्यते स इतिहासः। आसेति "अस गतिदीप्त्यादानेषु" (१भ्वा० उ० से०) इत्यस्य लिटि रूपम्। सुपां तिङा समासः। पारम्पर्यागता कथेत्यर्थः। तां श्रुत्वा॥१९॥

जनमेजय उवाच महाभारतमाख्यानं बह्वर्थं श्रुतिविस्तरम् ।
कथितं भवता पूर्वं विस्तरेण मया श्रुतम्॥२०॥

श्रुतिविस्तरं वेदोपवृंहकम्॥२०॥

तत्र शूराः समाख्याता बहवः पुरुषर्षभाः ।
नामभिः कर्मभिश्चैव वृष्ण्यन्धकमहारथाः॥२१॥

शूराः प्रद्युम्नादयः॥२१॥

तेषां कर्मावदातानि त्वयोक्तानि द्विजोत्तम ।
तत्र तत्र समासेन विस्तरेणैव मे प्रभो॥२२॥

कर्मावदातानि कर्मोत्तमानि। उत्तमानि कर्माणीति यावत्। "विशेषणं विशेष्येण बहुलम्" (पा० २।१।५७) इति बाहुलकात्समासः। तत्र तत्र प्रसङ्गे विस्तरेणैव विस्तरेण च॥२२॥

न च मे तृप्तिरस्तीह कथ्यमाने पुरातने ।
एकश्चैवमतो राशिर्वृष्णयः पाण्डवास्तथा॥२३॥

पुरातने पुराणे राशिः कुटुम्बः कूटसमुदाय इति वा॥२३॥

भवांश्च वंशकुशलस्तेषां प्रत्यक्षदर्शिवान् ।
कथयस्व कुलं तेषां विस्तरेण तपोधन॥२४॥

वंशकुशलः वंशाख्याने निपुणः। तेषां वृष्णीनां कुलं वंशम्॥२४॥

यस्य यस्यान्वये ये ये तांस्तानिच्छामि वेदितुम् ।
स त्वं सर्वमशेषेण कथयस्व महामुने तेषां पूर्वविसृष्टिं च विचिन्त्येमां प्रजापतेः॥२५॥

प्रजापतेः प्रजापतिमारभ्य॥२५॥

सौतिरुवाच सत्कृत्य परिपृष्टस्तु स महात्मा महातपाः ।
विस्तरेणानुपूर्व्यां च कथयामास तां कथाम्॥२६॥

तां पृष्टां कथां वंशाख्यायिकाम्॥२६॥

वैशम्पायन उवाच शृणु राजन् कथां दिव्यां पुण्यां पापप्रमोचनीम् ।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसम्मिताम्॥२७॥

दिव्याम्- अलौलिकीं, पुण्यां- सुखदां, चित्राम्- आश्चर्यकरीम्॥२७॥

यश्चेमां धारयेद्वापि शृणुयाद्वाप्यभीक्ष्णशः ।
स्ववंशधारणं कृत्वा स्वर्गलोके महीयते॥२८॥

धारयेत्- हृदि पुस्तके वा गृहे स्थापयेत्॥२८॥

अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ।
प्रधानं पुरुषं तस्मान्निर्ममे विश्वमीश्वरम्॥२९॥

एवं महीकृतां कथां प्रस्तौति- अव्यक्तमित्यादिना। व्यक्तात् इदंप्रत्ययगोचरादहम्प्रत्ययगोचराच्चान्यत्। अत एव कारणं- द्रष्टृदृश्ययोर्बीजम्। यत्तदिति शास्त्रप्रसिद्धम्। नित्यम् आद्यन्तशून्यं सदसदात्मकं- सत्यानृतात्मकं मायाशबलं ब्रह्मेत्यर्थः। तदेवाह- प्रधानं पुरुषमिति। तदुभयात्मकमित्यर्थः। तस्मात्कारणात् विश्वं स्थूलसूक्ष्मं जगत् निर्ममे। कर्मकर्तरि प्रयोगः। जातमित्यर्थः। अत एव तद्विश्वम् ईश्वरम् ईश्वराद्भिन्नम्। ईश्वरमित्यनुवाद्यापेक्षया क्लीवत्वम्॥२९॥

तं वै विद्धि महाराज ब्रह्माणममितौजसम् ।
स्रष्टारं सर्वभूतानां नारायणपरायणम्॥३०॥

तं वै तमेव पुरुषम् अव्यक्ताख्यं त्वं ब्रह्माणं महत्तत्त्वाभिमानिनं विद्धि। कारणानन्यत्वात्कार्यस्य। नारायणपरायणम्- ईश्वराधीनम्॥३०॥

अहङ्कारस्तु महतस्तस्माद्भूतानि जज्ञिरे ।
भूतभेदाश्च भूतेभ्य इति सर्गः सनातनः॥३१॥

महतः सकाशात् अहङ्कारः जज्ञे इति विपरिणामेन योज्यम्। तस्मादहङ्कारात् भूतानि आकाशादीनि सूक्ष्माणि जज्ञिरे। तेभ्यः सूक्ष्मेभ्यो भूतभेदाः पञ्च स्थूलभूतानि चतुर्विधानि जरायुजादीनि च जज्ञिरे इति। एवंरूपः सर्गः सनातनः प्रवाहरूप उक्त इति शेषः॥३१॥

विस्तारावयवं चैव यथाप्रज्ञं यथाश्रुति ।
कीर्त्यमानं शृणु मया पूर्वेषां कीर्तिवर्धनम्॥३२॥

विस्तरावयवं विस्तरयुक्ताः अवयवाः नानावंशशाखाः प्रशाखारूपाः यस्य तं सर्गम्। यथाप्रज्ञं यथाश्रुति बुद्धिं सम्प्रदायं चानतिक्रम्येत्यर्थः॥३२॥

धन्यं यशस्यं शत्रुघ्नं स्वर्ग्यमायुःप्रवर्धनम् ।
कीर्तनं स्थिरकीर्तीनां सर्वेषां पुण्यकर्मणाम्॥३३॥

तस्मात्कल्पाय ते कल्पः समग्रं शुचये शुचिः ।
आ वृष्णिवंशाद्वक्ष्यामि भूतसर्गमनुत्तमम्॥३४॥

यस्मात्पुण्यकर्मणां कीर्तनं धन्यत्वादिगुणं तस्मात् कल्पाय श्रोतुं ग्रहीतुं च समर्थाय ते तुभ्यम् आवृष्णिवंशाद्वृष्णिवंशमभिव्याप्य भूतसर्गं चतुर्विधभूतग्रामसृष्टिं वक्ष्यामि। “कृपू सामथ्यै” (१भ्वा० आ० से०) इत्यस्य रूपं कल्प इति॥३४॥

ततः स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ।
अप एव ससर्जादौ तासु वीर्यमवासृजत्॥३५॥

तत इति- सूक्ष्मभूतसृष्ट्यनन्तरं विविधाः भौतिकीः प्रजाः सिसृक्षुरीश्वरः अपः अबुपलक्षितं स्थूलभूतपञ्चकं जरायुजाद्युपादानभूतमादौ ससर्ज। तासु चाप्सु वीर्यम् अण्डोत्पादनसमर्थम् अवासृजत्। निहितवान्। स्वयमेव तत्र प्रविष्ट इत्यर्थः॥३५॥

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः॥३६॥

एतदेव नारायणनामनिर्वचनश्रुत्या द्रढयति- आपो नारा इति॥ नारा इत्यस्य व्याख्यानं नरसूनव इति। एतेन "तत्सृष्ट्वा तदेवानुप्राविशत्” (तै० २।६।१) इति श्रुतेरर्थः सङ्गृहीतः। अयनं प्रवेशस्थानम् नयतीति नरः ईश्वरः॥३६॥

हिरण्यवर्णमभवत्तदण्डमुदकेशयम् ।
तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम्॥३७॥

तत् वीर्यम् अण्डम् अभवत् हिरण्यवर्णं चित्प्रकाशरूपम्। अयमर्थः- उक्तक्रमे अव्यक्तात् ब्रह्माख्यो महांस्ततोऽहङ्काररततः सूक्ष्मभूतानि तेभ्यः पुष्यस्थानीयान्यसंज्ञानि स्थूलभूतानि तेषु रेतःस्थानीयश्चित्प्रतिबिम्बस्तयोः सङ्घातोऽण्डं तच्च उदकेशयं स्त्रीरूपेषु सूक्ष्मभूतेष्वेव स्थितम्। तत्र गर्भे जीववत् ब्रह्मा चतुर्मुखो जज्ञे आविर्भूत इति॥३७॥

हिरण्यगर्भो भगवानुषित्वा परिवत्सरम् ।
तदण्डमकरोद्द्वैधं दिवं भुवमथापि च॥३८॥

हिरण्येति। अण्डे वर्षमात्रं स्थित्वा हिरण्यगर्भः अण्डं द्वैधं द्विधाऽकरोत्। ताभ्यां च शकलाभ्यां दिवं भुवं चाकल्पयदित्यर्थः॥३८॥

तयोः शकलयोर्मध्ये आकाशमसृजत्प्रभुः ।
अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दधे॥३९॥

तयोर्द्वयोः शकलयोर्यदन्तरालं स आकाश इत्यर्थः। दिशश्चेति चकाराद्दिगुपाधिं सूर्यं कल्पयित्वा दशधा प्राच्यादिभेदेन दधे घृतवान्। अण्डान्तराले एवेयं दिगादिकल्पना न ततो बहिरस्तीति भावः॥३९॥

तत्र कालं मनो वाचं कामं क्रोधमथो रतिम् ।
ससर्ज सृष्टिं तद्रूपां स्रष्टुमिच्छन् प्रजापतीन्॥४०॥

सृष्टेर्हेतूनाह- तत्रेति। तत्र अण्डमध्ये रतिविषयेषु प्रीतिं सृष्टिं पिण्डसृष्टिं तद्रूपाम् अण्डसमानरूपाम्। एतेन पिण्डब्रह्माण्डयोरुत्पत्तिप्रकारस्तुल्य इत्युक्तं भवति॥४०॥

मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।
वसिष्ठं च महातेजाः सोऽसृजत्सप्त मानसान्॥४१॥

अत्र्यङ्गिरसम्- अत्रिसहितमङ्गिरसम्। मानसान् मनसा सङ्कल्पमात्रेण जनितान्॥४१॥

सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः ।
नारायणात्मकानां वै सप्तानां ब्रह्मजन्मनाम्॥४२॥

सप्त मरीच्यादयः ब्रह्माणः ब्राह्मणजात्यभिमानिनः गृहाश्रमपरा इत्यर्थः। नारायणात्मकानां नारायणैकमनसां सप्तानां सनक-सनन्दन-सनातन-सनत्कुमार-स्कन्द-नारद-रुद्राणां ब्रह्मणः सकाशाज्जन्म येषां तेषां ब्रह्मजन्मनां ब्रह्मपुत्राणाम्। अनादरे षष्ठी। भ्रातॄननादृत्य पुराणे वेदमार्गे एव निश्चयं गताः। कर्मैव श्रेय इति विनिश्चिताः॥४२॥

ततोऽसृजत्पुनर्ब्रह्मा रुद्रं रोषात्मसम्भवम् ।
सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम्॥४३॥

सनत्कुमारम्। चात्सनकादीन् पूर्वेषां मरीच्यादीनाम्॥४३॥

सप्तैते जनयन्ति स्म प्रजा रुद्रश्च भारत ।
स्कन्दः सनत्कुमारश्च तेजः संक्षिप्य तिष्ठतः॥४४॥

सनत्कुमारश्चेति। चात्सनकसनन्दनसनातननारदाः स्कन्दश्चेति षट्। तेजः सृष्टिसामर्थ्यं संक्षिप्य निगृह्य सृष्टिमकुर्वन्तावेव तिष्ठतः॥४४॥

तेषां सप्त महावंशा दिव्या देवगणान्विताः ।
क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः॥४५॥

तेषाम्- अष्टानां मध्ये सप्त यक्षाः पिशाचादिस्त्रष्टुः रुद्रादन्ये दिव्या आदित्यादयः महर्षिभिः कश्यपाद्यैः॥४५॥

विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च ।
वयांसि च ससर्जादौ पर्जन्यं च ससर्ज ह॥४६॥

क्रियावतामपेक्षितानि हविर्मन्त्रदेवतादीनि। तेषां सृष्टिमाह द्वाभ्याम्- विद्युत इति। अत्र "प्रजापते रेतो देवाः देवानां रेतो वर्षं वर्षस्य रेत ओषधयः" इति श्रुतिक्रमेण वयांसीति खेचरत्वसामान्याद्देवता उच्यन्ते। पर्जन्यं चेत्यौषधीनामप्युपलक्षणम्। यज्ञसिद्धये इति अत्राप्यपकृष्यते। अशनिवज्रं रोहितम्, ऋजु अवक्रमिन्द्रधनुः, विद्युदाद्याभिमानिन्यो देवताः एव विद्युदादिशब्दैरुच्यन्ते॥४६॥

ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ।
मुखाद्देवानजनयत्पितॄश्चेशोऽपि वक्षसः॥४७॥

निर्मितिः सिद्धानामिव ऋगादीनामाविष्करणम्। वेदस्य नित्यत्वात् यष्टव्यसृष्टिमाह- मुखादिति॥४७॥

प्रजनाच्च मनुष्यान्वै जघनान्निर्ममेऽसुरान् ।
साध्यानजनयद्देवानित्येवमनुशुश्रुम॥४८॥

यष्टृसृष्टिमाह - प्रजनादिति। प्रजनात् उपस्थेन्द्रियात्। असुरान्। जघनात् पश्चाद्भागात्। असुरानिति छेदः। साध्यान् प्राचीनान् देवान्॥४८॥

उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ।
आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः॥४९॥

उच्चेति। तस्य आपवस्य वसिष्ठापरनाम्नः प्रजापतेः॥४९॥

सृज्यमानाः प्रजा नैव विवर्धन्ते यदा तदा ।
द्विधा कृत्वाऽत्मनो देहमर्धेन पुरुषोऽभवत्॥५०॥

सृज्यमानाः मनसैवेति शेषः। व्याप्य तिष्ठतः आपवस्य यदा प्रजा नैव विवर्द्धन्त इति द्वयोः सम्बन्धः॥५०॥

अर्धेन नारी तस्यां स ससृजे विविधाः प्रजाः ।
दिवं च पृथिवीं चैव महिम्ना व्याप्य तिष्ठतः॥५१॥

सः आपवस्य देहार्द्धः। नारी यद्यद्रूपं गोवडवादिकं गृहीतवती तत्तज्जातीयं वृषाश्वादिरूपं पुरुषोऽपि गृहीतवान्। तेन मैथुन्यजाः प्रजाः विविधाः ससृजे इत्यर्थः। नारी शतरूपा नाम॥५१॥

विराजमसृजद्विष्णुः सोऽसृजत्पुरुषं विराट् ।
पुरुषं तं मनुं विद्धि तद्वै मन्वन्तरं स्मृतम्॥५२॥

विष्णुर्हि हिरण्यगर्भद्वारा विराजम् आपवाख्यम् असृजत्॥५२॥

द्वितीयमापवस्यैतन्मनोरन्तरमुच्यते ।
स वैराजः प्रजासर्गं ससर्ज पुरुषः प्रभुः ।
नारायणविसर्गः स प्रजास्तस्याप्ययोनिजाः॥५३॥

मन्वन्तरपदं व्याचष्टे सार्द्धन- द्वितीयमिति। नारायणस्य विसर्गो हिरण्यगर्भद्वारा व्यवहितः सर्गः स आपवः अतोऽस्य विष्णुपौत्रत्वात् अयोनिजाः प्रजाः प्रथमः सर्गः। स एव मनुद्वारा योनिजं प्रजासर्गं द्वितीयं ससर्ज अत एतदापवस्य मनोः स्त्र्याख्यं द्वितीयम् अन्तरं व्यवधानं यस्मात्सर्गेऽभूत्तस्मात्तत्र मन्वन्तरशब्दः प्रयुज्यत इत्यर्थः॥५३॥

आयुष्मान् कीर्तिमान्धन्यः प्रजावाञ्छ्रुतवांस्तथा ।
आदिसर्गं विदित्वेमं यथेष्टां गतिमाप्नुयात्॥५४॥

एतद्वंशज्ञानफलमाह- आयुष्मानिति॥५४॥
इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि आदिसर्गकथने प्रथमोऽध्यायः॥१॥
दक्षोत्पत्तिकथनम्

वैशम्पायन उवाच। स सृष्टासु प्रजास्वेवमापवो वै प्रजापतिः ।
लेभे वै पुरुषः पत्नीं शतरूपामयोनिजाम्॥१॥

एवमयोनिजां सृष्टिमुक्त्वा योनिजामपि तामाह- स इति। प्रजासु अयोनिजासु सृष्टासु सतीषु अपिव एव "द्विधा कृत्वाऽऽत्मनो देहमर्धेन पुरुषोऽभवत्। अर्धेन नारी" इति सूचितरीत्या पुरुषो भूत्वा पत्नीं च लेभे॥१॥

आपवस्य महिम्ना तु दिवमावृत्य तिष्ठतः ।
धर्मेणैव महाराज शतरूपा व्यजायत॥२॥

महिम्ना महत्वेन धर्मेण योगजपुण्येन सा पत्नी शतरूपा अनन्तरूपा व्यजायत विविधरूपाऽभवत्। यच्छतरूपाया अनेकरूपधारणसामर्थ्यं तदापवस्यैव तदनन्यत्वात्तस्या इति भावः॥२॥

सा तु वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।
भर्तारं दीप्ततपसं पुरुषं प्रत्यपद्यत॥३॥

प्रत्यपद्यत सन्तानायेति शेषः॥३॥

स वै स्वायम्भुवस्तात पुरुषो मनुरुच्यते ।
तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते॥४॥

स्वायम्भुवो वैराजः एकसप्ततियुगं किञ्चिदधिकामेकसप्ततिं चतुर्युगमित्यर्थः॥४॥

वैराजात्पुरुषाद्वीरं शतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ वीरात्काम्या व्यजायत॥५॥

“वसिष्ठतनयायां तु काम्यायां पुत्रमीप्सितम्। वीरो वै जनयामास प्रियव्रतमुदारधीः॥" इति वायुपुराणोक्ता प्रियव्रतमाता काम्याऽन्येत्यर्थः॥५॥

काम्या नाम महाबाहो कर्दमस्य प्रजापतेः ।
काम्यापुत्रास्तु चत्वारः सम्राट्कुक्षिर्विराट्प्रभुः ।
प्रियव्रतं समासाद्य पतिं सा सुषुवे सुतान्॥६॥

प्रियव्रतस्य भार्या कर्दमपुत्री काम्याऽन्येत्याह- काम्या नामेति। सा यान् सुतान् सुषुवे तानेवाह- काम्यापुत्रा इति॥६॥

उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः ।
उत्तानपादाच्चतुरः सूनृताजनयत्सुतान्॥७॥

धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता ।
उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा॥८॥

ध्रुवं च कीर्तिमन्तं च शिवं शान्तमयस्पतिम् ।
उत्तानपादोऽजनयत्सूनृतायां प्रजापतिः॥९॥

चतुरः सुतानाह- ध्रुवमिति। शान्तमिति विशेषणम्। आयुष्मन्तं वसुं तथेति पाठान्तरम्॥९॥

ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भारत ।
तपस्तेपे महाराज प्रार्थयन्सुमहद्यशः॥१०॥

महद्यशः “तस्य नाम महद्यशः” (महाना० १।१०) इति श्रुतेः। परं ब्रह्म विष्वाख्यम्॥१०॥

तस्मै ब्रह्मा ददौ प्रीतः स्थानमप्रतिमं भुवि ।
अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः॥११॥

ब्रह्मापि विष्णुरेव। भुवि प्रीत इति सम्बन्धः। प्रजापतिः प्रजानां ब्रह्मादीनां पतिः॥११॥

तस्यातिमात्रामृद्धिं च महिमानं निरीक्ष्य च ।
देवासुराणामाचार्यः श्लोकमप्युशना जगौ॥१२॥

अतिमात्राम्- अनन्तां महिमानं माहात्म्यम्। उशना शुक्रः तस्य देवाचार्यत्वं कचद्वारा बृहस्पतिर्हि शुक्रो भूत्वेन्द्रस्याभयावासुरेभ्यः क्षयायेमामविद्यामसृजदिति मैत्रायणीये बृहस्पतेरेव शुक्रत्वान्मानाद्वा॥१२॥

अहोऽस्य तपसो वीर्यमहो श्रुतमहो बलम् ।
यदेनं पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः॥१३॥

तस्माच्छ्लिष्टिं च भव्यं च ध्रुवाच्छम्भुर्व्यजायत ।
श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान्॥१४॥

आधत्त वंशकृतत्वेन स्थापितवती॥१४॥

रिपुं रिपुञ्जयं पुण्यं वृकलं वृकतेजसम् ।
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम्॥१५॥

सर्वतेजसं सर्वदेवतेजोमयम्। यथोक्तम्- “इन्द्रात्प्रभुत्वं ज्वलनात्प्रतापं क्रोधं यमाद्वैश्रवणाच्च वित्तम्। आयुःकृती वायुजनार्दनाभ्यामादाय राज्ञः क्रियते शरीरम्॥" इति॥१५॥

अजीजनत्पुष्करिण्यां वीरण्यां चाक्षुषो मनुम् ।
प्रजापतेरात्मजायामरण्यस्य महात्मनः॥१६॥

वीरण्यां वीरणदुहितरि॥१६॥

मनोरजायन्त दश नड्वलायां महौजसः ।
कन्यायामभवच्छ्रेष्ठा वैराजस्य प्रजापतेः॥१७॥

महौजसः महौजःसंज्ञस्य। अस्यैव विशेषणं वैराजस्येति॥१७॥

ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवान्कविः ।
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव॥१८॥

सत्यवागित्यपि पठति॥१८॥

अभिमन्युश्च दशमो नड्वलायाः सुताः स्मृताः ।
ऊरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान् ।
अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम्॥१९॥

पाठान्तरे- ‘महौजसः’ कन्यायामिति शेषः। आग्नेयी अग्निकन्या ‘अङ्गिरसं शिबिम्’ इत्यपि पठन्ति॥१९॥

अङ्गात्सुनीथापत्यं वै वेनमेकमजायत ।
अपचारात्तु वेनस्य प्रकोपः सुमहानभूत्॥२०॥

सुनीथा अङ्गभार्या मृत्योः पुत्री अजायत अजनयत्। अपचाराद्देवतादिद्रोहात्प्रकोपः मुनीनामिति शेषः॥२०॥

प्रजार्थमृषयो यस्य ममन्थुर्दक्षिणं करम् ।
वेनस्य पाणौ मथिते बभूव मुनिभिः पृथुः॥२१॥

प्रजार्थं सन्तानार्थम्। यस्य मुनिप्रकोपहतस्य॥२१॥

तं दृष्ट्वा ऋषयः प्राहुरेष वै मुदिताः प्रजाः ।
करिष्यति महातेजा यशश्च प्राप्स्यते महत्॥२२॥

एष पृथुः प्रजाः मुदिताः करिष्यतीत्यन्वयः॥२२॥

स धन्वी कवची खड्गी तेजसा निर्दहन्निव ।
पृथुर्वैन्यस्तदा चेमां ररक्ष क्षत्रपूर्वजः॥२३॥

इमां पृथ्वीं क्षत्रपूर्वजः क्षत्रजातौ प्रथममुत्पन्नः॥२३॥

राजसूयाभिषिक्तानामाद्यः स वसुधाधिपः ।
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ॥२४॥

तस्मात्तं निमित्तीकृत्य पृथोर्यज्ञे हि अग्नितः सूतमागधावुत्पन्नाविति अन्यत्र स्मर्यत इति तस्य तदुत्पत्तिनिमित्तत्वम्। निपुणौ क्रमात् राज्ञः स्तुतौ वंशपाठे च कुशलौ॥२४॥

तेनेयं गौर्महाराज दुग्धा सस्यानि भारत ।
प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह॥२५॥

गौः गोरूपिणी पृथ्वी। सस्यानीति सर्ववस्तूपलक्षणम्॥२५॥

पितृभिर्दानवैश्चैव गन्धर्वैः साप्सरोगणैः ।
सर्पैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा॥२६॥

पुण्यजनैर्यक्षैः॥२६॥

तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा ।
प्रादाद्यथेप्सितं क्षीरं तेन प्राणानधारयन्॥२७॥

तेषु तेषु पुराणान्तरप्रसिद्धेषु तैस्तैर्देवादिभिस्तं तं सजातीयं वत्सं कल्पयित्वा तत्तत् स्वाभीष्टं वस्तु पृथ्वीसकाशात् दुग्ध्वा गृहीतमित्यर्थः॥२७॥

पृथुपुत्रौ तु धर्मज्ञौ जज्ञातेऽन्तर्धिपालितौ ।
शिखण्डिनी हविर्धानमन्तर्धानाद्व्यजायत॥२८॥

अन्तर्द्धानादन्तर्द्धिसंज्ञात्॥२८॥

हविर्धानात् षडाग्नेयी धिषणाजनयत्सुतान् ।
प्राचीनबर्हिषं शुक्लं गयं कृष्णं व्रजाजिनौ॥२९॥

आग्नेयी अग्निकन्या धिषणानाम्नी। व्रजश्च अजिनश्च व्रजाजिनौ॥२९॥

प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः ।
हविर्धानान्महाराज येन संवर्धिताः प्रजाः॥३०॥

हविर्धानात् स्वपितुरपि महान्॥३०॥

प्राचीनाग्राः कुशास्तस्य पृथिव्यां जनमेजय ।
प्राचीनबर्हिर्भगवान्पृथिवीतलचारिणः॥३१॥

समुद्रतनयायां तु कृतदारोऽभवत्प्रभुः ।
महतस्तपसः पारे सवर्णायां महीपतिः॥३२॥

सवर्णायां कृतदारोऽभवदित्यध्याहृत्य योज्यम्॥३२॥

सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः ।
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः॥३३॥

सर्वे प्रचेतसः प्रचेतः संज्ञाः सर्वेऽपि एकनामान इत्यर्थः॥३३॥

अपृथग्धर्मचरणास्तेऽतप्यन्त महत्तपः ।
दशवर्षसहस्राणि समुद्रसलिलेशयाः॥३४॥

अपृथग्धर्मचरणाः समानधर्माणः समानशीलाश्च॥३४॥

तपश्चरत्सु पृथिवीं प्रचेतस्सु महीरुहाः ।
अरक्ष्यमाणामावव्रुर्बभूवाथ प्रजाक्षयः॥३५॥

अस्य प्राचीनबर्हिष्ट्वं व्याचष्टे- प्राचीनाग्रा इति। यतः पृथिव्यां तस्य प्राचीनाग्राः कुशाः पृथिवीतलचारिणः भुवः स्वरूपे प्रसरन्ति कृत्स्नभूमण्डलव्यापिनः आसन्नतः स प्राचीनबर्हिरित्यर्थः। “तलं स्वरूपाधारयोः” इति विश्वः॥३५॥

नाशकन्मारुतो वातुं वृतं खमभवद्द्रुमैः ।
दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः॥३६॥

प्रजाक्षये हेतुमाह- नाशकदिति॥३६॥

तदुपसृत्य तपसा युक्ताः सर्वे प्रचेतसः ।
मुखेभ्यो वायुमग्निं च तेऽससृजञ्जातमन्यवः॥३७॥

तपसा ज्ञानचक्षुषा उपश्रुत्य ज्ञात्वा युक्ताः सन्नद्धाः॥३७॥

उन्मूलानथ तान्कृत्वा वृक्षान्वायुरशोषयत् ।
तानग्निरदहद्घोर एवमासीद्द्रुमक्षयः॥३८॥

उन्मूलान् उद्धृतमूलान्॥३८॥

द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छिष्टेषु शाखिषु ।
उपगम्याब्रवीदेतान्राजा सोमः प्रजापतीन्॥३९॥

राजा वृक्षाणामिति शेषः। एतान् प्रचेतः संज्ञान्॥३९॥

कोपं यच्छत राजानः सर्वे प्राचीनबर्हिषः ।
वृक्षशून्या कृता पृथ्वी शाम्यतामग्निमारुतौ॥४०॥

प्राचीनबर्हिष इति तत्पुत्राः सम्बोध्यन्ते। तद्राजस्येति बहुत्वे तद्धितस्य लुक्॥४०॥

रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनी ।
भविष्यं जानता तत्त्वं धृता गर्भेण वै मया॥४१॥

रत्नेति वृक्षान् शोषयता वायुना तेषाम् आप्यः सारांशः यथा स्वकारणे सौरतेजसि प्रक्षिप्तः एवं पार्थिवः सारांशः अम्मये सोमे प्रक्षिप्त एवं कन्यारूपं वार्क्षं रेतः सोमस्य गर्भे धृतमिति युक्तम्। “वृष्टिर्वै वृष्ट्वा चन्द्रमसमनुप्रविशति" इति श्रुतेरपि औषधिसाररूपेण वृष्टेश्चन्द्रप्रवेशो गम्यते। तस्माद्युक्तैवेयं सोमोक्तिः। वृक्षाणामियं कन्या मया गर्भेण धृतेति॥४१॥

मारिषा नाम कन्येयं वृक्षाणामिति निर्मिता ।
भार्या वोऽस्तु महाभागाः सोमवंशविवर्धिनी॥४२॥

वृक्षाणां कन्येति वृक्षरेतोजन्यत्वात्तेषां मुख्यत्वम्॥४२॥

युष्माकं तेजसोऽर्धेन मम चार्धेन तेजसः ।
अस्यामुत्पत्स्यते पुत्रो दक्षो नाम प्रजापतिः॥४३॥

तेजसः तपसः॥४३॥

य इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै ।
अग्निनाग्निसमो भूयः प्रजाः संवर्धयिष्यति॥४४॥

तेजोमयेन तपोजन्येनाग्निना॥४४॥

ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।
संहृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम्॥४५॥

धर्मेण विवाहविधिना॥४५॥

मारिषायां ततस्ते वै मनसा गर्भमादधुः ।
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ।
दक्षो जज्ञे महातेजाः सोमस्यांशेन भारत॥४६॥

अंशेन तपोऽर्धेन॥४६॥

पुत्रानुत्पादयामास सोमवंशविवर्धनान् ।
अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः ।
स दृष्ट्वा मनसा दक्षः पश्चादप्यसृजत्स्त्रियः॥४७॥

अचरादीन् स्रष्टव्यपदार्थान् मनसा दृष्ट्वा आलोच्य तेषां सृष्ट्यर्थं प्रथमतः बीजग्राहिणीः स्त्रियोऽसृजत्॥४७॥

ददौ स दश धर्माय कश्यपाय त्रयोदश ।
शिष्टाः सोमाय राज्ञेऽथ नक्षत्राख्या ददौ प्रभुः॥४८॥

तासु देवाः खगा नागा गावो दितिजदानवाः ।
गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः॥४९॥

अन्याः स्थावराद्याः॥४९॥

ततः प्रभृति राजेन्द्र प्रजा मैथुनसम्भवाः ।
सङ्कल्पाद्दर्शनात्स्पर्शात् पूर्वेषां सृष्टिरुच्यते॥५०॥

दशानां कथम् एक औरस इत्येतामाशङ्कां सिंहावलोकनन्यायेन परिहरति- तत इति। सङ्कल्पस्यैकरूपत्वात्सर्वेषामौरस एको भवितुं युक्त इति भावः॥५०॥

जनमेजय उवाच। देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
सम्भवः कथितः पूर्वं दक्षस्य च महात्मनः॥५१॥

अङ्गुष्ठाद्ब्रह्मणो जातो दक्षः प्रोक्तस्त्वयानघ ।
वामाङ्गुष्ठात्तथा चैव तस्य पत्नी व्यजायत॥५२॥

अङ्गुष्ठादिति। एकस्माज्जातयोः स्त्रीपुंसयोः कथं दाम्पत्यसम्बन्ध इत्येका शङ्का॥५२॥

कथं प्राचेतसत्वं स पुनर्लेभे महातपाः ।
एतन्मे संशयं विप्र सम्यगाख्यातुमर्हसि ।
दौहित्रश्चैव सोमस्य कथं श्वशुरतां गतः॥५३॥

कथमिति। ब्रह्मपुत्रस्य सतः कथं प्राचेतसत्वमित्यपरा सोमदौहित्रस्य दक्षस्य कथं सोमश्वशुरत्वमिति तृतीया शङ्का॥५३॥

वैशम्पायन उवाच। उत्पत्तिश्च निरोधश्च नित्यौ भूतेषु पार्थिव ।
ऋषयोऽत्र न मुह्यन्ति विद्वांसश्चैव ये जनाः॥५४॥

एताः क्रमेण निरस्यति श्लोकत्रयेण- उत्पत्तिश्चेति। भूतेषु पश्वादिषु उत्पत्तिर्नित्या स्वाभाविकी सापिण्ड्यनियमं विना प्रजोत्पादनं स्वाभाविकं तथा मनुष्येषु निरोधः नित्यः असपिण्डां समुद्वहेदिति नियमः स्वाभाविकः। यद्यप्येवं तथाऽप्यत्र ऋषयः। "प्रजापतिर्वै स्वां दुहितरमभ्यधावत्” इत्यादिश्रुतिदर्शिनः विद्वांसश्च सापिण्ड्यशास्त्रस्यानित्याङ्गमिवाचरणार्थत्वं जानाना न मुह्यन्ति। विश्वसृजां कार्यगौरवात्साविड्यशास्त्रस्याधुनिकस्य उल्लङ्घने न दोष इत्यर्थः॥५४॥

युगे युगे भवन्त्येते सर्वे दक्षादयो नृप ।
पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति॥५५॥

कल्पभेदाभिप्रायेण द्वितीयां निरस्यति- युगे युग इति। ब्राह्मो दक्षोऽन्यः प्राचेतसोऽन्य इति भावः॥५५॥

ज्यैष्ठ्यं कानिष्ठ्यमप्येषां पूर्वं नासीज्जनाधिप ।
तप एव गरीयोऽभूत्प्रभावश्चैव कारणम्॥५६॥

तृतीयां निरस्यति- ज्यैष्ठ्यमिति। यथा जातिकनिष्ठो विश्वामित्रस्तपोबलाद्ब्राह्मणोऽभूत् एवं जन्मकनिष्ठोऽपि दक्षोऽत्र्यङ्गिरःसाम्यं लब्ध्वा तत्सम्बन्धित्वं गत इति भावः। प्रभाव ऐश्वर्यादिरत्र सम्बन्धे कारणं हेतुः तेन सोमकश्यपयोः श्वशुरत्वं दक्षस्य युक्तम्॥५६॥

इमां विसृष्टिं दक्षस्य यो विद्यात्सचराचराम् ।
प्रजावानापदुत्तीर्णः स्वर्गलोके महीयते॥५७॥

इति श्रीमहाभारते खिलेशु हरिवंशपर्वणि प्रजासर्गे दक्षोत्पत्तिकथने द्वितीयोऽध्यायः॥२॥
मरुतुत्पत्तिकथनम्

जनमेजय उवाच। देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
उत्पत्तिं विस्तरेणेमां वैशम्पायन कीर्तय॥१॥

देवानामिति॥१॥

वैशम्पायन उवाच। प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा ।
यथा ससर्ज भूतानि तथा शृणु महीपते॥२॥

व्यादिष्टः आज्ञप्तः। भूतानि जरायुजादीनि॥२॥
परमेष्ठी ब्रह्मा यं सुतवरं व्यजीजनत् तं नारदाख्यं कश्यपो मुनिर्दक्षशापभयात् दक्षस्यैव दुहितरि भार्यायाः कनिष्ठस्वसापि "ज्येष्ठभ्राता पितुः समः" इति वदुपचारात्तद्दुहितरीत्युच्यते। तस्यां व्यजीजनदिति सम्बन्धः। अन्ये तु दक्षस्यैव कन्या दक्षभार्यानाम्नीति व्याचक्षते। तत्र वरिण्यामिति विशेषणानुपपत्तिः स्पष्टा॥२॥

मानसान्येव भूतानि पूर्वमेवासृजत्प्रभुः ।
ऋषीन्देवान्सगन्धर्वानसुरानथ राक्षसान् ।
यक्षभूतपिशाचांश्च वयः पशुसरीसॄपान्॥३॥

मानसान्येवेति सार्द्धः श्लोकः॥३॥

यदास्य तास्तु मानस्यो न व्यवर्धन्त वै प्रजाः ।
अपध्याता भगवता महादेवेन धीमता॥४॥

यदास्येति। अवृद्धौ हेतुः। अपध्याता इति। पूर्वकल्पोयं वैरं स्मरता महादेवेन दक्षस्य मानस्यः प्रजा मा वर्द्धन्तामित्यन्यथा अपध्याताः॥४॥

ततः सञ्चिन्त्य तु पुनः प्रजाहेतोः प्रजापतिः ।
स मैथुनेन धर्मेण सिसृक्षुर्विविधाः प्रजाः॥५॥

प्रजाहेतोः प्रजावृद्द्यर्थं सिसृक्षुः सन् असिक्नीमावहदित्युत्तरेण सम्बन्धः॥५॥

असिक्नीमावहत्पत्नीं वीरणस्य प्रजापतेः ।
सुतां सुतपसा युक्तां महतीं लोकधारिणीम्॥६॥

अथ पुत्रसहस्राणि वीरण्यां पञ्च वीर्यवान् ।
असिक्न्यां जनयामास दक्ष एव प्रजापतिः॥७॥

वीरण्यामिति जन्यजनकभावलक्षणे पुंयोगे ङीष्॥७॥

तांस्तु दृष्ट्वा महाभागान्संविवर्धयिषून्प्रजाः ।
देवर्षिः प्रियसंवादो नारदः प्राब्रवीदिदम् ।
नाशाय वचनं तेषां शापायैवात्मनस्तथा॥८॥

प्रियोऽभीप्सितः संवादः ज्ञानाधिकारिभिः सह संलापो यस्य तथाभूतः। इदं वक्ष्यमाणं वचनं प्राब्रवीदिति सार्धेन सम्बन्धः॥८॥

यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत् ।
दक्षस्य वै दुहितरि दक्षशापभयान्मुनिः॥९॥

पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिना ।
असिक्न्यामथ वीरण्यां भूयो देवर्षिसत्तमः ।
तं भूयो जनयामास पितेव मुनिपुङ्गवम्॥१०॥

एतदेव व्याचष्टे सार्धेन- पूर्वमिति। देवर्षिसत्तमः कश्यपः तं नारदं पितेव परमेष्ठीव॥१०॥

तेन दक्षस्य पुत्रा वै हर्यश्वा इति विश्रुताः ।
निर्मथ्य नाशिताः सर्वे विधिना च न संशयः॥११॥

विधिना शास्त्रीयमार्गेण निर्मथ्य देहाभिमानतः प्रच्याव्य नाशिता अदर्शनं नीताः॥११॥

तस्योद्यतस्तदा दक्षो नाशायामितविक्रमः ।
महर्षीन्पुरतः कृत्वा याचितः परमेष्ठिना॥१२॥

महर्षीन् मरीच्यादीन् परमेष्ठिना ब्रह्मणा याचितः प्रार्थितः॥१२॥

ततोऽभिसन्धिं चक्रुस्ते दक्षस्तु परमेष्ठिना ।
कन्यायां नारदो मह्यं तव पुत्रो भवेदिति॥१३॥

अभिसन्धिं मर्यादां ते महर्षयः तव ब्रह्मणः पुत्रो नारदो मह्यं मम कन्यायां भवेत् उत्पद्यतामिति चकुः। अत्रापि कन्याशब्दार्थः पूर्ववत्॥१३॥

ततो दक्षस्तु तां प्रादात्कन्यां वै परमेष्ठिने ।
स तस्यां नारदो जज्ञे दक्षशापभयादृषिः॥१४॥

त्रयोदशानां दक्षकन्यानां कश्यपाय दत्तानां मध्ये वीरणीं परमेष्ठिने कश्यपार्थमिति शेषः। यं कश्यपः सुतवरमित्युपक्रमात्॥१४॥

जनमेजय उवाच। कथं विनाशिताः पुत्रा नारदेन महर्षिणा ।
प्रजापतेर्द्विजश्रेष्ठ श्रोतुमिच्छामि तत्त्वतः॥१५॥

वैशम्पायन उवाच। दक्षस्य पुत्रा हर्यश्वा विवर्धयिषवः प्रजाः ।
समागता महावीर्या नारदस्तानुवाच ह॥१६॥

बालिशा बत यूयं वै नास्या जानीत वै भुवः ।
प्रमाणं स्रष्टुकामाः स्थ प्रजाः प्राचेतसात्मजाः ।
अन्तरूर्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः॥१७॥

यूयं प्रजाः स्रष्टुकामाः स्थ। अथ च भुवः अन्तरूर्ध्वम् अधश्च प्रमाणं न जानीथातो मूढाः सन्तः कथं प्रजाः स्त्रक्ष्यथेति सम्बन्धः। भवतीति भूः प्रपञ्चः तस्य प्रमाणं साधकं यद्बलात्प्रपञ्चस्य सिद्धिस्तं चिदात्मानम् ऊर्ध्वमधोऽन्तश्च सन्तम् अजानतां युष्माकं प्रजासृष्टौ अधिकारो नास्तीत्यर्थः॥१७॥

ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम् ।
प्रमाणं द्रष्टुकामास्ते गताः प्राचेतसात्मजाः॥१८॥

सर्वतोदिशं सर्वादिगभिमुखा अन्योऽन्यनिरपेक्षाः सन्त आत्मदर्शनार्थं प्रयाता इत्यर्थः॥१८॥

वायोरनशनं प्राप्य गतास्ते वै पराभवम् ।
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः॥१९॥

वायोरिति ल्यब्लोपे पञ्चमी। "वायुर्वै गौतम तत्सूत्रम्" (बृह०३।७।२) इति श्रुतेर्वायुं सूत्रात्मानं समाधिबलेनातीत्य अनशनम् अशनाद्यतीतं शुद्धं ब्रह्म प्राप्य पराभवं परं च तद्भवं च आत्यन्तिकं कैवल्यं गताः सन्तोऽद्यापि न निवर्तन्त इत्यर्थः। दृष्टान्तः स्पष्टार्थः॥१९॥

हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः ।
वैरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः॥२०॥

विवर्धयिषवस्ते तु शबलाश्वाः प्रजास्तदा ।
पूर्वोक्तं वचनं तात नारदेनैव नोदिताः॥२१॥

वचनम् उक्त्वेति शेषः। नोदिताः गमनार्थं प्रेरिताः॥२१॥

अन्योन्यमूचुस्ते सर्वे सम्यगाह महामुनिः ।
भ्रातॄणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः॥२२॥

पदवीं मार्गम्॥२२॥

ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः ।
एकाग्राः स्वस्थमनसा यथावदनुपूर्वशः॥२३॥

तेऽपि तेनैव मार्गेण प्रयाताः सर्वतोदिशम् ।
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः॥२४॥

नष्टेषु शबलाश्वेषु दक्षः क्रुद्धोऽवदद्वचः ।
नारदं नाशमेहीति गर्भवासं वसेति च॥२५॥

नाशं सर्वात्मना देहवियोगं गर्भवासं वा कुरु। परमेष्ठिना प्रार्थितत्वात् अधिकारिकत्वेन नाशानर्हत्वाच्च॥२५॥

तदाप्रभृति वै भ्राता भ्रातुरन्वेषणं नृप ।
प्रयातो नश्यति क्षिप्रं तन्न कार्यं विपश्चिता॥२६॥

तांश्चापि नष्टान् विज्ञाय पुत्रान्दक्षः प्रजापतिः ।
षष्टिं भूयोऽसृजत्कन्या वीरण्यामिति नः श्रुतम्॥२७॥

दक्षोऽनलसः षष्टिं कन्या नारदेन स्त्रीत्वादुपदेशानर्हाः दक्षोऽसृजत्॥२७॥

तास्तदा प्रतिजग्राह भार्यार्थे कश्यपः प्रभुः ।
सोमो धर्मश्च कौरव्य तथैवान्ये महर्षयः॥२८॥

ददौ स दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशतिं सोमाय चतस्रोऽरिष्टनेमिने॥२९॥

कश्यपस्यैव रूपान्तरम्। अरिष्टनेमिः इन्नन्तोऽप्ययं शब्दोऽत्रैव दृश्यते॥२९॥

द्वे चैव भृगुपुत्राय द्वे चैवाङ्गिरसे तथा ।
द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु॥३०॥

मे मम वचनात् शृणु इत्यध्याहृत्य योज्यम्॥३०॥

अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती ।
सङ्कल्पा च मुहूर्ता च साध्या विश्वा च भारत ।
धर्मपत्न्यो दश त्वेतास्तास्वपत्यानि मे श्रृणु॥३१॥

विश्वेदेवाश्च विश्वायाः साध्यान्साध्या व्यजायत ।
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा॥३२॥

अथ क्रमेण धर्मपत्नीनां सन्ततिमाह- विश्व इत्यादिना॥३२॥

भानोस्तु भानवस्तात मुहूर्ताया मुहूर्तजाः ।
लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा ।
पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत॥३४॥

घोषो मन्त्राभिमानिनी देवता नागवीथी स्वर्गमार्गाभिमानिनी देवता। पृथिवीविषयम् आज्यपश्वौषधादि॥३४॥

सङ्कल्पायास्तु सर्वात्मा जज्ञे सङ्कल्प एव हि ।
नागवीथ्याश्च यामिन्या वृषलम्बा व्यजायत॥३५॥

सङ्कल्पः मानसक्रियाभिमानी देवः। अत्रादितः पञ्चभ्यो यागदेवतानां ततश्चतसृभ्यः क्रमेण कालमन्त्रमार्गहविषां दशम्याः सर्वोपादानभूतस्य देवतोद्देशेन द्रव्यत्यागरूपस्य सङ्कल्पस्य च सृष्टिरुक्ता। जामिन्या जामिपुत्र्या अजवीथ्याः सकाशात् वृषलम्बा कालान्तरफलवृष्टिकर्तारं धर्मम् ईश्वरं वा आलम्बत इति। अपूर्वसंज्ञा ईश्वरप्रीतिसंज्ञा वा तदभिमानिनी देवता वृषलम्बेत्युच्यते। वृषल इति पाठेऽपि वृषं लाति आदत्त इति व्युत्पत्त्या स एवार्थः॥३५॥

या राजन्सोमपत्न्यस्तु दक्षः प्राचेतसो ददौ ।
सर्वा नक्षत्रनाम्न्यस्ता ज्योतिषे परिकीर्तिताः॥३६॥

नक्षत्रनाम्न्योऽश्विन्याद्याः क्रतूपयोगिन्य एवैता अपि॥३६॥

ये त्वन्ये ख्यातिमन्तो वै देवा ज्योतिःपुरोगमाः ।
वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम्॥३७॥

आपो ध्रुवश्च सोमश्च धरश्चैवानिलानलौ ।
प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः॥३८॥

आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो मुनिस्तथा ।
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः॥३९॥

सोमस्य भगवान्वर्चा वर्चस्वी येन जायते ।
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा॥४०॥

मनोहरायाः धरस्यापरभार्यायाः॥४०॥

अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः ।
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु॥४१॥

अनिलस्य शिवा भार्येत्येकं वाक्यम्। द्वौ पुत्रावनलस्येत्यपरम्॥४१॥

अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रियान्वितः ।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः॥४२॥

पृष्ठजाः कुमारानुजाः अनलस्य चत्वारः पुत्रा इत्यर्थः॥४२॥

अपत्यं कृत्तिकानां तु कार्तिकेय इति स्मृतः ।
स्कन्दः सनत्कुमारश्च सृष्टः पादेन तेजसः॥४३॥

कुमार एव स्कन्दापरनामा कार्तिकेय इत्याहापत्यमिति। “तं स्कन्द इत्याचक्षते" इति छान्दोग्ये सनत्कुमारस्यैव स्कन्दत्वश्रवणात्। सनत्कुमारश्च स एव। अत एव तेजसः पादेन स्वचतुर्थांशेनाग्निना सृष्टः। एतच्च शाखादि च॥४३॥

प्रत्यूषस्य विदुः पुत्रमृष्टिं नाम्ना च देवलम् ।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ तपस्विनौ॥४४॥

पुत्रौ दुहिता च पुत्रश्चेति पुत्रौ॥४४॥

बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी ।
योगसिद्धा जगत्कृत्स्नमसक्ता विचचार ह॥४५॥

तावेवाह- बृहस्पतेरिति। बृहस्पतिस्तत्स्वसा च ब्रह्मचारिणी नाम योगसिद्धत्वादसक्ताऽपि गुणोत्कर्षात्प्रभासस्याष्टमवसोर्भार्याऽभूत्। तस्यां च विश्वकर्मा जज्ञे इति श्लोकद्वयार्थः॥४५॥

प्रभासस्य च सा भार्या वसूनामष्टमस्य च ।
विश्वकर्मा महाभागस्तस्यां जज्ञे प्रजापतिः॥४६॥

कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः ।
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः॥४७॥

वर्धकिः तक्षा॥४७॥

यः सर्वासां विमानानि देवतानां चकार ह ।
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः॥४८॥

सुरभी कश्यपाद्रुद्रानेकादश विनिर्ममे ।
महादेवप्रसादेन तपसा भाविता सती॥४९॥

कश्यपाय त्रयोदश कन्या दक्षो ददावित्युक्तं तत्र सुरभ्याः सन्ततिमाह- सुरभीति॥४९॥

अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्राश्च भारत ।
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः॥५०॥

अजैकपादित्येकः। अहिर्बुध्न्य इत्येकः॥५०॥

हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ।
वृषाकपिश्च शम्भुश्च कपर्दी रेवतस्तथा॥५१॥

मृगव्याधश्च सर्पश्च कपाली च विशाम्पते ।
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः॥५२॥

शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् ।
पुराणे भरतश्रेष्ठ यैर्व्याप्ताः सचराचराः॥५३॥

व्याप्ता इत्येतल्लोका इत्युत्तरस्थेन सम्बध्यते। शतम् अनन्तम् "असङ्ख्याताः सहस्राणि ये रुद्रा अधिभूम्याम्" इति श्रुतेः॥५३॥

लोका भरतशार्दूल कश्यपस्य निबोध मे ।
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खशा॥५४॥

कश्यपस्य भार्या इति शेषः॥५४॥

सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ।
कद्रुर्मुनिश्च राजेन्द्र तास्वपत्यानि मे शृणु॥५५॥

पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः ।
तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे॥५६॥

उपस्थितेऽतियशसि चाक्षुषस्यान्तरे मनोः ।
हितार्थं सर्वसत्त्वानां समागम्य परस्परम्॥५७॥

पूर्वमन्वन्तरे इत्यस्य व्याख्यानं- चाक्षुषस्यान्तरे मनोरिति उपस्थिते पूर्वमन्वन्तरस्यावसाने इत्यर्थः॥५७॥

आगच्छत द्रुतं देवा अदितिं सम्प्रविश्य वै ।
मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भविष्यति॥५८॥

मन्वन्तरे वैवस्वते इति शेषः॥५८॥

वैशम्पायन उवाच। एवमुक्त्वा तु ते सर्वं चाक्षुषस्यान्तरे मनोः ।
मारीचात्कश्यपाज्जातास्तेऽदित्या दक्षकन्यया॥५९॥

तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि ।
अर्यमा चैव धाता च त्वष्टा पूषा च भारत॥६०॥

जज्ञाते पुनरिति कश्यपादित्योरेव पूर्वं सुतपः पृश्निसंज्ञयोरुदरे जातत्वात्॥६०॥

विवस्वान् सविता चैव मित्रो वरुण एव च ।
अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः॥६१॥

चाक्षुषस्यान्तरे पूर्वमासन्ये तुषिताः सुराः ।
वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः॥६२॥

सप्तविंशतिर्याः प्रोक्ताः सोमपत्न्योऽथ सुव्रताः ।
तासामपत्यान्यभवन्दीप्तान्यमिततेजसाम्॥६३॥

अरिष्टनेमिपत्नीनामपत्यानीह षोडश ।
बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः॥६४॥

विद्युतः विद्युदादयः। विद्युतोऽशनिमेघाश्च रोहितेन्द्रधनूंषि चेति पूर्वोक्ताः चतस्रः रोहितेन्द्रधनुषोरभेदात्। बहुपुत्रस्य प्रजापतिविशेषस्य॥६४॥

प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ।
कृशाश्वस्य तु राजर्षेर्देवप्रहरणानि च॥६५॥

प्रत्यङ्गिरसजा अङ्गिरसां प्रतीपः तांस्त्यक्त्वाऽन्यत्र गतः सोऽयं प्रत्यङ्गिरसः [शौनकः] य आङ्गिराः शौनको होत्रो भूत्वा "भार्गवः शौनकोऽभवत्" इति स्मृतेः। तस्माज्जातास्तेन दृष्टा ऋचः मन्त्राः प्रत्यङ्गिरसजाः अथर्ववेदेऽपि शौनकीया शाखा प्रसिद्धा। तत्र च प्रत्यङ्गिरसमन्त्राः शान्तिकराः प्रसिद्धाः। प्रहरणानि वज्राद्यभिमानिन्यो देवताः॥६५॥

एते युगसहस्रान्ते जायन्ते पुनरेव ह ।
सर्वदेवगणास्तात त्रयस्त्रिंशत्तु कामजाः॥६६॥

एते प्रजापतेरर्वाचीनाः क्रतुलिङ्गवत्पुनः पुनर्जायन्त इत्यर्थः। त्रयस्त्रिंशत्त्विति- तुशब्दो विशेषार्थः। त्रयस्त्रिंशदष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रः प्रजापतिश्च। तत्र पृथिव्यग्नी वाय्यन्तरिक्षे द्युसूर्यौ चन्द्रनक्षत्राणि वसवः। वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणि। श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणा इति पञ्च ज्ञानेन्द्रियाणि। सर्वसाधारणं मनश्चेत्येकादश रुद्राः। आदित्या मासाधिष्ठात्र्यो देवताः। अनुपदोक्ता विष्ण्वादयः काला इति यावत्। इन्द्रः पर्जन्यः प्रजापतिर्जीवः एते भोक्तभोग्यात्मकास्त्रयस्त्रिंशद्देवाः कामजाः। “सोऽकामयत बहु स्यां प्रजायेय" इति श्रुतेरीश्वरात्कामतो जाताः। एते प्रतिकल्पं सकृदेव जायन्ते इतरे क्रतुलिङ्गवदेकस्मिन्कल्पेऽप्यसकृज्जायन्त इत्यर्थः॥६६॥

तेषामपि च राजेन्द्र निरोधोत्पत्तिरुच्यते॥६७॥

कामजानां जन्मादिमत्त्वं द्रढयति- तेषामित्यर्धेन। निरोधसहिता उत्पत्तिर्निरोधोत्पत्तिरुच्यते वेद इति शेषः॥६७॥

यथा सूर्यस्य गगने उदयास्तमने इह ।
एवं देवनिकायास्ते सम्भवन्ति युगे युगे॥६८॥

एतदेव दृष्टान्तेन द्रढयति- यथेति। देवनिकायाः देवानां शरीराण्येव जायन्ते न तु तदुपहित आत्मा घटाकाशवदित्यर्थः॥६८॥

दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ।
हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान्॥६९॥

आदित्यानुक्त्वा दैत्यानाह- दित्या इत्यादिना॥६९॥

सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ।
सैंहिकेया इति ख्यातास्तस्याः पुत्रा महाबलाः ।
गणैश्च सह राजेन्द्र दशसाहस्रमुच्यते॥७०॥

सैंहिकेयास्त्रयोदश वक्ष्यमाणा व्यंसशल्यादयः॥७०॥

तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।
असङ्ख्याता महाबाहो हिरण्यकशिपोः शृणु॥७१॥

हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ।
अनुह्रादश्च ह्रादश्च प्रह्रादश्चैव वीर्यवान्॥७२॥

संह्रादश्च चतुर्थोऽभूद्ध्रादपुत्रो ह्रदस्तथा ।
संह्रादपुत्रः सुन्दश्च निसुन्दस्तावुभौ स्मृतौ॥७३॥

अनुह्रादसुतौ ह्यायुः शिबिकालस्तथैव ह ।
विरोचनश्च प्राह्रादिर्बलिर्जज्ञे विरोचनात्॥७४॥

बलेः पुत्रशतं त्वासीद्बाणज्येष्ठं नराधिप ।
धृतराष्ट्रश्च सूर्यश्च चन्द्रमाश्चेन्द्रतापनः॥७५॥

कुम्भनाभो गर्दभाक्षः कुक्षिरित्येवमादयः ।
बाणस्तेषामतिबलो ज्येष्ठः पशुपतेः प्रियः॥७६॥

पुराकल्पे हि बाणेन प्रसाद्योमापतिं प्रभुम् ।
पार्श्वतो विहरिष्यामि इत्येवं याचितो वरः॥७७॥

बाणस्य चेन्द्रदमनो लोहित्यामुदपद्यत ।
गणास्तथासुरा राजञ्छतसाहस्रसम्मिताः॥७८॥

हिरण्याक्षसुताः पञ्च विद्वांसः सुमहाबलाः ।
झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा ।
महानाभश्च विक्रान्तः कालनाभस्तथैव च॥७९॥

अभवन्दनुपुत्राश्च शतं तीव्रपराक्रमाः ।
तपस्विनो महावीर्याः प्राधान्येन निबोध तान्॥८०॥

दनोर्वंशमाह- अभवन्नित्यादिना। पुत्रा इति पौत्रादीनामप्युपलक्षणम्। शतम् अनन्ताः॥८०॥

द्विमूर्धा शकुनिश्चैव तथा शङ्कुशिरा विभुः ।
शङ्कुकर्णो विराधश्च गवेष्ठी दुन्दुभिस्तथा ।
अयोमुखः शम्बरश्च कपिलो वामनस्तथा॥८१॥

एतेषु प्रधानान्द्विमूर्द्धादीन् विप्रचित्त्यन्तान् एकषष्टिं गणयति- द्विमूर्द्धा इत्यादिना॥८१॥

मरीचिर्मघवांश्चैव इरा शङ्कुशिरा वृकः ।
विक्षोभणश्च केतुश्च केतुवीर्यशतह्रदौ॥८२॥

इन्द्रजित्सत्यजिच्चैव वज्रनाभस्तथैव च ।
महानाभश्च विक्रान्तः कालनाभस्तथैव च॥८३॥

एकचक्रो महाबाहुस्तारकश्च महाबलः ।
वैश्वानरः पुलोमा च विद्रावणमहासुरौ॥८४॥

स्वर्भानुर्वृषपर्वा च तुहुण्डश्च महासुरः ।
सूक्ष्मश्चैवातिचन्द्रश्च ऊर्णनाभो महगिरिः॥८५॥

असिलोमा च केशी च शठश्च बलको मदः ।
तथा गगनमूर्धा च कुम्भनाभो महासुरः॥८६॥

प्रमदो मयश्च कुपथो हयग्रीवश्च वीर्यवान् ।
वैसृपः सविरूपाक्षः सुपथोऽथ हराहरौ॥८७॥

हिरण्यकशिपुश्चैव शतमायुश्च शम्बरः ।
शरभः शलभश्चैव विप्रचित्तिश्च वीर्यवान्॥८८॥

एते सर्वे दनोः पुत्राः कश्यपादभिजज्ञिरे ।
विप्रचित्तिप्रधानास्ते दानवाः सुमहाबलाः॥८९॥

एतेषां यदपत्यं तु तन्न शक्यं नराधिप ।
प्रसङ्ख्यातुं महीपाल पुत्रपौत्राद्यनन्तकम्॥९०॥

स्वर्भानोस्तु प्रभा कन्या पुलोम्नश्च सुतात्रयम् ।
उपदानवी हयशिराः शर्मिष्ठा वार्षपर्वणी॥९१॥

पुलोमा कालिका चैव वैश्वानरसुते उभे ।
बह्वपत्ये महावीर्ये मारीचेस्तु परिग्रहः॥९२॥

तयोः पुत्रसहस्राणि षष्टिं दानवनन्दनान् ।
चतुर्दशशतानन्यान्हिरण्यपुरवासिनः॥९३॥

मारीचिर्जनयामास महता तपसान्वितः ।
पौलोमाः कालकेयाश्च दानवास्ते महाबलाः॥९४॥

अवध्या देवतानां च हिरण्यपुरवासिनः ।
कृताः पितामहेनाजौ निहताः सव्यसाचिना॥९५॥

प्रभाया नहुशः पुत्रः सृञ्जयश्च शचीसुतः ।
पूरुं जज्ञेऽथ शर्मिष्ठा दुष्यन्तमुपदानवी॥९६॥

ततोऽपरे महावीर्या दानवास्त्वतिदारुणाः ।
सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तदा॥९७॥

दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः ।
सैंहिकेया इति ख्यातास्त्रयोदश महाबलाः॥९८॥

व्यंशः शल्यश्च बलिनौ नभश्चैव महाबलः ।
वातापिर्नमुचिश्चैव इल्वलः खसृमस्तथा॥९९॥

अञ्जिको नरकश्चैव कालनाभस्तथैव च ।
शुकः पोतरणश्चैव वज्रनाभश्च वीर्यवान्॥१००॥

राहुर्ज्येष्ठस्तु तेषां वै सूर्यचन्द्रविमर्दनः ।
मूकश्चैव तुहुण्डश्च ह्रादपुत्रौ बभूवतुः॥१०१॥

मारीचः सुन्दपुत्रश्च ताडकायां व्यजायत ।
शिवमाणस्तथा चैव सुरकल्पश्च वीर्यवाण्॥१०२॥

एते वै दानवाः श्रेष्ठा दनुवंशविवर्धनाः ।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः॥१०३॥

संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ।
समुत्पन्नाः सुतपसा महान्तो भावितात्मनः॥१०४॥

तिस्रः कोट्यः सुतास्तेषां मणिमत्यां निवासिनाम् ।
तेऽप्यवध्यास्तु देवानामर्जुनेन निपातिताः॥१०५॥

षट्सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्तिताः ।
काकी श्येनी च भासी च सुग्रीवी शुचि गृध्रिका॥१०६॥

काकी काकानजनयदुलूकी प्रत्युलूककान् ।
श्येनी श्येनांस्तथा भासी भासान्गृध्रांश्च गृध्र्यपि॥१०७॥

शुचिरौदकान्पक्षिगणान्सुग्रीवी तु परन्तप ।
अश्वानुष्ट्रान्गर्दभांश्च ताम्रावंशः प्रकीर्तितः॥१०८॥

विनतायास्तु पुत्रौ द्वावरुणो गरुडस्तथा ।
सुपर्णः पततां श्रेष्ठो दारुणः स्वेन कर्मणा॥१०९॥

सुरसायाः सहस्रं तु सर्पाणाममितौजसाम् ।
अनेकशिरसां तात खेचराणां महात्मनाम्॥११०॥

काद्रवेयाश्च बलिनः सहस्रममितौजसः ।
सुपर्णवशगा नागा जज्ञिरेऽनेकमस्तकाः॥१११॥

तेषां प्रधानाः सततं शेषवासुकितक्षकाः ।
ऐरावतो महापद्मः कम्बलाश्वतरावुभौ॥११२॥

एलापत्रस्तथा शङ्खः कर्कोटकधनञ्जयौ ।
महानीलमहाकर्णौ धृतराष्ट्रबलाहकौ॥११३॥

कुहरः पुष्पदंष्ट्रश्च दुर्मुखः सुमुखस्तथा ।
शङ्खश्च शङ्खपालश्च कपिलो वामनस्तथा॥११४॥

नहुषः शङ्खरोमा च मणिरित्येवमादयः ।
तेषां पुत्राश्च पौत्राश्च गरुडेन निपातिताः॥११५॥

चतुर्दश सहस्राणि क्रूराणामुरगाशिनाम् ।
गणं क्रोधवशं विद्धि तस्य सर्वे च दंष्ट्रिणः॥११६॥

स्थलजाः पक्षिणोऽब्जाश्च धरायाः प्रसवाः स्मृताः ।
गास्तु वै जनयामास सुरभिर्महिषांस्तथा॥११७॥

इरा वृक्षलता वल्लीस्तृणजातीश्च सर्वशः ।
खशा तु यक्षरक्षांसि मुनीनप्सरसस्तथा॥११८॥

अरिष्टा तु महासत्त्वान्गन्धर्वानमितौजसः ।
एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः॥११९॥

तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।
एष मन्वन्तरे तात सर्गः स्वारोचिषे स्मृतः॥१२०॥

वैवस्वते तु महति वारुणे वितते क्रतौ ।
जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते॥१२१॥

पूर्वं यत्र तु ब्रह्मर्षीनुत्पन्नान्सप्त मानसान् ।
पुत्रत्वे कल्पयामास स्वयमेव पितामहः॥१२२॥

ततो विरोधे देवानां दानवानां च भारत ।
दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम्॥१२३॥

तां कश्यपः प्रसन्नात्मा सम्यगाराधितस्तया ।
वरेण च्छन्दयामास सा च वव्रे वरं ततः॥१२४॥

पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ।
स च तस्य वरं प्रादात्प्रार्थितं सुमहातपाः॥१२५॥

दत्त्वा च वरमव्यग्रो मारीचस्तामभाषत ।
भविष्यति सुतस्तेऽयं यद्येवं धारयिष्यसि॥१२६॥

इन्द्रं सुतो निहन्ता ते गर्भं वै शरदां शतम् ।
यदि धारयसे शौचं तत्परा व्रतमास्थिता॥१२७॥

तथेत्यभिहितो भर्ता तया देव्या महातपाः ।
धारयामास गर्भं तु शुचिः सा वसुधाधिप॥१२८॥

ततोऽभ्युपागमद्दित्यां गर्भमाधाय कश्यपः ।
रोचयन्वै गणश्रेष्ठं देवानाममितौजसम्॥१२९॥

तेजः सम्भृत्य दुर्धर्षमवध्यममरैरपि ।
जगाम पर्वतायैव तपसे संशितव्रतः॥१३०॥

तस्याश्चैवान्तरप्रेप्सुरभवत्पाकशासनः ।
ऊने वर्षशते चास्या ददर्शान्तरमच्युतः॥१३१॥

अकृत्वा पादयोः शौचं दितिः शयनमाविशत् ।
निद्रां च कारयामास तस्याः कुक्षिं प्रविश्य सः॥१३२॥

वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृन्तत ।
स पाठ्यमानो वज्रेण गर्भस्तु प्ररुरोद ह॥१३३॥

मा रोदीरिति तं शक्रः पुनः पुनरथाब्रवीत् ।
सोऽभवत्सप्तधा गर्भस्तमिन्द्रो रुषितः पुनः॥१३४॥

एकैकं सप्तधा चक्रे वज्रेणैवारिकर्शनः ।
मरुतो नाम देवास्ते बभूवुर्भरतर्षभ॥१३५॥

यथैवोक्तं मघवता तथैव मरुतोऽभवन् ।
देवा एकोनपञ्चाशत्सहाया वज्रपाणिनः॥१३६॥

तेषामेवं प्रवृद्धानां भूतानां जनमेजय ।
रोचयन्वै गणश्रेष्ठं देवानाममितौजसाम्॥१३७॥

निकायेषु निकायेषु हरिः प्रादात्प्रजापतीन् ।
क्रमशस्तानि राज्यानि पृथुपूर्वाणि भारत॥१३८॥

स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः ।
पर्जन्यस्तपनो व्यक्तस्तस्य सर्वमिदं जगत्॥१३९॥

भूतसर्गमिमं सम्यग्जानतो भरतर्षभ ।
मरुतां च शुभे जन्म शृन्वतः पठतोऽपि वा ।
नावृत्तिभयमस्तीह परलोकभयं कुतः॥१४०॥

इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि मरुदुत्पत्तिकथने तृतीयोऽध्यायः॥३॥
पृथूपाख्यानम्

वैशम्पायन उवाच। अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः ।
ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे॥१॥

एवं साधारण्येन सर्वां सृष्टिमुक्त्वा “पृथुर्वैन्यस्तदा चेमां ररक्ष क्षत्त्रपूर्वजः। राजसूयाभिषिक्तानामाद्यः स वसुधाधिपः॥” इति प्रागुक्तं पृथोराद्यत्वं विवृणोति। सर्वेषां राज्यानां तदानन्तर्यं दर्शयन् अभिषिच्येत्यादिना अधिराज्ये राज्ञामपि राजत्वे वैन्यं वेनस्य पुत्रं राज्यानि सोमादीनां व्यादेष्टुमाज्ञापयितुम्॥१॥

द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा ।
यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत्॥२॥

नक्षत्रग्रहयोः जात्यभिप्रायेण द्विवचनं नक्षत्रजातीयग्रहजातीययोरित्यर्थः। यज्ञानां यज्ञाद्यधिष्ठात्रीणां देवतानाम्॥२॥

अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम् ।
बृहस्पतिं तु विश्वेषां ददावाङ्गिरसं पतिम्॥३॥

भृगूणामधिपं चैव काव्यं राज्येऽभ्यषेहयत् ।
आदित्यानां तथा विष्णुं वसूनामथ पावकम्॥४॥

प्रजापतीनां दक्षं तु मरुतामथ वासवम् ।
दैत्यानां दानवानां च प्रह्लादममितौजसम्॥५॥

वैवस्वतं च पितॄणां यमं राज्येऽभ्यषेचयत् ।
मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम्॥६॥

यक्षाणां राक्षसानां च पार्थिवानां तथैव च ।
नारायणं तु साध्यानां रुद्राणां वृषभध्वजम्॥७॥

विष्णुशूलपाणिभ्याम् अच्युतावुभौ नारायणवृषभध्वजौ दैवतेष्वपि ईश्वरावताराणामनेकत्वात्॥७॥

विप्रचित्तिं तु राजानं दानवानामथादिशत् ।
सर्वभूतपिशाचानां गिरिशं शूलपाणिनम्॥८॥

शूलेन पणितुं व्यवहर्तुं शीलमस्येति शूलपाणिः तं शूलपाणिनम्॥८॥

शैलानां हिमवन्तं च नदीनामथ सागरम् ।
गन्धानां मरुतां चैव भूतानामशरीरिणाम् ।
शब्दाकाशवतां चैव वायुं च बलिनां वरम्॥९॥

गन्धानां गन्धाश्रयद्रव्याणां मरुतः पूर्वोक्ता एकोनपञ्चाशत्। अत्र तु प्राणवायवो मरुच्छब्दार्थः। अशरीरिणां स्थूलशरीरहीनानां प्रेतादीनामित्यर्थः। शब्दश्चाकाशश्च तद्वतां भेर्यादीनाम् अस्मदादिशरीराणां च। भुवामिति पाठे तयोः क्षेत्राणामिति स एवार्थः॥९॥

गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुम् ।
नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम्॥१०॥

वारणानां च राजानमैरावतमथादिशत् ।
उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम्॥११॥

मृगाणामथ शार्दूलं गोवृषं तु गवां पतिम् ।
वनस्पतीनां राजानं प्लक्षमेवादिशत् प्रभुम्॥१२॥

सागराणां नदीनां च मेघानां वर्षणस्य च ।
आदित्यानामधिपतिं पर्जन्यमभिषिक्तवान्॥१३॥

पूर्वं द्वादशादित्या उक्ताः इह तु आदित्यपदेन अर्कस्य रश्मयो ग्राह्याः। ये पृथिवीरसं शोषयित्वा सहस्रगुणम् उत्सृजन्ति तेषामधिपतिः पर्जन्यः॥१३॥

सर्वेषां दंष्ट्रिणां शेषं राजानमभ्यषेचयत् ।
सरीसॄपानां सर्पाणां राजानं चैव तक्षकम्॥१४॥

दंष्ट्रिणां नागानां सर्पाणां तद्विशेषाणां सरीसृपाणां डुण्डुभादीनां निर्विषाणाम्॥१४॥

गन्धर्वाप्सरसां चैव कामदेवं तथा प्रभुम् ।
ऋतूनामथ मासानां दिवसानां तथैव च॥१५॥

ऋतूनामित्यादिषष्ट्यन्तानां देवतानामित्यनेन सम्बन्धः। ऋत्वाद्याभिमानिनीनां देवतानां संवत्सरं संवत्सराभिमानिनं देवं राजानमभ्यषेचयदित्यर्थः॥१५॥

पक्षाणां च क्षपाणां च मुहूर्ततिथिपर्वणाम् ।
कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा॥१६॥

गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् ।
एवं विभज्य राज्यानि क्रमेण स पितामहः॥१७॥

गणितस्य गत्यादिपरिमाणस्य। योगस्य उपरागादेः॥१७॥

दिशापालानथ ततः स्थापयामास भारत ।
पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः॥१८॥

दिशापालं सुधन्वानं राजानं चाभ्यषेचयत् ।
दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः॥१९॥

पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ।
पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम्॥२०॥

केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ।
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः॥२१॥

पर्जन्यस्य पुत्रमित्यनुषङ्गः॥२१॥

उदीच्यां दिशि दुर्धर्षं राजानं सोऽभ्यषेचयत् ।
तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता॥२२॥

यथाप्रदेशमद्यापि धर्मेण परिपाल्यते ।
राजसूयाभिषिक्तस्तु पृथुरेभिर्नराधिपैः ।
वेददृष्टेन विधिना राजाराज्ये नराधिप॥२३॥

अद्यापीत्येतासां देवतानामधिकारित्वेनाकल्पस्थायित्वमुक्तं- राजेति। एभिः सोमादिभिः पृथुः राजराज्ये राजसूयेऽभिषिक्तः पूर्वं तु प्रजापतिनाऽभिषेको राज्याङ्गः उक्तः॥२३॥

ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि ।
वैवस्वताय मनवे ब्रह्मा राज्यमथादिशत् ।
तस्य विस्तरमाख्यास्ये मनोर्वैवस्वतस्य ह॥२४॥

तवानुकूल्याद्राजेन्द्र यदि शुश्रूषसेऽनघ ।
महद्ध्येतदधिष्ठानं पुराणं परिकीर्तितम् ।
धन्यं यशस्यमायुष्यं स्वर्गवासकरं शुभम्॥२५॥

एतत् श्रवणम् अधिष्ठानं प्रतिष्ठाहेतुः॥२५॥

जनमेजय उवाच। विस्तरेण पृथोर्जन्म वैशम्पायन कीर्तय ।
यथा महात्मना तेन दुग्धा चेयं वसुन्धरा॥२६॥

यथा च पितृभिर्दुग्धा यथा देवैर्यथर्षिभिः ।
यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः॥२७॥

यथा शैलैः पिशाचैश्च गन्धर्वैश्च द्विजोत्तमैः ।
राक्षसैश्च महासत्त्वैर्यथा दुग्धा वसुन्धरा॥२८॥

तेषां पात्रविशेषांश्च वैशम्पायन कीर्तय ।
वत्सान्क्षीरविशेषांश्च दोग्धारं चानुपूर्वशः॥२९॥

यस्माच्च कारणात्पाणिर्वेनस्य मथितः पुरा ।
क्रुद्धैर्महर्षिभिस्तात कारणं तच्च कीर्तय॥३०॥

वैशम्पायन उवाच। हन्त ते कथयिष्यामि पृथोर्वैन्यस्य विस्तरम् ।
एकाग्रः प्रयतश्चैव शृणुष्व जनमेजय॥३१॥

नाशुचेः क्षुद्रमनसः कुशिष्यायाव्रताय च ।
कीर्तनीयमिमं राजन्कृतघ्नायाहिताय च॥३२॥

स्वर्ग्यं यशस्यमायुष्यं धर्म्यं वेदेन सम्मितम् ।
रहस्यमृषिभिः प्रोक्तं शृणु राजन्यथातथम्॥३३॥

यश्चैनं कथयेन्नित्यं पृथोर्वैन्यस्य विस्तरम् ।
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतैः॥३४॥

न स शोचेत्कृताकृतैरिति। मया पापं कृतं धर्मो न कृत इति पश्चात्तापेन न शोचेत्। एतच्छ्रवणं सर्वपापनाशनं सर्वक्रतुफलप्रदं चेत्यर्थः॥३४॥
॥इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि पृथूपाख्याने चतुर्थोऽध्यायः॥४॥
पृथूपाख्यानम्

वैशम्पायन उवाच। आसीद्धर्मस्य गोप्ता वै पूर्वमत्रिसमः प्रभुः ।
अत्रिवंशसमुत्पन्नस्त्वङ्गो नाम प्रजापतिः॥१॥

आसीदिति॥१॥

तस्य पुत्रोऽभवद्वेनो नात्यर्थं धर्मकोविदः ।
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः॥२॥

स मातामहदोषेण वेनः कालात्मजात्मजः ।
स्वधर्मं पृष्ठतः कृत्वा कामाल्लोभेष्ववर्तत॥३॥

कालात्मजायाः आत्मजः॥३॥

मर्यादां स्थापयामास धर्मोपेतां स पार्थिवः ।
वेदधर्मानतिक्रम्य सोऽधर्मनिरतोऽभवत्॥४॥

निःस्वाध्यायवषट्कारास्तस्मिन्राजनि शासति ।
प्रवृत्तं न पपुः सोमं हुतं यज्ञेषु देवताः॥५॥

प्रवृतं देवतोद्देशेन त्यक्तं हुतम् अग्नौ प्रक्षिप्तमपि सोमं न पपुः यतो निःस्वाध्यायवषट्काराः॥५॥

न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः ।
आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते॥६॥

तत्र हेतुमाह- नेति। धर्मद्वेष्टरि राज्ञि दत्तमपि हविर्देवा न भजन्त इति भावः॥६॥

अहमिज्यश्च यष्टा च यज्ञश्चेति कुरूद्वह ।
मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि॥७॥

मयि देवतारूपे मन्निमित्तं न त्वन्यदेवतार्थं मयि अग्निरूपे॥७॥

तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् ।
ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा॥८॥

वयं दीक्षां प्रवेक्ष्यामः संवत्सरगणान्बहून् ।
अधर्मं कुरु मा वेन नैष धर्मः सनातनः॥९॥

निधनेऽत्र प्रसूतस्त्वं प्रजापतिरसंशयम् ।
प्रजाश्च पालयिष्येऽहमिति ते समयः कृतः॥१०॥

निधने वंशे। “निधनं कुलनाशयोः” इति विश्वः॥१०॥

तांस्तदा ब्रुवतः सर्वान्महर्षीनब्रवीत्तदा ।
वेनः प्रहस्य दुर्बुद्धिरिममर्थमनर्थवित्॥११॥

वेन उवाच। स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वै मया ।
श्रुतवीर्यतपःसत्यैर्मया वा कः समो भुवि॥१२॥

प्रभवं सर्वभूतानां धर्माणां च विशेषतः ।
सम्मूढा न विदुर्नूनं भवन्तो मामचेतसः॥१३॥

इच्छन्दहेयं पृथिवीं प्लावयेयं तथा जलैः ।
खं भुवं चैव रुन्धेयं नात्र कार्या विचारणा॥१४॥

यदा न शक्यते मोहादवलेपाच्च पार्थिवः ।
अनुनेतुं तदा वेनस्ततः क्रुद्धा महर्षयः॥१५॥

पाठान्तरे अपनेतुम् अधर्मादपक्रष्टुम्॥१५॥

निगृह्य तं महात्मानो विस्फुरन्तं महाबलम् ।
ततोऽस्य सव्यमूरुं ते ममन्थुर्जातमन्यवः॥१६॥

निगृह्य जीवन्तमपि यातयित्वा॥१६॥

तस्मिंस्तु मथ्यमाने वै राज्ञ ऊरौ प्रजज्ञिवान् ।
ह्रस्वोऽतिमात्रः पुरुषः कृष्णश्चातिबभूव ह॥१७॥

स भीतः प्राञ्जलिर्भूत्वा स्थितवाञ्जनमेजय ।
तमत्रिर्विह्वलं दृष्ट्वा निषीदेत्यब्रवीत्तदा॥१८॥

निषादवंशकर्तासौ बभूव वदतां वर ।
धीवरानसृजच्चाथ वेनकल्मषसम्भवान्॥१९॥

धीवरान् नाविकान्॥१९॥

ये चान्ये विन्ध्यनिलयास्तुषारास्तुम्बरास्तथा ।
अधर्मरुचयो ये च विद्धि तान्वेनसम्भवान्॥२०॥

तुषारास्तुम्बराश्च प्रान्तदेशीयाः म्लेच्छविशेषाः। विन्ध्यनिलयाः ‘गोण्ड’ इति ‘कोल’ इति च प्रसिद्धाः मध्यदेशीयाः॥२०॥

ततः पुनर्महात्मानः पाणिं वेनस्य दक्षिणम् ।
अरणीमिव संरब्धा ममन्थुस्ते महर्षयः॥२१॥

पृथुस्तस्मात्समुत्तस्थौ कराज्ज्वलनसन्निभः ।
दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन्॥२२॥

स धन्वी कवची जातः पृथुरेव महायशाः ।
आद्यमाजगवं नाम धनुर्गृह्य महारवम् ।
शरांश्च दिव्यान्रक्षार्थं कवचं च महाप्रभम्॥२३॥

गृह्य गृहीत्वा रक्षार्थं प्रजानां स्थित इति शेषः॥२३॥

तस्मिञ्जातेऽथ भूतानि सम्प्रहृष्टानि सर्वशः ।
समापेतुर्महाराज वेनश्च त्रिदिवं गतः॥२४॥

समुत्पन्नेन कौरव्य सत्पुत्रेण महात्मना ।
त्रातः स पुरुषव्याघ्र पुन्नाम्नो नरकात्तदा॥२५॥

तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः ।
तोयानि चाभिषेकार्थं सर्व एवोपतस्थिरे॥२६॥

पितामहश्च भगवान्देवैराङ्गिरसैः सह ।
स्थावराणि च भूतानि जङ्गमानि तथैव च॥२७॥

समागम्य तदा वैन्यमभ्यषिञ्चन्नराधिपम् ।
महता राजराज्येन प्रजापालं महाद्युतिम् ॥२८॥

सोऽभिषिक्तो महातेजा विधिवद्धर्मकोविदैः ।
आदिराज्ये तदा राज्ञां पृथुर्वैन्यः प्रतापवान्॥२९॥

पित्राऽपरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः ।
अनुरागात्ततस्तस्य नाम राजेत्यजायत॥३०॥

अपरञ्जिताः पीडिताः। अनुरागादिति। अनुरज्यन्तेऽस्मिन् प्रजा इति राजपदनिर्वचनं दर्शितम्॥३०॥

आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः ।
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत्॥३१॥

तस्तम्भिरे स्थलवत्कठिना बभूवुः। अभि उपरि यास्यतो गन्तुमिच्छतः ध्वजभङ्गो वृक्षाणां शाखादिभिर्गोपुरादिभिर्वा॥३१॥

अकृष्टपच्या पृथिवी सिध्यत्यन्नानि चिन्तया ।
सर्वकामदुघा गावः पुटके पुटके मधु॥३२॥

पुटके पुटके पत्रे पत्रे॥३२॥

एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे ।
सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः॥३३॥

सूत्यां सोमाभिषवकाले अभिषवः सोमवल्ल्याः कण्डनं रसनिष्कासनार्थम्॥३३॥

तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः ।
पृथोः स्तवार्थं तौ तत्र समाहूतौ सुरर्षिभिः॥३४॥

अन्यत्र तु वैन्यस्यैव यज्ञेऽग्निकुण्डात्सूतमागधौ जातावित्युक्तम्। तत्कल्पभेदात्समाधेयम्॥३४॥

तावूचुर्ऋषयः सर्वे स्तूयतामेष पार्थिवः ।
कर्मैस्तदनुरूपं वां पात्रं चायं नराधिपः॥३५॥

तावूचतुस्तदा सर्वांस्तान्सूतमागधौ ।
आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः॥३६॥

न चास्य विद्वो वै कर्म न तथा लक्षणं यशः ।
स्तोत्रं येनास्य कुर्याव राज्ञस्तेजस्विनो द्विजाः॥३७॥

विद्वः जानीव इत्युत्तमस्य द्विवचनम्॥३७॥

ऋषिभिस्तौ नियुक्तौ च भविष्यैः स्तूयतामिति ।
यानि कर्माणि कृतवान्पृथुः पश्चान्महाबलः॥३८॥

पश्चात्पूर्वस्मिन् कल्पे यानि कृतवान् तैरेव अस्मिन् कल्पे भविष्यैः कर्मभिः स्तूयतामिति योजना। प्रतिकल्पं समाननामरूपायः एव सृष्टेः। “सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्” इति श्रवणात्॥३८॥

सत्यवाग्दानशीलोऽयं सत्यसन्धो नरेश्वरः ।
श्रीमाञ्जैत्रः क्षमाशीलो विक्रान्तो दुष्टशासनः॥३९॥

धर्मज्ञश्च कृतज्ञश्च दयावान्प्रियभाषणः ।
मान्यो मानयिता यज्वा ब्रह्मण्यः सत्यसङ्गरः॥४०॥

शमः शान्तश्च निरतो व्यवहारस्थितो नृपः ।
ततः प्रभृति लोकेषु स्तवेषु जनमेजय ।
आशीर्वादाः प्रयुज्यन्ते सूतमागधबन्दिभिः॥४१॥

तयोः स्तवैस्तैः सुप्रीतः पृथुः प्रादात्प्रजेश्वरः ।
अनूपदेशं सूताय मगधान्मागधाय च॥४२॥

तं दृष्ट्वा परमप्रीताः प्रजाः प्राहुर्महर्षयः ।
वृत्तीनामेष वो दाता भविष्यति जनेश्वरः॥४३॥

ततो वैन्यं महाराज प्रजाः समभिदुद्रुवुः ।
त्वं नो वृत्तिं विधत्स्वेति महर्षिवचनात्तदा॥४४॥

सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया ।
धनुर्गृह्य पृषत्कांश्च पृथिवीमार्द्दयद्बली॥४५॥

ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ।
तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत॥४६॥

सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा ।
प्रददर्शाग्रतो वैन्यं प्रगृहीतशरासनम्॥४८॥

ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमच्युतम् ।
महायोगं महात्मानं दुर्धर्षममरैरपि॥४८॥

अलभन्ती तु सा त्राणं वैन्यमेवान्वपद्यत ।
कृताञ्जलिपुटा भूत्वा पूज्या लोकैस्त्रिभिः सदा॥४९॥

उवाच वैन्यं नाधर्म्यं स्त्रीवधं कर्तुमर्हसि ।
कथं धारयिता चासि प्रजा राजन् विना मया॥५०॥

मयि लोकाः स्थिता राजन् मयेदं धार्यते जगत् ।
मद्विनाशे विनश्येयुः प्रजाः पार्थिव विद्धि तत्॥५१॥

न त्वमर्हसि मां हन्तुं श्रेयश्चेत्त्वं चिकीर्षसि ।
प्रजानां पृथिवीपाल शृणु चेदं वचो मम॥५२॥

उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः ।
उपायं पश्य येन त्वं धारयेथाः प्रजा नृप॥५३॥

हत्वापि मां न शक्तस्त्वं प्रजा धारयितुं नृप ।
अनुभूता भविष्यामि यच्छ कोपं महाद्युते॥५४॥

अवध्याश्च स्त्रियः प्राहुस्तिर्यग्योनिगतेष्वपि ।
सत्त्वेषु पृथिवीपाल न धर्मं त्यक्तुमर्हसि॥५५॥

एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः ।
कोपं निगृह्य धर्मात्मा वसुधामिदमब्रवीत्॥५६॥

॥इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि पृथूपाख्याने पञ्चमोऽध्यायः॥५॥
पृथूपाख्यानम्

पृथुरुवाच। एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा ।
बहून्वै प्राणिनो लोके भवेत्तस्येह पातकम्॥१॥

पृथुना वशतां नीता पृथ्वी मन्वादिभिः क्रमात्। दुग्धा स्वाभीष्टदुग्धानि षष्ठेऽध्याय इतीर्यते॥१॥ अवध्यां स्त्रियभिति यदुक्तं तत्रोत्तरमाह- एकस्येति द्वाभ्याम्॥१॥

सुखमेधन्ति बहवो यस्मिंस्तु निहतेऽशुभे ।
तस्मिन्नास्ति हते भद्रे पातकं चोपपातकम्॥२॥

निहते अशुभे इति छेदः॥२॥

एकस्मिन्यत्र निधनं प्रापिते दुष्टकारिणि ।
बहूनां भवति क्षेमं तत्र पुण्यप्रदो वधः॥३॥

सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे ।
यदि मे वचनं नाद्य करिष्यसि जगद्धितम्॥४॥

त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् ।
आत्मानं प्रथयित्वाहं प्रजा धारयिता चिरम्॥५॥

कथं धारयितेत्यस्योत्तरम्- त्वां निहत्येति। आत्मानं देहं धारयिता धारयिष्यामि। प्रथयित्वा विस्तार्य॥५॥

सा त्वं शासनमास्थाय मम धर्मभृतां वरे ।
सञ्जीवय प्रजाः सर्वाः समर्था ह्यसि धारणे॥६॥

दुहितृत्वं च मे गच्छ तत एनमहं शरम् ।
नियच्छेयं त्वद्वधार्थमुद्यतं घोरदर्शनम्॥७॥

पृथिव्युवाच। सर्वमेतदहं वीर विधास्यामि न संशयः ।
उपायतः समारब्धाः सर्वे सिद्ध्यन्त्युपक्रमाः॥८॥

उपायं पश्य येन त्वं धारयेथाः प्रजा इमाः ।
वत्सं तु मम सम्पश्य क्षरेयं येन वत्सला॥९॥

सम्पश्य दिव्यदृष्ट्या कल्पय वत्सला स्नेहेन क्षरेयं दुग्धं स्रवेयम्॥९॥

समां च कुरु सर्वत्र मां त्वं धर्मभृतां वर ।
यथा विस्पन्दमानं मे क्षीरं सर्वत्र भावयेत्॥१०॥

विस्पन्दमानं क्षरेत् भावयेत्। स्वार्थे णिचू। सर्वत्र भवेत्॥१०॥

वैशम्पायन उवाच। तत उत्सारयामास शैलाञ्छतसहस्रशः ।
धनुष्कोट्या तदा वैन्यस्तेन शैला विवर्धिताः॥११॥

तेन शैलोपरि शैलं स्थापयता शैलाः विवृद्धिं प्रापिताः इष्टकाभित्तिवत्॥११॥

पृथुर्वैन्यस्तदा राजा महीं चक्रे समां ततः ।
मन्वन्तरेष्वतीतेषु विषमासीद्वसुन्धरा॥१२॥

स्वभावेनाभवन्ह्यस्याः समानि विषमाणि च ।
चाक्षुषस्यान्तरे पूर्वमासीदेवं तदा किल॥१३॥

न हि पूर्वविसर्गे वै विषमे पृथिवीतले ।
प्रविभागः पुराणां च ग्रामाणां वा तदाभवत्॥१४॥

न सस्यानि न गोरक्षा न कृषिर्न वणिक्पथः ।
नैव सत्यानृतं तत्र न लोभो न च मत्सरः॥१५॥

वणिगेव वणिक्पथः सत्यानृतं वाणिज्यम्॥१५॥

वैवस्वतेऽन्तरे चास्मिन्साम्प्रतं समुपस्थिते ।
वैन्यात्प्रभृति राजेन्द्र सर्वस्यैतस्य सम्भवः॥१६॥

एतस्य पुरविभागादेः॥१६॥

यत्र यत्र समं त्वस्या भूमेरासीतिहानघ ।
तत्र तत्र प्रजाः सर्वाः संवासं समरोचयन्॥१७॥

समरोचयन् प्रीत्या चक्रुः॥१७॥

आहारः फलमूलानि प्रजानामभवत्तदा ।
कृच्छ्रेण महता युक्त इत्येवमनुशुश्रुम॥१८॥

तदा वैन्येन भूमेर्दोहनात् प्राक्॥१८॥

सङ्कल्पयित्वा वत्सं तु मनुं स्वायम्भुवं प्रभुम् ।
स्वपाणौ पुरुषश्रेष्ठ दुदोह पृथिवीं ततः ।
सस्यजातानि सर्वाणि पृथुर्वैन्यः प्रतापवान्॥१९॥

पृथ्वीं पृथिवीतः २सस्यजातानि व्रीह्यादीनि दुदोह प्रपूरितवान्॥१९॥

तेनान्नेन प्रजास्तात वर्तन्तेऽद्यापि नित्यशः ।
ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा॥२०॥

वर्तन्ते उपजीवन्ति सोमः ब्राह्मणराजत्वात् वत्सः॥२०॥

वत्सः सोमोऽभवत्तेषां दोग्धा चाङ्गिरसः सुतः ।
बृहस्पतिर्महातेजाः पात्रं छन्दांसि भारत ।
क्षीरमासीदनुपमं तपो ब्रह्म च शाश्वतम्॥२१॥

छन्दांसि वेदाः तत्र हि तदर्थभूतं तपो ब्रह्म च कृच्छ्रचान्द्रायणम्। अग्निहोत्रादिकं च शाश्वतं न त्विदानीं कल्पितम्॥२१॥

पुनर्देवगणैः सर्वैः पुरन्दरपुरोगमैः ।
काञ्चनं पात्रमादाय दुग्धेयं श्रूयते मही॥२२॥

वत्सस्तु मघवानासीद्दोग्धा च सविता प्रभुः ।
क्षीरमूर्जस्करं चैव वर्तन्ते येन देवताः॥२३॥

ऊर्जस्करम् अमृतं यज्ञीयं हविरिति यावत्॥२३॥

पितॄभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ।
राजतं पात्रमादाय स्वधाममितविक्रमैः॥२४॥

स्वधां पित्रन्नम्॥२४॥

यमो वैवस्वतस्तेषामासीद्वत्सः प्रतापवान् ।
अन्तकश्चाभवद्दोग्धा कालो लोकप्रकालनः॥२५॥

नागैश्च श्रूयते दुग्ध्दा वत्सं कृत्वा तु तक्षकम् ।
अलाबुं पात्रमादाय विषं क्षीरं नरोत्तम्॥२६॥

अलाबुं तुम्बीफलम्॥२६॥

तेषामैरावतो दोग्धा धृतराष्ट्रः प्रतापवान् ।
नागानां भरतश्रेष्ठ सर्पाणां च महीपते॥२७॥

नागानाम् ऐरावतः सर्पाणां धृतराष्ट्रः दोग्धेति शेषः॥२७॥

तेनैव वर्तयन्त्युग्रा महाकाया विषोल्बणाः ।
तदाहारास्तदाचारास्तद्वीर्यास्तदुपाश्रयाः॥२८॥

असुरैः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ।
आयसं पात्रमादाय मायां शत्रुनिबर्हिणीम्॥२९॥

विरोचनस्तु प्राह्रादिर्वत्सस्तेषामभूत्तदा ।
ऋत्विग्विमूर्द्धा दैत्यानां मधुर्दोग्धा महाबलः॥३०॥

द्विमूर्धेति मधोर्विशेषणम्॥३०॥

तयैते माययाद्यापि सर्वे मायाविनोऽसुराः ।
वर्तयन्त्यमितप्रज्ञास्तदेषाममितं बलम्॥३१॥

यक्षैश्च श्रूयते तात पुनर्दुग्धा वसुन्धरा ।
आमपात्रे महाराज पुरान्तर्द्धानमक्षयम्॥३२॥

वत्सं वैश्रवणं कृत्वा यक्षैः पुण्यजनैस्तदा ।
दोग्धा रजतनाभस्तु पिता मणिवरस्य च॥३३॥

यक्षानुजो महातेजास्त्रिशीर्षाः सुमहातपाः ।
तेन ते वर्तयन्तीति परमर्षिरुवाच ह॥३४॥

तेन अन्तर्धानेन ते यक्षाः वर्तयन्ति परशरीरमाविश्याप्रत्यक्षास्ते जीवन्तीत्यर्थः॥३४॥

राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुन्धरा ।
शावं कपालमादाय प्रजा भोक्तुं नरर्षभ॥३५॥

प्रजा भोक्तुं स्वसन्तानानि तर्पयितुम्॥३५॥

दोग्धा रजतनाभस्तु तेषामासीत्कुरूद्वह ।
वत्सः सुमाली कौरव्य क्षीरं रुधिरमेव च॥३६॥

तेन क्षीरेण यक्षाश्च राक्षसाश्चामरोपमाः ।
वर्तयन्ति पिशाचाश्च भूतसङ्घास्तथैव च॥३७॥

पद्मपात्रं पुनर्दुग्धा गन्धर्वैः साप्सरोगणैः ।
वत्सं चित्ररथं कृत्वा शुचीन्गन्धान्नरर्षभ॥३८॥

गन्धान् सुरभिद्रव्याणि॥३८॥

तेषां च सुरुचिस्त्वासीद्दोग्धा भरतसत्तम ।
गन्धर्वराजोऽतिबलो महात्मा सूर्यसन्निभः॥३९॥

शैलैश्च श्रूयते राजन् पुनर्दुग्धा वसुन्धरा ।
औषधीर्वै मूर्तिमती रत्नानि विविधानि च॥४०॥

औषधीः ज्योतिष्मत्यादिकाः॥४०॥

वत्सस्तु हिमवानासीन्मेरुर्दोग्धा महागिरिः ।
पात्रं तु शैलमेवासीत्तेन शैला विवर्धिताः॥४१॥

शैलं शिलामयम्॥४१॥

वीरुद्भिः श्रूयते राजन् पुनर्दुग्धा वसुन्धरा ।
पालाशं पात्रमादाय दग्धच्छिन्नप्ररोहणम्॥४२॥

पालाशं पर्णमयम्॥४२॥

दुदोह पुष्पितः सालो वत्सः प्लक्षोऽभवत्तदा ।
सेयं धात्री विधात्री च पावनी च वसुन्धरा॥४३॥

धात्री पाययित्री मातेव पोषणकरी। वैधात्री तद्विपरीता सर्वमात्मन्युपसंहरतीत्यर्थः॥४३॥

चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च ।
सर्वकामदुघा दोग्ध्री सर्वसस्यप्ररोहिणी॥४४॥

प्रतिष्ठा आश्रयः योनिः रत्नादिक्रमेण उत्पत्तिस्थानम्। दोग्ध्री धेनुरूपा चतुर्वर्गस्यापि॥४४॥

आसीदियं समुद्रान्ता मेदिनीति परिश्रुता ।
मधुकैटभयोः कृत्स्ना मेदसाभिपरिप्लुता ।
तेनेयं मेदिनी देवी प्रोच्यते ब्रह्मवादिभिः॥४५॥

ततोऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य भारत ।
दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते ।
पृथुना प्रविभक्ता च शोधिता च वसुन्धरा॥४६॥

अभ्युपगमात् पुत्रीत्वेन अङ्गीकारात्॥४६॥

सस्याकरवती स्फीता पुरपत्तनमालिनी ।
एवं प्रभावो वैन्यः स राजासीद्राजसत्तमः॥४७॥

पुरं राजधानी पत्तनं महापणिकनगरम्। पुराणां पत्तनानां माला समूहोऽस्ति यस्यां सा। वैन्यः पृथुः॥४७॥

नमस्यश्चैव पूज्यश्च भूतग्रामैर्न संशयः ।
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगः॥४८॥

भूतग्रामैः प्राणिसमूहैः॥४८॥

पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ।
पार्थिवैश्च महाभागैः पार्थिवत्वमभीप्सुभिः॥४९॥

ब्रह्मयोनिः आत्रेयः। सनातनो विष्णुरूपः॥४९॥

आदिराजो नमस्कार्यः पृथुर्वैन्यः प्रतापवान् ।
योधैरपि च विक्रान्तैः प्राप्तुकामैर्जयं युधि ।
पृथुरेव नमस्कार्यो योधानां प्रथमो नृपः॥५०॥

यो हि योद्धा रणं याति कीर्तयित्वा पृथुं नृपम् ।
स घोररूपान्सङ्ग्रामान्क्षमी तरति कीर्तिमान्॥५१॥

वैश्यैरपि च वित्ताढ्यैः पण्यवृत्तिमनुष्ठितैः ।
पृथुरेव नमस्कार्यो वृत्तिदाता महायशाः॥५२॥

पण्यवृत्तिमनुष्ठितैर्वाणिज्याद्युपजीविभिः॥५२॥

तथैव शूद्रैः शुचिभिस्त्रिवर्णपरिचारिभिः ।
आदिराजो नमस्कार्यः श्रेयः परमभीप्सुभिः॥५३॥

एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च ।
पात्राणि च मयोक्तानि किं भूयो वर्णयामि ते॥५४॥

य इदं शृणुयान्नित्यं पृथोश्चरितमादितः ।
पुत्रपौत्रसमायुक्तो मोदते सुचिरं भुवि॥५५॥

"वेनान्ध्येन निरोध्य सत्वरजसी धीधर्मनाशे कृते। सन्तः सत्त्वपृथुं पृथग्व्यधुरितस्तद्वद्रजोधीवरम्॥ सत्त्वाक्रान्तमनोऽवनिं प्रियपयः सङ्कल्पवत्सा जना धीपात्रे दुदुहुर्यथैवमितरैः प्राज्ञैरनुष्ठीयताम्॥" आख्यायिकाया अवान्तरतात्पर्यं तु पुण्यभाजि राज्ञि पृथ्वी बीजानि प्रसूते पापानि ग्रसतीति॥५५॥
॥इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि पृथूपाख्याने षष्ठोऽध्यायः॥६॥
मन्वन्तरवर्णनम्

जनमेजय उवाच। मन्वन्तराणि सर्वाणि विस्तरेण तपोधन ।
तेषां सृष्टिं विसृष्टिं च वैशम्पायन कीर्तय॥१॥

मन्वन्तराणि मनवो देवा ऋष्यादयस्तथा। सप्तमे चातुवर्ण्यन्ते क्रमशो वै पृथक्पृथक्॥१॥ मन्वन्तराणीति॥१॥

यावन्तो मनवश्चैव यावन्तं कालमेव च ।
मन्वन्तरं तथा ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः॥२॥

वैशम्पायन उवाच। न शक्यो विस्तरस्तात वक्तुं वर्षशतैरपि ।
मन्वन्तराणां कौरव्य संक्षेपं त्वेव मे शृणु॥३॥

स्वायम्भुवो मनुस्तात मनुः स्वारोचिषस्तथा ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा॥४॥

वैवस्वतश्च कौरव्य साम्प्रतो मनुरुच्यते ।
सावर्णिश्च मनुस्तात भौत्यो रौच्यस्तथैव च॥५॥

तथैव मेरुसावर्णाश्चत्वारो मनवः स्मृताः ।
अतीता वर्तमानाश्च तथैवानागताश्च ये॥६॥

मेरुसावर्णाश्चत्वारः ब्रह्मसावर्णिः रुद्रसावर्णिः मेरुसावर्णिः दक्षसावर्णिश्च। एते मेरौ तपः कृत्वा सिद्धिं प्राप्ता इति सर्वेऽपि मेरुसावर्णा इत्युच्यन्ते॥६॥

कीर्तिता मनवस्तात मयैते तु यथाश्रुतम् ।
ऋषींस्तेषां प्रवक्ष्यामि पुत्रान्देवगणांस्तथा॥७॥

यथाश्रुतं गुरूपदेशमनतिक्रम्येति। तेषां मनूनां पुत्रान्॥७॥

मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः ।
पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः॥८॥

प्रथममन्वन्तरगतम् ऋष्यादित्रयमाह- मरीचिरिति चतुर्भिः॥८॥

उत्तरस्यां दिशि तथा राजन् सप्तर्षयोऽपरे ।
देवाश्च शान्तरजसस्तथा प्रकृतयः परे ।
यामा नाम तथा देवा आसन्स्वायम्भुवेऽन्तरे॥९॥

अपरे वैवस्वतगतसप्तर्षिभ्यो मरीच्यादिभ्योऽन्ये॥९॥

अग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः ।
ज्योतिष्मान्द्युतिमान्हव्यः सवनः पुत्र एव च॥१०॥

पुत्र इति पुत्रनामा॥१०॥

मनोः स्वायम्भुवस्यैते दश पुत्रा महौजसः ।
एतत्ते प्रथमं राजन्मन्वन्तरमुदाहृतम्॥११॥

और्वो वसिष्ठपुत्रश्च स्तम्बः काश्यप एव च ।
प्राणो बृहस्पतिश्चैव दत्तो निश्च्यवनस्तथा॥१२॥

स्वारोचिषगतऋष्यादित्रयमाह- और्वेति सार्धचतुष्टयेनः। द्वितीयमन्वन्तरगता ऋष्यादय उक्ताः। वसिष्ठपुत्र और्वनामा॥१२॥

एते महर्षयस्तात वायुप्रोक्ता महाव्रताः ।
देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे॥१३॥

हविर्ध्रः सुकृतिर्ज्योतिरापोमूर्तिरयस्मयः ।
प्रथितश्च नभस्यश्च नभ ऊर्जस्तथैव च॥१४॥

स्वारोचिषस्य पुत्रास्ते मनोस्तात महात्मनः ।
कीर्तिताः पृथिवीपाल महावीर्यपराक्रमाः॥१५॥

द्वितीयमेतत्कथितं तव मन्वन्तरं मया ।
इदं तृतीयं वक्ष्यामि तन्निबोध नराधिप॥१६॥

वासिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः ।
हिरण्यगर्भस्य सुता ऊर्ज्जा नाम सुतेजसः॥१७॥

वसिष्ठेति। सप्त वसिष्ठपुत्रा वासिष्ठा इति विश्रुता ऋषयोऽत्र उत्तमे मया प्रोक्ता इत्यग्रिमेणान्वयः के ते वासिष्ठा ये पूर्वं हिरण्यगर्भपुत्राः ऊर्जसंज्ञाः सुतेजसः अतिप्रतापा आसन्निति पश्चात् वसिष्ठजाता इत्यन्वयः॥१७॥

ऋषयोऽत्र मया प्रोक्ताः कीर्त्यमानान्निबोध मे ।
औत्तमेयान् महाराज दश पुत्रान्मनोरमान्॥१८॥

सप्तर्षयो मया प्रोक्ता इति पूर्वान्वयि। कीर्त्यमानान् औत्तमेयान्निबोधेत्युत्तरेणान्वयः॥१८॥

इष ऊर्जस्तनूजश्च मधुर्माधव एव च ।
शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च॥१९॥

तनुजः तनूजनामा॥१९॥

भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम् ।
मन्वन्तरं चतुर्थं ते कथयिष्यामि तच्छृणु॥२०॥

चतुर्थमाह- मन्वन्तरमिति॥२०॥

काव्यः पृथुस्तथैवाग्निर्जन्युर्धाता च भारत ।
कपीवानकपीवांश्च तत्र सप्तर्षयोऽपरे॥२१॥

पुराणे कथितास्तात पुत्राः पौत्राश्च भारत ।
सत्या देवगणाश्चैव तामसस्यान्तरे मनोः॥२२॥

पुत्रांश्चैव प्रवक्ष्यामि तामसस्य मनोर्नृप ।
द्युतिस्तपस्यः सुतपास्तपोमूलस्तपोधनः॥२३॥

तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः ।
तामसस्य मनोरेते दश पुत्रा महाबलाः॥२४॥

वायुप्रोक्ता महाराज पञ्चमं तदनन्तरम् ।
वेदबाहुर्यदुध्रश्च मुनिर्वेदशिरास्तथा॥२५॥

पञ्चममाह- वेदबाहुरिति सार्द्धैश्चतुर्भिः। मुनिरिति वेदशिरसो विशेषणम्॥२५॥

हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमजः ।
सत्यनेत्रस्तथात्रेय एते सप्तर्षयोऽपरे॥२६॥

सोमजः ऊर्ध्वबाहुः आत्रेयः सत्यनेत्रः॥२६॥

देवाश्च भूतरजसस्तथा प्रकृतयोऽपरे ।
पारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते॥२७॥

तथा प्रकृतयः अभूतरजःस्वभावाः पारिप्लवो रैभ्यश्च देवतागणविशषौ॥२७॥

अथ पुत्रानिमांस्तस्य निबोध गदतो मम ।
धृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः॥२८॥

अरण्यश्च प्रकाशश्च निर्मोहः सत्यवाक्कविः ।
रैवतस्य मनोः पुत्राः पञ्चमं चैतदन्तरम्॥२९॥

षष्ठं ते सम्प्रवक्ष्यामि तन्निबोध नराधिप ।
भृगुर्नभो विवस्वांश्च सुधामा विरजास्तथा॥३०॥

षष्ठं त इति॥३०॥

अतिनामा सहिष्णुश्च सप्तैते वै महर्षयः ।
चाक्षुषस्यान्तरे तात मनोर्देवानिमाञ्छृणु॥३१॥

आद्याः प्रभूता ऋभवः पृथग्भावा दिवौकसः ।
लेखाश्च नाम राजेन्द्र पञ्च देवगणाः स्मृताः ।
ऋषेरङ्गिरसः पुत्राः महात्मानो महौजसः॥३२॥

आद्यादयः पञ्च देवगणाः दिवौकस इति सर्वेषां विशेषणम्। आद्या इत्यत्रास्ता आप्या इति वा गौडाः पठन्ति॥३२॥

नाड्वलेया महाराज दश पुत्राश्च विश्रुताः ।
ऊरुप्रभृतयो राजन्षष्ठं मन्वन्तरं स्मृतम्॥३३॥

नड्वलायाः पुत्रा नाड्वलेयाः॥३३॥

अत्रिर्वसिष्ठो भगवान् कश्यपश्च महानृषिः ।
गौतमोऽथ भरद्वाजो विश्वामित्रस्तथैव च॥३४॥

सप्तमं वैवस्वतमन्वन्तरमाह- अत्रिरित्यादिपञ्चभिः॥३४॥

तथैव पुत्रो भगवानृचीकस्य महात्मनः ।
सप्तमो जमदग्निश्च ऋषयः साम्प्रतं दिवि॥३५॥

साध्या रुद्राश्च विश्वे च मरुतो वसवस्तथा ।
आदित्याश्चाश्विनौ चैव देवौ वैवस्वतौ स्मृतौ॥३६॥

मनोर्वैवस्वतस्यैते वर्तन्ते साम्प्रतेऽन्तरे ।
इक्ष्वाकुप्रमुखाश्चैव दश पुत्रा महात्मनः॥३७॥

एतेषां कीर्तितानां तु महर्षीणां महौजसाम् ।
राजपुत्राश्च पौत्राश्च दिक्षु सर्वासु भारत॥३८॥

मन्वन्तरेषु सर्वेषु प्राग्दिशः सप्तसप्तकाः ।
स्थिता लोकव्यवस्थार्थं लोकसंरक्षणाय च॥३९॥

प्राग्दिशः पूर्वकल्पप्रकाराः सप्तसप्तकाः एकोनपञ्चाशत् मरुतो देवाः प्रागुक्ता अपि प्रतिमन्वन्तरं भवन्तीति ज्ञेयम्॥३९॥

मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः ।
कृत्वा कर्म दिवं यान्ति ब्रह्मलोकमनामयम्॥४०॥

तेषां च मध्ये चत्वारः सप्तका अष्टाविंशतिमरुतः मन्वन्तरसमाप्तौ क्रममुक्तिपदं ब्रह्मणः स्थानं प्राप्नुवन्ति॥४०॥

ततोऽन्ये तपसा युक्ताः स्थानमापूरयन्त्युत ।
अतीता वर्तमानाश्च क्रमेणैतेन भारत॥४१॥

ततोऽन्ये जायमानाः तपोबलान्मन्वन्तरान्तरे तत्पदमारुह्य स्थानं पूरयन्ति तेन सप्तसप्तकाः पूर्यन्ते एवं प्रतिमन्वन्तरं ज्ञेयम्। एतेन कर्मिणामपि परम्परया मुक्तिरस्तीति दर्शितम्॥४१॥

एतान्युक्तानि कौरव्य सप्तातीतानि भारत ।
मन्वन्तराणि षट्चापि निबोधानागतानि मे॥४२॥

सप्तातीतानि एकं चानागतमित्यष्टावुक्तानीति द्रष्टव्यम्। अनागतानि षट् मे मत्तः निबोध बुध्यस्व॥४२॥

सावर्णा मनवस्तात पञ्च तांश्च निबोध मे ।
एको वैवस्वतस्तेषां चत्वारस्तु प्रजापतेः॥४३॥

सावर्णाः पञ्च तेषामेको वैवस्वत उक्तः॥४३॥

परमेष्ठिसुतास्तात मेरुसावर्णताङ्गताः ।
दक्षस्यैते हि दौहित्राः प्रियायास्तनया नृप ।
महान्तस्तपसा युक्ता मेरुपृष्ठे महौजसः॥४४॥

परमेष्ठिसुता इति। समासैकदेशस्य विशेषणं प्रजापतेरिति। लुप्तविभक्तिकं वा परमेष्ठिपदं द्रष्टव्यम्। तेषां चतुर्णामपि मेरुसावर्णित्वे योगमाह- महान्त इति। यतो मेरौ तपश्चक्रुरतो मेरुसावर्णास्ते जाता इत्यर्थः॥४४॥

रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः ।
भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः॥४५॥

अनागताश्च सप्तैते स्मृता दिवि महर्षयः ।
मनोरन्तरमासाद्य सावर्णस्य ह ताञ्छृणु॥४६॥

सप्तैव महर्षयः प्रतिमन्वन्तरमिति शेषः। अष्टममाह- मनोरिति॥४६॥

रामो व्यासस्तथात्रेयो दीप्तिमानिति विश्रुतः ।
भारद्वाजस्तथा द्रौणीरश्वत्थामा महाद्युतिः॥४७॥

दीप्तिमान् तृतीयः। अश्वत्थामा चतुर्थः॥४७॥

गौतमस्यात्मजश्चैव शरद्वान् गौतमः कृपः ।
कौशिको गालवश्चैव रुरुः काश्यप एव च॥४८॥

कृपः पञ्चमः। गालवः षष्ठः। रुरुः सप्तमः। इतराणि पदानि तेषामेव विशेषणानि॥४८॥

एते सप्त महात्मानो भविष्या मुनिसत्तमाः ।
ब्रह्मणः सदृशाश्चैते धन्याः सप्तर्षयः स्मृताः॥४९॥

अभिजात्याथ तपसा मन्त्रव्याकरणैस्तथा ।
ब्रह्मलोकप्रतिष्ठास्तु स्मृताः सप्तर्षयोऽमलाः॥५०॥

भूतभव्यभवज्ज्ञानं बुद्ध्वा चैव तु यैः स्वयम् ।
तपसा वै प्रसिद्धा ये सङ्गताः प्रविचिन्तकाः॥५१॥

मन्त्रव्याकरणाद्यैश्च ऐश्वर्यात्सर्वशश्च ये ।
एतान् भार्यान्द्विजो ज्ञात्वा नैष्ठिकानि च नाम च॥५२॥

सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः ।
दीर्घायुषो मन्त्रकृत ईश्वरा दीर्घचक्षुषः॥५३॥

बुद्ध्या प्रत्यक्षधर्माणो गोत्रप्रावर्तकास्तथा ।
कृतादिषु युगाख्येषु सर्वेष्वेव पुनः पुनः॥५४॥

प्रावर्तयन्ति ते वर्णानाश्रमांश्चैव सर्वशः ।
सप्तर्षयो महाभागाः सत्यधर्मपरायणाः॥५५॥

तेषां चैवान्वयोत्पन्नाः जायन्तीह पुनः पुनः ।
मन्त्रब्राह्मणकर्तारो धर्मे प्रशिथिले तथा॥५६॥

यस्माच्च वरदाः सप्त परेभ्यश्चापराः स्मृताः ।
तस्मान्न कालो न वयः प्रमाणमृषिभावने॥५७॥

एष सप्तर्षिकोद्देशो व्याख्यातस्ते मया नृप ।
सावर्णस्य मनोः पुत्रान्भविष्याञ्छृणु सत्तम॥५८॥

वरीयांश्चावरीयांश्च सम्मतो धृतिमान् वसुः ।
चरिष्णुरप्यधृष्णुश्च वाजः सुमतिरेव च ।
सावर्णस्य मनोः पुत्रा भविष्या दश भारत॥५९॥

प्रथमे मेरुसावर्णः प्रवक्ष्यामि मुनीञ्छृणु ।
मेधातिथिस्तु पौलस्त्यो वसुः काश्यप एव च॥६०॥

प्रथमे मेरुसावर्णाख्ये नवमे मेधातिथ्यादीनां गोत्राणि पौलस्त्यादीनि॥६०॥

ज्योतिष्मान्भार्गवश्चैव द्युतिमानङ्गिरास्तथा ।
सावनश्चैव वासिष्ठ आत्रेयो हव्यवाहनः॥६१॥

पौलहः सप्त इत्येते मुनयो रोहितेऽन्तरे ।
देवतानां गणास्तत्र त्रय एव नराधिप॥६२॥

रोहित इत्यस्यैव मनोर्नामान्तरम्॥६२॥

दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः ।
मनोः पुत्रो धृष्टकेतुः पञ्चहोत्रो निराकृतिः॥६३॥

अयं पुत्रिकापुत्रोऽपि दक्षपुत्र इत्युच्यते॥६३॥

पृथुःश्रवा भूरिधामा ऋचीकोष्टहतो गयः ।
प्रथमस्य तु सावर्णेर्नव पुत्रा महौजसः॥६४॥

पृथुरित्येकः॥६४॥

दशमे त्वथ पर्याये द्वितीयस्यान्तरे मनोः ।
हविष्मान्पौलहश्चैव सुकृतिश्चैव भार्गवः॥६५॥

द्वितीयस्य दक्षसावर्णस्य हविष्मदादीनां गोत्राणि पौलहादीनि वसिष्ठपुत्राणां शक्त्यादीनां मध्ये अष्टमश्च इत्येके। अष्टम इति संज्ञैव वा तस्य॥६५॥

अपो मूर्तिस्तथात्रेयो वासिष्ठश्चाष्टमः स्मृतः ।
पौलस्त्यः प्रमितिश्चैव नभोगश्चैव काश्यपः ।
अङ्गिरा नभसः सत्यः सप्तैते परमर्षयः॥६६॥

नभसः नभःसंज्ञस्य अङ्गिराः पुत्रः सत्यो नाम सप्तमः। अङ्गेनोरसा रतियोगादौरसः पुत्रोऽङ्गिरा इत्युच्यते। नभस इति षष्ठं तस्यैव पुत्रे लब्धे सत्य इति अङ्गिरसः स्तुत्यर्थं विशेषणं सत्यवादी॥६६॥

देवतानां गणौ द्वौ तौ ऋषिमन्त्राश्च ये स्मृताः ।
मनोः सुतोत्तमौजाश्च निकुषञ्जश्च वीर्यवान्॥६७॥

द्वौ गणौ दक्षिणोत्तरमार्गाभिमानिनौ। अग्न्यादिभूमादिऋषिमन्तो मन्त्रप्रतिपाद्या देवाः। मनोः सुत इति छेदः। मनोः तृतीयस्य सुत इत्येव प्रथमस्य यौगिकं नाम वीर्यवान् तृतीयः। अन्यथा दशसङ्ख्याया अपूर्तिर्मनोः सुता इत्यस्य पुनरुक्तिश्च दुःसमाधेया स्यात्॥६७॥

शतानीको निरामित्रो वृषसेनो जयद्रथः ।
भूरिद्युम्नः सुवर्चाश्च दश त्वेते मनोः सुताः॥६८॥

एकादशेऽथ पर्याये तॄतीयस्यान्तरे मनोः ।
तस्य सप्त ऋषींश्चापि कीर्त्यमानान्निबोध मे॥६९॥

तृतीयस्य रुद्रसावर्णाख्यस्य॥६९॥

हविष्मान्काश्यपश्चापि हविष्मान्यश्च भार्गवः ।
तरुणश्च तथात्रेयो वासिष्ठस्त्वनघस्तथा॥७०॥

हविष्मन्तौ द्वौ काश्यपो भार्गवश्च॥७०॥

अङ्गिराश्चोदधिष्ण्यश्च पौलस्त्यो निश्चरस्तथा ।
पुलहश्चाग्नितेजाश्च भाव्याः सप्त महर्षयः॥७१॥

अङ्गिरः पुलहशब्दयोस्तद्धितलोप आर्षः॥७१॥

ब्रह्मणस्तु सुता देवा गणास्तेषां त्रयः स्मृताः ।
संवर्तकः सुशर्मा च देवानीकः पुरूड्वहः॥७२॥

क्षेमधन्वा दृढायुश्च आदर्शः पण्डको मनुः ।
सावर्णस्य तु पुत्रा वै तृतीयस्य नव स्मृताः॥७३॥

नवेति पित्रा सह नवत्वं ज्ञेयम्॥७३॥

चतुर्थस्य तु सावर्णेर्ऋषीन्सप्त निबोध मे ।
द्युतिर्वसिष्ठपुत्रश्च आत्रेयः सुतपास्तथा॥७४॥

अङ्गिरास्तपसो मूर्तिस्तपस्वी काश्यपस्तथा ।
तपोशनश्च पौलस्त्यः पौलहश्च तपो रविः॥७५॥

भार्गवः सप्तमस्तेषां विज्ञेयस्तु ततो धृतिः ।
पञ्च देवगणाः प्रोक्ता मानसा ब्रह्मणश्च ते॥७६॥

देववायुरदूरश्च देवश्रेष्ठो विदूरथः ।
मित्रवान्मित्रदेवश्च मित्रसेनश्च मित्रकृत् ।
मित्रबाहुः सुवर्चाश्च द्वादशस्य मनोः सुताः॥७७॥

त्रयोदशेऽथ पर्याये भाव्ये मन्वन्तरे मनोः ।
अङ्गिराश्चैव धृतिमान्पौलस्त्यो हव्यपस्तु यः॥७८॥

पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सुकः ।
निष्प्रकम्पस्तथात्रेयो निर्मोहः काश्यपस्तथा॥७९॥

सुतपाश्चैव वासिष्ठः सप्तैते तु महर्षयः ।
त्रय एव गणाः प्रोक्ता देवतानां स्वयम्भुवा॥८०॥

त्रयोदशस्य पुत्रास्ते विज्ञेयास्तु रुचेः सुताः ।
चित्रसेनो विचित्रश्च नयो धर्मभृतो धृतः॥८१॥

सुनेत्रः क्षत्रवृद्धिश्च सुतपा निर्भयो दृढः ।
रौच्यस्यैते मनोः पुत्राः अन्तरे तु त्रयोदशे॥८२॥

चतुर्दशेऽथ पर्याये भौत्यस्यैवान्तरे मनोः ।
भार्गवो ह्यतिबाहुश्च शुचिराङ्गिरसस्तथा॥८३॥

युक्तश्चैव तथात्रेयः शुक्रो वासिष्ठ एव च ।
अजितः पौलहश्चैव अन्त्याः सप्तर्षयश्च ते॥८४॥

एतेषां कल्य उत्थाय कीर्तनात्सुखमेधते ।
यशश्चाप्नोति सुमहदायुष्मांश्च भवेन्नरः॥८५॥

अतीतानागतानां वै महर्षीणां सदा नरः ।
देवतानां गणाः प्रोक्ताः पञ्च वै भरतर्षभ॥८६॥

तरङ्गभीरुर्वप्रश्च तरस्वानुग्र एव च ।
अभिमानी प्रवीणश्च जिष्णुः सङ्क्रन्दनस्तथा॥८७॥

तेजस्वी सबलश्चैव भौत्यस्यैते मनोः सुताः ।
भौत्यस्यैवाधिकारे तु पूर्णं कल्पस्तु पूर्यते॥८८॥

इत्येते नामतोऽतीताः मनवः कीर्तिता मया ।
तैरियं पृथिवी तात समुद्रान्ता सपत्तना॥८९॥

पूर्णं युगसहस्रं तु परिपाल्या नराधिप ।
प्रजाभिश्चैव तपसा संहारस्तेषु नित्यशः॥९०॥

॥इति श्रिमहाभारते खिलेषु हरिवंशपर्वणि मन्वन्तरवर्णनं नाम सप्तमोऽध्यायः॥७॥
मन्वन्तरगणनायाम्

जनमेजय उवाच। मन्वन्तरस्य सङ्ख्यानं युगानां च महामते ।
ब्रह्मणोऽह्नः प्रमाणं च वक्तुमर्हसि मे द्विज॥१॥

मन्वन्तरप्रसङ्ख्यानं युगमानं तथैव च। ब्रह्मणोऽह्नः प्रसङ्ख्यानमष्टमेऽध्याय ईर्यते॥१॥ मन्वन्तरस्येति अध्यायः सर्वस्य कालपरिच्छेददर्शनार्थः॥१॥

वैशम्पायन उवाच। अहोरात्रं भजेत् सूर्यो मानवं लौकिकं परम् ।
तामुपादाय गणनां शृणु सङ्ख्यामरिन्दम॥२॥

देवादीनाम् अहोरात्राणि भजेत् पृथक् कुर्यात्। विभजते इति पाठे सूर्य इति शेषः। लौकिकम् अस्मदीयं मानवं मनोः परं द्विपरार्धरूपं ब्राह्मं तां तत्सम्बन्धिनीं लोकप्रसिद्धां गणनामुपादाय उपजीव्य देवाद्यहोरात्राणां सङ्ख्यां शृणु॥२॥

निमेषैः पञ्चदशभिः काष्ठा त्रिंशत्तु ताः कलाः ।
त्रिंशत्कलो मुहूर्तस्तु त्रिंशता तैर्मनीषिणः॥३॥

अष्टादश निमेषास्तु काष्ठा इत्यस्य मूलं मृग्यम्। विष्णुपुराणेऽपि “काष्ठा निमेषा दश पञ्च चैव” इत्येतावत्या एव सङ्ख्याया दर्शनात्। तैर्मुहूर्तैस्त्रिंशताऽहोरात्रमिति प्राहुरित्युत्तरेणान्वयः॥३॥

अहोरात्रमिति प्राहुश्चन्द्रसूर्यगतिं नृप ।
विशेषेण तु सर्वेषु अहोरात्रे च नित्यशः॥४॥

अहोरात्रलक्षणमाह- चन्द्रेति॥ विशेषेण परिदृश्यमाना चन्द्रसूर्ययोर्गतिरुदयादुदयान्तरावधिः तां तावन्तं कालं सर्वेषु मेरोः परितो भूप्रदेशेषु अहोरात्र इति प्राहुरित्यनुषज्यते। नित्यश इति सार्वदिक्त्वमेतयोरुक्तम्॥४॥

अहोरात्राः पञ्चदश पक्ष इत्यभिशब्दितः ।
द्वौ पक्षौ तु स्मृतो मासो मासौ द्वावृतुरुच्यते॥५॥

अब्दं द्व्ययनमुक्तं च अयनं त्वृतुभिस्त्रिभिः ।
दक्षिणं चोत्तरं चैव सङ्ख्यातत्त्वविशारदैः॥६॥

मानेनानेन यो मासः पक्षद्वयसमन्वितः ।
पितॄणां तदहोरात्रमिति कालविदो विदुः॥७॥

कृष्णपक्षस्त्वहस्तेषां शुक्लपक्षस्तु शर्वरी ।
कृष्णपक्ष त्वहः श्राद्धं पितॄणां वर्तते नृप॥८॥

कृष्णेति। चन्द्रलोकस्थाः पितरः शुक्लपक्षे चन्द्रान्तर्हितं सूर्यं न पश्यन्ति कृष्णे तु चन्द्रसूर्याभिमुख्यात्तदाश्रितास्तं पश्यन्तीति शुक्लकृष्णपक्षौ तेषां क्रमेण रात्र्यहनी अत एव कृष्णपक्षः सम्पूर्णो वा दिनान्तत्वादत्यावश्यकतया अमावास्या श्राद्धकाल इत्यर्थः॥८॥

मानुषेण तु मानेन यो वै संवत्सरः स्मृतः ।
देवानां तदहोरात्रं दिवा चैवोत्तरायणम् ।
दक्षिणायनं स्मृता रात्रिः प्राज्ञैस्तत्त्वार्थकोविदैः॥९॥

मानुषेणेति सार्द्धम्। मकरादामिथुनान्तं रविरथाक्षरश्म्योर्ध्रुवेणाकर्षणेऽनुदिनं क्रियमाणे उत्तराभिमुखः सूर्यो मेरुमूर्द्धस्थानां देवानां दृश्यो भवतीति तेषां तदा दिनम् कर्काद्यावद्धनुरन्तं तयोरेव रश्म्योर्ध्रुवेण क्रमादुन्मोचने क्रियमाणे दक्षिणाभिमुखः सूर्यो देवानामदृश्यो भवतीति तदा तेषां रात्रिरिति॥९॥

दिव्यमब्दं दशगुणमहोरात्रं मनोः स्मृतम् ।
अहोरात्रं दशगुणं मानवः पक्ष उच्यते॥१०॥

दिव्यमिति। देवानां दशभिर्वर्षैर्मनोरहोरात्र एकः दशभिस्तैः पक्षः॥१०॥

पक्षो दशगुणो मासो मासैर्द्वादशभिर्गुणैः ।
ऋतुर्मनूनां सम्प्रोक्तः प्राज्ञैस्तत्वार्थदर्शिभिः ।
ऋतुत्रयेण त्वयनं तद्द्वयेनैव वत्सरः॥११॥

दशभिः पक्षैर्मासः तैर्द्वादशाभिर्ऋतुः तैस्त्रिभिरयनं तयोः द्वयेन तैः षड्भिः संवत्सरः द्विसप्ततिसहस्राणि दिव्याब्दा एकं मनोर्वर्षमित्यर्थः॥११॥

चत्वार्येव सहस्राणि वर्षाणां तु कृतं युगम् ।
तावच्छती भवेत्सन्ध्या सन्ध्यांशश्च तथा नृप॥१२॥

सन्ध्यांशश्च तस्य पूर्वापरौ भागौ॥१२॥

त्रीणि वर्षसहस्राणि त्रेता स्यात् परिमाणतः ।
तस्याश्च त्रिशती सन्ध्या सन्ध्यांशश्च तथाविधः॥१३॥

तथा वर्षसहस्रे द्वे द्वापरं परिकीर्तितम् ।
तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च तथाविधः॥१४॥

कलिवर्षसहस्रं च सङ्ख्यातोऽत्र मनीषिभिः ।
तस्यापि शतिका सन्ध्या सन्ध्यांशश्चैव तद्विधः॥१५॥

एषा द्वादशसाहस्री युगसङ्ख्या प्रकीर्तिता ।
दिव्येनानेन मानेन युगसङ्ख्यां निबोध मे॥१६॥

द्वादशसाहस्री वर्षाणां युगमित्युच्यते॥१६॥

कृतं त्रेता द्वापरं च कलिश्चैव चतुर्युगी ।
युगं तदेकसप्तत्या गणितं नृपसत्तम॥१७॥

युगपदार्थमाह- कृतमिति। चतुर्युगी युगशब्दार्थः तत् युगम् एकसप्तत्या गणितं किञ्चिदधिकं च मन्वन्तरं प्रोक्तं सहस्रस्य चतुर्दशांशत्वात्॥१७॥

मन्वन्तरमिति प्रोक्तं सङ्ख्यानार्थविशारदैः ।
अयनं चापि तत्प्रोक्तं द्वेऽयने दक्षिणोत्तरे॥१८॥

एतावता कालस्यान्ते मनोर्ब्रह्मलोकं प्रति गमनेनादर्शनं भवतीति तदेव अयनमित्युच्यते। तस्यापि मनोः द्वे अयने भवतः। पूर्वरूपमार्षम्। अयं भावः- इतः पूर्वं धूमादिमार्गेण गत्वा देवलोकं प्राप्याधिकारं निर्वर्त्य तदन्ते अधःपतनमन्तरेणैव उत्तरायणमार्गेण ब्रह्मलोकं गच्छतीति। तथा चोक्तं अधिकारिकान् प्रकृत्य– “कृत्वा कर्म दिवं यान्ति ब्रह्मलोकं सनातनम्।” इति॥१८॥

मनुः प्रलीयते यत्र समाप्ते चायने प्रभोः ।
ततोऽपरो मनुः कालमेतावन्तं भवत्युत॥१९॥

प्रभोः लीनस्य मनोरयने गमनकाले समाप्ते सम्यक् प्राप्ते सति॥१९॥

समतीतेषु राजेन्द्र प्रोक्तः संवत्सरः स वै ।
तदेव चायुतं प्रोक्तं मुनिना तत्त्वदर्शिना॥२०॥

समतीतेष्विति सार्धः। अनेनैव क्रमेण अनेकेषु मनुषु अतीतेषु स वक्ष्यमाणो ब्रह्मणः संवत्सरः प्रोक्तः। कियद्भिर्मन्वन्तरैः संवत्सरः पूर्यत इत्याह- तदेवेति। अयुतं मन्वन्तराणि ब्रह्मणोऽहोरात्रमुक्तं तदनुपातेन अहरपि ब्रह्मणः कल्पश्च कथ्यत इति योजना। अयं भावः– षष्ट्यधिकशतत्रयं संवत्सरस्य अंशाः प्रत्यंशं चतुर्दश मनवः तेन चतुर्दशभिर्गुणितं षष्ट्यद्यधिकशतत्रयं चत्वारिंशदधिकसहस्रपञ्चकं मनूनाम् अह्नि भवति। तावानेव कालो रात्रिरिति अशीत्यधिकमयुतं मनवः ब्रह्मणोंऽशरूपे अहोरात्रे भवन्ति। अत्र चांशानां दिनानि किञ्चिदधिकानि पञ्च वर्द्धन्ते तानि विहाय अह्नां षष्ट्यधिकशतत्रयेण यावन्तोंऽशा मनूनामयुतेन पूर्यन्ते तावानेव ब्रह्मणोऽहोरात्रस्तदर्द्धं चाहुरिति॥२०॥

ब्रह्मणस्तदहः प्रोक्तं कल्पश्चेति स कथ्यते ।
सहस्रयुगपर्यन्ता या निशा प्रोच्यते बुधैः॥२१॥

निमज्जत्यप्सु यत्रोर्वी सशैलवनकानना ।
तस्मिन् युगसहस्रे तु पूर्णे भरतसत्तम॥२२॥

युगसहस्त्रे चतुर्युगसहस्रे॥२२॥

ब्राह्मे दिवसपर्यन्ते कल्पो निःशेष उच्यते ।
युगानि सप्ततिस्तानि साग्राणि कथितानि ते॥२३॥

कृतत्रेतानिबद्धानि मनोरन्तरमुच्यते ।
चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्धनाः॥२४॥

वेदेषु सपुराणेषु सर्वेषु प्रभविष्णवः ।
प्रजानां पतयो राजन्धन्यमेषां प्रकीर्तनम्॥२५॥

मन्वन्तरेषु संहाराः संहारान्तेषु सम्भवाः ।
न शक्यमन्तरं तेषां वक्तुं वर्षशतैरपि॥२६॥

संहारसम्भवधाराया अन्तरं विच्छेदो ब्रह्म तत्तु वक्तुमशक्यं तज्ज्ञानं विना च न धाराविच्छेदोऽस्तीति भावः॥२६॥

विसर्गस्य प्रजानां वै संहारस्य च भारत ।
मन्वन्तरेषु संहाराः श्रूयन्ते भरतर्षभ॥२७॥

प्रजानां जरायुजादीनां सृष्टिसंहारौ मन्वन्तरेषु चतुर्दशस्वपि मध्ये मध्ये उपरतौ भवतः॥२७॥

सशेषास्तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह ।
तपसा ब्रह्मचर्येण श्रुतेन च समाहिताः॥२८॥

शेषाः स्थूलभूतानि तत्सहिता देवास्तिष्ठन्ति तत्र हेतुस्तपसेति॥२८॥

पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते ।
तत्र सर्वाणि भूतानि दग्धान्यादित्यतेजसा॥२९॥

निःशेषत्वमेवाह- तत्रेति॥२९॥

ब्रह्माणमग्रतः कृत्वा सहादित्यगणैर्विभुम् ।
योगं योगीश्वरं देवमजं क्षेत्रज्ञमच्युतम् ।
प्रविशन्ति सुरश्रेष्ठं हरिं नारायणं प्रभुम्॥३०॥

आदित्या अपि दग्धेन्धनानलवत्स्वात्मानमुपसंहृत्य ब्रह्मणा सह विष्णुं प्रविशन्ति तेन स्थूलानां पृथिव्यप्तेजसां नाशो दर्शितः॥३०॥

यः स्रष्टा सर्वभूतानां कल्पान्तेषु पुनः पुनः ।
अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत्॥३१॥

तत्र संवर्तते रात्रिः सकलैकार्णवे तदा ।
नारायणोदरे निद्रां ब्राह्मं वर्षसहस्रकम्॥३२॥

अयं च लयः सुषुप्तिसदृश इत्याह- तत्रेत्यादिना॥३२॥

तावन्तमिति कालस्य रात्रिरित्यभिशब्दिता ।
निद्रायोगमनुप्राप्तो यस्यां शेते पितामहः॥३३॥

सा च रात्रिरपक्रान्ता सहस्रयुगपर्यया ।
तदा प्रबुद्धो भगवान्ब्रह्मा लोकपितामहः॥३४॥

पुनः सिसृक्षया युक्तः सर्गाय विदधे मनः ।
सैव स्मृतिः पुराणेयं तद्वृत्तं तद्विचेष्टितम्॥३५॥

देवस्थानानि तान्येव केवलं च विपर्ययः ।
ततो दग्धानि भूतानि सर्वाण्यादित्यरश्मिभिः॥३६॥

देवानां सूर्यादीनां चक्षुरादीनां च ब्रह्माण्डे पिण्डे च तान्येव न किञ्चिदपूर्वं दृश्यते केवलं विपर्ययः दर्शनानामदर्शनैः सह विपर्ययो मणिप्रवालधारामात्रमित्यर्थः॥३६॥

देवर्षियक्षगन्धर्वाः पिशाचोरगराक्षसाः ।
जायन्ते च पुनस्तात युगे भरतसत्तम॥३७॥

दग्धानि पूर्वम् आसन् तानि देवादयश्च प्राग् विष्णौ लीनाः सन्तः पुनर्जायन्ते॥३७॥

यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा ब्राह्मीषु रात्रिषु॥३८॥

ऋतुलिङ्गानि शीतोष्णवृष्ट्यादीनि॥३८॥

निष्क्रमित्वा प्रजाकारः प्रजापतिरसंशयम् ।
ये च वै मानवा देवाः सर्वे चैव महर्षयः॥३९॥

निष्क्रमित्वा नारायणात् निष्क्रम्य पृथग्भूय प्रजाकारः प्रजाकर्ता पुनःपुनर्भूतानि ससृज इति चतुर्थेन सम्बन्धः। किं सर्वाणि भूतान्यविशेषेण पुनः सृजति नेत्याह- ये चेति सार्धेन॥३९॥

ते सङ्गताः शुद्धसङ्गाः शश्वद्धर्मविसर्गतः ।
न भवन्ति पुनस्तात युगे भरतसत्तम॥४०॥

ते सङ्गताः शुद्धेन ब्रह्मणा सह सङ्गः एकीभावेन गतिर्येषां ते तत्त्वविदः शुद्धसङ्गाः। शुद्धसत्वे हेतुः- शश्वदिति। शश्वद्धर्मः स्वाभाविको गुणो देहादिष्वात्मबुद्धिः तस्या विसर्गतस्त्यागात्ते पुनर्न भवन्ति नावर्तन्ते अन्ये तु न। विष्णुं प्राप्ता अपि मोहकञ्चुकापनयनाभावाज्जायन्त इत्यर्थः॥४०॥

तत्सर्वं क्रमयोगेन कालसङ्ख्याविभागवित् ।
सहस्रयुगसङ्ख्यानं कृत्वा दिवसमीश्वरः॥४१॥

तत्पूर्वोक्तप्रकारं युगसङ्ख्यानम्॥४१॥

रात्रिं युगसहस्रान्तां कृत्वा च भगवान् विभुः ।
संहरत्यथ भूतानि सृजते च पुनः पुनः॥४२॥

व्यक्ताव्यक्तो महादेवो हरिर्नारायणः प्रभुः ।
तस्य ते कीर्तयिष्यामि मनोर्वैवस्वतस्य ह॥४३॥

व्यक्ताव्यक्तः स्थूलसूक्ष्मरूपः तस्य मनोः तदंशस्य मनोः विसर्गं कीर्तयिष्यामीत्युत्तरेण सम्बन्धः॥४३॥

विसर्गं भरतश्रेष्ठ साम्प्रतस्य महाद्युते ।
वृष्णिवंशप्रसङ्गेन कथ्यमानं पुरातनम्॥४४॥

यत्रोत्पन्नो महात्मा स हरिर्वृष्णिकुले प्रभुः ।
सर्वासुरविनाशाय सर्वलोकहिताय च॥४५॥

यत्र वृष्णिवंशे॥४५॥
॥इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि मन्वन्तरगणनायामष्टमोऽध्यायः॥८॥
वैवस्वतोत्पत्तिः

वैशम्पायन उवाच। विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यामरिन्दम ।
तस्य भार्याभवत्संज्ञा त्वाष्ट्री देवी विवस्वतः॥१॥

विवेस्वतोऽथ संज्ञायाः श्राद्धदेवमनोर्भवः। अश्विनोश्चापि चक्रस्य जनुर्नवम ईर्यते॥१॥ वैवस्वतस्य मनोः विसर्गं कीर्तयिष्यामीत्युक्तं तदेवाह- विवस्वानित्यादिना। दाक्षायण्यां दक्षकन्यायाम् अदित्यां त्वाष्ट्री त्वष्टुः पुत्री॥१॥

सुरेणुरिति विख्याता त्रिषु लोकेषु भामिनी ।
सा वै भार्या भगवतो मार्तण्डस्य महात्मनः॥२॥

सुरेणुरिति संज्ञाया एव नामान्तरम्। भामिनी कोपना। भाविनीति पाठे शुद्धचित्तेति॥२॥

भर्तृरूपेण नातुष्यद्रूपयौवनशालिनी ।
संज्ञाना स्त्री सुतपसा दीप्तेनेह समन्विता॥३॥

दीप्तेन अत्युष्णेन भर्तृरूपेण॥३॥

आदित्यस्य हि तद्रूपं मण्डलस्य सुतेजसा ।
गात्रेषु परिदग्धं वै नातिकान्तमिवाभवत्॥४॥

तद्रूपं तस्याः संज्ञायाः रूपं मण्डलस्थस्य तेजसा गात्रेषु दग्धम्॥४॥

न खल्वयं मृतोऽण्डस्थ इति स्नेहादभाषत ।
अज्ञानात् कश्यपस्तस्मान्मार्तण्ड इति चोच्यते॥५॥

दाहे हेतुमाह- न खल्विति द्वाभ्याम्। भिक्षार्थम् आगतेन बुधेन गर्भगौरवाच्छीघ्रं मिक्षामप्रयच्छती अदितिः शप्ता तव गर्भोऽयं म्रियतामिति। तच्छ्रुत्वा व्याकुलामदितिं प्रति भार्यास्नेहात् कश्यपः स्वसामर्थ्यात् बुधशापं निवार्य अभाषत। अयं खलु इति निश्चयेन न मृतः अपि तु अण्डस्थ एवास्तीति तस्माददितेरज्ञानात् मम अण्डं मृतमित्येवंरूपात् विपरीतज्ञानात् अयं मार्तण्ड इत्युच्यते। मृतम् अण्डमस्येति मृताण्डं तस्माज्जातो मार्तण्डः शकन्ध्वादित्वात्पररूपम्॥५॥

तेजस्त्वभ्यधिकं तात नित्यमेव विवस्वतः ।
येनातितापयामास त्रीँल्लोकान्कश्यपात्मजः॥६॥

तेज इति। स एवं कश्यपमाहात्म्याज्जीवितोऽतितेजस्वी संज्ञाम् अतिसान्निध्यादत्यन्तं तापयामासेति भावः॥६॥

त्रीण्यपत्यानि कौरव्य संज्ञायां तपतां वरः ।
आदित्यो जनयामास कन्यां द्वौ च प्रजापती॥७॥

मनुर्वैवस्वतः पूर्वं श्राद्धदेवः प्रजापतिः ।
यमश्च यमुना चैव यमजौ सम्बभूवतुः॥८॥

प्रजापतीनाह- मनुरिति। मनुः श्राद्धदेवाख्यो यमश्च यमजौ यमलौ॥८॥

सा विवर्णं तु तद्रूपं दृष्ट्वा संज्ञा विवस्वतः ।
असहन्ती च स्वां छायां सवर्णां निर्ममे ततः॥९॥

विवर्णं विषमवर्णं दुःसहकारकं स्वां छायां स्वस्य प्रतिमां सवर्णां समानरूपाम्॥९॥

मायामयी तु सा संज्ञा तस्याश्छाया समुत्थिता ।
प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां नरेश्वर॥१०॥

छायासंज्ञामुवाचेति सम्बन्धः॥१०॥

उवाच किं मया कार्यं कथयस्व शुचिस्मिते ।
स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि॥११॥

शाधि आज्ञापय॥११॥

संज्ञोवाच। अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः ।
त्वयेह भवने मह्यं वस्तव्यं निर्विकारया॥१२॥

मह्यं मम॥१२॥

इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा ।
सम्भाव्यास्ते न चाख्येयमिदं भगवते क्वचित्॥१३॥

ते त्वया इदं मत्कृत्यं भगवते सूर्याय॥१३॥

छायोवाच। आ कचग्रहणाद्देवि आ शापान्नैव कर्हिचित् ।
आख्यास्यामि मतं तुभ्यं गच्छ देवि यथासुखम्॥१४॥

तुभ्यं तव॥१४॥

वैशम्पायन उवाच। समादिश्य सवर्णां तां तथेत्युक्त्वा च सा तया ।
त्वष्टुः समीपमगमद्व्रीडितेव तपस्विनी॥१५॥

व्रीडितेव लज्जितेव यतस्तपस्विनी आलोचनवती अनाकारिताया मम इहागमनं भर्तुस्त्यागश्चाकीर्तिकर इत्याशयः॥१५॥

पितुः समीपगा सा तु पित्रा निर्भर्त्सिता तदा ।
भर्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः॥१६॥

अगच्छद्वडवा भूत्वाऽऽच्छाद्य रूपमनिन्दिता ।
कुरूनथोत्तरान् गत्वा तृणान्येव चचार ह॥१७॥

आच्छाद्य गोपयित्वा॥१७॥

द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्तयन् ।
आदित्यो जनयामास पुत्रमात्मसमं तदा॥१८॥

पूर्वजस्य मनोस्तात सदृशोऽयमिति प्रभुः ।
सवर्णत्वान्मनोर्भूयः सार्वर्ण इति चोक्तवान्॥१९॥

पूर्वस्य भ्रातुः समानवर्णत्वादयं सावर्ण इत्युक्तो न तु सवर्णाया अपत्यत्वादित्यर्थः॥१९॥

मनुरेवाभवन्नाम्ना सावर्ण इति चोच्यते ।
द्वितीयो यः सुतस्तस्याः स विज्ञेयः शनैश्चरः॥२०॥

संज्ञा तु पार्थिवी तात स्वस्य पुत्रस्य वै तदा ।
चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै॥२१॥

पृथिवीति पूर्वोक्ता सुरेणुरेव संज्ञाख्या तस्या इयं प्रकृतिः पार्थिवी द्वितीया संज्ञा। अन्ये तु छायानिपातेन पृथिव्या उत्थितत्वात्पार्थिवीत्याहुः॥२१॥

मनुस्तस्या क्षमत्तत्तु यमस्तस्या न चक्षमे ।
तां स रोषाच्च बाल्याच्च भाविनोऽर्थस्य वै बलात् ।
यदा सन्तर्ज्जयामास संज्ञां वैवस्वतो यमः॥२२॥

तत्तस्याः मनुः क्षमत् क्षान्तवान्। आर्षम् अडभावादि॥२२॥

तं शशाप ततः क्रोधात्सावर्णं जननी नृप ।
चरणः पततामेव तवेति भृशदुःखिता॥२३॥

यमस्तु तत्पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत् ।
भृशं शापभयोद्विग्नः संज्ञावाक्यप्रतोदितः॥२४॥

प्रतोदितः व्यथितः। विरेजित इति पाठे तापितः॥२४॥

शापोऽयं विनिवर्तेत प्रोवाच पितरं तदा ।
मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै॥२५॥

सेयमस्मानपाहाय यवीयांसं बुभूषति ।
तस्यां मयोद्यतः पादो न तु देहे निपातितः॥२६॥

बुभूषति भूषयितुमिच्छति॥२६॥

बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हति ।
यस्मात्ते पूजनीयाहं लङ्घितास्मि त्वया सुत॥२७॥

तस्मात्तवैष चरणः पतिष्यति न संशयः ।
अपत्यं दुरपत्यं स्यान्नाम्बा कुजननी भवेत्॥२८॥

शप्तोऽहमस्मि लोकेश जनन्या तपतां वर ।
तव प्रसादाच्चरणो न पतेन्मम गोपते॥२९॥

विवस्वानुवाच। असंशयं पुत्र महद्भविष्यत्यत्र कारणम् ।
येन त्वामाविशत् क्रोधो धर्मज्ञं सत्यवादिनम्॥३०॥

न शक्यमन्यथा कर्तुं मया मातुर्वचस्तव ।
कृमयो मांसमादाय यास्यन्ति धरणीतलम्॥३१॥

तव पादान्महाप्राज्ञ ततस्त्वं प्राप्स्यसे सुखम् ।
कृतमेवं वचस्तथ्यं मातुस्तव भविष्यति॥३२॥

शापस्य परिहारेण त्वं च त्रातो भविष्यसि ।
आदित्योऽथाब्रवीत् संज्ञां किमर्थं तनयेषु वै॥३३॥

तुल्येष्वभ्यधिकः स्नेहः क्रियतेऽति पुनः पुनः ।
सा तत् परिहरन्ती तु नाचचक्षे विवस्वते॥३४॥

अभ्यधिकः स्नेहः कनीयसि। तत्संज्ञाकृत्यं परिहरन्ती गूहमाना॥३४॥

आत्मानं सुसमाधाय योगात्तथ्यमपश्यत ।
तां शप्तुकामो भगवान्नाशाय कुरुनन्दन॥३५॥

सुसमाधाय सुस्थिरं कृत्वा योगात् ध्यानात्॥३५॥

मूर्धजेषु च जग्राह समयेऽतिगतेऽपि च ।
सा तत्सर्वं यथावृत्तमाचचक्षे विवस्वते॥३६॥

समये आकेशग्रहणात् आशापाच्च नैतत्प्रकाशयिष्यामीति नियमे अतिगते अतिक्रान्ते सति॥३६॥

विवस्वानथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्यगात् ।
त्वष्टा तु तं यथान्यायमर्चयित्वा विभावसुम् ।
निर्दग्धुकामं रोषेण सान्त्वयामास वै तदा॥३७॥

त्वष्टोवाच। तवातितेजसाविष्टमिदं रूपं न शोभते ।
असहन्ती च तत्संज्ञा वने चरति शाड्वले॥३८॥

शाड्वले हरिततृणे॥३८॥

द्रष्टा हि तां भवानद्य स्वां भार्यां शुभचारिणीम् ।
नित्यं तपस्यभिरतां वडवारूपधारिणीम्॥३९॥

भवान् द्रष्टा द्रक्ष्यति॥३९॥

पर्णाहारां कृशां दीनां जटिलां ब्रह्मचारिणीम् ।
हस्तिहस्तपरिक्लिष्टां व्याकुलां पद्मिनीमिव ।
श्लाघ्यां योगबलोपेतां योगमास्थाय गोपते॥४०॥

हस्तिहस्तेन गजगुण्डादण्डेन परिक्लिष्टां पद्मिनीमिव॥४०॥

अनुकूलं तु देवेश यदि स्यान्मम तन्मतम् ।
रूपं निर्वर्तयाम्यद्य तव कान्तमरिन्दम॥४१॥

तत् मदन्तःकरणस्थं मतम् अद्य तव रूपं कान्तं मनोहरं निर्वर्तयामि सम्पादयामीति॥४१॥

रूपं विवस्वतश्चासीत्तिर्यगूर्ध्वसमं तु वै ।
तेनासौ सम्भृतो देवरूपेण तु विभावसुः॥४२॥

तेन पूर्वेण रूपेण सम्मृतः सम्पन्नः॥४२॥

तस्मात्त्वष्टुः स वै वाक्यं बहु मेने प्रजापतिः ।
समनुज्ञातवांश्चैव त्वष्टारं रूपसिद्धये॥४३॥

ततोऽभ्युपगमात्त्वष्टा मार्तण्डस्य विवस्वतः ।
भ्रमिमारोप्य तत्तेजः शातयामास भारत॥४४॥

भ्रमिं भ्रामणयन्त्रम् आरोप्य रूपं शातयामास तनूकृतवान् घृष्टवानित्यर्थः॥४४॥

ततो निर्भासितं रूपं तेजसा संहृतेन वै ।
कान्तात्कान्ततरं द्रष्टुमधिकं शुशुभे तदा॥४५॥

निर्भासितं प्रकटीकृतम्। असंहतेन पृथक्कृतेन तेजसा हेतुना संहृतेनेति स्पष्टार्थः॥४५॥

मुखे निर्वर्तितं रूपं तस्य देवस्य गोपतेः ।
ततः प्रभृति देवस्य मुखमासीत्तु लोहितम् ।
मुखरागं तु यत्पूर्वं मार्तण्डस्य मुखच्युतम्॥४६॥

निर्वर्तितं भ्रामणयोगान्निकषणेन सम्पादितम्॥४६॥

आदित्या द्वादशैवेह सम्भूता मुखसम्भवाः ।
धातार्यमा च मित्रश्च वरुणोंशो भगस्तथा॥४७॥

इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमस्तथा ।
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः॥४८॥

हर्षं लेभे ततो देवो दृष्ट्वाऽऽदित्यान् स्वदेहजान् ।
गन्धैः पुष्पैरलङ्कारैर्भास्वता मुकुटेन च॥४९॥

एवं सम्पूजयामास त्वष्टा वाक्यमुवाच ह ।
गच्छ देव निजां भार्यां कुरूंश्चरति सोत्तरान्॥५०॥

वडवारूपमास्थाय वने चरति शाड्वले ।
स तथा रूपमास्थाय स्वभार्यारूपलीलया॥५१॥

स्वभार्यारूपलीलया भार्यायै अनुरूपा लीला अश्वरूपेण सञ्चरणम्॥५१॥

ददर्श योगमास्थाय स्वां भार्यां वडवां ततः ।
अधृष्यां सर्वभूतानां तेजसा नियमेन च॥५२॥

वडवावपुषा राजंश्चरन्तीमकुतोभयाम् ।
सोऽश्वरूपेण भगवांस्तां मुखे समभावयत्॥५३॥

समभावयत् सङ्गमकरोत्॥५३॥

मैथुनाय विचेष्टन्ती परपुंसोपशङ्कया ।
सा तन्निरवमच्छुक्रं नासिकायां विवस्वतः॥५४॥

विचेष्टन्ती मैथुनप्रतिकूलां चेष्टां कुर्वाणा। परपुंसोपशङ्कया शुक्रं निरवमत्॥५४॥

देवौ तस्यामजायेतामश्विनौ भिषजां वरौ ।
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति॥५५॥

मार्तण्डस्यात्मजावेतावष्टमस्य प्रजापतेः ।
संज्ञायां जनयामास वडवायां स भारत ।
तां तु रूपेण कान्तेन दर्शयामास भास्करः॥५६॥

सा च दृष्ट्वैव भर्तारं तुतोष जनमेजय ।
यमस्तु कर्मणा तेन भृशं पीडितमानसः॥५७॥

तेन भ्रातुः मातृशापजक्लेशेन ममाप्येवं मा भूदिति धर्ममेवाश्रयदित्यर्थः॥५७॥

धर्मेण रञ्जयामास धर्मराज इव प्रजाः ।
स लेभे कर्मणा तेन परमेण महाद्युतिः॥५८॥

पितॄणामाधिपत्यं च लोकपालत्वमेव च ।
मनुः प्रजापतिस्त्वासीत्सावर्णः स तपोधनः॥५९॥

भाव्यः सोऽनागते काले मनुः सावर्णिकेऽन्तरे ।
मेरुपृष्ठे तपो घोरमद्यापि चरति प्रभुः॥६०॥

भ्राता शनैश्चरश्चास्य ग्रहत्वमुपलब्धवान् ।
नासत्यौ यौ समाख्यातौ स्वर्वैद्यौ तौ बभूवतुः॥६१॥

सेवतोऽपि तथा राजन्नश्वानां शान्तिदोऽभवत् ।
त्वष्टा तु तेजसा तेन विष्णोश्चक्रमकल्पयत्॥६२॥

तदप्रतिहतं युद्धे दानवान्तचिकीर्षया ।
यवीयसी तयोर्या तु यमी कन्या यशस्विनी॥६३॥

तयोर्मनुयमयोः॥६३॥

अभवत्सा सरिछ्रेष्ठा यमुना लोकभाविनी ।
मनुरित्युच्यते लोके सावर्ण इति चोच्यते॥६४॥

द्वितीयो यः सुतस्तस्य मनोर्भ्राता शनैश्चरः ।
ग्रहत्वं स च लेभे वै सर्वलोकाभिपूजितम्॥६५॥

य इदं जन्म देवानां शृणुयाद्वापि धारयेत् ।
आपद्भ्यः स विमुच्येत प्राप्नुयाच्च महद्यशः॥६६॥

देवानां यमादीनामश्विनोश्च॥६६॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे वैवस्वतोत्पत्तौ नवमोऽध्यायः॥९॥
ऐलोत्पत्तिवर्णनम्

वैशम्पायन उवाच। मनोर्वैवस्वतस्यासन् पुत्रा वै नव तत्समाः ।
इक्ष्वाकुश्चैव नाभागो धृष्णुः शर्यातिरेव च॥१॥

मनोर्वै श्राद्धदेवस्य सन्ततिर्दशधा तथा। सौम्यात्तदंशभेदश्च दशमोऽध्याय इष्यते॥१॥ मनोरिति। तत्समाः मनुतुल्याः॥१॥

नरिष्यंश्च तथा प्रांशुर्नाभागारिष्टसप्तमाः ।
करूषश्च पृषध्रश्च नवैते भरतर्षभ॥२॥

नाभागारिष्ट इत्यत्र दिष्ट इत्यपि पठन्ति। “नाभानेदिष्ठं वै मानवम्” इति श्रुतेः। नाभानेदिष्ठ इति पाठः प्रामाणिकः॥२॥

अकरोत्पुत्रकामस्तु मनुरिष्टिं प्रजापतिः ।
मित्रावरुणयोस्तात पूर्वमेव विशाम्पते॥३॥

प्रजापतिर्मनुः॥३॥

अनुत्पन्नेषु नवसु पुत्रेष्वेतेषु भारत ।
तस्यां तु वर्तमानायामिष्ट्यां भरतसत्तम॥४॥

मित्रावरुणयोरंशे मुनिराहुतिमाजुहोत् ।
आहुत्यां हूयमानायां देवगन्धर्वमानुषाः॥५॥

तुष्टिं तु परमां जग्मुर्मुनयश्च तपोधनाः ।
अहोऽस्य तपसो वीर्यमहोऽस्य श्रुतमद्भुतम्॥६॥

तत्र दिव्याम्बरधरा दिव्याभरणभूषिता ।
दिव्यसंहनना चैव इला जज्ञे इति श्रुतिः॥७॥

इला तन्नाम्नी कन्या॥७॥

तामिलेत्येव होवाच मनुर्दण्डधरस्तदा ।
अनुगच्छस्व मां भद्रे तमिला प्रत्युवाच ह ।
धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम्॥८॥

दण्डधरो राजा, भद्रे माम् अनुगच्छस्वेति तामिलामुवाचेति पूर्वेण सम्बन्धः। तं मनुम् इला प्रत्युवाचेत्युत्तरेण सम्बध्यते॥८॥

इलोवाच। मित्रावरुणयोरंशे जातास्मि वदतां वर ।
तयोः सकाशं यास्यामि न मां धर्मो हतोऽवधीत्॥९॥

सैवमुक्त्वा मनुं देवं मित्रावरुणयोरिला ।
गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत्॥१०॥

अंशेऽस्मि युवयोर्जाता देवौ किं करवाणि वाम् ।
मनुना चाहमुक्ता वै अनुगच्छस्व मामिति॥११॥

तां तथावादिनीं साध्वीमिलां धर्मपरायणाम् ।
मित्रश्च वरुणश्चोभावूचतुर्यन्निबोध तत्॥१२॥

अनेन तव धर्मेण प्रश्रयेण दमेन च ।
सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि॥१३॥

आवयोस्त्वं महाभागे ख्यातिं कन्येति यास्यसि ।
मनोर्वंशधरः पुत्रस्त्वमेव च भविष्यसि॥१४॥

मानवी घृतपदी मैत्रावरुणीति मन्त्रलिङ्गादिलाया उभयसम्बन्धो घटते। तत्राद्यमाह- आवयोरिति। द्वितीयमाह- मनोरिति॥१४॥

सुद्युम्न इति विख्यातस्त्रिषु लोकेषु शोभने ।
जगत्प्रियो धर्मशीलो मनोर्वंशविवर्धनः॥१५॥

निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिकम् ।
बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता॥१६॥

तत् मित्रावरुणयोर्वाक्यं श्रुत्वा पितुर्मनोः॥१६॥

सोमपुत्राद्बुधाद्राजंस्तस्यां जज्ञे पुरूरवाः ।
जनयित्वा सुतं सा तमिला सुद्युम्नतां गता॥१७॥

सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ।
उत्कलश्च गयश्चैव विनताश्वश्च भारत॥१८॥

उत्कलस्योत्कला राजन्विनताश्वस्य पश्चिमा ।
दिक्पूर्वा भरतश्रेष्ठ गयस्य तु गया पुरी॥१९॥

प्रविष्टे तु मनौ तात दिवाकरमरिन्दम ।
दशधा तद्दधत्क्षत्रमकरोत्पृथिवीमिमाम्॥२०॥

प्रविष्ट इति। मनौ सूर्यं प्रविष्टे पुत्रान् उत्पाद्य त्यक्ताधिकारे प्रति इक्ष्वाकुप्रभृतयो दश मनोः पुत्राः पृथिवीं दशधा विभज्य गृहीतवन्तः॥२०॥

यूपाङ्किता वसुमती यस्येयं सवनाकरा ।
इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान्॥२१॥

कन्याभावाच्च सुद्युम्नो नैनं गुणमवाप्तवान् ।
वसिष्ठवचनाच्चासीत्प्रतिष्ठाने महात्मनः॥२२॥

सुद्युम्न एनं गुणं मध्यदेशराजत्वं वसिष्ठानुग्रहात्तु सुद्युम्नोऽपि तत्समीपदेशे राज्यं लेभे इत्याह- वसिष्ठेति। प्रतिष्ठाने प्रयागैकदेशे॥२२॥

प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य कुरूद्वह ।
तत्पुरूरवसे प्रादाद्राज्यं प्राप्य महायशाः॥२३॥

अवस्थितिः॥२३॥

सुद्युम्नः कारयामास प्रतिष्ठाने नृपक्रियाम् ।
उत्कलस्य त्रयः पुत्रास्त्रिषु लोकेषु विश्रुताः ।
धृष्टकश्चाम्बरीषश्च दण्डश्चेति सुतास्त्रयः॥२४॥

नृपक्रियां राज्यं कारयामास पुरूरवसः सुताः॥२४॥

यश्चकार महात्मा वै दण्डकारण्यमुत्तमम् ।
वनं तल्लोकविख्यातं तापसानामनुत्तमम्॥२५॥

दण्डो यच्छब्दार्थः॥२५॥

तत्र प्रविष्टमात्रस्तु नरः पापात्प्रमुच्यते ।
सुद्युम्नश्च दिवं यात ऐलमुत्पाद्य भारत॥२६॥

मानवेयो महाराज स्त्रीपुंसोर्लक्षणैर्युतः ।
धृतवान्य इलेत्येव सुद्युम्नश्चातिविश्रुतः॥२७॥

नारिष्यतः शकाः पुत्रा नाभागस्य तु भारत ।
अम्बरीषोऽभवत्पुत्रः पार्थिवर्षभसत्तमः॥२८॥

नरिष्यन्नाभागौ मनोः पञ्चमद्वितीयौ पुत्रौ॥२८॥

धृष्णोस्तु धार्ष्टकं क्षत्रं रणधृष्टं बभूव ह ।
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः॥२९॥

धृष्णोः तृतीयस्य॥२९॥

सहस्रं क्षत्रियगणो विक्रान्तः सम्बभूव ह ।
नाभागारिष्टपुत्राश्च क्षत्रिया वैश्यतां गताः॥३०॥

प्रांशोरेकोऽभवत्पुत्रः शर्यातिरिति विश्रुतः ।
नरिष्यतस्य दायादो राजा दण्डधरो दमः ।
शर्यातेर्मिथुनं चासीदानर्तो नाम विश्रुतः॥३१॥

पुत्रः कन्याः सुकन्याख्या या पत्नी च्यवनस्य ह ।
आनर्तस्य तु दायादो रेवो नाम महाद्युतिः॥३२॥

आनर्तविषयश्चासीत्पुरी चास्य कुशस्थली ।
रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः॥३३॥

आनर्तो विषयो द्वारकादेशः कुशस्थली द्वारवती॥३३॥

ज्येष्ठः पुत्रशतस्यासीद्राज्यं प्राप्य कुशस्थलीम् ।
स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणोऽन्तिके॥३४॥

मुहूर्तभूतं देवस्य गतं बहुयुगं प्रभो ।
आजगाम युवैवाथ स्वां पुरीं यादवैर्वृताम्॥३५॥

युवैव तत्र जरादिपरिणामाभावात्॥३५॥

कृतां द्वारवतीं नाम्ना बहुद्वारां मनोरमाम् ।
भोजवृष्ण्यन्धकैर्गुप्तां वासुदेवपुरोगमैः॥३६॥

ततः स रैवतो ज्ञात्वा यथातत्त्वमरिन्दम ।
कन्यां तां बलदेवाय सुव्रतां नाम रेवतीम्॥३७॥

दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः ।
रेमे रामोऽपि धर्मात्मा रेवत्या सहितः सुखी॥३८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि ऐलोत्पत्तिवर्णनं नाम दशमोऽध्यायः॥१०॥
धुन्धुवधवर्णनम्

जनमेजय उवाच। कथं बहुयुगे काले समतीते द्विजोत्तम ।
न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम्॥१॥

शर्यातेरन्वयाख्यानं पूर्वं धुन्धुकमारणम्। उक्तमेकादशे विष्णोरुत्तङ्कस्य प्रसादजम्॥१॥ कथमिति। जन्मवतः परिणामावश्यम्भावात्कथं तयोर्जराया अप्राप्तिरिति प्रश्नः॥१॥

मेरुं गतस्य वा तस्य शर्यातेः सन्ततिः कथम् ।
स्थिता पृथिव्यामद्यापि श्रोतुमिच्छामि तत्त्वतः॥२॥

शर्यातिप्रपौत्रस्य रैवतस्य॥२॥

वैशम्पायन उवाच। न जरा क्षुत्पिपासे वा न मृत्युर्भरतर्षभ ।
ऋतुचक्रं न भवति ब्रह्मलोके सदानघ॥३॥

उत्तरमाह- न जरेति। जठराग्निप्रभावेण क्षुधादयो भवन्ति। तत्पाचितान्नेन परिणामान्तरं जायते। पूर्वपरिणामश्च नश्यति। ततो जरा प्रवर्तते। अग्नेश्च प्रवर्तकः कालः सूर्यादिनिर्वर्त्यः ब्रह्मलोके तु सूर्याद्यभावान्न तन्मूलकाः कालाग्निक्षुज्जरा इत्यर्थः॥३॥

ककुद्मिनस्तु तं लोकं रैवतस्य गतस्य ह ।
हता पुण्यजनैस्तात राक्षसैः सा कुशस्थली॥४॥

तस्य भ्रातृशतं चासीद्धार्मिकस्य महात्मनः ।
तद्वध्यमानं रक्षोभिर्दिशः प्राद्रवदच्युतम्॥५॥

विद्रुतस्य तु राजेन्द्र तस्य भ्रातृशतस्य वै ।
तेषां तु ते भयाक्रान्ताः क्षत्रियास्तत्र तत्र ह॥६॥

अन्ववायस्तु सुमहांस्तत्र तत्र विशाम्पते ।
येषामेते महाराज शर्याता इति विश्रुताः॥७॥

क्षत्रिया भरतश्रेष्ठ दिक्षु सर्वासु धार्मिकाः ।
सर्वशः पर्वतगणान्प्रविष्टाः कुरुननदन॥८॥

नाभागारिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ ।
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः॥९॥

प्रांशोरेकोऽभवत्पुत्रः प्रजातिरिति नः श्रुतम् ।
पृषध्रो हिंसयित्वा तु गुरोर्गां जनमेजय॥१०॥

शापाच्छूद्रत्वमापन्नो नवैते परिकीर्तिताः ।
वैवस्वतस्य तनया मनोर्वै भरतर्षभ॥११॥

क्षुवतश्च मनोस्तात इक्ष्वाकुरभवत्सुतः ।
तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम्॥१२॥

क्षुवतः क्षुतं कुर्वतः॥१२॥

तेषां विकुक्षिर्ज्येष्ठस्तु विकुक्षित्वादयोधताम् ।
प्राप्तः परमधर्मज्ञः सोऽयोध्याधिपतिः प्रभुः॥१३॥

विकुक्षित्वात् विपुलकुक्षित्वात् अयोधताम् अप्रतियोधनाम्॥१३॥

शकुनिप्रमुखास्तस्य पुत्राः पञ्चाशदुत्तमाः ।
उत्तरापथदेशस्था रक्षितारो महीपते॥१४॥

चत्वारिंशदथाष्टौ च दक्षिणस्यां तथा दिशि ।
शशादप्रमुखाश्चान्ये रक्षितारो विशाम्पते॥१५॥

इक्ष्वाकुस्तु विकुक्षिर्वै अष्टकायामथादिशत् ।
मांसमानय श्राद्धार्थं मृगान्हत्वा महाबल॥१६॥

श्राद्धकर्मणि चोद्दिष्ट अकृते श्राद्धकर्मणि ।
भक्षयित्वा शशं तात शशादो मृगयां गतः॥१७॥

श्राद्धेति। एतेन यदर्थं यदुद्दिष्टं तस्मै तददत्वाऽन्यत्र विनियुज्यते चेद्दोषाय भवतीति दर्शितम्। मृगयां गतः मृगयात आगत एव इक्ष्वाकुणा परित्यक्त इत्युत्तरेणान्वयः॥१७॥

इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात् प्रभुः ।
इक्ष्वाकौ संस्थिते तात शशादः पुरमावसत्॥१८॥

वसिष्ठवचनात् हविरिदमुच्छिष्टं न पितृयोग्यमित्येवंरूपात् संस्थिते मृते॥१८॥

शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ।
इन्द्रस्य वृषभूतस्य ककुत्स्थोऽजयतासुरान्॥१९॥

वैश्यौ वैश्यायामुत्पन्नत्वात् ‘मातृजातयः पुत्राः स्युः’ इति वचनात्। ब्राह्मणताम् उपशान्तिं गतौ॥१९॥
ककुत्स्कन्धः तत्र तिष्ठतीति ककुत्स्थः॥१९॥

पूर्वं देवासुरे युद्धे ककुत्स्थस्तेन हि स्मृतः ।
अनेनास्तु ककुत्स्थस्य पृथुरानेनसः स्मृतः॥२०॥

विष्टराश्वः पृथोः पुत्रस्तस्मादार्द्रस्त्वजायत ।
आर्द्रस्य युवनाश्वस्तु श्रावस्तस्य तु चात्मजः॥२१॥

जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ।
श्रावस्तस्य तु दायादो बृहदश्वो महयशाः॥२२॥

श्रावस्तीं पुरीं॥२२॥

कुवलाश्वः सुतस्तस्य राजा परमधार्मिकः ।
यः स धुन्धुवधाद्राजा धुन्धुमारत्वमागतः॥२३॥

जनमेजय उवाच। धुन्धोर्वधमहं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ।
यदर्थं कुवलाश्वः सन्धुन्धुमारत्वमागतः॥२४॥

वैशम्पायन उवाच। कुवलाश्वस्य पुत्राणां शतमुत्तमधन्विनाम् ।
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः॥२५॥

बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः ।
कुवलाश्वं सुतं राज्ये बृहदश्वो न्ययोजयत्॥२६॥

पुत्रसङ्क्रामितश्रीस्तु वनं राजा समाविशत् ।
तमुत्तङ्कोऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत्॥२७॥

उत्तङ्क उवाच। भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि ।
निरुद्विग्नस्तपश्चर्तुं न हि शक्नोषि पार्थिव॥२८॥

रक्षणम् अस्माकमिति शेषः॥२८॥

त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना ।
भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि॥२९॥

पालने हि महान्धर्मः प्रजानामिह दृश्यते ।
न तथा दृश्यतेऽरण्ये मा तेऽभूद्बुद्धिरीदृशी॥३०॥

ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते ।
प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः ।
रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि॥३१॥

ममाश्रमसमीपे हि समेषु मरुधन्वसु ।
समुद्रो वालुकापूर्ण उज्जानक इति श्रुतः ।
देवतानामवध्यश्च महाकायो महाबलः॥३२॥

समेषु पर्वताद्यभावान्निम्नोन्नतवर्जितेषु मरुषु निर्जलेषु धन्वसु अल्पोदकेषु उज्जानकः जनस्य समूहो जानकं तद्रहित उज्जानकः। उज्जालकेति पाठे जलसमूहवर्जितः॥३२॥

अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ।
राक्षसस्य मधोः पुत्रो धुन्धुनामा महासुरः ।
शेते लोकविनाशाय तप आस्थाय दारुणम्॥३३॥

संवत्सरस्य पर्यन्ते स निश्वासं प्रमुञ्चति ।
यदा तदा भूश्चलति सशैलवनकानना॥३४॥

तस्य निःश्वासवातेन रज उद्धूयते महत् ।
आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम्॥३५॥

सविस्फुलिङ्गं साङ्गारं सधूममतिदारुणम् ।
तेन तात न शक्नोमि तस्मिन्स्थातुं स्वकाश्रमे॥३६॥

तं मारय महाकायं लोकानां हितकाम्यया ।
लोकाः स्वस्था भवन्त्यद्य तस्मिन्विनिहतेऽसुरे॥३७॥

त्वं हि तस्य वधायैकः समर्थः पृथिवीपते ।
विष्णुना च वरो दत्तो मह्यं पूर्वयुगेऽनघ॥३८॥

यस्त्वं महासुरं रौद्रं हनिष्यसि महाबलम् ।
तस्य त्वं वरदानेन तेज आप्याययिष्यसि॥३९॥

न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते ।
निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि ।
वीर्यं हि सुमहत्तस्य देवैरपि दुरासदम्॥४०॥

स एवमुक्तो राजर्षिरुत्तङ्केन महात्मना ।
कुवलाश्वं सुतं प्रादात्तस्मै धुन्धुनिवारणे॥४१॥

निवारणे विनाशे निमित्ते॥४१॥

बृहदश्व उवाच। भगवन्न्यस्तशस्त्रोऽहमयं तु तनयो मम ।
भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः॥४२॥

स तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे ।
जगाम पर्वतायैव तपसे संशितव्रतः॥४३॥

वैशम्पायन उवाच। कुवलाश्वस्तु पुत्राणां शतेन सह पार्थिवः ।
प्रायादुत्तङ्कसहितो धुन्धोस्तस्य विनिग्रहे॥४४॥

तमाविशत्तदा विष्णुर्भगवांस्तेजसा प्रभुः ।
उत्तङ्कस्य नियोगाद्वै लोकास्य हितकाम्यया॥४५॥

तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् ।
एष श्रीमानवध्योऽद्य धुन्धुमारो भविष्यति॥४६॥

दिव्यैर्माल्यैश्च तं देवाः समन्तात्समवाकिरन् ।
देवदुन्दुभयश्चापि प्रणेदुर्भरतर्षभ॥४७॥

स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्यवान् ।
समुद्रं खानयामास वालुकार्णवमव्ययम्॥४८॥

वालुकार्णवं वालुकापूर्णमुदकमयम्। वालुकापूर्णमिति गौडाः॥४८॥

नारायणेन कौरव्य तेजसाऽऽप्यायितः स वै ।
बभूव स महातेजाः भूयो बलसमन्वितः॥४९॥

तस्य पुत्रैः खनद्भिस्तु वालुकान्तर्हितस्तदा ।
धुन्धुरासादितो राजन्दिशमावृत्य पश्चिमाम्॥५०॥

मुखजेनाग्निना क्रोधाल्लोकानुद्वर्तयन्निव ।
वारि सुस्राव वेगेन महोदधिरिवोदये॥५१॥

मुखजेनाग्निना तस्य पुत्रशतं दग्धमित्युत्तरेण सम्बन्धः। स च वारि सुस्त्राव स्वदेहजलेन भुवमाप्लावितवानित्यर्थः॥५१॥

सोमस्य भरतश्रेष्ठ धारोर्मिकलिलं महत् ।
तस्य पुत्रशतं दग्धं त्रिभिरूनं तु रक्षसा॥५२॥

ततः स राजा कौरव्य राक्षसं तं महाबलम् ।
आससाद महातेजा धुन्धुं धुन्धुनिबर्हणः॥५३॥

तस्य वारिमयं वेगमापीय स नराधिपः ।
योगी योगेन वह्निं च शमयामास वारिणा॥५४॥

निहत्य तं महाकायं बलेनोदकराक्षसम् ।
उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः॥५५॥

उत्तङ्कस्तु वरं प्रादात्तस्मै राज्ञे महात्मने ।
ददौ तस्याक्षयं वित्तं शत्रुभिश्चापराजयम्॥५६॥

धर्मे रतिं च सततं स्वर्गवासं तथाक्षयम् ।
पुत्राणां चाक्षयाँल्लोकान्स्वर्गे ये रक्षसा हताः॥५७॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि धुन्धुवधे नाम एकादशोऽध्नामयायः॥११॥
गालवोत्पत्तिवर्णनम्

वैशम्पायन उवाच। तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते ।
चन्द्राश्वकपिलाश्वौ तु कुमारौ द्वौ कनीयसौ॥१॥

सगरान्तो दृढाश्वादिर्वंशो द्वादश ईरितः। विश्वामित्रकुटुम्बादिभरणं च त्रिशङ्कुतः॥१॥ तस्य धुन्धुमारस्य॥१॥

धौन्धुमारिर्दृढाश्वस्तु हर्यश्वस्तस्य चात्मजः ।
हर्यश्वस्य निकुम्भोऽभूत्क्षत्रधर्मरतः सदा॥२॥

संहताश्वो निकुम्भस्य पुत्रो रणविशारदः ।
अकृशाश्वः कृशाश्वश्च संहताश्वसुतौ नृप॥३॥

तस्य हैमवती कन्या सतां माता दृषद्वती ।
विख्याता त्रिषु लोकेषु पुत्रश्चास्याः प्रसेनजित्॥४॥

तस्य संहताश्वस्य द्वारा हैमवती हिमवतः कन्या। अस्यां प्रसेनजित् जात इति शेषः॥४॥

लेभे प्रसेनजिद्भार्यां गौरीं नाम पतिव्रतां ।
अभिशप्ता तु सा भर्त्रा नदी वै बाहुदाभवत्॥५॥

तस्याः पुत्रो महानासीद्युवनाश्वो महीपतिः ।
मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः॥६॥

तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् ।
साध्वी बिन्दुमती नाम रूपेणासदृशी भुवि॥७॥

पतिव्रता च ज्येष्ठा च भ्रातॄणामयुतस्य सा ।
तस्यामुत्पादयामास मान्धाता द्वौ सुतौ नृप॥८॥

पुरुकुत्सं तु धर्मज्ञं मुचुकुन्दं च धार्मिकम् ।
पुरुकुत्ससुतस्त्वासीत्त्रसद्दस्युर्महीपतिः॥९॥

नर्मदायामथोत्पन्नः सम्भूतस्तस्य चात्मजः ।
सम्भूतस्य तु दायादः सुधन्वा नाम पार्थिवः॥१०॥

सुधन्वनः सुतश्चासीत्त्रिधन्वा रिपुमर्दनः ।
राज्ञस्त्रिधन्वनस्त्वासीद्विद्वांस्त्रय्यारुणः सुतः॥११॥

तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः ।
पाणिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्मतिः॥१२॥

पाणीति। मन्त्राणां नावेहि संवहावहै सह रेतो दधावहै पुंसे पुत्राय वेत्तवै इत्याद्यर्थानां विघ्नं प्रतिबन्धं चक्रे॥१२॥

येन भार्याहृता पूर्वं क्रितोद्वाहा परस्य वै ।
बाल्यात्कामाच्च मोहाच्च संहर्षाच्चापलेन च॥१३॥

परस्परेण "पूर्वं कृतोद्वाहा ऊढा कन्या स्वभार्या कृतेत्यन्वयः। "सखा सप्तपदी भव” इत्यन्तिममन्त्रान्ते भार्यात्वमुत्पद्यते न ततः प्राक् अतस्तां प्रागेव जहार संहर्षादभिनिवशात्॥१३॥

जहार कन्यां कामात्सः कस्यचित्पुरवासिनः ।
अधर्मशङ्कुना तेन राजा त्रैय्यारुणोऽत्यजत्॥१४॥

अधर्मशङ्कुना पापरूपेण कीलेन विद्धत्वात्तम् अत्यजत्॥१४॥

अपध्वंसेति बहुशो वदन्क्रोधसमन्वितः ।
पितरं सोऽब्रवित्त्यक्तः क्व गच्छामीति वै मुहुः॥१५॥

हे अपध्वंस विलोमजेति वदन् सम्बोधयन्॥१५॥

पिता त्वेनमथोवाच श्वपाकैः सह वर्तय ।
नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन॥१६॥

वर्तय वस॥१६॥

इत्युक्तः स निराक्रामन्नगराद्वचनात्पितुः ।
न च तं वारयामास वसिष्ठो भगवानृषिः॥१७॥

तम् एवं वदन्तं पितरम्॥१७॥

स तु सत्यव्रतस्तात श्वपाकावसथान्तिके ।
पित्रा त्यक्तोऽवसद्धीरः पिता तस्य वनं ययौ॥१८॥

चाण्डालगृहसमीपे॥१८॥

ततस्तस्मिंस्तु विषये नावर्षत्पाकशासनः ।
समा द्वादश राजेन्द्र तेनाधर्मेण वै तदा॥१९॥

पाकशासन इन्द्रः तेनाधर्मेण विप्रविवाहविघ्नजेन पितृक्षोभेण न तु राज्ञः प्रजात्यागेन प्रव्रजतो विरक्तस्य दोषाभावात् तस्मिन्नपरितोषो यः पितुरासीदित्यादिशेषग्रन्थाच्च॥१९॥

दारांस्तु तस्य विषये विश्वामित्रो महातपाः ।
संन्यस्य सागरानूपे चचार विपुलं तपः॥२०॥

तस्य त्रिशंकोर्विषये देशे संन्यस्य न्यासरूपेण स्थापयित्वा॥२०॥

तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ।
शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन वै॥२१॥

शेषस्य कुटुम्बस्य॥२१॥

तं तु बद्धं गले दृष्ट्वा विक्रीयन्तं नृपात्मजः ।
महर्षिपुत्रं धर्मात्मा मोक्षयामास भारत॥२२॥

विक्रीयन्तं विक्रीयमाणम्॥२२॥

सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत् ।
विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च॥२३॥

सोऽभवद्गालवो नाम गलबन्धान्महातपाः ।
महर्षिः कौशिकस्तात तेन वीरेण मोक्षितः॥२४॥

यस्माद्गले बद्धः अतो गालव इति॥२४॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि गालवोत्पत्तौ द्वादशोऽध्यायः॥१२॥
त्रिशङ्कुचरितकथनम्

वैशम्पायन उवाच। सत्यव्रतस्तु भक्त्या च कृपया च प्रतिज्ञया ।
विश्वामित्रकलत्रं तद्बभार विनये स्थितः॥१॥

अथ त्रयोदशेऽध्याये त्रय्यारुणसुतस्य वै। पितुश्चापरितोषाद्वै त्रिशङ्कुत्वमिहोच्यते॥१॥
सत्येति। भक्तिर्विश्वामित्रस्याराध्यत्वात् तत्कुटुम्बस्य अनाथत्वात् प्रतिज्ञा वसिष्ठशिष्यत्वस्य परिहारेप्सुत्वात् एभिस्त्रिभिः कारणैर्विश्वामित्रकलत्रं बभार पुपोष॥१॥

हत्वा मृगान्वराहांश्च महिषांश्च वनेचरान् ।
विश्वामित्राश्रमाभ्याशे मांसं वृक्षे बबन्ध सः॥२॥

उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् ।
पितुर्नियोगादवसत्तस्मिन्वनगते नृपे॥३॥

उपांशुव्रतं परेषामविदितनियमम्। आस्थाय अङ्गीकृत्य वनगतेऽप्यवसत्॥३॥

अयोध्यां चैव राष्ट्रं च तथैवान्तःपुरं मुनिः ।
याज्योपाध्यायसम्बन्धाद्वसिष्ठः पर्यरक्षत॥४॥

सत्यव्रतस्तु बाल्याच्च भाविनोऽर्थस्य वा बलात् ।
वसिष्ठेऽभ्यधिकं मन्युं धारयामास वै तदा॥५॥

पित्रा हि तं तदा राष्ट्रात्त्यज्यमानं स्वमात्मजम् ।
न वारयामास मुनिर्वसिष्ठः कारणेन ह॥६॥

कारणेन अपराधी अयं कञ्चित्कालं प्रायश्चित्तं चरतु इत्याशयेन॥६॥

पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे ।
न च सत्यव्रतस्तस्य तमुपांशुमबुद्ध्यत॥७॥

निष्ठा समाप्तिः उपांशुं नायं परदारहरः अपि तु कन्याहरोऽत एनं द्वादशवार्षिक्यां दीक्षायां समाप्तायामभिषेक्ष्यामीति गूढम् आशयम्॥७॥

जानन्धर्मं वसिष्ठस्तु न मां त्रातीति भारत ।
सत्यव्रतस्तदा रोषं वसिष्ठे मनसाकरोत्॥८॥

वसिष्ठाशयमबुद्ध्वैव तदुपरि रोषमकरोदित्याह- जानन्निति॥८॥

गुणबुद्ध्या तु भगवान्वसिष्ठः कृतवांस्तथा ।
न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत॥९॥

तस्मिन्नपरितोषो यः पितुरासीन्महात्मनः ।
तेन द्वादश वर्षाणि नावर्षत्पाकशासनः॥१०॥

तेन त्विदानीं वहता दीक्षां तां दुर्वहां भुवि ।
कुलस्य निष्कृतिस्तात कृता सा वै भवेदिति॥११॥

वसिष्ठाशयं विवृणोति तेनेति॥११॥

न तं वसिष्ठो भगवान्पित्रा त्यक्तं न्यवारयत् ।
अभिषेक्ष्याम्यहं पुत्रमस्येत्येवं मतिर्मुनेः॥१२॥

इति न न्यवारयदिति पूर्वेण सम्बन्धः॥१२॥

स तु द्वादशवर्षाणि दीक्षां तामुद्वहद्बली ।
उपांशुव्रतमास्थाय महत्सत्यव्रतो नृप॥१३॥

अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ।
सर्वकामदुघां दोग्ध्रीं ददर्श स नृपात्मजः॥१४॥

तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधार्दितः ।
दशधर्मान्गतो राजा जघान जनमेजय॥१५॥

दशेति। मत्तः प्रमत्तः उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः। त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश। अनुपदोक्ताः क्रोधादयश्चत्वारः अध्यायादौ चोक्ताः। सत्यव्रतत्वादयश्चत्वारः पूर्वाध्यायान्ते। विश्वामित्रस्य तुष्टयर्थमनुकम्पार्थमेव चेति द्वौ इत्येवं दश धर्मास्तद्गतः। तत्क्षुधेति अन्यालाभो दर्शितः। श्रमादित्यन्यान्वेषणाशक्तिरुक्ता अनुकम्पा परदुःखेन दुःखित्वं कृपा परदुःखपरिहारार्थो यत्न इति विशेषः। एतान् दश धर्मान् गतः सन् राजेति भाविसंज्ञां गृहीत्वा॥१५॥

तच्च मांसं स्वयं चैव विश्वामित्रस्य चात्मजान् ।
भोजयामास तच्छ्रुत्वा वसिष्ठोऽप्यस्य चुक्रुधे ।
क्रुद्धस्तु भहवान्वाक्यमिदमाह नृपात्मजम्॥१६॥

वसिष्ठ उवाच। पातयेयमहं क्रूर तव शङ्कुमसंशयम् ।
यदि ते द्वाविमौ शङ्कू न स्यातां वैकृतौ पुनः॥१७॥

शङ्कुं पूर्वोक्तं दोषम्। इमौ वक्ष्यमाणौ॥१७॥

पितुश्चापरितोषेण गुरोर्दोग्ध्रीवधेन च ।
अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः॥१८॥

शङ्कुत्रयमेव विवृणोति- पितुरिति। अप्रोक्षितोपयोगात् असंस्कृतमांसभक्षणात्॥१८॥

वैशम्पायन उवाच। एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महातपाः ।
त्रिशङ्कुरिति होवाच त्रिशङ्कुरिति स स्मृतः॥१९॥

विश्वामित्रस्तु दाराणामागतो भरणे कृते ।
स तु तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिश्ङ्कवे॥२०॥

छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः ।
सशरीरो व्रजे स्वर्गमित्येवं याचितो मुनिः॥२१॥

अनावृष्टिभये तस्मिन्गते द्वादशवार्षिके ।
राज्येऽभिषिच्य पित्र्ये तु याजयामास तं मुनिः॥२२॥

भये गते विश्वामित्रप्रसादमात्रादिति शेषः॥२२॥

मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।
सशरीरं तदा तं तु दिवमारोपयत्प्रभुः॥२३॥

मिषतामित्यनादरे षष्ठी। पश्यतो देवादीननादृत्येत्यर्थः। कौशिको विश्वामित्रः॥२३॥

तस्य सत्यरथा नाम भार्या कैकयवंशजा ।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम्॥२४॥

तस्य त्रिशङ्कोः॥२४॥

स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः ।
आहर्ता राजसूयस्य स सम्राडिति विश्रुतः॥२५॥

हरिश्चन्द्रस्य पुत्रोऽभूद्रोहितो नाम वीर्यवान् ।
येनेदं रोहितपुरं कारितं राज्यसिद्धये॥२६॥

कृत्वा राज्यं स राजर्षिः पालयित्वा त्वथ प्रजाः ।
संसारासारतां ज्ञात्वा द्विजेभ्यस्तत्पुरं ददौ॥२७॥

हरितो रोहितस्याथ चञ्चुर्हारीत उच्यते ।
विजयश्च सुदेवश्च चञ्चुपुत्रौ बभूवतुः॥२८॥

जेता क्षत्रस्य सर्वस्य विजयस्तेन संस्मृतः ।
रुरुकस्तनयस्तस्य राजधर्मार्थकोविदः॥२९॥

रुरुकस्य वृकः पुत्रो वृकाद्बाहुस्तु जज्ञिवान् ।
शकैर्यवनकाम्बोजैः पारदैः पह्लवैः सह॥३०॥

शकादयो म्छेच्छभेदाः॥३०॥

हैहयास्तालजङ्घाश्च निरस्यन्ति स्म तं नृपम् ।
नात्यर्थं धार्मिकस्तात स हि धर्मयुगेऽभवत्॥३१॥

निरस्यन्ति स्म राज्यात् दूरीकुर्वन्ति स्म। तत्र हेतुर्नात्यर्थमिति॥३१॥

सगरस्तु सुतो बाहोर्जज्ञे सह गरेण च ।
और्वस्याश्रममागम्य भार्गवेणाभिरक्षितः॥३२॥

गरेण विषेण सह जात इति सगरत्वं मातुर्गरसंयोगेऽप्यमरणे हेतुमाह- और्वस्येति। भार्गवेण और्वेण॥३२॥

आग्नेयमस्त्रं लब्ध्वा च भार्गवात्सगरो नृपः ।
जिगाय पृथिवीं हत्वा तालजङ्घान्सहैहयान्॥३३॥

शकानां पह्लवानां च धर्मं निरसदच्युतः ।
क्षत्रियाणां कुरुश्रेष्ठ पारदानां स धर्मवित्॥३४॥

निरसत् निरस्तवान्। अच्युतः परिपूर्णशक्तिः॥३४॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि त्रिशङ्कुचरितं नाम त्रयोदशोऽध्यायः॥१३॥
सगरोत्पत्तिः

जनमेजय उवाच। कथं स सगरो जातो गरेणैव सहाच्युतः ।
किमर्थं च शकादीनां क्षत्रियाणां महौजसाम्॥१॥

उत्पत्तिश्चरितं प्रोक्तं सगरस्य चतुर्दशे। सागरत्वं समुद्रस्य तत्पुत्रोद्यमसम्भवम्॥१॥ कथं गरेण सह सन्कथम् अच्युतो न मृत इत्यर्थः॥१॥

धर्मं कुलोचितं क्रुद्धो राजा निरसदच्युतः ।
एतन्मे सर्वमाचक्ष्व विस्तरेण तपोधन॥२॥

वैशम्पायन उवाच। बाहोर्व्यसनिनस्तात हृतं राज्यमभूत्किल ।
हैहयैस्तालजङ्घैश्च शकैः सार्धं विशाम्पते॥३॥

व्यसनिनः मृगयापरस्त्रद्यूतपरस्य॥३॥

यवनाः पारदाश्चैव काम्बोजाः पह्लवाः खसाः ।
एते ह्यपि गणाः पञ्च हैहयार्थे पराक्रमम्॥४॥

पञ्च शकादयः हैहया इति तालजङ्घा इति चैको राशिः। तदर्थे हैहयार्थं तद्राज्यसाधनार्थं पराक्रमन् पराक्रमं कृतवन्तः॥४॥

हृतराज्यस्तदा राजा स वै बाहुर्वनं ययौ ।
पत्न्या चानुगतो दुःखी वने प्राणानवासृजत्॥५॥

राजा सगरपिता॥५॥

पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात् ।
सपत्न्या च गरस्तस्यै दत्तः पूर्वमभूत्किल॥६॥

अन्वगात् वनमिति शेषः॥६॥

सा तु भर्तुश्चितां कृत्वा वने तामध्यरोहत ।
और्वस्तां भार्गवस्तात कारुण्यात्समवारयत्॥७॥

तस्याश्रमे च तं गर्भं गरेणैव सहाच्युतम् ।
व्यजायत महाबाहुं सगरं नाम पार्थिवम्॥८॥

और्वस्तु जातकर्मादि तस्य कृत्वा महात्मनः ।
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत्॥९॥

अस्रम् अस्त्रग्रामं प्रत्यपादयत् ददौ॥९॥

आग्नेयं तु महाघोरममरैरपि दुःसहम् ।
स तेनास्त्रबलेनाजौ बलेन च समन्वितः॥१०॥

हैहयान्निजघानाशु क्रुद्धो रुद्रः पशूनिव ।
आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः॥११॥

पशूनिव प्राणिन इव॥११॥

ततः शकान्सयवनान्काम्बोजान्पारदांस्तदा ।
पह्लवांश्चैव निःशेषान्कर्तुं व्यवसितस्तदा॥१२॥

ते वध्यमाना वीरेण सगरेण महात्मना ।
वसिष्ठं शरणं गत्वा प्रणिपेतुर्मनीषिणम्॥१३॥

वसिष्ठस्त्वथ तान्दृष्ट्वा समयेन महाद्युतिः ।
सगरं वारयामास तेषां दत्त्वाभयं तदा॥१४॥

समयेन शरणागतो रक्षणीय इति शिष्टमर्यादया॥१४॥

सगरः स्वां प्रतिज्ञां च गुरोर्वाक्यं निशम्य च ।
धर्मं जघान तेषां वै वेषान्यत्वं चकार ह॥१५॥

धर्मं जघानं न क्षत्रधर्मात् च्यावितवान् यतो वेषान्यत्वं वेषान्तरं तेषां चकार॥१५॥

अर्द्धं शकानां शिरसो मुण्डं कृत्वा व्यसर्जयत् ।
यवनानां शिरः सर्वं काम्बोजानां तथैव च॥१६॥

तदेवाह- अर्द्धं शकानामिति॥१६॥

पारदा मुक्तकेशाश्च पह्लवाः श्मश्रुधारिणः ।
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना॥१७॥

शका यवनकाम्बोजाः पारदाश्च विशाम्पते ।
कोलिसर्पाः समहिषा दार्द्याश्चोलाः सकेरलाः॥१८॥

सर्वे ते क्षत्रियास्तात धर्मस्तेषां निराकृतः ।
वसिष्ठवचनाद्राजन्सगरेण महात्मना॥१९॥

खसांस्तु पारांश्चोलांश्च मद्रान्किष्किन्धकांस्तथा ।
कौन्तलांश्च तथा वङ्गान्साल्वान्कौङ्कणकांस्तथा॥२०॥

खसादीन् विजित्य इमां वसुन्धरां च विजित्य वाजिमेधाय दीक्षितो भूत्वा अस्यां भुवि अश्वं च प्रेरयामासेति द्वयोः सम्बन्धः॥२०॥

स धर्मविजयी राजा विजित्येमां वसुन्धराम् ।
अश्वं वै प्रेरयामास वाजिमेधाय दीक्षितः॥२१॥

तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे ।
वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः॥२२॥

पूर्वदक्षिण अग्निकोण अपहृत इन्द्रेणेति शेषः॥२२॥

स तं देशं तदा पुत्रैः खानयामास पार्थिवः ।
आसेदुस्ते ततस्तत्र खन्यमाने महार्णवे॥२३॥

ते खनन्तः पुत्राः हरिम् आसेदुरिति द्वयोः सम्बन्धः। आसेदुरित्यभिमुखं प्राप्य विषादं प्राप्ता इत्यर्थः॥२३॥

तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् ।
विष्णुं कपिलरूपेण स्वपन्तं पुरुषोत्तमम्॥२४॥

आदिपुरुषं प्रकृतिप्रवर्तकं हरिम् अविद्याकार्यहरं कृष्णं सदानन्दरूपप्रजायाः पतिं स्वपन्तं समाध्यवस्थितं पुरुषोत्तमम्। अन्तर्यामिणम्॥२४॥

तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः ।
दग्धास्ते वै महाराज चत्वारस्त्ववशेषिताः॥२५॥

तस्य प्रतिबुध्यतः योगनिद्रां त्यजतः चक्षुःसमुत्थेन तेजसा अग्निना॥२५॥

बर्हकेतुः सुकेतुश्च तथा धर्मरथो नृपः ।
शूरः पञ्चजनश्चैव तस्य वंशकरो नृपः॥२६॥

प्रादाच्च तस्मै भगवान्हरिर्नारायणो वरान् ।
अक्षयं वंशमिक्ष्वाकोः कीर्तिं चाप्यनिवर्तनीम्॥२७॥

तस्मै सागराय॥२७॥

पुत्रं समुद्रं च विभुः स्वर्गवासं तथाक्षयम् ।
पुत्राणां चाक्षयाँलोकांस्तस्य ये चक्षुषा हताः॥२८॥

समुद्रश्चार्घमादाय ववन्दे तं महीपतिम् ।
सागरत्वं च लेभे स कर्मणा तेन तस्य वै॥२९॥

सः समुद्रः तस्य सगरस्य॥२९॥

तं चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान् ।
आजहाराश्वमेधानां शतं स सुमहायशाः ।
पुत्राणां च सहस्राणि षष्ठिस्तस्येति नः श्रुतम्॥३०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि सगरोत्पत्तिर्नाम चतुर्दशोऽध्यायः॥१४॥
आदित्यवंशानुकीर्तनम्

जनमेजय उवाच। सगरस्यात्मजा वीराः कथं जाता महात्मनः ।
विक्रान्ताः षष्टिसाहस्रा विधिना केन वा द्विज॥१॥

अथ पञ्चदशे वंशो ह्यासमञ्जस उच्यते। पञ्चजनापराख्यस्य सूर्यवंशसमाप्तितः॥१॥ सगरस्येति। विक्रान्ताः पराक्रमवन्तः॥१॥

वैशम्पायन उवाच। द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे ।
ज्येष्ठा विदर्भदुहिता केशिनी नाम विश्रुता॥२॥

कनीयसी तु या तस्य पत्नी परमधर्मिणी ।
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि॥३॥

कनीयसी पत्नी ईलिनीसंज्ञा॥३॥

और्वस्ताभ्यां वरं प्रादात्तं निबोध जनाधिप ।
षष्ठिं पुत्रसहस्राणि गृह्णात्वेका तपस्विनी॥४॥

एकं वंशधरं त्वेका यथेष्टं वरयत्विति ।
तत्रैका जगृहे पुत्राँल्लुब्धा शूरान्बहूंस्तथा॥५॥

एकं वंशधरं त्वेका तथेत्याह च तां मुनिः ।
केशिन्यसूत सगरादसमञ्जसमात्मजम्॥६॥

राजा पञ्चजनो नाम बभूव सुमहाबलः ।
इतरा सुषुवे तुम्बीं बीजपूर्णामिति श्रुतिः॥७॥

तुम्बीम् अलाबुम्॥७॥

तत्र षष्टिसहस्राणि गर्भास्ते तिलसम्मिताः ।
सम्बभूवुर्यथाकालं ववृधुश्च यथाक्रमम्॥८॥

घृतपूर्णेषु कुम्भेषु तान्गर्भान्निदधे पिता ।
धात्रीश्चैकैकशः प्रादात्तावतीरेव पोषणे॥९॥

ततो दशसु मासेषु समुत्तस्थुर्यथासुखम् ।
कुमारास्ते यथाकालं सगरप्रीतिवर्धनाः॥१०॥

षष्टिः पुत्रसहस्राणि तस्यैवमभवन्नृप ।
गर्भादलाबुमध्याद्वै जातानि पृथिवीपते॥११॥

अलाबुमध्यादलाबुपूरकाद्वीर्यादलाबुबीजानीव तत्र षष्टिसहस्राणि गर्भाणाम्॥११॥

तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् ।
एकः पञ्चजनो नाम पुत्रो राजा बभूव ह॥१२॥

नारायणं नारायणीयं तेजः कपिलक्रोधाग्निम्। असमञ्जस एव पञ्चजनः॥१२॥

सुतः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान् ।
दिलीपस्तनयस्तस्य खट्वाङ्ग इति विश्रुतः॥१३॥

दिलीप एव खट्वाङ्गः॥१३॥

येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् ।
त्रयोऽनुसन्धिता लोका बुद्ध्या सत्येन चानघ॥१४॥

अनुसन्धिताः ध्यानबलेन तत्त्वतो ज्ञाताः। बुद्ध्या सूक्ष्मया सत्येन ब्रह्मभावेन मुहूर्तमात्रेण चितैकाग्र्यं सम्पाद्य सर्वं ब्रह्मेति ज्ञातवानित्यर्थः॥१४॥

दिलीपस्य तु दायादो महाराजो भगीरथः ।
यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः॥१५॥

अवातारयत स्वर्गात् भूमिमानीतवान्॥१५॥

कीर्तिमान्स महाभागः शक्रतुल्यपराक्रमः ।
समुद्रमानयच्चैनां दुहितृत्वेन कल्पयत् ।
तस्माद्भागीरथी गङ्गा कथ्यते वंशचिन्तकैः॥१६॥

भागीरथी भगीरथस्यापत्यमिति॥१६॥

भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः ।
नाभागस्तु श्रुतस्यासीत्पुत्रः परमधार्मिकः॥१७॥

अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत् ।
अयुताजित्तु दायादः सिन्धुद्वीपस्य वीर्यवान्॥१८॥

अयुताजित्सुतस्त्वासीदृतपर्णो महायशाः ।
दिव्याक्षहृदयज्ञो वै राजा नलसखो बली॥१९॥

ऋतानि अक्षहृदयज्ञानविद्यया विभीतकस्य पर्णानि नलाग्रे प्रदर्शितानि येन स ऋतर्पणः। न तु ऋतुपर्ण इति। तन्नामाग्रे तत्पुत्रस्यापि आर्तपणिरित्यपत्यप्रत्ययेन प्रदर्शनात्॥१९॥

ऋतपर्णसुतस्त्वासीदार्तपर्णिर्महीपतिः ।
सुदासस्तस्य तनयो राजा त्विन्द्रसखोऽभवत्॥२०॥

सुदासस्य सुतस्त्वासीत्सौदासो नाम पार्थिवः ।
ख्यातः कल्माषपादो वै नाम्ना मित्रसहस्तथा॥२१॥

कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः ।
अनरण्यस्तु पुत्रोऽभूद्विश्रुतः सर्वकर्मणः॥२२॥

अनरण्यसुतो निघ्नो निघ्नपुत्रौ बभूवतुः ।
अनिमित्रो रघुश्चैव पार्थिवर्षभसत्तमौ॥२३॥

हे पार्थिवर्षभ॥२३॥

अनमित्रस्य धर्मात्मा विद्वान्दुलिदुहोऽभवत् ।
दिलीपस्तनयस्तस्य रामप्रप्रपितामहः॥२४॥

रामस्य प्रपितामहो दिलीपः खट्वाङ्गाख्यो दिलीपादन्यः॥२४॥

दीर्घबाहुर्दिलीपस्य रघुर्नाम्नाभवत्सुतः ।
अयोध्यायां महाराजो रघुश्चासीन्महाबलः॥२५॥

दीर्घबाहू रघुरेव॥२५॥

अजस्तु रघुतो जज्ञे अजाद्दशरथोऽभवत् ।
रामो दशरताज्जज्ञे धर्मात्मा सुमहायशाः॥२६॥

रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः ।
अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः॥२७॥

निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु ।
नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः॥२८॥

निषधात्मजो नलो वीरसेनसुतान्नलादन्यः। नलौ द्वाविति वक्ष्यमाणत्वात्॥२८॥

क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान् ।
आसीदहीनगुर्नाम देवानीकसुतः प्रभुः॥२९॥

अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः ।
सुधन्वनः सुतश्चैव ततो जज्ञेऽनलो नृपः॥३०॥

अत एव सुधन्वनः सुत इत्यर्थः। अनल इति छेदः। तृतीयस्य नलस्याभावात्॥३०॥

उक्थो नाम स धर्मात्मानलपुत्रो बभूव ह ।
वज्रनाभः सुतस्तस्य उक्थस्य च महात्मनः॥३१॥

शङ्खस्तस्य सुतो विद्वान्ध्युषिताश्व इति श्रुतः ।
पुष्पस्तस्य सुतो विद्वानर्थसिद्धिस्तु तत्सुतः॥३२॥

सुदर्शनः सुतस्तस्य अग्निवर्णः सुदर्शनात् ।
अग्निवर्णस्य शीघ्रस्तु शीघ्रस्य तु मरुः सुतः॥३३॥

मरुस्तु योगमास्थाय कलापद्वीपमास्थितः ।
तस्यासीद्विश्रुतवतः पुत्रो राज बृहद्बलः॥३४॥

नलौ द्वावेव विख्यातौ पुराणे भरतर्षभ ।
वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः॥३५॥

इक्ष्वाकुवंशप्रभवाः प्राधान्येनेह कीर्तिताः ।
एते विवस्वतो वंशे राजानो भूरितेजसः॥३६॥

पठन्सम्यगिमां सृष्टिमादित्यस्य विवस्वतः ।
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च॥३७॥

प्रजावानेति सायुज्यमादित्यस्य विवस्वतः ।
विपाप्मा विरजाश्चैव आयुष्मांश्च भवत्युत॥३८॥

एति प्राप्नोति। विरजाः निवृत्तरागः॥३८॥
॥इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि आदित्यस्य वंशानुकीर्तनम् नाम पञ्चदशोऽध्यायः॥१५॥
श्राद्धकल्पप्रसङ्गः

जनमेजय उवाच। कथं वै श्राद्धदेवत्वमादित्यस्य विवस्वतः ।
श्रोतुमिच्छामि विप्राग्र्य श्राद्धस्य च परं विधिम्॥१॥

इतोऽग्रेऽपीन्द्रकल्पे वै नवाध्यायाः प्रकीर्तिताः। तत्रादौ षोडशेऽध्याये तत्रोपोद्धात उच्यते॥१॥ एवं वंशानुकीर्तनं श्रुत्वा तत्र प्रागुक्तं यमस्य मनुर्वैवस्वतः पूर्वं श्राद्धदेवः प्रजापतिर्यमश्चेति श्राद्धदेवत्वं वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयदिति पितृराज्यत्वं चोक्तम्। तत्र किन्तत् श्राद्धं के च ते पितर इति पृच्छति- कथमित्यादिना। विवस्वतः सुतस्येति शेषः। यमस्य कथं श्राद्धदेवत्वमित्यर्थः॥१॥

पितॄणामादिसर्गं च क एते पितरः स्मृताः ।
एवं च श्रुतमस्माभिः कथ्यमानं द्विजातिभिः॥२॥

स्वर्गस्थाः पितरो ये च देवानामपि देवताः ।
इति वेदविदः प्राहुरेतदिच्छामि वेदितुम्॥३॥

ये च तेषां गणाः प्रोक्ता यच्च तेषां बलं परम् ।
यथा च कृतमस्माभिः श्राद्धं प्रीणाति वै पितॄन्॥४॥

प्रीताश्च पितरो ये स्म श्रेयसा योजयन्ति हि ।
एवं वेदितुमिच्छामि पितॄणां सर्गमुत्तमम्॥५॥

वैशम्पायन उवाच। हन्त ते कथयिष्यामि पितॄणां सर्गमुत्तमम् ।
यथा च कृतमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ।
प्रीताश्च पितरो ये स्म श्रेयसा योजयन्ति हि॥६॥

पितृविद्यावंशमाह- हन्तेत्यादिना॥६॥

मार्कण्डेयेन कथितं भीष्माय परिपृच्छते ।
अपृच्छद्धर्मराजो हि शरतल्पगतं पुरा ।
एवमेव पुरा प्रश्नं यन्मां त्वं परिपृच्छसि॥७॥

सनत्कुमारान्मार्कण्डेयो, मार्कण्डेयात् भीष्मो, भीष्माद्धर्मराज इति महद्भिः प्रवर्तितत्वात् श्रेष्ठतरेयं विद्येति भावः॥७॥

तत्तेऽनुपूर्व्या वक्ष्यामि भीष्मेणोदाहृतं यथा ।
गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते॥८॥

युधिष्ठिर उवाच। पुष्टिकामेन धर्मज्ञ कथं पुष्टिरवाप्यते ।
एतद्वै श्रोतुमिच्छामि किं कुर्वाणो न शोचति॥९॥

भीष्म उवाच। श्राद्धैः प्रीणाति हि पितॄन्सर्वकामफलैस्तु यः ।
तत्परः प्रयतः श्राद्धी प्रेत्य चेह च मोदते॥१०॥

तत्परः पितृप्रीतिपरः श्राद्धी श्राद्धकर्ता॥१०॥

पितरो धर्मकामस्य प्रजाकामस्य च प्रजाम् ।
पुष्टिकामस्य पुष्टिं च प्रयच्छन्ति युधिष्ठिर॥११॥

धर्मकामस्य धर्ममिति शेषः॥११॥

युधिष्ठिर उवाच। वर्तन्ते पितरः स्वर्गे केषांचिन्नरके पुनः ।
प्राणिनां नियतं वापि कर्मजं फलमुच्यते॥१२॥

श्राद्धैः पितॄन् प्रीणातीत्येतदाक्षिपति- वर्तन्त इति त्रिभिः॥१२॥

श्राद्धानि चैव कुर्वन्ति फलकामाः सद नराः ।
अभिसन्धाय पितरं पितुश्च पितरं तथा॥१३॥

पितुः पितामहं चैव त्रिषु पिण्डेषु नित्यशः ।
तानि श्राद्धानि दत्तानि कथं गच्छन्ति वै पितॄन्॥१४॥

कथं च शक्तास्ते दातुं नरकस्थाः फलं पुनः ।
के वा ते पितरोऽन्ये स्म कान्यजामो वयं पुनः॥१५॥

पितरो धर्मादीन् प्रयच्छन्तीत्येतदाक्षिपति- कथं चेति। अन्ये नरकादिस्थेभ्यः कान् मानुषान् देवताभूतान् वा वयं पितॄन् यजाम इति प्रश्नः॥१५॥

देवा अपि पितॄन्स्वर्गे यजन्तीति च नः श्रुतम् ।
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते॥१६॥

स भवान्कथयत्वेतां कथाममितबुद्धिमान् ।
यथा दत्तं पितॄणां वै तारणायेह कल्पते॥१७॥

भीष्म उवाच। अत्र ते कीर्तयिष्यामि यथाश्रुतमरिन्दम ।
ये च ते पितरोऽन्ये स्म यान्यजामो वयं पुनः ।
पित्रा मम पुरा गीतं लोकान्तरगतेन वै॥१८॥

प्रत्यक्षमतिक्रम्यापि शास्त्रोक्तमेव श्राद्धकर्म कर्तव्यमित्याख्यायिकामुखेन प्रश्नोत्तरमवतारयति- अत्रेति॥१८॥

श्राद्धकाले मम पितुर्मया पिण्डः समुद्यतः ।
तं पिता मम हस्तेन भित्त्वा भूमिमयाचत॥१९॥

हस्ताभरणपूर्णेन केयूराभरणेन च ।
रक्ताङ्गुलितलेनाथ यहा दॄष्टः पुरा मया॥२०॥

नैष कल्पे विधिर्दृष्ट इति सञ्चिन्त्य चाप्यहम् ।
कुशेष्वेव तपः पिण्डं दत्तवानविचारयन्॥२१॥

कल्पे बौधायनादिसूत्रे॥२१॥

ततः पिता मे सुप्रीतो वाचा मधुरया तदा ।
उवाच भरतश्रेष्ठ प्रीयमाणो मयानघ॥२२॥

त्वया दायादवानस्मि कृतार्थोऽमुत्र चेह च ।
सत्पुत्रेण त्वया पुत्र धर्मज्ञेन विपश्चिता॥२३॥

मया तु तव जिज्ञासा प्रयुक्तैषा दृढव्रत ।
व्यवस्थानं तु धर्मेषु कर्तुं लोकस्य चानघ॥२४॥

व्यवस्थानं निष्ठाम्॥२४॥

यथा चतुर्थं धर्मस्य रक्षिता लभते फलम् ।
पापस्य हि तथा मूढः फलं प्राप्नोत्यरक्षिता॥२५॥

चतुर्थम् अंशं तथा चतुर्थमेवांशम्॥२५॥

प्रमाणं यद्धि कुरुते धर्माचारेषु पार्थिवः ।
प्रजास्तदनुवर्तन्ते प्रमाणाचरितं सदा॥२६॥

प्रमाणाचरितं धर्मे प्रमाणभूतस्य राज्ञ आचरितम्॥२६॥

त्वया च भरतश्रेष्ठ वेदधर्माश्च शाश्वताः ।
कृताः प्रमाणं पॄतिश्च मम निर्वर्तितातुला॥२७॥

तस्मात्तवाहं सुप्रीतः प्रीत्या च वरमुत्तमम् ।
ददामि तं प्रतीच्छ त्वं त्रिषु लोकेषु दुर्लभम्॥२८॥

प्रतीच्छ प्रतिगृहाण॥२८॥

न ते प्रभविता मृतुर्यावज्जीवितुमिच्छसि ।
त्वत्तोऽभ्यनुज्ञां सम्प्राप्य मृत्युः प्रभविता तव॥२९॥

किं वा ते प्रार्थितं भूयो ददामि वरमुत्तमम् ।
तद्ब्रूहि भरतश्रेष्ठ यत्ते मनसि वर्तते॥३०॥

इत्युक्तवन्तं तमहमभिवाद्य कृताञ्जलिः ।
अब्रुवं कृतकृत्योऽहं प्रसन्ने त्वयि सत्तम॥३१॥

यदि त्वनुग्रहं भूयस्त्वत्तोऽर्हामि महाद्युते ।
प्रश्नमिच्छामि वै किञ्चिद्व्याहृतं भवता स्वयम्॥३२॥

व्याहृतम् उक्तम्॥३२॥

स मामुवाच धर्मात्मा ब्रूहि भीष्म यदिच्छसि ।
छेत्तास्मि संशयं सर्वं यन्मां पृच्छसि भारत॥३३॥

अपृच्छं तमहं तातं तत्रान्तर्हितमेव च ।
गतं सुकृतिनां लोकं कौतूहलसमन्वितः॥३४॥

भीष्म उवाच। श्रूयन्ते पितरो देवा देवानामपि देवताः ।
देवाश्च पितरोऽन्ये च कान्यजामो वयं पुनः॥३५॥

श्रूयन्त इति। “कर्मणा पितृलोको विद्यया देवलोकः" इति श्रुतेः। ब्रह्मलोकादर्वाचीनाः लोकाः पितृलोका इत्युच्यन्ते। देवलोकपदेन ब्रह्मलोकः। एवं तदुभयप्रापकौ मार्गौ च पितृयानदेवयानौ। तत्र स्वर्लोकस्थानां देवानां तदूर्ध्वलोकत्रयगताः पितरो देवतात्वेन मान्याः इति गम्यते। देवाः पितरः पितरो देवा इति देवानां पितॄणां चाभेदोऽपि श्रूयते। अन्ये जनकादयो मृतास्तेभ्यो निकृष्टाः पितर इत्युच्यन्त इति त्रेधा संशये वयं कान् यजामहे इति प्रश्नः॥३५॥

कथं च दत्तमस्माभिः श्राद्धं प्रीणात्यथो पितॄन् ।
लोकान्तरगतंस्तात किन्नु श्राद्धस्य वा फलम्॥३६॥

तत्र पित्रादीनां देवताभावं प्राप्य स्वर्गादूर्ध्वस्थाने स्थितान् दत्तं श्राद्धं प्रीणातु लोकान्तरगतांस्तु तान् कथं प्रीणयेदिति पृच्छति- कथमिति॥३६॥

कान्यजन्ति स्म लोका वै सदेवनरदानवाः ।
सयक्षोरगगन्धर्वाः सकिन्नरमहोरगाः॥३७॥

कानिति। यद्यधःस्थाः पितरः कथं तर्हि तान् देवाद्या यजेरन्। यद्युपरिस्थास्तर्हि कथमस्मदादयोऽल्पपुण्यास्तत्र गच्छेरन् ततः पक्षद्वयेऽपि श्राद्धदानं व्यर्थमित्याक्षेपाभिप्रायः॥३७॥

अत्र मे संशयस्तीव्रः कौतूहलमतीव च ।
तद्ब्रूहि मम धर्मज्ञ सर्वज्ञो ह्यसि मे मतः ।
एतच्छ्रुत्वा वचस्तस्य भीष्मस्योवाच वै पिता॥३८॥

शन्तनुरुवाच। संक्षेपेणैव ते वक्ष्ये यन्मां पृच्छसि भारत ।
पितरश्च यथोद्भूताः फलं दत्तस्य चानघ॥३९॥

पितॄणां कारणं श्राद्धे शृणु सर्वं समाहितः ।
आदिदेवसुतास्तात पितरो दिवि देवताः॥४०॥

आदिदेवसुताः ब्रह्मणः पुत्राः॥४०॥

तान्यजन्ति स्म वै लोकाः सदेवासुरमानुषाः ।
सयक्षोरगगन्धर्वाः सकिन्नरमहोरगाः॥४१॥

आप्यायिताश्च ते श्राद्धे पुनराप्याययन्ति च ।
जगत्सदेवगन्धर्वमिति ब्रह्मानुशासनम्॥४२॥

ते देवादिभिस्तर्पिताः सन्तः जगत् भूरादिलोकान् तत्रस्थांश्च देवगन्धर्वमनुष्यादीनाप्याययन्ति योगबलेन तस्माद्यत्र कुत्र स्थितान् पित्रादीन् त एवं श्राद्धीयमन्नादिकं प्रापयन्ति। इष्टं च यजमानाय प्रयच्छन्ति। मुक्तेषु तु पितृषु स्वयं तृप्ताः सन्तो यजमानमेव त्रिवर्गेण तर्पयन्तीत्यर्थः॥४२॥

तान्यजस्व महाभाग श्राद्धैरग्र्यैरतन्द्रितः ।
ते ते श्रेयो विधास्यन्ति सर्वकामफलप्रदाः॥४३॥

अग्र्यैः मुख्यकल्पानुष्ठितैः। अतन्द्रितः अनलसः॥४३॥

त्वया चाराध्यमानास्ते नामगोत्रादिकीर्तनैः ।
अस्मानाप्याययिष्यन्ति स्वर्गस्थानपि भारत॥४४॥

अस्मान् पित्रादीन्॥४४॥

मार्कण्डेयस्तु ते शेषमेतत्सर्वं प्रवक्ष्यति ।
एष वै पितृभक्तश्च विदितात्मा च भारत॥४५॥

उपस्थितश्च श्राद्धेऽद्य ममैवानुग्रहाय वै ।
एनं पृच्छ महाभागमित्युक्त्वान्तरधीयत॥४६॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि श्राद्धकल्पप्रसङ्गो नाम षोडशोऽध्यायः॥१६॥
पितृकल्पप्रसङ्गः

भीष्म उवाच। ततोऽहं तस्य वचनान्मार्कण्डेयं समाहितः ।
प्रश्नं तमेवान्वपृच्छं यन्मे पृष्ठः पुरा पिता॥१॥

उक्तं सप्तदशेऽध्याये पितृत्वं युक्तिसम्भवम्। आदिदेवसुतानां च तत्पुत्राणां परस्परम्॥१॥ ततोऽहं मे मया॥१॥

स मामुवच धर्मात्मा मार्कण्डेयो महातपाः ।
भीष्म वक्ष्यामि कर्त्स्न्येन शृणुष्व प्रयतोऽनघ॥२॥

अहं पितृप्रसादाद्वै दीर्घायुष्ट्वमवाप्तवान् ।
पितृभक्त्यैव लब्धं च प्राग्लोके परमं यशः॥३॥

सोऽहं युगस्य पर्यन्ते बहुवर्षसहस्रिके ।
अधिरुह्य गिरिं मेरुं तपोऽतप्यं सुदुश्चरम्॥४॥

ततः कदाचित्पश्यामि दिवं प्रज्वाल्य तेजसा ।
विमानं महदायान्तमुत्तरेण गिरेस्तदा॥५॥

तस्मिन्विमाने पर्यङ्के ज्वलितादित्यसन्निभम् ।
अपश्यं तत्र चैवाहं शयानं दीप्ततेजसम्॥६॥

अङ्गुष्ठमात्रं पुरुषमग्नावग्निमिवाहितम् ।
सोऽहं तस्मै नमस्कृत्य प्रणम्य शिरसा विभुम्॥७॥

सन्निविष्टं विमानस्थं पाद्यार्घाभ्यामपूजयम् ।
अपृच्छं चैव दुर्धर्षं विद्याम त्वां कथं विभो॥८॥

तपोवीर्यात्समुत्पन्नं नारायणगुणात्मकम् ।
दैवतं ह्यसि देवानमिति मे वर्तते मतिः॥९॥

हे नारायण गुणात्मकं मायामयशरीरं तपोवीर्यात् मत्तपःसामर्थ्यात्समुत्पन्नम् आविर्भूतमपि त्वाम् अहं तत्त्वतः कथं विद्याम् इति अहं तम् अपृच्छमिति योजना। स्वमतमाह- दैवतं हीति॥९॥

स मामुवाच धर्मात्मा स्मयमान इवानघ ।
न ते तपः सुचरितं येन मां नावबुद्ध्यसे॥१०॥

स्मयमानो गर्वित इव। ते त्वया तपः सुचरितं नेति मामाहेति शेषः॥१०॥

क्षणेनैव प्रमाणं स बिभ्रदन्यदनुत्तमम् ।
रूपेण न मया कश्चिद्दृष्टपूर्वः पुमान्क्वचित्॥११॥

क्षणेनेति। पूर्वम् अङ्गुष्ठमात्रोऽपि क्षणात् महापुरुषलक्षणोऽभूदित्यर्थः॥११॥

सनत्कुमार उवाच। विद्धि मां ब्रह्मणः पुत्रं मानसं पूर्वजं विभोः ।
तपोवीर्यसमुत्पन्नं नारायणगुणात्मकम्॥१२॥

नारायणस्य गुणः शुद्धं सत्त्वं तदात्मकम्॥१२॥

सनत्कुमार इति यः श्रुतो देवेषु वै पुरा ।
सोऽस्मि भार्गव भद्रं ते कं कामं करवाणि ते॥१३॥

हे भार्गव भृगुवंशज॥१३॥

ये त्वन्ये ब्रह्मणः पुत्राः यवीयांसस्तु ते मम ।
भ्रातरः सप्त दुर्धर्षास्तेषां वंशाः प्रतिष्ठिताः॥१४॥

यवीयांसः कनिष्ठाः॥१४॥

क्रतुर्वसिष्ठः पुलहः पुलस्त्योऽत्रिस्तथाङ्गिराः ।
मरीचिस्तु तथा धीमान्देवगन्धर्वसेविताः ।
त्रीँल्लोकान्धारयन्तीमान्देवगन्धर्वपूजिताः॥१५॥

वयं तु यतिधर्माणः संयोज्यात्मानमात्मनि ।
प्रजा धर्मं च कामं च व्यपहाय महामुने॥१६॥

वयं त्विति बहुवचनं सनकादीनन्तर्भाव्य॥१६॥

यथोत्पन्नस्तथैवाहं कुमार इति विद्धि माम् ।
तस्मात्सनत्कुमारेति नामैतन्मे प्रतिष्ठितम्॥१७॥

सनत् निरन्तरं कुमार इव रागद्वेषादिशून्य इति सनत्कुमारपदस्य निर्वचनमाह- यथेति॥१७॥

मद्भक्त्या ते तपश्चीर्णं मम दर्शनकाङ्क्षया ।
एष दृष्टोऽस्मि भवता कं कामं करवाणि ते॥१८॥

इत्युक्तवन्तं तमहं प्रत्यवोचं सनातनम् ।
अनुज्ञातो भगवता प्रीयमाणेन भारत॥१९॥

ततोऽहमेनमर्थं वै तमपृच्छं सनातनम् ।
पृष्टः पितॄणां सर्गं च फलं श्राद्धस्य चानघ॥२०॥

चिच्छेद संशयं भीष्म स तु देवेश्वरो मम ।
स मामुवाच धर्मात्मा कथान्ते बहुवार्षिके ।
रमे त्वयाऽहं विप्रर्षे शृणु सर्वं यथातथम्॥२१॥

बहुवार्षिके कथान्ते चिरारब्धायाः कथाया अन्ते मामुवाच। रमे अहं त्वया तुष्यामि प्रश्नेन सन्तुष्टोऽस्मि॥२१॥

देवानसृजत ब्रह्मा मां यक्ष्यन्तीति भार्गव ।
तमुत्सृज्य तथात्मानमयजंस्ते फलार्थिनः॥२२॥

देवानिति। ते स्वपितरम् उत्सृज्य फलार्थिन इन्द्रियप्रीणनाख्यदृष्टफलार्थिनः॥२२॥

ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा दिवौकसः ।
न स्म किञ्चिद्विजानन्ति ततो लोकोऽप्यमुह्यत॥२३॥

ततो लोकोऽपि तदनुसारी अमुह्यत॥२३॥

ते भूयः प्रणताः शप्ताः प्रायाचन्त पितामहम् ।
अनुग्रहाय लोकानां ततस्तानब्रवीदिदम्॥२४॥

प्रायश्चित्तं चरध्वं वै व्यभिचारो हि वः कृतः ।
पुत्रांश्च परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ॥२५॥

व्यभिचारः पूज्यपूजातिक्रमः आत्मपूजा च वः युष्माभिः यथैतैरहमवज्ञात एवम् एतत्पुत्रा अप्येतानशिष्यत्वेनावजानन्त्वित्याशयेनाह- पुत्रानिति॥२५॥

प्रायश्चित्तक्रियार्थं ते पुत्रान्पप्रच्छुरार्तवत् ।
तेभ्यस्ते प्रयतात्मानः शशंसुस्तनयास्तदा॥२६॥

आर्तवत् नीचत्वापादनात् पीडिता इव। प्रयतात्मानः निगृहीतचित्ताः। ध्यानेनालोच्य प्रायश्चित्तानि शशंसुरित्यर्थः॥२६॥

प्रायश्चित्तानि धर्मज्ञा वाङ्मनःकर्मजानि वै ।
शंसन्ति कुशला नित्यं चक्षुर्भ्यामपि नित्यशः॥२७॥

तानि च वाङ्मनःकर्मजानि स्तोत्रेण भक्तिश्रद्धापुरस्कृतेन ध्यानेन नमस्कारादिक्रियया च जातानीत्यर्थः॥२७॥

प्रायश्चित्तार्थतत्त्वज्ञा लब्धसंज्ञा दिवौकसः ।
गम्यन्तां पुत्रकाश्चेति पुत्रैरुक्ताश्च ते तदा॥२८॥

प्राय इति। भोः पुत्रकाः यूयं लब्धसंज्ञाः प्राप्तज्ञानाः भवत इति शेषः। कुतः लब्धसंज्ञाः यतः प्रायश्चित्तस्य अर्थतत्त्वं प्रयोजनयाथात्म्यं तदभिज्ञाः। तच्च येभ्यो जन्म विद्या च लभ्येत ते वाङ्मनःकर्मभिर्यष्टव्या इति॥२८॥

अभिशप्तास्तु ते देवाः पुत्रवाक्येन निन्दिताः ।
पितामहमुपागच्छन्संशयच्छेदनाय वै॥२९॥

गम्यतामित्युक्तास्ते पितामहमुपागच्छन्निति सम्बन्धः। अभिशप्ताः पुत्रका इति वदद्भिः पुत्रैः पराभूताः संशयस्तु कथमस्मत्पुत्राः सन्तोऽस्मान् पुत्रा इति सम्बोधयन्तीति एतद्युक्तमयुक्तं वेत्येवंरूपस्तस्य छेदनाय॥२९॥

ततस्तानब्रवीद्देवो यूयं वै ब्रह्मवादिनः ।
तस्माद्यदुक्तं युष्माकं तत्तथा न तदन्यथा॥३०॥

ब्रह्मवादिनः यस्तानि विजानात्स पितुः पिता सदिति मन्त्रार्थज्ञाः भवन्तः अतो यत्तैरुक्तं तत्तथैव न तत्र संशयः कार्यः। यः पुमान् तानि श्रुतिगुह्यानि विजानात् विजानीयात् स पितुः पिता सन् दीप्यत इति मन्त्रपदानामर्थः॥३०॥

यूयं शरीरकर्तारस्तेषां देवा भविष्यथ ।
ते तु ज्ञानप्रदातारः पितरो वो न संशयः॥३१॥

यूयमिति। श्लोकत्रयेण देवाः पितरः पितरो देवाः इति मन्त्रपादार्थमुपबृंहयति॥३१॥

अन्योन्यं पितरो यूयं ते चैवेति न संशयः ।
देवाश्च पितरश्चैव तद्बुध्यध्वं दिवौकसः॥३२॥

ततस्ते पुनरागम्य पुत्रानूचुर्दिवौकसः ।
ब्रह्मणा च्छिन्नसन्देहाः प्रीतिमन्तः परस्परम्॥३३॥

यूयं वै पितरोऽस्माकं यैर्वयं प्रतिबोधिताः ।
धर्मज्ञाः कश्च वः कामः को वरो वः प्रदीयताम्॥३४॥

यदुक्तं चैव युष्माभिस्तत्तथा न तदन्यथा ।
उक्ताश्च यस्माद्युष्माभिः पुत्रका इति वै वयम् ।
तस्माद्भवन्तः पितरो भविष्यन्ति न संशयः॥३५॥

योऽनिष्ट्वा तु पितॄञ्छ्राद्धैः क्रियाः काश्चित्करिष्यति ।
राक्षसा दानवा नागाः फलं प्राप्स्यन्ति तस्य तत्॥३६॥

श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम् ।
आप्याय्यमाना युष्माभिर्वर्धयिष्यति नित्यदा॥३७॥

श्राद्धैरिति। पितरो लौकिकाः। युष्माभिर्दिव्यैः पितृभिराप्याय्यमानाः स्वयं च आप्यायिताः सन्तः स्वाधिदेवताः सोमं वर्द्धयन्ति तर्पयन्ति। छान्दोग्ये तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयमिति प्राणाग्निहोत्रे आध्यात्मिकदेवतातृप्त्या आधिदैविकदेवतातृप्तेर्दर्शनात्॥३७॥

श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति ।
समुद्रपर्वतवनं जङ्गमाजङ्गमैर्वृतम्॥३८॥

श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः ।
तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा॥३९॥

श्राद्धे ये च प्रदास्यन्ति त्रीन्पिण्डान्नामगोत्रतः ।
सर्वत्र वर्तमानांस्तान्पितरः सपितामहान् ।
भावयिष्यन्ति सततं श्राद्धदानेन तर्पिताः॥४०॥

भावयिष्यन्ति वर्द्धयिष्यन्ति॥४०॥

एवमाज्ञापितं पूर्वं ब्रह्मणा परमेष्ठिना ।
इति तद्वचनं सत्यं भवत्वद्य दिवौकसः ।
पुत्राश्च पितरश्चैव वयं सर्वे परस्परम्॥४१॥

सनत्कुमार उवाच। त एते पितरो देवा देवाश्च पितरस्तथा ।
अन्योन्यं पितरो ह्येते देवाश्च पिरतश्च ह॥४२॥

॥इति श्रीमहाभातरे खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे सप्तदशोऽध्यायः॥१७॥
पितृकल्पवर्णनम्

मार्कण्डेय उवाच। इत्युक्तोऽहं भगवता देवदेवेन भास्वता ।
सनत्कुमारेण पुनः पृष्टवान्देवमव्ययम्॥१॥

सप्तानां पितृमुख्यानां नामस्थानविभेदतः। वर्णनं क्रियतेऽध्यायेऽष्टादशे संशयापहम्॥१॥ एवं पितॄणामुत्पत्तिमुक्त्वा तेषां गणभेदानाह- इत्युक्त इत्यध्यायेन। देवं तमेव सनत्कुमारम्॥१॥

सन्देहममरश्रेष्ठं भगवन्तमरिन्दमम् ।
निबोध तन्मे गाङ्गेय निखिलं सर्वमादितः॥२॥

कियन्तो वै पितृगणाः कस्मिँल्लोके प्रतिष्ठिताः ।
वर्तन्ते देवप्रवरा देवानां सोमवर्द्धनाः॥३॥

सोमवर्द्धनाः श्राद्धद्वारा॥३॥

सनत्कुमार उवाच। सप्तैते यजतां श्रेष्ठ स्वर्गे पितृगणाः स्मॄताः ।
चत्वारो मूर्तिमन्तश्च त्रयस्तेषाममूर्तयः॥४॥

चत्वारो गणाः सुकालाः आङ्गिरसः सुस्वधाः सोमपाश्चेत्येते मूर्तिमन्तः कर्मजदिव्यविग्रहवन्तः। त्रयः वैराजाः अभिष्वात्ता बर्हिषदश्चेति। एते अमूर्ताः कामरूपा आकाशादपि महान्तः परमाणूदरेऽपि प्रविशन्तीति तादृशसामर्थ्यवन्तः॥४॥

तेषां लोकं विसर्गं च कीर्तयिष्यामि तच्छृणु ।
प्रभावं च महत्त्वं च विस्तरेण तपोधन॥५॥

धर्ममूर्तिधरास्तेषां त्रयो ये परमा गणाः ।
तेषां नामानि लोकाश्च कथयिष्यामि तच्छृणु॥६॥

अभ्यर्हितत्वात् प्रथमं त्रीन् गणानाह- धर्मेति॥६॥

लोकाः सनातना नाम यत्र तिष्ठन्ति भास्वराः ।
अमूर्तयः पितृगणास्ते वै पुत्राः प्रजापतेः॥७॥

यत्र येषु लोकेषु लोकाः विषयाः सनातनाः नित्याविर्भूताः यत्रातीतमनागतं व्यवहितं विप्रकृष्टं च सर्वं वर्तमानं सन्निहितमेवेत्यर्थः। भास्वराश्चिन्मात्रशरीरा अभौतिकाः। विराजस्य प्रजापतेर्मानसाः पुत्राः मनोमात्रशरीराः॥७॥

विराजस्य द्विजश्रेष्ठ वैराजा इति विश्रुताः ।
यजन्ति तान्देवगणाः विधिदृष्टेन कर्मणा॥८॥

एते वै योगविभ्रष्टा लोकान्प्राप्य सनातनान् ।
पुनर्युगसहस्रान्ते जायन्ते ब्रह्मवादिनः॥९॥

एत इति। ये योगभ्रष्टाः निर्गुणं ब्रह्म अप्राप्य सगुणमात्रशरणा अपि परवैराग्याभावात् सनातनान् प्रजापतिलोकान् प्राप्यापि प्रजापतिना सह कल्पान्ते मुक्तिमलब्ध्वा पुनः कल्पान्तरे सनकादिरूपेण ब्रह्मवादिरूपेण ब्रह्मवादिनो भूत्वा प्रजापतित एवं जायन्ते॥९॥

ते तु प्राप्य स्मृतिं भूयः साङ्ख्यं योगमनुत्तमम् ।
यान्ति योगगतिं सिद्धाः पुनरावृत्तिदुर्लभाम्॥१०॥

तदनन्तरं मुच्यन्त इत्याह- ते त्विति॥१०॥

एते स्युः पितरस्तात योगिनां योगवर्धनाः ।
आप्याययन्ति ये पूर्वं सोमं योगबलेन च॥११॥

तस्माच्छ्राद्धानि देयानि योगिनां तु विशेषतः ।
एष वै प्रथमः सर्गः सोमपानां महात्मनाम्॥१२॥

सोमपानां सोमं पाययन्ति वर्द्धयन्ति ते सोमपास्तेषां श्राद्धानि ददत्तत्सालोक्यं प्राप्य तद्वदेव मुक्तिं प्राप्नोतीत्यर्थः॥१२॥

एतेषां मानसी कन्या मेना नाम महागिरेः ।
पत्नी हिमवतः श्रेष्ठा यस्या मैनाक उच्यते॥१३॥

एवं स्त्रियोऽपि अधिकारे सति श्राद्धं ददत्यः पितृकन्यावदुत्तरोत्तरम् उत्तमं स्थानं प्राप्य क्रमेण मुच्यन्त इत्याशयेन सर्वेषां पितृगणानां प्रत्येकं कन्यासन्ततिमाह- एतेषामिति॥१३॥

मैनाकस्य सुतः श्रीमान्क्रौञ्चो नाम महागिरिः ।
पर्वतप्रवरः पुत्रो नानारत्नसमन्वितः॥१४॥

तिस्रः कन्यास्तु मेनायां जनयामास शैलराट् ।
अपर्णामेकपर्णां च त्रितीयामेकपाटलाम्॥१५॥

तपश्चरन्त्यः सुमहद्दुश्चरं देवदानवैः ।
लोकान्सन्तापयामासुस्तास्तिस्रः स्थाणुजङ्गमान्॥१६॥

आहारमेकपर्णेन एकपर्णा समाचरत् ।
पाटलापुष्पमेकं च आदधावेकपाटला॥१७॥

पाटलायाः पुष्पम् एकमेवादधौ स्वीकृतवती॥१७॥

एका तत्र निराहारा तां माता प्रत्यषेधयत् ।
उ मा इति निषेधन्ती मातृस्नेहेन दुःखिता॥१८॥

उ इति सम्बुद्ध्यर्थे॥१८॥

स तथोक्ता तया मात्रा देवी दुश्चरचारिणी ।
उमेत्येवाभवत्ख्याता त्रिषु लोकेषु सुन्दरी॥१९॥

तथैव नाम्ना तेनेह विश्रुता योगधर्मिणी ।
एतत्तु त्रिकुमारीकं जगत्स्थास्यति भार्गव॥२०॥

तिस्रः कुमार्यो यस्मिन् तत्त्रिकुमारीकम्॥२०॥

तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः ।
सर्वाश्च ब्रह्मवादिन्यः सर्वाश्चैवोर्ध्वरेतसः॥२१॥

यथा सनत्कुमारादय ऊर्ध्वरेतस एवम् एता अपीत्यर्थः॥२१॥

उमा तासां वरिष्ठा च ज्येष्ठा च वरवर्णिनी ।
महायोगबलोपेता महादेवमुपस्थिता॥२२॥

पुंसामिव स्त्रीणामूर्ध्वरेतसामपि शाश्वतो लोको नास्तीति तासां पतिवरणेन दर्शयति- उमेत्यादिना॥२२॥

असितस्यैकपर्णा तु देवलस्य महात्मनः ।
पत्नी दत्ता महाब्रह्मन्योगाचार्याय धीमते॥२३॥

जैगीषव्याय तु तथा विद्धि तामेकपातलाम् ।
एते चापि महाभागे योगाचार्यावुपस्थिते॥२४॥

लोकाः सोमपदा नाम मरीचेर्यत्र वै सुताः ।
पितरो यत्र वर्तन्ते देवास्तान्भावयन्त्युत॥२५॥

द्वितीयमग्निष्वात्ताख्यं गणमाह- लोका इति। सोमपदाः सोमयाजिप्राप्याः मरीचेः प्रजापतिपुत्रस्य लोकाः॥२५॥

अग्निष्वात्ता इति ख्याताः सर्व एवामितौजसः ।
एतेषां मानसी कन्या अच्छोदा नाम निम्नगा॥२६॥

अग्निषु अग्निसाध्येषु कर्मसु आत्ताः गृहीताः पित्र्यादिष्विष्टिषु॥२६॥

अच्छोदं नाम विख्यातं सरो यस्याः समुत्थितम् ।
तया न दृष्टपूर्वास्ते पितरस्तु कदाचन॥२७॥

अप्यमूर्तानथ पितॄन्सा ददर्श शुचिस्मिता ।
सम्भूता मनसा तेषां पितॄन्स्वान्नाभिजानती॥२८॥

अमूर्त्तानपि पितॄन् दिव्यदृष्ट्या ददर्श दृष्ट्वाऽपि एते मम पितर इति न ज्ञातवती॥२८॥

व्रीडिता तेन दुःखेन बभूव वरवर्णिनी ।
सा दृष्ट्वा पितरं वव्रे वसुं नामान्तरिक्षगम्॥२९॥

व्रीडिता तेषां विशेषतः स्वरूपाज्ञानात्॥२९॥

अमावसुरिति ख्यातमायोः पुत्रं यशस्विनम् ।
अद्रिकाऽप्सरसायुक्तं विमानेऽधिष्ठितं दिवि॥३०॥

सा तेन व्यभिचारेण मनसः कामरूपिणी ।
पितरं प्रार्थयित्वान्यं योगभ्रष्टा पपात ह॥३१॥

व्यभिचारेण स्वपित्रतिक्रमेण॥३१॥

त्रीण्यपश्यद्विमानानि पतमाना दिवश्च्युता ।
त्रसरेणुप्रमाणानि साऽपश्यत्तेषू तान्पितॄन्॥३२॥

सुसूक्ष्मानपरिव्यक्तानग्नीनग्नीष्विवाहितान् ।
त्रायध्वमित्युवाचार्ता पतन्ती तानवाक्शिराः॥३३॥

सुसूक्ष्मान् त्रसरेणुप्रमाणानामपि विमानानामेकदेशे स्थितत्वात् अत एव अपरिव्यक्तानग्नीन् निर्मथ्यान्। अग्निषु आहवनीयेषु आहितान् चातुर्मास्येषु सोमे आतिथ्येष्टौ च॥३३॥

तैरुक्ता सा तु मा भैषीरिति व्योम्नि व्यवस्थिता ।
ततः प्रसादयामास तान्पितॄन्दीनया गिरा॥३४॥

ऊचुस्ते पितरः कन्यां भ्रष्टैश्वर्यां व्यतिक्रमात् ।
भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते॥३५॥

यैः क्रियन्ते हि कर्माणि शरीरैर्दिवि देवतैः ।
तैरेव तत्कर्मफलं प्राप्नुवन्तीह देवताः॥३६॥

सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ।
तस्मात्त्वं तपसः पुत्रि प्रेत्येदं प्राप्स्यसे फलम्॥३७॥

सद्यः सङ्कल्पमात्रात् कर्माणि योगजधर्माः। देवत्वे तैजसदेहप्राप्तौ सत्याम्। मानुषे तु कर्मान्तरं प्रेत्य मृत्वा कर्माणि फलन्ति॥३७॥

इत्युक्ता पितृभिः सा तु पितॄन्प्रासादयत्स्वकान् ।
ध्यात्वा प्रसादं ते चक्रुस्तस्याः सर्वेऽनुकम्पया॥३८॥

अवश्यं भाविनं ज्ञात्वा तेऽर्थमूचुस्ततस्तु ताम् ।
अस्य राज्ञो वसोः कन्या त्वमपत्यं भविष्यसि॥३९॥

उत्पन्नस्य पृथिव्यां तु मानुषेषु महात्मनः ।
कन्या च भूत्वा लोकान्स्वान्पुनः प्राप्स्यसि दुर्लभान्॥४०॥

पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि ।
स वेदमेकं ब्रह्मर्षीश्चतुर्धा विभजिष्यति॥४१॥

महाभिषस्य पुत्रौ द्वौ शन्तनोः कीर्तिवर्धनौ ।
विचित्रवीर्यं धर्मज्ञं तथा चित्राङ्गदं शुभम्॥४२॥

महाभिषस्य प्राग्जन्मनि तस्य वै शन्तनुरूपेणावतीर्णस्य॥४२॥

एतानुत्पाद्य पुत्रांस्त्वं पुनर्लोकानवाप्स्यसि ।
व्यतिक्रमात्पितॄणां च जन्म प्राप्स्यसि कुत्सितम्॥४३॥

इयं कथा आदिपर्वणि अनुसन्धेया॥४३॥

अस्यैव राज्ञः कन्या त्वमद्रिकायां भविष्यसि ।
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा॥४४॥

एवमुक्त्वा तु दाशेयी जाता सत्यवती तदा ।
मत्स्ययोनौ समुत्पन्ना राज्ञस्तस्य वसोः सुता॥४५॥

वैभ्राजा नाम ते लोका दिवि सन्ति सुदर्शनाः ।
यत्र बर्हिषदो नाम पितरो दिवि विश्रुताः॥४६॥

तृतीयं गणमाह- वैभ्राजा इति। विभ्राजः सूर्यस्येमे वैभ्राजाः बर्हिषद इति केवलम् इष्टियायजूकप्राप्याः॥४६॥

तान्वै देवगणाः सर्वे यक्षगन्धर्वराक्षसाः ।
नागाः सर्पाः सुपर्णाश्च भावयन्त्यमितौजसः॥४७॥

एते पुत्रा महात्मानः पुलस्त्यस्य प्रजापतेः ।
महात्मानो महाभागास्तेजोयुक्तास्तपस्विनः॥४८॥

एतेषां मानसी कन्या पीवरी नाम विश्रुता ।
योगा च योगिपत्नी च योगिमाता तथैव च॥४९॥

पीवर्या एव विशेषणानि- योगा चेत्यादीनि। योगा स्वयं योगिनी योगिनः पत्नी या नो माता चेति॥४९॥

भवित्री द्वापरं प्राप्य युगं धर्मभृतां वरा ।
पराशरकुलोद्भूतः शुको नाम महातपाः॥५०॥

भविष्यति युगे तस्मिन्महायोगी द्विजर्षभः ।
व्यासादरण्यां सम्भूतो विधूमोऽग्निरिव ज्वलन्॥५१॥

स तस्यां पितृकन्यायां पीवर्यां जनयिष्यति ।
कन्यां पुत्रांश्च चतुरो योगाचार्यान्महाबलान्॥५२॥

कृष्णं गौरं प्रभुं शम्भुं कृत्वीं कन्यां तथैव च ।
ब्रह्मदत्तस्य जननीं महिषीं त्वणुहस्य च॥५३॥

एतानुत्पाद्य धर्मात्मा योगाचार्यान्महाव्रतान् ।
श्रुत्वा स्वजनकाद्धर्मान्व्यासादमितबुद्धिमान्॥५४॥

महायोगी ततो गन्ता पुनरावर्तिनीं गतिम् ।
यत्तत्पदमनुद्विग्नमव्ययं ब्रह्म शाश्वतम्॥५५॥

अमूर्तिमन्तः पितरो धर्ममूर्तिधरा मुने ।
कथा यत्रेयमुत्पन्ना वृष्ण्यन्धककुलान्वया॥५६॥

अमूर्तिमन्त इत्यादिना॥५६॥

सुकाला नाम पितरो वसिष्ठस्य प्रजापतेः ।
निरता दिवि लोकेषु ज्योतिर्भासिषु भासुराः ।
सर्वकामसमृद्धेषु द्विजास्तान्भावयन्त्युत॥५७॥

देवपूज्यांस्त्रीन् गणान् व्याख्याय मनुष्यपूज्येषु मूर्तेषु चतुर्षु गणेषु प्रथममाह- सुकाला इति। द्विजाः ब्राह्मणाः भावयन्ति तर्पयन्ति॥५७॥

तेषां वै मानसी कन्या गौर्नाम्ना दिवि विश्रुता ।
तवैव वंशे या दत्ता शुकस्य महिषी प्रिया ।
एकशृङ्गेति विख्याता साध्यानां कीर्तिवर्धिनी॥५८॥

तवैव वंश इति मार्कण्डेयस्य भीष्मं प्रति वचनम्। शुकस्येयम् अपरा भार्या॥५८॥

मरीचिगर्भांस्ताँल्लोकान्समाश्रित्य व्यवस्थिताः ।
ये त्वथाङ्गिरसः पुत्राः साध्यैः संवर्धिताः पुरा॥५९॥

द्वितीयमाह- मरीचिगर्भान् सूर्यरश्मिप्रकाश्यान्॥५९॥

तान्क्षत्रियगणांस्तात भावयन्ति फलार्थिनः ।
तेषां तु मानसी कन्या यशोदा नाम विश्रुता॥६०॥

पत्नी सा विश्वमहतः स्नुषा वै वृद्धशर्मणः ।
राजर्षेर्जननी चापि दिलीपस्य महात्मनः॥६१॥

तस्य यज्ञे पुरा गीता गाथाः प्रीतैर्महर्षिभिः ।
तदा देवयुगे तात वाजिमेधे महामखे॥६२॥

अग्नेर्जन्म तथा श्रुत्वा शाण्डिल्यस्य महात्मनः ।
दिलीपं यजमानं ये पश्यन्ति सुसमाहिताः ।
सत्यवन्तं महात्मानं तेऽपि स्वर्गजितो नराः॥६३॥

शाण्डिल्यस्य शाण्डिल्यगोत्रोत्पन्नस्य॥६३॥

सुस्वधा नाम पितरः कर्दमस्य प्रजापतेः ।
समुत्पन्नास्तु पुलहान्महात्मानो द्विजर्षभाः॥६४॥

तृतीयं गणमाह– सुस्वधा इति। कर्दमस्य पितरः पुलहात्समुत्पन्नाः॥६४॥

लोकेषु दिवि वर्तन्ते कामगेषु विहङ्गमाः ।
तांश्च वैश्यगणांस्तात भावयन्ति फलार्थिनः॥६५॥

दिवि आकाशे॥६५॥

तेषां वै मानसी कन्या विरजा नाम विश्रुता ।
ययातेर्जननी ब्रह्मन्महिषी नहुषस्य च॥६६॥

त्रय एते गणाः प्रोक्ताश्चतुर्थं तु निबोध मे ।
उत्पन्ना ये स्वधायां ते सोमपा वै कवेः सुताः॥६७॥

कवेर्दुहितरि स्वधायां हिरण्यगर्भस्याग्नेः सुताः॥६७॥

हिरण्यगर्भस्य सुताः शूद्रास्तान्भावयन्त्युत ।
मानसा नाम ते लोका यत्र तिष्ठन्ति ते दिवि ।
तेषां वै मानसी कन्या नर्मदा सरितां वरा॥६८॥

या भावयति भूतानि दक्षिणापथगामिनी ।
पुरुकुत्सस्य या पत्नी त्रसद्दस्योर्जनन्यपि॥६९॥

भावयति पुनाति॥६९॥

तेषामथाभ्युपगमान्मनुस्तात युगे युगे ।
प्रवर्तयति श्राद्धानि नष्टे धर्मे प्रजापतिः॥७०॥

तेषां पितॄणाम् अभ्युपगमात्पूज्यत्वेनाङ्गीकारात्॥७०॥

पितॄणामादिसर्गेण सर्वेषां द्विजसत्तम ।
तस्मादेनं स्वधर्मेण श्राद्धदेवं वदन्ति वै॥७१॥

अत्रैव हेतुमाह- पितॄणामिति। सर्वेषां सप्तानामपि गणानाम्। आदिसर्गेण प्रथममुत्पन्नत्वेनेत्यर्थः। तस्मात् एवं यमं ते श्राद्धदेवं वदन्ति। अयं भावः- “यमः पितॄणामधिपतिः” इति श्रुतेः। स्वधर्मेण यमपितृत्वरूपेणं हेतुना सर्वश्राद्धदेवताधिपतित्वादयमेव श्राद्धदेव इति। एनमिति बुद्धौ सन्निहितस्यान्वादेशेन निर्देशः। यतोऽयं पितॄणामादिसर्गस्तस्मादेनं यमं श्राद्धदेवमिति वदन्ति वेदा उदाहृता इति॥७१॥

सर्वेषां राजतं पात्रमथ वा रजतान्वितम् ।
दत्तं स्वधां पुरोधाय श्राद्धं प्रीणाति वै पितॄन्॥७२॥

स्वधां पुरोधाय स्वधाशब्दं पूर्वं कृत्वा स्वधा पितृभ्य इत्येवं मन्त्रेणेत्यर्थः॥७२॥

सोमस्याप्यायनं कृत्वा अग्नेर्वैवस्वतस्य च ।
उदगायनमप्यग्नावग्न्यभावेऽप्सु वा पुनः॥७३॥

सोमस्येति। अग्नौ सोमस्य अग्नेर्वैवस्वतस्य यमस्य आप्यायनं कृत्वा “सोमाय पितृमते स्वधा नमोऽग्नये कव्यवाहनाय स्वधा नमो यमायाङ्गिरसे स्वधा नमः" इति स्वधां पुरोधाय तिस्त्र आहुतीर्हुत्वेत्यर्थः। हुत्वा पितॄन् प्रीणातीत्यग्रिमेणान्वयः। वैवस्वतस्य चेति चकारः तृतीयाहुतेर्विकल्पार्थः। अत एवाश्वलायनानां सा नास्त्येव। अपि शब्दो वाऽर्थे। उद्गायनमप्यत्र कर्तव्यं स्वधामन्त्रेण होमे दक्षिणापवर्गा आहुतीर्दद्यात्। स्वाहामन्त्रेण होमे तु उदगपवर्गे अप्याहुती भवतः। यदाहाश्वलायनः– “सोमाय पितृमते स्वधा नमोऽग्नये कव्यवाहनाय स्वधा नमः” इति स्वाहाकारेणाग्निं पूर्वमिति उदगायनपदादेवात्र स्वाहान्तपक्षोऽपि सूचितः। दैर्घ्यम् आर्षम्। अकारप्रश्लेषजं वा। अग्न्यभावेऽप्सु इति छेदः। एतच्च तीर्थे एव ज्ञेयम्। वा पुनः पुनरत्र पक्षान्तरमस्तीत्यर्थः “अग्निमुखा वै देवाः पाणिमुखाः पितरः” इति ब्राह्मणात् ब्राह्मणपाणावपि होतव्यमिति ज्ञेयम्॥७३॥

पितॄन्प्रीणाति यो भक्त्या पितरः प्रीणयन्ति तम् ।
यच्छन्ति पितरः पुष्टिं प्रजाश्च विपुलास्तथा॥७४॥

स्वर्गमारोग्यमेवाथ यदन्यदपि चेप्सितम् ।
देवकार्यादपि मुने पितृकार्यं विशिष्यते॥७५॥

देवतानां हि पितरः पूर्वमाप्यायनं स्मृतम् ।
शीघ्रप्रसादा ह्यक्रोधा लोकस्याप्यायनं परम्॥७६॥

देवतानामपेक्षया पितरः पूर्वम् आप्यायनेन प्रीतिकरा इत्यर्थः। शीघ्रेति। देवाश्चिरप्रसादा इति दुराराध्या इति भावः॥७६॥

स्थिरप्रसादाश्च सदा तान्नमस्यस्व भार्गव ।
पितृभक्तोऽसि विप्रर्षे मद्भक्तश्च विशेषतः॥७७॥

भार्गवेति मार्कण्डेयं सम्बोधयति सनत्कुमारः॥७७॥

श्रेयस्तेऽद्य विधास्यामि प्रत्यक्षं कुरु तत्स्वयम् ।
दिव्यं चक्षुः सविज्ञानं प्रदिशामि च तेऽनघ॥७८॥

सविज्ञानम् आनुभविकज्ञानोपेतम्॥७८॥

गतिमेतामप्रमत्तो मार्कण्डेय निशामय ।
न हि योगगतिर्दिव्या पितॄणां च परा गतिः॥७९॥

एतां श्राद्धफलरूपां निशामय पश्य। मांसचक्षुषा न हि दृश्यत इति सम्बन्धः॥७९॥

त्वद्विधेनापि सिद्धेन दृश्यते मांसचक्षुषा ।
स एवमुक्त्वा देवेशो मामुपस्थितमग्रतः॥८०॥

एवमुक्त्वा चक्षुर्दत्वा जगामेति द्वयोः सम्बन्धः॥८०॥

चक्षुर्दत्त्वा सविज्ञानं देवानामपि दुर्लभम् ।
जगाम गतिमिष्टां वै द्वितीयोऽग्निरिव ज्वलन्॥८१॥

तन्निबोध कुरुश्रेष्ठ यन्मयासीन्निशामितम् ।
प्रसादात्तस्य देवस्य दुर्ज्ञेयं भुवि मानुषैः॥८२॥

निशामितं चक्षुर्दानात्प्राक्। तन्मुखेन श्रुतं तत् निबोध बुध्यस्व॥८२॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे अष्टादशोऽध्यायः॥१८॥
पितृकल्पः

मार्कण्डेय उवाच आसन्पूर्वयुगे तात भरद्वाजात्मजा द्विजाः ।
योगधर्ममनुप्राप्य भ्रष्टा दुश्चरितेन वै॥१॥

दिव्यं ज्ञानं समासाद्य मार्कण्डेयोऽनुभूतवान्। यत्तदेकोनविंशेऽत्र वर्ण्यतेऽन्तर्दृशा सता॥१॥ अत्र इत्युक्त्वा भगवान्देव इत्युपसंहारात्सनत्कुमारवाक्यमेव मार्कण्डेय उवाच- आसन्नित्यादि। दुश्चरितेन योगविरोधिना कर्मणा॥१॥

अपभ्रंशमनुप्राप्ता योगधर्मापचारिणः ।
महतः सरसः पारे मानसस्य विसंज्ञिताः॥२॥

सरसः पारे अपभ्रंशम् अनुप्राप्ताः पतिताः॥२॥

तमेवार्थमनुध्यातो नष्टमप्स्विव मोहिताः ।
अप्राप्य योगं ते सर्वे संयुक्ताः कालधर्मणा॥३॥

अनुध्यातः अनुध्यायन्तः। योगं योगसिद्धिम्। कालधर्मणा मृत्युना॥३॥

ततस्ते योगविभ्रष्टा देवेषु सुचिरोषिताः ।
जाताः कौषिकदायादाः कुरुक्षेत्रे नरर्षभाः॥४॥

तत इति। योगभ्रष्टाः देवलोकमेव गच्छन्ति न त्वन्यां गतिमिति भावः॥४॥

हिंसया विहरिष्यन्तो धर्मं पितृकृतेन वै ।
ततस्ते पुनराजातिं भ्रष्टाः प्राप्स्यन्ति कुत्सिताम्॥५॥

हिंसयेति। पितृकृते पित्रर्थं धर्मम् उद्दिश्य हिंसया विहरिष्यन्त इति श्राद्धव्यपदेशेन ब्राह्मणा अपि हिंसावृत्त्या जीवन्त इत्यर्थः। तत एव पापान्ते कुत्सिताम् आजातिं जन्म प्राप्स्यन्ति॥५॥

तेषां पितृप्रसादेन पूर्वजातिकृतेन वै ।
स्मृतिरुत्पत्स्यते प्राप्य तां तां जातिं जुगुप्सिताम्॥६॥

तेषामिति। पित्राराधनप्रभावात्ते नीचजातयोऽपि जातिस्मरा अभूवन्नित्यर्थः॥६॥

ते धर्मचारिणो नित्यं भविष्यन्ति समाहिताः ।
ब्राह्मण्यं प्रतिलप्स्यन्ति ततो भूयः स्वकर्मणा॥७॥

जातिस्मरत्वादेव धर्मपरा अपि जाताः। ब्राह्मण्यं च जन्मान्तरे लब्धवन्त इत्याह- तत इति॥७॥

ततश्च योगं प्राप्स्यन्ति पूर्वजातिकृतं पुनः ।
भूयः सिद्धिमनुप्राप्ताः स्थानं प्राप्स्यन्ति शाश्वतम्॥८॥

एवं धर्मे च ते बुद्धिर्भविष्यति पुनः पुनः ।
योगधर्मे च नितरां प्राप्स्यसे बुद्धिमुत्तमाम्॥९॥

ते तव मार्कण्डेयस्य॥९॥

योगो हि दुर्लभो नित्यमल्पप्रज्ञैः कदाचन ।
लब्ध्वापि नाशयन्त्येनं व्यसनैः कटुतामिताः ।
अधर्मेष्वेव वर्तन्ते प्रार्दयन्ते गुरूनपि॥१०॥

योगो योगसिद्धिः। व्यसनैर्मृगयादिभिः। कटुतां क्रूरत्वम् इताः प्राप्ताः। गुरुद्रोहिणश्चैनं योगं प्राप्यापि नाशयन्तीति सम्बन्धः॥१०॥

याचन्ते न त्वयाच्यानि रक्षन्ति शरणागतान् ।
नावजानन्ति कृपणान्माद्यन्ते न धनोष्मणा॥११॥

ये अयाच्यानि दारादीनि न याचन्ते ते योगं प्राप्नुवन्तीति पञ्चमस्थेनान्वयः। एवं सर्वत्र योज्यम्॥११॥

युक्ताहारविहाराश्च युक्तचेष्टाः स्वकर्मसु ।
ध्यानाध्ययनयुक्ताश्च न नष्टानुगवेषिणः॥१२॥

नष्टानुगवेषिणः नष्टद्रव्यादिसाधनार्थचोरान्वेषणपराः॥१२॥

नोपभोगरता नित्यं न मांसमधुभक्षणाः ।
न च कामपरा नित्यं न विप्रासेविनस्तथा॥१३॥

नानार्यसङ्कथासक्ता नालस्योपहतास्तथा ।
नात्यन्तमानसंसक्ता गोष्ठीष्वनिरतास्तथा॥१४॥

अनार्यसङ्कथा ग्राम्यगोष्ठी ग्राम्यगोष्ठीषु आत्ममीमांसासु॥१४॥

प्राप्नुवन्ति नरा योगं योगो वै दुर्लभो भुवि ।
प्रशान्ताश्च जितक्रोधा मानाहङ्कारवर्जिताः॥१५॥

कल्याणभाजनं ये तु ते भवन्ति यतव्रताः ।
एवं विधास्तु ते तात ब्राह्मणा ह्यभवंस्तदा॥१६॥

एवंविधा उक्तप्रकाराः॥१६॥

स्मरन्ति ह्यात्मनो दोषं प्रमादकृतमेव तु ।
ध्यानाध्ययनयुक्ताश्च शान्ते वर्त्मनि संस्थिताः॥१७॥

योगधर्माद्धि धर्मज्ञ न धर्मोऽस्ति विशेषवान् ।
वरिष्ठः सर्वधर्माणां तमेवाचर भार्गव॥१८॥

कालस्य परिणामेन लघ्वाहारो जितेन्द्रियः ।
तत्परः प्रयतः श्राद्धी योगधर्ममवाप्स्यसि॥१९॥

कालस्य परिणामेन कालक्रमेण श्राद्धी श्रद्धावान्॥१९॥

इत्युक्त्वा भगवान्देवस्तत्रैवान्तरधीयत ।
अष्टादशैव वर्षाणि त्वेकाहमिव मेऽभवत्॥२०॥

इत्युक्त्वेति। मार्कण्डेयवाक्यम्॥२०॥

उपासतस्तं देवेशं वर्षाण्यष्टादशैव मे ।
प्रसादात्तस्य देवस्य न ग्लानिरभवत्तदा॥२१॥

उपासतस्तं देवेशमिति पादः पूर्वेण सम्बध्यते। अष्टादश वर्षाणि मे ग्लानिर्नाभवदित्युत्तरेणान्वयः॥२१॥

न क्षुत्पिपासे कालं वा जानामि स्म तदानघ ।
पश्चाच्छिष्यसकाशात्तु कालः संविदितो मया॥२२॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे एकोनविंशोऽध्यायः॥१९॥
पूजनीयोपाख्यानम्

मार्कण्डेय उवाच। तस्मिन्नन्तर्हिते देवे वचनात्तस्य वै प्रभोः ।
चक्षुर्दिव्यं सविज्ञानं प्रादुरासीत्तदा मम॥१॥

विंशेऽत्र वर्ण्यते ब्रह्मदत्तः उग्रायुधस्तथा। पूजनीयकथा शुक्रप्रोक्ता नीतिरनुत्तमा॥१॥ तस्मिन्निति॥१॥

ततोऽहं तानपश्यं वै ब्राह्मणान्कौशिकात्मजान् ।
आपगेय कुरुक्षेत्रे यानुवाच विभुर्मम॥२॥

तान् पूर्वं भरद्वाजदायादान् सतः द्वितीये जन्मनि कुरुक्षेत्रे कौशिकात्मजान् अपश्यम्। आपगेय हे भीष्म विभुः सनत्कुमारः॥२॥

ब्रह्मदत्तोऽभवद्राजा यस्तेषां सप्तमो द्विजः ।
पितृवर्तीति विख्यातो नाम्ना शीलेन कर्मणा॥३॥

तेषां कुशिकात्मजानां यः सप्तमो द्विजः पितृवर्ती नाम स एव सप्तमे जन्मनि ब्रह्मदत्तोऽभवत्॥३॥

शुकस्य कन्या कृत्वी तं जनयामास पार्थिवम् ।
अणुहात्पार्थिवश्रेष्ठात्काम्पिल्ये नगरोत्तमे॥४॥

भीष्म उवाच। यथोवाच महाभागो मार्कण्डेयो महातपाः ।
तस्य वंशमहं राजन्कीर्तयिष्यामि तच्छृणु॥५॥

युधिष्ठिर उवाच। अणुहः कस्य वै पुत्रः कस्मिन्काले बभूव ह ।
राजा धर्मभृतां श्रेष्ठो यस्य पुत्रो महायशाः॥६॥

ब्रह्मदत्तो नरपतिः किंवीर्यः स बभूव ह ।
कथं च सप्तमस्तेषां स बभूव नराधिपः॥७॥

तेषां भारद्वाजानाम्॥७॥

न ह्यल्पवीर्याय शुको भगवाँल्लोकपूजितः ।
कन्यां प्रादाद्यद्योगात्मा कृत्वीं कीर्तिमतीं प्रभुः॥८॥

एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ।
ब्रह्मदत्तस्य चरितं तद्भवान्वक्तुमर्हति॥९॥

यथा च वर्तमानास्ते संसारे च द्विजातयः ।
मार्कण्डेयेन कथितास्तद्भवान्प्रब्रवीतु मे॥१०॥

भीष्म उवाच। प्रतीपस्य तु राजर्षेस्तुल्यकालो नराधिप ।
पितामहस्य मे राजन्बभूवेति मया श्रुतम्॥११॥

प्रतीपस्येति द्वयोः सम्बन्धः॥११॥

ब्रह्मदत्तो महाभागो योगी राजर्षिसत्तमः ।
रुतज्ञः सर्वभूतानां सर्वभूतहिते रतः॥१२॥

सखाऽऽस गालवो यस्य योगाचार्यो महायशाः ।
शिक्षामुत्पाद्य तपसा क्रमो येन प्रवर्तितः ।
कण्डरीकश्च योगात्मा तस्यैव सचिवो महान्॥१३॥

सखा आसेति पदच्छेदः। आसीदित्यर्थः। शिक्षां वेदाङ्गं क्रमः संहितायाः पदानां सहपाठः। अन्नाद्यकामो निर्भुजं ब्रूयात्स्वर्गकामः प्रतृण्णमुभयकाम उभयमन्तरेणेति श्रुतिप्रसिद्ध एव पूर्वैरज्ञानादप्रवर्तितः सन् गालवेन प्रवर्तित इत्यर्थः। तस्य ब्रह्मदत्तस्य॥१३॥

जात्यन्तरेषु सर्वेषु सखायः सर्व एव ते ।
सप्तजातिषु सप्तैव बभूवुरमितौजसः ।
यथोवाच महाभागो मार्कण्डेयो महातपाः॥१४॥

सप्तजातिषु सप्तसु जन्मसु ते सप्त परस्परं सहाया बभूवुरिति सम्बन्धः॥१४॥

तस्य वंशमहं राजन्कीर्तयिष्यामि तच्छृणु ।
ब्रह्मदत्तस्य पौराणां पौरवस्य महात्मनः॥१५॥

बृहत्क्षत्रस्य दायादः सुहोत्रो नाम धार्मिकः ।
सुहोत्रस्यापि दायादो हस्ती नाम बभूव ह॥१६॥

तेनेदं निर्मितं पूर्वं हस्तिनापुरमुत्तमम् ।
हस्तिनश्चापि दायादास्त्रयः परमधार्मिकाः॥१७॥

अजमीढो द्विमीढश्च पुरुमीढस्तथैव च ।
अजमीढस्य धूमिन्यां जज्ञे बृहदिषुर्नृप ।
बृहद्धनुर्बृहदिषोः पुत्रस्तस्य महायशाः॥१८॥

बृहद्धर्मेति विख्यातो राजा परमधार्मिकः ।
सत्यजित्तनयस्तस्य विश्वजित्तस्य चात्मजः॥१९॥

पुत्रो विश्वजितश्चापि सेनजित्पृथिवीपतिः ।
पुत्राः सेनजितश्चासंश्चत्वारो लोकविश्रुताः॥२०॥

रुचिरः श्वेतकेतुश्च महिम्नारस्तथैव च ।
वत्सश्चावन्तको राजा यस्यैते परिवत्सकाः॥२१॥

आवन्तको अवन्त्यां भवो राजा सेनजित्। यस्य एते रुचिरादयः परिवत्सकाः पुत्राः॥२१॥

रुचिरस्य तु दायादः पृथुसेनो महायशाः ।
पृथुसेनस्य पारस्तु पारान्नीपस्तु जज्ञिवान्॥२२॥

नीपस्यैकशतं तात पुत्राणाममितौजसाम् ।
महारथानां राजेन्द्र शूराणां बाहुशालिनाम् ।
नीपा इति समाख्याता राजानः सर्व एव ते॥२३॥

तेषां वंशकरो राजा नीपानां किर्तिवर्धनः ।
काम्पिल्ये समरो नाम सचेष्टसमरोऽभवत्॥२४॥

समरस्य परः पारः सदश्व इति ते त्रयः ।
पुत्राः परमधर्मज्ञाः परपुत्रः पृथुर्बभौ॥२५॥

पृथोस्तु सुकृतो नाम सुकृतेनेह कर्मणा ।
जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चात्मजः॥२६॥

विभ्राजस्य तु पुत्रोऽभूदणुहो नाम पार्थिवः ।
बभौ शुकस्य जामाता कृत्वीभर्ता महायशाः॥२७॥

पुत्रोऽणुहस्य राजर्षिर्ब्रह्मदत्तोऽभवत्प्रभुः ।
योगात्मा तस्य तनयो विष्वक्सेनः परन्तपः॥२८॥

पुत्र इति। तस्य ब्रह्मदत्तस्य तनयो विष्वक्सेनो नाम स च योगात्मा योगेन धृतशरीरः॥२८॥

विभ्राजः पुनरायातः स्वकृतेनेह कर्मणा ।
ब्रह्मदत्तस्य पुत्रोऽन्यः सर्वसेन इति श्रुतः॥२९॥

एतदेव व्याचष्टे- विभ्राज इति। विभ्राजो ब्रह्मदत्तस्य पितामहः। स्वकृतेन वक्ष्यमाणेन कर्मणा विष्वक्सेनरूपेण पुनरिमं लोकं ब्रह्मदतः पुत्रो भूत्वा आयात इत्यर्थः॥२९॥

चक्षुषी तस्य निर्भिन्ने पक्षिण्या पूजनीयया ।
सुचिरोषितया राजन्ब्रह्मदत्तस्य वेश्मनि॥३०॥

पूजनीयया विचित्रचटकया॥३०॥

अथास्य पुत्रस्त्वपरो ब्रह्मदत्तस्य जज्ञिवान् ।
विष्वक्सेन इति ख्यातो महाबलपराक्रमः॥३१॥

विष्वक्सेनस्य पुत्रोऽभूद्दण्डसेनो महीपतिः ।
भल्लाटोऽस्य कुमारोऽभूद्राधेयेन हतः पुरा॥३२॥

दण्डसेनात्मजः शूरो महात्मा कुलवर्धनः ।
भल्लाटपुत्रो दुर्बुद्धिरभवच्च युधिष्ठिर॥३३॥

स तेषामभवद्राजा नीपानामन्तकृन्नृप ।
उग्रायुधेन यस्यार्थे सर्वे नीपा विनाशिताः॥३४॥

उग्रायुधो मदोत्सिक्तो मया विनिहतो युधि ।
दर्पान्वितो दर्परुचिः सततं चानये रतः॥३५॥

युधिष्ठिर उवाच। उग्रायुधः कस्य सुतः कस्मिन्वंशेऽथ जज्ञिवान् ।
किमर्थं चैव भवता निहतस्तद्ब्रवीहि मे॥३६॥

भीष्म उवाच। अजमीढस्य दायादो विद्वान्राजा यवीनरः ।
धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः सुतः॥३७॥

जज्ञे सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान् ।
दृढनेमिसुतश्चापि सुधर्मा नाम पार्थिवः॥३८॥

आसीत्सुधर्मणः पुत्रः सार्वभौमः प्रजेश्वरः ।
सार्वभौम इति ख्यातः पृथिव्यामेकराड्विभुः॥३९॥

तस्यान्ववाये महति महान्पौरवनन्दन ।
महतश्चापि पुत्रस्तु राजा रुक्मरथः स्मृतः॥४०॥

महानिति नाम॥४०॥

पुत्रो रुक्मरथस्यापि सुपार्श्वो नाम पार्थिवः ।
सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः॥४१॥

सुमतेरपि धर्मात्मा सन्नतिर्नाम वीर्यवान् ।
तस्य वै सन्नतेः पुत्रः कृतो नाम महाबलः॥४२॥

शिष्यो हिरण्यनाभस्य कौशलस्य महात्मनः ।
चतुर्विंशतिधा तेन सप्राच्याः सामसंहिताः॥४३॥

स्मृतास्ते प्राच्यसामानः कार्तयो नाम सामगाः ।
कार्तिरुग्रायुधः सोऽथ वीरः पौरवनन्दनः॥४४॥

कार्तिः कृतस्य पुत्रः येन पञ्चालाधिपतिर्हत इति सम्बन्धः॥४४॥

बभूव येन विक्रम्य पृषतस्य पितामहः ।
नीपो नाम महतेजाः पाञ्चालाधिपतिर्हतः॥४५॥

उग्रायुधस्य दायादः क्षेम्यो नाम महायशाः ।
क्षेम्यात्सुवीरो नृपतिः सुवीरात्तु नृपञ्जयः॥४६॥

नृपञ्जयाद्बहुरथ इत्येते पौरवाः स्मृताः ।
स चाप्युग्रायुधस्तात दुर्बुद्धिरभवत्तदा॥४७॥

प्रवृद्धचक्रो बलवान्नीपान्तकरणो महान् ।
स दर्पपूर्णो हत्वाऽऽजौ नीपानन्यांश्च पार्थिवान्॥४८॥

पितर्युपरते मह्यं श्रावयामास किल्बिषम् ।
माममात्यैः परिवृतं शयानं धरणीतले॥४९॥

उग्रायुधस्य राजेन्द्र दूतोऽभ्येत्य वचोऽब्रवीत् ।
अद्य त्वं जननीं भीष्म गन्धकालीं यशस्विनीम् ।
स्त्रीरत्नं मम भार्यार्थे प्रयच्छ कुरुपुङ्गव॥५०॥

एवं राज्यं च ते स्फीतं धनानि च न संशयः ।
प्रदास्यामि यथाकाममहं वै रत्नभाग्भुवि॥५१॥

मम प्रज्वलितं चक्रं निशम्येदं सुदुर्जयम् ।
शत्रवो विद्रवन्त्याजौ दर्शनादेव भारत॥५२॥

राष्ट्रस्येच्छसि चेत्स्वस्ति प्राणानां वा कुलस्य वा ।
शासने मम तिष्ठस्व न हि ते शान्तिरन्यथा॥५३॥

अधः प्रस्तारशयने शयानस्तेन चोदितः ।
दूतान्तर्हितमेतद्वै वाक्यमग्निशिखोपमम्॥५४॥

प्रस्तारः कुशास्तरणम्॥५४॥

ततोऽहं तस्य दुर्बुद्धेर्विज्ञाय मतमच्युत ।
आज्ञापयं वै सङ्ग्रामे सेनाध्यक्षांश्च सर्वशः॥५५॥

विचित्रवीर्यं बालं च मदुपाश्रयमेव च ।
दृष्ट्वा क्रोधपरीतात्मा युद्धायैव मनो दधे॥५६॥

बालं दृष्ट्वा बालोऽयं युद्धायोग्य इति ज्ञात्वाऽहमेव युद्धाय मनो दधे धृतवान्॥५६॥

निगृहीतस्तदाहं तैः सचिवैर्मन्त्रकोविदैः ।
ऋत्विग्भिर्वेदकल्पैश्च सुहृद्भिश्चार्थदर्शिभिः॥५७॥

स्निग्धैश्च शास्त्रविद्भिश्च संयुगस्य निवर्तने ।
कारणं श्रावितश्चास्मि युक्तरूपं तदानघ॥५८॥

मन्त्रिण ऊचुः। प्रवृत्तचक्रः पापोऽसौ त्वं चाशौचगतः प्रभो ।
न चैष प्रथमः कल्पो युद्धं नाम कदाचन॥५९॥

प्रवृत्तेति। उच्छृङ्खलप्रवृत्तेः शास्त्रनियन्त्रितस्य च युद्धं प्रथमो मुख्यः कल्पो न भवतीत्यर्थः॥५९॥

ते वयं सामपूर्वं वै दानं भेदं तथैव च ।
प्रयोक्ष्यामस्ततः शुद्धो दैवतान्यभिवाद्य च॥६०॥

कृतस्वस्त्ययनो विप्रैर्हुत्वाग्नीनर्च्य च द्विजान् ।
ब्राह्मणैरभ्यनुज्ञातः प्रयास्यसि जयाय वै॥६१॥

अस्त्राणि च प्रयोज्यानि न प्रवेश्यश्च सङ्गरः ।
आशौचे वर्तमाने तु वृद्धानामिति शासनम्॥६२॥

सामदानादिभिः पूर्णमपि भेदेन वा ततः ।
तां हनिष्यसि विक्रम्य शम्बरं मघवानिव॥६३॥

प्राज्ञानां वचनं काले वृद्धानां च विशेषतः ।
श्रोतव्यमिति तच्छ्रुत्वा निवृत्तोऽस्मि नराधिप॥६४॥

ततस्तैः सङ्क्रमः सर्वः प्रयुक्तः शास्त्रकोविदैः ।
तस्मिन्काले कुरुश्रेष्ठ कर्म चारब्धमुत्तमम्॥६५॥

सङ्क्रमः उपायान्तरेण शमः॥६५॥

स सामादिभिरेवादावुपायैः प्राज्ञचिन्तितैः ।
अनुनीयमानो दुर्बुद्धिरनुनेतुं न शक्यते॥६६॥

अनुनीयमानः प्रसाद्यमानः॥६६॥

प्रवृत्तं तस्य तच्चक्रमधर्मनिरतस्य वै ।
परदाराभिलाषेण सद्यस्तात निवर्तितम्॥६७॥

तस्य उग्रायुधस्य॥६७॥

न त्वहं तस्य जाने तन्निवृत्तं चक्रमुत्तमम् ।
हतं स्वकर्मणा तं तु पूर्वं सद्भिश्च निन्दितम्॥६८॥

अहं तस्य चक्रम् आज्ञानिवृत्तं भग्नमिति जाने। तं स्वकर्मणा हतं जाने॥६८॥

कृतशौचः शरी चापी रथी निष्क्रम्य वै पुरात् ।
कृतस्वस्त्ययनो विप्रैः प्रायोधयमहं रिपुम्॥६९॥

ततः संसर्गमागम्य बलेनास्त्रबलेन च ।
त्र्यहमुन्मत्तवद्युद्धं देवासुरमिवाभवत्॥७०॥

स मयास्त्रप्रतापेन निर्दग्धो रणमूर्धनि ।
पपाताभिमुखः शूरस्त्यक्त्वा प्राणानरिन्दम॥७१॥

एतस्मिन्नन्तरे तात काम्पिल्ये पृषतोऽभ्ययात् ।
हते नीपेश्वरे चैव हते चोग्रायुधे नृपे॥७२॥

काम्पिल्ये दक्षिणपाञ्चाले नीपेश्वरे पृषतस्य पितामहे उग्रायुधेन हते उग्रायुधे च भीष्मेण हते सतीति विवेकः॥७२॥

आहिच्छत्रं स्वकं राज्यं पित्र्यं प्राप महाद्युतिः ।
द्रुपदस्य पिता राजन्ममैवानुमते तदा॥७३॥

आहिच्छत्रम् आहिच्छत्रानगरीसम्बन्धिनमुत्तरपाञ्चालम्॥७३॥

ततोऽर्जुनेन तरसा निर्जित्य द्रुपदं रणे ।
आहिच्छत्रं सकाम्पिल्यं द्रोणायाथापवर्जितम्॥७४॥

अपवर्जितं दत्तम्॥७४॥

प्रतिगृह्य ततो द्रोण उभयं जयतां वरः ।
काम्पिल्यं द्रुपदायैव प्रायच्छद्विदितं तव॥७५॥

उभयं दक्षिणोत्तरपाञ्चालद्वयम्॥७५॥

एष ते द्रुपदस्यादौ ब्रह्मदत्तस्य चैव ह ।
वंशः कार्त्स्येन वै प्रोक्तो नीपस्योग्रायुधस्य च॥७६॥

युधिष्ठिर उवाच। किमर्थं ब्रह्मदत्तस्य पूजनीया शकुन्तिका ।
अन्धं चकार गाङ्गेय ज्येष्ठं पुत्रं पुरा विभो॥७७॥

चिरोषिता गृहे चापि किमर्थं चैव यस्य सा ।
चकार विप्रियमिदं तस्य राज्ञो महात्मनः॥७८॥

सा यस्य राज्ञो गृहे चिरोषिता तस्य विप्रियं किमर्थं चकारेत्यन्वयः॥७८॥

पूजनीया चकारासौ किं सख्यं तेन चैव ह ।
एतन्मे संशयं छिन्धि सर्वमुक्त्वा यथातथम्॥७९॥

असौ पूजनीया किमर्थं तेन सख्यं चकार॥७९॥

भीष्म उवाच। शृणु सर्वं महाराज यथावृत्तमभूत्पुरा ।
ब्रह्मदत्तस्य भवने तन्निबोध युधिष्ठिर॥८०॥

काचिच्छकुन्तिका राजन्ब्रह्मदत्तस्य वै सखी ।
शितिपक्षा शोणशिराः शितिपृष्ठा शितोदरी॥८१॥

शितिपक्षा शुक्लपक्षा शोणशिराः लोहितमस्तका शितिपृष्ठा कृष्णोपरिभागा। “शिती धवलमेचके” इति कोशकाराः॥८१॥

सखी सा ब्रह्मदत्तस्य सुदृढं बद्धसौहृदा ।
तस्याः कुलायमभवद्गेहे तस्य नरोत्तम॥८२॥

कुलायं नीडम्॥८२॥

सा सदाहनि निर्गत्य तस्य राज्ञो गृहोत्तमात् ।
चचाराम्भोधितीरेषु पल्वलेषु सरस्सु च॥८३॥

नदीपर्वतकुञ्जेषु वनेषूपवनेषु च ।
प्रफुल्लेषु तडागेषु कल्हारेषु सुगन्धिषु॥८४॥

कुमुदोत्पलकिञ्जल्कसुरभीकृतवायुषु ।
हंससारसघुष्टेषु कारण्डवरुतेषु च॥८५॥

चरित्वा तेषु सा राजन्निशि काम्पिल्यमागमत् ।
नृपतेर्भवनं प्राप्य ब्रह्मदत्तस्य धीमतः॥८६॥

राज्ञा तेन सदा राजन् कथायोगं चकार सा ।
आश्चर्याणि च दृष्टानि यानि वृत्तानि कानिचित्॥८७॥

चरित्वा विविधान्देशान्कथयामास सा निशि ।
कदाचित्तस्य नृपतेर्ब्रह्मदत्तस्य कौरव॥८८॥

पुत्रोऽभूद्राजशार्दूल सर्वसेनेति विश्रुतः ।
पूजनीयाऽथ सा तस्मिन्प्रासूताण्डमथापि च॥८९॥

सर्वसेनः इति छेदः। तस्मिन् काले गृहे च॥८९॥

तस्मिन्नीडे पुरा ह्येकं तत्किल प्रास्फुटत्तदा ।
स्फुटितो मांसपिण्डस्तु बाहुपादास्यसंयुतः॥९०॥

तत् अण्डम्। स्फुटितः व्यक्तीभूतः॥९०॥

बभ्रुवक्त्रश्चक्षुर्हीनो बभूव पृथिवीपते ।
चक्षुष्मानप्यभूत्पश्चादीषत्पक्षोत्थितश्च ह॥९१॥

अथ सा पूजनीया वै राजपुत्रस्वपुत्रयोः ।
तुल्यस्नेहात्प्रीतिमती दिवसे दिवसेऽभवत्॥९२॥

आजहार सदा सायं चञ्च्वामृतफलद्वयम् ।
अमृतास्वादसदृशं सर्वसेनतनूजयोः॥९३॥

स बालो ब्रह्मदत्तस्य पूजनीयासुतश्च ह ।
ते फले भक्षयित्वा च पृथुकौ प्रीतमानसौ॥९४॥

अभूतां नित्यमेवेह खादेतां तौ च ते फले ।
तस्यां गतायामथ च पूजन्यां वै सदाहनि॥९५॥

शिशुना चटकेनाथ धात्री तं तु शिशुं नृप ।
तेन प्रक्रीडयामास ब्रह्मदत्तात्मजं सदा॥९६॥

तेन शिशुना नीडादाकृष्य धात्री तं प्रक्रीडयामास॥९६॥

नीडात्तमाकृष्य तदा पूजनीया कृता ततः ।
क्रीडता राजपुत्रेण कदाचिच्चटकः स तु॥९७॥

निगृहीतः कन्धरायां शिशुना दृढमुष्टिना ।
दुर्भङ्गमुष्टिना राजन्नसून्सद्यस्त्वजीजहत्॥९८॥

तं तु पञ्चत्वमापन्नं व्यात्तास्यं बालघातितम् ।
कथञ्चिन्मोचितं दृष्ट्वा नृपतिर्दुःखितोऽभवत्॥९९॥

धात्रीं तस्य जगर्हे तां तदाऽश्रुपरमो नृपः ।
तस्थौ शोकान्वितो राजञ्छोचंस्तं चटकं तदा॥१००॥

पूजनीयापि तत्काले गृहीत्वा तु फलद्वयम् ।
ब्रह्मदत्तस्य भवनमाजगाम वनेचरी॥१०१॥

अथापश्यत्तमागम्य गृहे तस्मिन्नराधिप ।
पञ्चभूतपरित्यक्तं शोच्यं तं स्वतनूद्भवम्॥१०२॥

मुमोह दृष्ट्वा तं पुत्रं पुन्ः संज्ञामथालभत् ।
लब्धसंज्ञा च सा राजन्विललाप तपस्विनी॥१०३॥

पूजनीयोवाच। न तु त्वमागतां पुत्र वाशन्तीं परिसर्पसि ।
कुर्वंश्चाटुसहस्राणि अव्यक्तकलया गिरा॥१०४॥

वाशन्तीं कूजन्तीम्॥१०४॥

व्यादितास्यः क्षुधार्तश्च पीतेनास्येन पुत्रक ।
शोणेन तालुना पुत्र कथमद्य न सर्पसि॥१०५॥

पक्षाभ्यां त्वां परिष्वज्य ननु वाशामि चाप्यहम् ।
चीचीकूचीति वाशन्तं त्वामद्य न शृणोमि किम्॥१०६॥

मनोरथो यस्तु मम पश्येयं पुत्रकं कदा ।
व्यात्तास्यं वारि याचन्तं स्फुरत्पक्षं ममाग्रतः॥१०७॥

स मे मनोरथो भग्नस्त्वयि पञ्चत्वमागते ।
विलप्यैवं बहुविधं राजानमथ साब्रवीत्॥१०८॥

ननु मूर्धाभिषिक्तस्त्वं धर्मं वेत्सि सनातनम् ।
अद्य कस्मान्मम सुतं धात्र्या घातितवानसि॥१०९॥

तव पुत्रेण चाकृष्य क्षत्रियाधम शंस मे ।
न च नूनं श्रुता तेऽभूदियमाङ्गीरसी श्रुतिः॥११०॥

शरणागतः क्षुधार्तश्च शत्रुभिश्चाभ्युपद्रुतः ।
चिरोषितश्च स्वगृहे पातव्यः सर्वदा भवेत्॥१११॥

पातव्यो रक्षणीयः॥१११॥

अपालयन्नरो याति कुम्भीपाकमसंशयम् ।
कथमस्य हविर्देवा गृह्णन्ति पितरः स्वधाम्॥११२॥

एवमुक्त्वा महाराज दशधर्मगता सती ।
शोकार्ता तस्य बालस्य चक्षुषी निर्बिभेद सा॥११३॥

“मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः। त्वरमाणश्च भीतश्च लुब्धः कामी च ते दश॥” इति एतेषां दशानां धर्मो निर्विवेकित्वं गता प्राप्ता दशधर्मगता॥११३॥

कराभ्यां राजपुत्रस्य ततस्तच्चक्षुरस्फुटत् ।
कृत्वा चान्धं नृपसुतमुत्पपात ततोऽम्बरम्॥११४॥

अथ राजा सुतं दॄष्ट्वा पूजनीयामुवाच ह ।
विशोका भव कल्याणि कृतं ते भीरु शोभनम्॥११५॥

ते त्वया॥११५॥

गतशोका निवर्तस्व अजर्यं सख्यमस्तु ते ।
पुरेव वस भद्रं ते निवर्तस्व रमस्व च॥११६॥

अजर्यम् अविनाशि॥११६॥

पुत्रपीडोद्भवश्चापि न कोपः परमस्त्वयि ।
ममास्ति सखि भद्रं ते कर्तव्यं च कृतं त्वया॥११७॥

पूजनीयोवाच। आत्मौपम्येन जानामि पुत्रस्नेहं तवाप्यहम् ।
न चाहं वस्तुमिच्छामि तव पुत्रमचक्षुषम् ।
कृत्वा वै राजशार्दूल त्वद्गृहे कृतकिल्बिषा॥११८॥

अचक्षुषं कृत्वा वस्तुं न इच्छामि॥११८॥

गाथाश्चाप्युशनो गीता इमाः शृणु मयेरिताः ।
कुमित्रं च कुदेशं च कुराजानं कुसौहृदम् ।
कुपुत्रं च कुभार्यां च दूरतः परिवर्जयेत्॥११९॥

कुमित्रे सौहृदं नास्ति कुभार्यायां कुतो रतिः ।
कुतः पिण्डः कुपुत्रे वै नास्ति सत्यं कुराजनि॥१२०॥

कुसौहृदे क्व विश्वासः कुदेशे न तु जीव्यते ।
कुराजनि भयं नित्यं कुपुत्रे सर्वतोऽसुखम्॥१२१॥

अपकारिणि विस्रम्भं यः करोति नराधमः ।
अनाथो दुर्बलो यद्वन्न चिरं स तु जीवति॥१२२॥

विस्रम्भं विश्वासम्॥१२२॥

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति॥१२३॥

राजसेविषु विश्वासं गर्भसङ्करितेषु च ।
यः करोति नरो मूढो न चिरं स तु जीवति॥१२४॥

गर्भसङ्करितेषु सङ्कीर्णजातिषु॥१२४॥

अप्युन्नतिं प्राप्य नृपात्प्रावारः कीटको यथा ।
स विनश्यत्यसन्देहमाहैवमुशना नृप॥१२५॥

अपीति। प्रावारः पिपीलः ‘मुङ्गळा’ इति महाराष्ट्राः। स हि पूर्वमपक्ष एव पक्षोत्पत्तौ उत्पत्याधः पतन् पक्षिभिर्मार्यत इति प्रसिद्धम्। अन्ये तु प्रावारः पाश्चात्त्येषु पामर इति प्रसिद्धः। स किल कुड्यवृक्षागह्वरे प्राप्य उत्पद्यते स च पक्षोत्थाने सहसा उच्चैरुत्पत्य भूमौ पतितः पक्षिभिः खाद्यते तद्वदिति व्याचख्युः॥१२५॥

अपि मार्दवभावेन गात्रं संलीय बुद्धिमान् ।
अरिं नाशयते नित्यं यथा वल्लिर्महाद्रुमम्॥१२६॥

मृदुरार्द्रः कृशो भूत्वा शनैः संलीयते रिपुः ।
वल्मीक इव वृक्षस्य पश्चान्मूलानि कृन्तति॥१२७॥

आर्द्रः स्निग्धः॥१२७॥

अद्रोहसमयं कृत्वा मुनीनामग्रतो हरिः ।
जघान नमुचिं पश्चादपां फेनेन पार्थिव॥१२८॥

हरिरिन्द्रः फेनेन वज्रगर्भेण॥१२८॥

सुप्तं मत्तं प्रमत्तं वा घातयन्ति रिपुं नराः ।
विषेण वह्निना वाऽपि शस्त्रेणाप्यथ मायया॥१२९॥

मत्तं मद्यादिनाः प्रमत्तम् अनवहितम्॥१२९॥

न च शेषं प्रकुर्वन्ति पुनर्वैरभयान्नराः ।
घातयन्ति समूलं हि श्रुत्वेमामुपमां नृप॥१३०॥

शत्रुशेषमृणाच्छेषं शेषमग्नेश्च भूमिप ।
पुनर्वर्धेत सम्भूय तस्माच्छेषं न शेषयेत्॥१३१॥

हसते जल्पते वैरी एकपात्रे भुनक्ति च ।
एकासनं चारोहति स्मरते तच्च किल्बिषम्॥१३२॥

कृत्वा सम्बन्धकं चापि विश्वसेच्छत्रुणा न हि ।
पुलोमानं जघानाजौ जामाता सञ्शतक्रतुः॥१३३॥

निधाय मनसा वैरं प्रियं वक्तीह यो नरः ।
उपसर्पेन्न तं प्राज्ञः कुरङ्ग इव लुब्धकम्॥१३४॥

न चासन्ने निवस्तव्यं सवैरे वर्धिते रिपौ ।
पातयेत्तं समूलं हि नदीरय इव द्रुमम्॥१३५॥

अमित्रादुन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत् ।
तस्मात्प्राप्योन्नतिं नश्येत्प्रावार इव कीटकः॥१३६॥

इत्येता ह्युशनोगीता गाथा धार्या विपश्चिता ।
कुर्वता चात्मरक्षां वै नरेण पृथिवीपते॥१३७॥

धार्या हृदीति शेषः॥१३७॥

मया सकिल्बिषं तुभ्यं प्रयुक्तमतिदारुणम् ।
पुत्रमन्धं प्रकुर्वन्त्या तस्मान्नो विश्वसे त्वयि॥१३८॥

एवमुक्त्वा प्रदुद्राव तदाऽऽकाशं पतङ्गिनी ।
इत्येतत्ते मयाख्यातं पुराभूतमिदं नृप॥१३९॥

ब्रह्मदत्तस्य राजेन्द्र यद्वृत्तं पूजनीयया ।
श्राद्धं च पृच्छसे यन्मां युधिष्ठिर महामते॥१४०॥

अतस्ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते॥१४१॥

चरितं निबोधेत्यनुवर्तते॥१४१॥

श्राद्धस्य फलमुद्दिश्य नियतं सुकृतस्य च ।
तन्निबोध महाराज सप्तजातिषु भारत॥१४२॥

सगालवस्य चरितं कण्डरीकस्य चैव हि ।
ब्रह्मदत्ततृतीयानां योगिनां ब्रह्मचारिणाम्॥१४३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पूजनीयोपाख्याने चटकाख्यं नाम विंशोऽध्यायः॥२०॥
श्राद्धमाहात्म्यम्

मार्कण्डेय उवाच। श्राद्धे प्रतिष्ठितो लोकः श्राद्धे योगः प्रवर्तते ।
हन्त ते वर्तयिष्यामि श्राद्धस्य फलमुत्तमम्॥१॥

एकविंशे तथाऽध्याये हिंस्रोऽपीष्ट्वा पितॄंस्तत। शुभाच्छुभतरां योनिं प्राप्नोतीति निरूप्यते॥१॥ श्राद्धे प्रासङ्गिकं परिसमाप्य प्रकृतं श्राद्धमाहात्म्यमेवानुसन्धत्ते- श्राद्ध इति। प्रतिष्ठितः श्रुतधनकुलपुत्रपश्वादिबाहुल्येन महत्त्वं प्राप्तः। योगः योगप्राप्यो मोक्षः ब्रह्मात्म्यैक्यं वा॥१॥

ब्रह्मदत्तेन यत्प्राप्तं सप्तज्ञातिषु भारत ।
तत एव हि धर्मस्य बुद्धिर्निर्वर्तते शनैः॥२॥

यत्फलं प्राप्तमिति सम्बन्धः। सप्तजातिषु सप्तजन्मसु भारद्वाजकौशिकव्याधमृगचक्रवाकहंसश्रोत्रियदायादत्वेषु भरद्वाजपुत्रत्वे प्रमादादित्वात्तदारभ्य गणना। ततः श्राद्धात् निर्वर्तते सम्पद्यते बुद्धिः ज्ञानम्॥२॥

पीडयाप्यथ धर्मस्य कृते श्राद्धे पुरानघ ।
यत्प्राप्तं ब्राह्मणैः पूर्वं तन्निबोध महामते॥३॥

पीडया गोहिंसया॥३॥

ततोऽहं तात धर्मिष्ठान्कुरुक्षेत्रे पितृव्रतान् ।
सनत्कुमारनिर्दिष्टानपश्यं सप्त वै द्विजान्॥४॥

दिव्येन चक्षुषा तेन यानुवाच पुरा विभुः ।
वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च ।
खसृमः पितृवर्ती च नामभिः कर्मभिस्तथा॥५॥

तथा नामानुरूपैः कर्मभिः कविः परलोकभयदर्शी खसृमः खे वियति सर्त्तुं शीलमस्येति परलोकार्थी॥५॥

कौशिकस्य सुतास्तात शिष्या गार्ग्यस्य भारत ।
पितर्युपरते सर्वे व्रतवन्तस्तदाभवन्॥६॥

कौशिकस्य विश्वामित्रस्य सुताः ये पूर्वं विश्वामित्रेण शप्ताः अन्तान्वयाः प्रजा भक्षीष्टेति त एते पञ्चाशत् वाग्दुष्टादयः सप्त तेषां सन्ततिरन्ध्राः पुण्ड्रा इत्यादिश्रुतिप्रसिद्धा॥६॥

विनियोगाद्गुरोस्तस्य गां दोग्ध्रीं समकालयन् ।
समानवत्सां कपिलां सर्वे न्यायागतां तदा॥७॥

उपरते शापं दत्त्वा उदासीने सति व्रतवन्तो गार्ग्यस्य गृहे ब्रह्मचर्यार्थं वासं कृतवन्तः। समकालयन् वनमनयन्। समानवत्सां कपिलवत्साम् । न्यायागतामिति विशेषणात् चोरद्रव्यापहारेऽल्पो दोष इति गम्यते॥७॥

तेषां पथि क्षुधार्तानां बाल्यान्मोहाच्च भारत ।
क्रूरा बुद्धिः समभवत्तां गां वै हिंसितुं तदा॥८॥

तान्कविः खसृमश्चैव याचेते नेति वै तदा ।
न चाशक्यन्त ते ताभ्यां तदा वारयितुं द्विजाः॥९॥

पितृवर्ती तु यस्तेषां नित्यं श्राद्धाह्निको द्विजः ।
स सर्वानब्रवीद्भ्रातॄन्कोपाद्धर्मे समाहितः॥१०॥

श्राद्धाह्निकः नित्यश्राद्धकृत्॥१०॥

यद्यवश्यं प्रहन्तव्या पितॄनुद्दिश्य साध्विमाम् ।
प्रकुर्वीमहि गां सम्यक्सर्व एव समाहिताः॥११॥

प्रकुर्वीमहि हिंसया साधयेमहि। “कृ हिंसायाम्” इत्यस्य रूपम्॥११॥

एवमेषापि गौर्धर्मं प्राप्स्यते नात्र संशयः ।
पितॄनभ्यर्च्य धर्मेण नाधर्मोऽस्मान्भविष्यति॥१२॥

तथेत्युक्त्वा च ते सर्वे प्रोक्षयित्वा च गां ततः ।
पितृभ्यः कल्पयित्वैनामुपायुञ्जत भारत॥१३॥

उपायुञ्जन्त अभक्षयन्॥१३॥

उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् ।
शार्दूलेन हता धेनुर्वत्सोऽयं गृह्यतामिति॥१४॥

आर्जवात्स तु तं वत्सं प्रतिजग्राह वै द्विजः ।
मिथ्योपचर्य ते तं तु गुरुमन्यायतो द्विजाः ।
कालेन समयुज्यन्त सर्व एवायुषः क्षये॥१५॥

उपचर्य वञ्चयित्वा कालेन मृत्युना॥१५॥

ते वै क्रूरतया हिंस्रा अनार्यत्वाद्गुरौ तथा ।
उग्रा हिंसाविहाराश्च सप्ताजायन्त सोदराः॥१६॥

लुब्धकस्यात्मजास्तात बलवन्तो मनस्विनः ।
पितॄनभ्यर्च्य धर्मेण प्रोक्षयित्वा च गां तदा॥१७॥

लुब्धकस्यात्मजा असृज्यन्तेति सम्बन्धः॥१७॥

स्मृतिः प्रत्यवमर्शश्च तेषां जात्यन्तरेऽभवत् ।
जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः॥१८॥

स्मृतिः पूर्वजातिस्मरणम्। प्रत्यवमर्शः स्वकृतकर्मानुसन्धानम्॥१८॥

स्वकर्मनिरताः सर्वे लोभानृतविवर्जिताः ।
तावन्मात्रं प्रकुर्वन्ति यावता प्राणधारणम्॥१९॥

शेषं ध्यानपराः कालामनुध्यायन्ति कर्म तत् ।
नामधेयानि चाप्येषामिमान्यासन्नराधिप॥२०॥

निर्वैरो निर्वृतिः शान्तो निर्मन्युः कृतिरेव च ।
वैधसो मातृवर्ती च व्याधाः परमधार्मिकाः॥२१॥

तैरेवमुषितैस्तात हिंसाधमरतैः सदा ।
माता च पूजिता वृद्धा पिता च परितोषितः॥२२॥

हिंसायां मृगयायामपि धर्मो बालगर्भिणीमैथुनासक्त्यादिवर्जनं तत्र रतैः॥२२॥

यदा माता पिता चैव संयुक्तौ कालधर्मणा ।
तदा धनूंषि ते त्यक्त्वा वने प्राणानवासृजन्॥२३॥

अवासृजन् अनशनादिनाऽत्यजन्॥२३॥

शुभेन कर्मणा तेन जाता जातिस्मरा मृगाः ।
त्रासानुत्पाद्य संविग्ना रम्ये कालञ्जरे गिरौ॥२४॥

तेन मातापितृपूजनेन त्रासान् हिंसाधर्मरतत्वेन भयानि चोत्पाद्य जातिस्मरत्वं संविग्नत्वं च कर्मद्वयफलमित्यर्थः॥२४॥

उन्मुखो नित्यवित्रस्तः स्तब्धकर्णो विलोचनः ।
पण्डितो घस्मरो नादी नामतस्तेऽभवन्मृगाः॥२५॥

उन्मुख इति। यः पूर्वं वाग्दुष्टः स नित्यं परनिन्दनोन्मुखत्वादूर्ध्वमुख एव जातः। क्लेशेन आहारं गृह्णातीत्यर्थः। क्रोधनस्तु नित्यं परोद्वेजकत्वात् स्वयममि नित्यसन्त्रस्तोऽभूत। एवं पिशुनः स्तब्धकर्णो बधिरोऽभूत्। हिंस्रो विलोचनोऽन्धोऽभूत्। कविः पण्डितोऽभूत्। खसृमो घस्मरः यथेष्टाहारोऽभूत्। पितृवर्ती तु श्राद्धकर्तृत्वात् नादी गानसुखभोक्ताऽभूत्। तद्धि मृगाणाम् अत्यन्तं प्रियम् इत्यन्वर्थनामता तेषां ज्ञेया॥२५॥

तमेवार्थमनुध्यान्तो जातिस्मरणसम्भवम् ।
आसन्वनचराः क्षान्ता निर्द्वन्द्वा निष्परिग्रहाः॥२६॥

अनुध्यान्तः अनुध्यायन्तः॥२६॥

ते सर्वे शुभकर्माणः सधर्माणो वनेचराः ।
योगधर्ममनुप्राप्ता विहरन्ति स्म तत्र ह॥२७॥

सधर्माणः समाना अहिंसादयो धर्मा येषां ते॥२७॥

जहुः प्राणान्मरुं साध्य लब्धाहारास्तपस्विनः ।
तेषां मरुं साधयतां पदस्थानानि भारत ।
तथैवाद्यापि दृश्यन्ते गिरौ कालञ्जरे नृप॥२८॥

मरुर्निर्जलो देशः तं साध्य साधयित्वा जलत्यागव्रतेनेत्यर्थः। गिरिशृङ्गान्निपत्येत्यन्ये। "मरुर्ना गिरिधन्बनोः” इति मेदिनी। पदस्थानानि पदचिह्नानि सार्द्धः॥२८॥

कर्मणा तेन ते तात शुभेनाशुभवर्जिताः ।
शुभाच्छुभतरां योनिं चक्रवाकत्वमागताः॥२९॥

शुभे देशे शरद्वीपे सप्तैवासञ्जलौकसः ।
त्यक्त्वा सहचरीधर्मं मुनयो ब्रह्मचारिणः॥३०॥

शरद्वीपे जलद्वीपे। "शरस्तेजनके बाणे दध्यग्रे ना शरं जले" इति मेदिनी। सहचरीधर्मं मैथुनम्॥३०॥

निःस्पृहो निर्ममः क्षान्तो निर्द्वन्द्वो निष्परिग्रहः ।
निर्वृत्तिर्निभृतश्चैव शकुना नामतः स्मृताः॥३१॥

ते तत्र पक्षिणः सर्वे शकुना धर्मचारिणः ।
निराहारा जहुः प्राणांस्तपोयुक्ताः सरित्तटे॥३२॥

अथ ते सोदरा जाता हंसा मानसचारिणः ।
जातिस्मराः सुसंयुक्ताः सप्तैव ब्रह्मचारिणः॥३३॥

विप्रयोनौ यतो मोहान्मिथ्योपचरितो गुरुः ।
तिर्यग्योनौ ततो जाताः संसारे परिबभ्रमुः॥३४॥

यतश्च पितृवाक्यार्थः कृतः स्वार्थे व्यवस्थितैः ।
ततो ज्ञानं च जातिं च ते हि प्रापुर्गुणोत्तराम्॥३५॥

सुमनाः शुचिवाक्छुद्धः पञ्चमश्छिद्रदर्शनः ।
सुनेत्रश्च स्वतन्त्रश्च शकुना नामतः स्मृताः॥३६॥

पञ्चम इति चतुर्थस्य नाम॥३६॥

पञ्चमः पाञ्चिकस्तत्र सप्तजातिष्वजायत ।
षष्ठस्तु कण्डरीकोऽभूद्ब्रह्मदत्तस्तु सप्तमः॥३७॥

पञ्चमो वाग्दुष्टादिषु पञ्चसङ्ख्यापूरणः। कविनामा सप्तमे जन्मनि भाविनि पाञ्चिको नाम राजाऽमात्योऽभूत्। षष्ठः खसृमः सः कण्डरीकनामा भावी। सप्तमः पितृवतीं स ब्रह्मदत्तो भावी॥३७॥

तेषां तु तपसा तेन सप्तजातिकृतेन वै ।
योगस्य चापि निर्वृत्त्या प्रतिभानाच्च शोभनात्॥३८॥

निर्वृत्या निष्पत्त्या। प्रतिभानात् पूर्वजन्मकर्मस्फुरणात्॥३८॥

पूर्वजातिषु यद्ब्रह्म श्रुतं गुरुकुलेषु वै ।
तथैवावस्थिता बुद्धिः संसारेष्वपि वर्तताम्॥३९॥

ब्रह्म वेदः श्रुतं पाठतोऽर्थतश्चाधिगतम्॥३९॥

ते ब्रह्मचारिणः सर्वे विहङ्गा ब्रह्मवादिनः ।
योगधर्ममनुध्यान्तो विहरन्ति स्म तत्र ह॥४०॥

तेषां तत्र विहङ्गानां चरतां सहचारिणाम् ।
नीपानामीश्वरो राजा विभ्राजः पौरवान्वयः॥४१॥

विभ्राजमानो वपुषा प्रभावेन समन्वितः ।
श्रीमानन्तःपुरवृतो वनं तत्प्रविवेश ह॥४२॥

स्वतन्त्रश्च विहङ्गोऽसौ स्पृहयामास तं नृपम् ।
दृष्ट्वा यान्तं श्रियोपेतं भवेयमहमीदृशः॥४३॥

स्वतन्त्राख्यः सप्तमो हंसः॥४३॥

यद्यस्ति सुकृतं किञ्चित्तपो वा नियमोऽपि वा ।
खिन्नोऽस्मि ह्युपवासेन तपसा निष्फलेन च॥४४॥

निष्फलेन निःसुखेन॥४४॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे एकविंशोऽध्यायः॥२१॥
चक्रवाकवर्णनम्

मार्कण्डेय उवाच। ततस्तं चक्रवाकौ द्वावूचतुः सहचारिणौ ।
आवां ते सचिवौ स्यावस्तव प्रियहितैषिणौ॥१॥

द्वाविंशे पूर्वजैः शप्ता अण्डजैरण्डजास्त्रयः। पुनस्तेषु प्रसादश्च प्रसन्नः कृत ईर्यते॥१॥ ततस्तम्॥१॥

तथेत्युक्त्वा च तस्यासीत्तदा योगात्मिका मतिः ।
एवं ते समयं चक्रुः शुचिवाक्तमुवाच ह॥२॥

शुचिवाक् द्वितीयो हंसः॥२॥

यस्मात्कामप्रधानस्त्वं योगधर्ममपास्य वै ।
एवं वरं प्रार्थयसे तस्माद्वाक्यं निबोध मे॥३॥

वाक्यं शापरूपम्॥३॥

राजा त्वं भविता तात काम्पिल्ये नात्र संशयः ।
भविष्यतः सखायौ च द्वाविमौ सचिवौ तव॥४॥

शापमेवाह- राजेति॥४॥

शप्त्वा चानभिभाष्यांस्तांश्चत्वारश्चक्रुरण्डजाः ।
तांस्त्रीनभीप्सतो राज्यं व्यभिचारप्रदर्शितान्॥५॥

ते चत्वारस्तांस्त्रीन् शप्त्वाऽनभिभाष्यान् भाषणानर्हान् चक्रुः। शापे हेतुः व्यभिचारप्रधर्षितानिति। व्यभिचारयोगधर्मभ्रंशः॥५॥

शप्ताः खगास्त्रयस्ते तु योगभ्रष्टा विचेतसः ।
तानयाचन्त चतुरस्त्रयस्ते सहचारिणः॥६॥

चतुरः चतुःसङ्ख्याकान्॥६॥

तेषां प्रसादं ते चक्रुरथैतान्सुमनाब्रवीत् ।
सर्वेषामेव वचनात्प्रसादानुगतं वचः॥७॥

सर्वेषां वचनात् वचनं प्राप्य वचोऽब्रवीत्। अडभावः। सन्धिर्वाऽऽर्षः॥७॥

अन्तवान्भविता शापो युष्माकं नात्र संशयः ।
इतश्च्युताश्च मानुष्यं प्राप्य योगमवाप्स्यथ॥८॥

सर्वसत्त्वरुतज्ञश्च स्वतन्त्रोऽयं भविष्यति ।
पितृप्रसादो ह्यस्माभिरस्य प्राप्तः कृतेन वै॥९॥

अस्य अनेन कृतेन उपदेशेनेति शेषः॥९॥

गां प्रोक्षयित्वा धर्मेण पितृभ्य उपकल्प्यताम् ।
अस्माकं ज्ञानसंयोगः सर्वेषां योगसाधनः॥१०॥

उपदेशमेवाह- गामिति। प्रोक्षयित्वा प्रोक्षणादिभिः संस्कारैः संस्कृत्य धर्मेण पितृयज्ञविधिना अस्माकम् अस्माभिस्तां पितृभ्य उपकल्प्य ज्ञानयोगः प्राप्तः इति शेषः। तस्य विशेषणं योगसाधन इति॥१०॥

इमं च वाक्यसन्दर्भश्लोकमेकमुदाहृतम् ।
पुरुषान्तरितं श्रुत्वा ततो योगमवाप्स्यथ॥११॥

इमं वक्ष्यमाणं सप्तव्याधा दशार्णेष्वितिश्लोकद्वयरूपम्। पुरुषान्तरितं पुरुषान्तरव्यवधानेन उच्चरितं श्रुत्वा॥११॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृवाक्ये द्वाविंशोऽध्यायः॥२२॥
हंसवर्णनम्

मार्कण्डेय उवाच। ते योगधर्मनिरताः सप्त मानसचारिणः ।
पद्मगर्भोऽरविन्दाक्षः क्षीरगर्भः सुलोचनः॥१॥

त्रयोविंशे चतुर्भिर्यत्प्रोक्तं तच्च तथाऽभवत्। काम्पिल्ये प्रोच्यते जन्म तेषां कुवलतुष्टये॥१॥ ते योगति। ते हंसाः उपशोषयन् शोषितवन्त इत्युत्तरेणान्वयः॥१॥

उरुबिन्दुः सुबिन्दुश्च हैमगर्भस्तु सप्तमः ।
वाय्वम्बुभक्षाः सततं शरीराण्युपशोषयन्॥२॥

अडभाव आर्षः॥२॥

राजा विभ्राजमानस्तु वपुषा तद्वनं तदा ।
चचारान्तःपुरवृतो नन्दनं मघवानिव॥३॥

वपुषैव चचार नतु यानेन॥३॥

स तानपश्यत्खचरान्योगधर्मात्मकान्नृप ।
निर्वेदाच्च तमेवार्थमनुध्यायन्पुरं ययौ॥४॥

अपश्यत् ऐकाग्र्यादिना बाह्यलक्षणेन योगधर्मात्मकान् ज्ञातवान्। निर्वेदात् पक्षिष्वपि योगोऽस्ति मानुषेऽपि मयि नास्तीति धिङ्मामित्यात्मन्यौदासीन्यात्॥४॥

अणुहो नाम तस्याऽऽसीत्पुत्रः परमधार्मिकः ।
अणुर्धर्मरतिर्नित्यमणुं सोऽध्यगमत्पदम्॥५॥

अणून् सूक्ष्मान् अर्थान् हन्ति प्राप्नोतीत्यणुहपदं निर्वक्ति। अणुधर्मेति॥५॥

प्रादात्कन्यां शुकस्तस्मै कृत्वीं पूजितलक्षणाम् ।
सत्यशीलगुणोपेतां योगधर्मरतां सदा॥६॥

सा ह्युद्दिष्टा पुरा भीष्म पितृकन्या मनीषिणी ।
सनत्कुमारेण तदा सन्निधौ मम शोभना॥७॥

पितॄणां बर्हिषदां कन्या पीवरीनाम्नी॥७॥

सत्यधर्मभृतां श्रेष्ठा दुर्विज्ञेया कृतात्मभिः ।
योगा च योगपत्नी च योगमाता तथैव च॥८॥

योगा स्वयं योगवती॥८॥

यथा ते कथितं पूर्वं पितृकल्पेषु वै मया ।
विभ्राजस्त्वणुहं राज्ये स्थापयित्वा नरेश्वरः॥९॥

आमन्त्र्य पौरान्प्रीतात्मा ब्राह्मणान्स्वति वाच्य च ।
प्रायात्सरस्तपश्चर्तुं यत्र ते सहचारिणः॥१०॥

यत्र ते हंसाः॥१०॥

स वै तत्र निराहारो वायुभक्षो महातपाः ।
त्यक्त्वा कामांस्तपस्तेपे सरसस्तस्य पार्श्वतः॥११॥

तस्य सङ्कल्प आसीच्च तेषामेकतरस्य वै ।
पुत्रत्वं प्राप्य योगेन युज्येयमिति भारत॥१२॥

तस्येति। योगिनः पुत्रो योगवानेव भविष्यतीति भावः॥१२॥

कृत्वाभिसन्धिं तपसा महता स समन्वितः ।
महातपाः स विभ्राजो विरराजांशुमानिव॥१३॥

ततो विभ्राजितं तेन वैभ्राजं नाम तद्वनम् ।
सरस्तच्च कुरुश्रेष्ठ वैभ्राजमिति संज्ञितम्॥१४॥

तच्च सरो मानसाख्यम्॥१४॥

यत्र ते शकुना राजंश्चत्वारो योगधर्मिणः ।
योगभ्रष्टास्त्रयश्चैव देहन्यासकृतोऽभवन्॥१५॥

काम्पिल्ये नगरे ते तु ब्रह्मदत्तपुरोगमाः ।
जाताः सप्त महात्मानः सर्वे विगतकल्मषाः॥१६॥

ज्ञानध्यानतपःपूजावेदवेदाङ्गपारगाः ।
स्मृतिमन्तोऽत्र चत्वारस्त्रयस्तु परिमोहिताः॥१७॥

स्वतन्त्रस्त्वणुहाज्जज्ञे ब्रह्मदत्तो महायशाः ।
यथा ह्यासीत्पक्षिभावे सङ्कल्पः पूर्वचिन्तितः ।
ज्ञानध्यानतपःपूतो वेदवेदाङ्गपारगः॥१८॥

स्वतन्त्रः सप्तमो हंसः यः प्राक् पितृवर्ती युक्तः॥१८॥

छिद्रदर्शी सुनेत्रश्च तथा बाभ्रव्यवत्सयोः ।
जातौ श्रोत्रियदायादौ वेदवेदाङ्गपारगौ॥१९॥

बाभ्रव्यवत्सौ राजामात्यौ तयोःश्रोत्रिययोः कुले॥१९॥

सहायौ ब्रह्मदत्तस्य पूर्वजातिसहोषितौ ।
पाञ्चालः पाञ्चिकश्चैव कण्डरीकस्तथापरः॥२०॥

पाञ्चिकः सर्वजातिषु पञ्चमः कविः स पाञ्चालोऽभूत्। अपरः षष्ठः खसृमः स कण्डरीकोऽभूत्॥२०॥

पाञ्चालो बह्वृचस्त्वासीदाचार्यत्वं चकार ह ।
द्विवेदः कण्डरीकस्तु छन्दोगोऽध्वर्युरेव च॥२१॥

बह्वृचः ऋग्वेदी अध्वर्युः यजुर्वेदी॥२१॥

सर्वसत्त्वरुतज्ञस्तु राजासीदणुहात्मजः ।
पाञ्चालकण्डरीकाभ्यां तस्य सख्यमभूत्तदा॥२२॥

सर्वसत्त्वरुतज्ञः सर्वप्राणिभाषाऽभिज्ञः॥२२॥

ते ग्राम्यधर्माभिरताः कामस्य वशवर्तिनः ।
पूर्वजातिकृतेनासन्धर्मकामार्थकोविदाः॥२३॥

पूर्वजातौ कृतं श्राद्धं तेन हेतुना कोविदा आसन्॥२३॥

अणुहस्तु नृपश्रेष्ठो ब्रह्मदत्तमकल्मषम् ।
राज्येऽभिषिच्य योगात्मा परां गतिमवाप्तवान्॥२४॥

ब्रह्मदत्तस्य भार्या तु देवलस्यात्मजाभवत् ।
असितस्य हि दुर्धर्षा सन्नतिर्नाम नामतः॥२५॥

तामेकभावसम्पन्नां लेभे कन्यामनुत्तमाम् ।
सन्नतिं सन्नतिमतीं देवलाद्योगधर्मिणीम्॥२६॥

लेभे ब्रह्मदत्त इति शेषः॥२६॥

पञ्चमः पाञ्चिकस्तत्र सप्तजातिषु भारत ।
षष्ठस्तु कण्डरीकोऽभूद्ब्रह्मदत्तस्तु सप्तमः॥२७॥

शेषा विहङ्गमा ये वै काम्पिल्ये सहचारिणः ।
ते जाताः श्रोत्रियकुले सुदरिद्रे सहोदराः॥२८॥

शेषा इति। आढ्यकुले जन्म ब्रह्मकोपजं दरिद्रकुले जन्म तु पुण्यप्राप्यमिति भावः॥२८॥

धृतिमान्सुमना विद्वांस्तत्त्वदर्शी च नामतः ।
वेदाध्ययनसम्पन्नाश्चत्वारश्छिद्रदर्शिनः॥२९॥

छिद्रदर्शिनः छिद्रं महापथं प्रति गन्तुमवकाशस्तद्दर्शिनः। वा सहचारिणां वा भोगासक्तिरूपं दूषणं पश्यन्तः। "छिद्रं दूषणरन्ध्रयोः" इति मेदिनी॥२९॥

तेषां संवित्तथोत्पन्ना पूर्वजातिकृता तदा ।
ते योगनिरताः सिद्धाः प्रस्थिताः सर्व एव हि॥३०॥

संवित्प्रस्थातुमैकमत्यम्॥३०॥

आमन्त्र्य पितरं तात पिता तानब्रवीत्तदा ।
अधर्म एष युष्माकं यन्मां त्यक्त्वा गमिष्यथ॥३१॥

दारिद्र्यमनपाकृत्य पुत्रार्थांश्चैव पुष्कलान् ।
शुश्रूषामप्रयुज्यैव कथं वै गन्तुमर्हथ॥३२॥

पुत्रार्थान् वंशसन्तानगयाश्राद्धादीन्॥३२॥

ते तमूचुर्द्विजाः सर्वे पितरं पुनरेव च ।
करिष्यामो विधानं ते येन त्वं वर्तयिष्यसि॥३३॥

वर्तयिष्यसि। जीविष्यसि। अस्माभिरुद्धृतस्य तव सन्तानाद्यपेक्षा नास्तीति भावः॥३३॥

इमं श्लोकं महार्थं त्वं राजानं सहमन्त्रिणम् ।
श्रावयेथाः समागम्य ब्रह्मदत्तमकल्मषम्॥३४॥

इमं सप्त व्याधा इत्यादि वक्ष्यमाणं श्लोकद्वयम्॥३४॥

प्रीतात्मा दास्यति स ते ग्रामान्भोगांश्च पुष्कलान् ।
यथेप्सितांश्च सर्वार्थान्गच्छ तात यथेप्सितम्॥३५॥

एतावदुक्त्वा ते सर्वे पूजयित्वा च तं गुरुम् ।
योगधर्ममनुप्राप्य परां निर्वृतिमाययुः॥३६॥

परां निर्वृतिं मोक्षम्॥३६॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे त्रयोविंशोऽध्यायः॥२३॥
ब्रह्मदत्तचरितम्

मार्कण्डेय उवाच। ब्रह्मदत्तस्य तनयः स वैभ्राजस्त्वजायत ।
योगात्मा तपसा युक्तो विष्वक्सेन इति श्रुतः॥१॥

चतुर्विंशेऽथ विभ्राजः प्राग्जन्मवासनावशात्। ब्रह्मदत्तसुतो जातो विष्वक्सेन इतीर्यते॥१॥ ब्रह्मेति। यस्तेषां हंसानामन्यतमस्य पुत्रो भूत्वा योगेन युज्येयमित्यकामयत स वैभ्राजो नाम राजा तेषां सप्तमस्य ब्रह्मदत्तस्य तनयोऽजायतेत्यन्वयः॥१॥

कदाचिद्ब्रह्मदत्तस्तु भार्यया सहितो वने ।
विजहार प्रहृष्टात्मा यथा शच्या शचीपतिः॥२॥

एतदेव व्याकरोति- कदाचिदित्यादिना॥२॥

ततः पिपीलिकरुतं स शुश्राव नराधिपः ।
कामिनीं कामिनस्तस्य याचतः क्रोशतो भृशम्॥३॥

पिपीलिकस्य रुतं शब्दम्॥३॥

श्रुत्वा तु याच्यमानां तां क्रुद्धां सूक्ष्मां पिपीलिकाम् ।
ब्रह्मदत्तो महाहासमकस्मादेव चाहसत्॥४॥

ततः सा सन्नतिर्दीना व्रीडितेवाभवत्तदा ।
निराहारा बहुतिथं बभूव वरवर्णिनी॥५॥

व्रीडितेव न तु व्रीडिता स्वयं योगाचार्यसुतात्वात्। बहुतिथं बहुकालमिति शेषः॥५॥

प्रसाद्यमाना भर्त्रा सा तमुवाच शुचिस्मिता ।
त्वया च हसिता राजन्नाहं जीवितुमुत्सहे॥६॥

स तत्कारणमाचख्यौ न च सा श्रद्दधाति तत् ।
उवाच चैनं कुपिता नैष भावोऽस्ति मानुषे॥७॥

को वै पिपीलिकरुतं मानुषो वेत्तुमर्हति ।
ऋते देवप्रसादाद्वा पूर्वजातिकृतेन वा॥८॥

तपोबलेन वा राजन्विद्यया वा नराधिप ।
यद्येष वै प्रभावस्ते सर्वसत्त्वरुतज्ञता॥९॥

विद्यया योगबलेन॥९॥

यथाहमेतज्जानीयां तथा प्रत्याययस्व माम् ।
प्राणान्वापि परित्यक्ष्ये राजन्सत्येन ते शपे॥१०॥

मां प्रत्याययस्व मम प्रतीतिमुत्पादय॥१०॥

तत्तस्या वचनं श्रुत्वा महिष्याः परुषाक्षरम् ।
स राजा परमापन्नो देवश्रेष्ठमगात्ततः॥११॥

परम् अत्यन्तम् आपन्नः आपद्ग्रस्तोऽभूत्॥११॥

शरण्यं सर्वभूतेशं भक्त्या नारायणं हरिम् ।
समाहितो निराहारः षड्रात्रेण महायशाः॥१२॥

ददर्श दर्शने राजा देवं नारायणं प्रभुम् ।
उवाच चैनं भगवान्सर्वभूतानुकम्पकः॥१३॥

ब्रह्मदत्त प्रभाते त्वं कल्याणं समवाप्स्यसि ।
इत्युक्त्वा भगवान्देवस्तत्रैवान्तरधीयत॥१४॥

चतुर्णां तु पिता योऽसौ ब्राह्मणानां महात्मनाम् ।
श्लोकं सोऽधीत्य पुत्रेभ्यः कृतकृत्य इवाभवत्॥१५॥

स राजानमथान्विच्छन्सहमन्त्रिणमच्युतम् ।
न ददर्शान्तरं किञ्चिच्छ्लोकं श्रावयितुं तदा॥१६॥

अन्तरमवसरम्॥१६॥

अथ राजा सरःस्नातो लब्ध्वा नारायणाद्वरम् ।
प्रविवेश पुरीं प्रीतो रथमारुह्य काञ्चनम् ।
तस्य रश्मीन्प्रत्यगृह्णात्कण्डरीको द्विजर्षभः॥१७॥

सरःस्नातः सरसि स्नातः॥१७॥

चामरं व्यजनं चापि बाभ्रव्यः समवाक्षिपत्॥१८॥

बाभ्रव्यः पाञ्चालः॥१८॥

इदमन्तरमित्येव ततः स ब्राह्मणस्तदा ।
श्रावयामास राजानं श्लोकं तं सचिवौ च तौ॥१९॥

इदमन्तरमित्येव अयमवसर इति मत्वा॥१९॥

सप्त व्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ ।
चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे॥२०॥

तेऽभिजाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।
प्रस्थिता दीर्घमध्वानं यूयं किमवसीदथ॥२१॥

ते इति। तेषां मध्येऽभिजाताः कुलीनाश्चत्वारो वयमिति शेषः। यूयं त्रय इति शेषः। अवसीदथ योगाद् भ्रष्टतया विशीर्णाः स्थ॥२१॥

तच्छ्रुत्वा मोहमगमद्ब्रह्मदत्तो नराधिपः ।
सचिवश्चास्य पाञ्चाल्यः कण्डरीकश्च भारत॥२२॥

स्रस्तरश्मिप्रतोदौ तौ पतितव्यजनावुभौ ।
दृष्ट्वा बभूवुरस्वस्थाः पौराश्च सुहृदस्तथा॥२३॥

स्रस्तरश्मिप्रतोदौ तामित्यत्र समुदायिधर्मेण समुदायो विशेष्यते। तक्रं पिबन्तावित्यत्र पिबदपिबत्समुदाये पिबन्तावितिवत्। छत्रिणो गच्छन्तीत्यत्र छत्र्यच्छत्रिसमुदाये वा लिङ्गसमवायाच्छत्रिण इति विशेषणं तद्वत्। एवं पतितव्यजनावित्यपि॥२३॥

मुहूर्तमेव राजा स सह ताभ्यां रथे स्थितः ।
प्रतिलभ्य ततः संज्ञां प्रत्यागच्छदरिन्दमः॥२४॥

प्रत्यागच्छत् पुरमिति शेषः॥२४॥

ततस्ते तत्सरः स्मृत्वा योगं तमुपलभ्य च ।
ब्राह्मणं विपुलैरर्थैर्भोगैश्च समयोजयन्॥२५॥

तं योगं पूर्वजन्मनि अभ्यस्तम्॥२५॥

अभिषिच्य स्वराज्ये तु विष्वक्सेनमरिन्दमम् ।
जगाम ब्रह्मदत्तोऽथ सदारो वनमेव ह॥२६॥

अथैनं सन्नतिर्धीरा देवलस्य सुता तदा ।
उवाच परमप्रीता योगाद्वनगतं नृपम्॥२७॥

अथैनमिति। या गुरोर्दोग्ध्री कौशिकदायादैः पित्रर्थं प्रयुक्ता सैव भार्यारूपेण राजानमेत्य योगं स्मारितवती प्रत्युपकारायेति केचित्पौराणिकीं कथामाचक्षते। योगाद्धेतोः॥२७॥

जानन्त्या ते महाराज पिपीलिकरुतज्ञताम् ।
चोदितः क्रोधमुद्दिश्य सक्तः कामेषु वै मया॥२८॥

इतो वयं गमिष्यामो गतिमिष्टामनुत्तमाम् ।
तव चान्तर्हितो योगस्ततः संस्मारितो मया॥२९॥

स राजा परमप्रीतः पत्न्याः श्रुत्वा वचस्तदा ।
प्राप्य योगं बलादेव गतिं प्राप सुदुर्लभाम्॥३०॥

कण्डरीकोऽपि धर्मात्मा साङ्ख्ययोगमनुत्तमम् ।
प्राप्य योगगतिः सिद्धौ विशुद्धस्तेन कर्मणा॥३१॥

साङ्ख्यं प्राप्य योगमतिः योगनिष्ठः। पाठान्तरे साङ्ख्यं योगगतिं च प्राप्येत्यन्वयः॥३१॥

क्रमं प्रणीय पाञ्चाल्यः शिक्षां चोत्पाद्य केवलाम् ।
योगाचार्यगतिं प्राप यशश्चाग्र्यं महातपाः॥३२॥

क्रमं वैदिकप्रसिद्धं प्रणीय विरच्य शिक्षां वर्णानां स्थानकरणप्रयत्नपूर्वकमुच्चारणसम्प्रदायम्॥३२॥

एवमेतत्पुरावृत्तं मम प्रत्यक्षमच्युत ।
तद्धारयस्व गाङ्गेय श्रेयसा योक्ष्यसे ततः॥३३॥

एतत् श्राद्धमाहात्म्यम्॥३३॥

ये चान्ये धारयिष्यन्ति तेषां चरितमुत्तमम् ।
तिर्यग्योनिषु ते जातु न गमिष्यन्ति कर्हिचित्॥३४॥

तेषां वाग्दुष्टादीनाम्॥३४॥

श्रुत्वा चेदमुपाख्यानं महार्थं महतां गतिम् ।
योगधर्मो हृदि सदा परिवर्तति भारत॥३५॥

परिवर्तति सर्वभावेन तिष्ठति॥३५॥

स तेनैवानुबन्धेन कदाचिल्लभते शमम् ।
ततो योगगतिं याति शुद्धां तां भुवि दुर्लभाम्॥३६॥

तेनैव हृदि योगावस्थानेन॥३६॥

वैशम्पायन उवाच। एवमेतत्पुरा गीतं मार्कण्डेयेन धीमता ।
श्राद्धस्य फलमुद्दिश्य सोमस्याप्यायनाय वै॥३७॥

एवमिति। श्राद्धस्य फलं पितॄणां तृप्तिः सा च सोमाप्यायनद्वारा भवति। "तदेतद्देवानामन्नं तं देवा भक्षयन्ति" इति सोमस्य देवान्नत्वश्रवणात् देवभावं गताः पितरः साक्षादेव सोमं पिबन्तीत्यर्थः॥३७॥

सोमो हि भगवान्देवो लोकस्याप्यायनं परम् ।
वृष्णिवंशप्रसङ्गेन तस्य वंशं निबोध मे॥३८॥

ये तु भूमौ सन्ति तेऽपि सोमद्वारैव तृप्यन्तीत्याह- सोमो हीति। भूमिस्थान् पितॄन् दिव्यौषध्यादिद्वारा सोमस्तर्पयतीत्यर्थः। एतेन "अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते” इति स्मृतेः। ब्राह्मणाग्नौ स्मार्ताग्नौ श्रौताग्नौ वा पितॄनुद्दिश्य यद्भुतं तदादित्यं गच्छति। आदित्यस्य सुषुम्नाख्येन रश्मिना सोमस्याप्यायनं भवति। ततः पितॄणां तृप्तिरिति सर्वेषां पूर्वेषां पूर्वत्वादादित्य एव श्राद्धदेवो मुख्य इत्युत्तरं पूर्वकृतस्य कथं वै श्राद्धदेवत्वमादित्यस्य विवस्वत इति प्रश्नस्य निगूढमिति दिक्॥३८॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पसमाप्तिर्नाम चतुर्विंशोऽध्यायः॥२४॥
सोमोत्पत्तिवर्णनम्

वैशम्पायन उवाच। पिता सोमस्य वै राजञ्जज्ञेऽत्रिर्भगवानृषिः ।
ब्रह्मणो मानसात्पूर्वं प्रजासर्गं विधित्सतः॥१॥

पञ्चविंशे तथाऽध्याये सोमस्यात्रेः समुद्भवः। तस्यापत्यसमुत्पत्तिस्तस्माद्वंशश्च कीर्त्यते॥१॥ पिता मानसात् सङ्कल्पात् विधित्सतः विधातुमिच्छतः॥१॥

तत्रात्रिः सर्वभूतानां तस्थौ स्वतनयैर्युतः ।
कर्मणा मनसा वाचा शुभान्येव चचार सः॥२॥

तत्र प्रजासर्गे तस्थौ निष्ठावानभूत्। अत एव सोऽत्रिः भूतानां शुभान्येव स्वतनयैः सह कर्मादिना आचचार॥२॥

अहिंस्रः सर्वभूतेषु धर्मात्मा संशितव्रतः ।
काष्ठकुड्यशिलाभूत ऊर्ध्वबाहुर्महाद्युतिः॥३॥

काष्ठादिवन्निश्चेष्टः॥३॥

अनुत्तरं नाम तपो येन तप्तं महत्पुरा ।
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम्॥४॥

अनुत्तरं नाम मौनाख्यं सर्वेन्द्रियनिग्रहरूपम्॥४॥

तत्रोर्ध्वरेतसस्तस्य स्थितस्यानिमिषस्य ह ।
सोमत्वं तनुरापेदे महासत्त्वस्य भारत॥५॥

अनिमिषस्य निमेषरहितस्येत्यनेन सूर्यादिबाह्यज्योती रश्मिषु धारणा तस्याः बलसाम्यत्वं सोमवत् शुक्लभास्वररूपत्वं कीटभृङ्गन्यायेन ध्येयसारूप्यं प्राप्त इत्यर्थः। महासत्त्वस्येत्यनेन तापकस्य रजसोऽभावात् शान्तप्रकाशतेजोरूपत्वं दर्शितं तन्वाः॥५॥

ऊर्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः ।
नेत्राभ्यां वारि सुस्राव दशधा द्योतयद्दिशः॥६॥

भावितात्मनः शुद्धशान्तिप्रकाशशुक्लभास्वररूपेण तेजसा रञ्जितशरीरस्य नेत्राभ्यां नेत्रतः सोमत्वम्। उक्तरूपं तेजः ऊर्ध्वमाचक्रमे। तत्र प्रकारमाह वारीति। वारि जलं भूत्वा सुस्त्रावेति॥६॥

तं गर्भं विधिना हृष्टा दश देव्यो दधुस्तदा ।
समेत्य धारयामासुर्न च ताः समशक्नुवन्॥७॥

देव्यो दिग्देवताः न च समशक्नुवन् धारयितुम्॥७॥

स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः ।
पपात भासयँल्लोकाञ्छीतांशुः सर्वभावनः॥८॥

ताभ्यः सकाशात् सर्वभावनः औषध्यादिद्वारेण सर्वेषामाप्यायनकरः॥८॥

यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः ।
ततस्ताभिः सहैवाशु निपपात वसुन्धराम्॥९॥

ताभिः ताभ्यः सहैव युगपदेव॥९॥

पतितं सोममालोक्य ब्रह्मा लोकपितामहः ।
रथमारोपयामास लोकानां हितकाम्यया॥१०॥

पतितं लतारूपेण स्थितम् आलोक्य॥१०॥

स हि वेदमयस्तात धर्मात्मा सत्यसङ्ग्रहः ।
युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम्॥११॥

रथस्वरूपमाह- स हीति। वेदमयः वेदैर्दारुभिरिव निर्मितः। धर्मो वियदादिः तत्स्वरूपो धर्मात्मा सत्यं ब्रह्म सङ्गृह्यते ज्ञानेन आत्मसात्क्रियत इति सत्यसङ्ग्रहः वाजिस्थानीया मन्त्राः॥११॥

तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनि ।
तुष्टुवुर्ब्रह्मणः पुत्रा मानसाः सप्त ये श्रुताः॥१२॥

परमात्मनि विष्णुरूपे अत एव यागे सोमं रथेनानीय तस्य आतिथ्यार्थं वैष्णवीमिष्टिं निर्वपन्ति याज्ञिकाः॥१२॥

तथैवाङ्गिरसस्तत्र भृगुरेवात्मजैः सह ।
ऋग्भिर्यजुर्भिर्बहुलैरथर्वाङ्गिरसैरपि॥१३॥

ऋग्भिरित्यनेनैव तदारुढानि सामान्यपि लक्ष्यन्ते बहुलैर्बहुभिः॥१३॥

तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः ।
आप्यायमानं लोकांस्त्रीन्भासयामास सर्वशः॥१४॥

आप्यायमानम् “अंशुरंशुष्टे देव सोमाप्यायताम्" इति मन्त्रेण ऋत्विग्भिः पुष्टीक्रियमाणं तेजो दिविमण्डलरूपेण स्थित्वा सर्वाँल्लोकानवभासयति॥१४॥

स तेन रथमुख्येन सागरान्तां वसुन्धराम् ।
त्रिःसप्तकृत्वोऽतियशाश्चकाराभिप्रदक्षिणम्॥१५॥

सः ब्रह्मा तेन सोमवता रथमुख्येन॥१५॥

तस्य यच्च्यावितं तेजः पृथिवीमन्वपद्यत ।
ओषध्यस्ताः समुद्भूतास्तेजसा प्रज्वलन्त्युत॥१६॥

तस्य सोमस्य च्यावितं रथवेगेन क्षारितम्॥१६॥

ताभिर्धार्यास्त्रयो लोकाः प्रजाश्चैव चतुर्विधाः ।
पोष्टा हि भगवान्सोमो जगतो जगतीपते॥१७॥

त्रयो देवपितृभूतलोकाः चत्वारो नरपशुपक्षिसरीसृपाः भूरादयो जरायुजादयश्चेत्यन्ये॥१७॥

स लब्धतेजा भगवान्संस्तवैस्तैश्च कर्मभिः ।
तपस्तेपे महाभाग पद्मानां दशतीर्दश॥१८॥

यथा दशवारमावृत्ता नव नवतिरेवं दशगुणिताः दशदशतिः। तेन दशतिशब्दः षष्टिसप्ततिवत् शतवाची। तेन सहस्रं पद्मानां वत्सराणामित्यर्थः॥१८॥

हिरण्यवर्णां या देव्यो धारयन्त्यात्मना जगत् ।
निधिस्तासामभूद्देवः प्रख्यातः स्वेन कर्मणा॥१९॥

हिरण्यवर्णाः रजतवत् शुक्लाः। “हिरण्यं स्वर्णरूप्ययोः” इति विश्वः। तासामपां निधिराश्रयः अत एव मणिद्वारा चन्द्रो जलं क्षरति सूर्य इवाग्निम्। तेन यथाऽर्को भासां निधिरेवं चन्द्रोऽपां निधिः॥१९॥

ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः ।
बीजौषधीनां विप्राणामपां च जनमेजय॥२०॥

सोऽभिषिक्तो महाराज राजराज्येन राजराट् ।
लोकांस्त्रीन्भासयामास स्वभासा भास्वतां वरः॥२१॥

राजराज्येन साम्राज्यविधानेन॥२१॥

सप्तविंशतिमिन्दोस्तु दाक्षायण्यो महाव्रताः ।
ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः॥२२॥

इन्दोः भार्या इति शेषः॥२२॥

स तत्प्राप्य महद्राज्यं सोमः सोमवतां वरः ।
समाजह्रे राजसूयं सहस्रशतदक्षिणम्॥२३॥

सोमवतां पितॄणां वरः पतिः। “सोमः सुधांशुकर्पूरकुबेरेपितृदैवते।" इति विश्वः। सहस्रशतं लक्षं गावो दक्षिणा यस्मिन्॥२३॥

होताऽस्य भगवानत्रिरध्वर्युर्भगवान्भृगुः ।
हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान्॥२४॥

हिरण्यगर्भः अङ्गिराः तस्यारण्यके सूत्रावतारत्वावगमात्। हिरण्यगर्भत्वं ब्रह्मा वसिष्ठश्चतुर्मुखो वा॥२४॥

सदस्यस्तत्र भगवान्हरिर्नारायणः स्वयम् ।
सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः॥२५॥

सदस्यः उपद्रष्टा। “सप्तदशऋत्विक्सदस्यं सप्तदशं कौषीतकिनः समामनन्ति स कर्मणामुपद्रष्टा भवति” इति गृह्यात्॥२५॥

दक्षिणामददात्सोमस्त्रीँल्लोकानिति नः श्रुतम् ।
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च भारत॥२६॥

सदस्येभ्यः सभ्येभ्यः॥२६॥

तं सिनिश्च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः ।
कीर्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे॥२७॥

सिनिः सिनीवाली खण्डपर्वणि या पूर्वामावास्या सा सिनीवाली या उत्तरा सा कुहूः तत्साहचर्यात् द्युतिपुष्टी अपि पूर्वोत्तरपौर्णमास्यौ सिषेविरे नित्यमिति शेषः। अश्विन्यादयस्तु पर्यायेणैव सेवन्त इति भावः॥२७॥

प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः ।
विरराजाधिराजेन्द्रो दशधा भासयन्दिशः॥२८॥

प्राप्य ताभिः सहेति शेषः। अन्यथा तत्कीर्तनवैयर्थ्यापत्तिः अत एव स्वमूर्त्या सह दशधा दशभिः प्रकारैर्दिशो दश भासयन्नित्युक्तम्॥२८॥

तस्य तत्प्राप्य दुष्प्राप्यमैश्वर्यं मुनिसत्कृतम् ।
विबभ्राम मतिस्तात विनयादनयाऽऽहता॥२९॥

विबभ्राम ऐश्वर्यमदेन विनयात् चलिता। अनयेन अनीत्या आहतताडिता॥२९॥

बृहस्पतेः स वै भार्यां तारां नाम यशस्विनीम् ।
जहार तरसा सर्वानवमत्याङ्गिरः सुतान्॥३०॥

अनयमेवाह- बृहस्पतेरिति॥३०॥

स याच्यमानो देवैश्च यथा देवर्षिभिः सह ।
नैव व्यसर्जयत्तारां तस्मा आङ्गिरसे तदा ।
स संरब्धस्ततस्तस्मिन्देवाचार्यो बृहस्पतिः॥३१॥

व्यसर्जयत् दत्तवान्। तस्मिन् सोमे बृहस्पतिः संरब्धो युद्धायोद्युक्तोऽभूत्। सार्द्धश्लेोकः॥३१॥

उशना तस्य जग्राह पार्ष्णिमाङ्गिरसस्तदा ।
स हि शिष्यो महातेजाः पितुः पूर्वो बृहस्पतेः॥३२॥

उशनेति। तस्याकार्यकारित्वादसुरत्वं प्राप्तस्य सोमस्य दैत्यगुरुत्वादुशना शुक्रः। पार्ष्णिं जग्राह। तदाह। तस्मिन्नेव काले अङ्गिरसोऽङ्गिरसः शिष्यो रुद्रः बृहस्पतेः पार्ष्णिग्राहोऽभूदिति द्वयोः सम्बन्धः। तत्र हेतुः- स हीति। स रुद्रो बृहस्पतेः पितुः अङ्गिरसः शिष्यः॥३२॥

तेन स्नेहेन भगवान्रुद्रस्तस्य बृहस्पतेः ।
पार्ष्णिग्राहोऽभवद्देवः प्रगृह्याजगवं धनुः॥३३॥

तेन गुरुपुत्रस्नेहेनेति। आजगवम् अजस्य गोश्च शृङ्गाभ्यां निर्मितम्। अजस्य रुद्रस्य गौः वृषभः नन्दी तेन शिवसारूप्यं प्राप्य योगात्कामरूपत्वं च प्राप्य यत्पूर्वं स्वशरीरमुत्सृष्टं तस्य शृङ्गाज्जातम् आजगवमिति वा॥३३॥

तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना ।
उद्दिश्य दैत्यानुत्सृष्टं येनैषां नाशितं यशः॥३४॥

तेन रुद्रेण एषां दैत्यानाम्॥३४॥

तत्र तद्युद्धमभवत्प्रख्यातं तारकामयम् ।
देवानां दानवानां च लोकक्षयकरं महत्॥३५॥

तारकामयं तारानिमित्तत्वात्प्रधानम्॥३५॥

तत्र शिष्टास्तु ये देवास्तुषिताश्चैव भारत ।
ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम्॥३६॥

शिष्टा धर्मपराः देवाः बृहस्पतिपक्षीयाः तुषः दोषकञ्चुकं सञ्जातं येषां ते गुरुदारहर्तुः सोमस्य पक्षपातिनस्तुषिता देवाः॥३६॥

ततो निवार्योशनसं रुद्रं ज्येष्ठं च शङ्करम् ।
ददावङ्गिरसे तारां स्वयमेव पितामहः॥३७॥

ददौ प्रत्यर्पयत्॥३७॥

तामन्तःप्रसवां दृष्ट्वा तारां प्राह बृहस्पतिः ।
मदीयायां न ते योनौ गर्भो धार्यः कथञ्चन॥३८॥

अन्तःप्रसवां गर्भवतीम्॥३८॥

अयोनावुत्सृजत्तं सा कुमारं दस्युहन्तमम् ।
इषीकास्तम्बमासाद्य ज्वलन्तमिव पावकम्॥३९॥

अयोनौ अस्थाने। तदेवाह- इषीकेति। दस्युहन्तमम् अतिशयेन दस्यूनां हन्तारम्॥३९॥

जातमात्रः स भगवान्देवानामक्षिपद्वपुः ।
ततः संशयमापन्ना इमामकथयन्सुराः॥४०॥

अक्षिपत् स्वतेजसा तिरश्चकार॥४०॥

सत्यं ब्रुहि सुतः कस्य सोमस्याथ बृहस्पतेः ।
पृच्छ्यमाना यदा देवैर्नाह सा साध्वसाधु वा॥४१॥

तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ।
तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम्॥४२॥

पप्रच्छ मातरं विना ब्रह्मापि गर्भस्य धातारं न वेदेति भावः॥४२॥

तदत्र तथ्यं तद्ब्रूहि तारे कस्य सुतस्त्वयम् ।
सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम्॥४३॥

सोमस्येति महात्मानं कुमारं दस्युहन्तमम् ।
ततस्तं मूर्ध्न्युपाघ्राय सोमो धाता प्रजापतिः॥४४॥

धाता गर्भस्याधायकः तत एव प्रजायाः पतिः रेतःसिञ्चः पुत्रो नक्षत्रपतेरिति भावः। तथा च श्रुतिः “जनयितुः पुत्रो भवति साम्पराये मोघं वेत्ता कुरुते तन्तुमेतम्" इति॥४४॥

बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः ।
प्रतिकूलं च गगने समभ्युत्थिष्ठते बुधः॥४५॥

सूर्योदयेऽर्कसान्निध्यात्प्रायेणास्तङ्गत एव भवति यदा तूदेति तदा उत्पातं जनयतीत्याह- प्रतीति॥४५॥

उत्पादयामास ततः पुत्रं वै राजपुत्रिका ।
तस्यापत्यं महाराजो बभूवैलः पुरूरवाः॥४६॥

ततः बुधात् वैराजो मनुस्तस्य पुत्रिका इला॥४६॥

उर्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः ।
प्रसह्य धर्षितस्तत्र सोमो वै राजयक्ष्मणा॥४७॥

यस्य पुरूरवसः तत्र औद्धत्ये निमित्ते सति॥४७॥

ततो यक्ष्माभिभूतस्तु सोमः प्रक्षीणमण्डलः ।
जगाम शरणार्थाय पितरं सोऽत्रिमेव तु॥४८॥

प्रक्षीणमण्डलः अल्पपरिधिः॥४८॥

तस्य तत्तापशमनं चकारात्रिर्महातपाः ।
स राजयक्ष्मणा मुक्तः श्रिया जज्वाल सर्वतः॥४९॥

एवं सोमस्य वै जन्म कीर्तितं कीर्तिवर्धनम् ।
वंशमस्य महाराज कीर्त्यमानं च मे शृणु॥५०॥

धन्यमारोग्यमायुष्यं पुण्यं सङ्कल्पसाधनम् ।
सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते॥५१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि सोमोत्पत्तिकथने पञ्चविंशोऽध्यायः॥२५॥
ऐलोत्पत्तिवर्णनम्

वैशम्पायन उवाच। बुधस्य तु महाराज विद्वान्पुत्रः पुरूरवाः ।
तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः॥१॥

षड्विंशे वर्ण्यते वंशः पुरूरवस एव च। उर्वश्यामथ सम्प्राप्तिस्त्रेताग्नेर्भुवि दुर्लभा॥१॥ बुधस्येति॥१॥

ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः ।
आहर्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः॥२॥

शत्रुभिर्दुर्जय इति सम्बन्धः॥२॥

सत्यवादी पुण्यमतिः काम्यः संवृतमैथुनः ।
अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा॥३॥

काम्यः कामनीयः॥३॥

तं ब्रह्मवादिनं क्षान्तं धर्मज्ञं सत्यवादिनम् ।
उर्वशी वरयामास हित्वा मानं यशस्विनी॥४॥

मानं देवभोग्याऽहं कथं मानुषं यच्छेयमिति गर्वम्॥४॥

तया सहावसद्राजा वर्षाणि दश पञ्च च ।
पञ्च षट् सप्त चाष्टौ च दश चाष्टौ च भारत॥५॥

तयेति। दशादिसङ्ख्याष्टकं क्रमात् उत्तरस्थेन चैत्ररथादिस्थानाष्टकेनान्वेति॥५॥

वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे ।
अलकायां विशालायां नन्दने च वनोत्तमे॥६॥

विशालायां बदर्याम्॥६॥

उत्तरान्स कुरून्प्राप्य मनोरथफलद्रुमान् ।
गन्धमादनपादेषु मेरुपृष्ठे तथोत्तरे॥७॥

एतेषु वनमुख्येषु सुरैराचरितेषु च ।
उर्वश्या सहितो राजा रेमे परमया मुदा॥८॥

देशे पुण्यतमे चैव महर्षिभिरभिष्टुते ।
राज्यं च कारयामास प्रयागे पृथिवीपतिः॥९॥

तस्य पुत्रा बभूवुस्ते सप्त देवसुतोपमाः ।
दिवि जाता महात्मान आयुर्धीमानमावसुः॥१०॥

दिवि स्वर्गे जाताः॥१०॥

विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः ।
दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः॥११॥

जनमेजय उवाच। गान्धर्वी चोर्वशी देवी राजानं मानुषं कथम् ।
देवानुत्सृज्य सम्प्राप्ता तन्नो ब्रूहि बहुश्रुत॥१२॥

वैशम्पायन उवाच। ब्रह्मशापाभिभूता सा मानुषं समपद्यत ।
ऐलं तु सा वरारोहा समयात्समुपस्थिता॥१३॥

आत्मनः शापमोक्षार्थं समयं सा चकार ह ।
अनग्नदर्शनं चैव सकामायां च मैथुनम्॥१४॥

द्वौ मेषौ शयनाभ्याशे सदा बद्धौ च तिष्ठतः ।
घृतमात्रो तथाऽऽहारः कालमेकं तु पार्थिव॥१५॥

घृतमात्रा घृतस्य लेशः एकं कालं सकृदित्यर्थः। घृतस्य स्तोकं सकृदह्नश्चाश्नामीति लिङ्गात्॥१५॥

यद्येष समयो राजन्यावत्कालं च ते दृढः ।
तावत्कालं तु वत्स्यामि त्वत्तः समय एष नः॥१६॥

त्वत्तः त्वयि॥१६॥

तस्यास्तं समयं सर्वं स राजा समपालयत् ।
एवं सा वसते तत्र पुरूरवसि भामिनी॥१७॥

वर्षाण्येकोनषष्टिस्तु तत्सक्ता शापमोहिता ।
उर्वश्यां मानुषस्थायां गन्धर्वाश्चिन्तयान्विताः॥१८॥

एकोनषष्टिं पूर्वोक्तदशादिसङ्ख्यानां सङ्कलनात्॥१८॥

गन्धर्वा ऊचुः। चिन्तयध्वं महाभागा यथा सा तु वराङ्गना ।
समागच्छेत्पुनर्देवानुर्वशी स्वर्गभूषणम्॥१९॥

ततो विश्वावसुर्नाम तत्राह वदतां वरः ।
मया तु समयस्ताभ्यां क्रियमाणः श्रुतः पुरा॥२०॥

व्युत्क्रान्तसमयं सा वै राजानं त्यक्ष्यते यथा ।
तदहं वेद्म्यशेषेण यथा भेत्स्यत्यसौ नृपः॥२१॥

भेत्स्यति समयम्॥२१॥

ससहायो गमिष्यामि युष्माकं कार्यसिद्धये ।
एवमुक्त्वा गतस्तत्र प्रतिष्ठानं महायशाः॥२२॥

निशायामथ चागम्य मेषमेकं जहार सः ।
मातृवद्वर्तते सा तु मेषयोश्चारुहासिनी॥२३॥

गन्धर्वागमनं श्रुत्वा शापान्तं च यशस्विनी ।
राजानमब्रवित्तत्र पुत्रो मेऽह्रियतेति सा॥२४॥

अह्रियत हृतः एवमुक्त इति सम्बन्धः॥२४॥

एवमुक्तो विनिश्चित्य नग्नो नैवोदतिष्ठत ।
नग्नां मां द्रक्ष्यते देवी समयो वितथो भवेत्॥२५॥

ततो भूयस्तु गन्धर्वा द्वितीयं मेषमाददुः ।
द्वितीये तु हृते मेषे ऐलं देव्यब्रवीदिदम्॥२६॥

पुत्रो मेऽपहृतो राजन्ननाथाया इव प्रभो ।
एवमुक्तस्तथोत्थाय नग्नो राजा प्रधावितः॥२७॥

जायया प्रधावितः॥२७॥

मेषयोः पदमन्विच्छन्गन्धर्वैर्विद्युदप्यथ ।
उत्पादिता सुमहती ययौ तद्भवनं महत्॥२८॥

पदं गतिचिह्नम्॥२८॥

प्रकाशितं वै सहसा ततो नग्नमवैक्षत ।
नग्नं दृष्ट्वा तिरोभूता साप्सरा कामरूपिणी॥२९॥

उत्सृष्टावुरणौ दृष्ट्वा राजा गृह्यागतो गृहे ।
अपश्यन्नुर्वशीं तत्र विललाप सुदुःखितः॥३०॥

उरणौ मेषौ गृह्य गृहीत्वा॥३०॥

चचार पृथिवीं सर्वां मार्गमाण इतस्ततः ।
अथापश्यत्स तां राजा कुरुक्षेत्रे महाबलः॥३१॥

प्लक्षतीर्थे पुष्करिण्यां हैमवत्यां समाप्लुताम् ।
क्रीडन्तीमप्सरोभिश्च पञ्चभिः सह शोभनाम्॥३२॥

हैमवत्यां हैमानि सौवर्णानि पद्मादीनि तद्वत्यां हैमवतीसंज्ञायामिति वा॥३२॥

तां क्रीडन्तीं ततो दृष्ट्वा विललाप सुदुःखितः ।
सा चापि तत्र तं दृष्ट्वा राजानमविदूरतः॥३३॥

उर्वशी ताः सखीः प्राह स एष पुरुषोत्तमः ।
यस्मिन्नहमवात्सं वै दर्शयामास तं नृपम्॥३४॥

समाविग्नास्तु ताः सर्वाः पुनरेव नराधिप ।
जाये ह तिष्ठ मनसा घोरे वचसि तिष्ठ ह॥३५॥

समाविग्नाः पुनरुर्वशीगमनशङ्कया "हये जाये मनसा तिष्ठ घोरे” इति सूक्तादिमर्थतः पठति जाये इति। हये इत्यस्य व्याख्यानं वचसीति हये। तिष्ठेति सम्बन्धात् जाये इत्यस्याः सम्बुद्धेः पादादिस्थत्वादाद्युदात्तत्वम्॥३५॥

एवमादीनि सूक्तानि परस्परमभाषत ।
उर्वशी चाब्रवीदैलं सगर्भाहं त्वया प्रभो॥३६॥

सगर्भाऽहमित्युपगमनानर्हत्वमुक्तम्॥३६॥

संवत्सरात्कुमारास्ते भविष्यन्ति न संशयः ।
निशामेकां च नृपते निवत्स्यसि मया सह॥३७॥

हृष्टो जगाम राजाथ स्वपुरं तु महायशाः ।
गते संवत्सरे भूय उर्वशी पुनरागमत्॥३८॥

उषितश्च तया सार्धमेकरात्रं महायशाः ।
उर्वश्यथाब्रवीदैलं गन्धर्वा वरदास्तव॥३९॥

तान्वृणीष्व महाराज ब्रूहि चैनांस्त्वमेव हि ।
वृणीष्व समतां राजन्गन्धर्वाणां महात्मनाम्॥४०॥

समतां सारूप्यं सालोक्यं वा॥४०॥

तथेत्युक्त्वा वरं वव्रे गन्धर्वाश्च तथास्त्विति ।
पूरयित्वाग्निना स्थालीं गन्धर्वाश्च तमब्रुवन्॥४१॥

अनेनेष्ट्वा च लोकान्नः प्राप्स्यसि त्वं नराधिप ।
तानादाय कुमारांस्तु नगरायोपचक्रमे॥४२॥

निक्षिप्याग्निमरण्ये तु सपुत्रस्तु गृहं ययौ ।
स त्रेताग्निं तु नापश्यदश्वत्थं तत्र दृष्टवान्॥४३॥

निक्षिप्येत्यनेन पुत्रान् अग्निं च सह पुरं न प्रवेशयेदिति दर्शितम्। सः त्रेताऽग्निं ग्रामाद्बहिः प्राङ् निहितं तत्र गत्वा स्वस्थाने नापश्यत् अपि तु अश्वत्थं दृष्टवान्। तत्राग्निस्थाने अभ्येत्याग्निमित्यपि पठन्ति॥४३॥

शमीजातं तु तं दृष्ट्वा अश्वत्थं विस्मितस्तदा ।
गन्धर्वेभ्यस्तदाशंसदग्निनाशं ततस्तु सः॥४४॥

तम् अश्वत्थं शमीजातं शमीगर्भोत्पन्नं नाशम् अदर्शनं नाशतस्तु सः॥४४॥

श्रुत्वा तमर्थमखिलमरणीं तु समादिशत् ।
अश्वत्थादरणीं कृत्वा मथित्वाग्निं यथाविधि॥४५॥

अरणीमन्थनेनाग्न्युत्पादनार्थं काष्ठद्वयं ततोऽश्वत्थात्तत् ग्राह्यमिति समादिशत्॥४५॥

मथित्वाग्निं त्रिधा कृत्वा अयजत्स नराधिपः ।
इष्ट्वा यज्ञैर्बहुविधैर्गतस्तेषां सलोकताम्॥४६॥

तेषां गन्धर्वाणाम्॥४६॥

गन्धर्वेभ्यो वरं लब्ध्वा त्रेताग्निं समकारयत् ।
एकोऽग्निः पूर्वमेवासीदैलस्त्रेतामकारयत्॥४७॥

त्रेता त्रित्ववैशिष्ट्यम्। गुण आर्षः। पृषोदरादित्वाद्वा विकारः। अग्नित्रयम् अकल्पयदित्यर्थः॥४७॥

एवं प्रभावो राजासीदैलस्तु नरसत्तम ।
देशे पुण्यतमे चैव महर्षिभिरभिष्टुते॥४८॥

राज्यं स कारयामास प्रयागे पृथिवीपतिः ।
उत्तरे जाह्नवीतीरे प्रतिष्ठाने महायशाः॥४९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि ऐलोत्पत्तिर्नाम षड्विंशोऽध्यायः॥२६॥
अमावसुवंशवर्णनम्

वैशम्पायन उवाच। ऐलपुत्रा बभूवुस्ते सर्वे देवसुतोपमाः ।
दिवि जाता महात्मान आयुर्धीमानमावसुः॥१॥

उच्यतेऽमावसोर्वंशः सप्तविंशे प्रधानतः। द्वितीयस्यैलपुत्रस्य सूच्यादिन्यायतः क्रमात्॥१॥ ऐलेति॥१॥

विश्वायुश्चैव धर्मात्मा श्रुतायुश्च तथापरः ।
धृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः ।
अमावसोश्च दायादो भीमो राजाथ नग्नजित्॥२॥

अथ नग्नजिदिति द्वितीयः पुत्रः॥२॥

श्रीमान्भीमस्य दायादो राजासीत्काञ्चनप्रभः ।
विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः॥३॥

विदुषः पुत्रः सुहोत्रः॥३॥

सौहोत्रिरभवज्जह्नुः केशिन्या गर्भसम्भवः ।
आजह्रे यो महत्सत्रं सर्वमेधमहामखम्॥४॥

महत्सत्रम् अन्नदानं यत्र तं मखं सर्वमेधसंज्ञम्॥४॥

पतिलोभेन यं गङ्गा पतित्वेऽभिससार ह ।
नेच्छतः प्लावयामास तस्य गङ्गा च तत्सदः ।
स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः॥५॥

पतिलोभेन पतिगुणलोभेन॥५॥

सौहित्रिरब्रवीद्गङ्गां क्रुद्धो भरतसत्तम॥६॥

एष ते विफलं यत्नं पिबन्नम्भः करोम्यहम् ।
अस्य गङ्गेऽवलेपस्य सद्यः फ्लमवाप्नुहि॥७॥

राजर्षिणा ततः पीतां गङ्गां दृष्ट्वा महर्षयः ।
उपनिन्युर्महाभागां दुहितृत्वेन जाह्नवीम्॥८॥

युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् ।
युवनाश्वस्य शापेन गङ्गाऽर्धेन विनिर्ममे॥९॥

जह्नोर्भार्यात्वामिच्छन्त्या गङ्गायाः दुहितृत्वप्राप्तेर्वन्ध्यसङ्कल्पत्वं जातमित्याशङ्क्याह– युवनाश्वस्येति। केनचिन्निमित्तेन युवनाश्वो गङ्गां मानुषी भवेति शशाप। सा च तस्यैव दुहितृत्वं प्राप्यात्मसङ्कल्पमपि सत्यं चकारेति सार्धस्यार्थः। गङ्गा स्वार्थेन कावेरीं निर्ममे। पाठान्तरे गङ्गाया अर्धेन निर्मितां कावेरीं जह्नोर्भार्यां विद्यादिति शेषः॥९॥

कावेरीं सरितां श्रेष्ठां जह्नोर्भार्यामनिन्दिताम् ।
जह्नस्तु दयितं पुत्रं सुनहं नाम धार्मिकम् ।
कावेर्यां जनयामास अजकस्तस्य चात्मजः॥१०॥

अजकस्य तु दायादो बलाकाश्वो महीपतिः ।
बभूव मृगयाशीलः कुशस्तस्यात्मजोऽभवत्॥११॥

कुशपुत्रा बभूवुर्हि चत्वारो देववर्चसः ।
कुशिकः कुशनाभश्च कुशाम्बो मूर्तिमांस्तथा॥१२॥

पह्लवैः सह संवृद्धिं राजा वनचरैस्तदा ।
कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमप्रभम् ।
लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान्॥१३॥

राजा कुशिकः इन्द्रसमं पुत्रं लभेयमिति तपस्तेपे इत्यन्वयः। शक्रश्च मत्समोऽन्यो भविष्यतीति त्रासादभ्येत्य तस्य पुत्रो जज्ञिवान् जातः॥१३॥

पूर्णे वर्षसहस्रे वै तं तु शक्रो ह्यपश्यत ।
अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः॥१४॥

एतदेव स्पष्टयति- पूर्णे इति॥१४॥

समर्थः पुत्रजनने स्वमेवांशमवासयत् ।
पुत्रत्वे कल्पयामास स देवेन्द्रः सुरोत्तमः॥१५॥

स्वम् अंशं तस्य शरीरे रेतोरूपेण अवासयत् स्थापितवान् ततः भार्यायां तस्य पुत्रत्वेन कल्पयामासेत्यर्थः॥१५॥

स गाधिरभवद्राजा मघवान्कौशिकः स्वयम् ।
पौरुकुत्स्यभवद्भार्या गाधिस्तस्यामजायत॥१६॥

पौरुकुत्सी पुरुकुत्सस्य पुत्री भार्या कुशिकस्याभवत्॥१६॥

गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा ।
तां गाधिर्भृगुपुत्राय ऋचीकाय ददौ प्रभुः॥१७॥

तस्याः प्रीतोऽभवद्भर्ता भार्गवो भृगुननदनः ।
पुत्रार्थं कारयामास चरुं गाधेस्तथैव च॥१८॥

गाधेस्तथैव चेति प्रीतः सन् पुत्रार्थं चरुं कल्पयामासेत्यर्थः॥१८॥

उवाचाहूय तां भर्ता ऋचीको भार्गवस्तदा ।
उपयोज्यश्चरुरयं त्वया मात्रा त्वयं तव॥१९॥

उपयोज्यः भक्षणीयः अयमयमिति चरुद्वयस्य पृथक् प्रदर्शनम्॥१९॥

तस्यां जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः ।
अजेयः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः॥२०॥

तस्यां तव मातरि॥२०॥

तवापि पुत्रं कल्याणि धृतिमन्तं तपोनिधिम् ।
शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति॥२१॥

एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः ।
तपस्याभिरतो नित्यमरण्यं प्रविवेश ह॥२२॥

गाधिः सदारस्तु तदा ऋचीकावासमभ्यगात् ।
तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं जनेश्वरः॥२३॥

चरुद्वयं गृहीत्वा तदृषेः सत्यवती तदा ।
चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत्॥२४॥

माता व्यत्यस्य दैवेन दुहित्रे स्वं चरुं ददौ ।
तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह॥२५॥

व्यत्यस्य विपर्यासं कृत्वा अज्ञानात् ऋषिणा तुल्यः स्वपुत्रो भूयादिति मोहात् आत्मसंस्थं चकार स्वयं भुक्तवती॥२५॥

अथ सत्यवती गर्भं क्षत्रियान्तकरं तदा ।
धारयामास दीप्तेन वपुषा घोरदर्शनम्॥२६॥

तामृचीकस्ततो दृष्ट्वा योगेनाभ्यनुसृत्य च ।
तामब्रवीद्द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम्॥२७॥

योगेन ध्यानेन अभ्यनुसृत्य ज्ञात्वा॥२७॥

मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ।
जनिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुणः॥२८॥

भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः ।
विश्वं हि ब्रह्मतपसा मया तस्मिन्समर्पितम्॥२९॥

विश्वं ब्रह्म कृत्स्नो वेदः॥२९॥

एवमुक्ता महाभागा भर्त्रा सत्यवती तदा ।
प्रसादयामास पतिं पुत्रो मे नेदृशो भवेत् ।
ब्राह्मणापसदस्तत्र इत्युक्तो मुनिरब्रवीत्॥३०॥

मे मम ईदृशस्त्वत्तो ब्राह्मणापसदो ब्राह्मणाधमो मा भवेदिति सम्बन्धः॥३०॥

नैष सङ्कल्पितः कामो मया भद्रे तथास्त्विति ।
उग्रकर्मा भवेत्पुत्रः पितुर्मातुश्च कारणात् ।
पुनः सत्यवती वाक्यमेवमुक्ताब्रवीदिदम्॥३१॥

नैष इति- पितुर्मातुर्वा दोषात्पुत्र उग्रकर्मा भवेत्। इह तु तवैव प्रमादाच्चरुव्यत्यासो जातः न तु ममायं सङ्कल्पः तथा क्रूरप्रकारः पुत्रो भवेदित्यर्थः॥३१॥

इच्छँल्लोकानपि मुने सृजेथाः किं पुनः सुतम् ।
शमात्मकमृजुं त्वं मे पुत्रं दातुमिहार्हसि॥३२॥

शमात्मकं सुतं सृजेथा इति किं पुनरिति सम्बन्धः॥३२॥

काममेवंविधः पौत्रो मम स्यात्तव च प्रभो ।
यद्यन्यथा न शक्यं वै कर्तुमेतद्द्विजोत्तम॥३३॥

काममिति- "आत्मा वै पुत्रनामासि” इति श्रुतेः पुत्रस्य भर्त्रभिन्नत्वात्तद्भार्यायाश्च सपत्नीतुल्यत्वेन तस्या एव एवंविधः पुत्रोऽस्तु। यदि एतदन्यथा कर्तुं न शक्यं चेत्तस्यामपि तादृशः पुत्रो मा भूदिति भावः॥३३॥

ततः प्रसादमकरोत्स तस्यास्तपसो बलात् ।
भद्रे नास्ति विशेषो मे पौत्रे च वरवर्णिनि ।
त्वया यथोक्तं वचनं तथा भद्रं भविष्यति॥३४॥

तव मम पौत्रे विशेषो नास्ति। तस्यापि परम्परया ममात्मकत्वादिति भावः॥३४॥

ततः सत्यवती पुत्रं जनयामास भार्गवम् ।
तपस्याभिरतं दान्तं जमदग्निं शमात्मकम्॥३५॥

भृगोश्चरुविपर्यासे रौद्रवैष्णवयोः पुरा ।
यजनाद्वैष्णवेऽथांशे जमदग्निरजायत॥३६॥

भृगोः भार्गवस्य ऋचीकस्य यजनात् देवताराधनात् वैष्णवः पालनकर्माऽप्यंशः शमात्मको जमदग्निरजायत॥३६॥

सा हि सत्यवती पुण्या सत्यधर्मपरायणा ।
कौशिकीति समाख्याता प्रवृत्तेयं महानदी॥३७॥

इक्ष्वाकुवंशप्रभवो रेणुर्नाम नराधिपः ।
तस्य कन्या महाभागा कामली नाम रेणुका॥३८॥

रेणुकायां तु कामल्यां तपोविद्यासमन्वितः ।
आर्चिको जनयामास जामदग्न्यं सुदारुणम्॥३९॥

आर्चीको जमदग्निः जामदग्न्यं रामं सुदारुणं रुद्रांशत्वात्॥३९॥

सर्वविद्यानुगं श्रेष्ठं धनुर्वेदस्य पारगम् ।
रामं क्षत्रियहन्तारं प्रदीप्तमिव पावकम्॥४०॥

और्वस्यैवमृचीकस्य सत्यवत्यां महायशाः ।
जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः॥४१॥

मध्यमश्च शुनःशेपः शुनःपुच्छः कनिष्ठकः ।
विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः॥४२॥

जनयामास पुत्रं तु तपोविद्याशमात्मकम् ।
प्राप्य ब्रह्मर्षिसमतां योऽयं सप्तर्षितां गतः॥४३॥

विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ।
जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्धनः॥४४॥

भृगोः ऋचीकस्य प्रसादेन॥४४॥

विश्वामित्रस्य च सुता देवरातादयः स्मृताः ।
प्रख्यातास्त्रिषु लोकेषु तेषां नामानि मे शृणु॥४५॥

देवश्रवाः कतिश्चैव यस्मात्कात्यायनाः स्मृताः ।
शालावत्यां हिरण्याक्षो रेणोर्जज्ञेऽथ रेणुमान्॥४६॥

देवश्रवाः कतिः हिरण्याक्षश्च शालावत्यां रेणुमत्प्रभृतयो देवलान्ताः रेणुसंज्ञायाम्॥४६॥

साङ्कृतिर्गालवश्चैव मुद्गलश्चेति विश्रुताः ।
मधुच्छन्दो जयश्चैव देवलश्च तथाष्टकः॥४७॥

अष्टकादयस्त्रयो दृषद्वत्याम्॥४७॥

कच्छपो हारितश्चैव विश्वामित्रस्य वै सुताः ।
तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम्॥४८॥

गोत्राणि पौत्रादयः॥४८॥

पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च ।
पार्थिवा देवराताश्च शालङ्कायनबाष्कलाः॥४९॥

पाणिनादयो द्वादश॥४९॥

लोहिता यामदूताश्च तथा कारीषवः स्मृताः ।
सौश्रुताः कौशिका राजंस्तथान्ये सैन्धवायनाः॥५०॥

देवला रेणवश्चैव याज्ञ्यवल्क्याघमर्षणाः ।
औदुम्बरा ह्यभिष्णातास्तारकायनचुञ्चुलाः॥५१॥

देवलाः देवलपुत्राः रेणवः रेणोः पौत्रा इत्यर्थः। याज्ञवल्क्यादयः षट् शालावतीपौत्राः हिरण्याक्षपुत्राः॥५१॥

शालावत्या हिरण्याक्षाः साङ्कृत्या गालवास्तथा ।
बादरायणिनश्चान्ये विश्वामित्रस्य धीमतः॥५२॥

साङ्कृत्याः गालवाश्च रेणोः पौत्राः बादरायणिनश्चेत्यत्र बादरायणिर्नरश्चेति पाठान्तरम्॥५२॥

ऋष्यन्तरविवाह्याश्च कौशिका बहवः स्मृताः ।
पौरवस्य महाराज ब्रह्मर्षिः कौशिकस्य च ।
सम्बन्धोऽप्यस्य वंशेऽस्मिन्ब्रह्मक्षत्रस्य विश्रुतः॥५३॥

एते साङ्कृत्यादयः ऋष्यन्तरे प्रवरभेदे विवाहो येषां ते ऋष्यन्तरविवाह्याः पौरवस्य राज्ञः ब्रह्मर्षेः वसिष्ठादिकस्य ताभ्यां सह कौशिकस्य सम्बन्धोऽस्तीत्यर्थः॥५३॥

विश्वामित्रात्मजानां तु शुनःशेपोऽग्रजः स्मृतः ।
भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः॥५४॥

भार्गव इति। पूर्वं जमदग्नेः कनिष्ठो भ्राता शुनःशेपः इति उक्तत्वात्। श्रुतौ तु आङ्गिरसो जन्मनास्याजीगर्तः श्रुतः कविरिति तस्याङ्गिरसत्वं दृष्टं तत्कल्पान्तराभिप्रायेण ज्ञेयम्॥५४॥

विश्वामित्रस्य पुत्रस्तु शुनःशेपोऽभवत्किल ।
हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः॥५५॥

हरिदश्वस्य हरिश्चन्द्रस्य॥५५॥

देवैर्दत्तः शुनःशेपो विश्वामित्राय वै पुनः ।
देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत्॥५६॥

"देवा वा इमं मह्यमरासतेति स ह देवरातो वैश्वामित्र आस" इति श्रुत्यर्थं गृह्णाति- देवैरिति॥५६॥

देवरातादयः सप्त विश्वामित्रस्य वै सुताः ।
दृषद्वतीसुतश्चापि विश्वामित्रात्तथाष्टकः॥५७॥

अष्टकस्य सुतो लौहिः प्रोक्तो जह्रुगणो मया ।
अथ ऊर्ध्वं प्रवक्ष्यामि वंशमायोर्महात्मनः॥५८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वण्यमावसुवंशकीर्तनं नाम सप्तविंशोऽध्यायः॥२७॥
आयुवंशकथनम्

वैशम्पायन उवाच। आयोः पुत्रास्तथा पञ्च सर्वे वीरा महारथाः ।
स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृप॥१॥

अष्टाविंशेऽन्वय अथो उच्यते रजिविक्रमः। महेन्द्रस्य च्युतिः स्वर्गात्प्रतिष्ठा बुद्धिजा ततः॥ आयोः स्वर्भानोः राहोः॥१॥

नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम् ।
रम्भोरजिरनेनाश्च त्रिषु लोकेषु विश्रुताः॥२॥

रजिः पुत्रशतानीह जनयामास पञ्च वै ।
राजेयमिति विख्यातं क्षत्रमिन्द्रभयावहम्॥३॥

यत्र देवासुरे युद्धे समुत्पन्ने सुदारुणे ।
देवाश्चैवासुराश्चैव पितामहमथाब्रुवन्॥४॥

यत्र काले समुत्पन्ने उपस्थिते॥४॥

आवयोर्भगवन्युद्धे को विजेता भविष्यति ।
ब्रूहि नः सर्वभूतेश श्रोतुमिच्छामि ते वचः॥५॥

ब्रह्मोवाच। येषामर्थाय सङ्ग्रामे रजिरात्तायुधः प्रभुः ।
योत्स्यते ते जयिष्यन्ति त्रीँल्लोकान्नात्र संशयः॥६॥

यतो रजिर्धृतिस्तत्र श्रीश्च तत्र यतो धृतिः ।
यतो धृतिश्च श्रीश्चैव धर्मस्तत्र जयस्तथा॥७॥

ते देवदानवाः प्रीता देवेनोक्ता रजेर्जये ।
अभ्ययुर्जयमिच्छन्तो वृण्वाना भरतर्षभम्॥८॥

देवेन ब्रह्मणा रजेः रजिं प्राप्य जयमिच्छन्तः सन्तः जये जयानिमित्तं भरतर्षभं रजिम् अभ्ययुः॥८॥

स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत ।
राजा परमतेजस्वी सोमवंशप्रवर्धनः॥९॥

ते हृष्टमनसः सर्वे रजिं देवाश्च दानवाः ।
ऊचुरस्मज्जयाय त्वं गृहाण वरकार्मुकम्॥१०॥

अथोवाच रजिस्तत्र तयोर्वै देवदैत्ययोः ।
स्वार्थज्ञः स्वार्थमुद्दिश्य यशः स्वं च प्रकाशयन्॥११॥

रजिरुवाच। यदि दैत्यगणान्सर्वाञ्जित्वा शक्रपुरोगमाः ।
इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे॥१२॥

भोः शक्रपुरोगमाः भो देवाः। पाठान्तरे सुगमम्॥१२॥

देवाः प्रथमतो भूयः प्रत्यूचुर्हृष्टमानसाः ।
एवं यथेष्टं नृपते कामः सम्पद्यतां तव॥१३॥

श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस्तत्दा ।
पप्रच्छासुरमुख्यांस्तु यथा देवानपृच्छत॥१४॥

दानवा दर्पपूर्णास्तु स्वार्थमेवानुगम्य ह ।
प्रत्यूचुस्ते नृपवरं साभिमानमिदं वचः॥१५॥

अस्माकमिन्द्रः प्रह्रादो यस्यार्थे विजयामहे ।
अस्मिंस्तु समये राजंस्तिष्ठेथा राजसत्तम॥१६॥

समये देवराज्यप्राप्तिरूपे तिष्ठेथाः। त्वं देवानामेव इन्द्रो भव न त्वस्माकं त्वदपेक्षास्तीति भावः॥१६॥

स तथेति ब्रुवन्नेव देवैरप्यभिचोदितः ।
भविष्यसीन्द्रो जित्वैवं देवैरुक्तस्तु पार्थिवः ।
जघान दानवान्सर्वान्ये वध्या वज्रपाणिनः॥१७॥

वज्रपाणिनः वज्रपाणेः॥१७॥

स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ।
निहत्य दानवान्सर्वानाजहार रजिः प्रभुः॥१८॥

ततो रजिं महावीर्यं देवैः सह शतक्रतुः ।
रजेः पुत्रोऽहमित्युक्त्वा पुनरेवाब्रवीद्वचः॥१९॥

इन्द्रोऽसि तात देवानां सर्वेषां नात्र संशयः ।
यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि कर्मभिः॥२०॥

स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया ।
तथेत्येवाब्रवीद्राजा प्रीयमाणः शतक्रतुम्॥२१॥

तस्मिंस्तु देवसदृशे दिवं प्राप्ते महीपतौ ।
दायाद्यमिन्द्रादाजह्रुराचारात्तनया रजेः॥२२॥

दिवं ब्रह्मलोकं। प्राप्ते सति आचारात्पितुर्दव्यं सर्वभ्रातृभिर्विभज्य ग्राह्यमिति व्यवहारात्॥२२॥

पञ्च पुत्रशतान्यस्य तद्वै स्थानं शतक्रतोः ।
समाक्रमन्त बहुधा स्वर्गलोकं त्रिविष्टपम्॥२३॥

ततो बहुतिथे काले समतीते महाबलः ।
हृतराज्योऽब्रवीच्छक्रो हृतभागो बृहस्पतिम्॥२४॥

महांश्चासावबलश्चेति अतिदुर्बल इत्यर्थः॥२४॥

इन्द्र उवाच। बदरीफलमात्रं वै पुरोडाशं विधत्स्व मे ।
ब्रह्मर्षे येन तिष्ठेयं तेजसाऽऽप्यायितः सदा॥२५॥

ब्रह्मन्कृशोऽहं विमना हृतराज्यो हृताशनः ।
हतौजा दुर्बलो मूढो रजिपुत्रैः कृतः प्रभो॥२६॥

बृहस्पतिरुवाच। यद्येवं चोदितः शक्र त्वयास्यां पूर्वमेव हि ।
नाभविष्यत्त्वत्प्रियार्थमकर्तव्यं ममानघ॥२७॥

हे शक्र! यदि त्वयाऽहं पूर्वमेव एवं चोदितः स्यां तर्हि त्वत्प्रियार्थं मम अकर्तव्यं कर्तुमयोग्यं कुशास्त्रप्रणयनं कर्तव्यं नाभविष्यत्॥२७॥

प्रयतिष्यामि देवेन्द्र त्वत्प्रियार्थं न संशयः ।
यथा भागं च राज्यं च न चिरात्प्रतिलप्स्यसे॥२८॥

तथा तात करिष्यामि मा भूत्ते विक्लवं मनः ।
ततः कर्म चकारास्य तेजसो वर्धनं तदा॥२९॥

तेषां च बुद्धिसम्मोहमकरोद्द्विजसत्तमः ।
नास्ति वादार्थशास्त्रं हि धर्मविद्वेषणं परम्॥३०॥

नास्ति धर्म ईश्वर इति वादो यत्र तन्नास्तिवादम्। तच्च तदर्थशास्त्रं च तत् नास्तिवादार्थशास्त्रम्॥३०॥

परमं तर्कशास्त्राणामसतां तन्मनोऽनुगम् ।
न हि धर्मप्रधानानां रोचते तत्कथान्तरे॥३१॥

कथान्तरे वार्ताप्रसङ्गेऽपि॥३१॥

ते तद्बृहस्पतिकृतं शास्त्रं श्रुत्वाल्पचेतसः ।
पूर्वोक्तधर्मशास्त्राणामभवन्द्वेषिणः सदा॥३२॥

प्रवक्तुर्न्यायरहितं तन्मतं बहु मेनिरे ।
तेनाधर्मेण ते पापाः सर्व एव क्षयं गताः॥३३॥

प्रवक्तुः उपदेष्टुः॥३३॥

त्रैलोक्यराज्यं शक्रस्तु प्राप्य दुष्प्रापमेव च ।
बृहस्पतिप्रसादाद्धि परां निर्वृतिमभ्ययात्॥३४॥

निर्वृतिं सुखम्॥३४॥

ते यदा तु सुसंमूढा रागोन्मत्ता विधर्मिणः ।
ब्रह्मद्विषश्च संवृत्ता हतवीर्यपराक्रमाः॥३५॥

ततो लेभे सुरैश्वर्यमिन्द्रः स्थानं तथोत्तमम् ।
हत्वा रजिसुतान्सर्वान्कामक्रोधपरायणान्॥३६॥

य इदं च्यावनं स्थानात्प्रतिष्ठां च शतक्रतोः ।
शृणुयाद्धारयेद्वापि न स दौरात्म्यमाप्नुयात्॥३७॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि आयोर्वंशकीर्तनं नाम अष्टाविंशोऽध्यायः॥२८॥
काश्यपवर्णनम्

वैशम्पायन उवाच। रम्भोऽनपत्यस्तत्रासीद्वंशं वक्ष्याम्यनेनसः ।
अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः॥१॥

विंशे नवाधिकेऽध्याये प्रोक्त आनेनसोऽन्वयः। तद्भ्रातुः क्षत्रवृद्धस्य वृद्धशर्मेति योऽभवत्॥१॥ रम्भ इति॥१॥

प्रतिक्षत्रसुतश्चापि सृञ्जयो नाम विश्रुतः ।
सृञ्जयस्य जयः पुत्रो विजयस्तस्य चात्मजः॥२॥

विजयस्य कृतिः पुत्रस्तस्य हर्यश्वतः सुतः ।
हर्यश्वतसुतो राजा सहदेवः प्रतापवान्॥३॥

सहदेवस्य धर्मात्मा नदीन इति विश्रुतः ।
नदीनस्य जयत्सेनो जयत्सेनस्य सङ्कृतिः॥४॥

सङ्कृतेरपि धर्मात्मा क्षत्रधर्मा महायशाः ।
अनेनसः समाख्याताः क्षत्रवृद्धस्य मे शृणु॥५॥

क्षत्रवृद्धस्य वृद्धशर्मापरपर्यायस्य॥५॥

क्षत्रवृद्धात्मजस्तत्र सुनहोत्रो महायशाः ।
सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः॥६॥

काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः ।
पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः॥७॥

ब्राह्मणाः क्षत्रियाश्चैवं वैश्याः शूद्रास्तथैव च ।
शलात्मजश्चार्ष्टिषेणस्तनयस्तस्य काशकः॥८॥

गृत्समदसन्ततौ शुनकादयो ब्राह्मणा अन्ये क्षत्रियादयश्च शूद्रान्ताः पुत्रा जाताः। शलः मध्यमः सप्तहोत्रपुत्रः तस्यात्मजः शलात्मजः॥८॥

काशस्य काशयो राजन्पुत्रो दीर्घतपास्तथा ।
धन्वस्तु दीर्घतपसो विद्वान्धन्वन्तरिस्ततः॥९॥

काशः शुनहोत्रस्य प्रथमः पुत्रः तस्य अपत्यानि काशयः तेषु दीर्घतपाः प्रथम इति शेषः। ततो धन्वाख्यात् धन्वन्तरिर्जातः॥९॥

तपसोऽन्ते सुमहतो जातो वृद्धस्य धीमतः ।
पुनर्धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान्॥१०॥

पुनरिति समुद्रात् उत्पत्तिमपेक्ष्य द्वितीयवारं जज्ञिवान् जातः॥१०॥

जनमेजय उवाच। कथं धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् ।
एतद्वेदितुमिच्छामि तन्मे ब्रूहि यथातथम्॥११॥

वैशम्पायन उवाच। धन्वन्तरेः सम्भवोऽयं श्रूयतां भरतर्षभ ।
जातः स हि समुद्रात्तु मथ्यमाने पुरामृते॥१२॥

उत्पन्नः कलशात्पूर्वं सर्वतश्च श्रिया वृतः ।
अभ्यसन्सिद्धिकार्ये हि विष्णुं दृष्ट्वा हि तस्थिवान्॥१३॥

कलशात् समुद्रात् अभ्यसन् विष्णुं जपन् ध्यायन् वा॥१३॥

अब्जस्त्वमिति होवाच तस्मादब्जस्तु स स्मृतः ।
अब्जः प्रोवाच विष्णुं वै तव पुत्रोऽस्मि वै प्रभो॥१४॥

अप्सु जातत्वादब्जस्त्वमिति होवाच। विष्णुरिति शेषः॥१४॥

विधत्स्व भागं स्थानं च मम लोके सुरेश्वर ।
एवमुक्तः स दृष्ट्वा वै तथ्यं प्रोवाच तं प्रभुः॥१५॥

कृतो यज्ञविभागो हि यज्ञियैर्हि सुरैः पुरा ।
देवेषु विनुयुक्तं हि विद्धि होत्रं महर्षिभिः॥१६॥

होत्रं हौम्यं विनियुक्तं विद्धि जानीहि॥१६॥

न शक्यमुपहोमा वै तुभ्यं कर्तुं कदाचन ।
अर्वाग्भूतोऽसि देवानां पुत्र त्वं तु न हीश्वरः॥१७॥

उपहोमाः नारिष्टादयः क्षुद्रास्तुभ्यं महते दातुमयोग्या इति भावः। मुख्यहोममेव मदर्थं कल्पयेत्याशङ्कायामाह- अर्वागिति। हे पुत्र त्वं तु इदानीन्तनोऽसि अतस्त्वदर्थेऽन्यदवैदिकं प्रधानं कल्पयितुमशक्यमित्यर्थः॥१७॥

द्वितीयायां तु सम्भूत्यां लोके ख्यातिं गमिष्यसि ।
अणिमादिश्च ते सिद्धिर्गर्भस्थस्य भविष्यति॥१८॥

सम्भूत्यां जन्मनि॥१८॥

तेनैव त्वं शरीरेण देवत्वं प्राप्स्यसे प्रभो ।
चरुमन्त्रैर्व्रतैर्जाप्यैर्यक्ष्यन्ति त्वां द्विजातयः॥१९॥

तेनैव द्वितीयेनैव। अयं भावः– सोपानारोहक्रमेणाधिकारिकेऽग्नौ ऊर्ध्वं पदमारूढे सत्यन्यो भूमौ कृतकर्मा तत्स्थानमारोहति। यथोक्तं मन्वन्तराध्यायेऽत्रैव- "कृत्वा कर्म दिवं यान्ति ब्रह्मलोकं सनातनम्। ततोऽन्ये तपसा युक्ताः स्थानमापूरयन्त्युत॥" इति॥१९॥

अष्टधा त्वं पुनश्चैवमायुर्वेदं विधास्यसि ।
अवश्यभावी ह्यर्थोऽयं प्राग्दृष्टस्त्वब्जयोनिना॥२०॥

अष्टधेति। चिकित्साङ्गानां भेदादायुर्वेदस्याप्यष्टधात्वं च। अङ्गानि वैद्यके उक्तानि- “कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान्। अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता॥" इति कायचिकित्सा बालचिकित्सेत्यादि। ग्रहो भूतप्रेतादिः। ऊर्ध्वाङ्गं शिरोनेत्रादि। शल्यं शस्त्राघातादि। दंष्ट्रा स्थावरजङ्गमात्मकं विषं तेषां चिकित्सा। जरा रसायनादिना जरायाः दूरीकरणम्। वृषः वाजीकरणतन्त्रम् अवश्यंभावित्वं पूर्वकल्पसदृशत्वादुत्तरकल्पस्य। तच्च प्रजापतिरेव वेद॥२०॥

द्वितीयं द्वापरं प्राप्य भविता त्वं न संशयः ।
इमं तस्मै वरं दत्त्वा विष्णुरन्तर्दधे पुनः॥२१॥

द्वितीये द्वापरं प्राप्ते सौनहोत्रिः स काशिराट् ।
पुत्रकामस्तपस्तेपे धिन्वन्दीर्घतपास्तदा॥२२॥

धिन्वन् प्रीणयन् देवादीनिति शेषः॥२२॥

प्रपद्ये देवतां तां तु या मे पुत्रं प्रदास्यति ।
अब्जं देवं सुतार्थाय तदाऽऽराधितवान्नृपः॥२३॥

अब्जं धन्वन्तरिं देवम् आराधितवान्॥२३॥

ततस्तुष्टः स भगवानब्जः प्रोवाच तं नृपम् ।
यदिच्छसि वरं ब्रूहि तत्ते दास्यामि सुव्रत॥२४॥

नृप उवाच। भगवन्यदि तुष्टस्त्वं पुत्रो मे ख्यातिमान्भव ।
तथेति समनुज्ञाय तत्रैवान्तरधीयत॥२५॥

तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा ।
काशिराजो महाराज सर्वरोगप्रणाशनः॥२६॥

आयुर्वेदं भरद्वाजात्प्राप्येह भिषजां क्रियाम् ।
तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत्॥२७॥

धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः ।
अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः॥२८॥

सुतो भीमरथस्यापि दिवोदासः प्रजेश्वरः ।
दिवोदासस्तु धर्मात्मा वाराणस्यधिपोऽभवत्॥२९॥

एतस्मिन्नेव काले तु पुरीं वाराणसीं नृप ।
शून्यां निवासयामास क्षेमको नाम राक्षसः॥३०॥

एतस्मिन् दिवोदासराज्यस्य काले शून्यां सतीं पश्चाद्राक्षसो रुद्रानुचरः निवासयामास॥३०॥

शप्ता हि सा मतिमता निकुम्भेन महात्मना ।
शून्या वर्षसहस्रं वै भवित्री नात्र संशयः॥३१॥

शून्यत्वे हेतुमाह- शप्ता हीति। निकुम्भेन रुद्रगणेन॥३१॥

तस्यां तु शप्तमात्रायां दिवोदासः प्रजेश्वरः ।
विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत्॥३२॥

विषयान्ते गोमत्यां स्वदेशसीम्नि गोमतीतीरे॥३२॥

भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसीत्यभूत् ।
भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम्॥३३॥

भद्रश्रेण्यस्य यदुवंशमहिष्मत्पुत्रस्य॥३३॥

हत्वा निवेशयामास दिवोदासो नरर्षभः ।
भद्रश्रेण्यस्य तद्राज्यं हृतं तेन बलीयसा॥३४॥

जनमेजय उवाच। वाराणसीं निकुम्भस्तु किमर्थं शप्तवान्प्रभुः ।
निकुम्भकश्च धर्मात्मा सिद्धिक्षेत्रं शशाप यः॥३५॥

सिद्धिक्षेत्रं मोक्षक्षेत्रम्॥३५॥

वैशम्पायन उवाच दिवोदासस्तु राजर्षिर्नगरीं प्राप्य पार्थिवः ।
वसति स्म महातेजाः स्फीतायां तु नराधिपः॥३६॥

एतस्मिन्नेव काले तु कृतदारो महेश्वरः ।
देव्याः स प्रियकामस्तु न्यवसच्छ्वशुरान्तिके॥३७॥

श्वशुरस्य हिमालयस्यान्तिके यदाऽवसत्तदैव दिवोदासो वाराणसीं प्राप्तवानित्यर्थः॥३७॥

देवाज्ञया पार्षदा ये त्वधिरूपास्तपोधनाः ।
पूर्वोक्तैरुपदेशैश्च तोषयन्ति स्म पार्वतीम्॥३८॥

हृष्यते वै महादेवी मेना नैव प्रहृष्यति ।
जुगुप्सत्यसकृत्तां वै देवीं देवं तथैव सा॥३९॥

मेना पार्वत्या जननी। जुगुप्सते निन्दति॥३९॥

सपार्षदस्त्वनाचारस्तव भर्ता महेश्वरः ।
दरिद्रः सर्वदैवासौ शीलं तस्य न वर्तते॥४०॥

निन्दामेवाह- सपार्षद इति॥४०॥

मात्रा तथोक्ता वरदा स्त्रीस्वभावाच्च चुक्रुधे ।
स्मितं कृत्वा च वरदा भवपार्श्वमथागमत्॥४१॥

अवरदा अवरान्नीचान् शिवनिन्दकान् दक्षदीन् द्यति खण्डयति तथा पूर्वं शिवनिन्दकः पिता मे हतः इदानीं तादृशीं मातरं मा हिंसेयमित्यभिप्रायेण शिवपार्श्वमुपागमत्॥४१॥

विवर्णवदना देवी महादेवमभाषत ।
नेह वत्स्याम्यहं देव नय मां स्वं निकेतनम्॥४२॥

तथा कर्तुं महादेवः सर्वलोकानवैक्षत ।
वासार्थं रोचयामास पृथिव्यां कुरुनन्दन॥४३॥

वासार्थं वाराणसीमिति सम्बन्धः॥४३॥

वाराणसी महातेजाः सिद्धिक्षेत्रं महेश्वरः ।
दिवोदासेन तां ज्ञात्वा निविष्टां नगरीं भवः॥४४॥

पार्श्वे तिष्ठन्तमाहूय निकुम्भमिदमब्रवीत् ।
गणेश्वर पुरीं गत्वा शून्यां वाराणसीं कुरु॥४५॥

मृदुनैवाभ्युपायेन ह्यतिवीर्यः स पार्थिवः ।
ततो गत्वा निकुम्भस्तु पूरीं वाराणसीं तदा॥४६॥

स्वप्ने निदर्शयामास कण्डुकं नाम नापितम् ।
श्रेयस्तेऽहं करिष्यामि स्थानं मे रोचयानघ॥४७॥

निदर्शयामास प्रत्ययम् उत्पादितवान्॥४७॥

मद्रूपां प्रतिमां कृत्वा नगर्यन्ते तथैव च ।
ततः स्वप्ने यथोद्दिष्टं सर्वं कारितवान्नृप॥४८॥

पुरीद्वारे तु विज्ञाप्य राजानं च यथाविधि ।
पूजां तु महतीं तस्य नित्यमेव प्रयोजयत्॥४९॥

राजानं विज्ञाप्य यथोद्दिष्टं प्रतिमादिकं नगर्यन्ते नगराद्बहिर्निकटे कारितवानिति योजना॥४९॥

गन्धैश्च धूपमाल्यैश्च प्रोक्षणीयैस्तथैव च ।
अन्नपानप्रयोगैश्च अत्यद्भुतमिवाभवत्॥५०॥

एवं सम्पूज्यते तत्र नित्यमेव गणेश्वरः ।
ततो वरसहस्रं तु नागराणां प्रयच्छति ।
पुत्रान्हिरण्यमायुश्च सर्वान्कामांस्तथैव च॥५१॥

राज्ञस्तु महिषी श्रेष्ठा सुयशा नाम विश्रुता ।
पुत्रार्थमागता देवी साध्वी राज्ञा प्रचोदिता॥५२॥

पूजां तु विपुलां कृत्वा देवी पुत्रमयाचत ।
पुनः पुनरथागम्य बहुशः पुत्रकारणात्॥५३॥

न प्रयच्छति पुत्रं हि निकुम्भः कारणेन हि ।
राजा तु यदि नः कुप्येत्कार्यसिद्धिस्ततो भवेत्॥५४॥

अथ दीर्घेण कालेन क्रोधो राजानमाविशत् ।
भूत एष महान्द्वारि नागराणां प्रयच्छति॥५५॥

प्रीतो वरान्वै शतशो मम किं न प्रयच्छति ।
मामकैः पूज्यते नित्यं नगर्या मे सदैव हि॥५६॥

विज्ञापितो मयात्यर्थं देव्या मे पुत्रकारणात् ।
न ददाति च पुत्रं मे कृतघ्नः केन हेतुना॥५७॥

ततो नार्हति सत्कारं मत्सकाशाद्विशेषतः ।
तस्मात्तु नाशयिष्यामि स्थानमस्य दुरात्मनः॥५८॥

एवं स तु विनिश्चित्य दुरात्मा राजकिल्बिषी ।
स्थानं गणपतेस्तस्य नाशयामास दुर्मतिः॥५९॥

राजा चासौ किल्बिषीति समासः॥५९॥

भग्नमायतनं दृष्ट्वा राजानमशपत्प्रभुः ।
यस्मादनपराधस्य त्वया स्थानं विनाशितम् ।
पुर्यकस्मादियं शून्या तव नूनं भविष्यति॥६०॥

प्रभुः निकुम्भः॥६०॥

ततस्तेन तु शापेन शून्या वाराणसी तदा ।
शप्त्वा पुरीं निकुम्भस्तु महादेवमथागमत्॥६१॥

शून्याऽभूदिति शेषः। द्वितीयान्तपाठे शप्त्वेत्यस्य शापेन कृत्वेत्यर्थः। इष्ट्वा स्वर्गं गत इत्यत्रैव धात्वर्थस्य करणत्वेनैवान्वयः॥६१॥

अकस्मात्तु पुरी सा तु विद्रुता सर्वतोदिशम् ।
तस्यां पुर्यां ततो देवो निर्ममे पदमात्मनः॥६२॥

पदं स्थानं मोक्षलक्ष्मीविलासाख्यं प्रासादम्॥६२॥

रमते तत्र वै देवो रममाणो गिरेः सुताम् ।
न रतिं तत्र वै देवी लभते गृहविस्मयात् ।
वसाम्यत्र न पुर्यां तु देवी देवमथाब्रवीत्॥६३॥

देवः स्वरूपानुरूपे तत्र रमते देवी तु मायास्वरूपा स्वोच्छेदहेतौ तत्र क्षेत्रे न रमत इति भावः। गृहविस्मयात् गृहेऽविमुक्ते यो विस्मयः आश्चर्यम् अनधिकारिणामपि मुक्तिप्रदानं तस्मात् हेतोर्न रमते। अत्र पुर्यामिति सम्बन्धः सार्धः॥६३॥

देव उवाच। नाहं वेश्मनि वत्स्यामि अविमुक्तं हि मे गृहम् ।
नाहं तत्र गमिष्यामि गच्छ देवि गृहं प्रति॥६४॥

अहं नित्यमुक्त ईश्वरो वेश्म गृहं शरीराख्यं न निवत्स्यामि निवासयितुं नेच्छामि। हि यस्मात् मे मम गृहम् अविमुक्तं यत्कालत्रयेऽपि न विमुक्तम् अहेयानुपादेयात्मस्वरूपत्वात् तदेव प्रत्यक् चैतन्यं मम गृहम्। स्वे महिम्नि प्रतिष्ठितोऽहं देहप्रतिष्ठो न भविष्यामीत्यर्थः। तत्र त्वदिष्टे संसारप्रदेशे गृहं त्वत्पितृगृहमिति कथापक्ष अन्यथा त्वमेव देहं प्राप्नुहि अहं त्वसङ्ग एवास्मीत्यर्थः। एतेन काशीत्याग एव संसारस्वीकारः। तदत्याग एव मोक्षाख्या स्वरूपस्थितिरिति दर्शितम्॥६४॥

हसन्नुवाच भगवांस्त्र्यम्बकस्त्रिपुरान्तकः ।
तस्मात्तदविमुक्तं हि प्रोक्तं देवेन वै स्वयम्॥६५॥

त्रीणि श्रवणमननध्यानानि अम्बकानि नेत्राणीव ज्ञापनकानि यस्य स त्र्यम्बकः। तथा च श्रुतिः- "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तब्यो निदिध्यासितव्यः।” इत्यात्मदर्शनसाधनत्वेन श्रवणादित्रयं विधत्ते अत एव त्रिपुरान्तकः त्रयाणां स्थूलसूक्ष्मकारणानां पुराणां शरीराणाम् अन्तको विनाशकः प्रविलापनकर्ता। अविद्यास्वरूपाप्येषा पुरतत्त्वं न जानातीति हसन्। यास्मान्महादेवेन अविमुक्तं हि मे गृहमित्युक्तं तस्मात्तदविमुक्तसंज्ञं वाराणसीक्षेत्रम्॥६५॥

एवं वाराणसी शप्ता अविमुक्तं च कीर्तितम्॥६६॥

अत्राप्रकृतस्याविभुक्तस्य कीर्तनम् उपरिधारणन्यायेन च वाराणस्या मुख्यमविमुक्तत्वं दर्शयति। तथा हि जाबालः- “सोऽविमुक्तः प्रतिष्ठितः" इत्यविमुक्तप्रतिष्ठत्वमात्मन उपक्षिप्य कुत्र तदविमुक्तमित्याकांक्षायां वरणायां चास्यां च मध्ये प्रतिष्ठित इत्याधिभौतिकमविमुक्तम् उक्त्वा कतमच्चास्य स्थानं भ्रुवोर्घ्राणस्य च यः सन्धिरिति प्रश्नपूर्वकं शरीरे तत् स्थानं भ्रूघ्राणसन्धिरित्यामनन्ति। विस्तरस्त्वस्मत्कृतायामविमुक्तनिरुक्तौ द्रष्टव्यः॥६६॥

यस्मिन्वसति वै देवः सर्वदेवनमस्कृतः ।
युगेषु त्रिषु धर्मात्मा सह देव्या महेश्वरः॥६७॥

अन्तर्धानं कलौ याति तत्पुरं हि महात्मनः ।
अन्तर्हिते पुरे तस्मिन् पुरी सा वसते पुनः ।
एवं वाराणसी शप्ता निवेशं पुनरागता॥६८॥

अन्तर्द्धानमिति सार्द्ध:। पुरमस्यास्तीति पुरी महादेवः अन्तर्हितायामपि पुर्यां स्वमन्तर्हितः सन् वसति। देवताप्रतिमाद्युच्छेदेऽपि देवतासान्निध्यं न निवर्तत इत्यर्थः। पुनः कृतयुगारम्भे पुरी नगरी वसत इति व्याख्यानेऽपि अन्तर्धानमात्रं पुर्या उक्तं न तूच्छेदः। एवं पुरपतेरपि द्रष्टव्यम्। किं च यावत्कलेः सन्ध्यांशोऽस्ति तावदत्र द्वापरधर्माणां कियतामप्यनुवृतः षट्त्रिंशत्सहस्रवत्सरपर्यन्तं कलावपि पुरी नान्तर्हिता भवति तन्निवृत्तौ केवलस्य कलेः प्रवृत्तौ सत्यामेव च भवति। अन्यथा सम्प्रत्युपलम्भो न युज्यत इति दिक्॥६८॥

भद्रश्रेण्यस्य पुत्रो वै दुर्दमो नाम विश्रुतः ।
दिवोदासेन बालेति घृणया स विवर्जितः॥६९॥

भद्रश्रेप्यस्य पुत्रशतं हत्वा तेषु चरमो दुर्दमो बालत्वादुपेक्षितः। बालेति सन्धिरार्षः। घृणया दयया॥६९॥

हैहयस्य तु दायाद्यं कृतवान्वै महीपतिः ।
आजह्रे पितृदायाद्यं दिवोदासहृतं बलात्॥७०॥

दायाद्यं पुत्रत्वं कृतवान् स्वीकृतवान् आजह्रे आहृतं दुर्दमेनेत्युत्तरेणान्वयः॥७०॥

भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना ।
वैरस्यान्तं महाराज क्षत्रियेण विधित्सता॥७१॥

दिवोदासाद्दृषद्वत्यां वीरो जज्ञे प्रतर्दनः ।
तेन पुत्रेण बालेन प्रहृतं तस्य वै पुनः॥७२॥

तेन बालेनैव प्रहृतम् अपहृतं तस्य दुर्दमस्य राज्यमिति शेषः॥७२॥

प्रतर्दनस्य पुत्रौ द्वौ वत्सभार्गौ बभूवतुः ।
वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः॥७३॥

अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसङ्गरः ।
अलर्कं प्रति राजर्षिं श्लोको गीतः पुरातनैः॥७४॥

षष्टिवर्षसहस्राणि षष्टिं वर्षशतानि च ।
युवा रूपेण सम्पन्न आसीत्काशिकुलोद्वहः॥७५॥

लोपामुद्राप्रसादेन परमायुरवाप सः ।
तस्यासीत्सुमहद्राज्यं रूपयौवनशालिनः ।
शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम्॥७६॥

लोपामुद्रा अगस्त्यभार्या शापस्य निकुम्भदत्तस्य॥७६॥

रम्यां निवेशयामास पुरीं वाराणसीं पुनः ।
सन्नतेरपि दायादः सुनीथो नाम धार्मिकः॥७७॥

रम्यामिति। सहस्रवर्षपर्यन्तं राक्षसाधिष्ठितत्वादरम्यैव पुरा आसीदिति गम्यते। सन्नतेरलर्कपुत्रस्य॥७७॥

सुनीथस्य तु दायादः क्षेम्यो नाम महायशाः ।
क्षेम्यस्य केतुमान्पुत्रः सुकेतुस्तस्य चात्मजः॥७८॥

सुकेतोस्तनयश्चापि धर्मकेतुरिति स्मृतः ।
धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः॥७९॥

सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः ।
आनर्तस्तु विभोः पुत्रः सुकुमारस्तु तत्सुतः॥८०॥

सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः ।
धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः॥८१॥

वेणुहोत्रसुतश्चापि भर्गो नाम प्रजेश्वरः ।
वत्सस्य वत्स्भूमिस्तु भृगुभूमिस्तु भार्गवात्॥८२॥

वत्सस्य अलर्कपितुः पुत्रान्तरमाह- वत्सभूमिरिति भार्गवात् वत्सभ्रातुः॥८२॥

एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे ।
ब्राह्मणाः क्षत्रिया वैश्यास्तयोः पुत्राः सहस्रशः ।
इत्येते काशयः प्रोक्ता नहुषस्य निबोध मे॥८३॥

अङ्गिरसः गालवस्याङ्गिरसत्वात् भार्गवे विश्वामित्रस्य भार्गवत्वात् तयोः वत्सभूमिभृगुभूम्योः काशयः काशवंश्याः॥८३॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि काश्यपवर्णनं नाम एकोनत्रिंशोऽध्यायः॥२९॥
ययातिचरित्रकथनम्

वैशम्पायन उवाच। उत्पन्नाः पितृकन्यायां विरजायां महौजसः ।
नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः॥१॥

त्रिंशेऽथ वर्ण्यतेऽध्याये ययातेरन्वयं तथा। चरितं च विरक्तिश्च गाथा वैराग्यगर्भिणी॥१॥ उत्पन्नाः पितरः सुस्वधासंज्ञाः वैश्यपूज्यास्तेषां कन्यायां विरजाख्यायाम्॥१॥

यतिर्ययातिः संयातिरायतिः पाञ्चिको भवः ।
सुयातिः षष्ठस्तेषां वै ययातिः पार्थिवोऽभवत् ।
यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततः परम्॥२॥

काकुत्स्थकन्यां गां नाम लेभे परमधार्मिकः ।
यतिस्तु मोक्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः॥३॥

मोक्षं मोक्षमार्गम्॥३॥

तेषां ययातिः पञ्चानां विजित्य वसुधामिमाम् ।
देवयानीमुशनसः सुतां भार्यामवाप सः ।
शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः॥४॥

ययातेर्भार्यान्तरमाह- देवयानीमिति॥४॥

यदुं च तुर्वसुं चैव देवयानी व्यजायत ।
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी॥५॥

तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम् ।
असङ्गं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः॥६॥

असङ्गं सर्वत्रास्खलितगतिम्॥६॥

युक्तं मनोजवैः शुभ्रैर्येन भार्यामुवाह सः ।
स तेन रथमुख्येन षड्रात्रेनाजयन्महीम् ।
ययातिर्युधि दुर्धर्षस्तथा देवान्सवासवान्॥७॥

स रथः पौरवाणां तु सर्वेषामभवत्तदा ।
यावत्तु वसुनाम्नो वै कौरवाज्जनमेजयः॥८॥

कुरोः पुत्रस्य राजेन्द्र राज्ञः पारीक्षितस्य ह ।
जगाम स रथो नाशं शापाद्गार्ग्यस्य धीमतः॥९॥

गर्ग्यस्य हि सुतं बालं स राजा जनमेजयः ।
वाक्छूरं हिंसयामास ब्रह्महत्यामवाप सः॥१०॥

शापे कारणमाह- गार्ग्यस्य हीति। वाक्छूरं निष्ठुरभाषिणमिति हिंसने हेतुरुक्तः॥१०॥

स लोहगन्धी राजर्षिः परिधावन्नितस्ततः ।
पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित्॥११॥

लोहगन्धिः बाह्यसदृशः। “लोहोऽस्त्री शस्त्रके लोहो जोङ्गके” इति मेदिनी। जोङ्गकः पतितः ज्ञातिबाह्य इति यावत्। ‘जुगि त्यागे’ अस्य रूपम्॥११॥

ततः स दुःखसन्तप्तो नालभत्संविदं क्वचित् ।
इन्द्रोतः शौनकं राजा शरणं प्रत्यपद्यत॥१२॥

संविदं स्वास्थ्यज्ञानोपायम् इन्द्रोतशब्दोऽदन्तः सान्तश्च॥१२॥

याजयामास चेन्द्रोतः शौनको जनमेजयम् ।
अश्वमेधेन राजानं पावनार्थं द्विजोत्तमः॥१३॥

स लोहगन्धो व्यनशत्तस्यावभृथमेत्य ह ।
स च दिव्यो रथो राजन्वसोश्चेदिपतेस्तदा ।
दत्तः शक्रेण तुष्टेन लेभे तस्माद्बृहद्रथः॥१४॥

तस्मात् वसोः॥१४॥

बृहद्रथात्क्रमेणैव गतो बार्हद्रथं नृपम् ।
ततो हत्वा जरासन्धं भीमस्तं रथमुत्तमम्॥१५॥

प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ।
सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम्॥१६॥

व्यभजत्पञ्चधा राजन्पुत्राणां नाहुषस्तदा ।
दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान्नृपः॥१७॥

दक्षिणपूर्वस्याम् आग्नेयकोणे॥१७॥

प्रतीच्यामुत्तरस्यां च द्रुह्युं चानुं च नाहुषः ।
दिशि पूर्वोत्तरस्यां वै यदुं ज्येष्ठं न्ययोजयत्॥१८॥

पूर्वोत्तरस्याम् ऐशान्याम्॥१८॥

मध्ये पूरुं च राजानमभ्यषिञ्चत नाहुषः ।
तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना॥१९॥

मध्ये कुरुपाञ्चालेषु॥१९॥

यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ।
प्रजास्तेषां पुरस्तात्तु वक्ष्यामि नृपसत्तम॥२०॥

धनुर्न्यस्य पृषत्कांश्च पञ्चभिः पुरुषर्षभैः ।
जरावानभवद्राजा भारमावेश्य बन्धुषु ।
निःक्षिप्तशस्त्रः पृथिवीं निरीक्ष्य पृथिवीपतिः॥२१॥

पञ्चभिः पुत्रैः कृतकृत्यः सन् धनुर्न्यस्तवान् ततश्च जरावान् अभूदित्यर्थः॥२१॥

प्रीतिमानभवद्राजा ययातिरपराजितः ।
एवं विभज्य पृथिवीं ययातिर्यदुमब्रवीत्॥२२॥

जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै ।
तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् ।
जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह॥२३॥

अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता ।
अनपाकृत्य तां राजन्न गृहीष्यामि ते जराम्॥२४॥

अनिर्दिष्टा इदं मे देहीति विशेषतोऽनुक्ता मया च प्रतिश्रुता त्वदिष्टं दास्यामीति ताम् अज्ञाताम् अनपाकृत्य ऋणवत् अपरिहृत्य। ज्ञाता चेत् स्यात्तर्हि तां निधाय तव जरां ग्रहीतुं ममावकाशः स्यादिति भावः॥२४॥

जरायां बहवो दोषाः पानभोजनकारिताः ।
तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे॥२५॥

सन्ति ते बहवः पुत्राः मत्तः प्रियतरा नृप ।
प्रतिग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै॥२६॥

स एवमुक्तो यदुना राजा कोपसमन्वितः ।
उवाच वदतां श्रेष्ठो ययातिर्गर्हयन्सुतम्॥२७॥

क आश्रयस्तवान्योऽस्ति को वा धर्मो विधीयते ।
मामनादृत्य दुर्बुद्धे यदहं तव देशिकः॥२८॥

क इति। पितृवचनमुल्लङ्घ्यातिथ्यर्थसाधनं न धर्मायेति भावः। देशिकः गुरुः विद्याप्रदः॥२८॥

एवमुक्त्वा यदुं तात शशापैनं स मन्युमान् ।
अराज्या ते प्रजा मूढ भवित्रीति नराधम॥२९॥

स तुर्वसुं च द्रुह्युं चाप्यनुं च भरतर्षभ ।
एवमेवाब्रवीद्राजा प्रत्याख्यातश्च तैरपि॥३०॥

शशाप तानतिक्रुद्धो ययातिरपराजितः ।
यथा ते कथितं पूर्वं मया राजर्षिसत्तम॥३१॥

पूर्वम् आदिपर्वणि॥३१॥

एवं शप्त्वा सुतान्सर्वांश्चतुरः पूरुपूर्वजान् ।
तदेव वचनं राजा पूरुमप्याह भारत॥३२॥

तरुणस्तव रूपेण चरेयं पृथिवीमिमाम् ।
जरां त्वयि समाधाय त्वं पूरो यदि मन्यसे॥३३॥

स जरां प्रतिजग्राह पितुः पूरुः प्रतापवान् ।
ययातिरपि रूपेण पूरोः पर्यचरन्महीम्॥३४॥

स मार्गमाणः कामानामन्तं भरतसत्तम ।
विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः॥३५॥

अन्तं तृष्णावसानम्। विश्वाची अप्सराः इन्द्रशापात्ककुत्स्थकन्या गोनाम्नी जाता सा ययातिना ऊढेति ज्ञेयम्॥३५॥

यदावितृष्णः कामानां भोगेषु स नराधिपः ।
तदा पूरोः सकाशाद्वै स्वां जरां प्रत्यपद्यत॥३६॥

अवितृष्ण इति छेदः॥३६॥

तत्र गाथा महाराज शृणु गीता ययातिना ।
याभिः प्रत्याहरेत्कामान्सर्वतोऽङ्गानि कूर्मवत्॥३७॥

न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥३८॥

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति॥३९॥

यदा भावं न कुरुते सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा॥४०॥

यदान्येभ्यो न बिभ्येत यदा चास्मान्न बिभ्यति ।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा॥४१॥

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥४२॥

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
जीविताशा धनाशा च जीर्यतोऽपि न जीर्यति॥४३॥

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्॥४४॥

एवमुक्त्वा स राजर्षिः सदारः प्राविशद्वनम् ।
कालेन महता वापि चचार विपुलं तपः॥४५॥

भृगुतुङ्गे तपस्तप्त्वा तपसोऽन्ते महातपाः ।
अनश्नन्देहमुत्सृज्य सदारः स्वर्गमाप्तवान्॥४६॥

तस्य वंशे महाराज पञ्च राजर्षिसत्तमाः ।
यैर्व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः॥४७॥

पञ्च यदुप्रभृतयः॥४७॥

यदोस्तु शृणु राजर्षेर्वंशं राजर्षिसत्कृतम् ।
यत्र नारायणो जज्ञे हरिर्वृष्णिकुलोद्वहः॥४८॥

धन्यः प्रजावानायुष्मान्कीर्तिमांश्च भवेन्नरः ।
ययातेश्चरितं पुण्यं पठञ्छृण्वन्नराधिप॥४९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि ययातिचरिते त्रिंशोऽध्यायः॥३०॥
कक्षेयुवंशवर्णनम्

जनमेजय उवाच। पूरोर्वंशमहं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ।
द्रुह्योश्चानोर्यदोश्चैव तुर्वसोश्च पृथक्पृथक्॥१॥

वृष्णिवंशप्रसङ्गेन स्वं वंशं पूर्वमेव तु ।
विस्तरेणानुपूर्व्या च तद्भवान्वक्तुमर्हति॥२॥

वैशम्पायन उवाच। शृणु पूरोर्महाराज वंशमुत्तमपौरुषम् ।
विस्तरेणानुपूर्व्या च यत्र जातोऽसि पार्थिव॥३॥

एकत्रिंशे पुरोर्वंशे रौद्राश्वस्य समुद्भवः। तत्पुत्रस्याथ कक्षेयोर्वंशस्तावन्निरूप्यते॥१॥ उत्तमम् उत्कृष्टं पौरुषं यस्मिन्॥३॥

हन्त ते कीर्तयिष्यामि पूरोर्वंशमनुत्तमम् ।
द्रुह्योश्चानोर्यदोश्चैव तुर्वसोश्च नराधिप॥४॥

पूरोः पुत्रो महावीर्यो राजाऽऽसीज्जनमेजयः ।
प्रचिन्वांस्तु सुतस्तस्य यः प्राचीमजयद्दिशम्॥५॥

प्रचिन्वतः प्रवीरोऽभून्मनस्युस्तस्य चात्मजः ।
राजा चाभयदो नाम मनस्योरभवत्सुतः॥६॥

तथैवाभयदस्यासीत्सुधन्वा तु महीपतिः ।
सुधन्वनो बहुगवः शम्यातिस्तस्य चात्मजः॥७॥

शम्यातेस्तु रहस्याती रौद्रश्वस्तस्य चात्मजः ।
रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः॥८॥

ऋचेयुः प्रथमस्तेषां कृकणेयुस्तथैव च ।
कक्षेयुः स्थण्डिलेयुश्च सन्नतेयुस्तथैव च॥९॥

दशार्णेयुर्जलेयुश्च स्थलेयुश्च महायशाः ।
धनेयुश्च वनेयुश्च पुत्रिकाश्च दश स्त्रियः॥१०॥

धनेयुश्चेत्यत्र वने नित्यः इत्यपि पाठः॥१०॥

रुद्रा शूद्रा च भद्रा च मलदा मलहा तथा ।
खलदा चैव राजेन्द्र नलदा सुरसापि च ।
तथा गोचपला तु स्त्रीरत्नकूटाश्च ता दश॥११॥

स्त्रीरत्नकूटाः स्त्रीरत्नान्युर्वश्यादीनि कूटानि हीनानि याभ्यस्ताः॥११॥

ऋषिर्जातोऽत्रिवंशे तु तासां भर्ता प्रभाकरः ।
रुद्रायां जनयामास सुतं सोमं यशस्विनम्॥१२॥

स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ।
तमोऽभिभूते लोके च प्रभा येन प्रकल्पिता॥१३॥

येन अत्रिणा॥१३॥

स्वस्ति तेऽस्त्विति चोक्तो वै पतमानो दिवाकरः ।
वचनात्तस्य विप्रर्षेर्न पपात दिवो महीम्॥१४॥

अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ।
यज्ञेष्वत्रेर्धनं चैव सुरैर्यस्य प्रवर्तितम्॥१५॥

अत्रिश्रेष्ठानीति। धर्मशास्त्रे आत्रेयीवधे ब्रह्महत्याव्रतस्योक्तत्वात् यज्ञे च आत्रेयाय ब्राह्मणाय स्वातन्त्र्येण दक्षिणाविधानात् अत्रिरेव सर्वेषु गोत्रप्रवर्तकेषु श्रेष्ठः॥१५॥

स तासु जनयामास पुत्रिकासु सनामकान् ।
दश पुत्रान्महात्मा स तपस्युग्रे रतान्सदा॥१६॥

पुत्रिकासु- “तुभ्यं कन्यां प्रदास्यामि देवाग्निगुरुसन्निधौ। अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति॥" पुत्रिकाकरणविधिना प्राप्ता॥१६॥

ते तु गोत्रकरा राजन्नृषयो वेदपारगाः ।
स्वस्त्यात्रेया इति ख्याताः किं त्वत्रिं धनवर्जिताः॥१७॥

अत एवाह- किं त्वत्रिं धनवर्जिता इति॥१७॥

कक्षेयोस्तनयाश्चासंस्त्रय एव महारथाः ।
सभानरश्चाक्षुषश्च परमन्युस्तथैव च॥१८॥

कक्षेयोः रौद्राश्वसुतस्य तृतीयस्य॥१८॥

सभानरस्य पुत्रस्तु विद्वान्कालानलो नृपः ।
कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः॥१९॥

सृञ्जयस्याभवत्पुत्रो वीरो राजा पुरञ्जयः ।
जनमेजयो महाराज पुरञ्जयसुतोऽभवत्॥२०॥

जनमेजयस्य राजर्षेर्महाशालोऽभवत्सुतः ।
देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि॥२१॥

महामना नाम सुतो महाशालस्य धार्मिकः ।
जज्ञे वीरः सुरगणैः पूजितः सुमहायशाः॥२२॥

महामनास्तु पुत्रौ द्वौ जनयामास भारत ।
उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम्॥२३॥

उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ।
नृगा कृमी नवा दर्वा पञ्चमी च दृषद्वती॥२४॥

उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ।
तपसा वै सुमहता जाता वृद्धस्य भारत॥२५॥

नृगायास्तु नृगः पुत्रः कृम्यां कृमिरजायत ।
नवायास्तु नवः पुत्रो दर्वायाः सुव्रतोऽभवत्॥२६॥

दृषद्वत्यास्तु सञ्जज्ञे शिबिरौशीनरो नृपः ।
शिबेस्तु शिबयस्तात योधेयास्तु नृगस्य ह॥२७॥

नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी ।
सुव्रतस्य तथाम्बष्ठा शिबिपुत्रान्निबोध मे॥२८॥

शिबेश्च पुत्राश्चत्वारो वीरास्त्रैलोक्यविश्रुताः ।
वृषदर्भः सुवीरश्च मद्रकः कैकयस्तथा॥२९॥

तेषां जनपदाः स्फीताः केकया मद्रकास्तथा ।
वृषदर्भाः सुवीराश्च तितिक्षोस्तु प्रजाः शृणु॥३०॥

महामनसो ज्येष्ठपुत्रस्योशीनरस्य सन्ततिमुक्त्वा कनिष्ठपुत्रस्य। तितिक्षोर्वंशमाह- तितिक्षोस्तु प्रजाः शृण्विति॥३०॥

तैतिक्षवोऽभवद्राजा पूर्वस्यां दिशि भारत ।
उषद्रथो महाबाहुस्तस्य फेनः सुतोऽभवत्॥३१॥

फेनात्तु सुतपा जज्ञे सुतः सुतपसो बलिः ।
जातो मानुषयोनौ तु स राजा काञ्चनेषुधीः॥३२॥

यः पूर्वं बलिर्दानवेन्द्र आसीत् स एव सुतपसः पुत्रो बलिनामाऽभूत्॥३२॥

महायोगी स तु बलिर्बभूव नृपतिः पुरा ।
पुत्रानुत्पादयामास पञ्च वंशकरान्भुवि॥३३॥

अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस्तथैव च ।
पुण्ड्रः कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते॥३४॥

बालेयं बलेरपत्यम्॥३४॥

बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि ।
बलेस्तु ब्रह्मना दत्ता वराः प्रीतेन भारत॥३५॥

महायोगित्वमायुश्च कल्पस्य परिमाणतः ।
सङ्ग्रामे वाप्यजेयत्वं धर्मं चैव प्रधानता॥३६॥

त्रैलोक्यदर्शनं चैव प्राधान्यं प्रसवे तथा ।
बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम्॥३७॥

प्रसवे अभ्यनुज्ञायां वशित्वाख्यां सिद्धिमित्यर्थः॥३७॥

चतुरो नियतान्वर्णांस्त्वं च स्थापयिता भुवि ।
इत्युक्तो विभुना राजा बलिः शान्तिं परां ययौ॥३८॥

परां शान्तिं ज्ञानजं मोक्षम्॥३८॥

तस्य ते तनयाः सर्वे क्षेत्रजा मुनिपुङ्गवाः ।
सम्भूता दीर्घतपसो सुदेष्णायां महौजसः॥३९॥

क्षेत्रजाः बलेरूर्ध्वरेतस्त्वात्॥३९॥

बलिस्तानभिशिच्येह पञ्च पुत्रानकल्मषान् ।
कृतार्थः सोऽपि योगात्मा योगमाश्रित्य स प्रभुः॥४०॥

अधृष्यः सर्वभूतानां कालापेक्षी चरन्नपि ।
कालेन महता राजन्स्वं च स्थानमुपागमत्॥४१॥

तेषां जनपदाः पञ्च अङ्गा वङ्गाः ससुह्मकाः ।
कलिङ्गाः पुण्ड्रकाश्चैव प्रजास्त्वङ्गस्य मे शृणु॥४२॥

अङ्गपुत्रो महानासीद्राजेन्द्रो दधिवाहनः ।
दधिवाहनपुत्रस्तु राजा दिविरथोऽभवत्॥४३॥

पुत्रो दिविरथस्यासीच्छक्रतुल्यपराक्रमः ।
विद्वान्धर्मरथो नाम तस्य चित्ररथः सुतः॥४४॥

तेन चित्ररथेनाथ तदा विष्णुपदे गिरौ ।
यजता सह शक्रेण सोमः पीतो महात्मना॥४५॥

शक्रेण सहेति शक्रवद्देवत्वं प्राप्त इत्युक्तम्॥४५॥

अथ चित्ररथस्यापि पुत्रो दशरथोऽभवत् ।
लोमपाद इति ख्यातो यस्य शान्ता सुताभवत्॥४६॥

लोमपादापरनामा दशरथोऽयमन्यः॥४६॥

तस्य दाशरथिर्वीरश्चतुरङ्गो महायशाः ।
ऋश्यशृङ्गप्रसादेन जज्ञे कुलविवर्धनः॥४७॥

ऋष्यशृङ्गस्य शान्ताभर्तुः प्रसादेन॥४७॥

चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः ।
पृथुलाक्षसुतो राजा चम्पो नामा महायशाः॥४८॥

चम्पस्य तु पुरी चम्पा या मालिन्यभवत्पुरा ।
पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत्॥४९॥

स्वं स्थानं सुतलम्॥४९॥
पूर्णभद्रो मुनिः तस्य प्रसादेन॥४९॥

ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् ।
अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम्॥५०॥

वैभाण्डकिर्विभाण्डकपुत्र ऋष्यशृङ्गः। तस्यार्थे इन्द्रवारणम् ऐरावतं वारणं वारि जले रणति चरतीति वारणम्। समुद्रोद्भवमित्यर्थः॥५०॥

हर्यङ्गस्य तु दायादो राजा भद्ररथः स्मृतः ।
पुत्रो भद्ररथस्यासीद्बृहत्कर्मा प्रजेश्वरः॥५१॥

बृहद्दर्भः सुतस्तस्य तस्माज्जज्ञे बृहन्मनाः ।
बृहन्मनास्तु राजेन्द्र जनयामास वै सुतम्॥५२॥

नाम्ना जयद्रथं नाम यस्माद्दृढरथो नृपः ।
आसीद्दृढरथस्यापि विश्वजिज्जनमेजय ।
दायादस्तस्य कर्णस्तु विकर्णस्तस्य चात्मजः॥५३॥

तस्य पुत्रशतं त्वासीदङ्गानां कुलवर्धनम् ।
बृहद्दर्भसुतो यस्तु राजा नाम्ना बृहन्मनाः॥५४॥

तस्य पत्नीद्वयं चासीच्चैद्यस्यैते सुते शुभे ।
यशोदेवी च सत्या च ताभ्यां वंशस्तु भिद्यते॥५५॥

जयद्रथस्तु राजेन्द्र यशोदेव्यां व्यजायत ।
ब्रह्मक्षत्रोत्तरः सत्यां विजयो नाम विश्रुतः॥५६॥

ब्रह्मक्षत्रोत्तरः ब्राह्मणेभ्यः शान्त्यादिना क्षत्रियेभ्यः शौर्यादिना उत्तरः श्रेष्ठः॥५६॥

विजयस्य धृतिः पुत्रस्तस्य पुत्रो धृतव्रतः ।
धृतव्रतस्य पुत्रस्तु सत्यकर्मा महायशाः॥५७॥

सत्यकर्मसुतश्चापि सूतस्त्वधिरथस्तु वै ।
यः कर्णं प्रतिजग्राह ततः कर्णस्तु सूतजः॥५८॥

सत्यकर्मणः पुत्रः सूतः ब्राह्मण्यां क्षत्रियाज्जातत्वात्। एतेनैव तस्य ब्राह्मणीपरिग्रहः॥५८॥

एतद्वः कथितं सर्वं कर्णं प्रति महाबलम् ।
कर्णस्य वृषसेनस्तु वृषस्तस्यात्मजः स्मृतः॥५९॥

एतेऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया ।
सत्यव्रता महात्मानः प्रजावन्तो महारथाः॥६०॥

ऋचेयोस्तु महाराज रौद्राश्वतनयस्य ह ।
शृणु वंशमनुप्रोक्तं यत्र जातोऽसि पार्थिव॥६१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि कुक्षेयुवंशानुकीर्तनं नाम एकत्रिंशोऽध्यायः॥३१॥
पुरुवंशानुकीर्तनम्

वैशम्पायन उवाच। अनाधृष्यस्तु राजर्षिर्ऋचेयुश्चैकराट्स्मृतः ।
ऋचेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा॥१॥

द्वत्रिंशे वर्ण्यते वंश ऋचेयोर्विविधा गतिः। त्रयाणां यदुमुख्यानामजमीढस्य च त्रिधां॥१॥ अनाधृष्यः अजय्यः ऋचेयुरेव॥१॥

तस्यां स देव्यां राजर्षिर्मतिनारो महीपतिः ।
मतिनारसुताश्चासंस्त्रयः परमधार्मिकाः॥२॥

स मतिनारो जात इति शेषः॥२॥

तं सुराद्यः प्रतिरथः सुबाहुश्चैव धार्मिकः ।
गौरी कन्या च विख्याता मान्धातृजननी शुभा॥३॥

तंसुर्नामतः आद्यो ज्येष्ठः। तंसुरोद्य इत्यपि पाठः॥३॥

सर्वे वेदविदस्तत्र ब्रह्मण्याः सत्यवादिनः ।
सर्वे कृतास्त्रा बलिनः सर्वे युद्धविशारदाः॥४॥

पुत्रः प्रतिरथस्यासीत्कण्वः समभवन्नृपः ।
मेधातिथिः सुतस्तस्य यस्मात्काण्वायना द्विजाः॥५॥

काण्वायनाः कण्वस्य गोत्रापत्यानि॥५॥

ईलिनी भूप यस्याऽऽसीत्कन्या वै जनमेजय ।
ब्रह्मवादिन्यधि स्त्रीं च तंसुस्तामभ्यगच्छत॥६॥

हे भूप यस्य कस्य कन्या ईलिनी आसीत् सः ईलिनो नाम राजा ब्रह्मवादिनिः ब्राह्मणसमुदाये अधि अधिकः आसीत्। तंसुश्च ताम् ईलिनीं स्त्रीं स्त्रियं भार्याम् अभ्यगच्छत अधिगतवात् तस्मात्कण्वोऽभ्यजायत। इला नाम्नी तु यस्यासीत्कन्येति पाठस्तु प्रामादिकः। तंसुना स्वानुजप्रपौत्रस्य दुहिता परिणीतेत्येवमर्थकत्वादयुक्तश्च॥६॥

तंसोः सुरोधो राजर्षिर्धर्मनेत्रो महायशाः ।
ब्रह्मवादी पराक्रान्तस्तस्य भार्योपदानवी॥७॥

सः धर्मनेत्रः धर्मस्य प्रवर्तकः॥७॥

उपदानवी सुताँल्लेभे चतुरस्त्वैलिकात्मजान् ।
दुष्यन्तमथ सुष्मन्तं प्रवीरमनघं तथा॥८॥

दुष्यन्तस्य तु दायादो भरतो नाम वीर्यवान् ।
स सर्वदमनो नाम नागायुतबलो महान्॥९॥

चक्रवर्ती सुतो जज्ञे दुष्यन्तस्य महात्मनः ।
शकुन्तलायां भरतो यस्य नाम्ना स्थ भारताः॥१०॥

दुष्यन्तं प्रति राजानं वागुवाचाशरीरिणी ।
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः॥११॥

दुष्यन्तं प्रति राजानमिति सार्धश्लोकद्वयं स्पष्टार्थम्॥११॥

भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् ।
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्॥१२॥

त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ।
भरतस्य विनष्टेषु तनयेषु महीपतेः॥१३॥

मातॄणां तात कोपेन मया ते कतिथं पुरा ।
बृहस्पतेराङ्गिरसः पुत्रो राजन्महामुनिः ।
सङ्क्रामितो भरद्वाजो मरुद्भिः क्रतुभिर्विभुः॥१४॥

पुरा आदिपर्वणि अङ्गिरसः आङ्गिरसो वाऽपत्यं भरद्वाजः क्रतुभिः क्रतुदवेताभिर्मरुद्भिः सङ्क्रामितः भरतपुत्रत्वं प्रापितः॥१४॥

अत्रैवोदाहरन्तीमं भरद्वाजस्य धीमतः ।
धर्मसङ्क्रमणं चापि मरुद्भिर्भरताय वै॥१५॥

अयोजयद्भरद्वाजो मरुद्भिः क्रतुभिर्हितम् ।
पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि॥१६॥

धर्मसङ्क्रमणं व्याचष्टे- अयोजयदिति। वितथे मातृभिः पुत्रद्योतनात्॥१६॥

ततोऽथ वितथो नाम भरद्वाजसुतोऽभवत् ।
ततोऽथ वितथे जाते भरतस्तु दिवं ययौ॥१७॥

वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ ।
स राजा वितथः पुत्राञ्जनयामास पञ्च वै॥१८॥

सुहोत्रं च सुहोतारं गयं गर्गं तथैव च ।
कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम्॥१९॥

काशिकश्च महासत्त्वस्तथा गृत्समतिर्नृपः ।
तथा गृत्समतेः पुत्रा ब्राह्मणः क्षत्रिया विशः॥२०॥

काशिकश्चेति। पूर्वौ काशिकगृत्समदौ आयुसंज्ञात् वृद्धशर्मसुहोत्रक्रमेण चतुर्थौ इमौ तु तस्मादेव नहुषययातिपूर्वादिक्रमेण एकविंशस्य सुहोत्रस्य पुत्रौ। अतोऽतिविप्रकर्षात्ततोऽन्यौ अत एव ईषन्नामभेदोऽपि गृत्समदो गृत्समतिरित्यादिर्दृश्यते॥२०॥

काशिकस्य तु काशेयः पुत्रो दीर्घतपास्तथा ।
बभूव दीर्घतपसो विद्वान्धन्वन्तरिः सुतः॥२१॥

धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः ।
अथ केतुमतः पुत्रो वीरो भीमरथो नृप॥२२॥

सुतो भीमरथस्यासीद्दिवोदासः प्रजेश्वरः ।
दिवोदास इति ख्यातः सर्वरक्षोविनाशनः॥२३॥

दिवोदासपदं व्युत्पादयति- दिवोदास इतीति। दिवः सप्त स्वर्गान् दस्यति उपक्षिणोति आत्मैश्वर्यबलेनेति दिवोदासः। कर्मण्यण् विभक्तेरलुक् आर्षः॥२३॥

एतस्मिन्नेव काले तु पुरीं वाराणसीं नृप ।
शून्यां निवेशयामास क्षेमको नम राक्षसः ।
शप्ता हि सा मतिमता निकुम्भेन महात्मना ।
शून्या वर्षसहस्रं वै भवित्रीति नराधिप॥२४॥

समानान्वये यथा समाननामानो भवन्ति एवं समानकर्माणोऽपि भवन्तीति ज्ञापयन् पूर्वदिवोदासवत् अनेनापि वाराणसीराज्यादिकं कृतम्। पूर्वं निकुम्भादिवन्निकुम्भान्तरेण तद्वंश्येन वाराणसी शप्ता तद्वत्पूर्वं क्षेमकवंश्येन क्षेमकान्तरेण निवेशितेत्यादि। एकस्मिन्नपि कल्पेऽसकृत्समाननामकर्मणां पुंसां जन्म न विरुध्यत इत्यभिप्रेत्याह– एतस्मिन्नित्यादि॥२४॥

तस्यां तु शप्तमात्रायां दिवोदासः प्रजेश्वरः ।
विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत्॥२५॥

भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसी भवत् ।
यदुवंशप्रसूतस्य तपस्यभिरतस्य च॥२६॥

भद्रश्रेण्यस्य पुत्राणां शतमुत्तमधन्विनाम् ।
हत्वा निवेशयामास दिवोदासः प्रजेश्वरः॥२७॥

भद्रश्रेण्यस्येति- पूर्वो दिवोदास आयोर्वृद्धशर्मादिक्रमेण दशमः। भद्रश्रेण्यश्च नहुषादिक्रमेण यदुवंशज एकादशः यदोस्त्वष्टमः तयोः समानकालजत्वाद्विरोधो युक्तः। यस्तु आयोः नहुषादिक्रमेण पुरुवंश्योऽष्टाविंशो दिवोदासः। तस्य ततोऽष्टमेन भद्रश्रेण्येन सहात्यन्तं कालविप्रकर्षाद्विरोधो न सम्भवतीति अयम् एतत्समानकालीनोऽन्य एव भद्रश्रेण्यो ज्ञेय इति भावः॥२७॥

दिवोदासस्य पुत्रस्तु वीरो राजा प्रतर्दनः ।
प्रतर्दनस्य पुत्रौ द्वौ वत्सो भार्गस्तथैव च॥२८॥

अलर्को राजपुत्रस्तु राजा सन्नतिमान्भुवि ।
हैहयस्य तु दायाद्यं हृतवान्वै महीपतिः॥२९॥

आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ।
भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना ।
दिवोदासेन बालेति घृणया परिवर्जितः॥३०॥

अष्टारथो नाम नृपः सुतो भीमरथस्य वै ।
तेन पुत्रेषु बालेषु प्रहृतं तस्य भारत॥३१॥

अष्टारथः प्रतर्दनः। भीमरथस्येति दिवोदासस्य विशेषणम्। तस्य दुर्दमस्य बालेषु असमर्थेषु पुत्रेषु॥३१॥

वैरस्यान्तं महाराज क्षत्रियेण विधित्सता ।
अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसङ्गरः॥३२॥

अलर्कः प्रतर्दनस्य पौत्रः पुरीं निवेशयामासेति तृतीयेनान्वयः॥३२॥

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
तस्याऽऽसीत्सुमहद्राज्यं रूपयौवनशालिनः॥३३॥

युवा रूपेण सम्पन्न आसीत्काशिकुलोद्वहः ।
लोपामुद्राप्रसादेन परमायुरवाप सः॥३४॥

वयसोऽन्ते महाबाहुर्हत्वा क्षेमकराक्षसम् ।
शून्यां निवेशयामास पुरीं वाराणसीं नृप॥३५॥

अलर्कस्य तु दायादः सुनीथो नाम पार्थिवः ।
सुनीथस्य तु दायादः क्षेम्यो नाम महायशाः॥३६॥

क्षेम्यस्य केतुमान्पुत्रो वर्षकेतुस्ततोऽभवत् ।
वर्षकेतोस्तु दायादो विभुर्नाम प्रजेश्वरः॥३७॥

आनर्तस्तु विभोः पुत्रः सुकुमारस्ततोऽभवत् ।
पुत्रस्तु सुकुमारस्य सत्यकेतुर्महारथः॥३८॥

ततोऽभवन्महातेजा राजा परमधार्मिकः ।
वत्सस्य वत्सभूमिस्तु भार्गभूमिस्तु भार्गवात्॥३९॥

एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च भरतर्षभ॥४०॥

सुहोत्रस्य बृहत्पुत्रो बृहतस्तनयास्त्रयः ।
अजमीढो द्विमीढश्च पुरुमीढश्च वीर्यवान्॥४१॥

सुहोत्रस्य वितथपुत्रस्य॥४१॥

अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विताः ।
नीलिनी केशिनी चैव धूमिनी च वराङ्गना॥४२॥

अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान् ।
आजह्रे यो महासत्रं सर्वमेधं महामखम्॥४३॥

पतिलोभेन यं गङ्गा विनीताभिससार ह ।
नेच्छतः प्लावयामास तस्य गङ्गाथ तत्सदः॥४४॥

स तया प्लावितं दृष्ट्वा यज्ञवाटं परन्तप ।
जह्नुरप्यब्रवीद्गङ्गां क्रुद्धो भरतसत्तम॥४५॥

एष ते त्रिषु लोकेषु संक्षिप्यापः पिबाम्यहम् ।
अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि॥४६॥

ततः पीतां महात्मानो गङ्गां दृष्ट्वा महर्षयः ।
उपनिन्युर्महाभागा दुहितृत्वाय जाह्नवीम्॥४७॥

युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् ।
गङ्गाशापेन देहार्धं यस्याः पश्चान्नदीकृतम्॥४८॥

जह्नोस्तु दयितः पुत्रस्त्वजको नाम वीर्यवान् ।
अजकस्य तु दायादो बलाकाश्वो महीपतिः॥४९॥

बभूव मृगयाशीलः कुशिकस्तस्य चात्मजः ।
पह्लवैः सह संरुद्धो राजा वनचरैस्तदा॥५०॥

कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं प्रभुः ।
लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान्॥५१॥

स गाधिरभवद्राजा मघवान्कौशिकः स्वयम् ।
विश्वामित्रस्तु गाधेयो राजा विश्वरथस्तदा॥५२॥

विश्वकृद्विश्वजिच्चैव तथा सत्यवती नृप ।
ऋचीकाज्जमदग्निस्तु सत्यवत्यामजायत॥५३॥

सत्यवती विश्वामित्रादीनां कनीयसी॥५३॥

विश्वामित्रस्य तु सुता देवरातादयः स्मृताः ।
प्रख्यातास्त्रिषु लोकेषु तेषां नामानि मे शृणु॥५४॥

देवश्रवाः कतिश्चैव यस्मात्कात्यायनाः स्मृताः ।
शालावत्या हिरण्याक्षो रेणोर्जज्ञेऽथ रेणुमान्॥५५॥

साङ्कृत्यो गालवो राजन्मौद्गल्यश्चेति विश्रुताः ।
तेषां ख्यातानि गोत्राणि कौशिकानां महात्महाम्॥५६॥

पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च ।
पार्थिवा देवराताश्च शालङ्कायनसौश्रवाः॥५७॥

लौहित्या यामदूताश्च तथा कारीषयः स्मृताः ।
विश्रुताः कौशिका राजंस्तथान्ये सैन्धवायनाः॥५८॥

ऋष्यन्तरविवाह्याश्च कौशिका बहवः स्मृताः ।
पौरवस्य महाराज ब्रह्मर्षेः कौशिकस्य ह॥५९॥

सम्बन्धो ह्यस्य वंशेऽस्मिन्ब्रह्मक्षत्रस्य विश्रुतः ।
विश्वामित्रात्मजानां तु शुनःशेपोऽग्रजः स्मृतः॥६०॥

भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ।
देवरातादयश्चान्ये विश्वामित्रस्य वै सुताः॥६१॥

दृषद्वतीसुतश्चापि विश्वामित्रादथाष्टकः ।
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया॥६२॥

आजमीढोऽपरो वंशः श्रूयतां पुरुषर्षभ ।
अजमीढस्य नीलिन्यो सुशान्तिरुदपद्यत॥६३॥

अजमीढस्य बृहत पुत्रस्य प्रत्यन्तरे प्रसवान्तरमाह- आजमीढ इति॥६३॥

पुरुजातिः सुशान्तेस्तु वाह्याश्वः पुरुजातितः ।
वाह्याश्वतनयाः पञ्च बभूवुरमरोपमाः॥६४॥

मुद्गलः सृञ्जयश्चैव राजा बृहदिषुः स्मृतः ।
यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः॥६५॥

पञ्चैते रक्षणायालं देशानामिति विश्रुताः ।
पञ्चानां विद्धि पञ्चालान्स्फीतैर्जनपदैर्वृतान्॥६६॥

अलं संरक्षणं तेषां पञ्चाला इति विश्रुताः ।
मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः॥६७॥

तेषां पञ्चानां देशानां रक्षणे अलं समर्था एते इति श्रुतत्वात्पञ्चाला इति नाम॥६७॥

सर्व एते महात्मानः क्षत्रोपेता द्विजातयः ।
एते ह्यङ्गिरसः पक्षं संश्रिताः कण्वमौद्गलाः॥६८॥

मौद्गलस्य सुतो ज्येष्ठो ब्रह्मर्षिः सुमहायशाः ।
इन्द्रसेनो यतो गर्भं वध्र्यश्वं प्रत्यपद्यत॥६९॥

वध्र्यश्वान्मिथुनं जज्ञे मेनकायामिति श्रुतिः ।
दिवोदासश्च राजर्षिरहल्या च यशस्विनी॥७०॥

अयं दिवोदासो ब्राह्मणः॥७०॥

शरद्वतस्य दायादमहल्या समसूयत ।
शतानन्दमृषिश्रेष्ठं तस्यापि सुमहायशाः॥७१॥

शरद्वतो गौतमस्य॥७१॥

पुत्रः सत्यधृतिर्नाम धनुर्वेदस्य पारगः ।
तस्य सत्यधृते रेतो दृष्ट्वाप्सरसमग्रतः॥७२॥

सत्यधृतेः शरद्वतः पौत्रस्य पूर्वं शरद्वतः सकाशात्कृपस्य जन्म उक्तम्। अतोऽयं सत्यधृतिः पितामहस्य समाननामेति गम्यते। अत्रेयं कथा- शरद्वतः तपोविघ्नार्थम् आगतां जालपदीमप्सरसं दृष्ट्वा शरद्वांश्चक्रमे। सा च तद्बाव्हन्तरात्प्रद्रुता। ततस्तामनुधावतो महर्षे रेतश्चस्कन्द। ततो मिथुनं जातमिति॥७२॥

अवस्कन्नं शरस्तम्बे मिथुनं समपद्यत ।
कृपया तच्च जग्राह शन्तनुर्मृगयां गतः॥७३॥

कृपः स्मृतः स वै तस्माद्गौतमी च कृपी तथा ।
एते शारद्वताः प्रोक्ता एते ते गौतमाः स्मृताः॥७४॥

अत ऊर्ध्वं प्रवक्ष्यामि दिवोदासस्य सन्ततिम् ।
दिवोदासस्य दायादो ब्रह्मर्षिर्मित्रयुर्नृपः॥७५॥

दिवोदासस्य क्षत्रियस्य॥७५॥

मैत्रायणस्ततः सोमो मैत्रेयास्तु ततः स्मृताः ।
एते हि संश्रिताः पक्षं क्षत्रोत्पेतास्तु भार्गवाः॥७६॥

आसीत्पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः ।
सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः॥७७॥

सोमदत्तस्य दायादः सहदेवो महायशः ।
सहदेवसुतश्चापि सोमको नाम पार्थिवः॥७८॥

अजमीढात्पुनर्जातः क्षीणवंशे तु सोमकः ।
सोमकस्य सुतो जन्तुर्यस्य पुत्रशतं बभौ॥७९॥

अजमीढात् सहदेवात् तस्य यज्ञे पशुभूतस्थाने पुत्रशतं बभौ। शतं पुत्रानुद्दिश्य तेनैव पशुना यागस्य कृतत्वात्॥७९॥

तेषां यवीयान्पृषतो द्रुपदस्य पिता प्रभुः ।
धृष्टद्युम्नस्तु द्रुपदाद्धृष्टकेतुश्च तत्सुतः॥८०॥

यवीयान् कनीयान्॥८०॥

अजमीढाः स्मृता ह्येते महात्मानस्तु सोमकाः ।
पुत्राणामजमीढस्य सोमकत्वं महात्मनः॥८१॥

महिषी त्वजमीढस्य धूमिनी पुत्रगृद्धिनी ।
तृतीया तव पूर्वेषां जननी पृथिवीपते॥८२॥

तृतीया अजमीढस्य भार्या॥८२॥

सा तु पुत्रार्थिनी देवी व्रतचर्यासमन्विता ।
ततो वर्षायुतं तप्त्वा तपः परमदुश्चरम्॥८३॥

हुत्वाग्निं विधिवत्सा तु पवित्रमितभोजना ।
अग्निहोत्रकुशेष्वेव सुष्वाप जनमेजय ।
धूमिन्या स तया देव्या त्वजमीढः समेयिवान्॥८४॥

ऋक्षं सञ्जनयामास धूमवर्णं सुदर्शनम् ।
ऋक्षात्संवरणो जज्ञे कुरुः संवरणात्तथा ।
यः प्रयागादतिक्रम्य कुरुक्षेत्रं चकार ह॥८५॥

प्रयागादतिक्रम्य प्रयागं त्यक्त्वा कुरुक्षेत्रं स्वस्थानं चकार॥८५॥

तद्वै तत्स महाभागो वर्षाणि सुबहून्यथ ।
तप्यमाने तदा शक्रो यत्रास्य वरदो बभौ॥८६॥

पुण्यं च रमणीयं च पुण्यकृद्भिर्निषेवितम् ।
तस्यान्ववायः सुमहांस्तस्य नाम्ना स्थ कौरवाः॥८७॥

कुरोश्च पुत्राश्चत्वारः सुधन्वा सुधनुस्तथा ।
परीक्षिच्च महाबाहुः प्रवरश्चारिमेजयः॥८८॥

अरिमेजयः शत्रुकम्पनः। एजतेः खश् पूर्वपदस्य मुमागमश्च॥८८॥

सुधन्वनस्तु दायादः सुहोत्रो मतिमांस्ततः ।
च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थकोविदः॥८९॥

च्यवनात्कृतयज्ञस्तु इष्ट्वा यज्ञः स धर्मवित् ।
विश्रुतं जनयामास पुत्रमिन्द्रसमं नृपः॥९०॥

कृतयज्ञा चैद्या चेदिजा वसुं जनयामासेति सार्धश्लोको वाक्यम्। चैद्यश्चेदिदेश्यः स चासौ उपरिचरश्चेति समासः। षट् पुत्रान् मानुषीभावे एकां कन्यां मत्सी भूत्वा जनयामासेत्यर्धस्यार्थः॥९०॥

चैद्योपरिचरं वीरं वसुं नामान्तरिक्षगम् ।
चैद्योपरिचराज्जज्ञे गिरिका सप्त मानवान्॥९१॥

महारथो मगधराड्विश्रुतो यो बृहद्रथः ।
प्रत्यग्रहः कुशश्चैव यमाहुर्मणिवाहनम्॥९२॥

कुशस्तृतीयः॥९२॥

मारुतश्च यदुश्चैव मत्स्यः काली च सत्तमः ।
बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः॥९३॥

मारुतः चतुर्थः यदुः पञ्चमः मत्स्यः मत्सीसकाशात् काली सत्यवती षष्ठी सत्तमः पुत्रः पाठान्तरं त्वनादरणीयम्॥९३॥

कुशाग्रस्यात्मजो विद्वान्वृषभो नाम वीर्यवान्॥९४॥

वृषभस्य तु दायादः पुष्पवान्नाम धार्मिकः ।
दायादस्तस्य विक्रान्तो राजा सत्यहितः स्मृतः॥९५॥

तस्य पुत्रोऽथ धर्मात्मा नाम्ना ऊर्जस्तु जज्ञिवान् ।
ऊर्जस्य सम्भवः पुत्रो यस्य जज्ञे स वीर्यवान्॥९६॥

यस्य यस्मात् सम्भवाख्यात् सः जरासन्धः बृहद्रथाज्जरासन्ध इति प्रागुक्तम्। इदानीं तस्मात् षष्ठोऽयमित्युक्तम्। तत्र द्वितीयो बृहद्रथः सम्भवाख्यः इति वा कल्पभेदात्क्रमभेद इति वा समाधेयम्॥९६॥

शकले द्वे स वै जातो जरया सन्धितः स तु ।
जरया सन्धितो यस्माज्जरासन्धस्ततः स्मृतः॥९७॥

सर्वक्षत्रस्य जेतासौ जरासन्धो महाबलः ।
जरासन्धस्य पुत्रो वै सहदेवः प्रतापवान्॥९८॥

सहदेवात्मजः श्रीमानुदायुः स महायशाः ।
उदायुर्जनयामास पुत्रं परमधार्मिकम्॥९९॥

श्रुतधर्मेति नामानं मगधान्योऽवसद्विभुः ।
परीक्षितस्तु दायादो धार्मिको जनमेजयः॥१००॥

परीक्षितः कुरोर्द्वितीयपुत्रस्य॥१००॥

जनमेजयस्य दायादस्त्रय एव महारथाः ।
श्रुतसेनोग्रसेनौ च भीमसेनश्च नामतः॥१०१॥

जनमेजयस्य पुत्रौ मणिमत्यां जातौ पूर्वेभ्योऽन्यौ॥१०१॥

एते सर्वे महाभागा विक्रान्ता बलशालिनः ।
जनमेजयस्य पुत्रौ तु सुरथो मतिमांस्तथा॥१०२॥

सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः ।
विदूरथस्य दायाद ऋक्ष एव महारथः॥१०३॥

द्वितीयः पूर्वोक्ताद्दाक्षात्कुरुपितामहादन्यः॥१०३॥

द्वितीयः स बभौ राजा नाम्ना तेनैव संज्ञितः ।
द्वावृक्षौ तव वंशेऽस्मिन्द्वावेव तु परीक्षितौ॥१०४॥

भीमसेनास्त्रयो राजन् द्वावेव जनमेजयौ ।
ऋक्षस्य तु द्वितीयस्य भीमसेनोऽभवत्सुतः॥१०५॥

प्रतीपो भीमसेनस्य प्रतीपस्य तु शन्तनुः ।
देवापिर्बाह्लिकश्चैव त्रय एव महारथाः॥१०६॥

शन्तनोः प्रसवस्त्वेष यत्र जातोऽसि पार्थिव ।
बाह्लिकस्य तु राज्यं वै सप्तवाह्यं नरेश्वर॥१०७॥

सप्तवाह्यं सप्तविधप्राप्तिवाह्यम्। सा च- “ज्ञाने धर्मे बले कामे विज्ञानोपायसङ्ग्रहे। मदर्थे भूभुजां नित्यं प्राप्तिः सप्तविधा मता॥” इति। ज्ञाने शास्त्रीये विज्ञाने युक्तिकौशलादौ। मदर्थे शारीरभोगे चन्दनताम्बूलादौ। शेषं स्पष्टम्। अन्ये तु सप्तकगणाभ्यां बाह्यशून्यमित्याहुः। सप्तकगणौ च सप्तरत्नानि सप्त महारत्नानि। तथाहि- "गजवाजिरथास्त्रेषु निधिमालाम्बरद्रुमाः। शक्तिः सासिर्मणिच्छत्रविमानानि चतुर्दश॥” इति। अस्त्राणि च इषवश्चेति पृथक् निधिर्निधानं माला स्रक्द्रुमाः दिव्याश्चम्पकादयः सासिः सखङ्गः विमानम् अट्टालः॥१०७॥

बाह्लिकस्य सुतश्चैव सोमदत्तो महायशाः ।
जज्ञिरे सोमदत्तात्तु भूरिर्भूरिश्रवाः शलः॥१०८॥

उपाध्यायस्तु देवानां देवापिरभवन्मुनिः ।
च्यवनस्य कृतः पुत्र इष्टश्चासीन्महात्मनः॥१०९॥

शन्तनुस्त्वभवद्राजा कौरवाणां धुरन्धरः ।
शन्तनोः सम्प्रवक्ष्यामि यत्र जातोऽसि पार्थिव॥११०॥

गाङ्गं देवव्रतं नाम पुत्रं सोऽजनयत्प्रभुः ।
स तु भीष्म इति ख्यातः पाण्डवानां पितामहः॥१११॥

काली विचित्रवीर्यं तु जनयामास भारत ।
शन्तनोर्दयितं पुत्रं धर्मात्मानमकल्मषम्॥११२॥

कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्यके ।
धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत्॥११३॥

धृतराष्ट्रश्च गान्धार्यां पुत्रानुत्पादयच्छतम् ।
तेषां दुर्योधनः श्रेष्ठः सर्वेषामेव स प्रभुः॥११४॥

पाण्डोर्धनञ्जयः पुत्रः सौभद्रस्तस्य चात्मजः ।
अभिमन्योः परीक्षित्तु पिता तव जनेश्वर॥११५॥

एष ते पौरवो वंशो यत्र जातोऽसि पार्थिव ।
तुर्वसोस्तु प्रवक्ष्यामि द्रुह्योश्चानोर्यदोस्तथा॥११६॥

सुतस्तु तुर्वसोर्वह्निर्वह्नेर्गोभानुरात्मजः ।
गोभानोस्तु सुतो राजा त्रैसानुरपराजितः॥११७॥

करन्धमस्तु त्रैसानोर्मरुत्तस्तस्य चात्मजः ।
अन्यस्त्वावीक्षितो राजा मरुत्तः कतिथस्तव॥११८॥

अनपत्योऽभवद्राजा यज्वा विपुलदक्षिणः ।
दुहिता सम्मता नाम तस्यासीत्पृथिवीपते॥११९॥

अनपत्यः पुत्रापत्यरहितः॥११९॥

दक्षिणार्थं स्म वै दत्ता संवर्ताय महात्मने ।
दुष्यन्तं पौरवं चापि लेभे पुत्रमकल्मषम्॥१२०॥

संवर्ताय ऋत्विजे दत्तासती संवर्तेन च दुष्यन्तपित्रे सुघोराय दत्ता सती तस्मात् दुष्यन्तं पुत्रं लेभे॥१२०॥

एवं ययातेः शापेन जरासङ्क्रमणे तदा ।
पौरवं तुर्वसोर्वंशः प्रविवेश नृपोत्तम॥१२१॥

अत एव तुर्वसोर्वंशः पौरवं वंशं प्रविवेश। असङ्क्रमणेनेति छेदः॥१२१॥

दुष्यन्तस्य तु दायादाः करुत्थामः प्रजेश्वरः ।
करुत्थामात्तथाक्रीडश्चत्वारस्तस्य चात्मजाः॥१२२॥

दुष्यन्तस्य शकुन्तलायां भरतः अन्यस्यां भार्यायां करुत्थामश्चासीदित्यर्थः॥१२२॥

पाण्ड्यश्च केरलश्चैव कोलश्चोलश्च पार्थिवः ।
तेषां जनपदाः स्फीताः पाण्ड्याश्चोलाः सकेरलाः॥१२३॥

द्रुह्योश्च तनयो राजन्बभ्रुः सेतुश्च पार्थिवः ।
अङ्गारसेतुस्तत्पुत्रो मरुतां पतिरुच्यते॥१२४॥

यौवनाश्वेन समरे कृच्छ्रेण निहतो बली ।
युद्धं सुमहदस्याऽऽसीन्मासान्परि चतुर्दश॥१२५॥

अङ्गारस्य तु दायादो गान्धारो नाम भारत ।
ख्यायते तस्य नाम्ना वै गान्धारविषयो महान्॥१२६॥

गान्धारदेशजाश्चैव तुरगा वाजिनां वराः ।
अनोस्तु पुत्रो धर्मोऽभूद्धृतस्तस्यात्मजोऽभवत्॥१२७॥

धृतात्तु दुदुहो जज्ञे प्रचेतास्तस्य चात्मजः ।
प्रचेतसः सुचेतास्तु कीर्तितो ह्यानवो मया॥१२८॥

यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः ।
विस्तरेणानुपूर्व्यात्तु गदतो मे निशामय॥१२९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पुरुवंशानुकीर्तने द्वात्रिंशोऽध्यायः॥३२॥
यदुवंशवर्णनं कार्तवीर्योत्पत्तिश्च

वैशम्पायन उवाच। बभूवुस्तु यदोः पुत्राः पञ्च देवसुतोपमाः ।
सहस्रदः पयोदश्च क्रोष्टा नीलोऽञ्जिकस्तथा॥१॥

त्रयस्त्रिंशे यदोर्वंशो वर्ण्यते भगवज्जनिः। प्रभावोऽत्यद्भतो यत्र कृतवीर्यसुतस्य च॥१॥ बभूवुरिति॥१॥

सहस्रदस्य दायादास्त्रयः परमधार्मिकाः ।
हैहयश्च हयश्चैव राजन्वेणुहयस्तथा॥२॥

हैहस्याभवत्पुत्रो धर्मनेत्र इति स्मृतः ।
धर्मनेत्रस्य कार्तस्तु साहञ्जस्तस्य चात्मजः॥३॥

साहञ्जनी नाम पुरी येन राज्ञा निवेशिता ।
साहञ्जस्य तु दायादो महिष्मान्नाम पार्थिवः॥४॥

माहिष्मती नाम पुरी येन राज्ञा निवेशिता ।
आसीन्माहिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान्॥५॥

वाराणस्यधिपो राजा कतिथः पूर्वमेव तु ।
भद्रश्रेण्यस्य पुत्रस्तु दुर्दमो नाम विश्रुतः॥६॥

दुर्दमस्य सुतो धीमान्कनको नाम वीर्यवान् ।
कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः॥७॥

कृतवीर्यः कृतौजाश्च कृतवर्मा तथैव च ।
कृताग्निस्तु चतुर्थोऽभूत्कृतवीर्यात्तथार्जुनः॥८॥

यस्तु बाहुसहस्रेण सप्तद्वीपेश्वरोऽभवत् ।
जिगाय पृथिवीमेको रथेनादित्यवर्चसा॥९॥

स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।
दत्तमाराधयामास कार्तवीर्योऽत्रिसम्भवम्॥१०॥

अत्रिसम्भवं दत्तं दत्तात्रेयमित्यर्थः॥१०॥

तस्मै दत्तो वरान्प्रादाच्चतुरो भूरितेजसः ।
पूर्वं बाहुसहस्रं तु प्रार्थितं सुमहद्वरम्॥११॥

पूर्वमित्यनेन एको वरः॥११॥

अधर्मे वर्तमानस्य सद्भिस्तत्र निवारणम् ।
उग्रेण पृथिवीं जित्वा स्वधर्मेणानुरञ्जनम्॥१२॥

अधर्मे इति द्वौ वरौ॥१२॥

सङ्ग्रामान्सुबहून्कृत्वा हत्वा चारीन्सहस्रशः ।
सङ्ग्रामे वर्तमानस्य वधं चाप्यधिकाद्रणे॥१३॥

सङ्ग्रामानिति चतुर्थो वरः॥१३॥

तस्य बाहुसहस्रं तु युध्यतः किल भारत ।
योगाद्योगेश्वरस्यैव प्रादुर्भवति मायया॥१४॥

योगात् योगबलात् मायया सङ्कल्पमात्रेण॥१४॥

तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
ससमुद्रा सनगरा उग्रेण विधिना जिता॥१५॥

उग्रेण विधिना युद्धेन॥१५॥

तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि वै ।
प्राप्तानि विधिना राज्ञा श्रूयन्ते जनमेजय॥१६॥

सर्वे यज्ञा महाबाहोस्तस्यासन्भूरिदक्षिणाः ।
सर्वे काञ्चनयूपाश्च सर्वे काञ्चनवेदयः॥१७॥

सर्वैर्देवैर्महाराजा विमानस्थैरलङ्कृताः ।
गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः॥१८॥

यस्य यज्ञे जगौ गाथां गन्धर्वो नारदस्तथा ।
वरीदासात्मजो विद्वान्महिम्ना तस्य विस्मितः॥१९॥

गन्धर्व उपबर्हणाख्यो वरीदासस्य गन्धर्वपतेः पुत्रः॥१९॥

नारद उवाच। न नूनं कार्तवीर्यस्य गतिं यास्यान्ति पार्थिवाः ।
यज्ञैर्दानैस्तपोभिर्वा विक्रमेण श्रुतेन च॥२०॥

स हि सप्तसु द्वीपेषु खड्गी चर्मी शरासनी ।
रथी द्वीपाननुचरन्योगी सन्दृश्यते नृभिः॥२१॥

योगी कायव्यूहेन युगपत् सप्तस्वपि द्वीपेषु दृश्यते॥२१॥

अनष्टद्रव्यता चैव न शोको न च विभ्रमः ।
प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षतः॥२२॥

पञ्चाशीतिसहस्राणि वर्षाणां वै नराधिपः ।
स सर्वरत्नभाक्सम्राट् चक्रवर्ती बभूव ह॥२३॥

स एव यज्ञपालोऽभूत्क्षेत्रपालः स एव च ।
स एव वृष्ट्यां पर्जन्यो योगित्वादर्जुनोऽभवत्॥२४॥

यज्ञपालो यजमानः एकेन शरीरेण यागं करोति अपरेण पालनमित्यर्थः॥२४॥

स वै बाहुसहस्रेणा ज्याघातकठिनत्वचा ।
भाति रश्मिसहस्रेण शरदीव दिवाकरः॥२५॥

स हि नागान्मनुष्येषु माहिष्मत्यां महाद्युतिः ।
कर्कोटकसुताञ्जित्वा पुर्यां तस्यां न्यवेशयत्॥२६॥

कार्त्तवीर्यस्य माहात्म्यमाह- स हीत्यादिना॥२६॥

स वै वेगं समुद्रस्य प्रावृट्कालेऽम्बुजेक्षणः ।
क्रीडन्निव भुजोद्भिन्नं प्रतिस्रोतश्चकार ह॥२७॥

प्रतिस्रोतः विपरीतप्रवाहम्॥२७॥

लुण्ठिता क्रीडिता तेन फेनस्रग्दाममालिनी ।
चलदूर्मिसहस्रेण शङ्किताभ्येति नर्मदा॥२८॥

शङ्किता परेण भुक्तेति शङ्कावती अभ्येति समुद्रमिति शेषः॥२८॥

तस्य बाहुसहस्रेण क्षुभ्यमाणे महोदधौ ।
भयान्निलीना निश्चेष्टाः पातालस्था महासुराः॥२९॥

चूर्णीकृतमहावीचिं चलमीनमहातिमिम् ।
मारुताविद्धफेनौघमावर्तक्षोभदुःसहम्॥३०॥

प्रावर्तयत्तदा राजा सहस्रेण च बाहुना ।
देवासुरसमाक्षिप्तः क्षीरोदमिव मन्दरः॥३१॥

बाहुना बाहुभिः प्रावर्तयत् शरीरभ्रमणेनावर्तितवान्। क्षीरोदं मन्दर इव॥३१॥

मन्दरक्षोभचकिता अमृतोद्भवशङ्किताः ।
सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम्॥३२॥

नता निश्चलमूर्धानो बभूवुस्ते महोरगाः ।
सायाह्ने कदलीखण्डैः कम्पितास्तस्य वायुना॥३३॥

स वै बद्ध्वा धनुर्ज्याभिरुत्सिक्तं पञ्चभिः शरैः ।
लङ्केशं मोहयित्वा तु सबलं रावणं बलात् ।
निर्जित्यैव समानीय माहिष्मत्यां बबन्ध तम्॥३४॥

श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्वर्जुनेन तु ।
ततो गत्वा पुलस्त्यस्तमर्जुनं ददृशे स्वयम् ।
मुमोच रक्षः पौलस्त्यं पुलस्त्येनानुयाचितः॥३५॥

पौलस्त्यं पुलस्त्यापत्यं रक्षः राक्षसम्॥३५॥

यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ।
युगान्ते त्वम्बुदस्येव स्फुटतो ह्यशनेरिव॥३६॥

अहो बत मृधे वीर्यं भार्गवस्य यदच्छिनत् ।
राज्ञो बाहुसहस्रं तु हैमं तालवनं यथा॥३७॥

राज्ञः कार्त्तवीर्यस्य॥३७॥

तृषितेन कदाचित्स भिक्षितश्चित्रभानुना ।
स भिक्षामददाद्वीरः सप्तद्वीपान्विभावसोः॥३८॥

विभावसोर्वह्नेः॥३८॥

पुराणि ग्रामघोषांश्च विषयांश्चैव सर्वशः ।
जज्वाल तस्य सर्वाणि चित्रभानुर्दिधक्षया॥३९॥

स तस्य पुरुषेन्द्रस्य प्रभावेन महात्मनः ।
ददाह कार्तवीर्यस्य शैलांश्चैव वनानि च॥४०॥

स शून्यमाश्रमं रम्यं वरुणस्यात्मजस्य वै ।
ददाह वनवद्भीतश्चित्रभानुः सहैहयः॥४१॥

यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम् ।
वसिष्ठं नाम स मुनिः ख्यात आपव इत्युत॥४२॥

यत्रापवस्तु तं क्रोधाच्छप्तवानर्जुनं विभुः ।
यस्मान्न वर्जितमिदं वनं ते मम हैहय॥४३॥

यत्र निमित्तभूते आपवो वसिष्ठः॥४३॥

तस्मात्ते दुष्करं कर्म कृतमन्यो हनिष्यति ।
रामो नाम महाबाहुर्जामदग्न्यः प्रतापवान्॥४४॥

ते त्वया दुष्करं कर्म जयादिकं कृतं तत् अन्यो हनिष्यति नाशयिष्यति। तव पराजयो भविष्यतीत्यर्थः॥४४॥

छित्त्वा बाहुसहस्रं ते प्रमथ्य तरसा बली ।
तपस्वी ब्राह्मणश्च त्वां वधिष्यति स भार्गवः॥४५॥

वैशम्पायन उवाच। अनष्टद्रव्यता यस्य बभूवामित्रकर्शन ।
प्रभावेन नरेन्द्रस्य प्रजा धर्मेण रक्षतः॥४६॥

अनष्टद्रव्यता प्रजानामिति शेषः॥४६॥

रामात्ततोऽस्य मृत्युर्वै तस्य शापान्मुनेर्नृप ।
वरश्चैष हि कौरव्य स्वयमेव वृतः पुरा॥४७॥

स्वयमेव वृतः। दत्तात्रेयात्॥४७॥

तस्य पुत्रशतस्यासन्पञ्च शेषा महात्मनः ।
कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः॥४८॥

शूरसेनश्च शूरश्च धृष्टोक्तः कृष्ण एव च ।
जयध्वजश्च नाम्नाऽऽसीदावन्त्यो नृपतिर्महान्॥४९॥

धृष्टोक्तः धृष्टनामा अवन्त्य इति जयध्वजस्य विशेषणम्॥४९॥

कार्तवीर्यस्य तनया वीर्यवन्तो महारथाः ।
जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः॥५०॥

तस्य पुत्राः शतं ख्यातास्तालजङ्घा इति श्रुताः ।
तेषां कुले महाराज हैहयानां महात्मनाम्॥५१॥

वीतिहोत्राः सुजाताश्च भोजाश्चावन्तयः स्मृताः ।
तौण्डिकेरा इति ख्यातास्तालजङ्घास्तथैव च॥५२॥

भरताश्च सुता जाता बहुत्वान्नानुकीर्तिताः ।
वृषप्रभृतयो राजन्यादवाः पूर्णकर्मिणः॥५३॥

यदोः प्रथमपुत्रस्य सहस्रदस्य वंशमुक्त्वा द्वितीयस्य पयोदस्य सन्ततिमाह- वृषेति। अत्र पयोद एव वर्षणाद्धेतोर्वृषशब्देनोच्यते। पूर्णकर्मिणः पुण्यकर्मिणः॥५३॥

वृषो वंशधरस्तत्र तस्य पुत्रोऽभवन्मधुः ।
मधोः पुत्रशतं त्वासीद्वृषणस्तस्य वंशभाक्॥५४॥

वृषणाद्वृष्णयः सर्वे मधोस्तु माधवाः स्मृताः ।
यादवा यदुना चाग्रे निरुच्यन्ते च हैहयाः॥५५॥

शूराश्च शूरवीराश्च शूरसेनास्तथानघ ।
शूरसेन इति ख्यातस्तस्य देशो महात्मनः॥५६॥

शूरा इति श्लोकः पुस्तकान्तरेषु नास्ति॥५६॥

न तस्य वित्तनाशोऽस्ति नष्टं प्रतिलभेच्च सः ।
कार्तवीर्यस्य यो जन्म कीर्तयेदिह नित्यशः॥५७॥

एते ययातिपुत्राणां पञ्च वंशा विशाम्पते ।
कीर्तिता लोकवीराणां ये लोकान्धारयन्ति वै ।
भूतानीव महाराज पञ्च स्थावरजङ्गमान्॥५८॥

भूतानि पृथिव्यादीनि यथा लोकानि धारयन्ति तद्वत्॥५८॥

श्रुत्वा पञ्चविसर्गं तु राजा धर्मार्थकोविदः ।
वशी भवति पञ्चानामात्मजानां तथेश्वरः॥५९॥

पञ्चानां विसर्गं विविधं सर्गम्। वशी नियन्ता आत्मजानां हतानाम् इन्द्रियाणाम्॥५९॥

लभेत्पञ्च वरांश्चैव दुर्लभानिह लौकिकान् ।
आयुः कीर्तिं तथा पुत्रानैश्वर्यं भूमिमेव च ।
धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य भारत॥६०॥

क्रोष्टोस्तु शृणु राजेन्द्र वंशमुत्तमपौरुषम् ।
यदोर्वंशधरस्याथ यज्वनः पुण्यकर्मणः॥६१॥

क्रोष्टोः यदोः पुत्रस्य॥६१॥

क्रोष्टुर्हि वंशं श्रुत्वेमं सर्वपापैः प्रमुच्यते ।
यस्यान्ववायजो विष्णुर्हरिर्वृष्णिकुलोद्वहः॥६२॥

इमं वक्ष्यमाणम् अजो जात इति शेषः॥६२॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि त्रयस्त्रिंशोऽध्यायः॥३३॥
वृष्णिवंशवर्णनम्

वैशम्पायन उवाच। गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः ।
गान्धारी जनयामास अनमित्रं महाबलम्॥१॥

चतुस्त्रिंशे यदोः सूनोः क्रोष्टुर्वंशोऽनुवर्ण्यते। अवतीर्णो हरिर्यत्र कृष्णः कारणमानुषः॥१॥ गान्धारीति॥१॥

माद्री युधाजितं पुत्रं ततोऽन्यं देवमीढुषम् ।
तेषां वंशस्त्रिधा भूतो वृष्णीनां कुलवर्धनः॥२॥

माद्र्याः पुत्रस्य जज्ञाते सुतौ वृष्ण्यन्धकावुभौ ।
जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकस्तथा॥३॥

मान्द्याः पुत्रस्य युधाजितः॥३॥

श्वफल्कस्तु महाराज धर्मात्मा यत्र वर्तते ।
नास्ति व्याधिभयं तत्र नावर्षभयमप्युत॥४॥

कदाचित्काशिराजस्य विभोर्भरतसत्तम ।
त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः॥५॥

विषये देशे॥५॥

स तत्र वासयामास श्वफल्कं परमार्चितम् ।
श्वफल्कपरिवर्ते च ववर्ष हरिवाहनः॥६॥

परिवर्ते आगमनमात्रे। हरिवाहनः इन्द्रः॥६॥

श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ।
गान्दिनीं नाम सा गां तु ददौ विप्रेषु नित्यशः॥७॥

गान्दिनीनाम निर्वक्ति। गां तु ददाविति॥७॥

सा मातुरुदरस्था तु बहून्वर्षगणान्किल ।
निवसन्ती न वै जज्ञे गर्भस्थां तां पिताब्रवीत्॥८॥

जायस्व शीघ्रं भद्रं ते किमर्थमिह तिष्ठसि ।
प्रोवाच चैनं गर्भस्था कन्या गां च दिने दिने॥९॥

यदि दद्यां ततोऽद्याहं जाययिष्यामि तां पिता ।
तथेत्युवाच तं चास्याः पिता काममपूरयत्॥१०॥

जाययिष्यामि जन्म ग्रहीष्यामि॥१०॥

दाता यज्वा च धीरश्च श्रुतवानतिथिप्रियः ।
अक्रूरः सुषुवे तस्माच्छ्वाफल्काद्भूरिदक्षिणः॥११॥

उपासङ्गस्तथा मद्रुर्मृदुरश्चारिमेजयः ।
अविक्षिपस्तथोपेक्षः शत्रुघ्नोऽथारिमर्दनः॥१२॥

उपासङ्गादयोऽकूरभ्रातरः॥१२॥

धर्मधृग्यतिधर्मा च गृध्रमोजान्तकस्तथा ।
आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना॥१३॥

अक्रूरेणोग्रसेनायां सुगात्र्यां कुरुनन्दन ।
प्रसेनश्चोपदेवश्च जज्ञाते देववर्चसौ॥१४॥

चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च ।
अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ॥१५॥

चित्रकस्याक्रूरभ्रातुः॥१५॥

अरिष्टनेमिरश्वश्च सुधर्मा धर्मभृत्तथा ।
सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ॥१६॥

अश्मक्यां जनयामास शूरं वै देवमीढुषः ।
महिष्यां जज्ञिरे शूराद्भोज्यायां पुरुषा दश॥१७॥

देवमीढुषः क्रोष्टुस्तृतीयः पुत्रः शूरं दन्त्यादिरयमित्यन्ये। शूरसेनात्कार्तवीर्यपुत्राद्दशान्ये॥१७॥

वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ।
जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्रणदन्दिवि॥१८॥

प्राणदन् स्वयमेव शब्दं चक्रुः। तत्र भगवदवतारस्य भावित्वात्॥१८॥

आनकानां च संह्रादः सुमहानभवद्दिवि ।
पपात पुष्पवर्षं च शूरस्य भवने महत्॥१९॥

आनकानां पटहानाम्॥१९॥

मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि ।
यस्यासीत्पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा॥२०॥

देवभागस्ततो जज्ञे तथा देवश्रवाः पुनः ।
अनाधृष्टिः कनवको वत्सावानथ गृञ्जिमः॥२१॥

वसुदेवादयो गण्डूषान्ताः दश शूरस्य पुत्राः पञ्च दुहितरश्चेत्याह- देवभाग इत्यादिना॥२१॥

श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः ।
पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवाः॥२२॥

राजाधिदेवी च तथा पञ्चैता वीरमातरः ।
पृथां दुहितरं वव्रे कुन्तिस्तां कुरुनन्दन॥२३॥

शूरः पूज्याय वृद्धाय कुन्तिभोजाय तां ददौ ।
तस्मात्कुन्तीति विख्याता कुन्तिभोजात्मजा पृथा॥२४॥

अन्त्यस्य श्रुतदेवायां जगृहुः सुषुवे सुतः ।
श्रुतश्रवायां चैद्यस्य शिशुपालो महाबलः॥२५॥

चैद्यस्य दमघोषस्य॥२५॥

हिरण्यकशिपुर्योऽसौ दैत्यराजोऽभवत्पुरा ।
पृथुकीर्त्यां तु तनयः सञ्जज्ञे वृद्धशर्मणः॥२६॥

करूषाधिपतिर्वीरो दन्तवक्त्रो महाबलः ।
पृथां दुहितरं चक्रे कुन्तिस्तां पाण्डुरावहत्॥२७॥

पृथा कुन्तिः कुन्तीं कुन्तिभोजः॥२७॥

यस्यां स धर्मविद्राजा धर्माज्जज्ञे युधिष्ठिरः ।
भीमसेनस्तथा वातादिन्द्राच्चैव धनञ्जयः॥२८॥

लोकेऽप्रतिरथो वीरः शक्रतुल्यपराक्रमः ।
अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात्॥२९॥

अनमित्रात् क्रोष्टुः प्रथमपुत्रात् वृष्णिनन्दनात् सर्वयादवाह्लादकात्॥२९॥

शैनेयः सत्यकस्तस्माद्युयुधानश्च सात्यकिः ।
असङ्गो युयुधानस्य भूमिस्तस्याभवत्सुतः॥३०॥

भूमेर्युगधरः पुत्र इति वंशः समाप्यते ।
उद्धवो देवभागस्य महाभागः सुतोऽभ्वत् ।
पण्डितानां परं प्राहुर्देवश्रवसमुद्भवम्॥३१॥

देवभागस्य वसुदेवभ्रातुः देववत् श्रवः कीर्तिर्यस्य तं देवश्रवसम्॥३१॥

अश्मक्यां प्राप्तवान्पुत्रमनाधृष्टिर्यशस्विनम् ।
निवृत्तशत्रुं शत्रुघ्नं देवश्रवा व्यजायत॥३२॥

देवश्रवाः वसुदेवतृतीयो भ्राता शत्रुघ्नं पुत्रं व्यजायत॥३२॥

देवश्रवाः प्रजातस्तु नैषादिर्यः प्रतिश्रुतः ।
एकलव्यो महाराज निषादैः परिवर्धितः॥३३॥

स एव केनचिन्निमित्तेन बाल एव परित्यक्तो निषादैः संवर्द्धित इति नैषादिर्जात इत्याह- देवश्रवा इति॥३३॥

वत्सावते त्वपुत्राय वसुदेवः प्रतापवान् ।
अद्भिर्ददौ सुतं वीरं शौरिः कौशिकमौरसम्॥३४॥

वत्सावान् गण्डूषश्च वसुदेवानुजौ॥३४॥

गण्डूषाय त्वपुत्राय विष्वक्सेनो ददौ सुतान् ।
चारुदेष्णं सुचारुं च पञ्चालं कृतलक्षणम्॥३५॥

विष्वक्सेनः श्रीकृष्णः सुतान् चारुदेष्णादीन् चतुःसङ्ख्यान्॥३५॥

असङ्ग्रामेण यो वीरो नावर्तत कदाचन ।
रौक्मिणेयो महाबाहुः कनीयान्पुरुषर्षभ॥३६॥

चारुदेष्णपदं निर्वक्ति- असङ्ग्रामेणेति द्वाभ्याम्॥३६॥

वायसानां सहस्राणि यं यान्तं पृष्ठतोऽन्वयुः ।
चारुमांसानि भोक्ष्यामश्चारुदेष्णहतानि तु॥३७॥

चारून् मिष्टान् भक्ष्यान् दिशति अतिसृजतीति चारुदेष्ण इत्यर्थः॥३७॥

तन्द्रिजस्तन्द्रिपालश्च सुतौ कनवकस्य तु ।
वीरश्चाश्वहनश्चैव वीरौ तावावगृञ्जिमौ॥३८॥

कनबकस्य वसुदेवभ्रातुः आवगुञ्जिमौ अवगृञ्जिमस्य वसुदेवभ्रातुः॥३८॥

श्यामपुत्रः शमीकस्तु शमीको राज्यमावहत् ।
जुगुप्समानौ भोजत्वाद्राजसूयमवाप सः ।
अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः॥३९॥

श्यामस्य वसुदेवभ्रातुः पुत्रः इव पुत्रोऽनुज एव पुत्रीभूतः। शमीकोऽभूदिति शेषः। सुमित्र इति पाठे पुत्रस्यैव विशेषणम्। शोभनमित्रत्वं भोजत्वात् एकदेशराजानो भोजाः। तद्भावात् जुगुप्समानः आत्मानं निन्दन् राजसूयं साम्राज्यहेतुम्। अवाप। तत्र योग्यतां प्रदर्शयन् तस्य सुमित्रत्वं व्याचष्टे। अजातशत्रुरित्यर्द्धेन। युधिष्ठिरसहायः शमीको राज्ञां राजाऽभवदिति सार्द्धार्थः॥३९॥

वसुदेवसुतान्वीरान्कीर्तयिष्यामि ताञ्छृणु॥४०॥

वृष्णेस्त्रिविधमेतत्तु बहुशाखं महौजसम् ।
धारयन्विपुलं वंशं नानर्थैरिह युज्यते॥४१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि वृष्णिवंशकीर्तनं नाम चतुस्त्रिंशोऽध्यायः॥३४॥
कृष्णवंशवर्णनम्

वैशम्पायन उवाच। याः पत्न्यो वसुदेवस्य चतुर्दश वराङ्गनाः ।
पौरवी रोहिणी नाम इन्दिरा च तथा वरा॥१॥

पञ्चत्रिंशे हरेः प्रोक्तः प्रादुर्भावः परात्मनः। गार्ग्यशापानुरोधेन यवनाद्भयतद्वधौ॥१॥ या इति॥१॥

वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी ।
सहदेवा शान्तिदेवा श्रीदेवा देवरक्षिता॥२॥

सुनामान्ताः पञ्च पौरव्यः॥२॥

वृकदेव्युपदेवी च देवकी चैव सप्तमी ।
सुतनुर्वडवा चैव द्वे एते परिचारिके॥३॥

देवक्यन्ताः सप्त देवकस्य दुहितरः। परिचारिके भोगपत्न्यौ न तु दास्यौ याः पत्न्य इत्युपक्रमात्॥३॥

पौरवी रोहिणी नाम बाह्लिकस्यात्मजाभवत् ।
ज्येष्ठा पत्नी महाराज दयिताऽऽनकदुन्दुभेः॥४॥

लेभे ज्येष्ठं सुतं रामं सारणं शठमेव च ।
दुर्दमं दमनं श्वभ्रं पिण्डारकमुशीनरम्॥५॥

चित्रां नाम कुमारीं च रोहिणीतनया दश ।
चित्रा सुभद्रेति पुनर्विख्याता कुरुनन्दन॥६॥

चित्रान्तानि नवापत्यानि सङ्ख्याय रोहिणीतनया दशेत्युक्तिरयुक्तेत्याशङ्क्याह। चित्रा सुभद्रेति। पुनर्विख्यातेति। चित्रा पुनर्जज्ञे सा च द्वितीये जन्मनि सुभद्रेति विख्यातेत्यर्थः। अत्र पौराणिकी कथा। चित्रा नाम काचिदप्सरा मुनिशापाद्रोहिण्यां गर्भवासं लेभे। सा पुनर्जातमात्रा म्रियमाणा मया यादवेषु जायमानस्य भगवतो लीला न दृष्टा धिङ् मामित्यनुतापं चक्रे। ततश्च तया वासनया पुनस्तत्रैव जन्म धृतवतीति तया सह दशसङ्ख्यापूर्तिर्ज्ञेया॥६॥

वसुदेवाच्च देवक्यां जज्ञे शौरिर्महायशाः ।
रामाच्च निशठो जज्ञे रेवत्यां दयितः सुतः॥७॥

शौरिः श्रीकृष्णः॥७॥

सुभद्रायां रथी पार्थादभिमन्युरजायत ।
अक्रूरात्काशिकन्यायां सत्यकेतुरजायत॥८॥

वसुदेवस्य भार्यासु महाभागासु सप्तसु ।
ये पुत्रा जज्ञिरे शूरा नामतस्तान्निबोध मे॥९॥

भोजश्च विजयश्चैव शान्तिदेवासुतावुभौ ।
वृकदेवः सुनामायां गदश्चास्तां सुतावुभौ॥१०॥

उपासङ्गवरं लेभे तनयं देवरक्षिता ।
अगावहं महात्मानं वृकदेवी व्यजायत॥११॥

कन्या त्रिगर्तराजस्य भर्ता वै शैशिरायणः ।
जिज्ञासां पौरुषे चक्रे न चस्कन्देऽथ पौरुषम्॥१२॥

त्रिगर्तराजस्य देवकन्या वृकदेवीति पूर्वेणान्वयः। तस्यैव त्रिगर्तराजस्य भर्ता पुरोहितः शैशिरायणो गार्ग्यः तदीयः शालो यादवपक्षीयः पुरोहितः कश्चित्तस्य पौरुषमस्ति न वेति जिज्ञासां परीक्षां चक्रे हस्तेन लिङ्गमभिमृष्टवान्। अथ अनन्तरं गार्ग्यस्य पौरुषं रेतो न चस्कन्द दृढव्रतत्वात् तस्यानुत्थानात्। उत्थाने हि किञ्चिदपि रेतः स्कन्देदेव ततो गार्ग्यो नपुंसक इति शालेनोक्त इत्यर्थः। यथोक्तं विष्णुपुराणे- “गार्ग्यं गोष्ठ्यां द्विजं शालः षण्ढ इत्युक्तवान्यदा। यदूनां सन्निधौ सर्वे जहसुर्यादवास्तदा।” इति॥१२॥

कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा ।
मिथ्याभिशप्तो गार्ग्यस्तु मन्युनाभिसमीरितः॥१३॥

कृष्णायससमः कोपेनात्यन्तं कृष्णभास्वरवर्णः। “कोपेन चास्या वदनं मषीवर्णमभूत्तदा।” इति अन्यत्र दर्शनात्। यतो मिथ्यैव नपुंसकोऽयमित्यभिशापं प्रापितः प्रख्योऽतिविख्यातः। द्वादशमे द्वादशे वर्षे शान्तकोपः स मन्युना दैन्येनाभिशापजेन परिप्लुतः सन्नभिशापनिवृत्त्यर्थं परं प्रत्ययमुत्पादयिष्यन् गोपकन्यामुपादाय मैथुनायोपचक्रमे इति सार्धः। काऽसौ गोपकन्या कुतश्चास्य तत्संयोग इत्याह सार्द्धेन– गोपालीति। अन्ये तु कृष्णायसमयः प्रख्य इति पठित्वा कृष्णायसं लोहचूर्णम् अभक्षयत्। अयःप्रख्यो लोहवर्ण इति व्याख्या। तत्र वैष्णवीयां सम्मतिमाहुः- “सुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम्। आराधयन् महादेवं सोऽयश्चूर्णमभक्षयत्॥ ददौ वरं तु सन्तुष्टो वर्षे तु द्वादशे शिवः। संयोजयामास च तं यवनेशो ह्यनात्मजः॥ तद्योषित्सङ्गमाच्चास्य पुत्रोऽभूदलिसप्रभः। तं कालयवनं नाम”- इति। तच्छव्दार्थो गार्ग्यः संयोजयामास स्वभार्ययेति शेषः। तत्र मातृभेदः कल्पभेदाभिप्रायेण व्याख्येयः। शेषं स्पष्टम्॥१३॥

गोपकन्यामुपादाय मैथुनायोपचक्रमे ।
गोपाली त्वप्सरास्तस्य गोपस्त्रीवेषधारिणी॥१४॥

धारयामास गार्ग्यस्य गर्भं दुर्धरमच्युतम् ।
मानुष्यां गार्ग्यभार्यायां नियोगाच्छूलपाणिनः॥१५॥

स कालयवनो नाम जज्ञे राजा महाबलः ।
वृषपूर्वार्धकायास्तमवहन्वाजिनो रणे॥१६॥

वृषस्य बलीवर्दस्येव पूर्वार्द्धकायो नाभेरुपरिदेशो येषां ते वृषपूर्वार्द्धकायाः॥१६॥

अपुत्रस्य स राज्ञस्तु ववृधेऽन्तःपुरे शिशुः ।
यवनस्य महाराज स कालयवनोऽभवत्॥१७॥

राज्ञोऽन्तःपुरे ववृधे इत्यनेन गोपाल्याऽप्सरसा सद्यः शकुन्तलावत्परित्यक्त इति गम्यते॥१७॥

स युद्धकामी नृपतिः पर्यपृच्छद्द्विजोत्तमान् ।
वृष्ण्यन्धककुलं तस्य नारदोऽकथयद्विभुः॥१८॥

अक्षौहिण्या तु सैन्यस्य मथुरामभ्ययात्तदा ।
दूतं सम्प्रेषयामास वृष्ण्यन्धकनिवेशनम्॥१९॥

ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् ।
समेता मन्त्रयामासुर्यवनस्य भयात्तदा॥२०॥

कृत्वा च निश्चयं सर्वे पलायनपरायणाः ।
विहाय मथुरां रम्यां मानयन्तः पिनाकिनम्॥२१॥

कुशस्थलीं द्वारवतीं निवेशयितुमीप्सवः ।
इति कृष्णस्य जन्मेदं यः शुचिर्नियतेन्द्रियः ।
पर्वसु श्रावयेद्विद्वाननृणः स सुखी भवेत्॥२२॥

ईप्सवो ‘जाताः’ इति शेषः॥२२॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि श्रिकृष्णजन्मानुकीर्तनं नाम पञ्चत्रिंशोऽध्यायः॥३५॥
क्रोष्टुवंशवर्णनम्

वैशम्पायन उवाच। क्रोष्टोरेवाभवत्पुत्रो वृजिनीवान्महायशाः ।
वृजिनीवत्सुतश्चापि स्वाहिः स्वाहाकृतं वरः॥१॥

षट्त्रिंशे वर्ण्यते वंशः क्रोष्टोर्यदुसुतस्य च। यत्र जाता महालक्ष्मी रुक्मिणी शक्तिरीश्वरी॥१॥ क्रोष्टोरेवेति। यथा कृष्णः क्रोष्टुर्वंशे जात एवं सत्यभामादयोऽपि तत्रैव जाता इति वक्तुमेवकारः। क्षत्रियाणां समानान्वयेऽपि सापिण्ड्यनिवृत्त्यूर्ध्वं पुरोहितगोत्रेण अन्योऽन्यं गोत्रभेदाद्विवाहा भवन्तीति युज्यत एवेति भावः॥१॥

स्वाहिपुत्रोऽभवद्राजा रुषद्गुर्वदतां वरः ।
महाक्रतुभिरीजे यो विविधैर्भूरिदक्षिणैः॥२॥

सुतप्रसूतिमन्विच्छन्रुषद्गुः सोऽग्र्यमात्मजम् ।
जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिरन्वितः॥३॥

सुतप्रसूतिं पुत्रप्रजासमृद्धमात्मजम् इच्छन् अभूत् तस्य इच्छतः कर्मभिः पुत्रेष्ट्यादिभिः॥३॥

आसीच्चैत्ररथिर्वीरो यज्वा विपुलदक्षिणः ।
शशबिन्दुः परं वृत्तं राजर्षीणामनुष्ठितः॥४॥

अनुष्ठितः आश्रितः॥४॥

पृथुश्रवाः पृथुयशा राजाऽऽसीच्छशबिन्दुजः ।
शंसन्ति च पुराणज्ञाः पार्थश्रवसमुत्तरम्॥५॥

पार्थश्रवसं पृथुश्रवसः पुत्रम्॥५॥

अनन्तरं सुयज्ञस्तु सुयज्ञतनयोऽभवत् ।
उशतो यज्ञमखिलं स्वधर्ममुशतां वरः॥६॥

उशतो नामतः स्वधर्मं यज्ञम्। उशतां कामयमानानां वरः श्रेष्ठः॥६॥

शिनेयुरभवत्सूनुरुशतः शत्रुतापनः ।
मरुत्तस्तस्य तनयो राजर्षिरभवन्नृप॥७॥

मरुत्तोऽलभत ज्येष्ठं सुतं कम्बलबर्हिषम् ।
चचार विपुलं धर्मममर्षात्प्रेत्यभागपि॥८॥

मरुत्तः धर्मं चचार। तत्र हेतुः- प्रेत्यभागिति। मरणानन्तरं स्वफलप्रदानेन सेवते अप्रेत्यापि तद्भाक् सेवनकृत् यतोऽतश्चचार ततश्च सुतं लेभे इत्यन्वयः॥८॥

सुतप्रसूतिमिच्छन्वै सुतं कम्बलबर्हिषः ।
बभूव रुक्मकवचः शतप्रसवतः सुतः॥९॥

सुतम् इच्छन् सुतप्रसूतिं नाम सु[तं]लेभ इत्यनुषज्यते॥९॥

निहत्य रुक्मकवचः शतं कवचिनां रणे ।
धन्विनां निशितैर्बाणैरवाप श्रियमुत्तमाम्॥१०॥

जज्ञेऽथ रुक्मकवचात्पराजित्परवीरहा ।
जज्ञिरे पञ्च पुत्रास्तु महावीर्याः पराजितः॥११॥

रुक्मेषुः पृथुरुक्मश्च ज्यामघः पलितो हरिः ।
पालितं च हरिं चैव विदेहेभ्यः पिता ददौ॥१२॥

विदेहेभ्यः विदेहान् त्रातुं तदधिपतये राज्ञे ददावित्यर्थः॥१२॥

रुक्मेषुरभवद्राजा पृथुरुक्मस्य संश्रितः ।
ताभ्यां प्रव्राजितो राज्याज्ज्यामघोऽवसदाश्रमे॥१३॥

संश्रितः आश्रितः ज्येष्ठानुसारी जातः॥१३॥

प्रशान्तः स वनस्थस्तु ब्राह्मणैश्चावबोधितः ।
जिगाय रथमास्थाय देशमन्यं ध्वजी रथी॥१४॥

वार्धक्यात् प्रशान्तस्त्यक्तराज्यलिप्स अवबोधितः तप आदिना उद्दीपितः जिगाय जितवान्॥१४॥

नर्मदाकूलमेकाकी नगरीं मृत्तिकावतीम् ।
ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्यामुवास सः॥१५॥

ज्यामघस्याभवद्भार्या शैब्या बलवती सती ।
अपुत्रोऽपि च राजा स नान्यां भार्यामविन्दत॥१६॥

बलवती प्रगल्भा॥१६॥

तस्यासीद्विजयो युद्धे तत्र कन्यामवाप सः ।
भार्यामुवाच सन्त्रस्तः स्नुषेति स नरेश्वरः॥१७॥

एतच्छ्रुत्वाब्रवीद्देवी कस्य चेयं स्नुषेति वै ।
अब्रवीत्तदुपश्रुत्य ज्यामघो राजसत्तमः॥१८॥

यस्ते जनिष्यते पुत्रः तस्य भार्योपदानवी ।
उग्रेण तपसा तस्याः कन्यायाः स व्यजायत ।
पुत्रं विदर्भं सुभगा शैब्या परिणता सती॥१९॥

तस्याः उपदानवीसंज्ञायाः उग्रेण तपसा परिणता वृद्धाऽपि शैब्या पुत्रं व्यजायत जनितवती॥१९॥

राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकौशिकौ ।
पश्चाद्विदर्भोऽजनयच्छूरौ रणविशारदौ॥२०॥

लोमपादं त्रितीयं तु पुत्रं परमधार्मिकम् ।
लोमपादात्मजो बभ्रुराह्वतिस्तस्य चात्मजः॥२१॥

आह्वतेः कौशिकश्चैव विद्वान्परमधार्मिकः ।
चेदिः पुत्रः कौशिकस्य तस्माच्चैद्या नृपाः स्मृताः॥२२॥

भीमो विदर्भस्य सुतः कुन्तिस्तस्यात्मजोऽभवत् ।
कुन्तेर्धृष्टसुतो जज्ञे रणधृष्टः प्रतापवान् ।
धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्मिकाः॥२३॥

आवन्तश्च दशार्हश्च बली विषहरश्च यः ।
दशार्हस्य सुतो व्योमा व्योम्नो जीमूत उच्यते॥२४॥

जीमूतपुत्रो बृहतिस्तस्य भीमरथः सुतः ।
अथ भीमरथस्यासीत्पुत्रो नवरथस्तथा॥२५॥

तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः ।
तस्मात्करम्भः कारम्भिर्देवरातोऽभवन्नृपः॥२६॥

देवक्षत्रोऽभवत्तस्य दैवक्षत्रिर्महायशाः ।
देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः॥२७॥

मधूनां वंशकृद्राजा मधुर्मधुरवागपि ।
मधोर्जज्ञेऽथ वैदर्भ्यां पुत्रो मरुवसास्तथा॥२८॥

आसीन्मरुवसः पुत्रः पुरुद्वान्पुरुषोत्तमः ।
मधुर्जज्ञेऽथ वैदर्भ्यां भद्रवत्यां कुरूद्वहः॥२९॥

पुरुद्वान्नामतः तस्य वैदर्भी भद्रवती भार्या तस्यां मधुर्जातः॥२९॥

ऐक्ष्वाकी चाभवद्भार्या सत्त्वांस्तस्यामजायत ।
सत्त्वान्सर्वगुणोपेतः सात्त्वतां कीर्तिवर्धनः॥३०॥

तस्यैव ऐक्ष्वाकी सती नाम द्वितीया भार्या तस्यां सत्वान् जातः॥३०॥

इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः ।
युज्यते परया कीर्त्या प्रजावांश्च भवेन्नरः॥३१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि षट्त्रिंशोऽध्यायः॥३६॥
बभ्रुवंशवर्णनम्

वैशम्पायन उवाच। सत्त्वतात्सत्त्वसम्पन्नान्कौशल्या सुषुवे सुतान् ।
भजिनं भजमानं च दिव्यं देवावृधं नृपम्॥१॥

सप्तत्रिंशेऽन्वयस्योक्ताश्चत्वारः सत्त्वतः सुताः। शुचीकरा हरीत्यत्र त्रयाणां वंशवर्णनम्॥१॥ सत्त्वतात् भजमानदेवावृधौ नामानौ॥१॥

अन्धकं च महाबाहुं वृष्णिं च यदुनन्दनम् ।
तेषां विसर्गाश्चत्वारो विस्तरेणेह ताञ्छृणु॥२॥

भजमानस्य सृञ्जय्यौ बाह्यकाथोपबाह्यका ।
आस्तां भार्ये तयोस्तस्माज्जज्ञिरे बहवः सुताः॥३॥

सञ्जय्यौ सञ्जयपुत्र्यौ॥३॥

कृमिश्च क्रमणश्चैव धृष्टः शूरः पुरञ्जयः ।
एते बाह्यकसृञ्जय्यां भजमानाद्विजज्ञिरे॥४॥

अयुताजित्सहस्राजिच्छताजिच्चाथ दाशकः ।
उपबाह्यकसृञ्जय्यां भजमानाद्विजज्ञिरे॥५॥

यज्वा देवावृधो राजा चचार विपुलं तपः ।
पुत्रः सर्वगुणोपेतो मम स्यादिति निश्चितः॥६॥

संयुज्यात्मनमेवं तु पर्णशाया जलं स्पृशन् ।
सदोपस्पृशतस्तस्य चकार प्रियमापगा॥७॥

आत्मानं चित्तम्। सञ्युज्य समाधये जलं स्पृशन् स्नानाचमनादेरुपलक्षणमेतत्॥७॥

चिन्तयाभिपरीता सा जगामैकाभिनिश्चयम् ।
कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तमा॥८॥

एका एकाकिन्येव निश्चयम् अभिजगाम चकार। तस्य तदीयहितस्य चिन्तया॥८॥

नाध्यगच्छत तां नारीं यस्यामेवंविधः सुतः ।
जायेत्तस्मात्स्वयं हन्त भवाम्यस्य सहव्रता॥९॥

हन्तेति। सस्नेहमालोचने सहव्रता धर्मपत्नी॥९॥

अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः ।
वरयामास नृपतिं तामियेष च स प्रभुः॥१०॥

इयेष इच्छितवान्॥१०॥

तस्यामाधत्त गर्भं च तेजस्विनमुदारधीः ।
अथ सा दशमे मासि सुषुवे सरितां वरा॥११॥

पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधान्नृपात् ।
अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम्॥१२॥

गुणान्देवावृधस्याथ कीर्तयन्तो महात्मनः ।
यथैवाग्रे समं दूरात्पश्याम च तथान्तिके॥१३॥

अन्तिके दूराच्च योगबलेनानेकधाऽऽत्मानं कृत्वा सञ्चरन्तं तुल्यवत्पश्यामः॥१३॥

बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः ।
षष्टिश्च षट् च पुरुषाः सहस्राणि च सप्त च॥१४॥

षट्षष्ट्यधिकानि सप्त सहस्राणि। पुरुषाः अमृतत्वं युद्धेन मृत्युमासाद्य ब्रह्मलोकं गता इत्यर्थः॥१४॥

एतेऽमृतत्वं सम्प्राप्ता बभ्रुर्देवावृधावपि ।
यज्वा दानपतिर्विद्वान्ब्रह्मण्यः सुधृढायुधः॥१५॥

यज्वा बभ्रुरेव॥१५॥

कीर्तिमांश्च महातेजाः सात्त्वतानां महावरः ।
तस्यान्ववायः सुमहान्भोजा ये मार्तिकावताः॥१६॥

तस्य बभ्रोः। अन्धकात् सत्त्वतः पुत्रात् काश्यस्य दृढाश्वस्य दुहिता॥१६॥

अन्धकात्काश्यदुहिता चतुरोऽलभदात्मजान् ।
कुकुरं भजमानं च शमिं कम्बलबर्हिषम्॥१७॥

कुकुरस्य सुतो धृष्णुर्धृष्णोस्तु तनयस्तथा ।
कपोतरोमा तस्याथ तैत्तिरिस्तनयोऽभवत्॥१८॥

जज्ञे पुनर्वसुस्तस्मादभिजित्तु पुनर्वसोः ।
तस्य वै पुत्रमिथुनं बभूवाभिजितः किल॥१९॥

आहुकश्चाहुकी चैव ख्यातौ ख्यातिमतां वरौ ।
इमां चोदाहरन्त्यत्र गाथां प्रति तमाहुकम्॥२०॥

श्वेतेन परिवारेण किशोरप्रतिमो महान् ।
अशीतिचर्मणा युक्तः स नृपः प्रथमं व्रजेत्॥२१॥

श्वेतेन शुद्धेन किशोरप्रतिमः तरुणाश्ववदुत्साहवान्। "किशोरोऽश्वस्य शावकः" इति मेदिनी। अशीतिचर्मणा युक्तः अशीत्या पुरुषैर्वाह्यं चर्मफलकं दारुमयम् आसनविशेषः। तेन युक्तः तदारूढः। “चर्म कृत्तौ च फलके” इति मेदिनी। अशीतिचर्मणेत्यस्य अभेद्यात्मत्वं चेत्यर्थः इति प्राञ्चः प्राहुः। यद्वा नास्ति शीतिः स्वप्नो येषां ते अशीतयो देवाः त एव चर्म- बाणत्राणं तेन युक्तः देवरक्षित इत्यर्थः॥२१॥

नापुत्रवान्नाशतदो नासहस्रशतायुषः ।
नाशुद्धकर्मा नायज्वा यो भोजमभितो व्रजेत्॥२२॥

अत एव तस्य परिवारः स्तूयते- नापुत्रवानिति। भोजमाहुकम्॥२२॥

पूर्वस्यां दिशि नागानां भोजस्येत्यनुमोदनम् ।
सोपासङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम्॥२३॥

रूप्यकाञ्चनेत्यर्थः सोपासङ्गेत्यतः प्राग्द्रष्टव्यः। रूप्यमय्यः काञ्चनमय्यश्च कक्षाः वरत्राः बन्धनशृङ्खला वा येषां तादृशानां नागानां दश सहस्राणि पूर्वस्यां दिशि। अनुमोदनम् अभ्यनुज्ञाम् एति याति। तु प्राप्नुवन्ति तथा तस्यामेव दिशि रथानां दश सहस्राणि अनुमोदनं यान्ति। उपासङ्गो युगम्। अनुकर्षणं रथाधः स्थितं काष्ठं वरूथं रथगुप्तिः तद्वतां रथानाम्॥२३॥

रथानां मेघघोषाणां सहस्राणि दशैव तु ।
रूप्यकाञ्चनकक्षाणां सहस्राणि दशापि च॥२४॥

तावन्त्येव सहस्राणि उत्तरस्यां तथा दिशि ।
आभूमिपालान्भोजान्स्वानुत्तिष्ठन्किङ्किणीकिणः॥२५॥

उत्तरस्यामपि तावन्त्येव रथानां नागानां च सहस्राणि तथा दिशि यथा पूर्वोत्तरयोस्तथाऽवशिष्टायामपि दिशि दक्षिणस्यां सपश्चिमायाम् अनुमोदनं तावन्त्येव सहस्राणि प्राप्नुवन्तीत्यर्थः। आभूमिपालान्सर्वान् सामन्तान् अभिव्याप्य वशीकृत्य भोजाः स्वज्ञातयस्तम् आहुकम् उपतिष्ठन् उपातिष्ठन् सेवितवन्तः किङ्किणीकिणः। क्षुद्रघण्टिकावन्तो रथादयः। किङ्किणीशब्दादीकक् तद्धितः। किङ्किणीकिण इति दन्त्यस्य मूर्द्धन्यत्वमार्षम्। भोजान् स्वानुत्तप्तकिङ्किणीकिण इति पाठे सर्वान् भूमिपालान् व्याप्य स्वान् उत्तमं सुवर्णं तन्मयकिङ्किणीयुक्ताः रथादय उत्तप्तकिङ्किणीकाः तद्युक्ता उत्तप्तकिङ्किणीकिणः। तादृशानकरोदिति शेषः॥२५॥

आहुकीं चाप्यवन्तिभ्यः स्वसारं ददुरन्धकाः ।
आहुकस्य तु काश्यायां द्वौ पुत्रौ सम्बभूवतुः॥२६॥

आहुकीम् आहुकसम्बन्धिनीं स्वसारम् आहुकीसंज्ञाम् अवन्तिभ्यः राज्ञीत्वेन ददुः॥२६॥

देवकश्चोग्रसेनश्च देवपुत्रसमावुभौ ।
देवकस्याभवन्पुत्राश्चत्वारस्त्रिदशोपमाः॥२७॥

देववानुपदेवश्च सुदेवो देवरक्षितः ।
कुमार्यः सप्त चास्यासन्वसुदेवाय ता ददौ॥२८॥

कुमार्यः पुत्र्यः॥२८॥

देवकी शन्तिदेवा च सुदेवा देवरक्षिता ।
वृकदेव्युपदेवी च सुनासी चैव सप्तमी॥२९॥

वृकदेवीयुक्ता उपदेवी वृकदेव्युपदेवी॥२९॥

नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्वजः ।
न्यग्रोधश्च सुनामा च कङ्कः शङ्कुः सुभूमिपः॥३०॥

कंसः पूर्वजः प्रथमः न्यग्रोधादयोऽष्टौ सुभूमिप इति शङ्कोर्विशेषणम्। गौडपाठे- सुभूषण इति वा तस्यैव विशेषणम्। अन्ये तु सुभूमिप इति कंसस्यैव नामेत्याहुंस्तेषां तस्य पूर्वजोक्तिर्विरुध्यते। परे पुनः कङ्कुश्चैव सुभूमिप इति शङ्कुपदे लोपमेव कुर्वन्ति तत्र पाठतत्त्वं व्यास एव वेद॥३०॥

राष्ट्रपालोऽथ सुतनुरनाधृष्टिश्च पुष्टिमान् ।
तेषां स्वसारः पञ्चाऽऽसन्कंसा कंसवती तथा॥३१॥

सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ।
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः॥३२॥

कुकुराणामिमं वंशं धारयन्नमितौजसाम् ।
आत्मनो विपुलं वंशं प्रजावानाप्नुयान्नरः॥३३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि सप्तत्रिंशोऽध्यायः॥३७॥
अष्टत्रिंशोऽध्यायः

वैशम्पायन उवाच। भजमानस्य पुत्रोऽथ रथमुख्यो विदूरथः ।
राजाधिदेवः शूरस्तु विदूरथसुतोऽभवत्॥१॥

अष्टत्रिंशेऽन्वयः प्रोक्तो भजमानस्य तत्र च। स्यमन्तकस्य च मणेः प्रत्यानयनमद्भुतम्॥१॥ भजमानस्य रथमुख्यः रथवतां मुख्योऽतिरथ इति यावत्॥१॥

राजाधिदेवस्य सुता जज्ञिरे वीर्यवत्तराः ।
दत्तातिदत्तबलिनौ शोणाश्वः श्वेतवाहनः॥२॥

शमी च दण्डशर्मा च दण्डशत्रुश्च शत्रुजित् ।
श्रवणा च श्रविष्ठा च स्वसारौ सम्बभूवतुः॥३॥

शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः ।
स्वयम्भोजः स्वयम्भोजाद्धृदीकः सम्बभूव ह॥४॥

तस्य पुत्रा बभूवुर्हि सर्वे भीमपराक्रमाः ।
कृतवर्माग्रजस्तेषां शतधन्वाथ मध्यमः॥५॥

देवर्षेर्वचनात्तस्य भिषग्वैतरणश्च यः ।
सुदान्तश्च विदान्तश्च कामदा कामदन्तिका॥६॥

देवर्षेः च्यवनस्य वचनात्तस्य शतधन्वनः भिषक्प्रभृतयश्चत्वारः पुत्राः। कामदा कामदन्तिका चेति। द्वे पुत्र्यौ॥६॥

देववांश्चाभवत्पुत्रो विद्वान्कम्बलबर्हिषः ।
असमौजास्तथा वीरो नासमौजाश्च तावुभौ॥७॥

कम्बलबर्हिषः मरुत्तपुत्रस्य देववान् तस्य त्रयः॥७॥

अजातपुत्राय सुतान्प्रददावसमौजसे ।
सुदंष्ट्रं चारुरूपं च कृष्णमित्यन्धकास्त्रयः॥८॥

अन्धकाः अन्धकस्य पुत्राः तान् अन्धक एव असभौजसे ददाविति गम्यते॥८॥

एते चान्ये च बहवो अन्धकाः कथितास्तव ।
अन्धकानामिमं वंशे धारयेद्यस्तु नित्यशः॥९॥

आत्मनो विपुलं वंशं लभते नात्र संशयः ।
गान्धारी चैव माद्री च क्रोष्टुर्भार्ये बभूवतुः॥१०॥

गान्धारी जनयामास अनमित्रं महाबलम् ।
माद्री युधाजितं पुत्रं ततो वै देवमीडुषम्॥११॥

अनमित्रममित्राणां जेतारमपराजितम् ।
अनमित्रसुतौ निघ्नो निघ्नतो द्वौ बभूवतुः॥१२॥

निघ्नतः निघ्नात्॥१२॥

प्रसेनश्चाथ सत्राजिच्छत्रुसेनाजितावुभौ ।
प्रसेनो द्वारवत्यां तु निवसन्त्यां महामणिम्॥१३॥

शत्रुजिच्च सेनाजिच्च शत्रुसेनाजितौ निवसन्त्यां कृतनिवासायाम्॥१३॥

दिव्यं स्यमन्तकं नाम समुद्रादुपलब्धवान् ।
तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत्॥१४॥

उपलब्धवान् परम्परया लब्धवान् समुद्रात्समुद्रं प्राप्य तत्तीरे इत्यर्थः। कस्माल्लब्धवानित्याकाङ्क्षायामाह- तस्येति। तस्य प्रसेनसम्बन्धिनो भ्रातुः सत्राजित्संज्ञस्य॥१४॥

स कदाचिन्निशापाये रथेन रथिनां वरः ।
अब्धिकूलमुपस्प्रष्टुमुपस्थातुं ययौ रविम्॥१५॥

निशापाये प्रातःकाले उपस्प्रष्टुं स्नानादिकं कर्तुम्॥१५॥

तस्योपतिष्ठतः सूर्यं विवस्वानग्रतः स्थितः ।
अस्पष्टमूर्तिर्भगवांस्तेजोमण्डलवान्प्रभुः॥१६॥

अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ।
यथैवं व्योम्नि पश्यामि सदा त्वां ज्योतिषाम्पते॥१७॥

तेजोमण्डलिनं देवं तथैव पुरतः स्थितम् ।
को विशेषोऽस्ति मे त्वत्तः सख्येनोपगतस्य वै॥१८॥

यथा दिवि मण्डलिनं त्वां पश्यामि तथैव सन्निहितमपि मण्डलमात्रं पश्यामि न त्वाकृतिविशेषम्। अतस्तव सख्येन उपागतस्य समीपागतस्यापि इतरजनापेक्षया मे मया त्वत्तो विशेषतः कोऽनुग्रहः प्राप्तो न कोऽपि, यतः इतरवदहमपि त्वां मण्डलवन्तमेव पश्यामीत्यर्थः॥१८॥

एतच्छ्रुत्वा तु भगवान्मणिरत्नं स्यमन्तकम् ।
स्वकण्ठादवमुच्यैव एकान्ते न्यस्तवान्विभुः॥१९॥

ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ।
प्रीतिमानथ तं दृष्ट्वा मुहूर्तं कृतवान्कथाम्॥२०॥

विग्रहवन्तं सुस्पष्टावयवं नृपतिः राजा मण्डलाधिपतित्वात् न तु क्षत्रियमात्रः॥२०॥

तमपि प्रस्थितं भूयो विवस्वन्तं स सत्रजित् ।
लोकानुद्भासयस्येतान्येन त्वं सततं प्रभो ।
तदेतन्मणिरत्नं मे भगवन्दातुमर्हसि॥२१॥

ततः स्यमन्तकमणिं दत्तवांस्तस्य भास्करः ।
स तमाबध्य नगरीं प्रविवेश महीपतिः॥२२॥

तं जनाः पर्यधावन्त सूर्योऽयं गच्छतीति ह ।
पुरीं विस्मापयित्वा च राजा त्वन्तःपुरं ययौ॥२३॥

तत्प्रसेनजितं दिव्यं मणिरत्नं स्यमन्तकम् ।
ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिदुत्तमम्॥२४॥

स मणिः स्यन्दते रुक्मं वृष्ण्यन्धकनिवेशने ।
कालवर्षी च पर्जन्यो न च व्याधिभयं ह्यभूत्॥२५॥

स्यन्दते प्रस्रवति रुक्मं सुवर्णम्॥२५॥

लिप्सां चक्रे प्रसेनात्तु मणिरत्ने स्यमन्तके ।
गोविन्दो न च तल्लेभे शक्तोऽपि न जहार सः॥२६॥

कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः ।
स्यमन्तककृते सिंहाद्वधं प्राप वनेचरात्॥२७॥

सिंहो देवताविष्टः न तु पशुमात्रः तेन तादृङ्मणिधारिणो धर्षणायोगात्॥२७॥

अथ सिंहं प्रधावन्तमृक्षराजो महाबलः ।
निहत्य मणिरत्नं तदादाय बिलमाविशत्॥२८॥

ऋक्षराजो जाम्बवान्॥२८॥

ततो वृष्ण्यन्धकाः कृष्णं प्रसेनवधकारणात् ।
प्रार्थनां तां मणेर्बुद्ध्वा सर्व एव शशङ्किरे॥२९॥

शशङ्किरे कृष्णेनैव प्रसेनं हत्वा मणिर्गृहीत इति शङ्कां चक्रुः॥२९॥

स शङ्क्यमानो धर्मात्मा नकारी तस्य कर्मणः ।
आहरिष्ये मणिमिति प्रतिज्ञाय वनं ययौ॥३०॥

नकारी अकर्ता॥३०॥

यत्र प्रसेनो मृगयामाचरत्तत्र चाप्यथ ।
प्रसेनस्य पदं गृह्य पुरुषैराप्तकारिभिः॥३१॥

आप्तकारिभिः अन्तरङ्गैः किङ्करैः॥३१॥

ऋक्षवन्तं गिरिवरं विन्ध्यं च गिरिमुत्तमम् ।
आन्वेषयन्परिश्रान्तः स ददर्श महामनाः॥३२॥

साश्वं हतं प्रसेनं वै नाविन्दच्चेच्छितं मणिम् ।
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः॥३३॥

ऋक्षेण निहतो दृष्टः पादैर्ऋक्षश्च सूचितः ।
पादैरन्वेषयामास गुहामृक्षस्य माधवः॥३४॥

महत्यृक्षबिले वाणीं शुश्राव प्रमदेरिताम् ।
धात्र्या कुमारमादाय सुतं जाम्बवतो नृप ।
क्रीडापयन्त्या मणिना मा रोदीरित्यथेरिताम्॥३५॥

धात्र्युवाच। सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः ।
सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः॥३६॥

सुव्यक्तीकृतशब्दस्तु तूष्णीं बिलमथाविशत् ।
प्राविश्य चापि भगवांस्तमृक्षबिलमञ्जसा॥३७॥

स्थापयित्वा बिलद्वारि यदूँल्लाङ्गलिना सह ।
शार्ङ्गधन्वा बिलस्थं तु जाम्बवन्तं ददर्श ह॥३८॥

युयुधे वासुदेवस्तु बिले जाम्बवता सह ।
बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम्॥३९॥

प्रविष्टे तु बिलं कृष्णे बलदेवपुरःसराः ।
पुरीं द्वारवतीमेत्य हतं कृष्णं न्यवेदयन्॥४०॥

वासुदेवस्तु निर्जित्य जाम्बवन्तं महाबलम् ।
भेजे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम् ।
मणिं स्यमन्तकं चैव जग्राहात्मविशुद्धये॥४१॥

अनुनीयर्क्षराजानं निर्ययौ च तदा बिलात् ।
द्वारकामगमत्कृष्णः श्रिया परमया युतः॥४२॥

एवं स मणिमाहृत्य विशोध्यात्मनमच्युतः ।
ददौ सत्राजिते तं वै सर्वसात्त्वतसंसदि॥४३॥

एवं मिथ्याभिशप्तेन कृष्णेनामित्रघातिना ।
आत्मा विशोधितः पापाद्विनिर्जित्य स्यमन्तकम्॥४४॥

सत्राजितो दश त्वासन्भार्यास्तासां शतं सुताः ।
ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्वजः॥४५॥

वीरो वातपतिश्चैव उपस्वावांश्च ते त्रयः ।
कुमार्यश्चापि तिस्रो वै दिक्षु ख्याता नराधिप॥४६॥

वातपतेर्विशेषणं वीर इति॥४६॥

सत्यभामोत्तमा स्त्रीणां व्रतिनी च दृढव्रता ।
तथा प्रस्वापिनी चैव भार्यां कृष्णाय तां ददौ॥४७॥

भार्याः कृष्णाय ता ददाविति पाठे तिस्रोऽपि दत्ताः अन्यथा ताम् उत्तमत्वेन ख्यातां सत्यभामामेवेति व्याख्येयम्॥४७॥

समाक्षो भङ्गकारिस्तु नारेयश्च नरोत्तमौ ।
जज्ञाते गुणसम्पन्नौ विश्रुतौ रूपसम्पदा॥४८॥

माद्रीपुत्रस्य जज्ञेऽथ पृश्निः पुत्रो युधाजितः ।
जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकस्तथा॥४९॥

क्रोष्टोः। कनिष्ठा स्त्री माद्री तत्पुत्रस्य युधाजितो वंशमाह- माद्रीति॥४९॥

श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ।
गान्दिनीं नाम तस्याश्च सदा गाः प्रददौ पिता॥५०॥

तस्यां जज्ञे महाबाहुः श्रुतवानिति विश्रुतः ।
अक्रूरोऽथ महाभागो यज्वा विपुलदक्षिणः॥५१॥

उपासङ्गस्तथा मङ्गुर्मृदुरश्चारिमेजयः ।
गिरिक्षिपस्तथोपेक्षः शत्रुहा चारिमर्दनः॥५२॥

धर्मभृद्यतिधर्मा च गृध्रभोजोऽन्धकस्तथा ।
सुबाहुः प्रतिबाहुश्च सुन्दरी च वराङ्गना॥५३॥

विश्रुता साम्बमहिषी कन्या चास्य वसुन्धरा ।
रूपयौवनसम्पन्ना सर्वसत्त्वमनोहरा॥५४॥

अक्रूरेणोग्रसेन्यां तु सुतौ द्वौ कुरुनन्दन ।
सुदेवश्चोपदेवश्च जज्ञाते देववर्चसौ॥५५॥

चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च ।
अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ॥५६॥

अरिष्टनेमेरश्वश्च सुधर्मा धर्मभृत्तथा ।
सुबाहुर्बहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ॥५७॥

इमां मिथ्याभिशस्तिं यः कृष्णस्य समुदाहृताम् ।
वेद मिथ्याभिशापास्तं न स्पृशन्ति कदाचन॥५८॥

मिथ्याभिशस्तिं मिथ्याभिशापं वेद जानाति॥५८॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वण्यष्टत्रिंशोऽध्यायः॥३८॥
अक्रूरचरितम्

वैशम्पायन उवाच। यत्तत्सत्राजिते कृष्णो मणिरत्नं स्यमन्तकम् ।
अदात्तद्धारयामास बभ्रुर्वै शतधन्वना॥१॥

त्रिंशे नवाधिकेऽध्याये सत्राजिद्वध उच्यते। यदुवंशोक्तिसम्पूर्तिर्मणेरानयनं तथा॥१॥ यत्तत् बभ्रुरकूरस्तद्रत्नं शतधन्वना हारयामासेत्यन्वयः॥१॥

यदा हि प्रार्थयामास सत्यभामामनिन्दिताम् ।
अक्रूरोऽन्तरमन्विच्छन्मणिं चैव स्यमन्तकम्॥२॥

अन्तरं तादर्थ्यं यदर्थं स मणिस्तं स्वर्णप्रसवादिरूपमर्थमन्विच्छन्नित्यर्थः। “अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये।” इत्यमरः॥२॥

सत्राजितं ततो हत्वा शतधन्वा महाबलः ।
रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान्॥३॥

अक्रूरस्तु ततो रत्नमादाय भरतर्षभ ।
समयं कारयाञ्चक्रे नावेद्योऽहं त्वयेत्युत॥४॥

समयं शपथम्॥४॥

वयमभ्युपयास्यामः कृष्णेन त्वामभिद्रुतम् ।
ममाद्य द्वारका सर्वा वशे तिष्ठत्यसंशयम्॥५॥

कृष्णेन श्वशुरवधक्रुद्धेन अभ्युपयास्यामः अनुयास्यामः प्रबलीकर्तुमिति शेषः। अत्रोपपत्तिमाह- ममेति॥५॥

हते पितरि दुःखार्ता सत्यभामा यशस्विनी ।
प्रययौ रथमारुह्य नगरं वारणावतम्॥६॥

वारणावताह्वयं हस्तिनापुरम्॥६॥

सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः ।
भर्तुर्निवेद्य दुःखार्ता पार्श्वस्थाश्रूण्यवर्तयत्॥७॥

पाण्डवानां तु दग्धानां हरिः कृत्वोदकक्रियाम् ।
कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम्॥८॥

कुल्यार्थे अस्थ्नां संस्कारार्थे। “कुल्यं स्यात्कीकसे” (यवर्गे १४) इति मेदिनी॥८॥

ततस्त्वरितमागत्य द्वारकां मधुसूदनः ।
पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत्॥९॥

हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना ।
स्यमन्तकः स मद्गामी तस्य प्रभुरहं विभो॥१०॥

तदारोह रथं शीघ्रं भोजं हत्वा महाबलम् ।
स्यमन्तको महाबाहो ह्यस्माकं स भविष्यति॥११॥

ततः प्रववृते युद्धं तुमुलं भोजकृष्णयोः ।
शतधन्वा ततोऽक्रूरमवैक्षत्सर्वतोदिशम्॥१२॥

भोजः शतधन्वा॥१२॥

संरब्धौ तावुभौ दृष्ट्वा तत्र भोजजनार्दनौ ।
शक्तोऽपि शाठ्याद्धार्दिक्यमक्रूरो नाभ्यपद्यत॥१३॥

शाठ्यात् अशक्तिप्रकाशनात् हार्दिक्यं हृदीकपुत्रं शतधन्वानं नाभ्यपद्यत सहायार्थं न गतवान्॥१३॥

अपयाने ततो बुद्धिं भोजश्चक्रे भयार्दितः ।
योजनानां शतं साग्रं हयया प्रत्यपद्यत॥१४॥

हयया अश्वया॥१४॥

विख्याता हृदया नाम शतयोजनगामिनी ।
भोजस्य वडवा राजन्यया कृष्णमयोधयत्॥१५॥

क्षीणां जवेन च हयामध्वनः शतयोजने ।
दृष्ट्वा रथस्य तां वृद्धिं शतधन्वानमार्दयत्॥१६॥

ततस्तस्या हयायास्तु श्रमात्खेदाच्च भारत ।
खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत्॥१७॥

तिष्ठस्वेह महाबाहो दृष्टदोषा हया मया ।
पद्भ्यां गत्वा हरिष्यामि मनीरत्नं स्यमन्तकम्॥१८॥

दृष्टदोषाः क्षीणगतयो निश्चेष्टा वा। यद्वा शतधन्वनो हया अश्वा दृष्टदोषा मृताः॥१८॥

पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः ।
मिथिलामभितो राजञ्जघान परमास्त्रवित्॥१९॥

स्यमन्तकं च नापश्यद्धत्वा बोजं महाबलम् ।
निवृत्तं चाब्रवीत्कृष्णं रत्नं देहीति लाङ्गली॥२०॥

नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः ।
धिक्छब्दमसकृत्कृत्वा प्रत्युवाच जनार्दनम्॥२१॥

भ्रातृत्वान्मर्षयाम्येष स्वस्ति तेऽस्तु व्रजाम्यहम् ।
कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः॥२२॥

प्रविवेश ततो रामो मिथिलामरिमर्दनः ।
सर्वकामैरुपचितैर्मैथिलेनाभिपूजितः॥२३॥

एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः ।
नानारूपान्क्रतून्सर्वानाजहार निरर्गलान्॥२४॥

दीक्षामयं सकवचं रक्षार्थं प्रविवेश ह ।
स्यमन्तककृते प्राज्ञो गान्दीपुत्रो महायशाः॥२५॥

दक्षामयं कवचं दीक्षितस्य युद्धनिषेधादितरैर्वैराप्रसक्तेस्तेनैव स्वशरीररक्षाऽपि कृतेत्यर्थः॥२५॥

अथ रत्नानि चाग्र्याणि द्रव्याणि विविधानि च ।
षष्टिं वर्षाणि धर्मात्मा यज्ञेषु विनियोजयत्॥२६॥

अक्रूरयज्ञा इति ते ख्यातास्तस्य महात्मनः ।
बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः॥२७॥

अथ दुर्योधनो राजा गत्वा तु मिथिलां प्रभुः ।
गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान्॥२८॥

प्रसाद्य तु ततो रामो वृष्ण्यन्धकमहारथैः ।
आनीतो द्वारकामेव कृष्णेन च महात्मना॥२९॥

अक्रूरस्त्वन्धकैः सार्धमपायाद्भरतर्षभ ।
हत्वा सत्राजितं युद्धे सहबन्धुं महाबलम्॥३०॥

ज्ञातिभेदभयात्कृष्नस्तमुपेक्षितवानथ ।
अपयाते तथाक्रूरे नावर्षत्पाकशासनः॥३१॥

अनावृष्ट्या यदा राज्यमभवद्बहुधा कृशम् ।
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः॥३२॥

पुनर्द्वारवतीं प्राप्ते तस्मिन् दानपतौ ततः ।
प्रववर्षे सहस्राक्षः कच्छे जलनिधेस्तदा॥३३॥

कच्छे सजले तीरप्रदेशे॥३३॥

कन्यां च वासुदेवाया स्वसारं शीलसम्मताम् ।
अक्रूरः प्रददौ धीमान्प्रीत्यर्थं कुरुनन्दन॥३४॥

अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् ।
सभामध्ये गतं प्राह तमक्रूरं जनार्दनः॥३५॥

योगेन बहुधनदानादिसम्बन्धेन लिङ्गेन॥३५॥

यत्तद्रत्नं मणिवरं तव हस्तगतं विभो ।
तत्प्रयच्छस्व मानार्हं मयि मानार्यकं कृथाः॥३६॥

अनार्यकं शाट्यम्॥३६॥

षष्टिवर्षे गते काले यद्रोषोऽभून्ममानघ ।
स संरूढोऽसकृत्प्राप्तस्ततः कालात्ययो महान्॥३७॥

यत् यतो हेतोः रोषोऽभूत् स च संरूढः ततश्च कालात्ययप्राप्तश्चिरकालीनो रोषः यदर्थं जातः तद्रत्नं प्रयच्छेति पूर्वेणान्वयः॥३७॥

ततः कृष्णस्य वचनात्सर्वसात्त्वतसंसदि ।
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः॥३८॥

ततस्तमार्जवप्राप्तं बभ्रोर्हस्तादरिन्दमः ।
ददौ हृष्टमनाः कृष्णस्तं मणिं बभ्रवे पुनः॥३९॥

स कृष्णहस्तात्सम्प्राप्तं मणिरत्नं स्यमन्तकम् ।
आबध्य गान्धिनीपुत्रो विरराजांशुमानिव॥४०॥

यस्त्वेवं शृणुयान्नित्यं शुचिर्भूत्वा समाहितः ।
सुखानां सकलानां च फलभागीह जायते॥४१॥

यस्त्विति द्वौ श्लोकौ क्वच्चिन्न पठ्येते॥४१॥

आब्रह्मभुवनाच्चापि यशः ख्यातिर्न संशयः ।
भविष्यति नृपश्रेष्ठ सत्यमेतद्ब्रवीमि ते॥४२॥

॥इति श्रीमन्महाभारते खिलेषु हरिवंशे हरिवंशपर्वणि एकोनचत्वारिंशोऽध्यायः॥३९॥
वराहोत्पत्तिवर्णनम्

जनमेजय उवाच। प्रादुर्भावान्पुराणेषु विष्णोरमिततेजसः ।
सतां कथयतामेव वराह इति नः श्रुतम्॥१॥

चत्वारिंशत्तमेऽध्याये भगवद्विषयो महान्। जनमेजयस्य भूपस्य प्रश्नभारः प्रतन्यते॥१॥ स्यमन्तकाख्यानप्रसङ्गेन समर्थोऽपि भगवान् लोकस्थितिं न बिभेद कारुणिकत्वाच्चाक्रूरादीनामपराधान् क्षान्तवानिति श्रुत्वा भगवन्माहात्म्यश्रवणे जातादरो जनमेजय उवाच- प्रादुर्भावानिति। प्रादुर्भावान्कथयतां मुखाद्वाराहोऽपि वराहस्यायं वाराहस्तादृशोऽपि प्रादुर्भावोऽस्तीति नोऽस्माभिः श्रुतम्। वरं च तदहश्चेति व्युत्पत्या वराहशब्दः श्रेष्ठयज्ञवाची॥१॥

न जाने तस्य चरितं न विधिं नैव विस्तरम् ।
न कर्मगुणसन्तानं न हेतुं न मनीषितम्॥२॥

तस्य चरितं सर्वकार्यजनकत्वं, विधिम् अपूर्वस्वरूपाविष्करणम्। विस्तरम्, अनुष्ठानेतिकर्तव्यताम्। कर्म, तेन सन्तर्पणीयं देवतादिकम्। गुणः, द्रव्यदेशकालादिः। सन्तानः, प्रयोगविधिः। हेतुम्, अधिकारम्। मनीषितं, त्यागात्मकं स्वरूपसम्प्रदानम्। एतत्सर्वम् अहं न जाने तस्माद्वदेत्यर्थः॥२॥

किमात्मको वराहः स का मूर्तिः का च देवता ।
किमाचारः प्रभावो वा किं वा तेन पुरा कृतम्॥३॥

अधियज्ञमेवं वराहस्वरूपादिकं दृष्ट्वाऽधिदेवं तत्पृच्छति। किमात्मकः आत्मा स्वरूपं मूर्तिर्बाह्यविग्रहः देवता तदधिष्ठाता ईश्वरः आचारस्तस्य कर्तव्योऽर्थः। प्रभावः सामर्थ्यम्॥३॥

यज्ञार्थं समवेतानां मिषतां च द्विजन्मनाम् ।
महावराहचरितं कृष्णद्वैपायनेरितम्॥४॥

चरितम् ईरितं श्रुतं च परन्तु तत्तत्त्वं न ज्ञातमित्यर्थः॥४॥

यथा नारायणो ब्रह्मन् वाराहं रूपमास्थितः ।
दंष्ट्रया गां समुद्रस्थामुज्जहारारिसूदनः॥५॥

यथा उज्जहार तथा श्रुतमिति पूर्वेण सम्बन्धः॥५॥

विस्तरेणैव कर्माणि सर्वाणि रिपुघातिनः ।
श्रोतुमिच्छाम्यशेषेण हरेः कृष्णस्य धीमतः॥६॥

सर्वाणि वराहादीनि नानावतारकृतानि॥६॥

कर्मणामानुपूर्व्याच्च प्रादुर्भावाश्च ये विभोः ।
या चास्य प्रकृतिर्ब्रह्मंस्तां मे व्याख्यातुमर्हसि॥७॥

अस्य प्रादुर्भावतरङ्गस्य या प्रकृतिः समुद्रस्थानीया॥७॥

कथं च भगवान्विष्णुः सुरशत्रुनिषूदनः ।
वसुदेवकुले धीमान्वासुदेवत्वमागतः॥८॥

कथमिति। कर्मबन्धहीनोऽपि कथमुत्तमस्थानादवरं स्थानं प्राप्त इत्यर्थः॥८॥

अमरैरावृतं पुण्यं पुण्यकृद्भिर्निषेवितम् ।
देवलोकं समुत्सृज्य मर्त्यलोकमिहागतः॥९॥

देवमानुषयोर्नेता यो भुवः प्रभवो विभुः ।
किमर्थं दिव्यमात्मानं मानुष्ये संन्ययोजयत्॥१०॥

लीलार्थम् अवतारो न स्वप्रयोजनार्थमित्यपि न यतो लीलायामपि जन्यतापरिहारादेः कियतोऽपि प्रयोजनस्य सत्त्वात् परमानन्दरूपस्य तु तदभावादित्याक्षिपति- किमर्थमिति॥१०॥

यश्चक्रं वर्तयेत्येको मानुषाणामनामयम् ।
मानुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः॥११॥

गोपायनं यः कुरुते जगतः सार्वलौकिकम् ।
स कथं गां गतो देवो विष्णुर्गोपत्वमागतः॥१२॥

महाभूतानि भूतात्मा यो दधार चकार च ।
श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः॥१३॥

येन लोकान्क्रमैर्जित्वा त्रिभिस्त्रींस्त्रिदशेप्सया ।
स्थापिता जगतो मार्गास्त्रिवर्गप्रभवास्त्रयः॥१४॥

क्रमैः पादविक्षेपैः त्रिदशेप्सया देवानामिष्टसिद्द्यर्थं त्रयो मार्गाः धर्मेण स्वर्गः अर्थेनायं लोकः कामेनाधोलोकः तेषां मार्गास्त्रिभिः प्राप्यन्ते॥१४॥

योऽन्तकाले जगत्पीत्वा कृत्वा तोयमयं वपुः ।
लोकमेकार्णवं चक्रे दृश्यादृश्येन वर्त्मना॥१५॥

जगत् पञ्चभूतात्मकं सकारणं पीत्वा संहृत्य। तोयमयं निर्विशेषं चिन्मात्ररूपं तत्रैव सलिल एको द्रष्टेति सलिलपदप्रयोगात् तादृशं कृत्वा। लोकम् एकार्णवं चक्रे। सर्वं चिन्मात्रमिति भावनया तन्मात्रम् अवशेषयतीति भावः। तत्र साधनं दृश्यादृश्येन वर्त्मनेति। दृश्यम् अदृश्यं चिदंशेन जडांशेन चिदचिद्ग्रन्थिरूपेणैव जीवरूपेणैव मार्गेण। अयं भावः- योऽहङ्कारमाश्रित्य सर्वं सृजति तेनैव सम्यगाश्रितेन संहरन् तमपि मार्गाख्यसरणिरूपं संहरतीति॥१५॥

यः पुराणे पुराणात्मा वाराहं रूपमास्थितः ।
विषाणाग्रेण वसुधामुज्जहारारिसूदनः॥१६॥

विषाणाग्रेण दन्ताग्रेण। “विषाणं दन्तशृङ्गयोः” इत्यमरः॥१६॥

यः पुरा पुरुहूतार्थे त्रैलोक्यमिदमव्ययः ।
ददौ जित्वासुरगणान्सुराणां सुरसत्तमः॥१७॥

असुरगणानिति छेदः। सुराणां सुरेभ्यः॥१७॥

येन सैंहं वपुः कृत्वा द्विधा कृत्वा च तत्पुनः ।
पूर्वं दैत्यो महावीर्यो हिरण्यकशिपुर्हतः॥१८॥

द्विधा नरसिंहरूपेण॥१८॥

यः पुरा ह्यनलो भूत्वा और्वः संवर्तको विभुः ।
पातालस्थोऽर्णवगतं पपौ तोयमयं हविः॥१९॥

सहस्रशिरसं ब्रह्मन्सहस्रारं सहस्रदम् ।
सहस्रचरणं देवं यमाहुर्वै युगे युगे॥२०॥

सहस्रेत्यनन्तवाचि। यम् अनिरुद्धाख्यं सर्वावतारविप्रुषां मूलभूतं महार्णवस्थानीयम्॥२०॥

नाभ्यारण्यां समुत्पन्नं यस्य पैतामहं गृहम् ।
एकार्णवजलस्थस्य नष्टे स्थावरजङ्गमे॥२१॥

नाभ्या नाभिदेशेन उपलक्षिता अरणिः मन्थनदण्डतुल्यं नालं तस्यां नाभ्यारण्यां पैतामहं गृहं पद्मम्॥२१॥

येन ते निहता दैत्याः सङ्ग्रामे तारकामये ।
सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः॥२२॥

गरुडस्तेन चोत्सिक्तः कालनेमिर्निपातितः ।
निर्जितश्च मयो दैत्यः तारकश्च महासुरः॥२३॥

उत्सिक्तः दृप्तः॥२३॥

उत्तरान्ते समुद्रस्य क्षीरोदस्यामृतोदधेः ।
यः शेते शाश्वतं योगमास्थाय तिमिरं महत्॥२४॥

तिमिरं योगमायाम्॥२४॥

सुरारणिर्गर्भमधत्त दिव्यं तपः प्रकर्षाददितिः पुराणम् ।
शक्रं च यो दैत्यगणावरुद्धं गर्भावसाने निभृतं चकार॥२५॥

सुरारणिः देवमाता अदितिर्नाम। गर्भं वामनरूपं निभृतं पूर्णकामम्॥२५॥

पदानि यो लोकमयानि कृत्वा चकार दैत्यान्सलिलेशयांस्तान् ।
कृत्वा च देवांस्त्रिदिवस्य देवांश्चक्रे सुरेशं त्रिदशाधिपत्ये॥२६॥

सलिलेशयान् पातालस्थत्वेन समुद्रजलपिहितत्वात् त्रिदिवस्य देवान् स्वर्गे क्रीडापरान्॥२६॥

पात्राणि दक्षिणा दीक्षा चमसोलूखलानि च ।
गार्हपत्येन विधिना अन्वाहार्येण कर्मणा॥२७॥

पात्रादीनि यज्ञोपकरणानि॥२७॥

अग्निमाहवनीयं च वेदीं चैव कुशं स्रुवम् ।
प्रोक्षणीयं ध्रुवां चैव आवभृथ्यं तथैव च॥२८॥

आवभृथ्यं यज्ञान्तस्नानाय हितं तुषनिष्काससोमलिप्तादिकम्॥२८॥

सुधात्रीणि च यश्चक्रे हव्यकव्यप्रदान्द्विजान् ।
हव्यादांश्च सुरान्यज्ञे क्रव्यादांस्तु पित्रृनपि॥२९॥

सुधात्रीणि सुधाप्रभृतीनि त्रीणि ऊर्ध्वमध्याधोगतिसंज्ञानि॥२९॥

भागार्थे मन्त्रविधिना यश्चक्रे यज्ञकर्मणि ।
यूपान्समित्स्रुचं सोमं पवित्रान्परिधीनपि॥३०॥

यज्ञियानि च द्रव्याणि यज्ञांश्च सचयानलान् ।
सदस्यान्यजमानांश्च मेध्यादींश्च क्रतूत्तमान्॥३१॥

सचयानलान् इष्टकाचयनाद्युक्तानि अग्निस्थापनार्थं स्थानानि॥३१॥

विबभाज पुरा सर्वं पारमेष्ठ्येन कर्मणा ।
यागानुरूपान्यः कृत्वा लोकाननुपराक्रमत्॥३२॥

पारमेष्ठ्येन प्रवर्तितेन॥३२॥

क्षणा लवाश्च काष्ठाश्च कलास्त्रैकाल्यमेव च ।
मुहूर्तास्तिथयो मासाः पक्षाः संवत्सरास्तथा॥३३॥

ऋतवः कालयोगाश्च प्रमाणं त्रिविधं त्रिषु ।
आयुः क्षेत्राण्युपचयो लक्षणं रूपसौष्ठवम्॥३४॥

त्रिविधं श्रुतिस्मृतिशिष्टाचाररूपेण त्रिप्रकारं प्रमाणम्। त्रिषु नित्यनैमित्तिककाम्येषु कर्मसु प्रमेयेषु क्षेत्राणि स्थावरजङ्गमानि शरीराणि। उपचयो वृद्धिः। लक्षणं द्विपात्त्वचतुष्पात्त्वादि॥३४॥

त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः ।
त्रैकाल्यं त्रीणि कर्माणि त्रयोऽपायास्त्रयो गुणाः॥३५॥

त्रयो वर्णा इति। शूद्रस्य यज्ञानर्हत्वान्न विवक्षा। लोका भूरादयः। त्रैविद्यम् ऋग्यजुःसामात्मकं पावकाः गार्हपत्यादयः त्रैकाल्यं भूतभविष्यद्वर्तमानाख्यम्। त्रीणि सात्त्विकराजसतामसानि त्रयोऽपायाः विविधः स्वार्थभ्रंशः अर्थानुष्ठानपाठव्यसनरूपः पुत्रैषणावित्तैषणालोकैषणारूपो वा। त्रयो गुणाः सत्त्वादयः त्रयो वर्णा इत्यादीनां स्रष्टा इत्युत्तरस्थेनान्वयः॥३५॥

त्रयो लोकाः पुरा सृष्टा येनानन्त्येन कर्मणा ।
सर्वभूतगणस्रष्टा सर्वहूतगुणात्मकः॥३६॥

सङ्ख्यातस्त्रयोऽपि तु वैपुल्येन प्रत्येकमनन्ताः यतोऽनन्तं कर्म सङ्कल्पाख्यं तेन सृष्टाः। येन सृष्टाः स कीदृश इत्यत आह- सर्वेति॥३६॥

नृणामिन्द्रियपूर्वेण योगेन रमते च यः ।
गतागताभ्यां यो नेता सर्वत्र जगदीश्वरः॥३७॥

यो नृणां गतागताभ्यां मृत्युजन्मभ्यां सर्वत्र ब्रह्माण्डे नेता यश्च जीवरूपः सन् इन्द्रियपूर्वेण योगेन इन्द्रियजन्येन विषयसम्बन्धेन रमते स ईश्वरः॥३७॥

यो गतिर्धर्मयुक्तानामगतिः पापकर्मणाम् ।
चातुर्वर्ण्यस्य प्रभवश्चातुर्होत्रस्य रक्षिता॥३८॥

चातुर्होत्रस्य चत्वार ऋत्विजः होतारो यत्र यज्ञे तस्य॥३८॥

चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंश्रयः ।
दिगन्तरो नभोभूतो वायुरापो विभावसुः॥३९॥

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिरिति चतसृणां विद्यानां समाहारः चातुर्विद्यं तस्य दिशः अन्तरे गर्भे यस्य स दिगन्तरः। नभोभूतः आकाशत्वमापन्नः विभावसुः अग्निः। यद्वा विशेषेण भातीति विभाः ज्योतिः वसुः वसुमती पृथ्वी॥३९॥

चन्द्रसूर्यमयज्योतिर्योगीशः क्षणदान्तकः ।
यत्परं श्रूयते ज्योतिर्यत्परं श्रूयते तपः॥४०॥

चन्द्रसूर्यमयं चन्द्रसूर्यप्रधानं मनोज्योतिः चक्षुर्ज्योतिश्च योगशो निर्विकल्पकः मनसोऽन्तकः क्षणदा रात्रिरेव अन्तको नाशको यस्य तत् चक्षुर्ज्योतिः परम् अन्तकशून्यं श्रूयते न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यत इति वेदे दृश्यते। तपः तपसो ध्यानस्य प्राप्यं "मनसैवेदमाप्तव्यम्” इति श्रुतेः॥४०॥

यं परं प्राहुरपरं यः परः परमात्मवान् ।
नारायणपरा वेदा नारायणपराः क्रियाः॥४१॥

यं परं सूत्रात्मानम् अपरं विराजं च यं प्राहुः। परः परस्तादपि परं सूत्रादपि परं स च आत्मवान् आत्मेवात्मा मायाख्यं शरीरं तद्वान्। "मायिनं तु महेश्वरम्” इति श्रुतेः॥४१॥

नारायणपरो धर्मो नारायणपरा गतिः ।
नारायणपरं सत्यं नारायणपरं तपः॥४२॥

नारायणपरो मोक्षो नारायणपरायणम् ।
आदित्यादिस्तु यो दिव्यो यश्च दैत्यान्तको विभुः॥४३॥

दिव्यो दिविचरः॥४३॥

युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः ।
सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम्॥४४॥

लोकान्तकान्तकः मृत्योरपि मृत्युः। सेतूनां मर्यादाविधारकाणां मन्वादीनामपि सेतुः नियन्तॄणामपि नियन्तेत्यर्थः। मेध्यकर्मणां पवित्राणामपि मेध्यः पावनानां गङ्गादीनामपि पावनः॥४४॥

वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् ।
सोमभूतस्तु सौम्यानामग्निभूतोऽग्निवर्चसाम्॥४५॥

प्रभवात्मनाम् ऐश्वर्यस्वभावानां मरीच्यादीनां प्रभुरीश्वरः सोमवत्प्रियदर्शनः तद्रूपः सोमभूतः॥४५॥

मनुष्याणां मनोभूतस्तपोभूतस्तपस्विनाम् ।
विनयो नयवृत्तीनां तेजस्तेजस्विनामपि ।
सर्गाणां सर्गकारश्च लोकहेतुरनुत्तमः॥४६॥

विग्रहो विग्रहार्हाणां गतिर्गतिमतामपि ।
आकाशप्रभवो वायुर्वायुप्राणो हुताशनः॥४७॥

वायुरेव प्राणः स्थितिहेतुर्यस्य स वायुप्राणः॥४७॥

देवा हुताशनप्राणाः प्राणोऽग्नेर्मधुसूदनः ।
रसाद्वै शोणितं जातं शोणितान्मांसमुच्यते॥४८॥

अग्नेः प्राणः सन्नग्निद्वारा किं करोति तदाह- रसादिति। रसात् अग्निपृथक्कृतादन्नसारात् पाकतारतम्येन शोणितादिक्रमेण रेतोद्वारा गर्भः सम्भवतीति स च रसमूलेन हेतुभूतेन कर्मणाग्निव्यापारेणेति द्वयोरर्थः॥४८॥

मांसात्तु मेदसो जन्म मेदसोऽस्थीनि चैव हि ।
अस्थ्नो मज्जा समभवन्मज्जातः शुक्रमेव च॥४९॥

शुक्राद्गर्भः समभवद्रसमूलेन कर्मणा ।
तत्रापां प्रथमो भागः स सौम्यो राशिरुच्यते॥५०॥

तत्र गर्भेऽपां विकारः प्रथमो भागः रेतोरूपः श्वेतत्वात्। सौम्यश्च सः गर्भोष्मसम्भवः गर्भस्य जठराग्निजन्मा योऽग्निमत् लोहितः स आग्नेयो द्वितीयो भागः॥५०॥

गर्भोष्मसम्भवोऽग्निर्यो द्वितीयो राशिरुच्यते ।
शुक्रं सोमात्मकं विद्यादार्तवं विद्धि पावकम् ।
भागौ रसात्मकौ ह्येषां वीर्यं च शशिपावकौ॥५१॥

एतदेवाह- शुक्रमिति। रसात्मकौ उक्तक्रमेण रसस्यैव विकारौ। हि यस्मात् एषां रसादीनां वीर्यं सारः शशिपावकौ शुक्रशोणिते॥५१॥

कफवर्गे भवेच्छुक्रं पित्तवर्गे च शोणितम् ।
कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम्॥५२॥

अग्नीषोमात्मकत्वं जगतः साधयति- कफेति त्रिभिः। शुक्राश्रयस्य सोमदैवत्यस्य कफस्य स्थानं हृदयं तदेव प्रजापतिदैवतस्य मनसोऽपि स्थानं शोणिताश्रयस्याग्निदैवतस्य पित्तस्य स्थानं नाभिमण्डलम्। तदेवाग्निदैवत्याया वाचोऽपि स्थानम्। स्थानस्थानिनोः अधिष्ठेयाधिष्ठात्रोर्दहदेहिनोरिव व्यवहारतो भेदाभावात् सर्वं नामरूपात्मकं जगदग्नीषोमात्मकमित्यर्थः॥५२॥

देहस्य मध्ये हृदयं स्थानं तन्मनसः स्मृतम् ।
नाभिकोष्ठान्तरं यत्तु तत्र देवो हुताशनः॥५३॥

दीव्यति व्यवहरतीति देवो वागभिमानी॥५३॥

मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते ।
पित्तमग्निः स्मृतं ह्येतदग्नीषोमात्मकं जगत्॥५४॥

एवं प्रवर्तते गर्भे वर्धितेऽम्बुदसन्निभे ।
वायुः प्रवेशं सञ्चक्रे सङ्गतः परमात्मना॥५५॥

अम्बुदसन्निभे यथा धूमज्योतिः सलिलपवनैर्मेघो वर्द्धते एवं गर्भोपि अन्नाग्निपानीयप्राणैर्वर्द्धतेऽतोऽचेतन इत्यर्थः। वायुः प्राणवायुसहचरत्वाद्वायुर्जीवः ईश्वरेण सहितः प्रविशति तेनैव सह उत्क्रामति च॥५५॥

ततोऽङ्गानि विसृजति बिभर्ति परिवर्धयन् ।
स पञ्चधा शरीरस्थो भिद्यते वर्धते पुनः॥५६॥

ततो देहे प्रवेशानन्तरम् अङ्गानि शिर आदीनि विसृजति। निर्माति बिभर्ति पुष्टानि च करोति सः प्राणोपाधिर्जीवः। प्राणस्य पञ्चधाभावात्स्वयमपि पञ्चधा भिद्यते। "स प्राणन्नेव प्राणो नाम भवति” इति श्रुतेः॥५६॥

प्राणोऽपानः समानश्च उदानो व्यान एव च ।
प्राणः स प्रथमं स्थानं वर्धयन्परिवर्तते॥५७॥

प्रथमं स्थानं हृदयं वर्द्धयन् पिण्डमिति शेषः॥५७॥

अपानः पश्चिमं कायमुदानोर्ध्वं शरीरिणः ।
व्यानो व्यायच्छते येन समानः सन्निवर्तयेत् ।
भूतावाप्तिस्ततस्तस्य जायतेन्द्रियगोचरात्॥५८॥

पश्चिमं कायं जङ्घादिपादान्तम्। ऊर्ध्वम् उरोदेशात्। सन्धिरार्षः। व्यायच्छते व्यायामं बलसाध्यं कर्म करोति येन स व्यानः सर्वदेहसन्धिव्यापी। समानस्तु नाभिदेशस्थः सन्निवर्तयेत् अशितपीतादिकं समीकुर्यात् यथास्थानं प्रापयेदित्यर्थः। तत्। एवं प्राणकर्मविभागानन्तरं तस्य जीवस्य भूतावाप्तिः पृथिव्यादिसाक्षात्कारो जायते। सा च इन्द्रियगोचरात् इन्द्रियाणां यो विषयो रूपादिस्तद्द्वारा तदाश्रयो गृह्यत इत्यर्थः॥५८॥

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
तस्येन्द्रियाणि विष्टानि स्वं स्वं योगं प्रचक्रिरे॥५९॥

अत्र हेतुमाह- पृथिवीति। यतः पृथिव्यादीनि इन्द्रियाणि इन्द्रियरूपेण परिणम्य शरीरे स्वे स्वे स्थाने नेत्रगोलकादौ विष्टानि प्रविष्टानि। अतस्तानि स्वं स्वं योगं प्रचक्रिरे। पार्थिवं प्राणं पृथिवीमेव गन्धविशिष्टां गृह्णाति। आप्यं रसनम् अपां गुणं रसमेव गृह्णाति। तैजसं चक्षुस्तेजोगुणं रूपं वायव्यं स्पर्शनेन्द्रियं तद्गुणं स्पर्शनं नाभसं श्रोत्रं तद्गुणं शब्दं च गृह्णातीत्यर्थः॥५९॥

पार्थिवं देहमाहुस्तं प्राणात्मानं च मारुतम् ।
छिद्राण्याकाशयोनीनि जलात्स्रावः प्रवर्तते॥६०॥

देहम् उपचितं कठिनांशं पार्थिवं पृथ्वीविकारम्। प्राणो वायुविकारः छिद्राण्याकाशस्त्रावः द्रवभागः सर्वं जलम्॥६०॥

ज्योतिश्चक्षुश्च तेजात्मा तेषां यन्ता मनः स्मृतः ।
ग्रामाश्च विषयाश्चैव यस्य वीर्यात्प्रवर्तिताः॥६१॥

चक्षुः ज्योतिः रूपप्रकाशकं जाठरादि वा तेषां पृथिव्यादीनां पञ्चानां तेजाऽऽत्मा तेजसोंऽशो मनः सर्वेषामिन्द्रियाणां यन्ता नियामकः। यस्य मनसो वीर्यात् सामर्थ्यात् ग्रामाः रूपाद्याश्रयाः पृथिव्यादयः विषया गन्धादयः। यद्वा ग्रामनगरादयः देशाः पूर्वपश्चिमादयो निर्मिताः। यद्वा इदं मनस्येव परमं प्रतिष्ठितम्। “यदिदं किञ्च" इति श्रुतेः॥६१॥

इत्येवं पुरुषः सर्वान्सृजँल्लोकान् सनातनान् ।
कथं लोके नैधनेऽस्मिन्नरत्वं विष्णुरागतः॥६२॥

सनातनान् अनादिसिद्धान् नैधने निधनप्रधाने। नरत्वं मानुषत्वम्॥६२॥

एष मे संशयो ब्रह्मन्नेवं मे विस्मयो महान् ।
कथं गतिर्गतिमतामापन्नो मानुषीं तनुम्॥६३॥

श्रुतो मे स्वस्ववंशस्य पूर्वेषां चैव सम्भवः ।
श्रोतुमिच्छामि विष्णोस्तु वृष्णीनां च यथाक्रमम्॥६४॥

आश्चर्यं परमं विष्णुर्देवैर्दैत्यैश्च कथ्यते ।
विष्णोरुत्पत्तिमाश्चर्यं ममाचक्ष्व महामुने॥६५॥

एतदाश्चर्यमाख्यानं कथयस्व सुखावहम् ।
प्रख्यातबलवीर्यस्य विष्णोरमिततेजसः ।
कर्म चाश्चर्यभूतस्य विष्णोस्तत्त्वमिहोच्यताम्॥६६॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि वराहोत्पत्तिवर्णने चत्वारिंशोऽध्यायः॥४०॥
विष्ण्ववतारवर्णनम्

वैशम्पायन उवाच। प्रश्नभारो महांस्तात त्वयोक्तः शार्ङ्गधन्वनि ।
यथाशक्ति तु वक्ष्यामि श्रूयतां वैष्णवं यशः॥१॥

चत्वारिंशत्तमे सैके श्रवणात्पातकापहे। परात्मनो विचित्रार्थाः प्रादुर्भावा उदीरिताः॥१॥ प्रश्नेति। भारत्वात् दुर्वोढव्यमपि यथाशक्ति वक्ष्यामि॥१॥

विष्णोः प्रभावश्रवणे दिष्ट्या ते मतिरुत्थिता ।
हन्त विष्णोः प्रवृत्तिं च शृणु दिव्यां मयेरिताम्॥२॥

प्रवृत्तिं लीलाचेष्टितम्॥२॥

सहस्राक्षं सहस्रास्यं सहस्रभुजमव्ययम् ।
सहस्रशिरसं देवं सहस्रकरमव्ययम्॥३॥

सहस्राक्षमिति। यं विप्रा आहुरिति दशमस्थेनान्वयः। सहस्रशब्दोऽनन्तवाची। अव्ययम् अविनाशिनम्॥३॥

सहस्रजिह्वं भास्वन्तं सहस्रमुकुटं प्रभुम् ।
सहस्रदं सहस्रादिं सहस्रभुजमव्ययम्॥४॥

अव्ययम् अपरिणामिनम्॥४॥

सवनं हवनं चैव हव्यं होतारमेव च ।
पात्राणि च पवित्राणि वेदिं दीक्षां चरुं स्रुवम्॥५॥

एवं द्वाभ्यां सूक्ष्मम् अमूर्तं रूपमुक्त्वा स्थूलं मूर्तं रूपमाह- सवनमिति। सवनं कालं हवनं कर्म हव्यं। हूयमानं द्रव्यं होतारं यजमानम्। पात्राणि उक्तेभ्योऽन्यानि कपालादीनि पवित्राणि कुशमयदेशादीनि। दीक्षां संस्कारं चरुं स्थालीम्॥५॥

स्रुक्सोमं शूर्पमुसलं प्रोक्षणं दक्षिणायनम् ।
अध्वर्युं सामगं विप्रं सदस्यं सदनं सदः॥६॥

प्रोक्षणं प्रोक्षणीपात्रं दक्षिणा अन्वाहार्यादिः। अयनं हविर्भिः प्रचरणम्। अध्वर्युं प्रसिद्धम्। सामगम् उद्गातारं सदनं पत्नीशालाम्॥६॥

यूपं समित्कुशं दर्वीं चमसोलूखलानि च ।
प्राग्वंशं यज्ञभूमिं च होतारं चयनं च यत्॥७॥

होतारम् ऋत्विजम्। चयनम् इष्टकामयं स्थण्डिलम्॥७॥

ह्रस्वान्यतिप्रमाणानि चराणि स्थावराणि च ।
प्रायश्चित्तानि चार्थं च स्थण्डिलानि कुशांस्तथा॥८॥

ह्रस्वानि एकहायनीशकटादीनि सोमक्रयाद्यर्थानि। अतिप्रमाणानि अनडुत्स्तम्भशालादीनि। अर्थं फलं स्वर्गादि॥८॥

मन्त्रं यज्ञवहं वह्निं भागं भागवहं च यत् ।
अग्रेभुजं सोमभुजं घृतार्चिषमुदायुधम्॥९॥

भागवहं गायत्र्यादिच्छन्दः। “छन्दांसि वै देवेभ्यो हव्यमूढ्वा श्रान्तानि” इति लिङ्गदर्शनात्। अग्रेभुजं प्रायणीयम् उदायुधम् उदयनीयम्॥९॥

आहुर्वेदविदो विप्रा यं यज्ञे शाश्वतं विभुम् ।
तस्य विष्णोः सुरेशस्य श्रीवत्साङ्कस्य धीमतः॥१०॥

यं सर्वयज्ञाङ्गमयं यज्ञे आहुः शाश्वतं नित्यैकरूपम्। वेदाख्यप्रमाणरूपं विभुं क्रतुफलदातारम् ईश्वरं धीमतः धीप्रर्वतकस्य॥१०॥

प्रादुर्भावसहस्राणि अतीतानि न संशयः ।
भूयश्चैव भविष्यन्तीत्येवमाह प्रजापतिः॥११॥

प्रजापतिः सर्ववेददर्शी ब्रह्मा॥११॥

यत्पृच्छसि महाराज पुण्यां दिव्यां कथां शुभाम् ।
यदर्थं भगवान्विष्णुः सुरेशो रिपुसूदनः ।
देवलोकं समुत्सृज्य वसुदेवकुलेऽभवत्॥१२॥

तत्तेहं सम्प्रवक्ष्यामि शृणु सर्वमशेषतः ।
वासुदेवस्य माहात्म्यं चरितं च महाद्युतेः॥१३॥

हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च ।
बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः॥१४॥

हितार्थं श्रेयोर्थं प्रभवाय ऐश्वर्याय॥१४॥

प्रादुर्भावांश्च वक्ष्यामि पुण्यान्दिव्यगुणैर्युतान् ।
छान्दसीभिरुदाराभिः श्रुतिभिः समलङ्कृतान्॥१५॥

शुचिः प्रयतवाग्भूत्वा निबोध जनमेजय ।
इदं पुराणं परमं पुण्यं वेदैश्च सम्मितम्॥१६॥

हन्त ते कथयिष्यामि विष्णोर्दिव्यां कथां शृणु ।
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
धर्मसंस्थापनार्थाय तदा सम्भवति प्रभुः॥१७॥

सम्भवति शरीरं धत्ते। एतेन प्रवृत्तिप्रधाना रजोमूर्तिरुक्ता॥१७॥

तस्य ह्येका महाराज मूर्तिर्भवति सत्तम ।
नित्यं दिविष्ठा या राजंस्तपश्चरति दुश्चरम्॥१८॥

सात्त्विकीमाह- तस्य हीति॥१८॥

द्वितीया चास्य शयने निद्रायोगमुपाययौ ।
प्रजासंहारसर्गार्थं किमध्यात्मविचिन्तकम्॥१९॥

तामसीमाह- द्वितीयेति। निद्रायोगं योगमयीं निद्रां संहारस्य सर्गः संहारक्रिया तदर्थम्। कीदृशं निद्रायोगं किमध्यात्मविचिन्तकं कुत्सिताः अध्यात्मविचिन्तकाः सविकल्पसमाधिमन्तो यस्मात्तम्॥१९॥

सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यतः ।
पूर्णे युगसहस्रे तु देवदेवो जगत्पतिः॥२०॥

प्रादुर्भावमेवाह- पूर्णे इति। तदङ्गे लीलानां देवानामाविर्भाव एव तस्य प्रादुर्भाव इत्यर्थः। देवदेवः महादेवः जगत्पतिर्विष्णुः॥२०॥

पितामहो लोकपालाश्चन्द्रादित्यौ हुताशनः ।
ब्रह्मा च कपिलश्चैव परमेष्ठी तथैव च॥२१॥

देवाः सप्तर्षयश्चैव त्र्यम्बकश्च महायशाः ।
वायुः समुद्राः शैलाश्च तस्य देहं समाश्रिताः॥२२॥

सनत्कुमारश्च महानुभावो मनुर्महात्मा भगवान्प्रजाकरः ।
पुराणदेवोऽथ पुराणि चक्रे प्रदीप्तवैश्वानरतुल्यतेजाः॥२३॥

सनदिति। सनत्कुमारादिरूपो नारायणः पुराणि शरीराणि ब्रह्मादिस्तम्बपर्यन्तानां प्राणिनां चक्रे॥२३॥

येन चार्णवमध्यस्थौ नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरगणे प्रनष्टोरगराक्षसे॥२४॥

मध्यस्थौ दानवाविति द्वयोः सम्बन्धः॥२४॥

योद्धुकामौ सुदुर्धर्षौ दानवौ मधुकैटभौ ।
हतौ प्रभवता तेन तयोर्दत्त्वामितं वरम्॥२५॥

अमितं वरं कैवल्यम्॥२५॥

पुरा कमलनाभस्य स्वपतः सागराम्भसि ।
पुष्करे यत्र सम्भूता देवाः सर्षिगनाः पुरा॥२६॥

पुष्करे नाभिकमले यत्र यस्मात्॥२६॥

एष पौष्करको नाम प्रादुर्भावो महात्मनः ।
पुराणे कथ्यते यत्र वेदः श्रुतिसमाहितः॥२७॥

यत्र पुराणे वेदः मन्त्रब्राह्मणराशिः श्रुतिसमाहितः प्रत्यक्षेणैव निहितो दृश्यते प्रत्यक्षश्रुतिमूलकोऽयमर्थः इत्यर्थः॥२७॥

वाराहस्तु श्रुतिमुखः प्रादुर्भावो महात्मनः ।
यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः ।
महीं सागरपर्यन्तां सशैलवनकाननाम्॥२८॥

वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः ।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः॥२९॥

“यस्य रूपं “बिभ्रदिमामविन्दद्गुहां प्रविष्टः शरीरस्य मध्ये” इति वाराहप्रादुर्भावस्य तावत्प्रत्यक्षश्रुतिमूलकत्वमाह-वाराहस्तु श्रुतिमुख इति॥२८॥ वेदाः चतुःसंख्यासाम्यात्पादा यस्य आदिवाराहोपासकैर्यज्ञाङ्गानि वाराहाङ्गेषु चिन्तनीयानीत्येवमर्थोऽयं ग्रन्थः॥२९॥

अहोरात्रेक्षणो दिव्यो वेदाङ्गश्रुतिभूषणः ।
आज्यनासः स्रुवातुण्डः सामघोषस्वनो महान्॥३०॥

धर्मसत्यमयः श्रीमान्क्रमविक्रमसत्कृतः ।
प्रायश्चित्तनखो धीरः पशुजानुर्महाभुजाः॥३१॥

उद्गात्रन्तो होमलिन्ङ्गः फलबीजमहौषधिः ।
वाय्वन्तरात्मा मन्त्रस्फिग्विकृतः सोमशोणितः॥३२॥

फलबीजमहौषधिः फले वृषणौ बीजं तदन्तर्गतं रेतः तद्रूपा ओषधयो यस्य। प्रसवहेतुत्वसामान्यात् ओषधय एवास्य रेत इत्यर्थः। विकृतोऽभिषुतः सोमः सोमरस इत्यर्थः। स एव शोणितं यत्र। समासैकदेशस्यापि सोमस्य विशेषणं विकृत इति॥३२॥

वेदिस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् ।
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिराचितः॥३३॥

दक्षिणाहृदयो योगी महासत्रमयो महान् ।
उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणाः॥३४॥

उपाकर्म स्वाध्यायस्वीकारः स एवौष्ठस्य रुचको भूषणं यस्य। प्रवर्ग्यो धर्मसन्तपनार्थो महावीरः तस्यावर्तः आवृत्तिः सैव भूषणं यस्य॥३४॥

नानाछन्दोगतिपथो गुह्योपनिषदासनः ।
छायापत्नीसहायो वै मेरुशृङ्ग इवोच्छ्रितः॥३५॥

महीं सागरपर्यन्तां सशैलवनकाननाम् ।
एकार्णवजले भ्रष्टामेकार्णवगतां प्रभुः॥३६॥

दंष्ट्रया यः समुद्धृत्य लोकानां हितकाम्यया ।
सहस्रशीर्षो देवादिश्चकार पृथिवीं पुनः॥३७॥

चकार स्थिरामिति शेषः॥३७॥

एवं यज्ञवराहेण भूत्वा भूतहितार्थिना ।
उद्धृता पृहिवी सर्वा सागराम्बुधरा पुरा॥३८॥

यज्ञवराहेण यज्ञमयेन वराहेण॥३८॥

वाराह एष कथितो नारसिंहमतः शृणु ।
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः॥३९॥

नारसिंहप्रादुर्भावः नृसिंहतापन्यादिप्रत्यक्षश्रुतिमूल एवेत्यभिसन्धायाह- नरसिंहमिति। भूत्वा आविर्भूय॥३९॥

पुरा कृतयुगे राजन्सुरारिर्बलदर्पितः ।
दैत्यानामादिपुर्षश्चचार तप उत्तमम्॥४०॥

दैत्यानाम् आदिपुरुषः हिरण्यकशिपुः॥४०॥

दश वर्षसहस्राणि शतानि दश पञ्च च ।
जलोपवासनिरतः स्थानमौनदृढव्रतः॥४१॥

ततः शमदमाभ्यां च ब्रह्मचर्येण चानघ ।
ब्रह्मा प्रीतोऽभवत्तस्य तपसा नियमेन च॥४२॥

तं वै स्वयंभूर्भगवान्स्वयमागत्य भूपते ।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता॥४३॥

आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैः सह ।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः॥४४॥

दिशाभिर्विदिशाभिश्च नदीभिः सागरैस्तथा ।
नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः॥४५॥

देवर्षिभिस्तपोवृद्धैः सिद्धैः सप्तर्षिभिस्तथा ।
राजर्षिभिः पुण्यतमैर्गन्धर्वैश्चाप्सरोगणैः॥४६॥

चराचरगुरुः श्रीमान्वृतः सर्वैः सुरैस्तथा ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत्॥४७॥

प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि॥४८॥

हिरण्यकशिपुरुवाच। न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न मानुषाः पिशाचाश्च निहन्युर्मां कथञ्चन॥४९॥

जलोपवासः जलमात्राहारः स्थानं दृढासनं मौनम् इन्द्रियसंयमः ताभ्यां सह दृढं व्रतं परिग्रहो यस्य स तथाविध उपवासः॥४९॥

ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह ।
शपेयुस्तपसा युक्ता वरमेतं वृणोम्यहम्॥५०॥

न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा ।
न शुष्केण न चार्द्रेण स्यान्न चान्येन मे वधः॥५१॥

पाणिप्रहारेणैकेन सभृत्यबलवाहनम् ।
यो मां नाशयितुं शक्तः स मे मृत्युर्भविष्यति॥५२॥

भवेयमहमेवार्कः सोमो वायुर्हुताशनः ।
सलिलं चान्तरिक्षं च नक्ष्त्राणि दिशो दश॥५३॥

अहं क्रोधश्च कामश्च वरुणो वासवो यमः ।
धनदश्च धनाध्यक्षो यक्षः किम्पुरुषाधिपः॥५४॥

धनदः धनप्रदः॥५४॥

एवमुक्तस्तु दैत्येन स्वयम्भूर्भगवांस्तदा ।
उवाच दैत्यराजं तं प्रहसन्नृपसत्तम॥५५॥

ब्रह्मोवाच। एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः ।
सर्वान्कामानिमांस्तात प्राप्स्यसि त्वं न संशयः॥५६॥

तवाद्भुता इत्यनर्हत्वाच्चतुर्थीस्थाने षष्ठी॥५६॥

एवमुक्त्वा तु भगवाञ्जगामाकाशमेव हि ।
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम्॥५७॥

ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा ।
वरप्रदानं श्रुत्वा ते पितामहमुपस्थिताः॥५८॥

विभुं विज्ञापयामासुर्देवा इन्द्रपुरोगमाः॥५९॥

देवा ऊचुः। वरेणानेन भगवन्बाधयिष्यति नोऽसुरः ।
ततः प्रसीद भगवन्वधोऽप्यस्य विचिन्त्यताम्॥६०॥

भगवान्सर्वभूतानां स्वयम्भूरादिकृद्विभुः ।
स्रष्टा च हव्यकव्यानामव्यक्तः प्रकृतिर्ध्रुवः॥६१॥

सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
प्रोवाच भगवान्वाक्यं सर्वान्देवगणांस्तदा॥६२॥

वाक्यं देवानामिति शेषः॥६२॥

अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
तपसोऽन्तेऽस्य भगवान्वधं विष्णुः करिष्यति॥६३॥

एतच्छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजसम्भवात् ।
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः॥६४॥

लब्धमात्रे वरे चापि सर्वाः सोऽबाधत प्रजाः ।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः॥६५॥

आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान् ।
सत्यधर्मरतान्दान्तान्पुरा धर्षितवांस्तु सः॥६६॥

देवांस्त्रिभुवनस्थांस्तु पराजित्य महासुरः ।
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः॥६७॥

यदा वरमदोन्मत्तो न्यवसद्दानवो भुवि ।
यज्ञियान्कृतवान्दैत्यान्देवांश्चैवाप्ययज्ञियान्॥६८॥

आदित्याश्च ततो रुद्रा विश्वे च मरुतस्तथा ।
शरण्यं शरणं विष्णुमुपाजग्मुर्महाबलम्॥६९॥

वेदयज्ञमयं ब्रह्म ब्रह्मदेवं सनातनम् ।
भूतं भव्यं भविष्यं च प्रभुं लोकनमस्कृतम् ।
नारायणं विभुं देवाः शरणं शरणागताः॥७०॥

ब्रह्मदेवं ब्राह्मणानां दैवतम्॥७०॥

देवा ऊचुः। त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्भयात् ।
त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम॥७१॥

नोऽस्मान् नोऽस्माकं वा॥७१॥

त्वं हि नः परमो देवस्त्वं हि नः परमो गुरुः ।
उत्फुल्लाम्बुजपत्राक्षः शत्रुपक्षभयङ्करः ।
क्षयाय दितिवंशस्य शरण्यस्त्वं भवस्व नः॥७२॥

विष्णुरुवाच। भयं त्यजध्वममरा ह्यभयं वो ददाम्यहम् ।
तथैवं त्रिदिवं देवाः प्रतिपत्स्यथ मा चिरम्॥७३॥

एष तं सगणं दैत्यं वरदानेन दर्पितम् ।
अवध्यममरेन्द्राणां दानवं तं निहन्म्यहम्॥७४॥

वैशम्पायन उवाच। एवमुक्त्वा स भगवान्विसृज्य त्रिदशेश्वरान् ।
हिरण्यक्शिपो राजन्नाजगाम हरिः सभाम्॥७५॥

नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं प्रभुः ।
नारसिंहेण वपुषा पाणिं संस्पृश्य पाणिना॥७६॥

जीमूतघनसङ्काशो जीमूतघननिः स्वनः ।
जीमूतघनदीप्तौजा जीमूत इव वेगवान्॥७७॥

जीमूतघनसङ्काशः मेघकदम्बवर्णः॥७७॥

दैत्यं सोऽतिबलं दीप्तं दृप्तशार्दूलविक्रमम् ।
दृप्तैर्दैत्यगणैर्गुप्तं हतवानेकपाणिना॥७८॥

नृसिंह एष कथितो भूयोऽयं वामनोऽपरः ।
यत्र वामनमाशृत्य रूपं दैत्यविनाशकृत्॥७९॥

बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा ।
विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः॥८०॥

विप्रचित्तिः शिबिः शङ्कुरयः शङ्कुस्तथैव च ।
अयःशिरा शङ्कुशिरा हयग्रीवश्च वीर्यवान्॥८१॥

वेगवान् केतुमानुग्रः सोमव्यग्रो महासुरः ।
पुष्करः पुष्कलश्चैव वेपनश्च महारथः॥८२॥

बृहत्कीर्तिर्महाजिह्वः साश्वोऽश्वपतिरेव च ।
प्रह्लादोऽश्वशिराः कुम्भः संह्रादो गगनप्रियः ।
अनुह्रादो हरिहरौ वराहः शङ्करो रुजः॥८३॥

शरभः शलभश्चैव कुपनः कोपनः क्रथः ।
बृहत्कीर्तिर्महाजिह्वः शङ्कुकर्णो महास्वनः॥८४॥

दीर्घजिह्वोऽर्कनयनो मृदुचापो मृदुप्रियः ।
वायुर्यविष्ठो नमुचिः शम्बरो विज्वरो महान्॥८५॥

चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च ।
कालकः कालकेयश्च वृत्रः क्रोधो विरोचनः॥८६॥

गरिष्ठश्च वरिष्ठश्च प्रलम्बनरकावुभौ ।
इन्द्रतापनवातापी केतुमान्बलदर्पितः॥८७॥

इन्द्रतापनश्च वातापिश्चेति द्वन्द्वः॥८७॥

असिलोमा पुलोमा च वाक्कलः प्रमदो मदः ।
स्वसृमः कालवदनः करालाः कैशिकः शरः॥८८॥

एकाक्षश्चन्द्रहा राहुः संह्रादः सृमरः स्वनः ।
शतघ्नीचक्रहस्ताश्च तथा परिघपाणयः॥८९॥

महाशिलाप्रहरणाः शूलहस्ताश्च दानवाः ।
अश्वयन्त्रायुधोपेता भिण्डिपालायुधास्तथा॥९०॥

शूलोलूखलहस्ताश्च परश्वधधरास्तथा ।
पाशमुद्गरहस्ता वै तथा मुद्गलपाणयः॥९१॥

नानाप्रहरणा घोरा नानावेषा महाजवाः ।
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा॥९२॥

खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ।
भीमा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ।
आखुदर्दुरवक्त्राश्च घोरा वृकमुखास्तथा॥९३॥

मार्जारगजवक्त्राश्च महावक्त्रास्तथापरे ।
नक्रमेषानना शूरा गोजाविमहिषाननाः॥९४॥

गोधाशल्यकवक्त्राश्च क्रौञ्चवक्त्राश्च दानवाः ।
गरुडाननाः खड्गमुखा मयूरवदनास्तथा॥९५॥

गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ।
चीरसंवृतदेहाश्च तथा वल्कलवाससः ।
उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः॥९६॥

किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः ।
नानावेषधरा दैत्या नानामाल्यानुलेपनाः॥९७॥

स्वान्यायुधानि सङ्गृह्य प्रदीप्तान्यतितेजसा ।
क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः॥९८॥

उपावर्तन्त पृरिवव्रुः॥९८॥

प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैः प्रभुः ।
रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम्॥९९॥

तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।
नभः प्रक्रममाणस्य नाभ्यां किल समास्थितौ॥१००॥

स्तननाभिजानुदेशस्थलं चन्द्रादित्ययोर्वृद्धिर्भूयस्त्वतारतम्येन॥१००॥

परं प्रक्रममाणस्य जानुदेशे स्थितावुभौ ।
विष्णोरतुलवीर्यस्य वदन्त्येवं द्विजातयः॥१०१॥

हृत्वा स पृथिवीं कृत्स्नां जित्वा चासुरपुङ्गवान् ।
ददौ शक्राय त्रिदिवं विष्णुर्बलवतां वरः॥१०२॥

एष ते वामनो नाम प्रादुर्भावो महात्मनः ।
वेदविद्भिर्द्विजैरेवं कथ्यते वैष्णवं यशः॥१०३॥

वेदविद्भिः यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वेत्यादिप्रत्यक्षवेदविद्भिः अभूतात्मकः अद्भुतरूपोऽयमपि प्रत्यक्षश्रुतिमूलः। “यं वै सूर्यं स्वर्भानुस्तमसाऽविध्यदासुरः। अत्रयस्तमन्वविन्दन्नन्ये अशक्नुवन्" इति। सूर्यम् आत्मानं स्वर्भानुर्मायातमसोर्विपर्ययेण अविध्यत्। जीवत्वमनयत्। अत्रेयः अत्रेरपत्यानि दत्तात्रेयः बहुत्वं पूजार्थम्। परया क्षमया शान्त्या। तेन ज्ञानमार्गप्रवर्तकोऽयमवतार इति ज्ञेयम्॥१०३॥

भूयो भूतात्मनो विष्णोः प्रादुर्भावो महात्मनः ।
दत्तात्रेय इति ख्यातः क्षमया परया युतः॥१०४॥

तेन नष्टेषु वेदेषु प्रक्रियासु मखेषु च ।
चातुर्वर्ण्ये तु सङ्कीर्णे धर्मे शिथिलतां गते॥१०५॥

अन्यच्चावतारकृत्यमाह- तेनेत्यादिना। प्रक्रियासु अनुष्ठानप्रकारेषु शिथिलतां विरलताम्॥१०५॥

अभिवर्धति चाधर्मे सत्ये नष्टेऽनृते स्थिते ।
प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते॥१०६॥

आकुलताम् अधर्मेण मिश्रताम्॥१०६॥

सहयज्ञक्रिया वेदाः प्रत्यानीता हि तेन वै ।
चातुर्वर्न्यमसङ्कीर्णं कृतं तेन महात्मना॥१०७॥

तेन हैहयराजस्य कार्तवीर्यस्य धीमतः ।
वरदेन वरो दत्तो दत्तात्रेयेण धीमता॥१०८॥

एतद्बाहूद्वयं यत्ते मृधे मम कृतेऽनघ ।
शतानि दश बाहूनां भविष्यन्ति न संशयः॥१०९॥

पालयिष्यसि कृत्स्नां च वसुधां वसुधाधिप ।
दुर्निरीक्ष्योऽरिवृन्दानां धर्मज्ञश्च भविष्यसि॥११०॥

एष ते वैष्णवः श्रीमान्प्रादुर्भावोऽद्भुतः शुभः ।
कथितो वै महाराज यथाश्रुतमरिन्दम ।
भूयश्च जामदग्न्योऽयं प्रादुर्भावो महात्मनः॥१११॥

यत्र बाहुसहस्रेण विस्मितं दुर्जयं रणे ।
रामोऽर्जुनमनीकस्थं जघान नृपतिं प्रभुः॥११२॥

रथस्थं पार्थिवं रामः पातयित्वार्जुनं युधि ।
धर्षयित्वा यथाकामं क्रोशमानं च मेघवत्॥११३॥

कृत्स्नं बाहुसहस्रं च चिच्छेद भृगुनन्दनः ।
परश्वधेन दीप्तेन ज्ञातिभिः सहितस्य वै॥११४॥

कीर्णा क्षत्रियकोटीभिर्मेरुमन्दरभूषणा ।
त्रिःसप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता॥११५॥

कृत्वा निःक्षत्रियां चैव भार्गवः सुमहातपाः ।
सर्वपापविनाशाय वाजिमेधेन चेष्टवान्॥११६॥

तस्मिन्यज्ञे महादाने दक्षिणां भृगुनन्दनः ।
मारीचाय ददौ प्रीतः कश्यपाय वसुन्धराम्॥११७॥

वारुणांस्तुरगाञ्छीघ्रान्रथं च रथिनां वरः ।
हिरण्यमक्षयं धेनूर्गजेन्द्रांश्च महामनाः ।
ददौ तस्मिन्महायज्ञे वाजिमेधे महायशाः॥११८॥

अद्यापि च हितार्थाय लोकानां भृगुनन्दनः ।
चरमाणस्तपो दीप्तं जामदग्न्यः पुनः पुनः ।
तिष्ठते देववद्धीमान्महेन्द्रे पर्वतोत्तमे॥११९॥

एष विष्णोः सुरेशस्य शाश्वतस्याव्ययस्य च ।
जामदग्न्य इति ख्यातः प्रादुर्भावो महात्मनः॥१२०॥

चतुर्विंशे युगे चापि विश्वामित्रपुरः सरः ।
राज्ञो दशरथस्याथ पुत्रः पद्मायतेक्षणः॥१२१॥

कृत्वाऽऽत्मानं महाबाहुश्चतुर्धा प्रभुरीश्वरः ।
लोके राम इति ख्यातस्तेजसा भास्करोपमः॥१२२॥

प्रसादनार्थं लोकस्य रक्षसां निधनाय च ।
धर्मस्य च विवृद्ध्यर्थं जज्ञे तत्र महायशाः॥१२३॥

तमप्याहुर्मनुष्येन्द्रं सर्वभूतपतेस्तनुम् ।
यस्मै दत्तानि चास्त्राणि विश्वामित्रेण धीमता॥१२४॥

वधार्थं देवशत्रूणां दुर्धराणि सुरैरपि ।
यज्ञविघ्नकरो येन मुनीनां भावितात्मनाम्॥१२५॥

मारीचश्च सुबाहुश्च बलेन बलिनां वरौ ।
निहतौ च निराशौ च कृतौ तेन महात्मना॥१२६॥

वर्तमाने मखे येन जनकस्य महात्मनः ।
भग्नं माहेश्वरं चापं क्रीडता लीलया पुरा॥१२७॥

यः समाः सर्वधर्मज्ञश्चतुर्दश वनेऽवसत् ।
लक्ष्मणानुचरो रामः सर्वभूतहिते रतः॥१२८॥

रूपिणी यस्य पार्श्वस्था सीतेति प्रथिता जनैः ।
पूर्वोचिता तस्य लक्ष्मीर्भर्तारमनुगच्छति॥१२९॥

चतुर्दश तपस्तप्त्वा वने वर्षाणि राघवः ।
जनस्थाने वसन्कार्यं त्रिदशानां चकार ह ।
सीतायाः पदमन्विच्छँल्लक्ष्मणानुचरो विभुः॥१३०॥

जनस्थाने दण्डकारण्यप्रदेशे॥१३०॥

विराधं च कबन्धं च राक्षसौ भीमविक्रमौ ।
जघान पुरुषव्याघ्रौ गन्धर्वौ शापवीक्षितौ॥१३१॥

हुताशनार्केन्दुतडिद्धानाभैः प्रतप्तजाम्बूनदचित्रपुङ्खैः ।
महेन्द्रवज्राशनितुल्यसारैः शरैः शरीरेण वियोजितौ बलात्॥१३२॥

वियोजितौ विशेषेण योजितौ॥१३२॥

सुग्रीवस्य कृते येन वानरेन्द्रो महाबलः ।
वाली विनिहतो युद्धे सुग्रीवश्चाभिषेचितः॥१३३॥

देवासुरगणानां हि यक्षगन्धर्वभोगिनाम् ।
अवध्यं राक्षसेन्द्रं तं रावणं युधि दुर्जयम्॥१३४॥

युक्तं राक्ष्कसकोटीभिर्नीलाञ्जनचयोपमम् ।
त्रैलोक्यरावणं घोरं रावणं राक्षसेश्वरम्॥१३५॥

त्रैलोक्यस्य रावणम् आक्रन्दकरम्॥१३५॥

दुर्जयं दुर्धरं दृप्तं शार्दूलसमविक्रमम् ।
दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम्॥१३६॥

जघान सचिवैः सार्धं ससैन्यं रावणं युधि ।
महाभ्रघनसङ्काशं महाकायं महाबलम्॥१३७॥

सचिवैः सुग्रीवविभीषणादिभिः॥१३७॥

तमागस्कारिणं घोरं पौलस्त्यं युधि दुर्जयम् ।
सभ्रातृपुत्रसचिवं ससैन्यं क्रूरनिश्चयम्॥१३८॥

रावणं निजघानाशु रामो भूतपतिः पुरा ।
मधोश्च तनयो दृप्तो लवणो नाम दानवः॥१३९॥

लवणः शत्रुघ्नरूपिणा तेनैव हतः॥१३९॥

हतो मधुवने वीरो वरदृप्तो महासुरः ।
समरे युद्धशौण्डेन तथा चान्येऽपि राक्षसाः॥१४०॥

एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः ।
दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान्॥१४१॥

जारूथ्यान् त्रिगुणीकृतदक्षिणानित्येके। अन्ये तु जारूथ्यामिति सप्तम्यन्तं पाठं प्रकल्प्य अयोध्यायामिति व्याचक्षते। जरूथं छन्दोगप्रसिद्धः स्तोत्रविशेषस्तदर्हान्। “जरूथं गरूथम् गृणतिः स्तुतिकर्मणः” इति यास्कः इति गृणतेरूथन्प्रत्यये आदेश्चुत्वमिति तस्य जत्वं “जृवृञ्भ्यामूथन्” इति सूत्रे जरूथं मांसमिति शाब्दिकाः। जारूथ्यान् स्तुत्यान् पुष्टान्वेत्यर्थः॥१४१॥

नाश्रूयन्ताशुभा वाचो नाकुलं मारुतो ववौ ।
न वित्तहरणं त्वासीद्रामे राज्यं प्रशासति॥१४२॥

पर्यदेवन्न विधवा नानर्थाश्चाभवंस्तदा ।
सर्वमासीज्जगद्दान्तं रामे राज्यं प्रशासति॥१४३॥

न प्राणिनां भयं चापि जलानिलनिघातजम् ।
न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते॥१४४॥

ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः ।
शूद्राश्चैव हि वर्णांस्त्रीञ्छुश्रूषन्त्यनहङ्कृताः ।
नार्यो नात्यचरन्भर्तॄन्भार्यां नात्यचरत्पतिः॥१४५॥

सर्वमासीज्जगद्दान्तं निर्दस्युरभवन्मही ।
राम एकोऽभवद्भर्ता रामः पालयिताभवत्॥१४६॥

आयुर्वर्षसहस्राणि तथा पुत्रसहस्रिणः ।
अरोगाः प्राणिनश्चासन्रामे राज्यं प्रशासति॥१४७॥

सहस्राणि एकादशेति शेषः॥१४७॥

देवतानामृषीणां च मनुष्याणां च सर्वशः ।
पृथिव्यां समवायोऽभूद्रामे राज्यं प्रशासति॥१४८॥

समवायः समाजः॥१४८॥

गाथा अप्यत्र गायन्ति ये पुराणविदो जनाः ।
रामे निबद्धतत्त्वार्था माहात्म्यं तस्य धीमतः॥१४९॥

श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषिता ।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः॥१५०॥

दश वर्षसहस्राणि दश वर्षशतानि च ।
अयोध्याधिपतिर्भूत्वा रामो राज्यमकारयत्॥१५१॥

ऋक्सामयजुषां घोषो ज्याघोषश्च महात्मनः ।
अव्युच्छिन्नोऽभवद्राज्ये दीयतां भुज्यतामिति॥१५२॥

सत्त्ववान्गुणसम्पन्नो दीप्यमानः स्वतेजसा ।
अतिचन्द्रं च सूर्यं च रामो दाशरथिर्बभौ॥१५३॥

ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः ।
हित्वायोध्यां दिवं यातो राघवः स महाबलः॥१५४॥

समहाबलं महता बलेन सैन्योपलक्षितेन कृत्स्नजनेन सहितः समहाबलः॥१५४॥

एवमेष महाबाहुरिक्ष्वाकुकुलनन्दनः ।
रावणं सगणं हत्वा दिवमाचक्रमे प्रभुः॥१५५॥

वैशम्पायन उवाच। अपरः केशवस्यायं प्रादुर्भावो महात्मनः ।
विख्यातो माथुरे कल्पे सर्वलोकहिताय वै॥१५६॥

यत्र शाल्वं च मैन्दं च द्विविदं कंसमेव च ।
अरिष्टमृषभं केशिं पूतनां दैत्यदारिकाम्॥१५७॥

नागं कुवलयापीडं चाणूरं मुष्टिकं तथा ।
दैत्यान्मानुषदेहस्थान्सूदयामास वीर्यवान्॥१५८॥

छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः ।
नरकस्य हतः सङ्ख्ये यवनश्च महाबलः॥१५९॥

हृतानि च महीपानां सर्वरत्नानि तेजसा ।
दुराचाराश्च निहताः पार्थिवाश्च महीतले॥१६०॥

नवमे द्वापरे विष्णुरष्टाविंशे पुराभवत् ।
वेदव्यासस्तथा जज्ञे जातूकर्ण्यपुरस्सरः॥१६१॥

नवमेऽवतारे एतच्चात्रानुक्ताभ्यामपि मत्स्यकूर्माभ्यां सह ज्ञेयम्। तथा वेदव्यासोऽपि दशमो जज्ञे इति विशेषणं योज्यम्॥१६१॥

एको वेदश्चतुर्धा तु कृतस्तेन महात्मना ।
जनितो भारतो वंशः सत्यवत्याः सुतेन च॥१६२॥

एते लोकहितार्थाय प्रादुर्भावा महात्मनः ।
अतीताः कथिता राजन्कथ्यन्ते चाप्यनागताः॥१६३॥

एते दशातीताः॥१६३॥

कल्किर्विष्णुयशा नाम शम्भलं ग्रामके द्विजः ।
सर्वलोकहितार्थाय भूयश्चोत्पत्स्यते प्रभुः॥१६४॥

उत्पत्स्यते एकादशोऽयं दशमेऽतीते सतीत्यग्रिमेण सम्बन्धः॥१६४॥

दशमो भाव्यसम्पन्नो याज्ञवल्क्यपुरःसरः ।
क्षपयित्वा च तान्सर्वान्भाविनार्थेन चोदितान्॥१६५॥

भाव्याः भवं सततोत्पत्तिं प्रशंसन्ति ते भाव्याः क्षणिकवादिनो बौद्धाः तैः सह सम्पन्नो वादे युद्धे च सङ्गतः क्षपयित्वा जित्वा हत्वा च तानेव विशिनष्टि। भाविना भावं पूर्वोक्तं प्रशंसता बुद्धमुनिना विष्णोरेव रूपान्तरेण भगवता केनचिदर्थेन निमित्तेन कलौ दम्भयज्ञप्रवृत्त्या लोकनाशो मा भूदिति यज्ञनिन्दार्थेन निमित्तेन चोदितान् प्रवर्तितान्। एतेन कल्कितः प्राक् बौद्धावतारोऽपि सूचितः। बौद्धपक्षक्षयार्थश्च कल्कीत्युक्तम्॥१६५॥

गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः ।
ततः कुले व्यतीते तु सामात्ये सहसैनिकम्॥१६६॥

निष्ठां समाप्तिम्। ननु कल्किर्म्लेच्छान्निग्रहीष्यतीत्यत्र स्मर्यते तत्कथं निष्ठां गमिष्यतीत्युच्यतेऽत आह- तत इति। कुले व्यतीते अन्योन्यदारापहारान्नष्टे सति॥१६६॥

नृपेष्वथ प्रनष्टेषु तदा त्वप्रग्रहाः प्रजाः ।
रक्षणे विनिवृत्ते च हत्वा चान्योन्यमाहवे॥१६७॥

अप्रग्रहाः अनियन्तृकाः ईश्वरयत्नं विनैव कामलोभाक्रान्ताः प्रजाः परस्परं घातयिष्यन्तीत्यर्थः॥१६७॥

परस्परहृतस्वाश्च निराक्रन्दाः सुदुःखिताः ।
एवं कष्टमनुप्राप्ताः कलिसन्ध्यांशके तदा॥१६८॥

प्रजाः क्षयं प्रयास्यन्ति सार्धं कलियुगेन ह ।
क्षीणे कलियुगे तस्मिंस्ततः कृतयुगं पुनः ।
प्रपत्स्यते यथान्यायं स्वभावादेव नान्यथा॥१६९॥

तदेवोपसंहरति- स्वभावादेव- नान्यथेति॥१६९॥

एते चान्ये च बहवो दिव्या देवगुणैर्युताः ।
प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः॥१७०॥

यत्र देवापि मुह्यन्ति प्रादुर्भावानुकीर्तने ।
पुराणं वर्तते यत्र वेदश्रुतिसमाहितम्॥१७१॥

देवापीति सन्धिरार्षः॥१७१॥

एतदुद्देशमात्रेण प्रादुर्भावानुकीर्तनम् ।
कीर्तितं कीर्तनीयस्य सर्वलोकगुरोः प्रभोः॥१७२॥

उद्देशमात्रेण कीर्तिनं कृतं नतु सम्यक् व्याख्यातं प्रादुर्भावानामन्येषामृषभादीनामानन्त्यात्॥१७२॥

प्रीयन्ते पितरस्तस्य प्रादुर्भावानुकीर्तनात् ।
विष्णोरतुलवीर्यस्य यः शृणोति कृताञ्जलिः॥१७३॥

एतास्तु योगेश्वरयोगमायाः श्रुत्वा नरो मुच्यति सर्वपापैः ।
ऋद्धिं समृद्धिं विपुलांश्च भोगान्प्राप्नोति सर्वं भगवत्प्रसादात्॥१७४॥

एता योगमाया एव नतु तात्त्विक्यो भगवतो लीला अस्मदादिलीलावद्रागपूर्विका इत्यर्थः। तथा च मन्त्रः- “यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु। मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननु पुरा विवित्से" इति। अस्यार्थः- हे इन्द्र परमेश्वर यत् तन्वा मत्स्यकूर्मादिशरीरेण अचरः चरणं कृतवानसि वावृधानः ववृधे दैत्यादीन् हत्वा महत्त्वं च प्राप्तवानसि लोके बलानि भूमेरुद्धरणादीनि जनेषु प्रब्रुवाणः ख्यापितवानभूः सा सर्वा ते तव मायेत् मायैव। सा का यानि युद्धान्याहुः देवासुरसङ्ग्रामाः सर्वे मायैव। कुत एतत् यतस्त्वां ननु निश्चितम् अद्य वर्तमानकाले पुरा वा शत्रुं नाशनीयं न विवित्से लभसे। सर्वस्यान्तरात्मत्वात्कालत्रयेऽपि तव शत्रुर्नास्तीति। तस्मात्स्वात्मार्थानुवादवदेतत्पुराणं भगवल्लीलामनुवदतीति मन्त्रार्थः। ऋद्धिं धर्मफलभृतां सम्पत्तिं समृद्धिं योगैश्वर्यम्॥१७४॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि प्रादुर्भावानुसङ्ग्रहो नामैकचत्वारिंशोऽध्यायः॥४१॥
विष्णोरीश्वरत्वकथनम्

वैशम्पायन उवाच। विश्वत्वं शृणु मे विष्णोर्हरित्वं च कृते युगे ।
वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च॥१॥

चत्वारिंशे द्विसंयुक्ते सर्वदेवपराजये। देवा आप्यायिताः सर्वे प्रत्यक्षीभूय विष्णुना॥१॥ पूर्वं यदा धर्मस्य ग्लानिस्तदा भगवानाविर्भवतीत्युक्तं सा चासुराणामुदयाद्भवति अतस्तेषां वधेन विष्णोर्जगद्रक्षकत्वं निरूपयति– विश्वत्वमित्यादिना। विशेषेण श्वसित्याश्वसित्यभयं प्राप्य जनो यस्मादिति विश्वः। आश्वासनकर्ता अभयदातेति यावत्। हरति नाशयति दुःखदान् दुरितदैत्यादीनिति हरिः। विगतं कुण्ठनं गतिप्रतिघात आलस्यं वैकतयं वा यस्मात् स विकुण्ठः। स्वार्थेऽण् वैकुण्ठः। देवेषु सात्त्विकेषु पालनीयेषु यस्याशक्यत्वादिकं नास्तीत्यर्थः। मानुषेषु रजस्तमोग्रस्तेषु उपेक्षणीयेषु कृष्णत्वं “कृषिर्भूवाचकः शब्दो णश्च निर्वृत्तिवाचकः।” इति स्मृतेः। केवलं सत्तारूपेण सांसारिकानन्दरूपेण चास्तित्वं च शृणु॥१॥

ईश्वरत्वं च तस्येदं गहनां कर्मणां गतिम् ।
सम्प्रत्यतीतां भाव्यां च शृणु राजन्यथातथम्॥२॥

तथा मध्यमेषु ईश्वरत्वं निग्रहानुग्रहकर्तृत्वमेवंविधां भगवतो नानारूपां कर्मणां लीलानां गतिं भूतां भविष्यां च वक्ष्यमाणां शृणु॥२॥

अव्यक्तो व्यक्तलिङ्गस्थो यत्रैव भगवान्प्रभुः ।
नारायणो ह्यनन्तात्मा प्रभवोऽव्यय एव च॥३॥

व्यक्तोऽपि व्यक्तं लिङ्गं मूर्तिः तत्स्थः यत्र मत्स्याद्यवतारग्रहणे नारायणो मुनिस्तद्रूपः॥३॥

एष नारायणो भूत्वा हरिरासीत्कृते युगे ।
ब्रह्मा शक्रश्च सोमश्च धर्मः शुक्रो बृहस्पतिः॥४॥

नारायणः जगत्सृष्ट्वा तत्र प्रविश्य जीवभावमनुभूय पुनर्जीवत्वहर्ता जीवन्नेव मुक्तो हरिसंज्ञोऽभूत्। कृतयुगे देहिनः सद्यो मुच्यन्त इति भावः। एतस्यैव रूपं ब्रह्मादय इत्याह- ब्रह्मेति॥४॥

अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ।
एष विष्णुरिति ख्यात इन्द्रादवरजोऽभवत्॥५॥

प्रसादजं ह्यस्य विभोरदित्याः पुत्रजन्म तत् ।
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम्॥६॥

प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत्प्रभुः ।
सोऽसृजत्पूर्वपुरुषः पुरा कल्पे प्रजापतीन्॥७॥

प्रधानं त्रिगुणात्मिका माया सैव आत्मा शरीरं यस्य स प्रधानात्मा मायावी। “मायिनं तु महेश्वरम्” इति श्रुतेरीश्वरः। प्रजापतीन् मरीच्यादीन्॥७॥

ते तन्वानास्तनूस्तत्र ब्रह्मवंशाननुत्तमान् ।
तेभ्योऽभवन्महात्म्यभ्यो बहुधा ब्रह्म शाश्वतम्॥८॥

तनूस्तन्वानाः कश्यपादिरूपेण स्वरूपाणि विस्तारयन्तः ब्रह्मवंशान् नानागोत्राणि ससृजुः। ब्रह्म यज्ञो बहुधा प्रकृतिविकृत्यादिरूपः वेदो वा शाखाभेदेन बहुधाऽभवत्॥८॥

एतदाश्चर्यबूतस्य विष्णोर्नामानुकीर्तनम् ।
कीर्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे॥९॥

एतत्तु वेदजपरूपम्। यदाह शौनकः- “वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः। तावन्ति हरिनामानि कीर्तितानि न संशयः॥" इति। इतोऽपि अन्यत् कीर्त्यमानं निबोध बुध्यस्व वेदजपतुल्यम्॥९॥

वृत्ते वृत्रवधे तात वर्तमाने कृते युगे ।
आसीत्त्रैलोक्यविख्यातः सङ्ग्रामस्तारकामयः॥१०॥

तदेवाह- वृत्ते इत्यादिना। तारकामयस्तारकाप्रधानः॥१०॥

तत्रासन्दानवा घोराः सर्वे सङ्ग्रामदर्पिताः ।
घ्नन्ति देवगणान्सर्वान्सयक्षोरगराक्षसान्॥११॥

तत्र गुरुदारहर्तुः सोमस्य पक्षे तत्तुल्यशीलत्वादसुरा आसन्॥११॥

ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे ।
त्रातारं मनसा जग्मुर्देवं नारायणं हरिम्॥१२॥

ते देवाः॥१२॥

एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्षिणः ।
सार्कचन्द्रग्रहगणं छादयन्तो नभस्तलम्॥१३॥

निर्वाणा अर्चिषाऽपि रहिताः तप्तायस्तुल्याः ते च तेऽङ्गाराश्च तद्वर्षिणः आसन्निति शेषः॥१३॥

चञ्चद्विद्युद्गणाविद्धा घोरा निह्रादकारिणः ।
अन्योन्यवेगाभिहताः प्रववुः सप्त मारुताः॥१४॥

ते मेघाः अन्योन्यवेगैरभिहताः बभूवुरिति शेषः। यतः सप्त मारुताः प्रवहादयस्तत्क्षोभकर्तारः प्रववुः। तैर्धूलिपटलवद्घनपटलमावर्तितमित्यर्थः॥१४॥

दीप्ततोयाशनीपातैर्वज्रवेगानिलाकुलैः ।
ररास घोरैरुत्पातैर्दह्यमानमिवाम्बरम्॥१५॥

दीप्तं तप्तं तोयम् अशनी च तयोः पातैः ररास शब्दं चकार॥१५॥

पेतुरुल्कासहस्राणि मुहुराकाशगान्यपि ।
न्युब्जानि च विमानानि प्रपतन्त्युत्पतन्ति च॥१६॥

न्युब्जानि अधोमुखानि॥१६॥

चतुर्युगान्तपर्याये लोकानां यद्भयं भवेत् ।
तादृशान्येव रूपाणि तस्मिन्नुत्पातलक्षणे॥१७॥

चतुर्युगानाम् अन्तपर्याये चरमेऽवान्तरप्रलये इत्यर्थः॥१७॥

तमसा निष्प्रभं सर्वं न प्राज्ञायत किञ्चन ।
तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश॥१८॥

निशेव रूपिणी काली कालमेघावगुण्ठिता ।
द्यौर्न भात्यभिभूतार्का घोरेण तमसा वृता॥१९॥

काली निशा दर्शरात्रिः॥१९॥

तान्घनौघान्सतिमिरान्दोर्भ्यामुत्क्षिप्य स प्रभुः ।
वपुः सन्दर्शयामास दिव्यं कृष्णवपुर्हरिः॥२०॥

कृष्णं घननीलं वपुर्यस्य स हरिर्वपुर्दर्शयामास॥२०॥

बलाहकाञ्जननिभं बलाहकतनूरुहम् ।
तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम्॥२१॥

बलेति। मेघवत् कृष्णवर्णं कृष्णकेशं च तेजसा कृष्णवर्णेन॥२१॥

दीप्तपीताम्बरधरं तप्तकाञ्चनभूषणम् ।
धूमान्धकारवपुषा युगान्ताग्निमिवोत्थितम्॥२२॥

चतुर्द्विगुणपीनांसं बलाकापङ्क्तिभूषणम् ।
चामीकरकराकारैरायुधैरुपशोभितम्॥२३॥

चतुर्द्विगुणा अष्टौ पीनाः पुष्टाश्च अंसा बाहुमूलानि यस्य तम्। चामीकरं सुवर्णं तन्मयाः कराकाराः मुष्टयो येषु तैः चामीकरकराकारैः॥२३॥

चन्द्रार्ककिरणोद्द्योतं गिरिकूटं शिलोच्चयम् ।
नन्दकानन्दितकरं शराशीविषधारिणम्॥२४॥

गिरिकूटं पर्वतवदचञ्चलम्। “कूटोऽस्त्री निश्चले राशौ” इति मेदिनी। शिलोच्चयं मनःशिलावर्णं नीवीबन्धनं यस्य तम्। "शिला तु प्रस्तरे मता। तथा मनःशिलायां च" इति मेदिनी। “उच्चैस्तरेऽप्युच्चयः स्यात्समूहे नीविबन्धने।" इति चानन्दकः खड्गः तेन आनन्दितः शोभितः करौ यस्य तं नन्दकानन्दितकरम्। “नन्दको हरिखङ्गे च” इति मेदिनी॥२४॥

शक्तिचित्रं हलोदग्रं शङ्खचक्रगदाधरम् ।
विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गधन्विनम्॥२५॥

हर्यश्वरथसंयुक्ते सुपर्णध्वजशोभिते ।
चन्द्रार्कचक्ररुचिरे मन्दराक्षवृतान्तरे॥२६॥

हर्यश्वाः हरिद्वर्णा अश्वाः तैः संयुक्ते रथे वपुर्दर्शयामासेति पूर्वेण सम्बन्धः। रथसंयुक्ते इत्यत्र संयुक्तरथे इत्यपेक्षिते रथपदस्य पूर्वनिपात आर्षः- चन्द्रेति॥२६॥

अनन्तरश्मिसंयुक्ते ददृशे मेरुकूबरे ।
तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे॥२७॥

रथे ददृशे दृष्टः देवैः किम् उदासीनैर्ददृशे नेत्याह देवास्तं ददृशुरिति। बुद्धिपूर्वकं दृष्टवन्त इत्यर्थः। यस्य चन्द्रार्कौ चक्रे मन्दराद्रिरक्षः शेषः प्रग्रहः मेरुः कूबरं तारा एव वरूथगतचित्रकुसुमानि ग्रहादीनि बन्धनानि तादृशे विश्वरथे स्थितं देवा ददृशुरित्यर्थः॥२७॥

भयेष्वभयदं व्योम्नि देवा दैत्यपराजिताः ।
ददृशुस्ते स्थितं देवं दिव्यलोकमये रथे॥२८॥

ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः ।
जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः॥२९॥

स तेषां ता गिरः श्रुत्वा विष्णुर्दयितदेवतः ।
मनश्चक्रे विनाशाय दानवानां महामृधे॥३०॥

दयिताः देवताः यस्येति बहुव्रीहिः॥३०॥

आकाशे तु स्थितो विष्णुः सोत्तमे पुरुषोत्तमः ।
उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः॥३१॥

सः उत्तमे इति छेदः॥३१॥

शान्तिं भजत भद्रं वो मा भैष्टा मरुतां गाणाः ।
जिता मे दानवाः सर्वे त्रैलोक्यं प्रतिगृह्यताम्॥३२॥

ते तस्य सत्यसन्धस्य विष्णोर्वाक्येन तोषिताः ।
देवाः प्रीतिं परां जग्मुः प्राप्येवामृतमुत्थितम्॥३३॥

ततस्तमः संह्रियते विनेशुश्च बलाहकाः ।
प्रववुश्च शिवा वाताः प्रासन्नाश्च दिशो दश॥३४॥

संह्रियते संहृतम्॥३४॥

सुप्रभाणि च ज्योतींषि चन्द्रं चक्रुः प्रदक्षिणम् ।
दीप्तिमन्ति च तेजांसि चक्रुरर्कं प्रदक्षिणम्॥३५॥

न विग्रहं ग्रहाश्चक्रुः प्रसन्नाश्चापि सिन्धवः ।
नीरजस्का बभुर्मार्गा नाकमार्गादयस्त्रयः॥३६॥

सिन्धवः नद्यः नाकमार्गादयस्त्रयः देवयानः पितृयानः मोक्षमार्गश्चेति त्रयः॥३६॥

यथार्थमूहुः सरितो नापि चुक्षुभिरेऽर्णवाः ।
आसञ्छुभानीन्द्रियाणि नराणामन्तरात्मसु॥३७॥

महर्षयो वीतशोका वेदानुच्चैरधीयत ।
यज्ञेषु च हविः स्वादु शिवमश्नाति पावकः॥३८॥

प्रवृत्तधर्माः संवृत्ता लोका मुदितमानसाः ।
प्रीत्या परमया युक्ता देवदेवस्य भूपतेः ।
विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधने गिरम्॥३९॥

प्रवृतधर्मो यज्ञादिः संवृत्तः सम्यक् प्रवृत्तः विष्णोर्गिरं श्रुत्वा संवृत्तः॥३९॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि आश्चर्यतारकामये द्विचत्वारिंशोऽध्यायः॥४२॥
दैत्यसेनवर्णनम्

वैशम्पायन उवाच। ततो भयं विष्णुमयं श्रुत्वा दैतेयदानवाः ।
उद्योगं विपुलं चक्रुर्युद्धाय युधि दुर्जयाः॥१॥

चत्वारिंशे त्रियुक्तेऽथ देवासुरसमागमे। दैत्यसंहननं पूर्वं वर्ण्यते वीरवल्लभम्॥१॥ ततः विष्णुमयं विष्णुप्रधानं भयं दैत्यानां श्रुत्वा॥१॥

मयस्तु काञ्चनमयं त्रिनल्वान्तरमव्ययम् ।
चतुश्चक्रं विक्रमन्तं सुकल्पितमहायुधम्॥२॥

त्रिनल्वान्तरं द्वादशशतहस्ता विस्तृतम् “नल्वः किष्कुचतुः शतम्” इत्युक्तेः। मयः काञ्चनमयं रथम् आरोहदिति सप्तमेनान्वयः। महान्ति आयुधानि यस्मिन् विक्रमन्तं विषमेऽपि जलाग्न्यादिस्थाने गच्छन्तम्॥२॥

किङ्किणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम् ।
खचितं रत्नजालैश्च हेमजालैश्च भूषितम्॥३॥

स्वक्षं रथवरोदग्रं सूपस्थानमगोपमम् ।
ईहामृगगणाकीर्णं पक्षिभिश्च विराजितम् ।
दिव्यास्त्रतूणीरधरं पयोधरनिनादितम्॥४॥

ये रथेषु वरास्तेषु उदग्रं श्रेष्ठं सूपस्थानं शोभननीडम् अगोपमं पर्वततुल्यम्। ईहामृगगणैः कृत्रिमसत्त्वसमूहैराकीर्णं व्याप्तम्॥४॥

गदापरिघसम्पूर्णं मूर्तिमन्तमिवार्णवम् ।
हेमकेयूरवलयं स्वर्णमण्डलकूबरम्॥५॥

हेममयाः केयूरवलयसदृशाः सन्धिबन्धपट्टिका यस्य॥५॥

सपताकध्वजोदग्रं सादित्यमिव मन्दरम् ।
गजेन्द्राम्भोदसदृशं लम्बकेसरवर्चसम्॥६॥

लम्बकेसरवर्चसं भल्लूकवर्णं सिंहवत् शीघ्रपातित्वेनातितेजस्विनम्॥६॥

युक्तमृक्षसहस्रेण सहस्राम्बुदनादितम् ।
दीप्तमाकाशगं दिव्यं रथं पररथारुजम्॥७॥

अध्यतिष्ठद्रणाकाङ्क्षी मेरुं दीप्तमिवांशुमान् ।
तारस्तु क्रोशविस्तारमायसं वायसध्वजम्॥८॥

शैलोत्करसमाकीर्णं नीलाञ्जनचयोपमम् ।
काललोहाष्टचरणं लोहेषायुगकूबरम् ।
तिमिराङ्गारकिरणं गर्जन्तमिव तोयदम्॥९॥

शैलोत्करः पर्वतानां राशिः काललोहाष्टचरणं कृष्णायसमया अष्टौ चरणाश्चक्राणि यस्य तम्। तिमिराङ्गाराः कृष्णा इङ्गलाः तद्वत् किरणा यस्य॥९॥

लोहजालेन महता सगवाक्षेण दंशितम् ।
आयसैः परिघैः कीर्णं क्षेपणीयैस्तथाश्मभिः॥१०॥

दंशितं वेष्टितम्॥१०॥

प्रासैः पाशैश्च विततैरवसक्तैश्च मुद्गरैः ।
शोभितं त्रासनीयैश्च तोमरैः सपरश्वधैः॥११॥

उद्यन्तं द्विषतां हेतोर्द्वितीयमिव मन्दरम् ।
युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम्॥१२॥

विरोचनस्तु सङ्क्रुद्धो गदापाणिरवस्थितः ।
प्रमुखे तस्य सैन्यस्य दीप्तशृङ्ग इवाचलः॥१३॥

युक्तं हयसहस्रेण हयग्रीवस्तु दानवः ।
स्यन्दनं वाहयामास सपत्नानीकमर्दनः॥१४॥

व्यायतं बहुसाहस्रं धनुर्विस्फारयन्महत् ।
वराहः प्रमुखे तस्थौ सावरोह इवाचलः॥१५॥

सावरोहः जटावान् अचलो वृक्षः न्यग्रोध इत्यर्थः॥१५॥

खरस्तु विक्षरन्दर्पान्नेत्राभ्यां रोषजं जलम् ।
स्फुरद्दन्तौष्ठवदनः सङ्ग्रामं सोऽभ्यकाङ्क्षत॥१६॥

त्वष्टा त्वष्टादशहयं यानमास्थाय दानवः ।
व्यूहितो दानवैर्व्यूहैः परिचक्राम वीर्यवान्॥१७॥

यानं रथं व्यूहितः व्यूहरचनया स्थापितः॥१७॥

विप्रचित्तिसुतः श्वेतः श्वेतकुण्डलभूषणः ।
श्वेतशैलप्रतीकाशो युद्धायाभिमुखः स्थितः॥१८॥

अरिष्टो बलिपुत्रस्तु वरिष्ठोऽद्रिशिलायुधैः ।
युद्धायातिष्ठदायस्तो धराधर इवापरः॥१९॥

आयस्तः कृतश्रमः॥१९॥

किशोरस्त्वतिसंहर्षात्किशोर इव चोदितः ।
अभवद्दैत्यसैन्यस्य मध्ये रविरिवोदितः॥२०॥

किशोर इव अश्वशावक इव॥२०॥

लम्बस्तु लम्बमेघाभः प्रलम्बाम्बरभूषणः ।
दैत्यव्यूहगतो भाति सनीहार इवांशुमान्॥२१॥

नीहारो राहुः कङ्कणग्रस्तार्कवदित्यर्थः॥२१॥

स्वर्भानुर्वक्रयोधी च दशनौष्ठेक्षणायुधः ।
हसंस्तिष्ठति दैत्यानां प्रमुखे स महाग्रहः॥२२॥

अन्ये हयगता भान्ति नागस्कन्धगताः परे ।
सिंहव्याघ्रगताश्चान्ये वराहर्क्षगताः परे॥२३॥

केचित्खरोष्ट्रयातारः केचित्तोयदवाहनाः ।
नानापक्षिगताश्चान्ये केचित्पवनवाहनाः॥२४॥

पवनवाहनाः वायुगतयः॥२४॥

पत्तयश्चापरे दैत्या भीषणा विकृताननाः ।
एकपादा द्विपादाश्च नर्दन्तो युद्धकाङ्क्षिणः॥२५॥

प्रक्ष्वेडमाना बहवः स्फोटयन्तश्च ते भुजान् ।
दृप्तशार्दूलनिर्घोषा नेदुर्दानवपुङ्गवाः॥२६॥

ते गदापरिघैरुग्रैर्धनुर्व्यायामशालिनः ।
बाहुभिः परिघाकारैस्तर्जयन्ति स्म देवताः॥२७॥

प्रासैः पाशैश्च खड्गैश्च तोमराङ्कुशपट्टिशैः ।
चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः॥२८॥

गण्डशैलैश्च शैलैश्च परिघैश्चोत्तमायुधैः ।
चक्रैश्च दैत्यप्रवराश्चक्रुरानन्दितं बलम्॥२९॥

एवं तद्दानवं सैन्यं सर्वं युद्धबलोत्कटम् ।
देवताभिमुखं तस्थौ मेघानीकमिवोत्थितम्॥३०॥

तदद्भुतं दैत्यसहस्रगाढं वाय्वग्नितोयाम्बुदशैलकल्पम् ।
बलं रणौघाभ्युदयावकीर्णं युयुत्सयोन्मत्तमिवाबभासे॥३१॥

गाढं सङ्कुलम्। रणौघः ग्रंसामधारा तस्या अभ्युदय उत्कर्षः तस्मै अपकीर्णं प्रसृतम्॥३१॥
॥इति श्रीमहाभारते किलेषु हरिवंशे हरिवंशपर्वणि त्रिचत्वारिंशोऽध्यायः॥४३॥
देवसेनावर्णनम्

वैशम्पायन उवाच। श्रुतस्ते दैत्यसैन्यस्य विस्तरस्तात विग्रहे ।
सुराणां सर्वसैन्यस्य विस्तरं वैष्णवं शृणु॥१॥

विस्तरो देवसैन्यस्य चत्वारिंशे चतुर्युजि। तेषां संहननं चैव प्रोच्यतेऽतिमनोहरम्॥१॥ श्रुतस्ते॥१॥

आदित्या वसवो रुद्रा अश्विनौ च महाबलौ ।
सबलाः सानुगाश्चैव सन्नह्यन्त यथाबलम्॥२॥

सन्नह्यन्त सन्नद्धा बभूवुः। अडभाव आर्षः॥२॥

पुरुहूतस्तु पुरतो लोकपालः सहस्रदृक् ।
ग्रामणीः सर्वदेवानमारुरोह सुरद्विषम्॥३॥

सव्ये चास्य राथः पार्श्वे पक्षिप्रवरवेगवाण् ।
सुचारुचक्रचरणो हेमवज्रपरिष्कृतः॥४॥

अस्य पार्श्वे रथः पर्य्येतीति तृतीयस्थेनान्वयः। पक्षिप्रवरो गरुडः तद्वद्वेगवान्॥४॥

देवगन्धर्वयक्षौघैरनुयातः सहस्रशः ।
दीप्तिमद्भिः सदस्यैश्च ब्रह्मर्षिभिरभिष्टुतः॥५॥

वज्रविस्फूर्जितोद्धूतैर्विद्युदिन्द्रायुधान्वितैः ।
गुप्तो बलाहकगणैः कामगैरिव पर्वतैः॥६॥

समारूढः स भगवान्पर्येति मघवा गजम् ।
हविर्धानेषु गायन्ति विप्राः सोममखे स्थिताः॥७॥

हविर्धानेषु हविःस्थापनमण्डपेषु गायन्ति यमिति शेषः॥७॥

स्वर्गे शक्रानुयानेषु देवतूर्यनिनादिषु ।
इन्द्रं समुपनृत्यन्ति शतशो ह्यप्सरोगणाः॥८॥

केतुना वंशजातेन राजमानो यथा रविः ।
युक्तो हरिसहस्रेण मनोमारुतरंहसा॥९॥

पुनः स्यन्दनं वर्णयति- केतुनेति॥९॥

स स्यन्दनवरो भाति युक्तो मातलिना तदा ।
कृत्स्नः परिवृतो मेरुर्भास्करस्येव तेजसा॥१०॥

यमस्तु दण्डमुद्यम्य कालयुक्तं च मुद्गरम् ।
तस्थौ सुरगणानीके दैत्यान्नादेन भीषयन्॥११॥

कालयुक्तं मरणप्रापिकया देवतया युक्तम्॥११॥

चतुर्भिः सागरैर्गुप्तो लेलिहानैश्च पन्नगैः ।
शङ्खमुक्ताङ्गदधरो बिभ्रत्तोयमयं वपुः॥१२॥

सागरैर्गुप्तो वरुणः तस्थिवानिति चतुर्थेनान्वयः॥१२॥

कालपाशं समाविश्य हयैः शशिकरोपमैः ।
वाय्वीरितजलोद्गारैः कुर्वँल्लीलाः सहस्रशः॥१३॥

आविध्य भ्रामयित्वा॥१३॥

पाण्डुरोद्धूतवसनः प्रवालरुचिराङ्गदः ।
मणिश्यामोत्तमवपुर्हारभारार्पितोदरः॥१४॥

पाण्डुरं श्वेतम् उद्भूतम् उच्चतरं सौक्ष्म्यगुणेन वसनं यस्य हाराणां भारः अर्पितः उदरे यस्य सः हारभारार्पितोदरः॥१४॥

वरुणः पाशभृन्मध्ये देवानीकस्य तस्थिवान् ।
युद्धवेलामभिलषन्भिन्नवेल इवार्णवः॥१५॥

यक्षराक्षससैन्येन गुह्यकानां गणैरपि ।
मणिश्यामोत्तमवपुः कुबेरो नरवाहनः॥१६॥

युक्तश्च शङ्खपद्माभ्यां निधीनामधिपः प्रभुः ।
राजराजेश्वरः श्रीमान्गदापाणिरदृश्यत॥१७॥

शङ्खपद्मौ मूर्तिमन्तौ निधिविशेषौ ताभ्याम्॥१७॥

विमानयोधी धनदो विमाने पुष्पके स्थितः ।
स राजराजः शुशुभे युद्धार्थी नरवाहनः ।
प्रेक्ष्यमाणः शिवसखः साक्षादिव शिवः स्वयम्॥१८॥

पूर्वं पक्षं सहस्राक्षः पितृराजस्तु दक्षिणम् ।
वरुणः पश्चिमं पक्षमुत्तरं नरवाहनः॥१९॥

चतुर्षु युक्ताश्चत्वारो लोकपाला बलोत्कटाः ।
स्वासु दिक्ष्वभ्यरक्षन्वै तस्य देवबलस्य ह॥२०॥

चतुर्षु दिक्प्रदेशेषु॥२०॥

सूर्यः सप्ताश्वयुक्तेन रथेनाम्बरगामिना ।
श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः॥२१॥

उदयास्तमयं चक्रे मेरुपर्यन्तगामिना ।
त्रिदिवद्वारचक्रेण तपता लोकमव्ययम्॥२२॥

त्रिदिवद्वारचक्रेण स्वर्गप्रदेशे अलातचक्रवत् भ्रममाणेनेत्यर्थः। तपता दीपयता रथेन चचारेत्यन्वयः॥२२॥

सहस्ररश्मियुक्तेन भ्राजमानः स्वतेजसा ।
चचार मध्ये देवानां द्वादशात्मा दिनेश्वरः॥२३॥

सोमः श्वेतहयैर्भाति स्यन्दने शीतरश्मिवान् ।
हिमतोयप्रपूर्णाभिर्भाभिराह्लादयञ्जगत्॥२४॥

सोम इति। सोमार्थमेवासुरा उद्युक्तास्ते नासुरेष्वेव सोमः पठितुं युक्तस्तथापि देवत्वासमानजातिषु तस्य पाठः कृतः॥२४॥

तमृक्षयोगानुगतं शिशिरांशुं द्विजेश्वरम् ।
जगच्छायाङ्किततनुं नैशस्य तमसः क्षयम्॥२५॥

अत एवाह- तमिति। तं सोमं स्वपक्षीयत्वाद्दानवा ददृशुरिति तृतीयेनान्वयः। ऋक्षं नक्षत्रं द्विजाः ब्राह्मणाः जगच्छायाङ्किततनुं नैशस्य तमसः क्षयमिति अयमर्थः द्वेधाभूते रविरश्मिभिरप्ययं शशिमण्डलं भास्यते तत्र अधोमुखा रश्मयः पृथ्वीं प्राप्य तत्रस्थेन महामण्यादितेजसा प्रतिस्रोतः प्रवर्तिताः चन्द्रमडलमुत्प्लुत्य गच्छन्ति ते पार्थिवेन नीलिम्नाऽनुरञ्जिताः नलिमेव चन्द्रमण्डलमवभासयन्ति ततश्चन्द्रस्य जगच्छायाङ्किततनुत्वं युक्तं ये तु पूर्वं चन्द्रमण्डलं प्राप्यायधः प्रचरन्ति तद्वारा चन्द्रस्य भास्वरप्रकाशतया नैशस्य तमसः क्षयमिति विशेषणं युज्यत इति॥२५॥

ज्योतिषामीश्वरं व्योम्नि रसानां रसनं प्रभुम् ।
औषधीनां परित्राणं निधानममृतस्य च॥२६॥

रसानां रसनम् आश्रयम्॥२६॥

जगतः प्रथमं भागं सौम्यं शीतमयं रसम् ।
ददृशुर्दानवाः सोमं हिमप्रहरणस्थितम्॥२७॥

जगतोऽग्नीषोमात्मकस्य प्रथमम् अन्नात्मकं भागं सौम्यं सोमरूपम् अत एव रसं रसमयम्॥२७॥

यः प्राणः सर्वभूतानां पञ्चधा भिद्यते नृषु ।
सप्तस्कन्धगतो लोकांस्त्रीन्दधार चराचरान्॥२८॥

सप्त स्कन्धाः आवहप्रवहादयोंऽशभेदा यत्र आकाशोदरे तिष्ठन्ति तत्र गतं पञ्चधा प्राणापानादिभेदेन नृषु जन्तषु॥२८॥

यमाहुरग्नेर्यन्तारं सर्वप्रभवमीश्वरम् ।
सप्तस्वरगता यस्य योनिर्गीतिरुदीर्यते॥२९॥

सप्त स्वरा निषादर्षभादयः यस्य वायोर्योनिराकाशः सप्तस्वरेषु गता स्थिता शब्दतन्मात्रा गतेत्यर्थः॥२९॥

यं वदन्त्युत्तमं भूतं यं वदन्त्यशरीरिणम् ।
यमाहुराकाशगमं शीघ्रगं शब्दयोनिजम्॥३०॥

शब्दयोनिजम् आकाशजम्॥३०॥

स वायुः सर्वभूतायुरुद्धतः स्वेन तेजसा ।
ववौ प्रव्यथयन्दैत्यान्प्रतिलोमः सतोयदः॥३१॥

मरुतो देवगन्धर्वा विद्याधरगणैः सह ।
चिक्रीडुरसिभिः शुभ्रैर्निर्मुक्तैरिव पन्नगैः॥३२॥

सृजन्तः सर्पपतयस्तीव्रं रोशमयं विषम् ।
शरभूताः सुरेन्द्राणां चेरुर्व्यात्तमुखा दिवि॥३३॥

पर्वतास्तु शिलाशृङ्गैः शतशाखैश्च पादपैः ।
उपतस्थुः सुरगणान्प्रहर्तुं दानवं बलम्॥३४॥

यः स देवो हृषीकेशः पद्मनाभस्त्रिविक्रमः ।
कृष्णवर्त्मा युगान्ताभो विश्वस्य जगतः प्रभुः॥३५॥

कृष्णवर्त्मा वह्निर्युगान्ते आभाति स युगान्ताभः युगान्ताग्नितुल्य इत्यर्थः॥३५॥

समुद्रयोनिर्मधुहा हव्यभुक्क्रतुसत्कृतः ।
भूरापोव्योमभूतात्मा समः शान्तिकरोऽरिहा॥३६॥

समुद्रयोनिरित्यत्र योनिशब्दः स्थानवाची। “योनिष्ट इन्द्र निषदे अकारि” इति मन्त्रवर्णात्॥३६॥

जगद्योनिर्जगद्बीजो जगद्गुरुरुदारधीः ।
सार्कमग्निमिवोद्यन्तमुद्यम्योत्तमतेजसम्॥३७॥

सार्काग्निर्यथा उत्तमतेजा अत्युत्कृष्टतेजाः तत्तुल्यं चक्रं गदाधरो दधारेति तृतीयगतेनान्वयः॥३७॥

अरिघ्नममरानीके चक्रं चक्रगदाधरः ।
सपरीवेषमुद्यन्तं सवितुर्मण्डलं यथा॥३८॥

भ्राम्यमाणायाः गदायाः परिवेषस्योपमा॥३८॥

सव्येनालम्ब्य महतीं सर्वासुरविनाशिनीम् ।
करेण कालीं वपुषा शत्रुकालप्रदां गदाम् ।
शेषैर्भुजैः प्रदीप्तानि भुजगारिध्वजः प्रभुः॥३९॥

दधारायुधजालानि शार्ङ्गादीनि महायशाः ।
स कश्यपः स्वात्मभवं द्विजं भुजगभोजनम्॥४०॥

द्विजं गरुडम् आरुह्य युद्धाय समवर्ततेति अष्टमद्वादशस्थाभ्यां सम्बन्धः॥४०॥

पवनाधिकसम्पातं गगनक्षोभणं खगम् ।
भुजगेन्द्रेण वदने निविष्टेन विराजितम्॥४१॥

अमृतारम्भनिर्मुक्तं मन्दराद्रिमिवोच्छ्रितम् ।
देवासुरविमर्देषु शतशो द्रृष्टविक्रमम्॥४२॥

महेन्द्रेणामृतस्यार्थे वज्रेण क्रितलक्षणम् ।
शिखिनं चूडिनं चैव तप्तकुण्डलभूषणम् ।
विचित्रपक्षवसनं धातुमन्तमिवाचलम्॥४३॥

स्फीतक्रोडावलम्बेन शीतांशुसमतेजसा ।
भोगिभोगावसक्तेन मणिरत्नेन भास्वता॥४४॥

क्रोडा वक्षः अर्धगिलितस्य सर्पस्य शिरोरत्नेन वक्षःस्थलगतेन भान्तमिति शेषः। भोगः शरीरम्॥४४॥

पक्षाभ्यां चारुपत्राभ्यामावृत्य दिवि लीलया ।
युगान्ते सेन्द्रचापाभ्यां तोयदाभ्यामिवाम्बरम्॥४५॥

अम्बरम् आवृत्य स्थितमिति शेषः॥४५॥

नीललोहितपीताभिः पताकाभिरलङ्कृतम् ।
केतुवेषप्रतिच्छन्नं महाकायनिकेतनम्॥४६॥

केतुः शत्रुः। “केतुर्ना रुक्पताकारिग्रहोत्पातेषु लक्ष्मणि।” (तान्तवर्गे १३) इति मेदिनी। शत्रुवेषेण प्रकटमित्यर्थः। महान् कायः लक्ष्मध्वज इति यावत्। तस्य निकेतनम् अवरोपणस्थानम् “कायः के दैवते मूर्तौ सन्धिलक्ष्मस्वभावयोः" (यान्तवर्गे १२) इति मेदिनी॥४६॥

अरुणावरजं श्रीमानारुह्य समरे हरिः ।
स देवः स्वेन वपुषा सुपर्णं खेचरोत्तमम्॥४७॥

तमन्वयुर्देवगणा मुनयश्च तपोधनाः ।
गीर्भिः परममन्त्राभिस्तुष्टुवुश्च गदाधरम्॥४८॥

तद्वैश्रवणसंश्लिष्टं वैवस्वतपुरस्सरम् ।
वारिराजपरिक्षिप्तं देवराजविराजितम्॥४९॥

चन्द्रप्रभाभिर्विमलं युद्धाय समुपस्थितम् ।
पवनाविद्धनिर्घोषं सम्प्रदीप्तहुताशनम्॥५०॥

विष्णोर्जिष्णोः सहिष्णोश्च भ्राजिष्णोस्तेजसा वृतम् ।
बलं बलवदुद्भूतं युद्धाय समवर्तत॥५१॥

स्वस्त्यस्तु देवेभ्य इति स्तुत्वा तत्राङ्गिराब्रवीत् ।
स्वस्त्यस्तु दैत्येभ्य इति उशना वाक्यमाददे॥५२॥

अङ्गिरा बृहस्पतिरब्रवीदित्यडभाव आर्षः॥५२॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि आश्चर्यतारकामये चतुश्चत्वारिंशोऽध्यायः॥४४॥
देवासुरसङ्ग्रामवर्णनम्

वैशम्पायन उवाच। ताभ्यां बलाभ्यां सञ्जज्ञे तुमुलो विग्रहस्तदा ।
सुराणामसुराणां च परस्परजयैषिणाम्॥१॥

चत्वारिंशे पञ्चयुजि देवसैन्ये पराजिते। मयमायाप्रकर्षश्च ऊर्वसम्भव उच्यते॥१॥ ताभ्यामिति॥१॥

दानवा दैवतैः सार्धं नानाप्रहरणोद्यताः ।
समीयुर्युध्यमाना वै पर्वताः पर्वतैरिव॥२॥

समीयुः अन्योन्यं मिश्रिताः॥२॥

तत्सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ ।
धर्माधर्मसमायुक्तं दर्पेण विनयेन च॥३॥

ततो रथैः प्रजविभिर्वाहनैश्च प्रचोदितैः ।
उत्पतद्भिश्च गगनं सासिहस्तैः समन्ततः॥४॥

विक्षिप्यमाणैर्मुशलैः सम्प्रेष्यद्भिश्च सायकैः ।
चापैर्विस्फार्यमाणैश्च पात्यमानैश्च मुद्गरैः॥५॥

तद्युद्धमभवद्घोरं देवदानवसङ्कुलम् ।
जगतस्त्रासजननं युगसंवर्तकोपमम्॥६॥

स्वहस्तमुक्तैः परिघैः क्षिप्यमाणैश्च पर्वतैः ।
दानवाः समरे जघ्नुर्देवानिन्द्रपुरोगमान्॥७॥

ते वध्यमाना बलिभिर्दानवैर्जितकाशिभिः ।
विषण्णमनसो देवा जग्मुरार्तिं परां मृधे॥८॥

तेऽस्त्रजालैः प्रमथिताः परिघैर्भिन्नमस्तकाः ।
भिन्नोरस्का दितिसुतैर्वेमू रक्तं व्रणैर्बहु॥९॥

स्पन्दिताः पाशजालैश्च नियत्नाश्च शरैः कृताः ।
प्रविष्टा दानवीं मायां न शेकुस्ते विचेष्टितुम्॥१०॥

स्पन्दिताः रुधिरस्राविणः कृताः पाशजालैर्निर्यत्नाः कृताः सन्तः शरैः स्पन्दिता इति योजना॥१०॥

संस्तम्भितमिवाभाति निष्प्राणसदृशाकृति ।
बलं सुराणामसुरैर्निष्प्रयत्नायुधं कृतम्॥११॥

मायापाशान्विकर्षंश्च भिन्दन्वज्रेण ताञ्शरान् ।
शक्रो दैत्यबलं घोरं विवेश बहुलोचनः॥१२॥

स दैत्यान्प्रमुखे हत्वा तद्दानवबलं महत् ।
तामसेनास्त्रजालेन तमोभूतमथाकरोत्॥१३॥

तेऽन्योन्यं नावबुध्यन्त देवान्वा दानवानपि ।
घोरेण तमसाविष्टाः पुरुहूतस्य तेजसा॥१४॥

मायापाशैर्विमुक्ताश्च यत्नवन्तः सुरोत्तमाः ।
वपूंषि दैत्यसङ्घानां तमोभूतान्यपातयन्॥१५॥

अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसः ।
पेतुस्ते दानवगणाश्छिन्नपक्षा इवाचलाः॥१६॥

तद्वनीभूतदैत्यानामन्धकारमहार्णवम् ।
प्रविष्टं बलमुत्त्रस्तं तमोभूतमिवाबभौ॥१७॥

तदासृजन्महामायां मयस्तां तामसीं दहन् ।
युगान्ताग्निमिवात्युग्रां सृष्टामौर्वेण वह्निना॥१८॥

तामसीम् ऐन्द्रीं तमोऽस्त्रमयीं मायाम् और्वेण अबिन्धनेनाग्निना॥१८॥

सा ददाह तमः सर्वं मायामयविकल्पिता ।
दैत्याश्च दीप्तवपुषः सद्य उत्तस्थुराहवे॥१९॥

मायामौर्वीं समासाद्य दह्यमाना दिवौकसः ।
भेजिरे चन्द्रविषयं शीतांशुसलिलेशयात्॥२०॥

चन्द्रविषयं सोमसमीपम्। शीतांशुसलिले शिशिरजले शयात् शयनाद्धेतोः॥२०॥

ते दह्यमाना ह्यौर्वेण तेजसा भ्रष्टतेजसः ।
शशंसुर्वज्रिणे देवाः सन्तप्ताः शरणैषिणः॥२१॥

सन्तप्ते मायया सैन्ये दह्यमाने च दानवैः ।
चोदितो देवराजेन वरुणो वाक्यमब्रवीत्॥२२॥

देवराजेन इतराग्निवदौर्वाग्नेरपि शान्तिर्जलेनैव भविष्यतीति मन्वानेन॥२२॥

वरुण उवाच। पुरा ब्रह्मर्षिजः शक्र तपस्तेपेऽतिदारुणम् ।
ऊर्वो मुनिः स तेजस्वी सदृशो ब्रह्मणो गुनैः॥२३॥

वरुणस्त्वबिन्धनोऽयं वह्निर्नाम्भोमात्रेण शाम्यतीत्यर्थे आख्यायिकामाह- पुरेति। ब्रह्मर्षिर्भृगुस्तज्जः॥२३॥

तं तपन्तमिवादित्यं तपसा जगदव्ययम् ।
उपतस्थुर्मुनिगणा देवा ब्रह्मर्षिभिः सह॥२४॥

हिरण्यकशिपुश्चैव दानवो दानवेश्वरः ।
ऋषिं विज्ञापयामास पुरा परमतेजसम्॥२५॥

तमूचुर्ब्रह्मऋषयो वचनं ब्रह्मसम्मितम् ।
ऋषिवंशेषु भगवञ्छिन्नमूलमिदं कुलम्॥२६॥

इदं तावकम्॥२६॥

एकस्त्वमनपत्यश्च गोत्रं यन्नानुवर्तसे ।
कौमारं व्रतमास्थाय क्लेशमेवानुवर्तसे॥२७॥

गोत्रं पुत्रपौत्रादिसन्तानं कौमारं व्रतम् ऊर्ध्वरेतस्त्वं क्लेशं तपोजन्यं खेदम्॥२७॥

बहूनि विप्रगोत्राणि मुनीनां भावितात्मनाम् ।
एकदेहानि तिष्ठन्ति विभक्तानि विना प्रजाः॥२८॥

कुलेषु छिन्नमूलेषु तेषु नो नास्ति कारणम् ।
भवांस्तु तपसा श्रेष्ठः प्रजापतिसमद्युतिः॥२९॥

प्रजाः विना उच्छिन्नमूलेषु इति उत्तरस्थेनान्वयः। तेषु कारणं वृद्धिहेतुर्नास्ति छिन्नमूलत्वात्॥२८॥ त्वयि तु मूले विद्यमाने प्रजोच्छेदो मा भूदित्याह- भवानिति॥२९॥

तत्प्रवर्तस्व वंशाय वर्धयात्मानमात्मना ।
त्वमाधत्स्वोर्जितं तेजो द्वितीयां वै तनुं कुरु॥३०॥

द्वितीयां तनुं पुत्रम्॥३०॥

स एवमुक्तो मुनिभिर्मुनिर्मनसि ताडितः ।
जगर्हे तानृषिगणान्वचनं चेदमब्रवीत्॥३१॥

ताडितः क्षोभं नीतः॥३१॥

यथायं शाश्वतो धर्मो मुनीनां विहितः पुरा ।
सदाऽऽर्षं सेवतां कर्म वन्यमूलफलाशिनाम्॥३२॥

ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यानुवर्तिनः ।
ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेत्॥३३॥

द्विजानां वृत्तयस्तिस्रो ये गृहाश्रमवासिनः ।
अस्माकं तु वनं वृत्तिर्वनाश्रमनिवासिनाम्॥३४॥

द्विजानामिति। तिस्रः याजनाध्यापनप्रतिग्रहाख्या वृत्तयो जीविका अस्माकं कौमारव्रतानां तु वनमेव वृत्तिः। अनेन समावृत्तानां विनाऽपि विवाहं वानप्रस्थाश्रमोऽस्तीति गम्यते॥३४॥

अम्बुभक्षा वायुभक्षा दन्तोलूखलिकास्तथा ।
अश्मकुट्टा दशनपाः पञ्चातपतपाश्च ये॥३५॥

दशनपाः दन्तोलूखलिका इत्यन्वयः। सदन्ताः सतुषमेव नीवारादिकं भक्षयन्त इत्यर्थः। अदन्तास्त्वश्मकुट्टाः। पञ्चानामपि अग्निचतुष्टयं सूर्यश्च तेषामातपेन ऊष्मणा तपन्ति ते पञ्चातपतपाः॥३५॥

एते तपसि तिष्ठन्तो व्रतैरपि सुदुष्करैः ।
ब्रह्मचर्यं पुरस्कृत्य प्रार्थयन्ते परां गतिम्॥३६॥

ब्रह्मचर्याद्ब्राह्मणस्य ब्राह्मणत्वं विधीयते ।
एवमाहुः परे लोके ब्रह्म ब्रह्मविदो जनाः॥३७॥

ब्रह्मचर्ये स्थितं धैर्यं ब्रह्मचर्ये स्थितं तपः ।
ये स्थिता ब्रह्मचर्येषु ब्राह्मणास्ते दिवि स्थिताः॥३८॥

नास्ति योगं विना सिद्धिर्नास्ति सिद्धिं विना यशः ।
नास्ति लोके यशोमूलं ब्रह्मचर्यात्परं तपः॥३९॥

तन्निगृह्येन्द्रियग्रामं भूतग्रामं च पञ्चमम् ।
ब्रह्मचर्येण वर्तेत किमतः परमं तपः॥४०॥

पञ्चमं पञ्च शब्दादयो मीयन्त एतैरिति पञ्चमम् इन्द्रियग्रामं पञ्चभिरिन्द्रियैर्मीयन्त इति पञ्चमो भूतग्रामस्तमिति वा। पञ्चकमिति पाठस्त्वनार्षः॥४०॥

अयोगे केशहरणमसङ्कल्पे व्रतक्रिया ।
अब्रह्मचर्ये चर्या च त्रयं स्याद्दम्भसंज्ञितम्॥४१॥

अयोगे संन्यासिनां ध्यानभिक्षूणाम् अवश्यकर्तव्यस्य योगस्य ध्यानस्याभावे केशहरणं मुण्डनम् वानप्रस्थानाम्। असङ्कल्पे परलोककामनाया अभावे केवला लोकरञ्जनार्था कृच्छ्रादिव्रतक्रिया। अब्रह्मचर्ये अध्ययनाद्यभावेऽपि चर्या ब्रह्मचारिधर्माविष्करणम्॥४१॥

क्व दाराः क्व च संयोगः क्व च भावविपर्ययः ।
यदेयं ब्रह्मणा सृष्टा मनसा मानसी प्रजा॥४२॥

यदा इयं मानसी सनत्कुमारादिका प्रजा ब्रह्मणा सृष्टा तदा दाराः क्व तत्संयोगश्च क्व भावस्य चित्तस्य विपर्ययः कामातुरता च क्व न किञ्चिदपि तदा आसीदित्यर्थः। यथेति पाठेऽपि यदेत्येवार्थः॥४२॥

यद्यस्ति तपसो वीर्यं युष्माकममितात्मनाम् ।
सृजध्वं मानसान्पुत्रान्प्राजापत्येन कर्मणा॥४३॥

मनसा निर्मिता योनिराधातव्या तपस्विना ।
न दारयोगं बीजं वा व्रतमुक्तं तपस्विनाम्॥४४॥

योनिः पुत्रोत्पत्तिस्थानम् आधातव्या निहितगर्भा कर्तव्या। यतस्तपस्विनां दारयोगं क्लीबत्वमार्षम्। बीजं बीजाधानं च व्रतं न विहितम्॥४४॥

यदिदं लुप्तधर्मार्थं युष्माभिरिह निर्भयैः ।
व्याहृतं सद्भिरत्यर्थमसद्भिरिव मे मतिः॥४५॥

वपुर्दीप्तान्तरात्मानमेष कृत्वा मनोमयम् ।
दारयोगं विना स्रक्ष्ये पुत्रमात्मतनूरुहम्॥४६॥

एषोऽहं मनोमयं स्वसङ्कल्पसिद्धं वपुः उप्यते बीजमस्मिन्निति वपुः योनिं कृत्वा उद्भाव्य दारयोगं विनाऽपि दीप्तान्तरात्मानम् आत्मतनूरुहं स्वस्य पुत्रं स्रक्ष्ये॥४६॥

एवमात्मानमात्मा मे द्वितीयं जनयिष्यति ।
वन्येनानेन विधिना दिधक्षन्तमिव प्रजाः॥४७॥

द्वितीयम् आत्मानं पुत्रम् आत्मा देहः॥४७॥

ऊर्वस्तु तपसाविष्टो निवेश्योरुं हुताशने ।
ममन्थैकेन दर्पेण पुत्रस्य प्रभवारणिम्॥४८॥

हुताशने ऊरुं निवेश्येति। ऊरौ अग्निं समारोप्य तत एव मथित्वाऽग्निं जनयामासेत्यर्थः। स चाग्निः स्वेन ब्राह्मेण च तेजसा युक्तो दुःसहो दुर्दमश्चाभूदिति वाक्यार्थः॥४८॥

तस्योरुं सहसा भित्त्वा ज्वालामाली निरिन्धनः ।
जगतो निधनाकाङ्क्षी पुत्रोऽग्निः समपद्यत॥४९॥

ऊर्वस्योरुं विनिर्भिद्य और्वो नामान्तकोऽनलः ।
दिधक्षन्निव लोकांस्त्रीञ्जज्ञे परमकोपनः॥५०॥

उत्पन्नमात्रश्चोवाच पितरं दीप्तया गिरा ।
क्षुधा मे बाधते तात जगद्भक्षे त्यजस्व माम्॥५१॥

भक्षे भक्षणे तन्निमित्तं माम् उद्दिश्य जगत् त्यजस्व पुरोडाशवत्कृत्स्नं जगद्भक्षयितुं मामाज्ञापयस्वेत्यर्थः॥५१॥

त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश ।
निर्दहन्निव भूतानि ववृधे सोऽन्तकोऽनलः॥५२॥

जृम्भमाणः प्रसरन्॥५२॥

एतस्मिन्नन्तरे ब्रह्मा सर्वलोकपतिः प्रभुः ।
आजगाम मुनिर्यत्र व्यसृजत्पुत्रमुत्तमम्॥५३॥

स ददर्शोरुपूर्वस्य दीप्यमानं सुताग्निना ।
और्वकोपाग्निसन्तप्ताँल्लोकांश्च ऋषिभिः सह ।
तमुवाच ततो ब्रह्मा मुनिमूर्वं सभाजयन्॥५४॥

धार्यतां पुत्रजं तेजो लोकानां हितकाम्यया ।
अस्यापत्यस्य ते विप्र करिष्ये साह्यमुत्तमम्॥५५॥

तेजो वीर्यं पुत्र इति यावत्॥५५॥

वासं चास्य प्रदास्यामि प्राशनं चामृतोपमम् ।
तथ्यमेतन्मम वचः शृणु त्वं वदतां वर॥५६॥

ऊर्व उवाच। धन्योऽस्म्यनुगृहीतोऽस्मि यन्ममाद्य भवाञ्छिशोः ।
मतिमेतां ददातीह परमानुग्रहाय वै॥५७॥

प्रभावकाले सम्प्राप्ते काङ्क्षितव्ये समागमे ।
भगवंस्तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम्॥५८॥

प्रभावकाले यौवनसमये समागमेऽन्नस्येति शेषः॥५८॥

कुत्र चास्य निवासो वै भोजनं च किमात्मकम् ।
विधास्यति भवानस्य वीर्यतुल्यं महौजसः॥५९॥

ब्रह्मोवाच। वडवामुखेऽस्य वसतिः समुद्रास्ये भविष्यति ।
मम योनिर्जलं विप्र तच्च तोयमयं वपुः॥६०॥

वडवाया अश्वाया मुखसदृशे समुद्रस्य आस्ये मुखे अस्य स्थानम्। अन्नं च तत्र प्रविष्टाः भौमा आपः तासां स्तुत्यर्थं मम योनिरित्याद्युक्तं शेषं स्पष्टम्॥६०॥

तद्धविस्तव पुत्रस्य विसृजाम्यालयं तु तत् ।
तत्रायमास्तां नियतः पिबन्वारिमयं हविः॥६१॥

ततो युगान्ते भूतानामेष चाहं च सुव्रत ।
सहितौ विचरिष्यावो लोकानिति पुनः पुनः॥६२॥

एषोऽग्निरन्तकाले तु सलिलाशी मया कृतः ।
दहनः सर्वभूतानां सदेवासुररक्षसाम्॥६३॥

एवमस्त्विति सोऽप्यग्निः संवृतज्वालमण्डलः ।
प्रविवेशार्णवमुखं निक्षिप्य पितरि प्रभाम्॥६४॥

प्रभां यशोमयं तेजः॥६४॥

प्रतियातस्ततो ब्रह्मा ते च सर्वे महर्षयः ।
और्वस्याग्नेः प्रभावज्ञाः स्वां स्वां गतिमुपाश्रिताः॥६५॥

हिरण्यकशिपुर्दृष्ट्वा तदद्भुतमपूजयत् ।
ऊर्वं प्रणतसर्वाङ्गो वाक्यं चेदमुवाच ह॥६६॥

भगवन्नद्भुतमिदं निवृत्तं लोकसाक्षिकम् ।
तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः॥६७॥

अहं तु तव पुत्रस्य तव चैव महाव्रत ।
भृत्य इत्यवगन्तव्यः श्लाघ्योऽस्मि यदि कर्मणा॥६८॥

तन्मां पश्य समापन्नं तवैवाराधने रतम् ।
यदि सीदे मुनिश्रेष्ठ तवैव स्यात्पराजयः॥६९॥

समापन्नं शरणागतं सीदे दुःखं प्राप्स्ये॥६९॥

ऊर्व उवाच। धन्योऽस्म्यनुगृहीतोऽस्मि यस्य तेऽहं गुरुर्मतः ।
नास्ति ते तपसानेन भयमद्येह सुव्रत॥७०॥

अनेन मामकेन॥७०॥

इमां च मायां गृह्णीष्व मम पुत्रेण निर्मिताम् ।
निरिन्धनामग्निमयीं दुःस्पर्शां पावकैरपि॥७१॥

निरिन्धनाम् आराधनादुत्तेजनानपेक्षाम्॥७१॥

एषा ते स्वस्य वंशस्य वशगारिविनिग्रहे ।
रक्षिष्यत्यात्मपक्षं सा परांश्च प्रहरिष्यति॥७२॥

एवमस्त्विति तां गृह्य प्रणम्य मुनिपुङ्गवम् ।
जगाम त्रिदिवं हृष्टः कृतार्थो दानवेश्वरः॥७३॥

वरुण उवाच। सैषा दुर्विषहा माया देवैरपि दुरासदा ।
और्वेण निर्मिता पूर्वं पावकेनोर्वसूनुना॥७४॥

तस्मिंस्तु व्युत्थिते दैत्ये निर्वीर्यैषा न संशयः ।
शापो ह्यस्याः पुरा दत्तः सृष्टा येनैव तेजसा॥७५॥

तस्मिन् हिरण्यकशिपौ व्युत्थिते मृते सति येन और्वेण त्वज्जीवनावधि एषा माया वीर्यवती न तु ततः परमिति शापरूपमुन्नेयम्॥७५॥

यद्येषा प्रतिहन्तव्या कर्तव्यो भगवान्सुखी ।
दीयतां मे सखा शक्र तोययोनिर्निशाकरः॥७६॥

भगवान् भवानिन्द्रः॥७६॥

तेनाहं सह सङ्गम्य यादोभिश्च समावृतः ।
मायामेतां हनिष्यामि त्वत्प्रसादान्न संशयः॥७७॥

सह सङ्गम्येति। अल्पतोयत्वान्मया एकाकिना हन्तुमशक्योऽपि चन्द्रसंयोगात् बहुलीभावं प्राप्य और्वाग्निर्वारयितुं शक्यते इत्यर्थः॥७७॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि और्वाग्निसम्भवो नाम पञ्चचत्वारिंशोऽध्यायः॥४५॥
दैत्यपराजयः

वैशम्पायन उवाच। एवमस्त्विति संहृष्टः शक्रस्त्रिदशवद्धनः ।
संदिदेशाग्रतः सोमं युद्धाय शिशिरायुधम्॥१॥

षट्चत्वारिंशकेऽध्याये दैत्यमायानिबर्हणम्। कालनेमिसमुद्योगः सुरत्रासोऽनुवर्ण्यते॥१॥ एवमिति। अत्र सामेः शक्रेण प्रार्थितः स्वपक्षानप्यसुरानक्षिणोदित्युच्यते। यद्वा "बृहस्पतिर्हि शुक्रो भूत्वेन्द्रस्याभयायासुरेभ्यः क्षयाय" इति मैत्रायणिश्रुतेर्बृहस्पतिवच्चन्द्रोऽपि रूपभेदं कृत्वा असुरनाशायैवासुरं कर्म कृत्वा तत्साहाय्येन महान्तं तारकामयं सङ्ग्राममुपक्रान्तवानिति समाधेयम्। शिशिरायुधं हिमप्रहरणम्॥१॥

शक्र उवाच। गच्छ सोम सहायत्वं कुरु पाशधरस्य वै ।
असुराणां विनाशाय जयाय च दिवौकसाम्॥२॥

त्वमप्रतिमवीर्यश्च ज्योतिषां चेश्वरेश्वरः ।
त्वन्मयं सर्वलोकानां रसं रसविदो विदुः॥३॥

ज्योतिषामीश्वरः सूर्यः तस्यापीश्वरः। “चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्त" इति श्रुतेः। अयमर्थः- यथा पार्थिवं दारु अग्नेर्वर्धकम् एवं चान्द्रमम्भः सर्वेषां दिव्यानामबिन्धनानां तेजसां वर्धकम् अतश्चन्द्रोऽपि सूर्यस्येश्वर इति॥३॥

क्षयवृद्धी तवाव्यक्ते सागरस्येव मण्डले ।
परिवर्तस्यहोरात्रं कालं जगति योजयन्॥४॥

परिवर्तसि परिवर्तयसि॥४॥

लोकच्छायामयं लक्ष्म तवाङ्के शशसंज्ञितम् ।
न विदुः सोमदेवापि ये च नक्षत्रयोगिनः॥५॥

लोकच्छायामयां भूमिप्रतिबिम्बरूपम् अङ्के उत्सङ्गे। अयं भावः- यथा दर्पणं प्राप्य परावृत्ता नयनरश्मयः ग्रीवास्थमेव मुखं दर्पणगतमिव पश्यन्ति एवं चन्द्रमण्डलं प्राप्य परावृत्तास्ते दूरत्वदोषात् पृथिवीम् अव्यक्तरूपामिव चन्द्रमण्डलगतां पश्यन्ति स एव चन्द्रे कलङ्क इत्युपचर्यते। देवापि देवा अपि॥५॥

त्वमादित्यपथादूर्ध्वं ज्योतिषां चोपरि स्थितः ।
तमश्चोत्सार्य वपुषा भासयस्यखिलं जगत्॥६॥

श्वेतभानुर्हिमतनुर्ज्योतिषामधिपः शशी ।
अब्दकृत्कालयोगात्मा ईज्यो यज्ञरसोऽव्ययः॥७॥

यज्ञरसः सोमरसाहुतिपूर्वकेण वर्षादिरूपेण। “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः" इति स्मृतेः। अव्ययः प्रवाहनित्यः॥७॥

ओषधीशः क्रियायोनिरम्भोयोनिरनुष्णभाक् ।
शीतांशुरमृताधारश्चपलः श्वेतवाहनः॥८॥

अम्भोयोनिरिति यज्ञरसत्वोपादानम्॥८॥

त्वं कान्तिः कान्तवपुषां त्वं सोमः सोमवृत्तिनाम् ।
सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वमृक्षराट्॥९॥

सोमवृत्तीनां सोमजीविकानां देवानाम्॥९॥

तद्गच्छ त्वं सहानेन वरुणेन वरूथिना ।
शमयस्वासुरीं मायां यया दह्याम सङ्गरे॥१०॥

वरूथिना सेनावता॥१०॥

सोम उवाच। यन्मां वदसि युद्धार्थे देवराज जगत्पते ।
एष वर्षामि शिशिरं दैत्यमायापकर्षणम्॥११॥

एतान्मच्छीतनिर्दग्धान्पश्य त्वं हिमवेष्टितान् ।
विमायान्विमदांश्चैव दानवांस्त्वं महामृधे॥१२॥

वैशम्पायन उवाच। ततो हिमकरोत्सृष्टाः सुबाष्पा हिमवृष्टयः ।
वेष्टयन्ति स्म तान्घोरान्दैत्यान्मेघगणा इव॥१३॥

तौ पाशशुक्लांशुधरौ वरुणेन्दू महारणे ।
जघ्नतुर्हिमपातैश्च पातघातैश्च दानवान्॥१४॥

द्वावम्बुनाथौ समरे तौ पाशहिमयोधिनौ ।
मृधे चेरतुरम्भोभिः क्षुब्धाविव महार्णवौ॥१५॥

ताभ्यामाप्लावितं सैन्यं तद्दानवमदृश्यत ।
जगत्संवर्तकाम्बोधैः प्रवृष्टैरिव संवृतम्॥१६॥

प्रवृष्टैः प्रकृष्टवर्षेः संवृतं व्याप्तम्॥१६॥

तावुद्यतांशुपाशौ द्वौ शशाङ्कवरुणौ रणे ।
शमयामासतुर्मायां देवौ दैतेयनिर्मिताम्॥१७॥

शीतांशुजलनिर्दग्धाः पाशैश्च प्रसिता रणे ।
न शेकुश्चलितुं दैत्या विशिरस्का इवाद्रयः॥१८॥

प्रसिताः बद्धाः॥१८॥

शीतांशुनिहतास्ते तु पेतुर्दैत्या हिमार्दिताः ।
हिमप्रावृतसर्वाङ्गा निरूष्माण इवाग्नयः॥१९॥

तेषां तु दिवि दैत्यानां विपरीतप्रभाणि च ।
विमानानि विचित्राणि निपतन्त्युत्पतन्ति च॥२०॥

तान्पाशहस्तग्रथिताञ्च्छादितान्हिमरश्मिना ।
मयो ददर्श मायावी दानवान्दिवि दानवः॥२१॥

पाशहस्तेन वरुणेन ग्रथितान् बद्धान् स्यूतान् मयो ददर्श। मायां च और्वी नष्टां ददर्शेत्यध्याहृत्य योज्यम्॥२१॥

स शिलाजालविततां गण्डशैलाट्टहासिनीम् ।
पादपोत्कटकूटाग्रां कन्दराकीर्णकाननाम्॥२२॥

सः मायां ससृजे इति तृतीयेन सम्बन्धः॥२२॥

सिंहव्याघ्रगजाकीर्णां नदन्तीमिव यूथपैः ।
ईहामृगगणाकीर्णां पवनाघूर्णितद्रुमाम्॥२३॥

निर्मितां स्वेन पुत्रेण क्रौञ्चेन दिवि कामगाम् ।
प्रसृतां पार्वतीं मायां ससृजे दानवोत्तमः॥२४॥

साश्मशब्दैः शिलावर्षैः सम्पतद्भिश्च पादपैः ।
निजघ्ने देवसङ्घांस्तान्दानवांश्चाप्यजीवयत्॥२५॥

दानवोत्तमः देवगणान् किरन् दानवानजीवयत् इति सम्बन्धः॥२५॥

नैशाकरी वारुणी च मायेन्तर्दधतस्ततः ।
अश्मभिश्चायसघनैः किरन्देवगणान्रणे॥२६॥

मायेन्तरिति सन्धिरार्षः॥२६॥

साश्मसङ्घातविषमा द्रुमपर्वतसङ्कटा ।
अभवद्घोरसञ्चारा पृथिवी पर्वतैरिव॥२७॥

नानाहतोऽश्मभिः कश्चिच्छिलाभिश्चाथ ताडितः ।
नानिरुद्धो द्रुमगणैर्देवोऽदृश्यत संयुगे॥२८॥

तदपभ्रष्टधनुषं भग्नप्रहरणाविलम् ।
निष्प्रयत्नं सुरानीकं वर्जयित्वा गदाधरम्॥२९॥

स हि युद्धगतः श्रीमानीशो न स्म व्यकम्पत ।
सहिष्णुत्वाज्जगत्स्वामी न चुक्रोध गदाधरः॥३०॥

कालज्ञः कालमेघाभः समैक्षत्कालमाहवे ।
देवासुरविमर्दं स द्रष्टुकामो जनार्दनः॥३१॥

ततो भगवताऽऽदिष्टौ रणे पावकमारुतौ ।
शमनार्थं प्रवृद्धाया मायाया मयसृष्टया॥३२॥

मयसृष्टयेति षष्ठ्याः सुपां सुलुगित्ययादेश इति प्राञ्चः। गौडास्तु- मायाया मयसृष्टायाः प्रवृद्धायाः शमाय वा इत्येव पदं व्युत्क्रमेण पठन्ति॥३२॥

ततः प्रवृद्धावन्योन्यं प्रवृद्धौ ज्वालवाहिनौ ।
चोदितौ विष्णुवाक्येन तां मायां व्यपकर्षताम्॥३३॥

व्यपकर्षतां दूरीकृतवन्तौ। अडभाव आर्षः॥३३॥

ताभ्यामुद्भ्रान्तवेगाभ्यां प्रवृद्धाभ्यां महाहवे ।
दग्धा सा पार्वती माया भस्मीभूता ननाश ह॥३४॥

उद्भ्रान्ते पादे घृष्ट्वा रज्जुखण्डवत् शत्रोर्भ्रामणे वेगो ययोस्ताभ्याम् अत एव प्रवृद्धाभ्याम्॥३४॥

सोऽनिलोऽनलसंयुक्तः सोऽनलश्चानिलाकुलः ।
दैत्यसेनां ददहतुर्युगान्तेष्विव मूर्च्छितौ॥३५॥

वायुः प्रधावितस्तत्र पश्चादग्निश्च मारुतात् ।
चेरतुर्दानवानीके क्रीडन्तावनलानिलौ॥३६॥

भस्मावयवभूतेषु प्रपतत्सूत्पतत्सु च ।
दानवेषु विनष्टेषु कृतकर्मणि पावके॥३७॥

भस्मावयवभूतेषु भस्मलेशतां प्राप्तेषु॥३७॥

वातस्कन्धापविद्धेषु विमानेषु समन्ततः ।
मायाबन्धे विनिर्वृत्ते स्तूयमाने गदाधरे॥३८॥

अपविद्धेषु पातितेषु॥३८॥

निष्प्रयत्नेषु दैत्येषु त्रैलोक्ये मुक्तबन्धने ।
सम्प्रहृष्टेषु देवेषु साधु साध्विति सर्वशः॥३९॥

जये दशशताक्षस्य मयस्य च पराजये ।
दिक्षु सर्वासु शुद्धासु प्रवृत्ते धर्मसंस्तरे॥४०॥

अपावृत्ते चन्द्रपथे अयनस्थे दिवाकरे ।
प्रकृतिस्थेषु लोकेषु नृषु चारित्रबन्धुषु॥४१॥

चारित्रबन्धुषु सदाचारप्रियेषु॥४१॥

अभिन्नबन्धने मृत्यौ हूयमाने हुताशने ।
यज्ञभागिषु देवेषु स्वर्गार्थं दर्शयत्सु च॥४२॥

अभिन्नबन्धने नियतमर्यादे॥४२॥

लोकपालेषु सर्वेषु दिक्षु संयानवर्तिषु ।
भावे तपसि शुद्धानामभावे दुष्टकर्मिणाम्॥४३॥

संयानं सम्यगभयेन प्रचरणं तेन वर्तिषु वर्तमानेषु। भावे अभ्युदेय॥४३॥

देवपक्षे प्रमुदिते दैत्यपक्षे विषीदति ।
त्रिपादविग्रहे धर्मे अधर्मे पादविग्रहे॥४४॥

अपावृते महाद्वारे वर्तमाने च सत्पथे ।
स्वधर्मस्थेषु वर्णेषु लोकेऽस्मिन्नाश्रमेषु च॥४५॥

प्रजारक्षणयुक्तेषु भ्राजमानेषु राजसु ।
गीयमानासु गाथासु देवसंस्तवनादिषु॥४६॥

प्रशान्तकलुषे लोके शान्ते तपसि दारुने ।
अग्निमारुतयोस्तस्मिन्वृत्ते सङ्ग्रामकर्मणि॥४७॥

तन्मयास्तत्प्रधानाः जयनं कृतं प्रियं येषां ते जयकृतप्रियाः। क्रिया इति पाठे चयकृतपदं कृतजयक्रिया इति व्याख्येयम्॥४७॥

तन्मया विमला लोकास्ताभ्यां जयकृतप्रियाः ।
पूर्वदेवभयं श्रुत्वा मारुताग्निकृतं महत् ।
कालनेमिरिति ख्यातो दानवः प्रत्यदृश्यत॥४८॥

पूर्वदेवानां दैत्यानाम् आगतं भयं पूर्वदेवभयम्॥४८॥

भास्कराकारमुकुटः शिञ्जिताभरणाङ्गदः ।
मन्दराचलसङ्काशो महारजतसंवृतः॥४९॥

शिञ्जितानि शब्दवन्ति आभरणानि नूपुरादीनि तत्सहितानि अङ्गदानि यस्य॥४९॥

शतप्रहरणोदग्रः शतबाहुः शताननः ।
शतशीर्षा स्थितः श्रीमाञ्छतशृङ्ग इवाचलः॥५०॥

कक्षे महति संवृद्धो हिमान्त इव पावकः॥५१॥

कक्षे वने हिमान्ते ग्रीष्मे निदाघ इवेति पाठः॥५१॥

धूम्रकेशो हरिच्छ्मश्रुर्दंष्ट्रालोष्टपुटाननः ।
त्रैलोक्यान्तरविस्तारो धारयन्विपुलं वपुः॥५२॥

दंष्ट्रालं बहिर्निर्गतदंष्ट्रम् ओष्ठपुटं दंष्ट्रालोष्ठपुटमाननं यस्य स दंष्ट्राकोष्ठपुटाननः॥५२॥

बाहुभिस्तुलयन्व्योम क्षिपन्पद्भ्यां महीधरान् ।
ईरयन्मुखनिःश्वासैर्वृष्टिमन्तो बलाहकाः॥५३॥

वृष्टिमन्तः। नुम् छान्दसः। वृष्टियुक्तानित्यर्थः॥५३॥

तिर्यगायतरक्ताक्षं मन्दरोदग्रवर्चसम् ।
दिधक्षन्तमिवायान्तं सर्वान्देवगणन्मृधे॥५४॥

मन्दरोदग्रवर्चसं स्वर्गश्रेष्ठ इन्द्रः तद्वद्वर्चो दीप्तिर्यस्य इन्द्रतुल्यमित्यर्थः। “मन्दरो मन्थशैले स्यात्स्वर्गमन्दारयोरपि। (रान्तवर्गे १९६)” इति मेदिनी॥५४॥

तर्जयन्तं सुरगणांश्छादयन्तं दिशो दश ।
संवर्तकाले क्षुधितं दृप्तं मृत्युमिवोत्थितम्॥५५॥

सुतलेनोच्छ्रितवता विपुलाङ्गुलिपर्वणा ।
माल्याभरणपूर्णेन किञ्चिच्चलितवर्मणा॥५६॥

उच्छ्रितेनाग्रहस्तेन दक्षिणेन वपुष्मता ।
दानवान्देवनिहतानुत्तिष्ठध्वमिति ब्रुवन्॥५७॥

तं कालनेमिं समरे द्विषतां कालसन्निभम् ।
वीक्षन्ति स्म सुराः सर्वे भयविक्लवमानसाः॥५८॥

तं स्म वीक्षन्ति भूतानि क्रमन्तं कालनेमिनम् ।
त्रिविक्रमं विक्रमन्तं नारायणमिवापरम्॥५९॥

सोच्छ्रयन्प्रथमं पादं मारुताघूर्णिताम्बरः ।
प्राक्रामदसुरो युद्धे त्रासयन्सर्वदेवताः॥६०॥

सोच्छ्रयन् सः उच्छ्रयन्निति छेदः। पादपूरणार्थः सुलोपः॥६०॥

समयेनासुरेन्द्रेण परिष्वक्तः क्रमन्रणे ।
कलनेमिर्बभौ दैत्यः सविष्णुरिव मन्दरः॥६१॥

मयेन परिष्वक्तः॥६१॥

अथ विव्यथिरे देवाः सर्वे शक्रपुरोगमाः ।
दृष्ट्वा कालमिवायान्तं कालनेमिं भयावहम्॥६२॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि कालनेमिप्रक्रमणे षड्चत्वारिंशोऽध्यायः॥४६॥
कालनेमिपराक्रमः

वैशम्पायन उवाच। दानवांश्चापि पिप्रीषुः कालनेमिर्महासुरः ।
व्यवर्धत महातेजास्तपान्ते जलदो यथा॥१॥

सप्ताधिके तु चत्वारिंशकेऽध्याये निरूप्यते। कालनेमिसमुद्योगस्त्रिलोकीशासनक्षमः॥१॥ दानवान् पिप्रीषुः आप्यायितुमिच्छुः। प्रीञ् तर्पणेऽस्य रूपम्। तपान्ते ग्रष्मिान्ते॥१॥

त्रैलोक्यान्तर्गतं तं तु दृष्ट्वा ते दानवेश्वराः ।
उत्तस्थुरपरिश्रान्ताः प्राप्येवामृतमुत्तमम्॥२॥

ते भीता भयसन्त्रस्ता मयतारपुरोगमाः ।
तारकामयसङ्ग्रामे सततं जयकाङ्क्षिणः ।
रेजुरायोधनगता दानवा युद्धकाङ्क्षिणः॥३॥

ते पूर्वं भयसंत्रस्ता अपि पश्चादभीताः। वीतभयसंत्रासा इति पाठे भाविनी आत्मोच्छेदशङ्का सम्भासः सैव तात्कालिकी तारकामयसङ्ग्रामे तारानिमित्तप्रवृते युद्धे॥३॥

अस्त्रमभ्यस्यतां तेषां व्यूहं च परिधावताम् ।
प्रेक्षतां चाभवत्प्रीतिर्दानवं कालनेमिनम्॥४॥

अभ्यस्यतां पुनः पुनः॥४॥

ये तु तत्र मयस्यासन्मुख्या युद्धपुरस्सराः ।
तेऽपि सर्वे भयं त्यक्त्वा हृष्टा योद्धुमुपस्थिताः॥५॥

मयस्तारो वराहश्च हयग्रीवश्च वीर्यवान् ।
विप्रचित्तसुतः श्वेतः खरलम्बावुभावपि॥६॥

अरिष्टो बलिपुत्रस्तु किशोरोष्ट्रौ तथैव च ।
स्वर्भानुश्चामरप्रख्यो वक्त्रयोधी महासुरः॥७॥

एतेऽस्त्रविदुषः सर्वे सर्वे तपसि सुव्रताः ।
दानवाः कृतिनो जग्मुः कालनेमिनमुत्तमम्॥८॥

अस्त्रविदुषः अस्त्रविद्वांसः॥८॥

ते गदाभिश्च गुर्वीभिश्चक्रैश्च सपरश्वधैः ।
अश्मभिश्चाद्रिसदृशैर्गण्डशैलैश्च दंशितैः॥९॥

गदादिभिरुपलक्षिताः सन्तो योद्धुं जग्मुरित्यनुषञ्जनीयम्॥९॥

पट्टिशैर्भिन्दिपालैश्च परिघैश्चोत्तमायुधैः ।
घातनीभिश्च गुर्वीभिः शतघ्नीभिस्तथैव च॥१०॥

कालकल्पैश्च मुसलैः क्षेपणीयैश्च मुद्गरैः ।
युगैर्यन्त्रैश्च निर्मुक्तैरर्गलैश्चाग्रताडितैः॥११॥

दोर्भिश्चायतपीनांसैः पाशैः प्रासैश्च मूर्च्छितैः ।
सर्पैर्लेलिह्यमानैश्च विसर्पद्भिश्च सायकैः॥१२॥

वज्रैः प्रहरणीयैश्च दीप्यमानैश्च तोमरैः ।
विकोशैश्चासिभिस्तीक्ष्णैः शूलैश्च शितनिर्मलैः॥१३॥

ते वै सन्दीप्तमनसः प्रगृहीतोत्तमायुधाः ।
कालनेमिं पुरस्कृत्य तस्थुः सङ्ग्राममूर्धनि॥१४॥

सा दीप्तशस्त्रप्रवरा दैत्यानां शुशुभे चमूः ।
द्यौर्निमीलितनक्षत्रा सघनेवाम्बुदागमे॥१५॥

दीप्तशस्त्राण्येव प्रवराः विद्युतो यस्याम् प्रचरेति युक्तः पाठः। निमीलितान्यस्तङ्गतानि नक्षत्राणि देवतारूपाणि यस्याम्॥१५॥

देवतानामपि चमू रुरुचे शक्रपालिता ।
दीप्ता शीतोष्णतेजोभ्यां चन्द्रभास्करवर्चसा॥१६॥

वायुवेगवती सौम्या तारागणपताकिनी ।
तोयदाविद्धवसना ग्रहनक्षत्रहासिनी॥१७॥

यमेन्द्रधनदैर्गुप्ता वरुणेन च धीमता ।
सम्प्रदीप्ताग्निपवना नारायणपरायणा॥१८॥

सा समुद्रौघसदृशी दिव्या देवमहाचमूः ।
रराजास्त्रवती भीमा यक्षगन्धर्वशालिनी॥१९॥

तयोश्चम्वोस्तदा तत्र बभूव स समागमः ।
द्यावापृथिव्योः संयोगो यथा स्याद्युगपर्यये॥२०॥

तद्युद्धमभवद्घोरं देवदानवसङ्कुलम् ।
क्षमापराक्रममयं दर्पस्य विनयस्य च॥२१॥

दर्पस्य क्षमापराक्रममयं विनयस्य च क्षमापराक्रममयमिति योजना। दृप्तेषु दैत्येषु देवानां क्षमापूर्वकः पराक्रमस्तद्वधान्तः विनीतेषु देवेषु दैत्यानां पराक्रमपूर्विका क्षमा देवेन्द्रैश्वर्यसहनान्ता॥२१॥

निश्चक्रमुर्बलाभ्यां तु ताभ्यां भीमाः सुरासुराः ।
पूर्वापराभ्यां संरब्धाः सागराभ्यामिवाम्बुदाः॥२२॥

भीमाः निर्भयाः॥२२॥

ताभ्यां बलाभ्यां संहृष्टाश्चेरुस्ते देवदानवाः ।
वनाभ्यां पार्वतीयाभ्यां पुष्पिताभ्यां यथा गजाः॥२३॥

समाजग्मुस्ततो भेरीः शङ्खान्दध्मुश्च नैकशः ।
स शब्दो द्यां भुवं चैव दिशश्च समपूरयत्॥२४॥

ज्याघाततलनिर्घोषो धनुषां कूजितानि च ।
दुन्दुभीनां निनदतां दैत्यानां निर्दधुः स्वनान्॥२५॥

दैत्यानां स्वनान् निर्दधुः अन्तर्हितांश्चक्रुः दैत्यमन्तर्दधुः स्वनमिति पाठे दैत्यानामिमं दैत्यमित्यर्थः॥२५॥

तेऽन्योन्यमभिसम्पेतुः पातयन्तः परस्परम् ।
बभञ्जुर्बाहुभिर्बाहून्द्वन्द्वमन्ये युयुत्सवः॥२६॥

देवतास्त्वशनीर्घोराः परिघांश्चोत्तमायसान् ।
ससर्जुराजौ निस्त्रिंशान्गदा गुर्वींश्च दानवाः॥२७॥

ससर्जुः प्रत्युक्तवन्तः॥२७॥

गदानिपातैर्भग्नाङ्गा बाणैश्च शकलीकृताः ।
परिपेतुर्भृशं केचिन्न्युब्जाः केचित्ससर्जिरे॥२८॥

न्युब्जा उपरिपृष्ठाः। ससर्जिरे सृष्टाः कृता इति यावत्॥२८॥

ततो रथैः सतुरगैर्विमानैश्चाशुगामिभिः ।
समीयुस्ते तु संरब्धा रोषादन्योन्यमाहवे॥२९॥

संवर्तमानाः समरे विवर्तन्तस्तथापरे ।
रथा रथैर्निरुध्यन्ते पदाताश्च पदातिभिः॥३०॥

संवर्तमानाः सम्मुखं गच्छन्तः विवर्तमानाः परावर्तन्तः॥३०॥

तेषां रथानां तुमुलः स शब्दः शब्दवाहिनाम् ।
बभूवाथ प्रशक्तानां नभसीव पयोमुचाम्॥३१॥

बभञ्जिरे रथान्केचित्केचित्सम्मृदिता रथैः ।
सम्बाधमेके सम्प्राप्य न शेकुश्चलितुं रथाः॥३२॥

अन्योन्यस्याभिसमरे दोर्भ्यामुत्क्षिप्य दर्पिताः ।
संह्रादमानाभरणा जघ्नुस्तत्रासिचर्मिणः॥३३॥

अन्योन्यस्य देहं दोर्भ्याम् उत्क्षिप्य निवार्य जग्मुः॥३३॥

अस्त्रैरन्ये विनिर्भिन्ना रक्तं वेमुर्हता युधि ।
क्षरज्जलानां सदृशा जलदानां समागमे॥३४॥

तदस्त्रशस्त्रग्रथितं क्षिप्तोत्क्षिप्तगदाविलम् ।
देवदानवसंक्षुब्धं सङ्कुलं युद्धमाबभौ॥३५॥

तद्दानवमहामेघं देवायुधतडित्प्रभम् ।
अन्योन्यबाणवर्षं तद्युद्धं दुर्दिनमाबभौ॥३६॥

एतस्मिन्नन्तरे क्रुद्धः कालनेमिर्महासुरः ।
व्यवर्धत समुद्रौघैः पूर्यमाण इवाम्बुदः॥३७॥

कालनेमिः हिरण्यकशिपोः पुत्रः। पितरं मे जघानैक इति वाक्यशेषात्। अम्बुदो वृत्तिरूपत्त्वात् पूर्यमाणो विवर्धते॥३७॥

तस्य विद्युच्चलापीडाः प्रदीप्ताशनिवर्षिणः ।
गात्रे नगशिरःप्रख्या विनिष्पेषुर्बलाहकाः॥३८॥

गात्रे विनिष्पेषुः गात्रसङ्गमात्रात् चूर्णीभूता इत्यर्थः॥३८॥

क्रोधान्निःश्वसतस्तस्य भूभेदस्वेदवर्षिणः ।
साग्निनिष्पेषपवना मुखान्निश्चेरुरर्चिषः॥३९॥

अस्य मेधेन साम्यमापादयति- क्रोधादिति। निष्पिनष्टीति निष्पेषः पेषणकर्ता अग्निरूपो निष्पेषोऽशनिः तन्मिश्रः पवनो यासु ताः अर्चिषः॥३९॥

तिर्यगूर्ध्वं च गगने ववृधुस्तस्य बाहवः ।
पञ्चास्याः कृष्णवपुषो लेलिहाना इवोरगाः॥४०॥

सोऽस्त्रजालैर्बहुविधैर्धनुर्भिः परिघैरपि ।
दिव्यैराकाशमावव्रे पर्वतैरुच्छ्रितैरिव॥४१॥

क्रियां युद्धादिरूपाम्॥४१॥

सोऽनिलोद्भूतवसनस्तस्थौ सङ्ग्राममूर्धनि ।
सन्ध्यातपग्रस्तशिखः सार्चिर्मेरुरिवापरः॥४२॥

ग्रस्तशिखः मेरुणा दैत्यस्य उद्भूतवसनेन मेरुस्थरत्नभासां च साम्यम्॥४२॥

ऊरुवेगप्रतिक्षिप्तैः शैलशृङ्गाग्रपादपैः ।
अपातयद्देवगणान्वज्रेणेव महागिरीन्॥४३॥

बाहुभिः शस्त्रनिस्त्रिंशैश्छिन्नभिन्नशिरोरसः ।
न शेकुश्चलितुं देवाः कालनेमिहता युधि॥४४॥

शस्त्राः विशसनकर्तारः निस्त्रिंशाः खड्गा येषु तैः बाहुभिः। बलिभिः इति वा पाठः॥४४॥

मुष्टिभिर्निहताः केचित्केचिच्च विदलीकृताः ।
यक्षगन्धर्वपतयः पेतुः सह महोरगैः॥४५॥

तेन वित्रासिता देवाः समरे कालनेमिना ।
न शेकुर्यत्नवन्तोऽपि प्रतिकर्तुं विचेतसः॥४६॥

तेन शक्रः सहस्राक्षः स्तम्भितः शरबन्धनैः ।
ऐरावतगतः सङ्ख्ये चलितुं न शशाक ह॥४७॥

स्तम्भितः बद्धः॥४७॥

निर्जलाम्भोदसदृशो निर्जलार्णवसप्रभः ।
निर्व्यापारः कृतस्तेन विपाशो वरुणो मृधे॥४८॥

रणे वैश्रवणस्तेन परिघैः कालरूपिभिः ।
व्यलभल्लोकपालेशास्त्याजितो धनदक्रियाम्॥४९॥

यमः सर्वहरस्तेन दण्डप्रहरणो रणे ।
याम्यामवस्थां समरे नीतः स्वां दिशमाविशत्॥५०॥

याम्याम् इतरेषां यमेन सम्पादनीयाम्। अचेतनतामिति यावत्॥५०॥

स लोकपालानुत्साद्य कृत्वा तेषां च कर्म तत् ।
दिक्षु सर्वासु देहं स्वं चतुर्धा विदधे तदा॥५१॥

तेषां तत्कर्म दिशां पालनं कृत्वा कुर्वन् चतुर्द्धा देहं विदधे। “अन्येभ्योऽपि दृश्यन्ते" इति कृञः कर्तरि वनिप् तुगागमश्च॥५१॥

स नक्षत्रपथं गत्वा दिव्यं स्वर्भानुदर्शितम् ।
जहार लक्ष्मीं सोमस्य तं चास्य विषयं महत्॥५२॥

चालयामास शीतांशुं स्वर्गद्वाराच्च भास्करम् ।
सायनं चास्य विषयं जहार दिनकर्म च॥५३॥

सोऽग्निं देवमुखे दृष्ट्वा चकारात्ममुखे स्वयम् ।
वायुं च तरसा जित्वा चकारात्मवशानुगम्॥५४॥

स समुद्रास्तमानीय सर्वाश्च सरितो बलात् ।
चकारात्मवशे वीर्याद्देहभूताश्च सिन्धवः॥५५॥

अपः स्ववशगाः कृत्वा दिविजा याश्च भूमिजाः ।
स्थापयामास जगतीं सुगुप्तां धरणीधरैः॥५६॥

स स्वयम्भूरिवाभाति महाभूतपतिर्महान् ।
सर्वलोकमयो दैत्यः सर्वलोकभयावहः॥५७॥

स लोकपालैकवपुश्चन्द्रसूर्यग्रहात्मवान् ।
पावकानिलसङ्घातो रराज युधि दानवः॥५८॥

पारमेष्ठ्ये स्थितः स्थाने लोकानां प्रभवात्यये ।
तुष्टुवुस्तं दैत्यगणा देवा इव पितामहम्॥५९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि आश्चर्यतारकामये सप्तचत्वारिंशोऽध्यायः॥४७॥
कालनेमिवधः

वैशम्पायन उवाच। पञ्च तं नाभ्यवर्तन्त विपरीतेन कर्मणा ।
वेदो धर्मः क्षमा सत्यं श्रीश्च नारायणाश्रया॥१॥

कालनेमिवधः प्रोक्तश्चत्वारिंशेऽष्टसंयुते। इन्द्रादीनां निजस्थानस्थापनं विष्णुना कृतम्॥१॥ पञ्चेति। विपरीतेन असात्विकेन कर्मणा न अभ्यवर्तन्त नोपतस्थुः॥१॥

स तेषामनुपस्थानात्सक्रोधो दानवेशवरः ।
वैष्णवं पदमन्विच्छन्ययौ नारायणान्तिकम्॥२॥

तेषां वेदादीनाम्॥२॥

स ददर्श सुपर्णस्थं शङ्खचक्रगदाधरम् ।
दानवानां विनाशाय भ्रामयन्तं गदां शुभाम्॥३॥

सजलाम्भोदसदृशं विद्युत्सदृशवाससम् ।
स्वारूढं स्वर्णपत्राढ्यं शिखिनं काश्यपं खगम्॥४॥

स्वारूढं शिखिनं चूडामन्तम्॥४॥

दृष्ट्वा दैत्यविनाशाय रणे स्वस्थमवस्थितम् ।
दानवो विष्णुमक्षोभ्यं बभाषे क्षुब्धमानसः॥५॥

अयं स रिपुरस्माकं पूर्वेषां दानवर्षिणाम् ।
अर्णवावासिनश्चैव मधोर्वै कैटभस्य च॥६॥

दानवर्षिणामित्यार्षो दैर्घ्याभावः। दानैः वर्षणशीलानामिति वा॥६॥

अयं सविग्रहोऽस्माकमशाम्यः किल कथ्यते ।
येन नः संयुगेष्वाद्या बहवो दानवा हताः॥७॥

अशाम्यः शमयितुमशक्यः॥७॥

अयं स निर्घृणो युद्धेऽस्त्री बालनिरपत्रपः ।
येन दानवनारीणां सीमन्तोद्धरणं कृतम्॥८॥

निर्घृणो निर्दयः अस्त्री अस्त्रमान् बालवन्निर्लज्जश्च सीमन्तस्य केशवेशस्य उद्धरणं मुण्डनमित्यर्थः॥८॥

अयं स विष्णुर्देवानां वैकुण्ठश्च दिवौकसाम् ।
अनन्तो भोगिनामप्सु स्वयम्भूश्च स्वयम्भुवः॥९॥

देवानाम् अदितिपुत्राणां मध्ये विष्णुर्वामनः दिवौकसां वसुरुद्रादीनां वैकुण्ठः कल्पान्तेऽप्यकुण्ठितधामा अनन्तः शेषः स्वयम्भुवः ब्रह्मणोऽपि स्वयम्भुः धातुर्धातेत्यर्थः॥९॥

अयं स नाथो देवानामस्माकं विप्रिये स्थितः ।
अस्य क्रोधेन महता हिरण्यकशिपुर्हतः॥१०॥

अस्य छायां समासाद्य देवा मखमुखे स्थिताः ।
आज्यं महर्षिभिर्दत्तमश्नुवन्ति त्रिधा हुतम्॥११॥

छायां पक्षे कोटिं त्रिधा अङ्गप्रधानप्रायश्चित्तभेदेन त्रिप्रकारं नित्यनैमित्तिककाम्यभेदेन वा गार्हपत्याद्युपाधिभेदेनेति प्राञ्चः॥११॥

अयं स निधने हेतुः सर्वेषां देवविद्विषाम् ।
यस्य तेजाःप्रविष्टानि कुलान्यस्माकमाहवे॥१२॥

अयं स किल युद्धेषु सुरार्थे त्यक्तजीवितः ।
सवितुस्तेजसा तुल्यं चर्क्रं क्षिपति शत्रुषु॥१३॥

अयं स कालो दैत्यानां कालभूते मयि स्थिते ।
अतिक्रान्तस्य कालस्य फलं प्राप्स्यति दुर्मतिः॥१४॥

अतिक्रान्तस्य कालस्य अतिक्रान्ते काले कृतस्य दैत्यवधस्य फलम् आत्मवधम्॥१४॥

दिष्ट्येदानीं समक्षं मे विष्णुरेष समागतः ।
अद्य मद्बाणनिष्पिष्टो मामेव प्रणमिष्यति॥१५॥

यास्याम्यपचितिं दिष्ट्या पूर्वेषामद्य संयुगे ।
इमं नारायणं हत्वा दानवानां भयावहम्॥१६॥

क्षिप्रमेव वधिष्यामि रणे नारायणाश्रितान् ।
जात्यन्तरगतोऽप्येष मृधे बाधति दानवान्॥१७॥

जात्यन्तरं मत्स्यादिरूपम्॥१७॥

एषोऽनन्थः पुरा भूत्वा पद्मनाभ इति स्मृतः ।
जघानैकार्णवे घोरे तावुभौ मधुकैटभौ ।
विनिवेश्य स्वके ऊरौ निहतौ दानवेश्वरौ॥१८॥

अनन्तः आकाशवत् व्यापको मूर्तिरहितोऽपि भूत्वा आविर्भूय। पद्मनाभत्वेन रूपेण तन्नाम्ना च ख्यात इत्यर्थः॥१८॥

द्विधाभूतं वपुः कृत्वा सिंहार्धं नरसंस्थितम् ।
पितरं मे जघानैको हिरण्यकशिपुं पुरा॥१९॥

शुभं गर्भमधत्तेममदितिर्देवतारणिः ।
यज्ञकाले बलेर्यो वै कृत्वा वामनरूपताम् ।
त्रीँल्लोकानाजहारैकः क्रममाणस्त्रिभिः क्रमैः॥२०॥

देवतानाम् अरणिरिव मातेत्यर्थः॥२०॥

भूयस्त्विदानीं समरे सम्प्राप्ते तारकामये ।
मया सह समागम्य सह देवैर्विनङ्क्ष्यति॥२१॥

विनङ्क्ष्यति अदर्शनं गमिष्यति तथा जन्मान्तरेऽप्यनेन सह वैरं भविष्यत्येवेत्यर्थः॥२१॥

स एवमुक्त्वा बहुधा क्षिपन्नारायणं रणे ।
वाग्भिरप्रतिरूपाभिर्युद्धमेवाभ्यरोचयत्॥२२॥

क्षिप्यमाणोऽसुरेन्द्रेण न चुकोप गदाधरः ।
क्षमाबलेन महता सस्मितं वाक्यमब्रवीत्॥२३॥

अल्पदर्पबलो दैत्यः स्थितः क्रोधादसद्वदन् ।
हतस्त्वमात्मनो दोषैः क्षमां योऽतीत्य भाषसे॥२४॥

दैत्यत्वम् अल्पदर्पबलोऽपि क्रोधादसद्वदन् स्थितः क्षमामतीत्य च भाषसे अतस्त्वमात्मनो दोषैरेव हतः॥२४॥

अधमस्त्वं मम मतो धिगेतत्तव वाग्बलम् ।
न तत्र पुरुषाः सन्ति यत्र गर्जन्ति योषितः॥२५॥

न तत्रेति। योषितः पुरस्तात् गर्जनं न मरणावहं तत्र पुरुषान्तराभावात्। अत्र रणे तु तत्सत्त्वात्तव मृत्युरेवास्तीति भावः॥२५॥

अहं त्वां दैत्य पश्यामि पूर्वेषां मार्गगामिनम् ।
प्रजापतिकृतं सेतुं को भित्त्वा स्वस्तिमान्भवेत्॥२६॥

तदेवाह- अहमिति। सेतुं धर्ममर्यादाम्। स्वस्तिमान् कुशली॥२६॥

अद्य त्वां नाशयिष्यामि देवव्यापारकारकम् ।
स्वेषु स्वेषु च स्थानेषु स्थापयिष्यामि देवताः॥२७॥

व्यापारः स्वास्थ्यप्रच्युतिः॥२७॥

वैशम्पायन उवाच। एवं ब्रुवति तद्वाक्यं मृधे श्रीवत्सधारिणि ।
जहास दानवः क्रोधाद्धस्तांश्चक्रे च सायुधान्॥२८॥

स बाहुशतमुद्यम्य सर्वास्त्रग्रहणं रणे ।
क्रोधाद्द्विगुणरक्ताक्षो विष्णुं वक्षस्यताडयत्॥२९॥

दानवाश्चापि समरे मयतारपुरोगमाः ।
उद्यतायुधनिस्त्रिंशादृष्ट्वा विष्णुमथाद्रवन्॥३०॥

स ताड्यमानोऽतिबलैर्दैत्यैः सर्वायुधोद्यतैः ।
न चचाल हरिर्युद्धेऽकम्प्यमान इवाचलः॥३१॥

संसक्तश्च सुपर्णेन कालनेमी महासुरः ।
सर्वप्राणेन महतीं गदामुद्यम्य बाहुभिः॥३२॥

सर्वप्राणेन सर्वबलेन॥३२॥

मुमोच ज्वलितां घोरां संरब्धो गरुडोपरि ।
कर्मणा तेन दैत्यस्य विष्णुर्विस्मयमागतः॥३३॥

यदा तस्य सुपर्णस्य पतिता मूर्ध्नि सा गदा ।
तदागमत्पदा भूमिं पक्षी व्यथितविग्रहः॥३४॥

सुपर्णं व्यथितं दृष्ट्वा क्षतं च वपुरात्मनः ।
क्रोधात्संरक्तनयनो वैकुण्ठश्चक्रमाददे॥३५॥

आत्मनो वपुः देहान्तरं गरुडरूपम्॥३५॥

व्यवर्धत च वेगेन सुपर्णेन समं प्रभुः ।
भुजाश्चास्य व्यवर्धन्त व्याप्नुवन्तो दिशो दश॥३६॥

व्यवर्धतेति॥३६॥

स दिशः प्रदिशश्चैव खं च गां चैव पूरयन् ।
ववृधे स पुनर्लोकान्क्रान्तुकाम इवौजसा॥३७॥

स इति॥३७॥

तं जयाय सुरेन्द्राणां वर्धमानं नभस्तले ।
ऋषयः सह गन्धर्वैस्तुष्टुवुर्मधुसूदनम्॥३८॥

स द्यां किरीटेन लिखन्साभ्रमम्बरमबरैः ।
पद्भ्यामाक्रम्य वसुधां दिशः प्रच्छाद्य बाहुभिः॥३९॥

अम्बरैः वस्त्रैः॥३९॥

सूर्यस्य रश्मितुल्याभं सहस्रारमरीक्षयम् ।
दीप्ताग्निसदृशं घोरं दर्शनीयं सुदर्शनम्॥४०॥

सुवर्णनेमिपर्यन्तं वज्रनाभं भयावहम् ।
मेदोमज्जास्थिरुधिरैर्दिग्धं दानवसम्भवैः॥४१॥

सुवर्णनेमिपर्यन्तं सुवर्णमयो नेमेश्चक्रधारायाः पर्यन्तः प्रान्तदेशो यस्य तत् वज्रनाभं दृढमध्यम्॥४१॥

अद्वितीयं प्रहारेशु क्षुरपर्यन्तमण्डलम् ।
स्रग्दाममालविततं कामगं कामरूपिणम्॥४२॥

स्रग्दाममालाविततं स्रग्रूपाणां दाम्नां माला परम्परा तद्वत् विततम् अलातचक्रवदतिवेगात् प्रयोक्तुर्हस्तमारभ्य लक्ष्यप्रदेशपर्यन्तम् अविच्छिन्नधारं विभातीत्यर्थः। कामरूपिणमिति। सकृत्प्रयुक्तमपि प्रयोक्तुरिच्छया स्थूलसूक्ष्मऋजुतिर्यगादिरूपाणि दधानम्। पुंस्त्वं तु सर्वत्र तदधिष्ठातृरुद्राभिप्रायेण॥४२॥

स्वयं स्वयम्भुवा सृष्टं भयदं सर्वविद्विषाम् ।
महर्षिरोषैराविष्टं नित्यमाहवदर्पितम्॥४३॥

क्षेपणाद्यस्य मुह्यन्ति लोकाः सस्थाणुजङ्गमाः ।
क्रव्यादानि च भूतानि तृप्तिं यान्ति महाहवे॥४४॥

तमप्रतिमकर्माणं समानं सूर्यवर्चसा ।
चक्रमुद्यम्य समरे क्रोधदीप्तो गदाधरः॥४५॥

सम्मुष्णन्दानवं तेजः समरे स्वेन तेजसा ।
चिच्छेद बाहुं चक्रेण श्रीधरः कालनेमिनः॥४६॥

तच्च वक्त्रशतं घोरं साग्निचूर्णाट्टहासिनम् ।
तस्य दैत्यस्य चक्रेण प्रममाथ बलाद्धरिः॥४७॥

साग्निचूर्णानि आग्नेयौषधबलेन गोलकोत्क्षेपणयन्त्राणि तेषामिव अट्टहासो महाशब्दः तद्युक्तं साग्निचूर्णाट्टहासिनं वक्रशतं पुंस्त्वमार्षम्॥४७॥

स छिन्नबाहुर्विशिरा न प्राकम्पत दानवः ।
कबन्धोऽवस्थितः सङ्ख्ये विशाख इव पादपः॥४८॥

तं वितत्य महापक्षौ वायोः कृत्वा समं जवम् ।
उरसा पातयामास गरुडः कालनेमिनम्॥४९॥

स तस्य देहो विमुखो विशाखः खात्परिभ्रमन् ।
निपपात दिवं त्यक्त्वा शोभयन्धरणीतलम्॥५०॥

तस्मिन्निपतिते दैत्ये देवाः सर्षिगणास्तदा ।
साधु साध्विति वैकुण्ठं समेताः प्रत्यपूजयन्॥५१॥

बाहुभिः दिशः प्रच्छाद्य बाहुभिरिति प्रागुक्तलक्षणैः हरेरिति शेषः। व्याप्ताः आक्रान्ताः॥५१॥

अपरे ये तु दैत्या वै युद्धे दुष्टपराक्रमाः ।
ते सर्वे बाहुभिर्व्याप्ता न शेकुश्चलितुं रणे॥५२॥

कांश्चित्केशेषु जग्राह कांश्चित्कण्ठेऽभ्यपीडयत् ।
पाटयत्कस्यचिद्वक्त्रं मध्ये कांश्चिदथाग्रहीत्॥५३॥

ते गदाचक्रनिर्दग्धा गतसत्त्वा गतासवः ।
गगनाद्भ्रष्टसर्वाङ्गा निपेतुर्धरणीतले॥५४॥

तेषु सर्वेषु दैत्येषु हतेषु पुरुषोत्तमः ।
तस्थौ शक्रप्रियं कृत्वा कृतकर्मा गदाधरः॥५५॥

तस्मिन्विमर्दे निर्वृत्ते सङ्ग्रामे तारकामये ।
तं देशमाजगामाशु ब्रह्मा लोकपितामहः॥५६॥

विमर्दे दैत्यानां विनाशे निवृत्ते जाते सति॥५६॥

सर्वैर्ब्रह्मर्षिभिः सार्धं गन्धर्वैः साप्सरोगणैः ।
देवदेवो हरिं देवं पूजयन्वाक्यमब्रवीत्॥५७॥

ब्रह्मोवाच। कृतं देव महत्कर्म सुराणां शल्यमुद्धृतम् ।
वधेनानेन दैत्यानां वयं हि परितोषिताः॥५८॥

योऽयं हतस्त्वया विष्णो कालनेमी महासुरः ।
त्वमेकोऽस्य मृधे हन्ता नान्यः कश्चन विद्यते॥५९॥

एष देवान्परिभवँल्लोकांश्च सचराचरान् ।
ऋषीणां कदनं कृत्वा मामपि प्रतिगर्जति॥६०॥

तदनेन तवोग्रेण परितुष्टोऽस्मि कर्मणा ।
यदयं कालतुल्याभः कालनेमी निपातितः॥६१॥

तदागच्छस्व भद्रं ते गच्छाम दिवमुत्तमम् ।
ब्रह्मर्षयस्त्वां तत्रस्थाः प्रतीक्षन्ते सदोगताः॥६२॥

अहं महर्षयश्चैव तत्र त्वां वदतां वर ।
विधिवच्चार्चयिष्यामो गीर्भिर्दिव्याभिरच्युत॥६३॥

किं चाहं तव दास्यामि वरं वरभृतां वर ।
सुरेष्वपि सदैत्येषु वराणां वरदो भवान्॥६४॥

निर्यातयैतत्त्रैलोक्यं स्फीतं निहतकण्टकम् ।
अस्मिन्नेव मृधे विष्णो शक्राय सुमहात्मने॥६५॥

निर्यातय प्रयच्छ। मृधे त्वयैव निहतकण्टकम्॥६५॥

एवमुक्तो भगवता ब्रह्मणा हरिरव्ययः ।
देवाञ्छक्रमुखान्सर्वानुवाच शुभया गिरा॥६६॥

विष्णुरुवाच। श्रूयतां त्रिदशाः सर्वे यावन्तोऽत्र समागताः ।
श्रवणावहितैर्देहैः पुरस्कृत्य पुरन्दरम्॥६७॥

देहैर्देहेन्द्रियादिभिः श्रवणविहितैर्मद्वाक्यश्रवणे सादरैः करणैरिन्द्रं पुरस्कृत्य मद्वाक्यं श्रूयतामित्यन्वयः॥६७॥

अस्मिन्नः समरे सर्वे कालनेमिमुखा हताः ।
दानवा विक्रमोपेताः शक्रादपि महत्तराः॥६८॥

अस्मिन्नः अस्माभिः॥६८॥

तस्मिन्महति सङ्क्रन्दे द्वावेव तु विनिस्सृतौ ।
वैरोचनश्च दैत्येन्द्रः स्वर्भानुश्च महाग्रहः॥६९॥

वैरोचनिर्बलिः स्वर्भानुः राहुः॥६९॥

तदिष्टां भजतां शक्रोदिशं वरुण एव च ।
याम्यां यमः पालयतामुत्तरां च धनाधिपः॥७०॥

ऋक्षैः सह यथायोगं काले चरतु चन्द्रमाः ।
अब्दं चतुर्मुखं सूर्यो भजतामयनैः सह॥७१॥

आज्यभागाः प्रवर्तन्तां सदस्यैरभिपूजिताः ।
हूयन्तामग्नयो विप्रैर्वेददृष्टेन कर्मणा॥७२॥

दानैश्च बलिहोमेन स्वाध्यायेन महर्षयः ।
श्राद्धेन पितरश्चैव तृप्तिं यान्तु यथा पुरा॥७३॥

वायुश्चरतु मार्गस्थस्त्रिधा दीप्यतु पावकः ।
त्रयो वर्णाश्च लोकांस्त्रीन्वर्धयन्त्वात्मजैर्गुणैः॥७४॥

त्रिधा गार्हपत्यदक्षिणाग्न्याहवनीयरूपेण आत्मजैः स्वाभाविकगुणधर्मैः शमो दमस्तपः शौचमित्यादिना गीतासूपदिष्टैः॥७४॥

क्रतवः सम्प्रवर्तन्तां दीक्षणीयैर्द्विजातिभिः ।
दक्षिणाश्चोपवर्तन्तां यथार्हं सर्वसत्रिणाम्॥७५॥

गाश्च सूर्यो रसान्सोमो वायुः प्राणांश्च प्राणिषु ।
तर्पयन्तः प्रवर्तन्तां शिवैः सौम्यैश्च कर्मभिः॥७६॥

गाः चक्षूंषि॥७६॥

यथावदानुपूर्व्येण महेन्द्रसलिलोद्भवाः ।
त्रैलोक्यमातरः सर्वाः सागरं यान्तु निम्नगाः॥७७॥

दैत्येभ्यस्त्यज्यतां भीश्च शान्तिं व्रजत देवताः ।
स्वस्ति वोऽस्तु गमिष्यामि ब्रह्मलोकं सनातनम्॥७८॥

स्वगृहे सर्वलोके वा सङ्ग्रामे वा विशेषतः ।
विश्रम्भो वो न मन्तव्यो नित्यं क्षुद्रा हि दानवाः॥७९॥

विश्रम्भः विश्वासः वः युष्माभिः क्षुद्राः वञ्चकाः॥७९॥

छिद्रेषु प्रहरन्त्येते न चैषां संस्थितिर्ध्रुवा ।
सौम्यानामृजुभावानां भवतां चार्जवे मतिः॥८०॥

संस्थितिः मर्यादा॥८०॥

अहं तु दुष्टभावानां युष्मासु सुदुरात्मनाम् ।
असम्यग्वर्तमानानां मोहं दास्यामि देवताः॥८१॥

मोहं विषयबुद्धिं यया धर्ममप्यधर्म इति त्यक्ष्यन्ति अधर्ममपि धर्म इति मत्वाऽनुष्ठास्यन्ति॥८१॥

यदा च सुदुराधर्षं दानवेभ्यो भयं भवेत् ।
तदा समुपगम्याशु विधास्ये वस्ततोऽभयम्॥८२॥

अभयमिति छेदः॥८२॥

वैशम्पायन उवाच। एवमुक्त्वा सुरगणान्विष्णुः सत्यपराक्रमः ।
जगाम ब्रह्मणा सार्धं ब्रह्मलोकं महायशाः॥८३॥

एतदाश्चर्यमभवत्सङ्ग्रामे तारकामये ।
दानवानां च विष्णोश्च यन्मां त्वं परिपृच्छसि॥८४॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि कालनेमिवधे अष्टचत्वारिंशोऽध्यायः॥४८॥
लोकवर्णनम्

जनमेजय उवाच। ब्रह्मणा देवदेवेन सार्धं सलिलयोनिना ।
ब्रह्मलोकगतो ब्रह्मन्वैकुण्ठः किं चकार ह॥१॥

पञ्चाशेऽध्याय एकोने ब्रह्मलोकस्य वर्णनम्। तत्रापि यजनं विष्णोर्मुनिभिः कृतमीर्यते॥१॥ ब्रह्मणा सलिलं सलिलाश्रयं कमलं योनिः उत्पत्तिस्थानं यस्य तेन॥१॥

किमर्थे चादिदेवेन नीतः कमलयोनिना ।
विष्णुर्दैत्यवधे वृत्ते देवैश्च कृतसत्क्रियः॥२॥

नीतो ब्रह्मलोकमित्यनुकृष्यते॥२॥

ब्रह्मलोके च किं स्थानं कं वा योगमुपास्त सः ।
कं वा दधार नियमं स विभुर्भूतभावनः॥३॥

उपास्त उपास्ते॥३॥

कथं तस्याऽऽसतस्तत्र विश्वं जगदिदं महत् ।
श्रियमाप्नोति विपुलां सुरासुरनरार्चिताम्॥४॥

आसतः आददानस्य पूजामिति शेषः। "अस(ष) गतिदीप्त्यादानेषु” (१ उ० सेट्) इत्यस्य रूपम् आसत इति॥४॥

कथं स्वपिति घर्मान्ते बुध्यते चाम्बुदप्लवे ।
कथं च ब्रह्मलोकस्थो धुरं वहति लौकिकाम्॥५॥

घर्मान्त आषाढ्याम् अम्बुदप्लवे मेघानां नाशे सति कार्तिक्यामित्यर्थः॥५॥

चरितं तस्य विप्रेन्द्र दिव्यं भगवतो दिवि ।
विस्तरेण यथातत्त्वं सर्वमिच्छामि वेदितुम्॥६॥

वैशम्पायन उवाच। शृणु नारायणस्यादौ विस्तरेण प्रवृत्तयः ।
ब्रह्मलोकं यथारूढो ब्रह्मणा सह मोदते॥७॥

प्रवृतयः प्रवृतीः कर्माणीति यावत्॥७॥

कामं तस्य गतिः सूक्ष्मा देवैरपि दुरासदा ।
यत्तु वक्ष्याम्यहं राजंस्तन्मे निगदतः शृणु॥८॥

ये मत्सकाशात् तत् ‘विष्णोश्चरित्रम्’॥८॥

एष लोकमयो देवो लोकाश्चैतन्मयास्त्रयः ।
एश देवमयश्चैव देवाश्चैतन्मया दिवि॥९॥

एष इति। यथा तन्तुभिः पटः कल्पितः एवं लोकैः हरेः शरीरं कल्प्यते। यथा च पटः केवलं पृथ्वीमयः एवं लोकाः विष्णुमयाः एवं देवेष्वपि योज्यम्॥९॥

तस्य पारं न पश्यन्ति बहवः पारचिन्तकाः ।
एश पारं परं चैव लोकानां वेद माधवः॥१०॥

तस्येति। लोकानां परम् अत एव तेभ्यः परं च आत्मानं वेद॥१०॥

अस्य देवान्धकारस्य मार्गितव्यस्य दैवतैः ।
शृणु वै यत्तदा वृत्तं ब्रह्मलोके पुरातनम्॥११॥

देवानाम् इन्द्रियाणाम् अन्धकार आवरणं यस्मिन् विषये वेदानामिति पाठे वा इन्द्रियाणां गिरां चाविषयस्येत्यर्थः॥११॥

स गत्वा ब्रह्मणो लोकं दृष्ट्वा पैतामहं पदम् ।
ववन्दे तानृषीन्सर्वान्विष्णुरार्षेण कर्मणा॥१२॥

आर्षेण मन्त्रप्रतिपाद्येन॥१२॥

सोऽग्निं प्राक्सवणे दृष्ट्वा हूयमानं महर्षिभिः ।
अवन्दत महातेजाः कृत्वा पौर्वाह्निकीं क्रियाम्॥१३॥

प्राक्सवने प्रातःसवने॥१३॥

स ददर्श मखेष्वाज्यैरिज्यमानं महर्षिभिः ।
भागं यज्ञियमश्नानं स्वदेहमपरं स्थितम्॥१४॥

अभिवाद्याभिवाद्यानामृषीणां ब्रह्मवर्चसाम् ।
परिचक्राम सोऽचिन्त्यो ब्रह्मलोकं सनातनम्॥१५॥

ऋषीणाम् ऋषीन्॥१५॥

स ददर्शोच्छ्रितान्यूपांश्चषालाग्रविभूषितान् ।
मखेषु च ब्रह्मर्षिभिः शतशः कृतलक्षणान्॥१६॥

आज्यधूमं समाघ्राय शृण्वन्वेदान्द्विजेरितान् ।
यज्ञैरिज्यं तमात्मानं पश्यंस्तत्र चचार ह॥१७॥

इज्यन्तम् इज्यमानम् आत्मानं विग्रहान्तरं दधानम्॥१७॥

ऊचुस्तमृषयो देवाः सदस्याः सदसि स्थिताः ।
अर्घोद्यतभुजाः सर्वे पवित्रान्तरपाणयः॥१८॥

देवेषु वर्तते यद्वै तद्धि सर्वं जनार्दनात् ।
यत्प्रवृत्तं च देवेभ्यस्तद्विद्धि मधुसूदनात्॥१९॥

यत् सामर्थ्यादिकं विद्धीति ते प्रत्यक्षमपि परोक्षत्वेन जानन्तः कथयन्ति॥१९॥

अग्नीषोममयं लोकं यं विदुर्विदुषो जनाः ।
तं सोममग्निं लोकं च वेद विष्णुं सनातनम्॥२०॥

विदुषः सकाशात् वेद भवानिति शेषः॥२०॥

क्षीराद्यथा दधि भवेद्दध्नः सर्पिर्भवेद्यथा ।
मथ्यमानेषु भूतेषु तथा लोको जनार्दनात्॥२१॥

भूतेषु देहेन्द्रियादिषु मथ्यमानेषु ध्यानबलेन प्रविलाप्यमानेषु सत्सु अन्तर्दृष्ट्या जनार्दनादेवायं लोको भवतीति गम्यते। ईक्षामात्रनिर्वृतत्वाल्लोकस्य अत्र क्रमेण अव्याकृत ईक्षणे जगतां क्रमात् क्षीरदधिसर्पीषि दृष्टान्ताः॥२१॥

यथेन्द्रियैश्च भुतैश्च परमात्माभिधीयते ।
तथा देवैश्च वेदैश्च लोकैश्च विहितो हरिः॥२२॥

इन्द्रियभूतैः चेतनाव्याप्तै परमात्मा स्वयमेव गोचरोऽपि विधीयत अज्ञातो ज्ञाप्यते तथा देवादिभिरनुग्रहादिकर्तृभिर्विष्णुरित्यर्थः। चित्तमात्मन इव नियन्तृत्वं विष्णोरेवेति भावः। अभिधीयते विदित इति पाठेऽपि स एवार्थः॥२२॥

यथा भूतेन्द्रियावाप्तिर्विहिता भुवि देहिनाम् ।
तथा प्राणेश्वरावाप्तिर्देवानां दिवि वैष्णवी॥२३॥

यथेति। जीवानां भूतेन्द्रियसम्बन्धो भुवि भूतेभ्यो यथा दृष्ट एवं देवानां प्राणो बलम् ईश्वरः ऐश्वर्यं तदुभयेन सम्बन्धो विष्णुतो भवतीत्यर्थः॥२३॥

सत्रिणां सत्रफलदः पवित्रं परमात्मवान् ।
लोकतन्त्रधरो ह्येष मन्त्रैर्मन्त्र इवोच्यते॥२४॥

आत्मवान् स्वतन्त्रः मन्त्रैर्मन्त्र इवोच्यते इति यथा वाचो माधुर्यं वाचैव वर्णनीयम् एवं विष्णोः स्वरूपं विष्णुनैवार्चनीयमित्यर्थः॥२४॥

ऋषय ऊचुः। स्वागतं ते सुरश्रेष्ठ पद्मनाभ महाद्युते ।
इदं यज्ञियमातिथ्यं मन्त्रतः परिगृह्यताम्॥२५॥

त्वमस्य यज्ञपूतस्य पात्रं पाद्यस्य पावनः ।
अतिथिस्त्वं हि मन्त्रोक्तः स दृष्टः सन्ततं मतः॥२६॥

मतः ज्ञातः॥२६॥

त्वयि योद्धुं गते विष्णौ न प्रावर्तन्त नः क्रियाः ।
अवैष्णवस्य यज्ञस्य न हि कर्म विधीयते॥२७॥

त्वयीत अन्तरात्मनि अन्यत्र व्यापृते कृतोऽपि यज्ञो निष्फल इति भावः॥२७॥

सदक्षिणस्य यज्ञस्य त्वत्प्रसूतिः फलं भवेत् ।
अद्यात्मानमिहास्माभिरिज्यमानं निरीक्ष्यसे॥२८॥

एवमस्त्विति तान्सर्वान्भगवान्प्रत्यपूजयत् ।
मुमुदे बह्मलोकस्थो ब्रह्मा लोकपितामहः॥२९॥

ब्रह्मैव लोकः तत्रस्थः समाधिस्थ इत्यर्थः। समाहित इव पितामहो मुमुद इत्यर्थः। ब्रह्मलोकसहितः पितामहो ब्रह्मलोकपितामहः। ब्रह्मलोकस्था अपि विष्णुं भजन्ति न तु कृतकृत्यत्वाभिमानादुदासत इति अध्यायतात्पर्यम्॥२९॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि लोकवर्णनं नाम एकोनपञ्चाशत्तमोऽध्यायः॥४९॥
नारायणाश्रमवर्णनम्

वैशम्पायन उवाच। ऋषिभिः पूजितस्तैस्तु विवेश हरिरीश्वरः ।
पौराणं ब्रह्मसदनं दिव्यं नारायणाश्रमम्॥२॥

स तद्विवेश हृष्टात्मा तानामन्त्र्य सदोगतान् ।
प्रणम्य चादिदेवाय ब्रह्मणे पद्मयोनये॥२॥

स्वेन नाम्ना परिज्ञातं स तं नारायणाश्रमम् ।
प्रविशन्नेव भगवानायुधानि व्यसर्जयत्॥३॥

स तत्रांबुपतिप्रख्यं ददर्शालयमात्मनः ।
स्वधिष्ठितं देवगणैः शाश्वतैश्च महर्षिभिः॥४॥

अम्बुपतिप्रख्यं समुद्रतुल्यम्॥४॥

संवर्तकाम्बुनोपेतं नक्षत्रस्थानसङ्कुलम् ।
तिमिरौघपरिक्षिप्तमप्रधृष्यं सुरासुरैः॥५॥

संवर्तकाम्बुदाभिमानिभिर्दैवतैरुपेतम्। नक्षत्रस्थानं ज्योतिश्चक्रं तेन सङ्कुलम्। तिमिरौघेन परिक्षिप्तं व्याप्तं सर्वं तत्र सुषुप्ताविव सूक्ष्मरूपेण विद्यमानमपि अविद्यया आवृतम् अत एव सुरासुरैरप्रवृष्यम् अगम्यम्। यथा वटबीजोदरे कृत्स्नो वटोऽस्ति अथ च तत्र न दृश्यते एवं तत्र हरिमन्दिरे कृत्स्नं ब्रह्माण्डं सदपि न दृश्यते॥५॥

न तत्र विषयो वायोर्नेन्दोर्न च विवस्वतः ।
वपुषः पद्मनाभस्य स देशस्तेजसाऽऽवृतः॥६॥

तर्हि तत्सत्त्वे किं मानमत आह- न तत्रेति। अनात्मज्योतिषा तन्न प्रकाशतेऽपि तु आत्मज्योतिषैवेत्यर्थः। यथा हि निद्रावस्थायां सर्वं सूक्ष्मरूपेण सदपि न भाति कदाचित्तु स्वप्ने आत्मज्योतिषा भात्यपि अत एव स्वप्नावस्थामधिकृत्योक्तम् आत्मनैवायं ज्योतिषास्ते प्रलयान्ते विपर्येतीति। एवम् अधिदैवमपि ज्ञेयमिति भावः॥६॥

स तत्र प्रविशन्नेव जटाभारं समुद्वहन् ।
सहस्रशीर्षो भूत्वा तु शयनायोपचक्रमे॥७॥

पूर्वं सहस्रशीर्षा भूत्वा तद्विश्वरूपत्वलक्षणं सहस्रशिरसत्वं त्यक्त्वाऽपि जटाभारस्थानीयं लोककर्मवासनाजालम् उद्वहन् शयनं कृतवान्। अत एतदनुसारिष्वस्वस्मासु सुषुप्तावपि कार्यलिङ्गेन वासनाऽस्तीति गम्यते॥७॥

लोकानामन्तकालज्ञा काली नयनशालिनी ।
उपतस्थे महात्मानं निद्रा तं कालरूपिणी॥८॥

काली कृष्णवर्णा सूक्ष्मस्याप्यावरणकर्त्री॥८॥

स शिश्ये शयने दिव्ये समुद्राम्भोदशीतले ।
हरिरेकार्णवोक्तेन व्रतेन व्रतिनां वरः॥९॥

शिश्ये शयनं कृतवान् शयने समाधौ क्षीरसमुद्रो निर्विकल्पः अम्भोदः सविकल्पः तदुभयरूपतया निस्तापे एकार्णवोक्तेन व्रतेन निर्विकल्पसमाध्यर्थमुक्तेन व्रतेन संयमेन॥९॥

तं शयानं महात्मानं भवाय जगतः प्रभुम् ।
उपासाञ्चक्रिरे विष्णुं देवाः सर्षिगणास्तथा॥१०॥

जगतो भवायेति। अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्याग इत्येकैकस्य योगाङ्गस्य निर्वैरेत्वादिकं फलं परत्र स्मर्यते। पूर्णस्य तु योगस्य जगतो भवार्थत्वमुपपन्नमिति भावः। देवा ऋषयश्चाध्यात्मम् इन्द्रियाणि प्राणाश्च उपासाञ्चक्रिरे केवलं समीपे स्थिताः न तु स्वकार्यं भोग निर्वर्तयन्तीत्यर्थः॥१०॥

तस्य सुप्तस्य शुशुभे नाभिमध्यात्समुत्थितम् ।
आद्यं तस्यासनं पद्मं ब्रह्मणः सूर्यवर्चसम् ।
सहस्रपत्रं वर्णाढ्यं सुकुमारं विभूषितम्॥११॥

मातुर्नाभिदेशादुद्भूतं नालं तत्पुष्पेण संयुज्यते पुष्पं च रेतःसंसर्गाद्गर्भो भवति स च गर्भो मातृभुक्तान्नरसेन नालद्वारा पुष्टो भवति। ततः पक्वफलन्यायेन वृन्ताद्गर्भच्युतो भवति एवं विष्णोः सकाशादुद्भूतो ब्रह्मा वैष्णव्या मायया पुष्टः सन् विष्णुतः च्युतो भूत्वाऽऽत्मानं ततोऽन्यं मन्यत इति। तदेतत्कथारूपकेण वर्णयति- तस्येति। नाभिमध्यात् समुत्थितनालद्वोरणाविर्भूतम् आद्यन्तस्य आद्यन्तवतः ब्रह्मणो वेधसः आसनम् आश्रयः पद्मं पद्मकोशाकारं ब्रह्माण्डम्॥११॥

ब्रह्मसूत्रोद्यतकरः स्वपन्नेव महामुनिः ।
आवर्तयति लोकानां सर्वेषां कालपर्ययम्॥१२॥

ब्रह्मणः इदानीन्तनस्य सूत्रं प्राग्भवीयो वासनातन्तुः स एव उद्यतकरस्थानीयो यस्य सः स्वपन्नेव स्वास्थ्यादप्रच्युत एव सन् लोकानां कालकृतं पर्ययम् ऊर्ध्वाधरीभावम् आवर्तयति अयस्कान्तन्यायेन सत्तामात्रादकुर्वत एव सकाशात् लोकस्वाभाव्यादेव सृष्ट्यादयो जायन्त इति भावः॥१२॥

विवृतात्तस्य वदनान्निःश्वासपवनेरिताः ।
प्रजानां पङ्क्तयो ह्युच्चैर्निष्पतन्त्युत्पतन्ति च॥१३॥

तस्य ब्रह्मणः एवं यथा नारायणाद्ब्रह्माऽभवदेवं ब्रह्मणः सकाशादन्येऽप्यभूवन्नित्यर्थः॥१३॥

ते सृष्टाः प्राणिनो मेध्या विभक्ता ब्रह्मणा स्वयम् ।
चतुर्धा स्वां गतिं जग्मुः कृतान्तोक्तेन कर्मणा॥१४॥

मेध्याः यज्ञार्हाः ब्राह्मणा अपि कर्मभेदात् ब्रह्मणा चतुर्द्धा ब्रह्मक्षत्रविट्शूद्ररूपेण विभागं प्रापिताः स्वां गतिं परमप्राप्यम् ईश्वरं कृतान्तोक्तेन कृतसिद्धान्तेन वेदेन उक्तं यत्कर्म तेन स सर्वोऽपि वर्णः स्वधर्मनिष्ठो मुच्यत इत्यर्थः॥१४॥

न तं वेद स्वयं ब्रह्मा नापि ब्रह्मर्षयोऽव्ययाः ।
विष्णोर्निद्रामयं योगं प्रविष्टं तमसावृतम्॥१५॥

न तमिति। विष्णोर्निद्रामयम् अविद्याशबलमपि रूपं दुर्ज्ञेयं किमुत शुद्धमिति भावः। योगं प्रविष्टं स्वरूपे एव समाहितम्॥१५॥

ते तु ब्रह्मर्षयः सर्वे पितामहपुरोगमाः ।
न विदुस्तं क्वचित्सुप्तं क्वचिदासीनमासने॥१६॥

क्वचिद्देशे काले वा सुप्तं त्यक्तव्यवहारम्। आसीनम् उपात्तव्यवहारं वा न विदुः। सृष्टिप्रावीण्यात् योग्यस्य विचारस्य चाभावादिति भावः॥१६॥

जागर्ति कोऽत्र कः शेते कश्च शक्तश्च नेङ्गते ।
को भोगवान्को द्युतिमान्कृष्णात्कृष्णतरश्च कः॥१७॥

केचिद्विचारयन्तीत्याह- जागर्तीति। अत्र देहे को जागर्ति इन्द्रियैर्विषयानुपलभते स भूतयोगाज्जातो मन्दशक्तितुल्यश्चेतनो नान्य इति लोकायतमा शङ्क्याह- कः शेते इति। सुप्तावपि भूतयोगस्य सत्त्वाद्विषयोपलब्ध्यापतेर्भूतेभ्योऽन्य आत्मेत्यर्थः। सुप्तावनुपात्तकरणत्वेन विषयाननुभवात्। मन एव तर्ह्यत्माऽस्त्वित्याशङ्क्याह- कश्च शक्तश्च नेङ्गते इति। विनाऽपि करणानुग्रहं स्वप्ने मनसो विषयावभासकत्वं दृष्टं तच्च बाह्यौष्ण्यवत् दुस्त्यजम् अतस्ततोऽप्यन्य आत्मेत्यर्थः। शक्तः स नेङ्गते स्वशक्यं कार्यं न करोतीत्येतन्न युज्यत इति पदार्थः। मनसः करणान्तरवत् स्वन्प्रवृत्तिनिवृत्त्योः स्वातन्त्र्याभावात् तन्नियामिका बुद्धिरेव आत्माऽस्त्वित्याशङ्क्याह- को भोगवानिति। बुद्धेश्च नित्यपरिणामत्वेन कालान्तरीयायाः कालान्तरेऽभावात् योऽहं बाल्ये इदं फलमश्रौषं स एव यौवनेऽद्राक्षं स एवेदानीं रमयामीति बुद्धिभेदेऽपि आत्मैक्यप्रत्यभिज्ञानात्ततोऽन्यो भोक्तेत्यर्थः। अस्तु तर्ह्यहं सुखीत्यनुभावादहङ्कार एवाऽऽत्मेति पक्षमहं गौर इत्यनुभावाद्देहस्याप्यात्मतापत्तेरहङ्कारस्यापि सुषुप्त्यादावदर्शनाच्चाप्रदर्श्य शून्यमेवात्मास्त्वित्याशङ्क्याह- को द्युतिमानिति। सुषुप्तावात्माभावे सुखमहमस्वाप्यं न किञ्चिदवेदिषमिति सुषुप्तिकालीनसुखाज्ञानयोरननुभूतयोः परामर्शायोगात् तदनुभवश्च न सदात्मा प्रकाशास्तित्वमन्तरेण सम्भवतीति अस्ति शून्यसाक्षी आत्मा सद्रूप इति भावः। अस्तु तर्ह्ययं साक्षी पुरुषान्तरस्य पुरुषान्तरेऽहं सुखीत्यादिव्यवहाराभावात्प्रतिशरीरं भिन्नः क्लेशकर्मविपाकाशयैरपरामृष्टात्पुरुषविशेषादीश्वराच्च विलक्षणो बन्धमोक्षादिभागीत्याशङ्क्याह- कृष्णात्कृष्णतरश्च क इति। शब्दादिहीनत्वात्परमते प्रधानम् अतिसूक्ष्मं व्यवहारत एव। वस्तुतस्तु त्रिगुणात्मत्वेन संहतात्तस्मादसंहतः पुरुष एव सूक्ष्मः। न हि ततोऽपि सूक्ष्म ईश्वर इति पातञ्जला अप्यभ्युपगच्छन्ति। श्रुतिश्च "नान्योऽतोऽस्ति द्रष्टा” इति द्रष्ट्रन्तरं निषेधतीति न साक्षिणोऽन्यः कश्चिदात्माऽस्तीत्यर्थः। बन्धमोक्षादिव्यवस्था तु तर्कमते श्रोत्रैक्येऽपि उपाधिभेदात् शब्दग्रहव्यवस्थावद्भविष्यति। क्लेशा दिसम्बन्धस्तु वास्तवः कस्यापि नास्तीति नात्मभेदोऽनात्मनोऽनश्वरत्वं चास्तीति सर्वमनवद्यम्। कृष्णात् कृशादित्यर्थः। कृषेरौणादिकनप्रत्ययान्तस्येदं रूपं कृष्ण इति॥१७॥

विमृशन्ति स्म तं देवा दिव्याभिरुपपत्तिभिः ।
न चैनं शेकुरन्वेष्टुं कर्मतो जन्मतोऽपि वा॥१८॥

दिव्याभिः श्रौतीभिः उपपत्तिभिर्युक्तिभिः॥१८॥

गाथाभिस्तत्प्रदिष्टाभिर्ये तस्य चरितं विदुः ।
पुराणास्तं पुराणेषु ऋषयः सम्प्रचक्षते॥१९॥

गाथाभिः यदक्षरं पञ्चविधं समेतीत्यादिभिर्मन्त्रैः तत्प्रदिष्टाभिः तेन परमात्मना निश्वसितरूपेण निर्दिष्टाभिः। तथा च श्रुतिः- "अस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः” इत्यादि॥१९॥

श्रूयते चास्य चरितं देवेष्वपि पुरातनम् ।
महापुराणात्प्रभृति परं तस्य न विद्यते॥२०॥

यच्चास्य देवदेवस्य चरितं स्वप्रभावजम् ।
तेनेमाः श्रुतयो व्याप्ता वैदिक्यो लौकिकाश्च याः॥२१॥

भवकाले भवत्येष लोकानां लोकभावनः ।
दानवानामभावाय जागर्ति मधुसूदनः॥२२॥

भवति आविर्भवति॥२२॥

यत्रैनं वीक्षितुं देवा न शेकुः सुप्तमव्ययम् ।
ततः स्वपिति घर्मान्ते जागर्ति जलदक्षये॥२३॥

आविर्भावकालेऽप्ययम् आषाढीमारभ्य कार्तिकीपर्यन्तं स्वपितीत्याह- यत्रैनमिति॥२३॥

स हि वेदाश्च यज्ञाश्च यज्ञाङ्गानि च सर्वशः ।
या तु यज्ञगतिः प्रोक्ता स एष पुरुषोत्तमः॥२४॥

यज्ञगतिर्यज्ञप्राप्यलोकः॥२४॥

तस्मिन्सुप्ते न वर्तन्ते मन्त्रपूताः क्रतुक्रियाः ।
शरत्प्रवृत्तयज्ञोऽयं जागर्ति मधुसूदनः॥२५॥

शरदि प्रवृत्तो यज्ञः "शरदि वाजपेयेन यजेत” इत्यादिश्रुतेर्वाजपेयादिर्यस्येति। यज्ञवृत्तावेवायं प्रतिबुध्यते न त्वयज्ञस्येत्यर्थः॥२५॥

तदिदं वार्षिकं चक्रं कारयत्यम्बुदेश्वरः ।
वैष्णवं कर्म कुर्वाणः सुप्ते विष्णौ पुरन्दरः॥२६॥

अत एव वार्षिकं वर्षर्तौ भवम् इदं चक्रं यज्ञवर्जनरूपो जलधर्मः भाद्रपदमारभ्य शरदि पितृयज्ञादीनां प्रवृत्तिदर्शनात्॥२६॥

या ह्येषा गह्वरा माया निद्रेति जगति स्थिता ।
साकस्माद्द्वेषिणी घोरा कालरात्रिर्महीक्षिताम्॥२७॥

विष्णोः प्रबोधे यज्ञो निमित्तमित्युक्तम्। निद्रायां निमित्तमाह- या हीति। गह्वरा तमोमयी अकस्मात्। निर्निमित्तम् महीक्षितां राज्ञाम् अन्योन्यं युध्यतां यदा विनाशस्तदा विष्णुः स्वपिति हिंसादिदोषोदयादित्यर्थः॥२७॥

तस्यास्तनुस्तमोद्वारा निशा दिवसनाशिनी ।
जीवितार्धहरा घोरा सर्वप्राणभृतां भुवि॥२८॥

इयमेव तामसी निशारूपेण च सर्वान्मोहयतीत्याह- तस्या इत्यादिना॥२८॥

नैतया कश्चिदाविष्टो जृम्भमाणो मुहुर्मुहुः ।
शक्तः प्रसहितुं वेगं मज्जन्निव महार्णवे॥२९॥

अन्नजा भुवि मर्त्यानां श्रमजा वा कथञ्चन ।
सैषा भवति लोकस्य निद्रा सर्वस्य लौकिकी॥३०॥

स्वप्नान्ते क्षीयते ह्येषा प्रायशो भुवि देहिनाम् ।
मृत्युकाले च भूतानां प्राणान्नाशयते भृशम्॥३१॥

देवेष्वपि दधारैनां नान्यो नारायणादृते ।
सखी सर्वहरस्यैषा माया विष्णुशरीरजा॥३२॥

सर्वहरस्य कालस्यैषा सखी॥३२॥

सैषा नारायणमुखे दृष्टा कमललोचना ।
लोकानल्पेन कालेन ग्रसते लोकमोहिनी॥३३॥

एवमेषा हितार्थाय लोकानां कृष्णवर्त्मना ।
ध्रियते सेवनीया हि पत्येव च पतिव्रता॥३४॥

एवमिति। हितं- भुक्तस्यान्नादेः सम्यक् पाकः श्रमपरिहारश्चेत्यादिः तदर्थाय सेवनीयाय इयं कृष्णवर्त्मना सूक्ष्ममार्गेण परमेश्वरेण ध्रियते। मन्निद्रया मदुदरस्थो लोकः सर्वोऽपि विश्रमयतामित्याशयवतेत्यर्थोऽतः पत्या पतिव्रतेव सुखार्थिना सेवनीया॥३४॥

स तया निद्रया च्छन्नस्तस्मिन्नारायणाश्रमे ।
स्वपिति स्म तदा विष्णुर्मोहयञ्जगदव्ययम्॥३५॥

एवं महानिद्राप्रसङ्गाद्वार्षिकीं दैनन्दिनीं च ईशस्य जीवस्य निद्रां प्रपञ्च्य तामेव महानिद्रामनुसन्धते- स तयेत्यादिना॥३५॥

तस्य वर्षसहस्राणि शयनस्य महात्मनः ।
जग्मुः कृतयुगं चैव त्रेता चैव युगोत्तमम्॥३६॥

स तु द्वापरपर्यन्ते ज्ञात्वा लोकान्सुदुःखितान् ।
प्राबुध्यत महातेजाः स्तूयमानो महर्षिभिः॥३७॥

ऋषयः ऊचुः। जहीहि निद्रां सहजां भुक्तपूर्वामिव स्रजम् ।
इमे ते ब्रह्मणा सार्धं देवा दर्शनकाङ्क्षिणः॥३८॥

इमे त्वां ब्रह्मविद्वांसो ब्रह्मसंस्तववादिनः ।
वर्धयन्ति हृषीकेश ऋषयः संशितव्रताः॥३९॥

एतेषामात्मभूतानां भूतानामात्मभावनः ।
शृणु विष्णो शुभा वाचो भूव्योमाग्न्यनिलाम्भसाम्॥४०॥

भूव्योमेति। भूम्याद्यधिष्ठात्रीणां देवतानाम्॥४०॥

इमे त्वां सप्त मुनयः सहिता मुनिमण्डलैः ।
स्तुवन्ति देवा दिव्याभिर्गेयाभिर्गीर्भिरञ्जसा॥४१॥

उत्तिष्ठ शतपत्राक्ष पद्मनाभ महाद्युते ।
कारणं किञ्चिदुत्पन्नं देवानां कार्यगौरवात्॥४२॥

वैशम्पायन उवाच। स संक्षिप्य जलं सर्वं तिमिरौघं विदारयन् ।
उदतिष्ठद्धृषीकेशः श्रिया परमया ज्वलन्॥४३॥

जलम् अखण्डानन्दं संक्षिप्य उपाध्यावेशेन अल्पीकृत्य तिमिरौघं शरीरभासाविदारयन्॥४३॥

स ददर्श सुरान्सर्वान्समेतान्सपितामहान् ।
विवक्षतः प्रक्षुभिताञ्जगदर्थे समागतान्॥४४॥

तानुवाच हरिर्देवो निद्राविश्रान्तलोचनः ।
तत्त्वदृष्टार्थया वाचा धर्महेत्वर्थयुक्तया॥४५॥

श्रीभगवानुवाच। कृतो वो विग्रहो देवाः कुतो वो भयमागतम् ।
कस्य वा केन वा कार्यं किं वा मयि न वर्तते॥४६॥

कस्य देवस्य केन अर्थेन कार्यं प्रयोजनं किं वा सामर्थ्यम्॥४६॥

किं खल्वकुशलं लोके वर्तते दानवोत्थितम् ।
नृणामायासजननं शीघ्रमिच्छामि वेदितुम्॥४७॥

एष ब्रह्मविदां मध्ये विहाय शयनोत्तमम् ।
शिवाय भवतामर्थे स्थितः किं करवाणि वः॥४८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि विष्णोर्योगशयनोत्थाने पञ्चाशत्तमोऽध्यायः॥५०॥
विष्णुदेवसंवादः

वैशम्पायन उवाच। तच्छ्रुत्वा विष्णुगदितं ब्रह्मा लोकपितामहः ।
उवाच परमं वाक्यं हितं सर्वदिवौकसाम्॥१॥

एकाधिकेऽथ पञ्चाशेऽध्याये विष्णोर्निरूप्यते। भूभारहरणार्थाय ब्रह्मप्रार्थनमद्भुतम्॥१॥ तच्छ्रुत्वेति॥१॥

नास्ति किञ्चिद्भयं विष्णो सुराणामसुरान्तक ।
येषां भवानभयदः कर्णधारो रणे रणे॥२॥

कर्णौ नौकापरिवर्तकरो महान् दण्डः तस्य धारः कर्णधारस्तद्वदिति लुप्तोपमा॥२॥

शक्रे जयति देवेशे त्वयि चासुरसूदने ।
धर्मे प्रयतमानानां मानवानां कुतो भयम्॥३॥

सत्ये धर्मे च निरतान्मानवान्विगतज्वरान् ।
नाकाले धर्मिणो मृत्युः शक्नोति प्रसमीक्षितुम्॥४॥

मानवानां च पतयः पार्थिवाश्च परस्परम् ।
षड्भागमुपभुञ्जाना न भयं कुर्वते मिथः॥५॥

षष्ठं भागं षड्भागम्॥५॥

ते प्रजानां शुभकराः करदैरवगर्हिताः ।
सुकरैर्विप्रयुक्तर्थाः कोशमापूरयन्त्युत॥६॥

सुकरैर्यथोचितैः करग्रहैः विशेषेण प्रयुक्तार्थाः बहुकरग्रहो हि राजा प्रजा उद्वासयन्न कोशवृद्धिकरो भवति एते तु न तथासन्नित्यर्थः॥६॥

स्फीताञ्जनपदान्सर्वान्पालयन्तः क्षमापराः ।
अतीक्ष्णदण्डांश्चतुरो वर्णाञ्जुगुपुरञ्जसा॥७॥

अञ्जसा साकल्येन॥७॥

नोद्वेजनीया भूतानां सचिवैः साधुपूजिताः ।
चतुरङ्गबलैर्गुप्ताः षड्गुणानुपभुञ्जते॥८॥

नोद्वेजनीयाः अनुद्वेजकाः सन्तः षड्गुणान् नीतिशास्त्रोक्तान् सन्धिविग्रहयनासनद्वैधीभावसमाश्रयाख्यान् उपभुञ्जते सेवन्ते॥८॥

धनुर्वेदपराः सर्वे सर्वे वेदेषु निष्ठिताः ।
यजन्ते च यथाकालं यज्ञैर्विपुलदक्षिणैः॥९॥

वेदानधीत्य दीक्षाभिर्महर्षीन्ब्रह्मचर्यया ।
श्राद्धैश्च मेध्यैः शतशस्तर्पयन्ति पितामहान्॥१०॥

वेदानधीत्य महर्षीन्दीक्षाभिर्नियमग्रहणैः चर्यया यज्ञक्रियया च ब्रह्म हिरण्यगर्भाख्यं सर्वदेवतामयं तर्पयन्ति॥१०॥

नैषामविदितं किञ्चित्त्रिविधं भुवि दृश्यते ।
वैदिकं लौकिकं चैव धर्मशास्त्रोक्तमेव च॥११॥

एषां नृपाणाम्॥११॥

ते परावरदिष्टार्थ महर्षिसमतेजसः ।
भूयः कृतयुगं कर्तुमुत्सहन्ते नराधिपाः॥१२॥

परे अवरे च ब्रह्मणि दृष्टार्था जातप्रत्ययाः कृतयुगं पापलेशेनाप्यननुविद्धं कृत्स्नधर्मम्॥१२॥

तेषामेव प्रभावेण शिवं वर्षति वासवः ।
यथार्थं च ववुर्वाता विरजस्का दिशो दश॥१३॥

यथार्थं यावत्प्रयोजनम्॥१३॥

निरुत्पाता च वसुधा सुप्रचाराश्च खे ग्रहाः ।
चन्द्रमाश्च सनक्षत्रः सौम्यं चरति योगतः॥१४॥

अनुलोमकरः सूर्यस्त्वयने द्वे चचार ह ।
हव्यैश्च विविधैस्तृप्तः शुभगन्धो हुताशनः॥१५॥

एवं सम्यक्प्रवृत्तेषु विवृद्धेषु मखादिषु ।
तर्पयत्सु महीं कृत्स्नां नृणां कालभयं कुतः॥१६॥

तर्पयत्स वृष्ट्यादिनेति शेषः॥१६॥

तेषां ज्वलितकीर्तीनामन्योन्यवशवर्तिनाम् ।
राज्ञां बलैर्बलवतां पीड्यते वसुधातलम्॥१७॥

सेयं भारपरिश्रान्ता पीड्यमाना नराधिपैः ।
पृथिवी समनुप्राप्ता नौरिवासन्नविप्लवा॥१८॥

नराधिपैः रूपैः स्वशरीरैः युगान्तो वह्निस्तत्सदृशैः पीडयमानेत्यन्वयः। आसन्नविप्लवा उपस्थितविनाशा॥१८॥

युगान्तसदृशै रूपैः शैलोच्चलितबन्धना ।
जलोत्पीडाकुला स्वेदं धारयन्ती मुहुर्मुहुः॥१९॥

शैलोच्चलितबन्धना यथा समुद्रे लोहमयैर्लाङ्गलैर्निरुद्धा सती महताऽपि वायुना न चाल्यते तद्वत्पृथिवी पर्वतैर्जलमध्ये धृताऽस्ति इदानीं शैलरूपाणि उच्चलितानि बन्धनानि यस्यास्तथाविधाऽभूत्। अत एव जलस्य उत्पीडा उपर्यागमनेन या पीडा तया आकुला। स्वेदम् आर्द्रताम्॥१९॥

क्षत्रियाणां वपुर्भिश्च तेजसा च बलेन च ।
नृणां च राष्ट्रैर्विस्तीर्णैः श्राम्यतीव वसुन्धरा॥२०॥

पुरे पुरे नरपतिः कोटिसङ्ख्यैर्बलैर्वृतः ।
राष्ट्रे राष्ट्रे च बहवो ग्रामाः शतसहस्रशः॥२१॥

भूमिपानां सहस्रैश्च तेषां च बलिनां बलैः ।
ग्रामायुताढ्यै राष्ट्रैश्च भूमिर्निर्विवरा कृता॥२२॥

निर्विवरा निरुच्छ्वासा॥२२॥

सेयं निरामयं कृत्वा निश्चेष्टा कालमग्रतः ।
प्राप्ता ममालयं विष्णो भवांश्चास्याः परा गतिः॥२३॥

सेयं भूमिर्निरामयं कालम् अग्रतः कृत्वा निश्चेष्टा सती ममालयं प्राप्तेत्यन्वयः। यत्र आमयोऽपि प्रजानां नास्ति कुतो मृत्युस्तं कालं निमित्तीकृत्य तत्कृतं बहुभारत्वं प्राप्य वहनासमर्था श्रान्तवाहसदृशी सतीत्यर्थः॥२३॥

कर्मभूमिर्मनुष्याणां भूमिरेषा व्यथां गता ।
यथा न सीदेत्तत्कार्यं जगत्येषा हि शाश्वती॥२४॥

न सीदेत् लोष्टवद्बहुभारेण न विशीर्येत। जगती जगदाधारभूता॥२४॥

अस्या हि पीडने दोषो महान्स्यान्मधुसूदन ।
क्रियालोपश्च लोकानां पीडितं च जगद्भवेत्॥२५॥

श्राम्यते व्यक्तमेवेयं पार्थिवौघप्रपीडिता ।
सहजां या क्षमां त्यक्त्वा चलत्वमचला गता॥२६॥

तदस्याः श्रुतवन्तः स्म तच्चापि भवता श्रुतम् ।
भारावतरणार्थं हि मन्त्रयाम सह त्वया॥२७॥

सत्पथे हि स्थिताः सर्वे राजानो राष्ट्रवर्धनाः ।
नराणां च त्रयो वर्णा ब्राह्मणाननुयायिनः॥२८॥

सर्वं सत्यपरं वाक्यं वर्णा धर्मपरास्तथा ।
सर्वे वेदपरा विप्राः सर्वे विप्रपरा नराः॥२९॥

एवं जगति वर्तन्ते मनुष्या धर्मकारणात् ।
यथा धर्मवधो न स्यात्तथा मन्त्रः प्रवर्त्यताम्॥३०॥

सतां गतिरियं नान्या धर्मश्चास्याः सुसाधनम् ।
राज्ञां चैव वधः कार्यो धरण्या भारनिर्णये॥३१॥

भारनिर्णये भारस्य परिहरणे निमित्ते॥३१॥

तदागच्छ महाभाग सह वै मन्त्रकारणात् ।
व्रजामो मेरुशिखरं पुरस्कृत्य वसुन्धराम्॥३२॥

एतावदुक्त्वा राजेन्द्र ब्रह्मा लोकपितामहः ।
पृथिव्या सह विश्वात्मा विरराम महाद्युतिः॥३३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि भारावतरणे एकपञ्चाशत्तमोऽध्यायः॥५१॥
विष्णुं प्रति पृथिव्या वाक्यम्

वैशम्पायन उवाच। बाढमित्येव सह तैर्दुर्दिनाम्भोदनिःस्वनः ।
प्रतस्थे दुर्दिनाकारः सदुर्दिन इवाचलः॥१॥

वर्ण्यतेऽथ द्विपञ्चाशे समाजे सुरसंसदि। धरण्या भारखिन्नाया विज्ञप्तिः करुणोदया॥१॥ बाढं दुर्दिनहेतुत्वाद्दुर्दिनो मेघस्तदाकारस्तद्वर्णः सदुर्दिनः गर्जन्मेघसहितः। कृत्स्नम् उदरम्। “कृत्स्नं सर्वाम्बुकुक्षिषु” (नवर्गे २) इति मेदिनी। जटामण्डलसहितं बिभ्रत् पाठान्तरे स्पष्टोऽर्थः॥१॥

समुक्तामणिविद्योतं सचन्द्राम्भोदवर्चसम् ।
सजटामण्डलं कृत्स्नं स बिभ्रच्छ्रीधरो हरिः॥२॥

स चास्योरसि विस्तीर्णे रोमाञ्चोद्गतराजिमान् ।
स्रीवत्सो राजते श्रीमांस्तनद्वयमुखाञ्चितः॥३॥

रोमाञ्चाः रोम्णामुच्छ्रायाः तैः कृत्वा उद्गता राजयो रेषा इव तद्वान् स्तनद्वयमुखपर्यन्तम् अञ्चितं रश्मिद्वारा स्वतो वाऽपसर्पणं यस्य सः स्तनद्वयमुखाञ्चितः॥३॥

पीते वसानो वसने लोकानां गुरुरव्ययः ।
हरिः सोऽभवदालक्ष्यः स सन्ध्याभ्र इवाचलः॥४॥

तं व्रजन्तं सुपर्णेन पद्मयोनिगतानुगम् ।
अनुजग्मुः सुराः सर्वे तद्गतासक्तचक्षुषः॥५॥

पद्मयोनिर्गतानुगोऽनुगामी यस्य तम्॥५॥

नातिदीर्घेण कालेन सम्प्राप्ता रत्नपर्वतम् ।
ददृशुर्देवतास्तत्र तां सभां कामरूपिणीम्॥६॥

रत्नपर्वतं मेरुम्। कामरूपिणीं यथा सङ्कल्पितं तथा रूपधारिणीम्॥६॥

मेरोः शिखरविन्यस्तां सम्युक्तां सूर्यवर्चसा ।
काञ्चनस्तम्भरचितां वज्रसन्धानतोरणाम्॥७॥

वज्रसन्धानतोरणां रत्नखचितबहिर्द्वाराम्॥७॥

मनोनिर्माणचित्राढ्यां विमानशतमालिनीम् ।
रत्नजालान्तरवतीं कामगां रत्नभूषिताम्॥८॥

मनोनिर्माणचित्राढ्यां स्वसङ्कल्पोत्थविचित्ररचनावतीम्॥८॥

कॢप्तरत्नसमाकीर्णां सर्वर्तुकुसुमोत्कटाम् ।
देवमायाधरां दिव्यां विहितां विश्वकर्मणा॥९॥

तां हृष्टमनसः सर्वे यथास्थानं यथाविधि ।
यथानिदेशं त्रिदशा विविशुस्ते सभां शुभाम्॥१०॥

ते निषेदुर्यथोक्तेषु विमानेष्वासनेषु च ।
भद्रासनेषु पीठेषु कुथास्वास्तरणेषु च॥११॥

कुथासु। “कुयः स्त्रीपुंसयोर्वर्णकम्बले पुंसि बर्हिषि” इति विश्वः॥११॥

ततः प्रभञ्जनो वायुर्ब्रह्मणा सधु चोदितः ।
मा शब्दमिति सर्वत्र प्रचक्रामाथ तां सभाम्॥१२॥

मा शब्दं कुरुतेति वदन्निति शेषः॥१२॥

निःशब्दस्तिमिते तस्मिन्समाजे त्रिदिवौकसाम् ।
बभाषे धरणी वाक्यं खेदात्करुणभाषिणी॥१३॥

धरण्युवाच। त्वया धार्या त्वहं देव त्वया वै धार्यते जगत् ।
त्वं धारयसि भूतानि भुवनानि बिभर्षि च॥१४॥

यत्त्वया धार्यते किञ्चित्तेजसा च बलेन च ।
ततस्तव प्रसादेन मया यत्नाच्च धार्यते॥१५॥

त्वया धृतं धारयामि नाधृतं धारयाम्यहम् ।
न हि तद्विद्यते भूतं यत्त्वया नानुधार्यते॥१६॥

त्वमेव कुरुषे देव नारायण युगे युगे ।
मम भारावतरणं जगतो हितकाम्यया॥१७॥

तवैव तेजसा क्रान्तां रसातलतलं गताम् ।
त्रायस्व मां सुरश्रेष्ठ त्वामेव शरणं गताम्॥१८॥

तेजसा दुष्टराजादिरूपेण॥१८॥

दानवैः पीड्यमानाहं राक्षसैश्च दुरात्मभिः ।
त्वामेव शरणं नित्यमुपायास्ये सनातनम्॥१९॥

उपयास्ये उपयामि॥१९॥

तावन्मेऽस्ति भयं भूयो यावन्न त्वां ककुद्मिनम् ।
शरणं यामि मनसा शतशो ह्युपलक्षये॥२०॥

ककुद्मिनं धुरन्धरम् उपलक्षये जानामि॥२०॥

अहमादौ पुराणस्य संक्षिप्ता पद्मयोनिना ।
मावरुन्धां कृतौ पूर्वं मृन्मयौ द्वौ महासुरौ॥२१॥

पुराणस्य पणस्य कार्षापणादिव्यवहारप्रवृत्तेः प्रागित्यर्थः। संक्षिप्ता सम्यक् दृष्टा। असुरौ मधुकैटभौ कृताविति पाठेऽपि हतावित्येवार्थः॥२१॥

कर्णस्रोतोद्भवौ तौ हि विष्णोरस्य महात्मनः ।
महार्णवे प्रस्वपतः काष्ठकुड्यसमौ स्थितौ॥२२॥

तयोरुत्पतिमाह- कर्णेति। स्रोतोद्भवौ स्रवतीति स्रोतः मलं तदुद्भवौ सन्धिरार्षः। "विष्णुकर्णमलोद्भूतौ” इत्यन्यत्र दृष्टम्। काष्ठकुड्यसमौ अचेतनौ॥२२॥

तौ विवेश स्वयं वायुर्ब्रह्मणा साधु चोदितः ।
दिवं प्रच्छादयन्तौ तु ववृधाते महासुरौ॥२३॥

वायुप्राणौ तु तौ गृह्य ब्रह्मा पर्यमृशच्छनैः ।
एकं मृदुतरं मेने कठिनं वेद चापरम्॥२४॥

वायुः प्राणरूपी पर्यमृशत् पस्पर्श॥२४॥

नामनी तु तयोश्चक्रे स विभुः सलिलोद्भवः ।
मृदुस्त्वयं मधुर्नाम कठिनः कैटभोऽभवत्॥२५॥

तौ दैत्यौ कृतनामानौ चेरतुर्बलदर्पितौ ।
सर्वमेकार्णवं लोकं योद्धुकामौ सुदुर्जयौ॥२६॥

तावागतौ समालोक्य ब्रह्मा लोकपितामहः ।
एकार्णवाम्बुनिचये तत्रैवान्तरधीयत॥२७॥

स पद्मे पद्मनाभस्य नाभिमध्यात्समुत्थिते ।
रोचयामास वसतिं गुह्यां ब्रह्मा चतुर्मुखः॥२८॥

तावुभौ जलगर्भस्थौ नारायणपितामहौ ।
बहून्वर्षगणानप्सु शयानौ न चकम्पतुः॥२९॥

नारायणः पितामहो ययोस्तौ॥२९॥

अथ दीर्घस्य कालस्य तावुभौ मधुकैटभौ ।
आजग्मतुस्तमुद्देशं यत्र ब्रह्मा व्यवस्थितः॥३०॥

दृष्ट्वा तावसुरौ घोरौ महाकायौ दुरासदौ ।
ब्रह्मणा ताडितो विष्णुः पद्मनालेन वै तदा ।
उत्पपाताथ शयनात्पद्मनाभो महाद्युतिः॥३१॥

तद्युद्धमभवद्घोरं तयोस्तस्य च वै तदा ।
एकार्णवे तदा लोके त्रैलोक्ये जलतां गते॥३२॥

तदाभूत्तुमुलं युद्धं वर्षसङ्ख्यासहस्रशः ।
न च तावसुरौ युद्धे तदा श्रममवापतुः॥३३॥

वर्षाणां सङ्ख्या यस्मिन् युद्धे सहस्रैः सङ्ख्या इति तत् वर्षसङ्ख्यासहस्रशः॥३३॥

अथातो दीर्घकालस्य तौ दैत्यौ युद्धदुर्मदौ ।
ऊचतुः प्रीतमनसौ देवं नारायणं हरिम्॥३४॥

अथ अनन्तरम् अतः युद्ध्यतोस्तयोर्नारायणस्य च श्रमाभावात् युद्धाय निर्विण्णाविति भावः॥३४॥

प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः ।
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता॥३५॥

हतौ च तव पुत्रत्वं प्राप्नुयावः सुरोत्तम ।
यो ह्यावां युधि निर्जेता तस्यावां विहितौ सुतौ॥३६॥

विहितौ सुतौ ब्रह्मणेति शेषः॥३६॥

स तु गृह्य मृधे दोर्भ्यां दैत्यौ तावभ्यपीडयत् ।
जग्मतुर्निधनं चापि तावुभौ मधुकैटभौ॥३७॥

स तु गृह्येति॥३७॥

तौ हतौ चाप्लुतौ तोये वपुर्भ्यामेकतां गतौ ।
मेदो मुमुचतुर्दैत्यौ मथ्यमानौ जलोर्मिभिः॥३८॥

मेदसा तज्जलं व्याप्तं ताभ्यामन्तर्दधेऽनघः ।
नारायणश्च भगवानसृजत्स पुनः प्रजाः॥३९॥

दैत्ययोर्मेधसाच्छन्ना मेदिनीति ततः स्मृता ।
प्रभावात्पद्मनाभस्य शाश्वती जगती कृता॥४०॥

कुत्र प्रजा असृजदित्यपेक्षायामाह- दैत्ययोरिति॥४०॥

वाराहेण पुरा भूत्वा मार्कण्डेयस्य पश्यतः ।
विषाणेनाहमेकेन तोयमध्यात्समुद्धृता॥४१॥

विषाणेन दंष्ट्राग्रेण॥४१॥

हृताहं क्रमतो भूयस्तदा युष्माकमग्रतः ।
बलेः सकाशाद्दैत्यस विष्णुना प्रभविष्णुना॥४२॥

साम्प्रतं खिद्यमानाहमेनमेव गदाधरम् ।
अनाथा जगतो नाथं शरण्यं शरणं गता॥४३॥

अग्निः सुवर्णस्य गुरुर्गवां सूर्यो गुरुः स्मृतः ।
नक्षत्राणां गुरुः सोमो मम नारायणो गुरुः॥४४॥

गुरुः कारणं गवां रश्मीनाम्॥४४॥

यदहं धारयाम्येका जगत्स्थावरजङ्गमम् ।
मया धृतं धारयते सर्वमेतद्गदाधरः॥४५॥

एतत्सर्वं मया सहितम्॥४५॥

जामदग्न्येन रामेण भारावतरणेप्सया ।
रोषात्त्रिःसप्तक्रित्त्वोहं क्षत्रियैर्विप्रयोजिता॥४६॥

साऽस्मि वेद्यां समारोप्य तर्पिता नृपशोणितैः ।
भार्गवेण पितुः श्राद्धे कश्यपाय निवेदिता॥४७॥

समारोप्य रणस्तम्भमिति शेषः॥४७॥

मांसमेदोस्थिदुर्गन्धा दिग्धा क्षत्रियशोणितैः ।
रजस्वलेव युवतिः कश्यपं समुपस्थिता॥४८॥

स मां ब्रह्मर्षिरप्याह किमुर्वि त्वमवाङ्मुखी ।
वीरपत्नीव्रतमिदं धारयन्ती विषीदसि॥४९॥

वीरस्य रणे हतस्य पत्नी तस्याः व्रतं सद्यो हतभर्तृकाया रूपम् इति यावत्॥४९॥

साहं विज्ञापितवती कश्यपं लोकभावनम् ।
पतयो मे हता ब्रह्मन्भार्गवेण महात्मना॥५०॥

साहं विहीना विक्रान्तैः क्षत्रियैः शस्त्रवृत्तिभिः ।
विधवा शून्यनगरा न धारयितुमुत्सहे॥५१॥

धारयितुं लोकम् आत्मानं वेति शेषः॥५१॥

तन्मह्यं दीयतां भर्ता भगवंस्त्वत्समो नृपः ।
रक्षेत्सग्रामनगरां यो मां सागरमालिनीम्॥५२॥

स श्रुत्वा भगवान्वाक्यं बाढमित्यब्रवीत्प्रभुः ।
ततो मां मानवेन्द्राय मनवे स प्रदत्तवान्॥५३॥

मनवे श्राद्धदेवाय॥५३॥

सा मनुप्रभवं दिव्यं प्राप्येक्ष्वाकुकुलं नृपम् ।
विपुलेनास्मि कालेन पार्थिवात्पार्थिवं गता॥५४॥

एवं दत्तास्मि मनवे मानवेन्द्राय धीमते ।
भुक्ता राजसहस्रैश्च महर्षिकुलसम्मितैः॥५५॥

बहवः क्षत्रियाः शूरा मां जित्वा दिवमाश्रिताः ।
ते च कालवशं प्राप्य मय्येव प्रलयं गताः॥५६॥

मत्कृते विग्रहा लोके वृत्ता वर्तन्त एव च ।
क्षत्रियाणां बलवतां सङ्ग्रामेष्वनिवर्तिनाम्॥५७॥

एतद्युष्मत्प्रवृत्तेन दैवेन परिपाल्यते ।
जगद्धितार्थं कुरुत राज्ञां हेतुं रणक्षये॥५८॥

क्षये हेतुमिति सम्बन्धः॥५८॥

यद्यस्ति मयि कारुण्यं भारशैथिल्यकारणात् ।
एकश्चक्रधरः श्रीमानभयं मे प्रयच्छतु॥५९॥

यमहं भारसन्तप्ता सम्प्राप्ता शरणार्थिनी ।
भारो यद्यवरोप्तव्यो विष्णुरेष ब्रवीतु माम्॥६०॥

अवरोप्तव्यः उत्तारणीयः॥६०॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि धरणीवाक्ये द्विपञ्चाशत्तमोऽध्यायः॥५२॥
अंशावतरणम्

वैशम्पायन उवाच ते श्रुत्वा पृथिवीवाक्यं सर्व एव दिवौकसः ।
तदर्थकृत्यं सञ्चिन्त्य पितामहमथाब्रुवन्॥१॥

त्रिपञ्चाशत्तमेऽध्याये कृतमंशावतारणम्। देवोक्तैर्विष्णुनाऽऽदिष्टैर्यथायोग्यत उच्यते॥१॥ ते श्रुत्वा तदर्थकृत्यं पृथिव्याः प्रयोजनस्य साधकं कार्यम्॥१॥

भगवन्ह्रियतामस्या धरण्या भारसन्ततिः ।
शरीरकर्ता लोकानां त्वं हि लोकस्य चेश्वरः॥२॥

यत्कर्तव्यं महेन्द्रेण यमेन वरुणेन च ।
यद्वा कार्यं धनेशेन स्वयं नारायणेन वा॥३॥

यद्वा चन्द्रमसा कार्यं भास्करेणानिलेन वा ।
आदित्यैर्वसुभिर्वापि रुद्रैर्वा लोकभावनैः॥४॥

अश्विभ्यां देववैद्याभ्यां साध्यैर्वा त्रिदशालयैः ।
बृहस्पत्युशनोभ्यां वा कालेन कलिनापि वा॥५॥

महेश्वरेण वा ब्रह्मन्विशाखेन गुहेन वा ।
यक्षराक्षसगन्धर्वैश्चारणैर्वा महोरगैः॥६॥

पतङ्गैः पर्वतैश्चापि सागरैर्वा महोर्मिभिः ।
गङ्गामुखाभिर्दिव्याभिः सरिद्भिर्वा सुरेश्वर॥७॥

क्षिप्रमाज्ञापय विभो कथमंशः प्रयुज्यताम् ।
यदि ते पार्थिवं कार्यं कर्यं पार्थिवविग्रहे॥८॥

पार्थिवं पृथिवीहितं कार्यं प्रयोजनं कार्यम् अवश्यकर्तव्यम्॥८॥

कथमंशावतरणं कुर्मः सर्वे पितामह ।
अन्तरिक्षगता ये च पृथिव्यां पार्थिवाश्च ये॥९॥

सदस्यानां च विप्राणां पर्थिवानं कुलेषु च ।
अयोनिजाश्चैव तनूः सृजामो जगतीतले॥१०॥

सुराणामेककार्याणां श्रुत्वैतन्निश्चितं मतम् ।
देवैः परिवृतैः प्राह वाक्यं लोकपितामहः॥११॥

रोचते मे सुरश्रेष्ठा युष्माकमपि निश्चयः ।
सृजध्वं स्वशरीरांशांस्तेजसाऽऽत्मसमान्भुवि॥१२॥

सर्व एव सुरश्रेष्ठास्तेजोभिरवरोहत ।
भावयन्तो भुवं देवीं लब्ध्वा त्रिभुवनश्रियम्॥१३॥

अवरोहत अवतारं कुरुत। भावयन्तः पालयन्तः॥१३॥

पार्थिवे भारते वंशे पूर्वमेव विजानता ।
पृथिव्यां सम्भ्रममिमं श्रूयतां यन्मया कृतम्॥१४॥

पार्थिवे पृथिवीस्थे वंशे पृथिव्यां यत् मया कृतं तच्छूयतां कीदृशेन इमं सम्भ्रमं भूमेर्भयं विजानतेति सम्बन्धः॥१४॥

समुद्रेऽहं पुरा पूर्वे वेलामासाद्य पश्चिमाम् ।
आसे सार्धं तनूजेन कश्यपेन महात्मना॥१५॥

तनूजेन पुत्रेण सह कथाभिः हेतुभूताभिः कथाप्रसङ्गनिमित्तम् आसे उपविष्टोऽभूवमिति द्वयोरन्वयः॥१५॥

कथाभिः पूर्ववृत्ताभिर्लोकवेदानुगामिभिः ।
इतिवृत्तैश्च बहुभिः पुराणप्रभवैर्गुणैः॥१६॥

इतिवृत्तैरितिहासैः गुणैर्गुणवद्भिः॥१६॥

कुर्वतस्तु कथास्तास्ताः समुद्रः सह गङ्गया ।
समीपमाजगामाशु युक्तस्तोयदमारुतैः॥१७॥

समुद्रः मूर्तिमान्॥१७॥

स वीचिविषमां कुर्वन्गतिं वेगतरङ्गिणीम् ।
यादोगणविचित्रेण सञ्छन्नस्तोयवाससा॥१८॥

स्थावररूपेण विषमां गतिं कुर्वन् तोयवाससा तोयवत् श्वेतेन वाससा यादोगणाकारं विशिष्टं चित्रं यस्मिन् तेन॥१८॥

शङ्खमुक्तामलतनुः प्रवालद्रुमभूषणः ।
युक्तचन्द्रमसा पूर्णः साभ्रगम्भीरनिःस्वनः॥१९॥

चन्द्रमसा स्थावरस्वरूपस्य विषमगतिनिमित्तेन॥१९॥

स मां परिभवन्नेव स्वां वेलां समतिक्रमन् ।
क्लेदयामास चपलैर्लावणैरम्बुविस्रवैः॥२०॥

तं च देशं व्यवसितः समुद्रोद्भिर्विमर्दितुम् ।
उक्तः संरब्धया वाचा शान्तोऽसीति मया तदा॥२१॥

शान्तोऽसीत्यशान्तेऽपि विरुद्धलक्षणया उपहासः॥२१॥

शान्तोऽसीत्युक्तमात्रस्तु तनुत्वं सागरो गतः ।
संहतोर्मितरङ्गौघः स्थितो राजश्रिया ज्वलन्॥२२॥

भूयश्चैव मया शप्तः समुद्रः सह गङ्गया ।
सकारणां मतिं कृत्वा युष्माकं हितकाम्यया॥२३॥

सकारणां भारावतारणनिमित्तवतीम्॥२३॥

यस्मात्त्वं राजतुल्येन वपुषा समुपस्थितः ।
गच्छार्णव महीपालो राजैव त्वं भविष्यसि॥२४॥

तत्रापि सहजां लीलां धारयन्स्वेन तेजसा ।
भविष्यसि नृणां भर्ता भारतानां कुलोद्वहः॥२५॥

शान्तोऽसीति मयोक्तस्त्वं यच्चासि तनुतां गतः ।
सुतनुर्यशसा लोके शन्तनुस्त्वं भविष्यसि॥२६॥

इयमप्यायतापङ्गी गङ्गा सर्वाङ्गशोभना ।
रूपिणी च सरिच्छ्रेष्ठा तत्र त्वामुपयास्यति॥२७॥

एवमुक्तस्तु मां क्षुब्धः सोऽभिवीक्ष्यार्णवोऽब्रवीत् ।
मां प्रभो देवदेवानां किमर्थं शप्तवानसि॥२८॥

देवदेवानां रुद्रादीनाम्॥२८॥

अहं तव विधेयात्मा त्वत्कृतस्त्वत्परायणः ।
अशपोऽसदृशैर्वाक्यैरात्मजं मां किमात्मना॥२९॥

विधेयात्मा आज्ञाकारी अशपः शापं दत्तवानसि॥२९॥

भगवंस्त्वत्प्रसादेन वेगात्पर्वणि वर्धितः ।
यद्यहं चलितो ब्रह्मन्कोऽत्र दोषो ममात्मनः॥३०॥

क्षिप्ताभिः पवनैरद्भिः स्पृष्टो यद्यसि पर्वणि ।
अत्र मे किं नु भगवन्विद्यते शापकारणम्॥३१॥

उद्धतैश्च महावातैः प्रवृद्धैश्च बलाहकैः ।
पर्वणा चेन्दुयुक्तेन त्रिभिः क्षुब्धोऽस्मि कारणैः॥३२॥

एवं यद्यपराद्धोऽहं कारणैस्त्वत्प्रकल्पितैः ।
क्षन्तुमर्हसि मे ब्रह्मञ्छापोऽयं विनिवर्त्यताम्॥३३॥

एवं मयि निरालम्बे शापाच्छिथिलतां गते ।
कारुण्यं कुरु देवेश प्रमाणं यद्यवेक्षसे॥३४॥

प्रमाणं शरणागतोपेक्षायां दोषप्रतिपादकं वेदम्॥३४॥

अस्यास्तु देवगङ्गाया गां गतायास्त्वदाज्ञया ।
मम दोषात्सदोषायाः प्रसादं कर्तुमर्हसि॥३५॥

तमहं श्लक्ष्णया वाच महार्णवमथाब्रुवम् ।
अकारणज्ञं देवानां त्रस्तं शापानलेन तम्॥३६॥

शान्तिं व्रज न भेतव्यं प्रसन्नोऽस्मि महोदधे ।
शापेऽस्मिन्सरितां नाथ भविष्यं शृणु कारणम्॥३७॥

त्वं गच्छ भारते वंशे स्वं देहं स्वेन तेजसा ।
आधत्स्व सरितां नाथ त्यक्त्वेमां सागरीं तनुम्॥३८॥

तेजसा त्यक्त्वेति सम्बन्धः। योगबलेन विभज्येत्यर्थः। आधत्स्व गर्भे इति शेषः॥३८॥

महोदधे महीपालस्तत्र राजश्रिया वृतः ।
पालयंश्चतुरो वर्णान्व्रंस्यसे सलिलेश्वर॥३९॥

तत्र वंशे॥३९॥

इयं च ते सरिच्छ्रेष्ठा बिभ्रती रूपमुत्तमम् ।
तत्कालं रमणीयाङ्गी गङ्गा परिचरिष्यति॥४०॥

अनया सह जाह्नव्या मोदमानो ममाज्ञया ।
इमं सलिलसङ्क्लेदं विस्मरिष्यसि सागर॥४१॥

सङ्क्लेदं सङ्क्लेदनापराधप्राप्तं मानुषयोनिजं दुःखं विस्मरिष्यसि तत्रत्यमुखास्वादनेन॥४१॥

त्वरता चैव कर्तव्यं त्वयेदं मम शासनम् ।
प्राजापत्येन विधिना गङ्गया सह सागर॥४२॥

प्राजापत्येन वैवाहिकेन॥४२॥

वसवः प्रच्युताः स्वर्गात्प्रविष्टाश्च रसातलम् ।
तेषामुत्पादनार्थाय त्वं मया विनियोजितः॥४३॥

अष्टौ ताञ्जाह्नवी गर्भानपत्यार्थं दधात्वियम् ।
विभावसोस्तुल्यगुणान्सुराणां प्रीतिवर्धनान्॥४४॥

विभावसोरग्नेः तुल्यगुणान् तद्वल्लोकप्रीतिकरान्॥४४॥

उत्पाद्य त्वं वसूञ्छीघ्रं कृत्वा कुरुकुलं महत् ।
प्रवेष्टासि तनुं त्यक्त्वा पुनः सागर सागरीम्॥४५॥

तनुं मनुष्यशरीरम्॥४५॥

एवमेतन्मया पूर्वं हितार्थं वः सुरोत्तमाः ।
भविष्यं पश्यतां भारं पृथिव्याः पार्थिवात्मकम्॥४६॥

तदेष शन्तनोर्वंशः पृथिव्यां रोपितो मया ।
वसवो ये च गङ्गायामुत्पन्नास्त्रिदिवौकसः॥४७॥

अद्यापि भुवि गाङ्गेयस्तत्रैव वसुरष्टमः ।
सप्तेमे वसवः प्राप्ताः स एकः परिलम्बते॥४८॥

परिलम्बते भुवं श्रयते॥४८॥

द्वितीयायां स सृष्टायां द्वितीया शन्तनोस्तनुः ।
विचित्रवीर्यो द्युतिमानासीद्राजा प्रतापवान्॥४९॥

सृष्टायां सङ्गतायां भार्यायां सत्यवतीसंज्ञायां द्वितीया भीष्मापेक्षया तनुः पुत्रः चित्राङ्गदस्य पूर्वमेव मृतत्वादगणना॥४९॥

वैचित्र्यवीर्यौ द्वावेव पार्थिवौ भुवि साम्प्रतम् ।
धृतराष्ट्रश्च पाण्डुश्च विख्यातौ पुरुषर्षभौ॥५०॥

तत्र पाण्डोः श्रिया धृष्टे द्वे भार्ये सम्बभूवतुः ।
शुभे कुन्ती च माद्री च देवयोषोपमे तु ते॥५१॥

धृतराष्ट्रस्य राज्ञस्तु भार्यैका तुल्यचारिणी ।
गान्धारी भुवि विख्याता भर्तुर्नित्यं व्रते स्थिता॥५२॥

तत्र वंशा विभज्यन्तां विपक्षाः पक्ष एव च ।
पुत्राणां हि तयो राज्ञोर्भविता विग्रहो महान्॥५३॥

तेशां विमर्दे दायाद्ये नृपाणां भविता क्षयः ।
युगान्तप्रतिमं चैव भविष्यति महद्भयम्॥५४॥

सबलेषु नरेन्द्रेषु शान्तयस्त्वितरेतरम् ।
विविक्तपुरराष्ट्रौघा क्षितिः शैथिल्यमेष्यति॥५५॥

विविक्तानि विजनानि पुरादीनि तेषामोघो यस्यां सा विविक्तपुरराष्ट्रौघा शैथिल्यं निर्बलत्वम्॥५५॥

द्वापरस्य युगस्यान्ते मया दृष्टं पुरातनम् ।
क्षयं यास्यन्ति शस्त्रेण मानवैः सह पार्थिवाः॥५६॥

तत्रावशिष्टान्मनुजान्सुप्तान्निशि विचेतसः ।
धक्ष्यते शङ्करस्यांशः पावकेनास्त्रतेजसा॥५७॥

शङ्करस्यांशः अश्वत्थामा॥५७॥

अन्तकप्रतिमे तस्मिन्निवृत्ते क्रूरकर्मणि ।
समाप्तमिदमाख्यास्ये तृतीयं द्वापरं युगम्॥५८॥

अन्तकप्रतिमे कल्पान्ततुल्ये॥५८॥

महेश्वरांशेऽपसृते ततो माहेश्वरं युगम् ।
शिष्यं प्रवर्तते पश्चाद्युगं दारुणदर्शनम्॥५९॥

महेश्वरांशे विष्ण्वंशे श्रीकृष्णेऽपसृते वैकुण्ठं गते सति माहेश्वरं रौद्रं युगं शिष्यं कलिः॥५९॥

अधर्मप्रायपुरुषं स्वल्पधर्मप्रतिग्रहम् ।
उत्सन्नसत्यसंयोगं वर्धितानृतसञ्चयम्॥६०॥

महेश्वरं कुमारं च द्वौ च देवौ समाश्रिताः ।
भविष्यन्ति नराः सर्वे लोके न स्थविरायुषः॥६१॥

महेश्वरं रुद्रं कुमारं स्कन्दम्॥६१॥

तदेष निर्णयः श्रेष्ठः पृथिव्यां पार्थिवान्तकः ।
अंशावतरणं सर्वे सुराः कुरुत मा चिरम्॥६२॥

धर्मस्यांशस्तु कुन्त्यां वै माद्र्यां च विनियुज्यताम् ।
विग्रहस्य कलिर्मूलं गान्धार्यां विनियुज्यताम्॥६३॥

धर्मस्येति। धर्मपक्षीयाणां ग्रहणम्। कलिरिति तत्पराणां रक्षसाम्॥६३॥

एतौ पक्षौ भविष्यन्ति राजानः कालचोदिताः ।
जातरागाः पृथिव्यर्थे सर्वे सङ्ग्रामलालसाः॥६४॥

गच्छत्वियं वसुमती स्वां योनिं लोकधारिणी ।
सृष्टोऽयं नैष्ठिको राज्ञामुपायो लोकविश्रुतः॥६५॥

योनिः स्थानं निष्ठा मरणं तदर्थः नैष्ठिकः॥६५॥

श्रुत्वा पितामहवचः सा जगाम यथागतम् ।
पृथिवी सह कालेन वधाय पृथिवीक्षिताम्॥६६॥

देवानचोदयद्ब्रह्मा निग्रहार्थे सुरद्विषाम् ।
नरं चैव पुराणर्षिं शेषं च धरणीधरम्॥६७॥

सनत्कुमारं साध्यांश्च सुरांश्चाग्निपुरोगमान् ।
वरुणं च यमं चैव सूर्याचन्द्रमसौ तदा॥६८॥

गन्धर्वाप्सरसश्चैव रुद्रादित्यास्तथाश्विनौ ।
ततोऽंशानवनिं देवाः सर्व एवावतारयन्॥६९॥

यथा ते कथितं पूर्वमंशावतरणं मया ।
अयोनिजा योनिजाश्च ते देवाः पृथिवीतले॥७०॥

पूर्वम् आदिपर्वणि॥७०॥

दैत्यदानवहन्तारः सम्भूताः पुरुषेश्वराः ।
क्षीरिकावृक्षसङ्काशा वज्रसंहननास्तथा॥७१॥

क्षीरिकावृक्षः राज्ञीवृक्षः तद्वत्पुष्टाः वज्रसंहननाः दृढाङ्गाः॥७१॥

नागायुतबलाः केचित्केचिदोघबलान्विताः ।
गदापरिघशक्तीनां सहाः परिघबाहवः॥७२॥

ओघबलाः महाप्रवाहबलाः॥७२॥

गिरिशृङ्गप्रहर्तारः सर्वे परिघयोधिनः ।
वृष्णिवंशसमुत्पन्नाः शतशोऽथ सहस्रशः॥७३॥

कुरुवंशे च ते देवाः पञ्चालेषु च पार्थिवाः ।
याज्ञिकानां समृद्धानां ब्राह्मणानां च योनिषु॥७४॥

सर्वास्त्रज्ञा महेष्वासा वेदव्रतपरायणाः ।
सर्वर्धिगुणसम्पन्ना यज्वानः पुण्यकर्मिणः॥७५॥

आचालयेयुर्ये शैलान्क्रुद्धा भिन्द्युर्महीतलम् ।
उत्पतेयुरथाकाशं क्षोभयेयुर्महोदधिम्॥७६॥

एवमादिश्य तान्ब्रह्मा भूतभव्यभवत्प्रभुः ।
नारायणे समावेश्य लोकाञ्शान्तिमुपागमत्॥७७॥

नारायणे इति। भगवन् लोकान् पाहीत्युक्त्वेत्यर्थः॥७७॥

भूयः शृणु यथा विष्णुरवतीर्णो महीतले ।
प्रजानां वै हितार्थाय प्रभुः प्राणहितेश्वरः॥७८॥

हितेश्वरः हिते समर्थः॥७८॥

ययातिवंशजस्याथ वसुदेवस्य धीमतः ।
कुले पूज्ये यशस्कर्मा जज्ञे नारायणः प्रभुः॥७९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि देवानामंशावतरणे त्रिपञ्चाशत्तमोऽध्यायः॥५३॥
विष्णुं प्रति देवर्षेर्वाक्यम्

वैशम्पायन उवाच। कृतकार्ये गते काले जगत्यां च यथानयम् ।
अंशावतरणे वृत्ते सुराणां भारते कुले॥१॥

चतुःपञ्चाशकेऽध्यायेऽवतारायास्य भूतले। श्रीविष्णुं प्रति देवर्षेर्वाक्यमद्भुतमुच्यते॥१॥ यथानयं यथान्यायम् अंशावतरणे वृते सति नारदः प्रत्यदृश्यतेति षष्ठस्थेनान्वयः॥१॥

भागेऽवतीर्णे धर्मस्य शक्रस्य पवनस्य च ।
अश्विनोर्देवभिषजोर्भागे वै भास्करस्य च॥२॥

धर्मस्य भागे युधिष्ठिरे शक्रस्यार्जुने पवनस्य भीमसेने अश्विनोर्नकुलसहदेवरूपे भागे भास्करस्य कर्णे॥२॥

पूर्वमेवावनिगते भागे देवपुरोधसः ।
वसूनामष्टमे भागे प्रागेव धरणीं गते॥३॥

देवपुरोधसो बृहस्पतेर्द्रोणे वसूनामष्टमे भीष्मे॥३॥

मृत्योर्भागे क्षितिगते कलेर्भागे तथैव च ।
भागे शुक्रस्य सोमस्य वरुणस्य च गां गते॥४॥

मृत्योर्यमस्य विदुरे कलेर्दुर्योधने सोमस्याभिमन्यौ शुक्रस्य भूरिश्रवसि वरुणस्य श्रुतायुधे पर्णाशातनये॥४॥

शङ्करस्य गते भागे मित्रस्य धनदस्य च ।
गन्धर्वोरगयक्षाणां भागांशेषु गतेषु च॥५॥

शङ्करस्याश्वत्थाम्नि मित्रस्य कणिके धनदस्य धृतराष्ट्रे गन्धर्वादीनां देवकोग्रसेनदुःशासनादिषु॥५॥

भागेष्वेतेषु गगनादवतीर्णेषु मेदिनीम् ।
तिष्ठन्नारायणस्यांशे नारदः समदृश्यत॥६॥

अंशे देवतापक्षे इत्यर्थः। तिष्ठन् स्थितिमान्॥६॥

ज्वलिताग्निप्रतीकाशो बालार्कसदृशेक्षणः ।
सव्यापवृत्तं विपुलं जटामण्डलमुद्वहन्॥७॥

सव्यापवृत्तम् अप्रदक्षिणवेष्टितम्॥७॥

चन्द्रांशुशुक्ले वसने वसानो रुक्मभूषितः ।
वीणां गृहीत्वा महतीं कक्षासक्तां सखीमिव॥८॥

कृष्णाजिनोत्तरासङ्गो हेमयज्ञोपवीतवान् ।
दण्डी कमण्डलुधरः साक्षाच्छक्र इवापरः॥९॥

भेत्ता जगति गुह्यानां विग्रहाणां ग्रहोपमः ।
गाता चतुर्णां वेदानामुद्गाता प्रथमर्त्विजाम् ।
महर्षिविग्रहरुचिर्विद्वान्गान्धर्वकोविदः॥१०॥

ग्रहोपमः सूर्यादिसमः। धूमकेत्वादिसम उत्पातहेतुत्वादिति वा॥१०॥

वैरिकेलिकिलो विप्रो ब्राह्मः कलिरिवापरः ।
देवगन्धर्वलोकानामादिवक्ता महामुनिः॥११॥

वैरिणां केल्या सङ्ग्रामेण किलः क्रीडा यस्य स वैरिकेलिकिलः “किल शौक्ल्ये क्रीडायां च” इति धातुरिति प्राञ्चः। “लीलाकेलिकिला" इति तु विश्वः॥११॥

स नारदोऽथ ब्रह्मर्षिर्ब्रह्मलोकचरोऽव्ययः ।
स्थितो देवसभामध्ये संरब्धो विष्णुमब्रवीत्॥१२॥

अंशावतरणं विष्णोर्यदिदं त्रिदशैः कृतम् ।
क्षयार्थं पृथिवीन्द्राणां सर्वमेतदकारणम्॥१३॥

अकारणं कारणेन त्वया हीनत्वान्निष्फलम्॥१३॥

यदेतत्पार्थिवं क्षत्रं स्थितं त्वयि यदीश्वर ।
नृनारायणयुक्तोऽयं कार्यार्थः प्रतिभाति मे॥१४॥

यत् यतः यत् क्षत्रं युद्धं तत् त्वयि स्थितं त्वदधीनम्। अतः कार्यार्थः प्रयोजनसिद्धिः नृनारायणाभ्यां युक्त एव मे प्रतिभाति ताभ्यां विना नेत्यर्थः॥१४॥

न युक्तं जानता देव त्वया तत्वार्थदर्शिना ।
देवदेव पृथिव्यर्थे प्रयोक्तुं कार्यमीदृशम्॥१५॥

ईदृशं नृनारायणहीनम्॥१५॥

त्वं हि चक्षुष्मतां चक्षुः श्लाघ्यः प्रभवतां प्रभुः ।
श्रेष्ठो योगवतां योगी गतिर्गतिमतामपि॥१६॥

अत्र हेतुमाह- त्वं हीति। त्वाम् अन्तर्यामिणं विना सर्वेऽप्येते निरर्थका इत्यर्थः॥१६॥

देवभागाङ्गतान्दृष्ट्वा किं त्वं सर्वाश्रयो विभुः ।
वसुन्धरायाः साह्यार्थमंशं स्वं नानुयुञ्जसे॥१७॥

अनुयुञ्जसे न नियोजयसि॥१७॥

त्वया सनाथ देवांशास्त्वन्मयास्त्वत्परायणाः ।
जगत्यां सञ्चरिष्यन्ति कार्यात्कार्यान्तरं गताः॥१८॥

तदहं त्वरया विष्णो प्राप्तः सुरसभामिमाम् ।
तव सञ्चोदनार्थं वै शृणु चाप्यत्र कारणम्॥१९॥

ये त्वया निहता दैत्याः सङ्ग्रामे तारकामये ।
तेषां शृणु गतिं विष्णो ये गताः पृथिवीतलम्॥२०॥

पुरी पृथिव्यां मुदिता मथुरा नामतः श्रुता ।
निविष्टा यमुनातीरे स्फीता जनपदायुता॥२१॥

मधुर्नाम महानासीद्दानवो युधि दुर्जयः ।
त्रासनः सर्वभूतानां बलेन महतान्वितः॥२२॥

तस्य तत्र महच्चासीन्महापादपसङ्कुलम् ।
घोरं मधुवनं नाम यत्रासौ न्यवसत्पुरा॥२३॥

तस्य पुत्रो महानासील्लवणो नाम दानवः ।
त्रासनः सर्वभूतानां महाबलपराक्रमः॥२४॥

स तत्र दानवः क्रीडन्वर्षपूगाननेकशः ।
स दैवतगणाँल्लोकानुद्वासयति दर्पितः॥२५॥

अयोध्यायामयोध्यायां रामे दाशरथौ स्थिते ।
राजं शासति धर्मज्ञे राक्षसानां भयावहे॥२६॥

अयोध्यायां योद्धुमयोग्यायाम्॥२६॥

स दानवो बलश्लाघी घोरं वनमुपाश्रितः ।
प्रेषयामास रामाय दूतं परुषवादिनम्॥२७॥

विषयासन्नभूतोऽस्मि तव राम रिपुश्च ह ।
न च सामन्तमिच्छन्ति राजानो बलदर्पितम्॥२८॥

विषयस्य त्वद्देशस्य आसन्नभूतः सन्निहितोऽस्मि रिपुश्च ह प्रसिद्धं तवास्मि। सामन्तं समीपदेशे स्थितं रिपुं सामन्तम्॥२८॥

राज्ञा राज्यव्रतस्थेन प्रजानां हितकाम्यया ।
जेतव्या रिपवः सर्वे स्फीतं विषयमिच्छता॥२९॥

अभिषेकार्द्रकेशेन राज्ञा रञ्जनकाम्यया ।
जेतव्यानीन्द्रियाण्यादौ तज्जये हि ध्रुवो जयः॥३०॥

सम्यग्वर्तितुकाम्यस्य विशेषेण महीपतेः ।
नयानामुपदेशेन नास्ति लोकसमो गुरुः॥३१॥

सम्यगिति। लोकत एव लौकिकं हिताहितं ज्ञातुं शक्यते न तत्र शास्त्रापेक्षास्तीति भावः॥३१॥

व्यसनेषु जघन्यस्य धर्ममध्यस्य धीमतः ।
फलज्येष्ठस्य नृपतेर्नास्ति सामन्तजं भयम्॥३२॥

जघन्यस्य अवरस्य दूतमृगयादौ आदरहीनस्येत्यर्थः॥३२॥

सहजैर्बाध्यते सर्वः प्रवृद्धैरिन्द्रियारिभिः ।
अमित्राणां प्रियकरैर्मोहैरधृतिरीश्वरः॥३३॥

मोहैर्मोहहेतुभिः अधृतिरधीर ईश्वरो वा॥३३॥

यत्त्वया स्त्रीकृते मोहात्सगणो रावणो हतः ।
नैतदौपयिकं मन्ये महद्वै कर्म कुत्सितम्॥३४॥

औपयिकं युक्तिमत् महदपि निन्द्यमेवेत्यर्थः॥३४॥

वनवासप्रवृत्तेन यत्त्वया व्रतशालिना ।
प्रहृतं राक्षसानीके नैव दृष्टः सतां विधिः॥३५॥

निन्द्यत्वमेवाह- वनेति॥३५॥

सतामक्रोधजो धर्मः शुभां नयति सद्गतिम् ।
यत्त्वया निहता मोहाद्दूषिताश्चाश्रमौकसः॥३६॥

त्वया व्रतवतापि यत् मोहात् निहताः रावणादयः तेन आश्रमौकसो व्रतिनो दूषिताः त्वदीयं व्रतोल्लङ्घनं दृष्ट्वाऽन्येऽपि व्रतिनो व्रतं लङ्घयिष्यन्ति अतो दुराचारप्रवर्तकोऽसीति भावः॥३६॥

स एष रावणो धन्यो यस्त्वया व्रतचारिणा ।
स्त्रीनिमित्ते हतो युद्धे ग्राम्यान्धर्मानवेक्षता॥३७॥

तदेवाह- स इति॥३७॥

यदि ते निहतः सङ्ख्ये दुर्बुद्धिरजितेन्द्रियः ।
युद्ध्यस्वाद्य मया सार्धं मृधे यद्यसि वीर्यवान्॥३८॥

तस्य दूतस्य तच्छ्रुत्वा भाषितं तत्त्ववादिनः ।
धैर्यादसम्भ्रान्तवपुः सस्मितं राघवोऽब्रवीत्॥३९॥

असदेतत्त्वया दूत भाषितं तस्य गौरवात् ।
यन्मां क्षिपसि दोषेण वेदात्मानं च सुस्थिरम्॥४०॥

यद्यहं तत्पथे मूढो यदि वा रावणो हतः ।
यदि वा मे हृता भार्या का तत्र परिदेवना॥४१॥

परिदेवना आक्रन्दनम्॥४१॥

न वाङ्मात्रेण दुष्यन्ति साधवः सत्पथे स्थिताः ।
जागर्ति च यथा देवः सदा सत्स्वितरेषु च॥४२॥

इतरेषु असत्सु॥४२॥

कृतं दूतेन यत्कार्यं गच्छ त्वं दूत मा चिरम् ।
नात्मश्लाघिषु नीचेषु प्रहरन्तीह मद्विधाः॥४३॥

अयं ममानुजो भ्राता शत्रुघ्नः शत्रुतापनः ।
तस्य दैत्यस्य दुर्बुद्धेर्मृधे प्रतिकरिष्यति॥४४॥

एवमुक्तः स दूतस्तु ययौ सौमित्रिणा सह ।
अनुज्ञातो नरेन्द्रेण राघवेण महात्मना॥४५॥

सौमित्रिणा शत्रुघ्नेन सह॥४५॥

स शीघ्रयानः सम्प्राप्तस्तद्दानवपुरं महत् ।
चक्रे निवेशं सौमित्रिर्वनान्ते युद्धलालसः॥४६॥

निवेशं वसतिस्थानम्॥४६॥

ततो दूतस्य वचनात्स दैत्यः क्रोधमूर्च्छितः ।
पृष्ठतस्तद्वनं कृत्वा युद्धायाभिमुखः स्थितः॥४७॥

तद्युद्धमभवद्घोरं सौमित्रेर्दानवस्य च ।
उभयोरेव बलिनोः शूरयो रणमूर्धनि॥४८॥

तौ शरैः साधु निशितैरन्योन्यमभिजघ्नतुः ।
न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः॥४९॥

अथ सौमित्रिणा बाणैः पीडितो दानवो युधि ।
ततः स शूलरहितः पर्यहीयत दानवः॥५०॥

स गृहीत्वाङ्कुशं चैव देवैर्दत्तवरं रणे ।
कर्षणं सर्वभूतानां लवणो विररास ह॥५१॥

विररास विशिष्टं शब्दं चकार॥५१॥

शिरोधरायां जग्राह सोऽङ्कुशेन चकर्ष ह ।
प्रवेशयितुमारब्धो लवणो राघवानुजम्॥५२॥

स रुक्मत्सरुमुद्यम्य शत्रुघ्नः खड्गमुत्तमम् ।
शिरश्चिच्छेद खड्गेन लवणस्य महामृधे॥५३॥

स शत्रुघ्नः रुक्मत्सरुं स्वर्णसुष्टिम्॥५३॥

स हत्वा दानवं सङ्ख्ये सौमित्रिर्मित्रवत्सलः ।
तद्वनं तस्य दैत्यस्य चिच्छेदास्त्रेण बुद्धिमान्॥५४॥

छित्त्वा वनं तत्सौमित्रिर्निवेशं सोऽभ्यरोचयत् ।
भवाय तस्य देशस्य पुर्याः परमधर्मवित्॥५५॥

निवेशं निवासस्थानं नगरमिति यावत्। भवाय वृद्धये पुर्या नगरस्य निर्माणे यः परमो धर्मस्तद्वित्॥५५॥

तस्मिन्मधुवनस्थाने मथुरा नाम सा पुरी ।
शत्रुघ्नेन पुरा सृष्टा हत्वा तं दानवं रणे॥५६॥

सा पुरी परमोदारा साट्टप्राकारतोरणा ।
स्फीता राष्ट्रसमाकीर्णा समृद्धबलवाहना॥५७॥

अट्टाः चतुष्काः॥५७॥

उद्यानवनसम्पन्ना सुसीमा सुप्रतिष्ठिता ।
प्रांशुप्राकारवसना परिखाकुलमेखला॥५८॥

चयाट्टालककेयूरा प्रासादवरकुण्डला ।
सुसंवृतद्वारवती चत्वारोद्गारहासिनी॥५९॥

अरोगवीरपुरुषा हस्त्यश्वरथसङ्कुला ।
अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता॥६०॥

पुण्यापणवती दुर्गा रत्नसञ्चयगर्विता ।
क्षेत्राणि सस्यवन्त्यस्याः काले देवश्च वर्षति॥६१॥

नरनारीप्रमुदिता सा पुरी स्म प्रकाशते ।
निविष्टविषयश्चैव शूरसेनस्ततोऽभवत्॥६२॥

निविष्टविषयोऽध्यासितमथुराप्रदेशः॥६२॥

तस्यां पुर्यां महावीर्यो राजा भोजकुलोद्वहः ।
उग्रसेन इति ख्यातो महासेनपराक्रमः॥६३॥

महासेनपराक्रमः कार्तिकेयतुल्यः॥६३॥

तस्य पुत्रत्वमापन्नो योऽसौ विष्णो त्वया हतः ।
कालनेमिर्महादैत्यः सङ्ग्रामे तारकामये॥६४॥

कंसो नाम विशालाक्षो भोजवंशविवर्धनः ।
राजा पृथिव्यां विख्यातः सिंहविस्पष्टविक्रमः॥६५॥

राज्ञां भयङ्करो घोरः शङ्कनीयो महीक्षिताम् ।
भयदः सर्वभूतानां सत्पथाद्बाह्यतां गतः॥६६॥

दारुणाभिनिवेशेन दारुणेनान्तरात्मना ।
युक्तस्तेनैव दर्पेण प्रजानां रोमहर्षणः॥६७॥

अभिनिवेशेन प्रकृत्या॥६७॥

न राजधर्माभिरतो नात्मपक्षसुखावहः ।
नात्मराज्ये प्रियकरश्चण्डः कररुचिः सदा॥६८॥

स कंसस्तत्र सम्भूतस्त्वया युद्धे पराजितः ।
क्रव्यादो बाधते लोकानासुरेणान्तरात्मना॥६९॥

क्रव्यादः मांसादो राक्षस इव॥६९॥

योऽप्यसौ हयविक्रान्तो हयग्रीव इति स्मृतः ।
केशी नाम हयो जातः स तस्यैव जघन्यजः॥७०॥

जघन्य इव अनुज इव जातः॥७०॥

स दुष्टो हेषितपटुः केसरी निरवग्रहः ।
वृन्दावने वसत्येको नृणां मांसानि भक्षयन्॥७१॥

निरवग्रहो निरर्गलः॥७१॥

अरिष्टो बलिपुत्रश्च ककुद्मी वृषरूपधृक् ।
गवामरित्वमापन्नः कामरूपी महासुरः॥७२॥

रिष्टो नाम दितेः पुत्रो वरिष्ठो दानवेषु यः ।
स कुञ्जरत्वमापन्नो दैत्यः कंसस्य वाहनः॥७३॥

लम्बो नामेति विख्यातो योऽसौ दैत्येषु दर्पितः ।
प्रलम्बो नाम दैत्योऽसौ वटं भाण्डीरमाश्रितः॥७४॥

खर इत्युच्यते दैत्यो धेनुकः सोऽसुरोत्तमः ।
घोरं तालवनं दैत्यश्चरत्युद्वासयन्प्रजाः॥७५॥

वाराहश्च किशोरश्च दानवौ यौ महाबलौ ।
मल्लौ रङ्गगतौ तौ तु जातौ चाणूरमुष्टिकौ॥७६॥

यौ तौ मयश्च तारश्च दानवौ दानवान्तक ।
प्राग्ज्योतिषे तौ भौमस्य नरकस्य पुरे रतौ॥७७॥

एते दैत्या विनिहतास्त्वया विष्णो निराकृताः ।
मानुषं वपुरास्थाय बाधन्ते भुवि मानुषान्॥७८॥

त्वत्कथाद्वेषिणः सर्वे त्वद्भक्तान्घ्नन्ति मानुषान् ।
तव प्रसादात्तेषां वै दानवानां क्षयो भवेत्॥७९॥

त्वत्तस्ते बिभ्यति दिवि त्वत्तो बिभ्यति सागरे ।
पृतिव्यां तव बिभ्यन्ति नान्यतस्तु कदाचन॥८०॥

तव त्वत्तः बिभ्यन्तीति झस्यान्तादेशः छान्दसः॥८०॥

दुर्वृत्तस्य हतस्यापि त्वया नान्येन श्रीधर ।
दिवश्च्युतस्य दैत्यस्य गतिर्भवति मेदिनी॥८१॥

नान्येन अनन्येन सर्वेषामन्तरात्मनेत्यर्थः। त्वया हतस्य दुर्वृत्तस्यापि त्वमेव गतिरिति भावः। इतरस्य तु दिवश्च्युतस्य मेदिनी गतिस्तत्राप्यन्येन हतस्य व्युत्थितस्य दुर्वृत्तस्य स्वर्गतिरेव सर्ववीरसाधारणापि दुर्लभा किमुत त्वत्प्राप्तिः यतस्त्वयि जाग्रति यमरूपेण पातयितुं सावधाने सतीति श्लोकद्वयार्थः। तस्मान्महाकारुणिकस्त्वं तादृशान् कंसादीन् हन्तुं भूमावतारं कुरुष्वेति भावः॥८१॥

व्युत्थितस्य च मेदिन्यां हतस्य नृशरीरिणः ।
दुर्लभं स्वर्गगमनं त्वयि जाग्रति केशव॥८२॥

तदागच्छ स्वयं विष्णो गच्छामः पृथिवीतलम् ।
दानवानां विनाशाय विसृजात्मानमात्मना॥८३॥

एतदेवाह- तदित्यादिना॥८३॥

मूर्तयो हि तवाव्यक्ता दृश्यादृश्याः सुरोत्तमैः ।
तासु सृष्टास्त्वया देवाः सम्भविष्यन्ति भूतले॥८४॥

अव्यक्ताः नृणां द्रष्टुम् अस्पष्टाः सुरोत्तमैरपि विष्णुत्वेन दृश्या अपि परब्रह्मभावेनादृश्यास्ते मूर्तयः शरीराणि। देवास्तु तासु दृश्यास्वेव मूर्तिषु सम्भविष्यन्ति॥८४॥

तवावतरणे विष्णो कंसः स विनशिष्यति ।
सेत्स्यते च स कार्यार्थो यस्यार्थे भूमिरागता॥८५॥

त्वं भारते कार्यगुरुस्त्वं चक्षुस्त्वं परायणम् ।
तदागच्छ हृषीकेश क्षितौ ताञ्जहि दानवान्॥८६॥

भारते भारतवर्षे कार्यगुरुः गुरु महत्कार्यमस्यास्तीति कार्यगुरुः। आहिताग्न्यादित्वात्पूर्वनिपातः। चक्षुरिव सत्पथप्रकाशकः॥८६॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि नारदवाक्ये चतुःपञ्चाशत्तमोऽध्यायः॥५४॥
ब्रह्मवाक्यम्

वैशम्पायन उवाच। नारदस्य वचः श्रुत्वा सस्मितं मधुसूदनः ।
प्रत्युवाच शुभं वाक्यं वरेण्यः प्रभुरीश्वरः॥१॥

पञ्चपञ्चाशकेऽध्याये नारदस्य च सान्त्वनम्। ब्रह्मणोक्तं विभोर्जन्म स्थानं चापि निरूप्यते॥१॥ नारदस्य वरेण्यः भोगमोक्षकामैर्वरणीयः॥१॥

त्रैलोक्यस्य हितार्थाय यन्मां वदसि नारद ।
तस्य सम्यक्प्रवृत्तस्य श्रूयतामुत्तरं वचः॥२॥

विदिता देहिनो जाता मयैते भुवि दानवाः ।
यां च यस्तनुमादाय दैत्यः पुष्यति विग्रहम्॥३॥

पुष्यति पुष्णाति विग्रहं वैरम्॥३॥

जानामि कंसं सम्भूतमुग्रसेनसुतं भुवि ।
केशिनं चापि जानामि दैत्यं तुरगविग्रहम्॥४॥

नागं कुवलयापीडं मल्लौ चाणूरमुष्टिकौ ।
अरिष्टं चापि जानामि दैत्यं वृषभरूपिणम्॥५॥

विदितो मे खरश्चैव प्रलम्बश्च महासुरः ।
सा च मे विदिता विप्र पूतना दुहिता बलेः॥६॥

कालियं चापि जानामि यमुनाह्रदगोचरम् ।
वैनतेयभयाद्यस्तु यमुनाह्रदमाविशत्॥७॥

विदितो मे जरासन्धः स्थितो मूर्ध्नि महीक्षिताम् ।
प्राग्ज्योतिषपुरे वापि नरकं साधु तर्कये॥८॥

मानुषे पार्थिवे लोके मानुषत्वमुपागतम् ।
बाणं च शोणितपुरे गुहप्रतिमतेजसम्॥९॥

दृप्तं बाहुसहस्रेण देवैरपि सुदुर्जयम् ।
मय्यासक्तां च जानामि भारतीं महतीं धुरम्॥१०॥

सर्वं तच्च विजानामि यथा यास्यन्ति ते नृपाः ।
क्षयो भुवि मया दृष्टः शक्रलोके च सत्क्रिया ।
एषां पुरुषदेहानामपरावृत्तदेहिनाम्॥११॥

क्षय इति। एषां कंसादीनां भुवि क्षयः शक्रलोकसत्क्रिया च मया कारुणिकेन दृष्टा आलोचितास्त्येव। अपरावृत्तः पुनर्भुवमप्रविष्टो देही प्राणो येषां तेषाम्॥११॥

सम्प्रवेक्ष्याम्यहं योगमात्मनश्च परस्य च ।
सम्प्राप्य पार्थिवं लोकं मानुषत्वमुपागतः॥१२॥

योगम् उद्यमं प्रवेक्ष्यामि अन्तर्यामितया बहिर्यामितया च उत्तम्भयामि। पार्थिवं पृथिवीविकारं लोकं देहम्॥१२॥

कम्सादींश्चापि तत्सर्वान्वधिष्यामि महासुरान् ।
तेन तेन विधानेन येन यः शान्तिमेष्यति॥१३॥

अनुप्रविश्य योगेन तास्ता हि गतयो मया ।
अमीषां हि सुरेन्द्राणां हन्तव्या रिपवो युधि॥१४॥

गतयोऽन्तर्द्धानादयः हन्तव्याः रिपवश्च हन्तव्याः॥१४॥

जगत्यर्थे कृतो योऽयमंशोत्सर्गो दिवौकसैः ।
सुरदेवर्षिगन्धर्वैरितश्चानुमते मम॥१५॥

अंशोत्सर्गः अंशेनावतरणम्। दिवौकसैरिति टच् आर्षः॥१५॥

विनिश्चयो हि प्रागेव नारदायं कृतो मया ।
निवासं ननु मे ब्रह्मन्विदधातु पितामहः॥१६॥

यत्र देशे यथा जातो येन वेषेण वा वसन् ।
तानहं समरे हन्यां तन्मे ब्रूहि पितामह॥१७॥

ब्रह्मोवाच। नारायणेमं सिद्धार्थमुपायं शृणु मे विभो ।
भुवि यस्ते जनयिता जननी च भविष्यति॥१८॥

यत्र त्वं च महाबाहो जातः कुलकरो भुवि ।
यादवानां महद्वंशमखिलं धारयिष्यसि॥१९॥

तांश्चासुरान्समुत्पाट्य वंशं कृत्वात्मनो महत् ।
स्थापयिष्यसि मर्यादां नृणां तन्मे निशामय॥२०॥

समुत्पाट्य उन्मूल्य महत् माहात्म्यं यश इति यावत्॥२०॥

पुरा हि कश्यपो विष्णो वरुणस्य महात्मनः ।
जहार यज्ञिया गा वै पयोदास्तु महामखे॥२१॥

मखे मखार्थम्॥२१॥

अदितिः सुरभिश्चैते द्वे भार्ये कश्यपस्य तु ।
प्रदीयमाना गास्तास्तु नैच्छतां वरुणस्य वै॥२२॥

प्रदीयमानाः मह्यं कश्यपेन प्रत्यर्प्यमाणाः॥२२॥

ततो मां वरुणोऽभ्येत्य प्रणम्य शिरसा ततः ।
उवाच भगवन्गावो गुरुणा मे हृता इति॥२३॥

गुरुणा पित्रा कश्यपेन॥२३॥

कृतकार्यो हि गास्तास्तु नानुजानाति मे गुरुः ।
अन्ववर्तत भार्ये द्वे अदितिं सुरभिं तथा॥२४॥

नानुजानाति न प्रत्यर्पयति॥२४॥

मम ता ह्यक्षया गवो दिव्याः कामदुहः प्रभो ।
चरन्ति सगर्ण्न्सर्वान्रक्षिताः स्वेन तेजसा॥२५॥

कस्ता धर्षयितुं शक्तो मम गाः कश्यपादृते ।
अक्षयं या क्षरन्त्यग्र्यं पयो देवामृतोपमम्॥२६॥

प्रभुर्वा व्युत्थितो ब्रह्मन्गुरुर्वा यदि वेतरः ।
त्वया नियम्याः सर्वे वै त्वं हि नः परमा गतिः॥२७॥

व्युत्थितस्त्यक्तमर्यादः॥२७॥

यदि प्रभवतां दण्डो लोके कार्यमजानताम् ।
न विद्यते लोकगुरोर्न स्युर्वै लोकसेतवः॥२८॥

सेतवो मर्यादाः॥२८॥

यथा वास्तु तथा वास्तु कर्तव्ये भगवन्प्रभुः ।
मम गावः प्रदीयन्तां ततो गन्तास्मि सागरम्॥२९॥

कर्तव्ये सर्वस्मिन् कार्ये प्रदीयन्तां दापनीयास्त्वयेत्यर्थः॥२९॥

या आत्मदेवता गावो या गावः सत्त्वमव्ययम् ।
लोकानां त्वत्प्रवृत्तानामेकं गोब्राह्मणं स्मृतम्॥३०॥

आत्मा ब्रह्मैव देवता यासाम्॥३०॥

त्रातव्याः प्रथमं गावस्त्रातास्त्रायन्ति ता द्विजान् ।
गोब्राह्मणपरित्राणे परित्रातं जगद्भवेत्॥३१॥

इत्यम्बुपतिना प्रोक्तो वरुणेनाहमच्युत ।
गवां करणतत्त्वज्ञः कश्यपे शापमुत्सृजम्॥३२॥

उत्सृजम् उदसृजम्॥३२॥

येनांशेन हृता गावः कश्यपेन महर्षिणा ।
स तेनांशेन जगति गत्वा गोपत्वमेष्यति॥३३॥

कश्यपस्य एकोंऽशो नन्दोऽपरो वसुदेव इत्याशयेनाह- येनांशेनेति। गोपत्वं नन्दत्वम्॥३३॥

या च सा सुरभिर्नाम अदितिश्च सुरारणिः ।
तेऽप्युभे तस्य भार्ये वै तेनैव सह यास्यतः॥३४॥

तेऽपीति सन्धिरार्षः॥३४॥

ताभ्यां च सह गोपत्वे कश्यपो भुवि रंस्यते ।
स तस्य कश्यपस्यांशस्तेजसा कश्यपोपमः॥३५॥

स प्रसिद्धोऽन्यो यस्तस्य कश्यपस्यांशः स वसुदेवः गोषु गोपालेषु अधिपतित्वेन तिष्ठति॥३५॥

वसुदेव इति ख्यातो गोषु तिष्ठति भूतले ।
गिरिर्गोवर्धनो नाम मथुरायास्त्वदूरतः॥३६॥

तत्रासौ गोषु निरतः कंसस्य करदायकः ।
तस्य भार्याद्वयं जातमदितिः सुरभिश्च ते॥३७॥

तस्येति। अदितेरपि यशोदादेवकीभेदेन द्वे रूपे द्रष्टव्ये कश्यपवत् गोष्वित्यनुषङ्गात्॥३७॥

देवकी रोहिणी चेमे वसुदेवस्य धीमतः ।
सुरभी रोहिणी देवी चादितिर्देवकी त्वभूत्॥३८॥

तत्र त्वं शिशुरेवादौ गोपालकृतलक्षणः ।
वर्ध्यस्व महाबाहो पुरा त्रैविक्रमे यथा॥३९॥

वर्धयस्व वर्धय। स्वार्थे णिच्॥३९॥

छादयित्वात्मनात्मानं मायया योगरूपया ।
तत्रावतर लोकानां भवाय मधुसूदन॥४०॥

जयाशीर्वचनैस्त्वैते वर्धयन्ति दिवौकसः॥४१॥

त्वैते त्वा त्वाम्॥४१॥

आत्मानमात्मना हि त्वमवतार्य महीतले ।
देवकीं रोहिणीं चैव गर्भाभ्यां परितोषय ।
गोपकन्यासहस्राणि रमयंश्चर मेदिनीम्॥४२॥

आत्मानमिति सार्धः॥४२॥

गाश्च ते रक्षतो विष्णो वनानि परिधावतः ।
वनमालापरिक्षिप्तं धन्या द्रक्ष्यन्ति ते वपुः॥४३॥

विष्णौ पद्मपलाशाक्षे गोपालवसतिं गते ।
बाले त्वयि महाबाहो लोको बालत्वमेष्यति॥४४॥

बालत्वं त्वन्माहात्म्यानभिज्ञत्वम्॥४४॥

त्वद्भक्ताः पुण्डरीकाक्ष तव चित्तवशानुगाः ।
गोषु गोपा भविष्यन्ति सहायाः सततं तव ।
वने चारयतो गाश्च गोष्ठेषु परिधावतः॥४५॥

मज्जतो यमुनायां च रतिं प्राप्स्यन्ति ते त्वयि ।
जीवितं वसुदेवस्य भविष्यति सुजीवितम्॥४६॥

यस्त्वया तात इत्युक्तः स पुत्र इति वक्ष्यति ।
अथवा कस्य पुत्रत्वं गच्छेथाः कश्यपादृते॥४७॥

का च धारयितुं शक्ता त्वं विष्णो अदितिं विना ।
योगेनात्मसमुत्थेन गच्छ त्वं विजयाय वै ।
वयमप्यालयान्स्वान्स्वान्गच्छामो मधुसूदन॥४८॥

धारयितुं गर्भ इति शेषः॥४८॥

वैशम्पायन उवाच। स देवानभ्यनुज्ञाय विविक्ते त्रिदिवालये ।
जगाम विष्णुः स्वं देशं क्षीरोदस्योत्तरां दिशम्॥४९॥

तत्र वै पार्वती नाम गुहा मेरोः सुदुर्गमा ।
त्रिभिस्तस्यैव विक्रान्तैर्नित्यं पर्वसु पूजिता॥५०॥

विक्रान्तैः पादप्रतिमाभिरुपलक्षिता अत एव पूजिता॥५०॥

पुराणं तत्र विन्यस्य देहं हरिरुदारधीः ।
आत्मानं योजयामास वसुदेवगृहे प्रभुः॥५१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितामहवाक्ये पञ्चपञ्चाशत्तमोऽध्यायः॥५५॥
॥हरिवंशे हरिवंशपर्व समाप्तम्॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in