हरिवंशपर्व - १विष्णुपर्व - २भविष्यपर्व - ३

विष्णुपर्व

नारदागमनम्-००१

वैशम्पायन उवाच ज्ञात्वा विष्णुं क्षितिगतं भागांश्च त्रिदिवौकसाम् ।
विनाशशंसी कंसस्य नारदो मथुरां ययौ॥१॥

अमुष्मिन्प्रथमेऽध्याये स्वर्गादभ्येत्य नारदः। कंसाया कथयत्तस्य कृष्णान्मृत्युरितीर्यते॥१॥

त्रिविष्टपादापतितो मथुरोपवने स्थितः ।
प्रेषयामास कंसस्य उग्रसेनसुतस्य वै॥२॥

ज्ञात्वति। प्रेषयामास दूतमिति शेषः॥२॥

स दूतः कथयामास मुनेरागमनं वने ।
स नारदस्यागमनं श्रुत्वा त्वरितविक्रमः॥३॥

निर्जगामासुरः कंसः स्वपुर्याः पद्मलोचनः ।
स ददर्शातिथिं श्लाघ्यं देवर्षिं वीतकल्मषम्॥४॥

तेजसा ज्वलनाकारं वपुषा सूर्यवर्चसम् ।
सोऽभिवाद्यर्षये तस्मै पूजां चक्रे यथाविधि॥५॥

आसनं चाग्निवर्णाभं विसृज्योपजहार सः ।
निषसादासने तस्मिन्स वै शक्रसखो मुनिः॥६॥

विसृज्य प्रकल्प्य॥६॥

उवाच चोग्रसेनस्य सुतं परमकोपनम् ।
पूजितोऽहं त्वया वीर विधिदृष्टेन कर्मणा॥७॥

गते त्वेवं मम वचः श्रूयतां गृह्यतां त्वया ।
अनुसृत्य दिवोलोकानहं ब्रह्मपुरोगमान्॥८॥

गतः सूर्यसखं तात विपुलं मेरुपर्वतम् ।
स नन्दनवनं चैव दृष्ट्वा चैत्ररथं वनम्॥९॥

आप्लुतं सर्वतीर्थेषु सरित्सु सह देवतैः ।
दिव्या त्रिधारा दृष्टा ये पुण्या त्रिपथगा नदी॥१०॥

स्मरणादेव सर्वेषामंहसां या विभेदिनी ।
उपस्पृष्टं च तीर्थेषु दिव्येषु च यथाक्रमम्॥११॥

दृष्टं मे ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ।
देवगन्धर्वनिर्घोषैरप्सरोभिश्च नादितम्॥१२॥

सोऽहं कदाचिद्देवानां समाजे मेरुमूर्धनि ।
सङ्गृह्य वीणां संसक्तामगच्छं ब्रह्मणः सभाम्॥१३॥

सोऽहं तत्र सितोष्णीषान्नानारत्नविभूषितान् ।
दिव्यासनगतान्देवानपश्यं सपितामहान्॥१४॥

तत्र मन्त्रयतामेवं देवतानां मया श्रुतः ।
भवतः सानुगस्यैव वधोपायः सुदारुणः॥१५॥

तत्रैषा देवकी या ते मथुरायां लघुस्वसा ।
योऽस्यां गर्भोऽष्टमः कंस स ते मृत्युर्भविष्यति॥१६॥

लघुस्वसा कनिष्ठभागनी तवैवेति शेषः। अन्ये तु पितृस्वसेति पाठं प्रकल्प्य पितृसम्बन्धिनी स्वसा व्यवहितभगिनीति व्याचख्युः॥१६॥

देवानां स तु सर्वस्वं त्रिदिवस्य गतिश्च सः ।
परं रहस्यं देवानां स ते मृत्युर्भविष्यति॥१७॥

परश्चैवापरस्तेषां स्वयम्भूश्च दिवौकसाम् ।
ततस्ते तन्महद्भूतं दिव्यं च कथयाम्यहम्॥१८॥

परो मोक्षः अपरः स्वर्गः तत्प्रद इत्यर्थः॥१८॥

श्लाघ्यश्च स हि ते मृत्युर्भूतपूर्वश्च तं स्मर ।
यत्नश्च क्रियतां कंस देवक्या गर्भकृन्तने॥१९॥

एषा मे त्वद्गता प्रीतिर्यदर्थं चाहमागतः ।
भुज्यन्तां सर्वकामार्थाः स्वस्ति तेऽस्तु व्रजाम्यहम्॥२०॥

स्वस्ति शोभनम्॥२०॥

इत्युक्त्वा नारदे याते तस्य वाक्यं विचिन्तयन् ।
जाहासोच्चैस्ततः कंसः प्रकाशदशनश्चिरम्॥२१॥

प्रोवाच सस्मितं चैव भृत्यानामग्रतः स्थितः ।
हास्यः खलु स सर्वेषु नारदो न विशारदः॥२२॥

नाहं भीषयितुं शक्यो देवैरपि सवासवैः ।
आसनस्थः शयानो वा प्रमत्तो मत्त एव च॥२३॥

योऽहं दोर्भ्यामुदाराभ्यां क्षोभयेयं धरामिमाम् ।
कोऽस्ति मां मानुशे लोके यः क्षोभयितुमुत्सहेत्॥२४॥

अद्यप्रभृति देवानामेष देवानुवर्तिनाम् ।
नृपक्षिपशुसङ्घानां करोमि कदनं महत्॥२५॥

कदनं पीडनम्॥२५॥

आज्ञाप्यतां हयः केशी प्रलम्बो धेनुकस्तथा ।
अरिष्टो वृषभश्चैव पूतना कालियस्तथा॥२६॥

अटध्वं पृथिवीं कृत्स्नां यथेष्टं कामरूपिणः ।
प्रहरध्वं च सर्वेषु येऽस्माकं पक्षदूषकाः॥२७॥

गर्भस्तानामपि गतिर्विज्ञेया चैव देहिनाम् ।
नारदेन हि गर्भेभ्यो भयं नः समुदाहृतम्॥२८॥

भवन्तो हि यथाकामं मोदन्तां विगतज्वराः ।
मां च वो नाथमाश्रित्य नास्ति देवकृतं भयम्॥२९॥

स तु केलिकिलो विप्रो भेदशीलश्च नारदः ।
सुश्लिष्टानपि लोकेऽस्मिन्भेदयँल्लभते रतिम्॥३०॥

केलिकिलः युद्धोत्सुकः सुश्लिष्टान् स्निग्धान्॥३०॥

कण्डूयमानः सततं लोकानटति चञ्चलः ।
घटमानो नरेन्द्राणां तन्त्रैर्वैराणि चैव हि॥३१॥

कण्डूयमानः सङ्घर्षणं जनयन् तन्त्रैः उपायैः॥३१॥

एवं स विलपन्नेव वाङ्मात्रेणैव केवलम् ।
विवेश कंसो भवनं दह्यमानेन चेतसा॥३२॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणी नारदागमने कंसवाक्ये प्रथमोऽध्यायः॥१॥
कंससङ्केतः आर्यानुशासनं च-००२

वैशम्पायन उवाच। सोऽज्ञापयत संरब्धः सचिवानात्मनोहितान् ।
यत्ता भवत सर्वे वै देवक्या गर्भकृन्तने॥१॥

अस्मिन्द्वितीये ह्यध्याये कंसस्याकुलतोच्यते। विष्णुना योगमायायै देवकार्यानुशासनम्॥१॥ आज्ञापयत आज्ञापितवान्। संरब्धः क्रुद्धः॥१॥

प्रथमादेव हन्तव्या गर्भास्ते सप्त एव हि ।
मूलादेव तु हन्तव्यः सोऽनर्थो यत्र संशयः॥२॥

प्रथमात् प्रथमं जन्मदिनं प्राप्येत्यर्थः। सोऽष्टमो मूलाद्गर्भधारणादेवौषधाद्यैरुपायैर्हन्तव्य इत्यर्थः॥२॥

देवकी च गृहे गुप्ता प्रच्छन्नैरभिरक्षिता ।
स्वैरं चरतु विश्रब्धा गर्भकाले तु रक्ष्यताम्॥३॥

प्रच्छन्नैरन्तःपुररक्षकैः॥३॥

मासान्वै पुष्पमासादीन्गणयन्तु मम स्त्रियः ।
परिणामे तु गर्भस्य शेषं ज्ञास्यामहे वयम्॥४॥

परिणामे दशममासादौ॥४॥

वसुदेवस्तु संरक्ष्यः स्त्रीसनाथासु भूमिषु ।
अप्रमत्तैर्मम हितै रात्रावहनि चैव हि ।
स्त्रीभिर्वर्षवरैश्चैव वक्तव्यं न तु कारणम्॥५॥

स्त्रीसनाथासु अन्तःपुरभूमिषु वर्षवरैः नपुंसकैः वसुदेवसन्निधौ प्रसवे सति स गर्भमन्यत्र मा नयत्वित्येतदर्थं सोऽपि रक्ष्य इत्यर्थः॥५॥

एष मानुष्यको यत्नो मानुषैरेव साध्यते ।
श्रूयतां येन दैवं हि मद्विधैः प्रतिहन्यते॥६॥

मन्त्रग्रामैः सुविहितैरौषधैश्च सुयोजितैः ।
यत्नेन चानुकूलेन दैवमप्यनुलोम्यते॥७॥

अनुलोम्यते अनुकूलं क्रियते॥७॥

वैशम्पायन उवाच। एवं स यत्नवान्कंसो देवकीगर्भकृन्तने ।
भयेन मन्त्रयामास श्रुतार्थो नारदात्स वै॥८॥

श्रुतार्थः ज्ञातप्रयोजनः॥८॥

एवं श्रुत्वा प्रयत्नं वै कंसस्यारिष्टसंज्ञितम् ।
अन्तर्धानं गतो विष्णूश्चिन्तयामास वीर्यवान्॥९॥

अरिष्टम् अक्षेममिति संज्ञितम् उत्पातरूपमित्यर्थः॥९॥

सप्तेमान्देवकीगर्भान्भोजपुत्रो वधिष्यति ।
अष्टमे च मया गर्भे कार्यमाधानमात्मनः॥१०॥

आधानं स्थापनम्॥१०॥

तस्य चिन्तयतस्त्वेवं पातालमगमन्मनः ।
यत्र ते गर्भशयनाः षड्गर्भा नाम दानवाः॥११॥

गर्भशयनाः जलगर्भशायिनः षड्गर्भा नामतः नाम्ना। “हंसः सुविक्रमः क्राथो दमनो रिपुमर्दनः। क्रोधहन्तेति विख्याताः षड्गर्भा नाम दानवाः॥” इति पुराणप्रसिद्धाः॥११॥

विक्रान्तवपुषो दीप्तास्तेऽमृतप्राशनोपमाः ।
अमरप्रतिमा युद्धे पुत्रा वै कालनेमिनः॥१२॥

अमृतप्राशनोपमाः देवतुल्या अमरकल्पा इत्यर्थः॥१२॥

ते ताततातं सन्त्यज्य हिरण्यकशिपुं पुरा ।
उपासाञ्चक्रिरे दैत्याः पुरा लोकपितामहम्॥१३॥

ताततातं स्वपितामहम्। लोकपितामहं ब्रह्माणम्॥१३॥

तप्यमानास्तपस्तीव्रं जटामण्डलधारिणः ।
तेषां प्रीतोऽभवद्ब्रह्मा षड्गर्भाणां वरं ददौ॥१४॥

ब्रह्मोवाच। भो भो दानवशार्दूलास्तपसाहं सुतोषितः ।
ब्रूत वो यस्य यः कामस्तस्य तं तं करोम्यहम्॥१५॥

ते तु सर्वे समानार्था दैत्या ब्रह्माणमब्रुवन् ।
यदि नो भगवान्प्रीतो दीयतां नो वरो वरः॥१६॥

वरः श्रेष्ठः वरः प्रार्थितोऽर्थः॥१६॥

अवध्याः स्याम भगवन्देवतैः समहोरगैः ।
शापप्रहरणैश्चैवं स्वस्ति नोऽस्तु महर्षिभिः॥१७॥

यक्षगन्धर्वपतिभिस्सिद्धचारणमानवैः ।
मा भूद्वधो नो भगवन्ददासि यदि नो वरम्॥१८॥

तानुवाच ततो ब्रह्मा सुप्रीतेनान्तरात्मना ।
भवद्भिर्यदिदं प्रोक्तं सर्वमेतद्भविष्यति॥१९॥

षड्गर्भाणां वरं दत्वा स्वयम्भूस्त्रिदिवं गतः ।
ततो हिरण्यकशिपुः सरोषो वाक्यमब्रवीत्॥२०॥

मामुत्सृज्य वरो यस्माद्वृतो वः पद्मसम्भवात् ।
तस्माद्वस्त्याजितः स्नेहः शत्रुभूतांस्त्यजाम्यहम्॥२१॥

वो युष्माभिः॥२१॥

षड्गर्भा इति योऽयं वः शब्दः पित्राभिवर्धितः ।
स एव वो गर्भगतान्पिता सर्वान्वधिष्यति॥२२॥

षडेव देवकीगर्भाः षड्गर्भा वै महासुराः ।
भविष्यथ ततः कंसो गर्भस्थान्वो वधिष्यति॥२३॥

वैशम्पायन उवाच। जगामाथ ततो विष्णुः पातालं यत्र तेऽसुराः ।
षड्गर्भाः संयताः सन्ति जले गर्भगृहेशयाः॥२४॥

संयताः हिरण्यकशिपुशापेन निरुद्धाः॥२४॥

सन्ददर्श जले सुप्तान्षड्गर्भान्गर्भसंस्थितान् ।
निद्रया कालरूपिण्या सर्वानन्तर्हितान्त्स वै॥२५॥

सन्ददर्श सः विष्णुः॥२५॥

स्वप्नरूपेण तेषां वै विष्णुर्देहानथाविशत् ।
प्राणेश्वरांश्च निष्कृष्य निद्रायै प्रददौ तदा॥२६॥

स्वप्नेति। ब्रह्मवरदानादविनष्टस्थूलदेहानामेव तेषां विष्णुमायाबलेन स्वप्नवज्जन्मान्तरप्रतिभासो हिरण्यकशिपुशापनिमित्तो लवणस्येव जात इत्यर्थः। प्राणेश्वरान् जीवान्। नन्वेवं स्वदेहाद्बहिर्गतैः पुरुषैर्देशान्तरे स्वप्नप्रपञ्चो जाग्रद्वत्सत्यत एव प्रतीयत इति दर्शितम्। तेन अस्मद्दृष्ट्या षङ्गर्भाणां जन्म योगमायाकृतत्वादिन्द्रजालपुरवत् व्यावहारिकम्। षङ्गर्भदृष्ट्या तु स्वप्नवत्प्रातिभासिकमिति सिद्धेर्न कश्चिद्दोषः॥२६॥

तां चोवाच ततो निद्रां विष्णुः सत्यपराक्रमः ।
गच्छ निद्रे मयोत्सृष्टा देवकीभवनान्तिकम्॥२७॥

उत्सृष्टा आज्ञप्ता॥२७॥

इमान्प्राणेश्वरान्गृह्य षड्गर्भान्दानवोत्तमान् ।
सर्वप्राणेश्वरांश्चैव षड्गर्भान्नाम देहिनः ।
षड्गर्भान्देवकीगर्भे योजयस्व यथाक्रमम्॥२८॥

जातेष्वेतेषु गर्भेषु नीतेषु च यमक्षयम् ।
कंसस्य विफले यत्ने देवक्याः सफले श्रमे॥२९॥

प्रसादं ते करिष्यामि मत्प्रभावसमं भुवि ।
येन सर्वस्य लोकस्य देवि देवी भविष्यसि॥३०॥

देवी पूज्या॥३०॥

सप्तमो देवकीगर्भो योऽंशः सौम्यो ममाग्रजः ।
स सङ्क्रामयितव्यस्ते सप्तमे मासि रोहिणीम्॥३१॥

सप्तम इति। सप्तमस्य गर्भस्य यद्यपि प्रसवे जीवनमविरुद्धं तथापि रोहिण्युदरे प्रवेशस्तस्यां गर्भसङ्क्रमश्च मायाबलादेवेति ज्ञेयम्॥३१॥

सङ्कर्षणात्तु गर्भस्य स तु सङ्कर्षणो युवा ।
भविष्यत्यग्रजो भ्राता मम शीतांशुदर्शनः॥३२॥

पतितो देवकीगर्भः सप्तमोऽयं भयादिति ।
अष्टमे मयि गर्भस्थे कंसो यत्नं करिष्यति॥३३॥

या तु सा नन्दगोपस्य दयिता भुवि विश्रुता ।
यशोदा नाम भद्रं ते भार्या गोपकुलोद्वहा॥३४॥

तस्यास्त्वं नवमो गर्भः कुलेऽस्माकं भविष्यसि ।
नवम्यामेव सञ्जाता कृष्णपक्षस्य वै तिथौ॥३५॥

नवमत्वं कृष्णमनु तस्या अपि देवक्युदरे स्वल्पकालं प्रवेशोऽस्तीति सिद्ध्यति। नवम्यामिति त्वष्टम्यां कृष्णजन्म तदनन्तरं देव्या इति युक्तम्। एकस्यामपि रात्रौ तात्कालिकतिथिभेदसम्भवात्॥३५॥

अहं त्वभिजितो योगे निशायां यौवने स्थिते ।
अर्धरात्रे करिष्यामि गर्भमोक्षं यथासुखम्॥३६॥

अभिजितो निशाया अष्टममुहूर्तस्य गर्भमोक्षम् उदरान्निर्गमम्॥३६॥

अष्टमस्य तु मासस्य जातावावां ततः समम् ।
प्राप्स्यावो गर्भव्यत्यासं प्राप्ते कंसस्य नाशने॥३७॥

अहं यशोदां यास्यामि त्वं देवि भज देवकीम् ।
आवयोर्गर्भसंयोगे कंसो गच्छतु मूढताम्॥३८॥

व्यत्यासमेवाह-अहमिति। गर्भसंयोगे अन्योन्यव्यत्यासे॥३८॥

ततस्त्वां गृह्य चरणे शिलायां पातयिष्यति ।
निरस्यमाना गगने स्थानं प्राप्स्यसि शाश्वतम्॥३९॥

निरस्यमाना आस्फाल्यमाना॥३९॥

मच्छवीसदृशी कृष्णा सङ्कर्षणसमानना ।
बिभ्रती विपुलौ बाहू मम बाहूपमौ दिवि॥४०॥

त्रिशिखं शूलमुद्यम्य खड्गं च कनकत्सरुम् ।
पात्रीं च पूर्णां मधुना पङ्कजं च सुनिर्मलम्॥४१॥

कनकत्सरुं सुवर्णमुष्टिम्॥४१॥

नीलकौशेयसंवीता पीतेनोत्तरवाससा ।
शशिरश्मिप्रकाशेन हारेणोरसि राजता॥४२॥

दिव्यकुण्डलपूर्णाभ्यां श्रवणाभ्यां विभूषिता ।
चन्द्रसापत्नभूतेन मुखेन त्वं विराजिता॥४३॥

मुकुटेन विचित्रेण केशबन्धेन शोभिना ।
भुजङ्गाभैर्भुजैर्भीमैर्भूषयन्ती दिशो दश॥४४॥

ध्वजेन शिखिबर्हेण उच्छ्रितेन विराजिता ।
अङ्गजेन मयूराणामङ्गदेन च भास्वता॥४५॥

अङ्गजेन पिच्छेन॥४५॥

कीर्णा भूतगणैर्घोरैर्मन्नियोगानुवर्तिनी ।
कौमारं व्रतमास्थाय त्रिदिवं त्वं गमिष्यसि॥४६॥

कीर्णा परिवृता कौमारं कुमारीयोग्यम्॥४६॥

तत्र त्वां शतदृक्छक्रो मत्प्रदिष्टेन कर्मणा ।
अभिषेकेण दिव्येन देवतैः सह योक्ष्यसे॥४७॥

शतदृक् सहस्राक्षः॥४७॥

तत्रैव त्वां भगिन्यर्थे ग्रहीष्यति स वासवः ।
कुशिकस्य तु गोत्रेण कौशिकी त्वं भविष्यसि॥४८॥

स ते विन्ध्ये नगश्रेष्ठे स्थानं दास्यति शाश्वतम् ।
ततः स्थानसहस्रैस्त्वं पृथिवीं शोभयिष्यसि॥४९॥

त्रैलोक्यचारिणी सा त्वं भुवि सत्योपयाचना ।
चरिष्यसि महाभागे वरदा कामरूपिणी॥५०॥

सत्या अवश्यफला उपयाचना ममेदम् ईप्सितं कुरु अहं त्वां पूजयिष्यामीत्येवंरूपा प्रार्थना सत्या उपयाचना यस्यां सा तथा॥५०॥

तत्र शुम्भनिशुम्भौ द्वौ दानवौ नगचारिणौ ।
तौ च कृत्वा मनसि मां सानुगौ नाशयिष्यसि॥५१॥

कृत्वानुयात्रां भूतस्त्वं सुरामांसबलिप्रिया ।
तिथौ नवम्यां पूजां त्वं प्राप्स्यसे सपशुक्रियाम्॥५२॥

ये च त्वां मत्प्रभावज्ञाः प्रणमिष्यन्ति मानवाः ।
तेषां न दुर्लभं किञ्चित्पुत्रतो धनतोऽपि वा॥५३॥

पुत्रतः पुत्रप्रभृतीत्यर्थः॥५३॥

कान्तारेष्ववसन्नानां मग्नानां च महार्णवे ।
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम्॥५४॥

गतिः आपन्निवारयित्री॥५४॥

त्वां तु स्तोष्यन्ति ये भक्त्या स्तवेनानेन वै शुभे ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति॥५५॥

अनेन वक्ष्यमाणेन तस्य स्तोतुरहं न प्रणश्यामि अदृश्यो न भवामि। स नित्यं मद्भक्तिं लभतेऽहं च तं न त्यजामीत्यर्थः॥५५॥
॥इति श्रीमहाभारते खिलेषु हरिवांशे विष्णुपर्वणि भारावतरणे निद्रासंविज्ञाने द्वितीयोऽध्यायः॥२॥
आर्यास्तवः-००३

वैशम्पायन उवाच। आर्यास्तवं प्रवक्ष्यामि यथोक्तमृषिभिः पुरा ।
नारायणीं नमस्यामि देवीं त्रिभुवनेश्वरीम्॥१॥

अस्मिंस्तृतीये त्वध्याये विष्णुना प्रभविष्णुना। आर्यास्तव उपन्यस्तो जगद्धित इतीर्यते॥१॥ आर्यास्तवम् अनेनेति प्राक्कृतम्॥१॥

त्वं हि सिद्धिर्धृतिः कीर्तिः श्रीर्विद्या सन्नतिर्मतिः ।
सन्ध्या रात्रिः प्रभा निद्रा कालरात्रिस्तथैव च॥२॥

सिद्धिर्मुक्तिर्धृतिर्जीवनम्॥२॥

आर्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी ।
जननी सिद्धसेनस्य उग्रचारी महाबला॥३॥

सिद्धसेनस्य स्कन्दस्य। उग्रचारी उग्रेण कर्मणा चरतीत्युग्रचारिणी पुंस्त्वमार्षम्॥३॥

जया च विजया चैव पुष्टिस्तुष्टिः क्षमा दया ।
ज्येष्ठा यमस्य भगिनी नीलकौशेयवासिनी॥४॥

यमस्य भगिनी मृत्युः॥४॥

बहुरूपा विरूपा च अनेकविधिचारिणी ।
विरूपाक्षी विशालक्षी भक्तानां परिरक्षिणी॥५॥

पर्वताग्रेषु घोरेषु नदीषु च गुहासु च ।
वासस्ते च महादेवि वनेषूपवनेषु च॥६॥

शबरैर्बर्बरैश्चैव पुलिन्दैश्च सुपूजिता ।
मयूरपिच्छध्वजिनी लोकान्क्रमसि सर्वशः॥७॥

कुक्कुटैश्छागलैर्मेषैस्सिंहैर्व्याघ्रैस्समाकुला ।
घण्टानिनादबहुला विन्ध्यवासिन्यभिश्रुता॥८॥

छागलैर्मेषविशेषैः॥८॥

त्रिशूली पट्टिशधरा सूर्यचन्द्रपताकिनी ।
नवमी कृष्णपक्षस्य शुक्लस्यैकादशी तथा॥९॥

त्रिशूलीत्यादिषु पुंस्त्वमार्षम्॥९॥

भगिनी बलदेवस्य रजनी कलहप्रिया ।
आवासः सर्वभूतानां निष्ठा च परमा गतिः॥१०॥

निष्ठा मरणम्। परमा गतिर्मुक्तिः॥१०॥

नन्दगोपसुता चैव देवानां विजयावहा ।
चीरवासाः सुवासाश्च रौद्री सन्ध्याचरी निशा॥११॥

प्रकीर्णकेशी मृत्युश्च सुरामांसबलिप्रिया ।
लक्ष्मीरलक्ष्मीरूपेण दानवानां वधाय च॥१२॥

सावित्री चापि देवानां माता मन्त्रगणस्य च ।
कन्यानां ब्रह्मचर्यत्वं सौभाग्यं प्रमदासु च॥१३॥

अन्तेवदी च यज्ञानामृत्विजां चैव दक्षिणा ।
कर्षुकाणां च सीतेति भूतानां धरणीति च॥१४॥

सीता लाङ्गलपद्धतिः धरणी धरित्री॥१४॥

सिद्धिः सांयात्रिकाणां तु वेला त्वं सागरस्य च ।
यक्षाणां प्रथमा यक्षी नागानां सुरसेति च॥१५॥

प्रथमा यक्षी कुबेरमाता सांयात्रिकाणां पोतवणिजाम्॥१५॥

ब्रह्मवादिन्यथो दीक्षा शोभा च परमा तथा ।
ज्योतिषां त्वं प्रभा देवि नक्षत्राणां च रोहिणी॥१६॥

राजद्वारेषु तीर्थेषु नदीनां सङ्गमेषु च ।
पूर्णा च पूर्णिमा चन्द्रे कृत्तिवासा इति स्मृता॥१७॥

राजद्वारादिषु पूर्णा लक्ष्मीरिति शेषः॥१७॥

सरस्वती च वाल्मीके स्मृतिर्द्वैपायने तथा ।
ऋशीणां धर्मबुद्धिस्तु देवानां मानसी तथा ।
सुरा देवी च भूतेषु स्तूयसे त्वं स्वकर्मभिः॥१८॥

मानसी सत्यसङ्कल्पात्मिका चेतोवृत्तिः॥१८॥

इन्द्रस्य चारुदृष्टिस्त्वं सहस्रनयनेति च ।
तापसानां च देवी त्वमरणी चाग्निहोत्रिणाम्॥१९॥

क्षुधा च सर्वभूतानां तृप्तिस्त्वं दैवतेषु च ।
स्वाहा तृप्तिर्धृतिर्मेधा वसूनां त्वं वसूमती॥२०॥

वसुमतीति दैर्घ्यं वृतानुरोधतः॥२०॥

आशा त्वं मानुषाणां च पुष्टिश्च कृतकर्मणाम् ।
दिशश्च विदिशश्चैव तथा ह्यग्निशिखा प्रभा॥२१॥

शकुनी पूतना त्वं च रेवती च सुदारुणा ।
निद्रापि सर्वभूतानां मोहिनी क्षत्रिया तथा॥२२॥

विद्यानां ब्रह्मविद्या त्वमोङ्कारोऽथ वषट् तथा ।
नारीणां पार्वतीं च त्वां पौराणीमृषयो विदुः॥२३॥

अरून्धती च साध्वीनां प्रजापतिवचो यथा ।
यथार्थनामभिर्दिव्यैरिन्द्राणी चेति विश्रुता॥२४॥

त्वया व्याप्तमिदं सर्वं जगत्स्थावरजङ्गमम् ।
सङ्ग्रामेषु च सर्वेषु अग्निप्रज्वलितेषु च ।
नदीतीरेषु चौरेषु कान्तारेषु भयेषु च॥२५॥

प्रवासे राजबन्धे च शत्रूणां च प्रमर्दने ।
प्राणात्ययेषु सर्वेषु त्वं हि रक्षा न संशयः॥२६॥

त्वयि मे हृदयं देवि त्वयि चित्तं मनस्त्वयि ।
रक्ष मां सर्वपापेभ्यः प्रसादं कर्तुमर्हसि॥२७॥

इमं यः सुस्तवं दिव्यमिति व्यासप्रकल्पितम् ।
यः पठेत्प्रातरुत्थाय शुचिः प्रयतमानसः॥२८॥

व्यासप्रकल्पितं विष्णुना कृतमपि व्यासेन पद्यरूपेण रचितम्॥२८॥

त्रिभिर्मासैः काङ्क्षितं च फलं वै सम्प्रयच्छसि ।
षड्भिर्मासैर्वरिष्ठं तु वरमेकं प्रयच्छसि॥२९॥

अर्चिता तु त्रिभिर्मासैर्दिव्यं चक्षुः प्रयच्छसि ।
संवत्सरेण सिद्धिं तु यथाकामं प्रयच्छसि॥३०॥

सत्यं ब्रह्म च दिव्यं च द्वैपायनवचो यथा ।
नृणां बन्धं वधं घोरं पुत्रनाशं धनक्षयम्॥३१॥

व्याधिमृत्युभयं चैव पूजिता शमयिष्यसि ।
भविष्यसि महाभागे वरदा कामरूपिणी॥३२॥

मोहयित्वा च तं कंसमेका त्वं भोक्ष्यसे जगत् ।
अहमप्यात्मनो वृत्तिं विधास्ये गोषु गोपवत् ।
स्ववृद्ध्यर्थमहं चैव करिष्ये कंसगोपताम्॥३३॥

एवं तां स समादिश्य गतोऽन्तर्धानमीश्वरः ।
सा चापि तं नमस्कृत्य तथास्त्विति च निश्चिता॥३४॥

यश्चैतत्पठते स्तोत्रं शृणुयाद्वाप्यभीक्ष्णशः ।
सर्वार्थसिद्धिं लभते नरो नास्त्यत्र संशयः॥३५॥

॥इति श्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि स्वप्नगर्भविधाने आर्यास्तुतौ त्रितीयोऽध्यायः॥३॥
विष्ण्ववतारवर्णनम्-००४

वैशम्पायन उवाच। कृते गर्भविधाने तु देवकी देवतोपमा ।
जग्राह सप्त तान्गर्भान्यथावत्समुदाहृतान्॥१॥

अस्मिंश्चतुर्थे त्वध्याये देवक्यां वसुदेवतः। श्रीकृष्णस्योच्यते तावत् जन्म लोकविडम्बनम्॥१॥ कृते गर्भविधाने गर्भाधाने। समुदाहृतान् योगमायायै विष्णुना प्रोक्तान्॥१॥

षड्गर्भान्निस्सृतान्कंसस्ताञ्जघान शिलातले ।
आपन्नं सप्तमं गर्भं सा निनायाथ रोहिणीम्॥२॥

आपन्नं देवक्यां प्राप्तं सा योगमाया रोहिणीं प्रति नीतवती अथ देवक्याः सप्तमो गर्भो गलित इति लोकप्रवादानन्तरम्॥२॥

अर्धरात्रे स्थितं गर्भं पातयन्ती रजस्वला ।
निद्रया सहसाविष्टा पपात धरणीतले॥३॥

रजस्वला रोहिणी स्वोदरे स्थितं गर्भं पातयन्ती पपात॥३॥

सा स्वप्नमिव तं दृष्ट्वा स्वे गर्भे गर्भमादधत् ।
अपश्यन्ती च तं गर्भं मुहूर्तं व्यथिताभवत्॥४॥

पतितमपि गर्भम् अपश्यन्ती योगमायया तस्यान्तर्धानं नीतत्वात्॥४॥

तामाह निद्रा संविग्नां नैशे तमसि रोहिणीम् ।
रोहिणीमिव सोमस्य वसुदेवस्य धीमतः॥५॥

अथैतां योगनिद्रा समाश्वासयदित्याह- तामिति। रोहिणीं वंशवृद्धिकरीम्॥५॥

कर्षणेनास्य गर्भस्य स्वगर्भे चाहितस्य वै ।
सङ्कर्षणो नाम सुतः शुभे तव भविष्यति॥६॥

कर्षणेनेति। पूर्वं देवक्या स्वे गर्भे आहितस्य गर्भस्य सम्प्रति त्वदुदरं प्रापितस्य गर्भस्य कर्षणेन आकर्षणाद्धेतोस्तव सङ्कर्षणो नाम पुत्रो भविष्यति॥६॥

सा तं पुत्रमवाप्यैवं हृष्टा किञ्चिदवाङ्मुखा ।
विवेश रोहिणी वेश्म सुप्रभा रोहिणी यथा॥७॥

रोहिणी सोमपत्नी यथा बुधक्रोडा तद्वत्॥७॥

तस्य गर्भस्य मार्गेण गर्भमाधत्त देवकी ।
यदर्थं सप्त ते गर्भाः कंसेन विनिपातिताः॥८॥

मार्गेण मार्गणेन सप्तमो गर्भो देवक्याः क्व गतः कदा पतित इति मार्गमाणेष्वेव कंसो येषु अष्टमं नूतनं गर्भं देवकी आधत॥८॥

तं तु गर्भं प्रयत्नेन ररक्षुस्तस्य मन्त्रिणः ।
सोऽप्यत्र गर्भवसतौ वसत्यात्मेच्छया हरिः॥९॥

अत्र काले॥९॥

यशोदापि समाधत्त गर्भं तदहरेव तु ।
विष्णोः शरीरजां निद्रां विष्णुनिर्देशकारिणीम्॥१०॥

गर्भकाले त्वसम्पूर्णे अष्टमे मासि ते स्त्रियौ ।
देवकी च यशोदा च सुषुवाते समं तदा॥११॥

यामेव रजनीं कृष्णो जज्ञे वृष्णिकुलोद्वहः ।
तामेव रजनीं कन्यां यशोदापि व्यजायत॥१२॥

नन्दगोपस्य भार्यैका वसुदेवस्य चापरा ।
तुल्यकालं च गर्भिण्यौ यशोदा देवकी तथा॥१३॥

देवक्यजनयद्विष्णुं यशोदा तां तु दारिकाम् ।
मुहूर्तेऽभिजिति प्राप्ते सार्धरात्रे विभूषिते॥१४॥

देवकी विष्णुम् अभिजितमुहूर्तेऽजनयत्। विभूषिते विभोः विष्णोः उषिते प्रोषिते व्रजं प्रति प्रवासे जाते सति सार्धरात्रे चतुर्भागायाः रात्रेः सार्धभागेऽवशिष्टे सति यशोदा तां कन्यकामजनयदित्यर्थः। अर्धरात्रे जातस्य विष्णोर्यशोदां प्रति आनयने अर्धयाममात्रं जातं तदानयनसमकालमेव यशोदा दारिकामसूत अत एव तस्याः जन्म नवम्यामिति प्रागुक्तं सङ्गच्छते॥१४॥

सागराः समकम्पन्त चेलुश्च धरणीधराः ।
जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने॥१५॥

शिवाश्च प्रववुर्वाताः प्रशान्तमभवद्रजः ।
ज्योतींष्यतिव्यकाशन्त जायमाने जनार्दने॥१६॥

अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी ।
मुहूर्तो विजयो नाम यत्र जातो जनार्दनः ।
अव्यक्तः शाश्वतः सूक्ष्मो हरिर्नारायणः प्रभुः॥१७॥

जायमानो हि भगवान्नयनैर्मोहयन्प्रभुः ।
अनाहता दुन्दुभयो देवानां प्राणदन्दिवि॥१८॥

आकाशात्पुष्पवृष्टिं च ववर्ष त्रिदशेश्वरः ।
गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्तो मधुसूदनम्॥१९॥

महर्षयः सगन्धर्वा उपतस्थुः सहाप्सराः ।
जायमाने हृषीकेशे प्रहृष्टमभवज्जगत्॥२०॥

अप्सरा इत्यदन्तत्वमार्षम्। सुराङ्गना इति पाठः॥२०॥

इन्द्रश्च त्रिदशैः सार्धं तुष्टाव मधुसूदनम् ।
वसुदेवश्च तं रात्रौ जातं पुत्रमधोक्षजम्॥२१॥

वसुदेवश्च तुष्टावेत्यनुषङ्गः॥२१॥

श्रीवत्सलक्षणं दृष्ट्वा युतं दिव्यैश्च लक्षणैः ।
उवाच वसुदेवस्तु रूपं संहर वै प्रभो॥२२॥

भीतोऽहम् देव कंसस्य तस्मादेवं ब्रवीम्यहम् ।
मम पुत्रा हतास्तेन तव ज्येष्ठाम्बुजेक्षण॥२३॥

तव ज्येष्ठाः। सन्धिरार्षः॥२३॥

वैशम्पायन उवाच। वसुदेववचः श्रुत्वा रूपं चाहरदच्युतः ।
अनुज्ञाप्य पितृत्वेन नन्द गोपगृहं नय॥२४॥

रूपं चतुर्भुजम् अहरत् तिरोहितं कृतवान्॥२४॥

वसुदेवस्तु सङ्गृह्य दारकं क्षिप्रमेव च ।
यशोदाया गृहं रात्रौ विवेश सुतवत्सलः॥२५॥

यशोदायास्त्वविज्ञातस्तत्र निक्षिप्य दारकम् ।
प्रगृह्य दारिकां चैव देवकीशयनेऽन्यसत्॥२६॥

परिवर्ते कृते ताभ्यां गर्भाभ्यां भयविक्लवः ।
वसुदेवः कृतार्थो वै निर्जगाम निवेशनात्॥२७॥

ताभ्यां तयोरित्यर्थः। निवेशनात्सूतिकागृहात्॥२७॥

उग्रसेनसुतायाथ कंसायानकदुन्दुभिः ।
निवेदयामास तदा तां कन्यां वरवर्णिनीम्॥२८॥

तच्छ्रुत्वा त्वरितः कंसो रक्षिभिः सह वेगिभिः ।
आजगाम गृहद्वारं वसुदेवस्य वीर्यवान्॥२९॥

स तत्र त्वरितं द्वारि किं जातमिति चाब्रवीत् ।
दीयतां शीघ्रमित्येवं वाग्भिः समतर्जयत्॥३०॥

ततो हाहाकृताः सर्वा देवकीभवने स्त्रियः ।
उवाच देवकी दीना बाष्पगद्गदया गिरा॥३१॥

दारिका तु प्रजातेति कंसं समभियाचती ।
श्रीमन्तो मे हताः सप्त पुत्रगर्भास्त्वया विभो॥३२॥

तु प्रजातेत्यत्र पुत्रजातेति पाठे पुत्रवज्जाता परिवर्तितेति गूढोऽभिसन्धिः, पुत्रेति सम्बोधनं वा॥३२॥

दारिकेयं हतैवैषा पश्यस्व यदि मन्यसे ।
दृष्ट्वा कंसस्तु तां कन्यामाकृष्यत मुदा युतः॥३३॥

हतैवैषा यदा कन्या जातेत्युक्त्वा वृथामतिः ।
सा गर्भशयने क्लिष्टा गर्भाम्बुक्लिन्नमूर्धजा॥३४॥

कंसस्य पुरतो न्यस्ता पृथिव्यां पृथिवीसमा ।
स चैनां गृह्य पुरुषः समाविध्यावधूय च॥३५॥

गृह्य गृहीत्वा आविध्य भ्रामयित्वा अवधूय तुच्छीकृत्य॥३५॥

उद्यच्छन्नेव सहसा शिलायां समपोथयत् ।
सावधूता शिलापृष्टेऽनिष्पिष्टा दिवमुत्पतत्॥३६॥

उत्पतत् उदपतत् अनिष्पिष्टेति च्छेदः॥३६॥

हित्वा गर्भतनुं सा तु सहसा मुक्तमूर्धजा ।
जगाम कंसमादिश्य दिव्यस्रगनुलेपना॥३७॥

आदिश्य तिरस्कृत्य जगाम खमिति शेषः॥३७॥

हारशोभितसर्वाङ्गी मुकुटोज्ज्वलभूषिता ।
कन्यैव साभवन्नित्यं दिव्या देवैरभिष्टुता॥३८॥

नीलपीताम्बरधरा गजकुम्भोपमस्तनी ।
रथविस्तीर्णजघना चन्द्रवक्त्रा चतुर्भुजा॥३९॥

विद्युद्विस्पष्टवर्णाभा बालार्कसदृशेक्षणा ।
पयोधरस्तनवती सन्ध्येव सपयोधरा॥४०॥

सा वै निशि तमोग्रस्ते बभौ भूतगणाकुले ।
नृत्यती हसती चैव विपरीतेन भास्वती॥४१॥

निशि काले इति शेषः। विपरीतेन विशेषेण परितः प्रसर्पणेन॥४१॥

विहायसि गता रौद्रा पपौ पानमनुत्तमम् ।
जहास च महाहासं कंसं च रुषिताब्रवीत्॥४२॥

कंस कंसात्मनाशाय यदहं घातिता त्वया ।
सहसा च समुत्क्षिप्य शिलायामभिपोथिता॥४३॥

तस्मात्तवान्तकालेऽहं कृष्यमाणस्य शत्रुणा ।
पाटयित्वा करैर्देहमुष्णं पास्यामि शोणितम्॥४४॥

एवमुक्त्वा वचो घोरं सा यथेष्टेन वर्त्मना ।
स्वं सा देवालयं देवी सगणा विचचार ह॥४५॥

सा कन्या ववृधे तत्र वृष्णीसङ्घसुपूजिता ।
पुत्रवत्पाल्यमाना सा वसुदेवाज्ञया तदा॥४६॥

विद्धि चैनामथोत्पन्नामंशाद्देवीं प्रजापतेः ।
एकानंशां योगकन्यां रक्षार्थं केशवस्य तु॥४७॥

एका चासावनंशेति एकानंशा भगवता एका सती अविभक्ता अज्ञस्तु तेनैकः सन्नपि स्वाविद्यया ततो विभक्तो भवति इयं तु न तथा यतः योगकन्या योगेन कन्याभूता चित्कलैवेयमित्यर्थः। इति तां विद्धि॥४७॥

तां वै सर्वे सुमनसः पूजयन्ति स्म यादवाः ।
देववद्दिव्यवपुषा कृष्णः संरक्षितो यया॥४८॥

सुमनसः सुराः यादवाः यदुषु जाताः॥४८॥

तस्यां गतायां कंसस्तु तां मेने मृत्युमात्मनः ।
विविक्ते देवकीं चैव व्रीडितः समभाषत॥४९॥

कंस उवाच। मृत्योः स्वसुः कृतो यत्नस्तव गर्भा मया हताः ।
अन्य एवान्यता देवि मम मृत्युरुपस्थितः॥५०॥

मृत्योः परिहारार्थमिति शेषः॥५०॥

नैराश्येन कृतो यत्नः स्वजने प्रहृतं मया ।
दैवं पुरुषकारेण न चातिक्रान्तवानहम्॥५१॥

नैराश्येन कार्कश्येन॥५१॥

त्यज गर्भकृतां चिन्तां सन्तापं पुत्रजं त्यज ।
हेतुभूतस्त्वहं तेषां सति कालविपर्यये॥५२॥

हेतुभूतः शस्त्रः वत्कालाख्यस्य ईश्वरस्य प्रयोज्यः॥५२॥

काल एव नृणां शत्रुः कालश्च परिणामकः ।
कालो नयति सर्वं वै हेतुभूतस्तु मद्विधः॥५३॥

आगमिष्यन्ति वै देवि यथाभागमुपद्रवाः ।
इदं तु कष्टं यज्जन्तुः कर्ताहमिति मन्यते॥५४॥

यथाभागं यथाकर्मेत्यर्थः। तेन ईश्वरेऽपि न दोषः। यथोक्तम्— “स्वकर्मैव नरं हन्ति न शस्त्ररिपुमृत्यवः। न भेतव्यं न वा सभ्यं चोरहत्यावलम्बत" इति। एवं सति मयि दोषो नासञ्जनीय इति भावः॥५४॥

मा कार्षीः पुत्रजां चिन्तां विलापं शोकजं त्यज ।
एवं प्रायो नृणां योनिर्नास्ति कालस्य संस्थितिः॥५५॥

संस्थितिः खण्डनम्॥५५॥

एष ते पादयोर्मूर्ध्ना पुत्रवत्तव देवकि ।
मद्गतस्त्यज्यतां रोषो जानाम्यपकृतं त्वयि॥५६॥

इत्युक्तवन्तं कंसं सा देवकी वाक्यमब्रवीत् ।
साश्रुपूर्णमुखा दीना भर्तारमुपवीक्षती ।
उत्तिष्ठोत्तिष्ठ वत्सेति कंसं मातेव जल्पती॥५७॥

वत्सेति सम्बोधनात् कंसादियं ज्येष्ठेति गम्यते॥५७॥

देवक्युवाच। ममाग्रतो हता गर्भा ये त्वया कामरूपिणा ।
कारणं त्वं न वै पुत्र कृतान्तोऽप्यत्र कारणम्॥५८॥

गर्भकर्तनमेतन्मे सहनीयं त्वया कृतम् ।
पादयोः पतता मूर्ध्ना स्वं च कर्म जुगुप्सता॥५९॥

सहनीयं सोढव्यं क्षन्तव्यमित्यर्थः॥५९॥

गर्भे तु नियतो मृत्युर्बाल्येऽपि न निवर्तते ।
युवापि मृत्योर्वशगः स्थविरो मृत एव तु॥६०॥

कालभूतमिदं सर्वं हेतुभूतस्तु तद्विधः ।
अजाते दर्शनं नास्ति यथा वायुस्तथैव च॥६१॥

जातोऽप्यजाततां याति विधात्रा यत्र नीयते ।
तद्गच्छ पुत्र मा ते भून्मद्गतं मृत्युकारणम्॥६२॥

मृत्योर्दैन्यस्य कारणं मद्गतं ते तव हृदि मा भूदित्यर्थः॥६२॥

मृत्युनाऽपहृते पूर्वं शेषो हेतुः प्रवर्तते ।
विधिना पूर्वदृष्टेन प्रजासर्गेण तत्त्वतः॥६३॥

विधिना गर्भाधानादिसंस्कारेण पूर्वदृष्टेन जन्मान्तरीयेण कर्मणा। प्रजाः सृजतीति प्रजासर्गः कालस्तेन तत्त्वतः लोकदृष्टनिमित्तेन स्तेयादिना॥६३॥

मातापित्रोस्तु कार्येण जन्मतस्तूपपद्यते ।
वैशम्पायन उवाच। निशम्य देवकीवाक्यं स कंसः स्वं निवेशनम्॥६४॥

कार्येण दुरन्नादिसेवनेन जन्मतः जातिगुणेन च उपपद्यते परद्रोहादिकम् एतैः कारणैस्तेऽपि मृताः एतैरेव कारणैस्त्वं च कारित इति नात्र तव दोष इति भावः॥६४॥

प्रविवेश स संरब्धो दह्यमानेन चेतसा ।
कृत्ये प्रतिहते दीनो जगाम विमना भृशम्॥६५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि श्रीकृष्णजन्मनि चतुर्थोऽध्यायः॥४॥
नन्दव्रजगमनम्-००५

वैशम्पायन उवाच। प्रागेव वसुदेवस्तु व्रजे शुश्राव रोहिणीम् ।
प्रजातां पुत्रमेवाग्रे चन्द्रात्कान्ततराननम्॥१॥

अथास्मिन्पञ्चमेऽध्याये वसुदेवोपदेशतः। सकुटुम्बस्य नन्दस्य व्रजे गमनमीर्यते॥१॥ प्रागेव प्रसवात्पूर्वमेव व्रजे प्रेषितामिति शेषः॥१॥

स नन्दगोपं त्वरितः प्रोवाच शुभया गिरा ।
गच्छानया सहैव त्वं व्रजमेव यशोदया॥२॥

नन्दगोपं सपुत्रस्त्रीकं मथुरां प्रति करं प्रदातुमागतामित्यर्थात भागवताच्च गम्यते॥२॥

तत्र तौ दारकौ गत्वा जातकर्मादिभिर्गुणैः ।
योजयित्वा व्रजे तात संवर्धय यथासुखम्॥३॥

गुणैर्जातकर्मादिसंस्कारैर्लिप्याद्यभ्यासैश्च॥३॥

रौहिणेयं च पुत्रं मे परिरक्ष शिशुं व्रजे ।
अहं वाच्यो भविष्यामि पितृपक्षेषु पुत्रिणाम्॥४॥

योऽहमेकस्य पुत्रस्य न पश्यामि शिशोर्मुखम् ।
ह्रियते हि बलात्प्रज्ञा प्राज्ञस्यापि ततो मम॥५॥

प्रज्ञा दैवाधीनमिदमिति धीः ह्रियते भयादिनेति शेषः॥५॥

अस्माद्धि मे भयं कंसान्निर्घृणाद्वै शिशोर्वधे ।
तद्यथा रौहिणेयं त्वं नन्दगोपं ममात्मजम्॥६॥

गोपायसि यथा तात तत्त्वान्वेषी तथा कुरु ।
विघ्ना हि बहवो लोके बालानुत्त्रासयन्ति हि॥७॥

तत्त्वान्वेषी यथावदालोचयन्। बालद्रोहिणां स्वरूपमिति शेषः॥७॥

स च पुत्रो मम ज्यायान्कनीयांश्च तवाप्ययम् ।
उभावपि समं नाम्ना निरीक्षस्व यथासुखम्॥८॥

नाम्ना नामार्थेन निरीक्षस्व यथा कृष्णस्तव चित्तं कर्षति स्नेहातिशयाद्वशीकरोति तथा सङ्कर्षणोऽपि त्वां रमयत्वित्यर्थः॥८॥

वर्धमानावुभावेतौ समानवयसौ यथा ।
शोभेतां गोव्रजे तस्मिन्नन्दगोप तथा कुरु॥९॥

बाल्ये केलिकिलः सर्वो बाल्ये मुह्यति मानवः ।
बाल्ये चण्डतमः सर्वस्तत्र यत्नपरो भव॥१०॥

केलिकिलः स्वेच्छाविहारी॥१०॥

न च वृन्दावने कार्यो गवां घोषः कथञ्चन ।
भेतव्यं तत्र वसतः केशिनः पापदर्शिनः॥११॥

घोषो गोपग्रामः॥११॥

सरीसृपेभ्यः कीटेभ्यः शकुनिभ्यस्तथैव च ।
गोष्ठेषु गोभ्यो वत्सेभ्यो रक्ष्यौ ते द्वाविमौ शिशू॥१२॥

नन्दगोप गता रात्रिः शीघ्रयानो व्रजाशुगः ।
इमे त्वां व्याहरन्तीव पक्षिणः सव्यदक्षिणम्॥१३॥

रहस्यं वसुदेवेन सोऽनुज्ञातो महात्मना ।
यानं यशोदया सार्धमारुरोह मुदान्वितः॥१४॥

कुमारस्कन्धवाह्यायां शिबिकायां समाहितः ।
संवेशयामास शिशुं शयनीयं महामतिः॥१५॥

शिबिकायाम् आन्दोलिकायां शिबिकायां सुखरूपायामिति प्राञ्चः। मृदुतूलिकायामिति तस्यार्थः कशिपुशब्दसादृश्यात्॥१५॥

जगाम च विविक्तेन शीतलानिलसर्पिणा ।
बहूदकेन मार्गेण यमुनातीरगामिना॥१६॥

बहूदकत्वात् शीतलोऽनिलः सर्पत्यस्मिन् तेन शीतलानिलसर्पिणा॥१६॥

स ददर्श शुभे देशे गोवर्धनसमीपगे ।
यमुनातीरसम्बद्धशीतमारुतसेवितम्॥१७॥

स ददर्श गोव्रजमिति पञ्चदशगतेनान्वयः॥१७॥

विरुतश्वापदै रम्यं लतावल्लीमहाद्रुमम् ।
गोभिस्तृणविलग्नाभिः स्यन्दन्तीभिरलङ्कृतम्॥१८॥

विशिष्टं रुतं येषां तैः श्वापदैर्विरुतश्वापदैः लता भुवि प्रसर्पन्त्यः कूष्माण्ड्यादयो वल्लयः आरोहणसापेक्षा द्राक्षादयः तत्सहिता महान्तो द्रुमा यस्मिन्। स्यन्दन्तीभिः प्रस्रवन्तीभिः॥१८॥

समप्रचारं च गवां समतीर्थजलाशयम् ।
वृषाणां स्कन्धघातैश्च विषाणोद्घृष्टपादपम्॥१९॥

समानि तीर्थानि जलावतरणमार्गा येषु तादृशा जलाशया यत्र॥१९॥

भासामिषादानुसृतैः श्येनैश्चामिषगृध्नुभिः ।
सृगालमृगसिंहैश्च वसामेदाशिभिर्वृतम्॥२०॥

भासाः गृध्राः तदनुसृतैः श्येनैः। आमिषादा वनबिडालादयस्तदनुसृतैस्ततोऽधिकबलैः सृगालादिभिश्च। वृतम्। मृगश्चित्रव्याघ्रः॥२०॥

शार्दूलशब्दाभिरुतं नानापक्षिसमाकुलम् ।
स्वादुवृक्षफलं रम्यं पर्याप्ततृणवीरुधम्॥२१॥

गोव्रजं गोरुतं रम्यं गोपनारीभिरावृतम् ।
हम्भारवैश्च वत्सानां सर्वतः कृतनिःस्वनम्॥२२॥

हम्भारवैर्गोशब्दैः॥२२॥

शकटावर्तविपुलं कण्टकीवाटसङ्कुलम् ।
पर्यन्तेष्वावृतं वन्यैर्बृहद्भिः पतितैर्द्रुमैः॥२३॥

वाटो वृत्तिस्थानं कण्टकपरिधिः। “वाटो मार्गवृतिस्थाने” इति मेदिनी॥२३॥

वत्सानां रोपितः कीलैर्दामभिश्च विभूषितम् ।
करीषाकीर्णवसुधं कटच्छन्नकुटीमठम्॥२४॥

करीषं शुष्कगोमयचूर्णम्॥२४॥

क्षेम्यप्रचारबहुलं हृष्टपुष्टजनावृतम् ।
दामनीपाशबहुलं गर्गरोद्गारनिःस्वनम्॥२५॥

क्षेम्या लब्धलक्षणार्हाः भटास्तत्प्रचारेण बहुलं समृद्धिमत्। दामिनी स्थूणद्वयाक्रान्तप्रान्ता स्थूलरज्जुः यस्यां दामान्यासज्यन्ते। गर्गरो मन्थनकुम्भः। “गर्गरो मीनभेदे स्यान्मन्थन्यामपि गर्गरी।” इति विश्वः॥२५॥

तक्रानिःस्रावमलिनं दधिमण्डार्द्रमृत्तिकम् ।
मन्थानवलयोद्गारैर्गोपीनां जनितस्वनम्॥२६॥

तक्रेत्यन्तं गोरसाधिक्यमुक्तम्। निःस्रवो रेचनप्रणालिका तद्देशे शैवालेन मलिनं मण्डम् उपर्यागतः सारः॥२६॥

काकपक्षधरैर्बालैर्गोपालक्रीडनाकुलम् ।
सार्गलद्वारगोवाटं मध्ये गोस्थानसङ्कुलम्॥२७॥

गोपाः क्रीडन्त्यस्मिन्निति क्रीडास्थानम् आखाडा इति भाषाप्रसिद्धम्॥२७॥

सर्पिषा पच्यमानेन सुरभीकृतमारुतम् ।
नीलपीताम्बराभिश्च तरुणीभिरलङ्कृतम्॥२८॥

वन्यपुष्पावतंसाभिर्गोपकन्याभिरावृतम् ।
शिरोभिर्धृतकुम्भभिर्बद्धैरग्रस्तनाम्बरैः॥२९॥

अग्रस्तनाम्बैरः काञ्चोली इति भाषाप्रसिद्धैः कञ्चुकैरुपलक्षिताः॥२९॥

यमुनातीरमार्गेण जलहारीभिरावृतम् ।
स तत्र प्रविशन्हृष्टो गोव्रजं गोपनादितम्॥३०॥

प्रत्युद्गतो गोपवृद्धैः स्त्रीभिर्वृद्धाभिरेव च ।
निवेशं रोचयामास परिवर्ते सुखाश्रये॥३१॥

परिवर्ते शकटादिप्रकारे सुखकरे आश्रयस्थाने॥३१॥

सा यत्र रोहिणी देवी वसुदेवसुखावहा ।
तत्र तं बालसूर्याभं कृष्णं गूढं न्यवेशयत्॥३२॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि गोव्रजगमनं नाम पञ्चमोऽध्यायः॥५॥
शकटभङ्गपूतनावधौ-००६

वैशम्पायन उवाच। तत्र तस्यासतः कालः सुमहानत्यवर्तत ।
गोव्रजे नन्दगोपस्य बल्लवत्वं प्रकुर्वतः॥१॥

षष्ठे त्वथैतदध्याये कृष्णेनाधःस्थितानसः। भञ्जनं पूतनायाश्च शोषणं समुदीर्यते॥१॥ तत्र असतः अप्रकाशमानस्य। बल्लवत्वं गोपत्वम्॥१॥

दारकौ कृतनामानौ ववृधाते सुखं च तौ ।
ज्येष्ठः सङ्कर्षणो नाम कनीयान्कृष्ण एव तु॥२॥

मेघकृष्णस्तु कृष्णोऽभूद्देहान्तरगतो हरिः ।
व्यवर्धत गवां मध्ये सागरस्य इवाम्बुदः॥३॥

शकटस्य त्वधः सुप्तं कदाचित्पुत्रगृद्धिनी ।
यशोदा तं समुत्सृज्य जगाम यमुनां नदीम्॥४॥

“पृथुरथो दक्षिणाया अयोज्यैनं देवासो अमृतासो अस्थुः। कृष्णादुदस्थादर्या ३ विहायाश्चिकित्सन्ती मानुषाय क्षयायैतेन” इति मन्त्रोक्तमर्थमुपबृंहयति- शकटस्येति। मन्त्रार्थस्तु- पृथुर्महान् रथः शकटं दक्षिणायाः दिशः सम्बन्धी मृत्युकरमित्यर्थः। अयोजि योजितः शत्रुभिरित्यर्थाल्लभ्यते तमेनं रथं देवासो देवाः अमृतासो अमृता आसमन्तात् अस्थुः परिवार्य स्थितवन्तः। एतस्मिन्नन्तरे सः रथः कृष्णात् कृष्णं प्राप्य तत्प्रेरणेन उदस्थात् उत्थितः विहायाः आकाशाश्रितः विशेषेण हयते गच्छतीति वा यन्त्रोत्क्षिप्तगोलकवदाकाशमार्गेणोत्थाय पतितः सन्नष्ट इत्यर्थः। ततश्च अर्या ईश्वरी स्वामिनी माता तत्रत्यप्रजा वा। चिकित्सन्ती संशयवन्ती मानुषाय मानुषस्य क्षयाय नाशाय एतेन पतता रथेनायं बालकः कथं न नाशित इत्यत्र कारणविशेषमपश्यन्ती सन्दिहानैवातिष्ठन्न त्वीश्वरकृत्यमेतदित्यवेदीदिति भावः। एवमेव सर्वेषामर्थानां प्रत्यक्षश्रुतिमूलकत्वमुन्नेयं वेदोपबृंहणत्वादस्य शास्त्रस्य। पुत्रेत्यत्र कर्मेति पाठे कर्मगृद्धिनी स्नानैकचित्ता॥४॥

शिशुलीलां ततः कुर्वन्स हस्तचरणौ क्षिपन् ।
रुरोद मधुरं कृष्णः पादावूर्ध्वं प्रसारयन्॥५॥

स तत्रैकेन पादेन शकटं पर्यवर्तयत् ।
न्युब्जं पयोधराकाङ्क्षी चकार च रुरोद च॥६॥

एतस्मिन्नन्तरे प्राप्ता यशोदा भयविक्लवा ।
स्नाता प्रस्रवदिग्धाङ्गी बद्धावत्सेव सौरभी॥७॥

सा ददर्श विपर्यस्तं शकटं वायुना विना ।
हाहेति कृत्वा त्वरिता दारकं जगृहे तदा॥८॥

विपर्यस्तं विपरीतस्थितम्॥८॥

न सा बुबोध तत्त्वेन शकटं परिवर्तितम् ।
स्वस्ति ते दारकायेति प्रीता भीता च साभवत्॥९॥

किं तु वक्ष्यति ते पुत्र पिता परमकोपनः ।
त्वय्यधः शकटे सुप्ते अकस्माच्च विलोडिते॥१०॥

किं मे स्नानेन दुःस्नानं किं च मे गमने नदीम् ।
पर्यस्ते शकटे पुत्र या त्वां पश्याम्यपावृतम्॥११॥

गमने प्रयोजनमिति शेषः॥११॥

एतस्मिन्नन्तरे गोभिराजगाम वनेचरः ।
काषायवाससी बिभ्रन्नन्दगोपो व्रजान्तिकम्॥१२॥

स ददर्श विपर्यस्तं भिन्नभाण्डघटीघटम् ।
अपास्तधूर्विभिन्नाक्षं शकटं चक्रमोलिनम्॥१३॥

भिन्नानि भाण्डादीनि येन तं भाण्डं चक्रोपरितनो व्यूहः पात्राख्यः घटी धुरोऽग्रभागकलशः घटा घटना च भिन्नानि तानि यस्येति। चक्रमौलिनं चक्रं मौलाविवोपरि यस्य तम्। व्रीह्यादित्वादिनिः॥१३॥

भीतस्त्वरितमागत्य सहसा साश्रुलोचनः ।
अपि मे स्वस्ति पुत्रायेत्यसकृद्वचनं वदन्॥१४॥

पिबन्तं स्तनमालक्ष्य पुत्रं स्वस्थोऽब्रवीत्पुनः ।
वृषयुद्धं विना केन पर्यस्तं शकटं मम॥१५॥

प्रत्युवाच यशोदा तं भीता गद्गदभाषिणी ।
न विजानाम्यहं केन शकटं परिवर्तितम्॥१६॥

अहं नदीं गता सौम्य चैलप्रक्षालनार्थिनी ।
आगता च विपर्यस्तमपश्यं शकटं भुवि॥१७॥

तयोः कथयतोरेवमब्रुवंस्तत्र दारकाः ।
अनेन शिशुना यानमेतत्पादेन लोडितम्॥१८॥

लोडितम् उन्मथितम्॥१८॥

अस्माभिः सम्पतद्भिश्च दृष्टमेतद्यदृच्छया ।
नन्दगोपस्तु तच्छ्रुत्वा विस्मयं परमं ययौ॥१९॥

प्रहृष्टश्चैव भीतश्च किमेतदिति चिन्तयन् ।
न च ते श्रद्दधुर्गोपाः सर्वे मानुषबुद्धयः॥२०॥

सर्वे सर्वात्मनीश्वरे। “सर्वं समाप्रोषि ततोऽसि सर्वः” इति निर्वचनात्संज्ञाशब्दोऽयमतो नात्र सर्वनामसंज्ञा॥२०॥

आश्चर्यमिति ते सर्वे विस्मयोत्फुल्ललोचनाः ।
स्वे स्थाने शकटं स्थाप्य चक्रबन्धमकारयन्॥२१॥

वैशम्पायन उवाच। कस्यचित्त्वथ कालस्य शकुनी वेषधारिणी ।
धात्री कंसस्य भोजस्य पूतनेति परिश्रुता॥२२॥

शकुनी पक्षिणी बकानुजात्वात् वेषधारिणी मनुष्यवेषधारिणीति कंसस्य धात्रीति व्रजस्थैः श्रुता॥२२॥

पूतना नाम शकुनी घोरा प्राणभयङ्करी ।
आजगामार्धरात्रे वै पक्षौ क्रोधाद्विधुन्वती॥२३॥

ततोऽर्धरात्रसमये पूतना प्रत्यदृश्यत ।
व्याघ्रगम्भीरनिर्घोषं व्याहरन्ती पुनः पुनः॥२४॥

निलिल्ये शकटस्याक्षे प्रस्रवोत्पीडवर्षिणी ।
ददौ स्तनं च कृष्णाय तस्मिन्सुप्ते जने निशि॥२५॥

प्रस्त्रवोत्पीडर्वीषणी प्रस्त्रवेण क्षीराधिक्येन यः स्तनयोरुत्पीडः पीडा तेन वर्षिणी॥२५॥

तस्याः स्तनं पपौ कृष्णः प्राणैः सह विनद्य च ।
छिन्नस्तनी तु सहसा पपात शकुनी भुवि॥२६॥

तेन शब्देन वित्रस्तास्ततो बुबुधिरे भयात् ।
स नन्दगोपो गोपा वै यशोदा च सुविक्लवा॥२७॥

ते तामपश्यन्पतितां विसंज्ञां विपयोधराम् ।
पूतनां पतितां भूमौ व्रजेणेव विदारिताम्॥२८॥

इदं किं त्विति सन्त्रस्ताः कस्येदं कर्म चेत्यपि ।
नन्दगोपं पुरस्कृत्य गोपास्ते पर्यवारयन्॥२९॥

नाध्यगच्छन्त च तदा हेतुं तत्र कदाचन ।
आश्चर्यमाश्चर्यमिति ब्रुवन्तोऽनुययुर्गृहान्॥३०॥

तत्र पूतनावधे हेतुं कारणं नाध्यगच्छन्त नाधिगतवन्तः नन्दादयः गोपा बालरूपा देवास्तु जानन्त्येवेत्याह मन्त्रः- “हेतिः पक्षिणी न दभ्नात्यस्मानाष्ट्र्यां पदं कृणुते अग्निधाने। शन्नो गोभ्यश्च पुरुषेभ्यश्चास्तु मा नो हिंसीदिह देवाः कपोतः" इति। हेतिरायुधवद्वधकारिणी पक्षिणी पूतनारूपा अस्मान् व्रजस्थान् न दभ्नाति नाभिभवति प्रत्युत अग्निधाने जाठराग्नेर्धाने निमित्ते शिशोर्जाठरमग्निं स्तनदानेन तर्पयितुम् आष्ट्र्याम् "आष गतिदीप्त्यादानेषु” आषयति परलोकं गमयति मृत्युना ग्राहयति वा देहं दीपयति वा आष्ट्री कृष्णतनुस्तस्यां पदं स्थानं कृणुते कृष्णं पाययितुं स्वमृत्युरूपां तां तनुं स्पृशति स्मेत्यर्थः॥३०॥

गतेषु तेषु गोपेषु विस्मितेषु यथागृहम् ।
यशोदां नन्दगोपस्तु पप्रच्छ गतसम्भ्रमः॥३१॥

कोऽयं विधिर्न जानामि विस्मयो मे महानयम् ।
पुत्रस्य मे भयं तीव्रं भीरुत्वं समुपागतम्॥३२॥

यशोदा त्वब्रवीद्भीता नार्य जानामि किं त्विदम् ।
दारकेण सहानेन सुप्ता शब्देन बोधिता॥३३॥

यशोदायामजानन्त्यां नन्दगोपः सबान्धवः ।
कंसाद्भयं चकारोग्रं विस्मयं च जगाम ह॥३४॥

॥इति श्रीमहाभारते खिलेषु हरिवांशे विष्णुपर्वणि शिशुचर्यायां शकटभङ्गपूतनावधे षष्ठोऽध्यायः॥६॥
यमलार्जुनभङ्गः-००७

वैशम्पायन उवाच। काले गच्छति तौ सौम्यौ दारकौ कृतनामकौ ।
कृष्णसङ्कर्षणौ चोभौ रिङ्गिणौ समपद्यताम्॥१॥

अथास्मिन्सप्तमेऽध्याये यमलार्जुनयोर्भिदा। मध्यङ्गतेन कृष्णेन ध्वस्तावेवेति वर्ण्यते॥ काले रिङ्गिणौ जानुभ्यां रंहणशीलौ॥१॥

तावन्योन्यगतौ बालौ बाल्यादेवैकतां गतौ ।
एकमूर्तिधरौ कान्तौ बालचन्द्रार्कवर्चसौ॥२॥

अन्योन्यगतौ परस्परस्मिन्नन्तर्भूतौ एकमूर्तिधरौ एकशरीराविव॥२॥

एकनिर्माणनिर्मुक्तावेकशय्यासनाशनौ ।
एकवेषहरावेकं पुष्यमानौ शिशुव्रतम्॥३॥

एकरूपौ अभिन्नौ सन्तौ निर्माणनिर्मुक्तौ जन्महीनौ॥३॥

एककार्यान्तरगतावेकदेहौ द्विधाकृतौ ।
एकचर्यौ महावीर्यावेकस्य शिशुतां गतौ॥४॥

एकस्य कार्यस्य अन्तरं रहस्यं गतौ प्राप्तौ एककार्यनिष्ठावित्यर्थः॥४॥

एकप्रमाणौ लोकानां देववृत्तान्तमानुषौ ।
कृत्स्नस्य जगतो गोपा संवृत्तौ गोपदारकौ॥५॥

देवानां वृत्तान्तः सिद्धान्तः पापिष्ठा हन्तव्या यज्ञदानादिकं च प्रवर्तनीयमित्येवंरूपस्तदर्थं मानुष्यभूतौ देववृत्तान्तमानुषौ॥५॥

अन्योन्यव्यतिषक्ताभिः क्रीडाभिरभिशोभितौ ।
अन्योन्यकिरणग्रस्तौ चन्द्रसूर्याविवाम्बरे॥६॥

व्यतिषक्ताभिर्भिश्राभिः। ग्रस्तौ पूर्णमास्यां चन्द्रोदये सूर्यस्यास्तमयः तदुदये इन्दोरितिः तयोरन्योन्यकिरणग्रस्तत्वम्॥६॥

विसर्पन्तौ तु सर्वत्र सर्पभोगभुजावुभौ ।
रेजतुः पांसुदिग्धाङ्गौ दृप्तौ कलभकाविव॥७॥

सर्पभोगभुजौ सर्पदेहतुल्यबाहू। कलभसदृशौ कलभकाविव स्वार्थे वा कः॥७॥

क्वचिद्भस्मप्रदीप्ताङ्गौ करीषप्रोक्षितौ क्वचित् ।
तौ तत्र पर्यधावेतां कुमाराविव पावकी॥८॥

पावकी अग्निपुत्रौ द्वौ कार्तिकेयाविवेत्यभूतोपमा॥८॥

क्वचिज्जानुभिरुद्घृष्टैः सर्पमाणौ विरेजतुः ।
क्रीडन्तौ वत्सशालासु शकृद्दिग्धाङ्गमूर्धजौ॥९॥

शुशुभाते श्रिया जुष्टावानन्दजननौ पितुः ।
जनं च विप्रकुर्वाणौ विहसन्तौ क्वचित्क्वचित्॥१०॥

विप्रकुर्वाणौ नवनीतचौर्यादिना उपकारं कुर्वाणो॥१०॥

तौ तत्र कौतूहलिनौ मूर्धजव्याकुलेक्षणौ ।
रेजतुश्चन्द्रवदनौ दारकौ सुकुमारकौ॥११॥

अतिप्रसक्तौ तौ दृष्ट्वा सर्वव्रजविचारिणौ ।
नाशकत्तौ वारयितुं नन्दगोपः सुदुर्मदौ॥१२॥

ततो यशोदा सङ्क्रुद्धा कृष्णं कमललोचनम् ।
आनाय्य शकटीमूले भर्त्सयन्ती पुनः पुनः॥१३॥

दाम्ना चैवोदरे बद्ध्वा प्रत्यबन्धदुलूखले ।
यदि शक्तोऽसि गच्छेति तमुक्त्वा कर्म साकरोत्॥१४॥

व्यग्रायां तु यशोदायां निर्जगाम ततोऽङ्गणात् ।
शिशुलीलां ततः कुर्वन्कृष्णो विस्मापयन्व्रजम्॥१५॥

सोऽङ्गणान्निस्सृतः कृष्णः कर्षमाण उलूखलम् ।
यमलाभ्यां प्रवृद्धाभ्यामर्जुनाभ्यां चरन्वने ।
मध्यान्निश्चक्राम तयोः कर्षमाण उलूखलम्॥१६॥

तत्तस्य कर्षतो बद्धं तिर्यग्गतमुलूखलम् ।
लग्नं ताभ्यां सुमूलाभ्यामर्जुनाभ्यां चकर्ष च॥१७॥

तत्तस्येति। अर्जुनाभ्याम् अर्जुनौ उद्धर्तुमित्यर्थः। अत्रेदमाम्नायते- “यत्र मन्थां विबध्नते रश्मीन् यमितवा इव। उलूखलसुतानामवेन्द्विन्द्र जल्गुलः। ता नो अद्य वनस्पती ऋष्वावृष्वेभिः सोतृभिः। इन्द्राय मधुमत्सुतम्” इति। यत्र उलूखले मन्थां मन्थानमिव मन्थानं लोकक्लेशकरं मां विबध्नते विशेषेण बघ्नन्ति मातरः रश्मीनादाय रश्मिभिरित्यर्थः। यमितवा इव विनिग्रहीतुमिव न तु वस्तुतो निग्रहीतुं मातृत्वेन मयि स्निग्धत्वात् तेन उलूखलेन सुतानां पीडितानां कर्मणि षष्ठी उलूखलपीडितान् अस्मान् हे इन्द्र मोचनसमर्थ अव रक्ष। पादादित्वादाद्युदात्तमाख्यातम्। इन्दु एवमेव त्वं जल्गुलोऽसि एनं मुञ्चामीति जल्पितुं मां च गोपितुं त्रातुं लातुम् आदातुं स्वाधीनं कर्तुं च समर्थोऽसि यतः अतोऽव मामित्यर्थः। एवं यदा सर्वान् प्रार्थयन्नपि न मोचनं लभते तदा वनस्पत्योरन्तरा गत्वा बन्धनदाम त्रोटितुं यावद्बलं करोति तावद्वनस्पती एव उन्मूलितौ दृष्ट्वा वदति। ता नो इति। त्रातौ नोऽस्माकं व्रजवासिनां वनस्पतिभूतौ अतिप्रसिद्धौ यमलौ अर्जुनजातीयौ भो वनस्पती अद्य इन्द्राय इन्द्रं प्रति गन्तुं सुतं तदुन्मूलनेन आत्मानं पीडयन्तं तदेव मधुमत् अमृतयुक्तम् अतिसम्यगित्यर्थः। यतः ऋष्वो गतिमन्तौ युवां स्थावरत्वान्मुक्तौ स्थ इत्यर्थः। ऋष्वेभिर्गतिमद्भिर्जङ्गमैः जनैः सोतृभिरस्मद्बन्धनकरैरुपलक्षितौ॥१७॥

तावर्जुनौ कृष्यमाणौ तेन बालेन रंहसा ।
समूलविटपौ भग्नौ स तु मध्ये जहास वै॥१८॥

निदर्शनार्थं गोपाणां दिव्यं स्वबलमास्थितः ।
तद्दाम तस्य बालस्य प्रभावादभवद्दृढम्॥१९॥

यमुनातीरमार्गस्था गोप्यस्तं ददृशुः शिशुम् ।
क्रन्दन्त्यो विस्मयन्त्यश्च यशोदां ययुरङ्गनाः॥२०॥

तास्तु सम्भ्रान्तवदना यशोदामूचुरङ्गनाः ।
एह्यागच्छ यशोदे त्वं सम्भ्रमात्किं विलम्बसे॥२१॥

यौ तावर्जुनवृक्षौ तु व्रजे सत्योपयाचनौ ।
पुत्रस्योपरि तावेतौ पतितौ ते महीरुहौ॥२२॥

सत्योपयाचनौ प्रार्थितप्रदत्वेन देवताभूतौ॥२२॥

दृढेन दाम्ना तत्रैव बद्धो वत्स इवोदरे ।
जहास वृक्षयोर्मध्ये तव पुत्रः स बालकः॥२३॥

उत्तिष्ठ गच्छ दुर्मेधे मूढे पण्डितमानिनि ।
पुत्रमानय जीवन्तं मुक्तं मृत्युमुखादिव॥२४॥

सा भीता सहसोत्थाय हाहाकारं प्रकुर्वती ।
तं देशमगमद्यत्र पातितौ तावुभौ द्रुमौ॥२५॥

सा ददर्श तयोर्मध्ये द्रुमयोरात्मजं शिशुम् ।
दाम्ना निबद्धमुदरे कर्षमाणमुलूखलम्॥२६॥

सा गोपी गोपवृद्धश्च समुवाच व्रजस्तदा ।
पर्यागच्छन्त ते द्रष्टुं गोपेषु महदद्भुतम्॥२७॥

जजल्पुस्ते यथाकामं गोपा वनविचारिणः ।
केनेमौ पातितौ वृक्षौ घोषस्यायतनोपमौ॥२८॥

विना वातं विना वर्षं विद्युत्प्रपतनं विना ।
विना हस्तिकृतं दोषं केनेमौ पातितौ द्रुमौ॥२९॥

अहो बत न शोभेतां विमूलावर्जुनाविभौ ।
भूमौ निपतितौ वृक्षौ वितोयौ जलदाविव ।
यदीमौ घोषरचितौ घोषकल्याणकारिणौ॥३०॥

नन्दगोप प्रसन्नौ ते द्रुमावेवं गतावपि ।
यच्च ते दारको मुक्तो विपुलाभ्यामपि क्षितौ॥३१॥

विपुलाभ्यामर्जुनाभ्याम्॥३१॥

औत्पातिकमिदं घोषे तृतीयं वर्तते त्विह ।
पूतनाया विनाशश्च द्रुमयोः शकटस्य च॥३२॥

अस्मिन्स्थाने च वासोऽयं घोषस्यास्य न युज्यते ।
उत्पाता ह्यत्र दृश्यन्ते कथयन्तो न शोभनम्॥३३॥

नन्दगोपस्तु सहसा मुक्त्वा कृष्णमुलूखलात् ।
निवेश्य चाङ्के सुचिरं मृतं पुनरिवागतम्॥३४॥

नातृप्यत्प्रेक्षमाणो वै कृष्णं कमललोचनम् ।
ततो यशोदां गर्हन्वै नन्दगोपो विवेश ह ।
स च गोपजनः सर्वो व्रजमेव जगाम ह॥३५॥

स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात् ।
गोष्ठे दामोदर इति गोपीभिः परिगीयते॥३६॥

एतदाश्चर्यभूतं हि बालस्यासीद्विचेष्टितम् ।
कृष्णस्य भरतश्रेष्ठ घोषे निवसतस्तदा॥३७॥

एतदिति। एवमादीत्यर्थः। अत्र तृणावर्तवधोऽपि पुराणान्तरादुपसंहर्तव्यः। तदुपबृंहिका श्रुतिस्तु- “साकं यक्ष्म प्रयत चाषेण किकिदीविना। साकं वा तस्य ध्राज्या साकं नश्य निहाकया” इति। खेचरत्वेन यक्षं पूज्यमिवात्मानं मनुते मिमीते तोलयति वा यक्ष्मः हे यक्ष्म राक्षस तद्वत्पीडकेति वा चाषेण तद्वर्णेन हरिणा तव हन्त्रा साकं प्रयत भूमाविति शेषः। किकिदीविना ज्ञः सन् दीव्यतीति किकिदीविः। किधातोर्बाहुलकात् किप्रत्यये लिड्भावे च किकिर्विद्वान् तेन वा तस्य वायोर्ध्राज्या गत्या यया धूलिवात्यारूपया एनम् उपरि नीतवानसि तया साकं नश्य नाशं प्राप्नुहि। निहाकया गत्या च साकं वा साहित्यं पतन एव न तु नाशे अतस्तेन सह पतितः सन् स्वयमेक एव नाशं प्राप्नुहीत्यर्थः। एवं देवैरुक्ते तृणावर्तः पपात ममारेत्यर्थः॥३७॥
॥इति श्रीमहाभारते खिलेषु हरिवांशे विष्णुपर्वणि शिशुचर्यायां यमलार्जुनभङ्गो नाम सप्तमोऽध्याय॥७॥
वृकदर्शनम्-००८

वैशम्पायन उवाच। एवं तौ बाल्यमुत्तीर्णौ कृष्णसङ्कर्षणावुभौ ।
तस्मिन्नेव व्रजस्थाने सप्तवर्शौ बभूवतुः॥१॥

अस्मिन्नथाष्टमेऽध्याये वनान्तरमियासतः। तनूरुहसमुत्पन्ना वृकाः कृष्णस्य वर्ण्यते॥१॥ एवं तावित्यध्यायः “सुदेवो अद्य प्रपतेदनावृत्परावतं परमां गन्तवा उ। अधाशयीत निर्ऋतेरुपस्थे धैनं वृका रभसासो अद्युः” इत्यस्य मन्त्रस्योपबृंहणार्थः। मन्त्रार्थः- पुरूरवसं प्रत्युर्वशी वदति। सुदेवः शोभनस्वामिको व्रजः आद्यक्षरलोपेन वासुदेवो वा अद्य प्रपतेत् अद्यैव उपद्रवसमकालं गच्छेत् अनावृत् नास्ति आवृत् निरोधको यस्य तादृशोऽपि परावतं परमात् दूराद् दूरतरं गन्तवै गन्तुम् उ निश्चितं प्रपतेदित्यन्वयः। अथ पक्षान्तरे यदि सुदेवो न प्रपतेत्तर्हि निर्ऋतेरुपस्थे शयीत अध अथवा एनं व्रजं वासुदेवपरिजनं रभसासो रभसाः वेगवन्तः वृकाः अद्युः भक्षयेयुः तस्माद्वासुदेवो वा तत्परिगृहीतो व्रजो वा वृकेभ्यो बिभेति अतस्त्वादृशेनापि इन्द्रियवृकेभ्यः सुतरां भेतव्यमिति भावः। इतः स्पष्टार्थं मूलम्॥१॥

नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ ।
बभूवतुर्वत्सपालौ काकपक्षधरावुभौ॥२॥

पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ ।
शुशुभाते वनगतौ त्रिशीर्षाविव पन्नगौ॥३॥

पणवो हि तुम्बीफलोपेतो वाद्यविशेषः। आद्यपदात्तादृशं रुद्रवीणादिकं पणवाद्यमत एव त्रिशीर्षाविवेति दृष्टान्तः सङ्गच्छते। पर्णवाद्यमित्यपि पाठः॥३॥

मयूराङ्गदकर्णौ तु पल्लवापीडधारिणौ ।
वनमालाकुलोरस्कौ द्रुमपोताविवोद्गतौ॥४॥

अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ ।
सशिक्यतुम्बकरकौ गोपवेणुप्रवादकौ॥५॥

क्वचिद्धसन्तावन्योन्यं क्रीडमानौ क्वचित्क्वचित् ।
पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरेक्षणौ॥६॥

एवं वत्सान्पालयन्तौ शोभयन्तौ महावनम् ।
चञ्चूर्यन्तौ रमन्तौ स्म किशोराविव चञ्चलौ॥७॥

चञ्चूर्य्यन्तौ अत्यन्तं सञ्चरन्तौ किशोराविव अश्वपोताविव॥७॥

अथ दामोदरः श्रीमान्सङ्कर्षणमुवाच ह ।
आर्य नास्मिन्वने शक्यं गोपालैः सह क्रीडितुम्॥८॥

अवगीतमिदं सर्वमावाभ्यां भुक्तकाननम् ।
प्रक्षीणतृणकाष्ठं च गोपैर्मथितपादपम्॥९॥

अवगीतं नाशितं भुक्तभोगं काननम्॥९॥

घनीभूतानि यान्यासन्काननानि वनानि च ।
तान्याकाशनिकाशानि दृश्यन्तेऽद्य यथासुखम्॥१०॥

काननानि उद्यानानि वनानि अरण्यानि आकाशनिकाशानि पत्रादिना शून्यानि॥१०॥

गोवाटेष्वपि ये वृक्षाः परिवृत्तार्गलेषु च ।
सर्वे गोष्ठाग्निषु गताः क्षयमक्षयवर्चसः॥११॥

परितो वृत्तचक्राकारः परिधिः अर्गलाश्च येषु तेषु परिवृत्तार्गलेषु॥११॥

सन्निकृष्टानि यान्यासन्काष्ठानि च तृणानि च ।
तानि दूरावकृष्टासु मार्गितव्यानि भूमिषु॥१२॥

अरण्यमिदमल्पोदमल्पकक्षं निराश्रयम् ।
अन्वेषितव्यविश्रामं दारुणं विरलद्रुमम्॥१३॥

अकर्मण्येषु वृक्षेषु स्थितविप्रं स्थितद्विजम् ।
संवासस्यास्य महतो जनेनोत्सादितद्रुमम्॥१४॥

निरानन्दं निरास्वादं निष्प्रयोजनमारुतम् ।
निर्विहङ्गमिदं शून्यं निर्व्यञ्जनमिवाशनम्॥१५॥

निर्व्यञ्जनं शाकरूपादिहीनम्॥१५॥

विक्रीयमाणैः काष्ठैश्च शाकैश्च वनसम्भवैः ।
उच्छिन्नसञ्चयतृणैर्घोषोऽयं नगरायते॥१६॥

शैलानां भूषणं घोषो घोषाणां भूषणं वनम् ।
वनानां भूषणं गावस्ताश्चास्माकं परा गतिः॥१७॥

तस्मादन्यद्वनं यामः प्रत्यग्रयवसेन्धनम् ।
इच्छन्त्यनुपभुक्तानि गावो भोक्तुं तृणानि च॥१८॥

कर्तव्यमाह- तस्मादिति।॥१८॥

तस्माद्वनं नवतृणं गच्छन्तु धनिनो व्रजाः ।
न द्वारबन्धावरणा न गृहक्षेत्रिणस्तथा ।
प्रशस्ता वै व्रजा लोके यथा वै चक्रचारिणः॥१९॥

ननु पितृपर्यागता भूमिर्निर्धनाऽपि सुखावहेत्युक्तेः कथं पूर्वस्थानं त्याज्यमित्याह- न द्वारेति। चक्रेण समुदायेन चरन्ति ते चक्रचारिणो हंससारसादयः अनिकेता इत्यर्थः॥१९॥

शकृन्मूत्रेषु तेष्वेव जातक्षाररसायनम् ।
न तृणं भुञ्जते गावो नापि तत्पयसे हितम्॥२०॥

शकृन्मूत्रेषु तेष्वेषु तृणेषु पतितेषु सत्सु॥२०॥

स्थलीप्रायासु रथ्यासु नवासु वनराजिषु ।
चरावः सहितौ गोभिः क्षिप्रं संवाह्यतां व्रजः॥२१॥

स्थलीप्रायासु समभूमितुल्यासु निस्तृणास्वित्यर्थः॥२१॥

श्रूयते हि वनं रम्यं पर्याप्तं तृणसंस्तरम् ।
नाम्ना वृन्दावनं नाम स्वादुवृक्षफलोदकम्॥२२॥

अझिल्लिकण्टकवनं सर्वैर्वनगुणैर्युतम् ।
कदम्बपादपप्रायं यमुनातीरसंश्रितम्॥२३॥

स्निग्धशीतानिलवनं सर्वर्तुनिलयं शुभम् ।
गोपीनां सुखसञ्चारं चारुचित्रवनान्तरम्॥२४॥

स्निग्धवनं शीतानिलं चेति सम्बन्धः॥२४॥

तत्र गोवर्धनो नाम नातिदूरे गिरिर्महान् ।
भ्राजते दीर्घशिखरो नन्दनस्येव मन्दरः॥२५॥

मध्ये चास्य महाशाखो न्यग्रोधो योजनोच्छ्रितः ।
भाण्डीरो नाम शुशुभे नीळमेघ इवाम्बरे॥२६॥

मध्येन चास्य कालिन्दी सीमन्तमिव कुर्वती ।
प्रयाता नन्दनस्येव नलिनी सरितां वरा॥२७॥

तत्र गोवर्धनं चैव भाण्डीरं च वनस्पतिम् ।
कालिन्दीं च नदीं रम्यां द्रक्ष्यावश्चरतः सुखम्॥२८॥

चरतो मृगादीनिति शेषः॥२८॥

तत्रायं कल्प्यतां घोषस्त्यज्यतां निर्गुणं वनम् ।
सन्त्रासयावो भद्रं ते किञ्चिदुत्पाद्य कारणम्॥२९॥

एवं कथयतस्तस्य वासुदेवस्य धिमतः ।
प्रादुर्बभूवुः शतशो रक्तमांसवसाशनाः॥३०॥

घोराश्चिन्तयतस्तस्य स्वतनूरुहजास्तदा ।
विनिष्पेतुर्भयकराः सर्वशः शतशो वृकाः॥३१॥

निष्पतन्ति स्म बहवो व्रजस्योत्सादनाय वै ।
वृकान्निष्पतितान्दृष्ट्वा गोषु वत्सेष्वथो नृषु॥३२॥

गोपीषु च यथाकामं व्रजे त्रासोऽभवन्महान् ।
ते वृकाः पञ्चबद्धाश्च दशबद्धास्तथा परे॥३३॥

पञ्चबद्धाः पञ्चादिसङ्ख्यया संहताः॥३३॥

त्रिंशद्विंशतिबद्धाश्च शतबद्धास्तथा परे ।
निश्चेरुस्तस्य गात्रेभ्यः श्रीवत्सकृतलक्षणाः॥३४॥

कृष्णस्य कृष्णवदना गोपानां भयवर्धनाः ।
भक्षयद्भिश्च तैर्वत्सांस्त्रासयद्भिश्च गोव्रजान्॥३५॥

निशि बालान्हरद्भिश्च वृकैरुत्साद्यते व्रजः ।
न वने शक्यते गन्तुं न गाश्च परिरक्षितुम्॥३६॥

न वनात्किञ्चिदाहर्तुं न च वा तरितुं नदीम् ।
त्रस्ता ह्युद्विग्नमनसोऽगतास्तस्मिन्वनेऽवसन्॥३७॥

अगताः असञ्चाराः॥३७॥

एवं वृकैरुदीर्णैस्तु व्याघ्रतुल्यपराक्रमैः ।
व्रजो निष्पन्दचेष्टस्य एकस्थानचरः कृतः॥३८॥

तदेवाह- एवमिति॥३८॥
॥इति श्रीमहभारते खिलेषु हरिवंशे विश्णुपर्वणि शिशुचर्यायां वृकदर्शनेऽष्टमोऽध्यायः॥८॥
वृन्दावनप्रवेशः-००९

वैशम्पायन उवाच। एवं वृकांश्च तान्दृष्ट्वा वर्धमानान्दुरासदान् ।
सस्त्रीपुमान्स घोषो वै समस्तोऽमन्त्रयत्तदा॥१॥

एतस्मिन्नवमेऽध्याये रामकृष्णेच्छया पुनः। वृन्दावनप्रवेशश्च व्रजस्याद्भुत ईर्यते॥१॥ एवं वृकान्॥१॥

स्थाने नेह न नः कार्यं व्रजामोऽन्यन्महद्वनम् ।
यच्छिवं च सुखोष्यं च गवां चैव सुखावहम्॥२॥

सुखोष्यं सुखावासम्॥२॥

अद्यैव किं चिरेण स्म व्रजामः सह गोधनैः ।
यावद्वृकैर्वधं घोरं न नः सर्वो व्रजो व्रजेत्॥३॥

एषां धूम्रारुणाङ्गानां दंष्ट्रिणां नखकर्षिणाम् ।
वृकाणां कृष्णवक्त्राणां बिभीमो निशि गर्जताम्॥४॥

एषाम् एभ्यः सकाशात्॥४॥

मम पुत्रो मम भ्राता मम वत्सोऽथ गौर्मम ।
वृकैर्व्यापादिता ह्येवं क्रन्दन्ति स्म गृहे गृहे ॥५॥

तासां रुदितशब्देन गवां हम्भारवेण च ।
व्रजस्योत्थापनं चक्रुर्घोषवृद्धाः समागताः॥६॥

तेषां मतमथाज्ञाय गन्तुं वृन्दावनं प्रति ।
व्रजस्य विनिवेशाय गवां चैव हिताय च॥७॥

वृन्दावननिवासाय ताञ्ज्ञात्वा कृतनिश्चयान् ।
नन्दगोपो बृहद्वाक्यं बृहस्पतिरिवाददे॥८॥

अद्यैव निश्चयप्राप्तिर्यदि गन्तव्यमेव नः ।
शीघ्रमाज्ञाप्यतां घोषः सज्जीभवत मा चिरम्॥९॥

ततोऽवघुष्यत तदा घोषे तत्प्राकृतैर्जनैः ।
शीघ्रं गावः प्रकल्प्यन्तां भाण्डं समभिरोप्यताम्॥१०॥

अवघुष्यत घोषो जातः। भाण्डं शकटेष्विति शेषः॥१०॥

वत्सयूथानि काल्यन्तां युज्यन्तां शकटानि च ।
वृन्दावनमितः स्थानान्निवेशाय च गम्यताम्॥११॥

तच्छ्रुत्वा नन्दगोपस्य वचनं साधु भाषितम् ।
उदतिष्ठद्व्रजः सर्वः शीघ्रं गमनलालसः॥१२॥

प्रयाह्युत्तिष्ठ गच्छामः किं शेषे साधु योजय ।
उत्तिष्ठति व्रजे तस्मिन्गोपकोलाहलो ह्यभूत्॥१३॥

उत्तिष्ठमानः शुशुभे शकटीशकटस्तु सः ।
व्याघ्रघोषमहाघोषो घोषः सागरघोषवान्॥१४॥

गोपीनां गर्गरीभिश्च मूर्ध्नि चोत्तम्भितैर्घटैः ।
निष्पपात व्रजात्पङ्क्तिस्तारापङ्क्तिरिवाम्बरात्॥१५॥

नीलपीतारुणैस्तासां वस्त्रैरग्रस्तनोच्छ्रितैः ।
शक्रचापायते पङ्क्तिर्गोपीनां मार्गगामिनी॥१६॥

दामनी दामभारैश्च कैश्चित्कायावलम्बिभिः ।
गोपा मार्गगता भान्ति सावरोहा इव द्रुमाः॥१७॥

स व्रजो व्रजता भाति शकटौघेन भास्वता ।
पोतैः पवनविक्षिप्तैर्निष्पतद्भिरिवार्णवः॥१८॥

पोतैः नौकाभिः॥१८॥

क्षणेन तद्व्रजस्थानमीरिणं समपद्यत ।
द्रव्यावयवनिर्धूतं कीर्णं वायसमण्डलैः॥१९॥

ईरणम् ऊषरं शून्यमित्यर्थः॥१९॥

ततः क्रमेण घोषः स प्राप्तो वृन्दावनं वनम् ।
निवेशं विपुलं चक्रे गवां चैव हिताय च॥२०॥

शकटावर्तपर्यन्तं चन्द्रार्धाकारसंस्थितम् ।
मध्ये योजनविस्तीर्णं तावद्द्विगुणमायतम्॥२१॥

कण्टकीभिः प्रवृद्धाभिस्तथा कण्टकितद्रुमैः ।
निखातोच्छ्रितशाखाग्रैरभिगुप्तं समन्ततः॥२२॥

मन्थैरारोप्यमाणैश्च मन्थबन्धानुकर्षणैः ।
अद्भिः प्रक्षाल्यमानाभिर्गर्गरीभिरितस्ततः॥२३॥

कीलैरारोप्यमाणैश्च दामनीपाशपाशितैः ।
स्तम्भनीभिर्धृताभिश्च शकटैः परिवर्तितैः॥२४॥

नियोगपाशैरासक्तैर्गर्गरीस्तम्भमूर्धसु ।
छादनार्थं प्रकीर्णैश्च कटकैस्तृणसङ्कटैः॥२५॥

नियोगपाशैः मन्थनभाण्डस्थूणाया मन्थदण्डेन संयोजनार्थैः पाशैः माञ्जेरेति महाराष्ट्रप्रसिद्धैः शिक्यैर्वा कटकैर्घटाधारकतृणैः सहिताभिः तृणसङ्कटैः तृणमयीभिराच्छादनीभिः॥२५॥

शाखाविटङ्कैर्वृक्षाणां क्रियमाणैरितस्ततः ।
शोध्यमानैर्गवां स्थानैः स्थाप्यमानैरुलूखलैः॥२६॥

शाखासु विटङ्काः पक्ष्युपवेशनस्थानानि तैः क्रियमाणैः॥२६॥

प्राङ्मुखैः सिच्यमानैश्च सन्दीप्यद्भिश्च पावकैः ।
स्वत्सचर्मास्तरणैः पर्यङ्कैश्चावरोपितैः॥२७॥

तोयमुत्तारयन्तीभिः प्रेक्षन्तीभिश्च तद्वनम् ।
शाखाश्चाकर्षमाणाभिर्गोपीभिश्च समन्ततः॥२८॥

युवभिः स्थविरैश्चैव गोपैर्व्यग्रकरैर्भृशम् ।
विशसद्भिः कुठारैश्च काष्ठान्यपि तरूनपि॥२९॥

तद्व्रजस्थानमधिकं शुशुभे काननावृतम् ।
रम्यं वननिवेशं वै स्वादुमूलफलोदकम्॥३०॥

तास्तु कामदुघा गावः सर्वपक्षिरुतं वनम् ।
वृन्दावनमनुप्राप्ता नन्दनोपमकाननम्॥३१॥

पूर्वमेव तु कृष्णेन गवां वै हितकारिणा ।
शिवेन मनसा दृष्टं तद्वनं वनचारिणा॥३२॥

पश्चिमे तु ततो रूक्षे धर्मे मासे निरामये ।
वर्षतीवामृतं देवे तृणं तत्र व्यवर्धत॥३३॥

घर्मे ग्रीष्मे तत्रापि पश्चिमे आषाढे॥३३॥

न तत्र वत्साः सीदन्ति न गावो नेतरे जानाः ।
यत्र तिष्ठति लोकानां भवाय मधुसूदनः॥३४॥

ताश्च गावः स घोषस्तु स च सङ्कर्षणो युवा ।
कृष्णेन विहितं वासं समध्यासत निर्वृताः॥३५॥

अध्यासत अध्यासितवन्तः॥३५॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वृन्दावनप्रवेशे नवमोऽध्यायः॥९॥
प्रावृड्वर्णनम्-०१०

वैशम्पायन उवाच। तौ तु वृन्दावनं प्राप्तौ वसुदेवसुतावुभौ ।
चेरतुर्वत्सयूथानि चारयन्तौ सुरूपिणौ॥१॥

एतस्मिन्दशमेऽध्याये प्रावृड्वर्णनमुच्यते। श्रीनिवासनिवासेन घोषोत्कर्षस्तथा दिवः॥ ताविति॥१॥

पूर्णस्तु घर्मसमयस्तयोस्तत्र वने सुखम् ।
क्रीडतोः सह गोपालैर्यमुनां चावगाहतोः॥२॥

ततः प्रावृडनुप्राप्ता मनसः कामदीपिनी ।
प्रववर्षुर्महामेघाः शक्रचापाङ्कितोदराः॥३॥

बभूवादर्शनः सूर्यो भूमिश्चादर्शना तृणैः ।
पतता मेघवातेन नवतोयानुकर्षिणा॥४॥

संमार्जिततला भूमिर्यौवनस्थेव लक्ष्यते॥५॥

नववर्षावसिक्तानि शक्रगोपकुलानि च ।
नष्टदावाग्निधूमानि वनानि प्रचकाशिरे॥६॥

नृत्यव्यापारकालश्च मयूराणां कलापिनाम् ।
मदरक्ताः प्रवृत्ताश्च केकाः पटुरवास्तथा॥७॥

नवप्रावृषि कान्तानां षट्पदाहारदायिनाम् ।
यौवनस्थकदम्बानां नवाभ्रैर्भ्राजते वपुः॥८॥

कान्तानां कदम्बानामिति सामानाधिकरण्यम्॥८॥

हासितं कुटजैर्वृक्षैः कदम्बैर्वासितं वनम् ।
नाशितं जलदैरुष्णं तोषिता वसुधा जलैः ।
सन्तप्ता भास्करकरैरभितप्ता दवाग्निभिः॥९॥

हासितं विकाशितम्॥९॥

जलैर्बलाहकोत्सृष्टैरुच्छ्वसन्तीव पर्वताः ।
महावातसमुद्भूतं महामेघगणार्पितम् ।
मही महाराज पुरैस्तुल्यमापद्यते नभः॥१०॥

उच्छ्वसन्तीव बाष्पमुद्गिरन्तीत्यर्थः। मही पुरैस्तुल्यं वपुरापद्यते तत्र दृष्टान्तो महावाताः पताकाः महामेघा महाप्रासादाः॥१०॥

क्वचित्कदम्बहासाढ्यं शिलीन्ध्राभरणं क्वचित् ।
सम्प्रदीप्तमिवाभाति फुल्लनीपद्रुमं वनम्॥११॥

शिलीन्ध्राः छत्राकाः॥११॥

ऐन्द्रेण पयसा सिक्तं मारुतेन च विस्तृतम् ।
पार्थिवं गन्धमाघ्राय लोकः क्षुभितमानसः॥१२॥

क्षुभितमानसः कामातुरोऽभूत्॥१२॥

दृप्तसारङ्गनादेन दर्दुरव्याहतेन च ।
नवैश्च शिखिविक्रुष्टैरवकीर्णा वसुन्धरा॥१३॥

दृप्तसारङ्गनादेन मत्तभ्रमरध्वनिना दर्दुरा भेकाः अवकीर्णा व्याप्ता॥१३॥

भ्रमत्तूर्णमहावर्ता वर्षप्राप्तमहारयाः ।
हरन्त्यस्तीरजान्वृक्षान्विस्तारं यान्ति निम्नगाः॥१४॥

सन्ततासारनिर्यत्नाः क्लिन्नयत्नोत्तरच्छदाः ।
न त्यजन्ति नगाग्राणि श्रान्ता इव पतत्रिणः॥१५॥

सन्ततो य आसारोः धारासम्पातस्तेन निर्यत्नाः जडीकृताः। नगाग्राणि वृक्षशाखाग्राणि॥१५॥

तोयगम्भीरलम्बेषु स्रवत्सु च नदत्सु च ।
उदरेषु नवाभ्राणां मज्जतीव दिवाकरः॥१६॥

तोयेन गम्भीराणि निबिडानि लम्बानि विस्तृतानि च तेषूदरेषु॥१६॥

महीरुहैरुत्पतितैः सलिलोत्पीडसङ्कुला ।
अन्विष्यमार्गा वसुधा भाति शाद्वलमालिनी॥१७॥

महीरुहैर्मार्गचिह्नभूतैरन्वेष्यो जलच्छन्नो मार्गो यस्याः सा॥१७॥

वज्रेणेवावरुग्णानां नगानां नगशालिनाम् ।
स्रोतोभिः परिकृत्तानि पतन्ति शिखराण्यधः॥१८॥

पतता मेघवर्षेण यथा निम्नानुसारिणा ।
पल्वलोत्कीर्णमुक्तेन पूर्यन्ते वनराजयः॥१९॥

पल्वलेभ्य उत्कीर्णम् उत्सिक्तं यत्तोयं तेन वर्षेण॥१९॥

हस्तोच्छ्रितमुखा वन्या मेघनादानुसारिणः ।
भ्रान्तातिवृष्ट्या मातङ्गा गां गता इव तोयदाः॥२०॥

हस्तः शुण्डा तथा सह उच्छ्रितं मुखं येषां ते हस्तोच्छ्रितमुखाः॥२०॥

प्रावृट्प्रवृत्तिं सन्दृश्य दृष्ट्वा चाम्बुधरान्घनान् ।
रौहिणेयो मिथः काले कृष्णं वचनमब्रवीत्॥२१॥

पश्य कृष्ण घनान्कृष्णान्बलाकोज्ज्वलभूषणान् ।
गगने तव गात्रस्य वर्णचोरान्समुच्छ्रितान्॥२२॥

तव निद्राकरः कालस्तव गात्रोपमं नभः ।
त्वमिवाज्ञातवसतिं चन्द्रो वसति वार्षिकीम्॥२३॥

चन्द्रो नभोवसतिं वसति आस्ते वार्षिकीं वर्षाभवाम्॥२३॥

एतन्नीलाम्बुदश्यामं नीलोत्पलदलप्रभम् ।
सम्प्राप्ते दुर्दिने काले दुर्दिनं भाति वै नभः॥२४॥

दुर्दिने मेघच्छन्नेऽह्नि काले प्रावृट्काले दुर्दिनं मैघैराच्छन्नम्॥२४॥

पश्य कृष्ण जलोदग्रैः कृष्णैरुद्ग्रथितैर्घनैः ।
गोवर्धनो यथा रम्यो भाति गोवर्धनो गिरिः॥२५॥

गोवर्धनो नामतः गोवर्धनो गवां वर्धयिता॥२५॥

पतितेनाम्भसा ह्येते समन्तान्मददर्पिताः ।
भ्राजन्ते कृष्णसारङ्गाः काननेषु मुदान्विताः॥२६॥

कृष्णसारङ्गा भ्रमराः॥२६॥

एतान्यम्बुप्रहृष्टानि हरितानि मृदूनि च ।
तृणानि शतपत्राक्ष पत्रैर्गूहन्ति मेदिनीम्॥२७॥

गूहन्त्याच्छादयन्ति॥२७॥

क्षरज्जलानां शैलानां वनानां जलदागमे ।
ससस्यानां च सीमानां न लक्ष्मीर्व्यतिरिच्यते॥२८॥

सीमानां कृष्टभूमीनां त्रयाणामपि लक्ष्मीर्न व्यतिरिच्यते नाधिका भवत्यपि तु समानैवेत्यर्थः॥२८॥

शीघ्रवातसमुद्भूताः प्रोषितौत्सुक्यकारिणः ।
दामोदरोद्दामरवाः प्रागल्भ्यं यान्ति तोयदाः॥२९॥

प्रोषितानां प्रवासिनाम् औत्सुक्यं गृहगमने तत्कारिणः॥२९॥

हरे हर्यश्वचापेन त्रिवर्णेन त्रिविक्रम ।
विबाणज्येन रचितं तवेदं मध्यमं पदम्॥३०॥

हर्यश्वचापेन इन्द्रधनुषा रचितं मिश्रितं मध्यमं पदमन्तरिक्षम्॥३०॥

नभस्येष नभश्चक्षुर्न भात्येव चरन्नभः ।
मेषैः शीतातपकरो विरश्मिरिव रश्मिवान्॥३१॥

नभसि श्रावणे नभश्चक्षुः सूर्यः॥३१॥

द्यावापृथिव्योः संसर्गः सततं विततैः कृतः ।
अव्यवच्छिन्नधारौघैः समुद्रौघसमैर्घनैः॥३२॥

संसर्गः सम्बन्धः समुद्रौघनिभैः क्षुब्धैरित्यर्थः॥३२॥

नीपार्जुनकदम्बानां पृथिव्यां चातिवृष्टिभिः ।
गन्धैः कोलाहला वान्ति वाता मदनदीपनाः॥३३॥

नीपाः कदम्बानामवान्तरजातयः पृथिव्यां सृष्टैरिति शेषः। कोलाहलाः कलकलाः॥३३॥

सम्प्रवृत्तमहावर्षं लम्बमानमहाम्बुदम् ।
भात्यगाधमपर्यन्तं ससागरमिवाम्बरम्॥३४॥

धारानिर्मलनाराचं विद्युत्कवचवर्मिणम् ।
शक्रचापायुधधरं युद्धसज्जमिवाम्बरम्॥३५॥

यैर्विद्युत्कवचैर्मेघैर्वर्मिणं वर्मवत्पुंस्त्वमार्षम्॥३५॥

शैलानां च वनानां च द्रुमाणां च वराननम् ।
प्रतिच्छन्नानि भासन्ते शिखराणि घनैर्घनैः॥३६॥

घनैर्निविडैर्मेघैः॥३६॥

गजानीकैरिवाकीर्णं सलिलोद्गारिभिर्घनैः ।
वर्णसारूप्यतां याति गगनं सागरस्य च॥३७॥

गजा जलगजास्तेषामनीकैः॥३७॥

समुद्रोद्धूतजनिता लोलशाड्वलकम्पिनः ।
शीताः सपृषतोद्दामाः कर्कशा वान्ति मारुताः॥३८॥

उद्धूतम् उद्धूननम्। कम्पिनः कम्पहेतवः सपृषतः सबिन्दवः उद्दामाः महान्तः। सपृषतोद्दामा इति सन्धिरार्षः॥३८॥

निशासु सुप्तचन्द्रासु मुक्ततोयासु तोयदैः ।
मग्नसूर्यस्य नभसो न विभान्ति दिशो दश॥३९॥

सुप्तो अदृश्यः चन्द्रो यासु॥३९॥

चेतनं पुष्करं कोशैः क्षुधाध्मातैः समन्ततः ।
न घृणीनां न रम्याणां विवेकं यन्ति कृष्टयः॥४०॥

चेतनमिति। क्षुधाध्मातैर्वायुना पूरितैः कोशैश्चर्मकोशसदृशैर्मेघैरुपलक्षितं पुष्करमम्बरं चैतनमिव भातीति लुप्तोपमा। सर्वतश्चलद्भिर्मेघैर्नभोऽपि चलतीवेत्यर्थः। एवमपि कृष्टयः प्रजाः रम्याणां रात्रीणां घृणीनां दिवसानां च विवेकम्। अन्योन्यतः पृथक्त्वं न यान्तीति न अपि तु यान्त्येवेति योजना। मेघोत्थान्धकारावृतानि दिनानि रात्रिकल्पान्यभूवन्नित्यर्थः॥४०॥

घर्मदोषपरित्यक्तं मेघतोयविभूषितम् ।
पश्य वृन्दावनं कृष्ण वनं चैत्ररथं यथा॥४१॥

एवं प्रावृड्गुणान्सर्वाञ्छ्रीमान्कृष्णस्य पूर्वजः ।
कथयन्नेव बलवान्व्रजमेव जगाम ह॥४२॥

अन्योन्यं रममाणौ तु कृष्णसङ्कर्षणावुभौ ।
तत्कालज्ञातिभिः सार्द्धं चेरतुस्तद्वनं महत्॥४३॥

तत्कालज्ञातिभिः न तु यादववज्जन्मज्ञातिभिः॥४३॥
॥इति श्रीमहाभारते खिलेषु हरिवांशे विष्णुपर्वणि प्रावृड्वर्णने दशमोऽध्यायः॥१०॥
यमुनावर्णनम्-०११

वैशम्पायन उवाच। कदाचित्तु तदा कृष्णो विना सङ्कर्षणेन वै ।
चचार तद्वनं रम्यं कामरूपी वराननः॥१॥

अस्मिन्नेकादशेऽध्याये वनक्रीडा निरूप्यते। कालियक्ष्वेडदग्धीययमुनादर्शनं हरेः॥१॥ कदाचिदिति॥१॥

काकपक्षधरः श्रीमाञ्छ्यामः पद्मदलेक्षणः ।
श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा॥२॥

श्रीवत्सेन उरसा घृतेनेति शेषः। तृतीयान्तानां पञ्चमस्थेन रराजेत्यनेनान्वयः॥२॥

साङ्गदेनाग्रहस्तेन पङ्कजोद्भिन्नवक्षसा ।
सुकुमाराभिताम्रेण क्रान्तविक्रान्तगामिना॥३॥

हस्तेन पङ्कजोद्भिन्नं विकसत्कमलं तत्तुल्यतेजसा क्रान्तं विक्रान्तं गमनं यस्य तादृशेन गामिना गमनस्वभावेन पादेन॥३॥

पीते प्रीतिकरे नॄणां पद्मकिञ्जल्कसप्रभे ।
सूक्ष्मे वसानो वसने ससन्ध्य इव तोयदः॥४॥

वत्सव्यापारयुक्ताभ्यां व्यघ्राभ्यां गण्डरज्जुभिः ।
भुजाभ्यां साधुवृत्ताभ्यां पूजिताभ्यां दिवौकसैः॥५॥

दिवौकसैः देवैः॥५॥

सदृशं पुण्डरीकस्य गन्धेन कमलस्य च ।
रराज चास्य तद्बाल्ये रुचिरौष्ठपुटं मुखम्॥६॥

बाल्ये “पौगण्डं दशमावधि” इत्युक्तेः पौगण्डे॥६॥

शिखाभिस्तस्य मुक्ताभी रराज मुखपङ्कजम् ।
वृतं षट्पदपङ्क्तीभिर्यथा स्यात्पद्ममण्डलम्॥७॥

तस्यार्जुनकदम्बाढ्या नीपकन्दलमालिनी ।
रराज माला शिरसि नक्षत्राणां यथा दिवि॥८॥

नीपाः कदम्बपुष्पाणि कन्दला नवाङ्कुराः तैः शोभमाना नीपकन्दलमालिनी॥८॥

स तया मालया वीरः शुशुभे कण्ठसक्तया ।
मेघमालाम्बुदश्यामो नभस्य इव मूर्तिमान्॥९॥

नभस्यो भाद्रपदः॥९॥

एकेनामलपत्रेण कण्ठसूत्रावलम्बिना ।
रराज बर्हिपत्रेण मन्दमारुतकम्पिना॥१०॥

अमलं दिव्यं पत्रं दलं यस्य तेन बर्हिपत्रेण मयूरपिच्छेन शुशुभे इत्यनुषङ्गः॥१०॥

क्वचिद्गायङ्क्वचित्क्रीडंश्चञ्चूर्यंश्च क्वचित्क्वचित् ।
पर्णवाद्यं श्रुतिसुखं वादयंश्च क्वचिद्वने॥११॥

गोपवेणुं सुमधुरं कामात्तमपि वादयन् ।
प्रह्लादनार्थं च गवां क्वचिद्वनगतो युवा॥१२॥

गोकुलेऽम्बुधरश्यामश्चचार द्युतिमान्प्रभुः ।
रेमे च तत्र रम्यासु चित्रासु वनराजिषु॥१३॥

मयूररवघुष्टसु मदनोद्दीपनीषु च ।
मेघनादप्रतिव्यूहैर्नादितासु समन्ततः॥१४॥

प्रतिव्यूहैः प्रतिध्वनिभिः॥१४॥

शाड्वलच्छन्नमार्गासु शिलीन्ध्राभरणासु च ।
कन्दलामलपत्रासु स्रवन्तीषु नवं जलम्॥१५॥

कन्दलानि नवाङ्कुरितानि अमलानि च पत्राणि यासु। “कन्दलं तु कपोले स्यादुपरागे नवाङ्कुरे।” इति विश्वः॥१५॥

केसराणां नवैर्गन्धैर्मदनिःश्वसितोपमैः ।
अभीक्ष्णं निःश्वसन्तीषु कामिनीष्विव नित्यशः॥१६॥

कामिनीष्विवेति स्रवन्तीनामुपमा॥१६॥

सेव्यमानो नवैर्वातैर्द्रुमसङ्घातनिःसृतैः ।
तासु कृष्णो मुदं लेभे सौम्यासु वनराजिषु॥१७॥

स कदाचिद्वने तस्मिन्गोभिः सह परिभ्रमन् ।
ददर्श विपुलोदग्रं शाखिनं शाखिनां वरम्॥१८॥

शाखिनं वटम्॥१८॥

स्थितं धरण्यां मेघाभं निबिडं दलसञ्चयैः ।
गगनार्धोच्छ्रिताकारं पर्वताभोगधारिणम्॥१९॥

नीलचित्राङ्गवर्णैश्च सेवितं बहुभिः खगैः ।
फलैः प्रवालैश्च घनैः सेन्द्रचापघनोपमम्॥२०॥

चित्राङ्गवर्णैर्मयूरैः॥२०॥

भवनाकारविटपं लतापुष्पसुमण्डितम् ।
विशालमूलावनतं पवनाम्भोदधारिणम्॥२१॥

आधिपत्यमिवान्येषां तस्य देशस्य शाखिनाम् ।
कुर्वाणं शुभकर्माणं निरावर्षमनातपम्॥२२॥

निरावर्षं वर्षवारणम्। अनातपम् आतपनिवारणम्॥२२॥

न्यग्रोधं पर्वताग्राभं भाण्डीरं नाम नामतः ।
दृष्ट्वा तत्र मतिं चक्रे निवासाय ततः प्रभुः॥२३॥

स तत्र वयसा तुल्यैर्वत्सपालैः सहानघ ।
रेमे वै वासरं कृष्णः पुरा स्वर्गगतो यथा॥२४॥

तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनम् ।
रमयन्ति स्म बहवो वन्यैः क्रीडनकैस्तदा॥२५॥

क्रीडनकैः क्रीडासाधनैः॥२५॥

अन्ये स्म परिगायन्ति गोपा मुदितमानसाः ।
गोपालाः कृष्णमेवान्ये गायन्ति स्म रतिप्रियाः॥२६॥

तेषां स गायतामेव वादयामास वीर्यवान् ।
पर्णवाद्यान्तरे वेणुं तुम्बीवीणां च तत्र ह॥२७॥

कदाचिच्चारयन्नेव गाः स गोवृषभेक्षणः ।
जगाम यमुनातीरं लतालङ्कृतपादपम्॥२८॥

तरङ्गापाङ्गकुटिलं वारिस्पर्शमुखानिलाम् ।
तां च पद्मोत्पलवतीं ददर्श यमुनां नदीम्॥२९॥

तरङ्गा एवापाङ्गाः कटाक्षास्तैः कुटिलं तीरम्॥२९॥

सुतीर्थां स्वादुसलिलां ह्रदिनीं वेगगामिनीम् ।
तोयवातोद्यतैर्वेगैरवनामितपादपाम्॥३०॥

हंसकारण्डवोघुद्ष्टां सारसैश्च विनादिताम् ।
अनर्घमिथुनैश्चैव सेवितां मिथुनेचरैः॥३१॥

मिथुनेचरैश्चक्रवाकादिभिः॥३१॥

जलजैः प्राणिभिः कीर्णां जलजैर्भूषितां गुणैः ।
जलजैः कुसुमैश्चित्रां जलजैर्हरितोदकाम्॥३२॥

जलजैर्मीनाद्यैः जलजैर्गुणैः शीतलत्वनिर्मलत्वाद्यैः जलजैः पद्मैः जलजैः शैवालैः॥३२॥

प्रसृतस्रोतचरणां पुलिनश्रोणिमण्डलाम् ।
आवर्तनाभिगम्भीरां पद्मरोमाभिरञ्जिताम्॥३३॥

स्त्रीरूपेण वर्णयति- प्रसृतेति। स्रोतःशब्दे सकारलोप आर्षः॥३३॥

तटच्छेदोदरां कान्तां त्रितरङ्गवलीधराम् ।
फेनप्रहृष्टवदनां प्रसन्नां हंसहासिनीम्॥३४॥

तटच्छेदः प्रवाहस्य मध्ये कार्श्यम्। तिस्रः तरङ्गा एव वलयः तासां धरां तरङ्गत्रिवलीधराम्॥३४॥

रुचिरोत्पलरक्तोष्ठीं नतभ्रूं जलजेक्षणाम् ।
ह्रददीर्घललाटान्तां कान्तां शैवलमूर्धजाम्॥३५॥

चक्रवाकस्तनतटीं तीरपार्श्वायताननाम् ।
दीर्घस्रोतायतभुजामाभोगश्रवणायताम्॥३६॥

आभोगश्रवणायताम् आभोगस्तटस्योभयतः पूर्णता सैव श्रवणे आयते यस्यास्ताम्॥३६॥

कारण्डवाकुण्डलिनीं श्रीमत्पङ्कजलोचनाम् ।
तटजाभरणोपेतां मीननिर्मलमेखलाम्॥३७॥

वारिप्लवप्लवक्षौमां सारसारावनूपुराम् ।
काशचामीकरं वासो वसानां हंसलक्षणाम्॥३८॥

वारिणि प्लवन्ते विस्तारं यान्ति शैवालाः कमलिनीदलानि वा तेषां यः प्लवः विपुलता सैव क्षौमम् अतसीसूत्रमयं वासो यस्यास्ताम्॥३८॥

भीमनक्रानुलिप्ताङ्गीं कूर्मलक्षणभूषिताम् ।
निपानश्वापदापीडां नृभिः पीनपयोधराम्॥३९॥

निपानं पशूनां पानस्थलं तत्र ये श्वापदास्त एवापीडो भूषा यस्यास्ताम्॥३९॥

श्वापदोच्छिष्टसलिलामाश्रमस्थानसङ्कुलाम् ।
तां समुद्रस्य महिषीमीक्षमाणः समन्ततः॥४०॥

चचार रुचिरं कृष्णो यमुनामुपसोभयन् ।
तां चरन्स नदीं श्रेष्ठां ददर्श ह्रदमुत्तमम्॥४१॥

दीर्घं योजनविस्तारं दुस्तरं त्रिदशैरपि ।
गम्भीरमक्षोभ्यजलं निष्कम्पमिव सागरम्॥४२॥

तोयजैः श्वापदैस्त्यक्तं शून्यं तोयचरैः खगैः ।
अगाधेनाम्भसा पूर्णं मेघपूर्णमिवाम्बरम्॥४३॥

दुःखोपसर्प्यं तीरेषु ससर्पैर्विपुलैर्बिलैः ।
विषारणिभवस्याग्नेर्धूमेन परिवेष्टितम्॥४४॥

विषारणयः सर्गः॥४४॥

अभोग्यं तत्पशूनां हि अपेयं च जलार्थिनाम् ।
उपभोगैः परित्यक्तं सुरैस्त्रिषवणार्थिभिः॥४५॥

आकाशादप्यसञ्चार्यं खगैराकाशगोचरैः ।
तृणेष्वपि पतत्स्वप्सु ज्वलन्तमिव तेजसा॥४६॥

आकाशादपि आकाशमार्गेऽपि॥४६॥

समन्ताद्योजनं साग्रं देवैरपि दुरासदम् ।
विषानलेन घोरेण ज्वालाप्रज्वलितद्रुमम्॥४७॥

व्रजस्योत्तरतस्तस्य क्रोशमात्रे निरामये ।
तं दृष्ट्वा चिन्तयामास कृष्णो वै विपुलं ह्रदम्॥४८॥

अगाधं द्योतमानं च कस्यायं महतो ह्रदः ।
अस्मिन्स कालियो नाम कालाञ्जनचयोपमः॥४९॥

उरगाधिपतिः साक्षाद्ध्रदे वसति दारुणः ।
उत्सृज्य सागरावासं यो मया विदितः पुरा॥५०॥

भयात्पतगराजस्य सुपर्णस्योरगाशिनः ।
तेनेयं दूषिता सर्वा यमुना सागरङ्गमा॥५१॥

भयात्तस्योरगपतेर्नायं देशो निषेव्यते ।
तदिदं दारुणाकारमरण्यं रूढशाड्वलम्॥५२॥

सावरोहद्रुमं घोरं कीर्णं नानालताद्रुमैः ।
रक्षितं सर्पराजस्य सचिवैराप्तकारिभिः॥५३॥

वनं निर्विषयाकारं विषान्नमिव दुःस्पृशम् ।
तैराप्तकारिभिर्नित्यं सर्वतः परिरक्षितम्॥५४॥

निर्विषयाकारम् आकाशवन्निरालम्बनम्॥५४॥

शैवालनलिनैश्चापि वृक्षैः क्षुद्रलताकुलैः ।
कर्तव्यमार्गौ भ्राजेते ह्रदस्यास्य तटावुभौ॥५५॥

कर्तव्यौ न तु स्वतःसिद्धौ मार्गौ ययोस्तौ॥५५॥

तदस्य सर्पराजस्य कर्तव्यो निग्रहो मया ।
यथेयं सरिदम्भोदा भवेच्छिवजलाशया॥५६॥

व्रजोपभोग्या च यथा नागे च दमिते मया ।
सर्वत्र सुखसञ्चारा सर्वतीर्थसुखाश्रया॥५७॥

एतदर्थं च वासोऽयं व्रजेऽस्मिन्गोपजन्म च ।
अमीषामुत्पथस्थानां निग्रहार्थं दुरात्मनाम्॥५८॥

एनं कदम्बमारुह्य तदेव शिशुलीलया ।
विनिपत्य ह्रदे घोरे दमयिष्यामि कालियम्॥५९॥

एवं कृते बाहुवीर्यं लोके ख्यातिं गमिष्यति॥६०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि यमुनावर्णनं नाम एकादशोऽध्यायः॥११॥
कालियदमनम्-०१२

वैशम्पायन उवाच। सोऽपसृत्य नदीतीरं बद्ध्वा परिकरं दृढम् ।
आरोहच्चपलः कृष्णः कदम्बशिखरं मुदा॥१॥

अमुष्मिन्द्वादशेऽध्याये कालियस्य फणोपरि। नृत्यं चक्रे हरिश्चेति यमुना निर्विषोच्यते॥१॥ सोपसृत्येत्यध्याहृत्य “योऽहन्नहिर्मन्वपस्ततर्द्दैत्यपादहस्तो अपृतन्यदिन्द्रम्” इति चोपदिष्टं कालियदमनम् उपबृंहयति। तत्र मन्त्रावयवयोरर्थस्तु- योऽहिः सर्पो मन्वपः यमुनाजलानि ततर्द विषसम्पर्केण नाशितवान् तमिन्द्रो अहन् हिंसितवान्। पीडनमात्रमत्र हन्त्यर्थः। स च अहिः अपाद् पादहीनः अहस्तः श्वसन् इन्द्रम् अपृतन्यत् अयोधयदिति एतेनास्य सर्वरूपत्वमुक्तमतोऽहिर्वृत्राख्यो यत्राप्सम्बन्धस्तत्रायमेव बोद्धव्यः॥१॥

कृष्णः कदम्बशिखराल्लम्बमानो घनाकृतिः ।
ह्रदमध्येऽकरोच्छब्दं निपतन्नम्बुजेक्षणः॥२॥

लम्बमानः अधः पतन्॥२॥

कृष्णेन तत्र पतता क्षुभितो यमुनाह्रदः ।
सम्प्रासिच्यत वेगेन भिद्यमान इवाम्बुदः॥३॥

तेन शब्देन सङ्क्षुब्धं सर्पस्य भवनं महत् ।
उदतिष्ठज्जलात्सर्पो रोषपर्याकुलेक्षणः॥४॥

स चोरगपतिः क्रुद्धो मेघराशिसमप्रभः ।
ततो रक्तान्तनयनः कालियः समदृश्यत॥५॥

पञ्चास्यः पावकोछ्वासश्चलज्जिह्वोऽनलाननः ।
पृथुभिः पञ्चभिर्घोरैः शिरोभिः परिवारितः॥६॥

पञ्चास्यः पञ्चवदनः॥६॥

पूरयित्वा ह्रदं सर्वं भोगेनानलवर्चसा ।
स्फुरन्निव च रोषेण ज्वलन्निव च तेजसा॥७॥

भोगेन देहेन॥७॥

क्रोधेन ज्वलतस्तस्य जलं शृतमिवाभवत् ।
प्रतिस्रोताश्च भीतेव जगाम यमुना नदी॥८॥

शृतं क्वथितं प्रतिस्रोताः विपरीतप्रवाहाः॥८॥

तस्य क्रोधाग्निपूर्णेभ्यो वक्त्रेभ्योऽभूच्च मारुतः ।
दृष्ट्वा कृष्णं ह्रदगतं क्रीडन्तं शिशुलीलया॥९॥

सधूमाः पन्नगेन्द्रस्य मुखान्निश्चेरुरर्चिषः ।
सृजता तेन रोषाग्निं समीपे तीरजा द्रुमाः॥१०॥

क्षणेन भस्मसान्नीता युगान्तप्रतिमेन वै ।
तस्य पुत्राश्च दाराश्च भृत्याश्चान्ये महोरगाः॥११॥

वमन्तः पावकं घोरं वक्त्रेभ्यो विशसम्भवम् ।
सधूमं पन्नगेन्द्रास्ते निपेतुरमितौजसः॥१२॥

प्रवेशितश्च तैः सर्पैः स कृष्णो भोगबन्धनम् ।
निर्यत्नचरणाकारस्तस्थौ गिरिरिवाचलः॥१३॥

अदशन्दशनैस्तीक्ष्णैर्विषोत्पीडजलाविलैः ।
ते कृष्णं सर्पपतयो न ममार च वीर्यवान्॥१४॥

तेऽदशन्निति पूर्वेण सम्बन्धः॥१४॥

एतस्मिन्नन्तरे भीता गोपालाः सर्व एव ते ।
क्रन्दमाना व्रजं जग्मुर्बाष्पगद्गदया गिरा॥१५॥

गोपा ऊचुः। एष मोहं गतः कृष्णो मग्नो वै कालिये ह्रदे ।
भक्ष्यते सर्पराजेन तदागच्छत मा चिरम्॥१६॥

नन्दगोपाय वै क्षिप्रं सबलाय निवेद्यताम् ।
एष ते कृष्यते कृष्णः सर्पेणेति महाह्रदे॥१७॥

नन्दगोपस्तु तच्छ्रुत्वा वज्रपातोपमं वचः ।
आर्तः स्खलितविक्रान्तस्तं जगाम ह्रदोत्तमम्॥१८॥

सबालयुवतीवृद्धः स च सङ्कर्षणो युवा ।
आक्रीडं पन्नगेन्द्रस्य जलस्थं समुपागमत्॥१९॥

नन्दगोपमुखा गोपास्ते सर्वे साश्रुलोचनाः ।
हाहाकारं प्रकुर्वन्तस्तस्थुस्तीरे ह्रदस्य वै॥२०॥

व्रीडिता विस्मिताश्चैव शोकार्ताश्च पुनः पुनः ।
केचित्तु पुत्र हा हेति हा धिगित्यपरे पुनः॥२१॥

अपरे हा हताः स्मेति रुरुदुर्भृशदुःखिताः ।
स्त्रियश्चैव यसोदां तां हा हतासीति चुक्रुशुः॥२२॥

या पश्यसि प्रियं पुत्रं सर्पराजवशं गतम् ।
स्पन्दितं सर्पभोगेन कृष्यमाणं यथा मृतम्॥२३॥

सर्पभोगेन सर्पभोगबन्धेन स्पन्दितं किञ्चिच्चालितं धैर्यादिति शेषः॥२३॥

अश्मसारमयं नूनं हृदयं ते विलक्ष्यते ।
पुत्रं कथमिमं दृष्ट्वा यशोदे नावदीर्यसे॥२४॥

दुःखितं बत पश्यामो नन्दगोपं ह्रदान्तिके ।
न्यस्य पुत्रमुखे दृष्टिं निश्चेतनमवस्थितम्॥२५॥

यशोदामनुगच्छन्त्यः सर्पावासमिमं ह्रदम् ।
प्रविशामो न यास्यामो विना दामोदरं व्रजम्॥२६॥

दिवसः को विना सूर्यं विना चन्द्रेण का निशा ।
विना वृषेण का गावो विना कृष्णेन को व्रजः॥२७॥

विना कृष्णं न यास्यामो विवत्सा इव धेनवः ।
तासां विलपितं श्रुत्वा तेषां च व्रजवासिनाम् ।
विलापं नन्दगोपस्य यशोदारुदितं तथा॥२८॥

एकभावशरीरज्ञ एकदेहो द्विधा कृतः ।
सङ्कर्षणस्तु सङ्क्रुद्धो बभाषे कृष्णमव्ययम्॥२९॥

कृष्ण कृष्ण महाबाहो गोपानां नन्दवर्धन ।
गम्यतामेष वै क्षिप्रं सर्पराजो विषायुधः॥३०॥

इमे नो बान्धवास्तात त्वां मत्वा मानुषं विभो ।
परिदेवन्ति करुणं सर्वे मानुषबुद्धयः॥३१॥

परिदेवन्ति शोचन्ति॥३१॥

तच्छ्रुत्वा रौहिणेयस्य वाक्यं संज्ञासमीरितम् ।
विक्रम्यास्फोटयद्बाहू भित्त्वा तन्नागबन्धनम्॥३२॥

तस्य पद्भ्यामथाक्रम्य भोगराशिं जलोत्थितम् ।
शिरस्तु कृष्णो जग्राह स्वहस्तेनावनाम्य च॥३३॥

तस्यारुरोह सहसा मध्यमं तन्महच्छिरः ।
सोऽस्य मूर्ध्नि स्थितः कृष्णो ननर्त रुचिराङ्गदः॥३४॥

मृद्यमानः स कृष्णेन शान्तमूर्धा भुजङ्गमः ।
आस्यैः सरुधिरोद्गारैः कातरो वाक्यमब्रवीत्॥३५॥

अविज्ञानन्मया कृष्ण रोषोऽयं सम्प्रदर्शितः ।
दमितोऽहं हतविषो वशगस्ते वरानन॥३६॥

तदाज्ञापय किं कुर्यां सदा सापत्यबान्धवः ।
कस्य वा वशतां यामि जीवितं मे प्रदीयताम्॥३७॥

पञ्चमूर्धानतं दृष्ट्वा सर्पं सर्पारिकेतनः ।
अक्रुद्ध एव भगवान्प्रत्युवाचोरगेश्वरम्॥३८॥

तवास्मिन्यमुनातोये नैव स्थानं ददाम्यहम् ।
गच्छार्णवजलं सर्प सभार्यः सहबान्धवः॥३९॥

यश्चेह भूयो दृश्येत स्थाने वा यदि वा जले ।
तव भृत्यस्तनूजो वा क्षिप्रं वध्यः स मे भवेत्॥४०॥

शिवं चास्य जलस्यास्तु त्वं च गच्छ महार्णवम् ।
स्थाने त्विह भवेद्दोषस्तवान्तकरणो महान्॥४१॥

स्थाने अवस्थितौ॥४१॥

मत्पदानि च ते सर्प दृष्ट्वा मूर्धसु सागरे ।
गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति॥४२॥

नन्वन्यत्र गरुडो मां हनिष्यति अत्र तु मुनिशापान्नायातीति चेत्तत्राह- मत्पदानीति॥४२॥

गृह्य मूर्ध्ना तु चरणौ कृष्णस्योरगपुङ्गवः ।
पश्यतामेव गोपानां जगामादर्शनं ह्रदात्॥४३॥

निर्जिते तु गते सर्पे कृष्णमुत्तीर्य धिष्ठितम् ।
विस्मितास्तुष्टुवुर्गोपाश्चक्रुश्चैव प्रदक्षिणम्॥४४॥

धिष्ठितं तीरेऽवस्थितम्॥४४॥

ऊचुः सर्वे च सम्प्रीता नन्दगोपं वनेचराः ।
धन्योऽस्यनुगृहीतोऽसि यस्य ते पुत्र ईदृशः॥४५॥

अद्यप्रभृति गोपानां गवां गोष्ठस्य चानघ ।
आपत्सु शरणं कृष्णः प्रभुश्चायतलोचनः॥४६॥

जाता शिवजला सर्वा यमुना मुनिसेविता ।
तीरे चास्याः सुखं गावो विचरिष्यन्ति नः सदा॥४७॥

व्यक्तमेव वयं गोपा वने यत्कृष्णमीदृशम् ।
महद्भूतं न जानीमश्छन्नमग्निमिव व्रजे॥४८॥

एवं ते विस्मिताः सर्वे स्तुवन्तः कृष्णमव्ययम् ।
जग्मुर्गोपगणा घोशं देवाश्चैत्ररथं यथा॥४९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शिशुचर्यायां कालियदमने द्वादशोऽध्यायः॥१२॥
धेनुकवधः-०१३

वैशम्पायन उवाच। दमिते सर्पराजे तु कृष्णेन यमुनाह्रदे ।
तमेव चेरतुर्देशं सहितौ रामकेशवौ॥१॥

अथ त्रयोदशेऽध्याये धेनुकस्योच्यते वधः। बलदेवेन तच्चक्रे क्षेमं तालवनं यथा॥१॥ दमिते इत्यध्याये “समिन्द्रगर्दभः समृण” इत्यमुं मन्त्रमुपबृंहयति- हे इन्द्र गर्द्दभं समृण मारयेति मन्त्रपादार्थः॥१॥

आजग्मतुस्तौ सहितौ गोधनैः सह गोमिनौ ।
गिरिं गोवर्धनं रम्यं वसुदेवसुतावुभौ॥२॥

गोवर्धनस्योत्तरतो यमुनातीरमाश्रितम् ।
ददृशाते च तौ वीरौ रम्यं तालवनं महत्॥३॥

तौ तालपर्णप्रतते रम्ये तालवने रतौ ।
चेरतुः परमप्रीतौ वृषपोताविवोद्धतौ॥४॥

स तु देशः सदा स्निग्धो लोष्ठपाषाणवर्जितः ।
दर्भप्रायस्थलीभूतः सुमाहान्कृष्णमृत्तिकः॥५॥

स देशो भातीत्युत्तरस्येनान्वयः॥५॥

तालैस्तैर्विपुलस्कन्धैरुच्छ्रितैः श्यामपर्वभिः ।
फलाग्रशाखिभिर्भाति नागहस्तैरिवोच्छ्रितैः॥६॥

तत्र दामोदरो वाक्यमुवाच वदतां वरः ।
अहो तालफलैः पक्वैर्वासितेयं वनस्थली॥७॥

स्वादून्यार्य सुगन्धीनि श्यामानि रसवन्ति च ।
पक्वतालानि सहितौ पातयामो लघुक्रमौ॥८॥

लघुक्रमौ शीघ्रक्रियौ॥८॥

यद्येषामीदृशो गन्धो माधुर्यघ्राणतर्पणः ।
रसेनामृतकल्पेन भवितव्यं च मे मतिः॥९॥

दामोदरवचः श्रुत्वा रौहिणेयो हसन्निव ।
पातयन्पक्वतालानि चालयामास तांस्तरून्॥१०॥

तत्तु तालवनं नॄणामसेव्यं दुरतिक्रमम् ।
निर्माणभूतमिरिणं पुरुषादालयोपमम्॥११॥

निर्माणभूतं सारभूतम्। “निर्माणं निर्मितौ सारे” इति मेदिनी। अथापि “इरिणं तूषरे शून्ये” इति मेदिनी॥११॥

दारुणो धेनुको नाम दैत्यो गर्दभरूपधृक् ।
खरयूथेन महता वृतः समनुसेवते॥१२॥

स तु तालवनं घोरं गर्दभः परिरक्षति ।
नृपक्षिश्वापदगणांस्त्रासयानः सुदुर्मतिः॥१३॥

तालशब्दं स तं श्रुत्वा सङ्घुष्टं फलपातनात् ।
नामर्षयत्स सङ्क्रुद्धस्तालस्वनमिव द्विपः॥१४॥

तालस्वनम् आस्फोटनध्वनिम्॥१४॥

शब्दानुकारी सङ्क्रुद्धो दर्पाविद्धसटाननः ।
स्तब्धाक्षो हेषितपटुः खुरैर्निर्दारयन्महीम्॥१५॥

दर्पाविद्धसटाननः मदेनाविद्धा भ्रामिताः सटाः केसरा यस्मिन् तथाभूतम् आननं यस्य॥१५॥

आविद्धपुच्छो हृषितो व्यात्तानन इवान्तकः ।
आपतन्नेव ददृशे रौहिणेयमुपस्थितम्॥१६॥

आविद्धम् ऊर्ध्वीकृतं पुच्छं येन॥१६॥

तालानां तमधो दृष्ट्वा स ध्वजाकारमव्ययम् ।
रौहिणेयं खरो दुष्टः सोऽदशद्दशनायुधः॥१७॥

पद्भ्यामुभाभ्यां च पुनः पश्चिमाभ्यां पराङ्मुखः ।
जघानोरसि दैत्येन्द्रो रौहिणेयं निरायुधम्॥१८॥

ताभ्यामेव स जग्राह पद्भ्यां तं दैत्यगर्दभम् ।
आवर्जितमुखस्कन्धं प्रेरयंस्तालमूर्धनि॥१९॥

ताभ्यां तयोरेव पदयोर्जग्राह आवर्जितं भ्रामितं मुखस्कन्धं यस्य॥१९॥

सम्भग्नोरुकटिग्रीवो भग्नपृष्ठो दुराकृतिः ।
खरस्तालफलैः सार्धं पपात धरणीतले॥२०॥

तं गतासुं गतश्रीकं पतितं वीक्ष्य गर्दभम् ।
ज्ञातींस्तथापरांस्तस्य तृणराजनि सोऽक्षिपत्॥२१॥

सा भूर्गर्दभदेहैश्च तालैः पक्वैश्च पातितैः ।
बभासे छन्नजलदा द्यौरिवाव्यक्तशारदी॥२२॥

तस्मिन्गर्दभदैत्ये तु सानुगे विनिपातिते ।
रम्यं तालवनं तद्धि भूयो रम्यतरं बभौ॥२३॥

विप्रमुक्तमयं शुभ्रं विविक्ताकारदर्शनम् ।
चरन्ति स्म सुखं गावस्तत्तालवनमुत्तमम्॥२४॥

ततः प्रविष्टास्ते सर्वे गोपा वनविचारिणः ।
वीतशोकभयायासाश्चञ्चूर्यन्ते समन्ततः॥२५॥

ततः सुखं प्रकीर्णासु गोषु नागेन्द्रविक्रमौ ।
द्रुमपर्णासनं कृत्वा तौ यथार्हं निषीदतुः॥२६॥

॥इति श्रीमहाभारते खिलेशु हरिवंशे विष्णुपर्वणि शिशुचर्यायां धेनुकवधे त्रयोदशोऽध्यायः॥१३॥
प्रलम्बवधः-०१४

वैशम्पायन उवाच। अथ तौ जातहर्षौ तु वसुदेवसुतावुभौ ।
तत्तालवनमुत्सृज्य भूयो भाण्डीरमागतौ॥१॥

चारयन्तौ विवृद्धानि गोधनानि शुभानि च ।
स्फीतसस्यप्ररूढानि वीक्षमाणौ वनानि च॥२॥

क्ष्वेडयन्तौ प्रगायन्तौ प्रचिन्वन्तौ च पादपान् ।
नामभिर्व्याहरन्तौ च सवत्सा गाः परन्तपौ॥३॥

अस्मिंश्चतुर्दशेऽध्याये प्रलम्बवध ईर्यते। तेनैव बलभद्रेण कृष्णादेशेन तिष्ठता॥१॥ क्ष्वेडयन्तौ बाहू आस्फोटयन्तौ व्याहरन्तौ आकारयन्तौ॥३॥

नियोगपाशैरासक्तैः स्कन्धाभ्यां शुभलक्षणौ ।
वनमालाकुलोरस्कौ बालशृङ्गाविवर्षभौ॥४॥

नियोगपाशैः अन्नशिक्यैः॥४॥

सुवर्णाञ्जनचूर्णाभावन्योन्यसदृशाम्बरौ ।
महेन्द्रायुधसंसक्तौ शुक्लकृष्णाविवाम्बुदौ॥५॥

अन्योन्यसदृशाम्बरौ अन्योन्यदीप्तिसंवलनेन सदृशाम्बराविव॥५॥

कुशाग्रकुसुमानां च कर्णपूरौ मनोरमौ ।
वनमार्गेषु कुर्वाणौ वन्यवेषधरावुभौ॥६॥

कुसुमानां कुसुमैः कर्णपूरौ कुर्वाणौ॥६॥

गोवर्धनस्यानुचरौ वने सानुचरौ तु तौ ।
चेरतुर्लोकसिद्धाभिः क्रीडाभिरपराजितौ॥७॥

तावेवं मानुषीं दीक्षां वहन्तौ सुरपूजितौ ।
तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥८॥

दीक्षां रीतिम्॥८॥

तौ तु भाण्डीरमाश्रित्य बालक्रीडानुवर्तिनौ ।
प्राप्तौ परमशाखाढ्यं न्यग्रोधं शाखिनां वरम्॥९॥

तत्र स्पन्दोलिकाभिश्च युद्धमार्गविशारदौ ।
अश्मभिः क्षेपणीयैश्च तौ व्यायममकुर्वताम्॥१०॥

स्पन्दोलिकाभिर्दोलावलम्बैः क्षेपणीयैर्वीटिकाद्यैः॥१०॥

युद्धमार्गैश्च विविधैर्गोपालैः सहितावुभौ ।
मुदितौ सिंहविक्रान्तौ यथाकामं विचेरतुः॥११॥

तयो रमयतोरेवं तल्लिप्सुरसुरोत्तमः ।
प्रलम्बोऽभ्यागमत्तत्र च्छिद्रान्वेषी तयोस्तदा॥१२॥

“विष्टम्भो दिवो धरुणाः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य, असत्त उत्सो गृणते नियुत्वान्मध्वो अंशुः पवत इन्द्रियाय” इत्येतं मन्त्रमुपबृंहयति— तयोरमयतोरेवमित्यादिना। मन्त्रार्थस्तु हे सोम ते तव मध्वो ब्रह्मस्वरूपिणः अंशुरिवांशुः अंशः पृथिव्या धरुणः भूमेर्धर्ता रामरूपधारी शेषः ते त्वया असत् अन्तर्यामिणा प्रबोधितः सन्दीप्यमानः अत एव उत्सः त्वदाज्ञाकरणे उत्कण्ठितः नियुत्वान् जगतः प्राणवायुरूपी सूत्रात्मा सन् गृणते आत्मनः स्वरूपं त्वद्वाक्यादवगतं भावयति अहं परमेश्वरादनन्योऽस्मि देवकार्यार्थमवतीर्णोऽस्मीत्यालोचयतीत्यर्थः। ततो हेतोः दिवः द्युलोकमण्डपस्य विष्टम्भः स्तम्भा इव भवन्ति ते विष्टम्भः क्विबन्तस्येदं द्वितीयाबहुवचनम्। अत्युच्छ्रितान् प्रलम्बादीन्। बहुत्वं विभूत्यर्थे। इन्द्रियाय तद्वधेन स्ववीर्यं प्रदर्शयितुं पवते गच्छन्ति। किमस्यायुधं तदाह- विश्वा इति। सर्वाः क्षितयः नाशसाधनान्यायुधानि अस्य हस्त एव सन्ति अतो मुष्टिमात्रेण तं जघानेत्यर्थः। विष्णोः सर्वदेवतामयत्वादत्र सोमरूपेणैवास्य स्तुतिर्बोद्धव्या। एवमन्यत्रापि। श्लोकार्थः स्पष्टः॥१२॥

गोपालवेषमास्थाय वन्यपुष्पविभूषितः ।
लोभयानः स तौ वीरौ हास्यैः क्रीडनकैस्तथा॥१३॥

सोऽवगाहत निश्शङ्कस्तेषां मध्यममानुषः ।
मानुषं वपुरास्थाय प्रलम्बो दानवोत्तमः॥१४॥

प्रक्रीडिताश्च ते सर्वे सह तेनामरारिणा ।
गोपालवपुषं गोपा मन्यमानाः स्वबान्धवम्॥१५॥

स तु च्छिद्रान्तरप्रेप्सुः प्रलम्बो गोपतां गतः ।
दृष्टिं प्रणिदधे कृष्णे रौहिणेये च दारुणाम्॥१६॥

अविषह्यं ततो मत्वा कृष्णमद्भुतविक्रमम् ।
रौहिणेयवधे यत्नमकरोद्दानवोत्तमः॥१७॥

हरिणाक्रीडनं नाम बालक्रीडनकं ततः ।
प्रक्रीडितास्तु ते सर्वे द्वौ द्वौ युगपदुत्पतन् ॥१८॥

कृष्णः श्रीदामसहितः पुप्लुवे गोपसूनुना ।
सङ्कर्षणस्तु प्लुतवान्प्रलम्बेन सहानघ॥१९॥

गोपालास्त्वपरे द्वन्द्वं गोपालैरपरैः सह ।
प्रद्रुता लङ्घयन्तो वै तेऽन्योन्यं लघुविक्रमाः॥२०॥

श्रीदाममजयत्कृष्णः प्रलम्बं रोहिणीसुतः ।
गोपालैः कृष्णपक्षीयैर्गोपालास्त्वपरे जिताः॥२१॥

ते वाहयन्तस्त्वन्योन्यं संहर्षात्सहसा द्रुताः ।
भाण्डीरस्कन्धमुद्दिश्य मर्यादां पुनरागमन्॥२२॥

सङ्कर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः ।
द्रुतं जगाम विमुखः सचन्द्र इव तोयदः॥२३॥

स भारमसहंस्तस्य रौहिणेयस्य धीमतः ।
ववृधे सुमहाकायः शक्राकान्त इवाम्बुदः॥२४॥

स भाण्डीरवटप्रख्यं दग्धाञ्जनगिरिप्रभम् ।
स्वं वपुर्दर्शयामास प्रलम्बो दानवोत्तमः॥२५॥

पञ्चस्तबकलम्बेन मुकुटेनार्कवर्चसा ।
दीप्यमानाननो दैत्यः सूर्याक्रान्त इवाम्बुदः॥२६॥

महाननो महाग्रीवः सुमहानन्तकोपमः ।
रौद्रः शकटचक्राक्षो नमयंश्चरणैर्महीम्॥२७॥

स्रग्दामलम्बाभरणः प्रलम्बाम्बरभूषणः ।
वीरः प्रलम्बः प्रययौ लम्बतोय इवाम्बुदः॥२८॥

स जहाराथ वेगेन रौहिणेयं महासुरः ।
सागरोपप्लवगतं कृत्स्नं लोकमिवान्तकः॥२९॥

ह्रियमाणः प्रलम्बेन स तु सङ्कर्षणो बभौ ।
उह्यमान इवाकाशे कालमेघेन चन्द्रमाः॥३०॥

स सन्दिग्धमिवात्मानं मेने सङ्कर्षणस्तदा ।
दैत्यस्कन्धगतः श्रीमान्कृष्णं चेदमुवाच ह॥३१॥

देहावेशात् प्रमाद्यतीति न्यायेन सूत्रांशोऽपि रामो मुमोहेत्याह स सन्दिग्धमिति॥३१॥

ह्रियेऽहं कृष्ण दैत्येन पर्वतोदग्रवर्ष्मणा ।
प्रदर्शयित्वा महतीं मायां मानुषरूपिणीम्॥३२॥

कथमस्य मया कार्यं शासनं दुष्टचेतसः ।
प्रलम्बस्य प्रवृद्धस्य दर्पाद्द्विगुणवर्चसः॥३३॥

तमाह सस्मितं कृष्णः साम्ना हर्षाकुलेन वै ।
अभिज्ञो रौहिणेयस्य वृत्तस्य च बलस्य च॥३४॥

श्रीकृष्णस्त्वेनं पूर्वरूपस्मरणेन प्रबोधयतीत्याह- तमाहेत्यादिना॥३४॥

अहोऽयं मानुषो भावो व्यक्तमेवानुपाल्यते ।
यस्त्वं जगन्मयं देवं गुह्याद्गुह्यतरं गतः॥३५॥

स्मर नारायणात्मानं लोकानां त्वं विपर्यये ।
अवगच्छात्मनात्मानं समुद्राणां समागमे॥३६॥

पुरातनानां देवानां ब्रह्मणः सलिलस्य च ।
आत्मवृत्तप्रभावाणां संस्मराद्यं च वै वपुः॥३७॥

शिरः खं ते जलं मूर्त्तिः क्षमा भूर्दहनो मुखम् ।
वायुर्लोकायुरुछ्वासो मनस्स्रष्टा ह्यभूत्तव॥३८॥

अस्यैव सूत्रात्मत्वं विवृणोति- शिरः खम् इत्यादिना॥३८॥

सहस्रास्यः सहस्राङ्गः सहस्रचरणेक्षणः ।
सहस्रपद्मनाभस्त्वं सहस्रांशुधरोऽरिहा॥३९॥

यत्त्वया दर्शितं लोके तत्पश्यन्ति दिवौकसः ।
यत्त्वया नोक्तपूर्वं हि कस्तदन्वेष्टुमर्हति॥४०॥

“प्राणस्य प्राणमुत चक्षुषश्चक्षुः” इत्यादिश्रुतिप्रसिद्धं शुद्धं ब्रह्मापि त्वमेवासीत्याह- यत्त्वयेति। यत्त्वया नोक्तेत्यादिनाऽस्य वेदकर्तृत्वमुक्तम्॥४०॥

यद्वेदितव्यं लोकेऽस्मिंस्तत्त्वया समुदाहृतम् ।
विदितं यत्तवैकस्य देवा अपि न तद्विदुः॥४१॥

आत्मजं ते वपुर्व्योम्नि न पश्यन्त्यात्मसम्भवम् ।
यत्तु ते कृत्रिमं रूपं तदर्चन्ति दिवौकसः॥४२॥

देवैर्न दृष्टश्चान्तस्ते तेनानन्त इति स्मृतः ।
त्वं हि सूक्ष्मो महानेकः सूक्ष्मैरपि दुरासदः॥४३॥

त्वय्येव जगतः स्तम्भे शाश्वती जगती स्थिता ।
अचला प्राणिनं योनिर्धारयत्यखिलं जगत्॥४४॥

शेषरूपेण वर्णयति- त्वय्येवेति॥४४॥

चतुःसागरभोगस्त्वं चातुर्वर्ण्यविभागवित् ।
चतुर्युगेषु लोकानां चातुर्होत्रफलाशनः॥४५॥

यथाहमपि लोकानां तथा त्वं तच्च मे मतम् ।
उभावेकशरीरौ स्वो जगदर्थे द्विधाकृतौ॥४६॥

यथेति- अहम् अन्तर्यामी त्वं सूत्रात्मा सर्वज्ञत्वादिकं द्वयोः सममेवेत्यर्थः॥४६॥

अहं वा शाश्वतः कृष्णस्त्वं वा शेषः पुरातनः ।
लोकानां शाश्वतो देवस्त्वं हि शेषः सनातनः ।
आवयोर्देहमात्रेण द्विधेदं धार्यते जगत्॥४७॥

अहं यः स भवानेव यस्त्वं सोऽहं सनातनः ।
द्वावेव विहितौ ह्यावामेकदेहौ महाबलौ॥४८॥

अत्यन्तं साम्यलक्षणमभेदमाह- अहमिति॥४८॥

तदास्से मूढवत्त्वं किं प्राणेन जहि दानवम् ।
मूर्ध्नि देवरिपुं देव वज्रकल्पेन मुष्टिना॥४९॥

वैशम्पायन उवाच। संस्मारितस्तु कृष्णेन रौहिणेयः पुरातनम् ।
बलेनापूर्यत तदा त्रैलोक्यान्तरचारिणा॥५०॥

संस्मारित इति। उक्तिमात्रेण बलदेववत् विशुद्धान्तःकरण आत्मनो ब्रह्मभावमवगच्छतीत्यर्थः॥५०॥

ततः प्रलम्बं दुर्वृत्तं स बद्धेन महाभुजः ।
मुष्टिना वज्रकल्पेन मूर्ध्नि चैनं समाहनत्॥५१॥

तस्योत्तमाङ्गं स्वे काये विकपालं विवेश ह ।
जानुभ्यां चाहतः शेते गतासुर्दानवोत्तमः॥५२॥

जगत्यां विप्रकीर्णस्य तस्य रूपमभूत्तदा ।
प्रलम्बस्याम्बरस्थस्य मेघस्येव विदीर्यतः॥५३॥

तस्य भग्नोत्तमाङ्गस्य देहात्सुस्राव शोणितम् ।
बहुगैरिकसंयुक्तं शैलशृङ्गादिवोदकम्॥५४॥

ते निहत्य प्रलम्बं तु संहृत्य बलमात्मनः ।
पर्यष्वजत वै कृष्णं रौहिणेयः प्रतापवान्॥५५॥

तं तु कृष्णश्च गोपाश्च दिविस्थाश्च दिवौकसः ।
तुष्टुवुर्निहते दैत्ये जयाशीर्भिर्महाबलम्॥५६॥

बलेनायं हतो दैत्यो बालेनाक्लिष्टकर्मणा ।
विवदन्त्यशरीरिण्यो वाचः सुरसमीरिताः॥५७॥

बलदेवेति नामास्य देवैरुक्तं दिवि स्थितैः ।
बलन्तु बलदेवस्य तदा भुवि जना विदुः॥५८॥

कर्मजं निहते दैत्ये देवैरपि दुरासदे॥५९॥

॥इति श्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शिशुचर्यायां प्रलम्बवधे चतुर्दशोऽध्यायः॥१४॥
कृष्णं प्रति गोपवाक्यम्-०१५

वैशम्पायन उवाच। तयोः प्रवृत्तयोरेवं कृष्णस्य च बलस्य च ।
वने विचरतोर्मासौ व्यतियातौ स्म वार्षिकौ॥१॥

अथ पञ्चदशेऽध्याये गोपानिन्द्रमखोत्सुकान्। कृष्णः पप्रच्छ तद्धेतुं शुश्रावाथ तदुत्तरम्॥१॥ तयोः प्रवृत्तयोरित्यध्यायद्वयम्- “आग्रावभिरहन्येभिरक्तभिर्वरिष्ठं वज्रमाजिघर्ति मायिनि। शतं वा यस्य प्रचरन् स्वेदमे संवर्तयन्तो विवर्तयन्नहः”॥ इति मन्त्रस्योपबृंहणार्थं मन्त्रार्थमाह- यस्य वज्रिणः स्वेदमे स्वगृहे वायुर्वेन्द्रो वाऽन्तरिक्षस्थान इत्युक्तेरन्तरिक्षे शतं वा ततोऽधिकं वा संवर्तयन्तः संवर्तं प्रलयं कुर्वन्तः सांवर्तका नाम मेघाः प्रचरन् प्राचरन् सञ्चारं कृतवन्तः सः मायिनि मायामनुष्ये श्रीकृष्णे वरिष्ठं श्रेष्ठतमं वज्रम् अशनिं तद्वतीं महावृष्टिम् आजिघर्ति क्षरति। अक्तभी रात्रिभिः सप्तभिरिति पुराणतः सप्तरात्रं वज्रधारेण पर्जन्येन ववर्षेत्यर्थः। तत्र हेतुमाह- आग्रावभिरहन्येभिरिति। ग्रावभिरिति। समुदायिभिः ग्रावसमुदायः शिलोच्चयो लक्ष्यते यैः अहन्येभिः अहः क्रतुमर्हन्ति तेऽहन्यास्तैः पर्वते क्रतुभाजि सतीत्यर्थः। मायी पुनः किं चकारेत्यत आह- विवर्त्तयन्नह इति च अनन्तरं मायी अहः क्रतून् विवर्तयन् विपरीतं वर्तयन्नास्ते इति शेषः। इन्द्रयागार्थमाहृतैः सम्भारैर्गिरियागं प्रवर्तयति मायिनि इन्द्रो महतीं वृष्टिं चकारेत्यर्थः। तयोः प्रवृत्तयोः तयोः प्रवर्तमानयोः व्यतियातौ व्यतिक्रान्तौ॥१॥

व्रजमाजग्मतुस्तौ तु व्रजे शुश्रुवतुस्तदा ।
प्राप्तं शक्रमहं वीरौ गोपांश्चोत्सवलालसाण्॥२॥

व्रजं गोपसमाजं शक्रमहम् इन्द्रोत्सवम्॥२॥

कौतूहलादिदं वाक्यं कृष्णाः प्रोवाच तत्र तान् ।
कोऽयं शक्रमहो नाम येन वो हर्ष आगतः॥३॥

तत्र वृद्धतमस्त्वेको गोपो वाक्यमुवच ह ।
श्रूयतां तात शक्रस्य यदर्थं ध्वज इज्यते॥४॥

देवानामीश्वरः शक्रो मेघानां चारिसूदन ।
तस्य चायं महः कृष्ण लोकनाथस्य शाश्वतः॥५॥

शाश्वतः कुलपरम्परागतः॥५॥

तेन सञ्चोदिता मेघास्तस्य चायुधभूषिताः ।
तस्यैवाज्ञाकराः सस्यं जनयन्ति नवाम्बुभिः॥६॥

मेघस्य पयसो दाता पुरुहूतः पुरन्दरः ।
सम्प्रहृष्टस्य भगवान्प्रीणायत्यखिलं जगत्॥७॥

मेघस्य मेघसम्बन्धिनः॥७॥

तेन सम्पादितं सस्यं वयमन्ये च मानवाः ।
वर्तयामोपयुञ्जानास्तर्पयामश्च देवताः॥८॥

सस्यं धान्यं वर्तयामो जीवामः उपयुञ्जानाः भक्षयन्तः। सन्धिरार्षः॥८॥

देवे वर्षति लोकेऽस्मिंस्ततः सस्यं प्रवर्धते ।
पृथिव्यां तर्पितायां तु सामृतं लक्ष्यते जगत्॥९॥

सामृतं सजलम्॥९॥

क्षीरवत्यस्त्विमा गावो वत्सवत्यश्च निर्वृताः ।
तेन संवर्धितास्तात तृणैः पुष्टाः सपुङ्गवाः॥१०॥

सपुङ्गवाः वावृषाः॥१०॥

नासस्या नातृणा भूमिर्न बुभुक्षार्दितो जनः ।
दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः॥११॥

दुदोह सवितुर्गा वै शक्रो दिव्याः पयस्विनीः ।
ताः क्षरन्ति नवं क्षीरं मेध्यं मेघौघधारितम्॥१२॥

दुदोहेति- गाः सूर्यरश्मीन्। पयस्विनीरिति स्त्रीत्वं लोकात्। अयमर्थः- यथाऽस्माकं जठराग्निः प्राणसहायो जलं शोषयति तच्चास्माभिर्बलसाध्ये कर्मणि क्रियमाणे रोमकूपद्वारा प्रस्वेदरूपेण वमति। एवं वायुसहायः सूर्यः भूम्यादिगतं जलं शोषयति तच्चेन्द्रेण बलसाध्ये निरन्तरभ्रमिरूपकर्मणि प्रयुक्तः सन् किरणद्वारा चर्मकोशरूपेषु मेघेषु वमति ततस्तान् मेघानिन्द्रो भिन्दन् वृष्टिं प्रवर्तयतीति॥१२॥

वाय्वीरितं तु मेघेषु करोति निनदं महत् ।
जवेनावर्तितं चैव गर्जतीति जना विदुः॥१३॥

तस्य चैवोह्यमानस्य वायुयुक्तैर्बलाहकैः ।
वज्राशनिसमाः शब्दाः श्रूयन्ते नगभेदिनः॥१४॥

तज्जलं वज्रनिष्पेषैर्विमुञ्चति नभोगतैः ।
बहुभिः कामगैर्मेघैः शक्रो भृत्यैरिवेश्वरः॥१५॥

क्वचिद्दुर्दिनसङ्काशैः क्वचिच्छिन्नाभ्रसन्निभैः ।
क्वचिद्भिन्नाञ्जनाकारैः क्वचिच्छीकरवार्षिभिः॥१६॥

मण्डयतीव देवेन्द्रो विश्वमेवं नभो घनैः ।
क्वचिच्छीकरमुक्ताभं कुरुते गगनं घनः॥१७॥

एवमेतत्पयो दुग्धं गोभिः सूर्यस्य वारिदः ।
पर्जन्यः सर्वभूतानां भवाय भुवि वर्षति॥१८॥

पयो जलं गोभिः रश्मिभिः पर्जन्य इन्द्रः॥१८॥

यस्मात्प्रावृडियं कृष्ण शक्रस्य भुवि भाविनी ।
तस्मात्प्रावृषि राजानः सर्वे शक्रं मुदा युताः ।
महैः सुरेशमर्चन्ति वयमन्ये च माणवाः॥१९॥

शक्रस्य विभाविनी पूजयित्री पूजाकाल इत्यर्थः। महैः उत्सवैः॥१९॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शिशुचर्यायां गोपवाक्ये पञ्चदशोऽध्यायः॥१५॥
शरद्वर्णनम्-०१६

वैशम्पायन उवाच। गोपवृद्धस्य वचनं श्रुत्वा शक्रपरिग्रहे ।
प्रभावज्ञोऽपि शक्रस्य वाक्यं दामोदरोऽब्रवीत्॥१॥

एतस्मिन्षोडशेऽध्याये युक्तिभिर्मखभेदनम्। उपेन्द्रेण महेन्द्रस्य शरदो वर्णनं तथा॥१॥ गोपवृद्धस्य वचनं श्रुत्वा शक्रपरिग्रहे इन्द्रमहोत्सवस्वीकारे॥१॥

वनं वनचरा गोपाः सदा गोधनजीविनः ।
गावोऽस्मद्दैवतं विद्धि गिरयश्च वनानि च॥२॥

कर्षुकाणां कृषिर्वृत्तिः पण्यं विपणिजीविनाम् ।
गावोऽस्माकं परा वृत्तिरेतत्त्रैविद्यमुच्यते ॥२-१६-३॥

विद्यया यो यथा युक्तस्तस्य सा दैवतं परम् ।
सैव पूज्यार्चनीया च सैव तस्योपकारिणी ।
योऽन्यस्य फलमश्नानः करोत्यन्यस्य सत्क्रियाम्॥४॥

विद्यया वार्तया॥४॥

द्वावनर्थौ स लभते प्रेत्य चेह च मानवः ।
कृष्यन्ता प्रथिता सीमा सीमान्तं श्रूयते वनम्॥५॥

वनान्ता गिरयः सर्वे सा चास्माकं गतिर्ध्रुवा ।
श्रूयन्ते गिरयश्चापि वनेऽस्मिन्कामरूपिणः ।
प्रविश्य तास्तास्तनवो रमन्ते स्वेषु सानुषु॥६॥

तनवस्तनूः॥६॥

भूत्वा केसरिणः सिंहा व्याघ्राश्च नखिनां वराः ।
वनानि स्वानि रक्षन्ति त्रासयन्तो वनच्छिदः॥७॥

यदा चैषां विकुर्वन्ति ते वनालयजीविनः ।
घ्नन्ति तानेव दुर्वृत्तान्पौरुषादेन कर्मणा॥८॥

एषां वनानां विकुर्वन्ति विकारं जनयन्ति। वनालया भिल्लाद्याः वनजीविनो गोपतक्षाद्याः॥८॥

मन्त्रयज्ञपरा विप्राः सीतायज्ञाश्च कर्षुकाः ।
गिरियज्ञास्तथा गोपा इज्योऽस्माभिर्गिरिर्वने॥९॥

तन्मह्यं रोचते गोपा गिरियज्ञः प्रवर्तताम् ।
कर्म कृत्वा सुखस्थाने पादपेष्वथ वा गिरौ॥१०॥

कर्म स्वस्तिवाचनादिकं सुखस्थाने पादपादिसन्निधौ समे देशे॥१०॥

तत्र हत्वा पशून्मेध्यान्वितत्यायतने शुभे ।
सर्वघोषस्य सन्दोहः क्रियतां किं विचार्यते॥११॥

वितत्य कुण्डमण्डपादिकं विस्तार्य क्रियताम्। एकत्रेति शेषः॥११॥

तं शरत्कुसुमापीडाः परिवार्य प्रदक्षिणम् ।
गावो गिरिवरं सर्वास्ततो यान्तु पुनर्व्रजम्॥१२॥

प्राप्ता किलेयं हि गवां स्वादुतोयतृणा गुणैः ।
शरत्प्रमुदिता रम्या गतमेघजलाशया॥१३॥

प्रमुदिता प्रमुदितजनत्वात्॥१३॥

प्रियकैः पुष्पितैर्गौरं श्यामं बाणसनैः क्वचित् ।
कठोरतृणमाभाति निर्मयूररुतं वनम्॥१४॥

प्रियकैः कदम्बभेदैः बाणासनैः झिण्टीपुच्छैः निर्मयूररुतं वर्षापगमात्॥१४॥

विजला विमला व्योम्नि विबलाका विविद्युतः ।
विवर्धन्ते जलधरा विदन्ता इव कुञ्जराः॥१५॥

बलाकेव बलाका आकस्मिकपाताऽशनिः तद्रहिताः विबलाकाः॥१५॥

पटुना मेघनादेन नवतोयानुकर्षिणा ।
पर्णोत्करघनाः सर्वे प्रसादं यान्ति पादपाः॥१६॥

सितवर्णाम्बुदोष्णीषं हंसचामरवीजितम् ।
पूर्णचन्द्रामलच्छत्रं साभिषेकमिवाम्बरम्॥२-१६-१७॥

हंसैः प्रहसितानीव समुत्क्रिष्टानि सारसैः ।
सर्वाणि तनुतां यान्ति जलानि जलदक्षये॥१८॥

चक्रवाकस्तनतटाः पुलिनश्रोणिमण्डलाः ।
हंसलक्षणहासिन्यः पतिं यान्ति समुद्रगाः॥१९॥

कुमुदोत्फुल्लमुदकं ताराभिश्चित्रमम्बरम् ।
सममभ्युत्स्मयन्तीव शर्वरीष्वितरेतरम्॥२०॥

अभ्युत्स्मयन्ति गर्वमाविष्कुर्वन्ति। बहुत्वमार्षम्॥२०॥

मत्तक्रौञ्चावघुष्टेषु कमलापक्वपाण्डुषु ।
निर्विष्टरमणीयेषु वनेषु रमते मनः॥२१॥

कलमापक्वपाण्डुषु धान्यमञ्जरीपाकपिङ्गेषु निर्विष्टाः कृतविवाहास्तद्वद्रमणीयेषु क्रौञ्चपुरुषयोः धान्यवराङ्गनयोश्च साम्यम्॥२१॥

पुष्करिण्यस्तडागानि वाप्यश्च विकचोत्पलाः ।
केदाराः सरितश्चैव सरांसि च श्रियाज्वलन्॥२२॥

पङ्कजानि च ताम्राणि तथान्यानि सितान्यपि ।
उत्पलानि च नीलानि भेजिरे वारिजां श्रियम्॥२३॥

मदं जहुः सितापाङ्गा मन्दं ववृधिरेऽनिलाः ।
अभवद्व्यभ्रमाकाशमभूच्च निभृतोऽर्णवः॥२४॥

सितापाङ्गाः मयूराः। निभृतः पूर्णः॥२४॥

ऋतुपर्यायशिथिलैर्वृत्तनृत्यसमुज्झितैः ।
मयूराङ्गरुहैर्भूमिर्बहुनेत्रेव लक्ष्यते॥२५॥

ऋतुपर्यायो वर्षापगमस्तेन शिथिलैः वृत्तं समाप्तं यन्नृत्यं तदा समुज्झितैः॥२५॥

स्वपङ्कमलिनैस्तीरैः काशपुष्पलताकुलैः ।
हंससारसविन्यासैर्यमुना भाति शोभना॥२६॥

विन्यासैः उपवेशनस्थलैः॥२६॥

कलमापाकरम्येषु केदारेषु जनेषु च ।
सस्यादा जलजादाश्च मत्ता विरुरुवुः ॥२७॥

जलजादाः मत्स्याशिनः॥२७॥

सिषिचुर्यानि जलदा जलेन जलदागमे ।
तानि सस्यानि बालानि कठिनत्वं गतानि वै॥२८॥

त्यक्त्वा मेघमयं वासः शरद्गुणविदीपितः ।
एष वै विमले व्योम्नि हृष्टो वसति चन्द्रमाः॥२९॥

क्षीरिण्यो द्विगुणं गावः प्रमत्ता द्विगुणं वृषाः ।
वनानां द्विगुणा लक्ष्मीः सस्यैर्गुणवती मही॥३०॥

ज्योतींषि घनमुक्तानि पद्मवन्ति जलानि च ।
मनांसि च मनुष्याणां प्रसादमुपयान्ति वै॥३१॥

असृजत्सविता व्योम्नि निर्मुक्तो जलदैर्भृशम् ।
शरत्प्रज्वलितं तेजस्तीक्ष्णरश्मिर्विशोषयन्॥३२॥

विशोषयन् रसानिति शेषः॥३२॥

नीराजयित्वा सैन्यानि प्रयान्ति विजिगीषवः ।
अन्योन्यराष्ट्राभिमुखाः पार्थिवाः पृथिवीक्षितः॥३३॥

बन्धुजीवाभिताम्रासु बद्धपङ्कवतीषु च ।
मनस्तिष्ठति कान्तासु चित्रासु वनराजिषु॥३४॥

बन्धुजीवैः रक्तपुष्पैः अभितः ताम्रासु लोहितासु॥३४॥

वनेषु च विराजन्ते पादपा वनशोभिनः ।
असनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः॥३५॥

इषुसाह्वा निकुम्भाश्च प्रियकाः स्वर्णकास्तथा ।
सृमराः पेचुकाश्चैव केतक्यश्च समन्ततः॥३६॥

इषुसाह्वाः बाणासनाः निकुम्भाः दन्तिविटपाः स्वर्णकाः स्वर्णपर्णाः पुष्पिता इति पूर्वेणान्वयः। सृमरा मृगविशेषाः तेषां शरदि दर्शनात्। पेचुकाः घूका इति केचित्॥३६॥

व्रजेषु च विशेषेण गर्गरोद्गारहासिषु ।
शरत्प्रकाशयोषेव गोष्ठेष्वटति रूपिणी॥३७॥

नूनं त्रिदशभूयिष्ठं मेघकालसुखोषितम् ।
पतत्रिकेतनं देवं बोधयन्ति दिवौकसः॥३८॥

शरद्येवं सुसस्यायां प्राप्तायां प्रावृषः क्षये ।
नीलचन्द्रार्कवर्णैश्च रचितं बहुभिर्द्विजैः॥३९॥

फलैः प्रवालैश्च घनमिन्द्रचापघनोपमम् ।
भवनाकारविटपं लतापरममण्डितम्॥४०॥

विशालमूलावनतं पवनाभोगमण्डितम् ।
अर्चयामो गिरिं देवं गाश्चैव च विशेषतः॥४१॥

सावतंसैर्विषाणैश्च बर्हापीडैश्च दंशितैः ।
घण्टाभिश्च प्रलम्बाभिः पुष्पैः शारदिकैस्तथा॥४२॥

सावतंसैः समुकुटैः बर्हापीडैः मयूरपत्रभूषाभिस्तत्रैव शृङ्गेषु दंशितैर्बद्धैः॥४२॥

शिवाय गावः पूज्यन्तां गिरियज्ञः प्रवर्त्यताम् ।
पूज्यतां त्रिदशैः शक्रो गिरिरस्माभिरिज्यताम्॥४३॥

कारयिष्यामि गोयज्ञं बलादपि न संशयः ।
यद्यस्ति मयि वः प्रीतिर्यदि वा सुहृदो वयम्॥४४॥

गावो हि पूज्याः सततं सर्वेषां नात्र संशयः ।
यदि साम्ना भवेत्प्रीतिर्भवतां वैभवाय च ।
एतन्मम वचस्तथ्यं क्रियतामविचारितम्॥४५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शरद्वर्णने शोडशोऽध्यायः॥
गोवर्धनमहोत्सवः-०१७

वैशम्पायन उवाच। दामोदरवचः श्रुत्वा हृष्टास्ते गोषु जीविनः ।
तद्वागमृतमासाद्य प्रत्यूचुरविशङ्कया॥१॥

अथ सप्तदशेऽध्याये गोवर्धन महोत्सवः। वर्ण्यते हरिणा क्लृप्तो दर्शनं तस्य चाद्भुतम्॥१॥ अविशङ्कया इन्द्रात् भयम् अशङ्कमाना इत्यर्थः॥१॥

तवैषा बाल महती गोपाणां हितवर्धिनी ।
प्रीणयत्येव नः सर्वान्बुद्धिर्वृद्धिकरी गवाम्॥२॥

त्वं गतिस्त्वं रतिश्चैव त्वं वेत्ता त्वं परायणम् ।
भयेष्वभयदस्त्वं नस्त्वमेव सुहृदां सुहृत्॥३॥

अशङ्कायां बीजमांहुस्त्वमिति- परायणम् आश्रयः॥३॥

त्वत्कृते कृष्ण घोषोऽयं क्षेमी मुदितगोकुलः ।
कृत्स्नो वसति शान्तारिर्यथा स्वर्गं गतस्तथा॥४॥

यथा स्वर्गं गतः स्वर्गस्थ इव॥४॥

जन्मप्रभृति कर्मैतद्देवैरसुकरं भुवि ।
बोद्धव्याच्चाभिमानाच्च विस्मितानि मनांसि नः॥५॥

एतच्छकटभङ्गादि कर्म दृष्ट्वेति शेषः। बोद्धव्यात् द्रष्टुं योग्यात्तत्वाभिमानादहङ्कारादहं कारयिष्यामि गोयज्ञं बलादेतन्न संशय इत्येवंरूपात्। एकश्चकारः पादपूरणार्थः॥५॥

बलेन च परार्ध्येन यशसा विक्रमेणा च ।
उत्तमस्त्वं मनुष्येषु देवेष्विव पुरन्दरः॥६॥

प्रतापेन च तीक्ष्णेन दीप्त्या पुर्णतयापि च ।
उत्तमस्त्वं च मर्त्येषु देवेष्विव दिवाकरः॥७॥

कान्त्या लक्ष्म्या प्रसादेन वदनेन स्मितेन च ।
उत्तमस्त्वं च मर्त्येषु देवेष्विव निशाकरः॥८॥

बलेन वपुषा चैव बाल्येन चरितेन च ।
स्यात्ते शक्तिधरस्तुल्यो न तु कश्चन मानुषः॥९॥

ते त्वया तुल्यः शक्तिधरः कार्तिकेयः॥९॥

यत्त्वयाभिहितं वाक्यं गिरियज्ञं प्रति प्रभो ।
कस्तल्लङ्घयितुं शक्तो वेलामिव महोदधिः॥१०॥

स्थितः शक्रमहस्तात श्रीमान्गिरिमहस्त्वयम् ।
त्वत्प्रणीतोऽद्य गोपानां गवां हेतोः प्रवर्त्यताम्॥११॥

त्वत्प्रणीतस्त्वया प्रवर्तितः॥११॥

भोजनान्युपकल्प्यन्तां पयसः पेशलानि च ।
कुम्भाश्च विनिवेश्यन्तामुदपानेषु शोभनाः॥१२॥

पूर्यन्तां पयसा नद्यो द्रोण्यश्च विपुलायताः ।
भक्ष्यं भोज्यं च पेयं च तत्सर्वमुपनीयताम्॥१३॥

नद्यः सुधामय्यो दीर्घकुल्याः द्रोण्यस्तादृशानि कुण्डानि॥१३॥

भाजनानि च मांसस्य न्यस्यन्तामोदनस्य च ।
त्रिरात्रं चैव सन्दोहः सर्वघोषस्य गृह्यताम्॥१४॥

सन्दोहः पयआदिः गृह्यतां न तु विक्रेयः॥१४॥

विशस्यन्तां च पशवो भोज्या ये महिषादयः ।
प्रवर्त्यतां च यज्ञोऽयं सर्वगोपसुसङ्कुलः॥१५॥

आनन्दजननो घोषो महान्मुदितगोकुलः ।
तूर्यप्रणादघोषैश्च वृषभाणां च गर्जितैः॥१६॥

हम्भारवैश्च वत्सानां गोपानां हर्षवर्धनः ।
दध्नो ह्रदो घृतावर्तः पयः कुल्यासमाकुलः॥१७॥

दध्नो हृदः घृतावर्तः साररूपेण घृतं यत्रोपर्यावर्तते स तथा॥१७॥

मांसराशिः प्रभूताढ्यः प्रकाशौदनपर्वतः ।
सम्प्रावर्तत यज्ञोऽस्य गिरेर्गोभिः समाकुलः॥१८॥

प्रभूतश्चासौ आढ्यश्च भूयान्संस्कारकद्रव्यसंयुक्तश्च यस्मिन्नित्यर्थः॥१८॥

तुष्टगोपजनाकीर्णो गोपनारीमनोहरः ।
भक्ष्याणां राशयस्तत्र शतशश्चोपकल्पिताः ।
गन्धमाल्यैश्च विविधैर्धूपैरुच्चावचैस्तथा॥१९॥

अथाधिशृतपर्यन्ते सम्प्राप्ते यज्ञसंविधौ ।
यज्ञं गिरेस्तिथौ सौम्ये चक्रुर्गोपा द्विजैः सह॥२०॥

अधिशृतानि वह्निस्थानि चरुस्थाल्यादीनि पर्यन्तानि समीपे आसादितानि यस्मिन्॥२०॥

यजनान्ते तदन्नं तु तत्पयो दधि चोत्तमम् ।
मांसं च मायया कृष्णो गिरिर्भूत्वा समश्नुते॥२१॥

तर्पिताश्चापि विप्राग्र्यास्तुष्टाः सम्पूर्णमानसाः ।
उत्तस्थुः प्रीतमनसः स्वस्ति वाच्यं यथासुखम्॥२२॥

भुक्त्वा चावभृते कृष्णः पयः पीत्वा च कामतः ।
सन्तृप्तोऽस्मीति दिव्येन रूपेण प्रजहास वै॥२३॥

तं गोपाः पर्वताकारं दिव्यस्रगनुलेपनम् ।
गिरिमूर्ध्नि स्थितं दृष्ट्वा कृष्णं जग्मुः प्रधानतः॥२४॥

प्रधानतः मुख्यास्तत्त्वज्ञाः जग्मुः शरणमिति शेषः॥२४॥

भगवानपि तेनैव रूपेणाच्छादितः प्रभुः ।
सहितैः प्रणतो गोपैर्ववन्दात्मानमात्मना॥२५॥

तमूचुर्विस्मिता गोपा देवं गिरिवरे स्थितम् ।
भगवंस्त्वद्वशे युक्ता दासाः किं कुर्म किङ्कराः॥२६॥

तं गिरिशिखरस्थम्॥२६॥

स उवाच ततो गोपान्गिरिप्रभवया गिरा ।
अद्यप्रभृति चेज्योऽहं गोषु यद्यस्तु वो दया॥२७॥

अहं वः प्रथमो देवः सर्वकामकरः शुभः ।
मम प्रभावाच्च गवामयुतान्येव भोक्ष्यथ॥२८॥

शिवश्च वो भविष्यामि मद्भक्तानां वने वने ।
रंस्ये च सह युष्माभिर्यथा दिविगतस्तथा॥२९॥

ये चेमे प्रथिता गोपा नन्दगोपपुरोगमाः ।
एषां प्रीतः प्रयच्छामि गोपानां विपुलं धनम्॥३०॥

पर्याप्नुवन्तु क्षिप्रं मां गावो वत्ससमाकुलाः ।
एवं मम परा प्रीतिर्भविष्यति न संशयः॥३१॥

पर्याप्नुवन्तु प्रदक्षिणं कुर्वन्तु॥३१॥

ततो नीराजनार्थं हि वृन्दशो गोकुलाणि तम् ।
परिवव्रुर्गिरिवरं सवृषाणि समन्ततः॥३२॥

ता गावः प्रद्रुता हृष्टाः सापीडस्तबकाङ्गदाः ।
सस्रजापीडशृङ्गाग्राः शतशोऽथ सहस्रशः॥३३॥

सापीडाः सशिरोभूषणाः ताश्च ताः स्तबकाङ्गदाः पुष्पगुच्छाकाराणि बाहुभूषणानि यासां ताः। स्रजश्च आपीडाः शृङ्गारभूषणानि तैश्च सहितानि सस्रजापीडानि शृङ्गाग्राणि यासां ताः॥३३॥

अनुजग्मुश्च गोपालाः कालयन्तो धनानि च ।
भक्तिच्छेदानुलिप्ताङ्गा रक्तपीतसिताम्बराः॥३४॥

कालयन्तो नियमयन्तः धनानि गोधनानि भक्तिच्छेदैर्विभागभेदैः अनुलिप्ताङ्गाः नानावर्णैरनुलेपितानि पृथक् पृथगङ्गानि यैस्तादृशा इत्यर्थः॥३४॥

मयूरचित्राङ्गदिनो भुजैः प्रहरणावृतैः ।
मयूरपत्रवृन्तानां केशबन्धैः सुयोजितैः॥३५॥

प्रहरणावृतैः सायुधैः मयूरपत्राणां वृन्तानि मध्यशङ्कवः तेषाम्॥३५॥

बभ्राजुरधिकं गोपाः समवाये तदाद्भुते ।
अन्ये वृषानारुरुहुर्नृत्यन्ति स्म परे मुदा॥३६॥

गोपालास्त्वपरे गाश्च जगृहुर्वेगगामिनः ।
तस्मिन्पर्यायनिर्वृत्ते गवां नीराजनोत्सवे॥३७॥

अन्तर्धानं जगामाशु तेन देहेन सोऽचलः ।
कृष्णोऽपि गोपसहितो विवेश व्रजमेव ह॥३८॥

गिरियज्ञप्रवृत्तेन तेनाश्चर्येण विस्मिताः ।
गोपाः सबालवृद्धा वै तुष्टुवुर्मधुसूदनम्॥३९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि गिरियज्ञप्रवर्तने सप्तदशोऽध्यायः॥१७॥
गोवर्धनधारणम्-०१८

वैशम्पायन उवाच। महे प्रतिहते शक्रः सक्रोधस्त्रिदशेश्वरः ।
सांवर्तकं नाम गणं तोयदानामथाब्रवीत्॥१॥

अस्मिन्नष्टादशेऽध्याये आसारात्पीडिते व्रजे। दध्रे कृष्णो गिरिं प्रौढ्या सप्ताहमिति वर्ण्यते॥१॥ महे प्रतिहते शक्र इत्यध्याये- “तमस्य राजा वरुणस्तमश्विनौ क्रतुं सचन्त मारुतस्य वेधसः। दाधार दक्षमुत्तममहर्विदं व्रजं च विष्णुः सखिवाँ अपोर्णुते”॥ इत्येतं मन्त्रमुपबृंहयति। मन्त्रार्थस्तु- अस्य विष्णोस्तं पर्वतार्थं कृतं स्वं स्वेन सम्पादितं क्रतुं यज्ञं वरुणोऽश्विनौ च सचन्त अन्वमोदन्त मारुतस्य वायोरपि वेधसः स्रष्टुः ततश्च स्वमखभङ्गे कृते इन्द्रे कुपिते सति विष्णुः उत्तमं श्रेष्ठं दक्षं वृष्टिनिवारणक्षमम् अहर्विदं क्रतोर्लब्धारं पर्वतं दाधार दधार धृतवान् यतः सखिवान् महान् व्रजाख्यसखिसमुदायवान् व्रजम् अपोर्णुते तेनाहर्विदा शैलेन आच्छादयतीति॥१॥

भो बलाहकमातङ्गाः श्रूयतां मम भाषितम् ।
यदि वो मत्प्रियं कार्यं राजभक्तिपुरस्कृतम्॥२॥

एते वृन्दवनगता दामोदरपरायणाः ।
नन्दगोपादयो गोपा विद्विषन्ति ममोत्सवम्॥३॥

आजीवो यः परस्तेषां गोपत्वं च यतः स्मृतम् ।
ता गावः सप्तरात्रेण पीड्यन्तां वर्षमारुतैः॥४॥

ऐरावतगतश्चाहं स्वयमेवाम्बुदारुणम् ।
स्रक्ष्यामि वृष्टिं वातं च वज्राशनिसमप्रभम्॥५॥

भवद्भिश्चण्डवर्षेण चरता मारुतेन च ।
हतास्ताः सव्रजा गावस्त्यक्ष्यन्ति भुवि जीवितम्॥६॥

एवमाज्ञापयामास सर्वाञ्जलधरान्प्रभुः ।
प्रत्याहते वै कृष्णेन शासने पाकशासनः॥७॥

ततस्ते जलदाः कृष्णा घोरनादा भायावहाः ।
आकाशं छादयामासुः सर्वतः पर्वतोपमाः॥८॥

विद्युत्सम्पातजननाः शक्रचापविभूषिताः ।
तिमिरावृतमाकाशं चक्रुस्ते जलदास्तदा॥९॥

गजा इवान्यसंयुक्ताः केचिन्मकरवर्चसः ।
नागा इवान्ये गगने चेरुर्जलदपुङ्गवाः॥१०॥

तेऽन्योन्यं वपुषा बद्धा नागयूथायुतोपमाः ।
दुर्दिनं विपुलं चक्रुश्छादयन्तो नभस्तलम्॥११॥

दुर्दिनं दुःस्थं दिनम्॥११॥

नृहस्तनागहस्ताभ्यां वेणूनां चैव सर्वतः ।
धाराभिस्तुल्यरूपाभिर्ववृषुस्ते बलाहकाः॥१२॥

नृहस्तनागहस्ताभ्यां तुल्यरूपाभिर्धाराभिरिति सम्बन्धः॥१२॥

समुद्रं मेनिरे तं हि खमारूढं नृचक्षुषः ।
दुर्विगाह्यमपर्यन्तमगाधं दुर्दिनं महत्॥१३॥

दुर्दिनं मेघच्छन्नमहः॥१३॥

नैवापतन्वै खगमा दुद्रुवुर्मृगजातयः ।
पर्वताभेषु मेघेषु खे नदत्सु समन्ततः॥१४॥

नष्टसूर्येन्दुसदृशैर्मेघैर्नभसि दारुणैः ।
अतिवृष्टेन लोकस्य विरूपमभवद्वपुः॥१५॥

नष्टसूर्येन्दुः कल्पान्तः तत्कालसदृशैः॥१५॥

मेघौघैर्निष्प्रभाकारमदृश्यग्रहतारकम् ।
चन्द्रसूर्यांशुरहितं खं बभूवातिनिष्प्रभम्॥१६॥

खं कृष्णरात्रौ इति शेषः॥१६॥

वारिणा मेघमुक्तेन मुच्यमानेन चासकृत् ।
आबभौ सर्वतस्तत्र भूमिस्तोयमयी यथा॥१७॥

तोयमयी सरसी॥१७॥

विनेदुर्बर्हिणस्तत्र तोककल्परुताः खगाः ।
विवृद्धिं निम्नगा याताः प्लवगाः सम्प्लवं गताः॥१८॥

तोककल्परुताः अत्यल्पशब्दाः प्लवगाः प्रवाहेण गच्छन्ति ते तीररुहादयः। सम्प्लवं प्रवाहम्॥१८॥

गर्जितेन च मेघानां पर्जन्यनिनदेन च ।
तर्जितानीव कम्पन्ते तृणानि तरुभिः सह॥१९॥

प्राप्तोऽन्तकालो लोकानां व्यक्तमेकार्णवा मही ।
इति गोपगणा वाक्यं व्याहरन्ति भयार्दिताः॥२०॥

तेनोत्पाताम्बुवर्षेण गावो विप्रहता भृशम् ।
हम्भारवैः क्रन्दमाना न चेलुः स्तम्भितोपमाः॥२१॥

विशेषेण प्रहता विप्रहृताः॥२१॥

निष्कम्पसक्थिचरणा निष्प्रयत्नखुराननाः ।
हृष्टरोमार्द्रतनवः क्षामकुक्षिपयोधराः॥२२॥

हृष्टरोमाश्च ता आर्द्रतनवश्च ताः॥२२॥

काश्चित्प्राणाञ्जहुः श्रान्ता निपेतुः काश्चिदातुराः ।
काश्चित्सवत्साः पतिता गावः शीकरवेजिताः॥२३॥

शीकरवेजिताः अम्बुकणैश्चलितास्तेभ्यो भीता वा॥२३॥

काश्चिदाक्रम्य क्रोडेन वत्सांस्तिष्ठन्ति मातरः ।
विमुखाः श्रान्तसक्थ्यश्च निराहाराः कृशोदराः॥२४॥

पेतुरार्ता वेपमाना गावो वर्षपराजिताः ।
वत्साश्चोन्मुखका बाला दामोदरमुखाः स्थिताः ।
त्राहीति वदनैर्दीनैः कृष्णमूचुरिवार्दिताः॥२५॥

गवां तत्कदनं दृष्ट्वा दुर्दिनागमजं महत् ।
गोपांश्चासन्ननिधनान्कृष्णः कोपं समादधे॥२६॥

स चिन्तयित्वा संरब्धो दृष्टो योगो मयेति च ।
आत्मानमात्मना वाक्यमिदमूचे प्रियंवदः॥२७॥

अद्याहमिममुत्पाट्य सकाननवनं गिरिम् ।
कल्पयेयं गवां स्थानं वर्षत्राणाय दुर्धरम्॥२८॥

इमं गोवर्धनसंज्ञम्॥२८॥

अयं धृतो मया शैलः पृथ्वीगृहनिभोपमः ।
त्रास्यते सव्रजा गा वै मद्वश्यश्च भविष्यति॥२९॥

एवं स चिन्तयित्वा तु कृष्णः सत्यपराक्रमः ।
बाह्वोर्बलं दर्शयिष्यन्समीपं तं महीधरम्॥३०॥

दोर्भ्यामुत्पाटयामास कृष्णो गिरिमिवाचलः ।
स धृतः सङ्गतो मेघैर्गिरिः सव्येन पाणिना ।
गृहभावं गतस्तत्र गृहाकारेणा वर्चसा॥३१॥

भूमेरुत्पाट्यमानस्य तस्य शैलस्य सानुषु ।
शिलाः प्रशिथिलाश्चेलुर्विनिष्पेतुश्च पादपाः॥३२॥

शिखरैर्घूर्णमानैश्च सीदमानैश्च पादपैः ।
विधूतैश्चोच्छ्रितः शृङ्गैरगमः खगमोऽभवत्॥३३॥

अगमः पर्वतो अचलोऽपि खगमः खग इवाभूदित्यर्थः॥३३॥

चलत्प्रस्रवणैः पार्श्वैर्मेघौघैरेकतां गतैः ।
भिद्यमानाश्मनिचयश्चचाल धरणीधरः॥३४॥

न मेघानां प्रवृष्टानां न शैलस्याश्मवर्षिणः ।
विविदुस्ते जना रूपं वायोस्तस्य च गर्जतः॥३५॥

मेघैः सशैलसंस्थानैर्नीलैः प्रस्रवणार्पितैः ।
मिश्रीकृत इवाभाति गिरिरुद्दामबर्हवान्॥३६॥

स शैलो मेघैर्भिश्रीकृतः बर्हवान् मयूरः स इव भातीति योजना॥३६॥

आप्लुतोऽयं गिरिः पक्षैरिति विद्याधरोरगाः ।
गन्धर्वाप्सरसश्चैव वाचो मुञ्चन्ति सर्वशः॥३७॥

आप्लुतः ख उत्पतितः पक्षैर्मेघरूपैरित्यर्थः॥३७॥

सहस्ततलविन्यस्तो मुक्तमूलः क्षितेस्तलात् ।
रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः॥३८॥

रीतीः गैरिकादिधातून् निर्वर्तयामास प्रावर्तयत्॥३८॥

कानिचिच्छिथिलानीव सञ्च्छिन्नार्धानि कनिचित् ।
गिरेर्मेघप्रवृष्टानि तस्य शृङ्गाणि चाभवन्॥३९॥

गिरिणा कम्पमानेन कम्पिताणां तु शाखिनाम् ।
पुष्पमुच्चावचं भूमौ व्यशीर्यत समन्ततः॥४०॥

पुष्पं पुष्पजातिः॥४०॥

निःसृताः पृथुमूर्धानः स्वस्तिकार्धविभूशिताः ।
द्विजिह्वपतयः क्रुद्धाः खेचराः खे समन्ततः॥४१॥

आर्तिं जग्मुः खगगणा वर्षेण च भयेन च ।
उत्पत्त्योत्पत्त्य गगनात्पुनः पेतुरवाङ्मुखाः॥४२॥

रेसुरारोषिताः सिंहाः सजला इव तोयदाः ।
गर्गरा इव मथ्यन्तो नेदुः शार्दूलपुङ्गवाः॥४३॥

रेसुः शब्दं चक्रुः। गर्गराः मन्थनस्थाल्यः॥४३॥

विषमैश्च समीभूतैः समैश्चात्यन्तदुर्गमैः ।
व्यावृत्तदेहः स गिरिरन्य एवोपलक्ष्यते॥४४॥

अतिवृष्टस्य तैर्मेघैस्तस्य रूपं बभूव ह ।
स्तम्भितस्येव रुद्रेण त्रिपुरस्य विहायसि॥४५॥

वृष्टस्य वर्षणक्लिन्नस्य॥४५॥

बाहुदण्डेन कृष्णास्य विधृतं सुमहत्तदा ।
नीलाभ्रपटलच्छन्नं तद्गिरिच्छत्रमाबभौ॥४६॥

स्वप्नायमानो जलदैर्निमीलितगुहामुखः ।
बाहूपधाने कृष्णस्य प्रसुप्त इव खे गिरिः॥४७॥

जलदैः प्रावरणभूतैः पक्षे ताड्यप्रदैः श्रमैः गुहामुखानि कन्दराद्वाराणि पक्षे हृदयगुहाया मुखानि इन्द्रियाणि॥४७॥

निर्विहङ्गरुतैर्वृक्षैर्निर्मयूररुतैर्वनैः ।
निरालम्ब इवाभाति गिरिः स्वशिखरैर्वृतः॥४८॥

वनैः वृतः शिखरैरिति सम्बन्धः॥४८॥

पर्यस्तैर्घूर्णमानैश्च प्रचलद्भिश्च सानुभिः ।
सज्वराणीव शैलस्य वनानि शिखराणि च॥४९॥

उत्तमाङ्गगतास्तस्य मेघाः पवनवाहनाः ।
त्वर्यमाणा महेन्द्रेण तोयं मुमुचुरक्षयम्॥५०॥

स लम्बमानः कृष्णस्य भुजाग्रे सघनो गिरिः ।
चक्रारूढ इवाभाति देशो नृपतिपीडितः॥५१॥

चक्रारूढः परचक्रवशात् रथशकटाद्यारुह्य पलायमानो यथाऽऽलम्बते तद्वदित्यर्थः॥५१॥

स मेघनिचयस्तस्थौ गिरिं तं परिवार्य ह ।
पुरं पुरस्कृत्य यथा स्फीतो जनपदो महान्॥५२॥

निवेश्य तं करे शैलं तोलयित्वा च सस्मितम् ।
प्रोवाच गोप्ता गोपानां प्रजापतिरिव स्थितः॥५३॥

एतद्देवैरसम्भाव्यं दिव्येन विधिना मया ।
कृतं गिरिगृहं गोपा निर्वातं शरणं गवाम्॥५४॥

दिव्येन विधिना अलौकिकेन प्रभावेण॥५४॥

क्षिप्रं विशन्तु यूथानि गवामिह हि शान्तये ।
निर्वातेषु च देशेषु निवसन्तु यथासुखम्॥५५॥

विभज्यतामयं देशः कृतं वर्षनिवारणम् ।
शैलोत्पाटनभूरेषा महती निर्मिता मया॥५६॥

महती पर्वतबुध्नादपि पुष्कलकुक्षिः॥५६॥

पञ्चक्रोशप्रमाणेन क्रोशैकविस्तरो महान् ।
त्रैलोक्यमप्युत्सहते रक्षितुं किं पुनर्व्रजम्॥५७॥

ततः किलकिलाशब्दो गवां हम्भारवैः सह ।
गोपानां तुमुलो जज्ञे मेघनादस्च बाह्यतः॥५८॥

प्राविशन्त ततो गावो गोपैर्यूथप्रकल्पिताः ।
तस्य शैलस्य विपुलं प्रदरं गह्वरोदरम्॥५९॥

प्रदरं गर्तमुखं गह्वरोदरं विशालगर्भम्॥५९॥

कृष्णोऽपि मूले शैलस्य शैलस्तम्भ इवोच्छ्रितः ।
दधारैकेन हस्तेन शैलं प्रियमिवातिथिम्॥६०॥

ततो व्रजस्य भाण्डानि युक्तानि शकटानि च ।
विविशुर्वर्षभीतानि तद्गृहं गिरिनिर्मितम्॥६१॥

आतिदैवं तु कृष्णस्य दृष्ट्वा तत्कर्म वज्रभृत् ।
मिथ्याप्रतिज्ञो जलदान्वारयामास वै विभुः॥६२॥

सप्तरात्रे तु निर्वृत्ते धरण्यां विगतोत्सवः ।
जगाम संवृतो मेघैर्वृत्रहा स्वर्गमुत्तमम्॥६३॥

निवृत्ते सप्तरात्रे तु निष्प्रयत्ने शतक्रतौ ।
गताभ्रे विमले व्योम्नि दिवसे दीप्तभास्करे॥६४॥

गावस्तेनैव मार्गेणा परिजग्मुर्यथागतम् ।
स्वं च स्थानं ततो घोषः प्रत्ययात्पुनरेव सः॥६५॥

कृष्णोऽपि तं गिरिश्रेष्ठं स्वस्थाने स्थावरात्मवान् ।
प्रीतो निवेशयामास शिवाय वरदो विभुः॥६६॥

स्थावरात्मवान् अकम्प इत्यर्थः॥६६॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि गोवर्धनोद्धरणे अष्टादशोऽध्यायः॥१८॥
गोविन्दाभिषेकः-०१९

वैशम्पायन उवाच। धृतं गोवर्धनं दृष्ट्वा परित्रातं च गोकुलम् ।
कृष्णस्य दर्शनं शक्रो रोचयामास विस्मितः॥१॥

एकोनविंशेऽथाध्याये सुरभिर्ब्रह्मचोदितः। इन्द्रोऽभिषिक्तवान्कृष्णं गवामैन्द्रे निरूप्यते॥१॥ धृतमिति॥१॥

स निर्जलाम्बुदाकारं मत्तं मदजलोक्षितम् ।
आरुह्यैरावतं नागमाजगाम महीतलम्॥२॥

स ददर्शोपविष्टं वै गोवर्धनशिलातले ।
कृष्णमक्लिष्टकर्माणं पुरुहूतः पुरन्दरः॥३॥

तं वीक्ष्य बालं महता तेजसा दीप्तमव्ययम् ।
गोपवेषधरं विष्णुं प्रीतिं लेभे पुरन्दरः॥४॥

तं सोऽम्बुजदलश्यामं कृष्णं स्रीवत्सलक्षणम् ।
पर्याप्तनयनः शक्रः सर्वैर्नेर्त्रैरुदैक्षत॥५॥

पर्याप्तनयनः सम्प्राप्तनेत्रफलः॥५॥

दृष्ट्वा चैनं श्रिया जुष्टं मर्त्यलोकेऽमरोपमम् ।
सूपविष्टं शिलापृष्ठे शक्रः स व्रीडितोऽभवत्॥६॥

तस्योपविष्टस्य मुखं पक्षाभ्यां पक्षिपुङ्गवः ।
अन्तर्द्धानं गतश्छायां चकारोरगभोजनः॥७॥

तं विविक्ते वनगतं लोकवृत्तान्ततत्परम् ।
उपतस्थे गजं हित्वा कृष्णं बलनिषूदनः॥८॥

लोकवृत्तान्ततत्परं लोकव्यवहारतत्परम्॥८॥

स समीपगतस्तस्य दिव्यस्रगनुलेपनः ।
रराज देवराजो वै वज्रपूर्णकरः प्रभुः॥९॥

किरीटेनार्कतुल्येन विद्युदुद्योतकारिणा ।
कुण्डलाभ्यां स दिव्याभ्यां सततं शोभिताननः॥१०॥

पञ्चस्तबकलम्बेन हारेणोरसि भूषितः ।
सहस्रपत्रकान्तेन देहभूषणकारिणा ।
ईक्षमाणः सहस्रेण नेत्राणां कामरूपिणाम्॥११॥

पञ्चभिः स्तबकैर्महागुच्छैर्लम्बते इति तेन पञ्चस्तबकलम्बेन॥११॥

त्रिदशाज्ञापनार्थेन मेघनिर्घोषकारिणा ।
अथ दिव्येन मधुरं व्याजहार स्वरेणा तम्॥१२॥

इन्द्र उवाच। कृष्ण कृष्ण महाबहो ज्ञातीनां नन्दिवर्द्धन ।
अतिदिव्यं कृतं कर्म त्वया प्रीतिमता गवाम्॥१३॥

मयोत्सृष्टेषु मेघेषु युगान्तावर्तकारिषु ।
यत्त्वया रक्षिता गावस्तेनास्मि परितोषितः॥१४॥

स्वायम्भुवेन योगेन यश्चायं पर्वतोत्तमः ।
धृतो वेश्मवदाकाशे को ह्येतेन न विस्मयेत्॥१५॥

स्वायम्भुवेन योगेन हैरण्यगर्भ्या धारणया तस्यां हि क्रियमाणायां गुरुतरोऽपि लघुर्भवति कृष्णधृतगोवर्धनवत् विपुलतरोऽप्यल्पो भवत्यगस्त्यपीतसमुद्रवत्॥१५॥

प्रतिषिद्धे मम महे मयेयं रुषितेन वै ।
अतिवृष्टिः कृता कृष्णा गवां वै साप्तरात्रिकी॥१६॥

गवां कोपेनेति शेषः॥१६॥

सा त्वया प्रतिषिद्धेयं मेघवृष्टिर्दुरासदा ।
देवैः सदा नवगणैर्दुर्निवार्या मयि स्थिते॥१७॥

अहो मे सुप्रियं कृष्ण यत्त्वं मानुषदेहवान् ।
समग्रं वैष्णवं तेजो विनिगूहसि रोषितः॥१८॥

रोषितः व्रजपक्षपातेन मयि क्रुद्धः सन् पूर्णत्वं स्वस्याच्छादयसीत्यर्थः॥१८॥

साधितं देवतानां हि मन्येऽहं कार्यमव्ययम् ।
त्वयि मानुष्यमापन्ने युक्ते चैव स्वतेजसा॥१९॥

सेत्स्यते सर्वकार्यार्थो न किञ्चित्परिहास्यते ।
देवानां यद्भवान्नेता सर्वकार्यपुरोगमः॥२०॥

एकस्त्वमसि देवानां लोकानां च सनातनः ।
द्वितीयं नात्र पश्यामि यस्तेषां च धुरं वहेत्॥२१॥

यथा हि पुङ्गवः श्रेष्ठो ह्यग्रे धुरि नियोज्यते ।
एवं त्वमसि देवानां मग्नानां द्विजवाहनः॥२२॥

पुङ्गवः महोक्षः॥२२॥

त्वच्छरीरगतं कृष्ण जगत्प्रकरणं त्विदम् ।
ब्रह्मणा साधु निर्दिष्टं धातुभ्य इव काञ्चनम्॥२३॥

प्रकरणं प्रकर्षेण रचनम्। पाठान्तरे प्रवहणं सृष्टिप्रवाहः॥२३॥

स्वयं स्वयम्भूर्भगवान्बुद्ध्याथ वयसापि वा ।
न त्वानुगन्तुं शक्नोति पङ्गुर्द्रुतगतिं यथा॥२४॥

स्थाणुभ्यो हिमवाञ्छ्रेष्ठो ह्रदानां वरुनालयः ।
गरुत्मान्पक्षिणां श्रेष्ठो देवानां च भवान्वरः॥२५॥

स्थाणुभ्यः पर्वतेभ्यः॥२५॥

अपामधस्ताल्लोको वै तस्योपरि महीधराः ।
नागानामुपरिष्टाद्भूः पृथिव्युपरि मानुषाः॥२६॥

गोलोकस्य श्रेष्ठत्वं वक्तुं पीठिकामाह- अपामिति। अपां लोकोऽधस्तात् तस्योपर्यप्सु प्लवन्तो महीधराः पर्वताः समुद्रे मग्नान्युपरिदण्डानि लोहलाङ्गलानि नावमिव महीं धारयन्तः अत एव नागानामुपरिष्टाद्भूः स्मृता भुवश्चोपरि नगा दृश्यन्ते॥२६॥

मनुष्यलोकादूर्ध्वं तु खगाणां गतिरुच्यते ।
आकाशस्योपरि रविर्द्वारं स्वर्गस्य भानुमान्॥२७॥

देवलोकः परस्तस्माद्विमानगमनो महान् ।
यत्राहं कृष्ण देवानामैन्द्रे विनिहितः पदे॥२८॥

स्वर्गादूर्ध्वं ब्रह्मलोको ब्रह्मर्षिगणसेवितः ।
तत्र सोमगतिश्चैव ज्योतिषां च महात्मनाम्॥२९॥

सोमगतिस्तावतीत्यर्थः। कर्मफलं तावदेवेत्यर्थः॥२९॥

तस्योपरि गवां लोकः साध्यास्तं पालयन्ति हि ।
स हि सर्वगतः कृष्ण महाकाशगतो महान्॥३०॥

गोलोकस्तु गोपालोपासनागम्यस्ततोऽप्युपरीत्याह- तस्येति॥३०॥

उपर्युपरि तत्रापि गतिस्तव तपोमयी ।
यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम्॥३१॥

तत्रापि गोलोकेऽपि न विद्मः कुतो लभेमेत्यर्थः॥३१॥

लोकस्त्वधो दुष्कृतिनां नागलोकस्तु दारुणः ।
पृथिवी कर्मशीलानां क्षेत्रं सर्वस्य कर्मणः॥३२॥

खमस्थिराणां विषयो वायुना तुल्यवृत्तिनाम् ।
गतिः शमदमाढ्यानां स्वर्गः सुकृतकर्मणाम्॥३३॥

ब्राह्मे तपसि युक्तानां ब्रह्मलोकः परा गतिः ।
गवामेव तु गोलोको दुरारोहा हि सा गतिः॥३४॥

गवामेवेत्यन्येषां तपआदिनाऽपि दुष्प्राप इत्यर्थः॥३४॥

स तु लोकस्त्वया कृष्ण सीदमानः कृतात्मना ।
धृतो धृतिमता वीर निघ्नतोपद्रवान्गवाम्॥३५॥

स एव गोलोकस्त्वया सह भूमावागतः सन् सीदमानावस्थायां त्वयैव त्रातः। तथा च मन्त्रवर्णः- “ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः। अत्राह तदुरुगायस्य वृष्णः परमं पदमवभाति भूरि" इति। ता तानि वां युवयोः रामकृष्णयोर्वास्तूनि रम्यस्थानानि गमध्यै गन्तुम् उश्मसि उश्मः कामयामहे न तु तत्र गन्तुं प्रभवामः यत्र येषु वास्तुषु भूरिशृङ्गाः महाशृङ्गवत्यो गावः अयासः सञ्चरन्ति। अत्र भूलोके अह निश्चितं तत् गोलोकाख्यं परमं पदं भूरि अत्यन्तं मुख्यादपि विशिष्टम् अवभाति अत्यन्तं शोभते। वृष्णः आनन्दवर्षुकस्य उरुगायस्य महाकीर्तेरित्यर्थः॥३५॥

तदहं समनुप्राप्तो गवां वाक्येन चोदितः ।
ब्रह्मणश्च महाभाग गौरवात्तव चागतः॥३६॥

अहं भूतपतिः कृष्ण देवराजः पुरन्दरः ।
अदितेर्गर्भपर्याये पूर्वजस्ते पुराकृतः॥३७॥

स्वतेजस्तेजसा चैव यत्ते दर्शितवानहम् ।
देवरूपेण तत्सर्वं क्षन्तुमर्हसि मे विभो॥३८॥

एवं क्षान्तमनाः कृष्ण स्वेन सौम्येन तेजसा ।
ब्रह्मणः शृणु मे वाक्यं गवां च गजविक्रम॥३९॥

मे मुखादिति शेषः॥३९॥

आह त्वां भगवान्ब्रह्मा गावश्चाकाशगा दिवि ।
कर्मभिस्तोषिता दिव्यैस्तव संरक्षणादिभिः॥४०॥

भवता रक्षिता गावो गोलोकश्च महानयम् ।
यद्वयं पुङ्गवैः सार्धं वर्द्धामः प्रसवैस्तथा॥४१॥

कर्षुकान्पुङ्गवैर्बाह्यैर्मेध्येन हविषा सुरान् ।
श्रियं शकृत्प्रवृत्तेन तर्पयिष्याम कामगाः॥४२॥

तदस्माकं गुरुस्त्वं हि प्राणदश्च महाबलः ।
अद्य प्रभृति नो राजा त्वमिन्द्रो वै भव प्रभो॥४३॥

तस्मात्त्वं काञ्चनैः पूर्णैर्दिव्यस्य पयसो घटैः ।
एभिरद्याभिषिञ्चस्व मया हस्तावनामितैः॥४४॥

अभिषिञ्चस्व आत्मानमिति शेषः। अभिषेकादिकं भगवानङ्गीचकारेत्याह मन्त्रः- "ऋषभं ना समानानां सपत्नानां विषासहिम्। हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम्"॥ इति विषासहिं सहनसमर्थम्॥४४॥

अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः ।
गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुवि शाश्वतम्॥४५॥

ममोपरि यथेन्द्रस्त्वं स्थापितो गोभिरीश्वरः ।
उपेन्द्र इति कृष्ण त्वां गास्यन्ति दिवि देवताः॥४६॥

ममेति इन्द्रादुपरीति विग्रहे रिलोपेन उपेन्द्रेति नाम निष्पन्नमित्यर्थः॥४६॥

ये चेमे वार्षिका मासाश्चत्वारो विहिता मम ।
एषामर्धं प्रयच्छामि शरत्कालं तु पश्चिमम्॥४७॥

अद्यप्रभृति मासौ द्वौ ज्ञास्यन्ति मम मानवाः ।
वर्षार्द्धे च ध्वजो मह्यं ततः पूजामवाप्स्यसि ।
ममाम्बुप्रभवं दर्पं तदा त्यक्ष्यन्ति बर्हिणः॥४८॥

वर्षार्द्धे आश्विनशुक्लप्रतिपदि। ध्वजः व्रतसमाप्तिचिह्नम्॥४८॥

अल्पवाचो गतमदा ये चान्ये मेघनादिनः ।
शान्तिं सर्वे गमिष्यन्ति मम कालविचारिणः॥४९॥

त्रिशङ्क्वगस्त्यचरितामाशां च प्रचरिष्यति ।
सहस्ररश्मिरादित्यस्तापयन्स्वेन तेजसा॥५०॥

आशां दक्षिणां दिशम्॥५०॥

ततः शरदि युक्तायां मौनकामेशु बर्हिषु ।
याचमाने खगे तोयं विप्लुतेषु प्लवेषु च॥५१॥

खगे चातके प्लवेषु नदीतरणसाधनेषु विगतपूरासु नदीष्वित्यर्थः॥५१॥

हंससारसपूर्णेषु नदीनां पुलिनेषु च ।
मत्तक्रौञ्चप्रणादेषु प्रमत्तवृषभेषु च ॥२-१९-५२॥

गोषु चैव प्रहृष्टासु क्षरन्तीषु पयो बहु ।
निवृत्तेषु च मेघेषु निर्यात्य जगतो जलम्॥५३॥

निर्यात्य विरेच्य॥५३॥

आकाशे शस्त्रसङ्काशे हंसेषु च चरत्सु च ।
जातपद्मेषु तोयेशु वापीषु च सरत्सु च॥५४॥

शस्त्रसङ्काशे कृष्णभास्वरे वा निर्मले॥५४॥

तडागेषु च कान्तेषु तोयेषु विमलेषु च ।
कलमावनताग्रासु कृष्णकेदारपङ्क्तिषु॥५५॥

कलमानां शालिकणिशानाम् अवनतानि अग्राणि यासु तासु॥५५॥

मध्यस्थं सलिलारम्भं कुर्वन्तीषु नदीषु च ।
सुसस्यायां च सीमायां मनोहर्यां मुनेरपि॥५६॥

पृथिव्यां पृथुराष्ट्रायां रम्यायां वर्षसंक्षये ।
श्रीमत्सु पङ्क्तिमार्गेषु फलवत्सु तृणेषु च ।
इक्षुमत्सु च देशेषु प्रवृत्तेषु मखेषु च॥५७॥

मखेषु आग्रयण वाजपेयादिषु॥५७॥

ततः प्रवर्त्स्यते पुण्या शरत्सुप्तोत्थिते त्वयि ।
लोकेऽस्मिन्कृष्ण निखिले यथैव त्रिदिवे तथा॥५८॥

नरास्त्वां चैव मां चैव ध्वजाकारासु यष्टिषु ।
महेन्द्रं चाप्युपेन्द्रं च महयन्ति महीतले॥५९॥

महयन्ति पूजयन्ति॥५९॥

ये चावयोः स्थिरे वृत्ते महेन्द्रोपेन्द्रसंज्ञिते ।
मानवाः प्रणमिष्यन्ति तेषां नास्त्यनयागमः॥६०॥

स्थिरे शाश्वते वृत्ते महाख्ये आचारे॥६०॥

ततः शक्रस्तु तान्गृह्य घटान्दिव्यपयोधरान् ।
अभिषेकेण गोविन्दं योजयामास योगवित्॥६१॥

दिव्यं पयो मन्दाकिनीजलं तस्य धरान्॥६१॥

दृष्ट्वा तमभिषिक्तं तु गावस्ताः सह यूथपैः ।
स्तनैः प्रस्रवयुक्तैश्च सिषिचुः कृष्णमव्ययम्॥६२॥

ताः गावः स्वर्गस्थाः॥६२॥

मेघाश्च दिवि युक्ताभिः सामृताभिः समन्ततः ।
सिषिचुस्तोयधाराभिरभिषिच्य तमव्ययम्॥६३॥

वनस्पतीनां सर्वेषां सुस्रावेन्दुनिभं पयः ।
ववर्षुः पुष्पवर्षं च नेदुस्तूर्याणि चाम्बरे॥६४॥

ववर्षुः देवाः। नेदुः स्वयमेव॥६४॥

अस्तुवन्मुनयः सर्वे वाग्भिर्मन्त्रपरायणाः ।
एकार्णवे विविक्तं च दधार वसुधा वपुः॥६५॥

एकार्णवाद्विविक्तं पृथग्भूतं क्षीरोदमध्यं क्षीरोदतुल्या पृथिव्यभवदित्यर्थः॥६५॥

प्रसादं सागरा जग्मुर्ववुर्वाता जगद्धिताः ।
मार्गस्थोऽपि बभौ भानुश्चन्द्रो नक्षत्रसंयुतः॥६६॥

ईतयः प्रशमं जग्मुर्निर्वैररचना नृपाः ।
प्रवालपत्रशबलाः पुष्पवन्तश्च पादपाः॥६७॥

ईतयोऽतिवृष्ट्याद्याः॥६७॥

मदं प्रसुस्रुवुर्नागा यातास्तोषं वने मृगाः ।
अलङ्कृता गात्ररुहैर्धातुभिर्भान्ति पर्वताः॥६८॥

गात्ररुहैर्वृक्षादिभिः॥६८॥

देवलोकोपमो लोकस्तृप्तोऽमृतरसैरिव ।
आसीत्कृष्णाभिषेको हि दिव्यस्वर्गरसोक्षितः॥६९॥

अभिषिक्तं तु तं गोभिः शक्रो गोविन्दमव्ययम् ।
दिव्यमाल्याम्बरधरं देवदेवोऽब्रवीदिदम्॥७०॥

एष ते प्रथमः कृष्ण नियोगो गोषु यः कृतः ।
श्रूयतामपरं कृष्ण ममागमनकारणम्॥७१॥

नियोगः कृत्योपदेशः॥७१॥

क्षिप्रं प्रसाध्यतां कंसः केशी च तुरगाधमः ।
अरिष्टश्च मदाविष्टो राजराज्यं ततः कुरु॥७२॥

प्रसाध्यतां वध्यताम्॥७२॥

पितृष्वसरि जातस्ते ममांशोऽहमिव स्थितः ।
स ते रक्ष्यश्च मान्यश्च सख्ये च विनियुज्यताम्॥७३॥

ममांशोऽर्जुनः॥७३॥

त्वया ह्यनुगृहीतस्य तव वृत्तानुवर्तकः ।
त्वद्वशे वर्तमानश्च प्राप्स्यते विपुलं यशः॥७४॥

भारतस्य च वंशस्य स वरिष्ठो धनुर्धरः ।
भविष्यत्यनुरूपश्च त्वदृते न च रंस्यते॥७५॥

भारतं त्वयि चायत्तं तस्मिंश्च पुरुषोत्तमे ।
उभाभ्यामपि संयोगे यास्यन्ति निधनं नृपाः॥७६॥

भारतं भरतानां युद्धम्॥७६॥

प्रतिज्ञातं मया कृष्ण ऋषिमध्ये सुरेषु च ।
मया पुत्रोऽर्जुनो नाम सृष्टः कुन्त्यां कुलोद्वहः॥७७॥

सोऽस्त्राणां पारतत्त्वज्ञः श्रेष्ठश्चापाविकर्षणे ।
तं प्रवेक्ष्यन्ति वै सर्वे राजानः शस्त्रयोधिनः॥७८॥

अक्षौहिणीस्तु शूराणां राज्ञां सङ्ग्रामशालिनाम् ।
स एकः क्षत्रधर्मेण योजयिष्यति मृत्युना॥७९॥

तस्यास्त्रचरितं मार्गं धनुषो लाघवेन च ।
नानुयास्यन्ति राजानो देवा वा त्वां विना प्रभो॥८०॥

स ते बन्धुः सहायश्च सङ्ग्रामेषु भविष्यति ।
तस्य योगो विधातव्यस्त्वया गोविन्द मत्कृते॥८१॥

योगोऽध्यात्मविद्या विधातव्यः अज्ञातो ज्ञापनीयः॥८१॥

द्रष्टव्यश्च यथाहं वै त्वया मान्यश्च नित्यशः ।
ज्ञाता त्वमेव लोकाणामर्जुनस्य च नित्यशः॥८२॥

त्वया च नित्यं संरक्ष्य आहवेषु महत्सु सः ।
रक्षितस्य त्वया तस्य न मृत्युः प्रभविष्यति॥८३॥

अर्जुनं विद्धि मां कृष्ण मां चैवात्मानमात्मना ।
आत्मा तेऽहं यथा शश्वत्तथैव तव सोऽर्जुनः॥८४॥

त्वया लोकानिमाञ्जित्वा बलेर्हस्तात्त्रिभिः क्रमैः ।
देवतानां कृतो राजा पुरा ज्येष्ठक्रमादहम्॥८५॥

त्वां च सत्यमयं ज्ञात्वा सत्येष्टं सत्यविक्रमम् ।
सत्येनोपेत्य देवा वै योजयन्ति रिपुक्षये॥८६॥

सोऽर्जुनो नाम मे पुत्रः पितुस्ते भगिनीसुतः ।
इह सौहार्दमायातु भूत्वा सहचरः पुरा॥८७॥

तस्य ते युद्ध्यतः कृष्ण स्वस्थानेऽपि गृहेऽपि वा ।
वोढव्या पुङ्गवेनेव धूः सदा रणमूर्धनि॥८८॥

कंसे विनिहते कृष्ण त्वया भाव्यर्थदर्शिना ।
अभितस्तन्महद्युद्धं भविष्यति महीक्षिताम्॥८९॥

तत्र तेषां नृवीराणामतिमानुषकर्मणाम् ।
विजयस्यार्जुनो भोक्ता यशसा त्वं च योक्ष्यसे॥९०॥

एतन्मे कृष्ण कार्त्स्न्येन कर्तुमर्हसि भाषितम् ।
यद्यहं ते सुराश्चैव सत्यं च प्रियमच्युत॥९१॥

शक्रस्य वचनं श्रुत्वा कृष्णो गोविन्दतां गतः ।
प्रीतेन मनसा युक्तः प्रतिवाक्यं जगाद ह॥९२॥

प्रीतोऽस्मि दर्शनाद्देव तव शक्र शचीपते ।
यत्त्वयाभिहितं चेदं न किञ्चित्परिहास्यते॥९३॥

जानामि भवतो भावां जानाम्यर्जुनसम्भवम् ।
जाने पितृष्वसारं च पाण्डोर्दत्तां महात्मनः॥९४॥

युधिष्ठिरं च जानामि कुमारं धर्मनिर्मितम् ।
भीमसेनं च जानामि वायोः सन्तानजं सुतम्॥९५॥

अश्विभ्यां साधु जानामि सृष्टं पुत्रद्वयं शुभम् ।
नकुलं सहदेवं च माद्रीकुक्षिगतावुभौ॥९६॥

कानीनं चापि जानामि सवितुः प्रथमं सुतम् ।
पितृष्वसरि कर्णं वै प्रसूतं सूततां गतम्॥९७॥

कानीनं कन्यायां भवम्॥९७॥

धार्तराश्ट्राश्च मे सर्वे विदिता युद्धकाङ्क्षिणः ।
पाण्डोरुपरमं चैव शापाशनिनिपातजम्॥९८॥

तद्गच्छ त्रिदिवं शक्र सुखाय त्रिदिवौकसाम् ।
नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति॥९९॥

अर्जुनार्थे च तान्सर्वान्पाण्डवानक्षतान्युधि ।
कुन्त्या निर्यातयिष्यामि निवृत्ते भारते मृधे॥१००॥

निर्यातयिष्यामि प्रत्यर्पयिष्यामि॥१००॥

यच्च वक्ष्यति मां शक्र तनूजस्तव सोऽर्जुनः ।
भृत्यवत्तत्करिष्यामि तव स्नेहेन यन्त्रितः॥१०१॥

यन्त्रितः बद्धः॥१०१॥

सत्यसन्धस्य तच्छ्रुत्वा प्रियं प्रीतस्य भाषितम् ।
कृष्णस्य साक्षात्त्रिदिवं जगाम त्रिदशेश्वरः॥१०२॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि गोविन्दाभिषेके एकोनविंशोऽध्यायः॥१९॥
हल्लीसकक्रीडनम्-०२०

वैशम्पायन उवाच। गते शक्रे ततः कृष्णः पूज्यमानो व्रजालयैः ।
गोवर्धनधरः श्रीमान्विवेश व्रजमेव ह॥१॥

अस्मिन्विंशे त्वथाध्याये गोपैः कृष्णप्रशंसनम्। गोपीसङ्क्रीडनं वाऽथ कृतं रात्रावुदीर्यते॥१॥ गते व्रजालयैर्गोपैः सह॥१॥

तस्य वृद्धाभिनन्दन्ति ज्ञातयश्च सहोषिताः ।
धन्याः स्मोऽनुगृहीताः स्मस्त्वद्वृत्तेन नयेन च॥२॥

वृद्धा अभीति च्छेदः। सन्धिरार्षः॥२॥

गावो वर्षभयात्तीर्णा वयं तीर्णा महाभयात् ।
तव प्रसादाद्गोविन्द देवतुल्यपराक्रम॥३॥

अमानुषाणि कर्माणि तव पश्याम गोपते ।
धारयेनास्य शैलस्य विद्मस्त्वां कृष्ण दैवतम्॥४॥

कस्त्वं भवसि रुद्राणां मरुतां च महाबलः ।
वसूनां वा किमर्थं च वसुदेवः पिता तव॥५॥

बलं च बाल्ये क्रीडा च जन्म चास्मासु गर्हितम् ।
कृष्ण दिव्या च ते चेष्टा शङ्कितानि मनांसि नः॥६॥

किमर्थं गोपवेषेण रमसेऽस्मासु गर्हितम् ।
लोकपालोपमश्चैव गास्त्वं किं परिरक्षसि॥७॥

देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा ।
अस्माकं बान्धवो जातो योऽसि सोऽसि नमोऽस्तु ते॥८॥

केनचिद्यदि कार्येण वससीह यदृच्छया ।
वयं तवानुगाः सर्वे भवन्तं शरणं गताः॥९॥

वैशम्पायन उवाच। गोपानां वचनं श्रुत्वा कृष्णः पद्मदलेक्षणः ।
प्रत्युवाच स्मितं कृत्वा ज्ञातीन्सर्वान्समागतान्॥१०॥

मन्यन्ते मां यथा सर्वे भवन्तो भीमविक्रमम् ।
तथाहं नावमन्तव्यः स्वजातीयोऽस्मि बान्धवः॥११॥

यदि त्ववश्यं श्रोतव्यं कालः सम्प्रतिपाल्यताम् ।
ततो भवन्तः श्रोष्यन्ति मां च द्रक्ष्यन्ति तत्त्वतः॥१२॥

यद्ययं भवतां श्लाघ्यो बान्धवो देवसप्रभः ।
परिज्ञानेन किं कार्यं यद्येषोऽनुग्रहो मम॥१३॥

एवमुक्तास्तु ते गोपा वसुदेवसुतेन वै ।
बद्धमौना दिशः सर्वे भेजिरे पिहिताननाः॥१४॥

कृष्णस्तु यौवनं दृष्ट्वा निशि चन्द्रमसो वनम् ।
शारदीं च निशां रम्यां मनश्चक्रे रतिं प्रति॥१५॥

यौवनं कान्तिमत्त्वम्॥१५॥

स करीषाङ्गरागासु व्रजरथ्यासु वीर्यवान् ।
वृषाणां जातदर्पाणां युद्धानि समयोजयत्॥१६॥

गोपालांश्च बलोदग्रान्योधयामास वीर्यवान् ।
वने स वीरो गाश्चैव जग्राह ग्राहवद्विभुः॥१७॥

युवतीर्गोपकन्याश्च रात्रौ सङ्काल्य कालवित् ।
केशोरकं मानयन्वै सह ताभिर्मुमोद ह॥१८॥

सङ्काल्य स्ववशे कृत्वा कैशोरं वयो दशवर्षावधि तस्य कम् उपरिभागम् एकादशमारभ्येत्यर्थः। प्रागुपनयनात् कामचाराद्यनुज्ञाऽस्तीति वाक्यं मानयन्॥१८॥

तास्तस्य वदनं कान्तं कान्ता गोपस्त्रियो निशि ।
पिबन्ति नयनाक्षेपैर्गां गतं शशिनं यथा॥१९॥

हरितालार्द्रपीतेन सकौशेयेन वाससा ।
वसानो भद्रवसनं कृष्णः कान्ततरोऽभवत्॥२०॥

हरितालस्य आर्द्रं पङ्कः॥२०॥

स बद्धाङ्गदनिर्व्यूहश्चित्रया वनमालया ।
शोभमनो हि गोविन्दः शोभयामास तद्व्रजम्॥२१॥

तद्व्रजं तासां कदम्बम्॥२१॥

नाम दामोदरेत्येवं गोपकन्यास्तदाब्रुवन् ।
विचित्रं चरितं घोषे दृष्ट्वा तत्तस्य भास्वतः॥२२॥

तास्तं पयोधरोत्तुङ्गैरुरोभिः समपीडयन् ।
भ्रामिताक्षैश्च वदनैर्निरीक्षन्ते वराङ्गनाः॥२३॥

ता वार्यमाणाः पतिभिर्मातृभिर्भ्रातृभिस्तथा ।
कृष्णं गोपाङ्गना रात्रौ मृगयन्ते रतिप्रियाः॥२४॥

तास्तु पङ्क्तीकृताः सर्वा रमयन्ति मनोरमम् ।
गायन्त्यः कृष्णचरितं द्वन्द्वशो गोपकन्यकाः॥२५॥

पङ्क्तीकृताः मण्डलाकारं पङ्क्तिरूपेण स्थिताः। द्वन्द्वशो द्वाभ्यां प्रदेशाभ्यां वर्तते गोपः कृष्णो यासां ताः द्वन्द्वशो गोपास्ताश्च ताः कन्यकाश्चेत्यर्थः। मनोरमं मण्डलमध्यस्थं च रमयन्तीत्यर्थः। यथोक्तम् "अङ्गनामङ्गनामन्तरे माधवो माधवं माधवं चान्तरे चाङ्गनाः। इत्थमाकल्पिते मण्डले मध्यगः सञ्जगौ वेणुना देवकीनन्दनः॥” इति। श्रुतिश्च- “पद्या वस्ते पुरुरूपा वपूंष्यर्ध्वा तस्थौ त्र्यविं रेरिहाणा। ऋतस्य सद्म विचरामि विद्वान्महद्देवानामसुरत्वमेकम्" इति। पद्या पत्तुम् अभिसारिणीभिर्गोपीभिरभिसर्तुं योग्या कृष्णमूर्तिः पुरुरूपा बहुरूपा वपूंषि बहूनि वस्ते परिधत्ते बहुधात्वं गतेत्यर्थः। तथाऽप्यन्या ऊर्ध्वा गोपीसम्पर्कं विना तस्थौ स्थिता मध्ये इति शेषः। कीदृशी त्र्यविं त्रीन् देशान् पार्श्वद्वयं पुरस्ताच्च अवति प्रकाशत इति त्र्यविः त्रेधाभूतां दृष्टिं रेरिहाणा गिलन्ती। उक्तरूपे रासमण्डले हि एकैकस्या गोप्या उभयतः कृष्णद्वयं पुरस्तादेकः सर्वसाधारणां त्रिधाभूतामपि दृष्टिं प्रदेशत्रयस्थः कार्त्स्येन गिलति ततोऽन्यत्र नापैतीत्यर्थः। सा मूर्तिर्ऋतस्य धर्मस्य सद्मभूता तामनुचिन्त्य विचरामि त्वद्वियुक्ता सती विद्धीति कृष्णलीलानुकारात्पुंस्त्वम् आरोपयन्ती काऽप्यवदत्। देवानां कृष्णादीनामन्येषां वा कृष्णेन वियोजयताम्। असुरत्वं निर्दयत्वं महत् एकं मुख्यं कस्याश्चिद्रासक्रीडायां तिरोहिते कृष्णे इदं वाक्यम्॥२५॥

कृष्णलीलानुकारिण्यः कृष्णप्रणिहितेक्षणाः ।
कृष्णस्य गतिगामिन्यस्तरुण्यस्ता वराङ्गनाः॥२६॥

वनेषु तालहस्ताग्रैः कूजयन्त्यस्तथापराः ।
चेरुर्वै चरितं तस्य कृष्णस्य व्रजयोषितः॥२७॥

तास्तस्य नृत्यं गीतं च विलासस्मितवीक्षितम् ।
मुदिताश्चानुकुर्वन्त्यः क्रीडन्ति व्रजयोषितः॥२८॥

भावनिस्पन्दमधुरं गायन्त्यस्ता वराङ्गनाः ।
व्रजं गताः सुखं चेरुर्दामोदरपरायणाः॥२९॥

भावः कृष्णे प्रेमातिशयः तस्य निस्पन्देन बहिराविष्करणेन मधुरं व्रजमण्डलं गताः प्राप्ताः॥२९॥

करीषपांसुदिग्धाङ्ग्यस्ताः कृष्णामनुवव्रिरे ।
रमयन्त्यो यथ नागं सम्प्रमत्तं करेणवः॥३०॥

अनुवव्रिरे परितः वृतवत्यः॥३०॥

तमन्या भावविकचैर्नेत्रैः प्रहसिताननाः ।
पिबन्त्यतृप्तवनिताः कृष्णं कृष्णमृगेक्षणाः॥३१॥

मुखमस्याब्जसङ्काशं तृषिता गोपकन्यकाः ।
रत्यन्तरगता रात्रौ पिबन्ति रसलालसाः॥३२॥

हा हेति कुर्वतस्तस्य प्रहृष्टास्ता वराङ्गनाः ।
जगृहुर्निस्सृतां वाणीं नाम्ना दामोदरेरिताम्॥३३॥

हा हेति। हा राधे हा चन्द्रमुखि इत्यादिशब्दैः स्वस्य विरहातुरत्वं कुर्वतः आविष्कुर्वतः॥३३॥

तासां ग्रथितसीमन्ता रतिं नीत्वाऽऽकुलीकृताः ।
चारु विस्रंसिरे केशाः कुचाग्रे गोपयोषिताम्॥३४॥

एवं स कृष्णो गोपीनां चक्रवालैरलङ्कृतः ।
शारदीषु सचन्द्रासु निशासु मुमुदे सुखी॥३५॥

चक्रवालैः मण्डलैः हल्लीसकक्रीडनम् एकस्य पुंसो बहुभिः स्त्रीभिः क्रीडनं सैव रासक्रीडा। "गोपीनां मण्डलीनृत्यबन्धने हल्लीसकं विदुः”। इति कोशात् तल्लक्षणं तु- "पृथुं सुवृत्तं मसृणं वितस्तिमात्रोन्नतं कौ विनिखन्य शङ्कुम्। आक्रम्य पद्भ्यामितरेतरं तु हस्तैर्भ्रमोऽयं खलु रासगोष्ठी"॥३५॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि हल्लीसकक्रीडने विंशोऽध्यायः॥२०॥
वृषभासुरवधः-०२१

वैशम्पायन उवाच। प्रदोषार्द्धे कदाचित्तु कृष्णे रतिपरयणे ।
त्रासयन्त्समदो गोष्ठमरिष्टः प्रत्यदृश्यत॥१॥

अथैकविंशे ह्यध्याये अरिष्टं वृषरूपिणम्। देवशत्रुं दुराधर्षं कृष्णोऽहनदितीर्यते॥१॥ प्रदोषार्द्ध इति॥१॥

निर्वाणाङ्गारमेघाभस्तीक्ष्णशृङ्गोऽर्कलोचनः ।
क्षुरतीक्ष्णाग्रचरणः कालः काल इवापरः॥२॥

निर्वाणाङ्गारः इङ्गालः मेघश्च तदुभयाभः कालः कृष्णवर्णः कालायिता संहर्ता वेत्यर्थः॥२॥

लेलिहानः सनिष्पेषं जिह्वयोष्ठौ पुनः पुनः ।
गर्विताविद्धलाङ्गूलः कठिनस्कन्धबन्धनः॥३॥

गर्वितं दर्पः तेन आविद्धं भ्रामितं लाङ्गूलं येन सः कठिनं स्कन्धबन्धनं ककुद्यस्य॥३॥

ककुदोदग्रनिर्माणः प्रमाणाद्दुरतिक्रमः ।
शकृन्मूत्रोपलिप्ताङ्गो गवामुद्वेजनो भृशम्॥४॥

ककुदेति। ककुदाघातेन उदग्रम् अग्रनिहितं कृतं निर्माणं महाप्रासादादिरचनं येन स तथा। ककुदाघातेन ताडिते वृक्षप्रासादमूले सर्वमपि तद्भज्यत इत्यर्थः॥४॥

महाकटिः स्थूलमुखो दृढजानुर्महोदरः ।
विषाणावल्गितगतिर्लम्बता कण्ठचर्मणा॥५॥

गवारोहेषु चपलस्तरुघाताङ्किताननः ।
युद्धसज्जविषाणाग्रो द्विषद्वृषभसूदनः॥६॥

अरिष्टो नाम हि गवामरिष्टो दारुणाकृतिः ।
दैत्यो वृषभरूपेण गोष्ठान्विपरिधावति॥७॥

पातयानो गवां गर्भान्दृप्तो गच्छत्यनार्तवम् ।
जृम्भमाणश्च चपलो गृष्टीः सम्प्रचचार ह॥८॥

गृष्टीः सद्यः प्रसूताः गाः सम्प्रचचार जगाम। रेतःसेकायेत्यर्थः॥८॥

शृङ्गप्रहरणो रौद्रः प्रहरन्गोषु दुर्मदः ।
गोष्ठेषु न रतिं लेभे विना युद्धेन गोवृषः॥९॥

कस्यचित्त्वथ कालस्य स वृषः केशवाग्रतः ।
आजगाम बलोदग्रो वैवस्वतवशे स्थितः॥१०॥

स तत्र गास्तु प्रसभं बाधमानो मदोत्कटः ।
चकार निर्वृषं गोष्ठं निर्वत्सशिशुपुङ्गवम्॥११॥

एतस्मिन्नेव कले तु गावः कृष्णसमीपगाः ।
त्रासयामास दुष्टात्मा वैवस्वतवशे स्थितः॥१२॥

गावः गाः। वैवस्वतवशे स्थितः आसन्नमृत्युः॥१२॥

सेन्द्राशनिरिवाम्भोदो नर्दमानो महासुरः ।
तालशब्देन तं कृष्णस्सिंहनादैश्च मोहयन्॥१३॥

अभ्यधावत गोविन्दो दैत्यं वृषभरूपिणम् ।
स कृष्णं गोवृषो दृष्ट्वा हृष्टलाङ्गूललोचनः॥१४॥

हृष्टम् उत्फलितं लाङ्गूलं लोचने च येन सः॥१४॥

रोषितस्तालशब्देन युद्धाकाङ्क्षी ननर्द ह ।
तमापतन्तं दुर्वृत्तं दृष्ट्वा वृषभरूपिणम् ।
तस्मात्स्थानान्न व्यचलत्कृष्णो गिरिरिवाचलः॥१५॥

स कुक्षौ वृषभो दृष्टिं प्रणिधाय धृताननः ।
कृष्णस्य निधनाकाङ्क्षी तूर्णमभ्युत्पपात ह॥१६॥

सम्प्रहर्तुकाम इति शेषः॥१६॥

तमापतन्तं प्रमुखे प्रतिजग्राह दुर्द्धरम् ।
कृष्णः कृष्णाञ्जननिभो वृषं प्रतिवृषोपमः॥१७॥

प्रमुखे मुखाग्रे ओष्ठयोरित्यर्थः। वेगेन इति वा पाठः॥१७॥

स संसक्तस्तु कृष्णो वै वृषेणेव महावृषः ।
मुमोच वक्त्रजं फेनं नस्तश्चाथ सशब्दवत्॥१८॥

नस्तः नासिकातः॥१८॥

तावन्योन्यावरुद्धाङ्गौ युद्धे कृष्णवृषावुभौ ।
रेजतुर्मेघसमये संसक्ताविव तोयदौ॥१९॥

तस्य दर्पबलं हत्वा कृत्वा शृङ्गान्तरे पदम् ।
आपीडयदरिष्टस्य कण्ठं क्लिन्नमिवाम्बरम्॥२०॥

शृङ्गं चास्य पुनः सव्यमुत्पाट्य यमदण्डावत् ।
तेनैव प्राहरद्वक्त्रे स ममार भृशं हतः॥२१॥

स भिन्नशृङ्गो भग्नास्यो भग्नस्कन्धश्च दानवः ।
पपात रुधिरोद्गारी साम्बुधार इवाम्बुदः॥२२॥

गोविन्देन हतं दृष्ट्वा दृप्तं वृषभदानवम् ।
साधु साध्विति भूतानि तत्कर्मास्याभितुष्टुवुः॥२३॥

स चोपेन्द्रो वृषं हत्वा कान्तचन्द्रे निशामुखे ।
अरविन्दाभनयनः पुनरेव ररास ह॥२४॥

तेऽपि गोवृत्तयः सर्वे कृष्णं कमललोचनम् ।
उपासाञ्चक्रिरे हृष्टाः सर्वे शक्रमिवामराः॥२५॥

गोवृत्तयो गोपाः। अयं चार्थो दाशतय्याम्- "प्रनेमस्मिन् ददृशे सोमो अन्तर्गोपानेममाविरस्था कृणोति। स तिग्मशृङ्गं वृषभं युयुत्सन्द्रुहस्तस्थौ बहुले बद्धो अन्तः”॥ इति मन्त्रेणोपबृंहितः। मन्त्रार्थस्तु- अन्तर्गोपाः अन्तः स्थित्वा गोपायन्नन्तर्यामी नेमस्मिन्नर्द्धप्रपञ्चे स्थावरे सोमः सोमादिरूपः प्रददृशे प्रकर्षेण दृष्टः नेममर्द्धं प्रपञ्चम् अस्था अस्थिरं जङ्गमम् आविः कृणोति प्रकटीकरोति। स तिग्मशृङ्गं वृषभं युयुत्सन् योद्धुमिच्छन् दृङ्मात्रेण भस्मीकर्तुं शक्तोऽपि लीलया तेन सह युयुत्सन् द्रुहः द्रोहं कृतवान् तं हतवानित्यर्थः। ततश्च बहुले व्रजे अन्तः रासमण्डलमध्ये बद्धः भक्तजनेन प्रेमपाशेन बद्धः सन् तस्थौ क्रीडितुमिति शेषः॥२५॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वृषभासुरवधे एकविंशोऽध्यायः॥२१॥
अक्रूरप्रस्थानम्-०२२

वैशम्पायन उवाच। कृष्णं व्रजगतं श्रुत्वा वर्धमानमिवानलम् ।
उद्वेगमगमत्कंसः शङ्कमानस्ततो भयम्॥१॥

द्वाविंशतितमेऽध्याये कंसेनाहूय यादवान्। वसुदेवमधिक्षिप्य अक्रूरः प्रेषितो व्रजम्॥१॥ कृष्णमिति॥१॥

पूतनायां हतायां च कालिये च पराजिते ।
धेनुके प्रलयं नीते प्रलम्बे च निपातिते॥२॥

धृते गोवर्धने शैले विफले शक्रशासने ।
गोषु त्रातासु च तथा स्पृहणीयेन कर्मणा॥३॥

ककुद्मिनि हतेऽरिष्टे गोपेषु मुदितेषु च ।
दृश्यमाने विनाशे च सन्निकृष्टे महाभये॥४॥

कर्षणे वृक्षयोश्चैव शकटस्य तथैव च ।
अचिन्त्यं कर्म तच्छ्रुत्वा वर्धमानेषु शत्रुषु॥५॥

प्राप्तारिष्टामिवात्मानं मेने स मथुरेश्वरः ।
विसंज्ञेन्द्रियभूतात्मा गतासुप्रतिमो बभौ॥६॥

प्राप्तारिष्टं प्राप्तमृत्युम् अत एव विसंज्ञानि इन्द्रियाणि भूतात्मा जीवश्च यस्य॥६॥

ततो ज्ञातीन्समानाय्य पितरं चोग्रशासनः ।
निशि स्तिमितमूकायां मथुरायां जनाधिपः॥७॥

स्तिमितं निद्रया मूकायामिव रात्रौ निःशब्दे काले इत्यर्थः॥७॥

वसुदेवं च देवाभं कङ्कं चाहूय यादवम् ।
सत्यकं दारुकं चैव कङ्कावरजमेव च॥८॥

भोजं वैतरणं चैव विकद्रुं च महाबलम् ।
भयशङ्खं च धर्मज्ञं विपृथुं च पृथुश्रियम्॥९॥

बभ्रुं दानपतिं चैव कृतवर्माणमेव च ।
भूरितेजसमक्षोभ्यं भूरिश्रवसमेव च॥१०॥

बभ्रुरेव दानपतिस्तमक्रूरम्॥१०॥

एतान्स यादवान्सर्वानाभाष्य शृणुतेति च ।
उग्रसेनसुतो राजा प्रोवाच मथुरेश्वरः॥११॥

आभाष्य प्रत्येकं सम्बोध्य॥११॥

भवन्तः सर्वकार्यज्ञा वेदेषु परिनिष्ठिताः ।
न्यायवृत्तान्तकुशलास्त्रिवर्गस्य प्रवर्तकाः॥१२॥

कर्तव्यानां च कर्तारो लोकस्य विबुधोपमाः ।
तस्थिवांसो महावृत्ते निष्कम्पा इव पर्वताः॥१३॥

महावृत्ते महत्याचारे॥१३॥

अदम्भवृत्तयः सर्वे सर्वे गुरुकुलोषिताः ।
राजमन्त्रधराः सर्वे सर्वे धनुषि पारगाः॥१४॥

यशःप्रदीपा लोकानां वेदार्थानां विवक्षवः ।
आश्रमाणां निसर्गज्ञा वर्णानां क्रमपारगाः॥१५॥

निसर्गज्ञाः स्वाभाविककर्मज्ञाः॥१५॥

प्रवक्तारः सुनियतां नेतारो नयदर्शिनाम् ।
भेत्तारः परराष्ट्राणां त्रातारः शरणार्थिनाम्॥१६॥

सुनियतां शोभनानां विधीनाम्॥१६॥

एवमक्षतचारित्रैः श्रीमद्भिरुदितोदितैः ।
द्यौरप्यनुगृहीता स्याद्भवद्भिः किं पुनर्मही॥१७॥

उदितोदितैः कथाप्रसङ्गेन उद्भटैः॥१७॥

ऋषीणामिव वो वृत्तं प्रभावो मरुतामिव ।
रुद्राणामिव वः क्रोधो दीप्तिरङ्गिरसामिव॥१८॥

अङ्गिरसाम् अग्नीनाम्॥१८॥

व्यावर्तमानं सुमहद्भवद्भिः ख्यातकीर्तिभिः ।
धृतं यदुकुलं वीरैर्भूतलं पर्वतैरिव॥१९॥

व्यावर्तमानं भ्रश्यत्॥१९॥

एवं भवत्सु युक्तेषु मम चित्तानुवर्तिषु ।
वर्धमानो ममानर्थो भवद्भिः किमुपेक्षितः॥२०॥

एष कृष्ण इति ख्यातो नन्दगोपसुतो व्रजे ।
वर्धमान इवाम्भोधिर्मूलं नः परिकृन्तति॥२१॥

अनमात्यस्य शून्यस्य चारान्धस्य ममैव तु ।
कारणान्नन्दगोपस्य स सुतो गोपितो गृहे॥२२॥

शून्यस्य त्हृदयशून्यस्य चारान्धस्य चारचक्षुर्वर्जितस्य। "राजानश्चारचक्षुषः" इत्युक्तेः। मम कारणात् मदीयात्प्रभावात् नन्दगोपस्य गृहे वसुदेवस्य सुतो गोपितः॥२२॥

उपेक्षित इव व्याधिः पूर्यमाण इवाम्बुदः ।
नदन्मेघ इवोष्णान्ते स दुरात्मा विवर्धते॥२३॥

पूर्यमाणः पर्वणि अम्बुदः समुद्रः॥२३॥

तस्य नाहं गतिं जाने न योगं न पराक्रमम् ।
नन्दगोपस्य भवने जातस्याद्भुतकर्मणः॥२४॥

गतिं सत्त्वं योगं वशीकरणोपायम्॥२४॥

किं तद्भूतं समुद्भूतं देवापत्यं न विद्महे ।
अतिदेवैरमानुष्यैः कर्मभिः सोऽनुमीयते॥२५॥

देवैरपीति। देवेभ्योऽप्यधिक इति सोऽनुमीयते॥२५॥

पूतना शकुनी बाल्ये शिशुनोत्तानशायिना ।
स्तनपानेप्सुना पीता प्राणैः सह दुरासदा॥२६॥

यमुनाया ह्रदे नागः कालियो दमितस्तथा ।
रसातलचरो नीतः क्षणेनादर्शनं ह्रदात्॥२७॥

नन्दगोपसुतो योगं कृत्वा स पुनरुत्थितः ।
धेनुकस्तालशिखरात्पातितो जीवितं विना॥२८॥

योगं नागपाशबन्धं कृत्त्वा छित्त्वा॥२८॥

प्रलम्बं यं मृधे देवा न शेकुरतिवर्तितुम् ।
बालेन मुष्टिनैकेन स हतः प्राकृतो यथा॥२९॥

वासवस्योत्सवं भङ्क्त्वा वर्षं वासवरोषजम् ।
निर्जित्य गोगृहार्थाय धृतो गोवर्धनो गिरिः॥३०॥

हतस्त्वरिष्टो बलवान्निःशृङ्गश्च कृतो व्रजे ।
अबालो बाल्यमास्थाय रमते शिशुलीलया॥३१॥

प्रबन्धः कर्मणामेवं तस्य गोव्रजवासिनः ।
सन्निकृष्टं भयं चैव केशिनो मम च ध्रुवम्॥३२॥

प्रबन्धः घटनाप्रकारः॥३२॥

भूतपूर्वश्च मे मृत्युः सततं पूर्वदैहिकः ।
युद्धाकाङ्क्षी च स यथा तिष्ठतीह ममाग्रतः॥३३॥

क्व च गोपत्वमशुभं मानुष्यं मृत्युदुर्बलम् ।
क्व च देवप्रभावेण क्रीडितव्यं व्रजे मया॥३४॥

मृत्युदुर्बलं मृत्युयोगेन दुर्बलम्॥३४॥

अहो नीचेन वपुषा आच्छादयित्वात्मनो वपुः ।
कोऽप्येष रमते देवः श्मशानस्य इवानलः॥३५॥

श्रूयते हि पुरा विष्णुः सुराणां कारणान्तरे ।
वामनेन तु रूपेण जहार पृथिवीमिमाम्॥३६॥

कृत्वा केसरिणो रूपं विष्णुना प्रभविष्णुना ।
हतो हिरण्यकशिपुर्दानवानां पितामहः॥३७॥

अचिन्त्यरूपमास्थाय श्वेतशैलस्य मूर्धनि ।
भवेन च्याविता दैत्याः पुरा तत्त्रिपुरं घ्नता॥३८॥

भवेन रुद्ररूपिणा विष्णुना तत्प्रसिद्धं ब्रह्मणो वरदानादभेद्यमासीत्तदित्यर्थः॥३८॥

चालितो गुरुपुत्रेण भार्गवोऽङ्गिरसेन वै ।
प्रविश्य दार्दुरीं मायामनावृष्टिं चकार ह॥३९॥

चालित इति। गुरुपुत्रेण कचेन भार्गवः शुक्रः चालितः मृतसञ्जीविनीं विद्यां कस्मैचिदपि न दास्यामीत्येतस्मान्नियमात् भ्रंशितः। कथमित्यत आह- दार्दुरीं मायां प्रविश्येति। यथा दर्दुरो मृत्वा पुनः पुनरुत्तिष्ठति एवं कचोऽपि दानवेभ्योऽसकृन्मृत्युमासाद्य गुरूदरं प्रवेशितस्ततो गुरोः सकाशात् विद्यां प्राप्य तदुदरं भित्त्वा पुनरुत्थितः मृतं च गुरुं पुनर्जीवितवान्। ततस्तामेव दानवैः कृतां कचहत्यां निमित्तीकृत्य दानवेषु देवो न ववर्षेत्यर्थः। एवं दानवानां विनाशः रुद्रद्वारा त्रिपुरस्यैव कचद्वाराऽप्यनेनैव कृत इति भावः॥३९॥

अनन्तः शाश्वतो देवः सहस्रशिरसोऽव्ययः ।
वाराहं रूपमास्थाय प्रोज्जहारार्णवान्महीम्॥४०॥

सहस्रशिरस इत्यदन्तत्वमार्षम्॥४०॥

अमृते निर्मिते पूर्वं विष्णुः स्त्रीरूपमास्थितः ।
सुराणामसुराणां च युद्धं चक्रे सुदारुणम्॥४१॥

चक्रे कारितवान्॥४१॥

अमृतार्थे पुरा चापि देवदैत्यसमागमे ।
दधार मन्दरं विष्णुरकूपार इति श्रुतिः॥४२॥

अकूपारे समुद्रे कच्छपो भूत्वेति शेषः॥४२॥

वपुर्वामनमास्थाय नन्दनीयं पुरा बलेः ।
त्रिभिः क्रमैस्तु त्रीँल्लोकाञ्जहार त्रिदिवालयम्॥४३॥

लोकान् आक्रममाणस्त्रिदिवालयं स्वर्गं जहार॥४३॥

चतुर्धा तेजसो भागं कृत्वा दाशरथे गृहे ।
स एव रामसंज्ञो वै रावणं व्यनशत्तदा॥४४॥

व्यनशत् विनाशितवान्॥४४॥

एवमेष निकृत्या वै तत्तद्रूपमुपागतः ।
साधयित्वाऽऽत्मनः कार्यं सुराणामर्थसिद्धये॥४५॥

निकृत्या छलेन॥४५॥

तदेष नूनं विष्णुर्वा शक्रो वा मरुतां पतिः ।
मत्साधनेच्छया प्राप्तो नारदो मां प्रयुक्तवान्॥४६॥

मत्साधनेच्छया मद्वधेच्छया॥४६॥

अत्र मे शङ्कते बुद्धिर्वसुदेवं प्रति ध्रुवा ।
अस्य बुद्धिविशेषेण वयं कातरतां गताः॥४७॥

अहं हि खट्वाङ्गवने नारदेन समागतः ।
द्वितीयं स हि मां विप्रः पुनरेवाब्रवीद्वचः॥४८॥

द्वितीयं द्वितीयवारम्॥४८॥

यस्त्वया हि कृतो यत्नः कंस गर्भकृते महान् ।
वसुदेवेन ते रात्रौ तत्कर्म विफलीकृतम्॥४९॥

दारिका या त्वया रात्रौ शिलायां कंस पातिता ।
तां यशोदासुतां विद्धि कृष्णं च वसुदेवजम्॥५०॥

रात्रौ व्यावर्तितावेतौ गर्भौ तव वधाय वै ।
वसुदेवेन सन्धाय मित्ररूपेण शत्रुणा॥५१॥

सा तु कन्या यशोदाया विन्ध्ये पर्वतसत्तमे ।
हत्वा शुम्भनिशुम्भौ द्वौ दानवौ नगचारिणौ॥५२॥

कृताभिषेका वरदा भूतसङ्घनिषेविता ।
अर्च्यते दस्युभिर्घोरैर्महाबलिपशुप्रिया॥५३॥

सुरापिशितपूर्णाभ्यां कुम्भाभ्यामुपशोभिता ।
मयूराङ्गदचित्रैश्च बर्हभारैर्विभूषिता॥५४॥

हृष्टकुक्कुटसन्नादं वनं वायसनादितम् ।
मृगसङ्घैश्च सम्पूर्णमविरुद्धैश्च पक्षिभिः॥५५॥

सिंहव्याघ्रवराहाणां नादेन प्रतिनादितम् ।
वृक्षगम्भीरनिबिडं कान्तारैः सर्वतो वृतम्॥५६॥

दिव्यभृङ्गारुचमरैरादर्शैरुपशोभितम् ।
देवतूर्यनिनादैश्च शतशः प्रतिनादितम्॥५७॥

भृङ्गारुः कनकपात्रं गडुकम्॥५७॥

स्थानं तस्या नगे विन्ध्ये निर्मितं स्वेन तेजसा ।
रिपूणां त्रासजननी नित्यं तत्र मनोरमे॥५८॥

वसते परमप्रीता देवतैरपि पूजिता ।
यस्त्वयं नन्दगोपस्य कृष्ण इत्युच्यते सुतः॥५९॥

अत्र मे नारदः प्राह सुमहत्कर्मकारणम् ।
द्वितीयो वसुदेवाद्वै वासुदेवो भविष्यति॥६०॥

महतां कर्मणां पूतनावधादीनां कारणं हेतुम्। द्वितीय इति रामापेक्षया सोऽपि वसुदेवाज्जात इति वासुदेवो भवत्येव॥६०॥

स हि ते सहजो मृत्युर्बान्धवश्च भविष्यति ।
स एव वासुदेवो वै वसुदेवसुतो बली ।
बान्धवो धर्मतो मह्यं हृदयेनान्तको रिपुः॥६१॥

यथा हि वायसो मूर्ध्नि पद्भ्यां यस्यावतिष्ठति ।
नेत्रे तुदति तस्यैव वक्त्रेणाभिषगृद्धिना॥६२॥

वसुदेवस्तथैवायं सपुत्रज्ञातिबान्धवः ।
छिनत्ति मम मूलानि भुङ्क्ते च मम पार्श्वतः॥६३॥

भ्रूणहत्यापि सन्तार्या गोवधः स्त्रीवधोऽपि वा ।
न कृतघ्नस्य लोकोऽस्ति बान्धवस्य विशेषतः॥६४॥

पतितानुगतं मार्गं निषेवत्यचिरेण सः ।
यः कृतघ्नोऽनुबन्धेन प्रीतिं वहति दारुणाम्॥६५॥

अनुबन्धेन कार्यानुरोधेन। दारुणां दारुणोदर्काम्॥६५॥

नरकाध्युषितः पन्था गन्तव्यस्तेन दारुणः ।
अपापे पापहृदयो यः पापमनुतिष्ठति॥६६॥

अहं वा स्वजनः श्लाघ्यः स वा श्लाघ्यतरः सुतः ।
नियमैर्गुणवृत्तेन त्वया बान्धवकाम्यया॥६७॥

बान्धवकाम्यया मित्रेच्छया मित्रकामेनेत्यर्थः॥६७॥

हस्तिनां कलहे घोरे वधमृच्छन्ति वीरुधः ।
युद्धव्युपरमे ते तु सहाश्नन्ति महावने॥६८॥

हरितनामिति। यथा हस्तिनां कलहे वीरुधो नश्यन्ति। न तु हस्तिनः एवं मम च कृष्णस्य च कलहे वसुदेवादय एव नङ्क्ष्यन्ति न त्वावामिति श्लोकद्वयस्यार्थः॥६८॥

बान्धवानामपि तथा भेदकाले समुत्थिते ।
बध्यते योऽन्तरप्रेप्सुः स्वजनो यदि वेतरः॥६९॥

कालस्त्वं हि विनाशाय मया पुष्टो विजानता ।
वसुदेवकुलस्यास्य यद्विरोधयसे भृशम्॥७०॥

अमर्षी वैरशीलश्च सदा पापमतिः शठः ।
स्थाने यदुकुलं मूढ शोचनीयं त्वया कृतम्॥७१॥

शठो मिथ्याविनीतश्च। “शठो गूढापराधकृत्" इति कोशात्। त्वया कुलं यत् शोचनीयं तत्स्थाने युक्तमित्यर्थः॥७१॥

वसुदेव वृथा वृद्ध यन्मया त्वं पुरस्कृतः ।
श्वेतेन शिरसा वृद्धो नैव वर्षशतैर्भवेत्॥७२॥

हे! वृद्ध यत् यतो मया त्वं पुरस्कृतोऽतोऽहं वृथा व्यर्थजन्मास्मीत्यर्थः॥७२॥

यस्य बुद्धिः परिणता स वै वृद्धतरो नृणाम् ।
न तेन वृद्धो भवति येनास्य पलितं शिरः॥७३॥

त्वं च कर्कशशीलश्च बुद्ध्या च न बहुश्रुतः ।
केवलं वयसा वृद्धो यथा शरदि तोयदः॥७४॥

किं च त्वं साधु जानीषे वसुदेव वृथामते ।
मृते कंसे मम सुतो मथुरां पालयिष्यति॥७५॥

छिन्नाशस्त्वं वृथावृद्धो मिथ्या त्वेवं विचारितम् ।
जिजीविषुर्न सोऽप्यस्ति योऽवतिष्ठेन्ममाग्रतः॥७६॥

प्रहर्तुकामो विश्वस्ते यस्त्वं दुष्टेन चेतसा ।
तत्ते प्रतिकरिष्येऽहं पुत्रयोस्तव पश्यतः॥७७॥

न मे वृद्धवधः कश्चिद्द्विजस्त्रीवध एव च ।
कृतपूर्वः करिष्ये वा विशेषेण तु बान्धवे॥७८॥

मे मया॥७८॥

इह त्वं जातसंवृद्धो मम पित्रा विवर्धितः ।
पितृष्वसुश्च मे भर्ता यदूनां प्रथमो गुरुः॥७९॥

जातश्चासौ संवृद्धश्च जातसंवृद्धः। पितृष्वसुरिति पितृव्यसम्बन्धिन्याः स्वसुरिति॥७९॥

कुले महति विख्यातः प्रथिते चक्रवर्तिनाम् ।
गुर्वर्थं पूजितः सद्भिर्महद्भिर्धर्मबुद्धिभिः॥८०॥

चक्रवर्तिनां- “यस्य मूर्धनि दृश्येत विना छत्रेण भूपतेः। पद्मानुकारिणी छाया तमाहुश्चक्रवर्तिनम्”॥ इत्युक्तलक्षणानाम्॥८०॥

किं करिष्यामहे सर्वे सत्सु वक्तव्यतां गताः ।
यदूनां यूथमुख्यस्य यस्य ते वृत्तमीदृशम्॥८१॥

मद्वधो वा जयो वाथ वसुदेवस्य दुर्नयैः ।
सत्सु यास्यन्ति पुरुषा यदूनामवगुण्ठिताः॥८२॥

जयो वाऽस्त्विति शेषः। उभयथा विलज्जया अवगुण्ठिता आच्छादितमुखाः यदूनां पुरुषा यास्यन्ति। एकेन कपटिना सर्वेषु कपटित्वापवादप्रसङ्गादिति भावः॥८२॥

त्वया हि मद्वधोपायं तर्कमाणेन वै मृधे ।
अविश्वास्यं कृतं कर्म वाच्याश्च यदवः कृताः॥८३॥

तदेवाह- त्वयेति। वाच्या निन्द्याः॥८३॥

अशाम्यं वैरमुत्पन्नं मम कृष्णस्य चोभयोः ।
शान्तिमेकतरे शान्तिं गते यास्यन्ति यादवाः॥८४॥

गच्छ दानपते क्षिप्रं ताविहानयितुं व्रजात् ।
नन्दगोपं च गोपांश्च करदान्मम शासनात्॥८५॥

दानपते हे अक्रूर॥८५॥

वाच्यश्च नन्दगोपो वै करमादाय वार्षिकम् ।
शीघ्रमागच्छ नगरं गोपैः सह समन्वितः॥८६॥

वाच्यस्त्वया वक्तव्यः॥८६॥

कृष्णसङ्कर्षणौ चैव वसुदेवसुतावुभौ ।
द्रष्टुमिच्छति वै कंसः सभृत्यः सपुरोहितः॥८७॥

एतौ युद्धविदौ रङ्गे कालनिर्माणयोधिनौ ।
दृढौ च कृतिनौ चैव शृणोमि व्यायतोद्यमौ॥८८॥

कालनिर्माणयोधिनौ समयानुसारियुद्धकुशलौ व्यायतोद्यमौ दीर्घयत्नौ॥८८॥

अस्माकमपि मल्लौ द्वौ सज्जौ युद्धकृतोत्सवौ ।
ताभ्यां सह नियोत्स्येते तौ युद्धकुशलावुभौ॥८९॥

मल्लौ चाणूरमुष्टिकौ नियोत्स्येते युद्धं करिष्यतः॥८९॥

द्रष्टव्यौ च मयावश्यं बालौ तावमरोपमौ ।
पितृष्वसुः सुतौ मुख्यौ व्रजवासौ वनेचरौ॥९०॥

पितृष्वसुरिति पितृव्यसम्बन्धिन्याः स्वसुरिति ज्ञेयम्। कालभेदेन यथाश्रुतमेवास्तु॥९०॥

वक्तव्यं च व्रजे तस्मिन्समीपे व्रजवासिनाम् ।
राजा धनुर्मखं नाम कारयिष्यति वै सुखी॥९१॥

सन्निकृष्टं वने ते तु निवसन्तु यथासुखम् ।
जनस्यामन्त्रितस्यार्थे यथा स्यात्सर्वमव्ययम्॥९२॥

पयसः सर्पिषश्चैव दध्नो दध्युत्तरस्य च ।
यथाकामप्रदानाय भोज्याधिश्रयणाय च॥९३॥

दध्युत्तरस्य दधिमण्डस्य तक्रस्य वा भोज्याधिश्रवणाय च भोज्यं पायसवदन्नं कर्तुं यत् अधिश्रयणं क्षीरस्य तस्मै॥९३॥

अक्रूर गच्छ शीघ्रं त्वं तावानय ममाज्ञया ।
सङ्कर्षणं च कृष्णं च द्रष्टुं कौतूहलं हि मे॥९४॥

तयोरागमने प्रीतिः परमा मत्कृता भवेत् ।
दृष्ट्वा तु तौ महावीर्यौ तद्विधास्यामि यद्धितम्॥९५॥

शासनं यदि वा श्रुत्वा मम तौ परिभाषितम् ।
नागच्छेताम् यथाकालं निग्राह्यावपि तौ मम॥९६॥

सान्त्वमेव तु बालेषु प्रधानं प्रथमो नयः ।
मधुरेणैव तौ मन्दौ स्वयमेवानयाशु वै॥९७॥

अक्रूर कुरु मे प्रीतिमेतां परमदुर्लभाम् ।
यदि वा नोपजप्तोऽसि वसुदेवेन सुव्रत॥९८॥

उपजप्तो भेदितः॥९८॥

तथा कर्तव्यमेतद्धि यथा तावागमिष्यतः ।
एवमाक्षिप्यमाणोऽपि वसुदेवो वसूपमः ।
सागराकारमात्मानं निष्प्रकम्पमधारयत्॥९९॥

सागराकारम् अतिगम्भीरम्। आत्मानं मनः॥९९॥

वाक्छल्यैस्ताड्यमानस्तु कंसेनादीर्घदर्शिना ।
क्षमां मनसि सन्धाय नोत्तरं प्रत्यभाषत॥१००॥

ये तु तं ददृशुस्तत्र क्षिप्यमाणमनेकधा ।
धिग्धिगित्यसकृत्ते वै शनैरूचुरवाङ्मुखाः॥१०१॥

अक्रूरस्तु महातेजा जानन्दिव्येन चक्षुषा ।
जलं दृष्ट्वेव तृषितः प्रेषितः प्रीतिमानभूत्॥१०२॥

तस्मिन्नेव मुहूर्ते तु मथुरायाः स निर्ययौ ।
प्रीतिमान्पुण्डरीकाक्षं द्रष्टुं दानपतिः स्वयम्॥१०३॥

तस्मिन्नेव मुहूर्ते मध्यरात्रे॥१०३॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि अक्रूरप्रस्थाने द्वाविंशोऽध्यायः॥२२॥
अन्धकवचनम्-०२३

वैशम्पायन उवाच। क्षिप्रं यदुवृषं दृष्ट्वा सर्वे ते यदुपुङ्गवाः ।
निपीड्य श्रवणान्हस्तैर्मेनिरे तं गतायुषम्॥१॥

त्रयोविंशेऽस्मिन्नध्याये उग्रसेनपितामहः। कङ्कः कंसं विनिर्भर्त्स्य हितमाहेति वर्ण्यते॥१॥ क्षिप्रमिति॥१॥

अन्धकोऽनुद्विग्नमना धैर्यादविकृतं वचः ।
प्रोवाच वदतां श्रेष्ठः समाजे कंसमोजसा॥२॥

अन्धकः कङ्कापरनामा उग्रसेनस्य पितामह इति प्राञ्चः॥२॥

अश्लाघ्यो मे मतः पुत्र तवायं वाक्परिश्रमः ।
अयुक्तो गर्हितः सद्भिर्बान्धवेषु विशेषतः॥३॥

अयादवो यदि भवाञ्छृणु तावद्यदुच्यते ।
न हि त्वां यादवं वीर बलात्कुर्वन्ति यादवाः॥४॥

अश्लाघ्या वृष्णयः पुत्र येषां त्वमनुशासिता ।
इक्ष्वाकुवंशजो राजा विनिवृत्तः स्वयं सकृत्॥५॥

इक्ष्वाकुवंशजो असमञ्जाः यथा प्रजापीडकः सकृद्विनिवृत्तो जातः स एव त्वं पुनर्जात इत्यर्थः॥५॥

भोजो वा यादवो वासि कंसो वासि यथा तथा ।
सहजं ते शिरस्तात जटी मुण्डोऽपि वा भव॥६॥

सहजम् अविकृतं ते तव शिरः उत्तमाङ्गं बद्धकुण्डलं जटी मुण्ड इति लक्षणया मूर्द्धन्यान् बद्धोपच्छिन्धि वेत्यर्थः॥६॥

उग्रसेनस्त्वयं शोच्यो योऽस्माकं कुलपांसनः ।
दुर्जातीयेन येन त्वमीदृशो जनितः सुतः॥७॥

न चात्मनो गुणांस्तात प्रवदन्ति मनीषिणाः ।
परेणोक्ता गुणा गौण्यं यान्ति वेदार्थसंमिताः॥८॥

गौण्यं साफल्यम्॥८॥

पृथिव्यां यदुवंशोऽयं निन्दनीयो महीक्षिताम् ।
बालः कुलान्तकृन्मूढो येषां त्वमनुशासिता॥९॥

असाधुमद्भिर्वाक्यैश्च त्वया साध्विति भाषितैः ।
न चाप्यासादितं कार्यमात्मा च विवृतः कृतः॥१०॥

असाधुमद्भिः निन्दादियुक्तैः विवृतः स्पष्टीकृतः॥१०॥

गुरोरनवलिप्तस्य मान्यस्य महतामपि ।
क्षेपणं कः शुभं मन्ये द्विजस्येव वधे कृते॥११॥

मान्याश्चैवाभिगम्याश्च वृद्धास्तात यथाग्नयः ।
क्रोधो हि तेषां प्रदहेल्लोकानन्तर्गतानपि॥१२॥

अन्तर्गतान् योगबलार्जितानपि॥१२॥

बुधेन तात दान्तेन नित्यमभ्युच्छ्रितात्मना ।
धर्मस्य गतिरन्वेष्या मत्स्यस्य गतिरप्स्विव॥१३॥

केवलं त्वं तु दर्पेण वृद्धानग्निसमानिह ।
वाचा तुदसि मर्मघ्न्या अमन्त्रोक्ता यथाऽऽहुतिः॥१४॥

वसुदेवं च पुत्रार्थे यदिमं परिगर्हसि ।
तत्र मिथ्या प्रलापन्ते निन्दामि कृपणं वचः॥१५॥

दारुणे च पिता पुत्रे नैव दारुणतां व्रजेत् ।
पुत्रार्थे ह्यापदः कष्टाः पितरः प्राप्नुवन्ति हि॥१६॥

छादितो वसुदेवेन यदि पुत्रः शिशुस्तदा ।
मन्यसे यद्यकर्तव्यं तत्पृच्छ पितरं स्वकम्॥१७॥

गर्हता वसुदेवं च यदुवंशं च निन्दता ।
त्वया यादवपुत्राणां वैरजं विषमर्जितम्॥१८॥

अकर्तव्यं यदि कृतं वसुदेवेन पुत्रजम् ।
किमर्थमुग्रसेनेन शिशुस्त्वं न विनाशितः॥१९॥

पुन्नाम्नो नरकात्पुत्रो यस्मात्त्राता पितॄंस्तदा ।
तस्माद्ब्रुवन्ति पुत्रेति पुत्रं धर्मविदो जनाः॥२०॥

जात्यां हि यादवः कृष्णाः स च सङ्कर्षणो युवा ।
त्वं चापि विधृतस्ताभ्यां जातवैरेणा चेतसा॥२१॥

जात्यां हि उत्पत्तावेव त्वया जातवैरेण चेतसा कृष्णः सङ्कर्षणश्च धृतः ताभ्यां च त्वमपि तथैव जातवैरेण चेतसा धृत इति त्वमेव बालघ्नः प्रथमोऽपराधी इत्यर्थः॥२१॥

उद्भूतानीह सर्वेषां यदूनां हृदयानि वै ।
वसुदेवे त्वयाऽऽक्षिप्ते वासुदेवे च कोपिते॥२२॥

उद्भूतानि अतिकम्पितानि॥२२॥

कृष्णे च भवतो द्वेष्ये वसुदेवविगर्हणात् ।
शंसन्ति चेमानि भयं निमित्तान्यशुभानि ते॥२३॥

सर्पाणां दर्शनं तीव्रं दुःस्वप्नानां निशाक्षये ।
पुर्या वैधव्यशंसीनि कारणैरनुमीमहे॥२४॥

एष घोरो ग्रहः स्वातीमुल्लिखन्खे गभस्तिभिः ।
चक्रमङ्गारकश्चक्रे चित्रायां घोरदर्शनः॥२५॥

एष इति। सर्वतोभद्रचक्रे कंसस्य जन्मनक्षत्रं मृगशिरः। ततो दशमं चित्रा तस्यैव नक्षत्रम्। तत्र घोरो ग्रहः राहुः क्रूरोऽस्ति। कुजश्च वक्रीभूय तत्रैवागतोऽस्ति। ताभ्यां कर्मभं व्याप्य जन्मभं विद्धमिति तव जीवनार्थो यत्नः सर्वो निष्फलो भविष्यति देहश्च नङ्क्ष्यतीति भावः॥२५॥

बुधेन पश्चिमा सन्ध्या व्याप्ता घोरेण तेजसा ।
वैश्वानरपथे शुक्रो ह्यतिचारं चचार ह॥२६॥

एवं पश्चिमायामुदितो बुधोऽपि राज्यभङ्गकृदित्याह- बुधेनेति। अतिचारं सूर्यमुल्लङ्घ्य गमनं यथा च बुधसूर्यशुक्राणाम् अत्यन्तं पृथग्दर्शनं महते नाशाय भवतीति भावः॥२६॥

केतुना धूमकेतोस्तु नक्षत्राणि त्रयोदश ।
भरण्यादीनि भिन्नानि नानुयान्ति निशाकरम्॥२७॥

केतुना पुच्छेन धूमकेतोरुत्पातविशेषस्य भरण्यादीनि कंसस्य जन्मकर्मभे धूमकेतुना तृतीयेन उपग्रहेणापि विद्धे इत्यर्थः। नानुयान्ति निशाकरमित्यनेन चित्रास्ते राहौ चित्रातः उत्तराणि त्रयोदश नक्षत्राणि जीवपक्षे सति पूर्वाणि त्रयोदशनक्षत्राणि मृत्युपक्षे पतितानि। अतस्तत्रत्यः चन्द्रोऽपि न तैर्नक्षत्रैरुत्तमफलकरत्वेनानुगम्यत इत्यर्थः॥२७॥

प्राक्सन्ध्या परिघग्रस्ता भाभिर्बाधति भास्करम् ।
प्रतिलोमं च यान्त्येव व्याहरन्तो मृगद्विजाः॥२८॥

परिघो रविमण्डले तिर्यग्वृत्तिर्दण्डः बाधति बाधते॥२८॥

शिवा श्मशानान्निष्क्रम्य निःश्वासाङ्गारवर्षिणी ।
उभे सन्ध्ये पुरीं घोरा पर्येति बहु वाशती॥२९॥

पर्येति परिक्रामति। वाशती शब्दं कुर्वाणा॥२९॥

उल्का निर्घातनादेन पपात धरणीतले ।
चलत्यपर्वणि मही गिरीणां शिखराणि च॥३०॥

अपर्वणि अकाण्डे अकस्मादिति यावत्॥३०॥

ग्रस्तः स्वर्भानुना सूर्यो दिवा नक्तमजायत ।
धूमोत्पातैर्दिशो व्याप्ताः शुष्काशनिसमाहताः॥३१॥

प्रस्रवन्ति घना रक्तं साशनिस्तनयित्नवः ।
चलिता देवताः स्थानात्त्यजन्ति विहगा नगान्॥३२॥

देवताः देवताप्रतिमाः॥३२॥

यानि राजविनाशाय दैवज्ञाः कथयन्ति ह ।
तानि सर्वाणि पश्यामो निमित्तान्यशुभानि वै॥३३॥

त्वं चापि स्वजनद्वेषी राजधर्मपराङ्मुखः ।
अनिमित्तागतक्रोधः सन्निकृष्टभयो ह्यसि॥३४॥

यस्त्वं देवोपमं वृद्धं वसुदेवं वसूपमम् ।
मोहात्क्षिपसि दुर्बुद्धे कुतस्ते शान्तिरात्मनः॥३५॥

त्वद्गतो यो हि नः स्नेहस्तं त्यजामोऽद्य वै वयम् ।
अहितं स्वस्य वंशस्य न त्वां क्षणमुपास्महे॥३६॥

स हि दानपतिर्धन्यो यो द्रक्ष्यति वने गतम् ।
पुण्डरीकविशालाक्षं कृष्णमक्लिष्टकारिणम्॥३७॥

छिन्नमूलो ह्ययं वंशो यदूनां त्वत्कृते कृतः ।
कृष्णो ज्ञातीन्समानाय्य स सन्धानं करिष्यति॥३८॥

त्वत्कृते त्वदर्थं त्वयैवेत्यर्थः सन्धानम् इतस्ततो विप्रकीर्णानां यादवानामानयनेन एकीकरणम्॥३८॥

क्षान्तमेव तवानेन वसुदेवेन धीमता ।
कालसम्यक्परिज्ञानो ब्रूहि त्वं यद्यदिच्छसि॥३९॥

कालेन सम्यक् परिगतं नष्टं ज्ञानं यस्य सः। कालः सम्यक् परिज्ञातः इति पाठान्तरम्॥३९॥

मह्यं तु रोचते कंस वसुदेवसहायवान् ।
गच्छ कृष्णस्य निलयं सन्धिस्तेन च रोचताम्॥४०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि अन्धकवचने त्रयोविंशोऽध्यायः॥२३॥
केशिवधः-०२४

वैशम्पायन उवाच। अन्धकस्य वचः श्रुत्वा कंसः संरक्तलोचनः ।
न किञ्चिदब्रवीत्क्रोधाद्विवेश स्वं निकेतनम्॥१॥

चतुर्विंशे त्वथाध्याये अक्रूरागमनात्पुरा। केशिनो हयरूपस्य कृष्णाच्च वध उच्यते॥१॥ अन्धकस्येति॥१॥

ते च सर्वे यथा वेश्म यादवाः श्रुतविस्तराः ।
जग्मुर्विगतसङ्कल्पाः कंसवैकृतशंसिनः॥२॥

अक्रूरोऽपि यथाऽऽज्ञप्तः कृष्णादर्शनलालसः ।
जगाम रथमुख्येन मनसा तुल्यगामिना॥३॥

कृष्णस्यापि निमित्तानि शुभान्यङ्गगतानि वै ।
पितृतुल्येन शंसन्ति बान्धवेन समागमम्॥४॥

प्रागेव च नरेन्द्रेण माथुरेणोग्रसेनिना ।
केशिनः प्रेषितो दूतो वधायोपेन्द्रकारणात्॥५॥

प्रागेव अक्रूरप्रेषणात् केशिनः निकटे इति शेषः॥५॥

स च दूतवचः श्रुत्वा केशी केशकरो नृणाम् ।
वृन्दावनगतो गोपान्बाधते स्म दुरासदः॥६॥

मानुषं मांसमश्नानः क्रुद्धो दुष्टपराक्रमः ।
दुर्दान्तो वाजिदैत्योऽसावकरोत्कदनं महत्॥७॥

वाजिरूपो दैत्यः॥७॥

निघ्नन्गा वै सगोपालान् गवां पिशितभोजनः ।
दुर्मदः कामचारी च स केशी निरवग्रहः॥८॥

निरवग्रहः उच्छृङ्खलः॥८॥

तदरण्यं श्मशानाभं नृणां मांसास्थिभिर्वृतम् ।
यत्रास्ते स हि दुष्टात्मा केशी तुरगदानवः॥९॥

खुरैर्दारयते भूमिं वेगेनारुजते द्रुमान् ।
हेषितैः स्पर्द्धते वायुं प्लुतैर्लङ्घयते नभः॥१०॥

अतिप्रवृद्धो मत्तश्च दुष्टोऽश्वो वनगोचरः ।
आकम्पितसटो रौद्रः कंसस्य चरितानुगः॥११॥

ईरिणं तद्वनं सर्वं तेनासीत्पापकर्मणा ।
कृतं तुरगदैत्येन सर्वान्गोपाञ्जिघांसता॥१२॥

ईरिणं शून्यम्॥१२॥

तेन दुष्टप्रचारेणा दूषितं तद्वनं महत् ।
न नृभिर्गोधनैर्वापि सेव्यते वनवृत्तिभिः॥१३॥

निःसम्पातः कृतः पन्थास्तेन तद्विषयाश्रयः ।
मदाच्चलितवृत्तेन नृमांसान्यश्नता भृशं॥१४॥

निःसम्पातः अगम्यः॥१४॥

नृशब्दानुसरः क्रुद्धः स कदाचिद्वनागमे ।
जगाम घोषसंवासं चोदितः कालधर्मणा॥१५॥

नृशब्दानुसरः मनुष्यशब्दानुसारी। कालधर्मणा मृत्युना॥१५॥

तं दृष्ट्वा दुद्रुवुर्गोपाः स्त्रियश्च शिशुभिः सह ।
क्रन्दमाना जगन्नाथं कृष्णं नाथमुपाश्रिताः॥१६॥

तासां रुदितशब्देन गोपानां क्रन्दितेन च ।
दत्त्वाभयं तु कृष्णो वै केशिनं सोऽभिदुद्रुवे॥१७॥

केशी चाप्युन्नतग्रीवः प्रकाशदशनेक्षणः ।
हेषमाणो जवोदग्रो गोविन्दाभिमुखो ययौ॥१८॥

जवोदग्र उग्रः॥१८॥

तमापतन्तं सम्प्रेक्ष्य केशिनं हयदानवम् ।
प्रत्युज्जगाम गोविन्दस्तोयदः शशिनं यथा॥१९॥

केशिनस्तु तमभ्याशे दृष्ट्वा कृष्णमवस्थितम् ।
मनुष्यबुद्धयो गोपाः कृष्णमूचुर्हितैषिणः॥२०॥

कृष्ण तात न खल्वेष सहसा ते हयाधमः ।
उपसर्प्यो भवान्बालः पापश्चैष दुरासदः॥२१॥

एष कंसस्य सहजः प्राणस्तात बहिश्चरः ।
उत्तमश्च हयेन्द्राणां दानवोऽप्रतिमो युधि॥२२॥

त्रासनः सर्वभूतानां तुरगाणां महाबलः ।
अवध्यः सर्वभूतानां प्रथमः पापकर्मणाम्॥२३॥

गोपानां तद्वचः श्रुत्वा वदतां मधुसूदनः ।
केशिना सह युद्धाय मतिं चक्रेऽरिसूदनः॥२४॥

ततः सव्यं दक्षिणं च मण्डलं स परिभ्रमन् ।
पद्भ्यामुभाभ्यां स हयः क्रोधेनारुजते द्रुमान्॥२५॥

मुखे लम्बसटे चास्य स्कन्धे केशघनावृते ।
बलयोऽभ्रतरङ्गाभाः सुत्रुवुः क्रोधजं जलम्॥२६॥

वलयो ललाटस्थाः क्रोधजं क्रोधात् प्रस्विन्नम्॥२६॥

स फेनं वक्त्रजं चैव ववर्ष रजसावृतम् ।
हिमकाले यथा व्योम्नि नीहारमिव चन्द्रमाः॥२७॥

रजसा खुरोद्भूतेन वृत्तं मिश्रं फेनम्। अयथेति व्योम्नो विशेषणम्। असुषिरे गाढेन रजसा व्याप्ते इत्यर्थः। नीहारम् अवश्यायम्। एतेनायं मन्त्र उपबृंहितः- “न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुपयन्ति ता अभि। उरुगायमभयं तस्य ता अनु गावो मर्तस्य विचरन्ति यज्वनः” इति। ताः गा अर्वा अश्वरूपी असुरः रेणुककटिति अतिशयेन वर्षति तेन वा आवृणोति विश्वमिति रेणुककाटः। “कटे वर्षावरणयोः” इत्यस्मात् यङ्लुकि घञ्। नाश्नुते न व्याप्नोति संस्कृतः संस्कारो दाहच्छेदौषधपानादिस्तेन त्रायत इति संस्कृतत्रो वैद्यस्तं प्रत्यपि ता गावः न अभ्युपयन्ति निर्बाधत्वात् यतस्ताः गावः मर्तस्य यज्वनः नन्दादेः सम्बन्धिन्यः अभयम् उरुगायं महाकीर्तिम् अनुलक्षीकृत्य चरन्तीति मन्त्रार्थः॥२७॥

गोविन्दमरविन्दाक्षं हेषितोद्गारशीकरैः ।
स फेनैर्वक्त्रनिर्गीर्णैः प्रोक्षयामास भारत॥२८॥

खुरोद्धूतावसिक्तेन मधुकक्षोदपाण्डुना ।
रजसा स हयः कृष्णं चकारारुणमूर्धजम्॥२९॥

खुरोद्भूतं च तदवसिक्तं व्याप्तं तेन मधुकक्षोदो मधुयष्टिचूर्णं यद्वत्पाण्डुना रजसा॥२९॥

प्लुतवल्गितपादस्तु तक्षमाणो धरां खुरैः ।
दन्तान्निर्दशमानस्तु केशी कृष्णामुपाद्रवत्॥३०॥

स संसक्तस्तु कृष्णेन केशी तुरगसत्तमः ।
पूर्वाभ्यां चरणाभ्यां वै कृष्णं वक्षस्यताडयत्॥३१॥

पुनः पुनः स च बली प्राहिणोत्पार्श्वतः खुरान् ।
कृष्णस्य दानवो घोरं प्रहारममितौजसः॥३२॥

वक्त्रेण चास्य घोरेण तीक्ष्णदंष्ट्रायुधेन वै ।
अदशद्बाहुशिखरं कृष्णस्य रुषितो हयः॥३३॥

स लम्बकेसरसटः कृष्णेन सह सङ्गतः ।
रराज केशी मेघेन संसक्तः ख इवांशुमान्॥३४॥

उरस्तस्योरसा हन्तुमियेष बलवान्हयः ।
वेगेन वासुदेवस्य क्रोधाद्द्विगुणविक्रमः॥३५॥

तस्योत्सिक्तस्य बलवान् कृष्णोऽप्यमितविक्रमः ।
बाहुमाभोगिनं कृत्वा मुखे क्रुद्धः समादधत्॥३६॥

आभोगिनम् अतिवृद्धम्॥३६॥

स तं बाहुमशक्तो वै खादितुं भोत्तुमेव च ।
दशनैर्मूलनिर्मुक्तैः सफेनं रुधिरं वमन्॥३७॥

विपाटिताभ्यामोष्ठाभ्यां कटाभ्यां विदलीकृतः ।
अक्षिणी विकृते चक्रे विसृते मुक्तबन्धने॥३८॥

कटाभ्यां गण्डाभ्याम्॥३८॥

निरस्तहनुराविष्टः शोणिताक्तविलोचनः ।
उत्कर्णो नष्टचेतास्तु स केशी बह्वचेष्टत॥३९॥

उत्कर्णः ऊर्ध्वकर्णः उत्क्षिप्त इति वा॥३९॥

उत्पतन्नसकृत्पादैः शकृन्मूत्रं समुत्सृजन् ।
खिन्नाङ्गरोमा श्रान्तस्तु निर्यत्नचरणोऽभवत्॥४०॥

केशिवक्त्रविलग्नस्तु कृष्णबाहुरशोभत ।
व्याभुग्न इव घर्मान्ते चन्द्रार्धकिरणैर्घनः॥४१॥

व्याभुग्न इव वक्रेण मण्डलेन वेष्टितार्द्ध इत्यर्थः॥४१॥

केशी च कृष्णासंसक्तः शान्तगात्रो व्यरोचत ।
प्रभातावनतश्चन्द्रः श्रान्तो मेरुमिवाश्रितः॥४२॥

अवनतो मन्दतेजाः॥४२॥

तस्य कृष्णभुजोद्धूताः केशिनो दशना मुखात् ।
पेतुः शरदि निस्तोयाः सिताभ्रावयवा इव॥४३॥

स तु केशी भृशं शान्तः कृष्णेनाक्लिष्टकर्मणा ।
स्वभुजं स्वायतं कृत्वा पाटितो बलवत्तदा॥४४॥

स्वायतम् अतिपुष्टम्॥४४॥

स पाटितो भुजेनाजौ कृष्णेन विकृताननः ।
केशी नदन्महानादं दानवो व्यथितस्तदा॥४५॥

विघूर्णमानस्त्रस्ताङ्गो मुखाद्रुधिरमुद्वमन् ।
भृशं व्यङ्गीकृतवपुर्निकृत्तार्ध इवाचलः॥४६॥

व्यादितास्यो महारौद्रः सोऽसुरः कृष्णबाहुना ।
निपपात यथा कृत्तो नागो हि द्विदलीकृतः॥४७॥

बाहुना कृत्तदेहस्य केशिनो रूपमाबभौ ।
पशोरिव महाघोरं निहतस्य पिनाकिना॥४८॥

पशोर्महिषरूपस्य॥४८॥

द्विपादपृष्ठपुच्छार्द्धे श्रवणैकाक्षिनासिके ।
केशिनस्तद्द्विधाभूते द्वे चार्धे रेजतुः क्षितौ॥४९॥

केशिदन्तक्षतस्यापि कृष्णस्य शुशुभे भुजः ।
वृद्धः साल इवारण्ये गजेन्द्रदशनाङ्कितः॥५०॥

तं हत्वा केशिनं युद्धे कल्पयित्वा च भागशः ।
कृष्णः पद्मपलाशाक्षो हसंस्तत्रैव तस्थिवान्॥५१॥

तं हतं केशिनं दृष्ट्वा गोपा गोपस्त्रियस्तथा ।
बभूवुर्मुदिताः सर्वे हतविघ्ना गतक्लमाः॥५२॥

दामोदरं तु श्रीमन्तं यथास्थानं यथावयः ।
अभ्यनन्दन्प्रियैर्वाक्यैः पूजयन्तः पुनः पुनः॥५३॥

गोपा ऊचुः। अहो तात कृतं कर्म हतोऽयं लोककण्टकः ।
दैत्यः क्षितिचरः कृष्ण हयरूपं समास्थितः॥५४॥

कृतं वृन्दावनं क्षेमं सेव्यं नृमृगपक्षिणाम् ।
घ्नता पापमिमं तात केशिनं हयदानवम्॥५५॥

हता नो बहवो गोपा गावो वत्सेषु वत्सलाः ।
नैके चान्ये जनपदा हतानेन दुरात्मना॥५६॥

हता अनेनेति च्छेदः। सन्धिरार्षः॥५६॥

एश संवर्तकं कर्तुमुद्यतः खलु पापकृत् ।
नृलोकं निर्नरं कृत्वा चर्तुकामो यथासुखम्॥५७॥

संवर्तकं प्रलयम्॥५७॥

नैतस्य प्रमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः ।
अपि देवसमूहेषु किं पुनः पृथिवीतले॥५८॥

वैशम्पायन उवाच। अथाहान्तर्हितो विप्रो नारदः खगमो मुनिः ।
प्रीतोऽस्मि विष्णो देवेश कृष्ण कृष्णेति चाब्रवीत्॥५९॥

नारद उवाच। यदिदं दुष्करं कर्म कृतं केशिजिघांसया ।
त्वय्येव केवलं युक्तं त्रिदिवे त्र्यम्बकस्य वा॥६०॥

अहं युद्धोत्सुकस्तात त्वद्गतेनान्तरात्मना ।
इदं नरहयं युद्धं द्रष्टुं स्वर्गादिहागतः॥६१॥

पूतनानिधनादीनि कर्माणि तव दृष्टवान् ।
अहं त्वनेन गोविन्द कर्मणा परितोषितः॥६२॥

हयादस्मान्महेन्द्रोऽपि बिभेति बलसूदन ।
कुर्वाणाच्च वपुर्घोरं केशिनो दुष्टचेतसः॥६३॥

यत्त्वया पाटितो देहो भुजेनायतपर्वणा ।
एषोऽस्य मृत्युरन्ताय विहितो विश्वयोनिना॥६४॥

यस्मात्त्वया हतः केशी तस्मान्मच्छासनं शृणु ।
केशवो नम नाम्ना त्वं ख्यातो लोके भविष्यसि॥६५॥

केशिनं वाति हिनस्तीति केशवः मत्वर्थीयलोप आर्षः॥६५॥

स्वस्त्यस्तु भवतो लोके साधु याम्यहमाशुगः ।
कृत्यशेषं च ते कार्यं शक्तस्त्वमसि मा चिरम्॥६६॥

कृत्यशेषं कंसवधादि॥६६॥

त्वयि कार्यान्तरगते नरा इव दिवौकसः ।
विडम्बयन्तः क्रीडन्ति लीलां त्वद्बलमाश्रिताः॥६७॥

अभ्याशे वर्तते कालो भारतस्याहवोदधेः ।
हस्तप्राप्तानि युद्धानि राज्ञां त्रिदिवगामिनाम्॥६८॥

अभ्याशे समीपे॥६८॥

पन्थानः शोधिता व्योम्नि विमानारोहणोर्ध्वगाः ।
अवकाशा विभज्यन्ते शक्रलोके महीक्षिताम्॥६९॥

उग्रसेनसुते शान्ते पदस्थे त्वयि केशव ।
अभितस्तन्महद्युद्धं भविष्यति महीक्षिताम्॥७०॥

अभितः सर्वतः॥७०॥

त्वां चाप्रतिमकर्माणं संश्रयिष्यन्ति पाण्डवाः ।
भेदकाले नरेन्द्राणां पक्षग्राहो भविष्यसि॥७१॥

त्वयि राजासनस्थे हि राजश्रियमनुत्तमाम् ।
शुभां त्यक्ष्यन्ति राजानस्त्वत्प्रभावान्न संशयः॥७२॥

एष मे कृष्ण सन्देशः श्रुतिभिः ख्यातिमेष्यति ।
देवतानां दिविस्थानां जगतश्च जगत्पते॥७३॥

एष मे इति। सन्देशज्ञापकं वाक्यं श्रुतिभिः वेदैरुक्तमपि इतः प्रभृति ख्यातिमेष्यति। श्रुतयश्च। “अहश्च कृष्णमहरर्जुनं च विवर्तेते रजसी वेद्याभिः। वैश्वानरो जायमानो न राजा वातिरज्ज्योतिषाग्निस्तमांसि” इत्याद्याः। अहः युद्धयज्ञः कृष्णम् अनु एकः विवर्तते विशेषेण जायते। तथा अर्जुनम् अनु अहर्विवर्तते एकश्चकारोऽन्वाचये अपरः समुच्चये। तेन कृष्णार्जुनाभ्यां विभज्य समुच्चित्य वा क्रियमाणौ द्वौ युद्धयज्ञौ विवर्तेते इत्यर्थः। उभे अप्यहनी रजसी रजोगुणकार्ये वेद्याभिः लब्धुं योग्याभिः श्रीभिर्हेतुभूताभिः लक्ष्म्यर्थं युद्धानि जायन्त इत्यर्थः। ताभ्यां च सहायाभ्यां वैश्वानरो विश्वेषां नृणाम् इष्टफलप्रापको धर्मः स्वयमदृष्टरूपोऽपि जायमान आविर्भवन्। वाशब्द इवार्थे। राजा जायमानः संस्तमांसि अधर्मरूपाणि असुरान्धकाराणि अवातिरत् तिरस्कृतवान्। केन अग्निर्ज्ज्योतिषे अग्निना ज्योतिषेत्यर्थः। खाण्डवदाहे अग्निना दत्ते चक्रगाण्डीवे तद्रूपेण ज्योतिषेति भावः॥७३॥

दृष्टं मे भवतः कर्म दृष्टश्चासि मया प्रभो ।
कंसे भूयः समेष्यामि साधिते साधु याम्यहम्॥७४॥

साधिते हते॥७४॥

एवमुक्त्वा स तु तदा नारदः खं जगाम ह ।
नारदस्य वचः श्रुत्वा देवसङ्गीतयोनिनः॥७५॥

सङ्गीतस्य योनिर्गान्धर्वशास्त्रं तद्वतः देवसङ्गीतयोनिनः॥७५॥

तथेति स समाभाष्य पुनर्गोपान् समासदत् ।
गोपाः कृष्णं समासाद्य विविशुर्व्रजमेव ह॥७६॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि केशिवधे चतुर्विंशोऽध्यायः॥२४॥
अक्रूरागमनम्-०२५

वैशम्पायन उवाच। अथास्तं गच्छति तदा मन्दरश्मौ दिवाकरे ।
सन्ध्यारक्ततले व्योम्नि शशाङ्के पाण्डुमण्डले॥१॥

पञ्चविंशे त्वथाध्याये कृष्णस्मरण विक्लवः। नानाभिलाष आयातः सायं व्रजमितीयते॥१॥ अथास्तमिति॥१॥

नीडस्थेषु विहङ्गेषु सत्सु प्रादुष्कृताग्निषु ।
ईषत्तमःसंवृत्तासु दिक्षु सर्वासु सर्वशः॥२॥

सत्सु याज्ञिकेषु प्रादुष्कृताग्निषु सायमग्निहोमार्थं प्रकटीकृताभिषु॥२॥

घोषवासिषु सुप्तेषु वाशन्तीषु शिवासु च ।
नक्तञ्चरेषु हृष्टेषु पिशिताशनकाङ्क्षिषु॥३॥

घोषवासिषु घोषगतेषु सुप्तेषु अव्यक्तशब्देषु शुक्रबालकादिषु इति शेषः॥३॥

शक्रगोपाह्वयामोदे प्रदोशेऽभ्यासतस्करे ।
सन्ध्यामयीमिव गुहं सम्प्रतिष्ठे दिवाकरे॥४॥

शक्रगोपाह्वयामोदे इन्द्रगोपानामातपतप्तानामत्यन्तं सुखकरे अभ्यासतस्करे स्वाध्यायनिवर्तके आसन्नान्धकारे वा॥४॥

अधिश्रयणवेलायां प्राप्तायां गृहमेधिनाम् ।
वन्यैर्वैखानसैर्मन्त्रैर्हूयमाने हुताशने॥५॥

अधिश्रयणम् अग्निहोत्रार्थस्य पयसोऽग्नौ स्थापनं, वन्यैः नीवाराद्यैः वैखानसैर्वानप्रस्थैः॥५॥

उपावृत्तासु वै गोषु दुह्यमानासु च व्रजे ।
असकृद्व्याहरन्तीषु बद्धवत्सासु धेनुषु॥६॥

प्रकीर्णदामनीकेषु गास्तथैवाह्वयत्सु च ।
सनिनादेषु गोपेषु काल्यमाने च गोधने॥७॥

प्रकीर्णा विस्तृताः दामन्यो दीर्घगोबन्धनरज्जवो यैस्तेषु। काल्यमाने बन्धनार्थं नियम्यमाने॥७॥

करीषेषु प्रक्लृप्तेषु दीप्यमानेषु सर्वशः ।
काष्ठभारानतस्कन्धैर्गोपैरभ्यागतैस्तथा॥८॥

करीषेषु शुष्कगोमयचूर्णेषु॥८॥

किञ्चिदभ्युद्यते सोमे मन्दरश्मौ विराजति ।
ईषद्विगाहमानायां रजन्यां दिवसे गते॥९॥

प्राप्ते दिनव्युपरमे प्रवृत्ते क्षणदामुखे ।
भास्करे तेजसि गते सौम्ये तेजस्युपस्थिते॥१०॥

अग्निहोत्राकुले काले सौम्येन्दौ समुपस्थिते ।
अग्नीषोमात्मके सन्धौ वर्तमाने जगन्मये॥११॥

सौम्येन्दौ श्वोभूते मृगशिरसि चन्द्रे उपस्थिते सति तद्धि कंसस्य जन्मनक्षत्रं राहुकुजधूमकेतुभिश्चित्रास्थैः प्रागुक्तरीत्या सर्वतोभद्रचक्रे विद्धं सत् चन्द्रयोगे मृत्युकरं तेन उदिते मृत्युयोगे सद्यः परेद्युः कालान्तरे वा मृत्युर्भवतीति अभिप्रेत्य पुराणान्तरे उक्तम्- “रौद्रे तद्रजकं हत्वादित्ये कंसो निपातितः” इति। सन्धिरत्रार्षः। अग्नीषोमात्मके रात्रौ तयोरेव प्रकाशमानत्वात् सन्धौ सम्बन्धे जगन्मय इति तयोरेव भोक्तृभोग्यात्मकत्वं दर्शितम्॥११॥

पश्चिमेनाग्निदीप्तेन पूर्वेणोत्पलवर्चसा ।
दग्धाद्रिसदृशे व्योम्नि किञ्चित्तारागणाकुले॥१२॥

पश्चिमेन पश्चिमतः अग्निवद्दीप्तेन पूर्वेण पूर्वतः उत्पलवद्रक्तेन भागेन दग्धाद्रिसदृशे उभयतो दह्यमानाद्रितुल्ये सूर्यास्तस्य चन्द्रोदयस्य चासन्नसमयत्वात्॥१२॥

वयोभिर्वासमुशतां बन्धुभिश्च समागमम् ।
शंसद्भिः स्यन्दनेनाशु प्राप्तो दानपतिर्व्रजम्॥१३॥

वासं गृहम् उशतां कामयमानानां पान्थानां बन्धुभिः सह समागमं शंसद्भिर्वयोभिः पक्षिभिः सह दानपतिरक्रूरो व्रजं प्राप्तः। वेदे तु- “देवानां दूतः पुरुधः प्रसूतोऽनागान्नो वोचतु सर्वताता” इत्यादिः। “सदा सुगः पितुमानस्तु पन्थाः” इति “उद्रायो अश्यां सदनं पुरुक्षोः” इत्यक्रूरस्य मनोरथो वर्णितः। देवानां कंसं हन्तुकामानां कंसवागाद्यभिमानिनामग्न्यादीनामहं दूतोऽस्मि कृष्णं प्रति गन्तुं प्रस्थितोऽस्मि पुरुधः बहुप्रकारैः प्रसूतो निसृष्टः कंसेन नोऽस्मान्प्रति अनागान् निष्पापान् सर्वताता सर्वस्य विस्तारकर्ता हरिः वोचतु वदतु अस्माभिः सह सम्भाषणं करोतु। तथा पन्थाः अपि सदासुगः सुगम्यः पितुमान् अन्नवान् अस्तु मार्गेऽप्यन्तरायो मा भूदित्यर्थः। पुरुक्षोः बहूनां क्षयं कर्तुः सदनं गृहम् अश्यां व्याप्नुयाम् उद्राय उत्कटसम्पदः इति मन्त्रपदानामर्थः॥१३॥

प्रविशन्नेव पप्रच्छ सान्निध्यं केशवस्य सः ।
रौहिणेयस्य चाक्रूरो नन्दगोपस्य चासकृत्॥१४॥

सान्निध्यं स्थानम्॥१४॥

स नन्दगोपस्य गृहं वासाय विबुधोपमः ।
अवतीर्य ततो यानात्प्रविवेश महाबलः॥१५॥

हर्षपूर्णेन वक्त्रेण साश्रुनेत्रेण चैव हि ।
प्रविशन्नेव च द्वारि ददर्शादोहने गवाम्॥१६॥

वत्समध्ये स्थितं कृष्णं सवत्समिव गोवृषम् ।
स तं हर्षपरीतेन वचसा गद्गदेन वै॥१७॥

एहि केशव तातेति प्रव्याहरत धर्मवित् ।
उत्तानशायिनं दृष्ट्वा पुनर्दृष्ट्वा श्रिया वृतम्॥१८॥

प्रव्याहरत उक्तवान्। उत्तानशायिनं कल्पान्ते बालं वटपत्रशायिनं श्रिया त्रैलोक्याक्रमणलक्ष्म्या वामनं बटुम्॥१८॥

अव्यक्तयौवनं कृष्णमक्रूरः प्रशशंस ह ।
अयं स पुण्डरीकाक्षः सिहंशार्दूलविक्रमः॥१९॥

अव्यक्तयौवनं वयःसन्धिगतम्॥१९॥

सम्पूर्णजलमेघाभः पर्वतप्रवराकृतिः ।
मृधेष्वधर्षणीयेन सश्रीवत्सेन वक्षसा ।
द्विषन्निधनदक्षाभ्यां भुजाभ्यां साधु भूषितः॥२०॥

मूर्तिमान्स रहस्यात्मा जगतोऽग्र्यस्य भाजनम् ।
गोपवेषधरो विष्णुरुदग्राग्र्यतनूरुहः॥२१॥

रहस्यात्मा औपनिषदः पुरुषः अग्र्यस्य प्रथमपूजादेः भाजनं पात्रम्। उदग्राग्र्यतनूरुह ऊर्ध्वाग्राः श्रेष्ठाश्च केशा यस्य। भक्तदर्शनमात्रेण रोमाञ्चितगात्र इत्यर्थः॥२१॥

किरीटलाञ्छनेनापि शिरसा छत्रवर्चसा ।
कुण्डलोत्तमयोग्याभ्यां श्रवणाभ्यां विभूषितः॥२२॥

हारार्हेण च पीनेन सुविस्तीर्णेन वक्षसा ।
द्वाभ्यां भुजाभ्यां वृत्ताभ्यां दीर्घाभ्यामुपशोभितः॥२३॥

स्त्रीसहस्रोपचर्येण वपुषा मन्मथाधिना ।
पीते वसानो वसने सोऽयं विष्णुः सनातनः॥२४॥

मन्मथाधिना मन्मथः आधीयतेऽस्मिन्निति तथाभूतेन यौवनपौगण्डसन्धिगतेनेत्यर्थः॥२४॥

धरण्याश्रयभूताभ्यां चरणाभ्यामरिन्दमः ।
त्रैलोक्याक्रान्तिभूताभ्यां भुवि पद्भ्यां व्यवस्थितः॥२५॥

धरणीति। येन प्रागुक्तेन एकार्णवेः उत्तानशायिना पादाग्रेणैव पृथ्वी धृता तथा बटुना पादाभ्यां क्रमणाभ्यां लोकान्तरसहिता आक्रान्ता सा इदानीं तेन वयःसन्धिगतेन अस्मदादिनेव श्रीयत इत्यत्यन्तमाश्चर्यमित्यर्थः॥२५॥

रुचिराग्रकरश्चास्य चक्राङ्कित इवेक्षते ।
द्वितीय उद्यतश्चापि गदासंयोगमिच्छति॥२६॥

अग्रक्ररो दक्षिणहस्तः द्वितीयो वामः॥२६॥

अवतीर्णो भवायेह प्रथमं पदमात्मनः ।
शोभतेऽद्य भुवि श्रेष्ठस्त्रिदशानो धुरन्धरः॥२७॥

आत्मनो विश्वतैजसप्राज्ञतुरीयाख्यपादचतुष्टयवत् उत्पत्तिक्रमापेक्षया प्रथमं पदं निर्गुणं ब्रह्मेत्यर्थः॥२७॥

अयं भविष्ये कथितो भविष्यकुशलैर्नरैः ।
गोपालो यादवं वंशं क्षीणं विस्तारयिष्यति॥२८॥

तेजसा यादवाश्चास्य शतशोऽथ सहस्रशः ।
वंशमापूरयिष्यन्ति ह्योघा इव महार्णवम्॥२९॥

अस्येदं शासने सर्वं जगत्स्थास्यति शाश्वतम् ।
निहतामित्रसामन्तं स्फीतं कृतयुगे तथा॥३०॥

अयमास्थाय वसुधां स्थापयित्वा जगद्वशे ।
राज्ञां भविष्यत्युपरि न च राजा भविष्यति॥३१॥

नूनं त्रिभिः क्रमैर्जित्वा यथानेन प्रभुः कृतः ।
पुरा पुरन्दरो राजा देवतानां त्रिविष्टपे॥३२॥

तथैव वसुधां जित्वा जितपूर्वां त्रिभिः क्रमैः ।
स्थापयिष्यति राजानमुग्रसेनं न संशयः॥३३॥

जित्वा त्रैलोक्यमिति शेषः॥३३॥

प्रसृष्टवैरगाधोऽयं प्रश्नैश्च बहुभिः श्रुतः ।
ब्राह्मणैर्ब्रह्मवादैश्च पुराणोऽयं हि गीयते॥३४॥

प्रसृष्टस्य वैरस्य गाधः पारोऽयं शमकामादीनामन्योन्यविरोधोऽस्मिन् प्राप्ते नश्यतीर्थः। अत एवायं प्रश्नोपनिषदि षड्भिः प्रश्नैः श्रुतः तत्पूर्वकं प्रतिपादितः॥३४॥

स्पृहणीयो हि लोकस्य भविष्यति च केशवः ।
तथा ह्यस्योत्थिता बुद्धिर्मानुष्यमुपजीवितुम्॥३५॥

अहं त्वस्याद्य वसतिं पूजयिष्ये यथाविधि ।
विष्णुत्वं मनसा चैव पूजयिष्यामि मन्त्रवत्॥३६॥

यच्च ज्ञातिपरिज्ञानं प्रादुर्भावश्च वै नृषु ।
अमानुषं वेद्मि चैनं ये चान्ये दिव्यचक्षुषः॥३७॥

सोऽहं कृष्णेन वै रात्रौ संमन्त्र्य विदितात्मना ।
सहानेन गमिष्यामि सव्रजो यदि मंस्यते॥३८॥

एवं बहुविधं कृष्णं दृष्ट्वा हेत्वर्थकारणैः ।
विवेश नन्दगोपस्य कृष्णेन सह संसदम्॥३९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि अक्रूरागमने पञ्चविंशोऽध्यायः॥२५॥
अक्रूरदर्शनम्-०२६

वैशम्पायन उवाच। स नन्दगोपस्य गृहं प्रविष्टः सहकेशवः ।
गोपवृद्धान्समानीय प्रोवाचामितदक्षिणः॥१॥

षड्विंशतितमेऽध्याये सर्वगोपनिमन्त्रणम्। दर्शनं वैष्णवं चाम्भस्यक्रूरस्येति वर्ण्यते॥१॥ स नन्दगोपस्य। अमितदक्षिणो दानपतिः॥१॥

कृष्णं चैवाब्रवीत्प्रीत्या रौहिणेयेन सङ्गतम् ।
श्वः पुरीं मथुरां तात गमिष्यामः सुखाय वै॥२॥

यास्यन्ति च व्रजाः सर्वे गोपालाः सपरिग्रहाः ।
कंसाज्ञया समुचितं करमादाय वार्षिकम्॥३॥

समृद्धस्तत्र कंसस्य भविष्यति धनुर्महः ।
तं द्रक्ष्यथ समृद्धं च स्वजनैश्च समेष्यथ॥४॥

पितरं वसुदेवं च सततं दुःखभाजनम् ।
दीनं पुत्रवधश्रान्तं युवामद्य समेष्यथः॥५॥

सततं पीड्यमानं च कंसेनाशुभबुद्धिना ।
दशान्ते शोषितं वृद्धं दुःखैः शिथिलतां गतम्॥६॥

दशान्ते वार्द्धक्ये शोषितं क्षीणरक्तमांसं यतो वृद्धं जराग्रस्तम्॥६॥

कंसस्य भयसन्त्रस्तं भवद्भ्यां च विना कृतम् ।
दह्यमानं दिवा रात्रौ सोत्कण्ठेनान्तरात्मना॥७॥

तां च द्रक्ष्यसि गोविन्द पुत्रैरमृदितस्तनीम् ।
देवकीं देवसङ्काशां सीदन्तीं विहतप्रभाम्॥८॥

पुत्रैरमृदितस्तनीमिति कंसापराधं सद्योजातशिशुवधरूपं सूचयति क्रोधोद्दीपनाय॥८॥

पुत्रशोकेन शुष्यन्तीं त्वद्दर्शनपरायणाम् ।
वियोगशोकसन्तप्तां विवत्सामिव सौरभीम्॥९॥

उपप्लुतेक्षणां दीनां नित्यं मलिनवाससम् ।
स्वर्भानुवदनग्रस्तां शशाङ्कस्य प्रभामिव॥१०॥

त्वद्दर्शनपरां नित्यं तवागमनकाङ्क्षिणीम् ।
त्वत्प्रवृत्तेन शोकेन सीदन्तीं वै तपस्विनीम्॥११॥

त्वत्प्रलापेष्वकुशलां त्वया बाल्ये वियोजिताम् ।
अरूपज्ञां तव विभो वक्त्रस्यास्येन्दुवर्चसः॥१२॥

यदि त्वां जनयित्वा सा देवकी तात तप्यते ।
अपत्यार्थो नु कस्तस्या वरं ह्येवानपत्यता॥१३॥

अपुत्राणां हि नारीणामेकः शोको विधीयते ।
सपुत्रा त्वफले पुत्रे धिक्प्रजातेन तप्यते॥१४॥

त्वं तु शक्रसमः पुत्रो यस्यास्त्वत्सदृशो गुणैः ।
परेषामप्यभयदो न सा शोषितुमर्हति॥१५॥

वृद्धौ तवाम्बापितरौ परभृत्यत्वमागतौ ।
भर्त्सितौ त्वत्कृते नित्यं कंसेनाशुभबुद्धिना॥१६॥

यदि ते देवकी मान्या पृथिवी वाऽऽत्मधारिणी ।
तां शोकसलिले मग्नामुत्तारयितुमर्हसि॥१७॥

तं च वृद्धं प्रियसुतं वसुदेवं सुखोचितम् ।
पुत्रयोगेन संयोज्य कृष्ण धर्ममवाप्स्यसि॥१८॥

यथा नागः सुदुर्वृत्तो दमितो यमुनाह्रदे ।
विमूलः स कृतः शैलो यथा वै भूधरस्त्वया॥१९॥

दर्पोत्सिक्तश्च बलवानरिष्टो विनिपातितः ।
परप्राणहरः केशी दुष्टात्मा च हयो हतः॥२०॥

एतेनैव प्रयत्नेन वृद्धावुद्धृत्य दुःखितौ ।
यथा धर्ममवाप्नोषि तत्कृष्ण परिचिन्त्यताम्॥२१॥

निर्भर्त्स्यमानो यैर्दृष्टः पिता ते कंससंसदि ।
ते सर्वे चक्रुरश्रूणि नेत्रैर्दुःखान्विता भृशम्॥२२॥

गर्भावकर्तनादीनि दुःखानि सुबहून्यपि ।
माता ते देवकी कृष्ण कंसस्य सहतेऽवशा॥२३॥

मातापितृभ्यां सर्वेण जातेन तनयेन वै ।
ऋणं वै प्रतिकर्तव्यं यथायोगमुदाहृतम्॥२४॥

जीवतो वाक्यकरणादृणं प्रतिकर्तव्यमित्यर्थः॥२४॥

एवं ते कुर्वतः कृष्ण मातापित्रोरनुग्रहम् ।
परित्यजेतां तौ शोकं स्याच्च धर्मस्तवानघ॥२५॥

वैशम्पायन उवाच। कृष्णः सुविदितार्थो वै तमाहामितविक्रमम् ।
बाढमित्येव तेजस्वी न च क्रोधवशं गतः॥२६॥

ते च गोपाः समागम्य नन्दगोपपुरःसराः ।
अक्रूरवचनं श्रुत्वा चेलुः कंसस्य शासनात्॥२७॥

चेलुः प्रस्थानं चक्रुः॥२७॥

गमनाय च ते सज्जा बभूवुर्व्रजवासिनः ।
सज्जं चोपायनं कृत्वा गोपवृद्धाः प्रतस्थिरे॥२८॥

करं चानडुहः सर्पिर्महिषांश्चौपनायिकान् ।
यथासारं यथायूथमुपानीय पयो दधि॥२९॥

औपनायिकान् उपहारार्थान्॥२९॥

तं सज्जयित्वा कंसस्य करं चोपायनानि च ।
ते सर्वे गोपपतयो गमनायोपतस्थिरे॥३०॥

अक्रूरस्य कथाभिश्च सह कृष्णेन जाग्रतः ।
रौहिणेयतृतीयस्य सा निशा व्यत्यवर्तत॥३१॥

ततः प्रभाते विमले पक्षिव्याहारसङ्कुले ।
नैशाकरे रश्मिजाले क्षणदाक्षयसंहृते॥३२॥

नभस्यरुणसंस्तीर्णे पर्यस्ते ज्योतिषां गणे ।
प्रत्यूषपवनासारैः क्लेदिते धरणीतले॥३३॥

क्षीणाकारासु तारासु सुप्तनिष्प्रतिभासु च ।
नैशमन्तर्दधे रूपमुद्गच्छति दिवाकरे॥३४॥

शीतांशुः शान्तकिरणो निष्प्रभः समपद्यत ।
एको नाशयते रूपमेको वर्धयते वपुः॥३५॥

नाशयते अदर्शनं नयति। वपुस्तेजः॥३५॥

गोभिश्च समकीर्णासु व्रजनिर्याणभूमिषु ।
मन्थनावर्तपूर्णेषु गर्गरेषु नदत्सु च॥३६॥

दामभिर्दम्यमानेषु वत्सेषु तरुणेषु च ।
गोपैरापूर्यमाणासु घोषरथ्यासु सर्वशः॥३७॥

तत्रैव गुरुकं भाण्डं शकटारोपितं बहु ।
त्वरिताः पृष्ठतः कृत्वा जग्मुः स्यन्दनवाहनाः॥३८॥

गुरुकं भारयुक्तं भाण्डम् उपकरणसामग्री॥३८॥

कृष्णोऽथ रौहिणेयश्च स चैवामितदक्षिणः ।
त्रयो रथगता जग्मुस्त्रिलोकपतयो यथा॥३९॥

अथाह कृष्णमक्रूरो यमुनातीरमाश्रितः ।
स्यन्दनं चात्र रक्षस्व यत्नं च कुरु वाजिषु॥४०॥

हयेभ्यो यवसं दत्त्वा हयभाण्डे रथे तथा ।
प्रगाढं यत्नमास्थाय क्षणं तात प्रतीक्ष्यताम्॥४१॥

हयभाण्डे अश्वभूषणादौ॥४१॥

यमुनाया ह्रदे ह्यस्मिन्स्तोष्यामि भुजगेश्वरम् ।
दिव्यैर्भागवतैर्मन्त्रैः सर्वलोकप्रभुं यतः॥४२॥

भुजगेश्वरं शेषमनन्ताख्यम्॥४२॥

गुह्यं भागवतं देवं सर्वलोकस्य भावनम् ।
श्रीमत्स्वस्तिकमूर्द्धानं प्रणमिष्यामि भोगिनम् ।
सहस्रशिरसं देवमनन्तं नीलवाससम्॥४३॥

धर्मदेवस्य तस्याथ यद्विषं प्रभविष्यति ।
सर्वं तदमृतप्रख्यमशिष्याम्यमरो यथा॥४४॥

धर्मदेवस्य धर्माधिष्ठातुः अनुग्रहवशात् विषस्याप्यमृतम्॥४४॥

स्वस्तिकायतनं दृष्ट्वा द्विजिह्वं श्रीविभूषितम् ।
समाजस्तत्र सर्पाणां शान्त्यर्थं वै भविष्यति॥४५॥

स्वस्तिकस्यायतनभूतं स्वस्तिकायतनं शेषं तत्र शेषसमीपे॥४५॥

आस्तां मां समुदीक्षन्तौ भवन्तौ सङ्गतावुभौ ।
निवृत्तो भुजगेन्द्रस्य यावदस्मि ह्रदोत्तमात्॥४६॥

तमाह कृष्णः संहृष्टो गच्छ धर्मिष्ठ मा चिरम् ।
आवां खलु न शक्तौ स्वस्त्वया हीनावुपासितुम्॥४७॥

स ह्रदे यमुनायास्तु ममज्जामितदक्षिणः ।
रसातले स ददृशे नागलोकमिमं यथा॥४८॥

तस्य मध्ये सहस्रास्यं हेमतालोच्छ्रितध्वजम् ।
लाङ्गलासक्तहस्ताग्रं मुसलोपाश्रितोदरम्॥४९॥

असिताम्बरसंवीतं पाण्डुरं पाण्डुरासनम् ।
कुण्डलैकधरं मत्तं सुप्तमम्बुरुहेक्षणम्॥५०॥

भोगोत्करासने शुभ्रे स्वेन देहेन कल्पिते ।
स्वासीनं स्वस्तिकाभ्यां च वराहाभ्यां महीधरम्॥५१॥

किञ्चित्सव्यापवृत्तेन मौलिना हेमचूलिना ।
जातरूपमयैः पद्मैर्मालयाच्छन्नवक्षसम्॥५२॥

रक्तचन्दनदिग्धाङ्गं दीर्घबाहुमरिन्दमम् ।
पद्मनाभसिताभ्राभं भाभिर्ज्वलिततेजसम्॥५३॥

ददर्श भोगिनां नाथं स्थितमेकार्णवेश्वरम् ।
पूज्यमानं द्विजिह्वेन्द्रैर्वासुकिप्रमुखैः प्रभुम्॥५४॥

कम्बलाश्वतरौ नागौ तौ चामरकरावुभौ ।
अवीजयेतां तं देवं धर्मासनगतं प्रभुम्॥५५॥

तस्याभ्याशगतो भाति वासुकिः पन्नगेश्वरः ।
वृतोऽन्यैः सचिवैः सर्पैः कर्कोटकपुरःसरैः॥५६॥

तं घटैः काञ्चनैर्दिव्यैः पङ्कजच्छन्नमस्तकैः ।
राजानं स्नापयामासुः स्नातमेकार्णवाम्बुभिः॥५७॥

तस्योत्सङ्गं घनश्यामं श्रीवत्साच्छादितोरसम् ।
पीताम्बरधरं विष्णुं सूपविष्टं ददर्श ह॥५८॥

तस्योत्सङ्ग इत्यादिग्रन्थः- “सप्त ते सप्त शाकिन एकमेकाशता ददुः। यमुनायामधिश्रुतमुद्राधो गव्यं मृजे निराधो अश्व्यं मृजे” इत्येतं मन्त्रमुपबृंहयति। मन्त्रार्थस्तु मारुतं सूक्तम् अघमर्षणकाले भगवन्तं दृष्ट्वा तद्देवतां मरुतम् एवं स्तौति। सप्तसप्तएकोनपञ्चाशत् शाकिनः शक्नुवन्ति ते इति वा शक्नुवन्त्येतैरिति वा शाकिनः शक्तिमन्तः शक्तिप्रदा वा मरुतः एकमेका प्रत्येकं शता शतमैश्वर्यं भवतीति यास्कः। ऐश्वर्याणि ददुः यतोऽहं श्रुतम् एवास्य परमा सम्पदिति वेदशिरोभ्य आकर्णितं राधो धनं सूत्रान्तर्यामिरूपं यमुनायाम् अधि मध्ये मृजे मृगयामि पश्यामीत्यर्थः। तदेव राधः उत् ऊर्ध्वं गव्यं गोषु सूर्यरश्मिषु स्थितं गव्यं मृजे तथा अश्व्यम् अश्ववति रथे स्थितं च देवराजनि मृजे अधोऽपि भूलोके पश्यामीत्यर्थः॥५८॥

अपरं चैव सोमेन तुल्यसंहननं प्रभुम् ।
सङ्कर्षणमिवासीनं तं दिव्यं विष्टरं विना॥५९॥

विष्टरम् आसनं विना भूमावेव॥५९॥

स कृष्णं तत्र सहसा व्याहर्तुमुपचक्रमे ।
तस्य संस्तम्भयामास वाक्यं कृष्णः स्वतेजसा॥६०॥

सोऽनुभूय भुजङ्गानां तं भागवतमव्ययम् ।
उदतिष्ठत्पुनस्तोयाद्विस्मितोऽमितदक्षिणः॥६१॥

स तौ रथस्थावासीनौ तत्रैव बलकेशवौ ।
निरीक्ष्यमाणावन्योन्यं ददर्शाद्भुतरूपिणौ॥६२॥

अथामज्जत्पुनस्तत्र तदाक्रूरः कुतूहलात् ।
इज्यते यत्र देवोऽसौ नीलवासाः सिताननः॥६३॥

तथैवासीनमुत्सङ्गे सहस्रास्यधरस्य वै ।
ददर्श कृष्णमक्रूरः पूज्यमानं तदा प्रभुम्॥६४॥

भूयश्च सहसोत्थाय तं मन्त्रं मनसा जपन् ।
रथं तेनैव मार्गेण जगामामितदक्षिणः॥६५॥

तमाह केशवो हृष्टः स्थितमक्रूरमागमत् ।
कीदृशं नागलोकस्य वृत्तं भागवते ह्रदे॥६६॥

चिरं च भवता कालो व्याक्षेपेण विलम्बितः ।
मन्ये दृष्टं त्वयाश्चर्यं हृदयं ते यथाचलम्॥६७॥

व्याक्षेपेण व्यासङ्गेन॥६७॥

प्रत्युवाच स तं कृष्णमाश्चर्यं भवता विना ।
किं भविष्यति लोकेषु स्थावरेषु चरेषु च॥६८॥

तत्राश्चर्यं मया दृष्टं कृष्ण यद्भुवि दुर्लभम् ।
तदिहापि यथा तत्र पश्यामि च रमामि च॥६९॥

सङ्गतश्चापि लोकानामाश्चर्येणेह रूपिणा ।
अतः परतरं कृष्ण नाश्चर्यं द्रष्टुमुत्सहे॥७०॥

रूपिणा मूर्तिमता॥७०॥

तदागच्छ गमिष्यामः कंसराजपुरीं प्रभो ।
यावन्नास्तं व्रजत्येष दिवसान्ते दिवाकरः॥७१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि अक्रूरकृतनागलोककथने षड्विंशोऽध्यायः॥२६॥
कंसधनुर्भङ्गः-०२७

वैशम्पायन उवाच। ते तु युङ्क्त्वा रथवरं सर्व एवामितौजसः ।
कृष्णेन सहिताः प्रायंस्तथा सङ्कर्षणेन च॥१॥

सप्तविंशेऽस्मिन्नीशेन रजको निहतः पुरा। कुब्जास्वानुग्रहो भङ्गो धनुषश्चात्र वर्ण्यते॥१॥ ते तु इति। प्रायन्मथुरां प्राप्ताः॥१॥

आसेदुस्ते पुरीं रम्यां मथुरां कंसपालिताम् ।
विविशुस्ते पुरीं रम्यां काले रक्तदिवाकरे॥२॥

तौ तु स्वभवनं वीरौ कृष्णसङ्कर्षणावुभौ ।
प्रवेशितौ बुद्धिमता ह्यक्रूरेणार्कवर्चसौ॥३॥

तावाह वरवर्णाभौ भीतो दानपतिस्तदा ।
त्यक्तव्या तात गमने वसुदेवगृहे स्पृहा॥४॥

युवयोर्हि कृते वृद्धः कंसेन स निरस्यते ।
भर्त्स्यते च दिवा रात्रौ नेह स्थातव्यमित्यपि॥५॥

तद्युवाभ्यां हि कर्तव्यं पित्रर्थं सुखमुत्तमम् ।
यथा सुखमवाप्नोति तद्वै कार्यं हितान्वितम्॥६॥

तमुवाच ततः कृष्णो यास्यावावामतर्कितौ ।
प्रेक्षन्तौ मथुरां वीर राजमार्गं च धार्मिक॥७॥

यास्यावेति लोडुत्तमद्विवचनम्। आवामिति च्छेदः। यास्यावो वामिति पाठं प्रकल्प्य आकारलोप आर्ष इति प्राञ्चो व्याचख्युः तस्यैव कंसस्यैव॥७॥

तस्यैव तु गृहं साधो गच्छावो यदि मन्यसे॥७॥

यास्यावेति लोडुत्तमद्विवचनम्। आवामिति च्छेदः। यास्यावो वामिति पाठं प्रकल्प्य आकारलोप आर्ष इति प्राञ्चो व्याचख्युः तस्यैव कंसस्यैव॥७॥

वैशम्पायन उवाच। अक्रूरोऽपि नमस्कृत्य मनसा कृष्णमव्ययम् ।
जगाम कंसपार्श्वं तु प्रहृष्टेनान्तरात्मना॥८॥

अनुशिष्टौ च तौ वीरौ प्रस्थितौ प्रेक्षकावुभौ ।
आलानाभ्यामिवोन्मुक्तौ कुञ्जरौ युद्धकाङ्क्षिणौ॥९॥

अनुशिष्टौ आज्ञप्तौ आलानाभ्यां गजबन्धानाभ्याम्॥९॥

तौ तु मार्गगतं दृष्ट्वा रजकं रङ्गकारकम् ।
अयाचेतां ततस्तौ तु वासांसि रुचिराणि वै॥१०॥

रजकः स तु तौ प्राह युवां कस्य वनेचरौ ।
राजवासांसि यौ मौढ्याद्याचेथां निर्भयावुभौ॥११॥

अहं कंसस्य वासांसि नानादेशोद्भवानि वै ।
कामरागाणि शतशो रञ्जयामि विशेषतः॥१२॥

युवां कस्य वने जातौ मृगैः सह विवर्द्धितौ ।
जातरागाविदं दृष्ट्वा रक्तमाच्छादनं बहु॥१३॥

अहो वां जीवितं त्यक्तं यौ भवन्ताविहागतौ ।
मूर्खौ प्राकृतविज्ञानौ वासो याचितुमिच्छतः॥१४॥

वां युवयोः त्यक्तं नष्टम्॥१४॥

तस्मै चुकोप वै कृष्णो रजकायाल्पमेधसे ।
प्राप्तारिष्टाय मूर्खाय सृजते वाङ्मयं विशम्॥१५॥

तलेनाशनिकल्पेन स तं मूर्द्धन्यताडयत् ।
स गतासुः पपातोर्व्यां रजको व्यस्तमस्तकः॥१६॥

व्यस्तः पृथग्भूतः मस्तको यस्य॥१६॥

तं हतं परिदेवन्त्यो भार्यास्तस्य विचुक्रुशुः ।
त्वरितं मुक्तकेश्यश्च जग्मुः कंसनिवेशनम्॥१७॥

परिदेवन्त्यः शोचन्त्यः॥१७॥

तावप्युभौ सुवसनौ जग्मतुर्माल्यकारणात् ।
वीथीमाल्यापणानां वै गन्धाघ्रातौ द्विपाविव॥१८॥

गुणको नाम तत्रासीन्माल्यवृत्तिः प्रियंवदः ।
प्रभूतमाल्यापणवान् लक्ष्मीवान्प्रियदर्शनः॥१९॥

गुणको ग्रथको नामतस्तु श्रीदामाख्यः॥१९॥

तं कृष्णः श्लक्ष्णया वाचा माल्यार्थमभिसृष्टया ।
देहीत्युवाच तत्काले मालाकारमकातरम्॥२०॥

ताभ्यां प्रीतो ददौ माल्यं प्रभूतं माल्यजीवनः ।
भवतोः स्वमिदं चेति प्रोवाच प्रियदर्शनौ॥२१॥

भवतोः। स्वं भवदीयमेतद्धनम्॥२१॥

प्रीतः सुमनसा कृष्णो गुणकाय वरं ददौ ।
श्रीस्त्वां मत्सम्भवा सौम्य धनौघैरभिपत्स्यते॥२२॥

मत्सम्भवा मत्प्रीणनप्रभवा॥२२॥

स लब्ध्वा वरमव्यग्रो माल्यवृत्तिरधोमुखः ।
कृष्णस्य पतितो मूर्ध्ना प्रतिजग्राह तं वरम्॥२३॥

यक्षाविमाविति तदा स मेने माल्यजीवकः ।
स भृशं भयसंविग्नो नोत्तरं प्रत्यपद्यत॥२४॥

उत्तरं कर्तव्यं कंसभयान्न ज्ञातवान् मौढ्यादित्यर्थः॥२४॥

वसुदेवसुतौ तौ च राजमार्गगतावुभौ ।
कुब्जां ददृशतुर्भूयः सानुलेपनभाजनाम्॥२५॥

तामाह कृष्णः कुब्जेति कस्येदमनुलेपनम् ।
नयस्यम्बुजपत्राक्षि क्षिप्रमाख्यातुमर्हसि॥२६॥

सस्मिता संमुखी भूत्वा प्रत्युवाचाम्बुजेक्षणम् ।
कृष्णं जलदगम्भीरं विद्युत्कुटिलगामिनी॥२७॥

राज्ञः स्नानगृहं यामि तद्गृहाणानुलेपनम् ।
दृष्ट्वैव त्वारविन्दाक्ष विस्मितास्मि वरानन॥२८॥

यत्त्वमिच्छसि मे वीर त्वं गृहाणानुलेपनम् ।
स्थितास्म्यागच्छ भद्रं ते हृदयस्यासि मे प्रियः॥२९॥

कुतश्चागम्यते सौम्य यन्मां त्वं नावबुध्यसे ।
महाराजस्य दयितां नियुक्तामनुलेपने॥३०॥

तामुवाच हसन्तीं तु कृष्णः कुब्जामवस्थिताम् ।
आवयोर्गात्रसदृशं दीयतामनुलेपनम्॥३१॥

वयं हि देशातिथयो मल्लाः प्राप्ता वरानने ।
द्रष्टुं धनुर्महद्दिव्यं राष्ट्रे चैव महर्धिमत्॥३२॥

प्रत्युवाचाथ सा कृष्णं प्रियोऽसि मम दर्शने ।
राजार्हमिदमव्यग्रं तद्गृहाणानुलेपनम्॥३३॥

तावुभावनुलिप्ताङ्गौ चारुगात्रौ विरेजतुः ।
तीर्थगौ पङ्कदिग्धाङ्गौ यमुनायां यथा वृषौ॥३४॥

तीर्थगौ जलान्तर्गतौ अत एव तत्पङ्केन दिग्धाङ्गौ॥३४॥

तां च कुब्जां स्थगोर्मध्ये द्व्यङ्गुलेनाग्रपाणिना ।
शनैः सम्पीडयामास कृष्णो लीलाविधानवित्॥३५॥

स्थगयति नाभिमाच्छादयतीति स्थगुः भुग्नं पृष्ठं स्थडु इति टवर्गीयोपधपाठे तु मूलं मृग्यम्। तस्य मध्ये उन्नते देशे शनैः सम्पीडयामास सन्ताडयामासेति पाठेऽपि स एवार्थः। “तुड भेदने” इति धातुः। सन्तोलयामासेति पाठेऽपि विषमं पृष्ठं समतया मितवान्॥३५॥

सा च मग्नं स्थगुं मत्वा स्वायताङ्गी शुचिस्मिता ।
जहासोच्चैः स्तनतटी ऋजुयष्टिर्लता यथा॥३६॥

अत एव मग्नमन्तर्हितम्॥३६॥

प्रणयाच्चापि कृष्णं सा बभाषे मत्तकाशिनी ।
क्व यास्यसि मया रुद्धः कान्त तिष्ठ गृहाण माम्॥३७॥

तौ जातहासावन्योन्यं सतलाक्षेपमव्ययौ ।
वीक्षमाणौ प्रहसितौ कुब्जायाः श्रुतिविस्तरौ॥३८॥

सतलाक्षेपम् अन्योन्यं दत्ततालं यथा स्यात्तथा श्रुतौ श्रोत्रगतो विस्तरो गुणकलापो ययोस्तौ॥३८॥

कृष्णस्तु कुब्जां कामार्तां सस्मितं विससर्ज ह ।
ततस्तौ कुब्जया मुक्तौ प्रविष्टौ राजसंसदम्॥३९॥

राजसंसदम् उपग्रहम्॥३९॥

तावुभौ व्रजसंवृद्धौ गोपवेषविभूषितौ ।
गूढचेष्टाननौ भूत्वा प्रविष्टौ नृपवेश्म तत्॥४०॥

गूढचेष्टाननौ गुप्तचेष्टाप्रारम्भौ॥४०॥

धनुःशालां गतौ तत्र बालावपरितर्कितौ ।
हिमवद्वनसम्भूतौ सिंहाविव मदोत्कटौ॥४१॥

दिदृक्षन्तौ महत्तत्र धनुरायोगभूषितम् ।
पप्रच्छतुश्च तौ वीरावायुधागारिकं तदा॥४२॥

आ समन्तात् युज्यन्ते योधा अस्मात् इत्यायोगो विख्यातिः तया भूषितम्॥४२॥

भोः कंसधनुषां पाल श्रूयतामावयोर्वचः ।
कतरत्तद्धनुः सौम्य महोऽयं यस्य वर्तते॥४३॥

आयोगभूतं कंसस्य दर्शयस्व यदीच्छसि ।
स तयोर्दर्शयामास तद्धनुः स्तम्भसन्निभम्॥४४॥

आयोगभूतं प्रख्यातं धनुर्महनिमित्तमित्यर्थः॥४४॥

अनारोप्यमसम्भेद्यं देवैरपि सवासवैः ।
तद्गृहीत्वा तदा कृष्णस्तोलयामास वीर्यवान्॥४५॥

दोर्भ्यां कमलपत्राक्षः प्रहृष्टेनान्तरात्मना ।
तोलयित्वा यथाकामं तद्धनुर्दैत्यपूजितम्॥४६॥

आरोपयामास बली नामयामास चासकृत् ।
आनाम्यमानं कृष्णेन प्रकर्षादुरगोपमम्॥४७॥

द्विधाभूतमभून्मध्ये धनुरायोगभूषितम्॥४७॥

भङ्क्त्वा तु तद्धनुः श्रेष्ठं कृष्णस्त्वरितविक्रमः ।
निश्चक्राम महावेगः स च सङ्कर्षणो युवा॥४८॥

धनुषो भङ्गनादेन वायुनिर्घोशकारिणा ।
चचालान्तःपुरं सर्वं दिशश्चैव पुपूरिरे॥४९॥

निर्गम्य त्वायुधागाराज्जग्मतुर्गोपसन्निधौ ।
वेगेनायुधपालस्तु गच्छन्सम्भ्रान्तमानसः॥५०॥

समीपं नृपतेर्गत्वा काकोच्छ्वासोऽभ्यभाषत ।
श्रूयतां मम विज्ञाप्यमाश्चर्यं धनुषो गृहे॥५१॥

काक एव काकः भयचकितत्वेन चञ्चलदृष्टिः उच्छ्वसितीत्युच्छ्वासश्चेति समासः। कातरश्च सोच्छ्वासश्चेत्यर्थः॥५१॥

निर्वृत्तमस्मिन्काले यज्जगतः सम्भ्रमोपमम् ।
नरौ कस्याप्यसदृशौ शिखाविततमूर्धजौ॥५२॥

सम्भ्रमोपमं प्रलयतुल्यम्॥५२॥

नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ ।
तावन्तःपुरमज्ञातौ प्रविष्टौ कामवेषिणौ ।
देवपुत्रोपमौ वीरौ बालाविव हुताशनौ॥५३॥

स्थितौ धनुर्गृहे सौम्यौ सहसा खादिवागतौ ।
मया दृष्टौ परिव्यक्तं रुचिराच्छदनस्रजौ॥५४॥

तयोरेकस्तु पद्माक्षः श्यामः पीताम्बरस्रजः ।
जग्राह तद्धनूरत्नं दुर्ग्राह्यं दैवतैरपि॥५५॥

तस्य बालो महच्चापं बलाद्यन्त्रमिवायसम् ।
आरोपयित्वा वेगेन नामयामास लीलया॥५६॥

आयसमिव अनाम्यम्॥५६॥

आकृष्यमाणं तत्तेन विबाणं बाहुशालिना ।
मुष्टिदेशे विकूजित्वा द्विधाभूतमभज्यत॥५७॥

ततः प्रचलिता भूमिर्नैव भाति च भास्करः ।
धनुषो भङ्गनादेन भ्रमतीव नभस्तलम्॥५८॥

तदद्भुतं महद्दृष्ट्वा विस्मयं परमं गतः ।
भयाद्भयदशत्रुभ्यस्तदिहाख्यातुमागतः ।
न जानामि महाराज कौ तावमितविक्रमौ॥५९॥

एकः कैलाससङ्काश एकोऽञ्जनगिरिप्रभः ।
स तु तच्चापरत्नं वै भङ्क्त्वा स्तम्भमिव द्विपः॥६०॥

निष्पपातानिलगतिः सानुगोऽमितविक्रमः ।
अगमत्तं द्विधा कृत्वा न जाने कोऽप्यसौ नृप॥६१॥

श्रुत्वैव धनुषो भङ्गं कंसो विदितविस्तरः ।
विसृज्यायुधपालं वै प्रविवेश गृहोत्तमम्॥६२॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि कंसधनुर्भङ्गे सप्तविंशोऽध्यायः॥२७॥
कंसस्य जन्मादिवृत्तम्-०२८

वैशम्पायन उवाच। स चिन्तयित्वा धनुषो भङ्गं भोजविवर्धनः ।
बभूव विमना राजा चिन्तयन्भृशदुःखितः॥१॥

अष्टाविंशे त्वथाध्याये मञ्चानां रचनोच्यते। महामात्राय कंसस्य स्वजन्माथ चिकीर्षितम्॥१॥ पूर्वेणाध्यायेन, “युवं वस्त्राणि पीवसा वसाथे युवोरच्छिद्रा मन्तवो ह सर्गाः” इत्यर्धर्चार्थ उपबृंहितः। यस्यार्थस्तु युवं युवां पीवसा बलेन रजकं हत्वेत्यर्थः। वस्त्राणि वसाथे युवोः युवयोः मन्तवो मानयितारः मालाकारकुब्जाप्रभृतयः सर्गाः सृजन्ति माल्यानुलेपनादिकं ते सर्गाः अच्छिद्राः नीचत्वकुब्जत्वादिदोषहीना भवन्तीति। “अवातिरतमनृतानि विश्वा ऋतेन मित्रावरुणा सचेथे” इत्यस्योपबृंहणार्थ उत्तरो ग्रन्थः। तत्र अयादवोऽपि कंसो यदूनामाधिपत्यमिच्छन्ननृतः तेन प्रयुक्तानि मल्लादीनि अनृतानि विश्वा सर्वाणि तानि अवातिरतं तिरस्कृतवन्तौ, ऋतेन सत्येनैव यादवत्वेन गोपत्वाच्छादिततया प्रागप्रसिद्धेन मित्रावरुणौ सूत्रान्तर्यामिणौ रामकृष्णौ सचेथे सङ्गच्छेथे युवाम्। तत्र कंसस्यानृतत्वमत्र महामात्रकथया उपबृंह्यते- स चिन्तयित्वेति। भोजविवर्धनो भोजच्छेदी॥१॥

कथं बालो विगतभीर्वमत्यमहाबलम् ।
प्रेक्षमाणस्तु पुरुषैर्धनुर्भङ्क्त्वा विनिर्गतः॥२॥

यस्यार्थे दारुणं कर्म कृतं लोकविगर्हितम् ।
पितृस्वस्रात्मजान्वीरान्षडेवाहं न्यपोथयम्॥३॥

यस्यार्थे यन्निमित्तम्॥३॥

दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ।
नारदोक्तं च वचनं नूनं मह्यमुपस्थितम्॥४॥

वचनं न वसुदेवयत्नो रात्रावेव विफलीकृत इत्येवंरूपम्॥४॥

एवं राजा विचिन्त्याथ निष्क्रम्य स्वगृहोत्तमात् ।
प्रेक्षागारं जगामाशु मञ्चानामवलोककः॥५॥

प्रेक्षागारं धनुर्महप्रेक्षार्थं कृतं स्थानम्॥५॥

स दृष्ट्वा सर्वनिर्मुक्तं प्रेक्षागारं नृपोत्तमः ।
श्रेणीनां दृढनिर्युक्तैर्मञ्चवाटैर्निरन्तरम्॥६॥

निर्युक्तं निष्पन्नं, श्रेणीनाम् एकशिल्पोपजीविनां, दृढं नियुक्तैर्दृढसंयुक्तैः दृढबद्धैः॥६॥

सोत्तमागारयुक्ताभिर्वलभीभिर्विभूषितम् ।
छदीभिः सम्प्रवृद्धाभिरेकस्तम्भैर्विभूषितम्॥७॥

स एको मञ्चारोहणं दृष्ट्वा रङ्गमाज्ञापयतेति व्यवहितेन सम्बन्धः। बलभीभिः उभयतो नमत्पक्षद्वयाभिः। छदीभिः षट्स्तम्भाभिः। कुटीभिरिति पाठे कोष्ठकोष्टकैः सप्तच्छदिकैः चतुःस्तम्भैः॥७॥

सर्वतः सारनिर्व्यूहं स्वायतं सुप्रतिष्ठितम् ।
उदग्राक्लिष्टसुक्लिष्टं मञ्चारोहणमुत्तमम्॥८॥

सारनिर्व्यूहं दृढं नागदन्ता गृहान्निर्गतदारुरूपाणि यत्र। उदग्रम् उच्चम् अक्लिष्टम् असङ्कुचितं सुश्लिष्टं च मञ्चारोहणं सोपानपङ्क्तिर्यत्र॥८॥

नृपासनपरिक्षिप्तं सञ्चारपथसञ्कुलम् ।
छन्नं तद्वेदिकाभिश्च मानुषौघभरक्षमम्॥९॥

परिक्षिप्तं व्याप्तम्॥९॥

स दृष्ट्वा भूषितं रङ्गमाज्ञापयत बुद्धिमान् ।
श्वः सचित्राः समाल्याश्च सपताकास्तथैव च॥१०॥

रङ्गधनुर्महम् आज्ञापयत् आज्ञापितवान्। सचित्रा इत्यादि मञ्चवाटानां विशेषणम्॥१०॥

सुवासिता वपुष्मन्त उपनीतोत्तरच्छदाः ।
क्रियन्तां मञ्चवाटाश्च वलभ्यो वीथयस्तथा॥११॥

वपुष्मन्तश्चित्रपुरुषादियुक्ताः उत्तरच्छदा महास्तरणानि॥११॥

रङ्गवाटे करीषस्य कल्प्यन्तां राशयोऽव्ययाः ।
पटास्तरणशोभाश्च वलयश्चानुरूपतः॥१२॥

करीषस्य शुष्कगोमयचूर्णस्य राशयः मल्लानां स्वेदापमार्जनार्थं मङ्गलार्थं वा॥१२॥

स्थाप्यन्तां सुनिखाताश्च पानकुम्भा यथाक्रमम् ।
उदभारसहाः सर्वे सकाञ्चनघटोत्तमाः॥१३॥

पानकुम्भा घटोच्छ्रायिकाः॥१३॥

वलयश्चोपकल्प्यन्तां कषायाश्चैव कुम्भशः ।
प्राश्निकाश्च निमन्त्र्यन्तां श्रेण्यश्च सपुरोगमाः॥१४॥

कषायाः रसाः, प्राश्निकाः युद्धधर्मविदः॥१४॥

आज्ञा च देया मल्लानां प्रेक्षकाणां तथैव च ।
समाजे मञ्चवाटाश्च कल्प्यन्तां सूपकल्पिताः॥१५॥

प्रेक्षकाणां युद्धसाक्षिणाम्॥१५॥

एवमाज्ञाप्य राजा स समाजविधिमुत्तमम् ।
समाजवाटान्निष्क्रम्य विवेश स्वं निवेशनम्॥१६॥

आह्वानं तत्र सञ्चक्रे तस्य मल्लद्वयस्य वै ।
चाणूरस्याप्रमेयस्य मुष्टिकस्य तथैव च॥१७॥

तौ तु मल्लौ महावीर्यौ बलिनौ बाहुशालिनौ ।
कंसस्याज्ञां पुरस्कृत्य हृष्टौ विविशतुस्तदा॥१८॥

तौ समीपगतौ दृष्ट्वा मल्लौ जगति विश्रुतौ ।
उवाच कंसो नृपतिः सोपन्यासमिदं वचः॥१९॥

सोपन्यासं सोपपत्तिकम्॥१९॥

भवन्तौ मम विख्यातौ मल्लौ वीरध्वजोच्छ्रितौ ।
पूजितौ च यथान्यायं सत्कारार्हौ विशेषतः॥२०॥

वीरध्वजः स्वोत्कर्षसूचकं तोडरादि, तेन उच्छ्रितौ॥२०॥

तन्मत्तो यदि सत्कारः स्मर्यते सुकृतानि च ।
कर्तव्यं मे महत्कर्म भवद्भ्यां स्वेन तेजसा॥२१॥

यावेतौ मम संवृद्धौ व्रजे गोपालकावुभौ ।
सङ्कर्षणश्च कृष्णश्च बालावपि जितश्रमौ॥२२॥

जितश्रमौ कदाचिदपि न श्रमवन्तौ॥२२॥

एतौ रङ्गगतौ युद्धे युद्ध्यमानौ वनेचरौ ।
निपातानन्तरं शीघ्रं हन्तव्यौ नात्र संशयः॥२३॥

निपातानन्तरं सम्बन्धमात्रेणेत्यर्थः॥२३॥

बालाविमौ सुचपलावक्रियाविति सर्वथा ।
नावज्ञा तत्र कर्तव्या कर्तव्यो यत्न एव हि॥२४॥

अक्रियौ अशिक्षितौ॥२४॥

ताभ्यां युधि निरस्ताभ्यां गोपाभ्यां रङ्गसन्निधौ ।
आयत्यां च तदात्वे च श्रेयो मम भविष्यति॥२५॥

आयत्याम् उत्तरकाले तदात्वे वर्तमानकाले॥२५॥

नृपतेः स्नेहसंयुक्तैर्वचोभिर्हृष्टमानसौ ।
ऊचतुर्युद्धसंमत्तौ मल्लौ चाणूरमुष्टिकौ॥२६॥

यद्यावयोस्तौ प्रमुखे स्थास्येते गोपकिल्बिषौ ।
हतावित्येव मन्तव्यौ प्रेतरूपौ तपस्विनौ॥२७॥

यद्यावां प्रतियोत्स्येते तावरिष्टपरिप्लुतौ ।
आवाभ्यां रोषयुक्ताभ्यां प्रमुखे तौ वने चरौ॥२८॥

प्रमुखे तौ निहन्तव्याविति शेषः॥२८॥

एवं वाग्विषमुत्सृज्य तावुभौ मल्लपुङ्गवौ ।
अनुज्ञातौ नरेन्द्रेण स्वे गृहे तौ प्रजग्मतुः॥२९॥

महामात्रं ततः कंसो बभाषे हस्तिजीविनम् ।
हस्ती कुवलयापीडः समाजद्वारि तिष्ठतु॥३०॥

बलवान्मदलोलाक्षश्चपलः क्रोधनो नृषु ।
दानोत्कटकटश्चण्डः प्रतिवारणरोषणः॥३१॥

दानोत्कटकटः मदोत्कटगण्डः॥३१॥

स सन्नोदयितव्यस्ते तावुद्दिश्य वनौकसौ ।
वसुदेवसुतौ वीरौ यथा स्यातां गतायुषौ॥३२॥

त्वया चैव गजेन्द्रेणा यदि तौ गोष्ठजीविनौ ।
भवेतां पतितौ रङ्गे पश्येयमहमुत्कटौ॥३३॥

ततस्तौ पतितौ दृष्ट्वा वसुदेवः सबान्धवः ।
छिन्नमूलो निरालम्बः सभार्यो विनशिष्यति॥३४॥

ये चेमे यादवा मूर्खाः सर्वे कृष्णपरायणाः ।
विनशिष्यन्ति च्छिन्नाशा दृष्ट्वा कृष्णं निपातितम्॥३५॥

एतौ हत्वा गजेन्द्रेण मल्लैर्वा स्वयमेव वा ।
पुरीं निर्यादवीं कृत्वा विचरिष्याम्यहं सुखी॥३६॥

पिता हि मे परित्यक्तो यादवानां कुलोद्वहः ।
शेषाश्च मे परित्यक्ता यादवाः कृष्णपक्षिणः॥३७॥

न चाहमुग्रसेनेन जातः किल सुतार्थिना ।
मानुषेणाल्पवीर्येण यथा मामाह नारदः॥३८॥

महामात्र उवाच। कथमुक्तं नारदेन राजन्देवर्षिणा पुरा ।
आश्चर्यमेतत्कथितं त्वत्तः श्रुतमरिन्दम॥३९॥

कथमन्येन जातस्त्वमुग्रसेनात्पितुर्विना ।
तव मात्रा कथं राजन्कृतं कर्मेदमीदृशम्॥४०॥

अन्यापि प्राकृता नारी न कुर्याच्च जुगुप्सितम् ।
विस्तरं श्रोतुमिच्छामि ह्येतत्कौतूहलं हि मे॥४१॥

कंस उवाच। यथा कथितवान्विप्रो महर्षिर्नारदः प्रभुः ।
तथाहं सम्प्रवक्ष्यामि यदि ते श्रवणे मतिः॥४२॥

आगतः शक्रसदनात्स वै शक्रसखो मुनिः ।
चन्द्रांशुशुक्लवसनो जटामण्डलमुद्वहन्॥४३॥

कृष्णाजिनोत्तरीयेण रुक्मयज्ञोपवीतवान् ।
दण्डी कमण्डलुधरः प्रजापतिरिवापरः॥४४॥

गाता चतुर्णां वेदानां विद्वान्गान्धर्ववेदवित् ।
स नारदोऽथ देवर्षिर्ब्रह्मलोकचरोऽव्ययः॥४५॥

तमागतमृषिं दृष्ट्वा पूजयित्वा यथाविधि ।
पाद्यार्घमासनं दत्त्वा सम्प्रवेश्योपविश्य ह॥४६॥

संमुखं गत्वा सम्प्रवेश्य गृहं ततः पाद्यसहितम् अर्धं दत्त्वा आचमनं च दत्त्वा तत्सन्निधौ स्वयमुपविश्य॥४६॥

सुखोपविष्टोऽथ मुनिः पृष्ट्वा च कुशलं मम ।
उवाच च प्रीतमना देवर्षिर्भावितात्मवान्॥४७॥

भावितात्मवान् पूतचित्तः॥४७॥

नारद उवाच। पूजितोऽहं त्वया वीर विधिदृष्टेन कर्मणा ।
इदमेकं मम वचः श्रूयतां प्रतिगृह्यताम्॥४८॥

गतोऽहं देवसदनं सौवर्णं मेरुपर्वतम् ।
सोऽहं कदाचिद्देवानां समाजे मेरुमूर्धनि॥४९॥

तत्र मन्त्र्यतामेवं देवतानां मया श्रुतः ।
भवतः सानुगस्यैव वधोपायः सुदारुणः॥५०॥

तत्र यो देवकीगर्भो विष्णुर्लोकनमस्कृतः ।
योऽस्या गर्भोऽष्टमः कंस स ते मृत्युर्भविष्यति॥५१॥

अस्याः देवक्याः॥५१॥

देवानां स तु सर्वस्वं त्रिदिवस्य गतिश्च सः ।
परं रहस्यं देवानां स ते मृत्युर्भविष्यति॥५२॥

यत्नश्च क्रियतां कंस गर्भाणां पातनं प्रति ।
नावज्ञा रिपवे कार्या दुर्बले स्वजनेऽपि वा॥५३॥

रिपवे रिपौ॥५३॥

न चायमुग्रसेनः स पिता तव महाबलः ।
द्रुमिलो नाम तेजस्वी सौभस्य पतिरूर्जितः॥५४॥

श्रुत्वाहं तद्वचस्तस्य किञ्चिद्रोषसमन्वितः ।
भूयोऽपृच्छं कथं ब्रह्मन्द्रुमिलो नाम दानवः॥५५॥

कथं कीदृशो द्रुमिलः॥५५॥

मम मात्रा कथं तस्य ब्रूहि विप्र समागमः ।
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन॥५६॥

नारद उवाच। हन्त ते कथयिष्यामि शृणु राजन्यथार्थतः ।
द्रुमिलस्य च मात्रा ते संवादं च समागमम्॥५७॥

सुयामुनं नाम नगं तव मात रजस्वला ।
प्रेक्षितुं सहिता स्त्रीभिर्गता वै सा कुतूहलात्॥५८॥

सा तत्र रमणीयेषु रुचिरद्रुमसानुषु ।
चचार नगशृङ्गेषु कन्दरेषु नदीषु च॥५९॥

किन्नरोद्गीतमधुराः प्रतिश्रुत्यभिनादिताः ।
शृण्वन्ती कामजननीर्वाचः श्रोत्रसुखावहाः॥६०॥

बर्हिणां चैव विरुतं खगानां च विकूजितम् ।
अभीक्ष्णमभिशृण्वन्ती स्त्रीधर्ममभिरोचयत्॥६१॥

स्त्रीधर्मम् अष्टगुणकामवत्त्वम्॥६१॥

एतस्मिन्नन्तरे वायुर्वनराजिविनिःसृतः ।
हृद्यः कुसुमगन्धाढ्यो ववौ मन्मथबोधनः॥६२॥

द्विरेफाभरणाश्चैव कदम्बा वायुघट्टिताः ।
मुमुचुर्गन्धमधिकं सन्ततासारमूर्छिताः॥६३॥

केसराः पुष्पवर्षैश्च ववृषुर्मदबोधनाः ।
नीपा दीपा इवाभान्ति पुष्पकण्टकधारिणः॥६४॥

मही नवतृणच्छन्ना शक्रगोपविभूषिता ।
यौवनस्थेव वनिता स्वं दधारार्तवं वपुः॥६५॥

अथ सौभपतिः श्रीमान्द्रुमिलो नाम दानवः ।
भविष्यद्दैवयोगेन विधात्रा तत्र नीयते॥६६॥

नीयते अनीयत, नीत इत्यर्थः॥६६॥

कामगेन रथेनाशु तरुणादित्यवर्चसा ।
यदृच्छया गतस्तत्र सुयामुनदिदृक्षया॥६७॥

विहायसा कामगमो मनसोऽप्याशुगामिना ।
स तं प्राप्य पर्वतेन्द्रमवतीर्य रथोत्तमात्॥६८॥

विहायसा आकाशमार्गेण कामगमः इच्छया गन्तुं शीलः॥६८॥

पर्वतोपवने न्यस्य रथं पररथारुजम् ।
अथासौ सूतसहितश्चचार नगमूर्धनि॥६९॥

ततो बहून्यपश्येतां काननानि वनानि च ।
सर्वर्तुगुणसम्पन्नं नन्दनस्येव काननम्॥७०॥

काननानि अरोपितवृक्षाणि। वनानि रोपितवृक्षाणि॥७०॥

चेरतुर्नगशृङ्गेषु कन्दरेषु नदीषु च ।
नानाधातुपिनद्धैश्च शृङ्गैर्बहुभिरुच्छ्रितैः॥७१॥

नानारत्नविचित्रेषु काञ्चनाञ्जनराजतान् ।
नानाकुसुमगन्धाढ्यान्नानासत्त्वगुणैर्युतान्॥७२॥

नानाद्विजगणैस्तुष्टान्नानापुष्पफलद्रुमान् ।
नानौषधिसमायुक्तानृषिसिद्धानुसेवितान्॥७३॥

विद्याधरान्किंपुरुषानृक्षवानरराक्षसान् ।
सिंहान्व्याघ्रान्वराहांश्च महिषाञ्छरभाञ्छशान्॥७४॥

सृमरांश्चमरान्न्यङ्कून्मातङ्गान्यक्षराक्षसान् ।
एवं बहुविधान्पश्यंश्चरमाणो नगोत्तमम्॥७५॥

दूराद्ददर्श नृपतिर्देवीं देवसुतोपमाम् ।
क्रीडमानां सखीभिश्च पुष्पं चैव विचिन्वतीम्॥७६॥

ततश्चरन्तीं सुश्रोणीं सखीभिः सह संवृताम् ।
दृष्ट्वा सौभपतिर्दूराद्विस्मयन्सूतमब्रवीत्॥७७॥

कस्येयं मृगशावाक्षी वनान्तरविचारिणी ।
रूपौदार्यगुणोपेता मन्मथस्य रतिर्यथा॥७८॥

शचीव पुरुहूतस्य उताहो वा तिलोत्तमा ।
नारायणोरुं निर्भिद्य सम्भूता वरवर्णिनी ।
ऐलस्य दयिता देवी योषिद्रत्नं किमुर्वशी॥७९॥

नारायणोरुं निर्भिद्य जाता उर्वशी॥७९॥

क्षीरार्णवे मथ्यमाने सुरासुरगणैः सह ।
मन्थानं मन्दरं कृत्वामृतार्थमिति नः श्रुतम्॥८०॥

ततोऽमृतात्समुत्तस्थौ देवी श्रीर्लोकभाविनी ।
नारायणाङ्कलुलिता किं श्रीरेषा वराङ्गना॥८१॥

नीलमेघान्तरगता द्योतयन्त्यचिरप्रभा ।
तथा योषिद्गणान्मध्ये रूपं प्रद्योतयद्वनम्॥८२॥

अचिरप्रभा विद्युदिव योषिद्गणान्योषिद्गणानाम्। यद्वा गणान्वनं च प्रद्योतयत् रूपं दधानेति शेषः॥८२॥

अतीव सुकुमाराङ्गी सुप्रभेन्दुनिभानना ।
दृष्ट्वा रूपमनिन्द्याङ्ग्या विभ्रान्तो व्याकुलेन्द्रियः॥८३॥

कामस्य वशमापन्नो मनो विह्वलतीव मे ।
भृशं कृन्तति मेऽङ्गानि सायकैः कुसुमायुधः॥८४॥

भित्त्वा हृदि शरान्पञ्च निर्दयं हन्ति मे मनः ।
हृदयाग्निर्वर्धयति आज्यसिक्त इवानलः ।
कथमद्य भवेत्कार्यं शमार्थं मन्मथाग्निना ॥८५॥

केनोपायेन किं कुर्मो भजेन्मां मत्तगामिनी ।
एवं बहु चिन्तयानो नोपलभ्य च दानवः॥८६॥

नोपलभ्य अनुपलभ्य धैर्यमिति शेषः॥८६॥

सूतमाह मुहूर्तं तु तिष्ठस्व त्वमिहानघ ।
अहं यास्यामि तां द्रष्टुं कस्येयमिति योषितम्॥८७॥

प्रतीक्षमाणस्तिष्ठस्व यावदागमनं मम ।
श्रुत्वा तु वचनं तस्य तथास्त्विति वचोऽब्रवीत्॥८८॥

एवमुक्त्वा दानवेन्द्रो गमनाय मनो दधे ।
वार्युपस्पृश्य बलवान्ध्यानमेवान्वचिन्तयत्॥८९॥

मुहूर्तं ध्यानमात्रेण दृष्टं ज्ञानबलात्ततः ।
उग्रसेनस्य पत्नीति ज्ञात्वा हर्षमुपागतः॥९०॥

उग्रसेनस्य रूपं वै कृत्वा स्वं परिवर्त्य सः ।
उपासर्पन्महाबाहुः प्रहसन्दानवेश्वरः॥९१॥

स्मयमानश्च शनकैर्जग्राहामितवीर्यवान् ।
उग्रसेनस्य रूपेण मातरं ते व्यधर्षयत्॥९२॥

सा पतिस्निग्धहृदया तं भावेनोपसर्पती ।
शङ्किता चाभवत्पश्चात्तस्य गौरवदर्शनात्॥९३॥

गौरवदर्शनात् रतेः स्पर्शगौरवानुभवात्॥९३॥

सा तमाहोत्थिता भीता न त्वं मम पतिर्ध्रुवम् ।
कस्य त्वं विकृताचारो येनास्मि मलिनीकृता॥९४॥

एकभर्तृव्रतमिदं मम सन्दूषितं त्वया ।
पत्युर्मे रूपमास्थाय नीच नीचेन कर्मणा॥९५॥

किं मां वक्ष्यन्ति रुषिता बान्धवाः कुलपांसनीम् ।
जुगुप्सिता च वत्स्यामि पतिपक्षैर्निराकृता॥९६॥

धिक्त्वामीदृशमक्षान्तं दुष्कुलं व्युत्थितेन्द्रियम् ।
अविश्वास्यमनायुष्यं परदाराभिमर्शनम्॥९७॥

अक्षान्तम् अक्षाणाम् इन्द्रियाणाम् अन्तो नाशो यस्य तम्॥९७॥

स तामाह प्रसज्जन्तीं क्षिप्तः क्रोधेन दानवः ।
अहं वै द्रुमिलो नाम सौभस्य पतिरूर्जितः॥९८॥

प्रसज्जन्तीं कलहायमानां क्षिप्तः धिक्कृतः॥९८॥

किं मां क्षिपसि रोषेण मूढे पण्डितमानिनि ।
मानुषं पतिमाश्रित्य नीचं मृत्युवशे स्थितम्॥९९॥

व्यभिचारान्न दुष्यन्ति स्त्रियः स्त्रीमानगर्विते ।
न ह्यासां नियता बुद्धिर्मानुषीणां विशेषतः॥१००॥

व्यभिचारादमानुषसम्बन्धजात् चितस्य चञ्चलत्वात्स्वप्राभिचारवदयममानुषजो व्यभिचारस्तव न दोषायेत्यर्थः॥१००॥

श्रूयन्ते हि स्त्रियो बह्व्यो व्यभिचारव्यतिक्रमैः ।
प्रसूता देवसङ्काशान्पुत्रान्निश्चलविक्रमान्॥१०१॥

स्त्रियः कुन्ती-मदयन्तीप्रभृतयः॥१०१॥

अतीव हि त्वं स्त्रीलोके पतिधर्मवती सती ।
शुद्धकेशान्विधुन्वन्ती भाषसे यद्यदिच्छसि॥१०२॥

शुद्धकेशान् “यानि कानि च पापानि केशानाश्रित्य तिष्ठन्ति” इति वचनात् निष्पापान् अस्मानपि विधुन्वन्ती भर्त्सयन्ती यदिच्छसि तद्भाषसे यथेष्टं प्रलपति मौढ्यादित्यर्थः॥१०२॥

कस्य त्वमिति यच्चाहं त्वयोक्तो मत्तकाशिनि ।
कंसस्तस्माद्रिपुध्वंसी तव पुत्रो भविष्यति॥१०३॥

सा सरोषा पुनर्भूत्वा निन्दन्ती तस्य तं वरम् ।
उवाच व्यथिता देवी दानवं धृष्टवादिनम्॥१०४॥

धिक्ते वृत्तं सुदुर्वृत्त यः सर्वा निन्दसि स्त्रियः ।
सन्ति स्त्रियो नीचवृत्ताः सन्ति चैव पतिव्रताः॥१०५॥

धिगिति। कुन्त्यादीनामप्यापद्धर्मापेक्षया पुरुषान्तरसम्बन्धो न कामविकारेणेत्यर्थः। स त्वं तु सर्वासां निन्दां कुर्वन् पापतमोऽसीत्यर्थः॥१०५॥

यास्त्वेकपत्न्यः श्रूयन्तेऽरुन्धतीप्रमुखाः स्त्रियः ।
धृता याभिः प्रजाः सर्वा लोकाश्चैव कुलाधम॥१०६॥

यस्त्वया मम पुत्रो वै दत्तो वृत्तविनाशनः ।
न मे बहुमतस्त्वेष शृणु चापि यदुच्यते॥१०७॥

उत्पत्स्यति पुमान्नीचः पतिवंशे ममाद्य यः ।
भविष्यति स ते मृत्युर्यश्च दत्तस्त्वया सुतः॥१०८॥

पुमान् ईश्वरः ते तव त्वत्पुत्रस्य च मयि जातस्य॥१०८॥

द्रुमिलस्त्वेवमुक्तस्तु जगामाकाशमेव तु ।
तेनैव रथमुख्येन दिव्येनाप्रतिगामिना॥१०९॥

जगाम च पुरीं दीना माता तदहरेव ते ।
मामेवमुक्त्वा भगवान्नारदो मुनिसत्तमः॥११०॥

दीप्यमानस्तपोवीर्यात्साक्षादग्निरिव ज्वलन् ।
वल्लकीं वाद्यमानो हि सप्तस्वरविमूर्च्छिताम्॥१११॥

वाद्यमानः वादयन्॥१११॥

गायनो लक्ष्यवीथीं स जगाम ब्रह्मणोऽन्तिकम् ।
शृणुष्वेदं महामात्र निबोध वचनं मम॥११२॥

लक्ष्यवीथीं ब्रह्मलोकमार्गं देवयानम्॥११२॥

तथ्यं चोक्तं नारदेन त्रैलोक्यज्ञेन धीमता ।
अलं बलेन वीर्येणानयेन विनयेन च॥११३॥

प्रमाणैर्वापि वीर्येण तेजसा विक्रमेण च ।
सत्येन चैव दानेन नान्योऽस्ति सदृशः पुमान्॥११४॥

सदृशो मयेति शेषः॥११४॥

विदित्वा सर्वमात्मानं वचनं श्रद्दधाम्यहम् ।
क्षेत्रजोऽहं सुतस्तस्य उग्रसेनस्य हस्तिप॥११५॥

मातापितृभ्यां सन्त्यक्तः स्थापितः स्वेन तेजसा ।
उभाभ्यामपि विद्विष्टो बान्धवैश्च विशेषतः॥११६॥

एतानपि हनिष्यामि यादवान्कृष्णपक्षिणः ।
तदिमौ घातयित्वा तु हस्तिना गोपकिल्बिषौ॥११७॥

तद्गच्छ गजमारुह्य साङ्कुशप्रासतोमरः ।
स्थिरो भव महामात्र समाजद्वारि मा चिरम्॥११८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि कंसवाक्येऽष्टाविंशोऽध्यायः॥२८॥
कुवलयापीडमारणम्-०२९

वैशम्पायन उवाच। तस्मिन्नहनि निर्वृत्ते द्वितीये समुपस्थिते ।
आपूर्यत महारङ्गः पौरैर्युद्धदिदृक्षुभिः॥१॥

एकोनत्रिंशे कंसेभप्रमुखस्याथ मारणम्। श्रीकृष्णेन कुवलयापीडनाम्नो निरूप्यते॥१॥ तस्मिन् इति॥१॥

सचित्राष्टास्रिचरणाः सार्गलद्वारवेदिकाः ।
सगवाक्षार्धचन्द्राश्च सुतल्पोत्तमभूषिताः॥२॥

यत्र मञ्चाः भान्ति स समाजवाटः, प्राङ्मुखैर्मञ्चागारैः शुशुभे इति पञ्चमचतुर्थतृतीयस्थानां पादानां सम्बन्धः। तत्र मञ्चाः कीदृशा इत्यत आह- द्वितीयेन श्लोकेन- सचित्रेति। चित्रसहिताः सचित्राः अष्टास्त्रयो अष्टकोणाश्चरणा येषां ते सचित्राष्टास्त्रिचरणाः॥२॥

प्राङ्मुखैश्चारुनिर्मुक्तैर्माल्यदामावतंसितैः ।
अलङ्कृतैर्विराजद्भिः शारदैरिव तोयदैः॥३॥

निर्मुक्तैः विरलतन्तुभिरन्तःपटैर्युक्तानि मञ्चागाराणि येषु स्थिताः राजदाराः सर्वं बहिःस्थं पश्यन्ति बाह्याश्च तान्न पश्यन्ति तादृशैश्चारुनिर्मुक्तैः॥३॥

मञ्चागारैः सुनिर्युक्तैर्युद्धाय सुविभूषितैः ।
समाजवाटः शुशुभे समेघौघ इवार्णवः॥४॥

सुनिर्युक्तैः शोभना निर्युक्ताः मल्लादयो येषु तैः॥४॥

स्वकर्मद्रव्ययुक्ताभिः पताकाभिर्निरन्तरम् ।
श्रेणीनां च गणा नां च मञ्चा भान्त्यचलोपमाः॥५॥

स्वकर्मद्रव्ययुक्ताभिः यस्य शिल्पवतो यदुपकरणद्रव्यं तेन चिह्निताभिः, श्रेणीनाम् अनेकजातीनामप्येकशिल्पोपजीविनां गणानाम् एकजातीनाम्॥५॥

अन्तःपुरचराणां च प्रेक्षागाराण्यनेकशः ।
रेजुः काञ्चनचित्राणि रत्नज्वालाकुलानि च॥६॥

तानि रत्नौघक्लृप्तानि ससानुप्रग्रहाणि च ।
रेजुर्जवनिकाक्षेपैः सपक्षा इव खे नगाः॥७॥

तानीति। जवनिकारूपैराक्षेपैरन्तर्द्धिकरैस्तिरोहिताधोभागानि रत्नौघैः क्लृप्तानि कृतानि प्रेक्षागाराणि ससानुप्रग्रहाणि उपरिदेशे सपताकानि खे सपक्षपर्वतवद्भान्तीत्यर्थः॥७॥

तत्र चामरहारैश्च भुषणानां च सिञ्जितैः ।
वाणीनां च विचित्राणां विचित्राश्चेरुरर्चिषः॥८॥

तत्र प्रेक्षागारेषु॥८॥

गणिकानां पृथङ्मञ्चाः शुभैरास्तरणाम्बरैः ।
शोभिता वारमुख्याभिर्विमानप्रतिमौजसः॥९॥

तत्रासनानि ख्यातानि पर्यङ्काश्च हिरण्मयाः ।
प्रकीर्णाश्च कुथाश्चित्राः सपुष्पस्तबकैर्वृताः॥१०॥

कुथाः आस्तरणविशेषाः॥१०॥

सौवर्णाः पानकुम्भाश्च पानभूम्यश्च शोभिताः ।
फलावदंशपूर्णाश्च चाङ्गेर्यः पानयोजिताः॥११॥

फलावदंशाः जम्बीराद्युपदंशास्तैः पूर्णाः चाङ्गेर्यः चुक्रिकादिपानरसाः पानयोजिताः पानार्थं स्थापिताः॥११॥

अन्ये च मञ्चा बहवः काष्ठसञ्चयबन्धनाः ।
रेजुः प्रस्तरणास्तत्र शतशोऽथ सहस्रशः॥१२॥

प्रस्तरणाः प्रकृष्टास्तरणाः॥१२॥

उत्तमागारिकाश्चैव सूक्ष्मजालावलोकिनः ।
स्त्रीणां प्रेक्षागृहा भान्ति राजहंसा इवाम्बरे॥१३॥

उत्तमागारिकाः गृहोपरि गृहं यत्तदुत्तमागारं तत्र भवाः। सूक्ष्मजालद्वारावलोको यस्तद्वन्तः। प्रेक्षागृहाः प्रेक्षार्थी गृहाः॥१३॥

प्राङ्मुखश्चारुनिर्युक्तो मेरुशृङ्गसमप्रभः ।
रुक्मपत्रनिभस्तम्भश्चित्रनिर्योगशोभितः॥१४॥

प्राङ्मुखः प्रेक्षागारः कंसस्य चकाशे इति द्वयोः सम्बन्धः॥१४॥

प्रेक्षागारः स कंसस्य प्रचकाशेऽधिकं श्रिया ।
शोभितो माल्यदामैश्च निवासकृतलक्षणः॥१५॥

तस्मिन्नानाजनाकीर्णे जनौघप्रतिनादिते ।
समाजवाटे संस्तब्धे कम्पमानार्णावप्रभे॥१६॥

राजा कुवलयापीडः समाजद्वारि कुञ्जरः ।
तिष्ठत्विति समाज्ञाप्य प्रेक्षागारमुपाययौ॥१७॥

राजा कंसः॥१७॥

स शुक्ले वाससी बिभ्रच्छ्वेतव्यजनचामरः ।
शुशुभे श्वेतमुकुटः श्वेताभ्र इव चन्द्रमाः॥१८॥

तस्य सिंहासनस्थस्य सुखासीनस्य धीमतः ।
रूपमप्रतिमं दृष्ट्वा पौराः प्रोचुर्जयाशिषः॥१९॥

ततः प्रविविशुर्मल्ला रङ्गमावलिताम्बराः ।
तिस्रश्च भागशः कक्षाः प्राविशन्बलशालिनः॥२०॥

आवलितानि प्रस्फुरितानि अम्बराणि येषाम्॥२०॥

ततस्तूर्यनिनदेन क्ष्वेडितास्फोटितेन च ।
वसुदेवसुतौ हृष्टौ रङ्गद्वारमुपस्थितौ॥२१॥

क्ष्वेडितं तत्सहितेन आस्फोटितेन आस्फालनेन उपलक्षितौ॥२१॥

बल्लवौ वस्त्रसंवीतौ सुरवन्दनभूषितौ ।
ऊर्ध्वपीडौ स्रगापीडौ बाहुशस्त्रकृतौ यमौ ।
आस्फोटयन्तावन्योन्यं बाहू चैवार्गलोपमौ॥२२॥

तावापतन्तौ त्वरितौ प्रतिषिद्धौ वराननौ ।
तेन मत्तेन नागेन चोद्यमानेन वै भृशम्॥२३॥

स मत्तहस्ती दुष्टात्मा कृत्वा कुण्डलिनं करम् ।
चकार चोदितो यत्नं निहन्तुं बलकेशवौ॥२४॥

करं शुण्डादण्डम्॥२४॥

ततः प्रहसितः कृष्णस्त्रास्यमानो गजेन वै ।
कंसस्य तन्मतं चैव जगर्हे स दुरात्मनः॥२५॥

त्वरते खलु कंसोऽयं गन्तुं वैवस्वतक्षयम् ।
यो मामनेन नागेन प्रधर्षयितुमिच्छति॥२६॥

सन्निकृष्टे ततो नागे गर्जमाने तथा घने ।
सहसोत्पत्य गोविन्दश्चक्रे तालस्वनं प्रभुः॥२७॥

तालस्वनं गजं कोपयितुं करतालिकाध्वनिम्॥२७॥

क्ष्वेडितास्फोटितरवं कृत्वा नागस्य चाग्रतः ।
करं ससीकरं तस्य प्रतिजग्राह वक्षसा॥२८॥

विषाणान्तरगो भूत्वा पुनश्चरणमध्यगः ।
बबाधे तं गजं कृष्णः पवनस्तोयदं यथा॥२९॥

बबाधे व्याकुलं चकार॥२९॥

स हस्ताग्राद्विनिष्क्रान्तो विषाणाग्राच्च दन्तिनः ।
विमुक्तः पदमध्याच्च कृष्णो द्विजमपोथयत्॥३०॥

अपोथयत् उच्चाकर्षणेन भूमौ धर्षितवान्॥३०॥

सोऽतिकायस्तु संमूढो हन्तुं कृष्णमशक्नुवन् ।
गजः स्वेष्वेव गात्रेषु मथ्यमानो ररास ह॥३१॥

संमूढः व्याकुलः ररास शब्दं कृतवान्॥३१॥

पपात भूमौ जानुभ्यां दशनाभ्यां तुतोद च ।
मदं सुस्राव रोषाच्च घर्मापाये यथा घनः॥३२॥

दशनाभ्यां मूलतो भग्नाभ्यां तुतोद व्यथां प्राप॥३२॥

कृष्णस्तु तेन नागेन क्रीडित्वा शिशुलीलया ।
निधनाय मतिं चक्रे कंसद्विष्टेन चेतसा॥३३॥

स तस्य प्रमुखे पादं कृत्वा कुम्भादनन्तरम् ।
दोर्भ्यां विषाणमुत्पाट्य तेनैव प्राहरत्तदा॥३४॥

प्रमुखे भूमध्यदेशे विषाणं दन्तम्॥३४॥

स तेन वज्रकल्पेन स्वेन दन्तेन कुञ्जरः ।
हन्यमानः शकृन्मूत्रं मुमोचार्तो ररास ह॥३५॥

कृष्णजर्जरिताङ्गस्य कुञ्जरस्यार्तचेतसः ।
कटाभ्यामति सुस्राव वेगवद्भूरि शोणितम्॥३६॥

लाङ्गूलं चास्य वेगेन निश्चकर्ष हलायुधः ।
शैलपृष्ठार्धसल्लीनं वैनतेय इवोरगम्॥३७॥

तेनैव गजदन्तेन कृष्णो हत्वा तु दन्तिनम् ।
जघानैकप्रहारेण गजारोहणमुल्बणम्॥३८॥

सोर्तनादं महत्कृत्वा विदन्तो दन्तिनां वरः ।
पपात स महामात्रो वज्रभिन्न इवाचलः॥३९॥

सार्तेति सन्धिरार्षः। ‘सोऽचीति’ वा सोर्लोपः। महन्महान्तम्॥३९॥

ततस्तौ तोरणाङ्गानि प्रगृह्य रणकर्कशौ ।
गजस्य पादरक्षांश्च जघ्नतुः पुरुषर्षभौ॥४०॥

तोरणस्य बहिर्द्वारस्य अङ्गानि स्तम्भादीनि तोरणं वाहनं गजस्तस्याङ्गानीति दन्तद्वये द्वाभ्यां गृहीतमित्यन्ये॥४०॥

तांश्च हत्वा विविशतुर्मध्यं रङ्गस्य तावुभौ ।
नासत्यावश्विनौ स्वर्गादवतीर्णाविवेच्छया॥४१॥

वृष्ण्यन्धकाश्च भोजाश्च ददृशुर्वनमालिनौ ।
क्ष्वेडितोत्कृष्टनादेन बाह्वोरास्फोटितेन च ।
सिंहनादैश्च तालैश्च हर्षयामासतुर्जनम्॥४२॥

तौ दृष्ट्वा भोजराजस्तु विषसाद वृथामतिः ।
पौराणामनुरागं च हर्षं चालक्ष्य भारत॥४३॥

भोजराजः कंसः विषसाद विषादं प्राप। तत्र हेत्वन्तरं पौराणामनुरागं च कृष्णे आलक्ष्य॥४३॥

तं हत्वा पुण्डरीकाक्षो नदन्तं दन्तिनां वरम् ।
अवतीर्णोऽर्णवाकारं समाजं सहपूर्वजः॥४४॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि कुवलयापीडवधे एकोनत्रिंशोऽध्यायः॥२९॥
कंसवधः-०३०

वैशम्पायन उवाच। प्रविशन्तं तु वेगेन मारुतावल्गिताम्बरम् ।
पूर्वजं पुरतः कृत्वा कृष्णं कमललोचनम्॥१॥

त्रिंशेऽमुष्मिन्नथाध्याये मल्लयुद्धं परस्परम्। मल्लानां हननं प्रोक्तं कंसस्य सानुगस्य च॥१॥ प्रविशन्तं पूर्वजं पुरतः कृत्वा प्रविशन्तमित्यन्वयः॥१॥

गजदन्तकृतोल्लेखं सुभुजं देवकीसुतम् ।
लीलाकृताङ्गदं वीरं मदेन रुधिरेण च॥२॥

मदेन हस्तिसम्बन्धिना लिप्तबाहुदेशमित्यर्थः॥२॥

वल्गमानं यथा सिंहं व्यूहमानं यथा घनम् ।
बाहुशब्दप्रहारेण चालयन्तं वसुन्धराम्॥३॥

व्यूहमानं कंसं हन्तुं विशेषतः तर्कयन्तं तं घनमिव सञ्चरन्तम्। वा पक्षे॥३॥

औग्रसेनिः समालोक्य दन्तिदन्तोद्यतायुधम् ।
कृष्णं भृशायस्तमुखः सरोषं समुदैक्षत॥४॥

आयस्तमुखः म्लानमुखः॥४॥

भुजासक्तेन शुशुभे गजदन्तेन केशवः ।
चन्द्रार्धबिम्बसंसक्तो यथैकशिखरो गिरिः॥५॥

वल्गमाने तु गोविन्दे स कृत्स्नोरगसागरः ।
जनौघप्रतिनादेन पूर्यमाण इवाबभौ॥६॥

ततः क्रोधाभिताम्राक्षः कंसः परमकोपनः ।
चाणूरमादिशद्युद्धे कृष्णस्य सुमहाबलम्॥७॥

अन्ध्रं मल्लं च निकृतिं मुष्टिकं च महाबलम् ।
बलदेवाय सक्रोधो दिदेशाद्रिचयोपमम्॥८॥

अन्ध्रम् अन्धयितारं चाणूरापरनामानं कृष्णाय दिदेशेति सम्बन्धः। बलदेवाय मुष्टिकमिति च निकृतिं कपटवन्तमित्युभयत्र सम्बन्धनीयम्॥८॥

कंसेनापि समाज्ञप्तश्चाणूरः पूर्वमेव तु ।
योद्धव्यं सह कृष्णेन त्वया यत्नवतेति वै॥९॥

स रोषेण तु चाणूरः कषायीकृतलोचनः ।
अभ्यावर्तत युद्धार्थमपां पूर्णो यथा घनः॥१०॥

अवघुष्टे समाजे तु निश्शब्दस्तिमिते जने ।
यादवाः सहितास्तत्र इदं वचनमब्रुवन्॥११॥

अवघुष्टे राजाज्ञया निःशब्दा भवतेति श्राविते॥११॥

बाहुयुद्धमिदं रङ्गे सप्राश्निकमकातरम् ।
क्रियाबलसमाज्ञातमशस्त्रं निर्मितं पुरा॥१२॥

सप्राश्निकं सपरीक्षकम् अकातरं भीरुरहितं निर्मितं विधिना॥१२॥

अद्भिश्चातिश्रमो नित्यं विनेयः कालदर्शिभिः ।
करीषेण च मल्लस्य सततं सत्क्रिया स्मृता॥१३॥

विनेयः परिहर्तव्यः॥१३॥

स्थितो भूमिगतेनैव यो यथा मार्गतः स्थितः ।
संयुज्यतश्च पर्यायः प्राश्निकैः समुदाहृतः॥१४॥

स्थितः स्थितेन संयुज्यतो नियुद्ध्यतः॥१४॥

बालो वा यदि वा वृद्धो मध्यो वापि कृशोऽपि वा ।
बलस्थो वा स्थितो रङ्गे ज्ञेयः कक्षान्तरेण वै॥१५॥

एवं बालो बालेनेत्यादिकक्षान्तरेण स्वस्वकक्षामध्यत एवेत्यर्थः॥१५॥

बलतश्च क्रियातश्च बाहुयुद्धविशारदैः ।
निपातानन्तरं किञ्चिन्न कर्तव्यं विजानता॥१६॥

तदिदं प्रस्तुतं रङ्गे युद्धं कृष्णान्ध्रमल्लयोः ।
बालाः कृष्णो महानन्ध्रः कथं न स्याद्विचारणा॥१७॥

प्रकृते विशेषमाह- तदिदमिति॥१७॥

ततः किलकिलाशब्दः समाजे समवर्तत ।
प्रावल्गत च गोविन्दो वाक्यं चेदमुवाच ह॥१८॥

अहं बालो महानन्ध्रो वपुषा पर्वतोपमः ।
युद्धं ममानेन सह रोचते बाहुशालिना॥१९॥

एवं सन्दिहानं जनं भगवानाश्वासयति- अहमिति॥१९॥

युद्धव्यतिक्रमः कश्चिन्न भविष्यति मत्कृतः ।
न ह्यहं बाहुयोधानां दूषयिष्यामि यन्मतम्॥२०॥

योऽयं करीषधर्मश्च तोयधर्मश्च रङ्गजः ।
कषायस्य च संसर्गः समयो ह्येष कल्पितः॥२१॥

य इति। करीषेणोद्वर्तनं जलेन क्षालनं कषायेण गैरिकेणानुलेपनं चेति मल्लानां सम्प्रदाय इत्यर्थः॥२१॥

संयमः स्थिरता शौर्यं व्यायामः सत्क्रिया बलम् ।
रङ्गे च नियता सिद्धिरेतद्युद्धविदां मतम्॥२२॥

संयमः अन्योन्यम् अपसारणम्। स्थिरता अनपसारणं व्यायामः स्थिरयोरपि हस्तपादादिचालनं सत्क्रिया चालनेऽपि मर्मास्पर्शित्वं सत्क्रियायामपि बलाधिक्येन रङ्गे नियता सिद्धिर्जयाख्या षड्भिः साधनैर्भवतीत्यर्थः॥२२॥

अवैरमेवं यदयं सवैरं कर्तुमुद्यतः ।
अत्र वै निग्रहः कार्यस्तोषयिष्याम्यहं जगत्॥२३॥

यद्यपि रङ्गयुद्धमवैरं तथाप्ययम् अन्ध्रः। कंसो वा सवैरं कर्तुमुद्यतोऽतोऽस्य वधेनैव जगत्तोषयामि मा विषादं कुरुतेति भावः॥२३॥

करूषेषु प्रसूतोऽयं चाणूरो नाम नामतः ।
बाहुयोधी शरीरेण कर्मभिश्चारु चिन्त्यताम्॥२४॥

एतेन बहवो मल्ला निपातानन्तरं हताः ।
रङ्गप्रतापकामेन मल्लमार्गश्च दूषितः॥२५॥

निपातानन्तरं न हन्तव्यमिति नियममतिक्रम्य हताः॥२५॥

शस्त्रसिद्धिस्तु योधानां सङ्ग्रामे शस्त्रयोधिनाम् ।
रङ्गसिद्धिस्तु मल्लानां प्रतिमल्लनिपातजा॥२६॥

तदेवाह- शस्त्रेति। शस्त्रं शत्रोर्विदारणं तदेव सिद्धिः। मल्लानां तु पातनमात्रं सिद्धिर्न वध इत्यर्थः॥२६॥

रणे विजयमानस्य कीर्तिर्भवति शाश्वती ।
हतस्यापि रणे शस्त्रैर्नाकपृष्ठं विधीयते॥२७॥

रणे ह्युभयतः सिद्धिर्हतस्येह घ्नतोऽपि वा ।
सा हि प्राणान्तिकी यात्रा महद्भिः साधु पूजिता॥२८॥

अयं तु मार्गो बलतः क्रियातश्च विनिःसृतः ।
मृतस्य रङ्गे क्व स्वर्गो जयतो वा कुतो रतिः॥२९॥

ये तु केचित्स्वदोषेण राज्ञः पण्डितमानिनः ।
प्रतापार्थे हता मल्ला मल्लहन्तुर्वधो हि सः॥३०॥

हन्तुः प्रयोज्यस्य प्रयोजकस्य वधो वधजं पापम्॥३०॥

एवं सञ्जल्पतामेव ताभ्यां युद्धं सुदारुणम् ।
उभाभ्यामभवद्घोरं वारणाभ्यां यथा वने॥३१॥

ताभ्यां तयोः॥३१॥

कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सकण्टकैः ।
सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा॥३२॥

कङ्कटः आलिङ्गनेनावरोधसन्निपातः उभाभ्यां वक्षःसंश्लेषणावरोधः अवधूतं तयोर्बलवता अन्यस्य दूरीकरणं प्रमाथो भूमौ पातनम् उन्माथ उद्गृह्य निपातनम्॥३२॥

तावुभावपि संश्लिष्टौ यथा शैलमयौ तथा ।
क्षेपणैर्मुष्टिभिश्चैव वराहोद्भूतनिःस्वनैः॥३३॥

शैलमयौ गण्डशैलोपमौ कठिनौ। क्षेपणैरास्फालनैः मुष्टिभिः मुद्रिकाङ्गुलिभिर्हस्ताग्रैः वराहोद्धूतं पादयोर्मध्ये प्रविश्यापक्षेपणम्। निःस्वनः विहीनस्वनो वाचा न्यक्करणं तैः॥३३॥

कीलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ।
शलाकानखपातैश्च पादोद्भूतैश्च दारुणैः॥३४॥

कीलवज्रनिपातः कूर्परजानुभ्यामाघातः। प्रसृष्टा अन्योन्यमङ्गुलिप्रदाः शलाका नखपाताः जत्रुदेशे अङ्गुष्ठेन कुक्षिदशे इतराङ्गुलिभिश्च सहाक्रमणं पादोद्धूतैः तिर्यक्पादप्रक्षेपेण शत्रोश्चालनं स्थानात्॥३४॥

जानुभिश्चाश्मनिर्घोषैः शिराभ्यां चावघट्टितैः ।
तद्युद्धमभवद्घोरमशस्त्रं बाहुतेजसा॥३५॥

अवघट्टितैः तिर्यगास्फालितैः॥३५॥

बाहुघ्राणेन शूराणां समाजोत्सवसन्निधौ ।
अरज्यत जनः सर्वः सोत्क्रिष्टनिनदोत्थितः॥३६॥

साधुवादांश्च मञ्चेषु घोषयन्त्यपरे जनाः ।
ततः प्रस्विन्नवदनः कृष्णाप्रणिहितेक्षणः ।
न्यवारयत तूर्याणि कंसः सव्येन पाणिना॥३७॥

प्रतिषिद्धेषु तूर्येषु मृदङ्गादिषु तेषु वै ।
खे सङ्गतान्यवाद्यन्त देवतूर्याण्यनेकशः॥३८॥

युद्ध्यमाने हृषीकेशे पुण्डरीकनिभेक्षणे ।
स्वयमेव प्रवाद्यन्त तूर्यघोषास्तु सर्वशः॥३९॥

अन्तर्धानगता देवा विमानैः कामरूपिभिः ।
चेरुर्विद्याधरैः सार्धं कृष्णस्य जयकाङ्क्षिणः॥४०॥

जयस्व कृष्ण चाणूरं दानवं मल्लरूपिणम् ।
इति सप्तर्षयः सर्वे ऊचुश्चैव नभोगताः॥४१॥

चाणूरेण चिरं कालं क्रीडित्वा देवकीसुतः ।
बलमाहारयामास कंसस्याभावदर्शिवान्॥४२॥

ततश्चचाल वसुधा मञ्चाश्चैव जुघूर्णिरे ।
मुकुटाच्चापि कंसस्य पपात मणिरुत्तमः॥४३॥

दोर्भ्यामानम्य कृष्णस्तु चाणूरं शीर्णजीवितम् ।
प्राहरन्मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना॥४४॥

निस्सृते साश्रुरुधिरे तस्य नेत्रे सबन्धने ।
तापनीये यथा घण्टे कक्षोपरि विलम्बिते॥४५॥

तापनीये सौवर्णमये नेत्रे नेत्रपिण्डौ॥४५॥

पपात स तु रङ्गस्य मध्ये निःसृतलोचनः ।
चाणूरो विगतप्राणो जीवितान्ते महीतले॥४६॥

देहेन तस्य मल्लस्य चाणूरस्य गतायुषः ।
सन्निरुद्धो महारङ्गः स शैलेनेव लक्ष्यते॥४७॥

रौहिणेयो हते तस्मिंश्चाणूरे बलदर्पिते ।
जग्राह मुष्टिकं रङ्गे कृष्णस्तोशलकं पुनः॥४८॥

सन्निपाते तु तौ मल्लौ प्रथमे क्रोधमूर्च्छितौ ।
समेयातां रामकृष्णौ कालस्य वशवर्तिनौ॥४९॥

निर्घातावनतौ भूत्वा रङ्गमध्ये ववल्गतुः ।
कृष्णस्तोशलमुद्यम्य गिरिशृङ्गोपमं बली ।
भ्रामयित्वा शतगुणं निष्पिपेष महीतले॥५०॥

तस्य कृष्णाभिपन्नस्य पीडितस्य बलीयसः ।
मुखाद्रुधिरमत्यर्थमुज्जगाम मुमूर्षतः॥५१॥

सङ्कर्षणस्तु सुचिरं योधयित्वा महाबलः ।
अन्ध्रमल्लं महामल्लो मण्डलानि व्यदर्शयत्॥५२॥

मुष्टिनैकेन तेजस्वी साशनिस्तनयित्नुना ।
शिरस्यभ्यहनद्वीरो वज्रेणेव महागिरिम्॥५३॥

स निष्पतितमस्तिष्को विस्रस्तनयनो भुवि ।
पपात निहतस्तेन ततो नादो महानभूत्॥५४॥

मस्तिष्कौ गण्डप्रदेशस्थौ मांसपिण्डौ॥५४॥

अन्ध्रतोशलकौ हत्वा कृष्णसङ्कर्षणावुभौ ।
क्रोधसंरक्तनयनौ रङ्गमध्ये ववल्गतुः॥५५॥

समाजवाटो निर्मल्लः सोऽभवद्भीमदर्शनः ।
अन्ध्रे तदा महामल्ले मुष्टिके च निपातिते॥५६॥

ये च सम्प्रेक्षका गोपा नन्दगोपपुरोगमाः ।
भयक्षोभितसर्वाङ्गाः सर्वे तत्रावतस्थिरे॥५७॥

हर्षजं वारि नेत्राभ्यां वर्षमाणा प्रवेपती ।
प्रस्रवोत्पीडिता कृष्णं देवकी समुदैक्षत॥५८॥

कृष्णदर्शनजातेन बाष्पेणाकुलितेक्षणा ।
वसुदेवो जरां त्यक्त्वा स्नेहेन तरुणायते॥५९॥

वारमुख्याश्च ताः सर्वाः कृष्णस्य मुखपङ्कजम् ।
पपुर्हि नेत्रभ्रमरैर्निमेषान्तरगामिभिः॥६०॥

कंसस्याथ मुखे स्वेदो भ्रूभेदान्तरगोचरः ।
अभवद्रोषनिर्यासः कृष्णसन्दर्शनेरितः॥६१॥

भ्रूभेदो भ्रूद्वयान्तरं मध्यं तद्गोचरस्तत्रोद्भूतः रोषाग्नेर्निर्यासो ज्वालाकलाप इवेत्यर्थः॥६१॥

केशवायसधूमेन रोषनिश्वासवायुना ।
दीप्तमन्तर्गतं तस्य हृदयं मानसाग्निना॥६२॥

मानसाग्निना कोधाग्निना केशवायसधूमेन केशवे यत् आयसं काठिन्यप्रकटीकरणं तदेव धूमवत् गमकं यस्य तेन केशवायसधूमेन रोषः द्विषोऽपकारक्षमत्वेन यस्तापः स एव निश्वासवायुर्यस्य॥६२॥

तस्य प्रस्फुरितौष्ठस्य स्विन्नालिकतलस्य वै ।
कंसवक्त्रस्य रोषेण रक्तसूर्यायते वपुः॥६३॥

स्विन्नालिकतलस्य प्रस्विन्नललाटस्य॥६३॥

क्रोधरक्तान्मुखात्तस्य निःसृताः स्वेदबिन्दवः ।
यथा रविकरस्पृष्टा वृक्षावश्यायबिन्दवः॥६४॥

यथा वृक्षपत्रगताः अवश्यायबिन्दवो बालसूर्यकरस्पृष्टा भान्ति तद्वदित्यर्थः॥६४॥

सोऽज्ञापयत सङ्क्रुद्धः पुरुषान्व्यायतान्बहून् ।
गोपावेतौ समाजौघान्निष्क्राम्येतां वनेचरौ॥६५॥

आज्ञापयत आज्ञापितवान्सन्धिरार्षः। व्यायतान् अतिघोरान्॥६५॥

न चैतौ द्रष्टुमिच्छामि विकृतौ पापदर्शनौ ।
गोपानामपि मे राज्ये न कश्चित्स्थातुमर्हति॥६६॥

नन्दगोपश्च दुर्मेधाः पापेष्वभिरतो मम ।
आयसैर्निगडाकारैर्लोहपाशैर्निगृह्यताम्॥६७॥

पापेषु कपटेषु निगडाकारैः॥६७॥

वसुदेवश्च दुर्वृत्तो नित्यं द्वेषकरो मम ।
अवृद्धार्हेण दण्डेन क्षिप्रमद्यैव शास्यताम्॥६८॥

ये चेमे प्राकृता गोपा दामोदरपरायणाः ।
ह्रियन्तां गाव एतेषां यच्चास्ति वसु किञ्चन॥६९॥

एवमाज्ञापयानं तं कंसं परुषभाषिणम् ।
ददर्शायस्तनयनः कृष्णः सत्यपराक्रमः॥७०॥

आयस्तनयनः क्रोधप्रसारितनेत्रः॥७०॥

क्षिप्ते पितरि चुक्रोध नन्दगोपे च केशवः ।
ज्ञातीनां च व्यथां दृष्ट्वा विसंज्ञां चैव देवकीम्॥७१॥

स सिंह इव वेगेन केशवो जातविक्रमः ।
आरुरुक्षुर्महाबाहुः कंसनाशार्थमच्युतः॥७२॥

रङ्गमध्यादुत्पपात कृष्णः कंसासनान्तिकम् ।
असज्जद्वायुनाक्षिप्तो यथा स्वस्थो घनाघनः॥७३॥

घनाघनः महामेघः॥७३॥

ददृशुर्न हि तं सर्वे रङ्गमध्यादवप्लुतम् ।
केवलं कंसपार्श्वस्थं ददृशुः पुरवासिनः॥७४॥

सोऽपि कंसस्तथायस्तः परीतः कालधर्मणा ।
आकाशादिव गोविन्दं मेने तत्रागतं प्रभुम्॥७५॥

आयस्तः व्याकुलीकृतः॥७५॥

स कृष्णेनायतं कृत्वा बाहुं परिघसन्निभम् ।
मूर्धजेषु परामृष्टः कंसो वै रङ्गसंसदि॥७६॥

मुकुटश्चापतत्तस्य काञ्चनो वज्रभूषितः ।
शिरसस्तस्य कृष्णेन परामृष्टस्य पाणिना॥७७॥

स ग्रहग्रस्तकेशश्च कंसो निर्यत्नतां गतः ।
तथैव च विसंमूढो वैकल्यं समपद्यत॥७८॥

निगृहीतश्च केशेषु गतासुरिव निःश्वसन् ।
न शशाक मुखं द्रष्टुं कंसः कृष्णस्य वै तदा॥७९॥

विकुण्डलाभ्यां कर्णाभ्यां चिन्नहारेणा वक्षसा ।
प्रलम्बाभ्यां च बाहुभ्यां गात्रैर्विसृतभूषणैः॥८०॥

विसृतभूषणैः भ्रष्टाभरणैः॥८०॥

भ्रंशितेनोत्तरीयेण सहसावलिताननः ।
चेष्टमानः समाक्षिप्तः कंसः कार्ष्णेन तेजसा॥८१॥

उत्तरीयेण वलितं वेष्टितम् आननं कण्ठो यस्य॥८१॥

चकर्ष च महारङ्गे मञ्चान्निष्क्रम्य केशवः ।
केशेषु तं बलाद्गृह्य कंसं क्लेशार्हतां गतम्॥८२॥

मञ्चान्निष्कम्य अधस्तान्निपात्य तदुपरि स्वयं च निपत्य केशेषु तं गृह्य चकर्ष॥८२॥

कृष्यमाणः स कृष्णेन भोजराजो महाद्युतिः ।
समाजवाटे परिखां देहकृष्टां चकार ह॥८३॥

देहकृष्टां देहेन लाङ्गलेनेव कर्षिताम्॥८३॥

समाजवाटे क्रीडित्वा विकृष्य च गतायुषम् ।
कृष्णो विसर्जयामास कंसदेहमदूरतः॥८४॥

गतायुषमिति। गतासोरपि कर्षणं मित्राणां सन्तोषार्थमित्यर्थः॥८४॥

धरण्यां मृदितः शिश्ये तस्य देहः सुखोचितः ।
क्रमेण विपरीतेन पांसुभिः परुषीकृतः॥८५॥

विपरीतेन शूरानर्हेण क्रमेण प्रकारेण॥८५॥

तस्य तद्वदनं श्यामं सुप्ताक्षं मुकुटं विना ।
न विभाति विपर्यस्तं विपलाशं यथाम्बुजम्॥८६॥

विपर्यस्तं कन्धरायास्त्रुटितत्वेनान्यथाभूतम्॥८६॥

असङ्ग्रामहतः कंसः स बाणैरपरिक्षतः ।
केशग्राहान्निरस्तासुर्वीरमार्गान्निराकृतः॥८७॥

असङ्ग्रामेति। स्वर्गः कीर्तिश्च वीरमार्गः तदुभयभ्रष्ट इत्यर्थः॥८७॥

तस्य देहे प्रकाशन्ते सहसा केशवार्पिताः ।
मांसच्छेदघनाः सर्वे नखाग्रा जीवितच्छिदः॥८८॥

अथाप्यस्य सद्गतिरस्तीत्याह- तस्येति॥८८॥

तं हत्वा पुण्डरीकाक्षः प्रहर्षाद्द्विगुणप्रभः ।
ववन्दे वसुदेवस्य पादौ निहतकण्टकः॥८९॥

मातुश्च शिरसा पादौ निपीड्य यदुनन्दनः ।
सासिञ्चत्प्रस्रवोत्पीडैः कृष्णमानन्दनिःसृतैः॥९०॥

प्रस्त्रवोत्पीडैः प्रस्त्रवस्यातिभरैः॥९०॥

यादवांश्चैव तान्सर्वान्यथास्थानं यथावयः ।
पप्रच्छ कुशलं कृष्णो दीप्यमानः स्वतेजसा॥९१॥

बलदेवोऽपि धर्मात्मा कंसभ्रातरमूर्जितम् ।
बाहुभ्यामेव तरसा सुनामानमपोथयत्॥९२॥

कंसभ्रातरं द्रुमिलोत्पन्नमेव कंसमित्रीभूतं न त्वौग्रसेनिम्॥९२॥

तौ जितारी जितक्रोधौ चिरविप्रोषितौ व्रजे ।
स्वपितुर्भवनं वीरौ जग्मतुर्हृष्टमानसौ॥९३॥

ताविति। बाह्याभ्यन्तरशत्रुजयिनाविति विशेषणद्वयार्थः॥९३॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि कंसवधे त्रिंशोऽध्यायः॥३०॥
कंसयोषितां विलापः-०३१

वैशम्पायन उवाच। भर्तारं पतितं दृष्ट्वा क्षीणपुण्यमिव ग्रहम् ।
कंसपत्न्यो हतं कंसं समन्तात्पर्यवारयन्॥१॥

अथैकत्रिंशे त्वध्याये विलापः कंसयोषिताम्। मातुश्च मन्त्रणं पत्युर्विज्ञप्तिः कंसघातिनः॥ भर्तारं पतितं दृष्ट्वेत्यादि। स्पष्टार्थः॥१॥

तं महीशयने सुप्तं क्षितिनाथं गतायुषम् ।
भार्याः स्म दृष्ट्वा शोचन्ति मृग्यो मृगपतिं यथा॥२॥

हा हताः स्म महाबाहो हताशा हतबान्धवाः ।
वीरपत्न्यो हते वीरे त्वयि वीर व्रतप्रिये॥३॥

इमामवस्थां पश्यन्त्यः पश्चिमां तव नैष्ठिकीम् ।
कृपणं राजशार्दूल विलपामः सबान्धवाः॥४॥

छिन्नमूलाः स्म संवृत्ताः परित्यक्तास्त्वया विभो ।
त्वयि पञ्चत्वमापन्ने नाथेऽस्माकं महाबले॥५॥

को नः कोपपरीताङ्गी रतिसंसर्गलालसाः ।
लता इव विचेष्टन्तीः शयनीयानि नेष्यति॥६॥

इदं तेऽसदृशं सौम्य हृद्यनिश्वासमारुतम् ।
दहत्यर्को मुखं कान्तं निस्तोयमिव पङ्कजम्॥७॥

इमे ते श्रवणे शून्ये न शोभेते विकुण्डले ।
शिरोधरायां सल्लीने सततं कुण्डलप्रिये॥८॥

क्व ते स मुकुटो वीर सर्वरत्नविभूषितः ।
अत्यर्थं शिरसो लक्ष्मीं यो दधारार्कसप्रभाम्॥९॥

अनेन हि कलत्रेण तवान्तःपुरशोभिना ।
कथं दीनेन कर्तव्यं त्वयि लोकान्तरं गते॥१०॥

ननु नाम स्त्रियः साध्व्यः प्रियभोगेष्ववञ्चिताः ।
पतीनामपरित्याज्याः स त्वं नस्त्यज्य गच्छसि॥११॥

अहो कालो महावीर्यो येन पर्यायकर्मणा ।
कालतुल्यः सपत्नानां त्वं क्षिप्रमपनीयसे॥१२॥

वयं दुःखेष्वनुचिताः सुखेष्वेव त्वयैधिताः ।
कथं वत्स्याम विधवा नाथ कार्पण्यमाश्रिताः॥१३॥

स्त्रीणां चारित्रलुब्धानां पतिरेकः परा गतिः ।
त्वं हि नः सा गतिश्छिन्ना कृतान्तेन बलीयसा॥१४॥

वैधव्येनाभिभूताः स्मः शोकसन्तप्तमानसाः ।
रोदितव्यह्रदे मग्नाः क्व गच्छामस्त्वया विना॥१५॥

सह त्वया गतः कालस्त्वदङ्के क्रीडितं कृतम् ।
क्षणेन तद्विहीनाः स्म अनित्या हि नृणां गतिः॥१६॥

अहो बलविहीनाः स्म विपन्ने त्वयि मानद ।
एकदुष्कृतकारिण्यः सर्वा वैधव्यलक्षणाः॥१७॥

त्वया स्वर्गप्रतिच्छन्दैर्लालिताः स्म रतिप्रियाः ।
त्वयि कामवशाः सर्वाः स नस्त्यज्य क्व गच्छसि॥१८॥

अस्माकं त्वमनाथानां नाथो ह्यसि सुरोपम ।
आसां विलपमानानां कुररीणामिव प्रभो ।
प्रतिवाक्यं जगन्नाथ दातुमर्हसि मानद॥१९॥

एवमार्तकलत्रस्य शाम्यमानेषु बन्धुषु ।
गमनं ते महाभाग दारुणे प्रतिभाति नः॥२०॥

नूनं कान्ततराः कान्त परलोके वरस्त्रियः ।
यतस्त्वं प्रस्थितो वीर विहायेमं गृहे जनम्॥२१॥

किं नु ते कारणं वीर भार्यास्वेतासु भूरिद ।
आर्तनादं रुदन्तीषु यन्मोहान्नावबुध्यसे॥२२॥

अहो निष्करुणा यात्रा नराणामौर्ध्वदेहिकी ।
यत्परित्यज्य दारान्त्स्वान्निरपेक्षा व्रजन्ति हि॥२३॥

अपतित्वं स्त्रियाः श्रेयो न तु शूरः पतिः स्त्रियाः ।
स्वर्गस्त्रीणां प्रियाः शूरास्तेषामपि च ताः प्रियाः॥२४॥

अहो क्षिप्रमदृश्येन नयतां त्वां रणप्रियम् ।
प्रहृतं नः कृतान्तेन सर्वासामन्तरात्मसु॥२५॥

हत्वा जरासन्धबलं जित्वा यक्षांश्च संयुगे ।
कथं मानुषमात्रेण हतस्त्वं जगतीतले॥२६॥

इन्द्रेणा सह सङ्ग्रामं कृत्वा सायकविग्रहम् ।
अमर्त्यैरजितो युद्धे मर्त्येनासि कथं हतः॥२७॥

त्वया सागरमक्षोभ्यं विक्षोभ्य शरवृष्टिभिः ।
रत्नसर्वस्वहरणं जित्वा पाशधरं कृतम्॥२८॥

त्वया पौरजनस्यार्थे मन्दं वर्षति वासवे ।
सायकैर्जलदाञ्जित्वा बलाद्वर्षं प्रवर्तितम्॥२९॥

प्रतापावनताः सर्वे तव तिष्ठन्ति पार्थिवाः ।
प्रेषयन्तो वरार्हाणि रत्नान्याच्छादनानि च॥३०॥

तवैवं देवकल्पस्य दृष्टवीर्यस्य शत्रुभिः ।
कथं प्राणान्तकं घोरमीदृशं भयमागतम्॥३१॥

प्राप्ताः स्मो विधवाशब्दं त्वयि नाथे निपातिते ।
अप्रमताः प्रमत्तेन कृतान्तेन निराकृताः॥३२॥

यद्येवं नाथ गन्तव्यं यदि वा विस्मृता वयम् ।
वाङ्मात्रेणापि यामीति वक्तव्ये कः परिश्रमः॥३३॥

प्रसीद नाथ भीताः स्म पादौ ते याम मूर्द्धभिः ।
अलं दूरप्रवासेन निवर्तस्व नराधिप॥३४॥

अहो वीर कथं शेषे निषण्णस्तृणपांसुषु ।
शयानस्य हि ते भूमौ कस्मान्नोद्विजते वपुः॥३५॥

केन सुप्तप्रहारोऽयं दत्तोऽस्माकमतर्कितः ।
प्रदत्तं केन सर्वासु नारीष्वेवं सुदारुणम्॥३६॥

रुदितानुशयो नार्या जीवन्त्याः परिदेवनम् ।
किं वयं सति गन्तव्ये सह भर्त्रा रुदामहे॥३७॥

रुदिते अनुशयः आशयोऽन्तःकरणं रुदितानुशयः॥३७॥

एतस्मिन्नन्तरे दीना कंसमाता प्रवेपती ।
क्व मे वत्सः क्व मे पुत्र इति रोरूयती भृशम्॥३८॥

सापश्यन्निहतं पुत्रं निष्प्रभं शशिनं यथा ।
हृदयेन विदीर्णेन भ्राम्यमाणा पुनः पुनः॥३९॥

पुत्रं समभिवीक्षन्ती हा हतास्मीति वाशती ।
स्नुषाणामार्तनादेन विललाप रुरोद च॥४०॥

सा तस्य वदनं दीनमुत्सङ्गे पुत्रगृद्धिनी ।
कृत्वा पुत्रेति कारुण्यं विललापार्तया गिरा॥४१॥

पुत्र शूरव्रते युक्त ज्ञातीनां नन्दिवर्द्धन ।
किमिदं त्वरितं वत्स प्रस्थानं कृतवानसि॥४२॥

प्रसुप्तश्चातिविवृते किं पुत्र नियमं विन ।
वत्स नैवंविधा भूमौ शेरते कृतलक्षणाः॥४३॥

रावणेन पुरा गीतः श्लोकोऽयं साधुसंमतः ।
बलज्येष्ठेन लोकेषु राक्षसानां समागमे॥४४॥

एवमूर्जितवीर्यस्य मम देवनिघातिनः ।
बान्धवेभ्यो भयं घोरं दुर्निवार्यं भविष्यति॥४५॥

तथैव ज्ञातिलुब्धस्य मम पुत्रस्य धीमतः ।
ज्ञातिभ्यो भयमुत्पन्नं शरीरान्तकरं महत्॥४६॥

सा पतिं भूपतिं वृद्धमुग्रसेनं विचेतसम् ।
उवाच रुदती वाक्यं विवत्सा हरिणी यथा॥४७॥

एह्येहि राजञ्छुद्धात्मन्पश्य पुत्रं जनेश्वरम् ।
शयानं वीरशयने वज्राहतमिवाचलम्॥४८॥

अस्य कुर्मो महाराज निर्याणसदृशीं क्रियाम् ।
प्रेतत्वमुपपन्नस्य गतस्य यमसादनम्॥४९॥

वीरभोग्यानि राज्यानि वयं चापि पराजिताः ।
गच्छ विज्ञाप्यतां कृष्णः कंससत्कारकारणात्॥५०॥

मरणान्तानि वैराणि शान्ते शान्तिर्भविष्यति ।
प्रेतकार्याणि कार्याणि मृतः किमपराध्यते॥५१॥

एवमुक्त्वा पतिं भोजं केशानारुज्य दुःखिता ।
पुत्रस्य मुखमीक्षन्ती विललापैव सा भृशम्॥५२॥

इमास्ते किं करिष्यन्ति भार्या राजन्सुखोषिताः ।
त्वां पतिं सुपतिं प्राप्य या विपन्नमनोरथाः॥५३॥

इमं ते पितरं वृद्धं कृष्णस्य वशवर्तिनम् ।
कथं द्रक्ष्यामि शुष्यन्तं कासारसलिलं यथा॥५४॥

अहं ते जननी पुत्र किमर्थं नाभिभाषसे ।
प्रस्थितो दीर्घमध्वानं परित्यज्य प्रियं जनम्॥५५॥

अहो वीराल्पभाग्यायाः कृतान्तेनाभिवर्तिना ।
आच्छिद्य मम सन्दायो नीयसे नयकोविदः॥५६॥

दानमानगृहीतानि तृप्तान्येतानि तैर्गुणैः ।
रुदन्ति तव भृत्यानां कुलानि कुलयूथप॥५७॥

उत्तिष्ठ नरशार्दूल दीर्घबाहो महाबल ।
त्राहि दीनं जनं सर्वं पुरमन्तःपुरं यथा॥५८॥

रुदतीनां भृशार्तानं कंसस्त्रीणां सुविस्तरम् ।
जगामास्तं दिनकरः सन्ध्यारागेण रञ्जितः॥५९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि कंसस्त्रीविलापे एकत्रिंशोऽध्यायः॥३१॥
उग्रसेनाभिषेकः-०३२

वैशम्पायन उवाच। उग्रसेनस्तु कृष्णस्य समीपं दुःखितो ययौ ।
पुत्रशोकाभिसन्तप्तो विषपीत इव श्वसन्॥१॥

द्वात्रिंशेऽस्मिन्नथाध्याये राज्ञो विज्ञप्तिरुच्यते। उग्रसेनाभिषेकश्च कंससंस्कारपूर्वकः॥१॥ उग्रसेनः विषपीतः पीतविषः॥१॥

स ददर्श गृहे कृष्णं यादवैः परिवारितम् ।
पश्चानुतापाद्ध्यायन्तं कंसस्य निधनाविलम्॥२॥

पश्चानुतापात्पश्चात्तापाच्छान्दसस्तकारलोपः॥२॥

कंसनारीविलापांश्च श्रुत्वा स करुणान्बहून् ।
गर्हमाणस्तथात्मानं तस्मिन्यादवसंसदि॥३॥

तस्मिन् तस्याम्॥३॥

अहो मयातिबाल्येन रोषाद्दोषानुवर्तिना ।
वैधव्यं स्त्रीसहस्राणां कंसस्यास्य वधे कृतम्॥४॥

कारुण्यं खलु नारीषु प्राकृतस्यापि जायते ।
एवमार्तं रुदन्तीषु मया भर्तरि पातिते॥५॥

परिदेवितमत्रेण शोकः खलु विधीयते ।
कृतान्तस्यानभिज्ञानां स्त्रीणां कारुण्यसम्भवः॥६॥

स्त्रीणां परिदेवितमात्रेण कृतान्तस्यापि शोको विधीयत इति योजना॥६॥

कंसस्य हि वधः श्रेयान्प्रागेवाभिमतो मम ।
सतामुद्वेजनीयस्य पापेष्वभिरतस्य च॥७॥

लोके पतितव्रृत्तस्य परुषस्याल्पमेधसः ।
अक्लिष्टं मरणं श्रेयो न विद्विष्टस्य जीवितम्॥८॥

कंसः पापपरश्चैव साधूनामप्यसंमतः ।
धिक्छब्दपतितश्चैव जीविते चास्य का दया॥९॥

स्वर्गे तपोभृतां वासः फलं पुण्यस्य कर्मणः ।
इहापि यशसा युक्तः स्वर्गस्थैरवधार्यते॥१०॥

स्वर्गस्थैस्तुल्य इति शेषः॥१०॥

यदि स्युर्निर्वृता लोकाः स्युश्च धर्मपराः प्रजाः ।
नरा धर्मप्रवृत्ताश्च न राज्ञामनयः स्पृशेत्॥११॥

राज्ञां नृपान्॥११॥

निग्रहे दुष्टवृत्तीनां कृतान्तः कुरुते फलम् ।
इष्टधर्मेषु लोकेषु कर्तव्यं पारलौकिकम्॥१२॥

कुरुते ददाति॥१२॥

अतीव देवा रक्षन्ति नरं धर्मपरायणम् ।
कर्तारः सुलभा लोके दुष्कृतस्य हि कर्मणः॥१३॥

हतः सोऽयं मया कंसः साध्वेतदवगम्यताम् ।
मूलच्छेदः कृतस्तस्य विपरीतस्य कर्मणः॥१४॥

विपरीतस्य पापस्य॥१४॥

तदेष सान्त्व्यतां सर्वः शोकार्तः प्रमदाजनः ।
पौराश्च पुर्यां श्रेण्यश्च सान्त्व्यन्तां सर्व एव हि॥१५॥

एवं ब्रुवति गोविन्दे विवेशावनताननः ।
उग्रसेनो यदून्गृह्य पुत्रकिल्बिषशङ्कितः॥१६॥

स कृष्णं पुण्डरीकाक्षमुवाच यदुसंसदि ।
बाष्पसन्दिग्धया वाचा दीनया सज्जमानया॥१७॥

पुत्रो निर्यापितः क्रोधान्नीतो याम्यां दिशं रिपुः ।
स्वधर्माधिगता कीर्तिर्नाम विश्रावितं भुवि॥१८॥

स्थापितं सत्सु माहात्म्यं शङ्किता रिपवः कृताः ।
स्थापितो यादवो वंशो गर्विताः सुहृदः कृताः॥१९॥

सामन्तेषु नरेन्द्रेषु प्रतापस्ते प्रकाशितः ।
मित्राणि त्वां भजिष्यन्ति संश्रयिष्यन्ति पार्थिवाः॥२०॥

प्रकृतयोऽनुयास्यन्ति स्तोष्यन्ति त्वां द्विजातयः ।
सन्धिविग्रहमुख्यास्त्वां प्रणमिष्यन्ति मन्त्रिणः॥२१॥

हस्त्यश्वरथसम्पूर्णं पदातिगणसङ्कुलम् ।
प्रतिगृहाण कृष्णेदं कंसस्य बलमव्ययम्॥२२॥

धनं धान्यं च यत्किञ्चिद्रत्नान्याच्छादनानि च ।
प्रतीच्छन्तु नियुक्ता वै त्वदीयाः कृष्ण पूरुषाः॥२३॥

प्रतीच्छन्तु अङ्गीकुर्वन्तु॥२३॥

स्त्रियो हिरण्यं यानानि यदन्यद्वसु किञ्चन ।
एवं हि विहिते योगे पर्याप्ते कृष्ण विग्रहे॥२४॥

प्रतिष्ठितायां मेदिन्यां यदूनां शत्रुसूदन ।
त्वं गतिश्चागतिश्चैव यदूनां यदुनन्दन॥२५॥

शृणुष्व वदतां वीर कृपणानामिदं वचः ।
अस्य त्वत्कोपदग्धस्य कंसस्याशुभकर्मणः॥२६॥

तव प्रसादाद्गोविन्द प्रेतकार्यं क्रियेत ह ।
तस्य कृत्वा नरेन्द्रस्य विपन्नस्यौर्ध्वदेहिकम्॥२७॥

सस्नुषोऽहं सभार्यश्च चरिष्यामि मृगैः सह ।
प्रेतसत्कारमात्रेण कृते बान्धवकर्मणि॥२८॥

आनृण्यं लौकिकं कृष्ण गताः किल भवन्ति हि ।
तस्याग्निं पश्चिमं कृत्वा चितिस्थाने विधानतः ।
तोयप्रदानमात्रेण कंसस्यानृण्यमाप्नुयाम्॥२९॥

एतत्ते कृष्ण विज्ञाप्यं स्नेहोऽत्र मयि युज्यताम् ।
प्राप्नोति सुगतिं तत्र कृपणः पश्चिमां क्रियाम्॥३०॥

एतच्छ्रुत्वा वचस्तस्य कृष्णः परमविस्मितः ।
प्रत्युवाचोग्रसेनं वै सान्त्वपूर्वमिदं वचः॥३१॥

कालयुक्तामिदं तात तवैतद्यत्प्रभाषितम् ।
सदृशं राजशार्दूल वृत्तस्य च कुलस्य च॥३२॥

यत्त्वमेवंविधो ब्रूषे गतेऽर्थे दुरतिक्रमे ।
प्राप्स्यते नृपसत्कारं कंसः प्रेतगतोऽपि सन्॥३३॥

कुले महति ते जन्म वेदान्विदितवानसि ।
कथं न ज्ञायते तात नियतिर्दुरतिक्रमा॥३४॥

स्थावराणां च भूतानां जङ्गमानां च पार्थिव ।
पूर्वजन्मकृतं कर्म कालेन परिपच्यते॥३५॥

श्रुतवन्तोऽर्थवन्तश्च दातारः प्रियदर्शनाः ।
ब्रह्मण्या नयसम्पन्ना दीनानुग्रहकारिणः॥३६॥

लोकपालसमास्तात महेन्द्रसमविक्रमाः ।
क्षितिपालाः कृतान्तेन नीयन्ते नृपसत्तम॥३७॥

धार्मिकाः सर्वभावज्ञाः प्रजापालनतत्पराः ।
क्षत्रधर्मपरा दान्ताः कालेन निधनं गताः॥३८॥

स्वयमात्मकृतं कर्म शुभं वा यदि वाशुभम् ।
प्राप्ते काले तु तत्कर्म दृश्यते सर्वदेहिनाम्॥३९॥

दृश्यते भोगेनानुभूयते॥३९॥

एषा ह्यन्तर्हिता माया दुर्विज्ञेया सुरैरपि ।
यथायं मुह्यते लोको ह्यत्र कर्मैव कारणम्॥४०॥

कालेनाभिहतः कंसः पूर्वकर्मप्रचोदितः ।
न ह्यहं कारणं तत्र कालः कर्म च कारणम्॥४१॥

सूर्यसोममयं तात कृत्स्नं स्थावरजङ्गमम् ।
कालेन निधनं गत्वा कालेनैव च जायते॥४२॥

स कालः सर्वभूतानां निग्रहानुग्रहे रतः ।
तस्मात्सर्वाणि भूतानि कालस्य वशगानि वै॥४३॥

स्वदोषेणैव दग्धस्य सूनोस्तव नराधिप ।
नाहं वै कारणं तत्र कालस्तत्र च कारणम्॥४४॥

अथवाहं भविष्यामि कारणं नात्र संशयः ।
परायणपरः कालः किं करिष्यत्यकारणः॥४५॥

परायणपरः परस्य कर्मणोऽयनं गमनं तत्परस्तदधीनः कालोऽपि कर्माधीनः तेन स्वकर्मणैवायं मृत इत्यर्थः। अहं तु निमित्तमात्रं शस्त्रवदिति भावः। यथोक्तम्- “स्वकर्मैव नरं हन्ति न शस्त्ररिपुमृत्यवः। न भेतव्यं न वा सभ्यं चोरहत्यावलम्बते”॥ इति॥४५॥

कालस्तु बलवान्राजन्दुर्विज्ञेया हि सा गतिः ।
परावरविशेषज्ञा यां यान्ति समदर्शिनः॥४६॥

सा गतिः या कालात्परा मोक्षरूपा॥४६॥

गतिः कालस्य सा येन सर्वं कालस्य गोचरम् ।
ब्रवीमि यदहं तात तदनुष्ठीयतां वचः॥४७॥

येन कर्मणा तत् वचः वचनप्रतिपाद्यं कर्मानुष्ठीयताम्॥४७॥

न हि राज्येन मे कार्यं नाप्यहं नृप काङ्क्षितः ।
न चापि राज्यलुब्धेन मया कंसो निपातितः॥४८॥

काङ्क्षितः काङ्क्षा सञ्जाता यस्य तादृशः॥४८॥

किं तु लोकहितार्थाय कीर्त्यर्थं च सुतस्तव ।
व्यङ्गभूतः कुलस्यास्य सानुजो विनिपातितः॥४९॥

अहं स एव गोमध्ये गोपैः सह वनेचरः ।
प्रीतिमान्विचरिष्यामि कामचारी यथा गजः॥५०॥

एतावच्छतशोऽप्येवं सत्येनैतद्ब्रवीमि ते ।
न मे कार्यं नृपत्वेन विज्ञाप्यं क्रियतामिदम्॥५१॥

भवान्राजास्तु मान्यो मे यदूनामग्रणीः प्रभुः ।
विजयायाभिषिच्यस्व स्वराज्ये नृपसत्तम॥५२॥

यदि ते मत्प्रियं कार्यं यदि वा नास्ति ते व्यथा ।
मया निसृष्टं राज्यं स्वं चिराय प्रतिगृह्यताम्॥५३॥

वैशम्पायन उवाच। एतच्छ्रुत्वा तु वचनं नोत्तरं प्रत्यभाषत ।
व्रीडिताधोमुखं तं तु राजानं यदुसंसदि॥५४॥

व्रीडितश्चासौ अधोमुखश्च तम्॥५४॥

अभिषेकेन गोविन्दो योजयामास धर्मवित् ।
स बद्धमुकुटः श्रीमानुग्रसेनो महाद्युतिः ।
चकार सह कृष्णेन कंसस्य निधनक्रियाम्॥५५॥

तं सर्वे यादवा मुख्या राजानं कृष्णशासनात् ।
अनुजग्मुः पुरीमार्गे देवा इव शतक्रतुम्॥५६॥

पुरीमार्गे पुरप्रवेशमार्गे॥५६॥

रजन्यां तु निवृत्तायां ततः सूर्ये विराजिते ।
पश्चिमं कंससंस्कारं चक्रुस्ते यदुपुङ्गवाः॥५७॥

शिबिकायामथारोप्य कंसदेहं यथाक्रमम् ।
नैष्ठिकेन विधानेन चक्रुस्ते कंससत्क्रियाम्॥५८॥

स नीतो यमुनातीरमुत्तमं नृपतेः सुतः ।
सत्कृतश्च यथान्यायं नैधनेन चिताग्निना॥५९॥

तथैव भ्रातरं चास्य सुनामानं महाभुजम् ।
संस्कारं लम्भयामासुः सह कृष्णेन यादवाः॥६०॥

ताभ्यां ते सलिलं चक्रुर्वृष्ण्यन्धकपुरोगमाः ।
अक्षयं चास्तु प्रेतेभ्यो भाषमाणाः पुनः पुनः॥६१॥

हिरण्यस्य सुवर्णस्य दशकोटीस्तथा हरिः ।
गावो रत्नानि वासांसि ग्रामान्नगरसंमतान्॥६२॥

ददौ कंसं समुद्दिश्य ब्राह्मणेभ्यो नृपोत्तमः ।
अक्षयं चापि विप्रेभ्यो भाषमाणाः पुनः पुनः॥६३॥

तयोस्ते सलिलं दत्त्वा यादवा दीनमानसाः ।
पुरस्कृत्योग्रसेनं वै विविशुर्मथुरां पुरीम्॥६४॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि उग्रसेनाभिषेककंससंस्कारकथने द्वात्रिंशोऽध्यायः॥३२॥
रमकृष्णयोर्विद्यासम्पादनम्-०३३

वैशम्पायन उवाच। स कृष्णस्तत्र बलवान्रौहिणेयेन सङ्गतः ।
मथुरां यादवाकीर्णां पुरीं तां सुखमावसत्॥१॥

त्रयस्त्रिंशे त्वथाध्याये विद्यां पुत्रं गुरोर्मुखात्। लब्ध्वा तस्मै वरं दत्त्वा प्रत्यायातावितीर्यते॥१॥ स कृष्ण इति॥१॥

प्राप्तयौवनदेहस्तु युक्तो राजश्रिया ज्वलन् ।
चचार मथुरां वीरः स रत्नाकरभूषणाम्॥२॥

कस्यचित्त्वथ कालस्य सहितौ रामकेशवौ ।
गुरुं सान्दीपनिं काश्यमवन्तिपुरवासिनम्॥३॥

काश्यं काशिदेशजम्॥३॥

धनुर्वेदचिकीर्षार्थमुभौ तावभिजग्मतुः ।
निवेद्य गोत्रं स्वाध्यायमाचारेणाभ्यलङ्कृतौ॥४॥

शुश्रूषू निरहङ्कारावुभौ रामजनार्दनौ ।
प्रतिजग्राह तौ काश्यो विद्याः प्रादाच्च केवलाः॥५॥

तौ च श्रुतिधरौ वीरौ यथावत्प्रतिपद्यताम् ।
अहोरात्रैश्चतुष्षष्ट्या साङ्गवेदमधीयताम्॥६॥

श्रुतिधरौ श्रवणमात्रग्राहिणौ॥६॥

चतुष्पादं धनुर्वेदं शस्त्रग्रामं ससङ्ग्रहम् ।
अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत्॥७॥

चतुष्पादं दीक्षासङ्ग्रहसिद्धिप्रयोगाख्यैश्चतुर्भिः पादैरुपेतम्। ससङ्ग्रहं सरहस्यम्॥७॥

अतीवामानुषीं मेधां चिन्तयित्वा तयोर्गुरुः ।
मेने तावागतौ वीरौ देवौ चन्द्रदिवाकरौ॥८॥

ददर्श च महात्मानावुभौ तावपि पर्वसु ।
पूजयन्तौ महादेवं साक्षाद्विष्णुं व्यवस्थितम्॥९॥

तयोश्चन्द्रसूर्यत्वमनुमाय तदाराध्यत्वेन कृष्णं प्रत्यक्षेणैव ददर्शेत्याह- ददर्श चेति॥९॥

गुरुं सान्दीपनिं कृष्णः कृतकृत्योऽभ्यभाषत ।
गुर्वर्थं किं ददानीति रामेण सह भारत॥१०॥

तयोः प्रभावं स ज्ञात्वा गुरुः प्रोवाच हृष्टवान् ।
पुत्रमिच्छाम्यहं दत्तं यो मृतो लवणाम्भसि॥११॥

पुत्र एकोऽपि मे जातः स चापि तिमिना हतः ।
प्रभासे तीर्थयात्रायां तं मे त्वं पुनरानय॥१२॥

तं मृतं मे॥१२॥

तथेत्येवाब्रवीत्कृष्णो रामस्यानुमते स्थितः ।
गत्वा समुद्रं तेजस्वी विवेशान्तर्जलं हरिः॥१३॥

समुद्रः प्राञ्जलिर्भूत्वा दर्शयामास स्वं तदा ।
तमाह कृष्णः क्वासौ भोः पुत्रः सान्दीपनेरिति॥१४॥

समुद्रः प्रत्युवाचेदं दैत्यः पञ्चजनो महान् ।
तिमिरूपेण तं बालं ग्रस्तवानिति माधव॥१५॥

उन्मथ्य सलिलादस्माद्ग्रस्तवानिति भारत ।
स पञ्चजनमासाद्य जघान पुरुषोत्तमः ।
न चाससाद तं बालं गुरुपुत्रं तदाच्युतः॥१६॥

स तु पञ्चजनं हत्वा शङ्खं लेभे जनार्दनः ।
यस्तु देवमनुष्येषु पाञ्चजन्य इति श्रुतः॥१७॥

ततो वैवस्वतपुरं जगाम पुरुषोत्तमः ।
ततो यमोऽभ्युपागम्य ववन्दे तं गदाधरम्॥१८॥

तमुवाचाथ वै कृष्णो गुरुपुत्रः प्रदीयताम् ।
तयोस्तत्र तदा युद्धमासीद्घोरतरं महत्॥१९॥

ततो वैवस्वतं घोरं निर्जित्य पुरुषोत्तमः ।
आससाद च तं बालं गुरुपुत्रं तदाच्युतः॥२०॥

आनिनाय गुरोः पुत्रं चिरं नष्टं यमक्षयात् ।
ततः सान्दीपनेः पुत्रः प्रभावादमितौजसः॥२१॥

दीर्घकालगतः प्रेतः पुनरासीच्छरीरवान् ।
तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम्॥२२॥

सर्वेषामेव भूतानां विस्मयः समजायत ।
स गुरोः पुत्रमादाय पाञ्चजन्यं च माधवः ।
रत्नानि च महार्हाणि पुनरायाज्जगत्प्रभुः॥२३॥

रत्नानि च वैवस्वतेन दत्तानि॥२३॥

राक्षसैस्तस्य रत्नानि महार्हाणि बहूनि च ।
आनाय्यावेदयामास गुरवे वासवानुजः॥२४॥

तस्य वैवस्वतस्य दासैरिति शेषः॥२४॥

गदापरिघयुद्धेषु सर्वास्त्रेषु च तावुभौ ।
अचिरान्मुख्यतां प्राप्तौ सर्वलोके धनुर्भृताम्॥२५॥

ततः सान्दीपनेः पुत्रं तद्रूपवयसं तदा ।
प्रादात्कृष्णः प्रतीतात्मा सह रत्नैरुदारधीः॥२६॥

चिरनष्टेन पुत्रेण काश्यः सान्दीपनिस्तदा ।
समेत्य मुमुदे राजन्पूजयन्रामकेशवौ॥२७॥

कृतास्त्रौ तावुभौ वीरौ गुरुमामन्त्र्य सुव्रतौ ।
आयातौ मथुरां भूयो वसुदेवसुतावुभौ॥२८॥

ततः प्रत्युद्ययुः सर्वे यादवा यदुनन्दनौ ।
सबला हृष्टमनस उग्रसेनपुरोगमाः॥२९॥

यदुनन्दनौ यदूनामानन्दयितारौ प्रत्युद्ययुः संमुखमागमन्॥२९॥

श्रेण्यः प्रकृतयश्चैव मन्त्रिणः सपुरोहिताः ।
सबालवृद्धा सा चैव पुरी समभिवर्तत॥३०॥

नन्दितूर्याण्यवाद्यन्त तुष्टुवुश्च जनार्दनम् ।
रथ्याः पताकामालिन्यो भ्राजन्ते स्म समन्ततः॥३१॥

प्रहृष्टमुदितं सर्वमन्तःपुरमशोभत ।
गोविन्दागमनेऽत्यर्थं यथैवेन्द्रमहे तथा॥३२॥

मुदिताश्चाथ गायन्ति राजमार्गेषु गायकाः ।
तत्रासीत्प्रथिता गाथा यादवानां प्रियङ्कराः॥३३॥

गोविन्दरामौ सम्प्राप्तौ भ्रातरौ लोकविश्रुतौ ।
स्वे पुरे निर्भयाः सर्वे क्रीडध्वं सह बान्धवैः॥३४॥

न तत्र कश्चिद्दीनो वा मलिनो वा विचेतनः ।
मथुरायामभूद्राजन्गोविन्दे समुपस्थिते॥३५॥

वयांसि साधुवाक्यानि प्रहृष्टा गोहयद्विपाः ।
नरनारीगणाः सर्वे भेजिरे मनसः सुखम्॥३६॥

शिवाश्च वाताः प्रववुर्विरजस्का दिशो दश ।
दैवतानि च हृष्टानि सर्वेष्वायतनेषु च॥३७॥

यानि लिङ्गानि लोकस्य चासन्कृतयुगे पुरा ।
तानि सर्वाण्यदृश्यन्त पुरीं प्राप्ते जनार्दने॥३८॥

ततः काले शिवे पुण्ये स्यन्दनेनारिमर्दनः ।
हरियुक्तेन गोविन्दो विवेश मथुरां पुरीम्॥३९॥

विशन्तं मथुरां रम्यां तमुपेन्द्रमरिन्दमम् ।
अनुजग्मुर्यदुगणाः शक्रं देवगणा इव॥४०॥

वसुदेवस्य भवनं ततस्तौ यदुनन्दनौ ।
प्रविष्टौ हृष्टवदनौ चन्द्रादित्याविवाचलम्॥४१॥

परेण तेजसोपेतौ सुरेन्द्राविव रूपिणौ ।
तावायुधानि विन्यस्य गृहे स्वे स्वैरचारिणौ॥४२॥

मुमुदाते यदुवरौ वसुदेवसुतावुभौ ।
उद्यानेषु विचित्रेषु फलपुष्पावनामिषु॥४३॥

चेरतुः सुमहात्मानौ यादवैः परिवारितौ ।
रैवतस्य समीपेषु सरित्सु विमलासु च॥४४॥

रैवतस्य पर्वतविशेषस्य॥४४॥

पद्मपत्रविवृद्धासु कारण्डवयुतासु च ।
एवं तावेकनिर्माणौ मथुरायां शुभाननौ ।
उग्रसेनानुगौ भूत्वा कञ्चित्कालं मुमोदतुः॥४५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रामकृष्णप्रत्यागमने त्रयस्त्रिंशोऽध्यायः॥३३॥
जरासन्धेन मथुरोपरोधः-०३४

वैशम्पायन उवाच। स कृष्णस्तत्र सहितो रौहिणेयेन सङ्गतः ।
मथुरां यादवाकीर्णां पुरीं तां सुखमावसत्॥१॥

अथाध्याये चतुस्त्रिंशे दुहितृभ्यां प्रचोदितः। जरासन्धो यदून्हन्तुं प्रवृत्त इति वर्ण्यते॥१॥ स कृष्णः॥१॥

प्राप्तयौवनदेहस्तु युक्तो राजश्रिया विभुः ।
चचार मथुरां प्रीतः स वनाकरभूषणाम्॥२॥

कस्यचित्त्वथ कालस्य राजा राजगृहेशवरः ।
शुश्राव निहतं कंसं दुहितृभ्यां महीपतिः॥३॥

राजगृहेश्वरो जरासन्धः दुहितृभ्याम् अस्तिप्राप्तिसंज्ञाभ्याम् कंसभार्याभ्यां निवेदिते सति॥३॥

ततो नातिचिरात्कालाज्जरासन्धः प्रतापवान् ।
आजगाम षडङ्गेन बलेन महता वृतः॥४॥

षडङ्गेन रथगजतुरगपदातिपण्यधान्यापणिकाख्यैः षड्भिरङ्गैरुपेतेन॥४॥

जिघांसुर्हि यदून्क्रुद्धः कंसस्यापचितिं स्मरन् ।
अस्ति प्राप्तिश्च नाम्ना ते मागधस्य सुते नृप॥५॥

अपचितिमानृण्यम्॥५॥

जरासन्धस्य कल्याण्यौ पीनश्रोणिपयोधरे ।
उभे कंसस्य ते भार्ये प्रादाद्बार्हद्रथो नृपः॥६॥

बार्हद्रथो जरासन्धः॥६॥

स ताभ्यां मुमुदे राजा बद्ध्वा पितरमाहुकम् ।
समाश्रित्य जरासन्धमनादृत्य च यादवान् ।
शूरसेनेश्वरो राजा यथा ते बहुशः श्रुतः॥७॥

सः कंसः विक्रान्तः आहुकपुत्रमुग्रसेनम्॥७॥

ज्ञातिकार्यार्थसिद्ध्यर्थमुग्रसेनहिते रतः ।
वसुदेवोऽभवन्नित्यं कंसो न ममृषे च तम्॥८॥

रामकृष्णौ समाश्रित्य हते कंसे दुरात्मनि ।
उग्रसेनोऽभवद्राजा भोजवृष्ण्यन्धकैर्वृतः॥९॥

दुहितृभ्यां जरासन्धः प्रियाभ्यां बलवान्नृपः ।
नोदितो वीरपत्नीभ्यामुपायान्मथुरां ततः॥१०॥

कृत्वा सर्वं समुद्योगं क्रोधादग्निसमो ज्वलन् ।
प्रतापावनता ये च जरासन्धस्य पार्थिवाः॥११॥

मित्राणि ज्ञातयश्चैव संयुक्ताः सुहृदस्तथा ।
तमेवानुनयुः सर्वे सैन्यैः समुदितैर्वृताः॥१२॥

महेष्वासा महावीर्या जरासन्धप्रियैषिणः ।
कारूषो दन्तवक्त्रश्च चेदिराजश्च वीर्यवान्॥१३॥

कालिङ्गाधिपतिश्चैव पौण्ड्रश्च बलिनां वरः ।
साङ्कृतिः केशिकश्चैव भीष्मकश्च नराधिपः॥१४॥

पुत्रश्च भीमकस्यापि रुक्मी मुख्यो धनुर्भृताम् ।
वासुदेवार्जुनाभ्यां यः स्पर्धते स महाहवे॥१५॥

वेणुदारिः श्रुतर्वा च क्रथश्चैवांशुमानपि ।
अङ्गराजश्च बलवान्वङ्गानामधिपस्तथा॥१६॥

कौशल्यः काशिराजश्च दशार्णाधिपतिस्तथा ।
सुखेश्वरश्च विक्रान्तो विदेहाधिपतिस्तथा॥१७॥

मद्रराजश्च बलवांस्त्रिगर्तानामथेश्वरः ।
शाल्वराजश्च विक्रान्तो दरदश्च महाबलः॥१८॥

यवनाधिपतिश्चैव भगदत्तश्च वीर्यवान् ।
सौवीरराजः शैब्यश्च पाण्ड्यश्च बलिनां वरः॥१९॥

एते चान्ये च राजानो बलवन्तो महारथाः ।
तमन्वयुर्जरासन्धं विद्विषन्तो जनार्दनम्॥२१॥

ते शूरसेनानाविश्य प्रभूतयवसेन्धनान् ।
ऊषुः सम्रुध्य मथुरां पुरस्कृत्य बलं तदा॥२२॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि मथुरोपरोधे चतुस्त्रिंशोऽध्यायः॥३४॥
यादवमागधयुद्धम्-०३५

वैशम्पायन उवाच। मथुरोपवने गत्वा निविष्टांस्तान्नराधिपान् ।
अपश्यन्वृष्णयः सर्वे पुरस्कृत्य जनार्दनम्॥१॥

ततो हृष्टमनाः कृष्णो रामं वचनमब्रवीत् ।
त्वरते खलु कार्यार्थो देवतानां न संशयः॥२॥

यथायं सन्निकृष्टो हि जरासन्धो नराधिपः ।
लक्ष्यन्ते हि ध्वजाग्राणि रथानां वातरंहसाम्॥३॥

एतानि शशिकल्पानि नृपाणां विजिगीषताम् ।
छत्राण्यार्य विराजन्ते प्रोच्छ्रितानि सितानि च॥४॥

अहो नृपरथोदग्रा विमलाश्छत्रपङ्क्तयः ।
अभिवर्तन्ति नः शुभ्रा यथा खे हंसपङ्क्तयः॥५॥

काले खलु नृपः प्राप्तो जरासन्धो महीपतिः ।
आवयोर्युद्धनिकषः प्रथमः समरातिथिः॥६॥

पञ्चत्रिंशे त्वथाध्याये मथुरामेत्य मागधः। रुरोध नगरं सैन्यैश्चतुरङ्गैरितीर्यते॥१॥ मथुरेत्यादि। निकषः स्वर्णनिकषवद्बलाबलनिर्णयहेतुः॥६॥

आर्य तिष्ठाव सहितावनुप्राप्ते महीपतौ ।
युद्धारम्भः प्रयोक्तव्यो बलं तावद्विमृश्यताम्॥७॥

बलं परेषां सैन्यं गतायुः चिरायुर्वेति विमृश्यतां विचारणीयमित्यर्थः॥७॥

एवमुक्त्वा ततः कृष्णः स्वस्थः सङ्ग्रामलालसः ।
जरासन्धबलं प्रेप्सुश्चकार बलदर्शनम्॥८॥

वीक्षमाणश्च तान्सर्वान्नृपान्यदुवरोऽव्ययः ।
आत्मनैवात्मनो वाक्यमुवाच हृदि मन्त्रवित्॥९॥

इमे ते पृथिवीपालाः पार्थिवे वर्त्मनि स्थिताः ।
ये विनाशं गमिष्यन्ति शास्त्रदृष्टेन कर्मणा॥१०॥

पार्थिवे पृथ्वीस्थजनयोग्ये मृत्युमार्गे इत्यर्थः॥१०॥

प्रोक्षितान्खल्विमान्मन्ये मृत्युना नृपपुङ्गवान् ।
स्वर्गगामीनि चाप्येषां वपूंषि प्रचकाशिरे॥११॥

प्रोक्षितान्यज्ञपशुवदासन्नमृत्यून्॥११॥

स्थाने भारपरिश्रान्ता वसुधेयं दिवं गता ।
एषां नृपाणां मुख्यानां बलौघैरभिपीडिता॥१२॥

स्थाने युक्तम्, अस्याः भारावतरणमित्यर्थः। यतः इयं दिवं गता दिविस्थं ब्रह्माणं प्रति शरणं गता॥१२॥

मही निरन्तरा चेयं बलराष्ट्राभिसंवृता ।
स्वल्पेन खलु कालेन विविक्तं पृथिवीतलम्॥१३॥

विविक्तं निर्जनम्॥१३॥

भविष्यति नरेन्द्रौघैः शतशो विनिपातितैः ।
वैशम्पायन उवाच। जरासन्धस्ततः क्रुद्धः प्रभुः सर्वमहीक्षिताम्॥१४॥

नराधिपसहस्रौघैरनुयातो महाद्युतिः ।
व्यायतोदग्रतुरगैः सुयानैः सुसमाहितैः॥१५॥

रथैः साङ्ग्रामिकैर्युक्तैरसङ्गगतिभिः क्वचित् ।
हेमकक्षैर्महाघण्टैर्वारणैर्वारिदोपमैः॥१६॥

हेमकक्षैः सुवर्णशृङ्खलैः॥१६॥

महामात्रोत्तमारूढैः कल्पितै रणकोविदैः ।
स्वारूढैः सादिभिर्युक्तैः प्रेङ्खमाणैः प्रवल्गितैः॥१७॥

वाजिभिर्मेघसङ्काशैः प्लवद्भिरिव पत्तिभिः ।
खड्गचर्मधरोदग्रैः पत्तिभिर्बलिनां वरैः॥१८॥

प्रेङ्खमाणैः कूर्दमानैः॥१८॥

सहस्रसङ्ख्यासंयुक्तैरुत्पतद्भिरिवोरगैः ।
एवं चतुर्विधैः सैन्यैः कम्पमानैरिवाम्बुदैः॥१९॥

नृपः प्रयातो बलवाञ्जरासन्धो धृतव्रतः ।
स रथैर्मेघनिर्घोषैर्गजैश्च मदसंयुतैः॥२०॥

हेषमाणैश्च तुरगैः क्ष्वेडमानैश्च पत्तिभिः ।
नादयानो दिशः सर्वास्तस्याः पुर्या वनानि च॥२१॥

वनानि च नादयानः॥२१॥

स राजा सागराकारः ससैन्यः प्रत्यदृश्यत ।
तद्बलं पृथिवीशानां हृष्टयोधजनाकुलम्॥२२॥

क्ष्वेडितास्फोटितरवं मेघसैन्यमिवाबभौ ।
रथैः पवनसम्पातैर्गजैश्च जलदोपमैः ।
तुरगैश्च जवोपेतैः पत्तिभिः खगमोपमैः॥२३॥

विमिश्रं सर्वतो भाति मत्तद्विपसमाकुलम् ।
घर्मान्ते सागरगतं यथाभ्रपटलं तथा॥२४॥

विमिश्रं सैन्यमिति शेषः॥२४॥

सबलास्ते महीपाला जरासन्धपुरोगमाः ।
परिवार्य पुरीं सर्वे निवेशायोपचक्रिरे॥२५॥

निवेशाय स्थानपरिग्रहाय॥२५॥

बभौ तस्य निविष्टस्य फलश्रीः शिबिरस्य वै ।
शुक्लपर्यन्तपूर्णास्य यथा रूपं महोदधेः॥२६॥

शिबिरस्य सेनागृहस्य पटमयस्य जात्यभिप्रायमेकवचनम्॥२६॥

वीतरात्रे ततः काले समुत्तस्थुर्महीक्षितः ।
आरोहणार्थं पुर्यास्ते समीयुर्युद्धलालसाः॥२७॥

समवायीकृताः सर्वे यमुनामनु ते नृपाः ।
निविष्टा मन्त्रयामासुर्युद्धकालकुतूहलाः॥२८॥

तेषां सुतुमुलः शब्दः शुश्रुवे पृथिवीक्षिताम् ।
युगान्ते भिद्यमानानां सागराणामिव स्वनः॥२९॥

तेषां सकञ्चुकोष्णीषाः स्थविरा वेत्रपाणयः ।
चेरुर्मा शब्द इत्येवं वदन्तो राजशासनात्॥३०॥

सकञ्चुकोष्णीषाः प्रतीहाराः॥३०॥

तस्य रूपं बलस्यासीन्निःशब्दस्तिमितस्य वै ।
लीनमीनग्रहस्येव निःशब्दस्य यथोदधेः॥३१॥

निःशब्दस्तिमिते तस्मिन्योगादिव महार्णवे ।
जरासन्धो बृहद्वाक्यं बृहस्पतिरिवाददे॥३२॥

योगात् वृत्तिनिरोधात्॥३२॥

शीघ्रं समभिवर्तन्तां बलानि पृथिवीक्षिताम् ।
सर्वतो नगरी चेयं जनौघैः परिवार्यताम्॥३३॥

अश्मयन्त्राणि युज्यन्तां क्षेपणीयाश्च मुद्गराः ।
कार्या भूमिः समा सर्वा जलौघैश्च परिप्लुता ।
ऊर्ध्वं चापा निवाह्यन्तां प्रासा वै तोमरास्तथा॥३४॥

प्रासाः हस्तक्षेप्यभल्लाः। ऊर्ध्वं दुर्गे प्राकारोपरि निवाह्यन्तां प्रापयन्तु॥३४॥

दार्यतां चैव टङ्काद्यैः खनित्रैश्च पुरी द्रुतम् ।
नृपाश्च युद्धमार्गज्ञा विन्यस्यन्तामदूरतः॥३५॥

अद्यप्रभृति सैन्यैर्मे पुरीरोधः प्रवर्त्यताम् ।
यावदेतौ रणे गोपौ वसुदेवसुतावुभौ॥३६॥

सङ्कर्षणं च कृष्णं च घातयामि शितैः शरैः ।
आकाशमपि बाणौघैर्निः सम्पातं यथा भवेत्॥३७॥

निःसम्पातं कीलितमिव॥३७॥

मयानुशिष्टास्तिष्ठन्तु पुरीभूमिषु भूमिपाः ।
तेषु तेष्ववकाशेषु शीघ्रमारुह्यतां पुरी॥३८॥

मद्रः कलिङ्गाधिपतिश्चेकितानः सबाह्लिकः ।
काश्मीरराजो गोनर्दः करूषाधिपतिस्तथा॥३९॥

द्रुमः किम्पुरुषश्चैव पार्वतीयो ह्यनामयः ।
नगर्याः पश्चिमं द्वारं शीघ्रमारोधयन्त्विति॥४०॥

पौरवो वैणुदारिश्च वैदर्भः सोमकस्तथा ।
रुक्मी च भोजाधिपतिः सूर्याक्षश्च समालवः॥४१॥

विन्दानुविन्दावावन्त्यौ दन्तवक्त्रश्च वीर्यवान् ।
चागलिः पुरमित्रश्च विराटश्च महीपतिः॥४२॥

कौरव्यो मालवश्चैव शतधन्वा विदूरतः ।
भूरिश्रवास्त्रिगर्तश्च बाणः पञ्चनदस्तथा॥४३॥

उत्तरं नगरद्वारमेते दुर्गसहा नृपाः ।
आरुह्य चाभिमर्दन्तां वज्रप्रतिमगौरवाः॥४४॥

दुर्गसहा दुर्गयुद्धं कर्तुं क्षमाः॥४४॥

उलूकः कैतवश्चैव वीरश्चांशुमतः सुतः ।
एकलव्यो बृहत्क्षत्रः क्षत्रधर्मा जयद्रथः॥४५॥

उत्तमौजाश्च शल्यश्च कौरवाः कैकयास्तथा ।
वैदिशो वामदेवश्च साङ्कृतिश्च सिनीपतिः॥४६॥

पूर्वं नगरनिर्व्यूहमेतेष्वायत्तमस्तु नः ।
दारयन्तो विधावन्तु वाता इव बलाहकान्॥४७॥

अहं च दरदश्चैव चेदिराजश्च वीर्यवान् ।
दक्षिणं नगरद्वारं पालयामः सुदंशिताः॥४८॥

एवमेषा पुरी क्षिप्रं समन्ताद्वेष्टिता बलैः ।
वज्रावपातविषमं प्राप्नोतु तुमुलं भयम्॥४९॥

गदिनो ये गदाभिस्ते परिघैः परिघायुधाः ।
अपरे विविधैः शस्त्रैर्दारयन्तु पुरीमिमाम्॥५०॥

अद्यैव नगरी ह्येषा विषमोच्चयसङ्कटा ।
कार्या भूमिसमा सर्वा भवद्भिर्वसुधाधिपैः॥५१॥

चतुरङ्गबलैर्व्यूह्य जरासन्धो व्यवस्थितः ।
अथाभ्ययाद्यदून्क्रुद्धैः सह सर्वैर्नराधिपैः॥५२॥

प्रतिजग्मुर्दशार्हास्तं व्यूढानीकाः प्रहारिणः ।
तद्युद्धमभवद्घोरं तेषां देवासुरोपमम् ।
अल्पानां बहुभिः सार्धं व्यतिषक्तरथद्विपम्॥५३॥

नगरान्निस्सृतौ दृष्ट्वा वसुदेवसुतावुभौ ।
क्षुभितं नृवरानीकं त्रस्तसंमूढवाहनम्॥५४॥

रथस्थौ दंशितौ चैव चेरतुस्तत्र यादवौ ।
मकराविव संरब्धौ समुद्रक्षोभणावुभौ॥५५॥

तयोः प्रयुध्यतोः सङ्ख्ये मतिरासीन्महात्मनोः ।
आयुधानां पुराणानामादानकृतलक्षणा॥५६॥

ततः खान्निपतन्ति स्म दिव्यान्याहवसम्प्लवे ।
लेलिहानानि दीप्तानि महान्ति सुदृढानि च॥५७॥

क्रव्यादैरनुयातानि मूर्तिमन्ति बृहन्ति च ।
तृषितान्याहवे भोक्तुं नृपमांसानि वै भृशम्॥५८॥

दिव्यस्रग्धामधारीणि त्रासयन्ति च खेचरान् ।
प्रभया भासमानानि पतमानानि चाम्बरात्॥५९॥

हलं संवर्तकं नाम सौनन्दं मुसलं तथा ।
धनुषां प्रवरं शार्ङ्गं गदा कौमोदकी तथा॥६०॥

चत्वार्येतानि तेजांसि विष्णुप्रहरणानि च ।
ताभ्यां समवतीर्णानि यादवाभ्यां महामृधे॥६१॥

ताभ्यां तयोरर्थे॥६१॥

जग्राह प्रथमं रामो ललामप्रतिमं हलम् ।
सर्पन्तमिव सर्पेन्द्रं दिव्यमालाकुलं मृधे॥६२॥

ललामप्रतिमं ध्वजवदुच्छ्रितम् "ललामं लाञ्छने ध्वजे" इति मेदिनी॥६२॥

सौनन्दं च ततः श्रीमान्निरानन्दकरं द्विषाम् ।
सव्येन सात्वतां श्रेष्ठो जग्राह मुसलोत्तमम्॥६३॥

दर्शनीयं च लोकेषु धनुर्जलदनिःस्वनम् ।
नाम्ना शार्ङ्गमिति ख्यातं कृष्णो जग्राह वीर्यवान्॥६४॥

देवैर्निगदितार्थस्य गदा तस्यापरे करे ।
निक्षिप्ता कुमुदाक्षस्य नाम्ना कौमोदकीति सा॥६५॥

तौ सप्रहरणौ वीरौ साक्षाद्विष्णुतनूपमौ ।
समरे रामगोविन्दौ रिपूंस्तान्प्रत्ययुद्ध्यताम्॥६६॥

सायुधप्रग्रहौ वीरौ तावन्योन्याश्रयावुभौ ।
पूर्वजानुजसंज्ञौ तौ रामगोविन्दलक्षणौ॥६७॥

द्विषत्सु प्रतिकुर्वाणौ पराक्रान्तौ यथेश्वरौ ।
विचेरतुर्यथा देवौ वसुदेवसुतावुभौ॥६८॥

हलमुद्यम्य रामस्तु सर्पेन्द्रमिव कोपितः ।
चचार समरे वीरो विद्विषामन्तको यथा॥६९॥

विकर्षन्रथवृन्दानि क्षत्रियाणां महात्मनाम् ।
चकार रोषं सफलं नागेषु च हयेषु च॥७०॥

कुन्जरांल्लाङ्गलक्षिप्तान्मुसलाक्षेपताडितान् ।
रामो विराजन्समरे निर्ममन्थ यथाचलान्॥७१॥

ते वध्यमाना रामेण रणे क्षत्रियपुङ्गवाः ।
जरासन्धान्तिकं भीताः समरात्प्रतिजग्मिरे॥७२॥

तानुवाच जरासन्धः क्षत्रधर्मे व्यवस्थितः ।
धिगेतां क्षत्रवृत्तिं वः समरे कातरात्मनाम्॥७३॥

परावृत्तस्य समरे विरथस्य पलायतः ।
भ्रूणहत्यामिवासह्यां प्रवदन्ति मनीषिणः॥७४॥

भीताः कस्मान्निवर्तध्वं धिगेतां क्षत्रवृत्तिताम् ।
क्षिप्रं सर्वे निवर्तध्वं मम वाक्येन चोदिताः॥७५॥

अथवा तिष्ठत रथैः प्रेक्षकाः समवस्थिताः ।
यावदेतौ रणे गोपौ प्रेषयामि यमक्षयम्॥७६॥

ततस्ते क्षत्रियाः सर्वे जरासन्धेन नोदिताः ।
सृजन्तः शरजालानि हृष्टा योद्धुं व्यवस्थिताः॥७७॥

ते हयैः काञ्चनापीडै रथैश्चाम्बुदनादिभिः ।
नादैश्चाम्बुदसङ्काशैर्महामात्रप्रचोदितैः॥७८॥

सतनुत्राः सनिस्त्रिंशाः सपताकायुधध्वजाः ।
स्वारोपितधनुष्मन्तः सतूणीराः सतोमराः॥७९॥

सच्छत्राः सादिनश्चैव चारुचामरवीजिताः ।
रणे तेऽधिगता रेजुः स्यन्दनस्था महीक्षितः॥८०॥

ते युद्धरागा रथिनो व्यागाहन्त युधां वराः ।
गदाभिश्चैव गुर्वीभिः क्षेपणीयैश्च मुद्गरैः॥८१॥

एतस्मिन्नन्तरे तत्र देवानां नन्दिवर्धनः ।
सुपर्णध्वजमास्थाय कृष्णस्तु रथमुत्तमम्॥८२॥

समभ्ययाज्जरासन्धं शरैर्विव्याध चाष्टभिः ।
सारथिं चास्य विव्याध पञ्चभिर्निशितैः शरैः॥८३॥

जघान तुरगांश्चाजौ यतमानस्य वीर्यवान् ।
तं कृच्छ्रगतमाज्ञाय चित्रसेनो महारथः॥८४॥

सेनानीः कैशिकश्चैव कृष्णं विविधतुः शरैः ।
त्रिभिर्विव्याध संसक्तं बलदेवं च कैशिकः॥८५॥

बलदेवो धनुश्चास्य भल्लेनाजौ द्विधाकरोत् ।
जवेनाभ्यर्दयच्चापि तानरीञ्छरवृष्टिभिः॥८६॥

बहुभिर्बहुधा वीरान्समन्तात्स्वर्णभूषणैः ।
तं चित्रसेनः संरब्धो विव्याध नवभिः शरैः॥८७॥

कैशिकः पञ्चभिश्चापि जरासन्धश्च सप्तभिः ।
त्रिभिस्त्रिभिश्च नराचैस्तान्बिभेद जनार्दनः॥८८॥

पञ्चभिः पञ्चभिश्चैव बलदेवः शितैः शरैः ।
रथं चैवास्य चिच्छेद चित्रसेनस्य वीर्यवान् ।
बलदेवो धनुश्चास्य भल्लेनाजौ द्विधाकरोत्॥८९॥

स च्छिन्नधन्वा विरथो गदामादाय वीर्यवान् ।
अभ्यधावत्सुसंरब्धो जिघांसुर्मुसलायुधम्॥९०॥

सिसृक्षतस्तु नाराचांश्चित्रसेनवधैषिणः ।
धनुश्चिच्छेद रामस्य जरासन्धो महाबलः॥९१॥

गदया च जघानाश्वान्क्रोधात्स मगधेश्वरः ।
रामं चाभ्यद्रवद्वीरो जरासन्धो महाबलः॥९२॥

आदाय मुसलं रामो जरासन्धमुपाद्रवत् ।
तयोस्तद्युद्धमभवत्परस्परवधैषिणोः॥९३॥

चित्रसेनस्तु संसक्तं दृष्ट्वा रामेण मागधम् ।
रथमन्यं समारुह्य जरासन्धमवारयत्॥९४॥

ततो बलेन महता गजानीकेन चाप्यथ ।
उभयोरन्तरे ताभ्यां सङ्कुलं समपद्यत॥९५॥

ततः सैन्येन महता जरासन्धोऽभिसंवृतः ।
रामकृष्णाग्रगान्भोजानाससाद महाबलः॥९६॥

तत्र प्रक्षुभितस्येव सागरस्य महास्वनः ।
प्रादुर्बभूव तुमुलः सेनयोरुभयोरपि॥९७॥

वेणुभेरीमृदङ्गानां शङ्खानां च सहस्रशः ।
उभयोः सेनयो राजन्प्रादुरासीन्महास्वनः॥९८॥

क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलः सर्वतोऽभवत् ।
उत्पपात रजश्चापि खुरनेमिसमुद्धतम्॥९९॥

समुद्यतमहाशस्त्राः प्रगृहीतशरासनाः ।
अन्योन्यमभिगर्जन्तः शूरास्तत्रावतस्थिरे॥१००॥

रथिनः सादिनश्चैव पत्तयश्च सह्स्रशः ।
गजाश्चातिबलास्तत्र समुत्पेतुः समन्ततः॥१०१॥

स सन्निपातस्तुमुलस्त्यक्त्वा प्राणानवर्तत ।
वृष्णिभिः सह योधानां जरासन्धस्य दारुणः॥१०२॥

ततः शिनिरनाधृष्टिर्बभ्रुर्विपृथुराहुकः ।
बलदेवं पुरस्कृत्य सैन्यस्यार्द्धेन दंशिताः॥१०३॥

दक्षिणं पक्षमासेदुः शत्रुसैन्यस्य भारत ।
पालितं चेदिराजेन जरासन्धेन वा विभो॥१०४॥

उदीच्यैश्च महावीर्यैः शल्यशाल्वादिभिर्नृपैः ।
सृजन्तः शरवर्षाणि समभित्यक्तजीविताः॥१०५॥

अवगाहः पृथुः कङ्कः शतद्युम्नो विदूरथः ।
हृषीकेशं पुरस्कृत्य सैन्यस्यार्द्धेन दंशिताः॥१०६॥

भीष्मकेणाभिगुप्तश्च रुक्मिणा च महात्मना ।
देवकेनापि राजेन्द्र तथा मद्रेश्वरेण च॥१०७॥

प्राच्यैश्च दाक्षिणात्यैश्च गुप्तवीर्यबलान्वितैः ।
तेषां च युद्धमभवत्समभित्यक्तजीवितम् ।
शक्त्यृष्टिप्रासबानौघान्सृजतामशनिस्वनान्॥१०८॥

सात्यकिश्चित्रकः श्यामो युयुधानश्च वीर्यवान् ।
राजाधिदेवो मृदुरः श्वफल्कश्च महारथः॥१०९॥

सत्राजिच्च प्रसेनश्च बलेन महता वृताः ।
व्यूहस्य पक्षं ते सर्वे प्रतीयुर्द्विषतां मृधे॥११०॥

व्यूहस्यार्द्धं समासेदुर्मृदुरेणाभिरक्षितम् ।
राजभिश्चापि बहुभिर्वैणुदारिमुखैः सह॥१११॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि मथुरोपरोधे युद्धवर्णने पञ्चत्रिंशोऽध्यायः॥३५॥
जरासन्धापयानम्-०३६

वैशम्पायन उवाच। ततो युद्धानि वृष्णीनां बभूवुः सुमहान्त्यथ ।
मागधस्य महामात्रैर्नृपैश्चैवानुयायिभिः॥१॥

षट्त्रिंशेऽथ जरासन्धो द्वन्द्वयुद्धे पराजितः। बलभद्रेण तं हित्वा पलायित इतीर्यते॥१॥ ततो युद्धानीति॥१॥

रुक्मिणा वासुदेवस्य भीष्मकेणाहुकस्य च ।
क्रथस्य वसुदेवेन कैशिकस्य तु बभ्रुणा॥२॥

गदेन चेदिराजस्य दन्तवक्त्रस्य शङ्कुना ।
तथान्यैर्वृष्णिवीराणां नृपाणां च महात्मनाम्॥३॥

युद्धमासीद्धि सैन्यानां सैनिकैर्भरतर्षभ ।
अहानि पञ्च चैकं च षट् सप्ताष्टौ च दारुणम्॥४॥

अहानि पञ्चेत्यादिसर्वसङ्ख्यासङ्कलने सप्तविंशतिदिनानि युद्धमासीदित्यर्थः॥४॥

गजैर्गजा हयैरश्वाः पदाताश्च पदातिभिः ।
रथै रथा विमिश्राश्च योधा युयुधिरे नृप॥५॥

जरासन्धस्य नृपते रामेणासीत्समागमः ।
महेन्द्रस्येव वृत्रेण दारुणो रोमहर्षणः॥६॥

अवेक्ष्य रुक्मिणीं कृष्णो रुक्मिणं न व्यपोथयत् ।
ज्वलनार्कांशुसङ्काशानाशीविषविषोपमान्॥७॥

अवेक्ष्य रुक्मिणीमित्यतो ज्ञायते इतः पूर्वं रुक्मिणीहरणमिति। अनागतावेक्षणपरं वा इदम्॥७॥

वारयामास कृष्णो वै शरांस्तस्य तु शिक्षया ।
इत्येषां सुमहानासीद्बलौघानां परिक्षयः॥८॥

उभयोः सेनयो राजन्मांसशोणितकर्दमः ।
कबन्धानि समुत्तस्थुः सुबहूनि समन्ततः॥९॥

लक्षस्य वधे एकैकबन्धसमुत्थानम्। अत्र तु सङ्ख्याया आवृत्तिः। कबन्धसङ्ख्यैव कर्तुं न शक्या इत्यर्थः॥९॥

तस्मिन्विमर्दे योधानां सङ्ख्यावृत्तिकराणि च ।
रथी रामो जरासन्धं शरैराशीविषोपमैः॥१०॥

आवृण्वन्नभ्ययाद्वीरस्तं च राजा स मागधः ।
अभ्यवर्तत वेगेन स्यन्दनेनाशुगामिना॥११॥

अन्योन्यं विविधैरस्त्रैर्विद्ध्वा विद्ध्वा विनेदतुः ।
तौ क्षीणशस्त्रौ विरथौ हताश्वौ हतसारथी॥१२॥

गदे गृहीत्वा विक्रान्तावन्योन्यमभिधावतात् ।
कम्पयन्तौ भुवं विरौ तावुद्यतगदावुभौ॥१३॥

ददर्शाते महात्मानौ गिरी सशिखराविव ।
व्युपारमन्त युद्धानि पश्यतां तौ महाभुजौ ।
संरब्धावभिधावन्तौ गदायुद्धेषु विश्रुतौ॥१४॥

उभौ तौ परमाचार्यौ लोके ख्यातौ महाबलौ ।
मत्ताविव गजौ युद्धे तावन्योन्यमयुद्ध्यताम्॥१५॥

ततो देवाः सगन्धर्वाः सिद्धाश्च समहर्षयः ।
समन्ततश्चाप्सरसः समाजग्मुः सहस्रशः॥१६॥

तद्देवयक्षगन्धर्वमहर्षिभिरलङ्कृतम् ।
शुशुभेऽभ्यधिकं राजन्दिवं ज्योतिगणैरिव॥१७॥

दिवं स्थानम्॥१७॥

अभिदुद्राव रामं तु जरासन्धो महाबलः ।
सव्यं मण्डलमाश्रित्य बलदेवस्तु दक्षिणम्॥१८॥

प्रहरन्तौ ततोऽन्योन्यं गदायुद्धविशारदौ ।
दन्ताभ्यामिव मातङ्गौ नादयन्तौ दिशो दश॥१९॥

गदानिपातो रामस्य शुश्रुवेऽशनिनिःस्वनः ।
जरासन्धस्य चरणे पर्वतस्येव दीर्यतः॥२०॥

न स्म कम्पयते रामं जरासन्धकरच्युता ।
गदा गदाभृतां श्रेष्ठं विन्ध्यं गिरिमिवानिलः॥२१॥

रामस्य तु गदावेगं वीर्यात्स मगधेश्वरः ।
सेहे धैर्येण महता शिक्षया च व्यपोहयत्॥२२॥

एवं तौ तत्र सङ्ग्रामे विचरन्तौ महाबलौ ।
मण्डलानि विचित्राणि विचेरतुररिन्दमौ॥२३॥

व्यायच्छन्तौ चिरं कालं परिश्रान्तौ च तस्थतुः ।
समाश्वास्य मुहूर्तं तु पुनरन्योन्यमाहताम्॥२४॥

आहताम् आजघ्नतुः॥२४॥

एवं तौ योधमुख्यौ तु समं युयुधतुश्चिरम् ।
न च तौ युद्धवैमुख्यमुभावेव प्रजग्मतुः॥२५॥

अथापश्यद्गदायुद्धे विशेषं तस्य वीर्यवान् ।
रामः क्रुद्धो गदां त्यक्त्वा जग्राह मुसलोत्तमम्॥२६॥

तमुद्यन्तं तदा दृष्ट्वा मुसलं घोरदर्शनम् ।
अमोघं बलदेवेन क्रुद्धेन तु महारणे॥२७॥

ततोऽन्तरिक्षे वागासित्सुस्वरा लोकसाक्षिणी ।
उवाच बलदेवं तं समुद्यतहलायुधम्॥२८॥

न त्वया राम वध्योऽयमलं खेदेन मागधे ।
विदितोऽस्य मया मृत्युस्तस्मात्साधु व्युपारम ।
अचिरेणैव कालेन प्राणांस्त्यक्ष्यति मागधः॥२९॥

जरासन्धस्तु तच्छ्रुत्वा विमनाः समपद्यत ।
न प्रजह्रे ततस्तस्मै पुनरेव हलायुधः॥३०॥

तौ व्युपारमतां युद्धं वृष्णयस्ते च पार्थिवाः ।
असक्तमभवद्युद्धं तेषामेव सुदारुणम्॥३१॥

असक्तं निरनुक्रोशं प्रशान्तमिति प्राञ्चः॥३१॥

दीर्घकालं महाराज निघ्नतामितरेतरम् ।
पराजिते त्वपक्रान्ते जरासन्धे महीपतौ॥३२॥

अस्तं याते दिनकरे नानुसस्रुस्तदा निशि ।
समानीय स्वकं सैन्यं लब्धलक्ष्या महाबलाः॥३३॥

पुरीं प्रविविशुर्हृष्टाः केशवेनाभिपालिताः ।
खाच्च्युतान्यायुधान्येवं तान्येवान्तर्दधुस्तदा॥३४॥

जरासन्धोऽपि नृपतिर्विमनाः स्वपुरीं ययौ ।
राजानश्चानुगा येऽस्य स्वराष्ट्राण्येव ते ययुः॥३५॥

जरासन्धं तु ते जित्वा मेनिरे नैव निर्जितम् ।
वृष्णयः कुरुशार्दूल राजा ह्यतिबलः स वै॥३६॥

दश चाष्टौ च सङ्ग्रामाञ्जरासन्धस्य यादवाः ।
ददुर्न चैनं समरे हन्तुं शेकुर्महाबलाः॥३७॥

अक्षौहिण्यश्च तस्यासन्विंशतिश्च महामते ।
जरासन्धस्य नृपतेस्तदर्थं याः समागताः॥३८॥

अक्षौहिण्य इति। “सा सेनाऽक्षौहिणी नाम खाङ्काष्टैकद्विकैर्गजैः २१८९०। रथैरेतै २१८९० र्हयैस्त्रिघ्नैः ६५६७० पञ्चघ्नैश्च १०९४५० पदातिभिः॥” इति॥३८॥

अल्पत्वादभिभूतास्तु वृष्णयो भरतर्षभ ।
बार्हद्रथेन राजेन्द्र राजभिः सहितेन वै॥३९॥

अभिभूताः पुनः पुनरावेष्टिताः॥३९॥

भूयः कृत्वोद्यमं प्रायाद्यादवान्कृष्णपालितान् ।
जित्वा तु मागधं सङ्ख्ये जरासन्धं महीपतिम् ।
विहरन्ति स्म सुखिनो वृष्णिसिंहा महारथाः॥४०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि जरासन्धापयानं नाम षट्त्रिंशोऽध्यायः॥३६॥
हर्यश्वराजकथा यदोरुत्पत्तिश्च-०३७

वैशम्पायन उवाच। स कृष्णस्तत्र बलवान्रौहिणेयेन सङ्गतः ।
मथुरां यादवाकीर्णां पुरीं तां सुखमावसत्॥१॥

सप्तत्रिंशे त्वथाध्याये सम्बन्धाय विकद्रुणा। सूर्यवंशाद्यदोर्वंशप्रसङ्गोऽथावतारितः॥१॥ स कृष्णः सङ्गतः सखीभूत इतरेषामित्यर्थात्॥१॥

प्राप्तयौवनदेहस्तु युक्तो राजश्रिया विभुः ।
चचार मथुरां प्रीतः सवनाकरभूषणाम्॥२॥

कस्यचित्त्वथ कालस्य राजा राजगृहेश्वरः ।
सस्मार निहतं कंसं जरासन्धः प्रतापवान्॥३॥

युद्धाय योजितो भूयो दुहितृभ्यां महीपतिः ।
दश सप्त च सङ्ग्रामाञ्जरासन्धस्य यादवाः ।
ददुर्न चैनं समरे हन्तुं शेकुर्महारथाः॥४॥

ततो मागधराट् श्रीमांश्चतुरङ्गबलान्वितः ।
भूयोऽप्यष्टादशं कर्तुं सङ्ग्रामं स समारभत्॥५॥

पाठान्तरे अष्टादशमम् अष्टादशम्॥५॥

वैलक्ष्यात्पुनरेवासौ राजा राजगृहेश्वरः ।
जरासन्धो बली श्रीमान्पाकशासनविक्रमः॥६॥

वैलक्ष्यात् लज्जातः॥६॥

स साधनेन महता बृहद्रथसुतो बली ।
कृष्णस्य वधमन्विच्छन्भूयो वै संन्यवर्तत॥७॥

संन्यवर्तत परावृत्तः॥७॥

तं श्रुत्वा सहिताः सर्वे निवृत्तं मगधेश्वरम् ।
यादव मन्त्रयामासुर्जरासन्धभयार्दिताः॥८॥

ततः प्राह महातेजा विकद्रुर्नयकोविदः ।
कृष्णं कमलपत्राक्षमुग्रसेनस्य शृण्वतः॥९॥

श्रूयतां तात गोविन्द कुलस्यास्य समुद्भवः ।
श्रूयतामभिधास्यामि प्राप्तकालमहं ततः॥१०॥

श्रूयतां शृण्वतां पुरः प्राप्तकालोचितम्॥१०॥

युक्तं चेन्मन्यसे साधो करिष्यसि वचो मम ।
यादवस्यास्य वंशस्य समुद्भवमशेषतः॥११॥

मे ममाग्रे॥११॥

यथा मे कतिथः पूर्वं व्यासेन विदितात्मना ।
आसीद्राजा मनोर्वंशे श्रीमानिक्ष्वाकुसम्भवः ।
हर्यश्व इति विख्यातो महेन्द्रसमविक्रमः॥१२॥

तस्यासीद्दयिता भार्या मधोर्दैत्यस्य वै सुता ।
देवी मधुमती नाम यथेन्द्रस्य शची तथा॥१३॥

सा यौवनगुणोपेता रूपेणाप्रतिमा भुवि ।
मनोरथकरी राज्ञः प्राणेभ्योऽपि गरीयसी॥१४॥

दानवेन्द्रकुले जाता सुश्रोणी कामरूपिणी ।
एकपत्नीव्रतधरा खेचरा रोहिणी यथा॥१५॥

सा तमिक्ष्वाकुशार्दूलं कामयामास कामिनी ।
स कदाचिन्नरश्रेष्ठो भ्रात्रा ज्येष्ठेन माधव॥१६॥

राज्यान्निरस्तो विश्वस्तः सोऽयोध्यां सम्परित्यजत् ।
स तदाल्पपरीवारः प्रियया सहितो वने॥१७॥

विश्वस्तो ज्येष्ठे भ्रातरि लुब्धोऽपि श्रद्धावान् सम्परित्यजत् सम्पर्यत्यजत्॥१७॥

रेमे समेत्य कालज्ञः प्रोवाच कमलेक्षणः ।
भ्रात्रा विनिष्कृतं राज्यात्प्रोवाच कमलेक्षणा॥१८॥

एह्यागच्छ नरश्रेष्ठा त्यज राज्यकृतां स्पृहाम् ।
गच्छावः सहितौ वीर मधोर्मम पितुर्गृहम्॥१९॥

रम्यं मधुवनं नाम कामपुष्पफलद्रुमम् ।
सहितौ तत्र रंस्यावो यथा दिवि गतौ तथा॥२०॥

पितुर्मे दयितस्त्वं हि मातुर्मम च पार्थिव ।
मत्प्रियार्थं प्रियतरो भ्रातुश्च लवणस्य वै॥२१॥

रंस्यावस्तत्र सहितौ राज्यस्थाविव कामगौ ।
तत्र गत्वा नरश्रेष्ठ ह्यमराविव नन्दने ।
भद्रं ते विहरिष्यावो यथा देवपुरे तथा॥२२॥

तं त्यजाव महाराज भ्रातरं तेऽभिमानिनम् ।
आवयोर्द्वेषिणं नित्यं मत्तं राज्यमदेन वै॥२३॥

धिगिमं गर्हितं वासं भृत्यवच्च पराश्रयम् ।
गच्छावः सहितौ वीर पितुर्मे भवनान्तिकम्॥२४॥

तस्य सम्यक्प्रवृत्तस्य पूर्वजं भ्रातरं प्रति ।
कामार्तस्य नरेन्द्रस्य पत्न्यास्तद्रुरुचे वचः॥२५॥

सम्यक्प्रवृत्तस्येत्यस्य श्वशुरपक्षबलेन भ्रातुर्वधमनिच्छत इत्यर्थः॥२५॥

ततो मधुपुरं राजा हर्यश्वः स जगाम च ।
भार्यया सह कामिन्या कामी पुरुषपुङ्गवः॥२६॥

मधुना दानवेन्द्रेण स साम्ना समुदाहृतः ।
स्वागतं वत्स हर्यश्व प्रीतोऽस्मि तव दर्शनात्॥२७॥

यदेतन्मम राज्यं वै सर्वं मधुवनं विना ।
ददामि तव राजेन्द्र वासश्च प्रतिगृह्यताम्॥२८॥

वनेऽस्मिंल्लवणश्चायं सहायस्ते भविष्यति ।
अमित्रनिग्रहे चैव कर्णधारत्वमेष्यति॥२९॥

पालयैनं शुभं राष्ट्रं समुद्रानूपभूषितम् ।
गोसमृद्धं श्रिया जुष्टमाभीरप्रायमानुषम्॥३०॥

अत्र ते वसतस्तात दुर्गं गिरिपुरं महत् ।
भविता पार्थिवावासः सुराष्ट्रविषयो महान्॥३१॥

अनूपविषयश्चैव समुद्रान्ते निरामयः ।
आनर्तं नाम ते राष्ट्रं भविष्यत्यायतं महत्॥३२॥

तद्भविष्यमहं मन्ये कालयोगेन पार्थिव ।
अध्यस्यतां यथाकालं पार्थिवं वृत्तमुत्तमम्॥३३॥

यायातमपि वंशस्ते समेष्यति च यादवम् ।
अनु वंशं च वंशस्ते सोमस्य भविता किल॥३४॥

यायातमपीति॥ यादवं ययातिपुत्रस्य यदोः सम्बन्धिनं वंशं ते तव वंशः समेष्यति प्रवेक्ष्यति। अत एव सोमस्य वंशम् अनु ते तव वंशो भविष्यति सूर्यवंशात् च्युतो भविष्यतीत्यर्थः। ननु इहैव ययातितो यदुः, यदोः क्रोष्टा, क्रोष्टुः देवमीढः, देवमीढात् शूरः, शूराद्वसुदेवो, वसुदेवात्कृष्णः इति वंशः प्रागुक्तः। पुनः सूर्यवंशीयात् हर्यश्वात् यदुर्य, दोर्माधवो, माधवात्सत्वान्, सत्वतो भीमः, भीमात् अन्धकः, अन्धकाद्रैवतो, रैवतादृक्ष, ऋक्षाद्विश्वगर्भः स्तस्मात् वसुः वसोः वसुदेवो, वसुदेवात्कृष्णः इति तत्कथं यदोः षष्ठस्यैवैकादशत्वं न च कल्पभेदाभिप्रायमिदम्। एकग्रन्थपठितत्वादिति दुःसमाधेयोऽयं विरोधः। सत्यम्। तथाऽप्ययमत्र समाधिः- यायातमपि वंशस्ते इत्येतस्मादेव वचनात् एक एव यदुः गृहात् गृहान्तरप्रवेशवत् योगबलेन सूर्यवंशेऽपि आविर्भूय सूर्यवंशं स्वपक्षे आनीतवान्। यथा ब्रह्मणो मानसः पुत्रो वसिष्ठः केनचिन्निमित्तेन पुनर्मित्रावरुणाभ्यामपि जन्म लेभे वसिष्ठत्वं च न जहौ। एवं यदुरेक एव लीलावशात् क्रमेण देहद्वयं वृतवान्न तावता द्वौ यदू जातौ। ततश्च एक एव यदुर्द्वयोर्वंशयोः कर्ता। एवं वसुदेवोऽपि शूराच्च वसोश्चाविर्भवन्नेक एव। क्वचिद्यदोः पञ्चमः क्वचिद्दशम इति यथायोगं ज्ञेयम्। कृष्णस्तु वंशद्वयानुगताद्वसुदेवाज्जात एक एव सन् वसोरपि पौत्रः शूरस्य च पौत्रः। वसुशूरयोरपि पितृभेदान्नामभेदेऽपि स्कन्दसनत्कुमारवद्व्यक्त्यैक्यं ज्ञेयम्। तेन पृथायाः पाण्डवमातुः शूरोत्पन्नत्वं वसूत्पन्नत्वं च सङ्गच्छते। एवमन्यत्रापि वंशविरोधेऽप्यूह्यम्। यादवानां देवतात्वेन एकस्याप्युभयसम्बन्धस्य युगपत्सम्भवाच्चेति दिक्। अयमत्र सङ्ग्रहः- “नामरूपे असन्त्यज्य यदुर्हर्यर्श्वतोऽभवत्। स्वरूपेण वसुर्नाम शूरोऽभूद्विश्वगर्भतः॥ यदुद्युनद्या द्वौ जातौ वंशौ वै बहुधा ततौ द्विनाम्नि वसुदेवाय पितृतीर्थे च सङ्गतौ” इति। अत एव वैकुण्ठस्येन्द्रस्य सप्तङ्गुना स्तूयमानस्य सम्बोधनं “वसूयवो वसुपते वसूनाम्” इति। “विद्मा हि त्वा गोपति शूरगोनाम्” इति। “वसूनां वसुवंश्यानां वसुगोत्रे भवानां वसुपते मुख्यस्वामिन्” इति। शूरेति शूरगोत्रत्वेन च पृथक्सम्बोधनद्वयं मन्त्रवर्णः सूचयति। तथा इन्द्रवाक्यमपि “अहं भुवं वसुनः पूर्वस्पतिः।” इति, “प्राश्नावयं शवसातुर्वंशं यदुम्” इति च। स्वस्य हर्यश्वसन्तानजवसुसम्बन्धित्वं तु वसुसहचरिततया तस्य यदुसम्बन्धित्वं च दर्शयति। एते च मन्त्रा नाग्नजित्याः सत्यायाः पाणिग्रहणप्रसङ्गे व्याख्यास्यन्ते। वसुनः वसोः भुवम् अभूवम्॥३४॥

एष मे विभवस्तात तवेमं विषयोत्तमम् ।
दत्त्वा यास्यामि तपसे सागरं लवणालयम्॥३५॥

विभवो मनोरथ। तमेवाह- तवेममिति॥३५॥

लवणेन समायुक्तस्त्वमिमं विषयोत्तमम् ।
पालयस्वाखिलं तात स्वस्य वंशस्य वृद्धये॥३६॥

बाढमित्येव हर्यश्वः प्रतिजग्राह तत्पुरम् ।
स च दैत्यस्तपोवासं जगाम वरुणालयम्॥३७॥

हर्यश्वश्च महातेजा दिव्ये गिरिवरोत्तमे ।
निवेशयामास पुरं वासार्थममरोपमः॥३८॥

आनर्तं नाम तद्राष्ट्रं सुराष्ट्रं गोधनायुतम् ।
अचिरेणैव कालेन समृद्धं प्रत्यपद्यत॥३९॥

अनूपविषये चैव वेलावनविभूषितम् ।
विचित्रं क्षेत्रसस्याढ्यं प्राकारग्रामसङ्कुलम्॥४०॥

शशास नृपतिः स्फीतं तद्राष्ट्रं राष्ट्रवर्द्धनः ।
राजधर्मेण यशसा प्रजानां नन्दिवर्द्धनः॥४१॥

तस्य सम्यक्प्रचारेण हर्यश्वस्य महात्मनः ।
व्यवर्धत तदक्षोभ्यं राष्ट्रं राष्ट्रगुणैर्युतम्॥४२॥

स हि राजा स्थितो राज्ये राजवृत्तेन शोभितः ।
प्राप्तः कुलोचितां लक्ष्मीं वृत्तेन च नयेन च॥४३॥

तस्यैव च सुवृत्तस्य पुत्रकामस्य धीमतः ।
मधुमत्यां सुतो जज्ञे यदुर्नाम महायशाः॥४४॥

यायातं वंशमित्यत्र सूचितमर्थं विवृणोति- तस्यैवमिति। तस्य पुत्रकामतामालक्ष्य यायातोऽयं यदुः स्वयमेव हर्यश्वस्य पुत्रो जज्ञे जातो योगबलात्परचित्ताविज्ञत्वाच्च॥४४॥

सोऽवर्धत महातेजा यदुर्दुन्दुभिनिःस्वनः ।
राजलक्षणसम्पन्नः सपत्नैर्दुरतिक्रमः॥४५॥

यदुर्नामाभवत्पुत्रो राजलक्षणपूजितः ।
यथास्य पूर्वजो राजा पूरुः स सुमहायशाः॥४६॥

स एक एव तस्यासीत्पुत्रः परमशोभनः ।
ऊर्जितः पृथिवीभर्ता हर्यश्वस्य महात्मनः॥४७॥

दश वर्षसहस्राणि स कृत्वा राज्यमव्ययम् ।
जगाम त्रिदिवं राजा धर्मेणाप्रतिमो भुवि॥४८॥

ततो यदुरदीनात्मा प्रजाभिस्त्वभ्यषिच्यत ।
पितर्युपरते श्रीमान्क्रमेणार्क इवोदितः॥४९॥

शशास चेमां वसुधां प्रशान्तभयतस्कराम् ।
यदुरिन्द्रप्रतीकाशो नृपो येनास्म यादवाः॥५०॥

स कदाचिन्नृपश्चक्रे जलक्रीडां महोदधौ ।
दारैः सह गुणोदारैः सतार इव चन्द्रमाः॥५१॥

स तत्र सहसा क्षिप्तस्तितीर्षुः सागराम्भसि ।
धूम्रवर्णेन नृपतिः सर्पराजेन वीर्यवान्॥५२॥

सोऽपाकृष्यत वेगेन जले सर्पपुरं महत् ।
मणिस्तम्भगृहद्वारं मुक्तादामविभूषितम्॥५३॥

कीर्णं शङ्खकुलैः शुभ्रै रत्नराशिविभूषितम् ।
प्रवालाङ्कुरपत्राढ्यैः पादपैरुपशोभितम्॥५४॥

कीर्णं पन्नगवर्यौघैः समुद्रोदरवासिभिः ।
स्वर्णवर्णेन भास्वन्तं स्वस्तिकेनेन्दुवर्चसा॥५५॥

स तं ददर्श राजेन्द्रो विमले सागराम्भसि ।
पन्नगेन्द्रपुरं तोये जगत्यामिव निर्मितम्॥५६॥

स्वच्छश्चैव पुरे तत्र प्रविवेश नृपो यदुः ।
अगाधं तोयदाकारं पूर्णं सर्पवधूगणैः॥५७॥

तस्य दत्तं मणिमयं जलजं परमासनम् ।
स्वास्तीर्णं पद्मपत्रैश्च पद्मसूत्रोत्तरच्छदम्॥५८॥

तमासीनं नृपं तत्र परमे पन्नगासने ।
द्विजिह्वपतिरव्यग्रो धूम्रवर्णोऽभ्यभाषत॥५९॥

पिता ते स्वर्गतिं प्राप्तः कृत्वा वंशमिमं महत् ।
भवन्तं तेजसा युक्तमुत्पाद्य वसुधाधिपम्॥६०॥

यादवानामयं वंशस्त्वन्नाम्ना यदुपुङ्गव ।
पित्रा ते मङ्गलार्थाय स्थापितः पार्थिवाकरः॥६१॥

वंशे चास्मिंस्तव विभो देवानां तनयाव्ययाः ।
ऋषीणामुरगाणां च उत्पत्स्यन्ते नृयोनिजाः॥६२॥

तनयाव्यया इति सन्धिरार्षः॥६२॥
तन्ममेति। यौवनाश्वस्य॥६२॥

तन्ममेमाः सुताः पञ्च कुमार्यो वृत्तसंमताः ।
उत्पन्ना यौवनाश्वस्य भगिन्यां नृपसत्तम॥६३॥

या भगिनी सा तत्कनिष्ठस्य हर्यश्वस्यापि भगिनीति यदोः सा पितृस्वसा तदीयां कुमारीं यदुः कथं परिणेतुं क्षमेत सापिण्ड्यस्यानिवृतेरिति। तथापि मातुलदुहितृपरिणयनसमत्वेन विगीतमपि वरलोभात्सर्पराजेन एतत्कारितं यदुना चात्यन्तदोषाभावादभ्युपगतमिति मन्तव्यम्। यद्वान्य एव स यौवनाश्व इति कल्प्यम्॥६३॥

प्रतीच्छेमाः स्वधर्मेण प्राजापत्येन कर्मणा ।
वरं च ते प्रदास्यामि वरार्हस्त्वमतो मम॥६४॥

स्पष्टार्थोऽध्यायशेषः। प्राजापत्येन विधिना विवाहविधिना॥६४॥

भौमाश्च कुकुराश्चैव भोजाश्चान्धकयादवाः ।
दाशार्हा वृष्णयश्चेति ख्यातिं यास्यन्ति सप्त ते॥६५॥

स तस्मै धूम्रवर्णो वै कन्याः कन्याव्रते स्थिताः ।
जलपूर्णेन योगेन ददाविन्द्रसमाय वै॥६६॥

जलपूर्णेन योगेन सङ्कल्पेन॥६६॥

वरं चास्मै ददौ प्रीतः स वै पन्नगपुङ्गवः ।
श्रावयन्कन्यकाः सर्वा यथाक्रममदीनवत्॥६७॥

एतासु ते सुताः पञ्च सुतासु मम मानद ।
उत्पत्स्यन्ते पितुस्तेजो मातुश्चैव समाश्रिताः॥६८॥

एतासु मम सुतासु ते तव पञ्च सुताः उत्पत्स्यन्त इत्यन्वयः॥६८॥

अस्मत्समयबद्धाश्च सलिलाभ्यन्तरेचराः ।
तव वंशे भविष्यन्ति पार्थिवाः कामरूपिणः॥६९॥

अस्मत्समयबद्धा अस्मद्वरदानानुगृहीताः॥६९॥

स वरं कन्यकाश्चैव लब्ध्वा यदुवरस्तदा ।
उदतिष्ठत वेगेन सलिलाच्चन्द्रमा इव॥७०॥

स पञ्चकन्यामध्यस्थो ददृशे तत्र पार्थिवः ।
पञ्चतारेणा संयुक्तो नक्षत्रेणेव चन्द्रमाः॥७१॥

स तदन्तःपुरं सर्वं ददर्श नृपसत्तमः ।
वैवाहिकेन वेषेण दिव्यस्रगनुलेपनः॥७२॥

समाश्वास्य च ताः सर्वाः सपत्नीः पावकोपमाः ।
जगाम स्वपुरं राजा प्रीत्या परमया युतः॥७३॥

स यदुः ताः पत्नीः समाश्वास्य पितृगृहवियोगदुःखमपनीय॥७३॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि विकद्रुवाक्यं नाम सप्तत्रिंशोऽध्यायः॥३७॥
यादवोत्पत्तिः तेषां पराक्रमादि च-०३८

वैशम्पायन उवाच। स तासु नागकन्यासु कालेन महता नृपः ।
जनयामास विक्रान्तान्पञ्च पुत्रान्कुलोद्वहान्॥१॥

अष्टात्रिंशे त्वथाध्याये नागकन्यासु पञ्चसु। यदोः पञ्चाभवन्पुत्रा माधवप्रमुखा नृपाः॥१॥ स तासु इति॥१॥

मुचुकुन्दं महाबाहुं पद्मवर्णं तथैव च ।
माधवं सारसं चैव हरितं चैव पार्थिवम्॥२॥

एतान्पञ्च सुतान्राजा पञ्चभूतोपमान्भुवि ।
ईक्षमाणो नृपः प्रीतिं जगामातुलविक्रमः॥३॥

ते प्राप्तवयसः सर्वे स्थिताः पञ्च यथाद्रयः ।
तेजिता बलदर्पाभ्यामूचुः पितरमग्रतः॥४॥

तेजिताः प्रोत्साहिताः॥४॥

तात युक्ताः स्म वयसा बले महति संस्थिताः ।
क्षिप्रमाज्ञप्तुमिच्छामः किं कुर्मस्तव शासनात्॥५॥

स तान्नृपतिशार्दूलः शार्दूलानिव वेगितान् ।
प्रीत्या परमया प्राह सुतान्वीर्यकुतूहलात्॥६॥

विन्ध्यर्क्षवन्तावभितो द्वे पुर्यौ पर्वताश्रये ।
निवेशयतु यत्नेन मुचुकुन्दः सुतो मम॥७॥

विन्ध्येति। विन्ध्यस्योत्तरतः ऋक्षवतो दक्षिणत इत्यर्थः॥७॥

सह्यस्य चोपरिष्टात्तु दक्षिणां दिशमाश्रितः ।
पद्मवर्णोऽपि मे पुत्रो निवेशयतु मा चिरम्॥८॥

तत्रैव परतः कान्ते देशे चम्पकभूषिते ।
सारसो मे पुरं रम्यं निवेशयतु पुत्रकः॥९॥

तत्रैव सह्यस्योपरिष्टादेव परतः पश्चिमायां दिशि॥९॥

हरितोऽयं महाबाहुः सागरे हरितोदके ।
द्वीपं पन्नगराजस्य सुतो मे पालयिष्यति॥१०॥

पन्नगराजस्य धूम्रवर्णाख्यस्य॥१०॥

माधवो मे महाबाहुर्ज्येष्ठपुत्रश्च धर्मवित् ।
यौवराज्येन संयुक्तः स्वपुरं पालयिष्यति॥११॥

स्वपुरं रैवताचलसमीपस्थम्॥११॥

सर्वे नृपश्रियं प्राप्ता अभिषिक्ताः सचामराः ।
पित्रानुशिष्टाश्चत्वारो लोकपालोपमा नृपाः॥१२॥

स्वं स्वं निवेशनं सर्वे भेजिरे नृपसत्तमाः ।
पुरस्थानानि रम्याणि मृगयन्तो यथाक्रमम्॥१३॥

मृगयन्तो जिज्ञासमानाः॥१३॥

मुचुकुन्दश्च राजर्षिर्विन्ध्यमध्यमरोचयत् ।
स्वस्थानं नर्मदातीरे दारुणोपलसङ्कटे॥१४॥

दारुणोपलसङ्कटे विषमाश्मदुर्गमे॥१४॥

स च तं शोधयामास विविक्तं च चकार ह ।
सेतुं चैव समं चक्रे परिखाश्चामितोदकाः॥१५॥

स्थापयामास भागेषु देवतायतनान्यपि ।
रथ्या वीथीर्नृणां मार्गाश्चत्वराणि वनानि च॥१६॥

स तां पुरीं धनवतीं पुरुहूतपुरीप्रभाम् ।
नातिधीर्गेण कालेन चकार नृपसत्तमः॥१७॥

नाम चास्याः शुभं चक्रे निर्मितं स्वेन तेजसा ।
तस्याः पुर्या नृपश्रेष्ठो देवश्रेष्ठपराक्रमः॥१८॥

महाश्मसङ्घातवती ऋक्षवन्तमुपाश्रिता ।
माहिष्मती नाम पुरी प्रकाशमुपयास्यति॥१९॥

महाश्मसङ्घातवतीति माहिष्मतीपदस्यावयवार्थो दर्शितः॥१९॥

उभयोर्विन्ध्ययोः पादे नगयोस्तां महापुरीम् ।
मध्ये निवेशयामास श्रिया परमया वृतम्॥२०॥

पुरिकां नाम धर्मात्मा पुरीं देवपुरीप्रभाम् ।
उद्यानशतसम्बाधां समृद्धापणचत्वराम्॥२१॥

ऋक्षवन्तं समभितस्तीरे तत्र निरामये ।
निर्मिता सा पुरी राज्ञा पुरिका नाम नामतः॥२२॥

स ते द्वे विपुले पुर्यौ देवभोग्योपमे शुभे ।
पालयामास धर्मात्मा राजा धर्मे व्यवस्थितः॥२३॥

राजा मुचुकुन्दः॥२३॥

पद्मवर्णोऽपि राजर्षिः सह्यपृष्ठे पुरोत्तमम् ।
चकार नद्या वेणायास्तीरे तरुलताकुले॥२४॥

विषयस्याल्पतां ज्ञात्वा सम्पूर्णं राष्ट्रमेव च ।
निवेशयामास नृपः स वप्रप्रायमुत्तमम्॥२५॥

विषयस्येति। भूभागस्याल्पत्वेऽपि अतिनिबिडतया तत्रैव कृत्स्नस्य राष्ट्रस्य समावेशं कृत्वा तस्यैव महान्तं वप्रं महाप्राकारोपमं चकारेत्यर्थः॥२५॥

पद्मावतं जनपदं करवीरं च तत्पुरम् ।
निर्मितं पद्मवर्णेन प्राजापत्येन कर्मणा॥२६॥

प्राजापत्येन त्वष्टृसम्बन्धिना कर्मणा शिल्पेन॥२६॥

सारसेनापि विहितं रम्यं क्रौञ्चपुरं महत् ।
चम्पकाशोकबहुलं विपुलं ताम्रमृत्तिकम्॥२७॥

क्रौञ्चपुरं वेणायाः दक्षिणे भागे॥२७॥

वनवासीति विख्यातः स्फीतो जनपदो महान् ।
पुरस्य तस्य तु श्रीमान्द्रुमैः सार्वर्तुकैर्वृतः॥२८॥

हरितोऽपि समुद्रस्य द्वीपं समभिपालयत् ।
रत्नसञ्चयसम्पूर्णं नारीजनमनोहरम्॥२९॥

तस्य दाशा जले मग्ना मद्गुरा नाम विश्रुताः ।
ये हरन्ति सदा शङ्खान्समुद्रोदरचारिणः॥३०॥

दाशाः धीवराः॥३०॥

तस्यापरे दाशजनाः प्रवालाञ्जनसम्भवान् ।
सञ्चिन्वन्ति सदा युक्ता जातरूपं च मौक्तिकम्॥३१॥

सञ्चिन्वन्ति राशीन् कुर्वन्ति युक्ताः सावधानाः जातरूपं दीप्तिमत्॥३१॥

जलजानि च रत्नानि निषादास्तस्य मानवाः ।
प्रचिन्वन्तोऽर्णवे युक्ता नौभिः संयानगामिनः॥३२॥

प्रचिन्वन्तोऽन्वेषयन्तः नौभिः महानौकाभिः संयानगामिनः क्षुद्रनौकागामिनः क्षुद्रनौकाबलेनालोड्य एकत्र महानौकायां प्रक्षिपन्तीत्यर्थः॥३२॥

मत्स्यमांसेन ते सर्वे वर्तन्ते स्म सदा नराः ।
गृह्णन्तः सर्वरत्नानि रत्नद्वीपनिवासिनः॥३३॥

तैः संयानगतैर्द्रव्यैर्वणिजो दूरगामिनः ।
हरितं तर्पयन्त्येकं यथैव धनदं तथा॥३४॥

एवमिक्ष्वाकुवंशात्तु यदुवंशो विनिःसृतः ।
चतुर्धा यदुपुत्रैस्तु चतुर्भिर्भिद्यते पुनः॥३५॥

यदुवंशस्य द्विशाखत्वमुपसंहरति- एवमिति। चतुर्धेति माधवस्य मुख्यस्तम्भरूपत्वात्। शाखारुपेणैव चतुर्धात्वं वंशस्येत्यर्थः॥३५॥

स यदुर्माधवे राज्यं विसृज्य यदुपुङ्गवे ।
त्रिविष्टपं गतो राजा देहं त्यक्त्वा महीतले॥३६॥

बभूव माधवसुतः सत्त्वतो नाम वीर्यवान् ।
सत्त्ववृत्तिर्गुणोपेतो राजा राजगुणे स्थितः॥३७॥

सत्त्वतस्य सुतो राजा भीमो नाम महानभूत् ।
येन भैमाः सुसंवृत्ताः सत्त्वतात्सात्त्वताः स्मृताः॥३८॥

राज्ये स्थिते नृपे तस्मिन्रामे राज्यं प्रशासति ।
शत्रुघ्नो लवणं हत्वा चिच्छेद स मधोर्वनम्॥३९॥

तस्मिन् भीमे॥३९॥

तस्मिन्मधुवने स्थाने पुरीं च मथुरामिमाम् ।
निवेशयामास विभुः सुमित्रानन्दवर्धनः॥४०॥

पर्यये चैव रामस्य भरतस्य तथैव च ।
सुमित्रासुतयोश्चैव स्थानं प्राप्तं च वैष्णवम्॥४१॥

पर्यये अवतारोपरमे सति भीमेन वैष्णवं स्थानं मथुराख्यं प्राप्तमित्युत्तरसहितस्यान्वयः॥४१॥

भीमेनेयं पुरी तेन राज्यसम्बन्धकारणात् ।
स्ववशे स्थापिता पूर्वं स्वयमध्यासिता तथा॥४२॥

राज्यसम्बन्धकारणात् मधोः पुत्रे लवणे नष्टे मधुदौहित्रा राज्यप्रार्थिनो भवन्तीति शास्त्रीयसम्बन्धात्तद्दौहित्रजत्वाच्च भीमस्येत्यर्थः॥४२॥

ततः कुशे स्थिते राज्ये लवे तु युवराजनि ।
अन्धको नाम भीमस्य सुतो राज्यमकारयत्॥४३॥

राज्ये अयोध्यायामिति शेषः॥४३॥

अन्धकस्य सुतो जज्ञे रैवतो नाम पार्थिवः ।
ऋक्षोऽपि रैवताज्जज्ञे रम्ये पर्वतमूर्धनि॥४४॥

रैवताद्रैवतो रैवताद्विश्वगर्भ इत्यर्थः॥४४॥

ततो रैवत उत्पन्नः पर्वतः सागरान्तिके ।
नाम्ना रैवतको नाम भूमौ भूमिधरः स्मृतः॥४५॥

रैवतस्यात्मजो राजा विश्वगर्भो महायशाः ।
बभूव पृथिवीपालः पृथिव्यां प्रथितः प्रभुः॥४६॥

तस्य तिसृषु भार्यासु दिव्यरूपासु केशव ।
चत्वारो जज्ञिरे पुत्रा लोकपालोपमाः शुभाः॥४७॥

वसुर्बभ्रुः सुषेणश्च सभाक्षश्चैव वीर्यवान् ।
यदुप्रवीराः प्रख्याता लोकपाला इवापरे॥४८॥

तैरयं यादवो वंशः पार्थिवैर्बहुलीकृतः ।
यैः साकं कृष्ण लोकेऽस्मिन्प्रजावन्तः प्रजेश्वराः॥४९॥

वसोस्तु कुन्तिविषये वसुदेवः सुतो विभुः ।
ततः स जनयामास सुप्रभे द्वे च दारिके॥५०॥

वसोरिति। वसोः शूरापरनाम्नः सुतो वसुदेवोऽभवत्। ततो वसुदेवादनन्तरं स वसुर्द्वे दारिके जनयामास। ते च पृथाश्रुतश्रवाख्ये कुन्तिविषये कुन्तिभोजस्य राज्ञो विषये गोचरे दुहितृत्वेन दत्तत्वात्तदधीने इति यावत्॥५०॥

कुन्तीं च पाण्डोर्महिषीं देवतामिव भूचरीम् ।
भार्यां च दमघोषस्य चेदिराजस्य सुप्रभाम्॥५१॥

एष ते स्वस्य वंशस्य प्रभवः सम्प्रकीर्तितः ।
श्रुतो मया पुरा कृष्ण कृष्णद्वैपायनान्तिकात्॥५२॥

त्वं त्विदानीं प्रनष्टेऽस्मिन्वंशे वंशभृतां वर ।
स्वयम्भूरिव सम्प्राप्ते भवायास्मज्जयाय च॥५३॥

प्रनष्टे अभिभूते॥५३॥

न तु त्वां पौरमात्रेण शाक्ता गूहयितुं वयम् ।
देवगुह्येष्वपि भवान्सर्वज्ञः सर्वभावनः॥५४॥

पौरमात्रेण पुरवासिलोकसाम्येन त्वां जरासन्धाद्गूहयितुं वयं क्षमा न। एतच्च सर्वज्ञत्वाद्भवानेव वेदेत्याह- देवेति। भावयतीति भावनः ज्ञाता॥५४॥

शक्तश्चापि जरासन्धं नृपं योधयितुं विभो ।
त्वद्बुद्धिवशगाः सर्वे वयं योधव्रते स्थिताः॥५५॥

जरासन्धस्तु बलवान्नृपाणां मूर्ध्नि तिष्ठति ।
अप्रमेयबलश्चैव वयं च कुशसादनाः॥५६॥

न चेयमेकाहमपि पुरी रोधं सहिष्यति ।
कृशभक्तेन्धनक्षामा दुर्गैरपरिवेष्टिता॥५७॥

असंस्कृताम्बुपरिखा द्वारयन्त्रविवर्जिता ।
वप्रप्राकारनिचया कर्तव्या बहुविस्तरा॥५८॥

संस्कर्तव्यायुधागारा योक्तव्या चेष्टिकाचयैः ।
कंसस्य बलभोग्यत्वान्नातिगुप्ता पुरा जनैः॥५९॥

सद्यो निपतिते कंसे राज्येऽस्माकं नवोदये ।
पुरी प्रत्यग्ररोधेन न रोधं विसहिष्यति॥६०॥

अग्रं प्रतीति प्रत्यग्रं राजभागार्थं रोधो यस्याः सेव। यथाहि कर्षकग्रामं करार्थे राजभटा अवरुन्धन्ति तद्वत्॥६०॥

बलं संमर्दभग्नं च कृष्यमाणं परेण ह ।
असंशयमिदं राष्ट्रं जनैः सह विनङ्क्ष्यति॥६१॥

यादवानां विरोधेन ये जिता राज्यकामुकैः ।
ते सर्वे द्वैधमिच्छन्ति यत्क्षमं तद्विधीयताम्॥६२॥

कामुकैरस्माभिः॥६२॥

वञ्चनीया भविष्यामो नृपाणां नृपकारणात् ।
जरासन्धभयार्तानां द्रवतां राज्यसम्भ्रमे॥६३॥

आर्ता वक्ष्यन्ति नः सर्वे रुध्यमानाः पुरे जनाः ।
यादवांनां विरोधेन विनष्टाः स्मेति केशव॥६४॥

एतन्मम मतं कृष्ण विस्रम्भात्समुदाहृतम् ।
त्वं तु विज्ञापितः पूर्वं न पुनः सम्प्रभोधितः॥६५॥

यदत्र वः क्षमं कृष्ण तच्च वै संविधीयताम् ।
त्वमस्य नेता सैन्यस्य वयं त्वच्छासने स्थिताः ।
त्वन्मूलश्च विरोधोऽयं रक्षास्मानात्मना सह॥६६॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि विकद्रुवाक्यं नाम अष्टात्रिंशोऽध्यायः॥३८॥
जामदग्न्येन रामकृष्णयोः सङ्गतिः-०३९

वैशम्पायन उवाच। विकद्रोस्तु वचः श्रुत्वा वसुदेवो महायशाः ।
परितुष्टेन मनस वचनं चेदमब्रवीत्॥१॥

एकोनचत्वारिंशेऽथ जरासन्धभयादद्रुतिः। उच्यते जामदग्न्येन सङ्गती रामकृष्णयोः॥१॥ विकद्रोरिति॥१॥

राजा षाड्गुण्यवक्ता वै राजा मन्त्रार्थतत्त्ववित् ।
सतत्त्वं च हितं चैव कृष्णोक्तं किल धीमता॥२॥

भाषिता राजधर्माश्च सत्याश्च जगतो हिताः ।
विकद्रुणा यदुश्रेष्ठ यद्धितं तद्विधीयताम्॥३॥

एतच्छ्रुत्वा पितुर्वाक्यं विकद्रोश्च महात्मनः ।
विकद्रोस्तद्वचस्तथ्यं निशम्य यदुपुङ्गवः ।
वाक्यमुत्तममेकाग्रो बभाषे पुरुषोत्तमः॥४॥

ब्रुवतां वः श्रुतं वाक्यं हेतुतः क्रमतस्तथा ।
न्यायतः शास्त्रतश्चैव दैवं चैवानुपश्यताम्॥५॥

हेतुतः मन्निमित्तं वैरमिति हेतुतः। क्रमतः शत्रोः पराक्रमतः। न्यायतः यन्निमितं वैरं तस्यैव परिहारेणारिष्टशान्तिः कर्तव्येति युक्तेः। शास्त्रतः अशक्तस्यापसरणानुज्ञावशात् दैवं भाविकार्यमनुपश्यताम्॥५॥

श्रूयतामुत्तरं वाक्यं श्रुत्वा च परिगृह्यताम् ।
नयेन व्यवहर्तव्यं पार्थिवेन यथाक्रमम्॥६॥

सन्धिं च विग्रहं चैव यानमासनमेव च ।
द्वैधीभावं संश्रयं च षाड्गुण्यं चिन्तयेत्सदा॥७॥

बलिनः सन्निकृष्टे तु न स्थेयं पण्डितेन वै ।
अपक्रमेद्धि कालज्ञः समर्थो युद्धमुद्वहेत्॥८॥

तत्र क्रमतः शास्त्रत इत्येतौ हेतू व्याचष्टे- बलिन इति। सन्निकृष्टे निकटे॥८॥

अहं तावत्सहार्येण मुहूर्तेऽस्मिन्प्रकाशिते ।
जीवितार्थं गमिष्यामि शक्तिमानप्यशक्तवत्॥९॥

इतरयोर्हेत्वोरुत्तरमाह- अहमित्यादिना॥९॥

ततः सह्याचलयुतं सहार्येणाहमक्षयम् ।
आत्मद्वितीयः श्रीमन्तं प्रवेक्ष्ये दक्षिणापथम्॥१०॥

करवीरपुरं चैव रम्यं क्रौञ्चपुरं तथा ।
द्रक्ष्यावस्तत्र सहितौ गोमन्तं च नगोत्तमम्॥११॥

आवयोर्गमनं श्रुत्वा जितकाशी स पार्थिवः ।
अप्रविश्य पुरीं दर्पादनुसारं करिष्यति॥१२॥

अनुसारं पृष्ठतो धावनम्॥१२॥

ततः सह्यवनेष्वेव राजा याति स सानुगः ।
आवयोर्ग्रहणे चैव नृपतिः प्रयतिष्यति॥१३॥

राजा जरासन्धः प्रयतिष्यति वेगेनागमिष्यति॥१३॥

एषा नः श्रेयसी यात्रा भविष्यति कुलस्य वै ।
पौराणामथ पुर्याश्च देशस्य च सुखावहा॥१४॥

न च शत्रोः परिभ्रष्टा राजानो विजिगीषवः ।
परराष्ट्रेषु मृष्यन्ति मृधे शत्रोः क्षयं विना॥१५॥

शत्रोः शत्रुं प्राप्य परिभ्रष्टाः स्वराष्ट्रे स्थित्वा पृष्ठतः शत्रोर्वधमेव कामयन्ते न तु स्वराष्ट्ररक्षां तत्र मुख्यार्थिनः परस्याभिनिवेशाभावादित्यर्थः॥१५॥

एवमुक्त्वा तु तौ वीरौ कृष्णसङ्कर्षणावुभौ ।
प्रपेदतुरसम्भ्रान्तौ दक्षिणौ दक्षिणापथम्॥१६॥

दक्षिणौ समर्थौ॥१६॥

तौ तु राष्ट्राणि शतशश्चरन्तौ कामरूपिणौ ।
दक्षिणां दिशमास्थाय चेरतुर्मार्गगौ सुखम्॥१७॥

सह्यपृष्ठेषु रम्येषु मोदमानावुभौ तथा ।
दक्षिणापथगौ वीरावध्वानं सम्प्रपेदतुः॥१८॥

तौ च स्वल्पेन कालेन सह्याचलविभूषितम् ।
करवीरपुरं प्राप्तौ स्ववंशेन विभूषितम्॥१९॥

तौ तत्र गत्वा वेणाया नद्यास्तीरान्तमाश्रितम् ।
आसेदतुः प्ररोहाढ्यं न्यग्रोधं तरुपुङ्गवम्॥२०॥

अधस्तात्तस्य वृक्षस्य मुनिं दीप्ततपोधनम् ।
अंसावसक्तपरशुं जटावल्कलधारिणम्॥२१॥

गौरमग्निशिखाकारं तेजसा भास्करोपमम् ।
क्षत्रान्तकरमक्षोभ्यं वपुष्मन्तमिवार्णवम्॥२२॥

न्यस्तसङ्कुचिताधानं काले हुतहुताशनम् ।
क्लिन्नं त्रिषवणाम्भोभिराद्यं देवगुरुं यथा॥२३॥

न्यस्तं समारोपितम् अत एव सङ्कुचितम् आधानं त्रेताग्निविस्तारो यस्य तम्। अथापि काले प्रादुष्कृतेष्वग्निषु हुतहुताशनम्॥२३॥

सवत्सां धेनुकां श्वेतां होमधुक्कामदोहनाम् ।
क्षीरारणिं कर्षमाणं महेन्द्रगिरिगोचरम्॥२४॥

होमार्थं दुह्यते सा होमधुक् सा चासौ कामदोहना चेति समासः॥२४॥

ददृशतुस्तौ सहितावपरिश्रान्तमव्ययम् ।
भार्गवं राममासीनं मन्दरस्थं यथा रविम्॥२५॥

न्यायतस्तौ तु तं दृष्ट्वा पादमूले कृतासनौ ।
वसुदेवसुतौ वीरौ सधिष्ण्याविव पावकौ॥२६॥

सधिष्ण्यौ सस्थानौ॥२६॥

कृष्णस्तमृषिशार्दूलमुवाच वदतां वरः ।
श्लक्ष्णं मधुरया वाचा लोकवृत्तान्तकोविदः॥२७॥

भगवञ्जामदग्न्यं त्वामवगच्छामि भार्गवम् ।
रामं मुनीनामृषभं क्षत्रियाणां कुलान्तकम्॥२८॥

त्वया सायकवेगेन क्षिप्तो भार्गव सागरः ।
इषुपातेन नगरं कृतं शूर्पारकं त्वया॥२९॥

समुद्रात् भूमिषु पातमात्रं प्राप्य तत्र शूर्पारकं नाम नगरं कृतं कृत्स्नायाः क्षितेः काश्यपाय दानत्वात्॥२९॥

धनुः पञ्चशतायाममिषुपञ्चशतोच्छ्रयम् ।
सह्यस्य च निकुञ्जेषु स्फीतो जनपदो महान्॥३०॥

धनुश्चतुर्हस्तं इषुर्द्विहस्तः॥३०॥

अतिक्रम्योदधेर्वेलामपरान्ते निवेशितः ।
त्वया तत्कार्तवीर्यस्य सहस्रभुजकाननम्॥३१॥

अपरान्ते पश्चिमसमुद्रतीरे॥३१॥

छिन्नं परशुनैकेन स्मरता निधनं पितुः ।
इयमद्यापि रुधिरैः क्षत्रियाणां हतद्विषाम्॥३२॥

स्निग्धैस्त्वत्परशूत्सृष्टैः रक्तपङ्का वसुन्धरा ।
रैणुकेयं विजाने त्वां क्षितौ क्षितिपरोषणम्॥३३॥

परशुप्रग्रहे युक्तं यथैवेह रणे तथा ।
तदिच्छावस्त्वया विप्र कञ्चिदर्थमुपश्रुतम्॥३४॥

उत्तरं च श्रुतार्थेन प्रत्युक्तमविशङ्कया ।
आवयोर्मथुरा नाम यमुनातीरशोभिनी॥३५॥

यादवौ स्वो मुनिश्रेष्ठ यदि ते श्रुतिमागतौ ।
वसुदेवो यदुश्रेष्ठः पिता नौ हि धृतव्रतः॥३६॥

जन्मप्रभृति चैवावां व्रजेष्वेव नियोजितौ ।
तौ स्वः कंसभयात्तत्र शङ्कितौ परिवर्द्धितौ॥३७॥

वयश्च प्रथमं प्राप्तौ मथुरायां प्रवेशितौ ।
तावावां व्युत्थितं हत्वा समाजे कंसमोजसा॥३८॥

पितरं तस्य तत्रैव स्थापयित्वा जनेश्वरम् ।
स्वमेव कर्म चारब्धौ गवां व्यापारकारकौ॥३९॥

अथावयोः पुरं रोद्धुं जरासन्धो व्यवस्थितः ।
सङ्ग्रामान्सुबहून्कृत्वा लब्धलक्षावपि स्वयम्॥४०॥

ततः स्वपुररक्षार्थं प्रजानां च धृतव्रत ।
अकृतार्थावनुद्योगौ कर्तव्यबलसाधनौ॥४१॥

कर्तव्यं सम्पादनीयं बलं सैन्यं साधनं धनादिकं ययोस्तौ॥४१॥

अरथौ पत्तिनौ युद्धे निस्तनुत्रौ निरायुधौ ।
जरासन्धोद्यमभयात्पुराद्द्वावेव निःसृतौ॥४२॥

एवमावामनुप्राप्तौ मुनिश्रेष्ठ तवान्तिकम् ।
आवयोर्मन्त्रमात्रेण कर्तुमर्हसि सत्क्रियाम्॥४३॥

श्रुत्वैतद्भार्गवो रामस्तयोर्वाक्यमनिन्दितम् ।
रैणुकेयः प्रतिवचो धर्मसंहितमब्रवीत्॥४४॥

अपरान्तादहं कृष्ण सम्प्रतीहागतः प्रभो ।
एक एव विना शिष्यैर्युवयोर्मन्त्रकारणात्॥४५॥

विदितो मे व्रजे वासस्तव पद्मनिभेक्षण ।
दानवानां वधश्चापि कंसस्यापि दुरात्मनः॥४६॥

विग्रहं च जरासन्धे विदित्वा प्रुषोत्तम ।
तव सभ्रातृकस्येह सम्प्राप्तोऽस्मि वरानन॥४७॥

जाने त्वां कृष्ण गोप्तारं जगतः प्रभुमव्ययम् ।
देवकार्यार्थसिद्ध्यर्थमबालं बालतां गतम्॥४८॥

न त्वयाविदितं किञ्चित्त्रिषु लोकेषु विद्यते ।
तथापि भक्तिमात्रेण शृणु वक्ष्यामि ते वचः॥४९॥

पूर्वजैस्तव गोविन्द पूर्वं पुरमिदं कृतम् ।
करवीरपुरं नाम राष्ट्रं चैव निवेशितम्॥५०॥

पुरेऽस्मिन्नृपतिः कृष्ण वासुदेवो महायशाः ।
शृगाल इति विख्यातो नित्यं परमकोपनः॥५१॥

नृपेण तेन गोविन्द तव वंशभवा नृपाः ।
दायादा निहताः सर्वे वीरद्वेषानुशायिना॥५२॥

द्वेषानुशायिना द्वेषमेवानुशेतेऽनुरुध्यते न तु धर्मं तेन॥५२॥

अहङ्कारपरो नित्यमजितात्मातिमत्सरी ।
राज्यैश्वर्यमदाविष्टः पुत्रेष्वपि च दारुणः॥५३॥

तन्नेह भवतः स्थानं रोचते मे नरोत्तम ।
करवीरपुर्रे घोरे नित्यं पार्थिवदूषिते॥५४॥

श्रूयतां कथयिष्यामि यत्रोभौ शत्रुबाधनौ ।
जरासन्धं बलोदग्रं भवन्तौ योधयिष्यतः॥५५॥

तीर्त्वा वेणामिमां पुण्यां नदीमद्यैव बाहुभिः ।
विषयान्ते निवासाय गिरिं गच्छाम दुर्गमम्॥५६॥

विषयान्ते देशसीम्नि निवासाय रात्रिवासाय॥५६॥

रम्यं यज्ञगिरिं नाम सह्यस्य प्ररुहं गिरिम् ।
निवासं मांसभक्षाणां चौराणां घोरकर्मणाम्॥५७॥

प्ररुहम् उपगिरिम्॥५७॥

नानाद्रुमलतायुक्तं चित्रं पुष्पितपादपम् ।
प्रोष्ये तत्र निशामेकां खट्वाङ्गां नाम निम्नगाम्॥५८॥

भद्रं ते सन्तरिष्यामो निकशोपलभूषणाम् ।
गङ्गाप्रपातप्रतिमां भ्रष्टां च महतो गिरेः॥५९॥

तस्याः प्रपातं द्रक्ष्यामस्तापसारण्यभूषणम् ।
उपभुज्य त्विमान्कामान्गत्वा तान्धरणीधरान्॥६०॥

द्रक्ष्यामस्तत्र तान्विप्राञ्छाम्यतो वै तपोधनान् ।
रम्यं क्रौञ्चपुरं नाम गमिह्यामः पुरोत्त्मम्॥६१॥

श्राम्यतः श्रममाणान् वानप्रस्थानिति यावत्॥६१॥

वंशजस्तत्र ते राजा कृष्ण धर्मरतः सदा ।
महाकपिरिति ख्यातो वनवास्यजनाधिपः॥६२॥

वनमेव वास्यं वासार्हं यस्य स वनवास्यः स चासौ जनश्च तस्याधिपतिः॥६२॥

तमदृष्ट्वैव राजानं निवासाय गतेऽहनि ।
तीर्थमानडुहं नाम तत्रस्थाः स्याम सङ्गताः॥६३॥

ततश्च्युता गमिष्यामः सह्यस्य विवरे गिरिम् ।
गोमन्तमिति विख्यातं नैकशृङ्गविभूषितम्॥६४॥

खगतैकमहाशृङ्गं दुरारोहं खगैरपि ।
विश्रामभूतं देवानां ज्योतिर्भिरभिसंवृतम्॥६५॥

सोपानभूतं स्वर्गस्य गगनाद्रिमिवोच्छ्रितम् ।
तं विमानावतरणं गिरिं मेरुमिवापरम्॥६६॥

तस्योत्तमे महाशृङ्गे भास्वन्तौ दैवरूपिणौ ।
उदयास्तमये सूर्यं सोमं च ज्योतिषां पतिम्॥६७॥

ऊर्मिमन्तं समुद्रं च अपारद्वीपभूषणम् ।
प्रेक्षमाणौ सुखं तत्र नगाग्रे विचरिष्यथः॥६८॥

शृङ्गस्थौ तस्य शैलस्य गोमन्तस्य वनेचरौ ।
दुर्गयुद्धेन धावन्तौ जरासन्धं विजेष्यथः॥६९॥

तत्र शैलगतौ दृष्ट्वा भवन्तौ युद्धदुर्मदौ ।
आसक्तः शैलयुद्धे वै जरासन्धो भविष्यति॥७०॥

भवतोरपि युद्धे तु प्रवृत्ते तत्र दारुणे ।
आयुधैः सह संयोगं पश्यामि न चिरादिव॥७१॥

सङ्ग्रामश्च महान्कृष्ण निर्दिष्टस्तत्र दैवतैः ।
यदूनां पार्थिवाणां च मांसशोणितकर्दमः॥७२॥

तत्र चक्रं हलं चैव गदां कौमोदकीं तथा ।
सौनन्दं मुसलं चैव वैष्णवान्यायुधानि च॥७३॥

दर्शयिष्यन्ति सङ्ग्रामे पास्यन्ति च महीक्षिताम् ।
रुधिरं कालयुक्तानां वपुर्भिः कालसन्निभैः॥७४॥

दर्शयिष्यन्ति प्रकटीभविष्यन्ति॥७४॥

स चक्रमुसलो नाम सङ्ग्रामः कृष्ण विश्रुतः ।
दैवतैरिह निर्दिष्टः कालस्यादेशसंज्ञितः॥७५॥

तत्र ते कृष्ण सङ्ग्रामे सुव्यक्तं वैष्णवं वपुः ।
द्रक्ष्यन्ति रिपवः सर्वे सुराश्च सुरभावन॥७६॥

तां भजस्व गदां कृष्ण चक्रं च चिरविस्मृतम् ।
भजस्व स्वेन रूपेण सुराणां विजयाय वै॥७७॥

भजस्व लभस्व॥७७॥

बलश्चायं हतं घोरं मुसलं चारिभेदनम् ।
वधाय सुरशत्रूणां भजतांल्लोकभावनः॥७८॥

एष ते प्रथमः कृष्ण सङ्ग्रामो भुवि पार्थिवैः ।
पृथिव्यर्थे समाख्यातो भारावतरणे सुरैः॥७९॥

आयुधावाप्तिरत्रैव वपुषो वैष्णवस्य च ।
लक्ष्म्याश्च तेजसश्चैव व्यूहानां च विदारणम्॥८०॥

व्यूहानां शत्रुसैन्यानाम्॥८०॥

अतः प्रभृति सङ्ग्रामो धरण्यां शस्त्रमूर्च्छितः ।
भविष्यति महान् कृष्ण भारतं नाम वैशसम्॥८१॥

तद्गच्छ कृष्ण शैलेन्द्रं गोमन्तं च नगोत्तमम् ।
जरासन्धमृधे चापि विजयस्त्वामुपस्थितः॥८२॥

इदं चैवामृतप्रख्यं होमधेनोः पयोऽमृतम् ।
पीत्वा गच्छत भद्रं वो मयाऽऽदिष्टेन वर्त्मना॥८३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रामवक्ये एकोनचत्वारिंशोऽध्यायः॥३९॥
गोमन्तारोहणम्-०४०

वैशम्पायन उवाच। तत्तु धेन्वाः पयः पीत्वा बलदर्पसमन्वितौ ।
ततस्तौ रामसहितौ प्रस्थितौ यदुपुङ्गवौ॥१॥

गोमन्तं पर्वतं द्रष्टुं मत्तनागेन्द्रगामिनौ ।
जामदग्न्यप्रदिष्टेन मार्गेण वदतां वरौ॥२॥

जामदग्न्यतृतीयास्ते त्रयस्त्रय इवाग्नयः ।
शोभयन्ति स्म पन्थानं त्रिदिवं त्रिदशा इव॥३॥

ते चाध्वविधिना सर्वे ततो वै दिवसक्रमात् ।
गोमन्तमचलं प्राप्ता मन्दरं त्रिदशा इव॥४॥

चत्वारिंशत्तमेऽध्याये वर्ण्यते रामकृष्णयोः। गोमन्तारोहणं तस्मात्प्रत्यावृत्तिर्द्विजन्मनः॥१॥ अध्वविधिना मानुषगत्या॥४॥

लताचारुविचित्रं च नानाद्रुमविभूषितम् ।
नानागुरुपिनद्धाङ्गं चित्रं चित्रमनोहरैः॥५॥

चित्रैः मयूरैः॥५॥

द्विरेफगणसङ्कीर्णं शिलासङ्कटपादपम् ।
मत्तबर्हिणनिर्घोषैर्नादितं मेघनादिभिः॥६॥

गगनालग्नशिखरं जलदासक्तपादपम् ।
मत्तद्विपविषाणाग्रैः परिघृष्टोपलाङ्कितम्॥७॥

कूजद्भिश्चाण्डजगणैः समन्तात्प्रतिनादितम् ।
दरीप्रपाताम्बुरवैश्छन्नं शार्दूलपल्लवैः॥८॥

नीलाश्मचयसङ्घातैर्बहुवर्णं यथा घनम् ।
धातुविस्रावदिग्धाङ्गं सानुप्रस्रवभूषितम्॥९॥

कीर्णं सुरगणैः कान्तैर्मैनाकमिव कामगम् ।
उच्छ्रितं सुविशालाग्रं समूलाम्बुपरिस्रवम्॥१०॥

सकाननदरीप्रस्थं श्वेताभ्रगणभूषितम् ।
पनसाम्रातकाम्रौघैर्वेत्रस्यन्दनचन्दनैः॥११॥

प्रस्थानि सानूनि॥११॥

तमालैलावनयुतं मरीचक्षुपसङ्कुलम् ।
पिप्पलीवल्लिकलिलं चित्रमिङ्गुदिपादपैः॥१२॥

द्रुमैः सर्जरसानां च सर्वतः परिशोभितम् ।
प्रांशुशालवनैर्युक्तं बहुचित्रवनैर्युतम्॥१३॥

सर्जनिम्बार्जुनवनं पाटलीकुलसङ्कुलम् ।
हिन्तालैश्च तमालैश्च पुन्नागैश्चोपशोभितम्॥१४॥

जलेषु जलजैश्छन्नं स्थलेषु स्थलजैरपि ।
पङ्कजैर्द्रुमखण्डैश्च सर्वतः प्रतिभूषितम्॥१५॥

जम्बूजम्बूलवृक्षाढ्यं कद्रुकन्दलभूषितम् ।
चम्पकाशोकबकुलं बिल्वतिन्दुकशोभितम्॥१६॥

कुञ्जैश्च नागपुष्पैश्च समन्तादुपशोभितम् ।
नागयूथसमाकीर्णं मृगसङ्घातशोभितम्॥१७॥

सिद्धचारणरक्षोभिः सेवितप्रस्तरान्तरम् ।
गन्धर्वैश्च समायुक्तं गुह्यकैः पक्षिभिस्तथा॥१८॥

विद्याधरगणैर्नित्यमनुकीर्णशिलातलम् ।
सिंहशार्दूलसन्नादैः सततं प्रतिनादितम् ।
सेवितं वारिधाराभिश्चन्द्रपादैश्च शोभितम्॥१९॥

स्तुतं त्रिदशगन्धर्वैरप्सरोभिरलङ्कृतम् ।
वनस्पतीनां दिव्याणां पुष्पैरुच्चावचैः श्रितम्॥२०॥

शक्रवज्रप्रहाराणामनभिज्ञं कदाचन ।
दावाग्निभयनिर्मुक्तं महावातभयोज्झितम्॥२१॥

प्रपातप्रभवाभिश्च सरिद्भिरुपशोभितम् ।
काननैराननाकारैर्विशेषद्भिरिव श्रियम्॥२२॥

जलशैवलशृङ्गाग्रैरुन्मिषन्तमिव श्रिया ।
स्थलीभिर्मृगजुष्टाभिः कान्ताभिरुपशोभितम्॥२३॥

पार्श्वैरुपलकल्माषैर्मेघैरिव विभूषितम् ।
पादप्रच्छन्नभूमीभिः सपुष्पाभिः समन्ततः॥२४॥

मण्डितं वनराजीभिः प्रमदाभिः पतिर्यथा ।
सुन्दरीभिर्दरीभिश्च कन्दराभिस्तथैव च॥२५॥

दरीकन्दरयोः कृत्रिमाकृत्रिमत्वेन व्यवस्था॥२५॥

तेषु तेष्ववकाशेषु सदारमिव शोभितम् ।
औषधीदीप्तशिखरं वानप्रस्थनिषेवितम् ।
जातरूपैर्वनोद्देशैः कृत्रिमैरिव बूषितम्॥२६॥

मूलेन सुविशालेन शिरसाप्युच्छ्रितेन च ।
पृथिवीमन्तरिक्षं च गाहयन्तमिव स्थितम्॥२७॥

गाहयन्तं गाहमानम्॥२७॥

ते समासाद्य गोमन्तं रम्यं भूमिधरोत्तमम् ।
रुचिरं रुरुचुः सर्वे वासायामरसन्निभाः॥२८॥

रुरुहुस्ते गिरिवरं खमूर्ध्वमिव पक्षिणः ।
असज्जमाना वेगेन वैनतेयपराक्रमाः॥२९॥

ते तु तस्योत्तरं शृङ्गमारूढास्त्रिदशा इव ।
अगारं सहसा चक्रुर्मनसा निर्मितोपमम्॥३०॥

निविष्टौ यादवौ दृष्ट्वा जामदग्न्यो महामतिः ।
रामोऽभिमतमक्लिष्टमाप्रष्टुमुपचक्रमे॥३१॥

कृष्ण यास्याम्यहं तात पुरं शूर्पारकं विभो ।
युवयोर्नास्ति वैमुख्यं सङ्ग्रामे दैवतैरपि॥३२॥

प्राप्तवानस्मि यां प्रीतिं मार्गानुगमनादपि ।
सा मे कृष्णानुगृह्णाति शरीरमिदमव्ययम्॥३३॥

इदं यत्स्थानमुद्दिष्टं यत्रायुधसमागमः ।
युवयोर्विहितो देवैः समयः साम्परायिकः॥३४॥

साम्परायिकः परलोकहितः॥३४॥

देवानां मुख्य वैकुण्ठ विष्णो देवैरभिष्टुत ।
कृष्ण सर्वस्य लोकस्य शृणु मे नैष्ठिकं वचः॥३५॥

नैष्ठिकं तात्त्विकम्॥३५॥

यदिदं प्रस्तुतं कर्म त्वया गोविन्द लौकिकम् ।
मानुषाणां हितार्थाय लोके मानुषदेहिना॥३६॥

इदं भूभारहरणरूपं प्रस्तुतम् आरब्धम्॥३६॥

तस्यायं प्रथमः कल्पः कालेन तु वियोजितः ।
जरासन्धेन वै सार्धं सङ्ग्रामे समुपस्थिते॥३७॥

प्रथमो मुख्यः कल्पः प्रयोगः॥३७॥

तत्रायुधबलं चैव रूपं च रणकर्कशम् ।
स्वयमेवात्मना कृष्ण त्वयात्मानं विधत्स्व ह॥३८॥

तत्रेति। त्वमेव तवायुधादिकं भाव्यमलौकिकेन सामर्थ्येन। यदाह यास्कः- “आत्मैवैषां रथो भवत्यात्माश्वा आत्मायुधमात्मेषव आत्मा सर्वं देवस्य” इति॥३८॥

चक्रोद्यतकरं दृष्ट्वा त्वां गदापाणिमाहवे ।
चतुर्द्विगुणपीनांसं बिभ्येदपि शतक्रतुः॥३९॥

चतुर्द्विगुणपीनांसम् अष्टबाहुमित्यर्थः। एतेन कृष्णस्य साक्षाद्विष्णुत्वमुक्तं न तु तदंशत्वं विद्वदृश्यं कृष्णस्येदमेव रूपं द्विभुजं त्वविद्वद्दृश्यमिति ज्ञेयम्॥३९॥

अद्यप्रभृति ते यात्र स्वर्गोक्ता समुपस्थिता ।
पृथिव्यां पार्थिवेन्द्राणां कृतास्त्रे त्वयि मानद॥४०॥

वैनतेयस्य चाह्वानं वाहनं ध्वजकर्मणः ।
कुरु शीघ्रं महाबाहो गोविन्द वदतां वर॥४१॥

युद्धकामा नृपतयस्त्रिदिवाभिमुखोद्यताः ।
धार्तराष्ट्रस्य वशगास्तिष्ठन्ति रणवृत्तयः॥४२॥

राज्ञां निधनदृष्टार्था वैधव्येनाधिवासिता ।
एकवेणीधरा चेयं वसुधा त्वां प्रतीक्षते॥४३॥

वैधव्येन आगामिना अधिवासिता परिगृहीता अत एव एकवेणीधरा असंस्कृतकेशबन्धा॥४३॥

सग्रहं कृष्ण नक्षत्रं सङ्क्षिप्यारिविमर्दन ।
त्वयि मानुष्यमापन्ने युद्धे च समुपस्थिते॥४४॥

हे कृष्ण, क्षत्रं संक्षिप्य न प्रतीक्षते इति पूर्वेण सम्बन्धः। क्षत्रियाः मरणभयात्सङ्कोचं प्राप्य कालावधिं न प्रतीक्षन्ते अपि तु उत्फुल्ला भूत्वा शीघ्रमेव मरणं कामयन्ते। यतः सग्रहं क्रूरैः ग्रहैराक्रान्तं नक्षत्रमस्ति इत्यर्थः॥४४॥

त्वरस्व कृष्ण युद्धाय दानवानां वधाय च ।
स्वर्गाय च नरेन्द्राणां देवतानां सुखाय च॥४५॥

सत्कृतोऽहं त्वया कृष्ण लोकैश्च सचराचरैः ।
त्वया सत्कृतरूपेण येन सत्कृतवानहम्॥४६॥

सत्कृतं सत्कारस्तद्वानहं त्वया विश्वात्मना यतोऽस्मि अतः सर्वत्र सत्कृतोऽस्मीत्यर्थः॥४६॥

साधयामि महाबाहो भवतः कार्यसिद्धये ।
स्मर्तव्यश्चास्मि युद्धेषु कान्तारेषु महीक्षिताम्॥४७॥

साधयामीति। एतेन युद्धे जयार्थिभिः शूरैः परशुरामः स्मर्तव्य इति विधीयत इति ज्ञेयम्॥४७॥

इत्युक्त्वा जामदग्न्यस्तु कृष्णमक्लिष्टकारिणम् ।
जयाशिषा वर्द्धयित्वा जगामाभीप्सितां दिशम्॥४८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि गोमन्तारोहणं नाम चत्वारिंशोऽध्यायः॥४०॥
जरासन्धाभिगमनम्-०४१

वैशम्पायन उवाच। जामदग्न्ये गते रामे तौ यादवकुलोद्वहौ ।
गोमन्तशिखरे रम्ये चेरतुः कामरूपिणौ॥१॥

अथैकचत्वारिंशेऽस्मिन्रामकृष्णजिघृक्षया। जरासन्धस्य नृपतेरन्वागमनमुच्यते॥१॥ जामदग्न्ये इति॥१॥

वनमालाकुलोरस्कौ नीलपीताम्बरावुभौ ।
नीलश्वेतवपुष्मन्तौ गगनस्थाविवाम्बुदौ॥२॥

तौ शैलधातुदिग्धाङ्गौ युवानौ शिखरे स्थितौ ।
चेरतुस्तत्र कान्तेषु वनेषु रतिलालसौ॥३॥

उदयन्तं निरीक्षन्तौ शशिनं ज्योतिषां वरम् ।
उदयास्तमने चैव ग्रहाणां धरणीधरे॥४॥

उदयन्तम् उद्गच्छन्तम्॥४॥

अथ सङ्कर्षणः श्रीमान्विना कृष्णेन वीर्यवान् ।
चचार तस्य शिखरे नगस्य नगसन्निभः॥५॥

प्रफुल्लस्य कदम्बस्य सुच्छाये निषसाद ह ।
वायुना मन्दगन्धेन वीज्यमानः सुखेन वै॥६॥

सुच्छाये शोभनायां छायायाम्॥६॥

तस्य तेनानिलौघेन सेव्यमानस्य तत्र वै ।
मद्यसंस्पर्शजो गन्धः संस्पृशन्घ्राणमागतः॥७॥

तृष्णा चैनम् विवेशाशु वारुणीप्रभवा तदा ।
शुशोष च मुखं तस्य मत्तस्येवापरेऽहनि॥८॥

स्मारितः स पुरावृत्तममृतप्राशनं विभुः ।
तृषितो मदिरान्वेषी ततस्तं तरुमैक्षत॥९॥

तस्य प्रावृषि फुल्लस्य यदम्भो जलजोज्झितम् ।
तत्कोटरस्थं मदिरा सञ्जायत मनोहरा॥१०॥

तां तु तृष्णाभिभूतात्मा पिबन्नार्त इवासकृत् ।
मोहाच्च चलिताकारः समजायत स प्रभुः॥११॥

तस्य मत्तस्य वदनं किञ्चिच्चलितलोचनम् ।
घूर्णिताकारमभवच्छरत्कालेन्दुसप्रभम्॥१२॥

कदम्बकोटरे जाता नाम्ना कादम्बरीति सा ।
रूपिणी वारुणी तत्र देवानाममृतारणी॥१३॥

रूपिणी मूर्तिमती अमृतारणी अमृतप्रसूः। यया वाजपेयसौत्रामण्यादिषु सुराग्रहवत्सु क्रतुषु आस्वादितया पुरुषा अमृतपानमपि प्राप्नुवन्ति तादृशी मेध्येत्यर्थः॥१३॥

कादम्बरीमदकलं विदित्वा कृष्णपूर्वजम् ।
तिस्रस्त्रिदशनार्यस्तमुपतस्थुः प्रियंवदाः॥१४॥

कादम्बरीमदकलं सुरामदनाव्यक्तवाचम्॥१४॥

मदिरा रूपिणी भूत्वा कान्तिश्च शशिनः प्रिया ।
श्रीश्च देवी वरिष्ठा स्त्री स्वयमेवाम्बुजध्वजा॥१५॥

साञ्जलिप्रग्रहा देवी रौहिणेयमुपस्थिता ।
वारुण्या सहितं वाक्यमुवाच मदविक्लवम्॥१६॥

बलं जयस्य दैत्यानां बलदेव दिवीश्वर ।
अहं ते दयिता कान्ता वारुणी समुपस्थिता॥१७॥

त्वामेवान्तर्हितं श्रुत्वा शाश्वतं वडवामुखे ।
क्षीणपुण्येव वसुधां पर्येमि विमलानन॥१८॥

वडवामुखे वडवाग्निसन्निधौ पाताले शेषरूपेण नित्यं स्थितं त्वाम् इदानीमन्तर्हितम्। एतेन रामोऽपि पूर्ण एव शेषावतारो न तु शेषांश इति दर्शितम्। पर्येमि परिभ्रमामि त्वामन्वेषयन्तीति शेषः॥१८॥

पुष्पचक्रानुलिप्तेषु केसरेषूषितं मया ।
अतिमुक्तेषु चाक्षोभ्य पुष्पस्तबकवत्सु च॥१९॥

पुष्पचक्रं विकसितसमुदायः केसराणामेव तेनानुलिप्तेषु केसरवत्सु कुसुमादिषु अतिमुक्तेषु वासन्तीलतासु॥१९॥

अहं कदम्बमालीना मेघकाले सुखप्रिया ।
तृषितं मार्गमाणा त्वां स्वेन रूपेण छादिता॥२०॥

सास्मि पूर्णेन योगेन यैथवामृतमन्थने ।
समीपं प्रेषिता पित्रा वरुणेन तवानघ॥२१॥

पूर्णेन योगेन सर्वाङ्गसम्पत्त्या युक्ता सती॥२१॥

सा यथैवार्णवगता तथैव वडवामुखे ।
त्वयोपभोक्तुमिच्छामि संमतस्त्वं हि मे गुरुः॥२२॥

त्वया कर्त्रा उपभोक्तुमात्मानं भोक्तुं गुरुः स्वामी। पाठान्तरे गुरोः पितुः संमतः॥२२॥

न त्वानन्तं परित्यक्ष्ये भर्त्सितापि त्वयानघ ।
नाहं त्वया विना लोकानुत्सहे देव सेवितुम्॥२३॥

आदिपद्मं च पद्माङ्कं दिव्यं श्रवणभूषणम् ।
कौशेयानि च नीलानि समुद्रार्हाणि बिभ्रती॥२४॥

मदिरानन्तरं कान्तिः सङ्कर्षणमुपस्थिता ।
मदेनागलितश्रोणी किञ्चिदाघूर्णितेक्षणा॥२५॥

प्रोवाच प्रणयात्कान्तिर्बद्धाञ्जलीपुटा सती ।
जयपूर्वेण योगेन सस्मितं वाक्यमर्थवत्॥२६॥

कान्तिर्मूर्तिमती जयपूर्वेण योगेन रामसम्बोधनसम्बन्धेन जय रामेति शब्देन अभिमुखीकृत्येत्यर्थः॥२६॥

अहं चन्द्रादपि पुरुं सहस्रशिरसं प्रभुम् ।
स्वैर्गुणैरनुरक्ता त्वां यथैव मदिरा तथा॥२७॥

श्रीश्च पद्मालया देवी विधेया वैष्णवोरसि ।
रौहिणेयोरसि शुभा मालेवामलतां गता॥२८॥

श्रीश्च वैष्णव्यपि राममेवानुगतेत्याह- श्रीश्चेति॥२८॥

सा मालाममलां गृह्य बलस्योरसि दंशिता ।
पद्मास्या पद्महस्ता वै सङ्कर्षणमथाब्रवीत्॥२९॥

दंशिता वस्त्रभूषणादिभिः सम्पन्ना॥२९॥

राम रामाभिरामस्त्वं वारुण्या समलङ्कृतः ।
कान्त्या मया च देवेश सङ्गतश्चन्द्रमा यथा॥३०॥

इयं च सा मया मौलिः प्रोद्धृता वरुणालया ।
मूर्ध्नि शीर्षसहस्रस्य या ते भानुरिवाबभौ॥३१॥

मौलिर्मुकुटः॥३१॥

जातरूपमयं चैकं कुण्डलं वज्रभूषितम् ।
आदिपद्मं च पद्माक्षं दिव्यश्रवणभूषणम्॥३२॥

कौशेयाणि च नीलानि समुद्रार्हाणि भावतः ।
हारं च पीनतरलं समुद्राभ्यन्तरोषितम्॥३३॥

समुद्रार्हाणि समुद्रः कामः। ‘कामं समुद्रमाविवेश’ इति मन्त्रवर्णात्। मनोरथानुरूपाणीत्यर्थः। भावतः आदरेण प्रतिगृह्णीष्वेत्युत्तरेणान्वयः॥३३॥

देवेमां प्रतिगृह्णीष्व पौराणीं भूषणक्रियाम् ।
समयस्ते महाबाहो भूषणानामलङ्क्रिया॥३४॥

भूषणमेव त्वयाऽलङ्क्रियाऽलङ्करणं भवति न तु तैस्तव तथापि ते तव समयोऽयमलङ्कारप्रतिग्रहस्येत्यर्थः॥३४॥

सङ्गृह्य तमलङ्कारं ताश्च तिस्रः सुरस्त्रियः ।
शुशुभे बलदेवो हि शारदेन्दुसमप्रभः॥३५॥

स समागम्य कृष्णेन जलजाम्भोदवर्चसा ।
मुदां परमिकां लेभे ग्रहयुक्तः शशी यथा॥३६॥

ताभ्यामुभाभ्यां संलापे वर्तमाने गृहे यथा ।
वैनतेयस्ततोऽध्वानमतिचक्राम वेगतः॥३७॥

ताभ्यां तयोः संलापेऽन्योन्यभाषणे अध्वानमतिचक्राम तत्राजगामेत्यर्थः॥३७॥

सङ्ग्रामयुक्तस्तेजस्वी दैत्यप्रहरणाङ्कितः ।
देवतानां जलश्लाघी दिव्यस्रगनुलेपनः॥३८॥

सुप्तस्य शयने दिव्ये क्षीरोदे वरुणालये ।
विष्णोः किरीटं दैत्येन हृतं वैरोचनेन वै॥३९॥

तदर्थस्तेन सङ्ग्रामः कृतो गुर्वर्थमोजसा ।
किरीटार्थे समुद्रस्य मध्ये दैत्यगणैः सह॥४०॥

मोक्षयित्वा किरीटं तु वैष्णवं पततां वरः ।
व्यत्यक्रमत वेगेन गगनं देवतालयम्॥४१॥

किरीटं मोक्षयित्वा क्षीरोदे विष्णुमदृष्ट्वा गमनं व्यत्यक्रमतेत्यर्थः॥४१॥

स ददर्श गुरुं शैले विष्णुं कार्यान्तरागतम् ।
तेन क्रीडावलम्बेन किरीटेन विराजता॥४२॥

ततो गगनादेव शैले विष्णुं ददर्श न तु वैकुण्ठे। क्रीडावलम्बेन स्कन्धावसक्तेन॥४२॥

स दृष्ट्वा मानुषं विष्णुं शैलराजशिरोगतम् ।
प्रकाशचेष्टानिर्मुक्तं विमौलिमिव मानुषम्॥४३॥

विमौलिं विकिरीटम्। एतावता ग्रन्थेन कृष्णस्तु भगवान् स्वयमित्येतद्दर्शितं वैकुण्ठक्षीरोदयोस्तदभावात्। तत्रापि मूर्तेः सत्त्वे तु अंशावतारत्वमेव स्यादिति॥४३॥

अभिज्ञस्तस्य भावानां गरुत्मान्पततां वरः ।
चिक्षेप खं गतो मौलिं विष्णोः शिरसि हृष्टवत्॥४४॥

उपेन्द्रमूर्ध्नि सा मौलिरपिनद्धा इवापतत् ।
शिरसः स्थाननिर्मुक्ता कृष्णं चैवान्वशोभयत् ।
यथैव मेरुशिखरे भानुर्मध्यन्दिने यथा॥४५॥

स्थाने निर्युक्ता निश्चयेन योजिता॥४५॥

वैनतेयप्रयोगेण विदित्वा मौलिमागताम् ।
कृष्णः प्रहृष्टवदनो रामं वचनमब्रवीत्॥४६॥

त्वरते खलु कार्यार्थो देवतानां न संशयः ।
यथेयमावयोः शैले सङ्ग्रामरचना कृता॥४७॥

वैरोचनेन सुप्तस्य मम मौलिर्महोदधौ ।
शक्रस्य सदृशं रूपं दिव्यमास्थाय सागरात्॥४८॥

ग्राहरूपेण यो नीत आनीतोऽसौ गरुत्मता ।
ममाहिशयनान्मौलिर्हृत्वा क्षिप्तो गरुत्मता॥४९॥

अहिशयनात् गते इति शेषः॥४९॥

सुव्यक्तं सन्निकृष्टः स जरासन्धो नराधिपः ।
लक्ष्यन्ते हि ध्वजाग्राणि रथानां वातरंहसाम्॥५०॥

एतानि विजिगीषूणां शशिकल्पानि भूभृताम् ।
छत्राण्यार्य विराजन्ते दंशितानि मितानि च॥५१॥

अहो नृपरथोदग्रा विमलाश्छत्रपङ्क्तयः ।
अभिवर्तन्ति नः शुभ्रा यथा खे हंसपङ्क्तयः॥५२॥

अहो द्यौर्विमलाभानां शस्त्राणां विमलानना ।
प्रभा भास्करभामिश्रा चरन्तीव दिशो दश॥५३॥

एतानि नूनं समरे पार्थिवैरायुधानि च ।
क्षिप्तानि विनशिष्यन्ति मयि सर्वाणि संयुगे॥५४॥

काले खलु नृपः प्राप्तो जरासन्धो महीपतिः ।
आवयोर्युद्धनिकषः प्रथमः समरातिथिः॥५५॥

आर्य तिष्ठाव सहितौ न खल्वानागते नृपे ।
युद्धारम्भः प्रयोक्तव्यो बलं तावद्विमृश्यताम्॥५६॥

एवमुक्त्वा ततः कृष्णः स्वस्थः सङ्ग्रामलालसः ।
जरासन्धवधं प्रेप्सुश्चकार बलदर्शनम्॥५७॥

वीक्षमाणश्च तान्नृपान्यदुवरोऽव्ययः ।
आत्मानमात्मनोवाच यत्पूर्वं दिवि मन्त्रितम्॥५८॥

इमे ते पृथिवीपालाः पार्थिवे वर्त्मनि स्थिताः ।
ये विनाशं गमिष्यन्ति शास्त्रदृष्टेन कर्मणा॥५९॥

प्रोक्षितान्खल्विमान्मन्ये मृत्युना नृपसत्तमान् ।
स्वर्गगामीनि चाप्येषां वपूंषि प्रचकाशिरे॥६०॥

स्थाने भारपरिश्रान्ता वसुधेयं दिवं गता ।
एषां नृपतिसिंहानां बलौघैरभिपीडिता॥६१॥

एषां स्थाने सति॥६१॥

अल्पेन खलु कालेन विविक्तं पृथिवीतलम् ।
भविष्यति नरेन्द्रौघैराकीर्णं च नभस्तलम्॥६२॥

॥इति श्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि जरासन्धाभिगमनं नामैकचत्वारिंशोऽध्यायः॥४१॥
गोमन्तदाहः-०४२

वैशम्पायन उवाच। जरासन्धस्ततः प्राप्तो नृपः सर्वमहीक्षिताम् ।
नराधिपैर्बलयुतैरनुयातो महाद्युतिः॥१॥

अथ द्विचत्वारिंशेऽस्मिञ्जरासन्धप्रचोदितैः। राजभिर्विहितो दाहो गोमन्तस्येति वर्ण्यते॥१॥ जरासन्ध इति॥१॥

व्यायतोदग्रतुरगैर्विस्पष्टार्थसमाहितैः ।
रथैः साङ्ग्रामिकैर्युक्तैरसङ्गगतिभिः क्वचित्॥२॥

विस्पष्टार्था अस्त्रशास्त्रविदस्तैः समाहिताः सुशिक्षितास्तैः॥२॥

हेमकक्षैर्महाघण्टैर्वारणैर्वारिदोपमैः ।
महामात्रोत्तमारूढैः कल्पितै रणवल्गितैः॥३॥

सारूढैः सादिभिर्युक्तैः प्रेङ्खमाणैः प्रवल्गितैः ।
वाजिभिर्वायुसङ्काशैः प्लवध्बिरिव पत्रिभिः॥४॥

आरूढं सर्वत्र प्रसिद्धिस्तद्युक्तैः सारूढैः प्रख्यातैः सादिभिः युक्ताः निर्युक्ता वाजिनस्तैः॥४॥

खड्गचर्मबलोदग्रैः पत्रिभिर्वल्गिताम्बरैः ।
सहस्रसङ्ख्यैर्निर्मुक्तैरुत्पतद्भिरिवोरगैः॥५॥

एवं चतुर्विधैः सैन्यैः प्रचलद्भिरिवाम्बुदैः ।
नृपोऽभियातो बलवाञ्जरासन्धो धृतव्रतः॥६॥

घृतव्रत इत्यलौकिकमपि सामर्थ्यं सूचितम्॥६॥

स रथैर्नेमिघोषैश्च गजैश्च मदसिञ्जितैः ।
हेषद्भिश्चापि तुरगैः क्ष्वेडितोग्रैश्च पत्तिभिः॥७॥

सन्नादयन्दिशः सर्वाः सर्वांश्चापि गुहाशयान् ।
स राजा सागराकारः ससैन्यः प्रत्यदृश्यत॥८॥

तद्बलं पृथिवीशानां हृष्टयोधजनाकुलम् ।
क्ष्वेडितास्फोटितरवं मेघसैन्यमिवाबभौ॥९॥

रथैः पवनसम्पातैर्गजैश्च जलदोपमैः ।
तुरगैश्च सिताभ्राभैः पत्तिभीश्चापि दंशितैः॥१०॥

व्यामिश्रं तद्बलं भाति पत्तिद्विपरथाकुलम् ।
घर्मान्ते सागरगतं यथाभ्रपटलं तथा॥११॥

सबलास्ते महीपाला जरासन्धपुरोगमाः ।
परिवार्य गिरिं सर्वे निवेशायोपचक्रमुः॥१२॥

बभौ तस्य निविष्टस्य बलश्रीः शिबिरस्य वै ।
शुक्ले पर्वणि पूर्णस्य यथारूपं महोदधेः॥१३॥

वीतरात्रे ततः काले नृपास्ते कृतकौतुकाः ।
आरोहणर्थं शैलस्य समेता युद्धलालसाः॥१४॥

कृतकौतुकाः कृतकौतुकमङ्गलाः॥१४॥

समवायीकृताः सर्वे गिरिप्रस्थेषु ते नृपाः ।
निविष्टा मन्त्रयामासुर्युद्धकालकुतूहलाः॥१५॥

एषां तु तुमुलः शब्दः शुश्रुवे पृथिवीक्षिताम् ।
युगान्ते भिद्यमानानां सागराणां यथा स्वनः॥१६॥

तेषां सकञ्चुकोष्णीषाः स्थविरा वेत्रपाणयः ।
चेरुर्मा शब्द इत्येवं ब्रुवन्तो राजशासनात्॥१७॥

तस्य रूपं बलस्यासीन्निःशब्दस्तिमितस्य वै ।
लीनमीनभुजङ्गस्य निःशब्दस्य पयोदधेः॥१८॥

तस्मिन्स्तिमितनिश्शब्दे योगादिव महार्णवे ।
जरासन्धो बृहद्वाक्यं बृहस्पतिरिवाददे॥१९॥

शीघ्रं समभिवर्तन्तां बलानीह महीक्षिताम् ।
सर्वतः पर्वतश्चायं बलौघैः परिवार्यताम्॥२०॥

अश्मयन्त्राणि युज्यन्तां क्षेपणीयाश्च मुद्गराः ।
ऊर्ध्वं चापि प्रवाह्यन्तां प्रासा वै तोमरणि च॥२१॥

ऊर्ध्वं प्रक्षेपणार्थाय दृढानि च लघूनि च ।
शस्त्रपातविघातानि क्रियन्तामाशु शिल्पिभिः॥२२॥

शूराणां युद्ध्यमानानां प्रमत्तानां परस्परम् ।
यथा नरपतिः प्राह तथा शीघ्रं विधीयताम्॥२३॥

नरपतिः शिशुपालो युद्धाभिज्ञत्वादिति प्राञ्चः। नरपतिर्ग्रन्थविशेषो यत्र वाहनध्वजादीनां संस्कार उच्यते, रुद्रयामलादिषु दृश्यमानः। तत्र चतुरशीतिभूबलानि चतुरशीतिचक्राणि च। तत्र यस्य यस्य या भूर्बलकरी शत्रोश्चापकर्षकरी स तामाश्रयत्वित्यर्थः। ‘यथा पतन्ति नो वाहाः’ इति पाठे तु तथा गिरिप्रान्तो विषमः समीकर्तव्यः। यथाऽस्माकं च हयास्तत्र गच्छन्तीत्यर्थः॥२३॥

दार्यतामेव टङ्कौघैः खनित्रैश्च नगोत्तमः ।
नृपाश्च युद्धदुर्गज्ञा विन्यस्यन्तामदूरतः॥२४॥

युद्धदुर्गज्ञाः युद्धरहस्यज्ञाः॥२४॥

अद्यप्रभृति सैन्यैर्मे गिरिरोधः प्रवर्त्यताम् ।
यावदेतौ पातयामो वसुदेवसुतावुभौ॥२५॥

अचलोऽयं शिलायोनिः क्रियतां निश्चलाङ्डजः ।
आकाशमपि बाणौघैर्निःसम्पातं विधीयताम्॥२६॥

निःसम्पातं निरवकाशम्। अत एव सञ्चारस्थानाभावान्निश्चलाण्डजत्वं युज्यते गिरेः॥२६॥

मयानुसृष्टास्तिष्ठान्तु गिरिभूमिषु भूमिपाः ।
तेषु तेष्ववकाशेषु शीघ्रमारुह्यतां गिरिः॥२७॥

मद्रः कलिङ्गाधिपतिश्चेकितानश्च बाह्लिकः ।
काश्मीरराजो गोनर्दः करूषाधिपतिस्तथा॥२८॥

द्रुमः किम्पुरुषश्चैव पार्वतीयाश्च मालवाः ।
पर्वतस्यापरं पार्श्वं क्षिप्रमारोहयन्त्वमी॥२९॥

पौरवो वैणुदारिश्च वैदर्भः सोमकस्तथा ।
रुक्मी च भोजाधिपतिः सूर्याक्षश्चैव मालवः॥३०॥

पाञ्चालाधिपतिश्चैव द्रुपदश्च नराधिपः ।
विन्दानुविन्दावावन्त्यौ दन्तवक्त्रश्च वीर्यवान्॥३१॥

छागलिः पुरमित्रश्च दरदश्च महीपतिः ।
कौशाम्ब्यो मालवश्चैव शतधन्वा विदूरथः॥३२॥

भूरिश्रवास्त्रिगर्तश्च बाणः पञ्चनदस्तथा ।
उत्तरं पर्वतोद्देशमेते दुर्गसहा नृपाः ।
आरोहन्तु विमर्दन्तो वज्रप्रतिमगौरवाः॥३३॥

विमर्दन्तो विमर्दयन्तः॥३३॥

उलूकः कैतवेयश्च वीरश्चांशुमतः सुतः ।
एकलव्यो दृढाश्वश्च क्षत्रधर्मा जयद्रथः॥३४॥

उत्तमौजास्तथा शाल्वः कैरलेयश्च कैशिकः ।
वैदिशो वामदेवश्च सुकेतुश्चापि वीर्यवान्॥३५॥

पूर्वपर्वतनिर्व्यूहमेतेष्वायतमस्तु नः ।
विदारयन्तो धावन्तो वाता इव बलाहकान्॥३६॥

अहं च दरदश्चैव चेदिराजश्च वीर्यवान् ।
दक्षिणं शैलनिचयं दारयिष्याम दंशिताः॥३७॥

एवमेष गिरिः क्षिप्रं समन्ताद्वेष्टितो बलैः ।
वज्रप्रपातप्रतिमं प्राप्नोतु तुमुलं भयम्॥३८॥

गदिनो वै गदाभिश्च परिघैः परिघायुधाः ।
अपरे विविधैः शस्त्रैर्दारयन्तु नगोत्तमम्॥३९॥

एष भूमिवरोऽद्यैव विषमोच्चशिलान्वितः ।
कार्यो भूमिसमः सर्वो भवद्भिर्वसुधाधिपः॥४०॥

जरासन्धवचः श्रुत्वा पार्थिवा राजशासनात् ।
गोमन्तं वेष्टयामासुः सागराः पृथिवीमिव॥४१॥

उवाच राजा चेदीनां देवानां मघवानिव ।
किं ते युद्धेन दुर्गेऽस्मिन्गोमन्ते च नगोत्तमे॥४२॥

दुरारोहश्च शिखरे प्रांशुपादपकण्टके ।
काष्ठैस्तृणैश्च बहुभिः परिवार्य समन्ततः॥४३॥

अद्यैव दीप्यतां क्षिप्रमलमन्येन कर्मणा ।
क्षत्रियाः सुकुमारा हि रणे सायकयोधिनः॥४४॥

नियुक्ताः पर्वते दुर्गे नियोक्तुं पादयोधिनः ।
ननाम प्रतिबन्धेन न चावस्कन्दकर्मणा॥४५॥

प्रतिबन्धेन रोधमात्रेण अवस्कन्देन कर्मणा उपर्युत्प्लवनेन॥४५॥

शक्य एष गिरिस्तात देवैरप्यवमर्दितुम् ।
दुर्गयुद्धे क्रमः श्रेयान्रोधयुद्धे न पार्थिवाः॥४६॥

भक्तोदकेन्धनैः क्षीणाः पात्यन्ते गिरिसंश्रिताः ।
वयं बहव इत्येवं नाप्येष निपुणो नयः॥४७॥

भक्तादिभिः रहिता एव पात्यन्ते न त्वन्यथा॥४७॥

यादवौ नावमन्तव्यौ द्वावप्येतौ रणे स्थितौ ।
अविज्ञातबलावेतौ श्रूयेते देवसंमितौ॥४८॥

कर्मभिस्त्वमरौ विद्मो बालावतिबलान्वितौ ।
दुष्कराणीह कर्माणि कृतवन्तौ यदूत्तमौ॥४९॥

शुष्ककाष्ठैस्तृणैर्वेष्ट्य सर्वतः पर्वतोत्तमम् ।
अग्निना दीपयिष्यामो दह्येतां गतचेतनौ॥५०॥

यदि चेन्निष्क्रमिष्येते दह्यमानावितोऽन्तिके ।
समेत्य पातयिष्यामस्त्यक्ष्यतो जीवितं ततः॥५१॥

वाक्यमेतत्तु रुरुचे सबलानां महीक्षिताम् ।
यदुक्तं चेदिराजेन नृपाणां हितशंसिना॥५२॥

ततः काष्ठैस्तृणैर्वंशैः शुष्कशाखैश्च पादपैः ।
उपादीप्सत शैलेन्द्रः सूर्यपादैरिवाम्बुदः॥५३॥

ददुस्ते सर्वतस्तूर्णं पावकं तत्र पार्थिवाः ।
यथोद्देशं यथावातं शैलस्य लघुविक्रमाः॥५४॥

स वायुदीपितो वह्निरुत्पपात समन्ततः ।
सधूमज्वालमालाभिर्भाभिः खमिव शोभयन्॥५५॥

सोऽनलः पवनायस्तः काष्ठसञ्चयमूलवान् ।
ददाह शैलं श्रीमन्तं गोमन्तं कान्तपादपम्॥५६॥

पवनायस्तः वायुना उद्धूतः॥५६॥

स दह्यमानः शैलेन्द्रो मुमोच विपुलाः शिलाः ।
शतशः शतधा भूत्वा महोल्काकारदर्शनाः॥५७॥

सचित्रभानुः शैलेन्द्रो भाभिर्भानुरिवाम्बुदम् ।
आलिम्पतीव विधिवत्समन्तादर्चिरुद्धतः॥५८॥

धातुभिः पच्यमानैश्च ज्वलद्भिश्चैव पादपैः ।
उद्भ्रान्तश्वापदो रौति तुद्यमान इवाद्रिराट्॥५९॥

प्रतप्तो दह्यमानस्तु स शैलः कृष्णवर्त्मना ।
रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः॥६०॥

रीतीः धातुरसानां धाराः निर्वर्तयामास प्रवर्तितवान्॥६०॥

वह्निना चापि दीप्ताङ्गो गिरिर्नातिविराजते ।
धूमान्धकारोर्ध्वतनुर्मज्जमान इवाम्बुदः॥६१॥

विश्लिष्टोपलसङ्घातः कर्कशाङ्गारवर्षणः ।
गिरिर्भात्यनलोद्गारैरुल्कावृष्टिरिवाम्बुदः॥६२॥

प्रपातप्रस्रवोत्क्षिप्तो धूमसंवर्द्धितोदरः ।
स गिरिर्भस्मतां यातो युगान्ताग्निहतोपमः॥६३॥

प्रपातानां प्रस्त्रवैरुत्क्षिप्त उज्झितः शुष्कतां गत इत्यर्थः॥६३॥

विह्वलास्तस्य पार्श्वेभ्यः सर्पा दग्धार्धदेहिनः ।
श्वसन्तः पृथुमूर्धानो निश्चेरुरशिवेक्षणाः॥६४॥

उत्पत्योत्पत्य गगनात्पुनः पुनरवाङ्मुखाः ।
रेसुश्चोद्वेजिताः सिंहाः शार्दूलाश्चानलाविलाः॥६५॥

रेसुः आर्तनादं चक्रुः॥६५॥

मुमुचुः पादपाश्चैव दाहनिर्यासजं जलम्॥६६॥

वहत्यूर्ध्वगतिर्वातो भस्माङ्गाराभिपिङ्गलः ।
धूमच्छाया च गगने दर्पिताम्भोददर्शना॥६७॥

त्यज्यमानो महासानुर्विहगैः श्वापदैरपि ।
गिरिर्वैकल्यमायाति प्रागल्भ्यात्कृष्णवर्त्मनः॥६८॥

स मुमोच शिलाः शैलश्चलोदग्रशिलोच्चयः ।
वज्रेण पुरुहूतस्य यथा स्याद्दारितस्तथा॥६९॥

आदीप्य तं तु शैलेन्द्रं क्षत्रिया व्यूहदंशिताः ।
अर्धक्रोशमपक्रान्ताः पावकेनाभितापिताः॥७०॥

दह्यमाने नगश्रेष्ठे सीदमानैर्महाद्रुमैः ।
धूमभारैरनालक्ष्ये मूले शिथिलतां गते॥७१॥

सरोशं हि तदा रामो वचनं केशिसूदनम् ।
बभाषे पद्मपत्राक्षं स साक्षान्मधुसूदनम्॥७२॥

दह्यतेऽयं गिरिस्तात ससानुशिखरद्रुमः ।
आवयोः कृष्ण वैरेण बलिभिर्वसुधाधिपैः॥७३॥

पश्य कृष्णानलोष्णानां सधूमानां समन्ततः ।
वनानां विरसन्तीव नगाभ्याशे द्विपोत्तमाः॥७४॥

विरसन्तीव क्रन्दन्तीव॥७४॥

अयं यद्यावयोरर्थे गोमन्तस्तात दह्यते ।
अयशस्यमिदं लोके कौलीनं च भविष्यति॥७५॥

कौलीनं लोकापवादः॥७५॥

तदस्यानृण्यहेतोर्हि नगस्य नगसन्निभ ।
क्षत्रियान्निहनिष्यामो दोर्भ्यामेव युधां वर॥७६॥

एते ते क्षत्रियाः सर्वे गिरिमादीप्य दंशिताः ।
रथिनस्तात दृश्यन्ते यथादेशं युयुत्सवः॥७७॥

एवमुक्त्वा गिरेः शृङ्गान्मेरुशृङ्गादिवोडूराट् ।
निपपात बलः श्रीमान्वनमालाधरो युवा॥७८॥

कादम्बरीमदक्षीबो नीलवासाः सिताननः ।
स शारदेन्दुसङ्काशो वनमालाञ्चितोदरः॥७९॥

कान्तैककुण्डलधरश्चारुमौलिरवाङ्मुखः ।
निपपात नरेन्द्राणां मध्ये केशवपूर्वजः॥८०॥

अवप्लुते ततो रामे कृष्णः कृष्णाम्बुदोपमः ।
गोमन्तशिखराच्छ्रीमानाप्लुतोऽमितविक्रमः॥८१॥

ततस्तं पीडयामास पद्भ्यां गिरिवरं हरिः ।
स पीडितो गिरिस्तेन निर्ममज्ज समन्ततः॥८२॥

जलाकुलोपलस्तत्र प्रस्रुतो द्विरदो यथा ।
स तेन वारिणा वह्निस्तत्क्षणात्प्रशमं ययौ॥८३॥

प्रस्त्रुतः प्रस्विन्नः॥८३॥

कल्पान्ते वारिधाराभिर्मेघजालैरिवांशुमान् ।
सिंहारसितनिर्घोषः पीतवासा घनाकृतिः॥८४॥

सिंहस्य आरसितं महाध्वनिस्तद्वन्निर्घोषो यस्य सः॥८४॥

किरीटमूर्द्धा सौम्यास्यः पुण्डरीकनिभेक्षणः ।
श्रीवत्सवक्षाः सुमुखः सहस्राक्षसमद्युतिः॥८५॥

रामादनन्तरं कृष्णः प्लुतो वै वीर्यवांस्ततः ।
ताभ्यामेव प्लुताभ्यां च चरणैः पीडितो गिरिः॥८६॥

मुमोच सलिलोत्पीडांस्तीव्रपावकशान्तये ।
सलिलोत्पीडनं दृष्ट्वा पार्थिवा भयमाविशन्॥८७॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि गोमन्तदाहे द्विचत्वारिंशोऽध्यायः॥४२॥
जरासन्धपराभवः-०४३

वैशम्पायन उवाच। तौ नगादाप्लुतौ दृष्ट्वा वसुदेवसुतावुभौ ।
क्षुब्धं नरवरानीकं सर्वं संमूढवाहनम्॥१॥

अथ त्रिचत्वारिंशेऽस्मिन्मागधस्य पराजयः। करवीरपुरे प्रोक्तः शृगालस्य वधोऽद्भुतः॥१॥ तौ नगात् इति॥१॥

बाहुप्रहरणौ तौ तु चेरतुस्तत्र यादवौ ।
मकराविव संरब्धौ समुद्रक्षोभणावुभौ॥२॥

ताभ्यां मृधे प्रविष्टाभ्यां यादवाभ्यां मतिस्त्वभूत् ।
आयुधानां पुराणानामादानकृतलक्षणा॥३॥

ततोऽम्बरतलाद्भूयः पतन्ति स्म महात्मनोः ।
मध्ये राजसहस्रस्य समरं प्रतिकाङ्क्षिणोः॥४॥

पतन्ति स्म आयुधानीति शेषः॥४॥

यानि वै माथुरे युद्धे प्राप्तान्याहवशोभिनोः ।
तान्यम्बरात्पतन्ति स्म दिव्यान्याहवसम्प्लवे॥५॥

लेलिहानानि दिव्यानि दीप्ताग्निसदृशानि वै ।
निक्षिप्य यानि तत्रैव तानि प्राप्तौ स्म यादवौ॥६॥

यानि तत्रैव मथुरायां निक्षिप्य यातौ तानि प्राप्तौ लब्धवन्तौ॥६॥

क्रव्यादैरनुयातानि मूर्तिमन्ति बृहन्ति च ।
तृषितान्याहवे भोक्तुं नृपमांसानि सर्वशः॥७॥

दिव्यस्रग्दामधारीणि त्रासयन्ति च खेचरान् ।
प्रभया भासमानानि दंशितानि दिशो दश॥८॥

स्रग्दाम मालारूपाणि दामानि रज्जुविशेषाः॥८॥

हलं सांवर्तकं नाम सौनन्दं मुसलं तथा ।
चक्रं सुदर्शनं नाम गदां कौमोदकीं तथा॥९॥

चत्वार्येतानि तेजांसि विष्णुप्रहरणानि वै ।
ताभ्यां समवतीर्णानि यादवाभ्यां महामृधे॥१०॥

ताभ्यां तयोरर्थे॥१०॥

जग्राह प्रथमं रामो ललामप्रतिमं रणे ।
सर्पन्तमिव सर्पेन्द्रं दिव्यमालाकुलं हलम्॥११॥

ललामप्रतिमं ध्वजतुल्यम्। “ललामं लाञ्छने ध्वजे” इति मेदिनी॥११॥

सव्येन सात्वतां श्रेष्ठो जग्राह मुसलोत्तमम् ।
सौनन्दं नाम बलवान्निरानन्दकरं द्विषाम्॥१२॥

दर्शनीयं च लोकेषु चक्रमादित्यवर्चसम् ।
नाम्ना सुदर्शनं नाम प्रीतो जग्राह केशवः॥१३॥

वर्चसमिति समासान्तात् टच्॥१३॥

दर्शनीयं च लोकेषु धनुर्जलदनिःस्वनम् ।
नाम्ना शार्ङ्गमिति ख्यातं प्रीतो जग्राह वीर्यवान्॥१४॥

देवैर्निगदितार्थस्य गदा तस्यापरे करे ।
निषक्ता कुमुदाक्षस्य नाम्ना कौमोदकीति सा॥१५॥

तौ सप्रहरणौ वीरौ साक्षाद्विष्णुतनूपमौ ।
समरे रामगोविन्दौ रिपूंस्तान्प्रत्ययुद्ध्यताम्॥१६॥

विष्णुतनुः ब्रह्मा तत्तुल्यौ कर्तुमन्यथाकर्तुं शक्तावित्यर्थः॥१६॥

आयुधप्रग्रहौ वीरौ तावन्योन्यमयावुभौ ।
पूर्वजानुजसंज्ञौ तु रामगोविन्दलक्षनौ॥१७॥

समरेऽप्रतिरूपौ तौ विष्णुरेको द्विधा कृतः ।
द्विषत्सु प्रतिकुर्वाणौ पराक्रान्तौ यथेश्वरौ॥१८॥

अप्रतिरूपौ अतुल्यौ॥१८॥

हलमुद्यम्य रामस्तु सर्पेन्द्रमिव कोपनम् ।
चचार समरे वीरो द्विषतामन्तकोपमः॥१९॥

निकर्षन्रथवृन्दानि क्षत्रियाणां महात्मनाम् ।
चकार रोषं सफलं नागेषु च हयेषु च॥२०॥

कुञ्जराँल्लाङ्गलोत्क्षिप्तान्मुसलाक्षेपतादितान् ।
रमोऽभिरामः समरे निर्ममन्थाचलोपमः॥२१॥

ते वध्यमाना रामेण समरे क्षत्रियर्षभाः ।
जरासन्धान्तिकं भीता विरथाः प्रतिजग्मिरे॥२२॥

तानुवाच जरासन्धः क्षत्रधर्मे व्यवस्थितः ।
धिगेतां क्षत्रवृत्तिं वः समरे कातरात्मनाम्॥२३॥

पराक्रान्तस्य समरे विरथस्य पलायतः ।
भ्रूणहत्यामिवासह्यां प्रवदन्ति मनीषिणः॥२४॥

पराक्रान्तस्य शत्रुणा वशीकृतस्य॥२४॥

पत्तिनो भुवि चैकस्य गोपस्याल्पबलीयसः ।
भीताः किं विनिवर्तध्वं धिगेतां क्षत्रवृत्तिताम्॥२५॥

पत्तिनः पदातेः॥२५॥

क्षिप्रं समभिवर्तन्तां मम वाक्येन नोदिताः ।
यावदेतौ रणे गोपौ प्रेषयामि यमक्ष्यम्॥२६॥

ततस्ते क्षत्रियाः सर्वे जरासन्धेन नोदिताः ।
क्षिपन्तः शरजालानि हृष्टा योद्धुमुपस्थिताः॥२७॥

ते हयैः काञ्चनापीडै रथैश्चेन्दुसमप्रभैः ।
नागैश्चाम्भोदसङ्काशैर्महामात्रप्रणोदितैः॥२८॥

सतनुत्राणनिस्त्रिंशाः सायुधाभरणाम्बराः ।
स्वारोपितधनुष्मन्तः सतूणीराः ससायकाः॥२९॥

सच्छत्रोत्सेधिनः सर्वे चारुचामरवीजिताः ।
रणावनिगता रेजुः स्यन्दनस्था महीक्षितः॥३०॥

तौ युद्धरङ्गापतितौ विधावन्तौ महाभुजौ ।
वसुदेवसुतौ वीरौ युयुत्सू प्रत्यदृश्यताम्॥३१॥

तद्युद्धमभवत्तत्र तयोस्तेषां तु संयुगे ।
सायकोत्सर्गबहुलं गदानिर्घातदारुणम्॥३२॥

ततः शरसहस्राणि प्रतीच्छन्तौ रणेषिणौ ।
तस्थतुर्योधमुख्यौ तावभिवृष्टौ यथाचलौ॥३३॥

प्रतीच्छन्तौ गृह्णन्तौ॥३३॥

गदाभिश्चैव गुर्वीभिः क्षेपणीयैश्च मुद्गरैः ।
अर्द्यमानौ महेष्वासौ यादवौ न च कम्पतुः॥३४॥

ततः कृष्णोऽम्बुदाकारः शङ्खचक्रगदाधरः ।
व्यवर्धत महातेजा वातयुक्त इवानलः॥३५॥

स चक्रेणार्कतुल्येन दीप्यमानेन तेजसा ।
चिच्छेद समरे वीरो नृगजाश्वमहारथान्॥३६॥

गदानिपातविहता लाङ्गलेन च कर्षिताः ।
न शेकुस्ते रणे स्थातुं पार्थिवा नष्टचेतसः॥३७॥

चक्रक्षुरनिकृत्तानि विचित्राणि महीक्षिताम् ।
रथयूथानि भग्नानि न शेकुश्चलितुं रणे॥३८॥

चक्रक्षुरश्चक्रधारा॥३८॥

मुसलाक्षेपभग्नाश्च कुञ्जराः षष्टिहायनाः ।
घना इव घनापाये भग्नदन्ता विचुक्रुशुः॥३९॥

चक्रानलज्वालहताः सादिनः सपदातयः ।
पेतुः परासवस्तत्र यथा वज्रहतास्तथा॥४०॥

चक्रलाङ्गलनिर्दग्धं तत्सैन्यं विदलीकृतम् ।
युगान्तोपहतप्रख्यं सर्वं पतितमाबभौ॥४१॥

आक्रीडभूमिर्दिव्यानामायुधानां वपुष्मताम् ।
वैष्णवानां नृपास्ते तु द्रष्टुमप्यबलीयसः॥४२॥

केचिद्रथाः संमृदिताः केचिन्निहतपार्थिवाः ।
भग्नैकचक्रास्त्वपरे विकीर्णा धरणीतले॥४३॥

तस्मिन्विशसने घोरे चक्रलाङ्गलसम्प्लवे ।
दारुणानि प्रवृत्तानि रक्षांस्यौत्पातिकानि च॥४४॥

आर्तानां कूजमानानां पाटितानां च वेणूवत् ।
अन्तो न शक्यतेऽन्वेष्टुं नृनागरथवाजिनाम्॥४५॥

सा पातितनरेन्द्राणां रुधिरार्द्रा रणक्षितिः ।
योषेव चन्दनार्द्राङ्गी भैरवा प्रतिभाति वै॥४६॥

नरकेशास्थिमज्जान्त्रैः शातितानां च दन्तिनाम् ।
रुधिरौघप्लवस्तत्र छादयामास मेदिनीम्॥४७॥

तस्मिन्महाभीषणके नरवाहनसङ्क्षये ।
शिवानामशिवैः शब्दैर्नादिते घोरदर्शने॥४८॥

आर्तस्तनितसन्नादे रुधिराम्बुह्रदाकुले ।
अन्तकाक्रीडसदृशे नागदेहैः समावृते॥४९॥

अपास्तैर्बाहुभिर्योधैस्तुरगैशच विदारितैः ।
कङ्कैश्च बलगृध्रैश्च नादितैः प्रतिनादिते॥५०॥

निपाते पृथिवीशानां मृत्युसाधारणे रणे ।
कृष्णः शत्रुवधं कर्तुं चचारान्तकदर्शनः॥५१॥

युगान्तार्कप्रभं चक्रं कालीं चैवायसीं गदाम् ।
गृह्य सैन्यावनिगतो बभाषे केशवो नृपान्॥५२॥

किन्न युद्ध्यत वै शूरा हस्त्यश्वरथसंयुताः ।
किमिदं गम्यते शूराः कृतास्त्रा दृढनिश्चयाः ।
अहं सपूर्वजः सङ्ख्ये पदातिः प्रमुखे स्थिरः॥५३॥

सपूर्वजः सभ्रातृकः॥५३॥

अदृष्टदोषेण रणे भवन्तो येन पालिताः ।
स इदानीं जरासन्धः किमर्थं नाभिवर्तते॥५४॥

एवमुक्ते तु नृपतिर्दरदो नाम वीर्यवान् ।
रामं हलाग्रोग्रभुजं प्रत्ययात्सैन्यमध्यगम्॥५५॥

बभाषे स तु ताम्राक्षमुक्षाणमिव सेवनी ।
एह्येहि राम युध्यस्व मया सार्धमरिन्दम॥५६॥

सेवनी कर्षकः “सेवनं सविनोपास्त्योर्हले रामस्य कर्षणे”। इति मेदिनी। मत्तो वृषः कर्षकस्येव तद्वचनमगणयन्तमित्यर्थः॥५६॥

तद्युद्धमभवत्ताभ्यां रामस्य दरदस्य च ।
मृधे लोकवरिष्ठाभ्यां कुञ्जराभ्यामिवौजसा॥५७॥

योजयित्वा ततः स्कन्धे रामो दरदमाहवे ।
हलेन बलिनां शेष्ठो मुसलेनावपोथयत्॥५८॥

स्वकायगतमूर्धा वै मुसलेनावपोथितः ।
पपात दरदो भूमौ दारितार्ध इवाचलः॥५९॥

रामेण निहते तस्मिन्दरदे राजसत्तमे ।
जरासन्धस्य राज्ञस्तु रामेणासीत्समागमः॥६०॥

महेन्द्रस्येव वृत्रेण दारुणो लोमहर्षणः ।
गदे गृहीत्वा विक्रान्तावन्योन्यमभिधावतः॥६१॥

कम्पयन्तौ भुवं वीरौ तावुद्यतमहागदौ ।
ददृशाते महात्मानौ गिरी सशिखराविव॥६२॥

ददृशाते दृश्यते॥६२॥

व्युपारमन्त युद्धानि प्रेक्ष्य तौ पुरुषर्षभौ ।
संरब्धाविव धावन्तौ गदायुद्धेषु विश्रुतौ॥६३॥

तावुभौ परमाचार्यौ लोके ख्यातौ महाबलौ ।
मत्ताविव महानागावन्योन्यं समधावताम्॥६४॥

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
यक्षाश्चाप्सरसश्चैव समाजग्मुः सहस्रशः॥६५॥

तद्देवयक्षगन्धर्वमहर्षिभिरलङ्कृतम् ।
शुशुभेऽभ्यधिकं राजन्नभो ज्योतिर्गणैरिव॥६६॥

अभिदुद्राव रामं तु जरासन्धो नराधिपः ।
सव्यं मण्डलमाश्रित्य बलदेवस्तु दक्षिणम्॥६७॥

तावन्योन्यं प्रजह्राते गदायुद्धविशारदौ ।
दन्ताभ्यामिव मातङ्गौ नादयन्तौ दिशो दश॥६८॥

गदानिपातो रामस्य शुश्रुवेऽशनिनिःस्वनः ।
जरासन्धस्य चरणे पर्वतस्येव दीर्यतः॥६९॥

न स्म कम्पयते रामं जरासन्धकरच्युता ।
गदा गदाभृतां श्रेष्ठं विन्ध्यं गिरिमिवानिलः॥७०॥

रामस्य तु गदावेगं राजा स मगधेश्वरः ।
सेहे धैर्येण महता शिक्षया च व्यपोथयत्॥७१॥

ततोऽन्तरिक्षे वागासीत्सुस्वरा लोकसाक्षिणी ।
न त्वया राम वध्योऽयमलं खेदेन मानद॥७२॥

विहितोऽस्य मया मृत्युस्तस्मात्साधु व्युपारम ।
अचिरेणैव कालेन प्राणांस्त्यक्ष्यति मागधः॥७३॥

जरासन्धस्तु तच्छ्रुत्वा विमनाः समपद्यत ।
न प्राहरत्ततस्तस्मै पुनरेव हलायुधः॥७४॥

तौ व्युपारमतां युद्धाद्वृष्णयस्ते च पार्थिवाः ।
दीर्घकाले महाराज निजघ्नुरितरेतरम्॥७५॥

विविक्तं शून्यम्॥७५॥

पराजिते त्वपक्रान्ते जरासन्धे महीपतौ ।
विविक्तमभवत्सैन्यं परावृत्तमहारथम्॥७६॥

ते नृपाश्चोदितैर्नागैः स्यन्दनैस्तुरगैस्तथा ।
दुद्रुवुर्भीतमनसो व्याघ्राघ्रात मृगा इव॥७७॥

तन्नरेन्द्रैः परित्यक्तं भग्नदर्पैर्महारथैः ।
घोरं क्रव्यादबहुलं रौद्रमायोधनं बभौ॥७८॥

चेदिराजो दमघोषः॥७८॥

द्रवत्सु रथमुख्येषु चेदिराजो महाद्युतिः ।
स्मृत्वा यादवसम्बन्धं कृष्णमेवान्ववर्तत॥७९॥

वृतः कारूषसैन्येन चेदिसैन्येन चानघ ।
सम्बन्धकामो गोविन्दमिदमाह स चेदिराट्॥८०॥

अहं पितृष्वसुर्भर्ता तव यादवनन्दन ।
सबलस्त्वामुपावृत्तस्त्वं हि मे दयितः प्रभो॥८१॥

उक्तश्चैष मया राजा जरासन्धोऽल्पचेतनः ।
कृष्णाद्विरम दुर्बुद्धे विग्रहाद्रणकर्मणि॥८२॥

तदेषोऽद्य मया त्यक्तो मम वाक्यस्य दूषकः ।
भग्नो युद्धे जरासन्धस्त्वया द्रवति सानुगः॥८३॥

किल्विषमपकारम्॥८३॥

निर्वैरो नैष संयाति स्वपुरं पृथिवीपतिः ।
त्वय्येव भूयोऽप्यपरं दर्शयिष्यति किल्बिषम्॥८४॥

तदिमां सन्त्यजाशु त्वं महीं हतनराकुलाम् ।
क्रव्यादगणसङ्कीर्णां सेवितव्याममानुषैः॥८५॥

करवीरपुरं कृष्ण गच्छामः सबलानुगाः ।
शृगालं वासुदेवं वै द्रक्ष्यामस्तत्र पार्थिवम्॥८६॥

रथवरेष्वपि उदग्रौ श्रेष्ठतमौ॥८६॥

इमौ रथवरोदग्रौ युवयोः कारितौ मया ।
योजितौ शीघ्रतुरगैः स्वङ्गचक्राक्षकूबरौ॥८७॥

शीघ्रमारुह भद्रं ते बलदेवसहायवान् ।
त्वरामः करवीरस्थं द्रष्टुं तं वसुधाधिपम्॥८८॥

वैशम्पायन उवाच। पितृष्वसुपतेर्वाक्यं श्रुत्वा चेदिपतेस्तदा ।
वाक्यं हृष्टमनाः कृष्णो जगाद जगतो गुरुः॥८९॥

अहो युद्धाभिसन्तप्तौ देशकालोचितौ त्वया ।
बान्धवप्रतिरूपेण संसिक्तौ वचनाम्बुना॥९०॥

देशकालविशिष्टस्य हितस्य मधुरस्य च ।
वाक्यस्य दुर्लभा लोके वक्तारश्चेदिसत्तम॥९१॥

चेदिनाथ सनाथौ स्वः संवृत्तौ तव दर्शनात् ।
नावयोः किञ्चिदप्राप्यं ययोस्त्वं बन्धुरीदृशः॥९२॥

जरासन्धस्य निधनं ये चान्ये तत्समा नृपाः ।
पर्याप्तौ त्वत्सनाथौ स्वः कर्तुं चेदिकुलोद्वह॥९३॥

यदूनां प्रथमो बन्धुस्त्वं हि सर्वमहीक्षिताम् ।
अतःप्रभृति सङ्ग्रामान्द्रक्ष्यसे चेदिसत्तम॥९४॥

धरिष्यन्ति जीविष्यन्ति॥९४॥

चाक्रं मौसलमित्येवं सङ्ग्रामं रणवृत्तयः ।
कथयिष्यन्ति लोकेऽस्मिन्ये धरिष्यन्ति पार्थिवाः॥९५॥

राज्ञां पराजयं युद्धे गोमन्तेऽचलसत्तमे ।
श्रवणाद्धारणाद्वापि स्वर्गलोकं व्रजन्ति हि॥९६॥

तद्गच्छाम महाराज करवीरं पुरोत्तमम् ।
त्वयोद्दिष्टेन मार्गेण चेदिराज शिवाय वै॥९७॥

ते स्यन्दनगताः सर्वे पवनोत्पातिभिर्हयैः ।
भेजिरे दीर्घमध्वानं मूर्तिमन्त इवाग्नयः॥९८॥

ते त्रिरात्रोषिताः प्राप्ताः करवीरं पुरोत्तमम् ।
शिवाय च शिवे देशे निविष्टास्त्रिदशोपमाः॥९९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि करवीरपुराभिगमने त्रिचत्वारिंशोऽध्यायः॥४३॥
शृगालाख्यराजवधः-०४४

वैशम्पायन उवाच। तानागतान्विदित्वाथ शृगालो युद्धदुर्मदः ।
पुरस्य धर्षणं मत्वा निर्जगामेन्द्रविक्रमः॥१॥

चतुश्चत्वारिंशकेऽथ शृगालवध ईयते। तन्नारीणां विलापश्च तत्पुत्रस्याभिषेचनम्॥१॥ तानागतानिति॥१॥

रथेनादित्यवर्णेन भास्वता रणगामिना ।
आयुधप्रतिपूर्णेन नेमिनिर्घोषहासिना॥२॥

मन्दराचलकल्पेन चित्राभरणभूषिणा ।
अक्षय्यसायकैस्तूर्णैः पूर्णेनार्णवघोषिणा॥३॥

हर्यश्वेनाशुगतिना सक्तेन शिखरेष्वपि ।
हेमकूबरगर्भेण दृढाक्षेणातिशोभिना॥४॥

सुबन्धुरेण दीप्तेन पतत्त्रिवरगामिना ।
खगतेनेव शक्रस्य हर्यश्वेन रथाद्रिणा॥५॥

शक्रस्य रथाद्रिणा समान इति शेषः॥५॥

सावित्रे नियमे पूर्णे यं ददौ सविता स्वयम् ।
आदित्यरश्मिभिरिव रश्मिभिर्यो निगृह्यते॥६॥

तेन स्यन्दनमुख्येन द्विषत्स्यन्दनघातिना ।
स शृगालोऽभ्ययात्कृष्णं शलभः पावकं यथा॥७॥

चापपाणिः सुतीक्ष्णेषुः कवची हेममालिकः ।
सितप्रावरणोष्णीषः पावकाकारलोचनः॥८॥

मुहुर्मुहुर्ज्याचपलं विक्षिपन्दुःसहं धनुः ।
निर्वमन्रोषजं वायुं सानलज्वालमण्डलम्॥९॥

भाभिर्भूषणपङ्क्तीनां दीप्तो मेरुरिवाचलः ।
रथस्थ इव शैलेन्द्रः शृगालः प्रत्यदृश्यत॥१०॥

तस्यारसितशब्देन रथनेमिस्वनेन च ।
गुरुत्वेन च नाम्यन्ती चचालोर्वी भयातुरा॥११॥

आरसितशब्देन गर्जितध्वनिना॥११॥

तमापतन्तं श्रीमन्तं मूर्तिमन्तमिवाचलम् ।
शृगालं लोकपालाभं दृष्ट्वा कृष्णो न विव्यथे॥१२॥

शृगालश्चापि संरब्धः स्यन्दनेनाशुगामिना ।
समीपे वासुदेवस्य युयुत्सुः प्रत्यदृश्यत॥१३॥

वासुदेवं स्थितं दृष्ट्वा शृगालो युद्धलालसः ।
अभिदुद्राव वेगेन मेघराशिरिवाचलम्॥१४॥

वासुदेवः स्मितं कृत्वा प्रतियुद्धाय तस्थिवान् ।
तद्युद्धमभवत्ताभ्यां समरे घोरदर्शनम् ।
उभाभ्यामिव मत्ताभ्यां कुञ्जराभ्यां यथा वने॥१५॥

शृगालस्त्वब्रवीत्कृष्णं समरे समुपस्थितम् ।
युद्धरागेण तेजस्वी मोहाच्चलितगौरवः॥१६॥

गोमन्ते युद्धमार्गेण यत्त्वया कृष्ण चेष्टितम् ।
अनायकानां मूर्खाणां नृपाणां दुर्बले बले॥१७॥

स मे सुविदितः कृष्ण क्षत्रियाणां पराजयः ।
कृपणानामसत्त्वानामयुद्धानां रणोत्सवे॥१८॥

तिष्ठेदानीं यथाकामं स्थितोऽहं पार्थिवे पदे ।
क्व यास्यसि मया रुद्धो रणेष्वपरिनिष्ठितः॥१९॥

न चाहमेकं सबलो युक्तस्त्वां योद्धुमाहवे ।
अहमेकस्त्वमप्येको द्वौ युद्ध्याव रणे स्थितौ॥२०॥

किं जनेन निरस्तेन त्वं वाहं च रणे स्थितः ।
धर्मयुद्धेन निधनं व्रजत्वेकतरो रणे॥२१॥

लोकेऽस्मिन्वासुदेवोऽहं भविष्यामि हते त्वयि ।
हते मयि त्वमप्येको वासुदेवो भविष्यसि॥२२॥

शृगालस्य वचः श्रुत्वा वासुदेवः क्षमापरः ।
ईर्ष्यन्तं प्रहरस्वेति तमुक्त्वा चक्रमाददे॥२३॥

ततः सायकजालानि शृगालः क्रोधमूर्छितः ।
चिक्षेप कृष्णे घोराणि युद्धाय लघुविक्रमः॥२४॥

शस्त्राणि यानि चान्यानि मुसलाद्यानि संयुगे ।
पातयामास गोविन्दे स शृगालः प्रतापवान्॥२५॥

शृगालप्रहितैरस्त्रैः पावकज्वालमालिभिः ।
निर्दयाभिहतः कृष्णः स्थितो गिरिरिवाचलः॥२६॥

सोऽस्त्रप्रहाराभिहतः किञ्चिद्रोषसमन्वितः ।
चक्रमुद्यम्य गोविन्दः शृगालस्य परिक्षिपत्॥२७॥

परिक्षिपत् पर्यक्षिपत्॥२७॥

तं रथस्थं प्रमाणस्थं शृगालं युद्धदुर्मदम् ।
जघान समरे चक्रं जातदर्पं महाबलम्॥२८॥

प्रमाणस्थं चक्रभयादपलायितमित्यर्थः॥२८॥

ततः सुदर्शनं चक्रं पुनरायाद्गुरोः करे ।
चक्रेणोरसि निर्भिन्नः स गतासुर्गतोत्सवः ।
पपात क्षतजस्रावी शृगालोऽद्रिरिवाहतः॥२९॥

निशम्य तं निपतितं वज्रपातादिवाचलम् ।
तस्य सैन्यान्यपययुर्विमनांसि हते नृपे॥३०॥

केचित्प्रविश्य नगरं कश्मलाभिहता भृशम् ।
रुरुदुर्दुःखसन्तप्ता भर्तृशोकाभिपीडिताः॥३१॥

केचित्तत्रैव शोचन्तः स्मरन्तः सुकृतानि च ।
पतितं भूपतिं भूमौ न त्यजन्ति स्म दुःखिताः॥३२॥

ततो मेघनिनादेन स्वरेणारिविमर्दनः ।
कृष्णः कमलपत्राक्षो जनानामभयं ददौ॥३३॥

चक्रोचितेन हस्तेन राजताङ्गुलिपर्वणा ।
न भेतव्यं न भेतव्यमिति तानभ्यभाषत॥३४॥

नास्य पापस्य दोषेण निराबाधकरं जनम् ।
घातयिष्यामि समरे नेदं शूरव्रतं मतम्॥३५॥

अश्रुपूर्णमुखा दीनाः क्रन्दमाना भृशं तदा ।
पतितो वै शृगालाख्यो भ्रष्टः सन्दीनमानसः॥३६॥

ते स्म पश्यन्ति पतितं धरण्यां धरणीपतिम् ।
चक्रनिर्दारितोरस्कं भिन्नशृङ्गमिवाचलम्॥३७॥

विलपन्ति स्म ते सर्वे सचिवाः सप्रजा भृशम् ।
साश्रुपातेक्षणा दीनाः शोकस्य वशमागताः॥३८॥

तेषां रुदितशब्देन पौराणां विस्वरैः स्वरैः ।
महिष्यस्तस्य निष्पेतुः सपुत्रा रुदिताननाः॥३९॥

तास्तं निपतितं दृष्ट्वा श्लाघ्यं भूमिपतिं पतिम् ।
स्तनानारुज्य करजैर्भृशार्ताः पर्यदेवयन्॥४०॥

आरुज्य विदार्य॥४०॥

उरांस्युरसिजांश्चैव शिरोजान्याकुलान्यपि ।
निर्दयं ताडयन्त्यस्ता विस्वरं रुरुदुः स्त्रियः॥४१॥

तस्योरसि सुदुःखार्ता मृदिताः क्लिन्नलोचनाः ।
पेतुरूर्ध्वभुजाः सर्वाश्छिन्नमूला लता इव॥४२॥

तासां बाष्पाम्बुपूर्णानि नेत्राणि नृपयोषिताम् ।
वारिविप्रहतानीव पङ्कजानि चकाशिरे॥४३॥

ताः पतिं पतितं भूमौ रुदन्त्यो हृदि ताडिताः ।
लालप्यमाणाः करुणं योषितः पर्यदेवयन्॥४४॥

पुत्रं चस्य पुरस्कृत्य बालं प्रस्रुतलोचनम् ।
शक्रदेवं पितुः पार्श्वे द्विगुणं रुरुदुः स्त्रियः॥४५॥

अस्य शृगालस्य॥४५॥

अयं ते वीर विक्रान्तो बालः पुत्रो न पण्डितः ।
त्वद्विहीनः कथमयं पदे स्थास्यति पैतृके॥४६॥

कथमेकपदे त्यक्त्वा गतोऽस्यन्तःपुरं परम् ।
अतृप्तास्तव सौख्यानां किं कुर्मो विधवा वयम्॥४७॥

तस्य पद्मावती नाम महिषी प्रमदोत्तमा ।
रुदती पुत्रमादाय वासुदेवमुपस्थिता॥४८॥

महिषी पट्टराज्ञी॥४८॥

यस्त्वया पातितो वीर रणप्रोक्तेन कर्मणा ।
तस्य प्रेतगतस्यायं पुत्रस्त्वां शरणं गतः॥४९॥

यदि त्वां प्रणमेतासौ कुर्याद्वा शासनं तव ।
नायमेकप्रहारेण जनस्तप्येत दारुणम्॥५०॥

यदि कुर्यादयं मूढस्त्वयि बान्धवकं विधिम् ।
नैवं परीतः कृपणः सेवेत धरणीतलम्॥५१॥

परीतः क्रव्यादैरिति शेषः॥५१॥

अयमस्य विपन्नस्य बान्धवस्य तवानघ ।
सन्तती रक्ष्यतां वीर पुत्रः पुत्र इवात्मजः॥५२॥

तस्यास्तद्वचनं श्रुत्वा महिष्या यदुनन्दनः ।
मृदुपूर्वमिदं वाक्यमुवाच वदतां वरः॥५३॥

राजपत्नि गतो रोषः सहानेन दुरात्मना ।
प्रकृतिस्था वयं जाता देवि सैषोऽस्मि बान्धवः॥५४॥

रोषो मे विगतः साध्वि तव वाक्यैरकल्मषैः ।
योऽयं पुत्रः शृगालस्य ममाप्येष न संशयः॥५५॥

अभयं चभिषेकं च ददाम्यस्मै सुखाय वै ।
आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा॥५६॥

पितृपैतामहे राज्ये तव पुत्रोऽभिषिच्यताम् ।
ततः प्रकृतयः सर्वाः पुरोधा मन्त्रिणस्तथा॥५७॥

अभिषेकार्थमाजग्मुर्यतो वै रामकेशवौ ।
ततः सिंहासनस्थं तु राजपुत्रं जनार्दनः॥५८॥

अभिषेकेण दिव्येन योजयामास वीर्यवान् ।
अभिषिच्य शृगालस्य करवीरपुरे सुतम् ।
कृष्णस्तदहरेवाशु प्रस्थानमभ्यरोचयत्॥५९॥

रथेन हरियुक्तेन तेन युद्धार्जितेन वै ।
केशवः प्रस्थितोऽध्वानं वृत्रहा त्रिदिवं यथा॥६०॥

तेन रथेन शृगालाय सवितृदत्तेन॥६०॥

शक्रदेवोऽपि धर्मात्मा सह मात्रा परन्तपः ।
सबालवृद्धयुवतीमुख्याः प्रकृतयस्तथा॥६१॥

शिबिकायामथारोप्य शृगालं युद्धदुर्मदम् ।
संहता दूरमार्गेण पश्चिमाभिमुखा ययुः॥६२॥

नैधनस्य विधानेन चक्रुस्ते तस्य सत्क्रियाम् ।
सत्कारं कारयामासुः पितॄणां पारलौकिकम्॥६३॥

उद्दिश्योद्दिश्य राजानं श्राद्धं कृत्वा सहस्रशः ।
ततस्ते सलिलं दत्त्वा नामगोत्रादिकीर्तनैः॥६४॥

पितर्युपरते घोरे शोकसंविग्नमानसः ।
कृत्वोदकं तदा राजा प्रविवेश पुरोत्तमम्॥६५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शृगालवधो नाम चतुश्चत्वारिंशोऽध्यायः॥४४॥
रामकृष्णयोर्मथुरागमनम्-०४५

वैशम्पायन उवाच। तौ तु स्वल्पेन कालेन दमघोषेन सङ्गतौ ।
अथाध्वविधिना तौ तु पञ्चरात्रोषितौ पथि॥१॥

पञ्चचत्वारिंशकेऽस्मिन्प्रोच्यते रामकृष्णयोः। मथुरागमनं चाथ प्रवेशनमहोत्सवः॥१॥ तौ त्विति॥१॥

दमघोषेण सङ्गम्य एकरात्रोषिताविव ।
जग्मतुः सहितौ वीरौ मुदा परमया युतौ ।
नगरीं मथुरां प्राप्तौ वसुदेवसुतावुभौ॥२॥

ततः प्रत्युद्गताः सर्वे यादवा यदुनन्दनौ ।
सबला हृष्टमनस उग्रसेनपुरोगमाः॥३॥

श्रेण्यः प्रकृतयश्चैव मन्त्रिणश्च यथोचिताः ।
सबालवृद्धा सा चैव पुरी समभिवर्तत॥४॥

श्रेण्यः नानाजातीया अनेकशिल्पोपजीविनः॥४॥

नन्दितूर्याण्यवाद्यन्त स्तूयेतां पुरुषर्षभौ ।
रथ्यां पताकामालिन्यो भासन्ति स्म समन्ततः॥५॥

हृष्टा प्रमुदिता सर्वा पुरी परमशोभिता ।
भ्रात्रोस्तयोरागमने यथैवेन्द्रमहे तथा॥६॥

मुदितास्तत्र गायन्ति राजमार्गेषु गायकाः ।
स्तवाशीर्बहुला गाथा यादवानां प्रियङ्कराः॥७॥

गोविन्दरामौ सम्प्राप्तौ भ्रातरौ लोकविश्रुतौ ।
स्वे पुरे निर्भयाः सर्वे क्रीडध्वं यादवाः सुखम्॥८॥

न तत्र कश्चिद्दीनो वा मलिनो वा विचेतनः ।
मथुरायामभूत्कश्चिद्रामकृष्णसमागमे॥९॥

वयांसि सादुवाक्यानि प्रहृष्टा गोहयद्विपाः ।
नरनारीगणाश्चैव भेजिरे मानसं सुखम् ॥१०॥

शिवाश्च प्रववुर्वाता विरजस्का दिशो दश ।
दैवतान्यपि सर्वाणि हृष्यन्त्यायतनेष्वथ॥११॥

दैवतानि प्रतिमाः॥११॥

यानि लिङ्गानि लोकस्य वृत्तानीह कृते युगे ।
तानि सर्वाण्यदृश्यन्त तयोरागमने तदा॥१२॥

लिङ्गानि लक्षणानि॥१२॥

ततः काले शिवे पुण्ये स्यन्दनेनारिमर्दनौ ।
हरियुक्तेन तौ वीरौ प्रविष्टौ मथुरां पुरीम्॥१३॥

प्रविशन्तं पुरीं रम्यां गोविन्दं राममेव च ।
अनुजग्मुर्यदुगणाः शक्रं देवगणा इव॥१४॥

वसुदेवस्य भवनं पितुस्तौ यदुनन्दनौ ।
प्रविष्टौ हृष्टवदनौ चन्द्रादित्याविवाचलम्॥१५॥

तत्रायुधानि संन्यस्य गृहे स्वे स्वैरचारिणौ ।
मुमुदाते यदुवरौ वसुदेवसुतावुभौ॥१६॥

ततस्तु वसुदेवस्य पादौ समभिपीड्य च ।
तत्रोग्रसेनं राजानमन्यांश्च यदुपुङ्गवान्॥१७॥

यथान्यायं पूजयित्वा तौ सर्वैश्चाभिनन्दितौ ।
जग्मतुर्हृष्टमनसौ मातुरेव निवेशनम्॥१८॥

एवं तावेकनिर्माणौ मथुरायां शुभाननौ ।
उग्रसेनानुगौ भूत्वा कञ्चित्कालं मुमोदतुः॥१९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रामकृष्णयोर्मथुरायां प्रत्यागमने पञ्चचत्वारिंशोऽध्यायः॥४५॥
रामस्य गोकुलगमनंयमुनाकर्षणं च-०४६

वैशम्पायन उवाच। कस्यचित्त्वथ कालस्य स्मृत्वा गोपेषु सौहृदम् ।
जगामैको व्रजं रामः कृष्णस्यानुमते स्थितः॥१॥

षट्चत्वारिंशकेऽध्याये रामस्य गोकुलागमः। क्रीडनं गोपनारीभिः कालिन्द्याः कर्षणं तथा॥१॥ कस्येति॥१॥

स गतस्तत्र रम्याणि ददर्श विपुलानि वै ।
भुक्तपूर्वाण्यरण्यानि सरांसि सुरभीणि च॥२॥

स प्रविष्टस्तु वेगेन तं व्रजं कृष्णपूर्वजः ।
वन्येन रमणीयेन वेषेणालङ्कृतः प्रभुः॥३॥

स तानभाषत प्रीत्या यथापूर्वमरिन्दमः ।
गोपांस्तेनैव विधिना यथान्यायं यथावयः॥४॥

तथैव प्राह तान्सर्वांस्तथैव परिहर्षयन् ।
तथैव सह गोपीभिर्योजयन्मधुराः कथाः॥५॥

तमूचुः स्थविरा गोपाः प्रियं मधुरभाषिणः ।
रामं रमयतां श्रेष्ठं प्रवासात्पुनरागतम्॥६॥

स्वागतं ते महाबाहो यदूनां कुलनन्दन ।
अद्य स्म निर्वृतास्तात यत्त्वां पश्यामहे वयम्॥७॥

निर्वृताः स्म सुखिनः स्म॥७॥

प्रीताश्चैव वयं वीर यत्त्वं पुनरिहागतः ।
विख्यातस्त्रिषु लोकेषु रामः शत्रुभयङ्करः॥८॥

वर्धनीया वयं वीर त्वया यादवनन्दन ।
अथवा प्राणिनस्तात रमन्ते जन्मभूमिषु॥९॥

त्रिदशानां वयं मान्या ध्रुवमद्यामलानन ।
ये स्म दृष्टास्त्वया तात काङ्क्षमाणास्तवागमम्॥१०॥

दिष्ट्या ते निहता मल्लाः कंसश्च विनिपातितः ।
उग्रसेनोऽभिषिक्तश्च माहात्म्येन जनेन वै॥११॥

समुद्रे च श्रुतोऽस्माभिस्तिमिना सह विग्रहः ।
वधः पञ्चजनस्यैव जरासन्धेन विग्रहः॥१२॥

तिमिना तिमितुल्येन पञ्चजनेन॥१२॥

गोमन्ते च श्रुतोऽस्माभिः क्षत्रियैः सह विग्रहः ।
दरदस्य वधश्चैव जरासन्धपराजयः ।
तत्रायुधावतरणं श्रुतं नः परमाहवे॥१३॥

वधश्चैव शृगालस्य करवीरपुरोत्तमे ।
तत्सुतस्याभिषेकश्च नागराणां च सान्त्वनम्॥१४॥

मथुरायां प्रवेशश्च कीर्तनीयः सुरोत्तमैः ।
प्रतिष्ठिता च वसुधा पार्थिवाश्च वशीकृताः॥१५॥

तव चागमनं दृष्ट्वा सभाग्याः स्म यथा पुरा ।
तेन स्म परितुष्टा वै हृषिताश्च सबान्धवाः॥१६॥

प्रत्युवाच ततो रामः सर्वांस्तानभितः स्थितान् ।
यादवेष्वपि सर्वेषु भवन्तो मम बान्धवाः॥१७॥

इहावयोर्गतं बाल्यमिह चैवावयो रतम् ।
भवद्भिर्वर्द्धिताश्चैव यास्यामो विक्रियां कथम्॥१८॥

रतं क्रीडनम्॥१८॥

गृहेषु भवतां भुक्तं गावश्च परिरक्षिताः ।
अस्माकम् बान्धवाः सर्वे भवन्तो बद्धसौहृदाः॥१९॥

ब्रुवत्येवं यथातत्त्वं गोपमध्ये हलायुधे ।
संहृष्टवदना भूयो बभूवुर्व्रजयोषितः॥२०॥

ततो वनान्तरगतो रेमे रामो महाबलः ।
एतस्मिन्नन्तरे प्राप्ते रामाय विदितात्मने॥२१॥

गोपालैर्देशकालज्ञैरुपानीयत वारुणी ।
सोऽपिबत्पाण्डुराभ्राभस्तत्कालं ज्ञातिभिर्वृतः॥२२॥

वनान्तरगतो रामः पानं मदसमीरणम् ।
उपनिन्युस्ततस्तस्मै वन्यानि विविधानि च॥२३॥

प्रत्यग्ररमणीयानि पुष्पाणि च फलानि च ।
मेध्यांश्च विविधान्गन्धान्भक्ष्यांश्च हृदयङ्गमान्॥२४॥

सद्यो हृतानि पद्मानि विकचान्युत्पलानि च ।
शिरसा चारुकेशेन किञ्चिदावृतमौलिना॥२५॥

आवृतमौलिना वक्रीभूतकिरीटेन॥२५॥

चन्दनार्द्रेण पीतेन वनमालावलम्बिना ।
विबभावुरसा रामः कैलासेनेव मन्दरः॥२६॥

नीले वसानो वसने प्रत्यग्रजलदप्रभे ।
रराज वपुषा शुभ्रस्तिमिरौघे यथा शशी॥२७॥

लाङ्गलेनावसिक्तेन भुजगाभोगवर्तिना ।
तथा भुजाग्रश्लिष्टेन मुसलेन च भास्वता॥२८॥

स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः ।
शैशिरीषु त्रियामासु यथा स्वेदालसः शशी॥२९॥

रामस्तु यमुनामाह स्नातुमिच्छे महानदि ।
एहि मामभिगच्छ त्वं रूपिणी सागरङ्गमे॥३०॥

स्नातुं स्नानपूर्वकं त्वां परिणेतुम् इच्छे इच्छामि रूपिणी मूर्तिमती भूत्वेति शेषः॥३०॥

सङ्कर्षणस्य मत्तोक्तां भारतीं परिभूय सा ।
नाभ्यवर्तत तं देशं स्त्रीस्वभावेन मोहिता॥३१॥

मत्तोक्तां मत्तेनोक्तामिति हेतुना तां भारतीं परिभूय नाभ्यवर्तत॥३१॥

ततश्चुक्रोध बलवान्रामो मदसमीरितः ।
चकार स हलं हस्ते कर्षणाधोमुखं बली॥३२॥

कर्षणाय अधोमुखं कर्षणाधोमुखम्॥३२॥

तस्यामुपरि मेदिन्यां पेतुस्तामरसस्रजः ।
मुमुचुः पुष्पकोशैश्च वासरेण्वरुणं जलम्॥३३॥

तस्यां हलाकृष्टायां याः स्नजः पेतुः ताः पुष्पकोशैः करणैः वासरेण्वरुणं सुगन्धिपरागारुणं मदिरारूपं जलं मुमुचुः उद्वेमुरित्यर्थः॥३३॥

स हलेनानताग्रेण कूले गृह्य महानदीम् ।
चकर्ष यमुनां रामो व्युत्थितां वनितामिव॥३४॥

सा विह्वलजलस्रोता ह्रदप्रस्थितसञ्चया ।
व्यावर्तत नदी भीता हलमार्गानुसारिणी॥३५॥

हृदप्रस्थितसञ्चया हृदात् प्रस्थिताः प्रचलिताः सञ्चया मत्स्यादयो यस्याः सा॥३५॥

लाङ्गलादिष्टवर्त्मा सा वेगगा वक्रगामिणी ।
सङ्कर्षणभयत्रस्ता योषेवाकुलतां गता॥३६॥

पुलिनश्रोणिबिम्बौष्ठी मृदितैस्तोयताडितैः ।
फेनमेखलसूत्रैश्च छिन्नैरम्बुदगामिनी॥३७॥

पुलिनं श्रोणिरिव यस्याः बिम्बं रक्तपद्ममण्डलमेव ओष्ठो यस्याः। अम्बुदगामिनी सागरगामिनी॥३७॥

तरङ्गविषमापीडा चक्रवाकोन्मुखस्तनी ।
वेगगम्भीरवक्राङ्गी त्रस्तमीनविभूषणा॥३८॥

सितहंसेक्षणापाङ्गी काशक्षौमोच्छ्रिताम्बरा ।
तीरजोद्भूतकेशान्ता जलस्खलितगामिनी॥३९॥

लाङ्गूलोल्लिखितापाङ्गी क्षुभिता सागरङ्गमा ।
मत्तेव कुटिला नारी राजमार्गेण गच्छती॥४०॥

कृष्यते सातिवेगेन स्रोतःस्खलितगामिनी ।
उन्मार्गा नीतमार्गा सा येन वृन्दावनं वनम्॥४१॥

वृन्दावनस्य मध्येन सा नीता यमुना नदी ।
रोरूयमाणेव खगैरन्विता तोयवासिभिः॥४२॥

सा यदा समतिक्रान्ता नदी वृन्दावनं वनम् ।
तदा स्त्रीरूपिणी भूत्वा यमुना राममब्रवीत्॥४३॥

प्रसीद नाथ भीतास्मि प्रतिलोमेन कर्मणा ।
विपरीतमिदं रूपं तोयं च मम जायते॥४४॥

असत्यहं नदीमध्ये रौहिणेय त्वया कृता ।
कर्षणेन महाबाहो स्वमार्गव्यभिचारिणी॥४५॥

प्राप्तां मां सागरे पूर्वं सपत्न्यो वेगगर्विताः ।
फेनहासैर्हसिष्यन्ति तोयव्यावृत्तगामिनीम्॥४६॥

प्रसादं कुरु मे वीर याचे त्वां कृष्णपूर्वज ।
सुप्रसन्नमना नित्यं भव त्वं सुरसत्तम॥४७॥

कर्षणायुधकृष्टास्मि रोषोऽयं विनिवर्त्यताम् ।
मूर्ध्ना गच्छामि चरणौ तवैषा लाङ्गलायुध॥४८॥

वैशम्पायन उवाच। प्रणयावनतां दृष्ट्वा यमुनां लाङ्गलायुधः ।
प्रत्युवाचार्णववधूं मदक्लान्त इदं वचः॥४९॥

लाङ्गलादिष्टमार्गा त्वमिमं मे प्रियदर्शने ।
देशमम्बुप्रदानेन प्लावयस्वाखिलं शुभे॥५०॥

एष ते सुभ्रु सन्देशः कथितः सागरङ्गमे ।
शान्तिं व्रज महाभागे गम्यतां च यथासुखम्॥५१॥

सन्देश आज्ञा॥५१॥

यावत्स्थास्यति लोकोऽयं तावत्तिष्ठतु मे यशः ।
यमुनाकर्षणं दृष्ट्वा सर्वे ते व्रजवासिनः॥५२॥

साधु साध्विति रामाय प्रणामं चक्रिरे तदा ।
तां विसृज्य महाभागां तांश्च सर्वान्व्रजौकसः॥५३॥

ततः सञ्चिन्त्य मनसा रामः प्रहरतां वरः ।
पुनः प्रतिजगामाशु मथुरां रोहिणीसुतः॥५४॥

स गत्वा मथुरां रामो भवने मधुसूदनम् ।
परिवर्तमानं ददृशे पृथिव्यां सारमव्ययम्॥५५॥

तथैवाध्वन्यवेषेण सोपश्लिष्य जनार्दनम् ।
प्रत्यग्रवनमालेन वक्षसाभिविराजता॥५६॥

स दृष्ट्वा तूर्णमायान्तं रामं लाङ्गलधारिणम् ।
सहसोत्थाय गोविन्दो ददावासनमात्मनः॥५७॥

उपविष्टं तदा रामं पप्रच्छ कुशलं व्रजे ।
बान्धवेषु च सर्वेषु गोषु चैव जनार्दनः॥५८॥

प्रत्युवाच ततो रामो भ्रातरं साधुभाषिणम् ।
सर्वत्र कुशलं कृष्ण येषां कुशलमिच्छसि॥५९॥

ततस्तयोर्विचित्रार्थाः पौराण्यश्चाभवन्कथाः ।
वसुदेवाग्रतः पुण्या रामकेशवयोस्तदा॥६०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि यमुनाकर्षणे षट्चत्वारिंशोऽध्यायः॥४६॥
रुक्मिणीस्वयंवरार्थंकृष्णस्य कुण्डिनपुरं प्रति गमनम्-०४७

वैशम्पायन उवाच। एतस्मिन्नन्तरे प्राप्ता लोकप्रावृत्तिका नराः ।
चक्रायुधगृहं सर्वे लोकपालगृहोपमम्॥१॥

सप्तचत्वारिंशकेऽस्मिश्चराणां वचनादथ। कृष्णस्येच्छा हि रुक्मिण्यां कुण्डिने गमनं तथा॥१॥ एतस्मिन्निति। प्रावृत्तिकाः प्रवृत्तिसूचकाः॥१॥

तेष्वात्ययिकशंसीषु लोकप्रावृत्तिकेष्विह ।
कृतसंज्ञा यदुश्रेष्ठाः समेताः कृष्णसंसदि॥२॥

आत्ययिकशंसीषु विरोधशंसिषु। दैर्घ्यं छन्दोऽनुरोधात्॥२॥

समागतेषु सर्वेषु यदुमुख्येषु संसदि ।
प्रावृत्तिका नराः प्राहुः पार्थिवात्ययिकं वचः॥३॥

पार्थिवात्ययिकं राज्ञां विनाशकारणम्॥३॥

जनार्दन नरेन्द्राणां पार्थिवानां समागमः ।
भविष्यति क्षितीशानां समूढानामनेकशः॥४॥

त्वरितास्तत्र गच्छन्ति नानाजनपदेश्वराः ।
कुण्डिने पुण्डरीकाक्ष भोजपुत्रस्य शासनात्॥५॥

भोजपुत्रस्य रुक्मिणः शासनात् निमन्त्रणात्॥५॥

प्रकाशं स्म कथास्तत्र श्रूयन्ते मनुजेरिताः ।
रुक्मिणी किल नामास्ति रुक्मिणः प्रथमा स्वसा॥६॥

प्रथमा मुख्या॥६॥

भावी स्वयंवरस्तत्र तस्याः किल जनार्दन ।
इत्यर्थमेते सबला गच्छन्ति मनुजाधिपाः॥७॥

तस्यास्त्रैलोक्यसुन्दर्यास्तृतीयेऽहनि यादव ।
रुक्मभूषणभूषिण्या भविष्यति स्वयंवरः॥८॥

राज्ञां तत्र समेताणां हस्त्यश्वरथगामिनाम् ।
द्रक्ष्यामः शतशस्तत्र शिबिराणि महात्मनाम्॥९॥

सिंहशार्दूलदृप्तानां मत्तद्विरदगामिनाम् ।
सदा युद्धप्रियाणां हि परस्परममर्षिणाम्॥१०॥

जयाय शीघ्रं सहिता बलौघेन समन्विताः ।
निरुद्धाः पृथिवीपालाः किमेकान्तचरा वयम्॥११॥

निरुद्धा रुक्मिणीलिप्सयेति शेषः। तत्र वयं किं भिल्लवदेकान्तचराः येन निरुत्साहा भविष्यामः। अपि तु अतिप्रसिद्धास्तेन सोत्साहा एव तत्र गच्छाम इति सार्द्धश्लोकवाक्यम्॥११॥

निरुत्साहा भविष्यामो गच्छामो यदुनन्दन ।
श्रुत्वैतत्केशवो वाक्यं हृदि शल्यमिवार्पितम् ।
निर्जगाम यदुश्रेष्ठो यदूनां सहितो बलैः॥१२॥

यादवास्ते बलोदग्राः सर्वे सङ्ग्रामलालसाः ।
निर्ययुः स्यन्दनवरैर्गर्वितास्त्रिदशा इव॥१३॥

बलाग्रेण नियुक्तेन हरिरीशानसंमतः ।
चक्रोद्यतकरः कृष्णो गदापाणिर्व्यरोचत॥१४॥

यादवाश्चापरे तत्र वासुदेवानुयायिनः ।
रथैरादित्यसङ्काशैः किङ्किणीप्रतिनादितैः॥१५॥

उग्रसेनं तु गोविन्दः प्राह निश्चितदर्शनः ।
तिष्ठ त्वं नृपशार्दूल भ्रात्रा मे सहितोऽनघ॥१६॥

क्षत्रिया विकृतिप्रज्ञाः शास्त्रनिश्चितदर्शनाः ।
पुरीं शून्यामिमां वीर जघन्येऽभिपतन्ति ह॥१७॥

विकृतिप्रज्ञाः कपटबुद्धयः शास्त्रनिश्चितदर्शनाः राजनीतिविदः जघन्ये मम पृष्ठतः शून्ये इत्यर्थः॥१७॥

अस्माकं शङ्किताः सर्वे जरासन्धवशानुगाः ।
मोदन्ते सुखिनस्तत्र देवलोके यथामराः॥१८॥

अस्माकम् अस्मत्तः॥१८॥

वैशम्पायन उवाच। तस्य तद्वचनं श्रुत्वा भोजराजो महायशाः ।
कृष्णस्नेहेन विकृतं बभाषे वचनामृतम्॥१९॥

कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्द्धन ।
श्रूयतां यदहं त्वद्य वक्ष्यामि रिपुसूदन॥२०॥

त्वया विहीनाः सर्वे स्म न शक्ताः सुखमासितुम् ।
पुरेऽस्मिन्विषयान्ते वा पतिहीना इव स्त्रियः॥२१॥

त्वत्सनाथा वयं तात त्वद्बाहुबलमाश्रिताः ।
बिभीमो न नरेन्द्राणां सेन्द्राणामपि मानद॥२२॥

विजयाय यदुश्रेष्ठ यत्र यत्र गमिष्यसि ।
तत्र त्वं सहितोऽस्माभिर्गच्छेथा यादवर्षभ॥२३॥

तस्य राज्ञो वचः श्रुत्वा सस्मितं देवकीसुतः ।
यथेष्टं भवतामद्य तथा कर्तास्म्यसंशयम्॥२४॥

वैशम्पायन उवाच। एवमुक्त्वा तु वै कृष्णो जगामाशु रथेन वै ।
भीष्मकस्य गृहं प्राप्तो लोहितायति भास्करे॥२५॥

प्राप्ते राजसमाजे तु शिबिराकीर्णभूतले ।
रङ्गं सुविपुलं दृष्ट्वा राजसीं तनुमाविशत्॥२६॥

राजसीं तनुं कामक्रोधप्रधानां प्रकृतिम्॥२६॥

वित्रासनार्थं भूपानां प्रकाशार्थं पुरातनम् ।
मनसा चिन्तयामास वैनतेयं महाबलम्॥२७॥

पुरातनं प्राक्सिद्धम्॥२७॥

ततश्चिन्तितमात्रस्तु विदित्वा विनतात्मजः ।
सुखलक्ष्यं वपुः कृत्वा निलिल्ये केशवान्तिके॥२८॥

सुखलक्ष्यं सौम्यम्॥२८॥

तस्य पक्षनिपातेन पवनोद्भ्रान्तकारिणा ।
कम्पिता मनुजाः सर्वे न्युब्जाश्च पतिता भुवि॥२९॥

सौम्येन लीनेनापि यत्कृतं तदाह- तस्येति। न्युब्जाः अधोमुखास्तथाऽचेष्टन्त यथोरगा नोत्थातुं शक्नुवन्तीत्यर्थः॥२९॥

गरुडाभिहताः सर्वे प्रचेष्टन्तो यथोरगाः ।
तान्सन्निपतितान्दृष्ट्वा कृष्णो गिरिरिवाचलः॥३०॥

स राज्ञः पक्षपातेन मेने पतगसत्तमम् ।
ददर्श गरुडं प्राप्तं दिव्यस्रगनुलेपनम्॥३१॥

तान् राज्ञ इति सम्बन्धः। मेने मनसा पूजितवान्॥३१॥

पक्षवातेन पृथिवीं चालयन्तं मुहुर्मुहुः ।
पृष्ठासक्तैः प्रहरणैर्लेलिह्यन्तमिवोरगैः॥३२॥

वैष्णवं हस्तसंश्लेषं मन्यमानैरवाङ्मुखैः ।
चरणाभ्यां प्रकर्षन्तं पाण्डुरं भोगिनां वरम्॥३३॥

हेमपत्रैरुपचितं धातुमन्तमिवाचलम् ।
अमृतारम्भहर्तारं द्विजिह्वेन्द्रविनाशनम्॥३४॥

त्रासनं दैत्यसङ्घानां वाहनं ध्वजलक्षणम् ।
तं दृष्ट्वा स ध्वजं प्राप्तं सचिवं साम्परायिकम्॥३५॥

सचिवं बुद्धिसहायं साम्परायिकम् आपदि हितम्॥३५॥

धृतिमन्तं गरुत्मन्तं जगाद मधुसूदनः ।
दृष्ट्वा परमसंहृष्टः स्थितं देवमिवापरम्॥३६॥

तुल्यसामर्थ्यया वाचा गरुत्मन्तमवस्थितम् ।
श्रीकृष्ण उवाच। स्वागतं खेचरश्रेष्ठ सुरसेनारिमर्दन ।
विनताहृदयानन्द स्वागतं केशवप्रिय॥३७॥

व्रज पत्ररथश्रेष्ठ कैशिकस्य निवेशनम् ।
वयं तत्रैव गत्वाद्य प्रतीक्षाम स्वयंवरम्॥३८॥

राज्ञां तत्र समेतानां हस्त्यश्वरथगामिनाम् ।
द्रक्ष्यामः शतशस्तत्र समेतानां महात्मनाम्॥३९॥

एवमुक्त्वा महाबाहुर्वैनतेयं महाबलम् ।
जगामाथ पुरीं कृष्णः कैशिकस्य महात्मनः॥४०॥

कैशिकस्य भीष्मकपितुः॥४०॥

वैनतेयसखः श्रीमान्यादवैश्च महारथैः ।
विदर्भनगरीं प्राप्ते कृष्णे देवकिनन्दने॥४१॥

हृष्टाः प्रमुदिताः सर्वे निवासायोपचक्रमुः ।
सर्वे शस्त्रायुधधरा राजानो बलशालिनः॥४२॥

वैशम्पायन उवाच। एतस्मिन्नेव काले तु राजा नयविशारदः ।
कैशिकस्तत उत्थाय प्रहृष्टेनान्तरात्मना॥४३॥

अर्घ्यमाचमनं दत्त्वा स राजा कैशिकः स्वयम् ।
सत्कृत्य विधिवत्कृष्णं स्वपुरं सम्प्रवेशयत्॥४४॥

पूर्वमेव तु कृष्णाय कारितं दिव्यमन्दिरम् ।
विवेश सबलः श्रीमान्कैलासं शङ्करो यथा ।
खाद्यपानादिरत्नौघैरर्चितो वासवानुजः॥४५॥

सुखेन उषितः कृष्णस्तस्य राज्ञो निवेशने ।
पूजितो बहुमानेन स्नेहपूर्णेन चेतसा॥४६॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे सप्तचत्वारिंशोऽध्यायः॥४७॥
विदर्भसभायां जरासन्धसुनीथयोर्भाषणे-०४८

वैशम्पायन उवाच। ते कृष्णमागतं दृष्ट्वा वैनतेय सहाच्युतम् ।
बभूवुश्चिन्तयाविष्टाः सर्वे नृपतिसत्तमाः॥१॥

अष्टचत्वारिंशकेऽथ जरासन्धसुनीथयोः। विदर्भस्य सभायां तु वचनं राजसूच्यते॥१॥ ते कृष्णमिति। वैनतेयेत्यत्र तृतीयालोप आर्षः॥१॥

ते समेत्य सभां राजन्राजानो भीमविक्रमाः ।
मन्त्राय मन्त्रकुशला नीतिशास्त्रार्थवित्तमाः॥२॥

भीष्मकस्य सभां गत्वा रम्यां हेमपरिष्कृताम् ।
सिंहासनेषु चित्रेषु विचित्रास्तरणेषु च ।
निषेदुस्ते नृपवरा देवा देवसभामिव॥३॥

तेषां मध्ये महाबाहुर्जरासन्धो महाबलः ।
बभाषे स महातेजा देवान्देवेश्वरो यथा॥४॥

जरासन्ध उवाच। श्रूयतां भो नृपश्रेष्ठा भीषमकश्च महामतिः ।
कथ्यमानं मया बुद्ध्या वचनं वदतां वराः॥५॥

योऽसौ कृष्ण इति ख्यातो वसुदेवसुतो बली ।
वैनतेयसहायेन सम्प्राप्तः कुण्डिनं त्विह॥६॥

कन्याहेतोर्महातेजा यादवैरभिसंवृतः ।
अवश्यं कुरुते यत्नं कन्यावाप्तिर्यथा भवेत्॥७॥

यदत्र कारणं कार्यं सुनयोपेतमृद्धितम् ।
कुरुध्वं नृपशार्दूला विनिश्चित्य बलाबलम्॥८॥

ऋद्धितम् ऋद्धिः सञ्जायते येन तत्॥८॥

पदातिनौ महावीर्यौ वसुदेवसुतावुभौ ।
वैनतेयं विना तस्मिन्गोमन्ते पर्वतोत्तमे ।
कृतवन्तौ महाघोरं भवद्भिर्विदितं हि तत्॥९॥

वृष्णिभिर्यादवैश्चैव भोजान्धकमहारथैः ।
समेत्य युद्ध्यमानस्य कीदृशो विग्रहो भवेत्॥१०॥

कन्यार्थे यततानेन गरुडस्थेन विष्णुना ।
कः स्थास्यति रणे तस्मिन्नपि शक्रः सुरैः सह॥११॥

यदा चास्मै नापि सुता कदाचित्सम्प्रदीयते ।
ततो ह्ययं बलादेनां नेतुं शक्तः सुरैः सह॥१२॥

पुरा एकार्णवे घोरे श्रूयते मेदिनी त्वियम् ।
पातालतलसंमग्ना विष्णुना प्रभविष्णुना॥१३॥

वाराहं रूपमास्थाय उद्धृता जगदादिना ।
हिरण्याक्षश्च दैत्येन्द्रो वराहेण निपातितः॥१४॥

हिरण्यकशिपुश्चैव महाबलपराक्रमः ।
अवध्योऽमरदैत्यानामृषिगन्धर्वकिन्नरैः॥१५॥

यक्षराक्षसनागानां नाकाशे नावनिस्थले ।
न चाभ्यन्तररात्र्यह्नोर्न शुष्केणार्द्रकेण च॥१६॥

अवध्यस्त्रिषु लोकेषु दैत्येन्द्रस्त्वपराजितः ।
नारसिंहेन रूपेण निहतो विष्णुना पुरा॥१७॥

वामनेन तु रूपेण कश्यपस्यात्मजो बली ।
अदित्या गर्भसम्भूतो बलिर्बद्धोऽसुरोत्तमः॥१८॥

यदेत्यारभ्य सुरैः सहेत्यन्तोऽयं श्लोकः सर्वपुस्तकेषु न दृश्यते योऽदित्या गर्भसम्भूतो तेनैव विष्णुना बलिर्बद्ध्वा पातालसंश्रयः कृत इति पूर्वेण सम्बन्धः॥१८॥

सत्यरज्जुमयैः पाशैः कृतः पातालसंश्रयः ।
कार्तवीर्यो महावीर्यः सहस्रभुजविग्रहः॥१९॥

दत्तात्रेयप्रसादेन मत्तो राज्यमदेन च ।
जामदग्न्यो महातेजा रेणुकागर्भसम्भवः॥२०॥

त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः ।
पर्शुना वज्रकल्पेन सप्तद्वीपेश्वरो नृपः ।
विष्णुना निहतो भूयः छद्मरूपेण हैहयः॥२१॥

पर्शुना परशुना॥२१॥

इक्ष्वाकुकुलसम्भूतो रामो दाशरथिः पुरा ।
त्रिलोकविजयं वीरं रावणं संन्यपातयत्॥२२॥

पुरा कृतयुगे विष्णुः सङ्ग्रामे तारकामये ।
षोडशार्द्धभुजो भूत्वा गरुडस्थो हि वीर्यवान्॥२३॥

निजघानासुरान्युद्धे वरदानेन गर्वितान् ।
कालनेमिश्च दैतेयो देवानां च भयप्रदः॥२४॥

सहस्रकिरणाभेन चक्रेण निहतो युधि ।
महायोगबलेनाजौ विश्वरूपेण विष्णुना॥२५॥

शकुनीं पूतनाम्॥२५॥

अनेन प्राप्तकालास्ते निहता बहवोऽसुराः ।
वने वनचरा दैत्या महाबलपराक्रमाः॥२६॥

निहता बालभावेन प्रलम्बारिष्टधेनुकाः ।
शकुनीं केशिनं चैव यमलार्जुनकावपि॥२७॥

नागं कुवलयापीडं चाणूरं मुष्टिकं तथा ।
कंसं च बलिनां श्रेष्ठं सगणं देवकीसुतः॥२८॥

न्यहनद्गोपवेषेण क्रीडमानो हि केशवः ।
एवमादीनि दिव्यानि छद्मरूपाणि चक्रिणा॥२९॥

दिव्यानि कर्माणीति शेषः॥२९॥

कृतानि दिव्यरूपाणि विष्णुना प्रभविष्णुना ।
तेनाहं वः प्रवक्ष्यामि भवतां हितकाम्यया॥३०॥

तं मन्ये केशवं विष्णुं सुराद्यमसुरान्तकम् ।
नारायणं जगद्योनिं पुराणं पुरुषं ध्रुवम्॥३१॥

स्रष्टारं सर्वभूतानां व्यक्ताव्यक्तं सनातनम् ।
अदृश्यं सर्वलोकानां सर्वलोकनमस्कृतम्॥३२॥

अनादिमध्यनिधनं क्षरमक्षरशाश्वतम् ।
स्वयम्भुवमजं स्थाणुमजेयं सचराचरैः॥३३॥

क्षरं दृश्यरूपम् अक्षरं कूटस्थम्॥३३॥

त्रिविक्रमं त्रिलोकेशं त्रिदशेन्द्रारिनाशनम् ।
इति मे निश्चिता बुद्धिर्जातोऽयं मथुरामधि॥३४॥

कुले महति वै राज्ञां विपुले चक्रवर्तिनाम् ।
कथमन्यस्य मर्त्यस्य गरुडो वाहनं भवेत्॥३५॥

विशेषेण तु कन्यार्थे विक्रमस्थे जनार्दने ।
कः स्थास्यति पुमानद्य गरुडस्याग्रतो बली॥३६॥

स्वयंवरकृतेनासौ विष्णुः स्वयमिहागतः ।
विष्णोरागमने चैव महान्दोषः प्रकीर्तितः॥३७॥

भवद्भिरनुचिन्त्येदं कृयतां यदनन्तरम् ।
वैशम्पायन उवाच। एवं विब्रुवमाणे तु मगधाणां जनेश्वरे॥३८॥

सुनीथोऽथ महाप्राज्ञो वचनं चेदमब्रवीत् ।
सुनीथ उवाच। सम्यगाह महाबाहुर्मगधाधिपतिर्नृपः॥३९॥

समक्षं नरदेवानां यथावृत्तं महाहवे ।
गोमन्ते रामकृष्णाभ्यां कृतं कर्म सुदुष्करम्॥४०॥

गजाश्वरथसम्बाधा पत्तिध्वजसमाकुला ।
निर्दघ्दा महती सेना चक्रलाङ्गलवह्निना॥४१॥

तेनायं मागधः श्रीमाननागतमचिन्तयत् ।
ब्रुवते राजसेनायामनुस्मृत्य सुदारुणम्॥४२॥

पदात्योर्युध्यतोस्तत्र बलकेशवयोर्युधि ।
दुर्निवार्यतरो घोरो ह्यभवद्वाहिनीक्षयः॥४३॥

विदितं वः सुपर्णस्य स्वागतस्य नृपोत्तमाः ।
पक्षवेगानिलोद्धूता बभ्रमुर्गगनेचराः॥४४॥

समुद्राः क्षुभिताः सर्वे चचालाद्रिर्मही मुहुः ।
वयं सर्वे सुसन्त्रस्ताः किमुत्पातेति विक्लवाः॥४५॥

यदा सन्नह्य युध्येत आरूढः केशवः खगम् ।
कथमस्मद्विधः शक्तः प्रतिस्थातुं रणाजिरे॥४६॥

राज्ञां स्वयंवरो नाम सुमहान्हर्षवर्धनः ।
कृतो नरवरैराद्यैर्यशो धर्मस्य वै विधिः॥४७॥

इदं तु कुण्डिनगरमासाद्य मनुजेश्वराः ।
पुनरेवैष्यते क्षिप्रं महापुरुषविग्रहम्॥४८॥

एष्यते काम्यते। महापुरुषविग्रहं युद्धम्॥४८॥

यदि सा वरयेदन्यं राज्ञां मध्ये नृपात्मजा ।
कृष्णस्य भुजयोर्वीर्यं कः पुमान्प्रसहिष्यति॥४९॥

विज्ञापितमिदं दोषं स्वयंवरमहोत्सवम् ।
तदर्थमागतः कृष्णो वयं चैव नराधिपाः॥५०॥

कृष्णस्यागमनं चैव नृपाणामतिगर्हितम् ।
कन्याहेतोर्नरेन्द्राणां यथा वदति मागधः॥५१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे सुनीथवाक्ये अष्टचत्वारिंशोऽध्यायः॥४८॥
दन्तवक्त्रस्य भाषणं भीष्मकस्य निर्णयश्च-०४९

वैशम्पायन उवाच। इत्येवमुक्ते वचने सुनीथेन महात्मना ।
करूषाधिपतिर्वीरो दन्तवक्त्रोऽभ्यभाषत॥१॥

ऊनपञ्चाशत्तमेऽथाध्याये मागधभाषितात्। दन्तवक्त्रस्य शाल्वस्य वचनं सम्यगुच्यते॥१॥ इत्येवमिति॥१॥

दन्तवक्त्र उवाच। यदुक्तं मगधेनात्र सुनीथेन नराधिपाः ।
युक्तपूर्वमहं मन्ये यदस्माकं वचो हितम्॥२॥

न च विद्वेषणेनाहं न चाहङ्कारवादिना ।
न चात्मविजिगीषुत्वाद्दूषयामि वचोऽमृतम्॥३॥

वाक्यार्णवं महागाधं नीतिशास्त्रार्थबृंहितम् ।
क एष निखिलं वक्तुं शक्तो वै राजसंसदि॥४॥

किं त्वनुस्मरणार्थेऽहं यद्ब्रवीमि शृणुष्व मे ।
आगतो वासुदेवेति किमाश्चर्यं नराधिपाः॥५॥

वासुदेवेति सन्धिरार्षः॥५॥

यथाऽऽगता वयं सर्वे कृष्णोऽपीह तथाऽऽगतः ।
किमत्र दोशो गौण्यो वा कन्याहेतोः समागताः॥६॥

गौण्यः गुणः॥६॥

यदस्माभिः समेत्यैक्यात्कृतं गोमन्तरोधनम् ।
तत्र युद्धकृतं दोषं कथं वै वक्तुमर्हथ॥७॥

वनवासे स्थितौ वीरौ कंसव्यामोहहेतुना ।
देवर्षिवचनाद्राजन्वृन्दावनतटे स्थितौ॥८॥

तावाहूय वधार्थेन उभौ रामजनार्दनौ ।
नागेनोद्दीपितौ वीरौ हत्वा नागं विवेशतुः॥९॥

नागेन कुवलयापीडेन उद्दीपितौ कोपितौ विवेशतुः। रङ्गमिति शेषः॥९॥

ततः स्ववीर्यमाश्रित्य निहतो रङ्गसागरे ।
गतासुरिव चासीनो मथुरेशः सहानुगः॥१०॥

गतासुरिवेत्यसावधानत्वमस्योक्तम्॥१०॥

किमत्र विहितो दोषो येनास्माभिर्वयोऽधिकैः ।
उपरोधपरा राजन्वयं सर्वे समागताः॥११॥

येन कंसं निघ्नता वयोधिकैरस्माभिः सह वैरं कृतं तस्य उपरोधपरा यदि वयं तदा किमत्र दोषो विहितः नकोऽपीत्यर्थः॥११॥

सेनातिबलमालोक्य वित्रस्तौ रामकेशवौ ।
पुरं बलं समुत्सृज्य गोमन्ते च गतावुभौ॥१२॥

तत्रापि गतमस्माभिर्हन्तुं समरयोधिभिः ।
अप्राप्तयौवनाभ्यां च पदातिभ्यां रणाजिरे॥१३॥

रथाश्वनरनागेन नास्माभिर्विग्रहः कृतः ।
कृत्वोपरोधं शैलस्य क्षत्रधर्मेण दीपितः॥१४॥

रथादिबलेन उपेतैरस्माभिः सह तेन विग्रहो युद्धं न कृतम्। अथोपरोधश्च कृतस्तत्र दण्डो दहनमेव युक्तमित्याशयः॥१४॥

दावाग्निमुखमाविश्य दुर्विनीततपस्विनौ ।
विनीत इति मन्यामः सर्वे क्षत्रियपुङ्गवाः ।
प्रतियुद्धे कृते त्वेवं दूषयाम जनार्दनम्॥१५॥

न चाप्ययमधर्म इत्याह- दावाग्नीति। तपस्विनो दावाग्निमरणं श्रेय इति एतौ च दुर्विनीततपस्विनौ। अत एतयोर्मुख्यो दुर्विनीततरः सन् एतेन मरणेन विनीतः सुशिक्षितः स्यादिति मन्याम इति योजना। अथ युद्धकरणं श्रेयोविमुखस्य दूषणमिति तृतीयार्द्धार्थः। सार्द्धश्लोकवाक्यम्॥१५॥

यत्र यत्र प्रयास्यामो वयं तत्र भवेत्कलिः ।
प्रीत्यर्थं प्रयतिष्यामः कृष्णेन सह भूमिपाः॥१६॥

एवं स्वस्यानपराधित्वमुक्त्वा सम्प्रति विरोधे हेत्वन्तरमाह- यत्र यत्रेत्यादिना॥१६॥

इदं कुण्डिपुरं कृष्णो नागतः कलिहेतुना ।
कन्यानिमित्तागमने कस्य युद्धं प्रयच्छति॥१७॥

मर्त्येऽस्मिन्पुरुषेन्द्रोऽसौ न कश्चित्प्राकृतो नरः ।
देवलोकेषु देवेषु प्रवरः पुरुषोत्तमः॥१८॥

पूर्ववैरं स्मृत्वा युद्धं दास्यतीत्यपि नेत्याशयेनाह- मर्त्य इति॥ मर्त्ये मनुष्यलोके॥१८॥

देवानामपि कर्तासौ लोकानां च विशेषतः ।
न चैव बालिशा बुद्धिर्न चेर्ष्या नापि मत्सरः॥१९॥

ईर्ष्या अक्षमा मत्सरः परोत्कर्षासहनम्॥१९॥

न स्तब्धो न कृशो नार्तः प्रणतार्तिहरः सदा ।
एष विष्णुः प्रभुर्देवो देवानामपि दैवतम्॥२०॥

आगतो गरुडेनेह छद्मप्राकाश्यहेतुना ।
नानास्त्रसहितो याति कृष्णः शत्रुविनाशने॥२१॥

छद्मप्राकाश्यहेतुना स्वयंवरागमनव्याजेन स्वरूपं प्रकाशनीयमिति हेतोः॥२१॥

इमां यात्रां विजानीध्वं प्रीत्यर्थं ह्यागतो हरिः ।
सहितो यादवेन्द्रैश्च भोजवृष्ण्यन्धकैरिह॥२२॥

यादवेन्द्राणां मुख्यैर्भोजादिभिः॥२२॥

अर्घ्यमाचमनं दत्त्वा आतिथ्यं च नराधिपाः ।
करिष्यामो वयं सर्वे केशवाय महात्मने॥२३॥

एवं सन्धानतः कृत्वा कृष्णेन सहिता वयम् ।
वसामो विगतोद्वेगा निर्भया विगतज्वराः॥२४॥

सन्धानतः साम्ना विगत उद्वेगो येषां ते विगतोद्वेगाः॥२४॥

तस्य तद्वचनं श्रुत्वा दन्तवक्त्रस्य धीमतः ।
शाल्वः प्रवदतां श्रेष्ठस्तानुवाच नराधिपान्॥२५॥

शाल्व उवाच। किं भयेनास्य नः सर्वे न्यस्तशस्त्रा भवामहे ।
सन्धानकरणाद्धेतोः कृष्णस्य भयकम्पिताः॥२६॥

किमिति। अस्य अस्मात् नोऽस्माकं भये सति किं न्यस्तशस्त्राः न भवामहे अपि तु भवामहे एव। भीतेन शस्त्रत्यागपूर्वकं सन्धानमवश्यं कर्तव्यं न तु वयं भीताः स्म इत्यर्थः॥२६॥

परस्तवेन किं कार्यं विनिन्द्य बलमात्मनः ।
नैष धर्मो नरेन्द्राणां क्षात्रे धर्मे च तिष्ठताम्॥२७॥

महत्सु राजवंशेषु सम्भूताः कुलवर्द्धनाः ।
तेषां कापुरुषा बुद्धिः कथं भवितुमर्हति॥२८॥

अहं जानामि वै कृष्णमादिदेवं सनातनम् ।
प्रभुं सर्वामरेन्द्राणां नारायणपरायणम्॥२९॥

वैकुण्ठमजयं लोके चराचरगुरुं हरिम् ।
सम्भूतं देवकीगर्भे विष्णुं लोकनमस्कृतम्॥३०॥

कंसराजवधार्थाय भारावतरणाय च ।
अस्माकं च विनाशाय लोकसंरक्षणाय च॥३१॥

अंशावतरणे कृत्स्नं जाने विष्णोर्विचेष्टितम् ।
सङ्ग्राममतुलं कृत्वा विष्णुना सह भूमिपाः॥३२॥

चक्रानलविनिर्दग्धा यास्यामो यमसादनम् ।
तत्त्वं जानामि राजेन्द्राः कालेनायुःक्षयो भवेत्॥३३॥

यमसादनं मृत्योर्मृत्युम्। विष्णुमित्यर्थः॥३३॥

नाकाले म्रियते कश्चित्प्राप्ते काले न जीवति ।
एवं विनिश्चयं कृत्वा न कुर्यात्कस्यचिद्भयम्॥३४॥

स एव भगवान्विष्णुरालोक्य तपसः क्षयम् ।
निहन्ता दितिजेन्द्राणां यथाकालेन योगवित्॥३५॥

बलिं वैरोचनिं चैवं बद्ध्वावध्यं महाबलम् ।
कृतवान्देवदेवेशः पातालतलवासिनम्॥३६॥

एवमादीनि वै विष्णुश्चेष्टानि च नराधिपाः ।
तस्मादयुक्तं भवतां विग्रहार्थं विचारणम्॥३७॥

चेष्टानि कर्माणि॥३७॥

न च सङ्ग्रामहेतोर्हि कृष्णस्यागमनं त्विह ।
यस्य वा कस्य वा कन्या वरयिष्यति तस्य सा ।
किमत्र विग्रहो राज्ञां प्रीतिर्भवतु वै ध्रुवम्॥३८॥

यस्य यं तस्य तम्॥३८॥

वैशम्पायन उवाच। एवं कथयमानानां नृपाणां बुद्धिशालिनाम् ।
न किञ्चिदब्रवीद्राजा भीष्मकः पुत्रकारणात्॥३९॥

महावीर्यमदोत्सिक्तं भार्गवास्त्राभिरक्षितम् ।
रणप्रचण्डातिरथं विचिन्त्य मनसा सुतम्॥४०॥

भीष्मक उवाच। कृष्णं न सहते नित्यं पुत्रो मे बलदर्पितः ।
नित्याभिमानी च रणे न बिभेति च कस्यचित्॥४१॥

कस्यचित् कस्माच्चित्॥४१॥

कृष्णस्य भुजवीर्येण ह्रियते नात्र संशयः ।
भविष्यति ततो युद्धं महापुरुषविग्रहम्॥४२॥

ह्रियते कन्येति शेषः। यद्वाऽयमेव ह्रियते कालेनेति शेषः॥४२॥

द्वेषी चैवाभिमानी च कुतो जीवति मे सुतः ।
जीवितं नात्र पश्यामि मम पुत्रस्य केशवात्॥४३॥

कन्याहेतोः सुतं ज्येष्ठं पितॄणां नन्दिवर्द्धनम् ।
कारयिष्ये कथं युद्धं पुत्रेण सह केशवम्॥४४॥

ज्येष्ठं सुतं केशवेन सह केशवं च पुत्रेण सह कथं युद्धं कारयिष्ये इति योज्यम्॥४४॥

न च नारायणं देवं वरमिच्छति रुक्मवान् ।
मूढभावो मदोन्मत्तः सङ्ग्रामेष्वनिवर्तकः ।
नियतं भस्मसाद्याति तूलराशिर्यथानलाट्॥४५॥

रुक्मवान् रुक्मी॥४५॥

करवीरेश्वरः शूरः शृगालश्चित्रयोधिना ।
क्षणेन भस्मसान्नीतः केशवेन बलीयसा॥४६॥

वृन्दावनेऽवसच्छ्रीमान्केशवो बलिनां वरः ।
उद्धृत्यैकेन हस्तेन सप्ताहं धृतवान्गिरिम्॥४७॥

दुष्करं कर्म संस्मृत्य मनः सीदति मे भृशम्॥४८॥

नगेन्द्रे सहसाऽऽगम्य देवतैः सह वृत्रहा ।
अभिषिच्याब्रवीत्कृष्णमुपेन्द्रेति शचीपतिः॥४९॥

यथा वै दमिनो नागः कालियो यमुनाह्रदे ।
विषाग्निज्वालितो घोरः कालान्तकसमप्रभः॥५०॥

केशी चापि महावीर्यो दानवो हयविग्रहः ।
निहतो वासुदेवेन देवैरपि दुरासदः॥५१॥

सन्दीपनिसुतश्चैव चिरनष्टो हि सागरे ।
दैत्यं पञ्चजनं हत्वा आनीतो यममन्दिरात्॥५२॥

गोमन्ते सुमहद्युद्धं बहुभिर्वेष्टितावुभौ ।
कृत्वा वित्रासजननं नागाश्वरथसङ्क्षयम्॥५३॥

गजेन गजवृन्दानि रथेन रथयोधिनः ।
सादिनश्चाश्वयोधेन नरेण च पदातिनः ।
जघ्नतुस्तौ महावीर्यौ वसुदेवसुतावुभौ॥५४॥

न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न नागा न च दैत्येन्द्रा न पिशाचा न गुह्यकाः॥५५॥

कृतवन्तस्तथा घोरं गजाश्वरथसङ्क्षयम् ।
तमनुस्मृत्य सङ्ग्रामं भृशं सीदति मे मनः॥५६॥

न मया श्रुतपूर्वो वा दृष्टपूर्वः कुतोऽपि वा ।
तादृशो भुवि मर्त्योऽन्यो वासुदेवात्सुरोत्तमात्॥५७॥

सम्यगाह महाबाहुर्दन्तवक्त्रो महीपतिः ।
सान्त्वयित्वा महावीर्यं संविधास्याम यत्क्षमम्॥५८॥

महावीर्यं श्रीकृष्णम्॥५८॥

वैशम्पायन उवाच। इति सञ्चिन्त्य मनसा बलाबलविनिश्चयम् ।
गमनाय मतिं चक्रे प्रसादयितुमच्युतम्॥५९॥

चिन्तयानो नरेन्द्रस्तु बहुभिर्नयशालिभिः ।
सूतमागधबन्दिभ्यो बोधितः स्तुतिमङ्गलैः॥६०॥

नरेन्द्रो भीष्मकः॥६०॥

प्रभातायां रजन्यां तु कृतपूर्वाह्निकक्रियाः ।
उपविष्टा नृपाः सर्वे स्वेषु विश्रामवेश्मसु॥६१॥

ये विसृष्टास्तु राजानो विदर्भायां नराधिपैः ।
तैरागम्य स्वभूपेषु रहो गत्वा निवेदितम्॥६२॥

श्रुत्वा कृष्णाभिषेकं तु केचिद्धृष्टा नराधिपाः ।
केचिद्दीनतरा भीता उदासीनास्तथा परे॥६३॥

त्रिधा प्रभिन्ना सा सेना नरनागाश्वमालिनी ।
महार्णव इव क्षुब्धा अभिषेकेण चालिता॥६४॥

सेना नृपमण्डली॥६४॥

नृपाणां भेदमालोक्य भीष्मको राजसत्तमः ।
व्यतिक्रममचिन्त्यं च कृतं नृपतिना स्वयम्॥६५॥

व्यतिक्रमं राज्ञोऽनादृत्य सङ्करम्॥६५॥

विचिन्त्य मनसा राजा दह्यमानेन चेतसा ।
जगाम नरदेवानां समाजे प्रतिबोधितुम्॥६६॥

एतस्मिन्नन्तरे दूताः सम्प्राप्ताः क्रथकैशिकौ ।
लेखमुद्धृत्य शिरसा विविशुस्ते नृपार्णवम्॥६७॥

दूताः इन्द्रस्येति शेषः। लेखं राजेन्द्रत्वे सर्वैः कृष्णोऽभिषिच्यतामित्येवंरूपम् उद्धृत्य क्रथकैशिकौ समर्पितवन्त इति शेषः॥६७॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे एकोनपञ्चाशत्तमोऽध्यायः॥४९॥
भीष्मकसंसदि कृष्णेना

जनमेजय उवाच। हत्वा कंसं महावीर्यं देवैरपि दुरासदम् ।
नाभिषिक्तः स्वयं राज्ये नोपविष्टो नृपासने॥१॥

अथ पञ्चाशत्तमे तु कृष्णेनाश्वासनं कृतम्। नृपाणां समवेतानां कुण्डिने भीष्मसंसदि॥१॥ हत्वेति॥१॥

कन्यार्थे चागतः कृष्णस्तत्रापि न कृतोऽतिथिः ।
अमानमतुलं प्राप्य क्षान्तवान्केन हेतुना॥२॥

अतिथिर्न कृतः आतिथ्येन नार्चितः अमानम् अपमानम्॥२॥

विनतायाः सुतश्चैव महाबलपराक्रमः ।
स चापि क्षमया युक्तः कारणं किमपेक्षितः ।
एतदाख्याहि भगवन्परं कौतूहलं हि मे॥३॥

कारणं निमित्तम् अपेक्षितः आश्रितः॥३॥

वैशम्पायन उवाच। विदर्भनगरीं प्राप्ते वैनतेये सहाच्युते ।
मनसा चिन्तयामास वासुदेवाय कैशिकः॥४॥

क्षमामूलं क्रथकैशिकयोः कृपेत्याह- विदर्भेति॥४॥

दृष्ट्वाऽऽश्चर्यं हि नः सर्वान् राजन्यान्प्रवदाम्यहम् ।
वसुदेवसुते दृष्टे ध्रुवं पापक्षयो भवेत्॥५॥

दृष्ट्वेति। आश्चर्यं कृष्णाभिषेकं नोऽस्माकं पापक्षय इति॥५॥

विशुद्धभावः कृष्णस्य आवयोर्दृष्टतत्त्वतः ।
अतः पात्रतरः कोऽन्यस्त्रिषु लोकेषु विद्यते॥६॥

सर्वान् विशुद्धभाव आविशेदिति चाध्याहृत्य योज्यम्। क्रथकैशिकयोः दृष्टतत्त्वतः दृष्टतत्त्वात्। कृष्णस्य तत्त्वमावाभ्यां दृष्टमस्तीत्यर्थः॥६॥

कृष्णात्कमलपत्राक्षाद्देवदेवाज्जनार्दनात् ।
तस्यावां किं प्रदास्याव आतिथ्यकरणे नृप॥७॥

पात्रमासाद्य वै राजन्यथा धर्मो न लुप्यते ।
एवमन्योन्यं सञ्चिन्त्य भ्रातरौ क्रथकैशिकौ॥८॥

स्वं राज्यं दातुकामौ तु जग्मतुः केशवान्तिकम् ।
देवमासाद्य तौ वीरौ विदर्भनगराधिपौ॥९॥

ऊचतुस्तौ महाभागौ प्रणम्य शिरसा हरिम् ।
अद्यावां सफलं जन्म अद्यावां सफलं यशः ।
अद्यावां पितरस्तृप्ता देवे चावां गृहागते॥१०॥

चामरं व्यजनं छत्रं ध्वजं सिंहासनं बलम् ।
स्फीतकोशा पुरी चेयमावाभ्यां सुहिता तव॥११॥

उपेन्द्रस्त्वं महाबाहो देवेन्द्रेणाभिषिक्तवान् ।
आवामिह हि राज्ये त्वामभिषिक्तं ददामि ते॥१२॥

आवाम् आवयोः॥१०॥ सुहिता सुपुष्टा तव त्वदीयैवेत्यर्थः॥११॥ अभिषिक्तम् अभिषेकस्तद्वान् ददामि दद्वः॥१२॥

आवयोर्यत्कृतं कार्यं बहुभिः पार्थिवैरपि ।
न शक्यतेऽन्यथा कर्तुं जरासन्धेन वा स्वयम्॥१३॥

आवयोः आवाभ्यां जरासन्धोऽपि नान्यथा कर्तुं शक्नोतीति विपरिणामेन योज्यम्॥१३॥

शत्रुस्ते मागधो राजा जरासन्धो महाद्युतिः ।
कथां ते ब्रुवते नित्यं नृपाणामभयप्रदः॥१४॥

सिंहासनमनध्यास्यं पुरं चास्य न विद्यते ।
कथं राजसमाजेऽस्मिन्नास्यते देवकीसुतः॥१५॥

अनध्यास्यम् अध्यासितुं योग्यं नास्ति॥१५॥

कृष्णोऽपि सुमहावीर्यो ह्यभिमानी महाद्युतिः ।
न चागमिष्यते वास्मिन्कन्यार्थे च स्वयंवरे॥१६॥

पार्थिवेषूपविष्टेषु स्वेषु सिंहासनेषु वै ।
कथमास्यति नीचेषु आसनेषु महाद्युतिः॥१७॥

आस्यति आसिष्यति उपवेक्ष्यतीति यावत्॥१७॥

इति सञ्चिन्त्यमानस्तु श्रुत्वासौ भीष्मको नृपः ।
आवयोः सह संमन्त्र्य विग्रहोपशमार्थिना॥१८॥

तव विश्रामहेतोर्हि कारितेदं गृहोत्तमम् ।
देवानामादिदेवोऽसि सर्वलोकनमस्कृतः॥१९॥

कारितं विभक्तिलोप आर्षः॥१९॥

मानुष्ये मर्त्यलोकेऽस्मिन्राजेन्द्रत्वं समाचर ।
समाजे मनुजेन्द्राणां मा भूदासनसङ्कटम्॥२०॥

न केवलं राजत्वमपि किं तु राजेन्द्रत्वम्। आसनसङ्कटम् उपवेशने संशयः अराजा। कथमुच्चतममासनमारोक्ष्यतीत्येवंरूपः॥२०॥

विदर्भनगरे चैषां राजेन्द्रत्वं विचेष्टय ।
आस्यतामासने शुभ्रे श्वः प्रभाते महाद्युते॥२१॥

एषां जरासन्धादीनां विचेष्टय विचालय॥२१॥

अधिवास्याद्य चात्मानं विधिदृष्टेन कर्मणा ।
यथा गमिष्यन्ति नृपाः करिष्ये देवशासनात्॥२२॥

अधिवास्य पूर्वाङ्गेण संस्कारेण संयोज्य देवशासनात् पूर्वाध्यायान्ते उक्तात् इन्द्राज्ञापनात् आगमिष्यन्ति अभिषेकार्थमिति शेषः॥२२॥

एवमुक्त्वा सुरश्रेष्ठं प्रणिपत्य कृताञ्जली ।
प्रेषयामासतुर्वीरौ रङ्गमध्ये नृपैर्वृते॥२३॥

प्रेषयामासतुः देवशासनमिति विपरिणामेणानुषङ्गः॥२३॥

एवं दूतस्य वचनं यथोक्तं वज्रपाणिना ।
लिखित्वा सुमहातेजाः कैशिकः प्राह शासनम् ॥२४॥

कैशिक उवाच। विदितं वो नृपाः सर्वे वैनतेयसहाच्युतः ।
आगतोऽतिथिरूपेण विदर्भनगरीं हरिः॥२५॥

तदनुसारी स्वकृतं तावदाह- विदितमिति॥२५॥

प्राप्तमालोक्य पात्रोऽयमिति सञ्चिन्त्य भूपतिः ।
प्रददौ वासुदेवाय स्वं राज्यं धर्महेतुना॥२६॥

भूपतिः क्रथः॥२६॥

इदमासनमास्वेति भ्रात्रा मे चोदिते ततः ।
वागुक्ता चाशरीरेण केनापि व्योमचारिणा॥२७॥

देवदूत उवाच। न युक्तमासनं दातुं त्वयाऽऽसीनं नराधिप ।
इदमस्यासनं दिव्यं सर्वरत्नविभूषितम्॥२८॥

देवदूतस्य वाक्यमाह- देवदूत उवाचेत्यादिना॥२८॥

जाम्बूनदमयं शुभ्रं रचितं विश्वकर्मणा ।
प्रेषितं देवराजेन सिंहलक्षणलक्षितम्॥२९॥

अत्रोपविष्टं देवेशं चराचरनमस्कृतम् ।
अभिषिञ्चन्तु राजेन्द्रं बहुभिः पार्थिवैः सह॥३०॥

अभिषिञ्चन्तु पट्टाभिषेकेण योजयन्तु॥३०॥

आगताः कुण्डिनगरे कन्याहेतोर्नराधिपाः ।
नागमिष्यति यः कश्चित्सोऽस्य वध्यो भविष्यति॥३१॥

अस्य इन्द्रस्य॥३१॥

इमे चैवाष्टकलशा निधीनामंशसम्भवाः ।
अक्षया राजराजस्य धनेशस्य महात्मनः॥३२॥

दिव्याः काञ्चनरत्नाढ्या दिव्याभरणयोनयः ।
राजेन्द्रस्याभिषेकार्थमागच्छन्ति नृपैर्वृताः॥३३॥

दिव्याभरणा दिव्ययोनयो दिव्यासनाः॥३३॥

एष शक्रस्य सन्देशः कथितो वो नराधिपाः ।
लेखेनाहूय तान्सर्वानभिषिञ्चन्तु केशवम्॥३४॥

कैशिक उवाच। इति सञ्चोद्य खस्थोऽसौ देवदूतो गतो दिवम् ।
दत्त्वाऽऽसनं च कृष्णाय बालार्कसदृशप्रभम्॥३५॥

तेनाहं नोदयिष्यामि भवद्भिर्ये समागताः ।
दुर्निवार्यतरं घोरं शक्रस्य स्वयमीरितम्॥३६॥

ये समागतास्तैर्भवद्भिः शक्रस्य दूतेरितं दुर्निवार्यतरमित्यन्वयः॥३६॥

युष्माभिर्दर्शने युक्तमद्भुतं भुवि दुर्लभम् ।
कलशैरभिषिञ्चन्तं स्वयमेव नभस्तलात्॥३७॥

अभिषिञ्चन्तम् अभिषिच्यमानं कृष्णं युष्माभिर्दर्शने युष्मत्कर्तृके दर्शने युक्तं प्रेक्ष्यतमं मन्यामहे इति शेषः॥३७॥

दृष्ट्वाऽऽश्चर्यं हि नः सर्वा ध्रुवं पापक्षयो भवेत् ।
स्नापनार्थं च कृष्णाय देवदेवाय विष्णवे॥३८॥

दृष्ट्वेति प्राग्व्याख्यातम्॥३८॥

आगच्छध्वं नृपश्रेष्ठा न भयं कर्तुमर्हथ ।
आवयोः कृतसन्धानो युष्मदर्थे जनार्दनः॥३९॥

सर्वेषां मनुजेन्द्राणामभयं कुरुते हरिः ।
विशुद्द्धभावः कृष्णस्तु आवयोर्दृष्टतत्त्वतः॥४०॥

मागधस्य विशेषेण न वैरं हृदि दृश्यते ।
यदत्र कारणं कार्यं तद्भवद्भिर्विचिन्त्यताम्॥४१॥

वैशम्पायन उवाच। एवं सञ्चिन्तयामासुर्नृपाः शापभयार्दिताः ।
भूयः शुश्रुवु राजेन्द्राः केशवाय महत्मने॥४२॥

शुश्रुवुः अत्र दीर्घाभाव आर्षः॥४२॥

मेघगम्भीरनादेन स्वरेणापूरयन्नभः ।
वागुवाचाशरीरेण देवराजस्य शासनात्॥४३॥

अशरीरेण अदृश्येन प्रयुक्ता॥४३॥

चित्राङ्गद उवाच। त्रैलोक्याधिपतिः शक्रः प्रजापालनहेतुना ।
आज्ञापयति युष्माकं नृपाणां हितकाम्यया॥४४॥

न युक्तं वसतान्योन्यं कृष्णेन सह वैरिणा ।
वसध्वं प्रीतिमुत्पाद्य स्वराष्ट्रेषु नृपोत्तमाः॥४५॥

वैरिणा कृष्णेन सह यत् वसत तत् वोऽन्योन्यं न युक्तमिति योजना॥४५॥

प्रणतार्तिहरः कृष्णः प्रतिसेनान्तकोऽनलः ।
अनेन सह सम्प्रीत्या मोदध्वं विगतज्वराः॥४६॥

मानुषाणां नृपा देवा नृपाणां देवताः सुराः ।
सुराणां देवता शक्रः शक्रस्यापि जनार्दनः॥४७॥

एष विष्णुः प्रभुर्देवो देवानामपि दैवतम् ।
जातोऽयं मानुषे लोके नररूपेण केशवः॥४८॥

अजेयः सर्वलोकेषु देवदानवमानवैः ।
कार्तिकेयसहायस्य अपि शूलभृतः स्वयम्॥४९॥

कार्तिकेयेत्यत्र तृतीयालोप आर्षः। स्वयं जेतुं न शक्त इति शेषः॥४९॥

तस्मै देवाधिदेवाय केशवाय महात्मने ।
अभिषेक्तुं सुरैः सार्धं किमिच्छेयमतः परम्॥५०॥

अभिषेक्तुम् इच्छेयमित्यपकृष्य योज्यम्॥५०॥

न चाधिकारो देवानां राजेन्द्रस्याभिषेचने ।
तेनाहं नाभिषिञ्चामि सर्वलोकनमस्कृतम् ।
नृपाणामधिकारोऽयं राजेन्द्रस्य निवेशने॥५१॥

गत्वा यूयं विदर्भायां क्रथकैशिकयोः सह ।
सञ्चिन्त्य विधिदृष्टेन कुरुध्वं नृपसत्तमाः॥५२॥

प्रीतिसन्धानकालोऽयमिति सञ्चिन्त्य वासवः ।
बोधनार्थं विसृष्टोऽहं युष्माकं मनुजेश्वराः॥५३॥

विदर्भनगरे कृष्णः श्रावितोऽस्याधिवासनम् ।
राजेन्द्रत्वाभिषेकार्थं राजानौ क्रथकैशिकौ ।
ताभ्यां सह नृपश्रेष्ठाः कृत्वा सुमहदुत्सवम्॥५४॥

अभिषेकेण सत्कृत्य प्रतिगृह्यास्य दक्षिणाम् ।
आगमिष्यथ संहृष्टाः पुनरेव स्वयंवरम्॥५५॥

जरासन्धः सुनीथश्च रुक्मी चैव महारथः ।
शाल्वः सौभपतिश्चैव चत्वारो राजसत्तमाः ।
रङ्गस्याशून्यहेतोर्हि तिष्ठन्तु इह पार्थिवाः॥५६॥

वसूनामयं वासवो देवानां दूतोऽस्मीत्यर्थः॥५३॥ तिष्ठन्तु चत्वारः कृष्णद्वेषिणः इत्याशयः॥५६॥

वैशम्पायन उवाच। एवमाज्ञां सुरेशस्य श्रुत्वा चित्राङ्गदेरिताम् ।
गमनाय मतिं चक्रुः सर्व एव नृपोत्तमाः॥५७॥

अनुज्ञाता नरेन्द्रेण जरासन्धेन धीमता ।
भीष्मकं पुरतः कृत्वा प्रयाताः स्वबलैर्वृताः॥५८॥

भीष्मकश्च महाबाहुः स्वबलेन समन्वितः ।
जगाम पार्थिवैः सार्धं दह्यमानेन चेतसा॥५९॥

दह्यमानेन पुत्रदोषादित्याशयः॥५९॥

यत्र कृष्णो महाबाहुः कैशिकस्य निवेशने ।
दूरादेव प्रकाशन्ती पताकाध्वजमालिनी॥६०॥

शुभा देवसभा रम्या स्नानहेतोरिहागता ।
दिव्यरत्नप्रभाकीर्णा दिव्यध्वजसमाकुला॥६१॥

स्नानहेतोः पट्टाभिषेकार्थम्॥६१॥

दिव्याम्बरपताकाढ्या दिव्याभरणभूषिता ।
दिव्यस्रग्दामकलिला दिव्यगन्धादिवासिता॥६२॥

विमानयानैः श्रीमद्भिः समन्तात्परिवारिता ।
दिव्याप्सरोगणाश्चैव विद्याधरगणास्तथा॥६३॥

गन्धर्वा मुनयश्चैव किन्नराश्च समन्ततः ।
उपगायन्ति देवेशमम्बरान्तरमाश्रिताः॥६४॥

स्तुवन्ति मुनयश्चैव सिद्धाश्च परमर्षयः ।
देवदुन्दुभयश्चैव स्वयमेवानदन्दिवि॥६५॥

पञ्चयोनिसमुत्थानि गन्धचूर्णान्यनेकशः ।
समन्तात्पात्यमानानि चाकाशस्थैर्दिवौकसैः॥६६॥

पञ्चयोनिसमुत्थानि मूलत्वक्पत्रपुष्पफलानि योनयः कारणानि तेभ्यः समुत्थानि पञ्च मन्दारपारिजातकसन्तानकल्पवृक्षहरिचन्दनाख्या देवतरव एव योनयस्तेभ्यः समुत्थानि॥६६॥

स्वयमागत्य देवेन्द्रो देवैः सह शचीपतिः ।
विमानवरमारुह्य सप्रकाशः स्थितोऽम्बरे॥६७॥

अष्टौ ये लोकपालास्ते स्वासु दिक्षु समास्थिताः ।
उपगायन्ति नृत्यन्ति स्तुवन्ति च समन्ततः॥६८॥

श्रुत्वा सतुमुलं नादं सर्व एव नराधिपाः ।
विस्मयोत्फुल्लनयना विविशुस्ते सभां शुभाम्॥६९॥

कैशिकश्च महाबाहुरुपगम्य नराधिपान् ।
प्रवेशयामास बली प्रतिपूज्य यथाविधि॥७०॥

निवेदिते सुरश्रेष्ठे पार्थिवानां समागमे ।
निर्जगाम हरिः श्रीमान्सर्वमङ्गलपूजितः॥७१॥

सुरश्रेष्ठे कृष्णे॥७१॥

ततोऽम्बरस्थास्ते दिव्याः कलशाश्चैलकण्ठिनः ।
सहकारसमायुक्ता ववर्षुर्जलदा इव॥७२॥

दिव्यकाञ्चनरत्नौघैर्दिव्यपुष्पसमन्वितैः ।
गन्धचूर्णविमिश्रैश्च राजेन्द्रस्याभिषेचने॥७३॥

यथोक्तविधिपूर्वेण अभिषिच्य जनार्दनम् ।
दर्शयित्वा नरेन्द्राणां दिव्यैरावरणैः शुभैः॥७४॥

दर्शयित्वा दर्शनीयं कृत्वाऽलङ्कृत्येत्यर्थः॥७४॥

दिव्याम्बरविचित्रैश्च दिव्यमाल्यानुलेपनैः ।
सत्कृत्य विधिवद्राज्ञ उपविष्टो जनार्दनः॥७५॥

राज्ञ आगतान् सत्कृत्य मानयित्वा तेषामाज्ञां गृहीत्वेत्यर्थः॥७५॥

शुभे देवसभे रम्ये स्नानहेतोरिहागते ।
उपास्यमानो यदुभिर्विदर्भैश्च नराधिपैः॥७६॥

देवसभे सिंहासने उपविष्टः॥७६॥

वैनतेयश्च बलवान्कामरूपी नराकृतिः ।
दक्षिणं पार्श्वमाश्रित्य आसनस्थो महाबलः॥७७॥

क्रथश्च कैशिको वीरो वामपार्श्वे तथासने ।
उपविष्टौ महात्मानौ देवस्यानुमते नृपौ॥७८॥

तथैव वामपार्श्वे तु वृष्ण्यन्धकमहारथाः ।
सात्यकिप्रमुखा वीरा उपविष्टा महाबलाः॥७९॥

भास्करप्रतिमे दिव्ये दिव्यास्तरणविस्तृते ।
सुखोपविष्टं श्रीमन्तं देवैरिव शचीपतिम्॥८०॥

सचिवैः श्राविताः सर्वे प्रविष्टास्ते नराधिपाः ।
यथार्हेण च सम्पूज्य राजानः सर्व एव ते॥८१॥

सुखोपविष्टास्ते स्वेषु आसनेषु नराधिपाः ।
कैशिकस्तु महाप्राज्ञः सर्वशास्त्रार्थवित्तमः॥८२॥

पूजयित्वा यथान्यायमुवाच वदतां वरः ।
कैशिक उवाच। अविज्ञाता नृपाः सर्वे मानुषोऽयमिति प्रभा॥८३॥

अविज्ञाताः ज्ञानहीनाः॥८३॥

भवन्तमुपरुद्धानां देव त्वं क्षन्तुमर्हसि ।
श्रीकृष्ण उवाच। न मे वैरं प्रवसति एकाहमपि कैशिक॥८४॥

विशेषेण नरेन्द्राणां क्षत्रधर्मेऽवतिष्ठताम् ।
योद्धव्यमिति धर्मेण अधर्मे तु पराङ्मुखे॥८५॥

तेषां किंहेतुना कोपः कर्तव्यस्त्ववनीश्वराः ।
यद्गतं तदतिक्रान्तं ये मृतास्ते दिवं गताः॥८६॥

एष धर्मो नृलोकेऽस्मिञ्जायन्ते च म्रियन्ति च ।
तस्मादशोच्यं भवतां मृतार्थे च नराधिपाः ।
क्षन्तव्यं रोचतेऽस्माकं वीतवैरा भवन्तु ते॥८७॥

वैशम्पायन उवाच। एवमुक्त्वा नरेन्द्रांस्तानाश्वास्य मधुसूदनः ।
कैशिकस्य मुखं वीक्ष्य विरराम महाद्युतिः॥८८॥

एतस्मिन्नेव काले तु भीष्मको नयकोविदः ।
पूजयित्वा यथान्यायमुवाच वदतां वरः॥८९॥

उपरुद्धानाम् अपराधवतां भवन्तमुद्दिश्य॥८९॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे पञ्चाशत्तमोऽध्यायः॥५०॥
कृष्णभीष्मकसंवादः-०५१

भीष्मक उवाच। पुत्रो मे बालभावेन भगिनीं दातुमिच्छति ।
स्वयंवरे नरेन्द्राणां न चाहं दातुमुत्सहे॥१॥

एकपञ्चाशत्तमेऽथ कृष्णभीष्मकयोरिह। उक्तिप्रत्युक्तितः प्रोक्ता क्रथकैशिकसत्क्रिया॥१॥ पुत्रो मे इति॥१॥

अतीव बालभावत्वाद्दातुमिच्छेन्मतिर्मम ।
एका ह्येकं समालोक्य वरयिष्यति मे मतिः॥२॥

मम मतिस्तु स्वयंवरे दानमतीव बाल्यम् एका एकं वृणीतेति युक्तमित्यर्थः॥२॥

अतः प्रसादयिष्ये त्वां पुत्रदुर्नयहेतुना ।
प्रसादं कुरु देवेश क्षन्तुमर्हसि मे प्रभो॥३॥

अथापि मम मतं न प्रसिद्ध्यतीत्याशयेनाह- अत इति॥३॥

श्रीकृष्ण उवाच। बालभावेन पुत्रेण चालितं नृपमण्डलम् ।
यदा भवति वै प्रौढः कीदृशोऽविनयो भवेत्॥४॥

चालितम् चालितवान्। कर्तरि क्तः। अविनय इति च्छेदः॥४॥

सूर्येन्दुसदृशाल्लोकांस्तपसोपार्जितश्रियः ।
लोकेऽस्मिन्नरदेवानां महाकुलसमुद्भवान्॥५॥

यो वितथं वदेत् स स्वान् लोकान् दण्डवह्निना यमयातनाग्निना निर्दहेदिति द्वयोः सम्बन्धः। कीदृशान् लोकान् सूर्येन्दुवत्प्रकाशमानान् महाकुलोत्पन्नत्वेन विश्वजिदादिक्रतुभवान् यतो दहेदतस्तेषां लोकानां मध्येऽस्मिन्नेकस्मिन्नेकस्मिन्नपि लोके न तिष्ठति सर्वेषां दग्धत्वादित्यर्थः॥५॥

एकस्यापि नृपस्याग्रे मोहाद्यो वितथं वदेत् ।
न स तिष्ठति लोकेऽस्मिन्निर्दहेद्दण्डवह्निना॥६॥

एष धर्मो नरेन्द्राणामिति ते विदितं प्रभो ।
लोकधर्मं पुरस्कृत्य पुरा गीतं स्वयम्भुवा॥७॥

कथं तव सुतस्तेषामग्रतो मनुजेश्वरः ।
वक्तुमर्हति राजेन्द्र वितथं राजसंसदि॥८॥

तादृशं रङ्गमतुलं कारयंस्तनयस्तव ।
कथं त्वया ह्यविज्ञात इति मे संशयो महान्॥९॥

आस्तां तावत् पुत्रवार्ता त्वमपि मिथ्यैव ब्रवीषीत्याह- तादृशमिति॥९॥

आगतानां नरेन्द्राणामनलार्केन्दुवर्चसाम् ।
यथार्हेण तु सम्पूज्य आतिथ्यं कृतवानसि॥१०॥

रथाश्वनरनागानां विमर्दमतुलं तथा ।
कथं न ज्ञातवान्राजंस्तव पुत्रस्य चेष्टितम्॥११॥

विषादो न भवेदत्र चतुरङ्गबलागमे ।
कथं न ज्ञायते राजन्निति मे बुद्धिसंशयः॥१२॥

ममागमनमेवेह प्रायेण न हितं तव ।
अतो न कृतमातिथ्यमपात्राय नरेश्वर॥१३॥

पात्रेभ्यो दीयतां कन्या मामपास्य नरेश्वर ।
ममागमनदोषेण कथं कन्यां न दास्यसे॥१४॥

कन्याविघ्नं च कुर्वाणो नरके परिपच्यते ।
इति धर्मविदैर्गीतं मन्वादिभिर्नरोत्तमैः॥१५॥

अतोऽर्थं न प्रविष्टोऽहं रङ्गमध्ये विशाम्पते ।
विदित्वा न कृतातिथ्यं नरदेव तवालयम्॥१६॥

नकृतातिथ्यमिति समस्तं पदम्। आतिथ्यहीनं तवालयं विदित्वेत्यर्थः॥१६॥

ह्रियाभिभूतो राजेन्द्र पार्थिवोऽहं नराधिप ।
विदर्भनगरे राजन्बलविश्रामहेतुना॥१७॥

हे नराधिप राजेन्द्राणां पार्थिवोऽप्यहं ह्रियाभिभूतोऽस्मि। तत्र हेतुर्विदर्भेति। यद्यत्र विश्रामो न कृतः स्यात्तदानर्चानिमित्तो ममाभिभवो न जातः स्यादिति भावः॥१७॥

आवाभ्यां कृतमातिथ्यं कैशिकस्तु प्रियातिथिः ।
उषितौ च यथा स्वर्गे पुरा गरुडकेशवौ॥१८॥

एवमप्यावाभ्यां कृष्णगरुडाभ्यां कृतं पूर्णम् आतिथ्यं लब्धमेवेति शेषः। तत्र हेतुमाह- कैशिकस्त्विति॥१८॥

वैशम्पायन उवाच। एवमेव ब्रुवाणं तु कृष्णं वाग्वज्रचोदितम् ।
श्लक्ष्णवाचाम्बुनाऽऽसिच्य शमितोग्निरिव ज्वलन्॥१९॥

वाग्वज्रं चोदितं येन तं कृष्णम् आसिच्य स एव शमितः शान्तिं नीतः॥१९॥

भीष्मक उवाच। प्रसीद देवलोकेश पाहि मां लोकशासन ।
अज्ञानतमसाविष्टं ज्ञानचक्षुःप्रदो भव॥२०॥

मानुष्ये मां सचक्षुष्ट्वादसम्यग्विदिता वयम् ।
न प्रसिद्ध्यन्ति कर्माणि क्रियतामविचारणात्॥२१॥

असम्यग्विदिताः विपरीतज्ञानाः क्रियतां कुर्वताम्॥२१॥

भवन्तं शरणं प्राप्य देवानामपि दैवतम् ।
सम्यग्भवतु मे दृष्टिः सम्पश्यन्तु च मे क्रियाः॥२२॥

सम्पश्यन्तु सम्पन्नाः सन्तु॥२२॥

अनिष्पन्नामपि क्रियां नयोपेतां विचक्षणाः ।
फलदां हि प्रकुर्वन्ति महासेनापतिर्यथा॥२३॥

भवन्तं शरणं प्राप्य नाति बाधति मे भयम् ।
यन्मया चिन्तितं कार्यं तद्भवाञ्छ्रोतुमर्हति॥२४॥

बाधति बाधते। मे माम्॥२४॥

न दातुमिच्छे कन्यां वै पार्थिवेभ्यः स्वयंवरे ।
प्रसादं कुरु देवेश न कोपं कर्तुमर्हसि॥२५॥

स्वयंवरणं यत्र क्रियायां तथा स्वयंवरं मे कन्यां दातुं न इच्छेत्पुत्र इति शेषः। स्वयंवरे हि सति त्वामेव सा वृणुयादित्यभिप्रेत्य त्वय्यागते पुत्रो मे स्वयंवरं न इच्छेदित्यर्थः॥२५॥

श्रीकृष्ण उवाच। वचनेन किमुक्तेन त्वया राजन्महामते ।
स्वकन्यां दास्यसे नेति कोऽत्र नेता तवानघ॥२६॥

नेता नियन्ता॥२६॥

मा देहीति न चाख्येयं ददस्वेति न मे वचः ।
रुक्मिण्या दिव्यमूर्तित्वं सम्बन्धे कारणं मम॥२७॥

मे मया मा देहि अन्यस्मै ददस्व मह्यम् इत्युभयमपि नाख्येयम्। सम्बन्धे स्वयम्भाविनि क्षमैवास्माकं करणं प्रधानमित्यर्थः॥२७॥

मेरुकूटे पुरा देवैः कृतमंशावतारणम् ।
तदा निसृष्टा सा पूर्वं गच्छ त्वं पतिना सह॥२८॥

एतदेवाह- मेरुकूट इत्यादिना। कृतं स्वीकृतं निसृष्टा आज्ञप्ता श्रीपतिना विष्णुना॥२८॥

मानुष्ये कुण्डिनगरे भीष्मकस्याङ्गनोदरे ।
जायस्व विपुलश्रोणि प्रत्यवेक्ष्य च वासवम्॥२९॥

प्रत्यवेक्ष्य अनुकम्प्य वासवम् इन्द्रम्॥२९॥

तेनाहं वः प्रवक्ष्यामि राजन्नकृतकं वचः ।
श्रुत्वा स्वयं विनिश्चित्य यदुक्तं तत्करिष्यति॥३०॥

रुक्मिणी नाम ते कन्या न सा प्राकृतमानुषी ।
श्रीरेषा ब्रह्मवाक्येन जाता केनापि हेतुना॥३१॥

न च सा मानुजेन्द्राणां स्वयंवरविधिक्षमा ।
एका त्वेकाय दातव्या इति धर्मो व्यवस्थितः॥३२॥

एकाय एकस्मै॥३२॥

न च तां शक्यसे राजँल्लक्ष्मीं दातुं स्वयंवरे ।
सदृशं वरमालोक्य दातुमर्हसि धर्मतः॥३३॥

अतोऽर्थं वैनतेयोऽयं विघ्नकारणहेतुना ।
आगतः कुण्डिनगरे देवराजेन चोदितः॥३४॥

अहं चैवागतो राज्ञां द्रष्टुकामो महोत्सवम् ।
तां च कन्यां वरारोहां पद्मेन रहितां श्रियम्॥३५॥

क्षन्तव्यमिति यत्प्रोक्तं त्वया राजन्ममाग्रतः ।
युक्तिपूर्वमहं मन्ये कलुषाय न पार्थिव॥३६॥

पूर्वमेव मयाऽऽख्यातं येनास्मि विषये तव ।
आगतः सौम्यरूपेण तेनैव क्षान्तवान् विभो॥३७॥

क्षान्तेषु गुणबाहुल्यं दोषापहरणं क्षमा ।
कथमस्मद्विधे राजन्कलुषो वसते हृदि॥३८॥

अस्मद्विधे अस्मद्विधस्य हृदि॥३८॥

कुलजे सत्त्वसम्पन्ने धर्मज्ञे सत्यवादिनि ।
भवादृशे कथं राजन्कलुषो भुवि वर्तते॥३९॥

क्षन्तोऽयमिति मन्तव्यं मम सेनासहागतम् ।
न चाहं सेनया सार्धं यास्यामि रिपुवाहिनीम्॥४०॥

अक्षान्तश्चारिसेनायां यास्यामि द्विजवाहने ।
स्थितः सोमार्कसङ्काशान्यायुधानि करैर्वृतः॥४१॥

मान्योऽस्माकं त्वया राजन्वयसा च पिता समः ।
पालयस्व पुरीं सम्यक्क्षत्रेषु पितृवद्वस॥४२॥

कलुषो नाम राजेन्द्र वसेत्कापुरुषेषु वै ।
शूरेषु शुद्धभावेषु कलुषो वसते कथम्॥४३॥

जानीध्वमेषा मे वृत्तिः पुत्रेषु पितृवद्वयम् ।
इमावपि च राजानौ विदर्भनगराधिपौ॥४४॥

एषा निष्कलुषा मे वृत्तिरिति जानीध्वम्॥४४॥

आतिथ्यकरणेऽस्माकं स्वराज्यं ददतावुभौ ।
तेन दानफलेनास्य दशपूर्वा दिवं गताः॥४५॥

भविष्याश्चैव राजानः पुत्रपौत्रा दशावराः ।
तेऽपि तत्रैव यास्यन्ति देवलोकं नराधिपाः॥४६॥

अनयोः सुचिरं कालं भुक्त्वा राज्यमकण्टकम् ।
यदाभिलाषो मोक्षस्य यास्येते निर्वृतिं सुखम्॥४७॥

नरेन्द्राश्च महाभागा येऽभिषेचितुमागताः ।
कालेन तेऽपि यास्यन्ति देवलोकं त्रिविष्टपम्॥४८॥

स्वस्ति वोऽस्तु गमिष्यामि वैनतेयसहायवान् ।
नगरीं मथुरां रम्यां भोजराजेन पालिताम्॥४९॥

वैशम्पायन उवाच। एवमुक्त्वा तु राजानं भीष्मकं यदुनन्दनः ।
राज्ञश्चैवमुपामन्त्र्य वैदर्भाभ्यां विषेषतः ।
सभान्निष्क्रम्य देवेशो जगाम रथमन्तिकम्॥५०॥

वैदर्भाभ्यां क्रथकैशिकाभ्यां सह सभात् सभास्थानात्॥५०॥

ततः प्रहृष्टो राजर्षिर्भीष्मकः किल केशवम् ।
ते सर्वे च महीपाला विषण्णवदनाभवन्॥५१॥

आद्यं स्वायम्भुवं रूपं सुरासुरनमस्कृतम् ।
सहस्रपात्सहस्राक्षं सहस्रभुजविग्रहम्॥५२॥

सहस्रशिरसं देवं सहस्रमुकुटोज्ज्वलम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्॥५३॥

दिव्याभरणसंयुक्तं दिव्यानेकोद्यतायुधम् ।
कृष्णं रक्तारविन्दाक्षं चन्द्रसूर्याग्निलोचनम्॥५४॥

दृष्ट्वा स राजा राजेन्द्रं प्रणिपत्य कृताञ्जलिः ।
वाङ्मनःकायसंयुक्तं स्तोतुमारब्धवांस्तदा॥५५॥

भीष्मक उवाच। देवदेव नमस्तुभ्यमनादिनिधनाय वै ।
शाश्वतायादिदेवाय नारायण परायण॥५६॥

स्वयम्भुवे च विश्वाय स्थाणवे वेधसाय च ।
पद्मनाभाय जटिने दण्डिने पिङ्गलाय च॥५७॥

हंसप्रभाय हंसाय चक्ररूपाय वै नमः ।
वैकुण्ठाय नमस्तस्मै अजाय परमात्मने॥५८॥

सदसद्भावयुक्ताय पुराणपुरुषाय च ।
पुरुषोत्तमाय युक्ताय निर्गुणाय नमोऽस्तु ते॥५९॥

वरदो भव मे नित्यं त्वद्भक्ताय सुरोत्तम ।
लोकनाथोऽसि नाथ त्वं विष्णुस्त्वं विदितात्मनाम्॥६०॥

वैशम्पायन उवाच। एवं स्तुत्वा महादेवं नृपाणामग्रतो नृपः ।
महार्हमणिमुक्ताभिर्वज्रवैडूर्यहासिनम्॥६१॥

शातकुम्भस्य निचयं कृष्णाय प्रददौ नृपः ।
पुनश्चक्रे नमस्कारं वैनतेये महाबले॥६२॥

भीष्मक उवाच। नमस्तस्मै खगेन्द्राय नमो मारुतरंहसे ।
कामरूपाय दिव्याय काश्यपाय च वै नमः॥६३॥

वैशम्पायन उवाच। इति सङ्क्षेपतः स्तुत्वा सत्कृत्य वरभूषणैः ।
ततो विसर्जयामास कृष्णं कमललोचनम्॥६४॥

अनुजग्मुर्नृपाश्चैव प्रस्थितं वासवानुजम् ।
प्रतिगृह्य च सत्कारं नृपानामन्त्र्य वीर्यवान्॥६५॥

जगाम मथुरां कृष्णो द्योतयानो दिशो दश ।
वैनतेयं पुरस्कृत्य सौम्यरूपं खगोत्तमम्॥६६॥

महता रथवृन्देन परिवार्य समन्ततः ।
भेरीपटहनादेन शङ्खदुन्दुभिनिःस्वनैः॥६७॥

बृंहितेन च नागानां हयानां हेषितेन च ।
सिंहनादेन शूराणां रथनेमिस्वनेन च॥६८॥

तुमुलः सुमहानासीन्महामेघरवोपमः ।
गते कृष्णे महावीर्ये आदाय वरमासनम्॥६९॥

सभामादाय देवाश्च प्रययुस्त्रिदशालयम् ।
महता चतुरङ्गेण बलेन परिवारिताः॥७०॥

क्रोशमात्रमुपव्रज्य अनुज्ञाते जनार्दने ।
प्रययुस्ते नृपाः सर्वे पुनरेव स्वयंवरम्॥७१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि कृष्णाभिषेको नामैकपञ्चाशत्तमोऽध्यायः॥५१॥
कालयवनं प्रति शालवगमनम्-०५२

वैशम्पायन उवाच। ततः प्रयाते वसुदेवपुत्रे नराधिपा भूषणभूषिताङ्गाः ।
सभां समाजग्मुर्सुरेन्द्रकल्पाः प्रबोधनार्थं गमनोत्सवास्ते॥१॥

द्विपञ्चाशत्तमेऽध्याये मागधादिप्रचोदितः। शाल्वोऽगाद्यवनेन्द्रं तं कृष्णमानापनुत्तये॥१॥ ततः सभां भीष्मकस्य समाजग्मुर्विसर्गलोप आर्षः॥१॥

सभागतान्सोमरविप्रकाशान् सुखोपविष्टान्रुचिरासनेषु ।
समीक्ष्य राजा सुनयार्थवादी जगाद वाक्यं नरराजसिंहः॥२॥

राजा भीष्मकः॥२॥

स्वयंवरकृतं दोषं विदित्वा वो नराधिपाः ।
क्षन्तव्यो मम वृद्धस्य दुर्दग्धस्य फलोदयम्॥३॥

स्वयंवरे कृष्णविरोधाख्यो दोषो विश्वक्षयकरो भविष्यतीति मत्वा स्वयंवरार्थमाहूतान् नृपान् सान्त्वयति। स्वयमिति शेषः॥३॥

वैशम्पायन उवाच। एवमाभाष्य तान्सर्वान्सत्कृत्य च यथाविधि ।
ततो विसर्जयामास नृपांस्तान्मध्यदेशजान्॥४॥

पूर्वपश्चिमजांश्चैव उत्तरापथिकानपि ।
तेऽपि सर्वे महेष्वासाः प्रहृष्टमनसो नराः॥५॥

यथार्हेण च सम्पूज्य जग्मुस्ते नरपुङ्गवाः ।
जरासन्धः सुनीथश्च दन्तवक्त्रश्च वीर्यवान्॥६॥

शाल्वः सौभपतिश्चैव महाकूर्मश्च पार्थिवः ।
क्रथकैशिकमुख्याश्च नृपाः प्रवरवंशजाः॥७॥

वैणुदारिश्च राजर्षिः काश्मीराधिपतिस्तथा ।
एते चान्ये च बहवो दक्षिणापथिका नृपाः॥८॥

श्रोतुकामा रहो वाक्यं स्थिता वै भीष्मकान्तिके ।
तान्वै समीक्ष्य राजेन्द्रः स राजा भीष्मको बली॥९॥

स्नेहपूर्णेन मनसा स्थितांस्तानवनीश्वरान् ।
त्रिवर्गसहितं श्लक्ष्णं षड्गुणालङ्कृतं शुभम्॥१०॥

उवाच नयसम्पन्नं स्निग्धगम्भीरया गिरा ।
भीष्मक उवाच। भवतामवनीशानां समालोक्य नयान्वितम्॥११॥

वचनं व्याहृतं श्रुत्वा कृतवाङ्कार्यमीदृशम् ।
क्षन्तव्यं भवतां सद्भिर्वयं नित्यापराधिनः॥१२॥

व्याहृतं कृष्णस्तुतिरूपं कृतः कारितः कृतवान्वा॥१२॥

वैशम्पायन उवाच। एवमुक्त्वा तु राजा स भीष्मको नयकोविदः ।
उवाच सुतमुद्दिश्य वचनं राजसंसदि॥१३॥

भीष्मक उवाच। पुत्रस्य चेष्टामालोक्य त्रासाकुलितलोचनः ।
मन्ये बालानिमाँल्लोकान्स एव पुरुषः परः॥१४॥

इमानिति पुत्रं प्रदर्श्याह। एषः कृष्णः॥१४॥

कीर्तिः कीर्तिमतां श्रेष्ठो यशश्च यशभाग्बली ।
स्थापिता भुवि मर्त्येऽस्मिन्स्वबाहुबलमूर्जितम्॥१५॥

यशभाग्यशोभोगी स्थापिता स्थापयिष्यति॥१५॥

धन्या खलु महाभागा देवकी योषितां वरा ।
पुत्रं त्रिभुवनश्रेष्ठं कृत्वा गर्भेण केशवम्॥१६॥

कृष्णं कमलपत्राक्षं श्रीपुञ्जममरार्चितम् ।
नेत्राभ्यां स्नेहपूर्णाभ्यां वीक्षते मुखपङ्कजम्॥१७॥

वैशम्पायन उवाच। एवं लालप्यमानं तु राजानं राजसंसदि ।
उवाच श्लक्ष्णया वाचा शाल्वराजो महाद्युतिः॥१८॥

शाल्व उवाच। अलं खेदेन राजेन्द्र सुताय रिपुमर्दिने ।
क्षत्रियस्य रणे राजन्ध्रुवं जयपराजयौ॥१९॥

नियता गतिर्मर्त्यानामेष धर्मः सनातनः ।
बलकेशवयोरन्यस्तृतीयः कः पुमानिह॥२०॥

गतिः विभक्तिलोप आर्षः॥२०॥

रणे योधयितुं शक्तस्तव पुत्रं महाबलम् ।
रथातिरथवृन्दानामेक एव रणाजिरे॥२१॥

रिपून्वाधयितुं शक्तो धनुर्गृह्य महाभुजः ।
भार्गवास्त्रं महारौद्रं देवैरपि दुरासदम्॥२२॥

सृजतो बाहुवीर्येण कः पुमान्प्रसहिष्यति ।
अयं तु पुरुषः कृष्णो ह्यनादिनिधनोऽव्ययः॥२३॥

तं विजेता नृलोकेऽस्मिन्नापि शूलधरः स्वयम् ।
तव पुत्रो महाराज सर्वशास्त्रार्थतत्त्ववित्॥२४॥

विदित्वा देवमीशानं न योधयति केशवम् ।
अद्य तस्य रणे जेता यवनाधिपतिर्नृप॥२५॥

स कालयवनो नाम अवध्यः केशवस्य ह ।
तप्त्वा सुदारुणं घोरं तपः परमदुश्चरम्॥२६॥

रुद्रमाराधयामास द्वादशाब्दानयोऽशनः ।
पुत्रकामेन मुनिना तोष्य रुद्रात्सुतो वृतः॥२७॥

अयोशनः लोहचूर्णाहारः मुनिना गार्ग्येण॥२७॥

माथुराणामवध्योऽयं भवेदिति च शङ्करात् ।
एवमस्त्विति रुद्रोऽपि प्रददौ मुनये सुतम्॥२८॥

एवं गार्ग्यस्य तनयः श्रीमान्रुद्रवरोद्भवः ।
माथुराणामवध्योऽयं मथुरायां विशेषतः॥२९॥

कृष्णोऽपि बलवानेष माथुरे जातवानयम् ।
स जेष्यति रणे कृष्ण मथुरायां समागतः॥३०॥

मन्यध्वं यदि वा युक्तां नृपा वाचं मयेरिताम् ।
तत्र दूतं विसृजध्वं यवनेन्द्रपुरं प्रति॥३१॥

वैशम्पायन उवाच। श्रुत्वा सौभपतेर्वाक्यं सर्वे ते नृपसत्तमाः ।
कुर्म इत्यब्रुवन्हृष्टा जरासन्धं महाबलम्॥३२॥

स तेषां वचनं श्रुत्वा जरासन्धो महीपतिः ।
बभूव विमना राजन्ब्रह्मणो वचनं स्मरन्॥३३॥

ब्रह्मणो वचनम् अन्योऽस्य मृत्युरस्तीति बलदेवं प्रत्यशरीरवाक्यम्॥३३॥

जरासन्ध उवाच। मां समाश्रित्य पूर्वस्मिन्नृपा नृपभयार्दिताः ।
प्राप्नुवन्तु हृतं राज्यं सभृत्यबलवाहनम्॥३४॥

पूर्वस्मिन् काले॥३४॥

इहाहं चोद्यते भूपैः परसंश्रयहेतुना ।
कन्येव स्वपतिध्वेषादन्यं रतिपरायणा॥३५॥

यथा कन्या स्वपतिमपहाय जारमाश्रयते एवमहं स्वबलमनाश्रित्य परमाश्रयामीत्यर्थः॥३५॥

अहो सुबलवद्दैवमशक्यं विनिवर्तितुम् ।
यदहं कृष्णभीतोऽन्यं संश्रयामि बलाधिकम्॥३६॥

नूनं योगविहीनोऽहं कारयिष्ये पराश्रयम् ।
श्रेयो हि मरणं मह्यं न चान्यं संश्रये नृपाः॥३७॥

योगविहीनः उपायहीनः॥३७॥

कृष्णो वा बलदेवो वा यो वासौ वा नराधिपः ।
हन्तारं प्रतियोत्स्यामि यथा ब्राह्मप्रचोदितः॥३८॥

हन्ता अरमिति च्छेदः॥ ब्राह्मण अशरीरेण वचनेन॥३८॥

एषा मे निश्चिता बुद्धिरेतत्सत्पुरुषव्रतम् ।
अतोऽन्यथा न शक्तोऽहं कर्तुं परसमाश्रयम्॥३९॥

भवतां साधुवृत्तानामाबाधं न करोति सः ।
तेन दूतं प्रदास्यामि नृपाणां रक्षणाय वै॥४०॥

व्योममार्गेण यातव्यं यथा कृष्णो न बाधते ।
गच्छन्तमनुचिन्त्यैवं प्रेषयध्वं नृपोत्तमाः॥४१॥

अयं सौभपतिः श्रीमाननलार्केन्दुविक्रमः ।
रथेनादित्यवर्णेन प्रयाति स्वपुरं बली॥४२॥

यवनेन्द्रो यथाभ्येति नरेन्द्राणां समागमम् ।
वचनं च तथास्माभिर्दूत्ये नः कृष्णविग्रहे॥४३॥

दूत्ये दूतकर्मणि यथाऽस्माभिर्वचनं वक्तव्यं तथाऽयं वदत्वित्यर्थः। नः अस्माकं कृष्णविग्रहे उपस्थिते सति॥४३॥

वैशम्पायन उवाच। पुनरेवाब्रवीद्राजा सौभस्य पतिमूर्जितम् ।
गच्छ सर्वनरेन्द्राणां साहाय्यं कुरु मानद॥४४॥

राजा जरासन्धः॥४४॥

यवनेन्द्रो यथा याति यथा कृष्णं विजेष्यति ।
यथा वयं च तुष्यामस्तथा नीतिर्विधीयताम्॥४५॥

एवं सन्दिश्य सर्वांस्तान्भीष्मकं पूज्य धर्मतः ।
प्रययौ स्वपुरं राजा स्वेन सैन्येन संवृतः॥४६॥

शाल्वोऽपि नृपतिश्रेष्ठस्ताभ्यां सम्पूज्य धर्मतः ।
जगामाकाशमार्गेण रथेनानिलरंहसा॥४७॥

तेऽपि सर्वे महीपाला दक्षिणापथवासिनः ।
अनुव्रज्य जरासन्धं गताः स्वनगरं प्रति॥४८॥

भीष्मकः सह पुत्रेण तावुभौ चिन्त्य दुर्नयम् ।
स्वे गृहे न्यवसद्दीनः कृष्णमेवानुचिन्तयन्॥४९॥

तावुभौ क्रथकैशिकौ दुर्नयं च पुत्रस्यानुचिन्तयन्॥४९॥

विदिता रुक्मिणी साध्वी स्वयंवरनिवर्तनम् ।
कृष्णस्यागमनाद्धेतोर्नृपाणां दोषदर्शनम्॥५०॥

विदिता ज्ञातवती॥५०॥

गत्वा तु सा सखीमध्ये उवाच व्रीडितानना ।
न चान्येषां नरेन्द्राणां पत्नी भवितुमुत्सहे ।
कृष्णात्कमलपत्राक्षात्सत्यमेतद्वचो मम॥५१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे द्विपञ्चाशत्तमोऽध्यायः॥५२॥
कालयवनं प्रति जरासन्धसन्देशः-०५३

वैशम्पायन उवाच। यवनानां बलोदग्रः स कालयवनो नृपः ।
बभूव राजा धर्मेण रक्षिता पुरवासिनाम्॥१॥

त्रिवर्गविदितः प्राज्ञः षड्गुणानुपजीवकः ।
सप्तव्यसनसंमूढो गुणेष्वभिरतः सदा॥२॥

त्रिपञ्चाशत्तमेऽध्याये शाल्व आकाशवर्त्मना। अभ्ययाद्यवनाधीशपुरीं विज्ञप्तिकारणात्॥१॥ “पदः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्।” इत्युक्तत्रिवर्गवेत्ता। षड्गुणान्सन्धिविग्रहयानासनद्वैधीभावाश्रयान्। सप्त व्यसनानि, “द्यूतं मांसं सुरा वेश्या त्रिवर्गेष्वनभिज्ञता”। इत्युक्तानि तेषु संमूढोऽनभिज्ञः॥२॥

श्रुतिमान्धर्मशीलश्च सत्यवादी जितेन्द्रियः ।
साङ्ग्रामिकविधिज्ञश्च दुर्गलाभानुसारणः॥३॥

शूरो ।
प्रतिबलश्चैव मन्त्रिप्रवरसेवकः ।
सुखासीनः सभां रम्यां सचिवैः परिवारितः॥४॥

उपास्यमानो यवनैरात्मविद्भिर्विपश्चितैः ।
विविधाश्च कथा दिव्याः कथ्यमानाः परस्परम्॥५॥

एतस्मिन्नेव काले तु दिव्यगन्धवहोऽनिलः ।
प्रववौ मदनाबोधं चकार सुखशीतलः॥६॥

किंस्विदित्येकमनसः सभायां ये समागताः ।
उत्फुल्लनयनाः सर्वे राजा चैवावलोक्य सः॥७॥

अपश्यन्त रथं दिव्यमायान्तं भास्करोपमम् ।
शातकुम्भमयैः शुभ्रै रथाङ्गैरुपशोभितम्॥८॥

दिव्यरत्नप्रभाकीर्णं दिव्यध्वजपताकिनम् ।
वाहितं दिव्यतुरगैर्मनोमारुतरंहसैः॥९॥

रंहसैर्वेगिभिः॥९॥

चन्द्रभास्करबिम्बानि कृत्वा जाम्बुनदेन तम् ।
रचितं वै विश्वकृता वैयाघ्रवरभूषितम्॥१०॥

वैय्याघ्रवरं व्याघ्रचर्मवरं तेन भूषितं। परिवृतम्॥१०॥

रिपूणां त्रासजननं मित्राणां हर्षवर्धनम् ।
दक्षिणादिगुपायान्तं रथं पररथारुजम्॥११॥

दक्षिणा दक्षिणतः दिशः सकाशात् उपायान्तम्॥११॥

तत्रोपविष्टं श्रीमन्तं सौभस्य पतिमूर्जितम् ।
दृष्ट्वा परमसंहृष्टश्चार्घ्यं पाद्येति चासकृत्॥१२॥

अर्घ्यं पाद्यं चासकृत् उवाच। विभक्तिलोप आर्षः॥१२॥

उवाच यवनेन्द्रस्य मन्त्री मन्त्रविदां वरः ।
तत्रोत्थाय महाबाहुः स्वयमेव नृपासनात्॥१३॥

प्रत्युद्गम्यार्घ्यमादाय रथावतरणे स्थितः ।
शाल्वोऽपि च महातेजा दृष्ट्वा राजानमागतम्॥१४॥

मुदा परमया युक्तं शक्रप्रतिमतेजसम् ।
अवतीर्य सुविश्रब्ध एक एव रथोत्तमात्॥१५॥

विवेश परमं प्रीतो मित्रदर्शनलालसः ।
दृष्ट्वार्धमुद्यतं राजा शाल्वो राजर्षिसत्तमः॥१६॥

उवाच श्लक्ष्णया वाचा नार्घार्होऽस्मि महाद्युते ।
दूतोऽहं मनुजेन्द्राणां सकाशाद्भवतोऽन्तिकम्॥१७॥

प्रेषितो बहुभिः सार्धं जरासन्धेन धीमता ।
तेन मन्ये महाराज नार्घार्होऽस्मीति राजसु॥१८॥

कालयवन उवाच। जानाम्यहं महाबाहो दौत्येन त्वामिहागतम् ।
साहित्ये नरदेवानां प्रेषितो मागधेन वै॥१९॥

तेन त्वामर्चये राजन्विशेषेण महामते ।
अर्घ्यपाद्यादिसत्कारैरासनेन यथाविधि॥२०॥

भवत्यभ्यर्चिते राज्ञां सर्वेषामर्चितं भवेत् ।
आस्यतामासने शुभ्रे मया सार्धं जनेश्वर॥२१॥

अर्चितम् अर्चनम्॥२१॥

वैशम्पायन उवाच। स हस्तालिङ्गनं कृत्वा दृष्ट्वा च कुशलामयम् ।
सुखोपविष्टौ सहितौ शुभे सिंहासने स्थितौ॥२२॥

कालयवन उवाच। यद्बाहुबलमाश्रित्य वयं सर्वे नराधिपाः ।
वसामो विगतोद्विग्ना देवा इव शचीपतिम्॥२३॥

यत् यस्य जरासन्धस्य॥२३॥

किमसाध्यं भवेदस्य येनासि प्रेषितो मयि ।
वद सत्यं वचस्तस्य किमाज्ञापयति प्रभुः ।
करिष्ये वचनं तस्य अपि कर्म सुदुष्करम्॥२४॥

शाल्व उवाच। यथा वदति राजेन्द्र मगदाधिपतिस्तव ।
तथाहं सम्प्रवक्ष्यामि श्रूयतां यवनाधिप॥२५॥

जरासन्ध उवाच। जातोऽयं जगतां बाधी कृष्णः परमदुर्जयः ।
विदित्वा तस्य दुर्वृत्तमहं हन्तुं समुद्यतः॥२६॥

जगतां बाधी बाधकः॥२६॥

पार्थिवैर्बहुभिः सार्धं समग्रबलवाहनैः ।
उपरुध्य महासैन्यैर्गोमन्तमचलोत्तमम्॥२७॥

चेदिराजस्य वचनं महार्थं श्रुतवानहम् ।
यदा तयोर्विनाशाय हुताशनमयोजयम्॥२८॥

ज्वालाशतसहस्राढ्यं युगान्ताग्निसमप्रभम् ।
दृष्ट्वा रामो गिरेः कूटादाप्लुतो हेमतालधृक्॥२९॥

विनिष्पत्य महासेनां मध्ये सागरसन्निभाम् ।
आजघान दुराधर्षो नराश्वरथदन्तिनाम्॥३०॥

सर्पन्तमिव सर्पेन्द्रं विकृष्याकृष्य लाङ्गलम् ।
नरनागाश्ववृन्दानि मुसलेन व्यपोथयत् ॥२-५३-३१॥

गजेन गजमास्फाल्य रथेन रथयोधिनम् ।
हयेन च हयारोहं पदातेन पदातिनम्॥३२॥

समरे स महातेजा नृपार्कशतसङ्कुले ।
विचरन्विविधान्मार्गान्निदाघे भास्करो यथा॥३३॥

रामादनन्तरं कृष्णः प्रगृह्यार्कसमप्रभम् ।
चक्रं चक्रभृतां श्रेष्ठः सिंहाः क्षुद्रमृगं यथा॥३४॥

प्रविचाल्य महावीर्यः पादवेगेन तं गिरिम् ।
शत्रुसैन्ये पपातोच्चैर्यदुवीरः प्रतापवान्॥३५॥

प्रनृत्यन्निव शैलेन्द्रस्तोयधाराभिषेचितः ।
घूर्णमानो विवेशोर्वीं विनिर्वाप्य हुताशनम्॥३६॥

आदीप्यमानशिखरादवप्लुत्य जनार्दनः ।
जघान वाहिनीं राजंश्चक्रव्यग्रेण पाणिना॥३७॥

विक्षिप्य विपुलं चक्रं गदापातादनन्तरम् ।
नरनागाश्ववृन्दानि मुसलेन व्यचूर्णयत्॥३८॥

क्रोधानिलसमुद्भूतचक्रलाङ्गलवह्निना ।
निर्दग्धा महती सेना नरेन्द्रार्काभिपालिता॥३९॥

नरनागाश्वकलिलं पत्तिध्वजसमाकुलम् ।
रथानीकं पदाताभ्यां क्षणेन विदलीकृतम्॥४०॥

सेनां प्रभग्नामालोक्य चक्रानलभयार्दिताम् ।
महता रथवृन्देन परिवार्य समन्ततः॥४१॥

तत्राहं युद्ध्यमानस्तु भ्रातास्य बलवान्बली ।
स्थितो ममाग्रतः शूरो गदापाणिर्हलायुधः॥४२॥

द्वादशाक्षौहिणीर्हत्वा प्रभिन्न इव केसरी ।
हलं सौनन्दमुत्सृज्य गदया मामतादयत्॥४३॥

हलं सौनन्दं मुसलं च उत्सृज्य त्यक्त्वा गदयैव मामताडयत् अयोधयत्॥४३॥

वज्रपातनिभं वेगं पातयित्वा ममोपरि ।
भूयः प्रहर्तुकामो मां वैशाखेनास्थितो महीम्॥४४॥

वैशाखेन विशाखः कार्तिकेयः तस्येदं वैशाखं शक्तिप्रहरणं तेन॥४४॥

वैशाखं स्थानमास्थाय गुहः क्रौञ्चं यथा पुरा ।
तथा मां दीर्घनेत्राभ्यामीक्षते निर्दहन्निव॥४५॥

स्थानं मर्मस्थानमास्थाय अभिलक्ष्य वैशाखं मोक्तुम् इच्छन्वीक्षते स्मेत्यध्याहृत्य योज्यम्॥४५॥

तादृग्रूपं समालोक्य बलदेवं रणाजिरे ।
जीवितार्थी नृलोकेऽस्मिन्कः पुमान्स्थातुमर्हति॥४६॥

गृहीत्वा स गदां भीमां कालदण्डमिवोद्यताम् ।
कुलाङ्कुशेन निर्धूतां स्थित एवाग्रतो मम॥४७॥

कुलाङ्कुशेन कौ पृथिव्यां लीयते इति कुलं हलं तदेवाङ्कुशः तेन निर्धूतां कम्पितां भ्रामितां वा कृत्वेति शेषः॥४७॥

ततो जलदगम्भीरस्वरेणापूरयन्नभः ।
वागुवाचाशरीरेण स्वयं लोकपितामहः॥४८॥

वाक् वाचम्॥४८॥

प्रहर्तव्यो न राजायमवध्योऽयं तवानघ ।
कल्पितोऽस्य वधोऽन्यस्माद्विरमस्व हलायुध॥४९॥

श्रुत्वाहं तेन वाक्येन चिन्ताविष्टो निवर्तितः ।
सर्वप्राणहरं घोरं ब्रह्मना स्वयमीरितम्॥५०॥

तेनाहं वः प्रवक्ष्यामि नृपाणां हितकाम्यया ।
श्रुत्वा त्वमेव राजेन्द्र कर्तुमर्हसि तद्वचः॥५१॥

तपसोग्रेण महता पुत्रार्थी तोष्य शङ्करम् ।
प्राप्तवान्नरदेवं त्वामवध्यं माथुरैर्जनैः॥५२॥

महामुनिश्चायसचूर्णमश्नन्नुपस्थितो द्वादशवार्षिकं व्रतम् ।
सुरासुरैः संस्तुतपादपङ्कजः स लब्धवानीप्सितकामसम्पदम्॥५३॥

देवदेवं देवराजानं प्राप्तवान्महामुनिरित्यग्रिमेण सम्बन्धः॥५३॥

तपोबलाद्गार्ग्यमुनेर्महात्मनो वरप्रभावाच्छकलेन्दुमौलिनः ।
भवन्तमासाद्य जनार्दनो हिमं विलीयते भास्कररश्मिना यथा॥५४॥

यतस्व राज्ञां वचनप्रचोदितो व्रजस्व यात्रां विजयाय केशवम् ।
प्रविश्य राष्ट्रं मथुरां च सेनया निहत्य कृष्णं प्रथयन्स्वकं यशः॥५५॥

माथुरो वासुदेवोऽयं बलदेवः सबान्धवः ।
तौ विजेष्यसि सङ्ग्रामे गत्वा तां मथुरां पुरीम्॥५६॥

शाल्व उवाच। इत्येवं नरपतिभास्करप्रगीतं वाक्यं ते कथितमिदं हितं नृपाणाम् ।
तत्सर्वं सह सचिवैर्विमृश्य बुद्ध्या यद्युक्तं कुरु मनुजेन्द्र चात्मनिष्ठम्॥५७॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शाल्ववाक्ये त्रिपञ्चाशत्तमोऽध्यायः॥५३॥
कालयवनवाक्यम्-०५४

वैशम्पायन उवाच। एवं कथयमानं तं शाल्वराजं नृपाज्ञया ।
उवाच परमप्रीतो यवनाधिपतिर्नृपः॥१॥

कालयवन उवाच। धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं मम ।
कृष्णनिग्रहहेतोर्यन्नियुक्तो बहुभिर्नृपैः॥२॥

दुर्जयस्त्रिषु लोकेषु सुरासुरगणैरपि ।
तस्य निग्रहहेतोर्मामवधार्य जयाशिषम्॥३॥

प्रहृष्टै राजसिंहैस्तैरवधार्यो जयो मम ।
तेषां वाचाम्बुवर्षेण विजयो मे भविष्यति॥४॥

करिष्ये वचनं तेषां नृपसत्तमचोदितम् ।
पराजयोऽपि राजेन्द्र जयेन सदृशो मम॥५॥

अद्यैव तिथिनक्षत्रं मुहूर्तं करणं शुभम् ।
यास्यामि मथुरां राजन्विजेतुं केशवं रणे॥६॥

वैशम्पायन उवाच। एवमाभाष्य राजानं सौभस्य पतिमूर्जितम् ।
सत्कृत्य च यथान्यायं महार्हमणिभूषणैः॥७॥

ब्राह्मणेभ्यो ददौ वित्तं सिद्धादेशाय वै नृपः ।
पुरोहिताय राजेन्द्र प्रददौ बहुशो धनम्॥८॥

चतुष्पञ्चाशत्तमेऽथ शालवाक्येन तेजितः। अभ्ययाद्यवनाधीशः कृष्णं जेतुमितीर्यते॥१॥ सिद्धादेशाय अवितथाशिषे॥८॥

हुत्वाग्निं विधिवद्राजा कृतकौतुकमङ्गलः ।
प्रस्थानं कृतवान्सम्यग्जेतुकामो जनार्दनम्॥९॥

शाल्वोऽपि भरतश्रेष्ठ कृतार्थो हृष्टमानसः ।
यवनेन्द्रं परिष्वज्य जगाम स्वपुरं नृपः॥१०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि कालयवनवाक्ये चतुष्पञ्चाशत्तमोऽध्यायः॥५४॥
द्वारवतीप्रयाणसङ्केतः-०५५

जनमेजय उवाच। विदर्भनगराद्याते शक्रतुल्यपराक्रमे ।
किमर्थं गरुडो नीतः किं च कर्म चकार सः॥१॥

पञ्चपञ्चाशत्तमेऽथ गरुडप्रेषणान्तरम्। राजेन्द्रस्याभिषेकश्च वर्ण्यतेऽतिमहोत्सवः॥१॥ विदर्भनगराद्याते मथुरां प्रति॥१॥

न चारुरोह भगवान्वैनतेयं महाबलम् ।
एतन्मे संशयं ब्रह्मन्ब्रूहि तत्त्वं महामुने॥२॥

वैशम्पायन उवाच। शृणु राजन्सुपर्णेन कृतं कर्मातिमानुषम् ।
विदर्भनगरीं गत्वा वैनतेयो महाद्युतिः॥३॥

असम्प्राप्ते च नगरीं मथुरां मधुसूदने ।
मनसा चिन्तयामास वैनतेयो महाद्युतिः॥४॥

यदुक्तं देवदेवेन नृपाणामग्रतः प्रभो ।
यास्यामि मथुरां रम्यां भोजराजेन पालिताम्॥५॥

इति तद्वचनस्यान्ते गमिष्येति विचिन्तयन् ।
कृताञ्जलिपुटः श्रीमान्प्रणिपत्याब्रवीदिदम्॥६॥

गमिष्येति सन्धिरार्षः॥६॥

गरुड उवाच। देव यास्यामि नगरीं रैवतस्य कुशस्थलीम् ।
रैवतं च गिरिं रम्यं नन्दनप्रतिमं वनम्॥७॥

रुक्मिणोद्वासितां रम्यां शैलोदधितटाश्रयाम् ।
वृक्षगुल्मलताकीर्णां पुष्परेणुविभूषिताम्॥८॥

गजेन्द्रभुजगाकीर्णामृक्षवानरसेविताम् ।
वराहमहिषाक्रान्तां मृगयूथैरनेकशः॥९॥

तां समन्तात्समालोक्य वासार्थं ते क्षमां क्षमा ।
यदि स्याद्भवतो रम्या प्रशस्ता नगरीति च ।
कण्टकोद्धरणं कृत्वा आगमिष्ये तवान्तिकम्॥१०॥

वैशम्पायन उवाच। एवं विज्ञाप्य देवेशं प्रणिपत्य जनार्दनम् ।
जगाम पतगेन्द्रोऽपि पश्चिमाभिमुखो बली ।
कृष्णोऽपि यदुभिः सार्धं विवेश मथुरां पुरीम्॥११॥

स्वैरिण्य उग्रसेनश्च नागराश्चैव सर्वशः ।
प्रत्युद्गम्यर्चयन्कृष्णं प्रहृष्टजनसङ्कुलम्॥१२॥

स्वैरिण्यो नर्तक्यः॥१२॥

जनमेजय उवाच। श्रुत्वाभिषिक्तं राजेन्द्रं बहुभिर्वसुधाधिपैः ।
किं चकार महाबाहुरुग्रसेनो महीपतिः॥१३॥

वैशम्पायन उवाच। श्रुत्वाभिषिक्तं राजेन्द्रं बहुभिः पार्थिवोत्तमैः ।
इन्द्रेण कृतसन्धानं दूतं चित्राङ्गदं कृतम्॥१४॥

एकैकं नृपतेर्भागं शतसाहस्रसंमितम् ।
राजेन्द्रे त्वर्बुदं दत्तं मानवेषु च वै दश॥१५॥

नृपतेः माण्डलिकस्य शतसहस्रं लक्षं दत्तं माण्डलिकेशाय अर्बुदं मनुष्यमात्रे दशसहस्रम्॥१५॥

ये तत्र समनुप्राप्ता न रिक्तास्ते गृहं गताः ।
शङ्खो यादवरूपेण प्रददौ हरिचिन्तितम्॥१६॥

न रिक्ताः न अपूर्णाः शङ्खो निधिः यादवरूपेण धनं ददौ॥१६॥

एवं निधिपतिः श्रीमान्दैवतैरनुमोदितः ।
इति श्रुत्वात्मिकजनाल्लोकप्रवृत्तिकान्नरात्॥१७॥

चकार महतीं पूजां देवतायतनेष्वपि ।
वसुदेवस्य भवने तोरणोभयपार्श्वतः॥१८॥

चकार नृप इत्युत्तरेणान्वयः। तोरणवन्तौ उभयपार्श्वौ यस्य तत् तोरणोभयपार्श्वं पार्श्वत इति प्रथमार्थे तसिः॥१८॥

नटानां नृत्यगेयानि वाद्यानि च समन्ततः ।
पताकध्वजमालाढ्यां कारयामस वै नृपः॥१९॥

कंसराजस्य च सभां विचित्राम्बरसुप्रभाम् ।
पताका विविधाकारा दापयामास भोजराट्॥२०॥

सभां सभायाम्॥२०॥

तोरणं गोपुरं चैव सुधापङ्कानुलेपनम् ।
कारयामास राजेन्द्रो राजेन्द्रस्यासनालयम्॥२१॥

नटानां नृत्यगेयानि वाद्यानि च समन्ततः ।
पताका वनमालाढ्याः पूर्णकुम्भाः समन्ततः॥२२॥

राजमार्गेषु राजेन्द्र चन्दनोदकसेचितम् ।
वस्त्राभरणकं राजा दापयामास भूतले॥२३॥

चन्दनोदकस्य सेचितं सेकं कारयामासेति पूर्वेण सम्बन्धः॥२३॥

धूपं पार्श्वोभये चैव चन्दनागुरुगुग्गुलैः ।
गुडं सर्जरसं चैव दह्यमानं ततस्ततः॥२४॥

वृद्धस्त्रीजनसङ्घैश्च गायद्भिः स्तुतिमङ्गलम् ।
अर्घं कृत्वा प्रतीक्षन्ते स्वेषु स्थानेषु योषितः॥२५॥

एवं कृत्वा पुरानन्दमुग्रसेनो नराधिपः ।
वसुदेवगृहं गत्वा प्रियाख्यानं निवेद्य च॥२६॥

पुरानन्दं पुरस्यानन्दकरं विधिमित्यर्थः॥२६॥

रामेण सह संमन्त्र्य निर्गतो रथमन्तिकम् ।
तस्मिन्नेवान्तरे राजञ्छङ्खध्वनिरभून्महान्॥२७॥

पाञ्चजन्यस्य निनदं श्रुत्वा मधुरवासिनः ।
स्त्रियो वृद्धाश्च बालाश्च सूता मागधबन्दिनः॥२८॥

मधुरं मधुपुरं तद्वासिनः॥२८॥

विनिर्ययुर्महासेना रामं कृत्वाग्रतो नृप ।
अर्घ्यं पाद्यं पुरस्कृत्य उग्रसेनेन धीमता॥२९॥

उग्रसेनेन सह इति शेषः॥२९॥

दृष्टिपन्थानमासाद्य उग्रसेनो महीपतिः ।
अवतीर्य रथाच्छुभ्रात्पादमार्गेण चाग्रतः॥३०॥

दृष्ट्वाऽऽसीनं रथे रम्ये दिव्यरत्नविभूषितम् ।
अङ्गेष्वाभरणं चैव दिव्यरत्नप्रभायुतम्॥३१॥

वनमालोरसं दिव्यं तपन्तमिव भास्करम् ।
चामरं व्यजनं छत्रं खगेन्द्रध्वजमुच्छ्रितम्॥३२॥

राजलक्षणसम्पूर्णमासन्नार्कमिवोज्ज्वलम् ।
श्रियाभिभूतं देवेशं दुर्निरीक्ष्यतरं हरिम्॥३३॥

अभिभूतं व्याप्तम्॥३३॥

दृष्ट्वा स राजा राजेन्द्र हर्षगद्गदया गिरा ।
बभाषे पुण्डरीकाक्षं रामं बलनिषूदनम्॥३४॥

कृतसन्धानं कृताभिसन्धिं दूतं च चित्राङ्गदं कृत्वेति सम्बन्धः॥३४॥
बलनिषूदनं शत्रुसैन्यहन्तारम्॥३४॥

रथेन न मया गन्तुं युक्तपूर्वेति चिन्त्य वै ।
अवतीर्णो महाभाग गच्छ त्वं स्यन्दनेन च॥३५॥

त्वं स्यन्दनेन गच्छेत्युक्त्वाऽवतीर्णोऽभवत् इत्यर्थः॥३५॥

विष्णुना छद्मरूपेण गत्वेमां मथुरां पुरीम् ।
अनुप्रकाशितात्मानं देवेन्द्र त्वं नृपार्णवे॥३६॥

गत्वा प्राप्य॥३६॥

तमहं स्तोतुमिच्छमि सर्वभावेन केशवम् ।
प्रत्युवाच महातेजा राजानं कृष्णपूर्वजः॥३७॥

नृपार्णवे देवेन्द्रत्वं दर्शितमिति शेषः। तम् अनुप्रकाशितात्मानं पश्चात्प्रदर्शितस्वरूपमहं स्तोतुमिच्छामीत्यन्वयः॥३७॥

न युक्तं नृपते स्तोतुं व्रजन्तं देवसत्तमम् ।
विना स्तोत्रेण सन्तुष्टस्तव राजञ्जनार्दनः॥३८॥

हे नृपते त्वया न युक्तं न युज्यत इत्यर्थः॥३८॥

तुष्टस्य स्तुतिना किं ते दर्शनेन तव स्तुतिः ।
राजेन्द्रत्वमनुप्राप्य आगतस्तव वेश्मनि॥३९॥

स्तुतिना स्तुत्या दर्शनमात्रेण स्तुतिर्जातैवेत्यर्थः॥३९॥

न त्वया स्तुतवान्राजन्दिव्यैः स्तोत्रैरमानुषैः ।
एवमाब्रुवमाणौ तौ सम्प्राप्तौ केशवान्तिकम्॥४०॥

अर्घोद्यतभुजं दृष्ट्वा स्थापयित्वा रथोत्तमम् ।
उवाच वदतां श्रेष्ठ उग्रसेनं नराधिपम्॥४१॥

वदतां श्रेष्ठः कृष्णः॥४१॥

यन्मया चाभिषिक्तस्त्वं मथुरेशो भविष्यति ।
न युक्तमन्यथा कर्तुं मथुराधिपते स्वयम्॥४२॥

अर्घ्यमाचमनीयं च पाद्यं चास्मै निवेदितम् ।
न दातुमर्हसे राजन्नेष मे मनसः प्रियः॥४३॥

तवाभिप्रायं विज्ञाय ब्रवीमि नृपते वचः ।
त्वमेव माथुरो राजा नान्यथा कर्तुमर्हसि॥४४॥

स्थानभागं च नृपते दास्यामि तव दक्षिणम् ।
यथा नृपाणां सर्वेषां तथा ते स्थापितोऽग्रतः॥४५॥

स्थानभागं क्षुद्रराजप्रदेयं राज्यधनांशम्॥४५॥

शतसाहस्रिको भागो वस्त्राभरणवर्जितः ।
आरुहस्व रथं शुभ्रं चामीकरविभूषितम्॥४६॥

तथा शतसाहस्रिकः लक्षसंमितः वस्त्रादिवर्जितः केवलकाञ्चनमयः त्वदर्थे स्थापितोऽस्तीति सम्बन्धः॥४६॥

चामरं व्यजनं छत्रं ध्वजं च मनुजेश्वर ।
दिव्याभरणसंयुक्तं मुकुटं भास्करप्रभम्॥४७॥

धारयस्व महाभाग पालयस्व पुरीमिमाम् ।
पुत्रपौत्रैः प्रमुदितो मथुरां परिपालय॥४८॥

जित्वारिगणसङ्घांश्च भोजवंशं विवर्द्धय ।
देवदेवाद्यनन्ताय शौरिणे वज्रपाणिना॥४९॥

देवाय कान्ताय अनन्ताय शेषाय शौरिणे शूरुपुत्राय। सीरिण इति पाठे हलिने वज्रपाणिना॥४९॥

प्रेषितं देवराजेन दिव्याभरणमम्बरम् ।
माथुराणां च सर्वेषां भागा दीनारका दश॥५०॥

दिव्याभरणमित्येकत्वं जात्यभिप्रायेण। दीनारः स्वर्णसहस्रमित्यभिधानोक्तेः॥५०॥

सूतमागधबन्दीनामेकैकस्य सहस्रकम् ।
वृद्धस्त्रीजनसङ्घानां गणिकानां शतं शतम्॥५१॥

नृपेण सह तिष्ठन्ति विकद्रुप्रमुखाश्च ये ।
दशसाहस्रिको भागस्तेषां धात्रा प्रकल्पितः॥५२॥

धात्रा इन्द्रेण॥५२॥

वैशम्पायन उवाच। एवं सम्पूज्य राजानं माथुराणां चमूमुखे ।
कृत्वा सुमहदानन्दां मथुरां मधुसूदनः॥५३॥

मथुरां प्रविवेश इति शेषः॥५३॥

दिव्याभरणमाल्यैश्च दिव्याम्बरविलेपनैः ।
दीप्यमानः समन्ताच्च देवा इव त्रिविष्टपे॥५४॥

देवा इवासन्निति शेषः॥५४॥

भेरीपटहनादेन शङ्खदुन्दुभिनिःस्वनैः ।
बृंहितेन च नागानां हयानां हेषितेन च॥५५॥

सिंहनादेन शूराणां रथनेमिस्वनेन च ।
तुमुलः सुमहानासीन्मेघनाद इवाम्बरे॥५६॥

बन्दिभिः स्तूयमानं च नमश्चक्रुरपि प्रजाः ।
दत्वा दानमनन्तं च न ययौ विस्मयं हरिः॥५७॥

स्वभावोन्नतभावत्वाद्दृष्टपूर्वात्ततोऽधिकम् ।
अनहङ्कारभावाच्च विस्मयं न जगाम ह॥५८॥

पूर्वात् पूर्वत्वात्॥५८॥

दीप्यमानं स्ववपुषा आयान्तं भास्करप्रभम् ।
दृष्ट्वा मथुरवासिन्यो नमश्चक्रुः पदे पदे॥५९॥

मथुरवासिन्यः मथुरावासिन्यः॥५९॥

एष नारायणः श्रीमान्क्षीरार्णवनिकेतनः ।
नागपर्यङ्कमुत्सृज्य प्राप्तोऽयं मथुरां पुरीम्॥६०॥

बद्ध्वा बलिं महावीर्यं दुर्जयं त्रिदशैरपि ।
शक्राय प्रददौ राज्यं त्रैलोक्यं वज्रपाणये॥६१॥

हत्वा दैत्यगणान्सर्वान्कंसं च बलिनां वरम् ।
भोजराजाय मथुरां दत्वा केशिनिषूदनः॥६२॥

भोजराजाय उग्रसेनाय॥६२॥

नाभिषिक्तः स्वयं राज्ये न चासीनो नृपासने ।
राजेन्द्रत्वं च सम्प्राप्य मथुरामाविशत्ततः॥६३॥

एवमन्योन्यसञ्जल्पं श्रुत्वा पुरनिवासिनाम् ।
बन्दिमागधसूताणामिदमूचुर्गणाधिपाः॥६४॥

किं वा शक्यामहे वक्तुं गुणानां ते गुणोदधे ।
मानुषेणैकजिह्वेन प्रभावोत्साहसम्भवान्॥६५॥

गुणानां प्रभावः उत्साहः सम्भवश्च तान्॥६५॥

स तत्र भोगी नागेन्द्रः कदाचिद्देव बुद्धिमान् ।
द्विसाहस्रेण जिह्वेन वासुकिः कथयिष्यति॥६६॥

जिह्वास्थेन वागिन्द्रियेण द्विसाहस्त्रस्थानेष्वभिव्यक्तेनेत्यर्थः। वासुकिरत्र शेष एव॥६६॥

किं त्वद्भुतमिदं लोके मानवेन्द्रेषु भूतले ।
न भूतं न भविष्यं च शक्रादासनमागतम्॥६७॥

सभावतरणं चैव कलशैरागतं स्वयम् ।
न श्रुतं न च दृष्टं वा तेन मन्यामहेऽद्भुतम्॥६८॥

कलशैः कर्तृभिः॥६८॥

धन्या देवी महाभागा देवकी योषितां वरा ।
भवन्तं त्रिदशश्रेष्ठं धृत्वा गर्भेण केशवम्॥६९॥

धन्याऽभूदिति शेषः॥६९॥

कृष्णं पद्मपलाशाक्षं श्रीपुञ्जममरार्चितम् ।
नेत्राभ्यां स्नेहपूर्णाभ्यां वीक्षते मुखपङ्कजम्॥७०॥

इति सञ्जल्पमानानां शृण्वन्तौ पृथगीरितम् ।
उग्रसेनं पुरस्कृत्य भ्रातरौ रामकेशवौ॥७१॥

प्राकारद्वारि सम्प्राप्तावर्चयामास वै तदा ।
अर्घ्यमाचमनं दत्वा पाद्यं पाद्येति चाब्रवीत्॥७२॥

उग्रसेनस्ततो धीमान्केशवस्य रथाग्रतः ।
प्रणम्य शिरसा कृष्णं गजमारुह्य वीर्यवान् ।
घनवत्तोयधारेण ववर्ष कनकाम्बुभिः॥७३॥

घनौघैर्वर्षमाणस्तु सम्प्राप्तः पितृवेश्मनि ।
मथुराधिपतिः श्रीमानुवाच मधुसूदनम्॥७४॥

मथुराधिपतिः उग्रसेनः॥७४॥

राजेन्द्रत्वमनुप्राप्य युक्तं मे नृपवेश्मनि ।
स्थापितुं देवराजेन दत्तं सिंहासनं प्रभो॥७५॥

नेष्यामि मथुरेशस्य सभां भुजबलार्जिताम् ।
प्रसादयिष्ये भगवन्न कोपं कर्तुमर्हसि॥७६॥

मथुरेशस्य तव॥७६॥

देवकी वसुदेवश्च रोहिणी च विशाम्पते ।
न किञ्चित्करणे शक्ता हर्षक्लमविमोहिता॥७७॥

कंसमाता ततो राजन्नर्चयामास केशवम् ।
नानादिग्देशजानीतं कंसेनोपार्जितं धनम्॥७८॥

देशकालं समालोक्य पादयुग्मे न्यवेदयत् ।
उग्रसेनं समाहूय उवाच श्लक्ष्णया गिरा॥७९॥

उवाच कृष्णः॥७९॥

श्रीकृष्ण उवाच। न चाहं मथुराकाङ्क्षी न मया वित्तकाङ्क्षया ।
घातितस्तव पुत्रोऽयं कालेन निधनं गतः॥८०॥

यजस्व विविधान्यज्ञान्ददस्व विपुलं धनम् ।
जयस्व रिपुसैन्यानि मम बाहुबलाश्रयात्॥८१॥

त्यजस्व मनसस्तापं कंसनाशोद्भवं भयम् ।
नयस्व वित्तनिचयं मया दत्तं पुनस्तव॥८२॥

इति प्राश्वास्य राजानं कृष्णस्तु हलिना सह ।
प्रविवेश ततः श्रीमान्मातापित्रोरथान्तिकम्॥८३॥

आनन्दपरिपूर्णाभ्यां हृदयाभ्यां महाबलौ ।
पितृमात्रोस्तु पादान्वै नमश्चक्रतुरानतौ॥८४॥

तस्मिन्मुहूर्ते नगरी मथुरा तु बभूव सा ।
स्वर्गलोकं परित्यज्यावतीर्णेवामरावती॥८५॥

वसुदेवस्य भवनं समीक्ष्य पुरवासिनः ।
मनसा चिन्तयामासुर्देवलोकं न भूतलम्॥८६॥

विसृज्य मथुरेशं तु महिषीसहितं तदा ।
भवनं वसुदेवस्य प्रविश्य बलकेशवौ॥८७॥

न्यस्तशास्त्रावुभौ वीरौ स्वगृहे स्वैरचारिणौ ।
ततः कृताह्निकौ भूत्वा सुखासीनौ कथान्तरे॥८८॥

एतस्मिन्नेव काले तु महोत्पातो बभूव ह ।
बभ्रमुश्च घनाकाशे चेलुश्च भुवि पर्वताः॥८९॥

घना आकाशे इत्यत्र सन्धिरार्षः॥८९॥

समुद्राः क्षुभिताः सर्वे बिभ्रान्तो भोगिनां वरः ।
कम्पिता यादवाः सर्वे न्युब्जाश्च पतिता भुवि॥९०॥

तौ तान्निपतितान्दृष्ट्वा रामकृष्णौ तु निश्चलौ ।
महता पक्षवातेन विज्ञातौ पतगोत्तमम्॥९१॥

विज्ञातौ ज्ञातवन्तौ॥९१॥

ददर्श समनुप्राप्तं दिव्यस्रगनुलेपनम् ।
प्रणम्य शिरसा ताभ्यां सौम्यरूपी कृतासनः॥९२॥

तं दृष्ट्वा समनुप्राप्तं सचिवं साम्परायिकम् ।
धृतिमन्तं गरुत्मन्तमुवाच बलिसूदनः॥९३॥

स्वागतं खेचरश्रेष्ठ सुरसेनारिमर्दन ।
विनताहृदयानन्द स्वागतं केशवप्रिय॥९४॥

तमुवाच ततः कृष्णः स्थितं देवमिवापरम् ।
तुल्यसामर्थ्यया वाचा आसीनं विनतात्मजम्॥९५॥

श्रीकृष्ण उवाच। यास्यामः पतगश्रेष्ठ भोजस्यान्तःपुरं महत् ।
तत्र गत्वा सुखासीना मन्त्रयामो मनोऽनुगम्॥९६॥

वैशम्पायन उवाच। प्रविष्टौ तौ महावीर्यौ बलदेवजनार्दनौ ।
वैनतेयतृतीयौ च गुह्यं मन्त्रमथाब्रुवन्॥९७॥

अवध्योऽसौ कृतोऽस्माकं सुमहच्च रिपोर्बलम् ।
वृतः सैन्येन महता महद्भिश्च नराधिपैः॥९८॥

असौ जरासन्धः कालयवनो वा॥९८॥

बहुलानि च सैन्यानि हन्तुं वर्षशतैरपि ।
न शक्ष्यामः क्षयं कर्तुं जरासन्धस्य वाहिनीम्॥९९॥

अतोऽर्थं वैनतेय त्वां ब्रवीमि मथुरां पुरीम् ।
वसतोरावयोः श्रेयो न भवेदिति मे मतिः॥१००॥

गरुड उवाच। देवदेवं नमस्कृत्य गतोऽहं भवतोऽन्तिकात् ।
वासार्थमीक्षितुं भूमिं तव देव कुशस्थलीम्॥१०१॥

गत्वाहं खे समास्थाय समन्तादवलोक्य ताम् ।
दृष्ट्वाहं विबुधश्रेष्ठ पुरीं लक्षणपूजिताम्॥१०२॥

सागरानूपविपुलां प्रागुदक्प्लवशीतलाम् ।
सर्वतोदधिमध्यस्थामभेद्यां त्रिदशैरपि॥१०३॥

सर्वरत्नाकरवतीं सर्वकामफलद्रुमाम् ।
सर्वर्तुकुसुमाकीर्णां सर्वतः सुमनोहराम्॥१०४॥

सर्वाश्रमाधिवासां च सर्वकामगुणैर्युताम् ।
नरनारीसमाकीर्णां नित्यामोदविवर्द्धिनीम्॥१०५॥

प्राकारपरिखोपेतां गोपुराट्टालमालिनीम् ।
विचित्रचत्वरपथां विपुलद्वारतोरणाम्॥१०६॥

यन्त्रार्गलविचित्राढ्यां हेमप्रकारशोभिताम् ।
नरनागाश्वकलिलां रथसैन्यसमाकुलाम्॥१०७॥

नानादिग्देशजाकीर्णां दिव्यपुष्पफलद्रुमाम् ।
पताकाध्वजमालाढ्यां महाभवनशालिनीम्॥१०८॥

भीषणीं रिपुसङ्घानां मित्राणां हर्षवर्द्धनीम् ।
मनुजेन्द्राधिवासेभ्यो विशिष्टां नगरोत्तमाम्॥१०९॥

रैवतं च गिरिश्रेष्ठं कुरु देव सुरालयम् ।
नन्दनप्रतिमं दिव्यं पुरद्वारस्य भूषणम्॥११०॥

कारयस्वाधिवासं च तत्र गत्वा सुरोत्तम ।
कुमारीणां प्रचारश्च सुरमण्यो भविष्यति॥१११॥

सुरमण्यः सुतरां रमणीयः॥१११॥

नाम्ना द्वारवती ज्ञेया त्रिषु लोकेषु विश्रुता ।
भविष्यति पुरी रम्या शक्रस्येवामरावती॥११२॥

यदि स्यात्संवृतां भूमिं प्रदास्यति महोदधिः ।
यथेष्टं विविधं कर्म विश्वकर्मा करिष्यति॥११३॥

यदि महोदधिर्भूमिं दास्यति तर्हि उक्तगुणा पुरी स्यादिति योजना॥११३॥

मणिमुक्ताप्रवालाभिर्वज्रवैदूर्यसप्रभैः ।
दिव्यैरभिप्राययुतैर्दिव्यरत्नैस्त्रिलोकजैः॥११४॥

दिव्यस्तम्भशताकीर्णान्स्वर्गे देवसभोपमान् ।
जाम्बूनदमयाञ्छुभ्रान्सर्वरत्नविभूषितान्॥११५॥

दिव्यध्वजपताकाढ्यान्देवगन्धर्वपालितान् ।
चन्द्रसूर्यप्रतीकाशान्प्रासादान्कारय प्रभो॥११६॥

वैशम्पायन उवाच। एवं कृत्वा तु सङ्कल्पं वैनतेयोऽथ केशवम् ।
प्रणम्य शिरसा ताभ्यां निषसाद कृतासनः॥११७॥

कृष्णोऽपि रामसहितो विचिन्त्य हितमीरितम् ।
प्रकाशकर्तुकामौ तौ विसृज्य विनतात्मजम्॥११८॥

सत्कृत्य विधिवद्राजन्महार्हवरभूषणैः ।
मोदेते सुखिनौ तत्र सुरलोके यथामरौ॥११९॥

तस्य तद्वचनं श्रुत्वा भोजराजो महायशाः ।
कृष्णं स्नेहेन विस्रब्धं बभाषे वचनामृतम्॥१२०॥

कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्द्धन ।
श्रूयतां वचनं त्वाद्य वक्ष्यामि रिपुसूदन॥१२१॥

त्वया विहीनाः सर्वे स्म न शक्ताः सुखमासितुम् ।
पुरेऽस्मिन्विषयान्ते वा पतिहीना इव स्त्रियः॥१२२॥

त्वत्सनाथा वयं तात त्वद्बाहुबलमाश्रिताः ।
बिभीमो न नरेन्द्राणां सेन्द्राणामपि मानद॥१२३॥

विजयाय यदुश्रेष्ठ यत्र यत्र गमिष्यसि ।
तत्र त्वं सहितोऽस्माभिर्गच्छेथा यादवर्षभ॥१२४॥

तस्य राज्ञो वचः श्रुत्वा सस्मितं देवकीसुतः ।
यथेष्टं भवतामद्य तथा कर्तास्म्यसंशयम्॥१२५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि मन्त्रोदाहरणे राजेन्द्राभिषेचनसमाप्तौ पञ्चपञ्चाशत्तमोऽध्यायः॥५५॥
कालयवनस्याभियोगो द्वारवतीप्रयाणं च-०५६

वैशम्पायन उवाच। कस्यचित्त्वथ कालस्य सभ्यांस्तान्यदुसंसदि ।
बभाषे पुण्डरीकाक्षो हेतुमद्वाक्यमुत्तमम्॥१॥

षट्पञ्चाशत्तमेऽध्याये द्वारावतीविवक्षया। हेतुमद्वच आभाष्य मथुराचलनं हरेः॥१॥ कस्यचिदिति॥१॥

यादवानामियं भूमिर्मथुरा राष्ट्रमालिनी ।
वयं चैवेह सम्भूता व्रजे च परिवर्द्धिताः॥२॥

तदिदानीं गतं दुःखं शत्रवश्च पराजिताः ।
नृपेषु जनितं वैरं जरासन्धेन विग्रहः॥३॥

वाहनानि च नः सन्ति पादातं चाप्यनन्तकम् ।
रत्नानि च विचित्राणि मित्राणि च बहूनि च॥४॥

इयं च माथुरी भूमिरल्पा गम्या परस्य तु ।
वृद्धिश्चैव परास्माकं बलतो मित्रतस्तथा॥५॥

कुमारकोट्यो याश्चेमाः पदातीनां गणाश्च ये ।
एषामपीह वसतां संमर्दमुपलक्षये॥६॥

अत्र नो रोचते मह्यं निवासो यदुपुङ्गवाः ।
पुरीं निवेशयिष्यामि मम तत्क्षन्तुमर्हथ॥७॥

एतद्यदनुरूपं वो ममाभिप्रायजं वचः ।
भवाय भवतां काले यदुक्तं यदुसंसदि॥८॥

तमूचुर्यादवाः सर्वे हृष्टेन मनसा तदा ।
साध्यतां यदभिप्रेतं जनस्यास्य भवाय वै॥९॥

ततः संमन्त्रयामासुर्वृष्णयो मन्त्रमुत्तमम् ।
अवध्योऽसौ कृतोऽस्माकं सुमहच्च रिपोर्बलम्॥१०॥

कृतः सैन्यक्षयश्चापि महानिह नराधिपैः ।
बहुलानि च सैन्यानि हन्तुं वर्षशतैरपि ।
न शक्ष्यामो ह्यतस्तेषामपयानेऽभवन्मतिः॥११॥

तस्मिंश्चैवान्तरे राजा स कालयवनस्तदा ।
सैन्येन तद्विधेनैव मथुरामभ्युपागमत्॥१२॥

राजा जरासन्धः सकालयवनः कालयवनेन सहितः॥१२॥

ततो जरासन्धबलं दुर्निवार्यमभूत्तदा ।
ते कालयवनं चैव श्रुत्वेदं प्रतिपेदिरे॥१३॥

इदम् अवध्योऽसावित्यादिपूर्वोक्तम् अपयानं प्रतिपेदिरे शरणीचक्रुः॥१३॥

केशवः पुनरेवाह यादवान्सत्यसङ्गरः ।
अद्यैव दिवसः पुण्यो निर्यामः स्वबलानुगाः॥१४॥

ततो निश्चक्रमुः सर्वे यादवाः कृष्णशासनात् ।
ओघा इव समुद्रस्य बलौघप्रतिनादिताः॥१५॥

सङ्गृह्य ते कलत्राणि वसुदेवपुरोगमाः ।
सुसन्नद्धैर्गजैर्मत्तै रथैरश्वैश्च दंशितैः॥१६॥

आहत्य दुन्दुभीन्सर्वे स्वजनज्ञातिबान्धवाः ।
निर्ययुर्यादवाः सर्वे मथुरामपहाय वै॥१७॥

स्यन्दनैः काञ्चनापीडैर्मत्तैश्च वरवारणैः ।
सूतैः प्लुतैश्च तुरगैः कशापार्ष्णिप्रणोदितैः॥१८॥

सूतैः प्लुतैः आज्ञामात्रादुत्पतद्भिः॥१८॥

स्वानि स्वानि बलाग्राणि शोभयन्तः प्रकर्षिणः ।
प्रत्यङ्मुखा ययुर्हृष्टा वृष्णयो भरतर्षभ॥१९॥

ततो मुख्यतमाः सर्वे यादवा रणकोविदाः ।
अनीकाग्राणि कर्षन्तो वासुदेवपुरोगमाः॥२०॥

ते स्म नानालताचित्रं नालिकेरवनायुतम् ।
कीर्णं नागबलैः कान्तं केतकीखण्डमण्डितम्॥२१॥

तालपुन्नागबकुलद्राक्षावनघनं क्वचित् ।
अनूपं सिन्धुराजस्य प्रपेतुर्यदुपुङ्गवाः॥२२॥

ते तत्र रमणीयेषु विषयेषु सुखप्रियाः ।
मुमुदुर्यादवाः सर्वे देवाः स्वर्गगता इव॥२३॥

पुरवास्तु विचिन्वन्स कृष्णस्तु परवीरहा ।
ददर्श विपुलं देशं सागरेणोपशोभितम्॥२४॥

वास्तु स्थानम्॥२४॥

वाहनानां हितं चैव सिकताताम्रमृत्तिकम् ।
पुरलक्षणसम्पन्नं कृतास्पदमिव श्रिया॥२५॥

सिकतायुक्ता ताम्रमृत्तिका यस्मिन्॥२५॥

सागरानिलसंवीतं सागराम्बुनिषेवितम् ।
विषयं सिन्धुराजस्य शोभितं पुरलक्षणैः॥२६॥

तत्र रैवतको नाम पर्वतो नातिदूरतः ।
मन्दरोदारशिखरः सर्वतोऽभिविराजते॥२७॥

तत्रैकलब्धसंवासो द्रोणेनाध्युषितश्चिरम् ।
प्रभूतपुरुषोपेतः सर्वरत्नसमाकुलः॥२८॥

विहारभूमिस्तत्रैव तस्य राज्ञः सुनिर्मिता ।
नाम्ना द्वारवती नाम स्वायताष्टापदोपमा॥२९॥

अष्टापदोपमा शारिकाफलतुल्या दीर्घचतुरस्त्रद्वयसम्बन्धवतीत्यर्थः॥२९॥

केशवेन मतिस्तत्र पुर्यर्थे विनिवेशिता ।
निवेशं तत्र सैन्यानां रोचयन्ति स्म यादवाः॥३०॥

मतिः इच्छा॥३०॥

ते रक्तसूर्यदिवसे तत्र यादवपुङ्गवाः ।
सेनापालांश्च सञ्चक्रुः स्कन्धावारनिवेशनम्॥३१॥

ध्रुवाय तत्र न्यवसत्केशवः सह यादवैः ।
देशे पुरनिवेशाय स यदुप्रवरो विभुः॥३२॥

तस्यास्तु विधिवन्नाम वास्तूनि च गदाग्रजः ।
निर्ममे पुरुषश्रेष्ठो मनसा यादवोत्तमः॥३३॥

वास्तूनि गृहाणि निर्ममे विभक्तवान् मनसा सङ्कल्पमात्रेण॥३३॥

एवं द्वारवतीं चैव पुरीं प्राप्य सबान्धवाः ।
सुखिनो न्यवसन्राजन्स्वर्गे देवगणा इव॥३४॥

कृष्णोऽपि कालयवनं ज्ञात्वा केशिनिषूदनः ।
जरासन्धभयाच्चैव पुरीं द्वारवतीं ययौ॥३५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि द्वारवतीप्रयाणे षट्पऽचाशत्तमोऽध्यायः॥५६॥
कालयवनवधः-०५७

जनमेजय उवाच। भगवञ्छ्रोतुमिच्छामि विस्तरेण महात्मनः ।
चरितं वासुदेवस्य यदुश्रेष्ठस्य धीमतः॥१॥

सप्तपञ्चाशत्तमेऽस्मिन्मुचुकुन्ददृशा हरिः। यवनं घातयामास मानयञ्छाङ्करं वरम्॥१॥ भगवन्निति॥१॥

किमर्थं च परित्यज्य मथुरां मधुसूदनः ।
मध्यदेशस्य ककुदं धाम लक्ष्म्याश्च केवलम्॥२॥

परित्यज्य गत इत्यर्थः॥२॥

शृङ्गं पृथिव्याः स्वालक्ष्यं प्रभूतधनधान्यवत् ।
आर्याढ्यजलभूयिष्ठमधिष्ठानवरोत्तमम्॥३॥

अयुद्धेनैव दाशार्हस्त्यक्तवान्द्विजसत्तम ।
स कालयवनश्चापि कृष्णे किं प्रत्यपद्यत॥४॥

द्वारकां च समासाद्य वारिदुर्गां जनार्दनः ।
किं चकार महाबाहुर्महायोगी महातपाः॥५॥

किंवीर्याः कालयवनः केन जातश्च वीर्यवान् ।
यमसह्यं समालक्ष्य व्यपयातो जनार्दनः॥६॥

वैशम्पायन उवाच। वृष्णीनामन्धकानां च गुरुर्गार्ग्यो महामनाः ।
ब्रह्मचारी पुरा भूत्वा न स्म दारान्स विन्दति॥७॥

दारान्विद्यमानानपि न विन्दति नाभ्यगच्छत्॥७॥

तथा हि वर्तमानं तमूर्ध्वरेतसमव्ययम् ।
श्यालोऽभिशस्तवान्गार्ग्यमपुमानिति राजनि॥८॥

राजनि राजसभायाम्॥८॥

सोऽभिशस्तास्तदा राजन्नगरे त्वजितं जये ।
अलिप्संस्तु स्त्रियं चैव तपस्तेपे सुदारुणम्॥९॥

अलिप्सन् अनिच्छन् कोपेन॥९॥

ततो द्वादशवर्षाणि सोऽयश्चूर्णमभक्षयत् ।
आराधयन्महादेवमचिन्त्यं शूलपाणिनम्॥१०॥

रुद्रस्तस्मै वरं प्रादात्समर्थं युधि निग्रहे ।
वृष्णीनामन्धकानां च सर्वतेजोमयं सुतम्॥११॥

ततः शुश्राव तं राजा यवनाधिपतिर्वरम् ।
पुत्रप्रसवजं दैवादपुत्रः पुत्रकामिता॥१२॥

पुत्रस्य कामिता कामयिता॥१२॥

स नृपस्तमुपानाय्य सान्त्वयित्वा द्विजोत्तमम् ।
तं घोषमध्ये यवनो गोपस्त्रीषु समासृजत्॥१३॥

तं गार्ग्यम् उपानाय्य स्वगृहमानाय्य॥१३॥

गोपाली त्वप्सरास्तत्र गोपस्त्रीवेषधारिणी ।
धारयामास गार्ग्यस्य गर्भं दुर्धरमच्युतम्॥१४॥

मानुष्यां गार्ग्यभार्यायां नियोगाच्छूलपाणिनः ।
स कालयवनो नाम जज्ञे शूरो महाबलः॥१५॥

मानुष्यां मानुषीरूपायामप्सरसि भार्यायां भार्यावद्वर्त्तमानायाम्॥१५॥

अपुत्रस्याथ राज्ञस्तु ववृधेऽन्तःपुरे शिशुः ।
तस्मिन्नुपरते राजन्स कालयवनो नृपः॥१६॥

युद्धाभिकामो नृपतिः पर्यपृच्छद्द्विजोत्तमान् ।
वृष्ण्यन्धककुलं तस्य नारदेन निवेदितम्॥१७॥

ज्ञात्वा तु वरदानं तन्नारदान्मधुसूदनः ।
उपप्रैक्षत तेजस्वी वर्द्धन्तं यवनेषु तम्॥१८॥

समृद्धो हि यदा राजा यवनानां महाबलः ।
तत एवं नृपा म्लेच्छाः संश्रित्यानुययुस्तदा॥१९॥

शकास्तुषारा दरदाः पारदाः सृङ्गलाः खसाः ।
पह्लवाः शतशश्चान्ये म्लेच्छा हैमवतास्तथा॥२०॥

स तैः परिवृतो राजा दस्युभिः शलभैरिव ।
नानावेषायुधैर्भीमैर्मथुरामभ्यवर्तत॥२१॥

शलभैरवेति बहुत्वे दृष्टान्तः॥२१॥

गजवाजिखरोष्ट्राणामयुतैरर्बुदैरपि ।
पृथिवीं कम्पयामास सैन्येन महता वृतः॥२२॥

रेणुना सूर्यमार्गं तु समवच्छाद्य पार्थिवः ।
मूत्रेण शकृता चैव सैन्येन संसृजे नदीम्॥२३॥

अश्वोष्ट्रशकृतां राशेर्निस्सृतेति जनाधिप ।
ततोऽश्वशकृदित्येवं नाम नद्या बभूव ह॥२४॥

तत्सैन्यं महदायाद्वै श्रुत्वा वृष्ण्यन्धकाग्रणीः ।
वसुदेवः समानाय्य ज्ञातीनिदमुवाच ह॥२५॥

इदं समुत्थितं घोरं वृष्ण्यन्धकभवं महत् ।
अवध्यश्चापि नः शत्रुर्वरदानात्पिनाकिनः॥२६॥

सामादयोऽभ्युपायाश्च विहितास्तस्य सर्वशः ।
मत्तो मदबलाभ्यां तु युद्धमेव चिकीर्षति॥२७॥

एतावानिह वासश्च कथितो नारदेन मे ।
एतावति च वक्तव्यं सामैव परमं मतम्॥२८॥

जरासन्धश्च नो राजा नित्यमेव न मृष्यते ।
तथान्ये पृथिवीपाला वृष्णिचक्रप्रतापिताः॥२९॥

राजानोऽस्मान्॥२९॥

केचित्कंसवधाच्चापि विरक्तास्तद्गता नृपाः ।
समाशृत्य जरासन्धमस्मानिच्छन्ति बाधितुम्॥३०॥

बहवो ज्ञातयश्चैव यदूनां निहता नृपैः ।
वर्द्धितुं नैव शक्ष्याम पुरेऽस्मिन्निति केशवः॥३१॥

अपयाने मतिं कृत्वा दूतं तस्मै ससर्ज ह ।
ततः कुम्भे महासर्पं भिन्नाञ्जनचयोपमम्॥३२॥

घोरमाशीविषं कृष्णं कृष्णः प्राक्षेपयत्तदा ।
ततस्तं मुद्रयित्वा तु स्वेन दूतेन हारयत्॥३३॥

निदर्शनार्थं गोविन्दो भीषयामास तं नृपम् ।
स दूतः कालयवने दर्शयामास तं घटम्॥३४॥

कालसर्पोपमः कृष्ण इत्युक्त्वा भरतर्षभ ।
तत्कालयवनो बुद्ध्वा त्रासनं यादवैः कृतम्॥३५॥

पिपीलिकानां चण्डानां पूरयामास तं घटम् ।
स सर्पो बहुभिस्तीक्ष्णैः सर्वतस्तैः पिपीलिकैः॥३६॥

भक्ष्यमाणः किलाङ्गेषु भस्मीभूतोऽभवत्तदा ।
तं मुद्रयित्वा तु घटं तथैव यवनाधिपः ।
प्रेषयामास कृष्णाय बाहुल्यमुपवर्णयन्॥३७॥

वासुदेवस्तु तं दृष्ट्वा योगं विहतमात्मनः ।
उत्सृज्य मथुरामाशु द्वारकामभिजग्मिवान्॥३८॥

वैरस्यान्तं विधित्संस्तु वासुदेवो महायशाः ।
निवेश्य द्वारकां राजन्वृष्णीनाश्वास्य चैव ह॥३९॥

पदातिः पुरुषव्याघ्रो बाहुप्रहरणस्तदा ।
आजगाम महावीर्यो मथुरां मधुसूदनः॥४०॥

तं दृष्ट्वा निर्ययौ हृष्टः स कालयवनो रुषा ।
प्रेक्षापूर्वं च कृष्णोऽपि निश्चकर्ष महाबलः॥४१॥

अथान्वगच्छद्गोविन्दं जिघृक्षुर्यवनेश्वरः ।
न चैनमशकद्राजा ग्रहीतुं योगधर्मिणम्॥४२॥

मान्धातुस्तु सुतो राजा मुचुकुन्दो महायशाः ।
पुरा देवासुरे युद्धे कृतकर्मा महाबलः॥४३॥

वरेण छन्दितो देवैर्निद्रामेव गृहीतवान् ।
श्रान्तस्य तस्य वागेवं तदा प्रादुरभूत्किल॥४४॥

प्रसुप्तं बोधयेद्यो मां तं दहेयमहं सुराः ।
चक्षुषा क्रोधदीप्तेन एवमाह पुनः पुनः॥४५॥

एवमस्त्विति तं शक्र उवाच त्रिदिवैः सह ।
स सुरैरभ्यनुज्ञातो ह्यद्रिराजमुपागमत्॥४६॥

स पर्वतगुहां काञ्चित्प्रविश्य श्रमकर्शितः ।
सुष्वाप कालमेतं वै यावत्कृष्णस्य दर्शनम्॥४७॥

तत्सर्वं वासुदेवाय नारदेन निवेदितम् ।
वरदानं च देवेभ्यस्तेजस्तस्य च भूपतेः॥४८॥

कृष्णोऽनुगम्यमानश्च तेन म्लेच्छेन शत्रुणा ।
तां गुहां मुचुकुन्दस्य प्रविवेश विनीतवत्॥४९॥

शिरःस्थाने तु राजर्षेर्मुचुकुन्दस्य केशवः ।
सन्दर्शनपथं त्यक्त्वा तस्थौ बुद्धिमतां वरः॥५०॥

अनुप्रविश्य यवनो ददर्श पृथिवीपतिम् ।
स तं सुप्तं कृतान्ताभमाससाद सुदुर्मतिः॥५१॥

वासुदेवं तु तं मत्वा घट्टयामास पार्थिवम् ।
पादेनात्मविनाशाय शलभः पावकं यथा॥५२॥

मुचुकुन्दस्तु राजर्षिः पादस्पर्शप्रबोधितः ।
निद्राच्छेदेन चुक्रोध पादस्पर्शेन तेन च॥५३॥

संस्मृत्य स वरं शक्रादवैक्षत तमग्रतः ।
स दृष्टमात्रः क्रोधेन सम्प्रजज्वाल सर्वशः॥५४॥

ददाह पावकस्तं तु शुष्कं वृक्षमिवाशनिः ।
क्षणेन कालयवनं नेत्रतेजोविनिर्गतः॥५५॥

तं वासुदेवः श्रीमन्तं चिरगुप्तं नराधिपम् ।
कृतकार्योऽब्रवीद्धीमानिदं वचनमुत्तमम्॥५६॥

राजंश्चिरप्रसुप्तोऽसि कथितो नारदेन मे ।
कृतं मे सुमहत्कार्यं स्वस्ति तेऽस्तु व्रजाम्यहम्॥५७॥

वासुदेवमुपालक्ष्य राजा ह्रस्वं प्रमाणतः ।
परिष्कृतं युगं मेने कालेन महता तदा॥५८॥

उवाच राजा गोविन्दं को भवान्किमिहागतः ।
कश्च कालः प्रसुप्तस्य यदि जानासि कथ्यताम्॥५९॥

श्रीकृष्ण उवाच सोमवंशोद्भवो राजा ययातिर्नाम नाहुषः ।
तस्य पुत्रो यदुर्ज्येष्ठश्चत्वारोऽन्ये यवीयसः॥६०॥

चत्वारः तुर्वसुर्द्रुह्युरनुः पूरुरिति। यवीयसो यवीयांसः॥६०॥

यदुवंशात्समुत्पन्नं वसुदेवात्मजं विभो ।
वासुदेवं विजानीहि नृपते त्वामिहागतम्॥६१॥

त्रेतायुगे प्रसुप्तोऽसि विदितो मेऽसि नारदात् ।
इदं कलियुगं विद्धि किमन्यत्करवाणि ते॥६२॥

मम शत्रुस्त्वया दग्धो देवदत्तवरो नृप ।
अवध्यो यो मया सङ्ख्ये भवेद्वर्षशतैरपि॥६३॥

वैशम्पायन उवाच। इत्युक्तः स तु कृष्णेन निर्जगाम गुहामुखात् ।
अन्वीयमानः कृष्णेन कृतकार्येण धीमता॥६४॥

ततो ददर्श पृथिवीमावृतां ह्रस्वकैर्नरैः ।
स्वल्पोत्साहैरल्पबलैरल्पवीर्यपराक्रमैः ।
परेणाधिष्ठितं चैव राज्यं केवलमात्मनः॥६५॥

प्रीत्या विसृज्य गोविन्दं प्रविवेश महद्वनम् ।
हिमवन्तमगाद्राजा तपसे धृतमानसः॥६६॥

ततः स तप आस्थाय विनिर्मुच्य कलेवरम् ।
आरुरोह दिवं राजा कर्मभिः स्वैर्जिताशुभैः॥६७॥

वासुदेवोऽपि धर्मात्मा उपायेन महामनाः ।
घातयित्वाऽऽत्मनः शत्रुं तत्सैन्यं प्रत्यपद्यत॥६८॥

प्रभूतरथहस्त्यश्ववर्मशस्त्रायुधध्वजम् ।
आदायोपययौ धीमान्स सैन्यं निहतेश्वरम्॥६९॥

निवेदयामास ततो नराधिपे तदुग्रसेने प्रतिपूर्णमानसः ।
जनार्दनो द्वारवतीं च तां पुरीमशोभयत्तेन धनेन भूरिणा॥७०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि कालयवनवधे सप्तपञ्चाशत्तमोऽध्यायः॥५७॥
द्वारवतीनगरनिर्माणम्-०५८

वैशम्पायन उवाच। ततः प्रभाते विमले भास्करे उदिते तदा ।
कृतजाप्यो हृषीकेशो वनान्ते निषसाद ह॥१॥

अष्टपञ्चाशत्तमेऽथाध्याये त्वष्टारमाह्वयत्। द्वारकातिविशेषान्यो हरिस्तेन विनिर्ममे॥१॥ तत इति॥१॥

परिचक्राम तं देशं दुर्गस्थानदिदृक्षया ।
उपतस्थुः कुलप्राग्र्या यादवा यदुनन्दनम्॥२॥

रोहिण्यामहनि श्रेष्ठे स्वस्ति वाच्य द्विजोत्तमान् ।
पुण्याहघोषैर्विपुलैर्दुर्गस्यारब्धवान्क्रियाम्॥३॥

रोहिण्यां रोहिणीनक्षत्रे श्रेष्ठे अहनि मन्दवासरे “शनौ हि सुसमारम्भं कृतवानीश्वरः स्वयम्”। इति वचनात्॥३॥

ततः पङ्कजपत्राक्षो यादवान्केशिसूदनः ।
प्रोवाच वदतां श्रेष्ठो देवान्वृत्ररिपुर्यथा॥४॥

कल्पितेयं मया भूमिः पश्यध्वं देवसद्मवत् ।
नाम चास्याः कृतं पुर्याः ख्यातिं यदुपयास्यति॥५॥

इयं द्वारवती नाम पृथिव्यां निर्मिता मया ।
भविष्यति पुरी रम्या शक्रस्येवामरावती॥६॥

तान्येवास्याः कारयिष्ये चिह्नान्यायतनानि च ।
चत्वारान्राजमार्गांश्च सम्यगन्तःपुराणि च॥७॥

देवा इवात्र मोदन्तु भवन्तो विगतज्वराः ।
बाधमाना रिपूनुग्रानुग्रसेनपुरोगमाः॥८॥

गृह्यन्तां वेश्मवास्तूनि कल्प्यन्तां त्रिकचत्वराः ।
मीयन्तां राजमार्गाश्च प्रासादस्य च या गतिः॥९॥

त्रिकं तिसृभिः अट्टपङ्क्तिभिः कल्पितं त्रिकोणं त्रिकं चत्वरं चतसृभिश्चतुरस्त्रं तदेवं राजमार्गः द्वाभ्यां पण्यपङ्क्तिभ्यां कल्पितदीर्घरथ्यारूपः॥९॥

प्रेष्यन्तां शिल्पिमुख्यानां युक्तानां वेश्मकर्मसु ।
नियुज्यन्तां च देशेषु प्रेष्यकर्मकरा जनाः॥१०॥

शिल्पिमुख्यानाम् आह्वायका इति शेषः॥१०॥

एवमुक्ते तु यदवो गृहसङ्ग्रहतत्पराः ।
यथानिवेशं संहृष्टाश्चक्रुर्वास्तुपरिग्रहम्॥११॥

सूत्रहस्तास्ततो मानं चक्रुर्यादवसत्तमाः ।
पुण्येऽहनि महाराज द्विजातीनभिपूज्य च॥१२॥

वास्तुदैवतकर्माणि विधिना कारयन्ति च ।
स्थपतीनथ गोविन्दस्तत्रोवाच महामतिः॥१३॥

स्थपतान् वास्तुकर्मज्ञान् सूत्रधारान्॥१३॥

अस्मदर्थे सुविहितं क्रियतामत्र मन्दिरम् ।
विविक्तचत्वारपथं सुनिविष्टेष्टदैवतम्॥१४॥

ते तथेति महाबाहुमुक्त्वा स्थपतयस्तदा ।
दुर्गकर्माणि संस्कारानुपकल्प्य यथाविधि॥१५॥

संस्कारान् कण्टकाद्युद्वासनवटारोधादीन्॥१५॥

यथान्यायं निर्मिमिरे दुर्गाण्यायतनानि च ।
स्थानानि निदधुश्चात्र ब्रह्मादीनां यथाक्रमम्॥१६॥

ब्रह्मादीनां, “द्वारे पितामहं विद्यात्” इत्यादिशास्त्रोक्तानां, गृहबलिदेवतानाम्॥१६॥

अपामग्नेः सुरेशस्य दृषदोलूखलस्य च ।
चातुर्दैवानि चत्वारि द्वाराणि निदधुश्च ते॥१७॥

चतुर्देवानीति पाठे देवाः शुद्धाक्षादयस्तद्वन्ति तांश्च तत्तत्स्थानपूर्वकं पूजयेदित्यर्थः॥१७॥

शुद्धाक्षमैन्द्रं भल्लाटं पुष्पदन्तं तथैव च ।
तेषु वेश्मसु युक्तेषु यादवेषु महात्मसु॥१८॥

पुर्याः क्षिप्रं निवेशार्थं चिन्तयामास माधवः ।
तस्य दैवोत्थिता बुद्धिर्विमला क्षिप्रकारिणी॥१९॥

पुर्याः प्रियकरी सा वै यदूनामभिवर्द्धिनी ।
शिल्पिमुख्यस्तु देवानां प्रजापतिसुतः प्रभुः॥२०॥

विश्वकर्मा स्वमत्या वै पुरीं संस्थापयिष्यति ।
मनसा समनुध्याय तस्यागमनकारणात् ।
त्रिदशाभिमुखः कृष्णो विविक्ते समपद्यत॥२१॥

तस्मिन्नेव ततः काले शिल्पाचार्यो महामतिः ।
विश्वकर्मा सुरश्रेष्ठः कृष्णस्य प्रमुखे स्थितः॥२२॥

विश्वकर्मोवाच। शक्रेण प्रेषितः क्षिप्रं तव विष्णो धृतव्रत ।
किङ्करः समनुप्राप्तः शाधि मां किं करोमि ते॥२३॥

यथासौ देवदेवो मे शङ्करश्च यथाव्ययः ।
तथा त्वं देव मान्यो मे विशेषो नास्ति वः प्रभो॥२४॥

यथा मे ब्रह्मादयो मान्यास्तथा त्वं देवमान्यो ब्रह्मादीनां मान्योऽसि। वः युष्मत्तः पूजायां बहुत्वं विशेषो विशिष्टत्वं नास्ति॥२४॥

त्रैलोक्यज्ञापिकां वाचमुत्सृजस्व महाभुज ।
एषोऽस्मि परिदृष्टार्थः किं करोमि प्रशाधि माम्॥२५॥

श्रुत्वा विनीतं वचनं केशवो विश्वकर्मणः ।
प्रत्युवाच यदुश्रेष्ठः कंसारिरतुलं वचः॥२६॥

श्रुतार्थो देवगुह्यस्य भवान्यत्र वयं स्थिताः ।
अवश्यं त्विह कर्तव्यं सदनं मे सुरोत्तम॥२७॥

तदियं पूः प्रकाशार्थं निवेश्या मयि सुव्रत ।
मत्प्रभावानुरूपैश्च गृहैश्चेयं समन्ततः॥२८॥

प्रकाशार्थं स्वकौशलस्य मयि मन्निमितम्॥२८॥

उत्तमा च पृथिव्यां वै यथा स्वर्गेऽमरावती ।
तथेयं हि त्वया कार्या शक्तो ह्यसि महामते॥२९॥

मम स्थानमिदं कार्यं यथा वै त्रिदिवे तथा ।
मर्त्याः पश्यन्तु मे लक्ष्मीं पुर्या यदुकुलस्य च॥३०॥

मम स्थानं वैकुण्ठमिदं रहस्यं कार्यम्॥३०॥

एवमुक्तस्ततः प्राह विश्वकर्मा मतीश्वरः ।
कृष्णमक्लिष्टकर्माणं देवामित्रविनाशनम्॥३१॥

मतीश्वरः मतिमतां प्रभुः॥३१॥

सर्वमेतत्करिष्यामि यत्त्वयाभिहितं प्रभो ।
पुरी त्वियं जनस्यास्य न पर्याप्ता भविष्यति॥३२॥

पुरी पुर्यर्था भूमिः॥३२॥

भविष्यति च विस्तीर्णा वृद्धिरस्यास्तु शोभना ।
चत्वारः सागरा ह्यस्यां विचरिष्यन्ति रूपिणः॥३३॥

यदीच्छेत्सागरः किञ्चिदुत्क्रष्टुमपि तोयराट् ।
ततः स्वायतलक्षण्या पुरी स्यात्पुरुषोत्तमा॥३४॥

एवमुक्तस्ततः कृष्णः प्रागेव कृतनिश्चयः ।
सागरं सरितां नाथमुवाच वदतां वरः॥३५॥

समुद्र दश च द्वे च योजनानि जलाशये ।
प्रतिसंह्रियतामात्मा यद्यस्ति मयि मान्यता॥३६॥

अवकाशे त्वया दत्ते पुरीयं मामकं बलम् ।
पर्याप्तविषया रंया समग्रं विसहिष्यति॥३७॥

ततः कृष्णस्य वचनं श्रुत्वा नदनदीपतिः ।
स मारुतेन योगेन उत्ससर्ज जलाशयम्॥३८॥

मारुतेन योगेन वायुसङ्कोचनप्रधानेन॥३८॥

विश्वकर्मा ततः प्रीतः पुर्याः संलक्ष्य वास्तु तत् ।
गोविन्दे चैव सन्मानं कृतवान्सागरस्तदा॥३९॥

विश्वकर्मा ततः कृष्णमुवाच यदुननदनम् ।
अद्यप्रभृति गोविन्द सर्वे समधिरोहत॥४०॥

मनसा निर्मिता चेयं मया पूः प्रवरा विभो ।
अचिरेणैव कालेन गृहसम्बाधमालिनी॥४१॥

भविष्यति पुरी रम्या सुद्वारा प्राग्र्यतोरणा ।
चयाट्टालककेयूरा पृथिव्यां ककुदोपमा॥४२॥

प्राग्र्यतोरणा श्रेष्ठवन्दनमालिका॥४२॥

अन्तःपुरं च कृष्णस्य परिचर्याक्षयं महत् ।
चकार तस्यां पुर्यां वै देशे त्रिदशपूजिते॥४३॥

परिचर्याक्षयं स्नानादिगृहम्॥४३॥

ततः सा निर्मिता कान्ता पुरी द्वारवती तदा ।
मानसेन प्रयत्नेन वैष्णवीः विश्वकर्मणा॥४४॥

विधानविहितद्वारा प्राकारवरशोभिता ।
परिखाचयसङ्गुप्ता साट्टप्राकारतोरणा॥४५॥

कान्तनारीनरगणा वणिग्भिरुपशोभिता ।
नानापण्यगणाकीर्णा खेचरीव च गां गता॥४६॥

गां पृथिवीम्॥४६॥

प्रपावापीप्रसन्नोदा उद्यानैरुपशोभिता ।
समन्ततः संवृताङ्गी वनितेवायतेक्षणा॥४७॥

समृद्धचत्वरवती वेश्मोत्तमघनाचिता ।
रथ्याकोटिसहस्राढ्या शुभ्रराजपथोत्तरा॥४८॥

वेश्मोत्तमेषु उच्चवेश्मसु घनाचिता मेघव्याप्ता अत्युच्चेत्यर्थः॥४८॥

भूषयन्ती समुद्रं सा स्वर्गमिन्द्रपुरी यथा ।
पृथिव्यां सर्वरत्नानामेका निचयशालिनी॥४९॥

निचयशालिनी समृद्धिमती॥४९॥

सुराणामपि सुक्षेत्रा सामन्तक्षोभकारिणी ।
अप्रकाशं तदाकाशं प्रासादैरुपकुर्वती॥५०॥

सुक्षेत्रा पुण्याधिवसतिः॥५०॥

पृथिव्यां पृथुराष्ट्रायां जनौघप्रतिनादिता ।
ओघैश्च वारिराजस्य शिशिरीकृतमारुता॥५१॥

अनूपोपवनैः कान्तैः कान्त्या जनमनोहरा ।
सतारका द्यौरिव सा द्वारका प्रत्यराजत॥५२॥

प्राकारेणार्कवर्णेन शातकौम्भेन संवृता ।
हिरण्यप्रतिवर्णैश्च गृहैर्गम्भीरनिःस्वनैः॥५३॥

शुभ्रमेघप्रतीकाशैर्द्वारैः सौधैश्च शोभिता ।
क्वचित्क्वचिदुदग्राग्रैरुपावृतमहापथा॥५४॥

उदग्राग्रैरत्युच्चसौधैः उपावृतः छायया पिहितः महापथो यस्यां सा॥५४॥

तामावसत्पुरीं कृष्णः सर्वे यादवनन्दनाः ।
अभिप्रेतजनाकीर्णां सोमः खमिव भासयन्॥५५॥

विश्वकर्मा च तां कृत्वा पुरीं शक्रपुरीमिव ।
जगाम त्रिदिवं देवो गोविन्देनाभिपूजितः॥५६॥

भूयश्च बुद्धिरभवत्कृष्णस्य विदितात्मनः ।
जनानिमान्धनौघैश्च तर्पयेयमहं यदि॥५७॥

स वैश्रवणसंस्पृष्टं निधीनामुत्तमं निधिम् ।
शङ्खमाह्वयतोपेन्द्रो निशि स्वे भवने प्रभुः॥५८॥

स शङ्खः केशवाह्वानं ज्ञात्वा हि निधिराट् स्वयम् ।
आजगाम समीपं वै तस्य द्वारवतीपतेः॥५९॥

स शङ्खः प्राञ्जलिर्भूत्वा विनयादवनिं गतः ।
कृष्णं विज्ञापयामास यथा वैश्रवणं तथा॥६०॥

भगवन्किं मया कार्यं सुराणां वित्तरक्षिणा ।
वियोजय महाबाहो यत्कार्यं यदुनन्दन॥६१॥

तमुवाच हृषीकेशः शङ्खं गुह्यकमुत्तमम् ।
जनाः कृशधना येऽस्मिंस्तान्धनेनाभिपूरय॥६२॥

नेच्छाम्यनशितं द्रष्टुं कृशं मलिनमेव च ।
देहीति चैव याचन्तं नगर्यां निर्धनं नरम्॥६३॥

अनशितं निरन्नम्॥६३॥

वैशम्पायन उवाच। गृहीत्वा शासनं मूर्ध्ना निधिराट् केशवस्य ह ।
निधीनाज्ञापयामास द्वारवत्यां गृहे गृहे॥६४॥

धनौघैरभिवर्षध्वं चक्रुः सर्वं तथा च ते ।
नाधनो विद्यते तत्र क्षीणभाग्योऽपि वा नरः॥६५॥

कृशो वा मलिनो वापि द्वारवत्यां कथञ्चन ।
द्वारवत्यां पुरि पुरा केशवस्य महात्मनः॥६६॥

चकार वायोराह्वानं भूयश्च पुरुषोत्तमः ।
तत्रस्थ एव भगवान्यादवानां प्रियङ्करः॥६७॥

प्राणयोनिस्तु भूतानामुपतस्थे गदाधरम् ।
एकमासीनमेकान्ते देवगुह्यधरं प्रभुम्॥६८॥

किं मया देव कर्तव्यं सर्वगेनाशुगामिना ।
यथैव दूतो देवानां तथैवास्मि तवानघ॥६९॥

तमुवाच ततः कृष्णो रहस्यं पुरुषो हरिः ।
मारुतं जगतः प्राणं रूपिणं समुपस्थितम्॥७०॥

गच्छ मारुत देवेशमनुमान्य सहामरैः ।
सभां सुधर्मामादाय देवेभ्यस्तमिहानय॥७१॥

यादवा धार्मिका ह्येते विक्रान्ताश्च सहस्रशः ।
तस्यां विशेयुरेते वै न तु या कृत्रिमा भवेत्॥७२॥

या ह्यक्षया सभा रम्या कामगा कामरूपिणी ।
सा यदून्धारयेत्सर्वान्यथैव त्रिदशांस्तथा॥७३॥

सङ्गृह्य वचनं तस्य कृष्णस्याक्लिष्टकर्मणः ।
वायुरात्मोपमगतिर्जगाम त्रिदिवालयम्॥७४॥

सोऽनुमान्य सुरान्सर्वान्कृष्णवाक्यं निवेद्य च ।
सभां सुधर्मामादाय पुनरायान्महीतलम्॥७५॥

सुधर्माय सुधर्मां तां कृष्णायाक्लिष्टकारिणे ।
देवो देवसभां दत्वा वायुरन्तरधीयत॥७६॥

द्वारवत्यास्तु सा मध्ये केशवेन निवेशिता ।
सुधर्मा यदुमुख्यानां देवानां त्रिदिवे यथा॥७७॥

एवं दिव्यैश्च भोगैश्च जलजैश्चाव्ययो हरिः ।
द्रव्यैरलङ्करोति स्म पुरीं स्वां प्रमदामिव॥७८॥

मर्यादाश्चैव सञ्चक्रे श्रेणीश्च प्रकृतीस्तथा ।
बलाध्यक्षांश्च युक्तांश्च प्रकृतीशांस्तथैव च॥७९॥

उग्रसेनं नरपतिं काश्यं चापि पुरोहितम् ।
सेनापतिमनाधृष्टिं विकद्रुं मन्त्रिपुङ्गवम्॥८०॥

काश्यं सान्दीपनिम्॥८०॥

यादवानां कुलकरान्स्थविरान्दश तत्र वै ।
मतिमान्स्थापयामास सर्वकार्येष्वनन्तरान्॥८१॥

स्थविरान्दशेति वक्ष्यमाणान्। “उद्धवो वासुदेवश्च कङ्को विपृथुरेव च। श्वफल्कश्चित्रकश्चैव गदः सत्यक एव च॥ बलभद्रः पृथुश्चैव मन्त्रेष्वभ्यन्तरा दश” इति॥८१॥

रथेष्वतिरथो यन्ता दारुकः केशवस्य वै ।
योधमुख्यश्च योधाणां प्रवरः सात्यकिः कृतः॥८२॥

विधानमेवं कृत्वाथ कृष्णः पुर्यामनिन्दितः ।
मुमुदे यदुभिः सार्धं लोकस्रष्टा महीतले॥८३॥

रैवतस्याथ कन्यां च रेवतीं शीलसम्मताम् ।
प्राप्तवान्बलदेवस्तु कृष्णस्यानुमते तदा॥८४॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि द्वारवतीनिर्माणे अष्टपञ्चाशत्तमोऽध्यायः॥५८॥
रुक्मिणीहरणम्-०५९

वैशम्पायन उवाच। एतस्मिन्नेव काले तु जरासन्धः प्रतापवान् ।
नृपानुद्योजयामास चेदिराजप्रियेप्सया॥१॥

अथैकोनषष्टितमे गत्वा कुण्डिनभोजसा। रामोऽपरान्समासज्य रुक्मिणीमहरद्धरिः॥१॥ एतस्मिन्निति। चेदिराजो दमघोषः तस्य प्रियं शिशुपालाख्यपुत्रस्य विवाहस्तदीप्सया॥१॥

सुताया भीष्मकस्याथ रुक्मिण्या रुक्मभूषणः ।
शिशुपालस्य नृपतेर्विवाहो भविता किल॥२॥

तदेवाह सुताया- इति॥२॥

दन्तवक्त्रस्य तनयं सुवक्त्रममितौजसम् ।
सहस्राक्षसमं युद्धे मायाशतविशारदम्॥३॥

पौण्ड्रस्य वासुदेवस्य तथा पुत्रं महाबलम् ।
सुदेवं वीर्यसम्पन्नं पृथगक्षौहिणीपतिम्॥४॥

एकलव्यस्य पुत्रं च वीर्यवन्तं महाबलम् ।
पुत्रं च पाण्ड्यराजस्य कलिङ्गाधिपतिं तथा॥५॥

कृताप्रियं च कृष्णेन वैणुदारिं नराधिपम् ।
अंशुमन्तं तथा क्राथं श्रुतधर्माणमेव च॥६॥

निर्वृत्तशत्रुं कालिङ्गं गान्धाराधिपतिं तथा ।
प्रसह्य च महावीर्यं कौशाम्ब्यधिपमेव च॥७॥

निवृत्ताः निष्प्रचाराः शत्रवो यस्य निवृत्तशत्रुं कीलितशत्रुमित्यर्थः॥७॥

भगदत्तो महासेनः शलः शाल्वो महाबलः ।
भूरिश्रवा महासेनः कुन्तिवीर्यश्च वीर्यवान् ।
स्वयंवरार्थं सम्प्राप्ता भोजराजनिवेशने॥८॥

जनमेजय उवाच। कस्मिन्देशे नृपो जज्ञे रुक्मी वेदविदां वरः ।
कस्यान्ववाये द्युतिमान्सम्भूतो द्विजसत्तम॥९॥

वैशम्पायन उवाच। राजर्षेर्यादवस्यासीद्विदर्भो नाम वै सुतः ।
विन्ध्यस्य दक्षिणे पार्श्वे विदर्भायां न्यवेशयत्॥१०॥

क्रथकैशिकमुख्यास्तु पुत्रास्तस्य महाबलाः ।
बभूवुर्वीर्यसम्पन्नाः पृथग्वंशकरा नृपाः॥११॥

तस्यान्ववाये भीमस्य जज्ञिरे वृष्णयो नृपाः ।
क्रथस्य त्वंशुमान्वंशे भीष्मकः कैशिकस्य तु॥१२॥

हिरण्यरोमेत्याहुर्यं दाक्षिणात्येश्वरं नृपाः ।
अगस्त्यगुप्तामाशां यः कुण्डिनस्थोऽन्वशान्नृपः॥१३॥

रुक्मी तस्याभवत्पुत्रो रुक्मिणी च विशाम्पते ।
रुक्मी चास्त्राणि दिव्यानि द्रुमात्प्राप महाबलः॥१४॥

जामदग्न्यात्तथा रामाद्ब्राह्ममस्त्रमवाप्तवान् ।
प्रास्पर्द्धत स कृष्णेन नित्यमद्भुतकर्मणा॥१५॥

रुक्मिणी त्वभवद्राजन्रूपेणासदृशी भुवि ।
चक्रमे वासुदेवस्तां श्रवादेव महाद्युतिः॥१६॥

श्रवादाकर्णनात्॥१६॥

स तथा चाभिलषितः श्रवादेव जनार्दनः ।
तेजोवीर्यबलोपेतः स मे भर्ता भवेदिति॥१७॥

तां ददौ न च कृष्णाय द्वेषाद्रुक्मी महाबलः ।
कंसस्य वधसन्तापात्कृष्णायामिततेजसे ।
याचमानाय कंसस्य द्वेष्योऽयमिति चिन्तयन्॥१८॥

चैद्यस्यार्थे सुनीथस्य जरासन्धस्तु भूमिपः ।
वरयामास तां राजा भीष्मकं भीमविक्रमम्॥१९॥

सुनीथस्य सुनीथपुत्रस्य शिशुपालस्य॥१९॥

चेदिराजस्य तु वसोरासीत्पुत्रो बृहद्रथः ।
मगधेषु पुरा येन निर्मितोऽसौ गिरिव्रजः॥२०॥

तस्यान्ववाये जज्ञेऽसौ जरासन्धो महाबलः ।
वसोरेव तदा वंशे दमघोषोऽपि चेदिराट्॥२१॥

दमघोषस्य पुत्रास्तु पञ्च भीमपराक्रमाः ।
भगिन्यां वसुदेवस्य श्रुतश्रवसि जज्ञिरे॥२२॥

शिशुपालो दशग्रीवो रैभ्योऽथोपदिशो बली ।
सर्वास्त्रकुशला वीरा वीर्यवन्तो महाबलाः॥२३॥

ज्ञातेः समानवंशस्य सुनीथः प्रददौ सुतम् ।
जरासन्धस्तु सुतवद्ददर्शैनं जुगोप च॥२४॥

सुनीथः सुतं शिशुपालं ददौ तवायं सहकारी भूयादिति॥२४॥

जरासन्धं पुरस्कृत्य वृष्णिशत्रुं महाबलम् ।
कृतान्यागांसि चैद्येन वृष्णीनां चाप्रियैषिणा॥२५॥

वृष्णीनां दुःखदानिति शेषः॥२५॥

जामाता त्वभवत्तस्य कंसस्तस्मिन्हते युधि ।
कृष्णार्थं वैरमभवज्जरासन्धस्य वृष्णिभिः॥२६॥

तत्र निमित्तमाह- जामातेति॥२६॥

भीष्मकं वरयामास सुनीथार्थे च रुक्मिणीम् ।
तां ददौ भीष्मकश्चापि शिशुपालाय वीर्यवान्॥२७॥

वरयामास जरासन्धः सुनीथार्थे शिशुपालार्थे॥२७॥

ततश्चैद्यमुपादाय जरासन्धो नराधिपः ।
ययौ विदर्भान्सहितो दन्तवक्त्रेण यायिना॥२८॥

यायिना गच्छता सह सहायेन वा॥२८॥

अनुज्ञातश्च पौण्ड्रेण वासुदेवेन धीमता ।
अङ्गवङ्गकलिङ्गानामीश्वरः स महाबलः॥२९॥

मानयिष्यंश्च तान्रुक्मी प्रत्युद्गम्य नराधिपान् ।
वरया पूजयोपेतांस्तान्निनाय पुरीं प्रति॥३०॥

पितृष्वसुः प्रियार्थं च रामकृष्णावुभावपि ।
प्रययुर्वृष्णयश्चान्ये रथैस्तत्र बलान्विताः॥३१॥

क्रथकैशिकभर्ता तान्प्रतिगृह्य यथाविधि ।
पूजयामास पूजार्हान्बहिश्चैव न्यवेशयत्॥३२॥

क्रथकैशिकानां देशानां भर्ता ज्येष्ठो दमघोषः॥३२॥

श्वो भाविनि विवाहे च रुक्मिणी निर्ययौ बहिः ।
चतुर्युजा रथेनैन्द्रे देवतायतने शुभे॥३३॥

चतुर्युजा चतुरश्ववता ऐन्द्रे ज्येष्ठानक्षत्रे॥३३॥

इन्द्राणीमर्चयिष्यन्ती कृतकौतुकमङ्गला ।
दीप्यमानेन वपुषा बलेन महता वृता॥३४॥

तां ददर्श तदा कृष्णो लक्ष्मीं साक्षादिव स्थिताम् ।
रूपेणाग्र्येण सम्पन्नां देवतायतनान्तिके॥३५॥

वह्निरेव शिखां दीप्तां मायां भूमिगतामिव ।
पृथिवीमिव गम्भीरामुत्थितां पृथिवीतलात्॥३६॥

मरीचिमिव सोमस्य सौम्यां स्त्रीविग्रहां भुवि ।
श्रीमिवाग्र्यां विना पद्मं भविष्यां श्रीसहायिनीम् ।
कृष्णेन मनसा दृष्टां दुर्निरीक्ष्यां सुरैरपि॥३७॥

श्यामावदाता सा ह्यासीत्पृथुचार्वायतेक्षणा ।
ताम्रौष्ठनयनापाङ्गी पीनोरुजघनस्तनी॥३८॥

बृहती चारुसर्वाङ्गी तन्वी शशिसितानना ।
ताम्रतुङ्गनखी सुभ्रूर्नीलकुञ्चितमूर्धजा॥३९॥

अत्यर्थं रूपतः कान्ता पीनश्रोणिपयोधरा ।
तीक्ष्णशुक्लैः समैर्दन्तैः प्रभासद्भिरलङ्कृता॥४०॥

प्रभासद्भिः प्रकर्षेण भासमानैः॥४०॥

अनन्या प्रमदा लोके रूपेण यशसा श्रिया ।
रुक्मिणी रूपिणी देवी पाण्डुरक्षौमवासिनी॥४१॥

तां दृष्ट्वा ववृधे कामः कृष्णस्य प्रियदर्शनाम् ।
हविषेवानलस्यार्चिर्मनस्तस्यां समादधत्॥४२॥

रामेण सह निश्चित्य केशवस्तु महाबलः ।
तत्प्रमाथेऽकरोद्बुद्धिं वृष्णिभिः प्रणीधाय च॥४३॥

प्रमाथे हरणे प्रणिधाय निवेद्य॥४३॥

कृते तु देवताकार्ये निष्क्रामन्तीं सुरालयात् ।
उन्मथ्य सहसा कृष्णः स्वं निनाय रथोत्तमम्॥४४॥

वृक्षमुत्पाट्य रामोऽपि जघानापततः परान् ।
समनह्यन्त दाशार्हास्तदाज्ञप्ताश्च सर्वशः॥४५॥

ते रथैर्विविधाकारैः समुच्छ्रितमहाध्वजैः ।
वाजिभिर्वारणैश्चैव परिवव्रुर्हलायुधम्॥४६॥

आदाय रुक्मिणीं कृष्णो जगामाशु पुरीं प्रति ।
रामे भारं तमासज्य युयुधाने च वीर्यवान्॥४७॥

युयुधाने सात्यकौ॥४७॥

अक्रूरे विपृथौ चैव गदे च कृतवर्मणि ।
चक्रदेवे सुदेवे च सारणे च महाबले॥४८॥

निवृत्तशत्रौ विक्रान्ते भङ्गाकारे विदूरथे ।
उग्रसेनात्मजे कङ्के शतद्युम्ने च केशवः॥४९॥

राजाधिदेवे मृदुरे प्रसेने चित्रके तथा ।
अतिदान्ते बृहद्दुर्गे श्वफल्के सत्यके पृथौ॥५०॥

वृष्ण्यन्धकेषु चान्येषु मुख्येषु मधुसूदनः ।
गुरुमासज्य तं भारं ययौ द्वारवतीं प्रति॥५१॥

दन्तवक्त्रो जरासन्धः शिशुपालश्च वीर्यवान् ।
सन्नद्धा निर्ययुः क्रुद्धा जिघांसन्तो जनार्दनम्॥५२॥

अङ्गवङ्गकलिङ्गैश्च सार्धं पौण्ड्रैश्च वीर्यवान् ।
निर्ययौ चेदिराजस्तु भ्रातृभिः स महारथैः॥५३॥

तान्प्रत्यगृह्णन्संरब्धा वृष्णिवीरा महारथाः ।
सङ्कर्षणं पुरस्कृत्य वासवं मारुतो यथा॥५४॥

आपतन्तं हि वेगेन जरासन्धं महाबलम् ।
षड्भिर्विव्याध नाराचैर्युयुधानो महामृधे॥५५॥

अक्रूरो दन्तवक्त्रं तु विव्याध नवभिः शरैः ।
तं प्रत्यविद्ध्यत्कारूषो बाणैर्दशभिराशुगैः॥५६॥

कारूषो दन्तवक्रः॥५६॥

विपृथुः शिशुपालं तु शरैर्विव्याध सप्तभिः ।
अष्टभिः प्रत्यविद्ध्यत्तं शिशुपालः प्रतापवान्॥५७॥

गवेषणस्तु चैद्यं तु शड्भिर्विव्याध मार्गणैः ।
अतिदान्तस्तथाष्टाभिर्बृहद्दुर्गैश्च पञ्चभिः॥५८॥

प्रतिविव्याध तांश्चैद्यः पञ्चभिः पञ्चभिः शरैः ।
जघानाश्वांश्च चतुरश्चतुर्भिर्विपृथोः शरैः॥५९॥

बृहद्दुर्गस्य भल्लेन शिरश्चिच्छेद चारिहा ।
गवेषणस्य सूतं तु प्राहिणोद्यमसादनम्॥६०॥

हताश्वं तु रथं त्यक्त्वा विपृथुस्तु महाबलः ।
आरुरोह रथं शीघ्रं बृहद्दुर्गस्य वीर्यवान्॥६१॥

विपृथोः सारथिश्चापि गवेषणरथं द्रुतम् ।
आरुह्य जवनानश्वान्नियन्तुमुपचक्रमे॥६२॥

ते क्रुद्धाः शरवर्षेण सुनीथं समवाकिरन् ।
नृत्यन्तं रथमार्गेषु चापहस्ताः कलापिनः॥६३॥

कलापिनः बाणहस्ताः॥६३॥

चक्रदेवो दन्तवक्त्रं बिभेदोरसि पत्रिणा ।
षड्रथं पञ्चभिश्चैव विव्याध युधि मार्गणैः॥६४॥

ताभ्यां स विद्धो दशभिर्बाणैर्मर्मातिगैः शितैः ।
ततो बली चक्रदेवं बिभेद दशभिः शरैः॥६५॥

बली शिशुपालभ्राता॥६५॥

पञ्चभिश्चापि विव्याध सोऽपि दूराद्विदूरथम् ।
विदूरथोऽपि तं षड्भिर्विव्याधाजौ शितैः शरैः॥६६॥

त्रिंशता प्रत्यविध्यत्तं बली बाणैर्महाबलम् ।
कृतवर्मा बिभेदाजौ राजपुत्रं त्रिभिः शरैः॥६७॥

राजपुत्रं पौण्ड्रकवासुदेवसुतम्॥६७॥

न्यहनत्सारथिं चास्य ध्वजं चिच्छेद सोच्छ्रितम् ।
प्रतिविव्याध तं क्रुद्द्धः पौण्ड्रः षड्भिः शिलीमुखैः॥६८॥

धनुश्चिच्छेद चाप्यस्य भल्लेन कृतवर्मणः ।
निवृत्तशत्रुः कालिङ्गं बिभेद निशितैः शरैः ।
तोमरेणांसदेशे तं निर्बिभेद कलिङ्गराट्॥६९॥

गजेनासाद्य कङ्कस्तु गजमङ्गस्य वीर्यवान् ।
तोमरेण बिभेदाङ्गं बिभेदाङ्गश्च तं शरैः॥७०॥

चित्रकश्च श्वफल्कश्च सत्यकश्च महारथः ।
कलिङ्गस्य तथानीकं नाराचैर्बिभिदुः शतैः॥७१॥

तं निसृष्टद्रुमेणाजौ वङ्गराजस्य कुञ्जरम् ।
जघान रामः सङ्क्रुद्धो वङ्गराजं च संयुगे॥७२॥

निसृष्टेन प्रक्षिप्तेन द्रुमेण निष्पत्रवृक्षेण॥७२॥

तं हत्वा रथमारुह्य धनुरादाय वीर्यवान् ।
सङ्कर्षणो जघानोग्रैर्नाराचैः कैशिकान्बहून्॥७३॥

षड्भिर्निहत्य कारूषान्महेष्वासान्स वीर्यवान् ।
शतं जघान सङ्क्रुद्धो मागधानां महाबले॥७४॥

निहत्य तान्महाबाहुर्जरासन्धं ततोऽभ्ययात् ।
तमापतन्तं विव्याध नाराचैर्मागधस्त्रिभिः॥७५॥

तं बिभेदाष्टभिः क्रुद्धो नाराचैर्मुसलायुधः ।
चिच्छेद चास्य भल्लेन ध्वजं हेमपरिष्कृतम्॥७६॥

तद्युद्धमभवद्घोरं तेषां देवासुरोपमम् ।
सृजतां शरवर्षाणि निघ्नतामितरेतरम्॥७७॥

गजैर्गजा हि सङ्क्रुद्धाः सन्निपेतुः सहस्रशः ।
रथै रथाश्च संरब्धाः सादिनश्चापि सादिभिः॥७८॥

पदातयः पदातींश्च शक्तिचर्मासिपाणयः ।
छिन्दन्तश्चोत्तमाङ्गानि विचेरुर्युधि ते पृथक्॥७९॥

असीनां पात्यमानानां कवचेषु महास्वनः ।
शराणां पततां शब्दः पक्षिणामिव शुश्रुवे॥८०॥

भेरीशङ्खमृदङ्गानां वेणूनां च मृधे ध्वनिम् ।
जुगूह घोषः शस्त्राणां ज्याघोषश्च महात्मनाम्॥८१॥

जुगूह समावृणोत्॥८१॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रुक्मिणीहरणे एकोनषष्टितमोऽध्यायः॥५९॥
रुक्मिपराजयः-०६०

वैशम्पायन उवाच। कृष्णेन ह्रियमाणां तां रुक्मी श्रुत्वा तु रुक्मिणीम् ।
प्रतिज्ञामकरोत्क्रुद्दः समक्षं भीष्मकस्य ह॥१॥

अथ षष्टितमेऽध्याये रुक्मिणे श्रीहरिः स्वयम्। जित्वा मुक्त्वाऽथ वैदर्भीमुपयेम इतीर्यते॥१॥ कृष्णेनेति॥१॥

[रुक्म्युवाच।] अहत्वा युधि गोविन्दमनानीय च रुक्मिणीम् ।
कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद्ब्रवीम्यहम्॥२॥

आस्थाय स रथं वीरः समुदग्रायुधध्वजम् ।
जवेन प्रययौ क्रुद्धो बलेन महता वृतः॥३॥

तमन्वयुर्नृपाश्चैव दक्षिणापथवर्तिनः ।
क्राथोऽंशुमाञ्छ्रुतर्वा च वैणुदारिश्च वीर्यवान्॥४॥

भीष्मकस्य सुताश्चान्ये रथेन रथिनां वराः ।
क्रथकैशिकमुख्याश्च सर्व एव महारथाः॥५॥

ते गत्वा दूरमध्वानं सरितं नर्मदामनु ।
गोविन्दं ददृशुः क्रुद्धाः सहैव प्रियया स्थितम्॥६॥

अवस्थाप्य च तत्सैन्यं रुक्मी मदबलान्वितः ।
चिकीर्षुर्द्वैरथं युद्धमभ्ययान्मधुसूदनम्॥७॥

स विव्याध चतुःषष्ट्या गोविन्दं निशितैः शरैः ।
तं प्रत्यविध्यत्सप्तत्या बाणैर्युधि जनार्दनः॥८॥

पतमानस्य चिच्छेद ध्वजं चास्य महाबलः ।
जहार च शिरः कायात्सारथेस्तस्य वीर्यवान्॥९॥

तं कृच्छ्रगतमाज्ञाय परिवव्रुर्जनार्दनम् ।
दाक्षिणात्या जिघांसन्तो राजानः सर्व एव हि॥१०॥

तं रुक्मिणम्। जनार्दनं जिघांसन्तः॥१०॥

तमंशुमान्महाबाहुर्विव्याध दशभिः शरैः ।
श्रुतर्वा पञ्चभिः क्रुद्धो वैणुदारिश्च सप्तभिः॥११॥

ततोंऽशुमन्तं गोविन्दो बिभेदोरसि वीर्यवान् ।
निशसाद रथोपस्थे व्यथितः स नराधिपः॥१२॥

श्रुतर्वणो जघानाश्वांश्चतुर्भिश्चतुरः शरैः ।
वैणुदारोर्ध्वजं छित्त्वा भुजं विव्याध दक्षिणम्॥१३॥

तथैव च श्रुतर्वाणं शरैर्विव्याध पञ्चभिः ।
शिश्रिये स ध्वजं शान्तो न्यषीदच्च व्यथान्वितः॥१४॥

मुञ्चन्तः शरवर्षाणि वासुदेवं ततोऽभ्ययुः ।
क्रथकैशिकमुख्याश्च सर्व एव महारथाः॥१५॥

बाणैर्बाणांश्च चिच्छेद तेषां युधि जनार्दनः ।
जघान चैषां संरब्धः पतमानश्च ताञ्छरान्॥१६॥

पुनरान्यांश्चतुःषष्ट्या जघान निशितैः शरैः ।
क्रुद्धानापततो वीरानद्रिवत्स महाबलः॥१७॥

विद्रुतं स्वबलं दृष्ट्वा रुक्मी क्रोधवशङ्गतः ।
पञ्चभिर्निशितैर्बाणैर्विव्याधोरसि केशवम्॥१८॥

सारथिं चास्य विव्याध सायकैर्निशितैस्त्रिभिः ।
आजघान शरेणास्य ध्वजं च नतपर्वणा॥१९॥

केशवस्त्वरितं दृष्ट्वा क्रुद्धो विव्याध मार्गणैः ।
धनुश्चिच्छेद चाप्यस्य पतमानस्य रुक्मिणः॥२०॥

अथान्यद्धनुरादाय रुक्मी कृष्णजिघांसया ।
प्रादुश्चकार चान्यानि दिव्यान्यस्त्राणि वीर्यवान्॥२१॥

अस्त्रैरस्त्राणी संवार्य तस्य कृष्णो महाबलः ।
पुनश्चिच्छेद तच्चापं रथिनां च त्रिभिः शरैः॥२२॥

स च्छिन्नधन्वा विरथः खड्गमादाय चर्म च ।
उत्पपात रथाद्वीरो गरुत्मानिव वीर्यवान्॥२३॥

तस्याभिपततः खड्गं चिच्छेद युधि केशवः ।
नाराचैश्च त्रिभिः क्रुद्धो बिभेदैनमथोरसि॥२४॥

स पपात महाबाहुर्वसुधामनुनादयन् ।
विसंज्ञो मूर्च्छितो राजा वज्रेणेव महासुरः॥२५॥

तांश्च राज्ञः शरैः सर्वान्पुनर्विव्याध माधवः ।
रुक्मिणं पतितं दृष्ट्वा व्यद्रवन्त नराधिपाः॥२६॥

विचेष्टमानं तं भूमौ भ्रातरं वीक्ष्य रुक्मिणी ।
पादयोर्न्यपतद्विष्णोर्भ्रातुर्जीवितकाङ्क्षिणी॥२७॥

तामुत्थाप्य परिष्वज्य सान्त्वयामास केशवः ।
अभयं रुक्मिणे दत्त्वा प्रययौ स्वपुरीं ततः॥२८॥

वृष्णयोऽपि जरासन्धं भङ्क्त्वा तांश्चैव पार्थिवान् ।
प्रययुर्द्वारकां हृष्टाः पुरस्कृत्य हलायुधम्॥२९॥

प्रयाते पुण्डरीकाक्षे श्रुतर्वाभ्येत्य सङ्गरे ।
रुक्मिणं रथमारोप्य प्रययौ स्वां पुरीं प्रति ॥३०॥

अनानीय स्वसारं तु रुक्मी मानमदान्वितः ।
हीनप्रतिज्ञो नैच्छत्स प्रवेष्टुं कुण्डिनं पुरम्॥३१॥

विदर्भेषु निवासार्थं निर्ममेऽन्यत्पुरं महत् ।
तद्भोजकटमित्येव बभूव भुवि विश्रुतम्॥३२॥

तत्रौजसा महातेजा दक्षिणां दिशमन्वगात् ।
भीष्मकः कुण्डिने चैव राजोवास महाभुजः॥३३॥

द्वारकां चापि सम्प्राप्ते रामे वृष्णिबलान्विते ।
रुक्मिण्याः केशवः पाणिं जग्राह विधिवत्प्रभुः॥३४॥

ततः सह तया रेमे प्रियया प्रीयमाणया ।
सीतयेव पुरा रामः पौलोम्येव पुरन्दरः॥३५॥

सा हि तस्याभवज्ज्येष्ठा पत्नी कृष्णस्य भामिनी ।
पतिव्रता गुणोपेता रूपशीलगुणान्विता॥३६॥

तस्यामुत्पादयामास पुत्रान्दश महारथान् ।
चारुदेष्णं सुदेष्णं च प्रद्युम्नं च महाबलम्॥३७॥

सुषेणं चारुगुप्तं च चारुबाहुं च वीर्यवान् ।
चारुविन्दं सुचारुं च भद्रचारुं तथैव च॥३८॥

चरुं च बलिनां श्रेष्ठं सुतां चारुमतीं तथा ।
धर्मार्थकुशलास्ते तु कृतास्त्रा युद्धदुर्मदाः॥३९॥

महिषीः सप्त कल्याणीस्ततोऽन्या मधुसूदनः ।
उपयेमे महाबाहुर्गुणोपेताः कुलोद्भवाः॥४०॥

कालिन्दीं मित्रविन्दां च सत्यां नाग्नजितीमपि ।
सुतां जाम्बवतश्चापि रोहिणीं कामरूपिणीम्॥४१॥

कालिन्दीं सूर्यस्य पुत्रीं यमुनां प्रथमां, मित्रविन्दां राजाधिदेव्यां पितृष्वसरि आवन्त्याज्जातां द्वितीयां, सत्याम् अयोध्यापतेर्नग्नजितेः पुत्रीं नाग्नजितीं तृतीयां, जाम्बवतः सुतां जाम्बवतीं चतुर्थीं, रोहिणीं श्रुतकीर्तौ पितृष्वसरि कैकेयाज्जातां भद्रापरनाम्नीं पञ्चमीम्॥४१॥

मद्रराजसुतां चापि सुशीलां शुभलोचनाम् ।
सात्राजितीं सत्यभामां लक्ष्मणां चारुहासिनीम्॥४२॥

मद्रराजसुतां लक्ष्मणामिति व्यवहितेनान्वयस्तां षष्ठीं, सात्राजितीं सत्यभामां सप्तमीम्॥४२॥

शैब्यस्य च सुतां तन्वीं रूपेणाप्सरसोपमाम् ।
स्त्रीसहस्राणि चान्यानि षोडशातुलविक्रमः॥४३॥

शैव्यस्य सुतां तन्वीं नामतः गान्धार्यभिधामष्टमीम्, एताः पट्टनायिका रुक्मिणी तु साक्षात् श्रीरेवेत्यासु न गणिता। समम् एकसमयावच्छेदेन न तु पर्यायेण भेजे उपयेमे च मूर्तिभेदेन योगेश्वरत्वात्॥४३॥

उपयेमे हृषीकेशः सर्वा भेजे स ताः समम् ।
परार्ध्यवस्त्राभरणाः कामैः सर्वैः सुखोचिताः ।
जज्ञिरे तासु पुत्राश्च तस्य वीराः सहस्रशः॥४४॥

शास्त्रार्थकुशलाः सर्वे बलवन्तो महारथाः ।
यज्वानः पुण्यकर्माणो महाभागा महाबलाः॥४५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रुक्मिणीहरणं नाम षष्टितमोऽध्यायः॥६०॥
प्रद्युम्नविवाहो रुक्मिवधश्च-०६१

वैशम्पायन उवाच। ततः काले व्यतीते तु रुक्मी महति वीर्यवान् ।
दुहितुः कारयामास स्वयंवरमरिन्दमः॥१॥

एकषष्टितमेऽध्याये प्रद्युम्नतत्तनूजयोः। विवाहः कथ्यते तत्र रुमिक्णश्च तथा वधः॥१॥ तत इति। काले महति॥१॥

तत्राहूता हि राजानो राजपुत्राश्च रुक्मिणा ।
समाजग्मुर्महावीर्या नानादिग्भ्यः श्रियान्विताः॥२॥

तत्राजगाम प्रद्युम्नः कुमारैरपरैर्वृतः ।
सा हि तं चकमे कन्या स च तां शुभलोचनाम्॥३॥

सा कन्या चकमे कामितवती॥३॥

शुभाङ्गी नाम वैदर्भी कान्तिद्युतिसमन्विता ।
पृथिव्यामभवत्ख्याता रुक्मिणस्तनया तदा॥४॥

उपविष्टेषु सर्वेषु पार्थिवेषु महात्मसु ।
वैदर्भी वरयामास प्रद्युम्नमरिसूदनम्॥५॥

स हि सर्वास्त्रकुशलः सिंहसंहननो युवा ।
रूपेनाप्रतिमो लोके केशवस्यात्मजोऽभवत्॥६॥

सिंहसंहननः सिंहवदतिदृढाङ्गः। “वराङ्गरूपोपेतो यः सिंहसंहननो हि सः” इत्युक्तां वा॥६॥

वयोरूपगुणोपेता राजपुत्री च साभवत् ।
नारायणी चन्द्रसेना जातकामा च तं प्रति॥७॥

वृत्ते स्वयंवरे जग्मू राजानः स्वपुराणि ते ।
उपादाय च वैदर्भीं प्रद्युम्नो द्वारकां ययौ॥८॥

रेमे सह तया वीरो दमयन्त्या नलो यथा ।
स तस्यां जनयामास देवगर्भोपमं सुतम्॥९॥

अनिरुद्धमिति ख्यातं कर्मणाप्रतिमं भुवि ।
धनुर्वेदे च वेदे च नीतिशास्त्रे च पारगम्॥१०॥

अभवत्स यदा राजन्ननिरुद्धो वयोऽन्वितः ।
तदास्य रुक्मिणः पौत्रीं श्रीमतीं रुक्मसन्निभाम् ।
पत्न्यर्थे वरयामास नाम्ना रुक्मवतीति सा॥११॥

अनिरुद्धं गुणैर्दातुं कृतबुद्धिर्नृपस्ततः ।
प्रीत्या हि रौक्मिणेयस्य रुक्मिन्याश्चाप्युपग्रहात्॥१२॥

विस्पर्द्धन्नपि कृष्णेन वैरं त्यज्य महायशाः ।
ददामीत्यब्रवीद्राजा प्रीतिमाञ्जनमेजय॥१३॥

केशवः सह रुक्मिण्या पुत्रैः सङ्कर्षणेन च ।
अन्यैश्च वृष्णिभिः सार्धं विदर्भान्सबलो ययौ॥१४॥

संयुक्ता ज्ञातयश्चैव रुक्मिणः सुहृदश्च ये ।
आहूता रुक्मिणा तेऽपि तत्राजग्मुर्नराधिपाः॥१५॥

शुभे तिथौ महाराज नक्षत्रे चाभिपूजिते ।
विवाहः सोऽनिरुद्धस्य बभूव परमोत्सवः॥१६॥

पाणौ गृहीते वैदर्भ्यास्त्वनिरुद्धेन तत्र वै ।
वैदर्भयादवानां च बभूव परमोत्सवः॥१७॥

रेमिरे वृष्णयस्तत्र पूज्यमाना यथामराः ।
अथाश्मकानामधिपो वैणुदारिरुदारधीः॥१८॥

अक्षः श्रुतर्वा चाणूरः क्रथश्चैवांशुमानपि ।
जयत्सेनः कलिङ्गानामधिपश्च महाबलः॥१९॥

पाण्ड्यश्च नृपतिः श्रीमानृषीकाधिपतिस्तथा ।
एते संमन्त्र्य राजानो दाक्षिणात्या महर्द्धयः॥२०॥

अभिगम्याब्रुवन्त्सर्वे रुक्मिणं रहसि प्रभुम् ।
भवानक्षेषु कुशलो वयं चापि रिरंसवः ।
प्रियद्यूतश्च रामोऽसावक्षेष्वनिपुणोऽपि च॥२१॥

ते भवन्तं पुरस्कृत्य जेतुमिच्छाम तं वयम् ।
इत्युक्तो रोचयामास रुक्मी द्यूतं महारथः॥२२॥

ते शुभां काञ्चनस्तम्भां कुसुमैर्भूषिताजिराम् ।
सभामाविविशुर्हृष्टाः सिक्तां चन्दनवारिणा॥२३॥

तां प्रविश्य ततः सर्वे शुभ्रस्रगनुलेपनाः ।
सौवर्णेष्वासनेश्वासाञ्चक्रिरे विजिगीषवः॥२४॥

आहूतो बलदेवस्तु कितवैरक्षकोविदैः ।
बाडमित्यब्रवीद्धृष्टः सह दीव्याम पण्यताम्॥२५॥

कितवेर्द्यूतवेदिभिः॥२५॥

निकृत्या विजिगीषन्तो दाक्षिणात्या नराधिपाः ।
मणिमुक्ताः सुवर्णं च तत्रानिन्युः सहस्रशः॥२६॥

निकृत्या कपटेन॥२६॥

ततः प्रावर्तत द्यूतं तेषां रतिविनाशनम् ।
कलहस्यास्पदं घोरं दुर्मतीनां क्षयावहम्॥२७॥

निष्काणां च सहस्राणि सुवर्नस्य दशादितः ।
रुक्मिणा सह सम्पाते बलदेवो ग्लहं ददौ॥२८॥

तं जिगाय ततो रुक्मी यतमानं महाबलम् ।
तावदेवापरं भूयो बलदेवं जिगाय सः॥२९॥

असकृज्जीयमानस्तु रुक्मिणा केशवाग्रजः ।
सुवर्णकोटीर्जग्राह ग्लहं तस्य महात्मनः॥३०॥

जितमित्येव हृष्टोऽथ तमाह्वृतिरभाषत ।
श्लाघ्यमानश्च चिक्षेपा प्रहसन्मुसलायुधम्॥३१॥

आह्वृतिः अत्यन्तकुटिलः “ह्वृ कौटिल्ये” इत्यस्य रूपम्। चिक्षेप निनिन्द॥३१॥

अविद्यो दुर्बलः श्रीमान्हिरण्यममितं मया ।
अजेयो बलदेवोऽयमक्षद्यूते पराजितः॥३२॥

कलिङ्गराजस्तच्छ्रुत्वा प्रजहास भृशं तदा ।
दन्तान्सन्दर्शयन्हृष्टस्तत्राक्रुद्ध्यद्धलायुधः॥३३॥

रुक्मिणस्तद्वचः श्रुत्वा पराजयनिमित्तजम् ।
निगृह्यमाणस्तीक्ष्णाभिर्वाग्भिर्भीष्मकसूनुना॥३४॥

रोषमाहारयामास जितरोषोऽपि धर्मवित् ।
सङ्क्रुद्धो धर्षणां प्राप्य रौहिणेयो महाबलः॥३५॥

धैर्यान्मनः सन्निधाय ततो वचनमब्रवीत् ।
दशकोटिसहस्राणि ग्लह एको ममापरः॥३६॥

एनं सम्परिगृह्णीष्व पातयाक्षान्नराधिप ।
कृष्णाक्षाँल्लोहिताक्षांश्च देशेऽस्मिंस्त्वधिपांसुले॥३७॥

अधिपांसुले अधिकरजस्के क्रोधकाले द्यूतदेशे चेत्यर्थः॥३७॥

इत्येवमाह्वयामास रुक्मिणं रोहिणीसुतः ।
अनुक्त्वा वचनं किञ्चिद्बाढमित्यब्रवीत्पुनः॥३८॥

अक्षान्रुक्मी ततो हृष्टः पातयामास पार्थिवः ।
चातुरक्षे तु निर्वृत्ते निर्जितः स नराधिपः॥३९॥

चातुरक्षे चतुरङ्काङ्कितेऽक्षे निर्वृत्ते निपतिते सति उभयोर्धने प्रत्येकं दशधा कृते यदि वादी एकाङ्कं पातयेत्तदा एकमंशं धनाद्धरेत् द्व्यङ्कपाते पूर्वेण सह त्रीनंशान् त्र्यङ्कपाते पूर्वौस्त्रिभिः सह षडंशान् चतुरङ्कपाते पूर्वैः षड्भिः सह दशाप्यंशान् हरेदिति द्यूतविदां मर्यादया सर्वं धनं जितमित्यर्थः॥३९॥

बलदेवेन धर्मेण नेत्युवाच ततो बलम् ।
धैर्यान्मनः समाधाय स न किञ्चिदुवाच ह॥४०॥

बलदेवं ततो रुक्मी मया जितमिति स्मयन् ।
बलदेवस्तु तच्छ्रुत्वा जिह्मं वाक्यं नराधिपः॥४१॥

भूयः क्रोधसमाविष्टो नोत्तरं व्याजहार ह ।
ततो गम्भीरनिर्घोषा वागुवाचाशरीरिणी॥४२॥

बलदेवस्य तं क्रोधं वर्धयन्ती महात्मनः ।
सत्यमाह बलः श्रीमान्धर्मेणैष पराजितः॥४३॥

अनुक्त्वा वचनं किञ्चित्प्राप्तो भवति कर्मणा ।
मनसा समनुज्ञातं तत्स्यादित्यवगम्यताम्॥४४॥

अनुक्त्वाऽपि जयं प्राप्तो भवति राम इत्यध्याहृत्य योज्यं मनसा प्रतिवादिनामिति शेषः। मनसाऽनुज्ञातमपि वाचा नाभ्यनुज्ञायत इति दौरात्म्यं तेषामिति भावः॥४४॥

इति श्रुत्वा वचस्तथ्यमन्तरिक्षात्सुभाषितम् ।
सङ्कर्षणस्तथोत्थाय सौवर्णेनोरुणा बली॥४५॥

उरुणा महता अष्टापदेनेति वक्ष्यमाणत्वात्॥४५॥

रुक्मिण्या भ्रातरं ज्येष्ठं निजघान महीतले ।
विवादे कुपितो रामः क्षेप्तारं किल रुक्मिणम् ।
जघानाष्टापदेनैव प्रमथ्य यदुनन्दनः॥४६॥

ततोऽपसृत्य सङ्क्रुद्धः कलिङ्गाधिपतेरपि ।
दन्तान्बभञ्ज संरम्भादुन्ननाद च सिंहवत्॥४७॥

कलिङ्गाधिपतेर्जयत्सेनस्य॥४७॥

खड्गमुद्यम्य तान्सर्वांस्त्रासयामास पार्थिवान् ।
स्तम्भं सभायाः सौवर्णमुत्पाट्य बलिनां वरः॥४८॥

गजेन्द्र इव तं स्तम्भं कर्षन्सङ्कर्षणस्ततः ।
निर्जगाम सभाद्वारात्त्रासयामास कैशिकान्॥४९॥

रुक्मिणं निकृतिप्रज्ञं स हत्वा यादवर्षभः ।
वित्रास्य विद्विषः सर्वान्सिंहः क्षुद्रमृगानिव॥५०॥

जगाम शिबिरं रामः स्वयमेव जनावृतः ।
न्यवेदयत्स कृष्णाय तत्र सर्वं यथाभवत्॥५१॥

नोवाच स तदा कृष्णः किञ्चिद्रामं महाद्युतिः ।
निगृह्य च तदाऽऽत्मानं कृच्छ्रादश्रूण्यवर्तयत्॥५२॥

न हतो वासुदेवेन यः पूर्वं परवीरहा ।
ज्येष्ठो भ्राताथ रुक्मिण्या रुक्मिणीस्नेहकारणात्॥५३॥

स रामकरमुक्तेन निहतो द्यूतमण्डले ।
अष्टापदेन बलवान्राजा वज्रधरोपमः॥५४॥

तस्मिन्हते महावीर्ये नृपतौ भीष्मकात्मजे ।
द्रुमभार्गवतुल्ये वै द्रुमभार्गवशिक्षिते॥५५॥

कृतौ च युद्धकुशले नित्ययाजिनि पातिते ।
वृष्णयश्चान्धकाश्चैव सर्वे विमनसोऽभवन्॥५६॥

कृतौ सत्क्रियायां कुशले इत्येकदेशेन सम्बन्धः। नित्ययाजिनि नित्यकर्मपरे॥५६॥

वैशम्पायन उवाच। रुक्मिणी च महाभागा विलपन्त्यार्तया गिरा ।
विलपन्तीं तथा दृष्ट्वा सान्त्वयामास केशवः॥५७॥

एतत्ते सर्वमाख्यातं रुक्मिणो निधनं यथा ।
वैरस्य च समुत्थानं वृष्णिभिर्भरतर्षभ॥५८॥

वृष्णयोऽपि महाराज धनान्यादाय सर्वशः ।
रामकृष्नौ समाश्रित्य ययुर्द्वारवतीं प्रति॥५९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रुक्मिवधो नामैकषष्टितमोऽध्यायः॥६१॥
बलदेवमाहात्म्यम्-०६२

राजोवाच। भूय एव तु विप्रर्षे बलदेवस्य धीमतः ।
माहात्म्यं श्रोतुमिच्छामि शेषस्य धरणीभृतः॥१॥

अथाध्याये षष्टितमे द्व्यधिकेऽस्मिन्निरूप्यते। बलदेवस्य माहात्म्यं भूरि भाग्यवतां प्रियम्॥१॥ भूय इति॥१॥

अतीव बलदेवं तं तेजोराशिमनिर्जितम् ।
कथयन्ति महात्मानं ये पुराणविदो जनाः॥२॥

तस्य कर्माण्यहं विप्र श्रोतुमिच्छामि तत्त्वतः ।
अनन्तं यं विदुर्नागमादिदेवं नगेश्वरम्॥३॥

वैशम्पायन उवाच। पुराणे नागराजोऽसौ पठ्यते धरणीधरः ।
शेषस्तेजोनिधिः श्रीमानकम्प्यः पुरुषोत्तमः॥४॥

योगाचार्यो महावीर्यो देवमन्त्रमुखो बली ।
जरासन्धं गदायुद्धे जितवान्यो न चावधीत्॥५॥

बहवश्चैव राजानः प्रथिताः पृथिवीतले ।
अन्वयुर्मागधं सर्वे ते चापि विजिता रणे॥६॥

नागायुतबलप्राणो भीमो भीमपराक्रमः ।
असकृद्बलदेवेन बाहुयुद्धे पराजितः॥७॥

भीमो भीमसेनः॥७॥

दुर्योधनस्य कन्यां तु हरमाणो न्यगृह्यत ।
साम्बो जाम्बवतीपुत्रो नगरे नागसाह्वये॥८॥

न्यगृह्यत गृहीतः कौरवैरिति शेषः॥८॥

राजभिः सर्वतो रुद्धे हरमाणो बलात्किल ।
तदुपश्रुत्य संरुद्धमाजगाम महाबलः॥९॥

रामस्तस्य तु मोक्षार्थमागतो नालभच्च तम् ।
ततश्चुक्रोध बलवानद्भुतं चाकरोन्महत्॥१०॥

अनिवार्यमभेद्यं च दिव्यमप्रतिमं बले ।
लाङ्गलास्त्रं समुद्यम्य ब्रह्ममन्त्राभिमन्त्रितम्॥११॥

प्राकारवप्रे विन्यस्य पुरस्य च महाद्युतिः ।
प्रक्षेप्तुमैच्छद्गङ्गायां नगरं कौरवस्य तत्॥१२॥

तद्विघूर्णितमालक्ष्य पुरं दुर्योधनो नृपः ।
साम्बं निर्यातयामास सभार्यं तस्य धीमतः॥१३॥

ददौ शिश्यं तदात्मानं रामस्य सुमहात्मनः ।
गदायुद्धे कुरुपतिं शिष्यं जग्राह तं च सः॥१४॥

ततः प्रभृति राजेन्द्र पुरमेतद्विघूर्णितम् ।
आवर्जितमिवाभाति गङ्गामभिमुखं नृप॥१५॥

इदमत्यद्भुतं कर्म रामस्य कथितं भुवि ।
भाण्डीरे कथितं राजन्यत्कृतं शौरिणा पुरा॥१६॥

प्रलम्बं मुष्टिनैकेन यज्जघान हलायुधः ।
धेनुकं तु महावीर्यं चिक्षेप नगमूर्धनि ।
स गतायुः पपातोर्व्यां दैत्यो गर्दभरूपधृक्॥१७॥

लवणजलगमा महानदी द्रुतजलवेगतरङ्गमालिनी ।
नगरमभिमुखं यदा हृता हलविधृता यमुना यमस्वसा॥१८॥

बलदेवस्य माहात्म्यमेतत्ते कथितं मया ।
अनन्तस्याप्रमेयस्य शेषस्य धरणीभृतः॥१९॥

इति पुरुशवरस्य लाङ्गलेर्बहुविधमुत्तममन्यदेव च ।
यदकथितमिहाद्य कर्म ते तदुपलभस्व पुराणविस्तरात्॥२०॥

॥इति श्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि बलदेवमाहात्म्ये द्विषष्टितमोऽद्यायः॥६२॥
नरकवधः-०६३

जनमेजय उवाच। प्रत्येत्य द्वारकां विष्णुर्हते रुक्मिणि वीर्यवान् ।
अकरोद्यन्महाबाहुस्तन्मे वद महामुने॥१॥

अथात्र त्रिषष्टितमे सुरेन्द्रः कृष्णमब्रवीत्। कुण्डलान्यदितेर्मातुर्हर्तुश्चाथ निबर्हणम्॥१॥ प्रत्येत्येति॥१॥

वैशम्पायन उवाच। स तैः परिवृतः श्रीमान्पुरीं यादवनन्दनः ।
द्वारकां भगवान्विष्णुः प्रत्यवैक्षत वीर्यवान्॥२॥

तैः यदुभिः॥२॥

प्रत्यपद्यत रत्नानि विविधानि वसूनि च ।
यथार्हं पुण्दरीकाक्षो नैर्ऋतान्प्रत्यवारयत्॥३॥

यानि रत्नानि प्रत्यपद्यत तानि नैर्ऋतान् प्रत्यवारयत् राक्षसैः स्वगृहे आनाय्य स्थापितवानित्यर्थः॥३॥

तत्र विघ्नं चरन्ति स्म दैतेयाः सह दानवैः ।
ताञ्जघान महाबाहुर्वरदृप्तान्महासुरान्॥४॥

विघ्नं चास्याकरोत्तत्र नरको नाम दानवः ।
त्रासनः सर्वदेवानां देवराजरिपुर्महान्॥५॥

स बभौ मूर्तिलिङ्गस्थः सर्वदेवाधिबाधिता ।
देवतानामृषीणां च प्रतीपमकरोत्तदा॥६॥

मूर्तिलिङ्गस्थः दृश्यज्ञापकं सत्त्वं मूर्तिर्लिङ्गं तत्स्थः प्राग्ज्योतिषपुरस्थो वा बाधिता बाधकः॥६॥

त्वष्टुर्दुहितरं भौमः कशेरुमगमत्तदा ।
गजरूपेण जग्राह रुचिराङ्गीं चतुर्दशीम्॥७॥

प्रमथ्य तां वरारोहां नरको वाक्यमब्रवीत् ।
नष्टशोकभयो मोहात्प्राग्ज्योतिषपतिस्तदा॥८॥

यानि देवमनुष्येषु रत्नानि विविधानि च ।
बिभर्ति च मही कृत्स्ना सागरेषु च यद्वसु॥९॥

अद्यप्रभृति तानीह सहिताः सर्वनैरृताः ।
ममैवोपाहरिष्यन्ति दैत्याश्च सह दानवैः॥१०॥

एवमुत्तमरत्नानि वस्त्राणि विविधानि च ।
स जहार तदा भौमस्तच्च नाधिचकार सः॥११॥

तच्च रत्नजातमाहृतमपि नाधिचकार न बुभुजे॥११॥

गन्धर्वाणां च याः कन्या जहार नरको बली ।
याश्च देवमनुष्याणं सप्त चाप्सरसां गणाः॥१२॥

चतुर्दश सहस्राणि एकविंशच्छतानि च ।
एकवेणीधराः सर्वाः सतीमार्गमनुव्रताः॥१३॥

एकविंशच्छतानि शताधिके द्वे चतुर्दश चेति षोडश सहस्राणि शतं च एकवेणीधराः कुमारिकाः॥१३॥

वैशम्पायन उवाच। तासां पुरवरं भौमोऽकारयन्मणिपर्वतम् ।
अलकायामदीनात्मा मुरोः स्वविषयं प्रति॥१४॥

मुरोर्दैत्यस्य॥१४॥

ताश्च प्राग्ज्योतिषपतिं मुरोश्चैव दशात्मजाः ।
नैर्ऋताश्च यथा मुख्याः पालयन्त उपासते ।
स एष तमसः पारे वरदृप्तो महासुरः॥१५॥

ताः प्राग्ज्योतिषपतिं चेत्यन्वयः। स एष नरकः तमसः नीलवर्णस्य समुद्रस्य पारे तीरे॥१५॥

न चासुरगणैः सर्वैः सहितैः कर्म तत्पुरा ।
कृतपूर्वं तदा घोरं यदकार्षीन्महासुरः॥१६॥

अदितिं धर्षयामास कुण्डलार्थे महासुरः ।
यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम्॥१७॥

द्वारपालाश्च चत्वारस्तस्यासन्युद्धदुर्मदाः ।
हयग्रीवो निसुन्दश्च वीरः पञ्चनदस्तथा॥१८॥

मुरुः पुत्रसहसरैश्च वरदत्तोऽसुरो महान् ।
आदेवयानमावृत्य पन्थानं समुपस्थितः ।
वित्रासनः सुकृतिनां विरूपै राक्षसैः सह॥१९॥

तद्वधार्थं महाबाहुः शङ्खचक्रगदासिभृत् ।
जातो वृष्णिषु देवक्यां वसुदेवाज्जनार्दनः॥२०॥

तस्याथ पुरुषेन्द्रस्य लोकप्रथिततेजसः ।
निवासो द्वारका देवैरुपायादुपपादिता॥२१॥

अतीव हि पुरी रम्या द्वारका वासवक्षयात् ।
महार्णवपरिक्षिप्ता पञ्चपर्वतशोभिता॥२२॥

वासवक्षयात् इन्द्रालयात्॥२२॥

तस्यां देवपुराभायां सभा काञ्चनतोरणा ।
सा दाशार्हीति विख्याता योजनायामविस्तृता॥२३॥

तत्र वृष्ण्यन्धकाः सर्वे रामकृष्णपुरोगमाः ।
लोकयात्रामिमां कृत्स्नां परिरक्षन्त आसते॥२४॥

तत्रासीनेषु सवषु कदाचिद्भरतर्षभ ।
दिव्यगन्धो ववौ वायुः पुष्पवर्षं पपात ह॥२५॥

ततः किलकिलाशब्दः प्रभाजालाभिसंवृतः ।
मुहूर्तमन्तरिक्षेऽभूत्ततो भूमौ प्रतिष्ठितः॥२६॥

मध्ये तु तेजसस्तस्य पाण्डुरं गजमास्थितः ।
वृतो देवगणैः सर्वैर्वासवः समदृश्यत॥२७॥

रमकृष्णौ च राजा स वृष्ण्यन्धकगणैः सह ।
प्रत्युद्ययुर्महात्मनं पूजयन्तः सुरेश्वरम्॥२८॥

सोऽवतीर्य गजात्तूर्णं परिष्वज्य जनार्दनम् ।
सस्वजे बलदेवं च तं च राजानमाहुकम्॥२९॥

वृष्णीनन्यान्सस्वजे च यथाकालं यथावयः ।
पूजितो रामकृष्णाभ्यामाविवेश स तां सभाम्॥३०॥

तत्रासीनोऽभ्यलङ्कृत्वा सभां ताममरेश्वरः ।
अर्घादिसमुदाचारं प्रत्यगृह्णाद्यथाविधि॥३१॥

वैशम्पायन उवाच। अथोवाच महातेजा वासवो वासवानुजम् ।
सान्त्वपूर्वं करेणास्य संस्पृश्य वदनं शुभम्॥३२॥

देवकीनन्दन वचः शृणु मे मधुसूदन ।
येन त्वाभिगतोऽस्म्यद्य कार्येणामित्रकर्शन॥३३॥

नैर्ऋतो नरको नाम ब्रह्मणो वरदर्पितः ।
अदित्याः कुण्डले मोहाज्जहार दितिनन्दनः॥३४॥

देवानां विप्रिये नित्यमृषीणां च स वर्तते ।
तं च देवान्तरं प्रेक्ष्य जहि त्वं पापपूरुषम्॥३५॥

अयं त्वां गरुडस्तत्र प्रापयिष्यति कामगः ।
कामवीर्योऽतितेजस्वी वैनतेयोऽन्तरिक्षगः॥३६॥

अवध्यः सर्वभूतानां भौमः स नरकोऽसुरः ।
निषूदयित्वा तं पापं क्षिप्रमागन्तुमर्हसि॥३७॥

इत्युक्तः पुण्डरीकाक्षो देवराजेन केशवः ।
प्रतिजज्ञे महाबाहुर्नरकस्य निबर्हणे॥३८॥

ततः सहैव शक्रेण शङ्खचक्रगदासिभृत् ।
प्रतस्थे गरुडेनाथ सत्यभामासहायवान्॥३९॥

सत्यभामासहायवान् इति अस्याः सत्यभामायाः पृथिव्यंशत्वात् पृथिव्याज्ञयैव तस्य मृत्युर्विहितोऽस्तीति सत्यभामाज्ञयैव तं हनिष्यामीत्याशयः॥३९॥

क्रमेण सप्तस्कन्धान्स मरुतां सहवासवः ।
पश्यतां यदुसिंहानामूर्ध्वमाचक्रमे बली॥४०॥

सप्त स्कन्धान् आवहप्रवहादीन् वायुमार्गान्॥४०॥

वारणेन्द्रगतः शक्रो गरुडस्थो जनार्दनः ।
विदूरत्वात्प्रकाशेते सूर्याचन्द्रमसाविव॥४१॥

अन्तरिक्षे च गन्धर्वैरप्सरोभिश्च केशवः ।
स्तूयमानोऽथ शक्रश्च क्रमेणान्तरधीयत॥४२॥

समाधायेतिकर्तव्यं वासवो विबुधाधिपः ।
स्वमेव भवनं प्रायात्कृष्णः प्राग्ज्योतिषं प्रति॥४३॥

पक्षानिलहतो वायुः प्रतिलोमं ववौ तदा ।
ततो भीमरवा मेघा बभ्रमुर्गगनेचराः॥४४॥

क्षनेन समनुप्राप्तौ द्विजेनाकाशगेन वै ।
दूरादेव च तान्दृष्ट्वा प्रययौ यत्र ते स्थिताः॥४५॥

अपश्यद्द्वारि तत्रस्थां हस्त्यश्वरथवाहिनीम् ।
क्षुरान्तान्मौरवान्पाशान्षट्सहस्रान्ददर्श ह॥४६॥

मौरवान्मुरुविहितान् क्षुरान्तवदतिसूक्ष्मान्दृढतरावयवसंयोगं पाषाणादिकमपि प्रविश्य छेत्तुमर्हानित्यर्थः॥४६॥

वैशम्पायन उवाच। गरुडस्योपरि श्रीमाञ्छङ्खचक्रगदाधरः ।
बिभ्रन्नीलाम्बुदाकारं पीतवासाश्चतुर्भुजः॥४७॥

वनमालाकुलोरस्कः श्रीवत्साङ्कितभूषणः ।
किरीटमूर्द्धा सूर्याभः सविद्युदिव चन्द्रमाः॥४८॥

ज्यां विकूजन्महाशब्दः श्रूयतेऽशनिनिःस्वनः ।
ज्ञात्वा च दानवः सर्वं स्वयं विष्णुरिहागतः॥४९॥

क्रोधाद्द्विगुणरक्ताक्षो मुरुः कालान्तकोपमः ।
अभ्यधावत वेगेन शक्तिं गृह्य महासुरः॥५०॥

चिक्षेप सुमहाशक्तिं वज्रकाञ्चनभूषिताम् ।
तामापतन्तीं शक्तीं तु महोल्कां ज्वलितामिव॥५१॥

समाधत्त शरं चैकं रुक्मपुङ्खं जनार्दनः ।
द्विधाच्छिनत्क्षुरप्रेण वासुदेवः स वीर्यवान्॥५२॥

शक्तिं चिच्छेद तत्रासौ विद्युत्पुञ्ज इव ज्वलन् ।
पुनश्च क्रोधरक्ताक्षो मुरुर्गृह्य महागदाम्॥५३॥

इन्द्राशनिरिवेन्द्रेण विकृष्ट इव निःस्वनः ।
आकर्णमुक्तं चिक्षेप अर्धचन्द्रं सुरोत्तमः॥५४॥

मध्यदेशे तु चिच्छेद गदां तां रुक्मभूषिताम् ।
पुनश्चिच्छेद भल्लेन दानवस्य शिरो रणे॥५५॥

सञ्छिद्य पाशान्सर्वांस्तन्मुरुं हत्वा सबान्धवम् ।
सोऽग्र्यान्रक्षोगणान्हत्वा नरकस्य महाबलान्॥५६॥

शिलासङ्घानतिक्रम्य भगवान्देवकीसुतः ।
अपश्यद्दानवं सैन्यं निसुन्दं च महाबलम्॥५७॥

हयग्रीवं च दितिजं तथान्यांश्चित्रयोधिनः ।
रोधयामास तन्मार्गं स्वसैन्येन महाबलः॥५८॥

निसुन्दो बलिनां श्रेष्ठो रथमारुह्य सत्वरम् ।
जग्राह कार्मुकं दिव्यं हेमपृष्ठं दुरासदम्॥५९॥

विव्याध दशभिर्बाणैर्निसुन्दो मधुसूदनम् ।
केशवश्चापि सप्तत्या विव्याध निशितैः शरैः॥६०॥

अप्राप्तांश्चान्तरिक्षे ताञ्छरांश्चिच्छेद माधवः ।
ते सर्वे सैनिकाः कृष्णं समन्तात्पर्यवारयन्॥६१॥

शरजालेन महता छाद्यमानः सुरोत्तमः ।
दृष्ट्वा तान्दानवान्सर्वान्सक्रोधो मधुसूदनः॥६२॥

ततो दिव्येन चास्त्रेन पार्जन्येन जनार्दनः ।
महता शरवर्षेण वारयामास तद्बलम्॥६३॥

पञ्चपञ्चशरैस्तेषु एकैकेन च तान्बहून् ।
पार्जन्यस्य प्रभावेण सर्वान्मर्मस्वताडयत्॥६४॥

दुद्रुवुर्भयसन्त्रस्ता भग्नास्ते दानवा रणे ।
स्वसैन्यं विद्रुतं दृष्ट्वा निश्चक्राम पुनर्मृधे॥६५॥

विसृजच्छरवर्षाणि छादयामास केशवम् ।
न विभाति रणे सूर्यो नापि व्योम दिशो दश॥६६॥

शरैः सञ्छादयामास निसुन्दो गरुडध्वजम् ।
सावित्रं नाम दिव्यास्त्रं जग्राह पुरुषोत्तमः॥६७॥

तेन बाणेन तान्बाणंश्चिच्छेद समरे हरिः ।
बाणैर्बाणांश्च सञ्च्छिद्य तस्य कृष्णो महाबलः॥६८॥

छत्रमेकेन बाणेन रथेषां च त्रिभिः शरैः ।
पुनश्चिच्छेद तानश्वांश्चतुर्भिश्चतुरः शरैः॥६९॥

सारथिं पञ्चभिर्बाणैर्ध्वजमेकेन चिच्छिदे ।
शरैकेन वपुः कृष्णः सुतीक्ष्णेन शितेन वै॥७०॥

शिरश्चिच्छेद भल्लेन निसुन्दस्य सुरोत्तमः ।
यः सहस्रसमास्त्वेकः सर्वान्देवानयोधयत्॥७१॥

निसुन्दं पतितं दृष्ट्वा हयग्रीवः प्रतापवान् ।
शिलां प्रगृह्य महतीं तोलयामास दानवः॥७२॥

आविध्य सहसामुञ्चच्छिलां शैलसमां प्रभुः ।
गृहीत्वा दिव्यपार्जन्यमस्त्रमस्त्रविदां वरः॥७३॥

दिव्यास्त्रेण शिलां विष्णुः सप्तधाकृत तेजसा ।
तद्विदार्य महच्चाश्म पातयामास भूतले॥७४॥

ततस्तैः शार्ङ्गनिर्मुक्तैर्नानावर्णैर्महाशरैः ।
यथा देवासुरं युद्धमभवद्भरतर्षभ ।
नानाप्रहरणाकीर्णं तथा घोरमवर्तत॥७५॥

ततः शार्ङ्गविनिर्मुक्तैर्नानावर्णैर्महाशरैः ।
गरुडस्थो महाबाहुर्निजघान महासुरान्॥७६॥

महालाङ्गलनिर्भिन्नाः शङ्खशक्तिनिपातिताः ।
विनेशुर्दानवाः सर्वे समासाद्य जनार्दनम्॥७७॥

महालाङ्गलनिर्भिन्नाः लाङ्गलेन भूरिविदारितदेहाः शङ्खशक्तिमहानादस्तेनैव पातिताः॥७७॥

केचिच्चक्राग्निनिर्दग्धा दानवाः पेतुरम्बरात् ।
सन्निकर्षगताः केचिद्गतासुविकृताननाः॥७८॥

असृजच्छरवर्षाणि वृष्टिमन्त इवाम्बुदाः ।
विकृताङ्गाः सुराः सर्वे कृष्णबाणप्रपीडिताः॥७९॥

शोणिताक्ताः स्म दृश्यन्ते पुष्पिता इव किंशुकाः ।
व्यद्रवन्त सुवित्रस्ता भग्नास्त्राश्चित्रयोधिनः॥८०॥

पुनश्च क्रोधरक्ताक्षो वायुवेगेन दानवः ।
दशव्यामोच्छ्रितं वृक्षं समारुह्य वनस्पतिम्॥८१॥

वृक्षमुत्पाट्य वेगेन प्रतिगृह्याभ्यधावत ।
चिक्षेप स महावृक्षं शिक्षया सुघनाकृतिः॥८२॥

वृक्षवेगानिलोद्धूतः शुश्रुवे सुमहास्वनः ।
ततः शरसहस्रेण यतमानो जनार्दनः॥८३॥

नैकधा तं प्रचिच्छेद चित्रभक्तिनिभाकृतिम् ।
पुनश्चैकेन बाणेन हयग्रीवस्य चोरसि॥८४॥

विव्याध स्तनयोर्मध्ये सायको ज्वलनप्रभः ।
विवेश सोऽपि वेगेन हृदं भित्त्वा विनिर्गतः॥८५॥

तं जघान महाघोरं हयग्रीवं महाबलम् ।
अपारतेजा दुर्द्धर्षः स वै यादवनन्दनः॥८६॥

मध्ये लोहितगङ्गस्य भगवान्देवकीसुतः ।
औदकायां विरूपाक्षं पाप्मानं पुरुषोत्तमः॥८७॥

लोहितगङ्गस्य सिन्धोः प्रदेशविशेषस्य मध्ये। औदकायाम् उदकपरिखायां पुर्याम्॥८७॥

अष्टौ शतसहस्राणि दानवानां परन्तपः ।
निहत्य पुरुषव्याघ्रः प्राग्ज्योतिषमुपाद्रवत्॥८८॥

हत्वा पञ्चनदं नाम नरकस्य महासुरम् ।
ततः प्राग्ज्योतिषं नाम दीप्यमानमिव श्रिया॥८९॥

पुरमासादयामास युद्धं तत्राभवन्महत् ।
ततः प्राध्मापयच्छङ्खं पाञ्चजन्यं महाबलः॥९०॥

शुश्रुवे सुमहाशब्दः संवर्तनिनदो यथा ।
श्रूयते त्रिषु लोकेषु भीमगम्भीरनिःस्वनः ।
तं श्रुत्वा नरकश्चासीत्क्रोधसंरक्तलोचनः॥९१॥

लोहचक्राष्टसंयुक्तं त्रिनल्वप्रतिमं रथम् ।
रत्नकाञ्चनचित्राढ्यं वेदिकाभोगविस्तरम्॥९२॥

वज्रध्वजेन महता काञ्चनेन विराजितं ।
हेमदण्डपताकाढ्यं वैदूर्यमणिकूबरम्॥९३॥

युक्तमश्वसहस्रेण रथं पररथारुजम् ।
लोहजालैश्च सञ्छन्नं चित्रभक्तिविराजितम्॥९४॥

रथमध्यगतो वीरः ससन्ध्य इव भास्करः ।
नानाप्रहरणाकीर्णं रथं हेमपरिष्कृतम्॥९५॥

रथम् आरुरोहेति शेषः॥९५॥

वज्रं रथोरच्छदमिन्दुवर्णं व्यानद्धमुक्तामलतुल्यतेजाः ।
किरीटमूर्द्धार्कहुताशनाभः कर्णौ तथा कुण्डलयोर्ज्वलन्तौ॥९६॥

धूम्रवर्णा महाकाया रक्ताक्षा विकृताननाः ।
नानाकवचिनः सर्वे दैत्यदानवराक्षसाः॥९७॥

खड्गचर्मधराः केचित्केचित्तूर्णधनुर्भृतः ।
शक्तिहस्तास्तथा केचिच्छूलहस्तास्तथापरे॥९८॥

गजवाजिरथौघैश्च कालयन्तश्च मेदिनीम् ।
निर्ययुर्नगरात्सर्वे सुसन्नद्धाः प्रहारिणः॥९९॥

वृतो दैत्यगणैः सार्धं नरकः कालसन्निभः ।
भेरीशङ्खमृदङ्गानां पणवानां सहस्रशः॥१००॥

वाद्यमानानि शुश्राव जीमूतनिनदोपमः ।
यतः कृष्णस्ततो गत्वा सर्वे ते विकृताननाः॥१०१॥

परिवार्य गरुत्मन्तं सर्वेऽयुध्यन्त सङ्गताः ।
महता छादयामासुः शरवर्षेण सैनिकाः॥१०२॥

शक्तिशूलगदाप्रासांस्तोमरान्सायकान्बहून् ।
आकाशं छादयामासुर्विमुञ्चन्तः सहस्रशः॥१०३॥

कृष्णः कृष्णोम्बुदाकारः शार्ङ्गं गृह्य धनुस्ततः ।
विस्फार्य सुमहच्चापं धनुर्जलदनिःस्वनम्॥१०४॥

व्यसृजच्छरवर्षाणि दानवानां जनार्दनः ।
शरवर्षेण तत्सैन्यं व्यद्रवत्तु महाहवात्॥१०५॥

तद्युद्धमभवद्घोरं घोररूपेण रक्षसा ।
भग्नव्यूहाश्च ते सर्वे कृष्णबाणप्रपीडिताः॥१०६॥

केचिच्छिन्नभुजाश्चैव च्छिन्नग्रीवाशिराननाः ।
केचिच्चक्रद्विधाच्छिन्नाः केचिद्बाणार्दितोरसः॥१०७॥

केचिद्द्विधाकृताः शक्त्या गजाश्वरथवाहनाः ।
केचित्कौमोदकीभिन्नाः केचिच्चक्रविदारिताः॥१०८॥

एवं विमथिता सर्वा नराश्वरथवाहिनी ।
तत्रासीन्नरकेणास्य युद्धं परमदारुणम्॥१०९॥

यत्समानेन वक्ष्यामि तन्मे निगदतः शृणु ।
त्रासनः सुरसङ्घानां नरकः पुरुषोत्तमम्॥११०॥

योधयामास तेजस्वी मधुवन्मधुसूदनम् ।
क्रोधरक्तान्तनयनो नरको घनसन्निभः॥१११॥

मधुः कैटभभ्राता तद्वत्॥१११॥

जग्राह कार्मुकं वीरः शक्रचापमिवोच्छ्रितम् ।
तथार्ककिरणप्रख्यं बाणं जग्राह केशवः॥११२॥

दिव्येनास्त्रेण समरे पूरयामास तं रथम् ।
उत्तमास्त्रं महापातं मुमोच नरको बली॥११३॥

वज्रविस्फूर्जिताकारमायान्तं वीक्ष्य केशवः ।
चिच्छेदास्त्रं महाभागश्चक्रेण मधुसूदनः॥११४॥

व्यहनत्स रथं चास्य शरैकेण जनार्दनः ।
सरथं सध्वजं साश्वं जघान दशभिः शरैः॥११५॥

तनुत्रं चैव चिच्छेद शरेण मधुसूदनः ।
ततो विमुक्तकवचः सर्पस्येव तनुर्यथा॥११६॥

हताश्वोऽपि रणे वीरो वितनुत्रश्च दानवः ।
जग्राह विमलज्वालं लोहभारार्पितं दृढम्॥११७॥

आविध्य सहसा मुक्तं शूलमिन्द्राशनिप्रभम् ।
तदापतत्स सम्प्रेक्ष्य शूलं हेमपरिष्कृतम्॥११८॥

द्विधा छिन्नं क्षुरप्रेण कृष्णेनाद्भुतकर्मणा ।
तद्युद्धमभवद्घोरं घोररूपेण रक्षसा॥११९॥

शस्त्रपातमहाघातं नरकेन महात्मना ।
मुहूर्तं योधयामास नरकं मधुसूदनः॥१२०॥

अथोग्रचक्रश्चक्रेण प्रदीप्तेनाकरोद्द्विधा ।
चक्रद्विधाकृतं तस्य शरीरमपतद्भुवि॥१२१॥

विभक्तं कुलिशेनैव गिरेः शृङ्गं द्विधाकृतम् ।
कृष्णमासाद्य देवेशं जगामास्तमिवांशुमान्॥१२२॥

चक्रोत्कृन्तितगात्रोऽसौ दानवः पतितो रणे ।
वज्रप्रहारनिर्भिन्नं यथा गैरिकपर्वतम्॥१२३॥

भूमिस्तु पतितं पुत्रं निरीक्ष्यादाय कुण्डले ।
उपातिष्ठत गोविन्दं वचनं चेदमब्रवीत्॥१२४॥

भूमिः रूपिणी भूत्वा॥१२४॥

दत्तस्त्वयैव गोविन्द त्वयैव विनिपातितः ।
यथेच्छसि तथा क्रीड बालः क्रीडनकैरिव॥१२५॥

इमे ते कुण्डले देव प्रजास्तस्यानुपालय॥१२६॥

हे देव तस्य नरकस्य ते प्रसिद्धे॥१२६॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि नरकवधे त्रिषष्टितमोऽध्यायः॥६३॥
पारिजातहरणम्-०६४

वैशम्पायन उवाच। निहत्य नरकं भौमं वासवोपमविक्रमम् ।
वासवावरजो विष्णुर्ददर्श नरकालयम्॥१॥

चतुःषष्टितमेऽध्याये ह्यमुष्मिन्नन्दनस्थितम्। पारिजातं समुद्धृत्य द्वारकामनयद्धरिः॥१॥ निहत्येति॥१॥

अथार्थगृहमासाद्य नरकस्य जनार्दनः ।
ददर्श धनमक्षय्यं रत्नानि विविधानि च॥२॥

मनिमुक्ताप्रवालानि वैदूर्यस्य च सञ्चयान् ।
मासारगल्वकूटानि तथा वज्रस्य सञ्चयान्॥३॥

मासारं मरकतं गल्वश्चन्द्रकान्तः वज्रं हीरः॥३॥

जाम्बूनदमयान्यस्य शातकुम्भमयानि च ।
प्रदीप्तज्वलनाभानि शीतरश्मिनिभानि च॥४॥

शयनानि महार्हाणि तथा सिंहासनानि च ।
हिरण्यदण्डरुचिरं शीतरश्मिसमप्रभम्॥५॥

ददर्श तन्महच्छत्रं वर्षमाणमिवाम्बुदम् ।
जातरूपस्य शुभ्रस्य धाराः शतसहस्रशः॥६॥

वरुणादाहृतं पूर्वं नरकेणेति नः श्रुतम् ।
यावद्रत्नं गृहे दृष्टं नरकस्य धनं बहु॥७॥

नैव राज्ञः कुबेरस्य न शक्रस्य यमस्य च ।
रत्नसन्निचयस्तादृग्दृष्टपूर्वो न च श्रुतः॥८॥

हते भौमे निसुन्दे च हयग्रीवे च दानवे ।
उपानिन्युस्ततस्तानि रत्नान्यन्तःपुराणि च॥९॥

अन्तः पुराणि कन्यारत्नानि॥९॥

दानवा हतशिष्टा ये कोशसञ्चयरक्षिणः ।
केशवाय महार्हाणि यान्यर्हति जनार्दनः॥१०॥

दैत्या ऊचुः। इमानि मणिरत्नानि विविधानि बहूनि च ।
भीमरूपाश्च मातङ्गाः प्रवालविकृताङ्कुशाः॥११॥

हेमसूत्रा महाकक्षाश्चापतोमरशालिनः ।
रुचिराभिः पताकाभिः शबला रुचिराङ्कुशाः॥१२॥

शबला नानावर्णाः॥१२॥

ते च विंशतिसाहस्रा द्विस्तावत्यः करेणवः ।
अष्टौदश सहस्राणि देशजाश्चोत्तमा हयाः॥१३॥

गोषु चापि भवेत्कामो यावत्तव जनार्दन ।
तावतीः प्रापयिष्यामो वृष्ण्यन्धकनिवेशनम्॥१४॥

आविकानि च सूक्ष्माणि शयनान्यासनानि च ।
कामव्याहारिणश्चैव पक्षिणः प्रियदर्शनाः॥१५॥

चन्दनागरुकाष्ठानि तथा कालीयकान्यपि ।
वसु यत्त्रिषु लोकेचु धर्मेणाधिगतं तव॥१६॥

कालीयकानि कालागरुकाष्ठानि॥१६॥

प्रापयिष्याम तत्सर्वं वृष्ण्यन्धकनिवेशनम् ।
देवगन्धर्वरत्नानि पन्नगानां च यद्वसु ।
तानि सर्वाणि सन्तीह नरकस्य निवेशने॥१७॥

वैशम्पायन उवाच। तच्च सर्वं हृषीकेशः परिगृह्य परीक्ष्य च ।
सर्वमाहारयामास दानवैर्द्वारकां पुरीम्॥१८॥

ततस्तद्वारुणं छत्रं स्वयमुत्क्षिप्य माधवः ।
हिरण्यवर्षं वर्षन्तमारुरोह विहङ्गमम्॥१९॥

गरुडं पतगश्रेष्ठं मूर्तिमन्तमिवाम्बुदम् ।
ततोऽभ्ययाद्गिरिश्रेष्ठमभितो मणिपर्वतम्॥२०॥

मणिपर्वतं कन्यावरोधपुरम्॥२०॥

तत्र पुण्या ववुर्वाता ह्यभवंश्चामलाः प्रभाः ।
मणीनां हेमवर्णानामभिभूय दिवाकरम्॥२१॥

तत्र वैदूर्यरत्नानि ददर्श मधुसूदनः ।
सतोरणपताकानि द्वाराणि शिखराणि च॥२२॥

विद्युद्ग्रथितमेघाभः प्रबभौ मणिपर्वतः ।
हेमचित्रवितानैश्च प्रासादैरुपशोभितः॥२३॥

तत्र ता वरहेमाभा ददर्श मधुसूदनः ।
गन्धर्वसुरमुख्यानां प्रिया दुहितरस्तथा॥२४॥

ददर्श पृथुलश्रोणीः संरुद्धा गिरिकन्दरे ।
नरकेण समानीता रक्ष्यमाणाः समन्ततः॥२५॥

त्रिविष्टपसमे देशे तिष्ठन्तीरपराजिताः ।
निर्विशन्त्यो यथा देव्यः सुखिन्यः कामवर्जिताः॥२६॥

परिवव्रुर्महाबाहुमेकवेणीधराः स्त्रियः ।
सर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः॥२७॥

महाबाहुं कृष्णम्॥२७॥

व्रतोपवासतन्वङ्ग्यः काङ्क्षन्त्यः कृष्णदर्शनम् ।
समेत्य यदुसिंहस्य सर्वाश्चक्रुः स्त्रियोऽञ्जलीन्॥२८॥

नरकं निहतं ज्ञात्वा मुरं चैव महसुरम् ।
हयग्रीवं निसुन्दं च ताः कृष्णं पर्यवारयन्॥२९॥

ये चासां रक्षिणो वृद्धा दानवा यदुनन्दनम् ।
कृताञ्जलिपुटाः सर्वे प्रणिपेतुर्वयोऽधिकाः॥३०॥

तासां परमनारीणामृषभाक्षं निरीक्ष्य तम् ।
सर्वासामेव सङ्कल्पः पतित्वेनाभवत्ततः॥३१॥

तस्य चन्द्रोपमं वक्त्रं निरीक्ष्य मुदितेन्द्रियाः ।
सम्प्रहृष्टा महाबाहुमिदं वचनमब्रुवन्॥३२॥

सत्यं च यत्पुरा वायुरिहास्मान्वाक्यमब्रवीत् ।
सर्वभूतमतिज्ञश्च देवर्षिरपि नारदः॥३३॥

विष्णुर्नारायणो देवः शङ्खचक्रगदासिभृत् ।
स भौमं नरकं हत्वा भर्ता च भविता स वः॥३४॥

सुप्रियं बत पश्यामश्चिरश्रुतमरिन्दमम् ।
दर्शनेन कृतार्था हि वयमद्य महात्मनः॥३५॥

ततस्ताः सान्त्वयामास प्रमदा वासवानुजः ।
सर्वाः कमलपत्राक्षीर्दृष्ट्वा चोवाच माधवः॥३६॥

यथार्हतः पूजयित्वा समाभाष्य च केशवः ।
यानैः कीङ्करसंयुक्तैरुवाह मधुसूदनः॥३७॥

उवाह द्वारकां प्रापयामास॥३७॥

किङ्कराणां सहस्राणि रक्षसां वातरंहसाम् ।
शिबिकां वहतां तत्र निर्घोषः सुमहानभूत्॥३८॥

तस्य पर्वतराजस्य शृङ्गं यत्परमार्चितम् ।
विमलार्केन्दुसङ्काशं मणिकाञ्चनतोरणम्॥३९॥

सपक्षिगणमातङ्गं समृगव्यालपादपम् ।
शाखामृगगणाकीर्णं सुप्रस्तरशिलातलम्॥४०॥

न्यङ्कुभिश्च वराहैश्च रुरुभिश्च निषेवितम् ।
सप्रपातं महासानुं विचित्रशिखरद्रुमम्॥४१॥

अत्यद्भुतमचिन्त्यं च मृगवृन्दविलोडितम् ।
जीवञ्जीवकसङ्घैश्च बर्हिभिश्च निनादितम्॥४२॥

जीवञ्जीवकश्चकोरः॥४२॥

तदप्यतिबलो विष्णुर्दोर्भ्यामुत्पाट्य भासुरम् ।
आरोपयामास बली गरुडे पक्षिणां वरे॥४३॥

मणिपर्वतशृङ्गं च सभार्यं च जनार्दनम् ।
उवाच लीलया पक्षी गरुडः पततां वरः॥४४॥

स पक्षबलविक्षेपैर्हिमाद्रिशिखरोपमम् ।
दिक्षु सर्वासु संह्रादं जनयामास पक्षिराट्॥४५॥

आरुजन्पर्वताग्राणि पादपांश्च समुत्क्षिपन् ।
सञ्जहार महाभ्राणि विजहार च कानिचित्॥४६॥

विषयं समतिक्रम्य देवयोश्चन्द्रसूरययोः ।
ययौ वातजवः पक्षी जनार्दनवशे स्थितः॥४७॥

स मेरुगिरिमासाद्य देवगन्धर्वसेवितम् ।
देवसद्मानि सर्वाणि ददर्श मधुसूदनः॥४८॥

विश्वेषां मरुतां चैव साध्यानां च नराधिप ।
भ्राजमानान्यतिक्रामन्नश्विनोश्च परन्तप॥४९॥

भ्राजमानानि समानि॥४९॥

प्राप्य पुण्यतमाँल्लोकान्देवलोकमरिन्दम ।
शक्रसद्म समासाद्य प्रविवेश जनार्दनः॥५०॥

अवतीर्य स तार्क्ष्यात्तु ददर्श विबुधाधिपम् ।
प्रीतश्चैवाभ्यनन्दत्तं देवराजः शतक्रतुः॥५१॥

प्रादाय कुण्डले दिव्ये ववन्दे तं तदाच्युतः ।
सभार्यो विबुधश्रेष्ठं नरश्रेष्ठो जनार्दनः॥५२॥

अर्चितो देवराजेन रत्नैश्च प्रतिपूजितः ।
सत्यभामा च पौलोम्या यथावदभिनन्दिता॥५३॥

वासवो वासुदेवश्च जग्मतुः सहितौ तदा ।
अदित्या भवनं दिव्यं देवमातुर्महर्द्धिमत्॥५४॥

तत्रादितिमुपास्यन्तीमप्सरोभिः समन्ततः ।
ददृशाते महात्मानौ महाभागां तपोऽन्विताम्॥५५॥

ततस्ते कुण्डले दिव्ये प्रादाददितिनन्दनः ।
ववन्दे तां शचीभर्ता मातरं स्वां पुरन्दरः॥५६॥

जनार्दनं पुरस्कृत्य कर्म चैव शशंस तत् ।
अदितिस्तौ सुतौ प्रीत्या परिष्वज्याभिनन्द्य च॥५७॥

आशीर्भिरनुकूलाभिरुभावप्यवदत्तदा ।
पौलोमी सत्यभामा च प्रीत्या परमया युते॥५८॥

अगृह्णीतां वरार्हाया देव्यास्ते चरणौ शुभौ ।
ते चाप्यभ्यवदत्प्रेम्णा देवमाता यशस्विनी॥५९॥

यथावदब्रवीच्चैव जनार्दनमिदं वचः ।
अधृष्यः सर्वभूतानामवध्यश्च भविष्यसि॥६०॥

यथैव देवराजोऽयमजितो लोकपूजितः ।
भवत्वियं वरारोहा नित्यं च प्रियदर्शना॥६१॥

सर्वलोकेषु विख्याता दिव्यगन्धा मनोरमा ।
सत्यभामोत्तमा स्त्रीणां सुभगा स्थिरयौवना॥६२॥

जरां न यास्यति वधूर्यावत्त्वं कृष्ण मानुषः ।
एवमभ्यर्चितः कृष्णो देवमात्रा महाबलः॥६३॥

देवराजाभ्यनुज्ञातो रत्नैश्च प्रतिपूजितः ।
वैनतेयं समारुह्य सहितः सत्यभामया॥६४॥

देवाक्रीडं परिक्रामन्पूज्यमानं सुरर्षिभिः ।
स ददर्श महाबाहुराक्रीडे वासवस्य ह॥६५॥

दिव्यमभ्यर्चितं देवैः पारिजातं महाद्रुमम् ।
नित्यपुष्पधरं दिव्यं पुण्यगन्धमनुत्तमम्॥६६॥

यमासाद्य जनः सर्वो जातिं स्मरति पौर्विकीम् ।
संरक्ष्यमाणं देवैस्तं प्रसह्यामितविक्रमः॥६७॥

उत्पाट्यारोपयामास विष्णुस्तं गरुडोपरि ।
सोऽपश्यत्सत्यभामा च दिव्यमप्सरसां गणम्॥६८॥

सः कृष्णः सत्यभामा चापश्यत्॥६८॥

पृष्ठतः सत्यभामा च दिव्या योषा च वीक्षिताम् ।
प्रायात्ततो द्वारवतीं वायुजुष्टेन वै पथा॥६९॥

श्रुत्वा तं देवराजस्तु कर्म कृष्णस्य तत्तदा ।
अनुमेने महाबाहुः कृतकर्मेति चाब्रवीत्॥७०॥

स पूज्यमानस्त्रिदशैः सप्तर्षिगणसंस्तुतः ।
प्रतस्थे द्वारकां कृष्णो देवलोकादरिन्दमः॥७१॥

सोऽभिपत्य महाबाहुर्दिर्घमध्वानमल्पवत् ।
पूजितो देवराजेन ददृशे यादवीं पुरीम्॥७२॥

तथा कर्म महत्कृत्वा भगवान्वासवानुजः ।
उपायाद्द्वारकां कृष्णः श्रीमान्गरुडवाहनः॥७३॥

॥इति श्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे द्वारकाप्रवेशे चतुःषष्टितमोऽध्यायः॥४६॥
पारिजातनिबन्धनः सत्याकोपः-०६५

जनमेजय उवाच। प्रादुर्भावे मुनिश्रेष्ठ माथुरे चरितं शुभम् ।
शृण्वन्नैवाधिगच्छामि तृप्तिं कृष्णस्य धीमतः॥१॥

पञ्चषष्टितमेऽध्याये द्युतरोः पुष्पमर्थिनी। रुक्मिणी हरिणा श्रुत्वा रुष्टा सत्येति वर्ण्यते॥ प्रादुर्भाव इति॥१॥

द्वारकायां निवसतः कृतदारस्य षड्गुणम् ।
चरितं ब्रूहि कृष्णस्य सर्वं हि विदितं तव॥२॥

षड्गुणम्- “ऐश्वर्यस्य समग्रस्य ज्ञानस्य यशसः श्रियः। वैराग्यस्य च धर्मस्य षण्णां भग इतीरणा॥” इति षड्विधैश्वर्यमुक्तम्। यद्वा षडङ्गानि च। “सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः। अनन्तशक्तिश्च विभोर्विभुज्ञाः षडाहुरङ्गानि महेश्वरस्य॥” इति वायुपुराणोक्तानि॥२॥

वैशम्पायन उवाच। जनमेजय कृष्णस्य कृतदारस्य भारत ।
निबोध चरितं चित्रं तस्यैव सदृशं प्रभो॥३॥

प्राप्तदारो महातेजा वासुदेवः प्रतापवान् ।
रुक्मिण्या सहितो देव्या ययौ रैवतकं नृप॥४॥

उपवासावसानं हि रुक्मिण्याः प्रतिपूजयन् ।
तर्पयिष्यन्स्वयं विप्राञ्जगाम मधुसूदनः॥५॥

अवसानं व्रतपारणाम्॥५॥

कुमाराः प्रययुस्तत्र पुत्रभ्रातर एव च ।
प्रेषिता वासुदेवेन नारदस्याभ्यनुज्ञया॥६॥

षोडश स्त्रीसहस्राणि जग्मुरेव च धीमतः ।
ऋद्ध्या परमया राजन्विष्णोरेवानुरूपया॥७॥

ततस्तत्र द्विजातीनां कामान्प्रादादधोक्षजः ।
अर्थिनां धर्मनित्यानां बन्दिनामिष्टवादिनाम्॥८॥

कल्याणनामगोत्राणां महतां पुण्यकर्मणाम् ।
यौनैः श्रौतैश्च माखैश्च शुद्धानां कुरुनन्दनः॥९॥

यौनैः योनिसम्बन्धैः श्रौतैः अध्ययनसम्बन्धैर्माखैः आर्त्विज्यसम्बन्धैः॥९॥

तर्पयित्वा द्विजान्कामैरिष्टैरिष्टः सतां गतिः ।
ज्ञातीन्सन्तर्पयामास यथार्हं भक्तवत्सलः॥१०॥

उपवासावसानेऽथ भगवान्स विशेषतः ।
बहु मेने प्रियां भार्यां रुक्मिणीं भीष्मकात्मजाम्॥११॥

वसतस्तस्य कृष्णस्य सदारस्यामितौजसः ।
सहासीनस्य रुक्मिण्या नारदोऽभ्याययौ मुनिः॥१२॥

आगतं चाप्रमेयात्मा मुनिमिन्द्रानुजस्तदा ।
शास्त्रदृष्टेन विधिना अर्चयामास केशवः॥१३॥

सोऽर्चितो वासुदेवेन मुनिरर्च्य तमः सताम् ।
पारिजाततरोः पुष्पं ददौ कृष्णाय भारत॥१४॥

तद्वृक्षराजकुसुमं रुक्मिण्याः प्रददौ हरिः ।
पार्श्वस्था सा हि कृष्णस्य भोज्या नरवराभवत्॥१५॥

हे नरवर॥१५॥

प्रतिगृह्य तु तत्पुष्पं कामारणिरनिन्दिता ।
शिरस्यमलपत्राक्षी ददौ कृष्णेङ्गितानुगा॥१६॥

त्रैलोक्यरूपसर्वस्वं नारायणमनोहरा ।
शुशुभे देवपुष्पेण द्विगुणं भैष्मकी तदा॥१७॥

तां नारदस्तथोवाच मुनिर्ब्रह्मसुतस्तदा ।
तवैवौपयिकं पुष्पमेकं देवि पतिव्रते॥१८॥

आपयिकं योग्यम्॥१८॥

अलङ्कृतं पुष्पमेतत्संसर्गात्तव सर्वथा ।
अत्यर्हा च मता मे त्वमेतत्पुष्पाद्धृतव्रते॥१९॥

कल्याणगुणसम्पन्ने सततं भर्तृवत्सले ।
अम्लानमेतत्सततं पुष्पं भवति कामिनि॥२०॥

संवत्सरपरं कालं कालज्ञे गुणसम्मते ।
ईप्सितानपि गन्धांश्च ददाति वदतां वरे॥२१॥

शीतोष्णे चेच्छिते देवि पुष्पमेतत्प्रयच्छति ।
स्रवत्यपि रसान्देवि मनसा काङ्क्षितान्वरान्॥२२॥

सेव्यमानं च सौभाग्यं ददाति वरवर्णिनि ।
स्रवत्यपि तथा गन्धानीप्सितान्प्रीतिवर्द्धनान्॥२३॥

यानि यानि च पुष्पाणि त्वं देव्यभिलषिष्यसि ।
कुसुमं वृक्षराजस्य तानि तानि प्रदासयति॥२४॥

एतदेव भगाधानं धर्मिष्ठे पुत्रदं तथा ।
मतिं च नाशुभे धत्ते धार्यमाणं सदा शुभे॥२५॥

भगाधानम् ऐश्वर्याधायकम्॥२५॥

यद्यदिच्छसि वर्णं च तत्सर्वं धारयिष्यति ।
स्वल्पं वा यदि वा स्थूलं छन्दतस्ते भविष्यति॥२६॥

अनिष्टगन्धहरणं तत्समं गन्धवर्द्धनम् ।
प्रदीपकर्म रात्रौ च करोति कमलेक्षणे॥२७॥

सन्तानकस्रजो मालां पुष्पवस्त्रादि वाच्युतम् ।
पुष्पमण्डपमुख्यानि चिन्तितेन प्रदास्यति॥२८॥

बुभुक्षा वा पिपासा वा ग्लानिर्वाप्यथवा जरा ।
देववद्धारयन्त्यास्ते स्वच्छन्देन भविष्यति॥२९॥

अनुगीतानि गीतानि दास्यत्यपि च चिन्तिते ।
सुवादित्रान्सुमधुरांस्तथैव तव सम्मतान्॥३०॥

सुवादित्रानिति पुंस्त्वमार्षम्॥३०॥

पूर्णे संवत्सरे देवि पुष्पमेतत्तवान्तिकात् ।
निर्वर्त्स्यते तरुवरं समये न प्रयास्यति॥३१॥

कृतिरेषा हि भद्रं ते पारिजातस्य सुप्रभे ।
निसर्गतः सर्गकृता सत्कारार्थेऽसुरद्विषाम्॥३२॥

कृतिः स्वभावः सामर्थ्यमित्यर्थः। सर्गकृता ब्रह्मणा कृतेति शेषः॥३२॥

उमा देववरस्येष्टा हिमालयसुता सती ।
धरयन्तीश्वरी नित्यं पुष्पाण्येतानि सुप्रभे॥३३॥

अदितिश्च सपौलोमी महेन्द्रसुरतारणी ।
सावित्री देवमाता च श्रीश्च सर्वगुणोचिता॥३४॥

महेन्द्रस्य सुरता च अरणिश्चेति सुरतारणी स्त्री च माता चेत्यर्थः॥३४॥

देवपत्न्यस्तथैवान्या देवाश्च वसुदेवताः ।
संवत्सरपरः कालः सर्वेषां न तु संशयः॥३५॥

वसुदेवताः वसुमुख्याः तेषां कालो ब्राह्ममानेन संवत्सरः पर उत्कृष्टो न ततोऽधिकोऽप्यस्तीत्यर्थः॥३५॥

षोडशस्त्रीसहस्राणां मध्ये त्वं खलु वर्तसे ।
अद्येष्टां वासुदेवस्य वेद्मि त्वां भोजनन्दिनि॥३६॥

भोजनन्दिनि हे रुक्मिणि॥३६॥

सपत्न्यस्ते गुणोपेते सर्वाः सर्वेश्वरप्रिये ।
अवमानावसेकेन त्वया सिक्ताद्य भामिनि॥३७॥

सिक्त अद्येति च्छेदः। सन्धिरार्षः॥३७॥

प्रकाशमद्य सौभाग्यमनिवार्यं यशश्च ते ।
मन्दारकुसुमं दत्तं यत्ते मधुनिघातिना॥३८॥

अद्य सात्रजिती देवी ज्ञास्यते वरवर्णिनी ।
सौभाग्याद्यं सदा वेत्ति याऽऽत्मानं सुभगं सती॥३९॥

साम्बमाता च गान्धारी भर्याश्चान्या महात्मनः ।
सौभाग्यार्थोद्यताकाङ्क्षामद्यभोक्ष्यन्ति निःस्पृहाः॥४०॥

साम्बमाता जाम्बवती॥४०॥

सौभाग्यैकरथो जैत्रस्तव देव्यद्य निःसृतः ।
मनोरथरथानां यः सहस्रैरपि दुर्जयः॥४१॥

निःसृतः प्रसृतः॥४१॥

अद्याहमवगच्छामि सर्वथा सर्वशोभने ।
आत्मा द्वितीयः कृष्णास्य भोजे त्वमिति भामिनि॥४२॥

हे भोजे भोजकन्ये॥४२॥

त्रैलोक्यरत्नसर्वस्वमददाद्यत्तवाच्युतः ।
जीवितातिशयस्तेन त्वया प्राप्तो हरिप्रिये॥४३॥

नारदेनैवमुक्तं तु तथ्यं वाक्यं नराधिप ।
तत्रस्थाः शुश्रुवुः प्रेष्याः प्रेषिताः सत्यभामया॥४४॥

देवीनां च तथान्यासां पत्नीनां च विशाम्पते ।
दृष्ट्वा ताः सविशेषं च नारदेनाभ्युदाहृतम्॥४५॥

तच्च श्रुत्वा सुनिखिलं प्रेष्याभिः स्त्रीस्वभावतः ।
प्रकाशीकृतमेवासीद्विष्णोरन्तःपुरे तदा॥४६॥

कर्णाकर्णि ततो देव्यः कौलीनमिव सङ्घशः ।
मन्त्रयाञ्चक्रिरे हृष्टा रुक्मिण्यतिगुणोदयम्॥४७॥

कौलीनं कुलगृह्यं देव्यः कृष्णपत्न्यः॥४७॥

अर्हेति पुत्रमातेति ज्येष्ठेति च समागताः ।
प्रायेण प्रवदन्ति स्म हृष्टा दामोदरस्त्रियः॥४८॥

ममृषे न सपत्न्यास्तु तत्सौभाग्यगुणोदयम् ।
सत्यभामा प्रिया नित्यं विष्णोरतुलतेजसः॥४९॥

रूपयौवनसम्पन्ना स्वसौभाग्येन गर्विता ।
अभिमानवती देवी श्रुत्वैवेर्ष्यावशं गता॥५०॥

समुत्सृजन्ती वसनं सकुङ्कुमं शुचिस्मिता शुक्लतमैकमंशुकम् ।
जग्राह रोषाकुलितेन चेतसा वह्नेस्तदा श्रीरिव वर्द्धितेन्धना॥५१॥

सकुङ्कुमं कुङ्कुमाक्तं शुक्लतमं च तदेकं च शुक्लतमैकम् अंशुकं वस्त्रम् इदं रोषचिह्नम्॥५१॥

दन्दह्यमाना ज्वलनेन वर्द्धता ईर्ष्यासमुत्थेन गतप्रभेव ।
क्रोधान्विता क्रोधगृहं विविक्तं विवेश तारेव घनं सतोयम्॥५२॥

क्रोधगृहम् असंस्कृतं शून्यगृहम्॥५२॥

बद्ध्वा ललाटे हिमचन्द्रशुक्लं दुकूलपट्टं प्रियरोषचिह्नम् ।
पर्यन्तदेशं सरसेन देवी विलिप्य सा लोहितचन्दनेन॥५३॥

पर्यन्तदेशं ललाटप्रान्तदेशम्॥५३॥

संस्मृत्य संस्मृत्य शिरः सरोषं प्रकम्पमाना समुपोपविष्टा ।
दिर्घोपधाने शयनेऽपनीय विभूषणान्येव निबद्धवेणी॥५४॥

अकारणार्थेन विकृष्यमाणा प्रेष्या जनस्याभिजनान्वितापि ।
विचूर्णयामास कुशेशयं सा निःश्वस्य निःश्वस्य नखैर्नतभ्रूः॥५५॥

कुशेशयं मुखकमलम्॥५५॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे पञ्चषष्टितमोऽध्यायः॥६५॥
श्रीकृष्णेन भामाक्रोधकारणप्रश्नः-०६६

वैशम्पायन उवाच। उपविष्टं मुनिं ज्ञात्वा रुक्मिण्या सह केशवः ।
निश्चक्रामाप्रमेयात्मा व्यपदेशेन सर्ववित्॥१॥

एतस्मिन् षट्षष्टितमे गत्वा भामागृहे हरिः। तस्यै ह्यपृच्छद्रोषस्य कारणं चेति वर्ण्यते॥१॥ उपविष्टमिति॥ व्यपदेशेन व्याजान्तरेण सर्ववित् सत्यभामाभाववित्॥१॥

जगाम त्वरितश्चैव सत्यभामागृहं महत् ।
रम्ये रैवतकोद्देशे निर्मितं विश्वकर्मणा॥२॥

अभिमानवतीमिष्टां प्राणैरपि गरीयसीम् ।
जानन्सात्राजितीं विष्णुर्विवेश शनकैरिव॥३॥

विवेश आससाद॥३॥

रुषितामिव तां देवीं स्नेहात्सङ्कल्पयन्निव ।
भीतभीतः स शनकैर्विवेश मधुसूदनः॥४॥

सेवकं द्वारदेशे तु तिष्ठेत्युक्त्वा विवेश ह ।
नारदस्योपचारार्थं प्रद्युम्नं विनियुज्य सः॥५॥

स ददर्श प्रियां दूरात्क्रोधागारगतां तदा ।
प्रेक्ष्यामिव स्थितां कोपान्निःश्वसन्तीं मुहुर्मुहुः॥६॥

करजाग्रावलीढं तु पङ्कजं मुखपङ्कजे ।
संश्लेषयित्वा निःश्वस्य विहसन्तीं पुनः पुनः॥७॥

पङ्कजं क्रीडाकमलं विहसन्तीं सपत्नी मत्तोऽपि सौभाग्याधिक्यं प्राप्तवतीत्याश्चर्येणेति भावः॥७॥

किञ्चिदाकुलिताग्रेण चरणेन वसुन्धराम् ।
कृत्वा पृष्ठेऽथ वदनं विहरन्तीं पुनः पुनः॥८॥

वसुन्धरां लिखन्तीमिति शेषः। पृष्ठे इति तिर्यक्त्वस्योपलक्षणम्॥८॥

करपद्मे पुनः सव्ये मुखपद्मं निवेश्य च ।
वनितां चारुसर्वाङ्गीं ध्यायन्तीं कमलेक्षणाम्॥९॥

सरसं चन्दनं गृह्य प्रेष्याहस्तादनिन्दिताम् ।
प्रह्रादयित्वा हृदयं क्षिपन्तीं निर्दयं पुनः॥१०॥

प्रह्लादयित्वा चन्दनस्तुत्या प्रेष्यां स्तुत्वाऽपि विक्षिपन्तीं निन्दन्तीं तेन भ्रान्तत्वमस्याः व्यक्तम्॥१०॥

पुनरुत्थाय शयनात्पतन्तीं च पुनः पुनः ।
तास्ताश्चेष्टाः प्रियायाश्च तथान्या ददृशे हरिः॥११॥

अवगुण्ठ्य यदा वक्त्रमुपधाने न्यवेशयत् ।
इदमन्तरमित्येवं तदा गत्वा जनार्दनः॥१२॥

अवगुण्ठ्य वस्त्रेणावृत्य उपधाने उच्छीर्षके अन्तरमवकाशम्॥१२॥

प्रेष्याजनं स संज्ञाय अनाख्येयोऽस्मि संज्ञया ।
स शङ्कितप्रचारश्च वारितोऽन्वगमत्स ताम्॥१३॥

संज्ञाय सङ्केत्य तां सोऽन्वगमत्॥१३॥

ग्रहाय व्यजनं चैव स्थित्वा स परिपार्श्वतः ।
शनैरिवासृजद्वातं जहास शनकैरिव॥१४॥

ग्रहाय गृहीत्वा॥१४॥

स पारिजातपुष्पस्य संसर्गादनुवासितः ।
बभार भगवान्गन्धं दिव्यं मानुषदुर्लभम्॥१५॥

अत्यद्भुतं सुगन्धं च जिघ्रित्वा विस्मयान्विता ।
अपावृणोन्मुखं सत्या किमेतदिति चाब्रवीत्॥१६॥

सोत्थिता पृष्ठतो देवमपश्यन्ती शुचिस्मिता ।
पर्यपृच्छदथो प्रेष्या गन्धस्य प्रभवे तदा॥१७॥

ताः पृष्टास्त्वप्रभाषन्त्यो जानुभ्यां धरणीं गताः ।
अधोमुख्यस्ततस्तस्थुः कृताञ्जलिपुटास्तदा॥१८॥

तदपूर्वमदृष्ट्वैव गन्धं मुञ्चति मेदिनी ।
कथमेकतरस्तस्या गन्धोऽयमिति तत्खलु॥१९॥

गन्धाश्रयमदृष्ट्वा मेदिन्येव गन्धं मुञ्चतीति तर्कयति कथमिति। एकतरोऽतिशयिततरः॥१९॥

किं त्विदं स्यादिति च सा विवेक्षन्ती समन्ततः ।
ददृशे केशवं देवी सहसा लोकभावनम्॥२०॥

विवेक्षन्ती व्यवेक्षमाणा। भागुरिमतेनाकारलोपः अनुदात्तेत्त्वलक्षणस्यात्मनेपदस्यानित्यत्वात्परस्मैपदम्॥२०॥

युज्यतीति ततोवाच सहसास्राविलेक्षणा ।
अवतिक्तेव रोषेण बभूव प्रणयान्विता॥२१॥

युज्यतीति उवाच सद्योऽस्राविलक्षणाभूत् न तु अन्यत् वक्तुमशकत्॥२१॥

सा प्रस्फुरितचार्वोष्ठी निःश्वस्याधोमुखी तदा ।
मुहूर्तमसितापाङ्गी तस्थावन्यमुखी शुभा॥२२॥

अन्यमुखी कृष्णमनवक्षमाणा॥२२॥

निबध्य भ्रुकुटिं वामां सम्यग्विक्षिप्य लोचने ।
निवेश्य वदनं हस्ते शोभसीत्यब्रवीद्धरिम्॥२३॥

शोभसीत्युपलम्भार्थं न तु रञ्जनार्थम्॥२३॥

तस्याः सुस्राव नेत्राभ्यां वारि प्रणयकोपजम् ।
कुशेशयपलाशाभ्यामवश्यायजलं यथा॥२४॥

समुत्पत्य जलं तत्र पतितं वदनाम्बुजात् ।
प्रतिजग्राह पद्माक्षः कराभ्यामतिसत्वरः॥२५॥

अथोरसि पतत्तोयं स्रीवत्साङ्कोऽम्बुजेक्षणः ।
प्रियानयनजं देवः परिमृज्येदमब्रवीत्॥२६॥

उरसि परिमृज्येति स्नेहातिशयसूचनम्॥२६॥

स्रवत्यसितपत्राक्षि किमर्थं तव भामिनि ।
तोयं सुन्दरि नेत्राभ्यां पुष्कराभ्यामिवोदकम्॥२७॥

प्रभाते पुर्णचन्द्रस्य मध्याह्ने पङ्कजस्य च ।
बिभर्ति तव किं वक्त्रं वपुस्तव मनोहरे॥२८॥

वपुः स्वरूपम्॥२८॥

किमर्थं कौङ्कुमं वासो महाराजतमेव च ।
नानुगृह्णासि सुश्रोणि शुक्लं वासोऽनुगृह्यते॥२९॥

कुङ्कुमेन रक्तं कौङ्कुमं पीतारुणमित्यर्थः। महारजतेन रक्तद्रव्यविशेषेण रक्तं महाराजतं रक्तकौसुम्भमित्यर्थः॥२९॥

वासस्येते तवाभीष्टे महारजतकौङ्कुमे ।
देवाभिगमनादूर्ध्वं शुक्लं नेष्टं हि तत्स्त्रिया॥३०॥

देवेति। देवपूजायामेव शुक्लमिष्टं नान्यदित्यर्थः॥३०॥

किञ्चानाभरणं गात्रं सुगात्रि तव कथ्यताम् ।
चित्रकस्थानमाक्रान्तं कस्मादवरवर्णिनि॥३१॥

चित्रकस्थानं पत्रलेखास्थानम् आक्रान्तमश्रुलिप्तमित्यर्थः। अवरो धूसरो वर्णः देहकान्तिस्तद्वति हे अवरवर्णिनि॥३१॥

श्वेतेन तव पादेन वाससा प्रियदर्शने ।
ललाटं सेव्यते कस्माच्चन्दनेन सुगन्धिना॥३२॥

सरसेनायतापाङ्गि कान्तेन हृदयप्रिये ।
प्रभोपमर्दं केनापि कारणेनाननस्य च ।
करोषि मम वात्यर्थं मनो ग्लापयसि प्रिये॥३३॥

प्रसृतश्चन्दनरसः कपोलप्रणयी तव ।
पत्रलेखासपत्नत्वं प्राप्तो नातिविराजते॥३४॥

रत्नैश्चाभरणैर्मुक्ता तव ग्रीवा न शोभते ।
ग्रहनक्षत्ररहिता द्यौरिवाव्यक्तशारदी॥३५॥

रत्नैश्च रत्नजातसम्बन्धिभिः॥३५॥

पूर्णचन्द्रसपत्नेन स्मेरेणाबहुभाषिणा ।
किमु नो भाषसे माद्य मुखेनोत्पलगन्धिना॥३६॥

स्मेरेण उत्फुल्लेन। माद्य मामद्य॥३६॥

अर्धाक्ष्णापि हि तावन्मां किमर्थं न निरीक्षसे ।
मुञ्चस्येव सनिश्वासं तोयमञ्जनदुर्दिनम्॥३७॥

तोयमश्रु अञ्जनेन दुर्दिनं मलिनम्॥३७॥

अलमिन्दीवरश्यामे रुदितेन मनस्विनी ।
जलमञ्जनकल्माषं मा मोक्षीराननद्विषम्॥३८॥

द्विषमित्यदन्तत्वं कप्रत्ययान्तत्वात्॥३८॥

त्वदीयोऽहं यदा देवि ख्यातो जगति किङ्करः ।
न ज्ञापयसि किं मां त्वं पुरेव वरवर्णिनि॥३९॥

किमकार्षमहं देवि विप्रियं तव भामिनि ।
येनातिमात्रमात्मानमायासयसि सुन्दरि॥४०॥

मनसा कर्मणा वाचा न त्वामतिचराम्यहम् ।
सर्वथा सर्वचार्वङ्गि सत्यमेतद्ब्रवीम्यहम्॥४१॥

बहुमानोपमान्यासु स्त्रीषु सर्वासु शोभने ।
स्नेहश्च बहुमानश्च त्वामृतेऽन्यासु नास्ति मे॥४२॥

नैव त्वां मदनो जह्यान्मृतेऽपि मयि मामकः ।
इति मे निश्चितं विद्धि चेतः सुरसुतोपमे॥४३॥

मदनो नैव जह्यादित्यरतियौवनं वा तव मास्त्वित्यर्थः॥४३॥

क्षमादयश्च मेदिन्यां शब्दाद्याश्चाम्बरे गुणाः ।
ध्रुवं पङ्कजगर्भाभे त्वयि स्नेहस्तथा मम॥४४॥

रुचिरग्नौ यथा दिव्या प्रभा चैव दिवाकरे ।
कान्तिश्च शाश्वती चन्द्रे स्नेहस्त्वयि तथा मम॥४५॥

एवंवादिनमात्मेष्टं सत्यभामा जनार्दनम् ।
शनैरुवाच नेत्राभ्यां प्रमृज्य सुभगा जलम्॥४६॥

मदीयस्त्वमिति ह्यासीन्मम नित्यं मनः प्रभो ।
अद्य साधारणं स्नेहं त्वयि तावद्गतास्म्यहम्॥४७॥

नाज्ञासिषमहं पूर्वमनित्यं कालपर्ययम् ।
अद्य लोकगतिं कृत्स्नामवगच्छामि न ध्रुवम्॥४८॥

अमृताया द्वितीयोऽपि जन्मौहि मम सर्वथा ।
किमत्र बहुनोक्तेन हृदयं वेद्मि तेऽच्युत॥४९॥

अमृतायाः जीवन्त्याः मम द्वितीयस्त्वमिति। अपिशब्दात्तवाप्यहमेव द्वितीयेति मया स्वजन्म औहि अतर्कि। यथाऽहं त्वदन्यं न जाने एवं त्वमपि मदन्यां न जानासीत्येवमहं नित्यं तर्कितवतीत्यर्थः। जन्मौहि पुंस्त्वमार्षमिति प्राञ्चः॥४९॥

वाङ्मात्रमेव पश्यामि माधुर्यं सम्प्रयुज्यसे ।
मयि स्नेहश्च कृतकस्तवान्यत्र न कृत्रिमः॥५०॥

ऋजुस्वभावां भक्तां च सर्वथा पुरुषोत्तम ।
अवजानासि जानन्मां कैतवीं वृत्तिमास्थितः॥५१॥

एतावत्खलु पर्याप्तं दृष्टं द्रष्टव्यमव्ययम् ।
श्रुतं चाप्यथ यच्छ्राव्यं दृष्टः स्नेहफलोदयः॥५२॥

यदि त्वहमनुग्राह्या मामनुज्ञातुमर्हसि ।
तपस्येऽहं परं कृत्वा निश्चयं पुरुषोत्तम॥५३॥

भर्तुश्छन्देन नारीणां तपो वा व्रतकानि वा ।
निष्फलं खलु यद्भर्तुरच्छन्देन क्रियेत हि॥५४॥

इतीदमुक्त्वा पुनरेव शोभना मुमोच तोयं नयनोद्भवं सती ।
ग्रहाय पीतं हरिवाससः शुभा पटान्तमादाय मुखे शुचिस्मिता॥५५॥

ग्रहाय आदाय हरिवाससः पटान्तम् अञ्चलम्॥५५॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे षट्षष्टितमोऽध्यायः॥६६॥
पारिजातोत्पत्तिकथनम्-०६७

वैशम्पायन उवाच। नारायणः सत्यभामां पुनरेवैष भारत ।
प्रोवाच प्रणयात्क्रुद्धामभिमानवतीं सतीम्॥१॥

श्रीभगवानुवाच। दहन्तीव ममाङ्गानि शोकः कमललोचने ।
किमु तत्कारणं येन त्वमेवमतिविक्लवा॥२॥

शापितासि मम प्राणैराचक्ष्वानत्ययो यदि ।
श्रोतव्यं यदि भक्तेन भर्त्रा सर्वाङ्गशोभने॥३॥

सप्तषष्टितमेऽध्याये पारिजातद्रुणा ततः। हरिणा सान्विता सत्या सुरेन्द्रमदभित्तये॥१॥ शापिताऽसि शपथेनाभियुक्तासि। अनत्ययः अविनाशः॥३॥

ततः प्रोवाच भर्तारं सत्या सत्यव्रते स्थितम् ।
बाष्पगद्गदया वाचा तथैवाधोमुखी स्थिता॥४॥

त्वयैव स्थापितं पूर्वं सौभाग्यं मम मानद ।
जगत्यमलपत्राक्ष यत्ख्यातं केशिनाशन॥५॥

शिरो वहामि चेष्टत्वात्तवाहं देव गर्विता ।
सर्वसीमन्तिनीमध्ये स्पृहणीयास्मि सर्वथा॥६॥

शिरः प्रौढिम्॥६॥

साहमद्यावहास्यामि सपत्नीनां जनस्य च ।
इति प्रेष्याभिराख्यातं श्रुत्वा तथ्यं तत्स्ततः॥७॥

यत्पारिजातकुसुमं दत्तवान्नारदस्तव ।
तत्किलेष्टजने दत्तं त्वयाहं परिवर्जिता॥८॥

इष्टजनेति शेषात् रुक्मिण्या अभिधानम्॥८॥

रत्नातिशयदानेन तस्यामभ्यधिकः किल ।
स्नेहश्च बहुमानश्च प्रकाशं गमितस्त्वया॥९॥

तामस्तौषीत्समक्षं ते प्रियां स किल नारदः ।
तमश्रौषीश्च हृष्टस्त्वं प्रियायाः संस्तवं किल॥१०॥

स्तोतव्यो यदि तावत्स नारदेन तवाग्रतः ।
दुर्भगोऽयं जनस्तत्र किमर्थमनुशब्दितः॥११॥

प्रणयस्य रसं दत्त्वा पश्चात्तापः प्रभो यदि ।
अनुज्ञां मे प्रयच्छस्व तपः कर्तुं प्रसीद मे॥१२॥

स्वप्नेनापि न दृष्ट्वाहं श्रद्धध्यां पुष्करेक्षण ।
यदन्यदेव निर्वृत्तमश्रौषं पश्यतस्तव॥१३॥

यदहं स्वप्नेन योगमयेन दृष्ट्वापि न श्रद्दध्यां तव अन्यत्र प्रेमास्तीति तदेव निर्वृत्तमश्रौषमिति योज्यम्॥१३॥

कामं कामोऽस्तु तस्यैव मुनेरतुलतेजसः ।
अत्र मन्युस्तु मे देव सान्निध्यं तव तत्र यत्॥१४॥

मुनेः कामो रुक्मिणीस्तुतावस्तु परन्तु तव तत्स्तोत्रश्रवणमयुक्तमिति भावः॥१४॥

मानार्थं जीव्यते लोके सद्भिरित्युक्तवानसि ।
तदेवं सति नेच्छामि जीवितुं मानवर्जिता॥१५॥

ममाभवद्यतो रक्षा भयमद्य ततो मम ।
सर्गतो रक्षते यो मां स मां नाद्याभिरक्षति॥१६॥

हा गतिं कां गमिष्यामि त्यक्ता देव त्वया विभो ।
कुमुद्वतीगतां नूनं गतिं यास्याम्यसङ्गता॥१७॥

कुमुद्वतीगतां चन्द्रकरस्पर्शादुल्लसनाम् अस्पर्शे मुकुलीभावरूपां गतिं कुमुद्वत्या अजभार्याया गतिर्भर्तुरग्रे मरणं तां वा॥१७॥

किमकार्षमहं मोहादीश्वराणां प्रियाप्रियम् ।
प्रिया भूत्वाप्रिया भूता यद्यहं तव मानद॥१८॥

वसन्तकुसुमैश्चित्रं तदा रैवतकं गिरिम् ।
प्रिया भूत्वाप्रिया भूता कथं द्रक्ष्याम्यहं पुनः॥१९॥

परपुष्टस्वनोन्मिश्रं पुष्पगन्धवहं शुचिम् ।
कथं नामानिलं द्वेष्या सेवेयं दुर्भगा सती॥२०॥

परपुष्टस्वनोन्मिश्रं कोकिलध्वनिनादितम्। द्वेष्या तवेति शेषः॥२०॥

जलक्रीडां तवाङ्कस्था देव कृत्वा महोदधौ ।
कथं दौर्भाग्यमापन्ना पश्येयमपि सागरम्॥२१॥

सत्राजिति प्रिया नान्या त्वत्तो मेऽस्तीति विद्धि माम् ।
यदवोचः क्व तद्यातमथ वा कः स्मरिष्यति॥२२॥

कः स्मरिष्यति मयि मृतायामिति भावः॥२२॥

यदद्राक्षीद्धि मां श्वश्रूर्बहुमानेन नन्दिनी ।
अवज्ञातां त्वया राज्ञीं नूनं दौर्भाग्यकर्शिताम्॥२३॥

किं न गूढेन मे प्रेम्णा सुस्निग्धेनापि मानद ।
यत्समानां जनैर्देवो मां न पश्यति नित्यदा॥२४॥

नाहं त्वां कितवं धूर्तमज्ञासिषमरिन्दम ।
अद्य ज्ञातोऽसि तत्पक्षचञ्चलो जनवञ्चकः॥२५॥

नाहमिति। हे तत्पक्ष मत्सपत्नीपक्षपातिन् पक्षे हे अरिन्दम संसारशत्रुनाशन इतः पूर्वं त्वां कितवं धूर्तमित्यादिरूपं तव सार्वात्म्यं, “ब्रह्मदाशा ब्रह्मदासा ब्रह्मेमे किं तवा उत।” इत्याद्यागमादपि नाज्ञासिषम्। अद्य तु हे अजन जन्मादिहीन त्वं तत्पक्षचञ्चल इति ज्ञातोऽसि तस्याः मत्सपत्न्याः मायायाः पक्षे एवं चञ्चलो मायाविशिष्टचिद्रूपस्य तव मायांशेनैव चाञ्चल्यं वञ्चकत्वं च न तु चिदंशेनेत्यद्यैवमित्यर्थः। तत्पक्षेऽपि समासैकदेशोऽपि वञ्चकशब्देन सम्बद्धुमावर्तते॥२५॥

स्वरवर्णेङ्गिताकारैर्निगूढो देव यत्नतः ।
चौर ज्ञातोऽसि तत्पक्षवाङ्मात्रमधुरः शठः॥२६॥

वाङ्मनसोरगोचरोऽहं कथं त्वया ज्ञात इत्यत आह- स्वरेति। हे देव त्वं स्वरश्च वर्णश्च इङ्गितं च आकारश्च तैः लिङ्गैः कृत्वा त्वम् अतिगूढो निष्प्रकटोऽपि यत्नतः शठो मध्यस्थ उदासीन इति ज्ञातोऽसि। अयं भावः- वागाद्युद्बोधकतया सङ्घातविशिष्टरूपेण प्रत्यगात्मत्वात्। नित्यं ज्ञातोऽपि साक्षिवदसङ्गत्वेन इदानीमेव ज्ञात इत्यर्थः। अत एव चौरवत्प्रच्छन्नत्वाच्चौरेति सम्बोधयति- तत्पक्षेति। मायापक्षे ब्राह्मलौकिकान्तैश्वर्यविषये रम्या रामाः जरामरणवर्जितः कायः सङ्कल्पमात्रोपनता भोगा इत्यादिवाङ्मात्रेण मधुरः मधुरभाषी वेदकर्तृत्वात् असि। न त्वर्थतस्तत्र माधुर्यमस्तीति भावः। यतः शठ उदासीन अभोक्तृत्वात् “शठो मध्यस्थपुरुषे धूर्त्तधत्तूरयोरपि।” इति विश्वः। कथापक्षे तु द्वयोरपि श्लोकयोः स्पष्ट एवार्थः॥२६॥

एवमीर्ष्यावशं प्राप्तां देवीं सात्राजितीं हरिः ।
अभिमानवतिं देवः सान्त्वपूर्वमथाब्रवीत्॥२७॥

मैवं पद्मपलाशाक्षि प्राणेश्वरि वद प्रिये ।
किमत्र बहुनोक्तेन त्वदीयमवगच्छ माम्॥२८॥

त्वदीयमात्मानमिति शेषः। पक्षे स्पष्टम्॥२८॥

तत्पारिजातकुसुमं तस्या देवि ममाग्रतः ।
नारदो मत्प्रियं कुर्वन्मुनिरक्लिष्टकर्मकृत्॥२९॥

तस्याः दत्तवानित्यग्रिमस्थेन सम्बन्धः॥२९॥

दाक्षिण्यादानुरोधाच्च दत्तवान्नात्र संशयः ।
प्रसीदैकापराधं मे मर्षयस्व शुचिस्मिते॥३०॥

पारिजातकपुष्पाणि यदीच्छस्यतिकोपने ।
तदा दातास्मि सुश्रोणि सत्यमेतद्ब्रवीमि तम्॥३१॥

स्वर्गास्पदादानयित्वा पारिजातं द्रुमेश्वरम् ।
गृहे ते स्थापयिष्यामि यावत्कालं त्वमिच्छसि॥३२॥

स्वर्गास्पदात्स्वर्गस्थानात्॥३२॥

एवमुक्ता तु हरिणा प्रोवाच हरिवल्लभा ।
यद्येवं स द्रुमः शक्यस्त्विहानयितुमच्युता॥३३॥

मन्युरेष प्रमृष्टो हि भवेद्बहुगुणं मम ।
सीमन्तिनीनां सर्वासामधिका स्यामधोक्षज॥३४॥

अमृष्टस्त्यक्तः बहुगुणं सुखमिति शेषः॥३४॥

तथास्तु प्रथमः कल्प इति तां मधुसूदनः ।
प्रोवाचाप्रतिमो देवो जगतः प्रभवाप्ययः॥३५॥

प्रथमो मुख्यः कल्पः सान्त्वनोपायः॥३५॥

तथेत्युक्तेति कृष्णेन तुतोष समितिञ्जय ।
सत्यभामा सतामिष्टा कंसनाशनवल्लभा॥३६॥

ततः स्नातो जगन्नाथः सर्वेशः सर्वभावनाः ।
चकारावश्यकं सर्वं सर्वकामप्रदः सताम्॥३७॥

दध्यौ च नारदं देवः स्नातो देवमुनिर्नृप ।
अभ्याजगाम स्नानान्ते मुनिश्रेष्ठो महोदधौ॥३८॥

तमागतं नरपते सतां गतिरधोक्षजः ।
सत्यया सह धर्मात्मा यथाविधि अपूजयत्॥३९॥

पादौ प्रक्षालयाञ्चक्रे मुनेः सात्राजिती स्वयम् ।
जलं देवः स्वयं कृष्णो भृङ्गारेणा ददौ तदा॥४०॥

भृङ्गारेण कनकपात्रेण। “भृङ्गारी झिल्लिकायां च कनकालौ पुनः पुमान्” इति मेदिनी॥४०॥

अथोपकल्पयामास सुखासीनाय केशवः ।
परमान्नं स मुनये प्रयतात्मा जगद्गुरुः॥४१॥

परमान्नं पायसम्॥४१॥

तल्लोककर्त्रा सत्कृत्य दत्तं मुनिरुदारधीः ।
बुभुजे वदतां श्रेष्ठः श्रद्धया परया युतः॥४२॥

उपस्पृश्य ततस्तृप्तः प्रददौ चाशिषः प्रभो ।
ताश्च प्रीतेन मनसा प्रतिजग्राह केशवः॥४३॥

ततः सात्राजितीं देवीं प्रणातां नारदोऽब्रवीत् ।
प्रसार्य दक्षिणं हस्तं सजलं जलजेक्षणाम्॥४४॥

यथेदानीं तथैव त्वं भव देवि पतिव्रता ।
सविशेषं च सुभगा भव मत्तपसो बलात्॥४५॥

इत्युक्ता मुनिमुख्येन सत्यभामा हरिप्रिया ।
उत्तस्थौ महता युक्ता हर्षेण तु नराधिप॥४६॥

स कृष्णोऽप्यभ्यनुज्ञां तु लब्ध्वा मुनिवरात्तदा ।
बुभुजे विघसं धीमानप्रमेयपराक्रमः॥४७॥

विघसं देवब्राह्मणशेषम्॥४७॥

ततस्त्वावश्यकं कृत्वा सत्यभामापि भारत ।
अनुज्ञया तदा भर्तुर्विवेशान्तर्गृहं मुदा॥४८॥

ततो विनिर्गता देवी कृष्णस्यैवाभ्यनुज्ञया ।
स्थिता पार्श्वे च कृष्णस्य नमस्कृत्वा महात्मने॥४९॥

ततो मुहूर्तमासित्वा नारदः कृष्णमब्रवीत् ।
आपृच्छे त्वां गमिष्यामि शक्रलोकमधोक्षज॥५०॥

तत्राद्यं देवमीशानं नमस्कृत्य महेश्वरम् ।
गास्यन्ति देवगन्धर्वास्तथैवाप्सरसां गणाः॥५१॥

मासि मास्युचितां ह्येतन्महेन्द्रसदने प्रभो ।
पूजार्थं देवदेवस्य गान्धर्वं नृत्यमेव च॥५२॥

अन्तर्हितो देवदेवः सोमः सप्रवरो विभुः ।
पश्यत्यमरमुख्येन कृतं भक्त्याद्रिघातिना॥५३॥

सोमः उमया सह वर्तमानः सप्रवरः प्रमथगणयुतः॥५३॥

निमन्त्रितोऽहं पूर्वेद्युः पुष्पं दत्तं महाद्युते ।
पारिजातस्य भद्रं ते तरुराज्ञो महात्मनः॥५४॥

यदेतदाहृतं स्वर्गात्त्वदर्थं तु मया विभो ।
देवोपभोग्यमेतद्धि तरुराजसमुद्भवम्॥५५॥

इष्टः स वृक्षः सततं शच्याः पुष्करलोचन ।
सौभाग्यमावहत्येव पूज्यमानोऽपि नित्यशः॥५६॥

पुण्यं कर्तुं तदा सृष्टः पारिजातो महाद्रुमः ।
अदित्या धर्मनित्येन कश्यपेन महात्मना॥५७॥

पुण्यं पुष्यकाख्यं व्रतावशेषम्॥५७॥

पुरादित्या महातेजास्तोषितः किल कश्यपः ।
वरेण च्छन्दयामास मारीचस्तपसो निधिः॥५८॥

सोवाच सुभगा येन भवेयं मुनिसत्तम ।
स्वलङ्कृता कामतश्च सर्वैरेव विभूषणैः॥५९॥

ईप्सितं गीतनृत्यं च भवेन्मम तपोधन ।
कुमारी नित्यदा चैव भवेयं तपसो निधे॥६०॥

विरजा शोकरहिता भवेयमिति नित्यदा ।
पतिभक्तिमती चैव धर्मशीला तथैव च॥६१॥

पारिजातं ततोऽस्राक्षीददित्याः प्रियकाम्यया ।
सर्वकामप्रदैः पुष्पैरावृतं नित्यगन्धदैः॥६२॥

त्रिशाखं सर्वदा दृश्यं सर्वभूतमनोहरम् ।
सर्वपुष्पाणि दृश्यन्ते तस्मिन्नेव महाद्रुमे॥६३॥

ईदृशान्यपि पुष्पाणि बिभर्त्येकापि रूपिणी ।
बहुरूपाणि चाप्यन्या पद्मानि च ततोऽपरा॥६४॥

पुष्पाणीति तज्जातीयसुगन्धद्रव्यमात्रस्योपलक्षणम्। बहूनि च तानि रूपाणि चेति विग्रहः। रूपाणि इति शब्दात् गान्धर्वमित्यर्थः। “रूपं स्वभावे सौन्दर्ये नालोके पशुशब्दयोः।” इति मेदिनी। पद्मानीति विधिमात्रस्योपलक्षणम्॥६४॥

मन्दारादपि वृक्षाच्च सारमुद्धृत्य कश्यपः ।
तस्मादेव तरुश्रेष्ठः सर्वेषां श्रेष्ठतां गतः॥६५॥

अत एव मन्दरात् कल्पवृक्षाच्चायं सारभूत इत्यर्थः॥६५॥

ततस्तत्र निबद्ध्याथ कश्यपं प्रददौ शुभे ।
अदितिर्मम पुण्यार्थं सौभाग्यार्थं तथैव च॥६६॥

ततस्तत्र निबध्येत्यादिना परकृतिसरूपार्थवादेन सौभाग्यकामनया भर्तृसहितस्य पारिजातस्य दानं कर्तव्यम्। निष्क्रयेण पुनर्भर्ता च भोक्तव्य इति विधिरुन्नेयः॥६६॥

अदित्या कश्यपो दत्तः पुण्यार्थं च तथा मम ।
पुष्पदाम्ना वेष्टयित्वा कण्ठे पुण्यार्थमात्मवान्॥६७॥

निष्क्रयेण मया मुक्तः कश्यपस्तु तपोधनः ।
इन्द्रो दत्तस्तथेन्द्राण्य सौभाग्यार्थं ततो मम॥६८॥

सोमश्चाप्यथ रोहिण्या ऋद्ध्या च धनदस्तथा ।
एवं सौभाग्यदो वृक्षः पारिजातो न संशयः॥६९॥

परिजातो विष्णुपद्याः पारिजातेति शब्दितः ।
मन्दारपुष्पैर्यद्युक्तो मन्दारस्तेन कथ्यते॥७०॥

विष्णुपद्याः गङ्गायाः परि उपरि जात इति पारिजातः स्वार्थेऽण्। संयोगे मन्तुं मानयितुं वियोगे दारयितुं योग्यानि मन्दाराणि च तानि पुष्पाणि च तैः॥७०॥

कोऽप्ययं दारुरित्याहुरजानन्तो यतो जनाः ।
कोविदार इति ख्यातस्ततः स सुमहातरुः॥७१॥

कोविदार इत्यविकारात्॥७१॥

मन्दारः कोविदारश्च पारिजातश्च नामभिः ।
स वृक्षो ज्ञायते दिव्यो यस्यैतत्कुसुमोत्तमम्॥७२॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे सप्तषष्टितमोऽध्यायः॥६७॥
पारिजातहरणे कृष्णप्रतिज्ञा-०६८

वैशम्पायन उवाच। ततो जिगमिषुं तत्र नारदं मुनिसत्तमम् ।
प्रोवाच भगवान्विष्णुरप्रमेयपराक्रमः॥१॥

अष्टषष्टितमेऽध्यायेऽमुष्मिन्नारदसन्निधौ। पारिजातसमाहृत्यै प्रतिज्ञा हरिणा कृता॥१॥ एवं तावत्पूर्वाध्याये “निमन्त्रितोऽहं पूर्वेद्युः पुष्पं दत्वा महामते” इति नारदवचः श्रुत्वा तस्य च स्वकार्योपयोगित्वान्नारदम् उवाचेत्याह- ततो जिगमिषुमिति॥१॥

महर्षे धर्मतत्त्वज्ञ स्वर्गं गत्वा त्वयानघ ।
दृष्ट्वा सदस्यान्देवस्य त्रिपुरघ्नस्य धीमतः॥२॥

एवम् अत्र नारदेन पूर्वं स्वप्रयोजनमुक्तम्। “निमन्त्रितोऽहं पूर्वेद्युः पुष्पं दत्वा महामते।” इति तत्कुर्वन्नैव ममापि कार्यं कुर्विति भगवान्नारदमाह- महर्षे इति॥२॥

अनाज्ञया मद्वचनाद्विज्ञाप्यः पाकशासनः ।
सम्भावयित्वा भ्रातृत्वं पौराणं वेत्सि यन्मुने॥३॥

अनाज्ञया श्रेष्ठस्य भृत्यं प्रति यत्प्रेरणरूपं वचनं तदाज्ञा तया विनेत्यर्थः। विज्ञापना उत्तमस्य निकृष्टेन प्रार्थनेति भेदः। पौराणं वामनावतारीयम्॥३॥

यमस्राक्षीन्मुनिश्रेष्ठो भगवान्कश्यपस्तरुम् ।
पारिजातं पुरादित्याः सुखार्थं धर्मसत्तमः॥४॥

स पुण्यमतिसौभाग्यं ददाति तरुसत्तमः ।
तव दत्तं पुरा दानं व्रतेन तरुमुत्तमम्॥५॥

स दत्तः सन्निति शेषः। तव इन्द्रस्य सम्बन्धिनं तरुं देवीभिः पूर्वोक्ताभिरदित्यादिभिर्नारदाय दत्तम्। नारदेन च पुनस्तुभ्यं दत्तमित्ति श्लोकद्वयस्य सम्बन्धः॥५॥

देवीभिर्धर्मनित्याभिर्धर्मार्थममरोत्तम ।
दत्तं श्रुत्वाभिकाङ्क्षन्ति दातुं पत्न्यो मम प्रभो॥६॥

पुण्यार्थं दानधर्मार्थं मम प्रीत्यर्थमेव च ।
आनाययद्द्वारवतीं पारिजातं महाद्रुमम्॥७॥

आनाययद्भृत्यैः॥७॥

दत्ते दाने पुनः स्वर्गं तरुं त्वं नेतुमर्हसि ।
स वाच्य एवं भगवान्बलभिद्भगवंस्त्वया॥८॥

पूर्वोक्तमर्थं स्पष्टीकरोति- दत्ते दान इति। अस्माकं दानफलं भविष्यति तव तु काऽपि हानिर्नास्तीत्यर्थः॥८॥

तथा तथा प्रयत्नश्च कार्योऽस्मिन्मुनिसत्तम ।
यथा तरुवरं दद्यात्पार्जातं सुरेश्वरः॥९॥

तत्र दूतगुणं तावत्पश्यामस्ते तपोधन ।
सम्भाव्या सर्वकृत्यानां सम्पद्धि त्वयि मे मता॥१०॥

एवं नारायणेनोक्तो नारदो भगवानृषिः ।
प्रहस्योवाच केशिघ्नमिदं वाक्यं तपोधनः॥११॥

बाढमेवं प्रवक्ष्यामि यदुमुख्य सुरेश्वर ।
न तु दास्यति देवेन्द्रः पारिजातं कथञ्चन॥१२॥

मन्दरं पर्वतश्रेष्ठं दानवैस्त्रिदशैस्तथा ।
निक्षिप्य तोयधौ पूर्वं पारिजातः समाहृतः॥१३॥

मन्दरात्पर्वतश्रेष्ठान्नयितुं प्रेषितः पुरा ।
पारिजातं हरेणापि लोककर्त्रा जनार्दन॥१४॥

स्वयं विज्ञापितो गत्वा ततः शक्रेण शङ्करः ।
आक्रीडद्रुम उद्याने शच्याः स्यादिति याचितः॥१५॥

तथास्त्विति वरो दत्तो महदेवेन चानघ ।
न च नीतः पारिजातो मन्दरं चित्रकन्दरम्॥१६॥

क्रीडावृक्षः स शच्येति व्यपदेशेन मोक्षितः ।
महेन्द्रेण महाबाहो पारिजातस्ततः पुरा॥१७॥

शच्याः क्रीडावृक्ष इति मिषेण मोक्षितः मोचितः। शच्या इति छेदः सन्धिरार्षः। ततो रुद्रात्॥१७॥

प्रियार्थमुमया साक्षात्पारिजातवनं हरः ।
गव्यूतिशतविस्तीर्णं मन्दरस्यैव कन्दरम्॥१८॥

उमया उमायाः॥१८॥

न तत्र सूर्यभाः कृष्ण प्रविशन्ति नगोत्तमे ।
न च चन्द्रप्रभा शीता नैव कृष्ण सदागतिः॥१९॥

शीतोष्णे छन्दतस्तत्र शैलपुत्र्या भवन्ति हि ।
स्वयम्प्रभं वनं तद्धि महादेवस्य तेजसा॥२०॥

वर्जयित्वा महादेवौ सगणौ यदुनन्दन ।
मां चान्यस्तद्वनं दिव्यं न प्रयाति कथञ्चन॥२१॥

देवौ देवी देवश्चेति द्वन्द्वैकशेषः। तौ मां च वर्जयित्वेति सम्बन्धः॥२१॥

स्रवन्ति तत्र वार्ष्णेय पारिजाताः समन्ततः ।
सर्वरत्नानि मुख्यानि मनसा काङ्क्षितानि वै॥२२॥

गणास्तान्युपभुञ्जन्ति प्रवराणां महात्मनाम् ।
आज्ञया देवदेवस्य लोकनाथस्य केशव॥२३॥

गणाः सङ्घाः प्रवराणां प्रमथानाम्॥२३॥

पारिजाताद्बहुगुणं फलं तेषां तथा वनम् ।
अभिमानं प्रभाश्चैव गुणा भूरिगुणास्तथा॥२४॥

मूर्तिमन्तश्च ते वृक्षाः सोमं देवं वृषध्वजम् ।
उपतिष्ठन्ति सततं प्रवरैः सह केशव॥२५॥

सोमम् उमासहितम्॥२५॥

रौद्रेन तेजसा जुष्टा दुःखैर्हीनाः सुखान्विताः ।
तरवो मन्दरे ते हि दयिताः शैलकन्यया॥२६॥

कन्यया कन्यायाः॥२६॥

प्रविवेशान्धको नाम घोरस्तत्र महाबलः ।
दैतेयो वरदानेन दर्पितः पापनिश्चयः॥२७॥

वरदानेन सर्वत्र तव गतिरकुण्ठिताऽस्त्वित्येवंरूपेण॥२७॥

स हतो देवदेवेन हरेणामित्रघातिना ।
अवध्यः सर्वभूतानां वृत्राद्दशगुणं बली॥२८॥

एवं दुःखं न ते देव पारिजातं प्रदास्यति ।
पुष्कराक्ष सहस्राक्षः सत्यमेतद्ब्रवीमि ते॥२९॥

दुःखं दुःखलभ्यम्॥२९॥

सततं सहितो देव्या शच्या स हि वरद्रुमः ।
सर्वकामप्रदः कृष्ण तथेन्द्राय महौजसे॥३०॥

सहितो हितेनेष्टसुखदानेन युक्तः सहितः॥३०॥

श्रीभगवानुवाच। मुने तद्युज्यते साधु महादेवेन धीमता ।
यच्छचीकारणं कृत्वा न नीतः स तरुः पुरा॥३१॥

स ज्येष्ठः सर्वभूतानां लोककृत्प्रभवोऽव्ययः ।
पारावर्यस्य सदृशं कृतवानिति मे मतिः॥३२॥

पारावर्यस्य लोकमर्यादायाः॥३२॥

अहं यवीयान्देवस्य सर्वथा बलघातिनः ।
लालनीयश्च भगवञ्जयन्त इव सत्तम॥३३॥

सर्वथा भगवांस्तावदुपायैर्बहुविस्तरैः ।
करोतु यत्नं प्रीत्यर्थं शक्तो ह्यसि तपोधन॥३४॥

मया मुने प्रतिज्ञातं पुण्यार्थं सत्यभामया ।
स्वर्गादिहानयिष्यामि पारिजातमिति प्रभो॥३५॥

मया तदनृतं कर्तुं कथं शक्यं तपोधन ।
नानृतं हि वचो विप्र प्रोक्तं पूर्वं मयानघ॥३६॥

मयि भग्नप्रतिज्ञे वै लोकानां विप्लवो भवेत् ।
यन्मया हि मुनिश्रेष्ठ लोकधर्मा गुणान्विताः ।
परिवार्याः स्थितौ सर्वे स कथं ह्यनृतं वदेत्॥३७॥

विप्लवो भवेत्सर्वेऽप्यनृतवादिनो भविष्यन्तीत्यर्थः। कारणानुसारित्वात्कार्यस्य॥३७॥

न देवगन्धर्वगणा न राक्षसा न चासुरा नैव च यक्षपन्नगाः ।
मम प्रतिज्ञामपहन्तुमुद्यता मुने समर्थाः खलु भद्रमस्तु ते॥३८॥

स पारिजातं यदि न प्रदास्यति प्रयाच्यमानो भवतामरेश्वरः ।
ततः शचीव्यामृदितानुलेपने गदां विमोक्ष्यामि पुरन्दरोरसि॥३९॥

इति प्रवाच्यो यदि सामपूर्वकं प्रयाच्यमानो न तरुं प्रयच्छति ।
सुनिश्चयं मद्गमनाय सर्वथा त्वयापि कार्यः खलु तत्र निश्चयः॥४०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि नारदकृष्णभाषणेऽष्टषष्टितमोऽध्यायः॥६८॥
इन्द्रस्य पारिजातदानेऽसंमतिः-०६९

वैशम्पायन उवाच। नारदोऽथ मुनिर्गत्वा महेन्द्रसदनं प्रति ।
तां रात्रिमवसत्तत्र ददृशे च महोत्सवम्॥१॥

एकोनसप्ततितमेऽध्यायेऽस्मिन्कृष्णवाक्छ्रवात्। पारिजातं न दास्यामीत्याह शक्र इतीर्यते॥१॥ नारदोऽथेति॥१॥

तत्रादित्या महात्मानो वसवश्च सुरोत्तमाः ।
राजर्षयश्च विद्वांसः स्वर्गताः कर्मभिः शुभैः॥२॥

नागा यक्षाश्च सिद्धाश्च चारणाश्च तपोधनाः ।
ब्रह्मर्षयश्च शतशो देवर्शिमनवस्तथा ॥ ३॥

सुपर्णाश्च महात्मानो मरुतश्च महाबलाः ।
दिवौकसां निकायाश्च शतशोऽन्ये समागताः॥४॥

उपर्युपरि सर्वेषां सोमदेवो महेश्वरः ।
तस्थावमितविक्रान्तः स्वैर्गणैः परिवारितः॥५॥

देवर्षिभिर्मुनिश्रेष्ठैः संवृतः सर्वभावनः ।
कल्पान्तरसहस्रेषु क्षयो येषां न विद्यते॥६॥

यानर्चयन्ति सततं देवा देवेश्वरोपमाः ।
आत्मज्ञा नावलेपान्धा ये च धर्मपथि स्थिताः॥७॥

नावलेपान्धाः गर्वहीनाः॥७॥

रुद्राश्च काश्यपा देवमध्युपासन्त भारत ।
स्कन्दश्च भगवानग्निर्गङ्गां च सरितां वरा॥८॥

अर्चिष्मांस्तुम्बुरुश्चैव भारिश्च वदतां वरः ।
नेतारो देवदेवानामेते हि तपसान्विताः॥९॥

भारिर्गन्धर्वविशेषः॥९॥

एताननुविधीयन्ते सर्वदेवगणा नृप ।
धर्मनित्यास्तपोनित्याः सतां मार्गमुपाश्रिताः॥१०॥

अनुविधीयन्ते अनुसरन्ति॥१०॥

ये त्विमे मानुषा देवानर्चयन्ति शुभार्थिनः ।
तानर्चयन्ति ह्यमरास्तथा राजञ्छुभार्थिनः॥११॥

तान् मानुषान् अर्चयन्ति दृष्टफलप्रदानेन पूजयन्ति॥११॥

पितृकृत्येषु देवानां संन्यासं ये त्वनुष्ठिताः ।
स्वाध्यायवन्तः कौरव्य सदा नियमचारिणः॥१२॥

देवानां कृत्येषु ये वर्तन्ते ते इति च ज्ञेयम्। अनुष्ठिताः अनुष्ठितवन्तः॥१२॥

गन्धर्वाधिपतिः श्रीमांस्तत्र चित्ररथो नृप ।
सपुत्रो वादयामास देववाद्यानि हृष्टवत्॥१३॥

ऊर्णायुश्चित्रसेनश्च हाहा हूहूस्तथैव च ।
डुम्बरस्तुम्बरुश्चैव जगुरन्ये च षड्गुणान्॥१४॥

षड्गुणान् वक्रिमस्निग्धमधुरलास्यविभक्तावबद्धाख्यान्॥१४॥

उर्वशी विप्रचित्तिश्च हेमा रम्भा च भारत ।
हेमदन्ता घृताची च सहजन्या तथैव च॥१५॥

जुजोष भगवान्देवस्तदुपस्थानमात्मवान् ।
वृत्तेन तुष्टः शक्रस्य जगाम जगतो गतिः॥१६॥

जुजोष प्रीत्या जग्राह। उपस्थानं नृत्यादिरूपां परिचर्याम्॥१६॥

गते भूतपतौ सर्वे नृपा जग्मुर्यथागतम् ।
महेन्द्रेणार्चिता देवाः स्वानेव निलयान्गताः॥१७॥

ततः सर्वेषु यातेषु सुखासीनं पुरन्दरम् ।
सदस्यैः स्वैः सहासीनं नारदोऽभिययौ मुनिः॥१८॥

तमिन्द्रः पुजयामास समुत्थाय तपोधनम् ।
दिदेश कुशगर्भं च पीठमात्मासनोपमम्॥१९॥

नारदोऽथ महातेजा महेन्द्रमिदमब्रवीत् ।
दूतोऽहममरश्रेष्ठ विष्णोरतुलतेजसः॥२०॥

किञ्चित्कार्यं पुरस्कृत्य प्रेषितोऽस्मि महात्मना ।
आनर्तादार्तिहरणं तस्यैवानघतेजसः॥२१॥

तस्यैवार्तिहरणं कार्यम्॥२१॥

प्रीतिवाक्यानि हृद्यानि प्रयुज्य मुनये तदा ।
ततः प्रहृष्टो भगवानब्रवीत्पाकशासनः॥२२॥

किमाह पुरुषश्रेष्ठः शीघ्रमाचक्ष्व मे मुने ।
चिरस्य खलु कृष्णेन संस्मृतोऽस्मि महात्मना॥२३॥

चिरस्य चिरेण॥२३॥

नारद उवच। महेन्द्रेन्द्रानुजं द्रष्टुं गतोऽहं भ्रातरं तव ।
कथञ्चिद्द्वारकां तत्र काश्यपानां यशस्करम्॥२४॥

तं तु रैवतकेऽद्राक्षं तदासीनमरिन्दमम् ।
रुक्मिण्या सहितं वीरं स्तुवन्तं वृषभध्वजम्॥२५॥

पारिजाततरोः पुष्पं तस्य दत्तं मयानघ ।
विस्मापनार्थं देवेश पत्नीनामुरुतेजसः॥२६॥

तद्दृष्ट्वा तस्य पत्न्यस्तु विस्मयं परमं ययुः ।
बहुकामप्रदं पुष्पं वृक्षराजसमुद्भवम्॥२७॥

गुणास्तासां मया ख्यातास्तस्य पुष्पस्य मानद ।
सृष्टिश्च पारिजातस्य कश्यपेन महात्मना॥२८॥

तासां कृष्णपत्नीनां पुरः॥२८॥

अदित्या कश्यपो दत्तः पुण्यार्थं च यथा मम ।
पुष्पदाम्ना वेष्टयित्वा कन्ठे पुण्यार्थमात्मवान्॥२९॥

त्वं च दत्तो यथा शच्या देवाश्चान्ये सुरेश्वर ।
निष्क्रयश्च यथा दत्तः कश्यपाद्यैर्महर्षिभिः॥३०॥

तच्छ्रुत्वा तस्य पत्न्येका सत्यभामेति विश्रुता ।
पुण्यकार्यं मनश्चक्रे दयिता ते यवीयसः॥३१॥

तया चाभ्यर्थितो भर्ता देव देव्या गणेश्वरः ।
प्रतिजज्ञे स धर्मार्थं यवीयांस्तव मानद॥३२॥

ततो मामुक्तवान्वीरो विष्णुर्बलवतां वरः ।
यथावत्सुरमुख्येश ब्रुवतः श्रृणु भावतः॥३३॥

लालनीयो यवीयांस्तु प्रणिपत्याच्युतोऽब्रवीत् ।
आनयेयं सुरश्रेष्ठ पारिजातं वरद्रुमम्॥३४॥

मनोरथोऽस्तु सफलो वध्वास्तेऽसुरसूदन ।
धर्मकृत्ये विशेषेण वध्वास्ते सुरसत्तम॥३५॥

अयं दर्शितकल्याणो लोको लोकगणेश्वर ।
पश्यन्त्वमरकल्याणं मत्प्रभावाच्च मानवाः॥३६॥

वैशम्पायन उवाच। वासुदेववचः श्रुत्वा महेन्द्रः कुलनन्दन ।
नारदं वदतां श्रेष्ठमिदं वाक्यमथाब्रवीत्॥३७॥

भजासनं द्विजश्रेष्ठ युक्तमुक्तं त्वया द्विज ।
सन्देशं प्रतिदास्यामि विष्णोरतुलतेजसः॥३८॥

भजासनमित्यनेन दूतत्वात्तिष्ठन्नेवैतावद्वचनं नारद उक्तवानिति गम्यते॥३८॥

आसीने नारदे शक्रो लब्धानुज्ञोऽथ नारदात् ।
स्वमासनं ततो भेजे तस्यैव सदृशं प्रभो॥३९॥

उपविष्टः सुरपतिरथोवाच तपोधनम् ।
निरीक्ष्य स्वबलं वीर्यं हर्षदं वृत्रनाशनः॥४०॥

शक्र उवाच। महर्षे कुशलं पृष्ट्वा वक्तव्यस्ते जनार्दनः ।
वचनान्मम धर्मज्ञ सर्वभूतसुखावहः॥४१॥

मदनन्तरमीशस्त्वं जगतो नात्र संशयः ।
त्वदीयः पारिजातश्च रत्नान्यन्यानि चाच्युत॥४२॥

त्वं तु भारावतरणं कर्तुं देव महीं गतः ।
मानुष्यं सर्ववृत्तानां स्थितः कार्यस्य सिद्धये॥४३॥

त्वयि तीर्णप्रतिज्ञे हि पुनः प्राप्ते त्रिविष्टपम् ।
पूरयिष्यामि वध्वास्ते इष्टान्कामानधोक्षज॥४४॥

स्वर्गीयानि च रत्नानि न नेतव्यानि केशव ।
स्वल्पार्थे मानुषं लोकमिति पूर्वकृता स्थितिः॥४५॥

उत्क्रम्य हि स्थितिं दैवीं प्रवर्तामि महाबल ।
यद्यहं किं प्रवक्ष्यन्ति प्रजापतिगणाः प्रभो॥४६॥

प्रवर्तामि प्रवर्ते॥४६॥

ब्रह्मणा सह पुत्रेण सपौत्रेण महात्मना ।
नियमाः सर्वकृत्यानां स्थापिता जगतो ध्रुवाः॥४७॥

प्रजापतिकृतं मार्गमपास्य व्रजतो मम ।
श्रुत्वा प्रजापतिर्धीमाञ्च्छापमप्युत्सृजेत्प्रभुः॥४८॥

अस्माभिर्भिद्यमानं हि मर्यादासेतुबन्धनम् ।
भेत्स्यन्त्यशङ्किता दैत्या दैत्यपक्षास्तथापरे॥४९॥

स्त्रीनिमित्तमितो नीते पारिजाते द्रुमेश्वरे ।
स्वर्गौकसो भविष्यन्ति विमनस्काश्च मानद॥५०॥

उपभोगा मनुष्याणां विहिता ये स्वयम्भुवा ।
तैस्तु तुष्यतु मे भ्राता सम्पश्यन्कालपर्ययम्॥५१॥

इहापि तात त्रिदिवे मम यः स्यात्परिग्रहः ।
त्रिदिवस्थोऽपि तं कृष्णः सर्वं भोक्तुमिहार्हति॥५२॥

त्रिदिवस्थः सन् त्वमपीति सम्बन्धः न त्ववनिस्थ इत्यर्थः॥५२॥

हृष्टो ह्यामिषभोज्यानामभिमानाज्जनार्दनः ।
ततो धर्मं समुत्सृज्य पापमेवानुवर्तते॥५३॥

आमिषभोज्यानां मांसभक्षैः हृष्टः पुष्टः अत एव दृप्तत्वाद्धर्ममतिक्रामति। यदाहापस्तम्बः- “हृष्टो दृप्यति, दृप्तेधर्ममतिक्रामति” इति॥५३॥

स्त्रीवश्यता ख्याप्यमाना कृष्णस्य हि महात्मनः ।
जगत्ययशसा योगं जनयेदिति मे मतिः॥५४॥

मानुष्यं मानुषे प्राप्तो यदेतन्मधुसूदनः ।
कुर्यान्निर्बन्धनीयं यद्भ्रात्रा ज्येष्ठेन नारद॥५५॥

मानुषे लोके॥५५॥

स्वर्ग्यरत्नविलोपेन धर्षणा स्यान्ममानघ ।
ज्ञातितो धर्षणा चैव विशेषेणैव गर्हिता॥५६॥

धर्ममर्थं च कामं च क्रमेण मधुसूदनः ।
सेवत्वेष सतां धर्मान्स्थापितान्पद्मयोनिना॥५७॥

महीतलं पारिजातमर्पयिष्याम्यहं यदि ।
पौलोमीमादितः कृत्वा को नु मां बहु मंस्यते॥५८॥

पारिजातं महीपृष्ठे दृष्ट्वा पृष्ट्वा च मानुषाः ।
स्वर्गार्थं नोद्यमिष्यन्ति दृष्ट्वा स्वर्गफलं क्षितौ॥५९॥

पारिजातगुणान्मर्त्या जुषन्ति यदि नारद ।
देवतानां मनुश्याणां न विशेषो भविष्यति॥६०॥

तत्र यत्क्रियते कर्म इह तद्भुज्यते नरैः ।
स्वर्गार्थं न यतिष्यन्ति पारिजातगुणान्विताः॥६१॥

सर्वरत्नवरः स्वर्गे पारिजातस्तपोधन ।
तुल्यं देवसमैर्मर्त्यैः सर्वदैव जगद्भवेत्॥६२॥

यज्ञैर्मर्त्या न यक्ष्यन्ति लब्धस्वर्गफला भुवि ।
न पूर्तानि प्रदास्यन्ति तुल्यत्वममरैर्गताः॥६३॥

यज्ञैर्जप्याह्निकैश्चैव नित्यमाप्याययन्ति नः ।
मानुषाः स्वर्गमिच्छन्तः श्रद्दधानास्तपोधन॥६४॥

तत्सर्वं न करिष्यन्ति पारिजातगुणान्विताः ।
निस्तेजसो भविष्याम ते गतास्तद्विहीनताम्॥६५॥

इतः सुवृष्ट्या सस्यैस्ते जीवन्ति पुरुषा भुवि ।
आप्याययन्तस्तेऽप्यस्मान्दानैर्यज्ञैस्तथैव च॥६६॥

न बुभुक्षा पिपासा वा बाधते यदि मानुषान् ।
रोगो जरा वा मृत्युर्वा धर्मज्ञ रतिरेव च॥६७॥

दौर्गन्ध्यं वा सुघोरा वा ईतयः कर्मसम्भवाः ।
किमुद्योगं करिष्यन्ति पारिजातगुणान्विताः॥६८॥

ईतयः अतिवृष्ट्यादयः॥६८॥

सर्वथा नयनं तत्र पारिजातस्य न क्षमम् ।
इति वाच्यस्त्वया विप्र विष्णुरक्लिष्टकर्मकृत्॥६९॥

न क्षमं न योग्यम्॥६९॥

यथा यथा च ते भ्राता तुष्यत्येतद्विचारयन् ।
तथा तथा त्वय कार्यं कार्यं मत्प्रीतिमिच्छता॥७०॥

कार्यं कर्म कार्यं कर्तव्यम्॥७०॥

हाराश्च मणयश्चैव चन्दनान्यगुरूणि च ।
वस्त्राणि च विचित्राणि वध्वास्त्वं द्वारकां नय॥७१॥

योग्यानि यानि मर्त्यानां यावदिच्छति केशवः ।
न स्वर्गपरिमोषं तु कर्तुमर्हति साम्प्रतम्॥७२॥

ददामि रत्नानि यथेप्सितान्यहं बहूनि चित्राणि विभूषणानि च ।
न पारिजातं च कथञ्चन द्रुमं मुने पदास्यामि दिवौकसां प्रियम्॥७३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे इन्द्रवाक्ये एकोनसप्ततितमोऽध्यायः॥६९॥
पारिजातं न दास्यामीतीन्द्रभाषणम्-०७०

वैशम्पायन उवाच। देवराजवचः श्रुत्वा नारदः कुरुनन्दन ।
प्रोवाच वाक्यं वाक्यज्ञो धर्मात्मा धर्मवित्तमः॥१॥

अथास्मिन्सप्ततितमे प्रतिज्ञां नारदेरिताम्। कृष्णस्य बलमिच्छ्रुत्वा न दास्यामीत्यवावदीत्॥ देवराजेति॥१॥

अवश्यमेव वक्तव्यं हितं बलनिषूदन ।
मया तव महाबाहो बहुमानोऽस्ति मे त्वयि॥२॥

उक्तो मया वासुदेवो जानता भवतो मतम् ।
न दत्तः पारिजातोऽयं हरस्यापि त्वया पुरा॥३॥

हेतवश्च मया तस्य दर्शितास्ते समासतः ।
न चावगतवान्देवः सत्यमेतद्ब्रवीमि ते॥४॥

हेतवः महीतलं पारिजातमित्यादिना पूर्वोक्ताः। न चावगतवान् नाङ्गीकृतवान्॥४॥

उपेन्द्रोऽहं महेन्द्रेण लालनीयः सदेति माम् ।
उवाच पुण्डरीकाक्षो दत्तमुत्तरमेव च॥५॥

पुनः पुनर्मया वास्य हेतवो देव दर्शिताः ।
ततो न बुद्धिर्व्यावृत्ता वृत्रनाशाय तस्य वै॥६॥

अपि चाप्युक्तवान्देवो वाक्यान्ते मधुसूदनः ।
प्रत्याह पुरुषश्रेष्ठाः सरोषमिव वासव॥७॥

न देवगन्धर्वगणा न राक्षसा न चासुरा नैव च पन्नगोत्तमाः ।
मम प्रतिज्ञामपहन्तुमुद्यता मुने समर्थाः खलु भद्रमस्तु ते॥८॥

स पारिजातं यदि न प्रदास्यति प्रवाच्यमानो भवता पुरन्दरः ।
ततः शचीव्यामृदितानुलेपने गदां विमोक्ष्यामि पुरन्दरोरसि॥९॥

उपेन्द्रस्य महेन्द्रायं भ्रातुस्ते निश्चयः परः ।
यदत्र मन्यसे न्याय्यं सम्प्रधार्य कुरुष्व तत्॥१०॥

तत्त्वं हितं च देवेश श्रूयतां वदतो मम ।
नयनं पारिजातस्य द्वारकां मम रोचते॥११॥

नारदेनैवमुक्तस्तु सुव्यक्तं बलदेहभित् ।
रोषाविष्टः सहस्राक्षोऽब्रवीदेतन्नराधिप॥१२॥

अनागसि मयि ज्येष्ठे सोदरं यदि केशवः ।
एवं प्रवृत्तः किं शक्यं कर्तुमद्य तपोधन॥१३॥

बहूनि प्रतिलोमानि पुरा स कृतवान्मयि ।
कृष्णो नारद सोढानि भ्रातेति स्म मया सदा॥१४॥

खाण्दवे चार्जुनरथं पुरा वाहयता सता ।
मदीया वारिता मेघाः शमयन्तोऽग्निमुद्धतम्॥१५॥

गोवर्धनं धारयता विप्रियं च कृतं मम ।
तथा वृत्रवधे प्राप्ते साहाय्यार्थं वृतो मया॥१६॥

समोऽहमिति सर्वेषां भूतानामिति चोक्तवान् ।
स्वबाहुबलमाश्रित्य वृत्रश्च निहतो मया॥१७॥

देवासुरेषु प्राप्तेषु सङ्ग्रामेषु च नारद ।
युद्ध्यत्यात्मेच्छया कृष्णो मुने सुविदितं तव॥१८॥

बहुनात्र किमुक्तेन तस्माद्दिष्ट्या प्रवर्तताम् ।
ज्ञातिभेदो न नः कार्यः साक्षी त्वं मम नारद॥१९॥

ज्ञातिभेदः भ्रातृकलहः नोऽस्माभिः॥१९॥

ममोरसि गदां मोक्तुमुद्यतो यदि केशवः ।
अनुशब्द्याथ पौलोमीं गुणः क इह दृश्यते॥२०॥

उदवासगतो धीमान्पिता नः कश्यपः प्रभुः ।
अदित्या सह मे मात्रा तयोर्वाक्यमिदं भवेत्॥२१॥

अजितात्मा मम भ्राता रजसा तमसा वृतः ।
कामेन च स्त्रियो वाक्यादेव मामुक्तवान्गुरुम्॥२२॥

धिक्स्त्रियः सर्वथा विप्र धिग्राजसमितिं तथा ।
यत्राधिक्षिप्तवान्विष्णुरेवं मां स्त्रीजितो द्विज॥२३॥

न दृष्टं कश्यपकुले व्यपदेश्यं महामुने ।
नैव दक्षकुलं दृष्टं मातुर्मे यत्र सम्भवः॥२४॥

व्यपदेश्यं वाच्यम्॥२४॥

न ज्येष्ठता न राजत्वं देवानां प्रतिमानितम् ।
कामरागाभिभूतेन कृष्णेन खलु नारद॥२५॥

पुत्रदारसहस्रैर्हि भ्रातानघ विशिष्यते ।
सद्वृत्तो ज्ञानसम्पन्न इति ब्रह्मा पुराब्रवीत्॥२६॥

नास्ति भ्रातृसमो बन्धुराहार्य इतरो जनः ।
इति मामब्रवीन्माता पिता चैव प्रजापतिः॥२७॥

आहार्यः सम्भोज्यः सम्पाद्यो वा॥२७॥

सोदरे तु विशेषं तु पिता मे कश्यपोऽब्रवीत् ।
दृप्ता मय विरुद्ध्यन्ते दानवाः पापनिश्चयाः॥२८॥

काममेतन्न वक्तव्यं स्वयमात्मस्तवान्वितम् ।
प्राप्तस्त्ववसरो विप्र यदिहाद्योच्यते मया॥२९॥

धनुज्यायां मुनिश्रेष्ठ छिन्नायां हि पुरानघ ।
धन्वीभिरमराणां च वरदानान्महामुने॥३०॥

धनुर्ज्यायामिति शतपथोक्त इतिहासोऽवगमितः॥३०॥

उत्कृत्तशिरसो विष्णोः पुरा देहो धृतो मया ।
सन्धिते च शिरो यत्नाच्छिन्नं रौद्रेन तेजसा॥३१॥

अहं विशिष्टो देवानामित्युक्त्वा पुनरच्युतः ।
धनुरारोप्य दर्पेण स्थितो नारद केशवः॥३२॥

किं मां पिता वा माता वा वक्ष्यतीति मया मुने ।
स्नेहेन च स्थितं विष्णोः शरीरं मुनिसत्तम॥३३॥

ऐन्द्रं वैष्णवमस्यैव मुने भागमहं ददौ ।
यवीयांसमहं प्रेम्णा कृष्णं पश्यामि नराद॥३४॥

ऐन्द्रमेवाधिपत्यं श्रावणभाद्रपदपूज्यत्वं वैष्णवं कृत्वाऽहं ददौ दत्तवान्वैचित्त्येनात्र परोक्षता॥३४॥

सङ्ग्रामेषु प्रहर्तव्यं तेन पूर्वं तपोधन ।
राजा किलाहं समरे प्रहराम्यग्रतो ध्रुवम्॥३५॥

अन्यत्र समरेऽहमग्रतः प्रहरामि यतो राजा प्रभुः॥३५॥

प्रादुर्भावेषु सर्वेषु स्वशरीरमिवानघ ।
यतो रक्षामि धर्मज्ञ केशवं भक्तिमाश्रितम्॥३६॥

इदं भङ्क्त्वा मदीयं च भवनं विष्णुना कृतम् ।
उपर्युपरि लोकानामधिकं भुवनं मुने॥३७॥

अवमानः स च मया पृष्ठतः क्रियते मुने ।
लालनीयो मया बाल इत्येवं भ्रातृगौरवात्॥३८॥

बालोऽयं मम पुत्रेति यवीयानिति नारद ।
पित्रा मात्रा च गोविन्दो मानी च परिभाषितः॥३९॥

परिभाषितः आक्रुष्टः॥३९॥

इष्टस्तत्र जनानां च केशवः सुविशेषतः ।
वयं द्वेष्या न सन्देहस्तत्र स्नेहोऽतिरिच्यते॥४०॥

सर्वज्ञो बलवाञ्छूरः पात्रं मानयिता तथा ।
केशवेत्येव च ध्यानं यत्तद्वितथतां गतम्॥४१॥

केशवेत्येवेति सन्धिरार्षः॥४१॥

गच्छ नारद वक्तव्यः केशवो वचनान्मम ।
आहूतो न निवर्तेयं समरं प्रति शत्रुभिः॥४२॥

यदीच्छसि तदागच्छ सह्यं ते यत्त्वमिच्छसि ।
प्रहरस्व च पूर्वं त्वं भार्याजित यथेच्छसि॥४३॥

सह्यं सोढव्यम्॥४३॥

रथाङ्गनाथ शार्ङ्गेण गदया नन्दकेन च ।
प्रहरारुह्य गरुडं दृढो भूत्वा जनार्दन॥४४॥

रथाङ्गेन चक्रेण। नन्दकेन खड्गेन॥४४॥

प्रहृते प्रहरिष्यामि यथा शक्त्या च केशव ।
अहो धिग्यदि मां स्नेहो विक्लवं न करिष्यति॥४५॥

यावन्न सङ्ग्रामगतो जितोऽहं चक्रपाणिना ।
पारिजातं न दास्यामि तावद्भो मुनिसत्तम॥४६॥

मां समाह्वयते ज्येष्ठं यवीयान्स तपोधन ।
अहो तं मर्षयिष्यामि किमर्थं स्त्रीजितं हरिम्॥४७॥

अद्यैव गच्छ भगवन् द्वारकां कृष्णपालिताम् ।
विवादे संस्थितः सोऽद्य इति वाच्यस्त्वयाच्युतः॥४८॥

पलाशपत्रार्धमपि त्वयाजितो न पारिजातस्य तव प्रदास्यति ।
इति प्रवाच्यो मधुसूदनस्त्वया वचो मदीयं स्मरता तपोधन॥४९॥

पलाशपत्रार्धमिति। त्वया अजितः पारिजातस्य पलाशं पत्रमात्रं पत्रार्द्धं वा न प्रदास्यति वृक्षस्य का वार्तेत्यर्थः॥४९॥

पुनः प्रवाच्यो भगवंस्त्वयाच्युतो मम प्रियार्थं खलु निर्विशङ्कितम् ।
न मायया हर्तुमिहार्हसि द्रुमं सुयुद्धमेवास्तु धिगस्तु जिह्मताम्॥५०॥

जिह्मतां कुटिलताम्॥५०॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे इन्द्रवाक्ये सप्ततितमोऽध्यायः॥७०॥
शक्रनिश्चयकथनार्थं नारदस्य द्वारकां प्रति गमनम्-०७१

वैशम्पायन उवाच। महेन्द्रवचनं श्रुत्वा नारदो वदतां वरः ।
विविक्ते देवराजानमिदं वचनमब्रवीत्॥१॥

अथैकसप्ततितमेऽध्याये शक्रविनिश्चयम्। सनिर्बन्धं हरेर्वक्तुं नारदो द्वारकां गतः॥१॥ महेन्द्रेति॥१॥

कामं प्रियाणि राजानो वक्तव्या नात्र संशयः ।
प्राप्तकालं तु वक्तव्यं हितमप्रियमप्युत॥२॥

अनियुक्तपुरोभागो न स्यादिति वदन्ति हि ।
सुलोकगाततत्त्वज्ञो नयविज्ञानकोविदः॥३॥

अनियुक्तपुरोभागः अनाज्ञप्तः सन् पुरोवर्ती न भवेत् तन्निश्चितम्॥३॥

कार्याकार्ये समुत्पन्ने परिपृच्छति मां भवान् ।
यतस्ततः प्रवक्ष्यामि गृह्यतां यदि रोचते॥४॥

तथापि यतः भवानपि कार्याकार्ये मां पृच्छति ततोऽहम् अननुपृष्टोऽपि तुभ्यं हितं वदामीत्यर्थः॥४॥

अनुक्तेनापि सुहृदा वक्तव्यं जानता हितम् ।
न्याय्यं च प्राप्तकालं च पराभवमनिच्छता॥५॥

वक्तव्यं सर्वथा सद्भिरप्रियं चापि यद्धितम् ।
आनृण्यमेतत्स्नेहस्य सद्भिरेवादृतं पुरा॥६॥

अप्रियम् अतिकटुकमपि हितं परिणामसुखम्॥६॥

अनृते धर्मभग्ने च न शुश्रूषति चाप्रिये ।
न प्रियं न हितं वाच्यं सद्भिरेवेति निन्दिताः॥७॥

अनृत इति। त्वय्यनृतत्वाद्यभावात्वां प्रति वदामीत्यर्थः॥७॥

सर्वथा देव वक्तव्यं श्रूयतां शृण्वतां वर ।
श्रुत्वा च कुरु सर्वज्ञ मम श्रेयस्करं वचः॥८॥

अन्योन्यभेदो भ्रातॄणां सुहृदां वा बलान्तक ।
भवत्यानन्दकृद्देव द्विषतां नात्र संशयः॥९॥

हितानुबन्धसहितं कार्यं ज्ञेयं सुरेश्वर ।
विपरीतं च तद्बुद्ध्वा नित्यं बुद्धिमतां वर॥१०॥

यत्स्यात्तापकरं पश्चादारब्धं कार्यमीदृशम् ।
आरभेन्नैव तद्विद्वानेष बुद्धिमतां नयः॥११॥

विपाकमस्य कार्यस्य नानुपश्यामि शोभनम् ।
यदत्र कारणं देव निबोध विबुधाधिप॥१२॥

विपाकं फलम्॥१२॥

य एको विश्वमध्यास्ते प्रधानं जगतो हरिः ।
प्रकृत्या यं परं सर्वे क्षेत्रज्ञं वै विदुर्बुधाः॥१३॥

विश्वं कार्यं प्रधानं कारणं च अध्यास्ते अधितिष्ठति रथमिव यन्ता। प्रकृत्या मायया तत्क्षेत्रं कारणसूक्ष्मस्थूलदेहाख्यं प्रकाशयतीति क्षेत्रज्ञत्वम्॥१३॥

तस्याव्यक्तस्य यो व्यक्तो भागः सर्वभवोद्भवः ।
तस्यात्मा परमो देवो विष्णुः सर्वस्य धीमतः॥१४॥

अव्यक्तस्य अव्याकृतस्य व्यक्तो भागः कार्यं हिरण्यगर्भादिः यः सर्वभवोद्भवः सर्वसंसारबीजं तस्यात्मा अन्तर्यामी चेतयिता। न केवलं तस्यैव अपि सर्वस्य धीमतः चेतनावतः जन्तुमात्रस्येत्यर्थः॥१४॥

प्रकृत्याः प्रथमो भाग उमा देवी यशस्विनी ।
व्यक्तः सर्वमयो विश्वः स्त्रीसंज्ञो लोकभावनः॥१५॥

रुद्रादप्ययमनन्य इत्याह- प्रकृत्या इति। प्रकृत्याः चिच्छक्तेः प्रथमो मुख्योंऽशः व्यक्तः दृश्यमात्राकारः विश्वस्त्रीसंज्ञः कृत्स्नभोग्यवस्तुसंज्ञ इत्यर्थः। अत एव लोकश्चेतनस्तस्य भावनः सन्तर्पयिता॥१५॥

रुक्मिण्याद्याः स्त्रियस्तस्या व्यक्तत्वं प्रथमो गुणः ।
अव्यया प्रकृतिर्देवी गुणी देवो महेश्वरः॥१६॥

तस्याः प्रकृतेः प्रथमो गुण उमावत् गुणी उमया रुक्मिण्या वा उपहितो गुणी महेश्वरः रुद्रो विष्णुर्वा॥१६॥

न विशेषोऽस्य रुद्रस्य विष्णोश्चामरसत्तम ।
गुणिनश्चाव्ययः शास्ता सदा च प्रथमो गुणः॥१७॥

तदेवाह- नेति अर्द्धेन। गुणिनो मायाविनो रुद्रस्य विष्णोर्वा विशेषो भेदको गुणो नास्ति। अतो विष्णुना द्रावितं त्वां रुद्रोऽपि न रक्षिष्यतीति भावः। गुणिना इति सार्द्धश्लोकद्वयं वाक्यम्। किं च तस्य गुणिनोऽपि यः शास्ता अव्ययोऽपरिणामी प्रथमोऽध्यस्तात्पूर्वत्वादधिष्ठानस्य यतः अगुणो यः स एव नारायणः। एतेन तुर्यमूर्तिर्नारायण इति दर्शितम्। सा च ब्रह्मविष्णुरुद्रेभ्य एकैकगुणोपाधिभ्योऽन्या सर्वगणोपाधिमयी तेनैव यो भोक्ता रुद्रः कर्ता विष्णुः ब्रह्मा च बुद्ध्यभिमानी देवाश्च इन्द्रियाभिमानिनस्ते सर्वे सृष्टा इति योजना॥१७॥

नारायणो महातेजाः सर्वकृल्लोकभावनः ।
भोक्ता महेश्वरो देवः कर्ता विष्णुरधोक्षजः॥१८॥

ब्रह्मा देवगणाश्चान्ये पश्चात्सृष्टा महात्मना ।
महादेवेन देवेश प्रजापतिगणास्तथा॥१९॥

एवं पुराणपुरुषो विष्णुर्देवेषु पठ्ययते ।
अचिन्त्यश्चाप्रमेयश्च गुणेभ्यश्च परस्तथा॥२०॥

अदित्या तपसा विष्णुर्महात्माऽऽराधितः पुरा ।
वरेण च्छन्दिता तेन परितुष्टेन चादितिः॥२१॥

छन्दिता अनुगृहीता॥२१॥

तयोक्तस्त्वत्समं पुत्रमिच्छामीति सुरोत्तम ।
प्रणिपत्य च विज्ञाय नारायणमधोक्षजम्॥२२॥

तयेतिः पञ्चानां तात्पर्यम्। त्वद्भ्रातृत्वान्न तवायं साधारणोऽपि तु अकर्मजनितो देवभावोऽस्यास्ति। त्वं तु कर्मदेवत्वात्ततो निकृष्टोऽसीत्यर्थः॥२२॥

तेनोक्तं भुवने नास्ति मत्समः पुरुषोऽपरः ।
अंशेन तु भविष्यामि पुत्रः खल्वहमेव ते॥२३॥

स जातः सर्वकृद्देवो भ्राता तव सुरेश्वरः ।
नारायणो महातेजा यमुपेन्द्रं प्रचक्षते॥२४॥

इच्छन्नेव हरिद्रेव काश्यपत्वमुपागतः ।
तैस्तैर्भावैर्विकुरुते भूतभव्यभवाप्ययः॥२५॥

भूतस्य भव्यस्य च भवाप्यय उत्पत्तिप्रलयस्थानं सर्वजगदुपादानभूत इत्यर्थः॥२५॥

प्रादुर्भावं गतो देवो जगतो हितकाम्यया ।
माथुरं जगतो नाथः कर्ता हर्ता च केशवः॥२६॥

य एवम्भूतः स एव साक्षात्कृष्ण इत्याह- प्रादुर्भावमिति॥२६॥

यथा पललपिण्डः स्याद्व्याप्तः स्नेहेन मानद ।
तथा जगदिदं व्याप्तं विष्णुना प्रभविष्णुना॥२७॥

पललपिण्डः मांसपिण्डः॥२७॥

ब्रह्मण्यदेवः सर्वात्मा तैस्तैर्भावैर्विकुर्वति ।
जगत्यतिगुणो देवो वैकुण्ठः सर्वभावनः॥२८॥

सर्वात्मा व्यष्टिसमष्टिदेहेन्द्रियाद्याकारस्तैस्तैर्भावैस्तत्तद्धर्मैर्विकुर्वतिः विकारं प्राप्नोति। सर्वज्ञोऽहं दुःख्यहमित्याद्यभिमानवान् भवतीत्यर्थः। वस्तुतस्त्वतिगुणो गुणातीतः॥२८॥

अतः समस्तदेवानां पूज्य एव च केशवः ।
पद्मनाभश्च भगवान्प्रजासर्गकरो विभुः॥२९॥

अनन्तो धारणार्तं च बिभर्ति च महद्यशः ।
यज्ञ इत्यपि सद्भिश्च कथ्यते वेदवादिभिः॥३०॥

अनन्तः शेषः धारणार्थे भुव इति शेषः॥३०॥

श्वेतः कृतयुगे देवो रक्तस्त्रेतायुगे तथा ।
द्वापरे च तथा पीतः कृष्णः कलियुगे विभुः॥३१॥

श्वेत इति। अत्र- “कलिः शयानो भवति सञ्जिहानस्तु द्वापरः। उत्तिष्ठंस्त्रेता भवति कृतं सम्पद्यते चरन्” इति श्रुतेः योऽविद्यानिद्रायां शेतेऽतिमूढः स पुमान्कलिः। तदनुग्रहार्थे अस्मिन् ईश्वरः कृष्णः कृष्णावताररूपी भवति। यः किञ्चित् श्रेयोदर्शी अर्द्धप्रबुद्धः स द्वापरः। तं प्रति पीतवर्णः हिरण्यवन्मनोहरो भवति। स किञ्चिद्भक्त्युन्मुखो भवतीत्यर्थः। यस्तु श्रेयार्थे यतते स त्रेता। तदनुग्रहार्थे रक्तोऽनुरक्तो मातृवद्भवति। यस्तु युधिष्ठिरादिवदत्यन्तं भक्तः स कृतं तं प्रति शुक्लः। स्वयं शुद्धमेव रूपं प्रकाशयतीति। यथाश्रुतव्याख्यानं तु सर्वेषु युगेषु सर्वेषां रूपाणां सत्त्वान्न युज्यत इति दिक्॥३१॥

अवधीत्स हिरण्याक्षं दिव्यरूपधरो हरिः ।
दधाराप्सु निमज्जन्तीमेष देवो वसुन्धराम्॥३२॥

वाराहं वपुराश्रित्य जगतो हितकाम्यया ।
जघ्ने हिरण्यकशिपुं नारसिंहवपुर्हरिः॥३३॥

जिगाय जगतीं चैव विष्णुर्वामनरूपधृक् ।
बबन्ध च बलिं देवः श्रीमान्पन्नगबन्धनैः॥३४॥

देवदानवसम्भूतानाक्रामयदपि श्रियम् ।
त्वय्यनन्तः पुरा विष्णुरुदारोऽमितविक्रमः॥३५॥

देवानां दानवानां च यत्नसम्भूतां साधारणीमपि श्रियं। त्वयि त्वन्निमितम् आक्रामयत् आक्रान्तवान्॥३५॥

सावशेषं तपो यस्य तन्निहन्ति जनार्दनः ।
अलीकेष्वपि वर्तन्तं व्रतमेतन्महात्मनः॥३६॥

अलीकेषु मायासु वर्तमानमपि हन्त्येवेत्यर्थः॥३६॥

जघ्ने च दानवान्मुख्यान्देवानां ये च शत्रवः ।
तव प्रियार्थं गोविन्दो धर्मनित्यः सतां गतिः॥३७॥

रामत्वमपि चावाप्य जघ्ने रावणमात्मवान् ।
भूत्वा कामगुणांश्चैव जघान द्विरदं हरिः॥३८॥

भूत्वा आविर्भूय तेष्ववतारेषु कामगुणान्यथेष्टं शौर्यादिगुणयुक्तानसुरान्हरिर्द्विरदं सिंहो गजानिव जघान। द्विरदमित्येकत्वमार्षं लुप्तोपमा च॥३८॥

हिताय जगतोऽद्यापि लोके वसति मानुषे ।
उपेन्द्रो जगतां नाथः सर्वभुतोत्तमोत्तमः॥३९॥

जटी कृष्णाजिनी दण्डी दृष्टपूर्वो मया हरिः ।
दैतेयेषु चरन्देवस्तृणेष्वग्निरिवोद्धतः॥४०॥

अद्राक्षमपि गोविन्दं दानवैकार्णवं जगत् ।
कुर्वाणं दानवैर्हीनं जगतो हितकाम्यया॥४१॥

अवश्यं पारिजातं ते नयिष्यति जनादनः ।
द्वारकाममरश्रेष्ठ नानृतं च ब्रवीम्यहम्॥४२॥

भ्रातृस्नेहाभिभूतस्त्वं न कृष्णे प्रहरिष्यसि ।
नापि कृष्णस्त्वयि ज्येष्ठो प्रहरिष्यति वासव॥४३॥

नैव चेच्छ्रोष्यति प्रोक्तं मया देव कथञ्चन ।
पृच्छ त्वं नयधर्मज्ञान्ये हितास्तव मन्त्रिणः॥४४॥

वैशम्पायन उवाच। नारदेनैवमुक्तस्तु महेन्द्रो जनमेजय ।
इदमुत्तरमीशोऽथ प्रत्युवाच जगद्गुरुम्॥४५॥

एवंविधप्रभावं त्वं कृष्णं वदसि यद्द्विज ।
एवमेतत्सुबहुशः श्रुतं खलु मया मुने॥४६॥

यतश्चैवंविधः कृष्णस्ततोऽहं तस्य वै तरुम् ।
न प्रदास्यामि दातव्यं सतां धर्ममनुस्मरन्॥४७॥

महाप्रभावो नाल्पार्थे रुष्येदिति विचिन्तयन् ।
व्यवस्थितोऽहं भद्रं ते मुने सर्वगुणादिति॥४८॥

महाप्रभावाः सततं भवन्ति हि सहिष्णवः ।
श्रोतारश्चैव सततं वृद्धानां ज्ञानचक्षुषाम्॥४९॥

वृद्धानां वृद्धवाक्यानाम्॥४९॥

महात्मा कारणे नाल्पे कृष्णो धर्मभृतां वरः ।
भ्रात्रा ज्येष्ठेन सर्वज्ञो विरोधं गन्तुमर्थति॥५०॥

यथैवं मम मातुः स वरं प्रादादधोक्षजः ।
तथैव तस्याः पुत्राणां ज्येष्ठानां सोढुमर्हति॥५१॥

यथैवोपेन्द्रतां यातः स्वयमिच्छञ्जनार्दनः ।
तथैव भ्रातुरिन्द्रस्य सन्मानं कर्तुमर्हति॥५२॥

ज्यैष्ठ्यमेतेन देवेन नारब्धं किं पुरातने ।
अथेदानीमपीच्छेत्स ज्येष्ठोऽस्तु मधुसूदनः॥५३॥

पुरातने वामनावतारे किं नारब्धं नाङ्गीकृतमपि त्वारब्धमेव॥५३॥

सुनिश्चितं बलरिपुमीक्ष्य नारदो विसर्जितस्त्रिदशवरेण धर्मभृत् ।
ययौ पुरीं यदुवृषभाभिरक्षितां कुशस्थलीं धृतिमतिमांस्तपोधनः॥५४॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे नारदस्य स्वर्गात्पुनरागमने एकसप्ततितमोऽध्यायः॥७१॥
कश्यपकृतं रुद्रस्तोत्रम्-०७२

वैशम्पायन उवाच। अथैत्य द्वारकां रम्यां नारदो मुनिसत्तमः ।
ददर्श पुरुषश्रेष्ठं नार्यणमरिन्दमम्॥१॥

द्विसप्ततितमेऽध्याये ज्ञात्वेन्द्रस्य विचेष्टितम्। कश्यपो रुद्रमस्तौषीत्सोम इत्यभिधीयते॥१॥ अथैत्येति॥१॥

स्ववेश्मनि सुखासीनं सहितं सत्यभामया ।
विराजमानं वपुषा सर्वतेजोऽतिगामिना॥२॥

तमेवार्थं महात्मानं चिन्तयन्तं दृढव्रतम् ।
केवलं योजयन्तं च वाक्यमात्रेण भाविनीम्॥३॥

योजयन्तं भाविनीं सत्यभामाम्॥३॥

दृष्ट्वैव नारदं देवः प्रत्युत्थाय अधोक्षजः ।
पूजयामास च तथा विधिदृष्टेन कर्मणा॥४॥

सुखोपविष्टं विश्रान्तं प्रहस्य मधुसूदनः ।
वृत्तान्तं परिपप्रच्छ पारिजाततरुं प्रति॥५॥

अथाचष्ट मुनिः सर्वं विस्तरेण तपोधनः ।
इन्द्रानुजायेन्द्रवाक्यं निखिलं जनमेजय॥६॥

श्रुत्वा कृष्णस्तु तत्सर्वं नारदं वाक्यमब्रवीत् ।
अमरावतीं पुरीं यास्ये श्वोऽहं धर्मभृतां वर॥७॥

इत्युक्त्वा नारदेनैव सहितः सागरं ययौ ।
सन्दिदेश ततस्तत्र विविक्तो नारदं हरिः॥८॥

महेन्द्रभवनं गत्वा अद्य ब्रूहि तपोधन ।
अभिवाद्य महात्मानं मद्वाक्यममरोत्तमम्॥९॥

न युद्धे प्रमुखे शक्र स्थातुमर्हसि मे प्रभो ।
पारिजातस्य नयने निश्चितं त्वमवेहि माम्॥१०॥

एवमुक्तस्तु कृष्णेन नारदस्त्रिदिवं गतः ।
आचचक्षेऽथ कृष्णोक्तं देवेन्द्रस्यामितौजसः॥११॥

ततो बृहस्पतेः शक्रः शशंस बलनाशनः ।
श्रुत्वा बृहस्पतिर्देवमुवाच कुरुनन्दन॥१२॥

अहो धिग्ब्रह्मसदनं मयि याते शतक्रतो ।
दुर्नीतमिदमारब्धमत्र भेदो हि दारुणः॥१३॥

अहो एतदारब्धं कृत्यं धिगिति कृत्यनिन्दया कृत्यवन्तमेव धिक्करोतीति द्वयोः सम्बन्धः॥१३॥

अनाख्यात्वा कथं नाम भवता भुवनेश्वर ।
ममैतत्कृत्यमारब्धं देव केनापि हेतुना॥१४॥

अनाख्यात्वा अपृष्ट्वा आर्षो ल्यबभावः। मम मां प्रति॥१४॥

अथवा भवितव्येन कर्मजेन प्रयुज्यते ।
जगद्वृत्रघ्न विविधं न शक्यमनिवर्तितुम्॥१५॥

सहसैव तु कार्याणामारम्भो न प्रशस्यते ।
तदेतत्सहसारब्धं कार्यं दास्यति लाघवम्॥१६॥

लाघवं पराजयम्॥१६॥

बृहस्पतिं महात्मानं महेन्द्रस्त्वब्रवीद्वचः ।
एवं गतेऽद्य यत्कार्यं तद्भवान्वक्तुमर्हति॥१७॥

तमुवाचाथ धर्मात्मा गतानागततत्त्ववित् ।
अधोमुखश्चिन्तयित्वा बृहस्पतिरुदारधीः॥१८॥

यतस्व सह पुत्रेण योधयस्व जनार्दनम् ।
तथा शक्र करिष्यामि यथा न्याय्यं भविष्यति॥१९॥

बृहस्पतिस्त्वेवमुक्त्वा क्षीरोदं सागरं गतः ।
आचष्ट मुनये सर्वं कश्यपाय महात्मने॥२०॥

तच्छ्रुत्वा कश्यपः क्रुद्धो बृहस्पतिमभाषत ।
अवश्यं भाव्यमेतद्भोः सर्वथा नात्र संशयः॥२१॥

इच्छतः सदृशीं भार्यां महर्षेर्देवशर्मणः ।
अपध्यानकृतो दोषः पतत्येष शतक्रतोः॥२२॥

सदृशीम् आत्मवच्छुद्धां देवशर्मणो गौतमगोत्रस्य भार्याम् अहल्याम् इच्छतः अन्यायेन कामयानस्य शतक्रतोरुपरि एव दोषः पराभवरूपः मुनेः अपध्यानजः मानुषं भावमगणयतस्तव मानुषाद्भयं महद्भविष्यतीति मुनेरपध्यानं तज्जः॥२२॥

तस्य दोषस्य शान्त्यर्थमारब्धश्च मुने मया ।
उदवासः स दोषश्च प्राप्त एव सुदारुणः॥२३॥

यद्यप्यारब्धः तथापि प्राप्त एवेत्यध्याहृत्य योज्यम्॥२३॥

तद्गमिष्यामि मध्येऽस्य सहादित्या तपोधन ।
उभौ तौ वारयिष्यामि दैवं संवदते यदि॥२४॥

अस्य विरोधस्य मध्ये गमिष्यामि मध्यस्थो भूत्वा वारयिष्यामीत्यर्थः॥२४॥

बृहस्पतिस्तु धर्मात्मा मारीचमिदमब्रवीत् ।
प्रप्तकालं त्वया तत्र भवितव्यं तपोधन॥२५॥

तथेति कश्यपश्चोक्त्वा सम्प्रस्थाप्य बृहस्पतिम् ।
जगामार्चयितुं देवं रुद्रं भूतगणेश्वरम्॥२६॥

तत्र सौम्यं महात्मानमानर्च वृषभध्वजम् ।
वरार्थी कश्यपो धीमानदित्या सहितः प्रभुः॥२७॥

तुष्टाव च तमीशानं मारीचः कश्यपस्तदा ।
वेदोक्तैः स्वकृतैश्चैव स्तवैः स्तुत्यं जगद्गुरुम्॥२८॥

वेदोक्तैः स्वकृतैः स्वकृतिमिश्रैः॥२८॥

कश्यप उवाच। उरुक्रमं विश्वकर्माणमीशं जगत्स्रष्टारं धर्मदृश्यं वरेशम् ।
सं सर्वं त्वां धृतिमद्धाम दिव्यं विश्वेश्वरं भगवन्तं नमस्ये॥२९॥

तानेवाह- उरुक्रममित्यादिना द्वात्रिंशद्भिः श्लोकैः। उरुक्रममिति विष्णोर्विशेषणम् उरुर्महान्। त्रैलोक्याक्रमणसमर्थः क्रमः पादविक्षेपो यस्य स इति योगात्। न चैतद्वामनस्येव रुद्रे विष्णावभेदमन्तरेण सङ्गच्छते। अभेदश्च तयोर्बिम्बप्रतिबिम्बभावेन वा शास्त्रदृष्ट्या चेत्यन्यदेतत्। एकस्यैव विश्वेश्वरस्य सर्वाणि नामानीत्येव तत्त्वम्। विश्वं कर्म कृतिसाध्यं यस्येति कुलालवन्निमित्तत्वमुक्तम्। जगत्स्रष्टारमिति कालादिसाधारणकारणरूपत्वम्। धर्मदृश्यं पुण्यप्राप्यं वरेशमनुग्राहक कर्मकर्तॄणाम्। समित्युपसर्गस्य नमस्ये इत्यनेन सम्बन्धः। सन्नमस्ये इत्यर्थः। वेदे व्यवहिताश्चेति धातूपसर्गयोर्व्यवहितत्वस्मरणात्। सर्वं सर्वात्मकम्। धृतिमद्धाम धृतिः सात्त्विकी। “धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः। योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी” इत्येवंलक्षणा। तद्वतां धाम स्वप्रकाशचैतन्यरूपमधिष्ठानं योगिनां निलयमित्यर्थः॥२९॥

यो देवानामधिपः पापहर्ता ततं विश्वं येन जगन्मयत्वात् ।
आपो गर्भं यस्य शुभां धरित्र्यो विश्वेश्वरं तं शरणं प्रपद्ये॥३०॥

“आपः पुरुषवचसो भवन्ति” इति श्रुतेरपां कार्यं शरीरमाप उपाधिः स सर्वो यस्य गर्भं प्रतिबिम्बचैतन्यरूपं धारयित्र्यः दधति आपो गर्भ इति पाठेऽपि धारयित्र्यः। आपोऽपि यस्य गर्भः सङ्कल्पोत्थस्तरङ्ग इत्यर्थः॥३०॥

शालावृकान्यो यतिरूपो निजघ्ने दत्तानिन्द्रेण प्रणुदो हितानाम् ।
विरूपाक्षं सुदर्शनं पुण्ययोनिं विश्वेश्वरं शरणं यामि मूर्ध्ना॥३१॥

शालेति। “अरुन्मुखान्यतीन् शालावृकेभ्यः प्रयच्छम्” इति श्रुतेः। वेदान्तविचारहीनमजितेन्द्रियं यतिमिन्द्रः शालावृकैर्भक्षयति तानिन्द्रियशालावृकान्यः यतिरूपो जितेन्द्रियः सन्निजघ्ने हतवान्। हितानां शमदमादिरूपान् मित्राणां प्रणुदः प्रणोदनपरान् अभिभावकान्। यामि शरणं मूर्ध्ना च प्रपद्य नमस्करोमि॥३१॥

भुङ्क्ते य एको विभुर्जगतो विश्वमग्र्यं धाम्नां धाम सुकृतित्वान्न धृष्यः ।
पुष्यात्स मां महसा शाश्वतेन सोमपानां मरीचिपानां वरिष्ठः॥३२॥

य एको जगतो विभुः स्वामी अग्र्यं ज्येष्ठं विश्वं शुद्धान् जनान् भुङ्क्ते भुनक्ति पालयति। अग्र्यं सूक्ष्ममति विश्वं भुङ्क्ते संहरति वा। धाम्नां चक्षुःसूर्यादीनां धाम प्रकाशं सुकृतित्वात्। “तस्मात्तत्सुकृतमुच्यते” इति श्रुतेः। सुकृतशब्दितब्रह्मरूपत्वात् न धृष्यः अभयरूप इत्यर्थः। पुष्यात् पोषयेत्। सोमपानां कर्मठानां मराचिपानां चन्द्ररश्मिपानमात्रेण वर्तयतां महामुनीनां वरिष्ठः स्वर्गब्रह्मलोकादिस्थानप्रद इत्यर्थः॥३२॥

अथर्वाणं सुशिरसं भूतयोनिं कृतिनं वीरं दानवानां च बाधम् ।
यज्ञे हुतिं यज्ञियं संस्कृतं वै विश्वेश्वरं शरणं यामि देवम्॥३३॥

अथर्वाणमथर्ववेदप्रतिपाद्यं सुशिरसं शिरः पञ्चकोशेति। भूतयोनिं जगत्कारणं बाधं बाधकम्॥३३॥

जगज्जालं विततं यत्र विश्वं विश्वात्मानं प्रीतिदेवं गतानाम् ।
य ऊर्ध्वगं रथमास्थाय याति विश्वेश्वरः स सुमना मेऽस्तु नित्यम्॥३४॥

यत्राधिष्ठाने जगज्जालं जगदिन्द्रजालं विततं विश्वं कृत्स्नं गतानां शरणं प्राप्तानां प्रीतिदेवं सुखप्रकाशकं यत् यः ऊर्ध्वगमन्तरिक्षचरं रथं वाहनमास्थाय याति सञ्चरति। सुमनाः सुखकरः॥३४॥

अन्तश्चरं रोचनं चारुशाखं महाबलं धर्मनेतारमीड्यम् ।
सहस्रनेत्रं शतवर्त्मानमुग्रं महादेवं विश्वसृजं नमस्ये॥३५॥

रोचनं चिन्मयं चारुशाखं रमणीयाः शाखा वेदमया यस्मात् जातास्तम्। शतवर्त्मानं शतपथविहितकर्मफलप्रदम्॥३५॥

शुचिं योगं शंसनं शान्तपापं सर्वं शंभुं शङ्करं भूतनाथम् ।
धुरन्धरं गोपतिं चन्द्रजिह्वं हृषीकाणामयनं यामि मूर्ध्ना॥३६॥

शुचिमसङ्गम्। योगं योगप्राप्यं शंसनं वेदप्रशस्यं शर्वं शृणोति हिनस्तीति संहर्तारं शम्भुं सुखहेतुं शङ्करं सुखकरं धुरन्धरं जगतामिति शेषः। चन्द्रचिह्नं चन्द्रमौलिं हृषीकाणां हिंस्राणां कालादीनाम् अयनम् आश्रयम्॥३६॥

आशुःशिशानं वृषभं रोरुवाणं कृतं धर्मं वितथं चाशुशेषम् ।
वसुन्धरं समृजीकं समं त्वां धृतव्रतं शूलधरं प्रपद्ये॥३७॥

आशुः शीघ्रफलप्रदम्। शिशानं रागादिदोषाणां तनूकरणं वृषभं शमादिगुणानां वर्षकं रोरुवाणम्। प्रातःसवनादिक्रमेण गर्जन्तं कृतम् अनुष्ठितं धर्मं यज्ञादिरूपं शिष्यत इति शेषः पूर्वधर्मजं पुण्यम् आशुफलभोगेन शीघ्रनाशशीलः शेषो यस्य तम्। अत एव चाल्पफलत्वाद्वितथं निष्फलप्रायम् एवं सति नानुष्ठेयो धर्म इत्यत आह। वसुन्धरं समृजीकं मृजीका सत्त्वशुद्धिस्तदुद्देशेन तया सह क्रियमाणं समृजीकम्। अत एव वसुन्धरं कर्मजं पुण्यं वसु तस्य धारकम् अफलोदयं शुद्ध्यर्थं कृतो धर्मो न नश्यतीत्यर्थः समं बुद्ध्यवधिभूतं सर्वस्वरूपमित्यर्थः॥३७॥

अनन्तवीर्यं धृतकर्माणमाद्यं यज्ञाशेषं जयतां चाभियोज्यम् ।
हविर्भुजं भुवनानां सदैवं ज्येष्ठं द्विजं धर्मभृतां प्रपद्ये॥३८॥

धृतकर्मफलप्रतिभुवं यज्ञाशेषं देवतान्तरवत् यज्ञाङ्गभावहीनं ज्ञातं सन्तं स्वतः पुरुषार्थभूतमित्यर्थः। एवं सत्यपि यजताम् अभियाज्यम् इज्यारम्भविषयं यतो हविर्भुजं भुवनानां जगती स्थानं जगतां वा ज्येष्ठं द्विजं ब्राह्मणरूपं धर्मभृतां मध्ये॥३८॥

परं गुणेभ्यः पृश्निगर्भस्वरूपं यशःशृङ्गं व्यूहनं कान्तरूपम् ।
शुद्धात्मानं पुरुषं सत्यधामं संमोहनं दुष्कृतिनां नमस्ये॥३९॥

गुणेभ्य इन्द्रियादिभ्यः परं तुरीयं पृश्निगर्भः विष्णुस्तत्स्वरूपम्। यशः अश्नुते इति व्यापकम्। शृङ्गं प्रपञ्चं व्याप्यापि शृङ्गवत्ततो रिक्तम्। व्यूहनं रमणीयतया जगत्क्षोभकम्। सत्यधामम् अबाधितचैतन्यस्वरूपम्। संमोहनं मायाविनम्॥३९॥

युक्तोङ्कारं स्वशिरसं चारुकर्म दृढव्रतं दृढधन्वानमाजम् ।
शूरं वेत्तारं धनुषोऽस्त्रातिरेकं पतिं पशूनां शमनं नमस्ये॥४०॥

युक्तानां योगिनाम् ओङ्कारं सर्वप्रपञ्चरूपम्। स्वशिरसम्। ओङ्कारस्यापि शिरोऽर्द्धमात्रा तद्रूपम्। चारुकर्म हिंसाशून्यधर्मस्वरूपम्। आजं क्षेपणक्रियारूपं शूरं धनुषो वेत्तारम्। अस्त्रातिरेकं सर्वास्त्रेभ्योऽधिकम्। पशूनां जीवानां शमनं संहर्तारम्॥४०॥

एको रातिश्चैव भूतं भविष्यं सर्वातिथिर्यो हि जुषत्यरिघ्नः ।
अरिन्तुदोऽनुत्तमः संविभागी विभाजको मां भगवान्पातु देवः॥४१॥

एकोऽद्वितीयः रातिर्मित्रम्। सर्वातिथिरग्निः जुषति हविर्भुङ्क्ते। अरिघ्नः कामादिदोषघ्नः। अरिन्तुदः रक्षोघ्नः। संविभागी विभागभाग्विभाजकश्च॥४१॥

य एको याति जगतां विश्वमीशो य एकोऽदान्मरुतां प्राणमग्र्यम् ।
येनानृशंस्याच्छाश्वतं साम जुष्टं स मां जुष्यात्सुकृतिश्रेयसेऽद्य॥४२॥

जगताम् ईशः एकोऽपि विश्वं जलचन्द्रवत् याति प्रविशति। मरुतां प्राणमदात्प्राणस्य प्राणमित्यर्थः। आनृशंस्यात् दयालुत्वात् साम मैत्री जुष्टं सेवितं जुष्यान्नयतु॥४२॥

ब्रह्मासृजद्यो भुवनोत्तमोत्तमं तृप्तो विद्वान्ब्राह्मणः षड्गुणस्य ।
सृष्ट्वा रसं व्याहृतिस्थं समग्रं स मां पायादिह बहुरूपोऽरिहाङ्गैः॥४३॥

ब्रह्मा चतुर्मुखः भुवनोत्तमोत्तमं सत्यलोकम् असृजत्। यतः ब्राह्मणः ब्रह्मवित् अत एव षड्गुणस्य षड्भिर्गुणैः ऐश्वर्यज्ञानयशःश्रीवैराग्यधर्मैस्तृप्तः पूर्णः। पूर्णत्वादेव व्याहृतिस्थं रसं प्रणवं तदर्थभूतं कृत्स्नं प्रपञ्चं सृष्ट्वा इह प्रपञ्चे आयात्प्रविष्टः। अरिहा कामादिदोषघ्नः अङ्गैः- “सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः। अनन्तशक्तिश्च विभोर्विभुज्ञाः षडाहुरङ्गानि महेश्वरस्य॥” इति पुराणोक्तेर्बहुरूपः॥४३॥

व्यञ्जनोऽजनोऽथ विद्वान्समग्रः स्पृशिः शम्भुः प्राणदः कृत्तिवासाः ।
रसो ध्रुवः पवमानस्य भर्ता सपत्नीशः शङ्करः सारधाता॥४४॥

व्यञ्जनः अतीन्द्रियाणामपीन्द्रियादीनामर्थानां ज्ञापकः। अजनो अजन्मा। समग्रः दृग्दृश्यात्मा। स्पृशिः विषयस्पृक्। शम्भुः तत्स्पर्शजसुखभोक्ता। प्राणदः जीवनकृत्। ध्रुवो रसः परमानन्दः। पवमानस्य वायोर्भर्ता प्राणपतिः सपत्नीशः पत्नीशाभ्यां सहितः यज्ञादिकृत्। शङ्करस्तत्फलकरः। सारस्य बोधस्य च धाता जनयिता॥४४॥

त्र्यंबकं पुष्टिदं वो ब्रुवाणं धर्मं विप्राणां वरदं यज्वनां च ।
वराद्वरं रणजेतारमीशं देवं देवानां शरणं यामि रुद्रम्॥४५॥

त्र्यम्बकं त्रिनेत्रं वो युष्माकं विप्राणां ज्ञानिनाम्॥४५॥

आस्यं देवानामन्तकं दुष्कृतीनां त्रिवृत्स्तोमं वृक्षहं कर्मसाक्ष्यम् ।
भूतायनं भूतपतिं गुनज्ञं गुणाकारं शरणं यामि रुद्रम्॥४६॥

आस्यं जग्निरूपेण। त्रिवृत्स्तोमं त्रिवृदादयः स्तोमाः स्तोत्राणि यस्मिंस्तं सोमयागम्। वृक्षहं संसारवृक्षघ्नम्। कर्मसाक्ष्यं कर्मसाक्षिणं भूतायनं भूतानां लयस्थानम्॥४६॥

अनुद्धृतं यज्ञकर्तारमन्तं मध्यं चाद्यं यज्ञकृतां साम्यरूपम् ।
वेदव्रतेषु बहुधा गीतमीशमभित्रिविष्टपं शरनं यामि रुद्रम्॥४७॥

साम्यं प्रकृत्यवस्था वेदव्रतेषु वेदोक्तयज्ञेषु बहुधा नानादैवतरूपेण। गीतम् अभित्रिविष्टपं स्वर्गं व्याप्य ईशं नियन्तारम्॥४७॥

महाजिनं व्रतिनं मेखलालं सुतोषणं क्रोधधवं विपापम् ।
भूतं क्षेत्रज्ञं गुणिनं वा कपर्दिनं नतोऽस्मीशं वन्दनं वन्दनानाम्॥४८॥

महाजिनं गजाजिनवन्तम्। मेखलालं मेखलया अलङ्कृतम्। सुतोषणम् अल्पायासप्रसन्नम्। भूतं नित्यसिद्धम् अत एव क्षेत्रज्ञं देहेन्द्रियाहङ्कारादिप्रकाशकम्। वन्दनं वन्दनीयं वन्दनानां वन्दनीयानाम्॥४८॥

देवं देवानां पावनं पावनानां कृतिं कृतीनां महतो महान्तम् ।
शतात्मानं संस्तुतं गोपतीनां पतिं देवं शरणं यामि रुद्रम्॥४९॥

कृतिं कृतीनां यज्ञानां यज्ञं यज्ञियानामपि यष्टव्यमित्यर्थः। शतात्मानम् अनन्तमूर्तिम्। गोपतीनाम् इन्द्रियाधिष्ठातृदेवतानां संस्तुतम् अधिष्ठातृत्वेन। “चक्षुषश्चक्षुः” इत्यादिश्रुतेः॥४९॥

अन्तश्चरं पुरुषं गुह्यसंज्ञं प्रभास्वन्तं प्रणवं विप्रदीपम् ।
हेतुं परं परमस्याक्षरस्य शुभं देवं गुणिनं सन्नतोऽस्मि॥५०॥

प्रभास्वन्तं स्वप्रकाशम्। विप्रदीपं ज्योतिरपि सूर्यादिकं ज्योतिरन्तरेण चक्षुरादिना भास्यं भवति इदं तु न तथा विगतप्रदीपत्वात्। अक्षरस्य जीवाख्यप्रतिबिम्बस्य हेतुं बिम्बभूतम्॥५०॥

प्रसूतिरुभयोर्न प्रसूतश्च सूक्ष्मः पृथग्भूतेभ्यो न पृथक्चैकभूतः ।
स्वयं भूतः पातु मां सर्वसादः प्रदः स्वादः संमदः पातु रत्नम्॥५१॥

उभयोः जगज्जीवयोः प्रसूतिर्योनिः न प्रसूतश्च योनिरपि न कारणातीतत्वात्। अत एव सूक्ष्मो दुर्ग्राह्यः। भूतेभ्यः पृथक् न पृथक् एकभूतश्च पृथगिति तदधिष्ठानत्वात् एकभूत इति तदभेदाग्रहात् स्वयम्भूतः सर्वजगदाकारेण निष्पन्नः। सर्वं सीदति लीयतेऽस्मिन्निति सर्वसादः। प्रदः प्रकृष्टो दाता। स्वादः रुचिः आम्रादिषु माधुर्यरूपेणायमेवास्तीत्यर्थः। संमदो हर्षः रत्नं रमणीयम्॥५१॥

आसन्नः सन्नतरः साधनानां श्रद्धावतां श्राद्धवृत्तिप्रणेता ।
पतिर्गणानां महतां सत्कृतीनां पायान्मेषः पूरणः षड्गुणानाम्॥५२॥

आसन्नः अन्तर्यामित्वेन निकटगः। साधनानां तद्वतां तु सन्नतरः अनावृतः श्राद्धवृत्तिः श्रद्धागृहीतमहावाक्यजा वृत्तिरहं ब्रह्मास्मीति ज्ञानं तस्य प्रदाता। मा माम् ईषः इष्यमाणस्यार्थस्य पूरणः षड्गुणानां च सर्वज्ञत्वादीनां पूरणः॥५२॥

अन्तर्बहिर्वृजिनानां निहन्ता स्वयं कर्ता भूतभावी विकुर्वन् ।
धृतायुधः सुकृतिनामुत्तमौजाः प्रणुद्यान्मे वृजिनं देवदेवः॥५३॥

अन्तर्बहिर्वृजिनानाम् आधिव्याध्यादीनां कामक्लेशादीनां वा। स्वयं कर्तेति निमित्तकारणत्वम्। भूताकारेण भवितुं शीलमस्येति भूतभावी उपादानं विकुर्वन् विकारं प्राप्नुवन् क्रोधादीन् आविष्कुर्वन्। सुकृतिनां साधूनां मे मम च वृजिनं प्रणुद्यात्॥५३॥

येनोद्धृतास्त्रैः पुरा मायिनो वै दग्धा घोरेण वितथान्ताः शरेण ।
महत्कुर्वन्तो वृजिनं देवतानं ज्यायानीशः पातु विश्वो दधाता॥५४॥

उद्धृताः कण्टकवत् नाशिताः। शरेण यतो दग्धा अतो वितथान्ता विफलमरणाः अशस्त्रपूतत्वात् पुरदाहेन दग्धत्वादित्यर्थः। शापादीश इति पाठे इन्द्रस्य गौतमशापात्। विश्वस्य सर्वस्य उदस्य उदकस्य सर्वकारणस्य प्रधानस्येत्यर्थः। धाता धारकः सर्वाश्रयत्वात्॥५४॥

भागीयसां भागमतोन्तमिच्छन्मखो दाक्षो येन कृत्तोऽन्वधावत् ।
विद्वान्यज्ञस्यादिरथान्तः स देवः पायादीशो मां दक्षयज्ञान्तहेतुः॥५५॥

भागीयसाम् अतिशयेन भागभाजां देवानां भागम् अन्तम् अपमानेन वधं च इच्छन्। दाक्षो यज्ञकृद्दक्षा इति वक्तव्ये उपचारादुक्तम्। येन कृत्तोऽवच्छिन्नः सन्नन्वधावत् यज्ञेशं शरणम् आजगामेत्यर्थः। तत्र यज्ञवाक्यमुदाहरति। विद्वानिति॥५५॥

अन्यो धन्यः संस्कृतश्चोत्तमश्च जगत्सृष्ट्वा योऽत्ति सर्वातिगुह्यः ।
स मां मुखप्रमुखे पातु नित्यं विचिन्वानः प्रथमः षड्गुणानाम्॥५६॥

यो जगत् सृष्ट्वाऽत्ति अतिगुह्यो गोप्यो ब्रह्मरूपी ईश्वरस्ततोऽन्यो विष्णुः पालनकर्ता स च धन्यः महाभागः यतः संस्कृतः शमादिसंस्कायुक्तोऽत एव उत्तमो यः समौदार्यः स मां मुखप्रभवत्वात् “मुखादिन्द्रश्चाग्निश्च” इति श्रुतौ इन्द्राग्नी तौ प्रमुखे आदौ यस्य तस्मिन् यज्ञे नित्यं चिन्वान ईश्वरं स्वाभेदेन सर्वत्र पश्यन् नारायणः स मां पातु मत्सन्ततिमिन्द्रं रक्षतु। यतः षड्गुणानामैश्वर्यादीनां प्रथमो मुख्य आश्रय इत्यर्थः। मखप्रमुखे इति पाठेऽग्निविष्णू॥५६॥

गुणत्रैकाल्यं यस्य देवस्य नित्यं सत्त्वोद्रेको यस्य भावात्प्रसूतः ।
गोप्ता गोप्तॄणां सन्नदो दुष्कृतीनामाद्यो विश्वस्य बाधमानस्य क्रुद्धः॥५७॥

गुणत्रैकाल्यं कार्योत्पत्तिस्थितिसंहारसमयवत्त्वं यस्य नित्यम्। प्रवाहनित्यतया उत्पत्त्यादयो यतो भवन्तीत्यर्थः। एतेन ब्रह्मकर्म उक्तम्। सत्त्वोद्रेकः सत्त्वाधिक्यं च यस्य विष्णुरूपस्य नित्यं यस्य च विष्णोर्भावात् स्वरूपात् प्रसूतः आविर्भूतः। कृष्णो गोप्तॄणामिन्द्रादीनां गोप्ता सत्त्वमयत्वात्। यश्च सन्नदः सन्नमवसानो नाशस्तत्प्रदः कालरुद्ररूपेणेत्यर्थः। विश्वस्याद्यो मातृपितृवत्पालकोऽपि बाधमानस्य जगत्पीडकस्य क्रुद्धः सन् सन्नद इत्यनुवर्तते॥५७॥

धाम्नो यस्य हरिरग्रोऽथ विश्वो ब्रह्मा पुत्रैः सहितश्च द्विजाश्च ।
पराभूता भवने यस्य सोमो जुषत्वेष श्रेयसे साधु गोप्ता॥५८॥

यस्य धाम्नः तेजोजालस्य हरिर्विष्णुरग्रः अग्रमिवाग्रः सूक्ष्मोंऽशोऽथ विश्वो विराट् ब्रह्मा हिरण्यगर्भः पुत्रैः सनकाद्यैः सहितोऽन्ये च द्विजाः मरीचादयः सम्भूता इति शेषः। ते च यस्य सोमस्य उमासहितस्य भवने द्वारप्रवेशे पराभूताः सन्तः प्रवेशं न लभन्त इत्यर्थः। एष देवः सोमः जुषतु अस्मासु प्रीयताम्॥५८॥

यस्माद्भूतानां भूतिरन्तोऽथ मध्यं धृतिर्भूतिर्यश्च गुहाश्रुतिश्च ।
गृहाभिभूतस्य पुरुषेश्वरस्य महात्मनः संमृडवेद्यस्य तस्य॥५९॥

यस्माद्भूतानां वियदादीनां भूतिः सम्भवः अन्तो नाशः मध्यं स्थितिश्च भवति। अतो यस्य कस्यापि पराभूतस्य नरस्य मृडवेद्यस्य मृड एव वेद्योऽन्वेष्यो यस्य शिवैकशरणस्य तत एव भृत्यादिरूपोऽनुग्रहो गुहाश्रुतिर्गुह्यवस्तुश्रवणं च भवति अत एव तस्य पुरुषेश्वरस्येति महात्मन इति च विशेषणं युज्यते। व्यसनागमे शरणीकृतो विश्वकर्ता व्यसनभङ्गं करिष्यत्येवेति भावः॥५९॥

यल्लिङ्गाङ्कं त्र्यम्बकः सर्वमीशो भगलिङ्गाङ्कं यद्ध्युमा सर्वधात्री ।
नान्यत्तृतीयं जगतीहास्ति किञ्चित्महादेवात्सर्वसर्वेश्वरोऽसौ॥६०॥

यदिति। यथा कार्यं सर्वं स्त्रीपुंसरूपं भगलिङ्गाङ्कम्। एवं कारणमपि तस्य तदनुरूपं भगलिङ्गाङ्कं भगलिङ्गसंयोगरूपप्रतिमात्मकम् अवगन्तव्यम्। तेन यदिदं दृश्यते लोके शिवं लिङ्गं तदभिमानि चेतनोद्भवमिदं ब्रह्माण्डमित्यर्थः। अत एवासौ सर्वसर्वेश्वरः। सर्वम् अविशेषात्कृत्स्नः प्रपञ्चः “सर्वं समाप्नोषि ततोऽसि सर्वः” इति निर्वचनात्तदुपादानभूतो विष्णुरपि सर्वशब्दार्थः तयोरीश्वरस्तुरीयब्रह्मरूप इत्यर्थः॥६०॥

इति संस्तूयमानस्तु भगवान्वृषभध्वजः ।
दर्शयामास धर्मात्मा कश्यपं धर्मधृग्वरम्॥६१॥

धर्मधृग्वरं धर्मभृतां श्रेष्ठम्॥६१॥

उवाच चैनं देवेशः प्रसन्नेनान्तरात्मना ।
येन संस्तौषि कार्येन त्वं तज्जाने प्रजापते॥६२॥

येन कार्येण यदर्थं संस्तौषि तज्जाने। प्रजापते हे कश्यप॥६२॥

इन्द्रोपेन्द्रौ महात्मानौ देवौ प्रकृतिमेष्यतः ।
पारिजातं तु धर्मात्मा नयिष्यति जनार्दनः॥६३॥

प्रकृतिं स्वास्थ्यं तत्रापि धर्मात्मा हरिर्जेष्यतीत्याह- पारिजातं त्विति॥६३॥

अपध्यातो महेन्द्रो हि मुनिना देवशर्मणः ।
अस्याकाङ्क्षत्पुरा भार्यां तपोदीप्तस्य कश्यप॥६४॥

इन्द्रस्तु अधर्मदोषादभिभवं प्राप्स्यतीत्याशयेनाह- अपध्यात इति॥६४॥

गम्यतां तत्र धर्मज्ञ दाक्षायण्या सह त्वया ।
अदित्या शक्रसदनं श्रेयस्ते पुत्रयोर्ध्रुवम्॥६५॥

इति हरिवचनं निशम्य विद्वान् कमलभवात्मजसूनुरप्रमेयः ।
त्रिदशगणगुरुं प्रणम्य रुद्रं मुदितमनाः सुमनौकसं जगाम॥६६॥

कमलभवात्मजस्य मरीचेः सूनुः सुमनौकसं सुमनसां देवानाम् ओकांसि यत्र तं देवलोकम्। सन्धिर्षः॥६६॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे कश्यपकृतरुद्रस्तोत्रे द्विसप्ततितमोऽध्यायः॥७२॥
इन्द्रकृष्णयोर्युद्धं विष्णोरुत्कर्षश्च-०७३

वैशम्पायन उवाच। अथ विष्णुर्महातेजा मुहूर्ताभ्युदिते रवौ ।
मृगयाव्यपदेशेन ययौ रैवतकं गिरिम्॥१॥

अथ त्रिसप्ततितमेऽध्यायेऽस्मिन्निन्द्रकृष्णयोः। युद्धं तु वर्ण्यते तत्र विष्णोरुत्कर्ष उच्यते॥१॥ अथ विष्णुः मृगयाव्यपदेशेन मृगयाच्छलेन॥१॥

आरोप्यैकरथे देवः सात्यकिं नरपुङ्गवम् ।
प्रद्युम्नमनुगच्छेति प्रोक्त्वा कुरुकुलोद्वह॥२॥

रैवतं च गिरिं देवो गत्वा दारुकमब्रवीत् ।
मदीयं रथमेनं त्वं ग्रहायेहैव दारुक॥३॥

ग्रहाय गृहीत्वा॥३॥

प्रतिपालय मां सौम्य दिनार्द्धं वारयन्हरीन् ।
रथेनैव प्रवेष्टाहं द्वारकां सूतसत्तम॥४॥

प्रतिपालय प्रतीक्षस्व। हरीन् अश्वान् प्रवेक्ष्यामि॥४॥

इति सन्दिश्य भगवानारुरोह जयोद्यतः ।
तार्क्ष्यं ससात्यको धीमानप्रमेयपराक्रमः॥५॥

पृथग्रथेन कौरव्य प्रद्युम्नः शत्रुसूदनः ।
आकाशगामिना राजन्पृष्ठतः कृष्णमन्वयात्॥६॥

निमेषान्तरमात्रेण नन्दनं काननं हरिः ।
देवोद्यानं ययौ धीमान्पारिजातजिहीर्षया॥७॥

ददर्श तत्र भगवान्देवयोधान्दुरासदान् ।
नानायुधधरान्वीरान्नन्दनस्थानधोक्षजः॥८॥

तेषां सम्पश्यतामेव पारिजातं महाबलः ।
उत्पाट्यारोपयामास पारिजातं सतां गतिः॥९॥

पारिजातं सम्पश्यतां पश्यतस्ताननादृत्येत्यर्थः। पारिजातम् आरोपयामासेति पृथगन्वयान्न पौनरुक्त्यम्॥९॥

गरुडं पक्षिराजानमयत्नेनैव भारत ।
उपस्थितो विग्रहवान्पारिजातः स केशवम्॥१०॥

सान्त्वितो वासुदेवेन पारिजातश्च भारत ।
उक्तश्च वृक्ष मा भैस्त्वं केशवेन महात्मना॥११॥

तं प्रस्थितं तरुं दृष्ट्वा पारिजातमधोक्षजः ।
अमरावतीं पुरीं श्रेष्ठां ततश्चक्रे प्रदक्षिणाम्॥१२॥

ते तु नन्दनगोप्तारः पारिजातो द्रुमोत्तमः ।
ह्रियतीति महेन्द्राय गत्वा नृप शशंसिरे॥१३॥

ह्रियति ह्रियते॥१३॥

अथैरावतमारुह्य निर्ययौ पाकशासनः ।
जयन्तेन रथस्थेन पृष्ठतोऽनुगतः प्रभुः॥१४॥

पूर्वमभ्यागतं द्वारं केशवं शत्रुनाशनम् ।
दृष्ट्वोवाच प्रवृत्तं भोः किमिदं मधुसूदन॥१५॥

इन्द्रपुर्या एव॥१५॥

प्रणम्य गरुडस्थोऽथ केशवः शक्रमब्रवीत् ।
वध्वास्ते पुण्यकार्याय नीयतेऽयं वरद्रुमः॥१६॥

तमुवाच ततः शक्रो मा मैवं पुष्करेक्षण ।
अयोधयित्वा न तरुर्नयितव्यस्त्वयाच्युत॥१७॥

प्रहरस्व महाबाहो प्रथमं मयि केशव ।
प्रतिज्ञा सफला तेऽस्तु मुक्त्वा कौमोदकीं मयि॥१८॥

ततः कृष्णः शरैस्तीक्ष्णैर्देवराजगजोत्तमम् ।
बिभेदाशनिसङ्काशैः प्रहसन्निव भारत॥१९॥

विव्याध गरुडं वज्री दिव्यैः शरवरैस्तथा ।
बाणांश्चिच्छेद सहसा केशवस्य तरस्विनः॥२०॥

यान्यान्मुमोच देवेन्द्रस्तांस्तांश्चिच्छेद माधवः ।
माधवेन प्रयुक्तांश्च चिच्छेद बलवृत्रहा॥२१॥

महेन्द्रस्य च शब्देन धनुषः कुरुनन्दन ।
शार्ङ्गस्य च निनादेन मुमुहुः स्वर्गवासिनः॥२२॥

तयोर्वर्तति सङ्ग्रामे गरुडस्थो महाबलः ।
पारिजातं जयन्तोऽथ हर्तुमभ्युद्यतो बली॥२३॥

वर्तति वर्तमाने॥२३॥

प्रद्युम्नमथ कंसघ्नो वारयेति तदाब्रवीत् ।
ततस्तं वारयामास रौक्मिणेयः प्रतापवान्॥२४॥

जयन्तो जयतां श्रेष्ठो रौक्मिणेयमथेषुभिः ।
सर्वगात्रेषु विहसन्नाजघान रथे स्थितः॥२५॥

रथस्थ एव रथिनं कामस्तु कमलेक्षणः ।
ऐन्द्रिमभ्यर्दयामास बाणैराशीविषोपमैः॥२६॥

स सन्निपातस्तुमुलो बभूव कुरुनन्दन ।
जयन्तस्य च वीरस्य रौक्मिणेयस्य चोभयोः॥२७॥

कृतप्रतिकृतं युद्धे चक्रतुस्तौ महाबलौ ।
महेन्द्रोपेन्द्रतनयौ जगत्यस्त्रभृतां वरौ॥२८॥

कृतप्रतिकृतम् अन्योन्यं शस्त्रास्त्रपरिहारम्॥२८॥

देवाश्च मुनयश्चैव ददृशूर्विस्मयान्विताः ।
तं सङ्ग्रामं महाघोरं सिद्धाश्चैव सचारनाः॥२९॥

ततस्तु प्रवरो नाम देवदूतो महाबलः ।
पारिजातं पुनर्हर्तुमियेष कुरुनन्दन॥३०॥

सखा स देवराजस्य महास्त्रविदरिन्दमः ।
अवध्यो वरदानेन ब्रह्मणः कुरुनन्दन॥३१॥

ब्राह्मणस्तपसा सिद्धो जम्बुद्वीपाद्दिवं गतः ।
स्वशक्त्या नृप संयातः सखित्वं बलघातिना॥३२॥

तमापतन्तं सम्प्रेक्ष्य कृष्णः सात्यकिमब्रवीत् ।
अत्रस्थ एव प्रवरं शरैर्वारय सात्यके॥३३॥

न त्वत्र निर्दयं बाणा मोक्तव्याः सात्यके त्वया ।
अस्य ब्राह्मणचापल्यं सोढव्यं खलु सर्वथा॥३४॥

ब्राह्मणचापल्यं ब्राह्मणत्वाच्चापल्यमित्यर्थः॥३४॥

ततः षष्ट्या रथेषूणां गरुडस्थं द्विजस्तदा ।
आजघान महाबाहो सात्यकिं प्रवरो भृशम्॥३५॥

शिनेर्नप्ता धनुस्तस्य क्षिपतः सायकान्नृप ।
चिच्छेद पुरुषव्याघ्रो वचनं चेदमब्रवीत्॥३६॥

शिनेर्नप्ता सात्यकिः॥३६॥

ब्राह्मणो नाभिहन्तव्यस्तिष्ठ तिष्ठ स्ववर्त्मनि ।
अवध्या यादवानां हि स्वापराधेऽपि हि द्विजाः॥३७॥

प्रवरस्तु प्रहस्यैनमुवाच कुरुनन्दन ।
अलं क्षान्त्या नृणां शूर युद्ध्य सर्वात्मना रणे॥३८॥

जामदग्न्यस्य रामस्य शिष्योऽहमपि यादव ।
नामतः प्रवरो नाम सखा शक्रस्य धीमतः॥३९॥

न देवा योद्धुमिच्छन्ति मन्यन्तो मधुसूदनम् ।
आनृण्यं सौहृदस्याहमधिगन्तास्मि माधव॥४०॥

मन्यन्तो मानयन्तः॥४०॥

ततस्तयोस्तदा रौद्रः सङ्ग्रामो ववृधे नृप ।
अस्त्रैर्दिव्यैर्नरव्याघ्र शैनेयद्विजमुख्ययोः॥४१॥

द्यौश्चचाल तदा राजन्ह्यचलाश्च सहस्रशः ।
तस्मिन्वर्तति सङ्ग्रामे तेषामतिमहात्मनाम्॥४२॥

नातिशिष्ये रणे कार्ष्णिरैन्द्रिमस्त्रभृतां वरम् ।
ऐन्द्रिः कार्ष्णिं महात्मानं मायिनं शूरसत्तमम्॥४३॥

कार्ष्णिर्नातिशिष्ये इत्यनुकृष्यते॥४३॥

हन्त गृह्ण प्रतीच्छेति तावुभौ योधसत्तमौ ।
युयुधाते नरश्रेष्ठ परस्परजयैषिणौ॥४४॥

हन्तेति सम्बोधनम्। गृह्ण गृहाण। प्रतीच्छ देहि। प्रहारमिति शेषः॥४४॥

अथ शार्ङ्गायुधसुतं शचीपुत्रः प्रतापवान् ।
विभाष्याभ्यहनद्राजन्दिव्येनास्त्रेण सत्वरः॥४५॥

सोऽस्त्रं तदभिदीप्यन्तमापतन्तं शितैः शरैः ।
तस्तम्भे बाणजालेन तदद्भुतमिवाभवत्॥४६॥

दीप्यन्तं दीप्यमानं पुंस्त्वम् आर्षम्। शरैरुपेतं बाणजालम्॥४६॥

ततस्तद्दीप्यमानं तु पपात रणमूर्द्धनि ।
रौक्मिणेयस्य कौरव्य घोरं दानवमर्दनम्॥४७॥

रौक्मिणेयस्यापि घोरं दुःसहं किमुतान्यस्य॥४७॥

तेनास्त्रेण रथो दग्धः प्रदुम्नस्य महात्मनः ।
नादहत्तत्सुघोरं तं रौक्मिणेयं नराधिप॥४८॥

तेन पतितेनापि॥४८॥

दहत्यग्निं न खल्वग्निरुद्धतोऽपि विशाम्पते ।
दग्धान्रथान्महाबाहू रौक्मिणेयः प्रचक्रमे॥४९॥

अथ नारायणसुतो विरथो रथिनां वरः ।
स्थितो धनुष्मानाकाशे जयन्तमिदमब्रवीत्॥५०॥

महेन्द्रपुत्र दिव्यं त्वं यदस्त्रं मुक्तवानसि ।
नाहमीदृशरूपाणां शक्यो हन्तुं शतैरपि॥५१॥

प्रयत्नं कुरु शिक्षाणां यत्नं मेऽद्य प्रदर्शय ।
नास्ति मेऽतिशयं कर्ता सङ्ग्रामेऽमरनन्दन॥५२॥

आसीन्मे साध्वसं दृष्ट्वा रथस्थं त्वां धृतायुधम् ।
बिभेमि तव नेदानीं युद्धे दृष्टबलोऽबलम्॥५३॥

तव त्वत्तः युद्धे दृष्टं रिपोर्बलं येन सः। अबलम् अल्पबलम्॥५३॥

मनसा स्मर्यतां सैष पारिजातस्त्वया तरुः ।
शक्यं न खलु हस्ताभ्यां स्प्रष्टव्यो यस्त्वया ह्यसौ॥५४॥

खलु यस्मात्॥५४॥

रथो मायामयो दग्धस्त्वय यो ह्यस्त्रतेजसा ।
ईदृशानां सहस्राणि स्रष्टुं शक्तोऽस्मि मायया॥५५॥

एवमुक्तो जयन्तश्च मुमोचास्त्रं महाबलः ।
तपसोपचितं तेन स्वयमेवातितेजसा॥५६॥

तत्प्रद्युम्नो महादेवं शरजालैरवारयत् ।
चत्वार्यस्त्राणि दिव्यानि मुमुचे चापराणि सः॥५७॥

स जयन्तः। अपराणि ततोऽप्यधिकानि॥५७॥

दिक्षु सर्वासु रुरुधूस्तान्यस्त्राण्यथ भारत ।
रौक्मिणेयं महात्मानमन्तरिक्षे च पञ्चमम्॥५८॥

पञ्चमं पश्चात्प्रयुक्तम्॥५८॥

महोल्कासदृशान्बाणानस्त्राण्यमरसत्तमः ।
मुमोच यानि घोराणि प्रद्युम्नं प्रति सर्वतः॥५९॥

तानि सर्वाणि बाणौघैः कार्ष्णिरस्त्राण्यवारयत् ।
जयन्तं चापरैर्बाणैर्विव्याध निशितैस्तदा॥६०॥

ततो नादः समुत्सृष्टो ह्यमरैः पुण्यकर्मभिः ।
दृष्ट्वा स्थैर्यं च शैघ्र्यं च प्रद्युम्नस्य महात्मनः॥६१॥

प्रवरस्यापि बाणेन शितेन शिनिपुङ्गवः ।
चिच्छेदेष्वासनं वीरो हस्तावापं च भारत॥६२॥

हस्तावापं हस्तत्राणं च॥६२॥

ततोऽन्यत्स तु जग्राह महत्तद्धनुरुत्तमम् ।
महेन्द्रदत्तं प्रवरो महाशनिसमस्वनम्॥६३॥

स तेन वीरो महता धनुषा विप्रसत्तमः ।
शरान्मुमोच विविधानर्करश्मिनिभांस्तदा॥६४॥

चकर्त च धनुश्चित्रं शैनेयस्यामितौजसः ।
विव्याध सर्वगात्रेषु बाणैरपि स सात्यकिम्॥६५॥

धनुरादाय शैनेयस्ततोऽन्यत्कुरुनन्दन ।
दृढं भारसहं धीमान्विव्याध प्रवरं रणे॥६६॥

उच्चकर्ततुरन्योन्यवर्मणी तौ शितैः शरैः ।
गात्रेभ्यश्चैव मांसानि मर्मभिद्भिः शरोद्यमैः॥६७॥

मांसान्युच्चकर्ततुः॥६७॥

अथाष्टधारबाणेन पुनरिष्वासनं द्विधा ।
चिच्छेद प्रवरो वीरस्त्रिभिश्चैनमताडयत्॥६८॥

अथाष्टधारेत्यत्रास्त्रवरबाणेनेति पाठेऽस्त्रादपि वरो यो बाणस्तेन॥६८॥

अन्यदिष्वासनं तं तु ग्रहितुमनसं द्विजः ।
गदया ताडयामास क्षेप्यया लघुहस्तवान्॥६९॥

तं सात्यकिम्॥६९॥

सोऽसिं चर्म च जग्राह सात्यकिः प्रहसन्निव ।
न जग्राह धनुर्धीमान्गदयाभिहतो भृशम् ।
ततः शरशतान्येव मुमोच प्रवरस्तदा॥७०॥

विहस्तमिव विज्ञाय सात्यकिं यदुनन्दनम् ।
प्रद्युम्नोऽस्य ददौ खड्गं निर्मलाकाशसन्निभम्॥७१॥

विहस्तमिवेति विकलहस्तमिव॥७१॥

तस्य चिच्छेद भल्लेन निस्त्रिंशं प्रवरस्ततदा ।
त्सरुदेशेऽपातयच्च प्रवरः प्रहसन्निव॥७२॥

त्सरुदेशे मुष्टिदेशे शरशते नाशिते खड्गे रिक्तहस्तमित्यर्थः॥७२॥

व्यधमच्च तथा चर्म शितैर्बाणैरजिह्मगैः ।
आजघान च शक्त्यैनं हृदि विप्रो ननाद च॥७३॥

तं विक्लवमिव ज्ञात्वा पारिजातजिहीर्षया ।
तार्क्ष्याभ्याशे रथेनैव स तस्थौ प्रवरस्तदा॥७४॥

तं पक्षपुटवेगेन चिक्षेप गरुडस्तथा ।
गव्यूतिमेकां सरथः स पपात मुमोह च॥७५॥

तं जयन्तो निपत्याथ पतितं ब्राह्मणं नृप ।
समाश्वास्य रथं शीघ्रं समारोपितवांस्तदा॥७६॥

शैनेयमपि मुह्यन्तं पतन्तं च मुहुर्मुहुः ।
आश्वासयानः प्रद्युम्नः पितृव्यं परिषस्वजे॥७७॥

तं हि पस्पर्श हस्तेन सव्येन मधुसूदनः ।
विरुजः स्पर्शमात्रेण सात्यकिः समपद्यत॥७८॥

विरुजः पीडाहीनः॥७८॥

प्रद्युम्नो दक्षिणे पार्श्वे वामे तु शिनिपुङ्गवः ।
तस्थतुः पारिजातस्य युद्धशौण्डतरावुभौ॥७९॥

जयन्तः प्रवर्श्चैव रथेनैकेन भारत ।
सम्पतन्तौ महेन्द्रेण प्रहस्योक्तौ महात्मना॥८०॥

नासन्नमभिगन्तव्यं गरुडस्य कथञ्चन ।
बलवानेष पततां राजा च विनतासुतः॥८१॥

दक्षिणे चैव सव्ये च पार्श्वे मम धृतायुधौ ।
उभौ स्थितौ युद्ध्यमानं मामेव हि प्रपश्यतम्॥८२॥

एवमुक्तौ स्थितौ वीरौ ततः शक्रस्य पार्श्वयोः ।
ददृशाते युध्यमानौ देवराजजनार्दनौ॥८३॥

अथेन्द्रो गरुडं बाणैर्महाशनिसमस्वनैः ।
विव्याध सर्वगात्रेषु महास्त्रप्रवरैस्तथा॥८४॥

स तान्बाणानगणयन्वैनतेयः प्रतापवान् ।
ससाराभिमुखो वीरः शक्रनागमरिन्दमः॥८५॥

शक्रनागम् ऐरावतं प्रति॥८५॥

उभौ तौ सहसा राजन्बलिनौ गजपक्षिणौ ।
प्रयुद्धौ वीर्यसम्पन्नौ महाप्राणौ दुरासदौ॥८६॥

प्रयुद्धौ प्रकर्षेण युद्धधमानौ॥८६॥

रदनैः पन्नगरिपुं करेण शिरसा तदा ।
ऐरावतो गजपतिराजघान नदंस्तथा॥८७॥

रदनैः दन्तैः करेण शुण्डादण्डेन॥८७॥

तथा नखाङ्कुशैस्तीक्ष्णैर्वैनतेयो बलोत्कटः ।
तथा पक्षनिपातैश्च शक्रनागं जघान ह॥८८॥

मुहूर्तं सुमहानासीत्सम्पातो गजपक्षिणोः ।
विस्मापनीयो जगतः प्रेक्षितॄणां भयावहः॥८९॥

मूर्ध्न्यथैरावतं तार्क्ष्यस्ताडयामास भारत ।
नखाङ्कुशकरालेन चरणेन महाबलः॥९०॥

सम्प्रहाराभिसन्तप्तो निपपात त्रिविष्टपात् ।
पारियत्रे गिरिश्रेष्ठे द्वीपेऽस्मिञ्जनमेजय॥९१॥

अस्मिन् जम्बुप्रहिते द्वीपे॥९१॥

पतन्तमपि तं शक्रो न मुमोच महाबलः ।
कारुण्यादथ सौहार्दात्पूर्वाभ्युपगमादपि॥९२॥

पूर्वाभ्युपगमात्॥९२॥

कृष्णोऽप्यन्वगमच्चैनं पृष्ठतः प्रभवाव्ययः ।
पारिजातवता धीमान्गरुडेन महाबलः॥९३॥

स तस्थौ पर्वतश्रेष्ठे पारियात्रे तु वृत्रहा ।
ऐरावते समाश्वस्ते सङ्ग्रामो ववृधे पुनः॥९४॥

शरैराशीविषप्रख्यै रत्नयुक्तैः सुतेजितैः ।
अन्योन्यं कुरुशार्दूल शक्रकेशवयोर्महान्॥९५॥

ततो वज्रायुधो वज्रमशनिं च पुनः पुनः ।
मुमोच गरुडे राजन्नैरावतरिपौ नृप॥९६॥

वज्राशनिनिपातांस्तान्सेहे शक्रस्य पक्षिराट् ।
अवध्यो बलिनां श्रेष्ठो निसर्गेण ततो बलात्॥९७॥

निसर्गेण। स्वभावेन तपोबलाच्च॥९७॥

मुमोच पक्षमेकैकं मानयन्नशनिं सदा ।
वज्रं च देवराज्ञोऽथ भ्रातुः कश्यपसम्भवः॥९८॥

आक्रम्यमाणस्तार्क्ष्येण न्यमज्जन्नृपते गिरिः ।
विवेश धरनीं राजञ्च्छीर्यमाणः समन्ततः॥९९॥

चुकूज बहुमानेन कृष्णस्य स तु पर्वतः ।
तं चाद्राक्षीत्ततः कृष्णः किञ्चिच्छेषमधोक्षजः॥१००॥

तं मुक्त्वा गरुडेनाथ तस्थौ देवो विहायसि ।
प्रद्युम्नं च तदोवाच सर्वकृल्लोकभावनः॥१०१॥

इतो द्वारवतीं गत्वा रथमानय मा चिरम् ।
सदारुकं महाबाहो मत्तेजोबलमाश्रितः॥१०२॥

वक्तव्यो बलभद्रश्च राजा च कुकुराधिपः ।
श्वो जित्वेन्द्रं त्वागमिष्ये द्वारकामिति मानद॥१०३॥

तथेत्युक्त्वा तु धर्मात्मा प्रद्युम्नः पितरं विभुः ।
गत्वा यथोक्तमुक्त्वा च यादवेन्द्रबलावुभौ॥१०४॥

नाडिकान्तरमात्रेण पुनस्तं देशमाययौ ।
दारुकेण समायुक्ते रथमास्थाय भारत॥१०५॥

नाडिका घटिका॥१०५॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे कृष्णेन्द्रयुद्धे त्रिसप्ततितमोऽध्यायः॥७३॥
कृष्णकृता शिवस्तुतिः-०७४

वैशम्पायन उवाच। तमारुह्य रथं कृष्णः पारियात्रं गिरिं ययौ ।
यत्रैरावतमास्थाय स्थितः सुरपतिः प्रभुः॥१॥

चतुर्भिरधिके सप्ततितमे हरिणा शिवः। प्रसादितो वरान्प्रादादभीष्टानिति वर्ण्यते॥१॥ तमारुह्येति॥१॥

पारियात्रो गिरिश्रेष्ठो दृष्ट्वा यान्तं जनार्दनम् ।
शाणपादसमो भूत्वा प्रविवेश वसुन्धराम्॥२॥

शाणपादाः माषाः माषराशिवत्प्रशिथिलोऽभवदित्यर्थः। शाणः चन्दनघर्षणपाषाणो महाराष्ट्रेषु ‘सहाण’ इति प्रसिद्धः। तस्य पाद इव क्षुद्रो वाऽधोग्रावा। “शाणो माषचतुष्टये, लोहादीनां च निकर्षः” इति मेदिनी॥२॥

प्रियार्थं वासुदेवस्य प्रभावज्ञो महात्मनः ।
तस्य प्रीतो हृषीकेशः पर्वतस्य जनाधिप॥३॥

प्रियार्थं रथगतेरप्रतिबन्धार्थं प्रीतोऽभूदिति शेषः॥३॥

ततः प्रयातं युद्धार्थमच्युतं कुरुनन्दन ।
सपारिजातो गरुडः पृष्ठतोऽनुययौ तदा॥४॥

प्रद्युम्नः सात्यकिश्चापि गरुडस्थौ महाबलौ ।
गतावुभौ रक्षणार्थं पारिजातमरिन्दमौ॥५॥

ततस्त्वस्तं गतः सूर्यः प्रवृत्ता रजनी नृप ।
उपस्थितं पुनर्युद्धं शक्रकेशवयोरिह॥६॥

सुप्रहाराहतं दृष्ट्वा विष्णुरैरावतं गजम् ।
नातिकल्पं महातेजा देवराजानमब्रवीत्॥७॥

नातिकल्पम् ईषदसमर्थम्॥७॥

गरुडाभिहतः पूर्वं नातिकल्पो गजोत्तमः ।
ऐरावतो महाबाहो रात्रिश्च समुपोह्यते॥८॥

समुपोह्यते समानीयते कालेनेति शेषः॥८॥

श्वः प्रभाते यथाकामं प्रवर्तस्व यथेच्छसि ।
एवमस्त्विति कृष्णं तु देवराजोऽब्रवीत्प्रभुः॥९॥

उवास पुष्कराभ्याशे देवराजः पुरन्दरः ।
व्रजं गिरिमयं कृत्वा धर्मात्मा नृपसत्तम॥१०॥

व्रजं गिरिमयं पर्वतवृन्दमयम् आवरणं कृत्वेत्यर्थः। “व्रजो गोष्ठेऽथ वृन्देषु” इति मेदिनी॥१०॥

ब्रह्मा ततो जगामाथ कश्यपश्च महानृषिः ।
अदितिश्चैव सर्वे च देवा मुनय एव च॥११॥

साध्या विश्वे च कौरव्य नासत्यावश्विनौ तथा ।
आदित्याश्चैव रुद्राश्च वसवश्च जनेश्वर॥१२॥

नारायणश्च पुत्रेण सत्यकेन च भारत ।
सहोवास गिरौ रम्ये पारियात्रे प्रहृष्टवत्॥१३॥

नारायणः कृष्णः॥१३॥

यत्स शाणप्रमाणोऽस्य भक्त्या समभवन्नृप ।
वरं प्रादात्ततस्तस्य पर्वतस्य महाद्युतिः॥१४॥

शाणप्रमाणः शणबीजप्रमाण इति वा॥१४॥

शाणपाद इति ख्यातो भविष्यसि महागिरे ।
पुण्येनार्द्धेन तुल्यो हि पुण्यो हिमवतः शुभः॥१५॥

शाणपादः “शणु दाने” शणन्ति ददत्यस्यामिति शाणा भारतभूमिः सा पादमात्रं यस्य स शाणपाद इत्यर्थः। एतदेवाह पुण्येनेति। अर्द्धेन उपरिभागेन॥१५॥

एवमेव च भूयिष्ठो भव पर्वतसत्तम ।
मेरुणा स्पर्धमानो हि बहुचित्रमृगैर्युतः ।
रमे त्वां पश्यमानोऽहं बहुचित्रनगायुतम्॥१६॥

तथा दत्त्वा वरं तस्य पर्वतस्य तु केशवः ।
दध्यौ गङ्गां सरिच्छ्रेष्ठां नमस्कृत्वा वृषध्वजम्॥१७॥

अथाययौ विष्णुपदी स्मृता कृष्णेन भारत ।
सम्पूज्य तां ततः कृष्णः कृत्वा स्नानमधोक्षजः॥१८॥

उदकं च गृहायाथ बिल्वं च हरिरव्ययः ।
देवमावाहयामास रुद्रं सर्वेश्वरेश्वरम्॥१९॥

ततः प्राप्तो महादेवः सोमः सप्रवरो विभुः ।
तस्थावुपरि बिल्वस्य तथा गङ्गोदकस्य च॥२०॥

तं पारिजातकुसुमैरर्चयामास केशवः ।
तुष्टाव वाग्भिरीशेशं सर्वकर्तारमीश्वरम्॥२१॥

ईशेशम् ईशानां ब्रह्मादीनामपि ईश्वरं व्यापकम्। “अशुङ् व्याप्तौ” इत्यस्य रूपम्॥२१॥

श्रीकृष्ण उवाच। रुद्रो देवस्त्वं रुदनाद्रावणाच्च रोरूयमाणो द्रावणाच्चातिदेवः ।
भक्तं भक्तानां वत्सलं वत्सलानां कीर्त्या युङ्क्ष्वेशाद्य प्रभवाम्यन्तरेण॥२२॥

हे देव क्रीडापर हे द्योतमान त्वं त्वमेव रुद्रोऽसि। “सोरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्” इति श्रुतेः। शोकास्पदभूतो जीवः “एते हीदं सर्वं रोदयन्ति तस्माद्रुद्राः” इति श्रुतेश्च। प्रकारान्तरेणावयवार्थावगमाद्रोदनादेः कारयिता भयङ्करः। “भीषास्माद्वातः पवते” इत्यादिशास्त्रप्रसिद्धो महेश्वरश्च त्वमेवासि। “नान्योऽतोऽस्ति द्रष्टा” इत्यादिश्रुतेस्त्वदन्यश्चेतनो नास्तीत्यर्थः। एवं रुद्रपदस्य समुदायार्थमुक्त्वाऽवयवार्थमाह- रुदनाद्रावणाच्चेति। रुदनात् मायापञ्जरेण जीवपक्षिणो निरोधनात् “इमे त्विन्द्रिन्द्ररोदसी मायया एहि काये” इति धकारस्थाने दकारनिपातनस्य दर्शितत्वात् “तस्मिंश्चान्यो मायया सन्निरुद्धः” इति श्रुतेश्च। रुणद्धीति रुद्रः रावणान्मायया हिंसनाच्च। “तस्याभिध्यानाद्योवजानातत्त्वभावात् भूयश्चान्तो विश्वमायानिवृत्तिः” इति ध्यातृमायाविनिवर्तकश्रुतेः। त्वमेव संसारदो मोक्षप्रदश्चातो रुद्र इत्युच्यते। प्रकारान्तरेण निर्वक्ति। रोरूयमाणो द्रावणाच्चेति। रोरूयते भृशं शब्दयते वा उच्यते वागालम्बनीभूतः प्रपञ्चो रुः तस्य द्रावणात् लवणोदकन्यायेन प्रविलापनाद्वा रुद्रः। यद्वा रोरूयमाणः शब्देन प्रतिपाद्यमान एव ज्ञातमात्रः सन् संसारस्य द्रावणात् रुद्र इत्युच्यते। जीव ईशश्च जीवानां रोधको रोधनाशकः वाच्यमात्रलयस्थानं रुद्रो वागेकगोचर इति अतिदेवः देवं प्रकाशकमतिक्रान्तः स्वप्रकाशक इत्यर्थः। युङ्क्ष्व मामिति शेषः॥२२॥

ग्राम्यारण्यानां त्वं पतिस्त्वं पशूनां ख्यातो देवः पशुपतिः सर्वकर्मा ।
नान्यस्त्वत्तः परमो देवदेव जगत्पतिः सुरवीरारिहन्ता॥२३॥

ग्राम्यारण्यानां भोगसक्ताविरक्तानां पशूनां जीवानाम्॥२३॥

यस्मादीशो महतामीश्वराणां भवानाद्यः प्रीतिदः प्राणदश्च ।
तस्माद्धि त्वामीश्वरं प्राहुरीशं सन्तो विद्वांसः सर्वशास्त्रार्थतज्ज्ञाः॥२४॥

ईशं वरम् इतीश्वरपदं निर्वक्ति- यस्मादिति। शास्त्रार्थभूतश्चासौ सर्वशास्त्रार्थस्तत् जानन्तीति शास्त्रार्थतज्ज्ञाः॥२४॥

भूतं यस्माज्जगदत्यन्तधीर त्वत्तोऽव्यक्तादक्षरादक्षरेश ।
तस्मात्त्वामाहुर्भव इत्येव भूतं सर्वेश्वराणां महतामप्युदारम्॥२५॥

शास्त्रार्थमेवाह- भूतमिति। अव्यक्तात् जीववदप्रसिद्धात् अक्षरात् त्वत्त एव जगद्भूतं हि अत्यन्त अन्तमतिक्रान्त एतेन “अतोऽन्यदार्तम्” इति श्रुतेरितरस्यान्तत्वमुक्तम्। धीर धीप्रवर्तक अक्षराणां जीवानाम् ईश नियन्तः अक्षरेश। भवत्यस्मादिति भवः ईश्वराणां कारणं स्वतस्तु भूतं नित्यसिद्धम् अत्युदारम् अक्लेशेऽपि महावरप्रदम्॥२५॥

यस्माज्जितैरभिषिक्तोऽसि सर्वैर्देवासुरैः सर्वभूतैश्च देव ।
महेश्वरं विश्वकर्माणमाहुस्त्वां वै सर्वे तेन देवातिदेव॥२६॥

योऽहं विदर्भनगरे सर्वैः राजभिश्च निर्जितैराभिषिक्तोऽस्मि सोऽपि त्वमेवेति प्रत्यगभेदेन स्तौति- यस्माज्जितैरिति। असि अस्मि त्वां मदभिन्नम्॥२६॥

पूज्यो देवैः पूज्यसे नित्यदा वै शश्वच्छ्रेयः काङ्क्षिभिर्वरदामेयवीर्य ।
तस्माद्विख्यातो भगवान्देवदेवः सतामिष्टः सर्वभूतात्मभावी॥२७॥

पूज्य इत्यस्याद्यः पाद एकादशाक्षरो द्वितीयश्चतुर्दशाक्षरः। सर्वभूतात्प्रभावी सर्वाणि भूतानि आत्मनि भावयितुं शीलमस्य स तथा॥२७॥

भूमित्रयाणां देव यस्मात्प्रतिष्ठा पुनर्लोकानां भावनामेयकीर्तिः ।
त्र्यम्बकेति प्रथमं तेन नाम तवाप्रमेय त्रिदिशेशनाथ॥२८॥

भूमित्रयाणां भूमिप्रभृतीनि त्रयाणि त्रिकाणि भूमिरन्तरिक्षं द्यौरिति प्राणोपानो व्यान इति अग्निर्वायुः सूर्य इति भूतं भविष्यद्वर्तमानमित्येवमादि तेषां प्रतिष्ठा लयस्थानम्। भावन हे उत्पत्तिकारण पुनरित्यनेन लयोदयधाराया अनादित्वं दर्शितम्। तेन त्रिकाणां लयोदयकरत्वेन हेतुना त्र्यम्बकेति त्रीणि सर्गस्थित्यन्तादीनि अम्बयति गमयति प्रकाशयतीति योगात् त्र्यम्बक इति तव नाम प्रथमं मुख्यम्। हे अप्रमेय हे त्रिदशेशानां ब्रह्मादीनां नाथ॥२८॥

शर्वः शत्रूणां शासनादप्रमेयस्तथा भूयः शासनाच्चेश्वरेण ।
सर्वव्यापित्वाच्छङ्करत्वाच्च सद्भिः शब्दस्येशानः श्रीकरार्काग्र्यतेजाः॥२९॥

शर्वपदयोगमाह- शर्व इति। शृणाति हिनस्तीति शर्वः। अप्रमेयः शत्रुभिरक्षेप्यः अप्रमेयः भूय इत्यन्तर्यामित्वेन शासतोऽपि पुनरीश्वरेण राजादिभावेन। इत्थम्भावे तृतीया। तेनापि रूपेण शासनात् सर्वव्यापित्वात् अन्तर्बहिश्च व्यापकत्वात् शङ्करः सुखकरः सद्भिः सतां हेतोरित्यर्थः। न तु दुष्टानां शङ्करः। शब्दस्येशानः सर्वशब्दप्रमेयत्वेनावच्छेदकः हे श्रीकर। “ऋचः सामानि यजूंषि। सा हि श्रीरमृता सताम्” इति, “एषाऽस्य परमा सम्पद्" इति श्रुतिभ्यां श्रीशब्दोदिताऽपराविद्या च तयोः कर्ता। अर्कादप्यग्र्यम् अधिकं तस्यापि प्रकाशकं तेजो यस्य सोऽर्काग्र्यतेजास्त्वमसीति शेषः॥२९॥

संसक्तानां नित्यदा यत्करोषि शमं भ्रातृव्यान्यद्व्यनैशीः समस्तान् ।
तस्माद्देवः शङ्करोऽस्यप्रमेयः सद्भिर्धर्मज्ञैः कथ्यसे सर्वनाथः॥३०॥

संसक्तानां भक्तानां शमं सुखं भ्रातृव्यान् असुरान् व्यनैषीः शिक्षितवानसि तेषां हितायैवेति अतः सर्वेषां कल्याणकारित्वात् शङ्करोऽसि॥३०॥

दत्तः प्रहारः कुलिशेन पूर्वं तवेशान सुरराज्ञातिवीर्य ।
कण्ठे नैल्यं तेन ते यत्प्रवृत्तं तस्मात्ख्यातस्त्वं नीलकण्ठेति कल्पः॥३१॥

कल्पः समर्थोऽसि वात्सल्यात् कृतापकारमपि न बाधसे इत्याह- दन्त इति। सुरराज्ञा इन्द्रेण विष्णुना वा प्रहारो दत्तः तेन वज्रचक्रयोरपमानो मा भूदिति हेतुना कण्ठे नैल्यं धत्से प्रत्युत प्रहर्तुर्यश एव तनोषि न तु शासनमिति महाकारुणिकत्वान्मां पाहीत्यर्थः॥३१॥

यल्लिङ्गाङ्कं यच्च लोके भगाङ्कं सर्वं सोम त्वं स्थावरं जङ्गमं च ।
प्राहुर्विप्रास्त्वां गुणिनं तत्त्वविज्ञास्तथा ध्येयामम्बिकां लोकधात्रीम्॥३२॥

गुणिनं गुणवन्तम् अम्बिकां च गुणत्रयरूपामिति शेषः॥३२॥

वेदैर्गीता सा हि तत्त्वं प्रसूता यज्ञो दीक्षाणां योगिनां चातिरूपः ।
नात्यद्भुतं त्वत्समं देव भूतं भूतं भव्यं भवदेवाथ नास्ति॥३३॥

वेदैः ‘अजामेकां लोहितशुक्लकृष्णाम्’ इत्यादिना गीता सा हि माया तत्त्वं महान्तं प्रसूत। जनितवती स च महान् क्रियाशक्तिमान् ज्ञानशक्तिमान्। तत्राद्येन रूपेण यज्ञोऽसि लोकप्रसिद्धः दीक्षाणां दीक्षावतां द्वितीयेन योगिना यज्ञो जीवेशयोः परमात्माग्नौ प्रक्षेपरूपोऽसि। हे देव त्वत्समम् अत्यद्भुतं भूतं नास्ति। अथ यतः भूतं वा भव्यं वा भवद्वर्तमानं वा नास्ति यत् दृश्यं तत्सर्वं कालत्रयेऽपि नास्ति। अतस्तदन्तर्गतम् अद्भुतं यत्किञ्चित्तत्त्वं त्वत्साम्यं कथं लभेतेत्यर्थः॥३३॥

अहं ब्रह्मा कपिलो योऽप्यनन्तः पुत्राः सर्वे ब्रह्मणश्चातिवीराः ।
त्वत्तः सर्वे देवदेव प्रसूता एवं सर्वेशः कारणात्मा त्वमीड्यः॥३४॥

अतिवीराः आभ्यन्तरशत्रुजयिनः सनकाद्याः इन्द्राद्या वा सर्त्रशत्रुजयिनः त्वत्तस्त्वदंशात् कारणस्यापि आत्मा अधिष्ठानं यत्र ईश्वरोऽपि कल्पित इत्यर्थः। अत एव ईड्यः स्तुत्यः॥३४॥

इति संस्तूयमानस्तु भगवान्गोवृषध्वजः ।
प्रसार्य दक्षिणं हस्तं नारायणमथाब्रवीत्॥३५॥

गोवृषः महोक्षः ध्वजे यस्य स गोवृषध्वजः॥३५॥

मनीषितानामर्थानां प्राप्तिस्ते सुरसत्तम ।
पारिजातं च हर्तासि मा भूत्ते मनसो व्यथा॥३६॥

यथा मैनाकमाश्रित्य तपस्त्वमकरोः प्रभो ।
तथा मम वरं कृष्ण संस्मृत्य स्थैर्यमाप्नुहि॥३७॥

अवध्यस्त्वमजेयश्च मत्तः शूरतरस्तथा ।
भवितासीत्यवोचं यत्तत्तथा न तदन्यथा॥३८॥

मत्तः शूरतर इत्यस्याभिव्यक्तिर्बाणयुद्धे व्यक्तीभविष्यति॥३८॥

यश्च स्तवेन मां भक्त्या स्तोष्यतेऽमरसत्तम ।
त्वया कृतेन धर्मज्ञ धर्मभाक्सम्भविष्यति ।
समरे च जयं विष्णो प्राप्य पूजां तथोत्तमाम्॥३९॥

पूजां प्राप्य धर्मभाक् भविष्यतीति सम्बन्धः॥३९॥

बिल्वोदकेश्वरो नाम भविताहमिहानघ ।
देवेश्वर त्वयास्थापि देवसिद्धोपयाचनः॥४०॥

अस्थापि स्थापितः। हे देव सिद्धम् उपयानं प्रार्थना यस्मादित्यर्थः॥४०॥

इहस्थोपोषितो विद्वान्भक्तिमान्मम केशव ।
त्रिरात्रमीप्सिताँल्लोकान्गमिष्यति जनार्दन॥४१॥

अविन्ध्या नाम देशेऽस्मिन्गङ्गा चैव भविष्यति ।
गङ्गास्नानसमं स्नानं मन्त्रतो भविता तथा॥४२॥

मन्त्रतः गङ्गास्मारकमन्त्रपाठात्॥४२॥

षट्पुरं नाम नगरं दानवानां जनार्दन ।
अत्रान्तर्द्धरणीदेशे पराक्रम्य महाबलाः॥४३॥

अन्तर्द्धरणीदेशे भूविवरप्रदेशे गुप्तं पराक्रम्य पराक्रमेण वसन्तीत्युत्तरेण सम्बन्धः॥४३॥

एते दैत्या दुरात्मानो जगतो देवकण्टकाः ।
छन्ना वसन्ति गोविन्द सानावस्य महागिरेः॥४४॥

सानौ अवच्छन्ना वसन्ति अपाये बिलं च विशन्तीत्यर्थः॥४४॥

अवध्या देवदेवानां वरेण ब्रह्मणोऽनघ ।
मानुषान्तरितस्तस्मात्त्वमेताञ्जहि केशव॥४५॥

मानुषभावेन अन्तरितः। प्रच्छन्नः॥४५॥

एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ।
परिष्वज्य महात्मानं वासुदेवं जनाधिप॥४६॥

ततो याते महादेवे प्रभातायां नराधिपः ।
तस्यां निशायां गोविन्दः स्तूय पर्वतमब्रवीत्॥४७॥

स्तूय स्तुत्वा॥४७॥

तवाधः पर्वतश्रेष्ठ निवसन्ति महासुराः ।
अवध्या देवदेवानां वरेण ब्रह्मणः पुरा॥४८॥

निर्गमिष्यन्ति ते नैव मया रुद्धा महाबलाः ।
द्वारे निरुद्धे अत्रैव विनङ्क्ष्यन्ति ममाज्ञया॥४९॥

त्वयि सन्निहितश्चाहं भविष्यामि महागिरे ।
अधिष्ठाय महाघोरान्निवत्स्यामि च पर्वत॥५०॥

अधिष्ठाय नियम्य। घोरान् असुरान्॥५०॥

आरुह्य मूर्ध्नि मद्रूपं दृष्ट्वा पर्वतसत्तम ।
गोसहस्रप्रदानस्य फलं प्राप्स्यति शाश्वतम्॥५१॥

मूर्ध्नि तव॥५१॥

त्वत्तोऽश्मभिश्च प्रतिमां कारयित्वा हि भक्तितः ।
शुश्रूषयन्ति ये नित्यं मम यास्यन्ति ते गतिम्॥५२॥

त्वत्तः त्वत्सम्बन्धिभिः॥५२॥

इति तं पर्वतं कृष्णो वरदोऽनुगृहीतवान् ।
तदाप्रभृति देवेशस्तत्र सन्निहितोऽच्युतः॥५३॥

पाषाणैः प्रतिमां तात कारयित्वा च कौरव ।
शुश्रूषन्ति कृतात्मानो विष्णुलोकाभिकाङ्क्षिणः॥५४॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे कृष्णकृतशिवस्तुतिर्नाम चतुःसप्ततितमोऽध्यायः॥७४॥
स्वर्गात्पारिजातानयनम्-०७५

वैशम्पायन उवाच। ततो रथवरं कृष्णः समारुह्य महामनाः ।
बिल्वोदकेश्वरं देवं नमस्कृत्य ययौ नृपः॥१॥

पञ्चसप्ततितमेऽध्याये युद्धेनाराध्य वासवम्। द्वारकामनयद्धृष्टः पारिजातमितिीर्यते॥१॥ ततो रथेति॥१॥

महेन्द्रमाह्वयामास रथस्थो मधुसूदनः ।
सत्कृतं पुष्कराभ्याशे सर्वैर्देवगणैः सह॥२॥

ततः शक्रो जयन्तोऽथ हरिभिर्युक्तमुत्तमम् ।
आरुरोह रथं देवः सर्वकामप्रदः सताम्॥३॥

ततो रथस्थयोर्युद्धमभवत्कुरुनन्दन ।
देवयोर्दैवयोगेन पारिजातकृते तदा॥४॥

ततोऽहनद्रणे विष्णुर्बाणैः शत्रुबलार्दनः ।
सैन्यानि देवराजस्य बाणजालैरजिह्मगैः॥५॥

उपेन्द्रं न महेन्द्रोऽथ नैव विष्णुः सुरेश्वरम् ।
ताडयामासतुर्वीरौ शस्त्रैः शक्तावपि प्रभो॥६॥

एकैकमश्वं दशभिर्महेन्द्रस्य जनार्दनः ।
विव्याध विशिखैस्तीक्ष्णैरस्त्रयुक्तैर्जनेश्वर॥७॥

शैब्याद्यानपि देवेन्द्रः शरैरमरसत्तमः ।
छादयामास राजेन्द्र घोरैरस्त्राभिमन्त्रितैः॥८॥

शैब्याद्यान् शैब्यसुग्रीवबलाहकमेघपुष्पाख्यान् कृष्णाश्वान्। सैन्याद्यानिति पाठे सेनायां शूरभूतानश्वादीन्॥८॥

स च बाणसहस्रैश्च कृष्णो गजमवाकिरत् ।
गरुडं च महातेजा बलभिद्धरिवाहनम्॥९॥

भूयिष्ठाभ्यां लताभ्यां तौ तदहः शत्रुदारणौ ।
युयुधाते महात्मानौ नारायणसुराधिपौ॥१०॥

चकम्पे वसुधा कृत्स्ना नौर्जलस्थेव भारत ।
दिशां दाहेन दिग्देशाः संवृताश्च समन्ततः॥११॥

चेलुर्गिरिवराश्चैव पेतुश्च शतशो द्रुमाः ।
पेतुश्च धरणीपृष्ठे मर्त्या धर्मगुणान्विताः॥१२॥

निर्घाताः शतशश्चान्ये पेतुस्तत्र नराधिप ।
ऊहुश्च सरितः सर्वाः प्रतिस्रोतो विशाम्पते॥१३॥

विश्वग्वाता ववुश्चैव पेतुरुल्काश्च निष्प्रभाः ।
मुहुर्मुहुर्भूतसङ्घा रथनादेन मोहिताः॥१४॥

प्रजज्वाल जले चैव वह्निर्जनपदेश्वर ।
युयुधुश्च ग्रहैः सार्धं ग्रहा नभसि सर्वतः॥१५॥

ज्योतींषि शतशः पेतुः स्वर्गाच्च धरणीतलम् ।
दिशां गजाः प्रकुपिताः नागाश्च धरणीतले॥१६॥

ज्योतींषि ताराः॥१६॥

गर्दभारुणसंस्थानैश्छिन्नाभ्रैश्चावृतं नभः ।
विनन्दद्भिर्महारावैरुल्काशोणितवर्षिभिः॥१७॥

गर्दभवत् धूसराणि अरुणानि च संस्थानानि येषां तैः छिन्नाभ्रैः॥१७॥

न भूर्न द्यौर्न गमनं नरेन्द्रवृषभा भवन् ।
स्वस्थानि सुरवीरौ तु दृष्ट्वा युद्धगतौ तदा॥१८॥

जेपुर्मुनिगणा मन्त्रञ्जगतो हितकाम्यया ।
ब्राह्मनाश्च महात्मानो ह्यतिष्ठंस्तेषु सत्वराः॥१९॥

ततो ब्रह्मा महातेजाः कश्यपं वाक्यमब्रवीत् ।
गच्छ वध्वा सहादित्या पुत्रौ वारय सुव्रत॥२०॥

स तथेति तदा देवमुक्त्वा पद्मभवं मुनिः ।
जगाम रथमास्थाय तस्थौ नरवरान्तिके॥२१॥

स्थितं तु कश्यपं दृष्ट्वा सहादित्या तदन्तरा ।
उभौ राथाभ्यां धरणीमवतीर्णौ महाबलौ॥२२॥

न्यस्तशस्त्रौ च तौ वीरौ ववन्दतुररिन्दमौ ।
पितरौ धर्मतत्त्वज्ञौ सर्वभूतहिते रतौ॥२३॥

उभौ गृहीत्वा हस्ताभ्यामदितिस्त्वब्रवीद्वचः ।
असोदराविवैवं किमन्योन्यं हन्तुमिच्छतः॥२४॥

स्वल्पमर्थं पुरस्कृत्य प्रवृत्तमतिदारुणम् ।
सदृशं नेति पश्यामि सर्वथा मम पुत्रयोः॥२५॥

श्रोतव्यं यदि मातुश्च पितुश्चैव प्रजापतेः ।
न्यस्तशस्त्रौ स्थितौ भूत्वा कुरुतं वचनं मम॥२६॥

तथेत्युक्त्वा च तौ देवौ स्नातुकामौ महाबलौ ।
गङ्गां जग्मतुरेवाथ प्रजल्पन्तौ परस्परम्॥२७॥

शक्र उवाच। त्वं प्रभुर्लोककृत्कृत्स्नराज्येऽहं स्थापितस्त्वया ।
स्थापयित्वा कथं नाम पुनर्मामवमन्यसे॥२८॥

भ्रातृत्वमुपगम्यैव ज्येष्ठत्वं चाप्यपोह्य च ।
कथं कमलपत्राक्ष निर्वाणं कर्तुमिच्छसि॥२९॥

स्नातौ तु जाह्नवीतोये पुनरभ्यागतौ नृप ।
यत्रादितिः कश्यपश्च महात्मानौ दृढव्रतौ॥३०॥

प्रियसङ्गमनं नाम तं देशं मुनयोऽवदन् ।
यत्र तौ सङ्गतौ चोभौ पितृभ्यां कमलेक्षणौ॥३१॥

ततः शक्रस्य कौरव्य दत्वा वाचाभयं तदा ।
यत्र देवगणाः सर्वे समेता धर्मचारिणः॥३२॥

अभयं दत्वा दत्तवान्। कृष्ण इति शेषः। ददातेः “आतो मनिन्क्वनिब्वानपश्च” इति ववनिप्॥३२॥

ततो ययुर्विमानैस्तु देवाः सर्वे त्रिविष्टपम् ।
ऋद्ध्या परमया युक्तास्तेषामेवानुरूपया॥३३॥

कश्यपश्चादितिश्चैव तथा शक्रजनार्दनौ ।
विमानमेकमारुह्य गता राजंस्त्रिविष्टपम्॥३४॥

ते शक्रसदनं प्राप्ता रम्यं सर्वगुणान्वितम् ।
ऊषुरेकत्र कौरव्य मुदिता धर्मचारिणः॥३५॥

शची तु कश्यपं पत्न्या सहितं धर्मवत्सला ।
उपाचरन्महात्मानं सर्वभूतहिते रतम्॥३६॥

ततस्तस्यां प्रभातायां रजन्यामब्रवीद्धरिम् ।
आदातधमतत्त्वज्ञा सर्वहूतहितं वचः॥३७॥

उपेन्द्र द्वारकां गच्छ पारिजातं नयस्व च ।
वध्वा सम्प्रापयस्वेश पुण्यकं हृदये स्थितम्॥३८॥

पुण्यकं व्रतोत्सवम्॥३८॥

पुण्यके सत्यया प्राप्ते पुनरेष त्वया तरुः ।
नन्दने पुरुषश्रेष्ठा स्थाप्यः स्थाने यथोचिते॥३९॥

एवमस्त्विति कृष्णेन देवमाता यशस्विनी ।
उक्ता धर्मगुणैर्युक्ता नारदेन महात्मना॥४०॥

ततोऽभिवाद्य पितरं मातरं च जनार्दनः ।
महेन्द्रं सह शच्याथ प्रतस्थे द्वारकां प्रति॥४१॥

ददौ कृष्णाय पौलोमी नियोगान्कुरुनन्दन ।
सर्वासामेव कृष्णस्य भार्याणां धर्मचारिणी॥४२॥

नियोगान् प्रीतिदेयान् आभरणादीन्॥४२॥

दिव्यानां सर्वरत्नानां वाससां च मनस्विनी ।
नानारागाविरक्तानां सदेवारजसामपि॥४३॥

भार्याणां च सहस्राणि यानि षोडश माधवे ।
प्रतिगृह्य महातेजाः प्रययौ द्वारकां प्रति॥४४॥

सम्पूज्यमानो द्युतिमान्खेचरैः पुण्यकर्मभिः ।
ससात्यकिः सपुत्रश्च प्राप्तो रैवतकं गिरिम्॥४५॥

स तत्र स्थापयित्वा च पारिजातं वरद्रुमम् ।
सत्यकं प्रेषयामास द्वारकां द्वारशालिनीम्॥४६॥

श्रीकृष्ण उवाच। पारिजातमिहानीतं महेन्द्रस्दनान्मया ।
निवेदय महाबाहो भैमानां भैमवर्धन॥४७॥

भैमानां भीमवंशोद्भवानां यादवानाम्॥४७॥

अद्य द्वारवतीं चैव पारिजातमहं द्रुमम् ।
प्रवेशयिष्ये नगरे शोभा प्रक्रियतां शुभा॥४८॥

इत्युक्तः सत्यको गत्वा तथोक्त्व पुनरागतः ।
कुमारैर्नागरैः सार्धं साम्बप्रभृतिभिः प्रभो॥४९॥

ततोऽग्रतः पारिजातमारोप्य गरुडे तदा ।
प्रद्युम्नो द्वारकां रम्यां विवेश रथिनां वरः॥५०॥

शैब्यादिहययुक्तेन रथेनानुनयौ हरिः ।
तस्याथ रथमुख्येन सत्यकः साम्ब एव च॥५१॥

ते त्वन्ये नृप वार्ष्णेया यानैर्बहुविधैस्तथा ।
ययुः प्रहृष्टास्तत्कर्म पूजयन्तो महात्मनः॥५२॥

सत्यकाद्विस्तरं श्रुत्वा यादवा नागरास्तथा ।
विस्मयं परमं जग्मुरप्रमेयस्य कर्मणा॥५३॥

तं दिव्यकुसुमं वृक्षं दृष्ट्वाऽऽनर्तनिवासिनः ।
राजन्न ततृपुर्हृष्टाः पश्यमाना महोदयम्॥५४॥

पश्यमानाः पश्यन्तः॥५४॥

तमद्भुतमचिन्त्यं च मदकेलिकलाण्डजम् ।
वृक्षोत्तमं पश्यतां वै वृद्धानामगमज्जरा॥५५॥

मदेन केलिकलाः क्रीडापरा अण्डजा यत्र तम्॥५५॥

ये त्वन्धचक्षुषः सर्वे तेऽभवन्दिव्यचक्षुषः ।
विरोगा रोगिणश्चासन्घ्रात्वा गन्धं वनस्पतेः॥५६॥

लपन्तः कोकिलाञ्छ्वेताञ्छ्रुत्वाऽऽनर्तनिवासिनः ।
बभूवुर्हृष्टमनसो ववन्दुश्च जनार्दनम्॥५७॥

नानाविधानि तूर्याणि गेयानि मधुराणि च ।
शुश्रुवुस्तस्य वृक्षस्य नातिदूरं गता नराः॥५८॥

योऽयं सङ्कल्पयामास गन्धं हृद्यं नरस्तथा ।
स तदैव तमाजघ्रे पारिजातसमुद्भवम्॥५९॥

ततः प्रविश्य रम्यां तु द्वारकां यदुनन्दनः ।
वसुदेवं महात्मानं ददृशे देवकीं तथा॥६०॥

कुकुराधिपतिं चैव बलं भ्रातरमेव च ।
वृद्धाश्च यादवानां ये मानार्हानमरोपमान्॥६१॥

विसृज्य तान्वै भगवाननादिनिधनोऽच्युतः ।
सम्पूज्य च यथान्यायं स्वमेव भवनं गतः॥६२॥

स सत्यभामया वासं विवेश मधुसूदनः ।
पारिजातं तरुश्रेष्ठं ग्रहाय गदपूर्वजः॥६३॥

सत्यभामया सत्यभामायाः ग्रहाय गृहीत्वा विवेश॥६३॥

सा देवी पूजयामास प्रहृष्टा वासवानुजम् ।
प्रतिजग्राह तं चापि पारिजातं महाद्रुमम्॥६४॥

मनीषितेन स तरुरल्पो भवति भारत ।
महांश्च वासुदेवस्य तदद्भुतमभून्महत्॥६५॥

कदाचिद्द्वारकां सर्वां प्रच्छादयति भारत ।
कदाचिद्धस्तधार्यस्तु भवत्यङ्गुष्ठसन्निभः॥६६॥

ननन्द सत्या कौरव्य देवी प्राप्य मनोरथम् ।
पुण्यकार्थं तु सम्भारान्सम्भर्तुमुपचक्रमे॥६७॥

यानि द्रव्याणि कौरव्य जम्बूद्वीपे तु कानिचित् ।
योग्यानि तानि कृष्णेन सम्भृतानि महात्मना॥६८॥

मुनिं तदा संस्मृतवान्स नारदं जनार्दनः सर्वगुणोचितं वशी ।
प्रतिग्रहार्थं व्रतकस्य सत्यया यथोपदिष्टस्य पुरन्दरानुजः॥६९॥

व्रतकस्य व्रते प्रदेयस्य दानस्य॥६९॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातानयने पञ्चसप्ततितमोऽध्यायः॥७५॥
द्युतरोः पुनः स्वस्थाने नयनम्-०७६

वैशम्पायन उवाच। अथ कृष्णस्य कौरव्य ध्यातमात्रस्तपोधनः ।
आजगाम मुनिश्रेष्ठो नारदो वदतां वरः॥१॥

षट्सप्ततितमेऽध्यायेऽमुष्मिन्पुण्यकसिद्धये। नारदाय प्रदायाथ द्युतरुं चानयद्दिवम्॥ अथेति॥१॥

सम्पूजयित्वा विधिवद्वासुदेवो विशाम्पते ।
प्रतिग्रहार्थं विधिवच्छ्रीमान्भक्त्या न्यमन्त्रयत्॥२॥

ततः काले च सम्प्राप्ते स्नातं देवो महामुनिम् ।
सम्पूज्य माल्यैर्गन्धैश्च भोजयामास भारत॥३॥

काले दानोचिते॥३॥

सार्वकामिकमन्नाद्यं सर्वभूतकृदन्वयः ।
सत्यया प्रियया सार्धं प्रहृष्टेनान्तरात्मना॥४॥

पुष्पदामावसज्याथ कण्टे कृष्णस्य भाविनी ।
बबन्ध कृष्णं सुभगा पारिजाते वनस्पतौ॥५॥

भाविनी सद्भाववती॥५॥

अद्भिर्ददौ नारदाय ततोऽनुज्ञाप्य केशवम् ।
देवी धेनुसहस्रं च काञ्चनस्य च पर्वतम्॥६॥

देवी केशवमनुज्ञाप्य अद्भिर्नारदाय ददावित्यन्वयः॥६॥

हिरण्यरूप्यमिश्रं च मणिरत्नप्रभस्य च ।
तिलमिश्रस्य च तथा धन्यैरन्यैर्युतस्य च॥७॥

काञ्चनस्येति विशेष्यं षष्ठ्यन्तानां मणीनां रत्नानां च प्रभा यस्मिंस्तस्य॥७॥

प्रतिगृह्य तु तत्सर्वं नारदो मुनिसत्तमः ।
स सम्प्रहृष्ठो भुक्त्वाथ भूयः केशवमब्रवीत्॥८॥

भोः केशव मदीयस्त्वमद्भिर्दत्तोऽसि सत्यया ।
स त्वं मामनुगच्छस्व कुरु यद्यद्ब्रवीम्यहम्॥९॥

प्रथमः पक्ष इत्येवमब्रवीन्मधुसूदनः ।
व्रजन्तमनुवव्राज नारदं च जनार्दनः॥१०॥

प्रथमो मुख्यः पक्षो यद्दासेन स्वामिकार्यं कर्तव्यमित्यर्थः॥१०॥

परिहासं बहुविधं कृत्वा मुनिवरस्तदा ।
तिष्ठस्व गच्छामीत्युक्त्वा परिहासविचक्षणः॥११॥

परिहासं पादुकानयनाद्याज्ञापनैः॥११॥

अपनीय ततः कण्ठात्पुष्पदामैनमब्रवीत् ।
कपिलां गां सवत्सां भो निष्क्रयार्थं प्रयच्छ मे॥१२॥

कृष्णाजिनं तिलैः पूर्णं प्रयच्छ च सकाञ्चनम् ।
एषोऽत्र निष्क्रयः कृष्ण विहितो वृषकेतुना॥१३॥

वृषकेतुना रुद्रेण॥१३॥

तथेत्युक्त्वा हृषीकेशस्तथा चक्रे जनाधिप ।
स उवाच मुनिश्रेष्ठं हसित्वा मधुसूदनः॥१४॥

वरं वरय धर्मज्ञ यस्ते नारद काङ्क्षितः ।
तत्ते दातास्मि धर्मज्ञ परा प्रीतिर्हि मे त्वयि॥१५॥

नारद उवाच। नित्यमेवास्तु मे प्रीतो भवान्विष्णो सनातन ।
त्वत्प्रसादात्तु सालोक्यं व्रजेयं ते महामते॥१६॥

अयोनिजो भवेयं ते नारायण सतां गते ।
भवेयं ब्राह्मणश्चैव पुनर्जात्यन्तरेष्वपि॥१७॥

एवमस्त्विति तं देवो विष्णुः प्रोवाच भारत ।
तुतोष च ततो धीमान्नारदो मुनिसत्तमः॥१८॥

षोडशस्त्रीसहस्राणि विष्णोरतुलतेजसः ।
निमन्त्रितानि कौरव्य सत्यया हरिकान्तया॥१९॥

तासां ददौ सन्नियोगमेकैकं हरिवल्लभा ।
शच्या यो वासुदेवस्य पुरा दत्तो नराधिप॥२०॥

सन्नियोगं दिव्यवस्त्राभरणादिकम् इन्द्राणीप्रेषितं विभज्य ददौ॥२०॥

पारिजातो वसंस्तत्र ततः प्रववृते तदा ।
आज्ञया वासुदेवस्य नारदेन महात्मना॥२१॥

प्रववृते स गुणान्ख्यापयामास॥२१॥

निमन्त्रिता गणाः सर्वे केशवेन महात्मना ।
विभूतिं पारिजातस्य ददृशुः कुरुनन्दन॥२२॥

गणाः सुहृत्सम्बन्धिसमूहाः॥२२॥

पाण्डवांश्चानयामास सहैव पृथया हरिः ।
द्रौपद्या च महातेजास्तथैव च सुभद्रया॥२३॥

तानेवाह- पाण्डवानिति॥२३॥

श्रुतश्रवां च ससुतां भीष्मकं ससुतं तदा ।
अन्यानपि च कौरव्य मित्रसम्बन्धिबान्धवान्॥२४॥

श्रुतश्रवा पितृष्वसा शिशुपालमाता॥२४॥

रेमे च सह पार्थेन फाल्गुनेन जनार्दनः ।
सान्तःपुरो महातेजाः परमर्द्ध्यावसन्नृप॥२५॥

संवत्सरे ततो याते केशिहामरसत्तमः ।
पारिजातं पुनः स्वर्गमानयत्सर्वभावनः॥२६॥

तत्रादितिं कश्यपं च दृष्ट्वा स्वजननीं प्रभुः ।
शक्रेण सहितो धीमानप्रमेयपराक्रमः॥२७॥

तमुवाचादितिर्माता प्रणतं मधुसूदनम् ।
सौभ्रात्रमस्तु वामेवं नित्यं चामरसत्तम॥२८॥

मनोरथं मम त्वं च पूरयस्व जनार्दन ।
तथेत्येवाब्रवीत्कृष्णस्ततो मातरमात्मवान्॥२९॥

आमन्त्रयित्वा पितरौ देवराजानमब्रवीत् ।
वासुदेवो महातेजाः कालप्राप्तमिदं वचः॥३०॥

महादेवेन देवेश सन्दिष्टोऽस्मि महात्मना ।
अन्तर्भूमितले वध्यानसुरान्प्रति मानद॥३१॥

तदितो दशरात्रेण हन्ताहमसुरोत्तमान् ।
तत्रोपविष्टान्स्थातव्यं प्रवरेण महात्मना॥३२॥

जयन्तेन च वीरेण दानवानां जिघांसया ।
एकोऽत्र मानुषो देवो देवपुत्रस्तथा परः॥३३॥

मानुषो मानुषरूपी देवः॥३३॥

अवध्याः किल ते देवैर्ब्रह्मणो वरदर्पिताः ।
अस्माभिः किल हन्तव्या मानुषत्वमुपागते॥३४॥

तथेति कृष्णं स हरिः प्रीतरूपस्तथाब्रवीत् ।
सस्वजाते ततो देवावन्योन्यं जनमेजय॥३५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे स्वर्गे पारिजातस्थापने षट्सप्ततितमोऽध्यायः॥७६॥
पुण्यकविधिः-०७७

जनमेजय उवाच। पुण्यकानां ममोत्पत्तिं कथयस्व द्विजोत्तम ।
द्वैपायनप्रसादेन सर्वं हि विदितं तव॥१॥

सप्ताधिके सप्ततिके पुण्यकानां निरूप्यते। पार्वत्या तपसा युक्तं स्वरूपं तद्विधिस्तथा॥१॥ पुण्यकानामिति॥१॥

वैशम्पायन उवाच। उमया पुण्यकविधिर्नरेन्द्रोत्पादितः पुरा ।
शृणु येन विधानेन लोके धर्मभृतां वर॥२॥

स्वर्गान्नीते पारिजाते कृष्णेनाक्लिष्टकर्मणा ।
ययौ द्वारवतीं धीमान्नारदो मुनिसत्तमः॥३॥

देवासुरे नृपश्रेष्ठ सङ्ग्रामे समुपस्थिते ।
षट्पुरस्य वधे घोरे महादेवाज्ञयानघ॥४॥

वधे कृते सति॥४॥

कृष्णेन सहितं विप्रं नारदं धर्मवित्तमम् ।
आसीनं परिपप्रच्छ रुक्मिणी भैष्मिकी नृप॥५॥

तत्र जाम्बवती देवी सत्यभामा च भामिनी ।
गान्धारराजपुत्री च योगयुक्ता नराधिप॥६॥

तत्र जाम्बवत्यादयोऽपि समागताः॥६॥

देव्यश्च नृप कृष्णस्य बह्व्योऽन्या वै समागताः ।
कुलशीलगुणोपेता धर्मशीलाः पतिव्रताः॥७॥

रुक्मिण्युवाच। मुने धर्मभृतां श्रेष्ठ धर्मज्ञानभृतां वर ।
उत्पत्तिं पुण्यकानां त्वं वक्तुमर्हस्यशेषतः॥८॥

विधिं च फलयोगं च दानकालं तथैव च ।
कौतूहलं नस्तत्सिद्धिं वदस्व वदतां वर॥९॥

नारद उवाच। शृणु वैदर्भि धर्मज्ञे सपत्नीभिः सहानघे ।
पुण्यकानां विधिः प्रोक्तो यथा देवि पुरा मया॥१०॥

चचारोमा व्रतं देवी पुण्यकानां शुचिव्रता ।
व्रतावसानेऽथ तथा सख्यो देवि निमन्त्रिताः॥११॥

अदित्याद्याः सुताः सर्वा दक्षस्याक्लिष्टकर्मणः ।
पौलोमी च शची देवी ख्याता लोके पतिव्रता॥१२॥

रोहिणी च महाभागा सोमस्य दयिता सती ।
फाल्गुनी च तथा पूर्वा रेवती च विशाम्पते॥१३॥

तथा शतभिषा चैव मघा च कुरुनन्दन ।
एताभिर्हि महादेवी पूर्वमाराधिता सती॥१४॥

गङ्गा सरस्वती चैव वेणी गोदा च निम्नगा ।
तथा वैतरणी चैव गण्डकी या च भारत॥१५॥

गङ्गाद्या नद्यभिमानिन्यो देवताः॥१५॥

अन्याश्च सरितो रम्या लोपामुद्रा च भारत ।
सत्यश्चान्या जगद्देव्यो धारयति हि ताः शुभाः॥१६॥

शुभाश्च गिरिनन्दिन्यो वह्निकन्याश्च सुव्रताः ।
स्वाहा वह्निप्रिया देवी सावित्री च यशस्विनी॥१७॥

ऋद्धिः कुबेरकान्ता च जलेशमहिषी तथा ।
भार्या पितृपतेश्चैव वसुपत्न्यस्तथा च याः॥१८॥

ह्रीःश्रीर्धृतिस्तथा कीर्तिराशा मेधा च सुव्रताः ।
प्रीतिर्मतिश्च ख्यातिश्च सन्नीतिश्च तपोधनाः॥१९॥

देव्यः सत्यस्तथैवान्याः सर्वभूतहिते रताः ।
तासां व्रतावसाने च पूजां चक्रेऽम्बिका तदा॥२०॥

तिलरत्नमयं दत्त्वा पर्वतं सर्वधान्यवत् ।
वासोभिर्भूषणैर्मुख्यैर्नानारागैः सुमध्यमे॥२१॥

प्रतिगृह्य तु तां पूजां दत्तां देव्या तपोधनाः ।
उपविष्टाः कथाश्चित्राः कुर्वन्त्यो भर्तृदेवताः॥२२॥

पुण्यकार्थं कथास्तासामासन्देवी शशंस याः ।
विधिं च पुण्यकस्याथ सतीनां भर्तृदेवते॥२३॥

भर्तृदेवते पतिव्रतासमुदाये॥२३॥

तासां मतेन साध्वीनां सवासां सोमनन्दिनी ।
पर्यपृच्छदुमां देवीं पुण्यकानां विधिं वरा॥२४॥

सोमनन्दिनी अरुन्धती॥२४॥

उमा तासां प्रियार्थं तु पुण्यकान्यब्रवीत्तदा ।
समक्षं मम वैदर्भि सर्वभूतहिते रता॥२५॥

ममैव चोमया दत्तः स तदा रत्नपर्वतः ।
प्रतिगृह्य मया चैव कृतो ब्राह्मणसाच्छुभे॥२६॥

उमा त्वरुन्धतीं साध्वीमामन्त्र्य यदभाषत ।
शृणु कल्याणि वक्ष्यामि सर्वाभिः सहिता शुभे॥२७॥

पुण्यकानां विधिं कृत्स्नं यथावदनुपूर्वशः ।
यथा चैव मया दृष्टस्तत एष विधिः शुभे॥२८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पुण्यकविधिकथने सप्तसप्ततितमोऽध्यायः॥७७॥
पुण्यकव्रतवर्णनम्-०७८

उमोवाच। सर्वज्ञाहं यदा भर्तुः प्रसादेन शुचिस्मिते ।
तदा पुरा ममादिष्टो दृष्टः पुण्यविधिः शुभः॥१॥

अथाष्टसप्ततितमेऽध्यायेऽस्मिन्प्राह पार्वती। अरुन्धत्यै स्ववक्त्रेण प्रागुक्तमपि विस्तरात्॥१॥ सर्वज्ञेति। आदिष्टो उपदिष्टो भर्त्रेत्यर्थात् दृष्टो ज्ञातश्च॥१॥

सनातनः पुण्यविधिरिति बुद्ध्यावगम्यताम् ।
महादेवप्रसादेन मया दृष्टस्त्वरुन्धति॥२॥

पुण्यकानि च सर्वाणि चीर्णवत्यस्म्यनिन्दिते ।
अनुज्ञया भगवतो भर्तुः शर्वस्य धीमतः॥३॥

सतीत्वं धर्मचरणं यस्या नित्यमखण्डितम् ।
पुण्यकानां विधिस्तस्याः पुराणैः परिकीर्तितः॥४॥

अखण्डितम् ईप्सितं भवेत्॥४॥

दानोपवासपुण्यानि सुकृतान्यप्यरुन्धति ।
निष्फलान्यसतीनां हि पुण्यकानि तथा शुभे॥५॥

या वञ्चयन्ति भर्तारं योनिदुष्टाश्च याः स्त्रियः ।
योनिदोषात्पुण्यफलं नाश्नन्ति निरयङ्गमाः॥६॥

साध्व्यो जगद्धारयन्ति सुशीलाः पतिदेवताः ।
अनन्या धर्मनित्याश्च सतीपन्थानमाश्रिताः॥७॥

अवाग्दुष्टाः शौचयुक्ता धृतिमत्यः शुभव्रताः ।
सततं साधुवादिन्यो धारयन्ति जगत्खलु॥८॥

व्याधितः पतितो वापि दीनो वापि कथञ्चन ।
न त्यक्तव्यः स्त्रिया भर्ता धर्म एष सनातनः॥९॥

अकार्यकारिणं वापि पतितं वापि निर्गुणम् ।
स्त्री पतिं तारयत्येव तथाऽऽत्मानं शुभानने॥१०॥

योनिदुष्टस्त्रियो नास्ति प्रायश्चित्तं हतैव सा ।
वाग्दुष्टे विहितं सद्भिः प्रायश्चित्तं पुरातने॥११॥

पुरातने वेदे॥११॥

भर्तुश्छन्देन कर्तव्यं व्रतकं सर्वदा स्त्रिया ।
उपवासोऽपि वा सत्ये काङ्क्षन्त्या सुकृतां गतिम्॥१२॥

हे सत्ये अरुन्धति॥१२॥

कल्पान्तरसहस्रेषु न स्त्री सा लभते गतिम् ।
तिर्यग्योनिसहस्रेषु पच्यते योनिविप्लवात्॥१३॥

यदि सा नाम मानुष्यं स्त्री लभेदसती सती ।
चण्डालयोनौ दुर्मेधा जायते कुक्कुराशना॥१४॥

असती भूत्वा सती विद्यमाना॥१४॥

भर्ता देवः सदा स्त्रीणां सद्भिर्दृष्टस्तपोधने ।
यस्या हि तुष्यते भर्ता सा सती धर्मचारिणी॥१५॥

कौतूहलहतानां तु स्त्रीणां लोको न शोभनः ।
भर्तर्येव मनो यासां सद्भावेन व्यवस्थीतम्॥१६॥

कौतूहलम् आश्चर्यं प्रोक्तम्॥१६॥

कर्मणा मनसा वचा पतिं नातिचरन्ति याः ।
तासां पुण्यफलं सौम्ये पुण्यकैः समुदाहृतम्॥१७॥

पुण्यकानां विधिं कृत्स्नं स्वर्लोकप्रतिशोभने ।
निबोध सह सर्वाभिर्दृष्टो यस्तपसा मया॥१८॥

स्नात्वा स्त्री प्रातरुत्थाय पतिं विज्ञापयेत्सती ।
उपवासार्थमथ वा व्रतकार्थं दृतव्रते॥१९॥

श्वशुराभ्यां च चरणौ सततं सत्तमस्य च ।
ग्रहायौदुम्बरं पात्रं सकुशं साक्षतं तथा॥२०॥

औदुम्बरं ताम्रमयम्॥२०॥

गोशृङ्गं दक्षिणं सिच्य प्रतिगृह्णीत तज्जलम् ।
ततो भर्तुः सती दद्यात्स्नातस्य प्रयतस्य च॥२१॥

सिच्य सिक्त्व॥२१॥

आत्मनोऽपि निषेक्तव्यं ततः शिरसि तज्जलम् ।
त्रैलोक्यसर्वतीर्थेषु स्नानमेतदुदाहृतम्॥२२॥

उपवासेषु कर्तव्यमेतद्धि व्रतकेषु च ।
स्नानमेतद्धि सामान्यं स्त्रीणां पुंसां च भामिनि॥२३॥

अरुन्धति मया दृष्टं तपसा हरतेजसा ।
अशल्यविद्धं शयनमासनं च तथाविधम्॥२४॥

व्रताङ्गनियमानाह- अशल्येत्यादिना॥२४॥

स्वयं प्रक्षालनं चापि पादयोरनुशब्दितम् ।
अश्रुप्रपातो रोषश्च कलहश्च कृतः सति ।
उपवासाद्व्रताद्वापि सद्यो भ्रंशयति स्त्रियः॥२५॥

शुक्लमेव सदा वासः प्रशस्तं चन्द्रसम्भवे ।
अन्तर्वासोऽपरं चैव उपवासे व्रते तथा॥२६॥

पादुकार्थं तृणैः कार्यं सर्वदा व्रतके सति ।
उपवासेऽपि च विधिरेष एव प्रवर्तितः॥२७॥

पादुकार्थं तृणैर्वैत्रादिभिः पादत्राणं कर्तव्यं न तु चर्ममयमित्यर्थः॥२७॥

अञ्जनं रोचनं चापि गन्धान्सुमनसस्तथा ।
व्रतके चोपवासे च नित्यमेव विवर्जयेत्॥२८॥

दन्तकाष्ठं शिरःस्नानमुद्वर्तनमथापि वा ।
विवर्जितं मृदा सर्वं शौचार्थं तु विधीयते॥२९॥

बिल्वामृतफलैर्नित्यं श्रीफलैश्च समाचरेत् ।
प्रक्षालनं वै शिरसः सदा मृण्मिश्रितैर्जलैः॥३०॥

अमृता हरीतकी आमलकी वा। श्रीफलैः पक्वबिल्वफलैः अमृन्मिश्रितैरिति च्छेदः॥३०॥

शिरसोऽभ्यञ्जनं सौम्ये नैव तावत्प्रशस्यते ।
न पादयोर्न गात्रस्य स्नेहेनेति स्थितिः स्मृता॥३१॥

अभ्यञ्जनं कल्कस्नानम्॥३१॥

गोयानमुष्ट्रयानं च खरयानं च वर्जितम् ।
नग्नस्नानं च सततं व्रते चाप्युपवासके॥३२॥

नदीजलं प्रस्रवजं प्रशस्तं सोमनन्दिनि ।
शुभे तडागे वाप्यादौ विस्तीर्णे जलजायुते॥३३॥

गत्वा स्नानं प्रशस्तं तु सदैव खलु सर्वथा ।
अलाभे त्ववरुद्धा स्त्री घटस्नानं समाचरेत्॥३४॥

नवैश्च कुम्भैः स्नातव्यं विधिरेष पुरातनः ।
स्नानं च कार्यं शिरसा तपःफलमवाप्नुयात्॥३५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणेऽष्टसप्ततितमोऽध्यायः॥७८॥
पुण्यकव्रतवर्णनम्-०७९

उमोवाच। विधिनैतेन कृत्स्नेन स्त्री सदा भर्तृदेवता ।
चरेत्संवत्सरं दान्ता षण्मासान्मासमेव च॥१॥

अथैकोनाशीतितमे ह्यध्यायेऽत्र निरूप्यते। नित्यशेषे विधिर्यश्च काम्यानां परमो विधिः॥१॥ विधिनेति। चरेद्व्रतमिति शेषः॥१॥

स्त्रियो ह्यावाहयेत्साध्वीरेकादश समाधिना ।
स्वयं चैव विधिर्दृष्टो व्रतकानां मया शुभः॥२॥

अद्भिर्दद्यात्सतीः सर्वा या मूलव्रतिनी भवेत् ।
तासां तु निष्क्रयो देयः कालदेशानुरूपतः॥३॥

या निमन्त्रिता एकादश स्त्रियः ताः सर्वा अद्भिः साकम् आचार्याय दद्यात् सन्निहितत्त्वात्। निष्क्रयो देयः पूर्वं भर्तृभ्यः क्रीत्वा आचार्याय देयस्ततः आचार्यान्निष्क्रयेण गृहीतास्तद्भर्तृभ्यः प्रदद्यादित्यर्थः॥३॥

ततो मासान्तशुक्लस्य तिथौ च नवमी तथा ।
आराधयित्वा कर्तव्यं व्रतकस्यापवर्जनम्॥४॥

अपवर्जनं समापनम्॥४॥

उपवासमहोरात्रं व्रतकं चापि निश्चितम् ।
आदौ चान्ते च कुर्वीत व्रतकस्यापि सिद्धये॥५॥

क्षुरकर्म ततो भर्तुरात्मनश्चैव कारयेत् ।
उत्सादनं च स्नानं च तस्मिन्नहनि संस्मृतम्॥६॥

व्रतकम् उद्दिश्येति शेषः। आत्मनश्च केशवर्जं नखमात्रनिकृन्तनम्। “सर्वान् केशान्समुद्धृत्य छेदयेदङ्गुलद्वयम्। एवमेव हि नारीणां वपनं सर्वदा स्मृतम्॥” इति स्मृत्युक्तप्रकारेण वा क्षुरकर्म॥६॥

ततो विवाहवत्स्नानं विहितं पुण्यके शुभे ।
मण्डनं चैव विहितं माल्यधारणमेव च॥७॥

कुम्भैस्तु स्नाप्यमानेमं साध्वी मन्त्रमुदीरयेत् ।
भर्तुः पादौ नमस्कृत्य मनसा वाथ वा गिरा॥८॥

इमं वक्ष्यमाणम्॥८॥

आपो देव्य ऋषीणां हि विश्वधात्र्यो दिव्या मदन्त्यो याः शङ्करा धर्मधात्र्यः ।
हिरण्यवर्णाः पावकाः शिवतमेन रसेन श्रेयसो मां जुषन्तु॥९॥

ऋषीणां देव्यः जनयित्र्यः यासु जातः कश्यप इति लिङ्गात्। दिवि भवाः आदित्यलोकावस्थानात् मदन्त्यो यज्ञे मदन्तीसंज्ञाः शङ्कराः सुखकरा यतो धर्मस्य धात्र्यः पोषका हिरण्यवर्णाः निर्मलाः पावकाः शोधकाः रसेन निजगुणेन जुषन्तु प्रीणयन्तु॥९॥

अपामेष स्मृतो मन्त्रः सर्वत्रान्यत्र मे शृणु ।
मन्त्राः पुराणविहिताः स्त्रीणां सर्वाङ्गशोभने॥१०॥

शुभाव्यया गुणिनी युक्तधर्मा भर्त्रा साकं मम दास्या वरेण ।
मा कर्मणा मनसा वापि वाचा भर्तुर्भवेयं रुषती स्यां वशङ्गा॥११॥

पौराणान्मन्त्रानाह- शुभेति। शुभा कल्याणकरी भर्तुर्भवेयमिति सर्वत्र सम्बन्धनीयम्। अव्यया अक्षीणा धनादिभिः। यदाह याज्ञवल्क्यः- “संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी।” इति वरेण वरहेतोर्दास्या तुल्येति नीचकर्मापि कर्तुं योग्या भवेयम्। यथोक्तम्। “कार्येषु दासी शयनेषु रम्भा” इत्यादि। अन्यत्र रुषती क्रुद्धाऽपि भर्तुर्वशङ्गा स्याम्॥११॥

सपत्नीनामधि नित्यं भवेयं सपुत्रा स्यां सुभगा चारुरूपा ।
सम्पन्नहस्ता गुणवादिनी च सर्वात्मना स्यां मा दरिद्रा भवेयम्॥१२॥

अधि उपरि सम्पन्नहस्ता अन्नदानादौ मुक्तहस्ता॥१२॥

पतिश्च मे स्यात्सुमुखो मत्प्रतीक्षो नित्यं मद्भक्तः स्यान्मन्मतिर्मद्गतिश्च ।
प्रीतिश्च नौ स्याच्चक्रवाकानुरूपा मनोविरागो न भवेत्साधुवत्स्यात्॥१३॥

मनोविरागः अन्योन्यमनुरक्तता॥१३॥

लोकान्साध्वीनामुत्तमानां व्रजेयं याभिः सर्वं धार्यते विश्वरूपम् ।
उभे कुले याः शुभाः पावयन्ति पितुर्भर्तुश्च पतिभक्त्योर्जिताश्च॥१४॥

विश्वस्य रूपं स्वरूपं विश्वमित्यर्थः॥१४॥

भूमिर्वायुर्जलमाकाशमग्निरन्तः क्षेत्रज्ञः प्रकृतिर्यो महांश्च ।
अहङ्कारश्च मम साक्ष्ये नियुक्ताः स्मरेयुर्मे निश्चयं च व्रतं च॥१५॥

भूमिरिति। भूम्याद्यभिमानिन्यो देवताः व्रतं च निश्चयं भक्तिं च स्मरेयुः॥१५॥

यैरारब्धो देहिनां भौतिकोऽयं विधिः सत्त्वाद्यैर्भूतयुक्तैः सबीजैः ।
सन्त्वेते मे साक्षिणः सर्वसंस्था व्रते चास्मिन्निश्चये चापि नित्यम्॥१६॥

विधिर्विध्यर्हो देहः यैरारब्धो भूतयुक्तैर्जरायुजादिसम्बन्धैः सत्त्वाद्यभिमानिदैवतैः सबीजैस्तत्प्राणिकर्मप्रयोजितैः॥१६॥

चन्द्रादित्यौ पुण्यसाक्षी यमश्च दिशः सर्वा दश चात्मा च मेयम् ।
सन्त्वेते वै साक्षिणः सर्वसंस्था व्रते चास्मिन्निश्चये चापि नित्ये॥१७॥

आत्मा मनः॥१७॥

मन्त्रैरेतैः पुराणोक्तैः सर्वद्रव्याभिमन्त्रणम् ।
व्रतचर्यात्प्रभृति वै पुराणे समुदाहृतम्॥१८॥

व्रतचर्यात् व्रतारम्भात् प्रभृति प्रत्यहमेव कार्यमित्यर्थः॥१८॥

स्नात्वाथ वाससी दद्याद्भर्तुः कर्त्य स्वयं शुभे ।
अथात्मकर्तितं न स्याच्छुभे विघ्नेन केनचित्॥१९॥

कर्त्यं कर्तनादिना सम्पाद्य। शुभे हे अरुन्धति॥१९॥

वासोऽन्यदेव दद्याच्च श्वेतं मुख्यं नवं शुचि ।
स्वकर्तितं च सूत्रं तु वाससा तेन मिश्रयेत्॥२०॥

ततो द्विजं शुचिं दान्तं ज्ञानविज्ञानकोविदम् ।
भोजयेच्च यथाशक्त्या सह भर्त्रा सुमध्यमे॥२१॥

ब्राह्मणस्यापि दातव्यं वासोयुग्मं महातपे ।
शय्यासनं गृहं धान्यं दासं दासीं तथैव च॥२२॥

महातपे तपस्विनि॥२२॥

अलङ्कारः शक्तितश्च रत्नपर्वत एव च ।
सर्वधान्यसमुन्मिश्रस्तिलैश्च सविशेषतः॥२३॥

वासोभिश्च प्रतिच्छन्नो नानावर्णैररुन्धति ।
हस्त्यश्वावचयश्चैव देया गौरेव च ध्रुवम्॥२४॥

सति सम्भवे हस्त्यश्वादीनाम् अवचयः समूहो दातव्यः। अन्यथा गौरवे देया देयैवेत्यन्वयः॥२४॥

लवणप्रतिमां दद्यान्नवनीतस्य चापराम् ।
गुडस्य मधुनश्चैव सुवर्णस्य च शोभनाम्॥२५॥

प्रतिमाम् उमामहेश्वरयोः॥२५॥

तथैव सर्वगन्धानां रसानां पृथगेव च ।
तथा सुमनसां दद्याद्रौप्यस्यौदुम्बरस्य च॥२६॥

फलानां चैव सर्वेषां वाससामपि नन्दिनि ।
चित्रप्रतिकृतिं चैव काष्ठस्य प्रतिमां तथा॥२७॥

शिलां प्रतिकृतिं चैव दध्नोऽथ पयसस्तथा ।
सर्पिषा दूर्वया चैव या चान्यामप्यभीप्सति॥२८॥

शिलां शिलामयीं प्रतिमां दध्यादिभिः पञ्चामृतस्नानादिना पूजयेदित्यर्थः॥२८॥

कालदेशानुरूपं च देयं विभवतः सति ।
अल्पं वा बहुलं वापि भर्तुश्छन्देन सर्वदा॥२९॥

तिलपात्रं प्रदातव्यं न देयं ननु शोभने ।
गौस्त्ववश्यं प्रदातव्या कपिला कांस्यमेव च॥३०॥

न देयं भर्तुश्छन्देन विना॥३०॥

कृष्णाजिनं च सुभगे सतिलं वाससान्वितम् ।
आदर्शश्चैव कूर्चश्च तथाजिनमनिन्दिते॥३१॥

कूर्चः मयूरपुच्छमुष्टिः कुशमुष्टिरित्यासनमित्यर्थः। अजिनम् आसनार्थं कूर्चसाहचर्यात्। कृष्णाजिनं तु प्रावरणार्थम्॥३१॥

एतद्दत्वा सर्वकामानाप्नोति वरवर्णिनि ।
पुरोऽधिका पुत्रवती सुभगा रूपभागिनी॥३२॥

पुरोऽधिका अग्रगण्याः॥३२॥

मृष्टहस्ता धनाढ्या च स्त्री भवत्यमलेक्षणा ।
इच्छया लभते चैव कन्या रूपगुणान्विताः॥३३॥

भवन्ति सुभगाश्चर्यास्तथैव च पुरोऽधिकाः ।
पुत्रवत्यो धनाढ्याश्च शीलवत्यश्च नित्यदा॥३४॥

अरुन्धति कृतं ह्येतन्मयैव प्रथमं यतः ।
उमाव्रतकमित्येव ख्यातमत्र महीतले॥३५॥

एतदेवोत्तमं स्त्रीणां व्रतं तस्मात्समाचरेत् ।
सर्वकामानवाप्नोति दत्वैवैतदनिन्दिते॥३६॥

एतद्व्रतकरो ह्येव देवदेवो वृषध्वजः ।
पुराभिषिक्तवान्सौम्ये प्रियार्थं मम सर्वकृत्॥३७॥

एतद्व्रतकरः व्रतेन क्रियत इति व्रतप्रसाद्यः। प्रियार्थं पट्टमहिषीत्वार्थम्॥३७॥

व्रतकस्यावसानेऽथ देयं भोज्यं च नित्यदा ।
स्त्रीणां कामाः प्रदेयाश्च सदृशाः कालदेशयोः॥३८॥

एकैकस्य प्रदातव्यं व्रतकं वरवर्णिनि ।
छन्दतो ब्राह्मणानां तु देयमन्नं सदक्षिणम्॥३९॥

व्रतकं व्रतोपकरणं द्रव्यं विभज्य देयमित्यर्थः॥३९॥

पायसं तत्र दातव्यं व्रतके नान्यदिष्यते ।
नात्र प्राणिवधः कार्यः पुराणे नियता श्रुतिः॥४०॥

अथ द्वितीयं वक्ष्यामि व्रतं सोमसमुद्भवे ।
महादेवप्रसादेन दृष्टवत्यस्मि यच्छुभे॥४१॥

सर्वाः पुत्रफला नार्यः सद्भिरेतदुदाहृतम् ।
तस्मादन्विष्यतीं दद्यात्सपुत्रकरकाञ्छुभे॥४२॥

अन्विष्यतीं पुत्रकामनां करकान् नासिकान्वितान् अल्पघटान् सपुत्रेति विशेषणं तदर्थिनीभिर्देयान्॥४२॥

ज्येष्ठाषाढौ शुभौ मासौ पुरोक्तं विधिमाचरेत् ।
अथवा ज्येष्ठमेवैकमाषाढं वा समाचरेत्॥४३॥

दानकालमाह- ज्येष्ठेति। पुरोक्तं गोशृङ्गसेवनादि॥४३॥

ततो मासद्वये पूर्णे मासे वा वरवर्णिनि ।
सपुत्रकरकान्दद्यात्फाणितप्रतिपूरितान्॥४४॥

फाणितं शर्करोदकं पानकाख्यम्॥४४॥

सर्पिषः पयसश्चैव दध्नोऽथ मधुनोऽनघे ।
जलस्य च तथा दद्यात्पूरयित्वा शशिप्रभे॥४५॥

सर्पिष इत्यादीनां पृथग्ग्रहणात्॥४५॥

एतस्मै ज्ञानवृद्धाय सुव्रताय जितात्मने ।
सपुत्रकरकान्दद्याद्यावन्तो मनसः प्रियाः॥४६॥

इच्छेत स्त्री दुहितरं स्त्रीणां कामकरं ततः ।
किञ्चिद्द्रव्यं सुताकामात्सुतां प्राप्नोत्यसंशयः॥४७॥

गौर्वाथ काञ्चनं वापि दक्षिणा चैव शस्यते ।
विप्रस्याच्छादनं देयमवश्यं तु शुचिस्मिते॥४८॥

यज्ञोपवीतं व्रतके दद्यान्नारी शुचिव्रता ।
सपुत्रकरकाणां तु विधिरुक्तो विपश्चिता॥४९॥

व्रतान्तरमाह- यज्ञोपवीतमिति॥४९॥

अपत्याख्यानयोगेन ब्राह्मणेभ्यः शुचिव्रता ।
संवत्सरं सुसम्पूर्णं व्रतधर्मानुपालिनी॥५०॥

अपत्याख्यानयोगेन यत्पूर्वं दानमुक्तं तत्पुत्रापत्यकामा पुन्नक्षत्रस्य पुष्पादेर्योगेन दद्यात् एवं कन्याकामा स्त्रीनक्षत्रे रोहिण्यादेर्योगे करकादि दद्यात्॥५०॥

करकानपि दद्याच्च पूर्णे संवत्सरे शुभे ।
अनुज्ञया सदा भर्तुः सत्यवादिन्यरुन्धति॥५१॥

सुवर्णसूत्रं विप्राय कौमुद्यां दातुमर्हति ।
यज्ञोपवीतं विप्रस्य व्रतं संस्थाप्य कामिकम्॥५२॥

कौमुद्यां कार्तिक्यां पौर्णमास्यां संस्थाप्य समाप्य॥५२॥

यज्ञोपवीतं करकं दक्षिणां च स्वशक्तितः ।
प्रयच्छती सती स्त्रीभ्यः सर्वान्कामान्समश्नुते॥५३॥

नवं न भक्षयेत्किञ्चिन्नारी धान्यमथो फलम् ।
पुष्पाणि नोपयुञ्जीत यावदेवं समाचरेत्॥५४॥

नारी धान्यं द्विदलं तथा फलं च द्विदलमेवेत्यर्थः॥५४॥

एकभक्तेन धर्मज्ञे पुण्यकं कर्तुमर्हति ।
ब्राह्मनाय तथा देयं भर्तुश्च तदनन्तरम्॥५५॥

एवं संवत्सरं कृत्वा सुभगा रूपशालिनी ।
भवत्यविधवा चैव स्त्री धनस्य तथेश्वरी॥५६॥

वार्ताकानि च खादेद्या स्त्री पूर्णं परिवत्सरम् ।
न सा पुत्रविनाशं हि पश्यतीत्यवगम्यताम्॥५७॥

वार्ताकानि वृन्ताकानि॥५७॥

शशकं मृगमांसं वा नित्यमेव विवर्जयेत् ।
नाप्नोति मरणं नारी प्राप्नोति पतिदेवताम्॥५८॥

मरणमल्पायुष्यम्। पतिदेवतां पातिव्रत्यम्॥५८॥

अलाबुं वर्जयेन्नारी तथैवोत्पादिकामपि ।
कलम्बीं काञ्चनं नाद्याद्या भर्तुः सुखमिच्छति॥५९॥

अलाबुं तुम्बीफलम्। उत्पादिकाम् उपोदकीं “पोई” इति प्रसिद्धाम्॥५९॥

पूर्णे संवत्सरे दद्यादेकैकं शाकमादृता ।
सदक्षिणं पुत्रवती भवत्येका पुरोऽधिका॥६०॥

स्वयं प्रक्षालयाना स्त्री स्वपादावेवमादितः ।
प्रतिष्ठां लभते नित्यमुद्वेगं नाधिगच्छति॥६१॥

प्रक्षालयाना प्रक्षालयन्ती॥६१॥

दिवा या सूर्यपूतेन वर्तयेत्स्त्री पतिव्रता ।
एकं संवत्सरं पूर्णं रात्रावन्नं विवर्जयेत्॥६२॥

व्रतान्तरमाह- दिवेति। दिनैकभोजिनी॥६२॥

सा जीवपुत्रा सुभगा भवत्यमरवर्णिनि ।
अधितिष्ठति सर्वाश्च सपत्न्यो नात्र संशयः॥६३॥

सपत्न्यः सपत्नीः। अधितिष्ठति आक्रम्य तिष्ठति॥६३॥

पूर्णे संवत्सरे दद्यात्सौवर्णं सूर्यमुत्तमम् ।
ब्राह्मणायाभिरूपाय दरिद्राय यशस्विने॥६४॥

फलानि वाथ पुष्पाणि भक्ष्याण्यपि च सुव्रता ।
दद्यादनस्तमितके चरितव्रतका तथा॥६५॥

या तथास्तमिते सूर्ये भुङ्क्ते स्त्री नियता सती ।
चन्द्रनक्षत्रपूतानि भोज्यानि वरवर्णिनि॥६६॥

व्रतान्तरमाह- या तथेति॥६६॥

सा दद्यात्काञ्चनं चन्द्रं नक्षत्राणि ग्रहानपि ।
अभिरूपाय विप्राय वासश्च लवणान्वितम्॥६७॥

चन्द्रशीतलगात्री सा भवत्यमरवर्णिनी ।
सुभगा दर्शनीया च पुत्रवत्यपि भाविनी॥६८॥

पौर्णमास्यां तु सततं प्राप्ते सोमोदयेऽङ्गना ।
अर्घं दद्यात्सुमनसां साक्षतं सकुशं तथा॥६९॥

यावकं च बलिं दद्याद्दध्ना च सह संयुतम् ।
एवं या कुरुते नित्यं सर्वान्कामानवाप्नुयात्॥७०॥

यावकं सगुढघृतं गोधूमान्नम्॥७०॥

अदृष्ट्वा या तु नाश्नाति सूर्यं नारी पतिव्रता ।
दुर्दिने वाथवा व्यभ्रे सेष्टान्कामानवाप्नुयात्॥७१॥

व्रतान्तरमाह- अदृष्ट्वेति॥७१॥

काञ्चनं शक्तितो दद्यात्सा विप्राय मनस्विनी ।
सुभगा दर्शनीया च भवत्यमरवर्णिनी॥७२॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे व्रतकथने एकोनाशीतितमोऽध्यायः॥७९॥
अङ्गनिर्वेशहेतूनि व्रतानि-०८०

भगवत्युवाच। निर्वेष्टव्यं शरीरं यैर्व्रतकैः पुण्यकैरपि ।
अरुन्धति प्रवक्ष्यामि सहैताभिर्वरेण तु॥१॥

अथाशीतितमेऽध्यायेऽस्मिन्प्रोक्तानि कामतः। अङ्गनिर्वेशहेतूनि व्रतकानि शुभान्यलम्॥१॥ निर्वेष्टव्यमिति। परसुखप्राप्तियोग्यं कर्तव्यम्॥१॥

कृष्णाष्टमीं या क्षिपति स्याद्वा मूलफलाशिनी ।
ब्राह्मनायैकमशनं स्वं दत्त्वा भर्तृदेवता॥२॥

क्षिपति उपोषणेन नयति॥२॥

शुक्लवस्त्रा शुभाचारा गुरुदैवतपूजका ।
एवं संवत्सरं कृत्वा ततो दद्याद्द्विजातये॥३॥

गोवालरज्जुसुकृतं चामरं च ध्वजं तथा ।
दक्षिणापूर्णमिष्टान्नं शक्त्या वापि शुचिव्रते॥४॥

ऊर्मिमन्तः स्वरालाग्राः श्रोणिदेशावलम्बिनः ।
तस्या भवन्ति केशास्तु भक्तिमत्या हि भर्तरि॥५॥

ऊर्मिमन्तः सर्पसर्पणतुल्याः। स्वरालाग्राः सुतरां कुटिलाग्राः॥५॥

शिरो निर्वेष्टुकामा तु गोमयेन शिरः सती ।
प्रक्षालयेन्मलं धात्र्या बिल्वेन श्रीफलेन च॥६॥

धात्र्या आमलक्या बिल्वेन श्रीफलेन समं कृत्वा तेन शिरः प्रक्षालयेत्॥६॥

गोमूत्रं च सदा प्राश्येच्छिरःस्नानं च मिश्रयेत् ।
कृष्णां चतुर्दशीं त्वेतत्कर्तव्यं वरवर्णिनि॥७॥

भवत्यविधवा चैव सुभगा विज्वरा तथा ।
शिरोरोगैर्नैव चास्याः शरीरमभितप्यते॥८॥

दर्शनीयं ललाटं या काङ्क्षति स्त्री शुचिस्मिते ।
तिथिं प्रतिपदं नित्यं सा क्षिपेदेकभोजना॥९॥

पयसा च तथाश्नीयाद्यावत्संवत्सरो गतः ।
ब्राह्मणाय ततो दद्यात्पटं रूप्यमयं शुभम्॥१०॥

ललाटं रूपसम्पन्नमाप्नोति स्त्री सुमध्यमा ।
सततं स्त्री द्वितीयायां भ्रुवोरिच्छेत्सुरूपताम्॥११॥

पयसा सहाश्नीयादोदनं पटं स्त्रीभिः शिरोदेशे बन्धनीयं रूप्यमयं स्वर्णमयम्॥११॥

अनन्तरोपवासेन शाकभक्ताशना सती ।
ततः संवत्सरे पूर्णे ब्राह्मणं स्वस्ति वाचयेत्॥१२॥

फलैः परिणतैः सौम्यैर्माषाणां दक्षिणान्वितैः ।
लवणेन च भद्रं ते घृतपात्रेण चानघे॥१३॥

माषाणां सुवर्णमाषाणाम्॥१३॥

आत्मनः शोभनौ कर्णाविच्छती स्त्री सुमध्यमा ।
नक्षत्रे श्रवणे प्राप्ते ध्रुवं भुञ्जीत यावकम्॥१४॥

ततः संवत्सरे पूर्णे कर्णौ दद्याद्धिरण्मयौ ।
घृते प्रक्षिप्य विप्राय पयसा सहिते शुभे॥१५॥

नासामिच्छेल्ललाटान्तामव्यङ्गां व्याधिवर्जिताम् ।
तिलगुल्मं सदा सिञ्चेद्यावत्पुष्पेद्धि रक्षितः॥१६॥

तिलगुल्मं तिलस्तोमम्। अनन्तरेत्यव्यवहितपूर्वदिने उपोष्येत्यर्थः। एवं यावद्धान्योत्पत्तिः कर्तव्यम्॥१६॥

अनन्तरोपवासेन सेक्तव्यः सलिलैः सदा ।
तस्मादवाप्य पुष्पाणि घृते प्रक्षिप्य दापयेत्॥१७॥

स्वक्षीभवेयमिति या स्त्री काङ्क्षत्यमृतोद्भवे ।
अनन्तरं वै भुञ्जाना पयसाथ घृतेन वा॥१८॥

ततः संवत्सरे पूर्णे पद्मपत्राणि मण्डिता ।
तथैवोत्पलपत्राणि न्यसेत्क्षीरे शुचिस्मिते॥१९॥

प्लवमानानि विप्राय ततो दद्यात्सती सति ।
कृष्णसारसमानाक्षी तद्दत्त्वा भवति स्म वै॥२०॥

इच्छेदोष्ठौ चारुरूपौ या स्त्री धर्मगुणान्विता ।
सा मृन्मयेन तु पिबेदुदकं वत्सरं सती॥२१॥

अयाचितेन भुञ्जीत नवम्यां धर्मभागिनी ।
ततः संवत्सरे पूर्णे विद्रुमं दातुमर्हति॥२२॥

तेन बिम्बफलाभौष्ठी स्त्री भवेत्येव शोभने ।
सुभगाथ वपुःपुत्रधनाढ्या गोमती तथा॥२३॥

या चारुरूपानिच्छेत दन्तानमरवर्णिनि ।
शुक्लाष्टमीं न साश्नीयाद्भक्तद्वयमनिन्दिता॥२४॥

भक्तद्वयमपि नाश्नीयादुपवसेदित्यर्थः॥२४॥

ततः संवत्सरे पूर्णे दद्याद्रौप्यमयान्सती ।
दन्तान्प्रक्षिप्य धर्मज्ञे पयस्यतिगुणोदिते॥२५॥

तेन सा जातिपुष्पाभान्दन्तान्प्राप्नोति सा सती ।
सौभाग्यमपि चाप्नोति सपुत्रत्वं तथानघे॥२६॥

सर्वमेव मुखं कान्तमिच्छेद्या रुचिरानने ।
सा पूर्णमास्यां स्नात्वा तु प्राप्य चन्द्रोदये शुभे॥२७॥

यावकं पयसा सिद्धं दत्त्वा विप्राय भामिनी ।
ततः संवत्सरे पूर्णे चन्द्रं रूप्यमयं शुभम्॥२८॥

पद्मे फुल्ले तु विन्यस्य ब्राह्मणान्स्वस्ति वाचयेत् ।
पूर्णचन्द्रमुखी तेन दानेन स्त्री शुभा भवेत्॥२९॥

स्तनाविच्छति या नारी तृणराजफलोपमौ ।
अयाचितं दशम्यां सा नित्यमश्नीत वाग्यता॥३०॥

तृणराजस्तालः॥३०॥

संवत्सरे ततः पूर्णे द्वे बिल्वे काञ्चने शुभे ।
सदक्षिणे ब्राह्मणाय प्रयच्छति धृतात्मने॥३१॥

सौभाग्यं परमाप्नोति बहुपुत्रांस्तथैव च ।
सदोन्नतौ स्तनौ सा स्त्री बिभर्त्यमरवर्णिनि॥३२॥

शातोदरत्वमिच्छन्ती क्षिपेदेकान्तभोजिनी ।
पञ्चम्यां तत्र भोक्तव्यमन्नं तोयेन नित्यदा॥३३॥

शातोदरत्वं कृशोदरत्वम्॥३३॥

ततः संवत्सरे पूर्णे दद्याज्जातिलतां शुभे ।
फुल्लां सदक्षिणां धन्ये ब्राह्मणाय धृतात्मने॥३४॥

हस्ताविच्छति या नारी रूपयुक्तौ सुमध्यमे ।
द्वादशीं सा क्षिपत्वेवं शाकैः सर्वैरनिन्दितैः॥३५॥

संवत्सरे ततः प्राप्ते रौक्मे पद्मे ददातु सा ।
ब्राह्मणायाभिरूपाय तथा पद्मद्वयं शुभम्॥३६॥

श्रोणीं विशालामन्विच्छेत्स्त्री क्षिपत्वेव सुव्रते ।
त्रयोदशीमेकभक्तमश्नात्वेवमयाचितम्॥३७॥

ततः संवत्सरे पूर्णे लवणं सम्प्रयच्छतु ।
प्रजापतिमुखाकारं कृत्वा तत्र वरानने॥३८॥

प्रजापतेश्चतुर्वक्रस्य मुखाकारं राशेश्चतुर्दिक्षु मुखाकारं कृत्वेत्यर्थः॥३८॥

काञ्चनं चैव दातव्यं तदाकारस्य सर्वदा ।
अञ्जनेन च धर्मज्ञा शनकैरवचूर्णयेत्॥३९॥

तदाकारस्य प्रजापतिमुखाकारस्य सदृशाकारम्॥३९॥

रत्नानि चैव पूर्णानि वासो रक्तं च दापयेत् ।
तेन श्रोणीमभिमतां स्त्री सौम्ये प्रतिपद्यते॥४०॥

मधुरां वाचमिच्छन्ती वर्जयेल्लवणं सती ।
संवत्सरं वा मासं वा प्रयच्छेल्लवणं ततः॥४१॥

सदक्षिणं ब्राह्मणय परं माधुर्यमिच्छती ।
शुकवाक्याच्छतगुणं भवत्यमरवर्णिनि॥४२॥

गूढगुल्फशिरौ पादाविच्छन्त्या सोमनन्दिनि ।
षष्ठ्यां षष्ठ्यां वरारोहे भोक्तव्यं सलिलौदनम्॥४३॥

अग्निर्वा ब्राह्मणो वापि न स्प्रष्टव्यः पदा सदा ।
यदा पदा स्पृशेत्तं च वन्देत तपसान्विते॥४४॥

पादेन न च वै पादं प्रक्षालयितुमर्हति ।
एतैर्नित्यव्रतैर्युक्ता धर्मज्ञा पतिदेवता॥४५॥

कूर्मौ रूप्यमयौ दद्याद्ब्राह्मणाय पतिव्रते ।
तौ वराय ब्राह्मणाय स्थापयित्वा घृतेऽनघे॥४६॥

पद्मे चाधोमुखे कृत्वा दद्याद्विप्राय नन्दिनी ।
रक्तैर्द्रव्यैर्मिश्रयित्वा काञ्चनेनाभ्यलङ्कृते॥४७॥

सर्वमेव तु या गात्रमिच्छत्यतिमनोहरम् ।
त्रिरात्रं पुष्पकाले सा करोतु पतिदेवता॥४८॥

कौमुद्यामथवा षष्ठ्यां माध्यां चाश्वयुजे तथा ।
मातरं पितरं चैव मन्यते तिथिदैवतम्॥४९॥

घृतं च नित्यं विप्रेभ्यो ददातु लवणं तथा ।
संमार्जनं गृहे चैव करोतु पतिदेवता॥५०॥

उपलेपनं च धर्मज्ञे बलिकर्म च मानिनि ।
वाग्दुष्टा चैव मा शुभ्रे भवत्वात्मार्थपण्डिता॥५१॥

मा भवत्वित्यन्वयः॥५१॥

पर्यश्नातु च सा कञ्चिदपि दासं यशस्विनि ।
बलिं सृजत्वतथ्यं च परित्यजतु भामिनि॥५२॥

पर्यश्नातु उपवसतु अतथ्यमनृतम्॥५२॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे व्रतकथनेऽशीतितमोऽध्यायः॥८०॥
उमाव्रतकथनसमाप्तिः-०८१

उमोवाच। बान्धवान्सगुणानिच्छेदेकभक्तेन नित्यदा ।
सप्तमीं सप्तमीं नित्यं क्षपेत्स्त्री पतिदेवता॥१॥

एकाशीतितमेऽध्याये सौष्ठवं स्वजनस्य च। भवेद्यैर्यैर्व्रतैर्यद्यत्तत्तत्स्पष्टं निरूप्यते॥१॥ बान्धवानिति॥१॥

ततः संवत्सरे पूर्णे वृक्षं दद्याद्धिरण्मयम् ।
सदक्षिणं ब्राह्मणाय शुभबन्धुमती भवेत्॥२॥

करञ्जे दीपकं दद्यात्सदा या प्रमदा वरे ।
पूर्णे संवत्सरे दद्यात्सौवर्णं दीपकं ततः॥३॥

रुच्या सा स्त्री भवेद्भर्तुरिष्टा पुत्रवती तथा ।
सपत्नीनामधि तथा दीपवज्ज्वलते शुभे॥४॥

या शेषभोजिनी नित्यं नैव च स्यादरुन्तुदा ।
न च स्याद्व्यशना सौम्ये नित्यं च पतिदेवता॥५॥

व्यशना अन्नवर्जिता सौम्ये हे अरुन्धति॥५॥

शौचान्विता च सततं न च रूक्षाभिभाषिणी ।
श्वश्रूश्वशुरयोर्नित्यं शुश्रूषाभिरता सती॥६॥

किं तस्या व्रतकैः कार्यं किं वा स्यादुपवासकैः ।
या भर्तृदेवता नित्यं सत्यधर्मगुणान्विता॥७॥

विधवा स्त्री तु या हि स्याद्दैवयोगात्सती सति ।
तस्या वक्ष्यामि यो धर्मः पुराणोक्तः सुमध्यमे॥८॥

पतिं सङ्कल्पयित्वा सा चित्रस्थं वाथ मृन्मयम् ।
तस्य पूजां सदा कुर्यात्सतां धर्ममनुस्मरेत्॥९॥

तत एवाभ्यनुज्ञां सा नित्यं याचेत सुव्रता ।
व्रतके चोपवासे च भोजने च विशेषतः॥१०॥

भर्तृलोकान्व्रजत्येव न चेद्व्युच्चरते पतिम् ।
शाण्डिली सूर्यवद्भाति सततं पतिदेवता॥११॥

अद्यप्रभृति सर्वेषां देवानां चैव योषितः ।
द्रक्ष्यन्ति पुण्यकविधिं पौराणो यः सनातनः॥१२॥

मुनिश्च नारदः कृत्स्नं पौराणं ज्ञास्यते विधिम् ।
उपवासस्य धर्मात्मा व्रतकानां तथैव च॥१३॥

अदितिस्तपसेन्द्राणी त्वं च सोमसुते वरे ।
प्रवर्तने पुण्यकानां व्रतकानां च सर्वदा॥१४॥

कीर्तनीयाः सतीनां हि भविष्यथ गुणान्विताः ।
उपवासव्रतविधिं यथावदिह कृत्स्नशः॥१५॥

प्रादुर्भावेषु सर्वेषु भार्या विष्णोर्महात्मनः ।
ज्ञास्यन्ति पुण्यकविधिं नित्यमेव सनातनम्॥१६॥

सविशेषं च धर्माणां स्त्रीधर्मेषु प्रशस्यते ।
पतिभक्तिरदुष्टत्वमवाग्दुष्टत्वमेव च॥१७॥

नारद उवाच एवमुक्तास्तु ताः साध्व्यो महादेव्या तपोधनाः ।
जग्मुर्हृष्टा महादेवीं प्रणिपत्य हरप्रियाम्॥१८॥

अदितिर्व्रतकं चक्रे शृणुयाद्धर्मचारिणी ।
उमाव्रतविधिः सर्वः पूर्वोद्दिष्टस्तया कृतः॥१९॥

पारिजाते निबध्याथ मम दत्तस्तु कश्यपः ।
अदितिव्रतकं नाम तद्दत्तं सत्यभामया॥२०॥

तदेव व्रतकं दत्तं सावित्र्या धर्मनित्यया ।
तैरेव युक्तैः संयुक्तमिदं त्वभ्यधिकं कृतम्॥२१॥

युक्तैः उचितसाधनैः॥२१॥

सन्ध्याकाले तु सम्प्राप्ते स्थाने स्थाने तथैव च ।
पूजनं वा नमस्कारो जपश्च द्विगुणः स्मृतः॥२२॥

सावित्रीव्रतकं कृत्वा तथादित्या व्रतं सती ।
भर्तुः कुलं पितृकुलमात्मानं चैव तारयेत्॥२३॥

इन्द्राणी व्रतकं चक्रे तदेवौमं यथाविधि ।
रक्तमभ्यधिकं वासो भोजनं चैव सामिषम्॥२४॥

चतुर्थे दिवसे वापि पुण्यकार्थं विधिः पुनः ।
अहोरात्रोपवासश्च देयं कुम्भशतं तथा॥२५॥

गङ्गया व्रतकं दत्तं तदेवौमं यशस्करि ।
स्नानमभ्यधिकं त्वत्र प्रत्यूषस्यात्मनो जले॥२६॥

आत्मनो गङ्गायाः जले स्वयमाहृते स्वयमुपगते वा॥२६॥

अन्यस्मिन्वा जले माघशुक्लपक्षे हरिप्रिये ।
एतद्गङ्गाव्रतं नाम सर्वकामप्रदं स्मृतम्॥२७॥

सप्त सप्त च सप्ताथ कुलानि हरिवल्लभे ।
स्त्री तारयति धर्मज्ञा गङ्गाव्रतकचारिणी॥२८॥

देयं कुम्भसहस्रं तु गङ्गाया व्रतके शुभे ।
तारणं पारणं चैव तद्व्रतं सार्वकामिकम्॥२९॥

तारणं दुःखानां पारणं मनोरथानाम्॥२९॥

यमभार्या चकाराथ व्रतं यामरथं शुभम् ।
हेमन्ते तत्तु कर्तव्यमाकाशे हरिवल्लभे॥३०॥

यामरथं नामतः आकाशे अनाच्छादिते देशे॥३०॥

इमानि चैव वाक्यानि ब्रूयादाकाशमास्थिता ।
स्नात्वा शुचिसमाचारा नमस्कृत्य पतिं शुभे॥३१॥

चराम्यहं यामरथं हिमं पृष्ठेन धारये ।
पतिव्रता जीवपुत्रा भवेयं च पुरोऽधिका॥३२॥

धारये धारयन्ती॥३२॥

सपत्नीरधितिष्ठेयं पश्येयं चैव मा यमम् ।
सभर्तृपुत्रा जीवेयं चिरं च सुखमेव च॥३३॥

पतिलोकं च गच्छेयं भवेयं नन्दिनी तथा ।
सुचैला मृष्टहस्ता च स्वजनेष्टा गुणान्विता॥३४॥

मृष्टहस्ता विशुद्धकरा॥३४॥

एवं कृत्वा ततो विप्रं मधुना स्वस्ति वाचयेत् ।
तिलैरपि तथा कृष्णैः पायसेन तु भोजयेत्॥३५॥

मधुना मधुरसेन॥३५॥

एवं व्रतानि देवीभिः कृतान्यमरवर्णिनि ।
महादेव्या पुरोक्तानि रुद्रपत्न्या हरिप्रिये॥३६॥

अहं ब्रवीमि तपसा मदीयेन समन्विता ।
सर्वा द्रक्ष्यथ गुण्यानि व्रतकानि तथैव च॥३७॥

तपसा मत्तपोबलेनातीन्द्रियमपि पुण्यफलं द्रक्ष्यथ॥३७॥

पौराणान्युमया देव्या यानि दृष्टानि वै पुरा ।
कल्याणगुणयुक्तानि पावनानि शुभानि च॥३८॥

वैशम्पायन उवाच। रुक्मिणी व्रतकं चक्रे दृष्ट्वा व्रतकविस्तरम् ।
उमाया वरदानेन दृष्ट्वा दिव्येन चक्षुषा॥३९॥

उमाव्रतेषु सर्वेषु वृषदानं तथाधिकम् ।
रत्नमालाप्रदानं च यथान्नं सार्वकामिकम्॥४०॥

तथा जाम्बवती चक्रे पुरोमाव्रतकं यथा ।
ददावभ्यधिकं सा तु रत्नवृक्षं मनोहरम्॥४१॥

सत्या ददौ तथैवाथ पुरोमाव्रतकं तथा ।
पीतमभ्यधिकं वासस्तया दत्तमुमाव्रते॥४२॥

रोहिण्याथ च फाल्गुन्या मघया च पुरातने ।
व्रतानि खलु दत्तनि बहूनि कुलवर्धने॥४३॥

ददौ शतभिषा चैव व्रतकं पुण्यलक्षणम् ।
येन नक्षत्रमुख्यत्वं जगाम कुरुनन्दन॥४४॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि पारिजातहरणे उमाव्रतकथनसमाप्तौ पारिजातहरणकथनसमाप्तौ चैकाशीतितमोऽध्यायः॥८१॥
षट्पुरवधः--०८२

जनमेजय उवाच। वैशम्पायन धर्मज्ञ व्यासशिष्य तपोधन ।
पारिजातस्य हरणे षट्पुरं परिकीर्तितम्॥१॥

द्व्यधिकेऽत्राशीतितमे ह्यध्याये वर्ण्यते ततः। षट्पुरस्थनिकुम्भस्य वधोपक्रमविस्तरः॥१॥ अथ उत्तरार्धकथा निरूप्यते- वैशम्पायनेति॥१॥

निवासोऽसुरमुख्यानां दारुणानां तपोधन ।
तेषां वधं मुनिश्रेष्ठ कीर्तयस्वान्धकस्य च॥२॥

वैशम्प्यन उवाच। त्रिपुरे निहते वीरे रुद्रेणाक्लिष्टकर्मणा ।
तत्र प्रधाना बहवो बभूवुरसुरोत्तमाः॥३॥

शराग्निना न दग्धास्ते रुद्रेण त्रिपुरालयाः ।
षष्ठिः शतसहस्राणि न न्यूनान्यधिकानि च॥४॥

ते ज्ञातिवधसन्तप्ताश्चक्रुर्वीराः पुरा तपः ।
जम्बूमार्गे सतामिष्टे महर्षिगणसेविते॥५॥

आदित्याभिमुखा वीराः सहस्राणां शतं समाः ।
वायुभक्षा नृपश्रेष्ठ स्तुवन्तः पद्मसम्भवम्॥६॥

तेषामुदुम्बरं राजन्गण एकः समाश्रितः ।
वृक्षं तत्रावसन्वीरास्ते कुर्वन्तो महत्तपः॥७॥

कपित्थवृक्षमाश्रित्य केचित्तत्रोषिताः पुरा ।
सृगालवाटीस्त्वपरे चेरुरुग्रं तथा तपः॥८॥

सृगालोऽपि वृक्षविशेषः साहचर्यात्॥८॥

वटमूले तथा चेरुस्तपः कौरवनन्दन ।
अधीयन्तो परं ब्रह्म वटं गत्वासुरात्मजाः॥९॥

तेषां तुष्टः प्रजाकर्ता नरदेवपितामहः ।
वरं दातुं सुरश्रेष्ठः प्राप्तो धर्मभृतां वरः॥१०॥

वरं वरयतेत्युक्तास्ते राजन्पद्मयोनिना ।
नेषुस्तद्वरदानं तु द्विषन्तस्त्र्यम्बकं विभुम्॥११॥

तेन असुराः तेषु नाङ्गीकृतवन्तः॥११॥

इच्छन्तोऽपचितिं गन्तुं ज्ञानिनां कुरुनन्दन ।
तानुवाच ततो ब्रह्मा सर्वज्ञः कुरुनन्दन॥१२॥

विश्वस्य जगतः कर्तुः संहर्तुश्च महात्मनः ।
कः शक्तोऽपचितिं गन्तुं मास्तु वोऽत्र वृथा श्रमः॥१३॥

अपचितिं रुद्रद्रोहेण आनृण्यम्॥१३॥

अनादिमध्यनिधनः सोमो देवो महेश्वरः ।
तमासूय सुखं स्वर्गे वस्तुमिच्छन्ति येऽसुराः॥१४॥

आसूय प्रतिगर्जित्वा॥१४॥

ते नेषुस्तत्र केचित्तु दुरात्मानो महासुराः ।
अथेषुरपरे राजन्नसुरा भव्यभावनाः॥१५॥

नेषुः ब्रह्मोक्तं भव्यभावनाः दीर्घदर्शनाः भवमहिमाभिज्ञा वा॥१५॥

नेषुर्ये सुदुरात्मानस्तानुवाच पितामहः ।
वरयध्वं वरं वीरा रुद्रक्रोधमृतेऽसुराः॥१६॥

रुद्रक्रोधं रुद्रक्रोधनम् ऋते विना॥१६॥

ते ऊचुः सर्वदेवानामवध्याः स्याम हे विभो ।
पुराणि षट् च नो देव भवन्त्वन्तर्महीतले॥१७॥

सर्वकामसमृद्धार्थं षट्पुरं चास्तु नः प्रभो ।
वयं च षट्पुरं गत्वा वसेम च सुखं विभो॥१८॥

रुद्रादुग्रं भयं न स्याद्येन नो ज्ञातयो हताः ।
निहतं त्रिपुरं दृष्ट्वा भीताः स्म तपसां निधे॥१९॥

पितामह उवाच। असुरा भवतावध्या देवानां शङ्करस्य च ।
न बाधिष्यथ चेद्विप्रान्सत्पथस्थान्सतां प्रियान्॥२०॥

विप्रोपघातं मोहाच्चेत्करिष्यथ कथञ्चन ।
नाशं यास्यथ विप्रा हि जगतः परमा गतिः॥२१॥

नारायनाद्विभेतव्यं कुर्वद्भिर्ब्राह्मणाहितम् ।
सर्वभूतेषु भगवान्हितं धत्ते जनार्दनः॥२२॥

ते गता असुरा राजन्ब्रह्मणा ये विसर्जिताः ।
येऽपि भक्ता महादेवमसुरा धर्मचारिणः॥२३॥

भव्यभावना इति यदुक्तं तदेव स्पष्टयति- येऽपि भक्ता इति। अपिशब्दस्तुशब्दार्थे॥२३॥

स्वयं हि दर्शनं तेषां ददौ त्रिपुरनाशनः ।
श्वेतं वृषभमारुह्य सोमः सप्रवरः प्रभुः ।
उवाचेदं च भगवानसुरान्स सतां गतिः॥२४॥

वैरमुत्सृज्य दम्भं च हिंसां चासुरसत्तमाः ।
मामेव चाश्रितास्तस्माद्वरं साधु ददामि वः॥२५॥

यैर्दीक्षिताः स्थ मुनिभिः सत्क्रियापरमैर्द्विजैः ।
सह तैर्गम्यतां स्वर्गः प्रीतोऽहं वः सुकर्मणा॥२६॥

इह ये चैव वत्स्यन्ति तापसा ब्रह्मवादिनः ।
अपि कापित्थिका वृक्षे तेषां लोको यथा मम॥२७॥

कापित्थिका कपित्थं तस्य वृक्षे॥२७॥

इह मासान्तपक्षान्तौ यः करिष्यति मानवः ।
वानप्रस्थेन विधिना पूजयन्मां तपोधनः॥२८॥

मासान्तपक्षान्तौ अमापूर्णिमे॥२८॥

वर्षाणां स सहस्रं तु तपसां प्राप्स्यते फलम् ।
कृत्वा विरात्रं विधिवल्लप्स्यते चेप्सितां गतिम्॥२९॥

अर्कद्वीपे निवसतो द्विगुणं तद्भविष्यति ।
न विदेशे च भद्रं वो वरमेतद्ददाम्यहम्॥३०॥

न च विदेशे विदूरे देशे वा निवसतः॥३०॥

श्वेतवाहननामानं यश्च मां पूजयिष्यति ।
सर्वतो भयचित्तोऽपि गतिं स मम यास्यति॥३१॥

औदुम्बरान्वाटमूलान्द्विजान्कापित्थिकानपि ।
तथा सृगालवाटीयान्धर्मात्मानो दृढव्रतान्॥३२॥

औदुम्बरानित्यादि तत्तत्स्थाननिवासिसंज्ञाः धर्मात्मानः॥३२॥

मुनींश्च ब्रह्मवादीयान्सविशेषेण ये नराः ।
पूजयिष्यन्ति सततं ते यास्यन्तीप्सितां गतिम्॥३३॥

इत्युक्त्वाथ महादेवो भगवाञ्छ्वेतवाहनः ।
तैरेव सहितः सर्वे रुद्रलोकं जगाम वै॥३४॥

तैरसुरैः॥३४॥

जम्बूमार्गं गमिष्यामि जम्बूमार्गे वसाम्यहम् ।
एवं सङ्कल्पमानोऽपि रुद्रलोके महीयते॥३५॥

॥उत्तरार्धम्॥॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि षट्पुरवधे द्व्यशीतितमोऽध्यायः॥८२॥
यशविस्तरो दुष्टनिग्रहश्च-०८३

वैशम्पायन उवाच। एतस्मिन्नेव काले तु चतुर्वेदषडङ्गवित् ।
ब्राह्मणो याज्ञवल्क्यस्य शिष्यो धर्मगुणान्वितः॥१॥

त्र्यधिकेऽथाशीतितमेऽत्राध्याये यज्ञविस्तरः। वर्ण्यते ब्रह्मदत्तस्य तत्र दुष्टविनिग्रहः॥१॥ एतस्मिन्निति॥१॥

ब्रह्मदत्तेति विख्यातो विप्रो वाजसनेयिवान् ।
अश्वमेधः कृतस्तेन वसुदेवस्य धीमतः॥२॥

ब्रह्मदत्तेत्यत्र सन्धिरार्षः। कारितः सम्पादित इत्यर्थः॥२॥

स संवत्सरदीक्षायां दीक्षितः षट्पुरालयः ।
आवर्तायाः शुभे तीरे सुनद्या मुनिजुष्टया॥३॥

सखा च वसुदेवस्य सहाध्यायी द्विजोत्तमः ।
उपाध्यायश्च कौरव्य क्षीरहोता महात्मनः॥४॥

क्षीरहोताऽध्वर्युः॥४॥

वसुदेवस्तत्र यातो देवक्या सहितः प्रभो ।
याजमान्ये षट्पुरस्थं यथा शक्रो बृहस्पतिम्॥५॥

तत्सत्रं ब्रह्मदत्तस्य बह्वन्नं बहुदक्षिणम् ।
उपासन्ति मुनिश्रेष्ठा महात्मानो दृढव्रताः॥६॥

उपासन्ति सेवन्ते॥६॥

व्यासोऽहं याज्ञवल्क्यश्च सुमन्तुर्जैमिनिस्तथा ।
धृतिमाञ्जाबलिश्चैव देवलाद्याश्च भारत॥७॥

ऋद्ध्यानुरूपया युक्तं वसुदेवस्य धीमतः ।
यत्रेप्सितान्ददौ कामान्देवकी धर्मचारिणी॥८॥

ददौ समागतेभ्यः॥८॥

वासुदेवप्रभावेण जगत्स्रष्टुर्महीतले ।
तस्मिन्सत्रे वर्तमाने दैत्याः षट्पुरवासिनः॥९॥

निकुम्भाद्याः समागम्य तमूचुर्वरदर्पिताः ।
कार्यतां यज्ञभागो नः सोमं पास्यामहे वयम् ।
कन्याश्च ब्रह्मदत्तो नो यजमानः प्रयच्छतु॥१०॥

बह्व्यः सन्त्यस्य कन्याश्च रूपवत्यो महातमनः ।
आहूय ताः प्रदातव्याः सर्वथैव हि नः श्रुतम्॥११॥

रत्नानि च ब्रह्मदत्तो विशिष्टानि ददातु नः ।
अन्यथा तु न यष्टव्यं वयमाज्ञापयामहे॥१२॥

एतच्छ्रुत्वा ब्रह्मदत्तस्तानुवाच महासुरान् ।
यज्ञभागो न विहितः पुराणेऽसुरसत्तमाः॥१३॥

पुराणशब्देनात्र वेदोऽभिधीयते तस्मिन्॥१३॥

कथं सत्रे सोमपानं शक्यं दातुं मया हि वः ।
पृच्छतेह मुनिश्रेष्ठान्वेदभाष्यार्थकोविदान्॥१४॥

कन्या हि मम या देयास्ताश्च सङ्कल्पिता मया ।
अन्तर्वेद्यां प्रदातव्याः सदृशानामसंशयम्॥१५॥

रत्नानि तु प्रयच्छामि सान्त्वेनाहं विचिन्त्यताम् ।
बलान्नैव प्रदास्यामि देवकीपुत्रमाश्रितः॥१६॥

निकुम्भाद्यास्तु रुषिताः पापाः षट्पुरवासिनः ।
यज्ञवाटं विलुलुठुर्जह्रुः कन्याश्च तास्तथा॥१७॥

तद्दृष्ट्वा सम्प्रवृत्तं तु दध्यावानकदुन्दुभिः ।
वासुदेवं महात्मानं बलभद्रं गदं तथा॥१८॥

तत् यज्ञवाटलुण्ठनम्॥१८॥

विदितार्थस्ततः कृष्णः प्रद्युम्नमिदमब्रवीत् ।
गच्छ कन्यापरित्राणं कुरु पुत्राशु मायया॥१९॥

यावद्यादवसैन्येन षट्पुरं याम्यहं प्रभो ।
स ययौ षट्पुरं वीरः पितुराज्ञाकरस्तदा॥२०॥

प्रभो इति सम्बोधनम्। कन्यागोप्तृत्वं सम्भावयति॥२०॥

निमेषान्तरमात्रेण गत्वा कामो महाबलः ।
कन्यास्ता मायया धीमानुपजह्रे महाबलः॥२१॥

मायामयीश्च कृत्वाऽन्या न्यस्तवान्रुक्मिणीसुतः ।
मा भैरिति च धर्मात्मा देवकीमुक्तवांस्तदा॥२२॥

मायामयीस्ततो हृत्वा सुता ह्यस्य दुरासदाः ।
षट्पुरं विविशुर्दैत्याः परितुष्टा नराधिप॥२३॥

सुता ब्रह्मदत्तस्य पारम्पर्यतो दुरासदाः॥२३॥

कर्म चासार्यते तत्र विधिदृष्टेण कर्मणा ।
यद्विशिष्टं बहुगुणं तदभूच्च नराधिप॥२४॥

कर्म सत्राख्यम् आसार्यते प्रसार्यते विधीयत इत्यर्थः॥२४॥

एतस्मिन्नन्तरे प्राप्ता राजानस्तत्र भारत ।
सत्रे निमन्त्रिताः पूर्वं ब्रह्मदत्तेन धीमता॥२५॥

जरासन्धो दन्तवक्त्रः शिशुपालस्तथैव च ।
पाण्डवाः धार्तराष्ट्राश्च मालवाः सगणास्तथा॥२६॥

रुक्मी चैवाह्वृतिश्चैव नीलो वा धर्म एव च ।
विन्दानुविन्दावावन्त्यौ शल्यः शकुनिरेव च॥२७॥

राजानश्चापरे वीरा महात्मानो दृढायुधाः ।
आवासिता नातिदूरे षट्पुरस्य च भारत॥२८॥

तान्दृष्ट्वा नारदः श्रीमानचिन्तयदनिन्दितः ।
क्षत्त्रस्य यादवानां च भविष्यति समागमः॥२९॥

अत्र हेतुरहं युद्धे तस्मात्तत्प्रयताम्यहम् ।
एवं सञ्चिन्तयित्वाथ निकुम्भभवनं गतः॥३०॥

पूजितः स निकुम्भेन दानवैश्च तथापरैः ।
उपविष्टः स धर्मात्मा निकुम्भमिदमब्रवीत्॥३१॥

कथं विरोधं यदुभिः कृत्वा स्वस्थैरिहास्यते ।
यो ब्रह्मदत्तः स हरिः स हि तस्य विभुः सखा॥३२॥

विभुः स्वामी सखा मित्रं च। पितुः सखा इति पाठान्तरम्॥३२॥

शतानि पाञ्च भार्याणां ब्रह्मदत्तस्य धीमतः ।
आनीता वसुदेवस्य सुतस्य प्रियकाम्यया॥३३॥

आनीतेति डाजन्तम्। आनीता इत्यर्थः। प्रियकाम्यया तदाराधनेन निमित्तभूतेन॥३३॥

शतद्वयं ब्राह्मणीनां राजन्यानां शतं तथा ।
वैश्यानां शतमेकं च शूद्राणां शतमेव च॥३४॥

ताभिः शुश्रूषितो धीमान्दुर्वास धर्मवित्तमः ।
तेन तासां वरो दत्तो मुनिना पुण्यकर्मणा॥३५॥

एकैकस्तनयो राजन्नेकैका दुहिता तथा ।
रूपेणानुपमाः सर्वा वरदानेन धीमतः॥३६॥

कन्या भवन्ति तनयास्तस्यासुर पुनः पुनः ।
सङ्गमे सङ्गमे वीर भर्तृभिः शयने सह॥३७॥

कन्याः कमनीयाः कुमार्यः। सङ्गमे सङ्गमे प्रतिसङ्गमम्॥३७॥

सर्वपुष्पमयं गन्धं प्रस्रवन्ति वराङ्गनाः ।
सर्वदा यौवने न्यस्ताः सर्वाश्चैव पतिव्रताः॥३८॥

सर्वा गुणैरप्सरसां गीतनृत्यगुणोदयम् ।
जानन्ति सर्वा दैतेय वरदानेन धीमतः॥३९॥

सर्वा अप्सरसां गुणैर्युक्ता अत एव सर्वा गीतादि जानन्तीति वाक्यभेदः॥३९॥

पुत्राश्च रूपसम्पन्नाः शास्त्रार्थकुशलास्तथा ।
स्वे स्वे स्थिता वर्णधर्मे यथावदनुपूर्वशः॥४०॥

ताः कन्या भैममुख्यानां दत्ताः प्राणेन धीमता ।
अवशेषं शतं त्वेकं यदानीतं किल त्वया॥४१॥

तदर्थे यादवान्वीर योधयिष्यसि सर्वथा ।
सहायार्थं तु राजानो ध्रियन्तां हेतुपूर्वकम्॥४२॥

ब्रह्मदत्तसुतार्थं च रत्नानि विविधानि च ।
दीयन्तां भूमिपालानां सहायार्थं महात्मनाम्॥४३॥

आतिथ्यं क्रियतां चैव ये समेष्यन्ति वै नृपाः ।
एवमुक्ते तथा चक्रुरसुरास्तेऽतिहृष्टवत्॥४४॥

लब्ध्वा पञ्चशतं कन्या रत्नानि विविधानि च ।
यथार्हेण नरेन्द्रैस्ता विभक्ता भक्तवत्सलाः॥४५॥

ऋते पाण्डुसुतान्वीरान्वारिता नारदेन ते ।
निमेषान्तरमात्रेण तत्र गत्वा महात्मना॥४६॥

तुष्टैस्तैरसुरा ह्युक्ता राजन्भूमिपसत्तमैः ।
सर्वकामसमृद्धार्थैर्भवद्भिः खगमैः स्वयम्॥४७॥

अर्चिताः स्म यथान्यायं क्षत्रं किं वः प्रयच्छतु ।
क्षत्रं चार्चितपूर्वं हि दिव्यैर्वीरैर्भवद्विधैः॥४८॥

निकुम्भोऽथाब्रवीद्धृष्टः क्षत्रं सुररिपुस्तदा ।
अनुवर्णयित्वा क्षत्रस्य माहात्म्यं सत्यमेव च॥४९॥

युद्धं नो रिपुभिः सार्धं भविष्यति नृपोत्तमाः ।
साहाय्यं दातुमिच्छामो भवद्भिस्तत्र सर्वथा॥५०॥

एवमस्त्विति तानूचुः क्षत्रियाः क्षीणकिल्बिषाः ।
पाण्डवेयानृते वीराञ्छ्रुतार्थान्नारदाद्विभो॥५१॥

क्षत्रियाः सन्निविष्टास्ते युद्धार्थं कुरुनन्दन ।
पत्न्यस्तु ब्रह्मदत्तस्य यज्ञवाटं गता अपि॥५२॥

कृष्णोऽपि सेनया सार्धं प्रययौ षट्पुरं विभुः ।
महादेवस्य वचनमुद्वहन्मनसा नृप॥५३॥

स्थापयित्वा द्वारवत्यामाहुकं पार्थिवं तदा ।
स तया सेनया सार्धं पौराणां हितकाम्यया॥५४॥

यज्ञवाटस्याविदूरे देवो निविविशे विभुः ।
देशे प्रवरकल्याणे वसुदेवप्रचोदितः॥५५॥

दत्तगुल्माप्रतिसरं कृत्वा तं विधिवत्प्रभुः ।
प्रद्युम्नमटने श्रीमान्रक्षार्थं विनियुज्य च॥५६॥

तं स्कन्धावारं दत्तगुल्माप्रतिसरं दत्तैर्वृत्त्यर्थं स्थापिर्तर्गुल्मैर्न प्रतिसरः अनिष्टमार्गो यस्मिंस्तम्। अटने रक्षार्थं परिभ्रमणे॥५६॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि षट्पुरवधे कृष्णस्य षट्पुरगमने त्र्यशीतितमोऽध्यायः॥८३॥
अनिरुद्धविक्रमः राज्ञां बन्धनं च-०८४

वैशम्पायन उवाच। मुहूर्ताभ्युदिते सूर्ये जनचक्षुषि निर्मले ।
बलः कृष्णः सात्यकिश्च तार्क्ष्यमारुरुहुस्तदा॥१॥

चतुर्भिरधिकेऽशीतितमे कामस्य विक्रमः। राजा बद्ध्वा रिपूञ्जित्वा कन्यास्त्वानीय आगतः॥ मुहूर्तेति॥१॥

बद्धगोधाङ्गुलित्राणा दंशिता युद्धकाङ्क्षिणः ।
बिल्वोदकेश्वरं देवं नमस्कृत्य सुरोत्तमम्॥२॥

आवर्तया जले स्नात्वा रुद्रेण वरदत्तया ।
गङ्गायाः कुरुशार्दूल रुद्रवाक्येन पुण्यया॥३॥

तृतीया षष्ठ्यर्थे॥३॥

प्रद्युम्नमग्रे सैन्यस्य वियति स्थ्पाय मानदः ।
रक्षार्थं यज्ञवाटस्य पाण्डवान्विनियुज्य च॥४॥

वियति उपरिभागे॥४॥

शेषां सेनां गुहाद्वारि भगवान्विनियुज्य च ।
जयन्तमथ सस्मार प्रवरं च सतां गतिः॥५॥

तावापेततुरेवाथ स्वयं चापश्यतां तथा ।
वियत्येव नियुक्तौ तौ प्रद्युम्न इव भारत॥६॥

ततः कृष्णस्य वचनादाहतो रणदुन्दुभिः ।
जलजा मुरजाश्चैव वाद्यान्येवापराणि च॥७॥

मकरो रचितो व्यूहः साम्बेन च गदेन च ।
सारणश्चोद्धवश्चैव भोजो वैतरणस्तथा॥८॥

अनाधृष्टिश्च धर्मात्मा पृथुर्विपृथुरेव च ।
कृतवर्मा च दंष्ट्रश्च निचक्षुररिमर्दनः॥९॥

निचक्षुर्यादवः॥९॥

सनत्कुमारो धर्मात्मा चारुदेष्णश्च भारत ।
अनिरुद्धसहायौ तौ पृष्ठानीकं ररक्षतुः॥१०॥

सनत्कुमारोऽपि यादवः॥१०॥

शेषा यादवसेना तु व्यूहमध्ये व्यवस्थिता ।
रथैरश्वैर्नरैर्नागैराकुला कुलवर्धन॥११॥

षट्पुरादपि निष्क्रान्ता दानवा युद्धदुर्मदाः ।
आरुह्य मेघनादांश्च गर्दभानपि हस्तिनः॥१२॥

मेघानामिव नादो येषां तान्॥१२॥

मकराञ्छिशुमारांश्च द्रुतानपि च भारत ।
महिषानपि खड्गांश्च उष्ट्रानपि च कच्छपान्॥१३॥

द्रुतान् जविनः॥१३॥

एतैरेव रथैर्युक्ता विविधायुधपाणयः ।
किरीटापीडमुकुटैरङ्गदैरपि मण्डिताः॥१४॥

नानर्दमानैर्विविधैस्तूर्यैर्नेमिस्वनाकुलैः ।
प्रध्मायमानैः शङ्खैश्च महाम्बुदसमस्वनैः॥१५॥

तासामसुरसेनानामुद्यतानां जनेश्वर ।
निकुम्भो निर्ययावग्रे देवानामिव वासवः॥१६॥

भूमिं द्यां च ववृधिरे दानवास्ते बलोत्कटाः ।
नदन्तो विविधान्नादान्क्ष्वेडन्तश्च पुनः पुनः॥१७॥

भूमिं द्यां च पूरयित्वेति शेषः॥१७॥

राजसेनापि संयत्ता चेदिराजपुरोगमा ।
असुराणां सहायार्थं निश्चिता जनमेजय॥१८॥

दुर्योधनं भ्रातृशतं चेदिराजानुजाग्रगम् ।
स्थितं रथैर्नरव्याघ्र गन्धर्वनगरोपमैः॥१९॥

चेदिराजः शिशुपालस्तदनुजेभ्योऽग्रगम्॥१९॥

कठिना नादिनो वीरा द्रुपदस्यन्दनास्तथा ।
रुक्मी चैवाह्वृतिश्चैव तस्थतुर्निश्चितौ रणे ।
तालवृक्षप्रतीकाशे धुन्वानौ धनुषी शुभे॥२०॥

शल्यश्च शकुनिश्चोभौ भगदत्तश्च पार्थिवः ।
जरासन्धस्त्रिगर्तश्च विराटश्च सहोत्तरः॥२१॥

युद्धार्थमुद्यता वीरा निकुम्भाद्या जयैषिणः ।
युयुत्समाना यदुभिर्देवैरिव महासुराः॥२२॥

निकुम्भ आद्यः प्रधानः येषां ते॥२२॥

ततो निकुम्भः समरे शरैराशीविषोपमैः ।
ममर्द समरे सेनां भैमानां भीमदर्शनाम्॥२३॥

भैमानां यदूनाम्॥२३॥

सेनापतिरनाधृष्टिर्ममृषे तत्र यादवः ।
ममर्द घोरैर्बाणौघैश्चित्रपुङ्खैः शिलाशितैः॥२४॥

न रथोऽसुरमुख्यस्य ददृशे न च वाजिनः ।
न ध्वजो न निकुम्भस्तु सर्वे बाणाभिसंवृताः॥२५॥

स परीत्य ततो वीरो निकुम्भो मायिनां वरः ।
अस्तम्भयदनाधृष्टिं मायया भैमसत्तमम्॥२६॥

स्तम्भयित्वानयद्वीरं गुहां षट्पुरसंज्ञिताम् ।
रुद्ध्वा चाभ्यगमद्वीरो मायाबलमुपाश्रितः॥२७॥

पुनरेव निकुम्भस्तु कृतवर्माणमाहवे ।
अनयच्चारुदेष्णं च भोजं वैतरणं तथा॥२८॥

सनत्कुमारमृक्षं च तथैव निशठोल्मुकौ ।
बहूंश्चैवापरान्भोजान्मायाबलसमाश्रितः॥२९॥

सनत्कुमारं यादवविशेषम्। ऋक्षं जाम्बवतीपुत्रम्। निशठोल्मुकौ बलभद्रपुत्रौ॥२९॥

न तस्य ददृशे देहो मायाच्छन्नो जनेश्वर ।
नयतो यादवान्घोरान्गुहां षट्पुरसंज्ञिताम्॥३०॥

तद्दृष्ट्वा कदनं घोरं भैमानां भयवर्धनः ।
चुकोप भगवान्कृष्णो बलः सत्यक एव च॥३१॥

सविशेषं तथाकामः साम्बश्च परवीरहा ।
अनिरुद्धश्च दुर्धर्षो भैमाश्च बहवोऽपरे॥३२॥

ततः शार्ङ्गायुधः शार्ङ्गं कृत्वा सज्यं नरेश्वर ।
दानवेषु प्रवृत्तेषु तृणेष्विव हुताशनः॥३३॥

प्रवृताः प्रक्षिप्ताः इषवो येन सः॥३३॥

तं दृष्ट्वा दानवा देवमभिदुद्रुवुरीश्वरम् ।
शलभाः कालपाशार्ताः प्रदीप्तमिव पावकम्॥३४॥

समुत्सृज्य शतघ्नीश्च परिघांश्च सहस्रशः ।
शूलानि चाग्नितुल्यानि प्रदीप्तांश्च परश्वधान्॥३५॥

पर्वताग्राणि वृक्षांश्च घोराश्च विपुलाः शिलाः ।
उत्क्षिप्य च गजान्मत्तान्रथानपि हयानपि॥३६॥

नारायणाग्निस्तान्सर्वान्ददाह प्रहसन्निव ।
बाणार्चिषा महातेजा जगद्धितकरो हरिः॥३७॥

शारदं वर्षणं यद्वत्सेहे धीरो गवां पतिः ।
तद्वद्यदुवृषः सेहे बाणवर्षमरिन्दमः॥३८॥

न सेहिरेऽसुरान्बाणान्नारायणधनुश्च्युतान् ।
वर्षं पर्जन्यविहितं वालुकासेतवो यथा॥३९॥

न शेकुः प्रमुखे स्थातुं कृष्णस्यासुरसत्तमाः ।
व्यादितास्यस्य सिंहस्य वृषभा इव भारत॥४०॥

ते वध्यमानाः कृष्णेन दिवमाचक्रमुस्तदा ।
जीविताशां वहन्तस्तु नारायणभयार्दिताः॥४१॥

तानाकाशगतानैन्द्रिर्जयन्तः प्रवरस्तथा ।
निजघ्नतुः शरैर्घोरैर्ज्वलितार्चिसमैः प्रभो॥४२॥

निपेतुरसुराणां तु शिरांसि धरणीतले ।
तृणराजफलानीव मुक्तानि शिखरात्तरोः॥४३॥

शिखरादग्रात् तरोस्तृणराजस्य॥४३॥

निपेतुर्बाहवश्छिन्नाः दैत्यानां वसुधातले ।
कालेनोपहता वीराः पञ्चवक्त्रा इवोरगाः॥४४॥

रौक्मिणेयस्ततः सृष्ट्वा घोरां मायामयीं गुहाम् ।
अदृश्यनिष्क्रमं वीरः क्षत्रं प्रक्षेप्तुमुद्यतः॥४५॥

गदेना सह धर्मात्मा सारणेन सुतेन च ।
साम्बेन चपरैश्चापि पूर्वं येन प्रवेशितः॥४६॥

प्रमथ्य तरसा कर्णं यतन्तं रणमूर्धनि ।
जग्राह बलवान्कार्ष्णिः प्रस्फुरन्तं ततस्ततः॥४७॥

विनद्य च गुहां वीरो घोरां मायामयीं नृप ।
दुर्योधनं च राजानं विराटद्रुपदावपि॥४८॥

शकुनिं चैव शल्यं च नीलं चापि नदीसुतम् ।
विन्दानुविन्दौ राजानौ जरासन्धं च भारत॥४९॥

नदीसुतं भीष्मम्॥४९॥

त्रिगर्तान्मालवांश्चैव वासन्त्यांश्च महाबलान् ।
धृष्टद्युम्नादिकांश्चैव पाञ्चालानस्त्रकोविदान्॥५०॥

वसन्तिः सुराष्ट्रावन्त्योरन्तरं तत्र भवाः वासन्त्याः॥५०॥

तथाऽऽभृतिमुवाचेदं मातुलं रुक्मिमेव च ।
शिशुपालं च राजानं भगदत्तं च भारत॥५१॥

सम्बन्धं च गुरुत्वं च मानयामि नराधिपाः ।
गुहामिमां घोररूपां यत्र प्रक्षेपयामि वः॥५२॥

बिल्वोदकेश्वरेणाहमाज्ञप्तः शूलपाणिना ।
प्रक्षेप्तव्या नरेन्द्रास्ते गुहायामिति धीमता॥५३॥

आश्रित्य शाम्बरीं मायां निकुम्भेन महात्मना ।
प्रक्षिप्तान्यादवांश्चैव मोक्षयिष्यामि सर्वथा॥५४॥

इत्युक्तो शिशुपालस्तु राजा सेनापतिस्तथा ।
शरैस्ततर्द तान्भैमान्प्रद्युम्नं च विशेषतः॥५५॥

बिल्वोदकेश्वरं देवं रौक्मिणेयो नमस्य च ।
आरभन्नृपतिं बद्धुं शिशुपालं महाबलम्॥५६॥

ततः पाशसहस्राणि गृहाय प्रवरोत्तमः ।
शैलादिरब्रवीद्धीरं रौक्मिणेयं महाबलम्॥५७॥

गृहाय गृहीत्वा। प्रवराणां रुद्रपार्षदानां मध्ये उत्तमः शैलादिर्नन्दी॥५७॥

बिल्वोदकेश्वरो देवः प्राह त्वां यदुनन्दन ।
सर्वं कुरु तथा रात्र्यां चोक्तस्त्वं भो यथ मया॥५८॥

कन्यार्थं रत्नलुब्धांस्तु बद्ध्वा चेमान्नराधिपान् ।
पाशैस्त्वमेव मोक्तुं च प्रमाणं यदुनन्दन॥५९॥

असुरांस्तु महाबाहो निःशेषान्कर्तुमर्हसि ।
एवमेव च वक्तव्यस्त्वया वीर जनार्दनः॥६०॥

ततः स भगदत्तं च शिशुपालं च भूमिप ।
आभृतिं चैव रुक्मिं च शेषांश्चान्यान्नराधिपान्॥६१॥

बबन्ध हरदत्तैस्तैः पाशैरुत्तमवीर्यधृक् ।
मायामयीं गुहां चैवमानयत्कुरुनन्दन॥६२॥

बद्ध्वा च रौक्मिणेयोऽथ निःश्वसन्त इवोरगान् ।
अनिरुद्धं चकाराथ रक्षितारं स्वमात्मजम्॥६३॥

निःश्वसन्तः कर्मणि प्रथमा छान्दसी॥६३॥

तेषां निरवशेषेण बबन्ध यदुनन्दनः ।
सेनापतीन्क्षत्रियांश्च कोशाध्यक्षांश्च भारत॥६४॥

हस्त्यश्वरथवृन्दांश्च चकार च तथाऽऽत्मसात् ।
अव्यग्रस्तु ततो हन्तुमसुरानुद्यतः प्रभो॥६५॥

सन्नद्ध एव चोवाच ब्रह्मदत्तं द्विजोत्तमम् ।
विस्रब्धं वर्ततां कर्म मा भैः पश्य धनञ्जयम्॥६६॥

न देवेभ्यो नासुरेभ्यो नागेभ्यो द्विजसत्तम ।
भयं हि विद्यते तस्य गोप्तारो यस्य पाण्डवाः॥६७॥

न चासुरैस्तव सुताः स्पृष्टाः खल्वपि चेतसा ।
यज्ञवाटे निरीक्ष्यन्तां मायया निहित मया॥६८॥

निहिता निधानवद्रक्षिता॥६८॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि षट्पुरवधे चतुरशीतितमोऽध्यायः॥८४॥
निकुम्भप्रभृतीनां वधः-०८५

वैशम्पायन उवाच। रुद्धेषु भूमिपालेषु सानुगेषु विशाम्पते ।
आविवेशासुरांश्चाथ कश्मलं जनमेजय॥१॥

पञ्चाधिकेऽशीतितमेऽध्यायेऽमुष्मिन्नथ स्फुट। निकुम्भप्रमुखानां च यदुभिर्वध उच्यते॥१॥ रुद्धेष्विति॥१॥

दिशः प्रतस्थुस्ते वीरा वध्यमानाः समन्ततः ।
कृष्णानन्तप्रभृतिभिर्यदुभिर्युद्धदुर्मदैः॥२॥

निकुम्भस्तानथोवाच रुषितो दानवोत्तमः ।
भित्त्वा प्रतिज्ञां किं मोहाद्भयार्ता यात विह्वलाः॥३॥

हीनप्रतिज्ञाः काँल्लोकान्प्रयास्यत पलायिताः ।
अगत्वापचितिं युद्धे ज्ञातीनां कृतनिश्चयाः॥४॥

फलं जित्वेह भोक्तव्यं रिपून्समरकर्कशान् ।
हतेन चापि शूरेण वस्तव्यं त्रिदिवे सुखम्॥५॥

पलायित्वा गृहं गत्वा कस्य द्रक्ष्यथ हे मुखम् ।
दारान्वक्ष्यथ किं चापि धिग्धिक्किं किं न लज्जथ॥६॥

एवमुक्ता निवृत्तास्ते लज्जमाना नृपासुराः ।
द्विगुणेन च वेगेन युयुधुर्यदुभिः सह॥७॥

उत्सवे युद्धशौण्डानां नानाप्रहरणैर्नृप ।
ये यान्ति यज्ञवाटं तं तान्निहन्ति धनञ्जयः॥८॥

यमौ भीमश्च राजा च धर्मपुत्रो युधिष्ठिरः ।
द्यां प्रयाताञ्जघानैन्द्रिः प्रवरश्च द्विजोत्तमः॥९॥

अथासुरासृक्तोयाढ्या केशशैवलशाड्वला ।
चक्रकूर्मरथावर्ता गजशैलानुशोभिनी॥१०॥

ध्वजकुन्ततरुच्छन्ना स्तनितोत्क्रुष्टनादिनी ।
गोविन्दशैलप्रभवा भीरुचित्तप्रमाथिनी॥११॥

असृग्बुद्बुदफेनाढ्या असिमत्स्यतरङ्गिणी ।
सुस्राव शोणितनदी नदीव जलदागमे॥१२॥

तान्दृष्ट्वैव निकुम्भस्तु वर्द्धमानंश्च शात्रवान् ।
हतान्सर्वान्सहायांश्च वीर्यादेवोत्पपात ह॥१३॥

स वारितो जयन्तेन प्रवरेण च भारत ।
शरैः कुलिशसङ्काशैर्निकुम्भो रणकर्कशः॥१४॥

सन्निवृत्याथ दष्टोष्ठः परिघेण दुरासदः ।
प्रवरं ताडयामास स पपात महीतले॥१५॥

ऐन्द्रिस्तं पतितं भूमौ बाहुभ्यां परिषस्वजे ।
विदित्वा चैव सप्राणं हित्वासुरमभिद्रुतः॥१६॥

अभिद्रुत्य निकुम्भं च निस्त्रिंशेन जघान ह ।
परिघेणापि दैतेयो जयन्तं समताडयत्॥१७॥

ततक्ष बहुलं गात्रं निकुम्भस्यैन्द्रिराहवे ।
स चिन्तयामास तदा वध्यमानो महासुरः॥१८॥

कृष्णेन सह योद्धव्यं वैरिणा ज्ञातिघातिना ।
श्रावयामि किमात्मानमाहवे शक्रसूनुना॥१९॥

एवं स निश्चयं कृत्वा तत्रैवान्तरधीयत ।
जगाम चैव युद्धार्थं यत्र कृष्णो महाबलः॥२०॥

तं दृष्ट्वैरावतस्कन्धमास्थितो बलनाशनः ।
द्रष्टुमभ्यागतो युद्धं जहृषे सह दैवतैः॥२१॥

साधु साध्विति पुत्रं च परितुष्टः स सस्वजे ।
प्रवरं चापि धर्मात्मा सस्वजे मोहवर्जितम्॥२२॥

देवदुन्दुभयश्चापि प्रणेदुर्वासवाज्ञया ।
जयमानं रणे दृष्ट्वा जयन्तं रणदुर्जयम्॥२३॥

ददर्शाथ निकुम्भस्तु केशवं रणदुर्जयम् ।
अर्जुनेन स्थितं सार्धं यज्ञवाटाविदूरतः॥२४॥

स नादं सुमहान्कृत्वा पक्षिराजमताडयत् ।
परिघेण सुघोरेण बलं सत्यकमेव च॥२५॥

सुमहान् सुमहान्तम्॥२५॥

नारायणं चार्जुनं च भीमं चाथ युधिष्ठिरम् ।
यमौ च वासुदेवं च साम्बं कामं च वीर्यवान्॥२६॥

युयुधे मायया दैत्यः शीघ्रकारी च भारत ।
न चैनं ददृशुः सर्वे सर्वशस्त्रविशारदाः॥२७॥

यदा तु नैवापश्यंस्तं तदा बिल्वोदकेश्वरम् ।
दध्यौ देवं हृषीकेशः प्रमथानां गणेश्वरम्॥२८॥

ततस्ते ददृशुः सर्वे प्रभावादतितेजसः ।
बिल्वोदकेश्वरस्याशु निकुम्भं मायिनां वरम्॥२९॥

कैलासशिखराकारं ग्रसन्तमिव धिष्ठितम् ।
आह्वयन्तं रणे कृष्णं वैरिणं ज्ञातिनाशनम्॥३०॥

सज्जगाण्डीवमेवाथ पार्थस्तस्य रथेषुभिः ।
परिघं चैव गात्रेषु विव्याधैनमथासकृत्॥३१॥

ते बाणास्तस्य गात्रेषु परिघे च जनाधिप ।
भग्नाः शिलाशिताः सर्वे निपेतुः कुञ्चिता क्षितौ॥३२॥

विफलानस्त्रयुक्तांस्तान्दृष्ट्वा बाणान्धनञ्जयः ।
पप्रच्छ केशवं वीरः किमेतदिति भारत॥३३॥

पर्वतानपि भिन्दन्ति मम वज्रोपमाः शराः ।
किमिदं देवकीपुत्र विस्मयोऽत्र महान्मम॥३४॥

तमुवाच ततः कृष्णः प्रहसन्निव भारत ।
महद्भूतं निकुम्भोऽयं कौन्तेय शृणु विस्तरात्॥३५॥

महद्भूतं लोकोत्तरविक्रमः॥३५॥

पुरा गत्वोत्तरकुरूंस्तपश्चक्रे महासुरः ।
शतं वर्षसहस्राणां देवशत्रुर्दुरासदः॥३६॥

अथैनं छन्दयामास वरेण भगवान्हरः ।
स वव्रे त्रीणि रूपाणि न वध्यानि सुरासुरैः॥३७॥

तमुवाच महादेवो भगवान्वृषभध्वजः ।
मम वा ब्राह्मणानां वा विष्णोर्वा प्रियमाचरन्॥३८॥

भविष्यसि हरेर्वध्यो न त्वन्यस्य महासुर ।
ब्रह्मण्योऽहं च विष्णुश्च विप्राणां परमा गतिः॥३९॥

ब्रह्मण्यः ब्राह्मणकुलहितः गतिराश्रयः॥३९॥

स एव सर्वशस्त्राणामवध्यः पाण्डुनन्दन ।
त्रिदेहोऽतिप्रमाथी च वरमत्तश्च दानवः॥४०॥

भानुमत्यापहरणे देहोऽस्यैको हतो मया ।
अवध्यं षट्पुरं देहमिदमस्य दुरात्मनः॥४१॥

दितिं शुश्रूषति त्वेको देहोऽस्य तपसान्वितः ।
अन्यस्तु देहो घोरोऽस्य येनावसति षट्पुरम्॥४२॥

एतत्तु सर्वमाख्यातं निकुम्भचरितं मया ।
त्वरयास्य वधे वीर कथा पश्चाद्भविष्यति॥४३॥

तयोः कथयतोरेवं कृष्णयोरसुरस्तदा ।
गुहां षट्पुरसंज्ञां तां विवेश रणदुर्जयः॥४४॥

अन्विष्य तस्य भगवान्विवेश मधुसूदनः ।
तां षट्पुरगुहां घोरां दुर्धर्षां कुरुनन्दन॥४५॥

अन्विष्य तद्गमनमार्गमिति शेषः॥४५॥

चन्द्रसूर्यप्रभाहीनां ज्वलन्तीं स्वेन तेजसा ।
सुखदुःखोष्णशीतानि प्रयच्छन्तीं यथेप्सितम्॥४६॥

सुखदुःखेति। स्वीयानां सुखं परेषां दुःखमिति वक्तव्यम्॥४६॥

तत्र प्रविश्य भगवानपश्यत जनाधिपान् ।
युयुधे सह घोरेण निकुम्भेन जनाधिप॥४७॥

जनाधिपान् निकुम्भनिगृहीतान् यदून्॥४७॥

कृष्णस्यानुप्रविष्टास्तु बलाद्या यादवास्तदा ।
प्रविष्टाश्च तथा सर्वे पाण्दवास्ते महात्मनः॥४८॥

समेतास्तु प्रविष्टास्ते कृष्णस्यानुमतेन वै ।
युयुधे स तु कृष्णेन रौक्मिणेयः प्रचोदितः ।
अनयद्यादवान्सर्वान्यानयं बद्धवान्पुरा॥४९॥

कृष्णेनेति। तत्र तेनायमर्थः। स निकुम्भः कृष्णेन सह युयुधे रौक्मिणेयस्तु कृष्णेनैव प्रचोदितः मनसा प्रेरितो यादवाननयदित्युत्तरेण सम्बन्धः॥४९॥

ते मुक्ता रौक्मिणेयेन प्राप्ता यत्र जनार्दनः ।
प्रहृष्टमनसः सर्वे निकुम्भवधकाङ्क्षिणः॥५०॥

राजानो वीर मुञ्चेति पुनः कामं यथाब्रुवन् ।
मुमोच चाथ तान्वीरो रौक्मिणेयः प्रतापवान्॥५१॥

अधोमुखमुखाः सर्वे बद्धमौना नराधिपाः ।
लज्जयाभिप्लुता विरास्तस्थुर्नष्टश्रियस्तत्दा॥५२॥

निकुम्भमपि गोविन्दः प्रयतन्तं जयं प्रति ।
योधयामास भगवान्घोरमात्मरिपुं हरिः॥५३॥

परिघेणाहतः कृष्णो निकुम्भेन भृशं विभो ।
गदया चापि कृष्णेन निकुम्भस्ताडितो भृशम्॥५४॥

तावुभौ प्रोहमापन्नौ सुप्रहारहतौ तदा ।
ततः प्रव्यथितान्दृष्ट्वा पाण्डवांश्चाथ यादवान्॥५५॥

जेपुर्मुनिगणास्तत्र कृष्णस्य हितकाम्यया ।
तुष्टुवुश्च महात्मानं वेदप्रोक्तैस्तथा स्तवैः॥५६॥

ततः प्रत्यागतप्राणो भगवान्केशवस्तदा ।
दानवश्च पुनर्वीरावुद्यतौ समरं प्रति॥५७॥

वृषभाविव नर्दन्तौ गजाविव च भारत ।
शालावृकाविव क्रुद्धौ प्रहरन्तौ रणोत्कटौ॥५८॥

अथ कृष्णं तदोवाच नृपं वागशरीरिणी ।
चक्रेण शमयस्वैनं देवब्राह्मणकण्टकम्॥५९॥

इति होवाच भगवान्देवो बिल्वोदकेश्वरः ।
धर्मं यशश्च विपुलं प्राप्नुहि त्वं महाबल॥६०॥

तथेत्युक्त्वा नमस्कृत्वा लोकनाथः सतां गतिः ।
सुदर्शनं मुमोचाथ चक्रं दैत्यकुलान्तकम्॥६१॥

तन्निकुम्भस्य चिच्छेद शिरः प्रवरकुण्डलम् ।
नारायणभुजोत्सृष्टं सूर्यमण्डलवर्चसम्॥६२॥

सूर्यमण्डलवर्चसमिति सुदर्शनविशेषणत्वात्पुंस्त्वम्॥६२॥

उत्पपात शिरस्तस्य भूमौ ज्वलितकुण्डलम् ।
मेघमत्तो गिरेः शृङ्गान्मयूर इव भूतले॥६३॥

निकुम्भे निहते तस्मिन्देवो बिल्वोदकेश्वरः ।
तुतोष च नरव्याघ्र जगत्त्रासकरो विभुः॥६४॥

पपात पुष्पवृष्टिश्च शक्रसृष्टा नभस्तलात् ।
देवदुन्दुभयश्चैव प्रणेदुररिनाशने॥६५॥

ननन्द च जगत्कृत्स्नं मुनयश्च विशेषतः ।
दैत्यकन्याश्च भगवान्यदुभ्यः शतशो ददौ॥६६॥

क्षत्रियाणां च भगवान्सान्त्वयित्वा पुनः पुनः ।
रत्नानि च विचित्राणि वासांसि प्रवराणि च॥६७॥

रथानां वाजियुक्तानां शट्सहस्राणि केशवः ।
अददात्पाण्डवेभ्यश्च प्रीतात्मा गदपूर्वजः॥६८॥

तदेव चाथ प्रवरं षट्पुरं पुरवर्धनः ।
द्विजाय ब्रह्मदत्ताय ददौ तार्क्ष्यवरध्वजः॥६९॥

प्रवरं श्रेष्ठम्॥६९॥

सत्रे समाप्ते च तदा शङ्खचक्रगदाधरः ।
विसर्जयित्वा तत्क्षत्रं पाण्डवांश्च महाबलः॥७०॥

बिल्वोदकेश्वरस्याथ समाजमकरोत्प्रभुः ।
मांससूपसमाकीर्णं बह्वन्नं व्यञ्जनाकुलम्॥७१॥

नियुद्धकुशलान्मल्लान्देवो मल्लप्रियस्तदा ।
योधयित्वा ददौ भूरि वित्तं वस्त्राणि चात्मवान्॥७२॥

ददौ तेभ्य इति शेषः॥७२॥

मातापितृभ्यां सहितो यदुभिश्च महाबलः ।
अभिवाद्य ब्रह्मदत्तं ययौ द्वारवतीं पुरीम्॥७३॥

स विवेश पुरीं रम्यां हृष्टपुष्टजनाकुलाम् ।
पुष्पचित्रपथां वीरो वन्द्यमानो नरैः पथि॥७४॥

इमं यः षट्पुरवधं विजयं चक्रपाणिनः ।
शृणुयाद्वा पठेद्वापि युद्धे जयमवाप्नुयात्॥७५॥

अपुत्रो लभते पुत्रमधनो लभते धनम् ।
व्याधितो मुच्यते रोगी बद्धश्चाप्यथ बन्धनात्॥७६॥

इदं पुंसवनं प्रोक्तं गर्भादानं च भारत ।
श्राद्धेषु पठितं सम्यगक्षय्यकरणं स्मृतम्॥७७॥

इदममरवरस्य भारते प्रथितबलस्य जयं महात्मनः ।
सततमिदं हि यः पठेन्नरः सुगतिमितो व्रजते गतज्वरः॥७८॥

मणिकनकविचित्रपाणिपादो निरतिशयार्कगुणोरिहादिनाथः ।
चतुरुदधिशयश्चतुर्विधात्मा जयति जगत्पुरुषः सहस्रनामा॥७९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि षट्पुरवधो नाम पञ्चाशीतितमोऽध्यायः॥८५॥
अन्धकवधः-०८६

जनमेजय उवाच। श्रुतोऽयं षट्पुरवधो रम्यो मुनिवरोत्तम ।
पुरोक्तमन्धकवधं वैशम्पायन कीर्तय॥१॥

षडशीतितमेऽमुष्मिन्नथाध्याये हि वर्ण्यते। अन्धकस्य वधः प्रोक्तो राजप्रश्नानुसारतः॥१॥ श्रुतोऽयमिति॥१॥

भानुमत्याश्च हरणं निकुम्भस्य वधं तथा ।
प्रब्रूहि वदतां श्रेष्ट परं कौतूहलं हि मे॥२॥

निकुम्भस्य त्रिदेहस्य वधं भानुमत्या हरणे भगवता प्रोक्तम्॥२॥

वैशम्पायन उवाच। दितिर्हतेषु पुत्रेषु विष्णुना प्रभविष्णुना ।
तपसाऽऽराधयामास मारीचं कश्यपं पुरा॥३॥

तपसा कालयुक्तेन तथा शुश्रूषया मुनेः ।
आनुकूल्येन च तथा माधुर्येण च भारत॥४॥

कालयुक्तेन बहुकालीनेन॥४॥

परितुष्टः कश्यपस्तु तामुवाच तपोधनः ।
परितुष्टोऽस्मि ते भद्रे वरं वरय सुव्रते॥५॥

दितिरुवाच हतपुत्रास्मि भगवन्देवैर्धर्मभृतां वर ।
अवध्यं पुत्रमिच्छामि देवैरमितविक्रमम्॥६॥

कश्यप उवाच। अवध्यस्ते सुतो देवि दाक्षायणि भवेदिति ।
देवानां संशयो नात्र कश्चित्कमललोचने॥७॥

देवदेवमृते रुद्रं तस्य न प्रभवाम्यहम् ।
आत्मा ततस्ते पुत्रेण रक्षितव्यो हि सर्वथा॥८॥

अन्वालभत तां देवीं कश्यपः सत्यवागथ ।
अङ्गुल्योदरदेशे तु सा पुत्रं सुषुवे ततः॥९॥

सहस्रबाहुं कौरव्य सहस्रशिरसं तथा ।
द्विसहस्रेक्षणं चैव तावच्चरणमेव च॥१०॥

स व्रजत्यन्धवद्यस्मादनन्धोऽपि हि भारत ।
तमन्धकोऽयं नाम्नेति प्रोचुस्तत्र निवासिनः॥११॥

अवध्योऽस्मीति लोकान्स सर्वान्बाधति भारत ।
हरत्यपि च रत्नानि सर्वाण्यात्मबलाश्रयात्॥१२॥

वासयत्यात्मवीर्येण निगृह्याप्सरसां गणान् ।
स वेश्मन्यूर्जितोऽत्यर्थं सर्वलोकभयङ्करः॥१३॥

परदारापहरणं पररत्नविलोपनम् ।
चकार सततं मोहादन्धकः पापनिश्चयः॥१४॥

त्रैलोक्यविजयं कर्तुमुद्यतः स तु भारत ।
सहायैरसुरैः सार्धं बहुभिः सर्वधर्षिभिः॥१५॥

तच्छ्रुत्वा भगवाञ्छक्रः कश्यपं पितरं ब्रवीत् ।
अन्धकेनेदमारब्धमीदृशं मुनिसत्तम॥१६॥

ब्रवीत् अब्रवीत्॥१६॥

आज्ञापय विभो कार्यमस्माकं समनन्तरम् ।
यवीयसः कथं नाम सोढव्यं स्यान्मुने मया॥१७॥

सोढव्यं दुर्वृत्तत्वमिति शेषः॥१७॥

इष्टपुत्रे प्रहर्तव्यं कथं नाम मया विभो ।
इहात्रभवती कुर्यान्मन्युं मयि हते सुते॥१८॥

अत्रभवती पूज्या दितिः तस्याः इष्टपुत्रे मया हते सति सा मयि मन्युं कुर्यात्॥१८॥

देवेन्द्रवचनं श्रुत्वा कश्यपोऽथाब्रवीन्मुनिः ।
वारयिष्यामि देवेन्द्र सर्वथा भद्रमस्तु ते॥१९॥

अन्धकं वारयामास दित्या सह तु कश्यपः ।
त्रैलोक्यविजयाद्वीरं कृच्छ्रकृच्छ्रेण भारत॥२०॥

कृच्छ्रकृच्छ्रेण अतिकृच्छ्रेण॥२०॥

वारितोऽपि स दुष्टात्मा बाधत्येव दिवौकसः ।
तैस्तैरुपायैर्दुष्टात्मा प्रमथ्य च तथामरान्॥२१॥

बभञ्ज कानने वृक्षानुद्यानानि च दुर्मतिः ।
उच्चैःश्रवःसुतानश्वान्बलादप्यानयद्दिवः॥२२॥

नागान्दिशागजसुतान्दिव्यानपि च भारत ।
बलाद्धरति देवानां पश्यतां वरदर्पितः॥२३॥

देवानाप्याययन्ते तु ये यज्ञैस्तपसा तथा ।
तेषां चकार विघ्नं स दुष्टात्मा देवकण्टकः॥२४॥

नेजुर्यज्ञैस्त्रयो वर्णास्तेपुश्च न तपांस्यपि ।
अन्धकस्य भयाद्राजन्यज्ञविघ्नानि कुर्वतः॥२५॥

नेजुः यज्ञं न चक्रुः॥२५॥

तस्येच्छया वाति वायुरादित्यश्च तपत्युत ।
चन्द्रमा वा सनक्षत्रो दृश्यते नैव वा पुनः॥२६॥

न व्रजन्ति विमानानि विहायसि भयात्प्रभो ।
अन्धकस्यातिघोरस्य बलदृप्तस्य दुर्मतेः॥२७॥

अन्धकस्य भयादिति शेषः॥२७॥

निरोङ्कारवषट्कारं जगद्वीर तथाभवत् ।
अन्धकस्यातिघोरस्य भयात्कुरुकुलोद्वह॥२८॥

कुरूंस्तथोत्तरान्पापो द्रावयामास भारत ।
भद्राश्वान् केतुमालांश्च जम्बूद्वीपांस्तथैव च॥२९॥

मानयन्ति च तं देवा दानवाश्च दुरासदाः ।
भूतानि च तथान्यानि समर्थान्यपि सर्वथा॥३०॥

ऋषयो वध्यमानास्तु समेता ब्रह्मवादिनः ।
अचिन्तयन्नन्धकस्य वधं धर्मभृतां वर॥३१॥

तेषां बृहस्पतिर्मध्ये धीमानिदमथाब्रवीत् ।
नास्य रुद्रादृते मृत्युर्विद्यते च कथञ्चन॥३२॥

तथा वरे दीयमाने कश्यपेनापि शब्दितः ।
नाहं रुद्रात्परित्रातुं शक्त इत्येव धीमतः॥३३॥

तमुपायं चिन्तयामः शर्वो येन सनातनः ।
जानीयात्सर्वभूतानि पीड्यमानानि शङ्करः॥३४॥

विदितार्थं हि भगवानवश्यं जगतः प्रभुः ।
अश्रुप्रमार्जनं देवः करिष्यति सतां गतिः॥३५॥

अश्रुप्रमार्जनं शोकापनयनम्॥३५॥

व्रतं हि देवदेवस्य भवस्य जगतो गुरोः ।
सन्तोऽसद्भ्यो रक्षितव्या ब्राह्मणास्तु विशेषतः॥३६॥

ते वयं नारदं सर्वे प्रयाम शरणं द्विजम् ।
उपायं वेत्स्यते तत्र वयस्यो हि भवस्य सः॥३७॥

बृहस्पतिवचः श्रुत्वा सर्वेऽप्यथ तपोधनाः ।
तावद्ददृशुराकाशे प्राप्तं देवर्षिसत्तमम्॥३८॥

तपोधनाः हे शौनकादयः॥३८॥

पूजयित्वा यथान्यायं सत्कृत्य विधिवन्मुनिम् ।
देवा ऊचुः देवर्षे भगवन्साधो कैलासं व्रज सत्वरम्॥३९॥

विज्ञप्तुमर्हसे देवमन्धकस्य वधे हरम् ।
त्राणार्थे नारदं प्रोचुस्तांस्तथेति स चोक्तवान्॥४०॥

ऋषिष्वथ प्रयातेषु तत्कार्यं नारदो मुनिः ।
विचर्य मनसा विद्वानिति कार्यं स दृष्टवान्॥४१॥

इति वक्ष्यमाणं कार्यं कर्तव्यम्॥४१॥

स देवदेवं भगवान्द्रष्टुं मुनिरथाययौ ।
मन्दारवनमध्यस्थो यत्र नित्यो वृषध्वजः॥४२॥

स तत्र रजनीमेकामुषित्वा मुनिसत्तमः ।
मन्दाराणां वने रम्ये दयितः शूलपाणिनः॥४३॥

आजगाम पुनः स्वर्गं लब्ध्वानुज्ञां वृषध्वजात् ।
मन्दारपुष्पैः सुकृतां मालामाबध्य भारत॥४४॥

मन्दारः सुरतरुस्तत्पुष्पैः॥४४॥

ग्रथितां सविशेषां तां सर्वगन्धोत्तमोत्तमाम् ।
सन्तानमाल्यदामं च तैरेव कुसुमैः कृतम्॥४५॥

सन्तानोऽपि देवद्रुम एव॥४५॥

तच्च कण्ठे समासज्य महागन्धं नराधिप ।
आययावन्धको यत्र दुरात्मा बलदर्पितः॥४६॥

अन्धकस्त्वथ तं दृष्ट्वा गन्धमाघ्राय चोत्तमम् ।
सन्तानकानां स्रङ्मालां महागन्धां महामुने॥४७॥

स्रङ्माला पुष्पदाम॥४७॥

कुत्रायं पुष्पजातिर्वा कमनीया तपोधन ।
गन्धान्वर्णाञ्छुभांस्तान्हि भोः पुष्यति मुहुर्मुहुः ।
स्वर्गे सन्तानकुसुमान्यतिवर्तति सर्वथा॥४८॥

इयमिति वक्तव्येऽयमिति उक्तिर्मत्तत्वात्। सन्तानकुसुमानि अतिवर्तति अभिभवति॥४८॥

कः प्रभुस्तस्य वृक्षस्य शक्यं वाऽऽनयितुं मुने ।
आचक्ष्व यद्यनुग्राह्या वयं ते देवतातिथे॥४९॥

तमुवाच मुनिश्रेष्ठः प्रहसन्निव भारत ।
आदाय दक्षिणे हस्ते महतस्तपसो निधिः॥५०॥

मन्दरे पर्वतश्रेष्ठे वीर कामगमं वनम् ।
तत्र चैवंविधं पुष्पं भोः सृष्टिः शूलपाणिनः॥५१॥

न तु तत्र वनं कश्चिदच्छन्देन महात्मनः ।
प्रवेष्टुं लभते तद्धि रक्षन्ति प्रवरोत्तमाः॥५२॥

महात्मनो महादेवस्य प्रवरोत्तमाः गणोत्तमाः॥५२॥

नानाप्रहरणा घोरा नानावेषा दुरासदाः ।
अवध्याः सर्वभूतानां महादेवाभिरक्षिताः॥५३॥

नित्यं प्रक्रीडते तत्र सोमः सप्रवरो हरः ।
मन्दारद्रुमखण्डेषु सर्वात्मा सर्वभावनः॥५४॥

तपोविशेषैराराध्य हरं त्रिभुवनेशवरम् ।
शक्यं मन्दारपुष्पाणि प्राप्तुं कश्यपवंशज॥५५॥

स्त्रीरत्नमणिरत्नानि यानि चान्यानि चाप्यथ ।
काङ्क्षितानि फलन्ति स्म ते द्रुमा हरवल्लभाः॥५६॥

न तत्र सूर्यः सोमोऽथ तपत्यतुलविक्रमः ।
स्वयम्प्रभं तरुवनं तद्भ्यो दुःखविवर्जितम्॥५७॥

तत्र गन्धान्स्रवन्त्यन्ये नीराण्यन्ये महाद्रुमाः ।
वासांसि विविधान्यन्ये सुगन्धीनि महाबल॥५८॥

नीराणि रसान्॥५८॥

भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यं तथैव च ।
तरुभ्यः स्रवते तेभ्यो विविधं मनसेप्सितम्॥५९॥

पिपासा वा बुभुक्षा वा ग्लानिश्चिन्तापि वानघ ।
न मन्दारवने वीर भवतीत्युपधार्यताम्॥६०॥

न ते वर्णयितुं शक्या गुणा वर्षशतैरपि ।
गुणा ये तत्र वर्द्धन्ते स्वर्गाद्बहुगुणोत्तराः॥६१॥

वर्धन्ते प्रसरन्ति॥६१॥

अतीव हि जयेल्लोकान्समहेन्द्रान्न संशयः ।
एकाहमपि यस्तत्र वसेच्च दितिजोत्तम॥६२॥

स्वर्गस्यापि हि तत्स्वर्गं सुखानामपि तत्सुखम् ।
बभूव जगतः सर्वमिति मे धीयते मनः॥६३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि अन्धकवधे षडशीतितमोऽध्यायः॥८६॥
महादेवेनान्धकवधः-०८७

वैशम्पायन उवाच। अन्धको नारदवचः श्रुत्वा तत्त्वेन भारत ।
मन्दरं पर्वतं गन्तुं मनो दध्रे महासुरः॥१॥

सप्ताशीतितमेऽध्यायेऽमुष्मिन्नन्धकवैरिणा। अन्धकस्य युधि प्राणो हृतो रुद्रेण चोच्यते॥१॥ अन्धक इति॥१॥

सोऽसुरान्सुमहातेजाः समानीय महाबलः ।
जगाम मन्दरं क्रुद्धो महादेवालयं तदा॥२॥

तं महाभ्रप्रतिच्छन्नं महौषधिसमाकुलम् ।
नानासिद्धसमाकीर्णं महर्षिगणसेवितम्॥३॥

चन्दनागरुवृक्षाढ्यं सरलद्रुमसङ्कुलम् ।
किन्नरोद्गीतरम्यं च बहुनागकुलाकुलम्॥४॥

वातोद्धूतैर्वनैः फुल्लैर्नृत्यन्तमिव च क्वचित् ।
प्रस्रुतैर्धातुभिश्चित्रैर्विलिप्तमिव च क्वचित्॥५॥

पक्षिस्वनैः सुमधुरैर्नदन्तमिव च क्वचित् ।
हंसैः शुचिपदैः कीर्णं सम्पतद्भिरितस्ततः॥६॥

शुचिषदैः सदः सभा शुचिस्थाने सीदन्ति तिष्ठन्तीति शुचिषदास्तैः शुद्धसदोभिः। शुचिपदैरित्यपि पाठः॥६॥

महाबलैश्च महिषैश्चरद्भिर्दैत्यनाशनैः ।
चन्द्रांशुविमलैः सिंहैर्भूषितं हेमसञ्चयम्॥७॥

मृगराजसमाकीर्णं मृगवृन्दनिषेवितम् ।
स मन्दरं गिरिं प्राह रूपिणं बलदर्पितः॥८॥

वेत्सि त्वं हि यथावध्यो वरदानादहं पितुः ।
मम चैव वशे सर्वं त्रैलोक्यं सचराचरम्॥९॥

प्रतियोद्धुं न मां कश्चिदिच्छत्यपि गिरे भयात् ।
पारिजातवनं चास्ति तव सानौ महागिरे ।
सर्वकामप्रदैः पुष्पैर्भूषितं रत्नमुत्तमम्॥१०॥

रत्नमुत्तमं दिव्यं श्रेष्ठम्॥१०॥

तदाचक्ष्वोपभोक्ष्यामि तद्वनं तव सानुजम् ।
किं करिष्यसि क्रुद्धस्त्वं मनो हि त्वरते मम॥११॥

त्रातारं नानुपश्यामि मया खल्वर्दितस्य ते ।
इत्युक्तो मन्दरस्तेन तत्रैवान्तरधीयत॥१२॥

ततोऽन्धकोऽतिरुषितो वरदानेन दर्पितः ।
मुमोच नादं सुमहदिदं वचनमब्रवीत्॥१३॥

मया वै त्वं याच्यमानो यस्मान्न बहु मन्यसे ।
अहं चूर्णीकरोमि त्वां बलं पर्वत पश्य मे॥१४॥

एवमुक्त्वा गिरेः शृङ्गमुत्पाट्य बहुयोजनम् ।
निष्पिपेष गिरेस्तस्य शृङ्गेश्वन्यत्र वीर्यवान्॥१५॥

स हतैरसुरैः सर्वैर्वरदानेन दर्पितः ।
तं प्रच्छन्ननदीजालं मन्यमानं महागिरिम्॥१६॥

प्रच्छन्नानि नदीनां जालानि समूहा यत्र तम्॥१६॥

विदित्वा भगवान्रुद्रश्चकारानुग्रहं गिरेः ।
सविशेषतरं वीरं मत्तद्विपमृगायुतम्॥१७॥

सविशेषतरं विशेषतरैः पारिजातादिभिः सहितम्॥१७॥

नदीजालैर्बहुतरैराचितं चित्रकाननम् ।
नभश्च्युतैः पुरा यद्वत्तद्वदेव विराजते॥१८॥

नभश्चयुतैः स्वर्गादागतैर्नदीजालैः पुरा अन्धकक्षोभात्पूर्वम्॥१८॥

अथ देवप्रभावेण शृङ्गाण्युत्पाटितानि तु ।
क्षिप्तानि चासुरानेव घ्नन्ति वीराणि भारत॥१९॥

क्षिप्त्वा ये प्रपलायन्ते शृङ्गाणि तु महासुराः ।
शृङ्गैस्तैस्तैः स्म वध्यन्ति पर्वतस्य जनाधिप॥२०॥

वध्यन्ति वध्यन्ते॥२०॥

ये स्वस्थास्त्वसुरास्तत्र तिष्ठन्ति गिरिसानुषु ।
शृङ्गैस्तेन स्म वध्यन्ते मन्दरस्य महागिरेः॥२१॥

ततोऽन्धकस्तदा दृष्ट्वा सेनां तां मर्दितां तथा ।
रुषितः सुमहानादं नर्दित्वैवं तदाब्रवीत्॥२२॥

आह्वये तं वनं यस्य युद्धार्थमुपतिष्ठतु ।
किं त्वयाचल युद्धेन हताः स्म च्छद्मना रणे॥२३॥

एवमुक्ते त्वन्धकेन वृषभेण महेश्वरः ।
सम्प्राप्तः शूलमुद्यम्य देवोऽन्धकजिघांसया॥२४॥

प्रमथानां गणैर्धीमान्वृतो वै बहुलोचनः ।
तथा भूतगणैश्चैव धीमान्भूतगणेश्वरः॥२५॥

बहुलोचनः त्रिनेत्रः॥२५॥

प्रचकम्पे ततः कृत्स्नं त्रैलोक्यं रुषिते हरे ।
सिन्धवश्च प्रतिस्रोतमूहुः प्रज्वलितोदकाः॥२६॥

सिन्धवो नद्यः॥२६॥

जग्मुर्दिशोऽग्निदाहाश्च सर्वे ते हरतेजसा ।
युयुधुश्च ग्रहाः सर्वे विपरीता जनाधिप॥२७॥

सर्वे ते सर्वास्ताः विपरीता वक्रीभूताः॥२७॥

चेलुश्च गिरयस्तत्र काले कुरुकुलोद्वह ।
प्रववर्षाथ पर्जन्यः सधूमाङ्गारवृष्टयः॥२८॥

सधूमाङ्गाराः वृष्टयो येषु ते गिरयः॥२८॥

उष्णभाश्चन्द्रमाश्चासीत्सूर्यः शीतप्रभस्तथा ।
न ब्रह्म विविदुस्तत्र मुनयो ब्रह्मवादिनः॥२९॥

वडवाः सुषुवुर्गाश्च गवोऽश्वानपि चानघ ।
पेतुर्वृक्षाश्च मेदिन्यामच्छिन्ना भस्मसात्कृताः॥३०॥

बाधन्ते वृषभा गाश्च गावश्चारुरुहुर्वृषान् ।
राक्षसा यातुधानाश्च पिशाचाश्चापि सर्वशः॥३१॥

विपरीतं जगद्दृष्ट्वा महादेवस्ताथागतम् ।
मुमोच भगवाञ्छूलं प्रदीप्ताग्निसमप्रभम्॥३२॥

तत्पपात रहोत्सृष्टमन्धकोरसि दुर्द्धरम् ।
भस्मसाच्चाकरोद्रौद्रमन्धकं साधुकण्टकम्॥३३॥

ततो देवगणाः सर्वे मुनयश्च तपोधनाः ।
शङ्करं तुष्टुवुश्चैव जगच्छत्रौ निबर्हिते॥३४॥

देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह ।
त्रैलोक्यं निर्वृतं चासीन्नरेन्द्र विगतज्वरम्॥३५॥

प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरो गणाः ।
जेपुश्च ब्राह्मणा वेदानीजुश्च क्रतुभिस्तदा॥३६॥

ग्रहाः प्रकृतिमापेदुरूहुर्नद्यो यथा पुरा ।
न जज्वाल जले वह्निराशाः सर्वाः प्रसेदिरे॥३७॥

न जज्वाल जले वह्निः और्वाग्निना समुद्रे सत्त्वानां पाक औत्पातिको नाभूदित्यर्थः॥३७॥

मन्दरः पर्वतश्रेष्ठः पुनरेव रराज ह ।
श्रिया परमया जुष्टः सर्वतेजःसमुच्छ्रयात्॥३८॥

रेमे सोमश्च भगवान्पारिजातवने हरः ।
सुप्रचारान्सुरान्कृत्वा शक्रादीन्धर्मतः प्रभुः॥३९॥

सोमः उमासहितः॥३९॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि अन्धकवधे सप्ताशीतितमोऽध्यायः॥८७॥
जलक्रीडावर्णनम्-०८८

जनमेजय उवाच। मुनेऽन्धकवधः श्राव्यः श्रुतोऽयं खलु भो मया ।
शान्तिस्त्रयाणां लोकानां कृत्वा देवेन धीमता॥१॥

अष्टाशीतितमेऽमुष्मिन्नध्याये बलकृष्णयोः। वर्ण्यते च जलक्रीडा विशिष्टा पिण्डतारके॥ मुनेऽन्धकेति। श्राव्यः अवश्यं श्रोतव्यः॥१॥

निकुम्भस्य हतं देहं द्वितीयं चक्रपाणिना ।
यदर्थं च यथा चैव तद्भवान्वक्तुमर्हति॥२॥

निकुम्भस्य त्रिदेहस्य॥२॥

वैशम्पायन उवाच। श्रद्दधानस्य राजेन्द्र वक्तव्यं भवतोऽनघ ।
चरितं लोकनाथस्य हरेरमिततेजसः॥३॥

द्वारवत्यां निवसतो विष्णोरतुलतेजसः ।
समुद्रयात्रा सम्प्राप्ता तीर्थे पिण्डारके नृप॥४॥

उग्रसेनो नरपतिर्वसुदेवश्च भारत ।
निक्षिप्तौ नगराध्यक्षौ शेषाः सर्वे विनिर्गताः॥५॥

पृथग्बलः पृथग्धीमाँल्लोकनाथो जनार्दनः ।
गोष्ठ्याः पृथक्कुमाराणां नृदेवामिततेजसाम्॥६॥

बलो बलरामः॥६॥

गणिकानां सहस्राणि निःसृतानि नराधिप ।
कुमारैः सह वार्ष्णेयै रूपवद्भिः स्वलङ्कृतैः॥७॥

दैत्याधिवासं निर्जित्य यदुभिर्दृढविक्रमैः ।
वेश्या निवेशिता वीर द्वारवत्यां सहस्रशः॥८॥

दैत्याधिवासं समुद्रं निर्जित्य स्वस्थानादवसार्य तत्र निवेशिताः॥८॥

सामान्यास्ताः कुमाराणां क्रीडानार्यो महात्मनाम् ।
इच्छाभोग्या गुणैरेव राजन्या वेषयोषितः॥९॥

वेषयोषितः वाराङ्गनाः॥९॥

स्थितिरेषा हि भैमानां कृता कृष्णेन धीमता ।
स्त्रीनिमित्तं भवेद्वैरं मा यदूनामिति प्रभो॥१०॥

रेवत्या चैकया सार्धं बलो रेमेऽनुकूलया ।
चक्रवाकानुरागेण यदुश्रेष्ठः प्रतापवान्॥११॥

चक्रवाकयोरिव ययोः अन्योन्यम् अनुरागस्तेन॥११॥

कादम्बरीपानकलो भूषितो वनमालया ।
चिक्रीड सागरजले रेवत्या सहितो बलः॥१२॥

कादम्बरी सुरा तस्याः पानेन कलः विकलः॥१२॥

षोडश स्त्रीसहस्राणि जले जलजलोचनः ।
रमयामास गोविन्दो विश्वरूपेण सर्वदृक्॥१३॥

विश्वरूपेण सर्वरूपात्मना यावन्त्यः स्त्रियस्तावद्भी रूपैरित्यर्थः॥१३॥

अहमिष्टा मया सार्धं जले वसति केशवः ।
इति ता मेनिरे सर्वा रात्रौ नारायणस्त्रियः॥१४॥

सर्वाः सुरतचिह्नाङ्ग्यः सर्वाः सुरततर्पिताः ।
मानमूहुश्च ताः सर्वा गोविन्दे बहुमानजम्॥१५॥

चिह्नानि नखक्षतानि॥१५॥

अहमिष्टाहमिष्टेति स्निग्धे परिजने तदा ।
नारायणस्त्रियः सर्वा मुदा शश्लाघिरे शुभाः॥१६॥

तदेवाह- अहमिति। शश्लाघिरे आत्मानं प्रशशंसिरे॥१६॥

करजद्विजचिह्नानि कुचाधरगतानि ताः ।
दृष्ट्वा दृष्ट्वा जहृषिरे दर्पणे कमलेक्षणाः॥१७॥

करजाः नखाः द्विजाः दन्ताः तज्जानि चिह्नानि॥१७॥

गोत्रमुद्दिश्य कृष्णस्य जगिरे कृष्णयोषितः ।
पिबन्त्य इव कृष्णस्य नयनैर्वदनाम्बुजम्॥१८॥

गोत्रं नाम जगिरे गीतं कृतवत्यः॥१८॥

कृष्णार्पितमनोदृष्ट्यः कान्ता नारायणस्त्रियः ।
मनोहरतरा राजन्नभवन्नेकनिश्चयाः॥१९॥

एकार्पितमनोदृष्ट्यो नेर्ष्यां ताश्चक्रिरेऽङ्गनाः ।
नारायणेन देवेन तर्प्यमाणमनोरथाः॥२०॥

शिरांसि गर्वितान्यूहुः सर्वा निरवशेषतः ।
वाल्लभ्यं केशवमयं वहन्त्यश्चारुदर्शनाः॥२१॥

ताभिस्तु सह चिक्रीड सर्वाभिर्हरिरात्मवान् ।
विश्वरूपेण विधिना समुद्रे विमले जले॥२२॥

उवाह सर्वगन्धाढ्यं स्वच्छं वारि महोदधिः ।
तोयं विलवणं मृष्टं वासुदेवस्य शासनात्॥२३॥

गुल्फदघ्नं जानुदघ्नमूरुदघ्नमथापि वा ।
नार्यस्ताः स्तनदघ्नं वा जलं समभिकाङ्क्षितम्॥२४॥

सिषिचुः केशवं पत्न्यो धारा इव महोदधिम् ।
सिषेच ताश्च गोविन्दो मेघः फुल्ललता इव॥२५॥

अवलम्ब्य पराः कण्ठे हरिं हरिणलोचनाः ।
उपगूहस्व मां वीर पतामीत्यब्रुवन्स्त्रियः॥२६॥

काश्चित्काष्ठमयैस्तेरुः प्लवैः सर्वाङ्गशोभनाः ।
क्रौञ्चबर्हिणनागानामाकारसदृशैः स्त्रियः॥२७॥

मकराकृतिभिश्चान्या मीनाभैरपि चापराः ।
बहुरूपाकृतिधरैः पुप्लुवुश्चापराः स्त्रियः॥२८॥

स्तनकुम्भैस्तथा तेरुः कुम्भैरिव तथापराः ।
समुद्रसलिले रम्ये हर्षयन्त्यो जनार्दनम्॥२९॥

रराम सह रुक्मिण्या जले तस्मिन्मुदा युतः ।
येनैव कार्ययोगेन रमतेऽमरसत्तमः॥३०॥

तत्तदेव हि ताश्चक्रुर्मुदा नारायणस्त्रियः ।
तनुवस्त्रावृतास्तन्व्यो लीलयन्त्यस्तथापराः ।
चिक्रीडुर्वासुदेवस्य जले जलजलोचनाः॥३१॥

यस्या यस्यास्तु यो भावस्तां तां तेनैव केशवः ।
अनुप्रविश्य भावज्ञो निनायात्मवशं वशी॥३२॥

हृषीकेशोऽपि भगवान्हृषीकेशः सनातनः ।
बभूव देशकालेन कान्तावशगतः प्रभुः॥३३॥

हृषीकेशः इन्द्रियाणामीश्वरोऽपि कान्तावशगतोऽभवदित्यन्वयः॥३३॥

कुलशीलसमोऽस्माकं योग्योऽयमिति मेनिरे ।
वंशरूपेण वर्तन्तमङ्गनास्ता जनार्दनम्॥३४॥

वंशरूपेण कुलानुरूपेण। “वंशो वेणौ कुले वर्गे” इति विश्वः॥३४॥

तदा दाक्षिण्ययुक्तं तं स्मितपूर्वाभिभाषिणम् ।
कृष्णं भार्याश्चकमिरे भक्त्या च बहु मेनिरे॥३५॥

पृथग्गोष्ठ्यः कुमाराणां प्रकाशं स्त्रीगणैः सह ।
अलञ्चक्रुर्जलम् वीराः सागरस्य गुणाकराः॥३६॥

गीतनृत्यविधिज्ञानां तासां स्त्रीणां जनेश्वर ।
तेजसाप्याहृतानां ते दाक्षिण्यात्तस्थिरे वशे॥३७॥

ते कुमाराः॥३७॥

शृण्वन्तश्चारुगीतानि तथा स्वभिनयान्यपि ।
तूर्याण्युत्तमनारीणां मुमुहुर्यदुपुङ्गवाः॥३८॥

स्वभिनयानि शोभन अभिनयः पदार्थस्य वाक्यार्थस्य य प्रदर्शनं यत्र तानि॥३८॥

पञ्चचूडां ततः कृष्णः कौबेर्यश्च वराप्सराः ।
माहेन्द्रीश्चानयामास विश्वरूपेण हेतुना॥३९॥

पञ्चचूडाम् अप्सरसम्। कौबेर्यः कौबेरीः वराप्सराः श्रेष्ठा अप्सरसः। विश्वरूपेण जीवनियन्तृत्वेन हेतुना निमित्तेन॥३९॥

ताः प्रोवाचाप्रमेयात्मा सान्त्वयित्वा जगत्प्रभुः ।
उत्थापयित्वा प्रणताः कृताञ्जलिपुटास्तथा॥४०॥

क्रीडायुवत्यो भैमानां प्रविशध्वमशङ्किताः ।
मत्प्रियार्थं वरारोहा रमयध्वं च यादवान्॥४१॥

प्रविशध्वं मनोहारिण्यो भवन्त्यः॥४१॥

दर्शयध्वं गुणान्सर्वान्नृत्यगीतै रहःसु च ।
तथाभिनययोगेषु वाद्येषु विविधेषु च॥४२॥

एवं कृते विधास्यामि श्रेयो वो मनसेप्सितम् ।
मच्छरीरसमा ह्येते सर्वे निरवशेषतः॥४३॥

शिरसाज्ञां तु ताः सर्वाः प्रतिगृह्य हरेस्तदा ।
क्रीडायुवत्यो विविशुर्भैमानामप्सरोवराः॥४४॥

भैमानां भीमजानां यादवानां समीपमिति शेषः। अप्सरोवराः वराप्सरसः॥४४॥

ताभिः प्रहृष्टमात्राभिर्द्योतितः स महार्णवः ।
सौदामिनीभिर्नभसि घनवृन्दमिवानघ॥४५॥

ता जले स्थलवत्स्थित्वा जगुश्चाप्यथ वाहयन् ।
चक्रुश्चाभिनयं सम्यक्स्वर्गावास इवाङ्गनाः॥४६॥

जलवाद्यान्यवादयन्नित्यपि पाठः॥४६॥

गन्धैर्माल्यैश्च ता दिव्यैर्वस्त्रैश्चायतलोचनाः ।
हेलाभिर्हास्यभावैश्च जह्रुर्भैममनांसि ताः॥४७॥

कटाक्षैरिङ्गितैर्हास्यैः केलिरोषैः प्रसादितैः ।
मनोऽनुकूलैर्भैमानां समाजह्रुर्मनांसि ताः॥४८॥

उत्क्षिप्योत्क्षिप्य चाकाशं वातस्कन्धान्बहूंश्च तान् ।
मदिरावशगा भैमा मानयन्ति वराप्सराः॥४९॥

तान्भैमान्बहून्वातस्कन्धान् बहुषु वातस्कन्धेषु आवहप्रवहादिषु ऊर्ध्वोर्ध्वेषु वातमार्गेषु उत्तरोत्तररमणीयेषु उत्क्षिप्य नीत्वा तत्र विजहुरिति पूर्वेणान्वयः। ततश्च ते भैमास्ताः नारीर्मानयन्ति॥४९॥

कृष्णोऽपि तेषां प्रीत्यर्थं विजह्रे वियति प्रभुः ।
सर्वैः षोडशभिः सार्धं स्त्रीसहस्रैर्मुदान्वितः॥५०॥

एतां वियति क्रीडां कृष्णोऽपि चकारेत्याह- कृष्णोऽपीति। सर्वैरिति अष्टोत्तरशताधिकं ग्राह्यम्॥५०॥

प्रभावज्ञास्तु ते वीराः कृष्णस्यामिततेजसः ।
न जग्मुर्विस्मयं भैमा गाम्भीर्यं परमास्थिताः॥५१॥

विस्मयं दिवि क्रीडाकृतम्॥५१॥

केचिद्रैवतकं गत्वा पुनरायान्ति भारत ।
गृहान्यन्ये वनान्यन्ये काङ्क्षितान्यरिमर्दन॥५२॥

अपेयः पेयसलिलः सागरश्चाभवत्तदा ।
आज्ञया लोकनाथस्य विष्णोरतुलतेजसः॥५३॥

अधावन्स्थलवच्चापि जले जलजलोचनाः ।
गृह्य हस्ते तथा नार्यो युक्ता मज्जंस्तथापि च॥५४॥

इच्छया स्थलवज्जलेऽप्यधावन् इच्छया मज्जन् अमज्जंश्चेत्यर्थः॥५४॥

भक्ष्यभोज्यानि पेयानि चोष्यं लेह्यं तथैव च ।
बहुप्रकारं मनसा ध्याते तेषां भवत्युत॥५५॥

अम्लानमाल्यधारिण्यस्ताः स्त्रियस्ताननिन्दितान् ।
रहःसु रमयाञ्चक्रुः स्वर्गे देवरतानुगाः॥५६॥

नौभिर्गृहप्रकाराभिश्चिक्रीडुरपराजिताः ।
स्नातानुलिप्तमुदिताः सायाह्नेऽन्धकवृष्णयः॥५७॥

आयताश्चतुरस्राश्च वृत्ताश्च स्वस्तिकास्तथा ।
प्रासादा नौषु कौरव्य विहिता विश्वकर्मणा॥५८॥

स्वस्तिकाः शारिफलकाकाराः॥५८॥

कैलासमन्दरच्छन्दा मेरुच्छन्दास्तथैव च ।
तथा नानावयश्छन्दास्तथेहामृगरूपिणः॥५९॥

कैलासादिवच्छन्दो यथेष्टरूपित्वं यथेष्टकारित्वं च येषां ते॥५९॥

वैडूर्यतोरणैश्चित्राश्चित्राभिर्मणिभक्तिभिः ।
मसारगल्वर्कमयैश्चित्रभक्तिशतैरपि॥६०॥

मसारो मरकतः गलुश्चन्द्रकान्तः अर्कः सूर्यकान्तस्तैर्व्यस्तैः समस्तैर्वा चित्ररागै रञ्जितैरित्यर्थः। चित्रभक्तिशैतः नानारूपास्तरणशतैः॥६०॥

आक्रीडगरुडच्छन्दाश्चित्राः कनकरीतिभिः ।
क्रौञ्चच्छन्दाः शुकच्छन्दा गजच्छन्दास्तथापरे॥६१॥

आक्रीडगरुडः लीलागरुडसदृशः कनकरीतिभिः कनकधाराभिः॥६१॥

कर्णधारैर्गृहीतास्ता नावः कार्तस्वरोज्ज्वलाः ।
सलिलं शोभयामासुः सागरस्य महोर्मिमत्॥६२॥

समुच्छ्रितः सितैः पोतैर्यानपात्रैस्तथैव च ।
नौभिश्च झिल्लिकाभिश्च शुशुभे वरुणालयः॥६३॥

पोतैर्जलाखेटयोग्यैः क्षुद्रनौकारूपैः यानपात्रैः सर्वसम्भारसम्भृताभिः सामग्रीनौकाभिः नौभिः अतिवेगवतीभिदीर्घनौकाभिः। झिल्लिकाभिः प्रासादाद्यङ्किताभिर्नृत्यगीतादिलीलायोग्याभिरायताभिर्नौभिरिति भेदः। तत्र पोताः विमानवत्सञ्चरन्ति यानपात्राणि नन्दनसमृद्धिमन्ति। नावो रथदीर्घिकादियुक्ताः। झिल्लिकाः सर्वस्वर्ग्यपदार्थवत्यः॥६३॥

पुराण्याकाशगानीव गन्धर्वाणामितस्ततः ।
बभ्रमुः सागरजले भैमयानानि सर्वतः॥६४॥

इति क्रमात् श्लोकचतुष्टयेनाह- पुराणीत्यादिना॥६४॥

नन्दनच्छन्दयुक्तेषु यानपात्रेषु भारत ।
नन्दनप्रतिमं सर्वं विहितं विश्वकर्मणा॥६५॥

उद्यानानि सभावृक्षा दीर्घिकाः स्यन्दनानि च ।
निवेशितानि शिल्पानि तादृशान्येव सर्वथा॥६६॥

स्वर्गच्छन्देशु चान्येषु समासात्स्वर्गसन्निभाः ।
नारायणाज्ञया वीर विहिता विश्वकर्मणा॥६७॥

वनेषु रुरुवुर्हृद्यं मधुरं चैव पक्षिणः ।
मनोहरतरं चैव भैमानामतितेजसाम्॥६८॥

वनेषु नौस्थेष्वेव॥६८॥

देवलोकोद्भवाः श्वेता विलेपुः कोकिलास्तदा ।
मधुराणि विचित्राणि यदूनां काङ्क्षितानि च॥६९॥

चन्द्रांशुसमरूपेषु हर्म्यपृष्ठेषु बर्हिणः ।
ननृतुर्मधुरारावाः शिखण्डिगणसंवृताः॥७०॥

पताका यानपात्राणां सर्वाः पक्षिगणायुताः ।
भ्रमरैरुपगीताश्च स्रग्दामासक्तवासिभिः॥७१॥

नारायणाज्ञया वृक्षा पुष्पाणि मुमुचुर्भृशम् ।
ऋतवश्चारुरूपाणि विहायसि गतास्तथा॥७२॥

ववौ मनोहरो वातो रतिखेदहरः सुखः ।
रजोभिः सर्वपुष्पाणां पृक्तश्चन्दनशैत्यभृत्॥७३॥

शीतोष्णमिच्छतां तत्र बभूव वसुधापते ।
वासुदेवप्रसादेन भैमानां क्रीडतां तदा॥७४॥

इच्छताम् इच्छया बभूव॥७४॥

न क्षुत्पिपासा न ग्लानिर्न चिन्ता शोक एव च ।
आविवेश तदा भैमान्प्रभावाच्चक्रपाणिनः॥७५॥

अप्रशान्तमहातूर्या गीतनृत्योपशोभिताः ।
बभूवुः सागरक्रीडा भैमानामतितेजसाम्॥७६॥

बहुयोजनविस्तीर्णं समुद्रं सलिलाशयम् ।
रुद्धा चिक्रीडुरिन्द्राभा भैमाः कृष्णाभिरक्षिताः॥७७॥

परिच्छदस्यानुरूपं यानपात्रं महात्मनः ।
नारायणस्य देवस्य विहितं विश्वकर्मणा॥७८॥

परिच्छदस्य षोडशस्त्रीसहस्रपरिवारस्यानुरूपम्॥७८॥

रत्नानि यानि त्रैलोक्ये विशिष्टानि विशाम्पते ।
कृष्णस्य तानि सर्वाणि यानपात्रेऽतितेजसः॥७९॥

पृथक्पृथङ्निवासाश्च स्त्रीणां कृष्णस्य भारत ।
मणिवैडूर्यचित्रास्ताः कार्तस्वरविभूषिताः॥८०॥

सर्वर्तुकुसुमाकीर्णाः सर्वगन्धाधिवासिताः ।
यदुसिंहैः शुभैर्जुष्टाः शकुनैः स्वर्गवासिभिः॥८१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि भानुमतीहरणे अष्टाशीतितमोऽध्यायः॥८८॥
छालिक्यक्रीडा-०८९

वैशम्पायन उवाच। रेमे बलश्चन्दनपङ्कदिग्धः कादम्बरीपानकलः पृथुश्रीः ।
रक्तेक्षणो रेवतिमाश्रयित्वा प्रलम्बबाहुः स्खलितः प्रपातः॥१॥

नवाधिकेऽशीतितमेऽध्यायेऽमुष्मिन्निरूप्यते। छालिक्याद्यागमः क्रीडा गानं भोज्यं महाद्भुतम्॥ अथ जलक्रीडावर्णनम्- रेमे बल इति॥ कादम्बरीपानकलः कादम्बप्रसूतमदिरापानेन मनोहरः। रेवतिमिति हृस्वत्वमार्षं छन्दोनुरोधात्॥१॥

नीलाम्बुदाभे वसने वसानश्चन्द्रांशुगौरो मदिराविलाक्षः ।
रराज रामोऽम्बुदमध्यमेत्य सम्पूर्णबिम्बो भगवानिवेन्दुः॥२॥

वामैककर्णामलकुण्डलश्रीः स्मेरन्मनोज्ञाब्जकृतावतंसः ।
तिर्यक्कटाक्षं प्रियया मुमोद रामो मुखं चार्वभिवीक्ष्यमाणः॥३॥

अथाज्ञया कंसनिकुम्भशत्रोरुदाररूपोऽप्सरसां गणः सः ।
द्रष्टुं मुदा रेवतिमाजगाम वेलालयं स्वर्गसमानमृद्ध्या॥४॥

वेलालयं सागरम्॥४॥

तां रेवतीं चाप्यथ वापि रामं सर्वा नमस्कृत्य वराङ्गयष्ट्यः ।
वाद्यानुरूपं ननृतुः सुगात्र्यः समन्ततोऽन्या जगिरे च सम्यक्॥५॥

ता अप्सरसः तासु च काश्चन वाद्यानुरूपं ननृतुः अन्याः सम्यक् सर्वभावेन जगुः॥५॥

चक्रुस्तथैवाभिनयेन लब्धं यथावदेषां प्रियमर्थयुक्तम् ।
हृद्यानुकूलं च बलस्य तस्य तथाज्ञया रैवतराजपुत्र्याः॥६॥

अभिनयेन हस्तादिचालनेन लब्धं शिक्षितं यत् हावादि एषां यदूनाम् अर्थयुक्तप्रयोजनवत् हृद्यं च तदनुकूलं च॥६॥

चक्रुर्हसन्त्यश्च तथैव रासं तद्देशभाषाकृतिवेषयुक्ताः ।
सहस्ततालं ललितं सलीलं वराङ्गना मङ्गलसम्भृताङ्ग्यः॥७॥

रासं गानम्॥७॥

सङ्कर्षणाधोक्षजनन्दनानि सङ्कीर्तयन्त्योऽथ च मङ्गलानि ।
कंसप्रलम्बादिवधं च रम्यं चाणूरघातं च तथैव रङ्गे॥८॥

कंसप्रलम्बादिवधं तदनुकारि नृत्यं चक्रुरित्यर्थः॥८॥

यशोदया च प्रथितं यशोऽथ दामोदरत्वं च जनार्दनस्य ।
वधं तथारिष्टकधेनुकाभ्यां व्रजे च वासं शकुनीवधं च॥९॥

अरिष्टधेनुकाभ्याम् अरिष्टधेनुकयोः॥९॥

तथा च भग्नौ यमलार्जुनौ तौ सृष्टिं वृकाणामपि वत्सयुक्ताम् ।
स कालियो नागपतिर्ह्रदे च कृष्णेन दान्तश्च यथा दुरात्मा॥१०॥

शङ्खह्रदादुद्धरणं च वीर पद्मोत्पलानां मधुसूदनेन ।
गोवर्द्धनोऽर्थे च गवां धृतोऽभूद्यथा च कृष्णेन जनार्दनेन॥११॥

शङ्खहृदात् शङ्खादिनिधियुक्तात्तस्मादेव हृदात्॥११॥

कुब्जां यथा गन्धकपीषिकां च कुब्जत्वहीनां कृतवांश्च कृष्णः ।
अवामनं वामनकं च चक्रे कृष्णो तथात्मानमजोऽप्यनिन्द्यः॥१२॥

सौभप्रमाथं च हलायुधत्वं वधं मुरस्याप्यथ देवशत्रोः ।
गन्धारकन्यावहने नृपाणां रथे तथा योजनमूर्जितानाम्॥१३॥

ततः सुभद्राहरणे जयं च युद्धे च बालाहकजम्बुमाले ।
रत्नप्रवेकं च युधजितैर्यत्समाहृतं शक्रसमक्षमासीत्॥१४॥

बालाहकजम्बुमालिभ्यां सह वृत्ते युद्धे तच्च पाद्मे प्रसिद्धम्॥१४॥

एतानि चान्यानि च चारुरूपा जगुः स्त्रियः प्रीतिकराणि राजन् ।
सङ्कर्षणाधोक्षजहर्षणानि चित्राणि चानेककथाश्रयाणि॥१५॥

कादम्बरीपानमदोत्कटस्तु बलः पृथुश्रीः स चुकूर्द रामः ।
सहस्ततालं मधुरं समं च स भार्यया रेवतराजपुत्र्या॥१६॥

कुर्दधातुरत्र गानार्थः; चुकूर्द जगौ॥१६॥

तं कूर्दमानं मधुसूदनश्च दृष्ट्वा महात्मा च मुदान्वितोऽभूत् ।
चुकूर्द सत्यासहितो महात्मा हर्षागमार्थं च बलस्य धीमान्॥१७॥

समुद्रयात्रार्थमथागतश्च चुकूर्द पार्थो नरलोकवीरः ।
कृष्णेन सार्धं मुदितश्चुकूर्द सुभद्रया चैव वराङ्गयष्ट्या॥१८॥

गदश्च धीमानथ सारणश्च प्रद्युम्नसाम्बौ नृप सात्यकिश्च ।
सात्राजितीसूनुरुदारवीर्यः सुचारुदेष्णश्च सुचारुरूपः॥१९॥

वीरौ कुमारौ निशठोल्मुकौ च रामात्मजौ वीरतमौ चुकूर्दतुः ।
अक्रूरसेनापतिशङ्करश्च तथापरे भैमकुलप्रधानाः॥२०॥

तद्यानपात्रं ववृधे तदानीं कृष्णप्रभावेण जनेन्द्रपुत्र ।
आपूर्णमापूर्णमुदारकीर्ते चुकूर्दयद्भिर्नृप भैममुख्यैः॥२१॥

यानपात्रं नौः॥२१॥

तै राससक्तैरतिकूर्दमानैर्यदुप्रवीरैरमरप्रकाशैः ।
हर्षान्वितं वीर जगत्तथाभूच्छेमुश्च पापानि जनेन्द्रसूनो॥२२॥

देवोऽतिथिस्तत्र च नारदोऽथ विप्रप्रियार्थं मुरकेशिशत्रोः ।
चुकूर्द मध्ये यदुसत्तमानां जटकलापागलितैकदेशः॥२३॥

रासप्रणेता मुनि राजपुत्र स एव तत्राभवदप्रमेयः ।
मध्ये च गत्वा च चुकूर्द भूयो हेलाविकारैः सविडम्बिताङ्गैः॥२४॥

हे राजपुत्र मुनिरत्र दीर्घाभावश्छान्दसः। हेलाविकारैः लीलानुकारैः। रासप्रणेता मुनिराजपुत्रेत्यपि पाठः॥२४॥

स सत्यभामामथ केशवं च पार्थं सुभद्रां च बलं च देवम् ।
देवीं तथा रैवतराजपुत्रीं सन्दृश्य सन्दृश्य जहास धीमान्॥२५॥

ता हासयामास सुधैर्ययुक्तास्तैस्तैरुपायैः परिहासशीलः ।
चेष्टानुकारैर्हसितानुकारैर्लीलानुकारैरपरैश्च धीमान्॥२६॥

आभाषितां किञ्चिदिवोपलक्ष्य नादातिनादान्भगवान्मुमोच ।
हसन्विहासांश्च जहास हर्षाद्धास्यागमे कृष्ण विनोदनार्थम्॥२७॥

कृष्णाज्ञया सातिशयानि तत्र यथानुरूपाणि ददुर्युवत्यः ।
रत्नानि वस्त्राणि च रूपवन्ति जगत्प्रधानानि नृदेवसूनोः॥२८॥

माल्यानि च स्वर्गसमुद्भवानि सन्तानदामान्यतिमुक्तकानि ।
सर्वर्तुकान्यप्यनयंस्तदानीं ददुर्हरेरिङ्गितकालतज्ज्ञाः॥२९॥

रासावसाने त्वथ गृह्य हस्ते महामुनिं नारदमप्रमेयः ।
पपात कृष्णो भगवान्समुद्रे सात्राजितीं चार्जुनमेव चाथ॥३०॥

उवाच चामेयपराक्रमोऽथ शैनेयमीषत्प्रहसन्पृथुश्रीः ।
द्विधा कृतास्मिन्पतताशु भूत्वा क्रीडाजले नौस्तु सहाङ्गनाभिः॥३१॥

सरेवतीकोऽस्तु बलोऽर्द्धनेता पुत्रा मदीयाश्च सहार्द्धभैमाः ।
भैमार्द्धमेवाथ बलात्मजाश्च सत्पक्षिणः सन्तु समुद्रतोये॥३२॥

सहार्द्धभैमाः अर्धभैमैः सह वर्तमानाः। पुत्रयोर्व्यत्यासः समत्वद्योतनार्थः॥३२॥

आज्ञापयामास ततः समुद्रं कृष्णः स्मितं प्राञ्जलिनं प्रतीतः ।
सुगन्धतोयो भव मृष्टतोयस्तथा भव ग्राहविवर्जितश्च॥३३॥

दृश्या च ते रत्नविभूषिता तु सा वेलिकाभूरथ पत्सुखा च ।
मनोऽनुकूलं च जनस्य तत्तत् प्रयच्छ विज्ञास्यसि मत्प्रभावात्॥३४॥

वेलिका तीरसम्बन्धिनी पत्सुखा पादयोः सुखस्पर्शा यद्वस्त्वन्तरमितीति॥३४॥

भवस्यपेयोऽप्यथ चेष्टपेयो जनस्य सर्वस्य मनोऽनुकूलः ।
वैडूर्यमुक्तामणिहेमचित्रा भवन्तु मत्स्यास्त्वयि सौम्यरूपाः॥३५॥

बिभृस्व च त्वं कमलोत्पलानि सुगन्धसुस्पर्शरसक्षमाणि ।
षट्पादजुष्टानि मनोहराणि कीलालवर्णैश्च समन्वितानि॥३६॥

मैरेयमाध्वीकसुरासवानां कुम्भांश्च पूर्णान्स्थपयस्व तोये ।
जाम्बूनदं पाननिमित्तमेषां पात्रं पपुर्येषु ददस्व भैमाः॥३७॥

मैरेयादयो मद्यभेदाः मैरेयमत्र गौडी सुरा पौष्प्या निषेधात् माध्वीकसुरा मधुपुष्पसम्भवा आसवस्तालादिसम्भवः। स्वतोये स्वजलोपरि स्थापयेत्यत्र हृस्वत्वमार्षम्। पपुः पिबेयुः॥३७॥

पुष्पोच्चयैर्वासितशीततोयो भवाप्रमत्तः खलु तोयराशे ।
यथा व्यलीकं न भवेद्यदूनां सस्त्रीजनानां कुरु तत्प्रयत्नम्॥३८॥

व्यलीकमन्याय्यम्॥३८॥

इतीदमुक्त्वा भगवान्समुद्रं ततः प्रचिक्रीड सहार्जुनेन ।
सिषेच पूर्वं नृप नारदं तु सात्राजिती कृष्णमुखेङ्गितज्ञा॥३९॥

ततो मदावर्जितचारुदेहः पपात रामः सलिले सलीलम् ।
साकारमालम्ब्य करं करेण मनोहरां रैवतराजपुत्रीम्॥४०॥

साकारम् आकारः कामगीतं तेन सह यथा स्यात्तथा॥४०॥

कृष्णात्मजा ये त्वथ भैममुख्या रामस्य पश्चात्पतिताः समुद्रे ।
विरागवस्त्राभरणाः प्रहृष्टाः क्रीडाभिरामा मदिराविलाक्षाः॥४१॥

शेषास्तु भैमा हरिमभ्युपेताः क्रीडाभिरामा निशठोल्मुकाद्याः ।
विचित्रवस्त्राभरणाश्च मत्ताः सन्तानमाल्यावृतकण्ठदेशाः॥४२॥

वीर्योपपन्नाः कृतचारुचिह्ना विलिप्तगात्रा जलपात्रहस्ताः ।
गीतानि तद्वेषमनोहराणि स्वरोपपन्नान्यथ गायमानाः॥४३॥

ततः प्रचक्रुर्जलवादितानि नानास्वराणि प्रियवाद्यघोषाः ।
सहाप्सरोभिस्त्रिदिवालयाभिः कृष्णाज्ञया वेशवधूशतानि॥४४॥

आकाशगङ्गाजलवादनज्ञाः सदा युवत्यो मदनैकचित्ताः ।
अवादयंस्ता जलदर्दुराश्च वाद्यानुरूपं जगिरे च हृष्टाः॥४५॥

जलदर्दुरान् जलवाद्यविशेषान्॥४५॥

कुशेशयाकोशविशालनेत्राः कुशेशयापीडविभूषिताश्च ।
कुशेशयानां रविबोधितानां जह्रुः श्रियं ताः सुरवारमुख्याः॥४६॥

कुशेशयाकोशः कमलकलिका आपीडो मुकुटं सुराणामिवचारूणि दौर्गन्धादिरहितानि मुखानि यांसा ताः॥४६॥

स्त्रीवक्त्रचन्द्रैः सकलेन्दुकल्पै रराज राजञ्छतशः समुद्रः ।
यदृच्छया देवविधानतो वा नभो यथा चन्द्रसहस्रकीर्णम्॥४७॥

समुद्रमेघः स रराज राजञ्च्छतह्रदास्त्रीप्रभयाभिरामः ।
सौदामिनीभिन्न इवाम्बुनाथो देदीप्यमानो नभसीव मेघः॥४८॥

नरायणश्चैव सनारदश्च सिषेच पक्षे कृतचारुचिह्नः ।
बलं सपक्षं कृतचारुचिह्नं स चैव पक्षं मधुसूदनस्य॥४९॥

पक्षे एकत्र स्थितो बलं सिषेचेत्यन्वयः। स च बलः॥४९॥

हस्तप्रमुक्तैर्जलयन्त्रकैश्च प्रहृष्टरूपाः सिषिचुस्तदानीम् ।
रागोद्धता वारुणिपानमत्ताः सङ्कर्षणाधोक्षजदेवपत्न्यः॥५०॥

आरक्तनेत्रा जलमुक्तिसक्ताः स्त्रीणां समक्षं पुरुषायमाणाः ।
ते नोपरेमुः सुचिरं च भैमा मानं वहन्तो मदनं मदं च॥५१॥

ते भैमा नोपरेमुः क्रीडां न तत्यजुः॥५१॥

अतिप्रसङ्गं तु विचिन्त्य कृष्णस्तान्वारयामास रथाङ्गपाणिः ।
स्वयं निवृत्तो जलवाद्यशब्दैः सनारदः पार्थसहायवांश्च॥५२॥

कृष्णेङ्गितज्ञा जलयुद्धसङ्गाद्भैमा निवृत्ता दृढमानिनोऽपि ।
नित्यं तथानन्दकराः प्रियाणां क्रियाश्च तेषां ननृतुः प्रतीताः॥५३॥

नृत्यावसाने भगवानुपेन्द्रस्तत्याज धीमानथ तोयसङ्गान् ।
उत्तीर्य तोयादनुकूललेपं जग्राह दत्त्वा मुनिसत्तमाय॥५४॥

उपेन्द्रमुत्तीर्णमथाशु दृष्ट्वा भैमा हि ते तत्यजुरेव तोयम् ।
विविक्तगात्रास्त्वथ पानभूमिं कृष्णाज्ञया ते ययुरप्रमेयाः॥५५॥

विविक्तगात्राः शुद्धवपुषः, विभक्तगात्रा इति पाठे चन्दनाद्यनुलिप्तावयवाः॥५५॥

यथानुपूर्व्या च यथावयश्च यत्सन्नियोगाश्च तदोपविष्टाः ।
अन्नानि वीरा बुभुजुः प्रतीताः पपुश्च पेयानि यथानुकूलम्॥५६॥

यत्सन्नियोगाः यदनुशिष्टाः प्रतीताः प्रख्याताः यथानुकूलं यथाहितम्॥५६॥

मांसानि पक्वानि फलाम्लकानि चुक्रोत्तरेणाथ च दाडिमेन ।
निष्टप्तशूलाञ्छकलान्पशूंश्च तत्रोपजह्रुः शुचयोऽथ सूदाः॥५७॥

फलप्रभावा अम्लिका अम्लता येषु तानि। चुक्रोत्तरेण चुक्रताधिकेन, सूदाः सूपकाराः, सूपा इति वा पाठः। निष्टप्तशूलान् शूलं समारोप्य निष्टप्तानित्यर्थः। निष्टप्तशूल्यानिति वा निष्टप्तशूल्यान् अतितप्तपक्वान् शकलान् खण्डितान् पशून् हरिणशूकरादीन्॥५७॥

सुस्विन्नशूल्यान्महिषांश्च बालाञ्छूल्यन्सुनिष्टप्तघृतावसिक्तान् ।
वृक्षाम्लसौवर्चलचुक्रपूर्णान्पौरोगवोक्त्या उपजह्रुरेषाम्॥५८॥

सुस्विन्नशूल्यान् शूलमारोप्य स्विन्नानित्यर्थः। वृक्षाम्लम् अम्लवेतसादि पौरोगवोक्त्या सूदोक्तक्रमेण उपजह्रुः परिवेषणं चक्रुः॥५८॥

पौरोगवोक्त्या विधिना मृगाणां मांसानि सिद्धानि च पीवराणि ।
नानाप्रकाराण्युपजह्रुरेषां मृष्टानि पक्वानि च चुक्रचूतैः॥५९॥

पीवराणि पुष्टानि॥५९॥

पार्श्वानि चान्ये शकलानि तत्र ददुः पशूनां घृतमृक्षितानि ।
सामुद्रचूर्णैरवचूर्णितानि चूर्णेन मृष्टेन समारिचेन॥६०॥

समूलकैर्दाडिममातुलिङ्गैः पर्णासहिङ्ग्वार्द्रकभूस्तृणैश्च ।
तदोपदंशैः सुमुखोत्तरैस्ते पानानि हृष्टाः पपुरप्रमेयाः॥६१॥

मातुलिङ्गानि रद्धकानि, पर्णासः कुठेरकं, भूस्तृणं शाकभेदः, उपदंशैः पानपात्रैः॥६१॥

कट्वाङ्कशूलैरपि पक्षिभिश्च घृताम्लसौवर्चलतैलसिक्तैः ।
मैरेयमाध्वीकसुरासवांस्ते पपुः प्रियाभिः परिवार्यमाणाः॥६२॥

कट्वाङ्कः कटुरसः तद्युक्तकाष्ठशूलानि येषु तैः॥६२॥

श्वेतेन युक्ता नृप शोणितेन भक्ष्यान्सुगन्धाँल्लवणान्वितांश्च ।
आर्द्रान्किलादान्घृतपूर्णकांश्च नानाप्रकारानपि खण्डखाद्यान्॥६३॥

आर्द्रादीन् खाद्यविशेषान्, किलादान् महिषीदुग्धसिक्तान्॥६३॥

अपानपाश्चोद्धवभोजमिश्राः शाकैश्च सूपैश्च बहुप्रकारैः ।
पेयैश्च दध्ना पयसा च वीराः स्वन्नानि राजन्बुभुजुः प्रहृष्टाः॥६४॥

अपानपाः त्यक्तमद्यादिपानाः पानमित्युपलक्षणं मांसादेः॥६४॥

तथारनालांश्च बहुप्रकारान्पपुः सुगन्धानपि पालवीषु ।
शृतं पयः शर्करया च युक्तं फलप्रकारांश्च बहूंश्च खादन्॥६५॥

आरनालान् काञ्जिकानि रसालानिति पाठे तु रसालान् अपरिमितघृतशर्करादिसंस्कृतान्। पालवीषु कपर्दनिर्मितपात्रेषु वा बृह्रच्छरावेषु। खादन् अखादन्॥६५॥

तृप्ताः प्रवृत्ताः पुनरेव वीरास्ते भैममुख्या वनितासहायाः ।
गीतानि रम्याणि जगुः प्रहृष्टाः कान्ताभिनीतानि मनोहराणि॥६६॥

आज्ञापयामास ततः स तस्यां निशि प्रहृष्टो भगवानुपेन्द्रः ।
छालिक्यगेयं बहुसन्निधानं यदेव गान्धर्वमुदाहरन्ति॥६७॥

जग्राह वीणामथ नारदस्तु षड्ग्रामरागादिसमाधियुक्ताम् ।
हल्लीसकं तु स्वयमेव कृष्णः सवंशघोषं नरदेव पार्थः॥६८॥

षट्ग्रामाः स्थानानि येषां रागाणां तैर्यः समाधिः चित्तैकाग्र्यं तद् यस्यां तां ते च मध्यशुद्धभिन्नगौडमिश्रगीतरूपाः। हल्लीसकं बहुभिः स्त्रीभिः सह नृत्यम्। झल्लीसकमिति पाठे तदाख्यवाद्यविशेषम्। बल्लीसकमिति पाठे निषादर्षभादिसप्तस्वरयुतं झल्लीसकं वाद्यविशेषम्। जग्राहेति विपरिणामेन क्रियासम्बन्धः। वंशघोषेण सह यथा स्यात्तथा॥६८॥

मृदङ्गवाद्यानपरांश्च वाद्यान्वराप्सरस्ता जगृहुः प्रतीताः ।
आसारितान्ते च ततः प्रतीता रम्भोत्थिता साभिनयार्थतज्ज्ञाः॥६९॥

पार्थस्तु मृदङ्गाद्यान् जग्राहेत्यनुषङ्गः। अपरांश्च वाद्यान् वराप्सरसो जगृहुरिति सम्बन्धः। आसारितान्त इति- भरतो मुनिश्चतुर्विधमासारितं नृत्यविधावुपदिदेशेति। प्रथमं नर्तकीप्रवेशः, ततश्चासारितार्थाभिनयं नाट्यं, ततस्तालानुगत्यङ्गाहरणं, ततो देवताचिह्नरूपेण नृत्यं, एवं चतुर्ष्वप्यभिसारेषूक्तम्। एवमेष नर्तकीप्रवेशो भरतस्यानुमतः। तदन्ते रम्भा नर्तकी उत्थिता प्रविष्टा यतः सा अभिनयचतुरा॥६९॥

तयाभिनीते वरगात्रयष्ट्या तुतोष रामश्च जनार्दनश्च ।
अथोर्वशी चारुविशालनेत्रा हेमा च राजन्नथ मिश्रकेशी॥७०॥

अभिनीते अभिनये कृते द्वितीयासारे उर्वशी उत्थिता इत्यनुषङ्गः॥७०॥

तिलोत्तमा चाप्यथ मेनका च एतास्तथान्याश्च हरिप्रियार्थम् ।
जगुस्तथैवाभिनयं च चक्रुरिष्टैश्च कामैर्मनसोऽनुकूलैः॥७१॥

ता वासुदेवेऽप्यनुरक्तचित्ताः स्वगीतनृत्याभिनयैरुदारैः ।
नरेन्द्रसूनो परितोषितेन ताम्बूलयोगाश्च वराप्सरोभिः॥७२॥

ताः रम्भाद्याः परितोषितेन परितोषणेन तोषयामासुरिति शेषः। ताम्बूलयोगाश्चेति पदत्रयं वाक्यम्॥७२॥

तदागताभिर्नृवराहृतास्तु कृष्णेप्सया मानमयास्तथैव ।
फलानि गन्धोत्तमवन्ति वीराश्छालिक्यगान्धर्वमथाहृतं च॥७३॥

तदा जलक्रीडायामागताभिः पञ्चचूडाकौबेरीमाहेन्द्रीभिश्च ताम्बूलयोगाः गर्वाङ्कुराः आहृताः वयमेताभ्योऽधिका इति स्वगुणा आविष्कृता इत्यर्थः। तदेवाह- फलानीत्येकश्लोको वाक्यम्॥७३॥

कृष्णेच्छया च त्रिदिवान्नृदेव अनुग्रहार्थं भुवि मानुषाणाम् ।
स्थितं च रम्यं हरितेजसेव प्रयोजयामास स रौक्मिणेयः॥७४॥

कृष्णेच्छया मानुषाणामनुग्रहाय त्रिदिवात्तानमिच्छालिक्यं भुवि आहृतं फलानि च देवयोग्यानि आहृतानि। ततः किमत आह। स्थितमिति प्रद्युम्नादौ॥७४॥

छालिक्यगान्धर्वमुदारबुद्धिस्तेनैव ताम्बूलमथ प्रयुक्तम् ।
प्रयोजितं पञ्चभिरिन्द्रतुल्यैश्छालिक्यमिष्टं सततं नराणाम्॥७५॥

पञ्चभिः कृष्णरामप्रद्युम्नानिरुद्धसाम्बैः॥७५॥

शुभावहं वृद्धिकरं प्रशस्तं मङ्गल्यमेवाथ तथा यशस्यम् ।
पुण्यं च पुष्ट्यभ्युदयावहं च नारायणस्येष्टमुदारकीर्तेः॥७६॥

भरापहं धर्मभरावहं च दुःस्वप्ननाशं परिकीर्त्यमानम् ।
करोति पापं च तथा विहन्ति शृण्वन्सुरावासगतो नरेन्द्रः॥७७॥

दुःस्वप्ननाशं करोति तथा पापं च विहन्तीत्यन्वयः॥७७॥

छालिक्यगान्धर्वमुदारकीर्तिर्मेने किलैकं दिवसं सहस्रम् ।
चतुर्युगानां नृप रेवतोऽथ ततः प्रवृत्ता च कुमारजातिः॥७८॥

यच्छालिक्यगान्धर्वं सुरावासगतो रेवतः शृण्वन् चतुर्युगानां सहस्रम् एकं दिवसं मेने तत एव कुमारजातिप्रमुखा गन्धर्वभेदाः प्रवृत्ता इति वाक्यार्थः॥७८॥

गान्धर्वजातिश्च तथापरापि दीपाद्यथा दीपशतानि राजन् ।
विवेद कृष्णश्च स नारदश्च प्रद्युम्नमुख्यैर्नृप भैममुख्यैः॥७९॥

विज्ञानमेतद्धि परे यथावदुद्देशमात्राच्च जनास्तु लोके ।
जानन्ति छालिक्यगुणोदयानां तोयं नदीनामथवा समुद्रे॥८०॥

ज्ञातुं समर्थो हिमवान्गिरिर्वा फलाग्रतो वा गुणतोऽथ वापि ।
शक्यं न छालिक्यमृते तपोभिः स्थाने विधानान्यथ मूर्च्छनासु॥८१॥

स्थाने तद्युक्तम्। नालम् इति पाठः सुगमः॥८१॥

षड्ग्रामरागेषु च तत्र कार्यं तस्यैकदेशावयवेन राजन् ।
लेशाभिधानां सुकुमारजातिं निष्ठां सुदुःखेन नराः प्रयान्ति॥८२॥

लेशाभिधानां सुकुमारजातिं गायन्तो निष्ठां समाप्तिं नरा दुःखेन गच्छन्ति छालिक्यस्य का वर्तित्यर्थः॥८२॥

छालिक्यगान्धर्वगुणोदयेषु ये देवगन्धर्वमहर्षिसङ्घाः ।
निष्ठां प्रयान्तीत्यवगच्छ बुद्ध्या छालिक्यमेवं मधुसूदनेन॥८३॥

भैमोत्तमानां नरदेव दत्तं लोकस्य चानुग्रहकाम्ययैव ।
गतं प्रतिष्ठाममरोपगेयं बाला युवानश्च तथैव वृद्धाः॥८४॥

क्रीडन्ति भैमाः प्रसवोत्सवेषु पूर्वं तु बालाः समुदावहन्ति ।
वृद्धाश्च पश्चात्प्रतिमानयन्ति स्थानेषु नित्यं प्रतिमानयन्ति॥८५॥

मर्त्येषु मर्त्यान्यदवोऽतिवीराः स्ववंशधर्मं समनुस्मरन्तः ।
पुरातनं धर्मविधानतज्ज्ञाः प्रीतिः प्रमाणं न वयः प्रमाणम्॥८६॥

प्रीतिप्रमाणानि हि सौहृदानि प्रीतिं पुरस्कृत्य हि ते दशार्हाः ।
वृष्ण्यन्धकाः पुत्रसुखा बभूवुर्विसर्जिताः केशिविनाशनेन॥८७॥

स्वर्गं गताश्चाप्सरसां समूहाः कृत्वा प्रणामं मधुकंसशत्रोः ।
प्रहृष्टरूपस्य सुहृष्टरूपा बभूव हृष्टः सुरलोकसङ्घः॥८८॥

प्रहृष्टरूपस्य सुहृष्टरूपा विनोदिताः केशिनिषूदनेनेत्यपि पाठः॥८८॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि भानुमतीहरणे छालिक्यक्रीडावर्णने एकोननवतितमोऽध्यायः॥८९॥
भानुमतीहरणं निकुम्भवधश्च-०९०

वैशम्पायन उवाच। तेषां क्रीडावसक्तानां यदूनां पुण्यकर्मणाम् ।
छिद्रमासाद्य दुर्बुद्धिर्देवशत्रुर्दुरासदः॥१॥

अथास्मिन्नवतितमे ह्यध्याये सन्निरूप्यते। भानुमत्यापहरणं निकुम्भस्य तथा वधः॥१॥ तेषां क्रीडेति॥१॥

कन्यां भानुमतीं नाम भानोर्दुहितरं नृप ।
जहारात्मवधाकाङ्क्षी निकुम्भो नाम दानवः॥२॥

भानोर्यादवविशेषस्य॥२॥

अन्तर्हितो मोहयित्वा यदूनां प्रमदाजनम् ।
मायावी मायया राजन्पूर्ववैरमनुस्मरन्॥३॥

भ्रातुर्हि वज्रनाभस्य तस्य कन्या प्रभावती ।
प्रद्युम्नेन हृता वीर वज्रनाभस्तथा हतः॥४॥

पूर्ववैरं प्रपञ्चयति- भ्रातुर्हीति॥४॥

भानोरेव तथारण्ये वसत्यवसरेण हि ।
अस्वाधीने दुराधर्षे छिद्रज्ञो दानवाधमः॥५॥

प्रस्तुतमाह- भानोरेवेति॥ भानोरेव कन्यापुरे महानाद आर्तरावः। सहसा आकस्मिकः। समुपस्थितः अभ्युत्थितः। कथम्भूते कन्यापुरे दुराधर्षेऽप्यस्वाधीने निरीश्वरे रक्षकाभावात् यदूनां न तु क्रीडासक्तत्वात्। तत्तु नातिचित्रमित्याह- छिद्रज्ञ इति। अवसरेणेत्येनप्प्रत्ययान्तम्। अवसरे दानवाधमो निकुम्भः छिद्रान्वेषी मायया वञ्चनरतो वसति तिष्ठत्येव। क्व अरण्ये द्वारकोपवने इति सार्द्धश्लोको वाक्यम्। ह्रियन्त्यां ह्रियमाणायाम्॥५॥

कन्यापुरे महानादः सहसा समुपस्थितः ।
तस्यां ह्रियन्त्यां कन्यायां रुदन्त्यां समितिञ्जयः॥६॥

वसुदेवाहुकौ वीरौ दंशितौ निर्गतावुभौ ।
आर्तनादमुपश्रुत्य भानोः कन्यापुरे तदा॥७॥

न दृष्टिगोचरौ तौ तु ददृशातेऽपकारिणम् ।
तथैव दंशितौ यातौ यत्र कृष्णो महाबलः॥८॥

श्रुतार्थः स्वं विमानं तदारुरोह जनार्दनः ।
पार्थेन सहितस्तार्क्ष्यं नागशत्रुमरिन्दमः॥९॥

विमानं वाहनं तर्हि किं सामान्यं न तार्क्ष्यमित्यादि॥९॥

रथी त्वमनुगच्छेति सन्दिश्य मकरध्वजम् ।
त्वरेति गरुडं वीरः सन्दिदेश च काश्यपम्॥१०॥

वज्रं नगरमायान्तं निकुम्भं रणदुर्जयम् ।
पार्थकृष्णौ महात्मानावासेदतुररिन्दमौ॥११॥

प्रद्युम्नश्च महातेजा मायिनां प्रवरो नृप ।
निकुम्भश्चाथ तान्दृष्ट्वा त्रिधाऽऽत्मानमथाकरोत्॥१२॥

तान् दानवान्॥१२॥

तान्सर्वान्योधयामास निकुम्भः प्रहसन्निव ।
बहुकण्टकगुर्वीभिर्गदाभिरमरोपमः॥१३॥

तान् कृष्णादीन्॥१३॥

सव्येनालम्ब्य हस्तेन कन्यां भानुमतीं नृपः ।
दक्षिणेनाथ हस्तेन गदया प्राहरत्पुनः॥१४॥

भानुमतीं चर्मस्थानीयाम्॥१४॥

कन्यार्थं न च कृष्णो वा कामो वा नृपसत्तमः ।
निर्दयं प्रहरन्ति स्म निकुम्भे च महासुरे॥१५॥

समर्थास्ते महात्मानः शत्रुं हन्तुं दुरासदाः ।
निशश्वसुर्नरपते दयाभारावपीडिताः॥१६॥

निशश्वसुः निश्वासं मुमुचुः॥१६॥

श्रेष्ठो धनुष्मतां पार्थः सर्वथा कुशलो युधि ।
नागोष्ट्रविधिना दैत्यं शरपङ्क्त्या जघान ह॥१७॥

नागोष्ट्रविधिनेति। यथा कश्चिद्धनुर्द्धरोऽस्त्रलाघवं दर्शयन् अजगरवेष्टितमुष्ट्रं दृष्ट्वा अस्त्रप्रयोगविशेषादजगरमेव हन्ति न तु क्रमेलकं तद्वत्॥१७॥

ते तु वैतस्तिकैर्बाणैर्विविधान्दानवान्युधि ।
न कन्यां कलया युक्त्या शिक्षया च महीपते॥१८॥

ते कृष्णप्रमुखा जघ्नुरिति क्रियाविपरिणामेनानुषङ्गः॥१८॥

ततः स कन्यया सार्धं तत्रैवान्तरधीयत ।
आसुरीमाश्रितो मायां न च तां वेत्ति कश्चन॥१९॥

तं कृष्णो रौक्मिणेयश्च पृष्ठतोऽनुययुस्तदा ।
हारितः शकुनो भूत्वा तस्थावथ महासुरः॥२०॥

पृष्ठतोऽव्यवहितावेवानुययतुरित्यर्थः॥२०॥

तं बाणैः पुनरेवाथ वीरो भूयो धनञ्जयः ।
वैतस्तिकैर्मर्मभिद्भिः कन्यां रक्षन्नताडयत्॥२१॥

स इमां पृथिवीं कृत्स्नां सप्तद्वीपां महासुरः ।
बभ्रामानुगतश्चैव तैर्वीरैररिमर्दनः॥२२॥

अरिमर्दनोऽपि॥२२॥

गोकर्णस्योपरिष्टात्तु पर्वतस्य महासुरः ।
पपात वेलां गङ्गायाः पुलिने सह कन्यया॥२३॥

न देवा नासुराश्चापि लङ्घयन्ति तपोधनाः ।
गोकर्णं तेजसा गुप्तं महादेवस्य भारत॥२४॥

एतदन्तरमासाद्य प्रद्युम्नः शीघ्रविक्रमः ।
कन्यां भानुमतीं भैमो जग्राह रणदुर्जयः॥२५॥

भैमः प्रद्युम्नः॥२५॥

असुरः सोऽर्दितो राजन्कृष्णाभ्यां निशितैः शरैः ।
त्यक्त्वाथोत्तरगोकर्णं निकुम्भो दक्षिणां दिशम् ।
जगाम पृष्ठतो यातौ कृष्णौ तार्क्ष्यगतौ तदा॥२६॥

विवेश षट्पुरं चैव ज्ञातीनामालयं तदा ।
तत्र वीरौ गुहाद्वारि कृष्णौ रात्रौ तदोषतुः॥२७॥

रौक्मिणेयोऽपि कृष्णेन सन्दिष्टो द्वारकां पुरीम् ।
अनयद्भानुतनयां प्रहृष्टेनान्तरात्मना॥२८॥

नयित्वा चाययौ वीरः षट्पुरं दानवाकुलम् ।
ददर्श च गुहाद्वारि कृष्णौ भीमपराक्रमौ॥२९॥

ऊषतुर्द्वारमाक्रम्य षट्पुरस्य महाबलौ ।
कृष्णौ प्रद्युम्नसहितौ निकुम्भवधकाङ्क्षिणौ॥३०॥

ततोऽनन्तरमेतस्माद्बिलादतिबलस्तदा ।
निर्जगाम बली योद्धुं निकुम्भो भीमविक्रमः॥३१॥

तस्य निर्गच्छतस्तस्माद्बिलात्पार्थो विशाम्पते ।
रुरोध सर्वतो मार्गं शरैर्गाण्डीवनिःसृतैः॥३२॥

सोऽभिसृत्य गदां घोरामुद्यम्य बहुकण्टकाम् ।
शिरस्यताडयत्पार्थं निकुम्भो बलिनां वरः॥३३॥

अभिसृत्य अभिमुखम् आगत्य॥३३॥

अदृष्टेनाहतो वीरः शिरस्यथ मुमोह सः ।
गदयाभिहते पार्थे रक्तं वमति मुह्यति ।
हसित्वा सोऽसुरो दृप्तो रौक्मिणेयमताडयत्॥३४॥

तं प्राङ्मुखमुखं वीरं मायावी मायिनां वरम् ।
अदृष्टेनाहतो वीरः शिरस्यथ मुमोह सः॥३५॥

तथागतौ तु दृष्ट्वा तौ मुह्यमानौ सुताडितौ ।
अभिदुद्राव गोविन्दो निकुम्भं क्रोधमूर्छितः॥३६॥

कौमोदकीं समुद्यम्य गदपूर्वोद्भवो गदाम् ।
तावन्योन्यं दुराधर्षौ गर्जन्तावभिपेततुः॥३७॥

ऐरावतगतः शक्रः सर्वैर्देवगणैः सह ।
ददर्श तन्महायुद्धं घोरं देवासुरं तदा॥३८॥

दृष्ट्वा देवान्हृषीकेशश्चित्रैर्युद्धैररिन्दमः ।
इयेष दानवं हन्तुं देवानां हितकाम्यया॥३९॥

इयेष इच्छां चकार॥३९॥

स मण्डलानि चित्राणि दर्शयामास केशवः ।
कौमोदकीं महाबाहुर्लालयन्युद्धकोविदः॥४०॥

तथैवासुरमुख्योऽपि गदां तां बहुकण्टकाम् ।
शिक्षया भ्रामयाणोऽथ मण्डलानि चचार ह॥४१॥

वृषभाविव गर्जन्तौ बृहन्ताविव कुञ्जरौ ।
इषितान्तरमासाद्य क्रुद्धौ शालावृकाविव॥४२॥

इषिता वासिता पुष्पवतीति यावत्॥४२॥

आजघान निकुम्भस्तु गदया गदपूर्वजम् ।
स्पष्टाष्टघण्टया वीर नादं मुक्त्वातिदारुणम्॥४३॥

तत्कालमेव कृष्णोऽपि भ्रामयित्वा महागदाम् ।
निकुम्भमूर्धनि तदा पातयामास भारत॥४४॥

अवष्टभ्य मुहूर्तं तु हरिः कौमोदकीं गदां ।
तस्थौ जगद्गुरुर्धीमान्मुमोह पतितः क्षितौ॥४५॥

अवष्टभ्येति। रिपूत्कर्षं ख्यापयितुम् आत्मेच्छयेति वक्ष्यमाणत्वात्॥४५॥

हाहाभूतं जगत्सर्वं तत्कालमभवत्तदा ।
तथागते वासुदेवे नरदेव महात्मनि॥४६॥

आकाशगङ्गातोयेन शीतेन च सुगन्धिना ।
सिषेचामृतमिश्रेण कृष्णं देवेश्वरः स्वयम्॥४७॥

नूनमात्मेच्छया कृष्णस्तथा चक्रे सुरोत्तमः ।
को हि शक्तो महात्मानं युद्धे मोहयितुं हरिम्॥४८॥

कृष्णः प्रत्यागतप्राणश्चक्रमुद्यम्य भारत ।
प्रतीच्छेति दुरात्मानमुवाच रिपुनाशनः॥४९॥

निकुम्भोऽप्यतिमायावी उत्पपात दुरासदः ।
शरीरं तत्परित्यज्य न तु तं वेत्ति केशवः॥५०॥

तं शरीरं परित्यज्य गतम्॥५०॥

मुमूर्षति मृतो वायमिति मत्वा जनार्दनः ।
ररक्ष स्मरमाणोऽथ वीरो वीरव्रतं विभो॥५१॥

वीरव्रतं ररक्ष पतितं न हतवान्॥५१॥

अथ प्रद्युम्नकौन्तेयावागतौ लब्धचेतनौ ।
स्थितौ नारायणाभ्याशे निकुम्भवधनिश्चितौ॥५२॥

प्रद्युम्नोऽप्यथ मायावी विदितः कृष्णमब्रवीत् ।
निकुम्भस्तात नास्त्यत्र गतः क्वापि सुदुर्मतिः॥५३॥

विदितः। कर्तरि क्तः। वेत्तीत्यर्थः॥५३॥

प्रद्युम्नेनैवमुक्ते तु तन्ननाश कलेवरम् ।
प्रजहासाथ भगवानर्जुनेन सह प्रभुः॥५४॥

ननाश अदृश्यमभूत्॥५४॥

तदायुतसहस्राणि निकुम्भानां जनाधिप ।
ददृशुस्ते ततो वीराः क्षितौ दिवि च सर्वतः॥५५॥

सहस्राण्येव कृष्णं तु तथा पार्थमरिन्दम ।
रौक्मिणेयं तथा वीरं तदद्भुतमिवाभवत्॥५६॥

पाण्डवस्य धनुः केचित्केचिदस्य महाशरान् ।
अन्येऽस्य जगृहुर्हस्तावन्ये पादौ महासुराः॥५७॥

एवं ग्रहाय तं वीरमगमंस्ते विहायसि ।
पार्थानामपि कोट्यस्तु गृहीतानां तदाभवन्॥५८॥

नान्तं ददर्श कृष्णश्च कार्ष्णिश्च रिपुनाशनौ ।
विच्छिद्य तौ शरैर्वीरौ निकुम्भं पार्थवर्जितौ॥५९॥

एकैकस्तु द्विधा च्छिन्नो द्वेधा भवति भारत ।
दिव्यज्ञानस्तदा कृष्णो भगवाननुदृष्टवान्॥६०॥

निकुम्भं तत्त्वतश्चापि ददर्श मधुसूदनः ।
स्रष्टारं सर्वमायानां हर्तारं फाल्गुनस्य च॥६१॥

स चक्रेण शिरस्तस्य चकर्तासुरसूदनः ।
पश्यतां सर्वभूतानां भूतभव्यभवो हरिः॥६२॥

स मुक्त्वा फाल्गुनं राजञ्छिन्ने शिरसि भारत ।
पपातासुरमुख्योऽथ च्छिन्नमूल इव द्रुमः॥६३॥

अथाकाशगतं पार्थं पतमानं विहायसः ।
कृष्णवाक्येन जग्राह कार्ष्णिर्वियति मानद॥६४॥

निकुम्भे पतिते भूमौ समाश्वास्य धनञ्जयम् ।
जगाम द्वारकां देवः पार्थकामसमन्वितः॥६५॥

समियाय दशार्होऽथ द्वारकां मुदितो विभुः ।
नारदं च महात्मानं ववन्दे यदुनन्दनः॥६६॥

नारदोऽथ महातेजा भानुं यादवमब्रवीत् ।
भानो मा कार्षीर्मन्युं त्वं श्रूयतां भैमनन्दन॥६७॥

मन्युं कन्यापहारजं दैन्यम्॥६७॥

क्रीडन्त्या रैवतोद्याने दुर्वासाः कोपितोऽनया ।
स शशाप ततो रोषान्मुनिर्दुहितरं तव॥६८॥

अतिदुर्ललितैः कन्या शत्रुहस्तं गमिष्यति ।
सुतार्थे ते मया सार्धं मुनिभिः स प्रसादितः॥६९॥

बालां व्रतवतीं कन्यामनागसमिमां मुने ।
शप्तवानसि धर्मज्ञ कथं धर्मभृतां वर ।
अनुग्रहं विधत्स्वाथ वयं विज्ञापयामहे॥७०॥

अस्माभिरेवमुक्तस्तु दुर्वासा भैमनन्दन ।
उवाचाधोमुखो भूत्वा मुहूर्तं कृपयान्वितः॥७१॥

यदवोचमहं वाक्यं तत्तथा न तदन्यथा ।
रिपुहस्तमवश्यं हि गमिष्यति न संशयः॥७२॥

अदूषितानुधर्मेण भर्तारमुपलप्स्यति ।
बहुपुत्रा बहुधना सुभगा च भविष्यति॥७३॥

सुगन्धगन्धा च सदा कुमारी च पुनः पुनः ।
न च शोकमिमं घोरं तन्वङ्गी धारयिष्यति॥७४॥

एवं भानुमती वीर सहदेवाय दीयताम् ।
श्रद्दधानः स शूरश्च धर्मशीलश्च पाण्डवः॥७५॥

ततो भानुमतीं भानुर्ददौ माद्रीसुताय वै ।
सहदेवाय धर्मात्मा नारदस्य वचः स्मरन्॥७६॥

आनीतः सहदेवश्च प्रेषितश्चक्रपाणिना ।
विवाहे च तदा वृत्ते सभार्यः स पुरीं गतः॥७७॥

इमं कृष्णस्य विजयं यः पठेच्छृणुयादथ ।
विजयं सर्वकृत्येषु श्रद्दधानो लभेन्नरः॥७८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि भानुमतीहरणे निकुम्भवधो नाम नवतितमोऽध्यायः॥९०॥
वज्रनाभवधवृत्तान्तः-०९१

जनमेजय उवाच। भानुमत्यापहरणं विजयं केशवस्य च॥१॥

भानुमत्यापहरणमिति॥१॥

क्रीडां च सागरे दिव्यां वृष्णीनामतितेजसाम् ।
अश्रौषं परमाश्चर्यं मुने धर्मभृतां वर॥२॥

वज्रनाभवधं युक्तं निकुम्भवधकीर्तने ।
तन्मे कौतूहलं श्रोतुं प्रसादाद्भवतो मुने॥३॥

वैशम्पायन उवाच। हन्त ते वर्तयिष्यामि वज्रनाभवधं नृप ।
विजयं चैव कामस्य साम्बस्यैव च भारत॥४॥

मेरोः सानौ नरपते तपश्चक्रे महासुरः ।
वज्रनाभ इति ख्यातो निश्चितः समितिञ्जयः॥५॥

तस्य तुष्टो महातेजा ब्रह्मा लोकपितामहः ।
वरेण च्छन्दयामास तपसा परितोषितः॥६॥

अवध्यत्वं स देवेब्यो वव्रे दानवसत्तमः ।
पुरं वज्रपुरं चापि सर्वरत्नमयं शुभम्॥७॥

स्वच्छन्देन प्रवेशश्च न वायोरपि भारत ।
अचिन्तितेन कामानामुपपत्तिर्नराधिप॥८॥

शाखानगरमुख्यानां संवाहानां शतानि च ।
नगरस्याप्रमेयस्य समन्ताज्जनमेजय॥९॥

शाखानगरं चतुर्दिक्षु संवाहानां सप्राकाराणामुद्यानानाम्॥९॥

तथा तदभवत्तस्य वरदानेन भारत ।
उवास वज्रनगरे वज्रनाभो महासुरः॥१०॥

कोटिशो वरलब्धं तमसुराः परिवार्य ते ।
ऊषुर्वज्रपुरे राजन्संवाहेषु तथैव च॥११॥

वरलब्धं लब्धवरम्॥११॥

शाखानगरमुख्येषु रम्येषु च नराधिप ।
हृष्टपुष्टप्रमुदिता नृप देवस्य शत्रवः॥१२॥

वज्रनाभोऽथ दुष्टात्मा वरदानेन दर्पितः ।
पुरेऽस्य चात्मनश्चैव जगद्बाधितुमुद्यतः॥१३॥

महेन्द्रमब्रवीद्गत्वा देवलोकं विशाम्पते ।
अहमीशितुमिच्छामि त्रैलोक्यं पाकशासन॥१४॥

ईशितुं पालितुं त्वं त्वधुना स्वर्गराज्यं त्यजेति भावः॥१४॥

अथवा मे प्रयच्छस्व युद्धं देवगणेश्वर ।
सामान्यं हि जगत्कृत्स्नं काश्यपानां महात्मनाम्॥१५॥

काश्यपानां देवानाम् अदेवानां च॥१५॥

स बृहस्पतिना सार्धं मन्त्रयित्वा महेश्वरः ।
वज्रनाभं सुरश्रेष्ठः प्रोवाच कुरुवंशज॥१६॥

सत्रेषु दीक्षितः सौम्य कश्यपो नः पिता मुनिः ।
तस्मिन्वृत्ते यथान्याय्यं तथा स हि करिष्यति॥१७॥

न्याय्यं न्यायादनपेतम्॥१७॥

ततः स पितरं गत्वा कश्यपं दानवोऽब्रवीत् ।
यथोक्तं देवराजेन तमुवाचाथ कश्यपः॥१८॥

सत्रे वृत्ते करिष्यामि यथान्यायं भविष्यति ।
त्वं तु वज्रपुरे पुत्र वस गच्छ समाश्रितः॥१९॥

एवमुक्ते वज्रनाभः स्वमेव नगरं गतः ।
महेन्द्रोऽपि ययौ देवो द्वारकां द्वारशालिनीम्॥२०॥

गत्वा चान्तर्हितो देवो वासुदेवमथाब्रवीत् ।
वज्रनाभस्य वृत्तान्तं तमुवाच जनार्दनः॥२१॥

शौरेरुपस्थितो देव वाजिमेधो महाक्रतुः ।
तस्मिन्वृत्ते वज्रनाभं पातयिष्यामि वासव॥२२॥

शौरेः वसुदेवस्य॥२२॥

तत्रोपायं प्रवेशे तु चिन्तयावः सतां गतेः ।
नानिच्छया प्रवेशोऽस्ति तत्र वायोरपि प्रभो॥२३॥

सतां गतेः ब्रह्मकृतमर्यादाया असङ्गः सतां मार्गः। अतोऽसुरेच्छयैव तत्र प्रवेशो लभ्यते न बलादित्यर्थः॥२३॥

ततो गतो देवराजो वासुदेवेन सत्कृतः ।
वाजिमेधे च सम्प्राप्ते वसुदेवस्य भारत॥२४॥

तस्मिन्यज्ञे वर्तमाने प्रवेशार्थं सुरोत्तमौ ।
चिन्तयामासतुर्वीरौ देवराजाच्युतावुभौ॥२५॥

तत्र यज्ञे वर्तमाने सुनाट्येन नटास्तदा ।
महर्षींस्तोषयामास भद्रनामेति नामतः॥२६॥

तत्र वसुदेवयज्ञे नाट्येन नृत्येन॥२६॥

तं वरेण मुनिश्रेष्ठाश्छन्दयामासुरात्मवत् ।
स वव्रे तु नटो भद्रो वरं देवेश्वरोपमः॥२७॥

देवेन्द्रकृष्णच्छन्देन सरस्वत्या प्रचोदितः ।
प्रणिपत्य मुनिश्रेष्ठानश्वमेधे समागतान्॥२८॥

देवेन्द्रादिभिरन्तःस्थैः प्रेरित इत्यर्थः॥२८॥

नट उवाच। भोज्यो द्विजानां सर्वेषां भवेयं मुनिसत्तमाः ।
सप्तद्वीपां च पृथिवीं विचरेयमिमामहम्॥२९॥

प्रसिद्धाकाशगमनः शक्नुवंश्च विशेषतः ।
अवध्यः सर्वभूतानां स्थावरा ये च जङ्गमाः॥३०॥

प्रकर्षेण सिद्धम् आकाशे गमनं यस्य सः तादृशः भवेयमिति शेषः। शक्नुवन् शक्तिमान्॥३०॥

यस्य यस्य च वेषेण प्रविशेयमहं खलु ।
मृतस्य जीवतो वापि भाव्येनोत्पादितस्य वा॥३१॥

भाव्येन भविष्येण रूपेण मया तु सद्य एवोत्पादितस्य वेषेण प्रवेष्टुं शक्नुयामित्यर्थः॥३१॥

स तूर्यस्तादृशः स्यां वै जरारोगविवर्जितः ।
तुष्येयुर्मुनयो नित्यमन्ये च मम सर्वदा॥३२॥

एवमस्त्विति सम्प्रोक्तो ब्राह्मणैर्नृपते नटः ।
सप्तद्वीपां वसुमतीं पर्यटत्यमरोपमः॥३३॥

पुराणि दानवेन्द्राणामुत्तरांश्च कुरूंस्तथा ।
भद्राश्वान्केतुमालांश्च कालाभ्रद्वीपमेव च॥३४॥

पर्वणीषु तु सर्वासु द्वारकां यदुमण्डिताम् ।
आयाति वरदत्तः स लोकवीरो महानटः॥३५॥

ततो हंसान्धार्तराष्ट्रान्देवलोकनिवासिनः ।
उवाच भगवाञ्शक्रः सान्त्वयित्वा सुरेश्वरः॥३६॥

भवन्तो भ्रातरोऽस्माकं काश्यपा देवपक्षिणः ।
विमानवाहा देवानं सुकृतीनां तथैव च॥३७॥

देवानामस्ति कर्तव्यं कार्यं शत्रुवधान्वितम् ।
तत्कर्तव्यं न मन्त्रश्च भेत्तव्यो वः कथञ्चन॥३८॥

न कुर्वतां देवताज्ञामुग्रो दण्डः पतेदपि ।
सर्वत्राप्रतिषिद्धं वो गमनं हंससत्तमाः॥३९॥

गत्वाप्रवेश्यमन्येषां वज्रनाभपुरोत्तमम् ।
इतोऽन्तःपुरवापीषु चरध्वमुचितं हि वः॥४०॥

अप्रवेश्यमिति च्छेदः॥४०॥

तस्यास्ति कन्यारत्नं हि त्रैलोक्यातिशयं शुभम् ।
नाम्ना प्रभावती नाम चन्द्राभेव प्रभावती॥४१॥

वरदानेन सा लब्धा मात्रा किल वरानना ।
हैमवत्या महादेव्याः सकाशादिति नः श्रुतम्॥४२॥

स्वयंवरा च सा कन्या बन्धुभिः स्थापिता सती ।
आत्मेच्छया पतिं हंसा वरयिष्यति शोभना॥४३॥

तद्भवद्भिर्गुणा वाच्याः प्रद्युम्नस्य महात्मनः ।
सद्भूतः कुलरूपस्य शीलस्य वयसस्तथा॥४४॥

यदा सा रक्तभावा च वज्रनाभसुता सती ।
तस्याः सकाशात्सन्देशो नयितव्यः समाधिना॥४५॥

प्रद्युम्नस्य पुनस्तस्मादानयध्वं तथैव च ।
स्वबुद्ध्या प्राप्तकालं च संविधेयं हितं मम॥४६॥

नेत्रवक्त्रप्रसादश्च कर्तव्यस्तत्र सर्वथा॥४७॥

तथा तथा गुणा वाच्याः प्रद्युम्नस्य महात्मनः ।
यथा यथा प्रभावत्या मनस्तत्र भवेत्स्थितम्॥४८॥

वृत्तान्तश्चानुदिवसं प्रदेयो मम सर्वथा ।
द्वारवत्यां च कृष्णस्य भ्रातुर्मम यवीयसः॥४९॥

तावद्यत्नश्च कर्तव्यः प्रद्युम्नो यावदात्मवित् ।
पर्यावर्तेद्वरारोहां वज्रनाभसुतां विभुः॥५०॥

अवध्यास्ते तु देवानां ब्रह्मणो वरदर्पिताः ।
देवपुत्रैर्हि हन्तव्याः प्रद्युम्नप्रमुखैर्युधि॥५१॥

नटो दत्तवरस्तस्य वेषमास्थाय यादवाः ।
प्रद्युम्नाद्या गमिष्यन्ति वज्रनाभविनाशनाः॥५२॥

एतच्च सर्वं कर्तव्यमन्यच्च सर्वमेव हि ।
प्राप्तकालं विधातव्यमस्माकं प्रियकाम्यया॥५३॥

प्रवेशस्तत्र देवानां नास्ति हंसाः कथञ्चन ।
वज्रनाभेप्सिते तत्र प्रवेशः खलु सर्वथा॥५४॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वज्रनाभवधे एकनवतितमोऽध्यायः॥९१॥
वज्रनाभपुरं प्रतिप्रद्युम्नादीनां गमनम्-०९२

वैशम्पायन उवाच। ते वासववचः श्रुत्वा हंसा वज्रपुरं ययुः ।
पूर्वोचितं हि गमनं तेषां तत्र जनाधिप॥१॥

ते वासवेति॥१॥

ते दीर्घिकासु रम्यासु निपेतुर्वीर पक्षिणः ।
पद्मोत्पलैरावृतासु काञ्चनैः स्पर्शनक्षमैः॥२॥

ते वै नदन्तो मधुरं संस्कृतापूर्वभाषिणः ।
पूर्वमप्यागतास्ते तु विस्मयं जनयन्ति हि॥३॥

संस्कृतापूर्वभाषिणः संस्कृतम् अपूर्वं भाषन्ते तथा॥३॥

अन्तःपुरोपभोग्यासु चेरुर्वापीषु ते नृप ।
दृष्टास्ते वज्रनाभस्य त्रिविष्टपनिवासिनः॥४॥

आलपन्तः सुमधुरं धार्तराष्ट्रा जनेश्वर ।
स तानुवाच दैतेयो धार्तराष्ट्रानिदं वचः॥५॥

त्रिविष्टपे नित्यरता भवन्तश्चारुभाषिणः ।
यदैवेहोत्सवोऽस्माकं भवद्भिरवगम्यते॥६॥

आगन्तव्यं जालपादाः स्वमिदं भवतां गृहम् ।
विस्रब्धं च प्रवेष्टव्यं त्रिविष्टपनिवासिभिः॥७॥

जालपादाः भो हंसाः॥७॥

ते तथोक्ताः शकुनयो वज्रनाभेन भारत ।
तथेत्युक्त्वा हि विविशुर्दानवेन्द्रनिवेशनम्॥८॥

चक्रुः परिचयं ते च देवकार्यव्यपेक्षया ।
मानुषालापिनस्ते तु कथाश्चक्रुः पृथग्विधाः॥९॥

वंशबद्धाः काश्यपानां सर्वकल्याणभागिनाम् ।
स्त्रियो रेमुर्विशेषेण शृण्वन्त्यः सङ्गताः कथाः॥१०॥

काश्यपानां दानवानाम्॥१०॥

विचरन्तस्ततो हंसा ददृशुश्चारुहासिनीम् ।
प्रभावतीं वरारोहां वज्रनाभसुतां तदा॥११॥

हंसाः परिचितां चक्रुस्तां ततश्चारुहासिनीम् ।
सखीं शुचिमुखीं चक्रे हंसीं राजसुता तदा॥१२॥

सा तां कदाचित्पप्रच्छ वज्रनाभसुतां सखीम् ।
विश्रम्भितां पृथक्सूक्तैराख्यानकशतैर्वराम्॥१३॥

त्रैलोक्यसुन्दरीं वेद्मि त्वामहं हि प्रभावति ।
रूपशीलगुणैर्देवि किञ्चीत्वां वक्तुमुत्सहे॥१४॥

व्यतिक्रामति ते भीरु यौवनं चारुहासिनि ।
यदतीतं पुनर्नैति गतं स्रोत इवाम्भसः॥१५॥

कामोपभोगतुल्या हि रतिर्देवि न विद्यते ।
स्त्रीणां जगति कल्याणि सत्यमेतद्ब्रवीमि ते॥१६॥

रतिः सुखम्॥१६॥

स्वयंवरे च न्यस्ता त्वं पित्रा सर्वाङ्गशोभने ।
न च कांश्चिद्वरयसे देवासुरकुलोद्भवान्॥१७॥

व्रीडिता यान्ति सुश्रोणि प्रत्याख्यातास्त्वया शुभे ।
रूपशौर्यगुणैर्युक्तान्सदृशांस्त्वं कुलस्य हि॥१८॥

“रूपं स्वभावे सौन्दर्ये” इति मेदिनी “कुलं जनपदे गृहे” इति विश्वः॥१८॥

आगतान्नेच्छसे देवि सदृशान्कुलरूपयोः ।
इहैष्यति किमर्थं त्वां प्रद्युम्नो रुक्मिणीसुतः॥१९॥

किमर्थमेष्यति तस्यात्रागमनं प्रसक्तमेव नास्तीत्यर्थः॥१९॥

त्रैलोक्ये यस्य रूपेण सदृशो न कुलेन वा ।
गुणैर्वा चारुसर्वाङ्गि शौर्येणप्यति वा शुभे॥२०॥

देवेषु देवः सुश्रोणि दानवेषु च दानवः ।
मानुषेष्वपि धर्मात्मा मनुष्यः स महाबलः॥२१॥

यं सदा देवि दृष्ट्वा हि स्रवन्ति जघनानि हि ।
आपीनानीव धेनूनां स्रोतांसि सरितामिव॥२२॥

न पीर्णचन्द्रेण मुखं नयने वा कुशेशयैः ।
उत्सहे नोपमातुं हि मृगेन्द्रेणाथ वा गतिम्॥२३॥

जगतः सारमुद्धृत्य पुत्रः स विहितः शुभे ।
कृत्वानङ्गं वरे साङ्गं विष्णुना प्रभविष्णुना॥२४॥

अनङ्गं कामदेवं साङ्गं कृत्वा पुत्रो विहित इत्यन्वयः। निबर्हितः हतः॥२४॥

हृतेन शम्बरो बाल्ये येन पापो निबर्हितः ।
मायाश्च सर्वाः सम्प्राप्ता न च शीलं विनाशितम्॥२५॥

यान्यान्गुणान्पृथुश्रोणि मनसा कल्पयिष्यसि ।
एष्टव्यास्त्रिषु लोकेषु प्रद्युम्ने सर्व एव ते॥२६॥

रुच्या वह्निप्रतीकाशः क्षमया पृथिवीसमः ।
तेजसा सुर्यसदृशो गाम्भीर्येण ह्रदोपमः ।
प्रभावती शुचिमुखीं त्वितीहोवाच भामिनी॥२७॥

तेजसा प्रभावेण॥२७॥

प्रभावत्युवाच। विष्णुर्मानुषलोकस्थः श्रुतः सुबहुशो मया ।
पितुः कथयतः सौम्ये नारदस्य च धीमतः॥२८॥

शत्रुः किल स दैत्यानां वर्जनीयः सदानघे ।
कुलानि किल दैत्यानां तेन दग्धानि मानिनि॥२९॥

प्रदीप्तेन रथाङ्गेन शार्ङ्गेण गदया तथा ।
शाखानगरदेशेषु वसन्ति किल येऽसुराः॥३०॥

इत्येते दानवेन्द्रेण सन्दिश्यन्ते हि तं प्रति ।
मनोरथो हि सर्वासां स्त्रीणामेव शुचिस्मिते॥३१॥

यमुद्दिश्य दानवेन्द्रेण असुराः सन्दिश्यन्ते तं बलवन्तं प्रति स्त्रीणां मनोरथः भवत्येव। काममूढत्वात् वैरिकुलेऽप्यनुरागो भवतीति भावः॥३१॥

भवेद्धि मे पतिकुलं श्रेष्ठं पितृकुलादिति ।
यदि नामाभ्युपायः स्यात्तस्येहागमनं प्रति॥३२॥

महाननुग्रहो मे स्यात्कुलं स्यात्पावितं च मे ।
समर्थनां मे पृष्टा त्वं प्रयच्छ शुचिलापिनि॥३३॥

समर्थनां कार्यघटनोपायम्॥३३॥

प्रद्युम्नः स्याद्यथा भर्ता स मे वृष्णिकुलोद्भवः ।
अत्यन्तवैरी दैत्यानामुद्वेजनकरो हरिः॥३४॥

असुराणां स्त्रियो वृद्धाः कथयन्त्यो मया श्रुताः ।
प्रद्युम्नस्य तथा जन्म पुरस्तादपि मे श्रुतम्॥३५॥

यथा च तेन निहतो बलवान्कालशम्बरः ।
हृदि मे वर्तते नित्यं प्रद्युम्नः खलु सत्तमे॥३६॥

हेतुः स नास्ति स्यात्तेन यथा मम समागमः ।
दासी तवाहं सख्यार्हे दूत्ये त्वं च विसर्जये॥३७॥

पण्डितासि वदोपायं मम तस्य च सङ्गमे ।
ततस्तां सान्त्वयित्वा सा प्रहसन्तीदमब्रवीत्॥३८॥

शुचिमुख्युवाच। तत्र दूती गमिष्यामि तवाहं चारुहासिनी ।
इमां भक्तिं तवोदारां प्रवक्ष्यामि शुचिस्मिते॥३९॥

तथा चैव करिश्यामि यथैष्यति तवान्तिकम् ।
साक्षात्कामेन सुश्रोणि भविष्यति सकामिनी॥४०॥

इति मे भाषितं नित्यं स्मरेथाः शुचिलोचने ।
कथाकुशलतां पित्रे कथयस्वायतेक्षणे॥४१॥

ममत्वं तत्र मे देवि हितं सम्यक्प्रपत्स्यसे ।
इत्युक्ता सा तथा चक्रे यत्तत्सा तामथाब्रवीत्॥४२॥

दानवेन्द्रश्च तां हंसीं प्रयच्छान्तःपुरे तदा ।
प्रभावत्या समाख्याता कथा कुशलता तव॥४३॥

तत्त्वं शुचिमुखि ब्रूहि कथां योग्यतया वरे ।
किं त्वया दृष्टमाश्चर्यं जगत्युत्तमपक्षिणि॥४४॥

अदृष्टपूर्वमन्यैर्वा योग्यायोग्यमनिन्दिते ।
सोवाच वज्रनाभं तु हंसी वरनरोत्तम॥४५॥

श्रूयतामित्यथामन्त्र्य दानवेन्द्रं महाद्युतिम् ।
दृष्टा मे शाण्डिली नाम साध्वी दानवसत्तम ।
आश्चर्यं कर्म कुर्वन्ती मेरुपार्श्वे मनस्विनी॥४६॥

सुमनाश्चैव कौशल्या सर्वभूतहिते रता ।
कथञ्चिद्वरशाण्डिल्याः शैलपुत्र्याः शुभा सखी॥४७॥

नटश्चैव मया दृष्टो मुनिदत्तवरः शुभः ।
कामरूपी च भोज्यश्च त्रैलोक्ये नित्यसम्मतः॥४८॥

कुरून्यात्युत्तरान्वीर कालाम्रद्वीपमेव च ।
भद्राश्वान्केतुमालांश्च द्वीपानन्यांस्तथानघ॥४९॥

देवगन्धर्वगेयानि नृत्यानि विविधानि च ।
स वेत्ति देवान्नृत्येन विस्मापयति सर्वथा॥५०॥

वज्रनाभ उवाच। श्रुतमेतन्मया हंसि न चिरादिव विस्तरम् ।
चारणानां कथयतां सिद्धानां च महात्मनाम्॥५१॥

कुतूहलं ममाप्यस्ति सर्वथा पक्षिनन्दिनि ।
नटे दत्तवरे तस्मिन्संस्तवस्तु न विद्यते॥५२॥

संस्तवः मदीया स्तुतिर्न विद्यते नटनिकटे येन श्रतगुणो मामसौ उपेयादित्यर्थः। संस्तवः परिचयो वा॥५२॥

हंस्युवाच। सप्तद्वीपान्विचरति नटः स दितिजोत्तम ।
गुणवन्तं जनं श्रुत्वा गुणकार्यः स सर्वथा॥५३॥

तव चेच्छृणुयाद्वीर सद्भूतं गुणविस्तरम् ।
नटं तदागतं विद्धि पुरं तव महासुर॥५४॥

वज्रनाभ उवाच। उपायः सृजतां हंसि येनेह स नटः शुभे ।
आगच्छेन्मम भद्रं ते विषयं पक्षिनन्दिनि॥५५॥

ते हंसा वज्रनाभेन कार्यहेतोर्विसर्जिताः ।
देवेन्द्रायाथ कृष्णाय शशंसुः सर्वमेव तत्॥५६॥

अधोक्षजेन प्रद्युम्नो नियुक्तस्तत्र कर्मणि ।
प्रभावत्याश्च संसर्गे वज्रनाभवधे तथा॥५७॥

दैवीं मायां समाश्रित्य संविधाय हरिर्नटम् ।
नटवेषेण भैमानां प्रेषयामास भारत॥५८॥

नटं भद्राख्यस्य नटस्य वेषं भैमानां यादवानाम्॥५८॥

प्रद्युम्नं नायकं कृत्वा साम्बं कृत्वा विदूषकम् ।
पारिपार्श्वे गदं वीरमन्यान्भैमांस्तथैव च॥५९॥

विदूषकम् उपहासकम्। पारिपार्श्वे इत्यनेन श्रुतिधरत्वं लक्ष्यं गदं श्रुतिधरं कृत्वेत्यर्थः॥५९॥

वारमुख्या नटीः कृत्वा तत्तूर्यसदृशास्तदा ।
तथैव भद्रं भद्रस्य सहायांश्च तथाविधान्॥६०॥

वारमुख्या वेश्याः तत्तूर्यसदृशाः तदीयनृत्यगीतवादित्रसादृश्याः॥६०॥

प्रद्युम्नविहितं रम्यं विमानं ते महारथाः ।
जग्मुरारुह्य कार्यार्थं देवानाममितौजसाम्॥६१॥

एकैकस्य समा रूपे पुरुषाः पुरुषस्य ते ।
स्त्रीणां च सदृशाः सर्वे ते स्वरूपैर्नराधिपाः॥६२॥

ते वज्रनगरस्याथ शाखानगरमुत्तमम् ।
जग्मुर्दानवसङ्कीर्णं सुपुरं नाम नामतः॥६३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वज्रनाभप्रद्युम्नोत्तरे प्रद्युम्नादिगमने द्विनवतितमोऽध्यायः॥९२॥
वज्रनाभपुरे प्रद्युम्नप्रवेशः-०९३

वैशम्पायन उवाच। ततः स्वपुरवासीनामसुराणां नराधिप ।
ददावाज्ञां वज्रनाभो दीयतां गृहमुत्तमम्॥१॥

ततः पूर्वश्रुतो भद्रनामा नट एवात्र प्राप्त इति तेषां बुद्धिरभूदित्यर्थः॥१॥

आतिथ्यं क्रियतामेषां बहुरत्नमुपायनम् ।
वासांसि सुविचित्राणि सुखाय जनरञ्जनम्॥२॥

भर्तुराज्ञां समालभ्य तथा चक्रुश्च सर्वशः ।
पूर्वाश्रुतो नटः प्राप्तः कौतूहलमजीजनत्॥३॥

नटस्याथ ददुर्दैत्याः सत्कारं परया मुदा ।
पर्यायार्थे ददुश्चापि रत्नानि सुबहून्यथ॥४॥

पर्यायार्थे वेषधारणार्थम्॥४॥

ततः स ननृते तत्र वरदत्तो नटस्तथा ।
स्वपुरे पुरवासीनां परं हर्षं समादधत्॥५॥

वासीनां दैर्घ्यमार्षम्॥५॥

रामायणं महाकाव्यमुद्देश्यं नाटकीकृतम् ।
जन्म विष्णोरमेयस्य राक्षसेन्द्रवधेप्सया॥६॥

लोमपादो दशरथ ऋष्यशृङ्गं महामुनिम् ।
शान्तामप्यानयामास गणिकाभिः सहानघ॥७॥

रामलक्ष्मणशत्रुघ्ना भरतश्चैव भारत ।
ऋष्यशृङ्गश्च शान्ता च तथारूपैर्नटैः कृताः॥८॥

तत्कालजीविनो वृद्धा दानवा विस्मयं गताः ।
आचचक्षुश्च तेषां वै रूपतुल्यत्वमच्युतम्॥९॥

अच्युत हे राजन्॥९॥

संस्काराभिनयौ तेषां प्रस्तावानां च धारणम् ।
दृष्ट्वा सर्वे प्रवेशं च दानवा विस्मयं गताः॥१०॥

संस्कारः वेषधारणम् अभिनयः क्रियादर्शनं प्रस्तावः क्रियाणां प्रसञ्जनं प्रवेशं पात्राणां प्रथमदर्शनम्॥१०॥

ते रक्ता विस्मयं नेदुरसुराः परया मुदा ।
उत्थायोत्थाय नाट्यस्य विषयेषु पुनः पुनः॥११॥

विस्मयं सविस्मयं साश्चर्यम्॥११॥

ददुर्वस्त्राणि तुष्टाश्च ग्रैवेयवलयानि च ।
हारान्मनोहरांश्चैव हेमवैडूर्यभूषितान्॥१२॥

पृथगर्थेषु दत्तेषु लोकैस्ते तुष्टुवुर्नटाः ।
असुरांश्च मुनींश्चैव गोत्रैरभिजनैरपि॥१३॥

प्रेषितं वज्रनाभस्य शाखानगरवासिभिः ।
नटस्य दिव्यरूपस्य नरेन्द्रागमनं तदा॥१४॥

पुरा श्रुतार्थो दैत्येन्द्रः प्रेषयामास भारत ।
आनीयतां वज्रपुरं नतोऽसाविति हर्षितः॥१५॥

दानवेन्द्रवचः श्रुत्वा शाखानगरवासिभिः ।
नीता वज्रपुरं रम्यं नटवेषेण यादवाः॥१६॥

आवासश्च ततो दत्तः सुकृतो विश्वकर्मणा ।
एष्टव्यं यच्च तत्सर्वं दत्तं शतगुणोत्तरम्॥१७॥

अथ कालोत्सवं चक्रे वज्रनाभो महासुरः ।
कारयामास रम्यं च चमूवाटं प्रहृष्टवान्॥१८॥

कालोत्सवं महाकालरुद्रस्योत्सवं चक्रे नटद्वारा चमूवाटं सैनिकाह्वानं प्रेक्षणार्थम्॥१८॥

ततस्तान्परिविश्रान्तान्प्रेक्षार्थाय प्रचोदयत् ।
दत्त्वा रत्नानि भूरीणि वज्रनाभो महाबलः॥१९॥

उपविष्टश्च तान्द्रष्टुं सह ज्ञातिभिरात्मवान् ।
छन्ने चान्तःपुरं स्थाप्य चक्षुर्दृश्ये नराधिपः॥२०॥

छन्ने जालजवनिकापिहितस्थाने अत एव चक्षुदृश्य चक्षुःसन्निहितं दृश्यं नाट्यं यत्र तत्तथाभूते॥२०॥

भैमापि बद्धनेपथ्या नटवेषधरास्तथा ।
कार्यार्थं भीमकर्माणो नृत्यार्थमुपचक्रमुः॥२१॥

भैमा अपीति सन्धिरार्षः॥२१॥

ततो घनं ससुषिरं मुरजानकभूषितम् ।
तन्त्रीस्वरगणैर्विद्धानातोद्यानन्ववादयन्॥२२॥

घनं कांस्यतालादिकं ससुषिरं सच्छिद्रं वेणुप्रभृतिकं मुरजा मर्दलाः आनकः पटहः तन्त्रीति रुद्रवीणादिकानामुपलक्षणम् एवमादीनातोद्यान् वाद्यविशेषान्॥२२॥

ततस्तु देवगान्धारं छालिक्यं श्रवणामृतम् ।
भैमस्त्रियः प्रजगिरे मनःश्रोत्रसुखावहम्॥२३॥

भैमस्त्रियः भैमैरानीता वारनार्यः॥२३॥

आगान्धारग्रामरागं गङ्गावतरणं तथा ।
विद्धमासारितं रम्यं जगिरे स्वरसम्पदा॥२४॥

आगान्धारमिति। निषादर्षभगान्धारषड्जमध्यमधैवताख्यान् सप्त स्वरान् व्याप्य ग्रामः कतिपयस्वरसङ्घः। ते च त्रयः। रागो वसन्तादिः। साकल्येन गान्धारादयो यत्र तत् गङ्गावतरणं नाम गीतविशेषविद्धं रागान्तरमिश्रम् आसारितं मूर्च्छितं जगिरे गीतं कृतवत्यः॥२४॥

लयतालसमं श्रुत्वा गङ्गावतरणं शुभम् ।
असुरांस्तोषयामास उत्थायोत्थाय भारत॥२५॥

नन्दिं च वादयामास प्रद्युम्नो गद एव च ।
साम्बश्च वीर्यसम्पन्नः कार्यार्थं नटतां गतः॥२६॥

नान्दिं नन्दिकेश्वरमुखं चर्मकोशमयं वाद्याः विशेषम्। द्वादशपटहशब्दो नान्दिरित्यन्ये नान्दीमिति पाठे नान्दीं देवद्विजादीनां शुभशंसिनीम् अष्टभिर्दशभिर्वा अवान्तरवाक्ययुक्तां पूर्वरङ्गप्रधानां वाक्यावलिं वादयामास पपाठेति केचित्॥२६॥

नान्द्यन्ते च तदा श्लोकं गङ्गावतरणाश्रितम् ।
रौक्मिणेयस्तदोवाच सम्यक्स्वभिनयान्वितम्॥२७॥

नान्द्यन्ते मङ्गलपद्यपाठान्ते॥२७॥

रम्भाभिसारं कौबेरं नाटकं ननृतुस्ततः ।
शूरो रावणरूपेण रम्भावेषं मनोवती॥२८॥

कूबरो नलकूबरः तत्सम्बन्धिनं कौबेरं मनोवती नाम काचिद्वाराङ्गना॥२८॥

नलकूबरस्तु प्रद्युम्नः साम्बस्तस्य विदूषकः ।
कैलासो रूपितश्चापि मायया यदुनन्दनैः॥२९॥

रूपितः कल्पितः॥२९॥

शापश्च दत्तः क्रुद्धेन रावणस्य दुरात्मनः ।
नलकूबरेण च यथा रम्भा चाप्यथ सान्त्विता॥३०॥

एतत्प्रकरणं वीरा ननृतुर्यदुनन्दनाः ।
नारदस्य मुनेः कीर्तिं सर्वज्ञस्य महात्मनः॥३१॥

पादोद्धारेण नृत्येन तथैवाभिनयेन च ।
तुष्टुवुर्दानवा वीरा भैमानामतितेजसाम्॥३२॥

नृत्येन रावणशापजाह्लादप्रवृत्तेन॥३२॥

ते ददुर्वस्त्रमुख्यानि रत्नान्याभरणानि च ।
हारांस्तरलविद्धांश्च वैडूर्यमणिभूषितान्॥३३॥

तरलो वर्तुलो मणिः॥३३॥

विमानानि विचित्राणि रथांश्चाकाशगामिनः ।
गजानाकाशगांश्चैव दिव्यनागकुलोद्भवान्॥३४॥

चन्दनानि च दिव्यानि शीतानि रसवन्ति च ।
गुरूण्यगुरुमुख्यानि गन्धाढ्यानि च भारत॥३५॥

चिन्तामणीनुदारांश्च चिन्तिते सर्वकामदान् ।
प्रेक्षासु तासु बह्वीषु ददन्तो दानवास्तथा॥३६॥

धनरत्नैर्विरहिताः कृताः पुरुषसत्तम ।
स्त्रियो दानवमुख्यानां तथैव च जनेश्वर॥३७॥

ततो हंसी प्रभावत्याः सखी प्राह प्रभावतीम् ।
गतास्मि द्वारकां रम्यां भैमगुप्तामनिन्दिते॥३८॥

प्रद्युम्नश्च मया दृष्टो विविक्ते चारुलोचने ।
भक्तिश्च कथिता तस्य मया तव शुचिस्मिते॥३९॥

तेन हृष्टेन कालश्च कृतः कमललोचने ।
अद्य प्रदोषसमये त्वया सह समागमे॥४०॥

समागमे कालः कृत इति सबन्धः॥४०॥

तदद्य रुचिरश्रोणि तव प्रियसमागमः ।
न ह्यात्मवार्तां भाषन्ति मिथ्या भैमकुलोद्भवाः॥४१॥

आत्मवति आत्मभक्ते॥४१॥

ततः प्रभावती हृष्टा हंसीं तामिदमब्रवीत् ।
उषितासि ममाऽऽवासे स्वप्तुमर्हसि सुन्दरि॥४२॥

त्वयाहं सहितावासे द्रष्टुमिच्छामि कैशविम् ।
निःसाध्वसा भविष्यामि त्वया सह विहङ्गमे॥४३॥

हंसी तथेति चोवाच सखीं कमललोचनाम् ।
आरुरोह च तद्धर्म्यं प्रभावत्या विहङ्गमा॥४४॥

विश्वकर्मकृते तत्र हर्म्यपृष्ठे प्रभावती ।
संविधानं चकाराशु प्रद्युम्नागमनक्षमम्॥४५॥

संविधानं सङ्केतम्॥४५॥

तस्मिन्कृते संविधाने काममानयितुं ययौ ।
प्रभावतीमनुज्ञाप्य हंसी वायुसमा गतौ॥४६॥

कामं प्रद्युम्नं गतौ गत्याम्॥४६॥

नटवेषधरं कामं गत्वोवाच शुचिस्मिता ।
अद्य भूतः स भगवन्समयो वर्तते निशि॥४७॥

तथेति प्राह तां कामः सा निवृत्ताथ पक्षिणी ।
अभ्यागता च सा हंसी प्रभावतिमथाब्रवीत् ।
अभ्येति रौक्मिणेयोऽसावाश्वसायतलोचने॥४८॥

आश्वसेति च्छेदः॥४८॥

प्रद्युम्नो नीयमानं तु ददृशे माल्यमात्मवान् ।
भ्रमरैरावृतं वीरः सुगन्धमरिमर्दनः॥४९॥

निलिल्ये तत्र माल्ये तु भूत्वा मधुकरस्तदा ।
प्रभावत्या नीयमाने विदितार्थः प्रतापवान्॥५०॥

प्रभावत्या प्रभावत्यर्थं नीयमाने माल्ये॥५०॥

प्रवेशितं च तन्माल्यं स्त्रीभिर्मधुकरायुतम् ।
उपनीतं प्रभावत्यै स्त्रीभिस्तद्भ्रमरावृतम्॥५१॥

अविदूरे च विन्यस्तं प्रभावत्या जनाधिप ।
भ्रमरास्ते ययुः सौम्य सन्ध्याकाले ह्युपस्थिते॥५२॥

स भैमप्रवरो वीरस्तैः सहायैर्विहीनतः ।
कर्णोत्पले प्रभावत्या निलिल्ये शनकैरिव॥५३॥

ततः प्रभावती हंसीमुवाच वदतां वरा ।
उद्यतं पूर्णचन्द्रं सा समीक्ष्यातिमनोहरम्॥५४॥

सखि दह्यति मेऽङ्गानि मुखं च परिशुष्यति ।
औत्सुक्यं हृदि चातीव कोऽयं व्याधिरनौषधः॥५५॥

दधद्द्विगुणमौत्सुक्यमसौ पूर्णनिशाकरः ।
नवोदितः शीतरश्मिः सख्यं हरति च प्रियः॥५६॥

प्रियोऽपि सख्यं हरति अप्रियवद्भवतीत्यर्थः॥५६॥

न दृष्टपूर्वो हि मया श्रुतमात्रेण काङ्क्षितः ।
अहो धूमयतेऽङ्गानि स्त्रीस्वभावस्य धिक्खलु ।
कल्पयामि यथा बुद्ध्या यदि नाभ्येति मे प्रियः॥५७॥

कुमुद्वतीगतं मार्गं हा गमिष्याम्यकिञ्चना ।
मदनाशीविषेणास्मि हा हा दष्टा मनस्विनी॥५८॥

कुमुद्वतीगतं मार्गं जीवत्येव भर्तरि यौवने मरणम्॥५८॥

शीतवीर्याः प्रकृत्यैव जगतौ ह्रादनाः सुखाः ।
दहन्ति मम गात्राणि किं नु चन्द्रगभस्तयः॥५९॥

प्रकृत्या शीतलो वायुर्नानापुष्परजोवहः ।
दावाग्निसदृशो मेऽद्य दन्दहीति शुभां तनुम्॥६०॥

ततः सङ्कल्पये एव स्थैर्यं कार्यमिवात्मनः ।
नावतिष्ठति निर्वीर्यं मनः सङ्कल्पधर्षितम्॥६१॥

कल्पये एव कल्पयाम्येव आत्मनो मनसः स्थैर्यं कार्यमित्येतमर्थं कल्पये न तु सिद्ध्यतीत्यर्थः॥६१॥

विमनस्कास्मि मुह्यामि वेपथुर्मे महान्हृदि ।
बम्भ्रमीति च मे दृष्टिर्हा हा यामि ध्रुवं क्षयम्॥६२॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वज्रनाभपुरे प्रद्युम्नगमने त्रिनवतितमोऽध्यायः॥९३॥
प्रभावतीपाणिग्रहणम्-०९४

वैशम्पायन उवाच। आविष्टेयं मया बाला सर्वथेत्यवगम्य तु ।
कार्ष्णिर्हृष्टेन मनसा हंसीमिदमुवाच ह॥१॥

आविष्टेयमिति॥१॥

दैत्येन्द्रतनयां प्राप्तमवगच्छस्व मामिह ।
षट्पदैः सह षट्पादो भूत्वा माल्ये विलीय हि॥२॥

अवगच्छस्व ज्ञापय। माल्ये। निलीय प्राप्तं माम्॥२॥

विधेयोऽस्मि प्रभावत्या यथेष्टं मयि वर्तताम् ।
इत्युक्त्वा दर्शयामास सुरूपो रूपमात्मनः॥३॥

तद्धर्म्यपृष्ठं प्रभया द्योतितं तस्य धीमतः ।
अभिभूता प्रभा चैव राजंश्चन्द्रोद्भवा शुभा॥४॥

प्रभावत्यास्तु तं दृष्ट्वा ववृधे कामसागरः ।
चन्द्रस्येवोदये प्राप्ते पर्वण्यां सरितां पतिः॥५॥

सलज्जाधोमुखी किञ्चित्किञ्चित्तिर्यगवेक्षिणी ।
प्रभावती तदा तस्थौ निश्चलं कमलेक्षणा॥६॥

करेणाधःप्रदेशे तां चारुभूषणभूषिताम् ।
स्पृष्ट्वोवाच वरारोहां रोमाञ्चिततनुस्ततः॥७॥

मनोरथशतैर्लब्धं किं पूर्णेन्दुसमप्रभम् ।
अधोमुखं मुखं कृत्वा न मां किञ्चित्प्रभाषसे॥८॥

प्रभोपमर्दं मा कार्षीर्वदनस्य वरानने ।
साध्वसं त्यज्यतां भीरु दासः साध्वनुगृह्यताम्॥९॥

न कालमिव पश्यामि भीरु भीरुत्वमुत्सृज ।
याचाम्येशोऽञ्जलिं कृत्वा प्राप्तकालं निबोध मे॥१०॥

गान्धर्वेण विवाहेन कुरुष्वानुग्रहं मम ।
देशकालानुरूपेण रूपेणाप्रतिमा सती॥११॥

उपस्पृश्य ततो भैमो मणिस्थं जातवेदसम् ।
जुहाव समये वीरः पुष्पैर्मन्त्रानुदीरयन्॥१२॥

जग्राहाथ करं तस्या वराभरणभूषितम् ।
चक्रे प्रदक्षिणं चैव तं मणिस्थं हुताशनम्॥१३॥

प्रजज्वाल स तेजस्वी मानयन्नच्युतात्मजम् ।
भगवाञ्जगतः साक्षी शुभस्याथाशुभस्य च॥१४॥

उद्दिश्य दक्षिणां वीरो विप्राणां यदुनन्दनः ।
उवाच हंसीं द्वारस्थां तिष्ठावां रक्ष पक्षिणि॥१५॥

आवां दम्पती॥१५॥

तस्यां प्रणम्य यातायां कामस्तां चारुलोचनाम् ।
ग्रहाय दक्षिणे हस्ते निनाय शयनोत्तमम्॥१६॥

ऊरावेवोपवेश्यानां सान्त्वयित्वा पुनः पुनः ।
चुचुम्ब शनकैर्गण्डं वासयन्मुखमारुतैः॥१७॥

ततोऽस्याश्च पपौ वक्त्रपद्मं मधुकरो यथा ।
आलिलिङ्गे च सुश्रोणीं क्रमेण रतिकोविदः॥१८॥

अरामयद्रहस्येनां न चोद्वेजितवांस्तदा ।
अपकृष्टं चरत्यर्थं रतिकार्यविशारदः ।
उवास स तया सार्धं रमन्कृष्णसुतः प्रभुः॥१९॥

अपकृष्टम् अर्थं चरति नवोढत्वादिति भावः॥१९॥

अरुणोदयकाले च ययौ यत्र नटालयम् ।
अकामया प्रभावत्या कथञ्चित्स विसर्जितः॥२०॥

तामेव मनसा कान्तां कान्तरूपां समुद्वहन् ।
त ऊषुर्नटवेषेणा कार्यार्थं भैमवंशजाः॥२१॥

प्रतीक्षन्तस्तदा वाक्यमिन्द्रकेशवयोस्तदा ।
उद्योगं वज्रनाभस्य त्रैलोक्यविजयं प्रति॥२२॥

प्रतीक्षन्तो महात्मानो गुह्यसंरक्षणे रताः ।
कश्यपस्य मुनेः सत्रं यावत्तावन्नराधिप॥२३॥

देवासुराणां सर्वेषामविरोधो महात्मनाम् ।
त्रैलोक्यविजयार्थाय यततां धर्मचारिणाम्॥२४॥

एवं कालं प्रतीक्षाणां वसतां तत्र धीमताम् ।
सम्प्राप्तः प्रावृषो रम्यः सर्वभूतमनोहरः॥२५॥

अहर्निशं च वृत्तान्तं प्रयच्छन्ति मनोजवाः ।
शक्रकेशवयोर्हंसाः कुमाराणां महात्मनाम्॥२६॥

रेमे सह प्रभावत्या प्रद्युम्नश्चानुरूपया ।
रात्रौ रात्रौ महातेजा धार्तराष्ट्राभिरक्षितः॥२७॥

तैर्हि वज्रपुरं हंसैर्वसद्भिर्वासवाज्ञया ।
व्याप्तं नृप नटांस्तांस्तु न विदुः कालमोहिताः॥२८॥

दिवापि रौक्मिणेयस्तु प्रभावत्या नृपालये ।
तिष्ठत्यन्तर्हितो वीरो हंससङ्घाभिरक्षितः॥२९॥

माययास्य प्रतिच्छाया दृश्यते हि नटालये ।
देहार्धेन तु कौरव्य सिषेवेऽसौ प्रभावतीम्॥३०॥

सन्नतिं विनयं शीलं लीलां दाक्ष्यमथार्जवम् ।
स्पृहयन्त्यसुरा दृष्ट्वा विद्वत्तां च महात्मनाम्॥३१॥

महात्मनां नटानाम्॥३१॥

रूपं विलासं गन्धं च मञ्जुभाषामथार्यताम् ।
तासां यादवनारीणां स्पृहयन्त्यसुरस्त्रियः॥३२॥

वज्रनाभस्य तु भ्राता सुनाभो नाम विश्रुतः ।
दुहितृद्वयं च नृपतेस्तस्य रूपगुणान्वितम्॥३३॥

एका चन्द्रवती नाम्ना गुणवत्यथ चापरा ।
प्रभावत्यालयं ते तु व्रजतः खलु नित्यदा॥३४॥

ददृशाते तु ते तत्र रतिसक्तां प्रभावतीम् ।
परिपप्रच्छतुश्चैव विस्रम्भोपगतां सतीम्॥३५॥

सोवाच मम विद्यास्ति याधीता काङ्क्षितं पतिम् ।
रत्यर्थं सानयत्याशु सौभाग्यं च प्रयच्छति॥३६॥

देवं वा दानवं वापि विवशं सद्य एव हि ।
साहं रमामि कान्तेन देवपुत्रेण धीमता॥३७॥

दृश्यतां मत्प्रभावेण प्रद्युम्नः सुप्रियो मम ।
ते दृष्ट्वा विस्मयं याते रूपयौवनसम्पदम्॥३८॥

पुनरेवाब्रवीत्ते तु भगिन्यौ चारुहासिनी ।
प्रभावती वरारोहा कालप्राप्तमिदं वचः॥३९॥

देवा धर्मरता नित्यं दम्भशीला महासुराः ।
देवास्तपसि रक्ता हि सुखे रक्ता महासुराः॥४०॥

देवाः सत्ये रता नित्यमनृते च महासुराः ।
धर्मस्तपश्च सत्यं च यत्र तत्र जयो ध्रुवम्॥४१॥

देवपुत्रो वरयतां पतिविद्यां ददाम्यहम् ।
उचितौ मत्प्रभावेण सद्य एवोपलप्स्यथः॥४२॥

तां तथेत्यूचतुर्हृष्टे भगिन्यौ चारुलोचनाम् ।
परिपप्रच्छ भैमं च कार्यं तत्पतिमानिनी॥४३॥

भैमं प्रद्युम्नं कार्यं कर्तव्यं तस्यानयनं कर्तव्यमित्येवं रूपम्। तत्पतिमानिनी तं पतिं मन्यते तथा॥४३॥

स पितृव्यं गदं वीरं साम्बं चाथाब्रवीत्तदा ।
रूपान्वितौ सुशीलौ च शूरौ च रणकर्मणि॥४४॥

प्रभावत्युवाच। परितुष्टेन दत्ता मे विद्या दुर्वाससा पुरा ।
परितुष्टेन सौभाग्यं सदा कन्यात्वमेव च॥४५॥

देवदानवयक्षाणां यं ध्यास्यसि स ते पतिः ।
भवितेति मया चैव वीरोऽयमभिकाङ्क्षितः॥४६॥

गृह्णीतं तदिमां विद्यां सद्यो वां प्रियसङ्गमः ।
ततो जगृहतुर्हृष्टे तां विद्यां भगिनीमुखात्॥४७॥

दध्यतुर्गदसाम्बौ च विद्यामभ्यस्य ते शुभे ।
तौ प्रद्युम्नेन सहितौ प्रविष्टौ भैमनन्दनौ॥४८॥

दध्यतुः ध्यातवत्यौ॥४८॥

प्रच्छन्नौ मायया वीरौ कार्ष्णिना मायिना नृप ।
गान्धर्वेण विवाहेन तावप्यरिबलार्दनौ॥४९॥

कार्ष्णिना प्रद्युम्नोक्तया मायया प्रच्छन्नं यथा स्यात्तथा प्रविष्टौ॥४९॥

पाणिं जगृहतुर्वीरौ मन्त्रपूर्वं सतां प्रियौ ।
चन्द्रवत्या गदः साम्बो गुणवत्या च कैशविः॥५०॥

रेमिरेऽसुरकन्याभिर्वीरास्ते यदुपुङ्गवाः ।
मार्गमाणास्त्वनुज्ञां ते शक्रकेशवयोस्तदा॥५१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि प्रभावतीपाणिग्रहणे चतुर्नवतितमोऽध्यायः॥९४॥
प्रद्युम्नभाषणम्-०९५

वैशम्पायन उवाच। नभो नभस्येऽथ निरीक्ष्य मासि कामस्तदा तोयदवृन्दकीर्णम् ।
प्रभावतीं चारुविशालनेत्रामुवाच पूर्णेन्दुनिकाशवक्त्रः॥१॥

नभो नभस्य इति॥१॥

तवाननाभो वरगात्रि चन्द्रो न दृश्यते सुन्दरि चारुबिम्बः ।
त्वत्केशपाशप्रतिमैर्निरुद्धो बलाहकैश्चारुनिरन्तरोरु॥२॥

सन्दृश्यते सुभ्रु तडिद्धनस्था त्वं हेमचार्वाभरणान्वितेव ।
मुञ्चन्ति धाराश्च घना नदन्तस्त्वद्धारयष्टेः सदृशा वराङ्गि॥३॥

सदृशाः धाराः॥३॥

घनप्रदेशेषु बलाकपङ्क्तयस्त्वद्दन्तपङ्क्तिप्रतिमा विभान्ति ।
निमग्नपद्मानि सरित्सु सुभ्रु न भान्ति तोयानि रयाकुलानि॥४॥

अमी घना वायुवशोपयाता बलाकमालामलचारुदन्ताः ।
अन्योन्यमभ्याहनितुं प्रवृत्ता वनेषु नागा इव शुक्लदन्ताः॥५॥

धनुस्त्रिवर्णं वरगात्रि पश्य कृतं तवापाङ्गमिवाननस्थम् ।
विभूषयन्तं गमनं घनाश्च प्रहर्षणं कामिजनस्य कान्ते॥६॥

घनान्नदन्तः प्रतिनर्दमानान्निरीक्ष्य सुश्रोणि शिखीन्प्रहृष्टान् ।
समाहृतानुद्धतपिच्छभारान्प्रियाभिरामानुपनृत्यमानान्॥७॥

शिखीन् शिखिनः मयूरान्। समादृतान्नृत्ये एवादरयुक्तान्॥७॥

हर्म्येषु चान्ये शशिपाण्डुरेषु राजन्ति सुश्रोणि मयूरसङ्घाः ।
मुहूर्तशोभामतिचारुरूपां दत्त्वा पतन्तो वलभीपुटेषु॥८॥

प्रक्लिन्नपक्षास्तरुमस्तकेषु मुहूर्तचूडामणितां विधाय ।
प्रयान्ति भूमिं नवशाद्वलानामाशङ्कमाना धृतचारुदेहाः॥९॥

आशङ्कमानाः शाद्वलभूमौ सारूप्यादनतिसादृश्यत्वात् सन्ति न सन्तीति शङ्कमाना इत्यर्थः॥९॥

प्रवाति धारान्तरनिःसृतश्च सुखोऽनिलश्चन्दनपङ्कशीतः ।
कदम्बसर्जार्जुनपुष्पभूतं समावहन्गन्धमनङ्गबन्धुम्॥१०॥

पङ्क इव शीतः पुष्पेभ्यो भूतम्॥१०॥

रतिश्रमस्वेदविनाशहेतुर्नवोदभारानयने च हेतुः ।
न मारुतः स्याद्यदि चारुगात्रि न मेघकालो मम वल्लभः स्यात्॥११॥

एवंविधेषु प्रियसङ्गमेषु रतावसाने यदुपैति वायुः ।
रतिश्रमस्वेदहरः सुगन्धी ततः परं किं सुखमस्ति लोके॥१२॥

जलाप्लुतानीक्ष्य महानदीनां सुगात्रि हंसाः पुलिनानि हृष्टाः ।
गताः श्रमं मानसवासलुब्धाः ससारसाः क्रौञ्चगुणानुविद्धाः॥१३॥

गताः श्रमं मानसे वासार्थं श्राम्यन्तो हंसा यत्र हृष्टाः तेन मानसादप्यस्य स्थानस्याधिक्यमुक्तम्। ईक्ष्य वीक्ष्य॥१३॥

न भान्ति नद्यो न सरांसि चैव हतत्विषीवायतचारुनेत्रे ।
गतेषु हंसेष्वथ सारसेषु रथाङ्गतुल्याह्वयनेषु चैव॥१४॥

हतत्विषीव हतशोभे इव उपलक्षणमेतत् न नद्यादीनाम्। नद्योऽपि हतत्विष इत्यर्थः। अथ प्रावृषि इतोऽन्यत्रेति शेषः॥१४॥

भोगैकदेशेन शुभं शयानं ध्रुवं जगन्नाथमुपेन्द्रमीशम् ।
निद्राभ्युपेता वरकालतज्ज्ञा श्रियं प्रगम्योत्तरचारुरूपाम्॥१५॥

भोगैकदेशेन सर्पैकपार्श्वेन उपलक्षितं सप्तम्यथवा तृतीया। निद्रा श्रियं प्रणम्य ईशम् उपेता। भगवति निद्राति श्रीर्जागर्तीत्यर्थः। वरकालतज्ज्ञा प्रावृषं हरिं च जानाना॥१५॥

निद्रायमाणे भगवत्युपेन्द्रे मेघाम्बराक्रान्तनिशाकरोऽद्य ।
पद्मामलाभः कमलायताक्षि कृष्णस्य वक्त्रानुकृतिं करोति॥१६॥

कदम्बनीपार्जुनकेतकानां स्रजो ध्रुवं कृष्णमुपानयन्ति ।
पुष्पाणि चान्यान्यृतवः समस्ताः कृष्णात्प्रसादानभिकाङ्क्षमाणाः॥१७॥

ध्रुवं सर्वदा स्रवन्ति ऋतवः सर्वे इति शेषः॥१७॥

नागाश्चरन्तो विषदिग्धवक्त्राः स्पृशन्ति पुष्पाण्यपि पादपान्यान् ।
पेपीयमानान्भ्रमरैर्जनानां कौतूहलं ते जनयन्त्यतीव॥१८॥

नागा इति। भ्रमरैः पेपीयमानान् वृक्षादीन् सुकुमारतरान् विषवक्राः स्पृशन्तोऽपि ग्लानिं नयन्तीत्याश्चर्यमितिभावः॥१८॥

तोयातिभाराम्बुदवृन्दनद्धं नभः पतिष्यन्तमिवाभिवीक्ष्य ।
निपानगम्भीरमभिन्नवृष्टं मनोहरं चारुमुखस्तनोरु॥१९॥

तव चारुमुखस्तनोरु कर्तृ नभः वीक्ष्य अभिन्नवृष्टं कामोद्रेकात् स्विन्नमभूदिति शेषः। पतिष्यन्तमिति पुंस्त्वमार्षम्॥१९॥

बलाकमालाकुलमाल्यदाम्ना निरीक्ष रम्यं घनवृन्दमेतत् ।
सस्यानि भूमावभिवर्षमाणं जगद्धितार्थं विमलाङ्गयष्टे॥२०॥

बलाकानां मालेव आकुलं निबिडं माल्यदामेव तेन॥२०॥

जलावलम्बाम्बुदवृन्दकर्षीं घनैर्घनान्योधयतीव वायुः ।
प्रवृत्तचक्रो नृपतिर्वनस्थान्गजान्ज्गजैः स्वैरिव वीर्यदृप्तान्॥२१॥

प्रवृत्तचक्रः चक्रम् आज्ञा॥२१॥

अभौममम्भो विसृजन्ति मेघाः पूतं पवित्रं पवनैः सुगन्धि ।
हर्षावहं चातकबर्हिणानां वराण्डजानां जलदप्रियाणाम्॥२२॥

पूतं निर्मलम् अत एव प्रवित्रं शोधकम्॥२२॥

प्लवङ्गमः षोडशपक्षशायी विरौति गोष्ठः सह कामिनीभिः ।
ऋचो द्विजातिः प्रियसत्यधर्मा यथा सुशिष्यैः परिवार्यमाणः॥२३॥

प्लवङ्गमो भेकः गृहारम्भासमर्थः। वार्षिकेषु अष्टसु पक्षेषु गोष्ठो गोव्रजस्तद्वत् वृष्ट्यार्तः सन् विरौति। रावे दृष्टान्तः- ऋचे द्विजातिरिति॥२३॥

गुणे माहांस्तोयदकालजोऽयमबुद्धमेघस्वनभीषितानाम् ।
परिष्वजन्तः परिवर्द्धयन्ति विनापि शय्यासमयं प्रियाणाम्॥२४॥

प्रियाणां काममिति शेषः॥२४॥

दोषोऽयमेकः सलिलागमस्य मां प्रत्युदारान्वयवर्णशीले ।
न दृश्यते यत्तव वक्त्रतुल्यो घनग्रहग्रस्ततनुः शशाङ्कः॥२५॥

मां प्रति भातीति शेषः॥२५॥

प्रदृश्यते भीरु यदा शशाङ्को घनान्तरस्थो जगतः प्रदीपः ।
तदानुपश्यन्ति जनाः प्रहृष्टा बन्धुं प्रवासादिव सन्निवृत्तम्॥२६॥

विलापसाक्षी प्रियहीनितानां सन्दृश्यते भीरु यदा शशाङ्कः ।
नेत्रोत्सवः प्रोषितकामुकानां दृष्ट्वैव कान्तं भवतीत्यवैमि॥२७॥

इतरेषां नेत्रोत्सवोऽपि प्रोषितकामुकानां दृष्ट्वैव। कान्तं कस्य मुखस्य अन्तम् अवसानं भवतीति। यद्वा प्रोषितकामुकानां कान्तं दृष्ट्वैव नेत्रोत्सवो भवतीत्यवैमि नान्यथा॥२७॥

नेत्रोत्सवः कान्तसमागतानां दावाग्नितुल्यः प्रियहीनितानाम् ।
तेनैव देहेन वराङ्गनानां चन्द्रोऽपि तावत्प्रियविप्रियश्च॥२८॥

प्रियश्चासौ विप्रियश्चेति समासः॥२८॥

विनापि चन्द्रेण पुरे पितुस्ते यतः प्रभा चन्द्रगभस्तिगौरी ।
गुणागुणांश्चन्द्रमसो न वेद्मि यतस्ततोऽहं प्रशशंसयिष्ये॥२९॥

विनापीत्यनेन वज्रपुरे गृहान्तः चन्द्रदर्शनं नासीदिति गम्यते। प्रशशंसयिष्ये अतिशयेन कथयिष्ये। स्वार्थे णिच्॥२९॥

अवाप यो ब्राह्मणराज्यमीड्यो दुरापमन्यैः सुकृतैस्तपोभिः ।
गायन्ति विप्राः पवमानसंज्ञं समागताः पर्वणि चाप्युदारम्॥३०॥

पर्वणि यज्ञे॥३०॥

पिता बुधस्योत्तरवीर्यकर्मा पुरूरवा यस्य सुतो नृदेवः ।
प्राणाग्निरीड्योऽग्निमजीजनद्यो नष्टं शमीगर्भभवं भवात्मा॥३१॥

यस्य बुधस्य पुरूरवाः सुतस्तस्य पितार्यश्च ईड्यः स्तुत्यः। प्राणाग्निः “ब्रह्मणे प्राणाय जुष्टं निर्वपामि” इति मन्त्रलिङ्गात्। ब्रह्मोदनिकोऽग्निः गन्धर्वलोकात् पुरूरवसा आनीयमानो मध्येमार्गे निहितः सन् नष्टः। तमेव नष्टमग्निमन्विष्यन् तत्स्थाने शमीगर्भमश्वत्थमपश्यत्। ततोऽश्वत्थादरणीम् आहृत्याग्नित्रयसाध्यं त्रेताकर्म प्रावर्तयत् पुरूरवा इति तत्रौषधिवनस्पतीनामीशश्चन्द्रोऽश्वत्थोत्पादनद्वारा नष्टमग्निमजीजनदित्युच्यते। भवात्मा रुद्रेण शिरसा धृतत्वात्तस्यात्मेवात्मा भवात्मा॥३१॥

तथैव पश्चाच्चकमे महात्मा पुरोर्वशीमप्सरसां वरिष्ठाम् ।
पीतः पुरा योऽमृतसर्वदेहो मुनिप्रवीरैर्वरगात्रि घोरैः॥३२॥

यश्चन्द्रः उर्वशीं पौत्रात्मना स्वयं वा चकमे कामितवान्। अमृतेति पीतस्याप्यापूर्णं सूचितम्। घोरैरिति देहस्यैव पानं न तु चकोरवदित्युक्तम्॥३२॥

नृपः कुशाग्रैः पुनरेव यश्च धीमानतोऽग्निर्दिवि पूज्यते च ।
आयुश्च वंशे नहुषश्च यस्य यो देवराजत्वमवाप विरः॥३३॥

यस्य वंशे आयुर्नृपः कुशाग्रैरेव कुशाग्रोपलक्षितक्रतुपरम्परया दिवि गतोऽग्निः अग्निसायुज्यं प्राप्तः। पूज्यते चेति पूर्वार्द्धार्थः। यस्य वंशे नहुषश्च दिवि गतः यो देवराजत्वमवपित्यन्वयः॥३३॥

देवातिदेवो भगवान्प्रसूतौ वंशे हरिर्यत्र जगत्प्रणेता ।
भैमः प्रवीरः सुरकार्यहेतोर्यः सुभ्रु दक्षस्य वृतः सुताभिः॥३४॥

यश्चन्द्रः॥३४॥

बभूव राजाथ वसुश्च यस्य वंशे महात्मा शशिवंशदीपः ।
यश्चक्रवर्तित्वमवाप वीरः स्वैः कर्मभिः शक्रसमप्रभावः॥३५॥

यदुश्च राजा शशिवंशमुख्यो योऽवाप मह्यामधिराजभावम् ।
भोजाः कुले यस्य नराधिपस्य वीराः प्रसूताः सुरराजतुल्याः॥३६॥

न कूटकृद्यस्य नृपोऽस्ति वंशे न नास्तिको नैष्कृतिकोऽपि वाथ ।
अश्रद्दधानोऽप्यथवा कदर्यः शौर्येण वा वारिरुहाक्षि हीनः॥३७॥

वंशे वधूस्त्वं कमलायताक्षि श्लाघ्या गुणानामतिपात्रभूता ।
कुरु प्रणामं शिखराग्रदन्ति तस्य त्वमीशस्य सतां प्रियस्य॥३८॥

शिखराग्रदन्ति शिखरं लोहितमणिविशेषः॥३८॥

नारायणायात्मभवायनाय लोकायनाय त्रिदशायनाय ।
खगेन्द्रकेतोः पुरुषोत्तमाय कुरु प्रणामं श्वशुराय देवि॥३९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि प्रद्युम्नभाषणे पञ्चनवतितमोऽध्यायः॥९५॥
प्रद्युम्नदैत्ययुद्धम्-०९६

वैशम्पायन उवाच। सत्रावसाने च मुनेः कश्यपस्यातितेजसः ।
जग्मुर्देवासुराः स्वानि स्थानान्यमितविक्रमाः॥१॥

सत्रावसान इति॥१॥

वज्रनाभोऽपि निर्वृत्ते सत्रे कश्यपमभ्यगात् ।
त्रैलोक्यविजयाकाङ्क्षी तमुवाचाथ कश्यपः॥२॥

वज्रनाभ निबोध त्वं श्रोतव्यं यदि चेन्मम ।
वस वज्रपुरे पुत्र स्वजनेन समावृतः॥३॥

तपसाभ्यधिकः शक्रः शक्तश्चैव स्वभावतः ।
ब्रह्मण्यश्च कृतज्ञश्च ज्येष्ठः श्रेष्ठतमो गुणैः॥४॥

राजा कृत्स्नस्य जगतः पात्रभूतः सतां गतिः ।
सम्प्राप्तो लोकराज्यं स सर्वभूतहिते रतः॥५॥

नैव शक्यस्त्वया जेतुं वज्रनाभ विहन्यसे ।
अहिं पदा व्युत्क्रमन्वै न चिराद्विनशिष्यसि॥६॥

विहन्यसे म्रियसे॥६॥

वज्रनाभश्च तद्वाक्यं नाभिनन्दति भारत ।
कालपाशपरीताङ्गो मर्तुकाम इवौषधम्॥७॥

अभिवाद्य स दुर्बुद्धिः कश्यपं लोकभावनम् ।
त्रैलोक्यविजयारम्भे मतिं चक्रे दुरासदः॥८॥

ज्ञातियोधान्समानीय मित्राणि सुबहूनि च ।
प्रतस्थे स्वर्गमेवाग्रे विजिगीषन्विशाम्पते॥९॥

एतस्मिन्नन्तरे देवौ कृष्णेन्द्रौ च महाबलौ ।
प्रेषयामासतुर्हंसान्वज्रनाहवधं प्रति॥१०॥

समागतास्तु तच्छ्रुत्वा यदुमुख्या महाबलाः ।
मन्त्रयित्वा महात्मानश्चिन्तामापेदिरे तथा॥११॥

वज्रनाभोऽद्य हन्तव्यः प्रद्युम्नेनेत्यसंशयम् ।
तयोर्दुहितरो भार्या भक्त्या ताः सर्वभावनाः॥१२॥

सर्वाः सगर्भास्ताश्चैव किं नु कार्यमनन्तरम् ।
प्राप्तः प्रसवकालश्च तासां नातिचिरादिव॥१३॥

संमन्त्रयित्वैतदर्थं हंसानूचुर्महाबलाः ।
आख्येयमर्थवत्कृत्स्नं शक्रकेशवयोस्तदा॥१४॥

हंसैर्गत्वा तदाख्यातं देवयोस्तद्यथातथम् ।
ताभ्यां हंसास्तु सन्दिष्टा न भेतव्यमिति प्रभो॥१५॥

उत्पत्स्यन्ति गुणैः श्लाघ्याः पुत्रा वः कामरूपिणः ।
गर्भस्थाः सर्ववेदांश्च साङ्गान्वेत्स्यन्त्यनिन्दिताः॥१६॥

तथा चानागतं सर्वमस्त्राणि विविधानि च ।
सद्य एव युवानश्च भविष्यन्ति सुपण्डिताः॥१७॥

एवमुक्त्वा गता हंसाः पुनर्वज्रपुरं विभो ।
शशंसुश्चैव भैमानां शक्रकेशवभाषितम्॥१८॥

प्रभावती तदा पुत्रं सुषुवे सदृशं पितुः ।
सद्यो यौवनसम्प्राप्तं सर्वज्ञत्वं च भारत॥१९॥

मासमात्रेण सुषुवे देवी चन्द्रवती नृप ।
चन्द्रप्रभमिति ख्यातं तनयं सदृशं पितुः॥२०॥

सद्यश्च यौवनं प्राप्तं सर्वज्ञत्वं च भारत ।
गुणावत्यपि पुत्रं च गुणवन्तमनिन्दिता॥२१॥

युवानावथ सद्यस्तौ सर्वशास्त्रार्थकोविदौ ।
इन्द्रोपेन्द्रप्रसादेन संवृत्तौ युद्धवर्द्धनौ॥२२॥

हर्म्यपृष्ठे वर्द्धमाना दृष्टास्ते यदुनन्दनाः ।
इन्द्रोपेन्द्रेच्छया वीर नान्यथेत्यवधार्यताम्॥२३॥

निवेदिताश्च सम्भ्रान्तैर्दैत्यैराकाशरक्षिभिः ।
वज्रनाभाय वीराय त्रिविष्टपजयैषिणे॥२४॥

वधाय सर्वे गृह्यन्तां ममैते गृहधर्षकाः ।
इत्युवाचासुरपतिर्वज्रनाभो महासुरः॥२५॥

ततः सैन्यं समाज्ञप्तमसुरेन्द्रेण धीमता ।
आवारयामास दिशः सर्वाः कुरुकुलोद्वह॥२६॥

गृह्यतामाशु वध्यन्तामिति वाचस्ततस्ततः ।
उच्चेरुरसुरेन्द्रस्य शासनादरिशासिनः॥२७॥

तच्छ्रुत्वा व्यथितास्तेषां मातरः पुत्रवत्सलाः ।
रुरुदुस्ता रुदन्तीश्च प्रद्युम्नः प्रहसन्ब्रवीत्॥२८॥

मा भैष्ट जीवमानेषु स्थितेष्वस्मासु सर्वथा ।
किं नो दैत्याः करिष्यन्ति सर्वथा भद्रमस्तु वः॥२९॥

प्रभावतीमथोवाच प्रद्युम्नो विप्लवां स्थिताम् ।
पिता तव गदापाणिः पितृव्याश्च स्थितास्तव॥३०॥

भ्रातरश्चैव ते देवि ज्ञातयश्च तथापरे ।
एते पूज्याश्च मान्याश्च तवार्थे खलु सर्वथा॥३१॥

भगिन्यौ पृच्छ भद्रं ते कालोऽयं खलु दारुणः ।
मरणं सहमानानां युद्ध्यतां विजयो ध्रुवम्॥३२॥

दानवेन्द्रादयो ह्येते योत्स्यन्तेऽस्मद्वधैषिणः ।
किमत्र कार्यमस्माभिः सर्वैश्चक्रान्तरस्थितैः॥३३॥

चक्रान्तरस्थितः त्वदाज्ञावर्तिभिः॥३३॥

प्रभावती रुदन्ती तु प्रद्युम्नमिदमब्रवीत् ।
शिरस्यञ्जलिमाधाय जानुभ्यां पतिता क्षितौ॥३४॥

गृहाण शस्त्रमात्मानं रक्ष शत्रुनिबर्हण ।
जीवन्पुत्रांश्च दारांश्च द्रष्टासि यदुनन्दन॥३५॥

आर्यां नृवर वैदर्भीमनिरुद्धं च मानद ।
स्मृत्वैतन्मोक्षयात्मानं व्यसनादरिमर्दन॥३६॥

एतत् एतस्मात्॥३६॥

दुर्वाससा वरो दत्तो मुनिना मम धीमता ।
वैधव्यरहिता हृष्टा जीवपुत्रा भविष्यसि॥३७॥

एष मे हृदयाश्वासो भविता न तदन्यथा ।
सूर्याग्नितेजसो वाक्यं मुनेरिन्द्रानुजात्मज॥३८॥

इत्युक्त्वाथासिमादाय सूपस्पृष्ट्वा मनस्विनी ।
प्रददौ रौक्मिणेयाय जयस्वेति वरं वरा॥३९॥

सूपस्पृष्ट्वा सम्यक् संमार्ज्य॥३९॥

स तं जग्राह धर्मात्मा प्रहृष्टेनान्तरात्मना ।
प्रणम्य शिरसा दत्तं प्रियया भक्तियुक्तया॥४०॥

चन्द्रवत्यपि निस्त्रिंशं गदाय प्रददौ मुदा ।
तदा गुणवती चैव साम्बायासिं महात्मने॥४१॥

हंसकेतुमथोवाच प्रद्युम्नः प्रणतं प्रभुः ।
इहैव साम्बसहितो युद्ध्यस्व सह यादवैः॥४२॥

आकाशे दिक्षु सर्वासु योत्स्याम्यहमरिन्दम ।
इत्युक्त्वाथ रथं चक्रे मायया मायिनां वरः॥४३॥

चक्रे निर्ममे॥४३॥

सहस्रशिरसं नागं कृत्वा सारथिमात्मवान् ।
अनन्तभोगं कौरव्य सर्वनागोत्तमोत्तमम्॥४४॥

स तेन रथमुख्येन हर्षयन्वै प्रभावतीम् ।
चचारासुरसैन्येषु तृणेष्विव हुताशनः॥४५॥

शरैराशीविषप्रख्यैरर्द्धचन्द्रानुकान्तिभिः ।
भेदनैर्गाधनैश्चैव तदर्द दितिसम्भवान्॥४६॥

भेदनैः सूक्ष्माग्रैः शरैः शरीरप्रवेशेन विदारणैः गाधनैः स्थूलाग्रैः अनुक्रान्तिभिर्बाणैर्दृढप्रहारमात्रैः ततर्द पीडयामास॥४६॥

असुराश्च रणे मत्ताः कार्ष्णिं शस्त्रैरितस्ततः ।
जघ्नुः कमलपत्राक्षं परं निश्चयमास्थिताः॥४७॥

चिच्छेद बाहून्केषाञ्चित्केयूरवलयोज्ज्वलान् ।
सकुण्डलानि केषाञ्चिच्छिरांस्यपि च चिच्छिदे॥४८॥

क्षुरच्छिन्नैः शिरोभिश्च कायैश्च शकलैरपि ।
असुराणां मही कीर्णा प्रद्युम्नेनातितेजसा॥४९॥

देवेश्वरो देवगणैः सहितः समितिञ्जयः ।
ददर्श मुदितो युद्धं भैमानां दितिजैः सह॥५०॥

ये गदं चैव साम्बं च दैत्याः समभिदुद्रुवुः ।
ते ययुर्निधनं सर्वे यादांसीव महोदधौ॥५१॥

विषमं तु तदा युद्धं दृष्ट्वा देवप्तिर्हरिः ।
गदाय प्रेषयामास स्वं रथं हरिवाहनः॥५२॥

हरिवाहन इन्द्रः॥५२॥

दिदेश मातलिसुतं यन्तारं च सुवर्चसम् ।
साम्बायैरावणं नागं प्रेषयामास चेश्वरः॥५३॥

जयन्तं रौक्मिणेयस्य सहायमददाद्विभुः ।
ऐरावणमधिष्ठातुं प्रवरं स नियुक्तवान्॥५४॥

प्रवरम् इन्द्रस्य सखायं ब्राह्मणम्॥५४॥

देवपुत्रद्विजौ वीरावप्रमेयपराक्रमौ ।
अनुज्ञाप्य सुराध्यक्षं ब्रह्माणं लोकभावनम्॥५५॥

तं मातलिसुतं चैव गजमैरावणं तदा ।
देवः प्रेशितवाञ्छक्रो विधिज्ञो वरकर्मसु॥५६॥

क्षीणमस्य तपो वध्यो यदूनामेष दुर्मतिः ।
प्रविशन्ति तु भूतानि सर्वत्र तु यथेप्सितम्॥५७॥

प्रद्युम्नश्च जयन्तश्च प्राप्तौ हर्म्यं महाबलौ ।
असुराञ्च्छरजालौघैर्विक्राम्यन्तौ प्रणश्यतुः॥५८॥

गदं कार्ष्णिस्तदोवाच दुर्वार्यरणदुर्जयः ।
उपेन्द्रानुज शक्रेण रथोऽयं प्रेषितस्तव॥५९॥

हरियुङ्मातलिसुतो यन्ता चायं महाबलः ।
प्रवराधिष्ठितश्चायं साम्बस्यैरावणो गजः॥६०॥

अद्योपहारो रुद्रस्य द्वारकायं महाबलः ।
श्व एष्यति हृषीकेशस्तस्मिन्वृत्तेऽच्युतानुज॥६१॥

उपहारो महापूजा॥६१॥

तस्याज्ञया वधिष्यामो वज्रनाभं सबान्धवम् ।
अभ्युत्थानकृतं पापं त्रिविष्टपजयं प्रति॥६२॥

अभ्युत्थानकृतम् उपक्रमकर्तारम्॥६२॥

करिष्यामि विधानं च नैष चक्रं सुतान्वितम् ।
विजेष्यत्यप्रमादस्तु कर्तव्य इति मे मतिः॥६३॥

कलत्ररक्षणं कार्यं सर्वोपायैर्नरैर्बुधैः ।
कलत्रधर्षणं लोके मरणादतिरिच्यते॥६४॥

एवं सन्दिश्य भैमः स गदसाम्बौ महाबलः ।
प्रद्युम्नकोट्यः ससृजे मायया दिव्यरूपया॥६५॥

कोट्यः कोटीः॥६५॥

तमश्च नाशयामास दैत्यसृष्टं दुरासदम् ।
जहृषे देवराजश्च तं दृष्ट्वा रिपुमर्दनम्॥६६॥

ददृशुः सर्वभूतानि कार्ष्णिं सर्वेषु शत्रुषु ।
अन्तरात्मनि वर्तन्तं क्षेत्रज्ञमिव तं विदुः॥६७॥

एवं व्यतीता रजनी रौक्मिणेयस्य युध्यतः ।
असुराणां त्रिभागश्च निहतश्चातितेजसा॥६८॥

यावद्वियोधयामास कार्ष्णिर्दैत्यान्रणाजिरे ।
सन्ध्योपास्ता जयन्तेन तावद्विष्णुपदीजले॥६९॥

अयोधयज्जयन्तश्च यावद्दैत्यान्महाबलः ।
तावदाकाशगङ्गायां भैमाः सन्ध्यामुपास्तवान्॥७०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि प्रद्युम्नदैत्ययुद्धे षण्णवतितमोऽध्यायः॥९६॥
वज्रनाभवधः-०९७

वैशम्पायन उवाच। जगतश्चक्षुषि ततो मुहूर्ताभ्युदिते रवौ ।
प्रादुरासीद्धरिर्देवस्तार्क्ष्येणोरगशत्रुणा॥१॥

जगत इति॥१॥

हंसवायुमनोभिश्च सुशीघ्रतरगः खगः ।
तस्थौ वियति शक्रस्य समीपे कुरुनन्दन॥२॥

समेत्य च यथान्यायं कृष्णो वासवसन्निधौ ।
पाञ्चजन्यं हरिर्दध्मौ दैत्यानां भयवर्धनम्॥३॥

तं श्रुत्वाभ्यागतस्तत्र प्रद्युम्नो परवीरहा ।
वज्रनाभं जहीत्युक्तः केशवेन त्वरेति च॥४॥

तार्क्ष्यमारुह्य गच्छेति पुनरेव प्रणोदितः ।
चकार स तथा वीरः प्रणिपत्य सुरोत्तमौ॥५॥

स मनोरंहसा वीर तार्क्ष्येणाशु ययौ नृप ।
अभ्यासं वज्रनाभस्य महाद्वन्द्वस्य भारत॥६॥

महाद्वन्द्वस्य महाव्युत्क्रमणस्य दुरन्तस्येत्यर्थः॥६॥

ततस्तार्क्ष्यगतो वीरस्ततर्द रणमूर्धनि ।
वज्रनाभं स्थिरो भूत्वा सर्वास्त्रविदनिन्दितः॥७॥

तेन तार्क्ष्यगतेनैव गदया कृष्णसूनुना ।
उरस्यभ्याहतो वीरो वज्रनाभो महात्मना॥८॥

स तेनाभिहतो वीरो दैत्यो मोहवशं गतः ।
चक्षार च भृशं रक्तं बभ्रामैव गतासुवत्॥९॥

चक्षार मुखेन उद्गीर्णवान्॥९॥

आश्वसेतयथ तं कार्ष्णिरुवाच रणदुर्जयः ।
लब्धसंज्ञः स वीरस्तु प्रद्युम्नमिदम्ब्रवीत्॥१०॥

साधु यादव वीर्येण श्लाघ्यो मम रिपुर्भवान् ।
प्रतिप्रहारकालोऽयं स्थिरो भव महाबल॥११॥

एवमुक्त्वा महानादं मुक्त्वा मेघशतोपमम् ।
गदां मुमोच वेगेन सघण्टां बहुकण्टकाम्॥१२॥

तया ललाटेऽभिहतः प्रद्युम्नो गदया नृप ।
उद्वमन्रुधिरं भूरि मुमोह यदुनन्दनः॥१३॥

तं दृष्ट्वा भगवान्कृष्णः पाञ्चजन्यं जलोद्भवम् ।
दध्मावाश्वासनकरं पुत्रस्य रिपुनाशनः॥१४॥

तं पाञ्चजन्यशब्देन प्रत्याश्वस्तं महाबलम् ।
दृष्ट्वा प्रमुदिता लोका विशेषेणेन्द्रकेशवौ॥१५॥

तस्य चक्रं करे यातं कृष्णच्छन्देन भारत ।
क्षुरनेमिसहस्रारं दैत्यसङ्घकुलान्तकम्॥१६॥

तस्य प्रद्युम्नस्य॥१६॥

तन्मुमोचाच्युतसुतस्तस्य नाशाय भारत ।
नमस्कृत्वा सुरेन्द्राय कृष्णाय च महात्मने॥१७॥

वज्रनाभस्य तत्कायादुच्चकर्त शिरस्तदा ।
नारायणसुतोन्मुक्तं दैत्यानामनुपश्यताम्॥१८॥

गदः सुनाभमवधीद्यतमानं रणाजिरे ।
हर्म्यपृष्ठे जिघांसन्तं रणदृप्तं भयानकम्॥१९॥

साम्बः समरमध्यस्थानसुरानरिमर्दनः ।
निनाय निशितैर्बाणैः प्रेताधिपपरिग्रहम्॥२०॥

निकुम्भोऽपि हते वीरे वज्रनाभे महासुरे ।
जगाम षट्पुरं वीरो नारायणभयार्दितः॥२१॥

निबर्हिते देवरिपौ वज्रनाभे महासुरे ।
अवतीर्णौ महात्मानौ हरी वज्रपुरं तदा॥२२॥

लब्धप्रशमनं चैव चक्रतुः सुरसत्तमौ ।
सान्त्वयामासतुश्चैव बालवृद्धं भयार्दितम्॥२३॥

लब्धस्य शत्रुपराजयस्य प्रशमनं दुःखापनोदनम्॥२३॥

इन्द्रोपेन्द्रौ महात्मानौ मन्त्रयित्वा महाबलौ ।
आयन्त्यां च तदात्वे च बृहस्पतिमतानुगौ॥२४॥

वज्रनाभस्य तद्राज्यं चतुर्धा चक्रतुर्नृप ।
विजयस्य चतुर्भागं जयन्ततनयस्य वै॥२५॥

विजयस्य इन्द्रपौत्रस्य॥२५॥

प्रद्युम्नस्य चतुर्भागं रौक्मिणेयसुतस्य च ।
चन्द्रप्रभस्य ददतुश्चतुर्भागं जनेश्वर॥२६॥

प्रद्युम्नस्य प्रद्युम्नपुत्रस्य रौक्मिणेयोऽत्र साम्बस्तत्सुतस्य परिशेषः चन्द्रप्रभस्य गदपुत्रस्य॥२६॥

कोट्यश्चतस्रो ग्रामाणामधिकास्ता विशाम्पते ।
शाखापुरसहस्रं च स्फीतं वज्रपुरोपमम् ।
चतुर्धा चक्रतुस्तत्र संहृष्टौ शक्रकेशवौ॥२७॥

कम्बलाजिनवासांसि रत्नानि विविधानि च ।
चतुर्धा चक्रतुर्वीरौ वीरवासवकेशवौ॥२८॥

ततोऽभिषिक्तास्ते वीरा राजानो वासवाज्ञया ।
देवदुन्दुभिवाद्येन नृप विष्णुपदीजलैः॥२९॥

स्वयं शक्रेण देवेन केशवेन च धीमता ।
ऋषिवंशे महात्मानः शक्रमाधवनन्दनाः॥३०॥

ऋषिवंशे ऋषिसङ्घसमीपे अभिषिक्ता इति पूर्वस्थेनान्वयः॥३०॥

विजयश्च प्रसिद्धैव गतिर्वियति धीमतः ।
मातृजेन गुणेनापि माधवानां महात्मनाम्॥३१॥

गतिः विभज्य राज्यं ग्राह्यमित्यर्थः। मातृजेन गुणेन असुरदौहितृत्वेन माधवानां पुत्रत्रयं मम च पुत्र इत्येवं चतुर्धा विभागः॥३१॥

अभिषिच्य जयन्तं तु वासवो भगवान्ब्रवीत् ।
त्वयैते वीर संरक्ष्या राजानः समितिञ्जयाः॥३२॥

ब्रवीत् अब्रवीत्॥३२॥

मम वंशकरोऽत्रैकः केशवस्य त्रयोऽनघ ।
अवध्याः सर्वभूतानां भविष्यन्ति ममाज्ञया॥३३॥

गमनागमनं चैव दिवि सिद्धं भविष्यति ।
त्रिविष्टपं द्वारकां च रम्यां भैमाभिरक्षिताम्॥३४॥

दिशागजसुतान्नागान्हयांश्चोच्चैःश्रवोऽन्वयान् ।
इच्छयैषां प्रयच्छस्व रथांस्त्वष्टृकृतानपि॥३५॥

प्रयच्छस्वेति जयन्तं प्रति उक्तिः॥३५॥

गजावैरावणसुतौ शत्रुञ्जयरिपुञ्जयौ ।
प्रयच्छाकाशगौ वीरौ साम्बस्य च गदस्य च॥३६॥

आकाशेन पुरीं यातुं द्वारकां भैमरक्षिताम् ।
आयातौ च सुतौ द्रष्टुं यथेष्टं भैमनन्दनौ॥३७॥

इति सन्दिश्य भगवान्देवराजः पुरन्दरः ।
जगाम भगवान्स्वर्गं द्वारकामपि केशवः॥३८॥

षण्मासानुषितस्तत्र गदः प्रद्युम्न एव च ।
साम्बश्च द्वारकां याता रूढे राज्ये महाबलाः॥३९॥

अद्यापि तानि राज्यानि मेरोः पार्श्वे तथोत्तरे ।
तिष्ठन्ति च जगद्यावत्स्थास्यन्त्यमरसन्निभ॥४०॥

निवृत्ते मौसले युद्धे स्वर्गं यातेषु वृष्णिषु ।
गदप्रद्युम्नसाम्बास्ते गता वज्रपुरं विभो॥४१॥

ततः प्रोष्य पुनर्यान्ति स्वर्गं स्वैः कर्मभिः शुभैः ।
प्रसादेन च कृष्णस्य लोककर्तुर्जनेश्वर॥४२॥

प्रद्युम्नोत्तरमेतत्ते नृदेव कथितं मया ।
धन्यं यशस्यमायुष्यं शत्रुनाशनमेव च॥४३॥

प्रद्युम्नोत्तरं प्रद्युम्नस्य उत्कर्षः॥४३॥

पुत्रपौत्रा विवर्द्धन्ते आरोग्यधनसम्पदः ।
यशो विपुलमाप्नोति द्वैपायनवचो यथा॥४४॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वज्रनाभवधो नाम सप्तनवतितमोऽध्यायः॥९७॥
पुनर्विशेषतो द्वारवतीनिर्माणम्-०९८

वैशम्पायन उवाच। ददर्शाथ पुरीं कृष्णो द्वारकां गरुडे स्थितः ।
देवसद्मप्रतीकाशां समन्तात्प्रतिनादिताम्॥१॥

ददर्शेति॥१॥

मणिपर्वतयन्त्राणि तथा क्रीडागृहाणि च ।
उद्यानवनमुख्यानि वलभीचत्वराणि च॥२॥

सम्प्राप्ते तु तदा कृष्णे पुरीं देवकिनन्दने ।
विश्वकर्माणमाहूय देवराजोऽब्रवीदिदम्॥३॥

प्रियमिच्छसि चेत्कर्तुं मह्यं शिल्पवतां वर ।
कृष्णप्रियार्थं भूयस्त्वं प्रकुरुष्व मनोहराम्॥४॥

उद्यानशतसम्बाधां द्वारकां स्वर्गसंमिताम् ।
कुरुष्व विबुधश्रेष्ठ यथा मम पुरी तथा॥५॥

यत्किञ्चित्त्रिषु लोकेषु रत्नभूतं प्रपश्यसि ।
तेन संयुज्यतां क्षिप्रं पुरी द्वारवती त्वया॥६॥

कृष्णो हि सुरकार्येषु सर्वेषु सततोत्थितः ।
सङ्ग्रामान्घोररूपांश्च विगाहति महाबलः ।
तामिन्द्रवचनाद्गत्वा विश्वकर्मा पुरीं ततः॥७॥

अलञ्चक्रे समन्ताद्वै यथेन्द्रस्यामरावती ।
तां ददर्श दशार्हाणामीश्वरः पक्षिवाहनः ।
विश्वकर्मकृतैर्दिव्यैरभिप्रायैरलङ्कृताम्॥८॥

तां तदा द्वारकां दृष्ट्वा प्रभुर्नारायणो विभुः ।
हृष्टः सर्वार्थसम्पन्नः प्रवेष्टुमुपचक्रमे॥९॥

सोऽपश्यद्वृक्षखण्डांश्च रम्यान्दृष्टिमनोहरान् ।
द्वारकां प्रति दाशार्हश्चित्रितां विश्वकर्मणा॥१०॥

खण्डान् समूहान्॥१०॥

पद्मखण्डाकुलाभिश्च हंससेवितवारिभिः ।
गङ्गासिन्धुप्रकाशाभिः परिखाभिर्वृतां पुरीम्॥११॥

प्राकारेणार्कवर्णेन शातकौम्भेन राजता ।
चयमूर्ध्नि निविष्टेन द्यां यथैवाभ्रमालया॥१२॥

चयमूर्ध्नि अट्टालोपरि॥१२॥

काननैर्नन्दनप्रख्यैस्तथा चैत्ररथोपमैः ।
बभौ चारुपरिक्षिप्ता द्वारका द्यौरिवाम्बुदैः॥१३॥

बभौ रैवतकः शैलो रम्यसानुगुहाजिरः ।
पूर्वस्यां दिशि लक्ष्मीवान्मणिकाञ्चन्तोरणः॥१४॥

मणिकाञ्चनमयानि तोरणानि बहिर्द्वाराणि यस्य॥१४॥

दक्षिणस्यां लताविष्टः पञ्चवर्णो विराजते ।
इन्द्रकेतुप्रतीकाशः पश्चिमायां तथा क्षयः॥१५॥

उत्तरां दिशमत्यर्थं विभूषयति वेणुमान् ।
मन्दराद्रिप्रतीकाशः पाण्डुरः पार्थिवर्षभः॥१६॥

चित्रकं पञ्चवर्णं च पाञ्चजन्यं वनं महत् ।
सर्वर्तुकवनं चैव भाति रैवतकं प्रति॥१७॥

चित्रकादीनि चतुर्दश वनानि॥१७॥

लतावेष्टितपर्यन्तं मेरुप्रभवनं महत् ।
भाति भानुवनं चैव पुष्पकं च महद्वनम्॥१८॥

अक्षकैर्बीजकैश्चैव मन्दारैश्चोपशोभितम् ।
शतावर्तवनं चैव करवीराकरं तथा॥१९॥

भाति चैत्ररथं चैव नन्दनं च वनं महत् ।
रमणं भावनं चैवं वेणुमद्वै समन्ततः॥२०॥

वैडूर्यपत्रैर्जलजैस्तदा मन्दाकिनी नदी ।
भाति पुष्करिणी रम्या पूर्वस्यां दिशि भारत॥२१॥

सानवो भूषितास्तत्र केशवस्य प्रियैषिभिः ।
बहुभिर्देवगन्धर्वैश्चोदितैर्विश्वकर्मणा॥२२॥

महानदी द्वारवतीं पञ्चाशद्भिर्महामुखैः ।
प्रविष्टा पुण्यसलिला भावयन्ती समन्ततः॥२३॥

महानदी मन्दाकिनी पञ्चाशद्भिर्विश्वजां सहस्रसंवत्सरे सत्रे पञ्चपञ्चाशतस्त्रिवृतः संवत्सराः पञ्चपञ्चाशतः पञ्चदशाः पञ्चपञ्चाशतः सप्तदशाः पञ्चपञ्चाशत एकविंशतिसङ्ख्याकाभिः पञ्चाशद्भिः सहस्त्रैः सम्पत्तिभिरुक्ता तावत्सङ्ख्यैः तत्फलभूतैरुद्यानादिभिरिति यावत्। भावयन्ती हर्षयन्ती जनानिति शेषः॥२३॥

अप्रमेयां महोत्सेधामगाधपरिखायुताम् ।
प्राकारवरसम्पन्नां सुधापाण्डुरलेपनाम्॥२४॥

तीक्ष्णयन्त्रशतघ्नीभिर्हेमजालैश्च भूषिताम् ।
आयसैश्च महाचक्रैर्ददर्श द्वारकां पुरीम्॥२५॥

अष्टौ रथसहस्राणि नगरे किङ्किणीकिनाम् ।
समुच्छ्रितपताकानि यथा देवपुरे तथा॥२६॥

किङ्किणीकिनां क्षुद्रघण्टिकावतां नर्तकानाम्॥२६॥

अष्टयोजनविस्तीर्णामचलां द्वादशायताम् ।
द्विगुणोपनिवेशां च ददर्श द्वारकां पुरीम्॥२७॥

द्वादशायतां द्वादशयोजनदीर्घाम् उपनिवेशाः शाखानगराणि तेषां द्विराजिभिर्द्विगुणायतां द्विगुणदीर्घां च॥२७॥

अष्टमार्गमहारथ्यां महाषोडशचत्वराम् ।
एकमार्गपरिक्षिप्तां साक्षादुशनसा कृताम्॥२८॥

अष्टेति। पञ्चगृहपङ्क्तिभिश्चतस्रो रथ्या भवन्ति ताश्चतस्र ऊर्ध्वाश्चतस्रः तिस्रश्च तासां सन्धयः षोडश तेषां मध्ये षोडश चत्वराणि। एकेनैव मार्गेण युक्तां यतः परिक्षिप्तां परिवृतां सागरेणेत्यर्थात् एकमार्गा चासौ परिक्षिप्ता चेति समासः। उशनसा पुरनिर्माणविदा शुक्रेण॥२८॥

स्त्रियोऽपि यस्यां युध्येरन्किमु वृष्णिमहारथाः ।
व्यूहानामुत्तमा मार्गाः सप्त चैव महापथाः॥२९॥

व्यूहानां सेनानिविशेषाणां चक्रक्रौञ्चाकाराणाम्॥२९॥

तत्र वै विहिताः साक्षाद्विविधा विश्वकर्मणा ।
तस्मिन्पुरवरश्रेष्ठे दाशार्हाणां यशस्विनाम्॥३०॥

वेश्मानि जहृषे दृष्ट्वा ततो देवकिनन्दनः ।
काञ्चनैर्मणिसोपानैरुपेतानि नृहर्षणैः॥३१॥

भीमघोषमहाघोषैः प्रासादवरचत्वरैः ।
समुच्छ्रितपताकानि पारिप्लववनानि च॥३२॥

काञ्चनाग्राणि भास्वन्ति प्रासादशिखराणि च ।
गृहाणि रमणीयानि मेरुकूटनिभानि च॥३३॥

पाण्डुपाण्दुरशृङ्गैश्च शातकुम्भपरिष्कृतैः ।
रम्यसानुगृहैः शृङ्गैर्विचित्रैरिव पर्वतैः॥३४॥

पाण्डुपाण्डुराणि श्वेतादपि श्वेतानि अतिश्वेतैरुपेतानि गृहाणीत्यर्थः। शातकुम्भपरिष्कृतैः सुवर्णधाराविचित्रितैः॥३४॥

पञ्चवर्णैः सुवर्णैश्च पुष्पवृष्टिसमप्रभैः ।
पर्जन्यतुल्यनिर्घोषैर्नानारूपैरिवाद्रिभिः॥३५॥

दावाग्निज्वलितप्रख्यैर्निर्मितैर्विश्वकर्मणा ।
आश्लिषद्भिरिवाकाशमतिचन्द्रार्कभास्वरैः॥३६॥

तैर्दशार्हैर्महाभागैर्बभासे तद्वनद्रुमैः ।
वासुदेवेन्द्रपर्जन्यैर्गृहमेधैरलङ्कृता॥३७॥

तैरिति सार्द्धश्लोकः। तद्वनद्रुमैः तानि चित्रकादीनि च तानि वनानि तद्वनानि तत्सम्बन्धिभिर्द्रुमैः बभासे पुरीति शेषः। सहस्राक्षत्वपुष्पितत्वयोर्वृष्टिकर्तृत्वपुष्पवर्षत्वयोश्च साम्यादिन्द्रवृक्षाणामिन्द्रपर्जन्यसमत्वं दाशार्हाणां कृष्णादीनां वासुदेवस्य विष्णोः सगणस्य च समत्वमिति योग्यतया ज्ञेयम्॥३७॥

ददृशे द्वारका चारुमेघैर्द्यौरिव संवृता ।
साक्षाद्भगवतो वेश्म विहितं विश्वकर्मणा॥३८॥

ददृशे वासुदेवस्य चतुर्योजनमायतम् ।
तावदेव च विस्तीर्णमप्रमेयं महाधनम्॥३९॥

प्रासादवरसम्पन्नैर्युक्तं जगति पर्वतैः ।
यच्चकार महाभागस्त्वष्टा वासवनोदितः॥४०॥

जगति पर्वतैः कृत्रिमैः क्रीडापर्वतैः॥४०॥

प्रासादं चैव हेमाभं सर्वभूतमनोहरम्॥४१॥

काञ्चनं नाम प्रासादं रुक्मिण्याः॥४१॥

मेरोरिव गिरेः शृङ्गमुच्छ्रितं काञ्चनं महत् ।
रुक्मिण्याः प्रवरं वासं विहितं विश्वकर्मणा॥४२॥

सत्यभामा पुनर्वेश्म यदावसत पाण्डुरम् ।
विचित्रमणिसोपानं तद्विदुर्भोगवत्त्विति॥४३॥

भोगवन्नाम पाण्डुरं सत्यभामायाः॥४३॥

विमलादित्यवर्णाभिः पताकाभिरलङ्कृतम् ।
व्यक्तसञ्जवनोद्देशो यश्चतुर्दिङ्महाध्वजः॥४४॥

व्यक्तसञ्जवनः व्यक्तं स्पष्टं सञ्जवनं प्रतिक्षणमभिनवरूपत्वं यस्य स तथाविधः॥४४॥

स च प्रासादमुख्योऽथ जाम्बवत्या विभूषितः ।
प्रभयाभ्यभवत्सर्वांस्तानन्या भास्करो यथा॥४५॥

उद्यद्भास्करवर्णाभस्तयोरन्तरमाश्रितः ।
विश्वकर्मकृतो दिव्यः कैलासशिखरोपमः॥४६॥

जाम्बूनद इवादीप्तः प्रदीप्तज्वलनो यथा ।
सागरप्रतिमोत्तिष्ठन्मेरुरित्यभिविश्रुतः॥४७॥

मेरुर्नाम प्रासादो नाग्नजित्याः सत्यायाः॥४७॥

तस्मिन्गान्धारराजस्य दुहिता कुलशालिनी ।
गान्धारी भरतश्रेष्ठ केशवेन निवेशिता॥४८॥

पद्मकूल इति ख्यातं पद्मवर्णं महाप्रभम् ।
सुभीमाया महाकूटं वासं सुरुचिरप्रभम्॥४९॥

पद्मकूलाख्यो भीमायाः॥४९॥

सूर्यप्रभस्तु प्रासादः सर्वकामगुणैर्युतः ।
लक्ष्मणाया नृपश्रेष्ठ निर्दिष्टः शार्ङ्गधन्वना॥५०॥

सूर्यप्रभो नाम लक्ष्मणायाः॥५०॥

वैडूर्यमणिवर्णाभः प्रासादो हरितप्रभः ।
यं विदुः सर्वभूतानि परमित्येव भारत॥५१॥

परमित्येव तन्नामकं गृहं मित्रविन्दायाः॥५१॥

वासं तं मित्रविन्दाया देवर्षिगणपूजितम् ।
महिष्या वासुदेवस्य भूषणं तेषु वेश्मसु॥५२॥

यस्तु प्रासादमुख्योऽत्र विहितो विश्वकर्मणा ।
अतीव रम्यरम्योऽसौ धिष्ठितः पर्वतो यथा॥५३॥

सुवार्ताया निवासं तं प्रशस्तं सर्वदैवतैः ।
महिष्या वासुदेवस्य केतुमानिति विश्रुतः॥५४॥

सुवार्तायाः प्रासादः केतुमान्नामा॥५४॥

यत्र प्रासादमुख्यो वै यं त्वष्टा विदधे स्वयम् ।
योजनायतविष्कम्भः सर्वरत्नमयः शुभः॥५५॥

स श्रीमान्विरजा नाम व्यराजत्तत्र सुप्रभः ।
उपस्थानगृहं यत्र केशवस्य महात्मनः॥५६॥

यत्र भगवान् देवान् द्विजांश्चोपतिष्ठते स विरजा नाम प्रासादः। विजयो नाम इति पाठः॥५६॥

तस्मिन्सुविहिताः सर्वे रुक्मदण्डाः पताकिनः ।
सदने वासुदेवस्य मार्गसञ्जवनध्वजाः॥५७॥

मार्गसञ्जवनध्वजाः सङ्गमका ध्वजाः यैर्ध्वजैश्चिह्नभूतैर्भगवद्गृहमार्गोऽवगम्यत इत्यर्थः॥५७॥

रत्नजालानि दिव्यानि तत्रैव च निवेशिताः ।
आहृत्य यदुसिंहेन वैजयन्तोऽचलो महान्॥५८॥

वैजयन्त इन्द्रध्वजः इन्द्रप्रासादो वा॥५८॥

हंसकूटस्य यच्छृङ्गमिन्द्रद्युम्नसरः प्रति ।
षष्टितालसमुत्सेधमर्धयोजनमायतम्॥५९॥

हंसकूटस्य पर्वतविशेषस्य॥५९॥

सकिन्नरमहानागं तदप्यमिततेजसा ।
पश्यतां सर्वभूतानामानीतं लोकविश्रुतम्॥६०॥

आदित्यपथगं यत्तु मेरोः शिखरमुत्तमम् ।
पुण्डरीकशतैर्जुष्टं विमानैश्च हिरण्मयैः॥६१॥

जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम् ।
तदप्युत्पाट्य कृष्णार्थमानीतं विश्वकर्मणा॥६२॥

भ्राजमानमतीवाग्र्यं सर्वौषधिसमन्वितम् ।
तदिन्द्रवचनात्त्वष्टा कार्यहेतोः समानयत्॥६३॥

पारिजातश्च तत्रैव केशवेनाहृतः स्वयम्॥६४॥

नीयमाने तु तत्रासीद्युद्धमद्भुतकर्मणः ।
कृष्णस्य येऽभ्यरक्षंस्तु देवाः पादपमुत्तमम्॥६५॥

येऽभ्यरक्षंस्तैः सहेति शेषः जुष्टं पादपमिति पूर्वान्वयि॥६५॥

पुण्डरीकशतैर्जुष्टं विमानैश्च हिरण्मयैः ।
विहिता वासुदेवार्थं रत्नपुष्पफलद्रुमाः॥६६॥

पद्मखण्डजलोपेता रत्नसौगन्धिकोत्पलाः ।
मणिहेमप्लवाकीर्णाः पुष्करिण्यः सरांसि च॥६७॥

तासां परमकूलानि शोभयन्ति महाद्रुमाः ।
शालास्तालाः कदम्बाश्च शतशाखाश्च रौहिणाः॥६८॥

ये च हैमवतो वृक्षा ये च मेरुरुहास्तथा ।
आहृत्य यदुसिंहार्थं विहिता विश्वकर्मणा॥६९॥

विहिता आज्ञाकारिण कृताः॥६९॥

रक्तपीतारुणश्यामाः श्वेतपुष्पाश्च पादपाः ।
सर्वर्तुफलसम्पन्नास्तेषु काननसन्धिषु॥७०॥

समकूलजलोपेताः शान्तशर्करवालुकाः ।
तस्मिन्पुरवरे नद्यः प्रसन्नसलिला ह्रदाः॥७१॥

पुष्पाकुलजलोपेता नानाद्रुमलताकुलाः ।
अपराश्चाभवन्नद्यो हेमशर्करवालुकाः॥७२॥

मत्तबर्हिणसङ्घैश्च कोकिलैश्च सदामदैः ।
बभूवुः परमोपेतास्तस्यां पुर्यां च पादपाः॥७३॥

तत्रैव गजयूथानि पुरे गोमहिषास्तथा ।
निवासश्च कृतस्तत्र वराहमृगपक्षिभिः॥७४॥

पुर्यां तस्यां तु रम्यायां प्राकारो वै हिरण्मयः ।
व्यक्तः किष्कुशतोत्सेधो विहितो विश्वकर्मणा॥७५॥

किष्कुशतं हस्तशतम्॥७५॥

अतीव रम्यः सोऽथासीद्वेष्टितः पर्वतो यथा ।
ते च ते च महाशैलाः सरितश्च सरांसि च ।
परिक्षिप्तानि भौमेन वनान्युपवनानि च॥७६॥

भौमेन विश्वकर्मणा॥७६॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि द्वारकाविशेषनिर्माणं नामाष्टनवतितमोऽध्यायः॥९८॥
कृष्णस्य द्वारकाप्रवेशः-०९९

वैशम्पायन उवाच। एवमालोकयानः स द्वारकां वृषभेक्षणः ।
अपश्यत्स्वगृहं कृष्णः प्रासादशतशोभितम्॥१॥

एवमिति॥१॥

मणिस्तम्भसहस्राणामयुतैर्विवृतं शतैः ।
तोरणैर्ज्वलनप्रख्यैर्मणिविद्रुमराजतैः॥२॥

विवृतं स्पष्टीकृतं स्तम्भप्रभयैव ग्रस्तान्धकारमित्यर्थः॥२॥

तत्र तत्र प्रभासद्भिश्चित्रकाञ्चनवेदिकैः ।
प्रासादस्तत्र सुमहान्कृष्णोपस्थानिकोऽभवत्॥३॥

काञ्चनवेदिकैस्तोरणैः॥३॥

स्फाटिकस्तम्भविवृतो विस्तीर्णः सर्वकाञ्चनः ।
पद्माकुलजलोपेता रक्तसौगन्धिकोत्पलाः॥४॥

मणिहेमनिभाश्चित्रा रत्नसोपानभूषिताः ।
मत्तबर्हिणजुष्टाश्च कोकिलैश्च सदामदैः॥५॥

बभूवुः परमोपेता वाप्यश्च विकचोत्पलाः ।
विश्वकर्मकृतः शैलः प्राकारस्तस्य वेश्मनः॥६॥

परमोपेता अनुज्ञया युक्ताः सङ्कल्पितरूपधारिण्य इत्यर्थः “परमं स्यादनुज्ञायाम्" इति मेदिनी। शैलः शिलामयः॥६॥

व्यक्तकिष्कुशतोत्सेधः परिखापरिवेष्टितः ।
तद्गृहं वृष्णिसिंहस्य निर्मितं विश्वकर्मणा॥७॥

महेन्द्रसदृशं वेश्म समन्तादर्धयोजनम् ।
तत्रस्थं पाण्डुरं शौरिर्मूर्ध्नि तिष्ठन्गरुत्मतः॥८॥

प्रीतः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम् ।
तस्य शङ्खस्य शब्देन सागरश्चुक्षुभे भृशम् ।
ररास च नभः कृत्स्नं तच्चित्रमभवत्तदा॥९॥

ररास प्रतिशब्दं चकार॥९॥

पाञ्चजन्यस्य निर्घोषं संश्रुत्य कुकुरान्धकाः ।
विशोकाः समपद्यन्त गरुडस्य च दर्शनात्॥१०॥

शङ्खचक्रगदापाणिं गरुडस्योपरि स्थितम् ।
दृष्ट्वा जहृषिरे पौरा भास्करोपमतेजसम्॥११॥

ततस्तूर्यप्रणादश्च भेरीणां च महास्वनाः ।
जज्ञिरे सिंहनादाश्च सर्वेषां पुरवासिनाम्॥१२॥

ततस्ते सर्वदाशार्हाः सर्वे च कुकुरान्धकाः ।
प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम्॥१३॥

वासुदेवं पुरस्कृत्य शङ्खतूर्यरवैः सह ।
उग्रसेनो ययौ राजा वसुदेवनिवेशनम्॥१४॥

आनन्दिनी पर्यचरत्स्वेषु वेश्मसु देवकी ।
रोहिणी च यशोदा च आहुकस्य च याः स्त्रियः॥१५॥

ततः कृष्णः सुपर्णेन स्वं निवेशनमभ्यगात् ।
चचार च यथोद्देशमीश्वरानुचरो हरिः॥१६॥

ईश्वराः इन्द्रादयः अनुचराः यस्य ईश्वरानुचरः॥१६॥

अवतीर्य गृहद्वारि कृष्णस्तु यदुनन्दनः ।
यथार्हं पूजयामास यादवान्यादवर्षभः॥१७॥

रामाहुकगदाक्रूरप्रद्युम्नादिभिरर्चितः ।
प्रविवेश गृहं शौरिरादाय मणिपर्वतम्॥१८॥

तं च शक्रस्य दयितं पारिजातं महाद्रुमम् ।
प्रवेशयामास गृहं प्रद्युम्नो रुक्मिणीसुतः॥१९॥

तेऽन्योन्यं ददृशुर्वीरा देहबन्धानमानुषान् ।
पारिजातप्रभावेण ततो मुमुदिरे जनाः॥२०॥

तैः स्तूयमानो गोविन्दः प्रहृष्टैर्यादवर्षभैः ।
प्रविवेश गृहं श्रीमान्विहितं विश्वकर्मणा॥२१॥

ततोऽन्तःपुरमध्ये तं सशृङ्गमणिपर्वतम् ।
न्यवेशयदमेयात्मा वृष्णिभिः सहितोऽच्युतः॥२२॥

तं च दिव्यं द्रुमश्रेष्ठं पारिजातममित्रजित् ।
अर्च्यमर्चितमव्यग्रमिष्टे देशे न्यवेशयत्॥२३॥

अनुज्ञाप्य ततो ज्ञातीन्केशवः परवीरहा ।
ताः स्त्रियः पूजयामास संहृता नरकेण याः॥२४॥

संहृताः दूषणं विना आनीताः॥२४॥

वस्त्रैराभरणैर्दिव्यैर्दासीभिर्धनसञ्चयैः ।
हारैश्चन्द्रांशुसङ्काशैर्मणिभिश्च महाप्रभैः॥२५॥

पूर्वमभ्यर्चिताश्चैव वसुदेवेन ताः स्त्रियः ।
देवक्या सह रोहिण्या रेवत्या चाहुकेन च॥२६॥

सत्यभामोत्तमा स्त्रीणां सौभाग्येनाभवत्तदा ।
कुटुम्बस्येश्वरी त्वासीद्रुक्मिणी भीष्मकात्मजा॥२७॥

तासां यथार्हहर्म्याणि प्रासादशिखराणि च ।
आदिदेश गृहान्कृष्णः पारिबर्हांश्च पुष्कलान्॥२८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि द्वारकाप्रवेशं नाम नवनवतितमोऽध्यायः॥९९॥
कृष्णस्य सभाप्रवेशः-१००

वैशम्पायन उवाच। ततः सम्पूज्य गरुडं वासुदेवोऽनुमान्य च ।
सखिवच्चोपगृह्यैनमनुजज्ञे गृहं प्रति॥१॥

सोऽनुज्ञातो हि सत्कृत्य प्रणम्य च जनार्दनम् ।
ऊर्ध्वमाचक्रमे पक्षी यथेष्टं गगनेचरः॥२॥

स पक्षवातसङ्क्षुब्धं समुद्रं मकरालयम् ।
कृत्वा वेगेन महता ययौ पूर्वमहोदधिम्॥३॥

कृत्यकाले उपस्थास्य इत्युक्त्वा गरुडे गते ।
कृष्णो ददर्श पितरं वृद्धमानकदुन्दुभिम्॥४॥

उग्रसेनं च राजानं बलदेवं च सात्यकिम् ।
काश्यं सान्दीपनिं चैव ब्रह्मगार्ग्यं तथैव च॥५॥

अन्यांश्च वृद्धान्वृष्णीनां तांश्च भोजान्धकांस्तथा ।
रत्नप्रवेकैर्दाशार्हान्वीर्यलब्धैस्तथार्चयत्॥६॥

हता ब्रह्मद्विषः सर्वे जयन्त्यन्धकवृष्णयः ।
रणात्प्रतिनिवृत्तोऽयमक्षतो मधुसूदनः॥७॥

इति चत्वररथ्यासु द्वारवत्यां सुपूजितः ।
चाक्रिको घोषयामास पुरुषो मृष्टकुण्डलः॥८॥

चाक्रिको राजाज्ञाघोषकः॥८॥

ततः सान्दीपनिं पूर्वमभिगम्य जनार्दनः ।
ववन्दे वृष्णिनृपतिमाहुकं विनयान्वितः॥९॥

तथा हि परिपूर्णाक्षमानन्दागतचेतसम् ।
ववन्दे सह रामेण पितरं वासवानुजः॥१०॥

उपगम्य तथा शेषान्सत्कृत्य च यथार्हतः ।
सर्वेषां नाम जग्राह दाशार्हाणामधोक्षजः॥११॥

ततः सर्वाणि दिव्यानि सर्वरत्नमयानि च ।
आसनाग्र्याणि विविशुरुपेन्द्रप्रमुखास्तदा॥१२॥

विविशुः अभिनिविविशुः आसनेषु उपविष्टाः॥१२॥

ततस्तद्धनमक्षय्यं किङ्करैर्यत्समाहृतम् ।
तत्सभामानयामासुः पुरुषाः कृष्णशासनात्॥१३॥

ततः सम्मानयामास दाशार्हांश्च यदूत्तमः ।
सर्वान्दुन्दुभिशब्देन पूजयिष्यञ्जनार्दनः॥१४॥

संमानयामास धनानि विभज्य ददावित्यर्थः॥१४॥

तामासनवतीं रम्यां मणिविद्रुमतोरणाम् ।
सभां सर्वदशार्हास्ते विविशुः कृष्णशासनात्॥१५॥

ततः पुरुषसिंहैर्या यदुभिः सर्वतो वृता ।
सर्वार्थगुणसम्पन्ना सा सभा भरतर्षभ ।
शुशुभेऽभ्यधिकं शुभ्रा सिंहैर्गिरिगुहा यथा॥१६॥

रामेण सह गोविन्दः काञ्चनं महदासनम् ।
उग्रसेनं पुरस्कृत्य भोजवृष्णिपुरस्कृतः॥१७॥

तत्रोपविष्टांस्तान्वीरान्यथाप्रीतिर्यथावयः ।
समाभाश्य यदुश्रेष्ठानुवाच पुरुषोत्तमः॥१८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि सभाप्रवेशनं नाम शततमोऽध्ययः॥१००॥
कृष्णपराक्रमवर्णनम्-१०१

श्रीकृष्ण उवाच। भवतां पुण्यकीर्तीनां तपोबलसमादिभिः ।
अपध्यानाच्च पापात्मा भौमः स नरको हतः॥१॥

भवतामिति॥१॥

मोक्षितं बन्धनाद्गुप्तं कन्यान्तःपुरमुत्तमम् ।
मणिपर्वतमुत्पाट्य शिखरं चैतदाहृतम्॥२॥

अयं धनौघः सुमहान्किङ्करैराहृतो मम ।
ईशा भवन्तो द्रव्यस्य तानुक्त्वा विरराम ह॥३॥

तच्छ्रुत्वा वासुदेवस्य भोजवृष्ण्यन्धका वचः ।
जहसुर्हृष्टरोमाणः पूजयन्तो जनार्दनम्॥४॥

ऊचुश्चैनं नृवीरास्ते कृताञ्जलिपुटास्ततः ।
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दने॥५॥

यत्कृत्वा दुष्करं कर्म देवैरपि दुरासदम् ।
लालयेः स्वजनान्भोगै रत्नैश्च स्वयमर्जितैः॥६॥

ततः सर्वदशार्हाणामाहुकस्य च याः स्त्रियः ।
प्रीयमाणाः समाजग्मुर्वासुदेवदिदृक्षया॥७॥

देवकीसप्तमा देव्यो रोहिणी च शुभानना ।
ददृशुः कृष्णमासीनं रामं चैव महाभुजम्॥८॥

तौ तु पूर्वमतिक्रम्य रोहिणीमभिवाद्य च ।
अभिवादयतां देवीं देवकीं रामकेशवौ॥९॥

सा ताभ्यामृषभाक्षाभ्यां पुत्राभ्यां शुशुभेऽम्बिका ।
अदितिर्देवमातेव मित्रेण वरुणेन च॥१०॥

ततः प्राप्ता नराग्र्यौ तु तस्याः सा दुहिता तदा ।
एकानंशेति यामाहुर्नरा वै कामरूपिणीम्॥११॥

नराग्र्यौ प्रति एकानंशा सा योगमाया दुहिता तस्या यशोदायाः॥११॥

तथा क्षणमुहूर्ताभ्यां यथा जज्ञे सुरेश्वरः ।
यत्कृते सगणं कंसं जघान पुरुषोत्तमः॥१२॥

क्षणः उक्तविधः सङ्केतः मुहूर्तः उक्तः कालश्च ताभ्यां जज्ञे आविर्बभूव॥१२॥

सा कन्या ववृधे तत्र वृष्णिसद्मनि पूजिता ।
पुत्रवत्पाल्यमाना वै वासुदेवाज्ञया तदा॥१३॥

एकानंशेति यामाहुरुत्पन्नां मानवा भुवि ।
योगकन्यां दुराधर्षां रक्षार्थं केशवस्य ह॥१४॥

यां वै सर्वे सुमनसः पूजयन्ति स्म यादवाः ।
देववद्दिव्यपुरुषः कृष्णः संरक्षितो यथा॥१५॥

तां च तत्रोपसङ्गम्य प्रियामिव सखीं स्वसाम् ।
दक्षिणेन कराग्रेण परिजग्राह माधवः॥१६॥

तथैव रामोऽतिबलः सम्परिष्वज्य भाविनीम् ।
मूर्ध्न्युपाघ्राय सव्येन प्रतिजग्राह पाणिना॥१७॥

ददृशुस्ताः स्त्रियो मध्ये भगिनीं रामकृष्णयोः ।
रुक्मपद्मव्यग्रकरां स्त्रियं पद्मालयामिव॥१८॥

तथाक्षतमहावृष्ट्या पुष्पैश्च विविधैः शुभैः ।
अवकीर्य च लाजैस्ताः स्त्रियो जग्मुर्यथालयम्॥१९॥

ततस्ते यादवाः सर्वे पूजयन्तो जनार्दनम् ।
उपोपविविशुः प्रीताः प्रशंसन्तोऽद्भुतं कृतम्॥२०॥

पूज्यमानो महाबाहुः पौराणां रतिवर्धनः ।
विरराज महाकीर्तिर्देवैरिव स तैः सह॥२१॥

समासीनेषु सर्वेषु यादवेषु जनार्दनम् ।
नियोगात्त्रिदशेन्द्रस्य नारदोऽभ्यागमत्सभाम्॥२२॥

सोऽथ सम्पूजितः पूज्यः शूरैस्तैर्यदुपुङ्गवैः ।
करं संस्पृश्य स हरेर्विवेश परमासने॥२३॥

सुखोपविष्टस्तान्वृष्णीनुपविष्टानुवाच ह ।
सम्प्राप्तं शक्रवचनाज्जानीध्वं मां नरर्षभाः॥२४॥

शृणुध्वं राजशार्दूलाः कृष्णस्यास्य पराक्रमम् ।
यानि कर्माणि कृतवान्बाल्यात्प्रभृति केशवः॥२५॥

उग्रसेनसुतः कंसः सर्वान्निर्मथ्य यादवान् ।
राज्यं जग्राह दुर्बुद्धिर्बद्ध्वा पितरमाहुकम्॥२६॥

समाश्रित्य जरासन्धं श्वशुरं कुलपांसनः ।
भोजवृष्ण्यन्धकान्सर्वानवमन्यत दुर्मतिः॥२७॥

अवमन्यत तेषाम् अवमानमकरोत्॥२७॥

ज्ञातिकार्यं चिकीर्षुस्तु वसुदेवः प्रतापवान् ।
उग्रसेनस्य रक्षार्थं स्वपुत्रं पर्यरक्षत॥२८॥

स गोपैः सह धर्मात्मा मथुरोपवने स्थितः ।
अत्यद्भुतानि कर्माणि कृतवान्मधुसूदनः॥२९॥

प्रत्यक्षं शूरसेनानां श्रयते महदद्भुतम् ।
उत्तानेन शयानेन शकटान्तरचारिणा॥३०॥

शकटान्तरचारिणा शकटनाशार्थं चेष्टमानेन॥३०॥

राक्षसी निहता रौद्रा शकुनीवेषधारिणी ।
पूतना नाम घोरा सा महाकाया महाबला॥३१॥

विषदिग्धं स्तनं रौद्रं प्रयच्छन्ती जनार्दने ।
ददृशुर्निहतां तां ते राक्षसीं वनगोचराः॥३२॥

पुनर्जातोऽयमित्याहुरुक्तस्तस्मादधोक्षजः ।
अत्यद्भुतमिदं चासीद्यच्छिशुः पुरुषोत्तमः॥३३॥

पादाङ्गुष्ठेन शकटं क्रीडमानो व्यलोडयत् ।
दाम्ना चोलूखले बद्धो विप्रकुर्वन्कुमारकम्॥३४॥

बभञ्जार्जुनवृक्षौ द्वौ ख्यातो दामोदरस्तदा ।
कालियश्च महानागो दुराधर्षो महाबलः॥३५॥

क्रीडता वासुदेवेन निर्जितो यमुनाह्रदे ।
अक्रूरस्य समक्षं च यन्नागभवने विभुः॥३६॥

पूज्यमानं तदा नागैर्दिव्यं वपुरधारयत् ।
शीतवातार्दिता गाश्च दृष्ट्वा कृष्णेन धीमता॥३७॥

धृतो गोवर्धनः शैलः सप्तरात्रं महात्मनः ।
शिशुना वासुदेवेन गवां त्राणार्थमिच्छताम्॥३८॥

तथोक्षदुष्टोऽतिबलो महाकायो नराण्तकृत् ।
गोपतिर्वासुदेवेन हतोऽरिष्टो महासुरः॥३९॥

धेनुकः स महाकायो दानवः सुमहाबलः ।
निहतो वासुदेवेन गवां त्राणाय दुर्मतिः॥४०॥

सुनामानममित्रघ्नः सर्वसैन्यपुरस्कृतम् ।
वृकैर्विद्रावयामास गृहीतं समुपस्थितम्॥४१॥

सुनाभानमित्यनेन कथान्तरं सूच्यते॥४१॥

रौहिणेयेन सङ्गम्य वने विचरता पुनः ।
गोपवेषधरेणैव कंसस्य भयमाहितम्॥४२॥

भयं दैत्यान्तरवधश्रवणजम्॥४२॥

तथा व्रजगतः शौरिर्दृष्ट्वा युद्धबलं हयम् ।
प्रग्रहं भोजराजस्य जघान पुरुषोत्तमः॥४३॥

प्रग्रहं सहायम्॥४३॥

प्रलम्बश्च महाबाहो रौहिणेयेन धीमता ।
दानवो मुष्टिनैकेन कंसामात्यो निपातितः॥४४॥

एतौ हि वसुदेवस्य पुत्रौ सुरसुतोपमौ ।
ववृधाते महावीर्यौ ब्रह्मगार्ग्येण संस्कृतौ॥४५॥

जन्मप्रभृति चाप्येतौ गार्ग्येण परमर्षिणा ।
याथातथ्येन विज्ञाप्य संस्कारं प्रतिपादितौ॥४६॥

यदा त्विमौ नरश्रेष्ठौ स्थितौ यौवनसंमुखे ।
सिंहशावाविवोदीर्णौ मत्तौ हैमवतौ यथा॥४७॥

ततो मनांसि गोपीनां हरमाणौ महाबलौ ।
आस्तां गोष्ठवरौ वीरौ देवपुत्रोपमद्युती॥४८॥

एतौ जये वा युद्धे वा क्रीडासु विविधासु च ।
नन्दगोपस्य गोपाला न शेकुः प्रसमीक्षितुम्॥४९॥

नन्दगोपस्य सुताविति शेषः॥४९॥

व्यूढोरस्कौ महाबाहू शालस्कन्धाविवोद्गतौ ।
श्रुत्वासौ व्यथितः कंसो मन्त्रिभिः सहितोऽभवत्॥५०॥

नाशकच्च यदा कंसो ग्रहीतुं बलकेशवौ ।
निजग्राह ततः क्रोधाद्वसुदेवं सबान्धवम्॥५१॥

सहोग्रसेनेन तदा चोरवद्गाढबन्धनम् ।
कालं महान्तमसुवत्कृच्छ्रमानकदुन्दुभिः॥५२॥

कंसस्तु पितरं बद्ध्वा शूरसेनाञ्शशास ह ।
जरासन्धं समाश्रित्य तथैवाह्वृतिभीष्मकौ॥५३॥

कस्यचित्त्वथ कालस्य मथुराया महोत्सवम् ।
पिनाकिनं समुद्दिश्य चक्रे कंसो नराधिपः॥५४॥

तत्र मल्लाः समाजग्मुर्नानादेश्या विशाम्पते ।
नर्तना गायनाश्चैव कुशला नृत्यकर्मसु॥५५॥

ततः कंसो महातेजा रङ्गवाटं महाधनम् ।
कुशलैः कारयामास शिल्पिभिः साधुनिष्ठितैः॥५६॥

तत्र मञ्चसहस्राणि पौरजानपदैर्जनैः ।
समाकीर्णानि दृश्यन्ते ज्योतींषि गगने यथा॥५७॥

भोजराजः श्रिया जुष्टं रङ्गवाटं महर्धिमत् ।
आरुरोह ततः कंसो विमानं सुकृती यथा॥५८॥

रङ्गवाटे गजं मत्तं प्रभूतायुधकल्पितम् ।
शूरैरधिष्ठितः कंसः स्थापयामास वीर्यवान्॥५९॥

यदा हि स महातेजा रामकृष्णौ समागतौ ।
शुश्राव पुरुषव्याघ्रौ सूर्याचन्द्रमसाविव॥६०॥

तदाप्रभृति यत्नोऽभूद्रक्षां प्रति नराधिप ।
न च शिश्ये सुखं रात्रौ रामकृष्णौ विचिन्तयन्॥६१॥

शिश्ये शयनं कृतवान्॥६१॥

श्रुत्वा तु रामः कृष्णश्च तं समाजमनुत्तमम् ।
उभौ विविशतुर्वीरौ शार्दूलौ गोव्रजं यथा॥६२॥

ततः प्रवेशे संरुद्धौ रक्षिभिः पुरुषर्षभौ ।
हत्वा कुवलयापीडं ससादिनमरिन्दमौ ।
अवमृद्य दुराधर्षौ रङ्गं विविशतुस्तदा॥६३॥

चाणूरान्ध्रौ विनिष्पिष्य केशवेन बलेन च ।
औग्रसेनिः सुदुष्टात्मा सानुजो विनिपातितः॥६४॥

यत्कृतं यदुसिंहेन देवैरपि सुदुष्करम् ।
कर्म तत्केशवादन्यः कर्तुमर्हति कः पुमान्॥६५॥

यदि नाधिगतं पूर्वैः प्रह्लादबलिशम्बरैः ।
तदिदं प्रापितं वित्तं शौरिणा भवतां कृते॥६६॥

एतेन मुरुमाक्रम्य दैत्यं पञ्चजनं तथा ।
निष्क्रम्य शैलसङ्घातान्निसुन्दः सगणो हतः॥६७॥

नरकश्च हतो भौमः कुण्डले चाहृते शुभे ।
प्राप्तं च दिवि देवेषु केशवेन महद्यशः॥६८॥

कुण्डले अदिति सम्बन्धिनी॥६८॥

वीतशोकभयाबाधाः कृष्णबाहुबलाश्रयाः ।
यजध्वं विविधैर्यज्ञैर्यादवा वीतमत्सराः॥६९॥

देवानां सुमहत्कार्यं कृतं कृष्णेन धीमता ।
प्रियमावेदयाम्येष भवतां भद्रमस्तु वः॥७०॥

यदिष्टं वो यदुश्रेष्ठाः कर्तास्मि तदतन्द्रितः ।
भवतामस्मि यूयं च मम युष्मास्वहं स्थितः॥७१॥

इति सम्बोधयन्कृष्णमब्रवीत्पाकशासनः ।
स मां प्रैक्षीत्सुरश्रेष्ठः प्रीतस्तुष्टास्तथा वयम्॥७२॥

यत्र धीः श्रीः स्थिता तत्र यत्र श्रीस्तत्र सन्नतिः ।
सन्नतिर्धीस्तथा श्रीश्च नित्यं कृष्णे महात्मनि॥७३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि नारदवाक्यं नामैकोत्तरशततमोऽध्यायः॥१०१॥
नारदवाक्ये कृष्णस्तुतिः-१०२

नारद उवाच। सादिता मौरवाः पाशा निसुन्दनरकौ हतौ ।
कृतः क्षेम्यः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति॥१॥

सादिता इति मौखाः मुरुकृताः॥१॥

शौरिणा पृथिवीपालास्त्रासिताः स्पर्द्धिनो रणे ।
धनुषश्च निनादेन पाञ्चजन्यस्वनेन च॥२॥

मेघप्रख्यै रथानीकैर्दाक्षिणात्यैः सुरक्षितम् ।
रुक्मिणं युधि निर्जित्य महाबलपराक्रमम् ।
रुक्मिणीमाजहाराशु केशवो वृष्णिपुङ्गवः॥३॥

ततः पर्जन्यघोषेण रथेनादित्यवर्चसा ।
अवाप्य महिषीं भोज्यां शङ्खचक्रगदासिभृत्॥४॥

जारूथ्यामाह्वृतिः क्राथः शिशुपालश्च निर्जितः ।
वक्रश्च सह सैन्येन शतधन्वाथ निर्जितः॥५॥

इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् ।
हतः सौभपतिः श्रीमाञ्छाल्वश्च दृढधन्वना॥६॥

पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः ।
विकीर्य पुण्डरीकाक्षो द्युमत्सेनं व्यपोथयत्॥७॥

महेन्द्रशिखरे चैव निमेषान्तरचारिणौ ।
जघान पुरुषव्याघ्रो रावणस्याभितश्चरौ॥८॥

महेन्द्रस्य पर्वतस्य शिखरे इरावत्यां नगर्यामिति द्वयोः सम्बन्धः॥८॥

इरावत्यां महाभोजावग्निसूर्यसमौ युधि ।
गोपतिस्तालकेतुश्च निर्हतौ शार्ङ्गधन्वना॥९॥

अक्षप्रपातने चैव डिम्भो हंसश्च दानवौ ।
उभौ तावपि कृष्णेन सानुगौ विनिपातितौ॥१०॥

दग्धा वाराणसी चैव केशवेन महात्मना ।
सराष्ट्रः सानुबन्धश्च काशीनामधिपो हतः॥११॥

विजित्य च यमं सङ्ख्ये शरैः सन्नतपर्वभिः ।
अथैन्द्रसेनिरानीतः कृष्णेनाद्भुतकर्मणा॥१२॥

सहितः सर्वयादोभिः समरेषु महाबलः ।
प्राप्य लोहितकूटं च कृष्णेन वरुणो जितः॥१३॥

महेन्द्रभवने यातो देवैर्गुप्तो महात्मभिः ।
अचिन्तयित्वा देवेन्द्रं पारिजातद्रुमो हृतः॥१४॥

पाण्ड्यं पौण्ड्रं कलिङ्गं च मात्स्यं चैव जनार्दनः ।
जघान सहितान्सर्वान्वङ्गराजं तथैव च॥१५॥

एष चैकशतं हत्वा रणे राज्ञां महात्मनाम् ।
गान्धारीमावहद्वीरो महिषीं प्रियदर्शनाम्॥१६॥

तथा गाण्डीवधन्वानं क्रीडन्तं मधुसूदनः ।
जिगाय भरतश्रेष्ठं कुन्त्याः प्रमुखतो विभुः॥१७॥

अक्षप्रपातने चक्षुर्विक्षेपमात्रे निमित्ते सति स्थानविशेषे वा जिगाय जयवन्तमकरोत्। अन्तर्भावितण्यन्तोऽयं शब्दः॥१७॥

द्रोणं द्रौणिं कृपं कर्णं भीष्मं चैव सुयोधनम् ।
चक्रानुयानैः प्रह्रवणे जिगाय पुरुषोत्तमः॥१८॥

चक्रानुयानैः रथैः प्रह्रवणे सङ्ग्रामे इत्यर्थः। अक्षराधिक्यमर्षम्। जिगाय जितवान् अर्जुनद्वारेति भावः॥१८॥

बभ्रोश्च प्रियमन्विच्छञ्छङ्खचक्रगदासिभृत् ।
सौवीरराजस्य सुतां प्रसह्य हृतवान्प्रभुः॥१९॥

पर्यस्तां पृथिवीं कृत्स्नां साश्वां सरथकुञ्जराम् ।
वैणुदारिकृते यत्नाज्जिगाय पुरुषोत्तमः॥२०॥

अवाप्य तपसो वीर्यं बलमोजश्च माधवः ।
पूर्वदेहे जहारायं बलेस्त्रिभुवनं हरिः॥२१॥

वज्राशनिगदाखड्गैस्त्रासयद्भिश्च दानवैः ।
यस्य नाधिगतो मृत्युः पुरं प्राग्ज्योतिषं प्रति॥२२॥

अभिभूतश्च कृष्णेन सगणः सुमहाबलः ।
बलेः पुत्रो महावीर्यो बाणो द्रविणवत्तरः॥२३॥

पीठं तथा महाबाहुः कंसामात्यं जनार्दनः ।
पैठिकं चासिलोमानं निजघान महाबलः॥२४॥

जृम्भमैरावणं चापि विरूपं च महायशाः ।
जघान पुरुषव्याघ्रो दैत्यं मानुषरूपिणम्॥२५॥

तथा नागपतिं तोये कालीयं च महौजसम् ।
निर्जित्य पुण्डरीकाक्षः प्रेषयामास सागरम्॥२६॥

सञ्जीवयामास मृतं पुत्रं सान्दीपनेस्तथा ।
निर्जित्य पुरुषव्याघ्रो यमं वैवस्वतं हरिः॥२७॥

एवमेष महाबाहुः शास्ता तेषां दुरात्मनाम् ।
देवांश्च ब्राह्मनांश्चैव ये द्विषन्ति सदा नृप॥२८॥

निहत्य नरकं भौममाहृत्य मणिकुण्डले ।
देवमातुर्ददौ चैव प्रीत्यर्थं वज्रपाणिनः॥२९॥

एवं च देवदैत्यानां सुराणां च महायशाः ।
भयाभयकरः कृष्णः सर्वलोककरो विभुः॥३०॥

संस्थाप्य धर्मान्मर्त्येषु यज्ञैरिष्ट्वाऽऽप्तदक्षिणैः ।
कृत्वा देवार्थममितं स्वस्थानं प्रतिपत्स्यते॥३१॥

देवार्थं देवानां प्रयोजनम्। स्वस्थानं वैकुण्ठम्॥३१॥

कृष्णो भोगवतीं रम्यामृषिकान्तां महायशाः ।
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यति॥३२॥

बहुरत्नसमाकीर्णां चैत्ययूपशताङ्किताम् ।
द्वारकां वरुणावासं प्रवेक्ष्यति सकाननाम्॥३३॥

तां सूर्यसदनप्रख्यां मतज्ञः शार्ङ्गधन्वनः ।
विसृष्टां वासुदेवेन सागरः प्लावयिष्यति॥३४॥

सुरासुरमनुष्येषु नासीन्न भविता क्वचित् ।
य इमामावसेत्कश्चिदन्यो वै मधुसूदनात्॥३५॥

एवमेष दशार्हाणां विधाय विधिमुत्तमम् ।
विष्णुर्नारायणः सोमः सूर्यश्च भविता स्वयम्॥३६॥

अप्रमेयस्त्वचिन्त्यश्च यथा कामचरो वशी ।
मोदत्येष सदा भूतैर्बालः क्रीडनकैरिव॥३७॥

न प्रमातुं महाबाहुः शक्योऽयं मधुसूदनः ।
परं ह्यपरमेतस्माद्विश्वरूपान्न विद्यते॥३८॥

न विद्यते पृथगिति शेषः॥३८॥

श्रुतोऽयमेव शतशस्तथा शतसहस्रशः ।
अन्तो हि कर्मणामस्य दृष्टपूर्वो न केनचित्॥३९॥

एवमेतानि कर्माणि शिशुमध्यगतस्तदा ।
कृतवान्पुण्डरीकाक्षः सङ्कर्षणसहायवान्॥४०॥

इत्युवाच पुराव्यासस्तपोवीर्येण चक्षुषा ।
महायोगी महाबुद्धिः सर्वप्रत्यक्षदर्शिवान्॥४१॥

पुराव्यासः पूर्वकल्पीयो व्यासः॥४१॥

वैशम्पायन उवाच। इति संस्तूय गोविन्दं महेन्द्रवचनान्मुनिः ।
यदुभिः पूजितः सर्वैर्नारदस्त्रिदिवं ययौ॥४२॥

ततस्तद्वसु गोविन्दो दिदेशान्धकवृष्णिषु ।
यथार्हं पुण्डरीकाक्षो विधिवन्मधुसूदनः॥४३॥

यादवश्च धनं प्राप्य विधिवद्भूरिदक्षिणैः ।
यज्ञैरिष्ट्वा महात्मानौ द्वारकामावसत्पुरीम्॥४४॥

॥इति श्रिमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि नारदवाक्यं नाम द्व्यधिकशततमोऽध्यायः॥१०२॥
वृष्णिवंशवर्णनम्-१०३

जनमेजय उवच। बहूनां स्त्रीसहस्राणामष्टौ भार्याः प्रकीर्तिताः ।
तासामपत्यान्यष्टानां भगवान्प्रब्रवीतु मे॥१॥

बहूनामिति॥१॥

वैशम्पायन उवाच। अष्टौ महिष्यः पुत्रिण्य इति प्राधान्यतः स्मृताः ।
सर्वा वीरप्रजाश्चैव तास्वपत्यानि मे शृणु॥२॥

रुक्मिणी सत्यभामा च देवी नाग्नजिती तथा ।
सुदत्ता च तथा शैब्या लक्ष्मणा चारुहासिनी॥३॥

मित्रविन्दा च कालिन्दी जाम्बवत्यथ पौरवी ।
सुभीमा च तथा माद्री रुक्मिणीतनयाञ्छृणु॥४॥

प्रद्युम्नः प्रथमं जज्ञे शम्बरान्तकरः शुभः ।
द्वितीयश्चारुदेष्णश्च वृष्णिसिंहो महारथः॥५॥

चारुभद्रश्चारुगर्भः सुदेष्णो द्रुम एव च ।
सुषेणश्चारुदेष्णाश्च चारुविन्दश्च वीर्यवान्॥६॥

चारुबाहुः कनीयांश्च कन्या चारुमती तथा ।
जज्ञिरे सत्यभामायां भानुर्भीमरथस्तथा॥७॥

रोहितो दीप्तिमांश्चैव ताम्रजाक्षो जलान्तकः ।
भानुर्भीमलिका चैव ताम्रपर्णी जलन्धमा॥८॥

चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात् ।
जाम्बवत्याः सुतो जज्ञे साम्बः समितिशोभनः॥९॥

मित्रवान्मित्रविन्दश्च मित्रवत्यपि चाङ्गना ।
मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजाः शृणु॥१०॥

भद्रकारो भद्रविन्दः कन्या भद्रवती तथा ।
सुदत्तायां तु शैष्यायां सङ्ग्रामजिदजायत॥११॥

सत्यजित्सेनजिच्चैव तथा शूरः सपत्नजित् ।
सुभीमायाः सुतो माद्रद्या वृकाश्वो वृकनिर्वृतिः॥१२॥

कुमारो वृकदीप्तिश्च लक्ष्मणायाः प्रजाः शृणु ।
गात्रवान्गात्रगुप्तश्च गात्रविन्दश्च वीर्यवान्॥१३॥

जज्ञिरे गात्रवत्या च भगिन्यानुजया सह ।
अश्रुतश्च सुतो जज्ञे कालिन्द्याः श्रुतसंमितः॥१४॥

अश्रुतं श्रुतसेनायै प्रददौ मधुसूदनः ।
तं प्रदाय हृषीकेशस्तां भार्यां मुदितोऽब्रवीत्॥१५॥

एष वामुभयोरस्तु दायादः शाश्वतीः समाः ।
बृहत्यां तु गदस्याहुः शैब्यायामङ्गदं सुतम्॥१६॥

वाम् आवयोः कृष्णश्रुतसेनयोः॥१६॥

उत्पन्नं कुमुदं चैव श्वेतं श्वेता तथाङ्गना ।
अगावहः सुमित्रश्च शुचिश्चित्ररथस्तथा॥१७॥

चित्रसेनः सुदेवायाश्चित्रा चित्रवती तथा ।
वनस्तम्बश्च जज्ञाते सुतः स्तम्बवनश्च ह॥१८॥

निवासना वनस्तम्बः कन्या स्तम्बवती तथा ।
उपसन्नश्च शङ्कुश्च वज्रांशुः क्षिप्र एव च॥१९॥

कौशिक्यां श्रुतसोमायां यौधिष्ठिर्यां युधिष्ठिरः ।
कापाली गरुडश्चैव जज्ञाते चित्रयोधिनौ॥२०॥

एवमादीनि पुत्राणां सहस्राणि निबोध मे ।
दशायुतं समाख्याता वासुदेवस्य ते सुताः॥२१॥

दशायुतं लक्षम्॥२१॥

अयुतानि तथा चाष्टौ शूरा रणविशारदाः ।
जनार्दनस्य प्रसवः कीर्तितोऽयं तथा मया॥२२॥

अष्टौ अयुतानीत्यशीतिसहस्रं च पुत्राः॥२२॥

प्रद्युम्नस्य सुतो जज्ञे वैदर्भ्यां राजसत्तम ।
अनिरुद्धो रणे रुद्धो जज्ञे स मृगकेतनः॥२३॥

अरुद्ध इति च्छेदः॥२३॥

रेवत्यां बलदेवस्य जज्ञाते निशठोल्मुकौ ।
भ्रातरौ देवसङ्काशावुभौ पुरुषसत्तमौ॥२४॥

सुतनुश्च सुतारा च शौरेरास्तां परिग्रहः ।
पौण्ड्रकः कपिलश्चैव वसुदेवस्य तौ सुतौ॥२५॥

तारायां कपिलो जज्ञे पौण्ड्रश्च सुतनोः सुतः ।
तयोर्नृपोऽभवत्पौण्ड्रः कपिलश्च वनं ययौ॥२६॥

तुर्यां समभवद्वीरो वसुदेवान्महाबलः ।
जरा नाम निषादानां प्रभुः सर्वधनुष्मताम्॥२७॥

तुर्यां चतुर्थ्यां शूद्रायामित्यर्थः॥२७॥

काश्यां सुपार्श्वं तनयं लेभे साम्बात्तरस्विनम् ।
सानुर्जज्ञेऽनिरुद्धस्य वज्रः सानोरजायत॥२८॥

वज्राज्जज्ञे प्रतिरथः सुचारुस्तस्य चात्मजः ।
अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात्॥२९॥

शिनेस्तु सत्यवाग्जज्ञे सत्यकश्च महारथः ।
सत्यकस्यात्मजः शूरो युयुधानस्त्वजायत॥३०॥

असङ्गो युयुधानस्य मणिस्तस्याभवत्सुतः ।
मणेर्युगन्धरः पुत्र इति वंशः समाप्यते॥३१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वृष्णिवंशानुकीर्तने त्र्यधिकशततमोऽध्यायः॥१०३॥
प्रद्युम्नहरणम्-१०४

जनमेजय उवच। य एष भवता पूर्वं शम्बरघ्नेत्युदाहृतः ।
प्रद्युम्नः स कथं जघ्ने शम्बरं तद्ब्रवीहि मे॥१॥

य एष इति॥१॥

वैशम्पायन उवाच। रुक्मिण्यां वासुदेवस्य लक्ष्म्यां कामो धृतव्रतः ।
शम्बरान्तकरो जज्ञे प्रद्युम्नः कामदर्शनः ।
सनत्कुमार इति यः पुराणे परिगीयते॥२॥

तं सप्तरात्रे सम्पूर्णे निशीथे सूतिकागृहात् ।
जहार कृष्णस्य सुतं शिशुं वै कालशम्बरः॥३॥

विदितं तस्य कृष्णस्य देवमायानुवर्तिनः ।
ततो न निगृहीतः स दानवो युद्धदुर्मदः॥४॥

स मृत्युना परीतायुर्मायया सञ्जहार तम् ।
दोर्भ्यामुत्क्षिप्य नगरं स्वं निनाय महासुरः॥५॥

अनपत्या तु तस्यासीद्भार्या रूपगुणान्विता ।
नाम्ना मायावती नाम मायेव शुभदर्शना॥६॥

रतिप्रतिच्छाया मायावती नाम भार्यात्वमापन्ना नतु रतिरित्यग्रे व्यक्ती करिष्यति॥६॥

ददौ तं वासुदेवस्य पुत्रं पुत्रमिवात्मजम् ।
तस्या महिष्या मायिन्या दानवः कालचोदितः॥७॥

मायावती तु तं दृष्ट्वा सम्प्रहृष्टतनूरुहा ।
हर्षेण महता युक्ता पुनः पुनरुदैक्षत॥८॥

अथ तस्य निरीक्षन्त्याः स्मृतिः प्रादुर्बभूव ह ।
अयं स मम कान्तोऽभूत्स्मृत्वैवं चान्वचिन्तयत्॥९॥

अयं स नाथो भर्ता मे यस्यार्थेऽहं दिवानिशम् ।
चिन्ताशोकार्णवे मग्ना न विन्दामि रतिं क्वचित्॥१०॥

अयं भगवता पूर्वं देवदेवेन शूलिना ।
खेदितेन कृतोऽनङ्गो दृष्टो जात्यन्तरे मया॥११॥

कथमस्य स्तनं दास्ये मातृभावेन जानती ।
भर्तुर्भार्या त्वहं भूत्व वक्ष्ये वा पुत्र इत्युत॥१२॥

एवं सञ्चिन्त्य मनसा धात्र्यास्तं सा समर्पयत् ।
रसायनप्रयोगैश्च शीघ्रमेव व्यवर्धयत्॥१३॥

धत्र्याः सकाशात्स च तां शृण्वन्रुक्मिणिनन्दनः ।
मायावतीमविज्ञानान्मेने स्वामेव मातरम्॥१४॥

सा च तं वर्धयामास कार्ष्णिं कमललोचनम् ।
मायाश्चास्मै ददौ सर्वा दानवीः काममोहिता॥१५॥

स यदा यौवनस्थस्तु प्रद्युम्नः कामदर्शनः ।
चिकीर्षितज्ञो नारीणां सर्वास्त्रविधिपारगः॥१६॥

तं सा मायावती कान्तं कामयामास कामिनी ।
इङ्गितैश्चापि वीक्षन्ती प्रलोभयत सस्मिता ।
प्रसज्जन्तीं तु तां देवीं बभाषे चारुहासिनीम्॥१७॥

प्रद्युम्न उवाच। मातृभावं व्यतिक्रम्य किमेवं वर्तसेऽन्यथा ।
अहो दुष्टस्वभावासि स्त्रीत्वे चपलमानसा॥१८॥

या पुत्रभावमुत्सृज्य मयि लोभात्प्रवर्तसे ।
न तु तेऽहं सुतः सौम्ये कोऽयं शीलविपर्ययः॥१९॥

तत्त्वमिच्छाम्यहं देवि कथितं कोऽन्वयं विधिः ।
विद्युत्सम्पातचपलः स्वभावः खलु योषिताम्॥२०॥

या नरेषु प्रसज्जन्ते नगाग्रेषु घना इव ।
यदि तेऽहं सुतः सौम्ये यदि वा नात्मजः शुभे॥२१॥

कथितं तत्त्वमिच्छामि किमिदं ते चिकीर्षितम् ।
एवमुक्ता तु सा भीरुः कामेन व्यथितेन्द्रिया॥२२॥

प्रियं प्रोवाच वचनं विविक्ते केशवात्मजम् ।
न त्वं मम सुतः कान्त नापि ते शम्बरः पिता॥२३॥

रूपवानसि विक्रान्तस्त्वं जात्या वृष्णिनन्दन ।
पुत्रस्त्वं वासुदेवस्य रुक्मिण्यानन्दवर्धनः॥२४॥

दिवसे सप्तमे बालो जातमात्रोपवाहितः ।
सूतिकागारमध्यात्त्वं शिशुरुत्तानशायितः॥२५॥

मम भर्त्रा हृतोऽसि त्वं बलवीर्यप्रवर्तिना ।
पितुस्ते वासुदेवस्य धर्षयित्वा गृहं महत्॥२६॥

पाकशासनकल्पस्य हृतस्त्वं शम्बरेण ह ।
सा च ते करुणं माता त्वां बालमनुशोचती॥२७॥

अत्यर्थं तप्यते वीर विवत्सा सौरभी यथा ।
सोऽपि शक्रादपि महान्पिता ते गरुडध्वजः॥२८॥

इह त्वां नाभिजानाति बालमेवोपवाहितम् ।
कान्त वृष्णिकुमारस्त्वं न हि त्वं शम्बरात्मजः॥२९॥

वीर नैवं विधान्पुत्रान्दानवा जनयन्ति हि ।
अतोऽहं कामयामि त्वां न हि त्वं जनितो मया॥३०॥

रूपं ते सौम्य पश्यन्ती सीदामि हृदि दुर्बला ।
यन्मे व्यवसितं कान्त यत्तु मे हृदि वर्तते॥३१॥

तन्मे मनसि वार्ष्णेय प्रतिसन्धातुमर्हसि ।
एष ते कथितः सर्वः सद्भावस्त्वयि यो मम॥३२॥

यथा न मम पुत्रस्त्वं न पुत्रः शम्बरस्य च ।
श्रुत्वैवमखिलं सर्वं मायावत्या प्रभाषितम्॥३३॥

चक्रायुधात्मजः क्रुद्धः शम्बरं स समाह्वयत् ।
सर्वमायस्वभिज्ञोऽसौ नाम विश्राव्य चात्मनः॥३४॥

अहो दानवदुष्टात्मा केशवस्यात्मजं शिशुम् ।
हरते निर्भयश्चैव भयमद्य करोम्यहम्॥३५॥

कथं वै क्रोधमागच्छेद्वध्यते वा कथं मया ।
प्रथमं किं करिष्यामि येन कुप्यति मन्दधीः॥३६॥

अस्ति चास्य ध्वजं चित्रं सिंहकेतुविभूषितम् ।
तोरणं गृहमासाद्य उच्छ्रितं मेरुशृङ्गवत्॥३७॥

एतदुन्मथ्य पातिष्ये भल्लेन निशितेन वै ।
ध्वजच्छेदं विदित्वाथ शम्बरो निष्क्रमिष्यति॥३८॥

ततो युद्धेन हत्वाऽऽजौ गन्तास्मि द्वारकां प्रति ।
इत्युक्त्वा सज्यमाचक्रे सशरं चापमोजसा॥३९॥

चिच्छेद ध्वजरत्नं तु शम्बरस्य महाभुजः ।
तच्छुत्वा तु ध्वजच्छेदं प्रद्युम्नेन महात्मना॥४०॥

क्रुद्धस्त्वाज्ञापयामास पुत्रान्वै कालशम्बरः ।
जिघांसध्वं महावीरा रौक्मिणेयं त्वरान्विताः॥४१॥

नैवं वै द्रष्टुमिच्छामि मम विप्रियकारकम् ।
श्रुत्वा तु शम्बराद्वाक्यं सुतास्ते शम्बरस्य ह॥४२॥

सन्नद्धा निर्ययुर्हृष्टाः प्रद्युम्नवधकाङ्क्षया ।
चित्रसेनोऽतिसेनश्च विष्वसेनो गदस्तथा॥४३॥

श्रुतसेनः सुषेणस्तु सोमसेनो मनस्तथा ।
सेनानी सैन्यहन्ता च सेनाहा सैनिकस्तथा॥४४॥

सेनस्कन्धोऽतिसेनश्च सेनको जनकः सुतः ।
सकालो विकलः शान्तः स शातान्तकरो विभुः॥४५॥

कुम्भकेतुः सुदंष्ट्रश्च केशिरित्येवमादयः ।
चक्रतोमरशूलानि पट्टिशानि परश्वधान्॥४६॥

गृहीत्वा निर्ययुर्हृष्टा मन्युना परमाप्लुताः ।
आह्वयन्तममित्रं वै तस्थुः सङ्ग्राममूर्धनि॥४७॥

प्रद्युम्नस्तु महाबाहू रथमारुह्य सत्वरम् ।
निर्ययौ चापमादाय सङ्ग्रामाभिमुखस्तदा॥४८॥

ततः प्रवृत्तं युद्धं तु तुमुलं लोमहर्षणम् ।
शम्बरस्य तु पुत्राणां केशवस्य च सूनुना॥४९॥

ततो देवाः सगन्धर्वाः समहोरगचारणाः ।
देवराजं पुरस्कृत्य विमानाग्रेषु धिष्ठिताः॥५०॥

नारदस्तुम्बुरुश्चैव हाहाहूहूश्च गायनाः ।
अप्सरोभिः परिवृताः सर्वे तत्रावतस्थिरे॥५१॥

देवराजप्रतीहारो गन्धर्वश्चित्रमद्भुतम् ।
शशंस देवराजाय वज्रिणे तद्विचेष्टितम्॥५२॥

प्रतीहारो द्वारपालः। चित्रं यथा स्यात्तथा चित्रम् आश्चर्यं शशंसाद्भुतं नामानुभूतपूर्वम्॥५२॥

शम्बरस्य शतं पुत्रा एकः कृष्णस्य चात्मजः ।
बहूनां युद्ध्यतामेष कथं विजयमाप्नुयात्॥५३॥

तच्छ्रुत्वा भाषितं तस्य प्रहस्य बलसूदनः ।
उवाच वचनं चेदं शृणु योऽस्य पराक्रमः॥५४॥

कामोऽयं पूर्वदेहे तु हरक्रोधाग्निना हतः ।
रत्या प्रसादितो देवः कामपत्न्या त्रिलोचनः ।
परितुष्टेन देवेन वरमस्याः प्रदीयते॥५५॥

विष्णुर्मानुषदेहस्तु द्वारकायां भविष्यति ।
तस्य पुत्रत्वमस्यैव भविष्यति न संशयः॥५६॥

अनङ्ग इति विख्यातस्त्रैलोक्ये तु महायशाः ।
तत्रोत्पन्नो महातेजाः शम्बरं घातयिष्यति॥५७॥

सप्ताहे जातमात्रे तु रुक्मिण्याः क्रोडसंस्थितम् ।
आस्थाय शम्बरो मायां प्रद्युम्नमपनेष्यति॥५८॥

तद्गच्छ शम्बरगृहं भार्या मायावती भव ।
मायारूपप्रतिच्छन्ना शम्बरं मोहयिष्यसि॥५९॥

तत्र त्वमात्मनः कान्तं बालरूपं विवर्धय ।
प्राप्तयौवनदेहस्तु शम्बरं निहनिष्यति॥६०॥

ततस्त्वया सहानङ्गो द्वारकां वै गमिष्यति ।
रमिश्यति त्वया सार्धं शैलपुत्र्या यथा ह्यहम्॥६१॥

एवमादिश्य देवेशो जगाम पुरुषोत्तमः ।
कैलासं मेरुसङ्काशं सिद्धचारणसेवितम्॥६२॥

कामपत्नी प्रणम्याथ देवदेवमुमापतिम् ।
जगाम शम्बरगृहं कालस्यान्तं प्रतीक्षती॥६३॥

एवमेव महाबाहुः शम्बरं निहनिष्यति ।
सह पुत्रेण प्रद्युम्नो हन्ता तस्य दुरात्मनः॥६४॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शम्बरवधे चतुरधिकशततमोऽध्यायः॥१०४॥
प्रद्युम्नेन शम्बरसैन्यविद्रावणम्-१०५

वैशम्पायन उवाच। ततः प्रवृद्धं युद्धं तु तुमुलं लोमहर्षणम् ।
शम्बरस्य तु पुत्राणां रुक्मिण्या नन्दनस्य च॥१॥

तत इति॥१॥

ततः क्रुद्धा महादैत्याः शरशक्तिपरश्वधान् ।
चक्रतोमरकुन्तानि भुशुण्डीर्मुसलानि च॥२॥

युगपत्पातयन्ति स्म प्रद्युम्नोपरि वेगिताः ।
कार्ष्णायनिस्तु सङ्क्रुद्धः सर्वास्त्रधनुषश्च्युतैः॥३॥

सर्वमस्यते क्षिप्यतेऽनेनेति सर्वास्त्रं तच्च तद्धनुश्च तस्मात्॥३॥

एकैकं पञ्चभिः क्रुद्धश्चिच्छेद रणमूर्धनि ।
पुनरेवासुराः क्रुद्धाः सर्वे ते कृतनिश्चयाः॥४॥

ववृषुः शरजालानि प्रद्युम्नवधकाङ्क्षया ।
ततः प्रकुपितोऽनङ्गो धनुरादाय सत्वरः॥५॥

अनङ्गः प्रद्युम्नः॥५॥

शम्बरस्य जघानाशु दश पुत्रान्महौजसः ।
ततोऽपरेण भल्लेन कुपितः केशवात्मजः॥६॥

चिच्छेदाशु शिरस्तस्य चित्रसेनस्य वीर्यवान् ।
ततस्ते हतशेषास्तु समेत्य समयुद्ध्यत॥७॥

समयुध्यत एकत्वमार्षं युद्धं कृतवन्तः॥७॥

शरवर्षं विमुञ्चन्तो ह्यभ्यधावञ्जिघांसितुम् ।
ततः सन्धाय बाणांस्ते विमुञ्चन्तो रणोत्सुकाः॥८॥

क्रीडन्निव महातेजाः शिरांस्येषामपातयत् ।
निहत्य समरे सर्वाञ्छतमुत्तमधन्विनाम्॥९॥

प्रद्युम्नः समराकाङ्क्षी तस्थौ सङ्ग्राममूर्धनि ।
हतं पुत्रशतं श्रुत्वा शम्बरः क्रोधमादधे॥१०॥

सूतं सञ्चोदयामास रथं मे सम्प्रयोजय ।
राज्ञो वाक्यं निशम्याथ प्रणम्य शिरसा भुवि॥११॥

ससैन्यं नोदयामास रथं स सुसमाहितम् ।
युक्तमृष्यसहस्रेण सर्पराजसकेतनम्॥१२॥

ऋष्याः मृगविशेषास्तेषां सहस्रेण॥१२॥

शार्दूलचर्मसंविष्टं किङ्किणीजलपालिनम् ।
ईशामृगगणाकीर्णं पङ्क्तिभक्तिविराजितम्॥१३॥

पङ्क्तिभक्तिभिः दशभिश्चित्रभागैः उपर्युपरि कोष्ठकौर्विराजितं शोभमानम्॥१३॥

ताराचित्रपिनद्धाङ्गं स्वर्णकूबरभूषितम् ।
सुपताकमहोच्छ्रायं मृगराजोग्रकेतनम्॥१४॥

सुविभक्तवरूथं च लोहेषावज्रकूबरम् ।
मन्दारोदग्रशिखरं चारुचामरभूषितम्॥१५॥

नक्षत्रमालापिहितं हेमदण्डसमाहितम् ।
विराजमानं श्रीमन्तमारोहच्छम्बरो रथम्॥१६॥

काञ्चनं चित्रसन्नाहं धनुर्गृह्य शरांस्तथा ।
प्रस्थितः समराकाङ्क्षी मृत्युना परिचोदितः॥१७॥

चतुर्भिः सचिवैः सार्धं सैन्येन महता वृतः ।
दुर्धरः केतुमाली च शत्रुहन्ता प्रमर्दनः॥१८॥

एतैः परिवृतोऽमात्यैर्युयुत्सुः प्रस्थितो रणे ।
दशनागसहस्राणि रथानां द्वे शते तथा॥१९॥

हयानां चाष्टसाहस्रैः प्रयुतैश्च पदातिनाम् ।
एतैः परिवृतो योधैः शम्बरः प्रययौ तदा॥२०॥

प्रयातस्य तु सङ्ग्रामे उत्पाता बहवोऽभवन् ।
गृध्रचक्राकुले व्योम्नि सन्ध्याकाराभ्रनादितम्॥२१॥

गर्जन्ति परुषं मेघा निर्घातश्चाम्बरात्पतत् ।
शिवा विनेदुरशिवं सैन्यं सङ्कालयन्महत्॥२२॥

निर्घातः अशनिः पतत् अपतत्। सङ्कालयन् क्षपयन्॥२२॥

ध्वजशीर्षेऽपतद्गृध्रः काङ्क्षन्वै दानवासृजम् ।
रथाग्रे पतितश्चास्य कबन्धो भुवि दृश्यते॥२३॥

गृध्रः दानवासृजं दानवरक्तम्॥२३॥

चीचीकूचीति वाशान्ति शम्बरस्य रथोपरि ।
स्वर्भानुग्रस्त आदित्यः परिघैः परिवेष्टितः॥२४॥

वाशन्ति पक्षिण इति शेषः॥२४॥

स्फुरते नयनं चास्य सव्यं भयनिवेदनम् ।
बाहुः प्रकम्पते सव्यः प्रास्खलन्रथवाजिनः॥२५॥

ध्वाङ्क्षो मूर्ध्नि निपतितः शम्बरस्य सुरारिणः ।
ववर्ष रुधिरं देवः शर्कराङ्गारमिश्रितम्॥२६॥

सुरारिणः देवशत्रोः॥२६॥

उल्कापातसहस्राणि निपेतू रणमूर्धनि ।
प्रतोदो न्यपतद्धस्तात्सारथेर्हययायिनः॥२७॥

एतानचिन्तयित्वा तु उत्पातान्समुपस्थितान् ।
प्रययौ शम्बरः क्रुद्धः प्रद्युम्नवधकाङ्क्षया॥२८॥

भेरीमृदङ्गशङ्खानां पणवानकदुन्दुभेः ।
युगपन्नाद्यमानानां पृथिवी समकम्पत॥२९॥

तेन शब्देन महता सन्त्रस्ता मृगपक्षिणः ।
समन्ताद्दुद्रुवुस्तस्माद्भयविक्लवचेतसः॥३०॥

रणमध्ये स्थितः कार्ष्णिश्चिन्तयन्निधनं रिपोः ।
सैन्यैः परिवृतोऽसङ्ख्यैर्युद्धाय कृतनिश्चयः॥३१॥

असङ्ख्यैः सङ्ख्यातुमयोग्यैः। अतिप्रसिद्धनामभिरित्यर्थः॥३१॥

क्रुद्धः शरसहस्रेण प्रद्युम्नं समताडयत् ।
सम्प्राप्तांश्चैव तान्बाणांश्छिच्छेद कृतहस्तवत्॥३२॥

प्रद्युम्नो धनुरादाय शरवर्षं मुमोच ह ।
तस्मिन्सैन्ये न कोऽप्यस्ति यो न विद्धः शरेण वै॥३३॥

प्रद्युम्नशरपातेन तत्सैन्यं विमुखीकृतम् ।
शम्बरस्य तथाभ्याशे स्थितं संहृत्य भीतवत्॥३४॥

स्वबलं विद्रुतं दृष्ट्वा शम्बरः क्रोधमूर्च्छितः ।
आज्ञापयामास तदा सचिवान्दानवेश्वरः॥३५॥

गच्छध्वं मन्नियोगेन प्रहरध्वं रिपोः सुतम् ।
नोपेक्षणीयः शत्रुर्वै वध्यतां क्षिप्रमेव वै॥३६॥

उपेक्षित इव व्याधिः शरीरं नाशयेद्ध्रुवम् ।
तदेव दुर्मतिः पापो वध्यतां मत्प्रियेप्सया॥३७॥

ततस्ते सचिवाः क्रुद्धाः शिरसा गृह्य शासनम् ।
शरवर्षं विमुञ्चन्तस्त्वरिता नोदयन्रथान्॥३८॥

तान्दृष्ट्वा धावतः सङ्ख्ये क्रुद्धो मकरकेतनः ।
चापमुद्यम्य सम्भ्रान्तस्तस्थौ प्रमुखतो बली॥३९॥

दुर्धरं पञ्चविंशत्या शरैः सन्नतपर्वभिः ।
बिभेद सुमहातेजाः केतुमालिं त्रिषष्टिभिः॥४०॥

बिभेद बिभिदुः॥४०॥

सप्तत्या शत्रुहन्तारं द्व्यशीत्या तु प्रमर्दनम् ।
बिभेद परमामर्षी रुक्मिण्या नन्दिवर्धनः॥४१॥

ततस्ते सचिवाः क्रुद्धाः प्रद्युम्नं शरवृष्टिभिः ।
एकैकशो बिभेदाजौ षष्टिभिः षष्टिभिः शरैः॥४२॥

तानप्राप्ताञ्छरान्बाणैश्चिच्छेद मकरध्वजः ।
ततोऽर्धचन्द्रमादाय दुर्धरस्य स सारथिम्॥४३॥

जघान पश्यतां राज्ञां सर्वेषां सैनिकस्य वै ।
चतुर्भिरथ नाराचैः सुपर्वैः कङ्कतेजितैः॥४४॥

पर्वैरित्यदन्तत्वमार्षम्॥४४॥

जघान चतुरः सोऽश्वान्दुर्धरस्य रथं प्रति ।
एकेन योक्त्रं छत्रं च ध्वजमेकेन बन्धुरम्॥४५॥

षष्ट्या च युगचक्राक्षं चिच्छेद मकरध्वजः ।
अथापरं शरं गृह्य कङ्कपत्रं सुतेजितम्॥४६॥

मुमोच हृदये तस्य दुर्धरस्यान्यजीविनः ।
स गतासुर्गतश्रीको गतसत्त्वो गतप्रभः॥४७॥

निपपात रथोपस्थात्क्षीणपुण्य इव ग्रहः ।
दुर्धरे निहते शूरे दानवे दानवेश्वरः॥४८॥

केतुमाली शरव्रातैरभिदुद्राव कृष्णजम् ।
प्रद्युम्नमथ सङ्क्रुद्धो भ्रुकुटीभीषणानानः॥४९॥

कृत्वाभ्यधावत्सहसा तिष्ठ तिष्ठेति चाब्रवीत् ।
सङ्क्रुद्धः कृष्णसूनुस्तु शरवर्षैरवाकिरत्॥५०॥

पर्वतं वारिधाराभिः प्रावृषीव यथा घनः ।
स विद्धो दानवामात्यः प्रद्युम्नेन धनुष्मता॥५१॥

चक्रमादाय चिक्षेप प्रद्युम्नवधकाङ्क्षया ।
तं तु प्राप्तं सहस्रारं कृष्णचक्रसमद्युतिम्॥५२॥

निपत्योत्पत्य सहसा सर्वेषामेव पश्यताम् ।
तेनैव तस्य चिच्छेद केतुमालेः शिरस्तदा॥५३॥

तद्दृष्ट्वा कर्म विपुलं रौक्मिणेयस्य देवराट् ।
विस्मयं परमं प्राप्तः सर्वैर्देवगणैः सह॥५४॥

गन्धर्वाप्सरसश्चैव पुष्पवर्षैरवाकिरन् ।
केतुमालिं हतं दृष्ट्वा शत्रुहन्ता प्रमर्दनः ।
महाबलसमूहेन प्रद्युम्नमथ दुद्रुवे॥५५॥

ते गदां मुसलं चक्रं प्रासतोमरसायकान् ।
भिन्दिपालान्कुठारांश्च भास्वरान्कूटमुद्गरान्॥५६॥

युगपत्सङ्क्षिपन्ति स्म वधार्थं कृष्णनन्दने ।
सोऽपि तान्यस्त्रजालानि शस्त्रजालैरनेकधा॥५७॥

चिच्छेद बहुधा वीरो दर्शयन्पाणिलाघवम् ।
गजान्सोऽभ्यहनत्क्रुद्धो गजारोहान्सहस्रशः॥५८॥

रथान्सारथिभिः सार्धं हयांश्चैव ममर्द ह ।
पातयंस्ताञ्छरव्रातैर्नाविद्धः कश्चिदीक्ष्यते॥५९॥

एवं सर्वाणि सैन्यानि ममन्थ मकरध्वजः ।
नदीं प्रावर्तयद्घोरां शोणिताम्बुतरङ्गिणीम्॥६०॥

मुक्ताहारोर्मिबहुलां वसामेदोस्थिपङ्किनीम् ।
छत्रद्वीपशरावर्तां रथैः पुलिनमण्डिताम्॥६१॥

केयूरकुण्डलाकूर्मां ध्वजमत्स्यविभूषिताम् ।
नागग्राहवतीं रौद्रीं मत्स्यकूर्मविभूषिताम्॥६२॥

केशशैवलसञ्छन्नां श्रोणिसूत्रमृणालिकाम् ।
नराननसुपद्मां च हंसचामरवीजिताम्॥६३॥

शिरस्तिमिसमाकीर्णां शोणितौघप्रवर्तिनीम् ।
नदीं दुस्तरणीं भीमामनङ्गेन प्रवर्तिताम्॥६४॥

दुष्प्रेक्षां दुर्गमां रौद्रां हीनतेजः सुदुस्तराम् ।
शस्त्रग्राहवतीं घोरां यमराष्ट्रविवर्द्धिनीम्॥६५॥

तत्र रुक्मिसुतः श्रीमान्विलोडयति धन्विनः ।
शत्रुहन्तारमाश्रित्य शरानभ्यकिरन्बहून्॥६६॥

तत्र धन्विनः धनुर्धरान् विलोडयति मथ्यति॥६६॥

शत्रुहन्ता पुनः क्रुद्धो मुमोच शरमुत्तमम् ।
प्रद्युम्नस्य समासाद्य हृदये निपपात ह॥६७॥

स विद्धस्तेन बाणेन प्रद्युम्नो न व्यकम्पत ।
शक्तिं जग्राह बलवाञ्छत्रुहन्त्रे मुमूर्षवे॥६८॥

सा क्षिप्ता रौक्मिणेयेन शक्तिर्ज्वालाकुला रणे ।
पपात हृदयं भित्त्वा शक्राशनिसमस्वना॥६९॥

स भिन्नहृच्च स्रस्ताङ्गो मुक्तमर्मास्थिबन्धनः ।
पपात रुधिरोद्गारी शत्रुहन्ता महाबलः॥७०॥

पतितं शत्रुहन्तारं दृष्ट्वा तस्थौ प्रमर्दनः ।
जग्राह मुसलं सोऽथ वचनं चेदमाददे॥७१॥

तिष्ठ किं प्राकृतैरेभिः करिष्यसि रणप्रियः ।
मां योधयस्व दुर्बुद्धे ततस्त्वं न भविष्यसि॥७२॥

वृष्णिवंशकुले जातः शत्रुरस्मत्पिता तव ।
पुत्रं हन्तास्म्यहं तस्य ततोऽसौ निहतो भवेत्॥७३॥

अस्मत् अस्माकम्॥७३॥

मृतेन तेन दुर्बुद्धे सर्वदेवक्षयो भवेत् ।
दैतेया दानवाः सर्वे मोदन्तां हतशत्रवः॥७४॥

हते त्वयि ममास्त्रेण त्वत्समुत्थैश्च शोणितैः ।
शम्बरस्य तु पुत्राणां करोम्युदकसत्क्रियाम्॥७५॥

अद्य सा भीष्मकसुता करुणं विलपिष्यति ।
निहतं त्वां च श्रुत्वैव यौवनस्थं गतायुषम्॥७६॥

भीष्मकसुता रुक्मिणी॥७६॥

स ते पिता चक्रधरो निष्फलाशो भविष्यति ।
हतं त्वां स विदित्वाथ प्राणांस्त्यक्ष्यति मन्दधीः॥७७॥

इत्युक्त्वा परिघेणाशु ताडयद्रुक्मिणीसुतम् ।
ताडितो हि महातेजा रौक्मिणेयः प्रतापवान्॥७८॥

ताडयत् अताडयत्॥७८॥

दोर्भ्यामुत्क्षिप्य तस्यैव रथं मह्यां व्यचूर्णयत् ।
सोऽवप्लुत्य रथात्तस्मात्पदातिरवतस्थिवान्॥७९॥

रथमेवोत्क्षिप्य चूर्णयत्॥७९॥

तां गदां गृह्य सहसा रौक्मिणेयमुपाद्रवत् ।
तयैव गदया कामः प्रमर्दनमपोथयत्॥८०॥

तां प्रसिद्धां तयैव रिपुप्रयुक्तयैव॥८०॥

हते प्रमर्दने दैत्ये दृष्ट्वा सर्वे प्रदुद्रुवुः ।
न शक्ताः प्रमुखे स्थातुं सिंहत्रासाद्गजा इव॥८१॥

सारमेयं यथा दृष्ट्वाविगणे वै पलायते ।
तथा सेना विषीदन्ती प्रद्युम्नस्य भयार्दिता॥८२॥

अवीति च्छेदः॥८२॥

क्षतजा दिग्धवस्त्रा वै मुक्तकेशा विशोभना ।
रजस्वलेव युवतिः सेना समवगूहते॥८३॥

विशोभना स्रक्चन्दनपत्रलेखादिरहिता समवगूहते देहं सङ्कोचयति॥८३॥

मदनशरविभिन्ना सैनिकानभ्ययायाद्युवतिसदृशवेषा साध्वसैः पीड्यमाना ।
रतिसमरमशक्ता वीक्षितुं सोच्छसन्ती स्वगृहगमनकामा नेच्छते स्थातुमत्र॥८४॥

साध्वसैः निर्दयकार्मुकैः रतिमिव समरं पक्षे रतिं समरम् इवेति विग्रहः॥८४॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शम्बरसैन्यभङ्गो नाम पञ्चाधिकशततमोऽध्यायः॥१०५॥
शम्बरवधे नारदवाक्यम्-१०६

वैशम्पायन उवाच। शम्बरस्तु ततः क्रुद्धः सूतमाह विशाम्पते ।
शत्रुप्रमुखतो वीर रथं मे वाहय द्रुतम्॥१॥

शम्बर इति॥१॥

यावदेनं शरैर्हन्मि मम विप्रियकारकम् ।
ततो भर्तृवचः श्रुत्वा सूतस्तत्प्रियकारकः॥२॥

रथं सञ्चोदयामास चामीकरविभूषितम् ।
तं दृष्त्वा रथमायान्तं प्रद्युम्नः फुल्ललोचनः॥३॥

सन्दधे चापमादाय शरं कनकभूषितम् ।
तेनाहनत्सुसङ्क्रुद्धः कोपयञ्शम्बरं रणे॥४॥

हृदये ताडितस्तेन देवशत्रुः सुविक्लवः ।
रथशक्तिं समाश्रित्य तस्थौ सोऽथ विचेतनः॥५॥

रथशक्तिं रथस्योत्साहहेतुं ध्वजं “शक्तिरस्त्रान्तरे सौर्यामुत्सहादौ बले स्त्रियाम्।” इति मेदिनी॥५॥

स चेतनां पुनः प्राप्य धनुरादाय शम्बरः ।
विव्याध कार्ष्णिं कुपितः सप्तभिर्निशितैः शरैः॥६॥

तानप्राप्ताञ्शरान्सोऽथ सप्तभिः सप्तधाच्छिनत् ।
शम्बरं च जघानाथ सप्तत्या निशितैः शरैः॥७॥

पुनः शरसहस्रेण कङ्कबर्हिणवाससा ।
अहनच्छम्बरं क्रोधाद्धाराभिरिव पर्वतम्॥८॥

प्रदिशो विदिशश्चैव शरधारासमावृता ।
स दिशो विदिशश्चैव शरधारा समावृणोत्॥९॥

अन्धकारीकृतं व्योम दिनकर्ता न दृश्यते ।
ततोऽन्धकारमुत्सार्य वैद्युतास्त्रेण शम्बरः॥१०॥

प्रद्युम्नस्य रथोपस्थे शरवर्षं मुमोच ह ।
तदस्त्रजालं प्रद्युम्नः शरेणानतपर्वणा॥११॥

चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् ।
हते तस्मिन्महावर्षे शराणां कार्ष्णिना तदा॥१२॥

द्रुमवर्षं मुमोचाथ मायया कालशम्बरः ।
द्रुमवर्षोच्छ्रितं दृष्ट्वा प्रद्युम्नः क्रोधमूर्च्छितः॥१३॥

आग्नेयास्त्रं मुमोचाथ तेन वृक्षाननाशयत् ।
भस्मीभूते वृक्षवर्षे शिलासङ्घातमुत्सृजत्॥१४॥

प्रद्युम्नस्तं तु वायव्यैः प्रोत्सारयत संयुगे ।
ततो मायां परां चक्रे देवशत्रुः प्रतापवान्॥१५॥

सिंहान्व्याघ्रान्वराहांश्च तरक्षूनृक्षवानरान् ।
वारणान्वारिदप्रख्यान्हयानुष्ट्रान्विशाम्पते॥१६॥

वारिदप्रख्यान्मेघवत् मृज्यमानान्, “प्रख्या बृहत्प्रेक्षणे बुद्धौ” इति विश्वः॥१६॥

मुमोच धनुरायम्य प्रद्युम्नस्य रथोपरि ।
गन्धर्वास्त्रेण चिच्छेद सर्वांस्तान्खण्डशस्तदा॥१७॥

प्रद्युम्नेन तु सा माया हता तां वीक्ष्य शम्बरः ।
अन्यां मायां मुमोचाथ शम्बरः क्रोधमूर्च्छितः॥१८॥

गजेन्द्रान्भिन्नवदनान्षष्टिहायनयौवनान् ।
महामात्रोत्तमारूढान्कल्पितान्रणकोविदान्॥१९॥

तामापतन्तीं मायां तु कार्ष्णिः कमललोचनः ।
सैंहीं मायां समुत्स्रष्टुं चक्रे बुद्धिं महामनाः॥२०॥

सा सृष्टा सिंहमाया तु रौक्मिणेयेन धीमता ।
माया नागवती नष्टा आदित्येनेवे शर्वरी॥२१॥

निहितां हस्तिमायां तु तां समीक्ष्य महासुरः ।
अन्यां संमोहिनीं मायां सोऽसृजद्दानवोत्तमः॥२२॥

तां दृष्ट्वा मोहिनीं नाम मायां मयविनिर्मिताम् ।
संज्ञास्त्रेण तु प्रद्युम्नो नाशयामास वीर्यवान्॥२३॥

शम्बरस्तु ततः क्रुद्धो हतया मायया तदा ।
सैंहीं मायां महातेजाः सोऽसृजद्दानवेश्वरः॥२४॥

सिंहानापततो दृष्ट्वा रौक्मिणेयः प्रतापवान् ।
अस्त्रं गान्धर्वमादाय शरभानसृजत्तदा ।
तेऽष्टापदा बलोदग्रा नखदंष्ट्रायुधा रणे॥२५॥

सिंहान्विद्रावयामासुर्वयुर्जलधरानिव ।
सिंहान्विद्रवतो दृष्ट्वा माययाष्टपदेन वै॥२६॥

शम्बरश्चिन्तयामास कथमेनं निहन्मि वै ।
अहो मूर्खस्वभावोऽहं यन्मया न हतः शिशुः॥२७॥

प्राप्तयौवनदेहस्तु कृतास्त्रश्चापि दुर्मतिः ।
तत्कथं निहनिष्यामि शत्रुं रणशिरःस्थितम्॥२८॥

माया सा तिष्ठते तीव्रा पन्नगी नाम भीषणा ।
दत्ता मे देवदेवेन हरेणासुरघातिना॥२९॥

तां सृजामि महामायामाशीविषसमाकुलाम् ।
तया दह्येत दुष्टात्मा ह्येष मायामयो बली॥३०॥

सा सृष्टा पन्नगी माया विषज्वालासमाकुला ।
तया पन्नगमय्या तु सरथं सहवाजिनम्॥३१॥

ससूतं स हि प्रद्युम्नं बबन्ध शरबन्धनैः ।
बध्यमानं तदा दृष्ट्वा आत्मानं वृष्णिवंशजः॥३२॥

मायां सञ्चिन्तयामास सौपर्णीं सर्पनाशिनीम् ।
सा चिन्तिता महामाया प्रद्युम्नेन महात्मना॥३३॥

सुपर्णा विचरन्ति स्म सर्पा नष्टा महाविषाः ।
भग्नायां सर्पमायायां प्रशंसन्ति सुरासुराः॥३४॥

साधु वीर महाबाहो रुक्मिण्यानन्दवर्धन ।
यत्त्वया धर्षिता माया तेन स्म परितोषिताः॥३५॥

हतायां सर्पमायायां शम्बरश्चिन्तयत्पुनः ।
अस्ति मे कालदण्डाभो मुद्गरो हेमभूषितः॥३६॥

तमप्रतिहतं युद्धे देवदानवमानवैः ।
पुरा यो मम पार्वत्या दत्तः परमतुष्टया॥३७॥

गृहाण शम्बरेमं त्वं मुद्गरं हेमभूषितम् ।
मया सृष्टं स्वदेहे वै तपः परमदुश्चरम्॥३८॥

मायान्तकरणं नाम सर्वासुरविनाशनम् ।
अनेन दानवौ रौद्रौ बलिनौ कामरूपिणौ॥३९॥

शुम्भश्चैव निशुम्भश्च सगणौ सूदितौ मया ।
प्राणसंशयमापन्ने त्वया मोक्ष्यः स शत्रवे॥४०॥

इत्युक्त्वा पार्वती देवी तत्रैवान्तरधीयत ।
तदहं मुद्गरं श्रेष्ठं मोचयिष्यामि शत्रवे॥४१॥

तस्य विज्ञाय चित्तं तु देवराजोऽभ्यभाषत ।
गच्छ नारद शीघ्रं त्वं प्रद्युम्नस्य रथं प्रति॥४२॥

सम्बोधय महाबाहुं पूर्वजातिं च मोक्षय ।
वैष्णवास्त्रं प्रयच्छास्मै वधार्थं शम्बरस्य च॥४३॥

अभेद्यं कवचं चास्य प्रयच्छासुरसूदन ।
एवमुक्तो मघवता नारदः प्रययौ त्वरम्॥४४॥

आकाशेऽधिष्ठितोऽवोचन्मकरध्वजकेतनम् ।
कुमारं पश्य मां प्राप्तं देवगन्धर्वनारदम् ।
प्रेषितं देवराजेन तव सम्बोधनाय वै॥४५॥

देवगन्धर्वप्रियो नारदो देवगन्धर्वनारदस्तम्॥४५॥

स्मर त्वं पूर्वकं भावं कामदेवोऽसि मानद ।
हरकोपानलाद्दग्धस्तेनानङ्ग इहोच्यते॥४६॥

त्वं वृष्णिवंशजातोऽसि रुक्मिण्या गर्भसम्भवः ।
जातोऽसि केशवेन त्वं प्रद्युम्न इति कीर्त्यसे॥४७॥

आहृत्य शम्बरेण त्वमिहानीतोऽसि मानद ।
सप्तरात्रे त्वसम्पूर्णे सूतिकागारमध्यतः॥४८॥

वधार्थं शम्बरस्य त्वं ह्रियमाणो ह्युपेक्षितः ।
केशवेन महाबाहो देवकार्यार्थसिद्धये॥४९॥

यैषा मायावती नाम भार्या वै शम्बरस्य तु ।
रतिं तां विद्धि कल्याणीं तव भार्यां पुरातनीम्॥५०॥

तव संरक्षणार्थाय शम्बरस्य गृहेऽवसत् ।
मायां शरीरजां तस्य मोहनार्थं दुरात्मनः॥५१॥

तवेति। रतिरेव मायमायं शरीरान्तरं स्वसदृशं कृत्वा मायावतीसंज्ञं कृत्वा दैत्यं रमयतीत्यर्थः॥५१॥

रतेः सम्पादनार्थाय प्रेषयत्यनिशं तदा ।
एवं प्रद्युम्नं बुद्ध्वा वै तत्र भार्या प्रतिष्ठिता॥५२॥

रतेः प्रीतेः एतेन रतेः पातिव्रत्यभङ्गो नास्तीति दर्शितम्॥५२॥

हत्वा तं शम्बरं वीर वैष्णवास्त्रेण संयुगे ।
गृह्य मायावतीं भार्यां द्वारकां गन्तुमर्हसि॥५३॥

गृहाण वैष्णवं चास्त्रं कवचं च महाप्रभम् ।
शक्रेण तव सङ्गृह्य प्रेषितं शत्रुसूदन॥५४॥

शृणु मे ह्यपरं वाक्यं क्रियतामविशङ्कया ।
अस्य देवरिपोस्तात मुद्गरो नित्यमूर्जितः॥५५॥

पार्वत्यां परितुष्टायां दत्तः शत्रुनिबर्हणः ।
अमोघश्चैव सङ्ग्रामे देवदानवमानवैः॥५६॥

तदस्त्रप्रविघातार्थं देवीं त्वं स्मर्तुमर्हसि ।
स्तव्या चैव नमस्या च महादेवी रणोत्सुकैः॥५७॥

तत्र वै क्रियतां यत्नः सङ्ग्रामे रिपुणा सह ।
इत्युक्त्वा नारदो वाक्यं प्रययौ यत्र वासवः॥५८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शम्बरवधे नारदवाक्ये षडधिकशततमोऽध्यायः॥१०६॥
शम्बरवधः-१०७

वैशम्पायन उवाच। शम्बरस्तु ततः क्रुद्धो मुद्गरं तं समाददे ।
मुद्गरे गृह्यमाणे तु द्वादशार्काः समुत्थिताः॥१॥

शम्बरस्त्विति॥१॥

पर्वताश्चलिताः सर्वे तथैव वसुधातलम् ।
उन्मार्गाः सागरा याताः सङ्क्षुब्धाश्चपि देवताः॥२॥

गृध्रचक्राकुलं व्योम उल्कापातो बभूव ह ।
ववर्ष रुधिरं देवः परुषं पवनो ववौ॥३॥

एवं दृष्ट्वा महोत्पातान्प्रद्युम्नः स त्वरान्वितः ।
अवतीर्य रथाद्वीरः कृताञ्जलिपुटः स्थितः॥४॥

देवीं सस्मार मनसा पार्वतीं शङ्करप्रियाम् ।
प्रणम्य शिरसा देवीं स्तोतुं समुपचक्रमे॥५॥

प्रद्युम्न उवाच। ॐ नमः कात्यायन्यै गिरीशायै नमो नमः ।
नमस्त्रैलोक्यमायायै कात्यायन्यै नमो नमः॥६॥

गिरीशायै गिरिशायै। दैर्घ्यमार्षम्॥६॥

नमः शत्रुविनाशिन्यै नमो गौर्यै शिवप्रिये ।
नमस्ये शुम्भमथनीं निशुम्भमथनीमपि॥७॥

कालरात्रि नमस्तुभ्यं कौमार्यै च नमो नमः ।
कान्तारवासिनीं देवीं नमस्यामि कृताञ्जलिः॥८॥

विन्ध्यवासिनीं दुर्गघ्नां रणदुर्गां रणप्रियाम् ।
नमस्यामि महादेवीं जयां च विजयां तथा॥९॥

अपराजितां नमस्येऽहमजितां शत्रुनाशिनीम् ।
घण्टाहस्तां नमस्यामि घण्टामालाकुलां तथा॥१०॥

त्रिशूलिनीं नमस्यामि महिषासुरघातिनीम् ।
सिंहाननां नमस्यामि सिंहप्रवरकेतनाम्॥११॥

एकानंशां नमस्यामि गायत्रीं यज्ञसत्कृताम् ।
सावित्रीं चापि विप्राणां नमस्येऽहं कृताञ्जलिः॥१२॥

रक्ष मां देवि सततं सङ्ग्रामे विजयं कुरु ।
इति कामवचस्तुष्टा दुर्गा सम्प्रीतमानसा॥१३॥

उवाच वचनं देवी सुप्रीतेनान्तरात्मना ।
पश्य पश्य महाबाहो रुक्मिण्यानन्दवर्धन॥१४॥

वरं वरय वत्स त्वममोघं दर्शनं मम ।
देव्यास्तु वचनं श्रुत्वा रोमाञ्चोद्गतमानसः॥१५॥

प्रणम्य शिरसा देवीं विज्ञप्तुमुपचक्रमे ।
यदि त्वं देवि तुष्टासि दीयतां मे यदीप्सितम्॥१६॥

वरं च वरदे याचे सर्वामित्रेषु मे जयः ।
यस्त्वया मुद्गरो दत्तः शम्बरस्यात्मसम्भवः॥१७॥

एष मे गात्रमासाद्य माला पद्मवती भवेत् ।
तथास्त्विति च साप्युक्त्वा तत्रैवान्तरधीयत॥१८॥

प्रद्युम्नस्तु महातेजास्तुष्टो रथमथारुहत् ।
मुद्गरं तं गृहीत्वा च शम्बरः क्रोधमूर्च्छितः॥१९॥

भ्रामयित्वा स चिक्षेप प्रद्युम्नोरसि वीर्यवान् ।
स गत्वा मदनाभ्याशं माला भूत्वा तु पौष्करी॥२०॥

प्रद्युम्नस्य च कण्ठे तु समासक्ता व्यराजत ।
नक्षत्राणां तु मालायां यथा परिवृतो विधुः॥२१॥

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
साधु साध्विति वाचोचुः पूजयन्केशवात्मजम्॥२२॥

वाचोचुः पूजयन् सन्धिरार्षः॥२२॥

मुद्गरं पुष्पभूतं तु दृष्ट्वा प्रद्युम्नसन्निधौ ।
वैष्णवं परमास्त्रं तु नारदेन यथाहृतम्॥२३॥

सन्दधे चापमानम्य इदं वचनमब्रवीत् ।
यद्यहं रुक्मिणीपुत्रः केशवस्यात्मजो ह्यहम्॥२४॥

तेन सत्येन बाणेन जहि त्वं शम्बरं रणे ।
इत्युक्त्वा चापमाकृष्य सन्धाय च महामनाः॥२५॥

चिक्षेप शम्बरस्याथ दहँल्लोकत्रयं यथा ।
स क्षिप्तो वृष्णिसिंहेन शरः क्रव्यादमोहनः॥२६॥

हृदयं शम्बरस्याथ भित्त्वा धरणिमागतः ।
न चास्य मांसं न स्नायुर्नास्थि न त्वङ् न शोणितम्॥२७॥

सर्वं तद्भस्मसाद्भूतं वैष्णवास्त्रस्य तेजसा ।
हते दैत्ये महाकाये दानवे शम्बरेऽधमे॥२८॥

जहृषुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ।
उर्वशी मेनका रम्भा विप्रचित्तिस्तिलोत्तमा॥२९॥

न नृतुर्हृष्टमनसो जगत्स्थावरजङ्गमम् ।
देवराजस्तु सुप्रीतः सर्वदेवगणैः सह ।
प्रद्युम्नं पुष्पवर्षेण तमभ्यर्च्य प्रहृष्टवत्॥३०॥

अथ समरहते तु दैत्यराजे मधुमथनस्य सुतेन वैष्णवास्त्रैः ।
विगतरिपुभयाः सुराश्च जग्मुर्मकरविभूषणकेतनं स्तुवन्तः॥३१॥

स च समरपरिश्रमं वहन्वै नगरमुखं प्रविवेश रौक्मिणेयः ।
प्रियतम इव कान्तया प्रहृष्टस्त्वरितपदं रतिदर्शनं चकार॥३२॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि शम्बरवधे सप्ताधिकशततमोऽध्यायः॥१०७॥
मायावत्या सह प्रद्युम्नस्य द्वारकागमनम्-१०८

वैशम्पान उवाच। समप्तमायो मायाज्ञो विक्रान्तः समरेऽव्ययः ।
अष्टम्यां निहतो युद्धे मायावी कालशम्बरः॥१॥

समाप्तेति॥१॥

तमृक्षवन्ते नगरे निहत्यासुरसत्तमम् ।
गृह्य मायावतीं देवीमागच्छन्नगरं पितुः॥२॥

सोऽन्तरिक्षगतो भूत्वा मायावी शीघ्रविक्रमः ।
आजगाम पुरीं रम्यां रक्षितां तेजसा पितुः॥३॥

सोऽन्तरिक्षान्निपतितः केशवान्तःपुरे शिशुः ।
मायावत्या सह तया रूपवानिव मन्मथः॥४॥

तस्मिंस्तत्रावपतिते महिष्यः केशवस्य याः ।
विस्मिताश्चैव हृष्टाश्च भीताश्चैवाभवंस्ततः॥५॥

ततस्तं कामसङ्काशं कान्तया सह सङ्गतम् ।
प्रेक्षन्त्यो हृष्टवदनाः पिबन्त्यो नयनोत्सवम्॥६॥

तं विनीतमुखं दृष्ट्वा सज्जमानं पदे पदे ।
अभवन्स्निग्धसङ्कल्पाः सर्वास्ताः कृष्णयोषितः॥७॥

रुक्मिणी चैव तं दृष्ट्वा शोकार्ता पुत्रगर्द्धिनी ।
सपत्नीशतसङ्कीर्णा सबाष्पा वाक्यमब्रवीत्॥८॥

यादृक्स्वप्नो मया दृष्टो निशायां यौवने गते ।
कंसारिणा ममानीय दत्तं साहारपल्लवम्॥९॥

शशिरश्मिप्रतीकाशं मुक्तादामविभूषितम् ।
केशवेनाङ्कमारोप्य मम कण्ठे न्यबध्यत॥१०॥

श्यामा सुचारुकेशा स्त्री शुक्लाम्बरविभूषिता ।
पद्महस्ता निरीक्षन्ती प्रविष्टा मम वेश्मनि॥११॥

तथा पुनरहं गृह्य स्नापिता रुचिराम्बुना ।
कुशेशयमयीं मालां स्त्री सङ्गृह्याथ पाणिना॥१२॥

मम मूर्धन्युपाघ्राय दत्ता स्वच्छा तया मम ।
एवं स्वप्नान्कीर्तयन्ती रुक्मिणी हृष्टमानसा॥१३॥

सखीजनवृता देवी कुमारं वीक्ष्य तं मुहुः ।
धन्यायाः खल्वयं पुत्रो दीर्घायुः प्रियदर्शनः॥१४॥

ईदृशः कामसङ्काशो यौवने प्रथमे स्थितः ।
जीवपुत्रा त्वया पुत्र कासौ भाग्यसमन्विता॥१५॥

किमर्थं चाम्बुदश्यामः सभार्यस्त्वमिहागतः ।
अस्मिन्वयसि सुव्यक्तं प्रद्युम्नो मम पुत्रकः॥१६॥

भवेद्यदि न नीतः स्यात्कृतान्तेन बलीयसा ।
व्यक्तं कृष्णकुमारस्त्वं न मिथ्या मम तर्कितम्॥१७॥

विज्ञातोऽसि मया चिह्नैर्विना चक्रं जनार्दनः ।
मुखं नारायणस्येव केशाः केशान्त एव च॥१८॥

ऊरू वक्षो भुजौ तुल्यौ हलिनः श्वशुरस्य मे ।
कस्त्वं वृष्णिकुलं सर्वं द्योतयन्वपुषा स्थितः॥१९॥

अहो नारायणस्येव दिव्या ते परमा तनुः ।
एतस्मिन्नन्तेरे कृष्णः सहसा प्रविवेश ह ।
नारदस्य वचः श्रुत्वा शम्बरस्य वधं प्रति॥२०॥

सोऽपश्यत्तं सुतं ज्येष्ठं सिद्धं मन्मथलक्षणैः ।
स्नुषां मायावतीं चैव हृष्टचेता जनार्दनः ।
सोऽब्रवीत्सहसा देवीं रुक्मिणीं देवतामिव॥२१॥

कृष्ण उवाच अयं स देवि सम्प्राप्तः सुतश्चापधरस्तव॥२२॥

अनेन शम्बरं हत्वा मायायुद्धविशारदम् ।
हता मायासुताः सर्वा याभिर्देवानबाधयत्॥२३॥

सती चेयं शुभा साध्वी भार्या वै तनयस्य ते ।
मायावतीति विख्याता शम्बरस्य गृहोषिता॥२४॥

मा च ते शम्बरस्येयं पत्नीति भवतु व्यथा ।
मन्मथे तु गते नाशं गते चानङ्गतां पुरा॥२५॥

कामपत्नी न कान्तैषा शम्बरस्य रतिप्रिया ।
मायारूपेण तं दैत्यं मोहयत्यसकृच्छुभा॥२६॥

न चैषा तस्य कौमारे वशे तिष्ठति शोभना ।
आत्ममायामयं कृत्वा रूपं शम्बरमाविशत्॥२७॥

पत्न्येषा मम पुत्रस्य स्नुषा तव वराङ्गना ।
लोककान्तस्या साहाय्यं करिष्यति मनोमयम्॥२८॥

प्रवेशयैनां भवनं पूज्यां ज्येष्ठां स्नुषां मम ।
चिरं प्रनष्टं च सुतं भजस्व पुनरागतम्॥२९॥

वैशम्पायन उवाच। श्रुत्वा तु वचनं देवी कृष्णेनोदाहृतं तदा ।
प्रहर्शमतुलं लब्ध्वा रुक्मिणी वाक्यमब्रवीत्॥३०॥

अहो धन्यतरास्मीति वीरपुत्रसमागमात् ।
अद्य मे सफलः कामः पूर्णो मेऽद्य मनोरथः॥३१॥

चिरप्रनष्टपुत्रस्य दर्शनं प्रियया सह ।
आगच्छ पुत्र भवनं सभार्यः प्रविवेश च॥३२॥

ततोऽभिवाद्य चरणौ गोविन्दं मातरं च ताम् ।
प्रद्युम्नः पूजयामास हलिनं च महाबलम्॥३३॥

उत्थाप्य तं परिष्वज्य मूर्ध्न्युपाघ्राय वीर्यवान् ।
प्रद्युम्नं बलिनां श्रेष्ठं केशवः परवीरहा॥३४॥

स्नुषां चोत्थाप्य तां देवीं रुक्मिणी रुक्मभूषणा ।
परिष्वज्योपसङ्गृह्य स्नेहाद्गद्गदभाषिणी॥३५॥

समेत्य भवनं पत्न्या शचीन्द्रमदितिर्यथा ।
प्रवेशयामास तदा रुक्मिणी सुतमागतम्॥३६॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि प्रद्युम्नागमने अष्टाधिकशततमोऽध्यायः॥१०८॥
बलदेवाह्निकम्-१०९

वैशम्पायन उवाच। अत्राश्चर्यात्मकं स्तोत्रमाह्निकं जयतां वर ।
प्रद्युम्ने द्वारकां प्राप्ते हत्वा तं कालशम्बरम्॥१॥

अत्राश्चर्येति॥१॥

बलदेवेन रक्षार्थं प्रोक्तमाह्निकमुच्यते ।
यज्जप्त्वा तु नृपश्रेष्ठ सायं पूतात्मतां व्रजेत्॥२॥

कीर्तितं बलदेवेन विष्णुना चैव कीर्तितम् ।
धर्मकामैश्च मुनिभिर्ऋषिभिश्चापि कीर्तितम्॥३॥

कर्हिचिद्रुक्मिणीपुत्रो हलिना संयुतो गृहे ।
उपविष्टः प्रणम्याथ तमुवाच कृताञ्जलिः॥४॥

प्रद्युम्न उवाच। कृष्णानुज महाभाग रोहिणीतनय प्रभो ।
किञ्चित्स्तोत्रं मम ब्रूहि यज्जप्त्वा निर्भयोऽभवम्॥५॥

बलदेव उवाच। सुरासुरगुरुर्ब्रह्मा पातु मां जगतः पतिः ।
अथोङ्कारवषट्कारौ सावित्री विधयस्त्रयः॥६॥

विधयस्त्रयः अपूर्वविधिर्नियमविधिः परिसङ्ख्याविधिश्चेति मीमांसकप्रसिद्धाः॥६॥

ऋचो यजूंषि सामानि छन्दांस्याथर्वणानि च ।
चत्वारस्त्वखिला वेदाः सरहस्याः सविस्तराः॥७॥

ऋच इत्युगाद्याभिमानिनी देवता लक्ष्यते॥७॥

पुराणमितिहासाश्चाखिलान्युपखिलानि च ।
अङ्गान्युपाङ्गानि तथा व्याख्यातानि च पान्तु माम्॥८॥

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
इन्द्रियाणि मनो बुद्धिस्तथा सत्त्वं रजस्तमः॥९॥

व्यानोदानौ समानश्च प्राणोऽपानश्च पञ्चमः ।
वायवः सप्त चैवान्ये येष्वायत्तमिदं जगत्॥१०॥

सप्त वायवः “आवहः प्रवहश्चैव उद्वहः संवहस्तथा। विवहः प्रण्वहश्चैव तथा परिवहोऽनिलः॥” इत्यन्यत्र प्रोक्ताः॥१०॥

मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः ।
भृगुर्वसिष्ठो भगवान्पान्तु ते मां महर्षयः॥११॥

कश्यपाद्याश्च मुनयश्चतुर्दश दिशो दश ।
नरनारायणौ देवौ सगणौ पान्तु मां सदा॥१२॥

रुद्राश्चैकादश प्रोक्ता आदित्या द्वादशैव तु ।
अष्टौ च वसवो देवा अश्विनौ द्वौ प्रकीर्तितौ॥१३॥

ह्रीः श्रीर्लक्ष्मीः स्वधा पुष्टिर्मेधा तुष्टिः स्मृतिर्धृतिः ।
अदितिर्दितिर्दनुश्चैव सिंहिका दैत्यमातरः॥१४॥

हिमवान्हेमकूटश्च निषधः श्वेतपर्वतः ।
ऋषभः पारियात्रश्च विन्ध्यो वैडूर्यपर्वतः॥१५॥

सह्योदयश्च मलयो मेरुमन्दरदर्दुराः ।
क्रौञ्चकैलासमैनाकाः पान्तु मां धरणीधराः॥१६॥

शेषश्च वासुकिश्चैव विशालाक्षश्च तक्षकः ।
एलापत्रः शुक्लवर्णः कम्बलाश्वतरावुभौ॥१७॥

हस्तिभद्रः पिटरकः कर्कोटकधनञ्जयौ ।
तथा पूरणकश्चैव नागश्च करवीरकः॥१८॥

सुमनास्यो दधिमुखस्तथा शृङ्गारपिण्डकः ।
मणिनागश्च भगवांस्त्रिषु लोकेषु विश्रुतः॥१९॥

नागराडधिकर्णश्च तथा हारिद्रकोऽपरः ।
एते चान्ये च बहवो ये चान्ये नानुकीर्तिताः॥२०॥

भूधराः सत्यधर्माणः पान्तु मां भुजगेश्वराः ।
समुद्राः पान्तु चत्वारो गङ्गा च सरितां वरा॥२१॥

सरस्वती चन्द्रभागा शतद्रुर्देविका शिवा ।
द्वारावती विपाशा च शरयूर्यमुना तथा॥२२॥

कल्माशी च रथोष्मा च बाहुदा च हिरण्यदा ।
प्लक्षा चेक्षुमती चैव स्रवन्ती च बृहद्रथा॥२३॥

ख्याता चर्मण्वती चैव पुण्या चैव वधूसरा ।
एताश्चान्याश्च सरितो याश्चान्या नानुकीर्तिताः॥२४॥

उत्तरापथगामिन्यः सलिलैः स्नपयन्तु माम् ।
वेणी गोदावरी सीता कावेरी कौङ्कणावती॥२५॥

कृष्णा वेणा मुक्तिमती तमसा पुष्पवाहिनी ।
ताम्रपर्णी ज्योतिरथा उत्फलोदुम्बरावती॥२६॥

नदी वैतरणी पुण्या विदर्भा नर्मदा शुभा ।
वितस्ता भीमरथ्या च ऐला चैव महानदी॥२७॥

कालिन्दी गोमती पुण्या नदः शोणश्च विश्रुतः ।
एताश्चन्याश्च वै नद्यो याश्चान्या न तु कीर्तिताः॥२८॥

दक्षिणापथवाहिन्यः सलिलैः स्नपयन्तु माम् ।
क्षिप्रा चर्मण्वती पुण्या मही शुभ्रवती तथा॥२९॥

सिन्धुर्वेत्रवती चैव भोजान्ता वनमालिका ।
पूर्वभद्रा पराभद्रा ऊर्मिला च परद्रुमा॥३०॥

ख्याता वेत्रवती चैव चापदासीति विश्रुता ।
प्रस्थावती कुण्डनदी नदी पुण्या सरस्वती॥३१॥

चित्रघ्नी चेन्दुमाला च तथा मधुमती नदी ।
उमा गुरुनदी चैव तापी च विमलोदका॥३२॥

विमला विमलोदा च मत्तगङ्गा पयस्विनी ।
एताश्चान्याश्च वै नद्यो याश्चान्या नानुकीर्तिताः॥३३॥

ता मां समभिषिञ्चन्तु पश्चिमामाश्रिता दिशम् ।
भागीरथी पुण्यजला प्राच्यां दिशि समाश्रिता॥३४॥

सा तु दहतु मे पापं कीर्तिता शम्भुना धृता ।
प्रभासं च प्रयागं च नैमिषं पुष्कराणि च॥३५॥

गङ्गातीर्थं कुरुक्षेत्रं श्रीकण्ठं गौतमाश्रमम् ।
रामह्रदं विनशनं रामतीर्थं तथैव च॥३६॥

गङ्गाद्वारं कनखलं सोमो वै यत्र चोत्थितः ।
कपालमोचनं तीर्थं जम्बूमार्गं च विश्रुतम्॥३७॥

सुवर्णबिन्दु विख्यातं तथा कनकपिङ्गलम् ।
दशाश्वमेधिकं चैव पुण्याश्रमविभूषितम्॥३८॥

बदरी चैव विख्याता नरनारायणाश्रमः ।
विख्यातं फल्गुतीर्थं च तीर्थं चन्द्रवटं तथा॥३९॥

कोकामुखं पुण्यतमं गङ्गासागरमेव च ।
मगधेषु तपोदश्च गङ्गोद्भेदश्च विश्रुतः॥४०॥

तीर्थान्येतानि पुण्यानि सेवितानि महर्षिभिः ।
सूकरं योगमार्गं च श्वेतद्वीपं तथैव च॥४१॥

ब्रह्मतीर्थं रामतीर्थं वाजिमेधशतोपमम् ।
धारासम्पातसंयुक्ता गङ्गा किल्बिषनाशिनी॥४२॥

गङ्गा वैकुण्ठकेदारं सूकरोद्भेदनं परम् ।
तं शापमोचनं तीर्थं पुनन्त्वेतानि किल्बिषात्॥४३॥

मां प्लावयन्तु सलिलैः कीर्तिताकीर्तितानि वै ।
धर्मार्थकामविषयो यशःप्राप्तिः शमो दमः ।
वरुणेशोऽथ धनदो यमो नियम एव च॥४४॥

कालो नयः सन्नतिश्च क्रोधो मोहः क्षमा धृतिः ।
विद्युतोऽभ्राण्यथौषध्यः प्रमादोन्मादविग्रहाः॥४५॥

यक्षाः पिशाचा गन्धर्वाः किन्नराः सिद्धचारणाः ।
नक्तञ्चराः खेचरिणो दंष्ट्रिणः प्रियविग्रहाः॥४६॥

लम्बोदराश्च बलिनः पिङ्गाक्षा विश्वरूपिणः ।
मरुतः सह पर्जन्याः कलात्रुटिलवाः क्षणाः॥४७॥

नक्षत्राणि ग्रहाश्चैव ऋतवः शिशिरादयः ।
मासाहोरात्रयश्चैव सूर्याचन्द्रमसौ तथा॥४८॥

आमोदश्च प्रमोदश्च प्रहर्षः शोक एव च ।
रजस्तमस्तपः सत्यं शुद्धिर्बुद्धिर्धृतिः श्रुतिः॥४९॥

रुद्राणी भद्रकाली च भद्रा ज्येष्ठा तु वारुणी ।
भासी च कालिका चैव शाण्डिली चेति विश्रुताः॥५०॥

आर्या कुहूः सिनीवाली भीमा चित्ररथी रतिः ।
एकानंशा च कूष्माण्डी देवी कात्यायनी च या॥५१॥

लोहित्या जनमाता च देवकन्यास्तु याः स्मृताः ।
गोनन्दा देवपत्नी च मां रक्षन्तु सबान्धवम्॥५२॥

नानाभरणवेशाश्च नानारूपाङ्किताननाः ।
नानादेशविचारिण्यो नानाशस्त्रोपशोभिताः॥५३॥

मेदोमज्जाप्रियाश्चैव मद्यमांसवसाप्रियाः ।
मार्जारद्वीपिवक्त्राश्च गजसिंहनिभाननाः॥५४॥

कङ्कवायसगृध्राणां क्रौञ्चतुल्याननास्तथा ।
व्यालयज्ञोपवीताश्च चर्मप्रावरणास्तथा॥५५॥

क्षतजोक्षितवक्त्राश्च खरभेरीसमस्वनाः ।
मत्सराः क्रोधनाश्चैव प्रासादा रुचिरालयाः॥५६॥

मत्तोन्मत्तप्रमत्ताश्च प्रहरन्त्यश्च धिष्ठिताः ।
पिङ्गाक्षाः पिङ्गकेशाश्च ततोऽन्या लूनमूर्धजाः॥५७॥

ऊर्ध्वकेश्यः कृष्णकेश्यः श्वेतकेश्यस्तथा वराः ।
नागायुतबलाश्चैव वायुवेगास्तथापराः॥५८॥

एकहस्ता एकपादा एकाक्षाः पिङ्गला मताः ।
बहुपुत्राल्पपुत्राश्च द्विपुत्राः पुत्रमण्डिकाः॥५९॥

मुखमण्डी बिडाली च पूतना गन्धपूतना ।
शीतवातोष्णवेताली रेवती गृहसंज्ञिताः॥६०॥

प्रियहास्याः प्रियक्रोधाः प्रियवासाः प्रियंवदाः ।
सुखप्रदाश्चासुखदाः सदा द्विजजनप्रियाः॥६१॥

नक्तञ्चराः सुखोदर्काः सदा पर्वणि दारुणाः ।
मातरो मातृवत्पुत्रं रक्षन्तु मम नित्यशः॥६२॥

पितामहमुखोद्भूता रौद्रा रुद्राङ्गसम्भवाः ।
कुमारस्वेदजाश्चैव ज्वरा वै वैष्णवादयः॥६३॥

महाभीमा महावीर्या दर्पोद्भूता महाबलाः ।
क्रोधनाक्रोधनाः क्रूराः सुरविग्रहकारिणः॥६४॥

नक्तञ्चराः केसरिणो दंष्ट्रिणः प्रियविग्रहाः ।
लम्बोदरा जघनिनः पिङ्गाक्षा विश्वरूपिणः॥६५॥

शक्त्यृष्टिशूलपरिघप्रासचर्मासिपाणयः ।
पिनाकवज्रमुसलब्रह्मदण्डायुधप्रियाः॥६६॥

दण्डिनः कुण्डिनः शूरा जटामुकुटधारिणः ।
वेदवेदाङ्गकुशला नित्ययज्ञोपवीतिनः॥६७॥

व्यालापीडाः कुण्डलिनो वीराः केयूरधारिणः ।
नानावसनसंवीताश्चित्रमाल्यानुलेपनाः॥६८॥

गजाश्वोष्ट्रर्क्षमार्जारसिंहव्याघ्रनिभाननाः ।
वराहोलूकगोमायुमृगाखुमहिषाननाः॥६९॥

वामना विकटाः कुब्जाः कराला लूनमूर्धजाः ।
सहस्रशतशश्चान्ये सहस्रजटधारिणः॥७०॥

श्वेताः कैलाससङ्काशाः केचिद्दिनकरप्रभाः ।
केचिज्जलदवर्णाभा नीलाञ्जनचयोपमाः॥७१॥

एकपादा द्विपादाश्च तथा द्विशिरसोऽपरे ।
निर्मांसाः स्थूलजङ्घाश्च व्यादितास्या भयङ्कराः॥७२॥

वापीतडागकूपेषु समुद्रेषु सरित्सु च ।
श्मशानशैलवृक्षेषु शून्यागारनिवासिनः॥७३॥

एते ग्रहाश्च सततं रक्षन्तु मम सर्वतः ।
महागणपतिर्नन्दी महाकालो महाबलः ।
माहेश्वरो वैष्णवश्च ज्वरौ लोकभयावहौ॥७४॥

ग्रामणीश्चैव गोपालो भृङ्गरीटिर्गणेश्वरः ।
देवश्च वामदेवश्च घण्टाकर्णः करन्धमः॥७५॥

श्वेतमोदः कपाली च जम्भकः शत्रुतापनः ।
मज्जनोन्मज्जनौ चोभौ सन्तापनविलापनौ॥७६॥

निजघासो घसश्चैव स्थूणाकर्णः प्रशोषणः ।
उल्कामाली धमधमो ज्वालामाली प्रदर्शनः॥७७॥

सङ्घट्टनः सङ्कुटनः काष्ठभूतः शिवङ्करः ।
कूष्माण्डः कुम्भमूर्धा च रोचनो वैकृतो ग्रहः॥७८॥

अनिकेतः सुरारिघ्नः शिवश्चाशिव एव च ।
क्षेमकः पिशिताशी च सुरारिर्हरिलोचनः॥७९॥

भीमको ग्राहकश्चैव तथैवाग्रमयो ग्रहः ।
उपग्रहोऽर्यकश्चैव तथा स्कन्दग्रहोऽपरः॥८०॥

चपलोऽसमवेतालस्तासमः सुमहाकपिः ।
हृदयोद्वर्तनश्चैडः कुण्डाशी कङ्कणप्रियः॥८१॥

हरिश्मश्रुर्गरुत्मन्तो मनोमारुतरंहसः ।
पार्वत्या रोषसम्भूताः सहस्राणि शतानि च॥८२॥

शक्तिमन्तो धृतिमन्तो ब्रह्मण्याः सत्यसङ्गराः ।
सर्वकामापहन्तारो द्विषतां च मृधे मृधे॥८३॥

रात्रावहनि दुर्गेषु कीर्तिताः सकलैर्गुणैः ।
तेषां गणानां पतयः सगणाः पान्तु मां सदा॥८४॥

नारदः पर्वतश्चैव गन्धर्वाप्सरसां गणाः ।
पितरः कारणं कार्यमाधयो व्याधयस्तथा॥८५॥

अगस्त्यो गालवो गार्ग्यः शक्तिधौम्यः पराशरः ।
कृष्णात्रेयश्च भगवानसितो देवलो बलः॥८६॥

बृहस्पतिरुतथ्यश्च मार्कण्डेयः श्रुतश्रवाः ।
द्वैपायनो विदर्भश्च जैमिनिर्माठरः कठः॥८७॥

विश्वामित्रो वसिष्ठश्च लोमशश्च महामुनिः ।
उत्तङ्कश्चैव रैभ्यश्च पौलोमश्च द्वितस्त्रितः॥८८॥

ऋषिर्वै कालवृक्षीयो मुनिमेधातिथिस्तथा ।
सारस्वतो यवक्रीतिः कुशिको गौतमस्तथा॥८९॥

संवर्त ऋश्यशृङ्गश्च स्वस्त्यात्रेयो विभाण्डकः ।
ऋचीको जमदग्निश्च तथोर्वस्तपसां निधिः॥९०॥

भरध्वाजः स्थूलशिराः कश्यपः पुलहः क्रतुः ।
बृहदग्निर्हरिश्मश्रुर्विजयः कण्व एव च॥९१॥

वैतण्डी दीर्घतापश्च वेदगार्थोंऽशुमाञ्च्छिवः ।
अष्टावक्रो दधीचिश्च श्वेतकेतुस्तथैव च॥९२॥

उद्दालकः क्षीरपाणिः शृङ्गी गौरमुखस्तथा ।
अग्निवेश्यः शमीकश्च प्रमुचुर्मुमुचुस्तथा॥९३॥

एते चान्ये च ऋषयः बहवः शंसितव्रताः ।
मुनयः शंसितात्मानो ये चान्ये नानुकीर्तिताः॥९४॥

क्रतवः शाधिनः शान्ताः शान्तिं कुर्वन्तु मे सदा ।
त्रयोऽग्नयस्त्रयो वेदास्त्रैविद्याः कौस्तुभो मणिः॥९५॥

उच्चैःश्रवा हयः श्रीमान्वैद्यो धन्वन्तरिर्हरिः ।
अमृतं गौः सुपर्णश्च दधिगौराश्च सर्षपाः॥९६॥

शुक्लाः सुमनसः कन्याः श्वेतच्छत्रं यवाक्षताः ।
दूर्वा हिरण्यं गन्धाश्च वालव्यजनमेव च॥९७॥

तथाप्रतिहतं चक्रं महोक्षश्चन्दनं विषम् ।
श्वेतो वृषःकरी मत्तः सिंहो व्याघ्रो हयो गिरिः॥९८॥

पृथिवी चोद्धृता लाजा ब्राह्मणा मधु पायसम् ।
स्वस्तिको वर्धमानश्च नन्द्यावर्तः प्रियङ्गवः ।
श्रीफलं गोमयं मत्स्यो दुन्दुभिः पटहस्वनः॥९९॥

ऋषिपत्न्यश्च कन्याश्च श्रीमद्भद्रासनं धनुः ।
रोचना रुचकश्चैव नदीनां सङ्गमोदकम्॥१००॥

सुपर्णाः शतपत्राश्च चकोरा जीवजीवकाः ।
नन्दीमुखो मयूरश्च बद्धमुक्तामणिध्वजाः॥१०१॥

आयुधानि प्रशस्तानि कार्यसिद्धिकराणि च ।
पुण्यं वै विगतक्लेशं श्रीमद्वै मङ्गलान्वितम्॥१०२॥

रामेणोदाहृतं पूर्वमायुः श्रीजयकाङ्क्षिणा ।
य इदं श्रावयेद्विद्वांस्तथैव शृणुयान्नरः॥१०३॥

मङ्गलाष्टशतं स्नातो जपन्पर्वणि पर्वणि ।
वधबन्धपरिक्लेशं व्याधिशोकपराभवम्॥१०४॥

मङ्गलाष्टशतम् अष्टौ शतानि मङ्लवस्तुनामधेयानि॥१०४॥

न च प्राप्नोति वैकल्यं परत्रेह च शर्मदम् ।
धन्यं यशस्यमायुष्यं पवित्रं वेदसंमितम्॥१०५॥

श्रीमत्स्वर्ग्यं सदा पुण्यमपत्यजननं शिवम् ।
शुभं क्षेमकरं नॄणां मेधाजननमुत्तमम्॥१०६॥

सर्वरोगप्रशमनं स्वकीर्तिकुलवर्धनम् ।
श्रद्दधानो दयोपेतो यः पठेदात्मवान्नरः ।
सर्वपापविशुद्धात्मा लभते च शुभां गतिम्॥१०७॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि बलदेवाह्निकं नाम नवाधिकशततमोऽध्यायः॥१०९॥
धन्योपाख्यानम्-११०

वैशम्पायन उवाच। हृतो यदैव प्रद्युम्नः शम्बरेणात्मघातिना ।
मासेऽस्मिन्नेव साम्बस्तु जाम्बवत्यामजायत॥१॥

हृत इति॥१॥

बाल्यात्प्रभृति रामेण शस्त्रेषु विनियोजितः ।
रामादनन्तरश्चैव मानितः सर्ववृष्णिभिः॥२॥

अनन्तरः अनूनः॥२॥

जातमात्रे ततः कृष्णः शुभां तामवसत्पुरीम् ।
निहतामित्रसामन्तः शक्रोद्यानं यथामरः॥३॥

यादवीं च श्रियं दृष्ट्वा स्वां श्रियं द्वेष्टि वासवः ।
जनार्दनभयाच्चैव न शान्तिं लेभिरे नृपाः॥४॥

कस्यचित्त्वथ कालस्य पुरे वारणसाह्वये ।
दुर्योधनस्य यज्ञे वै समीयुः सर्वपार्थिवाः॥५॥

तां श्रुत्वा माधवीं लक्ष्मीं सपुत्रं च जनार्दनम् ।
पुरीं द्वारवतीं चैव निविष्टां सागरान्तरे॥६॥

दूतैस्तैः कृतसन्धानाः पृथिव्यां सर्वपार्थिवाः ।
श्रियं द्रश्टुं हृषीकेशमाजग्मुः कृष्णमन्दिरम्॥७॥

दुर्योधनमुखाः सर्वे धृतराष्ट्रवशानुगाः ।
पाण्दवप्रमुखाश्चैव धृष्टद्युम्नादयो नृपाः॥८॥

पाण्ड्याश्चोलकलिङ्गेशा बाह्लीका द्राविडाः खशाः ।
अक्षौहिणीः प्रकर्षन्तो दश चाष्टौ च भूमिपाः॥९॥

आजग्मुर्यादवपुरीं गोविन्दभुजपालिताम् ।
ते पर्वतं रैवतकं परिवार्यावनीश्वराः॥१०॥

विविशुर्योजनाख्यासु स्वासु स्वासु च भूमिषु ।
ततः श्रीमान्हृषीकेशः सह यादवपुङ्गवैः॥११॥

योजनाख्यासु बहूनां सैनिकानां प्रधानराज्ञैकदेशेनामुकदेशीयेन स्थातव्यमित्येवंरूपा सुव्यवस्था योजनास्तदाख्यासु॥११॥

समीपं मानवेन्द्राणां निर्ययौ कमलेक्षणाः ।
स तेषां नरदेवानां मध्यस्थो मधुसूदनः॥१२॥

व्यराजत यदुश्रेष्ठः शरदीव दिवाकरः ।
स तत्र समुदाचारं यथास्थानं यथावयः॥१३॥

समुदाचारं वन्दनादिरूपं शिष्टाचारम्॥१३॥

कृत्वा सिंहासने कृष्णः काञ्चने निषसाद ह ।
राजानोऽपि यथास्थानं निषेदुर्विविधेष्वथ॥१४॥

सिंहासनेषु चित्रेषु पीठेषु च नराधिपाः ।
स यादवनरेन्द्राणां समाजः शुशुभे तदा॥१५॥

सुराणामसुराणां च सदसि ब्रह्मणो यथा ।
तेषां चित्राः कथास्तत्र प्रवृत्तास्तत्समागमे ।
यदूनां पार्थिवानां च केशवस्योपशृण्वतः॥१६॥

एतस्मिन्नन्तरे वायुर्ववौ मेघरवोपमः ।
तुमुलं दुर्दिनं चासीत्सविद्युत्स्तनयित्नुमत्॥१७॥

तद्दुर्दिनतलं भित्त्वा नारदः प्रत्यदृश्यत ।
संवेष्टितजटाभारो वीणासक्तेन बाहुना॥१८॥

स पपात नरेन्द्राणां मध्ये सागरसन्निभः ।
नारदोऽग्निशिखाकारः श्रीमाञ्छक्रसखो मुनिः॥१९॥

तस्मिन्निपतिते भूमौ नारदे मुनिपुङ्गवे ।
तदद्भुतं महामेघं व्यपाकृष्यत दुर्दिनम्॥२०॥

सोऽवगाह्य नरेन्द्राणां मध्ये सागरसन्निभः ।
आसनस्थं यदुश्रेष्ठमुवाच मुनिरव्ययम्॥२१॥

आश्चर्यं खलु देवानामेकस्त्वं पुरुषोत्तमः ।
धन्यश्चासि महाबाहो लोके नान्योऽस्ति कश्चन॥२२॥

एवमुक्तः स्मितं कृत्वा प्रत्युवाच मुनिं प्रभुः ।
आश्चर्यश्चैव धन्यश्च दक्षिणाभिः सहेत्यहम्॥२३॥

एवमुक्तो मुनिश्रेष्ठः प्राह मध्ये महीभृताम् ।
कृष्ण पर्याप्तवाक्योऽस्मि गमिश्यामि यथागतम्॥२४॥

तं प्रस्थितमभिप्रेक्ष्य पार्थिवाः प्राहुरीश्वरम् ।
गुह्यं मन्त्रमजानन्तो वचनं नारदेरितम्॥२५॥

आश्चर्यमित्यभिहितं धन्योऽसीति च माधव ।
दक्षिणाभिः सहेत्येवं प्रयुक्तेऽपि च नारदे॥२६॥

अत्र कूर्मादिक्रमेण आश्चर्यत्वधन्यत्वयोः परा काष्ठा कृष्ण इति नारदमुखात्तस्य ज्ञानं दक्षिणाभिः सहेति वासुदेवस्य प्रत्युत्तरं ये विपुलदक्षिणैर्यज्ञैरीश्वरं मां यजन्ते त एव मय्याश्चर्यत्वधन्यत्वयोः विश्रान्तिं जानन्तीति॥२६॥

किमेतन्नाभिजानीमो दिव्यं मन्त्रपदं महत् ।
यदि श्राव्यमिदं कृष्ण श्रोतुमिच्छाम तत्त्वतः॥२७॥

तानुवाच ततः कृष्णः सर्वान्पार्थिवपुङ्गवान् ।
श्रोतव्यं नारदस्त्वेष द्विजो वः कथयिष्यति॥२८॥

ब्रूहि नारद तत्त्वार्थं श्रोतुकामा महीभुजः ।
यत्त्वयाभिहितं वाक्यं मया नु प्रतिभाषितम्॥२९॥

स पीठे काञ्चने शुभ्रे सूपविष्टः स्वलङ्कृतः ।
प्रभावं तस्य वन्द्यस्य प्रवक्तुमुपचक्रमे॥३०॥

नारद उवाच। श्रूयतां भो नृपश्रेष्ठा यावन्तः स्थ समागताः ।
अस्य कृष्णस्य महतो यथा पारमहं गतः॥३१॥

अहं कदाचिद्गङ्गायास्तीरे त्रिषवणातिथिः ।
चराम्येकः क्षपापाये दृश्यमाने दिवाकरे॥३२॥

अपश्यं गिरिकूटाभं कपालद्वयदेहिनम् ।
क्रोशमण्डलविस्तारं तावद्द्विगुणमायतम्॥३३॥

चतुश्चरणसुश्लिष्टं क्लिन्नं चैव सपाङ्किलम् ।
मम वीणाकृतिं कूर्मं गजचर्मचयोपमम्॥३४॥

सोऽहं तं पाणिना स्पृष्ट्वा प्रोक्तवाञ्जलचारिणम् ।
त्वमाश्चर्यशरीरोऽसि कूर्म धन्योऽसि मे मतः॥३५॥

यस्त्वमेवमभेद्याभ्यां कपालाभ्यां समावृतः ।
तोये चरसि निःशङ्कः किञ्चिदन्यमचिन्तयन्॥३६॥

स मामुवाचाम्बुचरः कूर्मो मानुषवत्स्वयम् ।
किमाश्चर्यं मयि मुने धन्यश्चाहं कथं विभो॥३७॥

गङ्गेयं निम्नगा धन्या किमाश्चर्यमतः परम् ।
यत्राहमिव सत्त्वानि चरन्त्ययुतशो द्विज॥३८॥

सोऽहं कुतूहलाविष्टो नदीं गङ्गामुपस्थितः ।
धन्यासि त्वं सरिच्छ्रेष्ठे नित्यमाश्चर्यभूषिता॥३९॥

या त्वमेव महादेहैः श्वापदैरुपशोभिता ।
ह्रदिनी सागरं यासि रक्षन्ती तापसालयान्॥४०॥

एवमुक्ता ततो गङ्गा रूपिणी प्रत्यभाषत ।
नारदं देवगन्धर्वं शक्रस्य दयितं द्विजम्॥४१॥

मा मैवं देवगन्धर्व सङ्ग्रामकलहप्रिय ।
नाहं धन्या द्विजश्रेष्ठ नैवाश्चर्योपशोभिता॥४२॥

तव सत्ये निविष्टस्य वाक्यं मां प्रतिबाधते ।
सर्वाश्चर्यकरो लोके धन्यश्चैवार्णावो द्विजः॥४३॥

यत्राहमिव विस्तीर्णाः शतशो यान्ति निम्नगाः ।
सोऽहं त्रिपथगावाक्यं श्रुत्वार्णवमुपस्थितः॥४४॥

आश्चर्यं खलु लोकानां धन्यश्चासि महार्णव ।
येन खल्वसि योनिस्त्वमम्भसां सलिलेश्वरः॥४५॥

स्थाने त्वां वारिवाहिन्यः सरितो लोकपावनाः ।
इमाः समभिगच्छन्ति पत्न्यो लोकनमस्कृताः॥४६॥

समुद्रस्त्वेवमुक्तस्तु ततो मामवदद्वचः ।
स्वं जलौघतलं भित्त्वा व्युत्थितः पवनेरितः॥४७॥

मा मैवं देवगन्धर्व नास्म्याश्चर्यो द्विजर्षभ ।
वसुधेयं मुने धन्या यन्नाहमुपरि स्थितः॥४८॥

ऋते तु पृथिवीं लोके किमाश्चर्यमतः परम् ।
सोऽहं सागरवाक्येन क्षितिं क्षितितले स्थितः॥४९॥

कौतूहलसंविष्टो ह्यब्रुवं जगतो गतिम् ।
धरित्रि देहिनां योने धन्या खल्वसि शोभने॥५०॥

आश्चर्यं चापि भूतेषु महत्या क्षमया युते ।
तेन खल्वसि भूतानां धरणी मनुजारणिः॥५१॥

क्षमा त्वत्तः प्रभूता च कर्म चाम्बरगामिनाम् ।
ततो भूः स्तुतिवाक्येन सा मयोक्तेन तेजिता॥५२॥

तेजिता क्षोभिता॥५२॥

विहाय सहजं धैर्यं प्रत्यक्षा मामभाषत ।
देवगन्धर्व मा मैव सङ्ग्रामकलहप्रिय॥५३॥

नास्मि धन्या न चाश्चर्यं पारक्येयं धृतिर्मम ।
एते धन्या द्विजश्रेष्ठ पर्वता धारयन्ति माम्॥५४॥

पारक्या परकीया॥५४॥

आश्चर्याणि च दृष्यन्ते एते लोकस्य हेतवः ।
सोऽहं धरणिवाक्येन पर्वतान्समुपस्थितः॥५५॥

धन्या भवन्तो दृश्यन्ते बह्वाश्चर्याश्च भूधराः ।
काञ्चनस्याग्ररत्नस्य धातूनां च विशेषतः॥५६॥

तेन खल्वाकराः सर्वे भवन्तो भुवि शाश्वताः ।
ते ममैतद्वचः श्रुत्वा पर्वतास्तस्थुषां वराः॥५७॥

ऊचुर्मां सान्त्वयुक्तानि वचांसि वनशोभिताः ।
ब्रह्मर्षे न वयं धन्या नाप्याश्चर्याणि सन्ति नः ।
ब्रह्मा प्रजापतिर्धन्यः सर्वाश्चर्यः सुरेष्वपि॥५८॥

सोऽहं प्रजापतिं गत्वा सर्वप्रभवमव्ययम् ।
तस्य वाक्यस्य पर्यायपर्याप्तमिव लक्षये॥५९॥

सोऽहं पितामहं देवं लोकयोनिं चतुर्मुखम् ।
स्तोतुं पश्चादुपगतः प्रणतोऽवनताननः॥६०॥

सोऽहं वाक्यसमाप्त्यर्थं श्रावये पद्मयोनिजम् ।
आश्चर्यं भगवानेको धन्योऽसि जगतो गुरुः॥६१॥

न किञ्चिदन्यत्पश्यामि भूतं यद्भवता समम् ।
त्वत्तः सर्वमिदं जातं जगत्स्थावरजङ्गमम्॥६२॥

सदेवदानवा मर्त्या लोकभूतेन्द्रियात्मकाः ।
भवन्ति सर्वदेवेश दृष्ट्वा सर्वमिदं जगत्॥६३॥

तेन खल्वसि देवानां देवदेवः सनातनः ।
तेषामेवासि यत्स्रष्टा लोकानामादिसम्भवः॥६४॥

ततो मां प्राह भगवान्ब्रह्मा लोकपितामहः ।
धन्याश्चर्याश्रितैर्वाक्यैः किं मां नारद भाषसे॥६५॥

आश्चर्यं परमं वेदा धन्या वेदाश्च नारद ।
ये लोकान्धारयन्ति स्म वेदास्तत्त्वार्थदर्शिनः॥६६॥

ऋक्सामयजुषां सत्यमथर्वणी च यन्मतम् ।
तन्मयं विद्धि मां विप्र धृतोऽहं तैर्मया च ते॥६७॥

पारमेष्ठ्येन वाक्येन नोदितोऽहं स्वयम्भुवा ।
वेदोपस्थानिकां चक्रे मतिसंस्थानविस्तरात्॥६८॥

सोऽहं स्वयम्भूवचनाद्वेदान्वै समुपस्थितः ।
अवोचं तांश्च चतुरो मन्त्रप्रवचनान्वितान्॥६९॥

धन्या भवन्तः पुण्याश्च नित्यमाश्चर्यभूषिताः ।
आधारश्चैव विप्राणामेवमाह प्रजापतिः॥७०॥

स्वयम्भुवोऽपीह परं भवत्सु प्रश्नमागतम् ।
युष्मत्परतरं नास्ति श्रुत्या वा तपसापि वा॥७१॥

प्रत्यूचुस्ते ततो वाक्यं वेदा मामभितः स्थिताः ।
आश्चर्याश्चैव धन्याश्च यज्ञाश्चात्मपरायणाः॥७२॥

यज्ञार्थे च वयं सृष्टा धात्रा येन स्म नारद ।
तदस्माकं परो यज्ञो न वयं स्ववशे स्थिताः॥७३॥

स्वयम्भुवः परा वेदा वेदानां क्रतवः पराः ।
ततोऽहमब्रुवं यज्ञान्बृहद्वाग्भिः पुरस्कृतान्॥७४॥

भो यज्ञाः परमं तेजो युष्मासु खलु लक्ष्यते ।
ब्रह्मणाभिहितं वाक्यं यच्च वेदैरुदीरितम्॥७५॥

आश्चर्यमन्यल्लोकेऽस्मिन्भवद्भ्यो नाभिगम्यते ।
धन्याः खलु भवन्तो ये द्विजातीनां स्ववंशजाः॥७६॥

तेऽपि खल्वग्नयस्तृप्तिं युष्माभिर्यान्ति तर्पिताः ।
भागैश्च त्रिदशाः सर्वे मन्त्रैश्चैव महर्षयः॥७७॥

अग्निष्टोमादयो यज्ञा मम वाक्यादनन्तरम् ।
प्रत्यूचुर्मां ततो वाक्यं सर्वे यूपध्वजाः स्थिताः॥७८॥

आश्चर्यशब्दो नास्मासु धन्यशब्दोऽपि वा मुने ।
आश्चर्यं परमं विष्णुः स ह्यस्माकं परा गतिः॥७९॥

यदाज्यं वयमश्नीमो हुतमग्निषु पावनम् ।
तत्सर्वं पुण्डरीकाक्षो लोकमूर्तिः प्रयच्छति॥८०॥

सोऽहं विष्णोर्गतिं प्रेप्सुरिह सम्पतितो भुवि ।
दृष्टश्चायं मया कृष्णो भवद्भिरिह संवृतः॥८१॥

यन्मयाभिहितो ह्येष त्वमाश्चर्यं जनार्दन ।
धन्यश्चासीति भवतां मध्यस्थो ह्यत्र पार्थिवाः॥८२॥

प्रत्युक्तोऽहमनेनाद्य वाक्यस्यास्य यदुत्तरम् ।
दक्षिणाभिः सहेत्येवं पर्याप्तं वचनं मम॥८३॥

यज्ञानां हि गतिर्विष्णुः सर्वेषां सहदक्षिणः ।
दक्षिणाभिः सहेत्येवं प्रश्नो मम समाप्तवान्॥८४॥

कूर्मेणाभिहितं पूर्वं पारम्पर्यादिहागतम् ।
सदक्षिणोऽस्मिन्पुरुषे तद्वाक्यं प्रतिपादितम्॥८५॥

यन्मां भवन्तः पृच्छन्ति वाक्यस्यास्य विनिर्णयम् ।
तदेतत्सर्वमाख्यातं साधयामि यथागतम्॥८६॥

नारदे तु गते स्वर्गं सर्वे ते पृथिवीभुजः ।
विस्मीताः स्वानि राष्ट्राणि जग्मुः सबलवाहनाः॥८७॥

जनार्दनोऽपि सहितो यदुभिः पावकोपमैः ।
स्वमेव भवनं वीरो विवेश यदुनन्दनः॥८८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि धन्योपाख्यानं नाम दशाधिकशततमोऽध्यायः॥११०॥
वासुदेवमाहात्म्यम्-१११

जनमेजय उवाच। भूय एव महाबाहो कृष्णास्य जगतां पतेः ।
माहात्म्यं श्रोतुमिच्छामि परमं द्विजसत्तम॥१॥

भूय एवेति। पूर्वं धन्योपाख्याने यज्ञानामाश्चर्यभूतः कृष्ण इत्युक्तम्। इदानीं यज्ञभोक्तुः श्वेतद्वीपपतेरपि कृष्ण आश्चर्यभूत इत्युच्यत आख्यायिकामुखेन। तेन ‘कृष्णस्तु भगवान् स्वयम्’ इत्येतदुपपादितं भवति॥१॥

न हि मे तृप्तिरस्तीह शृण्वतस्तस्य धीमतः ।
कर्मणामनुसन्धानं पुराणस्य महात्मनः॥२॥

अनुसन्धानम् अनुक्रमम्॥२॥

वैशम्पायन उवाच नान्तः शक्यः प्रभावस्य वक्तुं वर्षशतैरपि ।
गोविन्दस्य महाराज श्रूयतामिदमद्भुतम्॥३॥

शरतल्पे शयानेन भीष्मेण परिचोदितः ।
गाण्डीवधन्वा बीभत्सुर्माहात्म्यं केशवस्य यत्॥४॥

राज्ञां मध्ये महाराज ज्येष्ठं भ्रातरमब्रवीत् ।
युधिष्ठिरं जितामित्रमिति तच्छृणु कौरव॥५॥

अर्जुन उवाच। पुराहं द्वारकां यातः सम्बन्धीनवलोककः ।
न्यवसं पूजितस्तत्र भोजवृष्ण्यन्धकोत्तमैः॥६॥

सम्बन्धीन् सम्बन्धिनः अवलोककः अवलोकयितुम्॥६॥

ततः कदाचिद्धर्मात्मा दीक्षितो मधुसूदनः ।
एकाहेन महाबाहुः शास्त्रदृष्टेन कर्मणा॥७॥

एकाहेन एकसुत्यावता सोमयागेन॥७॥

ततो दीक्षितमासीनमभिगम्य द्विजोत्तमः ।
कृष्णं विज्ञापयामास त्राहि त्राहीति चाब्रवीत्॥८॥

ब्राह्मण उवाच। रक्षाधिकारो भवतः परित्रायस्व मां विभो ।
चतुर्थांशं हि धर्मस्य रक्षिता लभते फलम्॥९॥

वासुदेव उवाच। न भेतव्यं द्विजश्रेष्ठ रक्षामि त्वां कुतो भयम् ।
ब्रूहि तत्त्वेन भद्रं ते यद्यपि स्यात्सुदुष्करम्॥१०॥

ब्राह्मण उवाच। जातो जातो महाबाहो पुत्रो मे ह्रियतेऽनघ ।
त्रयो हृताश्चतुर्थं त्वं कृष्ण रक्षितुमर्हसि॥११॥

ब्राह्मण्याः सूतिकालोऽद्य तत्र रक्षा विधीयताम् ।
यथा ध्रियेदपत्यं मे तथा कुरु जनार्दन॥१२॥

ध्रियेत् जीवेत्॥१२॥

अर्जुन उवाच। ततो मामाह गोविन्दो दीक्षितोऽहं क्रताविति ।
रक्षा च ब्राह्मणे कार्या सर्वावस्थागतैरपि॥१३॥

श्रुत्वाहमेवं कृष्णस्य वचोऽवोचं नराधिप ।
मां नियोजय गोविन्द रक्षिष्येऽहं द्विजं भयात्॥१४॥

इत्युक्तः स स्मितं कृत्वा मामुवाच जनार्दनः ।
रक्षसीत्येवमुक्तस्तु व्रीडितोऽस्मि नराधिप॥१५॥

रक्षसीति। काकूक्त्या न रक्षसीत्यभिप्राय उन्नेयः॥१५॥

ततो मां व्रीडितं मत्वा पुनराह जनार्दनः ।
गम्यतां कौरवश्रेष्ठ शक्यते यदि रक्षितुम्॥१६॥

त्वत्पुरोगाश्च रक्षन्तु वृष्ण्यन्धकमहारथाः ।
ऋते रामं महाबाहुं प्रद्युम्नं च महाबलम्॥१७॥

ततोऽहं वृष्णिसैन्येन महता परिवारितः ।
तमग्रतो द्विजं कृत्वा प्रयातः सह सेनया॥१८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये एकादशाधिकशततमोऽध्यायः॥१११॥
कृष्णस्योदीचीगमनम्-११२

अर्जुन उवाच। मुहूर्तेन वयं ग्रामं तं प्राप्य भरतर्षभ ।
विश्रान्तवाहनाः सर्वे निवासायोपसंस्थिताः॥१॥

मुहूर्तेनेति॥१॥

ततो ग्रामस्य मध्येऽहं निविष्टः कुरुनन्दन ।
समन्ताद्वृष्णिसैन्येन महता परिवारितः॥२॥

ततः शकुनयो दीप्ता मृगाश्च क्रूरभाषिणः ।
दीप्तायां दिशि वाशन्तो भयमावेदयन्ति मे॥३॥

सन्ध्यारागो जपावर्णो भानुमांश्चैव निष्प्रभः ।
पपात महती चोल्का पृथिवी चाप्यकम्पत॥४॥

जपावर्णः। “पौण्ड्रपुष्पे जपा मता” इति विश्वः। धूसराङ्कुरकुसुमवत् पीतवर्ण इत्यर्थः॥४॥

तान्समीक्ष्य महोत्पातान्दारुणाँल्लोमहर्षणान् ।
योगमाज्ञापयंस्तत्र जनस्योत्सुकचेतसः॥५॥

यागसेनायाः सन्नाहम्॥५॥

युयुधानपुरोगाश्च वृष्ण्यन्धकमहारथाः ।
सर्वे युक्तरथाः सज्जाः स्वयं चाहं तथाभवम्॥६॥

गतेऽर्धरात्रसमये ब्राह्मणो भयविक्लवः ।
उपागम्य भयादस्मानिदं वचनमब्रवीत्॥७॥

कालोऽयं समनुप्राप्तो ब्राह्मण्याः प्रसवस्य मे ।
तथा भवन्तस्तिष्ठन्तु न भवेद्वञ्चनं यथा॥८॥

मुहूर्तादेव चाश्रौषं कृपणं रुदितस्वनम् ।
तस्य विप्रस्य भवने ह्रियतेऽह्रियतेति च॥९॥

ह्रियते शिशुः अह्रियत हृत इति॥९॥

अथाकाशे पुनर्वाचमश्रौषं बालकस्य वै ।
ऊँहेति ह्रियमाणस्य न च पश्यामि राक्षसम्॥१०॥

ततोऽस्माभिस्तदा तात शरवर्षैः समन्ततः ।
विष्टम्भिता दिशः सर्वा हृत एव स बालकः॥११॥

ब्राह्मणोऽऽर्तस्वरं कृत्वा हृते तस्मिन्कुमारके ।
वाचः स परुषास्तीव्राः श्रावयामास मां तदा॥१२॥

आर्तेति छेदः। सन्धिरार्षः॥१२॥

वृष्णयो हतसङ्कल्पास्तथाहं नष्टचेतनः ।
मामेवं हि विशेषेण ब्राह्मणः प्रत्यभाषत॥१३॥

रक्षिष्यामीति चोक्तं ते न च रक्षितवानसि ।
शृणु वाक्यमिदं शेषं यत्त्वमर्हसि दुर्मते॥१४॥

वृथा त्वं स्पर्धसे नित्यं कृष्णेनामितबुद्धिना ।
यदि स्यादिह गोविन्दो नैतदत्याहितं भवेत्॥१५॥

यथा चतुर्थं धर्मस्य रक्षिता लभते फलम् ।
पापस्यापि तथा मूढ भागं प्राप्नोत्यरक्षिता॥१६॥

रक्षिष्यामीति चोक्तं ते न च शक्तोऽसि रक्षितुम् ।
मोघं गाण्डीवमेतत्ते मोघं वीर्यं यशश्च ते॥१७॥

अकिञ्चिदुक्त्वा तं विप्रं ततोऽहं प्रस्थितस्तथा ।
सह वृष्ण्यन्धकसुतैर्यत्र कृष्णो महाद्युतिः॥१८॥

ततो द्वारवतीं गत्वा दृष्ट्वा मधुनिघातिनम् ।
व्रीडितः शोकसन्तप्तो गोविन्देनोपलक्षितः॥१९॥

स तु मां व्रीडितं दृष्ट्वा विनिन्दन्कृष्णसन्निधौ ।
मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीबकत्थनम्॥२०॥

न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः ।
यत्र शक्ताः परित्रातुं कोऽन्यस्तदवनेश्वरः॥२१॥

धिगर्जुनं वृथानादं धिगात्मश्लाघिनो धनुः ।
दैवोपसृष्टो यो मौर्ख्यादागच्छति च दुर्मतिः॥२२॥

एवं शपति विप्रर्षौ विद्यामास्थाय वैष्णवीम् ।
ययौ संयमनीं वीरो यत्रास्ते भगवान्यमः॥२३॥

विप्रापत्यमचक्षाणस्तत ऐन्द्रीमगात्पुरीम् ।
आग्नेयीं नैर्ऋतीं सौम्यामुदीचीं वारुणीं तथा॥२४॥

रसातलं नाकपृष्ठं धिष्ण्यान्यन्यान्युदायुधः ।
ततोऽलब्ध्वा द्विजसुतमनिस्तीर्णप्रतिश्रवः॥२५॥

अग्निं विविक्षुः कृष्णेन प्रद्युम्नेन निषेधितः ।
दर्शये द्विजसूनुं ते मावज्ञात्मानमात्मना॥२६॥

कीर्तिं न एते विपुलां स्थापयिष्यन्ति मानवाः ।
इति सम्भाष्य मां स्नेहात्समाश्वास्य च माधवः॥२७॥

सान्त्वयित्वा तु तं विप्रमिदं वचनमब्रवीत् ।
सुग्रीवं चैव शैब्यं च मेघपुष्पबलाहकौ॥२८॥

योजयाश्वानिति तदा दारुकं प्रत्यभाषत ।
आरोप्य ब्राह्मणं कृष्णो ह्यवरोप्य च दारुकम्॥२९॥

आरोप्य रथ इति शेषः॥२९॥

मामुवाच ततः शौरिः सारथ्यं क्रियतामिति ।
ततः समास्थाय रथं कृष्णोऽहं ब्राह्मणः स च ।
प्रयाताः स्म दिशं सौम्यामुदीचीं कौरवर्षभ॥३०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये कृष्णस्य उदीचीगमने द्वादशाधिकशततमोऽध्यायः॥११२॥
मृतब्राह्मणपुत्रस्य पुनः प्रत्यानयनम्-११३

अर्जुन उवाच। ततः पर्वतजालानि सरितश्च वनानि च ।
अपश्यं समतिक्रम्य सागरं वरुणालयम्॥१॥

तत इति॥१॥

ततोऽर्घमुदधिः साक्षादुपनीय जनार्दनम् ।
स प्राञ्जलिः समुत्थाय किं करोमीति चाब्रवीत्॥२॥

प्रतिगृह्य स तां पूजां तमुवाच जनार्दनः ।
रथपन्थानमिच्छामि त्वया दत्तं नदीपते॥३॥

अथाब्रवीत्समुद्रस्तु प्राञ्जलिर्गरुडध्वजम् ।
प्रसीद भगवन्नैवमन्योऽप्येवं गमिष्यति॥४॥

त्वयैव स्थापितं पूर्वमगाधोऽस्मि जनार्दन ।
त्वया प्रवर्तते मार्गे यास्यामि गमनायताम्॥५॥

अन्येऽप्येवं गमिष्यन्ति राजानो दर्पमोहिताः ।
एवं सञ्चिन्त्य गोविन्द यत्क्षमं तत्समाचर॥६॥

वासुदेव उवाच। ब्राह्मणर्थं मदर्थं च कुरु सागर मद्वचः ।
मदृते न पुमान्कश्चिदन्यस्त्वां धर्षयिष्यति॥७॥

अथाब्रवीत्समुद्रस्तु पुनरेव जनार्दनम् ।
अभिशापभयाद्भीतो बाडमेवं भविष्यति॥८॥

शोषयाम्येष मार्गं ते येन त्वं कृष्ण यास्यसि ।
रथेन सह सूतेन सध्वजेन तु केशव॥९॥

वासुदेव उवाच। मया दत्तो वरः पूर्वं न शोषं यास्यसीति ह ।
मानुषास्ते न जानीयुर्विविधान्रत्नसञ्चयान्॥१०॥

जलं स्तम्भय साधो त्वं ततो यास्याम्यहं रथी ।
न च कश्चित्प्रमाणं ते रत्नानां वेत्स्यते नरः॥११॥

सागरेण तथेत्युक्ते प्रस्थिताः स्म जलेन वै ।
स्तम्भितेन पथा भूमौ मणिवर्णेन भास्वता॥१२॥

ततोऽर्णवं समुत्तीर्य कुरूनप्युत्तरान्वयम् ।
क्षणेन समतिक्रान्ता गन्धमादनमेव च॥१३॥

ततस्तु पर्वताः सप्त केशवं समुपस्थिताः ।
जयन्तो वैजयन्तश्च नीलो रजतपर्वतः॥१४॥

महामेरुः सकैलास इन्द्रकूटश्च नामतः ।
बिभ्राणा वर्णरूपाणि विविधान्यद्भुतानि च॥१५॥

वर्णरूपाणि वर्षवन्ति रूपाणि॥१५॥

उपस्थाय च गोविन्दं किं कुर्मेत्यब्रुवंस्तदा ।
तांश्चैव प्रतिजग्राह विधिवन्मधुसूदनः॥१६॥

प्रतिजग्राह कुशलप्रश्नादिना मानयामास॥१६॥

तानुवाच हृषीकेशः प्रणामावनतान्स्थितान् ।
विवरं गच्छतो मेऽद्य रथमार्गः प्रदीयताम्॥१७॥

विवरं गूढस्थानम्॥१७॥

ते कृष्णस्य वचः श्रुत्वा प्रतिगृह्य च पर्वताः ।
प्रददुः कामतो मार्गं गच्छतो भरतर्षभ॥१८॥

तत्रैवान्तर्हिताः सर्वे तदाश्चर्यतरं मम ।
असक्तं च रथो याति मेघजालेष्विवांशुमान्॥१९॥

सप्तद्वीपान्ससिन्धूंश्च सप्त सप्त गिरीनथ ।
लोकालोकं तथातीत्य विवेश सुमहत्तमः॥२०॥

ततः कदाचिद्दुःखेन रथमूहुस्तुरङ्गमाः ।
पङ्कभूतं हि तिमिरं स्पर्शाद्विज्ञायते नृप॥२१॥

अथ पर्वतभूतं तत्तिमिरं समपद्यत ।
तदासाद्य महाराज निष्प्रयत्ना हयाः स्थिताः॥२२॥

ततश्चक्रेण गोविन्दः पाटयित्वा तमस्तदा ।
आकाशं दर्शयामास रथपन्थानमुत्तमम्॥२३॥

निष्क्रम्य तमसस्तस्मादाकाशे दर्शिते तदा ।
भविष्यामीति संज्ञा मे भयं च विगतं मम॥२४॥

भविष्यामि जीविष्यामीति संज्ञा ज्ञानमभूत् ततः प्राङ्मृतोऽहमित्येव बुद्धिरासीदिति भावः॥२४॥

ततस्तेजः प्रज्वलितमपश्यं तत्तदाम्बरे ।
सर्वलोकं समाविश्य स्थितं पुरुषविग्रहम्॥२५॥

तं प्रविष्टो हृषीकेशो दीप्तं तेजोनिधिं तदा ।
रथ एव स्थितश्चाहं स च ब्राह्मणसत्तमः॥२६॥

तं प्रसिद्धम् ईश्वरम्॥२६॥

स मुहूर्तात्ततः कृष्णो निश्चक्राम तदा प्रभुः ।
चतुरो बालकान्गृह्य ब्राह्मणस्यात्मजांस्तदा॥२७॥

प्रददौ ब्राह्मणायाथ पुत्रान्सर्वाञ्जनार्दनः ।
त्रयः पूर्वं हृता ये च सद्यो जातश्च बालकः॥२८॥

प्रहृष्टो ब्राह्मणस्तत्र पुत्रान्दृष्ट्वा पुनः प्रभो ।
अहं च परमप्रीतो विस्मितश्चाभवं तदा॥२९॥

ततो वयं पुनः सर्वे ब्राह्मणस्य च ते सुताः ।
यथागता निवृत्ताः स्म तथैव भरतर्षभ॥३०॥

ततः स्म द्वारकां प्राप्ताः क्षणेन नृपसत्तम ।
असम्प्राप्तेऽर्धदिवसे विस्मितोऽहं पुनः पुनः॥३१॥

सपुत्रं भोजयित्वा तु द्विजं कृष्णो महायशाः ।
धनेन वर्षयित्वा च गृहं प्रास्थापयत्तदा॥३२॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये ब्राह्मणपुत्रानयने त्रयोदशाधिकशततमोऽध्यायः॥११३॥
गूढोद्घाटनम्-११४

अर्जुन उवाच। ततः कृष्णो भोजयित्वा शतानि सुबहूनि च ।
विप्राणामृषिकल्पानां कृतकृत्योऽभवत्तदा॥१॥

ततः कृष्ण इति॥१॥

ततः सह मया भुक्त्वा वृष्णिभोजैश्च सर्वशः ।
विचित्राश्च कथा दिव्याः कथयामास भारत॥२॥

ततः कथान्ते तत्राहमभिगम्य जनार्दनम् ।
अपृच्छं तद्यथावृत्तं कृष्णं यद्दृष्टवानहम्॥३॥

कथं समुद्रः स्तब्धोदः कृतस्तु कमलेक्षण ।
पर्वतानां च विवरं कृतं तत्कथमच्युत॥४॥

तमस्तच्च कथं घोरं घनं चक्रेण पाटितम् ।
तच्च यत्परमं तेजः प्रविष्टोऽसि कथं च तत्॥५॥

तच्चेति। तत् प्रसिद्धं तत् जगत्कर्तृ तेजः तदिति वा “एतस्य महतो भूतस्य नाम भवति” इति श्रुतेस्तदित्येवाभिधम्॥५॥

किमर्थं तेन ते बालास्तदा चापहृताः प्रभो ।
यच्च ते दीर्घमध्वानं सङ्क्षिप्तं तत्कथं पुनः॥६॥

आगमनकाले॥६॥

कथं चाल्पेन कालेन कृतं तत्तद्गतागतम् ।
एतत्सर्वं यथावृत्तमाचक्ष्व मम केशव॥७॥

वासुदेव उवाच। यद्दर्शनार्थं ते बाला हृतास्तेन महात्मना ।
विप्रार्थमेष्यते कृष्णो नागच्छेदन्यथेति ह॥८॥

महत् जगद्रक्षाङ्कुरभूतं तेजः तदभिमानिचेतनेन मम फलोपमस्य दर्शनार्थं ते बाला हृताः॥८॥

ब्रह्मतेजोमयं दिव्यं महद्यद्दृष्टवानसि ।
अहं स भरतश्रेष्ठ मत्तेजस्तत्सनातनम्॥९॥

स महानहमेव यच्च महत्तेजस्तन्ममैव तेजः। एतेन महतोऽङ्कुरस्य कारणबीजोपमः ईश्वरः तादृशानामनेकेषामीश्वराणामाश्रयोऽहं फलमिवानेकेषां बीजानामित्यर्थः॥९॥

प्रकृतिः सा मम परा व्यक्ताव्यक्ता सनातनी ।
यां प्रविश्य भवन्तीह मुक्ता योगविदुत्तमः॥१०॥

सा महत्तत्त्वाख्या प्रकृतिः परा। अहङ्कारादिभ्यः श्रेष्ठा ज्येष्ठत्वात्। सा च व्यक्ता दृश्यांशेन व्यक्ता अव्यक्ता दृगंशेन तां प्रविश्येति तत्रैव गत्वा। चिज्जडयोर्विवेकः सत्त्वपुरुषान्यताख्यातिर्नाम भवति अतस्तत्साक्षात्करणमेव मुक्तिसाधनम्। विभजते जगत् चिदंशाज्जडांशं पृथक्करोतीत्यर्थः॥१०॥

स साङ्ख्यानां गतिः पार्थ योगिनां च तपस्विनाम् ।
तत्पदं परमं ब्रह्म सर्वं विभजते जगत्॥११॥

मामेव तद्धनं तेजो ज्ञातुमर्हसि भारत ।
समुद्रः स्तब्धतोयोऽहमहं स्तम्भयिता जलम्॥१२॥

यथा तन्मम रूपं तथाऽन्यदपि दृश्यमित्याह- मामेवेत्यादिना॥१२॥

अहं ते पर्वताः सप्त ये दृष्टा विविधास्त्वया ।
पङ्कभूतं हि तिमिरं दृष्टवानसि यद्धि तत्॥१३॥

अहं तमो घनीभूतमहमेव च पाटकः ।
अहं च कालो भूतानां धर्मश्चाहं सनातनः॥१४॥

चन्द्रादित्यौ महाशैलाः सरितश्च सरांसि च ।
चतस्रश्च दिशः सर्वा ममैवात्मा चतुर्विधः॥१५॥

चन्द्रेति। तेजः पृथिवीजलाकाशात्मना चतुर्विधः। एतच्च वायोरप्युपलक्षणम्। पञ्चापि भूतानि अहमेवेत्यर्थ॥१५॥

चातुर्वर्ण्यं मत्प्रसूतं चातुराश्रम्यमेव च ।
चातुर्विध्यस्य कर्ताहमिति बुध्यस्व भारत॥१६॥

अर्जुन उवाच। भगवन्सर्वभूतेश वेत्तुमिच्छामि ते प्रभो ।
पृच्छामि त्वां प्रपन्नोऽहं नमस्ते पुरुषोत्तम॥१७॥

ते त्वाम्॥१७॥

वासुदेव उवाच ब्रह्म च ब्राह्मणाश्चैव तपः सत्यं च भारत ।
उग्रं बृहत्तमं चैव मत्तस्तद्विद्धि पाण्डव॥१८॥

उग्रं संसरणं नानाक्लेशकरत्वात्। बृहत्तमं वैकल्यम्। अखण्डानन्दरूपत्वात् मत्त उद्भूतं ब्रह्मादि मत्तः प्राप्यं रुद्रादि॥१८॥

प्रियस्तेऽहं महाबाहो प्रियो मेऽसि धनञ्जय ।
तेन ते कथयिष्यामि नान्यथा वक्तुमुत्सहे ।
अहं यजूंषि सामानि ऋचश्चाथर्वणानि च॥१९॥

ऋषयो देवता यज्ञा मत्तेजो भरतर्षभ ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्॥२०॥

चन्द्रादित्यावहोरात्रं पक्षा मासास्तथार्तवः ।
मुहूर्ताश्च कलाश्चैव क्षणाः संवत्सरास्तथा॥२१॥

मन्त्राश्च विविधाः पार्थ यानि शास्त्राणि कानिचित् ।
विद्याश्च वेदितव्यं च मत्तः प्रादुर्भवन्ति हि॥२२॥

मन्मयं विद्धि कौन्तेय क्षयं सृष्टिं च भारत ।
सच्चासच्च ममैवात्मा सदसच्चैव यत्परम्॥२३॥

सत् कार्यम् असत्कारणं सदसच्चेत्युभयविशेषणं कार्यं कारणगं सत् चिदंशेन असत् दृश्यांशेन ताभ्यां परं तु सदेव तत्परं शुद्धं ब्रह्माहमेव॥२३॥

अर्जुन उवाच। एवमुक्तोऽस्मि कृष्णेन प्रीयमाणेन वै तदा ।
तथैव च मनो नित्यमभवन्मे जनार्दन॥२४॥

एतच्छ्रुतं च दृष्टं च माहात्म्यं केशवस्य मे ।
यन्मां पृच्छसि राजेन्द्र भूयांश्चातो जनार्दनः॥२५॥

वैशम्पायन उवाच। एतच्छ्रुत्वा कुरुश्रेष्ठो धर्मराजो युधिष्ठिरः ।
पूजयामास धर्मात्मा गोविन्दं पुरुषोत्तमम्॥२६॥

विस्मितश्चाभवद्राजा सह सर्वैः सहोदरैः ।
राजभिश्च समासीनैर्ये तत्रासन्समागताः॥२७॥

॥इति श्रीमहाभारते खिलेशु हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये कृष्णार्जुनभाषणे चतुर्दशाधिकशततमोऽध्यायः॥११४॥
वासुदेवपराक्रमवर्णनम्-११५

जनमेजय उवाच। भूय एवं द्विजश्रेष्ठा यदुसिंहस्य धीमतः ।
कर्माण्यपरिमेयाणि श्रोतुमिच्छामि तत्त्वतः॥१॥

भूय एवेति॥१॥

श्रूयन्ते विविधानि स्म अद्भुतानि महाद्युतेः ।
असङ्ख्येयानि दिव्यानि प्रकृतान्यपि सर्वशः॥२॥

यान्यहं विविधान्यस्य श्रुत्वा प्रीये महामुने ।
प्रब्रूयाः सर्वशस्तात तानि मे शृण्वतोऽनघ॥३॥

तातेति वात्सल्योत्पादनाय सम्बोधयति॥३॥

वैशम्पायन उवाच। बहून्याश्चर्यभूतानि केशवस्य महात्मनः ।
कथितानि महाबाहो नान्तं शक्यं हि कर्मणाम्॥४॥

गन्तुं हि भरतश्रेष्ठ विस्तरेण समन्ततः ।
आवश्यं हि मया वाच्यं लेशमात्रेण भारत॥५॥

विष्णोरमितवीर्यस्य प्रथितोदारकर्मणः ।
आनुपूर्व्या प्रवक्ष्यामि शृणुष्वैकमना नृप॥६॥

द्वारवत्यां निवसता यदुसिंहेन धीमता ।
राष्ट्राणि नृपमुख्यानां क्षोभितानि महात्मनाम्॥७॥

यदूनामन्तरप्रेप्सुर्विचक्रो दानवो हतः ।
पुरं प्राग्ज्योतिषं गत्वा पुनस्तेन महात्मना॥८॥

समुद्रमध्ये दुष्टात्मा नरको दानवो हतः ।
वासवं च रणे जित्वा पारिजातो हृतो बलात्॥९॥

वरुणश्चैव भगवान्निर्जितो लोहिते ह्रदे ।
दन्तवक्त्रश्च कारूषो निहतो दक्षिणापथे॥१०॥

शिशुपालश्च सम्पूर्णे किल्बिषैकशते हतः ।
गत्वा च शोणितपुरं शङ्करेणाभिरक्षितः॥११॥

बलेः सुतो महावीर्यो बाणो बाहुसहस्रभृत् ।
महामृधे महाराज जित्वा जीवन्विसर्जितः॥१२॥

निर्जितः पावकश्चैव गिरिमध्ये महात्मना ।
शाल्वश्च विजितः सङ्ख्ये सौभश्च विनिपातितः॥१३॥

गिरिमध्ये मेरुमध्ये॥१३॥

विक्षोभ्य सागरं चैव पाञ्चजन्यो वशीकृतः ।
हयग्रीवश्च निहतो नृपाश्चान्ये महाबलाः॥१४॥

जरासन्धस्य निधने मोक्षिताः सर्वपार्थिवाः ।
रथेन जित्वा नृपतीन्गान्धारतनया हृता॥१५॥

भ्रष्टराज्याश्च शोकार्ताः पाण्डवाः परिरक्षिताः ।
दाहितं च वनं घोरं पुरुहूतस्य खाण्डवम्॥१६॥

गाण्डीवं चाग्निना दत्तमर्जुनायोपपादितम् ।
दौत्यं च तत्कृतं घोरे विग्रहे जनमेजय॥१७॥

अनेन यदुमुख्येन यदुवंशो विवर्धितः ।
कुन्त्याश्च प्रमुखे प्रोक्ता प्रतिज्ञा पाण्डवान्प्रति॥१८॥

निवृत्ते भारते युद्धे प्रतिदास्यामि तत्सुतान् ।
मोक्षितश्च महातेजा नृगः शापात्सुदारुणात्॥१९॥

यवनश्च हतः सङ्ख्ये काल इत्यभिविश्रुतः ।
वानरौ च महावीर्यौ मैन्दो द्विविद एव च॥२०॥

विजितौ युधि दुर्धर्षौ जाम्बवांश्च पराजितः ।
सान्दीपनेस्तथा पुत्रस्तव चैव पिता तथा॥२१॥

गतौ वैवस्वतवशं जीवितौ तस्य तेजसा ।
सङ्ग्रामा बहवः प्राप्ता घोरा नरवरक्षयाः॥२२॥

निहताश्च नृपाः सर्वे कृत्वा तज्जयमद्भुतम् ।
जनमेजयास्य युद्धेषु यथा ते वर्णिता मया॥२३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये पञ्चदशाधिकशततमोऽध्यायः॥११५॥
बाणासुराख्यानम्-११६

जनमेजय उवाच। भूय एव महाबाहोर्यदुसिंहस्य धीमतः ।
कर्मान्यपरिमेयाणि श्रुतानि द्विजसत्तम॥१॥

भूय इति॥१॥

त्वत्तः श्रुतवतां श्रेष्ठ वासुदेवस्य धीमतः ।
यत्त्वया कथितं पूर्वं बाणं प्रति महासुरम्॥२॥

तदहं श्रोतुमिच्छामि विस्तरेण तपोधन ।
कथं च देवदेवस्य पुत्रत्वमसुरो गतः॥३॥

योऽभिगुप्तः स्वयं ब्रह्मञ्छङ्करेण महात्मना ।
सहवासं गतेनैव सगणेन गुहेन तु॥४॥

बलेर्बलवतः पुत्रो ज्येष्ठो भ्रातृशतस्य यः ।
वृतो बाहुसहस्रेण दिव्यास्त्रशतधारिणा॥५॥

असङ्ख्यैश्च महाकायैर्महाबलशतैर्वृतः ।
वासुदेवेन स कथं बाणः सङ्ख्ये पराजितः॥६॥

संरब्धश्चैव युद्धार्थी जीवन्मुक्तः कथं च सः ।
वैशम्पायन उवाच शृणुष्वावहितो राजन्कृष्णस्यामिततेजसः॥७॥

मनुष्यलोके बाणेन यथाभूद्विग्रहो महान् ।
वासुदेवेन यत्रासौ रुद्रस्कन्दसहायवान्॥८॥

बलिपुत्रो रणश्लाघी जित्वा जीवन्विसर्जितः ।
तथा चास्य वरो दत्तः शङ्करेण महात्मना॥९॥

नित्यं सान्निध्यतां चैव गाणपत्यं तथाक्षयम् ।
यथा बाणस्य तद्युद्धं जीवन्मुक्तो यथा च सः॥१०॥

यथा च देवदेवस्य पुत्रत्वं सोऽसुरो गतः ।
यदर्थं च महद्युद्धं तत्सर्वमखिलं शृणु॥११॥

देवदेवस्य रुद्रस्य पुत्रत्वं गणमुख्यत्वम्॥११॥

दृष्ट्वा ततः कुमारस्य क्रीडतश्च महात्मनः ।
बलिपुत्रो महावीर्यो विस्मयं परमं गतः॥१२॥

कुमारस्य कार्तिकेयस्य क्रीडतः रुद्राराधनात्मिकां क्रीडां दृष्ट्वेति योज्यम्॥१२॥

तस्या बुद्धिः समुत्पन्ना तपश्चर्तुं सुदुष्करम् ।
रुद्रस्याराधनार्थाय देवस्य स्यां यथा सुतः॥१३॥

ततोऽग्लपयदात्मानं तपसा श्लाघते च सः ।
देवश्च परमं तोषं जगाम च सहोमया॥१४॥

श्लाघते अहमेव महान् तपस्वीति मन्यते॥१४॥

नीलकण्ठः परां प्रीतिं गत्वा चासुरमब्रवीत् ।
वरं वरय भद्रं ते यत्ते मनसि वर्तते॥१५॥

अथ बाणोऽब्रवीद्वाक्यं देवदेवं महेश्वरम् ।
देव्याः पुत्रत्वमिच्छामि त्वया दत्तं त्रिलोचन॥१६॥

शङ्करस्तु तथेत्युक्त्वा रुद्राणीमिदमब्रवीत् ।
कनीयान्कार्तिकेयस्य पुत्रोऽयं प्रतिगृह्यताम्॥१७॥

यत्रोत्थितो महासेनः सोऽग्निजो रुधिरे पुरे ।
तत्रोद्देशे पुरं चास्य भविष्यति न संशयः॥१८॥

महासेनः कार्तिकेयः॥१८॥

नाम्ना तच्छोणितपुरं भविष्यति पुरोत्तमम् ।
मयाभिगुप्तं श्रीमन्तं न कश्चित्प्रसहिष्यति॥१९॥

श्रीमन्तं बाणम्॥१९॥

ततः स निवसन्बाणः पुरे शोणितसाह्वये ।
राज्यं प्रशासते नित्यं क्षोभयन्सर्वदेवताः॥२०॥

प्रशासते प्रशास्ति॥२०॥

अवतीर्य मदोत्सिक्तो बाणो बाहुसहस्रवान् ।
अचिन्तयन्देवगणान्युद्धमाकाङ्क्षते सदा॥२१॥

ध्वजं चास्य ददौ प्रीतः कुमारो ह्यग्नितेजसम् ।
वाहनं चैव बाणस्य मयूरं दीप्ततेजसम्॥२२॥

न देवा न च गन्धर्वा न यक्षा नापि पन्नगाः ।
तस्य युद्धे व्यतिष्ठन्त देवदेवस्य तेजसा॥२३॥

त्र्यम्बकेणाभिगुप्तश्च दर्पोत्सिक्तो महासुरः ।
भूयो मृगयते युद्धं शूलिनं सोऽभ्यगच्छत॥२४॥

स रुद्रमभिगम्याथ प्रणिपत्याभिवाद्य च ।
बलिसूनुरिदं वाक्यं पप्रच्छ वृषभध्वजम्॥२५॥

असकृन्निर्जिता देवाः ससाध्याः समरुद्गणाः ।
मया मदबलोत्सेकात्ससैन्येन तवाश्रयात्॥२६॥

इमं देशं समागम्य वसन्ति स्म पुरे सुखम् ।
ते पराजयसन्त्रस्ता निराशा मत्पराजये॥२७॥

नाकपृष्ठमुपागम्य निवसन्ति यथासुखम् ।
सोऽहं निराशो युद्धस्य जीवितं नाद्य कामये॥२८॥

अयुध्यतो वृथा ह्येषां बाहूनां धारणं मम ।
तद्ब्रूहि मम युद्धस्य कच्चिदागमनं भवेत्॥२९॥

न मे युद्धं विना देव रतिरस्ति प्रसीद मे ।
ततः प्रहस्य भगवानब्रवीदृषभध्वजः॥३०॥

भविता बाण युद्धं वै तथा तच्छृणु दानव ।
ध्वजस्यास्य यदा भङ्गस्तव तात भविष्यति ।
स्वस्थाने स्थापितस्याथ तदा युद्धं भविष्यति॥३१॥

इत्येवमुक्तः प्रहसन्बाणस्तु बहुशो मुदा ।
प्रसन्नवदनो भूत्वा पादयोः पतितोऽब्रवीत् ।
दिष्ट्या बाहुसहस्रस्य न वृथा धारणं मम॥३२॥

दिष्ट्या सहस्राक्षमहं विजेता पुनराहवे ।
आनन्देनाश्रुपूर्णाभ्यां नेत्राभ्यामरिमर्दनः ।
पञ्चाञ्जलिशतैर्देवं पूजयन्पतितो भुवि॥३३॥

ईश्वर उवाच। उत्तिष्ठोत्तिष्ठ बाहूनामात्मनः सकुलस्य तु ।
सदृशं प्राप्स्यसे वीर युद्धमप्रतिमं महत्॥३४॥

वैशम्पायन उवाच। एवमुक्तस्ततो बाणस्त्र्यम्बकेन महात्मना ।
हर्षेणात्युच्छ्रितं शीघ्रं नत्वा स वृषभध्वजम्॥३५॥

शितिकण्ठविसृष्टस्तु बाणः परपुरञ्जयः ।
ययौ स्वभवनं तत्र यत्र ध्वजगृहं महत्॥३६॥

तत्रोपविष्टः प्रहसन्कुम्भाण्डमिदमब्रवीत् ।
प्रियमावेदयिष्यामि भवतो यन्मनोगतम्॥३७॥

कुम्भाण्डं स्वस्यामात्यम्॥३७॥

इत्येवमुक्तः प्रहसन्बाणमप्रातिमं रणे ।
प्रोवाच राजन्किं वैतद्वक्तुकामोऽसि मत्प्रियम्॥३८॥

विस्मयोत्फुल्लनयनः प्रहर्षादिव भाषसे ।
त्वत्तः श्रोतुमिहेच्छामि वरं किं लब्धवानसि॥३९॥

शितिकण्ठप्रसादेन स्कन्दगोपायनेन च ।
कच्चित्त्रैलोक्यराज्यं ते व्यादिष्टं शूलपाणिना॥४०॥

स्कन्दगोपायनेन स्कन्दकृतेन त्राणेन॥४०॥

अस्य चक्रभयत्रस्ता निवसन्ति जलाशये ।
कच्चिच्छार्ङ्गगदापाणेः स्थितस्य परमाहवे॥४१॥

कच्चिदिन्द्रस्तवभयात्पातालमुपयास्यति ।
कच्चिद्विष्णुपरित्रासं विमोक्ष्यन्ति दितेः सुताः॥४२॥

पातालवासमुत्सृज्य कच्चित्तव बलाश्रयात् ।
विबुधावासनिरता भविष्यन्ति महासुराः॥४३॥

बलिर्विष्णुपराक्रान्तो बद्धस्तव पिता नृप ।
सलिलौघाद्विनिष्क्रम्य कच्चिद्राज्यमवाप्स्यति॥४४॥

दिव्यमाल्याम्बरधरं दिव्यस्रग्गन्धलेपनम् ।
कच्चिद्वैरोचनिं तात द्रक्ष्यामः पितरं तव॥४५॥

कच्चित्त्रिभिः क्रमैः पूर्वं हृताँल्लोकानिमान्प्रभो ।
पुनः प्रत्यानयिष्यामो जित्वा सर्वान्दिवौकसः॥४६॥

स्निग्धगम्भीरनिर्घोषं शङ्खस्वनपुरोजवम् ।
कच्चिन्नारायणं देवं जेष्यामः समितिञ्जयम्॥४७॥

कच्चिद्वृषध्वजस्तात प्रसादसुमुखस्तव ।
यथा ते हृदयोत्कम्पः साश्रुबिन्दुः प्रवर्तते॥४८॥

कच्चिदीश्वरतोषेण कार्तिकेयमतेन च ।
प्राप्तवानसि सर्वेषामस्माकं राज्यसम्पदम्॥४९॥

इति कुम्भाण्डवचनैश्चोदितः सोऽसुरोत्तमः ।
बाणो वाणीमसंसक्तां प्रोवाच वदतां वरः॥५०॥

असंसक्ताम् अस्खलिताम्॥५०॥

बाण उवाच। चिरात्प्रभृति कुम्भाण्ड न युद्धं प्राप्यते मया ।
ततो मया मुदा पृष्टः शितिकण्ठः प्रतापवान्॥५१॥

युद्धाभिलाषः सुमहान्देव सञ्जायते मम ।
अभिप्राप्स्याम्यहं युद्धं मनसस्तुष्टिवर्धनम्॥५२॥

ततोऽहं देवदेवेन हरेणामित्रघातिना ।
प्रहस्य सुचिरं कालमुक्तोऽस्मि वचनं प्रियम् ।
प्राप्स्यसे सुमहद्युद्धं त्वं बाणाप्रतिमं महत्॥५३॥

मयूरध्वजभङ्गस्ते भविष्यति यदासुर ।
तदा त्वं प्राप्स्यसे युद्धं सुमहद्दितिनन्दन॥५४॥

ततोऽहं परमप्रीतो भगवन्तं वृषध्वजम् ।
प्रणम्य शिरसा देवं तवान्तिकमुपागतः॥५५॥

इत्येवमुक्तः कुम्भाण्डः प्रोवाच नृपतिं तदा ।
अहो न शोभनं राजन्यदेवं भाषसे वचः॥५६॥

एवं कथयतोस्तत्र तयोरन्योन्यमुच्छ्रितः ।
ध्वजः पपात वेगेन शक्राशनिसमाहतः॥५७॥

तं तथा पतितं दृष्ट्वा सोऽसुरो ध्वजमुत्तमम् ।
प्रहर्षमतुलं लेभे मेने चाहवमागतम्॥५८॥

ततश्चकम्पे वसुधा शक्राशनिसमाहता ।
ननादान्तर्हितो भूमौ वृषदंशो जगर्ज च॥५९॥

वृषदंशो बिडालः। जगर्जेत्यमङ्गलशब्दकरणं लक्ष्यते॥५९॥

देवानामपि यो देवः सोऽप्यवर्षत वासवः ।
शोणितं शोणितपुरे सर्वतः परमं ततः॥६०॥

सूर्यं भित्त्वा महोल्का च पपात धरणीतले ।
स्वपक्षे चोदितः सूर्यो भरणीं समपीडयत्॥६१॥

स्वपक्षे चेति। देवनक्षत्रेषु उदितः कृत्तिकां प्रविष्ट इत्यर्थः। तेन रोहिणी बाणस्य जन्मनक्षत्रं षड्विंशं भरणी च तस्याभिषेचनिकं नक्षत्रं विद्धं तेन देहस्य पीडा पदात् च्युतिश्चेति दर्शितम्। चोदितः सूर्यो भरणीं समपीडयत्॥६१॥

चैत्यवृक्षेषु सहसा धाराः शतसहस्रशः ।
शोणितस्य स्रवन्घोरा निपेतुस्तारका भृशम्॥६२॥

राहुरग्रसदादित्यमपर्वणि विशाम्पते ।
लोकक्षयकरे काले निघातश्चापतन्महान्॥६३॥

राहुरिति। तदैव नित्यं समगतिरपि राहुर्विषमगत्या सूर्यनक्षत्रमाक्रान्तवानित्यर्थः। आदित्यमग्रसदिति तत्रैव चन्द्रयोगोऽपि गम्यते। ततश्च जन्मतः सप्तविंशे नक्षत्रे सूर्यग्रहणं चेद्बाणवत् फलं द्रष्टव्यम्॥६३॥

दक्षिणां दिशमास्थाय धूमकेतुः स्थितोऽभवत् ।
अनिशं चाप्यविच्छिन्ना ववुर्वाताः सुदारुणाः॥६४॥

श्वेतलोहितपर्यन्तः कृष्णग्रीवस्तडिद्द्युतिः ।
त्रिवर्णपरिघो भानुः सन्ध्यारागमथावृणोत्॥६५॥

परिघः परिवेषः॥६५॥

वक्रमङ्गारकश्चक्रे कृत्तिकासु भयङ्करः ।
बाणस्य जन्मनक्षत्रं भर्त्सयन्निव सर्वशः॥६६॥

वक्रमिति तत्रैव दुर्योगान्तरमाह- जन्मनक्षत्रं रोहिणी॥६६॥

अनेकशाखश्चैत्यश्च निपपात महीतले ।
अर्चितः सर्वकन्याभिर्दानवानां महात्मनाम्॥६७॥

चैत्यश्चत्वरवान् नगरसूचको वृक्षः॥६७॥

एवं विविधरूपाणि निमित्तानि निशामयन् ।
बाणो बलमदोन्मत्तो निश्चयं नाधिगच्छति॥६८॥

निश्चयं मम पराभवो भविष्यतीत्येवं रूपम्॥६८॥

विचेतास्त्वभवत्प्राज्ञः कुम्भाण्डस्तत्त्वदर्शिवान् ।
बाणस्य सचिवस्तत्र कीर्तयन्बहु किल्बिषम्॥६९॥

उत्पाता ह्यत्र दृश्यन्ते कथयन्तो न शोभनम् ।
तव राज्यविनाशाय भविष्यन्ति न संशयः॥७०॥

न शोभनम् अशोभनम्॥७०॥

वयं चान्ये च सचिवा भृत्या ते च तवानुगाः ।
क्षयं यास्यन्ति नचिरात्सर्वे पार्थिवदुर्नयात्॥७१॥

यथा शक्रध्वजतरोः स्वदर्पात्पतनं भवेत् ।
बलमाकाङ्क्षतो मोहात्तथा बाणस्य नर्दतः॥७२॥

शक्रध्वजतरोः यत्र शक्रध्वज आसज्ज्यते स तरुः पूर्वोक्तः चैत्यवृक्षः तस्य यथा पतनं जातं तथा तव पतनं भविष्यतीत्यर्थः॥७२॥

देवदेवप्रसादात्तु त्रैलोक्यविजयं गतः ।
उत्सेकाद्दृश्यते नाशो युद्धाकाङ्क्षी ननर्द ह॥७३॥

देवेति। ईश्वरानुगृहीतोऽपि दर्पान्नश्यतीति भावः॥७३॥

बाणः प्रीतमनास्त्वेवं पपौ पानमनुत्तमम् ।
दैत्यदानवनारीभिः सार्धमुत्तमविक्रमः॥७४॥

कुम्भाण्डश्चिन्तयाविष्टो राजवेश्माभ्ययात्तदा ।
अचिन्तयच्च तत्त्वार्थं तैस्तैरुत्पातदर्शनैः॥७५॥

राजा प्रमादी दुर्बिद्धिर्जितकाशी महासुरः ।
युद्धमेवाभिलषते न दोषान्मन्यते मदात्॥७६॥

महोत्पातभयं चैव न तन्मिथ्या भविष्यति ।
अपीदानीं भवेन्मिथ्या सर्वमुत्पातदर्शनम्॥७७॥

इह त्वास्ते त्रिनयनः कार्तिकेयश्च वीर्यवान् ।
तेनोत्पन्नोऽपि दोषो नः कच्चिद्गच्छेत्पराभवम्॥७८॥

उत्पन्नदोषप्रभवः क्षयोऽयं भविता महान् ।
दोषाणां न भवेन्नाश इति मे धीयते मतिः॥७९॥

उत्पन्नो दोषो दर्शाख्यस्ततः प्रभवो यस्य स तथा॥७९॥

नियतो दोष एवायं भविष्यति न संशयः ।
दौरात्म्यान्नृपतेरस्य दोषभूता हि दानवाः॥८०॥

देवदानवसङ्घानां यः कर्ता भुवनप्रभुः ।
भगवान्कार्तिकेयश्च कृतवाँल्लोहिते पुरे॥८१॥

प्राणैः प्रियतरो नित्यं भविष्यति गुहः सदा ।
तद्विशिष्टश्च बाणोऽपि शिवस्य सततं प्रियः॥८२॥

दर्पोत्सेकात्तु नाशाय वरं याचितवान्भवम् ।
युद्धहेतोः स लुब्धस्तु सर्वथा न भविष्यति॥८३॥

यदि विष्णुपुरोगानामिन्द्रादीनां दिवौकसाम् ।
भवित्री ह्यभवत्प्राप्तिर्भवहस्तात्कृतं भवेत्॥८४॥

एतयोश्च हि को युद्धं कुमारभवयोरिह ।
शक्तो दातुं समागम्य बाणसाहाय्यकाङ्क्षिणोः॥८५॥

न च देववचो मिथ्या भविष्यति कदाचन ।
भविष्यति महद्युद्धं सर्वदैत्यविनाशनम्॥८६॥

स एवं चिन्तयाविष्टः कुम्भाण्डस्तत्त्वदर्शिवान् ।
स्वस्तिप्रणिहितां बुद्धिं चकार स महासुरः॥८७॥

स्वस्तिप्रणिहितां कल्याणाभिनि वेशिनीम्॥८७॥

ये हि देवैर्विरुद्ध्यन्ते पुण्यकर्मभिराहवे ।
यथा बलिर्नियमितस्तथा ते यान्ति सङ्क्षयम्॥८८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि बाणयुद्धे षोडशाधिकशततमोऽध्यायः॥११६॥
पार्वत्याः सकाशात् उषाया वरलाभः-११७

वैशम्पायन उवाच। क्रीदाविहारोपगतः कदाचिदभवद्भवः ।
देव्या सह नदीतीरे रम्ये श्रीमति स प्रभुः॥१॥

क्रीडेति॥१॥

शतानि तत्राप्सरसां चिक्रीडुश्च समन्ततः ।
सर्वर्तुकवने रम्ये गन्धर्वपतयस्तथा॥२॥

कुसुमैः पारिजातस्य पुष्पैः सन्तानकस्य च ।
गन्धोद्दाममिवाकाशं नदीतीरं तु सर्वशः॥३॥

सन्तानकस्य कल्पतरुविशेषस्य॥३॥

वेणुवीणामृदङ्गैश्च पणवैश्च सहस्रशः ।
वाद्यमानैः स शुश्राव गीतमप्सरसां तदा॥४॥

सूतमागधकल्पैश्चास्तुवन्नप्सरसां गणाः ।
देवदेवं सुवपुषं स्रग्विणं रक्तवाससम्॥५॥

श्रीमहेशं देवदेवमर्चयन्ति मनोरमम् ।
ततस्तु देव्या रूपेण चित्रलेखा वराप्सराः॥६॥

भवं प्रसादयामास देवी च प्राहसत्तदा ।
प्रसादयन्तीमीशानं प्रहसन्त्यप्सरोगणाः॥७॥

प्रसादयामासेत्युक्तेरिदं सूचयते- मद्भार्यारूपग्रहणेन मामपि सर्वान्तर्यामिणभियं मोहयितुं प्रवृत्तेति महादेवस्य तस्या उपरि क्रियानपि कोपो जात आसीदिति तत एवापराधात् चित्रलेखा स्वांशेन कुम्भाण्डस्य बाणामात्यस्य कन्या जातेति अग्रिमग्रन्थाद्गम्यते। प्रसादयन्तीं ताम् अप्सरोगणाः प्रहसन्ति ईशेऽपि कापट्यभियं करोतीत्याशयेन॥७॥

भवस्य पार्षदा दिव्या नानारूपा महौजसः ।
देव्या ह्यनुज्ञया सर्वे क्रीडन्ते तत्र तत्र ह॥८॥

क्रीडन्ते महादेवस्य रूपेणेति द्वयोः सम्बन्धः॥८॥

अथ ते पार्षदास्तत्र रहस्ये सुविपश्चितः ।
महादेवस्य रूपेण तच्चिह्नं रूपमास्थिताः॥९॥

तच्चिह्नं वृषभध्वजादिचिह्नरूपं देव्या रूपेण युक्ताः अप्सरसोऽपि क्रीडन्त इत्यनुषज्यते॥९॥

ततो देव्याः सुरूपेण लीलया वदनेन च ।
देवी प्रहासं मुमुचे ताश्चैवाप्सरसस्तदा ।
ततः किलकिलाशब्दः प्रादुर्भूतः समन्ततः॥१०॥

ततश्च देवीः प्रहासं मुमुचे। तत्र हेतुः। चित्रलेखाया मानभङ्गार्थं सर्वा अप्सरसो देवीरूपं जगृहुस्तस्याश्च भ्रान्तिमुत्पादयितुं सर्वे पार्षदा महादेवरूपं जगृहुरिति प्रघट्टकार्थः॥१०॥

प्रहर्षमतुलं लेभे भवः प्रीतमनास्तदा ।
बाणस्य दुहिता कन्या तत्रोषा नाम भामिनी॥११॥

देवं सङ्क्रीडितं दृष्ट्वा देव्या सह नदीगतम् ।
दीप्यमानं महादेवं द्वादशादित्यतेजसम्॥१२॥

सङ्क्रीडितं क्रीडितम्॥१२॥

नानारूपं वपुः कृत्वा देव्याः प्रियचिकीर्षया ।
उषा मनोरथं चक्रे पार्वत्याः सन्निधौ तथा॥१३॥

नानारूपं वपुः कृत्वा सङ्क्रीडितमिति पूर्वेण सम्बन्धः॥१३॥

धन्या हि भर्तृसहिता रमत्येवं समागताः ।
मनसा त्वथ सङ्कल्पमुषया भाषितं तथा॥१४॥

भाषितं सखीजने इति शेषः॥१४॥

विज्ञाय तदभिप्रायमुषायाः पर्वतात्मजा ।
प्राह देवी ततो वाक्यमुषां हर्षयती शनैः॥१५॥

उषे त्वं शीघ्रमप्येवं भर्त्रा सह रमिष्यसि ।
यथा देवो मया सार्धं शङ्करः शत्रुनाशनः॥१६॥

एवमुक्ते तदा देव्या वाक्ये चिन्ताविलेक्षणा ।
उषा भावं तदा चक्रे भर्त्रा रंस्ये कदा सह॥१७॥

तदा हैमवती वाक्यं सम्प्रहस्येदमब्रवीत् ।
उषे शृणुष्व वाक्यं मे यदा संयोगमेष्यसि॥१८॥

वैशाखे मासि हर्म्यस्थां द्वादश्यां त्वं दिनक्षये ।
रमयिष्यति यः स्वप्ने स ते भर्ता भविष्यति॥१९॥

एवमुक्ता दैत्यसुता कन्यागणसमावृता ।
अपाक्रामत हर्षेण रममाणा यथासुखम्॥२०॥

ततः सखीभिर्हास्यन्ती हर्षेणोत्फुल्ललोचना ।
तालिकासन्निपातैश्च ह्यन्योन्यमभ्यवर्तत॥२१॥

हास्यन्ती परिहास्यमाना॥२१॥

किन्नर्यो यक्षकन्याश्च नानादैतेयकन्यकाः ।
अप्सरोगणकन्याश्च उषायाः सखितां गताः॥२२॥

उक्ता च तत्र ताभिश्च भर्ता तव वरानने ।
भविष्यत्यचिरेणैव देव्या वचनकल्पितः॥२३॥

न हि देव्या वचो मिथ्या भविष्यति कदाचन ।
रूपाभिजनसम्पन्नः पतिस्ते कल्पितस्तया॥२४॥

उषा सखीनां तद्वाक्यं प्रतिपूज्य यथाविधि ।
यत्तन्मनोरथं देव्या भावयन्ती व्यवस्थिता॥२५॥

यत्तव मनोरथं मनोरथगोचरं प्रार्थितं वस्तु तत् देव्या तव दत्तमिति सखीनां वाक्यं प्रतिपूज्य उषा प्रतीक्षते इति शेषः॥२५॥

ततः क्रीडाविहारं तमनुभूय सहोमया ।
गतेऽहनि ततः सर्वा नार्यस्ताः परमाद्भुताः॥२६॥

ययुः स्वानालयान्सर्वा देवी चादर्शनं गता ।
काश्चिदश्वैस्तथा यानैर्गजैरन्यास्तथा रथैः॥२७॥

पुरं प्रविविशुर्हृष्टाः काश्चिदाकाशमास्थिताः ।
ततः प्रभृति सा देवी काममोहं गता विभो॥२८॥

देव्यास्तु वचनं स्मृत्वा संस्मरन्ती पतिं तदा ।
निद्रां न भजते रात्रौ न दिवा भोजनं तथा॥२९॥

स्मरन्ती पतिभावं सा विललाप नृपात्मजा ।
निन्दन्ती शशिनं नाके सेवती न च चन्दनम्॥३०॥

सा बाला मोहिता राजन्कामेन परिपीडिता ।
उपचर्यन्ति तां सख्यो विज्वरामपि सज्वराम्॥३१॥

तप्यते हृदयं तस्या लेपितं चन्दनेन च ।
कपोले पाण्डिमा चिह्नं नेत्रे जलसमन्विते॥३२॥

जृम्भणं च तथा स्वापो देहे तस्या व्यवर्धत ।
पद्मिनीकन्दचूर्णानि शीतलानि मुहुर्मुहुः॥३३॥

क्षिपन्ति सख्यो हृदये पीडिते मन्मथाग्निना ।
व्यजनानि प्रकुर्वन्ति पृच्छन्ति च पुनः पुनः॥३४॥

का व्यथा किं शरीरं ते किमिदं तव भामिनी ।
किं तुभ्यं रोचते देवि तदाख्याहि वरानने॥३५॥

कस्मादिदं समुत्पन्नं दुःखसाध्यं मनोरमे ।
त्वन्मनोनुगतं वाक्यं वदन्त्येतास्तु सारिकाः॥३६॥

शुका नीलतमाः सुभ्रु पठन्ति हि पुमानिव ।
प्रह्लादजननं वाक्यं किमर्थं नाद्य भाशसे॥३७॥

तव तातो महावीरो देवानामपि दुर्जयः ।
तस्याग्रे तिष्ठते कोऽपि न भूमौ वरवर्णिनि॥३८॥

बलेः पुत्रो महावीरो बाणो हि दुरतिक्रमः ।
जित्वामरावतीकं च नगरं शोणिताह्वयम् ।
यत्र सन्तिष्ठते देवः शूलहस्तो महेश्वरः॥३९॥

पुत्रोऽयमिति जानीहि गिरिजां योऽब्रवीद्धरः ।
बाणं प्रति महादेवस्तव तातमुषे शृणु॥४०॥

का व्यथेति मुखे चेदं नासाग्रं च विराजते ।
नीहारबिन्दवः पद्मे राजन्ते शरदागमे॥४१॥

सम्पूर्णचन्द्रप्रतिमं मुखं चन्द्रो यथा घने ।
न शोभते तु विच्छायं किमर्थं कारणं वद॥४२॥

श्वासान्मुञ्चसि बाले त्वं न रतिं यासि भावतः ।
गृहाण भोजनं दिव्यं यत्ते मनसि वर्तते॥४३॥

ताम्बूलं रोचते पूर्वं तत्किमर्थं न गृह्यते ।
मिष्टानि यानि वस्तूनि दुर्लभानीतरैर्जनैः॥४४॥

गृहाण देवि उत्तिष्ठ वद पीडां शरीरजाम् ।
इति कोलाहलं श्रुत्वा उषा वेश्मसमुद्भवम्॥४५॥

दासीभिः कीर्तितं तत्र मातुरग्रे पृथक्पृथक् ।
राजपुत्री यदा देवी समायाता गृहे सती॥४६॥

जलक्रीडाविहाराच्च मूकेव परिलक्ष्यते ।
अतो दासीजना देवि वदामस्त्वां वयं जनाः॥४७॥

को मोहः किमिदं मौनं कः स्वापो म्लानता कथम् ।
विचार्य भिषजो देवि दिश्यन्तां कष्टशान्तये॥४८॥

शिरीषपुष्पसदृशं यच्छरीरं सुकोमलम् ।
तत्कथं सहते देवि व्याधिभारं वरानने॥४९॥

इति श्रुत्वा तदा देवी सत्वरा हंसगामिनी ।
प्राप्य देशमुषा यत्र किमिदं कष्टलक्षणम्॥५०॥

पल्लवाकृतिहस्तेन कोमलं तत्करं तदा ।
स्पृष्ट्वाङ्गुलीरनायासं स्फोटयामास भामिनी॥५१॥

किमस्ति तव कल्याणि का व्यथा तव वर्तते ।
एते वैद्याः समागत्य पृच्छन्ति भवतीं हि तत्॥५२॥

वैद्या ऊचुः जलक्रीडां गता तत्र राजपुत्री सखीगणैः ।
पार्वत्याः क्रीडितं तत्र जानीमः श्रमसम्भवम्॥५३॥

श्रमाद्ग्लानिः समुत्पन्ना जृम्भणे च पुनः पुनः ।
स्वापश्च जायते तेन मा भयं कर्तुमर्हसि॥५४॥

देव्युवाच हृदये निहितं वैद्याश्चन्दनं हिमसंयुतम् ।
अमात्याः किमिदं शीघ्रं किमिदं बुद्बुदायते॥५५॥

अतिदाहो महान्स्वेदः पिपासा न बुभुक्षते ।
प्रलाप एव किं तस्यां शास्त्रतो ब्रूत निश्चितम्॥५६॥

वैद्या ऊचुः क्रीडाविहारे मिलिताः स्त्रीजना देवसन्निधौ ।
रूपेणाप्रतिमा देवी राजपुत्री च भाविनी॥५७॥

दृष्टिपातः कृतस्ताभिस्तेन पुत्र्यां व्यथाभवत् ।
रक्षामन्त्रैस्तथा पीतैः सर्षपैस्तां कुमारिकाम्॥५८॥

पानीयैरभिषेकेण परा शान्तिर्भविष्यति ।
इत्युक्त्वा भिषजः सर्वे निवृत्ता नृपवेश्मतः॥५९॥

सूचयन्तः पुनः सर्वे कामाभिप्रायजां व्यथाम् ।
मातृपृष्टा वरारोहा चिरकालमुवाच सा॥६०॥

लज्जावती महाभागा मातरं रुदतीं भृशम् ।
मातर्न रोचते नित्यं भाषणं न च भोजनम्॥६१॥

न चाप्युत्सवकं मातः सदाहं हृदयं शृणु ।
इत्युक्त्वा विररामाथ ह्युषा नारी वरानना॥६२॥

सर्वाभिः स्त्रीभिरारब्धमन्योन्यं मुखवीक्षणम् ।
लज्जानुकारि नारीणां यौवने हि भवेदिति॥६३॥

इयं च राजकन्या हि भर्तृयोग्या किमुच्यते ।
पितुः प्रसादान्मातुश्च प्राप्नुयात्सदृशं वरम्॥६४॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि बाणयुद्धे उषाविरहो नाम सप्तदशाधिकशततमोऽध्यायः॥११७॥
उषायाः स्वप्नदर्शनमनिरुद्धानयनार्थं चित्रलेखाया द्वारकागमनं च-११८

वैशम्पायन उवाच। तत्रस्थाः परमा नार्यश्चित्रेण परमाद्भुताः ।
ततो हर्म्ये शयानां तु वैशाखे मासि भामिनीम्॥१॥

द्वादश्यां शुक्लपक्षस्य सखीगणवृतां तदा ।
यथोक्तः पुरुषः स्वप्ने रमयामास तां शुभाम् ।
विचेष्टमाना रुदती देव्या वचनचोदिता॥२॥

सा स्वप्ने रमिता तेन स्त्रीभावं चापि लम्भिता ।
शोणिताक्ता प्ररुदती सहसैवोत्थिता निशि॥३॥

तां तथा रुदतीं दृष्ट्वा सखी भयसमन्विता ।
चित्रलेखा वचः स्निग्धमुवाच परमाद्भुतम्॥४॥

उषे मा भैः किमेवं त्वं रुदती परितप्यसे ।
बलेः सुतसुता च त्वं प्रख्याता किं भयान्विता॥५॥

न भयं विद्यते लोके तव सुभ्रु विशेषतः ।
अभयं तव वामोरु पिता देवान्तको रणे॥६॥

उत्तिष्ठोत्तिष्ठ भद्रं ते विषादं मा कृथाः शुभे ।
नैवंविधेषु वासेषु भयमस्ति वरानने॥७॥

असकृद्देवसहितः शचीभर्ता सुरेश्वरः ।
अप्राप्त एव नगरं पित्रा ते मृदितो रणे॥८॥

अयं देवसमूहस्य भयदश्च पिता तव ।
महासुरवरः श्रीमान्बलेः पुत्रो महाबलः॥९॥

एवं साभिहिता सख्या बाणपुत्री यशस्विनी ।
स्वप्ने रूपं यथा दृष्टं न्यवेदयदनिन्दिता॥१०॥

उषोवाच एवं सन्धर्षिता साध्वी कथं जीवितुमुत्सहे॥११॥

पितरं किं नु वक्ष्यामि देवशत्रुमरिन्दमम् ।
एवं सन्दूषणकरी वंशस्यास्य महौजसः॥१२॥

श्रेयो हि मरणं मह्यं न मे श्रेयोऽद्य जीवितम् ।
ईप्सितो वा यथा कोऽपि पुरुशोऽधिगतो हि मे॥१३॥

तत्रेति। मह्यं मम॥१३॥

जाग्रतीव यथा चाहमवस्थैवं कृता मम ।
निशायां जाग्रतीवाहं नीता केन दशामिमाम् ।
कथमेवं कृता नाम कन्या जीवितुमुत्सहे॥१४॥

कुलोपक्रोशनकरी कुलाङ्गारी निराश्रया ।
जीवितुं न स्पृहेन्नारी साध्वीनामग्रतः स्थिता॥१५॥

इत्येवं बाष्पपूर्णाक्षी सखीजनवृता तदा ।
विललाप चिरं कालमुषा कमललोचना॥१६॥

अनाथवत्तां रुदतीं सख्यः सर्वा विचेतसः ।
ऊचुरश्रुपरीताक्षीमुषां सर्वाः समागताः॥१७॥

दुष्टेन मनसा देवि शुभं वा यदि वाशुभम् ।
क्रियते न च ते सुभ्रु किञ्चिद्दुष्टं मनः शुभे॥१८॥

दुष्टेन कामवता मनसा यत् विक्रियते तदेव अशुभं वा पापं पुण्यं वा न त्वनिच्छाप्राप्तमित्यर्थः॥१८॥

प्रसभं देवसंयोगाद्यदि भुक्तासि भामिनि ।
स्वप्नयोगेन कल्याणि व्रतलोपो न विद्यते॥१९॥

व्यभिचारेण ते देवि नास्ति कश्चिद्व्यतिक्रमः ।
न च स्वप्नकृतो दोषो मर्त्यलोकेऽस्ति सुन्दरि॥२०॥

एवं विप्रर्षयो देवि धर्मज्ञाः कथयन्ति वै ।
मनसा चैव वाचा च कर्मणा च विशेषतः ।
दुष्टा या त्रिभिरेतैस्तु पापा सा प्रोच्यते बुधैः॥२१॥

न च ते दृश्यते भीरु मनः प्रचलितं सदा ।
कथं त्वं दोषसन्दुष्टा नियता ब्रह्मचारिणी॥२२॥

प्रचलितं कामवेगवशीकृतं कथं त्वं दोषसन्दुष्टा न कथमपीत्यर्थः॥२२॥

यदि सुप्ता सती साध्वी शुद्धभावा मनस्विनी ।
इमामवस्थां प्राप्ता त्वं नैव धर्मो विलुप्यते॥२३॥

यस्या दुष्टं मनः पूर्वं कर्मणा चोपपादितम् ।
तामाहुरसतीं नाम सती त्वमसि भामिनि॥२४॥

कुलजा रूपसम्पन्ना नियता ब्रह्मचारिणी ।
इमामवस्थां नीतासि कालो हि दुरतिक्रमः॥२५॥

इत्येवमुक्तां रुदतीं बाष्पेणावृतलोचनाम् ।
कुम्भाण्डदुहिता वाक्यं परमं त्विदमब्रवीत्॥२६॥

त्यज शोकं विशालाक्षि अपापा त्वं वरानने ।
श्रुतं मे यदिदं वाक्यं याथातथ्येन तच्छृणु॥२७॥

उषे यदुक्ता देव्यासि भर्तारं ध्यायती तदा ।
समीपे देवदेवस्य स्मर भामिनि तद्वचः॥२८॥

द्वादश्यां शुक्लपक्षस्य वैशाखे मासि यो निशि ।
हर्म्ये शयानां रुदतीं स्त्रीत्वं समुपनेष्यति॥२९॥

भविता स हि ते भर्ता शूरः शत्रुनिबर्हणः ।
इत्युवाच वचो हृष्टा देवी तव मनोगतम्॥३०॥

न हि तद्वचनं मिथ्या पार्वत्या यदुदाहृतम् ।
सा त्वं किमिदमत्यर्थं रोदिषीन्दुनिभानने॥३१॥

एवमुक्ता तया बाला स्मृत्वा देवीवचस्ततः ।
अभवन्नष्टशोका सा बाणपुत्री शुभेक्षणा॥३२॥

उषोवाच स्मरामि भामिनि वचो देव्याः क्रीडागते भवे ।
यथोक्तं सर्वमखिलं प्राप्तं हर्म्यतले मया॥३३॥

भर्ता तु मम यद्येष लोकनाथस्य भार्यया ।
व्यादिष्टः स कथं ज्ञेयस्तत्र कार्यं विधीयताम्॥३४॥

इत्येवमुक्ते वचने कुम्भाण्डदुहिता पुनः ।
व्याजहार यथान्यायमर्थतत्त्त्वविशारदा॥३५॥

न हि तस्य कुलं देवि न कीर्तिर्नापि पौरुषम् ।
कश्चिज्जानाति तत्त्वेन किमिदं त्वं विमुह्यसे॥३६॥

अदृष्टश्चाश्रुतश्चैव दॄष्टः स्वप्ने च यः शुभे ।
कथं ज्ञेयो भवेद्भीरु सोऽस्माभी रतितस्करः ।
येन त्वमसितापाङ्गि मत्तकाशिनि विक्रमात्॥३७॥

रुदती प्रसभं भुक्ता प्रविश्यान्तःपुरं सखि॥३८॥

न ह्यसौ प्राकृतः कश्चिद्यः प्रविष्टः प्रसह्यते ।
नगरं लोकविख्यातमेकः शत्रुनिबर्हणः॥३९॥

आदित्या वसवो रुद्रा अश्विनौ च महौजसौ ।
न शक्ताः शोणितपुरं प्रवेष्टुं भीमविक्रमाः॥४०॥

सोऽयमेतैः शतगुणैर्विशिष्टश्चारिसूदनः ।
प्रविष्टः शोणितपुरं बाणमाक्रम्य मूर्धनि॥४१॥

यस्या नैवंविधो भर्ता भवेद्युद्धविशारदः ।
कस्तस्या जीवितेनार्थो भोगैर्वास्त्यम्बुजेक्षणे॥४२॥

धन्यास्यनुगृहीतासि यस्यास्ते पतिरीदृशः ।
प्राप्तो देव्याः प्रसादेन कन्दर्पसमविक्रमः॥४३॥

इदं तु यत्कार्यतमं शृणु त्वं तन्मयेरितम् ।
विज्ञेयो यस्य पुत्रो वै यन्नामा यत्कुलश्च सः॥४४॥

इत्येवमुक्ते वचने तत्रोषा काममोहिता ।
उवाच कुम्भाण्डासुतां कथं ज्ञस्याम्यहं सखि॥४५॥

त्वमेव चिन्तय सखि नोत्तरं प्रतिभाति मे ।
स्वकार्ये मुह्यते लोको यथा जीवं लभाम्यहम्॥४६॥

उषाया वचनं श्रुत्वा रामा वाक्यमिदं पुनः ।
उवाच रुदतीं चोषां कुम्भाण्डदुहिता सखी॥४७॥

रामा इति कुम्भाण्डदुहितुर्नाम। रामा चित्रलेखांशत्वात् चित्रलेखायाः सामर्थ्यं स्वयं जानन्ती उषाया अपि निवेदयति॥४७॥

कुशला ते विशालाक्षि सर्वथा सन्धिविग्रहे ।
अप्सरा चित्रलेखा वै क्षिप्रं विज्ञाप्यतां सखि॥४८॥

कुशलेति॥४८॥

अस्याः सर्वमशेषेण त्रैलोक्यं विदितं सदा ।
एवमुक्ता तदैवोषा हर्षेणागतविस्मया॥४९॥

तामप्सरसमानाय्य चित्रलेखां सखीं प्रियाम् ।
कृताञ्जलिपुटा दीना उषा वचनमब्रवीत्॥५०॥

सा तच्छ्रुत्वा तु वचनमुषायाः परिकीर्तितम् ।
आश्वासयामास सखी बाणपुत्रीं यशस्विनीम्॥५१॥

ततः सा विस्मयाविष्टा वचनं प्राह दुर्वचम् ।
चित्रलेखामप्सरसं प्रणयात्तां सखीमिदम्॥५२॥

चित्रं लिखति योगादित्यन्वर्थसंज्ञाम् अप्सरसम्॥५२॥

परमं शृणु मे वाक्यं यत्त्वां वक्ष्यामि भामिनि ।
भर्तारं यदि मेऽद्य त्वं नानयिष्यसि मत्प्रियम्॥५३॥

कान्तं पद्मपलाशाक्षं मत्तमातङ्गगामिनम् ।
त्यक्ष्याम्यहं ततः प्राणानचिरात्तनुमध्यमे॥५४॥

चित्रलेखाब्रवीद्वाक्यमुषां हर्षयती शनैः ।
नैषोऽर्थः शक्यतेऽस्माभिर्वेत्तुं भामिनि सुव्रते॥५५॥

न कुलेन न वर्णेन न शीलेन न रूपतः ।
न देशतश्च विज्ञातः स हि चोरो मया सखि॥५६॥

किं तु कर्तुं यथा शक्यं बुद्धिपूर्वं मया सखि ।
प्राप्तं च शृणु मे वाक्यं यथा काममवाप्स्यसि॥५७॥

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
ये विशिष्टाः प्रभावेण रूपेणभिजनेन च॥५८॥

यथाप्रभावं तान्सर्वानालिखिष्याम्यहं सखि ।
मनुष्यलोके ये चापि प्रवरा लोकविश्रुताः॥५९॥

सप्तरात्रेण ते भीरु दर्शयिष्यामि तानहम् ।
ततो विज्ञाय पादस्थं भर्तारं प्रतिपत्स्यसे॥६०॥

पादस्थं चित्रफलकस्थं पट्टस्थमित्यपि पाठः॥६०॥

सा चित्रलेखया प्रोक्ता उषा हितचिकीर्षया ।
क्रियतामेवमित्याह चित्रलेखां सखीं प्रियाम्॥६१॥

ततः कुशलहस्तत्वाद्यथालेख्यं समन्ततः ।
इत्युक्त्वा सप्तरात्रेण कृत्वा लेख्यगतांस्तु तान्॥६२॥

चित्रपट्टगतान्मुख्यानानयामास शोभना ।
ततः प्रास्तीर्य पट्टं सा चित्रलेखा स्वयं कृतम्॥६३॥

उषायै दर्शयामास सखीनां तु विशेषतः ।
एते देवेषु ये मुख्यास्तथा दानववंशजाः॥६४॥

किन्नरोरगयक्षाणां राक्षसानां समन्ततः ।
गन्धर्वासुरदैत्यानां ये चान्ये भोगिनः स्मृताः॥६५॥

मनुष्याणां च सर्वेषां ये विशिष्टतमा नराः ।
तानेतान्पश्य सर्वांस्त्वां यथैव लिखितान्मया॥६६॥

यस्ते भर्ता यथारूपः स मया लिखितः सखि ।
तं त्वं प्रत्यभिजानीहि स्वप्ने यं दृष्टवत्यसि॥६७॥

ततः क्रमेण सर्वांस्तान्दृष्ट्वा सा मत्तकाशिनी ।
देवदानवगन्धर्वविद्याधरगणानथ ।
अतीत्य च यदून्सर्वान्ददर्श यदुनन्दनम्॥६८॥

तत्रानिरुद्धं दृष्ट्वा सा विस्मयोत्फुल्ललोचना ।
उवाच चित्रलेखां तामयं चौरः स वै सखि॥६९॥

येनाहं दूषिता पूर्वं स्वप्ने हर्म्यगता सती ।
सोऽयं विज्ञातरूपो मे कुतोऽयं रतितस्करः॥७०॥

चित्रलेखे वदस्वैनं तत्त्वतो मम शोभने ।
कुलशीलाभिजनतो नाम किं चास्य भामिनि॥७१॥

ततः पश्चाद्विधास्यामि कार्यस्यास्य विनिश्चयम् ।
चित्रलेखोवाच अयं त्रैलोक्यनाथस्य नप्ता कृष्नस्य धीमतः ।
भर्ता तव विशालाक्षि प्राद्युम्निर्भीमविक्रमः॥७२॥

न ह्यस्ति त्रिषु लोकेषु सदृशोऽस्य पराक्रमे ।
उत्पाट्य पर्वतानेव पर्वतैरेष शातयेत्॥७३॥

धन्यास्यनुगृहीतासि यस्यास्ते यदुपुङ्गवः ।
त्र्यक्षपत्न्या समादिष्टः सदृशः सज्जनः पतीः॥७४॥

सज्जनः उत्तमाभिजनः॥७४॥

उषोवाच। त्वमेवात्र विशालाक्षि योग्या भव वरानने ।
न शक्या हि गतिश्चान्या अगत्या मे गतिर्भव॥७५॥

अन्तरिक्षचरा च त्वं योगिनी कामरूपिणी ।
उपायस्यास्य कुशला क्षिप्रमानय मे प्रियम्॥७६॥

योगिनी दम्पत्योः सम्बन्धं कर्तुमर्हा योग्या॥७६॥

उपायश्चिन्त्यतां भीरु सम्प्रतर्क्य प्रिये सुखम् ।
सिद्धार्था सन्निवर्तस्व येनोपायेन सुन्दरि॥७७॥

भवेदापत्सु यन्मित्रं तन्मित्रं शस्यते बुधैः ।
कामार्ता चास्मि सुश्रोणि भव मे प्राणधारिणी॥७८॥

यद्येनं मे विशालाक्षि भर्तारममरोपमम् ।
अद्य नानयसि क्षिप्रं प्राणांस्त्यक्ष्याम्यहं शुभे॥७९॥

उषाया वचनं श्रुत्वा चित्रलेखाब्रवीद्वचः ।
श्रोतुमर्हसि कल्याणि वचनं मे शुचिस्मिते॥८०॥

यथा बाणस्य नगरी रक्ष्यते देवि सर्वशः ।
द्वारकापि तथा भीरु दुराधर्षा सुरैरपि॥८१॥

अयस्मयप्रतिच्छन्ना गुप्तद्वारा च सा पुरी ।
गुप्ता वृष्णिकुमारैश्च तथा द्वारकवासिभिः॥८२॥

अयस्मयैः- कपाटैः प्रतिच्छन्ना॥८२॥

पान्ते सलिलसंयुक्ता विहिता विश्वकर्मणा ।
रक्ष्यते पुरुषैर्घोरैः पद्मनाभस्य शासनात्॥८३॥

प्रान्ते सलिलसंयुक्ता। समुद्रपरिखावती॥८३॥

शैलप्राकारपरिखादुर्गमार्गप्रवेशिनी ।
सप्तप्राकाररचिता पर्वतैर्धातुमण्डितैः॥८४॥

न च शक्यमविज्ञातैः प्रवेष्टुं द्वारकां पुरीम् ।
आत्मानं मां च रक्षस्व पितरं च विशेषतः॥८५॥

निर्बन्धाकरणेन अन्यथा त्रयाणामपि क्लेशः प्रसज्जेत इत्यर्थः॥८५॥

उषोवाच तव योगप्रभावेण शक्यं तत्र प्रवेशनम् ।
किं मे बहुविलापेन श्रूयतां सखि कारणम्॥८६॥

अनिरुद्धस्य वदनं पूर्णचन्द्रसमप्रभम् ।
यद्यहं तन्न पश्यामि यास्यामि यमसादनम्॥८७॥

दूतमासाद्य कार्याणां सिद्धिर्भवति भामिनि ।
तस्माद्दौत्येन मे गच्छ जीवन्तीं मां यदीच्छसि॥८८॥

यदि त्वं मे विजानासि सख्यं प्रेम्णा च भाषितम् ।
क्षिप्रमानय मे कान्तं तवास्मि शरणं गता॥८९॥

जीवितस्य हि सन्देहः क्षयं चैव कुलस्य च ।
कामार्ता हि न पश्यन्ति कामिन्यो मदविक्लवाः॥९०॥

प्रयत्नो युज्यते कार्येष्विति शास्त्रनिदर्शनम् ।
त्वं च शक्ता विशालाक्षि द्वारकायाः प्रवेशने॥९१॥

संस्तुतासि मया भीरु कुरु मे प्रियदर्शनम् ।
चित्रलेखा उवाच सर्वथा संस्तुता तेऽहं वाक्यैरमृतसोदरैः॥९२॥

कारिता च समुद्योगं प्रियैः कान्तैश्च भाषितैः ।
एषा गच्छाम्यहं भीरु क्षिप्रं वै द्वारकां पुरीम्॥९३॥

भर्तारमानयाम्यद्य तव वृष्णिकुलोद्भवम् ।
अनिरुद्धं महाबाहुं प्रविश्य द्वारकां पुरीम्॥९४॥

सा वचस्तथ्यमशिवं दानवानां भयावहम् ।
उक्त्वा चान्तर्हिता क्षिप्रं चित्रलेखा मनोजवा॥९५॥

सखीभिः सहिता ह्यूषा चिन्तयन्ती तु सा स्थिता ।
तृतीये तु मुहूर्ते सा नष्टा बाणपुरात्तदा॥९६॥

सखी प्रियं चिकीर्षन्ती पूजयन्ती तपोधनान् ।
क्षणेन समनुप्राप्ता द्वारकां कृष्णपालिताम्॥९७॥

कैलासशिखराकारैः प्रासादैरुपशोभिताम् ।
ददर्श द्वारकां रम्यां दिवि तारामिव स्थिताम्॥९८॥

तारामिवेति कृत्स्ननगरप्रभाया एकीभाव उक्तः॥९८॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि उषाहरणे चित्रलेखाया द्वारकागमने अष्टादशाधिकशततमोऽध्यायः॥११८॥
अनिरुद्धस्योषया सह गान्धर्वेण विवाहो बाणतत्सैन्याभ्यां युद्धं च-११९

वैशम्पायन उवाच। अथ द्वारवतीं प्राप्य स्थिता सा भवनाण्तिके ।
प्रवृत्तिहरणार्थाय चित्रलेखा व्यचिन्तयत्॥१॥

अथेति। प्रवृत्तिः बाणपुरेऽनिरुद्धो नीत इति वार्ता तस्याः हरणं कृष्णे प्रापणं तदर्थं चिन्तयन्ती बाणगर्वशमनार्थिनी चित्रलेखा व्यचिन्तयत्॥१॥

अथ चिन्तयती सा तु बुद्धिबुद्ध्यर्थनिश्चयम् ।
अपश्यन्नारदं तत्र ध्यायन्तमुदके मुनिम्॥२॥

बुद्धिबुद्ध्यर्थनिश्चयं बुद्ध्या यः बुद्ध्यर्थनिश्चयस्तम्॥२॥

तं दृष्ट्वा चित्रलेखा तु हर्षेणोत्फुल्ललोचना ।
उपसृत्याभिवाद्याथ तत्रैवाधोमुखी स्थिता॥३॥

नारदस्त्वाशिषं दत्त्व चित्रलेखामथाब्रवीत् ।
किमर्थमिह सम्प्राप्ता श्रोतुमिच्छामि तत्त्वतः॥४॥

देवर्षिमथ तं दिव्यं नारदं लोकपूजितम् ।
कृताञ्जलिपुटा भूत्वा चित्रलेखा त्वथाब्रवीत्॥५॥

भगवञ्छ्रूयतां वाक्यं दौत्येनाहमिहागता ।
अनिरुद्धं मुने नेतुं यदर्थं च शृणुष्व मे॥६॥

नगरे शोणितपुरे बाणो नाम महासुरः ।
तस्य कन्या वरारोहा नाम्नोषेति च विश्रुता॥७॥

भगवन्सानुरक्ता च प्राद्युम्निं पुरुषोत्तमम् ।
देव्या वरविसर्गेण तस्या भर्ता विनिर्मितः॥८॥

तं च नेतुं समायाता तत्र सिद्धिं विधत्स्व मे ।
मया नीतेऽनिरुद्धं तु नगरं शोणिताह्वयम्॥९॥

न मनस्तत्र रेमे इति शेषः। यतोऽसौ तमेव उषासम्भोगमेवाचिन्तयत्। एतेन यथा उषा स्वप्नेऽनिरुद्धमपश्यदेवभितरोऽपि तामपश्यदिति ज्ञेयम्॥९॥

प्रवृत्तिः पुण्डरीकाक्षे त्वयाख्येया महामुने ।
अवश्यं भविता चैव कृष्णेन सह विग्रहः ।
बाणस्य सुमहान्सङ्ख्ये दिव्यो हि स महासुरः॥१०॥

न च शक्तोऽनिरुद्धस्तं युद्धे जेतुं महासुरम् ।
सहस्रबाहुमायान्तं जयेत्कृष्णो महाभुजः॥११॥

भगवन्सन्निकर्षं ते यदर्थमहमागता ।
कथं हि पुण्डरीकाक्षो ज्ञापितस्तदिदं भवेत्॥१२॥

ज्ञापितः कथं भवेत् इदं च कृष्णबाणयोर्युद्धं च कथं भवेदिति योजना॥१२॥

त्वत्प्रसादाच्च भगवन्न मे कृष्णाद्भयं भवेत् ।
स हि तत्त्वार्थदृष्टिस्तु अनिरुद्धः कथं ह्रियेत्॥१३॥

स कृष्णस्तत्त्वार्थदृष्टिरिति मम भयं नास्ति परन्तु अनिरुद्धः कथं ह्रियेत् कथं हरणं प्राप्नुयात्तद्वदेति भावः॥१३॥

क्रुद्धो हि स महाबाहुस्त्रैलोक्यमपि निर्दहेत् ।
पौत्रशोकाभिसन्तप्तः शापेन स दहेत माम्॥१४॥

तत्रोपायं च भगवंश्चिन्तितुं वै त्वमर्हसि ।
यथा ह्यूषा लभेत्कान्तं मम चैवाभयं भवेत्॥१५॥

अभयं भयनिवर्तकं वचनम्॥१५॥

इत्येवमुक्तो भगवांश्चित्रलेखां स नारदः ।
उवाच च शुभं वाक्यं मा भैस्त्वमभयं शृणु॥१६॥

त्वया नीतेऽनिरुद्धे तु कन्यावेश्म प्रवेशिते ।
यदि युद्धं भवेत्तत्र स्मर्तव्योऽहं शुचिस्मिते॥१७॥

ममैष परमः कामो युद्धं द्रष्टुं मनोरमे ।
तद्दृष्ट्वा च महाप्रीतिः प्रवृत्तिश्च दृढा भवेत्॥१८॥

प्रवृत्तिः युद्धं कारयितुमिति शेषः॥१८॥

गृह्यतां तामसी विद्या सर्वलोकप्रमोहिनी ।
कृतकृत्यस्तु ते देवि एष विद्यां ददाम्यहम्॥१९॥

कृतकृत्यः विद्याविषये यत्कृत्यं पुरश्चरणादि तत्सर्वं मया कृतमस्ति तेन प्राप्तमात्रैव सिद्धिकरीयं विद्येत्यर्थः॥१९॥

एवमुक्ते तु वचने नारदेन महर्षिणा ।
तथेति वचनं प्राह चित्रलेखा मनोजवा॥२०॥

अभिवाद्य महात्मानमृषीणां नारदं वरम् ।
सा जगामानिरुद्धस्य गृहं चैवान्तरिक्षगा॥२१॥

ततो द्वारवतीमध्ये कामस्य भुवनं शुभम् ।
तत्समीपेऽनिरुद्धस्य भवनं सा विवेश ह॥२२॥

सौवर्णवेदिकास्तम्भं रुक्मवैडूर्यतोरणम् ।
माल्यदामावसक्तं च पूर्णकुम्भोपशोभितम्॥२३॥

बर्हिकण्ठनिभग्रीवं प्रासादैरेकसञ्चयैः ।
मणिप्रवालविस्तीर्णं देवगन्धर्वनादितम्॥२४॥

बर्हिकण्ठनिभग्रीवमित्युपरिप्रदेशस्थः कण्ठभागो जह्न इति प्रसिद्धो यस्य तं प्रासादैरेकसञ्चयैः एक एव सञ्चयो दीर्घकाष्ठं पाषाणो वा येषु मध्ये स्तम्भरहितैरित्यर्थः। मणिभिः प्रबालैश्च विस्तीर्णं विशेषेणास्तरणरूपेण रचितम्॥२४॥

ददर्श भवनं यत्र प्राद्युम्निरवसत्सुखम् ।
ततः प्रविश्य सहसा भवनं तस्य तन्महत्॥२५॥

तत्रानिरुद्धं सापश्यच्चित्रलेखा वराप्सराः ।
मध्ये परमनारीणां तरापतिमिवोदितम्॥२६॥

क्रीडाविहारे नारीभिः सेव्यमानमितस्ततः ।
पिबन्तं मधु माध्वीकं श्रिया परमया युतम्॥२७॥

वरासनगतं तत्र यथा चैडविलं तथा ।
वाद्यते समतालं च गीयते मधुरं तथा॥२८॥

ऐडविलं कुबेरम्॥२८॥

न च तस्य मनस्तत्र तमेवार्थमचिन्तयत् ।
स्त्रियः सर्वगुणोपेता नृत्यन्ते तत्र तत्र वै॥२९॥

न चास्य मनसस्तुष्टिं चित्रलेखा प्रपश्यति ।
न चाभिरमते भोगैर्न चापि मधु सेवते॥३०॥

व्यक्तमस्य हि तत्स्वप्नो हृदये परिवर्तते ।
इति तत्रैव बुद्ध्या च निश्चिता गतसाध्वसा॥३१॥

निश्चिता निश्चयवती। गतसाध्वसा निर्भया॥३१॥

सा दृष्ट्वा परमस्त्रीणां मध्ये शक्रध्वजोपमम् ।
चिन्तयाविष्टहृदया चित्रलेखा मनस्विनी॥३२॥

कथं कार्यमिदं कार्यं कथं स्वस्ति भवेदिति ।
सान्तर्हिता चिन्तयित्वा चित्रलेखा यशस्विनी॥३३॥

तामस्या च्छादयामास विद्यया शुभलोचना ।
ततोऽन्तरिक्षादेवाशु प्रासादोपर्यधिष्ठिता॥३४॥

छादयामास अनिरुद्वव्यतिरिक्तान्॥३४॥

प्राद्युम्निं वचनं प्राह श्लक्ष्णं मधुरया गिरा ।
चक्षुर्दत्त्वा तु सा तस्मै कृत्वा चात्मनि दर्शनम्॥३५॥

विविक्ते सा च वै देशे तं वाक्यमिदमब्रवीत् ।
अपि ते कुशलं वीर सर्वत्र यदुनन्दन॥३६॥

अहस्तावत्प्रदोषो वा कच्चिद्गच्छति ते सुखम् ।
शृणुष्व त्वं महाबाहो विज्ञप्तिं मे रतीसुत॥३७॥

उषाया मम सख्यास्तु वाक्यं वक्ष्यामि तत्त्वतः ।
स्वप्ने तु या त्वया दृष्टा स्त्रीभावं चापि भावित॥३८॥

बिभर्ति हृदये या त्वामुषया प्रेषिता त्वहम् ।
रुदन्ती जृम्भती चैव निःश्वसन्ती मुहुर्मुहुः॥३९॥

बिभर्ति या इत्यनुषज्यते॥३९॥

त्वद्दर्शनपरा सौम्य कामिनी परितप्यते ।
यदि त्वं यास्यसे वीर धारयिष्यति जीवितम्॥४०॥

अदर्शनेन मरणं तस्या नास्त्यत्र संशयः ।
यदि नारीसहस्रं ते हृदिस्थं यदुनन्दन॥४१॥

स्त्रियाः कामयमानायाः कर्तव्या हस्तधारणा ।
त्वं च तस्या वरोत्सर्गे दत्तो देव्या मनोरथः॥४२॥

वरोत्सर्गे वरप्रदानकाले दत्तो वरत्वेनेति शेषः॥४२॥

चित्रपट्टं मया दत्तं त्वच्चिह्नं दृश्य जीवति ।
सानुक्रोशो यदुश्रेष्ठ भव तस्या मनोरथे॥४३॥

त्वच्चिह्नं त्वत्प्रतिमाङ्कितम्॥४३॥

उषा ते पतते मूर्ध्ना वयं च यदुनन्दन ।
श्रूयतां चोद्भवस्तस्याः कुलशीलं च यादृशम्॥४४॥

संस्थानं प्रकृतिं चास्याः पितरं च ब्रवीमि ते ।
वैरोचनिसुतो वीर बाणो नाम महासुरः॥४५॥

स राजा शोणीतपुरे तस्य त्वामिच्छते सुता ।
त्वद्भावगतचित्ता सा त्वन्मयं चापि जीवितम्॥४६॥

मनोरथकृतो भर्ता देव्या दत्तो न संशयः ।
त्वत्सङ्गमात्सा सुश्रोणी प्राणान्धारयते शुभा॥४७॥

चित्रलेखावचः श्रुत्वा सोऽनिरुद्धोऽब्रवीदिदम् ।
दृष्टा स्वप्ने मया सा हि तन्मत्तः शृणु शोभने॥४८॥

रूपं कान्तिं मतिं चैव संयोगं रुदितं तथा ।
एवं सर्वमहोरात्रं मुह्यामि परिचिन्तयन्॥४९॥

यद्यहं समनुग्राह्यो यदि सख्यं त्वमिच्छसि ।
नयस्व चित्रलेखे मां द्रष्टुमिच्छाम्यहं प्रियाम्॥५०॥

कामसन्तापसन्तप्तः प्रियासङ्गमकामतः ।
एषोऽञ्जलिर्मया बद्धः सत्यं स्वप्नं कुरुष्व मे॥५१॥

तस्य तद्वचनं श्रुत्वा चित्रलेखा वराप्सराः ।
सफलोऽद्य मम क्लेशः सख्या मे यत्प्रयाचितम्॥५२॥

वैशम्पायन उवाच। ईप्सितं तस्य विज्ञाय अनिरुद्धस्य भामिनी ।
चित्रलेखा ततस्तुष्टा तथेति च तमब्रवीत्॥५३॥

हर्म्ये स्त्रीगणमध्यस्थं कृत्वा चान्तर्हितं तदा ।
उत्पपात गृहीत्वा सा प्राद्युम्निं युद्धदुर्मदम्॥५४॥

सा तमध्वानमागम्य सिद्धचारणसेवितम् ।
सहसा शोणितपुरं प्रविवेश मनोजवा॥५५॥

अदर्शनं तमानीय मायया कामरूपिणी ।
अनिरुद्धं महाभागा यत्रोषा तत्र गच्छति॥५६॥

अदर्शनम् अन्यैरदर्शनम्॥५६॥

उषाया दर्शयच्चैनं चित्राभरणभूषितम् ।
चित्राम्बरधरं वीरं रहस्यमररूपिणम्॥५७॥

दर्शयत् अदर्शयत्॥५७॥

तत्रोषां विस्मितां दृष्ट्वा हर्म्यस्थां सखिसन्निधौ ।
प्रवेशयामास च तं तदा सा स्वगृहं ततः॥५८॥

प्रहर्षोत्फुल्लनयना प्रियं दृष्ट्वार्थकोविदा ।
सा हर्म्यस्था तमर्घेण यादवं समपूजयत्॥५९॥

चित्रलेखां परिष्वज्य प्रियाख्यानैरतोषयत् ।
त्वरिता कामिनी प्राह चित्रलेखां भयातुरा॥६०॥

सखीदं वै कथं कार्यं गुह्ये कार्यविशारदे ।
गुह्ये कृते भवेत्स्वस्ति प्रकाशे जीवितक्षयः॥६१॥

कथं केनोपायेन गुह्यं गोपनीयं तद्वदेति भावः। गुह्ये गुप्ते॥६१॥

इत्युक्त्वा त्वरमाणा सा गुह्यदेशे स्वलङ्कृता ।
कान्तेन सह संयुक्ता स्थिता वै भीतभीतवत्॥६२॥

चित्रलेखाब्रवीद्वाक्यं शृणु त्वं निश्चयं सखि ।
कृतं पुरुषकारेण दैवं नाशयते सखि॥६३॥

यदि देव्याः प्रसादस्ते ह्यनुकूलो भविष्यति ।
अद्य मायाकृतं गुह्यं न कश्चिज्ज्ञास्यते नरः॥६४॥

सख्या वै एवमुक्ता सा पर्यवस्थितचेतना ।
एवमेतदिति प्राह सानिरुद्धमिदं वचः॥६५॥

दिष्ट्या स्वप्नगतश्चौरो दृश्यते सुभगः पतिः ।
यत्कृते तु वयं खिन्ना दुर्लभप्रियकाङ्क्षया॥६६॥

कच्चित्तव महाबाहो कुशलं सर्वतो गतम् ।
हृदयं हि मृदु स्त्रीणां तेन पृच्छाम्यहं तव॥६७॥

तस्यास्तद्वचनं श्रुत्वा उषायाः श्लक्ष्णमर्थवत् ।
सोऽप्याह यदुशार्दूलः शुभाक्षरतरं वचः॥६८॥

हर्षविप्लुतनेत्रायाः पाणिनाश्रु प्रमृज्य च ।
प्रहस्य सस्मितं प्राह हृदयग्राहकं वचः॥६९॥

कुशलं मे वरारोहे सर्वत्र मितभाषिणि ।
त्वत्प्रसादेन मे देवि प्रियमावेदयामि ते॥७०॥

अदृष्टपूर्वश्च मया देशोऽयं शुभदर्शने ।
निशि स्वप्ने यथा दृष्टः सकृत्कन्यापुरे तथा॥७१॥

एवमेवमहं भीरु त्वत्प्रसादादिहागतः ।
न च तद्रुद्रपत्न्या वै मिथ्या वाक्यं भविष्यति॥७२॥

देव्यास्ते प्रीतिमाज्ञाय त्वत्प्रियार्थं च भामिनि ।
अनुप्राप्तोऽस्मि चाद्यैव प्रसीद शरणं गतः॥७३॥

इत्युक्ता त्वरमाणा सा गुह्यदेशे स्वलङ्कृता ।
कान्तेन सह संयुक्ता स्थिता वै भीतभीतवत्॥७४॥

ततश्चोद्वाहधर्मेण गान्धर्वेण समीयतुः ।
अन्योन्यं रमतुस्तौ तु चक्रवाकौ यथा दिवा॥७५॥

पतिना सानिरुद्धेन मुमुदे तु वराङ्गना ।
कान्तेना सह संयुक्ता दिव्यवस्त्रानुलेपना॥७६॥

रममाणानिरुद्धेन अविज्ञाता सुता तदा ।
तस्मिन्नेव क्षणे प्राप्ते यदूनामृषभो हि सः॥७७॥

दिव्यमाल्याम्बरधरो दिव्यस्रगनुलेपनः ।
उषया सह संयुक्तो विज्ञातो बाणरक्षिभिः॥७८॥

ततस्तैश्चारपुरुषैर्बाणस्यावेदितं द्रुतम् ।
यथा दृष्टमशेषेण कन्यायास्तदतिक्रमम्॥७९॥

ततः किङ्करसैन्यं तु व्यादिष्टं भीमकर्मणा ।
बलेः पुत्रेण वीरेण बाणेनामित्रघातिना॥८०॥

गच्छध्वं सहिताः सर्वे हन्यतामेव दुर्मतिः ।
येन नः कुलचारित्रं दूशितं धूषितात्मना॥८१॥

उषायां धर्षितायां हि कुलं नो धर्षितं महत् ।
असम्प्रदत्तां योऽस्माभिः स्वयङ्ग्राहमधर्षयत्॥८२॥

अहो वीर्यमहो धैर्यमहो धार्ष्ट्यं च दुर्मतेः ।
यः पुरं भवनं चेदं प्रविष्टो नः स बालिशः॥८३॥

एवमुक्त्वा पुनस्तां तु किङ्करांश्चोदयद्भृशम् ।
ते तस्याज्ञामथो गृह्य सुसन्नद्धा विनिर्ययुः ।
यत्रानिरुद्धो ह्यभवत्तत्रागच्छन्महाबलाः॥८४॥

नानाशस्त्रोद्यतकरा नानारूपा भयङ्कराः ।
दानवाः समभिक्रुद्धाः प्राद्युम्निवधकाङ्क्षिणः॥८५॥

रुरोद तद्बलं दृष्ट्वा बाष्पेणावृतलोचना ।
प्राद्युम्निवधभीता सा बाणपुत्री यशस्विनी॥८६॥

ततस्तु रुदतीं दृष्ट्वा तां सुतां मृगलोचनाम् ।
हा हा कान्तेति वेपन्तीमनिरुद्धोऽभ्यभाषत॥८७॥

अभयं तेऽस्तु सुश्रोणि मा भैस्त्वं हि मयि स्थिते ।
सम्प्राप्तो हर्षकालास्ते नेहास्ति भयकारणम्॥८८॥

कृत्स्नोऽयं यदि बाणस्य भृत्यवर्गो यशस्विनि ।
आगच्छति न मे चिन्ता भीरु पश्याद्य विक्रमम्॥८९॥

तस्य सैन्यस्य निनदं श्रुत्वभ्यागच्छतस्ततः ।
सहसैवोत्थितः श्रीमान्प्राद्युम्निः किमिति ब्रुवन्॥९०॥

अथ सोऽपश्यत बलं ननाप्रहरणोद्यतम् ।
स्थितं समन्ततस्तत्र परिवार्य गृहं महत्॥९१॥

ततोऽभ्यगच्छत्त्वरितो यत्र तद्वेष्टितं बलम् ।
क्रुद्धः स्वबलमास्थाय अदशद्दशनच्छदम्॥९२॥

ततो योद्धुमपोढानां बाणेयानां निशम्य तु ।
सा चित्रलेखास्मरत नारदं देवदर्शनम्॥९३॥

योद्धुमपोढानां युद्धं कर्तुं बहिर्निर्गतानाम्। बाणेयानां बाणभटानाम्। षष्ठी द्वितीयार्थे। तान् निशम्य दृष्ट्वा अस्मरत स्मृतवती॥९३॥

ततो निमेषमात्रेण सम्प्राप्तो मुनिपुङ्गवः ।
स्मृतोऽथ चित्रलेखायाः पुरं शोणितसाह्वयम्॥९४॥

अन्तरिक्षे स्थितस्तत्र सोऽनिरुद्धमथाब्रवीत् ।
मा भयं स्वस्ति ते वीर प्राप्तोऽस्म्यद्य पुरं तव॥९५॥

ततश्च नारदं दृष्ट्वा सोऽभिवाद्य महाबलः ।
प्रहृष्टमानसो भूत्वा युद्धार्थमभिवर्तत॥९६॥

ततस्तेषां स्वनं श्रुत्वा सर्वेषामेव गर्जताम् ।
सहसैवोत्थितः शूरस्तोत्रार्दित इव द्विपः॥९७॥

तमापतन्तं सम्प्रेक्ष्य सन्दष्टौष्ठं महाभुजम् ।
प्रासादाच्चावरोहन्तं भयार्ता विप्रदुद्रुवुः॥९८॥

अन्तःपुरद्वारगतं परिघं गृह्य चातुलम् ।
वधाय तेषां चिक्षेप नानायुद्धविशारदः॥९९॥

ते सर्वे बाणवर्षैश्च गदाभिर्मुशलैस्तथा ।
असिभिः शक्तिभिः शूलैर्निजघ्नू रणगोचरे॥१००॥

स हन्यमानो नाराचैः परिघैश्च समन्ततः ।
दानवैः समभिक्रुद्धैः प्राद्युम्निः शस्त्रकोविदैः॥१०१॥

नाक्षुभ्यत्सर्वभूतात्मा नदन्मेघ इवोष्णगे ।
आविध्य परिघं घोरं तेषां मध्ये व्यतिष्ठत॥१०२॥

सर्वभूतात्मा अनिरुद्धाख्यः समष्ट्यहङ्काररूपत्वेनेत्यर्थः॥१०२॥

सूर्यो दिवि चरन्मध्ये मेघानामिव सर्वशः ।
दण्डकृष्णाजिनधरो नारदो हृष्टमानसः ।
साधु साध्विति वै तत्र सोऽनिरुद्धमभाषत॥१०३॥

ते हन्यमाना रौद्रेण परिघेणामितौजसा ।
प्राद्रवन्त भयात्सर्वे मेघा वातेरिता यथा॥१०४॥

विद्राव्य दानवान्वीरः परिघेण सुविक्रमः ।
अनिरुद्धो रणे हृष्टः सिंहनादं ननाद च॥१०५॥

घर्मान्ते तोयदो व्योम्नि नदन्निव महास्वनः ।
तिष्ठध्वमिति चुक्रोश दानवान्युद्धदुर्मदान्॥१०६॥

प्राद्युम्निर्व्यहनच्चापि सर्वाञ्छत्रुनिबर्हणः ।
तेन ते समरे सर्वे हन्यमाना महात्मना॥१०७॥

यतो बाणस्ततो भीता ययुर्युद्धपराङ्मुखाः ।
ततो बाणसमीपस्थाः श्वसन्तो रुधिरोक्षिताः॥१०८॥

न शर्म लेभिरे दैत्या भयविक्लवचेतसः ।
मा भैष्ट मा भैष्ट इति राज्ञा ते तेन चोदिताः॥१०९॥

त्रासमुत्सृज्य चैकस्था युद्ध्यध्वं दानवर्षभाः ।
तानुवाच पुनर्बाणो भयविस्रस्तलोचनान्॥११०॥

किमिदं लोकविख्यातं यश उत्सृज्य दूरतः ।
भवन्तो यान्ति वैक्लव्यं क्लीबा इव विचेतसः॥१११॥

कोऽयं यस्य भयत्रस्ता भवन्तो यान्त्यनेकशः ।
कुलापदेशिनः सर्वे नानायुद्धविशारदाः॥११२॥

कुलापदेशिनः प्रख्यातकुलाः॥११२॥

भवद्भिर्न हि मे कार्यं युद्धसाहाय्यमद्य वै ।
अब्रवीद्ध्वंसतेत्येवं मत्समीपाच्च नश्यत॥११३॥

भवद्भिर्मे साहाय्यं न कार्यम् इति ध्वंसतेति चाब्रवीदिति सम्बन्धः॥११३॥

अथ तान्वाग्भिरुग्राभिस्त्रासयन्बहुधा बली ।
व्यादिदेश रणे शूरानन्यानयुतशः पुनः॥११४॥

प्रमाथगणभूयिष्ठं व्यादिष्टं तस्य निग्रहे ।
अनीकं सुमहारौद्रं नानाप्रहरणोद्यतम्॥११५॥

प्रमाथगणः प्रमथगणः॥११५॥

अथान्तरिक्षे बहुधा विद्युद्वद्भिरिवाम्बुदैः ।
बाणानीकैः समभवद्व्याप्तं सन्दीप्तलोचनैः॥११६॥

केचित्क्षितिस्थाः प्राक्रोशङ्गजा इव समन्ततः ।
अन्तरिक्षे व्यराजन्त घर्मान्त इव तोयदाः॥११७॥

ततस्तत्सुमहत्सैन्यं समेतमभवत्पुनः ।
तिष्ठ तिष्ठेति च तदा वाचोऽश्रूयन्त सर्वशः॥११८॥

अनिरुद्धो रणे विरः स च तानभ्यवर्तत ।
तदाश्चर्यं समभवद्यदेकस्तु समागतः॥११९॥

अयुध्यत महावीर्यैर्दानवैः सह संयुगे ।
तेषामेव च जग्राह परिघांस्तोमरानपि॥१२०॥

तैरेव च तदा युद्धे ताञ्जघान महाबलः ।
पुनः परिघमुत्सृज्य प्रगृह्य रणमूर्धनि॥१२१॥

स तेन विचरन्मार्गानेकः शत्रुनिबर्हणः ।
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं प्लुतम्॥१२२॥

इति प्रकारान्द्वात्रिंशद्विचरन्नाभ्यदृश्यत ।
एकं सहस्रशश्चात्र ददृशू रणमूर्धनि॥१२३॥

क्रीडन्तं बहुधा युद्धे व्यादितास्यमिवान्तकम् ।
ततस्तेनाभिसन्तप्ता रुधिरौघपरिप्लुताः॥१२४॥

पुनर्भग्नाः प्राद्रवन्त यत्र बाणो व्यवस्थितः ।
गजवाजिरथौघैस्ते चोह्यमानाः समन्ततः॥१२५॥

कृत्वा चार्तस्वरं घोरं दिशो जग्मुर्महौजसः ।
एकैकस्योपरि तदा तेऽन्योन्यं भयपीडिताः॥१२६॥

वमन्तः शोणितं जग्मुर्विषादाद्विमुखा रणे ।
न बभूव पुरा देवैर्युध्यतां तादृशं भयम्॥१२७॥

यादृशं युद्ध्यमानानामनिरुद्धेन संयुगे ।
केचिद्वमन्तो रुधिरं ह्यपतन्वसुधातले॥१२८॥

दानवा गिरिशृङ्गाभा गदाशूलासिपाणयः ।
ते बाणमुत्सृज्य रणे जग्मुर्भयसमाकुलाः॥१२९॥

विशालमाकाशतलं दानवा निर्जितास्तदा ।
निःशेषभग्नां महतीं दृष्ट्वा तां वाहिनीं तदा॥१३०॥

बाणः क्रोधात्प्रजज्वाल समिद्धोऽग्निरिवाध्वरे ।
अन्तरिक्षचरो भूत्वा साधुवादी समन्ततः॥१३१॥

नारदो नृत्यति प्रीतो ह्यनिरुद्धस्य संयुगे ।
एतस्मिन्नन्तरे चैव बाणः परमकोपनः॥१३२॥

कुम्भाण्डसङ्गृहीतं तु रथमास्थाय वीर्यवान् ।
ययौ यत्रानिरुद्धो वै उद्यतासी रथे स्थितः॥१३३॥

पट्टिशासिगदाशूलमुद्यम्य च परश्वधान् ।
बभौ बाहुसहस्रेण शक्रो ध्वजशतैरिव॥१३४॥

बद्धगोधाङ्गुलित्रैश्च बाहुभिः स महाभुजः ।
नानाप्रहरणोपेतः शुशुभे दानवोत्तमः॥१३५॥

सिंहनादं नदन्क्रुद्धो विस्फारितमहाधनुः ।
अब्रवीत्तिष्ठ तिष्ठेति क्रोधसंरक्तलोचनः॥१३६॥

वचनं तस्य संश्रुत्य प्राद्युम्निरपराजितः ।
बाणस्य वदनं सङ्ख्ये समुद्वीक्ष्य ततोऽहसत्॥१३७॥

किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् ।
ऋष्यचर्मावनद्धाङ्गं दशनल्वं महारथम्॥१३८॥

ऋष्यो मृगविशेषः। नल्वो हस्तचतुःशतम्॥१३८॥

तस्य वाजिसहस्रं तु रथे युक्तं महात्मनः ।
पुरा देवासुरे युद्धे हिरण्यकशिपोरिव॥१३९॥

तमापतन्तं ददृशे दानवं यदुपुङ्गवः ।
सम्प्रहृष्टस्ततो युद्धे तेजसा चाप्यपूर्यत॥१४०॥

असिचर्मधरो वीरः स्वस्थः सङ्ग्रामलालसः ।
नरसिंहो यथा पूर्वमादिदैत्यवधोद्यतः॥१४१॥

आपतन्तं ददर्शाथ खड्गचर्मधरं तदा ।
खड्गचर्मधरं तं तु दृष्ट्वा बाणः पदातिनम्॥१४२॥

प्रहर्षमतुलं लेभे प्राद्युम्निवधकाङ्क्षया ।
तनुत्रेण विहीनश्च खड्गपाणीश्च यादवः॥१४३॥

अजेय इति तं मत्वा युद्धायाभिमुखः स्थितः ।
अनिरुद्धं रणे बाणो जितकाशी महाबलः॥१४४॥

वाचं चोवाच सङ्क्रुद्धो गृह्यतां हन्यतामिति ।
वाचं च ब्रुवतस्तस्य श्रुत्वा प्राद्युम्निराहवे ॥१४५॥

बाणस्य ब्रुवतः क्रोधाद्धसमानोऽभ्युदैक्षत ।
उषां भयपरित्रस्तां रुदतीं तत्र भामिनीम्॥१४६॥

अनिरुद्धः प्रहस्याथ समाश्वास्य च तां स्थितः ।
अथ बाणः शरौघाणां क्षुद्रकाणां समन्ततः॥१४७॥

चिक्षेप समरे क्रुद्धो ह्यनिरुद्धवधेप्सया ।
अनिरुद्धस्तु चिच्छेद काङ्क्षंस्तस्य पराजयम्॥१४८॥

ववर्ष शरजालानि क्षुद्रकाणां समन्ततः ।
बाणोऽनिरुद्धशिरसि काङ्क्षंस्तस्य रणे वधम्॥१४९॥

क्षुद्रकाणां बाणविशेषाणाम्। षष्ठी तृतीयार्थे॥१४९॥

ततो बाणसहस्राणि चर्मणा व्यवधूय सः ।
बभौ प्रमुखतस्तस्य स्थितः सूर्य इवोदये॥१५०॥

सोऽभिभूय रणे बाणमास्थितो यदुनन्दनः ।
सिंहप्रमुखतो दृष्ट्वा गजमेकं यथा वने॥१५१॥

ततो बाणः स बाणौघैर्मर्मभेदिभिराशुगैः ।
विव्याध निशितैस्तीक्ष्णैः प्राद्युम्निमपराजितम्॥१५२॥

समाहतस्ततो बाणैः खड्गचर्मधरोऽपतत् ।
तमापतन्तं निशितैरभ्यघ्नन्सायकैस्तथा॥१५३॥

सोऽतिविद्धो महाबाहुर्बाणैः सन्नतपर्वभिः ।
क्रोधेनाभिप्रजज्वाल चिकीर्षुः कर्म दुष्करम्॥१५४॥

रुधिरौघप्लुतैर्गात्रैर्बाणवर्षैः समाहितः ।
अभिभूतः सुसङ्क्रुद्धो ययौ बाणरथं प्रति॥१५५॥

असिभिर्मुशलैः शूलैः पट्टिशैस्तोमरैस्तथा ।
सोऽतिविद्धः शरौघैश्च प्राद्युम्निर्न व्यकम्पत॥१५६॥

आप्लुत्य सहसा क्रुद्धो रथेषां तस्य सोऽच्छिनत् ।
जघान चाश्वान्खड्गेन बाणस्य रणमूर्धनि॥१५७॥

तं पुनः शरवर्षेण पट्टिशैस्तोमरैरपि ।
चकारान्तर्हितं बाणो युद्धमार्गविशारदः॥१५८॥

हतोऽयमिति विज्ञाय प्राणदन्नैर्ऋता गणाः ।
ततोऽवप्लुत्य सहसा रथपार्श्वे व्यवस्थितः॥१५९॥

शक्तिं बाणस्ततः क्रुद्धो घोररूपां भयानकाम् ।
जग्राह ज्वलितां घोरां घण्टामालाकुलां रणे॥१६०॥

ज्वलनादित्यसङ्काशां यमदण्डोग्रदर्शनाम् ।
प्राहिणोत्तामसङ्गेन महोल्कां ज्वलितामिव॥१६१॥

असङ्गेन उषासम्बन्धस्यापि वधेन एतस्मिन्मृते मम दुहिता विधवा भविष्यतीत्यपि अविगणय्येत्यर्थः॥१६१॥

तामापतन्तीं सम्प्रेक्ष्य जीवितान्तकरीं तत्दा ।
सोऽभिप्लुत्य तदा शक्तिं जग्राह पुरुषोत्तमः॥१६२॥

निर्बिभेद ततो बाणं तया शक्त्या महाबलः ।
सा भित्वा तस्य देहं वै प्राविशद्धरणीतलम्॥१६३॥

स गाढविद्धो व्यथितो ध्वजयष्टिं समाश्रितः ।
ततो मूर्च्छाभिभूतं तं कुम्भाण्डो वाक्यमब्रवीत्॥१६४॥

उपेक्षसे दानवेन्द्र किमेवं शत्रुमुद्यतम् ।
लब्धलक्षो ह्ययं वीरो निर्विकारोऽद्य दृश्यते॥१६५॥

मायामाश्रित्य युध्यस्व नायं वध्योऽन्यथा भवेत् ।
आत्मानं मां च रक्षस्व प्रमादात्किमुपेक्षसे॥१६६॥

वध्यतामयमद्यैव न नः सर्वान्विनाशयेत् ।
अन्यांश्च शतशो हत्वा उषां नीत्वा व्रजिष्यति॥१६७॥

कुम्भाण्डवचनैरेवं दानवेन्द्रः प्रणोदितः ।
वाचं रूक्षामभिक्रुद्धः प्रोवाच वदतां वरः॥१६८॥

एषोऽहमस्य विदधे मृत्युं प्राणहरं रणे ।
आदास्याम्यहमेतं वै गरुत्मानिव पन्नगम्॥१६९॥

इत्येवमुक्त्वा सरथः सध्वजः साश्वसारथिः ।
गन्धर्वनगराकारस्तत्रैवान्तरधीयत॥१७०॥

मुमोच निशितान्बाणांश्छन्नो मायाधरो बली ।
विज्ञायान्तर्हितं बाणं प्राद्युम्निरपराजितः॥१७१॥

पौरुषेण समायुक्तः सम्प्रैक्षत दिशो दश ।
आस्थाय तामसीं विद्यां तदा क्रुद्धो महाबलः॥१७२॥

मुमोच विशिखांस्तीक्ष्णांश्छन्नो मायाधरो बली ।
प्राद्युम्निर्विशिखैर्बद्धः सर्पभूतैः समन्ततः॥१७३॥

वेष्टितो बहुधा तस्य देहः पन्नगराशिभिः ।
स तु वेष्टितसर्वाङ्गो बद्धः प्राद्युम्निराहवे॥१७४॥

निष्प्रयत्नः कृतस्तस्थौ मैनाक इव पर्वतः ।
ज्वालावलीढवदनैः सर्पभोगैर्विचेष्टितः॥१७५॥

अभितः पर्वताकारः प्राद्युम्निरभवद्रणे ।
निष्प्रयत्नगतिश्चापि सर्पवक्त्रमयैः शरैः॥१७६॥

न विव्यथे स भूतात्मा सर्वतः परिवेष्टितः ।
ततस्तं वाग्भिरुग्राभिः संरब्धः समतर्जयत्॥१७७॥

बाणो ध्वजं समाश्रित्य प्रोवाचामर्षितो वचः ।
कुम्भाण्ड वध्यतां शीघ्रमयं वै कुलपांसनः॥१७८॥

चारित्रं येन मे लोके धूषितं दूषितात्मना ।
इत्येवमुक्ते वचने कुम्भाण्डो वाक्यमब्रवीत्॥१७९॥

राजन्वक्ष्यांयहं किञ्चित्तन्मे शृणु यदिच्छसि ।
अयं विज्ञायतां कस्य कुतो वायमिहागतः॥१८०॥

केन वायमिहानीतः शक्रतुल्यपराक्रमः ।
मयायं बहुशो राजन्दृष्टो युद्ध्यन्महारणे॥१८१॥

क्रीडन्निव च युद्धेषु दृश्यते देवसूनुवत् ।
बलवान्सत्त्वसम्पन्नः सर्वशास्त्रविशारदः॥१८२॥

नायं वधकृतं दोषमर्हते दैत्यसत्तम ।
गान्धर्वेण विवाहेन कन्येयं तव सङ्गता॥१८३॥

अदेया ह्यप्रतिग्राह्या अतश्चिन्त्यं वधं कुरु ।
विज्ञाय च वधं वास्य पूजां वास्य करिष्यसि॥१८४॥

वधे ह्यस्य महान्दोषो रक्षणे सुमहान्गुणः ।
अयं हि पुरुषोत्कृष्टः सर्वथा मानमर्हति॥१८५॥

सर्वतो वेष्टिततनुर्न व्यथत्येष भोगिभिः ।
कुलशौण्डीर्यवीर्यैश्च सत्त्वेन च समन्वितः॥१८६॥

पश्य राजन्महावीर्यैरन्वितः पुरुषोत्तमः ।
न नो गणयते सर्वान्वधं प्राप्तोऽप्ययं बली॥१८७॥

यदि मायाप्रभावेण नात्र बद्धो भवेदयम् ।
सर्वान्सुरगणान्सङ्ख्ये योधयेन्नात्र संशयः॥१८८॥

सर्वसङ्ग्राममार्गज्ञो भवेद्वीर्याधिकस्तव ।
शोणितौघप्लुतैर्गात्रैर्नागभोगैश्च वेष्टितः॥१८९॥

त्रिशिखां भ्रुकुटिं कृत्वा न चिन्तयति नः स्थितान् ।
इमामवस्थां नीतोऽपि स्वबाहुबलमाश्रितः॥१९०॥

न चिन्तयति राजंस्त्वां वीर्यवान्कोऽप्यसौ युवा ।
सहस्रबाहोः समरे द्विबाहुः समवस्थितः ।
न चिन्तयति ते वीर्यमयं वीर्यमदान्वितः॥१९१॥

उचितं यदि ते राजन्ज्ञेयो वीर्यबलान्वितः ।
कन्या चेयं न चान्यस्य निर्यात्येतेन सङ्गता॥१९२॥

यदि चेष्टतमः कश्चिदयं वंशे महात्मनाम् ।
ततः पूजामयं विरः प्राप्स्यते चासुरोत्तम॥१९३॥

रक्ष्यतामिति चोक्त्वैव तथास्त्विति च तस्थिवान् ।
एवमुक्ते तु वचने कुम्भाण्डेन महात्मना॥१९४॥

तथेत्याह च कुम्भाण्डं बाणः शत्रुनिषूदनः ।
संरक्षिणस्ततो दत्त्वा अनिरुद्धस्य धीमतः॥१९५॥

ययौ स्वमेव भवनं बलेः पुत्रो महायशाः ।
संयतं मायया दृष्ट्वा अनिरुद्धं महाबलम्॥१९६॥

ऋषीणां नारदः श्रेष्ठोऽव्रजद्द्वारवतीं प्रति ।
ततो ह्याकाशमार्गेण मुनिर्द्वारवतीं गतः॥१९७॥

गते ऋषीणां प्रवरे सोऽनिरुद्धो व्यचिन्तयत् ।
नष्टोऽयं दानवः क्रूरो युद्धमेष्यत्यसंशयः॥१९८॥

स गत्वा नारदस्तत्र शङ्खचक्रगदाधरम् ।
ज्ञापयिष्यति तत्त्वेन इममर्थं न संशयः॥१९९॥

नागैर्विचेष्टितं दृष्ट्वा उषा प्राद्युम्निमातुरा ।
रुरोद बाष्परुद्धाक्षी तामाह रुदतीं पुनः॥२००॥

किमिदं रुद्यते भीरु मा भैस्त्वं मृगलोचने ।
पश्य सुश्रोणि सम्प्राप्तं मत्कृते मधुसूदनम्॥२०१॥

यस्य शङ्खध्वनिं श्रुत्वा बाहुशब्दं बलस्य च ।
दानवा नाशमेष्यन्ति गर्भाश्चासुरयोषिताम्॥२०२॥

वैशम्पायन उवाच एवमुक्तानिरुद्धेन उषा विश्रम्भमागता ।
नृशंसं पितरं चैव शोचते सा सुमध्यमा॥२०३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि बाणानिरुद्धयुद्धे एकोनविंशत्यधिकशततमोऽध्यायः॥११९॥
अनिरुद्धकृतार्यास्तवो तद्वरलाभश्च-१२०

वैशम्पायन उवाच। यदा बाणपुरे वीरः सोऽनिरुद्धः सहोषया ।
सन्निरुद्धो नरेन्द्रेण बाणेन बलिसूनुना॥१॥

तदा देवीं कोटवतीं रक्षार्थं शरणं गतः ।
यद्गीतमनिरुद्धेन देव्याः स्तोत्रमिदं श्रुणु॥२॥

अनन्तमक्षयं दिव्यमादिदेवं सनातनम् ।
नारायणं नमस्कृत्य प्रवरं जगतां प्रभुम्॥३॥

चण्डीं कात्यायनीं देवीमार्यां लोकनमस्कृताम् ।
वरदां कीर्तयिष्यामि नामभिर्हरिसंस्तुतैः॥४॥

ऋषिभिर्दैवतैश्चैव वाक्पुष्पैरर्चितां शुभाम् ।
तां देवीं सर्वदेहस्थां सर्वदेवनमस्कृताम्॥५॥

अनिरुद्ध उवाच महेन्द्रविष्णुभगिनीं नम्स्यामि हिताय वै ।
मनसा भावशुद्धेन शुचिः स्तोष्ये कृताञ्जलिः॥६॥

गौतमीं कंसभयदां यशोदानन्दवर्द्धिनीम् ।
मेध्यां गोकुलसम्भूतां नन्दगोपस्य नन्दिनीम्॥७॥

प्राज्ञां दक्षां शिवां सौम्यां दनुपुत्रविमर्दिनीम् ।
तां देवीं सर्वदेहस्थां सर्वभूतनमस्कृताम्॥८॥

दर्शनीं पूरणीं मायां वह्निसूर्यशशिप्रभाम् ।
शान्तिं ध्रुवां च जननीं मोहिनीं शोषणीं तथा॥९॥

सेव्यां देवैः सर्षिगणैः सर्वदेवनमस्कृताम् ।
कालीं कात्यायनीं देवीं भयदां भयनाशिनीम्॥१०॥

कालरात्रिं कामगमां त्रिणेत्रां ब्रह्मचारिणीम् ।
सौदामिनीं मेघरवां वेतालीं विपुलाननाम्॥११॥

यूथस्याद्यां महाभागां शकुनीं रेवतीं तथा ।
तिथीनां पञ्चमीं षष्ठीं पूर्णमासीं चतुर्दशीम्॥१२॥

सप्तविंशह्तिऋक्षाणि नद्यः सर्वा दिशो दश ।
नगरोपवनोद्यानद्वाराट्टालकवासिनीम्॥१३॥

ह्रीं श्रीं गङ्गां च गन्धर्वां योगिनीं योगदां सताम् ।
कीर्तिमाशां दिशं स्पर्शां नमस्यामि सरस्वतीम्॥१४॥

वेदानां मातरं चैव सावित्रीं भक्तवत्सलाम् ।
तपस्विनीं शान्तिकरीमेकानंशां सनातनाम्॥१५॥

कौटीर्यां मदिरां चण्डामिलां मलयवासिनीम् ।
भूतधात्रीं भयकरीं कूष्माण्डीं कुसुमप्रियाम्॥१६॥

दारुणीं मदिरावासां विन्ध्यकैलासवासिनीम् ।
वराङ्गनां सिंहरथीं बहुरूपां वृषध्वजाम्॥१७॥

दुर्लभां दुर्जयां दुर्गां निशुम्भभयदर्शिनीम् ।
सुरप्रियां सुरां देवीं वज्रपाण्यनुजां शिवाम्॥१८॥

किरातीं चीरवसनां चौरसेनानमस्कृताम् ।
आज्यपां सोमपां सौम्यां सर्वपर्वतवासिनीम्॥१९॥

निशुम्भशुम्भमथनीं गजकुम्भोपमस्तनीम् ।
जननीं सिद्धसेनस्य सिद्धचारणसेविताम्॥२०॥

यदेति। सिद्धसेनस्य कार्तिकेयस्य॥२०॥

चरां कुमारप्रभवां पार्वतीं पर्वतात्मजाम् ।
पञ्चाशद्देवकन्यानां पत्न्यो देवगणस्य च॥२१॥

देवकन्यानामिति तत्प्रभृतिनारीषु असिसान्निध्यं कुरुषे इत्यर्थश्चतुर्थेनान्वयः॥२१॥

क्रद्रुपुत्रसहस्रस्य पुत्रपौत्रवरस्त्रियः ।
माता पिता जगन्मान्या दिवि देवाप्सरोगणैः॥२२॥

ऋषिपत्नीगणानां च यक्षगन्धर्वयोषिताम् ।
विद्याधराणां नारीषु साध्वीषु मनुजासु च॥२३॥

एवमेतासु नारीषु सर्वभूताश्रया ह्यसि ।
नमस्कृतासि त्रैलोक्ये किन्नरोद्गीतसेविते॥२४॥

अचिन्त्या ह्यप्रमेयासि यासि सासि नमोऽस्तु ते ।
एभिर्नामभिरन्यैश्च कीर्तिता ह्यसि गौतमि॥२५॥

त्वत्प्रसादादविघ्नेन क्षिप्रं मुच्येय बन्धनात् ।
अवेक्षस्व विशालाक्षि पादौ ते शरणं व्रजे॥२६॥

सर्वेषामेव बन्धानां मोक्षणं कर्तुमर्हसि ।
ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रसूर्याग्निमारुताः॥२७॥

अश्विनौ वसवश्चैव धाता भूमिर्दिशो दश ।
मरुता सह पर्जन्यो धाता भूमिर्दिशो दश॥२८॥

गावो नक्षत्रवंशाश्च ग्रहा नद्यो ह्रदास्तथा ।
सरितः सागराश्चैव नानाविद्याधरोरगाः॥२९॥

तथा नागाः सुपर्वाणो गन्धर्वाप्सरसां गणाः ।
कृत्स्नं जगदिदं प्रोक्तं देव्या नामानुकीर्तनात्॥३०॥

देव्या नामानुकीर्तनात् ब्रह्मादिकं सर्वं जगत्कीर्तितमिति वदता देव्या एव सर्वोपादानत्वरूपजगत्कारणत्वमुक्तं भवति॥३०॥

देव्याः स्तवमिमं पुण्यं यः पठेत्सुसमाहितः ।
सा तस्मै सप्तमे मासि वरमग्र्यं प्रयच्छति॥३१॥

अष्टादशभुजा देवी दिव्याभरणभूषिता ।
हारशोभितसर्वाङ्गी मुकुटोज्ज्वलभूषणा॥३२॥

कात्यायनी स्तूयसे त्वं वरमग्र्यं प्रयच्छसि ।
अतः स्तवीमि तां देवीं वरदे वामलोचने॥३३॥

नमोऽस्तु ते महादेवि सुप्रीता मे सदा भव ।
प्रयच्छ त्वं वरं ह्यायुः पुष्टिं चैव क्षमां धृतिम्॥३४॥

बन्धनस्थो विमुच्येयं सत्यमेतद्भवेदिति ।
वैशम्पायन उवाच। एवं स्तुता महादेवी दुर्गा दुर्गपराक्रमा॥३५॥

सान्निध्यं कल्पयामास अनिरुद्धस्य बन्धने ।
अनिरुद्धहितार्थाय देवी शरणवत्सला॥३६॥

बद्धं बाणपुरे वीरमनिरुद्धं व्यमोक्षयत् ।
सान्त्वयामास तं वीरमनिरुद्धममर्षणम्॥३७॥

पूजयामास तां वीरः सोऽनिरुद्धः प्रतापवान् ।
प्रसादां दर्शयामास अनिरुद्धस्य बन्धने॥३८॥

नागपाशेन बद्धस्य तस्योषाहृतचेतसः ।
स्फोटयित्वा कराग्रेण पञ्जरं वज्रसन्निभम्॥३९॥

रुद्धं बाणपुरे वीरं सानिरुद्धमभाषत ।
सान्त्वयन्ती वचो देवी प्रसादाभिमुखी तदा॥४०॥

श्रीदेव्युवाच। चक्रायुधो मोक्षयितानिरुद्ध त्वां बन्धनादाशु सहस्व कालम् ।
छित्वा स बाणास्य सहस्रबाहुं पुरीं निजां नेष्यति दैत्यसूदनः॥४१॥

चक्रायुध एव मोचको न त्वस्मदादय इत्याशयेनाह- चक्रेति॥४१॥

वैशम्पायन उवाच। यदाऽनिरुद्धं सह बाणपुत्र्या नेतुं खगेन्द्रेण हरिः प्रवृत्तः ।
महासुरे बाण उदीर्णचक्रे न्यक्कारमासन्नतरं निशम्य॥४२॥

ततोऽनिरुद्धः पुनरेव देवीं तुष्टाव हृष्टः शशिकान्तवक्त्रः॥४३॥

नमोऽस्तु ते देवि वरप्रदे शिवे नमोऽस्तु ते देवि सुरारिनाशिनि ।
नमोऽस्तु ते कामचरे सदाशिवे नमोऽस्तु ते सर्वहितैषिणि प्रिये ।
नमोऽस्तु ते भीतिकरि द्विषां सदा नमोऽस्तु ते बन्धनमोक्षकारिणि ।
ब्रह्माणीन्द्राणि रूद्राणि भूतभव्यभवे शिवे ।
त्राहि मां सर्वभीतिभ्यो नारायणि नमोऽस्तु ते॥४४॥

नमोऽस्तु ते जगन्नाथे प्रिये दान्ते महाव्रते ।
भक्तिप्रिये जगन्मातः शैलपुत्रि वसुन्धरे॥४५॥

त्राहि मां त्वं विशालाक्षि नारायणि नमोऽस्तु ते ।
त्रायस्व सर्वदुःखेभ्यो दानवानां भयङ्करी॥४६॥

रुद्रप्रिये महाभागे भक्तानामार्तिनाशिनि ।
नमामि शिरसा देवीं बन्धनस्थो विमोक्षितः॥४७॥

वैशपायन उवाच आर्यास्तवमिदं पुण्यं यः पठेत्सुसमाहितः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।
बन्धनस्थो विमुच्येत सत्यं व्यासवचो यथा॥४८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विश्णुपर्वणि अनिरुद्धकृतार्यास्तवो नाम विंशत्यधिकशततमोऽध्यायः॥१२०॥
श्रुतहृतानिरुद्धपाशबन्धनस्य कृष्णस्य शोणितपुरगमनम्-१२१

वैशम्पायन उवाच। ततोऽनिरुद्धस्य गृहे रुरुदुः सर्वयोषितः ।
प्रियं नाथमपश्यन्त्यः कुरर्य इव सङ्घशः॥१॥

तत इति॥१॥

अहो धिक्किमिदं नाथ नाथे कृष्णे व्यवस्थिते ।
अनाथा इव सन्त्रस्ता रुदिमो भयपीडिताः॥२॥

यस्येन्द्रप्रमुखा देवाः सादित्याः समरुद्गणाः ।
बाहुच्छायामुपाश्रित्य वसन्ति दिवि देवताः॥३॥

तस्योत्पन्नमिदं लोके भयदस्य महाभयम् ।
तस्यानिरुद्धः पौत्रस्तु वीरः केनापि नो हृतः॥४॥

अहो नास्ति भयं नूनं तस्य लोके सुदुर्मतेः ।
वासुदेवस्य यः क्रोधमुत्पादयति दुःसहम्॥५॥

व्यादितास्यस्य यो मृत्योर्दंष्ट्राग्रे परिवर्तते ।
स वासुदेवं समरे मोहादभ्युदियाद्रिपुः॥६॥

इदमेवंविधं कृत्वा विप्रियं यदुपुङ्गवे ।
कथं जीवन्विमुच्येत साक्षादपि शचीपतिः॥७॥

हृतनाथाः स्म शोच्याः स्म वयं नाथं विना कृताः ।
विप्रयोगेण नाथस्य कृतान्तवशगाः कृताः॥८॥

इत्येवं ता वदन्त्यश्च रुदन्त्यश्च पुनः पुनः ।
नेत्रजं वारि मुमुचुरशिवं परमाङ्गनाः॥९॥

तासां बाष्पाम्बुपूर्णानि नयनानि चकाशिरे ।
सलिलेनाप्लुतानीव पङ्कजानि जलागमे॥१०॥

तासां मरालपक्ष्माणि राजयन्ति शुभानि च ।
रुधिरेणाप्लुतानीव नयनानि चकाशिरे॥११॥

तासां हर्म्यतलस्थाणां पूर्ण आसीन्महास्वनः ।
कुररीणामिवाकाशे रुदतीनां सहस्रशः॥१२॥

ते श्रुत्वा निनदं घोरमपूर्वं भयमागतम् ।
उत्पेतुः सहसा स्वेभ्यो गृहेभ्यः पुरुषर्षभाः॥१३॥

कस्मादेषोऽनिरुद्धस्य श्रूयते सुमहास्वनः ।
गृहे कृष्णाभिगुप्तानां कुतो नो भयमागतम्॥१४॥

इत्येवमूचुस्तेऽन्योन्यं स्नेहविक्लवगद्गदाः ।
अधर्षिता यथा सिंहा गुहाभ्य इव निःसृताः॥१५॥

सन्नाहभेरी कृष्णस्य आहता महती तदा ।
यस्याः शब्देन ते सर्वे समागम्य च धिष्ठिताः॥१६॥

किमेतदिति तेऽन्योन्यं समपृच्छन्त यादवाः ।
अन्योन्यस्य हि ते सर्वे यथावृत्तमवेदयन्॥१७॥

ततस्ते बाष्पपूर्णाक्षाः क्रोधसंरक्तलोचनाः ।
निःश्वसन्तो व्यतिष्ठन्त यादवा युद्धदुर्मदाः॥१८॥

तूष्णीम्भूतेषु सर्वेषु विपृथुर्वाक्यमब्रवीत् ।
कृष्णं प्रहरतां श्रेष्ठं निःश्वसन्तं मुहुर्मुहुः॥१९॥

किमिदं चिन्तयाविष्टः पुरुषेन्द्र भवानिह ।
तव बाहुबलप्राणाः स्वास्थिताः सर्वयादवाः॥२०॥

भवन्तमाश्रिताः कृष्ण संविभक्ताश्च सर्वशः ।
तथैव बलवाञ्शक्रस्त्वय्यावेश्य जयाजयौ॥२१॥

सुखं स्वपिति निःशङ्कः कथं त्वं चिन्तयान्वितः ।
शोकसागरमक्षोभ्यं सर्वे ते ज्ञातयो गताः॥२२॥

तान्मज्जमानानेकस्त्वं समुद्धर महाभुज ।
किमेवं चिन्तयाविष्टो न किञ्चिदपि भाशसे॥२३॥

चिन्तां कर्तुं वृथा देव न त्वमर्हसि माधवा ।
इत्येवमुक्तः कृष्णस्तु निःश्वस्य सुचिरं बहु॥२४॥

प्राह वाक्यं स वाक्यज्ञो बृहस्पतिरिव स्वयम् ।
श्रीकृष्ण उवाच। विपृथो चिन्तयाविष्टो ह्येतत्कार्यमचिन्तयम्॥२५॥

विचिन्तयंस्त्वहं चास्य कार्यस्य न लभे गतिम् ।
तथाहं भवताप्युक्तो नोत्तरं विदधे क्वचित्॥२६॥

दाशार्हगणमध्येऽहं वदाम्यर्थवतीं गिरम् ।
श्रुणुध्वं यादवाः सर्वे यथा चिन्तान्वितो ह्यहम्॥२७॥

अनिरुद्धे हृते वीरे पृथिव्यां सर्वपार्थिवाः ।
अशक्ता इति मंस्यन्ते सर्वानस्मान्स्वबान्धवान्॥२८॥

आहुकश्चैव नो राजा हृतः शाल्वेन वै पुरा ।
प्रत्यानीतः स चास्माभिर्युद्धं कृत्वा सुदारुणम्॥२९॥

प्रद्युम्नश्चापि नो बालः शम्बरेण हृतो ह्यभूत् ।
स तं निहत्य समरे प्राप्तो रुक्मिणिनन्दनः॥३०॥

इदं तु सुमहत्कष्टं प्राद्युम्निः क्व प्रवासितः ।
नैवंविधमहं दोषं न स्मरे मनुजर्षभाः॥३१॥

भस्मना गुण्ठितः पादो येन मे मूर्ध्नि पातितः ।
तस्याहं सानुबन्धस्य हरिष्ये जीवितं रणे॥३२॥

इत्येवमुक्ते कृष्णेन सात्यकिर्वाक्यमब्रवीत् ।
चाराः कृष्ण प्रणीयन्तामनिरुद्धस्य मार्गणे ।
सपर्वतवनोद्देशां मार्गन्तु वसुधामिमाम्॥३३॥

आहुकं प्राह कृष्णस्तु स्मितं कृत्वा वचस्तदा ।
आभ्यन्तराश्च बाह्याश्च व्यादिश्यन्तां चरा नृप॥३४॥

वैशम्पायन उवाच केशवस्य वचः श्रुत्वा आहुकस्त्वरितोऽब्रवीत् ।
अन्वेषणेऽनिरुद्धस्य स चारान्दिष्टवांस्तदा॥३५॥

ततश्चारास्तु व्यादिष्टाः पार्थिवेन यशस्विना ।
हया रथाश्च व्यादिष्टाः पार्थिवेन महात्मना ।
अभ्यन्तरं च मार्गध्वं बाह्यतश्च समन्ततः॥३६॥

वेणुमन्तं लताविष्टं तथा रैवतकं गिरिम् ।
ऋक्षवन्तं गिरिं चैव मार्गध्वं त्वरिता हयैः॥३७॥

एकैकं तत्र चोद्यानं मार्गध्वं काननानि च ।
यातव्यं चापि निःशङ्कमुद्यानानि समन्ततः॥३८॥

हयानां च सहस्राणि रथानां चाप्यनेकशः ।
आरुह्य त्वरिताः सर्वे मार्गध्वं यदुनन्दनम्॥३९॥

सेनापतिरनाधृष्टीरिदं वचनमब्रवीत् ।
कृष्णमक्लिष्टकर्माणमच्युतं भीतभीतवत्॥४०॥

शृणु कृष्ण वचो मह्यं रोचते यदि ते प्रभो ।
चिरात्प्रभृति मे वक्तुं भवन्तं जायते मतिः॥४१॥

असिलोमा पुलोमा च निसुन्दनरकौ हतौ ।
सौभः शाल्वश्च निहतौ मैन्दो द्विविद एव च॥४२॥

हयग्रीवश्च सुमहान्सानुबन्धस्त्वया हतः ।
तादृशे विग्रहे वृत्ते देवहेतोः सुदारुणे॥४३॥

सर्वाण्येतानि कर्माणि निःशेषाणि रणे रणे ।
कृतवानसि गोविन्द पार्ष्णिग्राहश्च नास्ति ते॥४४॥

इदं कर्म त्वया कृष्ण सानुबन्धं महत्कृतम् ।
पारिजातस्य हरणे यत्कृतं कर्म दुष्करम्॥४५॥

तत्र शक्रस्त्वया कृष्ण ऐरावतशिरोगतः ।
निर्जितो बाहुवीर्येण त्वया युद्धविशारदः॥४६॥

तेन वैरं त्वया सार्धं कर्तव्यं नात्र संशयः ।
वैरानुबन्धश्च महांस्तेन कार्यस्त्वया सह॥४७॥

तत्रानिरुद्धहरणं कृतं मघवता स्वयम् ।
न ह्यन्यस्य भवेच्छक्तिर्वैरनिर्यातनं प्रति॥४८॥

इत्येवमुक्ते वचने कृष्णो नाग इव श्वसन् ।
उवाच वचनं धीमाननाधृष्टिं महाबलम्॥४९॥

सेनानीस्तात मा मैवं न देवाः क्षुद्रकर्मिणः ।
नाकृतज्ञा न च क्लीबा नावलिप्ता न बालिशाः॥५०॥

देवतार्थं च मे यत्नो महान्दानवसङ्क्षये ।
तेषां प्रियार्थं च रणे हन्मि दृप्तान्महाबलान्॥५१॥

तत्परस्तन्मनाश्चास्मि तद्भक्तस्तत्प्रिये रतः ।
कथं पापं करिष्यन्ति विज्ञायैवंविधं हि माम्॥५२॥

अक्षुद्राः सत्यवन्तश्च नित्यं भक्तानुकम्पिनः ।
तेभ्यो न विद्यते पापं बालिशत्वात्प्रभाषसे॥५३॥

कदाचिदिह पुंश्चल्या अनिरुद्धो हृतो भवेत् ।
देवेषु समहेन्द्रेषु नैतत्कर्म विधीयते॥५४॥

वैशम्पायन उवाच। एवं चिन्तयमानस्य कृष्णस्याद्भुतकर्मणः ।
कृष्णस्य वचनं श्रुत्वा ततोऽक्रूरोऽब्रवीद्वचः॥५५॥

मधुरं श्लक्ष्णया वाचा अर्थवाक्यविशारदः ।
यच्छक्रस्य प्रभो कार्यं तदस्माकं विनिश्चितम्॥५६॥

अस्माकं चापि यत्कार्यं तद्धि कार्यं शचीपतेः ।
संरक्ष्याश्च वयं देवैरस्माभिश्चापि देवताः ।
देवतार्थं वयं चापि मानुषत्वमुपागताः॥५७॥

एवमक्रूरवचनैश्चोदितो मधुसूदनः ।
स्निग्धगम्भीरया वाचा पुनः कृष्णोऽभ्यभाषत॥५८॥

नायं देवैर्न गन्धर्वैर्न यक्षैर्न च राक्षसैः ।
प्रद्युम्नपुत्रोऽपहृतः पुंश्चल्या नु महायशः॥५९॥

मायाविदग्धाः पुंश्चल्यो दैत्यदानवयोषितः ।
ताभिर्हृतो न सन्देहो नान्यतो विद्यते भयम्॥६०॥

वैशम्पायन उवाच। इत्येवमुक्ते वचने कृष्णेन तु महात्मना ।
अथावगम्य तत्त्वेन यद्भूतं यदुमण्डले॥६१॥

उदतिष्ठन्महानादस्तदा कृष्णं प्रशंसयन् ।
हर्षयन्स तु सर्वेषां सूतमागधबन्दिनाम् ।
मधुरः श्रूयते घोषो यादवस्य निवेशने॥६२॥

ते चाराः सर्वतः सर्वे सभाद्वारमुपागताः ।
शनैर्गद्गदया वाचा इदं वचनमब्रुवन्॥६३॥

उद्यानानि गुहाः शैलाः सभा नद्यः सरांसि च ।
एकैकं शतशो राजन्मार्गितं न च दृश्यते॥६४॥

अन्ये कृष्णं चरा राजन्नुपागम्य तदाब्रुवन् ।
सर्वे नो विदिता देशाः प्राद्युम्निर्न च दृश्यते॥६५॥

यदन्यत्संविधातव्यं विधानं यदुनन्दन ।
तदाज्ञापय नः क्षिप्रमनिरुद्धस्य मार्गणे॥६६॥

ततस्ते दीनमनसः सर्वे बाष्पाकुलेक्षणाः ।
अन्योन्यमभ्यभाषन्त किमतः कार्यमुत्तमम्॥६७॥

सन्दष्टौष्ठपुटाः केचित्केचिद्बाष्पाकुलेक्षणाः ।
केचिद्भ्रुकुटिमास्थाय चिन्तयन्त्यर्थसिद्धये॥६८॥

एवं चिन्तयतां तेषां बह्वर्थमभिभाषितम् ।
अनिरुद्धः कुतश्चेति सम्भ्रमः सुमहानभूत्॥६९॥

अन्योन्यमभिवीक्षन्ते यादवा जातमन्यवः ।
तां निशां विमनस्कास्ते गमयेयुः कथञ्चन ।
अनिरुद्धो हृतश्चेति पुनः पुनररिन्दम॥७०॥

एवं च ब्रुवतां तेषां प्रभाता रजनी तदा ।
ततस्तूर्यनिनादैश्च शङ्खानां च महास्वनैः ।
प्रबोधनं महाबाहोः कृष्णस्याक्रियतालये॥७१॥

ततः प्रभाते विमले प्रादुर्भूते दिवाकरे ।
प्रविवेश सभामेको नारदः प्रहसन्निव॥७२॥

दृष्ट्वा तु यादवान्सर्वान्कृष्णेन सह सङ्गतान् ।
ततः स जयशब्देन माधवं प्रत्यपूजयत्॥७३॥

उग्रसेनादयस्ते च तमृषिं प्रत्यपूजयन् ।
अथाभ्युत्थाय विमनाः कृष्णः समितिदुर्जयः ।
मधुपर्कं च गां चैव नारदाय ददौ प्रभुः॥७४॥

सोपविश्यासने शुभ्रे सर्वास्तरणसंवृते ।
सुखासीनो यथान्यायमुवाचेदं वचोऽर्थवत्॥७५॥

नारद उवाच। किमेवं चिन्तयाविष्टा निःसङ्गा गतमानसाः ।
उत्साहहीनाः सर्वे वै क्लीबा इव समासते॥७६॥

इत्येवमुक्ते वचने नारदेन महात्मना ।
वासुदेवोऽब्रवीद्वाक्यं श्रूयतां भगवन्निदम्॥७७॥

अनिरुद्धो हृतो ब्रह्मन्केनापि निशि सुव्रत ।
यस्यार्थे सर्व एवास्म चिन्तयाविष्टचेतसः॥७८॥

एष ते यदि वृत्तान्तः श्रुतो दृष्टोऽपि वा मुने ।
भगवन्कथ्यतां साधु प्रियमेतन्ममानघ॥७९॥

इत्येवमुक्ते वचने केशवेन महात्मना ।
प्रहस्यैतद्वचः प्राह श्रूयतां मधुसूदन॥८०॥

निवृत्तं सुमहद्युद्धं देवासुरसमं महत् ।
अनिरुद्धस्य चैकस्य बाणस्यापि महामृधे॥८१॥

उषा नाम सुता तस्य बाणस्याप्रतिमौजसः ।
तस्यार्थे चित्रलेखा वै जहाराशु तमप्सराः॥८२॥

उभयोरपि तत्रासीन्महायुद्धं सुदारुणम् ।
प्राद्युम्निबाणयोः सङ्ख्ये बलिवासवयोरिव॥८३॥

अस्माभिश्चापि तद्युद्धं दृष्टं सुमहदद्भुतम् ।
अनिरुद्धो भयात्तेन संयुगेष्वनिवर्तिना॥८४॥

बाणेन मायामास्थाय बद्धो नागैर्महाबलः ।
व्यादिष्टस्तु वधस्तस्य बाणेन गरुडध्वज॥८५॥

तं निवारितवान्मन्त्री कुम्भाण्डो नाम तस्य ह ।
कुमारस्यानिरुद्धस्य तेनासक्तेन संयुगे॥८६॥

बाणेन मायामास्थाय सर्पैर्नियमनं कृतम् ।
उत्तिष्ठतु भवाञ्छीघ्रं यशसे विजयाय च॥८७॥

नायं संरक्षितुं कालः प्राणांस्तात जयैषिणाम् ।
प्राणैः किञ्चिद्गतैर्वीरो धैर्यमालम्ब्य तिष्ठति॥८८॥

वैशम्पायन उवाच। इत्येवमुक्ते वचने वासुदेवः प्रतापवान् ।
प्रायात्रिकान्वै सम्भारानाज्ञापयत वीर्यवान्॥८९॥

ततश्चन्दनपूर्णैश्च लाजैश्चैव समन्ततः ।
निर्ययौ स महाबाहुः कीर्यमाणो जनार्दनः॥९०॥

नारद उवाच स्मरणं वैनतेयस्य कर्तुमर्हसि माधव ।
न ह्यन्येन तदध्वानं शक्यं गन्तुं महाभुज॥९१॥

आकर्णय तमध्वानं गन्तव्यमतिदुर्जयम् ।
एकादश सहस्राणि योजनानां जनार्दन॥९२॥

तदितः शोणितपुरं प्राद्युम्निर्यत्र साम्प्रतम् ।
मनोजवो महावीर्यो वैनतेयः प्रतापवान्॥९३॥

समाह्वयस्व गोविन्द स हि त्वां तत्र नेष्यति ।
एकेन सुमुहूर्तेन बाणं सन्दर्षयिष्यति॥९४॥

वैशम्पायन उवाच। तस्य तद्वचनं श्रुत्वा सस्मार गरुडं तदा ।
स कृष्णपार्श्वमागम्य प्राञ्जलिर्गरुडः स्थितः॥९५॥

प्रणम्याथ वचः प्राह वैनतेयो महाबलः ।
वासुदेवं महात्मानं श्लक्ष्णं मधुरया गिरा॥९६॥

गरुड उवाच। पद्मनाभ महाबाहो किमर्थं संस्मृतो ह्यहम् ।
कृत्यं ते यदिहात्रास्ति श्रोतुमिच्छामि तत्त्वतः॥९७॥

कस्य पक्षपरिक्षेपैर्नाशयामि पुरीं प्रभो ।
प्रभावात्तव गोविन्द को न विद्याद्बलं मम॥९८॥

गदावेगं च ते वीर चक्राग्निं च महाभुज ।
नावबुध्यति मूढात्मा को दर्पान्नाशमेष्यति॥९९॥

हलं सिंहमुखं कस्य वनमाली नियोक्ष्यति ।
कस्य देहस्तु निर्भिन्नो मेदिनीं यास्यति प्रभो॥१००॥

कस्य शङ्खरवैः प्राणान्मोहयिष्यसि माधव ।
कोऽयं सपरिवारोऽद्य यास्यते यमसादनम्॥१०१॥

एवमुक्ते तु वचने वैनतेयेन धीमता ।
वासुदेवो वचः प्राह शृणु त्वं वदतां वर॥१०२॥

बलेः पुत्रेण बाणेन प्राद्युम्निरपराजितः ।
उषायाः कारणे बद्धो नगरे शोणिताह्वये ।
अनिरुद्धस्तु कामार्तो बद्धो नागैर्विषोल्बणैः॥१०३॥

तस्य मोक्षार्थमाहूतो मया त्वं पतगेश्वर ।
तव वेगसमो नास्ति पक्षिणां प्रवरो भवान् ।
अशक्यं च तदध्वानं गन्तुमन्येन काश्यप॥१०४॥

तत्र प्रापय मां शीघ्रं यत्र प्राद्युम्निरावसत् ।
वैदर्भी ते स्नुषा वीर रुदती पुत्रगृद्धिनी॥१०५॥

वैदर्भी रुक्मिणो दुहिता ते तव मदीयभ्रातुः स्नुषा प्रद्युम्नभार्यात्वात्॥१०५॥

त्वत्प्रसादाद्भवत्येषा पुत्रेण सह भामिनी ।
अमृतं तु हृतं पूर्वं त्वया पन्नगनाशन॥१०६॥

मया सह समागम्य तस्मिन्काले महाभुज ।
अभवन्मे ध्वजश्चैव त्वद्भक्ताः सर्ववृष्णयः ।
सखित्वं मानयस्वाद्य भक्तिं च पतगेश्वर॥१०७॥

तव वेगसमो नास्ति पक्षिणो न च ते समाः ।
सुपर्ण सुकृतेन त्वां शपे पन्नगनाशन॥१०८॥

दासीभावं गता माता मोक्षितैकाकिना पुरा ।
पक्षविक्षेपमाश्रित्य हता योधास्त्वया पुरा॥१०९॥

भवान्सुरगणान्सर्वान्पृष्ठमारोप्य विक्रमात् ।
गच्छ मे ह्यगमान्देशान्विजयश्च तवाश्रयात्॥११०॥

गुरुत्वान्मेरुतुल्यस्त्वं लघुत्वात्पवनोपमः ।
भूते भव्ये भविष्ये च न ते तुल्योऽस्ति विक्रमे॥१११॥

सत्यसन्ध महाभाग वैनतेय महाद्युते ।
अनिरुद्धे क्षणेनाद्य साहाय्यमुपकल्प्यताम्॥११२॥

गरुड उवाच। अत्यद्भुतमिदं वाक्यं तव कृष्ण महाभुज ।
त्वत्प्रसादाच्च विजयः सर्वत्रैव महाबुज॥११३॥

धन्योऽस्म्यनुगृहीतोऽस्मि संस्तवान्मधुसूदन ।
स्तोतव्यस्त्वं मया कृष्ण स्तौषि मां त्वं महाभुज॥११४॥

वेदाध्यक्षः सुराध्यक्षः सर्वकामप्रदो भवान् ।
अमोघदर्शनस्त्वं हि वरार्थीनां वरप्रदः॥११५॥

चतुर्भुजश्चतुर्मूर्तिश्चातुर्होत्रप्रवर्तकः ।
चातुराश्रम्यहोता च चतुर्नेता महाकविः॥११६॥

चतुर्मूर्तिः वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्वाख्याश्चतस्रो मूर्तयो यस्य स तथा। चातुर्होत्रं यज्ञियं कर्म चातुराश्रम्यो होमकर्ता त्रयाणामग्नौ होमः स्पष्टः। सन्यासिनोऽपि परमात्मनि जीवस्य होमोऽस्तीति सोऽपि होतेत्यर्थः। चतुर्णां पुरुषार्थानां नेता प्रापकः॥११६॥

धनुर्धरश्चक्रधरो भवाञ्छङ्खधरो महान् ।
भवान्पूर्वेषु देहेषु ख्यातो भूमिधरः प्रभो॥११७॥

लाङ्गली मुसली चक्री देवकीतनयो भवान् ।
चाणूरमथनश्चैव गोप्रियः कंसहा भवान्॥११८॥

गोवर्धनधरश्चैव मल्लारिर्मल्लभावनः ।
मल्लप्रियो महामल्लो महापुरुष इत्यपि॥११९॥

विप्रप्रियो विप्रहितो विप्रज्ञो विप्रभावनः ।
ब्रह्मण्यश्च वरेण्यश्च भवान्दामोदरः स्मृतः ।
प्रलम्बमथनश्चैव केशिहा दानवान्तकः॥१२०॥

असिलोम्नश्च हन्ता च तथा रावणनाशनः ।
विभीषणस्य भगवान्राज्यदो वालिनाशनः॥१२१॥

सुग्रीवराज्यदाता त्वं बलिराज्यापहारकः ।
रत्नहर्ता महारत्नं समुद्रोदरसम्भवः॥१२२॥

समुद्रोदरसम्भवः धन्वन्तरिः॥१२२॥

वरुणश्च भवान्ख्यातो भवांश्च सरिदुद्भवः ।
भवान्खड्गधरो धन्वी धनुर्धरवरो महान्॥१२३॥

सरिदुद्भवो मेरुः॥१२३॥

दाशार्ह इति विख्यातो महाधन्वा धनुःप्रियः ।
गोविन्द इति विख्यत उदधिस्त्वं च सुव्रत॥१२४॥

आकाशश्च तपश्चैव समुद्रमथनो भवान् ।
भवान्स्वर्गो बहुफलो भवान्स्वर्गचरो महान्॥१२५॥

त्वमेव च महामेघो बीजनिष्पत्तिरेव च ।
त्रैलोक्यमथनस्त्वं च क्रोधलोभमनोरथः॥१२६॥

क्रोधादिरूपेण त्रैलोक्यं मथ्नाति इति त्रैलोक्यमथनः॥१२६॥

भवान्कामप्रदश्चैव कामः सर्वधनुर्धरः ।
संवर्तो वर्तनश्चैव प्रलयो निलयो महान्॥१२७॥

संवर्तः संवृण्वानप्रलयः। वर्तनः आविष्कुर्वाणो निलयः स्थितिकालश्च त्वमेव॥१२७॥

हिरण्यगर्भी रूपज्ञो रूपवान्मधुसूदनः ।
ईशस्त्वं च महादेव असङ्ख्येयगुणान्वितः॥१२८॥

स्तोतुमिच्छसि मां देव स्तोतव्यस्त्वं यदूत्तम ।
चक्षुषा ये त्वया घोराः प्राणिनो हि निरीक्षिताः॥१२९॥

हतास्ते यमदण्डेन तिर्यङ्निरयगामिनः ।
ये त्वया परमप्रीत्या प्राणिनो वै निरीक्षिताः॥१३०॥

इह च प्रेत्य ते सर्वे सर्वथा स्वर्गगामिनः ।
एष तेऽहं महाबाहो वशगः शासने स्थितः॥१३१॥

उभावपि लोकौ प्राप्यते सर्वथा स्वर्गगामिनः सुखभाजः॥१३१॥

जयस्थानं ततः कृत्वा गरुडः प्राह केशवम् ।
अयमस्मि स्थितो वीर आरुहस्व महाबल॥१३२॥

जयस्थानं प्रस्थानमुद्राम्॥१३२॥

ततः कण्ठे परिष्वज्य माधवो गरुडं ततः ।
सखे शत्रुविनाशाय अर्घोऽयं प्रतिगृह्यताम्॥१३३॥

दत्त्वार्घं परया प्रीत्या शङ्खचक्रगदासिभृत् ।
आरुरोह महाबाहुः सुपर्णं पुरुषोत्तमः॥१३४॥

कृष्णस्य पार्श्वमागम्य हर्षादेवास्थितोऽभवत् ।
कृष्णकेशः प्रवलयो विष्णुः कृष्णश्च वर्णतः॥१३५॥

कृष्णकेशो बलरामः प्रवलय इत्यादिस्तुतिः कृष्णस्यैव॥१३५॥

चतुर्दंष्ट्रश्चतुर्बाहुश्चतुर्वेदषडङ्गवित् ।
श्रीवत्साङ्कोऽरविन्दाक्ष ऊर्ध्वरोमा मृदुत्वचः॥१३६॥

समाङ्गुलिः समनखो रक्ताङ्गुलिनखान्तरः ।
स्निग्धगम्भीरनिर्घोषो वृत्तबाहुर्महाभुजः॥१३७॥

आजानुबाहुस्ताम्रास्यः सिंहविस्पष्टविक्रमः ।
सहस्रमिव सूर्याणां दीप्यमानः प्रकाशते॥१३८॥

यः प्रभुर्भाति विश्वात्मा भूतानां भावनो विभुः ।
यस्याष्टागुणमैश्वर्यं ददौ प्रीतः प्रजापतिः ।
प्रजापतीनां साध्यानां त्रिदशानां च शाश्वतः॥१३९॥

प्रजापतिः कश्यपः यस्य वामनरूपेणेतत्पुत्रस्य॥१३९॥

स्तूयमानः स्तवैर्दिव्यैः सूतमागधबन्दिभिः ।
ऋषिभिश्च महाभागैर्वेदवेदाङ्गपारगैः॥१४०॥

संविधानमथाज्ञाप्य द्वारकायां महाबलः ।
गमनाय मतिं चक्रे वासुदेवः प्रतापवान्॥१४१॥

संविधानं पुररक्षणम्॥१४१॥

आस्थितो गरुडं देवस्तस्य चानु हलायुधः ।
पृष्ठतोऽनु बलस्यापि प्रद्युम्नः शत्रुकर्षणः॥१४२॥

जय बाणं महाबाहो ये चास्यानुगता रणे ।
न हि ते प्रमुखे स्थातुं कश्चिच्छक्तो महामृधे॥१४३॥

जय बाणमित्याद्या वाचः शृण्वन् प्रययौ इति तृतीयेनान्वयः॥१४३॥

प्रसादे ते ध्रुवा लक्ष्मीर्विजयश्च पराक्रमे ।
विजेष्यसि रणे शत्रुं दैत्येन्द्रं सहसैनिकम्॥१४४॥

सिद्धचारणसङ्घानां महर्षीणां च सर्वशः ।
शृण्वन्वाचोऽन्तरिक्षे वै प्रययौ केशवो रणे॥१४५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि कृष्णप्रयाणे एकविंशत्यधिकशततमोऽध्यायः॥१२१॥
युद्धेऽग्निगणापयानंज्वरोत्पत्तिस्तेन कृष्णस्य युद्धं च-१२२

वैशम्पायन उवाच। ततस्तूर्यनिनादैश्च शङ्खानां च महास्वनैः ।
बन्दिमागधसूतानां स्तवैश्चापि सहस्रशः॥१॥

तत इति॥१॥

स तून्मुखैर्जयाशीर्भिः स्तूयमानो हि मानवैः ।
बभार रूपं सोमार्कशुक्राणां प्रतिमं तदा॥२॥

स रथस्थः अत एव उन्मुखैरूर्ध्वमुखैः॥२॥

अतीव शुशुभे रूपं व्योम्नि तस्योत्पतिष्यतः ।
वैनतेयस्य भद्रं ते बृंहितं हरितेजसा॥३॥

अथाष्टबाहुः कृष्णास्तु पर्वताकारसन्निभः ।
विबभौ पुण्डरीकाक्षो विकाङ्क्षन्बाणसङ्क्षयम्॥४॥

असिचक्रगदाबाणा दक्षिणं पार्श्वमास्थिताः ।
चर्म शार्ङ्गं तथा चापं शङ्खं चैवास्य वामतः॥५॥

अष्टसु वाहुषु अष्टान्यायुधान्याह- असीति॥५॥

शीर्षाणां वै सहस्रं तु विहितं शार्ङ्गधन्वना ।
सहस्रं चैव कायानां वहन्सङ्कर्षणस्तदा॥६॥

सहस्रम् अनन्तं शीर्षाणि॥६॥

श्वेतप्रहरणोऽधृष्यः कैलास इव शृङ्गवान् ।
प्रस्थितो गरुडेनाथ उद्यन्निव दिवाकरः॥७॥

सनत्कुमारस्य वपुः प्रादुरासीन्महात्मनः ।
प्रद्युम्नस्य महाबाहोः सङ्ग्रामे विक्रमिष्यतः॥८॥

स पक्षबलविक्षेपैर्विधुन्वन्पर्वतान्बहून् ।
जगाम मार्गं बलवान्वातस्य प्रतिषेधयन्॥९॥

पक्षयोर्बलेन ये विक्षेपास्तैः॥९॥

अथ वायोरतिगतिमास्थाय गरुडस्तदा ।
सिद्धचारणसङ्घानां शुभं मार्गमवातरत्॥१०॥

अथ रामोऽब्रवीद्वाक्यं कृष्णमप्रतिमं रणे ।
स्वाभिः प्रभाभिर्हीनाः स्म कृष्ण कस्मादपूर्ववत्॥११॥

सर्वे कनकवर्णाभाः संवृत्ताः स्म न संशयः ।
किमिदं ब्रूहि नस्तत्त्वं किं मेरोः पार्श्वगा वयम्॥१२॥

श्रीभगवानुवाच मन्ये बाणस्य नगरमभ्यासस्थमरिन्दम ।
रक्षार्थं तस्य निर्यातो वह्निरेष स्थितो ज्वलन्॥१३॥

अग्नेराहवनीयस्य प्रभया स्म समाहताः ।
तेन नो वर्णवैरूप्यमिदं जातं हलायुध॥१४॥

श्रीराम उवाच। यदि स्म सन्निकर्षस्था यदि निष्प्रभतां गताः ।
तद्विधत्स्व स्वयं बुद्ध्या यदत्रानन्तरं हितम्॥१५॥

श्रीभगवानुवाच। कुरुष्व वैनतेय त्वं यच्च कार्यमनन्तरम् ।
त्वया विधाने विहिते करिष्याम्यहमुत्तमम्॥१६॥

वैशम्पायन उवाच। एतच्छ्रुत्वा तु गरुडो वासुदेवस्य भाषितम् ।
चक्रे मुखसहस्रं हि कामरूपी महाबलः॥१७॥

गङ्गामुपागमत्तूर्णं वैनतेयो महाबलः ।
आप्लुत्याकाशगङ्गायामापीय सलिलं बहु॥१८॥

प्रववर्षोपरि गतो वैनतेयः प्रतापवान् ।
तेनाग्निं शमयामास बुद्धिमान्विनतात्मजः॥१९॥

अग्निराहवनीयस्तु ततः शान्तिमुपागमत् ।
तं दृष्ट्वाऽऽहवनीयं तु शान्तमाकाशगङ्गया ।
परमं विस्मयं गत्वा सुपर्णो वाक्यमब्रवीत्॥२०॥

अहो वीर्यमथाग्नेस्तु यो दहेद्युगसङ्क्षये ।
यदेव वर्णवैरूप्यं चक्रे कृष्णस्य धीमतः॥२१॥

त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ।
कृष्णः सङ्कर्षणश्चैव प्रद्युम्नश्च महबलः॥२२॥

ततः प्रशान्ते दहने सम्प्रतस्थे स पक्षिराट् ।
स्वपक्षबलविक्षेपं कुर्वन्घोरं महास्वनम्॥२३॥

तं दृष्ट्वा विस्मयं तत्र रुद्रस्यानुचराग्नयः ।
आस्थिता गरुडं ह्येते नानारूपा भयावहाः॥२४॥

विस्मयं प्रापुरिति शेषः॥२४॥

किमर्थमिह सम्प्राप्ताः के वापीमे जनास्त्रयः ।
निश्चयं नाधिगच्छन्ति ते गिरिव्रजवह्नयः॥२५॥

प्रावर्तयंश्च सङ्ग्रामं तैस्त्रिभिः सह यादवैः ।
तेषां युद्धप्रसक्तानां सन्नादः सुमहानभूत्॥२६॥

तं च श्रुत्वा महानादं सिंहानामिव गर्जताम् ।
अथाङ्गिराः स्वपुरुषं प्रेषयामास बुद्धिमान्॥२७॥

यत्र तद्वर्तते युद्धं तत्र गच्छस्व मा चिरम् ।
दृष्ट्वा तत्सर्वमागच्छ इत्युक्तः प्रहितस्त्वरन्॥२८॥

तथेत्युक्त्वा स तद्युद्धं वर्तमानमवैक्षत ।
अग्नीनां वासुदेवेन संसक्तानां महामृधे॥२९॥

ते जातवेदसः सर्वे कल्माषः कुसुमस्तथा ।
दहनः शोषणश्चैव तपनश्च महाबलः॥३०॥

स्वाहाकारस्य विषये प्रख्याताः पञ्च वह्नयः ।
अथापरे महाभागाः स्वैरनीकैर्व्यवस्थिताः॥३१॥

पिठरः पतगः स्वर्णः श्वा गाधो भ्राज एव च ।
स्वधाकाराश्रयाः पञ्च अयुध्यंस्तेऽपि चाग्नयः॥३२॥

ज्योतिष्टोमविभागौ च वषट्काराश्रयौ पुनः ।
द्वावग्नी सम्प्रयुध्येते महात्मानौ महाद्युती॥३३॥

आग्नेयं रथमास्थाय शरमुद्यम्य भास्वरम् ।
तयोर्मध्येऽङ्गिराश्चैव महर्षिर्विबभौ रणे॥३४॥

अङ्गिरामुख्योऽग्निः॥३४॥

स्थितमङ्गिरसं दृष्ट्वा विमुञ्चन्तं शिताञ्छरान् ।
कृष्णः प्रोवाच सङ्क्रुद्धः स्मयन्निव पुनः पुनः॥३५॥

तिष्ठध्वमग्नयः सर्वे एष वो विदधे भयम् ।
ममास्त्रतेजसा दग्धा दिशो यास्यथ विद्रुताः ।
अथाङ्गिरास्त्रिशूलेन दीप्तेन समधावत॥३६॥

आददान इव क्रोधात्कृष्णप्राणान्महामृधे ।
त्रिशूलं तस्य दीप्तं तु चिच्छेद परमेषुभिः ।
अर्धचन्द्रैस्तथा तीक्ष्णैर्यमान्तकनिभोपमैः॥३७॥

यमान्तकनिभोपमैः यमनिभैः क्रूरैः अन्तकोपमैः प्राणहरैः॥३७॥

स्थूणाकर्णेन बाणेन दीप्तेन स महामनाः ।
विव्याधान्तकतुल्येन वक्षस्यङ्गिरसं ततः॥३८॥

स्थूणातुल्यो कर्णौ तिर्यक्फलके यस्य तेन स्थूणाकर्णेन॥३८॥

रुधिरौघप्लुतैर्गात्रैरङ्गिरा विह्वलन्निव ।
विष्टब्धगात्रः सहसा पपात धरणीतले॥३९॥

शेषास्ततोऽग्नयः सर्वे चत्वारो ब्रह्मणः सुताः ।
आधावन्तस्तदा शीघ्रं बाणस्य पुरमन्तिकात्॥४०॥

अथागमत्ततः कृष्णो यत्र बाणपुरं ततः ।
अथ बाणपुरं दृष्ट्वा दूरात्प्रोवाच नारदः॥४१॥

एतत्तच्छोणितपुरं कृष्ण पश्य महाभुज ।
अत्र रुद्रो महातेजा रुद्राण्या सहितोऽवसत्॥४२॥

गुहश्च बाणगुप्त्यर्थं सततं क्षेमकारणात् ।
नारदस्य वचः श्रुत्वा कृष्णः सम्प्रहसन्ब्रवीत्॥४३॥

ब्रवीत् अब्रवीत्॥४३॥

क्षणां चिन्तयतामत्र श्रूयतां च महामुने ।
यदि वावतरेद्रुद्रो बाणसंरक्षणं प्रति॥४४॥

शक्तितो वयमप्यत्र सह योत्स्याम तेन वै ।
एवं विवदतोस्तत्र कृष्णनारदयोस्तदा॥४५॥

प्राप्ता निमेषमात्रेण शीघ्रगा गरुडेन ते ।
ततः शङ्खं समाधाय वदने पुष्करेक्षणः॥४६॥

वायुवेगसमुद्भूतो मेघश्चन्द्रमिवोद्गिरन् ।
ततः प्रध्माप्य तं शङ्खं भयमुत्पाद्य वीर्यवान्॥४७॥

प्रविवेश पुरं कृष्णो बाणस्याद्भुतकर्मणः ।
ततः शङ्खप्रणादैश्च भेरीणां च महास्वनैः॥४८॥

बाणानीकानि सहसा सन्नह्यन्त समन्ततः ।
ततः किङ्करसैन्यं तु व्यादिष्टं समरे भयात्॥४९॥

कोटिशश्चापि बहुशो दीप्तप्रहरणास्तदा ।
तदसङ्ख्येयमेकस्थं महाभ्रवनसन्निभम्॥५०॥

नीलाञ्जनचयप्रख्यमप्रमेयमथाक्षयम् ।
दीप्तप्रहरणाः सर्वे दैत्यदानवराक्षसाः॥५१॥

प्रमाथगणमुख्याश्च अयुध्यन्कृष्णमव्ययम् ।
सर्वतस्तैः प्रदीप्तास्यैः सार्चिष्मद्भिरिवाग्निभिः॥५२॥

अभ्युपेत्य तदात्युग्रैर्यक्षराक्षसकिन्नरैः ।
पीयते रुधिरं तेषां चतुर्णामपि संयुगे॥५३॥

तद्बलं तु समासाद्य बलभद्रो महाबलः ।
प्रोवाच वचनं तत्र परस्य बलनाशनः॥५४॥

कृष्ण कृष्ण महाबाहो विधत्स्वैषां महद्भयम् ।
इति सञ्चोदितः कृष्णो बलभद्रेण धीमता॥५५॥

तेषां वधार्थमाग्नेयं जग्राह पुरुषोत्तमः ।
अस्त्रमस्त्रविदां श्रेष्ठो यमान्तकसमप्रभः ।
प्रविधूयासुरगणान्क्रव्यादानस्त्रतेजसा॥५६॥

प्रययौ त्वरया युक्तो यत्र दृश्येत तद्बलम् ।
शूलपत्ट्टिशशक्त्यृष्टिपिनाकपरिघायुधम्॥५७॥

प्रमाथगणभूयिष्ठं बलं तदभवत्क्षितौ ।
शैलमेघप्रतीकाशैर्नानारूपैर्भयानकैः ।
वाहनैः सङ्घशः सर्वे योधास्तत्रावतस्थिरे॥५८॥

वातोद्भूतैरिव घनैर्विप्रकीर्णैरिवाचलैः ।
शुशुभे तत्र बहुलैरनीकैर्दृढधन्विभिः ।
मुसलैरसिभिः शूलैर्गदाभिः परिघैस्तथा॥५९॥

अबाधं तदसङ्ख्येयं शुशुभे सर्वतो बलम् ।
ततः सङ्कर्षणो देवमुवाच मधुसूदनम्॥६०॥

कृष्ण कृष्ण महाबाहो यदेतद्दृश्यते बलम् ।
एतैः सह रणे योद्धुमिच्छामि पुरुषोत्तम॥६१॥

श्रीकृष्ण उवाच। ममाप्येषैव सञ्जाता बुद्धिरित्यब्रवीच्च तम् ।
एभिः सह रणे योद्धुमिच्छेयं योधसत्तमैः॥६२॥

युद्ध्यतः प्राङ्मुखस्यास्तु सुपर्णो वै ममाग्रतः ।
सव्यपार्श्वे तु प्रद्युम्नस्तथा मे दक्षिणे भवान् ।
रक्षितव्यमथान्योन्यमस्मिन्घोरे महामृधे॥६३॥

वैशम्पायन उवाच। एवं ब्रुवन्तस्तेऽन्योन्यमधिरूढाः खगोत्तमम् ।
गिरिशृङ्गनिभैर्घोरैर्गदामुसललाङ्गलैः॥६४॥

युद्ध्यतो रौहिणेयस्य रौद्रं रूपमभूत्तदा ।
युगान्ते सर्वभूतानां कालस्येव दिधक्षतः॥६५॥

आकृष्य लाङ्गलाग्रेण मुशलेनावपोथयत् ।
चचारातिबलो रामो युद्धमार्गविशारदः॥६६॥

प्रद्युम्नः शरजालैस्तान्समन्तात्पर्यवारयत् ।
दानवान्पुरुषव्याघ्रो युद्ध्यमानान्महाबलः॥६७॥

स्निग्धाञ्जनचयप्रख्यः शङ्खचक्रगदाधरः ।
प्रध्माय बहुशः शङ्खमयुध्यत जनार्दनः॥६८॥

पक्षप्रहारनिहता नखतुण्डाग्रदारिताः ।
नीता वैवस्वतपुरं वैनतेयेन धीमता॥६९॥

तैर्हन्यमानं दैत्यानामनीकं भीमविक्रमम् ।
अभज्यत तदा सङ्ख्ये बाणवर्षसमाहतम्॥७०॥

भज्यमानेष्वनीकेषु त्रातुकामः समभ्ययात् ।
ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः॥७१॥

भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ।
नदन्मेघसहस्रेण तुल्यो निर्घातनिःस्वनः॥७२॥

निःश्वसञ्जृम्भमाणश्च निद्रान्विततनुर्भृशम् ।
नेत्राभ्यामाकुलं वक्त्रं मुहुः कुर्वन्भ्रमन्मुहुः॥७३॥

संहृष्टरोमा ग्लानाक्षो भग्नचित्त इव श्वसन् ।
हलायुधमभिक्रुद्धः साक्षेपमिदमब्रवीत्॥७४॥

किमेवं बलमत्तोऽसि न मां पश्यसि संयुगे ।
तिष्ठ तिष्ठ न मे जीवन्मोक्ष्यसे रणमूर्धनि॥७५॥

इत्येवमुक्त्वा प्रहसन्हलायुधमुपाद्रवत् ।
युगान्ताग्निनिभैर्घोरैर्मुष्टिभिर्जनयन्भयम्॥७६॥

चरतस्तत्र सङ्ग्रामे मण्डलानि सहस्रशः ।
रौहिणेयस्य शीघ्रेण नावस्थानमदृश्यत॥७७॥

तस्य भस्म तदा क्षिप्तं ज्वरेणाप्रतिमौजसा ।
शैघ्र्याद्वक्षो निपतितं शरीरे पर्वतोपमे॥७८॥

तद्भस्म वक्षसस्तस्य मेरोः शिखरमागमत् ।
प्रदीप्तं पतितं तत्र गिरिशृङ्गं व्यदारयत्॥७९॥

शेषेण चापि जज्वाल भस्मना कृष्णपूर्वजः ।
निःश्वसन्जृम्भमाणश्च निद्रान्विततनुर्भृशम्॥८०॥

नेत्रयोराकुलत्वं च मुहुः कुर्वन्भ्रमंस्तथा ।
संहृष्टरोमा ग्लानाक्षः क्षिप्तचित्त इव श्वसन्॥८१॥

ततो हलधरो भग्नः कृष्णमाह विचेतनः ।
कृष्ण कृष्ण महाबाहो प्रतीतोऽस्म्यभयं कुरु॥८२॥

दह्यामि सर्वतस्तात कथं शान्तिर्भवेन्मम ।
इत्येवमुक्ते वचनं बलेनामिततेजसा॥८३॥

प्रहस्य वचनं प्राह कृष्णः प्रहरतां वरः ।
न भेतव्यमितीत्युक्त्वा परिष्वक्तो हलायुधः॥८४॥

कृष्णेन परमस्नेहात्ततो दाहात्प्रमुच्यत ।
मोक्षयित्वा बलं तत्र दाहात्तु मधुसूदनः॥८५॥

प्रोवाच परमक्रुद्धो वासुदेवो ज्वरं तदा ।
श्रीभगवानुवच। एह्येहि ज्वर युध्यस्व या ते शक्तिर्महामृधे॥८६॥

यच्च ते पौरुषं सर्वं तद्दर्शयतु नो भवान् ।
सव्येतराभ्यां बाहुभ्यामेवमुक्तो ज्वरस्तदा॥८७॥

चिक्षेपैनं महद्भस्म ज्वालागर्भं महाबलः ।
ततः प्रदीप्तगात्रस्तु मुहूर्तमभवत्प्रभुः॥८८॥

कृष्णः प्रहरतां श्रेष्ठः शमं चाग्निर्गतस्ततः ।
ततस्तैर्भुजगाकारैर्बाहुभिस्तु त्रिभिस्तदा॥८९॥

जघान कृष्णं ग्रीवायां मुष्टिनैकेन चोरसि ।
स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः॥९०॥

ज्वरस्य तु महायुद्धे कृष्णस्य तु महौजसः ।
पर्वतेषु पतन्तीनामशनीनामिव स्वनः॥९१॥

कृष्णज्वरभुजाघातैर्युद्धमासीत्सुदारुणम् ।
नैवमेवं प्रहर्तव्यमिति तत्र महास्वनः ।
मुहूर्तमभवद्युद्धमन्योन्यं तु महात्मनोः॥९२॥

ततो ज्वरं कनकविचित्रभूषणं न्यपीडयद्भुजवलयेन संयुगे ।
जगत्क्षयं समुपनयञ्जगत्पतिः शरीरधृग्गगनचरं महामृधे॥९३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि कृष्णज्वरयुद्धे द्वाविंशत्यधिकशततमोऽध्यायः॥१२२॥
ज्वरस्य पराजयो वरलाभश्च-१२३

वैशम्पायन उवाच। मृतमित्यभिविज्ञाय ज्वरं शत्रुनिषूदनः ।
कृष्णो भुजबलाभ्यां तु चिक्षेपाथ महीतले॥१॥

मृतमिति॥१॥

मुक्तमात्रः स बाहुभ्यां कृष्णदेहं विवेश ह ।
अमुक्त्वा विग्रहं तस्य कृष्णस्याप्रतिमौजसः॥२॥

स ह्याविष्टस्तथा तेन ज्वरेणाप्रतिमौजसा ।
कृष्णः स्खलन्निव मुहुः क्षितौ गाढं व्यवर्तत॥३॥

जृम्भते श्वसते चैव वल्गते च पुनः पुनः ।
रोमाञ्चोत्थितगात्रश्च निद्रया चाभिभूयते॥४॥

ततः स्थैर्यं समालम्ब्य कृष्णः परपुरञ्जयः ।
विकुर्वति महायोगी जृम्भमाणः पुनः पुनः॥५॥

ज्वराभिभूतमात्मानं विज्ञाय पुरुषोत्तमः ।
सोऽसृजज्ज्वरमन्यं तु पूर्वज्वरविनाशनम्॥६॥

घोरं वैष्णवमत्युग्रं सर्वप्राणिभयङ्करम् ।
संसृष्टवान्स तेजस्वी तं ज्वरं भीमविक्रमम्॥७॥

ज्वरः कृष्णविसृष्टस्तु गृहीत्वा तं ज्वरं बलात् ।
कृष्णाय हृष्टः प्रायच्छत्तं जग्राह ततो हरिः॥८॥

ततस्तं परमक्रुद्धो वासुदेवो महाबलः ।
स्वगात्रात्स्वज्वरेणैव निष्कासयत वीर्यवान्॥९॥

आविध्य भूतले चैनं शतधा कर्तुमुद्यतः ।
व्यघोषत ज्वरस्तत्र भोः परित्रातुमर्हसि॥१०॥

आविद्ध्यमाने तस्मिंस्तु कृष्णेनामिततेजसा ।
अशरीरा ततो वाणी ह्यन्तरिक्षादभाशत॥११॥

कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्धन ।
मा वधीर्ज्वरमेनं तु रक्षणीयस्त्वयानघ॥१२॥

इत्येवमुक्ते वचने तं मुमोच हरिः स्वयम् ।
भूतभव्यभविष्यस्य जगतः परमो गुरुः॥१३॥

कृष्णस्य पादयोर्मूर्ध्ना शरणं सोऽगमज्ज्वरः ।
एवमुक्तो हृषीकेशं ज्वरो वाक्यमथाब्रवीत्॥१४॥

शृणुष्व मम गोविन्द विज्ञाप्यं यदुनन्दन ।
यो मे मनोरथो देव तं त्वं कुरु महाभुज॥१५॥

अहमेको ज्वरस्तात नान्यो लोके ज्वरो भवेत् ।
त्वत्प्रसादाद्धि देवेश वरमेनं वृणोम्यहम्॥१६॥

देव उवाच। एवं भवतु भद्रं ते यथा त्वं ज्वर काङ्क्षसे ।
वरार्थिनां वरो देयो भवांश्च शरणं गतः॥१७॥

एक एव ज्वरो लोके भवानस्तु यथा पुरा ।
योऽयं मया ज्वरः सृष्टो मय्येवैष प्रलीयताम्॥१८॥

वैशम्पायन उवाच। एवमुक्ते तु वचने ज्वरं प्रति महायशाः ।
कृष्णः प्रहरतां श्रेष्ठः पुनर्वाक्यमुवाच ह॥१९॥

वासुदेव उवाच शृणुष्व ज्वर सन्देशं यथा लोके चरिष्यसि ।
सर्वजातिषु विश्रब्धं यथा स्थावरजङ्गमे॥२०॥

त्रिधा विभज्य चात्मानं मत्प्रियं यदि काङ्क्षसे ।
चतुष्पादान्भजैकेन द्वितीयेन च स्थावरान्॥२१॥

त्रिधेति॥ त्वं त्रिधाभूतं वपुः कृत्वा चतुष्पादादिषु भवेत्यध्याहृत्य योज्यम्॥२१॥

तृतीयो यश्च ते भागो मानुषेषूपपत्स्य ते ।
त्रिधा भूतं वपुः कृत्वा पक्षिषु त्वं भव ज्वर॥२२॥

चतुर्थो यस्तृतीयस्य भविष्यति स ते ध्रुवम् ।
एकान्तरस्तृतीयस्तु स वै चातुर्थिको ज्वरः॥२३॥

तथा तृतीयस्य भागस्य चतुर्थांशः सपक्षिषु ध्रुवो भविष्यतीति योजना॥२३॥

मानुषेष्वभिभेदेन वस त्वं प्रविभज्य वै ।
जातिष्वथावशेषासु निवस त्वं शृणुष्व मे॥२४॥

वृक्षेषु कीटरूपेण तथा सङ्कोचपत्रकः ।
पाण्डुपत्रश्च विख्यातः फलेष्वातुर्यमेव च॥२५॥

आतुर्यम् एकप्रदेशे जालकेन सङ्कोचः॥२५॥

अपां तु नीलिकां विद्याच्छिखोद्भेदेन बर्हिणाम् ।
पद्मिन्यादौ हिमो भूत्वा पृथिव्यामपि चोषरः॥२६॥

गैरिकः पर्वतेष्वेव मत्प्रसादाद्भविष्यसि ।
गोष्वपस्मारको भूत्वा खोरकश्च भविष्यसि॥२७॥

अपस्मारकः भूतावेशः। खोरकश्चरणरोगः॥२७॥

एवं त्वं बहुरूपेण भविष्यसि महीतले ।
दर्शनात्स्पर्शनाच्चापि प्राणिनां वधमेष्यसि॥२८॥

ऋते देवमनुष्याणां नान्यस्त्वां विसहिष्यति ।
वैशम्पायन उवाच। कृष्णस्य वचनं श्रुत्वा ज्वरो हृष्टमना ह्यभूत्॥२९॥

प्रोवाच वचनं किञ्चित्प्रणमित्वा कृताञ्जलिः ।
ज्वर उवाच। सर्वजातिप्रभुत्वेन कृतो धन्योऽस्मि माधव॥३०॥

भूयश्च ते वचः कर्तुमिच्छामि पुरुषर्षभ ।
तदाज्ञापय गोविन्द किं करोमि महाभुज॥३१॥

अहमसुरकुलप्रमाथिना त्रिपुरहरेण हरेण निर्मितः ।
रणशिरसि विनिर्जितस्त्वया प्रभुरसि देव तवास्मि किङ्करः॥३२॥

धन्योस्मनुगृहीतोऽस्मि यत्त्वया मत्प्रियं कृतम् ।
आज्ञापय प्रियं किं ते चक्रायुध करोम्यहम्॥३३॥

वैशम्पायन उवाच। ज्वरस्य वचनं श्रुत्वा वासुदेवोऽब्रवीद्वचः ।
अभिसन्धिं शृणुष्वाद्य यत्त्वां वक्ष्यामि निश्चयात्॥३४॥

श्रीभगवानुवाच। महाहवे तव मम च द्वयोरिमं पराक्रमं भुजबलकेवलास्त्रयोः ।
प्रणम्य मामेकमनाः पठेत्तु यः स वै भवेज्ज्वर विगतज्वरो नरः॥३५॥

त्रिपाद्भस्मप्रहरणस्त्रिशिरा नवलोचनः ।
स मे प्रीतः सुखं दद्यात्सर्वामयपतिर्ज्वरः॥३६॥

आद्यन्तवन्तः कवयः पुराणाः सूक्ष्मा बृहन्तोऽप्यनुशासितारः ।
सर्वाञ्ज्वरान्घ्नन्तु ममानिरुद्धप्रद्युम्नसङ्कर्षणवासुदेवाः॥३७॥

एवमुक्तस्तु कृष्णेन ज्वरः साक्षान्महात्मना ।
प्रोवाच यदुशार्दूलमेवमेतद्भविष्यति॥३८॥

वरं लब्ध्वा ज्वरो हृष्टः कृष्णाच्च समयं पुनः ।
प्रणम्य शिरसा कृष्णमपक्रान्तस्ततो रणात्॥३९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि ज्वरकृष्णसंवादे त्रयोविंशत्यधिकशततमोऽध्यायः॥१२३॥
बाणसैन्यैः सह कृष्णस्य युद्धं बाणसैन्यापयानं रुद्रेण सह कृष्णयुद्धादिकीर्तनं च-१२४

वैशम्पायन उवाच। ततस्ते त्वरिताः सर्वे त्रयस्त्रय इवाग्नयः ।
वैनतेयमथारुह्य युध्यमाना रणे स्थिताः॥१॥

तत इति॥१॥

ततः सर्वाण्यनीकानि बाणवर्षैरवाकिरन् ।
अर्दयन्वैनतेयस्था नदन्तोऽतिबलाद्रणे॥२॥

अर्दयन् अपीडयन्। आडभाव आर्षः॥२॥

चक्रलाङ्गलपातैश्च बाणवर्षैश्च पीडितम् ।
सञ्चुकोप महानीकं दानवानां दुरासदम्॥३॥

कक्षेऽग्निरिव संवृद्धः शुष्केन्धनसमीरितः ।
कृष्णबाणाग्निरुद्भूतो विवृद्धिं परमां गतः॥४॥

दानवानां सहस्राणि तस्मिन्समरमूर्धनि ।
युगान्ताग्निरिवार्चिष्मान्दहमानो व्यराजत॥५॥

दहमानः दहन्॥५॥

तां दीप्यमानां महतीं नानाप्रहरणार्दिताम् ।
सेनां बाणः समासाद्य वारयन्वाक्यमब्रवीत्॥६॥

लाघवं समुपागम्य किमर्थं भयविक्लवाः ।
दैत्यवंशसमुत्पन्नाः पलायध्वं महाहवात्॥७॥

कवचासिगदाप्रासखड्गचर्मपरश्वधान् ।
उत्सृज्योत्सृज्य गच्छन्ति किं भवन्तोऽन्तरिक्षगाः॥८॥

स्वजातिं चैव भावं च हरसंसर्गमेव च ।
मानयद्भिर्न गन्तव्यमेषो ह्यहमवस्थितः॥९॥

एवमुच्चरितं वाक्यं शृण्वन्तस्तदचिन्तयन् ।
अपाक्रामन्त ते सर्वे दानवा भयमोहिताः॥१०॥

अचिन्तयन् अचिन्तयन्तः॥१०॥

प्रमाथगणशेषं तु तदनीकमतिष्ठत ।
भग्नावशेषं युद्धाय पुनशचक्रे मनस्तदा॥११॥

कुम्भाण्डो नाम बाणस्य सखामात्यश्च वीर्यवान् ।
भग्नं स्वबलमालोक्य इदं वचनमब्रवीत्॥१२॥

एष बाणः स्थितो युद्धे शङ्करोऽयं गुहस्तथा ।
किमर्थं बलमुत्सृज्य भवन्तो यान्ति मोहिताः॥१३॥

प्राणांस्त्यक्त्वा पलायन्ते सर्वे दानवपुङ्गवाः ।
एवं कुम्भाण्डवाक्यं ते शृण्वन्तो भयविह्वलाः॥१४॥

एकान्ते भयवित्रस्ताः सर्वे यान्ति दिशो दश ।
भग्नं बलं ततो दृष्ट्वा कृष्णेनामिततेजसा ।
संरक्तनयनः स्थाणुर्युद्धाय पर्यवर्तत॥१५॥

बाणसंरक्षणं कर्तुं रथमास्थाय सुप्रभम् ।
देवः कुमारश्च तथारथेनाग्निसमेन वै॥१६॥

नन्दीश्वरसमायुक्तं रथमास्थाय वीर्यवान् ।
सन्दष्टौष्ठपुटो रुद्रः प्रधावत यतो हरिः॥१७॥

पिबन्निव तदाकाशं सिंहयुक्तो महास्वनः ।
रथो भाति घनोन्मुक्तः पौर्णमास्यां यथा शशी॥१८॥

ततो गणसहस्रैस्तु नानारूपैर्भयावहैः ।
नदद्भिर्विविधान्नादान्रथो देवस्य शोभयन्॥१९॥

गणसहस्रैर्वृत इति शेषः। देवस्य रथः शोभयन् दिशः इति शेषः॥१९॥

केचित्सिंहमुखास्तत्र तथा व्याघ्रमुखाः परे ।
नागाश्वोष्ट्रमुखास्तत्र प्रवेपुरतिपीडिताः॥२०॥

व्यालयज्ञोपवीताश्च केचित्तत्र महाबलाः ।
खरोष्ट्रगजवक्त्राश्च अश्वग्रीवाश्च संस्थिताः॥२१॥

छागमार्जारवक्त्राश्च मेषवक्त्रास्तथापरे ।
चीरिणः शिखिनश्चान्ये जटिलोर्ध्वशिरोरुहाः॥२२॥

जटिलाश्च ऊर्ध्वशिरोरुहाश्चेति द्वन्द्वः॥२२॥

लग्नाः परिपतन्ति स्म शङ्खदुन्दुभिनिःस्वनैः ।
केचित्सौम्यमुखास्तत्र दिव्यैः शस्त्रैरलङ्कृताः॥२३॥

लग्नाः अन्योन्यसंसक्ताः भूमाविति शेषः॥२३॥

नानापुष्पकृतापीडा नानाप्रहरणायुधाः ।
वामना विकटाश्चैव सिंहव्याघ्रपरिच्छदाः॥२४॥

रुधिरार्द्रैर्महावक्त्रैर्महादंष्ट्रा बलिप्रियाः ।
देवं सम्परिवार्याथ महाशत्रुप्रमर्दनम्॥२५॥

लीलायमानास्तिष्ठन्ति सङ्ग्रामाभिमुखोन्मुखाः ।
ततो दिव्यं रथं दृष्ट्वा रुद्रस्याक्लिष्टकर्मणः॥२६॥

अभिमुखाः सादराः उन्मुखाः शत्रोरन्तरिक्षस्थत्वात् अभिमुखाश्च ते उन्मुखाश्चेति विग्रहः॥२६॥

कृष्णो गरुडमास्थाय ययौ रुद्राय संयुगे ।
वैनतेयस्थमास्यन्तमायान्तमग्रणीं हरिम्॥२७॥

विव्याध कुपितो बाणैर्नाराचानां शतेन सः ।
स शरैरर्दितस्तेन हरेणाक्लिष्टकर्मणा॥२८॥

हरिर्जग्राह कुपितो ह्यस्त्रं पार्जन्यमुत्तमम् ।
प्रचचाल ततो भूमिर्विष्णुरुद्रप्रपीडिता॥२९॥

नागाश्चोर्ध्वमुखास्तत्र विचेलुरभिपीडिताः ।
पर्वताः पतितास्तत्र जलधाराभिराप्लुताः॥३०॥

केचिन्मुमुचिरे तत्र शिखराणि समन्ततः ।
दिशश्च प्रदिशश्चैव भूमिराकाशमेव च॥३१॥

प्रदीप्तानीव दृश्यन्ते स्थाणुकृष्णसमागमे ।
समन्ततश्च निर्घाताः पतन्ति धरणीतले॥३२॥

शिवाश्चैवाशिवान्नादान्नदन्ते भीमदर्शनाः ।
वासवश्चानदन्घोरं रुधिरं चाप्यवर्षत॥३३॥

उल्का च बाणसैन्यस्य पुच्छेनावृत्य तिष्ठति ।
प्रववौ मारुतश्चापि ज्योतींष्याकुलतामियुः॥३४॥

पुच्छेन पुच्छप्रदेशम् इयुः ईयुः॥३४॥

प्रभाहीनास्तथौषध्यो न चरन्त्यन्तरिक्षगाः ।
एतस्मिन्नन्तरे ब्रह्मा सर्वदेवगणैर्वृतः॥३५॥

त्रिपुरान्तकमुह्यन्तं ज्ञात्वा रुद्रमुपागमत् ।
गन्धर्वाप्सरसश्चैव यक्षा विद्याधरास्तथा॥३६॥

सिद्धचारणसङ्घाश्च पश्यन्तोऽथ दिवि स्थिताः ।
ततः पार्जन्यमस्त्रं तत्क्षिप्तं रुद्राय विष्णुना॥३७॥

ययौ ज्वलन्नथ तदा यतो रुद्रो रथस्थितः ।
ततः शतसहस्राणि शराणां नतपर्वणाम्॥३८॥

निपेतुः सर्वतो दिग्भ्यो यतो हररथस्थितः ।
अथाग्नेयं महारौद्रमस्त्रमस्त्रविदां वरः॥३९॥

मुमोच रुषितो रुद्रस्तदद्भुतमिवाभवत् ।
ततो विशीर्णदेहास्ते चत्वारोऽपि समन्ततः॥४०॥

नादृश्यन्त शरैश्छन्ना दह्यमानाश्च वह्निना ।
सिंहनादं ततश्चक्रुः सर्व एवासुरोत्तमाः॥४१॥

हतोऽयमिति विज्ञाय आग्नेयास्त्रेण वै तदा ।
ततस्तद्विसहित्वाजो ह्यस्त्रमस्त्रविदां वरः॥४२॥

जग्राह वारुणं सोऽस्त्रं वासुदेवः प्रतापवान् ।
प्रत्युक्ते वासुदेवेन वारुणास्त्रेऽतितेजसि॥४३॥

आग्नेयं प्रशमं यातमस्त्रं वारुणतेजसा ।
तस्मिन्प्रतिहते त्वस्त्रे वासुदेवेन संयुगे॥४४॥

पैशाचं राक्षसं रौद्रं तथैवाङ्गिरसं भवः ।
मुमोचास्त्राणि चत्वारि युगान्ताग्निनिभानि वै॥४५॥

वायव्यमथ सावित्रं वासवं मोहनं तथा ।
अस्त्राणां वारणार्थाय वासुदेवो ह्यमुञ्चत॥४६॥

अस्त्रैश्चतुर्भिश्चत्वारि वारयित्वाशु माधवः ।
मुमोच वैष्णवं सोऽस्त्रं व्यादितास्यान्तकोपमम्॥४७॥

वैष्णवास्त्रे प्रयुक्ते तु सर्व एवासुरोत्तमाः ।
भूतयक्षगणाश्चैव बाणानीकं च सर्वशः॥४८॥

दिशः सर्वाः प्राद्रवन्त भयमोहेन विक्लवाः ।
प्रमाथगणभूयिष्ठे दीर्णे सैन्ये महासुरः॥४९॥

निर्जगाम ततो बाणो युद्धायाभिमुखस्त्वरन् ।
भीमप्रहरणैर्घोरैर्दैत्यैश्च सुमहाबलैः ।
वृतो माहारथैर्वीरैर्वज्रीव सुरसत्तमैः॥५०॥

वैशम्पायन उवाच। जपैश्च होमैश्च तथौषधीभिर्महात्मनः स्वस्त्ययनं प्रचक्रुः ।
स तत्र वस्त्राणि शुभाश्च गावः फलानि पुष्पाणि तथैव निष्कान्॥५१॥

बलेः सुतो ब्राह्मणेभ्यः प्रयच्छन्विराजते तेन यथा धनेशः ।
सहस्रसूर्यो बहुकिङ्किणीकः परार्घ्यजाम्बूनदरत्नचित्रः॥५२॥

सहस्रचन्द्रायुततारकश्च रथो महानग्निरिवावभाति ।
तमास्थितो दानवसङ्गृहीतं महाध्वजं कार्मुकधृक्स बाणः॥५३॥

उद्वर्तयिष्यन्यदुपुङ्गवानामतीव रौद्रं स बिभर्ति रूपम् ।
स मन्युमान्वीररथौघसङ्कुलो विनिर्ययौ तान्प्रति दैत्यसागरः॥५४॥

वातप्रवृद्धस्तु तरङ्गसङ्कुलो यथार्णवा लोकविनाशनाय ।
भीमानि सन्त्रासकरैर्वपुर्भिस्तान्यग्रतो भान्ति बलानि तस्य॥५५॥

महारथान्युच्छ्रितकार्मुकाणि सपर्वतानीव वनानि राजन् ।
विनिःसृतः सागरतोयवासादत्यद्भुतश्चाहवद्रष्टुकामः॥५६॥

विनिःसृतो बाणः सागरतोयवासात् समुद्रनिकटस्थानात् स्वस्थानात्॥५६॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि रुद्रकृष्णयुद्धे चतुर्विंशत्यधिकशततमोऽध्यायः॥१२४॥
ब्रह्मवाक्यात्कृष्णबाणयोर्युद्धनिवृत्तिः पितामहजिज्ञासया मार्कण्डेयकर्तृकं हरिहरमाहात्म्यकीर्तनं स्तवकथनं च-१२५

वैशम्पायन उवाच। अन्धकारीकृते लोके प्रदीप्ते त्र्यम्बके तथा ।
न नन्दी नापि च रथो न रुद्रः प्रत्यदृश्यत॥१॥

अन्धकारीति॥१॥

द्विगुणं दीप्तदेहस्तु रोषेण च बालेन च ।
त्रिपुरान्तकरो बाणं जग्राह च चतुर्मुखः॥२॥

सचतुर्मुखः ब्रह्मणा सहितः सचतुर्मुखमिति पाठे बाणविशेषणं चतुर्धा शल्योपेतमित्यर्थः॥२॥

सन्दधत्कार्मुकं चैव क्षेप्तुकामस्त्रिलोचनः ।
विज्ञातो वासुदेवेन चित्तज्ञेन महात्मना॥३॥

जृम्भणं नाम सोऽप्यस्त्रं जग्राह पुरुषोत्तमः ।
हरं सञ्जृम्भयामास क्षिप्रकारी महाबलः ।
सशरः सधनुश्चैव हरस्तेनाशु जृम्भितः॥४॥

संज्ञां न लेभे भगवान्विजेतासुररक्षसाम् ।
सशरं सधनुष्कं च दृष्ट्वात्मानं विजृम्भितम्॥५॥

आत्मानं रुद्ररूपिणम्॥५॥

बलोन्मत्तोऽथ बाणोऽसौ शर्वं चोदयतेऽसकृत् ।
ततो ननाद भूतात्मा स्निग्धगम्भीरया गिरा॥६॥

भूतात्मा कृष्णः॥६॥

प्रध्मापयामास तदा कृष्णः शङ्खं महाबलः ।
पाञ्चजन्यस्य घोषेणा शार्ङ्गविस्फूर्जितेन च॥७॥

देवं विजृम्भितं दृष्ट्वा सर्वभूतानि तत्रसुः ।
एतस्मिन्नन्तरे तत्र रुद्रस्य पार्षदा रणे॥८॥

मायायुद्धं समाश्रित्य प्रद्युम्नं पर्यवारयन् ।
सर्वांस्तु निद्रावशगान्कृत्वा मकरकेतुमान्॥९॥

दानवान्नाशयत्तत्र शरजालेन वीर्यवान् ।
प्रमाथगणभूयिष्ठांस्तत्र तत्र महाबलान्॥१०॥

ततस्तु जृन्भमाणस्य देवस्याक्लिष्टकर्मणः ।
ज्वाला प्रादुरभूद्वक्त्राद्दहन्तीव दिशो दश॥११॥

ततस्तु धरणी देवी पीड्यमाना महात्मभिः ।
ब्रह्माणं विश्वधातारं वेपमानाभ्युपागमत्॥१२॥

पृथिव्युवाच। देवदेव महाबाहो पीड्यामि परमौजसा ।
कृष्णरुद्रभराक्रान्ता भविष्यैकार्णवा पुनः॥१३॥

एकार्णवा भविष्ये सन्धिरार्षः॥१३॥

अविषह्यमिमं भारं चिन्तयस्व पितामह ।
लघ्वीभूता यथा देव धारयेयं चराचरम्॥१४॥

ततस्तु काश्यपीं देवीं प्रत्युवाच पितामहः ।
मुहूर्तं धारयात्मानमाशु लघ्वी भविष्यसि॥१५॥

वैशम्पायन उवाच। दृष्ट्वा तु भगवान्ब्रह्मा रुद्रं वचनमब्रवीत् ।
सृष्टो महासुरवधः किं भूयः परिरक्ष्यसे॥१६॥

न च युद्धं महाबाहो तव कृष्णेन रोचते ।
न च बुध्यसि कृष्णं त्वमात्मानं तु द्विधा कृतम्॥१७॥

ततः शरीरयोगाद्धि भगवानव्ययः प्रभुः ।
प्रविश्य पश्य ते कृत्स्नांस्त्रीँल्लोकान्सचराचरान्॥१८॥

ततो ब्रह्मोपदेशानन्तरं भगवान् रुद्रः शरीरेऽन्तर्योगः प्रणिधानं तस्मात् ध्यानेनेत्यर्थः। प्रविश्य हार्दं ब्रह्मेति शेषः॥१८॥

प्रविश्य योगं योगात्मा वरांस्ताननुचिन्तयन् ।
द्वारवत्यां यदुक्तं च तदनुस्मृत्य सर्वशः ।
जगाद नोत्तरं किञ्चिन्निवृत्तोऽसौ भवत्तदा॥१९॥

आत्मानं कृष्णयोनिस्थं पश्यत ह्येकयोनिजम् ।
ततो निःसृत्य रुद्रस्तु न्यस्तवादोऽभवन्मृधे॥२०॥

कृष्णयोनिस्थं कृष्णस्य फलोपमस्य योनेः कारणं भूमिस्थानीयं शुद्धं परं ब्रह्म। कृष्णम् आत्मानं च शुद्धब्रह्मैकतां गतं युगपत् पश्यत उभयोरेकयोनित्वमपश्यत्। ततः स्वप्रत्यगात्मना सह स्वस्य विरोधासम्भवात् रुद्रो मृधे युद्धविषये न्यस्तवादोऽपास्तप्रतिज्ञो बभूव॥२०॥

ब्रह्माणं चाब्रवीद्रुद्रो न योत्स्ये भगवन्निति ।
कृष्णेन सह सङ्ग्रामे लघ्वी भवतु मेदिनी॥२१॥

तदेवाह- ब्रह्माणं चेति॥२१॥

ततः कृष्णोऽथ रुद्रश्च परिष्वज्य परस्परम् ।
परां प्रीतिमुपागम्य सङ्ग्रामादपजग्मतुः॥२२॥

न च तौ पश्यते केचिद्योगिनौ योगमागतौ ।
एको ब्रह्म तथा कृत्वा पश्यँल्लोकान्पितामहः॥२३॥

तथा कृत्वा रुद्रकृष्णयोर्योगं सम्पाद्य पश्यन्नवतस्थे इति शेषः॥२३॥

उवाचैतत्समुद्दिश्य मार्कण्डेयं सनारदम् ।
पार्श्वस्थं परिपप्रच्छ ज्ञात्वा वै दीर्घदर्शिनम्॥२४॥

एतद्वक्ष्यमाणं हरिरुद्रयोरभेदमुवाच॥२४॥

पितामह उवाच। मन्दरस्य गिरेः पार्श्वे नलिन्यां भवकेशवौ ।
रात्रौ स्वप्नान्तरे ब्रह्मन्मया दृष्टौ हराच्युतौ॥२५॥

मन्दरस्येति। अत्र द्वयोः सर्वोत्तमत्वायोगादन्यतरो जीव इतर ईश्वरस्तयोश्चाभेदः प्रतिपाद्यते। अन्योन्यलक्षणयोगित्वेनेति केचित्। तत्रापि हरिणा जितो हरो जीव इत्येके। हराल्लब्धवरो हरिर्हरं जितवान्नत्वैश्वर्यादित्यन्ये। मानुष नाट्यानुकारित्वेन हरमाराधयन्नपि ऐश्वर्यात्तं जेतुं समर्थः एवं कृष्ण इत्यपि कश्चित्। एतेषां पाखण्डापसदानां मुखभङ्गायेयं कथा प्रवृत्ता। ब्रह्मन्निति मार्कण्डेयस्य नारदस्य सम्बोधनम्॥२५॥

हरं च हरिरूपेण हरिं च हररूपिणम् ।
शङ्खचक्रगदापाणिं पीताम्बरधरं हरम्॥२६॥

हरं चेति। अत्र हरिहरयोस्तात्त्विकेऽभेदे सत्यपि नटमिव हरं हरिरूपेणापश्यदिति योजनायां ब्रह्मण भ्रान्तत्वमायाति, अतः कायव्यूहयोगिशरीरयोगिव्यवहारतो हरिहरसंज्ञयोर्देहयोर्भेदेऽपि तदभिमानिनि भेदो नास्ति। सर्वोत्तमद्वयायोगादित्यर्थः। व्यावहारिकभेदवतोस्तद्देहयोरपि भेदं नापश्यमित्याह- शङ्खेति। य एव हरित्वेन प्रागवगतः स एव सद्यो हरत्वेन दृष्ट एवं पक्षान्तरेऽपीत्यर्थः॥२६॥

त्रिशूलपट्टिशधरं व्याघ्रचर्मधरं हरिम् ।
गरुडस्थं चापि हरं हरिं च वृषभध्वजम्॥२७॥

विस्मयो मे महान्ब्रह्मन्दृष्ट्वा तत्परमाद्भुतम् ।
एतदाचक्ष्व भगवन्याथातथ्येन सुव्रत॥२८॥

एतत् हरिहरयोरभेदम् आचक्ष्व लोके प्रकाशय॥२८॥

मार्कण्डेय उवाच। शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ।
यथान्तरं न पश्यामि तेन तौ दिशतः शिवम्॥२९॥

दिशतः दिशानाम्॥२९॥

अनादिमध्यनिधनमेतदक्षरमव्ययम् ।
तदेव ते प्रवक्ष्यामि रूपं हरिहरात्मकम्॥३०॥

यो विष्णुः स तु वै रुद्रो यो रुद्रः स पितामहः ।
एका मूर्तिस्त्रयो देवा रुद्रविष्णुपितामहाः॥३१॥

वरदा लोककर्तारो लोकनाथाः स्वयम्भुवः ।
अर्धनारीश्वरास्ते तु व्रतं तीव्रं समास्थिताः॥३२॥

यथा जले जलं क्षिप्तं जलमेव तु तद्भवेत् ।
रुद्रं विष्णुः प्रविष्टस्तु तथा रुद्रमयो भवेत्॥३३॥

अग्निमग्निः प्रविष्टस्तु अग्निरेव यथा भवेत् ।
तथा विष्णुं प्रविष्टस्तु रुद्रो विष्णुमयो भवेत्॥३४॥

रुद्रमग्निमयं विद्याद्विष्णुः सोमात्मकः स्मृतः ।
अग्नीषोमात्मकं चैव जगत्स्थावरजङ्गमम्॥३५॥

अग्नीषोमात्मकं भोक्तृभोज्यात्मकम्॥३५॥

कर्तारौ चापहर्तारौ स्थावरस्य चरस्य तु ।
जगतः शुभकर्तारौ प्रभविष्णू महेश्वरौ॥३६॥

कर्तृकारणकर्तारौ कर्तृकारणकारकौ ।
भूतभव्यभवौ देवौ नारायणमहेश्वरौ॥३७॥

कर्ता हिरण्यगर्भः कारणानि महाभूतानि तेषां कारकौ तेषां कर्तारौ च॥३७॥

जगतः पालकावेतावेतौ सृष्टिकरौ स्मृतौ ।
एते चैव प्रवर्षन्ति भान्ति वान्ति सृजन्ति च ।
एतत्परतरं गुह्यं कथितं ते पितामह॥३८॥

एते ब्रह्मविष्णुरुद्राः प्रवर्षन्ति पर्जन्यरूपेण, वान्ति वायुरूपेण। भान्ति सूर्यरूपेण एतद्देवतात्रयात्मकम्॥३८॥

यश्चैनं पठते नित्यं यश्चैनं शृणुयान्नरः ।
प्राप्नोति परमं स्थानं विष्णुरुद्रप्रसादजम्॥३९॥

देवौ हरिहरौ स्तोष्ये ब्रह्मना सह सङ्गतौ ।
एतौ च परमौ देवौ जगतः प्रभवाप्ययौ॥४०॥

रुद्रस्य परमो विष्णुर्विष्णोश्च परमः शिवः ।
एक एव द्विधाभूतो लोके चरति नित्यशः॥४१॥

न विना शङ्करं विष्णुर्न विना केशवं शिवः ।
तस्मादेकत्वमायातौ रुद्रोपेन्द्रौ तु तौ पुरा ।
नमो रुद्राय कृष्णाय नमः संहतचारिणे॥४२॥

नमः षडर्धनेत्राय सद्विनेत्राय वै नमः ।
नमः पिङ्गलनेत्राय पद्मनेत्राय वै नमः॥४३॥

नमः कुमारगुरवे प्रद्युम्नगुरवे नमः ।
नमो धरणीधराय गङ्गाधराय वै नमः॥४४॥

नमो मयूरपिच्छाय नमः केयूरधारिणे ।
नमः कपालमालाय वनमालाय वै नमः॥४५॥

नमस्त्रिशूलहस्ताय चक्रहस्ताय वै नमः ।
नमः कनकदण्डाय नमस्ते ब्रह्मदण्डिने॥४६॥

नमश्चर्मनिवासाय नमस्ते पीतवाससे ।
नमोऽस्तु लक्ष्मीपतये उमायाः पतये नमः॥४७॥

नमः खट्वाङ्गधाराय नमो मुसलधारिणे ।
नमो भस्माङ्गरागाय नमः कृष्णाङ्गधारिणे॥४८॥

नमः श्मशानवासाय नमः सागरवासिने ।
नमो वृषभवाहाय नमो गरुडवाहिने॥४९॥

नमस्त्वनेकरूपाय बहुरूपाय वै नमः ।
नमः प्रलयकर्त्रे च नमस्त्रैलोक्यधारिणे॥५०॥

नमोऽस्तु सौम्यरूपाय नमो भैरवरूपिणे ।
विरूपाक्षाय देवाय नमः सौम्येक्षणाय च॥५१॥

दक्षयज्ञविनाशाय बलेर्नियमनाय च ।
नमः पर्वतवासाय नमः सागरवासिने॥५२॥

नमः सुररिपुघ्नाय त्रिपुरघ्नाय वै नमः ।
नमोऽस्तु नरकघ्नाय नमः कामाङ्गनाशिने॥५३॥

नमस्त्वन्धकनाशाय नमः कैटभनाशिने ।
नमः सहस्रहस्ताय नमोऽसङ्ख्येयबाहवे॥५४॥

नमः सहस्रशीर्षाय बहुशीर्षाय वै नमः ।
दामोदराय देवाय मुञ्जमेखलिने नमः॥५५॥

नमस्ते भगवन्विष्णो नमस्ते भगवञ्छिव ।
नमस्ते भगवन्देव नमस्ते देवपूजित॥५६॥

नमस्ते सामभिर्गीत नमस्ते यजुभिः सह ।
नमस्ते सुरशत्रुघ्न नमस्ते सुरपूजित ।
नमस्ते कर्मिणां कर्म नमोऽमितपराक्रम ।
हृषीकेश नमस्तेऽस्तु स्वर्णकेश नमोऽस्तु ते॥५७॥

इमं स्तवं यो रुद्रस्य विष्णोश्चैव महात्मनः ।
समेत्य ऋषिभिः सर्वैः स्तुतौ स्तौति महर्षिभिः॥५८॥

व्यासेन वेदविदुषा नारदेन च धीमता ।
भारद्वाजेन गर्गेण विश्वामित्रेण वै तथा॥५९॥

अगस्त्येन पुलस्त्येन धौम्येन तु महात्मना ।
य इदं पठते नित्यं स्तोत्रं हरिहरात्मकम्॥६०॥

अरोगा बलवांश्चैव जायते नात्र संशयः ।
श्रियं च लभते नित्यं न च स्वर्गान्निवर्तते॥६१॥

अपुत्रो लभते पुत्रं कन्या विन्दति सत्पतिम् ।
गुर्विणी शृणुते या तु वरं पुत्रं प्रसूयते॥६२॥

राक्षसाश्च पिशाचाश्च विघ्नानि च विनायकः ।
भयं तत्र न कुर्वन्ति यत्रायं पठ्यते स्तवः॥६३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि हरिहरात्मकस्तवो नाम पञ्चविंशत्यधिकशततमोऽध्यायः॥१२५॥
कार्तिकेयापयानं बाणबाहुच्छेदनं बाणस्य हराद्वरलाभादिकीर्तनं च-१२६

जनमेजय उवाच। अपयाते ततो देवे कृष्णे चैव महात्मनि ।
पुनश्चासीत्कथं युद्धं परेषां लोमहर्षणम्॥१॥

अपयातेति॥१॥

वैशम्पायन उवाच। कुम्भाण्डसङ्गृहीते तु रथे तिष्ठन्गुहस्तत्दा ।
अभिदुद्राव कृष्णं च बलं प्रद्युम्नमेव च॥२॥

ततः शरशतैरुग्रैस्तान्विव्याध रणे गुहः ।
अमर्षरोषसङ्क्रुद्धः कुमारः प्रवरो नदन्॥३॥

शरसंवृतगात्रास्ते त्रयस्त्रय इवाग्नयः ।
शोणितौघप्लुतैर्गात्रैः प्रायुध्यन्त गुहं ततः॥४॥

ततस्ते युद्धमार्गज्ञास्त्रयस्त्रिभिरनुत्तमैः ।
वायव्याग्नेयपार्जन्यैर्बिभिदुर्दीप्ततेजसः॥५॥

तानस्त्रान्त्रिभिरेवास्त्रैर्विनिवार्य स पावकिः ।
शैलवारुणसावित्रैस्तान्स विव्याध कोपवान् ।
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च॥६॥

शरौघानस्त्रमायाभिर्ग्रसन्ति स्म महात्मनः ।
यदा तदा गुहः क्रुद्धः प्रज्वलन्निव तेजसा॥७॥

अस्त्रं ब्रह्मशिरो नाम कालकल्पां दुरासदम् ।
सन्दष्टौष्ठपुटः सङ्ख्ये जगृहे पावकिः प्रभुः॥८॥

प्रयुक्ते ब्रह्मशिरसि सहस्रांशुसमप्रभे ।
उग्रे परमदुर्धर्षे लोकक्षयकरे तथा॥९॥

हाहाभूतेषु सर्वेषु प्रधावत्सु समन्ततः ।
अस्त्रतेजःप्रमूढे तु विषण्णे जगति प्रभुः ।
केशवः केशिमथनश्चक्रं जग्राह वीर्यवान्॥१०॥

सर्वेषामस्त्रवीर्याणां वारणं घातनं तथा ।
चक्रमप्रतिचक्रस्य लोके ख्यातं महात्मनः॥११॥

अस्त्रं ब्रह्मशिरस्तेन निष्प्रभं कृतमोजसा ।
घनैरिवातपापाये सवितुर्मण्डलं यथा॥१२॥

ततो निष्प्रभतां याते नष्टवीर्ये महौजसि ।
तस्मिन्ब्रह्मशिरस्यस्त्रे क्रोधसंरक्तलोचनः॥१३॥

गुहः प्रजज्वाल रणे हविषेवाग्निरुल्बणः ।
शत्रुघ्नीं ज्वलितां दिव्यां शक्तिं जग्राह काञ्चनीम्॥१४॥

अमोघां दयितां घोरां सर्वलोकभयावहाम् ।
तां प्रदीप्तां महोल्काभां युगान्ताग्निसमप्रभाम्॥१५॥

घण्टामालाकुलां दिव्यां चिक्षेप रुषितो गुहः ।
ननाद बलवच्चापि नादं शत्रुभयङ्करम्॥१६॥

सा च क्षिप्ता तदा तेन ब्रह्मण्येन महात्मना ।
जृम्भमाणेव गगने सम्प्रदीप्तमुखी तदा॥१७॥

अधावत महाशक्तिः कृष्णस्य वधकाङ्क्षिणी ।
भृशं विषण्णः शक्रोऽपि सर्वामरगणैर्वृतः॥१८॥

शक्तिं प्रज्वलितां दृष्ट्वा दग्धः कृष्णेति चाब्रवीत् ।
तां समीपमनुप्राप्तां महाशक्तिं महामृधे ।
हुङ्कारेणैव निर्भर्त्स्य पातयामास भूतले॥१९॥

पतितायां महाशक्त्यां साधु साध्विति सर्वशः ।
सिंहनादं ततश्चक्रुः सर्वे देवाः सवासवाः॥२०॥

ततो देवेषु नर्दत्सु वासुदेवः प्रतापवान् ।
पुनश्चक्रं स जग्राह दैत्यान्तकरणं रणे॥२१॥

व्याविध्यमाने चक्रे तु कृष्णेनाप्रतिमौजसा ।
कुमाररक्षणार्थाय बिभ्रती सुतनुं तदा॥२२॥

दिग्वासा देववचनात्प्रविष्टा तत्र कोटवी ।
लम्बमाना महाभागा भागो देव्यास्तथाष्टामः ।
चित्रा कनकशक्तिस्तु सा च नग्ना स्थितान्तरे॥२३॥

लम्बते पावर्त्या एवाष्टमांशाज्जाता बाणस्य माता जीवपुत्रीत्वमेव इति वक्ष्यमाणत्वात्॥२३॥

अथान्तरात्कुमारस्य देवीं दृष्ट्वा महाभुजः ।
पराङ्मुखस्ततो वाक्यमुवाच मधुसूदनः॥२४॥

श्रीभगवानुवाच। अपगच्छापगच्छ त्वं धिक्त्वामिति वचोऽब्रवीत् ।
किमेवं कुरुषे विघ्नं निश्चितस्य वधं प्रति॥२५॥

वैशम्पायन उवाच। श्रुत्वैवं वचनं तस्य कोटवी तु तदा विभोः ।
नैव वासः समाधत्ते कुमारपरिरक्षणात्॥२६॥

रक्षणात् रक्षणार्थम्॥२६॥

श्रीभगवानुवाच। अपवाह्य गुहं शीघ्रमपयाहि रणाजिरात् ।
स्वस्ति ह्येवं भवेदद्य योत्स्यतो योत्स्यता मया॥२७॥

मया सह योत्स्यतो युध्यतः एवं स्वस्ति भवेत्॥२७॥

तां च दृष्ट्वा स्थितां देवो हरिः सङ्ग्राममूर्धनि ।
सञ्जहार ततश्चक्रं भगवान्वासवानुजः॥२८॥

एवं कृते तु कृष्णेन देवदेवेन धीमता ।
अपवाह्य गुहं देवी हरसान्निध्यमागता॥२९॥

एतस्मिन्नन्तरे चैव वर्तमाने महाभये ।
कुमारे रक्षिते देव्या बाणस्तं देशमाययौ॥३०॥

अपयान्तं गुहं दृष्ट्वा मुक्तं कृष्णेन संयुगात् ।
बाणश्चिन्तयते तत्र स्वयं योत्स्यामि माधवम्॥३१॥

वैशम्पायन उवाच। भूतयक्षगणाश्चैव बाणानीकं च सर्वशः ।
दिशं प्रदुद्रुवुः सर्वे भयमोहितलोचनाः॥३२॥

प्रमाथगणभूयिष्ठे सैन्ये दीर्णे महासुरः ।
निर्जगाम ततो बाणो युद्धायाभिमुखस्त्वरन्॥३३॥

भीमप्रहरणैर्घोरैर्दैत्येन्द्रैः सुमहारथैः ।
महाबलैर्महावीरैर्वज्रीव सुरसत्तमैः॥३४॥

पुरोहिताः शत्रुवधं वदन्तस्तथैव चान्ये श्रुतशीलवृद्धाः ।
जपैश्च मन्त्रैश्च तथौषधीभिर्महात्मनः स्वस्त्ययनं प्रचक्रुः॥३५॥

ततस्तूर्यप्रणादैश्च भेरीणां तु महास्वनैः ।
सिंहनादैश्च दैत्यानां बाणः कृष्णमभिद्रवत्॥३६॥

दृष्ट्वा बाणं तु निर्यातं युद्धायैव व्यवस्थितम् ।
आरुह्य गरुडं कृष्णो बाणायाभिमुखो ययौ॥३७॥

आयान्तमथ तं दृष्ट्वा यदूनामृषभं रणे ।
वैनतेयमथारूढं कृष्णमप्रतिमौजसम्॥३८॥

अथ बाणस्तु तं दृष्ट्वा प्रमुखे प्रत्युपस्थितम् ।
उवाच वचनं क्रुद्धो वासुदेवं तरस्विनम्॥३९॥

बाण उवाच। तिष्ठ तिष्ठ न मेऽद्य त्वं जीवन्प्रतिगमिष्यसि ।
द्वारकां द्वारकास्थांश्च सुहृदो द्रक्ष्यसे न च॥४०॥

सुवर्णवर्णान्वृक्षाग्रानद्य द्रक्ष्यसि माधव ।
मयाभिभूतः समरे मुमूर्षुः कालनोदितः॥४१॥

अद्य बाहुसहस्रेण कथमष्टभुजो रणे ।
मया सह समागम्य योत्स्यसे गरुडध्वज॥४२॥

अद्य त्वं वै मया युद्धे निर्जितः सहबान्धवः ।
द्वारकां शोणितपुरे निहतः संस्मरिष्यसि॥४३॥

नानाप्रहरणोपेतं ननाङ्गदविभूषितम् ।
अद्य बाहुसहस्रं मे कोटिभूतं निशामय॥४४॥

कोटिभूतं कोटिसङ्ख्यात्वव्याप्तम्॥४४॥

गर्जतस्तस्य वाक्यौघा जलौघा इव सिन्धुतः ।
निश्चरन्ति महाघोरा वातोद्धुता इवोर्मयः॥४५॥

रोषपर्याकुले चैव नेत्रे तस्य बभूवतुः ।
जगद्दिधक्षन्निव खे महासूर्य इवोदितः॥४६॥

तच्छ्रुत्वा नारदस्तस्य बाणस्यात्यूर्जितं वचः ।
जहास सुमहाहासं भिन्दन्निव नभस्तलम्॥४७॥

योगपट्टमुपाश्रित्य तस्थौ युद्धदिदृक्षया ।
कौतूहलोत्फुल्लदृशः कुर्वन्पर्यटते मुनिः॥४८॥

कृष्ण उवाच। बाण किं गर्जसे मोहाच्छूराणां नास्ति गर्जितम् ।
एह्येहि युध्यस्व रणे किं वृथा गर्जितेन ते॥४९॥

यदि युद्धानि वचनैः सिद्ध्येयुर्दितिनन्दन ।
भवानेव जये नित्यं बह्वबद्धं प्रजल्पति॥५०॥

एह्येहि जय मां बाण जितो वा वसुधातले ।
चिरायावाङ्मुखो दीनः पतितः शेष्यसेऽसुरैः॥५१॥

असुरैः सहेति शेषः॥५१॥

इत्येवमुक्त्वा बाणं तु मर्मभेदिभिराशुगैः ।
निर्बिभेद तदा कृष्णस्तममोघैर्महाशरैः॥५२॥

विनिर्भिन्नस्तु कृष्णेन मार्गणैर्मर्मभेदिभिः ।
स्मयन्बाणस्ततः कृष्णं शरवर्षैरवाकिरत्॥५३॥

ज्वलद्भिरिव संयुक्तं तस्मिन्युद्धे सुदारुणे ।
ततः परिघनिस्त्रिंशैर्गदातोमरशक्तिभिः॥५४॥

मुसलैः पट्टीशैश्चैव च्छादयामास केशवम् ।
स तु बाहुसहस्रेण गर्वितो दैत्यसत्तमः॥५५॥

योधयामास समरे द्विबाहुमथ लीलया ।
लाघवात्तस्य कृष्णस्य बलिसूनू रुषान्वितः॥५६॥

ततोऽस्त्रं परमं दिव्यं तपसा निर्मितं महत् ।
यदप्रतिहतं युद्धं सर्वामित्रविनाशनम्॥५७॥

ब्रह्मणा विहितं दिव्यं तन्मुमोच दितेः सुतः ।
तस्मिन्मुक्ते दिशः सर्वास्तमः पिहितमण्डलाः॥५८॥

प्रादुरासन्सहस्राणि सुघोराणि च सर्वशः ।
तमसा संवृते लोके न प्रज्ञायत किञ्चन॥५९॥

साधु साध्विति बाणं तु पूजयन्ति स्म दानवाः ।
हा हा धिगिति देवानां श्रूयते वागुदीरिता॥६०॥

ततोऽस्त्रबलवेगेन सार्चिष्मत्यः सुदारुणाः ।
घोररूपा महाघोरा निपेतुर्बाणवृष्टयः॥६१॥

नैव वाताः प्रवायन्ति न मेघाः सञ्चरन्ति च ।
अस्त्रे विसृष्टे बाणेन दह्यमाने च केशवे॥६२॥

ततोऽस्त्रं सुमहावेगं जग्राह मधुसूदनः ।
पार्जन्यं नाम भगवान्कालान्तकनिभं रणे॥६३॥

ततो वितिमिरे लोके शराग्निः प्रशमं गतः ।
दानवा मोघसङ्कल्पाः सर्वेऽभूवंस्तदा भृशम्॥६४॥

दानवास्त्रं प्रशान्तं तु पर्जन्यास्त्रेऽभिमन्त्रिते ।
ततो देवगणाः सर्वे नदन्ति च हसन्ति च॥६५॥

हते शस्त्रे महाराज दैतेयः क्रोधमूर्च्छितः ।
भूयः स छादयामास केशवं गरुडे स्थितम्॥६६॥

मुसलैः पट्टिशैश्चैव च्छादयामास केशवम् ।
तस्य तां तरसा सर्वां बाणवृष्टिं समुद्यताम्॥६७॥

प्रहसन्वारयामास केशवः शत्रुसूदनः ।
केशवस्य तु बाणेन वर्तमाने महाहवे॥६८॥

तस्य शार्ङ्गविनिर्मुक्तैः शरैरशनिसन्निभैः ।
तिलशस्तद्रथं चक्रे साश्वध्वजपताकिनम्॥६९॥

चिच्छेद कवचं कायान्मुकुटं च महाप्रभम् ।
कार्मुकं च महातेजा हस्तचापं च केशवः॥७०॥

विव्याध चैनमुरसि नाराचेन स्मयन्निव ।
स मर्माभिहतः सङ्ख्ये प्रमुमोहाल्पचेतनः॥७१॥

तं दृष्ट्वा मूर्च्छितं बाणं प्रहारपरिपीडितम् ।
प्रासादवरशृङ्गस्थो नारदो मुनिपुङ्गवः॥७२॥

उत्थायापश्यत तदा कक्ष्यास्फोटनतत्परः ।
वादयानो नखांश्चैव दिष्ट्या दिष्ट्येति चाब्रवीत्॥७३॥

अहो मे सुफलं जन्म जीवितं च सुजीवितम् ।
दृष्टं मे यदिदं चित्रं दामोदरपराक्रमम्॥७४॥

जय बाणं महाबाहो दैतेयं देवकिल्बिषम् ।
यदर्थमवतीर्णोऽसि तत्कर्म सफलीकुरु॥७५॥

एवं स्तुत्वा तदा देवं बाणैः खं द्योतयञ्शितैः ।
इतस्ततः सम्पतद्भिर्नारदो व्यचरद्रणे॥७६॥

केशवस्य तु बाणेन वर्तमाने महाभये ।
प्रयुध्येतां ध्वजौ तत्र तावन्योन्यमभिद्रुतौ ।
युद्धं त्वभूद्वाहनयोरुभयोर्देवदैत्ययोः॥७७॥

गरुडस्य च सङ्ग्रामो मयूरस्य च धीमता ।
पक्षतुण्डप्रहारैस्तु चरणास्यनखैस्तथा॥७८॥

अन्योन्यं जघ्नतुः क्रुद्धौ मयूरगरुडावुभौ ।
वैनतेयस्ततः क्रुद्धो मयूरे दीप्ततेजसम्॥७९॥

जग्राह शिरसि क्षिप्रं तुण्डेनाभिपतंस्तदा ।
उत्क्षिप्य चैव पक्षाभ्यां निजघान महाबलः॥८०॥

पद्भ्यां पार्श्वाभिघाताभ्यां कृत्वा घातान्यनेकशः ।
आकृष्य चैनं तरसा विकृष्य च महाबलः॥८१॥

निःसंज्ञं पातयामास गगनादिव भास्करम् ।
मयूरे पतिते तस्मिन्पपातातिबलो भुवि॥८२॥

बाणः समरसंविग्नश्चिन्तयन्कार्यमात्मनः ।
मयातिबलमत्तेन न कृतं सुहृदां वचः॥८३॥

पश्यतां देवदैत्यानां प्राप्तोऽस्म्यापदमुत्तमाम् ।
तं दीनमनसं ज्ञात्वा रणे बाणं सुविक्लवम्॥८४॥

चिन्तयद्भगवान्रुद्रो बाणरक्षणमातुरः ।
ततो नन्दीं महादेवः प्राह गम्भीरया गिरा॥८५॥

नन्दिकेश्वर याहि त्वं यतो बाणो रणे स्थितः ।
रथेनानेन दिव्येन सिंहयुक्तेन भास्वता॥८६॥

बाणे संयोजयाशु त्वमलं युद्धाय वानघ ।
प्रमाथगणामध्येऽहं स्थास्यामि न हि मे मनः॥८७॥

योद्धुं वितरते ह्यद्य बाणं संरक्ष्य गम्यताम् ।
तथेत्युक्त्वा ततो नन्दी रथेन रथिनां वरः॥८८॥

यतो बाणस्ततो गत्वा बाणमाह शनैरिदम् ।
दैत्यामुं रथमातिष्ठ शीघ्रमेहि महाबल॥८९॥

ततो युद्ध्यस्व कृष्णं वै दानवान्तकरं रणे ।
आरुरोह रथं बाणो महादेवस्य धीमतः॥९०॥

आरूढः स तु बाणश्च तं रथं ब्रह्मनिर्मितम् ।
तं स्यन्दनमधिष्ठाय भवस्यामिततेजसः॥९१॥

प्रादुश्चक्रे महारौद्रमस्त्रं सर्वास्त्रघातनम् ।
दीप्ते ब्रह्मशिरो नाम बाणः क्रुद्धोऽतिवीर्यवान्॥९२॥

प्रदीप्ते ब्रह्मशिरसि लोकः क्षोभमुपागमत् ।
लोकसंरक्षणार्थे वै तत्सृष्टं ब्रह्मयोनिना॥९३॥

तच्चक्रेण निहत्यास्त्रं प्राह कृष्णस्तरस्विनम् ।
लोके प्रख्यातयशसं बाणमप्रतिमं रणे॥९४॥

कथितानि क्व ते तात बाण किं न विकत्थसे ।
अयमस्मि स्थितो युद्धे युद्ध्यस्व पुरुषो भव॥९५॥

कार्तवीर्यार्जुनो नाम पूर्वं बाहुसहस्रवान् ।
महाबलः स रामेण द्विबाहुः समरे कृतः॥९६॥

तथा तावापि दर्पोऽयं बाहूनां वीर्यसम्भवः ।
एष ते दर्पशमनं करोमि रणमूर्द्धनि ।
यावत्ते दर्पशमनं करोम्यद्य स्वबाहुना॥९७॥

तिष्ठेदानीं न मेऽद्य त्वं मोक्ष्यसे रणमूर्द्धनि ।
अथ तद्दुर्लभं दृष्ट्वा युद्धं परमदारुणम्॥९८॥

तत्र देवासुरसमे युद्धे नृत्यति नारदः ।
निर्जिताश्च गणाः सर्वे प्रद्युम्नेन महात्मना॥९९॥

निक्षिप्तवादा युद्धस्य देवदेवं गताः पुनः ।
स तच्चक्रं सहस्रारं नदन्मेघ इवोष्णगे॥१००॥

जग्राह कृष्णस्त्वरितो बाणान्तकरणं रणे ।
तेजो यज्ज्योतिषां चैव तेजो वज्राशनेस्तथा॥१०१॥

सुरेशस्य च यत्तेजस्तच्चक्रे पर्यवस्थितम् ।
त्रेताग्नेश्चैव यत्तेजो यश्च वै ब्रह्मचारिणाम्॥१०२॥

ऋषीणां च ततो ज्ञानं तच्चक्रे समवस्थितम् ।
पतिव्रतानां यत्तेजः प्राणाश्च मृगपक्षिणाम्॥१०३॥

यच्च चक्रधरेष्वस्ति तच्चक्रे सन्निवेशितम् ।
नागराक्षसयक्षाणां गन्धर्वाप्सरसामपि॥१०४॥

त्रैलोक्यस्य च यत्प्राणं सर्वं चक्रे व्यवस्थितम् ।
तेजसा तेन संयुक्तं ज्वलन्निव च भास्करः॥१०५॥

प्राणं बलम्॥१०५॥

वपुषा तेज आधत्ते बाणस्य प्रमुखे स्थितम् ।
ज्ञात्वातितेजसा चक्रं कृष्णेनाभ्युदितं रणे॥१०६॥

अप्रमेयं ह्यविहतं रुद्राणी चाब्रवीच्छिवम् ।
अजेयमेतत्त्रैलोक्ये चक्रं कृष्णेन धार्यते॥१०७॥

बाणं त्रायस्व देव त्वं यावच्चक्रं न मुञ्चति ।
ततस्त्र्यक्षो वचः श्रुत्वा देवीं लम्बामथाब्रवीत्॥१०८॥

गच्छैहि लम्बे शीघ्रं त्वं बाणसंरक्षणं प्रति ।
ततो योगं समधाय अदृश्या हिमवत्सुता॥१०९॥

कृष्णस्यैकस्य तद्रूपं दर्शन्ती पार्श्वमागता ।
चक्रोद्यतकरं दृष्ट्वा भगवन्तं रणाजिरे॥११०॥

अन्तर्धानमुपागम्य त्यज्य सा वाससी पुनः ।
परित्राणाय बाणस्य विजयाधिष्ठिता ततः॥१११॥

प्रमुखे वासुदेवस्य दिग्वासाः कोटवी स्थिता ।
तां दृष्ट्वाथ पुनः प्राप्तां देवीं रुद्रस्य सम्मताम्॥११२॥

लम्बां द्वितीयां तिष्ठन्तीं कृष्णो वचनमब्रवीत् ।
भूयः सामर्षताम्राक्षी दिग्वस्त्रावस्थिता रणे॥११३॥

बाणसंरक्षणपरा हन्मि बाणं न संशयः ।
एवमुक्ता तु कृष्णेन भूयो देव्यब्रवीदिदम्॥११४॥

जाने त्वां सर्वभूतानां स्रष्टारं पुरुषोत्तमम् ।
महाभागं महादेवमनन्तं लीनमव्ययम्॥११५॥

पद्मनाभं हृषीकेशं लोकानामादिसम्भवम् ।
नार्हसे देव हन्तुं वै बाणमप्रतिमं रणे॥११६॥

प्रयच्छ ह्यभयं बाणे जीवपुत्रीत्वमेव च ।
मया दत्तवरो ह्येष भूयश्च परिरक्ष्यते॥११७॥

न मे मिथ्या समुद्योगं कर्तुमर्हसि माधव ।
एवमुक्ते तु वचने देव्या परपुरञ्जयः॥११८॥

कृष्णः प्रभाषते वाक्यं शृणु सत्यं तु भामिनि ।
बाणो बाहुसहस्रेण नर्दते दर्पमाश्रितः॥११९॥

एतेषां च्छेदनं त्वद्य कर्तव्यं नात्र संशयः ।
द्विबाहुना च बाणेन जीवपुत्री भविष्यसि॥१२०॥

आसुरं दर्पमाश्रित्य न च मां संश्रयिष्यति ।
एवमुक्ते तु वचने कृष्णेनाक्लिष्टकर्मणा॥१२१॥

प्रोवाच देवी बाणोऽयं देवदत्तो भवेदिति ।
अथ तां कार्तिकेयस्य मातरं सोऽभिभाष्य वै॥१२२॥

ततः क्रुद्धो महाबाहुः कृष्णः प्रवदतां वरः ।
प्रोवाच बाणं समरे वदतां प्रवरः प्रभुः ।
युध्यतां युध्यतां सङ्ख्ये भवतां कोटवी स्थिता॥१२३॥

भवतां रक्षणार्थम्॥१२३॥

अशक्तानामिव रणे धिग्बाण तव पौरुषम् ।
एवमुक्त्वा ततः कृष्णस्तच्चक्रं परमात्मवान्॥१२४॥

निमीलिताक्षो विसृजद्बाणं प्रति महाबलः ।
क्षेपणाद्यस्य मुह्यन्ति लोकाः सस्थाणुजङ्गमाः॥१२५॥

क्रव्यादानि च भूतानि तृप्तिं यान्ति महामृधे ।
तमप्रतिमकर्माणं समानं सूर्यवर्चसा॥१२६॥

चक्रमुद्यम्य समरे कोपदीप्तो गदाधरः ।
स मुष्णन्दानवं तेजः समरे स्वेन तेजसा॥१२७॥

चिच्छेद बाहूंश्चक्रेण श्रीधरः परमौजसा ।
अलातचक्रवत्तूर्णं भ्राम्यमाणं रणाजिरे॥१२८॥

क्षिप्तं तु वासुदेवेन बाणस्य रणमूर्धनि ।
विष्णुचक्रं भ्रमत्याशु शैघ्र्याद्रूपं न दृश्यते॥१२९॥

तस्य बाहुसहस्रस्य पर्यायेन पुनः पुनः ।
बाणस्य च्छेदनं चक्रे तच्चक्रं रणमूर्धनि॥१३०॥

कृत्वा द्विबाहुं तं बाणं छिन्नशाखमिव द्रुमम् ।
पुनः कराग्रे कृष्णस्य चक्रं प्राप्तं सुदर्शनम्॥१३१॥

वैशम्पायन उवाच। कृतकृत्ये तु सम्प्राप्ते चक्रे दैत्यनिपातने ।
स्रवता तेन कायेन शोणितौघपरिप्लुतः॥१३२॥

अभवत्पर्वताकारश्छिन्नबाहुर्महासुरः ।
असृङ्मत्तश्च विविधान्नादान्मुञ्चन्घनो यथा॥१३३॥

तस्य नादेन महता केशवो रिपुसूदनः ।
चक्रं भूयः क्षेप्तुकामो बाणनाशार्थमुद्यतः ।
तमुपेत्य महादेवः कुमारसहितोऽब्रवीत्॥१३४॥

ईश्वर उवाच। कृष्ण कृष्ण महाबाहो जाने त्वां पुरुषोत्तमम् ।
मधुकैटभहन्तारं देवदेवं सनातनम्॥१३५॥

लोकानां त्वं गतिर्देव त्वत्प्रसूतमिदं जगत् ।
अजेयस्त्वं त्रिभिर्लोकैः ससुरासुरपन्नगैः॥१३६॥

तस्मात्संहर दिव्यं त्वमिदं चक्रं समुद्यतम् ।
अनिवार्यमसंहार्यं रणे शत्रुभयङ्करम्॥१३७॥

बासणस्यास्याभयं दत्तं मया केशिनिषूदन ।
तन्मे न स्याद्वृथा वाक्यमतस्त्वां शामयाम्यहम्॥१३८॥

श्रीकृष्ण उवाच। जीवतां देव बाणोऽयमेतच्चक्रं निवर्तितम् ।
मान्यस्त्वं देवदेवानामसुराणां च सर्वशः॥१३९॥

नमस्तेऽस्तु गमिष्यामि यत्कार्यं तन्महेश्वर ।
न तावत्कृयते तस्मान्मामनुज्ञातुमर्हसि॥१४०॥

यत्कार्यं बाणवधाख्यं तन्न क्रियत इत्यन्वयः॥१४०॥

एवमुक्त्वा महादेवं कृष्णस्तूर्णं महामनाः ।
जगाम तत्र यत्रास्ते प्राद्युम्निः सायकैश्चितः॥१४१॥

गते कृष्णे ततो नन्दी बाणमाह वचः शुभम् ।
गच्छ बाण प्रसन्नस्य देवदेवस्य चाग्रतः॥१४२॥

तच्छ्रुत्वा नन्दिवाक्यं तु बाणोऽगच्छत शीघ्रगः ।
छिन्नबाहुं ततो बाणं दृष्ट्वा नन्दी प्रतापवान्॥१४३॥

अपवाह्य रथेनैनं यतो देवस्ततो ययौ ।
ततो नन्दी पुनर्बाणं प्रागुवाचोत्तरं वचः॥१४४॥

बाण बाण प्रनृत्यस्व श्रेयस्तव भविष्यति ।
एष देवो महादेवः प्रसादसुमुखस्तव॥१४५॥

शोणितौघप्लुतैर्गात्रैर्नन्दिवाक्यप्रचोदितः ।
जीवितार्थी ततो बाणः प्रमुखे शङ्करस्य वै॥१४६॥

अनृत्यद्भयसंविग्नो दानवः स विचेतनः ।
तं दृष्ट्वा च प्रनृत्यन्तं भह्योद्विग्नं पुनः पुनः॥१४७॥

नन्दिवाक्यप्रजवितं भक्तानुग्रहकृद्भवः ।
करुणावशमापन्नो महादेवोऽब्रवीद्वचः॥१४८॥

ईश्वर उवाच। वरं वृणीष्व बाण त्वं मनसा यदभीप्ससि ।
प्रसादसुमुखस्तेऽहं प्रियोऽसि मम दानव॥१४९॥

बाण उवाच। अजरश्चामरश्चैव भवेयं सततं विभो ।
एष मे प्रथमो देव वरोऽस्तु यदि मन्यसे॥१५०॥

देव उवाच। तुल्योऽसि दैवतैर्बाण न मृत्युस्तव विद्यते ।
अथापरं वृणीष्वाद्य अनुग्राह्योऽसि मे सदा॥१५१॥

बाण उवाच। यथाहं शोणितैर्दिग्धो भृशार्तो व्रणपीडितः ।
भक्तानां नृत्यतां देव पुत्रजन्म भवेद्भव॥१५२॥

पुत्रजन्मेति। एवं नृत्यन्तः पुत्रं लभन्तामित्यर्थः॥१५२॥

श्रीहर उवाच। निराहाराः क्षमावन्तः सत्यार्जवसमाहिताः ।
मद्भक्ता येऽपि नृत्यन्ति तेषामेवं भविष्यति॥१५३॥

तृतीयं त्वमथो बाण वरं वर मनोगतम् ।
तद्विधास्यामि ते पुत्र सफलोऽस्तु भवानिह॥१५४॥

वरं वर वरं वृणु॥१५४॥

बाण उवाच। चक्रताडनजा घोरा रुजा तीव्रा हि मेऽनघ ।
वरेणासौ तृतीयेन शान्तिं गच्छतु मे भव॥१५५॥

श्रीरुद्र उवाच। एवं भवतु भद्रं ते न रुजा प्रभविष्यति ।
अक्षतं तव गात्रं तु स्वस्थावस्थं भविष्यति॥१५६॥

एवं पुत्रप्राप्तिरूपं फलम्॥१५६॥

चतुर्थं ते वरं दद्मि वृणीष्व यदि काङ्क्षसि ।
न तेऽहं विमुखस्तात प्रसादसुमुखो ह्यहम्॥१५७॥

बाण उवाच। प्रमाथगणवंश्यस्य प्रथमः स्यामहं विभो ।
महाकाल इति ख्यातिं गच्छेयं शाश्वतीः समाः॥१५८॥

वैशम्पायन उवाच एवं भविष्यतीत्याह बाणं देवो महेश्वरः ।
दिव्यरूपोऽक्षतो गात्रैर्नीरुजस्तु ममाश्रयात्॥१५९॥

ममातिसर्गाद्बाण त्वं भव चैवाकुतोभयः ।
भूयस्ते पञ्चमं दद्मि प्रख्यातबलपौरुषम् ।
पुनर्वरय भद्रं ते यत्ते मनसि वर्तते॥१६०॥

बाण उवाच। वैरूप्यमङ्गजं यन्मे मा भूद्देव कदाचन ।
द्विबाहुरपि मे देहो न विरूपो भवेद्भव॥१६१॥

श्रीहर उवाच। भविता सर्वमेतत्ते यथेच्छसि महासुर ।
भवत्येवं न चादेयं भक्तानां विद्यते मम॥१६२॥

वैशम्पायन उवाच। ततोऽब्रवीन्महादेवो बाणं स्थितमथान्तिके ।
एवं भविष्यते सर्वं यत्त्वया समुदाहृतम्॥१६३॥

एतावदुक्त्वा भगवांस्त्रिनेत्रो गणसंवृतः ।
पश्यतां सर्वभूतानां तत्रैवान्तरधीयत॥१६४॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि उषाहरणे बाणासुरवरप्रदाने षड्विंशत्यधिकशततमोऽध्यायः॥१२६॥
अनिरुद्धस्य नागपाशमोचनं कृष्णस्य वरुणालयगमनं वरुणेन सह युद्धं द्वारकाप्रत्यागमनं च-१२७

वैशम्पायन उवाच। एवं वरान्बहून्प्राप्य बाणः प्रीतमनाभवत् ।
जगाम सह रुद्रेण महाकालत्वमागतः॥१॥

एवमिति॥१॥

वासुदेवोऽपि बहुधा नारदं पर्यपृच्छत ।
क्वानिरुद्धोऽस्ति भगवन्संयतो नागबन्धनैः॥२॥

श्रोतुमिच्छामि तत्त्वेन स्नेहक्लिन्नं हि मे मनः ।
अनिरुद्धे हते वीरे क्षुभिता द्वारका पुरी॥३॥

शीघ्रं तं मोक्षयिष्यामो यदर्थं वयमागताः ।
अद्य तं नष्टशत्रुं वै द्रष्टुमिच्छामहे वयम्॥४॥

स प्रदेशस्तु भगवन्विदितस्तव सुव्रत ।
एवमुक्तस्तु कृष्णेन नारदः प्रत्यभाषत॥५॥

कन्यापुरे कुमारोऽसौ बद्धो नागैश्च माधव ।
एतस्मिन्नन्तरे शीघ्रं चित्रलेखा ह्युपस्थिता॥६॥

बाणस्योत्तमशर्वस्य दैत्येन्द्रस्य महात्मनः ।
इदमन्तःपुरं देव प्रविशस्व यथासुखम्॥७॥

ततः प्रविष्टास्ते सर्वे ह्यनिरुद्धस्य मोक्षणे ।
बलः सुपर्णः कृष्णस्तु प्रद्युम्नो नारदस्तथा॥८॥

ततो दृष्ट्वैव गरुडं येऽनिरुद्धशरीरगाः ।
शररूपा महासर्पा वेष्टयित्वा तनुं स्थिताः॥९॥

ते सर्वे सहसा देहात्तस्य निःसृत्य भोगिनः ।
क्षितिं समभिवर्तित्वा प्रकृत्यावस्थिताः शराः॥१०॥

दृष्टः स्पृष्टश्च कृष्णेन सोऽनिरुद्धो महायशाः ।
स्थितः प्रीतमना भूत्वा प्राञ्जलिर्वाक्यमब्रवीत्॥११॥

अनिरुद्ध उवाच। देवदेव सदा युद्धे जेता त्वमसि केशव ।
न शक्तः प्रमुखे स्थातुं साक्षादपि शतक्रतुः॥१२॥

भगवानुवाच। आरोह गरुडं तूर्णं गच्छाम द्वारकां पुरीम् ।
एवमुक्तोऽनिरुद्धस्तु उषया सह कन्यया ।
स्थितः प्रीतमना भूत्वा ज्ञात्वा बाणं जितं रणे ।
ततो महाबलं देवं बलभद्रं यशस्विनम् ।
अभिवादयते हृष्टः सोऽनिरुद्धो महामनाः॥१३॥

माधवं च महात्मानमभिवाद्य कृताञ्जलिः ।
खगोत्तमं महावीर्यं सुपर्णमभिवाद्य च॥१४॥

ततो मकरकेतुं च चित्रबाणधरं प्रभुम् ।
पितरं सोऽभ्युपागम्य प्रद्युम्नमभिवादयत्॥१५॥

सखीगणवृता चैव सा चोषा भवने स्थिता ।
बलं चातिबलं चैव वासुदेवं सुदुर्जयम्॥१६॥

असङ्ख्यातगतिं चैव सुपर्णमभिवाद्य च ।
पुष्पबाणधरं चैव लज्जमानाभ्यवादयत्॥१७॥

ततः शक्रस्य वचनान्नारदः परमद्युतिः ।
वासुदेवसमीपं स प्रहसन्पुनरागतः॥१८॥

वर्धापयति तं देवं गोविन्दं शत्रुसूदनम् ।
दिष्ट्या वर्धसि गोविन्द अनिरुद्धसमागमात्॥१९॥

ततोऽनिरुद्धसहिता नारदं प्रणताः स्थिताः ।
आशीर्भिर्वर्द्धयित्वा च देवर्षिः कृष्णमब्रवीत्॥२०॥

अनिरुद्धस्य वीर्याख्यो विवाहः क्रियतां विभो ।
जम्बूलमाणिकां द्रष्टुं श्रद्धा हि मम जायते॥२१॥

वीर्यनिर्जितायाः विवाहो वीर्याख्यः जम्बूलमालिकां जम्बूलं वरपक्षीयस्त्रीणाम् उपहासवचनं तस्य मालिकां परम्परां द्रष्टुं श्रोतुम्॥२१॥

ततः प्रहसिताः सर्वे नारदस्य वचःश्रवात् ।
कृष्णः प्रोवाच भगवन् क्रियतामाशु मा चिरम्॥२२॥

एतस्मिन्नन्तरे तात कुम्भाण्डः समुपस्थितः ।
वैवाहिकांस्तु सम्भारान्गृह्य कृष्ण नमस्य तु॥२३॥

कुम्भाण्ड उवाच। कृष्ण कृष्ण महाबाहो भव त्वमभयप्रदः ।
शरणागतोऽस्मि देवेश प्रसीदैषोऽञ्जलिस्तव॥२४॥

नारदस्य वचः श्रुत्वा सर्वं प्रागेव चाच्युतः ।
अभयं यच्छते तस्मै कुम्भाण्डाय महात्मने॥२५॥

यच्छते ददाति प्रागेव॥२५॥

कुम्भाण्ड मन्त्रिणां श्रेष्ठ प्रीतोऽस्मि तव सुव्रत ।
सुकृतं ते विजानामि राष्ट्रिकोऽस्तु भवानिह ।
सज्ञातिपक्षः सुसुखी निवृत्तोऽस्तु भवानिह॥२६॥

इह भूमौ राष्ट्रिको राष्ट्राधिपतिः शिवगणेषु बाणगमनात्॥२६॥

राज्यं च ते मया दत्तं चिरं जीव ममाश्रयात् ।
एवं दत्त्वा राज्यमस्मै कुम्भाण्डाय महात्मने॥२७॥

विवाहमकरोत्तस्यानिरुद्धस्य जनार्दनः ।
ततस्तु भगवान्वह्निस्तत्र स्वयमुपस्थितः॥२८॥

स विवाहोऽनिरुद्धस्य नक्षत्रे च शुभेऽभवत् ।
ततोऽप्सरोगणश्चैव कौतुकं कर्तुमुद्यतः॥२९॥

भवत् अभवत्॥२९॥

स्नातस्त्वलङ्कृतस्तत्र सोऽनिरुद्धः स्वभार्यया ।
ततः स्निग्धैः शुभैर्वाक्यैर्गन्धर्वाश्च जगुस्तदा॥३०॥

नृत्यन्त्यप्सरसश्चैव विवाहमुपशोभयन् ।
ततो निर्वर्तयित्वा तु विवाहं शत्रुसूदनः॥३१॥

अनिरुद्धस्य सुप्रज्ञः सर्वैर्देवगणैर्वृतः ।
आमन्त्र्य वरदं तत्र रुद्रं देवनमस्कृतम्॥३२॥

चकार गमने बुद्धिं कृष्णः परपुरञ्जयः ।
द्वारकाभिमुखं कृष्णं ज्ञात्वा शत्रुनिषूदनम्॥३३॥

कुम्भाण्डो वचनं प्राह प्राञ्जलिर्मधुसूदनम् ।
बाणस्य गावस्तिष्ठन्ति हस्ते तु वरुणस्य वै॥३४॥

यासाममृतकल्पं वै क्षीरं क्षरति माधव ।
तत्पीत्वातिबलश्चैव नरो भवति दुर्जयः॥३५॥

कुम्भाण्डेनैवमाख्याते हरिः प्रीतमनास्तदा ।
गमनाय मतिं चक्रे गन्तव्यमिति निश्चयम्॥३६॥

ततस्तु भगवान्ब्रह्मा वर्धाप्य स तु केशवम् ।
जगाम ब्रमलोकं स वृतः स्वभवनालये॥३७॥

सात्वतां सात्त्वतानाम् एष मुख्यः सात्त्वत इत्यर्थः। यदुनन्दनम् अनिरुद्धम्॥३७॥

इन्द्रो मरुद्गणयुतो द्वारकाभिमुखो ययौ ।
यतः कृष्णस्ततः सर्वे गच्छन्ति जयकाङ्क्षिणः॥३८॥

वाहनेन मयूरेण सखीभिः परिवारिता ।
द्वारकाभिमुखी ह्यूषा देव्या प्रस्थापिता ययौ ।
ततो बलश्च कृष्णश्च प्रद्युम्नश्च महाबलः॥३९॥

आरूढवन्तो गरुडमनिरुद्धश्च वीर्यवान् ।
प्रस्थितश्च स तेजस्वी गरुडः पततां वरः॥४०॥

उन्मूलयंस्तरुगणान्कम्पयंश्चापि मेदिनीम् ।
आकुलास्च दिशः सर्वा रेणुध्वस्तमिवाम्बरम्॥४१॥

गरुडे सम्प्रयातेऽभून्मन्दरश्मिर्दिवाकरः ।
ततस्ते दीर्घमध्वानं प्रययुः पुरुषर्षभाः॥४२॥

अविरसं सम्मुखं यथा स्यात्तथा। कालो यास्यत्यविरतमिति वा॥४२॥

आरुह्य गरुडं सर्वे जित्वा बाणं महौजसम् ।
ततोऽम्बरतलस्थास्ते वारुणीं दिशमास्थिताः॥४३॥

अपश्यन्त महात्मानो गावो दिव्यपयःप्रदाः ।
वेलावनविचारिण्यो नानावर्णाः सहस्रशः॥४४॥

अपश्यन्त दृष्टवन्तः गावः गाः वेला समुद्रतीरप्रान्तस्तत्र वनं तत्र चारिण्यः॥४४॥

अवज्ञाय तदा रूपं कुम्भाण्डवचनाश्रयात् ।
कृष्णः प्रहरतां श्रेष्ठस्तत्त्वतोऽर्थविशारदः॥४५॥

निशम्य बाणगावस्तु तासु चक्रे मनस्तदा ।
आस्थितो गरुडं प्राह स तु लोकादिरव्ययः॥४६॥

शीकृष्ण उवाच वैनतेय प्रयाहि त्वं यत्र बाणस्य गोधनम् ।
यासां पीत्वा किल क्षीरममृतत्वमवाप्नुयात्॥४७॥

सहस्रशः युगपत् निर्वमन्तः मुखान्निःसारयन्तः। किलकिलाशब्दम्। आश्चर्यमाश्चर्यमिति वन्दत इत्यर्थः। कौमुदीमिव कौमुदीं कृष्णमुखचन्द्रप्रभां स कृष्णः अनघः शुद्धः प्रीयते तेषां भक्त्येति भावः॥४७॥

आह मां सत्यभामा च बाणगावो ममानय ।
यासं पीत्वा किल क्षीरं न जीर्यन्ति महासुराः॥४८॥

न जीर्यन्ति न जरां प्राप्नुवन्ति॥४८॥

विजराश्च जरां त्यक्त्वा भवन्ति किल जन्तवः ।
ता आनयस्व भद्रं ते यदि धर्मो न लुप्यते॥४९॥

अथवा कार्यलोपो वै मैव तासु मनः कृथाः ।
इति मामब्रवीत्सत्या ताश्चैता विदिता मम॥५०॥

गरुड उवाच। दृष्यन्ते गाव एतास्ता दृष्ट्वा मां वरुणालयम् ।
विशन्ति सहसा सर्वाः कार्यमत्र विधीयताम्॥५१॥

कार्यम् उचितम्॥५१॥

इत्युक्त्वा चैव गरुडः पक्षवातेन सागराम् ।
सहसा क्षोभयित्वा च विवेश वरुणालयम्॥५२॥

दृष्ट्वा जवेन गरुडं प्राप्तं वै वरुणालयम् ।
वारुणाश्च गणाः सर्वे विभ्रान्ताः प्राचलंस्तदा॥५३॥

ततस्तु वारुणं सैन्यमभिज्ञातुं सुदुर्जयम् ।
प्रमुखे वासुदेवस्य नानाप्रहरणोद्यतम् ।
तद्युद्धमभवद्घोरं वारुणैः पन्नगारिणा॥५४॥

तेषामापततां सङ्ख्ये वारुणानां सहस्रशः ।
भग्नं बलमनाधृष्यं केशवेन महात्मना॥५५॥

ततस्ते प्रद्रुता यान्ति तमेव वरुणालयम् ।
षष्टिं रथसहस्राणि षष्टिं रथशतानि च॥५६॥

वारुणानि च युद्धानि दीप्तशस्त्राणि संयुगे ।
तद्बलं बलिभिः शूरैर्बलदेवजनार्दनैः॥५७॥

प्रद्युम्नेनानिरुद्धेन गरुडेन च सर्वशः ।
शरौघैर्विविधैस्तीक्ष्णैर्वध्यमानं समन्ततः॥५८॥

ततो भग्नं बलं दृष्ट्वा कृष्णेनाक्लिष्टकर्मणा ।
वरुणस्त्वथ सङ्क्रुद्धो निर्ययौ यत्र केशवः॥५९॥

ऋषिभिर्देवगन्धर्वैस्तथैवाप्सरसां गणैः ।
संस्तूयमानो बहुधा वरुणः प्रत्यदृश्यत॥६०॥

छत्रेण ध्रियमाणेन पाण्डुरेण वपुष्मता ।
सलिलस्राविणा श्रेष्ठं चापमुद्यम्य धिष्ठितः॥६१॥

अपां पतिरतिक्रुद्धः पुत्रपौत्रबलान्वितः ।
आह्वयन्निव युद्धाय विस्फारितमहाधनुः॥६२॥

स तु प्राध्मापयच्छङ्खं वरुणः समधावत ।
हरिं हर इव क्रुद्धो बानजालैः समावृणोत्॥६३॥

ततः प्रध्माय जलजं पाञ्चजन्यं जनार्दनः ।
बाणजालैर्दिशः सर्वास्ततश्चक्रे महाबलः॥६४॥

ततः शरौघैर्विमलैर्वरुणः पीडितो रणे ।
स्मयन्निव ततः कृष्णं वरुणः प्रत्ययुध्यत॥६५॥

ततोऽस्त्रं वैष्णवं घोरमभिमन्त्र्याहवे स्थितः ।
वासुदेवोऽब्रवीद्वाक्यं प्रमुखे तस्य धीमतः॥६६॥

इदमस्त्रं महाघोरं वैष्णवं शत्रुसूदनम् ।
मयोद्यतं वधार्थं ते तिष्ठेदानीं स्थिरो भव॥६७॥

ततोऽस्त्रं वरुणो देवो ह्यस्त्रं वैष्णवमुद्यतः ।
वारुणास्त्रेण संयोज्य विननाद महाबलः॥६८॥

तस्यास्त्रे वितता ह्यापो वरुणस्य विनिःसृताः ।
वैष्णवास्त्रस्य शमने वर्तते समितिञ्जयः॥६९॥

आपस्तु वारुणास्तत्र क्षिप्ताः क्षिप्ता ज्वलन्ति वै ।
दह्यन्ते वारुणास्तत्र ततोऽस्त्रे ज्वलिते पुनः॥७०॥

वैष्णवे तु महावीर्ये दिशो भीता विदुद्रुवुः ।
तद्बलं ज्वलितं दृष्ट्वा वरुणः कृष्णमब्रवीत्॥७१॥

स्मर स्वप्रकृतिं पूर्वामव्यक्तां व्यक्तलक्षणाम् ।
तमो जहि महाभाग तमसा मुह्यसे कथम्॥७२॥

सत्त्वस्थो नित्यमासीस्त्वं योगीश्वर महामते ।
पञ्चभूताश्रयान्दोषानहङ्कारं च वर्जय॥७३॥

या या ते वैष्णवी मूर्तिस्तस्या ज्येष्ठो ह्यहं तव ।
ज्येष्ठभावेन मान्यं तु किं मां त्वं दग्धुमिच्छसि॥७४॥

नाग्निर्विक्रमते ह्यग्नौ त्यज कोपं युधां वर ।
त्वयि न प्रभविष्यामि जगतः प्रभवो ह्यसि॥७५॥

पूर्वं हि या त्वया सृष्टा प्रकृतिर्विकृतात्मिका ।
धर्मिणी बीजभावेन पूर्वधर्मं समाश्रिता॥७६॥

प्रकृतिर्माया विकृतं महदादिकार्यं तदात्मिका धर्मिणी परिणामिनी पूर्वधर्मं जायत इत्येवंरूपं त्वत्तो जन्म लभमानेत्यर्थः। बीजभावेन जगत्कारणत्वेन च उपेतेति शेषः॥७६॥

आग्नेयं वैष्णवं सौम्यं प्रकृत्यैवेदमादितः ।
त्वया सृष्टं जगदिदं स कथं मयि वर्तसे॥७७॥

अजेयः शाश्वतो देवः स्वयम्भूर्भूतभावनः ।
अक्षरं च क्षरं चैव भावाभावौ महाद्युते॥७८॥

रक्ष मां रक्षणीयोऽहं त्वयानघ नमोऽस्तु ते ।
आदिकर्तासि लोकानां त्वयैतद्बहुलीकृतम्॥७९॥

त्वयैव स्वात्मनैव बहुलीकृतम् इदं दृश्यमिति शेषः॥७९॥

विक्रीडसि महादेव बालः क्रीडनकैरिव ।
न ह्ययं प्रकृतिद्वेषी नाहं प्रकृतिदूषकः॥८०॥

प्रकृतिः कारणं तं त्वां द्वेष्टीति तादृशः प्रकृतिद्वेषी अहं न॥८०॥

प्रकृतिर्या विकारेषु वर्तते पुरुषर्षभ ।
तस्या विकारशमने वर्तसे त्वं महाद्युते॥८१॥

विकारेषु अहङ्कारादिषु या प्रकृतिः पूर्ववासनालोभद्वेषादिरूपा तस्याः विकारः स्तेयहिंसादिरूपस्तस्य शमनार्थं त्वं वर्तसे दुष्टनिग्रहार्थं तवावतार इत्यर्थः॥८१॥

विकारो वा विकाराणां विकाराय न तेऽनघ ।
तानधर्मविदो मन्दान्भवान्विकुरुते सदा॥८२॥

ते ते विकाराः क्रोधादयः विकाराणां दुष्टानां विकाराय विनाशाय न तु मन्दानपेक्ष्य भवान् विकुरुते। सर्वात्मनस्तव यद्यपि क्वचिदपि क्रोधो नास्ति तथापि क्रोधिन एव स्वदोषात्त्वां क्रोधवन्तं पश्यन्तीत्यर्थः॥८२॥

इदं प्रकृतिजैर्दोषैस्तमसा मुह्यते यदा ।
रजसा वापि संस्पृष्ट्वा तदा मोहः प्रवर्तते॥८३॥

इदं जगत् तमसा देहात्मबुद्ध्या मोहो वैयग्र्यम् इदं मे भूयादिदं मे मा भूयादित्येवंरूपः॥८३॥

परावरज्ञः सर्वज्ञ ऐश्वर्यविधिमास्थितः ।
किं मोहयसि नः सर्वान्प्रजापतिरिव स्वयम्॥८४॥

वरुणेनैवमुक्तस्तु कृष्णो लोकपरायणः ।
भावज्ञः सर्वकृद्धीरस्ततः प्रीतमना ह्यभूत्॥८५॥

इत्येवमुक्तः कृष्णस्तु प्रहसन्वाक्यमब्रवीत् ।
श्रीकृष्ण उवाच। गावः प्रयच्छ मे वीर शान्त्यर्थं भीमविक्रम॥८६॥

इत्येवमुक्ते कृष्णेन वाक्यं वाक्यविशारदः ।
वरुणो ह्यब्रवीद्भूयः शृणु मे मधुसूदन॥८७॥

वरुण उवाच। बाणेन सार्धं समयो मया देव कृतः पुरा ।
कथं च समयं कृत्वा कुर्यां विफलमन्यथा॥८८॥

समयोऽयं जीवन्नहमन्यस्मै तव न प्रदास्यामीत्येवं रूपो निश्चयः॥८८॥

त्वमेव वेद सर्वस्य यथा समयभेदकः ।
चारित्रं दुष्यते तेन न च सद्भिः प्रशस्यते॥८९॥

भेदकः न प्रशस्यते चारित्रं चास्य दुष्यत इत्यन्वयः॥८९॥

धर्मभागीश्वरो नित्यं वर्ज्यते मधुसूदन ।
न च लोकानवाप्नोति पापः समयभेदकः॥९०॥

प्रसीद धर्मलोपश्च मा भून्मे मधुसूदन ।
न मां समयभेदेन योक्तुमर्हसि माधव॥९१॥

जीवन्नाहं प्रदास्यामि गावो वै वृषभेक्षण ।
हत्वा नयस्व मां गाव एष मे समयः पुरा॥९२॥

मां हत्वा गावः गा नयस्व॥९२॥

एतच्च मे समाख्यातं समयं मधुसूदन ।
सत्यमेव महाबाहो न मिथ्या तु सुरेश्वर॥९३॥

यद्येवाहमनुग्राह्यो रक्ष मां मधुसूदन ।
अथ वा गोषु निर्बन्धो हत्वा नय महाभुज॥९४॥

वैशम्पायन उवाच वरुणेनैवमुक्तस्तु यदूनां वंशवर्धनः ।
अभेद्यं समयं मत्वा न्यस्तवादो गवां प्रति॥९५॥

न्यस्तवादस्त्यक्तप्रतिज्ञः॥९५॥

स प्रहस्य ततो वाक्यं व्याजहारार्थकोविदः ।
तस्मान्मुक्तोऽसि यद्येवं बाणेन समयः कृतः॥९६॥

प्रश्रितैर्मधुरैर्वाक्यैस्तत्त्वार्थमधुभाषितैः ।
कथं पापं करिष्यामि वरुण त्वय्यहं प्रभो॥९७॥

नोऽस्माकं सम्बन्धी भवान्॥९७॥

गच्छ मुक्तोऽसि वरुण सत्यसन्धोऽसि नो भवान् ।
त्वत्प्रियार्थं मया मुक्ता बाणगावो न संशयः ।
ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः॥९८॥

अर्घमादाय वरुणः केशवं प्रत्यपूजयत् ।
केशवोऽर्घं तदा गृह्य वरुणाद्यदुनन्दनः॥९९॥

बलं चापूजयद्देवः कुशलीव समाहितः ।
वरुणायाभयं दत्त्वा वासुदेवः प्रतापवान्॥१००॥

द्वारकां प्रस्थितः शौरिः शचीपतिसहायवान् ।
तत्र देवाः समरुतः ससाध्याः सिद्धचारणाः॥१०१॥

गन्धर्वाप्सरसश्चैव किन्नराश्चान्तरिक्षगाः ।
अनुगच्छन्ति भूतेशं सर्वभूतादिमव्ययम्॥१०२॥

आदित्या वसवो रुद्रा अश्विनौ यक्षराक्षसाः ।
विद्याधरगणाश्चैव ये चान्ये सिद्धचारणाः ।
गच्छन्तमनुगच्छन्ति यशसा विजयेन च॥१०३॥

यशसा कीर्त्यमानेन विजयेन आशास्यमानेन॥१०३॥

नारदस्य महाभागः प्रस्थितो द्वारकां प्रति ।
तुष्टो बाणजयं दृष्ट्वा वरुणं च कृतप्रियम्॥१०४॥

कैलासशिखरप्रख्यैः प्रासादैः कन्दरैः शुभैः ।
दूरान्निशम्य मधुहा द्वारकां द्वारमालिनीम्॥१०५॥

शुभैः प्रासादैर्युक्तामिति शेषः। निशाम्यालोच्य॥१०५॥

पाञ्चजन्यस्य निर्घोषं चक्रे चक्रगदाधरः ।
संज्ञां प्रयच्छते देवो द्वारकापुरवासिनाम्॥१०६॥

संज्ञां स्वागमनज्ञापनम्॥१०६॥

देवानुयाननिर्घोषं पाञ्चजन्यस्य निःस्वनम् ।
श्रुत्वा द्वारवतीं सर्वे प्रहर्षमतुलं गताः॥१०७॥

पूर्णकुम्भैश्च लाजैश्च बहुविन्यस्तविस्तरैः ।
द्वारोपशोभितां कृत्वा सर्वां द्वारवतीं पुरीम्॥१०८॥

सुश्लिष्टरथ्यां सश्रीकां बहुरत्नोपशोभिताम् ।
विप्राश्चार्घं समादाय यथैव कुलनैगमाः॥१०९॥

जयशब्दैश्च विविधैः पूजयन्ति स्म माधवम् ।
वैनतेये समासीनं नीलाञ्जनचयोपमम्॥११०॥

ववन्दिरे तदा कृष्णं श्रिया परमया युतम् ।
तमानुपूर्व्या वर्णाश्च पूजयन्ति महाबलम्॥१११॥

अनन्तं केशिहन्तारं श्रेष्ठिपूर्वाश्च श्रेणयः ।
ऋषिभिर्देवगन्धर्वैश्चारणैश्च समन्ततः॥११२॥

स्तूयते पुण्डरीकाक्षो द्वारकोपवने स्थितः ।
तदाश्चर्यमपश्यन्त दाशार्हगणसत्तमाः॥११३॥

प्रहर्षमतुलं प्राप्ता दृष्ट्वा कृष्णं महाभुजम् ।
बाणं जित्वा महादेवमायान्तं पुरुषोत्तमम्॥११४॥

द्वारकावासिनां वाचश्चरन्ति बहुधा तदा ।
प्राप्ते कृष्णे महाभागे यादवानां महारथे॥११५॥

गत्वा च दूरमध्वानं सुपर्णो द्रुतमागतः ।
धन्याः स्मोऽनुगृहीताः स्मो येषां वै जगतः पिता॥११६॥

गत्वा च दूरमित्यादि जनवाक्यम्॥११६॥

रक्षिता चैव गोप्ता च दीर्घबाहुर्महाभुजः ।
वैनतेये समारुह्य जित्वा बाणं सुदुर्जयम्॥११७॥

प्राप्तोऽयं पुण्डरीकाक्षो मनांस्याह्लादयन्निव ।
एवं कथयतामेव द्वारकावासिनां तदा॥११८॥

वासुदेवगृहे देवा विविशुस्तं महारथाः ।
अवतीर्य सुपर्णात्तु वासुदेवो बलस्तदा॥११९॥

प्रद्युम्नश्चानिरुद्धश्च गृहान्प्रविविशुस्तदा ।
ततो देवविमानानि सञ्चरन्ति तदा दिवम्॥१२०॥

अवस्थितानि दृश्यन्ते नानारूपाणि सर्वशः ।
हंसर्षभमृगैर्नागैर्वाजिसारसबर्हिणैः ।
भास्वन्ति तानि दृष्यन्ते विमानानि सहस्रशः॥१२१॥

हंसादिभिर्युक्तानि॥१२१॥

अथ कृष्णोऽब्रवीद्वाक्यं कुमारांस्तान्सहस्रशः ।
प्रद्युम्नादीन्समस्तांस्तु श्लक्ष्णं मधुरया गिरा॥१२२॥

एते रुद्रास्तथादित्या वसवोऽथाश्विनावपि ।
साध्या देवास्तथान्ये च वन्दध्वं च यथाक्रमम्॥१२३॥

सहस्राक्षं महाभागं दानवानां भयङ्करम् ।
वन्दध्वं सहिताः शक्रं सगणं नागवाहनम्॥१२४॥

सप्तर्षयो महाभागा भृग्वाङ्गिरसमाश्रिताः ।
ऋषयश्च महात्मानो वन्दध्वं च यथासुखम्॥१२५॥

एते चक्रधराश्चैव तावन्दध्वं च सर्वशः ।
सागराश्च ह्रदाश्चैव मत्प्रियार्थमिहागताः॥१२६॥

दिशश्च विदिशश्चैव वन्दध्वं च यथाक्रमम् ।
वासुकिप्रमुखाश्चैव नागा वै सुमहाबलाः॥१२७॥

गावश्च मत्प्रियार्थं वै वन्दध्वं च यथाक्रमम् ।
ज्योतींषि सह नक्षत्रैर्यक्षराक्षसकिन्नरैः॥१२८॥

आगता मत्प्रियार्थं वै वन्दध्वं च यथाक्रमम् ।
वासुदेववचः श्रुत्वा कुमाराः प्रणताः स्थिताः॥१२९॥

यथाक्रमेण सर्वेषां देवतानां माहात्मनाम् ।
सर्वान्दिवौकसो दृष्ट्वा पौरा विस्मयमागताः॥१३०॥

पूजार्थमथ सम्भारान्प्रगृह्य द्रुतमागताः ।
अहो सुमहदाश्चर्यं वासुदेवस्य संश्रयात्॥१३१॥

प्राप्यते यदिहास्माभिरिति वाचश्चरन्त्युत ।
ततश्चन्दनचूर्णैश्च गन्धपुष्पैश्च सर्वशः॥१३२॥

प्राप्यते देवानामपि दर्शनामिति शेषः॥१३२॥

किरन्ति पौराः सर्वांस्तान्पूजयन्तो दिवौकसः ।
लाजैः प्रणामैर्धूपैश्च वाद्यध्वनियमैस्तथा॥१३३॥

द्वारकावासिनः सर्वे पूजयन्ति दिवौकसः ।
आहुकं वासुदेवं च साम्बं च यदुनन्दनम्॥१३४॥

सात्यकिं चोल्मुकं चैव विपृथुं च महाबलम् ।
अक्रूरं च महाभागं तथा निषधमेव च॥१३५॥

एतान्परिष्वज्य तदा मूर्ध्नि चाघ्राय वासवः ।
अथ शक्रो महाभागः समक्षं यदुमण्डले॥१३६॥

स्तुवन्तं केशिहन्तारं तत्रोवाचोत्तरं वचः ।
सात्वतः सात्त्वतामेष सर्वेषां यदुनन्दनम्॥१३७॥

मोक्षयित्वा रणे चैव यशसा पौरुषेण च ।
महादेवस्य मिषतो गुहस्य च महात्मनः॥१३८॥

एष बाणं रणे जित्वा द्वारकां पुनरागतः ।
सहस्रबाहो बाहूनां कृत्वा द्वयमनुत्तमम्॥१३९॥

स्थापयित्वा द्विबाहुत्वे प्राप्तोऽयं स्वपुरं हरिः ।
यदर्थं जन्म कृष्णस्य मानुषेषु महात्मनः॥१४०॥

तदप्यवसितं कार्यं नष्टाशोका वयं कृताः ।
पिबतां मधु मध्वीकं भवतां प्रीतिपूर्वकम्॥१४१॥

कालो यास्यत्यविरसं विषयेष्वेव त्यज्यताम् ।
बाहूनां संश्रयात्सर्वे वयमस्य महात्मनः॥१४२॥

प्रणष्टशोका रंस्यामः सर्वे एव यथासुखम् ।
एवं स्तुत्वा सहस्राक्षः केशवं दानवान्तकम्॥१४३॥

आपृच्छ्य तं महाभागः सर्वदेवगणैर्वृतः ।
ततः पुनः परिष्वज्य कृष्णं लोकनमस्कृतम् ।
पुरन्दरो दिवं यातः सह देवमरुद्गणैः॥१४४॥

ऋषयश्च महात्मानो जयाशीर्भिर्महौजसम् ।
यथागतं पुनर्याता यक्षराक्षसकिन्नराः॥१४५॥

पुरन्दरे दिवं याते पद्मनाभो महाबलः ।
अपृच्छत महाभागः सर्वान्कुशलमव्ययम्॥१४६॥

ततः किलकिलाशब्दं निर्वमन्तः सहस्रशः ।
गच्छन्ति कौमुदीं द्रष्टुं सोऽनघः प्रीयते सदा॥१४७॥

द्वारकां प्राप्य कृष्णास्तु रेमे यदुगणैः सह ।
विविधान्सर्वकामार्थाञ्छ्रिया परमया युतः॥१४८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि द्वारकाप्रत्यागमने सप्तविंशत्यधिकशततमोऽध्यायः॥१२७॥
उषया सहानिरुद्धस्य विवाहः उशाहरणसमाप्तिश्च-१२८

वैशम्पायन उवाच। अथाहुको महाबाहुः कृष्णं प्राह महाद्युतिः ।
हर्षादुत्फुल्लनयनः श्रूयतां यदुनन्दन॥१॥

अथाहुक इति॥१॥

एवं गतेऽनिरुद्धस्य क्रियतां महदुत्सवः ।
क्षेमात्प्रत्यागतं दृष्ट्वा सेव्यमानाः सहासते॥२॥

यतोऽस्मदीयाः सर्वे सेव्यमानाः अप्सरः प्रभृतिभिः सह आसतेऽतोऽनिरुद्धस्य महदुत्सवः। क्रियतामिति योज्यम्॥२॥

उषापि च महाभागा सखीभिः परिवारिता ।
रमते परया प्रीत्या चानिरुद्धेन सङ्गता॥३॥

कुम्भाण्डदुहिता रामा उषायाः सखिमण्डले ।
प्रवेश्यतां महाभागा वैदर्भीं वर्धयत्युत॥४॥

साम्बाय दीयतां रामा कुम्भाण्डदुहिता शुभा ।
शेषाश्च कन्या न्यस्यन्तां कुमाराणां यथाक्रमम्॥५॥

वर्तते सोत्सवस्तत्र अनिरुद्धस्य वेश्मनि ।
गृहे श्रीधन्वनश्चैव शुभस्तत्र प्रवर्तते॥६॥

वादयन्ति पुरे तत्र नार्यो मदवशं गताः ।
नृत्यन्ते चाप्सरास्तत्र गायन्ति च तथापराः॥७॥

काश्चित्प्रमुदितास्तत्र काश्चिदन्योन्यमब्रुवन् ।
नानावर्णाम्बरधराः क्रीडमानास्ततस्ततः॥८॥

अभियान्ति ततोऽन्योन्यं काश्चिन्मदवशात्स्वयम् ।
क्रीडन्ति काश्चिदक्षैस्तु हर्षादुत्फुल्ललोचनाः॥९॥

मायूरं रथमारुह्य सखीभिः परिवारिता ।
उषा सम्प्रेषिता देव्या रुद्राण्या प्रतिगृह्यताम्॥१०॥

इयं चैव कुलश्लाघ्या नाम्नोषा सुन्दरी वरा ।
बाणपुत्री तव वधूः प्रतिगृह्णीष्व भामिनीम्॥११॥

ततः प्रतिगृहीता सा स्त्रीभिराचारमङ्गलैः ।
प्रवेशिता च सा वेश्म अनिरुद्धस्य शोभना॥१२॥

देवकी रोहिणी चैव रुक्मिण्यथ विदर्भजा ।
दृष्ट्वानिरुद्धं रोदन्त्यः स्नेहहर्षसमन्विताः॥१३॥

रेवती रुक्मिणी चैव गृहमुख्यं प्रवेशयत् ।
वधूर्वर्धसि दिष्ट्या त्वमनिरुद्धस्य दर्शनात्॥१४॥

ततस्तूर्यप्रणादैस्ता वरनार्यः शुभाननाः ।
क्रियामारेभिरे कर्तुमुषा च गृहसंस्थिता॥१५॥

ततो हर्म्यतलस्था सा वृष्णिपुङ्गवसंस्थिता ।
रमते सर्वसदृशैरुपभोगैर्वरानना॥१६॥

चित्रलेखा च सुश्रोणी अप्सरारूपधारिणी ।
आपृच्छ्य च सखीवर्गमुषां च त्रिदिवं गता॥१७॥

गतासु तासु सर्वासु सखीष्वसुरसुन्दरी ।
मायावत्या गृहं नीता प्रथमं सा निमन्त्रिता॥१८॥

सा तु प्रद्युम्नगृहिणी स्नुषां दृष्ट्वा सुमध्यमा ।
वासोभिरन्नपानैश्च पूजयामास सुन्दरीम्॥१९॥

ततः क्रमेण सर्वास्ता वधूमूषां यदुस्त्रियः ।
आचारमनुपश्यन्त्यः स्वधर्ममुपचक्रिरे॥२०॥

वैशम्पायन उवाच। एतत्ते सर्वमाख्यातं मया कुरुकुलोद्वह ।
यथा बाणो जितः सङ्ख्ये जीवन्मुक्तश्च विष्णुना॥२१॥

द्वारकायां ततः कृष्णो रेमे यदुगणैर्वृतः ।
अन्वशासन्महीं कृत्स्नां परया संयुतो मुदा॥२२॥

एवमेषोऽवतीर्णो वै पृथिवीं पृथिवीपते ।
विष्णुर्यदुकुलश्रेष्ठो वासुदेवेति विश्रुतः॥२३॥

एतैश्च कारणैः श्रीमान्वसुदेवकुले प्रभुः ।
जातो वृष्णिषु देवक्यां यन्मां त्वं परिपृच्छसि॥२४॥

शकटभङ्गादिवरुणजयान्तैः॥२४॥

निवृत्ते नारदप्रश्ने यन्मयोक्तं समासतः ।
श्रुतास्ते विस्तराः सर्वे ये पूर्वं जनमेजय॥२५॥

निवृत्ते दत्तोत्तरत्वेन समाहिते नारदप्रश्ने आश्चर्यं को धन्य इत्येवंरूपे पूर्वमुक्ते इति शेष॥२५॥

विष्णोस्तु माथुरे कल्पे यत्र ते संशयो महान् ।
वासुदेवगतिश्चैव सा मया समुदाहृता॥२६॥

माथुरे कल्पे यदुषु भवतोऽवतारे रुद्रजयेन निर्णीत इत्यर्थः। वासुदेवात्मिका गतिः परायणं वासुदेवगतिः सा प्रसिद्धा। “तद्विष्णोः परमं पदं, सा काष्ठा सा परा गतिः।” इत्याद्यागमेषु इत्यर्थः॥२६॥

आश्चर्यं चैव नान्यद्वै कृष्णश्चाश्चर्यसन्निधिः ।
सर्वेष्वाश्चर्यकल्पेषु नास्त्याश्चर्यमवैष्णवम्॥२७॥

सर्वेष्विति। अन्यात्राप्याश्चर्यदर्शनं विष्ण्वनुप्रवेशादेवेत्यर्थः॥२७॥

एष धन्यो हि धन्यानां धन्यकृद्धन्यभावनः ।
देवेषु तु सदैत्येषु नास्ति धन्यतरोऽच्युतात्॥२८॥

एष विष्णुः धनिनां धन्यकृत्स्वयं धन्य इत्यन्यं करोति। “एष ह्येवानन्दयति” इति श्रुतेः। धन्यानां मानुषनन्दादिहिरण्यगर्भान्तानामानन्दिनामानन्दभावनः॥२८॥

आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा ।
गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च॥२९॥

एष धाता विधाता च संहर्ता चैव नित्यशः ।
सत्यं धर्मस्तपश्चैव ब्रह्मा चैव पितामहः॥३०॥

अनन्तश्चैव नागानां रुद्राणां शङ्करः स्मृतः ।
जङ्गमाजङ्गमं चैव जगन्नारायणोद्भवम्॥३१॥

एतस्माच्च जगत्सर्वं प्रसूयेत जनार्दनात् ।
जगच्च सर्वं देवेशे तं नमस्कुरु भारत॥३२॥

पूज्यश्च सततं सर्वैर्देवैरेष सनातनः ।
इत्युक्तं बाणयुद्धं ते माहात्म्यं केशवस्य तु॥३३॥

वंशप्रतिष्ठामतुलां श्रवणादेव लप्स्यसे ।
ये चेदं धारयिष्यन्ति बाणयुद्धमनुत्तमम्॥३४॥

केशवस्य च माहात्म्यं नाधर्मस्तान्भविष्यति ।
एषा तु वैष्णावी चर्या मया कार्त्स्न्येन कीर्तिता॥३५॥

पृच्छतस्तात यज्ञेऽस्मिन्निवृत्ते जनमेजय ।
आश्चर्यपर्व निखिलं यो हीदं धारयेन्नृप॥३६॥

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।
कल्य उत्थाय यो नित्यं कीर्तयेत्सुसमाहितः॥३७॥

हरिवंशे श्रुतवान् यतः अतो निर्मलो निष्पापोऽभूत्॥३७॥

न तस्य दुर्लभं किञ्चिदिह लोके परत्र च ।
ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत्॥३८॥

वैश्यो धनसमृद्धः स्याच्छूद्रः कामानवाप्नुयात् ।
नाशुभं प्राप्नुयात्किञ्चिद्दीर्घमायुर्लभेत सः॥३९॥

सौतिरुवाच। इति पारिक्षितो राजा वैशम्पायनभाषितम् ।
श्रुतवानचलो भूत्व हरिवंशं द्विजोत्तमाः॥४०॥

एवं शौनक सङ्क्षेपाद्विस्तरेण तथैव च ।
प्रोक्ता वै सर्ववंशास्ते किं भूयः श्रोतुमिच्छसि॥४१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि उषाहरणसमाप्तौ अष्टाविंशत्यधिकशततमोऽध्यायः॥१२८॥
॥समाप्तं चेदं हरिवंशस्य पूर्वार्धम्॥॥समाप्तमिदं विष्णुपर्व॥२॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in