हरिवंशपर्व - १विष्णुपर्व - २भविष्यपर्व - ३

भविष्यपर्व

जनमेजयपुत्रनामकथेन पाण्डववंशप्रतिष्ठाकीर्तनम्

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥१॥

शौनक उवाच। जनमेजयस्य के पुत्राः पठ्यन्ते लोमहर्षणे ।
कस्मिन्प्रतिष्ठितो वंशः पाण्डवानां महात्मनाम्॥१॥

जनमेजयस्यात॥१॥

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
त्वत्तः कथयतः सर्वे वेद्म्यहं तव परिस्फुटम्॥२॥

सौतिरुवाच। परीक्षितस्य काश्यायां द्वौ पुत्रौ सम्बभूवतुः ।
चन्द्रापीडश्च नृपतिः सूर्यापीडश्च मोक्षवित्॥३॥

चन्द्रापीडस्य पुत्राणां शतमुत्तमधन्विनाम् ।
जनमेजय इत्येवं क्षात्रं भुवि परिश्रुतम्॥४॥

तेषां श्रेष्ठस्तु राजाऽऽसीत्पुरे वारणसाह्वये ।
सत्यकर्णो महाबाहुर्यज्वा विपुलदक्षिणः॥५॥

सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान् ।
अपुत्रः स तु धर्मात्मा प्रविवेश तपोवनम्॥६॥

तस्माद्वनगताद्गर्भं यादवी प्रत्यपद्यत ।
सुचारोर्दुहिता सुभ्रूर्मानिनी भ्रातृमालिनी॥७॥

स तु जन्मनि गर्भस्य श्वेतकर्णः प्रजेश्वरः ।
अन्वगच्छद्गतं पूवैर्महाप्रस्थानमच्युतम्॥८॥

अन्वगच्छत् गर्भिण्येवेत्यर्थः॥८॥

सा दृष्ट्वा सम्प्रयातं तं मानिनी पृष्ठतोऽन्वियात् ।
पथि सा सुषुवे सुभ्रूर्वने राजीवलोचनम्॥९॥

कुमारं तं परित्यज्य भर्तारं चान्वगच्छत ।
पतिव्रता महाभागा द्रौपदीव पुरा पतीन्॥१०॥

स तु राजकुमारोऽसौ गिरिकुञ्जे रुरोद ह ।
छायार्थं तस्य मेघास्तु प्रादुरासन्समन्ततः॥११॥

श्रविष्ठायाश्च पुत्रौ द्वौ पिप्पलादश्च कौशिकः ।
दृष्ट्वा कृपान्वितौ गृह्य तं प्रक्षालयतां जलैः॥१२॥

निवृष्टौ कृतचिह्नौ॥१२॥

निघृष्टौ तस्य तौ पार्श्वौ शिलायां रुधिरप्लुतौ ।
अजश्यामौ तु पार्श्वौ तावुभावपि समाहितौ ।
तथैव तु समारूढौ अजपार्श्वस्ततोऽभवत्॥१३॥

अजः छगः तद्वत् श्यामौ समारूढौ तथैव कृष्णरूपवन्तौ वेदवृद्धिं प्राप्तौ॥१३॥

ततोऽजपार्श्व इति तौ चक्राते तस्य नाम ह ।
स तु वेमकशालायां द्विजाभ्यामभिवर्धितः॥१४॥

वेमको नाम स्वर्गस्थः कश्चिदृषिः तस्य शालायां गृहे द्विजाभ्यां कौशिकपिप्पलादाभ्याम्॥१४॥

वेमकस्य तु भार्या तमुद्वहत्पुत्रकारणात् ।
वेमक्याः स तु पुत्रोऽभूद्ब्राह्मणौ सचिवौ च तौ॥१५॥

तेषां पुत्राश्च पौत्राश्च युगपत्तुल्यजीविनः ।
स एष पौरवो वंशः पाण्डवानां प्रतिष्ठितः॥१६॥

तेषाम् अजपार्श्वपिप्पलादकौशिकानाम्॥१६॥

श्लोकोऽपि चात्र गीतोऽयं नाहुषेण ययातिना ।
जरासङ्क्रमणे पूर्वं भृशं प्रीतेन धीमता॥१७॥

अत्र पुरुषविषये॥१७॥

आचन्द्रार्कग्रहा भूमिर्भवेदपि न संशयः ।
अपौरवा न तु मही भविष्यति कदाचन॥१८॥

॥इति श्रीमन्महाभारते खिलेषु हरिवंशे भविष्यपर्वणि पाण्डववंशप्रतिष्ठाकीर्तने प्रथमोऽध्यायः॥१॥
व्यासं प्रति राजसूयविषये जनमेजयप्रश्नः॥२

शौनक उवाच। उक्तोऽयं हरिवंशस्ते पर्वाणि निखिलानि च ।
यथा पुरोक्तानि तथा व्यासशिष्येण धीमता॥१॥

तत्कथ्यमानममितमितिहाससमन्वितम् ।
प्रीणात्यस्मानमृतवत्सर्वपापविनाशनम्॥२॥

सुखश्राव्यतया धीर मनोह्लादयतीव नः ।
जनमेजयस्तु नृपतिः श्रुत्वा चाख्यानमुत्तमम् ।
सौते किमकरोत्पश्चात्सर्पसत्रादनन्तरम्॥३॥

सौतिरुवाच। जनमेजयस्तु स नृपः श्रुत्वा चाख्यानमुत्तमम् ।
यदारभत्तदाख्यास्ये सर्पसत्रादनन्तरम्॥४॥

तस्मिन्सत्रे समाप्तेऽथ राजा पारीक्षितस्तदा ।
यष्टुं स वाजिमेधेन सम्भारानुपचक्रमे॥५॥

ऋत्विक्पुरोहिताचार्यानाहूयेदमुवाच ह ।
यक्ष्येऽहं वाजिमेधेन हयमुत्सृज्यतामिति॥६॥

ततोऽस्य विज्ञाय चिकीर्षितं तदा कृष्णो महात्मा सहसाऽऽजगाम ।
पारीक्षितं द्रष्टुमदीनसत्त्वं द्वैपायनः सर्वपरावरज्ञः॥७॥

पारीक्षितस्तु नृपतिर्दृष्ट्वा तमृषिमागतम् ।
अर्घ्यपाद्यासनं दत्त्वा पूजयामास शास्त्रतः॥८॥

तौ चोपविष्टावभितः सदस्यास्तस्य शौनक ।
कथा बहुविधाश्चित्राश्चक्राते वेदसंहिताः॥९॥

उक्तोयमिति। वेदसंहिताः वेदनिबद्धाः॥९॥

ततः कथान्ते नृपतिर्नोदयामास तं मुनिम् ।
पितामहं पाण्डवानामात्मनः प्रपितामहम्॥१०॥

महाभारतमाख्यानं बह्वर्थं श्रुतिविस्तरम् ।
निमेषमात्रमपि मे सुखश्राव्यतया गतम्॥११॥

मे मम निमेषमात्रमोतो संवत्सरोऽपि निमेषमात्रमोव गतः। अपिरिवार्थे॥११॥

विभूतिविस्तारकरं सर्वेषां वै यशस्करम् ।
त्वया सुविहितं ब्रह्मञ्शङ्खे क्षीरमिवाहितम्॥१२॥

अमृतेन तु तृप्तिः स्याद्यथा स्वर्गसुखेन च ।
तथा तृप्तिं न गच्छामि श्रुत्वेमां भारतीं कथाम्॥१३॥

अनुमान्य तु सर्वज्ञं पृच्छामि भगवन्नहम् ।
हेतुः कुरूणां नाशस्य राजसूयो मतो मम॥१४॥

दुःसहानां यथा ध्वंसो राजन्यानामुपप्लवे ।
राजसूयं तथा मन्ये युद्धार्थमुपकल्पितम्॥१५॥

दुःसहानाम् अजेयानाम्॥१५॥

राजसूयस्तु सोमेन श्रूयते पूर्वमाहृतः ।
तस्यान्ते सुमहद्युद्धमभवत्तारकामयम्॥१६॥

आहृतो वरुणेनाथ तस्यान्ते सुमहाक्रतोः ।
देवासुरं महायुद्धं सर्वभूतक्षयावहम्॥१७॥

हरिश्चन्द्रश्व राजर्षिः क्रतुमेनमुपाहरत् ।
तत्राप्याडीबकं नाम युद्धं क्षत्रियनाशनम्॥१८॥

आडी जलचरः पक्षिविशेषः तद्रूपेण वसिष्ठः बकरूपेण विश्वामित्रश्च। ऋषित्वाल्लज्जया च प्राकट्येन युद्धं कर्तुमशक्तौ तयोर्युद्धमाडीबकं नाम तन्निमित्तम् उभयपक्षपातिनां क्षत्रियाणां नाशो वृत्त इत्यर्थः॥१८॥

ततोऽनन्तरमार्गेण पाण्डवेनातिदुस्तरः ।
महाभारत आरम्भः सम्भृतोऽग्निरिव क्रतुः॥१९॥

महाभारते भारतयुद्धनिमित्तम् आरभ्यत इत्यारम्भः॥१९॥

तदस्य मूलं युद्धस्य लोकक्षयकरस्य तु ।
राजसूयो महायज्ञः किमर्थं न निवारितः॥२०॥

राजसूयो ह्यसंहार्यो यज्ञाङ्गैश्च दुरत्ययैः ।
मिथ्या प्रणीते यज्ञाङ्गे प्रजानां सङ्क्षयो ध्रुवः॥२१॥

असंहार्यः सर्वाङ्गोपेत कर्तुमशक्यः॥२१॥

भवानपि च सर्वेषां पूर्वेषां नः पितामहः ।
अतीतानागतज्ञश्च नाथश्चादिकरश्च नः॥२२॥

ते कथं भवता नेत्रा बुद्धिमन्तश्च्युता नयात् ।
अनाथा ह्यपराध्यन्ते कुनेतारश्च मानवाः॥२३॥

नेत्रा गुरुणा॥२३॥

व्यास उवाच। कालेन विपरीतास्ते तव पूर्वापितामहः ।
न मां भविष्यं पृच्छन्ति न चापृष्टो ब्रवीम्यहम्॥२४॥

सामर्थ्यं च न पश्यामि भविष्यस्य निवर्तने ।
परिहर्तुं न शक्या हि कालेन विहिता गतिः॥२५॥

विहिता गतिः विहिताङ्गम्॥२५॥

त्वया त्विदमहं पृष्टो वक्ष्याम्यागन्तु भावि यत् ।
अतश्च बलवान्कालः श्रुत्वाऽपि न करिष्यसि॥२६॥

न संरम्भान्न चारम्भान्न वै स्थास्यसि पौरुषे ।
लेखा हि काललिखिताः सर्वथा दुरतिक्रमाः॥२७॥

अश्वमेधः क्रतुः श्रेष्ठः क्षत्रियाणां परिश्रुतः ।
तेन भावेन ते यज्ञं वासवो धर्षयिष्यति॥२८॥

संरभ्यात् भयात् महत्वकारणेन बुद्धिपूर्वकद्वेचादित्यर्थः॥२८॥

यदि तच्छक्यते राजन्परिहर्तुं कथञ्चन ।
दैवं पुरुषकारेण मा यजेथाश्च तं क्रतुम्॥२९॥

न चापराधः शक्रस्य नोपाध्यायगणस्य ते ।
तव वा यजमानस्य कालोऽत्र दुरतिक्रमः॥३०॥

तस्य संस्थाकृतमिदं कालस्य परमेष्ठिनः ।
यथादृष्टं प्रजासर्गं गमिष्यति युगक्षये॥३१॥

तस्य क्रतोः संस्था समाप्तिस्तदर्थं कृतमिदं भावि कालुष्यम्। कालस्य इच्छयेति शेषः॥३१॥

तथा यज्ञफलानां च विक्रेतारो द्विजातयः ।
तत्प्रणेयं निबोधस्व त्रैलोक्यं सचराचरम्॥३२॥

तत्प्रणेयं कालाधीनाम्॥३२॥

जनमेजय उवाच। निवृत्तावश्वमेधस्य किं निमित्तं भविष्यति ।
श्रुत्वा परिहरिष्यामि भगवन्यदि मन्यसे॥३३॥

व्यास उवाच। निमित्तं भविता तत्र ब्रह्मकोपकृतं प्रभो ।
यतेथाः परिहर्तुं त्वमित्येतद्भद्रमस्तु ते॥३४॥

त्वया वृत्तं क्रतुं चैव वाजिमेधं परन्तप ।
क्षत्रियानाहरिष्यन्ति यावद्भूमिर्धरिष्यति॥३५॥

जनमेजय उवाच। निवृत्तावश्वमेधस्य ब्रह्मशापाग्नितेजसा ।
अहं निमित्तमिति मे भयं तीव्रं तु जायते॥३६॥

कथं ह्यकीर्त्या युज्येत सुकृती मद्विधो जनः ।
लोकानुत्सहते गन्तुं खं सपाश इव द्विजः॥३७॥

द्विजः पक्षी॥३७॥

यथा ह्यनागतमिदं दृष्टमत्र प्रणाशनम् ।
यद्यस्ति पुनरावृत्तिर्यज्ञस्याश्वासयस्व माम्॥३८॥

व्यास उवाच। उपात्तयज्ञो देवेषु ब्राह्मणेषूपपत्स्यते ।
तेजसा व्याहृतं तेजस्तेजस्येवावतिष्ठते॥३९॥

उपात्तः एपसंहृतो यतोऽश्वमेधः देवादिषु ज्ञानरूपेणावस्थास्यति॥३९॥

औद्भिज्जो भविता कश्चित्सेनानीः काश्यपो द्विजः ।
अश्वमेधं कलियुगे पुनः प्रत्याहरिष्यति॥४०॥

उद्भिद्य जायत इत्यौद्भिज्जः भूविलस्यो यिगी खन्यमानायां भुवि प्रकटीभविष्यतीत्यर्थः॥४०॥

तद्युगे तत्कुलीनश्च राजसूयमपि क्रतुम् ।
आहरिष्यति राजेन्द्र श्वेतग्रहमिवान्तकः॥४१॥

श्वेतग्रहमुत्पातविशेषम्। अन्तकः प्रलयकालः॥४१॥

यथा बलं मनुष्याणां कर्तॄणां दास्यते फलम् ।
युगान्तद्वारमृषिभिः संवृतं विचरिष्यति॥४२॥

बलं श्रद्धादिरूपं फलं दास्यते क्रतुरिति शेषः। संवृतं गोपितं विचरतिष्यति जनः॥४२॥

तदाप्रभृति हास्यन्ति नृणां प्राणाः पुराकृतीः ।
न निवर्तिष्यते लोके वृत्तान्तावर्तनेष्विह॥४३॥

तदाप्रभृति युगान्तमारभ्य प्राणा इन्द्रियाणि पुराकृतीः शिष्टाचारान्वर्तनेषु आचारेषु वृत्तान्तः पूर्ववृत्तं न नितरां वर्तिष्यते॥४३॥

तदा सुक्ष्मो महोदर्को दुस्तरो दानमूलवान् ।
चातुराश्रम्यशिथिलो धर्मः प्रविचलिष्यति॥४४॥

सूक्ष्मोऽल्पोऽपि धर्मः महोदर्को महाफलः। दुस्तरो विघ्नबाहुल्यात्॥४४॥

तदा ह्यल्पेन तपसा सिद्धि प्राप्स्यन्ति मानवाः ।
धन्या धर्मं चरिष्यन्ति युगान्ते जनमेजय॥४५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वाणि जनमेजयप्रश्ने द्वितीयोऽध्यायः॥२॥
व्यासोक्तं कलियुगभविष्यम्

जनमेजय उवाच। आसन्नं विप्रकृष्टं वा यदि कालं न विद्महे ।
तस्माद्द्वापरसंविद्धं युगान्तं स्पृहयाम्यहम्॥१॥

आसन्नमिति। आसन्नं यदि यस्मात् कालं मोक्षस्य न विद्महे तस्माद्द्वापरः धर्माधर्मसाम्यवान् संविद्धो अधर्माधिक्यात् दूषितो येन तं युगान्तं युगानाम् अन्ते भवं कलिं श्रोतुं स्पृहयामि॥१॥

प्राप्ता वयं तु तत्कालमनया धर्मतृष्णया ।
आदद्यात्परमं धर्म सुखमल्पेन कर्मणा॥२॥

तत्र स्पृहाहेतुमाह- प्राप्ता इति। अल्पायासेन महत्फलं भवतीति लोभादस्माभिः कलौ जन्म प्रार्थितमित्यर्थः॥२॥

शौनक उवाच। त्रासमुद्वेगकरणं युगान्तं समुपस्थितम् ।
प्रनष्टधर्मं धर्मज्ञ निमित्तैर्वक्तुमर्हसि॥३॥

सौतिरुवाच। पृष्ट एवं भविष्यस्य गतिं तत्त्वेन चिन्तयन् ।
युगान्ते सर्वभूतानां भगवानब्रवीत्तदा॥४॥

व्यास उवाच। अरक्षितारो हर्तारो बलिभागस्य पार्थिवाः ।
युगान्ते प्रभविष्यन्ति स्वरक्षणपरायणाः॥५॥

अक्षत्रियाश्च राजानो विप्राः शूद्रोपजीविनः ।
शूद्राश्च ब्राह्मणाचारा भविष्यन्ति युगक्षये॥६॥

काण्डे स्पृष्टाः श्रोत्रियाश्च निष्क्रियाणि हवींष्यथ ।
एकपङ्क्त्यामशिष्यन्ति युगान्ते जनमेजय॥७॥

काण्डस्पृष्टाः बाणधराः क्षत्रवृत्तयो ब्राह्मणा इत्यर्थः। निष्क्रियाणि पञ्चयज्ञहीनानि॥७॥

शिल्पवन्तोऽनृतपरा नरा मद्यामिषप्रियाः ।
मित्रभार्या भविष्यन्ति युगान्ते जनमेजय॥८॥

राजवृत्तिस्थिताश्चौरा राजानश्चौरशीलिनः ।
भृत्याश्चानिर्दिष्टभुजो भविष्यन्ति युगक्षये॥९॥

धनानि श्लाघनीयानि सतां वृत्तमपूजितम् ।
अकुत्सना च पतिते भविष्यन्ति युगक्षये॥१०॥

अकुत्सना अनिन्दा॥१०॥

प्रनष्टचेतना मर्त्या मुक्तकेशा विचूलिनः ।
ऊनषोडशवर्षाश्च प्रजास्यन्ति नराः सदा॥११॥

चेतना धर्माधर्मस्वरूपबोधः। मुक्तकेशाः विधवाः विचूलिनः संन्यासिनः प्रजास्यन्ति अन्योऽन्यं मिथुनीभूय प्रजां जनयिष्यन्ति॥११॥

अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये॥१२॥

अट्टशूलाः अन्नविक्रयिणः। शिवशूलाः वेदविक्रयिणः। केशशूलाः भगविक्रयिणः॥१२॥

सर्वे ब्रह्म वदिष्यन्ति सर्वे वाजसनेयिनः ।
शूद्रा भोवादिनश्चैव भविष्यन्ति युगक्षये॥१३॥

सर्वे ब्रह्मवादच्छलेन कर्मभ्रष्टा भविष्यन्तीत्यर्थः। सर्वे वाजसनेयिनः शाखान्तरलोपात्। तेन वेदत्रयसाध्यो यज्ञ उत्सन्नो भविष्यतीति भावः। इदानीमेव पश्चिमदेशे तथा दर्शनात्। भो इति भावः। इदानीमेव पश्चिमदेशे तथा दर्शनात्। भो इति पूज्यवादो येषु ते भोवादिनः॥१३॥

तपोयज्ञफलानां च विक्रेतारो द्विजातयः ।
ऋतवश्च भविष्यन्ति विपरीता युगक्षये॥१४॥

शुक्लदन्ताऽञ्जिताक्षाश्च मुण्डाः काषायवाससः ।
शूद्रा धर्मं चरिष्यन्ति शाक्यबुद्धोपजीविनः॥१५॥

शुक्लदन्ताः मांसाशनत्यागात् अन्यथा रक्तदन्तत्वं स्यात्। अञ्जिताक्षाः सूक्ष्मदृष्टयः। शाक्यमतं बद्धमतं चोपजीवन्ति ते वेददूषका नास्तिका इत्यर्थः॥१५॥

श्वापदप्रचुरत्वं च गवां चैव परिक्षयः ।
स्वादूनां विनिवृत्तिश्च विद्यादन्तगते युगे॥१६॥

श्वापदाः हिंस्राः वृकव्याघ्रादयः। स्वादूनाम् उत्तमरसादीनाम्॥१६॥

अन्त्या मध्ये निवत्स्यन्ति मध्याश्चान्तनिवासिनः ।
यथा निम्नं प्रजाः सर्वा गमिष्यन्ति युगक्षये॥१७॥

अन्त्याः म्लेच्छाः मध्याः कुरुपञ्चालाः तत्रस्थाश्च म्लेच्छदेशे वासं करिष्यन्तीत्यर्थः। यथेति। नीचमार्गानुप्तारिण्यःइत्यर्थः॥१७॥

तथा द्विहायना दम्यास्तथा पल्वलकर्षकाः ।
चित्रवर्षी च पर्जन्यो युगे क्षीणे भविष्यति॥१८॥

दम्याः हलशकटादिवहनयोग्याः चित्रवर्षी हले योजितस्य बलीवर्दस्य एकं शृङ्गमार्द्रमेकं शुङ्कमित्येवं वर्षिष्यतीत्यर्थः॥१८॥

सर्वे चौरकुले जाताश्चौरयानाः परस्परम् ।
स्वल्पेनाढ्या भविष्यन्ति यत्किञ्चित्प्राप्य दुर्गताः॥१९॥

चौरयानाः मुष्णन्तः यत्किञ्चिद्व्यसनदुर्गताः दरिद्राः॥१९॥

न ते धर्मं करिष्यन्ति मानवा निर्गते युगे ।
ऊषार्कबहुला भूमिः पन्थानस्तस्करावृताः॥२०॥

ऊषार्कबहुला क्षारमृत्तिकया प्रस्वेदभूयिष्ठा बीजनाशिनीत्यर्थः। नगरान्तरा इति वनान्तरेषु चौरभयात् वक्रमार्गेऽपि नगराश्रयोपयोगैः पान्यैर्गन्तव्यमित्यर्थ॥२०॥

सर्वे वाणिज्यकाश्चैव भविष्यन्ति कलौ युगे ।
पितृदत्तानि देयानि विभजन्ते सुतास्तदा ।
हरणाय प्रपत्स्यन्ते लोभानृतविरोधिताः॥२१॥

देयानि अलङ्कारादीनि शास्त्रतः अविभाज्यान्यपि विभजन्ते। लोभानृताभ्यां विरोधिताः सविरोधाः॥२१॥

सौकुमार्ये तथा रूपे रत्ने चोपक्षयं गते ।
भविष्यन्ति युगान्ते च नार्यः केशैरलङ्कृताः॥२२॥

सौकुमार्ये लावण्ये रत्ने अलङ्कारादौ॥२२॥

निर्विहारस्य भूतस्य गृहस्थस्य भविष्यति ।
युगान्ते समनुप्राप्ते नान्या भार्यासमा गतिः॥२३॥

निर्विहारस्य स्रक्चन्दनदिव्यास्तरणादिभोगसामग्रीविहारस्तद्रहितस्य भूतस्य रूपमात्रेण स्थितस्य॥२३॥

कुशीलानार्यभूयिष्ठं वृथारूपसमन्वितम् ।
पुरुषाल्पं बहुस्त्रीकं तद्युगान्तस्य लक्षणम्॥२४॥

बहुयाचनको लोको न दास्यति परस्परम् ।
अविचार्य ग्रहीष्यन्ति दानं वर्णान्तरात्तथा॥२५॥

राजचौराग्निदण्डार्तो जनः क्षयमुपेष्यिति ।
सस्यनिष्पत्तिरफला तरुणाः वृद्धशीलिनः ।
ईहयाऽसुखिनो लोका भविष्यन्ति युगक्षये॥२६॥

ईहया तृष्णया अनुिनः॥२६॥

वर्षासु वाताः परुषा नीचाः शर्करवर्षिणः ।
सन्दिग्धः परलोकश्च भविष्यति युगक्षये॥२७॥

आत्मनश्च दुराचारा ब्रह्मदूषणतत्पराः ।
आत्मानं बहु मन्यन्ते मन्युरेवाभ्यया‌द्द्विजान्॥२८॥

वैश्याचाराश्च राजन्या धनधान्योपजीविनः ।
युगापक्रमणे सर्वे भविष्यन्ति द्विजातयः॥२९॥

युगापक्रमणे धर्ममर्यादाभङ्गे भविष्यन्ति॥२९॥

अप्रवृत्ताः प्रपत्स्यन्ते समयाः शपथास्तथा ।
ऋणं सविनयभ्रंशं युगे क्षीणे भविष्यति॥३०॥

समयाः साङ्केतिका धर्माः। सविनयभ्रंशम् उत्तमेभ्यो विभ्रंशो यस्य तथा भविष्यति किमुत नीचेभ्यः॥३०॥

भविष्यत्यफलो हर्षः क्रोधश्च सफलो नृणाम् ।
अजाश्चैवोपरोत्स्यन्ते पयसोऽर्थे युगक्षये॥३१॥

अशास्त्रविदुषां पुंसामेवमेव स्वभावतः ।
अप्रमाणं वदिष्यन्ति नीतिं पण्डितमानिनः॥३२॥

स्वणावतः स्वेच्छया शास्त्रार्थं वदिष्यन्ति॥३२॥

शास्त्रोक्तस्याप्रवक्तारो भविष्यन्ति युगक्षये ।
सर्वे सर्वं हि जानन्ति वृद्धाननुपसेव्य वै॥३३॥

न कश्चिदकविर्नाम युगान्ते समुपस्थिते ।
न क्षत्राणि नियोक्ष्यन्ति विकर्मस्था द्विजातयः ।
चौरप्रायाश्च राजानो युगान्ते पर्युपस्थिते॥३४॥

द्विजातयः क्षत्राणि न नियोक्ष्यन्ति। धर्म इति शेषः। तत्र हेतुः चौरेति॥३४॥

कुण्डावृषा नैकृतिकाः सुरापा ब्रह्मवादिनः ।
अश्वमेधेन यक्ष्यन्ति युगान्ते जनमेजय॥३५॥

कुण्डायाम् अमृते जीवति पत्यौ जारजातायां वृषाः रेतःसेक्तारः कुण्डावृषाः। नैकृतिकाः अनधिकारिणावपि जायापती यज्ञं करिष्यत इत्यर्थः। अभक्ष्यस्येति छेदः॥३५॥

अयाज्यान्याजयिष्यन्ति तथाऽभक्ष्यस्य भक्षिणः ।
ब्राह्मणा धनतृष्णार्ता युगान्ते समुपस्थिते॥३६॥

भोशब्द‌मभिधास्यन्ति न च कश्चित्पठिष्यति ।
एकशङ्खास्तदा नार्यो गवेधुकपिनद्धकाः॥३७॥

नक्षत्राणि वियोगीनि विपरीता दिशस्तथा ।
सन्ध्यारागोऽथ दिग्दाहो भविष्यत्यवरे युगे॥३८॥

गवेधुकः कुसुम्भबीकालारस्तृणधान्यविशेषस्तन्मयाः पिनद्धका अलङ्काराः यासां ताः। एतच्च गुञ्जादेरप्युपलक्षणम्॥३८॥
वियोगीनि यथाशास्त्रं तत्तद्ग्रहसंयोगहीनानि॥३८॥

पितॄन्पुत्रा नियोक्ष्यन्ति वध्वः श्वश्रूश्च कर्मसु ।
वियोनिषु चरिष्यन्ति प्रमदासु नरास्तथा॥३९॥

वियोनिषु पशुषु विभिन्नवर्णेषु वा॥३९॥

वाक्छरैस्तर्जयिष्यन्ति गुरूच्छिष्यास्तथैव च ।
मुखेषु च प्रयोक्ष्यन्ति प्रमत्ताश्च नरास्तदा॥४०॥

अकृताग्राणि भोक्ष्यन्ति नराश्चैवाग्निहोत्रिणः ।
भिक्षां बलिमदत्त्वा च भोक्ष्यन्ति पुरुषाः स्वयम्॥४१॥

अग्रं ग्रासचतुष्टयम् अकृतम् अदत्तम् अग्रं येषां तानि अन्नानि अकृताग्राणि॥४१॥

पतीन्सुप्तान्वञ्चयित्वा गमिष्यन्ति स्त्रियोऽन्यतः ।
पुरुषाश्च प्रसुप्तासु भार्यासु च परस्त्रियम्॥४२॥

नाव्याधितो नाप्यरुजो जनः सर्वोऽभ्यसूयकः ।
न कृतिप्रतिकर्ता च कोले क्षीणे भविष्यति॥४३॥

अरुजो मनःपीडारहितः॥४३॥
॥इति श्रीमन्महाभारते खिलेषु हरिवंशे भविष्यपर्वणि कलियुगवर्णने तृतीयोऽध्यायः॥३॥
कलियुगवर्णनम्

जनमेजय उवाच। एवं विलुलिते लोके मनुष्याः केन पालिताः ।
निवत्स्यन्ति किमाचाराः किमाहारविहारिणः॥१॥

एवमिति। एवं विलिलिते कलुषीकृते॥१॥

किं कर्माणः किमीहन्तः किं प्रमाणाः किमायुषः ।
कां च काष्ठां समासाद्य प्रपत्स्यन्ति कृतं युगम्॥२॥

व्यास उवाच। अत ऊर्ध्व च्युते धर्मे गुणहीनाः प्रजास्ततः ।
शीलव्यसनमासाद्य प्राप्स्यन्ते ह्रासमायुषः॥३॥

शीलव्यसनं धर्मनाशनम्॥३॥

आयुर्हान्या बलग्लानिर्बलग्लान्या विवर्णता ।
वैवर्णाद्व्याधिसम्पीडा निर्वेदो व्याधिपीडनात्॥४॥

निर्वेदः दहादौ वैराग्यम्॥४॥

निर्वेदादात्मसम्बोधः सम्बोधाद्धर्मशीलता ।
एवं गत्वा परां काष्ठां प्रपत्स्यन्ति कृतं युगम्॥५॥

आत्मसम्बोधः विवेकादयः एव गत्वा धर्मशीलत्वात् चित्तशिद्धिज्ञानोत्पत्तिद्वारा परां काष्ठां मोक्षदं ज्ञअनं तदैव सर्वपापनाशनात् कृतयुगम्॥५॥

उद्देशतो धर्मशीलाः केचिन्मध्यस्थतां गताः ।
विमर्षशीलाः केचित्तु हेतुवादकुतूहलाः॥६॥

उद्देशतः लेशतः विमर्षो विवेकः हेतुवाद एव न तु क्रियया कौतूहलं येषां ते हेरुवदकुतूहलाः वृथापण्डिताः॥६॥

प्रत्यक्षमनुमानं च प्रमाणं चेति निश्चिताः ।
प्रमाणैकं करिष्यन्ति नेति पण्डितमानिनः॥७॥

निश्चिताः सौगता वैशेषिकाश्च देवस्य परतोऽपि प्रामाण्यं नेच्छन्ति। पूर्वं सतः प्रामाण्यमपरे प्रमाणैकमेजमेव प्रत्यक्षमेव प्रमाणमिति चार्वाका नेतीत्यस्य नान्यत्प्रमाणमित्यर्थः॥७॥

अप्रमाणं करिष्यन्ति वेदोक्तमपरे जनाः ।
तदा मुखभगाश्चैव भविष्यन्ति स्त्रियोऽपराः॥८॥

नास्तिक्यपरमाश्चापि केचिद्धर्मविलोपकाः ।
भविष्यन्ति नरा मूढा मन्दाः पण्डितमानिनः॥९॥

तदात्वमात्रे श्रद्धेयाः शास्त्रज्ञानबहिष्कृताः ।
दाम्भिकास्ते भविष्यन्ति वादशीलकुतूहलाः॥१०॥

तदात्वमात्रं वर्तमानकालिकं दृष्टार्थमात्रे श्रद्धेयाः श्रद्धावन्तः। वादे शीले च कुतूहलम् आश्चर्यं येषां ते। धर्मवादोऽपि दुर्लभः किमुत तदाचरणमित्यर्थः॥१०॥

तदा विचलिते धर्मे जनाः शेषपुरस्कृताः ।
शुभान्येवाचरिष्यन्ति दानसत्यसमन्विताः॥११॥

शेषधर्मपुरस्कृताः अवशिष्टो विष्णुस्मरणादिर्यो धर्मस्तदनुसारिणः। शुभानि दयादीनि॥११॥

सर्वभक्षो ह्यसङ्गुप्तो निर्गुणो निरपत्रपः ।
भविष्यति तदा लोकस्तत्कषायस्य लक्षणम्॥१२॥

असङ्गुप्तोऽजितेन्द्रियः कषायस्य कलुषस्य॥१२॥

विप्राणां शाश्वतीं वृत्तिं यदा वर्णावरा जनाः ।
प्रतिपत्स्यन्ति वृत्त्यर्थं तत्कषायस्य लक्षणम्॥१३॥

शाश्वतीं वृत्तिं भिक्षाम् अवरः क्षत्रियादिः॥१३॥

कषायोपप्लवे लोके ज्ञानविद्याप्रणाशने ।
सिद्धिं स्वल्पेन कालेन यास्यन्ति निरुपस्कृताः॥१४॥

ज्ञानं शास्त्रीयो बोधः विद्या आत्मदर्शनं तयोर्नाशने निरुपस्कृताः निष्परिग्रहाः, त्यागमात्रेण स्वल्पेनापि कालेन सिद्धिं मोक्षं यास्यन्तीति कलेर्गुणः॥१४॥

महायुद्धं महानादं महावर्षं महाभयम् ।
भविष्यति युगे क्षीणे तत्कषायस्य लक्षणम्॥१५॥

विप्ररूपाणि रक्षांसि राजानः कर्णवेदिनः ।
पृथिवीमुपभोक्ष्यन्ति युगान्ते समुपस्थिते॥१६॥

कर्णवेदिनः पिशुनवाक्यतत्पराः॥१६॥

निःस्वाध्यायवषट्‌कारा अनेयाश्चाभिमानिनः ।
विप्राः क्रव्यादरूपेण सर्वभक्षा वृथाव्रताः॥१७॥

अनेय। अशास्याः। अनया इति पाठे नीतिहीनाः॥१७॥

मूर्खाः स्वार्थपरा लुब्धाः क्षुद्राः क्षुद्रपरिच्छदाः ।
व्यवहारोपवृत्ताश्च च्युता धर्माच्च शाश्वतात्॥१८॥

व्यवहारे भोजनाच्छादनादावेव उपवृतास्तत्पराः॥१८॥

हर्तारः पररत्नानां परदारापहारकाः ।
कामात्मानो दुरात्मानः सोपधाः प्रियसाहसाः॥१९॥

सपधाः छलवन्तः॥१९॥

तेषु प्रभवमाणेषु तुल्यशीलेषु सर्वतः ।
अभाविनो भविष्यन्ति मुनयो बहुरूपिणः॥२०॥

तेषु दुष्टेषु प्रभवमानेषु ऐश्वर्यवत्सु अभाविनः विनाशभाजः बहुरूपिणः चातुराश्रम्यभाजः॥२०॥

उत्पन्ना ये कृतयुगे प्रधानपुरुषाश्रयाः ।
कथायोगेन तान्सार्वान्पूजयिष्यन्ति मानवाः॥२१॥

प्रधानपुरुषः ईश्वरस्तदाश्रयास्तद्भक्ताः कथायोगेनैव न तु तादृशाचारेण॥२१॥

सस्यचौरा भविष्यन्ति तथा चैलापहारिणः ।
भक्ष्यभोज्यापहाराश्च करण्डानां च हारिणः॥२२॥

करण्डानां करीषाणामिति प्राञ्चः। स्नानसामग्रीभाजनानां वंशमयानामिति वा॥२२॥

चौराश्चौरस्य हर्तारो हन्ता हर्तुर्भविष्यति ।
चौरैश्चौरक्षये चापि कृते क्षेमं भविष्यति॥२३॥

निःसारे क्षुभिते लोके निष्क्रिये व्यन्तरे स्थिते ।
नराः श्रयिष्यन्ति वनं करभारप्रपीडिताः॥२४॥

निःसारे निर्धने निष्क्रिये सन्ध्योपासनादिहीने व्यन्तरस्थिते सर्ववर्णसाम्येन स्थिते॥२४॥

पितॄनाज्ञापयिष्यन्ति पुत्राः कर्मणि सर्वशः ।
स्नुषा श्वश्रूस्तथा चैव युगान्ते प्रत्युपस्थिते॥२५॥

वाक्छरैरर्दयिष्यन्ति गुरूञ्छिष्याः समन्ततः ।
यज्ञकर्मण्युपरते रक्षांसि श्वापदानि च॥२६॥

कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ।
क्षेमं सुभिक्षमारोग्यं सामग्र्यं वापि बन्धुषु ।
उद्देशतो नरश्रेष्ठ भविष्यन्ति युगक्षये॥२७॥

उद्देशतः स्वल्पतः॥२७॥

स्वयं पालाः स्वयं चौरा युगसम्भारसम्भृताः ।
मण्डलैः प्रचलिष्यन्ति देशे देशे पृथक्पृथक्॥२८॥

मण्डलैः सङ्घशः॥२८॥

स्वदेशेभ्यः परिभ्रष्टा निःसाराः सह बन्धुभिः ।
नराः सर्वे भविष्यन्ति तदा कालपरिक्षयात्॥२९॥

तदा स्कन्धे समाधाय कुमारान्विद्रुता भयात् ।
कौशिकीं प्रतरिष्यन्ति नराः क्षुद्भयपीडिताः॥३०॥

अङ्गान्वङ्गान्कलिङ्गांश्च काश्मीरानथ मेकलान् ।
ऋषिकान्तगिरिद्रोणीः संश्रयिष्यन्ति मानवाः॥३१॥

कृत्स्नं वा हिमवत्पार्श्व कूलं च लवणाम्भसः ।
अरण्येषु च वत्स्यन्ति नरा म्लेच्छगणैः सह॥३२॥

नैव शून्या न चाशून्या भविष्यति वसुन्धरा ।
गोप्तारश्चाप्यगोप्तारः प्रभविष्यन्ति शस्त्रिणः॥३३॥

मृगैर्मत्स्यैर्विहङ्गैश्च श्वापदैः सर्पकीटकैः ।
मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः॥३४॥

चीरं पर्णं च बहुलं वल्कलान्यजिनानि च ।
स्वयं कृतानि वत्स्यन्ति यथा मुनिजनास्तथा॥३५॥

बीजानामाकृतिं निम्नेष्वीहन्तः काष्ठशङ्‌कुभिः ।
अजैडकं खरोष्ट्रं च पालयिष्यन्ति यत्नतः॥३६॥

निम्नेषु गिरिदर्यादिषु स्थित्वा बीजानाम्। आकृतिं ग्राम्यारण्यधान्यानां स्वरूपं ज्ञातुं भोक्तुं च ईहन्त इच्छन्तः तत्र तत्प्रापणक्षमम् अजैडकं पालयिष्यन्ति। गन्धारकाश्मीरादौ स्थितास्तु खरोष्ट्रमिति भेदः॥३६॥

नदी‌ंस्रोतांसि रोत्स्यन्ति तोयार्थे कूलमाश्रिताः ।
पक्वान्नव्यवहारेण विपणन्तः परस्परम्॥३७॥

पक्वेति। अद्य प्रस्थौदनं गृहीत्वा श्वः सपादगुणं देहीति व्यवहरन्त इत्यर्थः॥३७॥

तनूरुहैर्यथा जातैः समूलान्तरसंवृतैः ।
बह्वपत्याः प्रजाहीनाः कुललक्षणवर्जिताः॥३८॥

समूलान्तरसंवृत्तैः मूलधनेन सहितस्य अन्तरस्य कलाद्रव्यस्य संवृतानि संसरनानि अपलापास्तैः निमित्तभूतैः। यथा कान्तैस्तनूरुहैः कलहायमानाः व्यवहरन्ति तथोत्तमवर्णा धमणापणन्त आसन इति पूर्वेणान्वयः॥३८॥

एवं भविष्यन्ति तदा मनुष्याः कालकारिताः ।
हीनाद्धीनं तदा धर्मं प्रजाः समनुवर्त्स्यति॥३९॥

आयुस्तत्र च मर्त्यानां परं त्रिंशद्भविष्यति ।
दुर्बला विषयग्लाना रजसा समभिप्लुताः॥४०॥

भविष्यति तदा तेषां रोगैरिन्द्रियसंक्षयः ।
आयुःप्रक्षयसंरोधाद्विषादः प्रभविष्यति॥४१॥

शुश्रूषवो भविष्यन्ति साधूनां दर्शने रताः ।
सत्यं च प्रतिपत्स्यन्ति व्यवहारोपसंक्षयात्॥४२॥

भविष्यन्ति च कामानामलाभाद्धर्मशीलिनः ।
करिष्यन्ति च सङ्कोचं स्वपक्षक्षयपीडिताः॥४३॥

सङ्कोचं दुराचारस्येति शेषः॥४३॥

एवं शुश्रूषवो दाने सत्ये प्राणाभिरक्षणे ।
चतुष्पादः प्रवृत्तश्च धर्मः श्रेयोऽभिपत्स्यते॥४४॥

एवं शुशfरूषादिपादचतुष्टये प्रवृत्तः धर्मः। यतः श्रेयः प्रशस्ततरम् अहिंसादिधर्मं प्रपत्स्यते॥४४॥

तेषां लब्धानुमानानां गुणेषु परिवर्तताम् ।
स्वादु किं न्विति विज्ञाय धर्म एवं वदिष्यति॥४५॥

तेषां श्रेयःप्रपन्नानां लब्धानुमानानाम् अन्वयव्यतिरेकाभ्यां निर्ज्ञातधर्माधर्मफलानां मध्ये गुणेषु शब्दादिविषयेषु वा परिवर्तनं रमणं स्वादु किमुत धर्मे इति सन्दिह्य विज्ञाय तत्वं निश्चित्य एवं वक्ष्यमाणं जनो वदिष्यति॥४५॥

यथा हानिः क्रमात्प्राप्ता तथा वृद्धिः क्रमाद्गता ।
प्रगृहीते यतो धर्मे प्रपत्स्यन्ति कृतं युगम्॥४६॥

तदेवाह- यथेति। यतः उक्तनिश्चयात्॥४६॥

साधु वृत्तं कृतयुगे कषाये हानिरुच्यते ।
एक एव तु कालः स हीनवर्णो यथा शशी॥४७॥

छन्नो हि तमसा सोमो यथा कलियुगे तथा ।
पूर्णश्च तमसा हीनो यथा कृतयुगे तथा॥४८॥

यथा शशीति दृष्टान्तं विवृणोति- छन्न इति। काल इत्यनुकृष्यते॥४८॥

अर्थवादः परं ब्रह्म वेदार्थ इति तं विदुः ।
अनिर्णिक्तमविज्ञातं दायाद्यमिव धार्यते॥४९॥

सकलशास्त्ररहस्यं सङ्गृण्हाति- अर्थेति द्वाभ्याम्। परं ब्रह्म यत् तत् अर्थवादः सत्यस्यैवार्थस्य कथनं तत्त्वभूतस्य कीटभृङ्गन्यायेन ध्यानक्रिया भवनं तदेव च वेदार्थ इत्युक्तम्। तमिति विधेयापेक्षं पुंस्त्वम्। सिद्धस्यैवालाभे दृष्टान्तमाह- अनिर्णिक्तमिति। मलिनं पित्र्यं स्वर्णपिण्डं स्वर्णत्वेनाविज्ञाय दरिद्रोऽस्मीति मन्यते। तस्य मलापगमने तु धनवाहनमिति निश्चिनोत्येवं ब्रह्मापि प्रत्यगनन्यत्वेनावधार्यते॥४९॥

इष्टवादस्तपो नाम तपो हि स्थावरं कृतम् ।
गुणैः कर्माभिनिर्वृत्तिर्गुणास्तथ्येन कर्मणा॥५०॥

इष्टेति। तपो धर्मः वर्णाश्रमयोग्यः स च इष्टवादः स्वर्गाद्यभीष्टकथनं यतस्तपः स्थावरम् अनादि अव्यभिचारिफलकृत् शास्त्रे निश्चितम्। ततश्च गुणैः देहादिभिः कर्माभिनिर्वृत्तिः कर्मसिद्धिर्भवति। कर्मणा च तथ्येन सत्येन गुणाः देहादय इह कर्मभ्यो मुक्तिर्नास्ति। अतोऽशरीरं ब्रह्माश्रयेदित्यर्थः। द्वावेतौ पुष्करप्रादुर्भावस्य सूत्रभूतौ श्लोकौ॥५०॥

आशीस्तु पुरुषं दृष्ट्वा देशकालानुवर्तिनी ।
युगे युगे यथाकालमृषिभिः समुदाहृता॥५१॥

आशीः एकस्मादेव कर्मणः फलप्राप्तिस्तत्तद्युगीयपुरुषाणां श्रद्धादितारतम्यात्तारतम्येन भवतीत्यर्थः॥५१॥

इह धर्मार्थकामानां देवतानां प्रतिक्रिया ।
आशिषश्च शुभाः पुण्यास्तथैवायुर्युगे युगे॥५२॥

इह भौमप्रतिक्रियाफलं तथैव तारतम्येनेत्यर्थः॥५२॥

यथा युगानां परिवर्तनानि चिरं प्रवृत्तानि विधिस्वभावात् ।
क्षणं न सन्तिष्ठति जीवलोकः क्षयोद‌याभ्यां परिवर्तमानः॥५३॥

यथेति उत्तरार्थे तथेति पूरणीयम्॥५३॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कलियुगवर्णने चतुर्थोऽध्यायः॥४॥
जनमेजयाश्वमेधः इन्द्रस्य कापट्यं च

सूत उवाच। इत्येवमाश्वासयतो राजानं जनमेजयम् ।
अतीतानागतं वाक्यमृषेः परिषदा श्रुतम्॥१॥

इत्येवमिति॥१॥

अमृतस्येव संवाहः प्रभा चन्द्रमसो यथा ।
अतर्पयत तच्छ्रोत्रं महर्षेर्वाड्मयो रसः॥२॥

संवाहः प्रवाहः॥२॥

धर्मकामार्थसंयुक्तं करुणं वीरहर्षणम् ।
रमणीयं तदाख्यानं कृत्स्नं परिषदा श्रुतम्॥३॥

केचिदश्रूणि मुमुचुः श्रुत्वा दध्युस्तथापरे ।
इतिहासं तमृषिणा पाणाविव निदर्शितम्॥४॥

दध्युः ध्यानं कृतवन्तः॥४॥

सदस्यान्सोऽभ्यनुज्ञाय कृत्वा चापि प्रदक्षिणाम् ।
पुनर्द्रक्ष्याम इत्युक्त्वा जगाम भगवानृषिः॥५॥

अनुजग्मुस्तदा सर्वे प्रयान्तमृषिसत्तमम् ।
लोके प्रवदतां श्रेष्ठं ये विशिष्टास्तपोधनाः॥६॥

याते भगवति व्यासे तदा ब्रह्मर्षिभिः सह ।
ऋत्विजः पार्थिवाश्चैव प्रतिजग्मुर्यथागतम्॥७॥

पन्नगानां सुघोराणां कृतानां वैरयातनाम् ।
जगाम रोषमुत्सृज्य राजा विषमिवोरगः॥८॥

होत्राग्निदीप्तशिरसं परित्राय च तक्षकम् ।
आस्तीकोऽथाश्रमपदं जगाम स महामुनिः॥९॥

होत्राणां सम्बन्धिनो धिष्ण्याग्नस्तैर्दीप्तशिरसम्॥९॥

राजाऽपि हास्तिनपुरं जगाम स्वजनावृतः ।
अन्वशासञ्च मुदितस्तदा प्रमुदिताः प्रजाः॥१०॥

कस्यचित्त्वथ कालस्य स राजा जनमेजयः ।
दीक्षितो वाजिमेधेन विधिवद्‌भूरिदक्षिणः॥११॥

संज्ञप्तमश्वं तत्रास्य देवी काश्या वपुष्टमा ।
संविवेशोपगम्याथ विधिदृष्टेन कर्मणा॥१२॥

संज्ञप्तं मारितं संविवेश तत्समीपे उपविष्टा॥१२॥

तां तु सर्वानवद्याङ्गीं चकमे वासवस्तदा ।
संज्ञप्तमश्वमाविश्य तया मिश्रीबभूव सः॥१३॥

मिश्रीबभूव मिथुनीबभूव॥१३॥

तस्मिन्विकारे जनिते विदित्त्वा तत्त्वतश्च तत् ।
असंज्ञप्तोऽयमश्वस्ते ध्वंसेत्यध्वर्युमब्रवीत्॥१४॥

असंज्ञप्तः मरणमप्राप्तः अब्रवीद्राजा॥१४॥

अध्वर्युर्ज्ञानसम्पन्नस्तदिन्द्रस्य विचेष्टितम् ।
कथयामास राजर्षेः शशाप स पुरन्दरम्॥१५॥

जनमेजय उवाच। यद्यस्ति मे यज्ञफलं तपो वा रक्षतः प्रजाः ।
फलेनानेन सर्वेण ब्रवीमि श्रूयतामिदम्॥१६॥

अद्यप्रभृति देवेन्द्रमजितेन्द्रियमस्थिरम् ।
क्षत्रिया वाजिमेधेन न यक्ष्यन्तीति शौनक॥१७॥

ऋत्विजश्चाब्रवीत्क्रुद्धः स राजा जनमेजयः ।
दौर्बल्यं भवतामेतद्यदयं धर्षितः क्रतुः॥१८॥

विषये मे न वस्तव्यं गच्छध्वं सह बान्धवैः ।
इत्युक्तास्तत्यजुर्विप्रास्तं नृपं जातमन्यवः॥१९॥

अमर्षादन्वशासच्च पत्नीशालागताः स्त्रियः ।
राजा परमधर्मज्ञस्तामसौ जनमेजयः॥२०॥

अन्वशासत् आज्ञप्तवान्॥२०॥

असतीं वपुष्टमामेतां निर्यातयत मे गृहात् ।
यया मे चरणौ मूर्ध्नि पातितौ रेणुगुण्ठितौ॥२१॥

आज्ञामेवाह- असतीमिति॥२१॥

शौण्डीर्यं मेऽनया भन्नं यशो मानश्च दूषितः ।
न चैनां द्रष्टुमिच्छामि परिक्लिष्टामिव स्नजम्॥२२॥

शौण्डीर्यं माहात्म्यम्॥२२॥

न स्वादु सोऽश्नाति नरः सुखं स्वपिति वा रहः ।
अन्वास्ते यः प्रियां भार्यों परेण मृदितामिह॥२३॥

पुनर्नैवोपभुञ्जन्ति श्वावलीढं हविर्यथा ।
एवमुच्चैः प्रभाषन्तं क्रुद्धं पारीक्षितं नृपम् ।
गन्धर्वराजः प्रोवाच विश्वावसुरिदं वचः॥२४॥

विश्वावसुरुवाच। त्रियज्ञशतयज्वानं वासवस्त्वां न मृष्यते ।
अप्सरास्तेन पत्नी ते विहितेयं वपुष्टमा॥२५॥

रम्भानामाप्सरा देवी काशिराजसुता मता ।
सैषा योषिद्वरा राजन्रत्नभूतानुभूयताम्॥२६॥

यज्ञे विवरमासाद्य विघ्नमिन्द्रेण ते कृतम्॥२७॥

यज्वा ह्यसि कुरुश्रेष्ठ समृद्ध्या वासवोपमः ।
बिभेत्यभिभवाच्छक्रस्तव क्रतुफलैर्नृप ।
तस्मादावर्तितश्चैव क्रतुरिन्द्रेण ते विभो॥२८॥

आवर्तितः विघ्नितः॥२८॥

मायैषा वासवेनेह प्रयुक्ता विघ्नमिच्छता ।
क्रतोर्विवरमासाद्य संज्ञप्तं दृश्य वाजिनम्॥२९॥

रतिमिन्द्रेण रम्भायां मन्यसे यां वपुष्टमाम् ।
अथ ते गुरवः शप्तास्त्रियज्ञशतयाजिनः॥३०॥

ते त्वया॥३०॥

भ्रंशितस्त्वं च विप्राश्च बलादिन्द्रसमादिह ।
त्वत्तश्चैव सुदुर्धर्षास्त्रियज्ञशतयाजिनः॥३१॥

बिभेति हि सदा त्वत्तो ब्राह्मणेभ्योऽपि वासवः ।
एकेन वै तदुभयं तीर्णं शक्रेण मायया॥३२॥

स एष सुमहातेजा विजिगीषुः पुरन्दरः ।
कथमन्यैरनाचीर्णं नप्तुर्दारानविक्रमेत्॥३३॥

नप्तुः पौत्रस्य। अविक्रमअदित्यत्राविरित्युपसर्गः। अ इति निपातो वा॥३३॥

विश्वावसुरुवाच। यथैव हि परा बुद्धिः परो धर्मः परो दमः ।
यथैव परमैश्वर्यं कीर्तितं हरिवाहने ।
तथैव त्वयि दुर्धर्षे त्रियज्ञशतयाजिनि॥३४॥

मा वासवं मा च गुरुमात्मानं मा वपुष्टमाम् ।
गच्छ दोषेण कालो हि सर्वथा दुरतिक्रमः॥३५॥

ऐश्वर्येणाश्वमाविश्य देवेन्द्रेणासि रोषितः ।
आनुकूल्येन देवस्य वर्तितव्यं सुखार्थिना॥३६॥

दुस्तरं प्रतिकूलं हि प्रतिस्रोत इवाम्भसः ।
स्त्रीरत्नमुपभुङ्क्ष्वेमामपापं विगतज्वरः॥३७॥

अपापास्त्यज्यमाना वै त्यजेयुरपि योषितः ।
अदुष्टास्तु स्त्रियो राजन्दिव्यास्तु सविशेषतः॥३८॥

अदुष्टाः अल्पदोषा इत्यर्थः॥३८॥

भानोः प्रभा शिखा वह्नेर्वेदी होत्रे तथाहुतिः ।
परामृष्टाप्यसंसक्ता नोपदुष्यन्ति योषितः॥३९॥

परामृष्टाप्यसंसक्ता दूषिताप्यदूषितेत्यर्थः॥३९॥

ग्राह्या लालयितव्याश्च पूज्याश्च सततं बुधैः ।
शीलवत्यो नमस्कार्याः पूज्याः श्रिय इव स्त्रियः॥४०॥

॥इति श्रमिन्महाभारते खिलेषु हरिवंशे भविष्यपर्वणि विश्वावसुवाक्ये पञ्चमोऽध्यायः॥५॥
एतद्ग्रन्थश्रवणफलम्

सौतिरुवाच। एवं स विश्वावसुनाऽनुनीतः प्रसा‌दमागम्य वपुष्टमायाः ।
चकार मिथ्या व्यतिशङ्कितात्मा शान्ति परां मानवधर्महृष्टाम्॥१॥

सौतीति। मिथ्याव्यतिशङ्कितात्मा निर्निमित्तं षितचिदूत्त॥१॥

श्रममभिविनिवर्त्यमानसं स समभिलषज्जनमेजयो यशः स्वम् ।
विषयमनुशशास धर्मबुद्धिर्मुदितमना रमयन्वपुष्टमां ताम्॥२॥

न हि विरमति विप्रपूजनान्न च विनिवर्तति यज्ञदानशीलात् ।
न विषयपरिरक्षणाच्च्युतोऽभून्न च परिगर्हति तां वपुष्टमां च॥३॥

विधिविहितमशक्यमन्यथा हि कर्तुं यदृषिरचिन्त्यतया पुराऽब्रवीत्सः ।
इति स नृपतिरात्मवांस्तदासौ तदनु विचिन्त्य बभूव वीतमन्युः॥४॥

विधिविहितमिति पादेऽक्षरत्रयाधिक्यमार्षम्॥४॥

इदं महाकाव्यमृषेर्महात्मनः पठन्नृणां पूज्यतमो भवेन्नरः ।
प्रकृष्टमायुः समवाप्य दुर्लभं लभेच्च सर्वज्ञफलं च केशवम्॥५॥

शतक्रतोः कल्मषविप्रमोक्षणं पठन्निदं मुच्यति कल्मषान्नरः ।
तथैव कामान्विविधान्समश्नुते ह्यवाप्तकामश्च चिराय नन्दति॥६॥

यथा हि पुष्पप्रभवं फलं द्रुमाः फलात्प्रजायन्ति पुनश्च पादपाः ।
तथा महर्षिप्रभवा इमा गिरः प्रवर्धयन्ते तमृषिं प्रवर्धिताः॥७॥

वटादुत्पन्नं फलं वटान्तरं वधयति तथा व्यासादुत्पन्नोऽयं ग्रन्थस्तु व्यासमेव वर्धयतीत्याश्चर्यमिति भावः॥७॥
बन्धनं संसारं क्रमेण वर्धयतीत्याश्चर्यमिति भावः॥७॥

पुत्रानपुत्रो लभते सुवर्चसश्च्युतः पुनर्विन्दति चात्मनः स्थितिम् ।
व्याधिं न चाप्नोति चिरं स बन्धनं क्रियां च पुण्यां लभते गुणान्वितः॥८॥

पतिमभिलभते च सत्सु कन्या श्रवणमपेत्य शुभा मुनेस्तु वाचः ।
जनयति च सुतान्गुणैरुपेतान्स्वजनहिते द्विषतां प्रमर्दनं च॥९॥

विजयति वसुधां च राजवृत्तिर्धनमतुलं लभते द्विषज्जयं च ।
विपुलमपि धनं लभेच्च वैश्यः सुगतिमियाच्छ्रवणाच्च शूद्रजातिः॥१०॥

पुराणमेतच्चरितं महात्मनामधीत्य बुद्धिं लभते च नैष्ठिकीम् ।
विहाय दुःखानि विमुक्तसङ्गः स वीतरागो विचरेद्वसुन्धराम्॥११॥

इत्येतदाख्यानमुदाहृतं वै प्रतिस्मरन्तो द्विजमण्डलेषु ।
स्थैर्येण धैर्येण पुनः स्मरन्तः सुखं भवन्तोऽनुचरन्तु लोकम्॥१२॥

इति चरितमिदं महात्मनामृषिकृतमद्भुतवीर्यकर्मणाम् ।
कथितमिदं हि समासविस्तरैः किमपरमिच्छसि किं ब्रवीमि ते॥१३॥

इच्छसि श्रोतुमिति शेषः॥१३॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि भविष्यान्तग्रन्थार्थप्रकाशो नाम षष्ठोऽध्यायः॥६॥
पुष्करप्रादुर्भावः

जनमेजय उवाच। प्रभावं पद्मनाभस्य स्वपतः सागराम्भसि ।
पुष्करे वै यथोद्भूता देवाः सर्षिगणाः पुरा॥१॥

श्रीमद्गोपालमानम्य व्याकुर्वे पुष्करोद्भवम्। ख्यातश्चतुर्धरः शिक्षानयप्रणयसंयमैः॥१॥ उत्तानेषु न कोशविग्रहबलं पद्येषु यत्र श्रितं गम्भीरेषु न सेतवो न विहिताः कूटा न न स्फोटिताः॥ न च्छिन्ना न तमश्चराननततिर्भक्ता न नाह्लादिता नो दीनाश्च विभीषणा न विहिताः श्रीलक्ष्मणार्यश्रितैः॥२॥ कस्त्र्यम्बकमृते कालकूटाभं पुष्करोद्भवम्। कण्ठे कर्तुं क्षमो लोके कामजित्पुरुषात्तमः॥३॥ तत्र तावदिह “वक्तुमर्हसि धर्मज्ञो यशो नारायणात्मकम्” इति “न तस्येशे कश्चन यस्य नाम महद्यंशः, तस्मिन् यशो निहितं विश्वरूपम्” इति श्रुतिप्रसिद्धस्य नारायणात्मकस्य यशःशब्दितस्य वक्तव्यत्वेनेापक्रमात् “अधीत्य सर्वमध्यात्मदेवलोके महयिते।” इत्युपसंहारेण चास्य कृत्स्नस्य वाक्यसन्दर्भस्य षड्विंशत्यध्यायसंमितस्य ब्रहापरत्वं निश्चीयते। यत्त्विह जगदुद्भवादिकमुक्तं तत् ‘फलवत्सन्निधावफलं तदङ्गम्’ इति न्यायेन महावाक्यं प्रतिपाद्य ब्रह्माद्वैतप्रतिपत्त्यर्थमेव। ये चात्र एकार्णववद्देवासुररादिशब्दास्तेऽपि यथा, “अजामेकां लोहितशुक्लकृष्णाम्, द्वा सुपर्णा सयुजा सखाया” इत्यादिश्रुतिषुः मेषीशकुन्यादिवृत्तान्तकथनमुखेन ब्रह्मत्वं निरूपितम्। तथा निर्विशेषचिन्मात्रशमकामादिचेतोवृत्तिविशेषपरतया व्याख्येयाः। “सलिल एको द्रष्टाद्वैतो भवति” “द्वयाह प्राजापत्या देवाश्चासुराश्च” इत्यादिश्रुतिष्वपि अनयैव भङ्ग्या ब्रह्मतत्त्वनिरूपणदर्शनात्। एवं चैकार्णवादिशब्दानां सलिलादिश्रुतिसमानार्थत्वेन तयोर्मूलमूलिभावे सम्भवति खण्डप्रलयपरतया तद्व्याख्यानमसत्स्वप्याकाशादिषु जलधातुमात्रस्य सद्भावसम्भवात्तत्पौर्वापर्यविरोधादुपेक्ष्यम्। एवं चात्र- “एकार्णवं विशुद्धा चिद्विष्णुरव्याकृतं नभः। पुष्करं द्विविधं कार्यं शमकामौ सुरासुरौ॥ अनयैव दिशाध्यात्ममाधिदैविकरूपकैः। निरूपितं पुराणेषु पूर्वेष्वपि न संशयः॥ पुष्करं पुष्करप्रादुर्भावे तदिह दृश्यते। अतस्तद्वयाख्यया सर्वं पुराणं व्याकृतं भवेत्॥ विद्याधिकारावगतावश्वमेधादिकेष्विह। इन्द्रवृत्रादयः शब्दा आत्ममोहपराः कृताः॥ अत्रापि ब्रह्मणस्तद्वत्पारोक्ष्येण निरूपणम्। चक्रे दुर्जनचोरेभ्यस्तत्त्वरत्नं सुरक्षितुम्॥ अनयैव दिशा वेदे ज्ञेयं वृत्र वधादिकम्।” इत्याशयेन भगवान्व्याख्यत्पारोक्ष्यतत्परम्॥” पुष्करप्रादुर्भावेऽध्यात्मविद्यास्वरूपेणाधिदैविकादिरूपकेण च दर्शितां यथामति व्याकुर्मः। तत्र पूर्वं भविष्ये संसारिणामत्युल्बणां गतिं श्रुत्वा अत्यन्तमुद्विग्नः ‘तरति शोकमात्मवित्’ इति श्रुतेः “नान्यः पन्था विद्यतेऽयनाय” इति श्रुतेश्चात्मज्ञानादन्यच्छ्रेयः- साधनमपश्यन् तदेव सविस्तरं जिज्ञासमानो जनमेजय उवाच- प्रभावं पद्मनाभस्येत्यादि॥ पद्मनाभस्य प्रभावमाख्याहीति सम्बन्धः। पद्मं कृत्स्नकार्यप्रपञ्चः स नाभौ गर्भे यस्य सः मायोपाधिरीश्वरः। तस्य प्रभावं सृष्ट्यादि- सामर्थ्यं कथयेत्यर्थः। किम्भूतस्य पद्मनाभस्य? सागराम्भसि स्वपतः सागरवदनन्तमपारं च अम्भ इवाम्भः “एकं रसं महद्भूतमनन्तमपारं, सलिल एको द्रष्टाद्वैतो भवति” इत्यादिश्रुतिप्रसिद्धं ब्रह्म न तु प्राकृतसमुद्राम्भः। “नष्टानलानिले लोकेः नष्टाकाशमहीतले” इति वाक्यशेषे तत्कारणस्याग्न्यादेरपि नाशे तदवस्थानायोगात्। तस्मिन्सागराम्भसि “शुद्धे ब्रह्मणि स्वपतः स्वपितो भवति। तस्मादेनं स्वपितीत्याचक्षते” इति स्वपितिनामनिर्वचनात् “ईश्वरग्रासस्तुरीयतुरीयः, अव्यक्तं पुरुषे ब्रह्म निष्फले सम्प्रलीयते।” इति श्रुतिस्मृत्योरीश्वराव्यक्तशब्दितस्य मायाविनः शुद्धे लयोपलम्भात्स्वं निजं मायातीतं रूपं पतति गच्छतीति स्वपन् तस्य स्वपत इति योगेन निष्कले ब्रह्मणि कैवल्ये समाधौ वा लीयमानस्य मायाविनः प्रभावं ब्रूहीति मुख्यः प्रश्नः। पुष्करे ब्रह्माण्डे देवा ऋषयश्च कथमुत्पन्ना इति वा। “व्योम पुष्करमम्बरम्” इति पुष्करशब्दस्य व्योमवाचित्वेन व्योमपर्यायाणां च प्रायेण, “खं ब्रह्म अमृतं दिवि परमे व्योमन्” इत्युपनिषत्स्वव्याकृताकाशे प्रसिद्धेः। पुष्कराख्ये तस्मिन्दवर्षयः इन्द्रियप्राणाः सूत्रात्मेति यावत्कथमुत्पन्न इति द्वितीयः प्रश्नः॥१॥

एतदाख्याहि निखिलं योगं योगविदां पते ।
शृण्वतस्तस्य मे कीर्तिं न तृप्तिरभिजायते॥२॥

योगं सूत्रे संशुद्धानामधिगमोपायम् आख्याहीति तृतीयः प्रश्नः ॥२॥

कियन्तं चैव कालं वै शयिता पुरुषोत्तमः ।
किमर्थं शयते कालं तस्य कालस्य सम्भवः॥३॥

“नो व्योमापरो यत्, तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम।” इति श्रुतिस्मृत्योर्विशेषणीभूतमायातिरोधानप्रादुर्भावाभ्यां सृष्टेः प्रागूर्ध्वं च तद्धेतोर्मायाविनः स्थितिकालावधिं पृच्छति- कियन्तमिति। स्थित्वेति शेषः। शयितेति लुडन्तम्। शयनं करिष्यतीत्यर्थः। कियता चैव कालेन स शेते इति पाठे तु महानपि कालो भोगलुब्धानाम् अल्प एवेत्यभिप्रेत्य “वर्तमानसामीप्ये वर्तमानवद्वा” इति शेते इति लट् प्रयुक्तः। तृतीयं पृष्ट्वा चतुर्थं पृच्छति- किमर्थमिति। कालस्य सम्भवो योनिः सन् काले किमर्थं शेते परिमितकालावेव सृष्टिप्रलयौ कुतः करोति। प्रवाहनित्यां वा सृष्टिं कुतो न करोतत्यिर्थः। कालमिति द्वितीयाऽत्यन्तसंयोगे। शयत इति शपोऽलुगार्षः। श्रयत इति पाठः स्वच्छः। स्वपते इति पाठे स्वपितीत्यर्थः। आत्मनेपदं चार्षम्॥३॥

कियता चैव कालेन प्रबुध्यति सुराधिप ।
कथमुत्थाय भगवानसृजन्निखिलं जगत्॥४॥

लयकालावधिं पृच्छति- कियतेति। एवं कियन्तमित्यादिना सार्धश्लोकेन स्वपत इति प्रथमश्लोकपदार्थं विविच्य पृष्ट्वा यथोद्भूता इत्यपि तथैव पृच्छति सार्धेन- कथमिति। कूटस्थस्य। द्वितीयस्य कथमुपादानत्वं युज्येतेत्यर्थः॥४॥

के प्रजापतयस्तात आसन्पूर्वं महामुने ।
कथं निर्मितवांश्चैव चित्रं लोके सनातनः॥५॥

एतदेवाह- सनातनः सर्वदैकरूपः कूटस्थ इत्यर्थः॥५॥

एवमेकार्णवे लोके नष्टे स्थावरजङ्गमे ।
नष्टे देवासुरगणे प्रनष्टोरगराक्षसे॥६॥

अद्वितीयत्वमाह- एवमिति द्वाभ्याम्। एकार्णवे शुद्धचिन्मात्रे लोके। “आत्मानमेव लोकमुपासीत” इत्यात्मानि लोकशब्दस्य श्रौतप्रसिद्धेः। लोके नष्ट इत्यधिकरणे सप्तम्यौ। चिदात्मनि स्थावरादावदर्शनं गते सतीत्यर्थः॥६॥

नष्टानलानिले लोके नष्टाकाशमहीतले ।
केवलं गह्वरीभूते महाभूतविपर्यये॥७॥

एतेन योगमाख्याहीति तृतीयप्रश्ने योगशब्दार्थो विवृतः। एतदेवोपसंहरति- केवलमिति। गह्वरं नैघण्टुप्रसिद्ध्याकाशं न शून्यमिति तेन लक्ष्यते। गह्वरमिति त्रिविधभेदशून्यत्वाद्गह्वरीभूते इत्यभूततद्भावार्थस्य च्वेः प्रयोगः। शून्यतुलां दधत इत्युक्तं श्रीभागवते वेदस्तुतौ। महाभूतानि वियदादीनि तेषां विपर्ययः प्रलयो यस्मिंस्तस्मिन्नेकार्णवे सतीत्यर्थः॥७॥

प्रभूर्महाभूतपतिर्महातेजा महाततिः ।
आस्ते सुरगुरुश्रेष्ठो विधिमादाय कं मुने॥८॥

प्रभुरिति। प्रभुश्चिदात्मा कां विधिं नियतिम्। “भाग्यं स्त्री नियतिर्विधिः” इति साहचर्याद्विधिशब्दस्य स्त्रीत्वम्। प्रभुः किमदृष्टरूपं सहायमादाय आश्रित्य महाभूतपतिर्वियदादिस्रष्टा ईशः, महातेजा इति समष्टिस्तैजसः सूत्रात्मा, महाततिरिति अत्यन्तविस्तृतो विराट् च भूत्वा आस्ते। सुराः महदाद्यास्तेषां गुरुरीशः तस्यापि श्रेष्ठ इति विभोर्विशेषणम्॥८॥

तन्मे त्वमुपपन्नाय ब्रह्मन्नेतदसंशयम् ।
वक्तुमर्हसि धर्मिष्ठ यशो नारायणात्मकम्॥९॥

“अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते।” इति न्यायमाश्रित्य हि ब्रह्माद्वैतं प्रसाध्यम्। तच्चाध्यारोपस्यैव दुर्वचनत्वादनुपपन्नम्। त्वया च असकृत्तदेवोपपादितमतः संशयाविष्टस्य भे निःसंशयं ज्ञानं यथा स्यात्तथा वक्तुमर्हसीत्याह- तन्मे त्वमिति। उपपन्नाय योग्याय। यशो नारायणात्मकम्। नरोऽविद्यावच्छिन्नं ब्रह्म, तेन स्वात्मनि कल्पितम्, ईशसूत्रविराडन्तं नारं तस्य समूलस्य अयनं स्थानं नारायणः शुद्धं वस्तु तदात्मकं यशः वैभवविलासः ईशादिघटान्तः तं वक्तुमर्हसीति सम्बन्धः। “अशेर्देवने युट् च” इति अशेरसुन्प्रत्यये युट्। एतेन “अनन्तरेऽबाह्यः कृत्स्नः प्रज्ञानघनः।” इति श्रुतिप्रसिद्धं सबाह्याभ्यन्तरं शुद्धं चिन्मात्रं नारायणरूपमिति सर्वत्र श्रुतं तदुपपत्तिपूर्वकं व्युत्पादयेति सूचितम्॥९॥

प्रादुर्भावं पुरस्कृत्य भूतं भव्यं महात्मनः ।
श्राद्धानामुपविष्टानां भगवन्वक्तुमर्हसि॥१०॥

भूतं विद्वद्दृष्ट्या नित्यसिद्धप्रादुर्भावम् अधिष्ठानातिरेकात् मूढदृष्ट्या भव्यम् उत्पद्यमानम्। श्रद्धा विद्यते येषां ते श्राद्धाः। “प्रज्ञाश्रद्धार्चाभ्यो णः” इति मत्वर्थीयो णः॥१०॥

वैशम्पायन उवाच। नारायणयशोज्ञाने या भवेद्भवतः स्पृहा ।
त्वद्वंशानधपूतस्य कार्यं कुरुकुलर्षभ॥११॥

प्रष्टारं प्रोत्साहयन् वैशम्पायन उवाच- नारायणयेति। हे अनघ! हे कुरुकुलर्षभ! नारायणात्मकयशोज्ञाने या भवतः स्पृहा भवेत्सा त्वद्वंशा त्वद्वंशे उचिता। विभक्तधनेषु भ्रातृषु विभक्ता इतिवदुत्तरपदलोपः। सा स्पृहा पूतस्य यज्ञाद्यनुष्ठानस्य कार्यं फलम्। “तमेवं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन” इति श्रुतेः। भूतस्येति पाठे लब्धजन्मन इदमेव कार्यं करणीयं यद्भगवद्विचारोऽन्यथा निष्फलं जन्मेत्यर्थः॥११॥

शृणुष्वादिपुराणेभ्यो देवताभ्यो यथाश्रुति ।
ब्राह्मणानां च वदतां श्रुतोऽस्माभिर्महात्मनाम्॥१२॥

श्रुतिम् उपनिषद्वाक्यम् अनतिक्रम्येति यथाश्रुति। श्रुतः पद्मनाभस्य प्रभाव इति पृष्टस्य विशेष्यस्यानुकर्षः॥१२॥

तथा च तपसा दृष्टो बृहस्पतिसमद्युतिः ।
पाराशर्यस्ततः श्रीमान्गुरुर्द्वैपायनोऽब्रवीत्॥१३॥

तपसा पुण्येन दृष्टो मयेति शेषः। दृष्ट्वेति पाठे तपसा ध्यानेन दृष्ट्वा पद्मनाभस्य प्रभावमिति पूर्ववत् पृष्टानुकर्षः॥१३॥

तत्तेऽहं सम्प्रवक्ष्यामि यथाप्रज्ञं यथाश्रुतम् ।
न विज्ञातुं मया शक्यमृषिमात्रेण भारत॥१४॥

तत्तेऽहं यद्देवतादिभ्यः श्रुतं यच्च द्वैपायनेनोकं तद्बाहुल्यात् सर्वं बोद्धुमशक्यमित्याशयेनाह- यथाप्रज्ञमिति। यथाश्रुतं विज्ञातुं विशेषेण ज्ञातुं मया न शक्यम्। ऋषिर्मन्त्रद्रष्टा तन्मात्रेण। “सोऽहं भगवतो मन्त्रविदेवास्मिनात्मविद्” इति छान्दोग्ये सनत्कुमारं प्रति वदता नारदेनेवेत्यर्थः॥१४॥

कः समुत्सहते ज्ञातुं परं नारायणात्मकम् ।
विश्वात्मनोऽयं ब्रह्माऽपि न वेदयति तत्त्वतः॥१५॥

परं पुरुषं नारायणात्मकं शुद्धचिदात्मकं यं पुरुषं ब्रह्माऽपि वेदोऽपि विश्वात्मनः साकल्यात् सर्वात्मना मुख्यवृत्त्येति यावत्, न वेदयते। “यतो वाचो निवर्तन्ते” इति श्रुतेः । कार्त्स्न्येन न वेदयते किं तु भागलक्षणया तु वेदयत इवेत्यर्थः॥१५॥

श्रुतं मे विश्वदेवानां यद्रहस्यं महर्षिणाम् ।
तदिदं सर्वदेवानां तत्त्वतस्तत्त्ववादिनाम्॥१६॥

श्रुतं मे मयां विश्वेषां देवानां महर्षिणां च। ह्रस्वत्वमार्षम्। यद्रहस्यं गोप्यं तत् इदम् इदमेव यत्त्वया पृष्टं नारायणात्मकं यशः। कीदृशानां विश्वेदेवानां तत्त्वतः अनारोपितरूपेण सर्वं देव आत्मैव येषां ते सर्वदेवास्तेषाम्। “सर्वं खल्विदं ब्रह्मेदं सर्वं यदयमात्मा” इति श्रुतेः। अत एव कृपया शिष्यान्प्रति तत्त्ववादिनां तत्त्वमेव वक्तुं शीलं येषां तेषाम्॥१६॥

तदध्यात्मविदां चिन्त्यं कारणं चैव कर्मिणाम् ।
अधिदैवं च यद्दैवं तद्दैवमिति संज्ञितम्॥१७॥

कारणं प्रवर्तकं यत्तद्दैवं देवानां विदुषामिदं दैवम् अधि अधिकं दैवं महाभाग्यं ज्ञानाख्यम्। “यद्देवानां दैवं तदश्रवै तदाप्तवानिति; एषास्य परमा सम्पत्” इति श्रुतेः। तद्वस्तु दैवमदृष्टमिति संज्ञितं सर्वेषां सुखकरं भाग्यम्। “एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजविन्ति” इति श्रुतेः॥१७॥

यद्भूतमधिभूतं च यत्परं च महर्षिणाम् ।
यत्सत्यं देवदृष्टं च यत्तद्वेदविदो विदुः॥१८॥

अध्यायशेषेण अनुवादमुखेन प्रश्नानां क्रमेण संक्षिप्योत्तराण्याह- यद्भूतमित्यादिना। भूतम् अनादि अनादित्वं व्यवहारे मायायामप्यस्तीत्यत उक्तम् अधिभूतं सर्वेषु तेषु सद्रूपेणानुस्यूतम्, अनन्तमित्यर्थः। जाड्यरूपेण मायाऽपि सर्वत्रानुस्यूतेत्यत उक्तं- परमिति। महर्षिणां महर्षीणां ज्ञेयतयेति शेषः। परमुत्कृष्टं जडस्य परत्वायोगात्, परत्वं मायोपाधिक्येऽप्यस्तीत्यत उक्तं- सत्यमिति। मायया बाधितत्वेन तस्यापि बाधितत्वादसत्यत्वं सत्यमप्यचिद्रूपं चेत्तत्राह- देवदृष्टं देवश्चक्षुरादि प्रत्यक्षं तस्यापि दृष्टं प्रत्यक्षम्। “न दृष्टेर्द्रष्टारं पश्ये, प्राणस्य प्राणमुत चक्षुषश्चक्षः” इत्यादिश्रुतेः। ज्ञानमात्रस्वरूपमित्यर्थः। वेदं “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादि विदन्ति ते वेदविदो विदुः। एतेन सागराम्भोरूपं शुद्धमुक्तम्॥१८॥

यः कर्ता कारको बुद्धिर्मनः क्षेत्रज्ञ एव च ।
प्रधानं पुरुषः शास्ता एकस्त‌द्भिशब्द्यते॥१९॥

अस्य तटस्थलक्षणमाह- य इति। कर्ता वियदादेः। कारको हिरण्यगर्भद्वारा भौतिकस्य। बुद्धिर्मनः इति महदहङ्काररूपत्वमुक्तम्। क्षेत्रज्ञ इति। साक्षिमात्रेण द्रष्टृत्वम्। एतेन पद्मनाभप्रभाव उक्तः। उक्तेऽर्थे- “भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म एतत्।” इति श्रुतिं प्रमाणयन्योगमाह- प्रधानमिति। प्रधानं जडम्। पुरुषो जीवः। शास्ता ईशः। एतत्त्रितयम् एक एव परमात्मेति॥१९॥

कालः कालं स्वपयति द्रष्टा स्वाधीन एव च ।
प्राणः पञ्चविधश्चैव ध्रुवमक्षय एव च॥२०॥

तृतीयं प्रश्नोत्तरं कियन्तमित्यादिना सार्धश्लोकेन ईश्वरस्य कालाधीनत्वं चोदितं तन्निराचष्टेऽर्धेन- काल इति। कालं स्वपयति स्वापयति कालस्यापि काल इत्यर्थः। अत एव स्वाधीनो न तु कालाधीनः। कथमुत्थायेत्यादिना साधन कार्यसृष्टिः पृष्टा तत्रोतरमाह- प्राण इत्यादिना सार्धद्वयेन॥२०॥

उच्यते विविधैर्भावैस्तस्यैवानघ तत्परैः ।
स एव भगवान्सर्वं करोति विकरोति च॥२१॥

हे अनघ! यत् ध्रुवम् अविनाशि अत एव अक्षयः ह्रासशून्यः स एव प्राणवृत्तिभेदेन पञ्चविधः। तत्परैः प्राणोपास्तिपरैः विविधैर्भावैः प्राणादिकार्यभेदैर्हेतुभिरुच्यते। स एव च सर्ववियदादि करोत्युत्पादयति। किमुपादानान्तरमपेक्ष्य? नेत्याह- विकरोति च, माययैवात्मानं परिणमयतीत्यर्थः॥२१॥

योस्मान्कारयते कर्म तेनास्म व्याकुलीकृताः ।
यजामहे तमेवेशं तमेवेच्छाम निर्वृताः॥२२॥

योऽस्मान् कर्म कारयते। “एष ह्येव साधु कर्म कारयति” इत्यादिश्रुतेः। तेनैव च वयं व्याकुलीकृताः विधिनिषेधगहने पातिताः सन्त आस्म आस्महे। “अनुदात्तेत्वलक्षणमात्मनेपदमनित्यम्” चक्षिङो ङित्करणात् ज्ञापकात्। तेन “आस उपवेशने” अस्मात्परस्मैपदेऽपि आस्मेति साधु। यतस्तेन व्याकुलीकृताः अतस्तमेव यजामहे यज्ञैः इच्छाम। प्रार्थनायां लोडुत्तमबहुवचनम्। निर्वृताः शान्ताः सन्तः॥२२॥

यो वक्ता यश्च वक्तव्यो यश्चाहं तद्ब्रवीमि वः ।
इदं शृणुत यच्छ्रेयो यच्चान्यत्परिजल्पथ॥२३॥

सर्वं चिन्मात्रमेवेत्याह द्वाभ्याम्- यो वक्तेति। वक्ता वाचः प्रवर्तकः वक्तव्योऽर्थः। अहं वक्तृत्वाभिमानी जीवः। यत् इदं शृणुत श्रवणक्रिया। यत् श्रेयो मोक्षः यच्चान्यत्स्वर्गादि प्रब्रूत नानाविकल्परूपम्॥२३॥

याः कथाश्चैव वर्तन्ते श्रुतयो वाथ गह्वराः ।
विश्वं विश्वपतिर्देवाः सर्वं नारायणात्मकम्॥२४॥

कथाः भूतार्थवादाः गह्वराः रहस्यप्रतिपादकाः, विश्वं पाल्यं, विश्वपतिः पालकः, देवाः करणानि, सर्वं तत् नारायणात्मकमिति वः युष्मान्प्रति ब्रवीमीति सम्बन्धः॥२४॥

यत्सत्यं यदनृतमाहिमक्षरं वै यद्भूतं भवति मिथश्च यद्भविष्यम् ।
यत्किञ्चिच्चरमचराव्ययं त्रिलोके तत्सर्वं पुरुषवरः प्रभुर्वरिष्ठः॥२५॥

एतदेवोपसंहरति- यत्सत्यमिति। सत्यानृते लौकिके, आदिमम् आदौ भवं कारणं क्षरं च कार्यं तदुभयात्मकं, भूतम् अतीतं, मिथश्च भवति परस्परजनकं, बीजाङ्कुरादि, भविष्यमनागतं, चरं परिणामि अचरं कूटस्थं, वरिष्ठः नारायणः, वरीयान् ईशः, वरः समष्टिजीवः, अपरो व्यष्टिजीवः, कल्पितानेतानपेक्ष्य वरिष्टत्वं शुद्धस्य प्रभोरिति भावः॥२५॥
॥इति श्रीमन्महाभारते खिलेषु हरिवंशे भविष्यपर्वणि पुष्करप्रादुर्भावे सप्तमोऽध्यायः॥७॥
कृतादियुगपरिमाणम्

वैशम्पायन उवाच। चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् ।
तस्य तावच्छती सन्ध्या द्विगुणा जनमेजय॥१॥

ज्ञानसाधनवैराग्यसिद्धये पुत्तिकादिवत्। ब्रह्मादेः क्षयितां वक्तुं युगमानमिहोच्यते॥१॥ चत्वारीति। तावच्छती चतुःशती द्विगुणा अष्टौ शतानि युगसन्ध्या। तस्यां पूर्वोत्तरयुगयोर्धर्मा मिश्रीभवन्तीत्यर्थः। एतानि देवमानेन अष्टशताधिकानि चत्वारि सहस्राणि सौरमानेन साष्टाविंशतिसहस्री सप्तदशलक्षी वत्सराणां भवति। सावनमानेन तु प्रत्यब्दं पञ्च दिनानि पञ्चदश घटिका एकत्रिंशत्पलानि त्रिंशदक्षराणि च वर्धन्ते। तान्यपि एकराशौ संवत्सरत्रयस्पृशि गुरौ लुप्तसंवत्सरैर्हीयन्ते॥१॥

तत्र धर्मश्चतुष्पादो ह्यधर्मः पादविग्रहः ।
स्वधर्मनिरताः सन्तो यजन्ते चैव मानवाः॥२॥

तत्रेति। धर्मपादाः तपः शौचं दया सत्यं तैर्विग्रहो विरोधः स्मयसङ्गमदानृतपादवतो यस्य स पादविग्रहोऽधर्मः। धर्मेण निरुद्धपाद इत्यर्थः। यद्वा सर्वं युग चतुष्पादमपि सन्ध्यांशे उत्तरयुगधर्मसङ्क्रमात्पञ्चपादं भवतीति ध्येयम्। तेनाधर्मः पादविग्रहः। “द्वाभ्यामधर्मपादाभ्यां त्रिभिर्धर्मो व्यवस्थितः।” इत्यादिग्रन्थः ऋज्वर्थ एव। एवमपि सन्ध्याय पादार्धस्यैव सङ्क्रमात्सर्वं युगं सार्धचतुष्पादं स्यात्। इदमपि युगं तत्सन्ध्ययोः कालबहुत्वाल्पत्वाभ्यां न युक्तं पादाधिक्योक्तेः। पुराणान्तरविरोधादध्यात्मप्रकरणाच्चैवमिह प्रतीमः। फलाभिसन्धिना रहितो हिंसाशून्यो धमः कृतम्। तत्सहितस्त्रेता। दम्भेन कृतो द्वापरम्। धर्मलोपः कलिः। तत्र आद्ये फलेच्छाभावेऽपि कृतो धर्मः। “तद्यथा आम्रे फलार्थं निमित्तेच्छाया गन्ध इत्यनूत्पद्येते। एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते” इत्यपस्तम्बोक्तेः फलं ददात्येव। तत्र च हीनसम्पत्पुरुषो बहुसम्पदमन्यं दृष्ट्वा स्वस्यानैश्वर्यं मन्वानो दुःखभाग्भवतीति। कृतेऽप्यधर्मरूपं दुःखमस्तीत्युक्तं कृतेऽप्यधर्मः पादविग्रह इति कृत्स्नधर्माधर्मनिर्मूलनक्षमं तत्त्वज्ञानमेव सम्पादनीयमित्याशयेन॥२॥

स्थिता धर्मपरा विप्रा राजवृत्तौ स्थिता नृपाः ।
कृष्यामभिरता वैश्याः शूद्राः शुश्रूषवस्तथा॥३॥

सदा सत्यं तपश्चैव धर्मश्चैव विवर्धते ।
सद्भिराचरितं यच्च क्रियते ख्यायते च यत्॥४॥

ख्यायते उपदिश्यतेऽन्येभ्यः॥४॥

एतत्कृतयुगे वृत्तं सर्वेषामेव भारत ।
प्राणिनां धर्मबुद्धीनामपि चेन्नीचयोनिनाम्॥५॥

त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते ।
तस्य तावच्छती सन्ध्या द्विगुणा परिकीर्तिता॥६॥

त्रीणीति षट्शताधिकत्रिसाहस्री त्रेतायुगमानम्। एवमुत्तरत्रापि ज्ञेयम्॥६॥

द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः ।
तत्र सत्यं च सत्त्वं च कृते सर्वं प्रवर्तते॥७॥

त्रेतायां विकृतिं यान्ति वर्णा लौल्येन संयुताः ।
चातुर्वर्ण्यस्य वै कृत्याद्यान्ति दौर्बल्यमाश्रिताः॥८॥

धर्मलौल्येन धर्मफलस्पृहया अत एव चातुर्वर्ण्यस्य चतुर्वर्णधर्मस्य वैकृत्यात् वैकल्यात्॥८॥

एष त्रेतायुगविधिर्विहितो देवनिर्मितः ।
द्वापरस्यापि या चेष्टा तामपि श्रोतुमर्हसि॥९॥

द्वापरं द्वे सहस्त्रे तु वर्षाणां कुरुसत्तम ।
तस्य तावच्छती सन्ध्या द्विगुणा परिकीर्तिता॥१०॥

तत्राप्यर्थपरा विप्रा ज्ञानिनो रजसाऽऽवृताः ।
शठा नैष्कृतिकाः क्षुद्रा जायन्ते कुरुपुङ्गव॥११॥

द्वाभ्यां धर्मः स्थितः पद्भ्यामधर्मस्त्रिभिरुत्थितः ।
विपर्ययं शनैर्यान्ति कृते ये धर्मसेतवः॥१२॥

ब्राह्मण्यभावा नश्यन्ति तथास्तिक्यं विशीर्यते ।
व्रतोपवासास्त्यज्यन्ते द्वापरे युगपर्यये॥१३॥

द्वापरे युगपर्यये द्वापरान्ते कलिसाङ्कर्याद्व्रतादि त्यज्यत इत्यर्थः॥१३॥

तथा वर्षसहस्रं तु वर्षाणां द्वे शते तथा ।
सन्ध्यया सह सङ्ख्यातं क्रूरं कलियुगं स्मृतम्॥१४॥

तत्राधर्मश्चतुष्पादः स्याद्धर्मः पादविग्रहः ।
कामनिष्ठास्तमश्छन्ना जायन्ते तत्र मानवाः॥१५॥

नैवोपवासकृत्कश्चिन्न च साधुर्न सत्यवाक् ।
आस्तिको ब्रह्मवक्ता वा नरो भवति वै तदा॥१६॥

अहङ्कारगृहीताश्च प्रक्षीणस्नेहबान्धवाः ।
विप्राः शूद्रसमाचाराः शूद्रास्त्वाचारलक्षणाः॥१७॥

दूषकास्त्वाश्रमाणां च वर्णानां चैव सङ्कराः ।
अगम्येष्वभिरंस्यन्ते वर्तन्त्येवं कलौ युगे॥१८॥

एवं द्वादशसाहस्रं तदेकं युगमुच्यते ।
तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते॥१९॥

मन्वन्तरमिति। एतावता कालेनैको मनुर्नश्यतीत्यर्थः॥१९॥

त्रय्यां चैव न सन्देहो युगान्ते जनमेजय ।
दिव्यं द्वादशसाहस्रं युगं तु कवयो विदुः ।
एतत्सहस्त्रपर्यन्तं तदहो ब्राह्ममुच्यते॥२०॥

अत्र मानमाह- त्रय्यामिति। “तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते” इत्यादौ वेदेऽपि जनस्य स्थावरादिब्रह्मान्तस्य क्षयित्वं दृश्यत इत्यर्थः॥२०॥

ततोऽहनि गते तस्मिन्सर्वेषामेव देहिनाम् ।
शरीरनिर्वृतिं दृष्ट्वा लोकः संहारबुद्धिमान्॥२१॥

शरीरनिर्वृत्तिं शरीरसुखासक्तिम्॥२१॥

देवतानां च सर्वेषां ब्राह्मणानां महीपते ।
दैत्यानां मानवानां च यक्षगन्धर्वरक्षसाम्॥२२॥

ब्रह्मणो देवस्य वेधसे वा। ब्राह्मणानां महीपते इति पाठः। ब्रह्मलोकस्थानां दहराद्युपास्यब्रह्मविदाम्॥२२॥

देवर्षीणां ब्रह्मर्षीणां तथा राजर्षिणामपि ।
किन्नराणामप्सरसां भुजङ्गानां तथैव च॥२३॥

पर्वतानां नदीनां च पशूनां चैव भारत ।
तिर्यग्योनिगतानां च सत्त्वानां मृगपक्षिणास्॥२४॥

महाभूतपतिर्देवः पञ्चभूतानि भूतकृत् ।
जगत्संहरणार्थाय कुरुते वैशसं महत्॥२५॥

भौतिकसंहारमुक्त्वा भूतसंहारमपि निश्चाययति- महाभूतपतिरिति। पञ्चभूतानि वियदादीनि जगद्भौतिकं च संहरणार्थायैव कुरुते न पुरुषार्थाय। मशकादिवत्सर्ववस्तुनाशायैव जायते न क्वचित्किञ्चित्कस्यचित्सुखमस्तीत्यर्थः। अत एव महद्वैशसं बीभत्समेतदिति शेषः॥२५॥

भूत्वा सूर्यश्चक्षुषी चाददानो भूत्वा वायुः संहनन्प्राणिजातम् ।
भूत्वा वह्निर्दह्यते सर्वलोकान्मेघो भूत्वा भूय एवाभ्यवर्षत्॥२६॥

वैशसत्वमेवाह- भूत्वेति। दिनावसाने हि भगवान् सूर्यो भूत्वा लोकानां चक्षुरादीनि मुष्णाति। ततो वायुर्भूत्वा प्राणान्मुष्णाति। ततो वह्निर्भूत्वा शुष्ककर्पूरकल्पांस्तान्निःशेषीकरोति। ततो मेघो भूत्वा वृष्ट्वा चैकार्णवं सम्पद्यते। एवं भूलये सति जलादीन्यपि ब्राह्मलये स्वस्वयोनौ लीयन्त इति बोध्यम्। नष्टकाश इत्याकाशान्तनाशस्योपक्रान्तत्वात्॥२६॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पुष्करप्रादुर्भावप्रश्नोत्तरे अष्टमोऽध्यायः॥८॥
एकार्णवविधिः

वैशम्पायन उवाच। भूत्वा नारायणो योगी सप्तमूर्तिर्विभावसुः ।
गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान्॥१॥

सर्वं दृश्यं विनाशीति ज्ञात्वा नाशविवर्जितम्। पदं नेतुं विनेयादि तृतीये योग उच्यते॥१॥ भूत्वेति। योगी नारायणः शुद्धचिन्मात्र एव सन् विभावसुः वह्निरिवासङ्गोऽपि सप्तमूर्तिः महदहङ्कारपञ्चतन्मात्राशरीरो भूत्वा प्रदीप्तानिश्चैतन्योद्दीपिताभिर्गभस्तिभिः रश्मिरूपाभिस्तत्तदाकारवृत्तिभिः प्रकाशितान्सागरान्समुद्रवदनन्तान् रूपादीन् विषयान्संशोषयति स्वस्मिन्प्रविलापयति॥१॥

पीत्वाऽर्णवांश्च सर्वान्स नदीः कूपांश्च सर्वशः ।
पर्वतानां च सलिलं सर्वं पीत्वा च रश्मिभिः॥२॥

विराटप्रविलापनमुक्त्वा सूत्रात्मनस्तदाह- पीत्वेति। नदीकूपसदृशान् मानसान्कामान् संशोषयतीत्यनुषज्यते। तद्वत्पर्वतानां पर्वततुल्यानां कामक्रोधादीनां सलिलं सामर्थ्यं रश्मिभिः परिणामैः पीत्वा विलाप्य॥२॥

भित्त्वा सहस्रश्चैव महीं नीत्वा रसातलम् ।
रसातलेजलं कृत्स्नं पिबते रसमुत्तमम्॥३॥

एवं महीं स्थूलसूक्ष्मशरीरद्वयरूपां सहस्रशो भित्त्वा सर्वथा विलाप्य रसायास्तस्या एव तलमधिष्ठानकारणं ब्रह्म तत्प्रति तां नीत्वा तत्रत्यमपि जलम् अपहतपाप्मत्वादिसङ्कल्पान्तं गुणजातम् उत्तमं मानुषानन्दादिभ्य उत्कृष्टतमं पिबते संशोषयति॥३॥

अप्सु सृजन्क्लेदमन्यद्ददाति प्राणिनां ध्रुवम् ।
तत्सर्वमरविन्दाक्ष आद‌त्ते पुरुषोत्तमः॥४॥

अप्सु कारणे ब्रह्मणि स्थितं क्लेदं मनसो मृदूकरणम् आनन्दम् अन्यत् कार्यं सृजन् स्रक्ष्यन् प्राणिषु ध्रुवं ददाति। यत् मुखं कार्योपाधिषु निदधाति जीवनाय तदपि वृत्तिरूपत्वात्संहरतीत्यर्थः। तदेव स्पष्टीकरोति- तत्सर्वमिति॥४॥

वायुश्च बलवान्भूत्वा स विधूयाखिलं जगत् ।
प्राणोदयं सुराणां च वायुना कुरुते हरिः ।
ततो देवगणानां च सर्वेषामेव देहिनाम्॥५॥

एवमुत्तमाधिकारिणां मनोमात्रसाधनं योगमभिधाय मध्यमानां वायुनिरोधपूर्वकं तमेवाह- वायुश्चेति। स योगी बलवान् मूलाधारादिसर्वचक्रभेदनसमर्थो भूत्वा अखिलं जगत्पादादिजानुपर्यन्तं भूस्थानभित्यादिना तन्त्रोक्तदिशा भावनया स्वशरीरमात्रीकृतं विधूय अधोधस्तनस्य उपर्युपरितने प्रविलापनप्रकारेण निरस्य। प्राणोदयं प्राणानां पञ्चानां सुराणामिन्द्रियाणां च उदयम् उत् ऊर्ध्वं सहस्रारे भ्रूमध्ये वा अपनयनं गमनं हरिर्योगी वायुना विजितेन कुरुते एतदेव विस्तरेणाह- तत इत्यादिना। देवगणानां च सङ्घर्षजः पावकः निखिलान् लोकानदहदिति षष्ठेनान्वयः। ततो योगप्रवृत्त्यनन्तरं देवानामग्न्यादीनां च देहिनां जीवान्तराणाम्। एतेन मदन्यो मुमुक्षुर्नास्तीत्यपि योगिना चिन्तनीयम्। अन्यथा भेदस्याविलयान्मुक्त्यसिद्ध्यापत्तिः स्यात्॥५॥

ये चेन्द्रियगणाः सर्वे ये चान्ये च यतोद्भवाः ।
पूयं घ्राणं शरीरं च पृथिवीमाश्रिता गुणाः॥६॥

ये चान्ये चेति। यतोद्भवाः यत इन्द्रियाद्येषां विषयाणामुद्भवास्ते यतोद्भवाः सन्धिरार्षः। तान्येवेन्द्रियाणि तदुद्भूतांश्चाह- पूयमिति। पूयं गन्धाख्यो विषयः। रसादिसाहचर्यात् घ्राणामिन्द्रियं शरीरं स्थूलं च एते गुणाः गुणकार्यभूताः पृथिवीमाश्रिताः॥६॥

जिह्वा रसश्च क्लेदश्च संश्रिताः सलिलं गुणाः ।
रूपं चक्षुर्विपाकश्च ज्योतिरेवाश्रिता गुणाः॥७॥

रसश्चार्द्रः रसनेन्द्रियं क्लेदः पृथिव्यवयवान्तः प्रवेशेन तस्याः शिथिलीकरणम्। विपाको विकृतिः ओदनादिरूपा॥७॥

स्पर्शः प्राणश्च चेष्टा च पवनं संश्रिता गुणाः ।
परमेष्ठिनं वरेण्यं च हृषीकेशं समाश्रिताः॥८॥

शब्दः श्रोत्रं छिद्रदानं चाकाशं संश्रिता गुणा इत्यपि द्रष्टव्यम्। त एते सर्वेऽपि परमेष्ठिनं सूत्रात्मानं वरेण्यम् अवश्यम्। उपास्यतया वरणीयं हृषीकेशं हृषीकाणामिन्द्रियाणाम् ईशितारं सम्यगाश्रिताः॥८॥

ततो भगवता तत्र रश्मिभिः परिवारिताः ।
वायुना कृष्यमाणाश्च रूपान्योन्यसमाश्रयात्॥९॥

ततस्तं सम्प्राप्य भगवतान्तर्यामिणा कर्त्रा तत्र सूत्रे मिलिताः सन्तः रश्मिभिः सूक्ष्माभिर्वृत्तिभिः परिवारिताश्चैते देवगणेन्द्रियगणादयः वायुना करणेन कृष्यमाणाः। रूपेति लुप्तशेषं पदम्। रूपादयः अन्योन्यस्य एकीभावेनाश्रयात्॥९॥

तेषां सङ्घर्षजोद्भूतः पावकः शतधा ज्वलन् ।
अदह‌न्निखिलाँल्लोकानुग्रः संवर्तकोऽनलः॥१०॥

तेषां रूपादीनां सङ्घर्षजश्चासौ उद्भूतश्च यः पावको जगत्कारणाद्वैतवस्तुप्रकाशाग्निर्निखिलाँल्लोकान् तत्तत्कर्मफलभूतानदहत् कर्मणामेव दाहात्॥१०॥

सपर्वतांस्तरून्गुल्माँल्लतावल्लीस्तृणानि च ।
विमानानि च दिव्यानि पुराणि विविधानि च॥११॥

स्वरूपेणापि लोकदाहमाह- सपर्वतानित्यादिना॥११॥

आश्रमांश्च तथा पुण्यान्दिव्यान्यायतनानि च ।
यानि चाश्रयणीयानि तानि सर्वाणि सोऽदहत्॥१२॥

आश्रयणीयानि दहराद्युपास्यरूपाणि सर्वेषां मनोमात्रत्वात्तद्दाहेन दाह इति भावः। “असतोऽधिमनोऽसृजत मनः प्रजापतिमसृजत प्रजापतिः प्रजा असृजत तद्वा इदं मनस्येव परमं प्रतिष्ठितं यदिदं किञ्च” इति श्रुतेः॥१२॥

भस्मीभूतांस्ततः सर्वांल्लोकाँल्लोकगुरुर्हरिः ।
भूयो निर्वापयामास जलयुक्तेन कर्मणा॥१३॥

एवं समाधौ सकारणस्य कार्यस्य प्रलयमुक्त्वा व्युत्थाने तदुत्पत्तिमाह चतुर्भिः- भस्मीभूतानित्यादिभिः। हरिर्योगी निर्वापयामास भोक्त्रे भोग्यं कल्पितवान्। केन कर्मणा भोगायारब्धेन सञ्चितक्रियमाणयोर्दाहश्लेषस्य तदधिगम उत्तरपूर्वाद्ययोरश्लेषाविति न्यायसिद्धत्वात्। जलयुक्तेन कारणीभूताविद्यासंस्कारशेषेण। भूयश्चान्ते विश्वमायानिवृत्तिरिति ज्ञानेऽपि यावद्देहपातं मायालेशानुवृत्तेर्दर्शनात्॥१३॥

सहस्रदृङ्‌महातेजा भूत्वा कृष्णो महाघनः ।
दिव्यतोयेन हविषा तर्पयामास मेदिनीम्॥१४॥

विषयभेदात्सहस्रं दृष्टयो यस्य स सहस्रदृक् महातेजाः परञ्ज्योतिरूपः कृष्णः कर्षकः संहर्ता भूत्वा महाघन इव जगदङ्कुरस्रष्टाऽपि भवति। तदेवाह- दिव्येन तोयेन चिच्चन्द्रमण्डलात्प्रसृतेन भावनामृतेन हविषा विशुद्धेन तर्पयामास। भेदिनीं शरीरम्। व्युत्थाने आदौ शरीरं चेतनया व्याप्तमित्यर्थः॥१४॥

ततः क्षीरनिकाशेन स्वादुना परमाम्भसा ।
शिवेन पुण्येन मही निर्वाणमगमत्परम्॥१५॥

क्षीरं सत्यं स्वच्छत्वात् तन्निकाशेन चित्तसत्त्वाकारेण परमाम्भसा चैतन्यामृतेन महीशरीरद्वयं निर्वाणं शान्तिम् अगमत्। योगिनो हि स्थूलशरीरं निर्वाति। “न तस्य रोगो न जरा न मृत्युः। प्राप्तस्य योगाग्निमयं शरीरम्”॥ इति श्रुतेः। सूक्ष्ममपि निर्वाति। “तत्र को मोहः कः शोक एकत्वमनुपश्यतः” इति श्रुतेश्च॥१५॥

ते नगा जलसञ्छन्नाः पयसः सर्वतोधराः ।
एकार्णवजला भूत्वा सर्वसत्त्वविवर्जिताः॥१६॥

अस्य दृष्ट्या बाह्यमपि सर्वं चिन्मात्रमेवेत्याह- ते नगा इति। ये पूर्वं परमार्थत्वेन गृहीतास्ते नगाः इति। ये पूर्वं परमार्थत्वेन गृहीतास्ते नगाः पर्वतवृक्षादयः जलसञ्छन्नाश्चितावगुण्ठिताः। किं च सर्वतोऽन्तर्बहिश्च पयः सश्चित एव धराः धर्तारः सैन्धववनवच्चिद्घना एवेत्यर्थ- तदेवाह- एकार्णवजला भूत्वेति। अत एव सर्वसत्त्वविवर्जिताः सर्वस्य वियदादेः सत्त्वं सत्ता तद्रहिताः ब्रह्मसत्तैव सर्वत्रानुस्यूता न वियदादिषु पृथक्सत्ताऽस्तीत्यर्थः। जगत्पश्यन्नपि द्विचन्द्रवद्बाधितत्वेनैव पश्यतीति भावः॥१६॥

महाभूतान्यपि च तं प्रविष्टान्यमितौजसम् ।
नष्टार्कपवनाकाशे सूक्ष्मे जनविवर्जिते॥१७॥

योगस्य मुख्यं फलं शुद्धात्मदर्शनमाह त्रिभिः- महाभूतानीति। तं योगिनं सूक्ष्मे शुद्धे वस्तुनि स्थितमिति शेषः। कीदृशे सूक्ष्मे नष्टा अदर्शनं गता अर्कादयो यस्मिन्नष्टार्कपवनाकाशे। अत एव महाभूतानि तं प्रविष्टानि तत्रैव लीनानीत्यर्थः॥१७॥

संशोषयित्वा पीत्वा च कल्पयित्वा च देहिनम् ।
दग्ध्वा सन्तापयित्वा च वसत्येकः सनातनः ।
पौराणं रूपमास्थाय किमप्यमितबुद्धिमान्॥१८॥

एवमुक्तप्रकारेण संशोषयित्वा विषयेषु प्रविभक्तं प्रज्ञानं प्रत्याहृत्य पीत्वा निर्विशेषे प्रविलाप्य। किमपीति वाङ्मनसाती तत्वं सूचितम्॥१८॥

एकार्णवजले ह्यासीद्योगी योगमुपागतः ।
अयुतानां सहस्राणि गतान्येकार्णवेऽम्भसि ।
न चैनं कश्चिद्व्यक्तं व्यक्तं वेदितुमर्हति॥१९॥

तदेवाह- एकार्णवेति। योगं दुःखसंयोगवियोगम् उपागतः प्राप्तः अयुतानाम् अयुतानाम् अपृथग्भूतानां रज्ज्वादिभ्य इवोरगादीनाम् आत्मन्यध्यस्तानां वियदादीनां सहस्राणि वृत्तिभेदादनन्तानि एकार्णवेऽम्भसि शुद्धे ब्रह्मणि गतानि प्राप्तानि विलीनानीत्यर्थः। नायं मृदि घटस्येव निवृत्तिरूपो लयः। किन्तु रज्ज्वामहेरिवेति भावः। न चैनमिति व्यक्तमिति क्रियाविशेषणम् बुद्धिवृत्तेरपि लीनत्वादेनं प्रत्यश्च न कश्चिज्जानातीत्यर्थः॥१९॥

जनमेजय उवाच। एकार्णवविधिः कोऽयं यश्चैव परिकीर्तितः ।
क एष पुरुषो नाम किंयोगः कश्च योगवान्॥२०॥

संक्षेपेण श्रुतं योगं विस्तरेण श्रोतुमिच्छुर्जनमेजय उवाच- एकार्णवविधिरिति। विधिरवधिः दैनन्दिनादिप्रलयवदात्यन्तिकप्रलयस्यापि कश्चित्कालावधिरस्तीति प्रश्नः। सति तस्मिन् स्वत एव कैवल्यं सेत्स्यति किं साधनानुष्ठानैः संशोषदाहपानादिभिरिति भावः। य एष इति पूर्वोकं ज्ञानसाध्यं प्रलयं परामृशति। न प्राकृतं दैनन्दिनं वा एक एव पुरुष एकार्णवो नाम। किंयोगः किंरूपोयं योगो जतुकाष्ठवत्सलिलसैन्धवखिल्यवद्रज्जूरगवद्वा। कश्च योगवान् जीवः। सम्बन्धिनः सम्बन्धस्य च योगाख्यस्य किं स्वरूपमिति प्रश्नत्रयं पूर्वेण सह चतुष्टयम्॥२०॥

वैशम्पायन उवाच। एतावन्तमसौ कालमेकार्णवविधिं प्रति ।
करिष्यतीमं भगवानिति कश्चिन्न बुध्यते॥२१॥

क्रमेणोत्तराणि वैशम्पायन उवाच- एतावन्तमिति। इमम् एकार्णवविधिम् एकार्णवनियतिम् एतावन्तं कालं प्रति प्रतीक्ष्य करिष्यति भगवानिति कश्चिन्नबुध्यते। इतरवज्ज्ञानैकसाध्यस्य महाप्रलयस्य कालावधिर्नास्त्यतः साधनमनुष्ठेयमेवेत्यर्थः॥२१॥

न वै माता न च द्रष्टा न शाता नैव पार्श्वगः ।
ततोऽवज्ञायते कश्चिदृते तं देवमीश्वरम्॥२२॥

एक एव पुरुषो नामेत्यस्योत्तरमाह- न माता प्रमाता अहङ्कारशून्यत्वात् साक्ष्यभावाच्च। न द्रष्टा साक्षी वृत्तेरपि विलयान्न ज्ञाता चरमान्तःकरणवृत्त्या ब्रह्मविद्याख्यया प्रत्यञ्चं विषयीकुर्वन्। अत एव न पार्श्वगो न तटस्थः प्रत्यगात्मरूत्वात्। किंरूपो योग इत्यस्योत्तरमाह- तत् इति। ततस्तस्यामवस्थायां यथा जतुकाष्ठसंयोगेषु त्रयमपि पृथग्दृश्यते यथा वा जलसैन्धवरसौ एकलोलीभूतौ पृथक्त्वेनानुमीयेते तथा न तत्र तमृतेऽन्यत् ज्ञायते रज्ज्वामिव सर्पबोधतदतिरिक्तमित्यर्थः॥२२॥

नभः क्षितिं पवनमथ प्रकाशयन्प्रजापतिं भुवनचरं सुरेश्वरम् ।
पितामहं श्रुतिनिलयं महामुनिं शशास भूः शयनमरोचयत्प्रभुः॥२३॥

कश्च योगवानित्यस्योत्तरमाह- नभ इति। यः प्रभुर्महामुनिं शशास स शयनमरोचयदिति यत्तदोरध्याहारेण योज्यम्। नभआदिरूपं देहेन्द्रियादिसङ्घातं प्रकाशयन् त्स्वचैतन्येन व्याप्नुवन् तत एव व्यापनाद्धेतोः प्रजापतिं प्रजायत इति प्रजा उपाधिस्तस्याः पतिम् अध्यक्षत्वाभिमानिनं भुवनचरं चक्षुरादिद्वारा सुरेश्वरम् इन्द्रियाणां प्रवृत्तिनिवृत्त्योः स्वतन्त्रम् एवंविधं जीवं सन्तं वस्तुवृत्तेन पितामहं कार्यस्य पिता कारणं तस्य पिता शुद्धचैतन्यम् अत एव श्रुतिनिलयं श्रुत्येकगम्यमपि महामुनिं मुमुक्षुजविरूपण महान्तं मननशीलं शशास। शसु हिंसायाम्। स्वस्वरूपे प्रविलापितवान् यः स भूः भवत्यस्मादिति भूः ईशः शयनम् ईशतानिधिम् अरोचयत्। शुद्ध एवोपाध्यभिमानाद्बद्धः सन्योगवान्योगाधिकारी भवतीत्यर्थः॥२३॥
॥इति श्रीमन्महाभारते खिलेषु हरिवंशे भविष्यपर्वणि पुष्करप्रादुर्भावे नवमोऽध्यायः॥९॥
एकार्णवे भगवन्मार्कण्डेयसंवादः

वैशम्पायन उवाच। एवमेकार्णवीभूते शेते लोके महाश्रुतिः ।
प्रच्छाद्य सलिलं सर्वं हरिर्नारायणः प्रभुः॥१॥

यज्ञरूपक्रतो योगमुक्त्वा तुर्ये निगद्यते। मार्कण्डेयसमाधिश्च तद्विप्रेषु निदर्शनम्॥१॥ एवमिति। लोके शुद्धचिदात्मनि महाश्रुतिर्महायशाः ईशः सलिलकार्ये जगत्प्रच्छाद्य उपसंहृत्य शेते शुद्धचिन्मात्ररूपेणावतिष्ठत इत्यर्थः॥१॥

महतो रजसो मध्ये महार्णवसमस्य वै ।
विरजस्को महाबाहुरक्षरं ब्रह्म यं विदुः॥२॥

एतदुपपादयितुं ब्रह्मण एव बन्धप्रसक्तिमाह- महत इत्यादिना। रजसः रजोगुणकार्यकर्मफलभूतस्य देहेन्द्रियादेर्मध्ये दुर्लभ्यत्वान्महार्णवसमस्य विरजस्को देहादिधर्मास्पर्शी महान्तौ बाहू इव बाहू अक्षरब्रह्माख्यौ प्रणवतत्त्वमसिवाक्यरूपौ उपास्तिक्रियाप्रत्यक्तत्त्वसाक्षात्काराभ्यां जगदुद्धारक्षमौ विद्येते यस्य तथा॥२॥

आत्मरूपप्रकाशेन तपसा संवृतः प्रभुः ।
त्रिकमास्थाय कालं तु ततः सुष्वाप सोऽव्ययः॥३॥

आत्मेति। यं परं ब्रह्म विदुः सः समुद्रः परमात्मा सुष्वाप स्वरूपं विस्मृतवानिति सम्बन्धः। तत्र हेतुः। तपसा आलोचनेन मनोरथात्मकेन संवृतः तिरोहिताङ्गरूपः। कीदृशेन तपसा आत्मरूपप्रकाशेन चैतन्याभासेन। अत एव त्रिकं भूतभविष्यद्वर्तमानरूपेण त्रिविधं कालम् आस्थाय अधिष्ठाय सुष्वाप॥३॥

पुरुषो यश इत्येवं यत्परं परिकीर्तितम् ।
यच्चान्यत्पुरुषाख्यं स्यात्सर्वं तत्पुरुषोत्तमः॥४॥

एवं प्रभोरेव बन्धप्रसक्तिं प्रदर्श्य तन्निवृत्त्युपायं योगं यज्ञरूपकेण विधित्सुस्तत्प्राप्यं वस्त्वाह- पुरुषो यज्ञ इति। पुरुष इव पुरुषः शिरःपाण्यादिरूपकः यज्ञो योगयज्ञप्राप्यः “यत्पुरुषाख्यं परं कीर्तितं, स उत्तमः पुरुषः” इत्यादिश्रुतिषु यच्चान्यद्वियदादि पुरुषेण चिदात्मनैव ख्यायते प्रकाश्यते तत्सर्वं पुरुषोत्तमः चिन्मात्रमेव तत्राध्यस्तस्यान्यस्य तदनन्यत्वादित्यर्थः॥४॥

ये च यज्ञपरा विप्रा ऋत्विजा इति संज्ञिताः ।
आत्मदेहात्पुराभूता यज्ञेभ्यः श्रूयतां तदा॥५॥

एवं प्राप्यमुक्त्वा प्रापकमाहये चेति। यज्ञपरब्रह्मनिष्ठाः विप्रा इव विप्राः रागादिशून्याः ऋत्विजः ऋतौ कालात्मनि परस्मिन् यजन्ते सङ्गतिं कुर्वते ऋत्विजास्त आदयः। यजेः सङ्गतिकरणार्थात्। आत्मदेहात्। चित्पुरुषात् पुराभूताः। अनादौ संसारे पूर्वसिद्धाः यज्ञेभ्यः यज्ञार्थमेव भूताः न पश्वादिसाधारणविषयभोगार्थं यथैतत्तथा श्रूयतां मत्त इति शेषः॥५॥

ब्रह्माणं परमं वक्त्रादुद्गातारं च सामगम् ।
होतारथम चाध्वर्युं वाहुभ्यामसृजत्प्रभुः॥६॥

योगयज्ञार्हानृत्विजः प्रस्तौति- ब्रह्माणमिति। अत्र काठके “विश्वसृजां सत्रे ब्रह्म ब्रह्माभवत् स्वयम्। अमृतमेभ्य उदगायत्” इति। ब्रह्मामृतशब्दाभ्यां वेदतदर्थौ उच्येते। तत्र परममिति विशेषणादुपनिषदे एव ब्रह्म तत्साध्या वृत्तिरमृतसाधनत्वादमृतम् ते उभे ब्रह्मोद्गातृशब्दाभ्यामिहोक्ते। वक्त्रप्रभवत्वेन च तयोरन्तरङ्गत्वमुक्तम्। “होत्रध्वर्युसत्यꣳ ह होतैषामासीत्प्राणो अध्वर्युरभवत्” इति श्रुत्युक्तौ सत्यप्राणौ ताभ्यां सत्योक्तिप्राणजयौ वक्त्रजावपि तदुपकारतया किञ्चिद्वहिरङ्गौ। एवमुत्तरत्र अक्षरयोजना स्पष्टा। ब्रह्मादिचतुष्टयं वक्त्रादसृजदित्युक्त्वा ब्राह्मणाच्छंस्यादिचतुष्कं बाहुभ्यामसृजदित्याह- बाहुभ्यामित्यादिसपादश्लोक एकं वाक्यम्॥६॥

ब्राह्मणो ब्राह्मणत्वाच्च सम्प्रस्तारं च सर्वशः ।
तन्मित्रं वरुणं सृष्ट्रा प्रतिष्ठातारमेव च॥७॥

ब्राह्मणत्वाद्ब्रह्म वेदस्तदध्येतृत्वात् ब्राह्मणो ब्राह्मणाच्छंसी नाम सम्प्रस्तारं प्रस्तोतारं तन्मित्रं वरुणं मैत्रावरुणसंज्ञं प्रशस्तारं प्रतिष्ठातारं प्रतिप्रस्थातारम् एतैः “अशꣳ स ब्रह्मणस्तेजः भूतꣳ स प्रस्तोतैषामासीत् ऋतमेषां प्रशास्तासीत् अपानो विद्वानावृतः प्रतिप्रातिष्ठदध्वरः” इति श्रुत्युक्तास्ते तेजोभूत ऋतापानाख्यो धीबलपूर्वस्मृतिस्वधर्माचरणजयानुकूलापानाख्यमूलबन्धा विहिता ज्ञेयाः॥७॥

उदरात्प्रतिहर्तारं पोतारं चैव भारत ।
अच्छावाकमनोरूभ्यां नेष्टारं चैव भारत॥८॥

“प्रतिहर्तृपोत्रच्छावाकेनेष्टशब्दैः भविष्यत्प्रति चाहरत्, अपचितिः पोत्रियामयजत् अच्छावाको भवद्यशः नेष्ट्रीयामयजत्त्विषिः” इति श्रुत्युक्तेषु भविष्यत् भाव्यनुसन्धानम् अपचितिर्देवता तिथिपूजनं यशः यशस्करमिति वदान्यत्वादि त्विषिस्तपस्तेजः॥८॥

पाणिभ्यामथ चाग्नीध्रं सुब्रह्मण्यं च यज्ञियम् ।
ग्रावाणमथ बाहुभ्यामुन्नेतारं च यज्ञियम्॥९॥

तथा आग्नीध्रसुब्रह्मण्यग्रावशब्दोक्तग्रावस्तुदुन्नेतृशब्दैः। “आग्नीधाद्विदुषीसत्यं श्रद्धा हैवायजत्स्वयं वागेषां तु ब्रह्मण्यासीत् ओजोभ्यष्टोद्ग्राव्णः ऊर्जानमुदवहत्” इति श्रुत्युक्तेषु विदुषी शास्त्रार्थोपबृंहिका ऊहापोहकौशलवती श्रद्धा वाक् स्वाध्यायप्रवचने ओज इन्द्रियजये शौर्यम् ऊर्क् योगाङ्गानामूर्जितिरित्येते ग्राह्याः। यज्ञेति- ब्रह्मा॥१॥ उद्गाता॥२॥ होता॥३॥ अध्वर्युः ॥४॥ ब्राह्मणाच्छंसी॥५॥ प्रस्तोता॥६॥ मैत्रावरुणः॥७॥ प्रतिप्रस्थाता॥८॥ प्रतिहर्ता॥९॥ पोता॥१०॥ अच्छावाकः॥११॥ नेष्टा॥१२॥ आग्नीध्रः॥१३॥ सुब्रह्मण्यः॥१४॥ ग्रावस्तोता॥१५॥ उन्नेता॥१६॥ एते ऋत्विजः। एते योगे यथाक्रमं- प्रणवः॥१॥ तदर्थभावनम्॥२॥ सत्योक्तिः॥३॥ प्राणजयः॥४॥ धीतैक्ष्ण्यम्॥५॥ पूर्वस्मृतिः॥६॥ आचारः॥७॥ अपानजयः॥८॥ भाविदुःखचिन्ता॥९॥ ईशपूजा॥१०॥ दानम्॥११॥ योगोत्साहः॥१२॥ सात्त्विकी श्रद्धा॥१३॥ वेदान्तश्रवणम्॥१४॥ इन्द्रियशौर्यम्॥१५॥ योगाङ्गानामूर्जितिः॥१६॥ च लक्ष्यन्ते ॥९॥

एवमेवैष भगवान्षोडशैताञ्जगत्पतिः ।
प्रवक्तॄन्त्सर्वयज्ञानामृत्विजोऽसृजदुत्तमान्॥१०॥

एवमिति। एतानुपनिषदादीन् सर्वयज्ञानां चत्वारः सबीजयोगाः पञ्चमो निर्बीजश्च वक्ष्यमाणास्तेषां सर्वेषां योगयज्ञानां प्रवक्तॄन् प्रापकान् “वज गतौ” इत्यस्मात्तृच्॥१०॥

तदेष वै वेदमयः पुरुषो यज्ञसम्मितः ।
वेदाश्च तन्मयाः सर्वे साङ्गोपनिषद‌क्रियाः॥११॥

तदेष इति। स एष ऋत्विक् स्रष्टा भगवान् वेदमयो वेदप्रधानो वेदैकगम्यः। “नावेदविन्मनुते तं बृहन्तम्” इति श्रुतेः पुरुषः परमात्मा यज्ञेन योगेन सम्यक् मितः प्रभितोपरोक्षी। कृतः यज्ञसंमितः वेदाश्च तन्मयाः तस्यैव प्रतिपादकाः क्रियाश्च तन्मयास्तत्प्रापका इत्यनुषज्य योज्यम्॥११॥

स्वपित्येकार्णवे चैव यदाश्चर्यमभूत्तदा ।
श्रूयते तद्यथा वृत्तं मार्कण्डेयो यदन्वभूत्॥१२॥

एवमुक्तसाधनकलापविशिष्टो योगी यदा एकार्णवे चिन्मात्रे स्वपिति प्रवेष्टुं यतते तदाश्चर्यम् अभूत् भवति। तत् विश्वरूपदर्शनातीतानागतादिदर्शनं चेत्यादि श्रूयते। “वेद सर्वं ह पश्यः पश्यति यच्चान्यदिच्छन्न लभते तदत्र गत्वा विन्दते” इत्यादौ। अत्राख्यायिकामाह- तद्यथावृत्तमित्यादिना॥१२॥

जीर्णो भगवतस्तस्य कुक्षावेव महामुनिः ।
बहुवर्षसहस्त्रायुस्तस्यैव वरतेजसा॥१३॥

जीर्णः सर्वोपाधिप्रहाणेन प्रविलीनः। मार्कण्डेयं स्तौति सार्धद्वयेन- बह्विति॥१३॥

इति तीर्थप्रसङ्गेन पृथिवीतीर्थगोचरः ।
आश्रमानपि पुण्यांश्च तीर्थान्यायतनानि च॥१४॥

इति वक्ष्यमाणप्रकारेण तीर्थनिमित्तमेव सर्वतीर्थदर्शी न दक्षिणाद्यर्थमित्यर्थः। आश्रमानित्यादीनां समाश्रित इत्यनेन सम्बन्धः॥१४॥

देशान्राष्ट्राणि चित्राणि पुराणि विविधानि च ।
जपहोमरतः क्षान्तस्तपो घोरं समाश्रितः॥१५॥

मार्कण्डेयस्ततस्तस्य शनैर्वक्राद्विभिःसृतः ।
निष्क्रामन्तं न चात्मानं जानीते देवमायया॥१६॥

एवं चिन्मात्रे लीनोऽपि मार्कण्डेयः पुनर्विना व्युत्थानसङ्कल्पं सुप्तवत्समाधेर्व्युदतिष्ठदित्याह– मार्कण्डेय इति। वक्त्रात्स्वलयस्थानात्॥१६॥

निष्क्रान्तस्तस्य वदनादेकार्णवमथो गतः ।
सर्वतस्तमसाच्छन्नं मार्कण्डेयो निरीक्षते॥१७॥

एवं व्युत्थितोऽपि अथो पुनः एकार्णवं चिन्मात्रं गतः प्रवेष्टुं प्रयत्नं कृतवान्। तं च तमसा अज्ञानेनावरणविक्षेपशक्तिमता आच्छन्नं निरीक्षते। अयं भावः- चित्तसत्त्वं तत्त्वे प्रणिधित्सदपि तत्त्वस्य तमसा पिहितत्वात्तत्र विक्षेपरूपमैश्वर्यमेवावेक्षितवान् रज्ज्वामिव सर्पमिति॥१७॥

तस्योत्पन्नं भयं तीव्र संशयश्चात्मजीविते ।
देवदर्शन संहृष्टो विस्मयं चागमत्परम्॥१८॥

भयं द्वैतदर्शनजम्। “द्वितीयाद्वै भयं भवति” इति श्रुतेः। आत्मजीविते स्वरूपस्थैर्ये किं निर्विशेषमेव स्वरूपं नित्यमुत सविशेषमिति संशयश्चोत्पन्नः। संशयच्छेदं विवेकबलेनैव कृतवानित्याह- देवेति। देवदर्शनं शुद्धसाक्षात्कारः तेन संहृटः प्राप्तानन्दः विस्मयं परं चागमत्। कारणाभावेऽप्याकस्मिकीमन्तःसृष्टिं दृष्ट्वेति भावः॥१८॥

सञ्चिन्तयति मध्यस्थो मार्कण्डेयोऽतिशङ्कितः ।
किंस्विद्भवेदियं चिन्ता मोहः स्वप्नोऽनुभूयते॥१९॥

विवेकमेवाह- सञ्चिन्तयतीति। मध्यस्थः निर्विशेषान्यतरनिर्णयहीनः, चिन्ता मनोरथः, मोह इन्द्रजालादिजो भ्रमः, स्वप्नः प्रसिद्धः॥१९॥

व्यक्तमन्यतमो भावो ह्येतेषां भविता मम ।
न हीदृशमसङ्क्लिष्टमयुक्तं सत्यमर्हति॥२०॥

एतेषामन्यतमोऽयं भावो मनोविकारो न वस्तुतत्त्वमित्यर्थः। तस्यैवासम्भवमाह- न हीति। सत्यं पारमार्थिकम् अयुक्तम् असङ्गि असङ्क्लिष्टम् अविद्यादिसङ्क्लेशशून्यं सत् ईदृशं मनोरथादिरूपं भवितुमर्हति॥२०॥

नष्टचन्द्रार्कपवने छन्नपर्वतभूतले ।
कतमः स्यादयं लोक इति चिन्ताव्यवस्थितः॥२१॥

तत्र हेतुमाह- नष्टेति। महाभूतानां नाशेऽपि भासमानस्य चिन्तादिष्वन्यतमत्वस्यैव सम्भवात्कतमो लोकोऽयमिति चिन्तितवान्॥२१॥

अपश्यच्चापि पुरुषं शयानं पर्वतोपमम् ।
तोयाढ्यमिव जीमूतं मध्ये मग्नं महार्णवे॥२२॥

स एवं तत्त्वनिश्चयाभावात् सन्देहनिवृत्तिं कामयमानः स्वाराध्यां कारणोपाध्यभिमानिनीं देवतामपश्यत्। तया च प्रतिबोधितः कृतकृत्यो बभूवेत्याह- अपश्यदित्यादिना। तोयाढ्यमिति कृष्णत्वं सूचितम्। महार्णवे परमानन्दे॥२२॥

तपन्तमिव तेजोभिर्भास्वन्तमिव वर्चसा ।
जाग्रन्तमिव गाम्भीर्याछ्वसन्तमिव पन्नगम्॥२३॥

जाग्रन्तमित्यार्षो नुम्॥२३॥

स देवं प्रष्टुमायाति को भवानिति विस्मयात् ।
तथैव च शनैर्भूयो मुनिः कुक्षिं प्रवेशितः॥२४॥

पुनः पूर्ववच्चिन्मात्रत्वं प्राप्त इत्याह- स देवमिति॥२४॥

स प्रविष्टः पुनः कुक्षौ मार्कण्डेयः सुनिश्चितः ।
तथैव चरते भूयो विजानन्स्वप्नदर्शनम्॥२५॥

स एवम्भूतश्चिन्मात्रत्वमेवात्मतत्त्वं द्वैतं तु स्वप्नमात्रमिति सम्प्रज्ञातमेव निश्चितवानित्याह- सम्प्रविष्ट इति॥२५॥

स तथैव यथापूर्वं पृथिवीमटते पुनः ।
पुण्यतीर्थानि पूतानि निरैक्षद्दिवि भूतले॥२६॥

स तथैवेति। यथा व्युत्थाने तथैव सम्प्रज्ञाने घटनादिकं कृतवानित्यर्थः॥२६॥

क्रतुभिर्यजमानांश्च समाप्तवरदक्षिणैः ।
पश्यते देवकुक्षिस्थान्यज्ञियाञ्छतशो द्विजान्॥२७॥

देवकुक्षिस्थान् हार्दाकाशस्थान् ईक्षते स इति शेषः॥२७॥

सद्वृत्तमाश्रिताः सर्वे वर्णा ब्राह्मणपूर्वकाः ।
चत्वारश्चाश्रमाः सम्यग्यथोद्दिष्टपदानुगाः॥२८॥

वर्षाणां शतसाहस्र्यं मार्कण्डेयो महामुनिः ।
विचरन्पृथिवीं कृत्स्नां न च कुक्ष्यन्तमैक्षत॥२९॥

ततः कदाचिदथ वै पुनर्वक्त्राद्विनिःसृतः ।
सुप्तं न्यग्रोधशाखायां बालमेकं निरीक्षते॥३०॥

तत्त्वनिश्चयस्य दुःसम्पादकत्वं वक्तुं पुनर्मार्कण्डेयस्य मोहमाह- ततः कदाचिदिति। वक्त्रानिःसृतः समाधेर्व्युत्थितः न्यग्रोधशाखायां न्यक् नीचैः रोहतीति न्यग्रोधः स्थूलः संसारवृक्षः। ऊर्ध्वमूलमधः शाखमित्युक्तेः। तस्यां शाखायाम् एकदेशे सुप्तमनाविष्कृतैश्वर्यं शान्तं बालं स्वाराध्यमीशं चिन्तयते कास्मिन्सति॥३०॥

यथा चैकार्णवजले नीहारेण वृतान्तरे ।
अव्यक्तभीषणे लोके सर्वभूतविवर्जिते॥३१॥

यथा चेति। स्रष्टा चेत्यर्थः। एकार्णवजले शुद्धज्ञानसामर्थ्ये नीहारेणाज्ञानेन पूर्ववत्तिरोहिते सति तथा लोकेऽपि भूतविवर्जिते चतुर्विधभूतग्रामशून्ये। अत एवाव्यक्ते भीषणे च द्वितीयाभावात्, तस्मादेकाकी बिभेतीत्यविद्यावस्थायामेकाकिनं प्रति भयजनके सति भगवान् गुर्वादिरूपेणाविर्भूय भक्ताननुगृह्णातीत्याह- स भूय इत्यादिना॥३१॥

स भूयो विस्मयाविष्टः कौतूहलसमन्वितः ।
बालमादित्यसंकाशं न शक्नोत्युपसर्पितुम्॥३२॥

विस्मयाविष्टः समाधौ कृत्स्नस्य व्यावहारिकस्य तीर्थक्षेत्रादेर्दर्शनं व्युत्थाने च तद्दर्शनामेति विस्मयाविष्टः दिव्यैकाकिबालदर्शनाच्च कौतूहलसमन्वितः॥३२॥

सोऽचिन्तयदथैकान्ते स्थित्वा सलिलसन्निधौ ।
पूर्वदृष्टमिदं नेति शङ्कितो देवमायया॥३३॥

सोऽचिन्तयदित्यादिः स्पष्टार्थो ग्रन्थः॥३३॥

अगाधे सलिलस्तब्धे मार्कण्डेयः प्लवन्मुनिः ।
न शान्तिं लभते तत्र श्रमात्संत्रस्तविक्लवः॥३४॥

तथैव भगवान्हंसो गतो योगेन बालताम् ।
बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमः॥३५॥

श्रीभगवानुवाच। मा भैर्वत्स न भेतव्यमिहैवायाहि चान्तिकम् ।
मार्कण्डेय सुने धीर बालस्त्वं श्रमपीडितः॥३६॥

मार्कण्डेय उवाच। को मां नाम्ना कीर्तयते तपः परिभवन्मम ।
बहुवर्षसहस्त्रायुर्धर्षयंश्चैव मे वयः॥३७॥

न ह्येषु समुदाचारो देवेष्वपि समाहितः ।
मां ब्रह्मापि स विश्वेशो दीर्घायुरिति भाषते॥३८॥

कस्तपो घोरशिरसो ममाद्य त्यक्तजीवितः ।
मार्कण्डेयेति मां प्रोक्त्वा मृत्युमीक्षितुमिच्छति॥३९॥

क इति। तपः परिभवन्निति शेषः॥३९॥

वैशम्पायन उवाच। एवमाभाषते क्रोधान्मार्कण्डेयो महामुनिः ।
अथैनं भगवान्भूयो बभाषे तत्परायणम्॥४०॥

श्रीभगवानुवाच। अहं ते जनको वत्स हृषीकेशः पिता गुरुः ।
आयुःप्रदाता पौराणः किमर्थं नोपसर्पति॥४१॥

एवं वयस्तपोभ्यां वृद्धमन्यम् ऐक्यात्म्यं बुबोधयिषया तस्य गर्वं तावदपनेष्यन् श्रीभगवानुवाच- अहं ते जनक इत्यादि। नोपसर्पति भवान् मामिति शेषः॥४१॥

मां पुत्रकामः प्रथमं पिता ते ह्यङ्गिरा मुनिः ।
पूर्वमाराधयामास तपस्तीव्रमुपाश्रितः॥४२॥

अङ्गिरा हिरण्यगर्भः। “एतं नु एवाङ्गिरसं मन्यन्तेऽङ्गानां हि रसस्तेन” इति श्रुत्या विश्वपितरि तैजसेऽङ्गिरः शब्दवत्तेर्दर्शितत्वात्॥४२॥

ततस्त्वां घोरशिरसं दहनोपमतेजसम् ।
द‌त्तवानहमात्मेष्टं महर्षिममितायुषम्॥४३॥

घारेशिरसं नाम्ना। मार्कण्डेय इति तु मृकण्डोरपत्यत्वान्नाम॥४३॥

तत्र नोत्सहते चान्यो यो न भूतो ममात्मकः ।
द्रष्टुमेकार्णवगतं क्रीडन्तं योगधर्मिणम्॥४४॥

तत्र आवयोर्जन्यजनकभावे सम्बन्धे सति यो ममात्मको मदभिन्नो न भूतः सोऽन्योऽचेतनत्वात् एकार्णवगतं योगधर्मिणं मां द्रष्टुं नोत्सहत इति योजना। अयं भावः- जडाजडौ द्वौ पदार्थौ तत्र जडो नाजडं द्रष्टुमीष्टे, नाप्यजडो जडादन्यं, तस्यापि दृश्यत्वेन जडत्वापतेरत आवयोरैकात्म्यं निश्चितमिति॥४४॥

वैशम्पायन उवाच। ततः प्रसन्नवद‌नो विस्मयोत्फुल्ललोचनः ।
मूर्ध्नि बद्धाञ्जलिपुटो मार्कण्डेयो महातपाः॥४५॥

इदमेव ऐकात्म्यं विस्तरेण वक्तुं प्रश्नमवतारयति- तत इत्यादि॥४५॥

नामगोत्रे ततः श्रुत्वा दीर्घायुर्लोकपूजितः ।
अथाकरोन्नमस्कारं प्रणतः शिरसा प्रभुम्॥४६॥

मार्कण्डेय उवाच। इच्छेऽहं तत्त्वत्तो मायामिमां ज्ञातुं तवानघ ।
यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान्॥४७॥

किं संज्ञः कश्च भगवाँल्लोके विज्ञायसेऽनघ ।
तर्कये त्वां महाभूतं न भूतमिह तिष्ठति॥४८॥

श्रीभगवानुवाच। अहं नारायणो ब्रह्मा सम्भवः सर्वदेहिनाम् ।
सर्वभूतोद्भवकरः सर्वभूतविनाशनः॥४९॥

मायायास्तत्त्वं श्रीभगवानुवाच- अहं नारायण इति। योऽयमस्मत्प्रलयविषयः नारायणो नाराख्यकृत्स्नप्रपञ्चलयाधिष्ठानमुपाधिस्पर्शशून्यं तदेव मायया अन्यथा भाति। तत्त्वं तज्ज्ञानान्मायानिवृत्तिस्तदज्ञानाद्रज्जूरगवद्ब्रह्मादिरूपेण मायैव भातीत्यर्थः॥४९॥

अहमैन्द्रे पदे शक्र ऋतूनामपि वत्सरः ।
अहं युगे युगाक्षश्च युगस्यावर्त एव च॥५०॥

ऐकात्म्यग्रहणासमर्थानाम् उपास्त्यर्थं विभूतीराह- अहमैन्द्रे पदे इत्यादिना सार्धत्रयेण॥५०॥

अहं सर्वाणि सत्त्वानि दैवतान्यखिलानि च ।
भुजगानामहं शेषस्तार्क्ष्योऽहं सर्वपक्षिणाम्॥५१॥

अहं सहस्रशीर्षा द्यौर्यः पदैरभिसंवृतः ।
आदित्यो यज्ञपुरुषो देवो यज्ञमयो मखः ।
अहमग्निर्हव्यवाहो याद‌सां पतिरव्ययः॥५२॥

यत्पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनाम् ।
बहुजन्मनिरुद्धात्मा ब्राह्मणो यतिरुच्यते॥५३॥

यदिति। तपसा स्वधर्मानुष्ठानेन भावितात्मनां शुद्धचेतसां मध्ये बहुषु जन्मसु निरुद्धात्मा निरुद्धचेता ब्राह्मणो ब्रह्मवित् यतिः संन्यासी। यदुच्यते “ब्रह्मविद्ब्रह्मैव भवति” इति शास्त्रे यद्रूपत्वेनोच्यते तद्ब्रह्माहं मायया अनारोपितं रूपमहमिति पूर्वेण सम्बन्धः॥५३॥

ज्ञानवान्दृष्टविश्वात्मा योगिनां योगवित्तमः ।
कृतान्तः सर्वभूतानां विश्वेषां कालसंज्ञितः॥५४॥

अहं कर्म क्रिया जीवः सर्वेषां धर्मदर्शनः ।
निष्क्रियः सर्वभूतेषु स्वात्मज्योतिः सनातनः॥५५॥

प्रधानं पुरुषो देवोऽहमाद्यस्त्वक्षयोऽव्ययः ।
अहं धर्मस्तपश्चाहं सर्वाश्रमनिवासिनाम्॥५६॥

अहं हयशिरो देवः क्षीरोदे यो महार्णवे ।
ऋतं सत्यं च परममहमेकः प्रजापतिः॥५७॥

ऋतं श्रुत्युक्तानुष्ठानं कर्मादीनां सत्यं तत्प्राप्यं ब्रह्म॥५७॥

अहं साङ्ख्यमहं योगमहं तत्परमं पदम् ।
अहमिज्यो भवश्चाहमहं विद्याधिपः स्मृतः॥५८॥

साङ्ख्यं वेदान्तविचारः। योगश्चित्तवृत्तिनिरोधः। विद्याधिपो विद्याप्रदाता॥५८॥

अहं ज्योतिरहं वायुरहं भूमिरहं नभः ।
अहमापः समुद्राश्च नक्षत्राणि दिशो दश ।
अहं वर्षमहं सोमः पर्जन्योऽहमहं रविः॥५९॥

क्षीरोदः सागरश्चाहं समुद्रो वडवामुखः ।
वह्निः संवर्तको भूत्वा पिबंस्तोयमहं रविः॥६०॥

सागरो लवणोदकः। समुद्रः स्वादूदकादिः॥६०॥

अहं पुराणं परमं तथैवेहं परायणम् ।
भविष्यं चैव सर्वत्र भविष्ये सर्वसम्भवः॥६१॥

यत्किञ्चित्पश्यसे चैव यच्छृणोषि च किञ्चन ।
यच्चानुभवसे लोके तत्त्सर्वं मामकं स्मृतम्॥६२॥

तत्सर्वं मामकं स्मृतं स्वरूपमिति शेषः॥६२॥

विश्वं सृष्टं मया पूर्वं सृजेयं चाद्य पश्य माम् ।
युगे युगे च स्रक्ष्यामि मार्कण्डेयाखिलं जगत्॥६३॥

तदेतदखिलं सर्वं मार्कण्डेयावधारय ।
शुश्रूषुर्मम धर्मेप्सुः कुक्षौ चर सुत्री भव॥६४॥

मम धर्मेप्सुः ऐश्वर्येप्सुः कुक्षौ चर निर्विकल्पं समाधिमनुतिष्ठ। सुखी संसारदुःखशून्यः॥६४॥

मम ब्रह्मा शरीरस्थो देवाश्च ऋषिभिः सह ।
व्यक्तमव्यक्तयोगं मामवगच्छापराजितम्॥६५॥

ब्रह्मादीन् प्रति स्वस्य तटस्थकारणत्वं मा भूत् किं तु अभिन्ननिमित्तोपादानत्वरूपं कारणत्वमेवेत्याह- मम ब्रह्मा शरीरस्थ इति। कनक कुण्डलवत् सर्वमिदं मय्येवोतं प्रोतं चेति भावः॥६५॥

अहमेकाक्षरो मन्त्रस्त्र्यक्षरश्चैव सर्वशः ।
त्रिपदश्चैव परमस्त्रिवर्गार्थनिदर्शनः॥६६॥

एकाक्षरः अकारः। “अकारो वै सर्वा वाक्” इति श्रुतेः। अक्षरः प्रणवः त्रिपदा गायत्री॥६६॥

वैशम्पायन उवाच। एवमेतत्पुराणेषु वेदान्ते च महामुनिः ।
वक्त्रे व्याहृतवानाशु मार्कण्डेयं महामुनिम्॥६७॥

सर्ववेदान्तप्रसिद्धं महामुनिर्व्यासो बबन्धेत्याह वैशम्पायनः- एवमिति। आहृतवान् आनीतवान् मार्कण्डेयं मुखे प्रक्षेप्तुमिति शेषः॥६७॥

प्रवेशयामास ततो जठरं विश्वरूपधृक् ।
ततो भगवतः कुक्षिं प्रविष्टो मुनिसत्तमः ।
रराम सुखमासाद्य शुश्रूषुर्हसमव्ययम्॥६८॥

हंसं परमात्मानं शुश्रूषुः निर्विकल्पकेन समाधिना आराधयितुमिच्छुः॥६८॥

तदक्षरं विविधमथाश्रितो वपुर्महार्णवे व्यपगतचन्द्रभास्करे ।
शनैश्चरन्प्रभुरपि हंससंज्ञितोऽसृजज्जगद्विसृजति कालपर्यये॥६९॥

अध्यायार्थमुपसंहरति- तदक्षरमिति। हंससंज्ञितस्तदक्षरम् अविनाशि ब्रह्म कीदृशः विविधं वपुराश्रितः सन्नपि महार्णवे चिन्मात्रावस्थायां चन्द्रभास्करशब्दिततत्कारणमनश्चक्षुर्वर्जिते कार्यकारणप्रपञ्चशून्ये इत्यर्थः। शनैः भूमिजयक्रमेण चरन् कालपर्यये अविद्यालेशवशात्समाधिसुखविच्छेदकाले जगदसृजत् महाभूतमयं विसृजति विविधभौतिकं सृजति॥६९॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे मार्कण्डेयदर्शने दशमोऽध्यायः॥१०॥
महापद्मोत्पत्तिः

वैशम्पायन उवाच। आपवः स विभुर्भूत्वा कारयामास वै तपः ।
छादयित्वाऽऽत्मनो देहमात्मना कुम्भसम्भवः॥१॥

ब्रह्मैव ब्रह्मविदिति विस्पष्टयितुमापवात्। पञ्चमेऽथाहमादीनां जन्म संक्षिप्य वर्ण्यते आपव इति। स विभुर्हंसाख्य आपवो वसिष्ठाख्यो ब्रह्मर्षिर्भूत्वा योगाख्यं कारयामास कृतवान्। रामो राज्यमचीकरदितिवत्स्वार्थे णिच्। आत्मनः स्वस्य कुम्भसम्भवदेहम् आत्मना समष्ट्यभिमानिनाच्छादायित्वा। स्थूलदेहतादात्म्यं त्यक्त्वेत्यर्थः। वसिष्ठस्य हि कुम्भाजन्म स्मर्यते। मित्रावरुणयोर्दीक्षितयोरुर्वशीमप्सरसं दृष्ट्वा सतीवरे कुम्मे रेतोऽपतत्ततोऽगस्त्यवसिष्ठावाजवेतामिति॥१॥

ततो महात्माऽतिबलो मतिं लोकस्य सर्जने ।
महतां पञ्चभूतानां विश्वभूतो व्यचिन्तयत्॥२॥

ततो देहाच्छादनान्महात्मा ईश्वरः सन् अत एवातिबलोऽनन्तशक्तिः लोकस्य भौतिकस्य तदुपादानभूतानामपि पञ्चसङ्ख्यानां भूतानां वियदादीनां च सर्जने मतिं व्यचिन्तयत्। विश्वभूतो विश्वात्मा। एतेन “स ऐक्षत इमाँल्लोकानुसृजै” इति श्रुतेरर्थो दर्शितः॥२॥

तस्य चिन्तयतस्तत्र तपसा भावितात्मनः ।
निराकाशे तोयमये सूक्ष्मे जगति गह्वरे॥३॥

तस्यैवं चिन्तयतस्तत्र तदा निराकाशे तोयमये चिन्मये सूक्ष्मे दुर्लक्षे गह्वरे दुरधिगमे वस्तुनि जगति लीने सति तपसा ईक्षणबलेन भावितः संवर्द्धितः आत्माऽहङ्कारो येन स भावितात्मा तस्य॥३॥

ईषत्संक्षोभयामास सोऽर्णवं सलिले स्थितः ।
सोऽनन्तरोर्मिणा सूक्ष्ममथ च्छिद्रमभूत्तदा॥४॥

ईषदिति। सः भावितात्मा सलिले चिदात्मनि अधिष्ठाने स्थितोऽध्यस्तः सन्नणर्वं परं तत्त्वम् ईषत्संक्षोभयामास। शुद्धापि चितिः समष्टिरहङ्कारेण ईश्वरोऽस्मीति भावितवतीत्यर्थः। स ईश्वरोऽनन्तरेण द्वितीयेन ऊर्मिणा सङ्कल्पेन सूक्ष्मम् इन्द्रियाग्राह्यं छिद्रमाकाशाख्यं स्वयमभूत्तदा॥४॥

तत्र शब्दगतिर्भूत्वा मारुतद्रवसम्भवः ।
स लब्ध्वाऽऽन्तरमक्षोभ्यो व्यवर्धत समीरणः॥५॥

तत्रेति। तत्र च्छिद्रं सोऽनन्तरोर्मिणा शब्दगतिरभूदित्यनुषज्य योज्यम्। स ईश्वरः पुनः सङ्कल्पान्तरेण तस्मिन्नाकाशे शब्दरूपेण गतिः परिस्पन्दः तत्प्रदत्वे अभूदित्यर्थः। किं कृत्वा मारुतद्रवसम्भवो भूत्वा वायुवेगेनैव शब्दगतिरूपेण सम्भवः प्रादुर्भावो यस्य सः। वाय्वनुग्रहादेव संयोगविभागहेतुर्गतिर्जायते तावेव च शब्दाविर्भावे कारणमित्यर्थः। ननु क्व तदा वायुरित्यत आह- स इति। ईश्वरः अन्तरं छिद्रं लब्ध्वा लब्धैव अक्षोभ्योऽपि सन्समीरणो भूत्वा व्यवर्द्धत। आकाशादनन्तरमेव उत्पन्नो वायुः शब्दगत्योः निमित्तत्वं प्रापेत्यर्थः॥५॥

विवर्धता बलवता तेन संक्षोभितोऽर्णवः ।
अन्योन्यवेगाभिहता ममन्थुश्चोर्मयो भृशम्॥६॥

विवर्धतेति। आर्षस्तङ्ङभावः। अर्णवश्चिदात्मा तेन वायुना कथं संक्षोभित इत्यत आह- अन्योन्येति। इदानीं हि चिदहङ्काराकाशवायवः सन्ति। तत्र चित्ताहङ्कारस्य जाड्यं अभिहितम्। इतरेण तस्याः शुद्धत्वं हतम्। एवमहङ्कारव्यञ्जनेन वायोर्निःस्पन्दत्वं हृतं वायुनाऽप्यहङ्कारतरोर्निस्पन्दत्वं हृतमित्यन्योन्याभिघातात्ते ऊर्मयः सङ्कल्पभेदाः ममन्थुर्व्याकुलीचक्रुरर्णवमिति प्रकरणात् विपरिणामेनानुषज्य योज्यम्॥६॥

महार्णवस्य क्षुब्धस्य तस्मिन्नम्भसि मध्यति ।
कृष्णवर्मा समभवत्प्रभुर्वैश्वानरोऽर्चिमान्॥७॥

मथ्यति मथ्यमाने अर्चिमान् अर्चिष्मान्॥७॥

तत्र संशोषयामास पावकः सलिलं बहु ।
क्षयाज्जलनिधेश्छिद्रमभवन्निःसृतं नमः॥८॥

रूपवता तेजसा नीरूपस्य चिदात्मनो रूपत्वादनेन अत्यन्तं कालुष्यं सम्पादितमित्याह- तत्रेति। तेजः शुद्धं वस्तु नास्तीत्येवाकरोदित्यर्थः। क्षयादिति। उक्तक्रमेण जलनिधेः परमेश्वरस्य क्षयादैश्वर्याद्यच्छिद्रमभवत् पूर्वोक्तं तदेव नभो निःसृतमिति॥८॥

आत्मतेजोद्भवाः पुण्या आपोऽमृतरसोपमाः ।
आकाशं छिद्रसम्भूतं वायुराकाशसम्भवः॥९॥

“आत्मन आकाशः सभूम्तः” इत्यादिश्रौतवादः। वस्तुतस्तु स एवाकाश इत्यर्थः। जलसृष्टिमाह- आत्मेति। तेजोद्भवा इति सन्धिरार्षः। आत्मतेजोद्भवा इति- श्लोकार्धक्षयाज्जलनिधेरित्यस्मात्पूर्वं बोध्यं तेजोजलयोर्मध्ये नभःसृष्टेरन्वयात्। आकाशमिति। आकाशम् ईश्वरः छिद्रसम्भूतं छिद्रभूताकाशे वायुरूपेण सम्भूतम् आविर्भूतमेव वायुः तथापि, आकाशाद्वायुरिति वेदवाद औपचारिकः। मूलकारणमेव आनन्त्यात्कार्यान्नट इव तत्तद्रूपेण भाति नात्र सृष्टिक्रमविवक्षाऽस्ति गगनद्रुम इवाङ्कुरादीनामिति भावः॥९॥

आज्यसङ्घर्षणोद्भूतं पावकं चाज्यसम्भवम् ।
दृष्ट्वा प्रीतियुतो देवो महाभूतादिभावनः॥१०॥

आज्येति। आज्यमिव द्रवत्वादाज्यं जलं तस्य सङ्घर्षणं दृढतराश्लेषः पृथिवीति यावत्। “तद्यदपाꣳश आसीत्स महत्यसौ पृथिव्यभवत्” इति श्रुतेः। करकादिवद्दृढत्वं प्राप्ता आप एव पृथिवी। आज्यसङ्घर्षणं तस्यामुद्भूतम् आविर्भूतं जाठरं पावकम् आज्यसम्भवं परम्परया जलोद्भूतं पार्थिवमग्निं भोक्तारमिति यावत्। शब्दादिगुणवन्ति महाभूतानि भोग्यानि भोक्तारं च जीवं दृष्ट्वा महाभूतानाम् आदिभूतम् अहङ्कारं महाभूतादीन् भावयति आत्मत्वेन कल्पयतीति महाभूतादिभावनोऽहङ्कारादिस्रष्टा देवः ईश्वरः प्रीतियुतोऽभवत्। अतः भौतिकान् हिरण्यगर्भादीन् स्रक्ष्यामीति॥१०॥

दृष्ट्वा भूतानि भगवाँल्लोकसृष्ट्यर्थतत्त्ववित् ।
ब्रह्मणो जन्मसहितं बहुरूपो विचिन्वति॥११॥

तदेवाह- दृष्ट्वेति। लोकस्य सृष्टिः तस्या अर्थप्रयोजनं तत्त्वं च लोकादेर्वेत्ति इति लोकसृष्ट्यर्थं तत्त्ववित् स ईश्वरः ब्रह्मणो जन्म विचिन्वतीति चिन्तयति। विचिन्वतीति वर्तमानोपदेशेन प्रवाहनित्योऽयमर्थ इति सूचितम्। प्रतिकल्पं सङ्कल्पमात्रेण ब्रह्माणं सृजतीत्यर्थः। कीदृशं जन्म? हितं भौतिकस्रष्टृत्वाद्ब्रह्मणस्तज्जन्म ईश्वरस्य हि सृष्टिबाहुल्यमिच्छतो हितकरम्। कीदृशः? बहुरूपः जीवेशः शुद्धरूपः॥११॥

चतुर्युगादिसङ्ख्यान्ते सहस्त्रयुगपर्यये ।
यत्पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनाम्॥१२॥

ब्रह्मणो जन्मकालमाह- चतुर्युगेति। अनेन दिनप्रमाणेन वर्षशतमुन्नेयम्॥१२॥

बहुजन्मनिरुद्धात्मा ब्राह्मणो यतिरुत्तमः ।
ज्ञानवान्दृष्टविश्वात्मा योगिनां योगवित्तमः॥१३॥

उत्पादितस्य ब्रह्मणः पूर्वं रूपमाह द्वाभ्याम्- यत्पृथिव्यामिति। यत् यः पृथिव्यां पूर्वस्मिन्कल्पे भूमौ यः द्विजेन्द्राणां मध्ये उत्तमः निरतिशयभावनावान् ब्रह्मणो विश्वरूपस्य उपासको ब्राह्मणः॥१३॥

तं योगवन्तं विज्ञेयं सम्पूर्णैश्वर्यविक्रमम् ।
देवो ब्रह्माणि विश्वे च नियोजयति योगवित्॥१४॥

अत एव दृष्टविश्वात्मा साक्षात्कृतसूत्रात्मभावः तं विज्ञेयं सर्वैरुपास्यं यतः सम्पूर्णैश्वर्यविक्रमं देवो विश्वेशः ब्रह्मणि विश्वे च वेदजगतोः सन्तत्यविच्छेदे विषये नियोजयति। सूत्रोपासकानां मध्ये यत्र भावनोत्कर्षविश्रान्तिः सोऽग्रिमकल्पे ब्रह्मा भवतीत्यर्थः॥१४॥

ततस्तस्मिन्महातोये हविषो हरिरच्युतः ।
स्वपन्क्रीडंश्च विविधं मोदते चैष पावकिः॥१५॥

तत इति। ततः ब्रह्मणो नियोगानन्तरं महातोये स्वस्वरूपे निर्विशेषे हरिरच्युतो भवति सृष्टिविक्षेपराहित्यात्। एष पावकिश्व नियुक्तस्तैजसो ब्रह्मा हविषः प्राणिकर्मवशाद्धेतोः स्वयं कर्मोपरमे विविधं क्रीडंश्च सर्वप्राणिकर्मोद्भवे एवं प्रकारेण ब्रह्माण्डाधिपतिर्भूत्वा मोदत इत्यर्थः॥१५॥

पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्तदा ।
सहस्रपत्रं विरजो भास्कराभं हिरण्मयम्॥१६॥

ब्रह्मणः सदनभूतं ब्रह्माण्डरूपं पद्ममुपक्षिपत्सिंहावलोकनेन हरिं विशिनष्टि- पद्ममिति। तदा ब्रह्मजन्मकाले पद्ममेत्र स्तौति- नाभ्युद्भवमिति। “अधोनिष्ट्यावितस्त्यान्ते नाभ्यामुपरि तिष्ठति। ज्वालमालाकुलं भाति विश्वस्यायतनं महत्॥” इति श्रुतिप्रसिद्धैवात्र नाभिर्ग्राह्या। आपवाख्यवसिष्ठसमाधेः प्रस्तुतत्वात्। सहस्रेति सहस्रम् अनन्तानि पत्राणि भोगभूमयः प्राणिभ्रमरा यस्मिन् तत् तत् विरजः रजो रेणुः पार्थिवाप्यादिरेणुस्तद्रहितं भास्कराभं सर्वतः प्रद्योतमानं हिरण्मयं मनोहरणशीलं दिव्यास्त्रादिरत्नौघमयम्॥१६॥

हुताशनं ज्वलितशिखोज्ज्लप्रभं सुगन्धिनं शरदमलार्कतेजसम् ।
विराजते कमलमुदारवर्चसं महात्मनस्तनुरुहचारुदर्शनम्॥१७॥

हुतेति। वह्निज्वालावद्दीप्यमानाः शिखा इव शिखाः उज्ज्वलास्तेषां प्रभा यस्मिन्। तदा समाधिकाले सुगन्धिनं रम्यविषयास्वादयुक्तं पुंस्त्वमार्षम्। कमलं कस्य ब्रह्मणो मलम् आविद्यकं रूपं विराजते। यद्वा कं ब्रह्मैव अलम् अत्यर्थं विविधरूपेण राजते। आत्मन आपवस्य तनूरुहं तन्वां हार्दाकाशे वाभावे वा रोहितीत्येवंरूपं तनूरुहं च तच्चारुदर्शनं चेति समासः॥१७॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे महापद्मोत्पत्तौ एकाद‌शोऽध्यायः॥११॥
सर्वभूतोत्पत्तिः

वैशम्पायन उवाच। अथ योगविदां श्रेष्ठं सर्वभूतमनोमयम् ।
स्रष्टारं सर्वभूतानां ब्रह्माणं सर्वतोमुखम्॥१॥

लेशतोऽपि न भेदोऽस्ति बाह्याभ्यन्तरविश्वयोः इति वक्तुं मुनिः प्राह षष्ठे नाभ्यब्जसम्पदम्। अथेति। ब्रह्माणं तस्मिन्पद्मे आपवो योजयतीति व्यवहितकर्तृक्रियानुषङ्गेण श्लोकद्वयं सम्बन्धनीयम्। सर्वभूतमनोमयं जलाकाशवत्प्रतिव्यक्तिपरिसमाप्तं सूत्रात्मानमित्यर्थः। सर्वतोमुखमिति सर्वतः पाणिपादत्वादेरुपलक्षणम्॥१॥

तस्मिन्हिरण्मये पद्मे बहुयोजनविस्तृते ।
सर्वतेजोगुणमये पार्थिवैर्लक्षणैर्युते॥२॥

तेजांसि सूर्यादीनि। गुणाः गन्धादयः। पार्थिवे मनोमयेऽपि सर्वस्थूलभूमिलक्षणैर्युक्ते॥२॥

तच्च पद्मं पुराणज्ञाः पृथिवीरुहमुत्तमम् ।
नारायणाङ्गसम्भूतं प्रवदन्ति महर्षयः॥३॥

पृथिवीरुहं च। “यच्छरीरं सा पृथ्वी” इति श्रुतेः। पृथिवी शरीरं तस्यां रोहतीति देहान्तस्यामित्यर्थः। अत्र हेतुः- नारायणाङ्गसम्भूतम् अन्तर्याम्यङ्गोद्भूतमन्तरेवाऽस्तीति भावः॥३॥

या तु पद्मासना देवी पृथिवीं तां प्रचक्षते ।
ये गर्भसाराङ्कुरतस्तान्दिव्यान्पर्वतान्विदुः॥४॥

पार्थिवैर्लक्षणैर्युत इति यदुक्तं तत्र का पृथिवी कानि च तल्लक्षणानीत्यत आह- या त्विति। पद्मशब्देन तथासनं शरीरं तस्यासनं शरीरं तस्यासनं यत्र सा पृथिवी प्रसिद्धैव। ये गर्भे पाषाणमयत्वात्सारा दृढाः सन्तः अङ्कुरवदुच्छूनास्तान् प्रथमार्थे तसिः विशेषणं तु पिण्डब्रह्माण्डयोरैक्यविवक्षायाम्। पिण्डेऽपि कठिनांशोऽस्थ्यादिः पर्वतत्वेन ज्ञेय इत्येवमर्थः॥४॥

हिमवन्तं च मेरुं च नीलं निषधमेव च ।
कैलासं मुञ्जवन्तं च तथाद्रिं गन्धमादनम्॥५॥

पुण्यं त्रिशिखरं चैव कान्तं मन्दरमेव च ।
उदयं कन्दरं चैव विन्ध्यमस्तं च पर्वतम्॥६॥

एते देवगणानां च सिद्धानां च महात्मनाम् ।
आश्रमाः पुण्यशीलानां सर्वकामयुताद्रयः॥७॥

युताश्च ते अद्रयश्चेति समासः॥७॥

एतेषामितरो देशो जम्बूद्वीप इति स्मृतः ।
जम्बूद्वीपस्य सङ्ख्यानं याज्ञिया यत्र चक्रिरे॥८॥

यज्ञियं देशमिच्छन्ति ते याज्ञियाः यत्र चक्रिरे यज्ञं जम्बुद्वीपमेव कर्मभूमिरित्यर्थः॥८॥

गर्भाद्यत्स्रवते तोयं देवामृतरसोपमम् ।
दिव्यतीर्थशतपाङ्ग्यस्तादिव्याःसरितःस्मृताः॥९॥

यज्ञस्येत्युपस्थितं सम्बध्यते तथाहि- “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजा॥” इति यज्ञोद्भवत्वं तोयस्य स्मरन्ति। तीर्थशतान्यपाङ्गो भ्रूभङ्गो यासां ताः दिव्या नद्यो गङ्गाद्याः ब्रह्माण्डं भित्त्वा मेरूपरि पतित्वा चतुर्दिक्षु प्रस्थिताः॥९॥

यान्येतानि तु पद्मस्य केसरााणि समन्ततः ।
असङ्ख्याताः पृथिव्यां तु विश्वे ते धातुपर्वताः॥१०॥

यानि पद्मस्य पत्राणि भूरीण्यूर्ध्वं नराधिप ।
ते दुर्गमाः शैलचिता म्लेच्छदेशा विकल्पिताः॥११॥

यान्यधः पद्मपत्राणि वासार्थं तानि भागशः ।
दैत्यानामुरगाणां च पातालं तन्महात्मनाम्॥१२॥

तेषामधोगतं यत्तदुद‌केत्यभिसंज्ञितम् ।
महापातककर्माणो मज्जन्ते यत्र मानवाः॥१३॥

उत् उत्कृष्टम् अकं दुःखं यत्र तदुदकेत्यभिसंज्ञितम्॥१३॥

पद्मस्यान्ते कुशं यत्तदेकार्णवजलं महत् ।
प्रोक्तास्ते दिक्षु सङ्घाताश्चत्वारो जलसागराः॥१४॥

पद्मस्य मेरुकर्णिकावतो भूपद्मस्य अन्ते समन्ततः प्रान्ते कुशं कुः पृथिवी शेतेऽस्मिन्निति कुशं जलम्॥१४॥

ऋषेर्नारायणस्यायं महापुष्करसम्भवः ।
प्रादुर्भावोऽप्ययं तस्मान्नाम्ना पुष्करसम्भवः॥१५॥

ऋषेरिति। व्यावहारिकत्वादयं महापुष्करसम्भवः योऽयं योगिहृदयदर्पणे प्रादुर्भावः स तस्मादेव संस्काररूपेण हृदये स्थितात्स्थूलाद्धेतोः नाम्ना पुष्करसम्भव इत्युच्यते। प्रतिबिम्बचैत्रेऽपि चैत्रोऽयमिति व्यवहारस्य बाधादर्शनादेकनामत्वं द्वयोर्युक्तमिति भावः॥१५॥

एतस्मात्कारणात्तज्ज्ञैः पुराणैः परमर्षिभिः ।
यज्ञियैर्वेददृष्टार्थैर्यज्ञे पद्मचिती कृतः॥१६॥

व्यवहारमुक्त्वा वस्तुतत्त्वमाह- एतस्मादिति। एतस्मात् अव्यवहितात् प्रकरणवतः योगिकल्पितात्पुष्करसम्भवात् महापुष्करसम्भवस्य बीजभूतात् यज्ञियैः कर्मयोगयज्ञार्हैः पद्मचिती पद्मरूपकेण चितं चयनम् इष्टकाभिरिति वदस्यास्तीति पद्मचिती स्थूलः पुष्करप्रादुर्भावः कृतो विहितः यतो वेददृष्टार्थैरतः कृतः। वेदे लोके च सूक्ष्मस्यैव स्थूलत्वं दृष्टं न स्थूलस्य सूक्ष्मत्वम्। न हि बीजं वटो भवतीति वटोऽपि समासहस्रेण बीजीकर्तुं शक्योऽतो मानसादेव पुष्करात् स्थूलस्योत्पत्तिर्युक्तेति भावः॥१६॥

एवं भगवता पद्मे विश्वस्य परमो विधिः ।
पर्वतानां नदीनां च देवतानां च निर्मितः॥१७॥

एवमिति। परमो व्यावहारिकः॥१७॥

विभुस्तथैवाप्रतिमप्रभावः प्रभाकरो वै भगवान्महात्मा ।
स्वयं स्वयम्भूः शयनेऽसृजत्तदा जगन्मयं पद्मनिधिं महार्णवे॥१८॥

विभुरिति। तथैव परमस्तथैव शयने स्थूलदेहविस्मरणे पद्मानां निधिम् अनन्तानि पद्मानीत्यर्थः। महार्णवे परमात्मनि॥१८॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे सर्वभूतोत्पत्तौ द्वादशोऽध्यायः॥१२॥
मधुकैटभवरप्रदानम्

वैशम्पायन उवाच। चतुर्युगादिसम्भूतौ सहस्रयुगपर्यये ।
विघ्नस्तमासि सम्भूतो मधुर्नाम महासुरः॥१॥

सप्तमे लयविक्षेपौ विघ्नौ तामसराजसौ। सत्त्वेन विष्णुना क्षेप्यौ मधुकैटभरूपकौ॥ चतुर्युगादिः कृतं सात्त्विको योगधर्मः तत्रापि सम्भूतौ अधर्मपादस्य सत्तवोक्तेः सहस्रयुगपर्यये अमिताविद्यारात्रिक्षयसमये चित्तसत्त्वं हि तत्त्वे प्रणिधीयमानं दैनन्दिनलयाभ्यासात्तमसः प्राबल्ये सति लीयते स लयोऽत्र मधुनामा॥१॥

तस्यैव च सहायोऽन्यो भूतो रजसि कैटभः ।
तौ रजस्तमसाविष्टौ सम्भूतौ कामरूपिणौ॥२॥

तथा रजःप्राबल्ये सति क्षणिकसत्तवोत्कर्षात्सत्यपि क्षणं तत्त्वलाभे पुनः संसारप्रवणं भवति स विक्षेपो नाम विघ्नोऽत्र कैटभो नाम। योऽयं सत्त्वाविविक्तश्चिद्धातुः स जीवो ब्रह्मा नाम। तस्य हिंसां संसारसङ्कटे पातनं विष्णुः सत्त्वं तच्छरीरे सत्त्वे एव तयोर्नाशः अग्रिमकल्पेऽप्युत्थानं तत्र मधुकैटभयोः विष्णुपुत्रत्वं रजस्तमसोः सत्त्वं प्रत्युपसर्जनत्वम्॥२॥

एकार्णवजलं सर्वं क्षोभयन्ती महासुरौ ।
कृष्णरक्ताम्बरधरौ श्वेत दीप्तोग्रदंष्ट्रिणौ॥३॥

उभौ मदकटोदग्रौ केयूरवलयोज्ज्वलौ ।
महाविकृतताम्राक्षौ पीनोरस्कौ महाभुजौ॥४॥

महच्छिरःसंहननौ जङ्गमाविव पर्वतौ ।
नीलमेघाभ्रसङ्काशावादित्यप्रतिमाननौ॥५॥

विद्युदम्भोदताम्राभ्यां कराभ्यामतिभीषणौ ।
पादसञ्चारवेगाभ्यामुत्क्षिपन्ताविवार्णवम्॥६॥

कम्पयन्ताविव हरिं शयानमरिसूदनम् ।
तौ तत्र विहरन्तौ स्म पुष्करे विश्वतोमुखम्॥७॥

पश्यतां दीप्तवपुषं योगिनां श्रेष्ठमुत्तमम् ।
नारायणसमाज्ञप्तं सृजन्तमखिलाः प्रजाः ।
दैवतानि च विश्वानि मानसांश्च सुतानृषीन्॥१०॥

ततस्तावूचतुस्तत्र ब्रह्माणमसुरोत्तमौ ।
दृप्तौ युयुत्सुकौ क्रुद्धौ रोषसंरक्तलोचनौ॥९॥

कस्त्वं पुरुष मध्यस्थः सितोष्णीषश्चतुर्मुखः ।
आवामगणयन्मोहादासे त्वं विगतज्वरः॥१०॥

एह्यावयोर्बाहुयुद्धं प्रयच्छ कमलोद्भव ।
आवाभ्यामतिवीराभ्यां न शक्यं स्थातुमाहवे॥११॥

कस्त्वं कश्चोद्भवस्तुभ्यं केन वासीह चोदितः ।
कः स्रष्टा कश्च वै गोप्ता केन नाम्नाभिधीयसे॥१२॥

ब्रह्मोवाच। यः क इत्युच्यते लोके ह्यविज्ञातः सहस्रशः ।
तत्सम्भवं योगवन्तं किं मां नाभ्यवगच्छथः॥१४॥

मधुकैटभावूचतुः। नावयोः परमं लोके किञ्चिदस्ति महामते ।
आवां छादयता विश्वं तमसा रजसा तथा॥१४॥

रजस्तममोमयावावां यतीनां दुःखलक्षणौ ।
छलकौ धर्मशीलानां दुस्तरौ सर्वदेहिनाम्॥१५॥

आवाभ्यां मुह्यते लोक उच्छ्रिताभ्यां युगे युगे ।
आवामर्थश्च कामश्च यज्ञाः सर्वपरिग्रहाः॥१६॥

सुखं यत्र मुदो यत्र यत्र श्रीः सन्निवृत्तयः ।
एषां यत्काङ्क्षितं चैव तत्तदावां विचिन्तय॥१७॥

ब्रह्मोवाच। यत्तद्योगवतां श्रेष्ठं यच्च सर्वं मयार्चितम् ।
तत्समाधाय गुणवान्त्सत्त्वजोऽस्मि प्रतिष्ठितः॥१८॥

यत्परं योगयुक्तानामक्षरं सत्त्वमेव च ।
रजसस्तमसश्चैव यत्स्रष्टा जीवसम्भवः॥१९॥

यतो भूतानि जायन्ते सात्त्विकानीतराणि च ।
स एवं युक्तः समरे वशी वां शमयिष्यति॥२०॥

वैशम्पायन उवाच। ततः शयानं श्रीमन्तं बहुयोजनविस्तृतम् ।
पद्मनाभं हृषीकेशं प्रणम्योवाच तावुभौ॥२१॥

जानीवस्त्वां विश्वयोनिमेकं पुरुषसत्तमम् ।
तवोपासनहेत्वर्थमिदं नौ विद्धि कारणम्॥२२॥

अमोघदर्शनं सत्यं यतस्त्वां विदुरीश्वरम् ।
ततस्त्वामभितो देव काङ्क्षावः प्रतिवीक्षितुम्॥२३॥

तदिच्छावो वरं दत्तं त्वया ह्यावामरिन्दम ।
अमोघं दर्शनं देव नमस्तेऽस्त्वजितञ्जय॥२४॥

श्रीभगवानुवाच। कानिच्छतो द्रुतं ब्रूतं वरानसुरसत्तमौ ।
दत्तायुषौ मया भूयस्त्वहो जीवितुमिच्छथः॥२५॥

तस्माद्यदेष वां यत्नस्तत्प्राप्नुतं महाबलौ ।
वध्यौ भवन्तौ तु स्यातां तावित्येवाब्रवीद्धरिः ।
उभावपि महात्मानावूरतौ क्षतवर्जितौ॥२६॥

मधुकैटभावूचतुः। यस्मिन्नकश्चिन्मृतवांस्तस्मिन्देशे विभो वधम् ।
इच्छावः पुत्रतां यातुं तव चैव सुराधिप॥२७॥

श्रीभगवानुवाच। बाढं सुतौ मे प्रवरौ भविष्ये कल्पसम्भवे ।
भविष्यथो न सन्देहः सत्यमेतद्ब्रवीमि वाम्॥२८॥

वैशम्पायन उवाच। वरं प्रदायाथ महासुराभ्यां सनातनो विश्ववरोत्तमो विभुः ।
रजस्तमोभ्यां भवभावनोपमौ ममन्थ तावूरुतले सुरारिहा॥२९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि मधुकैटभवरप्रदाने त्रयोदशोऽध्यायः॥१३॥
ब्रह्मणो मानसपुत्राणामुत्पत्तिः

वैशम्पायन उवाच। स्थित्वा तस्मिंस्तु कमले ब्रह्मा ब्रह्मविदां वरः ।
ऊर्ध्वबाहुर्महाबाहुस्तपो घोरं समाश्रितः॥१॥

भ्वादिसंज्ञं विराडादित्रतं युक्त्यनुभूतितः। विमुच्य सुस्थिताद्भूम्नो व्युत्थाने सृष्टिरष्टमे॥ स्थित्वेति। अत्र यथा स्फटिके जपाकुसुमसान्निध्याद्रक्तत्वाध्यासः, तत्रैव स्फटिकांशप्रमोषे पद्मरागत्वाध्यासः, तत्रैव निशि चन्द्रिकायामिन्द्रनीलत्वाध्यासः, एवं शुद्धायां चिति मायोपाधिसान्निध्यादीश्वरत्वाध्यासः, तत्रैव मायाबलतारतम्यात्सूत्रात्मविराट्त्वाध्यासौ स्तः। अत एव शास्त्रे प्रणवमात्राणामकारोकारमकारार्धमात्राणां प्रातिलोम्येनार्था अविद्योपाधिना जीवेन स्थूलदेहासङ्गेन क्रमात्पूर्वस्योत्तरोत्तरत्र प्रविलापनेन साक्षात्कर्तव्याः। अर्धमात्राणां स्वरूपमात्रप्रतिष्ठ आत्मनि भवति द्वैतादर्शनात्। सोऽयमात्मा आवरणविक्षेपशक्तिमत्या अविद्यया आश्रयस्तत्रावरणांशेन शुद्धरूपतिरोधानं विक्षेपांशेन ईशादिस्थलदेहान्तानां प्रतिभासस्तत्रापि ईशादिषु उत्तरस्य पूर्वं पूर्वमावृत्तिरिति वस्तुस्थितिः। तत्रावरणांशस्य साङ्ख्यानामविचारो विरोधी विक्षेपांशस्य तु योगेनैव निवृत्तिः सोपाधिकभूतस्य उपाधिनिवृत्तिमन्तरेण परोक्षज्ञानमात्रेण नाशायोगात्। एवं च योगिनः स्थूलदेहासङ्गे विराड्भावः स्फटिके इन्द्रनीलत्वाध्यासस्थानीयो भूतानामादिचिदचिद्ग्रन्थिरूपतया ब्रह्मसंज्ञस्य मननिकल्पितः पुत्रः साङ्ख्ययोगाभ्यां प्रतिबोधितः सन्निवर्तते। ततः चन्द्रिकानिवृत्तौ स्फटिके पद्मरागत्वाध्यासोपमः सूत्रात्मा तस्यैव ब्रह्मणो मानसः पुत्रो भुवोनामा तथैव साङ्ख्ययोगाभ्यां प्रतिबोधितः सन्निवर्तते। तद्वत्स्फटिके लौहित्याध्यासोपमो ब्रह्मणो मानसः पुत्र ईशोऽपि भूर्भुवर्नामा पूर्ववत्प्रतिबोधान्निवर्तते ततः शुद्धा चितिरेवावशिष्यते। सोऽयमर्थोऽत्र ब्रह्मनारायणकपिलभूर्भुवाद्याधिदैविकवृत्तान्तरूपकेण निरूप्यते एकविंशत्या श्लोकैः। ततः परं, न रराम ततो ब्रह्मेत्यादिनाऽध्यायशेषेण चिदात्मैव सन्योगी चिदात्मकमेव सर्वं जगत्सृष्टिसमये सृजतीत्युच्यते। अक्षरयोजना तु एवं ज्ञेया- कमले मानसे ब्रह्माण्डे ऊर्ध्वं प्रणवाख्यं ब्रह्म बाहुरिव बाहुरालम्बनं यस्य स ऊर्ध्वबाहुः तपो योगं घोरं सर्वप्रविलयरूपत्वात्॥१॥

ज्वलन्निव च तेजस्वी भाभिःस्वाभिस्तमोनुदः ।
बभासे सर्वधर्मस्थः सहस्रांशुरिवांशुमान्॥२॥

भाभिश्चिद्दीप्तिभिः तमोनुदः अज्ञानध्वंसी सर्वधर्मस्थो योगधर्मस्थः॥२॥

अथान्यद्रूपमास्थाय शम्भुर्नारायणोऽव्ययः ।
द्विधा कृत्वाऽऽत्मनाऽऽत्मानमचिन्त्यात्मा सनातनः॥३॥

आजगाम महातेजा योगाचार्यो महायशाः ।
साङ्ख्याचार्यश्च मतिमान्कपिलो ब्राह्मणो वरः॥४॥

नारायणकपिलौ योगसाङ्ख्यशास्त्रयोराधिष्ठात्र्यौ देवते तयोः साङ्ख्याचार्यो मतिमान् उपपत्तिप्रधानः॥४॥

देवर्षिभिस्तु तावेतौ ब्रह्म ब्रह्मविदां वरौ ।
उभावपि महात्मानावूर्जितौ क्षेत्रतत्परौ॥५॥

देवर्षिभिरिति। ब्रह्मविदां वरौ ब्रह्म ब्रह्माणं प्रति ऊचतुरित्युत्तरेणान्वयः। विचारवित्तनिग्रहश्च क्षेत्रवत्परौ पुरुषैकत्वानेकत्वप्रकृतिमिथ्यात्वामिथ्यात्ववादितया परस्य विरोधिनावपि योगमाहात्म्यादेव योगिनमुपतिष्ठन्त इति भावः॥५॥

तौ प्राप्तावूचतुस्तत्र ब्रह्माणममितौजसम् ।
परावरविशेषज्ञौ पूर्जितौ परमर्षिभिः॥६॥

द्वावपि स्वस्वमते विरुद्धांशमपहायाविरुद्धांशे ऐकमत्यं गतौ तन्त्रेण ऊचतुः॥६॥

बहुत्वाद्दृढपादश्च विश्वात्मा जगतः स्थितिः ।
ग्रामणीः सर्वलोकानां ब्रह्मा लोकगुरुर्वरः॥७॥

बहुत्वादिति। तत्र योगाचार्यवाक्यबहुत्वाद्दृढपादश्चेति लोकगुरुः अविद्यादिभिः परामृष्टानां लोकानां गुरुः गुरुतरत्वात् वरः श्रेष्ठ इति तटस्थेश्वरोपन्यासः स च बहुत्वात् लोकानामिति समासान्तर्गतमपि बुद्ध्या निष्कृष्यते। बन्धमोक्षव्यवस्थाया आवश्यकत्वेन जीवानां बहुत्वान्न नियन्ता सेनापतिवत्तटस्थोऽवश्यमेष्टव्य इत्यर्थः। दृढपादश्च पद्यन्ते गम्यन्ते भोगा यैस्ते पादा विषयेन्द्रियबुद्धयः दृढाः रज्जूरगादिवद्बाधायोग्याः किं तु वृत्तिनिरोधेन हेया एव व्यवहारानन्त्यात् सत्याः पादा यस्य स दृढपादः तेन विषयादेः सत्यत्वेन प्रकृतेरपि सत्यत्वमुक्तम्। साङ्ख्याचार्यवचनं तु विश्वात्मा जगतः स्थितिरिति लोकगुरुर्विश्वात्मेति सम्बन्धः। विश्वं चेतनं सर्वम् आत्मा स्वरूपं यस्य स तथा। ब्रह्मसमुद्रे जगज्जीवेश्वरतरङ्गाः कोटिशः उत्पद्यन्त इति भावः। कथं तर्हि बन्धमोक्षादिव्यवहारः ऐकात्म्ये एकमुक्त्यापत्तेरित्यत आह- जगतः स्थितिरिति। जलचन्द्रवदौपाधिकभेदेनापि बन्धमोक्षव्यवस्थोपपत्तेः परस्यापि निर्विशेषचिन्मात्ररूपाणां लक्षणभेदाभावेन भेदस्य वक्तुमशक्यत्वादेक एवात्मेति वक्तुं युक्तं तथा बहूनामलुप्तदृशां विभूनां पुंसां सन्निहितं जगत्कथं कस्यचिद्दृश्यमदृश्यं च रज्जूरगतुल्यतामन्तरेण स्यादिति प्रकृतिसत्यत्वमप्युक्तम्। स्वप्नादिवदसत्यादपि चरमधातुविसर्गान्तव्यवहारोपपत्तिरिति भावः। उभयसंमतं वाक्यं ग्रामणीः सर्वलोकानामिति आस्तां मतभेदः। स मुक्तौ शिष्यमाणस्त्वेकल एव केवलो निर्विशेषः स एव मुख्य इत्यर्थः। ब्रह्मा ब्रह्मवित् वरो वरणीयोऽन्यत्सर्वं बुद्ध्यादिकं हेयमित्यर्थः॥७॥

तयोस्तद्वचनं श्रुत्वा तिस्रो व्याहृतयो जपन् ।
त्रीनिमान्कृतवाँल्लोकान्यथाह ब्राह्मणी श्रुतिः॥८॥

सर्वलोकानामित्युक्तं तत्र लोकस्वरूपमाह- तयोरिति। व्याहृतयो व्याहृतीः इमान् प्रत्यक्षान् विश्वतैजसप्राज्ञान्। अत्र प्रमाणमाह- यथेति। ब्राह्मणी ब्रह्मप्रतिपादिका। “भूरित्येव ऋग्वेदादजायत” इत्युपक्रम्य, “तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्ताकार उकारो मकारः” इति श्रुतेर्व्याहृतिसारस्य प्रणवस्य विश्वाद्यात्मकत्वात् भूरादिशब्दैर्विश्वाद्या एव ज्ञेयाः। अत्र साङ्ख्यशब्देनोपनिषद एव ग्राह्यो न तु निरीश्वरः। ततश्च तस्य वाचकः प्रणव इति वदतो योगाचार्यस्यापि, “ओमित्येतदक्षरमिदं सर्वम्” इति श्रौतः प्रणवार्थ ऐकात्म्यरूपोऽभिमत इति तयोरविरोध इति भावः॥८॥

यत्र भूसंज्ञकं चैव समुत्पादितवान्प्रभुः ।
ततोऽग्रे तद्गतस्नेहो ब्रह्मा मानसमव्ययम्॥९॥

तत्र तेषु लोकेषु स्रष्टव्येषु ततो भूसंज्ञात् वैश्वानरात्पूर्वं वा गतः सूक्ष्मं कारणं वा गतः सूक्ष्मं कारणं वा पश्चादागतः स्थूलं व्यष्टिशरीरं प्रतीतिः ततो गतागतः तत्र भूसंज्ञके स्थितः। मानसमिति कल्पितत्वमुक्तम्। अत एव अव्ययं रज्जूरगवदनुत्पन्नत्वादेव नाशरहितम्॥९॥

सोत्पन्नस्त्वग्रे ब्रह्माणमुवाच मानसः सुतः ।
करोमि कि ते साहाय्यं ब्रवीतु भगवानिति॥१०॥

सोत्पन्न इति पादपूरणार्थः सुलोपः। अग्रे स्थितः॥१०॥

ब्रह्मोवाच। य एष कपिलो नाम ब्रह्मा नारायणस्तथा ।
वदत वरस्त्वां तु तत्कुरुष्व महामते॥११॥

वदते अभिमन्त्रयते। “भासनोपसम्भाषा” इत्यादिना तङ्॥११॥

वैशम्पायन उवाच। ब्रह्मणोक्तस्तदा भूयः संशयं समुपस्थितः ।
शुश्रूषुरस्मि युवयोः किं कुर्मीति कृताञ्जलिः॥१२॥

स मानसो भूः मनःप्रधानात् मत्पितुरप्यन्यः को महानस्तीति संशयं समुपस्थितः प्राप्तः। कुर्मि करोमि॥१२॥

परमेश्वरावूचतुः। यत्सत्यमक्षरं ब्रह्म ह्यष्टादशनिधं स्मृतम् ।
यत्सत्यममृतं चैव परं तत्समनुस्मर॥१३॥

यदिति। सत्यं त्रैकालिकबाधरहितम्, अक्षरम् अपरिणामि अष्टादशनिधम्, अष्ट च दश च निधाः पाशा मतभेदेन यस्य तत् अष्टादशनिधम्। विधमिति पाठे अष्टादशबन्धप्रकारम्। विधिमिति पाठे तैर्विधीयते नियोज्यत इत्यर्थः। निधाः पाशाः “पाशा वै निधिः” इति श्रुतेः। साङ्ख्यमते अष्टौ निधाः कर्मेन्द्रियाणि पञ्च॥१॥ ज्ञानेन्द्रियाणि पञ्च॥२॥ मनआदिचतुष्कम्॥३॥ प्राणपञ्चकम्॥४॥ वियदादिपञ्चकम्॥५॥ कामः॥६॥ कर्म॥७॥ अविद्या च तैः पुर्यष्टकम्। एतदेवाविद्यातिरिक्तप्रकृतिपुरुषाधिकेश्वरसहितं दशकं योगानां बन्धकम्। यद्यप्येतेषां प्राणादिपञ्चकसामान्यकारणवृत्तिस्तथापि सामान्यविशेषभेदेनैव तस्य पृथक्त्वं ज्ञेयम्। स्वं स्वं मतमुपन्यस्य परमार्थमाहतुः- यदिति। सत् मूर्तं तेजोऽबन्नरूपं यत् वाय्वाकाशाद्यव्याकृतम् अमृतं प्रविलापनयितयामृतयोरधिष्ठानं च यत्परं वस्तु सर्वदा विशेषशून्यं चिदेकरसं स्मर चिन्तयाहमस्मीति विद्धीत्यर्थः॥१३॥

वैशम्पायन उवाच। एतद्वचो निशम्याथ स ययौ दिशमुत्तराम् ।
गत्वा च तत्र ब्रह्मत्वमगमज्ज्ञानचक्षुषा॥१४॥

उत्तरां दिशं परां काष्ठां चिदेकरसाख्याम्॥१४॥

ततो ब्रह्मा भुवं नाम द्वितीयमसृजत्प्रभुः ।
तं कल्पयित्वा मनसा मनसैव महामनाः॥१५॥

तत इति। भुवं सूत्रात्मानं महामना महान्ति सर्वसृष्टिसमर्थानि मनांसि अवान्तरोपाधिभूतानि यस्य स महामनाः अविद्योपाधिरीश्वरः मनसा मनसैवेति वीप्सायां द्विर्वचनम्। सर्वं मनः भुवर्नामानं स्रष्टुं समर्थमित्यर्थः॥१५॥

ततः सोऽप्यब्रवीद्वाक्यं किं कुर्वेति पितामहम् ।
पितामहसमाज्ञप्तो ब्रह्माणं समुपस्थितः॥१६॥

ततः स मनसः सुतः पितामहं मनसः पितरं महान्तं जीवं ब्रह्माणं ब्रह्माणौ साङ्ख्ययोगाचार्यौ॥१६॥

ब्रह्मभ्यां सहितः सोऽथ भूयो भागवतीं गतः ।
प्राप्तश्च परमं स्थानं स तयोः पार्श्वमागतः॥१७॥

ब्रह्मभ्यामिति। तयोः पार्श्वमुपागतः सन् ब्रह्मभ्यां सहितो भागवतीं पूर्वोक्तां परां काष्ठां गतः। योगविचारयोरपि तस्यां काष्ठायां लयो भवतीति भावः॥१७॥

तस्मिन्नपि गते पुत्रं तृतीयमसृजत्प्रभुः ।
मोक्षोपायेतिकुशलं भूर्भुवं नाम तं विभुः॥१८॥

तस्मिन्निति। विराट्सूत्रयोरपि जनकत्वान्मोक्षोपायेतिकुशलं भूर्भुवं नाम ईश्वरं शुद्धसत्त्वोपाधिम्॥१८॥

आससाद स तद्धर्मं तयोरेवागमद्गतिम् ।
एवं पुत्रास्त्रयोऽप्येते उक्ताः शम्भोर्महात्मनः॥१९॥

तद्धर्मं तयोः पूर्वयोर्धर्मं पराकाष्ठानुसारित्वम्, ईशोऽपि साङ्ख्ययोगसम्पत्त्या परस्यां काष्ठायाम्, “पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः।” इति श्रुतिप्रसिद्धायां प्रलयं गत इत्यर्थः। “ईश्वरग्रासस्तुरीयतुरीयः” इति तापनीये ईश्वरग्रासस्यापि स्पष्टश्रवणात्। एवमुक्तेन प्रकारेण त्रयोऽप्येते मनसः पुत्रा भूरादयः शम्भोर्महात्मनः शम्भुना महात्मना साङ्ख्ययोगाचार्यरूपिणा उक्ता उपादिष्टाः। “एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति।” इति तयोर्वस्तुतत्त्वापेक्षया एकत्वादेकवचनशब्दत्वम्॥१९॥

तान्गृहीत्या सुतांस्तस्य प्रययौ स्वां गतिं तथा ।
नारायणोऽथ भगवान्कपिलश्च यतीश्वरः॥२०॥

ततः किमत आह- तानिति। यथा दाह्यं दग्ध्वा वह्निः स्वयोनौ उपशाम्यति एवं साङ्ख्ययोगाख्यं ज्ञानं प्रविलाप्य भूरादित्रयं प्रविलाप्य स्वयमपि ब्रह्मणि लीनमित्यर्थः॥२०॥

यं कालं तौ गतौ मुक्तौ ब्रह्मा तत्कालमेव तु ।
तेपे घोरतरं भूयः स तपःसंशितव्रतः॥२१॥

वेद्यलयात् घोरं वृत्तिलयात् घोरतरं तयोर्निर्विकल्पं समाधिं प्राप्तमित्यर्थः॥२१॥

न रराम ततो ब्रह्मा प्रभुरेकस्तपश्चरन् ।
शरीरार्द्धमथो भार्यां समुत्पादितवाञ्छुभाम्॥२२॥

ततो व्युत्थानमाह- न ररामेति। शरीरार्धमिति। शुद्धे चिदात्मन्येव भोक्तृभोग्यरूपं प्रपञ्चं कल्पितवानित्यर्थः॥२२॥

तपसा तेजसा चैव वर्चसा नियमेन च ।
सदृशीमात्मनो भार्यां समर्थां लोकसर्जने॥२३॥

अस्य योगैश्वर्यमाह- तपसेति। “स एकधा भवति प्रदीपवदावेशः” इति श्रुतिन्यायाभ्यां सौभर्यादिवत्तुल्यप्रभावा एव योगिनां कल्पिता देहा इति भार्यायास्तुल्यप्रभावा एव योगिनां कल्पिता देहा इति भार्यायास्तुल्यप्रभावत्वं पत्या युक्तमिति भावः॥२३॥

तया सह ततस्तत्र रेमे ब्रह्मा तपोमयः ।
सृजत्प्रजापतीन्त्सर्वान् सागरान्त्सरितस्तथा॥२४॥

ततोऽसृजद्वै त्रिपदां गायत्रीं वेदमातरम् ।
अकरोच्चैव चत्वारो वेदान्गायत्रिसम्भवान्॥२५॥

आत्मार्थे चासृजत्पुत्राँल्लोककर्तॄन्पितामहः ।
विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः॥२६॥

विश्वेशं प्रथमं नाम महातपसमात्मजम् ।
सर्वाश्रमतमं पुण्यं नाम्ना धर्मं स सृष्टवान्॥२७॥

दक्षं मरीचिमत्रिं व पुलस्त्यं पुलहं क्रतुम् ।
वसिष्ठं गौतमं चैव भृगुमङ्गिरसं मनुम्॥२८॥

अथर्वभूता इत्येते ख्याता ब्रह्ममहर्षयः ।
त्रयोदशसुतानां तु ये वंशा वै महर्षिणाम्॥२९॥

अदितिर्दितिर्दनुः काला ह्यनायुः सिंहिका मुनिः ।
प्रबोधा सुरसा क्रोधा विनता कद्रुरेव च॥३०॥

दक्षस्यैता दुहितरः कन्या द्वादश भारत ।
नक्षत्राणि च भद्रं ते सप्तविंशतिरूर्जिताः॥३१॥

मरीचेः कश्यपः पुत्रस्तपसा निर्मितः प्रभुः ।
तस्मै कन्या द्वादशेमा दक्षस्ता अन्वमन्यत॥३२॥

नक्षत्राख्योन सामाय वसवे दत्तवानृषिः ।
रोहिण्यादीनि सर्वाणि पुण्यानि जनमेजय॥३३॥

लक्ष्मीः कीर्तिस्तथा साध्या विश्वा कामानुगा शुभा ।
देवी मरुत्वती चैव ब्रह्मणा निर्मिता पुरा॥३४॥

एताः पञ्च वरिष्ठा वै सुरश्रेष्ठाय भारत ।
दत्ता धर्माय भद्रं ते ब्रह्मणा दृष्टधर्मणा॥३५॥

या रूपार्द्धमयी पत्नी ब्रह्मणः कामरूपिणी ।
सुरभिः सा तु गौर्भूत्वा ब्रह्माणं समुपस्थिता॥३६॥

ततस्तामगमद्ब्रह्मा मैथुने लोकपूजितः ।
लोकसर्जनहेतुज्ञो गवामर्थाय भारत॥३७॥

जज्ञे चैकादश सुतान्विपुलान्धर्मसंहितान् ।
रक्तसन्ध्याभ्रसदृशान्दहनोपमतेजसः॥३८॥

ते रुदन्तो द्रवन्तश्च भगवन्तं पितामहम् ।
रोदनाद्द्रावणाच्चैव ततो रुद्रा इति स्मृताः॥३९॥

निर्ऋतिश्चैव सर्पश्च तृतीयो ह्यज एकपात् ।
मृगव्याधः पिनाकी च दहनोऽथेश्वरश्च वै॥४०॥

अहिर्बुध्न्यश्च भगवान्कपाली चापराजितः ।
सेनानीश्च महातेजा रुद्रा एकादश स्मृताः॥४१॥

तस्यामेव सुरभ्यां तु जज्ञे गोवृषभस्तथा ।
आकृष्टाश्च तथा माषाः सिकताः प्रश्रयोऽक्षताः॥४२॥

अजाश्चैवैकवंशाश्च तथैवामृतमुत्तमम् ।
ओषध्यः प्रवरायाश्च सुरभ्यां ताः समुत्थिताः॥४३॥

धर्माल्लक्ष्म्युद्भवः कामः साध्या साध्यान्व्यजायत ।
च्यवनं प्रभवं चैवमीशानं सुरभीं तथा॥४४॥

अरुन्धत्यारुणी चैव विश्वावसुबलध्रुवौ ।
महिषं च तनूजं च विज्ञातमनसावपि॥४५॥

मत्सरं च विभूतिं च सर्वाः सुरभिसूनवः ।
सुपर्वतं विषं नागं साध्या लोकनमस्कृता॥४६॥

वासवानुगता देवी जनयामास वै सुतान् ।
धरं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययम्॥४७॥

विश्वावसुं तृतीयं च चतुर्थं सोममीश्वरम् ।
पञ्चमं पर्वतं चैव योगेन्द्रं तदनन्तरम्॥४८॥

सप्तमं च ततो वायुमष्टमं निर्ऋतिं वसुम् ।
धर्मस्यापत्यमित्येवं सुरभ्यां समजायत॥४९॥

विश्वेदेवास्तु विश्वायां धर्माज्जाता इति श्रुतिः ।
दक्षयज्ञो महाबाहुर्वसुश्च सुत एव च ।
सुधर्मा व महाबाहुः शङ्खपाश्च महाबलः॥५०॥

उक्तश्चैव महाबाहुर्वपुष्मांश्च तथैव च ।
चाक्षुषस्य मनोरेते तथानन्तमहीरणौ॥५१॥

विश्वावसुसुपर्वाणौ विष्टरश्च महायशाः ।
रुरुश्च ऋषिपुत्रो वै भास्करप्रतिमद्युतिः॥५२॥

विश्वेदेवान्देवमाता विश्वेशाञ्जनयत्सुतान् ।
मरुत्वती मरुत्वतो देवानजनयच्छुभान्॥५३॥

अग्निश्चक्षुर्हविर्ज्योतिः सावित्रो मित्र एव च ।
अमरं शरवृष्टिं च संक्षयं च महाभुजम्॥५४॥

विरजं चैव शुक्रं च विश्वावसुविभावसू ।
अश्मन्तं चित्ररश्मिं च तथा निष्कुपितं नृपम्॥५५॥

नहुषं चाहुतिं चैव चारित्रं बहुपन्नगम् ।
बृहन्तं च वृहद्रूपं तथैव परतापनम् ।
मरुत्वत्यां पुरा धर्माज्जज्ञे पुत्रद्वयं शुभम्॥५६॥

अदित्यां जज्ञिरे राजन्नादित्याः कश्यपादथ ।
इन्द्रो विष्णुर्भगस्त्वष्टा वरुणोंऽशोऽर्यमा रविः॥५७॥

पूषा मित्रश्च वरदो मनुः पर्जन्य एव च ।
इत्येते द्वाद‌शादित्या वरिष्ठास्त्रिदिवौकसः॥५८॥

आदित्यस्य सरस्वत्यां जज्ञे पुत्रद्वयं शुभम् ।
रूपश्रेष्ठं बलश्रेष्ठं त्रिदिवे रूपिणां वरम्॥५९॥

दनुस्तु दानवाञ्जज्ञे दितिर्दैत्यान्व्यजायत ।
कालानुकालकेयांश्च ह्यसुरान्राक्षसांस्तथा॥६०॥

अनायुषायास्तनया व्याधयश्चाधयस्तथा ।
सिंहिका ग्रहमाता च गन्धर्वजननी मुनिः॥६१॥

प्रबोधाप्सरसां माता सुरसायां सरीसृपाः ।
क्रोधायाः सर्वभूतानि पिशाचाञ्चैव भारत॥६२॥

तथा यक्षगणाश्चैव गुह्यकाश्च विशाम्पते ।
चतुष्पदानि सर्वाणि ऋते गावस्तु सौरभाः॥६३॥

अरुणो गरुडश्चैव विनतायां व्यजायत ।
महीधरान्त्सर्पनागान्देवी कद्रूर्व्यजायत॥६४॥

एवं विवृद्धिमगमन्विश्वे लोकाः परस्परम् ।
तदा पौष्करके राजन्प्रादुर्भावे महात्मनः॥६५॥

पुराणं पौष्करे चैव मया द्वैपायनाच्छ्रुतम् ।
कथितं तेन पूर्वेण यत्कृतं परमर्षिभिः॥६६॥

यश्चेदमग्र्यं प्रथमं पुराणं सदाऽप्रमत्तः पठते महात्मा ।
अवाप्य कामानिह वीतशोकः परत्र स स्वर्गफलानि भुङ्क्ते॥६७॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे सर्वभूतोत्पत्तौ चतुर्दशोऽध्यायः॥१४॥
जनमेजयप्रश्नः

जनमेजय उवाच। श्रुतं नः परमं ब्रह्मन्त्स्ववंशचरितं महत् ।
दिव्यमन्योन्यसम्भूतं मानितं बहुभिर्गुणैः॥१॥

छन्दोभिर्वृत्तसञ्जातैः समासैश्च सविस्तरैः ।
लघुभिर्मधुराभाषैर्ग्रथितं प‌दविग्रहैः॥२॥

त्रिवर्गेणाभिसम्पन्न घर्मेणार्थेन भोगिनाम् ।
कामेन बहुरूपेण शरीरान्तर्गतेन च॥३॥

ब्राह्मणानां प्रमावैश्च योधानां च पराक्रमैः ।
वैरनिर्यातनैश्चैव प्रतिज्ञानां च पारगैः॥४॥

रिपुस्तवसुसम्पन्नैर्नानुबन्धः प्रचोदितः ।
वंशयोर्निर्विनाशाय नृपेण द्विजविग्रहात्॥५॥

ये च तस्मिन्महारौद्रे सङ्ग्रामे निहता नृपाः ।
तेषां सर्वाणि राष्ट्राणि पुत्राः सर्वे प्रपेदिरे ।
कौरवः प्रथितो राजा भगवच्छासनानुगः॥६॥

धर्मश्च बहुधा प्रोक्तस्त्रयाणां वर्णसम्पदाम् ।
शूराणामपि विख्यातः स्वर्गहेतुर्द्विजर्षभ॥७॥

अनुग्रहार्थं भूतानां नोत्सेकाय कथञ्चन ।
चतुर्णां वर्णसंज्ञानां पृथक्पृथगनेकधा॥८॥

गर्भवासं पतन्तञ्च भूतानां सम्प्रबोधितः ।
पृच्छतां दवसञ्चारः क्षीणे पुण्ये च कर्मणि॥९॥

दाने यश्चादिसंयोगः स चापि बहुधा कृतः ।
द्वाभ्यां संयोगविहितो मधुवाग्वचनं तयोः॥१०॥

न तच्छक्यं मयाऽऽख्यातुं भारताध्ययनं महत् ।
एकाहेन महान्ब्रह्मन्नपि दिव्येन चक्षुषा॥११॥

ब्रह्मणोऽह्नस्तु विस्तारं संक्षेपं च सुसङ्ग्रहम् ।
श्रोतुमिच्छामि भगवन्महत्कौतूहलं हि मे॥१२॥

यत्सूचितं प्राक्छलोकाभ्यां रहस्यं साङ्ख्ययोगयोः। तद्विस्तरार्थे नवमे नृपतः प्रश्न ईर्यते॥ ब्रह्मणोऽह्न इति। अहःशब्दः क्रतुवाची ब्रह्मसम्बन्धी क्रतुर्ज्ञानयज्ञ इति यावत्। सम्यक् क्षिप्यते क्षेप्यं येन तं संक्षेपं सुसङ्ग्रहं च विस्तरम्॥१२॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे जनमेजयवाक्ये पञ्चदशोऽध्यायः॥१५॥
साङ्ख्ययोगविचारः

वैशम्पायन उवाच। शृणुष्वैकमना राजन्पञ्चेन्द्रियसमाहितः ।
कथां कथयतो राजन्निर्विकारेण चेतसा॥१॥

साङ्ख्ययोगात्मको ब्रह्मयज्ञोऽथ दशमे मुनिः। साङ्ख्यं ब्रह्मविचाराख्यं प्रस्तौति क्षिप्रसिद्धिदम्। शृणुष्वेति॥१॥

ब्रह्मसम्बन्धसम्बद्धमबद्धं कर्मभिर्नृप ।
पुरस्ताद्धह्म सम्पन्नं ब्रह्मणो यददक्षिणम्॥२॥

ब्रह्मसम्बन्धसम्बद्धं वेदमूलकत्वेन सम्बद्धं तादृशमपि कर्म व्यावृत्तमित्याह- बद्धमिति। ब्रह्मैकविषय इत्यर्थः। यद्ब्रह्मणो ब्रह्मविदः पुरस्तादेव सम्पन्नं प्राक् सिद्धं प्रत्यग्रूपत्वात् अदक्षिणं न कर्मप्राप्यं, “न तत्र दक्षिणायन्ति” इति श्रुतेः। तत् शृणु इत्यनुषज्यते॥२॥

अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ।
निष्कलः पुरुषस्तस्मात्सम्बभूवात्मयोनिजः॥३॥

तदेवाह- अव्यक्तं यत् नामतोऽर्थतश्च कारणं जगद्धेतुः सदसदात्मकं मूर्तमूर्तरूपं नित्यम् अविनाशि साङ्ख्यप्रसिद्धं तत् निष्कलः पुरुषः निर्विशेषचिन्मात्रादात्मनो नातिरिच्यते तत्रैवाध्यस्तमित्यर्थः। तस्मात्पुरुषादात्मयोनिज आत्मैव योनिर्ज्ञापको यस्य नाहं जानामीत्यनुभूतिसिद्धम् अज्ञानं तस्माज्जातोऽहङ्कारः अहमिति प्रथमोऽध्यासः सम्बभूव॥३॥

दिव्यो दिव्येन वपुषा सर्वभूतपतिर्विभुः ।
अचिन्त्यश्चाव्ययश्चैव युगानां प्रभवोऽव्ययः॥४॥

दिव्यः शुद्धसत्त्वमयत्वात् सर्वेषां भूतानां वियदादीनां पतिः जन्मनाशयोः स्वतन्त्रः विभुर्व्यापकः अचिन्त्यः सत्त्वेनाऽसत्त्वेन वाऽऽलोचयितुमशक्यः अत एव अव्ययः रज्जूरगवदनुत्पन्नत्वान्न व्येतीति युगानां तत्तद्युगधर्माणां शमकामदम्भाचाराणां प्रभवः। अहङ्कारादेव ते उत्पन्ना इत्यर्थः। अव्ययो नित्यो मूढानाम्॥४॥

अभूतश्चाप्यजातश्च सर्वत्र समतां गतः ।
अव्यक्तात्परमं यत्तन्नारायणविदो विदुः॥५॥

अचिन्त्यत्वं विभुत्वं च विवृणोति। अभूतः कालत्रयेऽपि न सिद्धः यस्मात् अजात अनुत्पन्नः एवम्भूतोऽपि सर्वत्र समतां गतः सन् सद्रूपो नात्यसद्रूप इति चेत् किंरूप इत्यत आह। तत् अव्यक्तात् परं नारायणावदो विदुस्तदेव स इति योजना। समुद्रतरङ्गवत् अहङ्कारचिन्मात्ररूप एवेत्यर्थः॥५॥

सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥६॥

अस्य विश्वरूपत्वमाह- सर्वत इति। लिङ्गव्यत्यय आर्षः॥६॥

असतश्च सतश्चैव विज्ञेयं तत्र कारणम् ।
अव्यक्तो व्यक्तरूपस्थश्चरन्नपि न दृश्यते॥७॥

ननु समुद्रेऽपि वाय्वाद्यभिघातं विना तरङ्गो नोत्पद्यते कथं चिन्मात्रेऽद्वितीये द्वितीयमज्ञानं सम्बध्यते, यत अहङ्कारोत्पतिरित्याशङ्कयाह- असत इति। तत्राहङ्कारे असतः कारणस्य सतः कार्यस्य च कारणं कल्पकम् अविद्याऽस्ति अहङ्कारे स्थित्वैव चिदात्मन्यविद्या कल्प्यते। न तु चिदात्मनि तत्सम्बन्धो युज्यत इत्यर्थः। यदाहुर्बृद्धाः- “अस्याविद्येत्यविद्यायामेवासित्वा प्रकल्प्यते। ब्रह्मद्वारा त्वविद्येयं न कथञ्चन युज्यते॥” इति। कुतश्चिदात्मन्यविद्या नास्तीत्यत आह- अव्यक्त इति। निर्विकल्पत्वात्तस्येत्यर्थः। तर्हि तत्सत्यत्वे किं मानमत आह- व्यक्तरूपस्थश्चरन्निति। मातृमानप्रमेयेष्वचिदात्मत्वेन दृश्येष्वनुस्यूततया चरन्नपि न दृश्यते, न चादृश्यत्वादेव तदसिद्धिः, मात्रादिः स्वेतरभास्यो दृश्यत्वात्सम्मतवदिति न्यायेन तत्सिद्धेरिति भावः॥७॥

विकारपुरुषोऽव्यक्तो ह्यरूपी रूपमाश्रितः ।
चरत्यचिन्त्यः सर्वेषु गूढोऽग्निरिव दारुषु॥८॥

एतदेवाह- विकारेति। विकारपुरुषो मात्रादिव्यक्तः तं रूपं रूपवन्तं दृश्यम् अरूपी चिदात्मा आश्रितः सन् चरति दृश्यं प्रकाशयति। शेषं स्पष्टम्। दारुष्वग्निरिव मात्रादिषु पृथगदृष्टोऽप्यात्मध्याननिर्मथनात्स्वाश्रयप्रासादाविर्भवतीति भावः॥८॥

भूतभव्योद्भवो नाथः परमेष्ठी प्रजापतिः ।
प्रभुः सर्वस्य लोकस्य नाम चास्येति तत्त्वतः॥९॥

प्रासङ्गिकम् आत्मतत्त्वनिरूपणं समाप्य “अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते” इति न्यायेन तत्प्रतिपत्त्युपायभूतं तस्मात्सम्बभूवात्मयोनिज इति प्रक्रान्तमध्यारोपमनुसरति- भूतेति। नाम चास्यास्तीति शेषः। “सोऽहमित्यग्रे व्याहरत्ततोऽहन्नामाभवत्” इति श्रुतिप्रसिद्धं वक्ष्यमाणम् इति तत्त्वतः ईदृग्रूपस्य। षष्ठ्यर्थे तसिः॥९॥

अपदात्तु पदो जातस्तस्मान्नारायणोऽभवत् ।
अव्यक्तो व्यक्तिमापन्नो ब्रह्मयोगेन कामतः॥१०॥

ईदृग्रूपत्वमेव विशदयति- अपदादिति। अपद्यते प्रमाणतो गम्यते इत्यपदमज्ञानं तस्मात्पदः पद्यते इति पदोऽहङ्कारो जातः। न हि शुक्तौ रजतस्येव तत्कारणस्याज्ञानस्य ग्रहोऽस्ति। नारायण उद्भवो यस्य तस्माच्छुद्धेऽप्यनादिकालमारभ्याध्यस्तादित्यर्थः। अन्यथा मुक्तानामपि पुनर्बाधापत्तिः स्यात्। ननु सतः पदस्य कथमसतोऽपदाज्जनिः कथमसतः सञ्जायेतेति तदसम्भवाच्छ्रुतोरित्यत आह- अङ्हकारोऽप्यपद एव सन् ब्रह्मयोगेन अधिष्ठानसत्तानुवेधेन व्यक्तिं पदत्वं प्राप्तः। अत्र हेतुः- कामतः अनादिरागादिवासनावशात् भ्रमः तत्संस्कारधारानुवृत्तिरिति भावः॥१०॥

ब्रह्मभावे च तं विद्धि स शब्दं लब्धवान्प्रभुः ।
प्रभुः सर्वस्य लोकस्य स्थावरस्येतरस्य च॥११॥

ब्रह्मेति। तं पदाख्यमहन्नामपुरुषं ब्रह्मभावे स्थितं विद्धि। “ज्ञानमप्रतिपद्यं यद्वैराग्यं च जगत्पतेः। ऐश्वर्यं चैव धर्मश्च सहासिद्धं चतुष्टयम्॥” इति स्मृतेः। ब्रह्मिष्ठं जानीहि अत एव सः ब्रह्मेतिशब्दं लब्धवान् प्रभुत्वादिमांश्च॥११॥

अहं त्विति स होवाच प्रजाः स्रक्ष्यामि भारत ।
प्रभवः सर्वभूतानां यस्य तन्तुरिमाः प्रजाः॥१२॥

अहं त्विति। “स होवाचात्मनो नाम” इति शेषहेतुः उदाहृतः श्रुतिप्रसिद्धेः सोऽहन्नामाभवदित्यर्थः। “स होवाच प्रजाः स्रक्ष्यामि” इति पूर्वानुषङ्गेण पूरणीयम्। “स वै सवै नैव रेमे तस्मादेकाकी न रेमे” इत्यादिश्रुतेरात्मज्ञोऽपि सोऽधिकारपरतन्त्रतया सृष्ट्यादिपरो बभूवेत्यर्थः॥१२॥

स्वभावाज्जायते सर्वं स्वभावाच्च तथाऽभवत् ।
अहङ्कारः स्वभावाच्च तथा सर्वमिदं जगत्॥१३॥

एतदेवाह- स्वभावादिति। स्वस्मिन्नहमर्थे भवतीति स्वभावः पूर्ववासना। अहमिति वासनाऽपि स्वभावादेवेत्याह- अहङ्कार इति॥१३॥

सर्वव्यापि निरालम्बो ह्यग्राह्योऽथ जयो ध्रुवः ।
एवं ब्रह्ममयो ज्योतिर्ब्रह्मशब्देन शब्दितः॥१४॥

सर्वव्यापी समष्ट्यभिमानित्वात् निरालम्बः असङ्गत्वज्ञानात् अत एवाग्राह्यः अनभिभाव्यो ज्ञानेन जयो जयवान् ध्रुत्रः ध्रुवं ज्योतिरिवालिप्तः॥१४॥

अव्यक्तो व्यक्तिमापन्नः पञ्चभिः क्रतुलक्षणैः ।
धारयन्ब्रह्मणो व्यक्तं विविधं चिन्तितं त्वरन्॥१५॥

स ब्रह्मशब्दितः स्वरूपेणाव्यक्तोऽपि पञ्चभिर्भूतसूक्ष्मैः ऋतुलक्षणैः सङ्कल्पमात्रभावैः उपाधिभिर्व्यक्तिं पुरुषाकृतिम् आपन्नः ब्रह्मणो वेदात् व्यक्तं सर्वं भौतिकं विविधं चिन्तितं सङ्कल्पमात्रोत्थं त्वरन् धारयन्। “पोषयितुं स मनसा वाचं मिथुनꣳ स भवत्” इति श्रुतेर्वेदोक्तप्रकारेण सर्वं स्रष्टुं मूर्तिमादाय सलिलं ससर्जेति सम्बन्धः॥१५॥

अथ मूर्तिं समाधाय स्वभावाद्ब्रह्मचोदितः ।
ससर्ज सलिलं ब्रह्म येन सर्वमिदं ततम्॥१६॥

अथेति। येन सर्वमिदं ततं तेन ब्रह्मणा स्वभावेन च चोदितः॥१६॥

वायुं पूर्वमथो दृष्ट्वा यो धातुर्धातृसत्तमः ।
धारणाद्धातृशब्दं च लभते लोकसंज्ञितम्॥१७॥

वायुमिति। पूर्वं सलिलसृष्टेः प्राक् धातुरीश्वरस्य वशगानां धातॄणां मरीच्यादीनां मध्ये सत्तमः लोकसंज्ञितं लोकैः सङ्केतितं प्रसिद्धमित्यर्थः॥१७॥

तदेतद्वायुसम्भूतं कृत्स्नं जगदभूत्पुरा ।
एतद्देवैरतिक्रान्तं पूर्वमेव सरस्वति॥१८॥

तदेतदिति। वायोः स्थूलादग्न्यादिक्रमेण सम्भूतम् एतज्जगत् पार्थिवमाप्यं च तैजसैर्देवैः शमादिमद्भिरतिक्रान्तम्। उत्तरोत्तरमुत्कृष्टमेव पदं तेऽधिरोहन्ति न मनुष्यत्वं यान्तीत्यर्थः। सरस्वति समुद्रे स्थितमिति शेषः॥१८॥

पृथक्त्वं गमितं तोयं पृथिवीशब्द‌मिच्छता ।
घनत्वाच्च द्रवत्वाच्च निखिलेनोपलभ्यते॥१९॥

पृथिवीशब्दं पृथिवीशब्दार्थं भुवं लोकावस्थानार्थमिच्छता तोयं सामुद्रं पृथक्त्वं घनत्वाच्च धर्मभेदात् गमितं प्रापितम्। तदेतन्निखिलेन लोकेनोपलभ्यते भूजलयोः पृथक्त्वम्॥१९॥

फलत्वात्सीदमाना च सलिले सलिलोद्भवः ।
व्याजहार शुभां वाणीं समन्तात्पूरयन्निव॥२०॥

फलत्वात् कार्यत्वात्सलिले स्वकारणे सीदमाना विशीर्यमाणा सलिलोद्भवो जलोद्भूतभूदेवताख्यः पुरुषो व्याजहार वचनव्यत्यय आर्षः॥२०॥

उर्ध्वोऽहं स्थातुमिच्छामि संसीदाम्युद्धरस्व माम् ।
गम्भीरे तोयविवरे मूर्तिविक्षोभितान्तरम्॥२१॥

ऊर्ध्व इति। गम्भीरे तोयविवरे मूर्तेः काठिन्यात् विक्षोभितमन्तरं यथा स्यात्तथा संसीदामीति सम्बन्धः। लोष्टपिण्डवद्विशीर्णा भवामीत्यर्थः॥२१॥

ततो मूर्तिधरा देवी सर्वभूतप्ररोहिणी ।
यथायोगेन सम्भूता सर्वत्र विषयैषिणी॥२२॥

ततो मूर्तिधरा मूर्तिमती पृथ्वी विषयैषिणी स्थानैषिणी सर्वत्र सम्भूता जाता यथायोगेन यथोक्तेन योगेन विशीर्यमाणत्वेन हेतुना स्थैर्यार्थिनी सती सर्वदिगभिमुखं मामुद्धरस्वेत्याक्रोशं कृतवतीत्यर्थः॥२२॥

श्रुत्वा च गदितं तस्या गिरं तां च सुभाषिताम् ।
वराहरूपमास्थाय निपपात महार्णवे॥२३॥

श्रुत्वा चेति। हरिरिति शेषः॥२३॥

उद्धृत्य सोऽवनिं तोयात्कृत्वा कर्म सुदुष्करम् ।
समाधौ प्रलयं गत्वा प्रलीनो न च दृश्यते॥२४॥

उद्धृत्येति। हरिरवतारकार्यं कृत्वा तिरोभूत इत्यर्थः॥२४॥

यत्तद्ब्रह्ममयं ज्योतिराकाशमिति संज्ञितम् ।
तत्र ब्रह्मा समुद्भूतः सर्वभूतपितामहः॥२५॥

येन भूरुद्धृता तस्य रूपमाह- यत्तदिति॥२५॥

अद्यापि मनसा धात्रा धार्यते सर्वयोगिना ।
ज्ञानयोगेन सूक्ष्मेण प्रजानां हितकाम्यया॥२६॥

धात्रा तेनैव ईश्वरेणाद्यापि पृथिवी धार्यते शेषकर्मादिरूपेणेत्याह- अद्यापीति। मनसा मनोमयेन॥२६॥

भित्त्वा तु पृथिवीमध्यमुपयाति समुद्भवम् ।
तपनस्तूर्ध्वमातिष्ठन्रश्मिभिः स हसन्निव॥२७॥

एवं धृताऽपि धरा शुष्कतटाकतलवद्विदीर्णाऽभूदित्याह- भित्त्वेति। समुद्भवं भूमिजनकं तोयम् इदमेव विवरं मेरुमूलप्रवेशस्थानमिति वक्ष्यति॥२७॥

तस्य मण्डलमध्यात्तु निःसृतं सोममण्डलम् ।
स सनातनजो ब्रह्मा सौम्यं सोमत्वमन्वगात्॥२८॥

एवमतितापात् सूर्यमण्डलाज्जलमयं सोममण्डलमभूदित्याह- तस्येति। स सोममण्डलाभिमानी सनातनः परमात्मा ब्रह्मा ब्राह्मणवर्णः। “ब्रह्म ब्राह्मण आत्मना” इति श्रतेः। आद्यत्वाच्च ब्राह्मणानां राजा “सोमोऽस्माकं ब्राह्मणानाꣳ राजा” इति श्रुतेः सोमत्वम् उमा ब्रह्मविद्या तया सहित सोमः तस्य भावः सौम्यम् स उत्पन्नमात्रो ब्रह्मवित्त्वम् अन्वगादित्यर्थः॥२८॥

सोममण्डलपर्यन्तात्पवनः समजायत ।
तदक्षरमयं ज्योतिस्तेजोभिरभिवर्द्धयन्॥२९॥

सोमेति। सोमस्योक्तरूपस्य मण्डलपर्यन्तान्मुखप्रदेशात्पवनो निःश्वासः समजायत। तत् स निःश्वासः अक्षरमयं वर्णात्मकं वेदरूपं ज्योतिः सर्वार्थप्रकाशकं जातामिति शेषः। “निःश्वसितमेतद्यदृग्वेदः” इत्यादिश्रुतेः॥२९॥

स तु योगमयाज्ज्ञानात्स्वभावाद्ब्रह्मसम्भवात् ।
सृजते पुरुषं दिव्यं ब्रह्मयोनिं सनातनम्॥३०॥

स तु सूर्यमण्डलान्तानामाधिदैविकानामर्थानां स्रष्टा सोमाख्यादीश्वराद्वेदं प्राप्य योगमयात् ज्ञानात् जन्मान्तरीययोगप्रभावोद्भूतप्रकाशात् वेदं तेजोभिः स्वबुद्धिबलेन वर्द्धयन्नपबृंहयन् वेदार्थालोचनपूर्वकं स्वभावात्पूर्ववासनारूपाद्ब्रह्म सम्भवाद्ब्रह्मसत्तयोद्बोधिताद्दिव्यं द्योतमानमत एव ब्रह्मयोनिं वेदस्यास्पदभूतं सनातनं पूर्वकल्पकृतसंस्थानं पुरुषं शिरपाण्यादिमन्तम् आध्यात्मिकं सृजते इति श्लोकद्वयसम्बन्धः॥३०॥

द्रवं यत्सलिलं तस्य घनं यत्पृथिवी भवत् ।
छिद्रं यच्च तदाकाशं ज्योतिर्यच्चक्षुरेव तत्॥३१॥

अस्य शरीरस्य पञ्चभूतभयत्वम्, “अथ यल्लोहितं श्लेष्मा रेतस्ता आपः” इत्यादिश्रुत्युदितं दर्शयति द्वाभ्याम्। भवत् अडभाव आर्षः अभवदित्यर्थः॥३१॥

वायुना स्पन्दते चैनं सङ्घाताज्ज्योतिसम्भवः ।
पुरुषात्पुरुषो भावः पञ्चभूतमयो महान्॥३२॥

पुरुषात् ईश्वरात्प्राप्तः पुरुषो भावः चैतन्यं कर्तृ एनं देहं वायुना करणेन स्पन्दते चालयते। सङ्घातात् एवं पञ्चानां भूतानां सङ्घातं प्राप्य तत्र ज्योतिसम्भवः ज्योतिषाम् इन्द्रियाणां जाठरस्य च सम्भव उद्भवो भवति। “अग्निर्वाक् भूत्वा मुखं प्राविशत्” इत्यादिश्रुतेः। अत एव महान् कृत्स्नस्य ब्रह्माण्डस्यात्र प्रवेशात् योगिहृदयदर्पणे तदाभिव्यज्यत इत्यर्थः। ज्योतिसम्भव इति स लोप आर्षः॥३२॥

भूतात्मा वै समे तस्मिंस्तस्मिन्देहः सनातनः ।
गुहायां निहितं ज्ञानं योगाद्यज्ञः सनातनः॥३३॥

भूतात्मा जीवः समे पाञ्चभौतिकत्वात् न तिर्यगादितारतम्यरहिते तस्मिंस्तस्मिन्त्सर्वस्मिन्नस्ति सनातनोऽनादिकालमारभ्येत्यर्थः। गुहायां बुद्धौ निहितं ज्ञानं “सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायाम्” इति श्रुतिप्रसिद्धम्। किं तत् ज्ञानमित्यत आह- यज्ज्ञः यस्य ज्ञो ज्ञाता यज्ज्ञः सनातन ईश्वरः। यस्य ज्ञानस्य ज्ञाता ईश्वरो भवतीत्यर्थः। एतेन “परमे व्योमन्सोऽश्नुते सर्वान्कामान्त्सह” इति श्रुत्यर्थो दर्शितः॥३३॥

तपनस्यैव तद्रूपं योऽग्निर्वंसति देहिनाम् ।
शरीरे नित्यशो युक्ते धातुभिः सह सङ्गतः॥३४॥

यः सनातनः स एव जीव इत्याह- तपनस्येति। तपनस्य प्रकाशकस्य अग्निरिवाग्निर्भोक्ता देहिनां देहाभिमानिनां मूढानां दृष्ट्या, यो भोक्ता स एव तत्त्वदृष्ट्या ईश्वर इत्यर्थः। तस्यानैश्वर्यं सन्तताद्देहाध्यासादित्याह- शरीर इति। धातुभिः पञ्चभूतः देहयोगाद्वासोऽपीति न्यायेन देहाभिमानात्परस्यापि ज्ञानैश्वर्यतिरोभाव इत्यर्थः॥३४॥

स्वभावात्क्षयमायान्ति स्वभावाद्भयमेति च ।
स्वभावाद्विन्दते शान्तिं स्वभावाच्च न विन्दति॥३५॥

योऽयं धातुभिः सहसङ्गतः स्वभावात् पूर्वसंस्कारात् क्षयम् ऐश्वर्यभयम् अनैश्वर्य चाप्नोति शान्तिसद्भावाभावाभ्यामित्याह- स्वभावादिति॥३५॥

इन्द्रियैरतिमूढात्मा मोहितो ब्रह्मणः पदे ।
सम्भवं निधनं चैव कर्मभिः प्रतिपद्यते॥३६॥

इन्द्रियकिङ्करस्य कर्मबन्धोऽस्ति॥३६॥

यावत्तद्ब्रह्मविषयं नोपयाति ह तत्वतः ।
तावत्संसारमाप्नोति सम्भवांश्च पुनः पुनः॥३७॥

यावत् ज्ञानेन ब्रह्माख्यम् आनन्दरूपं विषयं नाप्नोति तेन च सम्भवाख्य जन्ममालां प्राप्नोतीत्याह द्वाभ्याम्॥३७॥

इन्द्रियैर्व्यतिरिक्तो वै यदा भवति योगवित् ।
तदा ब्रह्मत्वमापन्नः प्रलयाग्रे प्रतिष्ठति॥३८॥

एवमशान्तस्य दुःखमुक्त्वा शान्तस्त्यानन्दावाप्तिमाह- इन्द्रियैरिति। योगबलेन इन्द्रियैर्व्यतिरिक्तः प्रलयाग्ने इन्द्रियादिषु स्वरूपानन्दे प्रातष्ठां प्राप्नोतीत्यर्थः॥३८॥

प्रतिषिद्धममुं लोकं ब्रह्मवान्त्स भवत्युत ।
न च रागव्ययैर्याति न च सज्जति कार्हिचित्॥३९॥

प्रतीति। अमुं सविकल्पानन्दाख्यं लोकं प्रतिषिद्धं कृत्वा ब्रह्मवान् निर्विकल्पपदभाक्। योगफलं रागादिजयं सर्वज्ञत्वं चाह सार्द्धाभ्याम्- रागव्ययैरिति। रागव्ययै रागादिकृतैरपचयैः॥३९॥

आगतिं च गतिं चैव निधनं सम्भवं तथा ।
भूतेभ्यो वेत्ति सर्वज्ञः परां सिद्धिमुपागतः॥४०॥

आगतिं गर्भे प्रवेशं गतिं गर्भान्निर्गमनं, निधनं मरणम्, भूतेभ्यो दृष्टेभ्यो वेत्ति। न तु स्वयमागत्यादीन् प्राप्नोतीत्यर्थः॥४०॥

आत्मनो गतयश्चैव तथा विषयगोचरे ।
पुरस्तात्कर्मनिर्वृत्तेः पदे ब्रह्मा प्रतिष्ठितः॥४१॥

आत्मन इति। गतयो मुक्त्युपायास्तान् जानीते तथा विषयगोचरम् अतीतानागतादिविषयं, पुरस्तात्कर्मनिवृत्तेः भावीनि, कर्मफलानि पदे परस्यां काष्ठायां, ब्रह्मा ब्रह्मवित्॥४१॥

चित्तग्रन्थींश्च मनसा रुन्ध्यात्पूर्वाञ्च यातनाः ।
भिद्यमानाः प्रलोभेन वायुभिन्नमिवार्णवम्॥४२॥

चित्तग्रन्थीन् चित्तं बध्नतः कामादीन्, यातनाः सुखदुःखसाक्षात्काराः, तत्स्मरणानि प्रलोभेन प्रबलेन लोभेन विद्यमाना अनेकशाखा: वासनावलीर्निरुन्ध्यात्। वायुभिन्नमर्णवमिव याः पुरुषं क्षोभयन्तीत्यर्थः॥४२॥

पच्यते हृदयं नीलं परेभ्यो ज्ञानचक्षुषा ।
ब्रह्मप्रोक्तमिवात्मा वै विमुक्तो देहबन्धनात्॥४३॥

पच्यत इति। एवं वासनादिरोधं कुर्वतः परेभ्यः कामादिभ्यः नीलं मलिनं हृदयं बुद्धिः पच्यते विशुद्धा भवति। इङ्गाल इवाग्निना सितभस्मशेषः। केन च पच्यते ज्ञानचक्षुषा चष्टेऽनेनेति चक्षुस्तेजः, ज्ञानाग्निनेत्यर्थः। किं तज्ज्ञानमत आह ब्रह्मप्रोक्तं वेदप्रोक्तं येन ज्ञानेन इह जीवत्येव देहे। आत्मा जीवः। तद्यथाहि निलयिनि वल्मीकेमृतापत्यस्त्वाशयीतैवमेवायमशररिः, “सचक्षुरचक्षुरिव समना अमना इव” इत्यादिश्रुतिभ्यः सर्वबन्धनिर्मुक्तो भवतीत्यर्थः॥४३॥

सुजेदपि परं लोकं संहरेदपि विद्यया ।
तेजोमूर्तिरिवाविद्धमिह लोकं च संसृजेत्॥४४॥

किं च सृजेदिति। परं हार्दाकाशस्थं परिपक्वयोगी तेजोमूर्तिः सूक्ष्मभूतमयशरीरः स्वप्नाभिमानीव इह लोकं व्यावहारिकमपि लोकमविद्धमाच्छिद्रं साकल्येन विश्वामित्रादिवत्सम्यक् सृजते। भूतानामुत्पन्नत्वाद्भौतिकसर्गविषयमेव योगिनः सामर्थ्यमिति ज्ञेयम्। शास्त्रान्तरन्याये जगद्व्यापारवर्ज्यमित्युक्तेः॥४४॥

तिर्यग्योनौ गतांश्चैव कर्मभिर्नियमोपमैः ।
तान्यपि प्रतिमुच्येत ब्रह्मयुक्तेन चेतसा॥४५॥

तिर्यगिति। नियमोपमैः नियम्यते निगृह्यतेऽनेनेति व्युत्पत्तेर्नियमो निगडः तत्तुल्यैः। तानि कर्माणि अपिशब्दात्तिर्यग्योनिगतान् जीवान् प्रतिमुच्येत प्रतिमोचयेत्सङ्कल्पसिद्धत्वात् ब्रह्मयुक्तेन ब्रह्मणि योजितेन॥४५॥

अक्षरं च क्षरं चैव योगकर्माभिविद्यते ।
न क्षरं विद्यते तत्र यद्ब्रह्म कर्मभिर्ध्रुवम्॥४६॥

अक्षरमिति। योगकर्म योगाख्यं कर्म अक्षरं मोक्षं क्षरं भोगं च अभिव्याप्य विद्यते। योगे एव कृत्स्नकर्मफलमप्यन्तर्भूतमित्यर्थः। “एवं सर्वं तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति” इति श्रुतेः। नन्वेवं मोक्षेऽपि क्षरस्यान्वयः स्यात्तेन मुक्तेर्निर्विशेषत्वं भज्येतेत्याशङ्कयाह- नेति। यत् ध्रुवं ब्रह्म तत्र कर्मभिरुपलक्षितं क्षरं न विद्यते इति योजना। प्रारब्धकर्मणाऽवष्टब्धे देहे सत्येव योगिनि शरीरस्यान्वयो न विदेहकैवल्यावस्थायामिति भावः॥४६॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे षोडशोऽध्यायः॥१६॥
कर्मफलपरिच्छेदाय योगवर्णनम्

वैशम्पायन उवाच। पृथिव्यां यत्कृतं छिद्रं तपनेन विवर्धता ।
तस्मिन्न्यस्तोऽथ मैनाकः स्वभावविहितोऽचलः॥१॥

एकादशे कर्मफलपरिच्छेदाय योगभूः। वर्णिताऽथाक्षरप्राप्त्यै योगश्चोक्तो यथाविधि॥ सोमोत्पत्तिप्रसक्तानुप्रसक्तं संक्षेपेण अन्तरालं योगम् अभिधाय प्रकृतमध्यारोपमनुसरन्, भित्त्वा पृथिवीमध्यमित्यादि पूर्वमुक्तं भूमेः सच्छिद्रत्वमनूद्य तत्र च्छिद्रे मेरुमूलं निहितमित्याह- पृथिव्यामिति। मीनं हिंसितम् अकं दुःखं यैस्ते मीनाकाः नित्यसुखिनो देवास्तेषामयं मैनाकः “मीञ् हिंसायाम्” अस्मात् “फेनमीनौ” इति निष्ठातस्य नत्वं निपात्यते। स्वभावेन संस्कारेण पूर्वोक्तसलिलादिवद्विहितः अत एवाचलः चित्तवता स्वभावस्य परिवर्तयितुमशक्यत्वात्॥१॥

पर्वभिः पर्वतत्वं च लभते नाम संज्ञितम् ।
अचलादचलत्वं च स्वभावान्मेरुरेव सः॥२॥

एवं निर्दुःखत्वं तस्योक्त्वा सुखप्रदत्वमप्याह- पर्वभिरिति। पर्वाणि पूरयन्ति कामानिति चिन्तामणिकामधेनुकल्पद्रुमादीनि विद्यन्तेऽस्मिन्निति पर्वतः संज्ञितं सङ्केतितं योगरूढं पङ्कजादिपदवदित्यर्थः। अचलात् अचलनात् एवंविधोऽपि स्वभावात्कल्पनामात्रत्वान्मेरुरिव मित एव न तत्रात्यन्तिकी दुःखनिवृत्तिः सुखप्राप्तिर्वास्तीत्यर्थः। उक्तहेतोरेव प्रक्षेप्तव्य एवेति चार्थः। “माङ् माने, मीञ् प्रक्षेपे” अस्मात् “वा मायोरुरिच्च” इति “वामियिभ्यां रुः” इति वा निष्पन्नस्य मेरुशब्दस्योक्तार्थत्वात्॥२॥

तस्य पृष्ठे सुविस्तीर्णे नगस्य सुमहर्द्धिमान् ।
तस्मिंस्तु पुरुषो व्यक्तो वसति ज्योतिसम्भवः॥३॥

तस्येति। व्यक्तः शिरःपाण्यादिमान् ज्योतिःसम्भवेत्युक्तार्थं तेनैव व्यक्तेनैव वस्तुवृत्त्या परमात्मना सता॥३॥

विहितश्च स्वभावेन तेनैव परमात्मना ।
यत्तद्ब्रह्ममयं तेजो निहितं शिरसोऽन्तरे ।
तस्य ज्योतिर्मयं रूपं दीप्तं पुरुषविग्रहम्॥४॥

इदमेवाह- यत्तदिति। शिरसोऽन्तरे सहस्रारे वेदान्तगर्भे वा पुरुषसूक्तप्रतिपाद्यो विग्रहः संस्थानं यस्य तत् पुरुषविग्रहम्॥४॥

वदनादद्भिनिष्क्रान्तं ज्वलन्तमिव तेजसा ।
चतुर्भिर्वद‌नैर्युक्तं चतुर्भिश्च द्विजोत्तमैः॥५॥

वदनादिति। तस्य वदनात् निष्क्रान्तं चतुर्वदनं विद्धीति शेषः। द्विजोत्तमैः सह निष्क्रान्तं द्विजानाम् उत्तमाः। “मुखादिन्द्रश्चाग्निश्च, ब्राह्मणोऽस्य मुखमासीत्, आसन्यं प्राणमूचुः” इति ईश्वरमुखजत्वेन श्रुतिप्रसिद्धास्तैः सहेत्यर्थः॥५॥

चक्रं ब्रह्मसद्भूतं ब्रह्मा ब्राह्मणपुङ्गवः ।
तदेव तन्महाभूतं पुनर्भावत्वमागतम्॥६॥

तेषु ब्राह्मणान् स्तौति- वक्त्रमिति। तस्येत्यनुवर्तते तस्य वक्त्रं ब्रह्म वेदः समुद्भूतो निःश्वसितरूपेण यस्मात्तथा ब्रह्मा तस्य वेदस्य धारको ब्राह्मणः स ब्राह्मणानां ब्रह्मोद्भवानामग्न्यादीनां मध्ये मुख्यः। “ब्रह्म ब्राह्मण आत्मना” इति श्रुतेरर्थमाह- तदेवेति। भावत्वं पूज्यतमत्वं ब्राह्मणत्वमिति यावत्। “भावः पूज्यतमो लोके” इत्यनेकार्थमञ्जरी॥६॥

उद्धृता पृथिवी देवी पुरस्तात्सलिलाशयात् ।
ब्रह्मत्वं ब्रह्मणः स्थानादलोको लोकतां गतः॥७॥

तदेवेत्युक्तं किं तन्मह उद्भूतमित्यत आह- उद्धृतेति। येनेति शेषः। ब्रह्मणः स्थानं मेरुपृष्ठं प्राप्य तदेवं ब्रह्मत्वं चतुर्मुखत्वं गतम्, एवमेव लोकोऽपि धरोद्धर्ता लोकतां व्यक्ततां गतः॥७॥

पदसन्धौ ब्रह्मलोकं शृङ्गं मेरोस्तदाऽभवत् ।
उच्छ्रितं योजनशतं सहस्रशतमेव च॥८॥

पदेति। पदयोः सन्धौ मेरोः शृङ्गं ब्रह्मलोकं ब्रह्म परं वस्तु लोक्यते साक्षात्क्रियते यत्र स्थितैस्तद्ब्रह्मलोकं क्रममुक्तिस्थानामित्यर्थः। मेरोः कल्पनामात्रशरीरत्वान्मेरुमरीचिकाह्लादगाम्भीर्यस्येव नेयत्ताप्रमाणमस्तीत्याह- सार्धेन। उच्छ्रितमिति। तेजसा ज्ञानेन॥८॥

एवमेव च विस्तारं चतुर्भिर्गुणितं गुणैः ।
अथवा नैव सङ्ख्यातुं शक्यं भूतेन केनचित् ।
समाः सहस्त्रैर्बहुभिरपि दिव्येन तेजसा॥९॥

चतुर्भिः पार्श्वविस्तारैः शिलाभिरभिसंवृतैः ।
नगस्य यस्य राजेन्द्र विस्तारैः शतयोजनैः॥१०॥

उच्छ्रायविस्तारयोरिव परिधेरप्यनियममाह- चतुर्भिरिति। शिलाभिरुपष्टम्भकशैलस्थानीयैर्धर्मज्ञानवैराग्यैश्वर्यैरभितः संवृतैः पार्श्वानां विस्तारैः॥१०॥

कोटिकोटीशतगुणैर्गुणितं ब्रह्मवादिभिः ।
योगयुक्तैः सदा सिद्धैर्नित्यं ब्रह्मपरायणैः॥११॥

पूर्वोक्तपरिणामैश्चतुर्भिर्गुणितश्चतुष्कोणो मेरुर्भवतीति बौद्धपक्षमुपक्षिप्य मानसवत् परिमाणनियमो नास्तीत्याह सार्द्धेन- नगस्येति। गुणितं परिमाणमिति शेषः। ब्रह्मविद्भिर्मायाया अनन्तत्वादनित्येन निश्चितमित्यर्थः॥११॥

मरुद्भिः सह देवेन्द्रै रुद्रैर्वसुभिरेव च ।
आदित्यैर्विश्वसहितै ररक्ष वसुधाधिपान्॥१२॥

मरुद्भिरित्यादि च त्रिभिः कालापकम्। भगवान् विष्णुना सह तेन ब्राह्मेण वपुषा वसुधाधिपान् पृथिवीं च ररक्षेति सम्बन्धः। शुद्धचिदात्मा मायोपाधिना रूपेण प्रकृतेन मेर्वधिपतेर्ब्रह्मणश्च रूपेण शरीराभिमानिनो जीवान् शरीरं च रक्षितवान् भोगमोक्षप्रदकर्मज्ञानोपदेशेनेत्यर्थः। किम्भूतां पृथिवीं मरुदादिभिस्तत्रावयवदेवतादिभिः विवस्वदरुणाभ्यां तद्दैवत्यतेजोजलाभ्यां च सङ्घातं गमितां लिङ्गात्मविशिष्टां तेजोऽबन्नात्मिकामित्यर्थः। किम्भूतेन ब्राह्मेण वपुषा ब्रह्म निर्विशेषरूपं प्राप्तेन प्राप्तवता॥१२॥

ररक्ष पृथिवीं चैव भगवान्विष्णुना सह ।
विवस्वद्वरुणाभ्यां च सङ्घातं गभितं नृप॥१३॥

तेन ब्राह्मेण वपुषा ब्रह्मप्राप्तेन भारत ।
यत्तद्विष्णुमयं तेजः सर्वत्र समतां गतम्॥१४॥

किं तद्ब्रह्मेत्यत आह- यत्तदिति। न केवलं वेदपारगैरपि बहुभिर्नियमैः कर्तृभिः प्राप्तैरनुगतैः हठाकृष्टा न येषां नियमाः अपि तु दासभूतास्तादृशैर्ब्राह्मणैरित्यर्थः॥१४॥

यत्त‌द्ब्रह्मेति वै प्रोक्तं ब्राह्मणैर्वेदपारगैः ।
नियमैर्बहुभिः प्राप्तैः सत्यव्रतपरायणैः॥१५॥

एवमेते त्रयो लोका ब्राह्मेऽहनि समाहिताः ।
अहनि ब्रह्म चाव्यक्तं व्यक्तं प्राणे प्रतिष्ठितम्॥१६॥

एवमिति। एवम् अन्योन्याश्रयेण एते त्रयो लोक्यन्त इति लोकाः पृथिवीमरुदादिविष्णुशब्दिताः विराट्सूत्रान्तर्यामिणः ब्राह्मेऽहनि ब्रह्मप्रापके योगयज्ञे समाहिताः तत्रस्थत्वात्तत्रैवानुभूयन्त इत्यर्थः। तत्रैवाहनि अव्यक्तं ब्रह्म च यत्प्रतिष्ठितम् अनुभूयते योगिभिः तत्प्राणे प्राणाख्ये उपाधावप्यहमिति जीवरूपेण व्यक्तं सत् प्रतिष्ठितं शुद्धं ब्रह्म संसरतीत्यर्थः॥१६॥

ब्रह्मणो नियतं कर्म प्रभावेण प्रचोदितम् ।
प्रवर्तमानं भावेन शश्वदच्छलवादिनाम्॥१७॥

अस्य मुक्त्युपायमुपदिशन् रक्षणमेवाध्यायशेषेणाह- ब्रह्मण इति। ब्रह्मण ईश्वरस्य प्रभावेण निःश्वसितमात्रेण वेदेन प्रचोदितं यत् नियतं नित्यं कर्म अकरणात्प्रत्यवायजनकम् एतद्धितमित्युत्तरेण सम्बन्धः। शश्वत् निरन्तरम् अच्छलवादिनां भावेन शुद्धचेतसा प्रवर्तमानं क्रियमाणं कर्म येषां वाचाऽपि छलं कदाचिदपि नास्ति किमुत कर्मणा, तैः कृतं वेदोक्तं कर्म हितमित्यर्थः॥१७॥

एतद्धितमिति प्रोक्तं ब्राह्मणैर्वेदपारगैः ।
यदेकं ब्रह्मणः पादं दिष्टत्वं गमितं पदम्॥१८॥

आसक्तिं निषेद्धुं कर्मफलस्येयत्तामाह- यदेकमिति। यत्पदं दिष्टत्वं गमितं कर्मजसुकृतफलत्वं प्रापितं तत् ब्रह्मणः पादं लेशमात्रं प्राहुः श्रुतयः, “पादोऽस्य विश्वा भूतानि” इत्याद्या इत्यर्थः॥१८॥

बहुत्वाद्विप्रभावानां विश्वशब्दः प्रयुज्यते ।
ब्राह्मणैर्ब्रह्मभूतात्मा सत्यव्रतपरायणैः॥१९॥

बहुत्वादिति। यस्य पादो विश्वं तद्ब्रह्म भूतात्मा नित्यसिद्ध आत्मा न तु कर्मप्राप्य इति भावः। एवंविधोऽपि विप्राणां ब्राह्मणानां भावश्चित्तवृत्तयस्तासां बहुत्वात् ब्राह्मणैर्विश्वे इन्द्रमित्रवरुणादयः शब्दाः यस्मिन्वाचकत्वेन प्रतिष्ठिता इति स विश्वशब्दः यज्ञेषु प्रकर्षेण युज्यते विनियुज्यते तैस्तैः शब्दैरित्यर्थः। तथा च श्रुतिः- “तद्यदिदमाहुरमुं यजेत्येतस्येव सा विसृष्टिः, एकं सद्विप्रा बहुधा वदन्ति” इत्यादिका। तस्मात्फलस्य तुच्छत्वान्निष्कामैरेव कर्मभिः परमात्मा आराधनीयो मुमुक्षुभिरिति भावः॥१९॥

विश्वरूपं मनोरूपं बुद्धिरूपं च मानयन् ।
एवं द्वन्द्वं स भगवान्प्रथमं मिथुनं सृजत्॥२०॥

एवं यष्टव्यदेवतारूपं ब्रह्मैवेत्युक्त्वा यजमानरूपमपि तदेवेत्याह- द्वाभ्याम्। विश्वरूपं स्थूलं मनोरूपं सूक्ष्मं द्वयमपि बुद्धिमात्ररूपमिति मानयन् जानन् एवं उक्तक्रमेण जानन् द्वन्द्वं स्त्रीपुंसात्मकं सृजत् असृजत्। अडभाव आर्षः॥२०॥

स एव भगवान्विश्वो देव्या सह सनातनः ।
विधाय विपुलान्भोगान्ब्रह्मा चरति सानुगः॥२१॥

यत्सृष्टं मिथुनं तदपि स्रष्टुरेव नटस्येव रूपान्तरमित्याह- स एवेति। विधाय वेदेन प्रकाश्य आचरति भोगार्थकर्माणि करोति। अनुगैः कश्यपादिभिः सहितः सानुगः॥२१॥

स एष भगवान्ब्रह्मा नित्यं ब्रह्मविदां वरः ।
निर्वाणभयगन्तॄणामकिञ्चनपथैषिणाम्॥२२॥

हविः स्वरूपमपि ब्रह्मैवेत्याह- स एष इति। यो नित्यमकिञ्चनपथैषिणां निर्वाणपदगन्तॄणां ब्रह्मविदां वरो ब्रह्म स एषः॥२२॥

सोमात्सोमः समुत्पन्नो धारासलिलविग्रहात् ।
यथाभिषिक्तो भूतानामाधिपत्ये महेश्वरः॥२३॥

सोमात् उमा ब्रह्मविद्या तया सहितात् नित्यमलुप्तज्ञानशक्तेः परमेश्वरात्सोमः चन्द्रः ओषधीशः समुत्पन्नः। किम्भूतात्सोमात् धारा स्वर्गात् च्युतजलधारा तदेव विग्रहो मूर्तिर्यस्य तस्मात्। यया धारया॥२३॥

अभिषिच्य च भूतेशं कृत्वा कर्म स्वभावतः ।
नदति स्म तदा नादं तेन सा ह्युच्यते नदी॥२४॥

स्वभावतः निसर्गेणैव कर्म महेश्वरस्य भूताधिपत्यप्रदानरूपं कृत्वा नादं नदति पुनःपुनर्गर्जति। नादमिति णमुलन्तम्, नदित्वा नदित्वेत्यर्थः। अतः सा नदीत्युच्यते॥२४॥

सा ब्रह्मलोकं सम्भाव्य अभिभूय सहस्त्रधा ।
गां गता गगनाद्देवी सप्तधा प्रससार च॥२५॥

सम्भाव्य महीकृत्य अभिभूय भित्त्वा मार्गरोधकान्पर्वतानिति शेषः। यतो गगनात् गां गता अतो गङ्गाऽभूदिति भावः। सप्तधा गोदावरीरूपेण सा हि समुद्रसङ्गमे सप्तधा भूतेति सिद्धम्॥२५॥

सहस्रधा च राजेन्द्र बहुधा च पुनः पुनः ।
इमं लोकममुं चैव भावयन्क्षरसम्भवम्॥२६॥

सहस्रधा जाह्नवीरूपेण इदमपि प्रसिद्धम्। बहुधा विभूतिभेदेन गङ्गा भगवती नदीत्यादितत्तत्तीर्थमाहात्म्यप्रसङ्गे गङ्गाया अनेकधा भावदर्शनात्। एवमोषधीशोत्पत्तिप्रसङ्गात् गङ्गायास्तत्कारणेश्वरात्मत्वमुक्त्वा चन्द्रोत्पत्तिप्रयोजनमाह- इममिति। इमं लोकम् ओषधीनामाप्यायनेन अमुं च लोकं “प्रथमां पिबते वह्निर्द्वितीयां पिबते रविः” इत्यादिशास्त्रोक्तप्रकारेण च भावयन् वर्धयन् क्षरसम्भवम् अविद्याप्रभवम्॥२६॥

ततो भूतानि रोहन्ति महाभूतफलानि च ।
ततः सर्वे क्रियारम्भाः प्रवर्तन्ते मनीषिणाम्॥२७॥

ततः अस्य लोकस्य संवर्धनात् उद्भूतैर्बीजैः भूतानि जरायुजादीनि रोहन्ति वर्धन्ते। महाभूतानि पृथिव्यप्तेजांसि तेषां फलानि तेजोऽवन्नात्मकानि व्रीह्मादीनि सर्वस्य आत्मकत्वात्। ततो व्रीह्यादिभ्यो मनुष्यादिभ्यश्च यथायोग्यं सर्वे क्रियारम्भाः प्रवर्तन्ते मनीषिणां कामजेतृणाम्॥२७॥

चतुर्भिर्वद‌नैस्तस्य मुखपद्माद्विनिःसृता ।
तदाक्षरमयी सिद्धिर्दिशत्वं समुपागता॥२८॥

मन्त्रोऽपि ब्रह्मैवेत्याह- चतुर्भिरिति। वदनैवि वदनैर्वेदैः। इत्थम्भावे तृतीया। तस्येश्वरस्य मुखपद्माद्वेदरूपेण विनिःसृता अक्षरं ब्रह्म तन्मयी यत्प्राप्तिप्रधाना सिद्धिर्वेदाख्या दिशत्वम् उपदेशत्वम् “दिश अतिसर्जने” इगुपधलक्षणः कः॥२८॥

तस्य ज्ञानमयं पुण्यं चतुष्पादं सनातम् ।
पतित्वेनाभवद्देवो ब्रह्मा चात्र पितामहः॥२९॥

ऋत्विग्यजमानावपि ब्रह्मैवेत्याह- तस्येति। ज्ञानमयं चिन्मयं पुण्यं पुण्यकारणं यज्ञं चतुष्पादं चत्वार ऋत्विजे ब्रह्मोद्गातृहोत्रध्वर्यवः पादा यस्य तं सनातनम् अनादिं तस्य पतित्वेन ब्रह्मा ब्रह्मणः कर्मरूपस्य अनुष्ठाता एतत्सर्वं पितामहः शुद्धं ब्रह्मैव॥२९॥

पादा धर्मस्य चत्वारो यैरिदं धार्यते जगत् ।
ब्रह्मचर्येण व्यक्तेन गृहस्थेन च पावने॥३०॥

धर्मपादरूपाश्चत्वार आश्रमाः अपि ब्रह्मैवेत्याह- पादा इति द्वाभ्याम्। व्यक्तेन स्वाध्यायरूपेण व्यानरूपेण व्यक्तेन एकः पादः। गृहस्थेन गृहस्थाश्रमेण पावने गृहे स्थितेन च द्वितीयः पादः। समासैकदेशस्यापि गृहस्यविशेषणं पावने इति आर्षत्वात्॥३०॥

गुरुभावेन वाक्येन गुह्यगामिनगामिना ।
इत्येते धर्मपादाः स्युः स्वर्गहेतोः प्रचोदिताः॥३१॥

गुरुभावेन तपोभारगौरवेण च वानप्रस्थाश्रमेण तृतीयः पादः। वाक्येन तत्त्वमस्यादिना कीदृशेन गुह्यगामिना आत्मतत्त्वप्रतिपादकेन। तथा नगामिना नगमचलं कूटस्थं ब्रह्म, “संन्यासाद्ब्रह्मणः स्थानम्” इति स्मृतेर्मेरुपृष्ठं वा तत्रापि आगमयति गमयतीति नगामि तेन नगामिना कूटस्थवस्तुप्रापकेण विचारध्यानाभ्यां वस्तुप्रतिपत्त्यर्थेन वाक्येन चतुर्थः पादो धर्मस्य भवतीत्यर्थः। स्वर्गो भोगापवर्गाख्यं सुखम्॥३१॥

न्यायाद्धर्मेण गुह्येन सोमो वर्धति मण्डले ।
ब्रह्मणो ब्रह्मचरणाद्वेदा वर्तन्ति शाश्वताः॥३२॥

एवं यष्टव्यदेवतादिचातुराश्रम्यान्तानां ब्रह्मत्वं भावनार्थमुक्तम्। इदानीं तुर्याश्रमयोग्यं योगं प्रस्तोष्यन् तुर्याश्रमधर्ममेव स्तौति द्वाभ्याम्- न्यायादिति। न्यायात् वेदान्तन्यायोद्वलितश्रवणमननात्मकविचाराधिगमात्। गुह्यधर्मो योगः तेन च मण्डले ब्रह्माण्डगोले सोमः चन्द्राधिष्ठेयं मनः विवर्धति। आध्यात्मिकपरिच्छेदाभिमानं त्यक्त्वा समष्ट्यभिमानं धत्ते इत्यर्थः। एवं ब्रह्मणो वेदादेव प्रमाणभूतात् ब्रह्मचरणं ब्रह्मचर्यायोगस्तस्मात् शाश्वता अपि वेदाः वर्तन्ति निवर्तन्ते गच्छन्ति बाध्यन्ते इत्यर्थः। अत्र “पितापितेत्यादि लोका अलोका वेदा अवेदाः” इति श्रुतेः वेदस्यापि बोधात्प्रागेव प्रामाण्यं सति तु बोधे बाध एवेत्यर्थः। वर्तन्ति नैघण्टुके गत्यर्थेषूपपद्यते॥३२॥

गृहस्थानभिवाक्येन तृप्यन्ति पितरस्तथा ।
ऋषयोऽपि च धर्मेण नगस्य शिरसि स्थिताः॥३३॥

किञ्च वाक्येन पूर्वोक्तो गुह्येत्यादिविशेषणेन युक्तान् गृहस्थानपि अभिलक्ष्य पित्रादयस्तृप्यन्ति धर्मेण योगेन नगस्य मेरोः, एतेन योगधर्मे गृहस्थादेरप्यधिकारोऽस्तीति दर्शितम्। तथा च स्मृतिः- न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः। श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते॥ स ह्याश्रमैर्विजिज्ञास्यः सर्वैरप्येवमेव तु। द्रष्टव्यस्त्वथ श्रोतव्यो मन्तव्यश्चोपपत्तिभिः”॥ इत्यादिका॥३३॥

नगस्य तस्य सम्पश्य मेरोः शिखरमुत्तमम् ।
पद्भ्यां सम्पीड्य वृषणावृषिभिस्तैर्विचार्यते॥३४॥

तदेवं यतेर्गृहस्थस्य च यथोक्तस्वाश्रमधर्माननुतिष्ठतः अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाख्या यमाः, शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानाख्या नियमाश्च स्वभावसिद्धा इति तानुक्त्वा आसनादीनि योगाङ्गानि विधित्सुः प्रथमं मेरुशिखराख्यब्रह्मलोक एव जेतव्य इत्याह- नगस्येति। उत्तमं क्रममुक्तिस्थानत्वात् आसनं विधत्ते सार्धेन- पद्भ्यामिति। यतः मेरोः शिखरं तैः ब्रह्मचर्याद्याश्रमधर्मसम्पन्नैर्ऋषिभिर्विचार्यते तत् पश्येति योजना। किं कुर्वन् वृषणौ पद्भ्यां सम्पीड्य- मेद्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि। गुल्फान्तरं च विन्यस्य सिद्धासनमिदं भवेत्॥ इत्युक्तलक्षणे सिद्धासने स्थित्वेत्यर्थः॥३४॥

ग्रीवां निगृह्य पृष्ठं च विनाम्य प्रहसन्निव ।
नाभिदेशे करौ न्यस्य सर्वशोऽङ्गानि संक्षिपन्॥३५॥

ग्रीवां निगृह्य जत्रुसन्धौ चुबुकं संयोज्येत्यर्थः। पृष्ठं विनाम्य यथा वक्ष ईषदुन्नतं स्यात्तथा विनामयेत् पृष्टं प्रहसन्निवेत्यस्थ दन्तैर्दन्तान्न स्पृशेदित्यर्थः। नाभिदेशे करौ न्यस्येत्यञ्जलिमुद्रां वामोपरि दक्षिणं हस्तं कृत्वेत्यर्थः। संक्षिपन् निगृह्णन्॥३५॥

मूर्ध्नि ब्रह्म समुत्क्षिप्य मनसाऽपि पितामहः ।
असृजन्मनसा विष्णुं योगाद्योगेश्वरस्य च॥३६॥

आसनजयिनः परकृतिसरूपार्थवादमुखेन सफलं प्राणायाममाह- मूर्ध्नीति। योगेश्वरस्य योगात् पितामहः मनसा विष्णुम् असृजत्। किं कृत्वा? मनसा मूर्ध्नि ब्रह्म समुत्क्षिप्येति योजना। मनोरोधो हि योगः, स च प्राणरोधाधीन इति प्राणरोधो योगेश्वरः, तस्य योगादभ्यासात् पितामहोऽधिकारी मनसा मनःप्रधानेन प्राणेन ब्रह्म स्वात्मानं जीवं प्राणोपाधिं मूर्ध्नि भ्रूघ्राणमध्ये समुत्क्षिप्य सङ्गम्य मनसा सङ्कल्पेन विष्णुं विश्वरूपम् असृजत्। एवं चोक्तरीत्या भ्रूघ्राणमध्यं प्रापय्य जीवस्य ऐश्वर्याविर्भावहेतुः प्राणायामोऽवश्यं कर्तव्य इत्यर्थः॥३६॥

व्यतिरिक्तेन्द्रियो विष्णुर्बिम्बाद्बिम्बमिवोद्धृतः ।
तेजोमूर्तिधरो देवो नभसीन्दुरिवोदितः॥३७॥

प्रत्याहारमाहात्म्यमाह- व्यक्तिरिक्त इति। व्यतिरिक्तानि विषयेभ्यो व्यावृत्तानि इन्द्रियाणि यस्य सः कृतप्रत्याहारो योगी सन्निहितमपि शब्दादिकमगृह्णन् सर्वात्मना परिच्छेदाभिमाननिवृत्तौ विष्णुर्व्यापक एव भवति। अयमत्र क्रमः- यथा घटोदरगता दीपप्रभा घटमात्रीभवति, सैव घटच्छिद्राद्बहिर्गता कियन्तं भवनोदरगतं विषयं व्याप्नोति, सर्वात्मना घटाद्बहिर्गता सती कृत्स्नं भवनोदरं व्याप्नोति। एवं जीवचैतन्यं देहान्तर्गतं सत्तन्मात्रं व्याप्नोति, इन्द्रियद्वारा बहिर्गतं सत् तं तं विषयं व्याप्नोति, सर्वात्मना देहाद्बहिर्गता सती कृत्स्नं दृश्यं व्याप्नोति। अत एव तस्यामवस्थायां सार्वज्ञ्यं योगिनां भवतीति स्पष्टम्- बिम्बादिति। मूषोद्धृतप्रतिमावत्स्वरूपेणाविर्भवतीत्यर्थः। तेजोमूर्तिः चैतन्यज्योतिः॥३७॥

रराज ब्रह्मयोगेन सहस्त्रांशुरिवापरः ।
विराजन्नभसो मध्ये प्रभाभिरतुलं प्रभुः॥३८॥

एतमेव स्तौति- रराजेति। ब्रह्मयोगेन देहादितादात्म्याभ्यासकृतया ब्रह्मभावव्यावृत्त्या विराजन् विराजमानः नभसो हार्दाकाशस्य प्रभाभिश्चैतन्यज्योतिःप्रकाशैः। बहुवचनं समाधिप्रयोगभेदाभिप्रायम्। निर्विशेषचिन्मात्रमपि प्रत्याहारबलेनैव ज्ञेयमित्यर्थः॥३८॥

नोपलभ्यति मूढानां प्रत्यक्षं ब्रह्म शाश्वतम् ।
ललाटमध्ये तिष्ठन्तं द्विधाभूतं क्रियां प्रति॥३९॥

आक्रोशपूर्वकं देशबन्धश्चित्तस्य धारणेति प्रोक्तलक्षणां धारणामाह- नोपेति। उपलभ्यति प्राप्नोति ललाटमध्ये भ्रूघ्राणसन्धौ तिष्ठन्तं विष्णुं क्रियां नियमनक्रियां प्रति समुद्दिश्य द्विधाभूतं नियम्यनियामकरूपेणेत्यर्थः॥३९॥

ज्योतिश्चक्षुषि सम्बद्धं बिम्बं भास्करसोमयोः ।
बुद्ध्या पूर्वं तु पश्यन्ति अध्यात्मविषये रताः॥४०॥

धारणायाः प्रदेशमुक्त्वा विषयमाह- ज्योतिरिति। भास्करसोमयोः तद्देवतयोरिडापिङ्गलयोर्मध्ये बिम्बभूतं ज्योतिर्धारणाविषय इत्यर्थः। किम्भूतं विम्बं चक्षुषि सम्बद्धं चक्षुरिन्द्रिये प्रतिविम्बितं यत्कृतं चक्षुषि रूपप्रकाशनसमर्थं तस्मिन् चिज्ज्योतिषि भ्रूघ्राणमध्यस्थे चित्तं धार्यमित्यर्थः। बुद्ध्येति। पूर्वम् अध्यात्मविषये रताः सन्तः पश्चात् बुद्धया तं विषयं पश्यन्तीति योजना। आत्मनि शरीरे योगधारणाविषयः तत्र रताः पुनः पुण्येन तदेव चिन्तयन्तः। एतेनात्र प्रत्ययैकता ध्यानमित्युपलक्षणं ध्यानमुक्तम्॥४०॥

ब्राह्मणा वेदविद्वांसः सत्यव्रतपरायणाः ।
नेतरे जातु पश्यन्ति अध्यात्मं नावबुध्यते॥४१॥

ब्राह्मणा इति। नावबुध्यते इतरैरिति शेषः। अध्यात्मम् अध्यात्मशास्त्रमपि नावबुध्यते दूरे स्वरूपबोध इति भावः॥४१॥

हिंसायोगैरयोगात्मा सर्वप्राणचरैर्नृप ।
भूतयो भुवि भूतेशो मोहप्राप्तेन चेतसा॥४२॥

इतरे के तानाह- हिंसायोगौरिति द्वाभ्याम्। यो भुवि भूतेशो भूतानां निग्रहानुग्रहसमर्थो योगी ऐश्वर्यकृतं मोहं प्राप्तेन चेतसा अयोगात्मा न योगे आत्मा चित्तं यस्य स योगं प्राप्य स्वरूपानन्दात् च्युतमनस्कः तं भूतयः ऐश्वर्याणि सर्वप्राणचरैः सर्वप्राणभक्षकैर्हिंसायोगैरभिभवन्तीति शेषः॥४२॥

कर्मभिः कुत्सितैरन्यैः सर्वप्राणिवधैषिणाम् ।
नराणां योगमाधाय स्वेषु मात्रेषु भारत॥४३॥

किं कृत्वा मोहयन्तीत्यत आह- कर्माभिरिति। सर्वप्राणिवधैषिणां नराणामन्यैः कुत्सितैः कर्मभिर्योगसम्बन्धम् आधाय प्रसञ्जयित्वा। केषु निमित्तेषु सत्सु स्वेषु स्वार्जितेषु मात्रेषु मीयन्ते ते मात्राः भोग्याः विषयाः, “हृष्टो दृप्यति, दृप्तो धर्ममतिक्रामति” इत्यापस्तम्बोक्तेर्योगर्धिषु न सन्तोषः कार्यः। किन्तु विघ्नबुद्ध्या तास्त्यक्तव्या एवेति भावः॥४३॥

समाहितमना ब्रह्मन्मोक्षप्राप्तेन हेतुना ।
चन्द्रमण्डलसंस्थानाज्ज्योतिश्चान्द्रं महत्तदा॥४४॥

समाहितेति। यस्मादेवं योगे विघ्नाः सन्ति तस्मात् ब्रह्मन् ब्रह्मणि समाहितमनाः सम्यङ्निहितमना भवेत्। मोक्षस्य प्राप्तं प्राप्तिः। भावे क्तः। मोक्षप्राप्त्यर्थमित्यर्थः। किं कृत्वा चन्द्रमण्डलं मनः। “चन्द्रमा मनो भूत्वा” इति श्रुतेः। तस्य संस्थानं ईशादिरूपं तत्परित्यज्येत्यर्थः। संस्थानादिति ल्यब्लोपे पञ्चमी। ज्योतिर्द्योतमानं तेजश्चैतन्यं हृदयायतनं प्रविश्य॥४४॥

प्रविश्य हृदयं क्षिप्रं गायत्र्या नयनान्तरे ।
गर्भस्य सम्भवो यश्च चतुर्धा पुरुषात्मकः॥४५॥

क्षिप्रविघ्नशङ्कया ऐश्वर्यास्वादमकुर्वन् गायत्र्याः, “गायत्री वा इदं सर्वं भूतम्” इति श्रुतिप्रसिद्धगायत्र्याख्यसगुणब्रह्मणोऽपि नयनं नयनवत् प्रकाशकं शुद्धं ज्योतिः तस्यान्तरे मध्ये आसीदिति शेषः। अन्तरस्वरूपमाह- गर्भस्येति। अव्यक्तस्य सम्भव उत्पत्तिः। य इति विधेयापेक्षं पुंस्त्वम्। चतुर्धा अकारोकारमकारार्धमात्रत्वेन॥४५॥

ब्रह्मतेजोमयो युक्तः शाश्वतोऽथ ध्रुवोऽव्ययः ।
न चेन्द्रियगुणैर्युक्तो युक्तस्तेजोगुणेन च॥४६॥

चतुर्धा भूतमेव पुरुषं स्तौति- ब्रह्मेति सार्धेन। ब्रह्म निरतिशयोत्कृष्टं तेजश्चैतन्यं तन्मयं तद्रूपः अव्यक्तः इन्द्रियाद्यगोचरः शाश्वतो नित्यः ध्रुवः कूटस्थः अत एव अव्ययः अपचयशून्यः इन्द्रियग्रह्यैः रूपादिगुणैर्न च युक्तः तेजोगुणेन मनोगुणेन दुःखादिना युक्तो मनस्तादात्म्याध्यासात्। चन्द्रेत्याह्लादकत्वं भ्राजिष्णुरिति सद्रूपेण स्फुरमाणत्वं वर्णेषु लोहितशुक्लकृष्णेषु तेजोऽवनेषु देहाकारपरिणतेषु स्थितः आविर्भूतः॥४६॥

चन्द्रांशुविमलप्रख्यो भ्राजिष्णुर्वर्णसंस्थितः ।
नेत्राभ्यां जनयद्देवो ऋग्वेदं यजुषा सह॥४७॥

अस्य चतस्रो मूर्तीराह- नेत्राभ्याम् ऋग्यजुर्वेदौ क्रमेण विश्वतैजसौ त्रिपुटीरूपेण दृश्यत्वान्नेत्राभ्यामिवोत्पन्नौ॥४७॥

सामवेदं च जिह्वाग्रादथर्वाणं च मूर्धतः ।
जातमात्रास्तु ते वेदाः क्षेत्रं विन्दन्ति तत्त्वतः॥४८॥

सामवेदः प्राज्ञः शब्दमात्रगम्यत्वाज्जिह्वाग्रादेवोत्पन्नः। एतेभ्यो विलक्षणस्तुर्य ईश्वरोऽन्तर्यामी योगैकगम्यत्वादर्वाग्दृशामगोचरत्वात् शुद्धसत्त्वमयत्वाच्च मूर्धत एवोत्पन्नः। आविर्भूतमात्रा एते स्वं स्वं क्षेत्र प्रकाश्यमुपाधिं विन्दन्ति लभन्ते। तस्मादेते वेदा उच्यन्त इत्याह- जातमात्रा इति॥४८॥

तेन वेदत्वमापन्ना यस्माद्विन्दन्ति तत्पदम् ।
ते सृजन्ति तदा वेदा ब्रह्म पूर्वं सनातनम्॥४९॥

तुर्यातीतस्त्वेतेष्वनुस्यूत इत्याह- तेनेति॥४९॥

पुरुषं दिव्यरूपाभं स्वैः स्वैर्भावैर्मनोभवैः ।
अथर्वणस्तु यो योगः शीर्षं यज्ञस्य तत्स्मृतम्॥५०॥

चत्वारोऽप्येते शुद्धस्योपाधितां गत्वा स्वैः स्वैर्गुणैर्विशिष्टेन रूपेण पुरुषं विश्वादिरूपं कुर्वन्तीत्यर्थः। एवं चतुर्विधं भ्रूघ्राणमध्यस्थस्य धारणाविषयस्य ब्रह्मणो रूपमुपन्यस्य देहावयवतारतम्येन तत्र तत्र धारणायास्तारतम्यं सूचयति- अथर्वेत्यादिना सार्धद्वयेन। तुर्यधारणाऽतिमुख्यत्वाच्छीर्षतुल्या। विश्वधारणा बाह्यत्वात् ग्रीवादितुल्या॥५०॥

ग्रीवाबाह्वन्तरं चैव ऋग्भागः स भवेत्ततः ।
हृदयं चैव पार्श्वं च सामभागस्तु निर्मितः॥५१॥

बस्ति शीर्षं कटीदेशं जङ्घोरुचरणैः सह ।
एवमेष यजुर्भागः सङ्घातोः यज्ञकल्पितः ।
पुरुषो दिव्यरूपाभः सम्भूतो ह्यमरात्पदात्॥५२॥

प्राज्ञधारणान्तमुखत्वाद्धृदयतुल्या तैजसधारणा संसारमोक्षोभयव्यापित्वाच्छीर्षादिचरणान्तरूपा। यस्तु एतैर्दिव्यै रूपेराभाति स पुरुषः अमरात् अक्षरात्तुर्यात्पदात् उपलक्षणात् सम्भूतः एकीभावेनाधिगतो भवतीत्यर्थः॥५२॥

स हि वेदमयो यज्ञः सर्वभूतसुखावहः ।
उभयोर्लोकयोस्तात हिंसावर्ज्यः सनातनः॥५३॥

अत्र द्विविधो योगः सबीजो निर्बीजश्च। आद्यश्चतुर्द्धा वितर्कविचारानन्दस्मितरूपः। तत्र बाह्यः प्रतिमादौ चित्तं यदा सन्नियम्यते तदा स वितर्कः सोऽत्र ऋक्छब्देनोक्तः। यदा तु स्वप्ने इवान्तःप्रज्ञैर्मनोमात्रकल्पिते प्रतिमादौ तदा स विचारः सोऽत्र यजुःशब्दितः। यदा त्वेनं परित्यज्य तुर्यं प्रविविक्षुर्मध्ये लीयते स प्रकृतिलीनोऽत्र सामशब्देनेोक्तः। अयं च लयरूपत्वादयोगः तुर्यं प्राप्तोऽपि यदा सर्वैश्वर्यसार्वज्ञादिप्रावण्यं तदा स आनन्दः। यदा तु तमपहाय अस्मीत्येतावन्मात्रेणावस्थानं तदा स स्मितः; तदुभयमत्राथर्वशब्देनोच्यत इति। विस्तरस्तु वेदस्तुतिटीकायां स्पष्टीकृतोस्मद्गुरुभिरित्युपरम्यते॥५३॥

योगारम्भं कर्मसाध्यं ब्रह्मचर्यं सनातनम् ।
प्रभवः सर्वभूतानां यो विन्दति स वेदवित्॥५४॥

योगमुक्त्वा तद्विदं स्तौति- योगारम्भमिति। इदं ब्रह्मचर्यं यो विन्दति स वेदवित्। य एतत्सर्वभूतानां प्रभवः तत्प्रापकत्वात्, “योगो हि प्रभवाप्ययौ” इति श्रुतेः। कीदृशं तत् योगेनैवारभ्यते न तु शुष्कविचारेण, कर्म मनःसंयमस्तेन साध्यम्॥५४॥

स सिद्धः प्रोच्यते लोके सिद्धिरेव न संशयः ।
निर्मुक्तैः सर्वकर्मभ्यो मुनिभिर्वेद‌पारगैः॥५५॥

वैष्णवं यज्ञमित्येवं ब्रुवते वेदपारगाः ।
ब्राह्मणा नियमश्रान्ता वेदोपनिषदे पदे॥५६॥

वैष्णवमिति। विष्णुः शुद्धं वस्तु, तत्प्रापकं वैष्णवं, तस्मिन् वेदस्य उपनिषत् ब्रह्मविद्या तयाऽधिगम्य वेदोपनिषदे पदे स्त्राराज्ये निमित्ते सति ब्राह्मणाः ब्रह्मविदः नियमे मनोनिग्रहे श्रान्तास्ते ब्रुवते। अत्यन्तदुष्करमनोजयसाध्योऽयमित्यर्थः॥५६॥

जनमेजय उवाच। चेतसस्तूपलम्भं हि मनोग्राह्यस्य कामतः ।
कारणं श्रोतुमिच्छामि यथा त्वं मन्यसे मुने॥५७॥

प्रसङ्गात्समाधौ प्रलीनस्य चेतसः कुतः पुनरुपलम्भ इत्याशङ्कते- चेतस इति। कामत इच्छया मनोग्राह्यस्य स्वेनैव स्वयं दग्धेन्धनानलवदुपशमितुं योग्यस्य॥५७॥

वैशम्पायन उवाच। न ह्यस्य कारणं किञ्चिद्बाह्यं भवति भारत ।
अन्तर्गतं कारणं तु शारीरं मानसं नृप॥५८॥

शरीरेण कृतं शारीरं धर्माधर्मरूपं, मानसं मनसि भवतीति मानसम्। शरीरकृतं कर्म मनसि संस्काररूपेण स्थितं मनस उद्बोधकामित्यर्थः॥५८॥

येन वेद्यं विदुर्मर्त्या ब्राह्मणाः संशितव्रताः ।
अवेद्यमपि वेद्यं च शक्यं वेत्तुं न कर्मणा॥५९॥

अस्यैव प्राबल्यमाह- येनेति। येन चैतन्येन सर्वं ज्ञायते तदात्मत्वादवेद्यमपि शास्त्राचार्योपदेशमनु लक्षणया वैद्यं भवत्येव तथापि कर्मणा न वेत्तुं शक्यमतः कर्मैव बलवत्प्रतिबन्धकमित्यर्थः॥५९॥

ब्राह्मणेन विनीतेन सदा ब्रह्मनिषेविणा ।
सदा विदिततत्त्वेन सिद्धिहेतोर्महीपते॥६०॥

तस्य च निवृत्तिरपि सत्कर्मणैवेत्याह- ब्राह्मणेनेत्यादिभिश्चतुर्भिः। ब्राह्मणेन वेदाध्यायिना विनीतेन विद्यामदहीनेन सदा ब्रह्मनिषेविणा ब्रह्मयज्ञादिपरेण सदा शास्त्राचार्येभ्य आत्मानात्मनोर्विदिततत्त्वेन सिद्धिहेतोर्मोक्षार्थं भवितव्यमिति शेषः॥६०॥

सदा चैव शुचिर्भूत्वा नियतो ब्रह्मकर्मणा ।
उपतिष्ठेत स गुरुं बद्धाञ्जलिपुटो द्विजः॥६१॥

ब्रह्मकर्मणा ब्रह्मण्यर्पितेन कर्मणा नियतः शमादिमान्॥६१॥

सायं प्रातश्च तत्त्वज्ञो मोक्षकर्माणि कारयेत् ।
विनीतो ब्रह्मभावेन समाहितमतिर्मुनिः॥६२॥

गुरुतत्त्वज्ञो भूत्वा मोक्षकर्मणि प्रोक्तान्यासनादिधारणान्तानि कारयेत् कुर्यात्। विनीतो योगप्राप्तिगर्वहीनः, ब्रह्मभावेन न तु सेव्यसेवकभावेन। “अथ योऽन्यां देवतामुपास्ते योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्” इति तन्निन्दाश्रुतेः॥६२॥

सम्प्रपद्येत मनसा वैष्णवं पदमुत्तमम् ।
ध्यायन्नेव प्रसीदेत समाहितमतिर्द्विजः॥६३॥

“मनसैवेदमाप्तव्यम्, दृश्यते त्वग्र्यया बुद्ध्या” इत्यादिश्रुतेः वैष्णवम् उत्तमं पदं शुद्धं ब्रह्म मनोवृत्त्यैव वेद्यामित्यर्थः। ध्यायन्नेव न शुष्कं विवेकं कुर्वन्। मनसो हि प्रसादेन हन्ति कर्म शुभाशुभम्। प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमक्षय्यमश्नुते॥ इति श्रुतेर्मनोजय एव कर्मनिर्मूलने हेतुरित्यर्थः॥६३॥

गच्छते परमं ब्रह्म निर्विकारेण चेतसा ।
अपुनर्भवभावज्ञो निर्ममो भाववन्धनात्॥६४॥

गच्छते। कर्मव्यतिहारे तङ्। यथा यथायं ब्रह्माभिमुखो भवति तथा तथैनं ब्रह्माप्याभिमुखं भवति। यथोक्तं वृद्धैः- यावद्यावन्निरस्यायं देहादीन्प्रत्यगच्छति। तावत्तावत्तदर्थोऽपि त्वमर्थं प्रविविक्षति॥ इति॥६४॥

तदेवाक्षरमित्याहुर्यत्तद्ब्रह्म सनातनम् ।
तर्हि तत्कर्मयोगेन विद्यायोगेन दर्शितम्॥६५॥

तदेवेति। जीवरूपेण नित्यं वृद्धिह्रासभाक्त्वे न समानमपि ब्रह्म तर्हि तदेवम् अक्षरं ह्रासादिरहितं प्राहुर्यदैव कर्मयोगादिना दर्शितं भवतीति॥६५॥

ब्राह्मणानां विनीतानां वैष्णवे पदसञ्चये ।
सर्वद्रव्यातिरिक्तानां कामयोगविगर्हिणाम्॥६६॥

केषां तदक्षरं विदितमत आह- ब्राह्मणानामिति। पदसञ्चये पदनिश्चये निमित्तं सर्वद्रव्येभ्योऽतिरिक्तानां त्यागवतां कामयोगं स्त्र्यादिसङ्गं विगर्हयन्ति तेषाम्॥६६॥

अपुनर्भाविनां लोकाः कर्मयोगप्रतिष्ठिताः ।
अनादानेन मनसा राजन्कर्मणि कर्मणि॥६७॥

अपुनरिति। कथं कर्मयोगेषु पुनर्भवराहित्यं प्रतिष्ठितमत आह- अनादानेनेति। फलस्येति शेषः। कर्मणीति द्विरुक्तिर्वीप्सार्था। सर्वस्मादपि कर्मणः फलाकाङ्क्षां न कुर्यात्। यथोक्तं भगवता- यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्॥ इति॥६७॥

आदानाद्बध्यते जन्तुर्निरादानात्प्रमुच्यते ।
ब्राह्मणेभ्यः क्रियावाप्तिर्जन्तोः पूर्वाज्जनाधिप॥६८॥

आदानादिति। तत्रादानं तत्सङ्गत्या पूर्वजन्मसंस्काराच्च भवति तेन क्रियाणामवाप्तिः प्रप्तिर्भवति। अन्यथा क्षुद्रफलोपधानेन व्यर्थं कर्म गच्छतीत्यर्थः॥६८॥

मुक्तश्चेन्द्रियबन्धेन प्राप्तश्च परमं पदम् ।
न भूयः पुनरायाति मानुषं देहविग्रहम्॥६९॥

अनादानस्यैव महाफलत्वमाह- मुक्त इति। “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन” इति श्रुतेर्विविदिषोत्पादनद्वारा कर्मैव मोक्षहेतुरित्यर्थः॥६९॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे सप्तद‌शोऽध्यायः॥१७॥
योगोपसर्गकथनम्

जनमेजय उवाच। उपसर्गं च योगं च ध्यातव्यं चैव यत्पदम् ।
न भूयः पुनरायाति मानुषं देहविग्रहम्॥१॥

योगोपसर्गा वर्ण्यन्तेऽथ त्रिभिः प्रश्नपूर्वकम्। तत्रापि द्वादशे योगमार्गे ये चिह्नतां गताः॥ पूर्वत्र हिंसायोगैरित्यनेन योगोपसर्गाः सूचिताः आसनादिधारणान्तानि च योगाङ्गानि उक्तानि। अवशिष्टं योगस्वरूपं ध्येयं ब्रह्म, योगसिद्ध्यश्च, तदेतच्चतुष्टयं जिज्ञासमानो जनमेजय उवाच- उपसर्गं चेति॥१॥

सिद्धिं सिद्धिगुणाश्चैव श्रोतुमिच्छामि तत्त्वतः ।
वैशम्पायन उवाच। शृणु विस्तरतः सर्वं यथा पृच्छसि मेधया ।
उपपन्नेन मनसा ब्रह्मादीनामनेकधा॥२॥

शृण्वति। ब्रह्मादीनां योगिनामनेकधा जायमानं योगोपसर्गादिकं यथा पृच्छसि तथा मेधायुक्तेन मनसा श्रृणु॥२॥

पञ्च सिद्धिगुणांस्त्यक्त्वा पश्यतो ब्रह्मणो नृप ।
योगयुक्तेन मनसा पञ्चेन्द्रियनिवासिनः॥३॥

पञ्चेति। पञ्च सिद्धयो दूरश्रवणाद्यास्तासां गुणान् शब्दादीन् पञ्चेन्द्रियेषु निवसन्तीति पञ्चेन्द्रियैरेव कल्पितानित्यर्थः। तान् त्यक्त्वा योगयुक्तेन मनसा ब्राह्मणः पश्यतो ब्रह्मदर्शिनः॥३॥

ब्रह्मणश्चिन्तयानस्य ब्रह्मयज्ञं सनातनम् ।
बहुरूपमनैश्वर्यात्प्रवर्तति निरोधनम्॥४॥

ब्रह्मणो ब्राह्मणस्य ब्रह्मैव यज्ञो ब्रह्मयज्ञो ब्रह्मैव तं चिन्तयानस्य अनैश्वर्यात् परवैराग्यबलाभावात्। निरुध्यतेऽनेन तन्निरोधनम् उपसर्गजातं प्रवर्तति प्रवर्तते॥४॥

पञ्चेन्द्रियस्य ग्रामस्य नवद्वारस्य भारत ।
कामक्रोधस्य लोभस्य सन्निरुद्धस्य मेधया॥५॥

अपरवैराग्येण इन्द्रियादिनिरोधस्य सद्भावेऽपि परवैराग्याभावात् योगो निरुध्यत इत्याह- पञ्चेति। पञ्चेन्द्रियप्रधानस्य ग्रामस्य देहेन्द्रियप्राणसङ्घातस्य कामसहितस्य क्रोधस्य मेधया सन्निरुद्धस्य सद्भावेऽपीति शेषः॥५॥

तेजसा मूर्ध्नि चाधाय धूमो दोधूयते महान् ।
नीललोहितवर्णाभैः पीतैः श्वेतैश्च धातुभिः॥६॥

तानेव विघ्नानाह- तेजसेति। मूर्ध्नि अघ्राणमध्ये निहितेन तेजसा चक्षुःप्रणिधानेन आधाय चित्तं संयोज्य स्थितस्य योगिनः। मूर्ध्नीति हृदयपुण्डरीकादेरप्युपलक्षणम्। यत्र कुत्रचिदाधारे गुरूक्तयुक्त्या चित्तं प्रणिधित्सतो योगिनः धूमादिकं गोचरीभवति, यच्च मनोमर्कटेन निरोधक्षुब्धेन नाडीमार्गशाखाश्च क्रमतोऽनुभूयन्ते तच्च योगसिद्धिचिह्नम्। तथा च श्रुतिः- “तस्मिन् शुक्लमुत नीलमाहुः पिङ्गलं हरितं च। एष पन्था ब्राह्मणानामुचितस्तेन” इति “ब्रह्मवित्पुण्यकृत्तेजसश्च” इति नीहारधूमार्कानलानिलानां खद्योतविद्युत्स्फटिकशशीनाम्। एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे। इति च। धातुभिः तुल्यवर्ण इति शेषः॥६॥

माञ्जिष्ठरागवर्णाभैः कपोतसदृशैस्तथा ।
शुद्धवैडूर्यवर्णाभैः पद्मवणर्दलप्रमैः॥७॥

स्फाटिकैर्मणिवर्णाभैर्नागेन्द्रसदृशैस्तथा ।
इन्द्रगोपकवर्णाभैश्चन्द्रांशुसलिलप्रभैः॥८॥

बहुवर्णैः सुधूमौघैरिन्द्रायुधसमप्रभैः ।
सम्पतद्भिश्च युगपन्मेघैरिव समागमे॥९॥

निरुध्यन्त इवाकाशे पक्षवद्भिरिवाद्रिभिः ।
ते धूमवर्णाः सङ्घाता घनाः सलिलधारिणः ।
निर्वेमुश्चैव तोयौघान्विविशुर्वसुधातले॥१०॥

निरुध्यन्त इति गाढत्वं दर्शितम्। एवं रजःसत्त्वतमः प्रधानासु नाडीषु सञ्चराच्चित्तं पार्थिवैर्धूमादिरूपैरुपेतं भातीत्युक्तं तदेव किञ्चित्सत्त्वाधिकाः नाडीः प्राप्य अभास्वरशुक्लरूपेण गाढतमोवद्धनीभवति तदेतन्मेघधारादिरूपकेणाह- ते इति। निर्वेमुः वर्षितवन्तः वसुधातले देहान्तरे च न बहिः॥१०॥

मूर्ध्नि चैव महानग्निर्मानसो धूयते प्रभुः ।
युक्तः परमयोगेन शतशोऽर्चिभिरावृतः॥११॥

अत एवाग्नेर्विशेषणं मानस इति॥११॥

तस्यार्चेर्विस्फुलिङ्गानां सहस्राणि शतानि च ।
विसस्रुः सर्वगात्रेभ्यो ज्वलन्निव युगाग्नयः॥१२॥

यावन्त्यो वर्षधारास्तु तावन्त्योऽर्च्योऽनलस्य च ।
समेयुर्वारिधाराभिर्विपुले वसुधातले॥१३॥

एवमग्रेऽपि तेजोजलादेर्मिश्रीभावः सङ्कीर्णगुणवन्नाडीसञ्चाराद्बोध्यः। यावन्त्य इति। अर्च्यः अर्चिषः। ईकारान्तत्वमार्षम्॥१३॥

वर्णाभ्यां युज्यमानस्य वायुर्दोधूयते महान् ।
दिव्यसिद्धगुणोद्भूतः सूक्ष्मप्राणविवर्धनः॥१४॥

वर्णाभ्यां जलाग्निवर्णाभ्यां श्वेतलोहिताभ्याम्। इत्थम्भावे तृतीया। तद्रूपेण परिणतस्य चित्तस्य सत्त्वोत्कर्षे सति नीरूपो वायुरूप आकाशो भवति। दिव्याः भित्त्यादिष्वप्रतिघातात् सिद्धाः अनादयः ते च ते गुणाः शब्दतन्मात्रादयः तेभ्य उत्पन्नः स वायुर्न तु स्थूल इत्यर्थः। सूक्ष्मः प्राणः सूत्रात्मा तस्य विवर्धनः प्रकाशकः॥१४॥

वेगवान्भीमनिर्घोषो बलवान्प्राणगोचरः ।
तैरेव चाग्निसङ्घातैर्धातुभिः सह सङ्गतः॥१५॥

वेगेति। स इति च्छेदः ह प्रसिद्धम्। तैरेव अग्निना सङ्घातो दृढसंश्लेषो येषां तैः भूजलैः धातुभिः सङ्गतः सन्प्राणगोचरः प्राणशब्दवाच्यः सूत्रात्मा भवतीत्यर्थः। वेगवान्मनसोऽपि जनकत्वात्। भीमनिर्घोषः स्थूलाकाशस्यापि जनकत्वात्। बलवान् ब्रह्माण्डभेदनसामर्थ्यवत्त्वात्॥१५॥

सहस्रशोऽथ शतशो मूर्तिं कृत्वा पृथग्विधाम् ।
अग्निर्वायुर्जलं भूमिर्धातवो ब्रह्मचोदिताः॥१६॥

सहस्रश इति धातवो मूर्तिं कृत्वा स्थिता इति शेषः॥१६॥

समवायत्वमापन्ना बीजभूता महीपते ।
सङ्घातं ब्रह्मवेगेन धातवो गमिता नृप॥१७॥

मूर्तिकरणप्रकारमाह- समवायेति। ब्रह्मवेगेन चिदनुप्रवेशेन सङ्घातं गमिताः धातवः समवायत्वम् एककार्यकरणत्वम् आपन्ना गतवन्तः॥१७॥

यद्ब्रह्म चक्षुषोर्मध्ये स सूक्ष्मः पुरुषो विराट् ।
तयोरन्यान्बहून्सूक्ष्मान्त्ससृजे पुरुषोत्तमः॥१८॥

यदिति। यद्ब्रह्म धारणाविषयः तदेव सूक्ष्मः तदेव च विराट्। तयोः सूक्ष्मविराजोः, ततोऽन्यान् तत्तुल्यान् ब्रह्मीभूतयोगी सृष्टवानित्यर्थः॥१८॥

स एव भगवान्विष्णुर्व्यक्ताव्यक्तः सनातनः ।
आधारः सर्वविद्यानां प्रलये प्रलयान्तकृत्॥१९॥

स एव योग्यो भगवान् अतस्तस्य सूत्रादिस्रष्टृत्वयुक्तमित्यर्थः॥१९॥

तं मूर्ध्नि धातुभिर्नद्धं विशन्ति ब्रह्मचोदिताः ।
तेऽन्तराः पुरुषाः सर्वे ज्ञातारः सुखदुःखयोः॥२०॥

तमिति। तं योगिनं मूर्ध्नि धातुभिर्नद्धं भ्रूघ्राणमध्ये सूत्रात्मत्वेन स्थितं ब्रह्मचोदिता ईशप्रेरिता इतरसुखादिभोक्तारो जीवाः प्रविशन्ति। स एव सर्वजीवसमष्टिरित्यर्थः॥२०॥

अथ चेष्टितुमारब्धा मूर्तयो ब्रह्मसंमिताः ।
भित्त्वा च धरणीं देवीं प्रापद्यन्त दिशो दश॥२१॥

अथेति। सूत्रात्मभाव्यसाक्षात्कारानन्तरम्, इदमेव कुत इत्यत आह- धरणीं भित्त्वा स्थूलदेहं विहाय ब्रह्मसम्मिता ईशसाम्यं प्राप्ता मूर्तयः सूत्रविभूतयः चेष्टितुमारब्धाश्चेद्दश दिशः प्रपद्यन्ते। अस्यामवस्थायां योगी सार्वात्म्यात् सर्वविद्भवतीति भावः॥२१॥

इत्येते पार्थवाः सर्वे ऋषयो ब्रह्मनिर्मिताः ।
तत्रैव प्रलयं याता भूमित्वमुपयान्ति च॥२२॥

इतीति। यतो विद्वान् सर्वात्मा इति हेतोः एते पार्थवाः पृथुभ्यो भूतेभ्यो जातत्वात् व्यावहारिकार्या ब्रह्मणा योगिनैव निर्मिताः व्युत्थाने सम्प्रज्ञाने च तत्रैव च लयं यान्ति। सुप्तौ समाधौ च भूमित्वं स्वोपादानत्वं पार्थिवो घट इव नाशे पृथिवीत्वमिति रूपकेणोक्तम्॥२२॥

कर्मक्षयाद्विमुच्यन्ते धातुभिः कर्मबन्धनैः ।
कर्मक्षयाद्विमुक्तत्वादिन्द्रियाणां च बन्धनात्॥२३॥

कमक्षयाद्विमुच्यन्त इत्यनुषज्यते। कर्मक्षयाभावे पुनः पुनरुद्भवन्तीत्यर्थः॥२३॥

तामेव प्रकृतिं यान्ति अज्ञतां कर्मगोचरैः ।
क्षराद्धूमक्षयं चैव अग्निगर्भास्तपोमयाः॥२४॥

कर्मभ्यो मुक्ताः क्व यान्तीत्यत आह- तामेवेति। कर्मागोचरास्तु क्षरात्कर्मणः हेतोः धूमक्षयं धूमादिमार्गगम्यस्थानं पुनरावृत्तिफलं यान्ति। तेऽपि यदि अग्निगर्भा अग्निहोत्रादिप्रधानाः तपः कृच्छ्रचान्द्रायणादि तन्मया वा भवन्ति, नान्यथा॥२४॥

येन तन्तुरिवाच्छन्नो भावाभावः प्रवर्तते ।
धूमाद‌भ्रास्तु सम्भूता अभ्रात्तोयं सुनिर्मलम्॥२५॥

येन कर्मणा भावाभावसदसद्रूपसंसारः प्रवर्तते यथा तन्तुरिव अच्छिन्नस्ते धूमक्षयमेव यान्तीति पूर्वेणान्वयः। अच्छिन्नत्वमेवाह द्वाभ्याम्- धूमादिति। धूमादिमार्गेण पितृलोकं गताः कर्मक्षये ततश्च्युताः आकाशादिक्रमेण धूमत्वं प्राप्य मेघा भूत्वा वर्षधाराभिः पृथिव्यामन्नभूता रेतस्त्वं प्राप्य पुनर्भवन्तीत्यर्थः॥२५॥

जगती जलात्तु सम्भूता जगत्येव च यत्फलम् ।
फलाद्रसस्तु सञ्जज्ञे रसात्प्राणस्तु देहिनाम्॥२६॥

जलात् जलं प्राप्य सम्भूता संयुक्ता फलं व्रीह्यादि। जगत्येव पृथिव्येवेति तस्य चेतनत्वं निरस्यति॥२६॥

रसश्च तन्मयो जज्ञे यत्तद्ब्रह्म सनातनम् ।
प्रधानं ब्रह्म चोद्दिष्टं बहुभिः कारणान्तरैः ।
ब्राह्मणैस्तपसि श्रान्तैः सत्यव्रतपरायणैः॥२७॥

फलादुत्पन्नो रसो रेतः तन्मयं ब्रह्म चैतन्यं गर्भः ब्रह्मद्वारैव देहादेश्चैतन्यं न चेतनान्तरसद्भावकृतम्। “नान्योऽतोऽस्ति द्रष्टा” इति चेतनान्तरनिषेधात्। अत एव ब्रह्मैव प्रधानामित्याह- प्रधानमिति। कारणान्तरैः युक्त्यन्तरैः,यदि निर्विशेषाश्चेतनाः बहवः स्युस्तर्हि वैधर्म्याभावात्तेषां भेदासिद्धिः, यदि सविशेषास्तर्हि स्वाश्रयनाशमन्तरेण विशेषानाशान्मुक्तिसिद्धिरित्यादिभिः॥२७॥

अव्यक्ताद्व्यक्तिमापन्नं स्वेन भावेन भारत ।
अन्तःस्थं सर्वभूतेषु चरन्तं विद्यया सह॥२८॥

कथं तर्हि निर्विशेषस्यापि संसारित्वमत आह- अव्यक्तादिति। अव्यक्तात् मायातः स्वेन भावेन अनादिसंस्कारेण विद्यया ब्रह्माकारचित्तवृत्त्या सह चरन्तं प्रकाशमानम्॥२८॥

कर्म कर्तेति राजेन्द्र विषयस्थमनेकधा ।
नोपलभ्येत चक्षुर्भ्यां तपसा दग्धकिल्बिषैः॥२९॥

कस्तर्हि कर्ता भोक्तेत्यत आह- कर्मेति। कर्म दृश्यं कर्ता साभासाहङ्कारः, इदं द्वयमपि विषयस्थमेव न त्वविषयचिदात्मस्थं, कर्तुरप्याभासरूपत्वेन दृश्यत्वात्। अनेकधा भासमानमपि चक्षुभ्यां नोपलभ्यते मायानगरमिव वीतचक्षुःपटलैरधिकारिभिः॥२९॥

उपलभ्येत चक्षुर्भ्यां ज्ञानिभिर्बह्मवादिभिः ।
निःसृतस्तु भ्रुवोर्मध्यान्मेघमुक्त इवांशुमान्॥३०॥

ज्ञानिभिस्तु तदेवोपलक्ष्यते कर्माद्यात्मना कनकमिव कुण्डलाद्यात्मना। तथा च वृद्धवचनम्- “सकलवाङ्मनसातिगता चितिः सकलवाङ्मनसव्यहारभाक्” इति। यद्वा चक्षुर्भ्यां भ्रुवोर्मध्ये योजिताभ्यां तस्मात् निःसृतमाविर्भूतं ब्रह्मोपलभ्यत इति योजना॥३०॥

चरद्भिः पक्षिवल्लोके निर्द्वन्द्वैर्निष्परिग्रहैः ।
योगधर्मेण कौरव्य ध्रुवमासाद्यते फलम्॥३१॥

पक्षिवदित्यसङ्गत्वं सूचितम्॥३१॥

प्रादुर्भावं क्षयं चैव भूतस्य निधनं तथा ।
विधत्ते शतशो ब्रह्मा संक्षये च भवेत्तदा॥३२॥

प्रादुरिति। भूतस्य भूतजातस्य प्रादुर्भावम् उत्पत्तिं क्षयम् ऐश्वर्यं कुर्वद्रूपतां, निधनं नाशं, संक्षये प्रलये, भवे सृष्टौ, ब्रह्मा ब्रह्मवित्॥३२॥

कर्मणः कर्मयोगज्ञो भूतेभ्यो नात्र संशयः ।
अविनाशाय लोकस्य धर्मस्याप्यायनेन च॥३३॥

जगज्जन्मादिहेतुत्वेन योगिन ऐश्वर्यमुक्त्वा कर्मफलविभाजकत्वेनापि तदाह- कर्मण इति। योगज्ञो भूतेभ्यः कर्मणो योगादेः सुखभाजकत्वं विभजत इति शेषः। धर्मस्याप्यायनेन लोकस्याविनाशायेति योज्यम्। अस्यैव प्रीत्यै धर्मः क्रियते अनेनैव प्रीतेन लोको रक्ष्यत इत्यर्थः॥३३॥

युगं द्वादशसाहस्रं सहस्त्रयुगसंहितम् ।
एतद्ब्रह्मयुगं नाम युगानां प्रथमं युगम्॥३४॥

युगमिति। कालमानमविवक्षितम्। हिंसाशून्ययोगजधर्म एव चतुष्पात् ब्रह्मप्रापकं युगं समयः। यदैव ईदृग्धर्मप्रवणं चित्तं तदैव कृतं प्रवृत्तमिति ज्ञेयमिति भावः॥३४॥

सहस्त्रयुगयोरन्ते संहारः प्रलयान्तकृत् ।
सूक्ष्मं भवति लोकानां निर्विकारमचेतनम्॥३५॥

अनेकैरेवंविधैः कृतैः प्रलयान्तकृत् कालस्याप्यन्तकर्ता संहारो महाप्रलयो मुक्त्याख्यो भवति। यथोक्तम्- “अनेकजन्मसंसिद्धिस्ततो याति परां गतिम्।” इति। तदा हि लोकानां स्वरूपं सूक्ष्मं भवति सत्तामात्रमवशिष्यते। तदेव निर्विकारम् अचेतनं च चैतन्याभावात्। “यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति” इत्यविद्यावस्थायां चेतनामुक्त्वा “यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्” इति कैवल्ये द्रष्टृदृश्ययोर्लोपोपेतनिर्विशेषचिन्मात्रावशेषश्रुतेः॥३५॥

तथा प्रलयमापन्नं जगत्सर्वं सनातनम् ।
ब्रह्म सम्पद्यते सूक्ष्मं निमित्तं कारणैर्गुणैः॥३६॥

कारणैः सत्त्वादिभिर्गुणैः निर्मितं जगदित्यन्वयः। तच्च सूक्ष्मं सम्पद्यते प्रलयमापन्नं सत्॥३६॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे अष्टादशोऽध्यायः॥१८॥
सगुणब्रह्मविदो युगधर्मकीर्तनम्

जनमेजय उवाच। प्राग्वंशं श्रोतुमिच्छामि विस्तरेण महामुने ।
आद्ययोर्युगयोर्ब्रह्मन्ब्रह्मप्राप्तस्य सर्वशः॥१॥

युगधर्मा युगैर्ज्ञेया ब्राह्मे प्रोक्तं कृते कृतम्। कृतं त्रेता द्वापरं च मुनिर्वक्ति त्रयोदशे॥ प्राग्वंशमिति। यद्यपि सर्वो योगी सत्त्वोत्कर्षे च मुक्तो भवति तथापि पूर्वं मधुकैटभाख्यायिकया योगिनस्तमोरजोभ्यामपि अभिभूयन्त इत्यस्य दर्शितत्वात्, “यया स्वप्नं भयं मोहं विषादं मदमेव च।” इत्युक्तानां स्वप्नादीनां, “लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा” इत्युक्तानां लोभादीनां च तमोरजःकार्याणां योगेऽपि सम्भवात् शुद्धसत्त्वमयेऽपि धूमादेर्विघ्नस्य दर्शितत्वे इतरत्र तस्य कैमुत्येन सिद्धत्वाच्च पृच्छति- प्राग्वंशमिति। कृतस्योक्तत्वात् कलेर्वर्तमानत्वात् आद्ययोः त्रेताद्वापरयोः रजस्तमसोः प्राक् पराभूतं वंशकार्यं सन्ततिं श्रोतुमिच्छामि। ब्रह्मप्राप्तस्य सगुणब्रह्मविदः॥१॥

वैशम्पायन उवाच। शृणु विस्तरशः सर्वे यन्मां पृच्छसि मेधया ।
उपपन्नेन मनसा दैवप्रत्ययसाधिना॥२॥

शृण्विति। देवप्रत्ययसाधिना दिव्यज्ञानसाधनशीलेन॥२॥

ऋद्धिं प्राप्तस्तु भगवान्योगात्मा ब्रह्मसम्भवः ।
भूतानां बहुलत्वं च चकारेहेश्वरः प्रभुः॥३॥

योगकनिष्ठचित्तः योगात्मा ब्रह्मरूपेण सम्भव आविर्भावो यस्य स ब्रह्मसम्भवः। चकारेति। भूतार्थो न विवक्षितः करोतीत्यर्थः॥३॥

स्थितो ब्रह्मासने ब्रह्मा विक्षिप्तः सहसा प्रभुः ।
अचलेनैव भावेन स्थाणुभूतेन भारत॥४॥

उक्तेऽर्थे हेतुमाह- स्थित इति। यतः अचलेनैव भावेन ब्रह्मासने ब्रह्मरूपेऽधिष्ठाने स्थितोऽपि सहसा क्षिप्तो रजसेति शेषः। अतो भूतानां बहुलत्वं करोतीति सम्बन्धः॥४॥

रक्तश्च मोक्षविषये स च ज्ञानमये पदे ।
यस्मात्पदसहस्राणि प्रभवन्ति भवन्ति च॥५॥

रक्तश्चेति। स च विक्षिप्तो मोक्षस्य विषयवत्प्रतिबन्धके पदे ज्ञानमये मनोरथमात्रे रक्तश्च भवति। यस्मात् भवन्ति उत्पद्यन्ते प्रभवन्ति स्वकार्यसामर्थ्यवन्ति सौभरिशरीरदिवत्। अतस्तत्र रक्तत्वं घटत इति भावः॥५॥

ब्रह्मयज्ञं तु यजते योगाद्वेदात्मकं सदा ।
ब्रह्मणो विपुलं ज्ञानमैश्वर्यं च प्रवर्तते॥६॥

एतच्चैश्वयमप्रार्थितमपि प्रवर्तते इत्याह- ब्रह्मयज्ञमिति। यज्ञं सदा वेदात्मकं वेदसर्वस्वरूपं ब्राह्माख्यं यज्ञं विष्णुं यजते आराधयति योगाद्योगेन तस्य ब्रह्मणो ब्रह्मभावं प्राप्तस्य तस्मात्स्वयं प्रवृत्तमैश्वर्यं मुमुक्षुणा निरोद्धव्यमिति श्लोकद्वयभावः॥६॥

ततः प्रथममैश्वर्यं युञ्जानेन प्रवर्तितम् ।
ब्रह्मणा ब्रह्मभूतेन भूतानां हितमिच्छता॥७॥

एतच्चैश्वर्यं परोपकारे नियोजनीयं न स्वार्थमित्याह- तत इति। ब्रह्मणा ब्राह्मणेन युञ्जानेनेति सम्बन्धः॥७॥

तदा त्वाकाशमैश्वर्यं युञ्जानस्य प्रवर्तते ।
ब्रह्मणो ब्रह्मभूतस्य निर्विकारेण कर्मणा॥८॥

तदेति। निर्विकारेण रजस्तमोविकारशून्येन कर्मणा प्रत्याहारादिना युञ्जानो भवति। तदा आकाशमव्याकृतमैश्वर्यं प्रवर्तते न तु व्याकृतं विक्षेपकम्॥८॥

तदाऽन्तरिक्षं सम्प्राप्तं निर्मलं ब्रह्म चाव्ययम् ।
संहारः सर्वभूतानां नराणां ब्रह्मवादिनाम् ।
ध्रुवमैश्वर्ययोगानां प्रतिपद्यन्ति देहिनः॥९॥

ततोऽपि किमित्यत आह- तदेति सार्धेन। व्योम सच्चिद्रूपम् अन्तरिक्षमपि तदा निर्मलं निरवद्यं शुद्धं ब्रह्मप्राप्तं भवति। तदेव विशिनष्टि- संहार इति। सर्वेषां षष्ठ्यन्तानां संहारो लयस्थानं ध्रुवं कूटस्थमिति प्रतिपद्यन्ति प्रतिपद्यन्ते जानन्ति वेत्तारः वेदलोचनेनेति शेषः। देहिनः जीवस्य॥९॥

आकाशैश्वर्यभूतेन संयुगे ब्रह्मवादिना ।
प्रवर्तमानमैश्वर्यं वायुभूतं करोति च ।
विकारैर्बहुभिः प्राप्तैः सम्पतद्भिर्महाबलैः॥१०॥

सकामस्तु योगी वाय्वादिरूपेण भवतीत्याह- आकाशेति। संयुगे योगयज्ञे। “यान्येव सङ्ग्रामनामानि तानि यज्ञनामानि” इति नैघण्टुकप्रसिद्धेः। वादोऽर्थवादः स्तावकोऽस्यास्तीति वादी तेन वादिना आकाशैश्वर्यम् अव्याकृतैश्वर्यं तद्भावं प्राप्तेन आकाशैश्वर्थभूतेन प्रवर्तमानं ब्रह्म कर्तृ ऐश्वर्यं वायुभूतं करोति। ब्रह्मैश्वर्यवत्या व्योमसंविदा प्रवर्तमानो योगी योगकाले स्वात्मानं वाय्वादिरूपं करोतीत्यर्थः। विकारैः तेजआदिभिः सहेत्यध्याहारः॥१०॥

एतैर्विकारैः संवृत्तैर्निरुद्धैश्च समन्ततः ।
ध्रुवमैश्वर्यमापन्नः सिद्धो भवति ब्राह्मणः॥११॥

संवृत्तैर्निष्पन्नैरपि विकारैर्निरुद्धैः ध्रुवमैश्वर्यं पूर्वोक्त निर्मलं ब्रह्म॥११॥

शरीरादभिनिष्क्रम्य आकाशेन प्रधावति ।
निरालम्बो निरालम्बान्नालम्ब्य मनसा ततः॥१२॥

विकारनिरोधे तु कवचवत् स्थूलशरीरत्यागेन आकाशगमनमदृश्यत्वं चाप्नोतीत्याह द्वाभ्याम्- शरीरादिति। निरालम्बान् व्याघ्रादीन्। मनसेति स्वप्नसादृश्यं दर्शितम्॥१२॥

ऐश्वर्यभूतो भूतात्मा चरन्दिवि न दृश्यते ।
चक्षुभिर्बहुभिर्लोकैः पुरन्दरसमैरपि॥१३॥

ओङ्कारं ये त्वधीयन्ते मनसा ब्रह्मसत्तमाः ।
विभक्ताः सर्वकर्मभ्यस्ते यं पश्यन्ति साधवः॥१४॥

ओमिति। यं योगिनं ते साधवः पश्यन्तीति योजना। ये ओङ्कारवाच्यं व्यस्तसमस्तरूपम् अउम् ओमित्येवम्भूतं विराट्सूत्रान्तर्यामिशुद्धस्वरूपं पूर्वस्योत्तरत्र प्रविलापनेन अधीयन्ते प्राप्नुवन्ति। शब्विकरणस्य गत्यर्थस्य इङो रूपम्॥१४॥

एतद्धि परमं ब्रह्म ब्राह्मणानां मनीषिणाम् ।
अन्तश्चरन्ति भूतानां विद्धि चेतनया सह॥१५॥

एतत्प्रणवाख्यं ब्रह्म तत्प्रापकत्वात्। चेतनया चिद्भावविशिष्टवृत्त्या॥१५॥

एष शब्दो महानादः पुराणो ब्रह्मसम्भवः ।
वायुभूतोऽक्षरं प्राप्तो वदन्त्येवं द्विजातयः॥१६॥

ओङ्कारमेव स्तौति- एष इति द्वाभ्याम्। एष ओम् इति शब्दः महानादः सर्ववर्णानामभिव्यञ्जकः पुराणो नित्यः ब्रह्मणः सम्भव एकीभावो येनालम्बितेन स तथा। “एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति” इति श्रुतेः। अयमेव परा पश्यन्तीसंज्ञकशुद्धशबलब्रह्मात्मा सन् वायुभूतो मध्यमारूपः अक्षरम् अक्षरत्वं प्राप्तः मातृकामयवैखरीरूपो भवतीत्याहुर्ब्राह्मणाः॥१६॥

अरूपी रूपसम्पन्नो धातुभिः सह सङ्गतः ।
अन्तश्चरति भूतेषु कामकारकरो वशी॥१७॥

अरूपी रूपरहितोऽप्ययं प्रणवः रूपेण वैखर्यात्मकत्वेन सम्पन्नः। तत्र हेतुः- धातुभिः सह सङ्गतः। “अन्नमयं हि सोम्य मनः, आपोमयः प्राणः, तेजोमयी वाक्” इति श्रुतेः। “मनः कायाग्निमाहन्ति स प्रेरयति मारुतम्।” इत्यादिशिक्षोक्तप्रकारेण तेजोबन्नयोगाच्छब्दोत्पत्तिदर्शनात्। अयमेवोपाधेः सौक्ष्म्याज्जीवरूपेण सूक्ष्मतरत्वाच्चान्तर्यामिरूपेणान्तेर्दहान्तः स्थित्वा चरति विषयान्भुङ्क्ते। यतः कामकार इच्छा तत्करः स्वतन्त्रेच्छः, वशी असङ्गः॥१७॥

एतत्पूर्वमनुध्याय मनसाऽऽपूरयन्निव ।
वेदात्मकं तदा यज्ञं चिन्तयन्तो मनीषिणः॥१८॥

एतदिति एतत्प्रणवात्मकं ब्रह्म पूर्वं शास्त्राचार्योपदेशमनुचिन्तयित्वा वेदात्मकं श्रुतिसारभूतं यज्ञं योगं चिन्तयन्तो भावयन्तः मनसा सङ्कल्पेन स्वोपाधिरूपेण आसमन्तात् आपूरयन्निव कृतवन्त इव व्यापकत्वं प्राप्ता इवेत्यर्थः। इवशब्दो व्याप्यभावसूचकः। तेन भित्तिचित्रवद्व्यापकत्वमपि नास्त्येवेत्यर्थः॥१८॥

ब्राह्मणाः शुचयो दान्ता यशो युञ्जंस्तदन्वयाः ।
ब्रह्मलोकं काङ्क्षमाणा वैष्णवं पद‌मुत्तमम्॥१९॥

यशो ब्रह्म तेन सह युञ्जते ऐक्यं प्राप्नुवन्ति यशोयुजः। समासेऽपि च्छान्दसो नुम्। यतः तदन्वयाः ब्रह्मप्रसूताः सैन्धवखिल्यवत्स्वोपादान एव लीयन्ते इत्यर्थः। ब्रह्माख्यं लोकम्॥१९॥

पदहेतोः क्रियाः सर्वाः कुर्वन्ति विगतज्वराः ।
न ह्येते प्रसवादाने भवमिच्छन्ति भारत॥२०॥

पदेति। प्रसवादाने जन्मग्रहणनिमित्तं भवं जन्म एते न हीच्छन्ति किन्तु ज्ञानार्थमेव॥२०॥

त्रिभिर्माल्योपहारैश्च प्रतिभावैश्च वै द्विजाः ।
यजन्ति परमात्मानं विष्णुं सत्त्वपराक्रमम्॥२१॥

त्रिभिर्माल्योपहारैर्माल्यवद्विश्वतैजसप्राज्ञानाम् उपहारैः समर्पणैर्विलापनैरिति यावत्। प्रतिभावैः प्रतिभासमात्रैः। माल्यैरिति समासैकदेशस्यापि विशेषणम्॥२१॥

यजनं विक्रमं चैव ब्रह्मपूर्वाः प्रचक्रिरे ।
ब्रह्मापि वैष्णवं तेजो वेदोक्तैर्वचनैर्नृप॥२२॥

ब्रह्मपूर्वाः वेदप्रमाणमेव पूर्वं मुख्यं येषां ते यजनं योगं विक्रमं योगैश्वर्यं च चक्रिरे। यस्मात् ब्रह्मा ब्रह्मवित्, वैष्णवं तेजः ब्रह्मैव। तत्र प्रमाणम्। वेदोक्तैरिति। “ब्रह्मैव सन् ब्रह्माप्येति” इत्यादिभिः॥२२॥

ब्राह्मणैर्ब्रह्मविद्भिश्च ब्रह्मज्ञैर्ब्रह्मवादिभिः ।
शुचिभिः कर्मनिर्मुक्तैः सत्यव्रतपरायणैः॥२३॥

ब्राह्मणैर्यथोक्तविशेषणैः॥२३॥

धातुभिर्मोक्षकाले च महात्मा सम्प्रदृश्यते ।
तदेव परमं ब्रह्म वैष्णवं परमाद्भुतम्॥२४॥

रसात्मकं तदैश्वर्यं विकारान्ते प्रदृश्यते ।
घोररूपा विकारास्ते व्यथयन्ति महात्मनः॥२५॥

धातुभिस्तेजोबलात्मकैः शरीरद्वयेन मोक्षकाले यः परमात्मा सम्प्रदृश्यते तदेव रसात्मकम्। “रसो वै सः” इति श्रुतेः। परमानन्दात्मकम् ऐश्वर्यं, “सैषाऽस्य परमा सम्पत्”, इत्यादिश्रुत्या परमत्वेन स्तुतं विकारान्ते विकाराणां पूर्वोक्तानां राजसानां वाय्वादिरूपाणामन्ते विलये सति प्रकर्षेण दृश्यते योगिभिः। एवं लोभप्रवृत्त्यादिजनकानां राजसविकाराणामन्ते पुनः सत्त्वोत्कर्षादात्मदर्शनमुक्तम्। इदानीं तामसान् भयादीन्योगविघ्नान्विकारान्प्रस्तौति- घोररूपा इत्यादिना॥२५॥

सञ्छाद्यातीव तोयेन क्षुभ्यमाणो विचेतनः ।
ऊर्मिभिश्छाद्यते चैव शीतोष्णाभिर्विकारतः॥२६॥

विकारा व्यथयन्तीत्युक्तं तां व्यथामेवाह पञ्चभिः- सञ्छाद्येत्यादिभिः॥२६॥

महार्णवगतश्चैव दह्यते न च सज्जते ।
मग्नश्चैव महानद्याः सलिले नैव सीदति॥२७॥

सीद‌मानश्च सलिले स शीते पात्यते बलात् ।
आसनाच्छादनाच्चैव मुच्यमानो विचेतनः॥२८॥

श्वभ्रे प्रपद्यमानश्च तोयेन परिषिच्यते ।
शुक्लवर्णेन बहुना स्रोतसा मूर्ध्नि सर्वशः॥२९॥

ऊर्ध्वं ज्योतिरवेक्षंश्च शुक्लैः पीतैश्च बाध्यते ।
वारिपूर्णैः सुगम्भीरैर्विद्युद्भिरिव भासितैः॥३०॥

एतैर्विकारैः संवृत्तैर्निरुद्धैश्चैव सर्वशः ।
ध्रुवमैश्वर्यमासाद्य सिद्धो भवति ब्राह्मणः॥३१॥

एतैर्विकारैरिति। व्याख्यातार्थः श्लोकः॥३१॥

रसात्मकं तदैश्वर्यं जिह्वाग्रादभिनिःसृतम् ।
सहस्रधारं विततं मेघत्वं समुपागतम्॥३२॥

रसात्मकमिति। जिह्वाग्रशब्देन तत्साध्यो रसास्वादो लक्ष्यते ततोऽनेकविधमैश्वर्यं भवति॥३२॥

रसांश्च विविधान्योगात्संसिद्धः सृजते प्रभुः ।
धात्वर्थं सर्वभूतानां योगप्राप्तेन हेतुना॥३३॥

धात्वर्थं शरीरभोगाद्यर्थं सर्वभूतानामश्वैर्यमिति पूर्वेणान्वयः॥३३॥

तेजसो रूपमैश्वर्यं विकारैः सह वर्धते ।
आत्मनो विघ्नजननं स्वस्थो ब्राह्मणकारणे॥३४॥

तैजसैश्वर्यप्रयुक्तान् विघ्नानाह- तेजस इति। ब्राह्मणस्य ब्रह्मविदः कारणे मोक्षसाधने योगे स्वस्थः स्वस्थस्येति आत्मन इत्यस्य विशेषणम्। स्वशब्दपूर्वात्तिष्ठतेः क्विप्। ङसि “आतो धातोः” इत्यालोपः सोमपावत्॥३४॥

उग्ररूपैर्विरूपैश्च हन्यते दण्डपाणिभिः ।
घोररूपैः सुगम्भीरैः पिङ्गाक्षैर्नरविग्रहैः॥३५॥

नेत्रं समुद्धरन्भीमं जिह्वाग्रं चास्य विन्दति ।
नदन्ति युगपन्नादं जृम्भमाणाः पुनः पुनः॥३६॥

जिह्वाग्रं विन्दति अवयवशो भिनत्तीत्यर्थः। “विदि अवयवे” अस्य रूपम्॥३६॥

पुनरेव तदा भूत्वा वायुरूपस्तदाभवन् ।
नृत्यमानाः प्रगायन्ति तर्पयन्तो विशेषतः॥३७॥

स्त्रीभूताश्च ततः सर्वे युञ्जानाश्चावलाम्बरे ।
कण्ठेषु बहुरूपत्वाद्विघ्नैश्चैव प्रलोभयन्॥३८॥

प्रलोभयन्। अडभावश्छान्दसः लोभयन्तीत्यर्थः॥३८॥

मधुरैरभिधानैश्च व्याहरन्ति न भीतवत् ।
पतन्ति युगपत्सर्वे पा‌दयोर्मूर्धभिर्युताः॥३९॥

प्रसादं कांक्षमाणाश्च योगस्यान्तरविघ्नतः ।
बहुप्रकारं कथयन्नृत्यन्ति च तरन्ति च॥४०॥

तरन्ति च योगिनं जयन्ति चेत्यर्थः॥४०॥

एतैर्विकारैः संवृत्तैर्निरुद्धैश्चैव सर्वशः ।
ध्रुवमैश्वर्यमासाद्य सिद्धो भवति ब्राह्मणः॥४१॥

एतैरिति व्याख्यातम्॥४१॥

तदर्चिष इवाग्नेया आदित्यस्येव रश्मयः ।
तेजोरूपकमैश्वर्यं जनितास्तेजविन्दवः॥४२॥

तदर्चिष इति। तत्र तेजोरूपा अपि त एव जलबिन्दवो भवन्ति॥४२॥

ज्योतींषि चैव संवृत्ता आकाशे गुणसंवृताः ।
चरन्ति लोके सततं सूर्याचन्द्रमसोर्गतिम्॥४३॥

गुणैः सत्त्वादिभिः संवृताः योगिनः ज्योतींषि संवृत्ताः भवन्ति॥४३॥

चन्द्रसूर्यात्मकं दिव्यं ज्योतिः सघनमुत्तमम् ।
एतद्विभ्राजते लोके कालचक्रं ध्रुवं वरम्॥४४॥

चन्द्रसूर्यात्मत्वं प्राप्य सघनं समेघमण्डलं कालचक्रं ध्रुवम् अभिलक्ष्य चरन् स एव भवति। स एव कालस्य प्रवर्तको भवतीत्यर्थः॥४४॥

अर्धमासाश्च मासाश्च ऋतुसंवत्सराण्यथ ।
क्षणा लवा मुहूर्ताश्च कलाः काष्ठास्तथैव च॥४५॥

अर्धमासादिरूपश्चायमेव भवतीत्याह- अर्धेति॥४५॥

आहोरात्रप्रमाणं च निमिषोन्मेषणं तथा ।
ताराणां गतयश्चैव ग्रहाणां च विशेषतः॥४६॥

अथ पार्थिवमैश्वर्यं विकारग्रहसम्भवम् ।
योगयुक्तास्त्वभिग्रस्ता यान्त्यन्ते ह्यचलासनात्॥४७॥

अथेति। विकाराः रजस्तमोमयास्तेषां ग्रहः स्वीकारस्तत्सम्भवम्॥४७॥

अलोभाच्छिद्यते सद्यो वेपमानोऽनुकीर्त्यते ।
सीदते वसुधामध्ये भिद्यमानः पुनः पुनः॥४८॥

अलोमाच्छिद्यते ऐश्वर्यमिति शेषः। वेपमानो विघ्नात् भीतस्तु अनुकीर्त्यते वाच्यो निन्द्यो भवतीत्यर्थः॥४८॥

भूतानां बहुरूपैश्च अन्यैश्च तलवासिभिः ।
विषयैर्युज्यते क्षिप्रं संक्षेपात्समवरुद्ध्यते॥४९॥

संक्षेपात् समवरुध्यत इत्यक्षराधिक्यमार्षम्॥४९॥

ततः पार्थिवमैश्वर्यं सेवमानश्च सर्वतः ।
मूर्तिमद्भिश्च बहुधा धातुभिः स च हन्यते॥५०॥

शक्तितोमरनिस्त्रिंशैर्गदाभिश्चाप्यनेकधा ।
असिभिः पात्यते चैव क्षुरधारैः सहस्रशः॥५१॥

भिद्यते चैव बाणाग्रैः सुतीक्ष्णैर्मर्मभेदिभिः ।
एभिर्विकारौर्निर्वृत्तैर्निरुद्धैश्चैव सर्वशः॥५२॥

एभिः भौमैः॥५२॥

ध्रुवमैश्वर्यमापन्नः सिद्धो भवति ब्राह्मणः ।
ततः पार्थिवमैश्वर्यं निर्मुक्तस्य विकारतः॥५३॥

तत इति। विकारतो निर्मुक्तस्य पार्थिवमैश्वर्यमाविर्भवति॥५३॥

प्रादुर्भवति सञ्जाते समाधौ प्रलयं गते ।
दिव्यं गन्धं समाघ्राय दिव्यार्थीस्ताञ्छृणोति च॥५४॥

समाधौ सञ्जाते विकारे च प्रलयं गते सति दिव्यगन्धादिसंविदो भवन्तीत्याह- सार्धेन। दिव्यपुरुषैः मुक्तैः सह भिद्यते यावद्देहपातम् ऊर्ध्वं तु न भिद्यते कैवल्ये ऐकात्म्यप्राप्ते॥५४॥

दिव्यरूपैश्च पुरुषैश्छिद्यते न च भिद्यते ।
गच्छन्त्सुकृतिनां चान्तः प्रधानात्मा क्षरन्निव॥५५॥

अन्तः गच्छन् सुकृतिनामन्तःकरणमपि प्रविशति। यतः प्रधानात्मा प्रधानजयी क्षरन्निव प्रधानवत्परिणममाण इति सर्वान्तःकरणरूपो भवतीत्यर्थः॥५५॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे एकोनविंशोऽध्यायः॥१९॥
मनोधारणविचारः

वैशम्पायन उवाच। ततोऽन्यां धारणां गत्वा मनसा स पितामहः ।
ब्रह्मकर्मसमारम्भं निर्मुक्तेनान्तरात्मना॥१॥

चतुर्दशे पृथग्भूतधारणा भीतिदा यतः। अतः सूत्रे मनो धार्यमभयायेति वर्ण्यते॥ तत इति। यतो भेददर्शनमयी एकैकभूतधारणा क्षुद्रफलदा योगविघ्नकरी च पूर्वोक्तरूपेण। ततो हेतोः अन्यां ताद्विपरीताम् अहमेवेदं सर्वोऽस्मीति मन्यते। “स एवास्य परमो लोकः” इति श्रुतिप्रसिद्धां समष्टिधारणां गत्वा प्राप्य ततो व्यापकः सर्वात्मा भवतीति शेषः। पितामहः उक्तरीत्या शुद्धचिन्मात्ररूपोऽपि सन्मनसा उपाधिनैव सार्वात्म्यं गतः न तु स्वतः। कीदृशेन मनसा ब्रह्मकर्म ब्रह्मप्रापकं कर्म उक्तविधम् आसनादिधारणान्तं समारम्भं सम्यगारम्य। आरम्भमिति णमुलन्तम्। निर्मुक्तेन बाह्यरूपादिभ्यः व्यावृत्तेन अत एवान्तरात्मना अन्तरेव हार्दाकाशादौ आत्मा स्वरूपमस्यास्ति न बहिश्चक्षुरादिद्वारा रूपादौ। इदमत्र तत्त्वम्- इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः॥ इत्यादिस्मृतिभ्यः सर्वेभ्यः सूक्ष्मतमः परमात्मा। अर्थास्तु इन्द्रियेभ्यः सूक्ष्मा अपि तैर्गृहीताः सन्तो लोचनोत्तेजनेन पुस्तकाक्षरवत् स्थूला एवावभासन्ते। तथा आत्मानतिरिक्ता अप्यतिरिक्तवद्भासन्ते स्वकर इव दर्पणेन बालस्य। अन्यथा योगिनः समाधौ सार्वज्ञं न स्यात् सर्वस्य स्वरूपादन्यत्वेन ज्ञेयम्। “कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति” इत्येकविज्ञानात्सर्वविज्ञानप्रतिज्ञाश्रुतेरुपरोधश्च स्यात्। योगिनां सार्वज्ञस्य सर्वसंमतत्वाच्च न तदपलापः कर्तुं शक्यः। तस्मादिन्द्रियाणामुपसंहारे अर्थानां स्थूलत्वमनात्मत्वं चापगच्छतीति युक्तमुक्तमन्यधारणां गत्वा ततो व्याप्तो भवतीति। सूक्ष्मत्वं चात्र कालिकपरिमाणरहितम्। तथा हि कनकादेः कुण्डलादिर्धर्मपरिणामः स्वरूपाविनाशेऽपि रूपान्तरापत्तिरूपः, तथा कुण्डालाद्युत्पत्तेः प्रागूर्ध्वं चानागतत्वातीतत्वरूपौ उत्पन्नौ वर्तमानस्वरूपश्चेति त्रेधा लक्षणपरिणामः स्वरूपप्रच्यवाप्रच्यवासिद्धिरूपः, तथा उत्पन्नस्य नूतनत्वं पुराणत्वाद्यवस्थापरिणामः स्वरूपोपचयापचयलक्षणः। एतौ द्वावपि कालाधीनावेव। अत एव सूक्ष्मे उक्तरूपे सर्वं सर्वत्र सर्वदा सर्वावस्थमस्तीति तदवस्थानां योगिनां तस्यापरोक्षमिति प्रसिद्धम्। अतः समष्टिसूक्ष्मे चित्तधारणा श्रेयस्करी, धारणान्तरेषु भेददृष्टिगर्भितेषु भयादिदर्शनात्, “यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति तत एवास्माकं भयं विहाय कस्माद्विभेष्यति द्वितीयाद्वै भयं भवति” इति श्रुतरेस्यान्तदर्शनाच्च॥१॥

सर्वाङ्गधारणां कृत्वा मनसा प्रहसन्निव ।
ब्रह्मयोगेन च ब्रह्मा सृजते मनसा प्रजाः॥२॥

अस्याः फलमाह- सर्वाङ्गधारणां सर्वम् अङ्गेष्वेवास्यास्ति स सर्वाङ्गः सूत्रात्मा, प्रहसन्निव मौढ्यमाहात्म्येन विस्मयात्। मनसेत्यस्यावृत्या सूत्रात्मतायाः सृज्यस्य च कल्पितत्वमुक्तम्। ब्रह्माणि सूत्रे योगे ऐक्यं ब्रह्मयोगस्तेन॥२॥

चक्षुषो रूपसम्पन्ना ह्यप्सराः सृजते प्रभुः ।
नासिकाग्राच्च गन्धर्वान्त्सुचित्राम्बरवाससः॥३॥

चक्षुषेति। अत्र अङ्गविशेषो न विवक्षितः सर्वस्याङ्गस्य सर्वात्मत्वेन सर्वोत्पत्तिहेतुत्वौचित्यात्। अप्सरा इति आकारान्तत्वमार्षम् “अप्सरासु च या मेघे” इति दर्शनाद्वा॥३॥

तुम्बुरुप्रमुखान् सर्वाञ्छतशोऽथ सहस्रशः ।
नृत्यवादित्रकुशलान्कुशलान्सामनीतिषु॥४॥

ब्रह्मयोगेन योगज्ञः स्वयम्भूर्भगवान्प्रभुः ।
चारुनेत्रां सुकेशान्तां सुभ्रूं चारुनिभाननाम्॥५॥

पद्मेन शतपत्रेण चारुणा सुविराजिताम् ।
स्वक्षां शुचिगिरं सेव्यां ब्राह्मीं मूर्तिमतीं श्रियम्॥६॥

स्वक्षां दिव्यलोचनरूपां शुचिगिरं निष्कलङ्कां वेदवाणीम्। “सा हि श्रीर्ब्रह्मविदाम्, ऋचः सामानि यजूंषि, सा हि श्रीरमृता सताम्” इति श्रुतेः॥६॥

ससृजे मनसा ब्रह्मा सम्यक्प्रोक्तेन चेतसा ।
भावयोगेन भूतात्मा सर्वप्राणभृतां नृप॥७॥

ससृजे इति। सृष्टिरत्र सम्प्रदायप्रवृत्तिमात्रं न त्वाभिनवोत्पत्तिः वाचा विरूपनित्ययेति वेदस्य नित्यत्वश्रवणात्। अत एव प्रोक्तेनेति विशेषणम् ईश्वरप्रोक्तनेत्येर्थः। “यो वै वेदांश्च प्रहिणोति तस्मै” इति सिद्धप्रधानश्रवणात् अस्यैव सर्वेश्वरत्वात्। जीवानामाशयानुरोधेनायं सृजति न स्वस्य भोगार्थमित्याह- भावेति॥७॥

चक्षुषो रूपसम्पन्नाः सृजन्त्सोऽप्सरसः प्रभुः ।
नासिकाग्राच्च गन्धर्वान्त्सुवासः सुप्रवादितान्॥८॥

गानप्रभाषं सञ्चक्रे गन्धर्वाणामशेषतः ।
अन्येषां चैव विप्राणां गानं ब्रह्म प्रभाषितम्॥९॥

गानं प्रभाष्यते व्युत्पाद्यतेऽनेनेति गानप्रभाषं गान्धर्वशास्त्रं तथा तथा ब्रह्मणि वेदे प्रभाषितं गानं सामाख्यम्। चक्षुष इति श्लोकद्वयं पूर्वोक्तस्यैव विवरणम्॥९॥

पद्भ्यां सृजति भूतनि गतिमन्ति ध्रुवाणि च ।
नरकिन्नरयक्षांश्च पिशाचोरगराक्षसान्॥१०॥

गजान्सिंहांश्च व्याघ्रांश्च मृगांश्चैव सहस्रशः ।
तृणजातीश्च बहुधा भावहेतोश्चतुष्पदान्॥११॥

ये तु हस्तान्निखादन्ति कर्मप्राप्तेन हेतुना ।
हस्तेभ्यः कर्म ससृजे मन्तव्यं मनसा तथा॥१२॥

ये तु हस्तात् हस्ते आदाय। ल्यब्लोपेऽधिकरणे पञ्चमी। हस्तेति पाठे विश्वा भूतानीतिवाद्विभक्तेः पूर्वरूपमार्षम्। निखादन्ति भक्षयन्ति। कर्मप्राप्तेन कर्मलब्धेन हेतुना कारणेन अदृष्टेन॥१२॥

वायुना स विसर्गं च भूतानां सुखमिच्छता ।
उपतस्थे तदानन्दं पञ्चेन्द्रियसमाधिना॥१३॥

वायुना प्राणादिरूपेण विसर्गं विविधप्राणनादिकार्यं सृष्टिं ससृजे इति पूर्वेणान्वयः। एवं राजसीं सृष्टिं कुर्वतः कथं मुक्तिः स्यादित्याकुलमाश्वासयति। पञ्चेन्द्रियाणां समाधिः निरोधस्तेन हेतुना आनन्दं परमात्मानम् उपलक्ष्य तेन तस्थे स्थितं लीलया सृष्टिं कुर्वन्नपि ब्रह्मसामीप्यं प्राप्तत्वान्मुक्त एवेत्यर्थः॥१३॥

हृदयादसृजद्गावो बाहुभ्यां पक्षिणस्तथा ।
अन्यानि चैव सत्त्वानि तैस्तैर्वेषैः पृथग्विधैः॥१४॥

गावः गाः। प्रथमा द्वितीयार्थे। वेषैरेव नटवत् न तु परिणामैः। यदवोचं मूलकारणमेवानन्त्यात्कार्यान्नट इव तत्तद्रूपेण भातीति तदित एवोत्थितम्॥१४॥

ऋषिं त्वङ्गिरसं चैव मुनिं ज्वलिततेजसम् ।
ब्रह्मवंशकरं दिव्यं व्यतिषिक्तषडिन्द्रियम्॥१५॥

व्यतिषिक्तानि श्रितानि षट् इन्द्रियाणि यस्य स व्यतिषिक्तषडिन्द्रियस्तम्। अस्माकं हि शब्दादयः श्रोत्रादीनां प्रतिनियताः विषयाः। सार्वात्म्यकाले तु सर्वमिन्द्रियं सर्वविषयग्राहकं भवति। यथोक्तं वासिष्ठे- न सर्वात्मनि तु यत्रैव छाया तत्रैव चातपः। सम्भवति चेत्तत्स कथं सर्वात्मतामियात्॥ इति॥१५॥

भ्रुवोऽन्तरादजनयद्योगाद्योगेश्वरः प्रभुः ।
ब्रह्मवंशकरं दिव्यं भृगुं परमधार्मिकम्॥१६॥

तमङ्गिरसं भ्रुवोरन्तरात्॥१६॥

ललाटमध्यादसृजन्नारदं प्रियविग्रहम् ।
सनत्कुमारं मूर्ध्नश्च महायोगी पितामहः॥१७॥

भृगुं ललाटमध्यात्। नारदं सनत्कुमारं च मूर्ध्नः॥१७॥

अभिषिक्तं तु सोमं च यौवराज्ये पितामहः ।
ब्राह्मणानां च राजानं शाश्वतं रजनीश्वरम्॥१८॥

तपसा महता युक्तो ग्रहैः सह निशाकरः ।
चचार नभसो मध्ये प्रभाभिर्भासयञ्जगत्॥१९॥

स गात्रैर्भगवान्योगान्मनसा सिद्धिमागतः ।
ससृजे सर्वभूतानि स्थावराणि चराणि च॥२०॥

तत्र स्थानानि भूतानां योगांश्चैव पृथग्विधान् ।
निधत्ते शतशो ब्रह्मा सर्वभूतपितामहः॥२१॥

तत्रेति स्थानानि आदित्यादीनां द्युप्रभृतीनि। योगान् अहोरात्रादिनिवर्तनाद्याधिकान्॥२१॥

एष ब्रह्ममयो यज्ञो योगः साङ्ख्याश्च तत्त्वतः ।
विज्ञानं च स्वभावं च क्षेत्रं क्षेत्रज्ञमेव च॥२२॥

एष आत्मोपदानकसृष्ट्यादिप्रपञ्चेन आसनध्यानसमाधिविधानेन च प्रपञ्चितो ब्रह्मप्रापकत्वाद्ब्रह्ममयोऽयं ज्ञानयज्ञ उक्त इति शेषः। अयमेव योगो योगप्राप्यः साङ्ख्यनामा वेदान्तजन्यं ज्ञानमप्ययमेव। ननु उक्तोऽनयोर्विरोधः पुरुषैकत्वानेकत्वप्रकृतिमिथ्यात्वामिथ्यात्वरूप इति चेन्न। योगैरपि गुणानां परमं रूपं न दृष्टिपथमिच्छति यत्तु दृष्टिपथप्राप्तं तन्मायैव तुच्छकमिति दृश्यस्य भेदप्रकृत्यादेस्तुच्छत्वाभ्युपगमात्। अत्यल्पमिदमुच्यते। वेदबाह्या अपि विज्ञानवादिचार्वाकादयोऽपि नानेन सिद्धान्तेन विरुध्यन्ते सर्वेषां मोक्षस्यैकरूपत्वादित्याह- विज्ञानं विज्ञानवादिनां सिद्धान्तः। स्वभावः स्वभाववादिनां चार्वाकाणां सिद्धान्तः। क्षेत्रं प्रकृतिः। क्षेत्रज्ञः पुरुषः निरीश्वरसाङ्ख्यसिद्धान्तोऽप्ययमेवेत्यर्थः॥२२॥

एकत्वं च पृथक्त्वं च सम्भवो निधनं तथा ।
कालः कालक्षयश्चैव ज्ञेयो विज्ञानमेव च॥२३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविश्यपर्वाणि पौष्करे विंशोऽध्यायः॥२०॥
कर्ममार्गकथनम्

जनमेजय उवाच। श्रुतं ब्रह्मयुगं ब्रह्मन्युगानां प्रथमं युगम् ।
क्षत्रस्यापि युगं ब्रह्मञ्छ्रोतुमिच्छाम्यहं प्रभो॥१॥

जीवन्मुक्त्यै ब्रह्मतत्त्वं वतुर्दशभिरीरितम्। अथ द्वादशभिर्धर्मं ब्रवीति क्रममुक्तये॥१॥ तत्र पञ्चदशे ब्रह्मज्ञानहीना महत्तमैः। कर्मभिर्ब्रह्मलोकादप्यावर्तन्त इतीर्यते॥२॥ श्रुतमिति। ब्रह्मयुगं ब्रह्मप्राप्तिहेतुत्वात्प्रथमं युगं कृतं, यत्र सवर्धर्मफलान्तभावः। यथा “कृताय विजितायाधरेयाः संयन्त्येवमेवैनं सर्वं तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति” इति कृताय निदर्शनेन श्रुत्या प्रोक्तः। क्षत्रस्य धर्मस्य “तदेत्क्षत्रस्य क्षत्रं यद्धर्मः” इति धर्मस्य मुख्यक्षत्रत्वश्रवणात् युगं युज्यते अनेन तद्युगं स्वर्गादिफलप्रदत्वलक्षणमाहात्म्यं श्रोतुमिच्छामि॥१॥

ससङ्क्षेपं सविस्तारं नियमैर्बहुभिश्चितम् ।
उपायज्ञैश्च कथितं क्रतुभिश्चैव शोभितम्॥२॥

एतदेव विशिनष्टि- संक्षेपमिति॥२॥

वैशम्पायन उवाच। एतत्ते कथयिष्यामि यज्ञकर्मभिरर्चितम् ।
दानधर्मैश्च विविधैः प्रजाभिरुपशोभितम्॥३॥

एतदिति। एतत् धर्मस्य माहात्म्यं यज्ञकर्मभिः यज्ञात्मकमेव कर्म येषां न तूपास्त्यात्मकं ते यज्ञकर्माणः कर्मठाः तैरर्चितं पूजितं दानधर्मैः “उच्चादिवि दक्षिणावन्तो अस्थुर्ये अश्वदाः सहते सूर्येण। हिरण्यदा अमृतत्वं भजन्ते वासोदाः सोमप्रतिरन्त आयुः” इति श्रुतेर्दानजप्रभावैः प्रजाभिः “यस्मिन् जातः एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवति पुत्रकामाद्वाप्याख्यापयेरन् लभन्त हे पुत्रान्” इति जातोष्टिशौनःशेपाख्यायनफलैः प्रजाभिरुपशोभितम्॥३॥

तेऽङ्गुष्ठमात्रा मुनय आदत्ताः सूर्यरश्मिभिः ।
मोक्षप्राप्तेन विधिना निराबाधेन कर्मणा॥४॥

ते इति। ते ब्राह्मणा वृत्तसम्पन्ना ज्ञानसिद्धाः समाहिता भवन्तीति योजना। के ते? य अङ्गुष्ठमात्रा इत्यल्पप्रमाणत्वेन उत्क्रान्त्यादियोग्याः। अङ्‌गुष्ठमात्रं पुरुषं निश्चकर्षं यमो बलात् इत्यारण्यकोक्तेः। न तु “य एवं वेदाहं ब्रह्मास्मीति” “स इदं सर्वं भवति” इति श्रुतिप्रसिद्धविद्याफलसार्वात्म्यभाजः। ते यज्ञकर्माणः विशिष्टधर्मेण सूर्यरश्मिभिरादत्ताः सूर्यमण्डलं भित्त्वा ब्रह्मलोकं गता अपीत्यर्थः। मोक्षप्राप्तेन मोक्षप्रत्यासन्नेन विधिना यथाशास्त्रम्॥४॥

प्रवृत्ते चाप्रवृत्ते च नित्यं ब्रह्मपरायणाः ।
परायणस्य सङ्गम्य ब्रामणस्तु महीपते॥५॥

प्रवृत्ते यज्ञादौ अप्रवृत्ते शमादौ ब्रह्मपरायणाः वेदैकशरणाः परायणस्य ब्रह्मणः। कर्मणि षष्ठी। सङ्गम्य ईश्वरप्रीतिमुद्दिश्य वेदोक्तकर्मपरा इत्यर्थः॥५॥

श्रीवृताः पावनाश्चैव ब्राह्मणाश्च महीपते ।
चरितब्रह्मचर्याश्च ब्रह्मज्ञानावबोधिताः॥६॥

श्रीवृताः श्रिया, “ऋचः सामानि यजूꣳषि। सा हि श्रीरमृता सताम्” इति श्रुत्या वृताः। ब्रह्मज्ञानेन परोक्षज्ञानेन॥६॥

पूर्णे युगसहस्रान्ते प्रभावे प्रलयं गताः ।
ब्राह्मणा वित्तसम्पन्ना ज्ञानसिद्धाः समाहिताः॥७॥

पद्मासनायुरवाधि ब्रह्मलोके स्थित्वा पूर्वस्मिन् कल्पे ये लयं गतास्तेऽग्रिमकल्प उक्तविशेषणविशिष्टा ब्राह्मणा भवन्ति॥७॥

व्यतिरिक्तेन्द्रियो विष्णुर्योगात्मा ब्रह्मसम्भवः ।
दक्षः प्रजापतिर्भूत्वा सृजते विपुलाः प्रजाः॥८॥

व्यतिरिक्तेति। तेषां ब्राह्मणानां मध्ये यो योगात्मा सन् व्यतिरिक्तेन्द्रियो देहेन्द्रियासङ्गेन स्वप्ने इवान्तःप्रज्ञो भूत्वा चतुर्भुजादिलक्षणं विष्णुम् आत्मत्वेनाभिमन्यते सोऽपि भेददर्शी, समष्ट्युपास्तिराहित्यात्। ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्॥ इति स्मृत्युक्तकममुक्त्यनाधिकारादस्मिन्कल्पे ब्राह्मपुत्रो दक्षो भूत्वा प्रजाः सृजते॥८॥

अक्षराद्ब्राह्मणाः सौम्याः क्षरात्क्षत्रियबान्धवाः ।
वैश्या विकारतश्चैव शूद्रा धूमविकारतः॥९॥

अक्षरं शुद्धसत्त्वमयत्त्वान्निष्कामो धर्मः श्वेतः सुधावत्। क्षरं सत्त्वरजोमयत्वादुभयमिश्रो धर्मः रक्तः। तदुभयसङ्घातवत् विकारो रजोमयत्वात्सकामो धर्मः पीतो हरिद्रावत्। धूमः तमोमयत्वाद्विधर्मः कृष्णः धूमवत्॥९॥

श्वेतलोहितकैर्वर्णैः पीतैर्नीलैश्च ब्राह्मणाः ।
अभिनिर्वर्तिता वर्णाश्चिन्तयानेन विष्णुना॥१०॥

ततो वर्णत्वमापन्नाः प्रजा लोके चतुर्विधाः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महीपते॥११॥

तत इति। ततो गुणवर्णोपचारात्॥११॥

एकलिङ्गाः पृथग्धर्मा द्विपदाः परमाद्भुताः ।
यातनायाभिसम्पन्ना गतिज्ञाः सर्वकर्मसु॥१२॥

एकलिङ्गाः तुल्याकृतयः यातनाय कर्मफलभोगाय सम्पन्नास्तेन तेन वर्णेन॥१२॥

त्रयाणां वर्णजातानां वेदप्रोक्ताः क्रियाः स्मृताः ।
तेन ब्राह्मणयोगेन वैष्णवेन महीपते॥१३॥

येन कारणेन त्रयाणामेव वेदप्रोक्ताः क्रियाः स्मृतास्तेन कारणेन वः युष्माकं त्रयाणां ब्राह्मणक्षत्रियविशामेव वैष्णवेण योगेन ब्रह्मास्ति विष्णुभक्त्या वेदोऽस्तीति त्रैवर्णिकत्वं भगवत्कृपैकफललभ्यमित्यर्थः॥१३॥

प्रज्ञया तेजसा योगात्तस्मात्प्राचेतसः प्रभुः ।
विष्णुरेव महायोगी कर्मणामन्तरं गतः॥१४॥

प्रज्ञयेति। तेजसा ऐश्वर्येण ज्ञानैश्वर्ययोगात् प्राचेतसो दक्षः प्रभुर्विष्णुरेव यस्मात्पूर्वोक्तव्यतिरिक्तषडिन्द्रियतादिविशिष्टस्तस्मात्। तथा च “बहुप्रजा निर्ऋतिमाविवेश” इति श्रुतेः। बहुप्रजत्वाद्दक्षः संसार्येव स्यादिति न शङ्कनीयमिति भावः। कीदृशो दक्षः कर्मणामन्तरङ्गतः अधिकारप्रदकर्मपाशावगुण्ठितः सृष्टिं करोति न तु तस्याज्ञानमस्तीत्यर्थः। एतेन जीवन्मुक्तानामपि कर्मपाशानुवृत्तिर्दर्शिता॥१४॥

ततो निर्माणसम्भूताः शूद्राः कर्मविवर्जिताः ।
तस्मान्नार्हन्ति संस्कारं न ह्यत्र ब्रह्म विद्यते॥१५॥

प्रकृतां सृष्टिमनुसरति। तत इति। निर्माणं शिल्पं त्रैवर्णिकेसवाकरणं वा तदर्थमेव सम्भूताः। संस्कारम् उपनयनं, ब्रह्म वेदः॥१५॥

यथाग्नौ धूमसङ्घातो ह्यरण्या मथ्यमानया ।
प्रादुर्भूतो विसर्पन्वै नोपयुञ्जन्ति कर्मणि॥१६॥

एवं शूद्रा विसर्पन्तो भुवि कार्त्स्न्येन जन्मना ।
नासंस्कृतेन धर्मेण वेदप्रोक्तेन कर्मणा॥१७॥

असंस्कृतं संस्काराभावस्तेन हेतुना वेदप्रोक्तेन धर्मेण नोपयुञ्जन्तीति पूर्वेश्लोकगतक्रिययाऽन्वयः॥१७॥

ततोऽन्ये दक्षपुत्राश्च सम्भूता ब्रह्मयोनयः ।
बलवन्तो महोत्साहा महावीर्या महौजसः॥१८॥

ततोऽन्ये ब्रह्मणो वेदस्य योनयः स्थानभूता ब्राह्मणा इत्यर्थः॥१८॥

पित्रा प्रोक्ता महात्मानो दक्षिणा यज्ञकर्मणा ।
अन्तमिच्छाम्यहं श्रोतुं धात्र्याः पुत्रा बलो ह्यहम्॥१९॥

दक्षिणाः समर्थाः। भोः पुत्रा अहं भवतां मुखात् धात्र्याः युष्मच्छरीरजनित्र्याः अन्तं सिद्धान्तं श्रोतुमिच्छामि। अतो मह्यं धात्र्यन्तं कथयतेति भावः। यतोऽहं बलो बलवानास्मि धात्र्या अन्तं ज्ञातुं समर्थोऽस्मि तस्माद्भवद्भिरपि मादृशैर्भवितव्यमिति भावः॥१९॥

ततो विधास्ये तत्त्वज्ञाः प्रजानां विपुलं बलम् ।
विपुलत्वाद्धि क्षेत्राणां ममापि विपुलाः प्रजाः॥२०॥

तत इति। युष्मत्तो धात्र्यन्तं श्रुत्वा भवदीयबलाबलतत्त्वं ज्ञात्वा बलत्वपक्षे भवतां विपुलं विधास्ये। तव कुत एतावद्बलमित्यत आह- क्षेत्रवैपुल्याद्बलवैपुल्यम्। अन्यथाल्पमिति मशकमतङ्गजशरीरे दृष्टम्। एवं बह्वीः प्रजाः सृजतो बहुलं मम बलमस्ति। तस्माद्धात्र्याः स्वरूपं ज्ञात्वा सृष्टौ प्रवर्तितव्यम्। अन्यथा सृष्टिसङ्गेन दुष्यत्येवेति भावः॥२०॥

न तेषां दर्शयद्देवी चक्षुषा रूपमात्मनः ।
प्रजापतिसुतानां वै विपुलासारमिच्छताम्॥२१॥

विपुलायाः मायायाः सारमिच्छतां तेषां दक्षपुत्राणां देवी धात्री आत्मनो रूपं चक्षुषा प्रमाणज्ञानेन न दर्शयत् न दर्शितवती। अडभाव आर्षः। न हि माया प्रमाणेन परीक्षितुं शक्या तम इव दीपेन। अनिरीक्ष्यमाणैव तेषां माया बाधिताऽभूदिति भावः॥२१॥

आत्मनो भावनिर्वृत्ते भावे कृतयुगे तदा ।
जनित्री सर्वभूतानामण्डजानुद्भिजांस्तथा॥२२॥

आत्मन इति। तेषां प्रजापतिसुतानां कृतयुगे भावे विशुद्धसत्त्वमये भावे धात्र्यवलोकने जाते सति मात्रा प्रमात्रा चेतनेन प्रचोदिता सती धात्री सर्वभूतानां जनित्री अभूत्। तथा अण्डजान् स्वेदजांश्च जनितवतीति परिणामेन योज्यम्॥२२॥

संवेदजननी धात्री चेति मात्रा प्रचोदिता ।
अणुतां तनुतां चैव जन्तूनां कर्मयोगिनाम्॥२३॥

सम्यग्वेदनां संवेदः तस्यापि घटादिवृत्तेरपि जननी धात्र्येवाभवत् तथा कर्मभोगिनां कर्मफलभोगशीलानां जन्तूनाम् अणुतां सूक्ष्मत्वं तनुतां विस्तृतताम्। “तनु विस्तारे” अस्मादौणादिकः उः। अणुना साहचर्यात् विस्तृतां जनितवतीति पूर्ववत्। कीदृशे कृतयुगे भावे आत्मनो भावनिर्वृत्ते। आत्मनः प्रतिचयो भावः स्वभावः तेन निर्वृत्ते निष्पन्ने। विदुषां स्वभावसिद्ध एव कृतयुगधर्म इत्यर्थः। यथोक्तं विष्णुधर्मोत्तरे- ज्ञानं वैराग्यमैश्वर्यं धर्मश्च मनुजेश्वर। आत्मनो ब्रह्मभूतस्य नित्यमेव चतुष्टयम्॥ इति। तस्मात्सर्वेषामुत्कृष्टज्ञानकर्मणामवश्यंभाविनी मुक्तिर्न त्ववरोहसम्भावनाऽपि॥२३॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे एकविंशोऽध्यायः॥२१॥
प्रवृत्तिधर्मफलम्

जनमेजय उवाच। साध्वहं श्रोतुमिच्छामि त्रेतायां ब्राह्मणोत्तम ।
यज्ज्ञात्वा सर्वविध्यानां परं पश्येयमव्ययम्॥१॥

सन्निवृत्तेः प्रवृत्त्याख्यधर्मस्य फलमीरितम्। प्रवृत्तिमात्रनिष्ठानां षोडशे स्थितिरीर्यते॥ साध्वह‌मिति। पूर्वं प्रवृत्ते च निवृत्ते च नित्यं ब्रह्मपरायणमित्युक्तलक्षणस्य धर्मस्य फलं श्रुतम्। इदानीं त्रेतायां केवलप्रवृत्त्यात्मकेयज्ञादिरूपे धर्मे यत्साधु समीचीनं तदेवाहं श्रोतुमिच्छामि। येन साधुना आचरितेन विद्यानां साङ्ख्ययोगादीनां परं तात्पर्यप्रतिपाद्यम् अव्ययं ब्रह्म पश्येयं विविदिषाव्युत्पत्तिद्वारेत्यर्थः॥१॥

वैशम्पायन उवाच। दक्षस्तु पुनरालम्ब्य स्त्रीभावं पुरुषोत्तमः ।
योगाद्योगेश्वरात्मानं विषण्णो गिरिमूर्धनि॥२॥

अस्योत्तरं प्रकृतिसरूपार्थवाद‌मुखेनैवाह- दक्षस्त्विति। दक्षः देहार्धयोगविधिनां स्त्रीभावम् आलम्ब्येति तृतीयेनान्वयः। “स इममेवात्मानं द्वेधा पातयत्ततः पतिश्च पत्नी चाभवताम्। तस्मादिदमर्धयुगलमिव स्वः” इति श्रुतेः। कीदृशं स्त्रीभावं योगेश्वरस्य दक्षस्यैवात्मानम् आत्मभूतम्॥२॥

सुजानुः पीनजघना सुभ्रूः पद्मनिभानना ।
रक्तान्तनयना कान्ता सर्वभूतमनोरमा॥३॥

दक्षः प्राचेतसस्तस्यां कन्यायां जनयत्प्रभुः ।
देहार्धयोगविधिना कन्याः पद्मनिभाननाः॥४॥

कन्याः जनयत् अजनयत्। अडभाव आर्षः॥४॥

दक्षः पुरुषरूपेण स्त्रीरूपमपहाय वै ।
दर्शने सर्वभूतानां कान्तः कान्ततरोऽभवत्॥५॥

दक्ष इति। स्त्रीरूपम् अपहाय पुरुषरूपेण स्थित इति शेषः॥५॥

ताः कन्याः प्रददौ दक्षः स्वयं प्राचेतसः प्रभुः ।
ब्रह्मदेयेन विधिना ब्रह्मप्राप्तेन भारत॥६॥

ब्रह्मदेयेन ब्राह्मणान् दातुं योग्येन विधिना “अलङ्कृत्य कन्यामुदकपूर्वां दद्यादेष ब्राह्मो विवाहः” इति स्मृत्युक्तेन ब्राह्मेण विधिनेत्यर्थः॥६॥

प्रददौ दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशति सोमाय पत्नीहेतोः समाहितः॥७॥

दक्षो दत्त्वाथ ताः कन्या ब्रह्मक्षेत्रं प्रपद्य च ।
ब्रह्मणाध्युषितं पुण्यं समाहितमना मुनिः॥८॥

ब्रह्मक्षेत्रं प्रयागम् आध्यात्मिकम्॥८॥

तप्यमानो मृगैः सार्धं चचार वसुधां नृपम् ।
तृणमूलफलैर्वृद्धो वृद्धश्च तपसासकृत्॥९॥

तप्यमान इति। एतावता त्रेताधर्मस्वरूपं दारसङ्ग्रहोपत्योत्पादनम्, अपत्यसंविभागो वनं प्रति गमनं च केवलं प्रवृत्तिधर्मे रतस्य कर्तव्याभिति दक्षाख्यायिकामुखेन दर्शितमिति तात्पर्यं दर्शितम्॥९॥

मृगास्तु तस्य मोदन्ति फलं मोदन्ति ब्राह्मणाः ।
दीक्षिताः पुण्यकर्माणस्तपसा दग्धकिल्बिषाः॥१०॥

मृगास्तु तस्य तपसेत्यनुषज्यते। मोदन्ति मोदन्ते। अहिंसाप्रधानत्वात्तपस इति भावः। ब्राह्मणास्तु तस्य तपसः फलम् “अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः” इति योगशास्त्रोक्तं दृष्ट्वा मोदन्ते। दीक्षिताः इत्यादीनि ब्राह्मणानां विशेषणानि॥१०॥

सङ्ग्रामकाले कालज्ञः शरीरादिपतिर्मुनिः ।
कर्मयज्ञकृतां तत्र सिद्धिं पश्यति लक्षणाम्॥११॥

सङ्ग्रामः योगेन चित्तजयः तस्य काले शरीरादीनां पतिः यथेष्टं प्रविलापनपरिग्रहसमर्थः। अत एव सर्वज्ञत्वात् कर्मणां सिद्धिं फलप्राप्तिं स्वर्गनरकादिगत्यागातिरूपां पश्यति। लक्ष्यते सा लक्षणा तां परिमेयामित्यर्थः॥११॥

दानमानप्रवीराश्च निरुद्वेगा निरामिषाः ।
मृगैः सह जरां यान्ति सपत्नीकाः सुपुत्रिणः॥१२॥

एवं दक्षाख्यायिकया पत्नीमपास्य वनं प्रति गच्छेदित्युक्त्वा सपत्नीकस्थापि तदाह पुराकल्पसरूपार्थवादमुखेन- दानेति॥१२॥

ब्राह्मणाः स्तोत्रसंसिद्धा जनित्रे प्रथमे पदे ।
ब्रह्मणाध्युषितत्वाच्च ब्रह्मक्षेत्रमिहोच्यते॥१३॥

स्तोत्रं वेदाध्ययनम्। “यस्मै नूनमभिद्यवे वाचा विरूपनित्यया। कृष्णे चोदस्व सुष्ठु” इति मन्त्रवर्णात्। तेन संसिद्धाः शुद्धसत्त्वाः जनित्रं प्रथमं पदं ब्रह्म तस्मिन्विषये ब्रह्मणा प्रणवेन इह अस्मिन्नेव जीवदेहे अध्युषिता अधिवासनिष्टां प्रापितास्तेनायं देहो ब्रह्म क्षेत्रमित्युच्यते। वेदे ब्रह्मोपलब्धिस्थानत्वात्॥१३॥

यतिभिः कर्मभिर्मुक्तैर्जितक्रोद्धैर्जितेन्द्रियैः ।
चरद्भिर्वसुधां विप्रैरकिञ्चनपथैषिभिः॥१४॥

यतिभिरुच्यते इति सम्बन्धः॥१४॥

या प्रजा पूर्वमारूढा मानसी ब्रह्मचारिणी ।
सैवैषा व्यक्तिमापन्ना स्वभावदुरतिक्रमा॥१५॥

एवं सपत्नीकानामपि वनस्थानं योगजा सिद्धिरस्तीत्युक्त्वा योगफलमाह-या प्रजेति। सर्वं सर्वात्मकत्वात् हार्दाकाशाख्यं ब्रह्म तदारूढा मानसी मनोमात्रकल्पिता ब्रह्मचारिणी ब्रह्मरूपेणैव गम्यमाना समाधिकाले दृष्टा सैव एषा लोकदृश्या बहिष्ठा स्वभावेन संस्कारेण प्रारब्धबलेन दुरतिक्रमा अतिक्रामितुमशक्या। समाधौ ब्रह्मभावं गतस्यापि प्रारब्धकर्मवशात्पुनः संसारभावनमवश्यम्भावीत्यर्थः॥१५॥

अव्यक्ताव्यक्तमापन्ना स्वभावाद्दुरतिक्रमा ।
व्यक्ताव्यक्तगतिश्चैषा कालधर्मान्महीपते॥१६॥

अव्यक्तेति। स्वभावादेव समाधावव्यक्तं रूपमापन्ना प्रजा भवति व्युत्थाने। तत्र हेतुः। कालधर्माद्व्युत्थानसमाधिकालभेदलक्षणाद्धर्मात्प्रजा व्यक्ताव्यक्तरूपा भवति॥१६॥

स्थावरा जङ्गमाश्चैव स्थूलसूक्ष्माश्च भारत ।
कालयोगेन कालज्ञा भवन्ति न भवन्ति च॥१७॥

एषा गतिः प्राणिमात्रसाधारणेत्याह- स्थावरेति। यतः स्थावराणामपि योगज्ञत्वं सम्भवति तस्मात्तदर्थं यतितव्यमिति भावः॥१७॥

एताश्चैताः प्रजाः सर्वा दक्षकन्यासु जज्ञिरे ।
कश्यपेनाव्ययेनेह संयुक्ताः कालधर्मणा॥१८॥

एवं प्रसङ्गादपत्नीकसपत्नीयोगाधिकारमुक्त्वा प्रकृतां सृष्टिमनुसरति- एताश्चेत्यादिभिः सार्धषड्भिः। कश्यपेन निमित्तेन अव्ययेन स्वभावेन कालः धर्मो यस्य तेन॥१८॥

आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।
नागाश्चानेकशिरसः साध्या वै पन्नगास्तथा॥१९॥

गन्धर्वाः किन्नरा यक्षाः सुपर्णाश्च तथापरे ।
गरुत्मान्त्सह यक्षैश्च किन्नराश्च सुवाससः॥२०॥

गावः पशुगणैः सार्धं नराश्च वसुधाधिप ।
चराचराश्च वसुधाधर्तारश्च धराधराः॥२१॥

गजाः सिंहाश्च व्याघ्राश्च हयाः पक्षधरास्तथा ।
खड्गा विषाणिनश्चैव वृषभाश्च मृगास्तथा॥२२॥

चतुर्विषाणा नागेन्द्राः पद्माभा वर्णतः शुभाः ।
सर्वलक्षणसम्पन्नाः प्राणिनाः कामरूपिणः॥२३॥

तेषां रूपैस्तथा गात्रैस्तैः शीलैस्तैः पराक्रमैः ।
मुनयः पुनरुद्भूता धर्मक्षेत्रे सनातने॥२४॥

“धाता यथापूर्वमकल्पयत्” इति श्रुतेः पूर्वोक्तमपि सर्वं सर्वेषु कल्पेषु समाननामरूपाधिकारमेव प्रतिपत्तव्यामित्याह- तेषां रूपैरिति। मुनय इति सृज्यमात्रोपलक्षणम्। धर्मक्षेत्रे धर्मप्रसवभूमौ भारते वर्षे॥२४॥

क्षेत्रज्ञा मानसे लोके धर्मिणो वेदगोचराः ।
यत्रोद्भूताः सुराः सर्वे दिवि लोके प्रतिष्ठिताः॥२५॥

क्षेत्रज्ञाः आत्मनिष्ठास्तु मानसे मनःकल्पिते बाह्ये आभ्यन्तरे वा पूर्वोक्तादशाऽऽविर्भवन्ति। यत्रेति मानसे इत्यस्य विशेषणम्॥२५॥

ये चान्ये तपसा सिद्धा गृहस्था मनुजाधिप ।
ब्रह्मचर्येण संसिद्धाः परिचर्यां गता गुरोः॥२६॥

गृहस्थादीनामप्युक्तविधयोगधर्मानुष्ठायिनां मुक्तिरस्तीत्याह त्रिभिः- ये चेति॥२६॥

ये च योगगतिं प्राप्ताः सिद्धिहेतोर्महीपते ।
क्लेशाधिकैः कर्मजन्यैर्वृत्तिं लप्स्यन्ति वै द्विजाः॥२७॥

शिलोञ्छवृत्तयः ख्याताः सपत्नीका दृढव्रताः ।
सर्वे त्वेते दिवीचरा भवन्ति चरितव्रताः॥२८॥

शिलं कणिशादानम्, उञ्छः कणश आदानम्। दिविचराः हार्दाकाशचराः चरितव्रता यस्माद्भवन्ति तस्माद्व्रतचर्यैव मुख्या नाश्रमविशेषो मोक्षहेतुरिति भावः। अत एव याज्ञवल्क्यो गृहस्थस्यापि मोक्षमाह- न्यायागतधनस्तत्त्वज्ञानानेष्ठोऽतिथिप्रियः। श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते॥ इति॥२८॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे द्वाविंशोऽध्यायः॥२२॥
प्राणायामवर्णनम्

वैशम्पायन उवाच। पितामहं पुरस्कृत्य मेरुपृष्ठे समाहिताः ।
जटाजिनधरा विप्रास्त्यक्तक्रोधा जितेन्द्रियाः॥१॥

द्युचर्या व्रतचर्योत्थेत्यूचे सप्तदशे व्रतम्। प्राणयज्ञं हविर्यशसंज्ञं चित्तजयावहम्॥ पूर्वाध्यायान्ते सर्वे त्वेते दिविचरा भवन्ति व्रतचारिण इत्युक्तं तत्र मनोजयाख्यं व्रतम्। एकादशे प्रोक्तमेवोत्तमाघिकारिणाम्। मध्यमाधमानां तु चित्तजयायात्मविविदिषोत्पादनाय च तृतीयाध्याये सूचितं व्रतद्वयं प्राणरोधाख्यं हविर्यज्ञाख्यं च तदिह द्वयमभिधीयते, तयोराद्यमपि यज्ञरूपकेणैव विवक्षन् वैशम्पायन उवाच- पितामहं पुरस्कृत्येत्यादि। श्लोकत्रयोक्तविशेषणाः व्रतहिते रताः दिवि ब्रह्मणि चराः सञ्चारिणो भवन्तीति पूर्वेणान्वयः। अत्र योगचिन्तामणौ साङ्ख्ययोगे- चक्रमध्ये स्थिता नाड्यस्तिस्त्रस्तिस्त्रोऽत्र देवताः। इडा च वैष्णवी नाडी पिङ्गला ब्रह्मदेवता॥१॥ ऐश्वरी सा सुषुम्ना स्यान्मेरुमध्ये व्यवस्थिता। नाडी मध्यगता ग्रन्थित्रययुक्ता त्रिवेणिका॥२॥ उत्तरे वहते गङ्गा यमुना दक्षिणे स्मृता। सरस्वती पश्चिमायामासां सङ्गः सदान्तरः॥३॥ इत्युक्तेर्मेरुर्नासिका तस्याः पृष्ठं भ्रूघ्राणमध्यं तस्मिन् समाहिताः समाधिं गताः किं कृत्वा पितामहं कार्यस्य पिता कारणं तस्य पिता शुद्धं ब्रह्म तत् पुरस्कृत्य तत्प्राप्तिमादृत्य॥१॥

पर्वतान्तरसंसिद्धे बहुपादपसंवृते ।
धातुसंरञ्जितशिले समे निस्तृणकण्टके॥२॥

पर्वतेति। पर्वतान्तरसंसिद्धे पर्वतानां पर्ववतामस्थ्नां नासावंशकपालास्थ्नोरन्तरे संसिद्धं नित्यसिद्धं तन्नाशेऽप्यविनाशि “हार्दाकाशं प्रकृत्यववधेनास्य हन्यते” इति श्रुतेर्देहनाशेऽपि आत्मोपलब्धिचक्राणामनाशावगमात्। बहुपादपसङ्कुले बहुपादो नानायोगिगमनसाधनधर्माधर्मवानहङ्कारः तं पातीति तदुपाधिः प्राणो वायुस्तेन सङ्कुले। धातुसंरञ्जितशिले धातवो वातपित्तकफाः मनःशिलादिधातुसरूपा नाडीमार्गा वा तैः सङ्कुला शिला इव शिला अस्थिरूपा यस्मिन्। समे समस्य ब्रह्मण उपलब्धिस्थाने तृणं बहिष्ठत्वाज्जरारोगादिदुःखं कण्टकः अन्तस्थत्वाच्छोकादिदुःखं देहद्वयधर्मरहितमित्यर्थः॥२॥

त्रयाणां ब्रह्मवेदानां पञ्चस्वरविराजिते ।
मन्त्रयज्ञपरा नित्यं नित्यं व्रतहिते रताः॥३॥

त्रयाणामिति। त्रयो ये ब्रह्म वेदयन्ति तेषां त्रयाणां ब्रह्मवेदानाम् इडापिङ्गलासुषुम्नारूपाणां जीवोपाधिभूतप्राणमार्गाणां सम्बन्धिनः पञ्च स्वराः स्वर्यते गम्यते ब्रह्म यैस्ते स्वराः प्राणस्य वृत्तिभेदाः प्राणापानसमानव्यानोदानास्तैर्विराजिते। पञ्चानामपि वायूनामेकीभावस्थान इत्यर्थः। मन्त्रयज्ञपरा नित्यं मन्त्राः प्राणादीनां तु रेफादिप्रभृतीनि बीजानि तेषां यज्ञोजपः तत्पराः नित्यं व्रते वायुजये हिते आनन्दरूपे आत्मनि च रताः। अत्र पञ्चानामपि प्राणादीनां स्थानवर्णबीजान्तानि नकुलीशयोगपारायणे प्रोक्तानि वर्तन्त इति उक्तानि विशेषणानि मेरुपृष्ठे युज्यन्ते। तानि च- प्राणो घ्राणाग्रहृन्नाभिपादाङ्‌गुष्ठान्तसंस्थितः। नीलः सोङ्काररेफादिवजिने विनियोजितः॥१॥ कृष्णोऽपानः कृकाटिस्थः पृष्ठपृष्ठान्तपार्ष्णिगः। सतारकवकारान्तबीजेन विनियोजितः॥२॥ शक्रचापनिभो व्यानस्त्वगिन्द्रियनिकेतनः। तारकोपेतपान्तश्च बीजतेजोविराजितः॥३॥ मूर्धस्थो मध्यतल्वग्रकण्ठहृद्यनलाश्रयः। उदानो ह्यरुणच्छायस्तारकाक्रान्तयान्तयुक्॥४॥ श्वेतः समानो हृन्नाभिसर्वसन्धिनिकेतनः। प्रणवाक्रान्तलान्तेन बीजेनात्यन्तमुज्ज्वलः॥५॥ इति। तत्रायं निकृष्टोऽर्थः- मेरुपृष्ठाख्यभूघ्राणमध्योपलक्षिते ब्रह्माणि सर्वकारेण नित्यसिद्धजीवोपाधिनाऽनेकवर्णबीजवता नानावर्णनाडीत्रयसञ्चारिणा युते बाह्याभ्यन्तरदुःखशून्ये क्रोधादिजयिनो निर्ममाः प्राणजयद्वारा चित्तवृत्तिमेकाग्रां कुर्वन्ति निरोधाभ्यासेन निर्विशेषं ब्रह्म प्रतिपत्तुमिति॥३॥

एकमेवाग्निमाधाय सर्वे ब्राह्मणपुङ्गवाः ।
बिभिदुर्मन्त्रविषयैः सुसमाहितमानसाः॥४॥

एकमेव प्राणाग्निम् आधाय आलम्ब्य मन्त्रविषयैः मन्त्राः उदाहृता रेफादिमुख्याः तेषां प्रतिपाद्या विषया प्राणनाद्याः प्रवृत्तिविशेषाः तैरुपाधिभिर्विभिदुः पश्चधाः प्राणापानादिप्रकारेण विभिन्नं चक्रुः। यथोक्तं तत्रैव- कौष्ठयो वायुः प्राणनादिकर्मभेदाद्यथाक्रमम्। प्राणोऽपानसमानादिनामान्तरमुपागतः॥ इति॥४॥

त्रिधा प्रणीतो ज्वलनो मुनिभिर्वेदपारगैः ।
अतस्ते तत्त्वमापन्ना यदेकस्त्रिविधः कृतः॥५॥

त्रिधेति। ज्वलनः प्राणाग्निः त्रिधा पूरककुम्भकरेचकरूपे प्रणीतो नाडीमार्गैः सञ्चारितः अतः प्रणयनात्ते तत्त्वं प्राप्ताः पूरकाद्यभ्यासेनैव आत्मतत्त्वम् अधिगम्यत इति भावः॥५॥

एक एव महानग्निर्हविषा सम्प्रवर्तते ।
स्वधाकारेण मन्त्रज्ञ मन्त्राणां कार्यसिद्धये॥६॥

एक एवेति। एक एव प्राणाग्निः प्राणायामाभ्यासिनः हविषा। आदेयानि च वक्ष्यामि क्षिप्रं योगस्य सिद्धये। क्षीरं घृतं च मिष्टान्नं मिताहारश्च शस्यते॥ इति। दत्तात्रेयोदितेन सम्यङ् निषेवितेन महान् भूत्वा सम्यक् योगिनो विक्षेपमकुर्वन् प्रवर्तते आरोहावरोहमार्गयोर्यथेष्टं सञ्चरति। अयमर्थः- नासिकान्तो बहिरन्तश्च द्वादशद्वादशाङ्गुलमानेन प्राणः सञ्चरन् तूलपिण्डवत् घनीभूतः कुम्भकाभ्यासेन तूलपिण्डमिव शिथिलावयवसंयोगं कुर्यात्। ततश्च बहिरन्तश्च षट्त्रिंशत्षट्‌त्रिंशदङ्गुलमानेन परमा प्राणस्य गतिर्भवति। स तदा सूक्ष्मोऽपि पुरोडाशवन्मथितोमहानित्युच्यते। एवम्भूतस्य प्राणाग्नेः। पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद् दृढम्। अपानमूर्ध्वमाकृष्य मूलबन्धोऽयमुच्यते॥ इत्यादिना हठोक्तप्रकारेण वायोरारोहः प्रसिद्धः, भ्रुवोर्मध्ये प्राणमावेश्येति शास्त्रप्रसिद्ध एव। अवरोहोऽपि योगिना याज्ञवल्क्येनोक्तः- सम्पूर्य कुम्भवद्वायुमङ्गुष्ठान्मूर्ध्नि मध्यतः। धारयत्यनिलं बुद्ध्या प्राणायामः प्रचोदितः॥१॥ व्योमरन्ध्रात्समाकृष्य ललाटे धारयेत्पुनः। ललाटाद्वायुमाकृष्य भ्रुवोर्मध्ये निरोधयेत्॥२॥ नेत्रात्प्राणं समाकृष्य नासामूले निरोधयेत्। नासामूलात्तु जिह्वाया मूले प्राणं निरोधयेत्॥३॥ कण्ठकूपात्तु हृन्मध्ये हृन्मध्यान्नाभिमध्यमे। नाभिमध्यात्पुनर्मेढ्रे मेढ्राद्वह्नयालये ततः। देहमध्याद्‌गुदे गार्गि गुदाद्वै ऊरुमूलके॥४॥ ऊरुमूलात्तयोर्मध्ये तस्माज्जान्वोर्निरोधयेत्। बस्तिमूले ततस्तस्माज्जङ्घयोर्मध्यमे तथा॥५॥ जङ्घां ततः समाकृष्य वायुं गुल्फे निरोधयेत्। स्थानात्स्थाने समाकृष्य यस्त्वेवं धारयेद्धिया॥६॥ सर्वपापविशुद्धात्मा जीवेदाचन्द्रतारकम्। एतत्तु योगसिद्धयर्थमगस्त्येनापि कीर्तितम्॥७॥ इति। स्वधेति। स्वस्मिन् शरीरे धानं विधानं देहे वायोर्धारणेति यावत्, तस्याः कारणेन हे मन्त्रज्ञ राजन् मन्त्राणां पूर्वोक्तानां रेफादिप्रभृतीनां प्रकाशत्वेन सम्बन्धि कार्यं तत्तद्‌भूतजयः तत्सिद्धयेऽग्निः सम्प्रवर्तत इत्यर्थः। तत्र धारणासिद्धयश्चोक्ता योगिना याज्ञवल्क्येन- यमादिगुणयुक्तस्य मनसः स्थितिरात्मनि। धारणेत्युच्यते सद्भिः शास्त्रतात्पर्यवेदिभिः॥१॥ व्योमांशे मारुतांशे च धारणां कुर्वतःशुभाम्। त्रिदोषजनिता रोगा विनश्यन्ति न संशयः॥२॥ इत्यन्तेन ग्रन्थेन दर्शिताः। तत्र पादादिजान्वन्तं जान्वादिपाय्वन्तं पाय्वादिहृदयान्तं ततो भूमध्यान्तं ततो मूर्द्धान्तं च क्रमेण भूम्यम्बुतेजोवाय्वाकाशस्थानानि ब्रह्मविष्णुरुद्रेश्वरसदाशिवाधिष्ठितानि ल-व-र-य-ह-बीजयुतानि तेषु तेषु पञ्चपञ्चघटिकापर्यन्तं मनो धारयंस्तत्तद्‌भूतजयो भवति। तथा परमात्मनेव प्रणवेनादावन्ते धारणा मुख्या तथा तेजोऽबन्नेषु धारणां कुर्वतः क्रमात् वातपित्तश्र्लेष्मजा रोगा नश्यन्तीति ज्ञेयम्। विस्तरभयात्तु न प्रपञ्चितम्॥६॥

स्वयं च दक्षसम्प्राप्तो भगवान्भूतसत्कृतः ।
ब्रह्मा ब्राह्मणनिर्माता सर्वभूतपितामहः॥७॥

एवं त्रिधा प्रणीत इत्यादिना पूरककुम्भकरेचकाभ्यासेन विपुलीकृतो हविष्याशनाभ्यासमहिम्ना वशीकृतो यत्रकुत्रचिद्धारितः प्राणाग्निस्तत्तद्धारणाफलं प्रसूते इत्युक्तम्,तत्र प्रणवेन परमात्मन्येव धारितस्य प्राणस्य फलमुच्यते- स्वयमिति। दक्षते सर्वस्मिन्कार्ये सन्नह्यतीति दक्षः सूत्रात्मा तद्रूपेण सम्प्राप्तो भवति भगवान्त्सर्वैश्वर्यसम्पन्नः भूतं नित्यासिद्धं च तत् सच्च कारणं तेन कृतः निर्मितः। आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम्। ध्याननिर्मन्थनाभ्यासात्पाशं दहति पण्डितः॥ इति स्मृतेः प्रणवेनात्मनि चेतो युञ्जतः प्रथमम् उकारार्थभूतसूत्रात्मसाक्षात्कारो भवतीत्यर्थः। स एवम्भूतो दक्षो मुख्यो ब्राह्मण इति ब्रह्मा ब्राह्मणस्य चतुर्मुखस्य निर्माता। अत एव सर्वेषां भूतानामस्मदादीनां पितामहः॥७॥

दण्डी चर्मी शरी खड्गी शिखी पद्मनिभाननः ।
अभवन्न्यस्तसन्तापो जितक्रोधो जितेन्द्रियः॥८॥

कोऽयं दक्ष इत्याशङ्क्य यः पूरकादिनाऽऽराधितः प्राणाग्निः स एवायमित्याह- दण्डीति। योऽयं पूर्वं पूरककाले नासिकानलिकया पूर्यमाणत्वाद्दण्डाकारमिव प्राप्त इति दण्डी जातः। स एव कुम्भकावस्थायां चर्मवद्वितत इति चर्मीव रूपेण संवृत्तः। स एव पुनः रेचकावस्थायां दण्डरूपात्सूक्ष्मरूपेण शरकाण्डाकारत्वं पूर्ववत्प्राप्तः स एव स एष खड्गवत्तीक्ष्णधारः संसारवृक्षच्छेदनसमर्थः शिखी प्राणाग्निः। पद्मनिभानन इत्यनेन दक्षरूपेण प्रसन्न इति लक्ष्यते। अभवत् प्रसन्नभावेन न्यस्तसन्तापो जितक्रोधो जितेन्द्रियश्च स्वभावतोऽभवत्। तत्र स्वाभाविकं वैराग्याद्याविर्भूतं न हठाकृष्टमित्यर्थः। यथोक्तं वृद्धैः- उत्पन्नात्मप्रबोधस्य ह्यद्वेष्टृत्वादयो गुणाः। भवन्त्ययत्नतः सिद्धा न तु साधकरूपिणः॥ इति॥८॥

यजते पुष्करे ब्रह्मा मेधया सह सङ्गतः ।
इन्द्रप्रोक्तानि सामानि गीयन्ते ब्रह्मवादिभिः॥९॥

यजत इति। ब्रह्मा दक्षः पुष्करे आत्मतीर्थे मेधया शास्त्राचार्योपदेशप्राप्तया धीवृत्त्या सह सङ्गतो यजते तन्निष्ठो भवति। यस्यामवस्थायाम् इन्द्र आत्मदर्शी तेन प्रोक्तानि सामानि, “अहमन्नमहमन्नम्” इत्यादीनि तैत्तिरीयप्रसिद्धानि, इदमदर्शमिति “तस्मादिन्द्रो नामेदम् इन्द्रो ह वै नाम तमिदं सन्तमिन्द्र इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः” इत्यैतरेयके च इन्द्रशब्दस्य आत्मदर्शिनि प्रवृत्तिनिमित्तं दर्शितम्॥९॥

घृतं क्षीरं यवा व्रीहिः सर्वं परमकं हविः ।
वेदप्रोक्तं मखे न्यस्तं कल्पितं ब्रह्मणः पदे॥१०॥

स समाहितो योगी पूर्वसंस्कारात्समाधेरप्रच्युतये तत्र यज्ञमेव कल्पितवानित्याह- घृतमिति। मखे बाह्ययज्ञे न्यस्तं देवतोद्देशेन त्यक्तम् परमकम् अभौतिकत्वाच्छ्रेष्ठं कल्पितं मनसैव न कर्मतः ब्रह्मणः सूत्रात्मनः पदे स्थाने समाध्यवस्थायामित्यर्थः॥१०॥

निर्मथ्यारणिमाग्नेयीं शमीगर्भसमुत्थिताम् ।
स ब्रह्मा प्रथमं तस्मिन्नग्निमन्यं प्रवर्तयत्॥११॥

निर्मथ्येति। अग्नेः परमेश्वरस्य तिरोधानस्थानभूतारणिरिवारणिरविद्या तां निर्मथ्य विनाश्य शमीगर्भसमुत्थितं शं सुखम् ईयते गम्यतेनेनेति शमी देहः शमी वृक्षतुल्यो वा तस्य गर्भे सम्यगुत्थितम् आविर्भूतं प्रथमं कारणं ब्रह्मरूपमन्यमकल्पितमग्निम् अन्तर्यामिणं प्रकर्षेण वर्तयत्। अडभाव आर्षः। शरीरे नित्याविर्भूतमपि देहाद्यभिमानवशात्तिरोहितैश्वर्यं सन्तं देहाभिमानत्यागात् स्वेनेश्वरेण रूपेणाविर्बभूवेत्यर्थः। ब्रह्मा ब्रह्मवित् तस्मिन् सूत्रात्मनि॥११॥

न ह्यल्पं विहितं द्रव्यं यथाग्निर्यज्ञकर्मणि ।
प्रवर्तयेद्विभागैर्वा हुतद्रव्यमयं बलम्॥१२॥

ननु यथा सोमयागे अरण्यामग्निमन्थनं क्रियते यथा वा चातुर्मास्येषु तद्वदिहापि तावत्काल्पनिक एवायं निर्मन्थ्योऽग्निरस्तु किं सूत्रादन्यस्य कारणाग्नेः कल्पनेनेत्याशङ्कयाह न ह्यल्पमिति। यथा यज्ञकर्मणि बाह्ये अग्निर्निर्मथ्यहोम्यत्वेन विहितः अमृताहुतिरग्न्याहुतिः सैषा स्वर्ग्याहुतिर्यदग्न्याहुतिरिति प्रीतिपूर्वकं मानसे यज्ञे तथाऽत्र अग्न्याख्यम् अल्पं बाह्यं द्रव्यं विहितं न हि योगिना इत्थं यज्ञश्चिन्तनीय इति विधिरस्ति। किं तु यज्ञियसंस्कारदार्ढ्याद्योगेऽपि तादृशाः सङ्कल्पा भवन्ति। अत एव श्रुतिः- “स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति” इति चिरपरिचितानां पित्रादीनामेव योगेन सम्प्रज्ञातावस्थायामुत्थानमाह। परिपक्वयोगिविषयं तु अदृष्टाश्रुतवस्तु दर्शनं समाधावति प्राकृतकर्मणोऽत्रानधिकारादन्योऽग्निरत्र प्रकृतसूत्रादानन्तर ईश्वर एव ग्राह्यः। यत् अल्पं द्रव्यम् उत आज्यपयःप्रभृति अग्नौ त्यागपूर्वकं प्रक्षिप्तं तद्विकारभूतं स्वर्गे दिव्यदेहादि तस्य बलम्, अत्र विभागैर्यथोच्चनीचस्थानं प्रवर्तयेन्न त्विह तथेत्यर्थः। अल्पद्रव्यसाध्येषु हि यज्ञेषु वित्तव्ययस्वरूपश्रद्धातारतम्येन फलतारतम्यमस्ति। आत्मयज्ञे तु नायं विभागः सर्वेषां कैवल्यरूपस्य फलस्यैकरूपत्वादिति भावः॥१२॥

फलानि तैः प्रयुक्तानि हवींषि विततेऽध्वरे ।
प्रयुञ्जते प्रयोगज्ञा मुनयो ब्रह्मवादिनः॥१३॥

तर्हि किमर्थं सम्प्रज्ञातं हविरादिकल्पनमुक्तमत आह- फलानीति। विततेऽध्वरे योगयज्ञे हवींषि यानि विहितानि तैर्हविर्भिः फलानि च प्रयुक्तानि भवन्ति। “तं यथा यथोपासते तथा तथा प्रेत्य भवति” इति श्रुतेः, यादृग्गुणविशिष्टमात्मानं चिन्तयति तादृक्फलभागी ब्रह्मलोके भवति। ये तु ब्रह्मवादिनः अत्रैव ब्रह्मसाक्षात्कारवन्तस्तेषां तानि फलानि अणिमाद्यैश्वर्याणि अत्रैव निग्रहानुग्रहप्रयोगज्ञाः प्रयुञ्जते प्रकाशयन्ति। तथा च काम्यमेव हविरादिकल्पनं न तात्त्विकमिति भावः॥१३॥

षण्मासांश्चतुरो वेदान्सम्बभाषे बृहस्पतिः ।
ब्रह्मणो वितते यज्ञे परया ब्रह्मसम्पदा॥१४॥

योगफलमेव भङ्ग्यन्तरेणाह- षण्मासानिति। बृहस्पतिः देवाचार्यः परया ब्रह्मसम्पदा। “एषाऽस्य परमा सम्पत्” इति श्रुतिः। निर्विशेषावस्थया ब्रह्मसम्बन्धिनि यज्ञे योगे वितते सति षण्मासान्- अत्यन्तसंयोगे द्वितीया। मासषट्‌कम् आदरनैरन्तर्यदीर्घकालैः सम्यगभ्यस्ते सति चतुरो वेदान् बभाषे चतुर्भिर्वेदैः सह संवादं कृतवान्। वेदान् लब्धवानित्यर्थः। षण्मासादेव योगसिद्धिर्भवतीति भावः। तथा च मैत्रायणीयश्रुतिः- षड्भिर्मासैस्तु युक्तस्य नित्ययुक्तस्य देहिनः। आनन्दः परमो गुह्यः सम्यग्योगः प्रवर्तते॥ इति॥१४॥

शिक्षाक्षरसमेताया मधुरायाः समन्ततः ।
सानुस्वरितरामायाः सरस्वत्याः प्रभाषते॥१५॥

स लब्धवदो बृहस्पतिर्वेदसम्प्रदायं शिष्येषु प्रवर्तितवानित्याह- शिक्षेति। सः सरस्वत्याः। कर्मणि षष्ठी। सरस्वतीं प्रभाषते सर्वेभ्यो वेदमध्यापयतीत्यर्थः। सानुशिखरं वेदशिर उपनिषदिति यावत्। स्वरितं स्वर्गतिः तत्साधनं कर्म ताभ्यां रामाभिरामा तस्याः ब्रह्मकर्मकाण्डाभ्यां रमणीयेत्यर्थः॥१५॥

तेन ब्राह्मणशब्देन ब्रह्मप्रोक्तेन भारत ।
विभाति स मखो व्यक्तं ब्रह्मलोक इवापरः॥१६॥

तेन वेदोपदेशेन ब्राह्मणानि कर्मचोदनवाक्यानि तैः शिक्षते इति ब्राह्मणः शब्दः तेन प्रवृत्तिप्रधानेनेत्यर्थः। ब्रह्मप्रोक्तेन वेदोदितेन मार्गेण विरच्यमानः स मखः याज्ञिकप्रसिद्धो यज्ञः ब्रह्मलोक इव आध्यात्मिकयोगयज्ञ इव विभाति॥१६॥

मखो ब्रह्ममुखोत्तीर्णो ब्रह्मशब्दैरनामयैः ।
प्रयोगैः सम्प्रयुक्तस्य जल्पन्निव विवर्धते॥१७॥

मखमेव स्तौति- पदं विष्णुरजो ब्रह्मेत्यतः प्राक्तनेन सन्दर्भेण- मख इति। ब्रह्मशब्दैर्वेदशब्दैः अनामयैः अप्रामाण्यशङ्काशून्यैः प्रयोगैः यथाश्रुतं विनियुक्तः मन्त्रैः सम्प्रयुक्तस्य सादरस्य यजमानस्य मखो जल्पन्निव विवर्धते॥१७॥

समिद्भिः सोमकलशैः पात्रैश्चैव बहिः खलैः ।
यवैर्व्रीहिभिराज्यैश्च पूर्णैश्च जलभाजनैः॥१८॥

सोमकलशैः सोमधारणार्थैः ग्रहचमसैः पात्रैः स्रुक्स्रुवादिभिः जलमाजनैः वसुनिचयैकधनैर्भाजनैः॥१८॥

कर्मप्राप्तैश्च पशुभिः कर्मभिश्चापरान्वितैः ।
गोभिः पयस्विनीभिश्च परिवेशैश्च कोमलैः॥१९॥

कर्मेति। कर्म यज्ञार्थं वर्धत इत्यनुषज्यते। प्राप्तैर्वसुभिः कनकादिभिः कर्मभिरिष्ट्यादिभिः परान्वितैः परस्मिन् ब्रह्मणि समर्पितैः वत्सैश्च परिप्राप्तेरिति सम्बन्धः। “छन्दसि परेऽपि, व्यवहिताश्च” इति धातूपसर्गयोः आर्षः सम्बन्धः। कोमलैः बालैः॥१९॥

ब्रह्मवृद्धो वयोवृद्धस्तपोवृद्धश्च भारत ।
ब्रह्मज्ञानमयो देवो विद्यया सह सङ्गतः॥२०॥

ब्रह्मणा वेदघोषेण वृद्धः वयसा दक्षिणया वृद्धः।“यज्ञ आयुष्मान्त्स दक्षिणाभिरायुष्मान्” इति श्रुतेः पुष्कलदक्षिणावानित्यर्थः। तपसा ज्ञानेन वृद्धः ब्रह्मज्ञानमयस्तत्प्रधानस्तदर्य इत्यर्थः। विद्यया कर्माङ्गावबद्धोद्गीथाद्युपासनया॥२०॥

मानसैश्च क्रियामूर्तिर्ये च भूताः स्वयं नृप ।
ब्रह्मा जुहोति तांस्तस्मान्मरुद्भिः सहितस्तदा॥२१॥

मानसैरिति। मनःकल्पितैः समिदादिभिः क्रियामूर्तिर्यज्ञात्मा ब्रह्मा ये च पदार्था अन्ये तस्माद्ब्रह्मणः स्वयं भूता विनाऽपि कल्पनास्वभावादव वात्मन्यध्यस्तास्तान् घृतादीन् जुहोति॥२१॥

तेजोमूर्तिधरै रूपैर्न च तत्कर्मणास्पृशत् ।
वेदप्रोक्तेन विधिना सर्वप्राणभृतां वर॥२२॥

तेजोमूर्तिधरैः चिन्मयैः रूपैर्द्रव्यदेवतादिभिर्यागरूपैरुपेतं तद्ब्रह्मणो यजनं सर्वप्राणभृतां कर्मणां न अस्पृशत् न स्पर्शं प्राप सर्वाधिकः स यज्ञ इत्यर्थः॥२२॥

निर्मथ्त्यारणिमाग्नेयीं शमीगर्भसमुत्थिताम् ।
क्रतुना यजते पूर्णमग्निष्टोमेन स प्रभुः॥२३॥

शम्याः गर्भे उत्पन्नो योऽश्वत्थस्तस्मादुद्भवो यस्यास्ताम्॥२३॥

सदस्यैस्तत्सदो व्यक्तं शुशुभे यज्ञकर्मणि ।
जल्पन्ति मधुरा वाचः सानुसाराः क्रियास्तथा॥२४॥

अनुसाराः सहायाश्चमसाध्वय्वार्दयः तत्सहितः॥२४॥

कर्मभिश्च तपोयुक्तैर्वेदवेदाङ्गपारगैः ।
सूर्येन्दुसदृशै राजन्विरराज महाक्रतुः॥२५॥

गतैरागतैश्च महीयते क्रतुरित्यपकृष्यते। मनुष्यलोके तु सुतरां महीयत इति भावः॥२५॥

ब्रह्मघोषेन महता ब्रह्मावास इवापरः ।
वसुधामिव सम्प्राप्तैः सर्वैरेव दिवौकसैः॥२६॥

दिवौकसैः छान्दसमकारान्तत्वम्॥२६॥

वेदवेदाङ्गविद्भिश्च विनीतैर्ब्रह्मवादिभिः ।
गतागतैस्तपःश्रान्तैः स्वर्गलोके महीयते॥२७॥

ज्वलद्भिरिव विप्रैस्तैस्त्रिभिरेवाध्वरेऽग्निभिः ।
ब्रह्मलोक इवाभाति ब्रह्मणः स महाक्रतुः॥२८॥

त्रिभिरेव॥२८॥

इन्द्रप्रोक्तानि सामानि गायन्ति ब्रह्मवादिनः ।
वचनानि प्रयुक्तानि यजूंषि विततेऽध्वरे॥२९॥

सामानि स्तोत्राणि वचनानि शास्त्राणि॥२९॥

तपःशान्ता ब्रह्मपराः सत्यव्रतसमाहिताः ।
आययुर्मुनयः सर्वे मनोभिः श्रोत्रवादिभिः॥३०॥

श्रोत्रवादिभिः श्रुतमात्रानुसारिभिर्मनोभिः सङ्कल्पैः॥३०॥

होता चैवाभवद्राजन्ब्रह्मत्वे च बृहस्पतिः ।
सर्वधर्मविदां श्रेष्ठः पुराणो ब्रह्मसम्भवः॥३१॥

होता ब्रह्मा च बृहस्पतिरेव मूर्तिभेदं प्रकल्प्याभूदित्यर्थः॥३१॥

यजमानश्च यज्ञान्ते विष्णोः पूजं प्रयुज्य च ।
आदित्याः पश्चिमे गर्भे तपसा संवृते नृप॥३२॥

विष्णोः पूजां विष्ण्वर्चनं प्रयुज्य कृत्वा क्रतुमहिम्ना यजमानोऽदित्या गर्भे जात इति शेषः। क्रतुभिर्देवत्वं प्राप्यमित्यर्थः॥३२॥

पदं विष्णुरजो ब्रह्मा निर्द्वन्द्वं निष्परिग्रहम् ।
यतः पदसहस्राणि भविष्यन्त्युद्भवन्ति च॥३३॥

एवं कर्मफलं देवताभवं सुखबहुलमुक्त्वा सुखदुःखस्पर्शशून्यम् “ते ह वै शरीरस्य सतः प्रियाप्रिययारेपहतिरस्य शरीरं वाव सन्तं प्रियाप्रिये स्पृशतः” इति श्रुतिप्रसिद्धं शरीरातालक्षणं मोक्षं विष्णुपदमाह- पदमिति। पदं विष्णुरिति सामानाधिकरण्येन “तद्विष्णोः परमं पदम्” इति षष्टी राहोः शिरमि तिवदौपचारिकभेदपरेति दर्शितम्। अजो न जायते ब्रह्मादिवदित्यजः कर्मप्राप्यः ब्रह्मा ब्रह्मवित् विष्ण्वाख्यं निर्द्वन्द्वं कर्मप्राप्यं पदमेतीत्यर्थः। निष्परिग्रहं निर्गतज्ञानतत्कायं पदमेव स्तौति- यत इति। इन्द्रादिपदसहस्राणीत्यर्थः॥३३॥

अवन्ध्यं चाप्रमेयं च व्यतिरिक्तं च कर्मभिः ।
आत्मापि यस्य मुनयो भवन्ति निष्परिग्रहाः॥३४॥

अवन्ध्यं सर्वकर्मफलगर्मितम्। अवध्यामिति पाठे त्वविनाशि इतरत्र तु विनाशीत्यर्थः। अज इत्यस्य व्याख्यानं- व्यतिरिक्तमिति। आत्माऽपि आत्मैव यस्य मुनयो भवन्तीति पदं विष्णोरभेदो व्याख्यातः॥३४॥

परिग्रहाश्च विषया दोषप्राप्ता महीपते ।
दोषाश्च युगपत्सर्वे छादयन्ति मनोबलात्॥३५॥

परिग्रहाः परितो गृह्णन्ति बध्नन्तीति परिग्रहाः विषया रूपादयः दोषप्राप्ता रागादिदोषेणैव कल्पिताः। तथा चाक्षपादाचार्यप्रणतिं न्यायोपबृंहितं सूत्रं, “दोषनिमित्तं रूपादयो विषयाः सङ्कल्पकृताः” इति। बलात्पूर्वसंस्कारबलात् मनश्छादयन्ति। अतोऽत्यन्तावहितेन दोषा निग्राह्या इति भावः॥३५॥

इन्द्रियग्रामविषये चरन्तो निष्परिग्रहाः ।
परिग्रहं शुभं धर्ममविद्यालक्षणं विदुः॥३६॥

ननु रूपादिदर्शनं देहवतामपरिहार्यं तत्कथं निष्परिग्रहत्वं सेत्स्यतीत्याशङ्क्य अहंममेत्यविद्यैव परिग्रहो न दर्शनमात्रमित्याह- इन्द्रियेति। चरन्तोऽपि निष्परिग्रहा एव भवन्ति मुनय इति शेषः। ऐन्द्रजालिक्यां सम्पदि तत्त्वविदिव न सज्जत इति भावः। शुभं वेदबोधितं धर्ममपि अविद्यालक्षणं परिग्रहं बन्धकमेव विदुरतो निर्द्वन्द्वमेव विष्णुपदं श्रेय इति भावः॥३६॥

विद्यालक्षणसंयोगान्न मनश्छाद्यते नृप ।
यदि चेन्मुनिशब्देन गृह्यते ब्रह्मवादिभिः॥३७॥

विद्येति। रागादिभिरिति शेषः। कदा न च्छाद्यत इत्यत आह- यदीति। ब्रह्मवादिभिर्यदि यदा मुनिशब्देन मुनित्वप्रतिपादकशब्देन तत्त्वमसिवाक्योपदेशेन प्रणवोपदेशेन वा गृह्यतेऽनुगृह्यते तदा तदर्थमननाज्ज्ञाततत्त्वो न रागादिभिश्छाद्यत इत्यर्थः॥३७॥

वेदविद्याव्रतस्नातैर्नियतैः कुरुसत्तम ।
दिवि लोकाः सतां स्थानं लोकानां लोक उच्यते॥३८॥

प्रासङ्गिकं विद्याफलादिकं समाप्य प्रकृतं कर्मफलमनुसरति- वेदेति। सतां लोकानां जनानां स्थानं यद्दिवि तदेव कर्मठवृद्धैर्लोक इत्युच्यत इत्यर्थः॥३८॥

यत्र देवा हव्यपुष्टा न क्षयं यान्ति भारत ।
यजमानश्च भोगैः स्वैः कर्मप्राप्तोदिते पदे ।
मोदते सह पत्नीभिर्विज्वरो वसुधाधिप॥३९॥

स्थानमेव विशिनष्टि- यत्रेत्यर्धेन। कर्मप्राप्तोदिते कर्मभिः प्राप्ते अधिकारिभिश्च भुङ्क्ष्वैतत्पदमित्युदिते मोदते॥३९॥

यज्ञावसाने शैलेन्द्रं द्विजेभ्यः प्रददौ प्रभुः ।
दयया सर्वभूतानां निर्मलेनान्तरात्मना॥४०॥

यज्ञेति। “शैलं दिव्यं देहं पित्र्यं वाः गान्धर्वं वा दैवं वा प्रजापत्यं वा ब्राह्मं च” इति श्रुतिप्रसिद्धं कर्मफलभूतं द्विजं द्विजेभ्यः त्रैवर्णिकेभ्यो यजमानेभ्यः प्रभुर्यज्ञफलदाता महाविष्णुः देवानां भूतपाल कत्वाद्दययेति॥४०॥

तं शैलं सर्वगात्राणि परस्परविशेषिणः ।
न शेकुः प्रविभागार्थं भेत्तुं सर्वोद्यमैरपि॥४१॥

तं शैलमिति। शैलं सर्वगात्राणीति सामानाधिकरण्यं वेदाः प्रमाणामितिवत्। सर्वगात्रात्मकक्षेत्ररूपं शैलं परस्परविशेषिणो भेददृष्ट्या मिथो ब्राह्मणत्वक्षत्रियत्वादिजात्यभिमानेन विशेषवन्तः भेत्तुम् आत्मनो व्यतिरेकेण निश्चेतुं न शेकुः। सर्वोद्यमैः कृत्स्नैरपि कर्मभिः। किमर्थं भेदनं प्रविभागार्थं प्रकर्षेण विद्यादिभ्य आत्यन्तिकव्यतिरेकस्तदर्थं मोक्षार्थमित्यर्थः। क्रतुकोट्याऽपि मोक्षो न लभ्यत इत्याशयः॥४१॥

ततस्ते ब्राह्मणगणा निषेदुर्वसुधातले ।
श्रमेणाभिहताः सर्वे विवर्णवदना नृप॥४२॥

तत इति। देवताभावेऽप्युच्चनीचभावदर्शनक्षोभेण श्रान्तास्ते निषेदुः वसुधातले पुनः संसारं प्रापुरित्यर्थः। विवर्णवदनाः स्वर्गे भृशं दुःखेन ॥४२॥
सुपार्श्व इति। शोभनं पार्श्वोपलक्षितं सामीप्यं यस्य स सुपार्श्वः सद्‌गुरुः गिरिमुख्यः “गिरति ह वै द्विषन्तं पाप्मानम्” इति श्रौतनिर्वचनात् पापच्छेत्तृणां मुख्यः समूलाविद्योच्छेदकत्वात्। प्रणतः शान्तः तान्प्रति शिरसा वेदान्तवाक्येन “ओमापोज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वरोम्” इति। अनेन वाय्वादीनां ब्रह्मभावप्रतिपादकेन अब्रवीत्॥४२॥

सुपार्श्वो गिरिमुख्यस्तु वाग्भिर्मधुरभाषिता ।
अब्रवीत्प्रणतः सर्वाञ्छिरसा तान्द्विजोत्तमान्॥४३॥

न हि शक्यो बलाद्भेत्तुं युष्माभिरसुसङ्गिभिः ।
अपि वर्षशतैर्दिव्यैः परस्परविरोधिभिः॥४४॥

न हीति। अयं देहाभिमानशैलः बलात् हठेन युक्त्या विना भेत्तुं न हि शक्यः। तत्र हेतुः असुसङ्गिभिः असुषु इन्द्रियेषु सङ्गशीलैः देहेन्द्रियादिष्वात्मधीमद्भिः॥४४॥

एकीभूता यदा सर्वे भविष्यथ समाहिताः ।
अविरोधेन युगपद्विभजिष्यथ निर्वृताः॥४५॥

भेदने उपायमाह- एकीभूताः समाहिताः समाधिमन्तौ यदि समाधौ ऐकात्म्यं प्राप्ताः। “अत्र ह्येते सर्व एकं भवति” इति श्रुतिप्रसिद्धं हि तत् अविरोधेन सर्वभूताभयदानेन निर्वृताः शान्ताः यदि भविष्यथ तर्ह्येवैनं विभजिष्यथ। समाधिरेव देहाहन्धीभेदक इत्यर्थः॥४५॥

बलं हि रागद्वेषाभ्यां वर्धते ब्रह्मसत्तमाः ।
विमुक्तं रागदोषाभ्यां ब्रह्म वर्धति शाश्वतम्॥४६॥

बलमिति। बलं स्वभावजयसामर्थ्यं रागस्तत्सहचरो द्वेषः ताभ्यां वर्धते च्छिद्यते चौरादिकस्य वृद्धेर्ह्यकिञ्चिद्भूय ब्रह्म ब्रह्मनिष्ठा वर्धति वर्धते। आर्षस्तङभावः॥४६॥

यदाहं भेदयिष्यामि स्वर्गभिन्नैः शिलाशतैः ।
धातुभिश्च विसर्पद्भिः शिखरैश्चानुपातिभिः॥४७॥

यदाहमिति। अहं गुहाशयैश्चोद्यमानः एनं शैलं भेदयिष्यामि युष्मान् भेदने नियोक्ष्यामि। तदैव मेत्स्यथेति अध्याहृत्य श्लोकद्वयं योज्यम्। अहं गुरुः गुहायां बुद्धौ शेरते ते संस्कारास्तैः स्वर्गाभिन्नैः स्वर्गात् पृथग्भूतैः ऐहिकामुष्मिकभोगविरक्तैः अत एव शिलाशितैः स्फटिकशिलावदत्यच्छैर्धातवो देहारम्भकाणि तेजोऽबन्नानि तैस्तत्कार्याणि वाक्प्राणमनांसि। “अन्नमयं हि सौम्य मनः, आपोमयः प्राणास्तेजोमयी वाक्” इति श्रुतेः। तेषां वागादीनां विसर्पणेन प्रवृत्तिलिङ्गे्नेत्यर्थः। शिखरैरिवोच्छ्रितैरिन्द्रियैरनुपातिभिः खले-कपोतन्यायेन तत्त्वेन पतनशीलैः॥४७॥

विशीर्णैः पार्श्वविवरैर्नागैश्च गलितैर्भुवि ।
बहुभिर्व्यालरूपैश्च चोद्यमानो गुहाशयैः॥४८॥

पार्श्वशब्देन समीपस्थास्त्र्यादयस्तान्येव विवराणि चित्ताहिप्रवेशबिलानि तैर्विशीर्णैः तथा नागैः श्वेतसर्पतुल्यैः शास्त्रादिव्यसनैः व्यालैः कृष्णसर्पतुल्यैः कामादिव्यसनैश्च विशीर्णैश्चोद्यमानः प्रेर्यमाणः एतैर्गुणैः प्रीतो गुरुर्यदा देहाद्यद्यासमपनिनीषेत्तदैव तन्नाशो नान्यथेत्यर्थः॥४८॥

प्रतिगृह्य च तद्वाक्यं शैलेन्द्रस्य सुभाषितम् ।
तूष्णीं बभूवुस्ते सर्वे तदा ब्राह्मणसत्तमाः॥४९॥

तूष्णीं बभूवुः वैराग्याद्यभावादात्मनः देहात्पृथक्करणव्यापरन्निवृत्ता इत्यर्थः॥४९॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे त्रयोविंशोऽध्यायः॥२३॥
वर्णाश्रमधर्मपरिपालनम्

वैशम्पायन उवाच। बलिर्होमाश्च वर्धन्ते अहन्यहनि भारत ।
द्विजानां तपसाढ्यानां गृहधर्मेषु तिष्ठताम्॥१॥

अष्टादशे वपुर्भेत्तुमशक्तेः कर्मभूतले। कर्तव्यं ब्रह्मसदने चित्तशुद्ध्यर्थमीर्यते॥ बलिरिति। तेषां शैलभेदासमर्थानां ब्रह्मविदां कर्मविदां ब्रह्मवादिभिस्तादृशैः ऋत्विग्मिः सार्धं पृथिव्यां बल्यादिकं वर्धते। तथा देवता विष्णुः अर्च्या गुर्वादयः ते च पूज्यन्ते तदाप्रभृति शैलेन्द्रवचनप्रतिग्रहप्रभृतीति द्वयोः सम्बन्धः॥१॥

देवतार्च्याश्च पूज्यन्ते तदाप्रभृति भारत ।
तेषां ब्रह्मविदां राजन्पृथिव्यां ब्रह्मवादिभिः॥२॥

तत्रैव ब्रह्मसदने समे निस्तृणकण्टके ।
प्राज्येन्धनतृणे देशे पुण्ये पर्वतरोधसि॥३॥

तत्रैव पृथिव्यामेव ब्रह्मसदने “अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम्” इति श्रुतिप्रसिद्धे वाराणस्याख्ये अविमुक्ते। तत्रैवेति विशेषणम्। आध्यात्मिकभ्रूघ्राणसङ्घ्याख्यब्रह्मसदननिवृत्यर्थं तदुपास्त्यनधिकारिणामेव प्रस्तुतत्वात् क्षेत्रमेवात्र ब्रह्मसदनशब्दार्थः। पर्वतस्य विन्ध्यस्य रोधः समीपे॥३॥

वासं यत्र प्रकुर्वन्ति दृष्ट्वा भगवतः क्रियाम् ।
तपोऽर्थिनो महाभागा ब्रह्मचर्यव्रते स्थिताः॥४॥

भगवतः क्रियां प्राणिनां गत्या गतिरूपां तपोऽर्थिनः। “तप आलोचने।” “अत्र हि जन्तोः प्राणेषु क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे। येनासावमृती भूत्वा मोक्षीभवति।” इति श्रुतिप्रसिद्धमोक्षहेतुतत्त्वज्ञानार्थिन इत्यर्थः॥४॥

गृहस्थधर्मनिरता दानप्राप्तेन चेतसा ।
यतयश्चापि काङ्क्षन्ति धर्मेणेह विकाङ्क्षिणः॥५॥

दानप्राप्तेन शुद्धिं प्राप्तेन। “दैप् शोधने” अस्य ल्युडन्तस्य रूपं दानमिति। यतत इति संन्यासिनां ग्रहणं चाप्यर्थे। यतयोऽपीह काङ्क्षन्ति वासमित्यनुषज्यते। तेषामपि, “अविमुक्ते प्रतिष्ठानां विहारो नैव विद्यते।” इति काशीतोऽन्यत्र गमननिषेधात् विकांक्षिणो विशेषेण कांक्षा इच्छा तद्वन्तः इह वस्तुमित्यर्थः॥५॥

वन्यैः कर्मफलैश्चैव रता ब्राह्मणपुङ्गवाः ।
अग्निहोत्रव्रतस्नाता जितक्रोधाः समाहिताः॥६॥

वानप्रस्था अपि एतदेव काङ्‌क्षन्तीत्याह- वन्यैरिति द्वाभ्याम्। एतेऽपीह वासं कांक्षन्तत्यिनुषज्यते॥६॥

दैवयुक्तेन वा युक्ताः कर्मणा ब्रह्मसत्तमाः ।
चीरवल्कलसंवीता नियता नियतेन्द्रियाः॥७॥

दैवयुक्तेन अयाचितोपस्थितेन कर्मणा याञ्चादिना युक्ताः वृत्त्यर्थमिति शेषः॥७॥

चरन्तो ब्रह्मचर्यं च व्रतमास्थाय दारुणम् ।
अनेन विधिना राजन्क्रमप्राप्तेन सर्वशः॥८॥

ब्रह्मचर्यं ब्रह्मनिष्ठाम् अनेन आश्रमक्रमेण॥८॥

क्रमाद्ये वेदसंस्कारं पुण्यं प्राप्ता सनातनम् ।
पूर्वैराचरितं राजन्मुनिभिर्ब्रह्मवादिभिः॥९॥

आचरितं संस्कारम्॥९॥

नावेदविद्वानागच्छेन्नापि रौद्रं व्रतं चरेत् ।
न च त्यागेन गच्छेत गृहधर्मं न च त्यजेत्॥१०॥

नेति। अवेदविद्वान् गृहधर्मं न आगच्छेत् कृत्स्नं वेदमप्राप्य गार्हस्थ्यं न कुर्यादित्यर्थः। न च त्यागेन परिव्राजेन गच्छेत म्रियेत। एतच्च मनुनाप्युक्तम्- “अनधीत्य द्विजो वेदाननुत्पाद्य सुतानपि। अनिष्ट्वा शक्तितो यज्ञैर्मोक्षमिच्छन्व्रजत्यधः॥” इति एतच्चाविरक्तविषयम्। “ब्रह्मचर्यादेव प्रनजेद्गृहाद्वा वनाद्वा यदहरेव विरजेत्तदहरेव प्रवजेत्” इति श्रुतिविरोधात्॥१०॥

नैव गच्छेत दुःस्थानमप्राप्तो वेदसञ्चयम् ।
ऋचश्च सञ्चयः पूर्वः सामगानां च भारत॥११॥

नापि वेदग्रहणा प्राक् संन्यसेदित्याह- नैवामति। दुःस्थितं स्थानम् अनिकेतत्वमित्यर्थः। वेदसञ्चयस्यापीयत्तामाह- ऋच इति। बह्वृचानां सामगानां चाद्यजुर्वेदिनामप्यृच एव सञ्चयः साम्नां यजुषां चाप्यृक्ष्वेवान्तर्भाव इत्यर्थः॥११॥

ये चापि पुत्रिणो न स्युः श्रुत्वापि प्राप्नुयुः फलम् ।
ब्राह्मणास्तपसा श्रान्ता गुरोश्च परिचर्यया॥१२॥

ये चेति। पुत्रिणो न स्युः गार्हस्थ्यं न चक्रुरित्यर्थः। श्रुत्वा वेदान्तानिति शेषः। फलं ज्ञानम्॥१२॥

यस्य नैव श्रुतं ब्रह्मन्न गृहीतं विशाम्पते ।
कामं तं धार्मिको राजा शूद्रकर्माणि कारयेत्॥१३॥

यस्येति। श्रुतं कर्मब्रह्मणोः श्रवणं न गृहीतं नानुष्ठितं यस्य श्रवणमनुष्ठानं च नास्ति तं शूद्रतुल्यं राजा शूद्रकर्माणि कारयेत्॥१३॥

अथवा नैव विद्येत यद्ब्रह्म नाद्रियेद्द्विजः ।
द्वाभ्यां तु श्रोत्रविषये मनः पूर्वं समाहितम्॥१४॥

अथवेति। अथवेति पक्षान्तरे। यत् ब्राह्मणः सन् ब्रह्म वेदं नाद्रियेत् इति यत्तन्नैव विद्यते सर्वोऽपि ब्राह्मणो वेदवानेव अन्यथा ब्राह्मणत्वमेव तत्र नास्तीति भावः। तेन तस्य शूद्रसमीकरणं राज्ञामप्रसक्तमेव। द्वाभ्यां ब्रह्मचारिगृहस्थाभ्यां श्रोत्रविषये श्राव्ये धर्मे ब्रह्मणि च पूर्वमध्ययनाध्यापनकाले एव मनः समाहितं कृतं तस्मान्न ब्राह्मणस्यावहेलना राज्ञा कर्तव्येति भावः॥१४॥

एवं सर्वेन्द्रियारम्भान्वेदपूर्वान्त्समाचरेत् ।
ब्राह्मणो भूतसम्पन्नो य इच्छेद्भूतिमात्मनः॥१५॥

उपसंहरति- एवमिति। यस्मादेवं तस्मात् भूतिं विद्याभूतिम् अपरोक्षज्ञानसम्पदम्॥१५॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे चतुर्विंशोऽध्यायः॥२४॥
ईशभक्तिमाहात्म्यम्

वैशम्पायन उवाच। ते तु गोब्राह्मणा नागाश्चन्द्रादित्यपुरस्कृताः ।
ब्राह्मणान्पूजयन्देवान्वसुभिर्ब्रह्मसम्भवैः॥१॥

एकोनविंशे श्रौतोऽपो यज्ञः कामादिविघ्नतः। ते त्विति। द्वयोः सम्बन्धः। ते नारदाद‌यो वैदिकमेव श्रेयस्करं तदकरणे राज्यदण्डश्चेति जानन्तः गोब्राह्मणाः गौर्वाक् वेदप्रधाना इत्यर्थः। नागाः नास्ति आगो विध्यपराधो येषु ते नागाः रजःप्रकृतिभावाः। समासान्तश्च टच् आर्षः। चन्द्रादित्याभ्यां कालो लक्ष्यते। दर्शपूर्णमासौ पुरस्कृत्येत्यर्थः। ब्राह्मणान् ब्रह्मप्रभावान् देवानृषींश्च पूजयन् अपूजयन्। अडभाव आर्षः। वसुभिः हविर्दक्षिणाभिः ब्रह्मसम्भवैरिति ब्रह्मैव ब्रह्मणाऽर्चितवन्तः इत्यर्थः॥१॥

नारदप्रमुखाश्चैव गन्धर्वा ऋषयो नृप ।
कुर्वन्ति सततं यज्ञे क्रमप्राप्तं पितामहम्॥२॥

क्रमप्राप्तं ब्राह्मणपूजायाः क्रमेण पितामहं ब्रह्माणमपि अपूजन्। कुत्र? यज्ञे पुत्रयज्ञे, पुत्रपूजया पितुराह्लादो भवतीति तद्वत्॥२॥

वचोभिर्मधुराभाषैः पञ्चेन्द्रियनिवासिभिः ।
सर्वभूतप्रियकरैः सर्वभूतहितैषिभिः॥३॥

पञ्चेन्द्रियाणि निवासयन्ति निश्चलीकुर्वन्ति तैः॥३॥

स्तूयमानश्च यज्ञन्ते पञ्चेन्द्रियसमाहितैः ।
प्रोवाच भगवान्ब्रह्मा दिष्ट्या दिष्ट्येति भारत॥४॥

पञ्चाभिरिन्द्रियैः समाहितैरेकाग्नैः यज्ञं दृष्ट्वा ब्रह्माऽपि, दिष्ट्या भाग्येन। एवंविधा भवतां यज्ञे प्रवृत्तिरिति स्तव्यमिदं कर्मेत्यर्थः॥४॥

ततः कश्यपमाभाष्य प्रोवाच भगवान्प्रभुः ।
भवानपि सुतैः सार्धं यक्ष्यते वसुधातले॥५॥

क्रतुभिः परमप्राप्तैः सम्पूर्णवरदक्षिणैः ।
यक्षाः सुराश्च ते सर्वे यथा प्रतिगुणैः प्रभो॥६॥

भवान् यक्ष्यते यक्षाः सुराश्च यक्ष्यन्ते प्रतिगुणैः स्वस्वगुणाः सात्त्विकराजसतामसा वा प्रतिगुणास्तैः स्वस्वाभिप्रायेणेत्यर्थः॥६॥

वयं यक्ष्यामहे पूर्वं पूर्वं यक्ष्यामहे वयम् ।
एवमन्योन्यसंरम्भाद्विद्यन्ते बलदर्पिताः॥७॥

एवं क्रतौ प्रवृत्ते आध्यात्मिकाः देवासुराः शमकामादयो मिथः स्पर्धमाना आसन् तेषु शमादिभिस्तत्तदिन्द्रियकर्मणः स्तोत्रपाठादिनाऽसुरान् जेष्याम इत्यध्यवसितैः सुरैर्वागादिमनोन्तानि सर्वाणीन्द्रियाणि पापविद्धानि कृतानि। अत एव तेषां शुभाशुभविषयप्रकाशकत्वमविशेषेण दृश्यते। ततः प्राणाख्यं सूत्रात्मानं देवाः आश्रितवन्तस्तेन सर्वे कामादयो निहता इत्ययमर्थो “द्वया ह प्राजापत्या देवाश्चासुराश्च तत्र कनीयसा एव देवा ज्यायसोऽसुरास्त एषु लोकेष्वस्पर्धन्त” इत्यादिना बृहदारण्यके दर्शितस्तमुपबृंहयति- वयामिति॥७॥

दैतेयाश्चाप्यदैतेयाः परस्परजयैषिणः ।
युद्धायैव प्रतिष्ठन्ति प्रगृह्य विपुलौ भुजौ॥८॥

निवार्यमाणा ऋषिभिस्तपसा दग्धकिल्बिषैः ।
अन्यैश्च विविधैर्विप्रैर्वेदवेदाङ्ग्पारगैः॥९॥

विप्रैर्निरोद्‌धुमशक्याः अपि द्विविधाः अपि वृत्तय इत्यर्थः॥९॥

निवार्यमाना युध्यन्ते वृषभा इव गोकुले ।
प्रयुद्धा युद्धसङ्क्रान्ताः सर्वे प्राणजयैषिणः॥१०॥

प्रयुद्धाः प्रकृष्टं युद्धं येषां ते ततो यज्ञं विहाय प्राणोपास्तौ प्रवृत्तेष्वपि तेषु सर्वे प्राणजयैषिणः अभूवन्। सर्वशुभाशुभेन्द्रियवृत्तिरूपाः सुरासुराः प्राणं सूत्रात्मानं जेतुमेषितवन्तः तावतैव सर्वेऽपि नष्टाः पाषाणं प्राप्येव पांसुपिण्डाः॥१०॥

पश्यतां सर्वभूतानां मृत्योर्विषयमागताः ।
ततः शब्देन महता परं कृत्वा महाबलः॥११॥

तत इति। परं बाह्येन्द्रियवृत्तिसमूहं कृत्वा कर्तित्वा छित्त्वा रुन्धति मन इति शेषः। शब्देन शाब्दज्ञानजेन विवेकेन॥११॥

रुन्धन्ति बाहुभिः क्रुद्धाः सपक्षा इव पक्षिणः ।
चचाल वसुधा चैव पादाक्रान्ता च रोचिभिः॥१२॥

बाहुभिर्वा तुल्यैर्वैराग्यादिभिः। तत्रापि पूर्वोक्तो रजस्तमोरूपो विघ्न उपस्थित इत्याह- चचालेति। वसुधा योगभूमिः सत्त्वापत्त्याख्या रोचिर्भिः विषयवासनाज्वालाभिः॥१२॥

नौर्यथा पुरुषाक्रान्ता निषीदति महाजले ।
पर्वताश्च विशीर्यन्ते नर्दमाना गजा इव॥१३॥

पर्वताः पर्वततुल्याः आसनबन्धादयः॥१३॥

चुक्षुभुश्च महानद्यस्ताडिता मातरिश्वना ।
ततः समभवद्युद्धं मधोर्विष्णोश्च भारत॥१४॥

नद्यो नाड्यः मातरिश्वना प्राणवायुना सूत्रभावादुत्थितो बभूवेत्यर्थः। तत इति। एवं विक्षिप्तं चित्तं पुनर्निरोध्यमानं सत् मधुनामानं लयं प्राप्नोति। स च सत्त्वाख्येन विष्णुना प्रतिहन्तव्य इत्यर्थः॥१४॥

युगान्तकरणं घोरं सर्वप्राणिभयङ्करम् ।
प्रममाथ बलं विष्णुः समग्रं बलपौरुषम्॥१५॥

युगान्तः संसारान्तः॥१५॥

वह्नेरिव बलं दीप्तं शमयत्यम्बुना यथा ।
तथा प्रशामितं तेन भगवत्यपकारिणा॥१६॥

बलं निद्रातन्द्राजाड्यकषायाङ्गमर्दादिः॥१६॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पञ्चविंशोऽध्यायः॥१५॥
मोहविवेकयोर्युद्धम्

वैशम्पायन उवाच। बलवान्त्स तु दैतेयो मधुर्भीमपर्क्रमः ।
बबन्ध पाशैर्निशितैर्महेन्द्रं पर्वतान्तरे॥१॥

तमसा देहनिगडे क्षिप्तमात्मानमुत्तमः। उद्धरेत्सत्त्वसामर्थ्यादिति विंशे निरूप्यते॥ बलवानिति। मधुः आसुरो भावः महिः, पाशैर्वासनामयैः महेन्द्रम् आत्मानं पर्वान्तरे देहमध्ये॥१॥

तं वै प्रह्लादवचनाल्लक्षणज्ञश्च भारत ।
ऐश्वर्यमैन्द्रमाकाङ्क्षन्भविष्यं बुद्धिसङ्क्षयात्॥२॥

तमिति। स तं बबन्धेति पूर्वेणान्वयः। प्रह्लादवचनात् प्रह्लादः प्रहर्षः तदनुसारित्वाद्विषादाख्यस्य लयस्येति भावः। लक्षणं च योगिनः पूर्णसत्त्वराहित्यं तदभिज्ञश्च मोहः इन्द्रस्यात्मनो बुद्धिसंक्षयाद्भविष्यं द्वैतादर्शनरूपमैश्वर्यमाकांक्षन्त्सुषुप्तौ निर्विकल्पावस्थासदृशायां पातयिष्यन्नित्यर्थः॥२॥

बद्ध्वेन्द्रं सहसा मध्ये पाशैर्मर्मविवर्जितैः ।
आयसैर्बहुभिश्चित्रैर्बलवद्भिर्विदारणैः॥३॥

बद्ध्वेति युग्मम्‌। मर्मविवर्जितैः भेदस्थानरहितैरमेधैरित्यर्थः। अत एव आयसैरिव दृढेः विदारणैरन्तर्दुःखदैः॥३॥

विष्णुमेवाग्रणी रुद्रमाह्वयद्युद्धकोविदः ।
मध्ये गणानां सर्वेषां कालस्य वशमागतः॥४॥

द्वैधीभूताः काश्यपेया मधोर्वशमुपागताः ।
युद्धार्थमभ्यधावन्त प्रगृह्य विपुला गदाः॥५॥

द्वैधीभूता इति॥५॥

गन्धर्वाः किन्नराश्चैव वाद्ये गीते च कोविदाः ।
प्रनृत्यन्ति प्रगायन्ति प्रहसन्ति च सर्वशः॥६॥

द्वैधीभूता इति प्रोक्तं द्वयेन प्रजोत्पत्त्याद्यर्थमाह- गन्धर्वा इति। गन्धर्वादयो रजःप्रधाना मधोर्मोहस्य मनो धुन्वन्ति विस्फारयन्ति॥६॥

तन्त्रीभिः सुप्रयुक्ताभिर्मधुराभिः स्वभावतः ।
मनो मधोर्विधुन्वन्ति युध्यमानस्य रागिणः॥७॥

मधोर्बलार्थं मधुना नियोगात्पद्मयोनिनः ।
एतान्विकारान्कुर्वन्ति गन्धर्वाः सत्यवादिनः॥८॥

मधुनस्तमसः पद्मस्य योनिर्ब्रह्मैवेत्यर्थः। रजस्यपि प्रकृतिस्तमोमूलिकैवेति भावः॥८॥

तत्र शक्तो हि गान्धर्वे तस्मिञ्छब्दे मधुर्मनः ।
दानवाश्चासुराश्चैव प्रत्यक्षं यान्ति प्राणदन्॥९॥

तत्रेति। प्राणदन् मधुस्तत्र गान्धर्वे मनो दधाविति शेषः॥९॥

मधोश्च मान आक्षिप्य पश्यन्योगेन चक्षुषा ।
मन्दरं प्रयते विष्णुर्गूढोऽग्निरिव दारुषु॥१०॥

आक्षिप्य आ समन्तात् विषयेषु क्षिप्त्वा स्वस्यापसरणे सत्त्वं प्रयते प्रगच्छति तिरोबभूवेत्यर्थः॥१०॥

ऋषयो दीप्तमनसं किञ्चिद्व्यथितमानसाः ।
पितामहं पुरस्कृत्य क्षणेनान्तरधीयत॥११॥

ऋषयो मन्त्रास्तज्ज्ञानानि पितामहं परमात्मानम्, अन्तरधीयत अन्तर्हिता बभूवुः। एकवचनमार्षम्॥११॥

विष्णुं सोऽभ्यहनत्क्रुद्धो मधुर्मधुनिभेक्षणः ।
भुजेन शङ्खदेशान्ते न चकम्पे पदात्पदम्॥१२॥

विष्णुमित्यादिना विष्णुदैत्यरूपकेण विवेकमोहयोर्युद्धमाह एकादशभिः॥१२॥

विष्णुश्चाभ्यहनद्दैत्यं कराग्रेण स्तनान्तरे ।
स पपात महीं तूर्णं जानुभ्यां रुधिरं वमन्॥१३॥

शुश्रुवुरिति। अथ भूतानि पुष्करे ताः स्तुतीः शुश्रुवुः याः स्तुतयः विष्णुसंयुक्ताः परया वर्णसम्पदा उपलक्षिताश्च सत्यपराक्रमे भगवति विषये सत्याः अबाधितार्थास्ताः शुश्रुवुरिति यत्तच्छब्दाध्याहारेण योज्यम्॥१३॥

न चैनं पतितं हन्ति विष्णुर्युद्धविशारदः ।
बाहुयुद्धे हि समयं मत्वाचिन्त्यपराक्रमः॥१४॥

शरीरमिति। अनात्मनि देहादावात्माभिमानोऽविद्याख्यो मोहः तन्नाशायात्मानात्मनोर्विवेकाय स्थूलात् विविनक्ति धातवस्तेजोऽबन्नानि तेषां संयुक्तं संयोगः शरीरं तत्र मलपिण्डतुल्ये चैतन्यं न सम्भावितमिति ततः पृथग्भूतेन चेतनेनान्वितमिति वक्तव्यम्। तच्च चेतनं ब्रह्मैव तेजोभूतं चिन्मात्रम् इन्द्रियैर्युक्तं जीव इति शेषः॥१४॥

इन्द्रध्वज इवोत्तिष्ठञ्जानुभ्यां स महीतलात् ।
मधू रोषपरीतात्मा निर्दहन्निव चक्षुषा॥१५॥

एवं जीवस्य ब्रह्मभावमुक्त्वा देहस्यापि तमाह- ध्रुवमिति। ते देहारम्भकाः भूते सूक्ष्मे कारणे ध्रुवं निश्चितं तिष्ठन्ति। प्रलयतां प्रलयाधिष्ठानतां गते पुनश्च सूक्ष्ममेवानेकधा बहुरूपं भूत्वा पुनश्चोद्भवति। अयं भावः- शुद्धं प्रत्य‌ङ्मात्रमेव- निर्वचनीयं मायामनइन्द्रियादिभिः सूक्ष्मस्थूलस्थूलतरैः शबलपराग्द्दश्यरूपेण मुकुरैर्मुखमिव त्रेधावभाति। तत्रान्तस्योपाधेः पूर्वस्मिन् लये लोचनोत्तेजनाक्षरन्यायेन स्थूलतरं स्थूलरूपेणैवावशिष्यते। एवं स्थूलमपि सूक्ष्मरूपेण तदपि मायापगमे चिन्मात्रेणेति युक्ते सर्वस्य ब्रह्ममात्रत्वमिति॥१५॥

परुषाभिस्ततो वाग्भिरन्योन्यमभिगर्जतुः ।
समीयतुर्बाहुयुद्धे परस्परवधैषिणौ॥१६॥

प्रबोध्येति। त्रिलोकेषु कारणसूक्ष्मस्थूलरूपेषु भूतानां भावं स्वरूपं प्रबोध्य तानेव लोकान्स्त्वरूपचैतन्येनाभिव्याप्य वशी असङ्ग आत्मा चरते भुङ्क्ते। कर्मव्यतिहारे तङ्। लोकात्मानौ परस्परं भुञ्जाते पालयत इत्यर्थः॥१६॥

उभौ तौ बाहुबलिनावुभौ युद्धविशारदौ ।
उभौ च तपसा शान्तावुभौ सत्यपराक्रमौ॥१७॥

मानसीमिति। सार्धश्लोक एकं वाक्यम्॥१७॥

दृढप्रहारिणौ वीरावन्योन्यं विचकर्षतुः ।
शैलेन्द्राविव युद्ध्यन्तौ पक्षैः पाषाणसन्निभौ॥१८॥

ईश्वरः सूक्ष्मेण रूपेण आत्मानं धारयन् चरते इति पूर्वेणान्वयः। किं कृत्वा? बहुभिः कारणान्तरैः दुष्टनिग्रहसाधुसंरक्षणादिभिः निमित्तैः मानसीं तनूं शेषकूर्मादिरूपमास्थाय। कीदृश ईश्वरः? योगात्मा कीदृशमात्मानम्? शेषनागरूपं दिवन्धरः द्युलोकस्य धर्ता, ब्रह्म वेदं, भूतं चतुर्विधं परं च पञ्चविधं भूतं धार्यं धारकश्चात्मैवेत्यर्थः॥१८॥

विकर्षन्तौ वमन्तौ च अन्योन्यं वसुधातले ।
गजाविव विषणाग्रैर्नखाग्रैश्च विचेरतुः॥१९॥

ततो व्रणमुखैश्चैव सुस्राव रुधिरं बहु ।
ग्रीष्मान्ते धातुसंसृष्टं शैलेभ्य इव काञ्चनम्॥२०॥

संसिक्तौ रुधिरौघैश्च स्रवद्भिः समरञ्जितौ ।
अथोद्यतैः पदाग्रैश्च तौ व्यदारयतां महीम्॥२१॥

अभिहत्य तु तौ वीरौ परस्परमनेकधा ।
पतङ्गाविव युद्येतां पक्षाभ्यां मांसगृद्धिनौ॥२२॥

शुश्रुवुश्चान्तरिक्षेऽथ सर्वभूतानि पुष्करे ।
सिद्धानां वदनोन्मुक्ताः परया वर्णसम्पदा॥२३॥

स्तुतयो विष्णुसंयुक्ताः सत्याः सत्यपराक्रमे ।
शरीरं धातुसंयुक्तं संयुक्तं चेतनेन च॥२४॥

तद्ब्रह्म इन्द्रियैर्युक्तं तेजोभूतं सनातनम् ।
ध्रुवं तिष्ठन्ति भूतास्ते सूक्ष्मे प्रलयतां गते॥२५॥

पुनश्चोद्भवते सूक्ष्मं बहुरूपमनेकधा ।
प्रबोध्य भावं भूतानां त्रिषु लोकेषु कामदः॥२६॥

सुरूपो बहुरूपांस्तँल्लोकान्त्सञ्चरते वशी ।
मानसीं तनुमास्थाय बहुभिः कारणान्तरैः॥२७॥

योगात्मा धारयन्नुर्वीं नागात्मानं दिवन्धरः ।
ब्रह्मभूतं परं चैव सूक्ष्मेणात्मानमीश्वरः॥२८॥

ब्राह्मेण विप्रान्वसति युद्धेनैव च क्षत्रियान् ।
प्रदानकर्मणा वैश्याञ्छूद्रान्परिचरेण च॥२९॥

ब्राह्मेण वेदमयेन रूपेण विप्रानधिष्ठाय वसति सर्वत्र भगवानिति शेषः। शेषं स्पष्टम्॥२९॥

गावः क्षीरप्रदानेन अश्वान्यज्ञेषु प्रोक्षणैः ।
पितरश्चोष्मणा वेदहविर्भागेन देवताः॥३०॥

गाः अधिष्ठाय क्षीरप्रदानेन वः युष्मान्पान्ति यज्ञेषु अश्वान् यज्ञियद्रव्याणि अधिष्ठाय प्रोक्षणैः फलामृतसेकैश्च वः पान्ति। पितरः पितॄन् ऊष्मणा श्रप्यमाणहविर्बाष्पेण “ऊष्मभागा हि पितरः” इति श्रुतेः॥३०॥

चतुभिर्व्यतिरिक्ताङ्गैस्त्रिभिरन्यैश्च धातुभिः ।
सप्ताभिः पितृभिर्नित्यैस्त्रीँल्लोकान्परिरक्षति॥३१॥

“यत्सप्तान्नानि मेधया तपसाऽजनयत्पिता एकमस्य साधारणं द्वे देवानभाजयत् त्रीण्यात्मनेऽकुरुत पितृभ्य एकं प्रायच्छत्” इति सप्तान्नब्राह्मणार्थं सङ्गृह्णाति- चतुर्भिरिति। धातुभिः दर्शपूर्णमासपितृयज्ञसाधारणान्तैः त्रिभिर्मनोवाक्प्राणैः एवं सप्तभिरन्नैः पितृभिः सह त्रीँल्लोकान्परिरक्षति। किम्भूतैः सप्तभिः? नित्यैः अकरणे प्रत्यवायकरैः॥३१॥

चन्द्रसूर्यात्मकं नित्यं तद्रूपनिहितात्मकम् ।
प्रकाशं चाप्रकाशं च निगूढं स्वेन तेजसा॥३२॥

चन्द्रेति। एतत्सप्तकं चन्द्रसूर्यात्मकं यथात्मकं यथायोगं प्रकाशम् अर्चिरादिमार्गरूपम्, अप्रकाशं धूमादिमार्गरूपं निहतः सङ्कटे पातित आत्मा येन तत्स्वेन तेजसा चित्प्रकाशेन निगूढं व्याप्तं च सप्तकम्॥३२॥

त्रयस्तु पितरो नित्यं वर्धयन्ति दिवाकरम् ।
चतुर्भिः पितृभिश्चैव चन्द्रो वर्धति मण्डले॥३३॥

एतदेव विभजतेत्रयो मनोवाक्प्राणाः पितर इत्यनेन स्त्रष्टृभेदमेषामाह, निगृहीता एतेनावृत्तिफलम् अर्चिरादिमार्गं वर्धयन्ति अन्योन्यमित्यर्थः॥३३॥

त्रयः पितृगणा नित्यं पिण्डान्पश्चाददन्ति ते ।
चत्वरोऽन्ये पितृगणाः सिद्धाः पञ्चक आददे॥३४॥

एतदेवाह- त्रय इति। ते पूर्वोक्तास्त्रयः पितृगणा नित्यं नियमेन पश्चात्फलभोगान्ते पिण्डान् स्थूलसूक्ष्मकारणदेहान् अदन्ति संहरन्ति। “मनो वाचं प्राणं तान्यात्मने कुरुते” इति श्रुतेः। उपासीनाः मनोवाक्प्राणाः अवश्यं क्रमेण आत्मनो मुक्त्यै भवन्तीत्यर्थः। अन्ये पितृगणास्तु उक्ता दर्शादयः सिद्धाः शरीराकारपरिणताः पञ्च विषयादयो भवन्ति। के ते? यान् कः प्रजापतिर्यजमानः आददे आत्मत्वेन स्वीकृतवान्। दर्शादिफलं देहान्तरप्राप्तिरेव नित्येत्यर्थः॥३४॥

त्वमेव पञ्च तान्धर्मांस्त्वमेवापञ्च तान्विभो ।
सनातनमयो दिव्यः शाश्वतो ब्रह्मसम्भवः॥३५॥

त्वमेव पञ्च तान् वियदादीन् धर्मान् कनकमिव कुण्डलादीन्॥३५॥

तस्मात्तत्तेज आदत्ते अग्निर्वायुश्च सर्वशः ।
अतस्त्वं कर्मणा तेन आदित्यः समपद्यत॥३६॥

तस्मादिति। आदीयतेऽन्यैरग्न्यादिभिः स्वप्रथनायेत्यादित्यः सूर्यवत्प्रकाशकः॥३६॥

यदादत्सि जगत्सर्वं रश्मिभिः प्रदहन्निव ।
युगान्तकाले सम्प्राप्ते परां सिद्धिमुपागतः॥३७॥

प्रकारान्तरेणादित्यपदार्थमाह- यदिति। आदानादादित्य इत्यर्थः- आदत्सीति परस्मैपदम्, आदातुः स्वगामिफलाभावात्॥३७॥

पक्षस्धावमावास्यां लोकं चरसि मानुषम् ।
ऋषिभिः सह गूढात्मा सूर्येन्दुवसुसम्भवैः॥३८॥

पक्षसन्धौ पूर्णिमायाम्, अमावास्याम् अमावास्यायाम्॥३८॥

सफलं कर्म कुर्वाणं यजतां पुष्टिवर्धनम् ।
हेतूनामविकाराय मा भूत्कर्मविपर्ययः॥३९॥

हेतूनां स्त्रगादिसाधनानां कर्मणाम् अविकाराय। तमेवाह- मा भूदिति। काललोपेन धर्मवैकल्यं मा भूदित्यर्थः॥३९॥

वनस्पत्यौषधीश्चैव युगपत्प्रतिपद्यसे ।
बालभावाय वसुधां पक्षे पक्षे जनिस्तव॥४०॥

वनस्पतीति। औषधीर्वनस्पतींश्च दर्शे वसुधां च पृथिवीं चन्द्ररूपेण प्रतिपद्यसे बालभावाय पुनरुत्पत्तये॥४०॥

भूतानां भुवि भूतेश भाव्यर्थं वसुधातले ।
वसु यद्भुवि किञ्चिच्च सर्वं तत्त्वमयं विभो॥४१॥

भूतानामतीतानां भाविनाम् अनागतानां च अर्थे पुष्ट्यर्थे यत्किञ्चिद्वस्तु तत्सर्वं त्वन्मयमेव॥४१॥

त्वमेव विविधं धर्मं शाश्वतं वसुधातले ।
देवयज्ञं मन्त्रवाक्यमात्मयज्ञं समानुषम्॥४२॥

त्वमेवेति। देवयज्ञं देवयज्ञाद्यात्मकम्। कर्मविशेषणत्वात्क्लीबत्वम्॥४२॥

द्विविधः स्वर्गमार्गश्च सूर्यश्चन्द्रश्च निर्मलः ।
चन्द्रमाः पितृयानश्च देवयानश्च भास्करः॥४३॥

द्विविध इति। चन्द्रसूर्यपदयोर्विवरणं चन्द्रमा इति॥४३॥

त्वमेव वसुधायुक्तो विश्वं चरसि सीमया ।
एकीकृत्य गणान्सर्वान्संक्षिप्यामुत्र सम्भवः॥४४॥

एकस्त्वमसि सम्भूतः पुराणपुरुषो विराट् ।
अक्षयश्चाप्रमेयश्च कर्मकारकारो वशी॥४५॥

मूर्तस्तेजसि सम्भूतो वायुः पर्येति खेचरः ।
सप्तभी रूपसंस्थानैर्नित्यमावृत्य तिष्ठति॥४६॥

त्वमेवेति। वसुधायुक्तो भौमप्राणिरूपेण चरसि विषयान्त्सेवसे सीमया मर्यादया नियमेन। वसुधायुक्तत्वमेवाहैकीकृत्येति। गणान् इन्द्रियादीन् संक्षिप्य देहमात्ररूपेण। अमुत्र सम्भव इत्यतेजसि रूपात्मना सम्भूतः अत एव मूर्तश्चक्षुर्ग्राह्यः। सप्तभिर्महदहङ्कारपञ्चतन्मात्राख्यैः॥४६॥

साधने चापि निर्माणे संहारे प्रलये तथा ।
धाता धारणकाले च दिशश्चक्षुषि धारिणि॥४७॥

साधने शमादिसाधनकाले जीवरूपेण त्वमेवासि निर्वाणे शुद्धरूपेण संहारे दैनन्दिनलये प्रलये ब्राह्मलये च रुद्ररूपेण धाता पालयिता विष्णुरूपेण दिशो वर्णाश्रममर्यादा तु त्वमेवासि धारिणि पोषके चक्षुषि इन्द्रिये च चिद्रूपेण प्रवर्तकत्वेन त्वमेवासि॥४७॥

सेव्यामानो मुनिगणैर्नित्यं विगतकिल्बिषैः ।
कर्मभिः सत्यमापन्नैः समरागैर्जितेन्द्रियैः॥४८॥

सत्यं ब्रह्म समरागैः शत्रौ मित्रे च तुल्यप्रीतिभिः सर्वस्यात्मत्वात्तेषां द्वेषो नास्त्येवात एव जितेन्द्रियैः नित्यतृप्तत्वात्॥४८॥

स्तूयमानैश्च विबुधैः सिद्धैर्मुनिवरैस्तथा ।
सस्मार विपुलं देहं हरिर्हयशिरो महान्॥४९॥

एवं मधुविष्णुसंज्ञयोर्मोहविवेकयोर्युध्यतोः सतोः मधुना बद्धो महेन्द्राख्यो जीवः स्तुतिव्याजेन सिद्धैः सद्‌गुरुभिर्बोधितो हरिः स्वीयं विपुलं सर्वात्मकं देहं सस्मार यत् हयशिरः संज्ञम्॥४९॥

कृत्वा वेदमयं रूपं सर्वदेवमयं वपुः ।
शिरोमध्ये महादेवो ब्रह्मा तु हृदये स्थितः॥५०॥

आदित्यरश्मयो बालाश्चक्षुषी शशिभास्करौ ।
जङ्घे तु वसवः साध्याः सर्वसन्धिषु देवताः॥५१॥

जिह्वा वैश्वानरो देवः सत्या देवी सरस्वती ।
मरुतो वरुणश्चैव जानुदेशे व्यवस्थिताः॥५२॥

सत्या वेदवाणी सैवास्य सरस्वती देवी वाग्देवता॥५२॥

एवं कृत्वा तथा रूपं सुराणामद्भुतं महत् ।
असुरं पीडयामास क्रोधाद्रक्तान्तलोचनः॥५३॥

एवं विश्वरूपाविर्भावेन असुरं मोहं पीडयामास मोहयामास॥५३॥

मधोर्मेदोम्बुपूर्णा च पृथिवी समदृश्यत ।
प्रमदेव घना चैव शुक्लांशुकनिवासिनी॥५४॥

मधोरिति। त्वगसृङ्‌मांसमज्जास्थिमेदःशुक्राख्यैर्धातुभिः रचितवपुष्ट्वेन रूपिते मोहे मेदोमात्रमवशिष्टं यदज्ञानलेशमिति प्रसिद्धं तेन अम्बुपूर्णा पृथिवी शरीरं समदृश्यत। यथा प्रमदा प्रकृष्टमदा युवती घना वक्षोजभारेण कठिना शुक्लाम्बरवती मनोनन्दिनी तथा मधुमोहस्य वपुरभिनवमिव भातीत्यर्थः। तथा च श्रुतिः- “ब्रह्मविद इव सौम्य ते सुखं भात्ति” इति दर्शयति॥५४॥

मेदिनीत्येव शब्दश्च लब्धः पृथ्व्या नरोत्तम ।
नामासुरसहस्रेन धरण्यां सम्प्रतिष्ठितम्॥५५॥

असुरस्य मोहस्य सम्बन्धितया सहैव पूर्यमाणमेव स्रवतीति सहस्रं पुद्गलं शरीरं तेन। “ञिभिदा स्नेहने” अस्य रूपं मेदिनीति। स्निग्धेत्यर्थः। अज्ञानलेशानुवृत्तेर्विद्वत्सु परोद्धारणकारुणिकत्वमायातं न चेत् ज्ञानसमकालमेव देहपातः स्यादिति भावः॥५५॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे षड्विंशोऽध्यायः॥२६॥
आत्मोपासनादिकथनम्

वैशम्पायन उवाच। मधोर्निपतनं दृष्ट्वा सर्वभूतानि पुष्करे ।
प्रहृष्टानि प्रगायन्ति प्रनृत्यन्ति च सर्वशः॥१॥

सत्त्वेन निहते मोहे गुरुशास्त्रादिकं जगत्। हार्दे ब्रह्मणि पश्यन्तीत्येकविंशे समीर्यते॥ मधोरिति। पुष्करे परमव्योमाख्ये कारणे ब्रह्मणि। “व्योम पुष्करमम्बरम्” इत्यमरः। सर्वभूतानामिति तुल्यवद्देवर्षिमनुष्याणाम्। प्रनृत्यन्तीति वर्तमानापदेशेनेदानीं तत्प्राप्तानामस्मदादीनां च पुष्करप्रवेशेऽधिकारोदर्शितः॥१॥

सुपार्श्वो गिरिमुख्यस्तु काञ्चनैः शिखरोत्तमैः ।
बहुधातुविचित्रैश्च खं लिखन्निव चाबभौ॥२॥

तथा च श्रुतम्- “तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वे भवति” इति सुपार्श्वव्याख्यानरीत्या गुरुः मेर्वाख्यो गिरिरेव वा ब्रह्माणमीशं कमलासनस्थमिति व्यवहितस्यापि ब्रह्मलोकादेर्विश्वरूपात्मनिदर्शनस्य शास्त्रप्रसिद्धत्वात्॥२॥

गिरयश्चाभिशोभन्ते धातुभिः समरञ्जिताः ।
प्रांशुभिः शिखराग्रैश्च सविद्युत इवाम्बुदाः॥३॥

समं सर्वत्र रञ्जिताः (समरञ्जिताः)॥३॥

पक्षवातोद्धतो रेणुश्चूर्णैः साञ्जनवालुकैः ।
छादयन्पर्वताग्राणि महामेघ इवाबभौ॥४॥

मेघसंश्लिष्टशिखरा पक्षविक्षिप्तपादपाः ।
काञ्चनोद्भेदबहुलाः खं तिष्ठन्तीव पर्वताः॥५॥

खे हार्दाकाशे तिष्ठन्तीवेतीवशब्दो मानसत्वद्योतनार्थः॥५॥

पक्षवन्तः सशिखरा हेमधातुभिरञ्जिताः ।
पवनेन समुद्भूतास्त्रासयन्ति विहङ्गमान्॥६॥

त्रासयन्ति पर्वताः॥६॥

काञ्चनाः पर्वताः सर्वे स्फाटिकैर्मणिभिश्चिताः ।
सूर्यकान्तैश्च बहुभिश्चन्द्रकान्तैश्च निर्मलाः॥७॥

हिमवांश्च महाशैलः श्वेतैर्धातुभिराचितः ।
काञ्चनैः शिखराग्रैश्च सूर्यपादप्रकाशितैः॥८॥

मणिभिश्च प्रकाशद्भिः पक्षान्तरविनिःसृतैः ।
ताम्रपुष्पैश्च शिखरैर्दीप्यमानैः स्वतेजसा॥९॥

पक्षाणाम् अन्तरम् अन्तरालं, ततो विनिःसृतैर्मणिभिः॥९॥

मन्दरश्चोग्रशिखरः स्फाटिकैर्मणिभिश्चितः ।
वज्रगर्भो निरालम्बैः स्वर्गोपम इवाबभौ॥१०॥

सहस्रशृङ्गः कैलासः शिलाधातुविभूषितः ।
तोरणैश्चैव निबिडैः प्रांशुभिश्चैव पादपैः॥११॥

तोरणैर्निरालम्बैरस्तम्भैस्तोरणैरिव प्रांशुभिः पादपैः सौक्ष्म्यादद्दष्टद‌ण्डैरुपरि परिणाहवद्भिश्चेत्यर्थः॥११॥

प्रवादयद्भिर्गन्धर्वैः किन्नरैश्च प्रगायिभिः ।
देवकन्याङ्गरागैश्च प्रक्रीडाद्रिरिवाबभौ॥१२॥

मधुरैर्वाद्यगीतैश्च नृत्यैश्चाभिनयोद्गतैः ।
शृङ्गारैः साङ्गहारैश्च कैलासो मदनायते॥१३॥

मदनायते मदनवद्रसोद्दीपको भवति॥१३॥

आदित्याभासिभिः शृङ्गैर्भिन्नाञ्जनचयोपमैः ।
विन्ध्यो नीलाम्बुदश्यामो विभिन्न इव तोयदः॥१४॥

आदित्येति युग्मम्। यथा नीलाम्बुदश्यामो विष्णुर्मेधैः पृथिव्यां तोयं वर्षति। एवं मेरुपृष्ठाख्ये भ्रूघ्राणमध्ये सर्वे पर्वताः नीलाञ्जनचयोपमैः आदित्येन आभास्यमानैः शृङ्गैस्तोयं निर्वेमुः उद्गीर्णवन्त इत्यर्थः॥१४॥

धात्वर्थं सर्वभूतानां मेरुपृष्ठे महाबले ।
निर्वेमुर्विमलं तोयं मेघजालैरिवोत्तमैः॥१५॥

शिलाभिर्बहुचित्राभिर्धातुभिर्बहुरूपिभिः ।
प्रस्रवद्भिर्गुहाद्वरैः सलिलं स्फटिकप्रभम्॥१६॥

कीदृशः शृङ्गैः शिलाभिरिति॥१६॥

ग्रीष्मान्ते वायुसङ्गूढा घना इव सविद्युतः ।
चित्रैः पुष्पैस्तरुगणाः शोभन्त इव भूषिताः॥१७॥

नागाः कनकसम्भूतैर्विचित्रैरिव भूषिताः ।
विहङ्गमाभिर्लीनाश्च लतास्तरुसमाश्रिताः॥१८॥

नागाः गजाः कनकसम्भूतैरलङ्कारैः॥१८॥

विलम्बन्त्यः सपुष्पाश्च नृत्यन्ते वायुघट्टिताः ।
पवनेन समुद्धूता महता माधवेऽहनि॥१९॥

मुमुचुः पुष्पसङ्घातं तोयं वेलेव वर्षति ।
बलवद्भिश्च विपुलैः शाखास्कन्धावरोहिभिः॥२०॥

वेलेव तोयं तटाविघातोच्छलद्बिन्दुरूपम्॥२०॥

पादपैर्वर्णबहुलैर्ध्रियेत च वसुन्धरा ।
मधुप्रिया मधुकरा मधुमत्ता विहङ्गमाः ।
घोषयन्तीव गायन्तः कामस्यागमसम्भवम्॥२१॥

विष्णुर्मधोर्निहन्ता च चकार मधुवाहिनीम् ।
नदीं प्रस्रवनिर्भेदां सुतीर्थां बहुलोदकाम्॥२२॥

सत्त्वोत्कर्षवशाद्योगिनो भोगभूमयो मधुमत्यादयः दिव्यविषयवत्य उपतिष्ठन्त इत्याह- विष्णुरिति॥२२॥

अङ्गारवर्णसिकतां मधुतीर्थां मनोरमाम् ।
विमलैरम्बुभिः पूर्णां पुष्पसञ्चयवाहिनीम्॥२३॥

विवेश पुष्करं सा तु ब्रह्मणो वाक्यनोदिता ।
ऋषिभिश्चानुचरिता ब्रह्मतन्त्रनिषेविभिः॥२४॥

सापि स्वप्नकल्पा मधुमती भूमिः। “नेह नानास्ति किञ्चन” इति श्रुत्या प्रबोधितस्य योगिनो हार्दाकाशे विलीनेत्यर्थः। ऋषिभिर्योगिभिः अनुचरिताः आज्ञप्ताः अनुसृत्य विसृष्टेत्यर्थः॥२४॥

धात्री कपिलरूपेण गौर्भूत्वा क्षरते पयः ।
मधुरं वितते यज्ञे ब्रह्मणो वाक्यचोदिता॥२५॥

एवं योगोपसर्गेषु विलीनेषु ब्रह्मविद्यासंज्ञा अहं ब्रह्मास्मीति वाक्यजन्या चरमान्तःकरणवृत्तिरुदेतीत्याह- धात्रीति। मूलप्रकृतिः कपिलं त्रिगुणात्मत्वान्मिश्रवर्णं तेन रूपेण गौः गच्छत्यधिगच्छत्यात्मवत्त्वामिति गौः विद्यावृत्तिर्भूत्वा पयः ब्रह्म क्षरते प्रकाशयति मधुरम्। आनन्दमात्रत्वात्। यज्ञे योगे विशेषेण तते प्रथिते सति ब्रह्मणो वाक्यम् अहं ब्रह्मास्मीति तेन चोदिता प्रेरिता एवंविधा गौः॥२५॥

शिरश्च पृथिवी भूतं सन्धातुं प्राप्तवान्महीम् ।
शुद्धं च भजते लोकं शाश्वतं परमाद्भुतम्॥२६॥

वृत्तावपि प्रलीनानां शुद्धं चिन्मात्रमेवावशिष्यत इत्याह- शिरश्चेति। शीर्यत इति शिरः उत्तमाङ्गवच्छ्रेष्ठाऽपि प्रतिक्षणं परिणामिगुणकार्यत्वापक्षयवती वृत्तिः पृथिवी जडा सती भूतं कूटस्थं वस्तु सन्धातुं समर्थाऽपि मही स्वोपादानं जलं प्रति प्राप्तवत् गतवती ततो योगी शुद्धं लोकम् आत्मानं भजते निर्विकल्पेन समाधिनेत्यर्थः॥२६॥

सारस्वत्याः समुद्भूतं ब्रह्मक्षेत्रे तमोनुदम् ।
मरुतीर्थमतिक्रम्य पुष्करेषु विसर्पति॥२७॥

ननु सर्वधर्मशून्यं निर्विकल्पकं चेच्छून्यमेव तत्स्यादित्याशङ्क्याह- सरस्वत्या इति। सरस्वत्याः अस्तीत्येवोपलब्धव्य इति वेदवाचः सकाशात्समुद्भूतं सत्त्वेन प्रकटीभूतं तमोनुदम् अज्ञानविरोधितया ज्ञानमात्रं ब्रह्मक्षेत्रे भ्रूघ्राणमध्ये समुद्भूतं मरुतीर्थं मरुमरीचिकोदकतुल्यं ज्ञेयम्। अतिक्रम्य पुष्करेषु पुम्भेदाद्बहुवचनम्। त्रयाणां मिथुनत्वे तदैकैकस्य पृथक्पृथगिति शुद्वेशजगतां मध्ये ईशजगतोः प्रतिपुरुषं पृथक्त्वेन दर्शनात् पुष्करानेकत्वं युक्तम्। मायाशबले परमे व्योम्नि विसर्पति। “यो वेद निहितं गुहायां परमे व्योमन्” इति व्योम्नस्तदाश्रयत्वश्रुतेः॥२७॥

सुचारुरूपा धर्मज्ञा अजारूपेण छादयन् ।
रूपं कनकवर्णाभं तपोयुक्तेन चेतसा॥२८॥

ननु कुतो ज्ञेयस्य मरुतीर्थतुल्यत्वमत आह- सुचार्विति। अजा माया कनकवर्णाभं दिव्यरूपं ब्रह्मरूपेण रूप्यत इति व्युत्पत्त्या दृश्येनाहङ्कारादिना च्छादयत् छादितवती। अडभाव आर्षः। जवनिकाच्छादकस्य सत्यत्वं मा भूदतः छाद्यं विशिनष्टि- तपोयुक्तेन चेतसा रूपमिति। आलोचनवता चेतसैव यद्रूप्यते साक्षात्क्रियत इति रूपं साक्षात्कर्तव्यं भवति। भुजङ्गाच्छादिता रज्जुरालोचनेनैव साक्षात्क्रियते न तु राजदारवज्जवनिकारूपस्य कस्यचिद्वस्तुनोपसारणेन। तस्मात् ज्ञानमात्रनाश्यत्वेन रज्जूरगवदजा मृषैव। कीदृशी अजा? सुचारुरूपा, सुचारूणि रूपाणि लोहितशुक्लवर्णानि तेजोऽबन्नाख्यानि यस्याः सा तथा। कुतः साच्छादायति वस्तुतत्त्वमत आह- धर्मज्ञेति। अदृष्टवशादध्यासो भवतीत्यर्थः॥२८॥

अजगन्धकृतोन्मुक्तः सम्भूतः पर्वतो महान् ।
गुरुद्वारगुणप्राणः शाश्वतः सिद्धसेवितः॥२९॥

नन्वालोचनेनैव मायाजवनिकापगमो यत्क्रियेतेत्येतदेव कुत इत्याशङ्क्याह- अजेति। यस्मादयं महान्पर्वत इवाभेद्योऽहमिति तृतीयेनान्वयः। अहं अहङ्कारादिः संसारः सम्भूतः सम्यक् स्थूलरूपे उद्भूततया दृश्यमानोऽपि अजगन्धकृतोन्मुक्तोऽस्ति अजं सन्मात्रं तस्य गन्धो लेशः तेन पूर्वं कृतः पश्चादुन्मुक्तः। अहङ्कारादिर्हि जाग्रदादौ सन्निव दृश्यते न तु सुप्त्यादौ। अतोऽस्य दुःखादिधर्मिणो नात्मरूपवं किं तु नित्याविर्भूतं स्वाधिष्ठाने एव कादाचित्कप्रतीतिविषयत्वेन रज्जूरगवन्मृषात्वमेवास्येति भावः। अयमहङ्कारपर्वतः गुरुद्वारः गुणप्राणश्च गुरूपदेशादेवास्य तत्त्वमधिगम्यते। गुणैरेव त्रिभिरयं जीवति तस्माद्गुरुमाराध्य गुणत्रयं त्यक्तव्यमित्यर्थः। शाश्वतोऽनादिः सिद्धसेवितः सिद्धैरपि सेवितः किमुत मूढैः॥२९॥

वेदिकाभिः सुचित्राभिः काञ्चनाभिर्विराजितः ।
पुष्कराणि परीतानि त्वष्ट्रा विपुलदक्षिणः॥३०॥

ननु सुषुप्त्यादौ मनः संयोगाभावात्संसारी अहमर्थेन प्रकाशते। न च तावतास्यानात्मत्वं भवति। न हि त्यक्तवास्यस्तक्षाऽतक्षा भवतीत्याशङ्क्याह- वेदिकाभिरिति। “तस्य त्रय अवस्थास्त्रयः स्वप्नाः” इति श्रुतेः। संसारिणः तिसृभिरेव क्रीडास्थानभूताभिर्वेदिकाभिरिव जाग्रत्स्वप्नसुषुप्त्याख्याभिः परस्परवैलक्षण्यात् विचित्राभिरवस्थाभिर्विराजितो दृश्यते। तथापि अवस्थानां वैचित्र्यादवस्थान्तरगतस्य दुःखादेरवस्थान्तरे दर्शनाभावादसङ्गोऽपि यक्ष इव परशरीरसञ्चारी तत्तद्देहाभिमानात्तदा तदा दुःखं प्राप्नोति। तस्मात्तत्तदवस्थाभिमानकृत एवास्य संसारो न स्वाभाविक इत्यर्थः। नन्वभिमन्तृत्वमपि तात्त्विकमस्तीत्याशङ्क्य दृश्यत्वान्नेत्याह- पुष्कराणीति। अहङ्काराद्युत्थानकारणानि मूलाज्ञानानि त्वष्ट्रेव त्वष्ट्रा विचित्रजगन्निर्माणशिल्पिना ईश्वरेण परीतानि व्याप्तानि न तु स इतरैरित्यर्थः। न हि चित्प्रकाश्यं चित्स्वभावत्वं भजत इति भावः। हे विपुलदक्षिण॥३०॥

महामेरोर्यथा रूपं पञ्चभिर्धातुभिर्वृतः ।
चेतनायाभिसम्पन्नो रूपेणाद्भुतदर्शनः॥३१॥

उत्तरार्धमेव विवृणोति- महामेरोरिति। धातुभिर्महाभूतैः शरीराकारपरिणतैः वृतो व्याप्तोऽहङ्कारः रूपेणाद्भुतदर्शनः अनिर्वचनीयोऽपि या प्रसिद्धा चेतना तयाऽभिसम्पन्नो भवति। न त्वयं स्वयं चेतनो येनाभिमन्तृत्वादिस्वभाव आत्मेत्यवसीयेतेति भावः॥३१॥

करिष्याम्यहमप्येतन्मनसा धर्मचारिणम् ।
रूपं बहुविधं लोके पार्थिवीं चेतनां तथा॥३२॥

इदानीं शास्त्रदृष्टब्रह्मभावनिवेशेनाहं मनुरभवं सूर्यश्चेति वामदेववत्, “अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।” इति भगवानिवाहङ्कारावेशेनैव तत्त्वं निरूपयति करिष्यामीति। अहमपि अहमेव एतत् एवं धर्मचारिणं देहं मनसा सङ्कल्पमात्रेण करिष्यामि करोमि, न केवलं देहमात्रम् अपि तु लोके बहुविधं रूपं दृश्यं तदपि मनसैव करिष्यामि। तथा पार्थिवा पृथिवीशरीरं तत्सम्बन्धां चेतनां बहुरूपां करिष्यामि। स्वदेहादिचेतनाचेतनं सर्वं मत्सङ्कल्पमात्रोत्थं मत्तो नान्य इत्यर्थः। “इदं सर्वं यदयमात्मा” इति श्रुतेरिति भावः॥३२॥

त्रींश्च लोकान्प्रपद्येयं पञ्चभिर्धातुलक्षणैः ।
षष्ठेन च ससर्जेयं मनसा धर्मचारिणीम्॥३३॥

सार्वात्म्यमुक्त्वा सार्वज्ञमप्याह- धातून् पृथिव्यादीन् लक्षयन्त्येतैस्तानि धातुलक्षणानीन्द्रियाणि तैः पञ्चभिः त्रीन् लोकान् प्रपद्येयं जानीयाम्। अनात्मभूतदृश्यज्ञानमुक्त्वाऽऽत्मज्ञत्वमप्याह- षष्ठेन मनसा च धर्मचारिणीम् आत्मसदृशीमसङ्गां चिदाकारां वृत्तिं सर्जेयं सृजेयं, विद्याविद्यारूपोऽप्ययमेव सः सोऽहं विद्याप्रदातापीत्यर्थः॥३३॥

सङ्गेषु भावमोहाभ्यां पश्यन्ति च समृद्धयः ।
विमुक्ताः सर्वसङ्गेभ्यो धारयन्ति परिग्रहान्॥३४॥

ये दीयमानायां विद्यायामधिकारिणस्तानाह- सङ्गेष्विति। ये समृद्धयः सम्यक् पुष्कला ऋद्धिः ऐश्वर्यं येषां ते समृद्धयः पुरुषाः सङ्गेषु ऋद्धीनां योगेषु भावमोहाभ्याम्। इत्थम्भावे तृतीया। सङ्कल्पमात्रत्वेन भ्रमत्वेन च ऋद्धीः पश्यन्ति। एतेन विषयदोषदर्शनमुक्तम्। अत एव विमुक्ताः सर्वसङ्गेभ्य इति वैराग्यमुक्तम्। परिगृह्यन्ते विषयाः यैस्ते परिग्रहाः बुद्धीन्द्रियमनःप्राणाः तान् धारयन्ति निगृह्णन्ति। एतेनाभ्यासो दर्शितः। एतत्त्रयवन्तो विद्याधिकारिण इत्यर्थः॥३४॥

न च विन्देत मां कश्चिन्मनसा कामरूपिणम् ।
पञ्चधातुनिबद्धश्च नानाभाषितचोदनः॥३५॥

न चेति। यस्मात्पञ्चधातुमयेन देहेन निबद्धः नानाभाषितम्, “अपाम सोमममृता अभूम” इति नानार्थवादिकफलप्रेरिताः प्रायेण सर्वे तस्मात् मां कश्चिन्न विन्देतेति योजना॥३५॥

ये च विष्णुमधीयन्ते बहुधा कामविग्रहैः ।
ते मां पश्येयुरव्यक्तं तपसा दग्धकिल्बिषाः॥३६॥

ये चेति। कामविग्रहैः इच्छागृहीतैः रामकृष्णादिविग्रहैरुपलक्षितं विष्णुं ये अधीयन्ते प्रणवाद्युच्चारणेन स्मरन्ति ते व्यक्तद्वाराव्यक्तं मां पश्येयुः। अयमर्थः- पूर्वोक्तरीत्या स्फटिके रक्तत्वपद्मरागत्ववत् चिन्मात्र ईशे सूक्ष्मस्थूलान्यध्यस्तानि तत्र स्थूले श्रीगोपालप्रतिमादौ प्रणिधीयमानं चक्षुः प्रथमं प्रतिमायाः जाड्यतिरोधानेन चेतनत्वं गृह्णाति। रज्जूरग इव निहितमुरगतिरोधानेन रज्जुम्। अत एव भक्ताः स्वाराध्यैः सह व्यवहरन्तीति बहुलमुपाख्यायते। चेतनमूर्तावपि प्राणिहितं चक्षुस्तस्यास्तात्त्विकं वैश्वरूप्यमेव गृह्णाति। यदपश्यद्यशोदा कृष्णमुखेऽर्जुनो वा श्रीकृष्णविग्रहे। अस्यामवस्थायां योगी देहासङ्गात्स्वयमेव विश्वरूपो भूत्वा सार्वज्ञं प्राप्नोति। तदताद्वतकज प्रत्यक्षमभिप्रेत्योक्तं योगभाष्ये भगवता बादरायणेन- “तदेतत्परं प्रत्यक्षं तच्च श्रुतानुमानयोर्बीजम्” इति। विश्वरूपेति प्रणिधीयमानं मनः तस्य तत्त्वं सन्मात्रं गृह्णदस्मितामात्रमवशिष्यते। तस्मिन्नपि लीने योगी स्वरूपानन्दे प्रतियुक्तमुक्तकामविग्रहद्वाराव्यक्तं पश्येयुरिति॥३६॥

ये च मामभिरोहेयुर्नरा धर्मपथे स्थिताः ।
तेऽपि स्वर्गजितः सन्तः पश्येयुर्मां गतक्लमाः॥३७॥

मां निर्गुणम् अभिरोहेयुरुक्तसोपानक्रमेण॥३७॥

यश्चैव पर्वतः प्रांशुर्मेरुपृष्ठे व्यवस्थितः ।
एतमारुह्य युध्येयुः प्राणत्यागे सुनिर्मलाः॥३८॥

मेरुपृष्ठे भ्रूमध्ये पर्वतः समष्ट्यहङ्कारः। कदा युध्येयुरविद्यया सह इन्द्रियेषु प्राणत्यागेषु त्यक्तेषु स्वस्मिन् प्रविलापितेषु सत्सु॥३८॥

अप्सरोभिः समागम्य विचरेयुर्मनोजवाः ।
नन्दनं वनमारुह्य काम्यकं च महद्वनम्॥३९॥

वनं हेयमिति शेषः। योगोपसर्गत्वात्तद्भोगस्य॥३९॥

इमां विद्यां समास्थाय मद्भक्ताः पुष्करेष्विह ।
शरीरं क्षपयिष्यन्ति व्रतैर्बहुविधैः कृतैः॥४०॥

सिद्धिं प्राप्य क्रमेयुस्ते कामैर्बहुविधैर्नराः ।
इमं लोकममुं चैव सम्पतेयुर्यथासुखम्॥४१॥

कामैः क्रमेयुः इच्छया विषयान् प्राप्नुयुः इहलोकं च परलोकं च सम्पतेयुः॥४१॥

गौरीसिद्धेति व्याख्याता त्रिषु लोकेषु विद्यया ।
प्रभावं तपसा वृत्तं दर्शयन्ति समाहिताः॥४२॥

गौरीति। यदा उक्तविधं प्रभावं तपःसकाशाद्वृत्तं निष्पन्नं समाहिताः योगिनो दर्शयन्ति तदा विद्यया शास्त्राचार्योपदेशजज्ञानेन निष्पन्ना गौरी परा ब्रह्मविद्या त्रिषु लोकेषु सिद्धा व्याख्याता। सत्यसङ्कल्पत्वाद्याविर्भाव एव विद्यासिद्धिस्तावक इत्यर्थः॥४२॥

षण्णां ज्ञानाभिसन्धीनामभिज्ञानात्ससङ्ग्रहाः ।
भवेयुस्ते निरारम्भा धातुनिर्मुक्तबन्धनाः॥४३॥

षण्णामिति। ज्ञानं वृत्तिः तस्या आभिमुख्येन समित्येकीभावेनावधानं येषु ते ज्ञानाभिसन्धयः संयमस्थानानि मूलाधारादीनि वा। कर्माङ्गं बाह्यमाभ्यन्तरं च द्वे भगवन्मूर्तिरूपे प्रतीके विराट्सूत्रान्तर्यामित्रयं चेति षट्, तेषाम् आभिज्ञानं साकल्येनानुभवः तस्मात् हेतोः ससङ्ग्रहाः कामाभावात् अक्षीणयोगैश्वर्या अत एव निरारम्भाः धातुरूपं निर्मुक्तं बन्धनं यैस्ते तथा॥४३॥

सहस्रगुणमप्यत्र दत्त्वा दानफलादिव ।
अवमानेन विप्राणां मनःशुद्धेन कर्मणा॥४४॥

मुक्तबन्धत्वं दानेनैव भवतीति लौकिकदृष्टान्तेनाह- सहस्रमिति। यथात्र कश्चिदपराधी सहस्त्रगुणमपि राज्ञे करं दत्त्वा दानफलाद्राजप्रीतेर्मुच्यते। एवं विप्राणामवमानेन संमानेन मनःशुद्धेन कामरहितेन मनसा शुद्धेन दानकर्मणा॥४४॥

सर्वत्रैवाप्रमेयेण अत्यन्तं फलमाप्नुयुः ।
अमुष्मिँल्लोके धर्मज्ञाः सह सर्वकुलोद्भवैः॥४५॥

अप्रमेयेणासङ्कुचितेन अत्यन्तं फलम् आत्यन्तिकदुःखपरिहारं परमेश्वरप्रीतेः ब्रह्मलोके पूर्वजैः सह प्राप्नुयुरिति श्लोकद्वयार्थः॥४५॥

येषामिह च सान्निध्यं यज्ञे ब्राह्मणसङ्कुले ।
ते भूयो यजमानाद्या अभिषिच्य पुनः पुनः॥४६॥

येषां यजमानऋत्विजां सान्निध्यं यज्ञाङ्गदेवतादौ चित्तैकाग्र्यं तेऽपि पुनःपुनरप्यभिीषच्य बहुयज्ञावभृथं प्राप्य पूर्वोक्तं फलमाप्नुयुरित्यर्थः॥४६॥

तथा तां मन्यसे गौरीं मनसा धर्मचारिणीम् ।
अनुग्रहाय भूतानां तन्ममाग्रे तपोधने॥४७॥

तथेति। यथा दानयज्ञयोः सम्पदं मन्यसे तथा चेत् तां पूर्वोक्तां गौरीं ब्रह्मविद्यासम्पदं तपोधने समीपेऽग्रे स्थितां चेन्मन्यसे। राजन्निति शेषः। तर्हि तन्मम तन्नैव मन्तव्यं त्वयेत्यर्थः। कद्दिशीं गौरीं भूतानामनुग्रहाय मनसा धर्मचारिणीम्। बाह्येन दानयज्ञादिना साध्या बाह्या सम्पत् परिमिता, इयं तु मानसत्वादनन्तेति भावः॥४७॥

सत्य एष परो विद्ये भविता नात्र संशयः ।
नाफलो विद्यते धर्मश्चरितो धर्मचारिणा॥४८॥

किमर्थं तर्हि दानादिकं कर्तव्यमत आह- सत्य इति। एष आत्मा गौरीलभ्यः सत्योऽबाधितः अविद्ये पुंसि परो दूरीभूतः भविता धर्मादपि आविर्भविष्यत्येव चित्तशुद्ध्यादिद्वारा यस्माद्धर्मचारिणा धर्माचरणशीलेन निष्कामेनेत्यर्थः। आचरितो धर्मः अफलो न विद्यते तस्माद्विद्यार्थं धर्मोऽनुष्ठेय एव। “विविदिषन्ति यज्ञेन” इत्यादिश्रुतेरिति भावः॥४८॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे सप्तविंश्मोऽध्यायः॥२७॥
विष्णोस्तपश्चर्या परमैश्वर्यलाभश्च

वैशम्पायन उवाच। दिशं जिगमिषुर्दिव्यामुत्तरां सत्यसाधनः ।
तथा स धातुनिचये पुण्ये पर्वतरोधसि॥१॥

द्वाविंशे परमैश्वर्यं विष्णवाद्या योगगोचरात्। प्रापुरित्युच्यते सम्यग्योगश्रद्धाविवृद्धये॥ दिशमिति। उत्तरां दिशं परां काष्ठां मोक्षाख्यां, धातुनिचये शरीरे पर्वतरोधसि नासामूले भ्रुवोः सन्धौ॥१॥

विष्णुः परमधर्मात्मा एकपादेन तिष्ठति ।
दशवर्षसहस्राणि पुष्करे पुष्करेक्षणः॥२॥

विष्णुरिति। पुष्करे हार्दाकाशे एकपादेन विश्वतैजसप्राज्ञातुरीयैश्चतुष्पादं ब्रह्म, तत्राद्यश्चतुष्टयानुगतः परे क्रमात्रिद्वयेकैः। एकपादेन तुरीयेण, तुर्यात्मना निर्विकल्पकेन॥२॥

आत्मन्यात्मानमाधाय तपसा ब्रह्मसम्भवः ।
घटते कर्मणोग्रेण लोकमुत्थानकारणात्॥३॥

आत्मनीति। आत्मनि शुद्धे आत्मानं मायोपाधिं शरीरम् आधाय प्रविलाप्य लोकं शिक्षयितुमिति शेषः। “उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्।” इति भगवद्वचनात्। उत्थानकारणान्मोक्षहेतोः॥३॥

भासुरो भस्मनाच्छाद्य गात्राणि स्वयमात्मनः ।
अष्टौ वर्षसहस्राणि सहस्रं च तपोधनः॥४॥

भासुरः सोमः सिद्धिमुपागत इति तृतीयेनान्वयः। अष्टौ सहस्रं चेति नव सहस्राणि॥४॥

तेजसा तेन ज्योतींषि विभाव्य ब्राह्मणर्षभः ।
तिष्ठते नभसो मध्ये योगात्मा भावयञ्जगत्॥५॥

तेन प्रसिद्धेन ज्योतींषि ग्रहतारादीनि विभाव्य अभिभाव्य तिष्ठते प्रकाशते। “प्रकाशनस्थेयाख्ययोश्च” इति तङ्। विषयं बन्धकं शब्दादिम्॥५॥

सोमो विषयमाक्षिप्य मनसा धारयान्मनः ।
युक्तः परमधर्मात्मा ब्राह्मीं सिद्धिमुपागतः॥६॥

विषयं बन्धकं शब्दादिम्। अक्षिप्याधिकृत्य चेत्यर्थः। युक्तो योगवान् मुक्त इति वा॥६॥

सम्प्रदृश्यत सर्वत्र दिवि भुव्यन्तरे तथा ।
ज्योतिष्णु कर्म कुर्वाणो बहुरूपः स सम्पदा॥७॥

प्रदृश्यत प्रादृश्यत, ज्योतिष्णु कर्म प्रकाशनक्रियाम्। बहुरूपत्वं नानारसास्वौषधीष्वनुप्रवेशेन नानारसत्वम्। “सोमो भूत्वा रसात्मकः” इति सोमस्य रसात्मकत्वस्मृतेः॥७॥

महेश्वरोऽतिगूढात्मा वृषरूपेण तिष्ठति ।
उद्धृत्य दक्षिणं पादं वायुभक्षः समाहितः॥८॥

बलीवर्दरूपकेण धर्मात्मानं महेश्वरं रूपयति। उद्धृत्य धर्मस्य अहिंसागर्भौ जपादिरूपौ निष्कामसकामौ दक्षिणौ पादौ, हिंसागर्भौ यज्ञादिरूपौ सकामनिष्कामौ उत्तरौ, तेषु निष्कामजपादिरूपं पादं पुरस्कृत्येत्यर्थः॥८॥

अष्टौ वर्षसहस्राणि सहस्रशतमेव च ।
महायोगी महादेवो नियमाद्ब्रह्मसम्भवः॥९॥

सैकशतं नवसहस्रं वर्षाणि॥९॥

अथ वायुर्घनीभूते अन्ते चरति गोपतेः ।
फेनीभूतं समुद्गारैः पवनं निर्गिरन्मुखात्॥१०॥

योगजधर्मादेव विश्वहितमिति द्योतयन् वृषरूपाच्छङ्करान्मेघोत्पत्तिमाह- गोपतेः इन्द्रियनिग्राहकस्य अन्ते घनीभूतः निपीडिततूलपिण्डवत् कठिनीभूतः तं फेनीभूतं पवनं समुद्गारैः मुखाद्बहिः निर्गिरन् निगीर्णवान् गोपतिः॥१०॥

स निष्क्रान्तस्ततो वक्त्रात्प्राणेन परमात्मवान् ।
निर्यासभूतः पतितो नैवार्द्रो नैव पार्थिवः॥११॥

प्राणेन उद्गारवायुना परं रूपान्तरं निर्यासः वृक्षमदः पार्थिवः पाषाणादिवच्छुष्कः॥११॥

स फेनो वारिणाऽऽविश्य चचार वसुधातले ।
नैवार्द्रो नैवशुष्काङ्गो वायुसङ्घातमागतः॥१२॥

सफेनश्चर्मकोशाकारो वारि जलम् आविश्य च गृहीत्वा चचार। वसुधा पृथ्वी रसातलम् अधोभागो यस्य तत् वसुधातलम् अन्तरिक्षं तस्मिन्॥१२॥

तत्कालफेनमुत्क्षिप्य पवनः सह वारिणा ।
निरालम्बे निरालम्बस्त्वभ्राणि समपद्यत॥१३॥

पवनः वारिणा सह सहितं फेनमुत्क्षिप्य निरालम्बे गगने निरालम्बः आश्रयान्तरशून्यः। अभ्राणि अपो जलानि विभ्रतीत्यभ्राणि मेघसंज्ञां समपद्यत॥१३॥

ते क्षिपन्ति पयो भूमावात्मानं स्वेन घट्टिताः ।
नीलमेघारुणप्रख्या नैवार्द्रा नैव पार्थिवाः॥१४॥

आत्मानं पयोरूपं स्वेनैव रूपेण घट्टिताः घनत्वं प्राप्ताः करकावत् ते नीलमेघाः सन्तो अरुणेनारुणसारथिना सूर्येण घनीभूतं जलं द्रावयता प्रख्यायन्ते मेघत्वं न सेचनकर्तृत्वे इति नीलमेघारुणप्रख्याः॥१४॥

ब्राह्मीं मूर्तिं समाधाय वायुः सर्वत्रगो वशी ।
समाः सहस्रं सम्पूर्णं चचार विपुलं तपः॥१५॥

ब्राह्मीं मूर्तिं ब्राह्मणशरीरं समाधाय कृत्वा॥१५॥

वह्निर्बहुजटी भूत्वा चीरवल्कलवासभृत् ।
तपस्तप्यदनाहारो मौनमास्थाय पौष्करे॥१६॥

तपस्तप्यत् अतप्यत्। सार्धश्लोको वाक्यम्॥१६॥

वर्षाणां च सहस्राणि त्रीणि चैकं च यत्नतः ।
तस्याग्नेस्तेजःसम्भूतो महानग्निः प्रवर्तते॥१७॥

तस्य तपस्यतोऽग्नेः तेजसः समुद्‌भूतोऽग्निः स्वर्गप्रकाशकृत्कर्मोपयोगी गार्हपत्यादिः स्वर्गवासी चक्षुरनुग्राही सूर्यादिः॥१७॥

स्वर्गप्रकाशं कृत्वा च स्वर्गवासी तमोनुदः ।
दिवि भूतप्रकाशाख्यस्तपसा ब्रह्मसम्भवः॥१८॥

स्वर्गवासीत्येतद्विवृणोति दिवीति। ब्रह्माग्निः ब्राह्मणरूपोऽग्निः॥१८॥

तपश्चरति धूमाग्निर्लोकानां भूतभावनः ।
तत्तमो भुवि राजेन्द्र मानुषेषु प्रतिष्ठितम् ।
भास्करस्तेजसंहारस्ततो भवति सत्तमः॥१९॥

उत्तम इति। यः स्वर्गप्रकाशकृदाग्निरुक्तस्तस्य तमो धूमः तदुपलक्षितो धूमादिमार्गः मानुषेषु वर्णाश्रमाभिमानिषु प्रतिष्ठितम्। तेजसामग्न्यादीनां संहती भास्करस्तु ततः पूर्वात् वह्नेः सत्तम उत्कृष्टतमो भवति। गार्हपत्याद्याराधकाः पुनरावर्तन्ते सूर्यमण्डलान्तःस्थपुरुषाराधकास्तु, नेति भावः॥१९॥

मर्त्यानां सर्वभूतानां तेज आक्षिप्य वर्तते ।
न तु योगबले राजन्ब्राह्मणस्य विशेषतः॥२०॥

भास्करं स्तौति- मर्त्यानामिति सार्धेन। योगबले सति तु तेज आक्षिप्य वर्तते अन्यस्यापि ब्राह्मणस्य तु सुतरां नेत्यर्थः॥२०॥

तत्तमो नाशयेद्रात्रौ नाप्यहो भविताद्वयम् ।
पुष्पमित्रो महातेजा यक्षः सर्वत्रगो वशी ।
तपश्चरति धर्मात्मा पुष्करेषु समाहितः॥२१॥

तत्तम इति। स उक्तगुणो भास्करः तत्पूर्वोक्तं तमः रात्रौ नाशयन् रात्रावपि मृतस्य धूमादिगतिम् आराधितः सन्नाशयति किं तु सौरीमेव गतिं योगिने प्रयच्छतीत्यर्थः। तथा रात्रौ वर्तमानस्य दिवाऽपि मृतस्याहोर्चिरादिमार्गो न भविता। कीदृशम् अहः? अद्वयम् अद्वयपदप्रापकम्। उपासकस्य दिवा रात्रौ मृतस्यार्चिरादिगतिरेव भवति नान्या। एवं कर्मिणोऽपि दिवापि मृतस्य धूमादिगतिरेव नित्येति भावः। पुष्पमित्रो नाम यक्षो भाविकुबेरः॥२१॥

महेन्द्रशिखराद्धारा यवान्त्यो यान्ति मेदिना ।
तावत्स्वरूपमास्थाय तिष्ठते निखिलाः समाः॥२२॥

कायव्यूहेन तिष्ठते प्रकाशत इत्यर्थः। पूर्ववत्तङ्॥२२॥

जानुभ्यां पतितो भूमौ ज्योतिर्नभसि पश्यति ।
समाः सहस्रं निखिलं नेत्रैरनिमिषैर्जगत्॥२३॥

जानुभ्यां पतितो भूमावित्यनेन नमस्कारप्रियस्य सूर्यस्याराधनं सूचितम्। तत्फलं च सूर्यसंयमाद् भुवनज्ञानमिति योगैः सूचितम्। तदाह- ज्योतिः सूर्यमण्डलं तत्र यन्नभः मध्ये नभ इवावभाति तत्र दर्पणोदरसरूपे नियोजितैः नेत्रैरनिमिषैः जगन्निखिलं पश्यति॥२३॥

नेत्राणि बहुधा तस्य नेत्रान्तैरभिनिःसृतः ।
मध्यन्दिनकरे प्राप्ते रश्मिवान्त्सपरिग्रहे॥२४॥

एतदेवोपपादयति द्वाभ्याम्- नेत्राणीति। मध्यन्दिनकरे दिनकरमण्डलमध्ये। स हि दिनकरः परिवेष इव रश्मिवान् मध्ये त्वादर्शतलतुल्य इत्यर्थः। तत्र तस्मिंश्च नेत्रान्तैः प्राप्ते लब्धे सति सूर्यप्रभामिश्रितैर्नेत्रैः सह ते प्रसिद्धा रश्मयो मण्डलमयूखास्ततोऽभिनिःसृताः सर्वत्र उपर्यधस्तिर्यङ्निर्गताः सन्तः तस्य धारणावतः शतशोऽथ सहस्रशो नेत्राणि भवन्ति। स तैरनेकैर्नेत्रैः विद्वद्भिर्ऋत्विग्भिः यज्ञे पावक इव रराज। सूर्यमण्डलं प्राप्य मूर्च्छिताः चक्षूरश्मयः सूर्यरश्मिभिरेव सार्धं भुवनं व्याप्य प्रकाशयन्तीति भावः॥२४॥

ते रश्मयः प्रभानेत्रैः शतशोऽथ सहस्रशः ।
रराज तेजःसंयोगाद्विद्वद्भिरिव पावकः॥२५॥

स विस्फुलिङ्गैर्नेत्रान्तैरादित्यमनुवर्तते ।
कर्मणोऽन्ते युगान्ते वा जगतो बहुरूपिणः॥२६॥

स इति। स पुष्पमित्रः भाविकुबेरः विस्फुलिङ्गवद्भास्वरैः नेत्रान्तैर्द्वारभूतैरादित्यं प्राप्नोति। कदा कर्मणोऽन्ते देहारम्भककर्मक्षये धारणाबलेन चिरञ्जीवी भूत्वा जगतो युगान्ते जगत्प्रलयकाले वा॥२६॥

बहुतापः पुनर्भूत्वा निषण्णो वसुधातले ।
स यो रश्मिषु सम्पूर्णं तपस्तेपे सुदारुणम्॥२७॥

बह्विति। सः युगान्ते आदित्यं प्राप्नोति। रश्मिषु सम्पूर्णो नेत्रद्वारा जलतैलन्यायेन कृत्स्नमादित्यमयूखजालं व्याप्य स्थितः अत एव बहुतापः विवृद्धतपःप्रभावः। समाः सहस्रं सम्पूर्णमिति वा पाठः॥२७॥

निगृहीतेन्द्रियो भुत्वा अप्सरोभिर्ललाम ह ।
मेरोः शिखरमासाद्य कामं कामेन निर्वमन्॥२८॥

फलमाह- निगृहीतेति। ललाम रलयोरभेदात् रराम रेमे। निर्वमन् भोगेनैव कामम् उत्सृजन्। अतिभोगेन रसा भवन्तीति भावः॥२८॥

तपःकामः स यक्षस्तु कुबेरो नरवाहनः ।
विष्णुरेव तपोऽध्यक्षस्तेजसोऽन्ते विजृम्भति॥२९॥

यस्तपः कामो यक्षः स कुबरोऽभूदित्यर्थः। तेजसोऽन्ते तपसोऽन्ते॥२९॥

न हि कश्चित्पुमानस्ति य एवं तप आचरेत् ।
त्रिषु लोकेषु राजेन्द्र ऋते विष्णुं सनातनम्॥३०॥

न हीति विष्णोरेवांशः कुबेर इति भावः॥३०॥

वासुकिर्बहुशीर्षस्तु नागेन्द्रो मौनमास्थितः ।
तप आचरते सम्यङ्निधाय मनसा मनः॥३१॥

वासुकिरिति। मनो निधाय ब्रह्मणीति शेषः॥३१॥

शेषः सत्यधृतिर्नागो बलवान्ब्रह्मसम्भवः ।
वृक्षमारुह्य धर्मात्मा अवाक्छीर्षोऽवलम्बते॥३२॥

शेष इति। वृक्षमारुह्य तत्र पुच्छमासज्य धूमपानं चकारेत्यर्थः॥३२॥

जिह्वाभिर्लेलिहानाभिर्गात्रजं विषमुत्सृजन् ।
समाः सहस्रं सम्पूर्णं निराहारस्तपोधनः॥३३॥

एतद्धि तामसं तपो लोकोद्वेजकमित्याह त्रिभिः- जिह्वाभिरिति॥३३॥

कालकूटं विषं तद्धि सुमहत्समपद्यत ।
येन लोको ह्यभिग्रस्तो न सुखं विन्दते नृप॥३४॥

सर्वत्रानुगतं तीक्ष्णं भुजङ्गेषु महीपते ।
जङ्गमं स्थावरं चैव सर्वत्रानुगतं विषम्॥३५॥

स्थावरं वत्सनाभसोमलक्षारादि॥३५॥

परस्परविवृद्धेन हिंसायुक्तेन भारत ।
नाशयत्यात्मनोऽङ्गनि तेन तीक्ष्णेन भारत॥३६॥

परस्परेति। परस्परप्राणग्राहिक्रोधरूपेण तामसं तपः परिणमत इति भावः॥३६॥

अथ ब्रह्मा महाभागो भूतानां हितकाम्यया ।
मन्त्रं विसृजते राजन्ब्रह्माक्षरमहिंसकम्॥३७॥

अथ हिंसकविषोत्पत्त्यनन्तरं तत्प्रतीकाराय अहिंसकं विषघ्नं मन्त्रं ब्रह्माक्षरं वेदवर्णमयं ब्रह्मा सृजते स्म॥३७॥

गरुत्मान्विततैः पक्षैर्नखाग्रैः सलिलं महीम् ।
समाः सहस्रं सम्पूर्णं चूलाग्रेणावलम्बिना॥३८॥

तमेव मन्त्रामाह श्लोकद्वयेन- गरुत्मानिति। गरुत्मान्त्सलिलं महीं च मम जीवनभूतं द्वन्द्वम्। पात्विति शेषः। यद्वा ब्रह्म प्रणवः अहिंसकमक्षरम् अमृतबीजामित्यर्थः। गरुत्मानिति यथापाठं विततैर्दीर्घैः पक्षैः स्वैरैः युक्तेन वां बीजेनेत्यर्थः। नखाग्रैः पञ्चाङ्गैः। तथा चायं प्रयोगः- “ओं वां गरुत्मान् हृदयाय नमः अङ्गुष्ठयोः। ओं वीं गरुत्मान् शिरसे स्वाहा तर्ज्जन्योः। ओं वूं गरुत्मान् शिखायै वषट् मध्यमयोः। ओं वें गरुत्मान् कवचाय हुम् अनामिकयोः। ओं वौं गरुत्मान् नेत्रत्रयाय वौषट् कनिष्ठयोः। ओं वः गरुत्मान् अस्त्राय फट् करतलकरपृष्ठयोः। एवं हृदयादिमूलमन्त्रमाहसलिलं वं बीजं समासहस्त्रं समासः समनसहस्त्रं हकारसहस्त्रं हकारसकाररेफानां कूटं ते वर्णाः सम्पूर्णं चरमः स्वरः चूला शिखा तस्या अग्रं वषट्पदं तेन अवलम्बनशीलेन पल्लवेन च। मन्त्रः वषडिति पञ्चाक्षरः। अस्य ऋषिर्ब्रह्मा। गायत्रीच्छन्दः। गरुत्मान् देवता। वं बीजम्। हृः शक्तिः। लं कीलकम्। विषनाशने विनियोगः। पर्णभारैरिति ध्यानश्लोकः। पक्षभारैः कृत्स्नां पृथिवीं द्यां च व्याप्य स्थितमित्यर्थः। विततैः पक्षैः नखाग्रैः अवलम्बिना चूलाग्रेण च। कीदृशं संविततैः पक्षैरित्यारभ्य सहस्त्रं सम्पूर्णं बाह्याभ्यन्तरज्योतिर्भिः सूर्यवागादिभिः तत्प्रकाश्यं तद्व्याप्य स्थितमित्यर्थः॥३८॥

पर्णभारैश्च विकचैर्विस्तीर्णैर्वसुधातले ।
रराज वसुधा चैव पर्णैर्बहुविचित्रितैः॥३९॥

एतदेवाह- पर्णभारैरिति। यः वसु ब्रह्म धीयते यस्मिन् इति वसुधा शरीरं तस्य तले गर्भे विकचैर्विकाशिभिर्विस्तीर्णैः सर्वतो विप्रकीर्णैः पर्णभारैः पक्षैरिव पक्षैरिन्द्रियैस्तेषां भारैः कार्यसमूहै रराज योगिनां दृष्ट्येति भावः। यस्य च पर्णैस्तैरवे पक्षैर्बहुविचित्रितैर्विषयभेदात् वसुधा शरीरं च रराज। योऽन्तःशरीरे सर्वात्मरूपेण राजते शरीरं च येन राजते स इत्यर्थः॥३९॥

येन वृत्तेन जीवेयुः सर्वभूतानि भारत ।
इह लोके मनुष्येन्द्र देवलोके च भारत ।
द्यौरिवाचितनक्षत्रा महीतलविसर्पिभिः॥४०॥

मन्त्रजपफलमाह- येनेति। येन मन्त्रेण वृत्तेन सृष्टेन आवृत्तेन आवर्तितेन। येन च मन्त्रेण निर्विषा मही शरीरं तलविसर्पिभिरिन्द्रियाद्यैः आचितनक्षत्रा द्यौरिव रराजेत्यनुषङ्गः। सार्धश्लोको वाक्यम्॥४०॥

हिमवान्हिमसम्पाते भवत्येकचरो वशी ।
पुष्कराम्भसि धर्मात्मा मत्स्यो लिखितमूर्धजः॥४१॥

हिमवानिति। पुष्कराम्भसि मायाशबलस्याश्रयभूते निर्विशेषचैतन्ये। मत्स्योल्लिखितमूर्धजः मत्स्य इव मत्स्यः संसारनद्यां जाग्रत्स्वप्नाख्यकूलद्वयसञ्चारी जीवः तेन उल्लिखितं संश्लिष्टं मूर्धजं सहस्त्रारं येन सः जीवात्मानं सहस्त्रारे निधाय निर्विशेषचिन्मात्रत्वं प्राप्त इत्यर्थः॥४१॥

अथ सुतलमाक्रम्य पृथिवी प्रांशुदेहिनी ।
तपश्चरति धर्मात्मा बाहुमुद्यम्य दक्षिणम्॥४२॥

अथेति। सुतलं मूलाधारं दक्षिणबाहूद्यमनेन दानादिकं बहु कृत्वेति लक्ष्यते। तेन विना चित्तशुद्ध्यभावाद्योगे प्रवृत्त्यनुपपत्तेः॥४२॥

साग्रं वर्षसहस्रं च शतमेकं च सुव्रत ।
तपश्चरति संयोगाद्वायुभक्षः समाहितः॥४३॥

संयोगात्समीचीनाद्योगात्॥४३॥

समाधियोगात्सङ्गाद्वा ब्रह्मयोगस्य भारत ।
येनेयं पृथिवी राजन्धार्यते ब्रह्मयोगिना॥४४॥

एतदेव विवृणोति- ब्रह्मणा सह योगो येन निमित्तेन स ब्रह्मयोगः प्रणवः तस्य संयोगात् येन प्रणवेन वाच्यवाचकयोरमेदादीश्वरेण ब्रह्मयोनिना ब्रह्मोपलब्धिस्थानेन पृथ्वी शरीरं धार्यते ध्रियते॥४४॥

अनाद्यन्तेन नित्येन सर्वत्र विषयैषिणा ।
योऽसौ विष्णुरगाधात्मा परमात्मा निराकृतिः॥४५॥

विषयैषिणा जीवरूपेण विषयाभिलाषिणा। तस्य वास्तवं रूपमाह- योऽसाविति। यो विष्णुस्तेन पृथिवी धार्यत इति पूर्वेणान्वयः॥४५॥

दिने निषण्णो भवति रत्रौ भवति वै स्थिरः ।
सत्यसन्धः स धर्मात्मा कामकारकरो भवेत्॥४६॥

दिने विद्यायां निषण्णः उपविष्टः विद्यैकलभ्यः इत्यर्थः। रात्रावविद्यायां स्थिरो यस्मात् धर्मात्मा पुण्यादिमान्। इदमपि कुतः। कामकारकरो लीलावशः लोकवत्तु लीलाकैवल्यमिति न्यायेन भगवतः स्पृष्टौ प्रवृत्तिर्लीलयैवेत्यर्थः॥४६॥

तस्य यः सोद्यतः पाणिः पृथिव्यां पृथिवीसमः ।
रात्रौ स तपनो भवति मण्डलं विपुलं नभः॥४७॥

तदेवं ब्राह्मणम् एवंविधं प्रदर्श्य मुक्त्युपायमाह- तस्येति। तस्य विष्णोः यः स उद्यतः भक्तानुद्धर्तुमुद्गतः पाणिरिव पाणिर्धर्मः स पृथिव्या समो विधारकत्वाद्रात्रौ अविद्यायां तपनः प्रकाशको विवेकप्रदो धर्म एव भवति। मण्डलं राष्ट्रं विपुलं नभो हार्दं ब्रह्म। भोगापवर्गावपि धर्मप्राप्यावेवेत्यर्थः॥४७॥

स चन्द्रविषयं राजञ्छमयामास रुन्धति ।
ग्रहाणां गतयश्चैव ताराणां च विशेषतः॥४८॥

स इति। धर्मः चन्द्रस्य मनसो विषयं बन्धकं रागादिकषायं शमयामास नाशयतीत्यर्थः। ग्रहादीनां क्षुद्रतारातुल्यानां चक्षुरादीनां गतयो गतीः शमयति। शमं दमं च धर्म॥४८॥

तां छायामाक्षिपन्त्सोमात्स्रवद्भिर्मण्डलेन वै ।
पृथिव्यां दक्षिणो हस्ते महायोगी महामनाः॥४९॥

प्रसङ्गाद्धर्मस्य मुक्त्युपायत्वमुक्त्वा प्रकृतं पृथिव्यां कृतं योगमनुसरति- तां छायामिति। स पृथिव्यां दक्षिणो हस्तो धर्मः। महायोगी महान् योगी येन भवति स तथा। महत् ज्ञानोत्पत्तिक्षमं मनो येन स तथा योगदः चित्तशुद्धिदश्च भवतीत्यर्थः। किं कुर्वन्? सोमात्स्त्रवद्भिः पूर्वोक्तैः सप्तधा च सहस्त्रधाऽनेकधा च भूतैः मण्डलेन च सोमस्य धारणाविषर्याकृतेन तां छायां रात्रिशब्दोक्तामविद्यामाक्षिपन् शिथिलीकुर्वन्। गङ्गासेवनं चन्द्रमण्डले धारणा च क्रमेणाविद्यां नाशयत इत्यर्थः॥४९॥

सैषा छाया शशीभूता शशिमण्डलमाविशत् ।
अलिङ्गा पृथिवीलिङ्गादद्भुतादक्षया दिवि॥५०॥

महायोगी महामना इत्येतत्संक्षेपेण विवृणोति- सैषेति। सा एषा अविद्या रात्रिरूपा छाया अलिङ्गानिर्वचनीयत्वेन तत्त्ववेदकप्रमाणशून्या पृथिवीलिङ्गात् भूमिं निग्रहं प्राप्य शशीभूता वृत्त्यैकाग्र्येण चन्द्रीभूता सती चन्द्रमण्डलमाविशत्। अन्ते चन्द्रतादात्म्यं प्राप्येत्यर्थ। कुत्र? दिवि आकाशे न तु मानसे। पृथिवीलिङ्गात् कीदृशात्? अद्भुतात् अनिर्वाच्यात्। कीदृशी छाया? अक्षया मिथ्यात्वादेवापचयशून्या मरीचिकाह्रदवत्॥५०॥

अङ्गाङ्गान्युपगृह्यैव तपश्चरति निश्चयात् ।
प्रोक्ष्य पादौ तु सतलौ पृथिवी तपसि स्थिता॥५१॥

पृथिव्याः शशीभवनप्रकारमाह- अङ्गाङ्गानीति। सर्वाङ्गान्युपसंहृत्येत्यर्थः। प्रोक्ष्येत्यनेनतीर्थस्नानादिकमपि कृत्वेति लक्ष्यते॥५१॥

सूर्यार्चिभिः पीयमानादाक्षिप्यत महीतले ।
महीमिवाम्बुवसनां युगान्ते विष्णुतेजसा॥५२॥

एवं जलघनीभावरूपचन्द्रीभूता पृथिवी पुनः सूर्यधारणाभ्यासाद्गङ्गात्वमापन्नेत्याह चतुर्भिः- सूर्यार्चिभिरिति। सूर्यार्चिभिः पीयमानाज्जलात् मही आक्षिप्यतेति सबन्धः। वह्निना कर्पूरशिलेवार्कांशुभिः शोष्यमाणा पृथ्वी स्वसमीपं नीता सूर्यभावं प्राप्तेत्यर्थः। तत्र दृष्टान्तः- महीमिति। युगान्ते प्रलयकाले विष्णुतेजसाऽम्बुवसनां सजलां महीं स्ववशे कृतामिव तां पृथक् न पश्याम इति भावः॥५२॥

रराज सूर्यरश्मिभिर्व्यतिषिक्ता महानदी ।
स्फाटिकेव शुभा सैषा काञ्चनैर्धातुभिर्वृता॥५३॥

रराजेति। सा भूः सूर्यरश्मिभिर्व्यतिषिक्ता मिश्रिता सती महानदीरूपेण बभूवेत्यर्थः॥५३॥

आदित्येन समादत्ता रश्मितेजोभिसम्भवैः ।
मण्डलान्तर्गता देवी चक्षुषा नोपलभ्यते॥५४॥

रश्मितेजसाभिसम्भवाः अभित एकीभावास्तैर्हेतुभिरादित्येन ग्रस्ता सती चक्षुरग्राह्याभूत्॥५४॥

रश्मिभिः पुनरुत्तीर्णा ततो योगेन धावति ।
आकाशगङ्गा संवृत्ता विपुलैरम्बुविग्रहैः॥५५॥

सैवार्करश्मिमर्गेणोत्तीर्णा खे जलात्मना धावतीत्यर्थः॥५५॥

शीतच्छायैश्च तरुभिर्लताभिश्च सुगन्धिभिः ।
पद्मखण्डैश्च विविधैः शुशुभे दिव्यगन्धिभिः॥५६॥

काञ्चनापीडजघना स्फाटिकान्तरमेखला ।
पद्मरेणुसिता पीता चक्रवाकावतंसिका॥५७॥

नीलगर्भसुकेशान्ता पुष्पसञ्चयसङ्कुला ।
शोभते विप्रसर्पन्ती प्रमदेव विभूषिता॥५८॥

सैषा गङ्गा फलं लेभे पुष्करेण समाहिता ।
सुतपा चन्द्रविहिता लोकानां धारणे रता॥५९॥

सैषेति। सा एषा लोकानां धारणे रता पृथ्वी सुतपा शोभनं तपः कुर्वती पूर्वं चन्द्रविहिता चन्द्ररूपेण निष्पन्ना पश्चाद्गङ्गात्वं प्राप्ता पुष्करेण परमात्मना समाहिता एकीभूता सती फलम् अर्थात्तपसः लेभे। सार्वात्म्यं पावनत्वं च प्राप्तवतीत्यर्थः॥५९॥

सरस्वती स्वरैर्व्यक्तैरधीते ब्रह्मवादिनी ।
पृष्ठात्प्रयातां शैलेन्द्रे मन्दरे मन्दगामिनी॥६०॥

एषैव सार्वात्म्यात् वाग्देवतादिभावं प्राप्तेत्याह- सरस्वतीत्यादिभिः। तदा सरस्वती ऋषिभिः शिक्षया ग्रथितान् चतुरो वेदान् व्यक्तैः स्वरैरधीते इति त्रयाणां श्लोकानां सम्बन्धः। सा लोकधात्री गङ्गात्वं प्राप्य पुष्करेण सख्यकाले सरस्वती भूत्वा व्यक्तैः स्वरैः अकारोकारमकारैर्वादिनी सविशेषब्रह्मवदनशीला अधीते प्राप्नोति, किं? ब्रह्म विराट्सूत्रेशरूपमित्यर्थः। कीदृशी सरस्वती? पृष्ठात् मन्दरे प्रयाता पृष्ठं भ्रूघ्राणमध्यस्थं कारणं ब्रह्म मेरुप्टष्ठाख्यं सर्वेन्द्रियदेवतावासभूतं ततो मन्दराख्यम् अर्वाचीनं स्थूलप्रपञ्चं वैखरीभावं प्रयातेत्यर्थः। यथोक्तं मन्त्रशास्त्रे योगपटले- हेमरूपो भ्रुवोर्मध्ये मेरुस्तिष्ठति पर्वतः। तस्याभितो मही पार्श्वे पञ्चाशच्छतयोजना॥ लवणेक्षुसुरासर्पिर्दधिक्षीरजलात्माभः। सिन्धुभिः सप्तभिर्द्वीपैस्तत्सङ्ख्यैर्द्विगुणोत्तरैः॥ मन्दरः पारियात्रश्च इत्यादि॥६०॥

ऋङ्मयांश्चतुरो वेदान्पादैश्चतुर्भिरावृतान् ।
यजुर्भिः सामाभिश्चैव ग्रथिताञ्छिक्षया तदा॥६१॥

ऋङ्‌मयानीति। चतुरो वेदानकारोकारमकारार्धमात्राख्यान् प्रत्येकं चतुर्भिः पादैरावृतान् अत एव ऋङ्मयान् यजुर्भि सामभिश्च ग्रथितान् तुरीयस्य सर्वत्र सन्ततत्वादनुक्तिः। अयमर्थः- अकाराद्यर्थाः विश्वतैजसप्राज्ञतुरीयाः प्रत्येकं विश्वादिचतुष्टयात्मकास्तापनीये प्रसिद्धाः। तेषामाद्या विश्वविश्वः अन्त्यस्तुरीयस्तुरीयः, यं प्रकृत्य तत्रैवोकम्- “ईश्वरग्रासस्तुरीयतुरीयः” इति। तेन युक्तमुक्तं ऋङ्‌मयानित्यादि। विस्तरभयात्तु न तदिह प्रपञ्चितम्॥६१॥

ऋषिभिर्ज्वलनप्रख्यैस्तपसा दग्दकिल्बिषैः ।
सुपार्श्वस्य गिरेः पादे परिदायैः सुपारणैः॥६२॥

कीदृशैर्ऋषिभिः? सुपार्श्वस्य स्थूलशरीराख्यगिरेः पादे एकदेशे भूघ्राणमध्यादौ, यद्वा सुपार्श्वस्य गुरोः पादे चरणे परितो दीयते वित्तं ब्रह्माख्यं येषां तैः परिदायैः सुपारणैः सुष्ठु शोभनं शिष्यान्पारयन्तीति सुपारणाः परोद्धारसमर्थास्तैः॥६२॥

निःस्वनं सर्वभूतानि नियमैश्च न शृण्वते ।
मन्दराग्रे विसर्पन्तं जगत्कृत्स्नमतीन्द्रियम्॥६३॥

इदं सरस्वत्यास्तत्त्वं स्पष्टतरमपि दुर्ग्रहमित्याह- निःस्वनमिति। सर्वभूतानि इमं निःस्वनं नादं ब्रह्माख्यं नियमैरपि न शृण्वते यस्मादतीन्द्रियम्। तत्सत्त्वे किं मानमत आह- मन्दराग्रे स्थूलप्रपञ्चस्य अग्रे प्रथमम् अतिस्थूलत्वात् कृत्स्नं जगत् विसर्पन्तं व्याप्नुवन्तम्। योऽयं वैखरीशब्दः स एवायं, तथापि सूक्ष्मत्वाद्दुर्ग्राह्य इत्यर्थः। तथाच श्रुतिः- “चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः। गुहात्रीणी निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति” इति॥६३॥

विरामनियमे प्राप्ते तूष्णीम्भूता बभुव ह ।
न वाचमीरयेद्देवी नियमात्सत्यवादिनी॥६४॥

विरामेति। विरमयत्यस्मिन्निति विरामस्तुरीयः तस्यापि नियमे निग्रहे तुरीयाख्ये षोडशे प्राप्ते सति वाक् तूष्णीम्भूता। “यतो वाचो निवर्तन्ते” इति तस्य वाग्विषयत्वात्। अत्र हेतुमाह- सत्येति। या सत्यवादिनी ब्रह्मप्रतिपादिका सा नियमात् नैव वाचमीरयेत्। “वाचोदितं तदनृतम्” इति स्मृतेः। “त ꣳहावचनेनैव प्रोवाचेति त ꣳह द्वितीये वा तृतीये वा वचनेन प्रोवाच ब्रूमः खलु त्वं तु न विजानास्युपशान्तोऽयमात्मा” इति श्रुतेश्च॥६४॥

अथ भूतानि सर्वाणि तूष्णीम्भूतानि सर्वशः ।
न शेकुरभिधानार्थं व्याहर्तुं वदनैर्बलात्॥६५॥

अथ सुप्तौ समाधौ वा तुर्यप्राप्त्यनन्तरम्॥६५॥

विभज्य योगं मनसा सर्वभूतेष्वनुग्रहम् ।
सरस्वती तीरयुता व्याजहार महास्वनम्॥६६॥

कथं तर्ह्यवचनीयस्यापि प्रतिपात्तिरित्यत आह- विभज्येति। योगम् ऐकान्त्यं मनसा उपाधिना विभज्य बिम्बप्रतिविम्बभेदेन द्विधा कृत्वा सर्वभूतेष्वज्ञानग्रस्तेष्वनुग्रहं तत्त्वकथनेन कर्तुं सरस्वती तीरयुता तीरमिव तीरं तटस्थं ब्रह्म शाखाचन्द्रन्यायेनोपलक्षणीभूतं तेन युता सती लक्षणया चन्द्रमिव शुद्धं व्याजहार- महास्वनेति। बहुप्रमाणोपष्टम्भमुक्तार्थे सूचयति। साक्षाद्वक्तुमसमर्थाऽपि वाक् लक्षणया ब्रह्म प्रतिपाद‌यिष्यत्येवेति भावः॥६६॥

सरस्वत्या समायुक्तां शिक्षां गृह्णन्ति देहिनः ।
तस्मिन्नेवाथ ते सर्वे गानं गायन्ति शिक्षया॥६७॥

तावतैव लोकशिक्षाऽपि भयतीत्याह- सरस्वत्येति। तस्मिन्नेव शब्दगम्ये शबले पदे स्थित्वा गायन्ति। “एतमानन्दमयमात्मानमुपसङ्क्रम्य, एतत्साम गायन्नास्ते हा ३ उ हा ३ उ हा ३ उ अहह्मन्नमहमन्नमहमन्नम्” इत्यादि॥६७॥

आदित्या वसवो रुद्रा मरुतश्चाश्विभिः सह ।
जटिलाश्चीरवसना मुञ्जमेखलधारिणः॥६८॥

के गायान्ति तानेवाह- आदित्या इति॥६८॥

गन्धर्वाः किन्नराश्चैव सनागाः सह चाम्भसः ।
तपश्चरन्ति सहिताः पुष्करेषु मनीषिणः॥६९॥

अम्भसि भव आम्भसो वरुणः॥६९॥

अपि कीटपतङ्गैश्च सह सर्वैः सरीसृपैः ।
शोषयन्ति शरीराणि तपसोग्रेण यत्नतः॥७०॥

अपीति। कीटादीनामपि योग्यदेहप्राप्त्या तपस्यधिकारोऽस्तीत्यर्थः॥७०॥

विष्णुर्विष्णुत्वमापन्नो देहान्तरविसृष्टवान् ।
संरक्षति महायोगी सर्वांस्तान्सहचारिणः॥७१॥

एवं शरीररूपा पृथिवी योगबलाज्जलादिभावेन परिणम्य शब्दाद्याकारेण सर्वलोकहिताय भवतीत्युक्तम्। तथा शरीराभिमानी च शब्दस्यैव चरमं रूपं पराख्यमित्युक्तम्। एवं वाच्यवाचकयोरभेदात्सर्वाद्वैतसिद्धौ मनउपाधिको भेदव्यवहार इत्यपि समाहितम्। तत्रैवं सति जीवादन्य ईश्वरो नास्तीति प्राप्तम्। तन्निषेद्धुम् ईशादन्य एव जीवो नास्तीत्याह- विष्णुरिति। विष्णुः परमात्मा विष्णुत्वं व्यापकत्वं प्राप्तोऽपि देहान्तरस्य चतुर्भुजस्य विसृष्टं विशेषणविसर्जनं तद्वान्। व्यापकेन रूपेण। पालयितुमशक्तश्चतुर्भुजं विग्रहं यज्ञादिभोक्तारं सर्वभूतनियन्तारं चाश्रितवानित्यर्थः। तेन च तान् आदित्यादीन् रक्षति। रज्जूरगवत् अधिष्ठानाधिकमध्यस्तं नास्ति, अध्यस्तात्तु जीवा‌दधिकोऽधिष्ठानभूत ईश्वरोऽस्तीति भावः॥७१॥

पुष्करे रमते विष्णुर्विष्णुरेव द्विधा कृतः ।
दीप्यमानः स्वतेजोभिर्विधूम इव पावकः॥७२॥

एतदेवाह- पुष्करे इति। पुष्करे सर्वकार्यात्मके जगति विष्णुरेव नरनारायणादिरूपो भूत्वा रमते तपआदिलीलां करोति लोकशिक्षायै॥७२॥

सोऽग्निर्मनःसमुद्भूतः पृथिवीं तापयन्निव ।
प्रधावति समं तेन मण्डलं दशयोजनम्॥७३॥

लीलामेवाह- सोऽग्निरिति। स विष्णुः मनःकल्पितोऽग्निर्गार्हपत्यादिरूपो भूत्वा पृथिव्यभिमानिनं पृथिवीदेहमात्मन इच्छिति। पृथिवीवाचरन्वा पुरुषः पृथिवीति व्युत्पत्तेः। देहिनं तापयन् कनकवन्निर्दोषं कुर्वन् अग्निहोत्रादीनां ततश्च तेन पृथिव्या पुरुषेण समं दशयोजनं ब्रह्माण्डमण्डलं धावति तस्मै फलं ददातु। “प्राज्ञेनासम्परिष्वक्त उत्सर्जन् याति” इति जीवस्य लोकान्तरगमने तत्साहित्यश्रुतेः, स्वयमेव कर्मतदङ्गरूपो भूत्वा जीवेभ्यस्तल्लोकं गतिं प्रयच्छतीत्यर्थः॥७३॥

विरराजार्चिभिर्दीप्तैः पृष्ठतश्चावलम्बिभिः ।
विशीर्णपार्थिविभवैर्मयूखैरिव दीप्तितः॥७४॥

विरराजेति। पृष्ठतः चात्सर्वतः विशीर्णो नाशितः। पार्थिविः पृथिव्या अपत्यं पार्थिविर्देहात्मवादी तस्य भावः साम यैस्तैः। मोहसामरर्थ्यं दहद्भिरित्यर्थः। तैर्मयूखैर्दीपितोऽग्निर्विरराजेति॥७४॥

तस्याग्नेर्विस्फुलिङ्गानां न शेकुर्लङ्घने रताः ।
विप्रकीर्णस्य वसुधामर्यादामिव भास्करम्॥७५॥

तस्येति। अग्नेर्विष्णुरूपस्य रताः विषयासक्ताः यथा भास्करं लङघयितुं न समर्थाः तथा विस्फुलिङ्गानां ब्रह्मादिरूपाणां लङ्घने न शेकुः। कीदृशं भास्करम्? वसुधामर्यादां पृथिव्याः परिच्छेत्तारम्। भूचरैर्भुवः पारच्छेत्ता लङ्घयितुमशक्य इत्यर्थः॥७५॥

सोऽग्निर्दीप्य विभज्यांशून्विधूम इव पावकः ।
ऋत्विग्भिर्ज्वलनप्रख्यैर्विक्रीयत इवाध्वरे॥७६॥

सोऽभिः दीप्य विपुलं प्रकाशकं कृत्वा अंशून् रश्मीन् विभज्य द्रव्यदेवतादिरूपेणानेकधा कृत्वा स्थितः सन् ऋत्विग्भिर्विक्रीयते विविधं क्रीयते सोमक्रयिभिः सोमरूपः सन् क्रीयते॥७६॥

सोऽग्निर्धूमगतस्तत्र तिष्ठते विपुलं तदा ।
यावद्विष्णुः क्रमप्राप्तो नियमस्य समापनात्॥७७॥

सोऽग्निः तत्र अध्वरे तिष्ठते द्रव्यदेवतादिरूपेण प्रकाशते। यावत् नियमस्य क्रतोः समापनं तावत्। धूमगतो धूमप्राप्तो निर्धूम इत्यर्थः। स एव चाग्निः फलरूपेण यावद्विष्णुक्रम पृथिव्यन्तरिक्षद्युपर्यन्तं प्राप्तो गतः। विष्णुरेव लोकहितार्थी सर्वक्रतुतदङ्गतत्फलरूपोऽभूदित्यर्थः॥७७॥

रक्षां कृत्वा स्थितं विद्याद्विष्णुर्विष्णुपराक्रमः ।
भूत्वा शतशरीरो वै नागो बालाहकोऽभवत्॥७८॥

रक्षामिति। तमेव रक्षां कृत्वा स्थितं विष्णुं न विद्यात् न कोऽपि जानाति। स तु विष्णुर्व्यापी तादृग्विभवश्च योगेन शतशरीरो भू वा बलाहके मेघे तिष्ठतीति बालाहको नाग ऐरावतो मेघानां भेत्ताऽभवत्। यज्ञफलं वृष्टिरूपमप्ययमेवेत्यर्थ॥७८॥

तमग्निमात्मसंसृष्टं लेलिहानं महामतिम् ।
प्रतिप्रवृत्तं तेजोभिर्भूतानां हितकाम्यया॥७९॥

तमिति। तं विष्णुम् अग्निं जाठरम् अत एवात्मसंसृष्टं देहान्तःस्थम् “अहं वैश्वानरो भूत्वा” इत्यादिस्मृतेः महामतिं दिव्यज्ञानप्रदं नागो वारिणा ववर्षेत्युत्तरेण सम्बन्धः॥७९॥

वारिणा सुखशीतेन प्राणिनां प्राणवर्धनः ।
न्यषिञ्चद्दहनं तत्र नागो बालाहकस्तदा॥८०॥

दहनं जाठरं वारिणा वारिजेनान्नादिना। फलभोक्ता जीवोऽप्ययभेवेत्यर्थः॥८०॥

ततः सिद्धगणैर्जुष्टः पुष्करे तप्यते तपः ।
संहृत्य मनसाऽऽत्मानं महायोगी महाबलः॥८१॥

तत इति। भोक्तृत्वादेव कर्तृत्वाधिकारी सन् पुष्करे समष्टिब्रह्मणि आत्मानं व्यष्ट्यभिमानिनं संहृत्य प्रविलाप्य तपस्तप्यते। बलं वैराग्यम्॥८१॥

पादगात्राणि संहृत्य मनो मूर्ध्नि विधारयन् ।
अचलं स्थानमासाद्य तूष्णीम्भूतो बभुव ह॥८२॥

पादगात्राणि पादादीनि गात्राणि पूर्वोक्तरीत्याधोधस्तनमुपर्युपरितने संहृत्य मूर्ध्नि सहस्त्रारे अचलं परमशिवारव्यम्॥८२॥

एष धर्मो हि धर्माणां नोपधानविकल्पितः ।
हितः सर्वेषु भूतेषु इह चामुत्र चोभयोः॥८३॥

एष इति। नोपधानविकल्पितः निरुपाधिः स्वभावसिद्ध इत्यर्थः॥८३॥

अथ दैत्या हतास्तत्र समागम्योद्यतायुधाः ।
मायाप्राप्तैर्बहुविधैर्नगरैरभिसंवृताः॥८४॥

अत्रापि योगोपसर्गा उपस्थिताः परिहर्तव्या इत्याह- अथेत्यादिना। दैत्याः कामादयः हताः पूर्वं योगारम्भात् प्राक् निर्जिताः अपि तत्र समाधिकाले उद्यतानि आयुधानि अस्त्रदीनि यैस्ते। नगरैः शरीरैः॥८४॥

अग्निं दैत्याः पर्वताग्रैरभिघ्नन्ति परन्तप ।
ज्वलन्तं ज्वलनप्रख्या महाकाया महाबलाः॥८५॥

आग्निं योगिनं दैत्याः पर्वताग्रैः दिव्यवनितादिशरीरैः प्रदर्शितैः ज्वलन्तं चिन्मात्रं ज्वलनप्रख्याः चिन्मात्रा एव न तु भौतिकाः मानसा इत्यर्थः॥८५॥

मेघीभूताश्च मायाभिर्वर्षन्ति बलदर्पिताः ।
तस्मिन्नेवाभिसङ्घाते ससङ्घातं महाबलम्॥८६॥

मेघीभूता इत्यादयः स्पष्टार्थाः श्लोकाः॥८६॥

ते शैलास्त्वार्चिषा दग्दाः शतशोऽथ सहस्रशः ।
युगान्ते प्रभुरादित्यः प्रजा इव दिधक्षति॥८७॥

न शेकुरग्निं दैत्यास्ते मायाभिर्मुखमुद्यतम् ।
आदित्य इव दीप्यन्ते नभः सूर्योदये यथा॥८८॥

विहितैरुद्यमैः सर्वैर्दैत्या भग्नपराक्रमाः ।
गन्धमादनमासाद्य निषण्णा नगमूर्धनि॥८९॥

स चाग्निर्वैष्णवैर्लोकैर्विद्युद्भिः सह सङ्गतः ।
अन्तरिक्षचरान्दैत्यान्निर्दहन्विचरन्दिवि॥९०॥

नागो बालाहकश्चैव मेघैः सङ्घातमागतः ।
मुमोच सलिलं भूमौ पर्जन्य इव वृष्टिमान्॥९१॥

नाग इति। एवं योगोपर्गान् जित्वा स्थितं योगिनं पूर्वोक्तो यज्ञादिफलरूपो धर्मो वृष्ट्यादिद्वारेण यातीत्यर्थ॥९१॥

मन्त्रैः सञ्चोदितो नागो द्विजेभ्यो वदनोद्गतैः ।
मुमोच तोयसङ्घातं मानयन्विप्रजं जनम्॥९२॥

नागो वृष्ट्यधिष्ठात्री देवता द्विजेभ्यो वदनद्वारा उक्तैर्मन्त्रैः प्रेरितः सन् विप्रजं जनं ब्राह्मणसन्ततिभूतलोकं विगतप्रजं वा नैष्ठिकम्॥९२॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करेऽष्टाविंशतितमोऽध्यायः॥२८॥
देवासुराणां तपःसिद्धिः

जनमेजय उवाच। संयुज्य तपसा देवाः किमकुर्वंस्ततः परम् ।
न हि तद्विद्यते लोके तपसा यन्न लभ्यते॥१॥

योगविघ्नविघाताय कर्माण्येवाचरेदिति। त्रयोविंशे पुराकल्पमुखेनैतत्प्रसाध्यते॥ ततः “अचलं स्थानमासाद्य तूष्णीम्भूतो बभूव ह” इति प्राप्तप्राप्यस्य योगिनस्तूष्णीं भावः उक्तस्तेन प्रयोजनाभावात्सर्वप्रवृत्तिशून्यो योगी स्यादिति मन्वानो जनमेजय उवाच- संयुज्येति। तपसा योगेन॥१॥

वैशम्पायन उवाच। अथ दीक्षां समास्थाय सर्वे विष्णुमया गणाः ।
पुष्करादग्निमुद्धृत्य प्रणीय च यथाविधि॥२॥

प्रारब्धकर्मवेगेन तूष्णीम्भावो ह्यथापि योगी पूर्ववासनाकर्माण्येव यज्ञादीनि करोतीति पुरा सरूपार्थवादमुखेन दर्शयन्वैशम्पायन उवाच- अथेति। दीक्षामपरिच्छेदप्राप्तिलक्षणां रूपान्तरापत्तिम्। विष्णुमयाः ब्रह्म यथाग्निमित्युपलक्षणम्। सर्वमपि द्रव्यं यज्ञियं पुष्कराख्यं जगत्कारणमयमेवेति, “ब्रह्मार्पणं ब्रह्महविः” इति गीतोक्तदृष्ट्या सिद्धाः कर्माणि चक्रुरित्यर्थः। जुहुवुरित्याग्रिमेण सम्बन्धः॥२॥

जुहुवुर्मन्त्रविधिना ब्राह्मणा मन्त्रचोदिताः ।
हविषा मन्त्रपूतेन यथा वै विधिरेव च॥३॥

मन्त्रैः प्रकाशितं प्रयोगकालेऽपि स्मारितं पूतं च॥३॥

स चाग्निर्विधिवत्तत्र वर्धते ब्रह्मतेजसा ।
तेजोभिर्बहुलीभूतः प्रभुः पुरुषविग्रहः॥४॥

स चेति। चतुर्भिरष्टयोगध्यानम्॥४॥

ब्रह्मदण्ड इति ख्यातो वपुषा निर्दहन्निव ।
दिव्यरूपप्रहरणो ह्यसिचर्मधनुर्धरः॥५॥

असिचर्मणी खड्गखेटके धनुश्च धारयन्॥५॥

सगदो लाङ्गली चक्री शरी चर्मी परश्वधी ।
शूली वज्री खड्गपाणिः शक्तिमान्वरकार्मुकः॥६॥

विष्णुश्चक्रधरः खड्गी मुसली लाङ्गलायुधः ।
नरो लाङ्गलमालम्ब्य मुसलं च महाबलः॥७॥

अस्यादिखड्गान्तैः षोडशभिरायुधैः षोडशभुजो नारायणः, लाङ्गलमुसलायुधो नरः॥७॥

वज्रमिन्द्रस्तपोयोगाच्छतपर्वाणमक्षिपत् ।
रुद्रः शूलं पिनाकं च मनसाधारयद्भुवि॥८॥

योगबलप्राप्तानि वज्रादीनीन्द्रादिभिरुत्कर्षकारणान्याह- वज्रमिति॥८॥

मृत्युर्दण्डं पाशमापः कालः शक्तिमगृह्णत ।
जग्राह परशुं त्वष्टा कुबेरश्च परश्वधम्॥९॥

आपः वरुणः॥९॥

निर्विकारैः समायुक्ताः शतशोऽथ सहस्रशः ।
विश्वकर्मा च त्वष्टा च चक्राते ह्यायुधं बहु॥१०॥

विश्वकर्मा त्वष्टुरेव मूर्तिभेदः॥१०॥

इन्द्रायाग्निरथं प्रादात्सूर्याय च प्रतापिने ।
परमात्मा ददौ कृष्णो रुद्राय च महात्मने॥११॥

विष्णुरपि इन्द्राय सूर्याय रुद्राय च रथं प्रादात्। सर्वं योगप्रभावकल्पितम्॥११॥

छन्दोभिरेव त्वष्टा च स चकाराथ वाहिनीम् ।
विश्वकर्मा विमानानि चकार बहुभिः क्रमैः॥१२॥

छन्दोभिर्वेदैः प्रदर्शितरीत्या॥१२॥

शरीरांशं तमुत्पत्य विष्णुः सत्यपराक्रमः ।
पुष्करात्पर्वणि वनात्पृथनार्थं प्रवर्तयन्॥१३॥

वनादव्ययात् पुष्कराख्यात् शरीरांशं समुद्धृत्य पृतनाशब्दार्थं सेनाम्॥१३॥

द्यां चैव सर्वऋक्षाणां वाचा वै समकल्पयत् ।
यया स पूज्यः सङ्ग्रामे शत्रून्निर्बिभिदे रणे॥१४॥

सूर्यस्य ऋक्षाणां च स्थित्यै द्यामकल्पयत्, यथा दिवि पूज्यः इन्द्रः॥१४॥

स तं दण्डं समुचितं निर्विकारं समाहितम् ।
ब्रह्मा जग्राह विधिना अन्तर्धानगतः प्रभुः॥१५॥

स इति। प्रसिद्धो ब्रह्मरूपी विष्णुः तम् असुरेषु इन्द्रेण समाहितं निपातितं दण्डम् उचितं निर्विकारं यथा स्यात्तथा जग्राह अनुमेने तान्प्रति अन्तर्धानं च गतवान्॥१५॥

स्वैः प्रभावैश्च विधिना सोऽस्त्रग्रामं चतुर्विधम् ।
ऐन्द्रमाग्नेयवायव्ये रौद्रं रौद्रेण वर्चसा॥१६॥

एभिर्विकारैः संयुक्ता दितेः पुत्रा महाबलाः ।
तपसा शिक्षया चैव स्वास्त्रैः प्रहरणैरपि॥१७॥

दितेः पुत्रा अपि तपसा शिक्षया च युक्ता अपि विकारैः कामादिभिः॥१७॥

बलेन चतुरङ्गेण वीर्येण सुसमाहिताः ।
अप्रधृष्या रणे सर्वे समपद्यन्त वै तदा॥१८॥

अप्रधृष्याः समपद्यन्त सम्पन्नाः॥१८॥

ते विहाय गुहामध्ये सभाण्डोपस्करे रथे ।
मन्दरस्य गिरेः पादे विचेरुर्वसुधातले॥१९॥

ते दितेः पुत्राः गुहाः गुह्यानि सूत्राद्यात्मकानि स्वरूपाणि विहाय रथे रथे सभाण्डोपस्करे इति भोग्यवस्तुसहितमध्ये निषण्णाः सन्तः मन्दरस्य स्थूलकार्यस्य पादे एकदेशे विचेरुः। पृथ्व्या ऊर्ध्वगतिं न लेभिरे इत्यर्थः॥१९॥

चतुरङ्गं बलं सर्वं संहृत्य तमसः प्रभुः ।
विष्णुरेव महायोगांश्चचार वसुधातले॥२०॥

तमसः कार्यम् आसुरं बलं संहृत्य विष्णुरेव बलिष्ठ इत्यर्थः। आसुरं कर्म क्षययुक्तमिति भावः॥२०॥

भूयोऽन्यत्तप आसेदुश्चरन्तो ब्राह्मणैः सह ।
तैश्च सर्वैः सुरगणैर्धर्मचीरनिवासिभिः॥२१॥

भूय इति। आसेदुरसुराः ब्राह्मणैः सुरैश्च सार्धम्। तदपि तमः कार्यत्वान्नश्वरमिति सात्त्विक एव धर्मो मुमुक्षुभिः आदर्तव्य इति भावः॥२१॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे एकोनत्रिंशत्तमोऽध्यायः॥२९॥
पृथुराज्याभिषेककथनादि

जनमेजय उवाच। ब्रह्मन्खिले वर्तमाने निर्मर्यादे महाग्रहे ।
अविनशे च भूतानां कथमासन्प्रजास्तदा॥१॥

प्रापुर्योगफलं मोक्षं सात्त्विका ननु तामसाः तुल्यश्रमा अपीत्येतच्चतुर्विंशेऽभिधीयते॥ मनः सिन्धुर्मतिः शैलः शमकामौ सुरासुरौ अभ्यासो मन्थनं मुक्तिः सुधा धात्राह रूपकैः॥ एवं तामसस्य जनस्य पुनः पुनः संसारप्राप्तिं श्रुत्वा दयया तेषां गतिं जिज्ञासमानो जनमेजय उवाच- ब्रह्मन्निति। खिले अयःशङ्कुतुल्ये महाग्रहे महत्यज्ञाने हृदयशल्ये सति अविनाशे निर्मोक्षे च कथं दुःखपरम्परामग्ना आसन्निति॥१॥

वैशम्पायन उवाच अभ्यषिञ्चत्पृथुं वैन्यं पुरा राज्ये प्रजापतिः ।
राज्याय ऋषिभिः सार्धं प्रजाधर्मपरायणः॥२॥

प्रश्नस्योत्तरं स्वधर्मे स्थापिताः प्रजाः क्रमेण चित्तशुद्धिं प्राप्य मुच्यन्त इति विवक्षुर्वैशम्पायन उवाच- अभ्यषिञ्चत् राज्ये राज्यभावे राज्याय राजकर्मणे प्रजानां धर्म एव पालनीयतया परायणं यस्य स तथा॥२॥

एष नः परमो राजा सानुरागादजायत ।
त्रेतायां सम्प्रवृत्तायामन्योन्यमनुजल्पिरे॥३॥

एष नो वृत्तिदाता च विप्राणां च प्रवर्तिता ।
निर्माता सर्वभूतानां सत्यप्राप्तेन कर्मणा॥४॥

सत्यप्राप्तेन परमेश्वरेऽर्पितेन ईश्वरानुग्रहेणेत्यर्थः॥४॥

एतस्मिन्नन्तरे देवा गन्धमादनसानुषु ।
बहुभिर्नियमैः श्रान्ता निषण्णा गिरिसानुषु॥५॥

स्वधर्मस्थास्वपि प्रजासु ये विष्णुभक्तास्त एव मुक्तिभाजो नान्ये योगशतेनापीत्यमृतमन्थनाख्यायिकामुखेनाह- एतस्मिन्नित्यादिना॥५॥

अथ गन्धं समासाद्य समन्ताद्देवदानवाः ।
माधवे समयं प्राप्ते तेन गन्धेन दर्पिताः॥६॥

गन्ध “कण्ठकूपे क्षुत्पिपासानिवृत्तिः” इति किञ्चित् क्षुद्रधारणाफलम्। माधवे वसन्ते॥६॥

पुष्पमात्रस्य यद्वीर्यं मारुतेन विसर्पितम् ।
मनोग्राहि सुखं सर्वं पार्थिवं गन्धमुत्तमम्॥७॥

ते दैत्यास्तेन गन्धेन किञ्चिद्विस्मयमागताः ।
प्रसन्नमनसो भूत्वा परं सौख्यमुपागताः॥८॥

ऊचुश्च सहिताः सर्वे तेन गन्धेन दर्पिताः ।
पुष्पमात्रस्य यद्वीर्यं किं तस्य फलतो भवेत्॥९॥

अनुमानेन विज्ञेया विविधाः कर्मबुद्धयः ।
शुभाश्चैवाशुभाश्चैव बुद्धिप्राणेन देहिनाम्॥१०॥

कर्मबुद्धयः धारणोत्थानि ज्ञानानि शुभानि मुक्त्यर्थानि, अशुमानि भोगार्थानि। बुद्धिप्राणेन बुद्धिबलेन॥१०॥

तस्माद्वयं पयोमध्ये ओषध्यो निर्मथामहे ।
मन्दरेण विशालेन बलिना कामरूपिणा॥११॥

तस्मादिति। यस्मात् योगफलमतिश्रेष्ठमित्यनुमानेन निश्चितं तस्मात् पयः अमृतसाधनं ज्ञानं, मध्ये समुद्रतुल्ये देहाभ्यन्तरे, ओषधीः ओषधीसम्भवं देहं निक्षिप्य मन्दरेण विवेकेन साधयामहे॥११॥

समुद्रमभिसंरम्भान्मथ्नीमः सोमजं जलम् ।
पीत्वा च सहिताः सर्वे प्रस्थिताः कामरूपिणः॥१२॥

एतदेव विशदयति- समुद्रमिति। सोमजं जलम् अमृतं, तच्चामृतं पीत्वा सम्यगास्वाद्य कामरूपिणो भविष्याम इति शेषः। सहिताः सर्वे प्रस्थिता अविद्यानाशार्थम् उद्युक्ताः॥१२॥

विष्णुरेवाग्रणीस्तेषां भविष्यति महाबलः ।
दिवं च वसुधां चैव भोक्ष्यामः सह शत्रुभिः॥१३॥

विष्णुरिति। आराधितो विष्णुरेवास्माकम् अग्रणीर्योगमार्गे ततो भविष्यति तावता च दिवं वसुधां च भोक्ष्यामः शत्रुभिः कामादिभिः सहस्थिताः अपि सत्यसङ्कल्पाः सत्यकामाश्च भविष्याम इत्यर्थः॥१३॥

समूलपत्रशाखाश्च सपुष्पाः फलशालिनः ।
सर्वे ग्रहांश्च गृह्णीमः सुधां च वसुधातले॥१४॥

मूलं पित्रादयः। पत्रं भार्यादयः। शाखाः भ्रात्रादयः। पुष्पादिकम् अपत्यादि। तैः सहिताः सर्वे ग्रहान् ऐकात्म्यग्रहं सुधां मोक्षं च गृह्णीमः। वसुधातले इत्यनेन गत्यपेक्षतां वारयति। अत्रैवेत्यर्थः। तथा च श्रुतिः- “न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन् ब्रह्माप्येति” इति॥१४॥

उद्दृत्य गिरिपादेभ्यो गन्धमादनसानुजान् ।
प्रभाष्य वचनं दैत्या मन्दरस्य प्रकम्पने॥१५॥

देवाः मन्दरस्य प्रकम्पने वचनं वचः प्रभाष्य सङ्केतं कृत्वा गिरिपादेभ्यः गन्धमादनसानुजान् उद्धृत्येति योजना। गुरुशिष्यसङ्केतपूर्वकं देहस्य प्रविलापने विषये उपदेशं प्राप्य ब्रह्माण्डान्तर्गततत्तद्विषयेषु निमग्रा वासनाश्चोद्धृत्य॥१५॥

समुद्धर्तुं प्रधावन्तः कम्पयन्ति स्म मेदिणीम् ।
निश्चयेन महावीर्या बाहुभिः परिणाहिभिः॥१६॥

समुद्धर्तुं मन्दररूपं देहमुन्मूलयितुं परिणाहिभिर्विशालैर्बाहुभिरिव बाहुभिः प्राणायामाद्यैः प्रभावन्तो मेदिनीं कृत्स्नं ब्रह्माण्डं कम्पयन्ति तदपि प्रविलापयितुं यतन्ते इत्यर्थः। कथापक्षे ऋजुरेवार्थः॥१६॥

न शक्नुस्ते समुद्धर्तुं शैलेन्द्रं दनुवंशजाः ।
निपेतुर्जानुभिर्घृष्टा विपुले पर्वतान्तरे॥१७॥

न शक्नुः न शेकुः। प्रथमप्रयोगे हतोद्यमा बभूवुरित्यर्थः॥१७॥

समाधायात्मनात्मानं तपसा दग्धकिल्बिषाः ।
पितामहं प्रपद्यन्ते शिरोभिः कामरूपिभिः॥१८॥

समाधायेति। पितामहम् ईश्वरं शिरोभिः प्रपद्यन्ते शरणं गताम् इत्यर्थः। कामरूपिभिर्दिव्यैः। तथा च योगिनः ईश्वरं प्रणिधानफलमामनन्ति। ततः प्रत्यक्चेतनाधिगमोत्तरायाभावश्चेति॥१८॥

तेषां मनोऽभिलषितं ब्रह्मा सर्वत्रगो वशी ।
ज्ञात्वा बहिविधैर्वाक्यैर्व्याजहार सरस्वतीम्॥१९॥

तेषामिति युग्मम्। अशरीरां सरस्वतीं प्रणवरूपां न तु देवतां शरीरस्थोऽन्तर्यामी परया वैखर्यादित्रिकात् परया निर्गुणया सह बहुविधैः “ओमित्येतदक्षरमिदं सर्वम्” इत्याद्यैकात्म्यप्रतिपादकैर्वाक्यैर्व्याजहार उपदिदेश॥१९॥

अशरीरां शरीरस्थः परया वर्णसम्पदा ।
सर्वलोकमतिर्ब्रह्मा लोकानां हितकाम्यया॥२०॥

आदित्यैर्वसुभिश्चैव रुद्रैश्च समरुद्ग्णैः ।
देवैर्यक्षैः सगन्धर्वैः किन्नरैश्च प्रगायिभिः॥२१॥

व्याहृतमेवाह- आदित्यैरिति त्रिभिः। आदित्याद्यैः प्राणाद्यभिमानिभिः॥२१॥

समेत्य सहितैः सर्वैः शक्य उद्धरितुं गिरिः ।
अमृतार्थे महातेजा धातुभिः समरञ्जितः॥२२॥

समेत्य मनसि एकीभावं प्राप्य गिरिः शरीराख्य उद्धरितुम् उद्धर्तुं मूलत उच्छेत्तुं शक्यः धातुभिर्वातादिभिः समं सर्वत्र रञ्जितः॥२२॥

सुरासुरगणाः सर्वे समुत्पाट्य महागिरिम् ।
हस्तारूढाः प्रपश्यन्ति वीरुधो हिमवद्रसम्॥२३॥

ते सुरासुरगणाः सर्वे मनुष्यादयोऽपि गिरिं समुत्पाठ्यहिमवतो रसं सारं देहिनां भोग्यं श्रेयस्तेनाभिमतं वीरुधो वीरुद्रूपेण वासनासन्ततिरूपेण पश्यन्ति देहासङ्गशून्याः हार्दाकाशे। कीदृश्यो वीरुधः? हस्तारूढाः करतलामलकवदित्यर्थः॥२३॥

एतच्छ्रुत्वा च वचनं सर्वेषामन्तिके तदा ।
दैतेया बाहुबलिनो मनोभिर्वाग्भिरेव च॥२४॥

एतदिति- दैतेया अप्येतच्छ्रुत्वा श्रुतार्थानुष्ठाने प्रवृत्ता इति भावः॥२४॥

विक्रीडभूता बहुधा बभूवुर्लवणाम्भसः ।
यत्र पुष्करविन्यस्तः सहितैर्देवदानवैः॥२५॥

तथाभूताश्च ये यत्र भूघ्राणमध्यादौ चक्रे पुष्करस्य कृत्स्नकार्यस्य विन्यस्तं विन्यासोऽवस्थानं तत्रस्थस्य लवणाम्भस आक्रीडभूता बभुवुः। वैराग्याभावात् पूर्वोक्तैर्विघ्नैरभिभूतत्वात् सलिलेन इतस्ततो दोलायमाना बभूवुरित्यर्थः॥२५॥

सुरासुरगणाः सर्वे सहिता लवणाम्बसः ।
मन्दरं पुष्करं कृत्वा नेत्रं वासुकिमेव च॥२६॥

सुरासुरेति। लवणाम्भसः जलम् अमृतं समपद्यत इति द्वयोर्योजना। सहिताः भूत्वेति शेषः। पुष्करं सनालविलसत्कमलसादृश्यान्मन्थनदण्डः। पुष्करं तत्स्थाने देहं कृत्वा मनःसमुद्रे वासनौषधीः संहृत्य तत्र तं देहं निक्षिप्य वासुकिं सर्पाकारां कुण्डलिनीं नेत्रं योगमार्गनयनक्षमं सहायं कृत्वा कण्डलिनीमूलं बन्धेनोद्बोध्येत्यर्थः॥२६॥

समाः सहस्रं मथितं जलमौषधिभिः सह ।
क्षीरभूतं समायोगादमृतं समपद्यत॥२७॥

एतावत्कृत्वाऽपि सहस्रं समा इत्यनेकजन्मसाध्यत्वं मथनस्य दर्शितम्। अथ वासुकिवत् श्वेतं शुद्धसत्त्वमयं धर्मं वा सहायं कृत्वा मथितं जलं मनः क्षीरीभूतं विशुद्धसत्त्वमयं भूतं सत् मायाया ऐकात्म्यवृत्तेर्योगादमृतं शुद्धचिन्मयमुक्तरूपं बभूवेत्यर्थः॥२७॥

तज्जह्रुरसुराः पूर्वमाक्रान्ता लोभमन्युना ।
तदा पश्चाज्जह्रुर्देवाः कामतेजोबलान्विताः ।
धन्वन्तरिस्तदा मद्यं श्रीर्देवी कौस्तुभो मणिः॥२८॥

तदित्यर्द्धम्। असुरा योगोपसर्गाः। जितोपसर्गस्य षट् योगसिद्धयो भवन्तीत्याह- धन्वन्तरिरिति। अत्र धन्वन्तरिशब्देन “लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं स्वरसौष्ठवं च” इति स्मृतिप्रसिद्धा लघुत्वा‌द्यो लक्ष्यन्ते। मद्यशब्देन मधुमत्यादयो योगिचित्तोन्मादका भूमयो योगशास्त्रप्रसिद्धा लक्ष्यन्ते। श्रीर्देवीतिऋगादिरूपवेदविद्यास्फूर्तिर्लक्ष्यते। कौस्तुभवद्देहस्य भास्वरत्वम्॥२८॥

शशाङ्को विमलश्चापि समुत्तस्थुः समन्ततः ।
उच्चैःश्रवा हयो रम्यः पीयुषं तदनन्तरम्॥२९॥

शशाङ्कवदद्वेष्टृत्वादिगुणैरितराह्लादकत्वम्। उच्चैःश्रव इति दूरश्रवणं दूरे दर्शनादिमत्त्वं च लक्ष्यते। पारिजातादिनाऽप्यन्यत्र दृष्टेन शुभगन्धादिमत्त्वं द्रष्टव्यम्। तेषामनन्तरं पीयूषं निर्विशेषकैवल्यम्। एतेषु मद्यमसुरान् प्रति गतम्। अन्यत्सुरान् प्रतीति पुराणान्तरात् द्रष्टव्यम्॥२९॥

पश्चाद्देवास्तदा दातुमुद्यता राहुमब्रुवन् ।
न तु केचित्पिबन्ति स्म दैत्या नैव च दानवाः॥३०॥

अथ राहोराख्यायिकामुखेन कपटविद्यार्थिनो विनाशमाह- पश्चादिति। कथापक्षे तु स्पष्ट एवार्थः। राहुमब्रुवन् राहुमुद्दिश्य परस्परं विचारितवन्तः। न त्विति। अयं तु पिबतीति भावः॥३०॥

चिच्छेदाथ हरिः सङ्ख्ये राहोश्चक्रेण कं तदा ।
अनिर्मुक्तं पितृगणैर्मुनिभिश्च सनातनैः॥३१॥

राहोः कं शिर इत्यर्थः। अनिमुक्त इति सार्धश्लोक एकं वाक्यम्॥३१॥

तदिन्द्रहस्तादमृतं जहार पृथिवी स्वयम् ।
जगामाङ्कगता देवी ब्रह्मवाक्यप्रचोदिता॥३२॥

तदिति। तदमृतं ज्ञानं पितृभिर्देवैर्मुनिभिश्चकारादन्यैश्च गन्धर्वादिभिरधिकारिभिः अनिर्मुक्तं नित्यसेवितम् इन्द्रहस्तात्प्रतर्दनादिशिष्योपशिष्यपरम्परया पृथिवी जहार। पृथिव्यां मानुषा अपि तत्तद्ग्रहणेऽधिकारिण इत्यर्थः। अङ्कगता शिष्यत्वं प्राप्ता ब्रह्मवाक्यं वेदवाक्यं तत्त्वमस्यादि तेन चोदिता प्रबोधिता॥३२॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे त्रिंशोऽध्यायः॥३०॥
हिरण्यकशिपो राजसूयवर्णनम्

जनमेजय उवाच। निहते दैत्यसङ्घाते विष्णोश्चातिपराक्रमे ।
दैतेया दानवेयाश्च किमिच्छन्ति पराक्रमात्॥१॥

पञ्चविंशे कूटशिष्योऽप्येति कालेन साधुताम्। इति तद्दर्शयन्नाह हिरण्यकशिपोः क्रतुम्॥ लक्ष्मीवान्माद्यतीत्यस्य वित्तं हरति केशवः। दययैवेति वक्तुं च तद्विभ्रंशोऽपि वर्ण्यते॥ निहत इति। मोक्षान्निरस्ता दैत्याः किं चक्रुरिति प्रश्नस्य राज्यं चक्रुरित्युक्ते तेषां पुनर्मोक्षोऽस्ति न वेत्ति पृष्टे उत्तरं तेषामपि योगोऽस्तीति॥१॥

वैशम्पायन उवाच। दानवा राज्यमिच्छन्ति पराक्रम्य महाबलाः ।
तप इच्छन्ति सहिता देवाः सत्यपराक्रमाः॥२॥

जनमेजय उवाच। कथं कालस्य महतो हिरण्यकशिपुस्तदा ।
यजते ब्रह्मणः क्षेत्रे प्राप्तैश्वर्यः स कामदः॥३॥

ब्रह्मक्षेत्रं भूघ्राणमध्यं तदेव गङ्गायमुनयोर्मध्यम्॥३॥

वैशम्पायन उवाच यजेद्बहुसुवर्णेन राजसूयेन पार्थिवः ।
क्रतुना दानवश्रेष्ठो वसुधायां महाफलः॥४॥

गङ्गायमुनयोर्मध्ये यदभूद्विपुलं तपः ।
समेयुस्तत्र सहिता यजमाने महासुरे॥५॥

ब्राह्मणा वेदविद्वांसो महाव्रतपरायणाः ।
यतयश्चापरे सिद्धा योगधर्मेण भारत॥६॥

मुनयो वालखिल्याश्च धन्या धर्मेण शोभिताः ।
बहवो हि द्विजा मुख्या नित्या धर्मपरायणाः॥७॥

ऋषयश्च महाभागा विप्रैः पूज्याः सहस्रशः ।
विपुलैरत्र विभवैर्ह्रियमाणैस्ततस्ततः॥८॥

शुक्रस्तु सह पुत्रेण दैत्यं याजयते प्रभुः ।
हिरण्यकशिपुं मध्ये गणानां प्रभवः प्रभुः॥९॥

हिरण्यकशिपुश्चैव व्याजहार सरस्वतीम् ।
कामाद्वरं ददातीति तद्वै सम्प्रतिपद्यताम्॥१०॥

हिरण्यकाशिपुरिति। आख्यायिकाया अविवक्षितत्वात्तेन शब्देन बलिरेव ग्राह्यः। तस्य हि “यस्यानुग्रहमिच्छामि तस्य वित्तं हराम्यहम्।” इति प्रतिजानता हरिणा कृपया ऐश्वर्यभ्रंशः कृतः सः अर्थ एवात्र विवक्षितः। तामसैरप्याराधित ईश्वरः कालेनैश्वर्यपाशं छिनत्तीति हरिभक्त्युत्कर्षः प्रदृश्यते। व्याजहार वामनं प्रतीत्यपकृष्यते॥१०॥

विष्णुर्वामनरूपेन भिक्षां तां प्रतिगृह्णति ।
हिरण्यकशिपोर्हस्ताद्द्वे पदे पदमेव च॥११॥

प्रतिगृह्णति प्रतिगृह्णाति, द्वे पदे पदं चेति त्रीणि पदानि॥११॥

ततः क्रमितुमारेभे विष्णुः सत्यपराक्रमः ।
त्रीँल्लोकान्मुनिभिः क्रान्तैर्दिव्यं वपुरधारयन्॥१२॥

मुनिभिः प्रार्थ्यानिति शेषः। क्रान्तैः क्रमणैः प‌दविन्यासैः क्रमितुमारेमे क्रान्तवानित्यर्थः॥१२॥

हृतराज्याश्च दैतेयाः पातालविवरं ययुः ।
ससैन्यगणसम्बद्धाः सप्रासाः सासितोमराः॥१३॥

एवमैश्वर्यमदे विष्णुना नाशिते दरिद्रस्य इतरे मदाः स्वयमेव नष्टा भवन्ति। ततो बलिम् ऐन्द्रे पदे तुरीयतुरीये प्रत्यगात्मनि कालान्तरे देवा अभ्यषिञ्चन् इत्याख्यायिकामनुसृत्य दर्शयति- हृतराज्येत्यादिना॥१३॥

सयन्त्रलगुडाश्चैव सपाताकारथध्वजाः ।
सचर्मवर्मकोशाश्च सायुधाः सपरश्वधाः॥१४॥

तथेन्द्रविष्णुसहिताः सद्यस्तेऽभ्युत्थिता गणाः ।
अभ्यषिञ्चन्प्रमुदिता लोकानामधिपे सुराः॥१५॥

लोकानामधिपे आधिपत्ये सुराः देवाः। बलिमिति शेषः॥१५॥

स तान् स्वधामृतेनाशु पितृत्वे समतर्पयत् ।
ब्रह्मा तदमृतं दिव्यं महेन्द्राय प्रयच्छति ।
अक्षयश्चाव्ययश्चैव संवृतस्तेन कर्मणा॥१६॥

स बलिः तान् सुरान् ब्रह्मा वेदस्तदमृतं बलिना दत्तं हविः तेन बलिकृतेन संवृत इन्द्रः। सार्द्धश्लोकः॥१६॥

ततः शङ्खमुपाध्मासीद्द्विषतां लोमहर्षणम् ।
पितामहकरोद्भूतं जनितृप्रथमे पदे॥१७॥

सत्यसङ्कल्पेन ब्रह्मविदा बलिना ब्रह्मबुद्ध्या भाविता देवादयस्तादृशा एव भवन्तीति ब्रह्मावित्सर्वोपकारीति तत इत्यादिश्लोकद्वयार्थः॥१७॥

तं श्रुत्वा शङ्खशब्दं तु त्रयो लोकाः समाहिताः ।
निवृत्तिं परमां प्राप्ता इन्द्रं नाथमवाप्य च॥१८॥

सर्वैः प्रहरणैश्चैव संयुक्ता वह्निसम्भवैः ।
मन्दराग्रेषु विहितैर्ज्वलद्भिरिव पावकैः॥१९॥

सर्वैरिति। प्रकर्षेण हरन्ति विषयान् प्रति इति प्रहरणानि इन्द्रियाणि। वह्निसम्भवैर्ब्रह्मतः उत्पन्नैश्चिन्मयैरित्यर्थः। मन्द्राग्रे देहशैलस्याग्रे स्थितैः संयुक्ताः त्रयो लोकाः परां निर्वृतिं सुखं प्राप्ता इति पूर्वेणान्वयः॥१९॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे एकत्रिंशोऽध्यायः॥३१॥
दक्षयज्ञविनाशः

वैशम्पायन उवाच। ततो महति वृत्तान्ते स्थिते राज्ये महोदये ।
देवतानां मनुष्याणां सहवासोऽभवत्तदा॥१॥

षड्विंशे द्रोहिणं दक्षं शम्भुर्दण्डेन सत्पथे। न्यवेशयत्कियन्तस्तु बलौ भक्तेऽप्यनुग्रहः॥ ईश्वरद्रोहिणाप्येष कृतो धर्मो महाफलः। इति सन्दर्शयन्नाह षड्विंशे दक्षनिग्रहम्॥ तत इति। ततः सर्वेषां निवृत्तिप्राप्त्यनन्तरम्। देवा मनुष्याश्च ब्रह्मवित्त्वेन तारतम्याभावात्सहैव वासं चक्रुरित्यर्थः॥१॥

एकतः समधीयन्ति सहिताः प्ररुदन्ति च ।
स्वयं च भागं गृह्णन्ति यज्ञकर्मणि भारत॥२॥

समधीयन्ति आत्मचर्यां कुर्वन्ति प्ररुदन्ति च प्रेम्णा स्वयं देवाः भागं मनुष्यैर्दत्तम्॥२॥

प्राचेतसं ततो दक्षं दीक्षित्वा वै बृहस्पतिः ।
वाजिमेधाय भगवानृषिभिः परिवारितः॥३॥

एवं सर्वेषु विद्वत्सु सत्सु विद्वान् दक्षः प्रचेतसः पुत्रो बृहस्पतिनानुगृह्यते स्मेत्याह- प्राचेतसमिति॥३॥

तस्मिन्मातामहे यज्ञं दक्षस्याविदितात्मनः ।
शामित्रमकरोद्रुद्रो भागार्थे सह नन्दिना॥४॥

मातामहे मातामहीये। दक्षदुहितॄणामेव सर्वे लोकाः सन्तानम्, अतः सर्वेषां मातामहः। अविदितात्मनः शून्यस्य, शामित्रं दक्षस्यैव पशुभूतस्य हिंसनम्॥४॥

रुद्रस्यैव हि तद्रूपं द्विधाभूतं तदीप्सया ।
जातः परमधर्मात्मा नन्दी पुरुषविग्रहः॥५॥

तेन योगेन राजेन्द्र यत्तद्ब्रह्म सनातनम् ।
विहितं सत्यवचनैस्तेनैव परमात्मना॥६॥

सत्यवचनैर्वेदवाक्यैः विहितं प्रकाशितं तेनैव रुद्रेणैव॥६॥

स्वरूपैश्चाप्यरूपैश्च विरूपाक्षैर्घटोधरैः ।
ऊर्ध्वनेत्रैर्महाकायैर्विकटैर्वामनैतस्था॥७॥

शिखिभिर्जटिभिश्चैव त्र्यक्षैश्च शङ्कुकर्णिभिः ।
चीरिभिश्चर्मिभिश्चैव कूटमुद्गरपाणिभिः॥८॥

सघण्टाधारिभिश्चैव मुञ्जमेखलधारिभिः ।
सहस्तकटकैश्चैव स्वर्णकुण्डलधारिभिः॥९॥

सडिण्डिमैः सभेरीयैः समृदङ्गैः सवेणुभिः ।
एतैः परिवृतो देवो मखं तं समुपारुजत्॥१०॥

सशङ्खमुरजैश्चापि सतालफलपाणिभिः ।
उग्रायुधधरो देवः सपिनाक इवान्तकः॥११॥

सपिनाको देवः अन्तक इव उग्रायुधधरः सन् रराज॥११॥

विरराजार्चिभिर्दीप्तैर्मखे मखवतां वरः ।
कालाग्निरिव दीप्तार्चिर्जगद्दग्धुमिवोद्यतः॥१२॥

नन्दी पिनाकपाणिश्च जघ्नतुर्मखमुत्तमम् ।
युगान्त इव कालाग्निः क्षिप्रं दग्धुमिवोद्यतः॥१३॥

यूपमुत्क्षिप्य धावन्ति निशाचरगणास्तथा ।
त्रासयन्मुनिसङ्घांश्च चीरचर्मनिवासिनः॥१४॥

हवींष्यन्ये पिबन्त्येव जिह्वाभिस्ताम्रलोचनाः ।
भक्षयन्ति पशूनन्ये रसनान्तावलम्बिभिः॥१५॥

रसनान्तावलम्बिभिः रसनायाः अन्तं गजशुण्डावत् प्रान्तम् अबलम्बन्ते तादृग्रूपैः स्थितान् भक्षयन्ति॥१५॥

मुमुचुश्चापरे यूपान्पशवः प्रहरन्ति च ।
वह्निमध्ये प्रसिञ्चन्ति वारिभिः प्रशमाय च॥१६॥

मुमुचुः उच्चिक्षिपुः। पशवः पशून्॥१६॥

सोममन्ये जहुः केचिन्नेत्रैस्ताम्रजपोपमैः ।
दर्भान्केचिद्विलुम्पन्ति हस्तैः पद्मदलप्रभैः॥१७॥

बभञ्जिरे च यूपाग्रान्कलशांश्चापि चिक्षिपुः ।
चिच्छिदुः काञ्चनान्वृक्षाञ्छोभार्थमुपकल्पितान्॥१८॥

बिभिदुश्चैव बाणैस्ते मुमुचुश्च हिरण्मयान् ।
लुलुपुश्चैव पात्राणि ममन्थुश्चारणीमपि॥१९॥

अरुजंश्चैव प्राग्वंशं लुलुपुश्च समाहिताः ।
चखादिरे पुरोडाशान्नखाग्रैश्चाववर्तिरे॥२०॥

एवं दिवा च रात्रौ च भिद्यमानो महामखः ।
चुक्रोश च महानादान्भिद्यमान इवार्णवः॥२१॥

महामखो मूर्तो भूत्वा महानादांश्चुक्रोश॥२१॥

धनुः सशरमादाय पूर्वदत्तं स्वयम्भुवा ।
कृतं कीचकवेणुभ्यां समरे सुमहारथः॥२२॥

धनुरिति विगृह्य विनम्य जानुभ्यां स्थित इति शेषः॥२२॥

प्रतिगृह्य महादेवः स शरैः समयोजयत् ।
धनुर्विगृह्य जानुभ्यां जघान स महाक्रतुम्॥२३॥

स विद्धस्तेन बाणेन खं समुत्पतितः क्रतुः ।
मृगो भूत्वा नर्दमानो ब्रह्माणमुपधावति॥२४॥

शरेणाभिहतस्त्राणं न लेभे प्रशमं भुवि ।
शरणार्थी ह्ययं प्राप्तः शरेणान्तर्गतेन च॥२५॥

अन्तर्गतने शरेण तुद्यमानः॥२५॥

तमुवाच मृगं ब्रह्मा शुभं सानुनयं वचः ।
स्वरेणोत्तमवीर्येण गम्भीरेण सुभाषिणा ।
एवंरूपो नभसि त्वं भविष्यसि महामृगः॥२६॥

स मृगशीर्षसंज्ञं मृगरूपी यज्ञो सोमदैवत्यं नक्षत्रमभवदिति द्वाभ्यामाह- एवमिति॥२६॥

विजितश्च त्रिपर्वेण शरेणानतपर्वणा ।
तिष्ठन्नक्षत्रशिरसि सह रुद्रेण नित्यशः॥२७॥

सोमेन सह संयुक्तो ह्यक्षयेणाव्ययेन च ।
दिवि सञ्चारभूतो वै ताराभिः सह सङ्गतः॥२८॥

संसारभूतः प्राप्तसञ्चारः॥२८॥

ज्योतिर्भूतो ज्योतिषां त्वं ध्रुवश्चैव महाध्रुवः ।
यच्चैतद्रुधिरं दिव्यं क्षतजादभिनिःसृतम्॥२९॥

नभस्युत्पतितं चैव प्रवेगेन प्रधावतः ।
क्षतजं बहुवर्णं च क्षेत्रं मण्डलसंज्ञितम् ।
निमित्तभूतं भूतानां वर्षे वर्षप्रदं तथा॥३०॥

यच्चैतदित्यादिभिस्त्रिभिरिन्द्रधनुष उत्पत्तिमाह। वर्षे वर्षाकाले वर्षप्रदं वृष्टिप्रदाने चिह्नम् इन्द्रायुधम् इन्द्रधनुरिति लोके प्रसिद्धम्॥३०॥

सुखं दुःखं च भूतानां दर्शने सम्प्रवर्तते ।
इन्द्रियश्रवणाच्चैव नभसीन्द्रायुधोऽभवत्॥३१॥

चक्षुषी मानुषे राजन्विस्मयात्समवैक्षत ।
अद्भुतं बहुचित्रं च मनसा सम्प्रकल्पितम्॥३२॥

इन्द्रायुधमेव वर्णयति- चक्षषी इति त्रिभिः। मनुष्यस्येमे मानुषे अवैक्षत अवेक्षताम्। मनसा सम्प्रकल्पितमिति कृत्स्नस्यापि प्रस्तुतार्थस्य विशेषणम्॥३२॥

न तु रात्रौ प्रदृश्येत खे सब्रह्मणि संज्ञितम् ।
दिनस्यैव सदा त्वग्रे महत्कार्यं प्रदृश्यते॥३३॥

एतत्सर्वं स्वप्नवृत्तान्तवत्कथ्यमानं रात्रौ अविद्यायां देहादिष्वात्माभिमानरूपायां सत्यां न प्रदृश्यत इत्याह- न त्विति। अविद्यानिवृत्तौ तु हार्दाकाशे सब्रह्मणि शुद्धब्रह्मोपलब्धिस्थाने संज्ञितं वागालम्बनत्वेन विद्यमानम्। दिनस्यैवाग्रे अविद्यारात्रेरपगमे कार्यं सर्वं घटादिकं सदा अतीतानागतव्यवहिताद्यवस्थायामपि प्रकर्षेण शब्दानुमानजसामान्यावषियज्ञानात् प्रकर्षेण विशेषार्थस्वरूपेण दृश्यते। यतस्तत्कार्यं महदेव ब्रह्मैवास्ति। नहि ब्रह्मणोऽतीतादित्वं सम्भाव्यत इति हार्दाकाशाख्ये कार्यं दर्शनं युक्तमिति भावः॥३३॥

भूमावेव समुत्तिष्ठेदाकाशे तु विलीयते ।
शतशश्च समं सर्वे प्रधावन्ति प्रचेतसः॥३४॥

भूमाविति। इयमविद्यारात्रिः भूमौ शरीरे सत्येवोत्थिता न हि तद‌भावे सत्यासम्भवोऽस्ति रज्ज्वभावे इव सर्पस्य। देहाभावे तु आकाशे शून्ये लयिते कालत्रयेऽपि बाधिता भवतीत्यर्थः। यस्मादेवं तस्मात्प्रचेतसः सम्बन्धिनो दक्षाः शतशश्च समं सर्वात्मकं ब्रह्म देहात्मबुद्धिरूपाविद्यानाशमात्रेणाभिलक्षितं प्रति धावन्ति उपतिष्ठन्ति। शब्दाभिलप्यप्रपञ्चादनन्तगुणितः प्रपञ्चो हार्द्दे दृश्यत इत्यर्थः॥३४॥

भयाद्रुद्रस्य महतो धन्विनो बाणपाणयः ।
नन्दी रुद्रगणैः सार्धं पिनाकी समतिष्ठत ।
युगान्तकाले ज्वलितो ब्रह्मदण्ड इवोद्यतः॥३५॥

पूर्वश्लोकस्य उत्तरार्धमुपजीव्य कथामनुसरति- भयादित्यर्धेन॥३५॥

विष्णुसङ्ग्रामसम्भूतं प्रगृह्य विपुलं धनुः ।
प्रतिष्ठत महाबाहुः पाणिना चक्रमादधत्॥३६॥

गदां सघण्टामन्येन खड्गमन्येन पाणिना ।
प्रगृह्य सोऽग्रतोऽतिष्ठद्रुद्रायोद्यतपाणये॥३७॥

ततः शृङ्गाग्रसम्भूतं प्रगृह्य विपुलं धनुः ।
शङ्खं चाप्रतिमं लोके शरांश्चानतपर्वणः॥३८॥

शृङ्गाग्रसम्भूतं शाङ्गर्म्। धर्माधिष्ठात्री देवता महाविष्णुः ज्ञानाधिष्ठात्री देवता सदाशिवः, तयोः परस्परविरोधे आदित्यादयः विष्णुपक्षाः ज्ञानं द्विषन्ति। तथा च श्रुतिः “तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विदुः” इति। अक्षरयोजना स्पष्टा॥३८॥

विष्णुरग्रस्थितो भाति सबलः संहताञ्जलिः ।
बद्धगोधाङ्गुलित्राणः सचन्द्र इव तोयदः॥३९॥

आदित्या वसवश्चैव दिव्यैः प्रहरणैः सह ।
विष्णुमेवाभितः सर्वे तिष्ठन्ति ज्वलनप्रभाः॥४०॥

मरुतश्चैव विश्वे च रुद्रमेवाभिपेदिरे ।
गन्धर्वाः किन्नराश्चैव नागा यक्षाः सपन्नगाः॥४१॥

ऋषयो न्यस्तदण्डाश्च उभयोः पक्षयोर्हिताः ।
जपन्ति शान्तये नित्यं लोकानां हितकाम्यया॥४२॥

रुद्रः शरेणाभ्यहनद्विष्णुमेवाग्रणी रणे ।
हृदि सर्वाङ्गसन्धीषु तीक्ष्णाग्रेण सुयन्त्रिणा॥४३॥

रुद्र इति॥४३॥

न चकम्पे तदा विष्णुः सर्वात्मा ब्रह्मसम्भवः ।
न च रोषमना नित्यं वृतः सर्वैः षडिन्द्रियः॥४४॥

यतः सर्वात्मा अतो न चकम्पे॥४४॥

विष्णुश्च धनुरानम्य शरेण समयोजयत् ।
जत्रुदेशे मुमोचाशु ब्रह्मदण्डमिवोद्यतम्॥४५॥

उद्यतं शरम्॥४५॥

स विद्धस्तेन बाणेन महादेवो न कम्पते ।
वज्रेण च महासन्धिर्मन्दरस्य न चाल्यते॥४६॥

स विद्ध इति। वज्रेणेति व्यतिरेके दृष्टान्तः। यथा वज्रेण मन्दरस्य महासन्धिर्मर्मस्थानं चाल्यते, तेनैव बाणेन रुद्रः न कम्पते। चालनं दूरापेतमिति भावः॥४६॥

ततः प्रसभमाप्लुत्य रुद्रं विष्णुः सनातनम् ।
कण्टे जग्राह भगवान्नीलकण्टस्ततोऽभवत्॥४७॥

ततः रुद्रस्याकम्प्यत्वावगमानन्तरं, ततः यतो विष्णुः कृष्णवर्णः। महेशकण्ठे इद्रनीलमयग्रैवेयकवल्लग्नस्ततो हेतोर्नीलकण्ठोऽभवत्। इदमत्र आख्यायिकातात्पर्यम्- यद्यपि स्वोत्पत्तये ज्ञानस्य धर्मापेक्षाऽस्ति उत्पन्नं च ज्ञानं धर्मं मूलत उच्छिनत्ति, तथापि विदुष एव धर्माधिकारात् ज्ञानस्यैव कण्ठे शिशुरिव धर्मो लग्नोऽस्तीति॥४७॥

अनादिनिधनो देवो क्षमतां हि भवान्मम ।
सर्वभूतागमाचर्यमचलत्वाच्च कर्मणाम्॥४८॥

कथाप्रस‌ङ्गाद्विज्ञानमेव स्तौति- अनादीति। दीव्यति प्रकाशयत्यर्थजातमिति चिन्मात्ररूप आत्मा देवः स च अनादिनिधनः, न हि ज्ञानेन परिच्छेद्यं सर्वज्ञानस्य आद्यन्तौ प्रकाशयितुं क्षमते। कुतः कर्मणां कर्मोत्पादितानां महदादीनामचलत्वात् पर्वतवज्जडत्वात्। न हि जडेनाजडं प्रकाशयितुं शक्यं न तस्याद्यन्ताविति भावः। यतोऽहं सर्वेषां भूतानाम् आगमानामाचार्यं ग्राहकं गुरुम्, “ईशानः सर्वविद्यानाम्” इति श्रुतिप्रसिद्धं त्वां वेद्मि। अतो भवान् ममापराधं क्षमतामिति योजना॥४८॥

कर्मणां चैव कर्ता च विकर्ता चैव भारत ।
अशेषत्वाच्च भूतानां सर्वभूतेषु चोत्तमः॥४९॥

कर्मणां च कर्ता चिदात्मैव अहङ्कारादेः सत्ताप्रदत्वात्। विकर्ता विषमकर्ता अशेषत्वात् भूतानां दृश्यानामर्थानां शेषस्य शिष्यत इति शेषः कारणं तस्याज्ञानस्य कालत्रयेऽप्यभावात् सर्वेषु भूतेषु चराचरेषु उत्तमो जीवेशापेक्षया निरुपाधित्वादुत्कृष्टतमो भवानेवेति शेषः॥४९॥

स्वयमेव हि यत्कर्म विधत्ते कर्मयोनिषु ।
तयोः शुभतमो राजन्त्स्वयमेव तथाकरोत्॥५०॥

स्वयमिति। कर्मयोनिषु कर्मणा लब्धनानाविधशरीरेषु स्थितः अन्तर्यामिरूपेण स्वयमेव कर्म विधत्ते करोति प्रयोजकतयेति यत् तत् तयोः कर्तृकारयित्रोरन्यः शुभतमो यः शुद्धरूपः स एव तथा नियमं पूर्वोक्तम् अकरोत्। निर्विशेषचिन्मात्रे एव जीवेशादिकं कल्पितमिति भावः॥५०॥

अन्तरिक्षाच्छुभा वाचः श्रूयन्ते परमाद्भुताः ।
सिद्धानां वदनोन्मुक्ताः सनातन नमोऽस्तु ते॥५१॥

कथामनुसृत्योक्तमर्थं स्तौति- अन्तरिक्षादिति॥५१॥

नन्दी पिनाकमुद्यम्य बलवान्रुद्रसम्भवः ।
मूर्द्धन्यभिजघानाजौ विष्णुं क्रोधेन मूर्छितः॥५२॥

ततः प्रहसितो विष्णुर्नन्दीं दृष्ट्वा सुरोत्तमः ।
स्तम्भयामास भगवान्सर्वभूतपतिर्हरिः॥५३॥

विष्णुर्ब्रह्मसमो भूत्वा तेजसा प्रज्वलन्निव ।
क्षमया च समायुक्तः स्थितः स्थाणुरिवाचलः॥५४॥

विष्णुरिति। विष्णुः परमो धर्मो योगाख्यः क्षुद्रज्ञानैरप्रकम्प्यः स ब्रह्मसमो ज्ञानेन समानो भूत्वा। “एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति।” इति भगवदुक्तेः। परमपुरुषार्थप्रदो भूत्वा तेजसः स्वरूपप्रकाशने क्षमया मोक्षमय्या मोक्षाख्यशान्त्या च समायुक्तः स्थाणुत्वादिविशेषवानभूदिति शेषः। सार्धश्लोको वाक्यम्॥५४॥

अचिन्त्यश्चाप्रमेयश्च ह्यजेयश्चाप्यरिन्दमः ।
युगान्ताग्निसमो भूत्वा शान्तात्मा हरिरव्ययः॥५५॥

किं कृत्वा एवंविधोऽभूत्तदाह- युगान्तेति। सकार्यामविद्यां भस्मसात्कृत्वा स्वतः शान्तात्माऽव्ययः हरिः कर्मपाशहरश्च सन्नित्यर्थः॥५५॥

प्रसन्नः कल्पयामास भागं रुद्राय धीमते ।
विष्णुर्धर्मपरो नित्यं त्यक्तकामः सुरोत्तमः॥५६॥

नन्वेवं योगेनैवेष्टसिद्धौ किं ज्ञानेनेत्याशङ्क्याह- प्रसन्न इति। रोदयतीति रुत् अज्ञानं सर्वानर्थमूलं द्रावयतीति रुद्रः ऐकात्म्यबोधः तस्य भागो द्वैतबोधः योगेनात्मदर्शनज्ञानेनात्मबोधश्चेति तयोर्विषयविभाग इति भावः॥५६॥

विष्णुना चैव राजेन्द्र स यज्ञः सन्धितः पुनः ।
यथापक्षं च ते सर्वे गणास्त्वासन्महीपते ।
तस्मिन्युद्धे महाघोरे विष्णू रुद्रस्य चैव ह॥५७॥

विष्णुनेति। स रुद्रविद्रावितोऽनात्मज्ञस्य दक्षस्य यज्ञः विष्णुना श्रद्धामयेन सत्त्वेन॥५७॥

यथापक्षं भवेद्युद्धं दक्षयज्ञविनाशने ।
विनाशश्चैव यज्ञस्य तदा लोके प्रतिष्ठितः॥५८॥

यथेति। एवं साङ्ख्ययोगयोः श्रवणासनादिसहाययोः मिथोः विरोधे सत्यपि यज्ञविनाशो ज्ञानस्यैवाभिप्रेत उत्कर्षोऽभूदिति श्लोकद्वयार्थः॥५८॥

सर्वभूतेषु राजेन्द्र हितो यज्ञः सनातनः ।
दक्षो यज्ञफलं चैव प्राप्तवान्स प्रजापतिः॥५९॥

यद्यप्येवं तथापि ज्ञाने सन्निपत्योपकारित्वाद्यज्ञ एव हित इत्याह- सर्वेति। अन्यथा द्वारलोपात् ज्ञानमपि न सिध्येदिति भावः। तथानात्मनो दक्षोऽपि विष्ण्वनुग्रहादेव यज्ञफलपरम्परया तत्त्वज्ञानं प्राप्येत्याह- दक्ष इति। दक्षः प्रजापतिरिति समानाधिकरणे प्रथमे॥५९॥

इमां चोदाहृतां दिव्यां कथामिति स बुद्धिमान् ।
श्रावयेद्यस्तु विप्रेभ्यः शुचिः प्रयतमानसः॥६०॥

यश्चैष इत्यर्थः। शेषः स्पष्टार्थः॥६०॥

अधीत्य सर्वमध्यात्मं देवलोके महीयते ।
एष पौष्करको नाम प्रादुर्भावो महात्मनः॥६१॥

अधीत्येति। इदं सर्वकथाछलेनोक्तं सर्वमपि अध्यात्मानमधिकृत्यैव प्रवृत्तं शास्त्रं वृथावादरूपम्। अधीत्य अर्थतः पाठतश्च देवलोके आत्मस्वरूपे महीयते सुप्रतिष्ठितो भवति कृतकृत्यो भवतीत्यर्थः॥६१॥

पुराणे पौष्करे चैव मया द्वैपायनेरितः ।
यथावदनुपूर्वेण संस्कृतः परमर्षिभिः॥६२॥

यश्चैनमग्र्यं पुरुषं पुराणं सदाप्रमत्तः शृणुयाद्यथोक्तम् ।
अवाप्य कामानिह वीतशोकः परत्र च स्वर्गफलानि भुङ्क्ते॥६३॥

यश्चैनमित्यादि। शेषः स्पष्टार्थः॥ परैरदर्शितः पन्थाः पौर्वापर्येक्षया मया। यथाकथञ्चिदुन्नीतः सुधियः शोधयन्तु तम्॥६३॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौष्करे द्वात्रिंशोऽध्यायः॥३२॥
वराहप्रादुर्भाववर्णनम्

जनमेजय उवाच। प्रादुर्भावः पुराणेषु विष्णोरमिततेजसः ।
सतां कथयतां विप्र वाराह इति नः श्रुतः॥१॥

प्रादुर्भाव इति। अध्यात्मविद्यां समाप्य तत्तद्विघ्नविनाशाय ईश्वरः शरणीकरणीय इति विदधानस्तस्य रक्षोघ्नत्वे भक्तानुग्राहकत्वमाविष्करोति- प्रादुर्भाव इति त्रयेण। वराहादिप्रदुर्भावे प्रायेण विष्णोर्व्यापकस्यापि वह्नेरिव काष्ठेषु लोके प्रादुर्भावः सतां विदुषां वाराहः प्रथम इति शेषः॥१॥

न जानतेऽस्य चरितं न विधिं नैव विस्तरम् ।
न कर्म गुणवद्भावं न हेतुं न मनीषितम्॥२॥

चरितं कार्यं विधिं प्रवर्तकं हेतुं कारणं कर्मणां लीलानां गुणवद्भावं लोकोपकारित्वं लक्षणं गुणवत्त्वम्॥२॥

किमात्मको वराहोऽसौ का मूर्तिः कास्य देवता ।
किमाचारः किं प्रभावः किं वा तेन पुरा कृतम्॥३॥

किमात्मकः किं यज्ञमयो योगमयो वा का मूर्तिः शरीरं भौतिकं मायिकं वा अस्य वराहस्याधिष्ठात्री देवता किं हरिर्हरो वा। आचारप्रभावौ पूर्वं निषेधमुखेन पृष्टाविति पुनः प्रष्टुमनूद्यते॥३॥

एतन्मे संशयत्वेन वाराहं श्रुतिविस्तरम् ।
यज्ञार्थं च समेतानां द्विजातीनां महात्मनाम्॥४॥

द्विजातीनां च श्रुतिविस्तरं कथाविस्तरमित्यावर्तते॥४॥

वैशम्पायन उवाच। एतत्ते कथयिष्यामि पुराणं ब्रह्मसंमितम् ।
नानाश्रुतिसमायुक्तं कृष्णद्वैपायनेरितम् ।
महावराहचरितं कृष्णस्याद्भुतकर्मणः॥५॥

यथा नारायणो राजन्वाराहं वपुरास्थितः ।
दंष्ट्रया गां समुद्रस्थामुज्जहारारिसूदनः॥६॥

चरितं तावत्संक्षेपेणाह- दंष्ट्रयेति॥६॥

छान्दसीभिरुदाराभिः श्रुतिभिः समलङ्कृतः ।
शुचिः प्रयत्नवान्भूत्वा निबोध जनमेजय॥७॥

श्रुतिभिः, “यस्य रूपं बिभ्रदिमामविन्दद्गुहां प्रविष्टां शरीरस्य मध्ये” इति आधाने वराहसम्भारेण विनियुक्तान्मन्त्रतस्तावत्प्रतीयते। यस्य वराहस्य रूपं बिभ्रदीश्वरः इमां पृथिवीं गुहां गूढस्थाने सलिलस्य मध्ये प्रविष्टाम् अविन्दत् लब्धवानित्यर्थः। कैर्वेदैः॥७॥

इदं पुराणं परमं पुण्यं वेदैश्च संमितम् ।
नानाश्रुतिसमायुक्तं नास्तिकाय न कीर्तयेत्॥८॥

पुराणमेतदखिलं साङ्ख्यं योगं तथैव च ।
कार्त्स्न्येन विधिना प्रोक्तं योऽस्यार्थं ज्ञास्यते पुमान्॥९॥

पुराणमिति। अत्रैव उक्तवक्ष्यमाणरीत्या साङ्ख्ययोगयोरन्तर्भावोऽस्ति कार्त्स्न्येन। तच्च विद्वत्तमैकोन्नेयम्। इतरे तु कथाप्रलापमात्रोपजीविनः पाण्डिताः पशव इति भावः॥९॥

विश्वेदेवास्तथा साध्या रुद्रादित्यास्तथाश्विनौ ।
प्रजानां पतयश्चैव सप्त चैव महर्षयः॥१०॥

किमात्मक इत्यस्योत्तरं विश्वात्मकोऽसावित्याह- विश्वेदेवा इत्यादिना॥१०॥

मनःसङ्कल्पजाश्चैव पूर्वजाश्च महर्षयः ।
वसवोऽप्सरसश्चैव गन्धर्वा यक्षराक्षसाः॥११॥

दैत्याः पिशाचा नागाश्च भूतानि विविधानि च ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा म्लेच्छादयो भुवि॥१२॥

चतुष्पदानि सर्वाणि तिर्यग्योनिगतानि च ।
जङ्गमानि च सत्त्वानि यच्चान्यज्जीवसंज्ञितम्॥१३॥

पूर्णे युगसहस्रान्ते ब्राह्मेऽहनि तथागते ।
निर्वाणे सर्वभूतानां सर्वोत्पातसमुद्भवे॥१४॥

अस्य रूपस्य सूर्यवदस्तोदयावाह- पूर्णे युगेत्यादिना यावदध्यायसमाप्ति। निर्वाणे अदर्शने उत्पाताः वज्रपातनेत्रस्फुरणभूकम्पादयः॥१४॥

हिरण्यरेतास्त्रिशिकस्ततो भूत्वा वृषाकपिः ।
शिखाभिर्विविधाँल्लोकान्त्संशोषयति देहिनः॥१५॥

त्रिशिखः अग्निवायुसूर्यरूपास्तिस्त्रः शिखा यस्य स तेजोधातुर्हिरण्यगर्भः वृषाकपिः हरिहरात्मा। वर्षतीति वृषा कं जलं पिबतीति कपिः वर्षणशोषणयोः कर्तेति वा॥१५॥

दह्यमानास्ततस्तस्य तेजोराशिभिरग्रतः ।
विवर्णवर्णा दग्धाङ्गा हतार्चिष्मद्भिराननैः॥१६॥

हतार्चिरिति सन्धिरार्षः॥१६॥

साङ्गोपनिषदा वेदा इतिहासपुरोगमाः ।
सर्वविद्याश्रायश्चैव सत्यधर्मपरायणाः॥१७॥

ब्रह्माणमग्रतः कृत्वा छन्दतो विश्वतोमुखम् ।
सर्वे देवगणाश्चैव त्रयस्त्रिंशच्च कोटयः॥१८॥

छन्दतः ईश्वरस्य इच्छातः छन्दजा इति पाठे तदिच्छातो जाताः॥१८॥

तस्मिन्नहनि सम्प्राप्ते तं हंसं महदक्षरम् ।
प्रविशन्ति महायोगं हरिं नारायणं प्रभुम्॥१९॥

अह‌नि क्षयावसरे॥१९॥

तेषां भूयः प्रविष्टानां निधनोत्पत्तिरुच्यते ।
यथा सूर्यस्य सततमुदयास्तमयाविह॥२०॥

तेषामिति। यथा प्रदेशान्तरस्थो भानुरस्माभिरदृश्यमानोऽस्तं गत इत्युच्यते। एवं ब्रह्मदिनान्ते नारायणे लीनं जगन्नष्टमित्युच्यते। उपरिस्थैः मार्कण्डेयादीनां लयकाले तदुदरे तद्दर्शनादिति भावः॥२०॥

पूर्णे युगसहस्रान्ते कल्पो निःशेष उच्यते ।
तस्मिञ्जीवकृतं सर्वं निःशेषमवतिष्ठते॥२१॥

निःशेषप्रलयहेतूनां वाय्वादीनामप्यभावात् अवतिष्ठते भोगं न प्रयच्छति॥२१॥

संहृत्य लोकान्सर्वान्स सदेवासुरपन्नगान् ।
कृत्वात्मगर्भे भगवानास्त एको जगद्गुरुः॥२२॥

यः स्रष्ठा सर्वभूतानां कल्पान्तेषु पुनः पुनः ।
अव्यक्तः शाश्वतो देवस्तस्य सर्वमिदं जगत्॥२३॥

तस्य सृज्यमिति शेषः॥२३॥

नष्टार्ककिरणे लोके चन्द्ररश्मिविवर्जिते ।
त्यक्तभूताग्निपवने क्षीणयज्ञवषट्क्रिये॥२४॥

अपक्षिगणसङ्घाते सर्वप्राण्यचरे पथि ।
अमर्यादाकुले रौद्रे सर्वतस्तमसा वृते॥२५॥

सर्वप्राणिनामचरे सञ्चारहीने॥२५॥

अदृश्ये सर्वलोकेऽस्मिन्नभावे सर्वकर्मणाम् ।
प्रशान्ते सर्वसम्पाते नष्टे वैरपरिग्रहे॥२६॥

सम्पाते शेषे॥२६॥

गते स्वभावसंस्थानं लोके नारायणात्मके ।
परमेष्ठी हृषीकेशः शयनायोपचक्रमे॥२७॥

पीतवासा लोहिताक्षः कृष्णो जीमूतसन्निभः ।
शिखासहस्रविकचं जटाभारं समुद्वहन्॥२८॥

श्रीवत्सकलिलं पुण्यं रक्तचन्दनभूषितम् ।
वक्षो बिभ्रन्महाबाहुः सविद्युदिव तोयदः॥२९॥

पुण्डरीकसहस्रस्य मालास्य शुशुभे तदा ।
पत्नी चैव स्वयं लक्ष्मीर्देहमावृत्य तिष्ठति॥३०॥

ततः स्वपिति धर्मात्मा सर्वलोकपितामहः ।
किमप्यमितविक्रान्तो निद्रायोगमुपागतः॥३१॥

ततो वर्षसहस्रे तु पूर्णे स पुरुषोत्तमः ।
स्वयमेव विभुर्भूत्वा बुध्यते विबुधाधिपः॥३२॥

ततश्चिन्तयते भूयः सृष्टिं लोकस्य लोककृत् ।
पितृदेवासुरनरान्पारमेष्ठ्येन कर्मणा॥३३॥

ततश्चिन्तयतः कार्यं देवेषु समितिञ्जयः ।
सम्भवं सर्वलोकस्य विदधाति स वाक्पतिः॥३४॥

कर्ता चैव विकर्ता च संहर्ता च प्रजापतिः ।
धाता विधाता च तथा संयमो नियमो यमः॥३५॥

कर्ता भूतानां, विकर्ता भौतिकानां विधिरूपेण स्त्राष्टा, धाता साधारणं कालादिरूपं विधाता विशेषकारणकर्मरूपाणाम्॥३५॥

नारायणपरा देवा नारायणपराः क्रियाः ।
नारायणपरो यज्ञो नारायणपरा श्रुतिः॥३६॥

नारायणपरो मोक्षो नारायणपरा गतिः ।
नारायणपरो धर्मो नारायणपरं क्रतुः॥३७॥

नारायणपरं ज्ञानं नारायणपरं तपः ।
नारायणपरं सत्यं नारायणपरं पदम् ।
नारायणपरो देवो न भूतो न भविष्यति॥३८॥

परं चैतन्यज्योतिः॥३८॥

स्वयम्भूरिति विज्ञेयः स ब्रह्मा भुवनाधिपः ।
स वायुरिति विज्ञेय एष यज्ञः सनातनः॥३९॥

सदसच्च स विज्ञेयः स यज्ञः स प्रजाकरः ।
यद्वेदितव्यं त्रिदशैस्तदेष परिविन्दति॥४०॥

त्रिदशैरिन्द्रियैर्यत्प्रकाश्यं तदनेनैव प्रकाश्यते अनेन यत्प्रकाश्यं स्वरूपं तदिन्द्रियाणि न गोचरयन्तीत्यर्थः॥४०॥

यच्च वेद्यं भगवतो देवा अपि न तद्विदुः ।
प्रजानां पतयः सप्त ऋषयश्च सहामरैः॥४१॥

नास्यान्तमधिगच्छन्ति ततोऽनन्त इति श्रुतिः ।
यदस्य परमं रूपं तत्र पश्यन्ति देवताः॥४२॥

प्रादुर्भावेषु सम्भूतं यत्तदर्चन्ति देवताः ।
यन्न दर्शितवान्देवः कस्तदन्वेष्टुमर्हति॥४३॥

ग्रामणीः सर्वभूतानामग्निमारुतयोर्गतिः ।
तेजसस्तपसश्चैव निधानममृतस्य च॥४४॥

अग्निमारुतयोर्जाठरप्राणयोः गतिः गतिहेतुः॥४४॥

चतुराश्रमवर्णेषु चतुर्होत्रफलाशनः ।
चतुःसागरपर्यन्तश्चतुर्युगविवर्तकः॥४५॥

तदेष संहृत्य जगत्कृत्वा गर्भस्थमात्मनः ।
मुमोचाण्डं महायोगी धृतं वर्षसहस्रिकम्॥४६॥

संसारमुपसंहृत्य सृष्टिं स्पष्टयति- मुमोचेति॥४६॥

सुरासुरद्विजभुजगाप्सरोगणैर्महौषधिक्षितिधरयक्षगुह्यकैः ।
प्रजापतिः श्रुतिधररक्षसां कुलं तदासृजज्जगदिदमात्मना प्रभुः॥४७॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वाराहे प्रादुर्भावे त्रयस्त्रिंशोऽध्यायः॥३३॥
वराहकृतो धरोद्धारः

वैशम्पायन उवाच। जगदण्डमिदं पूर्वमासीत्सर्वं हिरण्मयम् ।
प्रजापतेर्मूर्तिमयमित्येवं वैदिकी श्रुतिः॥१॥

सूत्रितमर्थं विवृणोति- जगदिति द्वादशभिः। प्रजापतः समष्टिजीवस्य मूर्तिमयशरीररूपम् अण्डम्॥१॥

ततो वर्षसहस्रान्ते बिभेदोर्ध्वमुखं विभुः ।
लोकसञ्जननार्थाय बिभेदाधोमुखं पुनः॥२॥

ऊर्ध्वमुखं बिभेद ब्रह्मरन्ध्रद्वारा ततः पूर्वमुत्पन्नमिति। एकः पुनःशब्दो वाक्यालङ्कारे। पुनरन्यच्छिद्रमपि तत्र च जनयामास इत्यर्थः॥२॥

भूयोऽष्टधा बिभेदाण्डं प्रभुर्वै लोकयोनिकृत् ।
चकार जगतश्चात्र विभागं सर्वभागवित्॥३॥

अष्टधेति। वाक्पाणिपादाख्यच्छिद्रत्रयं, श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यं छिद्रपञ्चकम्। उपस्थस्य त्वपान एवान्तर्भावः॥३॥

यच्छिद्रमूर्ध्वमाकाशं परा सुकृतिनां गतिः ।
विहितं विश्वयोगेन यदधस्तद्रसातलम्॥४॥

एतेषां विभागमेवाह- यदिति। परा गतिर्ब्रह्मलोकप्रापिका यद‌धोद्वारद्वयं तद्रसायाः भूमेस्तलं नरकं तत्प्रापकम्॥४॥

यदण्डमकरोत्पूर्वं देवलोकसिसृक्षया ।
समन्तादष्टधा यानि च्छिद्राणि कृतवांस्तु सः॥५॥

यदण्डं शरीरमकरोत् दिवो व्याकृतात् कारणात् तत्रैव च यानि च्छिद्राणि तानि॥५॥

विदिशस्ता दिशः सर्वा मनसैवाकरोद्द्विधा ।
नानारागविरागाणि यान्यण्डशकलानि वै॥६॥

सर्वा विदिशः दिशन्ति स्वं विषयं ग्राहयन्तीति दिशः इन्द्रियाणि च तानि च मनसैवोपाधिनाऽकरोद्रूपादिदिदृक्षुरसृजत्। द्विधेति स्थूलसूक्ष्मविषयभेदात्॥६॥

बहुवर्णधराश्चित्रा बभूवुस्ते बलाहकाः ।
यदण्डमध्ये स्कन्नं तदृतमासीत्समाहितम्॥७॥

जातरूपं तदभवत्तत्सर्वं पृथिवीतले ।
तस्य क्लेदार्णवौघेन प्राच्छाद्यत समन्ततः॥८॥

द्रवं गर्भोदकाद‌न्यदण्डप्रस्वेदरूपं तस्य द्रवस्य क्लेदार्णवौघेन आर्द्रोदभारेण प्राच्छाद्यत प्रच्छन्ना॥८॥

पृथिवी निखिला राजन्युगान्ते सागरैरिव॥९॥

यच्चाण्डमकरोत्पूर्वं देवलोकचिकीर्षया ।
तत्र तत्सलिलं स्कन्नं सोऽभवत्काञ्चनो गिरिः॥१०॥

तस्यैव द्रवस्य वा कार्यमाह- यच्चेति॥१०॥

तेनाम्भसा प्लुताः सर्वा दिशश्चोपदिशस्तथा ।
अन्तरिक्षं च नाकं च यच्चान्यत्किञ्चिदन्तरम्॥११॥

यत्र यत्र जलं स्कन्नं तत्र तत्र स्थितो गिरिः ।
शैलः समस्तैर्गहना विषमा मेदिनी भवत्॥१२॥

तैः सपर्वतजालौघैर्बहुयोजनविस्तृतैः ।
पीडिता गुरुभिर्देवी पृथिवी व्यथिताभवत्॥१३॥

एवं सृष्टिमुक्त्वा वाराहावतारबीजमाह- तैरिति। अयमर्थः- ब्रह्माण्डमुत्पाद्य तद्गर्भोदके समुद्ररूपे यो मण्डः क्षरतुल्यः सा पृथिवी। “तद्यदपां शर आसीत् समहन्यत सा पृथिव्यभवत्” इति श्रुतेः। तस्यां यदण्डस्वेदोदकं पतितं तन्मेर्वादिरूपमभूत्तस्य भारेण पृथिवी निममज्जेति॥१३॥

महीतले भूरि जलं दिव्यं नारायणात्मकम् ।
हिरण्मयं समुद्दिष्टं तेजो विमलरूपितम्॥१४॥

महीतले मह्या अधस्तात् हिरण्मयं स्वच्छम्॥१४॥

अशक्ता वै धारयितुमधः सा प्रविवेश ह ।
पीड्यमाना भगवतस्तेजसा तेन सा क्षितिः॥१५॥

तेन द्रवणेन पर्वतादिना॥१५॥

पृथिवीं विशतीं दृष्ट्वा तामधो मधुसूदनः ।
उद्धारार्थं मनश्चक्रे लोकानां हितकाम्यया॥१६॥

श्रीभगवानुवाच। मत्तेज एव बलवत्समासाद्य तपस्विनी ।
रसातलं विशेद्देवी पङ्के गौरिव दुर्बला॥१७॥

धरण्युवाच। त्रिविक्रमायामितविक्रमाय महानृसिंहाय चतुर्भुजाय ।
श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुशोत्तमाय॥१८॥

त्वयाऽऽत्मना धार्यते वै त्वया संह्रियते जगत् ।
त्वं धारयसि भूतानां भुवनं त्वं बिभर्षि च॥१९॥

यत्त्वया धार्यते किञ्चित्तेजसा च बलेन च ।
ततस्तव प्रसादेन मया पश्चात्तु धार्यते॥२०॥

त्वया धृतं धारयामि नाधृतं धारयाम्यहम् ।
न हि तद्विद्यते रूपं यत्त्वया न तु धार्यते॥२१॥

त्वमेव पुरुषो वीर नारायण युगे युगे ।
मम भारावतरणं जगतो हितकाम्यया॥२२॥

तवैव तेजसाक्रान्तां रसातलतलं गताम् ।
त्रायस्व मां सुरश्रेष्ठ त्वामेव शरणं गताम्॥२३॥

रसातलस्यापि तलम् अधोभागः॥२३॥

दानवैः पीड्यमानाहं राक्षसैश्च दुरात्मभिः ।
त्वामेव शरणं नित्यमुपयामि सनातनम्॥२४॥

तावन्मेऽस्ति भयं भूयो यावन्न त्वां ककुद्मिनम् ।
शरणं यामि मनसा शतशोऽप्युपलक्षये॥२५॥

श्रीभगवानुवाच। मा भैर्धरणि कल्पाणि शान्तिं व्रज समाहिता ।
एष त्वामुचितं स्थानमानयामि मनीषितम्॥२६॥

वैशम्पायन उवाच। ततो महात्मा मनसा दिव्यं रूपमचिन्तयत् ।
किं नु रूपमहं कृत्वा उद्धरामि वसुन्धराम्॥२७॥

जले निमग्नां धरणीं येनाहं वै समुद्धरे ।
इत्येवं चिन्तयित्वा तु देवस्तत्करणे मतिम्॥२८॥

ककुद्मिनं महास्कन्धवृषोपमम्॥२८॥

जलक्रीडारुचिस्तस्माद्वाराहं रूपमस्मरत् ।
हरिरुद्धरणे युक्तस्तदाभूदस्य भूमिभृत्॥२९॥

अधृष्यं सर्वभूतानां वाङ्मयं ब्रह्मसंमितम् ।
दशयोजनविस्तारमुच्छ्रितं शतयोजनम्॥३०॥

नीलमेघप्रतीकाशं मेघस्तनितनिःस्वनम् ।
महागिरेः संहननं श्वेतदीप्तोग्रदांष्ट्रिणम्॥३१॥

विद्युदग्निप्रतीकाशमादित्यसमतेजसम् ।
पीनवृत्तायतस्कन्धं दृप्तशार्दूलगामिनम्॥३२॥

पीनोन्नतकटीदेशं वृषलक्षणपूजितम् ।
रूपमास्थाय विपुलं वाराहममितं हरिः॥३३॥

पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ।
वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः॥३४॥

वेदपाद इत्यादिना यज्ञाख्यां तदधिष्ठात्रीं देवतामाह॥३४॥

अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ।
अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः॥३५॥

ब्रह्मशीर्षः प्रणवशिराः वेदाङ्गश्रुतिभूषणः षडङ्गकुण्डलः॥३५॥

आज्यनासः स्रुवातुण्डः सामघोषस्वरो महान् ।
सत्यधर्ममयः श्रीमन्क्रमविक्रमसत्कृतः॥३६॥

क्रियासत्रमहाघोणः पशुजानुर्मखाकृतिः ।
उद्गात्रान्वो महालिङ्गो बीजौषधिमहाफलः॥३७॥

क्रियामयानि सत्राणि गवामयनादीनि घ्राणो नासिका यस्य उद्गातैव आन्त्राणि यस्य॥३७॥

वाय्वन्तरात्मा मन्त्रस्पृग्विक्रमः सोमशोणितः ।
वेदीस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान्॥३८॥

प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरर्चितः ।
दक्षिणाहृदयो योगी महासत्रमयो महान्॥३९॥

उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः ।
नानाछन्दोगतिपथो गुह्योपनिषदासनः॥४०॥

उपाकर्म स्मार्तं वेदोपकरणं तदेव ओष्ठस्य रुचकं भूषणं यस्य। आवर्तो नाभिः॥४०॥

छायापत्नीसहायो वै मणिशृङ्गः इवोच्छ्रितः ।
भूत्वा यज्ञवराहोऽसौ युगपत्प्राविशद्गुरुः॥४१॥

अद्भिः सञ्छादितामुर्वीं स तामार्च्छत्प्रजापतिः ।
रसातलतले मग्नां पातालान्तरसंश्रयाम्॥४२॥

प्रभुर्लोकहितार्थाय दंष्ट्राग्रेणोज्जहार गाम् ।
ततः स्वस्थानमानीय पृथिवीं पृथिवीधरः॥४३॥

मुमोच पूर्वं सहसा धारयित्वा धराधरः ।
ततो जगाम निर्वाणं मेदिनी तस्य धारणात्॥४४॥

चकार च नमस्कारं तस्मै देवाय शम्भवे ।
एवं यज्ञवराहेण भूत्वा भूतहितार्थिना॥४५॥

उद्धृता पृथिवी देवी लोकानां हितकाम्यया ।
अथोद्धृत्य क्षितिं देवो जगतः स्थापनेच्छया॥४६॥

पृथिवीप्रविभागाय मनश्चक्रेऽम्बुजेक्षणः ।
रसातलगतामेवं विचिन्त्य स सुरोत्तमः॥४७॥

ततो विभुः प्रवरवराहरूपधृग्वृषाकपिः प्रसभमथैकदंष्ट्रया ।
समुद्धरद्धरणिमतुल्यविक्रमो महायशाः सकलहितार्थमच्युतः॥४८॥

समुद्धरत् समुद्दधार॥४८॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वाराहे पृथिव्युद्धरणे चतुस्त्रिंशोऽध्यायः॥३४॥
महीवर्णनम्

वैशम्पायन उवाच। तस्योपरि जलौघस्य महती नौरिव स्थिता ।
विततत्वात्तु देहस्य न ययौ सम्प्लवं मही॥१॥

तस्येति। तस्य सम्प्लवं मज्जनम्॥१॥

ततः स चिन्तयामास प्रविभागं क्षितेर्विभुः ।
समुच्छ्रयं च सर्वेषां पर्वतानां नदीषु च॥२॥

विलेखनं प्रमाणं च गतिं प्रस्रवमेव च ।
माहात्म्यं च विशेषं च नदीनामन्वचिन्तयत्॥३॥

विलेखनं मार्गज्ञापनं लेखारूपेण प्रमाणं योजनतः गतिं प्राङ्मुखादिमाहात्म्यं पावनत्वं विशेषं फलतारतम्यम्॥३॥

चतुरन्तां धरां कृत्वा तथा चैव महार्णवम् ।
मध्ये पृथिव्याः सौवर्णमकरोन्मेरुपर्वतम्॥४॥

चतुरन्तां चतुर्दलपद्माकाराम्। भरताः केतुमालाश्च भद्राश्वाः कुरवस्तथा। पत्राणि भूमिपद्मस्य मर्यादा शैलबाह्यतः॥ इति पुराणान्तरोक्तेः॥४॥

प्राचीं दिशमथो गत्वा चकारोदयपर्वतम् ।
शतयोजनविस्तारं सहस्रं च समुच्छ्रयम्॥५॥

जातरूपमयैः शृङ्गैस्तरुणादित्यसन्निभैः ।
आत्मतेजोगुणमयैर्वेदिकाभोगकल्पितम्॥६॥

विविधांश्च महास्कन्धान्काञ्चनान्पुष्करेक्षणः ।
नित्यपुष्पफलान्वृक्षान्कृतवांस्तत्र पर्वते॥७॥

शतयोजनविस्तारं ततस्त्रिगुणमायतम् ।
चकार स महादेवः पुनः सौमनसं गिरिम्॥८॥

नानारत्नसहस्राणां कृत्वा तत्र सुसञ्चयम् ।
वेदिकां बहुवर्णां च सन्ध्याभ्राभामकल्पयत्॥९॥

सहस्रशृङ्गं च गिरिं नानामणिशिलातलम् ।
कृतवान्वृक्षगहनं षष्टियोजनमुच्छ्रितम्॥१०॥

आसनं तत्र परमं सर्वभूतनमस्कृतम् ।
कृतवानात्मनः स्थानं विश्वकर्मा प्रजापतिः॥११॥

शिशिरं च महाशैलं तुषारचयसन्निभम् ।
चकार दुर्गगहनं कन्दरान्तरमण्डितम्॥१२॥

शिशिरप्रभवां चैव नदीं द्विजगणायुताम् ।
चकार पुलिनोपेतां वसुधारामिति श्रुतिः॥१३॥

सा नदी निखिलां प्राचीं पुण्यां मुखशतैश्चिताम् ।
शोभयत्यमृतप्रख्यैर्मुक्ताशङ्खविभूषितैः॥१४॥

नित्यपुषफलोपेतैश्छादयद्भिः सुसंवृतैः ।
भूषिताभ्यधिकैः कान्तैः सा नदी तीरजैर्द्रुमैः॥१५॥

कृत्वा प्राचीविभागं च दक्षिणायामथो दिशि ।
चकार पर्वतं दिव्यं सर्वकाञ्चनराजतम्॥१६॥

एकतः सूर्यसङ्काशमेकतः शशिसन्निभम् ।
स बिभ्रच्छुशुभेऽतीव द्वौ वर्णौ पर्वतोत्तमः॥१७॥

तेजसा युगपद्व्याप्तं सूर्याचन्द्रमसाविव ।
वपुष्मन्तमथो तत्र भानुमन्तं महागिरिम्॥१८॥

सर्वकामफलैर्वृक्षैर्वृतं रम्यैर्मनोरमैः ।
चकार कुञ्जरं चैव कुञ्जरप्रतिमाकृतिम्॥१९॥

सर्वतः काञ्चनगुहं बहुयोजनविस्तृतम् ।
ऋषभप्रतिमं चैव ऋषभं नाम पर्वतम्॥२०॥

हेमकाञ्चनवृक्षाढ्यं पुष्पहासं स सृष्टवान् ।
महेन्द्रमथ शैलेन्द्रं शतयोजनमुच्छ्रितम्॥२१॥

जातरूपमयैः शृङ्गैः सपुष्पितमहाद्रुमम् ।
मेदिन्यां कृतवान्देवः प्रतिक्षोभमिवाचलम्॥२२॥

नानारत्नसमाकीर्णं सूर्येन्दुसदृशप्रभम् ।
चकार मलयं चाद्रिं चित्रपुष्पितपादपम्॥२३॥

मैनाकं च महाशैलं शिलाजालसमावृतम् ।
दक्षिणस्यां दिशि शुभं चकाराचलमायतम्॥२४॥

सहस्रशिरसं विन्ध्यं नानाद्रुमलताकुलम् ।
नदीं च विपुलावर्तां पुलिनश्रोणिभूषिताम्॥२५॥

क्षीरसङ्काशसलिलां पयोधारामिति श्रुतिः ।
सुरभ्यां तोयकलिलां विहितां दक्षिणां दिशम्॥२६॥

दिव्यां तीर्थशतोपेतां प्लावयन्तीं शुभाम्भसा ।
दिशं याम्यां प्रतिष्ठाप्य प्रतीचीं दिशमागमत्॥२७॥

अकरोत्तत्र शैलेन्द्रं शतयोजनमुच्छ्रितम् ।
शोभितं शिखरैरश्चित्रैः सुप्रवृद्धैर्हिरण्मयैः॥२८॥

अकरोदिति। शैलेन्द्रम् अस्ताचलमित्यर्थः॥२८॥

काञ्चनीभिः शिलाभिश्च गुहाभिश्च विभूषितम् ।
समाकुलं सूर्यनिभैः शालैस्तालैश्च भास्वरैः॥२९॥

शुशुभे जातरूपश्च श्रीमद्भिश्चित्रवेदिकैः ।
षष्टिं गिरिसहस्राणि तत्रासौ संन्यवेशयत्॥३०॥

मेरुप्रतिमरूपाणि वपुषा प्रभया सह ।
सहस्रजलधारं च पर्वतं मेरुसन्निभम्॥३१॥

पुण्यतीर्थगुणोपेतं भगवान्त्संन्यवेशयत् ।
षष्टियोजनविस्तारं तावदेव समुच्छ्रितम्॥३२॥

आत्मरूपोपमं तत्र वाराहं नाम नामतः ।
निवेशयामास गिरिं दिव्यं वैडूर्यपर्वतम्॥३३॥

राजताः काञ्चनाश्चैव यत्र दिव्याः शिलोच्चयाः ।
तत्रैव चक्रसदृशं चक्रवन्तं महाबलम्॥३४॥

सहस्रकूटं विपुलं भगवान्त्संन्यवेशयत् ।
शङ्खप्रतिमरूपं च राजतं पर्वतोत्तमम्॥३५॥

सितद्रुमसमाकीर्णं शङ्खं नाम न्यवेशयत् ।
सुवर्णं रत्नसम्भूतं पारिजातं महाद्रुमम्॥३६॥

महतः पर्वतस्याग्रे पुष्पहासं न्यवेशयत् ।
शुभामतिरसां चैव घृतधारामिति श्रुतिः॥३७॥

वराहः सरितं पुण्यां प्रतीच्यामकरोत्प्रभुः ।
प्रतीच्यां संविधिं कृत्वा पर्वतान्काञ्चनोज्ज्वलान्॥३८॥

गुणोत्तरानुत्तरस्यां संन्यवेशयदग्रतः ।
ततः सौम्यगिरिं सौम्यमन्तरिक्षप्रमाणतः॥३९॥

रुक्मधातुप्रतिच्छन्नमकरोद्भास्करोपमम् ।
स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते॥४०॥

स त्विति। विसूर्योऽपि रात्रावपि॥४०॥

तस्य लक्ष्म्याधिकं भाति तपसा रविणा यथा ।
सूक्ष्मलक्षणविज्ञेयस्तपतीव दिवाकरः॥४१॥

लक्ष्म्याधिकं चन्द्रमण्डलं यथा तपसा रविणा भाति एवं रविस्तेन पर्वतेनेत्यर्थः। अत एवाह्निमध्माह्नार्कसन्निधिस्थश्चन्द्र इव सूक्ष्मलक्षणो विज्ञेयः॥४१॥

सहस्रशिखरं चैव नानातीर्थसमाकुलम् ।
चकार रत्नसङ्कीर्णं भूयोऽस्तं नाम पर्वतम्॥४२॥

भूयोऽस्तं नामेति। भूयः पदात्पूर्वम् अकरोदित्यत्र स उक्त एवेत्यर्थः। अत्र पुनरुक्तिः पाश्चात्त्यजनाभिप्रायेण। पाश्चात्यानां हि दक्षिणस्यामुदयाचलः उत्तरस्यामस्ताचलः। एवं प्राच्यानाम् उत्तरे उदयाचलो दक्षिणतोऽस्ताचलः। तथा औदीच्यानां प्रतीच्याम् उदयः प्राच्यामस्त इति॥४२॥

मनोहरगुणोपेतं मन्दरं चाचलोत्तमम् ।
उद्दामपुष्पगन्धं च पर्वतं गन्धमादनम्॥४३॥

चकार तस्य शृङ्गेषु सुवर्णरससम्भवम् ।
जम्बूं जाम्बूनदमयीमनन्ताद्भुतदर्शनाम्॥४४॥

गिरिं च शिखरं चैव तथा पुष्करपर्वतम् ।
शुभ्रं पाण्डुरमेघाभं कैलासं च नगोत्तमम्॥४५॥

हिमवन्तं च शैलेन्द्रं दिव्यधातुविभूषितम् ।
निवेशयामास हरिर्वाराहीं तनुमास्थितः॥४६॥

नदीं सर्वगुणोपेतामुत्तरस्यां दिशि प्रभुः ।
मधुधारां स कृतवान्दिव्यामृषिशताकुलाम्॥४७॥

सर्वे चैव क्षितिधराः सपक्षाः कामरूपिणः ।
तदा कृता भगवता विचित्राः परमेष्ठिणा॥४८॥

स कृत्वा प्रविभागं तु पृथिव्या लोकभावनः ।
देवासुराणामुत्पत्तौ कृतवान्बुद्धिमक्षयाम्॥४९॥

सर्वासु दिक्षु क्षतजोपमाक्षश्चकार शैलान्विविधाभिधानान् ।
हिताय लोकस्य स लोकनाथः पुण्याश्च नद्यः सलिलोपगूढाः॥५०॥

॥इति श्रीमाहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वाराहे पञ्चत्रिंशोऽध्यायः॥३५॥
हिरण्यगर्भाद्युत्पत्तिकथनम्

वैशम्पायन उवाच। जगत्स्रष्टुमना देवश्चिन्तयामास पूर्वजः ।
तस्य चिन्तयतो वक्त्रान्निःसृतः पुरुषः किल॥१॥

जगदिति। जगदित्यादिना स्थावरजङ्गमसृष्टिमाह॥१॥

ततः स पुरुषो देवं किं करोमीत्युपस्थितः ।
प्रत्युवाच स्मितं कृत्वा देवदेवो जगत्पतिः॥२॥

विभजात्मानमित्युक्त्वा गतोऽन्तर्धानमीश्वरः ।
अन्तर्हितस्य देवस्य सशरीरस्य भारत॥३॥

प्राशान्तस्येव दीपस्य गतिस्तस्य न विद्यते ।
ततस्तेनेरितां वाणीं सोऽन्वचिन्तयत प्रभुः॥४॥

हिरण्यगर्भो भघवान्य एष च्छन्दसि श्रुतः ।
एष प्रजापतिः पूर्वमभवद्भुवनाधिपः॥५॥

तदा प्रभृति तस्याद्यो यज्ञभागो विधीयते ।
प्रजापतिरुवाच। विभजात्मानमित्युक्तास्तेनास्मि सुमहात्मना॥६॥

कथमात्मा विभज्यः स्यात्संशयो ह्यत्र मे महान् ।
इति चिन्तयतस्तस्य ओमित्येवोत्थितः स्वरः॥७॥

स भूमावन्तरिक्षे च नाके च कृतवांस्ततः ।
तं चैवाभ्यसतस्तस्य मनः सारमयः पुनः॥८॥

हृदयाद्देवदेवस्य वषट्कारः समुत्थितः ।
भूम्यन्तरिक्षकानां च भूर्भुवः सुवरात्मिकाः॥९॥

महास्मृतिमयाः पुण्या महाव्याहृतयोऽभवन् ।
छन्दसां प्रवरा देवी चतुर्विंशाक्षराऽभवत् ।
तत्पदं संस्मरन्दिव्यां सावित्रीमकरोत्प्रभुः॥१०॥

ऋक्सामाथर्वयजुषश्चतुरो भगवान्प्रभुः ।
चकार निखिलान्वेदान्ब्रह्मयुक्तेन कर्मणा॥११॥

ततस्तस्यैव मनसः सनः सनक एव च ।
सनातनश्च भगवान्वरदश्च सनन्दनः॥१२॥

सनत्कुमारश्च विभुस्तत्र जज्ञे सनातनः ।
मानसाश्चैव पूर्वाद्या इत्येते षण्महर्षयः॥१३॥

ब्रह्माणं कपिलं चैव षडेतांश्चैव योगिनः ।
यतयो योगतन्त्रेषु यान्स्तुवन्ति द्विजातयः॥१४॥

ततो मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम् ।
भृगुमङ्गिरसं चैव मनुं चैव प्रजापतिम्॥१५॥

पितॄंश्च सर्वभूतानां देवतासुररक्षसाम् ।
महर्षीनसृजच्छम्भुरष्टावेतांश्च मानसान्॥१६॥

एते युगसहस्रान्ते याश्चैषामभवन्प्रजाः ।
कल्पे निःशेषभुक्ते तु ततो गच्छन्ति निर्वृतिम्॥१७॥

भूयो वर्षसहस्रान्ते उत्पत्तिस्तु विधीयते ।
एतेषामेव देवानां प्रजाकर्तृषु वै तदा॥१८॥

किं तु कर्मविशेषेण देवतानां युगे युगे ।
नामजन्मविशेषाश्च तथैव युगपर्यये॥१९॥

अङ्गुष्ठाद्दक्षिणाद्दक्ष उत्पन्नो भगवानृषिः ।
तस्यैव तु पुनर्भार्या वामाङ्गुष्ठादजायत॥२०॥

तस्य तत्राभवन्कन्या विश्रुता लोकमातरः ।
याभिर्व्याप्तास्त्रयो लोकाः प्रजाभिर्मनुजाधिप॥२१॥

अदितिं च दितिं कालामनायुं सिंहिकां मुनिम् ।
प्राधां क्रोधां च सुरभिं विनतां सुरसां तथा॥२२॥

दनुं कद्रुं च दुहितॄः प्रददौ कश्यपाय तु ।
प्रजां सञ्चिन्त्य मनसा गतिज्ञेनान्तरात्मना॥२३॥

अरुन्धतीं वसुं यामीं लम्बां भानुं मरुत्वतीम् ।
सङ्कल्पां च मुहूर्तां च साध्यां विश्वां च भारत॥२४॥

मनवे ब्रह्मपुत्राय कन्या दक्षो ददौ दश ।
ततः सर्वानवद्याङ्ग्यः कन्याः कमललोचनाः॥२५॥

पूर्णचन्द्रानना दिव्या गन्धवत्यो मनोरमाः ।
कीर्तिं लक्ष्मीं धृतिं पुष्टिं बुद्धिं मेधां क्षमां तथा॥२६॥

मतिं लज्जां वसुं चैव दक्षो धर्माय वै ददौ ।
आत्रेयस्तु ततो भूतस्यस्य तोयात्मकः शशी॥२७॥

पुत्रो ग्रहाणामधिपः सहस्रांशुस्तमिस्रहा ।
तस्मै नक्षत्रयोगिन्यः सप्तविंशतिरुत्तमाः॥२८॥

रोहिणीप्रमुखाः कन्या दक्षः प्राचेतसो ददौ ।
एतासां पुत्रपौत्रं च प्रोच्यमानं मया शृणु॥२९॥

कश्यपस्य मनोश्चैव धर्मस्य शशिनस्तथा ।
अर्यमा वरुणो मित्रः पूषा धाता पुरन्दरः॥३०॥

त्वष्टा भगोऽंशुः सविता पर्जन्यश्चेति विश्रुताः ।
अदित्यां जज्ञिरे देवाः कश्यपाल्लोकभावनाः॥३१॥

दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ।
हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्यवान्॥३२॥

हिरण्यकशिपोः पुत्राः पञ्चैव सुमहाबलाः ।
प्रह्रादश्चैव संह्रादस्तथानुह्राद एव च॥३३॥

ह्रदश्चैव तु विक्रान्तः पञ्चमोऽनुह्रदस्तथा ।
प्रह्रादः पूर्वजस्तेषामनुह्रादस्तथा परः॥३४॥

प्रह्रादस्य त्रयः पुत्रा विक्रान्ताः सुमहाबलाः ।
विरोचनश्च जम्भश्च सुजम्भश्चेति विश्रुताः॥३५॥

बलिर्विरोचनसुतो बाण एको बलेः सुतः ।
बाणस्य चेन्द्रदमनः पुत्रः परपुरञ्जयः॥३६॥

दनोः पुत्रास्तु बहवो वंशो ख्याता महासुराः ।
विप्रचित्तिः प्रथमजस्तेषां राजा बभूव ह॥३७॥

गणः प्रजज्ञे क्रोधायाः पुत्रपौत्रमनन्तकम् ।
रौद्राः क्रोधवशा नाम क्रूरकर्माण एव च॥३८॥

सिंहिका सुषुवे राहुं ग्रहचन्द्रार्कमर्दनम् ।
ग्रस्तारं चैव चन्द्रस्य सूर्यस्य च विनाशनम्॥३९॥

कालायाः कालकल्पस्तु गणः परमदारुणः ।
अभवद्दीप्तसूर्याक्षो नीलमेघसमप्रभः॥४०॥

सहस्रशीर्षा शेषश्च वासुकिस्तक्षकस्तथा ।
बहूनां कद्रुपुत्राणामेते प्राधान्यमागताः॥४१॥

धर्मात्मानो वेदविदः सदा प्राणिहिते रताः ।
लोकतन्त्रधराश्चैव वरदाः कामरूपिणः॥४२॥

तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः ।
अरुणिश्चारुणिश्चैव विनतायाः सुताः स्मृताः ।
इमाश्चाप्सरसः पुण्या विविधाः पुण्यलक्षणाः॥४३॥

सुषुवेऽष्टौ महाभागा प्राधा देवर्षिपूजिता ।
अनवद्यामनूकां च अनूनामरुणप्रियाम् ।
अनूगां सुभगां भासीं स्त्रियः प्राधा व्यजायत॥४४॥

अलम्बुषा मिश्रकेशी पुण्डरीका तिलोत्तमा ।
सुरूपा लक्षणा क्षेमा तथा रम्भा मनोरमा॥४५॥

असिता च सुबाहुश्च सुवृत्ता सुमुखी तथा ।
सुप्रिया च सुगन्धा च सुरसा च प्रमाथिनी॥४६॥

काश्या शारद्वती चैव मौनेयाप्सरसः स्मृताः ।
विश्वावसुर्भरण्यश्च गन्धर्वाश्चैव विश्रुताः॥४७॥

मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ।
घृतस्थला घृताची च विश्वाची चोर्वशी तथा॥४८॥

अनुम्लोचेत्यभिख्याता प्रम्लोचेति च ता दश ।
मनोवती चापि तथा वैदिक्योऽप्सरसस्तथा॥४९॥

प्रजापतेस्तु सङ्कल्पात्सम्भूता भुवनप्रियाः ।
अमृतं ब्राह्मणा गावो रुद्राश्चेति चतुष्टयम्॥५०॥

सुरभ्यपत्यमित्येतत्पुराणे निश्चयो महान् ।
एतद्वै कश्यपापत्यं मनोर्वंशं निबोध मे॥५१॥

सङ्क्षेपेणैव तत्सर्वं कीर्तयिष्यामि तेऽनघ ।
विश्वेदेवास्तु विश्वायाः साध्या साध्यान्व्यजायत॥५२॥

मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः स्मृताः ।
भानोस्तु भानवस्तात मुहूर्ताश्च मुहूर्तजाः॥५३॥

लम्बा घोषं विजज्ञेऽथ नागवीथी च जामिजा ।
पृथिव्यां विषमं सर्वं मरुत्वत्यामजायत॥५४॥

सङ्कल्पायास्तु कौरव्य जज्ञे सङ्कल्प एव च ।
धर्मस्य पुत्रो लक्ष्म्यास्तु कामो जज्ञे जगत्प्रभुः॥५५॥

यशो हर्षश्च कामश्च रत्यां पुत्रद्वयं स्मृतम् ।
सोमस्य पुत्रो रोहिण्यां जज्ञे वर्चा महाप्रभः॥५६॥

उदयन्नेव भगवान्वर्चस्वी येन जायते ।
पुरूरवाश्च भगवानुर्वशी येन जायते॥५७॥

एवं पुत्रसहस्राणि स्त्रीणां चैव परस्परम् ।
एतावत्तु जगन्मूलं यत्र लोकाः प्रतिष्ठिताः॥५८॥

प्रजापतिस्तु भगवान्गुणतः प्रेक्ष्य देहिनः ।
आधिपत्येषु युक्तेषु नियोजयति योगवित्॥५९॥

दिशो दश क्षितिमृषयोऽर्णवान्नगान्द्रुमौषधीरुरगसरित्सुरासुरान् ।
प्रजापतिर्भुवनसृजो नभोभुवः क्रियामखानथ कृतवान्गिरींश्च सः॥६०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वाराहे जगत्सर्गे षट्त्रिंशोऽध्यायः॥३६॥
लोकानामाधिपत्यव्यवस्थापनम्

वैशम्पायन उवाच। त्रयानामपि लोकानामादित्यानां च भारत ।
चकार शक्रं राजानमादित्यसमतेजसम्॥१॥

स वज्री कवची विष्णुरदित्यामभिजज्ञिवान् ।
स्मृतेः सहायो द्युतिमान्यथा सोऽध्वर्युभिः स्तुतः॥२॥

जातमात्रोऽथ भगवान्त्स कुशैर्ब्राह्मणैर्धृतः ।
तदाप्रभृति देवेशः कौशिकत्वमुपागतः॥३॥

अभिषिच्याधिराज्ये तु सहस्राक्षं पुरन्दरम् ।
ब्रह्मा क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे॥४॥

यज्ञानां तपसां चैव ग्रहनक्षत्रयोस्तथा ।
द्विजानामौषधीनां तु सोमं राज्येऽभ्यषेचयत्॥५॥

दक्षं प्रजापतीनां तु अम्भसां वरुणं पतिम् ।
पितॄणां सर्वनिधनं कालं वैश्वानरं प्रभुम्॥६॥

गन्धानां चैव सर्वेषां भूतानां च शरीरिणाम् ।
शब्दाकाशबलानां च वायुरीशस्तदा कृतः॥७॥

सर्वभूतपिशाचानां मृत्यूनां च गवां तथा ।
उत्पातग्रहरोगाणां व्याधीनां तु तथैव च॥८॥

व्रतानां चैव सर्वेषां महादेवः कृतः प्रभुः ।
यक्षाणां राक्षसानां च गुह्यकानां धनस्य च॥९॥

रत्नानां चैव सर्वेषां कृतो वैश्रवणः प्रभुः ।
सर्वेषां दंष्ट्रिणां शेषो नागानामथा वसुकिः॥१०॥

सरीसृपाणां सर्वेषां प्रभुर्वै तक्षकः कृतः ।
सागराणां नदीनां च मेघानां वर्षणस्य च ।
आदित्यानामवरजः पर्जन्योऽधिपतिः कृतः॥११॥

गन्धर्वाणामधिपतिस्तथा चित्ररथः कृतः ।
सर्वाप्सरोगणानां च कामदेवः प्रभुः कृतः॥१२॥

चतुष्पदानां सर्वेषां वाहनानां च सर्वशः ।
महेश्वरध्वजः श्रीमान्गोवृषोऽधिपतिः कृतः॥१३॥

दैत्यानां च महातेजा हिरण्याक्षः प्रभुः कृतः ।
हिरण्यकशिपुश्चैव यौवराज्येऽभिषेचितः॥१४॥

गणानां कालकेयानां महाकालः प्रभुः कृतः ।
अनायुषायाः पुत्राणां वृत्रो राजा तदा कृतः॥१५॥

त्रयाणामिति। अनायुषायाः त्वष्टुर्भार्यायाः॥१५॥

सिंहिकातनयो यस्तु राहुर्नाम महासुरः ।
उत्पातानामनेकानामशुभानां प्रभुः कृतः॥१६॥

ऋतूनामथा सर्वेषां युगानां चैव भारत ।
पक्षाणां चैव मासानां तथैव तिथिपर्वाणाम्॥१७॥

कलाकाष्ठामुहूर्तानां गतेरयनयोस्तथा ।
कृतः संवत्सरो राजा योगस्य गणितस्य च॥१८॥

पाक्षिणां चैव सर्वेषां चक्षुषां च महाबलः ।
सुपर्णो भोगिनां चैव गरुडोऽधिपतिः कृतः॥१९॥

चक्षुषां चक्षुष्मतां दूरदर्शनसमर्थानामित्यर्थः॥१९॥

अरुणो गरुडभ्राता जपापुष्पचयप्रभः ।
योगानां चैव सर्वेषां साध्यानामधिपः कृतः॥२०॥

पुत्रोऽस्य विरथो नाम कश्यपस्य प्रजापतेः ।
राजा प्राच्यां दिशि तथा वासवेनाधिपः कृतः॥२१॥

आदित्यस्य विभोः पुत्रो धर्मराजो महायशाः ।
दक्षिणस्यां दिशि यमो महेन्द्रेणैव सत्कृतः॥२२॥

कश्यपस्यौरसः पुत्र सलिलान्तर्गतः सदा ।
अम्बुराज्य इति ख्यातः प्रतीच्यां दिशि पार्थिवः॥२३॥

पुलस्त्यपुत्रो द्युतिमान्महेन्द्रप्रतिमः प्रभुः ।
एकाक्षः पिङ्गलो नाम सौम्यायां दिशि पार्थिवः॥२४॥

एवं विभज्य राज्यानि स्वयम्भूर्लोकभावनः ।
लोकांश्च त्रिदिवे दिव्यानददत्स पृथक्पृथक्॥२५॥

कस्यचित्सूर्यसङ्काशान्कस्यचिद्वह्निसन्निभान् ।
कस्यचित्सुष्ठु विद्योतान्कस्यचिच्चन्द्रनिर्मलान्॥२६॥

नानावर्णान्कामगमाननेकशतशो जनान् ।
स तान्सुकृतिनां लोकान्पापदुष्कृतिदुर्लभान्॥२७॥

येषां भासो विभान्त्यग्रे सौम्यास्तारागणा इव ।
एते सुकृतिनां लोका ये जताः पुण्यकर्मिणः॥२८॥

ये यजन्ति मखैः पुण्यैः समाप्तवरदक्षिणैः ।
स्वदारनिरताः शान्ता ऋजवः सत्यवादिनः॥२९॥

दीनानुग्रहकर्तारो ब्रह्मण्या लोभवर्जिताः ।
सन्त्यक्तरजसः सन्तो यान्ति तत्र तपोऽमलाः॥३०॥

एवं नियुज्य तनयान्त्स्वयं लोकपितामहः ।
पुष्करं ब्रह्मसदनमारुरोह प्रजापतिः॥३१॥

सर्वे स्वयम्भुदत्तेषु पालनेषु दिवौकसः ।
रेमिरे स्वेषु लोकेषु महेन्द्रेणाभिपालिताः॥३२॥

स्वयम्भुवा शक्रपुरःसराः सुराः कृता यथार्हं प्रतिपालनेषु ते ।
यशो दिवं च प्रतिपेदिरे शुभं मुदं च जग्मुर्मखभागभोजिनः॥३३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वाराहेऽधिपतिस्थापने सप्तत्रिंशोऽध्यायः॥३७॥
देवासुरयुद्धोद्योगः तद्युद्धवर्णनं च

वैशम्पायन उवाच। कदाचित्तु सपक्षास्ते पर्वता धरणीधराः ।
प्रस्थिता धरणीं त्यक्त्वा नूनं तस्यैव मायया॥१॥

एवमाधिपत्यस्थापनानन्तरं यदूवृत्तं तदाह- कदाचित्त्विति। असुराणां सपक्षाः मित्राणि॥१॥

तदासुराणां निलयं हिरण्याक्षेण पालितम् ।
दिशं प्रतीचीमागत्य हृदेऽमज्जन्यथा गजाः॥२॥

तत्रासुरेभ्यः शंसन्त आधिपत्यं सुराश्रयम् ।
तच्छ्रुत्वाथासुराः सर्वे चक्रुरुद्योगमुत्तमम्॥३॥

सुराश्रयं कनिष्ठाः सुरा अधिपत्यं कुर्वन्ति यस्य ज्येष्ठा अपि अनीश्वरा इति शशंसुरित्यर्थः। सर्वे हिरण्याक्षादयः॥३॥

क्रूरां च बुद्धिमतुलां पृथिवीहरणे रताः ।
आयुधानि च सर्वाणि जगृहुर्भीमविक्रमाः॥४॥

चक्राशनींस्तस्था खड्गान्भुशुण्डीश्च धनूंषि च ।
प्रासान्पाशांश्च शक्तीश्च मुसलानि गदांस्तथा॥५॥

केचित्कवचिनः सज्जा मत्तनागांस्तथा परे ।
केचिदश्वरथान्युक्ता अपरेऽश्वान्महासुराः॥६॥

केचिदुष्ट्रांस्तथा खड्गान्महिषान्गर्दभानपि ।
स्वबाहुबलमास्थाय केचिच्चापि पदातयः॥७॥

परिवार्य हिरण्याक्षं तलबद्धाः कलापिनः ।
इतश्चेतश्च निश्चेरुर्हृष्टाः सर्वे युयुत्सवः॥८॥

ततो देवगणाः पश्चात्पुरन्दरपुरोगमाः ।
दैत्यानां विदितोद्योगाश्चक्रुरुद्योगमुत्तमम्॥९॥

महता चतुरङ्गेण बलेन सुसमाहिताः ।
बद्धगोधाङ्गुलित्राणास्तूणवन्तः समार्गणाः॥१०॥

उग्रायुधधरा देवाः स्वेष्वनीकेष्ववास्थिताः ।
ऐरावतगतं शक्रमन्वगच्छन्त पृष्ठतः॥११॥

ततस्तूर्यनिनादेन भेरीणां च महास्वनैः ।
अभ्यद्रवद्धिरण्याक्षो देवराजं पुरन्दरम्॥१२॥

तीक्ष्णः परशुनिस्त्रिंशैर्गदातोमरशक्तिभिः ।
मुसलैः पट्टिशैश्चैव च्छदयामास वासवम्॥१३॥

ततोऽस्त्रबलवेगेन सार्चिष्मत्यः सुदारुणाः ।
घोररूपा महावेगा निपेतुर्बाणवृष्टयः॥१४॥

शिष्टाश्च दैत्या बलिनः सितधारैः परश्वधैः ।
परिघैरायसैः खड्गैः क्षेपणीयैश्च मुद्गरैः॥१५॥

गण्डशैलैश्च विविधैः रश्मिभिश्चाद्रिसन्निभैः ।
घातनीभिश्च गुर्वीभिः शतघ्नीभिस्तथैव च॥१६॥

रश्मिभिस्तेजोयुक्तैरट्टालसदृशैश्चेति गण्डशैलविशेषणम्। भुशुण्डीरिति पाठे दण्डाग्रस्थितमुकुराकृतिफल्गुतोमरः फलशल्येन यन्त्रितः पाट्टिश एकधारः खड्गाः क्षेपणीयैर्दूरान्मुक्तैः घातनीभिर्गुर्वीभिरिति विशेषणद्वयं शतघ्नीनां शतघ्नीभिः शतं हन्त्रीभिर्गुर्वीभिरिति शालासम्बन्धात्॥१६॥

युगैर्यन्त्रैश्च निर्मुक्तैरर्गलैश्च विदारणैः ।
सर्वान् देवगणान्दैत्याः सन्निजघ्नुः सवासवाण्॥१७॥

युगैर्युगाकारैरस्त्रैः आग्नेयादिभिरस्त्रैः पाषाणवर्षिभिः॥१७॥

धूम्रकेशं हरिश्मश्रुं नानाप्रहरणायुधम् ।
रक्तसन्ध्याभ्रसङ्काशं किरीटोत्तमधारिणम्॥१८॥

नीलपीताम्बरधरं शतदंष्ट्रोर्ध्वधारिणम् ।
आजानुबाहुं हर्यक्षं वैडूर्याभरणोज्ज्वलम्॥१९॥

समुद्यतायुधं दृष्ट्वा सर्वे देवगणास्तदा ।
ते हिरण्याक्षमसुरं दैत्यानामग्रतः स्थितम्॥२०॥

युगान्तसमये भीमं स्थितं मृत्युमिवाग्रतः ।
प्रविव्यथुः सुराः सर्वे तदा शक्रपुरोगमाः॥२१॥

धूम्रकेशत्वादिविशेषणं हिरण्याक्षं दृष्ट्वा प्रविव्यथुरिति चतुर्णामन्वयः॥२१॥

दृष्ट्वाऽऽयान्तं हिरण्याक्षं महाद्रिमिव जङ्गमम् ।
देवाः संविग्नमनसः प्रगृहीतशरासनाः॥२२॥

महेन्द्राख्यं पर्वतमिव जङ्गमं चलम्। महाद्रिमिवेति वा पाठः॥२२॥

सहस्राक्षं पुरस्कृत्य तस्थुः सङ्ग्राममूर्धनि ।
सा च दैत्यचमू रेजे हिरण्यकवचोज्ज्वला॥२३॥

प्रवृद्धनक्षत्रगणा शारदी द्यौरिवामला ।
तेऽन्योन्यमपि सम्पेतुः पातयन्तः परस्परम्॥२४॥

बभञ्जुर्बाहुभिर्बाहून्द्वन्द्वमन्ये युयुत्सवः ।
गदानिपातैर्भग्नाङ्गा बाणैश्च व्यथितोरसः॥२५॥

विनिपेतुः पृथक्केचित्तथान्येऽपि विजघ्निरे ।
बभञ्जिरे रथान्केचित्केचित्संमार्दिता रथैः॥२६॥

सम्बाधमन्ये सम्प्राप्ता न शेकुश्चलितुं रथात् ।
दानवेन्द्रबलं तत्र देवानां च महद्बलम्॥२७॥

अन्योन्यबाणवर्षेण युद्धदुर्दिनमाबभौ ।
हिरण्याक्षस्तु बलवान्क्रुद्धः स दितिनन्दनः॥२८॥

व्यवर्धत महातेजाः समुद्र इव पर्वणि ।
तस्य क्रुद्धस्य सहसा मुखान्निश्चेरुरर्चिषः॥२९॥

साग्निधूमश्च पवनो ययौ तस्य समीपतः ।
शस्त्रजालैर्बहुविधैर्धनुर्भिः परिघैरपि ।
सर्वमाकाशमावव्रे पर्वतैरुत्थितैरिव॥३०॥

बहुभिः शस्त्रनिस्त्रिंशैश्छिन्नभिन्नशिरोरसः ।
न शेकुश्चलितुं देवा हिरण्याक्षार्दिता युधि॥३१॥

सर्वे वित्रासिता देवा हिरण्याक्षेण संयुगे ।
न शेकुर्यत्नवन्तोऽपि यत्नं कर्तुं विचेतसः॥३२॥

तेन शक्रः सहस्राक्षः स्तम्भितोऽस्त्रेण धीमता ।
ऐरवतगतः सङ्ख्ये नाशकच्चलितुं भयात्॥३३॥

सर्वांश्च देवानखिलान्त्स पराजित्य दानवः ।
स्तम्भयित्वा च देवेशमात्मस्थं मन्यते जगत्॥३४॥

सतोयमेघप्रतिमोग्रनिःस्वनं प्रभिन्नमातङ्गविलासाविग्रहम् ।
धनुर्विधुन्वन्तमुदारवर्चसं तदा सुरेन्द्रं ददृशुः सुराः स्थिताः॥३५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वाराहे शक्रस्तम्भने अष्टात्रिंशोऽध्यायः॥३८॥
हिरण्याक्षवधः

वैशम्पायन उवाच। निष्प्रयत्ने सुरपतौ धर्षितेषु सुरेषु च ।
हिरण्याक्षवधे बुद्धिं चक्रे चक्रगदाधरः॥१॥

निष्प्रयत्न इति॥१॥

वाराहः पर्वतो नाम यः पूर्वं समुदाहृतः ।
स एष भूत्वा भगवानाजगामासुरान्तकृत्॥२॥

पर्वतो नाम पर्वाणि दर्शपूर्णमासादीनि अवयवत्वेन वर्तन्तेऽस्मिन्निति पर्वतो यज्ञतनुर्नामेत्यर्थः। य एषः वक्ष्यमाणगुणः स वराहो भूत्वेति सम्बन्धः॥२॥

ततश्चन्द्रप्रतीकाशमगृह्णाच्छङ्खमुत्तमम् ।
सहस्रारं च तच्चक्रं चक्रपर्वतसन्निभम्॥३॥

महादेवो महाबुद्धिर्महायोगी महेश्वरः ।
पठ्यते योऽमरैः सर्वैर्गुह्यैर्नामभिरव्ययः॥४॥

सदसच्चात्मनि श्रेष्ठः सद्भिर्यः सेव्यते सदा ।
इज्यते यः पुराणैश्च त्रिलोके लोकभावनः॥५॥

यो वैकुण्ठः सुरेन्द्राणामनन्तो भोगिनामपि ।
विष्णुर्यो योगविदुषां यो यज्ञो यज्ञकर्मणाम्॥६॥

मखे यस्य प्रसादेन भुवनस्था दिवौकसः ।
आज्यं महर्षिभिर्दत्तमश्नुवन्ति त्रिधा हुतम्॥७॥

त्रिधा हुतं हुतहूयमानप्रहुताख्यप्रकारत्रयेण “हुता अग्नौ हूयमाना अनग्नौ प्रहुता ब्राह्मणभोजने” इत्याश्वलायनव्याख्यातेन॥७॥

यो गतिर्देवदैत्यानां यः सुराणां परा गतिः ।
यः पवित्रं पवित्राणां स्वयम्भूरव्ययो विभुः॥८॥

यस्य चक्रप्रविष्टानि दानवानां युगे युगे ।
कुलान्याकुलतां यान्ति यानि दृष्टानि वीर्यतः॥९॥

ततो दैत्यद्रवकरं पौराणां शङ्खमुत्तमम् ।
धमन्वक्त्रेण बलवानाक्षिपद्दैत्यजीवितम्॥१०॥

श्रुत्वा शङ्खस्वनं घोरमसुराणां भयावहम् ।
क्षुभिता दानवाः सर्वे दिशो दश व्यलोकयन्॥११॥

ततः संरक्तनयनो हिरण्याक्षो महासुरः ।
कोऽयमित्यब्रवीद्रोषान्नारायणमुदैक्षत॥१२॥

वाराहरूपिणं देवं संस्थितं पुरुषोत्तमम् ।
शङ्खचक्रोद्यतकरं देवानामार्तिनाशनम्॥१३॥

रराज शङ्खचक्राभ्यां ताभ्यामसुरसूदनः ।
सूर्यचन्द्रमसोर्मध्ये यथा नीलपयोधरः॥१४॥

ततोऽसुरगणाः सर्वे हिरण्याक्षपुरोगमाः ।
उद्यतायुधनिस्त्रिंशा दृप्ता देवमुपाद्रवन्॥१५॥

पीड्यमानोऽतिबलिभिर्दैत्यैः सर्वायुधोद्यतैः ।
न चचाल हरिर्युद्धेऽकम्प्यमान इवाचलः॥१६॥

ततः प्रज्वलितां शक्तिं वाराहोरसि दानवः ।
हिरण्याक्षो महातेजाः पातयामास वीर्यवान्॥१७॥

तस्याः शक्त्याः प्रभावेण ब्रह्मा विस्मयमागतः ।
समीपमागतां दृष्ट्वा महाशक्तिं महाबलः॥१८॥

हुङ्कारेणैव निर्भर्त्स्य पातयामास भूतले ।
तस्यां प्रतिहतायां तु ब्रह्मा साध्विति चाब्रवीत्॥१९॥

यः प्रभुः सर्वभूतानां वराहस्तेन ताडितः ।
ततो भगवता चक्रमाविध्यादित्यसन्निभम्॥२०॥

पातितं दानवेन्द्रस्य शिरस्युत्तमकर्मणा ।
ततः स्थितस्यैव शिरस्तस्य भूमौ पपात ह ।
हिरण्मयं वज्रहतं मेरुशृङ्गमिवोत्तमम्॥२१॥

हिरण्याक्षे हते दैत्ये शेषा ये तत्र दानवाः ।
सर्वे तस्य भयत्रस्ता जग्मुराशु दिशो दश॥२२॥

स सर्वलोकाप्रतिचक्रचक्रो महाहवेष्वप्रतिमोग्रचक्रः ।
बभौ वराहो युधि चक्रपाणिः कालो युगान्तेष्विव दण्डपाणिः॥२३॥

अप्रतिचक्रम् अप्रतिहताज्ञं चक्रं यस्य सः॥२३॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वाराहे एकोनचत्वारिंशोऽध्यायः॥३९॥
इन्द्रदीनां मोचनं तेषामाधिपत्यलाभश्च

वैशम्पायन उवाच। विद्राव्य तु रणे सर्वानसुरान्पुरुषोत्तमः ।
मुमोच तत्र बद्धांस्तान्पुरन्दरमुखान्सुरान्॥१॥

विद्राव्येति॥१॥

ततः प्रकृतिमापन्नाः सर्वे देवगणास्तथा ।
पुरन्दरं पुरस्कृत्य नारायणमुपस्थिताः॥२॥

देवा ऊचुः। त्वत्प्रसादेन भगवंस्तव बाहुबलेन च ।
जिवमोऽद्य महाबाहो निष्क्रान्ताश्चान्तकाननात्॥३॥

त्वच्छासनाद्धि भगवन्किं कुर्वन्त्यदितेः सुताः ।
इच्छामः पादशुश्रूषां तव कर्तुं सनातन॥४॥

वैशम्पायन उवाच। तच्छ्रुत्वा वचनं तेषां पुण्डरीकनिभेक्षणः ।
उवाच वचनं देवान्मुदा युक्तो हतद्विषः॥५॥

श्रीभगवानुवाच। यो यस्य भवतो लोको मयैव विहितः पुरा ।
पाल्यतां स तु यज्ञेन नियोगश्च क्वचित्क्वचित्॥६॥

लोकः स्थानम्। नियोगः आज्ञा वेदरूपा॥६॥

ऐश्वर्यं प्रतिपन्नः स्वं क्रतुभागपुरस्कृतम् ।
मयैव पूर्वं निर्दिष्टो नियोगः प्रतिपाल्यताम्॥७॥

शक्रं चोवाच भगवान्वचनं दुन्दुभिस्वनः ।
इदं यथावत्कर्तव्यं सत्सु चासत्सु च त्वया॥८॥

गच्छन्तु तपसा स्वर्गं मुनयः शंसितव्रताः ।
तव लोकं सुरश्रेष्ठ सर्वकामदुघं सदा ।
यायजूकाश्च ये केचिद्ब्राह्मणाः क्षत्रिया विशः॥९॥

तेषां कामदुघा लोकाः स्वर्गमादिमनोहराः ।
यज्ञैरिष्ट्वा यायजूकाः फलं ते प्राप्नुवन्तु च॥१०॥

भावः सद्धर्मशीलानामभावः पापकर्मणाम् ।
सन्तः स्वर्गजितः सन्तु सर्वाश्रमनिवासिनः॥११॥

सत्यशूरा रणे शूरा दानशूराश्च ये नराः ।
ते नराः स्वर्गमश्नन्तु सदा ये चानसूयवः॥१२॥

अश्रद्दधानाः पुरुषाः कामिनोऽर्थपराः शठाः ।
अब्रह्मण्या नास्तिकाश्च नरकं यान्तु मानवाः॥१३॥

एतावत्क्रियतां वाक्यं मयोक्तं त्रिदशेश्वराः ।
ततो मयि स्थिते सर्वान्बाधिष्यन्ते न चारयः॥१४॥

इत्युक्त्वान्तर्हितो देवः शङ्कचक्रगदाधरः ।
देवतानां च सर्वेषामभवद्विस्मयो महान्॥१५॥

एतदत्यद्भुतं दृष्ट्वा वाराहचरितं सुराः ।
नमस्कृत्य वराहाय नाकपृष्ठमितो गताः॥१६॥

ततः स्वान्याधिपत्यानि प्रतिपन्नानि दैवतैः ।
सर्वलोकाधिपत्ये च प्रतिष्ठां वासवो गताः॥१७॥

विमुक्ता दानवगणैः प्रकृतिं धरणी गता ।
स्थैर्यहेतोर्धरण्यास्तु ज्ञात्वा चागस्कृतान्गिरीन्॥१८॥

स्वेषु स्थानेषु संस्थाप्य पर्वतानां पुरन्दरः ।
चिच्छेद भगवान्पक्षान्वज्रेण शतपर्वणा॥१९॥

चिच्छेद पूर्वं दानवोद्योगकरत्वेन सापराधानां पक्षान् चिच्छेद॥१९॥

सर्वेषामेव पक्षा वै छिन्नाः शक्रेण धीमता ।
एकः सपक्षो मैनकः सुरैस्तत्समयः कृतः॥२०॥

सुरैः समयः मैनाकरक्षायै कृतः यथा समुद्रे स्थितस्य ते न पक्षच्छेदो भवितेति॥२०॥

एष नारायणस्यायं प्रादुर्भावो महात्मनः ।
वाराह इति विप्रेन्द्रैः पुराणे परिकीर्तितः॥२१॥

कृष्णद्वैपायनमतं नानाश्रुतिसमाहितम् ।
नाशुचेर्न कृतघ्नाय न नृशंसाय कीर्तयेत्॥२२॥

न क्षुद्राय न नीचाय न गुरुद्वेषकारिणे ।
नाशिष्याय तथा राजन्न कृतघ्नाय चैव हि॥२३॥

आयुष्कामैर्यशः कामैर्महीकामैश्च मानवैः ।
जयैषिभिश्च श्रोतव्यो देवानामेष वै जयः॥२४॥

पुराणवेदसम्बद्धः शिवः स्वस्त्ययनो महन् ।
पावनः सर्वसत्त्वानां तत्कालविजयप्रदः॥२५॥

एष कौरव्य तत्त्वेन कथितस्त्वनुपूर्वशः ।
वाराहस्य नृपश्रेष्ठ प्रादुर्भावो महात्मनः॥२६॥

ये यजन्ति मखैः पुण्यैर्दैवतानि पितॄनपि ।
आत्मानमात्मना नित्यं विष्णुमेव जयन्ति ते॥२७॥

लोकायनाय त्रिदशायनाय ब्राह्मायनायात्मभवायनाय ।
नारायणायात्महितायनाय महवराहाय नमस्कुरुष्व॥२८॥

अयनाय गतये॥२८॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वाराहप्रादुर्भावे चत्वारिंशोऽध्यायः॥४०॥
नृसिंहावतारः

वैशम्पायन उवाच। वाराह एष कथितो नारसिंहमतः शृणु ।
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः॥१॥

वराह एषः मृगेन्द्रेण नृसिंहेण भूत्वा आविर्भूय॥१॥

पुरा कृतयुगे राजन्हिरण्यकशिपुः प्रभुः ।
दैत्यानामादिपुरुषश्चकार सुमहत्तपः॥२॥

दश वर्षसहस्राणि शतानि दश पञ्च च ।
जलवासी समभवत्स्थानमौनव्रतस्थितः॥३॥

स्थातुं शीलमस्येति स्थानं नन्द्यादिल्युप्रत्ययान्तः तद्वन्मौनं स्थानमौनम्॥३॥

ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि ।
ब्रह्मा प्रीतोऽभवत्तस्य तपसा नियमेन च॥४॥

ततः स्वयम्भूर्भगवान्त्स्वयमागत्य तत्र ह ।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता॥५॥

आदित्यैर्वसुभिः साध्यैर्मरुद्भिदैवतैः सह ।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः॥६॥

दिग्भिश्चाथ विदिग्मिश्च नदीभिः सागरैस्तथा ।
नक्षत्रैश्च मुहूर्तैश्च खेचरेश्च महाग्रहैः॥७॥

दिग्भिः दिग्देवताभिः। एवमन्यत्रापि॥७॥

देवैर्ब्रह्मर्षिभिः सार्धं सिद्धैः सप्तर्षिभिस्तथा ।
राजर्षिभिः पुण्यकृद्भिर्गन्धर्वैरप्सरोगणैः॥८॥

चराचरगुरुः श्रीमान्वृतो देवगणैः सह ।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत्॥९॥

ब्रह्मोवाच। प्रीतोऽस्मि तव भक्तस्य तपसाऽनेन सुव्रत ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि॥१०॥

ततो हिरण्यकशिपुः प्रीतात्मा दानवोत्तमः ।
कृताञ्जलिपुटः श्रीमान्वचनं चेदमब्रवीत्॥११॥

हिरण्यकशिपुरुवाच। न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
न मानुषाः पिशाचाश्च निहन्युर्मो कथञ्चन॥१२॥

ऋषयो नैव मां क्रुद्धाः सर्वलोकपितामह ।
शपेयुस्तपसा युक्ता वर एष वृतो मया॥१३॥

न शस्त्रेण न चास्त्रेण गिरिणा पादपेन च ।
न शुष्केण न चार्द्रेण स्यान्न चान्येन मे वधः॥१४॥

न स्वर्गेऽप्यथ पाताले नाकाशे नावनिस्थले ।
न चाभ्यन्तररात्र्यह्नोर्न चाप्यन्येन मे वधः॥१५॥

पाणिप्रहारेणैकेन सभृत्यबलवाहनम् ।
यो मां नाशयितुं शक्तः स मे मृत्युर्भविष्यति॥१६॥

भवेयमहमेवार्कः सोमो वायुर्हताशनः ।
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ।
अहं क्रोधश्च वामश्च वरुणो वासवो यमः॥१७॥

धनदश्च धनाध्यक्षो यक्षकिम्पुरुषाधिपः ।
मूर्तिमन्ति च दिव्यानि ममास्त्राणि महाहवे ।
उपतिष्ठन्तु देवेश सर्वलोकपितामह॥१८॥

पितामह उवाच। एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः ।
सर्वान्कामानल्पभावात्प्राप्स्यासि त्वं न संशयः॥१९॥

वैशम्पायन उवाच। एवमुक्त्वा स भगवाञ्जगामाकाशमेव च ।
वैराज्यं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम्॥२०॥

ततो देवाश्च नागाश्च गन्धर्वा सुनिभिः सह ।
वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः॥२१॥

देवा ऊचुः। वरेणानेन भगवान्वधिष्यति स नोऽसुरः ।
तत्प्रसीदस्व भगवन्वधोऽप्यस्य विचिन्त्यताम्॥२२॥

वैशम्पायन उवाच। भगवान्सर्वभूतानामादिकर्ता स्वयं प्रभुः ।
स्रष्टा च हव्यकव्यानामव्यक्तप्रकृतिर्ध्रुवः॥२३॥

सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।
आश्वासयामास सुरान्त्सशीतैर्वचनाम्बुभिः॥२४॥

अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।
तपसोऽन्ते स भगवान्वधं विष्णुः करिष्यति॥२५॥

एतच्छ्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः ।
स्वानि स्थानानि दिव्यानि प्रतिजग्मुर्मुदान्विताः॥२६॥

लब्धमात्रे वरे तस्मिन्त्सर्वाः सोऽबाधत प्रजाः ।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः॥२७॥

आश्रमेषु मुनीन्सर्वान्ब्राह्मणान्त्संशितव्रतान् ।
सत्यधर्मरतान्दान्तान्धर्षयामास वीर्यवान्॥२८॥

देवांतस्त्रिभुवनस्थांश्च पराजित्य महासुरः ।
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः॥२९॥

यदा वरमदोन्मत्तश्वोदितः कालधर्मणा ।
यज्ञियानकरोद्वैत्यान्दैवतानप्ययज्ञियान्॥३०॥

तदादित्याश्च साध्याश्च विश्वे च वसवस्तथा ।
रुद्रा देवगणा यक्षा देवद्विजमहर्षयः॥३१॥

शरण्यं शरणं विष्णुसुपतस्तुर्महाबलम् ।
देवं देवमयं यज्ञं ब्रह्म दैवं सनातनम्॥३२॥

भूतं भव्यं भविष्यं च प्रजालोकनमस्कृतम् ।
देवा ऊचुः। नारायण महाभाग देव त्वां शरणं गताः॥३३॥

त्वं हि नः परमो धाता त्वं हि नः परमो गुरुः ।
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम॥३४॥

त्वं पद्मामलपत्राक्ष शत्रुपक्षभयावह ।
क्षयाय दितिवंशस्याक्षयाय भव नः प्रभो॥३५॥

त्रायस्व जहि दैत्येन्द्रं हिरण्यकशिपुं प्रभो ।
विष्णुरूवाच। भयं त्यजध्वममरा अभयं वो ददाम्यहम्॥३६॥

तथैव त्रिदिवं देवाः प्रतिपत्स्यथ मा चिरम् ।
एष तं सगणं दैत्यं वरदानेन दर्पितम्॥३७॥

अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम्॥३८॥

वैशम्पायन उवाच। एवमुक्त्वा स भगवान्विसृज्य त्रिदिवौकसः ।
वधं सङ्कल्पयित्वा तु हिरण्यकशिपोः प्रभुः॥३९॥

सोऽचिरेणैव कालेन हिमवत्पार्वमागतः ।
किं नु रूपं समास्थाय निहन्म्यने महासुरम्॥४०॥

यत्सिद्धिकरमाशु स्याद्वधाय विबुधद्विषः ।
अनुत्पन्नं ततश्चक्रे सोऽत्यन्तं रूपमास्थितः॥४१॥

नारसिंहमनाधृष्यं दैत्यदानवरक्षसास् ।
सहायं तु महाबाहुर्जग्राहोङ्कारमेव च॥४२॥

अथोङ्कारसहायोऽसौ भगवान्विष्णुरधव्ययः ।
हिरण्यकशिपोः स्थानं जगाम प्रभुरिश्वरः॥४३॥

ओङ्कारसहायत्वम् ओङ्कारार्थस्य सार्वात्म्यस्यानुसन्धानं तद्बलेनैव शमादिभिः रावणादीनां निहतत्वात्॥४३॥

तेजसा भास्कराकारः कान्त्या चन्द्र इवापरः ।
नरस्य कृत्वाऽर्धतनुं सिंहस्यार्धतनुं विभुः॥४४॥

नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ।
ततोऽपश्यत विस्तीर्णां दिव्यां रम्यां मनोरमाम्॥४५॥

सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम् ।
विस्तीर्णां योजनशतं शतमध्यर्धमुच्छ्रिताम्॥४६॥

अध्यर्धं सार्धशतम्॥४६॥

विहायसीं कामगमां पञ्चयोजनमुच्छ्रिताम् ।
जराशोकक्लमत्यक्तां निष्प्रकम्पां शिवां शुभाम्॥४७॥

शुभासनवतीं रम्यां ज्वलन्तीमिव तेजसा ।
अन्तः सलिलसंयुक्तां विहितां विश्वकर्मणा ।
दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युताम्॥४८॥

नीलपतासितश्यामैः सितैर्लोहितकैरपि ।
अवतानैस्तथा गुल्मैर्मञ्जरीशतधारिभिः॥४९॥

अवतानैः वितानप्रान्तेषु लम्बमानैः चित्रपटैः “झालर” इति प्रसिद्धैः। गुल्मैः तेष्वेव गुच्छाकारैरवयवैः॥४९॥

सिताम्रधनसङ्काशा प्लवन्तीवाप्सु दृश्यते ।
धन्यासनवती रम्या ज्वलन्ती इव तेजसा॥५०॥

प्रभावती भास्वरा च दिव्यगन्धमनोरमा ।
नासुखा न च दुःखा सा न शीता न च धर्मदा॥५१॥

प्रभा लावण्यं तद्वती भास्वरा दीप्तिमती॥५१॥

न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्ति हि ।
नानारुपैर्विरचिता विचित्रैरतिभास्वरैः॥५२॥

स्तम्भैर्मणिमयैर्दिव्यैः शाश्वती चाक्षता च सा ।
अतिचन्द्रं च सूर्यं च पावकं च स्वयम्प्रभा॥५३॥

दीप्यते नाकपृष्ठस्था भर्त्सयन्तीव भास्करम् ।
सर्वे च कामाः प्रचुरा ये दिव्या ये च मानुषाः॥५४॥

रसवन्तः प्रभूताश्च भक्ष्यभोज्यं तथाऽक्षयम् ।
पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः॥५५॥

उष्णे शीतानि तोयानि शीते चोष्णानि सन्ति वै ।
पुष्पिताग्रान्महाशाखान्प्रवालाकुरधारिणः॥५६॥

लतावितानसञ्च्छन्नान्त्सरित्सु च सरस्सु च ।
मनोहरांश्च विविधान्ददर्श स तदा प्रभुः॥५७॥

द्रुमान्बहुविधांस्तत्र मृगेन्द्रो ददृशे द्रुतम् ।
गन्धवन्ति च पुष्पाणि रसवन्ति फलानि च॥५८॥

तानि शीतानि तोयानि तत्र तत्र सरांसि च ।
अपश्यत्सर्वतीर्थानि सभायां शततो विभुः॥५९॥

नलिनैः पुण्डरीकश्चै शतपत्रैः सुगन्धिभिः ।
रक्तैः कुवलयर्नीलैः कुमुदैः संयुतानी च॥६०॥

सकान्तैर्धाराष्ट्रेश्च राजहंसैः सुरप्रियैः ।
कादम्बैश्चक्रवाकैश्च सारसैः कुररैरपि॥६१॥

विमलस्फटिकाभानि पाण्डुराष्टदलानि च ।
कलहंसोपगीतानि सारिकाभिरुतानि च॥६२॥

गन्धवत्यः शुभास्तत्र पुष्पमञ्जरिधारिणीः ।
दृष्टवान्पादपाग्रेषु नानापुष्पधरा लताः॥६३॥

केतकाशोकसरलाः पुन्नागतिलकार्जुनाः ।
चूता नीपा नागपुष्पाः कदम्बबकुला धवाः॥६४॥

प्रियङ्गुपाटलीवृक्षाः शाल्मल्यः सहरिद्रकाः ।
शालास्तालाः प्रियालाश्च चम्पकाश्च मनोरमाः॥६५॥

तथा चान्ये व्यराजन्त सभायां पुष्पिता द्रुमाः ।
वैदुमाश्च द्रुमानीका दावाग्निज्वलितप्रभाः॥६६॥

स्कन्धवन्तः सुशाखाश्च बहुतालसमुच्छ्रयः ।
अञ्जनाशोकवर्णाभा भान्ति वञ्जुलका दुमाः॥६७॥

वरणा वत्सनाभाश्च पनसाञ्चन्दनैः सह ।
नीलाः सुमनसश्चैव पीताम्लाश्वत्थतिन्दुकाः॥६८॥

प्राचीनामलका लोध्रा मल्लिका भद्रदारवः ।
आम्रातकास्तथा जम्बूलकुचाः शैलवालुकाः॥६९॥

सर्जार्जुनाः कन्दुरवाः पतङ्गाः कुटजास्तथा ।
रक्ताः कुरबकाश्चैव नीपाश्चागरुभिः सह॥७०॥

कदम्बाश्चैव भव्याश्च दाडिमीबीजपूरकाः ।
कालीयका दुकूलाश्च हिङ्गवस्तेलपर्णिकाः॥७१॥

खर्जूरा नालिकेराश्च पूरावृक्षा हरीतकी ।
मधूकाः सप्तपर्णाश्च बिल्वाः पारावतास्तथा॥७२॥

पनसाश्च तमालाश्च नानागुल्मलतावृताः ।
लताश्च विविधाकाराः पत्रपुष्पफलोपगाः॥७३॥

एते चान्ये च बहवस्तत्र काननजा दुमाः ।
नानापुष्पफलोपेता व्यराजन्त समन्ततः॥७४॥

चकोराः शतपत्राश्च मत्तकोकिलसारिकाः ।
पुष्पितान्फलिताम्रांश्च सम्पतन्ति महानुमान्॥७५॥

रक्तपीतारुणास्तत्र पादपाग्रगता द्विजाः ।
परस्परमवैक्षन्त प्रहृष्टा जीवजीवकाः॥७६॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि नारसिंहे हिरण्यकश्यपुसभावर्णने एकचत्वारिंशोऽध्यायः॥४१॥
हिरण्यकशिपुसभावर्णनम्

वैशम्पायन उवाच। तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुः प्रभुः ।
आसीन आसने दिव्ये नत्वमात्रे प्रमाणतः॥१॥

तस्यामिति। नल्वो हस्तचतुःशतं तावन्मात्रे॥१॥

दिवाकरनिभे रम्ये दिव्यास्तरणसम्भृते ।
रराज सुचिरं राजञ्ज्वलत्काञ्चनकुण्डलः॥२॥

तस्य दैत्यपतेर्मन्दं विरजस्कं समन्ततः ।
दिव्यगन्धवहस्तत्र मारुतः सुमुखो ववौ॥३॥

मन्दं विरजस्कं च यथा स्यात्तथा वै वा॥३॥

तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः ।
दिव्यतालेन दिव्यानि जगुर्गीतानि गायनाः॥४॥

विश्वाची सहजन्या च प्रम्लोचेत्यभिविश्रुता ।
दिव्या च सौरभेया च समीची पुञ्जिकस्थला॥५॥

मिश्रकेशी च रम्मा च चित्रसेना शुचिस्मिता ।
चारुनेत्रा घृताची च मेनका चोवंशी तथा॥६॥

एताः सहस्रशश्चान्या नृत्यगीतविशारदाः ।
उपतिष्ठन्ति राजानं हिरण्यकशिपुं तदा॥७॥

हिरण्यकशिपुस्तत्र विचित्राभरणाम्बरः ।
स्त्रीसहस्नैः परिवृतस्तस्थौ ज्वलितकुण्डलः॥८॥

तत्रासीनं महाबाहुं हिरण्यकशिपुं प्रभुम् ।
उपासन्ति दितेः पुत्राः सर्वे लब्धवराः पुरा॥९॥

बर्लिर्वैरोचनस्तत्र नरकः पृथिवीजयः ।
प्राह्रदो विप्रचित्तिश्च गविष्ठश्च महासुरः॥१०॥

अहन्ता क्रोधहन्ता च सुमनाः सुमतिः खरः ।
घटोदरो महापार्श्वः कथनः पिठरस्तथा॥११॥

विश्वरूपश्च रूपश्च विरूपश्च महाद्युतिः ।
दशग्रीवश्च वाली च मेघवासा महारवः॥१२॥

कटाभो विकटाभश्च संह्रादश्चेन्द्रतापनः ।
दैत्यदानवसङ्घाश्च सर्वे ज्वलितकुण्डलाः॥१३॥

स्त्रग्विणो वाग्मिनः सर्वे सर्वे सुचरितव्रताः ।
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः॥१४॥

एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम् ।
उपासन्ते महात्मानं सर्वे दिव्यपरिच्छदाः॥१५॥

विमानैर्विविधैरयैम्राजर्भ्रानैरिवार्चिभिः ।
स्रग्विणो भूषणधरा यान्ति चायान्ति हेलया॥१६॥

विचित्राभरणोपेता विचित्रवसनास्तथा ।
विचित्रशस्त्रकवचा विचित्रध्वजवाहनाः॥१७॥

महेन्द्रचापसङ्काशैर्विचित्रैरङ्गदैवरैः ।
भूषिताङ्गा दितेः पुत्रास्तमुपासन्ति नित्यशः॥१८॥

तस्यां सभायां दिव्यायामसुराः पर्वतोपमाः ।
हिरण्यमुकुटाः सर्वे दिवाकरसमप्रभाः॥१९॥

कनकमणिविचित्रवेदिकायामुपहितरत्नसहस्रवीथिकायाम् ।
स ददर्श मृगाधिपः सभायां सुरुचिरदन्तगवाक्षसंवृतायाम्॥२०॥

कनकविमलहारभूषिताङ्गं दितितनयं स मृगाधिपो ददर्श ।
दिनकरकरप्रभं ज्वलन्तमसुरसहस्रगणैर्निषेव्यमाणम्॥२१॥

ददर्शेत्यत्र ददृशे इति स्वरभक्त्याक्षरपूर्णं ज्ञेयम्। दन्तगवाक्षाः “झरोका” इति भाषायां प्रसिद्धाः॥२१॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वाणि नारासिंहे द्विचत्वारिंशोऽध्यायः॥४२॥
नृसिंहं दृष्ट्वा दानवानां विस्मयः प्रह्रादवाक्यं च

वैशम्पायन उवाच। ततो दृष्ट्वा महाबाहुं कालचक्रमिवागतम् ।
नारसिंहवपुश्छन्नं भस्माच्छन्नमिवानलम्॥१॥

ततो दृष्ट्वा इति॥१॥

विकुञ्चितसटं तस्य नारसिंहस्य भारत ।
रूपौदार्य बभौ तत्र सहस्रशशिसन्निभम्॥२॥

अहो रूपमिदं चित्रं शङ्खकुन्देन्दुसन्निभम् ।
अब्रुवन्दानवाः सर्वे हिरण्यकशिपुश्च सः॥३॥

एव हि ब्रुवतां तेषां निर्दग्धानां महात्मनाम् ।
नारसिंहेन चक्षुर्भ्यां चोदिताः कालधर्मणा॥४॥

चोदितः चोदितानामिति षष्ठ्यर्थे प्रथमा॥४॥

हिरण्यकशिपोः पुत्रः प्रह्रादो नाम वीर्यवान् ।
दिव्येन चक्षुषा सिंहमपश्यद्देवमागतम्॥५॥

तं दृष्ट्वा रुक्मशैलाभमपूर्वां तनुमास्थितम् ।
विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः॥६॥

प्रह्राद उवाच। महाराज महाबाहो दैत्यानामादिसम्भव ।
न श्रुतं नैव दृष्टं च नारसिंहमिदं वपुः॥७॥

अव्यक्तप्रभवं दिव्यं किमिदं रूपमद्भुतम् ।
दैत्यान्तकरणं घोरं शंसतीव मनांसि नः॥८॥

अस्य देवाः शरीरस्थाः सागराः सरितस्तथा ।
हिमवान्पारियात्रश्च ये चान्ये कुलपर्वताः॥९॥

चन्द्रमाः सह नक्षत्रैरादित्याश्चाश्विनौ तथा ।
धनदो वरुणश्चैव यमः शक्रः शचीपतिः॥१०॥

मरुतो देवगन्धर्वा मुनयश्च तपोधनाः ।
नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः॥११॥

ब्रह्मदेवः पशुपतिर्ललाटस्था विभान्ति वै ।
स्थावराणि च भूतानि जङ्गमानि तथैव च॥१२॥

भवांश्च सहितोऽस्माभिः सर्वैर्दैत्यगणैर्वृतः ।
विमानशतसङ्कीर्णा तथाभ्यन्तरजा सभा॥१३॥

सर्वं त्रिभुवनं राजँल्लोकधर्मश्च शाश्वतः ।
दृश्यते नारासिंहेऽस्मिन्यथेन्दौ विमलं जगत्॥१४॥

yथा महादर्शकल्पे चन्द्रमण्डले चक्षुर्धारयतां कृत्स्नं जगद्दृष्टिगोचरीभवत्यस्येति योगिप्रसिद्धोऽयं दृष्टान्तः॥१४॥

प्रजापतिश्चात्र मनुर्महात्मा ग्रहाश्च योगाश्च मही नभश्च ।
उत्पातकालश्च धृतिः स्मृतिश्च रजश्च सत्त्वं च तपो दमश्च॥१५॥

सनत्कुमारश्च महानुभावो विश्वे च देवाप्सरसश्च सर्वाः ।
क्रोधश्च कामश्च तथैव हर्षो दर्पश्च मोहः पितरश्च सर्वे॥१६॥

इत्येवमुक्ता स च दैत्यराजं हिरण्यनामानमविस्मयेन ।
दध्यौ च दैत्येश्वरपुत्र उग्रं महामतिः किञ्चिदधोमुखः प्राक्॥१७॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि नारासिंहे प्रह्रादवाक्ये त्रिचत्वारिंशोऽध्यायः॥४३॥
नृसिंहस्योपरि दैत्यानां शस्त्रास्त्रपातः

वैशम्पायन उवाच। प्रह्लादस्य च तच्छ्रत्वा हिरण्यकशिपुर्वचः ।
उवाच दानवान्त्सर्वोन्त्सगणांश्च गणाधिपः॥१॥

मृगेन्द्रो गृह्यतां शीघ्रमपूर्वां तनुमास्थितः ।
यदि वा संशयः काश्चद्वध्यतां वनगोचरः॥२॥

तच्छ्रुत्वा दानवाः सर्वे मृगेन्द्रं भीमविक्रमम् ।
परिक्षिपन्तो मुदितास्त्रासयामासुरोजसा॥३॥

सिंहनादं नदित्वा तु पुनः सिंहो महाबलः ।
बभञ्ज तां सभां रम्यां व्यादितास्य इवान्तकः॥४॥

सभायां भज्यमानायां हिरण्यकशिपुः स्वयम् ।
चिक्षेपास्त्राणि सिंहस्य रोषव्याकुललोचनः॥५॥

सर्वास्त्राणामथ श्रेष्ठं दण्डमस्त्रं सुभैरवम् ।
कालचक्रं तथाऽत्युग्रं विष्णुचक्रं तथैव च॥६॥

धर्मचक्रं महच्चक्रमजितं नाम नामतः ।
चक्रमैन्द्रं तथा धोरमृषिचक्रं तथैव च॥७॥

पैतामहं तथा चक्रं त्रैलोक्यमाहितस्वनम् ।
विचित्रमशनीं चैव शुष्कार्द्रं चाशनिद्वयम्॥८॥

प्रह्रादस्येति। शुष्का निर्मेघा आर्द्राः समेघाः॥८॥

रौद्रं तदुग्रं शूलं च कङ्कालं मुसलं तथा ।
अस्त्रं ब्रह्माशिरश्चैव ब्राह्ममस्त्रं तथैव च॥९॥

ऐषीकमस्त्रमैन्द्रं च आग्नेयं शैशिरं तथा ।
वायव्यं मथनं नाम कापालमथ किङ्करम्॥१०॥

तथा चाप्रतिमां शक्तिं क्रौञ्चमस्त्रं तथैव च ।
अस्त्रं हयशिरश्चैव सौम्यमस्त्रं तथैव च॥११॥

पैशाचमस्त्रममितं सार्प्यमस्त्रं तथाऽद्भुतम् ।
मोहनं शोषणं चैव सन्तापनावलापने॥१२॥

जृम्मणं प्रापणं चैव त्वाष्ट्रं चैव सुदारुणम् ।
कालमुद्गरमक्षोभ्यं क्षोभणं तु महाबलम्॥१३॥

संवर्तन मोहनं च तथा मायाघरं परम् ।
गान्धर्वमस्त्रं दयितमसिरत्नं च नन्दकम्॥१४॥

प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम् ।
अस्त्रं पाशुपतं चैव यस्याप्रतिहता गतिः॥१५॥

एतान्यस्त्राणि सर्वाणि हिरण्यकशिपुस्तदा ।
चिक्षेप नारसिंहस्य दीप्तस्याग्नेर्यथाहुतिः॥१६॥

अस्त्रैः प्रज्वलितैः सिंहमावृणोदसुराधिपः ।
विवस्वान्घर्मसमये हिमवन्तमिवांशुभिः॥१७॥

स ह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरः ।
क्षणेनाप्लावयत्सिंहं मैनाकमिव सागरः॥१८॥

प्रासैः पाशैस्तथा शूलैर्गदाभिर्मुसलैस्तथा ।
वज्रैरशनिकल्पैश्च शिलाभिश्च महाद्रुमैः॥१९॥

मुद्गरैः कूटपाशैश्च शूलोलूखलपर्वतैः ।
शतघ्नीभिश्च दीप्ताभिर्दण्डैरपि सुदारुणैः॥२०॥

परिवार्य समन्तात्तु निघ्नन्नस्त्रैर्हरिं तदा ।
स्वल्पमप्यस्य न क्षुण्णमूर्जितस्य महात्मनः॥२१॥

ते दानवाः पाशगृहीतहस्ता महेन्द्रवज्राशनितुल्यवेगाः ।
समन्ततोऽभ्युद्यतबाहुशस्त्राः स्थितास्त्रिशीर्षा इव पन्नगेन्द्राः॥२२॥

सुवर्णमालाकुलभूषिताङ्गा नानाङ्गदाभोगपिनद्धगात्राः ।
मुक्तावलीदामविभूषिताङ्गा हंसा इवाभान्ति विशालपक्षाः॥२३॥

तेषां तु वायुप्रतिमौजसां वै केयूरमालावलयोत्कटानि ।
तान्युत्तमाङ्गान्यभितो विभान्ति प्रभातसूर्याशुसमप्रभाणि॥२४॥

तैः प्रक्षिपद्भर्ज्वलितानलोपमैर्महास्त्रपूर्गः स समावृतो बभौ ।
गिरिर्यथा सन्ततवार्षिभिर्घनैः कृतान्धकारोद्भुतकन्दरद्रुमः॥२५॥

तैर्हन्यमानोऽपि महास्त्रजालैः सर्वैस्तदा दैत्यगणैः समेतैः ।
नाकम्पताजौ भगवान्प्रतापवान्स्थितः प्रकृत्या हिमवानिवाचलः॥२६॥

सन्तापितास्ते नरसिंहरूपिणा दितेः सुताः पावकदीप्ततेजसा ।
भयाद्विचेलुः पवनोद्धता यथा महोर्मयः सागरवारिसम्भवाः॥२७॥

शतैर्धनुर्भिः सुमहातिवेगा युगान्तकालप्रतिमाञ्छरौघान् ।
एकायनस्था मुमुचुर्नसिंहे महासुराः क्रोधविदीपिताङ्गाः॥२८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि नारासंहे चतुश्चत्वारिंशोऽध्यायः॥४४॥
नृसिंहकृतो दैत्यमायानिरासः

वैशम्पायन उवाच। खराः खरमुखाश्चैव मकराशीविषाननाः ।
ईहामृगमुखाश्चान्ये वराहसदृशाननाः॥१॥

खरा इति। ईहामृगमुखाः वानरास्ताः॥१॥

बालसूर्यमुखाश्चैव धूमकेतुमुखास्तथा ।
चन्द्रार्धचन्द्रवक्त्राश्च प्रदीप्ताग्निमुखास्तथा॥२॥

हंसकुक्कुटवक्त्राश्च व्यादितास्या भयावहाः ।
पञ्चास्या लेलिहानाश्च काकगृध्रमुखास्तथा॥३॥

विद्युज्जिह्वास्त्रिशीर्षाश्च तथोल्कासन्निभाननाः ।
महाग्राहनिभाश्चान्ये दानवा बलदर्पिताः॥४॥

कैलासवपुषस्तस्य शरीरे शरवृष्टयः ।
अवध्यस्य मृगेन्द्रस्य न व्यथां चक्रुराहवे॥५॥

एवं भूयोऽपरान्घोरानसृजन्दानवाः शरान् ।
मृगेन्द्रस्योरसि क्रुद्धा निःश्वसन्त इवोरगाः॥६॥

ते दानवशरा घोरा मृगेन्द्राय समीरिताः ।
विलयं जग्मुराकाशे खद्योता इव पर्वते॥७॥

ततश्चक्राणि दिव्यानि दैत्याः क्रोधसमन्विताः ।
मृगेन्द्रायाक्षिपन्त्याशु प्रज्वलन्तीव सर्वशः॥८॥

तैरासीद्गगनं चक्रैः सम्पतद्भिः समावृतम् ।
युगान्ते सम्प्रकाशद्भिश्चन्द्रसूर्यग्रहैरिव॥९॥

तानि चक्राणि वदनं प्रविशन्ति विभान्ति वै ।
मेघोदरदरीं घोरां चन्द्रसूर्यग्रहा इव॥१०॥

तानि चक्राणि सर्वाणि मृगेन्द्रेण महात्मना ।
निगीर्णानि प्रदीप्तानि पावकार्चिः समानि वै॥११॥

हिरण्यकाशपुर्दैत्यो भूयः प्रासृजदूर्जिताम् ।
शक्तिं प्रज्वलितां घोरां हुताशनसमप्रभाम्॥१२॥

तामापतन्तीं सम्प्रेक्ष्य मृगेन्द्रः शक्तिमुत्तमाम् ।
हुङ्कारेणैव रौद्रेण बभञ्ज भगवांस्तदा॥१३॥

रराज भन्ना सा शक्तिर्मृगेन्द्रेण महीतले ।
सविस्फुलिङ्गा ज्वलिता महोल्केव नभश्च्युता॥१४॥

नाराचपङ्क्तिः सिंहस्य सृष्टा रेजे विदूरतः ।
नीलोत्पलपलाशानां मालेवोज्ज्वलदर्शना॥१५॥

गर्जित्वा तु यथाकामं विक्रम्य च यथासुखम् ।
तत्सैन्यमुत्सारितवांस्तृणाग्राणीव मारुतः॥१६॥

ततोऽश्मवर्षं दैत्येन्द्रा व्यसृजन्त नभोगताः ।
नगमात्रैः शिलाखण्डैर्गिरिकूटैर्महाप्रभैः॥१७॥

नगमात्रैः वृक्षप्रमाणैः॥१७॥

तदश्मवर्षं सिंहस्य गात्रे निपतितं महत् ।
दिशो दश प्रकीर्णं हि खद्योतप्रकरो यथा॥१८॥

तदश्मौघैर्दितिसुतास्तदा सिंहमरिन्दमम् ।
प्राच्छादयन्यथा मेघा धाराभिरिव पर्वतम्॥१९॥

तदश्मेत्यादि॥१९॥

न च तं चालयामासुर्दैत्यौघा देवमास्थितम् ।
भीमवेगा बलश्रेष्ठं समुद्रा इव पर्वतम्॥२०॥

ततोऽश्मवर्षे निहते जलवर्षमनन्तरम् ।
धाराभिरक्षमात्राभिः प्रादुरासीत्समन्ततः॥२१॥

नभसः प्रच्युता धारास्तिग्मवेगाः सहस्रशः ।
आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा॥२२॥

धाराणां सन्निपातेन वायोर्विस्फूर्जितेन च ।
वर्धता चैव वर्षेण न प्राज्ञायत किञ्चन॥२३॥

धारा दिवि च संसक्ता वसुधायां च सर्वशः ।
न स्पृशन्ति स्म तं तत्र निपतन्त्योऽनिशं भुवि॥२४॥

न स्पृशन्ति मध्ये एव शुष्यन्तीत्यर्थः॥२४॥

बाह्यतो ववृषे वर्षं नोपरिष्टात्तु तोयदः ।
मृगेन्द्रप्रतिरूपस्य स्थितस्य युधि मायया॥२५॥

मृगेन्द्रस्योपरिष्टान्न अन्यत्र तु अस्तीत्यर्थः॥२५॥

हतेऽश्मवर्षे तुमुले जलवर्षे च शोषिते ।
ससृजुर्दानवा मायामग्निं वायुं च सर्वशः॥२६॥

नभसः प्रच्युतश्चैव तिग्मवेगः समन्ततः ।
ज्वालामाली महारौद्रो दप्तितेजाः समन्ततः॥२७॥

स सृष्टः पावकस्तेन दैत्येन्द्रेण महात्मना ।
न शशाक महातेजा दग्धुमप्रतिमौजसम्॥२८॥

तमिन्द्रस्तोयदैः सार्धं सहस्राक्षोऽमितद्युतिः ।
महता तोयवर्षेण शमयामास पावकम्॥२९॥

तस्यां प्रतिहतायां तु मायायां युधि दानवाः ।
ससृजुर्घोरसङ्काशं तमस्तीव्रं समन्ततः॥३०॥

तमसा संवृते लोके दैत्येष्वात्तायुधेषु वै ।
स्वतेजसा परिवृतो दिवाकर इवाबभौ॥३१॥

त्रिशिखां भ्रुकुटीं चास्य ददृशुर्दानवा रणे ।
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव॥३२॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि नारसिंहे पञ्चचत्वारिशोऽध्यायः॥४५॥
हिरण्यकशिपोः पराक्रमः

वैशम्पायन उवाच। ततः सर्वासु मायासु हतासु दितिनन्दनाः ।
हिरण्यकशिपुं सर्वे विषण्णाः शरणं गताः॥१॥

तत इति॥१॥

ततः प्रज्वलितः क्रोधात्प्रदहन्निव तेजसा ।
हिरण्यकशिपुर्देत्यश्चालयामास मेदिनीम्॥२॥

ततः प्रक्षुभिताः सर्वे सागराः सलिलाकराः ।
चलिता गिरयः सर्वे सकाननवनदुमाः॥३॥

तस्मिन्क्रुद्धे तु दैत्येन्द्रे तमोभूतमभूज्जगत् ।
तमसा सममूच्छन्नं न प्राज्ञायत किञ्चन॥४॥

आवहः प्रवहश्चैव विवहश्च समीरणः ।
परावहः संवहश्च उद्वहश्च महाबलः॥५॥

तथा परिवहः श्रीमान्मारुता भयशंसिनः ।
इत्येते क्षुभिताः सप्त मारुता गगनेचराः॥६॥

ये ग्रहाः सर्वलोकस्य क्षये प्रादुर्भवन्ति वै ।
ते ग्रहा गगने हृष्टा विचरन्ति यथासुखम्॥७॥

अयोगतश्च तारासु सर्वेष्वृक्षेषु सङ्गताः ।
सग्रहं सहनक्षत्रं प्रजज्वाल नमो नृप॥८॥

अयोगतः यथोक्तवृद्धिह्राससम्बन्धं विनातीव बुद्ध्यातीव ह्रासेन च नियतगतिरप्यनियतं जगाम॥८॥

विवर्णत्वं च भगवान्गतो दिवि दिवाकरः ।
कृष्णः कबन्धश्च महाँल्लक्ष्यते च नभस्तले॥९॥

विवर्णत्वं निष्प्रभत्वं कबन्धो राहुरदृश्योपि दृश्यत्वं गत इत्यर्थः॥९॥

अमुञ्चच्चासितां सूर्यो धूमवर्तिं भयावहाम् ।
गगनस्थश्च भगवानभीक्ष्णं परितप्यते॥१०॥

सप्त धूमनिभा घोराः सूर्या दिवि समुत्थिताः ।
सोमस्य गगनस्थस्य ग्रहास्तिष्ठन्ति शृङ्गगाः॥११॥

सप्त ग्रहाः सोमस्य शृङ्गगा इति योजना॥११॥

वामे च दक्षिणे चैव स्थितौ शुक्रबृहस्पती ।
शनैश्चरो लोहिताङ्गो लोहितार्कसमद्युतिः॥१२॥

समं समभिरोहन्ति दुर्गाणि गगनेचराः ।
शृङ्गाणि कनकैर्घोरा युगान्तावर्तका ग्रहाः॥१३॥

कनकैर्निर्मितानि शृङ्गाणि मेरोरित्यर्थात्॥१३॥

चन्द्रमाः सह नक्षत्रैर्ग्रहैः सप्तभिरावृतः ।
चराचरविनाशार्थं रोहिणी नाभ्यनन्दत॥१४॥

गृहीतो राहुण चन्द्र उल्काभिरभिहन्यते ।
उल्काः प्रज्वलिताश्चन्द्रे प्रचेलुर्घोरदर्शनाः॥१५॥

देवानामपि यो देवः सोऽभ्यवर्षत शोणितम् ।
अपतन्गगनादुल्का विद्युद्रूपाः सनिःस्वनाः॥१६॥

अकाले पादपाः सर्वे पुष्यान्ति च फलन्ति च ।
लताश्च सफलाः सर्वा याः प्राहुर्दैत्यनाशनम्॥१७॥

फले फलान्यजायन्त पुष्पे पुष्पं तथैव च ।
उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च॥२८॥

विक्रोशान्ति च गम्भीरं धूमयन्ति ज्वलान्ति च ।
प्रतिमाः सर्वदेवानां कथयन्ति युगक्षयम्॥१९॥

आरण्यैः सह संसृष्टा ग्राम्याच मृगपक्षिणः ।
चुक्रुशुर्भैरवं तत्र मृगेन्द्रे समुपस्थिते॥२०॥

नद्यश्च प्रतिलोमा हि वहन्ति कलुषोदकाः ।
अपराह्णगते सूर्ये लोकानां क्षयकारके॥२१॥

न प्रकाशन्ति च दिशो रक्तरेणुसमाकुलाः ।
वानस्पत्या न पूज्यन्ते पूजनार्हाः कथञ्चन॥२२॥

वानस्पत्याः चैतन्यदेवताः॥२२॥

वायुवेगेन हन्यन्ते भिद्यन्ते प्रणुदन्ति च ।
तदा च सर्वभूतानां छाया न परिवर्तते॥२३॥

अपराह्णगते सूर्ये लोकानां च युगक्षये ।
तदा हिरण्यकशिपोर्दैत्यस्योपरिवेश्मनः॥२४॥

अपराह्णगतेऽपि सूर्ये छाया न परिवर्तते निप्रभत्वात्सूर्यस्येत्यर्थः॥२४॥

भाण्डागारायुधागारे निविष्टमभवन्मधु ।
तथैव चायुधागारे धूमराजिरदृश्यत॥२५॥

मधु क्षौद्रपटलम्॥२५॥

स च दृष्ट्वा महोत्पातान्हिरण्यकशिपुस्तदा ।
पुरोहितं तदा शुक्रं वचनं चेदमब्रवीत्॥२६॥

किमथ भगवन्नन्ते महोत्पाताः समुत्थिताः ।
श्रोतुमिच्छामि तत्त्वेन परं कौतूहलं हि मे॥२७॥

शुक्र उवाच। श्रणु राजन्नवहितो वचनं मे महासुर ।
यदर्थमिह दृश्यन्ते महोत्पाता महाभयाः॥२८॥

यस्यैते सम्प्रदृश्यन्ते राज्ञो राष्ट्रे महासुर ।
देशो वा ह्रियते तस्य राजा वा बन्धमर्हति॥२९॥

अतो बुद्ध्या समीक्षस्व यथा सर्वं प्रणश्यति ।
बृहद्भयं हि न चिराद्भविष्यति न संशयः॥३०॥

एतावदुक्त्वा शुक्रस्तु हिरण्यकशिपुं तदा ।
स्वस्तीत्युक्त्वा तु दैत्येन्द्रं जगाम स्वं निवेशनम्॥३१॥

तस्मिन्गते स दैत्येन्द्रो ध्यातवान्सुचिरं तदा ।
आसाञ्चक्रे सुदीनात्मा ब्रह्मवाक्यमनुस्मरन् ।
असुराणां विनाशाय सुराणां विजयाय च॥३२॥

दृश्यन्ते विविधोत्पाता घोरा घोरनिदर्शनाः ।
एते चान्ये च बहवो घोरा द्युत्पातदर्शनाः॥३३॥

दैत्येन्द्राणां विनाशाय दृश्यन्ते कालनिर्मिताः ।
ततो हिरण्यकशिपुर्गदामादाय सत्वरम्॥३४॥

अभ्यद्रवत वेगेन धरणीमनुकम्पयन् ।
हिरण्यकशिपुर्दैत्यो पदा संसृष्टवान्महीम्॥३५॥

सन्दष्टौष्ठपुटः क्रोधाद्वराह इव पूर्वजः ।
मेदिन्यां कम्प्यमानायां दैत्येन्द्रेण महात्मना॥३६॥

महीधरेभ्यो नागेन्द्रा निपेतुर्भयविक्तवाः ।
विषज्वालाकुलैर्वक्त्रैर्विमुञ्चन्तो हुताशनम्॥३७॥

चतुःशीर्षाः पञ्चशीर्षाः सप्तशीर्षाश्च पन्नगाः ।
वासुकिस्तक्षकश्चैव कर्कोटकधनञ्जयौ॥३८॥

एलापत्रश्च कालीयो महापद्मश्च वीर्यवान् ।
सहस्रशीर्षधृङ्नागो हेमतालध्वजः प्रभुः॥३९॥

शेषोऽनन्तो महीपालो दुष्प्रकम्पः प्रकम्पितः ।
दीप्तान्यन्तर्जलस्थानि पृथिवीधरणानि च॥४०॥

पृथिवीधरणानि दिग्गजादीनि॥४०॥

तदा क्रुद्धेन दैत्येन कम्पितानि समन्ततः ।
पातालतलचारिण्यो नागतेजोधराः शिवाः॥४१॥

नागः शेषः तेजोधराः मणिगततेजोमूर्धानः॥४१॥

आपश्च सहसा क्रुद्धा दुष्प्रकम्प्यरसाः शुभाः ।
नदी भागीरथी चैव सरयूः कौशिकी तथा॥४२॥

यमुना चैव कावेरी कृष्णा वेणा तथैव च ।
सुवेणा च महाभागा नदी गोदावरी तथा॥४३॥

चर्मण्वती च सिन्धुश्च तथा नदनदीपतिः ।
मेकलप्रभवश्चैव शोणो मणिनिभोदकः॥४४॥

सुस्रोता नर्मदा चैव तथा वेत्रवती नदी ।
गोमती गोकुलाकीर्णा तथा पूर्णा सरस्वती॥४५॥

मही कालनदी चैव तमसा पुण्यवाहिनी ।
सिता चेक्षुमती चैव देविका च महानदी॥४६॥

जम्बूद्वीपं रत्नवन्तं सर्वरत्नोपशोभितम् ।
सुवर्णकूटकं चैव सुवर्णाकरमण्डितम्॥४७॥

महानदश्च लोहित्यः शैलकाननशोभितः ।
पत्तनं कौशिकारण्यं द्रविडं रजताकरम्॥४८॥

मागधांश्च महाग्रामानङ्गान्वङ्गांस्तथैव च ।
सुह्मान्मल्लान्विदेहांश्च मालवान्काशिकोसलान्॥४९॥

भुवनं वैनतेयस्य सुवर्णस्य च कम्पितम् ।
कैलासशिखराकारं यत्कृतं विश्वकर्मणा॥५०॥

रक्ततोयो भीमवेगो लौहित्यो नाम सागरः ।
शुभः पाण्डरमेघाभः क्षीरोदश्चैव सागरः॥५१॥

उदयश्चैव राजेन्द्र उच्छ्रितः शतयोजनम् ।
सुपर्णवेदिकः श्रीमान्नागपक्षिनिषेवितः॥५२॥

भ्राजमानोऽर्कसदृशैर्जातरूपमयैर्द्रुमैः ।
शालैस्तालैस्तमालैश्च कर्णिकाभिश्च पुष्पितेः॥५३॥

अयोमुखश्च विपुलः सर्वतो धातुमण्डितः ।
तमालवनगन्धश्च पर्वतो मलयः शुभः॥५४॥

सुराष्ट्राञ्च सुबाह्लीकाः शूराभीरास्तथैव च ।
भोजाः पाण्डयाश्च वङ्गाश्च कलिङ्गास्तानलिप्तकाः॥५५॥

तथैवान्ध्राश्च पुण्ड्राश्च वामचूडाः सकेरलाः ।
क्षोभिस्तास्तेन दैत्येन सदेवाः साप्सरोगणाः॥५६॥

अगस्तभुवनं चैव यदगम्यं पुरा कृतम् ।
सिद्धचारणसङ्घैश्च सेवितं सुमनोहरम्॥५७॥

विचित्रनागविहगं सुपुष्पितलताद्रुमम् ।
जातरूपमयैःशृङ्गेरप्सरोगणसेवितम्॥५८॥

गिरिः पुष्पतकश्चैव लक्ष्मीवान्प्रियदर्शनः ।
उत्थितः सागरं भित्त्वा वयस्यश्चन्द्रसूर्ययोः॥५९॥

रराज सुमहाशृङ्गैर्गगनं विलिखन्निव ।
सूर्यचन्द्रांशुसङ्काशैः सागराम्बुसमावृतः॥६०॥

विद्युद्वान्पर्वतः श्रीमानायातः शतयोजनम् ।
विद्युतां यत्र सम्पाता निपात्यन्ते नगोत्तमे॥६१॥

ऋषभः पर्वतश्चैव श्रीमानुषभसंस्थितः ।
कुञ्जरः पर्वतश्चैव यत्रागस्त्यगृहं महत्॥६२॥

विशाखरथ्या दुर्धर्षा सर्पाणामालया पुरी ।
तथा भोगवती चापि दैत्येन्द्रेणाभिकम्पिता॥६३॥

महामेघगिरिश्चैव पारियात्रश्च पर्वतः ।
चक्रवांस्तु गिरिः श्रेष्ठो वाराहश्चैव पर्वतः॥६४॥

प्राग्ज्योतिषपुरं चैव जातरूपमयं शुभम् ।
यस्मिन्वसति दुष्टात्मा नरको नाम दानवः॥६५॥

मेरुश्च पर्वतश्रेष्ठो मेघगम्भीरनिःस्वनः ।
षष्टिं तत्र सहस्राणि पर्वतानां विशाम्पते॥६६॥

तरुणादित्यसङ्काशो महेन्द्रश्च महागिरिः ।
देवावासः शुभः पुण्यो गिरिराजो दिवं गतः॥६७॥

हेमशृङ्गो महाशैलस्तथा मेघसखो गिरिः ।
कैलासश्चापि दुष्कम्पो दानवेन्द्रेण कम्पितः॥६८॥

यक्षराक्षसगन्धर्वैर्नित्यं सेवितकन्दरः ।
श्रीमान्मनोहरश्चैव नित्यं पुष्पितपादपः॥६९॥

हेमपुष्करसञ्छन्नं तेन वैखानसं सरः ।
कम्पितं मानसं चैव राजहंसैर्निषेवितम्॥७०॥

विशृङ्गः पर्वतश्चैव कुमारी च सरिद्वरा ।
तुषारचयसङ्काशो मन्दरश्चैव पर्वेतः॥७१॥

उशीरबीजश्च गिरी रुद्रोपस्थस्तथाद्विराट् ।
प्रजापतेश्च निलयस्तथा पुष्करपर्वतः॥७२॥

देवावृत्पर्वतश्चैव तथा वै वालुको गिरिः ।
क्रौञ्चः सप्तर्षिशैलश्च धूमवर्णश्च पर्वतः॥७३॥

एते चान्ये च गिरयो देशा जनपदास्तथा ।
नद्यश्च सागराश्चैव दानवेन्द्रेण कम्पिताः॥७४॥

कपिलश्च महीपुत्रो व्याघ्राक्षश्चैव कम्पितः ।
खेचराश्च निशापुत्राः पातालतलवासिनः॥७५॥

गणास्तथा परे रौद्रा मेघनादाङ्‌कुशायुधाः ।
ऊर्ध्वगो भीमवेगश्च सर्व एवाभिकम्पिताः॥७६॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि नारसिंहे षट्चत्वारिंशोऽध्यायः॥४६॥
हिरण्यकशिपोर्वधो ब्रह्मकृता नृसिंहस्तुतिश्च

वैशम्पायन उवाच। तत्रादित्याश्च साध्याश्च विश्वे च मरुतस्तथा ।
रुद्रा देवा महात्मानो वसवश्च महाबलाः॥१॥

वैशम्पायन उवाच- तत्रेति॥१॥

आगम्य ते मृगेन्द्रस्य सकाशं सूर्यवर्चसः ।
ऊचुः सन्त्रस्तमनसो देवा लोकक्षयार्दिताः॥२॥

जहि देव दितेः पुत्रं दानवं लोकनाशनम् ।
दुर्वृत्तमसदाचारं सह सर्वैर्महासुरैः॥३॥

त्वं ह्येषामन्तकृन्नान्यो दैत्यानां दैत्यनाशन ।
तन्नाशय हितार्थाय लोकानां स्वस्ति वै कुरु॥४॥

त्वं गुरुः सर्वलोकानां त्वमिन्द्रस्त्वं पितामहः ।
ऋते त्वदन्यच्छरणं न भूतं न भविष्यति॥५॥

तच्छ्रुत्वा वचनं देवो देवानामादिसम्भवः ।
ननाद सुमहानादमतिगम्भीरनिःस्वनम्॥६॥

पाटितान्यसुरेन्द्राणां मृगेन्द्रेण महात्मना ।
सिंहनादेन महता हृदयानि मनांसि च॥७॥

गणः क्रोधवशो नाम कालकेयस्तथा परः ।
वेगश्च वैगलेयश्च सहिकेयश्च वीर्यवान्॥८॥

संह्रादीयो महानादो महावेगस्तथा परः ।
कपिलश्च महीपुत्रो व्याघ्राक्षः क्षितिकम्पनः॥९॥

खेचराश्च निशापुत्राः पातालतलचारिणः ।
गणस्तथापरो रौद्रो मेघनादोऽङ्कुशायुधः॥१०॥

ऊर्ध्वगो भीमवर्गश्च भीमकर्मार्कलोचनः ।
वज्री शूली करालश्च हिरण्यकशिपुस्ततः॥११॥

जीमूतघनसङ्काशो जीमूत इव वेगवान् ।
जीमूतघनसन्नादो जीमूतसदृशद्युतिः॥१२॥

दृप्तेर्दैत्यगणैस्तुष्टो मृगेन्द्रेण महात्मना ।
देवारिर्दितिजो दृप्तो नृसिंहं समुपाद्रवत्॥१३॥

समुत्पत्य ततस्तीक्ष्णैर्मृगेन्द्रेण महानखैः ।
तत्रोङ्कारसहायेन विदार्य निहतो युधि॥१४॥

मही च लोकश्च शशी नभश्च ग्रहाश्च सूर्यश्च दिशश्च सर्वाः ।
नद्यश्च शैलाश्च महार्णवाश्च गताः प्रकाशं दितिपुत्रनाशात्॥१५॥

ततः प्रमुदिता देवा ऋषयश्च तपोधनाः ।
तुष्टुदुर्विविधैः स्तोत्रैरादिदेवं सनातनम्॥१६॥

देवा ऊचुः। यत्त्वया विहितं देव नारसिंहमिदं वपुः ।
एतदेवाचयिष्यन्ति परावरविदो जनाः ।
मृगेन्द्रत्वं च लोकेषु सर्वसत्वेषु वा विभो॥१७॥

गायन्ति त्वां च मुनयो मृगेन्द्र इति नित्यशः ।
त्वत्प्रसादात्स्वकं स्थानं प्रतिपन्नाः स्म वै विभो॥१८॥

एवमुक्तो देवसङ्घैर्नरसिंहो महामनाः ।
ब्रह्मा च परमप्रीतो विष्णोः स्तोत्रमुदैरयत्॥१९॥

ब्रह्मोवाच। भवानक्षरमव्यक्तमचिन्त्यं गुह्यमुत्तमम् ।
कूटस्थमकृतं कर्तृ सनातनमनामयम्॥२०॥

साङ्ख्ययोगे च या बुद्धिस्तत्त्वार्थपरिनिष्ठिता ।
तां भवान्वेद विद्यात्मा पुरुषः शाश्वतो ध्रुवः॥२१॥

त्वं व्यक्तश्च तथाव्यक्तस्त्वत्तः सर्वमिदं जगत् ।
भवन्मया वयं देव भवानात्मा भवान्प्रभुः॥२२॥

चतुर्विभक्तमूर्तिस्त्वं सर्वलोकविभुर्गुरुः ।
चतुर्युगसहस्रेण सर्वलोकान्तकान्तकः॥२३॥

चतुर्विभक्तमूर्तिः चतुर्धा विश्वतैजसप्राज्ञतुरीयेण नृसिंहतापनीयुद्युपनिषत्प्रसिद्धेन प्रकारेण विभक्तस्वरूपः॥२३॥

चतुर्वेदश्चतुर्होत्रश्चतुरात्मा सनातनः ।
प्रतिष्ठा सर्वभूतानामनन्तबलपौरुषः ।
कपिलप्रभृतीनां च यतीनां परमा गतिः॥२४॥

अनादिमध्यनिधनः सर्वात्मा पुरुषोत्तमः ।
स्रष्टा त्वं त्वं च संहर्ता त्वमेको लोकभावनः॥२५॥

भवान्ब्रह्मा च रुद्रश्च महेन्द्रो वरुणो यमः ।
भवान्कर्ता विकर्ता च लोकानां प्रभुरव्ययः॥२६॥

परां च सिद्धि परमं च देवं परं च मन्त्रं परमं मनश्च ।
परं च धर्मं परमं यशश्च त्वामाहुरग्र्यं पुरुषं पुराणम्॥२७॥

परं च सत्यं परमं हविश्च परं पवित्रं परमं च मार्गम् ।
परं च होत्रं परमं च यज्ञं त्वामाहुरग्र्यं पुरुषं पुराणम्॥२८॥

परं शरीरं परमं च धाम परं च योगं परमां च वाणीम् ।
परं रहस्यं परमां गतिं च त्वामाहुरग्र्यं पुरुषं पुराणम्॥२९॥

परं परस्थापि परं च यत्परं परं परस्यापि परं च देवम् ।
परं परस्यापि परं प्रभुं च त्वामाहुरग्र्यं पुरुषं पुराणम्॥३०॥

परं परस्यापि परं प्रधानं परं परस्यापि परं च तत्त्वम् ।
परं परस्यापि परं च धाता त्वामाहुरग्र्यं पुरुषं पुराणम्॥३१॥

परं परस्यापि परं रहस्यं परं परस्यापि परं परं यत् ।
परं परस्यापि परं तपो यत्त्वामाहुरग्र्यं पुरुषं पुराणम्॥३२॥

परं परस्यापि परं परायणं परं च गुह्यं च परं च धाम ।
परं च योगं परमं प्रभुत्वं त्वामाहुरग्र्यं पुरुषं पुराणम्॥३३॥

वैशम्पायन उवाच। एवमुक्त्वा स भगवान्सर्वलोकपितामहः ।
स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः॥३४॥

ततो नदत्सु तूर्येषु नृत्यन्तीष्वप्सरःसु च ।
क्षीरोदस्योत्तरं कूलं जगाम प्रभुरीश्वरः॥३५॥

उत्तरं कूलं श्वेतद्वीपम्॥३५॥

नारसिंहीं तनुं त्यक्त्वा स्थापयित्वा च तद्वपुः ।
पौराणं रूपमास्थाय ययौ स गरुडध्वजः॥३६॥

त्यक्त्वा अदृश्यां कृत्वा तद्वपुः तस्याः प्रतिमां पौराणं चैष्णवं चतुर्भुजादिलक्षणम्॥३६॥

अष्टचक्रेण यानेन भूतियुक्तेन शोभिना ।
अव्यक्तः प्रकृतिर्देवः संस्थानमगमत्प्रभुः॥३७॥

भूतयुक्तेन पञ्चमहाभूतघटितेन अष्टचक्रेण “अष्टौ ग्रहा अष्टावतिग्रहाः” इत्यादि श्रुतिप्रसिद्धशब्दश्रोत्रादिग्रहातिग्रहरूपैरानिशं चक्रवच्चाल्यमानेन देहेन साधनेन अव्यक्तप्रकृतिरप्यष्टाकृतिरहङ्कारान्निकृष्टादेव आत्मा नृसिंहरूपी स्वस्थानं निर्विशेषचिन्मात्रं स्वरूपम् “तद्विष्णोः परमं पदम्” इति श्रुतिप्रसिद्धमगमत्॥३७॥

एवं महात्मना तेन नृसिंहवपुषा तदा ।
देवेन निहतः पूर्वं हिरण्यकशिपुश्च सः॥३८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि नारसिंहप्रादुर्भावे हिरण्यकशिपुवधकथने सप्तचत्वारिंशोऽध्यायः॥४७॥
वामनप्रादुर्भावे बलेरभिषेकः

वैशम्पायन उवाच। नृसिंह एष कथितो भूयोऽयं वामनोऽपरः ।
यत्र वामनमास्थाय रूपं रूपविदां वरः॥१॥

नृसिंह इति॥१॥

बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा ।
विक्रमस्त्रिभिराक्रम्य त्रैलोक्यमखिलं हृतम्॥२॥

समुद्रवसना चोर्वी नानानगविभूषिता ।
हृत्वा दत्ता सुरेन्द्राय शक्राय प्रभविष्णुना॥३॥

जनमेजय उवाच। अत्र मे संशयो ब्रह्मन्नत्र कौतूहलं महत् ।
कथं नारायणो देवो वामनत्वमुपागतः॥४॥

अत्र मे इति। नारायण इति प्रख्यातरीत्या कृत्स्नब्रह्माण्डलयस्थानभूतब्रह्माण्डदेवासुरविभागमुपजीव्य देवानां पक्षपातेनासुरान् विध्वंसयतीत्युक्तं सर्वात्मनः स्वावयवेष्विव तेषु विषमबुद्ध्ययोगादिति शङ्कार्थः॥४॥

यः पुराणे पुराणात्मा भूत्वा नारायणः प्रभुः ।
पद्मनाभो महाबाहुर्लोकानां प्रकृतिर्ध्रुवः॥५॥

अनादिमध्यनिधनस्त्रैलोक्यादिः सनातनः ।
देवदेवः सुराध्यक्षः कृष्णो लोकनमस्कृतः॥६॥

हव्यकव्यवहः श्रीमान्हव्यकव्यभुगव्ययः ।
अदित्या देवमातुश्च कथं गर्भेऽभवत्प्रभुः ।
स्रष्टा यो वासवस्थापि स कथं वासवानुजः॥७॥

प्रसूतो देवदेवेशो विष्णुत्वं प्राप्तवान्कथम् ।
एतदाचक्ष्व मे विप्र प्रादुर्भावं महात्मनः॥८॥

विष्णुत्वं वामनस्यापि कथं त्रैलोक्यव्यापकत्वं चेति भावः॥८॥

वैशम्पायन उवाच। शृणु राजन्कथां दिव्यामर्चितामृषिपुङ्गवैः ।
पुराणैः कविभिः प्रोक्तां ब्रह्मोक्तां ब्राह्मणेरिताम्॥९॥

उत्तरमाह- शृण्विति। दिव्यां लौकिकदृष्टान्तागम्याम् अथापि ऋषिपुङ्गवैर्मन्त्रद्रष्टृप्रवरैरर्चितां कविभिर्ब्रह्मनिष्ठैः स्वानुभवप्रामाण्येन प्रकर्षेणोक्तां ब्रह्मोतां मन्त्रसूचितां ब्राह्मणे मन्त्रविवरणरूपेऽपि ईरिताम्। अयं भावः- “इन्द्रो मायाभिः पुरुरूप ईयते” इत्यादिश्रुतौ एकस्यां मायायामसमवेतं बहुवचनं पाशन्यायेन तदवयवेषु सत्त्वरजस्तमःसु पर्यवस्यति। तत्र सत्त्वप्रधानानि रूपाणि देवतादीनि। रजः प्रधानानि यक्षरक्षःप्रभृतीनि। तमःप्रधानानि भूतप्रेतादीनि त्रिविधानीन्द्रस्य रूपाणि। तैः सत्त्वकार्यं कदाचिदुपकरोति कदाचिदुभयस्याप्याभिभवं करोति उभयेनाप्यभिभूयते च। तदेवं मूलगुणानां यथा विरोध एवं तत्प्रधानानां देवादीनामपि। तत्र यथा सलिलस्य माधुर्यम् इक्षुद्राक्षादौ बीजगुणादतिशयेनाविर्भवति। निम्बूमरीचरसादौ तु निरवशेषेणावृत्तं भवति। औपाधिकं चाम्लकटुत्वादिकम् अतीव प्रकाशते। एवमिन्द्रस्य स्वरूपभूतं ज्ञानं सात्विकेषु देवतादिष्वाविर्भवति इतरेष्वनु तस्य तिरोभावः औपाधिकानां च कामक्रोधादीनामतिशयेनाविर्भावो भवति। इन्द्रस्यापि सविशेषरूपवतः स्वरूपप्रकाशहेतुत्वाद्देवेषु पक्षपातः। तत्तिरोधानहेतुत्वादितरेषु द्रोहश्च युज्यते। सति हीन्द्रस्य पञ्च रूपाणि भूबीजाङ्कुरतरुफलोपमानि शुद्धशबलसूत्रविराड्विष्णुसंज्ञानि। तत्र शुद्धं निर्विशेषम्। विष्णुस्तु सर्व विशेषयुक्तो राजवच्छिष्टेष्वनुग्रहं दुष्टेषु द्रोहं च करोतीति युज्यत एवं स्वाङ्गमपि “त्याज्यो दुष्टः प्रियोऽप्यासीद्दष्टोऽङ्गुष्ठ इवाहिना।” इति न्यायेन बाधितुं शक्यमेव। मायावित्वाच्चास्य वामनत्वं व्यापकत्वं च युज्यत इति सर्वमनवद्यम्॥९॥

मारीचस्य सुरेशस्य कश्यपस्य प्रजापतेः ।
अदितिर्दितिर्द्वे भार्ये भगिन्यौ जनमेजय॥१०॥

अदित्यां जज्ञिरे देवाः कश्यपस्य महात्मनः ।
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा॥११॥

इन्द्रो विवस्थान्पूषा च पर्जन्यो दशमस्तथा ।
तथैकादशमस्त्वष्टा द्वादशो विष्णुरुच्यते॥१२॥

दित्यां जातो हि बलवान्हिरण्यकशिपुः प्रभुः ।
तस्यानुजस्य दैत्येन्द्रो हिरण्याक्षः प्रतापवान्॥१३॥

हिरण्यकशिपोः पुत्राः पञ्च घोरपराक्रमाः ।
प्रह्रादश्चानुह्रादश्च जम्भः संह्राद एव च॥१४॥

विरोचनश्च प्राह्लादिस्तिस्य पुत्रो बलिः स्मृतः ।
पुत्रपौत्रं च बलवत्तेषामक्षयमव्ययम्॥१५॥

तेजस्विनां सुरारीणां दैत्येन्द्राणां मनस्विनाम् ।
गणाः सुबहुशो राजन्देशे देशे सहस्रशः॥१६॥

ते दृष्ट्वा नारासिंहेन हिरण्यकशिपुं हतम् ।
दैत्या देववधार्थाय बलिमिन्द्रं प्रचक्रिरे॥१७॥

दृष्ट्वा धर्मपरं नित्यं सत्यवाक्यं जितेन्द्रियम् ।
शौर्याध्ययनसम्पन्नं सर्वज्ञानविशारदम्॥१८॥

परावरगृहीतार्थं तत्वदार्शिनमव्ययम् ।
तेजस्विनं सुररिपुं हिरण्यकशिपुं यथा॥१९॥

अभिषेकेण दिव्येन बालं वैरोचनिं तथा ।
दैत्याधिपत्ये दितिजास्तदा सर्वेऽभ्यपूजन्॥२०॥

अभिषिक्तस्तदा दैत्यैर्बलिर्बलवतां वरः ।
ब्रह्मणा चैव तुष्टेन हिरण्यकशिपोः पदे॥२१॥

अभिषिक्तोऽसुरगणैर्बलिर्वैरोचनिस्तदा ।
काञ्चनैः कलशैःस्फीतैः सर्वतीर्थाम्बुसंवृतैः॥२२॥

जयशब्दं ततश्चक्रुराभिषिक्तस्य दानवाः ।
बलेरतुलवीर्यस्य सिंहासनगतस्य वै॥२३॥

कृत्वेन्द्रं दानवाः सर्वे बालिं बलवतां वरम् ।
तपो विज्ञापयामासुः शिरोभिः पतिताः क्षितौ॥२४॥

दैत्या ऊचुः। विदितं तव दैत्येन्द्र हिरण्यकशिपो यथा ।
त्रैलोक्यमासीदखिलं जगत्स्थावरजङ्गमम्॥२५॥

पितामहं तु हत्वा ते सुरेश्वरनिषूदन ।
हृतं तदैव त्रैलोक्यं शक्रश्चैवाभिषेचितः॥२६॥

तत्पितामहराज्यं त्वं प्रत्याहर्तुमिहार्हसि ।
अस्माभिः सहितो नाथ त्रैलोक्यमिदमव्ययम् ।
प्रत्यानयस्व भद्रं ते राज्यं पैतामहं प्रभो॥२७॥

असुरगणसहस्रसंवृतस्त्वं जय दिवि देवगणान्महानुभावान् ।
अमितबलपराक्रमोऽसि राजन्नतिशयसे स्वगुणैः पितामहं स्वम्॥२८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामने बलेरभिषेके अष्टचत्वारिंशोऽध्यायः॥४८॥
त्रैलोक्यविजयार्थं बलेरुद्योगः मयस्य युद्धाभिगमनं च

वैशम्पायन उवाच। निशम्य तेषां वचनं महामतिबलिस्तदा प्रीतमना महाबलः ।
आज्ञापयास स दैत्यकोटिं त्रैलोक्यमद्यैव जयाम सर्वम्॥१॥

तस्य तद्वचनं श्रुत्वा बलेर्वैरोचनस्य तु ।
उद्योगं परमं चक्रुर्दानवा युद्धदुर्मदाः॥२॥

महपद्मो निकुम्भश्च कुम्भकर्णश्च वीर्यवान् ।
काञ्चनाक्षः कपिस्कन्धो मैनाकः क्षितिकम्पनः॥३॥

शितकेशोर्ध्ववक्त्रश्च वज्रनाभः शिखी जटी ।
सहस्रबाहुर्विकटो व्याघ्राक्षः प्रियदर्शनः॥४॥

एकाक्ष एकपान्मुण्डो विद्युदक्षश्चचतुर्भुजः ।
गजोदरो गजशिरा गजस्कन्धो गजेक्षणः॥५॥

अष्टदंष्ट्रश्चतुर्वक्त्रो मेघनादी जलन्धरः ।
करालो ज्वालजिह्वास्यः शताङ्गः शतलोचनः॥६॥

सहस्रपादः समुखः कृष्णश्चैव महासुरः ।
रणोत्कटो दानपतिः शैलकम्पी कुलाकुलिः॥७॥

समुद्रो रभसश्चण्डो धूम्रश्चैव महासुरः ।
गोत्रजो गोक्षुरो रौद्रो गोदन्तः स्वस्तिको ध्रुवः॥८॥

मांसली मांसभक्षश्च वेगवान्केतुमाञ्छिबिः ।
पङ्कदिग्धशरीरश्च बृहत्कीर्तिमेहाहनुः॥९॥

समप्रभो विकुम्भाण्डो विरूपाक्षो महोदरः ।
श्वेतशीर्षश्चन्द्रहनुश्चन्द्रहा चन्द्रतापनः॥१०॥

विक्षरो दीर्घबाहुश्च मद्यपो मारुताशनः ।
तालजङ्घो महाभागः सरभः शलभः क्रथः॥११॥

समुद्रमथनो नादी विततश्च महाबलः ।
प्रलम्बो नरको व्याली धेनुकः काललोचनः॥१२॥

वरिष्ठश्च गरिष्ठश्च भूतलोमा तथा विधुः ।
दुष्प्रसादः किरीटी च सूचीवक्त्रो महासुरः॥१३॥

सबाहुः कञ्जवाहुश्च करणः कलशोदरः ।
सोमपो देवयाजी च प्रवरो वीरमर्दनः॥१४॥

सुपथः खण्डमुक्तिश्च शिखिनेत्रः शिखिध्वजः ।
यथास्मृति मया प्रोक्ता मरीचेः कीर्तिवर्धनाः॥१५॥

एते चान्ये च बहवो नानाभूषणभूषिताः ।
रथौघैर्बहुसाहस्रैर्ययुर्योद्धमारिन्दमाः॥१६॥

दिव्याम्बरधरा दैत्या दिव्यमाल्यानुलेपनाः ।
दिव्यैश्च कवचैर्नद्धा दिव्यैश्चैवोच्छ्रितैर्ध्वजैः॥१७॥

दिव्यायुधधरा दैत्या गर्जमाना यथाम्बुदाः ।
बृहद्धी रथघोषैश्च चालयन्तो वसुन्धराम्॥१८॥

महाबला दिव्यबलास्त्रधारिणो भुजङ्गभोगप्रतिमैर्महाभुजैः ।
सुदुर्जया दैत्यवृषाः सुरारयो दितिप्रिया लोहितलोहितेक्षणाः॥१९॥

ते जग्मुरर्कज्वलनेन्द्रवीर्या महेन्द्रवज्राशनितुल्यवेगाः ।
विवृत्तदंष्ट्रा हरिधूम्रकेशा विवर्धमानाः शरदीव मेघाः॥२०॥

सहस्रबाहुर्बाणच बलेः पुत्रो महाबलः ।
स्थातिरथकोट्या वै सन्नह्यत महाबल॥२१॥

सर्वे मायाधरा दैत्याः सर्वे दिव्यास्त्रयोधिनः ।
सर्वे मदबलोत्सिक्ताः सर्वे लब्धवराः पुरा॥२२॥

सर्वे काञ्चनशैलाभाः पीतकौशेयवाससः ।
किरीटोष्णीषमुकुटा दिव्यभूषणभूषिताः॥२३॥

हिरण्यकवचाः सर्वे हिरण्यध्वजकेतवः ।
स्यन्दनस्था व्यराजन्त शारदा इव खे ग्रहाः॥२४॥

तापनीयैर्वरैर्निष्कैरनलज्वलितप्रभैः ।
हेमपर्वतशृङ्गस्थाः पुष्पिता इव किंशुकाः॥२५॥

तेषां मध्यगतो बाणः प्रावृषीवोत्थितो घनः ।
स्थितः शक्तिगदापाणिस्त्रिनल्वप्रतिमे रथे॥२६॥

विचित्राश्वध्वजयुगे चित्रभक्तिविराजिते ।
गदापरिघसम्पूर्णे हेमजालविभूषिते॥२७॥

अन्वीयमानो दितिजैर्वालखिल्यैरिवांशुमान् ।
नानाप्रहरणैर्घोरैस्तीक्ष्णदंष्ट्रैरिवोरगैः॥२८॥

पञ्च तस्य महावीर्या दानवा युद्धदुर्मदाः ।
ररक्षू रथमव्यग्रा व्यादितास्या भयावहाः॥२९॥

सुबाहुर्मेघनादश्च भीमगर्भश्च वीर्यवान् ।
तथा कनकमूर्धा च वेगवान्केतुमानिति॥३०॥

कनकरजतभक्तिचित्रपार्श्वेपतगपतिप्रतिमे रथे स्थितोऽभूत् ।
जलदानिनदुतुल्यनेमिघोषे सुरगणसैन्यवधाय दानवेन्द्रः॥३१॥

अनायुषायाः पुत्रस्तु बलो नाम महासुरः ।
वृतः शतसहस्रेण रथानां भीमवर्चसाम्॥३२॥

युक्तमृक्षसहस्रेण रथमारुह्य वीर्यवान् ।
नीलायसमयं घोरं वायसाङ्कं सुदुर्जयम्॥३३॥

नीलाम्बरधरः श्रीमान्वैदूर्याचलसन्निभः ।
महता रथवेगेन प्रययौ दानवस्तदा॥३४॥

तत्रैकार्णवसङ्काशे सैन्यमध्ये व्यराजत ।
प्रभातसमये श्रीमान्त्समुद्रस्थ इवांशुमान्॥३५॥

सुतप्तजाम्बूनदतुल्यवर्चसा निशाकराकारतडिद्‌गुणाकरः ।
किरीटमुख्येन विभाति शोभिना यथा गिरिः शृङ्गवरेण भास्वता॥३६॥

षष्टी रथसहस्राणि नमुचेरसुरस्य वै ।
खरयुक्तानि सर्वाणि मेघतुल्यरवाणि च॥३७॥

नानाप्रहरणाः सर्वे सर्वे ते चित्रयोधिनः ।
महाभ्रधनसङ्काशा वेगवन्तो महाबलाः॥३८॥

रथो व्याघ्रसहस्रेण युक्तः परमवेगवान् ।
नमुचेरसुरेन्द्रस्य सर्वरत्नाविभूषितः॥३९॥

शार्दूलचिह्नः शुशुभे तस्य केतुर्हिरण्मयः ।
रथमध्ये सुरेशस्य मध्यन्दिनरविर्यथा॥४०॥

स भीमवेगश्च महाबलश्च प्रगृह्य चापं हिमवानिव स्थितः ।
नीलाम्बरः काञ्चनपट्टनद्धो दिशागजो यदुपेतकक्षः॥४१॥

किङ्किणीजालनिर्घोषं तपनीयविभूषितम् ।
सपताकध्वजोपतं ससन्ध्यमिव तोयदम्॥४२॥

चक्रैश्चतुर्भिः संयुक्तमष्टनल्वायतान्तरम् ।
हेमजालाकुलं दीप्तं कालचक्रमिवोदितम्॥४३॥

नानायुधधरं घोरं व्याघ्रचर्मपरिष्कृतम् ।
ईहामृगगणाकीर्णं चित्रभक्तिविराजितम्॥४४॥

तूणीरशरसम्पूर्णे शक्तितोमरसङ्कुलम् ।
गदामुद्गरसम्बाधं चापरत्नविभूषितम्॥४५॥

युक्तमृक्षसहस्रेण लम्बकेसरवर्चसा ।
राजतेन विकीर्णेन शोभितं सिंहकेतुना॥४६॥

स तेन शुशुभे दैत्यो मयो मायाविसर्पिणा ।
रथरत्ने स्थितः श्रीमानुदयस्थ इवांशुमान्॥४७॥

विमलरजतबिन्दुशोभिताङ्गं मणिकनकोज्ज्वलचारुभक्तिचित्रम् ।
अयुतशतसहस्रमूर्जितानां मयमनुयाति तदा महारथानाम्॥४८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे मयस्य युद्धाभिगमने एकोनपञ्चाशत्तमोऽध्यायः॥४९॥
शम्बरादिदैत्यसन्नहनम्

वैशम्पायन उवाच। पुलोमा तु महादैत्यस्तिमिराकारगह्वरम् ।
आरुरोहायसं घोरं रथं पररथारुजम्॥१॥

उत्कर्णपर्वताकारं लोहजालान्तरान्तरम् ।
नेमिघोषेण महता क्षुभ्यन्तमिव सागरम्॥२॥

गदापरिघनिस्त्रिंशः सतोमरपरश्वधैः ।
शक्तिमुद्गरसङ्कीर्णं सतोयमिव तोयदम्॥३॥

रथमुष्ट्रसहस्त्रेण संयुक्तं वायुवेगिना ।
पुलोमाऽऽरुह्य युद्धाय प्रस्थितो युद्धदुर्मदः॥४॥

षष्टी रथसहस्राणि पुलोमानं महारथम् ।
अन्वयुः सूर्यवर्णानि प्रदीप्तानीव तेजसा॥५॥

खड्गध्वजेन महता तप्तकाञ्चनवर्चसा ।
भ्राजते रथमध्यस्थः पर्वतस्थ इवांशुमान्॥६॥

सुचारुचामीकरपट्टनद्धां महागदां कालनिभां महाबलः ।
प्रगृह्य बभ्राज स शत्रुमध्ये कार्ष्णायसीं केतुरिवास्थितोर्व्याम्॥७॥

हयग्रीवस्तु बलवान्हयग्रीवैर्महासुरैः ।
वृतः शतसहस्रेण रथानां रथिसत्तमः॥८॥

धराधरनिभाकारं सपत्नानीकमर्दनम् ।
स्यन्दनं भीममास्थाय युद्धायाभिमुखः स्थितः॥९॥

श्वेतशैलप्रतीकाशः श्वेतकुण्डलभूषणः ।
शुशुभे रथमध्यस्थः श्वेतशृङ्ग इवाचलः॥१०॥

महता सप्तशीर्षेण शोभितो नागकेतुना ।
वैडूर्यमणिचित्रेण प्रवालाङ्कुरशोभिना॥११॥

अमितबलपराक्रमाकृतीनां वररथिनामनुजग्मुरूर्जितानाम् ।
असुरगणशताभिगच्छमानं त्रिदशगणा इव वासवं प्रयान्तम्॥१२॥

प्रह्रादस्तु महाप्राज्ञः सर्वशास्त्रविशारदः ।
सर्वमायाधरः श्रीमान् यष्टाक्रतुशतैरपि॥१३॥

समनह्यात तेजस्वी पावकार्चिःसमप्रभः ।
स्थानीकेन महता दुर्दिनाम्भोदनादिना॥१४॥

शूरेणामितवीर्येण हेमकुण्डलधारिणा ।
वृतो दैत्यसहस्रेण देवैरिव पितामहः॥१५॥

स्ववीर्यादग्रणीर्दृप्तो मत्तवारणविक्रमः ।
सुरसैन्यस्य सर्वस्य प्रतिक्षोभ इव स्थितः॥१६॥

स्ववीर्येणोदधेस्तुल्यः प्रदीप्ताग्निरिव ज्वलन् ।
तेजसा भास्कराकारः क्षमया पृथिवीसमः॥१७॥

तालध्वजेन दीप्तेन रथेनातिविराजता ।
तं यान्तमनुयान्ति स्म दानवाः शतसङ्घशः॥१८॥

सर्वे हिरण्यकवचाः सर्वे रत्नाविभूषिताः ।
दिव्याङ्गरागाभरणाः समरेष्वनिवर्तिनः॥१९॥

जाम्बूनदविचित्राङ्गा वैडूर्यविकृताङ्गदाः ।
दिव्यस्यन्दनमध्यस्थाः स्वस्था इव महाग्रहाः॥२०॥

आचारवांश्चैव जितेन्द्रियश्च धर्मे रतः सत्यपरोऽनसूयः ।
स्थितोऽग्नितोयाम्बुदवायुकल्पो रूपी यथा सर्वहरः कृतान्तः॥२३॥

शम्बरस्तु महामायो रथयूथपयूथपः ।
आरुरोह रथं दिव्यं सर्वयुद्धविशारदः॥२२॥

लोहिताक्षो महाबाहुः प्रतप्तोत्तमकुण्डलः ।
जीमूतघनसङ्काशो दिव्यस्रगनुलेपनः॥२३॥

विद्युज्ज्योतिर्निकाशेन मुकुटेनार्कवर्चसा ।
मणिरत्नविचित्रेण वैडूर्यवरशोभिना॥२४॥

तपनीयेन महता कवचेन विराजता ।
सन्ध्याभ्रेणेव सञ्च्छन्नः श्रीमानस्तशिलोच्चयः॥२५॥

त्रिंशच्छतसहस्राणि दैत्यानां चित्रयोधिनाम् ।
बलिनां कालकल्पानामन्वयुः शम्बरं तदा॥२६॥

युक्तं हयसहस्रेण शुक्लवर्णेन राजता ।
कौञ्चध्वजेन दीप्तेन रथेनाहवशोभिना॥२७॥

व्यासक्तवैडूर्यसुवर्णजालं नानाविहङ्गैरपि भक्तिचित्रम् ।
विद्युत्प्रभं भीमरवं सुवेगं रथं समारुह्य रराज दैत्यः॥२८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे शम्बरादिदैत्यसन्नहने पञ्चाशत्तमोऽध्यायः॥५०॥
सुरासुरयुद्धे बलेः स्वयमुद्योगवर्णनम्

वैशम्पायन उवाच। अनुह्रादश्च तत्रैव दैत्यः परमदुर्जयः ।
हिरण्यकशिपोः पुत्रः प्रययौ युद्धलालसः॥१॥

अनुह्रादश्चेति॥१॥

चतुश्चक्रेण यानेन त्रिनल्वप्रतिमेन तु ।
युक्तेनाश्वैर्महावीर्यैः सिंहवक्त्रैरजिह्मगैः॥२॥

त्रिनल्वा द्वादशशतहस्तोच्छ्राया प्रतिमा यस्य तेन॥२॥

भीमगम्भीरनादेन नेमिघोषेण वीर्यवान् ।
चालयन्वसुधां सर्वां सशैलवनकाननाम्॥३॥

विनर्दमाना दैत्यौघा अनुह्रादं ययुः शुभाः ।
शतं शतसहस्त्राणां रथानां हेममालिनाम्॥४॥

परिघैर्भिन्दिपालेश्च भलैः पाशैः परश्वधैः ।
विविधायुधहस्तास्ते शूलमुद्गरपाणयः॥५॥

सुवर्णजालनिर्मुक्तैर्वज्रैश्च समलङ्कृताः ।
रथैश्चित्रैश्च कवचैः सज्जमाना महासुराः॥६॥

तदा विशालोच्छ्रितशैलरूपे बभौ रथे काञ्चनचित्रिताङ्गे ।
दैत्याधिपः सत्त्वबलानुरूपे समास्थितस्त्वप्रतिमे सुरूपे॥७॥

विरोचनश्च बलवान्वैश्वानरसमयतिः ।
महता रथवंशेन सर्वास्त्रकुशलः शुचिः॥८॥

व्यूहानां विनियोगज्ञो ज्ञानविज्ञानतत्त्ववित् ।
बलेः पिता सुरवरः सुराणामिव वासवः॥९॥

सर्वायुधसमोपेतं किङ्किणीजालभूषितम् ।
युक्तानां वाजिमुख्यानां सहस्रेणाशुगामिनाम्॥१०॥

रथमारुह्य दैत्येन्द्रो बभौ मेरुरिवापरः ।
किङ्किणीजालपर्यन्तं गजेन्द्रध्वजशोभितम् ।
सन्ध्याभ्रसमवर्णाभिः पताकाभिरलङ्कृतम्॥११॥

प्रवालजाम्बूनदभक्तिचित्रं व्यालं विकारान्तरनेमिघोषम् ।
रथं समारुह्य किरीटमाली ययौ स युद्धाय महासुरेन्द्रः॥१२॥

विरोचनानुजश्चैव कुजम्भो नाम दानवः ।
स्यन्दनैर्बहुसाहस्त्रैर्मणिकाञ्चनभूषितैः॥१३॥

वृतो मदबलोत्सिक्तैर्देवारिभिररिन्दमः ।
प्रासपाशगदाहस्तैर्दानवैर्युद्धकाङ्क्षिभिः॥१४॥

स पर्वतनिभाकारो भिन्नाञ्जनचयप्रभः ।
महता भ्राजमानेन किरीटेन सुवर्चसा॥१५॥

भिन्नाञ्जनचयप्रभः कज्जलगुटिकागर्भवतः कृष्णः॥१५॥

सर्वरत्नविचित्रेण कवचेन च संवृतः ।
महता दीप्तवपुषा रथेनेन्दुरिवांशुमान्॥१६॥

शातकौम्भेन महता तालवृक्षेण केतुना ।
रराज रथमध्यस्थो मेरुस्थ इव भास्करः॥१७॥

रणपटुरतिवीर्यसत्त्वबुद्धिः सुरसमराभिमुखः प्रयाति तूर्णम् ।
असुरगणसमावृतः कुजम्भस्त्रिदशगणैरिव वृत्रहामरेन्द्रः॥१८॥

असिलोमा च तत्रैव दानवः पर्वतायुधः ।
दारुणं वपुरास्थाय दारुणो दारुणाननः॥१९॥

रौद्रः शकटचक्राक्षो महाकायो महाबलः ।
कृष्णवासा महादंष्ट्रः किरीटी लोहिताननः॥२०॥

वृतो दैत्यसहस्रोघैर्गिरिपादपयोधिभिः ।
नानारूपधरैर्दृप्त्यैस्त्रिदशशत्रुभिः॥२१॥

ते शूलहस्ता गगने चरन्त इतस्ततस्तोयदवृन्दतुल्याः ।
खं छादयन्तस्तपनीयनिष्का यथोन्नताः प्रावृषि कालमेघाः॥२२॥

तपनीयनिष्काः सुवर्णमयपदकालङ्काराः॥२२॥

अनायुषायाः पुत्रस्तु वृत्रो नाम महासुरः ।
देवशत्रुर्महाकायस्ताम्रास्यो निर्नतोदरः॥२३॥

दीप्तजिह्नो हरिश्मश्रुरूर्ध्वरोमा महाहनुः ।
नीलाङ्गो लोहितमुखः किरीटी लोहिताम्बरः॥२४॥

आजानुबाहुर्विकृतः श्वेतदंष्ट्रो विभीषणः ।
महामायाधरो भीमो हेमकेयूरभूषणः॥२५॥

महता मणिचित्रेण कवचेन तु संवृतः ।
हेममालाधरो रौद्रश्चककेतुरमर्षणः॥२६॥

किङ्किणीशतसङ्घुष्टं तपनीयविभूषितम् ।
युक्तं हयसहस्रेण रक्तध्वजपताकिनम्॥२७॥

रथानीकेन महता युद्धायाभिमुखो ययौ ।
दिव्यं स्यन्दनमास्थाय दैत्यानां नन्दिवर्धनः॥१८॥

तपितकनकबिन्दुपिङ्गलाक्षो दितितनयोऽसुरसैन्ययुद्धनेता ।
विकसितकमलाभचारुचक्षुः सितदशनः शुशुभे रथासनस्थः॥२९॥

एकचक्रस्तु तत्रैव सूर्यचक्र इवोदितः ।
कालचक्रसमो रौद्रश्चक्रायुध इवोद्यतः ।
सर्वायसमयं दिव्यं रथमास्थाय भासुरम्॥३०॥

वृतो दैत्यगणैर्दृप्तैः कालायसशिलायुधैः ।
तस्याशीतिसहस्राणि रथिनां चित्रयोधिनाम्॥३१॥

सर्वे कालान्तकप्रख्या रुधिराक्षा महाबलाः ।
आयसैः काञ्चनैश्चैव सन्नद्धा वरवर्णिनः॥३२॥

व्यराजन्तान्तरिक्षस्था नीला इव पयोधराः ।
सन्दष्टौष्ठपुटा घोरा महाकाया महासुराः ।
वधाय सुरसैन्यस्य सन्नह्यन्त महाबलाः ।
सर्वे कालान्तकप्रख्या धीराःसमरदुर्जयाः॥३३॥

सागरोदरगम्भीरा नीलवक्रा दुरासदाः ।
रेजुर्यान्तोऽसुरवरा वेलातीता इवार्णवाः॥३४॥

ते भीममायाः सुसमृद्धकायाः किरीटिनः काञ्चनभूषिताङ्गाः ।
ययुस्तदा स्वायुधदीप्तहस्ता नभः सपक्षा इव पर्वतेन्द्राः॥३५॥

सन्दिष्टो बलिपुत्रेण वृत्रम्राजा महासुरः ।
वधाय सुरसैन्यस्य सन्नह्यस्वेति वीर्यवान्॥३६॥

हेमताली महादंष्ट्रः स्रग्वी रुचिरकुण्डलः ।
रक्तमाल्याम्बरधरश्चण्डः समरदुर्जयः॥३७॥

सुमहावृत्तनयनः स किरीटी धनुर्धरः ।
प्रभिन्न इव मातङ्गः शार्दूलसमविक्रमः॥३८॥

महातालनिभं चापं तथा रुचिरसायकम् ।
विस्फारयन्महावेगं वज्रनिष्पेषनिःस्वनम्॥३९॥

रथेन खरयुक्तेन ध्वजेन भुजगेन ह ।
शुशुभे स्यन्दनस्थः स सन्ध्यागत इवांशुमान्॥४०॥

रथैस्तु बहुसाहस्रैर्हेमपट्टविभूषितैः ।
कूटमुद्गरसम्पूर्णैर्जलपूर्णैरिवाम्बुदैः ।
स दैत्येन्द्रोऽभिचक्राम तस्मिन्युद्ध उपस्थिते॥४१॥

पवनसमगतिविशालवक्षा विकसितप‌ङ्कजचारुगर्भगौरः ।
प्रवररथगतो ययौ स तूर्णं त्रिदशगणैरभिलक्षित प्रभावः॥४२॥

सिंहिकातनयश्चैव राहुर्नाम महासुरः ।
विकटः पर्वताकारः शतशीर्षा शतोदरः॥४३॥

पीतमाल्याम्बरधरो जाम्बूनदविभूषितः ।
स्निग्धवैडूर्यसङ्काशः पद्मपत्रानभेक्षणः॥४४॥

सर्वकाञ्चनसंयुक्तं मणिजालपरिष्कृतम् ।
पताकाशतसङ्कीर्णं युक्तं परमवाजिभिः॥४५॥

आरुरोह रथं दिव्यं दैत्यः परमवीर्यवान् ।
ननाद च महानादं कम्पयन्वसुधातलम्॥४६॥

मयेन विहितो दिव्यस्तस्य केतुर्हिरण्मयः ।
मयूरपक्षसङ्काशं कवचं चायसं महत्॥४७॥

भीमवेगरवैश्चान्यै रथैर्दिव्यैः सुभासुरैः ।
नानाप्रहरणाकीर्णैः सेव्यमानो महाबलः॥४८॥

असुरगणपतिर्गजेन्द्रगामी अतिरभसगतिर्महासुराणाम् ।
अरिगणमाभितो विभुः प्रयातो गिरिवरमस्तमिवांशुमान्त्सुप्तिः॥४९॥

विप्रचित्तिस्तु तत्रैव दनोर्वंशविवर्धनः ।
कश्यपस्यात्मजः श्रीमान्ब्रह्मणस्तेजसा समः॥५०॥

यष्टा क्रतुसहस्राणां वेदवित्तपसाऽन्वितः ।
स्वयम्भुवा दत्तवरो वरदश्च स्वयम्भुवः ।
ईशित्वं च महत्त्वं च वशित्वं च महाद्युतेः॥५१॥

वरदश्च स्वयम्भुवः ब्रह्मञोऽपि मान्य इत्यर्थः। लोकान्मा नाशयेति ब्रह्मणा प्रार्थितः सन् तस्मै वरद इत्यर्थः॥५१॥

ऐश्वर्यगुणसम्पन्नो ब्रह्मेव स्वयमूर्जितः ।
सार्धं पुत्रैश्च पौत्रैश्च सन्नह्यत महाबलः॥५२॥

सन्नह्यत समनह्यत अडभाचः॥५२॥

सर्वे मायाधराः शूराः कृतास्त्रा रणदुर्जयाः ।
सर्वे कमलवर्णाभा हेमकूटोच्छ्रयोच्छ्रयाः॥५३॥

सर्वे रजतसङ्काशाः कैलासशिखरोपमाः ।
मयेन निर्मितास्तेषां सर्वे मायामया रथाः॥५४॥

विचरन्तो व्यराजन्त शारदा इव तोयदाः ।
सर्वे हंसध्वजाः श्वेताः श्वेतदण्डसमुच्छ्रयाः॥५५॥

श्वेताम्बरधरा दैत्याः श्वेतमाल्यविभूषिताः ।
श्वेतातपत्राः सर्वे ते श्वेतकुण्डलमण्डिताः॥५६॥

मुक्ताहारवृतोरस्का भान्ति नाकेश्वरा इव ।
महाग्रहनिभाकाराः शत्रूणां लोमहर्षणाः॥५७॥

रक्तचित्राम्बरधराश्चित्राभरणभूषिताः ।
त्रैलोक्यविजयं नाम रथमास्थाय वीर्यवान् ।
कैलासशिखराकारमष्टनल्वायतान्तरम्॥५८॥

युक्तं वाजिसहस्रेण सितेन शिववर्चसा ।
पताकाशतसञ्छन्नं नानायुधविकल्पितम्॥५९॥

हिमांशुकुन्दप्रतिमं विशालं सितातपत्रं दनुजेश्वरस्य ।
विभाति तस्योपरि धार्यमाणं श्वेताद्रिमूर्धोपगतः शशाङ्कः॥६०॥

केशी दानवमुख्यस्तु जिह्मस्ताम्राक्षदर्शनः ।
नीलमेघचयप्रख्यः कालः पुरुषविग्रहः॥६१॥

महाग्रहनिभाकारः शत्रूणां लोमहर्षणः ।
चित्रमाल्याम्बरधरो रक्ताभरणभूषितः॥६२॥

शताक्षः शतबाहुश्च हरिश्मश्रुर्महाबलः ।
शङ्कुकर्णो महानादो वपुषा घोरदर्शनः॥६३॥

युक्तं महिषकैर्दिव्यैर्घण्टाकोटिकृतस्वनम् ।
महावारिधराकारमास्थाय रथमुत्तमम्॥६४॥

ध्वजेनोष्ट्रेण महता नीलकेसरवर्चसा ।
नानारागविचित्राभिः पताकाभिर्विभूषितम्॥६५॥

द्विपञ्चाशत्सहस्राणि रथानामुग्रवर्चसाम् ।
ययुस्तस्यासुरेन्द्रस्य प्रयातस्य सुरान्प्रति॥६६॥

भान्ति भिन्नाञ्जननिभाः प्रयातस्य महात्मनः ।
दंष्ट्रार्धचन्द्रवदनाः सबलाका इवाम्बुदाः॥६७॥

तत्तस्य वैडूर्यसुवर्णचित्रं विद्युत्प्रभं भास्कररश्मितुल्यम् ।
किरीटमाभात्यसुरोत्तमस्य दावाग्निदीप्तं शिखरं यथाद्रेः॥६८॥

वृषपर्वाऽसुरश्चैव श्रीमांश्च सुरसूदनः ।
आरुरोह रथं दिव्यं मेरुशृङ्गमिवांशुमान्॥६९॥

प्रवालजाम्बूनदचित्रकूबरं महारथं भारसहं महार्हम् ।
स्वलङ्कृतं राजतहेमकुण्डलं गभस्तिनक्षत्रतडिन्निकाशम्॥७०॥

केयूरयुक्ताङ्गदनद्धबाहुः सहस्त्रतारेण च चर्मणा सः ।
साङ्ग्रामिकराभरणैश्च चित्रैर्मध्याह्नसूर्यप्रतिमो बभूव॥७१॥

महाबलो बद्धतलाङ्गुलित्रो बलोत्कटः किंशुकलोहिताक्षः ।
प्रगृह्य चामीकरचारुचित्रं चापं स्थितो वृत्तविशालनेत्रः॥७२॥

महासुरेन्द्रश्च महासुरैर्वृतो बलिस्तदा स्यन्दनमारुरोह ।
वैडूर्यहेमोपचितं विशालं विद्युत्प्रभं षोडशनल्वमात्रम्॥७३॥

युक्तं सहस्रेण दितेः सुतानां गजाननानां विकृताकृतीनाम् ।
चामीकरोरःस्थलभूषितानां प्रनर्दतां प्रावृषि चाम्बुदानाम्॥७४॥

महारथं देवरथप्रकाशं सहस्रमायेन मयेन सृष्टम् ।
ईहामृगाक्रीडितभक्तिचित्रं दिव्यं रथं दिव्यरथानुयातम्॥७५॥

सकिङ्किणीकं विमलं सुविस्तृतं हिरण्मयैः पद्मशतैरलङ्कृतम् ।
अभ्याददे वैजयिक जयाय स्रजं बलिर्हेमविचित्रपुष्पाम्॥७६॥

आबध्य मालां प्रभया विचित्रां बलिस्तदा भाति भुजैर्विशालैः ।
रराज तैः सर्वसमृद्धियुक्तैर्महार्चिषा सूर्य इवाम्बरस्थः॥७७॥

स्रजं तदाबध्यति चास्य दुर्गा सर्वासुराणामिव हारभूताम् ।
वैरोचनिः सर्वश्रियाऽभिजुष्टो विभ्राजतेऽसौ शरदीव चन्द्रः॥७८॥

मेरोस्तटैर्वा ज्वलनप्रकाशैरादित्यसंयुक्तमिवाम्रजालम् ।
प्रासाश्च पाशाश्च हिरण्यबद्धा वर्माणि खड्गाश्च परश्वधाश्च॥७९॥

धनूंषि वज्रायुधसप्रभाणि दिव्या गदा वज्रमुखाश्च शक्त्यः ।
दिव्याश्च खड्गा विशिखाश्च दीप्ता नाराचपूर्णा विविधाश्च तूणाः॥८०॥

धृता रथे दैत्यवृषस्य तस्य चकाशिरे प्रज्वलिता यथोल्काः ।
ते चामरापीडधराः सुदंष्ट्राः सुवर्णमुक्तामणिहेमचित्राः॥८१॥

वीज्यन्ति वालव्यजनैर्विनीता महासुराः स्यन्दनवेदिकास्थाः ।
अयःशिरा अश्वशिरा दुरापः शिबिर्मतङ्गो विशिराः शताक्षः॥८२॥

अयो निकुम्भः कथनश्च दानवो ररक्षिरे ते दश दानवाधिपम् ।
पुरश्चराश्चैव सहस्रशोऽसुराः पदातयो दानवराजरक्षिणः॥८३॥

शतध्निचक्राशनिशक्तिपाणयः प्रजग्मुरग्रेऽनिलतुल्यवेगिनः ।
घण्टाः सुशब्दास्तपनीयबद्धा आडम्बरा गर्गरडिण्डिमाश्च॥८४॥

महारवा दुन्दुभयश्च नेदू रथप्रयाणे दितिजेश्वरस्य ।
तस्योत्थितः काञ्चनवेदिकाढ्यो हिरण्मयो दिव्यमहापताकः॥८५॥

महाध्वजो वै तपनीयनद्धो रराज वीरस्य यथा विवस्वान् ।
समुच्छ्रितं काञ्चनमातपत्रं स्त्रक्काञ्चनी वक्षसि चास्य भाति॥८६॥

समन्ततश्चाप्यसुराश्चरन्ति दैत्यर्षयः प्राञ्जलयो जयन्ति ।
पुरोहिताः शत्रुवधे समाहितास्तथैव चान्ये श्रुतशीलवृद्धाः॥८७॥

जपैश्च मन्त्रैश्च तथौषधीभिर्मेहात्मनः स्वस्त्ययनं प्रचकुः ।
स तत्र वस्त्राणि शुभाश्च गावः फलानि पुष्पाणि तथैव निष्कान्॥८८॥

बलिर्द्विजेभ्यः प्रयतः प्रयच्छन्विराजतेऽतीव यथा धनेशः ।
सहस्रसूर्यो बहु किङ्किणीकः परार्द्ध्यजाम्बूनदहेमचित्रः॥८९॥

सहस्रचन्द्रायुततारकश्च रथो बलेरग्निरिवावभाति ।
तमास्थितो दानवसङ्गृहीतं महाबलः कार्मुकधृक् सबाणः॥९०॥

उद्वर्तयिष्यांस्त्रिदशेन्द्रसेनामतीव रौद्रं स बिभर्ति रूपम् ।
स वेगवान्वीररथौघसङ्कुलः प्रयाति देवान्प्रति दैत्यसागरः॥९१॥

महार्णवो वीचितरङ्गसङ्कुलो यथा जलौघैर्युगसंशये तथा ।
त्रैलोक्यवित्रासकरैर्वपुर्भिस्तान्यग्रतो यान्ति बले रथस्य ।
महाबलान्युच्छ्रितकार्मुकाणि सपर्वतानीव वनानि राजन्॥९२॥

महाबलानि महान्ति सैन्यानि॥९२॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामने बलेरुद्योगे एकपञ्चाशत्तमोऽध्यायः॥५१॥
देवसैन्यानां युद्धोद्योगः

वैशम्पायन उवाच। श्रुतस्ते दैत्यसैन्यस्य विस्तरो जनमेजय ।
भूयस्त्रिदशसैन्यस्य शृणु विस्तरमादितः॥१॥

सुराधिपस्तु भगवानाज्ञापयत वै सुरान् ।
मरुद्गणांस्तथादित्यान्विश्वान्देवांश्च वासवः॥२॥

वसूनष्टौ भृशं सर्वान्यक्षरक्षोमहोरगान् ।
विद्याधरगणान्सर्वान्गन्धर्वांश्च महाबलान्॥३॥

महार्णवांश्च शैलांश्व तथा रुद्रान्महौजसः ।
यमवैश्रवणौ चोभौ वरुणं च जनाधिपम्॥४॥

ये तु सिद्धा महात्मानः पितरश्च मनस्विनः ।
राजर्षयश्च शतशो योगसिद्धास्तथैव च॥५॥

त्रिदशाज्ञापकः शक्र आज्ञापयति वीर्यवान् ।
भवन्तो दैत्यनाशाय सन्नह्यन्तामिति प्रभुः॥६॥

शक्रस्य वचनं श्रुत्वा ततः सर्वे दिवौकसः ।
सन्नह्यन्त महात्मानः शक्रस्य समविक्रमाः॥७॥

नानाकवचिनः सर्वे विचित्रकवचध्वजाः ।
नानायुधोद्यतकरा मत्ता इव महागजाः॥८॥

केचिदारुरुहुर्याघ्रान्केचिदारुरुहुर्गजान् ।
केचिदारुरुहुर्नगान्केचिदारुरुहुर्वेषान्॥९॥

हरिनेत्रो हरिश्मश्रुर्द्विरदैरावृतध्वजम् ।
रथं हरिहयैर्युक्तं स प्रायात्समरं प्रति॥१०॥

श्रुतस्त इति। रथम् आरोह्येति शेषः॥१०॥

आदित्यवर्णं विरजं सुधौतं त्वष्ट्रा स्वयं निर्मितमीश्वरार्थम् ।
जालैश्च जाम्बूनदभक्तिचित्रैरलङ्कृतं काञ्चनदामभिश्च॥११॥

सकूबरोपस्करबन्धुरेषं विद्युत्प्रभाभिः कृतमामिताभ्रम् ।
कैलासङ्गोपममिन्द्रयानं सुचारुचारुप्रतिचक्रचक्रम्॥१२॥

आभिताम्रम् ईषत्सर्वतस्ताम्रं सुचारुभ्योऽपि चारु यानं रथं प्रतिचस्क्रय वैरिसमूहस्यापि चक्रं पातालं ज्ञापक गच्छतेत्येवमादि॥१२॥

तारासहस्रैः खचितं ज्वलिद्भिर्देवार्हमाल्यार्चितसर्वदेहम् ।
समुच्छ्रितं श्रीध्वजमक्षयाक्षं प्रज्वाल्यमानं पुरुषोत्तमेन॥१३॥

आस्थाय तं भास्करमाशुवेगं शचीपतिर्लोकपतिः सुरेशः ।
वज्रस्य धर्ता भुवनस्य गोप्ता ययौ महात्मा भगवान्महेन्द्रः॥१४॥

आमुच्य वर्माथ सहस्त्रतारं हुताशनादित्यसमप्रभावम् ।
सूर्यप्रभं चामुमुचे किरीटं मालां च जाम्बूनदवैजयन्तीम्॥१५॥

जाम्बूनदमयी चासौ वैजयन्ती आपादलम्बिनी तां जाम्बूनदवैजयन्तीम्॥१५॥

त्वष्ट्रा कृतं भास्कररश्मिदीप्तं सुतीक्ष्णघोरामलतीव्रधारम् ।
महासुराणां रुधिरार्द्रमुग्रं प्रगृह वज्रं शतपर्वभीमम्॥१६॥

महाशनी द्वे च महाग्रहाभे दीप्ताममोघां च स शक्तिमुग्राम् ।
चक्रं तथैन्द्रं सुमहत्प्रतापं प्रगृह्य शक्तः प्रययौ रणाय॥१७॥

सहस्रभूतपतिः सनातनः सनातनानामपि यः सनातनः ।
खङ्गं च देवाधिपतिर्महात्मा वैयाघ्रमादाय च चर्म चित्रम्॥१८॥

क्षरोदधिक्षोभसमुच्छ्रितानि पुरामृतादुत्तमभूषणानि ।
देवासुराणां समनिर्जितानि सोमार्कनक्षत्रतडित्प्रभाणि॥१९॥

दत्तान्यदित्या मणिकुण्डलानि युद्धे प्रयातस्य सुरेश्वरस्य ।
तैर्भूषितो भाति सहस्रचक्षुरुद्योतयन्वे विदिशो दिशश्च॥२०॥

हरिः प्रभुर्नेत्रसहस्रचित्रो विभाति युद्धाभिमुखः सुरेन्द्रः ।
यथा सितं शारदमभ्रकल्पं नभस्तलं ह्यृक्षसहस्रचित्रम्॥२१॥

स्तुवन्ति यान्तं विपुलैवचोभिर्जयाशिषा चोर्जितसत्त्ववीर्यम् ।
अत्रिर्वसिष्ठो जमदग्निरुर्वो बृहस्पतिर्नारदपर्वतौ च॥२२॥

तमन्वयुर्देवगणा महेन्द्रं प्रयान्तमादित्यसमानवर्चसम् ।
विश्वे च देवा मरुतस्तथैव साध्यास्तथादित्यगणाश्च सर्वे॥२३॥

ते देवराजस्य पुरन्दरस्य हयाश्च ये मातलिसङ्गृहीताः ।
प्रयान्ति देवेश्वरमुद्रहन्तो नमस्तलं पद्भिरिवाक्षिपन्तः॥२४॥

ब्रह्मर्षयश्चैव महर्षयश्च राजर्षयश्चाक्षयपुण्यलोकाः ।
सर्वेऽनुजग्मुः सहसा ज्वलन्तं तेजोन्वितं शक्रममित्रसाहम्॥२५॥

प्रगृह्य शूलांश्च परश्वधांश्च दीप्तानि चापान्यशनीर्विचित्राः ।
वर्माणि चामुच्य हिरण्मयानि प्रयान्ति सूर्यांशुसमप्रभाणि॥२६॥

तथा कुबेरोऽश्वसहस्रयुक्तं श्रेष्ठं रथं सर्वसहं महार्हम् ।
दिव्यं समारुह्य रणाय यातो धनेश्वरो दीप्तगदाग्रहस्तः॥२७॥

निशाचराः पावकधूमकाया रक्षोवृषा रुद्रसखस्य तस्य ।
विशालनानायुधदप्तिहस्ता यान्त्यग्रतो वैश्रवणस्य राज्ञः॥२८॥

ते लोहिताक्षाः परिवार्य देवं व्रजान्ति भिन्नाञ्जनचूर्णवर्णाः ।
यक्षोत्तमा यक्षपतिं धनेशं रक्षन्ति वै पाशगदासिहस्ताः॥२९॥

पुण्यः प्रभुः प्राणपतिर्जितात्मा वैवस्वतो धर्मभृतां वरिष्ठः ।
तडिद्गणाभं शतवाजियुक्तं रथं समारोहत सूर्यकल्पम्॥३०॥

तं लोकपालं पितरोऽनुजग्मुर्विविक्तपापा ज्वलितास्तपोभिः ।
सर्वे च भूता भुवनप्रधाना नानायुधव्यग्रकराः सुभीमाः॥३१॥

विविक्तपापाः पृथग्दूरीकृतदोषाः॥३१॥

दण्डं महास्त्रं परिगृह्यय देवो लोकाङ्कुशं निग्रहनिश्चितार्थम् ।
हिरण्मयानां कमलोत्पलानां मालां मनोज्ञामवसज्य कण्ठे॥३२॥

स्थितोऽस्थिमेदामिषलोहितार्द्रं सर्वासुराणां निधनं विरूपम् ।
तेजोमयं मुद्गरमुग्ररूपं विकर्षमाणोऽरुणधूम्रनेत्रः॥३३॥

समन्वितो व्याधिशतैरनेकैर्ययौहीरश्मश्रुरुदारसत्त्वः ।
महासुराणां निधनाय बुद्धिं चक्रे तदा व्याधिपतिः कृतान्तः॥३४॥

ततस्त्रिशीषैर्भुजगैर्बृहद्भिर्युक्तं रथं हेमचितं महात्मा ।
आस्थाय कुन्देन्दुनिभं जलेशो ययौ रणायासुरदर्पहन्ता॥३५॥

ततस्त्रीति त्रयमेकवाक्यम्॥३५॥

वैडूर्यमुक्तामणिभूषिताङ्गस्तेजोमयः पाशगृहीतहस्तः ।
महासुराणां निधनाय देवः प्रयाति रूप्याङ्गदबद्धबाहुः॥३६॥

अन्वीयमानो जलदेवताभिर्निषेच्यमाणो जलजैश्च सत्वैः ।
संस्तूयमानश्च महर्षिवृन्दैः सम्पूज्यमानश्च महाभुजङ्गैः॥३६A॥

कैलासशृङ्गप्रतिमोऽप्रमेयः समुद्रनाथोऽमृतपो महात्मा ।
महोरगैः स्वैस्तनयैः सुगुप्तो ययौ रथेनार्कसमप्रभेण॥३७॥

युद्धायतं यान्तमदीनसत्वं नभस्तले चन्द्रमिवातिकान्तम् ।
पश्यन्ति भूतानि महानुभावं संहृष्टरोमाणि कृताञ्जलीनि॥३८॥

धातार्यमांशोऽथ भगो विवस्वान्पर्जन्यमित्रौ च शशी च देवः ।
त्वष्टा तथैवोर्जितविश्वकर्मा पूषा च साक्षाद्दिवि देवराजः॥३९॥

सौरच्छदैः सध्वजकिङ्किणीकैर्वैडूर्यनिष्कैश्चितहेमकण्ठैः ।
हयैर्वरैः शक्ररथप्रकाशैर्युक्तान्रथानारुरुहुः सुरास्ते॥४०॥

दिवाकराकारनिभानि केचिद्धुताशनार्चिः प्रतिमानि केचित् ।
निशाकरांशुप्रतिमानि केचित्तडिद्गणोद्द्योतनिभानि केचित्॥४१॥

निभानि वर्माणीति अप्रियमेव सम्बन्धः॥४१॥

नीलांशुमेघप्रतिमानि केचित्कार्ष्णायसाकारानभानि केचित् ।
वर्माणि दिव्यानि महाप्रभाणि त्वष्ट्रा कृतान्युत्तमभानुमन्ति॥४२॥

आमुच्य मालाश्च सुवर्णपुष्पाः प्रयान्ति तोयानिलतुल्यवेगाः ।
द्वावश्विनौ चैव महानुभावौ रूपोत्तमौ धर्मभृतां वरिष्ठौ॥४३॥

रथं समारुह्य सुवर्णचित्रं रणं गतौ काञ्चनतुल्यवर्णौ ।
भानोः सुता वै वसवश्च सर्वे बलोत्कटा दैत्यवधाय देवाः॥४४॥

रथांश्च नागांश्च महाप्रमाणानास्थाय जग्मुः सुशुभास्त्रहस्ताः ।
रुद्राश्च सर्वेऽरुणधूमवर्णाः श्वेतैर्ययुर्गोपतिभिर्बृहद्भिः॥४५॥

महौजसः सर्वगुणोपपन्ना दीप्तात्मनो भाभिरिव ज्वलन्तः ।
नानायुधव्यग्रकरैर्भुजैस्तैर्लोकान्त्समस्तानिव निर्दहन्तः॥४६॥

ययुः ससैन्यास्तपनीयनद्धाः सविद्युतस्तोयधरा यथैव ।
विश्वे च देवास्तपसा ज्वलन्तो वीर्योत्तमाः सूर्यमरीचिवर्णाः॥४७॥

ययुः ससैन्या युधि दुर्निवार्या बलोत्कटाः पद्मसहस्रमालाः ।
रथैः सुयुक्तैस्तपनीयवर्णैर्वैडूर्यमुक्तामणिदामचित्रैः॥४८॥

नानाविधाकारसमाकुलास्ते पारिप्लवैश्चैव सितातपत्रैः ।
तेजोमयैः काञ्चनचारुचित्रैः सुनिर्मलैः पावकसन्निभास्ते॥४९॥

उरच्छदैः सध्वजकिङ्किणीकैर्हयैश्च वायोः समवेगवद्भिः ।
दिशां गजैश्चैव महाबलेस्तैः कैलासशृङ्गप्रतिमैर्महद्भिः॥५०॥

उरः छादयन्ति तैः आरूढानां पुंसाम् अत्युच्छ्रितकन्धरत्वेन वक्षस आच्छादकैः॥५०॥

प्रजग्मुरुग्रायुधचापहस्ताश्चतुर्युगान्ते ज्वलिता इवोल्काः ।
साध्याश्च देवाः सुमहाप्रभावाः स्वाधीनचक्राः प्रतिदीप्तवक्त्राः ।
प्रयान्ति जाम्बूनदभूषिताङ्गा गाङ्गौघमात्रैर्गगनैर्बलौधैः॥५१॥

स्वाधीनचक्रा आत्मायत्तसैन्याः। गगनैर्गगनवदनन्तैः। “गाध हसने” इत्यस्य वा धातोर्ल्युटि पृषोदरादित्वेन धकारलोपे रूपम्। हसद्भिरित्यर्थः॥५१॥

विद्योतयन्तो विदिशो दिशश्च महाबलास्ते जयतां वरिष्ठाः ।
वरिष्ठपुष्टौष्ठभुजाः सुदृप्ता वैश्वानरार्कप्रतिमप्रभावाः॥५२॥

ते ब्रह्मविद्भिश्च समस्यमानाः सम्पूज्यमानाश्च सुरैः सशक्रैः ।
गन्धर्वसङ्घैरनुगम्यमाना वधाय तेषामसुराधिपानाम्॥५३॥

वैडूर्यवज्रस्फटिकाग्रचित्रैर्ध्वजः सुत्रर्णैश्च परिष्कृतानाम् ।
रूपं बभौ चोत्कटभूषणानां दैत्येन्द्रनाशाय विभूषितानाम्॥५४॥

आत्मप्रभाभिश्च रणोत्कटाभिर्वर्मप्रभाभिश्च तमोनुदाभिः ।
ध्वजोत्तमाभिः स्वशरीरभाभिर्महाप्रभाभिश्च महोज्ज्वलाभिः॥५५॥

विभान्ति ते देववराः ससाध्याः प्रध्मातशङ्खस्वनसिंहनादाः॥५६॥

महारथस्थास्त्रिदिवौकसस्ते महाबलाः शत्रुबलं प्रयान्ति ।
महास्त्रहस्ता ययुरुग्रकाया महासुराणां निधनाय देवाः॥५७॥

तथैव सर्वे महतोऽतिवीर्या बलोत्कटास्ते समरं प्रतीताः ।
ययुर्महामेघसमानवर्णाश्चक्रायुधास्तोयदनादनादाः॥५८॥

महेन्द्रकेतुप्रतिमा महाबलाः प्रगृह्य सर्वोसुरसूदनां गदाम् ।
रणोत्कटा लोहितचन्दनाक्ताः सहेममाल्याम्बरभूषिताङ्गाः॥५९॥

ते युद्धशौण्डाः सभुजास्त्रवीर्या बलोत्कटाः क्रोधविलोडिताक्षाः ।
ययुः सजाम्बूनदपद्ममाला यथेष्टनानाविधकामरूपाः ।
खड्गप्रभाश्यामलितांसपीठाः पुरन्दरं वै परिवार्य देवाः॥६०॥

वैडूर्यचामीकरचारुरूपाण्याबध्य गात्रेषु महाप्रभाणि ।
वर्माणि दैत्यास्त्रनिवारणानि प्रयान्ति युद्धाय सपत्नसाहाः॥६१॥

तैरुत्थितैः काञ्चनवेदिकाढ्यैर्वैरध्वजैर्भास्कररश्मिवर्णैः ।
ययौ सुराणां पृतनोग्रभासा समुन्नदन्ती युधि सिंहनादान्॥६२॥

इत्येवमुक्तं त्रिदिवेश्वरस्य सैन्यं तदासीत्सुमहत्प्रभावम् ।
युद्धं प्रयातस्य जयावहस्य वधाय तेषामसुराधिपानाम्॥६३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे द्विपञ्चाशत्तमोऽध्यायः॥५२॥
देवासुरयुद्धाद्यारम्भे सनकाद्यागमनम्

वैशम्पायन उवाच। ततः प्रवृत्तोऽसुरदेवविग्रहस्तदद्भुतो भाति सुरासुराकुलः ।
वेलामतिक्रम्य युगान्तकाले महार्णवान्योन्यमिवाश्रयन्तः॥१॥

ततः मद्दार्णवा इति योजना॥१॥

नानायुधोद्द्योतविदीपिताङ्गा महाबला व्यायतकार्मुकास्ते ।
रणोत्सुका का वारणहस्तहस्ताः सुदुर्जयास्तोयदनादनादाः॥२॥

विस्फारयन्तः सहला धनूंषि चक्राणि चादित्यसमप्रभाणि ।
समुत्क्षिपन्तो ह्यशनीश्च घोरान् खङ्गांश्च ते वज्रमुखाश्च शक्तीः॥३॥

महागदाः काञ्चनपट्टनद्धास्तथायसान्कार्मुकमुद्गरांश्च ।
शूलांश्च वृक्षांश्च विगृह्य दीप्तान्नदन्ति शूराः शतशो रणस्थाः॥४॥

वैशम्पायन उवाच। एतस्मिनन्तरे तेषामन्योन्यमभिनिघ्नताम् ।
द्वन्द्वयुद्धान्यवन्तत देवानां दानवैः सह॥५॥

मरुतां पञ्चमो यस्तु स बाणेनाभ्ययुध्यत ।
महाबलः सुरवरः सावित्र इति यं विदुः॥६॥

अनायुषायाः पुत्रस्तु बलो नाम महासुरः ।
सोऽयुध्यत रणेऽत्युग्रो ध्रुवेण वसुना सह॥७॥

नमुचिश्चासुरश्रेष्ठो धरेण सह युध्यत ।
प्रवरौ विश्वकर्माणौ ख्यातौ देवासुरेश्वरौ॥८॥

पुलोमा तु महादैत्यो वायुना सह युध्यत ।
ससैन्यः पर्वताकारो रणेऽयुध्यत दंशितः॥९॥

हयग्रीवस्तु दितिजः सह पूष्णा त्वयुध्यत ।
शूरेणामितवीर्येण भास्कराकारवर्चसा॥१०॥

शम्बरस्तु महादैत्यो महामायो महासुरः ।
भगेनायुध्यत तदा सहितो युद्धदुर्मदः॥११॥

शरभः शलभश्चैव दैत्यानां चन्द्रभास्करौ ।
प्रयुद्धौ सह सोमेन शैशिरास्त्रेण धीमता॥१२॥

विरोचनस्तु बलवान्बलेर्बलवतः पिता ।
विष्वक्सेनेन साध्येन देवेन च स युध्यत॥१३॥

कुजम्भस्तु महातेजा हिरण्यकशिपो सुतः ।
अंशेनायुध्यत तदा प्रासप्रहरणेन वै॥१४॥

असिलोमा तु बलिना मारुतेन समं विभो ।
तदायुध्यत दीप्तास्यो विकृतः पर्वतायुधः॥१५॥

अनायुषाया पुत्रस्तु वृत्रो नाम महासुरः ।
अश्विभ्यां देववैद्याभ्यां सह युध्यत संयुगे॥१६॥

एकचक्रस्तु दितिजश्चक्रहस्तो दुरासदः॥१७॥

बलस्तु मधुपिङ्गाक्षो वृत्रभ्राता महासुरः ।
मृगव्याधेन रुद्रेण सहायुध्यत वीर्यवान्॥१८॥

राहुस्तु विकृताकारः शतशीर्षा महोदरः ।
अजैकपादेन रणे सहायुध्यत दंशितः॥१९॥

केशी तु दानवश्रेष्ठः प्रावृ‌ट्कालाम्बुदप्रभः ।
धनेश्वरेण भीमेन सहायुध्यत संयुगे॥२०॥

वृषपर्वां तु बलिना निकुम्भेन महारणे ।
विश्वेदेवेन विश्वेशः सहायुध्यत वीर्यवान्॥२१॥

प्रह्लादस्तु महावीर्यो वीरैः स्वैस्तनयैर्वृतः ।
युयुधे सह कालेन रणे काल इवापरः॥२२॥

अनुह्रादः कुबेरेण धनदेन महारणे ।
गदाहस्तेन युयुधे शोभयात्रिपुवाहिनीम्॥२३॥

विप्रचित्तिस्तु दैतेयो वरुणेन महात्मना ।
प्रवृत्तो वै रणं कर्तुं दैत्यानां नन्दिवर्धनः॥२४॥

बलिस्तु सह शक्रेण सुरेशेन महात्मना ।
युयुधे देवराजेन बलिना बलवान्रणे॥२५॥

शेषा देवाञ्च दैत्याश्च जघ्नुरन्योन्यमाहवे ।
विनर्दन्तो महानादान्प्रासासिशरशक्तिभिः॥२६॥

अदृश्यन्त महोत्पाता ये प्रोक्ता जगतः क्षये ।
मारुताः सप्त ते क्षुब्धा व्यशीर्यन्त महीधराः॥२७॥

सप्तचैवोत्थिताः सूर्याः शोषयन्तो महार्णवान् ।
बहुनाभिद्यत धरा वायुना मथिता यथा॥२८॥

व्युत्थिताश्च महामेघाः शक्रचापाङ्कितोदराः ।
प्रणेदुः सर्वभूतानि सर्वाः सतिमिरा दिशः॥२९॥

देवानामजयो घोरो दृश्यते कालनिर्मितः ।
घोरोत्पातः समुद्भूतो युगान्तसमये यथा॥३०॥

न ह्यन्तरिक्षं न दिशो न भूमिर्न भास्करोऽदृश्यत रेणुजालैः ।
ववुश्च वातास्तुमुलाः सुधूमा दिशश्च सर्वास्तिमिरोपगूढाः॥३१॥

एते चान्ये च बहवो दृश्यन्ते देवनिर्मिताः ।
भूमौ तथाऽन्तरिक्षे च महोत्पाताः समन्ततः॥३२॥

तद्युद्धं देवदैत्यानां भीमानां भीमदर्शनम् ।
अपश्यत गुरुर्ब्रह्मा सर्वैरेव सुरैः सह॥३३॥

वेदैश्चतुर्भिः साङ्गैश्च विद्याभिश्च सनातनः ।
पद्मयोनिर्वृतः श्रीमान्सिद्धैश्च परमर्षिभिः॥३४॥

नानामणिस्तम्भसहस्रचित्रमारुह्य यानं ददृशे स्वयम्भूः ।
सुभास्वरं भूतसहस्रयुक्तं प्रदीप्यमानं वपुषा वरेण॥३५॥

सुतप्तजाम्बूनदभक्तिचित्रमानन्दमेरीशतसम्प्रणादम् ।
नक्षत्रचण्डांशुभिरंशुमन्तं वैडूर्यसोमार्कविभूषिताङ्गम्॥३६॥

तमात्मजो वै पुलहं पुलस्त्यस्तथा मरीचिर्भृगुरङ्गिराश्च ।
ऋक्सामभिः सम्यगाभिष्टुवन्तः सेवन्ति देवं वरदं विमाने॥३७॥

तं पावका लोकगुरुं स्वयम्भुवं साङ्गाश्च वेदा मखदेवताश्च ।
सेवन्ति देवं भुवनेश्वरेशं भूतानि चान्यानि महानुभावम्॥३८॥

एते बभूवुश्च महर्षिसङ्घा वैश्वानराः पावकयोनयश्च ।
सर्वे ययुर्देवपुरोहिताश्च युद्धेत् युद्धोत्सुकाः सर्वसुरासुराणाम्॥३९॥

योगेश्वराः षट् च दिवाकराभा विभूषणैर्भूषितसवैदेहाः ।
अन्तर्हिता वै ददृशुर्नमःस्था नारायणश्चैव नरश्च देवाः॥४०॥

षट् योगेश्वराः १ सनक-२ सनन्दन-३ सनातन-४ सनत्कुमार-५ कपिल-६- जैगीषव्याः॥४०॥

वक्त्रैश्चतुर्वेदधरैश्चतुर्भिः सम्पूर्णचन्द्रप्रतिमैः सुकान्तैः ।
सर्वा दिशो निस्तिमिराश्चकार नवोदितोऽसौ शरदीव चन्द्रः॥४१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि देवासुरयुद्धे सनकादिकागमनं नाम त्रिपञ्चाशत्तमोऽध्यायः॥५३॥
देवासुरयोस्तुमुल्युद्धस्य यज्ञरूपेण वर्णनम्

वैशम्पायन उवाच। उभयोः सेनयो राजन्भूयो युद्धमवर्तत ।
नादेन सञ्चालयतां त्रैलोक्यमिदमव्ययम्॥१॥

उभयोरिति। उभयोर्गोमुखादीनां नादेन प्रोत्साहितयोः सेनयोः॥१॥

गोमुखाडम्बराणां च भेरीणां मुरजैः सह ।
झल्लरीडिण्डिमानां च व्यश्रूयन्त महास्वनाः॥२॥

गोमुखादयस्तूर्यविशेषाः॥२॥

प्रवृत्तो युद्धयज्ञस्ते तुमुलो लोमहर्षणः ।
रणमध्ये महानादः स्वर्गीयः शूरसम्मतः॥३॥

युद्धयज्ञस्य नेताभूत्प्रह्रादो दैत्यसत्तमः ।
विरोचनस्तथाध्वर्युर्युद्धयज्ञप्रवर्तकः॥४॥

होता चैवात्र नमुचिर्वृत्रः स्तोत्रोपकल्पकः ।
मन्त्रा दैत्याः समाख्याता यज्ञकर्मणि तत्र वै॥५॥

स्तोत्रोपकल्पकः प्रस्तोता॥५॥

अनुयातश्च पितृभिरधिको वा पराक्रमैः ।
यज्ञे तत्राभवद्बाणः संयुगे चोपतिष्ठते॥६॥

ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं सुदुर्जयम् ।
मन्त्रास्तत्राभ्यवर्तन्त साध्वनुह्रादयोजिताः॥७॥

उद्गाता च मयः श्रीमान्स्थितः शत्रुभयङ्करः ।
विनदन्दितिजश्रेष्ठो देवानीकं व्यदारयत्॥८॥

बलिस्तु राजा द्युतिमान्त्स्वयं तत्र महासुरः ।
जाप्यैर्होमैश्च संयुक्तो ब्रह्मत्वमकरोत्प्रभुः॥९॥

रणाग्निर्ज्वलितो घोरो वैरेन्धनसमीरितः ।
हूयते त्वसुरैस्तत्र देवो विष्णुः सुरैः सह॥१०॥

शङ्खशब्दैः सुतुमुलैर्भेरीणां च महास्वनैः ।
उद्घुष्टं विमलं चैव ब्रह्मण्यं सुप्रयुज्यते॥११॥

बलश्च बलकश्चैव पुलोमा च महासुरः ।
प्रशस्तं च समं कृत्वा सत्रं सम्यक्प्रचक्रिरे॥१२॥

कल्माषदण्डविमला विपुला रथपङ्क्तयः ।
यूपाश्स्च समकल्पन्त युद्धयज्ञे महाफले॥१३॥

कर्णनालीकनाराचा वत्सदन्तोपबृंहिकाः ।
तोमराः सोमकलशा विचित्राणि धनूंषि च॥१४॥

अस्थीन्यत्र कपालानि पुरोडाशाः शिरांसि च ।
आज्यं च रौद्रं रुधिरं तस्मिन्यज्ञेऽभिहूयते॥१५॥

इध्माः परिधयस्तत्र प्रस्तारा विपुला गदाः ।
हयग्रीवोसिलोमा च राहुः केशी च दानवः॥१६॥

इघ्माः प्रस्ताराः शरपङ्क्तयः परिधयो गदा इति सम्बन्धः॥१६॥

विरोचनश्च जम्भश्च कुजम्भश्च महाबलः ।
सदस्यास्तत्र तु मखे विप्रचित्तिस्तु वीर्यवान्॥१७॥

इषवस्तु स्रुवास्तत्र रथाक्षसदृशाः शुभाः ।
धनुष्कोट्यो धनुर्ज्याश्च स्रुवस्तत्र महामखे॥१८॥

प्रतिप्रास्थानिकं कर्म वृषपर्वाकरोदिह ।
दीक्षितस्तत्र तु बलिस्तस्य पत्नी महाचमूः॥१९॥

शम्बरस्तत्र शामित्रमकरोद्दितिनन्दनः ।
अतिरात्रे महाबाहुर्वितते यज्ञकर्मणि॥२०॥

दक्षिणास्तस्य यज्ञस्य कालनेमिर्महासुरः ।
वैताने कर्मणि विभोर्यः ख्यातो हव्यवाडिव॥२१॥

त्रिदशानां तु सैन्यस्य शरीरैर्गतजीवितैः ।
तस्मिन्यज्ञे तु सवनं वर्धते दैत्यनिर्मितम्॥२२॥

देवानां रुधिरं सङ्ख्ये पपुरुग्रा दितेः सुताः ।
नर्दमानाः प्रमुदिताः सोमपानं रणाध्वरे॥२३॥

यदा बलिर्महादैत्यो विजेता समरे सुरान् ।
तदा ह्यवभृथो यज्ञे भविष्यति न संशयः॥२४॥

महासुरेन्द्रपतयो यज्वानो भूरिदक्षिणाः ।
वेदवन्तो वृत्तवन्तः शूराः सर्वे तनुत्यजः॥२५॥

त्रैलोक्यहरणे सृष्टा युद्धयज्ञाय दीक्षिताः ।
बद्धकृष्णाजिनाः सर्वे व्रतिनो मुञ्जधारिणः॥२६॥

एकनिश्चयकार्याश्च त्रैलोक्यजयकाङ्क्षिणः ।
सुरदानवदैत्यानां शब्दः समभवन्महान्॥२७॥

नानायुधविहस्तानां त्वरितानां प्रधावताम् ।
क्ष्वेडितोत्क्रुष्टनिनदैर्गजबृंहितनिःस्वनैः॥२८॥

रथनेमिस्वनैर्घोरैस्तुमुलः सर्वतोऽभवत् ।
शङ्खदुन्दुभिनिर्घोषैर्हयहेषितनिःस्वनैः॥२९॥

हयानां हेषमाणानां दानवानां च गर्जताम् ।
क्ष्वेडितोत्क्रुष्टनिनदैः पाणिपादरवैस्तथा॥३०॥

दानवानां परेषां च शस्त्रवन्ति महान्ति च ।
समरे भीमकर्माणि सैन्यानि प्रचकाशिरे॥३१॥

ततो नागा रथाश्चैव जाम्बूनदविभूषिताः ।
भ्राजमाना व्यराजन्त मेघा इव सविद्युतः॥३२॥

ऋष्टिशक्तिगदास्तीक्ष्णशूलशक्तिपरश्वधाः ।
चारु विभ्राजिरे तत्र तेष्वनीकेषु भागशः॥३३॥

रथा बहुविधाकाराः शतशोऽथ सहस्रशः ।
हेमप्रच्छन्नशिखरा ज्वलन्त इव पावकाः॥३४॥

दानवानां सुराणां च समालोक्यन्त सैनिकाः ।
काञ्चनैः कवचैः सर्वे ज्वलितार्कसमप्रभैः॥३५॥

सन्नद्धाः समदृश्यन्त ज्योतींषि गगने यथा ।
उद्यतैरायुधैश्चित्रैस्तलबद्धाः कलापिनः ।
ऋषभाक्षाः सुरगणाश्चमूमुखगता बभुः॥३६॥

नानावर्णाः पताकाश्च ध्वजमालाश्च संयुगे॥३७॥

युद्ध्यतां रणशौण्डानामीरयामास मारुतः ।
ध्वजालङ्कारवस्त्राणि कवचानि च रश्मिभिः॥३८॥

भासयामास सर्वाणि रश्मिवर्णानि रश्मिवान् ।
सर्वेषामप्रमेयाणां बलानां पादचारिणाम्॥३९॥

रजः प्रच्छादयामास पत्रोर्णं पाण्डुरं दिशः ।
दिव्यायुधधराः सर्वे दीप्तायुधपरिच्छदाः॥४०॥

ऊर्णा पाण्डुरा श्वेतोर्णावच्छुक्लम्। पत्रोर्णेति पाठे धौतकौशेयवच्छुक्लाः। “पत्रोर्णं धौतकौशेयम्” इत्यमरः॥४०॥

प्रतितस्तम्भिरेऽन्योन्यमनीकं प्रत्यनीकतः ।
गिरिकूटोच्छ्रयाः सर्वे तदा ते देवदानवाः॥४१॥

अन्योन्यमभिनिघ्नन्तो रणस्थाश्चित्रयोधिनः ।
उद्यतैरायुधैश्चित्रैस्तलबद्धाः पताकिनः ।
बाणैः सुरुचिरैस्तीक्ष्णैः पत्रवाजैर्दुरासदैः॥४२॥

पत्रवाजैः शरपुङ्खवेगितैः॥४२॥

मुद्गरैर्मुसलैः शूलैरयस्तुण्डैरुलूखलैः ।
वज्रैरशनिकल्पैश्च खड्गवृक्षादिभिस्तथा॥४३॥

तथा प्रवर्तिते तेषां विमर्देऽद्भुतविक्रमे ।
सावित्रस्य वधं प्रेप्सुर्बाणो जग्राह कार्मुकम्॥४४॥

शरजालेन दिव्येन च्छादयानः सुरोत्तमम् ।
मन्त्रैर्हुत इवार्चिष्मान्सम्प्रजज्वाल तेजसा॥४५॥

सागराभां महासेनां देवानां दैत्यपुङ्गवः ।
संशोषयति बाणौघैरर्कांशुभिरिवार्णवम्॥४६॥

मारुतः सुमहावेगः सावित्रः शक्तिमुत्तमाम् ।
चिक्षेप बलिपुत्राय शक्रोऽशनिमिवाद्रये॥४७॥

अपातन्ती च सा शक्तिर्महोल्कज्वलिता इव ।
द्विधा छिन्ना क्षुरप्रेण बाणेनाद्भुतकर्मणा॥४८॥

हतायामथ शक्त्यां तु सावित्रो देवसत्तमः ।
विश्वकर्मकृतं दिव्यं सुतीक्ष्णं दानवार्दनम्॥४९॥

सुपीनधारं विमलं विपुलं चन्द्रवर्चसम् ।
अगृह्णान्निशितं खड्गमाशीविषमिवोरगम्॥५०॥

तं गृहीत्वा रणमुखे प्रज्वलन्तं महाप्रभम् ।
बाणाभ्याशे महातेजाः खड्गपाणिरवस्थितः॥५१॥

बाणाभ्याशे बाणसमीपे॥५१॥

स तं स्थितमथालक्ष्य सावित्रं बलिनन्दनः ।
लोहिताक्षं महाकायं चिक्षेप च ननाद च॥५२॥

सावित्रं चिक्षेप॥५२॥

ततोऽर्ककिरणाकारानशनिप्रतिमाञ्छितान् ।
सन्दधे चाशु बणौघानाशीविषशिलीमुखान्॥५३॥

रुक्मपुङ्कान्प्रदीप्ताग्रानुग्रवेगानलङ्कृतान् ।
आकर्णपूरांश्चिक्षेप शरानुग्रान्त्समन्ततः॥५४॥

दृढचापप्रयुक्तास्ते शरा वैश्वानरप्रभाः ।
सावित्रं छादयामासुः कैलासमिव तोयदाः॥५५॥

सञ्छाद्यमानः शस्त्रौघैर्बाणेन बलिसूनुना ।
पराङ्मुखः सुरवरः प्रयातः सरथध्वजः॥५६॥

पराजित्य स सावित्रं बाणः परमहर्षितः ।
प्रगृह्य कार्मुकं घोरं गतः शक्ररथं प्रति॥५७॥

बलश्चाप्यसुरश्रेष्ठः प्रगृह्य महतीं गदाम् ।
ध्रुवाय वसवे मूर्ध्नि रौद्रां चिक्षेप दानवः॥५८॥

तस्य निर्मथितं त्वंसे हेमचित्रं च वर्म वै ।
गदावेगेन भीमेन ध्रुवस्य समरे तदा॥५९॥

शेषाश्च वसवः सर्वे दिव्यास्त्रैर्घोरदर्शनैः ।
प्राच्छादयन्रणे दैत्यमादित्यमिव तोयदाः॥६०॥

ततः संमर्दितो बाणैर्बलो दानवसत्तमः ।
अवातरद्रथात्तस्माद्गदामुद्यम्य वेगवान्॥६१॥

पातयामास शत्रूणां समाविध्य महासुरः ।
दिशः प्राद्रावयत्सर्वांस्त्रिदशान्त्सा महागदा॥६२॥

शत्रीणां शत्रुषु॥६२॥

इन्द्राशनिरिवेन्द्रेण प्रवृद्धाः सुमहास्वनाः ।
तस्याः सविद्युद्घोषायास्तेन शब्देन वेपिताः॥६३॥

व्यद्रवन्त परिभ्रष्टा रथेभ्यो रथिनस्तदा ।
तदुदीर्णं रथानीकं सूर्याभं मेघनिःस्वनम्॥६४॥

देवानां शरधाराभिः समन्तादभ्यवर्षत ।
क्षुरकैर्विशिखैर्भल्लैर्वत्सदन्तैः शिलीमुखैः॥६५॥

मुहुर्मुहुर्महातेजाः प्रत्यविध्यन्महासुरान् ।
बलाकस्तु गदापाणिर्व्यादितास्य इवान्तकः॥६६॥

तडिद्गणार्कसदृशो वैश्वानर इवापरः ।
पिबन्निव शरौघांस्तान्देवचापसमुच्छ्रितान्॥६७॥

अभ्यद्रवत दैत्येन्द्रो महार्णव इवापरः ।
अवस्फूर्जन्दिशः सर्वाः स्वेन वीर्येण दानवः॥६८॥

अरुजंस्त्रिदशान्दैत्यः सिन्धुवेगान्नगा इव ।
समुद्रस्तरसा देवान्वायुर्वृक्षानिवौजसा॥६९॥

शमयंश्च महेष्वासान्वसुभ्यां समसज्जत ।
आपश्चैवानिलश्चैव ववर्षतुररिन्दमौ॥७०॥

शरवर्षाणि दीप्तानि मेघाविव परन्तपौ ।
क्षिप्तांस्तान्विशिखान्दीप्तानन्तरिक्षे स चिच्छिदे॥७१॥

अमृष्यमाणस्तत्कर्म ध्रुवस्तमभिदुद्रुवे ।
तौ पृथक्छरवर्षाभ्यामन्योन्यमभिजघ्नतुः॥७२॥

उत्तमाभिजनौ शूरौ देवदैत्यौ यशस्करौ ।
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ॥७३॥

रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम् ।
निर्भिन्दन्तौ च गात्राणि विलिखन्तौ च सायकैः॥७४॥

स्तम्भयन्तौ च बलिनौ प्रतुदन्तौ स्थितौ रणे ।
चरन्तौ विविधान्मार्गान्मण्डलानि च भागशः॥७५॥

मुद्गरैर्जघ्नतुः क्रुद्धावन्योन्यमभिमानिनौ ।
असिभ्यां चर्मणी दिव्ये विपुले च शरासने॥७६॥

निकृत्याचलसङ्काशौ बहुयुद्धं प्रचक्रतुः ।
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ॥७७॥

बाहुभिः समसज्जेतामायसैः परिघैरिव ।
तयोरासीद्भुजाघातैर्निग्रहः प्रग्रहस्तथा॥७८॥

अतीव भीमः संह्रादो वज्रपर्वतयोरिव ।
द्विपाविव विषाणाग्रैः शृङ्गैरिव महावृषौ ।
अन्योन्यमभिसंरब्धौ मुहूर्तं पर्यकर्षताम्॥७९॥

ततः पराजितो देवो बलाकेन तथा ध्रुवः ।
रथं त्यक्त्वा भयात्तस्य प्रनष्टः प्राङ्मुखो वसुः॥८०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धे चतुःपञ्चाशत्तमोऽध्यायः॥५४॥
हरादिदेवैः सह नमुचिप्रभृतीनां घोरतरयुद्धम्

वैशम्पायन उवाच। पुनरेव तु तत्रासीन्महायुद्धं सुदारुणम् ।
क्रुद्धस्य नमुचेश्चैव धरस्य च महात्मनः॥१॥

संरब्धौ च महाबाहू महेष्वासावरिन्दमौ ।
परस्परमुदैक्षेतां दहन्ताविव लोचनैः॥२॥

विस्फार्य च महाचापं हेमपृष्ठं दुरासदम् ।
संरम्भात्स वसुश्रेष्ठस्त्यक्त्वा प्राणानयुध्यत॥३॥

स सायकमयैर्जालैर्धरो दैत्यरथं प्रति ।
भानुमद्भिः शिलाधौतैर्भानोः प्राच्छादयत्प्रभाम्॥४॥

ततः प्रहस्य नमुचिर्धरस्य च शिलाशितान् ।
असृजत्सायकान्दीप्तान्भीमवेगान्दुरासदान्॥५॥

महातेजा महाबाहुर्महावेगो महारथः ।
विव्याधातिबलो दैत्यो नवभिर्निशितैः शरैः॥६॥

स तोत्रैरिव मातङ्गो वार्यमाणः पतत्रिभिः ।
अभ्यधावच्च सङ्क्रुद्धो नमुचिं वसुसत्तमः॥७॥

तमापतन्तं वेगेन संरम्भान्नमुची रणे ।
दैत्यः प्रत्यसरद्देवं मत्तो मत्तमिव द्विपम्॥८॥

पुनरेवेति। प्रत्यसरत् अभिससार॥८॥

ततः प्राध्मापयच्छङ्खं भेरीशतनिनादिनम् ।
विक्षोभ्य तद्बलं हर्षादुद्भूतार्णवसम्प्रभम्॥९॥

अश्वानृक्षसवर्णाभान्हंसवर्णैः सुवाजिभिः ।
मिश्रयन्त्समरे दैत्यो वसुं प्राच्छादयच्छरैः॥१०॥

समाश्लिष्टावथान्योन्यं वसुदानवयो रथौ ।
दृष्ट्वा प्राकम्पत मुहुस्त्रिदशानां महद्बलम्॥११॥

क्रोधसंरम्भताम्राक्षौ प्रेक्षमाणौ मुहुर्मुहुः ।
गर्जन्ताविव शार्दूलौ प्रभिन्नाविव वारणौ॥१२॥

महामेघोपमं रौद्रमासीदायोधनं तयोः ।
रथाश्ववरसम्बाधं मत्तवारणसङ्कुलम्॥१३॥

महामेघोपमं मेघामहान्तो यत्राकाश तदुपम सङ्कीर्णमेघेन नभसा तुल्यमित्यर्थः। आयोधनं युद्धभूमिः। यमदंष्ट्रोपममित्यपि पाठः॥१३॥

समाजमिव तं दृष्ट्वा प्रेक्षमाणा महारथाः ।
आशंसन्तो जयं ताभ्यां योधा नैकत्रसंश्रयाः॥१४॥

नैकसंश्रया उभयपक्षीयाः ताभ्यां निमित्तभूताभ्यां स्वजयमाशंसन्तः॥१४॥

तयोः प्रैक्षन्त संरम्भं सन्निकृष्टं महास्त्रयोः ।
सिद्धगन्धर्वमुनयो देवदानवयोस्तदा॥१५॥

देवदानवयोर्धरनमुच्योः॥१५॥

तौ च्छदयन्तावन्योन्यं समरे निशितैः शरैः ।
शरजालावृतं व्योम चक्रतुश्च महाबलौ॥१६॥

तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथैः ।
प्रेक्षनीयतमावास्तां वृष्टिमन्ताविवाम्बुदौ॥१७॥

सुवर्णविकृतान्बाणान्प्रमुञ्चन्तावरिन्दमौ ।
भास्कराभं तदाकाशमुल्काभिरिव चक्रतुः॥१८॥

तयोः शराः प्रकाशन्ते देवदानवयोस्तदा ।
पङ्क्त्यः शरदि मत्तानां सारसानामिवाम्बारे॥१९॥

त्रिदशाश्वगजानां हि शरीरैर्गतजीवितैः ।
क्षणेन संवृता भूमिर्मेघैरिव नभस्तलम्॥२०॥

ततः सुधारं ज्वलितं सूर्यमण्डलसन्निभम् ।
धराय वसवे मुक्तं चक्रं नमुचिना रणे ।
पतता तेन चक्रेण धरस्य स्यन्दनोत्तमः॥२१॥

सध्वजः सायुधः साश्वो दग्धोऽर्ककिरणप्रभः ।
स त्यक्त्वा स्यन्दनं देवः प्रदीप्तं चक्रतेजसा॥२२॥

भयात्तस्यासुरेन्द्रस्य गतः स्वगृहमुत्तमम् ।
पराजित्य सुरं दैत्यो नमुचिर्बलगर्वितः॥२३॥

प्रयातः स्वेन सैन्येन भूयः सुरचमूं प्रति ।
यौ तौ मयश्च त्वष्टा च देवदैत्येषु विश्रुतौ॥२४॥

प्रवरौ विश्वकर्माणौ मायाशतविशारदौ ।
घोरस्तयोः सम्प्रहारः प्रावर्तत सुदारुणः॥२५॥

अन्योन्यस्पार्द्धिनोस्तत्र चिरात्प्रभृति संयुगे ।
त्वष्टा तु निशितैर्बाणैर्दैत्यं तु बलदर्पितम्॥२६॥

पराक्रान्तं पराक्रम्य विव्याध त्रिशतैः शरैः ।
मयस्तु प्रतिविव्याध त्वष्टारं निशितैः शरैः॥२७॥

सुघातैः सुप्रसन्नाग्रैः शातकुम्भविभूशितैः ।
ननाद दितिजश्रेष्ठो हतस्त्वष्टुः शरैर्मयः॥२८॥

त्वष्टुः त्वष्टारम्॥२८॥

सङ्क्रुद्धो दैत्यसैनस्य विचिन्वन्निव जीवितम् ।
शक्तिं कनकवैडूर्यचित्रदण्डां महाप्रभाम्॥२९॥

देवो गृहीत्वा समरे दैत्येन्द्रं समपातयत् ।
भीमां सर्वायसीं दृष्ट्वा पुरन्दर इवाशनिम्॥३०॥

तां त्वष्टुर्भुजनिर्मुक्तामर्कवैश्वानरप्रभाम् ।
मयश्चिच्छेद तीक्ष्णाग्रैस्तूर्णं सप्तभिराशुगैः॥३१॥

अतः क्षुण्वन्निव प्राणांस्त्वष्टुः कोपान्महासुरः ।
प्रेषयामास संरब्धः शरान्बर्हिणवाससः॥३२॥

चिच्छेद बाणांस्त्वष्टा ताञ्ज्वलितैर्नतपर्वभिः ।
दैत्यस्य सुमहावेगैः सुवर्णविकृतैः शरैः॥३३॥

तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे ।
शार्दूलाविव चान्योन्यं प्रसक्तावभिजघ्नतुः॥३४॥

अन्योन्यं प्रतियुध्यन्तावन्योन्यवधकाङ्क्षिणौ ।
अन्योन्यमभीवीक्षन्तौ क्रुद्धावाशीविषाविव॥३५॥

महागजाविवासाद्य विषाणाग्रैः परस्परम् ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः॥३६॥

ततः सुविपुलां दीप्तां मयो रुक्माङ्गदो गदाम् ।
त्वष्टरि प्राहिणोत्क्रुद्धः सर्वप्राणहरां रणे॥३७॥

तथा जघानातिरथस्त्वष्टुरुत्तमवाजिनः ।
गदया दानवः क्रुद्धो वज्रेणेन्द्र इवाचलान्॥३८॥

ततः क्रुद्धो महादैत्यः क्षुराभ्यामथ संयुगे ।
पुनर्द्वाभ्यां शराभ्यां तु निशिताभ्यां महारणे॥३९॥

ध्वजं त्वष्टुरथ च्छित्वा सूतं निन्ये यमक्षयम् ।
महाबलान्महावेगान्त्सदश्वान्गदयाऽहनत्॥४०॥

दृष्ट्वा त्वष्टा हतं सूतमश्वांश्च विनिपातितान् ।
हताश्वं रथमुत्सृज्य सूतं च पतितं भुवि॥४१॥

विस्फारयन्महाचापं स्थितो भूमाविवाचलः ।
हताश्वसूतं विरथं दृष्ट्वा रिपुमवास्थितम्॥४२॥

जयश्रिया सेव्यमानो दीप्यमान इवानलः ।
मयः कालान्तकप्रख्यश्चापपाणिरदृश्यत॥४३॥

प्रादहद्देवसैन्यानि दावाग्निरिव काननम् ।
त्वष्टुः सोऽक्षिपतात्युग्रान्नाराचांस्तिग्मतेजसः॥४४॥

चतुर्दश शिलाधौतान्त्सायकान्विविधाकृतीन् ।
ते पपुस्तस्य सैनस्य शोणितं रुक्मभूषणाः॥४५॥

आशीविषा इव क्रुद्धा भुजङ्गाः कालचोदिताः ।
टे क्षितिं समवर्तन्त शोभन्ते रुधिरोक्षिताः॥४६॥

अर्धप्रविष्टा संरब्धा बिलानीव महोरगाः ।
तं प्रत्यविध्यत्त्वष्टा तु जाम्बूनदविभूषितैः॥४७॥

चतुर्दशभिरत्युग्रैर्नाराचैरभिधारयन् ।
ते तस्य दैत्यस्य भुजं सव्यं निर्भिद्य पत्रिणः॥४८॥

विदार्य विविशुर्भूमिं पन्नगा इव वेगतः ।
ते प्रकाशन्त नाराचाः प्रविशन्तो वसुन्धराम्॥४९॥

अस्तं गच्छन्तमादित्यं प्रविशन्त इवांशवः ।
मयस्त्रिभिरथानर्च्छत्त्वष्टारं तु पतत्रिभिः॥५०॥

सुपर्णवेगैर्विकृतैर्ज्वलद्भिः प्राणनाशनैः ।
त्वष्टाथ मयनिर्मुक्तैः सायकैरर्दितः प्रभुः॥५१॥

अपयातो रणं हित्वा व्रीडयाभिसमन्वितः ।
तं तत्र हतसूतं च भुजङ्ग इव निर्विषम्॥५२॥

त्वष्टारं विरथं कृत्वा मुदितः स तु दानवः ।
विस्फार्यमाणो रुचिरं चापं रुक्माङ्गदं दृढम्॥५३॥

रणे व्यतिष्ठद्दैत्येन्द्रो ज्वलन्निव हुताशनः ।
पुलोमा तु बलश्लाघी दृप्तो दानवसत्तमः॥५४॥

रथे श्वेतहयेनेह सार्धं युद्ध्यति वायुना ।
सर्वेषामेव भूतानां यः प्राणः कथ्यते द्विजैः॥५५॥

बलिना कालकल्पेन वायुना सह सङ्गतः ।
पुलोम्नस्तत्र पवनः श्रुत्वा ज्यातलनिःस्वनम्॥५६॥

नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ।
दैत्यचापच्युतैर्बाणैः प्राच्छाद्यन्त दिशो दश॥५७॥

रश्मिजालैरिवार्कस्य विततं साम्बरं जगत् ।
स ताम्रनयनः क्रुद्धः श्वसन्निव महोरगः॥५८॥

वृतो दैत्यशतैर्वायू रश्मिवानिव भास्करः ।
दैत्यचापभुजोत्सृष्टाः शरा बर्हिणवाससः॥५९॥

रुक्मपुङ्खाः प्रकाशन्ते हंसाः श्रेणीकृता इव ।
चापध्वजपताकाभ्यः शस्त्रा दीप्तमुखाश्च्युताः॥६०॥

शस्त्राः बाणाः च्युताः धनुष इत्यर्थः॥६०॥

प्राप्तवन्तश्च दृश्यन्ते दैत्यस्यापततः शराः ।
एवं सुतीक्ष्णान्खचराञ्छलभानिव पावके॥६१॥

सुवर्णाविकृतांश्चित्रान्मुमोच दितिजः शरान् ।
तमन्तकमिव क्रुद्धमापतन्तं स मारुतः॥६२॥

त्यक्त्वा प्राणानतिक्रम्य विव्याध नवभिः शरैः ।
तस्य वेगमसंहार्यं दृष्ट्वा वायुः सनातनः॥६३॥

उत्तमं जवमास्थाय व्यधमत्सायकव्रजान् ।
तेजो विधम्य बलवाञ्छरजालानि मारुतः॥६४॥

व्रजान् समूहान्॥६४॥

विव्याध दैत्यं विंशत्या विशिखैर्नतपर्वभिः ।
मरुद्गणानां प्रवरा दश दिव्या महौजसः॥६५॥

साधु साध्विति वेगेन सिंहनादं प्रचक्रिरे ।
तस्मिन्त्समुत्थिते शब्दे तुमुले लोमहर्षणे॥६६॥

अभ्यधावन्त दितिजाः पौलोमाः क्रोधमूर्च्छिताः ।
ते समासाद्य पवनं समावृण्वञ्छरोत्तमैः॥६७॥

पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ।
ते पीडयन्तः पवनं क्रुद्धाः सप्त महरथाः॥६८॥

प्रजासंहरणं घोराः सोमं सप्त ग्रहा इव ।
ततो दक्षिणमक्षोभ्यं नानारत्नविभूषितम्॥६९॥

करं गजकराकारमुद्यम्य युधि मारुतः ।
तेषां मूर्धसु दैत्यानां पातयामास वीर्यवान्॥७०॥

निहिता वायुवेगेन तेन सप्त महारथाः ।
त्यक्त्वा प्राणान्पुलोमा तु विव्याध नवभिः शरैः॥७१॥

प्रदर्पितमसंहार्यं दृष्ट्वा वायुं सनातनम् ।
असञ्चिन्त्य सुरौघांस्ताञ्ज्वलितांश्च पुलोमतः॥७२॥

तेषां विदार्य तेजंसि दानवानां महात्मनाम् ।
शोणिताक्लिन्नमुकुटा गैरिकाक्ता इवाद्रयः॥७३॥

ते भिन्नवर्मास्थिभुजाः पतन्तो भान्ति दानवाः ।
मातङ्गयूथसम्भग्नाः पुष्पिता इव पादपाः॥७४॥

तेषां विदारितैर्देहैर्दानवानां महात्मनाम् ।
ततः प्रावर्तत नदी रौद्ररूपा भयावहा॥७५॥

प्रस्रवन्ती रणे रक्तं भीरूणां भयवर्धिनी ।
देवदैत्यगजाश्वानां रुधिरौघपरिप्लुता ।
रणभूमिरभूद्रौद्रा तत्र तत्र सहस्रशः॥७६॥

सम्भूता गतसत्त्वैश्च यक्षराक्षसखेचरैः ।
सानुगैः सपताकैश्च सोपासङ्गरथध्वजैः॥७७॥

शीर्णकुम्भैस्तथा नागैर्घन्टाभिस्तु विभूषितैः ।
सुवर्णपुङ्खैर्ज्वलितैर्नाराचैस्तिग्मतेजसैः॥७८॥

देवदानवनिर्मुक्तैः सविषैरुरगैरिव ।
प्रासतोमरनाराचैः शक्तिखड्गपरश्वधैः॥७९॥

सुवर्णविकृतैश्चपि गदामुसलपट्टिशैः ।
कनकाङ्गदकेयूरैर्मणिभिश्च सकुण्डलैः॥८०॥

तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च शोभनैः ।
हतैश्च दितिजैस्तत्र शस्त्रस्यन्दनवर्जितैः॥८१॥

पतितैरपि विद्धैश्च शतशोऽथ सहस्रशः ।
निपातितध्वजरथो हतवाजिरथद्विपः॥८२॥

विमर्दो देवदैत्यानां सदृशः कर्मणा बभौ ।
अथ दैत्यसहस्रेण पौलोमेन महासुरः॥८३॥

संवृतः पवनः श्रीमान्गदामुसलपाणिना॥८४॥

ते जघ्नुः शतसाहस्राः पवनं दानवोत्तमाः ।
तैर्वध्यमानः स बभौ समन्तादर्पितैः शरैः॥८५॥

हत्वाष्टौ तत्र योधानां शतानि पवनः प्रभुः ।
कृत्वा मार्गं सुरश्रेष्ठो ननाद सुमहारथः॥८६॥

ननाद पवनः॥८६॥

अद्यापि च सुविस्तीर्णः पन्थाः सन्दृश्यते दिवि ।
नाम्ना वायुरथो नाम सिद्धाः पश्यन्ति तं दिवि॥८७॥

वैशम्पायन उवाच। हयग्रीवस्तु दितिजः पूषणं प्रति वीर्यवान् ।
ननाद सुमहानादः सिंहनादं महारथः॥८८॥

विस्फार्य सुमहच्चापं हेमजालविभूषितम् ।
पूषणं दितिजोऽपश्यत्क्रुद्धो घोरेण चक्षुषा॥८९॥

पूषणं देवम्॥८९॥

भुजभ्यामाददानस्य सन्दधानस्य वै शरान् ।
मुञ्चतः कर्षतो वापि ददृशुस्तत्र नान्तरम्॥९०॥

अग्निचक्रोपमं दीप्तं मण्डलीकृतकार्मुकम् ।
तदासीद्दानवेन्द्रस्य सव्यदक्षिणमस्यतः॥९१॥

अग्निचक्रम् अलातचक्रम्॥९१॥

रुक्मपुङ्खैस्ततस्तस्य चापमुक्तैः शितैः शरैः ।
प्राच्छाद्यन्त शिलाधौतैर्दिशः सूर्यस्य च प्रभाः॥९२॥

ततः कनकपुङ्खानां शराणां नतपर्वणाम्॥९३॥

नभश्चराणां नभसि दृश्यन्ते बहवो व्रजाः ।
गिरिकूटनिभाच्चापात्प्रभवन्तः शरोत्तमाः॥९४॥

श्रेणीभूताः प्रकाशन्ते यान्तः श्येना इवाम्बरे ।
गृध्रपत्राञ्छिलाधौतान्कार्तस्वरविभूषितान्॥९५॥

महावेगान्प्रशस्ताग्रान्मुमोच दितिजः शरान् ।
ततश्चापबलोद्धूताः शातकुम्भविभूषिताः॥९६॥

देहे समवकीर्यन्त पूष्णः सन्निहिताः शराः ।
ते व्योम्नि रुक्मविकृताः सम्प्रकाशन्त सर्वशः॥९७॥

सम्प्रकाशन्त। अडभाव आर्षः॥९७॥

खद्योता इव घर्मान्ते खे चरन्तः समन्ततः ।
शिलाधौताः प्रसन्नाग्राः पूषणं सिषिचुः शराः॥९८॥

पर्वतं वारिधाराभिर्यथा प्रावृषि तोयदाः ।
ततः प्रच्छादयामास पूषणं शरवृष्टिभिः॥९९॥

पर्वतं वारिधाराभिश्छादयन्निव तोयदः ।
ततः सपूष्णोऽदेवस्य बलं वीर्यं पराक्रमम्॥१००॥

सपूष्णः पूष्णा युध्यमानस्य अदेवस्य असुरस्य॥१००॥

व्यावसायं च सत्त्वं च पश्यन्ति त्रिदशाद्भुतम् ।
तां समुद्रादिवोद्भूतां शरवृष्टिं समुत्थिताम्॥१०१॥

नाचिन्तयत्तदा पूषा दैत्यं चाभ्यद्रवद्रणे ।
हेमपृष्ठं महानादं पूष्ण आसीन्महाधनुः॥१०२॥

विकृतं मण्डलीभूतं शक्राशनिमिवापरम् ।
ततः शराः प्रादुरासन्पूरयन्त इवाम्बरम्॥१०३॥

सुवर्णपुङ्खाः पूष्णस्ते प्रभवन्तः शरासनात् ।
मालेव रुक्मपुङ्खानां वितता व्योम्नि पत्रिणाम्॥१०४॥

प्रादुरासीन्महाघोरा बृहती पूषकार्मुकात् ।
ततो व्योम्नि विभक्तानि शरजालानि सर्वशः॥१०५॥

आहतानि व्यशीर्यन्त शरैः सन्नतपर्वभिः ।
ततः कनकपुङ्खानां छिन्नानां कङ्कवाससाम्॥१०६॥

पततां पात्यमानानां खमासीच्चावृतं रणे ।
पूषा प्रापूरयद्बाणैर्हयग्रीवं शिलाशितैः॥१०७॥

नामाङ्कैरर्कसदृशैर्दिव्यहेमपरिष्कृतैः ।
ततो व्यसृजदुग्राणि शरजालानि दानवः॥१०८॥

अमर्षी बलवान्क्रुद्धो दिधक्षन्निव पावकः ।
पूष्णस्त्वाजौ ध्वजं चैव पताकां धनुरेवच॥१०९॥

रश्मीन्योक्त्राणि चाश्वानां हयग्रीवो रणेऽच्छिनत् ।
अथाप्यश्वान्पुनर्हत्वा चतुर्भिः सायकोत्तमैः॥११०॥

सारथिं सुमहातेजा रथोपस्थादपातयत् ।
कृतस्तु विरथः पूषा हयग्रीवेण संयुगे॥१११॥

पूषा तस्य रथाभ्यासात्स ययौ तेन वै जितः ।
गतः शक्ररथाभ्याशं मुक्तो मृत्युमुखादिव॥११२॥

तत्राद्भुतमिदं भूयो युद्धं वर्तत दारुणम् ।
कृतप्रतिकृतं घोरं शम्बरस्य भगस्य च॥११३॥

सप्तकिष्कुपरीणाहं द्वादशारत्निकार्मुकम् ।
चापं चाशनिनिर्घोषं दृढज्यं भारसाधनम् ।
विक्षिपन्नक्षसदृशान्व्यसृजत्सायकान्बहून्॥११४॥

क्रोधसंरक्तनयनः शम्बरः सर्वयोगवित् ।
तेन वित्रास्यमानानि देवसैन्यानि सर्वशः॥११५॥

समकम्पन्त भीतानि सिन्धोरिव महोर्मयः ।
तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम्॥११६॥

भगः प्रस्फुरमाणौष्ठस्त्वरमाणो व्यदारयत् ।
ततो भगो महेष्वासो दिव्यं विस्फारयन्धनुः॥११७॥

अवाकिरन्दैत्यगणाञ्छरजालेन छादयन् ।
तमभ्यगाद्भगो दैत्यं तूर्णमस्यन्तमन्तिकात्॥११८॥

मातङ्गमिव मातङ्गो वृषं प्रति वृषो यथा ।
तौ प्रगृह्य महावेगौ धनुषी भारसाधने॥११९॥

प्राच्छादयेतामन्योन्यं तक्षमाणौ रणे शरैः ।
तयोः सुतुमुलं युद्धमासीद्घोरं महारणे॥१२०॥

भगशम्बरयोर्भीममप्रमेयं महात्मनोः ।
अथ पूर्णायतोत्सृष्टैः शरैः सन्नतपर्वभिः॥१२१॥

व्यदारयेतामन्योन्यं कार्ष्णे निर्भिद्य चर्मणी ।
तौ तु विकृतसर्वाङ्गौ रुधिरेण समुक्षितौ॥१२२॥

सम्प्रेक्ष्यमाणौ रथिनावुभौ परमदुर्मदौ ।
तक्षमाणौ सितैर्बाणैर्न वीक्षितुमशक्नुताम्॥१२३॥

अथ विव्याध समरे त्वरमाणोऽसुरो भगम् ।
नाराचैः क्रोधताम्राक्षः कालान्तकयमोपमः॥१२४॥

गरुत्मानिव चाकाशे पोथयानो महोरगम् ।
नाराचा न्यपतन्देहे तूर्णं शम्बरचोदिताः॥१२५॥

तानन्तरिक्षे नाराचान्भगश्चिच्छेद पत्रिभिः ।
ज्वलन्तमचलप्रेष्यं वैश्वानरसमप्रभम्॥१२६॥

ततो भगं चतुःषष्ट्या विव्याधासुरसत्तमः ।
शिलीमुखैर्महावेगैर्जाम्बूनदविभूषितैः॥१२७॥

तदा तत्सुचिरं कालं युद्धं सममिवाभवत् ।
शम्बरस्य च मायाभिर्नादृश्यत ततोऽम्बरम्॥१२८॥

दोर्भ्यां चिक्षिपतश्चापं रणे विष्टभ्य तिष्ठतः ।
श्रूयते धनुषः शब्दो विस्फूर्जितमिवाशनेः॥१२९॥

स भगस्य हयान्हत्वा सारथिं च महाहवे ।
अभ्यवर्षच्छरैरेनं पर्जन्य इव वृष्टिमान्॥१३०॥

न तस्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् ।
भगदेवस्य दैत्येन शम्बरेणास्त्रघातिना॥१३१॥

दैत्यस्य चाद्भुतं दिव्यमस्त्रमस्त्रेण धारयन् ।
मायायुद्धेन मायावी शम्बरोऽस्तमयोऽभवत्॥१३२॥

अवञ्चयद्भगं दैत्यो मायाभिर्लाघवेन च ।
भगस्तस्य रथं साश्वं शरवर्षैरवाकिरत्॥१३३॥

सहस्रमायो द्युतिमान्देवसेनां निषूदयन् ।
अदृश्यत शरैश्चन्नः शम्बरः शतशो रणे॥१३४॥

अदृश्यत्पतितो भुमौ गतचेता इवासुरः ।
अथ स्म युध्यते भूयः शतधा शैलसन्निभः॥१३५॥

दिशा गजेन्द्रमारूढो दृश्यते स पुनर्बली ।
प्रादेशमात्रश्च पुनः पुनर्भवति शैलवत्॥१३६॥

महामेघ इव श्रीमांस्तिर्यगूर्ध्वं च सोऽभवत् ।
पुनः कृत्वा विरूपाणि विकृतानि च सर्वशः॥१३७॥

सर्वां भीषयते सेनां देवानां भीमदर्शनः ।
ते भीताः प्रपलायन्ते सिंहं दृष्ट्वा मृगा यथा ।
ततः सोऽन्यं वरं देहं कृत्वा प्रांशुतरं पुनः॥१३८॥

गच्छत्यूर्ध्वगातिं घोरो दिशः शब्देन पूरयन् ।
नभस्तलगतश्चापि वर्षते वासवो यथा॥१३९॥

संवर्तकाम्बुदप्रख्यः पूरयन्पृथिवीतलम् ।
संवर्तकोऽनलश्चैव भूत्वा भीमपराक्रमः॥१४०॥

शतवर्त्मा शतशिखो ददाह च पुनः सुरान् ।
मुहूर्ताच्च महाशैलः शतशीर्षा शतोदरः॥१४१॥

अदृश्यत दिवस्तम्भः शतशृङ्ग इवाचलः ।
येऽन्ये दैत्याश्च साध्याश्च ये च विश्वे च देवताः॥१४२॥

क्षिपन्त्यस्त्राणि दिव्यानि तानि सोऽग्रसतासुरः ।
युध्यमानश्च समरे सरथः सोऽसुरोत्तमः॥१४३॥

गन्धर्वनगराकारस्तत्रैवान्तरधीयत ।
ते भीताः समुदीक्षन्त त्रिदशा भीमविक्रमाः॥१४४॥

सहस्रमायं समरे शम्बरं चित्रयोधिनम् ।
स भगो भयसन्त्रस्तो दानवेन्द्रस्य संयुगे॥१४५॥

रथं त्यक्त्वा महाभागो महेन्द्रं शरणं गतः ।
पराजित्य तु तं देवं दानवेन्द्रः प्रतापवान्॥१४६॥

गतो यत्र महातेजा जातवेदा महाप्रभः ।
स वह्निर्वाग्भिरुग्राभिः क्रुद्धस्तर्जयते बली ।
भवाम्येष हि ते मृत्युरित्युक्त्वान्तर्धीयत॥१४७॥

वैशम्पायन उवाच। एतस्मिन्नन्तरे भूत्वा ब्राह्मणेन्द्रो महाबलः ।
जघान सोमः शीतास्त्रो दानवानां चमूं रणे॥१४८॥

कैलासशिखराकारो द्युतिमद्भिर्गणैर्वृतः ।
अवधीद्दानवान्दृष्ट्वा दण्डपाणिरिवान्तकः॥१४९॥

पोथयद्रथवृन्दानि वाजिवृन्दानि वै प्रभुः ।
दैत्येषु विचरञ्छ्रीमान्युगान्ते कालवद्बली॥१५०॥

सोऽमर्षाद्रथजालानि उरुवेगेन चन्द्रमाः ।
ददाह दानवान्सर्वान्दावाग्निरिव चोदितः॥१५१॥

मृदन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातिनः॥१५२॥

शीतेन व्यधमत्सर्वान्वायुर्वृक्षानिवौजसा ।
चन्द्रमाः सुमहातेजा दानवानां महाचमूम्॥१५३॥

तदस्त्रमभवत्तस्य प्रदिग्धं शत्रुशोणितैः ।
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून्॥१५४॥

युगान्तकोपमः श्रीमान्दैत्येषु व्यचरद्बली ।
आवार्य महतीं सेनां प्राद्रवन्तीं पुनः पुनः॥१५५॥

चन्द्रं मृत्युमिवायान्तं दृष्ट्वा योधा विसिष्मियुः ।
यतो यतः प्रक्षिपति शिशिरास्त्रं तमोनुदः॥१५६॥

ततस्ततो व्यशीर्यन्त दैत्यसैन्यानि संयुगे ।
व्यदारयत्स सैन्यानि स्वबलेनाभिसंवृतः॥१५७॥

ग्रसमानमनीकानि व्यादितस्यमिवान्तकम् ।
तं तथा भीमकर्माणं गृहीतास्त्रं महाहवे॥१५८॥

दृष्ट्वा शशाङ्कमायान्तं दैत्याभं चन्द्रभास्करौ ।
तालमात्राणि चापानि कर्षमाणौ महाबलौ॥१५९॥

छादयेतां शरैश्चन्द्रं वृष्टिमन्ताविवाम्बुदौ ।
अथ विस्फार्यमाणानां कर्मुकाणां सुरासुरैः॥१६०॥

अभवत्सुमहाशब्दो दिशः सन्नादयन्निव ।
विनदद्भिर्महानागैर्हेषमाणैश्च वाजिभिः॥१६१॥

भेरीशङ्खनिनादैश्च तुमुलं सर्वतोऽभवत् ।
युयुत्सवस्ते संरब्धा जयगृद्धा यशस्विनः॥१६२॥

अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महावृषाः ।
शिरसां पात्यमानानां समरे निशितैः शरैः॥१६३॥

अश्मवृष्टिरिवाकाशे ह्यभवत्सेनयोस्तथा ।
कुण्डलोष्णीषधारीणि जातरूपस्रजांसि च॥१६४॥

पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि ।
विशिखैर्माथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः॥१६५॥

सहस्ताभरणैश्चान्यैर्विच्छिन्नै रुधिरोक्षितैः ।
कवचैरावृतैर्गात्रैरुरुभिश्चन्दनोक्षितैः॥१६६॥

मुखैश्च चन्द्रसङ्काशैस्तप्तकुण्डलभूशणैः ।
गजवाजिमनुष्याणां सर्वगात्रैः समन्ततः॥१६७॥

आसीत्सर्वा समाकीर्णा मुहूर्तेन वसुन्धरा ।
चापमेघाश्च विपुलाः शस्त्रविद्युत्प्रकाशिनः ।
वाहनानां च निर्घोषः स्तनयित्नुसमोऽभवत्॥१६८॥

स सम्प्रहारस्तुमुलः कटुकः शोणितोदकः ।
प्रावर्तत सुराणां च दानवानां च संयुगे॥१६९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धे पञ्चपञ्चाशत्तमोऽध्यायः॥५५॥
देवासुरयुद्धे कुजम्बोत्कर्षवर्णनम्

वैशम्पायन उवाच। तस्मिन्महाहवे रौद्रे तुमुले लोमहर्षणे ।
ववर्षुः शरवर्षाणि संरब्धा देवदानवाः॥१॥

व्याक्रोशन्त गजास्तत्र शरघातप्रपीडिताः ।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश॥२॥

उत्पत्य निपतन्त्यन्ये शरवर्षप्रपीडिताः ।
देवानां दानवानां च गजाश्वरथिनां रणे॥३॥

समरे तत्र शूराणामन्योन्यमभिधावताम् ।
धनुषां तलशब्देन न प्राज्ञायत किञ्चन॥४॥

शरशक्तिगदाभिस्ते खड्गैश्चामिततेजसः ।
निजघ्नुर्महतीं सेनामन्योन्यस्य परन्तप॥५॥

बाहूनामुत्तमाङ्गानां कार्मुकाणां च संयुगे ।
राशयस्तत्र दृश्यन्ते देवदैत्यसमागमे॥६॥

अश्वानां कुञ्जराणां च रथानां च वरूथिनाम् ।
नान्तं समभिगच्छन्ति निहतानां सुरासुरैः॥७॥

गदाभिरसिभिः प्रासैर्भल्लैः सन्नतपर्वभिः ।
योधास्तत्राभ्यहन्यन्त हस्त्यश्वं चामितं बहु॥८॥

प्रावर्तत नदी घोरा शोणितौघा तरङ्गिणी ।
तदा मध्ये तु सैन्यानां केशशैवलशाड्वला॥९॥

हाहाकारो महाशब्दो योधानामभवत्तदा ।
दानवैर्हन्यमानानां त्रिदशानां महारणे॥१०॥

वैशम्पायन उवाच तेषां तदभवद्युद्धं देवानामसुरैः सह ।
विभीषणं महारौद्रं विकृतं भीमदर्शनम्॥११॥

विरोचनस्तु तत्रैव विष्वक्सेनं महाहवे ।
जघान रुधिराभाक्षं साध्यं परमधन्विनम्॥१२॥

तमायान्तमभिप्रेक्ष्य विष्वक्सेनः सुरैर्वृतः ।
अमेयात्मा सुरश्रेष्ठः प्रत्यविध्यत्स्तनान्तरे॥१३॥

साध्यस्य बाणाभिहतस्तोत्रार्पित इव द्विपः ।
विरोचनः प्रजज्वाल क्रोधेनाग्निरिवाध्वरे॥१४॥

स कार्मुकविनिर्मुक्तैः शरैर्दानवसत्तमः ।
विष्वक्सेनं बिभेदाजौ दीप्तैः सप्तभिराशुगैः॥१५॥

सोऽतिविद्धो बलवता दानवेन सुरोत्तमः ।
मूर्च्छामभिजगामाशु ध्वजं चाप्याश्रयत्प्रभुः॥१६॥

ततः स पुनराश्वस्य साध्यो युद्धे मनो दधे ।
विस्फार्य च महाचापं दैत्यमध्ये व्यवस्थितः॥१७॥

विरोचनस्तु बलवानभ्ययुध्यत सर्वशः ।
क्षोभयन्सुरसैन्यानि समन्तान्निशितैः शरैः॥१८॥

ततस्तस्यासुरेन्द्रस्य युद्ध्यमानस्य संयुगे ।
श्रूयते तुमुलः शब्दो जीमूतस्येव गर्जतः॥१९॥

जगर्ज च महाघोषो विनिघ्नन्देववाहिनीम् ।
चण्डवेगाश्मवर्षी च सविद्युत्स्तनयित्नुमान्॥२०॥

दिशो विद्रावयामास शरवर्षेण दानवः ।
सर्वसैन्यानि देवानामुद्यतास्त्रो महाहवे॥२१॥

ते प्राद्रवन्त वित्रस्ता रथेभ्यो रथिनस्तदा ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः॥२२॥

श्रुत्वा कार्मुकनिर्घोषं विस्फूर्जितमिवाशनेः ।
सर्वसैन्यानि भीतानि निव्यलीयन्त संयुगे॥२३॥

विरोचनभयत्रस्ता रथेभ्यो रथिनस्तदा ।
पदातीनां ययुः सङ्घा यत्र देवः सचीपतिः॥२४॥

विष्वक्सेनस्य साध्यस्य सर्वतः सुमहाबलः ।
पादे रक्षःसहस्राणि निजघान चतुर्दश॥२५॥

अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः ।
पदातीनां च सङ्घेषु विनिघ्नन्प्रत्यदृश्यत॥२६॥

वितत्य श्येनवत्पक्षौ सर्वतः स वरूथिनीम् ।
भित्त्वा छित्त्वा महाबाहुः शिरांस्याजौ ह्यकृन्तत॥२७॥

सादिनश्च पदाताश्च हतशेषा रथास्तथा ।
विष्वक्सेनेन सहिता विरोचनमथाद्रवन्॥२८॥

तेऽसिचर्मगदाशक्तिपरिघप्रासतोमरैः ।
तमेकमभ्यधावन्तं सिंहनादं प्रचक्रिरे॥२९॥

ततः सोऽसिं समुद्यम्य जवमास्थाय दानवः ।
चकर्त रथिनामाजौ शिरांसि च धनूंषि च॥३०॥

रथनागाश्ववृन्देषु बलवानरिसूदनः ।
विरोचनश्चरन्मार्गान्प्रकारानेकविंशतिम्॥३१॥

भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं युगम् ।
सम्पातं समुदीर्णं च दर्शयामास दानवः॥३२॥

केचिद्वरासिना रुग्णा दानवेन महात्मना ।
विनिदुश्छिन्नवर्माणो निपेतुश्च गतासवः॥३३॥

छिन्नपृष्ठा हतारोहा दानवेन महात्मना ।
विद्रुताः स्वान्यनीकानि जघ्नुस्त्रिदशवारणाः॥३४॥

निपेतुरुर्व्यामाकाशे निकृता दृढधन्विना ।
विविधास्तोमराश्चापा महामात्रशिरांसि च॥३५॥

प्रतीपमाहरन्नागानश्वांश्च दृढविक्रमान् ।
आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः॥३६॥

सूतांश्चिच्छेद खड्गेन रथानपि च दानवः ।
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः॥३७॥

मार्गांश्चरति वै चित्रान्विस्मयन्तस्ततोऽसुरान् ।
निजघान पदा कांश्चिदाक्षिप्यान्यानपोथयत्॥३८॥

खड्गेन चान्यांश्चिच्छेद नादेनान्यांश्च भीषयन् ।
ऊरुस्तम्भगृहीताश्च निपतन्त्यपरे भुवि ।
अपरे दैत्यमालोक्य भयात्प्राणानवासृजन्॥३९॥

तस्मिंस्तथा वर्तमाने युद्धे महति दारुणे ।
रथौघगजपत्तीनां सुराणां च महाक्षये॥४०॥

कुजम्भो दानवश्रेष्ठो ह्यंशमादित्यमाहवे ।
योधयामास समरे वृषः प्रतिवृषं यथा॥४१॥

जघानाचलसङ्काशो मत्तवारणविक्रमः ।
स्फुरद्भिर्निशितैस्तीक्ष्णशरैर्बहुभिराशुगैः॥४२॥

देवसैन्यसहस्राणि सरथानि महाहवे ।
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः॥४३॥

प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः ।
देवानामजयः क्रूरः प्रत्यपद्यत दारुणः॥४४॥

अंशस्तु दानवेन्द्रस्य जघानोत्तमविक्रमः ।
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम्॥४५॥

आपतन्तं गजानीकं कुजम्भो वीक्ष्य दानवः ।
गदापाणिरवारोहद्रथोपस्थादरिन्दमः॥४६॥

अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् ।
अभ्यद्रवद्गजानीकं व्यादितास्य इवान्तकः॥४७॥

स गजान्गदया निघ्नन्व्यचरत्समरे बली ।
कुजम्भो दानवश्रेष्ठो गदापाणिर्बलाधिकः॥४८॥

विशीर्णदन्तांश्च बहून्भिन्नकुम्भांश्च दारुणान् ।
अकरोद्दानवश्रेष्ठ उद्दिश्योद्दिश्य तान्बली॥४९॥

विशीर्णदन्ता बहवो भिन्नकुम्भास्तथा परे ।
कुजम्भेनार्दिता नागा व्यद्रवन्त दिशो दश॥५०॥

कुजम्भस्य च येऽमात्या दानवा घोरविक्रमाः ।
नाराचैर्विविधैस्तीक्ष्णैरपास्तगजयोधिनः॥५१॥

क्षुरैः क्षुरप्रैर्भल्लैश्च पातैरञ्जलिकैः शितैः ।
चिच्छेद चोत्तमाङ्गानि कुजम्भो दानवोत्तमः॥५२॥

शिरोभिः प्रपतद्भिस्तु गगनं प्रत्यपूर्यत ।
अश्मवृष्टिरिवाकाशे बहुभिश्च महाङ्कुशैः॥५३॥

कृत्तोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः ।
अदृश्यन्त महाराज ताला विशिरसो यथा॥५४॥

आपतन्तं महानागमंशस्यासुरसत्तमः ।
जघानैकेषुणा क्रुद्धस्ततः स विमुखोऽभवत्॥५५॥

विगाह्यैवं गजानीकं कुजम्भो दानवोत्तमः ।
विनिघ्नन्प्रवरान्सैन्यान्गदया बलिनां वरः॥५६॥

एकप्रहाराभिहतान्कुम्जम्भेन महागजान् ।
अपश्यन्त सुराः सर्वे पर्वतानिव पातितान्॥५७॥

कुजम्भस्य च मार्गेषु विशीर्णास्ते महागजाः ।
वज्राहता इवेन्द्रेण विशीर्णा इव पर्वताः॥५८॥

अपश्यंस्त्रिदशाः सर्वे मूर्तिमन्तमिवान्तकम् ।
गजास्तथा व्यदीर्यन्त सिंहस्येवेतरे मृगाः॥५९॥

स बभौ तां गदां बिभ्रत्प्रोक्षितां गणशोणितैः ।
व्यादितास्योऽनदत्क्रुद्धो रौद्ररूपो भयानकः॥६०॥

यथा हि भगवान्क्रुद्धः प्रजानां सङ्क्षये पुरा ।
विक्रीडमानो गदया रणमध्ये महासुरः॥६१॥

गोपाल इव दण्डेन कालयन्स महागजान् ।
क्रुद्धं कालमिवाकाले दण्डमुद्यम्य दानवम्॥६२॥

अपश्यन्त सुराः सर्वे कुजम्भं भीमविक्रमम् ।
हतारोहास्तु तत्रान्ये प्रभिन्ना वारणोत्तमाः॥६३॥

ते हन्यमाना गदया बाणैश्च भृशविक्षताः ।
असहन्तः कुजम्भस्य गदावेगं महाहवे॥६४॥

स्वान्यनीकानि गृह्णन्तः प्राद्रवन्त महागजाः ।
महावात इवाभ्राणि विधमन्गदया गजान् ।
अतिष्ठत्समरे दैत्यः कालः संवर्तको यथा॥६५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि देवासुरयुद्धे कुजम्भोत्कर्षवर्णने षट्पञ्चाशत्तमोऽध्यायः॥५६॥
देवासुरयुद्धे वृत्रासुरोत्कर्षवर्णनम्

वैशम्पायन उवाच। ततः सर्वाणि सैन्यानि देवराजस्य शासनात् ।
अभ्यद्रवन्त दितिजान्नदन्तो भैरवान् रवान्॥१॥

तं बलौघमपर्यन्तं देवानां सुदुरासदम् ।
रथनागाश्वकलिलं शङ्खदुन्दुभिनिःस्वनम्॥२॥

आपतन्तं सुदुष्पारं रजसा सर्वतो वृतम् ।
सैन्यसागरमक्षोभ्यं वेलेव मकरालयम्॥३॥

तदाश्चर्यमपश्यन्त अश्रद्धेयमिवाद्भुतम् ।
उदीर्णां पृतनां सर्वां साश्वां सरथकुञ्जराम्॥४॥

आचार्यः समरेऽतिष्ठत्कुजम्भस्तरसा बली ।
सैन्यार्णवं देवतानां गिरिर्मेरुरिवाचलः॥५॥

अनीकिनं कुजम्भस्तु गदया स न्यवारयत् ।
सा तथा वारिता सेना विह्वलाभून्निरुद्यमा॥६॥

तस्मिंस्तथा वर्तमाने सम्प्रहारे सुदारुणे ।
असिलोमा तु बलवान्दानवो दानवाधिपः॥७॥

देवसैन्यस्य सर्वस्य धूमकेतुरिवोत्थितः ।
तमांस्यर्क इवापोह्यत्सुरसैन्यानि संयुगे॥८॥

सहस्ररश्मिप्रतिमो दानवस्य रथोत्तमः ।
शरैर्मेघ इवावर्षद्देवानीकं प्रतापवान्॥९॥

शरौघरश्मिभिर्दीप्तैः प्रतप्तो घोरविक्रमः ।
रौद्रः क्रूरो दुराधर्षो दुरापो ध्वजिनीमुखे॥१०॥

युध्यते दैवतैः सार्धं ग्रसमान इव प्रभुः ।
उग्रेषुरुग्रवदनः समारुह्य महागजम्॥११॥

सुराणामुत्तमाङ्गानि प्रचिनोति महाबलः ।
ग्रसन्दैवतसैन्यानि शरदंष्ट्रः प्रताप्वान्॥१२॥

असिजिह्वश्चक्रहस्तश्चापव्यात्ताननोऽसुरः ।
परश्वधनखः श्रीमान्मृदङ्गापूरितध्वनिः॥१३॥

तिष्ठते दानवश्रेष्ठः संयुगे व्याघ्रवद्बली ।
मौर्वीघोषः स्तनयितुः पृषत्कः प्रथितो महान्॥१४॥

धनुर्विद्युद्गणश्चापो महामेघ इवापरः ।
इष्वस्त्रसागरो घोरो बाहुग्राहो दुरासदः॥१५॥

कार्मुकोर्मितरङ्गौघैर्बाणावर्तमहाह्रदः ।
गदासिमकरो रौद्रो ज्यावेलः शिक्षयोद्धतः॥१६॥

पदातिमीनः सुमहान्गर्जितोत्क्रुष्टघोषवान् ।
हयान्गजान्पदातींश्च रथांश्च सहसा बहून्॥१७॥

न्यमज्जयत समरे परवीरान्महारथान् ।
आप्लावयत्स देवौघान्दारुणो दानवेश्वरः॥१८॥

प्रावर्तत युधि श्रीमान्युधि श्रेष्ठो युधिष्ठिरः ।
अपश्यंस्त्रिदशाः सर्वे शुद्धजाम्बूनदप्रभम्॥१९॥

सन्नद्धं तत्र युध्यन्तं ज्वलन्तमिव पावकम् ।
मध्यन्दिनगतं सूर्यं ज्वलन्तमिव तेजसा॥२०॥

न शेकुः सर्वभूतानि दानवं प्रसमीक्षितुम् ।
यथा प्ररूढं घर्मान्ते दहेत्कक्षं हुताशनः॥२१॥

तथासुरवरो दैत्यो दहति स्म सुतेजसा ।
देवानां दानवानां च बलं मर्दति दारुणम्॥२२॥

विरूढमभवत्सर्वमाकुलं च समन्ततः ।
शूराश्च ते बलोदग्रा हस्त्यश्वरथधूर्गताः॥२३॥

आर्यां बुद्धिं समास्थाय न त्यजन्ति महारणम् ।
तदुत्पिञ्जलकं युद्धमभवद्रोमहर्षणम्॥२४॥

उत्पुञ्जलकम् आकुलत्वम्॥२४॥

देवदानवयोः सङ्ख्ये रुधिरस्रावकर्दमम् ।
न दिशः प्रत्यजानन्त भयग्राहनिपीडिताः॥२५॥

देवदानवयोः देवदानवजात्योः॥२५॥

शस्त्रपातांश्च विविधान्दानवानां महारणे ।
अन्योन्यं मूढचित्तास्ते निजघ्नुर्व्याकुलीकृताः॥२६॥

स्वान्परान्नाभिजानन्ति विमूढाः शस्त्रपाणयः ।
शिरोरुहेषु सङ्गृह्य कच्चिच्छूरस्य संयुगे॥२७॥

बाहुभिर्मुष्टिभिश्चैव वज्रकल्पैः सुदारुणैः ।
प्रहरन्ति रणे वीरा आत्तशस्त्राः परस्परम्॥२८॥

योधप्राणहरे रौद्रे स्वर्गद्वारेऽनपावृते ।
सङ्कुले तुमुले युद्धे वर्तमाने महाभये॥२९॥

हयो हयं गजो नागं वीरो वीरं महाहवे ।
अभ्यद्रवञ्जिघांसन्तो ह्यसमञ्जसमाहवे ।
असुराश्च सुराश्चैव विक्रमाढ्या महारथाः॥३०॥

जुहुवुः समरे प्राणान्निजघ्नुरितरेतरम् ।
मुक्तकेशा विकवचा विरथांश्छिन्नकार्मुकाः॥३१॥

हस्तैः पादैश्च युध्यन्ते दानवास्त्रिदशैः सह ।
हरिस्तु निशितं भल्लं प्रेष्यामास संयुगे॥३२॥

स तस्य धनुषः कोटिं छित्त्वा भूमावपातयत् ।
पुनश्चापि पृषत्कानां शतानि नतपर्वणाम्॥३३॥

प्राहिणोत्सहसा तस्य दानवेन्द्रस्य संयुगे ।
तस्य देहविमुक्तास्ते मारुतेन समीरिताः॥३४॥

भग्नार्धकाया विविशुः पन्नगा इव पर्वते ।
स तैर्निपतितैर्गात्रैः क्षरद्भिरसृगावलीः॥३५॥

बभौ दैत्यो महाबाहुर्मेरुर्धातुमिवोत्सृजन् ।
पुनश्चापि पृषत्कानां शतानि नतपर्वणाम्॥३६॥

ततोऽसिलोमा सङ्क्रुद्धः प्रगृह्यान्यन्महाधनुः ।
रुक्मपुङ्खांश्च निशितान्प्रेषयामास सायकान्॥३७॥

तैस्तु मर्मसु विव्याध सर्पानलविषोपमैः ।
गात्रं सञ्छादयामास महाभ्रैरिव पर्वतम्॥३८॥

भूयः सन्धाय च शरं मुमोचान्तकसन्निभम् ।
सुपुङ्खं सूर्यसङ्काशं बाणमप्रतिमं रणे॥३९॥

तेन बाणप्रहारेण संयुगे भीमकर्मणा ।
मुमोह सहसा देवो भूमौ चापि पपात ह॥४०॥

ततो हाहाकृताः सर्वे देवे भूतलमाश्रिते ।
जगत्सदेवमाविग्नं यथार्कपतनं तथा॥४१॥

परिवारं तु समरे तस्य हत्वा महासुरः ।
एकत्रिंशत्सहस्राणि योधानां दानवोत्तमः॥४२॥

जयश्रिया सेव्यमानो दिप्यमान इवाचलः ।
प्रगृह्य कार्मुकं घोरं गतः शक्ररथं प्रति॥४३॥

तथैव तु महायुद्धे ससैन्यावश्विनावुभौ ।
प्रयुद्धौ सह वृत्रेण बलिना देवतारिणा॥४४॥

बाणखड्गधनुष्पाणिः समरे त्यक्तजीवितः ।
आसाद्य सोऽश्विनौ दैत्यः स्थितो गिरिरिवाचलः॥४५॥

ततः शङ्खमुपाध्माय द्विषतां लोमहर्षणम् ।
ज्याघोषतलशब्दैश्च सर्वभूतान्यवेजयत्॥४६॥

अवेजयत् अकम्पयत्॥४६॥

ततः संहृष्टरोमाणः शङ्खशब्दं विशुश्रुवुः ।
यक्षराक्षसदेवौघा वृत्रस्यापि च निःस्वनम्॥४७॥

गदातोमरनिस्त्रिंशशूलशक्तिपरश्वधाः ।
प्रगृहीता व्यराजन्त यक्षराक्षसबाहुभिः॥४८॥

तैः प्रमुक्तान्महाकायैः शूलशक्तिपरश्वधान् ।
भल्लैर्वृत्रपरिच्छेदभीमवेगरवैस्तथा॥४९॥

अन्तरिक्षचराणां च भूमिस्थानां च गर्जताम् ।
शरैर्विव्याध गात्राणि देवानां प्रियदर्शिनाम्॥५०॥

वृत्रासुरभुजोत्सृष्टैर्बहुधा यक्षरक्षसाम् ।
निकृन्तान्येव दृश्यन्ते शरीराणि शिरांसि च॥५१॥

अथ रक्तमहावृष्टिरभ्यवर्षत मेदिनीम् ।
गदापरिघभिन्नानां देवानां गात्रसम्भवा॥५२॥

प्रच्छादयन्तं बाणौघैर्वृत्रं भीमपराक्रमम् ।
ददृशुः सर्वभूतानि भानुमन्तमिवांशुभिः॥५३॥

तीक्ष्णरश्मिरिवादित्यः प्रतपन्सर्वदेवताः ।
अश्विनोर्बलवान्क्रुद्धः सायकैर्मर्मभेदिभिः॥५४॥

नदतो विविधान्नादानर्दितस्यापि सायकैः ।
न मोहमसुरेन्द्रस्य ददृशुस्त्रिदशा रणे॥५५॥

तेऽसिचर्मगदाभिश्च परिघप्रासतोमरैः ।
परश्वधैश्च शूलैश्च प्रववर्षुर्महारथाः॥५६॥

ततो वृत्रः सुसङ्क्रुद्धस्तैस्तदाभ्यर्दितो बली ।
अभ्यवर्षच्छितैर्बाणैस्तान्त्सर्वान्त्सत्यविक्रमः॥५७॥

तेन वित्रासिता देवा विप्रकीर्णमहायुधाः ।
घोरमार्तस्वरं चक्रुर्वृत्रासुरभयार्दिताः॥५८॥

उत्सृज्य ते गदाशक्तिशूलर्ष्टिपरिघाशनीन् ।
उत्तरां दिशमाजग्मुस्त्रासिता दृढधन्विना॥५९॥

शूलशक्तिगदापाणिर्व्यूढोरस्को महाभुजः ।
प्रावर्तत रणे वृत्रस्त्रासयानश्चराचरान्॥६०॥

तत्रैकस्तु महाबाहुरसिशूलधरः प्रभुः ।
अभ्यधावत दैत्येन्द्रं वृत्रमप्रतिमं रणे॥६१॥

गृहीतचापो वेगेन प्रभिन्न इव वारणः ।
तमापतन्तं सम्प्रेक्ष्य निर्भिन्नमिव वारणम् ।
वत्सदन्तैस्त्रिभिः पार्श्वे विव्याध सुरसत्तमम्॥६२॥

सोऽतिविद्धो महेष्वासः शरैरमितविक्रमः ।
गदां जग्राह बलवान्गदायुद्धविशारदः॥६३॥

तां प्रगृह्य महाभीमामयःसारमयीं दृढाम् ।
अश्विनौ सहसाऽऽगम्य ताडयामास वीर्यवान्॥६४॥

दीप्यमानं ततः शूलमश्वी सुविपुलं दृढम् ।
प्रासृजद्वृत्रदैत्याय सहसा रोमहर्षणम्॥६५॥

भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः ।
अश्विनं सहसाभ्यर्च्य गरुत्मानिव पन्नगम्॥६६॥

सोऽन्तरिक्षात्समुत्पत्य विधूय महतीं गदाम् ।
नासत्योपरि चिक्षेप गिरिशृङ्गोपमां बली॥६७॥

गदयाभिहतः सोऽश्विस्त्यक्त्वा शूलमनुत्तमम् ।
प्रयातः सहसा तत्र यत्र युध्यति वासवः॥६८॥

पराजित्य तु सङ्ग्रामे अश्विनं भीमविक्रमम् ।
जयश्रिया सेव्यमानो वृत्रो युद्धे व्यवस्थितः॥६९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि देवासुरयुद्धे वृत्रासुरोत्कर्षवर्णने सप्तपञ्चाशत्तमोऽध्यायः॥५७॥
देवासुरयुद्धे केशिरुद्रयोस्तुमुलयुद्धम्

वैशम्पायन उवाच। तत्रैव तु महायुद्धे रणाजिर्देवसत्तमः ।
युध्यते सह दैत्येन एकचक्रेण धीमता॥१॥

तत्रैवेति। रणाजिः साध्यविशेषः॥१॥

प्रच्छाद्य रथपन्थानमुत्क्रोशंश्च महाबलः ।
एकचक्रस्य सैन्यं तच्छरवर्षैरवाकिरत्॥२॥

महासुरा महावीर्या महापट्टिशयोधिनः ।
शूलानि च भुशुण्डीश्च क्षिपन्त स्म महारणे॥३॥

तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम् ।
अविशद्दितिजैर्मुक्तं दुर्निवार्यं चराचरैः॥४॥

अन्योन्यमभिवर्तन्ते देवासुरगणा युधि ।
महाद्रिशिखराकारा विर्यवान्तो महाबलाः॥५॥

तुरङ्गमाणां तु शतं युक्तं तस्य महारथे ।
महासुरवरस्येव हिरण्यकशिपोर्युधि॥६॥

तेषां चरणपातेन चक्रनेमिस्वनेन च ।
तस्य बाणनिपातैश्च हता वै शतशः सुराः॥७॥

ततः स लघुभिश्चित्रैः शरैः सन्नतपर्वभिः ।
सायुधानच्छिनत्क्रुद्धः शतशोऽथ सहस्रशः॥८॥

वध्यमानाः शरैस्तीक्ष्णै रथद्विरदवाजिनः ।
गमिताः प्रक्षयं केचित् त्रिदशैर्दानवा रणे॥९॥

ततः प्रक्षीयमाणांस्तानुपप्रेक्ष्य दितेः सुताः ।
त्यक्त्वा बाणान्न्यवर्तन्त प्रगृहीतवरायुधाः॥१०॥

ते दिशो विदिशश्चैव प्रतियुद्धप्रहारिणः ।
अभ्यघ्नन्निशितैः शस्त्रैर्देवान्दितिसुता रणे॥११॥

रणाद्विचलितं घोरं परमं तिग्मतेजसम् ।
मुमोचास्त्रं महाबाहुर्मथनं नाम संयुगे॥१२॥

ततः शस्त्राणि शूलानि निशितानि सहस्रशः ।
अतिवीर्येण महता दितिजः सम्प्रचिच्छिदे॥१३॥

छित्वा शूलेन तान्सर्वानेकचक्रो महासुरः ।
अभ्यविध्यत तं साध्यं दशभिर्निशितैः शरैः॥१४॥

अस्त्रवेगेन हत्वैव सोऽस्त्रैस्तस्यानुसैनिकान् ।
ज्वलितैरपरैः शीघ्रैस्तानविध्यत्सहस्रशः॥१५॥

तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् ।
प्रावृषीवाम्बुवृष्टीनि शृङ्गाणि धरणीभृताम्॥१५॥

इन्द्राशनिसमस्पर्शैर्निपतद्भिरजिह्मगैः ।
दितिजैर्वध्यमानास्ते वित्रेसुः सुरसत्तमाः॥१७॥

एकचक्रे रथे तिष्ठन्नपश्यद्गजयूथपम् ।
वराभरणनिर्ह्रादान्त्समुद्रस्वननिःस्वनान्॥१८॥

मत्तान्त्सुविहितान्दृप्तान्महामात्रैरधिष्ठितान् ।
कुलीनान्वीर्यसम्पन्नान्प्रतिद्विरदघातिनः॥१९॥

शिक्षितान्गजशिक्षायामैरावतसमान्युधि ।
न्यहनत्सुरसैन्यस्य गजान्गज इवासुरः॥२०॥

विक्षरन्तो महानागान्भीमवेगांस्त्रिधा मदम् ।
मेघस्तनितनिर्घोषान्महाद्रीनिव चोत्थितान्॥२१॥

त्रिधा कण्ठकरकुम्भदेशेषु मदं क्षरन्तः। द्वितीयार्थे प्रथमा॥२१॥

सहस्रसम्मितान्दिव्याञ्जाम्बूनदपरिष्कृतान् ।
सुवर्णजालैर्विततांस्तरुणादित्यवर्चसः॥२२॥

एकचक्रो गदापाणिर्बलवान्गदिनां वरः ।
उत्सारयामास गजान्महाभ्राणीव मारुतः॥२३॥

निहत्य गदया सर्वांस्तान्गजान्गजमर्दनः ।
भूयोऽश्वसङ्घान्त्स बली निरैक्षत महासुरः॥२४॥

शुकवर्णानृष्यवर्णान्मयूरसदृशांस्तथा ।
पारावतसवर्णांश्च हंसवर्णांस्तथैव च॥२५॥

ऋष्यः धूसरो मृगविशेषस्तद्वर्णान्॥२५॥

मल्लिकाक्षान्विरूपाक्षान्क्रौञ्चवर्णान्मनोजवान् ।
अश्वसैन्यं महाबाहुस्तदप्रतिमपौरुषः॥२६॥

निषूदयामास बली गदया भीमविक्रमः ।
रणाजिर्व्यस्य समरे सर्वान्दृष्ट्वा सुरद्विषः॥२७॥

व्यस्य त्यक्त्वा॥२७॥

अचिन्त्यविक्रमः श्रीमानभ्ययाद्देववाहिनीम् ।
गदायुद्धेषु कुशलो रथेन रथयूथपः॥२८॥

हृष्टसैन्यो महाबाहुः प्रस्थितः शक्रसन्निधौ ।
त्रिंशच्छतसहस्राणि रथानां विनिहत्य सः॥२९॥

रणेऽतिष्ठत दैत्येन्द्रो विधूम इव पावकः ।
तस्मिन्नेव तु सङ्ग्रमे बलदृप्तो महासुरः॥३०॥

मृगव्याधं महात्मानं योधयत्यजितं रणे ।
मृगव्याधस्य रुद्रस्य महापारिषदास्तथा॥३१॥

समुत्पेतुर्बलं दृष्ट्वा हुताग्निसमतेजसः ।
गजैर्मत्तैर्रथैर्दिव्यैर्वाजिभिश्च महाजवैः॥३२॥

अस्त्रैश्च निशितैर्बाणैः शरैश्चानलसन्निभैः ।
ददृशुस्ते ततो वीरा दीप्यमानं महासुरम्॥३३॥

रश्मिवन्तमिवोद्यन्तं सुतेजोरश्मिमालिनम् ।
सङ्ग्रामस्थं महावेगं महासत्त्वं महाबलम्॥३४॥

महामतिं महोत्साहं महाकायं महारथम् ।
समीक्ष्य तं महायोधं दिक्षु सर्वास्ववस्थितम्॥३५॥

ततः प्रहरणैर्घोरैरभिपेतुः समन्ततः ।
तस्य सर्वायसास्तीक्ष्णाः शराः पीतमुखाः शिताः॥३६॥

शिरस्यद्रिप्रतीकाशे मृगव्याधेन पातिताः ।
तैश्च सप्तभिराविष्टः शरैः शिरसि चार्पितैः॥३७॥

उत्पपात तदा व्योम्नि दिशो दश विनादयन् ।
ततस्तं त्रिदशो वीरः सरथः सज्जकार्मुकः॥३८॥

अनुवव्राज संहृष्टः खे तदा स महाबलः ।
असुरं छादयामास तं व्योम्नि शरवृष्टिभिः॥३९॥

वृष्टिमानिव जीमुतो निदाघान्ते धराधरम् ।
अर्द्यमानस्ततस्तेन मृगव्याधेन दानवः॥४०॥

चकार निनदं घोरमम्बरे जलदो यथा ।
स दूरं सहसोत्पत्य मृगव्याधरथं प्रति॥४१॥

निपपात महावेगः पक्षवातैर्गिरिर्यथा ।
बभञ्ज च ततो दैत्यो भग्नेषाकूबरं रथम्॥४२॥

मृगव्याधः परित्यज्य स्थितो भूमौ महाबलः ।
विरथं प्रेक्ष्य रुद्रं तु तस्य पारिषदाः शुभाः॥४३॥

उत्थिता घोररक्ताक्षा व्योम्नि मुद्गरपाणयः ।
स तु तैः सहसोत्थाय वेष्टितो विमलेऽम्बरे॥४४॥

मुद्गरैरर्दितो भीमैर्वृक्षः परशुभिर्यथा ।
तेषां वेगवतां वेगं निहत्य स महारथः॥४५॥

निपपात पुनर्भूमौ सुपर्णसमविक्रमः ।
स शालवृक्षमुत्पाट्य महाशाखं महाबलः॥४६॥

सर्वान्पारिषदान्सङ्ख्ये सूदयामास दानवः ।
स तैर्वीजितदेहस्तु रुधिरौघपरिप्लुतः॥४७॥

शुशुभे दानवश्रेष्ठो बालसूर्य इवोदितः ।
अथोत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम्॥४८॥

जघान तान्पारिषदान्समरे दानवेश्वरः ।
ततस्तेषु च भग्नेषु महापारिषदेषु वै॥४९॥

बलं तदवशेषं तु नाशयामास वीर्यवान् ।
अश्वैरश्वान्गजैर्नागान्योधान्योधैर्रथान्रथैः॥५०॥

दानवः सूदयामास युगान्तेऽन्तकवत्प्रजाः ।
हतैरश्वैश्च नागैश्च भग्नाक्षैश्च महारथैः॥५१॥

त्रिदशैश्चाभवद्भूमी रुद्रमार्गा समन्ततः ।
एवं बलः स दैत्येन्द्रो मृगव्याधश्च वीर्यवान्॥५२॥

युधि प्रवृद्धौ बलिनौ प्रभिन्नाविव वारणौ॥५३॥

वैशम्पायन उवाच। तत्रैव युध्यते रुद्रो द्वितीयो राहुणा सह ।
विश्रुतस्त्रिषु लोकेषु क्रोधात्मा ह्यज एकपात्॥५४॥

तद्यथा सुमहद्युद्धं तुमुलं लोमहर्षणम् ।
आसीत्प्रतिभयं रौद्रं वीराणां जयमिच्छताम्॥५५॥

देवदानवदेहैस्तु दुस्तरा केशशाड्वला ।
शरीरसङ्घातवहा प्रसृता लोहितापगा॥५६॥

आजघानाथ सङ्क्रुध्दो रुद्रो रौद्राकृतिः प्रभुः ।
राहुः शतमुखं युद्धे शत्रुसैन्यनिवारणम्॥५७॥

तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ।
जघान समरे श्रीमान्क्रुद्धो दैत्यस्य सायकैः॥५८॥

तस्य पारिषदस्त्वेकः शरशक्त्या महाबलः ।
बिभेद समरे हृष्टो दानवं तं स्तनान्तरे॥५९॥

स भिन्नगात्रो रुद्रेण तथा पारिषदैरपि ।
रुद्रस्य रथमायान्तं स राहुर्दानवोत्तमः॥६०॥

प्रममाथ तलेनाशु सहसा क्रोधमूर्च्छितः ।
भिन्ननागं शरैस्तीक्ष्णैर्मेरुं सूर्य इवांशुभिः॥६१॥

हतैर्दानवमुख्यैस्तु रुद्रेणामिततेजसा ।
रुद्रपारिषदान्त्सर्वान्निजघान महासुरः॥६२॥

सृजन्तं शरवर्षाणि दानवं घोरदर्शनम् ।
बिभेद समरे रुद्रो बाणैः सन्नतपर्वभिः॥६२A॥

वर्तमाने महाघोरे सङ्ग्रामे लोमहर्षणे ।
रुधिरौघा महावेगा महानद्यः प्रसुस्रुवुः॥६३॥

दानवं समरे रुद्रा नीलाञ्जनचयोपमम् ।
निर्बिभेद शरैस्तीक्ष्णैर्मेरुं सूर्य इवांशुभिः॥६४॥

हतैर्दानवमुख्यैश्च शक्तिशूलपरश्वधैः ।
पतितैः पर्वताभैश्च दानवैः कामरूपिभिः॥६५॥

वर्तमाने महाघोरे सङ्ग्रामे लोमहर्षणे ।
विरेजुस्ते तदा दैत्याः पुष्पिता इव किंशुकाः ।
महाभेरी मृदङ्गानां पणवानां च निःस्वनः॥६६॥

शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः ।
हतानां स्वनतां तत्र दैत्यानां चापि निःस्वनः॥६७॥

देवानां च तथा तत्र शुश्रुवे दारुणो महान् ।
तुरङ्गमखुरोत्कीर्णं रथनेमिसमुत्थितम्॥६८॥

रुरोध मार्गं योधानां चक्षूंषि च धरारजः ।
शस्त्रपुण्योपाहरा सा तत्रासीद्युद्धमेदिनी॥६९॥

दुर्दर्शा दिर्विगाह्या च मांसशोणितकर्दमा ।
भग्नैः खड्गैर्गदाभिश्च शक्तितोमरपाट्टिशैः॥७०॥

अपविद्धैश्च भग्नैश्च रथैः साङ्ग्रामिकैर्हतैः ।
निहतैः कुञ्जरैर्मत्तैस्तथा त्रिदशदानवैः॥७१॥

चक्राक्षयुगशस्त्रैश्च भग्नैरवनिपातितैः ।
बभूवायोधनं घोरं पिशिताशनसङ्कुलम्॥७२॥

उत्पेतुश्च कबन्धानि दिक्षु सर्वासु संयुगे ।
अन्योन्यबद्धवैराणां दैत्यानां जयगृद्धिनाम्॥७३॥

सम्प्रहारस्तथा युद्धे वर्ततेऽतिभयङ्करः ।
सैन्यानां सम्प्रयुद्धानां शूराणामनिवर्तिनाम्॥७४॥

अजस्य चैकपादस्य राहोश्चैव महात्मनः ।
तेषां तु तत्र पततां क्रुद्धानामतिनिःस्वनः॥७५॥

उद्वर्त इव भूतानां समुद्राणां तु शुश्रुवे ।
तत्रैकस्तु सुधूम्राक्षः श्रीमान्रुद्रो मुनीश्वरः॥७६॥

बिभेद केशिनं शक्त्या गदापरिघशूलभृत् ।
नानाप्रहारणा घोरा भीमाख्या भीमविक्रमाः॥७७॥

निष्पेतू रुद्रदयिता महापारिषदास्तथा ।
रथमास्थाय च श्रीमांस्तप्तकाङ्चनकुण्डलः॥७८॥

दानवैः संवृतः केशी युध्यते युद्धदुर्जयैः ।
तस्य सङ्ग्रामशौण्डस्य सङ्ग्रामेषु युयुत्सतः॥७९॥

निपेतुरुग्रवीर्यस्य ज्वाला हि प्रसृता मुखात् ।
स तु सिंहर्षभस्कन्धः शार्दूलसमविक्रमः॥८०॥

महाजलदसङ्काशो मृदङ्गध्वनिनिःस्वनः ।
तस्य निष्पतमानस्य दानवैः संवृतस्य च॥८१॥

बभूव सुमहानादः क्षोभयंस्त्रिदिवं यथा ।
तेन शब्देन वित्रस्ता त्रिदशानां महाचमूः॥८२॥

द्रुमशैलप्रहारणा योद्धुमेवाभ्यवर्तत ।
तेषां च देवदैत्यानां युयुत्सूनां परस्परम् ।
सन्निपातः सुतुमुलो रौद्रो लोकभयावहः॥८३॥

तेषां युद्धं महाघोरं सञ्जज्ञे लोमहर्षणम् ।
देवदानवसङ्घानां प्राणांस्त्यक्त्वा महाहवे ।
सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसन्निभाः॥८४॥

सर्वे सर्वास्त्रविद्वांसः सर्वे सर्वायुधोद्यताः ।
त्रिदिशा दानवाश्चैव परस्परजिघांसवः ।
तेषां वै नदतां शब्दः संयुगे मेघनिःस्वनः॥८५॥

शुश्रुवेऽतिमहाघोरश्चरस्थावरकम्पनः ।
रेणुश्चारुणसङ्काशो भीमः स समपद्यत॥८६॥

उद्भूतो देवदैत्यौघैः संरुरोध दिशो दश ।
अन्योन्यं रजसा तेन कौशेयारुणपाण्डुना॥८७॥

संवृता बहुरूपेण ददृशुर्न च किञ्चन ।
न ध्वजो न पताकाश्च न वर्म तुरगोऽपि वा॥८८॥

आयुधं स्यन्दनो वापि दृश्यते नैव सारथिः ।
स शब्दस्तुमुलस्तेषामन्योन्यं समधावताम्॥८९॥

निपेतुरुग्रवीर्यस्य ज्वाला हि प्रसृता मुखात् ।
स तु सिंहर्षभस्कन्धः शार्दूलसमविक्रमः॥९०॥

तस्य निष्पतमानस्य दानवैः संवृतस्य च ।
श्रूयते तुमुलः शब्दो न रूपाणि चकाशिरे॥९१॥

दानवास्तत्र सङ्क्रुद्धा दानवानेव जघ्निरे ।
त्रिदशास्त्रिदशांश्चैव निजघ्नुस्तुमुलो तदा॥९२॥

न परांश्च विनिघ्नन्तः स्वांश्च युद्धे महासुरान् ।
रुधिरार्द्रां तथा चक्रुर्मेदिनीं च महासुराः॥९३॥

ततस्तु रुधिरौघेण संसिक्तमुदितं रजः ।
शरीरशतसङ्कीर्णं बभूव धरणीतलम्॥९४॥

शूलशक्तिगदाखड्गपरिघप्रासतोमरैः ।
त्रिदशा दानवाश्चैव जघ्नुरन्योन्यमाहवे॥९५॥

बाहुभिः परिघाकारैर्निघ्नतः परिघैस्तथा ।
रुद्रपारिषदान्सर्वान्सूदयन्ति स्म दानवाः ।
रुद्रपारिषधाश्चैव महाद्रुममहाश्मभिः॥९६॥

व्यदारयन्नतिक्रम्य शस्त्रैश्चादित्यसन्निभैः ।
एतस्मिन्नन्तरे क्रुद्धः केशी दानवसत्तमः॥९७॥

सङ्ग्राममर्षी घोरः स स्वान्यनीकानि हर्षयन् ।
तेषां परमसङ्क्रुद्धो वज्रमस्त्रमुदीरयत्॥९८॥

वज्रेणास्त्रेण दिव्येन शस्त्रेण च महात्मना ।
महापारिषदाः सर्वे निहता युधि दुर्जयाः॥९९॥

वज्रास्त्रपीडिता भ्रान्ता रुद्रपारिषदा युधि ।
विप्रकीर्णद्रुमाः पेतुः शैला वज्रहता इव॥१००॥

एवं सुतुमुलं युद्धमभवल्लोमहर्षणम् ।
केशिनः सह रुद्रेण तदद्भुतमिवाभवत्॥१०१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धे केशिरुद्रयुद्धकथने अष्टपञ्चाशत्तमोऽध्यायः॥५८॥
देवासुरयुद्धे कालप्रह्रादयोर्युद्धम्

वैशम्पायन उवाच। वृषपर्वा तु दैत्येन्द्रो विश्वमद्भुतदर्शनम् ।
निष्कुम्भं योधयामास लोहितार्कसमद्युतिम्॥१॥

वृषपर्वा विश्वं विश्वेदेवान्तर्गतं निष्कुम्भं नामतः॥१॥

क्रोधमूर्छितवक्त्रस्तु धुन्वन्परमकार्मुकम् ।
धनूंषि प्रेक्ष्य शत्रूणां सारथिं त्वरितोऽब्रवीत्॥२॥

अत्रैव तावत्त्वरितं नय मे सारथे रथम् ।
एते देवाश्च सहिता घ्नन्ति नः समरे बलम्॥३॥

एतान्निहन्तुमिच्छामि समरश्लाघिनो रणे ।
एतैर्हि दानवानीकं कृतच्छिद्रमिदं महत्॥४॥

ततः प्रजविताश्वेन रथेन रथिनां वरः ।
अरीनभ्यहनत्क्रुद्धः शरजालैर्महासुरः॥५॥

न स्थातुं देवताः शक्ताः किं पुनर्योद्धुमाहवे ।
वृषपर्वेषुनिर्भिन्नाः सर्व एवाभिदुद्रुवुः॥६॥

तान्मृत्युवशमापन्नान्वैवस्वतवशं गतान् ।
समीक्ष्य निहताञ्ज्ञातीनवतस्थे महासुरः॥७॥

दृष्ट्वा तं तत्र निष्कुम्भं सर्वे ते त्रिदशोत्त्तमाः ।
समेत्य सहिताः सर्वे द्रुतं तं पर्यवारयन्॥८॥

व्यवस्थितं तु निष्कुम्भं दृष्ट्वा त्रिदशसत्तमम् ।
बभूवुर्बलवन्तो वै तस्यास्त्रबलतेजसा॥९॥

वृषपर्वा तु शैलाभं निष्कुम्भं समरे स्थितम् ।
महेन्द्र इव धाराभिः शरवर्षैरवाकिरत्॥१०॥

अचिन्तयित्वा तु शराञ्छरीरे पतितान्बहून् ।
स्थितश्च प्रमुखे श्रीमान्ससैन्यः स महाबलः॥११॥

सम्प्रहस्य महातेजा वृषपर्वाणमाहवे ।
अभिदुद्राव वेगेन कम्पयन्निव मेदिनीम्॥१२॥

तस्य त्वाधावमानस्य दीप्यमानस्य तेजसा ।
बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः॥१३॥

रथं त्यक्त्वा महातेजाः सक्रोधः समपद्यत ।
वृक्षमुत्पाटयामास महातालं महोच्छ्रयम्॥१४॥

ततश्चिक्षेप तं वृक्षं निष्कुम्भो वृषपर्वणः ।
तं गृहीत्वा महावृक्षं पाणिनैकेन दानवः॥१५॥

विनद्य सुमहानादं भ्रामयित्वा च वीर्यवान् ।
सगजान्सगजारोहान्सरथान्रथिनस्तथा॥१६॥

जघान दानवस्तेन शाखिना त्रिदशांस्तदा ।
तमन्तकमिव क्रुद्धं समरे प्राणहारिणम्॥१७॥

वृषपर्वाणमासाद्य त्रिदशा विप्रदुद्रुवुः ।
तमापतन्तं सङ्क्रुद्धं त्रिदशानां भयावहम्॥१८॥

आलोक्य धन्वी निष्कुम्भश्चुक्रोध च ननाद च ।
स तत्र निशितैर्बाणैस्त्रिंशद्भिर्मर्मभेदिभिः॥१९॥

निर्बिभेद महावीर्यो निष्कुम्भो दानवाधिपम् ।
शरशक्तिभिरुग्राभिर्दैत्यानामधिपं प्रभुम्॥२०॥

विद्धः समरमध्यस्थो रुधिरं प्रास्रवद्बहू ।
उद्विग्ना मुक्तकेशास्ते भग्नदर्पाः पराजिताः॥२१॥

श्वसन्तो दुद्रुवुः सर्वे भयाद्वै वृषपर्वणः ।
अन्योन्यं प्रममन्थुस्ते त्रासिता वृषपर्वणा॥२२॥

पृष्ठवक्त्राः सुसंविग्नाः प्रेक्षमाणा मुहुर्मुहुः ।
त्यक्तप्रहरणाः सर्वे कृतास्ते वृषपर्वणा॥२३॥

सङ्ग्रामे युद्धशौण्डेन तदा निष्कुम्भसैनिकाः ।
तत्रैव तु महावीर्यः प्रह्लादः कालमाहवे॥२४॥

योधयामास रक्ताक्षो हिरण्यकशिपोः सुतः ।
तस्य दानववीरस्य युद्धकाले जयक्रियाः॥२५॥

चकार त्वरया युक्तो भार्गवो विजयावहाः ।
हुताशनं तर्पयतो ब्राह्मणांश्च नमस्यतः॥२६॥

आज्यगन्धप्रतिवहो मारुतः सुरभिर्ववौ ।
स्रजश्च विविधाश्चित्रा जयार्थमभिमन्त्रिताः॥२७॥

प्रह्लादस्य शुभे मूर्धन्याबबन्धोशनाः स्वयम् ।
कालेन सह सङ्ग्रामे प्रयुद्धस्य महात्मनः॥२८॥

प्रह्लादस्यातिवीर्यस्य शान्तिं चक्रे स भार्गवः ।
दश शिष्यसहस्राणि भार्गवस्य महात्मनः॥२९॥

यानि दानववीराणां जेपुः शान्तिमनुत्तमाम् ।
अथर्वाणमथो दिव्यं ब्रह्मसंस्तवचोदितम्॥३०॥

रणप्रवेशसदृशं कर्म वैजयिकं कृतम् ।
ततः सर्वास्त्रविदुषः समरेष्वनिवर्तिनः॥३१॥

विद्यया तपसा युक्ताः कृतस्वस्त्ययनक्रियाः ।
धनुहस्ताः कवचिनो वेगेनाप्लुत्य दानवाः ।
बलिमभ्यर्च्य राजानं प्रह्रादं पर्यवारयन्॥३२॥

आस्थाय परमं दिव्यं रथं पररथारुजम् ।
नानाप्रहरणाकीर्णं सवज्रमिव पर्वतम्॥३३॥

तद्बभूव मुहूर्तेन क्ष्वेडितास्फोटिताकुलम् ।
मेरोः शिखरमाकीर्णं द्यौरिवाम्बुधरागम्॥३४॥

स्रजः पद्मपलाशानामामुच्य सुविभूषिताः ।
बान्धवान्सम्परित्यज्य निपतन्ति रणप्रियाः॥३५॥

महायुधधरः श्रीमाञ्छुभचर्मधरः प्रभुः ।
शिरस्त्राणतनुत्राणि धन्वी परमदुर्जयः॥३६॥

सिंहशार्दूलदर्पाणां गदतां किङ्किणीकिनाम् ।
तस्य दैत्यसहस्राणि प्रयान्त्यग्रे महारणे॥३७॥

सैन्यपक्षहतास्तस्य रथाः परमदुर्जयाः ।
सप्ततिर्वै सहस्राणि गजास्तावन्त एव च॥३८॥

मध्ये व्यूहोदरस्थस्तु कालनेमिर्महासुरः ।
धनुर्विस्फारयामास ननाद प्रजहास च॥३९॥

तस्मिञ्छतसहस्राणि पुरो यान्ति महाद्युतेः ।
दानवानां बलवतां शक्रप्रतिमतेजसाम्॥४०॥

स समं वर्तमानस्तु पक्षाभ्यां विस्तृतो महान् ।
अभवद्दानवव्यूहो दुर्भेद्यः सर्वदैवतैः॥४१॥

षष्टी रथसहस्राणि दानवानां धनुर्भृताम् ।
नानाप्रहरणानां च परिमाणं न विद्यते॥४२॥

गदापरिघनिस्त्रिंशैः शूलमुद्गरपट्टिशैः ।
प्रगृहीतैर्व्यराजन्त दानवाः पर्वतोपमाः॥४३॥

गर्जन्तो निनदन्तश्च विक्रोशन्तः पुनः पुनः ।
अयुध्यन्त महावीर्याः समरेष्वनिवर्तिनः॥४४॥

तत्र तूर्यसहस्राणि भेरिशङ्खरवाणि च ।
हयानां च गजानां च गर्जतामतिवेगिनाम्॥४५॥

दुन्दुभीनां च निर्घोषः पर्जन्यनिनदोपमः ।
शुश्रुवे शङ्खशब्दश्च पटहानां च निःस्वनः॥४६॥

तेन शङ्खनिनादेन भेरीतूर्यरवेण च ।
निर्घोषेण रथानां च क्रोशतीव नभस्तलम्॥४७॥

सागरप्रतिमौघेन बलेन महता वृतः ।
प्रह्लादोऽयुध्यत रणे कालान्तकयमोपमः॥४८॥

तस्य नादेन रौद्रेण घोरेणाप्रतिमौजसः ।
विनेदुः सर्वभूतानि त्रैलोक्यनिकृतैः स्वनैः॥४९॥

अन्तरिक्षात्परं त्यक्त्वा वायुश्च परुषो ववौ ।
वमन्त्यः पावकं घोरं शिवाश्चैव ववासिरे॥५०॥

प्रह्लादस्तु महावीर्यः प्रहसन्युद्धदुर्मदः ।
उवाच वचनं श्रीमांस्तत्कालक्षममुत्तमम्॥५१॥

अद्याहं दर्शयिष्यामि स्वबहुबलमूर्जितम् ।
अद्य मद्बाणनिहतान्देवान्द्रक्ष्यथ संयुगे॥५२॥

बान्धवा निहता येषां त्रिदशैरिह संयुगे ।
अद्य निर्वर्तयिष्यन्ति शत्रुमांसानि दानवाः॥५३॥

निर्वर्तयिष्यन्ति हतानां देवभावं गतानामर्थे शत्रुमांसानि शत्रुरूपाणां पशूनां हृदयाद्यङ्गानि निर्वर्तयिष्यन्ति इदममुष्म इति तत्तदुद्देशपूर्वकं कल्पयिष्यन्ति॥५३॥

इममद्य समुद्भूतं रेणुं समरमूर्धनि ।
अहं तु शमयिष्यामि शत्रुशोणितविस्रवैः॥५४॥

तिमिरौघहतार्कं तु सैन्यरेण्वरुणीकृतम् ।
आकाशं सम्पतिष्यन्ति खद्योता इव मे शराः॥५५॥

दृष्टा सम्परिमोदध्वं देवेभ्यस्त्यज्यतां भयम् ।
अद्याहं निहनिष्यामि कालेन्द्रं धनुषा रणे॥५६॥

कालश्चासाविन्द्रश्च कालेन्द्रो यमः॥५६॥

तोषयिष्यामि राजानं बलिं बलवतां रणे ।
त्रिदशान्सगणान्हत्वा रणे चान्तकमन्तिकात्॥५७॥

अक्षयाः सन्ति मे तूणाः शराश्चाशीविषोपमाः ।
स्थातुं मे पुरतः शक्ताः के रणे जीवितेप्सवः॥५८॥

हत्वा रिपुगणांस्तुष्टिरनुरागश्च राजसु ।
हतस्य त्रिदिवे वासो नास्ति युद्धसमा गतिः॥५९॥

तद्भयं पृष्ठतः कृत्वा रणे दानवसत्तमः ।
निहत्येमानरीन्त्सर्वान्मोदध्वं नन्दने वने॥६०॥

एवमुक्त्वा महत्सैन्यं प्रह्लादो दानवोत्तमाः ।
कालसैन्यं महारौद्रं तरसामर्दतासुरः॥६१॥

सर्वास्त्रविद्वान्वीरश्च नित्यं चाप्यपराजितः ।
युद्धे ह्यभिमुखो नित्यं स्वबाहुबलदर्पितः॥६२॥

षष्टिं रथसहस्राणि विविधायुधधारिणाम् ।
प्रह्लादस्यातिवीर्यस्य ते तस्य तनया निजाः॥६३॥

तैस्तु क्रतुशतैरिष्टं विपुलैराप्तदक्षिणैः ।
क्षान्ता धर्मपरा नित्यं सत्यव्रतपरायणाः॥६४॥

दातारः प्रियवक्तारो वक्तारः शास्त्रवस्तुषु ।
स्वदारनिरता दान्ता ब्रह्मण्याः सत्यसङ्गराः॥६५॥

यष्टारः क्रतुभिर्नित्यं नित्यं चाध्ययने रताः ।
इष्वस्त्रकुशलाः सर्वे बहुशो दृढविक्रमाः॥६६॥

मत्तवारणविक्रान्ताः शत्रुसैन्यप्रमर्दकाः ।
दारयन्तः पदाक्षेपैः सुघोरान्वातरेचकान्॥६७॥

वातरेचकान् व्यजनीकृतान् वृक्षादीन् ईर्यन्तः॥६७॥

युद्धोत्सुकधिया नित्यं क्रोधरञ्जितलोचनाः ।
सन्दष्टौष्ठपुटा दैत्या विनेदुर्भीमविक्रमाः ।
क्ष्वेडितास्फोटितरवैरन्योन्यं समहर्षयन्॥६८॥

वेणुशङ्खरवैश्चैव सिंहनादैश्च पुष्कलैः ।
आप्लुत्याप्लुत्य सहसा रणे वव्रुरनेकशः॥६९॥

तालमात्राणि चापानि विकृष्य सुमहाबलाः ।
अमृष्यमानाः सहसा दानवाश्चापपाणयः॥७०॥

सुरासुरैरप्यजितं योधयन्ति रणेऽन्तकम् ।
प्रतप्तहेमाभरणाः सर्वे ते श्वेतवाससः॥७१॥

दानवा मानिनः सर्वे सर्वे स्वर्गाभिकाङ्क्षिणः ।
सर्वे जयैषिणो वीराः सर्वे शत्रुवधोद्यताः॥७२॥

शुशुभे सा चमूर्दीप्ता पताकाध्वजमालिनी ।
गजाश्वरथसम्बाधा स्वर्गमार्गाभिकाङ्क्षिणी॥७३॥

ततः कालः सुनिर्यातो भीमो भीमपराक्रमः ।
निनदन्सुमहाकायो व्याधिभिर्बहुभिर्वृतः॥७४॥

ददर्श महतीं सेनां दानवानां बलीयसाम् ।
अभिसञ्जातदर्पाणां कालं समभिगर्जताम्॥७५॥

तदायान्तं तदानीकं दानवानां तरस्विनाम् ।
प्रतिलोमं चकाराशु व्याधिभिः सहितोऽन्तकः॥७६॥

प्रविश्य ध्वजिनीं चैषां पातयामास दानवान् ।
कालो रुधिररक्ताक्षः स्वेनानीकेन संवृतः॥७७॥

प्रह्रादबलमत्युग्रं प्रह्रादं च महाबलम् ।
आजघान रणे कालो दण्डमुद्गरपट्टिशैः॥७८॥

शरशक्त्यृष्टिखड्गांश्च शूलानि मुसलानि च ।
गदाश्च परिघाश्चैव विचित्राश्च परश्वधाः॥७९॥

धनूंषि च विचित्राणि शतग्नीश्च स्थिरायसीः ।
पात्यन्ते व्याधिभिर्युद्धे दानवानां चमूमुखे॥८०॥

बहवो व्याधयो युद्धे बहूनसुरपुङ्गवान् ।
व्याधीनपि च दैत्यौघा निजघ्नुर्बहवो बहून्॥८१॥

शूलैः प्रमथिताः केचित्केचिच्छन्नाः परश्वधैः ।
परिघैराहताः केचित्केचिच्च परमायुधैः ।
केचिद्द्विधा कृताः खड्गैः स्फुरन्तः पतिता भुवि॥८२॥

व्याधयो दानवैरेव नानाशस्त्रैर्विदारिताः ।
ते चापि व्याधिभिः सर्वे विविधैरायुधोत्तमैः॥८३॥

खड्गैश्च मुसलैस्तीक्ष्णैः प्रासतोमरमुद्गरैः ।
भिन्नाश्च दानवाः सर्वे निकृत्ताश्च परश्वधैः॥८४॥

मुद्गरैः पट्टिशैश्चैव व्याधिभिश्च महाबलैः ।
कृत्वा शस्त्रैरनेकैश्च मुष्टिभिश्च हता भृशम्॥८५॥

वेमुः शोणितमन्योन्यं विष्टब्धदशनेक्षणः ।
आर्तस्वरं च नदतां सिंहनादं च गर्जताम्॥८६॥

बभूव तुमुलः शब्दः सङ्ग्रामे लोमहर्षणे ।
मुष्टिभिश्चोत्तमाङ्गानि तलैर्गात्राणि चासकृत्॥८७॥

सादितानि महीं जग्मुस्तिष्ठतामेव संयुगे ।
अस्रफेना ध्वजावर्ता च्छिन्नबाहुमहोरगा॥८८॥

शूलशक्तिमहामत्स्या चापग्राहसमाकुला ।
रथेषूपलसम्बन्धा ध्वजद्रुमलतावृता॥८९॥

सशब्दघोरविस्तारा लोहितोदाभवन्नदी ।
स्वधनुःशक्रधनुषौ काञ्चनाङ्गदविद्युतौ॥९०॥

तौ दैत्यकालजलदौ शरधारां व्यमुञ्चताम् ।
तौ महामेघसङ्काशौ रथनागगतौ तदा॥९१॥

बभूवतुरभिक्रुद्धौ साम्बुगर्भाविवाम्बुदौ ।
तप्तकाञ्चनसन्नाहौ दिव्यहारविभूषितौ॥९२॥

तौ विरेजतुरायत्तौ सूर्यवैश्वानरोपमौ ।
तौ महाबलसङ्काशावन्योन्यस्य चमूमुखे॥९३॥

शक्राशनिसमस्पर्शैर्बाणैर्जघ्नतुराहवे ।
परस्परं समासाद्य तयोर्युधि दुरासदम्॥९४॥

नाशंसन्त तदा योधा जीवितान्यपि संयुगे ।
शरैर्विभिन्नसर्वाङ्गा युधि प्रक्षीणबान्धवाः ।
निपेतुर्योधमुख्यास्तु रुधिरोक्षितवक्षसः॥९५॥

पतितैर्निष्पतद्भिश्च पात्यमानैश्च संयुगे ।
बभूव भूः समाकीर्णा योधैरुद्गतजीवितैः॥९६॥

अगृह्णन्त शरान्घोरांस्ते च सन्दधतोस्तयोः ।
अन्तरं ददृशे कश्चित्प्रयत्नादपि संयुगे॥९७॥

लघुत्वाच्च महाबाहू युद्धशौण्डौ महाबलौ ।
मण्डलीभूतधनुषौ सकृदेव बभूवतुः॥९८॥

प्रह्रादस्य च बाणौघैर्दुद्रावान्तकवाहिनी ।
उह्यमाना बलवता वायुनेवाभ्रमण्डलम्॥९९॥

हतदर्पं तु विज्ञाय प्रह्रादः कालमाहवे ।
अपयातं च समरे द्विषन्तं सम्प्रतर्क्य तम्॥१००॥

मत्वा वशगतं चैव प्रह्रादो युद्धदुर्मदः ।
तत्रैवान्यां चमूं भूयः सम्ममर्द महासुरः॥१०१॥

कालप्रह्रादयोर्युद्धमभवद्यादृशं पुरा ।
तादृशं सर्वलोकेषु न भूतं न भविष्यति॥१०२॥

एवमद्भुतवीर्यौजा महारणकृतव्रणः ।
प्रह्रादस्त्वथ वृद्धोऽत्र कालस्त्वपसृतो रणात्॥१०३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामने देवासुरयुद्धे कालप्रह्रादयुद्धे एकोनषष्टितमोऽध्यायः॥५९॥
देवासुरयुद्धे कुबेरानुह्रादयोर्युद्धम्

वैशम्पायन उवाच। धनाध्यक्षमनुह्रादः प्रह्रादस्यानुजो बली ।
ससैन्यं योधयामास क्षोभयन्यक्षवाहिनीम्॥१॥

महता च बलौघेन त्वनुह्रादोऽसुरोत्तमः ।
अर्दयामास सङ्क्रुद्धो धनाध्यक्षं प्रतापवान्॥२॥

अमृष्यमाणांस्त्रिदशानाहवस्थानुदायुधान् ।
चकार कदनं घोरं धनुष्पाणिर्महासुरः॥३॥

आवर्त इव सञ्जज्ञे बलस्य महतो महान् ।
क्षुभितस्याप्रमेयस्य सागरस्येव सम्प्लवः॥४॥

त्रिदाशानां शरीरैस्तु दानवानां च मेदिनी ।
बभूव निचिता घोरैः पर्वतैरिव सम्प्लवे॥५॥

मेरुपृष्ठं तु रक्तेन रञ्जितं सम्प्रकाशते ।
सर्वतो माधवे मासि पुष्पितैरिव किंशुकः॥६॥

हतैर्वीरैर्गजैरश्वैः प्रावर्तत महानदी ।
शोणितौघा महाघोरा यमराष्ट्रविवर्धिनी॥७॥

शकृन्मेदोमहापङ्का सम्प्रकीर्णान्त्रशैवला ।
छिन्नकायशिरोमीना अङ्गावयवशाड्वला॥८॥

गृध्रहंससमाकीर्णा केकिसारसनादिता ।
वसाफेनसमाकीर्णा प्रोत्कृष्टस्तनितस्वरा॥९॥

तां कापुरुषदुस्तारां युद्धभूमौ महानदीम् ।
नदीमिवातपापाये हंससङ्घोपशोभिताम्॥१०॥

त्रिदशा दानवाश्चैव तेरुस्ते दुस्तरां नदीम् ।
यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः॥११॥

ततः सृजन्तं बाणौघाननुह्रादं रथे स्थितम् ।
ददर्श तरसा देवो निघ्नन्तं यक्षवाहिनीम्॥१२॥

क्रुद्धस्ततो दैत्यबलं सूदयामास वित्तपः ।
विक्षिपन्निव खे वायुर्महाभ्रपटलं बलात्॥१३॥

समीक्ष्य तुमुलं युद्धमनुह्रादश्च वीर्यवान् ।
रथेनादित्यवर्णेन कुबेरमभिदुद्रुवे॥१४॥

स धनुर्धन्विनां श्रेष्ठो विकृष्य रणमूर्धनि ।
उत्ससर्ज शितान्बाणान्वित्तेशस्य महात्मनः॥१५॥

कुबेरं प्राप्य ते बाणा निर्भिद्य सुसमाहिताः ।
अपरान्पृष्ठतो जघ्नुर्व्यासक्तान्यक्षराक्षसान्॥१६॥

देवः शरैरभिहतो निशितैर्ज्वलनोपमैः ।
अनुह्रादं प्रत्युदियात्सङ्क्रुद्धः परमाहवे॥१७॥

ततो वैश्रवणो राजा क्रुद्धो यक्षगणैः सह ।
ववर्ष शरवर्षाणि दानवं प्रति वीर्यवान्॥१८॥

तद्यथा शारदं वर्षं गोवृषः शीघ्रमागतम् ।
अपारयन्वारयितुं प्रतिगृह्णन्निमीलितः॥१९॥

एवमेव कुबेरस्य शरवर्षं महासुरः ।
निमीलिताक्षः सहसा दैत्यः सहति दारुणम्॥२०॥

रोषितः शरवर्षेण धनदेन महासुरः ।
इन्द्रकेतुप्रतीकाशमभीतोऽपश्यत द्रुमम्॥२१॥

प्रवृद्धशाखाविटपं तरुणाङ्कुरपल्लवम् ।
उत्पाट्य कुपितो दैत्यस्तरुं फलसमन्वितम्॥२२॥

निजघान हयाञ्छ्रेष्ठान्कुबेरस्य महात्मनः ।
तस्य कर्म महाघोरं दृष्ट्वा सर्वे महासुराः॥२३॥

सिंहनादं नदन्ति स्म अनुह्रादप्रहर्षिताः ।
तयोस्तु तुमुलं युद्धं सञ्जज्ञे देवदैत्ययोः॥२४॥

ततस्तौ क्रोधरक्ताक्षावन्योन्यवधकाङ्क्षिणौ ।
अन्योन्यं विविधैः शस्त्रैर्घोरैर्जघ्नतुराहवे॥२५॥

त्रिदशा दानवान्त्सर्वे मथित्वा प्राणदंस्तदा ।
दानवैस्त्रिदशाश्चापि क्रुद्धैर्भुवि निपातिताः॥२६॥

दानवास्त्वथा सङ्क्रुद्धास्त्रिदशान्निशितैः शरैः ।
विव्यधुर्वज्रसङ्काशैः कङ्कपत्रैरजिह्मगैः॥२७॥

विदार्यमाणा दैत्यौघैस्त्रिदशास्तु महाबलाः ।
अमर्षिततराश्चक्रुर्युद्धकर्माण्यभीतवत्॥२८॥

ते गदाभिः सुभीमाभिः पट्टिशैः शूलमुद्गरैः ।
परिघैश्च सुतीक्ष्णाग्रैर्दानवाः पीडिताः शरैः॥२९॥

शरनिर्भिन्नगात्राश्च खड्गविच्छिन्नवक्षसः ।
जगृहुस्ते शिलाश्चैव द्रुमांश्चासुरसत्तमाः॥३०॥

ते भीमसङ्गा दितिजा नर्दमानाः पुनः पुनः ।
ममन्थुस्त्रिदशान्वीर्याञ्छतशोऽथ सहस्रशः॥३१॥

ततस्तु तुमुलं युद्धं तेषां समभिवर्तत ।
शिलाभिर्विपुलाभिश्च शतशश्चैव पादपैः॥३२॥

परिघैः पट्टिशैर्भल्लैर्भिण्डिपालैः परश्वधैः ।
केचिन्निवृत्तशिरसः केचिच्च विदलीकृताः॥३३॥

केचिद्विनिहता भूमौ रुधिरार्द्राः सुरासुराः ।
केचिद्रणाजिरान्नष्टाः परस्परवधार्दिताः॥३४॥

विभिन्नहृदयाः केचिच्छिन्नपादाश्च शेरते ।
विदारितास्त्रिशूलैश्च केचित्तत्र गतासवः॥३५॥

तत्सुभीमं महद्युद्धं देवदानवसङ्कुलम् ।
बभूव तुमुलं युद्धं शिलापादपसङ्कुलम्॥३६॥

धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् ।
आर्तस्तनितघोषाढ्यं युद्धं गान्धर्वमाबभौ॥३७॥

कुबेरः स धनुष्पाणिर्दानवान्रणमूर्धनि ।
दिशो विद्रावयामास सङ्क्रुद्धः शरवृष्टिभिः॥३८॥

कुबेरेणार्दितं सैन्यं विद्रुतं प्रेक्ष्य दानवः ।
अभ्यद्रवदनुह्रादः प्रगृह्य महातीं शिलाम्॥३९॥

क्रोद्धाद्द्विगुणरक्ताक्षः पितृतुल्यपराक्रमः ।
शिलां तां पातयामास कुबेरस्य रथोत्तमे॥४०॥

आपतन्तीं शिलां दृष्ट्वा गदापाणिर्धनाधिपः ।
रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत॥४१॥

सचक्रकूबरहयं सध्वजं सशरासनम् ।
भङ्क्त्वा रथोत्तमं तस्य निपपात शिला भुवि॥४२॥

विमथ्य तु कुबेरस्य प्रह्रादस्यानुजो रथम् ।
शूराणां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः॥४३॥

निर्भिन्नशिरसो भग्नास्त्रिदशाः शोणितोक्षिताः ।
द्रुमप्रव्यथिताङ्गाश्च निपेतुर्धरणीतले॥४४॥

विद्राव्य विपुलं सैन्यमनुह्रादो महासुरः ।
गिरिशृङ्गं गृहीत्वा तु कुबेरमभिदुद्रुवे॥४५॥

तमपतन्तं धनदो गदामुद्यम्य वीर्यवान् ।
विनदित्वाऽऽह्वयामास दानवेन्द्रं महाबलम्॥४६॥

तस्य दैतस्य सङ्क्रुद्धो गदां तां बहुकण्टकाम् ।
न्यपातयत वित्तेशो दानवस्योरसि प्रभो॥४७॥

दैत्यः सक्रोधताम्राक्षस्तं प्रहारमचिन्तयत् ।
वित्तेशस्योपरि तदा गिरिशृङ्गमपातयत्॥४८॥

स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ।
पपात सहसा भूमौ विशीर्ण इव पर्वतः॥४९॥

वित्तेशं विह्वलं दृष्ट्वा सर्वे ते यक्षराक्षसाः ।
परिवार्य महात्मानं ररक्षुर्भीमविक्रमाः॥५०॥

मुहूर्तं विह्वलो भूत्वा पुनर्विश्रवसः सुतः ।
उपतस्थे च सहसा धनदः क्रोधमूर्च्छितः॥५१॥

स ननाद महानादं त्रैलोक्यमभिनादयन् ।
जनयन्निव निर्घोषं विधमन्निव पर्वतान्॥५२॥

तमवध्यं तु विज्ञाय निहन्तुं पुनरुत्थितम् ।
प्रेक्ष्य पिङ्गाक्षमायान्तं दानवा विप्रदुद्रुवुः॥५३॥

तांस्तु विद्रवतो दृष्ट्वानुह्रादो ह्यसुरोऽब्रवीत् ।
कालनेमिं दानवं च वीर्यदर्पसमन्वितम्॥५४॥

आत्मानं चैव वीर्यं च विस्मृत्याभिजनं तथा ।
क्व गच्छथ भयत्रस्ताः प्राकृता इव दानवाः॥५५॥

निवर्तध्वं महावीर्याः किं प्राणान्परिरक्षथ ।
नालं युद्धाय यक्षोऽयं महतीयं विभीषिका॥५६॥

एतां विभीषिकामद्य दानवानां समुत्थिताम् ।
विक्रम्य विधमिष्यामि निवर्तध्वं महासुराः॥५७॥

तेऽसुराः सन्निवृत्ताश्च समदा इव कुञ्जराः ।
निजघ्नुः परमक्रुद्धा देवसैन्यं महासुराः॥५८॥

क्षीणप्रहरणाः केचिन्महामेघनिभस्वनाः ।
दर्पोत्कटा भुजैरेव सम्प्रहारं प्रचक्रिरे॥५९॥

प्रांशुभिश्चैव काष्ठैश्च शिलाभिश्च महाबलाः ।
बाहुभिश्च तथान्योन्यमाक्षिपन्ति स्म वेगिताः॥६०॥

मुष्टिभिश्च तलैश्चैव नखपातैर्महाबलाः ।
पादपैश्च महाशाखैरयुध्यन्त रणाजिरे॥६१॥

अनुह्रादस्तु सङ्क्रुद्धो देवतानां महाचमूम् ।
ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः॥६२॥

रुधिरार्द्रास्तु बहवः शेरते योधसत्तमाः ।
विकृताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः॥६३॥

अनुह्रादश्च विक्रान्तो देवांस्त्वाशीविषोपमान् ।
युध्यमानस्य समरे व्यसृजन्निशिताञ्छरान्॥६४॥

धनाधिपेन विद्धस्य अनुह्रादस्य संयुगे ।
अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः॥६५॥

अथ बाणसहस्रेण वित्तेशं दानवोत्तमः ।
विव्याध स शरैः क्रुद्धो दण्डपाणिरिवान्तकः॥६६॥

कुबेरस्तु शरैर्भिन्नः समन्तात्क्षतजोक्षितः ।
रुधिरं परिसुस्राव गिरिः प्रस्रवणैरिव॥६७॥

लब्ध्वा स तु पुनः संज्ञां रोषरक्तेक्षणः सुरः ।
गदामथ समासाद्य भीमां भीमपराक्रमः ।
चिक्षेप दैत्यमुद्दिश्य बलात्क्रोधेन मूर्छितः॥६८॥

अप्राप्तामन्तरे सोऽथ तां गदां गदयासुरः ।
बभञ्ज विनदन्क्रुद्धस्तदाश्चर्यमभूत्तदा॥६९॥

प्रगृह्य तु गदां भूयो ह्यभिदुद्राव दानवम् ।
तमापतन्तं दृष्ट्वैव अनुह्रादो महाबलः॥७०॥

गिरिशृङ्गमिवोत्पाट्य कैलासाचलसन्निभम् ।
धनाधिपं प्रदुद्राव व्यादितास्य इवान्तकः॥७१॥

तमन्तकमिवायान्तमजेयं सकलैः शरैः ।
ग्रसन्तमिव तं दैत्यं त्रैलोक्यमखिलं रुषा॥७२॥

तमालोक्य तथा भूतं धनाध्यक्षो रणं भयात् ।
अपहाय ययौ तत्र यत्र शक्रः सुराधिपः॥७३॥

तस्य चापि महत्कर्म दृष्ट्वा वित्तपतिस्तदा ।
जगाम भयसन्त्रस्तो यत्र देवः शचीपतिः॥७४॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे अनुह्रादकुबेरयुद्धवर्णने षष्टितमोऽध्यायः॥६०॥
देवासुरयुद्धे विप्रचित्तिवरुणयोर्युद्धम्

वैशम्पायन उवाच। विप्रचित्तिस्तु वरुणं दैत्यानामादिरव्ययम् ।
जघानेषुगणैः क्रुद्धो दीप्तैरिव महोरगः॥१॥

स दह्यमानो दैत्येन दीप्तः शरगभस्तिभिः ।
नाभ्यजानत कर्तव्यं सङ्ग्रामे स जलेश्वरः॥२॥

सर्वलोकेश्वरस्येव परमेष्ठी प्रजापतिः ।
न शक्नोत्यग्रतः स्थातुं विप्रचित्तेर्जलाधिपः॥३॥

वज्रो नाम महाव्यूहो निर्भयः सर्वतोमुखः ।
तं व्यूह्य प्रत्ययुध्यन्त दानवा देववाहिनीम्॥४॥

वह्निज्वालासमं तत्र रविमण्डलसन्निभम् ।
मुखमाभाति दैत्यस्य विप्रचित्तेर्महात्मनः॥५॥

वरुणस्तु महातेजा विप्रचित्तिं महासुरम् ।
प्रदहन्निव तेजोभिर्जिगीषुः प्रत्यवेक्षत॥६॥

स्रग्दाममालाभरणः केयूराङ्गदभूषणः ।
जग्राह परिघं दैत्यः कैलासशिखरोपमम्॥७॥

पिनद्धं काञ्चनैः पट्टैर्हेममालिनमायसम् ।
यमदण्डोपमं घोरं दैत्यानां भयनाशनम्॥८॥

भ्रामयामास सङ्क्रुद्धो महाशक्रध्वजोपमम् ।
विननाद विवृत्तास्यो विप्रचित्तिर्महासुरः॥९॥

स कण्ठस्थेन निष्केण भुजस्थैरपि चाङ्गदैः ।
कुण्डलाभ्यां विचित्राभ्यां भ्राजते काञ्चनस्रजा॥१०॥

दानवो भूषणैर्भाति परिघेणायसेन च ।
यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान्॥११॥

प्रस्फुरत्परिघास्त्रेण वातस्कन्धान्महास्वनः ।
जज्वाल च सधूमार्चिः साङ्कर्षण इवानलः॥१२॥

वातस्कन्धान् वातमयान् स्कन्धावारान् परिधीनित्यर्थः॥१२॥

विद्याधरगणैः सार्धं गन्धर्वनगरैरपि ।
सह चैवामरावत्या सिद्धलोकैस्तथा सह॥१३॥

ग्रहनक्षत्ररचितं सार्कचन्द्रविभूषितम् ।
दैत्येन्द्रपरिघोद्धूतं भ्रमतीव नभस्तलम्॥१४॥

दुरासदः सुसञ्जज्ञे परिघाभरणक्षमः ।
सुरेन्धनोऽसुरेन्द्राग्निर्युगान्ताग्निरिवोत्थितः॥१५॥

त्रिदशा वरुणश्चैव न शेकुः स्पन्दितुं भयात् ।
तत्रासीन्निर्भयस्त्वेकः कौशिको वासवः प्रभुः ।
भास्करप्रतिमं घोरं परिघं रौद्रदर्शनम्॥१६॥

पातयामास सेनायां जलेशस्य स दानवः ।
पतता तेन सङ्ग्रामे जलेशस्य महात्मनः॥१७॥

भूतानां शतसाहस्रं परिघेण समाहतम् ।
तेषां गात्राणि चासाद्य व्यशीर्यन्त सहस्रशः॥१८॥

विशीर्यमाणं विबभावुल्काशतमिवाम्बरे ।
भूयश्चैनं तदाऽऽभ्राम्य वरुणाय न्यपातयत्॥१९॥

पात्यमाने तदा तस्मिञ्छरीरे वारुणे तदा ।
स भिन्नः परिघो घोरो देवगात्रे व्यशीर्यत॥२०॥

शीर्यमाणस्य चूर्णानि खद्योता इव चाम्बरे ।
स तु तेन प्रहारेण न चचाल जलाधिपः॥२१॥

परिघेण हतः सङ्ख्ये यथा वज्रहतोऽचलः ।
स्वसैन्येष्वपि भग्नेषु भिन्नदेहेषु चाहवे॥२२॥

मुहूर्तमभवत्क्षोभ्यमपाम्पतिरमर्षणः ।
सोऽमर्षं च समापन्नो वरुणोऽमितविक्रमः॥२३॥

सर्वसंहारमकरोत्स्वपक्षस्यारिमर्दनः ।
स सागरैश्चतुर्भिश्च वृतो दीप्तैश्च पन्नगैः॥२४॥

सर्वसंहारं सर्वेषामेकीकरणम्॥२४॥

शङ्खमुक्तामणिचितो बिभ्रत्तोयमयं वपुः ।
पाण्डुरोद्धूतवसनो नानारत्नविभूषितः॥२५॥

वरुणः पाशधृक्छ्रीमान्कूर्ममीनसमाकुलः ।
वरुणस्तु तदा क्रुद्धस्तान्निरीक्ष्य स्वसैनिकान्॥२६॥

उवाच दृष्ट्वा युध्यध्वं दानवानां जिघांसया ।
अहमेनं हनिष्यामि भयं मुक्त्वा तु युध्यत॥२७॥

ततस्ते पन्नगाः सर्वे महार्णवजलाश्रयाः ।
जघ्नुर्दैत्यान्रणमुखे नदन्तो जयगृद्धिनः॥२८॥

ते तु नालीकनाराचैर्गदाभिर्मुसलैर्तथा ।
अभ्यघ्नन्दानवान्हृष्टा मुदिता वरुणानुगाः॥२९॥

विप्रचित्तिस्तु सङ्क्रुद्धो महाबलपराक्रमः ।
पन्नगानां शरीराणि व्यधमद्युद्धदुर्मदः॥३०॥

गरुडेनापि चास्त्रेण पन्नगान्दानवोत्तमः ।
समरे घातयामास गरुडः पन्नगाशनैः॥३१॥

स शरः सूर्यसङ्काशैः शातकुम्भविभूषितैः ।
पन्नगान्समरे वीरः प्रममाथ सुदुर्जयान्॥३२॥

समरे भिन्नगात्रास्ते पन्नगाः शरपीडिताः ।
पेतुर्मथितसर्वाङ्गा गजा इव महागजैः॥३३॥

तपन्तं तमिवादित्यं दीप्तैर्बाणगभस्तिभिः ।
अभ्यधावत सङ्क्रुद्धः समरे वरुणः प्रभुः॥३४॥

ततस्तु दानवास्तत्र भिन्नदेहाः सहस्रशः ।
व्यथिता विद्रवन्ति स्म दिशो दश विचेतसः॥३५॥

इन्द्रस्यार्थे पराक्रम्य वरुणस्त्यक्तजीवितः ।
विनर्दमानो युयुधे समरे पाशभृद्वरः॥३६॥

वरुणः पन्नगाश्चैव मुष्टिभिः समरोत्कटाः ।
अभ्यवर्तन्त समरे विप्रचित्तिं महासुरम्॥३७॥

ततोऽस्त्रैश्च शिलाभिश्च प्राहरत्स बलोत्कटः ।
व्यपोहत महातेजा विप्रचित्तिर्महासुरः॥३८॥

व्यपोहत निराकृतवान्॥३८॥

ततः पावकसङ्काशैः स मुक्तैः शीघ्रगामिभिः ।
वरुणस्य महावेगान्बिभेद समरे हयान्॥३९॥

कर्मणा तेन महता विप्रचित्तेर्महात्मनः ।
अग्नेराज्याहुतस्येव तेजः समभिवर्धत॥४०॥

स शरैः सूर्यसङ्काशैः सुमुक्तैः शीघ्रगामिभिः ।
वारुणीं तां महासेनां निर्ममन्थ महाबलः॥४१॥

क्षीणास्त्रां सायकाक्रान्तां शरजलेन मोहिताम् ।
शूलशक्त्यृष्टिभिन्नां च चकार रुधिरोक्षिताम्॥४२॥

स शरैर्वह्निसङ्काशैः सुमुक्तैर्नतपर्वभिः ।
वरुणस्य महावेगान्बिभेद समरे हयान्॥४३॥

अभिद्रुतोऽथ दैत्येन ससैन्यः सलिलाधिपः ।
महेन्द्रं शरणं प्राप्तो विप्रचित्तेर्भयार्दितः॥४४॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामने विप्रचित्तियुद्धे एकषष्टितमोऽध्यायः॥६१॥
बृहस्पतिकृतोऽग्निस्तवः

वैशम्पायन उवाच। पराजयं तु देवानां दृष्ट्वाग्निर्देवसत्तमः ।
चकार बुद्धिं दैत्यानां वधे ब्रह्मर्शिभिः स्तुतः॥१॥

स्वयम्प्रभायाः शाण्डिल्या यः पुत्रो हव्यवाहनः ।
हिरण्यरेताः पिङ्गाक्षो देवहूतो हुताशनः॥२॥

रोहितो लोहितग्रीवो हर्ता दाता हविः कविः ।
पावको विश्वभुग्देवः सर्वदेवाननः प्रभुः॥३॥

सुब्रह्मात्मा सुवर्चस्कः सहस्रार्चिर्विभावसुः ।
कृष्णवर्त्मा चित्रभानुर्देवानामपि देवराट्॥४॥

सुब्रह्मात्मा शोभनयज्ञस्वरूपः वेदस्वरूपो वा। सुवर्चस्कः शोभनं वर्चः विद्यातपोजन्यं तेजः यस्मात्स तथा॥४॥

लोकसाक्षी द्विजहुतः सदर्चिष्मान्वषट्कृतः ।
हव्यभक्षः शमीगर्भस्वयोनिः सर्वकर्मकृत्॥५॥

अर्चिष्मान् शमीगर्भोऽश्वत्थः स एव स्वस्य योनिर्यस्यासौ शमीगर्भस्वयोनिः॥५॥

पावनः सर्वभूतानां त्रिदशानां तपोनिधिः ।
शमनः सर्वपापानां लेलिहानस्तपोमयः॥६॥

प्रदक्षिणावर्तशिखः शुचिरोमा मखाकृतिः ।
हव्यभुग्भूतभव्येशो यज्ञभागहरो हरिः॥७॥

शुचिरोमा पावनधूमः॥७॥

सोमपः सुमहातेजा भूतेशः सुमहातपाः ।
अधृष्यः पावको भूतिर्भूतात्मा वै स्वधाधिपः॥८॥

स्वाहापतिः सामगीतः सोमपूताशनोऽद्रिधृक् ।
देवदेवो महाक्रोधो रुद्रात्मा ब्रह्मसम्भवः॥९॥

सोमपूताशनः अभिषुतं सोममश्नातीत्यर्थः। अद्रिधृक् सोमाभिषवार्थं ग्रावाणो ध्रियन्ते स्म इत्यद्रिधृक्॥९॥

लोहिताश्वं वायुचक्रं रथमास्थाय भूतधृक् ।
धूमकेतुर्धूमशिखो नीलवासाः सुरोत्तमः॥१०॥

उद्यम्य दिवमाग्नेयं शस्त्रं देवो रणे महान् ।
दानवानां सहस्राणि प्रयुतान्यर्बुदानि च॥११॥

ददाह भगवान्वह्निः सङ्क्रुद्धः प्रलये यथा ।
प्राणो यः सर्वभूतानां देहे तिष्ठति पञ्चधा॥१२॥

यन्ता यश्च हुताशश्च सखा च प्रभुरीश्वरः ।
प्रभञ्जनो यो लोकानां युगान्ते सर्वनाशनः॥१३॥

सप्तस्वरगता यस्य योनिर्गीर्भिरुदीर्यते ।
यो ह्याकाशमयो देवो दूरगः सर्वसम्भवः॥१४॥

यस्य वायोर्योनिराकाशः। सप्तस्वतगता नादब्रह्मप्राप्ता यत्र नादात्मकं ब्रह्म सर्ववेदकारणमाविर्भतीत्यर्थः। अत एवाकाशमयः॥१४॥

यश्च कर्ता विकर्ता च गतिर्गतिमतां प्रभुः ।
वेदकर्ता समो लोके ब्रह्मणा यः सनातनः॥१५॥

वेदकर्ता वागुच्चारणहेतूनां स्थानकरणादीनां च हेतुत्वात्। ब्रह्मणा चतुर्मुखेन॥१५॥

अमूर्तिमन्तं यं प्राहुर्महाभूतं महत्तरम् ।
सोऽग्निं समीरयामास शमीगर्भं समीरिणः॥१६॥

त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश ।
दानवानामभावाय युगान्ताग्निरिवोत्थितः॥१७॥

मेदोमज्जामहापङ्कां केशशैवलशालिनीम् ।
योधशीर्षोपलवनं मृतद्विपतटोत्कटाम्॥१८॥

शोणितोदां रणे दृष्ट्वा सङ्ग्रामसरितं विभुः ।
वह्निः प्रस्कन्दयामास दैत्यानां भयवर्धनः॥१९॥

सरितं प्रस्कन्दयामास प्रवाहयामास॥१९॥

ततोऽग्निर्दितिजान्सर्वान्प्रह्लादप्रमुखांस्तथा ।
पराजयानः स विभुः क्रोशमनो महामृधे॥२०॥

केचित्प्रदीप्तैर्मुकुटैः केचिद्दीप्तैः शिरोरुहैः ।
केचित्प्रदीप्तवसनैः केचिद्दीप्तैर्भुजाननैः॥२१॥

केचित्प्रदीप्तैरुरुभिः केचिच्छत्रैर्ध्वजै रथैः ।
असुरास्तत्र दृश्यन्ते प्रदीप्तेनाग्निना वृताः॥२२॥

त्यक्त्वाऽऽयुधानि सर्वाणि सध्वजांश्च रथोत्तमान् ।
प्रयान्ति समरे भीताः पावकेन पराजिताः॥२३॥

न च पश्यन्ति ते वह्निं प्रदीप्तध्वजिनीमुखे ।
दिशः खड्गांश्च मेघांश्च दीप्तान्पश्यन्ति दानवाः॥२४॥

ध्रुवः स्वयम्भुवा सृष्टो युगान्तस्तोययोनिना ।
इत्येवं दानवाः सर्वे मेनिरे त्रस्तचेतसः॥२५॥

तोयं योनिः स्थानं यस्य तेन जलशायिना नारायणेन तोययोनिना बह्निना वा॥२५॥

मयश्च शम्बरश्चैव महामायाधरौ तदा ।
पार्जन्यवारुणी माये सृजतां वारिविक्षरे॥२६॥

वारिविक्षरे जलवार्षिणी॥२६॥

ताभ्यां वह्निः स मायाभ्यां सिच्यमानः समन्ततः ।
तोयौघैः पर्वतनिभैर्मृद्वर्चिरभवद्रणे॥२७॥

शम्यमाने तु समरे पावके दैत्यनाशिनि ।
बृहत्कीर्तिर्बृहत्तेजा वह्निमाह बृहस्पतिः॥२८॥

गुरुरुवाच। हिरण्यरेतः सुमुख ज्वलनाह्वय सर्वभुक् ।
सप्तजिह्वाननक्षाम लेलिहान महाबल॥२९॥

आत्मा वायुस्तव विभो शरीरं सर्ववीरुधः ।
योनिरापश्च ते प्रोक्ता योनिस्त्वमसि चाम्बसः॥३०॥

ऊर्ध्वं चाधश्च गच्छन्ति सञ्चरन्ति च पार्श्वतः ।
अर्चिषस्ते महाभाग सर्वतः प्रभवन्ति च॥३१॥

त्वमेवाग्ने सर्वमसि त्वयि सर्वमिदं जगत् ।
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च॥३२॥

त्वमग्ने हव्यवाडेकस्त्वमेव परमं हविः ।
यजन्ति च सदा सन्तस्त्वामेव परमाध्वरे॥३३॥

त्वमन्नं प्राणिनां भुङ्क्षे जग्धपीतासि त्वं प्रभो ।
त्वयि प्रवृत्तो विजयस्त्वयि लोकाः प्रतिष्टिताः॥३४॥

सर्वाँल्लोकांस्त्रीनिमान्हव्यवाह प्राप्ते काले त्वं पचस्येव दीप्तः ।
त्वमेवैकस्तपसे जातवेदो नान्यस्त्वत्तो विद्यते गोशु देव॥३५॥

तपसेऽर्करूपी सन् गोषु रश्मिषु मण्डले इत्यर्थः॥३५॥

वृषाकपिः सिन्धुपतिस्त्वमग्ने महामखेष्वग्र्यहरस्त्वमेव ।
विश्वस्य भूम्नस्त्वमसि प्रसूतिस्त्वं च प्रतिष्ठा भगवत्प्रजानाम्॥३६॥

वर्षणात् कस्य जलस्य पानाच्च वृषाकपिः। “अन्येभ्योऽपि दृश्यन्ते” इति दीर्घः॥३६॥

सृजस्यतो रश्मिभिर्जातवेदस्तथौषधीरोषधीनां रसांश्च ।
विश्वं त्वमादाय युगान्तकाले स्रष्टा भवस्यानल सर्गकाले॥३७॥

त्वमग्ने सर्वभूतानां योनिर्वेदेषु गीयसे ।
त्वया देवहितार्थाय निहता दानवा रणे॥३८॥

स्वयोनिस्ते महातेजस्तोयं मखशतार्चितम् ।
तां स्वयोनिं समासाद्य किं विषीदसि पावक॥३९॥

त्रायस्व समरे देवान्दैत्येभ्यः सुरसत्तम ।
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन॥४०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनेऽग्निस्तवे द्विषष्टितमोऽध्यायः॥६२॥
बलिं प्रति प्रह्रादवाक्यम्

वैशम्पायन उवाच। बृहस्पतेस्तु वचनं श्रुत्वा सत्यं समीरितम् ।
भूयः प्रजज्वाल रणे हविषेव महामखे॥१॥

बृहस्पतेस्त्विति॥१॥

हतास्तु माया दैत्यानां प्रदीप्तेनाग्निना रणे ।
हतमाया हतबला बलिं ते समुपस्थिताः॥२॥

पराजितेषु दैत्येषु वह्निनाद्भुतकर्मणा ।
प्रह्रादस्तूत्तरं वाक्यमाह दैत्यपतिं बलिम्॥३॥

भवानग्निश्च वायुश्च भास्करः सलिलं शची ।
नक्षत्राणि दिशो व्योम भूश्च दानवसत्तम॥४॥

भविश्यं चैव भूतं च भवच्चासुरसत्तम ।
दत्तं चैतद्भगवता वरदेन स्वयम्भुवा॥५॥

इन्द्रत्वं चामरत्वं च युद्धे चाप्यपराजयः ।
ईशित्वं च वशित्वं च बलं चैवामितं शुभम्॥६॥

सर्वभूतेश्वरत्वं च दैत्यराज सदा तव ।
महायोगीश्वरत्वं च शूरत्वं च महामृधे॥७॥

अणिमा लघिमा चैव ये चान्ये सात्त्विका गुणाः ।
तत्पराजित्य दैत्येन्द्र देवान्सर्वांश्च सानुगान्॥८॥

यथोक्तं ब्रह्मणा राजंस्तत्तथा न तदन्यथा ।
तस्य तद्वचनं श्रुत्वा प्रह्रादस्य महात्मनः ।
बलिः परमसंहृष्टः प्रायाच्छक्ररथं प्रति॥९॥

ततः प्रयान्तं त्रिदशेन्द्रसन्निधौ महासुरेन्द्रं बलिमुत्तमश्रियम् ।
तमञ्जसा जग्मुरभिप्रदक्षिणं द्विजाश्च पुण्याः पशवश्च सत्तमाः॥१०॥

महाजटाभारधरास्तपस्विनस्तदा तमाहुर्विधिमन्त्रमङ्गलैः ।
अभिष्टुवन्तः कवयः स्वलङ्कृतं बलिं प्रयान्तं रणमूर्धनि स्थिताः॥११॥

प्रतप्तजाम्बूनदचित्रभूषणैर्दिव्यैश्च रत्नैर्विविधैरलङ्कृतः ।
विराजमानः परमेण वर्चसा रणे विभात्यग्निशिखेव दानवः॥१२॥

स वै तदा शत्रुबलार्दितं बलं बलिर्ददर्शोत्तमसत्त्ववीर्यवान् ।
जलागमे श्रीमदिवाभ्रमण्डलं विशीर्यमाणं नभसीव वायुना॥१३॥

ततो ददर्शाथ बलानि सर्वतो रणे प्रगुप्तानि हुताशनेन वै ।
समुच्छ्रितान्युग्रतराणि तत्र वै समुद्रवेगानिव पर्वसन्धिषु॥१४॥

सशूलशक्त्यृष्टिगदासिसायकान्क्षिपन्रिपूणां समरे महात्मनाम् ।
ननाद सिंहर्षभमत्तनागवज्जलागमे तोयदवच्च वीर्यवान्॥१५॥

दिव्यास्त्रधूमः सुभुजोग्रवायुर्महाबलः पौरुषविक्रमेन्धनः ।
प्रजा दिधक्षन्निव कालवह्निः सुघोररूपो विबभौ रणे बलिः॥१६॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्राधुर्भावे त्रिषष्टितमोऽध्यायः॥६३॥
बलिवासवयोर्युद्धं वासवस्य पराजयश्च

वैशम्पायन उवाच। बलिना तु सुराः सर्वे वर्जयित्वा सुराधिपम् ।
रणे शरशतैर्भिन्नाः ससैन्या वै पराजिताः॥१॥

विमुखा याति दैत्येन्द्रैर्वध्यमाना महाचमूः ।
जितास्तु बलिना देवाः शक्रमाहुर्महाबलम्॥२॥

देवा ऊचुः। भवानिन्द्रश्च धाता च लोकानां प्रभुरव्ययः ।
त्वमप्रतिमकर्मा च तथैवानुपमद्युतिः॥३॥

विद्रुतानीह सैन्यानि सहास्माभिः सुरेश्वर ।
रथचक्रध्वजाक्षाणि विभिन्नानि महासुरैः॥४॥

रथहस्त्यश्वयोधाश्च पदाताश्च सहस्रशः ।
भिन्नच्छिन्नाश्च शतशो गदामुशलपट्टिशैः॥५॥

महाभैरवरूपं हि दैत्येन्द्रेण कृतं रणे ।
किमुपेक्षसि दैत्येन्द्रैर्हन्यमानां महाचमूम्॥६॥

त्रायस्व त्रिदशश्रेष्ठ शरण्यः शरणागतान् ।
श्रुत्वा तु वचनं तेषां देवानाममराधिपः॥७॥

संवर्ताग्निसमक्रुद्धः सर्वान्दहति दानवान् ।
दिवाकरकराकारं किरीटं धारयन्प्रभुः॥८॥

वैडूर्यवर्णसङ्काशो नानारत्नचिताङ्गदः ।
मयूररोमा रक्ताक्षः शतबाहुः सहस्रदृक्॥९॥

हरिरेको हरिश्मश्रुर्नानाकेतुर्महाबलः ।
वज्रप्रहरणः श्रीमान्योगी शतशिरोधरः॥१०॥

सधनुर्बद्धसन्नाहः शतादित्यसमप्रभः ।
देवगन्धर्वयक्षौघैरनुयातः सहस्रशः॥११॥

सामगैश्च जपैश्चापि स्तूयमानो महर्षिभिः ।
शतपर्वं महारौद्रं स्फोटनं सर्वतोमुखम्॥१२॥

प्रगृह्य रुचिरं वज्रं दीप्तं रौद्राट्टहासिनम् ।
दैत्यानयोधयत्सर्वान्महेन्द्रः पाकशासनः॥१३॥

अधृष्यः सर्वभूतानामदित्या दयितः सुतः ।
ततः प्रवृत्तः सङ्ग्रामो बलिवासवयोस्तदा॥१४॥

उभाभ्यां देवदैत्याभ्यामचिरान्महदद्भुतः ।
अतिवीर्यबलोदग्रस्तुमुलो लोमहर्षणः॥१५॥

प्रह्रादेन स्तुतिशतैः कर्मभिर्जयसम्मतैः ।
प्रबोधितो दैत्यपतिरग्निरिद्ध इवाबभौ॥१६॥

सुरासुरेन्द्रयोर्दृष्ट्वा सङ्ग्रामं लोमहर्षणम् ।
देवानां दानवानां च भूयो युद्धमभूत्तदा॥१७॥

ततोऽविध्यन्महेन्द्रस्तं बलिमस्त्रैर्महाबलम् ।
तान्यस्त्राणि महाबाहुश्चिच्छेद शतधा रणे॥१८॥

ततः क्रुद्धः पुनस्तत्र निजघ्ने दानवं महत् ।
आग्नेयमथ शत्रुघ्नं चिक्षेपेन्द्रो महाबलः ।
तं दृष्ट्वा खे समागच्छत्प्रलयानलसन्निभम्॥१९॥

पातयामास तच्चैन्द्रं वारुणास्त्रेण धीमता ।
सङ्क्रुद्धो मघवा वज्रमगृह्णात्पर्वतोपमम्॥२०॥

हन्तुकामो रणश्लाघी बलिं दैत्याधिपं रणे ।
ततः शुश्राव देवेन्द्रः कौशिको हरिवाहनः॥२१॥

अशरीरां शुभां वाणीं तस्मिन्महति वैशसे ।
निवर्तस्व महाबाहो सुराणां नन्दिवर्धन॥२२॥

पुरन्दर सुरश्रेष्ठ न जेष्यसि रणे बलिम् ।
तपसात्युत्तमो दैत्यो वरदानेन चाधिकः॥२३॥

स्वयम्भूपरितोषाच्च सत्यधर्माच्च वासव ।
नैष शक्यस्त्वया जेतुं त्रिदशैर्वा सुरेश्वर॥२४॥

यो ह्यस्य जेता भगवांस्तं शृणुश्व समाहितः ।
ब्रह्मणः स हि सर्वस्वं देवानां चैव सा गतिः॥२५॥

परं रहस्यं धर्मस्य परस्य च परा गतिः ।
परात्परतरः श्रीमान्परावरगतिः प्रभुः॥२६॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
शङ्खचक्रगदापाणिः पीतवासाः सुरारिहा॥२७॥

जेताजेयो जयः श्रीमान्सोऽस्य जेता भविष्यति ।
श्रुत्वा दिव्यां तु मधुरां वाणीं तामशरीरिणीम्॥२८॥

अपयातो रणाच्छक्रः सार्धं सर्वैः सुरोत्तमैः ।
अपयाते तु देवेन्द्रे कौशिके हरिवाहने॥२९॥

सिंहनादो महानासीद्दानवानां महामृधे ।
ततः किलकिलाशब्दः क्ष्वेडितास्फोटितस्वनः॥३०॥

शङ्खानां निनदश्चात्र योधानां वल्गितस्वनः ।
वादित्राणां च निर्घोषस्तुमुलश्चाभवत्तदा॥३१॥

जयशब्दरवाश्चैव देवानां तु पराजये ।
ससैन्यो दैत्यराजस्तु स्तूयमानः सुहृद्गणैः ।
बलीन्द्रो विबभौ दैत्यो हिरण्यकशिपुर्यथा॥३२॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामने देवासुरसङ्ग्रामे शक्रापयाने चतुःषष्टितमोऽध्यायः॥६४॥
बलेर्विजये श्रियः स्वयमागमनकथनम्

वैशम्पायन उवाच। निष्प्रयत्नेषु देवेषु त्रैलोक्ये दैत्यपालिते ।
जये बलेर्बलवतो मयशम्बरयोस्तथा॥१॥

निष्प्रयत्नेष्विति॥१॥

सुधासु दिक्षु सर्वासु प्रवृत्ते धर्मकर्मणि ।
अपवृत्ते चन्द्रमसि अयनस्थे दिवाकरे॥२॥

सुधासु अमृतमयीषु अपवृत्ते उद्धरिते॥२॥

प्रह्रादशम्बरमयैरनुह्रादेन चैव हि ।
दिक्षु सर्वासु गुप्तासु गगने दैत्यपालिते॥३॥

दैत्येषु मखशोभाश्च स्वर्गार्थं दर्शयत्सु च ।
प्रकृतिस्थे तदा लोके वर्तमाने च सत्पथे॥४॥

अभावे सर्वपापानां भावे चैव तथा स्थिते ।
भावे तपसि सिद्धानां सर्वत्राश्रमरक्षिषु॥५॥

अभावे पापानां भावानां भावे पुण्यानामित्यर्थः॥५॥

चतुष्पादे स्थिते धर्मे अधर्मे पादविग्रहे ।
प्रजापालनयुक्तेषु भ्राजमानेषु राजसु॥६॥

स्वधर्मसम्प्रयुक्तेषु सर्वाश्रमनिवासिषु ।
अभिषिक्तोऽसुरैः सर्वैर्दैत्यराजो बलिस्तदा॥७॥

हृष्टेष्वसुरसङ्घेषु नदत्सु मुदितेषु च ।
अथाभ्युपगता लक्ष्मीर्बालिं पद्मासने स्थिता॥८॥

पद्मोद्यतकरा देवी वरदा सुरमोहिनी ।
श्रीरुवाच। बले बलवतां श्रेष्ठ महाराज महाद्युते॥९॥

प्रीतास्मि तव भद्रं ते देवतानां पराजये ।
यस्त्वया युधि विक्रम्य देवराजः पराजितः॥१०॥

दृष्ट्वा ते परमं सत्त्वं ततोऽहं स्वयमागता ।
नाश्चर्यं दानवश्रेष्ठ हिरण्यकशिपोः कुले॥११॥

प्रसूतस्यासुरेन्द्रस्य तव कर्मेदमीदृशम् ।
विशेषतस्त्वया राजन्दैत्येन्द्रः प्रपितामहः॥१२॥

येन भुक्तं हि निखिलं त्रैलोक्यमिदमव्ययम् ।
विशेषतस्तव विभो सर्वे धर्मपथे स्थिताः॥१३॥

तेन त्रैलोक्यमुख्येन भोक्ष्यस्यमितविक्रम ।
एवमुक्त्वा हि सा देवी लक्ष्मीर्दैत्यपतिं बलिम्॥१४॥

प्रविष्ठा वरदा सौम्या सर्वभूतमनोरमा ।
शिष्टाश्च देव्यः प्रवरा ह्रीः कीर्तिर्द्युतिरेव च॥१५॥

प्रभा धृतिः क्षमा भूतिर्नीतिर्विद्या दया स्मृतिः ।
कृतिर्लज्जा तथा मेधा लक्ष्मीरीहा गतिस्तथा॥१६॥

श्रुतिः प्रीतिरिला कीर्तिः शान्तिः पुष्टिः क्रियास्तथा ।
सर्वाश्चाप्सरसो दिव्या नृत्यगीतविशारदाः॥१७॥

इला श्रौतक्रिया पूर्तादिका॥१७॥

पतिं प्राप्ताः सुदैतेयं त्रैलोक्ये सचराचरे ।
प्राप्तमैश्वर्यममितं बलिना ब्रह्मवादिना॥१८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे पञ्चषष्टितमोऽध्यायः॥६५॥
देवगणैः सह कश्यपादित्योर्ब्रह्मसदनगमनकथनम्

जनमेजय उवाच। पराजिताः सुरा दैत्यैः किमकुर्वत वै मुने ।
कथं च त्रिदिवं लब्धं भूयो देवैर्द्विजोत्तम॥१॥

वैशम्पायन उवाच। श्रुत्वा वाणीं तु तां दिव्यां सह देवैः सुराधिपः ।
प्राग्दिशं प्रस्थितः श्रीमानदित्यालयमुत्तमम्॥२॥

प्राप्यादित्यालयं शक्रः कथयामास तां गिरम् ।
अदित्यां सा यथा युद्धे तेन वाणी पुरा श्रुता॥३॥

अदितिरुवाच। यद्येवं पुत्र युष्माभिर्न शक्यो हन्तुमाहवे ।
बलिर्विरोचनसुतः सर्वैश्चैव मरुद्गणैः॥४॥

सहस्रशिरसा हन्तुं केवलं शक्यतेऽसुरः ।
तेनैकेन सहस्राक्ष न ह्यन्येन शतक्रतो॥५॥

तद्वः पृच्छस्व पितरं कश्यपं सत्यवादिनम् ।
पराजयार्थं दैत्यस्य बलेस्तस्य महात्मनः॥६॥

ततोऽदित्या सह सुराः सम्प्राप्ताः कश्यपान्तिकम् ।
अपश्यन्कश्यपं तत्र मुनिं दिव्यतपोनिधिम्॥७॥

आद्यं देवं गुरुं दिव्यं क्लिन्नं त्रिषवणाम्बुभिः ।
तेजसा भास्कराकारं गौरमग्निशिखाप्रभम्॥८॥

न्यस्तदण्डं तपोयुक्तं बद्धकृष्णाजिनोत्तरम् ।
वल्कलाजिनसंवीतं प्रदीप्तं ब्रह्मवर्चसा॥९॥

हुताशमिव दीप्यन्तमाज्यमन्त्रपुरस्कृतम् ।
स्वाध्यायनिरतं शान्तं वपुष्मन्तमिवानलम्॥१०॥

तं ब्रह्मवादिनां श्रेष्ठं सुरासुरगुरुं प्रभुम् ।
प्रतपन्तमिवादित्यं मारीचं दीप्ततेजसम्॥११॥

यः स्रष्टा सर्वभूतानां प्रजानां पतिरुत्तमः ।
आत्मभावविशेषेण तृतीयो यः प्रजपतिः॥१२॥

य इति। उत्तम इति चतुर्मुख उक्तः। तस्य “आत्मा वै पुत्रनामासि” इति श्रुत्यावगतः पुत्रे मरीचौ आत्मभावः एवं परम्परया पौत्रेऽपि साधारण्येनात्मभावप्राप्तावाह आत्मभावविशेषेणेति। पुत्रापेक्षयापौत्रे आत्मभावे विशेषतोऽस्ति। अत एव प्रह्लादगुणाः वैष्णवत्वादयः पौत्रे बलौ कार्स्न्येनाभिव्यक्ता न तु पुत्रे विरोचने। अत एव दाक्षिणात्याः पौत्रं पितामहनाम्ना योजयन्ति॥१२॥

ततः प्रणम्य ते वीराः सहादित्या सुरर्षभाः ।
ऊचुः प्राञ्जलयः सर्वे ब्रह्माणमिव मानसाः॥१३॥

तच्छ्रुतं युधि शक्रेण सरस्वत्या समीरितम् ।
अजेयस्त्रिदशैः सर्वैर्बलिर्दानवसत्तमः॥१४॥

श्रुत्वा तु वचनं तेषां पुत्राणां कश्यपस्तदा ।
चकार गमने बुद्धिं ब्रह्मलोकाय लोककृत्॥१५॥

कश्यप उवाच। गच्छाम ब्रह्मसदनं ब्रह्मघोषनिनादितम् ।
यथाश्रुतं च तत्रैव ब्रह्मणे वदतानघाः॥१६॥

वैशम्पायन उवाच। ततोऽदित्या सह सुरा यान्तं कश्यपमन्वयुः ।
प्रस्थितं ब्रह्मसदनं देवर्षिगणसेवितम्॥१७॥

ते मुहूर्तेन सम्प्राप्ता ब्रह्मलोकं दिवौकसः ।
दिव्यैः कामगमैर्यानैर्महार्हैः सुमनोहरैः॥१८॥

दिदृक्षवस्ते ब्रह्माणं तपसो राशिमव्ययम् ।
अभ्यगच्छन्त विस्तीर्णां ब्रह्मणः परमां सभाम्॥१९॥

षट्पदोद्गीतनिनदां सामगीतविमिश्रिताम् ।
श्रेयस्करीममित्रघ्नीं दृष्ट्वा सञ्जहृषुर्मुदा॥२०॥

ब्राह्मणैश्च महभागैर्वेदवेदाङ्गपारगैः ।
ऋचो बह्वृचमुख्यैश्च शिक्षाविद्भिस्तथा द्विजैः ।
शब्दनिर्वचनार्थं च प्रेर्यमाणपदाक्षराः॥२१॥

शुश्रुवुस्तेऽमरव्याघ्रा विततेषु च कर्मसु ।
यज्ञवेदाङ्गविदुषां पदक्रमविदां तथा॥२२॥

घोषेण परमर्षीणां सा बभूव निनादिता ।
यज्ञसंस्तवविद्भिश्च शिक्षाविद्भिस्तथा द्विजैः॥२३॥

शब्दनिर्वचनार्थज्ञैः सर्वविद्याविशारदैः ।
मीमांसाहितवाक्यज्ञैः सर्ववादविशारदैः॥२४॥

हृष्टपुष्टस्वरैस्तत्र द्विजेन्द्रवल्गुवादिभिः ।
नादितं ब्रह्मसदनं प्रवरं देवसद्मवत्॥२५॥

ते तत्र समनुप्राप्य शृण्वन्तो वै ध्वनिं सुराः ।
पूतान्यात्मशरीराणि मेनिरे तु न संशयः॥२६॥

तूष्णिम्भूता एकचित्ता ब्रह्मण्यगतमानसाः ।
विस्मयोत्फुल्लनयना निरीक्षन्तः परस्परम्॥२७॥

नमस्कुर्वन्ति च पुनर्गुरुं लोकगुरुं प्रभुम् ।
मनसैव सुरश्रेष्ठाः पुरस्कृत्य तु कश्यपम्॥२८॥

पुनः सम्पूज्य परमं वेदोच्चारणनिःस्वनम् ।
गम्भीरोदारमधुरं सुस्वरं हंसगद्गदम्॥२९॥

ऐक्यनानात्वसंयोगसमवायविशारदैः ।
लोकायतिकमुख्यैश्च शुश्रुवुः स्वनमीरितम्॥३०॥

लोकायतिकमुख्यः शास्त्रविद्भिः सह देवाः शुश्रुवुरिति सम्बन्धः। न च लोकायतानां देहात्मवादिनां देवद्रोहिणां ब्रह्मलोके गतिः सम्भवतीति शङ्कनीयम्। अत्र लोकायतशब्दस्य तच्छास्त्राभिमानिदेवतापरत्वात्। तत्र मूर्तिमतां वेदानां सामगानां शास्त्राणां च सर्वेषां सद्भावस्य कथनादित्यूह्यम्॥३०॥

तत्र तत्र च विप्रेन्द्रान्नियतान्संशितव्रतान् ।
जपहोमपरान्मुख्यान्ददृशुः कश्यपात्मजाः॥३१॥

तस्यां सभायामास्ते स्म ब्रह्मा लोकपितामहः ।
सुरासुरगुरुः श्रीमान्विधिवद्देवमायया॥३२॥

उपासते च तत्रैनं प्रजानां पतयः प्रभुम् ।
दक्षः प्रचेताः पुलहो मरीचिश्च द्विजोत्तमः॥३३॥

भृगुरत्रिर्वसिष्ठश्च गौतमो नारदस्तथा ।
मनुर्द्यौरन्तरिक्षं च वायुस्तेजो जलं मही॥३४॥

शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च ।
प्रकृतिश्च विकाराश्च यच्चान्यत्कारणं महत्॥३५॥

साङ्गोपाङ्गाश्चतुर्वेदाः सरहस्यपदक्रमाः ।
क्रियाश्च क्रतवश्चैव सङ्कल्पः प्राण एव च॥३६॥

एते चान्ये च बहवः स्वयम्भुवमुपस्थिताः ।
अर्थो धर्मश्च कामश्च द्वेषो दर्पश्च नित्यदा॥३७॥

शक्रो बृहस्पतिश्चैव संवर्तो बुध एव च ।
शनैश्चरोऽथ राहुश्च ग्रहाः सर्वे ह्यशेषतः॥३८॥

मरुतो विश्वकर्मा च नक्षत्राणि च भारत ।
दिवाकरश्च सोमश्च ब्रह्माणं समुपासते॥३९॥

सावित्री दुर्गातरणी वाणी सप्तविधा तथा ।
सर्वाणि श्रुतिशास्त्राणि गाथाश्च नियमास्तथा ।
भाष्याणि सर्वशास्त्राणि देहवन्ति विशाम्पते॥४०॥

क्षणा लवा मुहूर्ताश्च दिवा रात्रिश्च भारत ।
अर्धमासाश्च मासाश्च ऋतवः षट्तथैव च ।
संवत्सराश्चतुर्युगं मासा रात्रिश्चतुर्विधा॥४१॥

कालचक्रं च यद्दिव्यमनित्यं ध्रुवमव्ययम् ।
एते चान्ये च बहवः स्वयम्भुवमुपस्थिताः॥४२॥

ते प्रविष्टाः सभां दिव्यां ब्रह्मणः सर्वकामदाम् ।
कश्यपस्त्रिदशैः सार्धं पुत्रैर्धर्मविशारदैः॥४३॥

सर्वतेजोमयीं दिव्यां ब्रह्मर्षिगणसेविताम् ।
ब्राह्म्या श्रिया दीप्यमानमचिन्त्यं विगतक्लमम्॥४४॥

ब्रह्माणं वीक्ष्य ते सर्वे आसीनं परमासने ।
जग्मुर्मूर्ध्ना शुभौ पादौ ब्रह्मणस्ते दिवौकसः॥४५॥

शिरोभिः स्पृश्य चरणौ तस्य ते परमेष्ठिनः ।
विमुक्ताः सर्वपापेभ्यः शान्ता विगतकल्मषाः॥४६॥

दृष्ट्वा तु तान्सुरान्सर्वान्कश्यपेन सहागतान् ।
आह ब्रह्मा महातेजा देवानां प्रभुरीश्वरः॥४७॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे ब्रह्मलोकगमने षट्षष्टितमोऽध्यायः॥६६॥
कश्यपादीन्प्रति ब्रह्मवाक्यं क्षीरोदस्योत्तरे तीरे कश्यपादेर्गमनं तपश्चर्या च

ब्रह्मोवाच। यदर्थमिह सम्प्राप्ता भवन्तः सर्व एव हि ।
विजानाम्यहमव्यग्र एतत्सर्वं महाबलाः॥१॥

यदर्थमिति॥१॥

भविष्यति च वः सोऽर्थः काङ्क्षितो यः सुरोत्तमाः ।
बलेर्दानवमुख्यस्य यो विजेता भविष्यति॥२॥

न खल्वसुरसङ्घानामेको जेता स विश्वकृत् ।
त्रैलोक्यस्यापि जेतासौ देवानामपि चोत्तमः॥३॥

धाता चैव हि लोकानां विश्वयोनिः सनातनः ।
पूर्वदेहं सदा प्राहुर्हेमगर्भनिदर्शनम्॥४॥

हेमगर्भनिदर्शनं हिरण्यगर्भो निदर्शनं प्रतिमा पुत्रो यस्य स तथा तं मम पितरमित्यर्थः। वयमित्यन्वयः॥४॥

आत्मा देवेन विभुना कृतोऽजेयो महात्मनः ।
बलेरसुरमुख्यस्य विश्वस्य जगतस्तथा॥५॥

विश्वस्याजेयमित्यर्थः॥५॥

प्रभवः स हि सर्वेषामस्माकमपि पूर्वजः ।
अचिन्त्यः स हि विश्वात्मा योगयुक्तः परन्तपः॥६॥

तं देवापि महात्मानं न विदुः कोऽप्यसाविति ।
वेदात्मानं च विश्वं च सदेवः पुरुषोत्तमः॥७॥

तस्यैव तु प्रसादेन प्रवक्ष्येऽहं परां गतिम् ।
यत्र योगं समास्थाय तपश्चरति दुश्चरम्॥८॥

क्षीरोदस्योत्तरे कूले उदीच्यां दिशि देवताः ।
अमृतं नाम परमं स्थानमाहुर्मनीषिणः ।
भवन्तस्तत्र वै गत्वा तपसा संशितव्रताः॥९॥

अमृतं स्थानमासाद्य तपश्चरत दुश्चरम् ।
तत्र श्रोष्यथ विस्पष्टां स्निग्धगम्भीरनिःस्वनाम्॥१०॥

उष्णगे तोयपूर्णस्य तोयदस्य समस्वनाम् ।
युक्ताक्षरपदस्निग्धां रम्यामभयदां शिवाम्॥११॥

उष्णगे उष्णो ग्रीष्मः गतो नीतो यत्र तस्मिन्नुष्णगे॥११॥

वाणीं परमसंस्कारां वरदां ब्रह्मवादिनीम् ।
दिव्यां सरस्वतीं सत्यां सर्वकिल्बिषनशिनीम्॥१२॥

सर्वदेवाधिदेवस्य भाषितां भावितात्मनः ।
तस्य व्रतसमाप्तौ तु यावद्व्रतविसर्जनम्॥१३॥

अमोघस्य तु देवस्य विश्वेदेवा महात्मनः ।
स्वागतं वः सुरश्रेष्ठा मत्सकाशे व्यवस्थिताः॥१४॥

अमोघः रवो यस्य। मुखेति पाठेऽपि रव एव लक्ष्यः॥१४॥

कस्य किं वा वरं देवा ददामि वरदः स्थितः ।
तं कश्यपोऽदितिश्चैव वरं गृह्णीत वै ततः॥१५॥

प्रणम्य शिरसा पादौ तस्मै योगात्मने तदा ।
भवानेव च नः पुत्रो भवत्विति न संशयः॥१६॥

उक्तश्च परया भक्त्या तथास्त्विति स वक्ष्यति ।
देवा ब्रुवन्तु तं सर्वे भ्राता नस्त्वं भवेति ह॥१७॥

तथास्त्विति च स श्रीमान्वक्ष्यते सर्वलोककृत्॥१८॥

तस्मादेवं गृहीत्वा तु वरं त्रिदशसत्तमाः ।
कृतकृत्याः पुनः सर्वे गच्छध्वं स्वं स्वमालयम्॥१९॥

तथास्त्विति सुराः सर्वे कश्यपोऽदितिरेव च ।
वन्दित्वा ब्रह्मचरणौ गताः सौम्यां दिशं प्रति॥२०॥

तेऽचिरेणैव सम्प्राप्ताः क्षीरोदस्योत्तरं तटम् ।
यथोद्दिष्टं भगवता ब्रह्मणा ब्रह्मवादिना॥२१॥

तेऽतीत्य सागरान्सर्वान्पर्वतांश्च बहून्क्षणात् ।
नद्यश्च विविधा दिव्याः पृथिव्यां सुरसत्तमाः॥२२॥

पश्यन्ति च सुघोरां वै सर्वसत्त्वविवर्जिताम् ।
अभास्कराममर्यादां तपसा संवृतां दिशम् ।
अमृतं स्थानमासाद्य कश्यपेन सुरैः सह॥२३॥

दीक्षिताः कामदं दिव्यं व्रतं वर्षसहस्रकम् ।
प्रसादार्थं सुरेशाय तस्मै योगाय धीमते ।
नारायणाय देवाय सहस्राक्षाय धीमते॥२४॥

सुरेशाय सुरेशस्य॥२४॥

ब्रह्मचर्येण मौनेन स्थानवीरासनेन च ।
दमेन च सुराः सर्वे तपो दुश्चरमास्थिताः॥२५॥

कश्यपस्तत्र भगवान्प्रसादार्थं महत्मनः ।
उदीरयति वेदोक्तं यमाहुः परमं स्तवम्॥२६॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे सप्तषष्टितमोऽध्यायः॥६७॥
कश्यपकृता परब्रह्मस्तुतिः

कश्यप उवाच। नमोऽस्तु देवदेवेश एकशृङ्ग वराह वृषार्चिष वृषसिन्धो वृषाकपे सुरवृषभ सुरनिर्मित अनिर्मित भद्रकपिल विष्वक्सेन ध्रुव धर्म धर्मराज वैकुण्ठ त्रेतावर्त अनादिमध्यनिधन धनञ्जय शुचिश्रवः अग्निज वृष्णिज अज अजयामृतेशय सनातन विधातस्त्रिकाम त्रिधाम त्रिककुत् ककुद्मिन् दुन्दुभे महानाभ लोकनाभ पद्मनाभ विरिञ्चे वरिष्ठ बहुरूप विरूप विश्वरूपाक्षयाक्षर सत्याक्षर हंसाक्षर हव्यभुक् खण्डपरशो शुक्र मुञ्जकेश हंस महदक्षर हृषीकेश सूक्ष्म परसूक्ष्म तुराषाट् विश्वमूर्ते सुराग्रज नील निस्तमो विरजस्तमोरजःसत्त्वधाम सर्वलोकप्रतिष्ठ शिपिविष्ट सुतपस्तपोग्र अग्र अग्रजा धर्मनाभ गभस्तिनाभ धर्मनेम सत्यधाम सत्याक्षर गभस्तिनेमे विपाप्मन् चन्द्ररथ त्वमेव समुद्रवासाः अजैकपात् सहस्रशीर्ष सहस्त्रसंमित महाशीर्ष सहस्रदृक् सहस्रपात् अधोमुख महामुख महापुरुष पुरुषोत्तम सहस्रबाहो सहस्रमूर्ते सहस्रास्य सहस्राक्ष सहस्रभुज सहस्रभुव सहस्रशस्त्वामाहुर्वेदाः॥१॥

विश्वेदेव विश्वसम्भव सर्वेषामेव देवानां सौभग आदौ गतिः विश्वं त्वमाप्यायनः विश्वं त्वामाहुः पुष्पहास परमवरदस्त्वमेव वौषट् ओङ्कार वषट्कारं त्वमेकमाहुरग्र्यं मखभागप्राशिनम्॥२॥

शतधार सहस्रधार भूर्द भुवर्द स्वर्द भूर्भुवःस्वर्द त्वमेव भूतं भुवनं त्वं स्वधा त्वमेव ब्रह्मेशय ब्रह्ममय ब्रह्मादिस्त्वमेव॥३॥

द्यौरसि पृथिव्यसि पूषासि मातरिश्वासि धर्मोऽसि मघवासि होता पोता नेता हन्ता मन्ता होम्यहोता परात्परस्त्वं होम्यहोता त्वमेव॥४॥

आपोऽसि विश्ववाक् धात्रा परमेण धाम्ना त्वमेव दिग्भ्यः सृक् सृग्भाण्ड त्वं गण इष्टोऽसि इज्योऽसि ईड्योऽसि त्वष्टा त्वमसि समिद्धस्त्वमेव गतिर्गतिमतामसि मोक्षोऽसि योगोऽसि गुह्योऽसि सिद्धोऽसि धन्योऽसि धातासि परमोऽसि यज्ञोऽसि सोमोऽसि यूपोऽसि दक्षिणासि दीक्षासि विश्वमसि॥५॥

स्थविष्ठ स्थविर विश्व तुराषाट् हिरण्यगर्भ हिरण्यनाभ हिरण्यनारायण नारायणान्तर नृणामयन आदित्यवर्ण आदित्यतेजः महापुरुष सुरोत्तम आदिदेव पद्मनाभ पद्मेशय पद्माक्ष पद्मगर्भ हिरण्याग्रकेश शुक्लविश्वदेव विश्वते मुख विश्वाक्ष विश्वसम्भव विश्वभुक्त्वमेव॥६॥

भूरिविक्रम चक्रक्रम त्रिभुवन सुविक्रम स्वविक्रम स्वर्विक्रम बभ्रुः सुविभुः प्रभाकरः शम्भुः स्वयम्भूश्च भूतादिः भूतात्मन् महाभूत विश्वभुक्त्वमेव विश्वगोप्तासि विश्वम्भर पवित्रमसि हविर्विशारद हविःकर्मा अमृतेन्धन सुरासुरगुरो महादिदेव नृदेव ऊर्ध्वकर्मन् पूतात्मन् अमृतेश दिवःस्पृक् विश्वस्य पते घृताच्यसि अनन्तकर्मन् द्रुह्यनवंश स्ववंश विश्वपास्त्वं त्वमेव विश्वं बिभर्षि वरार्थिनो नस्त्रायस्वेति॥७॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे महापुरुषस्तवे अष्टषष्टितमोऽध्यायः॥६८॥
कश्यपादीन्प्रति महाविष्णोर्वरप्रदानकथावतारः

वैशम्पायन उवाच। नारायणस्तु भगवाऽछ्रुत्वैतत्परमं स्तवम् ।
ब्रह्मज्ञेन द्विजेन्द्रेण कश्यपेन समीरितम्॥१॥

स्निग्धगम्बीरनिर्घोषजीमूतस्वननिःस्वनम् ।
मनसा प्रीतियुक्तेन विबुधानां महात्मनाम्॥२॥

उवाच वचनं सम्यग्हृष्टपुष्टपदाक्षरम् ।
आकाशाच्छुश्रुवे शब्दो दर्शनं नोपलभ्यते ।
श्रीमान्प्रीतमना देवः प्रोवाच प्रभुरीश्वरः॥३॥

विष्णुरुवाच। प्रीतोऽस्मि वः सुरश्रेष्ठाः सर्वे मत्तो विनिश्चयम् ।
वरं वृणुत भद्रं वो वरदोऽस्मि सुरोत्तमाः॥४॥

कश्यप उवाच। यदैव भगवान्प्रीतः सर्वेषाममरोत्तमः ।
तदैव कृतकृत्याः स्म त्वं हि नः परमा गतिः॥५॥

यदि प्रसन्नो भगवान्दातव्यो वा वरो यदि ।
वासवस्यानुजो भ्राता ज्ञातीनां नन्दिवर्धनः ।
अदित्यां वामनः श्रीमान्भगवानस्तु वः सुरः॥६॥

वैशम्पायन उवाच। अदितिर्देवमाता च एतमेवार्थमुत्तमम् ।
पुत्रार्थे वरदं प्राह भगवन्तं वरार्थिनी॥७॥

अदितिरुवाच। याचे त्वां पुत्रकामा वै भवान्पुत्रो भवत्विति ।
निःश्रेयसाय सर्वेषां देवानां हि महात्मनाम्॥८॥

देवा ऊचुः। भ्राता भर्ता च दाता च शरणं च भवस्व नः ।
अदित्याः पुत्रतां याते त्वयि देवाः सवासवाः ।
देवशब्दं वहिष्यन्ति कश्यपस्यात्मजो भव॥९॥

वैशम्पायन उवाच। ततस्तानब्रवीद्विष्णुर्देवान्कश्यपमेव च ।
एवं भवतु भद्रं वो यथेष्टं काममाप्नुत ।
सर्वेषामेव युष्माकं ये भविष्यन्ति शत्रवः॥१०॥

मुहूर्तमपि ते सर्वे न स्थास्यन्ति ममाग्रतः ।
हत्वासुरगणान्सर्वान्ये चान्ये देवशत्रवः॥११॥

करिष्ये देवताः सर्वा यज्ञभागाग्रभोजिनः ।
हव्यादांश्च सुरान्सर्वान्क्रव्यादांश्च पितॄनपि॥१२॥

करिष्ये विबुधश्रेष्ठाः पारमेष्ठ्येन कर्मणा ।
यथागतेन मार्गेण निवर्तध्वं सुरोत्तमाः॥१३॥

देवमातुस्तथादित्याः कश्यपस्यामितात्मनः ।
यथामनीषितं कर्ता गच्छध्वं स्वं स्वमालयम्॥१४॥

वैशम्पायन उवाच। एवमुक्ते तु वचने विष्णुना प्रभविष्णुना ।
देवाः प्रहृष्टमनसः पूजयन्ति स्म सर्वशः॥१५॥

विश्वेदेवा महात्मानः कश्यपोऽदितिरेव च ।
साध्या मरुद्गणाश्चैव शक्रश्चैव महाबलः ।
नमस्कृत्य सुरेशाय तस्मै देवाय रंहसे॥१६॥

प्रयाताः प्राग्दिशं दिव्यं विपुलं कश्यपाश्रमम् ।
गत्वा ते आश्रमं तत्र ब्रह्मर्षिगणसेवितम् ।
चेरुः स्वाध्यायनियता अदित्या गर्भमीप्सवः॥१७॥

अदितिर्देवमाता च गर्भं दध्नेऽतितेजसम् ।
भूतात्मानं महात्मानं दिव्यं वर्शसहस्रकम्॥१८॥

पूर्णे वर्षसहस्रे तु प्रसूता गर्भमुत्तमम् ।
सुराणां शरणं देवमसुराणां विनाशनम्॥१९॥

गर्भस्थेन तु देवेन परित्राताः सुरास्तदा ।
आददानेन तेजांसि त्रैलोक्यस्य महात्मना॥२०॥

तस्मिञ्जाते तु देवेश त्रैलोक्यस्य सुखावहे ।
भयदे दैत्यसङ्घानां सुराणां नन्दिवर्धने॥२१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे एकोनसप्ततितमोऽध्यायः॥६९॥
वामनप्रादुर्भावः

वैशम्पायन उवाच। प्रजानां पतयः सप्त सप्त चैव महर्षयः ।
तस्य देवस्य जातस्य नमस्कारं प्रचक्रिरे॥१॥

प्रजानामिति। प्रजानां पतयः सप्त मरीच्यादयः॥१॥

भारद्वाजः कश्यपो गौतमश्च विश्वामित्रो जमदग्निर्वसिष्ठः ।
यश्चोदितो भास्करे सम्प्रनष्टे सोऽप्यत्रात्रिर्भगवानाजगाम॥२॥

भास्करत्वकर्ता त्रिरप्याजगामेत्याह- यश्चेति॥२॥

मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः ।
दक्षप्रजापतिश्चैव नमस्कारं प्रचक्रिरे॥३॥

और्वो वसिष्ठपुत्रश्च स्तम्बः काश्यप एव च ।
कपीवानकपीवांश्च दत्तो निश्च्यवनस्तथा॥४॥

वसिष्ठपुत्राः सप्तासन्वासिष्ठा इति विश्रुताः ।
हिरण्यगर्भस्य सुताः पूर्वजाताः सुतेजसः॥५॥

गार्ग्यः पृथुस्तथैवान्यो जन्यो वामन एव च ।
देवबाहुर्यदुध्रश्च पर्जन्यश्चैव सोमजः॥६॥

हिरण्यरोमा वेदशिराः सप्तनेत्रस्तथैव च ।
विश्वोऽतिविश्वश्च्यवनः सुधामा विरजास्तथा॥७॥

अतिनामा सहिष्णुश्च नमस्कारमकुर्वत ।
उद्द्योतमाना वपुषा सर्वाभरणभूषिताः॥८॥

उपनृत्यन्ति देवेषं विष्णुमप्सरसां वराः ।
ततो गन्धर्वतूर्येषु प्रणदत्सु विहायसि॥९॥

बहुभिः सह गन्धर्वैः प्रागायत च तुम्बुरुः ।
महाश्रुतिश्चित्रशिरा ऊर्णायुरनघस्तथा॥१०॥

गोमायुः सूर्यवर्चाश्च सोमवर्चाश्च सप्तमः ।
युगपस्तृणपः कार्ष्णिर्नन्दिश्च त्रिशिरास्तथा॥११॥

त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ।
कलिः पञ्चदशश्चात्र तत्रैव तु महीपते॥१२॥

दश पञ्च त्विमे प्रोक्ता नारदश्चैव षोडशः ।
हाहा हूहूश्च गन्धर्वौ हंसश्चैव महाद्युतिः॥१३॥

सर्वे ते देवगन्धर्वा उपगायन्ति केशवम् ।
तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः॥१४॥

वपुष्मन्तः सुजघनाः सर्वाङ्गशुभदर्शनाः ।
ननृतुश्च महाभागा जगुश्चायतलोचनाः॥१५॥

सुमध्याश्चारुमध्याश्च प्रियमुख्यो वराननाः ।
अनूकाथ तथा जामी मिश्रकेशी त्वलम्बुषा॥१६॥

मरीचिः शूचिकाश्चैव विद्युत्पूर्णा तिलोत्तमा ।
अद्रिका लक्षणा चैव रम्भा तद्वन्मनोरमा॥१७॥

असिता च सुबाहुश्च सुप्रिया सुभगा तथा ।
उर्वशी चित्रलेखा च सुग्रीवा च सुलोचना॥१८॥

पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी ।
नन्दा शारद्वती चैव तथान्यास्तत्र सङ्घशः॥१९॥

मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ।
एताश्चाप्सरसोऽन्याश्च प्रनृत्यन्ति सहस्रशः॥२०॥

धातार्यमा च मिश्रश्च वरुणोऽंशो भगस्तथा ।
इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा॥२१॥

कथितो विष्णुरित्येवं काश्यपेयो गणस्तथा ।
इत्येते द्वादशादित्या ज्वलन्तः सूर्यवर्चसः॥२२॥

चक्रुस्तस्य सुरेशस्य नमस्कारं महात्मनः ।
मृगव्याधश्च सर्पश्च निर्ऋतिश्च महाबलः॥२३॥

अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ।
दहनोऽथेश्वरश्चैव कपाली च विशम्पते॥२४॥

स्थाणुर्भगश्च भगवान्रुद्रास्तत्रावतस्थिरे ।
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः॥२५॥

विश्वेदेवाश्च साध्याश्च तस्य प्राञ्जलयः स्थिताः ।
शेषानुजा महाभागा वासुकिप्रमुखास्तथा॥२६॥

कच्छपश्चापहर्ता च तक्षकश्च महाबलः ।
अधृष्टास्तेजसा युक्ता महाक्रोधा महाबलाः॥२७॥

एते नागा महात्मानस्तस्मै प्राञ्जलयः स्थिताः ।
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः॥२८॥

अरुणश्चारुणिश्चैव वैनतेया ह्युपस्थिताः ।
पितामहश्च भगवान्स्वयमागम्य लोककृत् ।
प्राह चैवं गुरुः श्रीमान्सह सर्वैर्महात्मभिः॥२९॥

ब्रह्मोवाच। यस्मात्प्रसूयते लोकः प्रभविष्णुः सनातनः ।
तस्माल्लोकेश्वरः श्रीमान्विष्णुरेव भवत्वयम्॥३०॥

एवमुक्त्वा तु भगवान्सार्धं देवर्षिभिः प्रभुः ।
नमस्कृत्वा सुरेशाय जगाम त्रिदिवं पुनः॥३१॥

स तु जातः सुरेशानः कश्यपस्यात्मजः प्रभुः ।
नवदुर्दिनमेघाभो रक्ताक्षो वामनाकृतिः॥३२॥

श्रीवत्सेनोरसि श्रीमान्रोमजातेन राजता ।
उत्फुल्ललोचनाः सर्वाः पश्यन्त्यप्सरसस्तदा॥३३॥

रोमजातेन रोमावर्तेन॥३३॥

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासा तस्य महात्मनः॥३४॥

सुरर्षिप्रतिमः श्रीमान्भूर्भुवो भूतभावनः ।
शुचिरोमा महास्कन्धः सर्वतेजोमयः प्रभुः॥३५॥

या गतिः पुण्यकीर्तीनामगतिः पापकर्मणाम् ।
योगसिद्धा महात्मानो यं विदुर्योगमुत्तमम्॥३६॥

यस्याष्टगुणमैश्वर्यं यमाहुर्देवसत्तमम् ।
यं प्राप्य शाश्वतं विप्रा नियतामोक्षकाङ्क्षिणः॥३७॥

जन्मनो मरणाच्चैव मुच्यन्ते भवभीरवः ।
यदेतत्तप इत्याहुः सर्वाश्रमनिवासिनः॥३८॥

सेवन्ते यं यताहारा दुश्चरं व्रतमास्थिताः ।
योऽनन्त इति नागेषु सेव्यते सर्वभोगिभिः॥३९॥

सहस्रमूर्धा रक्ताक्षः शेषादिभिरनुत्तमैः ।
यो यज्ञ इति विप्रेन्द्रैरिज्यते स्वर्गलिप्सुभिः॥४०॥

नानास्थानगतः श्रीमानेकः कविरनुत्तमः ।
यं वेदा गान्ति वेत्तारं यज्ञभागप्रदायिनम्॥४१॥

वृषार्चिश्चन्द्रसूर्याक्षं देवमाकाशविग्रहम् ।
स प्राह त्रिदशान्सर्वान्वाचा वै परया विभुः॥४२॥

जानन्नपि महातेजा गतो योगेन बालताम् ।
किं करोमि सुरश्रेष्ठाः कं वरं च ददामि वः॥४३॥

यत्काङ्क्षितं वै सर्वेषां तद्वै ब्रूत मुदा युताः ।
तस्य तद्वचनं श्रुत्वा वामनस्य महात्मनः॥४४॥

सर्वे ते हृष्टमनसो देवाः कश्यपनन्दनम् ।
ऊचुः प्राञ्जलयो विष्णुं सुराः शक्रपुरोगमाः॥४५॥

ब्रह्मणो वरदानेन हृतं नो निखिलं जगत् ।
तपसा महता चैव विक्रमेण दमेन च॥४६॥

बलिना दैत्यमुख्येन सर्वज्ञेन महात्मना ।
अवध्यः किल सोऽस्माकं सर्वेषां देवसत्तम॥४७॥

भवान्प्रभवते तस्य नान्यः कश्चन सुव्रत ।
यत्प्रपद्यामहे सर्वे भवन्तं शरणार्थिनः ।
शरण्यं वरदं देवं सर्वदेवभयापहम्॥४८॥

ऋषीणां च हितार्थाय लोकानां च सुरेश्वर ।
प्रियार्थं च तथादित्याः कश्यपस्य तथैव च॥४९॥

कव्यं पितॄणामुचितं सुराणां हव्यमुत्तमम् ।
प्रवर्तेत महाबहो यथापूर्वं सुरोत्तम॥५०॥

आनृण्यार्थं सुरेशस्य वासवस्य महात्मनः ।
प्रत्यानय महेन्द्रस्य त्रैलोक्यमिदमव्ययम्॥५१॥

क्रतुना वाजिमेधेन यजते स हि दानवः ।
यत्प्रत्यानयने युक्तं लोकानां तद्विचिन्तय॥५२॥

वैशम्पायन उवाच। एवमुक्तस्तदा देवैर्विष्णुर्वामनरूपधृक् ।
प्रहर्षयन्नुवाचाथ सर्वान्देवानिदं वचः॥५३॥

विष्णुरुवाच। तस्य यज्ञसकाशं मां महर्षिर्वेदपारगः ।
बृहस्पतिर्महातेजा नयत्वङ्गिरसः सुतः॥५४॥

तस्याहं समनुप्राप्तो यज्ञवाटं सुरोत्तमाः ।
विचरिष्ये यथायुक्तं त्रैलोक्यहरणाय वै॥५५॥

वैशम्पायन उवाच। ततो बृहस्पतिर्धीमाननयद्वामनं प्रभुम् ।
यज्ञवाटं महातेजा दानवेन्द्रस्य धीमतः॥५६॥

मौञ्जी यज्ञोपवीती च च्छत्री दण्डी ध्वजी तथा ।
वामनो धूम्ररक्ताक्षो भगवान्बालरूपधृक्॥५७॥

तं गत्वा यज्ञवाटं च ब्रह्मर्षिगणसङ्कुलम् ।
आत्मना चैव भगवान्वर्णयामास तं क्रतुम्॥५८॥

यज्ञवाटं यज्ञस्थानम्॥५८॥

लोकेश्वरेश्वरः श्रीमान्सुरैर्ब्रह्मपुरोगमैः ।
अध्यास्यमानो भगवानवृद्धोऽप्यथ वृद्धवत्॥५९॥

दानवाधिपतेस्तस्य बलेर्वैरोचनस्य च ।
यज्ञवाटमचिन्त्यात्मा जगाम सुरसत्तमः॥६०॥

पालितोऽपि हि दैतेयः साङ्ग्रामिकपरिच्छदैः ।
द्वारे दानवसम्बाधे सहसैव विवेश ह॥६१॥

ऋषिभिश्चैव मन्त्राद्यैः सर्वतः परिवारितम् ।
दैत्यदानवराजेन्द्रमुपतस्थे बलिं बली॥६२॥

वर्णयित्वा यथान्यायं यज्ञं यज्ञः सनातनः ।
विस्तरेण नरश्रेष्ठ प्रयोगैर्विविधैस्तथा॥६३॥

शुक्रादीनृत्विजश्चापि यज्ञकर्मविचक्षणान् ।
सर्वानेव निजग्राह चकार च निरुत्तरान्॥६४॥

आरादथ बलेस्तस्य ऋत्विजामभितस्तथा ।
यज्ञमात्मानमेवासौ हेतुभिः कारणं विभुः॥६५॥

वैदिकैरप्रकाशैश्च पुनरप्यथ भारत ।
प्रत्यक्षमृषिसङ्घानां वर्णयामास चित्रगुः॥६६॥

ततो निरुत्तरान्दृष्ट्वा सोपाध्यायानृषींश्च तान् ।
अवृद्धेनापि वृद्धांस्तान्वामनेन महौजसा॥६७॥

अद्भुतं चापि मेने स विरोचनसुतो बली ।
मूर्ध्ना कृताञ्जलिश्चेदमब्रवीद्विस्मितो वचः॥६८॥

कूतस्त्वं कोऽसि कस्यासि किं तेहास्ति प्रयोजनम् ।
नैवंविधः परिज्ञातो दृष्टपूर्वो मया द्विजः॥६९॥

बालो मतिमतां श्रेष्ठो ज्ञानविज्ञानकोविदः ।
शिष्टवाग्रूपसम्पन्नो मनोज्ञः प्रियदर्शनः॥७०॥

नेदृशाः सन्ति देवानामृषीणामपि सूनवः ।
न नागानां न यक्षाणां नासुराणां न रक्षसाम्॥७१॥

न पितॄणां न सिद्धानां गन्धर्वाणां तथैव च ।
योऽसि सोऽसि नमस्तेऽस्तु ब्रूहि किं करवाणि ते॥७२॥

वैशम्पायन उवाच। उक्त एवं ह्यचिन्त्यात्मा बलिना वामनस्तदा ।
प्रोवाचोपायतत्त्वज्ञः स्मितपूर्वमिदं वचः॥७३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे सप्ततितमोऽध्यायः॥७०॥
वामनस्य बलियज्ञे गमनं त्रिपादभूमिलाभः त्रिविक्रममूर्तिधारणं च

वैशम्पायन उवाच। अहो यज्ञेऽसुरेशस्य बहुभक्षः सुसंस्कृतः ।
पितामहस्येव पुरा यजतः परमेष्ठिनः॥१॥

सुरेशस्य च शक्रस्य यमस्य वरुणस्य च ।
विशेषितस्त्वया यज्ञो दानवेन्द्र महाबल॥२॥

यजता वाजिमेधेन क्रतूनां प्रवरेण तु ।
सर्वपापविनाशाय त्वया स्वर्गप्रदर्शिना॥३॥

सर्वकाममयो ह्येष संमतो ब्रह्मवादिनाम् ।
क्रतूनां प्रवरः श्रीमानश्वमेध इति श्रुतिः॥४॥

सुवर्णशृङ्गो हि महानुभावो लोहक्षुरो वायुजवो महारथः ।
स्वर्गेक्षणः काञ्चनगर्भगौरः स विश्वयोनिः परमो हि मेध्यः॥५॥

आस्थाय वै वाजिनमश्वमेधमिष्ट्वा नरा दुष्कृतमुत्तरन्ति ।
आहुश्च यं वेदविदो द्विजेन्द्रा वैश्वानरं वाजिनमश्वमेधम्॥६॥

यथाऽऽश्रमाणां प्रवरो गृहाश्रमो यथा नराणां प्रवरा द्विजातयः ।
यथासुराणां प्रवरो भवानिह तथा क्रतूनां प्रवरोऽश्वमेधः॥७॥

वैशम्पायन उवाच। एतच्छ्रुत्वा तु वचनं वामनेन समीरितम् ।
मुदा परमया युक्तः प्राह दैत्यपतिर्बलिः॥८॥

बलिरुवाच। कस्यासि ब्राह्मणश्रेष्ठ किमिच्छसि ददामि ते ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि॥९॥

वामन उवाच। न राज्यं न च यानानि न रत्नानि न च स्त्रियः ।
कामये यदि तुष्टोऽसि धर्मे च यदि ते मतिः॥१०॥

गुर्वर्थं मे प्रयच्छस्व पदानि त्रीणि दानव ।
त्वमग्निशरणार्थाय एष मे प्रवरो वरः ।
वामनस्य वचः श्रुत्वा प्राह दैत्यपतिर्बलिः॥११॥

बलिरुवाच। त्रिभिः किं तव विप्रेन्द्र पदैः प्रवदतां वर ।
शतं शतसहस्राणां पदानां मार्गतां भवान्॥१२॥

शुक्र उवाच। मा ददस्व महाबाहो न त्वं वेत्सि महासुर ।
एष मायाप्रतिच्छन्नो भगवान् प्रवरो हरिः॥१३॥

वामनं रूपमास्थाय शक्रप्रियहितेप्सया ।
त्वां वञ्चयितुमायातो बहुरूपधरो विभुः॥१४॥

एवमुक्तः स शुक्रेण चिरं सञ्चिन्त्य वै बलिः ।
प्रहर्षेण समायुक्तः किमतः पात्रमिष्यते॥१५॥

प्रगृह्य हस्ते सम्भ्रान्तो भृङ्गारं कनकोद्भवम् ।
बलिरुवाच। विप्रेन्द्र प्राङ्मुखस्तिष्ठ स्थितोऽस्मि कमलेक्षण॥१६॥

प्रतीच्छ देहि किं भूमिं किं मात्रा भोः पदत्रयम् ।
दत्तं च पातय जलं नैव मिथ्या भवेद्गुरुः॥१७॥

शुक्र उवाच। भो न देयं कृतो दैत्य विज्ञातोऽयं मया ध्रुवम् ।
कोऽयं विष्णुरहो प्रीतिर्वञ्चितस्त्वं न वञ्चितः॥१८॥

वञ्चितस्त्वमिति शुक्रः। न वञ्चित इति वलिरित्यादि यथायोग्यम्॥१८॥

बलिरुवाच। कथं स नाथोऽयं विष्णुर्यज्ञे स्वयमुपस्थितः ।
दास्यामि देवदेवाय यद्यदिच्छत्ययं विभुः॥१९॥

को वान्यः पात्रभूतोऽस्माद्विष्णोः परतरो भवेत् ।
एवमुक्त्वा बलिः शीघ्रं पातयामास वै जलम्॥२०॥

वामन उवाच। पदानि त्रीणि दैत्येन्द्र पर्याप्तानि ममानघ ।
यन्मया पूर्वमुक्तं हि तत्तथा न तदन्यथा॥२१॥

वैशम्पायन उवाच। इत्येतद्वचनं श्रुत्वा वामनस्य महौजसः ।
कृष्णाजिनोत्तरीयं स कृत्वा वैरोचनिस्तदा॥२२॥

एवमस्त्विति दैत्येशो वाक्यमुक्त्वारिसूदनः ।
ततो वारिसमापूर्णं भृङ्गारं स परामृशत्॥२३॥

वामनो ह्यसुरेन्द्रस्य चिकीर्षुः कदनं महत् ।
क्षिप्रं प्रसारयामास दैत्यक्षयकरं करम्॥२४॥

प्राङ्मुखश्चापि दैत्येशस्तस्मै सुमनसा जलम् ।
दातुकामः करे यावत्तावत्तं प्रत्यषेधयत्॥२५॥

तस्य तद्रूपमालोक्य ह्यचिन्त्यं च महात्मनः ।
अभूतपूर्वं च हरेर्जिहीर्षोः श्रियमासुरीम्॥२६॥

इङ्गितज्ञोऽग्रतः स्थित्वा प्रह्रादस्त्वब्रवीद्वचः ।
प्रह्राद उवाच। मा ददस्व जलं हस्ते वटोर्वामनरूपिणः॥२७॥

स त्वसौ येन ते पूर्वं निहतः प्रपितामहः ।
विष्णुरेष महाप्रज्ञस्त्वां वञ्चयितुमागतः॥२८॥

बलिरुवाच। हन्त तस्मै प्रदास्यामि देवायेमं प्रतिग्रहम् ।
अनुग्रहकरं देवमीदृशं जगतः प्रभुम्॥२९॥

ब्रह्मणोऽपि गरीयांसं पात्रं लप्स्यामहे वयम् ।
अवश्यं चासुरश्रेष्ठ दातव्यं दीक्षितेन वै॥३०॥

इत्युक्त्वासुरसङ्घानां मध्ये वैरोचनिस्तद ।
देवाय प्रददौ तस्मै पदानि त्रीणि विष्णवे॥३१॥

प्रह्राद उवाच। दानवेश्वर मा दास्त्वं विप्रायास्मै प्रतिग्रहम् ।
नेमं विप्रशिशुं मन्ये नेदृशो भवति द्विजः॥३२॥

रूपेणानेन दैत्येन्द्र सत्यमेव ब्रवीमि ते ।
नारसिंहमहं मन्ये तमेव पुनरागतम्॥३३॥

एवमुक्तस्तदा तेन प्रह्रादेनामितौजसा ।
प्रह्रादमब्रवीद्वाक्यमिदं निर्भर्त्सयन्निव॥३४॥

बलिरुवाच। देहीति याचते यो हि प्रत्याख्याति च योऽसुर ।
उभयोरप्यलक्ष्म्या वै भागस्तं विशते नरम्॥३५॥

प्रतिज्ञाय तु यो विप्रे न ददाति प्रतिग्रहम् ।
स याति नरकं पापी मित्रगोत्रसमन्वितः॥३६॥

अलक्ष्मीभयभीतोऽहं ददाम्यस्मै वसुन्धराम् ।
प्रतिग्रहीता चाप्यन्यः कश्चिदस्माद्द्विजोऽथ वै॥३७॥

नाधिको विद्यते यस्मात्तद्ददामि वसुन्धराम् ।
हृदयस्य च मे तुष्टिः परा भवति दानव॥३८॥

दृष्ट्वा वामनरूपेण याचन्तं द्विजपुङ्गवम् ।
एष तस्मात्प्रदास्यामि न स्थास्यामि निवारितः॥३९॥

भूयश्च प्राब्रवीदेवं वामनं विप्ररूपिणम् ।
स्वल्पैः स्वल्पमते किं ते पदैस्त्रिभिरनुत्तमम्॥४०॥

कृत्स्नां ददामि ते विप्र पृथिवीं सागरैर्वृताम् ।
वामन उवाच। न पृथ्वीं कामये कृत्स्नां सन्तुष्टोऽस्मि पदैस्त्रिभिः ।
एष एव रुचिष्यो मे वरो दानवसत्तम॥४१॥

वैशम्पायन उवाच। तथास्त्विति बलिः प्रोच्य स्पर्शयामास दानवः ।
पदानि त्रीणि देवाय विष्णवेऽमिततेजसे॥४२॥

तोये तु पतिते हस्ते वामनोऽभूदवामनः ।
सर्वदेवमयं रूपं दर्शयामास वै विभुः॥४३॥

भूः पादौ द्यौः शिरश्चास्य चन्द्रादित्यौ च चक्षुषी ।
पादाङ्गुल्यः पिशाचाश्च हस्ताङ्गुल्यश्च गुह्यकाः॥४४॥

विश्वेदेवाश्च जानुस्था जङ्घे साध्याः सुरोत्तमाः ।
यक्षा नखेषु सम्भूता लेखाश्चाप्सरसस्तथा॥४५॥

तडिद्वृष्टिः सुविपुला केशाः सूर्यांशवस्तथा ।
तारका रोमकूपाणि रोमाणि च महर्षयः॥४६॥

बाहवो विदिशश्चास्य दिशः श्रोत्रे तथैव च ।
अश्विनौ श्रवणौ चास्य नासा वायुर्महाबलः॥४७॥

प्रसादश्चन्द्रमाश्चैव मनो धर्मस्तथैव च ।
सत्यमस्याभवद्वाणी जिह्वा देवी सरस्वती॥४८॥

ग्रीवा दितिर्महादेवी तालुः सूर्यश्च दीप्तिमान् ।
द्वारं स्वर्गस्य नाभिर्वै मित्रस्त्वष्टा च वै भुवौ॥४९॥

मुखं वैश्वानरश्चास्य वृषणौ तु प्रजापतिः ।
हृदयं भगवान्ब्रह्मा पुंस्त्वं वै विश्वतो मुनिः॥५०॥

पृष्ठेऽस्य वसवो देवा मरुतः पादसन्धिषु ।
सर्वच्छन्दांसि दशना ज्योतींषि विमलाः प्रभाः॥५१॥

ऊरू रुद्रो महादेवो धैर्यं चास्य महार्णवः ।
ऊदरे चास्य गन्धर्वा भुजगाश्च महाबलाः॥५२॥

लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्या च वै कटिः ।
ललाटमस्य परमस्थानं च परमात्मनः॥५३॥

सर्वज्योतींषि यानीह तपः शक्रस्तु देवराट् ।
तस्य देवाधिदेवस्य तेजो ह्याहुर्महात्मनः॥५४॥

स्तनौ कक्षौ च वेदाश्च ओष्ठौ चास्य मखाः स्थिताः ।
इष्टयः पशुबन्धाश्च द्विजानां चेष्टितानि च॥५५॥

तस्य देवमयं रूपं दृष्ट्वा विष्णोर्महासुराः ।
अभ्यसर्पन्त सङ्क्रुद्धाः पतङ्गा इव पावकम्॥५६॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे विश्वरूपप्रकाशे एकसप्ततितमोऽध्यायः॥७१॥
विष्णोरादेशात् बलेः पातालप्रवेशः तत्कृतविष्णुस्तवः बलिं प्रति गरुडस्य उक्तिप्रत्युक्ती वामनस्तवफलकथनं च

वैशम्पायन उवाच। शृणु नामानि सर्वेषां रूपाण्यभिजनानि च ।
आयुधानि च मुख्यानि दानवानां महात्मनाम्॥१॥

विप्रचित्तिः शिबिः शङ्कुरयः शङ्कुस्तथैव च ।
अयःशिरा अश्वशिरा हयग्रीवश्च वीर्यवान्॥२॥

वेगवान्केतुमानुग्रः सोग्रव्यग्रो महासुरः ।
पुष्करः पुष्कलश्चैव साश्वोऽश्वपतिरेव च॥३॥

प्रह्रादोऽश्वशिराः कुम्भः संह्रादो गगनप्रियः ।
अनुह्रादो हरिहरौ वाराहः संहरो रुजः॥४॥

वृषपर्वा विरूपाक्षो अतिचन्द्रः सुलोचनः ।
निष्प्रभः सुप्रभः श्रीमांस्तथैव च निरूदरः॥५॥

एकवक्त्रो महावक्त्रो द्विवक्त्रः कालसन्निभः ।
शरभः शलभश्चैव कुणपः कुलपः क्रथः॥६॥

बृहत्कीर्तिर्महागर्भः शङ्कुकर्णो महाध्वनिः ।
दीर्घजिह्वोऽर्कवदनो मृदुबाहुर्मृदुप्रियः॥७॥

वायुर्गविष्ठो नमुचिः शम्बरो विक्षरो महान् ।
चन्द्रहन्ता क्रोधहन्ता क्रोधवर्धन एव च॥८॥

कालकः कालकाक्षश्च वृत्रः क्रोधो विमोक्षणः ।
गविष्ठश्च हविष्ठश्च प्रलम्बो नरकः पृथुः॥९॥

चन्द्रतापनवातापी केतुमान्बलदर्पितः ।
असिलोमा पुलोमा च बाष्कलः प्रमदो मदः॥१०॥

शृगालवदनश्चैव करालः केशिरेव च ।
एकाक्षश्चैकबाहुश्च तुहुण्डः सृमलः सृपः॥११॥

एते चान्ये च बहवः क्रममाणं त्रिविक्रमम् ।
उपतस्थुर्महात्मानां विष्णुं दैत्यगणास्तदा॥१२॥

प्रासोद्यतकराः केचिद्व्यादितास्याः खरस्वनाः ।
शतघ्नीचक्रहस्ताश्च वज्रहस्तास्तथा परे॥१३॥

खड्गपट्टिशहस्ताश्च परश्वधधराः परे ।
प्रासमुद्गरहस्ताश्च तथा परिघपाणयः॥१४॥

महाशनिव्यग्रकरा मौशलास्तु महाबलाः ।
महावृक्षोद्यतकरास्तथैव च धनुर्धराः॥१५॥

गदाभुशुण्डिहस्ताश्च वज्रहस्तास्तथा परे ।
महापट्टिशहस्ताश्च तथा परिघपाणयः॥१६॥

असिकम्पनहस्ताश्च दानवा युद्धदुर्मदाः ।
नानाप्रहरणा घोरा नानावेषा महाबलाः॥१७॥

कूर्मकुक्कुटवक्त्राश्च हस्तिवक्त्रास्तथा परे ।
खरोष्ट्रवदनाश्चैव वराहवदनास्तथा॥१८॥

भीमा मकरवक्त्राश्च शिशुमारमुखास्तथा ।
मार्जारशुकवक्त्राश्च दीर्घवक्त्राश्च दानवाः॥१९॥

गरुडाननाः खड्गमुखा मयूरवदनास्तथा ।
अश्ववक्त्रा बभ्रुवक्त्रा घोरा मृगमुखास्तथा॥२०॥

उष्ट्रशल्यकवक्त्राश्च दीर्घवक्त्राश्च दानवाः ।
नकुलस्येव वक्त्राश्च पारावतमुखास्तथा॥२१॥

चक्रवाकमुखाश्चैव गोधवक्त्रास्तथा परे ।
तथा मृगाननाः शूरा गोजादिमहिषाननाः॥२२॥

कृकलासमुखाश्चैव व्याघ्रवक्त्रास्तथा परे ।
ऋक्षशार्दूलवक्त्राश्च सिंहवक्त्रास्तथा परे॥२३॥

गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ।
चीरसंवृतगात्राश्च तथा फलकवाससः॥२४॥

उष्णीषिणो मुकुटिनस्तथा कुण्डलिनोऽसुराः ।
किरीटिनो लम्बशिखाः कम्बुग्रीवाः सुवर्चसः॥२५॥

नानावेषधरा दैत्या नानामाल्यानुलेपनाः ।
स्वान्यायुधानि दीप्तानि प्रगृह्यासुरसत्तमाः॥२६॥

क्रममाणं हृषिकेशमुपातिष्ठन्त दानवाः ।
प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैः प्रभुः॥२७॥

रूपं कृत्वा महाकायं जहाराशु स मेदिनीम् ।
त्रैलोक्यं क्रममाणस्य द्युतिरादित्यसम्भवा॥२८॥

तस्य विक्रमतो भूमिं चन्द्रादितौ स्तनान्तरे ।
नभः प्रक्रममाणस्य सक्थिदेशे व्यवस्थितौ ।
परं विक्रममाणस्य जानुदेशे व्यवस्थितौ॥२९॥

विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः ।
जित्वा लोकत्रयं कृत्स्नं हत्वा चासुरपुङ्गवान्॥३०॥

ददौ शक्राय वसुधां हरिर्लोकनमस्कृतः ।
सुतलं नाम पातालमधस्ताद्वसुधातले॥३१॥

बलेर्दत्तं भगवता विष्णुना प्रभविष्णुना ।
तदवाप्यासुरश्रेष्ठश्चकार मतिमुत्तमाम्॥३२॥

रसातलतले वासमकरोदसुराधिपः ।
तत्रस्थश्च महातेजा ध्यानं परममास्थितः॥३३॥

उवाच वचनं धीमान्विष्णुं लोकनमस्कृतम् ।
किं मया देव कर्तव्यं ब्रूहि सर्वमशेषतः ।
ततो दैत्याधिपं प्राह देवो विष्णुः सुरोत्तमः॥३४॥

विष्णुरुवाच। ददामि ते महाभाग परितुष्टोऽस्मि तेऽसुर ।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि॥३५॥

मा च शक्रस्य वचनं प्रतिहासीः कथञ्चन ।
अहमाज्ञापयामि त्वां श्रेयश्चैवमवाप्स्यसि॥३६॥

प्रतिहासीः मा त्यज॥३६॥

अथ दैत्याधिपं प्राह विष्णुर्देवाधिपानुजः ।
वाचा परमया देवो वरेण्यः प्रभुरीश्वरः॥३७॥

यत्त्वया सलिलं दत्तं गृहीतं पाणिना मया ।
तस्मात्ते दैत्य देवेभ्यो नास्ति जातु भयं क्वचित्॥३८॥

सुतलं नाम पातालं तत्र त्वं सानुगो वस ।
सर्वदैत्यगणैः सार्धं मत्प्रसादान्महासुर॥३९॥

न च ते देवदेवस्य शक्रस्यामिततेजसः ।
शासनं प्रतिहन्तव्यं स्मरता शासनं मम॥४०॥

देवताश्चापि ते सर्वाः पूज्या एव महासुर ।
भोगांश्च विविधन्सम्यग्यज्ञांश्च सहदक्षिणान्॥४१॥

प्राप्स्यसे च महाभाग दिव्यान्कामान्यथेप्सितान् ।
इह चामुत्र चाक्षय्यान्विविधांश्च परिच्छदान् ।
दैत्याधिपत्यं च सदा मत्प्रसादादवाप्स्यसि॥४२॥

यदा च तां मया प्रोक्तां मर्यादां चालयिष्यसि ।
वधिष्यन्ति तदा हि त्वां नागपाशैर्महाबलाः॥४३॥

नमस्कार्याश्च ते नित्यं महेन्द्राद्या दिवौकसः ।
मम ज्येष्ठः सुरश्रेष्ठ शासनं प्रतिगृह्यताम्॥४४॥

बलिरुवाच। देवदेव महाभाग शङ्खचक्रगदाधर ।
सुरासुरगुरो श्रेष्ठ सर्वलोकमहेश्वर ।
तत्रासतो मे पाताले भागं ब्रूहि सुरोत्तम॥४५॥

ममान्नमशनं देव प्राशनार्थमरिन्दम ।
तद्वदस्व सुरश्रेष्ठ तृप्तिर्येन ममाक्षया॥४६॥

श्रीभगवानुवाच। अश्रोत्रियं श्राद्धमधीतमव्रतमदक्षिणं यज्ञमनर्त्विजा हुतम् ।
अश्रद्धया दत्तमसंस्कृतं हविरेते प्रदत्तास्तव दैत्यभागाः॥४७॥

पुण्यं मद्द्वेषिणां यच्च मद्भक्तद्वेषिणां तथा ।
क्रयविक्रयसक्तानां पुण्यं यच्चाग्निहोत्रिणाम्॥४८॥

अश्रद्धया च यद्दानं ददतां यजतां तथा ।
तत्सर्वं तव दैत्येन्द्र मत्प्रसादाद्भविष्यति॥४९॥

वैशम्पायन उवाच। एतच्छ्रुत्वा तु वचनं बलिर्विष्णोर्महात्मनः ।
एवमस्त्विति तं प्रोक्त्वा पातालमसुरोत्तमः ।
प्रविवेश महानादो देवाज्ञां प्रतिपालयन्॥५०॥

एतस्मिन्नन्तरे चापि विष्णुस्त्रिदशपूजितः ।
भगवानपि राज्यानां प्रविभागांश्चकार ह॥५१॥

ददौ पूर्वां दिशं चैन्द्रीं शक्रायामिततेजसे ।
याम्यां यमाय देवाय पितृराज्ञे महात्मने॥५२॥

पश्चिमां तु दिशं प्रादाद्वरुणाय महात्मने ।
उत्तरां च कुबेराय यक्षाधिपतये दिशम्॥५३॥

अधःस्थां नागराजाय सोमायोर्ध्वां दिशं ददौ ।
एवं विभज्य त्रैलोक्यं विष्णुर्बलवतां वरः॥५४॥

जगाम त्रिदिवं देवः पूज्यमानो महर्षिभिः ।
वामनः सर्वभूतेशः प्रतिष्ठाप्य च वासवम्॥५५॥

तस्मिन्प्रयाते दुर्धर्षे वामनेऽमिततेजसि ।
सर्वे मुमुदिरे देवाः पुरस्कृत्य शतक्रतुम्॥५६॥

वैशम्पायन उवाच। गते तु त्रिदिवं कृष्णे बद्ध्वा वैरोचनिं बलिम् ।
नागैः सप्तशिरोभिश्च कम्बलाश्वतरादिभिः॥५७॥

नागबन्धनदुःखार्तं बलिं वैरोचनिं ततः ।
यदृच्छयासौ देवर्षिर्नारदः प्रत्यपद्यत॥५८॥

स तं कृच्छ्रगतं दृष्ट्वा कृपयाभिपरिप्लुतः ।
उवाच दानवश्रेष्ठं मोक्षोपायं ददामि ते॥५९॥

स्तवं देवाधिदेवस्य वासुदेवस्य धीमतः ।
अनादिनिधनस्यास्य अक्षयस्याव्ययस्य च॥६०॥

तमधीष्वाथ दैत्येन्द्र विशुद्धेनान्तरात्मना ।
तद्गतस्तन्मना भूत्वा द्रुतं मोक्षमवाप्स्यसि॥६१॥

ततो विरोचनसुतः प्रयतः प्राञ्जलिः शुचिः ।
मोक्षविंशकमव्यग्रो नारदात्समधीतवान्॥६२॥

तमधीत्य स्तवं दिव्यं नारदेन समीरितम् ।
पृथिवी चोद्धृता येन तं जजाप महासुरः॥६३॥

ओं नमोऽस्त्वनन्तपतये अक्षयाय महात्मने ।
जलेशयाय देवाय पद्मनभाय विष्णवे॥६४॥

सप्तसूर्यवपुः कृत्वा त्रीँल्लोकान्कान्तवानसि ।
भगवन्कालकालस्त्वं तेन सत्येन मोक्षय॥६५॥

नष्टचन्द्रार्कगगने क्षीणयज्ञतपःक्रिये ।
पुनश्चिन्तयसे लोकांस्तेन सत्येन मोक्षय॥६६॥

ब्रह्मरुद्रेन्द्रवाय्वग्निसरिद्भुजगपर्वताः ।
त्वत्स्था दृष्ट्वा द्विजेन्द्रेण तेन सत्येन मोक्षय॥६७॥

मार्कण्डेन पुरा कल्पे प्रविश्य जठरं तव ।
चराचरगतं दृष्टं तेन सत्येन मोक्षय॥६८॥

एको विद्यासहायस्त्वं योगी योगमुपागतः ।
पुनस्त्रैलोक्यमुत्सृज्य तेन सत्येन मोक्षय॥६९॥

जलशय्यामुपासीनो योगनिद्रामुपागतः ।
लोकांश्चिन्तयसे भूयस्तेन सत्येन मोक्षय॥७०॥

वाराहं रूपमास्थाय वेदयज्ञपुरस्कृतम् ।
धरा जलोद्धृता येन तेन सत्येन मोक्षय॥७१॥

उद्धृत्य दंष्ट्रया यज्ञांस्त्रीन्पिण्डान्कृतवानसि ।
त्वं पितॄणामपि हरे तेन सत्येन मोक्षय॥७२॥

प्रदुद्रुवुः सुराः सर्वे हिरण्याक्षभयार्दिताः ।
परित्रातास्त्वया देव तेन सत्येन मोक्षय॥७३॥

दीर्घवक्त्रेण रूपेण हिरण्याक्षस्य संयुगे ।
शिरो जहार चक्रेण तेन सत्येन मोक्षय॥७४॥

भग्नमूर्धास्थिमस्तिष्को हिरण्यकशिपुः पुरा ।
हुङ्कारेण हतो दैत्यस्तेन सत्येन मोक्षय॥७५॥

दानवाभ्यां हृता वेदा ब्रह्मणः पश्यतः पुरा ।
परित्रातास्त्वया देव तेन सत्येन मोक्षय॥७६॥

कृत्वा हयशिरोरूपं हत्वा तु मधुकैटभौ ।
ब्रह्मणे तेऽर्पिता वेदास्तेन सत्येन मोक्षय॥७७॥

देवदानवगन्धर्वा यक्षसिद्धमहोरगाः ।
अन्तं तव न पश्यन्ति तेन सत्येन मोक्षय॥७८॥

अपान्तरतमा नाम जातो देवस्य वै सुतः ।
कृताश्च तेन वेदार्थास्तेन सत्येन मोक्षय॥७९॥

वेदयज्ञाग्निहोत्राणि पितृयज्ञहवींषि च ।
रहस्यं तव देवस्य तेन सत्येन मोक्षय॥८०॥

ऋषिर्दीर्घतमा नाम जात्यन्धो गुरुशापतः ।
त्वत्प्रसादाच्च चक्षुष्मांस्तेन सत्येन मोक्षय॥८१॥

ग्राहग्रस्तं गजेन्द्रं च दीनं मृत्युवशं गतम् ।
भक्तं मोक्षितवांस्त्वं हि तेन सत्येन मोक्षय॥८२॥

अक्षयश्चाव्ययश्च त्वं ब्रह्मण्यो भक्तवत्सलः ।
उच्छ्रितानां नियन्तासि तेन सत्येन मोक्षय॥८३॥

शङ्खं चक्रं गदां पद्मं शार्ङ्गं गरुडमेव च ।
प्रसादयामि शिरसा ते बन्धान्मोक्षयन्तु माम्॥८४॥

शङ्खचक्रगदातूणशार्ङ्गं च गरुडादयः ।
प्रसादयामासुर्हरिं बलिं मोक्षय बन्धनात्॥८५॥

ततः प्रसन्नो भगवानादिदेश खगेश्वरम् ।
गरुडं नागहन्तारं बलिं मोक्षय बन्धनात्॥८६॥

ततो विक्षिप्य गरुडः पक्षावतुलविक्रमः ।
जगाम वसुधामूलं यत्रास्ते संयतो बलिः॥८७॥

आगमं तस्य विज्ञाय नागा मुक्त्वा महासुरम् ।
ययुः पुरीं भोगवतीं वैनतेयभयार्दिताः॥८८॥

मुक्तं कृष्णप्रसादेन चिन्तयानमधोमुखम् ।
भ्रष्टश्रियमुवाचेदं गरुत्मान्पन्नगाशनः॥८९॥

गरुड उवाच। दानवेन्द्र महाबाहो विष्णुस्त्वामब्रवीत्प्रभुः ।
मुक्तो निवस पाताले सपुत्रजनबान्धवः॥९०॥

इतस्त्वया न गन्तव्यं गव्यूतिमपि दानव ।
समयं यदि भिन्द्यास्त्वं मूर्धा ते शतधा भवेत्॥९१॥

पक्षीन्द्रवचनं श्रुत्वा दानवेन्द्रोऽब्रवीदिदम् ।
स्थितोऽस्मि समये तस्य अनन्तस्य महात्मनः॥९२॥

जीव्योपायं तु भगवान्मम किञ्चित्करोतु सः ।
इहस्थोऽहं सुखासीनो येनाप्याये खगेश्वर॥९३॥

बलेस्तु वचनं श्रुत्वा गरुत्मानिदमब्रवीत् ।
पूर्वमेव कृतस्तेन जीव्योपायो महात्मना॥९४॥

वर्तयिष्यन्ति ये यज्ञा विधिहीना न ऋत्विजः ।
प्रायश्चित्तमजानन्तो यज्ञभागस्ततस्तव॥९५॥

न तेषां यज्ञभागं वै प्रतिगृह्णन्ति देवताः ।
अनेनाप्यायितबलः सुखमात्रं निवत्स्यसि॥९६॥

वैशम्पायन उवाच। सन्देशमेतं भगवान्दत्तवान्कश्यपात्मजः ।
दानवेन्द्र महाबाहो विष्णुस्त्रैलोक्यभावनः॥९७॥

इमं स्तवमनन्तस्य सर्वपापप्रमोचनम् ।
यः पठेत नरो भक्त्या तस्य नश्यति किल्बिषम्॥९८॥

गोहत्यायाः प्रमुच्येत ब्रह्मघ्नो ब्रह्महत्यया ।
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम्॥९९॥

सद्यो गर्भात्प्रमुच्येत गर्भिणी जनयेत्सुतम् ।
ये च मोक्षैषिणो लोके योगिनः साङ्ख्यकापिलाः॥१००॥

स्तवेनानेन गच्छन्ति श्वेतद्विपमकल्मषाः ।
सर्वकामप्रदो ह्येष स्तवोऽनन्तस्य कीर्त्यते॥१०१॥

यः पठेत्प्रातरुत्थाय शुचिः प्रयतमानसः ।
सर्वान्कामानवाप्नोति मानवो नात्र संशयः॥१०२॥

एष वै वामनो नाम प्रादुर्भावो महात्मनः ।
वेदविद्भिर्द्विजैरेव पठ्यते वैष्णवं यशः॥१०३॥

यस्त्विमं वामनं दिव्यं प्रादुर्भावं महात्मनः ।
शृणुयान्नियतो भक्त्या सदा पर्वसु पर्वसु॥१०४॥

परान्विजयते राजा यथा विष्णुर्महाबलः ।
यशो विमलमाप्नोति विपुलं चाप्नुते वसु॥१०५॥

प्रियो भवति भूतानां सर्वेषां वामनो यथा ।
पुत्रपौत्राश्च वर्धन्ते आरोग्यं गुणसम्पदः॥१०६॥

प्रीयते पठतश्चास्य देवदेवो जनर्दनः ।
सर्वकामयुतश्चैव कृष्णद्वैपायनोऽब्रवीत्॥१०७॥

अत्र नमोस्त्वनन्तपतय इत्यादिस्तवः बन्धमोक्षार्थं जप्यः॥१०७॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे द्विसप्ततितमोऽध्यायः॥७२॥
कृष्णं प्रति रुक्मिण्याः पुत्रप्रार्थनाकथनम्

जनमेजय उवाच। किमर्थं भगवान्विष्णुर्देवदेवो जनार्दनः ।
गतः कैलासशिखरमालयं शङ्करस्य ह॥१॥

किमर्थमिति। अथ धन्योपाख्यानमारभ्य बाणयुद्धे रुद्रजयान्तं विष्णोरुत्कर्षो वर्णितः। प्रादुर्भावेषु च तस्यैव निर्गुणं सगुणं च स्वरूपं व्याख्याय तद्गुणकथनपरं भारतं च श्रवणफलश्रुतिप्रदर्शनान्तं समापितम्। तत्र बाणयुद्धे च हरिहरयोरभेद उक्तः। स च ममात्मा भद्रसेन इतिवत् औपचारिक इति भवेत्कस्यचित् अत्यन्ताभेदे शास्तृशास्यभावासम्भवं मन्वानस्य मन्दमतेर्मतिः तामपनिनीषुः कैलासयात्रादित्रिपुरवधान्तं ग्रन्थमारभते। तयोः सर्वत्र प्रत्येकं सर्वोत्तमत्वेन कीर्त्यमानयोः कायव्यूहे योगिन इव देहभेदेऽप्यैकात्म्यं सिद्ध्यति। नतु देहभेदाद्व्यक्तिभेदः सर्वोत्तमद्वयायोगात् इति। तत्रानुशासनिके पर्वणि कृष्णः शङ्कराराधनार्थं कैलासं गत इति संक्षेपेणोक्तं तद्विस्तरेण बुभुत्सुरमुं वदति- किमर्थं भगवान् विष्णुरित्यादिना। देवानां ब्रह्मादीनां देवोऽपि जनैः अर्द्यते गम्यते प्रलयकाले याचते इष्टसिद्ध्यर्थे स्थितिकाल इति जनार्दनोऽपि सन्कथमन्यं पूजयितुं गतः कथं च तदन्यस्य शङ्करत्वम्। पूर्णानन्दरूपस्वरूपोऽपि कथमल्पसुखलिप्सयान्यं प्रति गत इत्यर्थः॥१॥

नारदाद्यैस्तपोवृद्धैर्मुनिभिस्तत्त्वदर्शिभिः ।
तत्र दृष्टो महादेवः शङ्करो नीललोहितः॥२॥

केशवेन पुरा विप्र कुर्वता तप उत्तमम् ।
अर्चितो देवदेवेन शङ्करश्चेति नः श्रुतम्॥३॥

देवौ तत्र जगन्नाथौ दृष्टवन्तौ पुरातनौ ।
अर्चयाञ्चक्रिरे देवा इन्द्राद्याः शङ्करं हरिम्॥४॥

एवं पूज्यपूजकभावेनावगतयोः कथमेकात्मत्वमित्याह- देवाविति॥४॥

तौ तु देवौ महादेवावेकीभूतौ द्विधा कृतौ ।
एकात्मानौ जगद्योनी सृष्टिसंहारकारकौ॥५॥

एक आत्मा स्वरूपं ययोस्तादृशावपि कार्यभेदाद्भिन्नशरीरौ सिद्धौ इव भसेते इत्येतदपि कथमित्यर्थः॥५॥

परस्परसमावेशाज्जगतः पालने स्थितौ ।
तयोस्तत्र यथावृत्तं कैलासे पर्वतोत्तमे॥६॥

परस्परेति। अग्नावग्निरिव जले जलमिव चान्योन्यस्मिन्नैक्यं गतावित्युक्तं तदपि कथं किमर्थम्॥६॥

ऋषयः किमचेष्टन्त दृष्ट्वा तौ पुरुषोत्तमौ ।
एतत्सर्वमशेषेण वक्तुमर्हसि सत्तम॥७॥

ऐक्यं गतौ दृष्ट्वा ऋषयः किमचेष्टन्त। तत्कथं तयोस्तत्त्वं व्याख्यातवन्त इत्यर्थः॥७॥

यथा गतो हरिर्विष्णुः कृष्णो जिष्णुः पुरातनः ।
यथा च शङ्करः साक्षात्कृतवान्नागभूषणः ।
एतत्सर्वं विप्रवर्य ब्रूहि तत्त्वेन यत्नतः॥८॥

गतः शिवम् अभेदेनेति शेषः। साक्षात्कृतवान् हरिं प्रत्यगात्मत्वेनेति शेषः॥८॥

वैशम्पायन उवाच। शृणुष्वावहितो राजन्यथा कृष्णो गतो नगम् ।
यथा च दृष्टो देवेशः शङ्करो वृषवाहनः॥९॥

नगं कैलासम्॥९॥

यथा चचार च तपो यथा ते मुनयो गताः ।
एवं तयोर्यथा वृत्तं तथा शृणु नरोत्तम॥१०॥

द्वैपायनोऽथ भगवान्यथा प्रोवाच मां तथा ।
नमस्कृत्वा प्रवक्ष्यामि केशवं खगवाहनम्॥११॥

यथाशक्ति यथाप्रज्ञं शृणु यत्नेन सुव्रत ।
न चाशुश्रूषवे वाच्यं नृशंसायातपस्विने॥१२॥

नानधीताय वक्तव्यं पुण्यं पुण्यवतां सदा ।
स्वर्ग्यं यशस्यं धन्यं च बुद्धिशुद्धिकरं सदा॥१३॥

ध्येयं पुण्यात्मना नित्यमिदं वेदार्थनिश्चितम् ।
अनेकारण्यसंयुक्तं सेवन्ते नित्यमीदृशम्॥१४॥

नन्वयं योगिवदेक एवेश्वरोऽनेकदेवतात्मा चेत् किं हरिहराद्वैतप्रतिपादनेनेत्याशङ्क्याह- ध्येयमिति। पुण्यात्मनां ध्येयम् अलोचनीयमिदं हरिहरयोरैक्यं वेदार्थत्वेन निश्चितं यतः अनेकैरारण्यैः आरण्यकैः उपनिषद्भिः संयुक्तं तात्पर्यवत्तया समाहितम्। नित्यं ब्राह्मणस्यावश्यकं नित्यम् अनवरतं सेवन्ते चिन्तयन्ति। अयमर्थः- बीजाङ्कुरवन्मिथः कार्यकारणभावं गतयोर्हरिहरयोः पर्यायेण जीवेशभावमापादयितुमिदमुच्यते। तथाहि- यदा जीवः शिव ईश्वरो विष्णुर्यदा विपरीतं वा तदा ईश्वरं जीवो जले जलमिवाग्नावग्निरिव विलीयत इति सर्ववेदान्तसिद्धान्तः। तत्र केषुचित्पुराणेष्वाद्यः पक्ष उपादीयते केषुचित् द्वितीयः। सर्वथापि जीवेशयोरभेदः सर्वस्य शस्त्रस्यार्थः। देवतान्तराणि तु समष्टिजीवस्यावयवभूतानीति अकृत्स्नः कृत्स्नेनः परब्रह्मणात्यन्तमैक्यमश्नुवत इति खिले ग्रन्थेऽस्मिन् सर्वपुराणार्थसङ्ग्रह इति प्राक् शिवो जीवो विष्णुरीश इत्युक्तम्। इदानिं विष्णुर्जीवः शिव ईश्वर इति प्रतिपाद्यते। तेन सर्वेषां पुराणानां मिथो विरुद्धार्थत्वेऽपि तत्त्वतो न विरोधगन्धोऽपीति प्रतिपादितमुपोद्घातेऽपीति शिवम्॥१४॥

मुनयो वेदनिरता नारदाद्यास्तपोधनाः ।
अत्यद्भुतं महापुण्यं वृत्तं कैलासपर्वते॥१५॥

शिवयोर्देवयोस्तत्र हरेश्चैव भवस्य च ।
हतेष्वसुरसङ्घेषु नरकादिषु भूमिपः॥१६॥

हतेष्वथ नृपेष्वेवं किञ्चिच्छिष्टेषु शत्रुषु ।
शासति स्म सदा विष्णुः पृथिवीं पुरुषोत्तमः॥१७॥

शासति शास्ति। भौवादित्यमार्षम्॥१७॥

द्वारवत्यां जगन्नाथो वसन्वृष्णिभिरीश्वरः ।
रुक्मिण्या सङ्गतो देवो वसंस्तत्र पुरे हरिः॥१८॥

कदाचिच्च तया सार्धं शेते रात्रौ जगत्पतिः ।
विहरंश्च यथायोगं प्रीतः प्रीतियुजा तया॥१९॥

अथोवाच तथा देवी रुक्मिणी रुक्मभूषणा ।
पुत्रमिच्छामि देवेश त्वत्तो माधव नन्दनम्॥२०॥

बलिनं रूपसम्पन्नं त्वयैव सदृशं प्रभो ।
वृष्णीनामपि नेतारं वीर्यवन्तं तपोनिधिम्॥२१॥

सर्वशास्त्रार्थकुशलं राजविद्यापुरस्कृतम् ।
एवमादिगुणैर्युक्तं दातुमर्हसि सत्तम॥२२॥

राजविद्या ब्रह्मविद्या तद्वतां मध्ये पुरस्कृतम्॥२२॥

त्वयि सर्वस्य दातृत्वं नित्यमेव प्रतिष्ठितम् ।
त्वं हि सर्वस्य कर्ता च दाता भोक्ता जगत्पतिः॥२३॥

विशेषतस्तु भृत्यानां शुश्रूषानियतात्मनाम् ।
वक्तव्यं किमु देवेश यदि भक्तास्मि केशव॥२४॥

अनुग्रहो यदि स्यान्मे देवदेव जगत्पते ।
दातुमर्हसि पुत्रं त्वं वीर्यवन्तं जनार्दन॥२५॥

वैशम्पायन उवाच। इत्युक्तो देवदेवेशः प्रियया प्रीयमाणया ।
तया महिष्या रुक्मिण्या रुक्मिशत्रुर्यदूद्वहः॥२६॥

प्रोवाच वचनं काले रुक्मिणीं यादवेश्वरः ।
दातास्मि तादृशं पुत्रं यं त्वमिच्छसि भामिनि॥२७॥

नित्यं भक्तासि मे देवि नात्र कार्यं विचारणा ।
अवश्यं तव दास्यामि पुत्रं शत्रुनिबर्हणम्॥२८॥

पुत्रेण लोकाञ्जयति सतां कामदुघा हि ये ।
नरकं पुदिति ख्यातं दुःखं च नरकं विदुः॥२९॥

पुदस्त्राणात्ततः पुत्रमिहेच्छति परत्र च ।
अनन्ताः पुत्रिणो लोकाः पुरुषस्य प्रिये शुभाः॥३०॥

पतिर्जायां प्रविशति गर्भो भूत्वा स मातरम् ।
तस्यां पुनर्नवो भूत्वा दशमे मासि जायते॥३१॥

आत्मन एव द्वितीयं स्वरूपं पुत्र इत्यत्र श्रुतिं पठति- “पतिर्जायाम्” इति॥३१॥

पुत्रवन्तं बिभेतीन्द्रः किं नु ते नाशितं भवेत् ।
नापुत्रो विन्दते लोकान्कुपुत्राद्वन्ध्यता वरा॥३२॥

पुत्रवन्तं दृष्ट्वेति शेषः। पुत्रवान् इन्द्रपदमपि जयतीत्यर्थः॥३२॥

कुपुत्रो नरके यस्मात्सुपुत्रात्स्वर्ग एव हि ।
तस्माद्विनीतं सत्पुत्रं श्रुतवन्तं दयापरम्॥३३॥

नरके पातयतीति शेषः। यस्माद्विद्यायुक्तम्॥३३॥

विद्यया विनयो यस्माद्विद्यायुक्तं सुधार्मिकम् ।
इच्छेत्पुत्रं पुत्रकामः पुरुषो यत्नवान्बुधः॥३४॥

तस्माद्दास्यामि ते पुत्रं विद्यावन्तं सुधार्मिकम् ।
एष गच्छामि पुत्रार्थं कैलासं पर्वतोत्तमम्॥३५॥

तत्रोपास्यं महादेवं शङ्करं नीललोहितम् ।
ततो लब्धास्मि पुत्रं ते भवाद्भूतहिते रतात्॥३६॥

तपसा ब्रह्मचर्येण भवं शङ्करमव्ययम् ।
तोषयित्वा विरूपाक्षमादिदेवमजं विभुम्॥३७॥

गमिष्याम्यहमद्यैव द्रष्टुं शङ्करमव्ययम् ।
स च मे दास्यते पुत्रं तोषितस्तपसा मया॥३८॥

तत्र गत्वा महादेवं नमस्कृत्य सहोमया ।
प्रविश्य बदरीं पुण्यां मुनिजुष्टां तपोमयीम्॥३९॥

अग्निहोत्राकुलां दिव्यां गङ्गाम्बुप्लावितां सदा ।
मृगपक्षिसमायुक्तां सिंहद्विपशताकुलाम्॥४०॥

बदरीफलसम्पूर्णां वानरक्षोभितद्रुमाम् ।
वेत्रारूढमहावृक्षां कदलीखण्डमण्डिताम्॥४१॥

वेत्रैः आरूढाः महावृक्षाः यस्यां ताम्॥४१॥

मुनिभिर्वेदतत्त्वार्थविचारनिपुणैः सदा ।
वेदनिश्चिततत्त्वार्थैः प्रमाणकुशलैर्युताम्॥४२॥

इदमेकमिदं तत्त्वमिति निश्चितमानसैः ।
उपास्यमानामन्यत्र सिद्धैः सिद्धार्थतत्परैः॥४३॥

इतिहासपुराणज्ञैः सेव्यमानं महर्षिभिः ।
गच्छद्भिः स्वर्गनिलयं परित्यज्य कलेवरम्॥४४॥

प्रसिद्धां महतीं देवीं यास्यामि सुकृतालयाम् ।
इत्युक्त्वा विररामैव देवदेवो जनार्दनः॥४५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां त्रिसप्ततितमोऽध्यायः॥७३॥
श्रीकृष्णस्य कैलासगमनविचारः

वैशम्पायन उवाच। प्रभातायां तु शर्वर्यां गन्तुमैच्छज्जनार्दनः ।
हुताग्निः कृतकल्याणः समाप्तवरदक्षिणः॥१॥

प्रभातायामिति॥१॥

गाश्च दत्त्वाथ विप्रेभ्यो नमस्कृत्य द्विजोत्तमान् ।
आस्थानमण्डपं कृष्णः प्रविवेश जगत्पतिः॥२॥

आसनं महदास्थाय वृष्णीनाहूय सर्वशः ।
बलभद्रं शिनेः पुत्रं हार्दिक्यं शुकसारणौ॥३॥

उग्रसेनं महाबुद्धिमुद्धवं नीतिमत्तरम् ।
यस्य बुद्धिं समाश्रित्य जीवन्ते यादवाः सुखम्॥४॥

नेता च यदुवृष्णीनां स तु धर्मपरः सदा ।
यस्य बिभ्यति देवाश्च नीतेस्तस्य महात्मनः॥५॥

यस्य बुद्धिवशाद्विष्णुः शशास पृथिवीं सदा ।
तं च वृष्णिवरं वीरमुद्धवं देवसुप्रभम्॥६॥

देववत्सुप्रभम्॥६॥

अन्यानपि यदून्सर्वानुवाच भगवान्हरिः ।
शृण्वन्तु मम वाक्यानि यादवाः सर्व एव हि ।
शृणु चापि वचो मह्यं पितुरुद्धव मे सखे॥७॥

मह्यं मम पितुः सखे॥७॥

बाल्यात्प्रभृति यो यत्नो मम दुष्टनिबर्हणे ।
प्रत्यक्षं भवता दृष्टं पूतनानिधनं नृप॥८॥

केशी च निहतो बाल्ये मया बालेन यादवाः ।
गोवर्धनो धृतः शैलो गावश्च परिपालिताः॥९॥

अभिषिक्तोऽस्मि शक्रेण देवानामग्रतः स्तितः ।
कंसोऽपि निधनं नीतो मया चाणूरमुष्टिकौ॥१०॥

उग्रसेनोऽभिषिक्तश्च कृता द्वारवती मया ।
अन्ये चापि नृपा राजन्बलिनो निहता मया॥११॥

योऽपि वीरो जरासन्धो निगृहीतो बलान्मया ।
भीमेन बलिना राजन्नयने मम यादवाः॥१२॥

भीमेन भीमद्वारा॥१२॥

शृगालो निहतः सङ्ख्ये गोमन्ताद्गच्छता मया ।
योऽपि वीरो दुरात्मासौ दानवो नरको हतः॥१३॥

निष्कण्टकमिमं लोकं कृतवान्राजसत्तमाः ।
किं तु वीरो नृपो जज्ञे सखा भौमस्य यादवाः॥१४॥

पौण्ड्रो वीर्यवतां नेता दृष्टा चासौ सदा मम ।
शिष्यो द्रोणस्य रजेन्द्रो बली ब्रह्मास्त्रवित्कृती॥१५॥

शास्त्रज्ञो नीतिमान्साक्षान्नेता सर्वस्य यत्नवान् ।
योद्धा युद्धप्रियो राजा जामदग्न्या इवापरः॥१६॥

एकान्तशत्रुरस्माकं छिद्रान्वेषी सदा मम ।
बाधिष्यते पुरीं योद्धा च्छिद्रं यदि लभेत सः॥१७॥

न ह्यल्पसाध्यो बलवान्पुण्ड्रस्येशो नृपोत्तमाः ।
यत्ता भवन्तस्तिष्ठन्तु प्रगृहीतशरासनाः॥१८॥

यथा न बाधते राजा पुरीं यदुकुलाश्रयाम् ।
अहं तु यास्ये कैलासं कुतश्चित्कारणान्नृपाः॥१९॥

शङ्करं द्रष्टुकामोऽस्मि भूतभावनभावनम् ।
यावदागमनं मह्यं तावद्यत्ता भवन्त्विह॥२०॥

भूतभावनभावनं वियदादिकारणस्याव्यक्तस्यापि कारणम्। “तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम” इति अव्यक्तस्यापि साक्षित्वस्मरणात्॥२०॥

मया विरहितां चेमां यदि जानाति पौण्ड्रकः ।
आगमिष्यति राजेन्द्रो योत्स्यते च पुरीमिमाम्॥२१॥

इमां निर्यादवीं कर्तुं शक्नोतीति च मे मतिः ।
यत्ता भवत राजेन्द्राः खड्गैः पाशैः परश्वधैः॥२२॥

पाषाणैः कर्षणीयैश्च सन्नद्धा भवत स्वकैः ।
पिधाय च कपाटानि महाद्वाराणि यत्नतः॥२३॥

एक एव महाद्वारो गमनागमने सदा ।
मुद्रया सह गच्छन्तु राज्ञो यो गन्तुमीप्सवः॥२४॥

न चामुद्रः प्रवेष्टव्यो द्वारपालस्य पश्यतः ।
यावदागमनं मह्यं तावदेवं भविष्यति॥२५॥

मृगया नात्र कर्तव्या न च क्रीडा बहिः पुरात् ।
ज्ञातव्याश्च परे स्वे च गमनागमने सदा॥२६॥

एवमादिक्रिया कार्या यावदागमनं मम ।
इत्युक्त्वा यादवान्सर्वान्सात्यकिं पुनराह च॥२७॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां चतुःसप्ततितमोऽध्यायः॥७४॥
द्वारवतीरक्षणे यादवान् प्रति श्रीकृष्णस्य वचनम्

श्रीभगवानुवाच। सात्यके शृणु मद्वाक्यं यत्तो भव युधां वर ।
त्वं तु खड्गी गदी भूत्वा चापपाणिस्तनुत्रवान्॥१॥

सात्यके इति॥१॥

तिष्ठ यत्नेन रक्षस्व पुरीं बहुनृपाश्रयाम् ।
न च निद्रा त्वया कार्या रत्रौ यदुवृष प्रभो॥२॥

न च व्याख्या त्वया कार्या शास्त्राणां शास्त्रतत्पर ।
न च वादस्त्वया कार्यो वादिभिः सह वृष्णिप॥३॥

त्वं हि योद्धा बलिर्ज्ञाता धनुर्वेदाख्यवेदवित् ।
तथा कुरु यथा वीर नोपहास्या भवेदियम्॥४॥

सात्यकिरुवाच। करिष्यामि वचस्तुभ्यं यथाशक्ति जनार्दन ।
आज्ञा तव जगन्नाथ धार्या यत्नेन मे सदा॥५॥

भृत्यवत्प्रचरिष्यामि कामपालस्य माधव ।
यावदागमनं तुभ्यं तावत्स्थास्यामि यत्नतः॥६॥

कामपालस्य बलरामस्य॥६॥

प्रसादस्तव गोविन्द यदि स्यान्मयि माधव ।
किं नाम मे च दुःसाध्यं शत्रूणां निग्रहे रणे॥७॥

यदि शक्रं यमं वापि कुबेरमपि पाशिनम् ।
सर्वानेतान्विजेष्यामि किमु पौण्ड्रं नृपोत्तमम्॥८॥

पाशिनं वरुणम्॥८॥

गच्छ कार्यं कुरुष्वेदं यत्तोऽहं सततं हरे ।
उद्धवं पुनराहेदं कृष्णः पद्मनिभेक्षणः॥९॥

शृणूद्धव त्वं वाक्यं मे कुर्यास्त्वेतत्प्रयत्नवान् ।
रक्ष्या नयेन राजेन्द्र पुरी द्वारवती त्वया॥१०॥

यत्तो भव सदा तात कुरु साहय्यमत्र नः ।
लज्जा मम समुत्पन्ना वदतस्तव साम्प्रतम्॥११॥

त्वं हि नेता समस्तस्य विद्यापारस्य सर्वतः ।
को नु शक्ष्यति मेधावी वक्तुं विद्यावतः पुरः॥१२॥

यत्कार्यं तद्भवान्वेत्ति ह्यकार्यं चापि सर्वतः ।
अतोऽहं विरमे तात वक्तुं सम्प्रति वृष्णिप॥१३॥

उद्धव उवाच। किमिदं तव गोविन्द वर्तते मां प्रति प्रभो ।
अहो प्रसन्नता मह्यं किं तु प्रीतिरियं तव॥१४॥

किमिदं वाक्यम्॥१४॥

जानाम्यहं जगन्नाथ प्रसादस्यैष विस्तरः ।
यस्य प्रसन्नो भवति तस्य किं नास्ति केशवः॥१५॥

त्वं हि सर्वस्य जगतः कर्ता हर्ता प्रधानतः ।
प्रभवः सर्वकार्याणां वक्ता श्रोता प्रमाणवित्॥१६॥

ध्याता ध्यानमयो ध्येय इति ब्रह्मविदो विदुः ।
जेता देवरिपूणां च गोप्ता नाकसदां भवान्॥१७॥

त्वन्नाथा वयमेवेति जीवामो निहतद्विषः ।
इयं नीतिरहं मन्ये नेता नीतेर्यतो भवान्॥१८॥

को नु नाम नयो वेद त्वां विना साम्प्रतं वद ।
नीतिस्त्वं सर्वकार्याणामिति मे निश्चिता मतिः॥१९॥

हे वेदमन्त्रमूर्ते नीतिः नीतिप्रदर्शकः॥१९॥

दुर्गाढो नयमार्गोऽयमित्याहुस्तद्विदो जनाः ।
चतुर्धा प्रोच्यते नीतिः सामदाने जनार्दन॥२०॥

दण्डो भेदो मनुष्याणां निग्रहावग्रहे सदा ।
दण्ड्येषु दण्डमिच्छन्ति सामान्यं तु नये हरे॥२१॥

निग्रहावग्रहे क्रमेण स्वस्य अन्येन रोधे स्वेन वान्यस्य रोधे सिद्धे सति दण्ड्येषु दुर्बलेषु नयसमतायां सामान्यं सामैव॥२१॥

बलवत्स्वथ दानं तु त्रयाणामप्यगोचरे ।
प्रयोक्तव्यो महाभेद इति नीतिमतां मतम्॥२२॥

बलवत्सु दानं त्रयाणामप्यगोचरे अविषये शत्रौ भेदः प्रयोक्तव्यः॥२२॥

तेषु तेष्वथ सर्वेषु प्रमाणं त्वां विदुर्बुधाः ।
किमत्र बहुनोक्तेन सर्वं त्वयि समर्पितम्॥२३॥

वैशम्पायन उवाच। इत्युक्त्वा विररामैव उद्धवो नीतिमत्तरः ।
ततः स भगवान्विष्णुरेवमेव नृपोत्तम॥२४॥

कामपालं महाबाहुमुवाच यदुसंसदि ।
उग्रसेनं नृपं राजंस्तथा हार्दिक्यमेव च॥२५॥

कामपालं पुनर्विष्णुरिदं प्रोवाच तत्त्ववित् ।
न प्रमादस्त्वया कार्यः सर्वदा यत्नवान्भव॥२६॥

स्थिते त्वयि महाबाहो का पीडा जगतो भवेत् ।
गदी भव सदा त्वार्य न क्रीडा सर्वदा भवेत्॥२७॥

रक्ष त्वं सर्वदा यत्नात्पुरीं द्वारवतीं प्रभो ।
नोपहास्या यथा स्याम तथा कुरु गदी भव॥२८॥

उत्साहः सर्वदा कार्यो निरुत्साहो न यत्नतः ।
बाढमित्यब्रवीद्रामः कृष्णं वृष्णिकुलोद्भवम्॥२९॥

वृष्णयः सर्व एवैते स्वं स्वं सद्म समाययुः ।
गन्तुमैच्छज्जगन्नाथः कैलासं पर्वतोत्तमम्॥३०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां पञ्चसप्ततितमोऽध्यायः॥७५॥
श्रीकृष्णस्य बदरिकाश्रमगमनम्

वैशम्पायन उवाच। ततः सञ्चिन्तयामास गरुडं पक्षिपुङ्गवम् ।
आगच्छ त्वरितं तार्क्ष्य इति विष्णुर्जगत्पतिः॥१॥

ततः समिति॥१॥

ततः स भगवांस्तार्क्ष्यो वेदराशिरिति स्मृतः ।
बलवान्विक्रमी योगी शास्त्रनेता कुरूद्वह॥२॥

यज्ञमूर्तिः पुराणात्मा साममूर्धा च पावनः ।
ऋग्वेदपक्षवान्पक्षी पिङ्गलो जटिलाकृतिः॥३॥

ताम्रतुण्डः सोमहरः शक्रजेता महाशिराः ।
पन्नगारिः पद्मनेत्रः साक्षाद्विष्णुरिवापरः॥४॥

वाहनं देवदेवस्य दानवीगर्भकृन्तनः ।
राक्षसासुरसङ्घानां जेता पक्षबलेन यः॥५॥

दानवीगर्भकृन्तनः यद्दर्शनमात्राद्दानवानां गर्भा नश्यन्तीत्यर्थः॥५॥

प्रादुरासीन्महावीर्यः केशवस्याग्रतस्तदा ।
जानुभ्यामपतद्भूमौ नमो विष्णो जगत्पते॥६॥

नमस्ते देवदेवेश हरे स्वामिन्निति ब्रुवन् ।
पस्पर्श पाणिना कृष्णः स्वागतं तार्क्ष्यपुङ्गवम्॥७॥

इत्युवाच तदा तार्क्ष्यं यास्ये कैलासपर्वतम् ।
शूलिनं द्रष्टुमिच्छामि शङ्करं शाश्वतं शिवम्॥८॥

बाढमित्यब्रवीत्तार्क्ष्य आरुह्यैनं जनार्दनः ।
तिष्ठध्वमिति होवाच यादवान्पार्श्ववर्तिनः॥९॥

ततो ययौ जगन्नाथो दिशं प्रागुत्तरां हरिः ।
रवेण महता तार्क्ष्यस्त्रैलोक्यं समकम्पयत्॥१०॥

सागरं क्षोभयामास पद्भ्यां पक्षी व्रजंस्तदा ।
पक्षेण पर्वतान्सर्वान्वहन्देवं जनार्दनम्॥११॥

पक्षेण पक्षवातेन पर्वतान् क्षोभयामासेत्यनुषज्यते॥११॥

ततो देवाः सगन्धर्वा आकाशेऽधिष्ठितास्तदा ।
तुष्टुवुः पुण्डरीकाक्षं वाग्भिरिष्टाभिरीश्वरम्॥१२॥

जय देव जगन्नाथ जय विष्णो जगत्पते ।
जयाजेय नमो देव भूतभावनभावन॥१३॥

नमः परमसिंहाय दैत्यदानवनाशन ।
जयाजेय हरे देव योगिध्येय परागत॥१४॥

परागत “सा काष्टा सा परा गतिः” इति श्रुत्युक्तपरगतिस्वरूपः। दैर्घ्यमार्षम्॥१४॥

नारायण नमो देव कृष्ण कृष्ण हरे हरे ।
आदिकर्तः पुराणात्मन्ब्रह्मयोने सनातन॥१५॥

नमस्ते सकलेशाय निर्गुणाय गुणात्मने ।
भक्तिप्रियाय भक्ताय नमो दानवनाशन॥१६॥

अचिन्त्यमूर्तये तुभ्यं नमस्ते सकलेश्वर ।
इत्यादिभिस्तदा देवं वाग्भिरीशानमव्ययम्॥१७॥

तुष्टुवुर्देवगन्धर्वा ऋषयः सिद्धचारणाः ।
शृण्वन्नेवं जगन्नाथः स्तुतिवाक्यानि तानि च॥१८॥

ययौ सार्धं सुरगणैर्मुनिभिर्वेदपारगैः ।
यत्र पूर्वं स्वयं विष्णुस्तपस्तेपे सुदारुणम्॥१९॥

लोकवृद्धिकरः श्रीमाँल्लोकानां हितकाम्यया ।
वर्षायुतं तपस्तप्तं विष्णुना प्रभविष्णुना॥२०॥

यत्र विष्णुर्जगन्नाथस्तपस्तप्त्वा सुदारुणम् ।
द्विधाकरोत्स्वमात्मानं नरनारायणाख्यया॥२१॥

यत्र बदरिकाश्रमे॥२१॥

गङ्गा यत्र सरिच्छ्रेष्ठा मध्ये धावति पावनी ।
यत्र शक्रः स्वयं हत्वा वृत्रं वेदार्थतत्त्वगम्॥२२॥

ब्रह्महत्याविनाशार्थं तपो वर्षायुतं चरत् ।
यत्र सिद्धाश्च सिद्धाः स्युर्ध्यात्वा देवं जनार्दनम्॥२३॥

यत्र हत्वा रणे रामो रावणं लोकरावणम् ।
एतच्छासनमिच्छंश्च तपो घोरमतप्यत॥२४॥

एतत् शासनम् एतां शास्त्राज्ञां शक्रेन कृतां निर्गुणमपि ब्राह्मणं हत्वा ब्रह्महत्याव्रतं चरेदित्येवं इच्छन्पालयितुमपि शेषः॥२४॥

देवाश्च मुनयश्चैव सिद्धिं यान्ति शुचिव्रताः ।
यत्र नित्यं जगन्नाथः साक्षाद्वसति केशवः॥२५॥

यत्र यज्ञाः प्रवर्तन्ते नित्यं मुनिगणैः सह ।
यस्याः स्मरणमात्रेण नरः स्वर्गं गमिष्यति॥२६॥

स्वर्गसोपानमिच्छन्ति यां पुण्यां मुनिसत्तमाः ।
शत्रवो मित्रतां यान्ति यत्र नित्यं नृपोत्तमम्॥२७॥

यामाहुः पुण्यशीलानां स्तानमुत्तमधर्मिणाम् ।
यत्र विष्णुं समाराध्य देवाः स्वर्गं समाययुः॥२८॥

सिद्धक्षेत्रमिदं प्राहुरर्ऋषयो वीतमत्सराः ।
विशालां बदरीं विष्णुस्तां द्रष्टुं सकलेश्वरः॥२९॥

सायाह्ने चामरगणैर्मुनिभिस्तत्त्वदर्शिभिः ।
प्रविवेश महापुण्यमृषिजुष्टं तपोवनम्॥३०॥

अग्निहोत्राकुले काले पक्षिव्याहारसङ्कुले ।
नीडस्तेषु विहङ्गेषु दुह्यमानासु गोषु च॥३१॥

ऋषिष्वप्यथ तिष्ठत्सु मुनिवीरेषु सर्वतः ।
समाधिस्थेषु सिद्धेषु चिन्तयत्सु जनार्दनम्॥३२॥

अधिश्रितेषु हविषु ज्वाल्यमानेषु चाग्निषु ।
हूयमानेषु तत्रैव पावकेषु समन्ततः॥३३॥

अतिथौ पूज्यमाने च सन्ध्याविष्टे जगन्मये ।
स तस्यामथ वेलायां देवैः सह जनार्दनः॥३४॥

विवेश बदरीं विष्णुर्मुनिजुष्टां तपोमयीम् ।
आश्रमस्याथ मध्यं तु प्रविश्य हरिरीश्वरः॥३५॥

गरुडादवरूह्याथ दीपिकादीपिते तदा ।
प्रवेशे पुण्डरीकाक्षः स्थितस्तावत्सहामरैः॥३६॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविश्यपर्वणि कैलासयात्रायां षट्सप्ततितमोऽध्यायः॥७६॥
श्रीकृष्णस्य बदरिकाश्रमे आतिथ्यस्वीकारः

वैशम्पायन उवाच। ततो मुनिगणा दृष्ट्वा देवदेवमुपस्थितम् ।
समाप्य चाग्निहोत्राणि सम्पूज्यातिथिसत्तमान्॥१॥

तत इति॥१॥

मुनयो दीर्घतपसः समाधौ कृतनिश्चयाः ।
जटिनो मुण्डिनः केचिच्छिराधमनिसन्तताः॥२॥

निर्मज्जा नीरसाः केचिद्वेताला इव केचन ।
अश्मकुट्टाशनपराः पर्णभक्षास्तथा परे॥३॥

वेदविद्याव्रतस्नाता निराहारा महातपाः ।
स्मरन्तः सर्वदा विष्णुं तद्भक्तास्तत्परायणाः॥४॥

आसन्नमुक्तयः केचित्केचिद्ध्यानैकतत्पराः ।
ध्यानेन मनसा विष्णुं दृष्टवन्तस्तपोधनाः॥५॥

संवत्सराशिनः केचित्त्केचिज्जलविचारिणः ।
शक्रस्य भयदातारः श्रुतिस्मृतिपरायणाः॥६॥

जलविचारिणः जलवासपराः जलमात्राहारा वा॥६॥

वसिष्ठो वामदेवश्च रैभ्यो धूम्रस्तथैव च ।
जाबालिः काश्यपः कण्वो भरद्वाजोऽथ गौतमः॥७॥

अत्रिरश्वशिरा भद्रः शङ्खः शङ्खनिधिः कुणिः ।
पाराशर्यः पवित्राक्षो याज्ञवल्क्यो महामनाः॥८॥

कक्षीवानङ्गिराश्चैव मुनिर्दीप्ततपास्तथा ।
असितो देवलस्तात वाल्मीकिश्च महातपाः॥९॥

एते चान्ये च मुनयो द्रष्टुमीश्वरमव्ययम् ।
आदायार्घ्यं यथायोगमुटजात्स्वात्समाययुः॥१०॥

ते च गत्वा हरिं कृष्णं विष्णुमीशं जनार्दनम् ।
भक्तिनम्रास्तदा देवं प्रणेमुर्भक्तवत्सलम्॥११॥

नमोऽस्तु कृष्ण कृष्णेति देवदेवेति केशवम् ।
प्रणवात्मञ्जगन्नाथ नताः स्म शिरसा हरे॥१२॥

कृष्ण विष्णो हृषीकेश केशवेति च सर्वदा ।
प्रणामप्रवणा विप्राः प्राहुरित्थं जगत्पतिम्॥१३॥

इदमर्घ्यमिदं पाद्यमिदं विष्टरमेव च ।
कृतार्थाः सर्वदा देव प्रसन्नो नो जगत्पतिः॥१४॥

किं कुर्मः किं नु नः कृत्यं कश्चिद्रोषः प्रभो हरे ।
इति प्राञ्जलयः सर्वे प्राहुर्देवस्य पश्यतः॥१५॥

कृष्णोऽपि तद्यथायोगमुपयुज्य सहामरैः ।
कृतं सर्वं मुनिवरा वर्धतां तप उत्तमम्॥१६॥

इति ब्रुवन्पुराणात्मा प्रीतस्तेन गरुत्मता ।
आसनं लम्भयामास रात्रौ देवो जनार्दनः॥१७॥

कुशलं पृष्टवान्भूया मुनीनां भावितात्मनाम् ।
अग्निहोत्रेषु तपसि तथा भृत्येषु सर्वतः॥१८॥

एवमादि जगन्नाथः पृष्टवानीश्वरस्तदा ।
सर्वत्र कुशलं तेऽत्र ब्रूयुः कृष्णस्य सर्वतः॥१९॥

आतित्थ्यं चक्रिरे ते तु नीवारैः फलमूलकैः ।
देवानामथ सर्वेषां विष्णोः कृष्णस्य यत्नतः ।
आतिथ्यमुपयुञ्जानस्ततः प्रीतोऽभवद्धरिः॥२०॥

॥इति श्रीमहाभारते खिलेषु हरिवंषे भविष्यपर्वणि कैलासयात्रायां सप्तसप्ततितमोऽध्यायः॥७७॥
श्रीकृष्णस्य समाधिः कोलाहलश्च

वैशम्पायन उवाच। ततः स भगवान् विष्णुर्दुर्विज्ञेयगतिः प्रभुः ।
तत्र पूर्वं तपस्तप्तमात्मना यादवेश्वरः॥१॥

तत इति॥१॥

गङ्गायाश्चोत्तरे तीरे देशं द्रष्टुमुपागतः ।
स्वयमेव हरिः साक्षात्प्रविवेश तपोवनम्॥२॥

प्रविश्य सुचिरं देशं ददर्श च मनोरमम् ।
निषसाद ततस्तस्मिन्नाश्रमे पुण्यवर्द्धनः॥३॥

समाधौ योजयामास मनः पद्मनिभेक्षणः ।
किमप्येष जगन्नाथो ध्यात्वा देवेश्वरः स्थितः॥४॥

स्थिते देवगुरौ तत्र समाधौ दीपवद्धरौ ।
तत्र शब्दो महाघोरः प्रादुरासीत्समन्ततः॥५॥

खाद खादत मोदेत यात यात मृगानिमान् ।
प्रेषयेह पुनः सर्वान्प्रसादाच्छार्ङ्गधव्ननः॥६॥

एष विष्णुरयं कृष्णो हरिरीश इतोऽच्युतः ।
नमोऽस्तु विष्णो देवेश स्वामिन्माधव केशव॥७॥

इत्यादिशब्दः सुमहानाविरासित्तदा निशि ।
ततश्च सुमहानादः सिंहानां मृगविद्द्विषाम्॥८॥

धावतां च शुनां राजन्मृगाणां विनर्दताम् ।
मृगाणां भीतियुक्तानामृक्षाणां द्वीपिनां तथा॥९॥

गजानां नदतां राजन्बृंहितं च ततस्ततः ।
महावातसमुद्भूतक्षुभितस्येव वारिधेः॥१०॥

नादस्त्रैलोक्यवित्रासः प्रादुरासीत्तदा निशि ।
श्रुत्वा शब्दं हरिर्देवस्तादृशं तत्र धिष्ठितः॥११॥

समाधिक्षोभमासाद्य विश्वस्य च जगत्पतिः ।
ततः स चिन्तयामास कोऽयमेष महास्वनः॥१२॥

कस्यायमीदृशः शब्दः स्तुतियुक्तो मम त्विति ।
अहोऽस्मिन्मृगया शब्दः शुनां सञ्चरतां वने॥१३॥

मृगाणामथ सर्वेषां नादश्च सुमहानयम् ।
व्यामिश्रस्तुतियुक्ताभिर्वाग्भिर्मम समन्ततः॥१४॥

इति सञ्चिन्त्य मनसा दिशो विप्रेक्ष्य सर्वतः ।
तत आस्ते हरिस्तत्र ज्ञातुं तत्र समुद्भवम्॥१५॥

ततो मृगाः समाधावन्यत्र तिष्टति केशवः ।
तांश्चैवानुचरो राजन्सगणः समपद्यत॥१६॥

अथ वै दीपिका राजञ्छतशोऽथ सहस्रशः ।
ततस्तस्मोऽपि व्यनशद्दिवेव समपद्यत॥१७॥

ततोनु भूतसङ्घाश्च समदृश्यन्त तत्र ह ।
पिशाचाश्च महाघोरा नर्दन्तो बहु विस्वनम्॥१८॥

भक्षयन्तोऽथ पिशितं पिबन्तो रुधिरं बहु ।
प्रादुरासन्महाघोराः पिशाचा विकृताननाः॥१९॥

हन्यमाना हता राजन्पतन्तः पतिता मृगाः ।
इतश्चेतश्च धावन्तो बाणैर्विद्धा मृगा द्विपः॥२०॥

ततो मृगसहस्राणि समिदीर्णानि भारत ।
यत्रासौ तिष्ठते देवस्तत्र याता निरन्तरम्॥२१॥

अन्तरीकृत्य देवेशं स्थितानीत्यनुशुश्रुम ।
पिशाच्यो विकृताकाराः कराला रोमहर्षणाः॥२२॥

पुत्रवत्यः समापेतुर्यत्र तिष्ठति केशवः ।
श्वगणस्तत्र राजेन्द्र चरत्येव ततस्ततः॥२३॥

ततः स भगवान्विष्णुः सर्वमालोक्य विष्ठितः ।
विस्मयं परमं गत्वा पश्यन्नास्ते स्म केशवः॥२४॥

कस्यैष विसृतो नादः कस्य वायं जनोऽपतत् ।
को नु मां स्तौति भक्त्या वै भविष्ये प्रीतिमानहम्॥२५॥

कस्य मुक्तिः समायाता प्रीते मयि सुदुर्लभा ।
इति सञ्चिन्त्य भगवानास्ते प्राकृतवद्धरिः॥२६॥

॥इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां अष्टसप्ततितमोऽध्यायः॥७८॥
पिशाचागमनम्

वैशम्पायन उवाच। तेषामनु महाघोरौ पिशाचौ विकृताननौ ।
प्रांशू पिङ्गलरोमाणौ दीर्घजिह्वौ महाहनू॥१॥

तेषामन्विति॥१॥

लम्बकेशौ विरूपाक्षौ ही ही हा हेति वादिनौ ।
खादन्तौ मांसपिटकं पिबन्तौ रुधिरं बहु॥२॥

मांसस्य पिटकं मञ्जूषामिव परस्य शरीरमित्यर्थः॥२॥

अन्त्रवेष्टितसर्वाङ्गौ दीर्घौ कृशकृतोदरौ ।
लम्बमानमहाप्रान्तशूलप्रोतशिरोधरौ॥३॥

लम्बमानं च महाप्रान्तं च तत् शूलं च तत्र प्रोतानि शिरोधराणि याभ्यां तौ। नृमुण्डमालासंयुक्तशूलधारिणावित्यर्थः॥३॥

कर्षन्तौ शवयूथानि बाहुभ्यां तत्र तत्र ह ।
हसन्तौ विविधं हासं स्वजातिसदृशं नृप॥४॥

वदन्तौ बहुरूपाणि वचांसि प्राकृतानि च ।
कम्पयन्तौ महावृक्षानूरुपादप्रघट्टनैः॥५॥

सृक्किणी लेलिहन्तौ च दन्तान्कटकटायिनौ ।
अस्थिस्नायुसमाकीर्णौ धमनीरज्जुसन्ततौ॥६॥

वदन्तौ कृष्ण कृष्णेति माधवेति च सन्ततम् ।
कदा नु द्रक्ष्यते विष्णुः स इदानीं क्व तिष्ठति॥७॥

स्वामिनः कुत्र वसतिः कुतो द्रष्टुं यतामहे ।
अत्र वा कुत्र देवेशः कुतो नु स्थास्यते हरिः॥८॥

कुतः पद्मपलाशाक्षः साक्षादिन्द्रानुजो हरिः ।
यमाहुः पुण्डरीकाक्षं ब्रह्म ब्रह्मविदो जनाः॥९॥

तमजं पुरुषं विष्णुं द्रष्टुमभ्युध्यता वयम् ।
अन्तकाले जगन्नाथं प्रविवेश जगत्त्रयम्॥१०॥

तमजं विश्वकर्तारं कुतो द्रक्ष्याम साम्प्रतम् ।
यस्य विस्तार एवैष लोकः प्राणिनिवासिनः॥११॥

तं द्रष्टुं देवमीशानं यतामः साम्प्रतं हरिम् ।
दशा घोरतमा लोके विद्विष्टा सर्वजन्तुभिः॥१२॥

पैशाचीयं समुत्पन्ना कथं नौ प्राविशद्बलात् ।
नरमांसास्थिकलुषा सर्वभीतिप्रदायिनी॥१३॥

अहो नौ दुष्कृतं कर्म प्राक्तने कर्मसञ्चये ।
अत्रैव महती प्रीतिर्वर्तते सर्वदा तथा॥१४॥

यावन्नौ दुष्कृतं कर्म तावत्स्थास्यति तादृशी ।
दशा सा सर्वविद्विष्टा प्राणिपीडनकारिणी॥१५॥

सर्वथा दुष्कृतं कर्म बहुभिर्जन्मसञ्चयैः ।
तथा हि तत्फलं घोरमद्यापि न निवर्तते॥१६॥

यताः स्म प्राणिनो हन्तुं श्वगणैः सह साम्प्रतम् ।
तथाहि प्राणिनो लोके बाल्यमादौ समास्थिताः॥१७॥

अज्ञानावृतचित्ताश्च कृत्याकृत्यं न जानते ।
तथा यौवनिनो भ्रान्ता विषयैर्बहुलीकृताः॥१८॥

यतन्ते श्रेयसे नैव ततो विषयसंस्थिताः ।
विषयाविष्टचित्ता हि मनुष्या न विजानते॥१९॥

तथा च वृद्धभावे तु व्याधिभिर्बहुभिर्वृताः ।
ज्वरादिभिर्महाघोरैर्नानादुःखविधायिभिः॥२०॥

यतन्ते न हि वै श्रेयो विनष्टेन्द्रियगोचराः ।
ततो मृता गर्भवासे वसन्ति सततं नराः॥२१॥

श्रेयः श्रेयसे। विनष्टेन्द्रियगोचराः इतस्ततो भ्रममाणानामिन्द्रियणां वशगा इत्यर्थः॥२१॥

विण्मूत्रकलिले घोरे दुःखैर्बहुभिराचिताः ।
च्यवन्ते तु ततो घोराद्गर्भात्संसारमण्डले॥२२॥

परस्परं विहिंसन्तः कुर्वन्तः कर्मसञ्चयम् ।
महत्येवं सदा घोरे संसारे दुःखसङ्कुले॥२३॥

पापानि बहुरूपाणि कुर्वतेऽज्ञानतस्तदा ।
संसारस्यैष महिमा विस्तृतः सर्वजन्तुषु॥२४॥

अच्छेद्यः शस्त्रसम्पातैरुपायैर्बहुभिः सदा ।
एतस्मान्न निवर्तन्ते मर्त्याः प्राकृतबुद्धयः॥२५॥

प्राकृतबुद्धयः देहात्मवादिनः॥२५॥

इमं हत्वा मनुष्येन्द्रमिदमस्माद्धराम्यहम् ।
चोरयित्वा धनमिदं हरिष्याम्याददाम्यहम्॥२६॥

निर्भर्त्स्यैनमिमं शान्तं हरिष्यामि धनं बली ।
इत्यादिव्याकुला मूर्खा यतन्ते प्राणिपीडनम्॥२७॥

पीडनं कर्तुम्॥२७॥

अस्यैव दुःखमूलस्य संसारस्य सदा हरिः ।
भेषजं सर्वथा देवः शङ्खचक्रगदाधरः॥२८॥

आदिदेवः पुराणात्मा आत्मा ब्रह्मविदां सदा ।
ते वयं सर्वयत्नेन द्रक्ष्यामः सर्वथा हरिम् ।
इत्थं पिशाचौ भाशन्तौ प्रादुरास्तां हरेः पुरः॥२९॥

॥इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायामेकोनाशीतितमोऽध्यायः॥७९॥
घण्टाकर्णकृता विष्णुस्तवप्रार्थना तस्य समाधिलाभश्च

वैशम्पायन उवाच। ततः स भगवान्विष्णुः पिशाचौ मांसभक्षकौ ।
ददर्शाथ महाघोरौ दीपिकाधारिणौ हरिः॥१॥

तत इति। दीपिकाधरिणौ तदानीं रात्रे सत्वात्॥१॥

विलोकयाञ्चक्रतुस्तौ पिशाचौ देवकीसुतम् ।
स्थितं सुखासने विष्णुं दृष्ट्वा लोकेश्वरेश्वरम्॥२॥

तौ च गत्वा समुद्देशं पिशाचौ केशवस्य ह ।
ततस्तावूचतुर्विष्णुमन्तरीकृत्य केशवम्॥३॥

अन्तरीकृत्य केशवम् अप्यकेशवीकृत्य॥३॥

को भवान् कस्य वा मर्त्यः कुतश्चागम्यते त्वया ।
किमर्थमिह सम्प्राप्तो वने घोरे मृगाकुले॥४॥

निर्मनुष्ये द्वीपिवृते पिशाचगणसेविते ।
श्वापदैः सेव्यमाने च विपिने व्याघ्रसङ्कुले॥५॥

सुकुमारोऽनवद्याङ्गः साक्षाद्विष्णुरिवापरः ।
पद्मपत्रेक्षणः श्यामः पद्माभः श्रीपतिः स्वयम्॥६॥

अस्मत्प्रीतिकरः साक्षात्प्राप्तो विष्णुरिवापरः ।
देवो वा यदि वा यक्षो गन्धर्वः किन्नरोऽपि वा॥७॥

इन्द्रो वा धनदो वापि यमोऽथ वरुणोऽपि वा ।
एकाकी विपिने घोरे ध्यानार्पितमना इव॥८॥

ब्रूहि मर्त्यं यथातत्त्वं ज्ञातुमिच्छामि मानद ।
एवं पृष्टः पिशाचाभ्यामाह विष्णुरुरुक्रमः॥९॥

हे मर्त्येति सम्बोधनम्। अन्तरीकृतत्वादेव॥९॥

क्षत्रियोऽस्मीति मामाहुर्मनुष्याः प्रकृतिस्थिताः ।
यदुवंशे समुत्पन्नः क्षात्रं वृत्तमनुष्ठिताः॥१०॥

लोकानामथ पातास्मि शास्ता दुष्टस्य सर्वदा ।
कैलासं गन्तुकामोऽस्मि द्रष्टुं देवमुमापतिम्॥११॥

इत्येवं मम वृत्तान्तः कथ्यतां कौ युवामिति ।
युवामिह समायातौ किमर्थं ब्राह्मणाश्रमम्॥१२॥

एषा हि महती पुण्या नानाविप्रनिषेविता ।
बदरीयं समाख्याता न क्षुद्रैराश्रिता क्वचित्॥१३॥

तपस्विभिस्तपोयुक्तैर्जुष्टा सिद्धनिषेविता ।
श्वगणा नात्र दृश्यन्ते पिशाचा मांसभोजनाः॥१४॥

न हन्तव्या मृगाश्चात्र मृगया नात्र वर्तते ।
न तु क्षुद्रैः प्रवेष्टव्या न कृतघ्नैर्न नास्तिकैः॥१५॥

अहमस्य तु देशस्य रक्षिता नात्र संशयः ।
व्यतिक्रमो यदि भवेत्तस्य शास्तास्मि यत्नतः॥१६॥

कौ भवन्तौ क्व नु युवां कस्येयं महती चमूः ।
नातः परं प्रवेष्टव्यमृषयस्त्वत्र संस्थिताः॥१७॥

विघ्नस्तत्र प्रवर्तेत तपःसु च तपस्विनाम् ।
इहैव स्थीयतां तावद्वक्तव्यं च ततः सुखम्॥१८॥

अन्यथाहं निषेद्धा स्यां बलाद्वाक्यैस्तथैव च ।
वैशम्पायन उवाच। एवं पृष्टौ पिशाचौ तु वक्तुमेवोपचक्रतुः॥१९॥

तयोरेको महाघोरः पिशाचो दीर्घबाहुकः ।
उवाच वचनं तत्र यथा हृदि समर्पितम्॥२०॥

पिशाच उवाच। श्रूयतामभिधास्यामि समाहितमना भव ।
नमस्कृत्य जगन्नाथं हरिं कृष्णं जगत्पतिम्॥२१॥

आदिदेवमजं विष्णुं वरेण्यमनघं शुचिम् ।
वक्ष्यामि सकलं यद्वत्तया शृणु यदीच्छसि॥२२॥

घण्टाकर्णोऽस्मि नाम्नाहं पिशाचो घोरदर्शनः ।
मांसादो विकृतो घोरः साक्षान्मृत्युरिवापरः॥२३॥

धनदस्यानुगन्ताहं साक्षाद्रुद्रसखस्य च ।
ममायमनुजः साक्षादन्तकस्यान्तको ह्यहम्॥२४॥

अनुगता अनुचरः॥२४॥

मृगयेयं सुमहती विष्णोः पूजार्थमित्युत ।
ममेयं वर्तते सेना श्वगणोऽपि ममैव तु॥२५॥

आगतोऽहं महाशैलात्कैलासाद्भूतसेवितात् ।
अहं पिशाचवेषेण संविष्टः पापकर्मकृत्॥२६॥

सततं दूषयन्विष्णुं घण्टामाबध्य कर्णयोः ।
मम न प्रविशेन्नाम विष्णोरिति विचिन्तयन्॥२७॥

अहं कैलासनिलयमासाद्य वृषभध्वजम् ।
आराध्य तं महादेवमस्तुवं सततं शिवम्॥२८॥

ततः प्रसन्नो मामाह वृणीश्वेति वरं हरः ।
ततो मुक्तिर्मया तत्र प्रार्थिता देवसन्निधौ॥२९॥

मुक्तिं प्रार्थयमानं मां पुनराह त्रिलोचनः ।
मुक्तिप्रदाता सर्वेषां विष्णुरेव न संशयः॥३०॥

तस्माद्गत्वा च बदरीं तत्राराध्य जनार्दनम् ।
मुक्तिं प्राप्नुहि गोविन्दान्नरनारायणाश्रमे॥३१॥

इत्युक्तो देवदेवेन शूलिना ज्ञातवानहम् ।
तमेव परमं मत्वा गोविन्दं गरुडध्वजम्॥३२॥

तस्मात्प्रार्थयमानः सन्मुक्तिदेशममुं गतः ।
अन्यच्च शृणु मे कार्यं यदि कौतूहलं तव॥३३॥

पुरी द्वारवती नाम पश्चिमस्योदधेस्तटे ।
यदुवृष्णिसमाकीर्णां सागरोर्मिसमाकुलाम्॥३४॥

अध्यास्ते स हरिर्विष्णुस्तां पुरीं पुरुषोत्तमः ।
द्रष्टुं लोकहितार्थाय वसन्तं द्वारकापुरे॥३५॥

निर्गतः साम्प्रतं मर्त्यं वयमेतैः सहानुगैः ।
विष्णुः सर्वेश्वरः साक्षाद्द्रष्टव्योऽस्माभिरद्य वै॥३६॥

लोकानां प्रभवः पाता कर्ता हर्ता जगत्पतिः ।
आदिः स हि समस्तस्य प्रभवः कारणं हरिः॥३७॥

कर्ता समस्तस्य हरिः पुरातनः प्रभुः प्रभूणामपि यः सदात्मकः ।
तमादिदेवं वरदं वरेण्यं द्रष्टुं हरिं सम्प्रति संयताः स्मः॥३८॥

यस्य प्रसादाज्जगदेवमासीत्सप्राणिगन्धर्वमहोरगौघम् ।
देवं जगद्योनिमजं जनार्दनं द्रष्टुं हरिं सम्प्रति संयताः स्मः॥३९॥

यस्योदयाद्विश्वमिदं प्रभूतं लयं च तस्मिन्समुपैति कल्पे ।
तस्यैव साक्षाद्वशवर्ति विश्वं द्रक्ष्याम देवं पुरुषोत्तमं हरिम्॥४०॥

स्रष्टा च योऽसौ सकलस्य देवः पाता च हर्ता च हरिः स एव ।
द्रक्ष्याम नित्यं भुवनेश्वरं हरिं पुराणमाद्यं प्रभविष्णुमव्ययम्॥४१॥

अजस्य कर्ता भुवनस्य गोप्ता भुवश्च कर्ता हरिरेक एव ।
तं योगिनो योगविशुद्धबुद्धिं लभेम तेनैव मतिः समाकुला॥४२॥

तेनैव दूषितेन विष्णुना हेतुभूतेन तस्य द्वेषादेव मे मतिः समाकुला जातेत्यर्थः॥४२॥

निगीर्य विश्वं सकलं जगत्पतिः शेते शिशुत्वं समवाप्य साक्षात् ।
वटस्य पत्रे जगतां निवासः पादौ च विक्षिप्य करौ विधुन्वन्॥४३॥

यस्योदरे देवमुनिः पुरातनो ददर्श लोकानखिलान्स मायया ।
प्रविश्य विश्वं सकलं यथावद्बहिर्यथा भूतमभूदिदं महत्॥४४॥

देवमुनिर्मार्कण्डेयः॥४४॥

निगीर्य विश्वं जगदादिकाले शेते महात्मा जलधेर्जलौघे ।
देव्या श्रिया चामरलोलहस्तत्या निषेव्यमाणः पुरुषोत्तमस्तदा॥४५॥

नाभश्च यस्याविरभूत्सपत्रं पद्मं महत्काञ्चनसप्रभं प्रभोः ।
जन्मास्पदं लोकगुरोर्यदासीद्विस्तारि पद्मं जगदादिसृष्टौ॥४६॥

दधार यो भूतपतिर्महान्महीं दंष्ट्राग्रसंस्थापितरूढमूलाम् ।
नदन्महामेघ इवादिकाले कुर्वन्वराहो मुनिगीतमूर्तिः॥४७॥

हरिः पुराणः पुरुषोत्तमः प्रभुः कर्ता समस्तस्य समस्तसाक्षी ।
यज्ञात्मको यज्ञपतिर्जगत्पतिर्द्रष्टुं तमीशं वयमुद्यताः स्मः॥४८॥

केचिद्बहुत्वेन वदन्ति देवमेकात्मना केचिदिमं पुराणम् ।
वेदान्तसंस्थापितसत्त्वयुक्तं द्रष्टुं तमीशं वयमुद्यताः स्मः॥४९॥

केचित् याज्ञिकाः बहुत्वेन इन्द्रादिरूपेण एकात्मना ऐक्येन उपासकाः। वयं तु प्रत्यगभेदेन द्रष्टुमिच्छाम इत्यर्थः॥४९॥

अनेकमेके बहुधा वदन्ति श्रुतिस्मृतिन्यायनिविष्टचित्ताः ।
आहुर्यमात्मानमजं पुराविदो द्रष्टुं तमीशं वयमुद्यताः स्मः॥५०॥

यं प्रहुरीड्यं वरदं वरेन्यमेकान्ततत्त्वं मुनयः पुरातनाः ।
यं सर्वगं देवमजं जनार्दनं द्रष्टुं हरिं सम्प्रति संयताः स्मः॥५१॥

यस्मिन्विश्वमिदं प्रोतमादिकाले जगत्पिता ।
तं द्रष्टुमभिसंवृत्ताः किं नु वक्ष्याम साम्प्रतम्॥५२॥

गच्छामो वयमन्यत्र गच्छ त्वं काममन्यतः ।
नियमोऽप्यस्ति नो मर्त्य यथेष्टं गच्छ साम्प्रतम्॥५३॥

रात्रिमध्यमनुप्राप्तं नात्र कार्या विचारणा ।
इत्युक्त्वा घोररूपोऽसौ पिशाचो विकृताननः॥५४॥

तस्मिन्नेव समे देशे पीत्वा च रुधिरं बहु ।
भक्षयित्वा यथाकामं मांसराशिं विचक्षणः॥५५॥

अपः संस्पृश्य तत्रैव पार्श्वे संस्थाप्य साधनम् ।
अन्त्रपाशं महाघोरं संस्थाप्य विपुलं महत्॥५६॥

आसनं कुशसंयुक्तं कृत्वा चाभ्युक्ष्य वारिणा ।
उत्सार्य श्वगणान्सर्वान्यत्नेन महता तदा॥५७॥

सुखासनं समास्थाय समधौ यतते श्वपः ।
एकचित्तस्तदा भूत्वा नमस्कृत्य च केशवम् ।
इमं मन्त्रं पठन्घोरः पिशाचो भक्तवत्सलम्॥५८॥

नमो भगवते तस्मै वासुदेवाय चक्रिणे ।
नमस्ते गदिने तुभ्यं वासुदेवाय धीमते॥५९॥

ओं नमो नारायणाय विष्णवे प्रभविष्णवे ।
मम भूयान्मनःशुद्धिः कीर्तनात्तव केशव॥६०॥

जन्मेदमीदृशं घोरं मा भून्मम दुरासदम् ।
देवदूतो भविष्यामि स्मरणात्तव गोपते॥६१॥

तव चक्रप्रहारेण कायो नश्यतु मामकः ।
मम भूयो भावो मा भूदेषा मे प्रार्थना विभो॥६२॥

अर्थिनां कल्पवृक्षोऽसि दाता सर्वस्य सर्वदा ।
यत्र यत्र भवेज्जन्म तत्र तत्र भवान्हृदि॥६३॥

वर्ततां मम देवेश प्रार्थनैषा ममापरा ।
नमस्तुभ्यं नमस्तुभ्यं भवत्वेवं सदा मम॥६४॥

निर्विघ्ना प्रार्थना देव नमस्तेऽस्तु सदा मम ।
यदा मे मरणं भूयात्तद मा भूत्स्मृतिभ्रमः॥६५॥

दिने दिने क्षणं चित्तं त्वयि संस्थं भविष्यति ।
एवं प्रेरय मां देव मा भूत्ते चित्तमीदृशम्॥६६॥

नृशंसोऽयं पिशाचोऽयं दयास्मिन्का भवेदिति ।
एवं चिन्तय मां देव भृत्यो मह्यमिति प्रभो॥६७॥

परपीडा न मत्तोऽस्तु नमस्ते भगवन्प्रभो ।
इन्द्रियाणीन्द्रियार्थेषु मा भूवन्साम्प्रतं हि मे॥६८॥

इन्द्रियार्थेषु शब्दादिषु प्रसक्तानीति शेषः॥६८॥

अन्तकाले ममाप्येवं प्रसादात्तव केशव ।
पृथिवी यातु मे घ्राणं रसनां यातु मे पयः॥६९॥

सूर्यश्च यातु मे चक्षुः स्पर्शं यातु च मारुतः ।
श्रोत्रमाकाशमप्येतु मनः प्राणं च गच्छतु॥७०॥

जलं मां रक्षतां नित्यं पृथिवी रक्षतां हरे ।
सुर्यो मां रक्षतां विष्णो नमस्ते सूर्यतेजसे॥७१॥

वायुर्मां रक्षतां दुःखादाकाशं च जनार्दन ।
न मनः सर्वगं देव रक्षतां विषयान्तरे॥७२॥

सर्वगं परमात्मगतं मम मनः कर्तृ। विषयान्तरे विषयः शब्दादिः अन्तरः भेदः ते उभे कर्मणि न रक्षतां विषयप्रवणं भेदबुद्धिहरं च मनो मा भूदित्यर्थः॥७२॥

मनो विपर्यये घोरे पुरुषान्हन्ति नित्यशः ।
पापेषु योजयेत्पुंसः परपीडात्मकेषु च॥७३॥

अन्यथा दोषमाह- मन इति। विपर्यये विषयादिप्रावण्ये॥७३॥

मनस्तद्रक्षतां देव भूयो भूयो जनार्दन ।
मा भून्मनसि कालुष्यं मनो मे निर्मलं भवेत्॥७४॥

कलुषं तस्य यच्चित्तं नरके पातयत्यमुम् ।
बाह्यानि निर्मलान्येवमिन्द्रियाणि भवन्त्युत॥७५॥

न तानि कार्यवन्तीह मनश्चेत्कलुशं भवेत् ।
नाङ्गानि मुष्टिनामेध्यं गृहीत्वा यो व्यवस्थितः॥७६॥

नाङ्गनीति सार्धः॥७६॥

बहिः प्रक्षालनं कुर्वन्किं भवेत्तस्य केशव ।
व्यर्थो हि केवलं तस्य प्रग्रहो बाह्यगोचरः॥७७॥

प्रग्रहः शुद्ध्यर्थमाग्रहः॥७७॥

तस्मात्सर्वप्रयत्नेन चित्तं रक्ष जनार्दन ।
बलवानिन्द्रियग्रामो वारयैनं जनार्दन॥७८॥

परीवादाज्जगन्नाथ वाचं रक्ष दुरुद्वहाम् ।
परद्रव्यान्मनो रक्ष परदाराज्जनार्दन ।
सर्वत्र मे दया भूयात्प्रसादात्तव केशव॥७९॥

त्वय्येव भक्तिरचला भूयाद्भूतेषु मे दया ।
बहुनात्र किमुक्तेन शृणुश्वेदं वचो मम॥८०॥

सुखे दुःखे च रागे च भोजने गमने तथा ।
जाग्रत्स्वप्नेषु सर्वत्र त्वय्येव रमतां मनः॥८१॥

मामकं देवदेवेश नमस्तेऽस्तु जनार्दन ।
इति ब्रुवन्घोरतमो जात्या हीनो न चित्ततः॥८२॥

पिशाचो भगवद्भक्तः समाधिं समपद्यत ।
दृढं बद्ध्वात्मनः कायमान्त्रपाशेन मांसपः॥८३॥

मांसपः मांसभक्षकः। पिबतिरत्र भक्षणार्थः॥८३॥

निश्चलेनैव मनसा सुखमास्ते स्म संयतः ।
ध्यायन्हरिं जगद्योनिं विष्णुं पीताम्बरं शिवम्॥८४॥

मुकुन्दमादिपुरुषमेकाकारमनामयम् ।
नित्यं शुद्धं ज्ञानगम्यं कारणं सर्वदेहिनाम्॥८५॥

नासिकाग्रं समालोक्य पठन्ब्रह्म सनातनम् ।
निर्वातस्थो यथा दीपः प्रोच्चरन्प्रणतः सदा॥८६॥

प्रणवं वाचकं मत्वा वाच्यं ब्रह्मेति निश्चितः ।
एकाग्रं सततं कृत्वा चित्तं विष्णौ समर्पितम्॥८७॥

विकल्परहितं चित्तं हृदि मध्ये न्यवेशयत् ।
पुण्डरीके शुभदले समावेश्य जगत्पतिम्॥८८॥

आस्ते सुखं महायोगी पिशिताशस्तदा महान् ।
त्रिधामानं जपंस्तत्र स्मरन्विष्णुं सनातनम्॥८९॥

॥इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां घण्टाकर्णचित्तसमाधौ अशीतितमोऽध्यायः॥८०॥
घण्टाकर्णस्य विष्णुसाक्षात्कारलाभः

वैशम्पायन उवाच। ततः स भगवान्विष्णुः पिशाचं दृष्टवांस्तदा ।
चिन्तयन्तं स्वमात्मानं शुद्धिबुद्धिसमन्वितम्॥१॥

तत इति॥१॥

आत्मन्यवस्थितं साक्षात्पठन्तं प्रणवं सकृत् ।
प्रार्थयन्तं स्वमात्मानमेकान्ते नियतं हरिः॥२॥

अचिन्तयज्जगन्नाथः कारणं पुण्यसञ्चये ।
ध्यात्वा तु सुचिरं विष्णुः कारणं पुण्यकर्मणः॥३॥

धनदस्योपदेशेन पठन्सुबहुशः क्षितौ ।
वासुदेवेति कृष्णेति माधवेति च मां सदा॥४॥

जनार्दन हरे विष्णो भूतभावनभावन ।
नराकार जगन्नाथ नारायण परायण॥५॥

इति मां नामभिर्नित्यं पठत्येव दिवानिशम् ।
स्वपञ्जाग्रांस्तथा तिष्ठन्भुञ्जन्गच्छंस्तथा वदन्॥६॥

भक्षयन्मांसपिटकं पिबञ्च्छोणितमेव वा ।
बाधमानं च सुचिरं हत्वा चापि मृगान्बहून्॥७॥

हनने भोजने चैष जाग्रत्स्वप्ने तथैव च ।
सर्वेष्वपि च कार्येषु कर्ताहमिति मन्यते॥८॥

एतस्य कर्मणः पाक एष घोरस्य कर्मणः ।
निश्चित्यैवं जगन्नाथः प्रीतस्तस्य बभूव ह॥९॥

अदर्शयत्स्वमात्मानमनन्यस्य जगत्पतिः ।
शुद्धेऽन्तःकरणे तस्य पिशाचस्यापि भूमिप॥१०॥

स च घोरः पिशाचोऽपि ददर्शात्मनि केशवम् ।
पीतकौशेयवसनं पद्माक्षं श्यामलं हरिम्॥११॥

आत्मनि हृदयपङ्कजे॥११॥

शङ्खिनं चक्रिणं विष्णुं स्रग्विणं गदिनं विभुम् ।
किरीटिनं कौस्तुभिनं श्रीवत्साच्छादितोरसम्॥१२॥

नीलमेघनिभं कान्तं गरुडस्थं प्रभञ्जनम् ।
चतुर्भुजं शुभगिरं निश्चलं सर्वगं शिवम्॥१३॥

अनादिनिधनं नित्यं मायाविनममायिनम् ।
सत्ययुक्तं सदा शुद्धं बुद्धिगम्यं सदामलम्॥१४॥

मनस्येवं जगन्नाथं दृष्ट्वा विष्णुमनेकधा ।
अनुन्मील्यैव नयने कृतार्थोऽस्मीत्यमन्यत॥१५॥

अथ दृष्टो हरिर्विष्णुः साक्षात्सर्वत्रगः शुभः ।
प्रसन्नो हि हरिर्मह्यं तेनाहं दृष्टवान्हरिम्॥१६॥

सिद्धं मे जन्मनः कृत्यं किमतः कृत्यमस्ति मे ।
ग्रन्थयो मम निर्भिन्ना वश्यान्येवेन्द्रियाणि मे॥१७॥

प्रायेण जितमित्येव मनो मन्ये स्मृते हरौ ।
ईषणा च निरस्ता मे प्रसन्नोऽहं तथाभवम्॥१८॥

एतेभ्योऽपि पिशाचेभ्यो निर्मुक्तः साम्प्रतं तथा ।
योऽसौ ममानुजः साक्षात्स च भक्तस्तथा हरौ॥१९॥

कालेन चैव निर्मुक्तो विष्णोः सायुज्यमाप्नुयात् ।
इत्येवं चिन्तयित्वा स आन्त्रपाशं विभिद्य च॥२०॥

क्रमेण प्राणानुन्मुच्य विलोक्य च दिशास्तथा ।
शरीरं सुगमं कृत्वा प्राविशत्स सुखेन ह॥२१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां पिशाचस्य विष्णुत्साक्षात्कारे एकाशीतितमोऽध्यायः॥८१॥
घण्टाकर्णकृतो विष्णुस्तवः

वैशम्पायन उवाच। पिशिताशो जगन्नाथं ददर्शाथ जगद्गुरुम् ।
समाधौ च यथादृष्टं भूमौ चापि तथा हरिम्॥१॥

पिशिताशेति॥१॥

अयं विष्णुरयं विष्णुरित्यूचे पिशिताशनः ।
समाधौ च यथा दृष्टः सोऽयमत्रापि दृश्यते ।
इत्युक्त्वा च पुनर्ब्रूते नृत्यन्निव हसन्निव॥२॥

अयं स चक्री शरशार्ङधन्वा गादी रथी सध्वजतूणपाणिः ।
सहस्रमूर्धा सकलामरेशो जगत्प्रसूतिर्जगतां निवासः॥३॥

विष्णुर्जिष्णुर्जगन्नाथः पुराणः पुरुशोत्तमः ।
विश्वात्मा विश्वकर्ता यः सोऽयमेष सनातनः॥४॥

अस्यैव देवस्य हरेः स्तनान्तरे विराजते कौस्तुभरत्नदीपः ।
यस्य प्रसादाज्जगदेतदादौ विराजते चन्द्रमसेव रात्रिः॥५॥

योऽसौ पृथ्वीं दधाराशु दंष्ट्रया जलसञ्चयात् ।
योऽयमेव हरिः साक्षद्वाराहं वपुरास्थितः॥६॥

बद्ध्वा तथा दानवमुग्रपौरुषं ददौ च शक्राय ततोऽनुराज्यम् ।
बलिं बलादेष हरिः स वामनः स्तुतश्च भक्त्या मुनिभिः पुरातनैः॥७॥

दंष्ट्राकरालः सुमहान्हत्वा यो दानवान्रणे ।
निःशोकमखिलं लोकं चकारासौ जनार्दनः॥८॥

आदौ दधारैकभुजेन मन्दरं निर्जित्य सर्वानसुरान्महार्णवे ।
ददौ च शक्राय सुधामयं महान्स एष साक्षादिह मामवस्थितः॥९॥

यः शेते जलधौ नागे देव्या लक्ष्म्या सुखावहे ।
हत्वा तौ दानवौ घोरौ मधुकैटभसंज्ञितौ॥१०॥

यमाहुराद्यं विबुधा जगत्पतिं सर्वस्य धातारमजं जनित्रम् ।
अणोरणीयांसमतिप्रमाणं स्थूलात्स्थविष्ठं हरिमेव विष्णुम्॥११॥

जनित्रं जनयितारम्॥११॥

यत्र स्थितमिदं सर्वं प्राप्ते लोकस्य नाशने ।
आदौ यस्मात्समुत्पन्नं सोऽयं विष्णुरितिस्थितः॥१२॥

यस्येच्छया सर्वमिदं प्रवृत्तं प्रवर्तते चापि जनार्दनस्य ।
अयं स विष्णुः पुरुषोत्तमः शिवः प्रवर्तते मामिह यादवेश्वरः॥१३॥

भृगोर्वंशे समुत्पन्नो जामदग्न्य इति श्रुतः ।
शिष्यत्वं समवाप्यैव मृगव्याधस्य यः स्थितः॥१४॥

जघान वीर्याद्बलिनं महारणे कुठारशस्त्रेण गिरीशशिष्यः ।
सहस्रबाहुं कृतवीर्यसम्भवं हयैर्गजैश्चैव रथैश्च निर्गतम्॥१५॥

कुरुक्षेत्रं समासाद्य यश्चकार पितृक्रियाम् ।
निःक्षत्रियमिमं लोकं कृतवानेकविंशतिः॥१६॥

पितृक्रियां पितृतर्पणं रुधिरेणेति शेषः॥१६॥

रघोरथ कुले जातो रामो नाम जनार्दनः ।
सीतया च श्रिया युक्तो लक्ष्मणानुचरः कृती॥१७॥

कृत्वा च सेतुं जलधौ जनार्दनो हत्वा च रक्षःपतिमाशुगैः शरैः ।
दत्त्वा च राज्यं स विभिषणाय दशाश्वमेधैरयजच्च योऽसौ॥१८॥

वसुदेवकुले जातो वासुदेवेति शब्दितः ।
गोकुले क्रीडते योऽसौ सङ्कर्षणसहायवान्॥१९॥

उत्तानशायी शिषुरूपधारी पीत्वा स्तनं पूतनिकाप्रदत्तम् ।
व्यसुं चकाराशु जनार्दनस्तदा दनोः सुतां तामवसत्सुखं हरिः॥२०॥

पयःपानं तथा कुर्वन्भक्षयन्दधिपिण्डकम् ।
दाम्ना बद्धोदरो विष्णुर्मात्रा रुषितया दृढम्॥२१॥

ततश्च दाम्ना सुदृढेन बद्धो जघान योऽसौ यमलार्जुनौ च ।
क्रीडन्हरिर्गोकुलवासवासी गोपीभिरास्वाद्य मुखं स्तनं च॥२२॥

वृन्दावने वसन्विष्णुर्गोपैर्गोकुलवासिभिः ।
तत्र हत्वा हयं राजान्विरराजांशुमानिव॥२३॥

यः क्रीडते नागफणौ जनार्दनो निषेव्यमाणः सह गोपदारकैः ।
महाह्रदे नागपतिं जगत्पतिर्ममर्द वीर्यातिशयं प्रदर्शयन्॥२४॥

फणावाक्रम्येति शेषः। “फणा द्वयो” इत्यमरः। पुंसि द्विवचनमिदम्॥२४॥

यो धेनुकं तालवने तत्फलैः सममच्छिनत् ।
हत्वा दानवमुग्रं तं गोपान्विस्मापयत्यसौ॥२५॥

दधार यो गोधरमुग्रपौरुषान्महामतिर्मेघसमागमे सति ।
विडम्बयञ्छक्रबलं प्रमोदयन् गोपांश्च गोपीश्च स गोकुलं हरिः॥२६॥

गोधरं शैलम्॥२६॥

गोपीनां स्तनमध्ये तु क्रीडते काममीश्वरः ।
योऽसौ पिबंस्तदधरं मायामानुषदेहवान्॥२७॥

स्तनमध्ये हृदये॥२७॥

गोपीभिरास्वाद्य मुखं विविक्ते शेते स्म रत्रौ सुखमेव केशवः ।
स्तनान्तरेष्वेव तदा च तासां कामीव कान्ताधरपल्लवं पिबन्॥२८॥

अक्रूरेण समाहूतस्तेन गच्छन्हि यामुने ।
जले यो ह्यर्चितस्तेन नागलोके स एव हि॥२९॥

ततश्च गच्छन्बलवाञ्जनार्दनो हत्वा तमुग्रं रजकं बलात्पथि ।
हृत्वा च वस्त्राणि यथेष्टमीश्वरो ययौ सरामो मथुरां पुरीं हरिः॥३०॥

लब्ध्वा च दामानि बहूनि कामदो दत्त्वा वरं माल्यकृते महान्तम् ।
लब्ध्वानुलेपं सुरभिं च यादवः कुब्जां चकाराशु महार्हरूपाम्॥३१॥

दामानि पुष्पमालाः। माल्यकृते मालाकाराय॥३१॥

योऽसौ चापं समादाय मध्ये छित्त्वा महद्धनुः ।
सिंहनादं महांश्चक्रे कल्पान्ते जलदो यथा॥३२॥

हत्वा गजं घोरमुदग्ररूपं विषाणमादाय ततोऽनु केशवः ।
ननर्त रङ्गे बहुरूपमीश्वरः कंसस्य दत्त्वा भयमुग्रवीर्यः॥३३॥

गजं कुवलयापीडं विषाणं दन्तम्॥३३॥

योऽसौ हत्वा महामल्लं चाणूरं निहतद्विषम् ।
यादवेभ्यो ददौ प्रीतिं कंसस्यैव तु पश्यतः॥३४॥

जघाण कंसं रिपुपक्षघातिनं पितृद्विषं यादवनामधेयम् ।
संस्थाप्य राज्ये हरिरुग्रसेनं सान्दीपनं काश्यमुपागतो यः॥३५॥

यादवनामधेयं न तु यादवं द्रुमिलजत्वात्॥३५॥

विध्यामवाप्य सकलां दत्त्वा पुत्रं महामुनेः ।
साग्रजोऽथ जगामाशु मथुरां यादवीं पुरीम्॥३६॥

पुत्रं नष्टमिति शेषः॥३६॥

हत्वा निशुम्भं नरकं महामतिः कृत्वा स घोरं कदनं जनार्दनः ।
ररक्ष विप्रान्मुनिवीरसङ्घान्देवांश्च सर्वाञ्जगतो जगत्पतिः॥३७॥

स एष भगवान्विष्णुरद्य दृष्टो जनार्दनः ।
कृतकृत्योऽस्मि सञ्जातः सायुज्यं प्राप्तवानहम्॥३८॥

येन दृष्टो हरिः साक्षात्तस्य मुक्तिः करे स्थिता ।
सोऽयमेष हरिः साक्षात्प्रत्यक्षमिह वर्तते॥३९॥

नूनं जन्मान्तरे पूर्वं धर्मः सञ्चित एव मे ।
यस्य पाकः समुत्पन्नो येनासौ दृश्यते मया॥४०॥

सर्वथा पुण्यवानस्मि नष्टसंसारबन्धनः ।
किमस्मै दीयते वस्तु किं न वक्ष्यामि साम्प्रतम् ।
करिष्ये किमहं विष्णो वदस्वाद्य यथेप्सितम्॥४१॥

वैशम्पायन उवाच। इत्युक्त्वा विस्तरं नादं ननर्द बहुशस्तदा ।
जहास विकृतं भूयो ननर्त पिशिताशनः॥४२॥

नमो नमो हरे कृष्ण यादवेश्वर केशव ।
प्रत्यक्षं च हरेस्तत्र ननर्त विविधं नृप॥४३॥

केशवेत्यन्तं पठन्॥४३॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां घण्टाकर्णस्तुतौ द्व्यशीतितमोऽध्यायः॥८२॥
घण्टाकर्णस्य मुक्तिः

वैशम्पायन उवाच। विहस्य विकृतं भूयः प्रनृत्य च यथाबलम् ।
ब्राह्मणस्य हतस्याथ शवमादाय सत्वरः॥१॥

गृहाणेति॥१॥

द्विधाकृत्य महाघोरं पिशितं केशशाड्वलम् ।
ततः खण्डं समादाय अद्भिरभ्युक्ष्य यत्नतः॥२॥

विधाय पात्रे सुशुभे नमस्कृत्य जनार्दनम् ।
इदं प्रोवाच देवेशं प्राञ्जलिः प्रणतः स्थितः॥३॥

गृहाण मे जगन्नाथ भक्ष्यं योग्यं तव प्रभो ।
भवादृशैर्जगन्नाथ ग्राह्यं सर्वात्मना हरे॥४॥

योग्यं “यदन्नः पुरुषो भवति तदन्नास्तस्य देवता” इति श्रुतेरित्याशयः॥४॥

भक्तिनम्रा वयं विष्णो नात्र कार्या विचारणा ।
दत्तं यद्भक्तिनम्रेण ग्राह्यं तत्स्वामिना हरे॥५॥

नवं सुसंस्कृतं भक्ष्यं ब्रह्मण्यं शवमुत्तमम् ।
अस्माकं पिशिताशानां शास्त्रे नियतमेव हि॥६॥

तस्माद्गृहाण भगवन्यदि दोषो न विद्यते ।
इत्युक्त्वा विकृतं भूयो विहस्य स तु कामतः॥७॥

दातुमैच्छत्तदा खण्डमस्पृश्यं तु शवस्य ह ।
ततः प्रीतोऽभवत्तस्मै मनसापूजयच्च तम्॥८॥

अहोऽस्य स्नेहकारुण्यं मयि सर्वत्र वर्तते ।
इति सञ्चिन्त्य मनसा प्रोवाच यदुपुङ्गवः॥९॥

अलमेतेन सर्वत्र पिशाच पिशिताशन ।
अस्पृश्यं मादृशैरेतद्ब्राह्मण्यं शवमुत्तमम्॥१०॥

ब्राह्मणः सर्वथा पूज्यो जन्तुभिर्धर्मकाङ्क्षिभिः ।
पिशाचा घोरकर्माणो यतन्ते ब्रह्महिंसने॥११॥

न हन्तव्याः सदा विप्रास्तद्धिंसा नरकावहा ।
तस्मादस्पृश्यमस्माभिर्नात्र कार्या विचारणा॥१२॥

भक्त्या प्रीतोऽस्मि भद्रं ते मनो निर्मलता मया ।
मनःशुद्धिं यदा यत्नं ततः प्रीतोऽस्मि मांसप॥१३॥

अस्मत्सङ्कीर्तनाच्छश्वच्छुद्धं हि करणं तव ।
अतीव मनसा प्रीत इत्युक्त्वा भगवान्हरिः॥१४॥

करणम् अन्तःकरणम्॥१४॥

पस्पर्शाङ्गं तदा विष्णुः पिशाचस्याथ सर्वतः ।
करेण मृदुना देवः पापान्निर्मोचयद्धरिः॥१५॥

ततस्तस्याभवद्रूपं कामरूपसमप्रभम् ।
दीर्घकुञ्चितकेशाढ्यो दीर्घबाहुः सुलोचनः॥१६॥

समाङ्गुलिः समनखः समवक्त्रः समुन्नसः ।
पद्माक्षः पद्मवर्णाभः पद्मकेशरभूषणः॥१७॥

पद्माक्षः सन्निमेषदृष्टिः। पिशाचानां प्राक् तदभावात्॥१७॥

केयूरी चाङ्गदी चैव कौशेयवसनस्तदा ।
ज्ञानवान्सत्त्वसम्पन्नः साक्षादिन्द्र इवापरः॥१८॥

गन्धर्व इव गायंस्तु सिद्धः सिद्ध इव स्वयम् ।
साक्षत्स्पृष्टं तदा विष्णोः करेण मृदुपूर्वकम्॥१९॥

न नूनं तादृशं रूपमासीत्कालान्तरेष्वापि ।
अद्यापि नैव मुनयो लभन्ते तादृशं वपुः॥२०॥

कृत्वा सुबहुशो घोरं तपः परमदरुणम् ।
यच्च लब्धं तदा तेन पिशाचेन नृपोत्तम॥२१॥

को नु नाम जगन्नाथमाश्रितः सीदते नृप ।
स हि सर्वत्र कल्याणो यो हि नित्यं जनार्दनम्॥२२॥

ध्यायन्पठञ्जपन्वापि तस्य किं नास्ति भूपते ।
ततः प्रोवाच भगवान्स्थितं काममिवापरम्॥२३॥

अक्षयः स्वर्गवासस्ते यवादिन्द्रो वसिष्यति ।
तावत्स्वर्गी भवानस्तु शासनान्मम नान्यतः॥२४॥

नष्टे चक्रे ततः स्वर्गात्सायुज्यं मम गच्छतु ।
योऽयं भ्राता तव स्वर्गी यावदिन्द्रो भवेत्तदा॥२५॥

वरं वरय भद्रं ते यस्ते मनसि वर्तते ।
दातास्मि सर्वं सर्वत्र नात्र कार्या विचारणा॥२६॥

घण्टाकर्ण उवाच। यश्चेमं सङ्गमं देव संस्मरन्नियतात्मवान् ।
भक्तिस्तस्याचला देव त्वयि भूयज्जनार्दन॥२७॥

मनःशुद्धिर्भवेत्तस्य मा भूत्कलुषता हरे ।
कालुष्यं मनसस्तस्य मा भूदेष वरो मम॥२८॥

एवमस्त्विति देवेशः स्वर्गं गच्छेति केशवः ।
इन्द्रातिथिर्भवानस्तु त्वां प्रतीक्ष्य हरिः स्थितः॥२९॥

इत्युक्त्वा भगवान्कृष्ण उत्थाप्य ब्राह्मणं तदा ।
तेन स्तुतो जगन्नाथः पूजयित्वा च तं द्विजम्॥३०॥

ततो विसृज्य गोविन्दस्तस्माद्देशादुपागमत् ।
यत्र ते मुनयः सिद्धा अग्निहोत्रसमन्विताः॥३१॥

स च स्वर्गी ततः स्वर्गमाज्ञया केशवस्य ह ।
तस्मात्पठ सदा राजन्मनःशुद्धिं यदीच्छसि ।
मनश्च शुद्धं भवति पठतस्ते जगत्पते॥३२॥

॥इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि घण्टाकर्णमुक्तिप्रदाने त्र्यशीतितमोऽध्यायः॥८३॥
श्रीकृष्णतपोवर्णनम्

वैशम्पायन उवाच। ततः स भगवान्विष्णुर्मुनिभ्यस्तत्त्वमादितः ।
कथयामास यद्वृत्तं पिशाचस्य महात्मनः॥१॥

तच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः ।
अहोऽस्य कर्मणः पाकस्तव सन्दर्शनादिति॥२॥

अर्चितो मुनिभिः सर्वैः प्रीतः प्रीतिमतां प्रियः ।
ततः प्रभाते विमले सूर्ये चाभ्युदिते सति॥३॥

आरुह्य गरुडं विष्णुर्ययौ कैलासमुत्तमम् ।
भवद्भिस्तत्र गन्तव्यमित्युक्त्वा मुनिसत्तमान्॥४॥

यत्र विश्वेश्वराः सिद्धास्तपस्यन्ति यतव्रताः ।
यत्र वैश्रवणः साक्षादुपास्ते शङ्करं सदा॥५॥

यत्र तन्मानसं नाम सरो हंसालयं महत् ।
यत्र भृङ्गी रिटिर्देवमुपास्ते शङ्करं शिवम्॥६॥

गाणपत्यमवाप्याथ हरपार्श्वचरः सदा ।
यत्र सिंहा वराहाश्च द्विपद्वीपिमृगैः सह॥७॥

क्रीडन्ति वन्यरतयः परस्परहिते रताः ।
यत्र नद्यः समुत्पन्ना गङ्गाद्याः सागरङ्गमाः॥८॥

यत्र विश्वेश्वरः शम्भुरच्छिनद्ब्रह्मणः शिरः ।
यत्रोत्पन्ना महावेत्रा भूतानां दण्डतां ययुः॥९॥

उमया यत्र सहितः शङ्करो नीललोहितः ।
ऋषिभिः प्रार्थितः पूर्वं ददौ यत्र गिरिः सुताम्॥१०॥

शङ्कराय जगद्धात्रे शिवाय जगतीपते ।
यत्र लेभे हरिश्चक्रमुपास्य बहुभिर्दिनैः॥११॥

पुष्करैः शतपत्रैश्च नेत्रेण च जगत्पतिम् ।
गुहां यत्र समाश्रित्य क्रीडन्ते सिद्धकिन्नराः॥१२॥

प्रियाभिः सह मोदन्ते पिबन्ते मधु चोत्तमम् ।
यमुद्धृत्य भुजैः सर्वैः पौलस्त्यो विरराम ह॥१३॥

तमारुह्य महाशैलं देवकीनन्दनो हरिः ।
मानसस्योत्तरं तीरं जगाम यदुनन्दनः॥१४॥

तपश्चर्तुं किल हरिर्विष्णुः सर्वेश्वरः शिवः ।
जटी चीरी जगन्नाथो मानुषं वपुरास्थितः॥१५॥

तपसे धृतचित्तस्तु शुचौ भूमावुपाविशत् ।
अवरुह्य ततो यानाद्गरुडाद्वेदसंमितात्॥१६॥

द्वादशाब्दं तपश्चर्तुं मनो दध्रे ततो हरिः ।
फाल्गुनेन तु मासेन समारेभे जगत्पतिः॥१७॥

शाकभक्षो कृतजपो वेदाध्ययनतत्परः ।
किमुद्दिश्य जगन्नाथस्तपश्चरति मानवः॥१८॥

तं न विद्मो यथाकामं दुर्ज्ञेयेश्वरचिन्तना ।
तपस्यति तदा विष्णौ पर्वते भूतसेविते॥१९॥

गरुडः कश्यपसुत इन्धनानि समाचिनोत् ।
होमार्थं वासुदेवस्य चरतस्तप उत्तमम्॥२०॥

चक्रराजोऽथ पुष्पाणि सञ्चिनोति तदा हरेः ।
दिक्षु सर्वासु सर्वत्र ररक्ष जलदस्तदा॥२१॥

खड्ग आहृत्य यत्नेन कुशान्सुबहुशस्तदा ।
गदा कौमोदकी चैव परिचर्यां चकार ह॥२२॥

धनुःप्रवरमत्युग्रं शार्ङ्गं दानवभीषणम् ।
स्थितं हि पुरतस्तस्य यथेष्टं भृत्यवत्स्वयम्॥२३॥

जुहोति भगवान्विष्णुरेधोभिर्बहुभिः सदा ।
आज्यादिभिस्तदा हव्यैरग्निं सम्पूज्य माधवः॥२४॥

सप्तार्चिषः समाप्तिं च समस्तव्यस्ततः कृती ।
एकस्मिन्नेकदा मासे भुञ्जानो नियतात्मवान्॥२५॥

द्वितीये त्वथ पर्याये भुञ्जन्नेकेन केशवः ।
एकस्मिन्वत्सरे भुञ्जंस्तथैवैकेन केनचित्॥२६॥

समाप्य तत्तपः सर्वमेवमेव जगत्पतिः ।
द्वादशाब्दे तथा पूर्णे ऊनमासे जगत्पतिः॥२७॥

जुह्वन्नग्निं समास्थाय पठन्मन्त्रं जनार्दनः ।
आरण्यकं पठन्विष्णुः साक्षात्सर्वेश्वरो हरिः ।
आस्ते ध्यानपरस्तत्र पठन्प्रणवमुत्तमम्॥२८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां कृष्णतपोवर्णने चतुरशीतितमोऽध्यायः॥
श्रीकृष्णसमीपे इन्द्रादिदेवानामागमनम्

वैशम्पायन उवाच। तत इन्द्रः स्वयं तत्र आरुह्य गजमुत्तमम् ।
द्रष्टुं सर्वेश्वरं विष्णुं तपस्यन्तं समाययौ॥१॥

तत इति॥१॥

ततो यमस्तु भगवानारुह्य महिषं वरम् ।
किङ्करैश्च स्वयं साक्षादाययौ नगमुत्तमम्॥२॥

प्रचेता हंसमारुह्य वारुणैश्च समन्वितः ।
श्वेतच्छत्रसमायुक्तः श्वेतव्यजनवीजितः॥३॥

ययौ कैलासशिखरं द्रष्टुं केशवमञ्जसा ।
अन्ये चापि तथा देवा आदित्या वसवस्तथा॥४॥

रुद्राश्चैव तथा रजन्द्रष्टुं केशवमाययुः ।
सिद्धाश्च मुनयश्चैव गन्धर्वा यक्षकिन्नराः॥५॥

सर्वाश्चाप्सरसो राजन्नृत्यगीतविशारदाः ।
ततो देवगणाः सर्वे कैलासं समपद्यत॥६॥

पर्वतो नारदश्चैव तथान्ये मुनिसत्तमाः ।
विस्मयस्थितलोलाक्षाः सर्वदेवगणास्तथा॥७॥

आश्चर्यं खलु पश्यध्वं न भूतं न भविष्यति ।
योगिध्येयः स्वयं कृष्णो यत्तप्यति गुरुःस्वयम् ।
को न्वत्र समयो भूयादिति ते मेनिरे गणाः॥८॥

ततः समाप्ते सकले जगत्पतेर्व्रते समूले सकलेश्वरः शिवः ।
द्रष्टुं हरिं लोकहितैषिणं प्रभुं ययौ भवान्या सह भूतसङ्घैः॥९॥

सार्धं कुबेरेण सगुह्यकेन सख्या प्रियेण प्रभुरीश्वरः शिवः ।
स्वयं जटी भूतपिशाचसंवृताः शरी च खड्गी शशिखण्डशेखरः॥१०॥

करेण बिभ्रत्सह धर्भकुण्डिकां करेण साक्षादपरेण दीपिकाम् ।
अन्येन बिभ्रन्महतीं स डिण्डिमां शूलं च बिभ्रन्नपरेण बाहुना॥११॥

गुणान्स रुद्राक्षकृतान्समुद्वहञ्जटाभिरापिङ्गलताम्रमूर्तिः ।
विराजमानः प्रभुरिन्दुशेखरो वृषेण युक्तः स सितेन शङ्करः॥१२॥

उमास्तनद्वन्द्वसमर्पिताननस्तथा समाश्लिष्य निपीडिताधरः ।
गङ्गाम्भुविक्षालितचन्द्रशेखरस्तां चापि वीक्षन्बहुशस्तदा शिवः॥१३॥

भस्माङ्गरागैरनुलेपिताननो महोरगैर्बद्धजटः सनातनः ।
शिरःकपालैः परिशोभितस्तदा द्रष्टुं हरिं केशवमभ्ययाच्छिवः॥१४॥

यमाहुरग्र्यं पुरुषं महान्तं पुरातनं साङ्ख्यनिबद्धदृष्टयः ।
यस्यापि देवस्य गुणान्समग्रांस्तत्त्वांश्चतुर्विंशतिमाहुरेके॥१५॥

यमाहुरेकं पुरुषं पुरातनं कणादनामानमजं महेश्वरम् ।
दक्षस्य यज्ञं विनिहत्य यो वै विनाश्य देवानसुरान्सनातनः॥१६॥

यं विधुर्भूततत्त्वज्ञं भूतेशं भूतभावनम् ।
वामदेवं विरूपाक्षमाहुस्तत्त्वविदो जनः॥१७॥

महादेवं सहस्राक्षं कालमूर्तिं चतुर्भुजम् ।
रुद्रं रोदननामानमाहुर्विश्वेश्वरं शिवम्॥१८॥

अप्रमेयमनाधारमाहुर्माहश्वरा जनाः ।
नग्नं नग्नपरीतं तु नागिनं त्वग्निवर्चसम्॥१९॥

आहुर्विश्वेश्वरं शान्तं शिवमादिं सनातनम् ।
तस्य मूर्तिरिमाः सर्वा धराद्याः सकला नृप॥२०॥

भूमिरापोऽनलो वायुः खं सूर्यश्च तथा शशी ।
अग्निश्च यजमानश्च प्रकृतिश्चैवमष्टधा॥२१॥

महादेवो महायोगी गिरीशो नीललोहितः ।
आदिकर्ता महाभर्ता शूलपाणिरुमापतिः ।
द्रष्टुं विश्वेश्वरं विष्णुं भूतसङ्घैः समाययौ॥२२॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां शिवगमनकथने पञ्चाशीतितमोऽध्यायः॥८५॥
श्रीकृष्णसमीपे शिवागमनम्

वैशम्पायन उवाच। तस्याग्रे समपद्यन्त भूतसङ्घाः सहस्रशः ।
घण्टाकर्णो विरूपाक्षः कुण्डधारः कुमुद्वहः॥१॥

तस्याग्र इति॥१॥

दीर्घरोमा दीर्घभुजो दीर्घबाहुर्निरञ्जनः ।
उरुनेत्रः शतमुखः शतग्रीवः शतोदरः॥२॥

कुण्डोदरो महाग्रीवः स्थूलजिह्वो द्विबाहुकः ।
पार्श्ववक्त्रः सिंहमुख उन्नतांसो महाहनुः॥३॥

त्रिबाहुः पञ्चबाहुश्च व्याघ्रवक्त्रः सिताननः ।
एते चान्ये च बहवो दीर्घास्या दीर्घलोचनाः॥४॥

नृत्यन्तः प्रहसन्तश्च स्फोटयन्तः परस्परम् ।
तथान्ये घोररूपाश्च तथान्ये विकृताननाः॥५॥

प्रेतभक्षाः प्रेतवाहा मांसशोणितभोजनाः ।
शवानि सुबहून्याशु भक्षयन्तस्ततस्ततः॥६॥

पिबन्तो रुधिरं घोरं खण्डयन्तः शवान्बहून् ।
कराला वितता दीर्घा धमनिस्नायुसन्तताः॥७॥

नानाविधाः सुवीराश्च शूलाग्रप्रोतमानुषाः ।
शिलामालावृताः केचिदान्त्रपाशावपाशिताः॥८॥

डिण्डिमैरट्टहासैश्च नादयन्तो वसुन्धराम् ।
कपालिनो भैरवाश्च जटिला मुण्डिनस्तथा॥९॥

एवं बहुविधा घोराः पिशाचा विकृताननाः ।
तथान्ये मुनिवीराश्च ध्यायन्तः परमेश्वरम्॥१०॥

पठन्तो देववाक्यानि साङ्गानि विविधानि च ।
कुण्डिकास्थकराः केचित्केचित्कुशविचारिणः॥११॥

कौपीनवसनाः केचित्केचित्कार्पाससंवृताः ।
स्तुवन्तः शङ्करं भक्त्या स्तोत्रैर्माहेश्वरैस्तथा॥१२॥

एकत्र ते मुनिगणा अपरत्र गणास्तथा ।
अन्यत्र सिद्धगन्धर्वाः प्रियाभिः सह सङ्गताः॥१३॥

नृत्यन्ति नृत्यकुशला गायन्ति स्म च कन्यकाः ।
विद्याधरास्तथान्यत्र स्तुवन्तः शङ्करं शिवम्॥१४॥

ननृतुस्तस्य पुरतो गच्छन्तोऽप्सरसां गणाः ।
एवमेतैर्महाघोरैः पिशाचैर्भूतकिन्नरैः॥१५॥

मुनिभिश्चैव प्रमथैः समं शर्वः समाययौ ।
यत्र विश्वेश्वरो विष्णुस्तपस्तेपे सुदारुणम्॥१६॥

यत्र ते लोकपालाश्च तिष्ठन्ति स्म दिदृक्षया ।
उमया लोकभाविन्या गङ्गया चन्द्रशेखरः॥१७॥

स सर्वलोकप्रभवो भवो विभुर्जटी च साक्षात्प्रणवात्मकः कृती ।
द्रष्टुं हरिं विष्णुमुदारविक्रमो ययौ यथेष्टं पिशिताशनैर्वृतः॥१८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां महादेवागमने षडशीतितमोऽध्यायः॥८६॥
श्रीविष्णुकृता शिवस्तुतिः

वैशम्पायन उवाच। एवं बहुविधैर्भूतैः पिशाचैरुरगैः सह ।
आगत्य भगवान्रुद्रः शङ्करो वृशवाहनः॥१॥

ददर्श विष्णुं देवेशं तपन्तं तप उत्तमम् ।
जुह्वानमग्निं विधिवद्द्रव्यैर्मेध्यैर्जगत्पतिम्॥२॥

गरुडाहृतकाष्ठं तु जटिलं चीरवाससम् ।
चक्रेणानीतकुसुमं खड्गाणीतकुशं तथा॥३॥

गदाकृतसमाचारं देवदेवं जनार्दनम् ।
इन्द्राद्यैर्देवसङ्घैश्च वृतं मुनिगणैः सह॥४॥

अचिन्त्यं सर्वभूतानां ध्यायन्तं किमपि प्रभुम् ।
अवरुह्य वृषाच्छर्वो भगवान्भूतभावनः॥५॥

ततः प्रीतः प्रसन्नात्मा ललाटाक्ष उमापतिः ।
ततो भूतपिशाचाश्च राक्षसा गुह्यकास्तथा॥६॥

मुनयो विप्रवर्याश्च जयशब्दं प्रचक्रिरे ।
जय देव जगन्नाथ जय रुद्र जनार्दन॥७॥

जय विष्णो हृषीकेश नारायण परायण ।
जय रुद्र पुराणात्मञ्जय देव हरेश्वर॥८॥

आदिदेव जगन्नाथ जय शङ्कर भावन ।
जय कौस्तुभदीप्ताङ्ग जय भस्मविराजित॥९॥

जय चक्रगदापाणे जय शूलिंस्त्रिलोचन ।
जय मौक्तिकदीप्ताङ्ग जय नागविभूषण॥१०॥

इति ते मुनयः सर्वे प्रणामं चक्रिरे हरिम् ।
तत उत्थाय भगवान्दृष्ट्वा देवमवस्थितम्॥११॥

वृषद्वजं विरूपाक्षं शङ्करं नीललोहितम् ।
ततो हृष्टमना विष्णुस्तुष्टाव हरमीश्वरम्॥१२॥

श्रीभगवानुवाच। नमस्ते शितिकण्ठाय नीलग्रीवाय वेधसे ।
नमस्ते शोचिषे अस्तु नमस्ते उपवासिने॥१३॥

एवमिति। शितिकण्ठाय शितिर्विषमेव कृष्णवर्णत्वात् कण्ठे यस्य तस्मै। अत एव नीलकण्ठाय। शोचिषे दीप्तिमते॥१३॥

नमस्ते मीढुषे अस्तु नमस्ते गदिने हर ।
नमस्ते विश्वतनवे वृषाय वृषरूपिणे॥१४॥

अमूर्ताय च देवाय नमस्तेऽस्तु पिनाकिने ।
नमः कुब्जाय कूपाय शिवाय शिवरूपिणे॥१५॥

कूपाय कूपवासिने॥१५॥

नमस्तुष्टाय तुण्डाय नमस्तुटितुटाय च ।
नमः शिवाय शान्ताय गिरिशाय च ते नमः॥१६॥

तुण्डाय मुखाय सर्वभक्षकायेत्यर्थः। तुष्टाय तुष्टिमते। तुटितुटाय हिंस्राय॥१६॥

नमो हराय हिप्राय नमो हरिहराय च ।
नमोऽघोराय घोराय घोरघोरप्रियाय च॥१७॥

हिप्राय हीनोति प्रापयति चेति हिप्रः। रेचकः पूरकश्च तदुभयरूपाय॥१७॥

नमोऽघण्टाय घण्टाय नमो घटिघटाय च ।
नमः शिवाय शान्ताय गिरिशाय च ते नमः॥१८॥

अघण्टाय घण्टाय घण्टावते घटिघटाय घटयतां स्रष्टॄणामपि स्रष्ट्रे॥१८॥

नमो विरूपरूपाय पुराय पुरहारिणे ।
नम आद्याय बीजाय शुचयेऽष्टस्वरूपिणे॥१९॥

पुराय क्षेत्ररूपाय। अष्टौ पृथिव्यादीनि स्वरूपाणि यस्य तस्मै अष्टस्वरूपिणे ॥१९॥

नमः पिनाकहस्ताय नमः शूलासिधारिणे ।
नमः खट्वाङ्गहस्ताय नमस्ते कृत्तिवाससे॥२०॥

नमस्ते देवदेवाय नम आकाशमूर्तये ।
हराय हरिरूपाय नमस्ते तिग्मतेजसे॥२१॥

भक्तप्रियाय भक्ताय भक्तानां वरदायिने ।
नमोऽभ्रमूर्तये देव जगन्मूर्तिधराय च॥२२॥

नमश्चन्द्राय देवाय सूर्याय च नमो नमः ।
नमः प्रधानदेवाय भूतानां पतये नमः॥२३॥

करालाय च मुण्डाय विकृताय कपर्दिने ।
अजाय च नमस्तुभ्यं भूतभावनभावन॥२४॥

नमोऽस्तु हरिकेशाय पिङ्गलाय नमो नमः ।
नमस्तेऽभीषुहस्ताय भीरुभीरुहराय च॥२५॥

हरिकेशाय हरयो रश्मयः इन्द्रियाणि वा केशा इव स्वरूपान्तर्गता बहिर्भूताश्च यस्येति हरिकेशः। यं परमेश्वरस्य सितकृष्णकेशौ रामकृष्णावित्युक्तः कृष्णावतारः केशो यस्यावतारिणो महेश्वरस्येति वा हरिकेशस्तस्मै। अभीषुहस्ताय अर्जुनसारथये। भीरुभीरुश्चासौ हरश्च तस्मै भीरुभीरुहराय अतिभीतायातिसंहर्त्रे इत्यर्थः॥२५॥

हराय भीतिरूपाय घोराणां भीतिदायिने ।
नमो दक्षमखघ्नाय भगनेत्रापहारिणे॥२६॥

उमापते नमस्तुभ्यं कैलासनिलयाय च ।
आदिदेवाय देवाय भवाय भवरूपिणे॥२७॥

नमः कपालहस्ताय नमोऽजमथनाय च ।
त्र्यम्बकाय नमस्तुभ्यं त्र्यक्षाय च शिवाय च॥२८॥

अजमथनाय ब्रह्मशिरोर्हत्रे॥२८॥

वरदाय वरेण्याय नमस्ते चन्द्रशेखर ।
नम इध्माय हविषे ध्रुवाय च कृशाय च॥२९॥

नमस्ते शक्तियुक्ताय नागपाशप्रियाय च ।
विरूपाय सुरूपाय मद्यपानप्रियाय च॥३०॥

भद्रेति पाठेऽपि मद्यमेव भद्रम्॥३०॥

श्मशानरतये नित्यं जयशब्दप्रियाय च ।
खरप्रियाय खर्वाय खराय खररूपिणे॥३१॥

खराय कर्कशाय॥३१॥

भद्रप्रियाय भद्राय भद्ररूपधराय च ।
विरूपाय सुरूपाय महाघोराय ते नमः॥३२॥

घण्टाय घण्टभूषाय घण्टभूषणभूषिणे ।
तीव्राय तीव्ररूपाय तीव्ररूपप्रियाय च॥३३॥

नग्नाय नग्नरूपाय नग्नरूपप्रियाय च ।
भूतावास नमस्तुभ्यं सर्वावास नमो नमः॥३४॥

नमः सर्वात्मने तुभ्यं नमस्ते भूतिदायक ।
नमस्ते वामदेवाय महादेवाय ते नमः॥३५॥

का नु वाक्स्तुतिरूपा ते को नु स्तोतुं प्रशक्नुयात् ।
कस्य वा स्फुरते जिह्वा स्तुतौ स्तुतिमतां वर॥३६॥

क्षमस्व भगवन्देव भक्तोऽहं त्राहि मां हर ।
सर्वात्मन्सर्वभूतेश त्राहि मां सततं हर॥३७॥

रक्ष देव जगन्नाथ लोकान्सर्वात्मना हर ।
त्राहि भक्तान्सदा देव भक्तप्रिय सदा हर॥३८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां विष्णुकृतेश्वरस्तुतौ सप्ताशीतितमोऽध्यायः॥८७॥
श्रीशिवकृता विष्णुस्तुतिः

वैशम्पायन उवाच। ततो वृषध्वजो देवः शूली साक्षादुमापतिः ।
करं करेण संस्पृश्य विष्णोश्चक्रधरस्य ह॥१॥

तत इति॥१॥

प्रोवाच भगवान्रुद्रः केशवं गरुडध्वजम् ।
शृण्वतां सर्वदेवानां मुनीनां भावितात्मनाम्॥२॥

किमिदं देवदेवेश चक्रपाणे जनार्दन ।
तपश्चर्या किमर्थं ते प्रार्थना तव का विभो॥३॥

स्वयं विष्णुर्भवान्नित्यस्तपस्त्वं तपसां हरे ।
पुत्रार्थं यदि ते देव तपश्चर्या जनार्दन॥४॥

पुत्रो दत्तो मया देव पूर्वमेव जगत्पते ।
शृणु तत्रापि भगवन्कारणं कारणात्मक॥५॥

तपश्चर्तुं प्रवृत्तोऽहं कुतश्चित्कारणाद्धरे ।
वर्षायुतं महाघोरं पुरा कृतयुगे तदा॥६॥

भवानी तत्र मे देव परिचर्तुं तदाभवत् ।
पित्रा नियुक्ता देवेश उमैषा वरवर्णिनी॥७॥

भीत इन्द्रस्तदा देव मारं मां प्रैषयत्तदा ।
मधुना सह संयुक्ते मारो मामागतस्तदा॥८॥

लक्ष्यं मामकरोत्तत्र बाणस्य प्रेषितस्य ह ।
एषा मां सेवते तत्र दानात्पुष्पादिनां हरे॥९॥

ततः क्रुद्धोऽहमभवं दृष्ट्वा मारं तथाविधम् ।
क्रुद्ध्यतो मम देवेश नेत्रादग्निः पपात ह॥१०॥

सोऽयमग्निस्तदा मारं भस्मसात्कृतवान्हरे ।
अचिन्तयं तदा विष्णो शक्रस्यैतच्चिकीर्षितम्॥११॥

ततः प्रभृति देवेश दया तं प्रति वर्तते ।
ब्रह्मणा च नियुक्तोऽस्मि प्रीतस्तत्र जनार्दन॥१२॥

नियुक्तः पुत्ररूपेण स ते देव जगत्पते ।
ज्येष्ठस्तव सुतो देव प्रद्युम्नेत्यभिविश्रुतः॥१३॥

स्मरं तं विद्धि देवेश नात्र कार्या विचारणा ।
इत्युक्त्वा पुनराहेदं याथात्म्यं दर्शयन्निव॥१४॥

मुनीनां श्रोतुकामानां यथात्म्यं तत्र सत्तमः ।
अञ्जलिं सम्पुटं कृत्वा विष्णुमुद्दिश्य शङ्करः॥१५॥

उमया सार्धमीशानो यथात्म्यं वक्तुमैहत ।
हरे कुर्वति तत्रैवमञ्जलिं कुरुसत्तम॥१६॥

मुनयो देवगन्धर्वाः सिद्धाश्च सहकिन्नराः ।
अञ्जलिं चक्रिरे विष्णोर्देवदेवेश्वरे हरौ॥१७॥

महेश्वर उवाच। यत्तत्कारणमाहुस्तत्साङ्ख्याः प्रकृतिसंज्ञकम् ।
ततो महान्समुत्पन्नः प्रकृतिर्यस्य कारणम्॥१८॥

त्रिधा भूतं जगद्योनिं प्रधानं कारणात्मकम् ।
सत्त्वं रजस्तमो विष्णो जगदण्डं जनार्दनः॥१९॥

तस्य कारणमाहुस्त्वं साङ्ख्यप्रकृतिसंज्ञकम् ।
तद्रूपेण भवान्विष्णो परिणम्याधितिष्ठति॥२०॥

तस्मात्तु महतो घोरादहङ्कारो महानभूत् ।
स त्वमादौ जगन्नाथ परिणामस्तथा हि सः॥२१॥

अहङ्कारात्प्रभो देव कारणानि महान्ति च ।
तन्मात्राणि तथा पञ्च भूतानि प्रभवन्त्युत॥२२॥

तानि त्वामाहुरीशानं भूतानीह जगत्पते ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्॥२३॥

चक्षुर्घ्राणं तथा स्पर्शो रसनं श्रोत्रमेव च ।
मनः षष्ठं तथा देव प्रेरकं तत्र तत्र ह॥२४॥

कर्मेन्द्रियाणि चान्यानि वागादीनि जनार्दन ।
त्वमेव तानि सर्वाणि करोषि नियतात्मवान्॥२५॥

स्वेषु स्वेषु जगन्नाथ विषयेषु तथा हरे ।
निवेशयसि देवेश योग्यामिन्द्रियपद्धतिम्॥२६॥

यदा त्वं रजसा युक्तस्तदा भूतानि सृष्टवान् ।
यदा च सत्त्वयुक्तोऽसि तदा पाता जगत्त्रयम्॥२७॥

यदा त्वं तमसाऽऽकृष्टस्तदा संहरसे जगत् ।
त्रिभिरेव गुणैर्युक्तः सृष्टिरक्षाविनाशने॥२८॥

वर्तसे त्रिविधां भूतिमादाय निततात्मवान् ।
इन्द्रियाणीन्द्रियार्थेषु नियोजयसि माधव॥२९॥

प्राणिनामुपभोगार्थमन्तः स्थित्वा जगद्गुरो ।
तस्मात्सर्वत्र भूतेषु वर्तते सर्वभोगवान्॥३०॥

ब्रह्मा त्वं सृष्टिकाले तु स्थितौ विष्णुरसि प्रभो ।
संहारे रुद्रनामासि त्रिधामा त्वमसि प्रभो॥३१॥

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
एताः प्रकृतयो देव भिन्नाः सर्वत्र ते हरे॥३२॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रधारः साहस्री सहस्रात्मा दिवस्पतिः॥३३॥

भूमिं सर्वामिमां प्राप्य सप्तद्वीपां ससागराम् ।
अणुः सर्वत्रगो भूत्वा अत्यतिष्ठद्दशाङ्गुलम्॥३४॥

त्वमेवेदं जगत्सर्वं यद्भूतं यद्भविष्यति ।
त्वत्तो विराट्प्रादुरभूत्सम्राट्चैव जनार्दन॥३५॥

तव वक्त्राज्जगन्नाथ ब्राह्मणो लोकरक्षकः ।
प्रादुरासीत्पुराणात्मन्षट्कर्मनिरतः सदा॥३६॥

राजन्यस्तु तथा बाह्वोरासीत्संरक्षणे रतः ।
ऊर्वोर्वैश्यस्तथा विष्णोः पादाच्छूद्र उदाहृतः॥३७॥

एवं वर्णा जगन्नाथ तव देहाज्जनार्दन ।
मनसस्तव देवेश चन्द्रमाः समपद्यत॥३८॥

सुखकृत्सर्वभूतानां शीतांशुरमितप्रभः ।
अक्ष्णोः सूर्यः समुत्पन्नः सर्वप्राणिविलोचनः॥३९॥

यस्य भासा जगत्सर्वं भासते भानुमानसौ ।
मुखादिन्द्रश्च अग्निश्च प्राणाद्वायुरजायत॥४०॥

नाभेरभूदन्तरिक्षं तव देव जनार्दन ।
द्यौरासीत्तु महाघोरा शिरसस्तव गोपते॥४१॥

पद्भ्यां भूमिः समुत्पन्ना दिशः श्रोत्राज्जगत्पते ।
एवं सृष्ट्वा जगत्सर्वं व्याप्य सर्वं व्यवस्थितः॥४२॥

व्याप्य सर्वानिमाँल्लोकान्स्थितः सर्वत्र केशव ।
ततश्च विष्णुनामासि धातोर्व्याप्तेश्च दर्शनात्॥४३॥

धातोः “विष्लृ व्याप्तौ” इत्यस्य व्याप्त्यर्थत्वदर्शनात्॥४३॥

नारा आपः समाख्यातास्तासामयनमादितः ।
यतस्त्वं भूतभव्येश तन्नारायणशब्दितः॥४४॥

हरसि प्राणिनो देव ततो हरिरिति स्मृतः ।
शङ्करोऽसि सदा देव ततः शङ्करतां गतः॥४५॥

बृहत्त्वाद्बृंहणत्वाच्च तस्माद्ब्रह्मेति शब्दितः ।
मधुरिन्द्रियनामेति ततो मधुनिषूदनः॥४६॥

हृषीकाणीन्द्रियाण्याहुस्तेषामीशो यतो भवान् ।
हृषीकेशस्ततो विष्णो ख्यातो देवेषु केशव॥४७॥

क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् ।
आवां तवाङ्गसम्भूतौ तस्मात्केशवनामवान्॥४८॥

मा विद्या च हरे प्रोक्ता तस्या ईशो यतो भवान् ।
तस्मान्माधवनामासि धवः स्वामीति शब्दितः॥४९॥

गौरेषा तु यतो वाणी तां च वेद यतो भवान् ।
गोविन्दस्तु ततो देव मुनिभिः कथ्यते भवान्॥५०॥

त्रिरित्येव त्रयो देवाः कीर्तिता मुनिसत्तमैः ।
क्रमते तांस्तथा सर्वास्त्रिविक्रम इति श्रुतः॥५१॥

अणुर्वामननामासि यतस्त्वं वामनाख्यया ।
मननान्मुनिरेवासि यमनाद्यतिरुच्यसे॥५२॥

तपश्चरसि यस्मात्त्वं तपस्वीति च शब्दितः ।
वसन्ति त्वयि भूतनि भूतावासस्ततो हरे॥५३॥

ईशस्त्वं सर्वभूतानामीश्वरोऽसि ततो हरे ।
प्रणवः सर्ववेदानां गायत्री छन्दसां प्रभो॥५४॥

अक्षराणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रयः ।
रुद्राणामहमेवासि वसूनां पावको भवान्॥५५॥

अश्वत्थो वृक्षजातीनां ब्रह्मा लोकगुरुर्भवान् ।
मेरुस्त्वं पर्वतेन्द्राणां देवर्षीणां च नारदः॥५६॥

दानवानां भवान्दैत्यः प्रह्रादो भक्तवत्सलः ।
सर्पाणामेव सर्वेषां भवान्वासुकिसंज्ञितः॥५७॥

गुह्यकानां च सर्वेषां भवान्धनद एव च ।
वरुणो यादसां राजा गङ्गा त्रिपथभाग्भवान्॥५८॥

आदिस्त्वं सर्वभूतानां मध्यमन्तस्तथा भवान् ।
त्वत्तः समभवद्विश्वं त्वयि सर्वं प्रलीयते॥५९॥

अहं त्वं सर्वगो देव त्वमेवाहं जनार्दन ।
आवयोरन्तरं नास्ति शब्दैरर्थैर्जगत्पते॥६०॥

नामानि तव गोविन्द यानि लोके महान्ति च ।
तान्येव मम नामानि नात्र कार्या विचारणा॥६१॥

त्वदुपासा जगन्नाथ सैवास्तु मम गोपते ।
यश्च त्वां द्वेष्टि देवेश स मां द्वेष्टि न संशयः॥६२॥

त्वद्विस्तारो यतो देव अहं भूतपतिस्ततः ।
न तदस्ति विना देव यत्ते विरहितं हरे॥६३॥

यदासीद्वर्तते यच्च यच्च भावि जगत्पते ।
सर्वं त्वमेव देवेश विना किञ्चित्त्वया न हि॥६४॥

स्तुवन्ति देवाः सततं भवन्तं स्वैर्गुणैः प्रभो ।
ऋक्च त्वं यजुरेवासि सामासि सततं प्रभो॥६५॥

किमुच्यते मया देव सर्वं त्वं भूतभावन ।
नमः सर्वात्मना देव विष्णो माधव केशव॥६६॥

नमस्करोमि सर्वात्मन्नमस्तेऽस्तु सदा हरे ।
नमः पुष्करनाभाय वन्दे त्वामहमीश्वर॥६७॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां शिवकृतविष्णुस्तुतौ अष्टाशीतितमोऽध्यायः॥८८॥
महादेवेन कृष्णस्वरूपवर्णनम्

वैशम्पायन उवाच। इत्युक्त्वा देवदेवेशं मुनीनाह पुनः शिवः ।
एवं जानीत हे विप्रा ये भक्ता द्रष्टुमागताः॥१॥

इत्युक्त्वेति॥१॥

एतदेव परं वस्तु नैतस्मात्परमस्ति वः ।
एतदेव विजानीध्वमेतद्वः परमं तपः॥२॥

एतदित्यङ्गुल्या कृष्णं दर्शयति। तपः तपःफलम्॥२॥

एतदेव सदा विप्रा ध्येयं सततमानसैः ।
एतद्वः परमं श्रेय एतद्वः परमं धनम्॥३॥

सततमानसैः अविच्छिन्नचित्तवृत्तिभिः॥३॥

एतद्वो जन्मनः कृत्यमेतद्वस्तपसः फलम् ।
एष वः पुण्यनिलय एष धर्मः सनातनः॥४॥

फलम् ऐकाग्र्यम्॥४॥

एष वो मोक्षदाता च एष मार्ग उदाहृतः ।
एष पुण्यप्रदः साक्षादेतद्वः कर्मणां फलम्॥५॥

एतदेव प्रशंसन्ति विद्वांसो ब्रह्मवादिनः ।
एष त्र्ययीगतिर्विप्राः प्रार्थ्यो ब्रह्मविदां सदा॥६॥

त्रयीगतिः कर्मकाण्डप्राप्यः॥६॥

एतदेव प्रशंसन्ति साङ्ख्ययोगसमाश्रिताः ।
एष ब्रह्मविदां मार्गः कथितो वेदवादिभिः॥७॥

एवमेव विजानीत नात्र कार्या विचारणा ।
हरिरेकः सदा ध्येयो भवद्भिः सत्त्वमास्थितैः॥८॥

नान्यो जगति देवोऽस्ति विष्णोर्नारायत्णापरः ।
ओमित्येवं सदा विप्रा पठत ध्यात केशवम्॥९॥

ततो निःश्रेयसप्राप्तिर्भविष्यति न संशयः ।
एवं ध्यातो हरिः साक्षात्प्रसन्नो वो भविश्यति॥१०॥

भवनाशमयं देवः करिष्यति दृढं हरिः ।
सदा ध्यात हरिं विप्रा यदीच्छा प्राप्तुमच्युतम्॥११॥

एष संसारविभवं विनाशयति वो गुरुः ।
स्मरध्वं सततं विष्णुं पठध्वं त्रिशरीरिणम्॥१२॥

संसारस्य विभवः नानारूपेण भवनं यस्याः साकाशात् सा मूलविद्या तां त्रिशरीरिणं ब्रह्मादित्रयदेहम्॥१२॥

मनःसंयमनं विप्राः कुरुध्वं यत्नतः सदा ।
शुद्धेऽन्तःकरणे विष्णुः प्रसीदति तपोधनाः॥१३॥

ध्यात्वा मां सर्वयत्नेन ततो जानीत केशवम् ।
उपास्योऽहं सदा विप्रा उपास्योऽस्मिन्हरौ स्मृतः॥१४॥

ध्यात्वेति। स्वस्य सगुणब्रह्मभावं जानीतेति केशवस्य निर्गुणब्रह्मभावनं च सूचयति। उपास्यः चिन्तनीयः। उपास्य उपगत्य प्राप्यः॥१४॥

उपायोऽयं मया प्रोक्तो नात्र सन्देह इत्यपि ।
अयं मायी सदा विप्रा यतध्वमघनाशने॥१५॥

यथा वो बुद्धिरखिला शुद्धा भवति यत्नतः ।
तथा कुरुत विप्रेन्द्रा यथा देवः प्रसीदति॥१६॥

वैशम्पायन उवाच। एवमुक्तास्ततः सर्वे मुनयः पुण्यशीलिनः ।
यथावदुपगृह्णाना निरसन्संशयं नृप॥१७॥

निरसन् निरस्तवन्तः॥१७॥

एवमेवेति तं विप्राः प्राहुः प्राञ्जलयो हरम् ।
छिन्नो नः संशयः सर्वे गृहीतोऽर्थः स तादृशः॥१८॥

एतदर्थं समायाता वयमद्य तवालयम् ।
सङ्गमाद्युवयोः सर्वो नष्टो मोहो महानिह॥१९॥

यथा वदसि देवेश तथा नः श्रेयसे परम् ।
यथाऽऽह भगवान्रुद्रो यतामः सततं हरौ ।
इति ते मुनयः प्रीताः प्रणेमुः केशवं हरिम्॥२०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां ऋष्युपदेशे नवाशीतितमोऽध्यायः॥८९॥
पुनरपि शिवकृता विष्णुस्तुतिः

वैशम्पायन उवाच। ततः स भगवान्रुद्रः सर्वान्विस्मापयन्निव ।
स्तुत्या प्रचक्रमे स्तोतुं विष्णुं विश्वेश्वरं हरिम् ।
अर्थ्याभिस्तु तदा वाग्भिर्मुनीनां शृण्वतां तथा॥१॥

ततः स इति॥१॥

महेश्वर उवाच। नमो भगवते तुभ्यं वासुदेवाय धीमते ।
यस्य भासा जगत्सर्वं भासते नित्यमच्युत॥२॥

नमो भगवते देव नित्यं सूर्यात्मने नमः ।
यः शीतयति शीतांशुर्लोकान्सर्वानिमान्विभुः॥३॥

नमस्ते विष्णवे देव नित्यं सोमात्मने नमः ।
यः प्रजाः प्रीणयत्येको विश्वात्मा भूतभावनः॥४॥

नमः सर्वात्मने देव नमो वागात्मने हरे ।
यो दधार करेणासौ कुशचीरादि यत्सदा॥५॥

दधार वेदान्सर्वांश्च तुभ्यं ब्रह्मात्मने नमः ।
सर्वान्संहरते यस्तु संहारे विश्वदृक्सदा॥६॥

क्रोधात्मासि विरूपोऽसि तुभ्यं रुद्रात्मने नमः ।
सृष्टौ स्रष्टा समस्तानां प्राणिनां प्राणदायिने॥७॥

अजाय विष्णवे तुभ्यं स्रष्ट्रे विश्वसृजे नमः ।
आदौ प्रकृतिमूलाय भूतानां प्रभवाय च॥८॥

नमस्ते देवदेवेश प्रधानाय नमो नमः ।
पृथिव्यां गन्धरूपेण संस्थितः प्राणिनां हरे॥९॥

दृढाय दृढरूपाय तुभ्यं गन्धात्मने नमः ।
अपां रसाय सर्वत्र प्राणिनां सुखहेतवे॥१०॥

नमस्ते विश्वरूपाय रसाय च नमो नमः ।
तेजसा भास्करो यस्तु घृणो जन्तुहितः सदा॥११॥

घृणः घृणयो रश्मयस्तद्वान् सूर्यः। घृणिरिति पाठः स्वच्छः॥११॥

तस्मै देव जगन्नाथ नमो भास्कररूपिणे ।
वायोः स्पर्शगुणो यत्र शीतोष्णसुखदुःखदः॥१२॥

नमस्ते वायुरूपाय नमः स्पर्शात्मने हरे ।
आकाशेऽवस्थितः शब्दः सर्वश्रोत्रनिवेशनः॥१३॥

नमस्ते भगवन्विष्णो तुभ्यं सर्वात्मने नमः ।
यो दधार जगत्सर्वं मायामानुषदेहवान्॥१४॥

नमस्तुभ्यं जगन्नाथ मायिनेऽमायदायिने ।
नम आद्याय बीजाय निर्गुणाय गुणात्मने॥१५॥

अचिन्त्याय सुचिन्त्याय तस्मै चिन्त्यात्मने नमः ।
हराय हरिरूपाय ब्रह्मणे ब्रह्मदायिने॥१६॥

नमो ब्रह्मविदे तुभ्यं ब्रह्मब्रह्मात्मने नमः ।
नमः सहस्रशिरसे सहस्रकिरणाय च॥१७॥

ब्रह्मब्रह्मात्मने वेदयज्ञस्वरूपाय॥१७॥

नमः सहस्रवक्त्राय सहस्रनयनाय च ।
विश्वाय विश्वरूपाय विश्वकर्त्रे नमो नमः॥१८॥

विश्ववक्त्रे नमो नित्यं भूतावास नमो नमः ।
इन्द्रियायेन्द्ररूपाय विषयाय सदा हरे॥१९॥

नमोऽश्वशिरसे तुभ्यं वेदाभरणरूपिणे ।
अग्नयेऽग्निपते तुभ्यं ज्योतिषां पतये नमः॥२०॥

सूर्याय सूर्यपुत्राय तेजसां पतये नमः ।
नमः सोमाय सौम्याय नमः शीतात्मने हरे॥२१॥

नमो वषट्कृते तुभ्यं स्वाहास्वधास्वरूपिणे ।
नमो यज्ञाय इज्याय हविषे हव्यसंस्कृते ।
नमः स्रुवाय पात्राय यज्ञाङ्गाय पराय च॥२२॥

नमः प्रणवदेहाय क्षरायाप्यक्षराय च ।
वेदाय वेदरूपाय शस्त्रिणे शस्त्ररूपिणे॥२३॥

गदिने खड्गिने तुभ्यं शङ्खिने चक्रिणे नमः ।
शूलिने चर्मिणे नित्यं वरदाय नमो नमः॥२४॥

बुद्धिप्रियाय बुद्धाय प्रबुद्धाय सुखाय च ।
हरये विष्णवे तुभ्यं नमः सर्वात्मने गुरो॥२५॥

नमस्ते सर्वलोकेश सर्वकर्त्रे नमो नमः ।
नमः स्वभावशुद्धाय नमस्ते यज्ञसूकर॥२६॥

नमो विष्णो नमो विष्णो नमो विष्णो नमो हरे ।
नमस्ते वासुदेवाय वासुदेवाय धीमते॥२७॥

नमः कृष्णाय कृष्णाय सर्वावास नमो नमः ।
नमो भूयो नमस्तेऽस्तु पाहि लोकाञ्जनार्दन॥२८॥

कृष्णाय नामतः कृष्णाय वर्णतः॥२८॥

इति स्तुत्वा जगन्नथमुवाच मुनिसत्तमान् ।
इदं स्तोत्रमधीयाना नित्यं व्रजत केशवम्॥२९॥

शरण्यं सर्वभूतानां तत्र श्रेयो विधास्यति ।
ये चेमं धारयिष्यन्ति स्तवं पापविमोचनम्॥३०॥

तेषां प्रीतः प्रसन्नात्मा पठतां शृण्वतां हरिः ।
श्रेयो दास्यति धर्मात्मा नात्र कार्या विचारणा॥३१॥

अवश्यं मनसा ध्यात्वा केशवं भक्तवत्सलम् ।
श्रेयः प्राप्तुं यदीच्छन्ति भवन्तः शंसितव्रताः॥३२॥

इत्युक्त्वा भगवान्रुद्रस्तत्रैवान्तरधीयत ।
सगणः शङ्करः साक्षादुमया भूतभावनः॥३३॥

नेमुस्तं मुनयः सर्वे परां निर्वृतिमाययुः ।
तमेव परमं तत्त्वं मत्वा नारायणं हरिम् ।
विस्मयं परमं गत्वा मेनिरे स्वकृतार्थताम्॥३४॥

लोकपालास्तदा विष्णुं नमस्कृत्य हरिं मुदा ।
जग्मुः स्वान्यथ वेश्मानि गणैः सर्वैर्नृपोत्तम॥३५॥

आरुह्य भगवान्विष्णुर्गरुडं पक्षिपुङ्गवम् ।
शङ्खी चक्री गदी खड्गी शार्ङ्गी तूणी तनुत्रवान्॥३६॥

यथागतं जगन्नाथो ययौ बदरिकामनु ।
सायाह्ने पुण्डरीकाक्षो नित्यं मुनिनिशेविताम्॥३७॥

तत्र गत्वा यथायोगं विनम्य हरिरीश्वरः ।
अर्चितो मुनिभिः सर्वैर्निषसाद सुखासने॥३८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां कृष्णप्रत्यागमने नवतितमोऽध्यायः॥९०॥
पौण्ड्रकवृत्तान्तारम्भः

वैशम्पायन उवाच। एतस्मिन्नेव काले तु पौण्ड्रो नृपवरोत्तमः ।
बलवान्सत्त्वसम्पन्नो योद्धा विपुलविक्रमः॥१॥

बाणयुद्धे यदुक्तं हरिहराद्वैतं तदेव कैलासयात्रायां हरेः शिवाराधकत्वेन शिवस्य विष्णुस्तावकत्वेन च दृढीकृतम्। तेन शास्तृशास्ययोर्जीवेशयोरविकृतब्रह्मभावः। कृत्स्नस्य शास्त्रस्यार्थ उक्तः। अथावरकृत्यशेषं व्याचष्टरे- एतस्मिन्नेव काले इत्यादिना॥१॥

वृष्णिशत्रुस्तदा राजा कृष्णद्वेषी बलात्तदा ।
नृपान्सर्वान्समाहूय प्रोवाच नृपसंसदि॥२॥

जिता च पृथिवी सर्वा जिताश्च नृपसत्तमाः ।
वृष्णयस्ते बलोन्मत्ताः कृष्णमाश्रित्य गर्विताः॥३॥

दास्यन्ति मे करं सर्वे न हि ते कृष्णसंश्रयात् ।
स तु कृष्णश्चक्रबलान्मामवज्ञाय तिष्ठति॥४॥

अहं चक्रीति गर्वोऽभूत्तस्य गोपस्य सर्वदा ।
शङ्खी चक्री गदी शार्ङ्गी शरी तूणी सहायवान्॥५॥

एवमादिर्महागर्वस्तस्य सम्प्रति वर्तते ।
लोके च मम यान्नाम वासुदेवेति विश्रुतम्॥६॥

अगृह्णान्मम तन्नाम गोपो मदबलान्वितः ।
तस्य चक्रस्य यच्चक्रं ममापि निशितं महत्॥७॥

चक्रस्य नाशकमिति शेषः॥७॥

गर्वहन्तृ सदा तस्य नाम्ना चापि सुदर्शनम् ।
सहस्रारं महाघोरं तस्य चक्रस्य नाशनम्॥८॥

अनेकमहतं चक्रं गोपजस्य नृपोत्तमाः ।
ममाप्येतद्धनुर्दिव्यं शार्ङ्गं नाम महारवम्॥९॥

अनेकं बहुविग्रहम् अहतम् अप्रतिहृतं तादृशं ममापीति भावः॥९॥

गदा कौमोदकी नाम ममेयं बृहती दृढा ।
कालायससहस्रस्य भारेण सुकृता मया॥१०॥

खड्गो नन्दकनामासौ ममायं विपुलो दृढः ।
अन्तकस्यान्तको घोरस्तस्य खड्गस्य नशकः॥११॥

तत्रायं च गादी खड्गी शङ्खी चक्री तनुत्रवान् ।
युधि जेता च कृष्णस्य नात्र कार्या विचारणा॥१२॥

मां च ब्रूत नृपाश्चैव गदिनं चक्रिणं तथा ।
शङ्खिनं शार्ङ्गिणं वीरं ब्रूत नित्यं नृपोत्तमाः॥१३॥

वासुदेवेति मां ब्रूत न तु गोपं यदूत्तमम् ।
एकोऽहं वासुदेवो हि हत्वा तं गोपदारकम्॥१४॥

सख्युर्मम बलाद्धन्ता नरकस्य महात्मनः ।
मां तथा यदि न ब्रूत दण्ड्या भारशतैः शतम्॥१५॥

“भारः स्याद्विंशतिस्तुलाः” तेषां भाराणां शतैः शतम् अयुतमित्यर्थः॥१५॥

सुवर्णस्य च निष्कस्य धान्यस्य बहुशस्तदा ।
तथा ब्रुवति राजेन्द्रे मनसा दुस्सहं यथा॥१६॥

केचिल्लज्जासमायुक्ता आसंस्ते बलवत्तराः ।
रसज्ञा बलवीर्यस्य राजानस्ते सदा नृप॥१७॥

अपरे तु नृपा राजन्नेवमेवेति चुक्रुशुः ।
अन्ये बलमदोत्सिक्ता जेष्यामः केशवं रणे॥१८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौण्ड्रकोक्तौ एकनवतितमोऽध्यायः॥९१॥
पौण्ड्रकनारदसंवादः

वैशम्पायन उवाच। ततः कैलासशिखरान्निर्गतो मुनिसत्तमः ।
नारदः सर्वलोकज्ञः पौण्ड्रस्य नगरं प्रति॥१॥

तत इति॥१॥

अवतीर्य नभोभागात्प्रत्यागम्य नरोत्तमम् ।
द्वाःस्थेन च समाज्ञप्तः प्रविवेश गृहोत्तमम्॥२॥

अर्घ्यादिसमुदाचारं नृपाल्लब्ध्वा महामुनिः ।
निषसादासने शुभ्रे ह्यास्तृते शुभवाससा॥३॥

कुशलं पृष्टवान्भूयो नृपः स मुनिसत्तमम् ।
उवाच नारदं भूयः पौण्ड्रको बलगर्वितः॥४॥

भवान्सर्वत्र कुशलः सर्वकार्येषु पण्डितः ।
प्रथितो देवसिद्धेषु गन्धर्वेषु महात्मसु॥५॥

सर्वत्रगो निराबाधो गत्वा सर्वत्र सर्वदा ।
अगम्यं तव विप्रेन्द्र ब्रह्माण्डे न हि किञ्चन॥६॥

नारदेदं वद त्वं हि यत्र यत्र गतो भवान् ।
तत्र तत्र तपःसिद्धो लोके प्रथितवीर्यवान्॥७॥

वद पौण्ड्रक एव वासुदेवशब्दित इति ख्यापयेत्यर्थः॥७॥

पौण्ड्र एव च विख्यातो वासुदेवेति शब्दितः ।
शङ्खी चक्री गदी शार्ङ्गी खड्गी तूणी तनुत्रवान् ।
विजेता राजसिंहानां दाता सर्वस्य सर्वदा॥८॥

भोक्ता राज्यस्य सर्वस्य शास्ता राजा बलाद्बली ।
अजेयः शत्रुसैन्यानां रक्षिता स्वजनस्य च॥९॥

योऽद्य गोपकनामासौ वासुदेवेति शब्दितः ।
तस्य वीर्यबले न स्तो नाम्नोऽस्य मम धारणे॥१०॥

स हि गोपो वृथा बाल्याद्धारयत्येव नाम मे ।
इदं निश्चिनु विप्रेन्द्र एक एव भवाम्यहम्॥११॥

वासुदेवो जगत्यस्मिन्निर्जित्य बलिनं यदुम् ।
वृष्णीन्सर्वान्बलात्क्षिप्त्वा निहनिष्ये च तां पुरीम्॥१२॥

द्वारकां विष्णुनिलयां योद्धा चाहं महामते ।
एते च बलिनः सर्वे नृपा मम समागताः॥१३॥

अश्वाश्च वेगिनः सन्ति रथा वायुजवा मम ।
नानामन्त्राः सहस्रं च गजा नियुतमेव च॥१४॥

एतेनाहं बलेनाजौ हनिष्ये केशवं रणे ।
तस्मादेवं सदा विप्र वद ब्रह्मन्पुरे मम॥१५॥

इन्द्रस्यापि सदा विप्र वद नारद साम्प्रतम् ।
प्रार्थनैश्च मम विभो नमस्ये त्वां तपोधन॥१६॥

नारद उवाच। सर्वत्रगः सदा चास्मि यावद्ब्रह्माण्डसंस्थितिः ।
आचार्यः सर्वकार्येषु गमने केनचिन्नृप॥१७॥

आचार्यः शरणीकरणाय। पाठान्तरे गमने आचार्य इति योज्यम्॥१७॥

किन्नु वक्तुं तथा राजन्नुत्सहे नृपसत्तम ।
महीं शासति देवेशे चक्रपाणौ जनार्दने॥१८॥

विष्णौ सर्वत्रगे देवे दुष्टान्हत्वा सबान्धवान् ।
वासुदेवेति को नाम तिष्ठत्यस्मिन्हराविति॥१९॥

को नाम धारयेदिति शेषः॥१९॥

को नाम वक्तुमेवेदं कृष्णे शासति गोमती ।
अज्ञानाद्वक्तुमेवं च समार्था प्राकृता जनाः॥२०॥

गोमती सूर्यकिरणसम्पर्कवती द्वे भुवन द्युभूनामनी शासति पालयात इदं वक्तुं को नाम समर्थः स्यात्। न कोऽपात्यर्थः। प्राकृतास्त्वादृशाः मूढाः॥२०॥

हरिः सर्वत्रगो विष्णुर्दर्पं ते व्यपनेष्यति ।
अचिन्त्यविभवो विष्णुः शार्ङ्गधन्वा गदाधरः॥२१॥

आदिदेवः पुराणात्मा दर्पं ते व्यपनेष्यति ।
हास्यमेतन्महाराज यच्च वै तत्र संस्थितम्॥२२॥

शार्ङ्गं खड्गं तथा राजन्महाघोरं न दाप्यते ।
अतीव हासकालोऽयं तव सम्प्रति वर्तते॥२३॥

तच्च शार्ङ्गादिकं तत्र विष्णौ स्थितं न दाप्यते त्वदीयेन शार्ङ्गादिना न च्छेद्येत इत्यर्थः “दा प्लवने” इत्यस्य रूपम्॥२३॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौण्ड्रकनारदसंवादे द्विनवतितमोऽध्यायः॥९२॥
पौण्ड्रकस्य द्वारकावरोधः

वैशम्पायन उवाच। ततः क्रुद्धो महाराज पौण्ड्रो मदबलान्वितः ।
नारदं विप्रवर्यं तं प्रोवाच नृपसंसदि॥१॥

तत इति॥१॥

किमिदं प्राह विप्रर्षे राजाहं च द्विजैः सह ।
गच्छ त्वं काममथ वा मुने शापप्रदः सदा॥२॥

भीतस्त्वत्तो महाबुद्धे गच्छ त्वं काममद्य हि ।
इत्युक्तो नृपवीर्येण तूष्णीमेव स नारदः॥३॥

जगामाकाशगमनो यत्र तिष्ठति केशवः ।
स गत्वा विष्णुसङ्काशं विष्णोः सर्वं शशंस ह॥४॥

तच्छ्रुत्वा भगवान्विष्णुर्यथेष्टं वदतामिति ।
दर्पं तस्यापनेष्यामि श्वोभूते द्विजसत्तम॥५॥

इत्युक्त्वा विररामैव तस्मिन्बदरिकाश्रमे ।
ततः पौण्ड्रो महाबाहुर्बलैर्बहुभिरीश्वरः॥६॥

अश्वैरनेकसाहस्रैर्गजैर्बहुभिरन्वितः ।
शस्त्रकोटिसमायुक्तः स राजा सत्यसङ्गरः॥७॥

अनेकशतसाहस्रैः पत्तिभिश्च समन्वितः ।
एकलव्यप्रभृतिभी राजभिश्च समन्ततः॥८॥

अष्टौ रथसहस्राणि नागानामयुतं तथा ।
अर्बुदं पत्तिसङ्घानां तद्बलं समपद्यत॥९॥

एतेन च बलेनाजौ प्रस्फुरन्नृपसत्तमः ।
विरराज महाराज उदयस्थो महारविः॥१०॥

स ययौ मध्यरात्रेण नगरीं द्वारकामनु ।
पत्तयो दीपिकाहस्ता रत्रौ तमसि दारुणे॥११॥

ययुर्विविधशस्त्रौघा सम्पतन्तो महाबलाः ।
द्वारकां वीर्यसम्पन्नां महाघोरां नृपोत्तमाः॥१२॥

रथं महान्तमारुह्य शस्त्रौघश्च समावृतम् ।
पट्टिशासिसमाकीर्णं गदापरिघसङ्कुलम्॥१३॥

शक्तितोमरसङ्कीर्णं ध्वजमालासमाचितम् ।
किङ्किनीजालसंयुक्तं शरासिप्राससंयुतम्॥१४॥

महाघोरं महारौद्रं युगान्तजलदोपमम् ।
धनुर्गदासमाकीर्णं महावाद्योपमं महत्॥१५॥

महवाद्योपमं महामेघगर्जिततुल्यध्वनिं महत् महान्तं रथम्॥१५॥

अग्न्यर्कसदृशाकारं ययौ द्वारवतीमनु ।
गृहीतदीपिको राजा वीर्यवान्बलवान्नृप॥१६॥

हन्तुमैच्छज्जगन्नाथं वृष्णींश्चैव समन्ततः ।
आकर्षन्बलमुख्यांस्तान्राज्ञः सर्वान्महाद्युतिः॥१७॥

पुरद्वारं समासाद्य बलं संस्थाप्य यत्नतः ।
इदं प्रोवाच राजा तु नृपान्सर्वानवस्थितान्॥१८॥

ताड्यतामत्र भेरी तु नाम विश्राव्य मामकम् ।
युध्यतां युध्यतामत्र देयं वा प्रतिदीयताम्॥१९॥

आगतः पौण्ड्रको राजा युद्धार्थी वीरवत्तरः ।
हन्तुकामः समग्रान्वः कृष्णबाहुबलाश्रयान्॥२०॥

इति ते प्रेषिताः सर्वे समीयुः सूचकान्बहून् ।
दीपिकाश्च प्रदीप्यन्ते बह्व्यः शतसहस्रशः॥२१॥

सूचकान्बाह्यान्तरवृत्तान्तज्ञान् यदावभाटान्। सूर्यकान् इति पाठे सूर्यप्रकृतींस्तत्तुल्यान् यदून्॥२१॥

इतश्चेतश्च राजानो युध्यन्ते युद्धलालसाः ।
पुरीं ते पुरतस्तत्र क्षत्रियाः शस्त्रिणस्तदा॥२२॥

सिंहनादं प्रकुर्वन्तः शस्त्रधारासमाकुलाः ।
कुतोऽयं वृष्णिप्रवरः कुतो राजा जगत्पतिः॥२३॥

कुतोऽयं सात्यकिर्वीरः कुतो हार्दिक्य एव च ।
कुतो नु बलभद्रश्च सर्वयादवसत्तमः ।
इत्येवं कथयन्तो वै राजानः सर्व एव ते॥२४॥

आदाय शस्त्राणि बहूनि सर्वतः शरांश्च चापानि बहूनि सर्वे ।
युद्धय सन्नाहनिबद्धशो ययुर्हरेः पुरीं द्वारवतीं नृपोत्तमाः॥२५॥

निबद्धानिव इति निबद्धशः सर्वे सन्नाहनिबद्धाः इत्यर्थः॥२५॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौण्ड्रकस्य द्वारकागमने त्रिनवतितमोऽध्यायः॥९३॥
यादवानां युद्धोद्योगः

वैशम्पायन उवाच। ततश्च यादवाः सर्वे दृष्ट्वा सैनिकसञ्चयम् ।
रात्रौ च व्यसनं प्राप्तं महाशस्त्रसमाकुलम्॥१॥

महावातसमुद्भूतं कल्पान्ते समरोपमम् ।
सन्नद्धाः समपद्यन्त शस्त्रिणो युद्धलालसाः॥२॥

गृहीतदीपिकाः सर्वे यादवाः शस्त्रयोधिनः ।
सात्यकिर्बलभद्रश्च हार्दिक्यो निशठस्तथा॥३॥

उद्धवोऽथ महाबुद्धिरुग्रसेनो महाबलः ।
अन्ये च यादवाः सर्वे कवचप्रग्रहे रताः॥४॥

समस्तयुद्धकुशला रात्रौ सन्नाहयोधिनः ।
शस्त्रिणः खड्गिनश्चैव सर्वे शस्त्रसमाकुलाः॥५॥

युद्धाय समपद्यन्त बहवो बाहुशालिनः ।
रथिनो गदिनश्चैव सादिनः सायुधास्तथा॥६॥

नित्ययुक्ता महात्मानो धन्विनः पुरुषोत्तमाः ।
निर्ययुर्नगरात्तूर्णं दीपिकाभिः समन्ततः॥७॥

कुतः पौण्ड्रक इत्येवं वदन्तः सर्वसात्वताः ।
दीपिकादीपितो देशो निस्तमाः समपद्यत॥८॥

ततो वितिमिरो देशः समन्तात्प्रत्यपद्यत ।
युद्धं समभवद्घोरं वृष्णिभिः शत्रुभिः सह॥९॥

ततो महान्समभवत्सन्नादो रोमहर्षणः ।
हया हयैः समायुक्ता गजाश्च गजयूथपैः॥१०॥

रथा रथैः समायुक्ताः सादिभिः सादिनस्तथा ।
खड्गिनः खड्गिभिः सार्धं गदिभिर्गदिनस्तथा॥११॥

परस्परव्यतीकारो रण आसीत्सुदारुणः ।
महाप्रलयसङ्क्षोभः शब्दस्तेषां महात्मनाम्॥१२॥

धावन्तः प्रहरन्त्येतान्हन्त्येतान् सर्वतो नृपान् ।
अयमेष महाबाहुः खड्गी पतति वीर्यवान्॥१३॥

अयमेष शरो घोरो वर्ततेऽतिसुदारुणः ।
गदी चायं महावीर्यः सर्वान्नो बाधते नृपः॥१४॥

अयं रथी शरी चपी गदी तूणी तनुत्रवान् ।
यादृशः सर्वतो याति कुन्तपाणिरयं बली॥१५॥

अयमत्र महाशूली संश्रितः सर्वतोदिशम् ।
गजोऽयं सविषाणाग्रो वर्तते सर्वतः प्रति॥१६॥

अतिसर्वत्रगः शूरो वेगवान्वातसन्निभः ।
शराञ्च्छरैः समाहन्ति दण्डान्दण्डैर्जगत्पते॥१७॥

कुन्तान्कुन्तैः समाजघ्नुर्गदाभिश्च गदास्तथा ।
परिघान्परिघैः सार्धं शूलाञ्च्छूलैः समन्ततः॥१८॥

एवं तेषां महाराज कुर्वतां रणमुत्तमम् ।
सङ्ग्रामः सुमहानासीच्छब्दश्चापि महानभूत्॥१९॥

भूतानि सुबहून्याजौ शब्दवन्ति महान्ति च ।
प्रादुरासन्सहस्राणि शङ्खानां भीमनिःस्वनः॥२०॥

रात्रौ प्रादुरभूच्छब्दः सङ्ग्रामे रोमहर्षणः ।
वर्तमाने महायुद्धे वृष्णीनां चैव तैः सह॥२१॥

केचिद्ग्रस्ताः समापेतुः पृथिव्यां पृथिवीक्षितः ।
केचित्पतितश्लिष्टाश्च विप्रकीर्णशिरोधराः॥२२॥

पेतुरुर्व्यां महावीर्या राजानः शस्त्रपाणयः ।
केचित्तु भिन्नवर्माणः समापेतुः सहस्रधा॥२३॥

परस्परं समाश्रित्य परस्परवधैषिणः ।
न्यस्तशस्त्रा महात्मानः समन्तात्क्षतविग्रहाः॥२४॥

पेतुर्गतासवः केचिद्यमराष्ट्रविवर्धनाः ।
एवं ते निहता राजन्योधिताः सर्व एव तु॥२५॥

एतस्मिन्नन्तरे शूर एकलव्यो निषादयः ।
धनुर्गृह्य महाघोरं कालान्तकयमोपमः॥२६॥

शरैरनेकसाहस्रैरर्दयामास यादवान् ।
परःशतैः शराणां तु निशितैर्मर्मभेधिभिः॥२७॥

वृष्णीनां च बलं सर्वं पोथयामास सर्वतः ।
युद्ध्यतः शस्त्रपाणींश्च क्षत्रियान्वीर्यवत्तरान्॥२८॥

निशठं पञ्चविंशत्या शराणां नतपर्वणाम् ।
सारणं दशभिर्विद्ध्वा हार्दिक्यं पञ्चभिः शरैः॥२९॥

उग्रसेनं नवत्याशु वसुदेवं च सप्तभिः ।
उद्धवं दशभिश्चैव ह्यक्रूरं पञ्चभिः शरैः॥३०॥

एवमेकैकशः सर्वे निहता निशितैः शरैः ।
विद्राव्य यादवीं सेनां नाम विश्राव्य वीर्यवान्॥३१॥

एकलव्यो यदुवृषान्वीर्यवान्बलवानहम् ।
इदानीं सात्यकिर्वीरः क्व यास्यति महाबलः॥३२॥

मदमत्तो हली साक्षात्क्व यातीह गदाधरः ।
इत्याह सिंहनादेन सिंहान्विस्मापयन्निव॥३३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौण्ड्रकवधे रात्रियुद्धे चतुर्नवतितमोऽध्यायः॥९४॥
सात्यकिपौण्ड्रकयोः संवादः

वैशम्पायन उवाच। निवृत्तेष्वथ सैन्येषु वृष्णिवीरेषु चैव हि ।
भीतेष्वथ महाराज हतेषु युधि सर्वतः॥१॥

निवृत्तेष्विति॥१॥

दीपिकासु प्रशान्तासु निःशब्दे सति सर्वतः ।
जितमित्येव यन्मत्वा वृष्णीनां बलमुत्तमम्॥२॥

ततः पौण्ड्रो महावीर्यो बभाषे सैनिकान्स्वकान् ।
शीघ्रं गच्छत राजेन्द्राष्टङ्कैः कुन्तैः पुरीमिमाम्॥३॥

कुठारैः कुन्तलैश्चैव पाषाणैः सर्वतोदिशम् ।
कर्षणस्थैः सुपाषाणैः सर्वतो यात भूमिपाः॥४॥

भिद्यन्तां प्राकारचया प्रासादाश्च समन्ततः ।
गृह्यन्तां कन्यकाः सर्वा दास्यश्चैव समन्ततः॥५॥

गृह्यन्तां वसुमुख्यानि धनानि सुबहून्यथ ।
ते तथेति महात्मानो राजानः सर्व एव तु॥६॥

वसुमुख्यानि रत्नानि॥६॥

कुठारैः सर्वतश्चैव चिच्छिदुः पौण्ड्रकाज्ञया ।
प्राकारांश्चैव सर्वत्र प्रासादान्नरसञ्चयान्॥७॥

अथ तत्र महाशब्दः प्रादुरासीत्समन्ततः ।
टङ्केषु पात्यमानेषु प्राकारेषु महाबलैः॥८॥

पूर्वद्वारे महाराज भिन्नाः प्राकारसञ्चयाः ।
श्रुत्वा शब्दं महाघोरं सात्यकिः क्रोधमूर्च्छितः॥९॥

मयि सर्वं समारोप्य केशवो यादवेश्वरः ।
गतः कैलासशिखरं द्रष्टुं शङ्करमव्ययम्॥१०॥

अवश्यं हि मया रक्ष्या पुरी द्वारवती त्वियम् ।
इति सञ्चिन्त्य मनसा धनुरादाय सत्वरम्॥११॥

रथं महान्तमारुह्य दारुकस्य महात्मनः ।
पुत्रेण संस्कृतं घोरं यन्ता च स्वयमेव हि॥१२॥

धनुर्महत्तदादाय शरांश्चाशीविषोपमान् ।
आमुच्य कवचं घोरं शस्त्रसम्पातदुःसहम्॥१३॥

अङ्गदी कुण्डली तूणी शरी चापी गदासिमान् ।
ययौ युद्धाय शैनेयः संस्मरन्कैशवं वचः॥१४॥

दीपिकादीपिते देशे ययौ सात्यकिरुत्तमः ।
तथैव बलदेवोऽपि रथमारुह्य भास्वरम्॥१५॥

गदी शरी महावीर्यः प्रायाद्रणचिकीर्षया ।
सिंहनादं प्रकुर्वन्तो मुञ्चन्तो भैरवं रवम्॥१६॥

उद्धवोऽपि बली साक्षाद्गजमारुह्य सत्वरम् ।
मत्तं महारवं घोरां सङ्ग्रामे नीतिमत्तरम्॥१७॥

ययौ नीतिं विचिन्वानः परां प्रीतिं महाबलः ।
अन्ये च वृष्णयः सर्वे ययुः सङ्ग्रामलालसाः॥१८॥

रथान्गजान्समारुह्य हार्दिक्यप्रमुख्यास्तथा ।
दीपिकाभिश्च सर्वत्र पुरोवृत्ताभिरीश्वराः॥१९॥

सिंहनादं प्रकुर्वन्तः स्मरन्तः केशवं वचः ।
पूर्वद्वारं समागम्य वृष्णयो युद्धलालसाः॥२०॥

ते समेत्य यथायोगं स्थितास्तत्र महाबलाः ।
स्थिते सैन्ये महाघोरे दीपिकादीपिते पथि॥२१॥

शिनिर्वीरः शरी चापी गदी तूणीरवान्विभो ।
वायव्यास्त्रं समादाय योजयित्वा महाशरम्॥२२॥

आकर्णं पूर्णमाकृष्य धनुः प्रवरमुत्तमम् ।
मुमोच परसैन्येषु शिनिर्वीरः प्रतापवान्॥२३॥

वायव्यास्त्रेण ते सर्वे तत्रस्था नरसत्तमाः ।
विजिता ह्यस्त्रवीर्येण यत्र तिष्ठति पौण्ड्रकः॥२४॥

तत्र गत्वा स्थिताः सर्वे निर्धूता वातरंहसा ।
यत्र पूर्वं स्थिताः सर्वे विद्रुता राजसत्तमाः॥२५॥

तत्र स्थित्वा च शैनेयः शरमादाय सत्वरम् ।
निशितं सर्पभोगाभं बभाषे सात्यकिस्तदा॥२६॥

क्व इदानीं महाबुद्धिः पौण्ड्रको राजसत्तमः ।
स्थितोऽस्ति व्यवसायेन शरी चापी महाबलः॥२७॥

यदि द्रष्टा दुरात्मानं ततो हन्ता नृपाधमम् ।
भृत्योऽस्मि केशवस्याहं जिघांसुः पौण्ड्रकं शितः॥२८॥

छित्त्वा शिरस्तु तस्यास्य सर्वक्षत्रस्य पश्यतः ।
बलिं दास्यामि गृध्रेभ्यः श्वभ्यश्चैव दुरात्मनः॥२९॥

को नाम ईदृशं कर्म चौरवच्च समाचरेत् ।
सुप्तेषु निशि सर्वत्र यादवेषु महात्मसु॥३०॥

चौरोऽयं सर्वथा राजा न हि राजा बलान्वितः ।
यदि शक्तो न कुर्याच्च चौर्यमेवं नृपाधमः॥३१॥

अहोऽस्य बलिनो राज्ञश्चौरकार्यं प्रकुर्वतः ।
सर्वथागमनं तस्य न हि पश्यामि साम्प्रतम्॥३२॥

इत्युक्त्वा सात्यकिर्वीरः प्रजहास महाबलः ।
विस्फार्य सुदृढं चापं सन्दधे कार्मुके शरम्॥३३॥

आकर्ण्य वचनं वीरः सात्यकेस्तस्य धीमतः ।
क्व नु कृष्णः क्व गोपालः कुतः सोऽथ प्रवर्तते॥३४॥

स्त्रीहन्ता पशुहन्ता च क्व च स्वामीति सेवितः ।
स इदानीं क्व वर्तेत गृहीत्वा मम नाम तत्॥३५॥

हन्ता सख्युर्महावीर्यो नरकस्य महात्मनः ।
ममैव तात युद्धेऽस्मिन्हते तस्मिन् दुरात्मनि॥३६॥

गच्छ त्वं कामतो वीर योद्धुं न क्षमते भवान् ।
अथ वा तिष्ठ किञ्चित्तु ततो द्रष्टासि मे बलम्॥३७॥

शिरस्ते पातयिष्यामि शरैर्घोरैर्दुरासदैः ।
हतस्य तव वीरेह भूमिः पास्यति शोणितम्॥३८॥

श्रोष्यते स तथा गोपो हतः सात्यकिरित्यपि ।
यो गर्वस्तस्य गोपस्य सर्वदा वर्तते महान्॥३९॥

विनश्यति स नु क्षिप्रं हते त्वयि यदूत्तम ।
त्वयि रक्षां समादिश्य गोपः कैलासपर्वतम्॥४०॥

गत इत्येवमस्माभिः श्रुतं पूर्वं महामते ।
शरं गृहाण निशितं यदि शक्तोऽसि सात्यके ।
इत्युक्त्वा बाणमादाय ययौ योद्धुं व्यवस्थितः॥४१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौण्ड्रकवधे रात्रियुद्धे सात्यकिपौण्ड्रकभाषणे पञ्चनवतितमोऽध्यायः॥९५॥
सात्यकिपौण्ड्रकयोर्युद्धम्

वैशम्पायन उवाच। ततः क्रुद्धो महाराज सात्यकिर्वृष्णिपुङ्गवः ।
उवाच वचनं राजन्वासुदेवं स्मरन्निव॥१॥

तत इति॥१॥

अवोचदीदृशं वाक्यं वासुदेवं नृपाधमः ।
को नाम जगतां नाथमित्थं ब्रूयाज्जिजीविषुः॥२॥

मृत्युस्त्वां सर्वथा याति वदन्तं तादृशं वचः ।
जिह्वा ते शतधा दीर्याद्वदतस्तादृशं वचः॥३॥

एष ते पातयिष्यामि शिरः कायाच्च पौण्ड्रक ।
यन्नाम वासुदेवेति तव सम्प्रति वर्तते॥४॥

यावत्पतति कायात्ते शिरस्तावत्प्रवर्तते ।
स एव श्वो न भगवान्वासुदेवो भविष्यति॥५॥

प्रवर्तते तव नामेति शेषः। स एव त्वं श्वो न भविष्यसि मरिष्यति॥५॥

एक एव जगन्नाथः कर्ता सर्वस्य सर्वगः ।
दुरात्मन्सर्वथा देवो भविष्यति न संशयः॥६॥

एष तेऽहं शिरः कायात्पातयिष्यामि राजक ।
यदसौ भगवान्विष्णुर्नागमिष्यति साम्प्रतम्॥७॥

अस्त्रवीर्यं बलं चैव सर्वं दर्शय साम्प्रतम् ।
नातः परतरं राजन्वीर्यं च तव वर्तते॥८॥

राजन् करत्सितराजन्॥८॥

सर्वं दर्शय यत्नेन स्थितोऽस्मि व्यवसायवान् ।
शरी चापी गदी खड्घी सर्वथाहमुपस्थितः॥९॥

नैतन्नगरमायासीः सत्यमेतद्ब्रवीम्यहम् ।
सर्वथा कृतकृत्योऽस्मि दृष्ट्वा त्वां वासुदेवकम्॥१०॥

नायासीः नागतोऽभूः तर्हि नैतद्ब्रवीमि यदायातः आगतोऽसि अतः सत्यमेव मम वचनमित्यर्थघः॥१०॥

तवाङ्गं तिलशः कृत्वा श्वभ्यो दास्यामि राजक ।
इत्युक्त्वा बाणमादाय वासुदेवं महाबलः॥११॥

आकर्णपूर्णमाकृष्य विव्याध निशितं शरम् ।
स तेन विद्धो यदुना वासुदेवः प्रतापवान्॥१२॥

वमञ्छोणितमत्युष्णमङ्गान्नेत्रान्नृपोत्तम ।
ततश्चुक्रोध नृपतिर्वासुदेवः प्रतापवान्॥१३॥

नवभिर्दशभिश्चैव शरैः सन्नतपर्वभिः ।
विव्याध सात्यकिं राजा नदंश्च बहुधा किल॥१४॥

ततो नाराचमादाय निशितं यमसन्निभम् ।
धनुराकृष्य भलवान्वासुदेवो नृपोत्तम॥१५॥

विव्याध सात्यकिं भूयो निशि प्रह्रादयन्स्वकान् ।
नाराचेन समाविद्धः सात्यकिः सत्यसङ्गरः॥१६॥

ललाटे सुदृढं वीरो वृष्णीनामग्रणीस्तदा ।
निषसाद रथोपस्थे निश्चेष्ट इव सत्तमः॥१७॥

ततः स पौण्ड्रको राजा विद्ध्वा दशभिराशुगैः ।
सारथिं पञ्चविंशत्या हयांश्च चतुरो नृप॥१८॥

ते हया रुधिराक्ताङ्गाः सारथिश्च समन्ततः ।
विह्वलाः समपद्यन्त वासुदेवस्य पश्यतः॥१९॥

वासुदेवो रथे चापि सिंहनादं समाददे ।
तेन नादेन तत्राभूद्विबुद्धः सात्यकिर्नृप॥२०॥

विद्धान्हयांस्तथा दृष्ट्वा सारथिं च तथागतम् ।
शैनेयोऽथ महावीर्यो रुषितो नृपसत्तमः॥२१॥

अलं द्रक्ष्यामि ते वीर्यमित्युक्त्वा बाणमाददे ।
विव्याध तेन बाणेन वक्षस्येनं महाबलः॥२२॥

ततश्चचाल तेनाजौ वासुदेवः शरेण ह ।
सुस्राव रुधिरं घोरमत्युष्णं वक्षसो नृप॥२३॥

रथोपस्थे पपाताशु निःश्वसन्नुरगो यथा ।
कृत्यं चापि न जानाति केवलं निषसाद ह॥२४॥

सात्यकिस्तु रथं विद्ध्वा दशभिः सायकैस्तथा ।
ध्वजं चिच्छेद भल्लेन वासुदेवस्य वृष्णिपः॥२५॥

हयांश्च चतुरो हत्वा बाणैः सारथिमेव च ।
युयुधानोऽथ राजेन्द्र पौण्ड्रकस्य च पश्यतः॥२६॥

सारथेश्च शिरः कायादहरत्स रथात्तदा ।
रथग्रन्थिं च चिच्छेद हयाश्च व्यसवोऽभवन्॥२७॥

चक्रं च तिलशः कृत्वा बाणैर्दशभिरञ्जसा ।
जहास विपुलं राजन्वासुदेवं महाबलः॥२८॥

ततः परं महत्प्रायं सात्यकिर्वृष्णिनन्दनः ।
शब्दं कृत्वा बली साक्षात्सर्वक्षत्रस्य पश्यतः॥२९॥

शरैः सप्ततिसङ्ख्याकैरर्दयामास सत्वरम् ।
ते शराः शलभाकारा निपेतुः सर्वशस्तदा॥३०॥

शिरस्तः पार्श्वतश्चैव पृष्ठतः पुरतस्तथा ।
केवलं धैर्यनिचयस्तृषार्तः शरवान्यथा॥३१॥

शरवान्सर्तः शरैः सह॥३१॥

यथा मनस्वी रिक्तश्च तथा तिष्ठति पौण्ड्रकः ।
ततश्चुक्रोध बलवान्वासुदेवः प्रतापवान्॥३२॥

मनस्वी उदारः रिक्तः निर्धनः। सत्पात्र आगत इति शेषः॥३२॥

अर्धचन्द्रं समादाय विव्याध युधि सात्यकिम् ।
विद्ध्वा सप्तभिरायान्तं क्रोधेन प्रस्फुरन्निव॥३३॥

विद्धोऽथ सात्यकिस्तेन शरैः पञ्चभिराशुगैः ।
चापं चिच्छेद पौण्ड्रस्य सिंहनादं व्यनीनदत्॥३४॥

वासुदेवो गदां गृह्य भ्रामयित्वा पदात्पदम् ।
त्वरितं पातयामास सात्यकेर्वक्षसि प्रभो॥३५॥

सव्येन तां समाकृष्य करेण यदुनन्दनः ।
शरं प्रगृह्य विव्याध सात्यकिर्युधि पौण्ड्रकम्॥३६॥

तमन्तरे गृहीत्वाशु वासुदेवः प्रतापवान् ।
शक्तिभिर्दशभिश्चैव सात्यकिं निजघान ह॥३७॥

ताभिर्विद्धो रणे वीरः सात्यकिः सत्यसङ्गरः ।
अपास्य धनुरन्यत्तद्धनुरादाय सत्वरम् ।
आजघान तदा वीरो वृष्णीनामग्रणीर्नृपः॥३८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां पौण्ड्रकसात्यकियुद्धे षण्णवतितमोऽध्यायः॥९६॥
सात्यकिपौण्ड्रकयोर्युद्धम्

वैशम्पायन उवाच। ततः क्रुद्धो गदापाणिः सात्यकिर्वृष्णिनन्दनः ।
वासुदेवं जघानाशु गदया तीक्ष्णया नृप॥१॥

तत इति॥१॥

सात्यकिं वासुदेवस्तु गदयाभ्यहनद्बली ।
तावुद्यतगदौ वीरौ शुशुभाते सुदारुणौ॥२॥

दृप्तौ वने यथा सिंहौ परस्परवधैषिणौ ।
ततः स सात्यकिः क्रुद्धः सव्यं मण्डलमागमत्॥३॥

दक्षिणं वासुदेवस्तु तं जघान स्तनान्तरे ।
युयुधानोऽथ वीरस्तु बाह्वोर्मध्यमताडयत्॥४॥

दृढं स ताडितो वीरो जानुभ्यामपतद्भुवि ।
तत उत्थाय वीरस्तु ललाटेऽभ्यहनद्गदाम्॥५॥

विषण्णः किञ्चिदास्थाय तत उत्थाय सत्वरम् ।
गदयाभ्यहनद्वीरः सात्यकिः पौण्ड्रसत्तमम्॥६॥

वासुदेवो बलिर्वीरः साक्षान्मृत्युरिवापरः ।
जघान गदया वृष्णिं निर्दहन्निव चक्षुषा॥७॥

स तया ताडितो वृष्णिर्गदया बाहुमुक्तया ।
आलम्ब्य भूमिं सहसा मृत्युरङ्कगतो यथा॥८॥

अङ्कगतः समीपं गतः॥८॥

संज्ञां पुनः समालम्ब्य पाणिभ्यां दृढमेव च ।
गदां तस्य महाराज गृहीत्वा प्रग्रहेण ह॥९॥

प्रग्रहेण परप्रयुक्ताया उत्प्लुत्य प्रग्रहस्तेन॥९॥

द्विधा कृत्वा महागुर्वीं गदां कालायसीं शुभाम् ।
उत्सृज्य सहसा वीरः सिंहनादं व्यनीनदत्॥१०॥

द्विधा कृत्वा वेणुवत् भुङ्क्त्वा॥१०॥

तत उत्सृज्य राजा तु वासुदेवो महाबलः ।
सव्येन सात्यकिं गृह्य दक्षिणेन करेण ह॥११॥

मुष्टिं कृत्वा महाघोरं वासुदेवः प्रतापवान् ।
ताडयामास मध्ये तु स्तनयोः सात्यकेर्नृप॥१२॥

शैनेयो वृष्णिवीरस्तु गदामुत्सृज्य सत्वरम् ।
तलेनाभ्यहनद्वीरो वासुदेवं रणाजिरे॥१३॥

तलेन वासुदेवोऽपि सात्यकिं सत्यसङ्गरम् ।
तयोरेवं महाघोरं तलयुद्धं प्रवर्तत॥१४॥

जानुभ्यां मुष्टिभिश्चैव बाहुभ्यां शिरसा तदा ।
उरसोरः समाहत्य जानुभ्यां जानुनी तथा॥१५॥

कराभ्यां करमाहत्य तौ युद्धं सम्प्रचक्रतुः ।
तालयोस्तत्र राजेन्द्र वृक्षयोः सन्निकर्षयोः॥१६॥

वने यथा निरुत्पन्नस्तथैवाभून्महास्वनः ।
तावाजौ प्रथितौ वीरावुभौ पौण्ड्रकसात्यकी॥१७॥

निशि स्तिमितमूकायां शस्त्रं त्यक्त्वा महाबलौ ।
युयुधाते महारङ्गे मल्लौ द्वाविव विश्रुतौ॥१८॥

उभे सेने महाराज्ञोः संशयं जग्मतुस्तदा ।
किं नु स्यात्सात्यकिर्वीरो हतस्तेन भविष्यति॥१९॥

आहोस्विद्वासुदेवस्तु हतस्तेन महात्मना ।
अद्य वै तौ महावीरौ परस्परवधैषिणौ॥२०॥

युध्यमानौ महावीरौ तदा स्वर्गं गमिष्यतः ।
अन्यथा नोपरम्येतां युद्धाद्वीरौ सुनिश्चितौ॥२१॥

अहो वीर्यमहो धैर्यमेतयोर्बलशालिनोः ।
एतौ महाबलौ लोके एतौ प्रकृतिसत्तमौ॥२२॥

नैवं युद्धं महाघोरमासीद्देवासुरेष्वपि ।
न श्रुतो न च वा दृष्टः सङ्ग्रामोऽयं कदाचन॥२३॥

एते वै सैनिका ब्रूयुः सेनयोरुभयोरपि ।
रात्रौ निशीथे मेघौघे दृष्ट्वा युद्धं सुदारुणम्॥२४॥

अथ तौ बाहुभिर्वीरौ सन्निपेततुरञ्जसा ।
दशभिर्मुष्टिभिर्जघ्ने सात्यकिः पौण्ड्रकं तदा॥२५॥

पञ्चभिः सात्यकिं पौण्ड्रः समाजघ्ने महाबलः ।
तयोश्चटचटाशब्दो ब्रह्माण्डक्षोभणो महान् ।
प्रादुरासीत्तु सर्वत्र सर्वान्विस्मापयन्निव॥२६॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां पौण्ड्रकसात्यकियुद्धे सप्तनवतितमोऽध्यायः॥९७॥
एकलव्यसैन्यवधः

वैशम्पायन उवाच। एतस्मिन्नन्तरे क्रुद्ध एकलव्यो निषादपः ।
बलभद्रमभिक्षिप्रं धनुरादाय सत्वरम्॥१॥

एतस्मिन्निति॥१॥

नाराचैर्दशभिर्विद्ध्वा बाणैश्च दशभिः परैः ।
चिच्छेद धनुरर्धं तत्सर्वक्षत्रस्य पश्यतः॥२॥

सूतं दशभिराहत्य रथं त्रिंशद्भिरेव च ।
ध्वजं चिच्छेद भल्लेन निषादस्य जगत्पतिः॥३॥

ततः परं महच्चापं निषादो वीर्यसम्मतः ।
दृढमौर्व्या समायुक्तं दशतालप्रमाणतः॥४॥

दशतालप्रमाणतः दशप्रादेशसम्मितम्॥४॥

कामपालं शरेणाशु जघान जनमध्यतः ।
बलदेवो महावीर्यः सर्पः शेष इव श्वसन्॥५॥

दशभिस्तद्धनुर्दिव्यं शरैः सर्पसमैर्बलः ।
चिच्छेद मुष्टिदेशे तु माधवो माधवाग्रजः॥६॥

माधवो मधुवंश्यः माधवाग्रजो लक्ष्मीपतेर्ज्येष्ठभ्राता॥६॥

एकलव्यो निषादेशः खड्गमादाय सत्वरः ।
प्राहिणोद्बलमादाय निशितं घोरविग्रहम्॥७॥

तमन्तरे पटुर्वीरो वृष्णिवीरः प्रतापवान् ।
तिलशः पञ्चभिर्बाणैश्चकार यदुनन्दनः॥८॥

ततोऽपरं महत्खड्गं सर्वकालायसं शुभम् ।
प्राहिणोत्सारथेः कायमालोक्याथ निषादजः॥९॥

तं चापि दशभिर्वीरो माधवो यदुनन्दनः ।
बाह्वोरन्तरयोश्चैव निर्बिभेद महारणे॥१०॥

ततः शक्तिं समादाय घण्टामालाकुलां नृपः ।
निषादो बलदेवाय प्रेषयित्वा महाबलः॥११॥

सिंहनादं महाघोरमकरोत्स निषादपः ।
स शक्तिः सर्वकल्याणी बलदेवमुपागतम्॥१२॥

उत्पतन्तीं महाघोरां बलभद्रः प्रतापवान् ।
आदायाथ निषादेशं सर्वान्विस्मापयन्निव॥१३॥

तथैव तं जघानाशु वक्षोदेशे च माधवः ।
स तया ताडितो वीरः स्वशक्त्याथ निषादपः॥१४॥

विह्वलः सर्वगात्रेषु निपपात महीतले ।
प्राणसंशयमापन्नो निषादो रामताडितः॥१५॥

निषादास्तस्य राजेन्द्र शतशोऽथ सहस्रशः ।
अष्टाशीतिसहस्राणि निषादास्तस्य योधिनः॥१६॥

गदिनः खड्गिनश्चैव महेष्वासा महाबलाः ।
शरैरनेकसहस्रैः शक्तिभिश्च परश्वधैः॥१७॥

गदाभिः पट्टिशैः शूलैः परिघैः प्रासतोमरैः ।
कुन्तैरथ कुठारैश्च यदवानां महौजसाम्॥१८॥

शलभा इव राजेन्द्र दीप्यमानं हुताशनम् ।
ते शरैः पातयाञ्चक्रू रामं राममिवापरम्॥१९॥

केचित्कुठारैराजघ्नुः केचित्कुन्तैः परश्वधैः ।
गदाभिः केचिदाघ्नन्ति शक्तिभिश्च तथा परे॥२०॥

निजघ्नुः सहसा रामं स्फुरन्तं पावकं यथा ।
ततः क्रुद्धो हली साक्षाद्धलमुद्यम्य सत्वरम्॥२१॥

सर्वानकर्षयामास मुसलेन हि पीडयन् ।
ते हन्यामाना राजेन्द्र निषादाः पर्वताश्रयाः॥२२॥

निपेतुर्धरणीपृष्ठे शतशोऽथ सहस्रशः ।
क्षणेन तन्महाराज हत्वा सर्वान्महाबलान्॥२३॥

सिंहवद्व्ययनदंस्तत्र तस्थौ रामो महाबलः ।
ततो रात्रौ महाघोराः पिशाचाः पिशिताशनाः॥२४॥

आकृष्य मांसयूथानि भक्षयन्तः समासते ।
पिबन्तः शोणितं कोष्ठात्सञ्छिद्य च शवं बहु॥२५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि एकलव्यसैन्यवधे अष्टनवतितमोऽध्यायः॥९८॥
पौण्ड्रकयुद्धम्

वैशम्पायन उवाच। क्रव्यादाः सर्व एवाशु भक्षयन्तस्तदा शवम् ।
हसन्तो विविधं घोरं नदयन्तो वसुन्धराम्॥१॥

क्रव्यादा इति। शवं शवजातीयम्॥१॥

राक्षसाश्च पिशाचाश्च पिबन्तः शोणितं बहु ।
आशिखं भुञ्जते राजञ्छवस्य पिशिताशनाः॥२॥

आशिखं शिखामपि केशास्थ्यपि न त्यजन्तीत्यर्थः॥२॥

नृत्यन्ति स्म तदा राजन्नगर्यां रणतोशिताः ।
काका बलाका गृध्राश्च श्येना गोमायवस्तथा॥३॥

भक्षयन्तः प्रवर्तन्ते राक्षसाश्चैव दारुणाः ।
एतस्मिन्नन्तरे वीरो निषादो लब्धसंज्ञकः॥४॥

हतान्सर्वान्समालोक्य निषादान्नगचारिणः ।
गदामादाय कुपितो राममेव जगाम ह॥५॥

जघान गदया राजंश्छत्रदेशे निषादपः ।
ततो रामो गदी राजन्निषादं बाहुशालिनम्॥६॥

छत्रदेशे॥६॥

आजघ्ने गदया क्रूरं मदमत्तो हलायुधः ।
तयोश्च तुमुलं युद्धं गदाभ्यां समवर्तत॥७॥

आकाशे शब्द आसीत्तु तयोर्युद्धे महाभुज ।
समुद्राणां यथा घोषः सर्वेषां सन्निगच्छताम्॥८॥

कल्पक्षये महाराज शब्दः सुतुमुलोऽभवत् ।
क्षोभितो नागराजश्च नागाः क्षोभं समाययुः॥९॥

पृथिवी चान्तरिक्षं च सर्वं शब्दमयं बभौ ।
ततः स पौण्ड्रको राजा सात्यकिं वृष्णिनन्दनम्॥१०॥

गदयैव जघानाशु सत्वरं रणकोविदः ।
युयुधानो बली राजन्वासुदेवं जघान ह॥११॥

तयोश्च तुमुलः शब्दः प्रादुरासीन्महारणे ।
चतुर्णां युध्यतां राजन्परस्परवधैषिणाम्॥१२॥

ब्रह्माण्डक्षोभणो राजन्छब्द आसीत्सुदारुणः ।
ततो रजः प्रादुरभूत्तस्मिन्सङ्ग्राममूर्धनि॥१३॥

नारका निष्प्रभा राजंस्तमस्येवं क्षयं गते ।
उषसि प्रतिबुद्धायां ततो निःशेषतां ययौ॥१४॥

उदितो भगवान्सूर्यश्चन्द्रश्च क्षयमाययौ ।
तयोर्युद्धं प्रादुरभूच्चतुर्णां बाहुशालिनाम् ।
देवासुरसमं राजन्नुदितो भास्करे महत्॥१५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौण्ड्रकयुद्धे नवनवतितमोऽध्यायः॥९९॥
द्वारकायां प्रत्यागतस्य श्रीकृष्णस्य पौण्ड्रकेण सह युद्धम्

वैशम्पायन उवाच। ततः प्रभाते विमले भगवान्देवकीसुतः ।
गन्तुमैच्छज्जगन्नाथः पुरं बदरिकाश्रमात्॥१॥

तत इति॥१॥

नमस्कृत्य मुनीन्सर्वान्ययौ द्वारवतीं नृप ।
आरुह्य गरुडं विष्णुर्वेगेन महता प्रभुः॥२॥

सुमहाञ्छुश्रुवे शब्दस्तेषां युद्धं प्रकुर्वताम् ।
गच्छता देवदेवेन पुरीं द्वारवतीं नृप॥३॥

अचिन्तयज्जगन्नाथः को त्वयं शब्द उत्थितः ।
सङ्ग्रामसम्भवो घोर आर्यशैनेयसंयुतः॥४॥

व्यक्तमागतवान्पौण्ड्रो नगरीं द्वारकामनु ।
तेन युद्धं समभवत्पौण्ड्रकेण दुरात्मना॥५॥

यदूनां वृष्णिवीराणां युद्ध्यतामितरेतरम् ।
शब्दोऽयं सुमहान्व्यक्तो नात्र कार्या विचारणा॥६॥

इत्येवं चिन्तयित्वा तु दध्मौ शङ्खं महारवम् ।
पाञ्चजन्यं हरिः साक्षात्प्रीणयन्वृष्णिपुङ्गवान्॥७॥

रोदसी पूरयामास तेन शब्देन केशवः ।
यादवा वृष्णयश्चैव श्रुत्वा शङ्खस्य ते रवम्॥८॥

व्यक्तमायाति भगवान्पाञ्चजन्यरवो ह्ययम् ।
इति ते मेनिरे राजन्वृष्णयो यादवास्तथा॥९॥

निर्भयाः समपद्यन्त वृष्णयो यादवाश्च ते ।
तस्मिन्नेव क्षणे दृष्टस्तार्क्ष्यश्च पततां वरः॥१०॥

ततश्च देवकीसूनुर्दृष्टस्तैर्यादवेश्वरः ।
सूताश्च मागधाश्चैव पुरो यान्ति जगत्पतेः॥११॥

स्तुत्या स्तुतं हरिं विष्णुमीश्वरं कमलेक्षणम् ।
गताश्च यादवाः सर्वे परिवव्रुर्जनार्दनम्॥१२॥

स्तुतं तैरिव सूतादिभिः॥१२॥

कृष्णस्तु गरुडं भूयो गच्छ त्वं नाकमुत्तमम् ।
इत्युक्त्वा गरुडं विष्णुर्विसृज्य यदुनन्दनः॥१३॥

दारुकं पुनराहेदं रथमानय मे प्रभो ।
स तथेति प्रतिज्ञाय रथमादाय सत्वरम्॥१४॥

रथोऽयं भगवन्देव किमतः कृत्यमस्ति मे ।
इत्युक्त्वा रथमादाय प्रणम्याग्रे स्थितो हरेः॥१५॥

गतेऽथ गरुडे विष्णू रथमारुह्य सत्वरम् ।
यत्र युद्धं समभवत्तत्र याति स्म केशवः॥१६॥

तत्र गत्वा महाराज युध्यतां च महात्मनाम् ।
पाञ्चजन्यं महाशङ्खं दध्मौ यदुवृषोत्तमः॥१७॥

पौण्ड्रोऽथ वासुदेवस्तु कृष्णं दृष्ट्वा रणोत्सुकम् ।
सात्यकिं पृष्ठतः कृत्वा वासुदेवमुपागमत्॥१८॥

क्रुद्धोऽथ सात्यकी राजन् वारयामास पौण्ड्रकम् ।
न गन्तव्यमितो राजन्नेष धर्मः सनातनः॥१९॥

जित्वा मां गच्छ राजेन्द्र परं योद्धुं महारणे ।
क्षत्रियोऽसि महावीर स्थिते मयि रणोत्सुके॥२०॥

एष ते गर्वमखिलं नाशयिष्यामि संयुगे ।
इत्युक्त्वा चाग्रतस्तस्थौ गच्छतो यादवेश्वरः॥२१॥

पौण्ड्रस्य शिनिनप्ता तु पश्यतः केशवस्य ह ।
अवज्ञाय शिनेः पौत्रं कृष्णमेव जगाम ह॥२२॥

निर्भर्त्स्य सहसा भूयः सात्यकिः क्रोधमूर्च्छितः ।
गदया प्राहरत्पौण्ड्रं वासुदेवस्य पश्यतः॥२३॥

यथाप्राणं यथायोगं सात्यकिः सत्यविक्रमः ।
दृष्ट्वाथ भगवानेवं सात्यकिं प्रशशंस ह॥२४॥

निवार्य सात्यकिं कृष्णो यथेष्टं क्रियतामसौ ।
उपारमद्यथायोगं सात्यकिः कृष्णवारितः॥२५॥

क्रियतां करोतु॥२५॥

स ततः पौण्ड्रको राजा वासुदेवमुवाच ह ।
भो भो यादव गोपाल इदानीं क्व गतो भवान्॥२६॥

त्वां द्रष्टुमथ सम्प्राप्तो वासुदेवोऽस्मि साम्प्रतम् ।
हत्वा त्वां सबलं कृष्ण बलैर्बहुभिरन्वितः॥२७॥

अहमेको भविष्यामि वासुदेवो महीतले ।
यच्चक्रं तव गोविन्द प्रथितं सुप्रभं महत्॥२८॥

अनेन तव चक्रेण पीडितोऽस्मि च तद्रणे ।
चक्रमस्तीति तद्वीर्यं तव माधव साम्प्रतम्॥२९॥

पीडितोऽस्मि त्वदीयस्य चक्रस्य नाशादिति भावः॥२९॥

नशयिष्यामि तत्सर्वं सर्वक्षत्रस्य पश्यतः ।
शार्ङ्गीति मां विजानीहि न त्वं शार्ङ्गीति शिष्यते॥३०॥

शङ्खी चाहं गदी चाहं चक्री चाहं जनार्दन॥३१॥

मामेव हि सदा ब्रूयुर्जानन्तो वीर्यशालिनः ।
आदौ त्वं बलवद्वृद्धान्हत्वा स्त्रीबालकान्बहून्॥३२॥

गाश्च हत्वा महागर्वस्तव सम्प्रति वर्तते ।
तत्तेऽहं व्यपनेष्यामि यदि तिष्ठसि मत्पुरः॥३३॥

शस्त्रं गृहाण गोविन्द यदि योद्धुं व्यवस्थितः ।
इत्युक्त्वा बाणमादाय तस्थौ पार्श्वे जगत्पतेः॥३४॥

एतद्वचनमाकर्ण्य वासुदेवेन भाषितम् ।
स्मितं कृत्वा हरिः कृष्णो बभाषे पौण्ड्रकं नृपम्॥३५॥

कामं वद नृप त्वं हि पातक्यस्मि सदा नृप ।
गोघाती बालघाती च स्त्रीहन्ता सर्वथा नृप॥३६॥

गोघाती वृषभासुरवधात् बालघाती षड्गर्भाणां कंसद्वारा घातनात्॥३६॥

चक्री भव गदी राजञ्छार्ङ्गी च सततं भव ।
नामधेयं वृथा मह्यं वासुदेवेति च प्रभो॥३७॥

मह्यं मम॥३७॥

शार्ङ्गी चक्री गदी शङ्खीत्येवमादि वृथा मम ।
किं तु वक्ष्यामि किञ्चित्तु शृणुष्व यदि मन्यसे॥३८॥

क्षत्रिया बलिनो ये तु स्थिते मयि जगत्पतौ॥३८॥

तथानुब्रुवते त्वां हि जीवत्येव मयि प्रभो ।
यत्ते चक्रं महाघोरमसुरान्तकरं महत्॥३९॥

तत्तुल्यं मम चक्रं तु वृत्ततो न तु वीर्यतः ।
आयुधेष्वथ सर्वत्र शब्दसादृश्यमस्ति ते॥४०॥

वृत्ततः वर्तुलत्वेन॥४०॥

गोपोऽहं सर्वदा राजन्प्राणिनां प्राणदः सदा ।
गोप्ता सर्वेषु लोकेषु शास्ता दुष्टस्य सर्वदा॥४१॥

कत्थनं सर्वकार्यं हि जित्वा शत्रून्नृपाधम ।
अजित्वा किं भवान्ब्रूते स्थिते मयि च शस्त्रिणि॥४२॥

हत्वा मां ब्रूहि राजेन्द्र यदि शक्तोऽसि पौण्ड्रक ।
स्थितोऽहं चक्रमाश्रित्य रथी चापी गदासिमान्॥४३॥

रथमारुह्य युद्धाय सन्नद्धो भव मानद ।
इत्युक्त्वा भगवान्विष्णुः सिंहनादं व्यनीनदत्॥४४॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कृष्णपौण्ड्रकयुद्धे शततमोऽध्यायः॥१००॥
पौण्ड्रकवधः

वैशम्पायन उवाच। ततः शरं समदाय वासुदेवः प्रतापवान् ।
पौण्ड्रं जघान सहसा निशितेन शरेण ह॥१॥

तत इति॥१॥

पौण्ड्रोऽथ वासुदेवस्तु शरैर्दशभिराशुगैः ।
वासुदेवं जघानाशु वार्ष्णेयं वृष्णिनन्दनम्॥२॥

दारुकं पञ्चविंशत्या हयान्दशभिरेव च ।
सप्तत्या वासुदेवं तु यादवं वासुदेवकः॥३॥

ततः प्रहस्य सुचिरं केशवः केशिसूदनः ।
धृष्टोऽसाविति मनसा सम्पूज्य यदुनन्दनः॥४॥

आकृष्य शार्ङ्गं बलवान्सन्धाय रिपुसूदनः ।
नाराचेन सुतीक्ष्णेन ध्वजं चिच्छेद केशवः॥५॥

सारथेश्च शिरः कायादाहृत्य यदुनन्दनः ।
अश्वांश्च चतुरो हत्वा चतुर्भिः सायकोत्तमैः॥६॥

रथं राज्ञः समाहत्य तदोभौ पार्ष्णिसारथी ।
चक्रं च तिलशः कृत्वा हसन्किञ्चिदिव स्थितः॥७॥

पौण्ड्रको वासुदेवस्तु रथादुत्प्लुत्य सत्वरः ।
आदाय निशितं खड्गं प्राहिणोत्केशवाय सः॥८॥

स खड्गं शतधा कृत्वा तूष्णीमासीच्च केशवः ।
ततः परं महाघोरं परिघं कालसम्मितम्॥९॥

गृहीत्वा वासुदेवाय वासुदेवं प्रतापवान् ।
प्राहिणोद्वृष्णिवीराय सर्वक्षत्रस्य पश्यतः॥१०॥

तद्द्विधं जगतां नाथश्चकार यदुनन्दनः ।
ततश्चक्रं महाघोरं सहस्रारं महाप्रभम्॥११॥

त्रिंशद्भारसमायुक्तमायसास्यममित्रहा ।
आदायाथ महाराज केशवं वाक्यमब्रवीत्॥१२॥

आयसास्यम् आयसं लोहमयं तच्च तत् आस्यं क्षेप्यं तत् आयसास्यम्॥१२॥

पश्येदं निशितं घोरं तव चक्रविनाशनम् ।
अनेन तव गोविन्द दर्पं दर्पवतां वर॥१३॥

अपनेष्यामि वार्ष्णेय सर्वक्षत्रस्य पश्यतः ।
त्वामुद्दिश्य महाघोरं कृतमन्यद्दुरासदम्॥१४॥

यदि शक्तो हरे कृष्ण दारयेदं महास्पदम् ।
इत्युक्त्वा तच्छतगुणं भ्रामयित्वा महाबलः॥१५॥

चिक्षेपाथ महावीर्यः पौण्ड्रको नृपसत्तमः ।
अवप्लुत्य ततो देशात्तदुत्सृज्य महाबलः॥१६॥

अवप्लुत्य चक्रं वञ्चितवान् इत्यर्थः॥१६॥

सिंहनादं महाघोरं व्यनदद्वीर्यवांस्तदा ।
ततो विस्मयमापन्नो भगवान्देवकीसुतः॥१७॥

अहो वीर्यमहो धैर्यमस्य पौण्ड्रस्य दुःसहम् ।
इति मत्वा जगन्नाथ उत्थितश्च रथोत्तमात्॥१८॥

ततः शिलां समादाय प्रेषयामास केशवम् ।
तां शिलां प्रेषयामास तस्मै यदुकुलोद्वहः॥१९॥

तां प्रेषयामास निवर्तयामासेत्यर्थः॥१९॥

पौण्ड्रेण सुचिरं कालं विक्रीड्य भगवान्हरिः ।
ततश्चक्रं समादाय निशितं रक्तभोजनम्॥२०॥

दैत्यमांसप्रदिग्धाङ्गं नारीगर्भविमोचनम् ।
शातकुम्भमयं घोरं दैत्यदानवनाशनम्॥२१॥

सहस्रारं शतारं तदद्भुतं दैत्यभीषणम् ।
ऐश्वर्यवर्म परमं नित्यं सुरगणार्चितम्॥२२॥

सहस्रारं शतारमिति कार्यभेदात् रूपभेदः॥२२॥

विष्णुः कृष्णस्तथा शार्ङ्गी नित्ययुक्तः सदा हरिः ।
जघान तेन गोविन्दः पौण्ड्रकं नृपसत्तमम्॥२३॥

तस्य देहं विदार्याशु चक्रं पिशितभोजनम् ।
कृष्णस्याथ करं भूयः प्राप सर्वेश्वरस्य ह॥२४॥

ततः स पौण्ड्रको राजा गतासुः प्रापतद्भुवि ।
निहत्य भगवान्विष्णुर्दुर्विज्ञेयगतिः प्रभुः ।
प्रतिपेदे सुधर्मां तु यादवैः पूजितो हरिः॥२५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि पौण्ड्रकवासुदेववधे एकाधिकशततमोऽध्यायः॥१०१॥
एकलव्यनिर्याणम्

वैशम्पायन उवाच। निषादेशं ततो रामः शक्त्या वीर्यवतां वरः ।
आजघान स्तनद्वन्द्वे सिंहनादं व्यनीनदत्॥१॥

निषादेशमिति। निषादेशम् एककव्यम्॥१॥

ततः क्रुद्धो निषादेशो रामं मत्तं महाबलम् ।
गदया लोकविख्यातो जघान स्तनवक्षसि॥२॥

आहतः स तु तेनाशु बलभद्रो महाबलः ।
उभाभ्यां चैव रामस्तु कराभ्यां वृष्णिपुङ्गवः॥३॥

गदां गृह्य महाघोरामायान्तीं प्राणहारिणीम् ।
दुद्रावाथ निषादेशः समुद्रं मकरालयम्॥४॥

प्राणहारिणीं ज्ञात्वा दुद्राव॥४॥

धावत्येवं तदा राज्ञि एकलव्ये निषादपे ।
धावत्येवं च रामोऽपि यत्र यातो निषादपः॥५॥

सागरं स प्रविश्याशु गत्वा योजनपञ्चकम् ।
भीत एव तदा राजन्नेकलव्यो निषादपः॥६॥

किञ्चिद्द्वीपान्तरं राजन्प्रविश्य न्यवसत्तदा ।
ततो रामो निषादेशं जिगाय यदुनन्दनः॥७॥

तां सभां मणिरत्नाढ्यां प्रविवेश हलायुधः ।
सात्यकिर्युद्धसंसक्तस्तां सभां प्रविवेश ह॥८॥

अन्ये च यादवा राजन्तथायोगमुपस्थिताः ।
आसीनेषु च सर्वेषु वृष्णिवीरेषु सर्वतः॥९॥

अभिवाद्य यथायोगं वृष्णीन्सर्वाश्च केशवः ।
उवाच वचनं काले भगवान्देवकीसुतः॥१०॥

दृष्टं कैलासशिखरं शङ्करो नीललोहितः ।
स तु मह्यं यदुवरः प्रीतिमांश्च ददौ वरम्॥११॥

तत्र देवाः समायाता मुनयश्च तपोधनाः ।
दृष्ट्वा मां शङ्करश्चैव प्रीतः स्तुत्वा समाययौ॥१२॥

अत्यद्भुतं मया दृष्टं रात्रौ यादवसत्तमः ।
पिशाचौ द्वौ महाघोरौ वदन्तौ मामिकां कथाम्॥१३॥

मृगयां चक्रतुस्तौ तु चिन्तयन्तौ तु मां सदा ।
दृष्ट्वा मां तौ तु राजेन्द्राः प्रीतिमन्तौ तपस्विनौ॥१४॥

भक्तिनम्रौ महात्मानौ प्रणामं चक्रतुस्तदा ।
ततोऽहं सर्वथा प्रीतस्तौ नीतौ स्वर्गमुत्तमम्॥१५॥

तोषयित्वा महादेवं मया चाद्य समागतम् ।
वैशम्पायन उवाच। ततस्ते वृष्णयः सर्वे देवदेवं शशंसिरे॥१६॥

सर्वथा कृतकृत्यास्ते वृष्णयः केशवाश्रयाः ।
यादवाः सर्व एवैते स्वं स्वं जग्मुर्यथालयम्॥१७॥

अभ्यन्तरे जगन्नाथः प्रविश्य हरिरीश्वरः ।
रुक्मिणीसत्यभामाभ्यामाचचक्षे यथाभवत्॥१८॥

ते प्रीते प्रीतियुक्तेन केशवेन समन्विते ।
एतत्ते सर्वमाख्यातं केशवस्य विचेष्टितम्॥१९॥

शशास पृथिवीं कृत्स्नां दुष्टान्हत्वा महाबलान् ।
नरकं घोरकर्मणं पौण्ड्रकं नृपसत्तमम्॥२०॥

हयग्रीवं निशुम्भं च तथा सुन्दोपसुन्दकौ ।
ररक्ष विप्रान्देवेशो मुनीन्मुनिवरार्चितः॥२१॥

विप्रेभ्यश्च ददौ वित्तं गाश्च दत्त्वा स केशवः ।
अग्निहोत्रं प्रयुञ्जानो ब्राह्मणांश्च सुतर्पयन्॥२२॥

मुनींश्च ब्रह्मचर्येण देवान्यज्ञैरनेकधा ।
स्वधया च पितॄन्सर्वान्प्रीणयन्नेव सर्वदा॥२३॥

तस्मिञ्छासति देवेशे राज्यं निष्कण्टकं प्रभो ।
सुखमेव प्रजाः सर्वा जीवन्ति ब्राह्मणादयः॥४॥

प्राणहारिणीं ज्ञात्वा दुद्राव॥४॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां पौण्ड्रकवधसमाप्तौ द्व्यधिकशततमोऽध्यायः॥१०२॥
वैशम्पायनं प्रति जनमेजयप्रश्नः

जनमेजय उवाच। भूय एव द्विजश्रेष्ट शङ्खचक्रगदाभृतः ।
चरितं श्रोतुमिच्छामि विस्तरेण तपोधन॥१॥

भूय इति॥१॥

न हि ते तृप्तिरस्तीह शृण्वतः कैशवीं कथाम् ।
को नु नाम हरेर्विष्णोर्देवदेवस्य चक्रिणः॥२॥

शृण्वंस्तथा रमन्वापि तृप्तिं याति दिवानिशम् ।
पुरुषार्थोऽयमेवैको यत्कथाश्रवणं हरेः॥३॥

कथमासीज्जगद्धेतोर्हंसस्य डिम्भकस्य च ।
समितिः सर्वभूतानां सदा विस्मयदायिनी॥४॥

विचक्रस्य कथं युद्धं दानवस्य महात्मनः ।
स तयोर्मित्रतां यात इत्येवमनुशुश्रुम॥५॥

तौ सुतौ वीर्यसम्पन्नौ शिष्यौ भृगुसुतस्य ह ।
सर्वास्त्रकुशलौ वीरौ हरेर्लब्धवरौ किल॥६॥

सङ्ग्रामः सुमहानासीदित्युक्तं भवता पुरा ।
तयोश्च नृपयोर्विप्र केशवस्य जगत्पतेः॥७॥

कस्य पुत्रौ समुत्पन्नौ यथाभूद्विग्रहो महान् ।
अष्टाशीतिसहस्राणि दानवानां तरस्विनाम्॥८॥

बलान्यथ विचक्रस्य शितशूलधराणि च ।
आसन्युद्धे महाराज दानवस्य महात्मनः॥९॥

यदूनामन्तरं प्रेप्सुर्यदूनां युद्धकाङ्क्षया ।
देवासुरे महायुद्धे देवाञ्जयति दुर्धरः ।
तद्वधार्थं सदा यत्नमकरोच्चैव केशवः॥१०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने जनमेजयवाक्ये त्र्यधिकशततमोऽध्यायः॥१०३॥
हंसडिम्भकोत्पत्तिः

वैशम्पायन उवाच। आसीच्छाल्वेषु राजेन्द्र ब्रह्मदत्तो नृपोत्तमः ।
नाम्ना राजन्स पूतात्मा सर्वभूतदयापरः॥१॥

आसीदिति॥१॥

पञ्चयज्ञपरो नित्यं जितात्मा विजितेन्द्रियः ।
ब्रह्मविद्वेदविच्चैव सदा यज्ञमयः शिवः॥२॥

तस्य भार्ये महीपाल रूपौदार्यगुणान्विते ।
बभूवतुः सुसम्पन्ने अनपत्ये नृपोत्तम॥३॥

स ताभ्यां मुमुदे राजा शच्या शक्र इवाम्बरे ।
नाम्ना मित्रसहो नाम सखा चासीद्द्द्विजोत्तमः॥४॥

तस्य राज्ञो महायोगी वेदवेदान्ततत्परः ।
अनपत्यः स विप्रेन्द्रो यथा राजा बभूव ह॥५॥

स राजा सहितस्ताभ्यामर्चयामास शङ्करम् ।
पुत्रार्थं शूलिनं शर्वं दश वर्षाण्यनन्यधीः॥६॥

ताभ्यां स्त्रीभ्यां सह॥६॥

स विप्रो वैष्णवं सत्रं पुत्रार्थे समयोजयत् ।
अर्चितस्तेन राजेन्द्र शङ्करो नीललोहितः॥७॥

स इति। तेन वैष्णवसत्रेण शङ्करस्यार्चनं विष्णुशङ्करयोर्वास्तवाभेदाभिप्रायेण॥७॥

आत्मानं दर्शयमास स्वप्ने राजानमब्रवीत् ।
प्रीतोऽस्मि तव भद्रं ते वरं वरय सुव्रत॥८॥

अथ राजा जगन्नाथमुवाचेदं स्मयन्निव ।
पुत्रौ मम भवेतां हि तथेत्युक्त्वा वृषध्वजः॥९॥

अन्तर्धानं गतः शम्भुः प्रतिबुद्धस्ततो नृपः ।
सोऽपि मित्रसहो विद्वान्देवं केशवमव्ययम्॥१०॥

पञ्चवर्षं जगन्नाथमर्चयामास भक्तितः ।
अर्चितस्तेन विप्रेण देवदेवो जनार्दनः॥११॥

पुत्रमेकं ददौ तस्मै स्वात्मना सदृशं हरिः ।
ते भार्ये गर्भमाधत्तां तेजसा शङ्करस्य ह॥१२॥

विप्रभार्या महाराज वैष्णवं तेज आदधत् ।
महिष्यौ ते महावीर्ये पुत्रौ शङ्करनिर्मितौ॥१३॥

असूयेतां महीपाल क्रमेणैव नृपस्य ह ।
स तयोश्च महाराज नामकर्मादिकाः क्रियाः॥१४॥

चकार विधिवत्सर्वा विप्रेभ्योऽदान्महद्धनम् ।
स च विप्रो विनीतात्मा पुत्रमेकं हि लब्धवान्॥१५॥

साक्षादिव जगन्नाथं स्थितं पुत्रात्मना नृप ।
जातकर्मादिकं सर्वं ब्राह्मणः स चकार ह॥१६॥

तौ कुमारावयं चैव त्रयः सवयसोऽभवन् ।
वेदानधीत्य ते सर्वाञ्छ्रुत्वा चान्वीक्षिकीं तथा॥१७॥

धनुर्वेदे तथास्त्रे च निपुणास्तेऽभवंस्तदा ।
हंसो ज्येष्ठो नृपसुतो डिम्भकोऽनन्तरोऽभवत्॥१८॥

स च विप्रसुतो राजञ्जनार्दन इति स्मृतः ।
अन्योन्यं मित्रतां याताः सर्वे चैव कुमारकाः॥१९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोत्पत्तौ चतुरधिकशततमोऽध्यायः॥१०४॥
हंसडिम्भकयोर्वरलाभः

वैशम्पायन उवाच। हंसश्च डिम्भकश्चैवं तपश्चर्तुं महामती ।
मनश्चक्रतुरात्मांशौ शङ्करस्य नृपोत्तम॥१॥

हंसश्चेति॥१॥

गत्वा तु हिमवत्पार्श्वं तपश्चक्रतुरञ्जसा ।
उद्धिश्य शङ्करं शर्वं नीलग्रीवमुमापतिम्॥२॥

वीर्यास्त्रे चैव नौ स्यातामित्याधाय तु मानसे ।
एकाग्रौ प्रयतौ भूत्वा वाय्वम्बुप्राशिनौ नृप॥३॥

नमस्ते देवदेवेति शङ्करेति दिवानिशम् ।
हर शर्व शिवानन्द नीलग्रीव उमापते॥४॥

वृषध्वज विरूपाक्ष हर्यक्ष जगतां पते ।
भक्तप्रिय गिरीशेश वासुदेव शिवाच्युत॥५॥

सद्योजात महादेव देवदेव गुहाशय ।
भूतभावन देवेश प्रणवात्मन्सदाशिव॥६॥

इत्यादिनामभिर्नित्यं स्तुवन्तौ शङ्करं भवम् ।
हृदि कृत्वा विरूपाक्षं तपस्तेपतुरञ्जसा॥७॥

निर्ममौ निरहङ्कारौ मौनव्रतसमास्थितौ ।
वर्षाणीह तदा राजन्पञ्च चक्रतुरोजसा॥८॥

ततः प्रीतोऽभवच्छर्वस्ताभ्यां संयमनेन च ।
स ददौ दर्शनं नैजं व्याघ्रचर्मधरो हरः॥९॥

त्रियक्षः शङ्करः शर्वः शूलपाणिरुमापतिः ।
अग्रतः संस्थितं शर्वं चन्द्रार्धकृतशेखरम् ।
तौ दृष्ट्वा प्रीतमनसौ नमश्चक्रतुरञ्जसा॥१०॥

त्रियक्षः त्रिभिर्वेदैः इज्यत इति त्रियक्षः यज्ञेशः॥१०॥

श्रीभगवानुवाच। वरं वरय भद्रं वां यथेच्छा वां तथास्तु वै ।
तावूचतुस्तदा राजन्प्रीतस्त्वं भगवन्यदि॥११॥

वरस्य वरयतम्॥११॥

देवासुरचमूमुख्यैर्यक्षगन्धर्वदानवैः ।
आवामजय्यौ सर्वात्मन्नेष नौ प्रथमो वरः॥१२॥

द्वितीयो नौ विरूपाक्ष रौद्रास्त्राणां च सङ्ग्रहः ।
माहेश्वरं तथा रौद्रमस्त्रं ब्रह्मशिरो महत्॥१३॥

अभेद्यं कवचं दिव्यमच्छेद्यं चापि कार्मुकम् ।
परशुं च तथा शर्व सदा रक्षार्हमेव च॥१४॥

सहायौ द्वौ महादेव भूतौ युद्धे हि गच्छताम् ।
एवमस्त्विति देवेश आह भृङ्गिरिटी हरः॥१५॥

भृङ्गिरिटी भृङ्गिं रिटिं च॥१५॥

कुण्डोदरं विरूपाक्षं सर्वप्राणिहिते रतम् ।
युवामथ च भूतेशौ सहायौ सततं रणे॥१६॥

सङ्ग्रामं गच्छतां घोरमेतयोर्बलशालिनोः ।
इत्युक्त्वा भगवाञ्छर्वस्तत्रैवान्तरधीयत॥१७॥

ततस्तौ वीर्यसम्पन्नौ हंसो डिम्भक एव च ।
कृतास्त्रौ शस्त्रसम्पन्नौ चापिनौ वीर्यवत्तरौ॥१८॥

आमुक्तकवचौ वीरावजय्यौ देवदानवैः ।
अत्यन्तभक्तौ देवेशे शङ्करे नीललोहिते॥१९॥

नित्योत्सवकरौ देवे भस्मोद्धूलनशोभिनौ ।
कृतत्रिपुण्ड्रको नित्यं जटायुक्तशिरोधरौ॥२०॥

रुद्राक्षार्पितसर्वाङ्गौ व्याघ्रचर्माम्बरावृतौ ।
नमः शिवाय शान्ताय महादेवाय धीमते॥२१॥

इत्यदिभिर्महादेवं स्तुवन्तौ नामभिः शिवम् ।
साक्षादिव महादेवौ रेजतुर्जलधारिणौ॥२२॥

ततः स्वभवनं गत्वा पितुः पादावगृह्यताम् ।
पितुश्च सख्युर्बलिनौ मातुश्च चरणौ तदा॥२३॥

पितुर्ब्रह्मदत्तस्त सख्युः मित्रसहस्य॥२३॥

जनार्दनोऽपि धर्मात्मा कालेन महता नृप ।
विद्यापारं महाबुद्धिर्युक्तेनासावुपेयिवान्॥२४॥

स च विष्णुं ह्रिषीकेशं पीतकौशेयवाससम् ।
ब्रह्मतत्त्वपरो नित्यमुपास्ते विजितेन्द्रियः॥२५॥

हंसश्च डिम्भकश्चैव कृतदारौ बभूवतुः ।
जनर्दनोऽपि धर्मात्मा कृतदारो बभूव ह॥२६॥

सर्वे ते यज्ञनिरताः पञ्चयज्ञपरास्तथा ।
स्वदारनिरताः सर्वे गुरुशुश्रुषणे रताः ।
धर्म एव परं श्रेय इति ते मेनिरे नृप॥२७॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने पञ्चाधिकशततमोऽध्यायः॥१०५॥
हंसडिम्भकयोर्मृगया

वैशम्पायन उवाच। ततः कदाचित्तौ वीरौ मृगयामटतुः किल ।
जनार्दनेन सहितौ रथैरश्वगजैरपि॥१॥

तत इति॥१॥

वनं गत्वा तु तौ वीरौ सिंहव्याघ्रांश्च जघ्नतुः ।
शितैर्बाणैर्महाराज वराहानथ सर्वशः॥२॥

व्यालानन्यान्मृगान्हिंस्राञ्छ्वभिश्च सहितौ नृप ।
एष आयाति विपुलो वराहो दीर्घलोचनः॥३॥

एनं बाणेन सञ्छिन्धि याति चायं मृगाधिपः ।
अयमन्योऽथ महिषः शृङ्गप्रोतसरीसृपः॥४॥

एते खलु मृगाः सार्धं शावैर्बाधन्ति सर्वशः ।
एतद्भ्रमति सर्वत्र भीतं शशकुलं महत्॥५॥

बाधन्ति बाधामनुभवन्ति शावैः पोतैः सहितः॥५॥

शावं स्तनं पिबत्साधु न हन्तव्यामिदं शुभम् ।
ग्रहीतव्यमिदं सर्वं निरुध्य श्वगणैरिव॥६॥

इत्यादिशब्दः सुमहान्मृगयां कुर्वतां नृप ।
क्षत्रियाणां नृपश्रेष्ठ व्याधानां चैव धावताम्॥७॥

हत्वा मृगान्सुबहुशो व्याघ्रान् सिंहान्नृपोत्तमौ ।
श्रमं च जग्मतुर्वीरौ मध्यं याते दिवाकरे॥८॥

अलं हि मृगयास्माकं श्रमः समुपजायते ।
इत्यूचतुर्महाराज पुष्करं जग्मतुः सरः॥९॥

सरः समीपमागम्य मुनिसिद्धनिषेवितम् ।
वीजन्मारुतसानूपं श्रमात्तत्र सुखस्थितौ॥१०॥

अनूपं सजलप्रदेशस्तेन सहितं सानूपं वीजन्मारुतवतात्मना सानूपं चेति विग्रहः॥१०॥

ततो जनाः सरः सर्वे विगाह्य श्रमकर्षिताः ।
बिसान्प्रवालान्पद्मानां भक्षयामासुरार्तवत्॥११॥

जनार्दनेन सहितौ हंसो डिम्भक एव च ।
सरः क्वचित्समाश्रित्य श्रमं सन्त्यज्य तिष्ठतः॥१२॥

विश्रम्य सरसस्तीरे तदाऽऽसाते सुखं नृपौ ।
अशृण्वातां परं ब्रह्म मुनिमुख्यैः समीरितम्॥१३॥

मध्यन्दिनं तथा सर्वैः सवनं सस्वरं नृपौ ।
ततः प्रीतौ नृपौ भूत्वा श्रुत्वा वेदध्वनिं तदा॥१४॥

ऐच्छेतां तौ तदा द्रष्टुं यज्ञं मुनिकृतं तदा ।
स्थापयित्वा ततः सेनां सर्वां मृगसमन्विताम्॥१५॥

आदाय च महाचापे शरान्कतिचिदेव च ।
जनार्दनस्तदा वीरौ हंसो डिम्भक एव च॥१६॥

पदातिनौ महाराज जग्मतुश्चाश्रमं किल ।
महर्षेः काश्यपस्याथ सत्रं वैष्णवसंज्ञकम् ।
यजन्तो मुनिभिः सार्धं जपहोमपरायणैः॥१७॥

सत्रं यजतः अनुष्ठितः॥१७॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने मृगयावर्णने षडधिकशततमोऽध्यायः॥१०६॥
दुर्वासोदर्शनम्

वैशम्पायन उवाच। जनार्दनश्च धर्मात्मा हंसो डिम्भक एव च ।
सदः प्रविश्य सत्रस्य नमश्चक्रुर्मुनीश्वरान्॥१॥

जनार्दन इति। सदः यज्ञमण्डपम्॥१॥

तानागतान्महात्मानो मुनयः शिष्यसंयुताः ।
अर्घ्यपाद्यासनादीनि चक्रुः पूजां प्रयत्नतः॥२॥

तौ नृपौ स च विप्रेन्द्रः सपर्यां प्रतिगृह्य च ।
प्रीतात्मानो महात्मान आसते ससुखं नृप॥३॥

ततो हंसो बभाषे तान्मुनीन्संयतवाङ् नृप ।
पिता हि नौ मुनिश्रेष्ठा यष्टुमैच्छत्ससाधनम्॥४॥

गन्तव्यं तत्र युष्माभिः सत्रान्ते मुनिसत्तमाः ।
राजसूयेन यज्ञेन कृत्वा दिग्विजयं वयम्॥५॥

याजयिष्याम हे विप्राः पितरं धार्मिकं नृपम् ।
आयान्तु तत्र विप्रेन्द्राः सशिष्याः सपरिच्छदाः॥६॥

सपरिच्छदाः अग्निहोत्रादिसामग्रीसहिताः॥६॥

वयमद्यैव सहितौ दिशो जेष्यामहे वयम् ।
शक्ता वयमिहैवैतत्कर्तुं सैनिकसञ्चयैः॥७॥

अहयं हयसामग्रीरहितं यथा स्यात्तथा केवलं सैनिकः पुरुषैः सह एवं दिग्विजयाख्यं कार्यं कर्तुं शक्ताविति योजना॥७॥

आवयोः पुरतः स्थातुं न शक्ता देवदानवाः ।
कैलासनिलयाद्देवाद्वरं लब्धाः स्म यत्नतः॥८॥

वरं लब्धाः अजेयाः स्मेति योजना॥८॥

अजय्यौ शत्रुसङ्घानामस्त्राणि विविधानि च ।
इत्युक्त्वा विररामैव हंसो मदबलान्वितः॥९॥

मुनय ऊचुः। यदि स्यात्तत्र गच्छामो वयं शिष्यैर्नृपोत्तम ।
आस्महे वान्यथा राजन्नित्यूचुः किलः तापसाः॥१०॥

यदि स्याद्राजसूयः तर्हि तत्र गच्छामोऽन्यथाऽत्रैवास्महे॥१०॥

वैशम्पायन उवाच। ततो देशान्महाराज गन्तुं निश्चितमानसौ ।
पुष्करस्योत्तरं तीरं दुर्वासा यत्र तिष्ठति॥११॥

एवं कर्मनिष्ठैः संवासं कृत्वा नैष्कर्म्यनिष्ठायुक्तान् उच्छेत्तुं प्रवृत्ता इत्याह- ततो देशानित्यादिना॥११॥

यतयो नियता भूत्वा मन्त्रब्रह्मनिषेविणः ।
ब्रह्मसूत्रपदे सक्तास्तदर्थालोकतत्पराः॥१२॥

मन्त्रब्रह्म मन्त्रमयं ब्रह्म प्रणवरूपं, ब्रह्मसूत्रं “ब्रह्मविदाप्नोति परम्” इत्येदि, तत्र निर्दिष्टं यत्पदं पदनीयं वस्तु तत्रासक्ताः तत्प्राप्त्यर्थं यतमानाः॥१२॥

निर्ममा निरहङ्काराः कौपीनाच्छादनव्रताः ।
तमात्मानं जगद्योनिं विष्णुं विश्वेश्वरं विभुम्॥१३॥

ब्रह्मरूपं शुभं शान्तमक्षरं सर्वतोमुखम् ।
वेदान्तमूर्तिमव्यक्तमनन्तं शाश्वतं शिवम्॥१४॥

नित्ययुक्तं विरूपाक्षं भूताधारमनामयम् ।
ध्यायन्तं सर्वदा देवं मनसा सर्वतोमुखम्॥१५॥

दुर्वाससा सदोपास्यं वेदान्तैकरसं गुरुम् ।
तर्कनिश्चिततत्त्वार्था ज्ञाननिर्मलचेतसः॥१६॥

हंसाः परमहंसाश्च शिष्या दुर्वाससः प्रभो ।
गत्वा तत्र महात्मानौ तौ दृष्ट्वा तूर्ध्वरेतसम्॥१७॥

दुर्वाससं महाबुद्धिं विचिन्वानं परं पदम् ।
क्रुद्धो यदि स दुर्वासा दग्धुं लोकानिमान्क्षमः॥१८॥

देवा अपि च यं द्रष्टुं क्रुद्धं वै न क्षमाः सदा ।
रोषमूर्तिः सदा यस्तु रुद्रात्मा विश्वरूपधृक्॥१९॥

रक्तकौपीनवसनो हंसः परम एव च ।
दृष्ट्वैनं च तयोरेवं बुद्धिरासीन्महामते॥२०॥

को नामासौ महाभूतः काषायी वर्णवित्तमः ।
कश्चायमाश्रमो नाम विहाय च गृहाश्रमम्॥२१॥

वर्णवित्तमः वर्णविभागविदां श्रेष्ठ इत्युपहासः। सर्ववर्णबहिष्कृत् इत्याशयः॥२१॥

गृहस्थ एव धर्मात्मा गृहस्थो धर्मवित्तमः ।
गृहस्थो धर्मरूपस्तु गृहस्थो वर्ण एव च॥२२॥

गृहस्थश्च सदा माता प्राणिनां जीविनं सदा ।
तं विनान्येन रूपेण वर्तते योऽति मूर्खवत्॥२३॥

उन्मत्तोऽयं विरूपोऽयमथ वा मूर्ख एव च ।
ध्यायन्निव सदा चायमास्ते वञ्चयितापि वा॥२४॥

किमेते प्राकृतज्ञाना ध्यायन्त इति किञ्चन ।
वयमेतान्दुरारोहानाश्रमानन्तरकल्पकान्॥२५॥

स्थापयिष्यामहे सर्वान्मन्दबुद्धीनिमान्गृहे ।
बलादेव द्विजानेतान्मूढविज्ञानतत्परान्॥२६॥

असद्ग्राहगृहीतांश्च बालिशान्दुर्मतीनिमान् ।
एषां शास्ता च को मूढो न विप्रो वयमत्र ह॥२७॥

धर्म्ये वर्त्मनि संस्थाप्य पुनर्यास्याव निर्वृतौ ।
इति सञ्चिन्त्य तौ वीरौ विप्रेण सहितौ नृप॥२८॥

संस्थाप्य एषां शास्तारमित्यर्थात्॥२८॥

जनार्दनेन राजानौ मोहाद्भाग्यक्षयान्नृप ।
समीपं तस्य राजेन्द्र यतेः संयतचेतसः॥२९॥

गत्वा च प्रोचतुरुभौ दुर्वाससमतीन्द्रियम् ।
यतींश्च नियतान्क्रुद्धौ राजानौ राजसत्तम॥३०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने सप्ताधिकशततमोऽध्यायः॥१०७॥
संन्यासधर्मनिन्दा

हंसडिम्भकावूचतुः। ज्ञानलेशाद्विहीनात्मन्किं ते व्यवसितं द्विज ।
कश्चायमाश्रमो विप्र भवता यः समाश्रितः॥१॥

ज्ञानलेशादिति॥१॥

गृहमेधं परित्यज्य किं त्वया साधितं पदम् ।
दम्भ एव भवान्व्यक्तं शङ्के नास्त्यत्र कारणम्॥२॥

दम्भः दम्भमीर्तिः॥२॥

लोकांश्चेमान्सदा मूढ नाशयिष्यसि निर्वृतः ।
एतान्सर्वान्विनेतासि नरके पातयिष्यसि॥३॥

स्वयं नष्टः परान्मूर्ख नाशयिष्यसि यत्नतः ।
अहो शास्ता कथं नास्ति तव मन्दमतेर्द्विज॥४॥

सर्वथा त्वद्विनेता च पापो नास्त्यत्र संशयः ।
त्यक्त्वेममाश्रमं विप्र गृही भव यतात्मवान्॥५॥

त्वद्विनेता तव शिक्षकः॥५॥

पञ्च यज्ञान्सदा विप्र कुरु यत्नपरो भव ।
ततः स्वर्गं परं गत्वा स्वर्गे हि सुमहत्सुखम्॥६॥

एष श्रेयः पथो विप्र जीविते चेत्स्पृहा तव ।
इत्युक्तवन्तौ धर्मात्मा श्रुत्वा विप्रो जनार्दनः॥७॥

उवाच च यतिं दृष्ट्वा प्रणम्यासौ सुनीतवत् ।
मा ब्रूतमीदृशं वाक्यं राजानौ मन्दतेजसौ॥८॥

अश्राव्यमीदृशं घोरं लोकयोरुभयोरपि ।
को वक्तुमीशो मन्दात्मा यदि जीवेत्सबान्धवः॥९॥

सर्वथा काल एवायं युवयोर्मन्दचेतसोः ।
समाप्त आयुशः शेषो ब्रह्मदण्डहतौ युवाम्॥१०॥

एते हि यतयः शुद्धा ज्ञानदीपितचेतसः ।
ज्ञानाग्निदग्धकर्माणः प्राणान्प्राणेषु जुह्वति॥११॥

ऋते वामीदृशं वाक्यं कः समर्थो ह्यनुब्रुवन् ।
सर्वथा ज्ञातमस्माभिः समाप्तमिह जीवितम्॥१२॥

चत्वार आश्रमाः पूर्वमृषिभिर्विहिता नृपौ ।
ब्रह्मचरी गृहस्थश्च वानप्रस्थश्च भिक्षुकः॥१३॥

तेषामग्रश्चतुर्थोऽयमाश्रमे भिक्षुकः स्मृतः ।
आस्ते तस्मिन्महाबुद्धिः स हि पुण्यतरः स्मृतः॥१४॥

अग्रः अग्र्यः॥१४॥

नोपासिता भवद्भ्यां च वृद्धाः सम्यग्विनीतवत् ।
ज्ञानं नाप्तं तपस्विभ्यस्तथा चैवं वदेत कः॥१५॥

अश्राव्यमीदृशं घोरं मया प्राणभृता नृप ।
किं करिष्यामि मन्दात्मन्मित्रत्वाद्भवतो नृप॥१६॥

ज्ञानं यदाप्तं भवता गुरुभ्यस्तदत्र दुःखाय हि केवलं नृप ।
ज्ञानं हि धर्मप्रभवं यथेष्टं बलाद्विपापस्य विधातृरूपम्॥१७॥

अन्यस्य ज्ञानं धर्मप्रभावं धर्मस्य फलम्। युवयोर्ज्ञानं तु पापस्य विधातृरूपं पापोत्पत्तिहेतु॥१७॥

युवां विहाय यास्ये वा पतेयं वा शिलातलम् ।
पिबेयं वा विषं घोरं पतेयं वा महोर्मिषु॥१८॥

आत्मानं वात्र सन्त्यक्ष्ये पश्यतां शृण्वतां पुनः ।
इत्युक्त्वा विललापैवं म ब्रूतमिति तौ वदन्॥१९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि कैलासयात्रायां हंसडिम्भकोपाख्याने अष्टाधिकशततमोऽध्यायः॥१०८॥
दुर्वाससो भाषणम्

वैशम्पायन उवाच। ततः क्रुद्धोऽथ दुर्वासा धक्षन्निव तयोरसून् ।
एकेनाक्ष्णाथ दुर्वासा रौद्रेणाग्नियुजा सदा॥१॥

ततः क्रुद्ध इति॥१॥

पश्यंस्तौ च दुरात्मानौ रोषव्याकुलितेन्द्रियः ।
कुर्वन्निव तदा लोकान्भस्मभूतानिमान्नृप॥२॥

ब्राह्मणं चक्षुषा पश्यन्सौम्येनान्येन केवलम् ।
उवाच वचनं राजन्ध्वंसत ध्वंसतेति च॥३॥

ब्राह्मणं जनार्दनम्। इतरान् स्वीयान्प्रति ध्वंसत। इतः शीघ्रं प्रस्थानं कुर्वन्त्विति वचनम् उवाचेत्यर्थः॥३॥

इतो गच्छत राजानौ किं विलम्बत मा चिरम् ।
न वां वचनसम्भूतं रोषं धारयितुं क्षमे॥४॥

तदाह- इतो गच्छतेति। भो राजानावित्यादिवाक्यान्तम्॥४॥

अन्यथा वो महीपालान्सर्वान्दग्धुमहं क्षमः ।
किमतः साहसं वक्तुं कश्च शक्नोति मत्पुरः॥५॥

दर्पं वा लोकविख्यातः शङ्खचक्रगदाधरः ।
व्यपनेष्यति मन्दज्ञौ किं वो वक्ष्यामि साम्प्रतम्॥६॥

मन्दज्ञौ मन्दफलं गार्हस्थ्यमेव जानन्तौ॥६॥

तत उत्थाय धर्मात्मा गन्तुमैच्छद्यतीश्वरः ।
ततो निषेद्धुं हंसस्तं यतते स्म यतीश्वरम्॥७॥

गन्तुं देशान्तरं निषेद्धुं संन्यासधर्मादपाक्रष्टुम्॥७॥

तस्य बाहुं समादाय हंसो नृपवरोत्तमः ।
कौपीनं चिच्छेदे क्रूरः कृतान्त इव सत्तम॥८॥

यथयोऽन्ये पलायन्ति दिशो दश विचेतसः ।
कष्टं हेति वदन्विप्रो मित्रभावाज्जनार्दनः॥९॥

हा इतीति च्छैदः॥९॥

न्यवारयद्यथाशक्ति किमिदं साहसं त्विति ।
दुर्वासाः सत्यधर्मस्तु हन्तुमीशोऽपि तं ततः॥१०॥

मन्दं मन्दमुवाचेदं हंसं डिम्भकमेव च ।
शापेनाहं समर्थोऽपि हन्तुं राजकुलाधमौ॥११॥

तथापि न करोम्यन्तं यतयो ह्यत्र ते वयम् ।
यो हि देवो जगन्नाथः केशवो यादवेश्वरः॥१२॥

शङ्खचक्रगदापाणिर्गर्वं वां व्यपनेष्यति ।
लोके तस्मिन्यदुश्रेष्ठं रक्षत्येवं जगत्पतौ॥१३॥

युवयोः सर्वथा जीवः सज्जीव इति मे मतिः ।
जरासन्धोऽपि वां बन्धुः स च वक्तुं न चेच्छति॥१४॥

युवयोः वां सज्जीवः सदिति मृत्युना स्वर्गमनुलाभादिति भावः॥१४॥

ईदृशं लोकविद्विष्टं स हि धर्मपथे सदा ।
एतावता स वां बन्धुर्न हि भूयो भविष्यति॥१५॥

एतावता संन्यासिद्रोहेण जरासन्धो बन्धुत्वं युवयोत्स्यक्ष्यतीत्यर्थः॥१५॥

विद्वेषो ह्यस्तु वां तस्य मागधस्य महीपतेः ।
श्रुत्वेदं घोररूपं तु स हि बन्धुः सहेत चेत्॥१६॥

वां युवाभ्याम्॥१६॥

धर्मनाशो भवेत्तस्य नात्र कार्या विचारणा ।
इत्युक्त्वा गच्छ गच्छेति हंसं प्राह पुनः पुनः॥१७॥

जनार्दनमुवाचेदं दुर्वासा यतिसत्तमः ।
स्वस्त्यस्तु तव विप्रेन्द्र भक्तिरस्तु जनार्दने॥१८॥

सङ्गतिस्तव तस्यास्तु शङ्खचक्रगदाभृतः ।
अद्य श्वो वा परश्वो वा साधुरेव सदा भवान्॥१९॥

न हि साधोर्विनाशोऽस्ति लोकयोरुभयोरपि ।
गच्छ सर्वं पितुर्ब्रूहि ज्ञात्वा वृत्तं यथाखिलम्॥२०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने दुर्वासोभाषणे नवाधिकशततमोऽध्यायः॥१०९॥
यतीनां द्वारकागमनम्

वैशम्पायन उवाच। ततस्तौ हंसडिम्भकौ क्रुद्धौ कालेन चोदितौ ।
शिक्यं कमण्डलुं चैव द्विदलं दारुमेव च॥१॥

ततस्ताविति। द्विदलं दारुगोकर्णाकारं भोजनपात्रम्। दारुमिति पुंस्त्वमार्षम्॥१॥

दण्डान्पात्रविशेषांश्च छित्त्वा भित्त्वा च सर्वशः ।
तस्मिन्देशे महाराज व्याधैर्मांसान्यदीदहन्॥२॥

पात्रविशेषान् शालग्रामसम्पुटादीन्॥२॥

भक्षयित्वा ततो देशात्स्वपुरीं तौ प्रजग्मतुः ।
जनार्दनश्च धर्मात्मा स्नेहादनुययौ तयोः॥३॥

नष्टाविमाविति तदा स मेने दुःखितः परम् ।
गतेषु तेषु सर्वेषु दुर्वासा यतिसत्तमः॥४॥

पलायनपरान्सर्वानिदं प्राह यतीश्वरान् ।
इतो देशाद्विनिर्गत्य पुष्करात्पुण्यसंयुतात्॥५॥

मन्दं मन्दं समाश्वस्य विश्रम्य च ततस्ततः ।
प्रविश्य द्वारकां देवं शङ्खचक्रगदाधरम्॥६॥

दृष्ट्वा च तस्मै प्रभवे वक्ष्यामो यतिसत्तमाः ।
स हि रक्षञ्जगदिदं धर्मवर्त्मनि संस्थितः॥७॥

आद्यो लोकगुरुर्विष्णुर्यतात्मा तत्त्ववित्प्रियः ।
उद्धृत्य कण्टकान्सर्वाञ्छशास पृथिवीमिमाम्॥८॥

स च पापान्महाघोरान्सर्वान्पापकृतान्प्रभुः ।
रक्षेन्नः सकलान्सर्वाञ्ज्ञानेषु नियतात्मनः॥९॥

पापकृतान्पापजन्मभाजः ज्ञानेषु ज्ञानसाधनेषु अमानित्वादिषु॥९॥

इदमद्य क्षमं विप्रा यानमद्य विधीयताम् ।
साहसं यत्कृतं ताभ्यां पात्रभेदादि सत्तमाः॥१०॥

यानं प्रयाणम्॥१०॥

एतत्सर्वमशेषेण दर्शयाम जनार्दनम् ।
तथेति ते प्रतिज्ञाय यतयो ज्ञानचक्षुषः॥११॥

छिन्नं ताभ्यां समादाय शिक्यं दारुमयं तथा ।
द्विदलं कर्पटं चैव कौपीनमथ वल्कलम्॥१२॥

कर्पटं काषायवासः॥१२॥

कमण्डलुं तथा राजन्नर्धप्रोतकपालकम् ।
एतानन्यान्समादाय द्रष्टुं केशवमाययुः॥१३॥

अर्धप्रोतकपालकम् अलाबूफलस्य मूलादग्रान्तं द्विधा कृतस्यैकदेशः॥१३॥

पञ्च चैव सहस्राणि पुरस्कृत्य महमुनीन् ।
दुर्वाससं तपोयोनिमीश्वरस्यात्मसम्भवम्॥१४॥

अहोरात्रेण ते सर्वे द्वारकां कृष्णपालिताम् ।
ययुर्दान्ता महात्मानो लोमशाः केशवर्जिताः॥१५॥

लोमशाः गलादधः केशवर्जिताः उपरि केशवर्जिता वा॥१५॥

प्रातः प्रविश्य राजेन्द्र वापिकायां यतीश्वराः ।
स्नात्वोपस्पृश्य ते सर्वे यत्नेन महता तदा॥१६॥

द्रष्टुमभ्युद्यता विष्णुं कण्टकोद्धृतितत्परम् ।
एकरूपं समास्थाय सुधर्मायामवस्थितम्॥१७॥

एकरूपं मुख्यविग्रहं श्रीकृष्णम्॥१७॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने यतीनां द्वारकागमने दशाधिकशततमोऽध्यायः॥
श्रीकृष्णं प्रति दुर्वाससो वाक्यम्

वैशम्पायन उवाच। अथ सर्वेश्वरो विष्णुः पद्मकिञ्जल्कलोचनः ।
श्यामः पीताम्बरः श्रीमान्प्रलम्बाम्बरभूषणः॥१॥

अथेति। पद्मकिञ्जल्कलोचनः किञ्जल्कपदं तद्वत्वात्पत्रेऽत्र ज्ञेयं तेन पद्मपत्रनेत्र इत्यर्थः॥१॥

किरीटी श्रीपतिः कृष्णो नीलकुञ्चितमूर्धजः ।
अव्यक्तः शाश्वतो देवः सकलो निष्कलः शिवः॥२॥

क्रीडाविहारोपगतः कदाचिदभवद्धरिः ।
कुमारैरपरैः सार्धं सात्यकिप्रमुखैर्नृप॥३॥

गोलक्रीडां सुधर्माया मध्ये यादवसत्तमः ।
चकार प्रियकृत्कृष्णो युयुधानेन केशवः॥४॥

गोलक्रीडां गोलाकारैरक्षरैर्द्यूतक्रीडाम्॥४॥

ममायं प्रथमो गोलस्तव पश्चाद्भविष्यति ।
इति ब्रुवंस्तदा विष्णुः सात्यकिं कमलेक्षणः॥५॥

पार्श्वस्था यादवास्तस्य वसुदेवपुरोगमाः ।
उद्धवप्रमुखा राजन्नासेदुः क्वचिदत्र वै॥६॥

अन्यव्यापाररहितो भूतात्मा भूतभावनः ।
विजहार यथा रामः सुग्रीवेण पुरा नृप॥७॥

मध्यन्दिने महाविष्णुः शैनेयेन सहाच्युतः ।
विक्रीड्य सुचिरं कृष्ण उपारंसीत्स यादवः॥८॥

द्वास्थेन वारिताः पूर्वं द्वार्येव च समास्थिताः ।
इदमन्तरमित्येव विविशुस्तां सभां नृप॥९॥

विशिशुस्तापसा इति शेषः॥९॥

यतयो दीर्घतपसः पुरस्कृत्य तपोधनम् ।
दुर्वाससं सुमनसो ददृशुर्यादवेश्वरम्॥१०॥

गोलक्रीडासमासक्तं करसंस्थितगोलकम् ।
पद्मपत्रविशालाक्षं विष्णुं तं सात्यकिं हरिम्॥११॥

एकेनाक्ष्णा ह्लादयन्तं परेणान्येन गोलकम् ।
यतयश्च महाराज प्रत्यदृश्यन्त तत्पुरः॥१२॥

ह्लादयन्तं मुनीन्। गोलकं पश्यन्तम्॥१२॥

वृष्णिपः पुण्डरीकाक्षः सात्यकिर्बलभद्रकः ।
वसुदेवस्तथाक्रूर उग्रसेनस्तथा नृप॥१३॥

अन्ये च यादवाः सर्वे सम्भ्रमं प्रतिपेदिरे ।
इदं किमिदमित्येवं व्याशङ्कमनसोऽभवन्॥१४॥

पृष्ठतोऽप्यनुगच्छन्ति दिधक्षन्तं जगत्त्रयम् ।
अर्धकौपीनवसनं स्मरन्तं कमपि द्विजम्॥१५॥

अन्तस्तापसमायुक्तं छिन्नदण्डधरं यतिम् ।
अन्तर्ज्वलन्तं रोषेण हंसासादितकल्मषम्॥१६॥

हंसेन राज्ञा आसादितकल्मषं प्रापितदुःखम्॥१६॥

नेत्रोत्थितमहावह्निं प्रेक्षन्तं यादवेश्वरम् ।
दुर्वाससं ते ददृशुर्भीता यादवसत्तमाः॥१७॥

किं करिष्यत्यसौ क्रुद्धः किं वा वक्ष्यति नः प्रभुः ।
इति प्राञ्जलयः सर्वे यादवाः प्रतिपेदिरे॥१८॥

इदमासनमित्येवं किञ्चिदूचुश्च वृष्णयः ।
ततः कृष्णो हृषीकेषः किञ्चिदुत्प्लुत्य तत्पुरः॥१९॥

इदमासनमित्येवं स्थीयतामिह निर्वृतः ।
अहमद्य स्थितो विप्र किं करोऽस्मीति चाब्रवीत्॥२०॥

ततः किञ्चिदिवासीन आसने यतिविग्रहः ।
आसने संस्थिते तस्मिन्यतयो वीतमत्सराः॥२१॥

आसनानि यथायोगं भेजिरे निर्वृताः किल ।
अर्घ्यादिसमुदाचारं चक्रे कृष्णः किरीटभृत्॥२२॥

आह भूयो हृषीकेशो यातिं दुर्वाससं प्रभुम् ।
किमर्थं ब्रूहि विप्रेन्द्र अस्मिन्प्रत्यागमो हि वः॥२३॥

अस्मिन् स्थाने॥२३॥

दृष्टं वा ह्यथवा किञ्चित्कारणं चास्ति वो महत् ।
संन्यासिनो द्विजश्रेष्ठा यूयं विगतकल्मषाः॥२४॥

किञ्चिद्दृष्टं वा द्वयम् उभयत्र यथाक्रमं योज्यम्॥२४॥

निःस्पृहाश्च सदा यूयमस्मत्तो द्विजपुङ्गवाः ।
प्रार्थ्यं नाम न चैवास्ति स्पृहा नैवास्ति वो यतः॥२५॥

स्पृहाप्रेरितकर्माणः क्षत्रियान्यान्ति सुव्रताः ।
निरूप्यमाणमस्माभिर्विप्र किञ्चिन्न दृश्यते॥२६॥

न जाने कारणं ब्रह्मन्युष्मदागमनं प्रति ।
एतावता चानुमेयं किञ्चित्कारणमस्ति वै॥२७॥

तद्ब्रूहि यदि विद्येत त्वत्तो ज्ञास्यामहे वयम् ।
इत्युक्तवति देवेशे चक्रपाणौ जनार्दने॥२८॥

तस्यापि राजन्विप्रस्य भूयः कोपो महानभूत् ।
तस्मादभ्यधिकः पूर्वात्कोपः सञ्जायते महान्॥२९॥

दिधक्षन्निव लोकांस्त्रीन्भक्षयन्निव पश्यतः ।
रोषरक्तेक्षणः क्रुद्धो हसन्निव दहन्निव॥३०॥

पश्यतः पुरुषान्॥३०॥

उवाच वचनं विष्णुं दुर्वासाः क्रोद्धमूर्च्छितः ।
न जाने इति कस्मात्त्वं ब्रूषे नो यादवेश्वर॥३१॥

जानामि त्वां महादेवं वञ्चयन्निव भाषसे ।
पुरातना वयं विष्णो पूर्ववृत्तान्तवेदिनः॥३२॥

यथा हि देवदेवोऽसि मायामानुषदेहवान् ।
निगूहसे प्रभुरतः कस्मान्नो जगतीपते॥३३॥

निगूहसे आत्मानम्। नोऽस्मान्प्रति॥३३॥

सोऽसि ब्रह्मविदां मूर्तिस्तवैतत् परमं पदम् ।
यदभ्यर्च्य पुरा ब्रह्मा यच्च ज्ञाता वयं पुरा॥३४॥

ज्ञानाः ज्ञानवन्तः॥३४॥

यतो विश्वमिदं भूतं तदेतत्परमं पदम् ।
यच्च स्थूलं विजानन्ति पुरा तत्त्वेन चेतसा॥३५॥

पुराविदोऽथ विश्वेश तदेतत्परमं वपुः ।
कर्मणा प्राप्यते यत्तु यत्स्मृत्वा निर्वृता वयम्॥३६॥

प्रत्यक्षमपि यद्रूपं नैव जानन्ति मानुषाः ।
न हि मूढधियो देव न वयं तादृशा हरे॥३७॥

न जाने इति यद्ब्रूषे किमतः साहसं वचः ।
ये हि मूलं विजानन्ति तेषां तु प्रविवेचनम्॥३८॥

प्रविवेचनं विचारम्॥३८॥

कुर्वतः किं फलं देव तव केशिनिषूदन ।
वेदान्ते प्रथितं तेजस्तव चेदं विचार्यते॥३९॥

ये च विज्ञानतृप्तास्तु योगिनो वीतकल्मषाः ।
पश्यन्ति हृत्सरोजेऽपि तदेवेदं वपुः प्रभो॥४०॥

वेदैर्यद्गीयते तेजो ब्रह्मेति प्रतिपाद्य वै ।
तदेवेदं विजानेऽहं रूपमैश्वरमेव च॥४१॥

वैष्णवं परमं तेज इति वेदेषु पठ्यते ।
अवगच्छाम्यहं विष्णो तदेवेदं वपुस्तव॥४२॥

य ओमित्युच्यते शब्दो यस्य वागिति गीयते ।
स एवासि प्रभो विष्णो न जाने इति मा वद॥४३॥

परोक्षं यदि किञ्चित्स्यात्तव वक्तुं प्रयुज्यते ।
न जाने इति गोविन्द मा वादीः साहसं हरे॥४४॥

विश्वं यदा प्रादुरासीद्यस्मिँल्लीनं क्षये सति ।
इदं तदैश्वरं तेजस्त्ववगच्छामि केशव॥४५॥

कर्ता त्वं भूतभव्येश प्रतिभासि सदा हृदि ।
यद्यद्रूपं स्मरेन्नित्यं तत्तदेवासि मे हृदि॥४६॥

यद्यदिति। यत्र वस्तुनि धारणा क्रियते तत्रैवाविर्भवसीत्यर्थः॥४६॥

वायुरेव यदा विष्णुरिति मे धीयते मतिः ।
तदा तद्रूपमेवासि हृन्मध्ये संस्थितो विभो॥४७॥

तदेवाह- वायुरित्यादि॥४७॥

आकाशो विष्णुरित्येव कदाचिद्धीयते मतिः ।
तदा तद्रूपमेवासि हृन्मध्ये संस्थितो विभो॥४८॥

पृथिवी विष्णुरित्येतत्कदाचिद्धीयते मतिः ।
तदा पार्थिवरूपस्त्वं प्रतिभासि सादा मम॥४९॥

रसोऽग्रं देव इत्येव कदाचिच्चिन्त्यते मया ।
तदा रसात्माना विष्णो हृन्मध्ये संस्थितो विभो॥५०॥

यदा त्वां तेज इत्येवं स्मर्ता स्यां पुरुषोत्तम ।
तदा तद्रूपसम्पन्नः प्रतिभासि सदा हृदि॥५१॥

चन्द्रमा हरिरित्येवं तदा चान्द्रमसं वपुः ।
निरीक्ष्य चक्षुषा देव ततः प्रीतोऽस्मि केशव॥५२॥

यदा सौरं वपुरिति स्मर्ता स्यां जगतीपते ।
तदा तद्भावनायोगात्सूर्य एव विराजसे॥५३॥

तस्मात्सर्वं त्वमेवासि निश्चिता मतिरीदृशी ।
अतो न जानेऽहमिति वक्तुं नेशो जनार्दन॥५४॥

इत्यर्थे संस्थितो विष्णो पीडां नो नैव चिन्त्यसे ।
अत्यन्तदुःखिता विष्णो वयं त्वामनुसंस्थिताः॥५५॥

चिन्त्यसे चिन्तयसे। अकाेलोप आर्षः॥५५॥

ईदृशीयमवस्था नो नैतां स्मरसि केशव ।
एतत्पुनर्भाग्यमतो नष्टमित्येव चिन्तये॥५६॥

मन्दभाग्या वयं विष्णो यतो नो न स्मरेः प्रभो ।
कौचित्क्षत्रियदायादौ गिरीशवरगर्वितौ॥५७॥

नाम्ना हंसडिम्भकौ च बाधेते नो जनार्दन ।
गार्हस्थ्यं हि सदा श्रेयो वदन्ताविति केशव॥५८॥

इतस्ततश्च धावन्तौ वदन्तौ बहु किल्बिषम् ।
अयुक्तं बहु भाषन्तौ धर्षयन्तौ च नः सदा॥५९॥

इदमन्यत्कृतं देव असह्यं पापमुच्यते ।
पश्येदं बहुधा देव भिन्नं भिन्नं सहस्रशः॥६०॥

शिक्यं च दारवं पात्रं द्विदलान्वेणुकान्बहून् ।
इदमप्यपरं पश्य तयोः साहसचेष्टितम्॥६१॥

कौपीनं बहुधा छिन्नं तदस्माकं महद्धनम् ।
कृतं कपालमात्रेण कमण्डलु जगत्प्रभो॥६२॥

त्वं तु नो रक्षसे नित्यं क्षात्रं वै व्रतमास्थितः ।
चित्रं चित्रमिदं देव रक्षस्यसि सदानिशम्॥६३॥

त्वं सदा असि रक्षसि च अथाप्येतत् चित्रम् आश्चर्यं यदस्माकमीदृशी अवस्थेति॥६३॥

किं करिष्यामि मन्दात्मा मन्दभाग्या वयं विभो ।
किन्नः शरणमद्यैव तद्ब्रूहि जगतां पते॥६४॥

जीवन्तौ तौ यदि स्यातां नष्टा लोका इमे त्रयः ।
न विप्रा न च राजनो न वैश्या न च पादजाः॥६५॥

अत्यन्तबलिनौ मत्तौ तीक्ष्णदण्डधरौ नृप ।
ते तयोः पुरतः स्थातुं शक्ता देवाः सवासवाः॥६६॥

न च भीष्मो न वा राजा बाह्लीको भीमविक्रमः ।
यो हि वीरो जरासन्धः क्षत्रियाणां भयङ्करः॥६७॥

जरासन्धोऽपि तयोः पुरःस्थातुं न शक्त इति द्वयोः सम्बन्धः॥६७॥

नैव च प्रायशः स्थातुं गिरीशवरदर्पिणोः ।
तयोः कृष्ण हरे शक्तो नित्यमप्रतिसङ्गिनोः॥६८॥

तस्मात्त्वं जहि तौ वीरौ रक्ष लोकानिमान्प्रभो ।
अन्यथा रक्षसीत्येवं व्यर्थः शब्दोऽत्र जायते॥६९॥

बहुनात्र किमुक्तेन रक्ष रक्ष जगत्त्रयम् ।
इत्युक्त्वा विररामैव दुर्वासाः क्रोद्धमूर्च्छितः॥७०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने दुर्वासःसमागमे एकादशाधिकशततमोऽध्यायः॥१११॥
कृष्णस्य हंसडिम्भकवधप्रतिज्ञा यतिभोजनं च

वैशम्पायन उवाच। यतेर्वचनमाकर्ण्य मन्दमुच्छ्वस्य केशवः ।
दुर्वाससं समालोक्य बभाषे यादवेश्वरः॥१॥

यतेरिति॥१॥

क्षन्तव्यं भवता सर्वं दोष एव ममैव हि ।
शृणु वाक्यं ममैतत्तु श्रुत्वा शान्तिपरो भव॥२॥

जेष्यामि तौ रणे विप्र हंसं डिम्भकमेव च ।
गिरीशो वा वरं दद्याच्छक्रो वा धनदोऽपि वा॥३॥

यमो वा वरुणो वापि ब्रह्मा वाथ चतुर्मुखः ।
सबलौ सानुजौ हत्वा पुनर्दास्यामि वो रतिम्॥४॥

सत्येनैव शपाम्यद्य मा रोषवशगो भव ।
रक्षां वोऽहं करिष्यामि हत्वा तौ च नृपाधमौ॥५॥

जानामि तौ दुरात्मानौ युष्मद्दोषकरौ हि तौ ।
श्रुतं च पूर्वमस्माभिस्तीक्ष्णदण्डधराविति॥६॥

अत्यन्तबलिनौ मत्तौ गिरीशवरदर्पितौ ।
नाल्पप्रयत्नसंसाध्यौ जरासन्धहितैषिणौ॥७॥

प्राणानपि तयो राजा दास्यत्येव न संशयः ।
जरासन्धो महीपालो विना तौ जयते महीम्॥८॥

जये तयोर्विप्रवर्य तत्र श्रेयो भवेत्ततः ।
यत्र यत्र तु तौ गत्वा स्थितावित्यनुशुश्रुम॥९॥

तत्र तत्र च हन्ताहं नात्र कार्या विचारणा ।
गच्छध्वं यतयः स्वैरं निजकार्यपरायणाः॥१०॥

अचिरेणैव कालेन जेष्यामि रणपुङ्गवौ ।
ततः प्रीतः प्रसन्नात्मा यादवेश्वरमाह सः॥११॥

स्वस्त्यस्तु भवते कृष्ण जगतां स्वस्ति कुर्वते ।
किन्नु नाम जगन्नाथ दुःसाध्यं तव केशव॥१२॥

त्रिलोकेश त्रिधामासि सर्वसंहारकारकः ।
देवानामपि देवेश सर्वत्र समदर्शनः॥१३॥

विष्णो देव हरे कृष्ण नमस्ते चक्रपाणये ।
नमः स्वभावशुद्धाय शुद्धाय नियताय च॥१४॥

शब्दगोचर देवेश नमस्ते भक्तवत्सल ।
अज्ञानादथवा ज्ञानाद्यन्मयोक्तं क्षमस्व तत्॥१५॥

त्वमेवाहं जगन्नाथ नावयोरन्तरं पृथक् ।
अतः क्षमस्व भगवन्क्षमासारा हि साधवः॥१६॥

श्रीभगवानुवाच। क्षन्तव्यं भवता विप्र क्षमासारा वयं तदा ।
संन्यासिनः क्षमासाराः क्षमा तेषां परं बलम्॥१७॥

क्षमा मोक्षकरी नित्यं तत्त्वज्ञानमिव द्विज ।
क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा यशः॥१८॥

क्षमा स्वर्गस्य सोपानमिति वेदविदो विदुः ।
तस्मात्सर्वप्रयत्नेन क्षमां पालयत स्वकाम्॥१९॥

प्रत्यक्षज्ञानसंयुक्ता यूयं सर्वे यतीश्वराः ।
य एते यतयो विप्राः पूजनीया मयाद्य वै॥२०॥

भोक्तव्या यतयो विप्रा भिक्षुकाः सर्व एव हि ।
तथेति ते प्रतिज्ञाय भोक्तुमैच्छन्हरेर्गृहे॥२१॥

भोक्तव्याः भोजनीयाः॥२१॥

ततः स्वभवनं विष्णुः प्रविश्य हरिरीश्वरः ।
चतुर्विधं तथाहारं कारयित्वा यथाविधि॥२२॥

भोजयामास तान्सर्वान्यतीन्यतिवरार्चितः ।
छित्वा छित्वा च देवेशो दुकूलानि मृदूनि सः॥२३॥

ददौ तेभ्यस्तदा विष्णुः सर्वेभ्यो जनमेजय ।
ते च प्रीता यथायोगं यथापूर्वं ततो गताः॥२४॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने यतिभोजने द्वादशाधिकशततमोऽध्यायः॥११२॥
हंसडिम्भकयोर्दूतप्रेषणम्

वैशम्पायन उवाच। दुर्वासास्त्वथ तत्रैव नारदेन महात्मना ।
चिन्तयन्ब्रह्मणस्तत्त्वं विजहार यथासुखम्॥१॥

दुर्वास इति॥१॥

भगवानपि गोविन्दस्तयोर्वासममन्यत ।
ततस्तौ हंसडिम्भकौ तस्मिन्काले महीपतिम्॥२॥

ब्रह्मदत्तं महीपालं पितरं वीर्यशालिनम् ।
प्रावोचतामिदं वाक्यं समन्ताज्जनसंसदि॥३॥

राजसूयं महायज्ञं पितः कुरु सुयत्नतः ।
अस्मिन्मासि नृपश्रेष्ठ यतावो यज्ञसिद्धये॥४॥

आवां तेऽद्य महाराज दिशां विजयतत्परौ ।
यतिष्यावो बलैः सार्धं गजैरश्वै रथैरपि॥५॥

सम्भारा यज्ञसिद्ध्यर्थमानेतव्या नृपोत्तम ।
तथेति स महाबाहो ब्रह्मदत्तोऽब्रवीत्तदा॥६॥

जनार्दनस्तु विप्रेन्द्रो दृष्ट्वा साहसतत्परौ ।
अशक्यमिति मन्वानो वयस्यं हंसमब्रवीत्॥७॥

जनार्दनः ऋषिपुत्रः॥७॥

शृणु हंस वचो मह्यं श्रुत्वा निश्चित्य वीर्यवान् ।
आयुष्मान्साहसं कर्तुमुद्यतोऽसि नृपोत्तम॥८॥

स्थिते भीष्मे जरासन्धे बाह्लिके च नृपोत्तमे ।
किं च वीरेषु सर्वेषु यादवेषु नृपोत्तम॥९॥

भीष्मो हि बलवान्वृद्धः सत्यसन्धो जितेन्द्रियः ।
त्रिःसप्तकृत्वः पृथिवीं यो जिगाय भृगूत्तमः॥१०॥

तं युद्धे जितवान्भीष्मः सर्वक्षत्रस्य पश्यतः ।
जरासन्धस्य यद्वीर्यं तद्भवान्वेत्ति संयुगे॥११॥

वृष्णिवीरास्तु ते सर्वे कृतास्त्रा युद्धदुर्मदाः ।
तत्र कृष्णो हृषीकेशो जितशत्रुः कृती सदा॥१२॥

जरासन्धेन सहितः सदा युद्धे जितश्रमः ।
प्रमुखे तस्य न स्थातुं शक्तो जीवन्नृपोत्तमः॥१३॥

बलभद्रस्तथा मत्तः क्रुद्धो यदि भवेद्बली ।
लोकानिमान्समाहर्तुं शक्नोतीति मतिर्मम॥१४॥

तथा च सात्यकिर्वीरः शक्तो जेतुं रणे रिपून् ।
तथान्ये यादवाः सर्वे कृष्णमाश्रित्य दंशितः॥१५॥

अस्माभिश्च कृतः पूर्वं विरोधो यतिभिः सह ।
दुर्वासा यतिभिः सार्धं गतो द्रष्टुं स केशवम्॥१६॥

इति श्रुतं नृपश्रेष्ठ ब्राह्मणाद्भोक्तुमागतात् ।
तथा सति यथा सिद्ध्येत्तथा चिन्त्यं च मन्त्रिभिः॥१७॥

ततः पश्चाद्विधास्यामो राजसूयं महाक्रतुम् ।
हंस उवाच। को नाम भीष्मो मन्दात्मा वृद्धो हीनबलः सदा॥१८॥

आवयोः पुरतः स्थातुं शक्तः स किल वृद्धकः ।
यादवा इति चित्रं नः शक्ताः स्थातुं रणे द्विज॥१९॥

कश्च कृष्णः पुरः स्थातुं बलदेवश्च मत्तकः ।
शैनेयश्चापि विप्रेन्द्र स्थातुं न इति चिन्तय॥२०॥

जरासन्धस्तु धर्मात्मा बन्धुरेव सदा मम ।
गच्छ विप्र यदुश्रेष्ठं ब्रूहि मद्वचनात्त्वरन्॥२१॥

दीयतां करसर्वस्वं यज्ञार्थं सुन्दरं बहु ।
लवणानि बहून्यद्य गृह्य केशव मा चिरम्॥२२॥

आगच्छ त्वरितं कृष्ण न ते कार्यं विलम्बनम् ।
इति ब्रूहि यदुश्रेष्ठं याहि त्वरितविक्रमः॥२३॥

न ब्रूयाश्चोत्तरं विप्र शपेयं त्वां प्रियोऽसि मे ।
मित्रभावादिदं ब्रूहि पश्यामि त्वां पुनः पुनः॥२४॥

इति सञ्चोदितो विप्रो नोत्तरं प्रत्यभाषत ।
मित्रभावात्तथा राजन्स्नेहाच्च जनमेजय॥२५॥

जनार्दनस्तु धर्मात्मा नित्यं गन्तुं समुद्यतः ।
अद्य श्वो वा परश्वो वा गच्छामीति यतेत सः॥२६॥

देवं द्रष्टुं जगद्योनिं शङ्खचक्रगदाधरम् ।
एक एव च धर्मात्मा हयमारुह्य सत्वरम्॥२७॥

प्रातरेव जगामाशु द्रष्टुं द्वारवतीं द्विजः ।
हरिं कृष्णं हृषीकेशं मनसा संस्मरन्द्विजः॥२८॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने त्रयोदशाधिकशततमोऽध्यायः॥११३॥
जनार्दनाख्यदूतस्य द्वारवतीप्रयाणम्

वैशम्पायन उवाच। ततः प्रायाद्धरिं विष्णुं ब्राह्मणो ब्रह्मवित्तमः ।
हयेनैकेन राजेन्द्र त्वरितं स ययौ नृप॥१॥

तत इति॥१॥

यथा निदाघसमये सूर्यांशुपरिपीडितः ।
पान्थो याति जलं दृष्ट्वा त्वरितं तत्पिपासया॥२॥

धावत्येव तथा विप्रो हरिं द्रष्टुं जनार्दनः ।
गच्छन्स चिन्तयामास चोदयन्हयमुत्तमम्॥३॥

हंस एव विप्रो मह्यं कुर्यात्प्रियहितं मम ।
तथाहि प्रेषितस्तेन हरिं पश्याम्यहं प्रभुम्॥४॥

अहमेव सदा धन्यो मत्तो ह्यभ्यधिको न हि ।
यतो द्रक्ष्याम्यहं विष्णुं वसन्तं द्वारकापुरे॥५॥

सा हि मे जननी धन्या हरिं दृष्ट्वा पुनर्गतम् ।
कृतार्थं सर्वदा देवी द्रक्ष्यत्येषा मनस्विनी॥६॥

मुखमुन्निद्रहेमाब्जकिञ्जल्कसदृशप्रभम् ।
द्रक्ष्यामि देवदेवस्य चक्रिणः शार्ङ्गधन्वनः॥७॥

वपुर्द्रक्ष्याम्यहं विष्णोर्नीलोत्पलदलच्छविः ।
शाङ्खचक्रगदाशार्ङ्गवनमालाविभूषितम्॥८॥

नेत्रे ते देवदेवस्य पद्मकिञ्जल्कसप्रभे ।
पश्याम्यहमदीनात्मा नष्टदुःखोऽस्मि निर्वृतः॥९॥

अपि द्रक्ष्यति योगात्मा सौम्येनैव स्वचक्षुषा ।
अपि वा मत्प्रियं ब्रूयात्स्वस्ति चेति च वा वदेत्॥१०॥

द्रक्ष्यामि चक्रिणो वर्ष्म ततस्त्रैलोक्यसन्निभम् ।
पादाब्जं चक्रिणो द्रष्टुं त्वरत्येव च मे मनः॥११॥

वर्ष्म वपु॥११॥

वक्षःस्थलं सदा विष्णोः स्फुरद्रत्नप्रभायुतम् ।
पश्यन्निव च गच्छामि स्मरंश्चानिशमीश्वरम्॥१२॥

पीतकौशेयवसनं लम्बहारविभूषितम् ।
ईषत्स्मिताधरं विष्णुं पश्यामि च पुनः पुनः॥१३॥

स्मरतश्च हरे रूपं रोहमर्षोऽयमीदृशः ।
गच्छतश्च पुरो भाति शाङ्खचक्रगदासिमान्॥१४॥

यातीव च पुरे भाति मह्यं देवो जगद्गुरुः ।
एषोऽयमिति मे वक्तुं जिह्वा प्रस्फुरतीव तम्॥१५॥

इदं दुःखतरं मन्ये करं देहीति मद्वचः ।
इदं तत्साहसं मन्ये तद्वचस्तस्य भूपतेः॥१६॥

हंसस्य करदो विष्णुस्तदाज्ञापरिचारकः ।
तस्य सर्वं पुरो गत्वा वक्ताहं किल निर्दयः॥१७॥

मूढानामग्रणीरस्मि निर्लज्जश्च तथा वदन् ।
करं देहि हरे विष्णो हंसस्य यदुपुङ्गवः॥१८॥

लवणानि बहून्याशु दातव्हानि करात्मना ।
इति वक्तुं न मे युक्तं पुरतस्तस्य शार्ङ्गिणः॥१९॥

तथापि मित्रभावात्तु वक्तव्यं घोरमीदृशम् ।
कष्टो ह्ययं मित्रभावो मनुष्याणां कृतात्मनाम्॥२०॥

अथवा सर्वविद्विष्णुः सर्वस्य हृदि संस्थितम् ।
जानात्येव सदा भावं प्राणिनां शोभने रतः॥२१॥

तथा सति न मे दोषो मित्रभावो यतो ह्ययम् ।
सर्वथा रक्षतां विष्णुर्घोरं वक्तुं यतस्य मे॥२२॥

यतस्य मे यतन्तं माम्॥२२॥

द्रक्ष्याम्यहं जगन्नाथं नीलकुञ्चितमूर्धजम् ।
कम्बुग्रीवधरं विष्णुं श्रीवत्साच्छादितोरसम्॥२३॥

स्फुरत्पद्ममहाबाहुं रत्नच्छायाविराजितम् ।
द्रक्ष्यामि केशवं विष्णुं चक्रिणं यादवेश्वरम्॥२४॥

अचिन्त्यविभवं देवं भूतभव्यभवत्प्रभुम् ।
आत्मेच्छया जगद्रक्षं द्रक्ष्यामि जलशायिनम्॥२५॥

जगति रक्षा यस्मात्तं जगद्रक्षम्॥२५॥

कृतार्थः सर्वथा चाहं भवामि विगतज्वरः ।
अद्य मे सफलं जन्म साक्षाद्दृष्टवतो हरिम्॥२६॥

अद्य मे सफला यज्ञाः साक्षात्कृतवतो हरिम् ।
नेत्रे मे सफले विष्णुं पश्यतश्च जगन्मयम्॥२७॥

प्रीतिमानस्तु मे विष्णुर्वक्तुर्घोरस्य कर्मणः ।
उन्मिषन्नेत्रयुग्मेन द्रक्ष्यामि सकृदीश्वरम्॥२८॥

आमूलमसकृद्विष्णुं पश्यामि च पुनः पुनः ।
पिबामि नेत्रयुग्मेन वपुः कृष्णस्य केवलम्॥२९॥

धारयिष्याम्यहं पांसुं तत्पादप्रभवं शिवम् ।
ततः कृतार्थतां यास्ये स्वर्गमार्गो हि तद्रजः॥३०॥

मेघगम्भीरनिर्घोषं श्रोष्यामि च हरेः स्वरम् ।
पादाब्जं चक्रिणो विष्णोः पश्यामि च जगत्पतेः॥३१॥

पश्यामि च हरेर्वक्त्रं पूर्णेन्दुसदृशप्रभम् ।
हरेरिदं जगद्रूपं पश्यामीव च सर्वतः॥३२॥

प्रसीदतु सदा विष्णुरयुक्तं वक्तुमिच्छतः ।
आलोलकुण्डलयुतं हरिचन्दनचर्चितम्॥३३॥

स्फुरत्केयूररत्नार्चिर्बाहुद्वयवीराजितम् ।
सव्ये द्योतन्महाशङ्खं रश्मिजालविराजितम्॥३४॥

प्रोद्यद्भास्करवर्णाभं चक्रज्वालाविराजितम् ।
प्रोज्ज्वलत्कङ्कणयुतं तप्तजम्बूनदाङ्गदम्॥३५॥

पीतकौशेयवसनं विस्तीर्णोरस्कमच्युतम् ।
कदा द्रक्ष्यामि देवेशमिदानीमथवान्यदा॥३६॥

सर्वथा कृतकृत्योऽहं यद्वपुर्द्रष्टुमुद्यतः ।
नमो मह्यं नमो मह्यं यतो द्रष्टुमहं हरिम्॥३७॥

उद्यतोऽस्मि जगन्नाथं बलभद्रकृतास्पदम् ।
द्रक्ष्याम्यवश्यमद्यैव जिष्णुं विष्णुं जगद्गुरुम्॥३८॥

श्रीकौस्तुभोद्भवरुचिं स्फुरितोरुवक्षः पीताम्बरं मकरकुण्डलपङ्कजाक्षम् ।
कृष्णं किरीटवरचक्रगदोर्ध्वहस्तं तेजोमयं मम हरेर्वपुरस्तु भूत्यै॥३९॥

वेदोदधौ विशदशास्त्रमहाहियोगे निष्णातशुद्धमतिमन्दरमथ्यमाने ।
उद्योतमानममरैरनिशं निषेव्यं नारायणाख्यममृतं प्रपिबामि वाद्य॥४०॥

प्रपिबामि सादरं पश्यामि॥४०॥

ध्येयं मुमुक्षुभिरमेयमनाद्यनन्तं स्थूलं सुसूक्ष्मतरमेकमनेकमाद्यम् ।
ज्योतिस्त्रिलोकजनकं त्रिदशैकवन्द्यमक्ष्णोर्ममास्तु सततं हृदयेऽच्युताख्यम्॥४१॥

चिन्तयन्निति विप्रेन्द्रो ययौ द्वारवतीं पुरीम् ।
मत्वा कृतार्थमात्मनां वाहयन्हयमुत्तमम्॥४२॥

॥इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने विप्रस्य द्वारवतीगमने चतुर्दशाधिकशततमोऽध्यायः॥११४॥
दूतस्य सन्देशनिवेदनम्

वैशम्पायन उवाच। स निवेदितसर्वस्वो द्वाःस्त्येन हि जनार्दनः ।
अथ प्रविश्य धर्मात्मा सुधर्मां वै द्विजोत्तमः॥१॥

स इति। सः निवेदितमद ईश्वरेऽर्पितं सर्वस्वं येन तादृशो द्वाःस्थेन द्वारा प्रविश्य सुधर्मां सभाम् अपश्यत्॥१॥
स इति। निवेदितम् ईश्वरेऽर्पितं सर्वस्वं येन तादृशो द्वाःस्थेन द्वारा प्रविश्य सुधर्मां सभाम् अपश्यत्॥१॥

अपश्यद्देवदेवेशं सुधर्मकृतिसंस्थितम् ।
बलभद्रेण संयुक्तमध्यासितमहासनम्॥२॥

सुधर्मः योगधर्मो साक्षात्तदाकारेण संस्थितिः संस्थानं यस्य तं सुधर्माकृतिसंस्थितम्॥२॥

अग्रतः स्थितशैनेयं पार्श्वतः स्थितनारदम् ।
दुर्वाससा कृतकथमुग्रसेनपुरस्कृतम्॥३॥

गायद्गन्धर्वमुख्यैश्च नृत्यदप्सरसां गणैः ।
सेव्यमानं महाराज सूतमागधवन्दिभिः॥४॥

उद्गीयमानयशसं माधवं मधुसूदनम् ।
उद्गीयमनं विप्रैश्च सामभिः सामगैर्हरिम् ।
दृष्ट्वा प्रीतमना विष्णुं प्रोद्भूतपुलकच्छविः॥५॥

नाम्ना जनार्दनोऽस्मीति ननाम चरणौ हरेः ।
बलभद्रं ततो देवं ववन्दे शिरसा द्विजः॥६॥

दूतोऽस्मि देवदेवेश हंसस्य डिम्भकस्य च ।
इति ब्रुवाणं विप्रेन्द्रमिदमाह स माधवः॥७॥

आस्वेदं विष्टरं पूर्वं पश्चाद्ब्रूहि प्रयोजनम् ।
तथेति चाब्रवीद्विप्रो महदासनमास्थितः॥८॥

वाचा सम्पूज्य विप्रेन्द्रमपृच्छत्कुशलं हरिः ।
ब्रह्मदत्तस्य राजेन्द्र हंसस्य डिम्भकस्य च॥९॥

श्रुतं चापि तयोर्वीर्यं प्रयोजनमतो द्विज ।
अपि वा कुशलं विप्र पिस्तुतव जनार्दन॥१०॥

जनार्दन उवाच। कुशलं ब्रह्मदत्तस्य पितुश्च मम केशव ।
तयोरेव जगन्नाथ हंसस्य डिम्भकस्य च॥११॥

श्रीभगवानुवाच। किमाहतुर्महीपलौ तौ हंसडिम्भकौ नृपौ ।
ब्रूहि सर्वमशेषेण नात्र शङ्का द्विजोत्तम॥१२॥

वाच्यं वाप्यथवावाच्यं कर्तव्यमथ चेतरत् ।
श्रुत्वा तस्य विधास्यामो युक्तरूपं द्विजोत्तम॥१३॥

दूतोऽसि सर्वथा विप्र न वाच्यावाच्यकल्पना ।
यत्कर्मकारनिर्दिष्टं तद्वाच्यं दूतजन्मना॥१४॥

नात्र शङ्का त्वया कार्या वक्तव्यस्येतरस्य च ।
अतो वद यथा प्रोक्तं ताभ्यामिह जनार्दन॥१५॥

केशवेनैवमुक्तस्तु प्रोवाच स जनार्दनः ।
अजानन्निव किं ब्रूषे सर्वं प्रत्यक्षदर्शिवान्॥१६॥

न चास्ति ते परोक्षं तु जगद्वृत्तान्तमच्युत ।
सर्वं हि मनसा पश्यन्किं त्वमात्थ वदेति माम्॥१७॥

विद्वद्भिर्गीयसे विष्णो त्वमेव जगतीपते ।
इच्छया सर्वमाप्नोषि दृष्टादृष्टविवेचनम्॥१८॥

त्वमेवेदं जगत्सर्वं जगच्च त्वयि तिष्ठति ।
न त्वया रहितो ह्येकः पदार्थः सचराचरः॥१९॥

नास्ति किञ्चिदवेद्यं ते सर्वगोऽसि जगत्पते ।
त्वमिन्द्रः सर्वभूतानां रुद्रः संहारकर्मकृत्॥२०॥

रक्षितासि सदा विष्णुः सर्वलोकस्य माधव ।
संसारस्य भवान्स्रष्टा किं त्वमात्थ वदेतिमान्॥२१॥

विद्वद्भिर्गीयसे नित्यं ज्ञानात्मेति च माधव ।
प्राणं प्राणविदः प्राहुस्त्वामेव पुरुषोत्तम॥२२॥

शब्दं शब्दविदः प्राहुस्त्वामेव पुरुशोत्तम ।
तथा सति हृषीकेश किं त्वमात्थ वदेति माम्॥२३॥

तथापि शृणु देवेश चोदितोऽस्मि यतस्त्वया ।
वेदत्यसकृदेवैतत्तस्माद्वक्ष्यामि माधव॥२४॥

राजसूयेन यज्ञेन ब्रह्मदत्तोऽद्य यक्ष्यते ।
तदर्थं प्रेषितस्ताभ्यां हंसेन डिम्भकेन च॥२५॥

करार्थं यदुमुख्येभ्यस्तव चामन्त्रणाय हि ।
लवणं बहु देयं ते यज्ञार्थं तस्य केशव॥२६॥

इत्यर्थं प्रेषितस्ताभ्यां करं देहि तदाज्ञया ।
इदं त्वमपरं ताभ्यामुक्तं शृणु जगत्पते॥२७॥

लवणानि बहून्याशु प्रगृह्य त्वरितं भवान् ।
आगच्छतु तयो राज्ञोः सेयं केशव वाग्विभो॥२८॥

इत्युक्तवति विप्रेन्द्रे दूते तत्र तयोर्नृप ।
प्रहस्य सुचिरं कृष्णो बभाषे दूतमिश्वरः॥२९॥

शृणु दूत वचो मह्यं युक्तमुक्तं द्विजोत्तम ।
करं ददामि ताभ्यां तु करदोऽस्मि यतो नृप॥३०॥

धार्ष्ट्यमेतत्तयोर्विप्र मत्तो यस्तु करग्रहः ।
अहो धार्ष्ट्यमहो धार्ष्ट्यं तयोः क्षत्रियबीजयोः॥३१॥

इदमश्रुतपूर्वं मे मत्तो यस्तु करग्रहः ।
इत्युक्त्वा केशवो दूतमिदमाह स्म यादवान्॥३२॥

हास्यमेतद्यदुश्रेष्ठा मत्तो यस्तु करग्रहः ।
यष्टासौ राजसूयस्य ब्रह्मदत्तो महीपतिः॥३३॥

तौ तु याजयितारौ हि हंसो डिम्भक एव च ।
वोढा किल यदुश्रेष्ठो लवणस्य दुरात्मनः॥३४॥

करदो वासुदेवो हि जितोऽस्मि यदुसत्तमाः ।
हास्यं हास्यमिदं भूयः शृणुध्वं यादवावचः॥३५॥

इत्युक्तवति देवेशे बलभद्रपुरोगमाः ।
यादवाः सर्व एवैते हासाय समवस्थिताः॥३६॥

करदः कृष्ण इत्येवं ब्रुवन्तः सर्वसात्वताः ।
हासं मुमुचुरत्यर्थं तलं दत्त्वा परस्परम्॥३७॥

तलशब्दो हासशब्दो रोदसी पर्यपूरयत् ।
स च विप्रो नृपश्रेष्ठ नन्दयन्मित्रमात्मनः॥३८॥

अहो कष्टमहो कष्टं दौत्यं यत्कृतवानहम् ।
इति लज्जासमाविष्टस्तूष्णीमासीदवाङ्मुखः॥३९॥

॥इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने वासुदेववाक्ये पञ्चदशाधिकशततमोऽध्यायः॥११५॥
श्रीकृष्णस्य प्रतिसन्देशः

वैशम्पायन उवाच। हासं कुर्वत्सु तेष्वेवं केशवः केशिसूदनः ।
उवाच वचनं दूतं गच्छ मद्वचनाद्द्विज॥१॥

हासमिति॥१॥

तावित्थं हंसडिम्भकौ ब्रूहि त्वरितविक्रमः ।
बाणैर्दास्यामि निशितैः शार्ङ्गमुक्तैः शिलाशितैः॥२॥

असिना वाथ दास्यामि निशितेन महात्मनोः ।
शिरो वा छेत्स्यते चक्रं मत्करप्रहितं बलिम्॥३॥

यो वरं दत्तवान्रुद्रो युवयोर्धार्ष्ट्यकारणम् ।
स एव रक्षिता वां स्यात्तं जित्वा वां निहन्म्यहम्॥४॥

युवयोः वां वां युवाम्॥४॥

देशो यं संविधातव्यो यत्र नः सङ्गतिर्भवेत् ।
तत्र गन्ता तथा चास्मि सबलः सहवाहनः॥५॥

भवन्तौ निर्भयौ भूत्वा गच्छेतां सबलौ नृपौ ।
पुष्करे वा प्रयागे वा मथुरायामथापि वा॥६॥

तत्राहं सबलो याता नात्र कार्या विचारणा ।
अथवा मित्रभावाच्च वक्तुमेवं न ते क्षमम्॥७॥

न शक्यं यत्त्वया वक्तुं तच्च वक्ष्यति सात्यकिः ।
त्वया सह ततो गत्वा साक्षिभूतो भव द्विज॥८॥

इदं च जाने विप्रेन्द्र स्नेहो मम सदा त्वयि ।
तेन त्वं विजयी भूत्वा संसारे दुःखसङ्कुले ।
मत्कथापरमो नित्यं सदा भव जनार्दन॥९॥

॥इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने षोडशाधिकशततमोऽध्यायः॥११६॥
हंसवाक्यम्

वैशम्पायन उवाच। इत्युक्त्वा ब्राह्मणं कृष्णः सात्यकिं पुनराह सः ।
गत्वा शैनेय विप्रेण ब्रूहि मद्वचनात्तयोः॥१॥

इतीति॥१॥

यन्मयोक्तमशेषेण वद गत्वा तयोः पुरः ।
यथा नः सङ्गतिर्युद्धे तथा वद बलात्तदा॥२॥

धनुरादाय गच्छ त्वं बद्धगोधाङ्गुलित्रवान् ।
एकेनाश्वेन गच्छ त्वमसहायो यदूत्तम॥३॥

सात्यकिस्तं तथेत्युक्त्वा हयमारुह्य शीघ्रगम् ।
गन्तुमैच्छत्ततो राजन्नसहायः स सात्यकिः॥४॥

जनार्दनं विसृज्याशु दूतं तं यादवेश्वरः ।
अहो धार्ष्ट्यमहो धार्ष्ट्यमित्युवाच जनार्दनः॥५॥

नमस्कृत्य तदा दूतो माधवं माधवेश्वरम् ।
स ययौ शाल्वनगरं शैनेयेन समन्वितः॥६॥

ततः प्रविश्य धर्मात्मा ब्राह्मणो ब्रह्मवित्तमः ।
आसनं महदास्थाय विसृज्य यादवे पुनः॥७॥

प्रविश्य गृहमिति शेषः। यादवे सात्यकिनिमित्तं पुनः आसनं विसृज्य समर्प्य॥७॥

आस्ते सुखं यदा विप्रः शैनेयेन समन्वितः ।
अथ तं हंसडिम्भयोर्दर्शयामास सात्यकिम्॥८॥

विप्रः जनार्दनः हंसडिम्भयोरन्यद्वारा आह॥८॥

दूतोऽयं सात्यकिः प्राप्तः सव्यो बाहुरयं हरेः ।
तस्य तद्वचनं श्रुत्वा हंसः प्राह वचस्तदा॥९॥

श्रुतः समागमः पूर्वमद्य दृष्टो मया त्वसौ ।
धनुर्वेदे च वेदे च शास्त्रे शस्त्रे तथैव च॥१०॥

निपुणोऽयं सदा धिरा इत्येवमनुशुश्रुम ।
अथो दृष्टपथं प्राप्तः प्रीतिं नौ विदधात्यसौ॥११॥

कुशलं वासुदेवस्य बलभद्रस्य वा पुनः ।
कुशलाः सात्वताः सर्वे उग्रसेनपुरोगमाः॥१२॥

तथेति सात्यकिः प्राह मन्दमुन्मथिताननः ।
ततो जनार्दनं प्राह हंसो वाक्यविशारदः॥१३॥

अपि दृष्टस्त्वया चक्री सिद्धं नः कार्यमीहितम् ।
वद सर्वमशेषेण म वृथा कालमत्यगाः॥१४॥

॥इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हंसवाक्ये सप्तदशाधिकशततमोऽध्यायः॥११७॥
सात्यकिवाक्यम्

वैशम्पायन उवाच। इत्युक्तवति हंसे च धर्मात्माथ जनार्दनः ।
उवाच प्रहसन्वीरः स्तुवन्नारायणं सदा॥१॥

इतीति॥१॥

अद्राक्षमद्राक्षमहं जनार्दनं हस्तस्थशङ्खं वरचक्रधारिणम् ।
आतप्तजाम्बूनदभूषिताङ्गदं स्फुरत्प्रभाद्योतितरत्नधारिणम्॥२॥

अद्राक्षमेनं यदुभिः पुरातनैः संसेव्यमानं मुनिवृन्दमुख्यैः ।
संस्तूयमानं प्रभुभिः समागधैः स्मितप्रवालाधरपल्लवारुणम्॥३॥

अद्राक्षमेनं कविभिः पुरातनैर्विविच्य वेद्यं विधिवत्सहामरैः ।
प्रफुल्लनीलोत्पलशोभितं श्रिया विनिद्रहेमाब्जविराजितोदरम्॥४॥

विविच्य देहादिभिः पृथक्कृत्य॥४॥

भूयोऽहमद्राक्षमजं जगद्गुरुं प्रमोदयन्तं वचनेन यादवान् ।
निरूपयन्तं विधिवन्मुनीश्वरैः प्रवृत्तवेदार्थविधिं पुरातनैः॥५॥

अद्राक्षमद्राक्षमहं पुनः पुनः समस्तलोकैकहितैषिणं हरिम् ।
वसन्तमस्मिञ्जगतो हिताय जगन्मयं तान्परिभूय शत्रून्॥६॥

भूयोऽप्यपश्यं सह यादवेश्वरैर्विक्रीड्यमानं च विहारकाले ।
रमन्तमीड्यं रमयन्तमीश्वरान्यदूत्तमान्यादवमुख्यमीश्वरम्॥७॥

भूयोऽप्यद्राक्षमित्यनुषङ्गः॥७॥

भूयोऽप्यपश्यं सरसीरुहेक्षणं समेतया भीष्मतनूजया हरिम् ।
वसन्तमम्भोनिधिशायिनं विभुं भक्तप्रियं भक्तजनास्पदं शिवम्॥८॥

अद्राक्षद्राक्षमहं मुनिर्वृतः पिबन्पिबंस्तस्य वपुः पुरातनम् ।
नेत्रेण मीलद्विवरेण केवलं धन्योऽहमस्मीति तदा व्यचिन्तयम्॥९॥

मीलद्विवरेण अच्छ्रिद्रेण॥९॥

अद्राक्षमम्बोजयुगं दधानं प्रभुं विभुं भूतमयं विभावनम् ।
आद्यं ककुद्मानमुरुं विभावसुं संस्मृत्य संस्मृत्य तमेव निर्वृतः॥१०॥

ककुद्मानं माहात्म्यवन्तं विभावसुं भास्वन्तम्॥१०॥

अद्राक्षं जगतामीशं वक्षोराजितकौस्तुभम् ।
वीज्यमानं हरिं कृष्णं चामराणां शतैः सदा॥११॥

युवां विद्वेषयुक्तेन चेतसा यादवेश्वरम् ।
स्मरन्तं सर्वदा विष्णुं क्व चैवं क्व च वेत्ति कः॥१२॥

युवां स्मरन्तमद्राक्षमित्यन्वयः। क्व देशे तौ वर्तेते क्व च वा काले तौ द्रक्ष्यामीति स्मरन्तमित्यर्थः॥१२॥

क्व च द्रक्ष्यामि तौ मन्दौ कृतो वा मत्पुरोगतौ ।
ध्यायन्तमित्थं देवेशं करे शत्रुवहं सदा॥१३॥

कुतः केनोपायेन मत्पुरोगतौ तौ स्याताम् इति शेषः॥१३॥

हसन्तमेनमद्राक्षं करदं हास्यतत्परम् ।
वदन्तं नारदे वाचं दुर्वाससि यतीश्वरे॥१४॥

ब्रह्मसूत्रपदां वाणीं दापयन्तं मुनीश्वरम् ।
दृष्ट्वाहं तं हरिं देवं पुनः पुनरचिन्तयम्॥१५॥

दापयन्तं शिष्येभ्यः पाठयितुमनुज्ञां प्रयच्छन्तं मुनीश्वरं दुर्वाससम्॥१५॥

असाध्यमिदमारब्धं ताभ्यामिति नृपोत्तम ।
नारब्धव्यमिदं कार्यमितः प्रभृति भूमिप॥१६॥

अचिन्तयमित्युक्त्वा स्वचिन्तनमेवाह- असाध्यमिति। इदं राजसूयाख्यं कर्म॥१६॥

निवृत्ता सा कथा हंसाचिन्तयद्ग्रहणं तव ।
तद्वृत्तामखिलं सर्वं वदिष्यति हि सात्यकिः ।
एतद्वचनमाकर्ण्य हंसः क्रुद्धोऽब्रवीत्वचः॥१७॥

सा कथा कृष्णात्करो ग्राह्य इति। इयं कृष्णप्रशंसात्मिका॥१७॥

हंस उवाच। अरे ब्राह्मणदायाद का नाम तव वागियम् ।
आवयोः पुरतो वक्तुं त्रैलोक्यं जेतुमिच्छतोः॥१८॥

मायया त्वां भ्रामयति कृष्णो लीलाविधानवित् ।
तं दृष्ट्वा भ्रम एवैष तव सञ्जायते महान्॥१९॥

एष भ्रमः आत्मस्वशक्तताबुद्धिः। माययेत्यादिवाक्यं निन्दापरतया भासमानमपि वाग्देवताभिप्रायेण यथार्थमे। स्पष्टमेव हि मायावित्वं वतुर्भुजादिकत्वं च भगवतः शास्त्रे इति दिक्॥१९॥

शङ्खचक्रगदाशार्ङ्गवनमालाविभूषितम् ।
वृष्णिवीरं समावेश्य समुच्छ्रितयशोधरम्॥२०॥

सूतमागधसंस्तावप्रकटद्वारबाहुकम् ।
अत्यद्भुतयशोराशिं विक्रमाल्लोकमण्डनम्॥२१॥

चतुर्भुजं बलाक्रान्तं वृष्णियादवसंमतम् ।
अहोऽद्य भ्रम एवैष दर्शनात्तस्य चक्रिणः॥२२॥

इदानीं च महाराज भ्रामयत्येव दुर्मतिः ।
त्वामेव विप्र मन्दात्मन्निन्द्रजालिकता हि या॥२३॥

चापल्यमिदमेवैतत्तव विप्र भ्रमोद्भवम् ।
अहो हि खलु सादृश्यं वक्तव्यं भवता मम॥२४॥

अहमेव त्वया विप्र मर्शये प्रोदितं वचः ।
सखिभावाद्द्विजश्रेष्ठ अन्यथा कः सहेदिदम्॥२५॥

गच्छ मन्दमते विप्र यथेष्टं साम्प्रतं तव ।
द्विज गच्छ यथेष्टं त्वं पृथिवीं पृथिवी तव॥२६॥

जित्वा गोपालदायादं हत्वा यादवकान्बहून् ।
एष नः प्रथमः कल्पो जेष्याम इति यादवान्॥२७॥

गच्छ गच्छेति विप्र त्वं दृष्टं परुषवादिनम् ।
शत्रुपक्षस्तुतिपरं सह युक्त्वा सदा मया॥२८॥

न मे विप्रवधः कार्यः कष्टादपि हि सर्वतः ।
इत्युक्त्वा ब्राह्मणं भूयो हंसः सात्यकिमब्रवीत्॥२९॥

भो भो यादवदायाद किमर्थं प्राप्तवानिह ।
किमब्रवीन्नन्दसुतः किं वासौ मेऽदिशत्करम्॥३०॥

सात्यकिरुवाच। इदं सत्यं वचो हंस शङ्खचक्रगदाभृतः ।
शनैर्निशितधाराग्रैः शार्ङ्गमुक्तैः शिलाशितैः॥३१॥

दास्यामि करसर्वस्वमसिना निशितेन ते ।
शिरश्छेत्स्यामि ते हंस करदानस्य सङ्ग्रहम्॥३२॥

धार्ष्ट्यं हि तव मन्दात्मन्किमतोऽपि नृपाधम ।
देवदेवाज्जगन्नाथात्करमिच्छति यो नृपः॥३३॥

तस्यैष करसङ्क्षेपो जिह्वाच्छेदो नराधम ।
तस्य शार्ङ्गरवं श्रुत्वा शङ्खस्य च हरेः पुनः॥३४॥

को नाम जीवितं काङ्क्षेत्तिष्ठेदानीं त्वमद्य वै ।
गिरीशवरदर्पेण को ब्रूयादीदृशं वचः॥३५॥

सहाया वयमेवैते बलभद्रपुरोगमाः ।
प्रथमो बलभद्रोऽसौ द्वितीयोऽहं च सात्यकिः॥३६॥

कृतवर्मा तृतीयस्तु चतुर्थो निशठो बली ।
पञ्चमोऽथ च बभ्रुस्तु षष्टश्चैवोत्कलः स्मृतः॥३७॥

सप्तमस्तारणो धीमानस्त्रशस्त्रविशारदः ।
अष्टमस्त्वथ सारङ्गो नवमो विपृथुस्तथा॥३८॥

दशमश्चोद्धवो धीमान्वयमेते बलान्विताः ।
त एते पुरतो गोप्तुः शङ्खचक्रगदभृतः॥३९॥

देवदेवस्य युद्धेषु तिष्ठन्त्येव दिवानिशम् ।
यौ हि वीरौ सुतौ तस्य नासत्यसदृशौ बले॥४०॥

तावेव वां क्षमौ युद्धे हन्तुं बलमदान्वितौ ।
यो गिरीशो गिरा देवो वरं दत्त्वा स तिष्ठति॥४१॥

युवां हि किम्बलौ युद्धे तिष्ठतः सशरं धनुः ।
गृहीत्वा शत्रुभिः सार्धं युद्धं कर्तुं समुद्यतौ॥४२॥

ईदृशेष्वथ भृत्येषु युद्धं कुर्वत्सु शत्रुभिः ।
त्रैलोक्यं रक्षतस्तस्मात्करमिच्छन्व्रजेत कः॥४३॥

हनिष्यत्येव वां युद्धे त्रैलोक्यं यो हि रक्षति ।
शरेण निशितेनाजौ शार्ङ्गमुक्तेन केवलम्॥४४॥

क्व न सङ्ग्राम इत्येवं पुनराह जगत्पतिः ।
पुष्करे पुण्यदे नित्यमुत गोवर्धने गिरौ॥४५॥

मथुरायां प्रयागे वा दर्शयन्तो बलानि मे ।
शङ्खचक्रधरे देवे जगत्पालनतत्परे॥४६॥

राजसूयं महायज्ञं कर्तुमिच्छति कः स्वयम् ।
वदन्वा स्वस्तिमान्मर्त्यस्त्वां विना को व्रजेत्सुखम्॥४७॥

इदमिच्छसि चेन्मूढ हास्यतां यासि भूतले ।
इत्युक्त्वा सात्यकिर्वीरो हसन्निव भुवि स्थितः॥४८॥

॥इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने सात्यकिवाक्ये अष्टादशाधिकशततमोऽध्यायः॥१०८॥
सात्यकिप्रतिप्रयाणम्

वैशम्पायन उवाच। ततः क्रुद्धो महाराज हंसो डिम्भक एव च ।
इदं वै प्रोचतुर्वाक्यं रोषव्याकुलितेक्षणौ॥१॥

ततः क्रुद्ध इति॥१॥

दिधक्षन्तौ दिशाः सर्वाः सर्वान्वीक्ष्य नृपोत्तमान् ।
करेण निष्पीड्य करं स्मरन्तौ तद्वचो महत्॥२॥

क्व नु क्व वा नन्दसूनुः क्व वा रामो बलोत्कटः ।
इति ब्रुवाणौ साक्षेपौ सात्यकिं सत्यसङ्गरम्॥३॥

क्व नु द्वौ कौ भ्रान्तत्वं सूचयतः। नन्दसूनुरिति। गोपत्वव्यञ्जकम्॥३॥

अरे यादवदायाद किं ब्रूषे नः पुरोगतः ।
इतो निर्गच्छ मन्दात्मन्दूतस्त्वमसि साम्प्रतम्॥४॥

अन्यथा वध्य एव त्वं प्रलपन्परुषं वचः ।
सत्यं निर्लज्ज एवासि यद्ब्रूया ईदृशं वचः॥५॥

आवामिदं जगत्सर्वं शासितुं संयतौ नृपौ ।
को नाम मानुषे लोके करदो नैव जीवति॥६॥

कः करदो नैव जीवति अपि तु सर्वः सरदो जीवति। वृष्णयस्त्वकरदत्वान्न जीविष्यन्तीत्यर्थः॥६॥

हत्वा गोपालकान्सर्वान्बद्ध्वा यादवकान्बहून् ।
गृह्णीमः करसर्वस्कं ततो गच्छ नराधम॥७॥

एतदेवाह- हत्वेति॥७॥

अवध्यो दूततां प्राप्तो बह्वबद्धं प्रभाषसे ।
ईश्वरो नौ वरं दाता ह्यस्त्राणामपि च प्रभुः॥८॥

रक्षितारौ महाभूतौ सङ्ग्रामं गच्छतोश्च नौ ।
पितरं याजयिष्यावो जित्वा गोपालकं रणे॥९॥

एते प्रोक्ता भृशं युद्धे कातराः सर्वे एव ते ।
हत्वा तान्सबलान्युद्धे पुनर्जेष्यामि केशवम्॥१०॥

संहर्तव्या महासेना प्रगृहीतशरासना ।
गृहीतप्रासमुशला गृहीतकवचा सदा॥११॥

आरूढरथसाहस्रा गदापरिघसङ्कुला ।
सुप्रभूतेन्धनवती प्रभूतबलसाधना॥१२॥

चाल्पतां वाहिनी घोरा बलाध्यक्षा समन्ततः ।
अवध्य एव गच्छ त्वं न ते मरणतो भयम्॥१३॥

सङ्ग्रामः पुष्करेऽस्माकं श्वः परश्वोऽपि वा नृप ।
ततो ज्ञास्यामहे वीर्यं केशवस्य बलस्य च ।
ये त्वयोक्ता नृपाः सङ्ख्ये तेषामपि च यद्बलम्॥१४॥

सात्यकिरुवाच हंसागच्छामि वां हन्तुं श्वः परश्वोऽपि वा नृप ।
अद्यैव हि मया वध्यौ न चेद्दुतो भवाम्यहम्॥१५॥

नहि श्वो वा परश्वो वा युवां कटुकभाषिणौ ।
दौत्ये हि दुःखमतुलं वहाम्येव सदा नृणाम्॥१६॥

न हि जीविष्यथेति शेषः॥१६॥

अन्यथाहं युवां हत्वा ततो यास्यामि निर्वृतिम् ।
स्ववीर्यं बाहुदर्पं च दर्शयन्वां नृपाधमौ॥१७॥

शङ्खचक्रगदापाणिः शार्ङ्गधन्वा किरीटभृत् ।
नीलकुञ्चितकेशाढ्यो लम्बबहुः श्रिया वृतः॥१८॥

स सर्वलोकप्रभवो निश्वरूपः सरूपवान् ।
दैत्यदानवहन्तासौ योगिध्येयः पुरातनः॥१९॥

पद्मकिञ्जल्कनयनः श्यामलः सिंहविक्रमः ।
सृष्टिस्थितिलयेष्वेकः कर्ता त्रिजगतो गुरुः॥२०॥

शरेण निशितेनाजौ दर्पं वां व्यपनेष्यति ।
इत्युक्त्वा रथमारुह्य प्रययौ सात्यकिः किल॥२१॥

॥इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भको सात्यकिप्रतिप्रयाणे एकोनविंशाधिकशततमोऽध्यायः॥११९॥
श्रीकृष्णस्य पुष्करं प्रति गमनम्

वैशम्पायन उवाच। प्रविश्य स पुरं विष्णोः सात्यकिः शिनिपुङ्गवः ।
आचचक्षेऽथ कृष्णाय यथा वृत्तं तयोस्तथा॥१॥

प्रविश्येति॥१॥

ततः प्रभाते विमले केशवः केशिसूदनः ।
बलाध्यक्षानुवाचेदं चक्रपाणिर्गदाधरः॥२॥

सन्नह्यतां बलं सर्वं रथकुञ्जरवाजिमत् ।
अनेकभेरीपणवं प्रासासिपरिघाकुलम्॥३॥

सध्वजं सपताकं च सालङ्कारपरिच्छदम् ।
ते तथेति प्रतिज्ञाय सर्वं चक्रुरधीनगाः॥४॥

आदाय सुदृढं चापं रथमारुह्य दंशिताः ।
अग्रतो जग्मुरत्यर्थं सेनायाः पुरुषोत्तमाः॥५॥

सात्यकिश्च तथा राजन्प्रगृहीतशरासनः ।
बभौ क्रोधसमायुक्तो जगामाग्रे महाबलः॥६॥

अन्ये च यादवाः शूराः प्रगृहीतमहायुधाः ।
सिंहनादं प्रकुर्वन्तो जग्मुरत्यर्थमुत्तमाः॥७॥

हरिस्तु रथमारुह्य संस्कृतं दारुकेन ह ।
शार्ङ्गभारसहं घोरं गृहीत्वा सशरं धनुः॥८॥

चक्रपाणिस्तदा शङ्खी गदाशरवरासिमान् ।
बद्धगोधाङ्गुलित्राणः पीतवासा जनार्दनः॥९॥

पद्ममालावृतोरस्को नवजीमूतसन्निभः ।
ययौ रथगतो विप्रैः स्तूयमानो मुदान्वितैः॥१०॥

सूतैर्मागधपुत्रैश्च गीयमानस्ततस्ततः ।
आनीय सेनां सकलां ययौ काष्ठामथोत्तराम्॥११॥

पाञ्चजन्यं मुखे न्यस्य सर्वप्राणेन केशवः ।
दध्मौ महारवं कुर्वञ्छत्रूणाम् भयवर्धनम्॥१२॥

आध्मातस्तेन हरिणा स चक्रे शङ्खराड्ध्रुवम् ।
रवः स रोदसि राजन् पूरयामास सर्वतः॥१३॥

स शङ्खजः॥१३॥

तस्मिञ्छङ्खे तथाऽऽध्माते दध्मुः शङ्खान्सहस्रशः ।
भेर्यश्चापि समाध्मात मृदङ्गा बहवो नृप॥१४॥

दध्मुः ध्मातवन्तः॥१४॥

नेदुरत्यर्थमतुलं धर्मान्ते जलदा यथा ।
अथाययुर्महाराज पुष्करं पुण्यवर्धनम्॥१५॥

सरसस्तस्य राजेन्द्र पुष्करस्य नृपोत्तमाः ।
प्रतीक्ष्य हंसडिम्भकौ युद्धाय समवस्थिताः॥१६॥

निवेशं कारयामासुर्यादवाः सर्व एव हि ।
स्वं स्वं ययुः सुखं राजन्प्रगृहीतकुटीमठम्॥१७॥

भगवानपि गोविन्दः सरो दृष्ट्वा सुशोभनम् ।
उपस्पृश्य जले तस्मिन्पर्णम्य यतिपुङ्गवान्॥१८॥

तयोरागमनं लिप्सुरास्ते तीरे यथासुखम् ।
शृण्वन्वेदध्वनिं विष्णुर्ब्राह्मणानां समन्ततः॥१९॥

॥इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपख्याने कृष्णपुष्करप्रवेशे विंशत्यधिकशततमोऽध्यायः॥१२०॥
उभयसैन्ययोः पुष्करतीर्थप्रवेशः

वैशम्पायन उवाच। अथ तौ हंसडिम्भकौ जग्मतुः पुष्करं प्रति ।
प्रगृहीतमहाचापौ सरथौ सध्वजौ नृप॥१॥

अथेति॥१॥

पुरःसरमहाभूतौ संहरन्ताविवोल्बणौ ।
प्रकुर्वन्तौ सिंहरवं भस्मना परिलेपितौ॥२॥

पुरःसरौ च तौ महाभूतौ चेति विग्रहः॥२॥

त्रिपुण्ड्रकललाटान्तौ रुद्राक्षपरिशोभितौ ।
अन्यौ द्वाविव रुद्रौ तौ लोकसंहारकारकौ॥३॥

ततोऽनुजग्मुः शतशः सैन्यानि नृपसत्तम ।
अक्षौहिण्यो दशैवासंस्तयोरथ समागताः॥४॥

विचक्रस्तु महाराज दानवो नगसन्निभः ।
तयोरेव सखा पूर्वमासीच्च बलशालिनोः॥५॥

शक्रो यस्य पुरःसरः स्थातुं शक्तो न वज्रभृत् ।
यो हि वीरो महाराज देवदैत्यसमागमे॥६॥

पुरसरः पुरोगामी। विसर्गलोपः पूर्वपदे आर्षः॥६॥

देवान्निघ्नंस्तथा राजन्देवेन्द्रमजयन्महान् ।
अकरोच्च पुरा युद्धं विष्णुना प्रभविष्णुना॥७॥

यो हि द्वारवतीं प्राप्य बबाधे यदुपुङ्गवान् ।
स तदानीं महाराज श्रुत्वा युद्धमुपस्थितम्॥८॥

अनेकशतसाहस्रैर्दानवैः परिघायुधैः ।
वृतः समभवद्दैत्यो वृष्णिद्वेषान्नृपोत्तम॥९॥

हंसस्य डिम्भकस्याथ साहाय्यं कर्तुमुद्यतः ।
विचक्रस्याथ दैत्यस्य हिडिम्बो राक्षसेश्वरः॥१०॥

यो हि पुरा वृतः समभवत्स एव विचक्रः तस्य विचक्रस्य वृतस्य मित्रतां यातो हिडिम्बो नाम राक्षसेश्वर इति योजना॥१०॥

अतिव मित्रतां यातो दद्यात्प्राणांश्च संयति ।
राक्षसैरपरैः सार्धं शिलाशूलासिपाणिभिः॥११॥

ययौ तस्य सहायार्थं हिडिम्बः पुरुषादपः ।
अष्टाशीति सहस्राणि राक्षसास्तस्य चाभवन्॥१२॥

अनुयाता महाराज शिलापरिघबाहवः ।
तयोस्तत्र महासैन्यं गच्छतोः केशवं प्रति॥१३॥

मिश्रितं दैत्यसङ्घैश्च राक्षसैश्च समन्ततः ।
अत्यद्भुतं महारौद्रं त्रैलोक्यभयदायकम्॥१४॥

दैत्येन सहितौ तौ हि जग्मतुः पुष्करं प्रति ।
तावेतौ हंसडिम्भकौ हन्तुं केशवमञ्जसा॥१५॥

दैत्येन विचक्रेण तेन हिडिम्बेन॥१५॥

ततः श्रुत्वा जरासन्धो विग्रहं यदुभिः सह ।
नाकरोन्नृपसाहाय्यं पापं मे भवितेति ह॥१६॥

नृपसाहाय्यं हंसडिम्भकयोः सहाय्यं विग्रहमपि ताभ्यां सह च शापः परासक्तः परेण हन्तव्य इति शास्त्रातिक्रमजो दोषः॥१६॥

गच्छतोः समितिं राजन्हंसस्य डिम्भकस्य च ।
अतित्वरितविक्रान्तास्ते ययुः पुष्करं प्रति॥१७॥

सिंहनादं विमुञ्चन्तः कथयन्तः परस्परम् ।
अहमेव नृपा युद्धं करोमि प्रथमं हरेः॥१८॥

इत्यब्रुवन्नृपा राजञ्छतशः केशवं प्रति ।
सम्प्राप्तास्ते नृपश्रेष्ठाः पुष्करं पुण्यवर्धनम्॥१९॥

मुनिजुष्टं तपोवृद्धैर्ऋषिभिश्च निषेवितम् ।
अत्यन्तभद्रं लोकेषु पुष्करं प्रथमं नृप॥२०॥

पुष्करं पुण्डरिकाक्षो द्वावेव जगतीपते ।
दर्शनात्स्पर्शनाच्चैव किल्बिषच्छेदिनौ नृप॥२१॥

पुष्करं पुण्डरिकाक्षौ द्वावेव नृपसत्तम ।
सेव्यमानौ मुनिश्रेष्ठैरमरौघैर्महात्मभिः॥२२॥

द्वावेव हि नृपश्रेष्ठ सर्वपापप्रणाशकौ ।
तावुभौ यत्र सहितौ तत्र ते संस्थिता नृपाः॥२३॥

दृष्टवन्तौ हरिं विष्णुं विष्टरश्रवसं परम् ।
पुष्करं पुण्यनिलयं तीर्थं ब्रह्मनिषेवितम्॥२४॥

ताभ्यां कुरु नमस्कारं मनसा नृपसत्तम ।
अहो निःशेषमभवत्तत्र भूयो न संशयः॥२५॥

सैन्यं तत्र च सम्प्राप्तं दैत्यरक्षःसमाकुलम् ।
अनेकभेरीपणवझर्झरीडिण्डिमाकुलम्॥२६॥

“ताभ्यां कुरु नमस्कारम्” इति वैशम्पायनदिव्यदृष्ट्या तमप्यर्थं वर्तमानवत्पश्यन् जनमेजयं प्रेरयति। जनमेजये तादृशं शब्दजन्यपरोक्षं ज्ञानं सम्भावयन् कथामेवानुसन्धत्ते- सैन्यमिति। सैन्यं कर्तृ। देवेशं दर्शयामास। अयं कृष्णोऽयं कृष्ण इत्यन्योन्यं दर्शयामासेत्यर्थः। द्वयोः सम्बन्धः॥२६॥

नानापणवसंमिश्रं रक्षोनादविनादितम् ।
प्रविश्य सरसस्तीरं पुष्करस्य विशाम्पते ।
दर्शयामास देवेशं युद्धाय समुपस्थितम्॥२७॥

॥इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि युद्धार्थं हंसडिम्भकसैन्यानां पुष्करागमने एकविंश्त्यधिकशततमोऽध्यायः॥१२१॥
सङ्कुलयुद्धम्

वैशम्पायन उवाच। द्वे सेने सङ्गते राजन्सध्वजे सपरिच्छदे ।
महापरिघसङ्कीर्णे गदाशक्तिसमाकुले॥१॥

द्व इति॥१॥

भेरीझर्झरसम्पूर्णे डिण्डिमारावसङ्कुले ।
प्रगृहीतमहाशस्त्रे शूलासिवरकार्मुके॥२॥

परस्परकृतोत्साहे चक्राते युद्धमुल्बणम् ।
ते शराः कार्मुकोत्सृष्टा निर्भिद्याथ शरीरिणाम्॥३॥

शरीराणि महाराज जग्मुर्दूरं सहस्रशः ।
भटबाहुविनिर्मुक्ताः खड्गा निर्भिद्य वक्षसि॥४॥

स्फुरन्तश्च तथा राजञ्छरांस्याहृत्य खं ययुः ।
परिघाश्च तथा राज्ञां बाहुभिः परिचोदिताः॥५॥

तिलशश्चक्रुरतुलं शरीरं नृपरक्षसाम् ।
दैत्यानां कुर्वतां नादमन्योन्यवधकाङ्क्षिणाम्॥६॥

दैत्या रक्षांसि राजेन्द्र राजानश्च समन्ततः ।
अन्योन्यं परिघैर्जघ्नुश्चापमुक्तैः शिलाशितैः॥७॥

शरैश्च भोगिभोगाभैस्तीक्ष्णमन्ये महाबलाः ।
राक्षसा दानवाश्चान्ये मत्तमातङ्गविक्रमाः॥८॥

अन्योन्यं जघ्निरे राजंश्चापमुक्तैर्महाशरैः ।
नागा नागैर्महाराज हया अश्वैः समन्ततः॥९॥

रथा रथैः समाजग्मुः सादिनः सादिभिर्तथा ।
पट्टिशासिशरव्रातैः कुन्तैः सायककर्षणैः॥१०॥

सशक्तिपरिघप्रासपरश्वधसमाकुलैः ।
भिन्दिपालैर्महारौद्रैर्जघ्नुरन्योन्यमाहवे॥११॥

अन्योन्यं जघ्निरे राजंश्चापमुक्तैः शिलशितैः ।
राक्षसा दानवा राजङ्क्षत्रियाश्च समन्ततः ।
इतश्चेतश्च धावन्तः कुर्वन्तो विस्वरं रवम्॥१२॥

हताः केचिन्महाराज पेतुरुर्व्यां महासिभिः ।
केचिन्मथितमस्तिष्का गदाभिर्वीर्यवत्तमाः॥१३॥

भिन्नग्रीवा महाराज परिघैः परिघायुधैः ।
यमराष्ट्रं गताः केचित्केचित्स्वर्गं समाययुः॥१४॥

अप्सरोभिः समासेदुः पश्यन्तः स्वकलेवरम् ।
केचित्स्वांश्च परांश्चैव हत्वा भ्रान्ता इवाभवन्॥१५॥

एतस्मिन्नन्तरे राजञ्छङ्खा भेर्यः सहस्रशः ।
सस्वनुः सर्वतः सैन्ये मृदङ्गा बहवस्तथा॥१६॥

मध्यन्दिनगते सूर्ये तापं दधति घोरवत् ।
ततः पिशाचा विकृताः करालविततोदराः॥१७॥

राक्षसाश्च महाघोराः पिशितं केशशाद्वलम् ।
मुदिता भक्षयामासुः पिबन्तः शोणितं बहु॥१८॥

सञ्चितानि शवान्यासन्कबन्धाः खड्गपातिताः ।
विभज्य देशं बहुशो युद्धभूमौ शवाशिनः॥१९॥

अथ श्येना मृगाश्चैव कङ्का गृध्रास्तथा परे ।
तुण्डैः शवान्विनिष्कृश्य भक्षयन्ति ततस्ततः॥२०॥

सप्ताशीतिसहस्राणि हता नागा नृपोत्तम ।
त्रिंशत्सहस्रमयुतं निहता हयसत्तमाः॥२१॥

हतं लक्षं महाराज रथानां रथिभिः सह ।
त्रिंशत्कोट्यो हतास्तत्र सादिनः सयुधा भृशम्॥२२॥

मध्यन्दिनगते सूर्ये हताः केचन निर्गताः ।
केचिच्च तृषिता राजन्विविशुः पुष्करं सरः॥२३॥

केचिद्भूमिं समालिङ्ग्य भीता इत्यब्रुवन्रणे ।
मुक्तकेशाः पतन्ति स्म रथान्सन्त्यज्य केचन॥२४॥

सन्दष्टौष्ठपुटाः केचित्सादिनः पुरतो हताः ।
अत्यद्भुतं महायुद्धमासित्पुष्करतीर्थके ।
यथा देवासुरं युद्धमासीत्पूर्वं नृपोत्तम॥२५॥

॥इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने सङ्कुलयुद्धे द्वाविंश्त्यधिकशततमोऽध्यायः॥१२२॥
विचक्रवधः

वैशम्पायन उवाच। एतस्मिन्नन्तरे राजन्द्वन्द्वयुद्धमवर्तत ।
विचक्रं योधयामास शार्ङ्गधन्वा गदाधरः॥१॥

एतस्मिन्निति॥१॥

बलभद्रोऽथ हंसेन डिम्भकेन च सात्यकिः ।
वसुदेवोग्रसेनाभ्यां हिडिम्बः पुरुषादकः॥२॥

शेषाश्च शेषै राजेन्द्र चक्रुर्युद्धमदीनगाः ।
वासुदेवस्त्रिसप्तत्या दैत्यं वक्षस्यताडयत्॥३॥

शरैर्निशितधाराग्रैर्विस्मयं दर्शयन्रणे ।
दानवो देवदेवेशं दृढेन निशितेन च॥४॥

शरेणाकर्णमाकृष्य धनुःप्रवरमीश्वरम् ।
जघान स्तनमध्ये च पश्यतस्तु शचीपते॥५॥

तेन विद्धोऽथ भगवान्वक्षोदेशे जनार्दनः ।
अवमच्छोणितं विष्णुरादिकाले यथा प्रजाः॥६॥

ततः क्रुद्धो हृषीकेशः क्षुरप्रेणाहनद्ध्वजम् ।
अश्वांश्च चतुरो हत्वा सारथिं च शरैस्त्रिभिः॥७॥

ततो दध्मौ महाशङ्खं यथा तारामये रणे ।
रथादुत्प्लुत्य सहसा दानवः क्रोधमूर्च्छितः॥८॥

तारामये बृहस्पतिभार्याप्रधाने, तन्निमित्त इत्यर्थः॥८॥

गदां गृह्य महाघोरां दुःसहां वीर्यशालिनीम् ।
तया जघान दैत्येन्द्रः किरीटे केशवस्य ह॥९॥

ललाटे च पुनर्विष्णुं सिंहनादं व्यनीनदत् ।
ततः शिलां च महतीं प्रगृह्य दनुजः किल॥१०॥

भ्रामयित्वा दशगुणं प्राहरत्केशवोरसि ।
तामापतन्तीं सम्प्रेक्ष्य हस्तेनादाय केशवः॥११॥

जघान च तथा दैत्यं स पपातार्दितः क्षितौ ।
गतासुरिव सञ्जज्ञे श्वसन्निव पपात ह॥१२॥

प्राप्य संज्ञां ततो दैत्यः क्रोधाद्द्विगुणमाबभौ ।
आदाय परिघं घोरमिदमाह जनार्दान्म्॥१३॥

अनेन तव गोविन्द दर्पजातं निहन्म्यहम् ।
विक्रमज्ञस्तदा चासि मम देवासुरे रणे॥१४॥

तावेव विपुलौ बाहू स एवास्मि जनार्दन ।
तथापि युध्यसे वीर ज्ञात्वा त्वं मामकं बलम्॥१५॥

वारयैनं महाबाहो परिघं बाहुनिःसृतम् ।
इत्युक्त्वा देवदेवेशं शङ्खचक्रगदाधरम् ।
चिक्षेप दैत्यो लोकेशं सर्वलोकस्य पश्यतः॥१६॥

तं गृह्य बाहुना कृष्णो हतोऽसीति वदन्हरिः ।
खण्डशः कारयामास खड्गेन निशितेन ह॥१७॥

उत्पाट्य वृक्षं दैत्येशः शतशाखं महाशिखम् ।
तेन सम्पोथयामास विष्टरश्रवसं विभुम्॥१८॥

छित्त्वा तं चापि खड्गेन तिलशश्च चकार ह ।
विक्रीड्य सुचिरं विष्णुस्तेन दैत्येन माधवः॥१९॥

हन्तुमैच्छत्तदा दैत्यमादाय निशितं शरम् ।
आग्नेयास्त्रेण संयोज्य जघानैनं महान् हरिः॥२०॥

सन्दह्य स शरो दैत्यं सर्वलोकस्य पश्यतः ।
यथापूर्वं जगामाशु करं भगवतः पुनः॥२१॥

हतशिष्टास्ततो दैत्याः पलायन्तो दिशो दश ।
अद्यापि न निवर्तन्ते गच्छन्तो वै महोदधिम्॥२२॥

॥इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने कृष्णस्योत्कर्षे त्रयोविंशत्यधिकशततमोऽध्यायः॥१२३॥
हंसबलभद्रयोर्युद्धम्

वैशम्पायन उवाच। बलदेवस्तु धर्मात्मा धनुरादाय सत्वरम् ।
जघान हंसं दशभिर्बाणैर्बाणभृतां वरः॥१॥

बलदेव इति॥१॥

तं प्रत्यविध्यन्नाराचैर्हंसः पञ्चभिराशुगैः ।
तानन्तरे हली छित्त्वा नाराचैर्दशभिः पुनः॥२॥

नाराचेनाशु विव्याध ललाटे हंसमोजसा ।
दृढं पतन्स नाराचस्तस्य संज्ञां समाददे ।
रथोपस्थे चिरं स्थित्वा तूणाद्बाणं समाददे॥३॥

लब्ध्वा हंसः स संज्ञां तु विद्ध्वा तेन यदूत्तमम् ।
सिंहवद्व्यनद्धंसो देवान्विस्मापयन्रणे॥४॥

ततः क्रुद्धो हली विद्धस्तेन बाणेन माधवः ।
वमञ्छोणितमत्युष्णं विश्वसंश्च रणाजिरे॥५॥

लोहिताविष्टगात्रस्तु कुङ्कुमार्द्र इवाभवत् ।
नाराचैः शतसाहस्रैरर्दयामास माधवः॥६॥

हंसं हंसगतिं वीरं नीलवासा हलयुधः ।
ते मुक्ता निशिता घोरा नाराचाश्च सुवाजिनः॥७॥

सुवाजिनः सुपक्षाः॥७॥

रथे ध्वजे तथा चापे चक्रे तूणीद्वये नृप ।
पतिताः सर्वतो राजन्व्यथां चैव तथा ददुः॥८॥

ततः क्रुद्धो महाराज हंसो वीर्यमदान्वितः ।
शरेण हलिनं विद्ध्वा ध्वजं चिच्छेद कालवित्॥९॥

शरैश्चतुर्भिरश्वांश्च सूतं प्रेताधिपं ददौ ।
ततः क्रुद्धो हली तस्मै गदां गृह्य महारणे॥१०॥

आपपात महाबाहुर्हंसं शेष इव श्वसन् ।
तथा रथं ध्वजं चक्रमश्वान्सूतं हलायुधः ।
बभञ्ज तिलशः सर्वं ननाद च पुनः पुनः॥११॥

भूयश्च गदया हंसं चिक्षेप च बली किल ।
सोऽपि हंसो गदां गृह्य रथात्तस्मादवापतत्॥१२॥

हंसं चिक्षेप प्रजहार। बली बलरामः॥१२॥

ततस्तौ हंसहलिनौ युयुधाते महारणे ।
महारथौ महाबाहू लोके प्रथिततेजसौ॥१३॥

अत्यद्भुतं सुविक्रान्तौ परस्परवधैषिणौ ।
कृतश्रमौ महायुद्धे हंसविक्रान्तगामिनौ॥१४॥

यथा देवासुरे युद्धे शक्रवृत्रौ पुराम्बरे ।
उभौ संसक्तसर्वाङ्गौ शोणितेन महारणे॥१५॥

अत्यन्तखेदिनौ युद्धे परस्परबलेन ह ।
ततश्च दक्षिणं मार्गं बलभद्रोऽन्वगच्छत॥१६॥

सव्यं तु हंसो राजेन्द्रो व्यगृह्णात्स्वयमेव हि ।
पोथयाञ्चक्रतुर्युद्धे गदाभ्यां गजविक्रमौ॥१७॥

यथाप्राणं महाबाहू जघ्नतुर्मरणाय तौ ।
अतिप्रवृद्धं सङ्ग्रामं देवासुररणोपमम्॥१८॥

विदधाते महारङ्गे पश्यतां त्रिदिवौकसाम् ।
देवाश्च मुनयश्चैव विस्मयं परिजग्मिरे॥१९॥

अहो खल्वीदृशं युद्धं दृष्टं पूर्वं न च श्रुतम् ।
इत्यूचुर्विस्मयवशाद्देवगन्धर्वकिन्नराः॥२०॥

परस्परकृतोत्साहौ चक्रतुर्युद्धमुत्तमम् ।
अथ हंसो महारङ्गे दक्षिणं दक्षिणोत्तमः॥२१॥

व्यचरन्मार्गमत्यर्थं सव्यं तु बलवान् बलः ।
निकुञ्च्य जानुनी पूर्वं चक्रतुर्गदया भृशम् ।
रणे रणविदां श्रेष्ठौ पश्यतां त्रिदिवौकसाम्॥२२॥

॥इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हंसबलभद्रयुद्धे चतुर्विंश्त्यधिकशततमोऽध्यायः॥१२४॥
सात्यकिडिम्भकयोर्युद्धम्

वैशम्पायन उवाच। युद्धं चक्रतुरत्यर्थं ततो डिम्भकसात्यकी ।
तावुभौ बलिनौ वीरौ विख्यातौ क्षत्रियेषु च॥१॥

युद्धमिति॥१॥

कृतश्रमौ महायुद्धे सततं वृद्धसेविनौ ।
सात्यकिर्दशभिर्वीरो डिम्भकं वेदपारगम्॥२॥

अविध्यन्निशितैर्बाणैस्तेन वक्त्रे तथोरसि ।
स तेन विद्धो बलिना डिम्भकः क्षत्रियोत्तमः॥३॥

नाराचैः पञ्चसाहस्रैर्विव्याध युधि गर्वितः ।
तानन्तरे वृष्णिवीरो निषिद्धन्निनदन्ब्रुवन्॥४॥

निषिद्धन् खण्डयन्। निनदन् गर्हन्। ब्रयवन् गर्जितशब्देनैव तेषां निषेधं चकारेत्यर्थः॥४॥

अथ क्रुद्धो नृपवरो विद्धः सप्तभिराशुगैः ।
पुनः शतसहस्रेण प्रत्यविध्यत सात्यकिम्॥५॥

सात्यकिस्त्वथ विक्रान्तो धनुश्चिच्छेद तस्य तत् ।
अर्धचन्द्रेण तीक्ष्णेन डिम्भकस्य स यादवः॥६॥

आजघ्ने डिम्भको वीरश्चापमादाय चापरम् ।
क्षुरप्रेणाथ रौद्रेण तैलधौतेन विक्रमी॥७॥

स तेन विद्धो बाणेन वमञ्छोणितकं नृप ।
अतीव शुशुभे राजन्वसन्ते किंशुको यथा॥८॥

धनुश्चिच्छेद भूयस्तु गृहीतं यत्पूरा धनुः ।
ततोऽन्यद्धनुरादाय डिम्भको यादवेश्वरम्॥९॥

जघान निशितैर्बाणैः सर्वक्षत्रस्य पश्यतः ।
स धनुः पुनरत्युग्रं चिच्छेद युधि सात्यकिः॥१०॥

शरेण तीक्ष्णपुङ्खेन डिम्भकस्य दुरात्मनः ।
ततोऽन्यद्धनुरादाय सत्वरं स नृपोत्तमः॥११॥

धनुषा तेन राजेन्द्र सात्यकिं विव्यधे पुनः ।
एवं धनूंषि राजेन्द्र शतं पञ्च च पञ्च च॥१२॥

छित्त्वा ननाद शैनेयः सर्वक्षत्रस्य पश्यतः ।
धनुषी तौ परित्यज्य वीरौ डिम्भकसात्यकी॥१३॥

खड्गौ प्रगृह्य चात्युग्रौ युद्धाय समुपस्थितौ ।
तौ हि खड्गविदां श्रेष्ठौ वीरौ डिम्भकसात्यकी॥१४॥

दौःशासनिर्महाभागः सौमदत्तिस्तथैव च ।
अभिमन्युश्च विक्रान्तो नकुलश्च तथैव च॥१५॥

एते खड्गविदांश्रेष्ठाः कीर्तिता युद्धि सत्तमाः ।
एतेष्वेतौ नृपश्रेष्ठौ षट्सु वै नृपसत्तम॥१६॥

तावेतावसिना युद्धं चक्रतुर्युद्धलालसौ ।
भ्रान्तमुद्भ्रान्तमाविद्धं प्रविद्धं बाहुनिःसृतम्॥१७॥

भ्रान्तमुद्भ्रान्तमित्यादयो द्वात्रिंशत्खड्गभेदा यथायथमूह्याः खड्गशास्त्रे वान्वेषणीयाः॥१७॥

आकरं विकरं भिन्नं निर्मर्यादममानुषम् ।
सङ्कोचितं कुलचितं सव्यजानु विजानु च॥१८॥

आहिकं चित्रकं क्षिप्तं कुसुम्बं लम्बनं धृतम् ।
सर्वबाहु विनिर्बाहु सव्येतरमथोत्तरम्॥१९॥

त्रिबाहुस्तुङ्गबाहुश्च सव्योन्नतमुदासि च ।
पृष्ठतः प्रथितं चैव यौधिकं प्रथितं तथा॥२०॥

इति प्राकारन्द्वात्रिंशच्चक्रतुः खड्गयोधिनौ ।
पुनः पुनः प्रहरन्तौ न च श्रममुपेयतुः॥२१॥

पुष्करस्थौ महाराज युद्धाय कृतनिश्चयौ ।
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः॥२२॥

तुष्टुवुस्तौ महाराज जये कृतपरिश्रमौ ।
अहो वीर्यमहो धैर्यमनयोर्बाहुशालिनोः॥२३॥

एतावेव रणे शक्तौ खड्गे धनुशि पारगौ ।
एकः शिष्यो गिरीशस्य द्रोणस्यान्यो हि धीमतः॥२४॥

अर्जुनः सात्यकिश्चैव वासुदेवो जगत्पतिः ।
त्रय एते महाराज प्रथिताः सङ्गरे सदा॥२५॥

डिम्भकः शक्तिभृच्छर्वस्त्रय एते महारथाः ।
प्रसिद्धाः सर्व एवैते वीर्येषु च बलेषु च॥२६॥

शक्तिभृत् कार्तिकेयः॥२६॥

इति ते देवगन्धर्वाः सिद्धा यक्षा महोरगाः ।
दिविस्थिताः समं ब्रूयुर्युद्धदर्शनलालसाः॥२७॥

॥इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने सात्यकिडिम्भकयुद्धे पञ्चविंशत्यधिकशततमोऽध्यायः॥१२५॥
हिडिम्बेन साकं वसुदेवोग्रसेनयोर्युद्धं बलभद्रेण हिडिम्बपराभवश्च

वैशम्पायन उवाच। वसुदेवोग्रसेनौ च वृद्धौ युद्धे सुनिर्वृतौ ।
जराजरितसर्वाङ्गौ पलिताङ्गशिरोरुहौ॥१॥

वसुदेव इति॥१॥

ज्ञानविज्ञानसम्पन्नौ राजमार्गविशारदौ ।
युयुधाते महारङ्गे राक्षसेन दुरात्मना॥२॥

राजमार्गः क्षत्रधर्मो युद्धाख्यः तत्र विशारदौ॥२॥

शरैरनेकसाहस्रैरर्दयामासतू रणे ।
राक्षसेन्द्रं दुरात्मानं हिडिम्बं पुरुषादकम्॥३॥

हिडिम्बो राक्षसेन्द्रस्तु भक्षयन्सर्वतो नरान् ।
अतिप्रवृद्धो दुष्टात्मा लम्बबाहुर्महाहनुः॥४॥

लम्बोदरो विरूपाक्षः पिङ्गकेशो विलोचनः ।
श्येननासो महारौद्र ऊर्ध्वरोमा महाभुजः॥५॥

विलोचनः विरूपनेत्रः॥५॥

पर्वताकारवर्ष्मा च दीर्घदंष्ट्रः शिवाननः ।
लम्बोदरो दीर्घदन्तो जगद्ग्रासपरस्तथा॥६॥

उत्तुङ्गांसो महोरस्को दीर्घग्रीवो गजोपमः ।
भक्षयन्मांसपिटकं पिबञ्शोणितसञ्चयम्॥७॥

गजान्नागैः समाहत्य हयैरश्वान्नृपोत्तम ।
रथान्रथैः समाहत्य सादिनः सादिभिस्तथा॥८॥

मनुष्यान्स पुरो दृष्ट्वा नास्यग्रासं चकार सः ।
कांश्चिद्धत्वा महाराज वृष्णिपालान्समन्ततः॥९॥

नास्यग्रासं नासया अत्तुं योग्यं नास्यमिव ग्रसित्वेति नास्यग्रासम्। श्वासोच्छ्वासेन महिषो मशकानिव नासामार्गेण मनुष्यान्सञ्जहारेत्यर्थः॥९॥

भक्षयमास सहसा हिडिम्बः पुरुषादकः ।
यान्पश्यन्पुरतो रक्षस्ताञ्जघान विरूपधृक्॥१०॥

भक्षयन्नपरान्वृष्णीन्यादवान्राक्षसेश्वरः ।
चिक्षेप सहसा कांश्चिद्धिडिम्बः पुरुषादकः॥११॥

अन्तकाले यथा क्रुद्धो रुद्रः प्राणभृतो नृप ।
क्षणेनैकेन सर्वांस्तान्भक्षयामास राक्षसः॥१२॥

केचिद्भीता दिशः प्रापुर्वृष्णयो वीर्यशालिनः ।
केचित्तु भक्षितास्तेन रक्षसा वृष्णिपुङ्गवाः॥१३॥

कुम्भकर्णो यथा राजन्भक्षयामस वानरान् ।
निश्चेष्टं वृष्णिसैन्यं तु स्थितं चित्रपटे यथा॥१४॥

एतस्मिन्नन्तरे क्रुद्धौ वृद्धौ यादवपुङ्गवौ ।
धनुर्गृह्य महाघोरं राक्षसस्य पुरः स्थितौ॥१५॥

यथा क्रुद्धस्य सिंहस्य मृगौ वृद्धतमाविव ।
व्यादायास्यं महारक्षस्तौ वृद्धावभ्यधावत॥१६॥

चिखादिषुर्विरूपाक्षः पातालतलसन्निभः ।
ततो रक्षः पर्यधावत्खादत्खादत्कलेवरम्॥१७॥

पूरयामासतुर्वीरौ शरैर्यदुवृषौ नृप ।
हिडिम्बस्य महाघोरं व्यादितास्यमिवान्तकम्॥१८॥

सर्वांस्तान्वारयामास देवशत्रुर्विरूपधृक् ।
धावति स्म ततो रक्षो व्यादितास्यं भयानकम्॥१९॥

तयोर्गृहीत्वा धनुषी बभञ्ज युद्धि सत्वरम् ।
बाहू प्रसार्य दुष्टात्मा राक्षसो विकृताननः॥२०॥

वसुदेवं महीपालं राजानं वृद्धसेविनम् ।
ग्रहीतुं राक्षसश्रेष्ठो यतते नृपसंसदि॥२१॥

हिडिम्ब उवाच। एष वां भक्षयिष्यामि वसुदेवं त्वया सह ।
उग्रसेन किमर्थं त्वं तिष्ठसे मत्पुरोगमः॥२२॥

आगच्छ प्रविशास्यं मे ग्रासभूतौ तु वां मम ।
विधिना निर्मितो वृद्धो वसुदेवो हरेः पिता॥२३॥

बुभुक्षितः श्रमार्तश्च युद्धे त्वरितविक्रमः ।
मन्मुखान्नैष गच्छेतां प्रविशेतां त्वरान्वितौ॥२४॥

युवयोः शोणितं पीत्वा तृप्तिं यास्यामि निर्वृतः ।
खादामि च पुनर्मांसं वृद्धयोर्युवयोः सुखम्॥२५॥

इति ब्रुवंस्तथा रक्षो व्यादितास्यं महाहनुः ।
धावति स्म तदा क्षिप्रं हिडिम्बो राक्षसेश्वरः॥२६॥

वसुदेवोग्रसेनौ च भीतौ विप्रेक्ष्य सर्वतः ।
दिशोऽभ्यभजतां राजन्निःशस्त्रौ वृष्णिपुङ्गवौ॥२७॥

एतस्मिन्नन्तरे दृष्ट्वा बलभद्रः प्रतापवान् ।
दृष्ट्वा च तौ तथाभूतौ वसुदेवोग्रसेनकौ॥२८॥

वासुदेवे समादिश्य हंसं युध्यन्तमीश्वरे ।
निर्गत्य चान्तरं तस्य राक्षसस्य दुरात्मनः॥२९॥

मा कृथाः साहसं रक्षो मुञ्चैतौ राजसत्तमौ ।
स्थितोऽस्मि युध्यतां रक्षो मया शत्रुजिघांसता॥३०॥

अहमेव हनिष्ये त्वां का चेयं तव भीषिका ।
इति ब्रुवाणं हलिनं तौ विसृज्य महारणे॥३१॥

महानयमसौ दुष्टो भक्षयाम्येनमग्रतः ।
विदार्य पूर्ववद्वक्त्रं बलभद्रमुपाद्रवत्॥३२॥

विसृज्य सशरं चापं राक्षसस्य पुरः स्थितः ।
मुष्टिं प्रगृह्य बलवान्स्फोटयन्बाहुमुत्तमम्॥३३॥

हिडिम्बस्त्वथ दुष्टात्मा मुष्टिं कृत्वा भयानकम् ।
जघान वक्षो रामस्य व्यादित्यास्य इवान्तकः॥३४॥

क्रुद्धोऽथ बलभद्रस्तु मुष्टिना तेन ताडितः ।
जघान मुष्टिना तेन राक्षसेशमनिन्दितः॥३५॥

मुष्टियुद्धं समभवन्नरराक्षसवीरयोः ।
युद्ध्यतोर्युद्धरङ्गेऽथ नरराक्षससिंहयोः॥३६॥

तयोश्चटचटाशब्दः प्रादुरासीद्भयानकः ।
अथ राक्षसराजस्तु मुष्टिना राममाहवे॥३७॥

जघान वक्षोदेशे तु वज्रेणेव पुरन्दरः ।
अथ रामो बली साक्षान्मुष्टिं संवर्त्य यत्नतः॥३८॥

हिडिम्बं ताडयामास वक्षस्यमरविद्विषम् ।
तलाभ्यामथ रामस्तु चक्रे हत्वा स राक्षसम्॥३९॥

आहतस्तलघातेन हिडिम्बो राक्षसेश्वरः ।
जानुभ्यामपतद्भूमौ गतासुर्वीरराक्षसः॥४०॥

तत उत्पत्य रामस्तु दोर्भ्यां सङ्गृह्य राक्षसम् ।
आदाय बहुवेगेन भ्रामयित्वा पदात्पदम्॥४१॥

व्याविध्यत्सुचिरं रामो दर्शयन्नात्मनो बलम् ।
उत्क्षिप्य राक्षसेन्द्रं तं सर्वलोकस्य पश्यतः॥४२॥

गव्यूतिमात्रं चिक्षेप ततो देशाद्धलायुधः ।
गतासू राक्षसश्रेष्ठस्ततो देशान्निराक्रमत्॥४३॥

गतासुः प्राप्तसंज्ञः निराक्रमत् निर्गतः॥४३॥

ये केचिद्राक्षसास्तत्र हतशेषा महारणे ।
बलभद्रात्ततो भीता जग्मुश्चैवं दिशो दश॥४४॥

अथांशुमाली भगवान्दिनेशः संहृत्य तेजांसि सहस्ररश्मिः ।
अस्तं ययौ चक्षुरपि प्रजानामीषत्तमश्चापि समाविवेश॥४५॥

तस्मिन्प्रविष्टेऽथ समुद्रतोयं प्रजापतौ विश्वमुखे जगद्गुरौ ।
नक्षत्रनाथः समुपाजगाम सन्ध्यातमोऽपि व्यनशन्नृपोत्तम॥४६॥

प्रभातकाले नृपसत्तमो रणो गोवर्धने किन्नरगीतनादिते ।
इति ब्रुवन्तो नृपसत्तमास्तदा व्युपारमंस्तत्र रणोत्सवे नृप॥४७॥

हे नृप। प्रभातकाले गोवर्णने रणः सत्तमः इति ब्रुवन्त इत्यन्वयः। पुष्करदेशादपक्रम्य गोवर्धनं देशं प्रतिपलायिता इत्यर्थः॥४७॥
॥इति श्रीमाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हिडिम्बपराभवे षड्विंशत्यधिकशततमोऽध्यायः॥१२६॥
श्रीकृष्णहंसयोर्युद्धम्

वैशम्पायन उवाच। उभौ तौ हंसडिम्भकौ रात्रावेव महागिरिम् ।
जग्मतुः सहितौ राजन् गोवर्धनमथो नृप॥१॥

उभौ ताविति॥१॥

अथ प्रभाते विमले सूर्ये चाभ्युदिते सति ।
गोवर्धनं जगामाशु केशवः केशिसूदनः॥२॥

सर्वज्ञो गोविन्दोऽपि सद्यस्तत्र गत गत्याह- अथेति॥२॥

शैनेयो बलबद्रश्च यादवाः सारणादयः ।
गन्धर्वैरप्सरोभिश्च नादितं बहुधा गिरिम्॥३॥

जग्मतुः सहितौ राजन् गोवर्धनमथो गिरिम् ।
गोधनैरथ सैन्यैश्च नादितं बहुधा गिरिम्॥४॥

तस्योत्तरं नृपश्रेष्ठ पार्श्वं सम्प्राप्य यादवाः ।
निकषा यमुनां राजंस्ततो युद्धमवर्तत॥५॥

यमिनां निकषा यमिनायाः समीपे॥५॥

विव्याध हंसडिम्भकौ वसुदेवश्च सप्तभिः ।
सारणः पञ्चविंशत्या दशभिः कङ्क एव च॥६॥

हंसेन डिम्भकेनाथ यादवैश्च समन्ततः ।
उग्रसेनस्त्रिसप्तत्या शराणां नतपर्वणाम्॥७॥

विराटस्त्रिंशता राजन्सात्यकिश्चापि सप्तभिः ।
अशीत्या विपृथू राजन्नुद्धवो दशभिः शरैः॥८॥

प्रद्युम्नस्त्रिंशता राजन्साम्बश्चापि च सप्तभिः ।
अनाधृष्टिस्त्वेकषष्ट्या शराणां नतपर्वाणाम्॥९॥

एवं ते सहिता राजंश्चक्रुर्युद्धमदीनवत् ।
अत्यद्भूतं महाघोरं यादवाः सर्व एव हि॥१०॥

चक्रुस्ताभ्यां महायुद्धं वासुदेवस्य पश्यतः ।
सर्वानपि महाराज यादवान्बलदर्पितान्॥११॥

तावुभौ हंसडिम्भकौ नृपांस्तान्प्रत्यविध्यताम् ।
प्रत्येकं दशभिर्विद्ध्वा बाणैर्निशितकोमलैः॥१२॥

जघ्नतुश्च शरैस्तीक्ष्णैरत्यर्थं यादवेश्वरान् ।
व्यथिताः सर्व एवैते वमन्तः शोणितं बहु॥१३॥

माधवे किंशुका राजन्पुष्पिता इव ते बभुः ।
भीताश्च यादवा राजन्पलायनपरायणाः॥१४॥

एतास्मन्नतरे राजन्वसुदेवात्मजो नृप ।
वासुदेवो हली युद्धे प्रमुखे धन्विनौ तयोः॥१५॥

चक्रतुर्युद्धमतुलं स्कन्दशक्राविवाम्बरे ।
तयोरेव सगन्धर्वाः सिद्धा यक्षा महर्षयः॥१६॥

विमानस्थाश्च ददृशुर्युद्धं देवासुरोपमम् ।
ततः प्रादुरभूतां तौ दूतौ भूतेश्वरौ नृप॥१७॥

शूलिना प्रेषितौ युद्धे रक्षार्थं बलिनोस्तयोः ।
हंसोऽथ वासुदेवश्च युद्धं चक्रतुरीश्वरौ॥१८॥

रामश्च डिम्भकश्चैव सम्युक्तौ युद्धकाङ्क्षया ।
विशून्याः सर्व एवैते ह्यस्त्रे शस्त्रे तथा बले॥१९॥

शङ्खान्दध्मुः पृथग्घ्नादं स्वे स्वे सर्वे रथे स्थिताः ।
अथ कृष्णो हृषीकेशः पाञ्चजन्यं महारवम्॥२०॥

दध्मौ पद्मपलाशाक्षः सर्वान्विस्मापयन्निव ।
अथ भूतौ महाघोरौ लम्बोदरशरीरिणौ॥२१॥

दुद्रुवतुर्माहराज शूलमादाय केशवम् ।
शूलेन पोथयां राजञ्चक्रतुर्यादवेश्वरम्॥२२॥

ताभ्यां समाहतो विष्णुर्देवगन्धर्वसन्निधौ ।
ईशत्स्मिताधरो देवः किञ्चिदुत्प्लुत्य सत्वरम्॥२३॥

रथाद्रथिवरश्रेष्ठस्तौ प्रगृह्य जनार्दनः ।
भ्रामयित्वा शतगुणमलातमिव केशवः॥२४॥

कैलासं च समुद्दिश्य प्रचिक्षेप ततो हरिः ।
तावुपेत्य गिरेः शृङ्गं कैलासस्य महामते॥२५॥

दृष्ट्वा तत्कर्म देवस्य विस्मयं जग्मतुः परम् ।
हंसश्च दृष्ट्वा तत्कर्म रोषताम्रायतेक्षणः॥२६॥

उवाच वचनं हंसः शृण्वतां त्रिदिवौकसाम् ।
किमर्थं राजसूयस्य विघ्नं चरसि केशव॥२७॥

ब्रह्मदत्तो महीपालो यष्टा तस्य महाक्रतोः ।
करं दिश यथायोगं यदि प्राणान्हि रक्षसि॥२८॥

अथवा त्वं क्षणं तिष्ठ ततो ज्ञात्वा परं बहु ।
ददासि त्वं नन्दपुत्र ततो यष्टा स मे गुरुः॥२९॥

ईश्वरोऽहं सदा राज्ञां देवानामिव शूलभृत् ।
एष ते वीर्यमतुलं नाशयिष्यामि संयुगे॥३०॥

इत्युक्त्वा सशरं चापं शालतालोपमं नृप ।
आकृष्य च यथाप्राणं नाराचेन च केशवम्॥३१॥

ललाटे चिक्षिपे हंसो ललाम इव सोऽभवत् ।
उवाच सात्यकिं कृष्णो रथं वाहय मे प्रभो॥३२॥

दारुकं पृष्ठवाहं तं कृत्वा देशं तमीश्वरः ।
अथ तेन समादिष्टः सात्यकिर्वाहयन्रथम्॥३३॥

मण्डलानि बहून्याजौ दर्शयामास सत्वरम् ।
अथ विद्धो दृढं तेन शरेण हरिरीश्वरः॥३४॥

आग्नेयमस्त्रं संयोज्य शरं कस्मिंश्चिदव्ययः ।
उवाच हंसं राजेन्द्र सात्यकिं प्रेरयन्रणे॥३५॥

अनेन त्वां दहे पाप यदि शक्तोऽसि वारय ।
अलं ते बह्वबद्धेन क्षत्रियोऽसि सदा शठ॥३६॥

मत्तश्चेत्करमिच्छेस्त्वं दर्शयाद्य पराक्रमम् ।
यतयो बाधिता हंस पुष्करे संस्थितास्त्वया॥३७॥

शास्ता त्वं खलु विप्राणां स्थिते मयि नराधम ।
स्थिते मयि जगन्नाथे हत्वा क्षत्रियकण्टकान्॥३८॥

शास्तास्म्यथो सतां लोके दुष्टानां ब्रह्मविद्विषाम् ।
शापेन यतिमुख्यानां हत एव नराधम॥३९॥

मृत्यवे त्वां निवेद्याद्य रक्षिता ब्राह्मणानहम् ।
इति ब्रुवंस्तदस्त्रं तु मुमोच युधि केशवः॥४०॥

तदस्त्रं वारुणेनाथ हंसोऽपि प्रत्यषेधयत् ।
वायव्यमथ गोविन्दो मुमोच युधि हंसके॥४१॥

तदस्त्रं वारयामास माहेन्द्रेण नृपोत्तमः ।
अथ माहेश्वरं कृष्णो मुमोचात्युग्रमाहवे॥४२॥

रौद्रेण तत्ततो हंसो वारयामास तत्क्षणात् ।
गान्धर्वं राक्षसं चैव पैशाचमथ केशवः॥४३॥

ब्रह्मास्त्रमथ कौबेरमासुरं याम्यमेव च ।
चत्वार्येतानि हंसस्तु मुमोच युधि सत्वरम्॥४४॥

वारणार्थं तदस्त्राणां चतुर्णां माधवस्य ह ।
अथ ब्रह्मशिरो नाम घोरमस्त्रं विनाशकम्॥४५॥

मुमोच हंसमुद्दिश्य देवदेवो जनार्दनः ।
योजयामास तद्धंसे महाघोरपराक्रमम्॥४६॥

अथ भीतो महारौद्रमस्त्रं दृष्ट्वा नृपोत्तमः ।
हंसोऽपि तेन राजेन्द्र वारयामास तं शरम्॥४७॥

यमुनाप उपस्पृश्य देवदेवो जनार्दनः ।
अस्त्रं वैष्णवमादाय शरे स निशिते हरिः॥४८॥

योजयामास भूतात्मा भूतभावनभावनः ।
येन देवा रणे हत्वा राज्यमापुः पुरा सुरान् ।
तदस्त्रं योजयामास वधार्थं तस्य भूपते॥४९॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हंसकेशवयुद्धे सप्तेविंशत्यधिकशततमोऽध्यायः॥१२७॥
हंसवधः

वैशम्पायन उवाच। अथ भीतो महारौद्रमस्त्रं दृष्ट्वा नृपोत्तम ।
हंसो राजा महाराज निश्चेष्ट इव सम्बभौ॥१॥

अथेति॥१॥

उत्प्लुत्य स रथात्तस्माद्यमुनामभ्यधावत ।
यत्र कृष्णो हृषीकेशः कालियाहिं ममर्द ह॥२॥

महाह्रदं महारौद्रं यावत्पातालसंस्थितम् ।
तावद्दीर्घं महानीलं कालाञ्जननिभं हि यत्॥३॥

ह्रदमिति। क्लीबत्वमार्षम्॥३॥

तस्मिन्ह्रदे महाघोरे पपाताथ स हंसकः ।
हंसे पतति तस्मिंस्तु महान्रावो बभूव ह॥४॥

गिरीणां पात्यमानानां समुद्र इव वज्रिणा ।
रथादुत्प्लुत्य कृष्णोऽपि तस्योपरि पपात ह॥५॥

देवदेवो जगन्नाथो जगद्विस्मापयन्निव ।
प्राहरत्तं महाबाहुः पादाभ्यमथ केशवः॥६॥

पादक्षेपं नृपस्तस्माल्लब्ध्वा हंसो नृपोत्तम ।
ममार च नृपश्रेष्ठ केचिदेवं वदन्ति हि॥७॥

अन्ये पातालमायातो भक्षितः पन्नगैरिति ।
अद्यापि नैव राजेन्द्र दृष्ट इत्यनुशुश्रुम॥८॥

यथापूर्वं जगन्नाथो रथं समुपजग्मिवान् ।
हते तस्मिन्महाराज धर्मपुत्रो युधिष्ठिरः॥९॥

अकरोद्राजसूयं च तव पूर्वपितामहः ।
यदि जीवेदसौ हंसः को नमस्यति तं क्रतुम्॥१०॥

को नमस्यति कः पूजयेन्न कोऽपीत्यर्थः॥१०॥

स च सर्वास्त्रविन्नित्यं रुद्राल्लब्धवरः प्रभो ।
क्षणादेव महाराज वार्तेयं गामगाहत॥११॥

इयं वार्ता हंसमरणकथा गां पृथ्वीम् अगाहत आक्रान्तवती॥११॥

हतो हंसो हतो हंसः कृष्णेन रिपुमर्दिना ।
जगुर्गन्धर्वपतयो देवलोके दिवानिशम्॥१२॥

कृष्णेन लोकनाथेन विष्णुना प्रभविष्णुना ।
यमुनाया ह्रदे घोरे हंसो निहत इत्यपि॥१३॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने हंसवधे अष्टाविंशत्यधिकशततमोऽध्यायः॥१२८॥
डिम्भकस्यात्मत्यागः

वैशम्पायन उवाच। श्रुत्वा निहतमत्युग्रं भ्रातरं वीर्यशालिनम् ।
बलदेव परित्यज्य युध्यमानं महारणे॥१॥

डिम्भको वीर्यसम्पन्नो यमुनामनुजग्मिवान् ।
तमन्वधावद्वेगेन बलभद्रो हलायुधः॥२॥

हंसो हि यत्र पतितस्तत्रासौ निपपात ह ।
यमुनायां महाराज विलोड्य जलसञ्चयम्॥३॥

अथ क्रुद्धः स डिम्भको भ्रामयित्वा जलं बहु ।
उन्मज्योन्मज्य सहसा निमज्य च पुनः पुनः॥४॥

श्रुत्वेति। तथेति पादपूरणार्थः॥४॥

न ददर्श तदा राजन्भ्रातरं वीर्यशालिनम् ।
उन्मज्याथ महाबाहुर्वासुदेवं विलोक्य च॥५॥

उवाच वचनं राजन्डिम्भको वीर्यवत्तमः ।
अरे गोपकदायाद क्वासौ हंस इति स्थितः॥६॥

वासुदेवोऽपि धर्मात्मा यमुनां पृच्छ राजक ।
इत्यब्रवीत्प्रसन्नात्मा वासुदेवः प्रतापवान्॥७॥

तच्छ्रुत्वा यमुनां भूयः प्रविश्य डिम्भकः किल ।
बहुप्रकारमुद्वीक्ष्य भ्रातरं भ्रातृवत्सलः॥८॥

विललाप ततो राजा डिम्भको भ्रान्तमानसः ।
क्व नु गच्छसि राजेन्द्र विहायैनमबान्धवम्॥९॥

कुतो भ्रातरितो गच्छेः परित्यज्यैव मामिह ।
विलप्येवं नृपश्रेष्ठ डिम्भको भ्रातृवत्सलः॥१०॥

आत्मत्यागे मनः कुर्वन्यमुनाया महाह्रदे ।
निमज्योन्मज्य सहसा मरणे कृतनिश्चयः॥११॥

हस्तेन जिह्वामाकृष्य भूयो भूयो विलप्य च ।
ततः समूलामाकृष्य जिह्वां साहसकृत्स्वयम्॥१२॥

ममारान्तर्जले राजन्डिम्भको नरकाय वै ।
एवं तु निहते हंसे डिम्भके वीर्यशालिनि॥१३॥

आगमत्पुण्डरीकाक्षो भूतान्विस्मापयन्निव ।
ततः प्रीतः प्रसन्नात्मा वासुदेवः प्रतापवान्॥१४॥

गोवर्धनेऽथ विश्रम्य बलभद्रसहायवान् ।
किञ्चित्कालं महाराज पूर्वभुक्तमुवास ह॥१५॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि हंसडिम्भकमरणे एकोनविंशत्यधिकशततमोऽध्यायः॥१२९॥
नन्दयशोदयोर्गोवर्धने श्रीकृष्णदर्शनम्

वैशम्पायन उवाच। यशोदा नन्दगोपश्च कृष्णदर्शनलालसौ ।
गोवर्धनगतं श्रुत्वा वासुदेवं सहाग्रजम्॥१॥

यशोदेति॥१॥

नवनीतं च दधि च पायसं कृसरं तथा ।
वन्यं पुष्पं महाराज मयूराङ्गदमेव च॥२॥

मयूराङ्गदं मयूरपिच्छमयं बाहुभूषणम्॥२॥

बल्लवैरपरैः सार्धं गोपिभिश्च समन्ततः ।
जग्मतुः सहसा प्रीतौ गोवर्धनमथो नृप॥३॥

क्वचिद्वृक्षे समासक्तं कृष्णं कृष्णमृगेक्षणम् ।
ददर्शतुर्महाबाहुं वासुदेवं सहाग्रजम्॥४॥

प्रणेमतुः सुसंहृष्टौ तत्र दृष्ट्वा महाबलौ ।
दर्शयामासतुर्देवौ पायसानि महान्ति च॥५॥

तात मातर्व्रजे गोष्ठे कुशलं वा स्वगोधनम् ।
अपि गावः क्षीरवत्यो वत्सा वत्सतराः पितः॥६॥

अपि वा सुशुभं क्षीरमपि गावः सुशोभनाः ।
अपि वा दारका मातर्वत्सपालाः पिबन्ति च॥७॥

बहूनि चापि दामानि कीलका अपि वा बहु ।
तृणानि बहुरूपाणि किं वा सन्ति पितः सदा॥८॥

शकटानि सुगन्धीनि किं वा सन्ति पितर्ध्रुवम् ।
अपि गोप्यः पुत्रवत्यो दारकान्किमजीजनन्॥९॥

घटाः किं बहवो मातरभिन्नाः सर्वतो व्रजे ।
किं गावः क्षीरमतुलं स्रवन्त्यहरहः पितः॥१०॥

हैयङ्गवीनं क्षीराणि दधि वा किमजीजनन् ।
गोधनं सर्वमेवेदं नीरोगं प्रतिपद्यते॥११॥

नन्द उवाच। सर्वमेतद्यदुश्रेष्ठ नीरोगं बहुशः प्रभो ।
कुशलं गोधनस्यैव सर्वकालेषु केशव॥१२॥

रक्षणात्तव देवेश सदा कुशलिनो वयम् ।
सगोधनाः सवत्साश्च नीरोगा इव केशव॥१३॥

एकमेव सदा दुःखं न त्वां द्रक्ष्यामि केशव ।
यदेतत्केवलं दुःखमिति धीः शीर्यते सदा॥१४॥

वैशम्पायन उवाच। एवमादि विलप्यन्तं गच्छेत्याह स केशवः ।
यशोदां पुनराहेदं मातर्गच्छ गृहं प्रति॥१५॥

ये च त्वां कीर्तयिष्यन्ति ते च स्वर्गमवाप्नुयुः ।
ये केचित्त्वां नमस्यन्ति ते मे प्रियतराः सदा॥१६॥

मद्भक्ताः सर्वदा सन्तु गच्छेत्याह च तां हरिः ।
इत्युक्त्वा पितरौ देवो वासुदेवः सनातनः॥१७॥

गाढमालिङ्ग्य तौ प्रीतौ प्रेषयामास केशवः ।
यशोदा नन्दगोपश्च जग्मतुः स्वगृहं प्रति॥१८॥

ततः कृष्णो हृषीकेशो यादवैः सह वृष्णिभिः ।
गन्तुमैच्छत्तदा विष्णुः पुरीं द्वारवतीं किल॥१९॥

य एतच्छ्रुणुयान्नित्यं पठेद्वापि समाहितः ।
पुत्रवान्धनवांश्चैव अन्ते मोक्षं च गच्छति॥२०॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि यशोदानन्दगोपबलभद्रकृष्णसमागमे त्रिंशदधिकशततमोऽध्यायः॥१३०॥
श्रीकृष्णस्य द्वारवतीगमनम्

वैशम्पायन उवाच। गच्छन्नथ महाविष्णुः पुष्करं प्राप्य यादवैः ।
अपश्यन्मुनिमुख्यांस्तु पुष्करस्थान्नृपोत्तम॥१॥

गच्छन्निति। गच्छन् यादवः सहेति शेषः॥१॥

ते समेत्य महादेवमृषयो वीतमत्सराः ।
अर्घ्यादिसमुदाचारं कृत्वैनं यादवोत्तमम्॥२॥

प्रोचुर्विश्वेश्वरं विष्णुं भूतभव्यभवत्प्रभुम् ।
अत्यद्भुतमिदं विष्णो तव वीर्यं जनार्दन॥३॥

येन तौ निहतौ युद्धे हंसो डिम्भक एव च ।
यो विचक्रो दुराधर्षो देवैरपि सुदुःसहः॥४॥

सङ्गरे निहतो देव दुःसाध्य इति नो मतिः ।
क्षेमो नः सर्वकार्येषु चरतां तप उत्तमम्॥५॥

निष्कल्मषा भविष्यामस्तव संस्मरणाद्धरे ।
त्वं हि सर्वस्य दुःखस्य हर्ता त्वां ध्यायतां सदा॥६॥

त्वदनुस्मरणं जन्तोः सदा पुण्यप्रदं प्रभो ।
त्वं हि नः सततं धाता विधाता तपसो हरेः॥७॥

धाता प्रवर्तकः विधाता फलप्रदः॥७॥

त्वमोङ्कारो वषट्कारस्त्वं यज्ञस्त्वं पितामहः ।
त्वं ज्योतिर्ब्रह्मणो मूर्तिस्त्वं ब्रह्मा रुद्र एव च॥८॥

प्राणस्त्वं सर्वभूतानामन्तरात्मेति कथ्यते ।
उपास्यः सर्वभूतानां यज्ञैर्दानैर्जगत्पते॥९॥

नमो विश्वसृजे देव नमस्ते विश्वमूर्तये ।
पाहि लोकमिमं देव हत्वा ब्रह्मद्विषः सदा॥१०॥

स तथेति हरिर्विष्णुर्ययौ द्वारवतीं पुरीम् ।
अवसद्वृष्णिभिः सार्धं स्तूयमानः समागधैः॥११॥

इयं च देवदेवस्य चेष्टा हि जनमेजय ।
प्रोक्ता ते पृच्छते राजन्किमन्यच्छ्रुतमिच्छसि॥१२॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि द्वारकायां कृष्णस्य प्रत्यागमने एकत्रिंशदधिकशततमोऽध्यायः॥१३१॥
पारायणपर्वक्रमेण महाभारतश्रवणफलम्

जनमेजय उवाच। भगवन्केन विधिना श्रोतव्यं भारतं बुधैः ।
फलं किं के च देवाश्च पूज्या वै पारणेष्विह॥१॥

भगवन्निति। यद्यपि भारतं स्वर्गारोहणान्तमवभाति तथापि शतपर्वगणनायां हरिवंशस्यान्तर्भावकथनात् हरिवंशान्तमेव भारतमिति स्पष्टयितुम् अत्र भारतश्रवणविधिः कीर्त्यते। पारणेषु समाप्तिषु। एतेन असकृन्निरन्तरं भारतं श्रोतव्यं पठितव्यं चेति दर्शितम्॥१॥

देयं समाप्ते भगवन् किं च पर्वणि पर्वणि ।
वाचकः कीदृशश्चात्र यष्टव्यस्तद्ब्रवीहि मे॥२॥

वैशम्पायन उवाच। शृणु राजन्विधिमिमं फलं यच्छति भारतात् ।
श्रुताद्भवन्ति राजेन्द्र यत्त्वं मामनुपृच्छसि॥३॥

दिवि देवा महीपाल क्रीडार्थमवनिं गताः ।
कृत्वा कार्यमिदं चैव ततश्च दिवमागताः॥४॥

दिवीति देवाः स्वर्गादित्यत्र क्रीडित्वा दिवं गता इति मुनिराहेति योज्यम्॥४॥

हन्त यत्ते प्रवक्ष्यामि तच्छृणुष्व समाहितः ।
ऋषीणां देवतानां च सम्भवं वसुधातले॥५॥

एतदेव विवृणोति- हन्तेति॥५॥

अत्र रुद्रास्तथा साध्या विश्वेदेवाश्च शाश्वताः ।
आदित्याश्चाश्विनौ देवौ लोकपाला महर्षयः॥६॥

गुह्यकाश्च सगन्धर्वा नागा विद्याधरास्तथा ।
सिद्धा धर्मः स्वयम्भूश्च मुनिः कात्यायनो वरः॥७॥

गिरयः सागरा नद्यस्तथैवाप्सरसां गणाः ।
ग्रहाः संवत्सराश्चैव अयनान्यृतवस्तथा॥८॥

स्थावरं जङ्गमं चैव जगत्सर्वं सुरासुरम् ।
भारते भरतश्रेष्ठ एकस्थमिह दृश्यते॥९॥

तेषां श्रुतिप्रतिष्ठानां नामकर्मानुकीर्तनात् ।
कृत्वापि पातकं घोरं साद्यो मुच्येत मानवः॥१०॥

तेषामिति। यतोऽत्र महता यत्नेन एतच्छ्रवणात् पापनाशो भवतीत्यर्थः॥१०॥

इतिहासमिमं श्रुत्वा यथावदनुपूर्वशः ।
संयतात्मा शुचिर्भूत्वा पारं गत्वा च भारते॥११॥

तेषां शृणु त्वं श्राद्धानि श्रुत्वा भारत भारतम् ।
ब्राह्मणेभ्यो यथाशक्त्या भक्त्या च भरतर्षभ॥१२॥

तेषां भारतयुद्धे मृतानां भीष्मादीनाम्॥१२॥

महादानानि देयानि रत्नानि विविधानि च ।
गावाः कांस्योपदोहाश्च कन्याश्चैव स्वलङ्कृताः॥१३॥

सर्वकामगुणोपेता यानानि विविधानि च ।
भाजनानि विचित्राणि भूमिर्वासांसि काञ्चनम्॥१४॥

वाहनानि च देयानि हया मत्ताश्च वारणाः ।
शयनं शिबिकाश्चैव स्यन्दनाश्च स्वलङ्कृताः॥१५॥

यद्यद्गृहे वरं किञ्चिद्यद्यदस्ति महद्वसु ।
तत्तद्देयं द्विजातिभ्य आत्मा दाराश्च सूनवः॥१६॥

श्रद्धया परया दत्तं क्रमशस्तस्य पारगः ।
शक्तितः सुमना हृष्टः शुश्रूषुरविकम्पनः॥१७॥

सत्यार्जवरतो यत्तः शुचिः शौचपरायणः ।
श्रद्दधानो जितक्रोधो यथा सिद्ध्यति तच्छृणु॥१८॥

शुचिः शीलान्विताचारः शुक्लवासा जितेन्द्रियः ।
संस्कृतः सर्वशास्त्रज्ञः श्रद्दधानोऽनसूयकः॥१९॥

रूपवान्सुभगो दान्तः सत्यवादी जितेन्द्रियः ।
दानमानग्रहीता च कार्यो भवति वाचकः॥२०॥

अविलम्बमनायस्तमद्रुतं धीरमूर्जितम् ।
असंसक्ताक्षरपदं न च भावसमन्वितम्॥२१॥

अनायस्तमकर्कशाक्षरम्, ऊर्जितं स्पष्टाक्षरम्, असंसक्तम् अग्रस्तम् अक्षरं पदं च यस्मिन् तत्तथा न च भावेन लोभाद्यभिप्रायेण समन्वितं च॥२१॥

त्रिषष्टिवर्णसंयुक्तमष्टस्थानसमीरितम् ।
वाचयेद्वाचकः स्वस्थः स्वाधीनः सुसमाहितः॥२२॥

त्रिषष्टीत्यनेन चकारवकारशसयजादिवर्णानां विवेकेन उच्चारणं कर्तव्यमित्यर्थः। तदेवाह- स्थानेति। उरःशिरआदिस्थानेषु समन्वितं बवयोरभैदपक्षे हि स्थानभेदाभावान्न षष्टिवर्णता भवतीत्यर्थः॥२२॥

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥२३॥

वाचकस्य विधिमाह- नारायणमिति॥२३॥

ईदृशाद्वाचकाद्राजञ्च्छ्रुत्वा भारत भारतम् ।
नियमस्थः शुचिः श्रोता शृण्वन्स फलमश्नुते॥२४॥

पारणं प्रथमं प्राप्य द्विजान्कामैश्च तर्पयेत् ।
अग्निष्टोमस्य यागस्य फलं वै लभते नरः॥२५॥

प्रथमं पारणम हरिवंशान्तं नियतमपूर्वकं श्रवणम्॥२५॥

अप्सरोगणसङ्कीर्णं विमानं लभते महत् ।
प्रहृष्तः सतु देवैश्च दिवं याति समाहितः॥२६॥

द्वितीयं पारणं प्राप्य अतिरात्रफलं लभेत् ।
सर्वरत्नमयं दिव्यं विमानमधिरोहति॥२७॥

दिव्यमाल्याभरधरो दिव्यगन्धविभूषितः ।
दिव्याङ्गदधरो नित्यं देवलोके महीयते॥२८॥

तृतीयं पारणं प्राप्य द्वादशाहफलं लभेत् ।
वसत्यमरसङ्काशो वर्षाण्ययुतशो दिवि॥२९॥

चतुर्थं वाजपेयस्य पञ्चमे द्विगुणं फलम् ।
उदितादित्यसङ्काशं ज्वलन्तममलोपमम्॥३०॥

पञ्चमे द्विगुणं वाजिमेधद्वयफलम्॥३०॥

विमानं विबुधैः सार्धमारुह्य दिवि गच्छति ।
वर्षायुताभिभवने शक्रस्य दिवि मोदते॥३१॥

षष्ठे द्विगुणमस्तीति सप्तमे त्रिगुणं फलम् ।
कैलासशिखराकारं वैदूर्यमणिवेदिकम्॥३२॥

षष्ठे द्विगुणं वाजिमेधचतुष्टयफलम्। सप्तमे त्रिगुणं द्वादशवाजिमेधफलम्॥३२॥

परिक्षिप्तं च बहुधा मणिविद्रुमभूषितम् ।
विमानं समधिष्ठाय कामगं साप्सरोगणम्॥३३॥

सर्वाँल्लोकान्विचरते द्वितीय इव भास्करः ।
अष्टमे राजसूयस्य पारणे लभते फलम्॥३४॥

अष्टमे राजसूयस्य फलं तेन चतुर्विंशतिवाजिमेधतुल्यो राजसूय इति गम्यते॥३४॥

चन्द्रोदयनिभं रम्यं विमानमधिरोहति ।
चन्द्ररश्मिप्रतीकाशैर्हयैर्युक्तं मनोजवैः॥३५॥

क्रतुराजस्येत्यनेन सोपानस्य वाजिमेधस्य फलं तेन केवलानां राजसूयानामष्टचत्वारिंशतातुल्यः सोपानो राजसूय इति गम्यते॥३५॥

सेव्यमनो वरस्त्रीणां चन्द्रकान्ततरैर्मुखैः ।
मेखलानां निनादेन नूपुराणां च निःस्वनैः॥३६॥

अङ्के परमनारीणां सुखं सुप्तो विबुध्यते ।
नवमं क्रतुराजस्य वाजिमेधस्य भारत॥३७॥

काञ्चनस्तम्भनिर्व्यूहं वैदूर्यकृतवेदिकम् ।
जाम्बूनदमयैर्दिव्यैर्गवाक्षैः सर्वतो वृतम्॥३८॥

सेवितं चाप्सरःसङ्घैर्गन्धर्वैर्दिविचारिभिः ।
विमानं समधिष्ठाय श्रिया परमया ज्वलन्॥३९॥

दिव्यमाल्याम्बरधरो दिव्यचन्दनभूषितः ।
मोदते दैवतैः सार्धं दिवि देव इवापरः॥४०॥

दशमं पारणं प्राप्य द्विजातीनभिवन्द्य च ।
किङ्किणीजालनिर्घोषं पताकाध्वजशोभितम्॥४१॥

दशमे तु पारणे ततोऽपि द्विगुणं विष्णुसालोक्यं क्रममुक्तिप्रापकं प्राप्नोतीत्याह- दशमं पारणमित्यादिना विष्णोर्याति सलोकतामित्यन्तेन॥४१॥

रत्नवेदिकसङ्काशं वैदूर्यमणितोरणम् ।
हेमजालपरिक्षिप्तं प्रवालवलभीमुखम्॥४२॥

गन्धर्वैर्गीतकुशलैरप्सरोभिर्निषेवितम् ।
विमानं सुकृतावासं सुखेनैवोपपद्यते॥४३॥

मुकुटेनार्कवर्णेन जाम्बूनदविभूषणः ।
दिव्यचन्दनदिग्धाङ्गो दिव्यमाल्यविभूषितः॥४४॥

दिव्याँल्लोकान्प्रचरति दिव्यैर्भोगैः समन्वितः ।
विबुधानां प्रसादेन श्रिया परमया युतः॥४५॥

अथ वर्षगणानेवं स्वर्गलोके महीयते ।
ततो गन्धर्वसहितः सहस्राण्येकविंशतिः॥४६॥

पुरन्दरपुरे रम्ये शक्रेण सह मोदते ।
दिव्ययानविमानेषु लोकेषु विविधेषु च॥४७॥

दिव्यनारीगणाकीर्णो निवसत्यमरो यथा ।
ततः सूर्यस्य भवने चन्द्रस्य भवने तथा॥४८॥

शिवस्य भवने राजन्विष्णोर्याति सलोकताम् ।
एवमेतन्महाराज नात्र कार्या विचारण॥४९॥

श्रद्दधानेन वै भाव्यमेवमाह गुरुर्मम ।
वाचकस्य तु दातव्यं मानसा यद्यदिच्छति॥५०॥

अत्र विष्णुसालोक्यं प्राप्तस्य न पुनः संसारबन्धोऽस्तीति भावः। श्रवणमात्रस्यैतत्फलम्। अर्थावधारणपूर्वकमनुष्ठानवतस्तु- “भारताध्ययनात्पुण्यादपि पादमधीयतः। श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः॥” इति प्रागेव फलमुक्तम्। सर्वपापानि प्रारब्धफलभोगपातकेभ्योऽन्यानि॥५०॥

हस्त्यश्वरथयानादि वाहनं च विषेशतः ।
कटके कुण्डले चैव ब्रह्मसूत्रं तथापरम्॥५१॥

वस्त्रं चैव विचित्रं च गन्धं चैव विषेशतः ।
देववत्पूजयेत्तं तु विष्णुलोकमवाप्नुयात्॥५२॥

अतः परं प्रवक्ष्यामि यानि देयानि भारते ।
वाचमानेऽथ विप्रेभ्यो राजन्पर्वणि पर्वणि॥५३॥

जातिं देशं च सत्यं च माहात्म्यं भरतर्षभ ।
धर्मवृत्तिं च विज्ञाय क्षत्रियाणां नराधिप॥५४॥

स्वस्ति वाच्यं द्विजानादौ ततः कार्यं प्रवर्तयेत् ।
समाप्ते पर्वणि ततः स्वशक्त्या तर्पयेद्द्विजान्॥५५॥

आदौ तु वाचकं चैव वस्त्रगन्धसमन्वितम् ।
विधिवद्भोजयेद्राजन्मधुपायससंयुतम्॥५६॥

ततो मूलफलप्रायं पायसं मधुसर्पिषा ।
आस्तिके भोजयेद्राजन्दद्याच्चैव गुडौदनम्॥५७॥

पूपैः “मालपुवा” इति मध्यप्रदेशप्रसिद्धैः अपूपैस्तत्सदृशैः सच्छिद्रपक्वान्नैः॥५७॥

अपूपैश्चैव पूपैश्च मोदकैश्च समन्वितम् ।
सभापर्वणि राजेन्द्र हविष्यं भोजयेद्द्विजान्॥५८॥

आरण्यके मूलफलैस्तर्पयेच्च द्विजोत्तमान् ।
अरणीपर्व आसाद्य जलकुम्भान् प्रदापयेत्॥५९॥

तर्पणानि च मुख्यानि वन्यमूलफलानि च ।
सर्वकामगुणोपेतं विप्रेभ्योन्नं प्रदापयेत्॥६०॥

विराटपर्वणि तथा वासांसि विविधानि च ।
उद्योगे भरतश्रेष्ठ सर्वकामगुणान्वितम्॥६१॥

भोजनं भोजयेद्विप्रान् गन्धमाल्यैरलङ्कृतान् ।
भीष्मपर्वणि राजेन्द्र दत्त्वा यानमनुत्तमम् ।
ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम्॥६२॥

द्रोणपर्वणि विप्रेभ्यो भोजनं परमार्चितम् ।
शराश्च देया राजेन्द्र चापान्यसिवरास्तथा॥६३॥

कर्णपर्वण्यपि तथा भोजनं सार्वकामिकम् ।
विप्रेभ्यः संस्कृतं सम्यग्दद्यात्संयतमानसः॥६४॥

शल्यपर्वणि राजेन्द्र मोदकैः सगुडौदनैः ।
अपूपैस्तर्पयेच्चैव सर्वमन्नं प्रदापयेत्॥६५॥

गदापर्वण्यपि तथा मुद्गमिश्रं प्रदापयेत् ।
स्त्रीपर्वणि तथा रत्नैस्तर्पयेत्तु द्विजोत्तमान्॥६६॥

घृतौदनं पुरस्ताच्च ऐषिके दापयेत्पुनः ।
ततः सर्वगुणोपेतमन्नं दद्यात्सुसंस्कृतम्॥६७॥

शान्तिपर्वण्यपि गते हविष्यं भोजयेद्द्विजान् ।
आश्वमेधिकमासाद्य भोजनं सार्वकामिकम्॥६८॥

तथाश्रमनिवासे तु हविष्यं भोजयेद्द्विजान् ।
मौसले सार्वगुणिकं गन्धमाल्यानुलेपनम्॥६९॥

महाप्रस्थानिके तद्वत्सर्वकामगुणान्वितम् ।
स्वर्गपर्वण्यपि तथा हविष्यं भोजयेद्द्विजान्॥७०॥

हरिवंशसमाप्तौ तु सहस्रं भोजयेद्द्विजान् ।
गामेकां निष्कसंयुक्तां ब्राह्मणाय निवेदयेत्॥७१॥

तदर्धेनापि दातव्या दरिद्रेणापि पार्थीव ।
प्रतिपर्वसमाप्तौ तु पुस्तकं वै विचक्षणः॥७२॥

सुवर्णेन च संयुक्तं वाचकाय निवेदयेत् ।
हरिवंशे पर्वणि च पायसं तत्र भोजयेत्॥७३॥

श्लोकं वा श्लोकपादं वा अक्षरं वा नृपात्मज ।
शृणुयादेकवित्तस्तु स विष्णुदयितो भवेत्॥७४॥

व्यासं चैव सपत्नीकं पूजयेच्च यथाविधि ।
लक्ष्मीनारायणं देवं पूजितं तच्च पूजयेत्॥७५॥

वाचकं पूजयेद्यस्तु भूमिवस्त्रसुधेनुभिः ।
विष्णुः सम्पूजितस्तेन स साक्षाद्देवकीसुतः॥७६॥

पारणे पारणे राजन्यथावद्भरतर्षभ ।
समाप्य सर्वाः प्रयतः संहिताः शास्त्रकोविदः॥७७॥

शुभे देशे निवेश्याथ क्षौमवस्त्राभिसंवृतः ।
शुक्लाम्बरधरः श्रीमाञ्छुचिर्भुत्वा स्वलङ्कृतः॥७८॥

अर्चयेत्तं यथान्यायं गन्धमाल्यैः पृथक् पृथक् ।
संहितापुस्तकान्राजन्प्रयतः शिष्टसंमतः॥७९॥

भक्ष्यैर्मांसैश्च पेयैश्च कामैश्च विविधैः शुभैः ।
हिरण्यं गां च वस्त्रं च दक्षिणामथ दापयेत्॥८०॥

सर्वत्र त्रिपलं स्वर्णं दातव्यं प्रणतात्मना ।
तदर्धं पादशेषं वा वित्तशाठ्यविवर्जितम्॥८१॥

तदर्धमिति। “प्रभुः प्रथमकल्पस्य यो नु कल्पेन वर्तयेत्। स नाप्नोति फलं तस्य” इति वाचनात् सर्वथा पादोनपलात् न्यूनं न देयमित्यर्थः। पादः त्रिपलचतुर्थो भागः स एव शेषोऽन्तिमः। पक्षे यत्र तत्पादशेषः॥८१॥

यद्यदेवात्मनोऽभीष्टं तत्तद्देयं द्विजातये ।
सर्वथा तोषयेद्भक्त्या वाचकं गुरुमात्मनः ।
देवताः कीर्तयेत्सर्वा नरनारायणौ तथा॥८२॥

ततो गन्धैश्च माल्यैश्च स्वलङ्कृतद्विजोत्तमान् ।
तर्पयेद्विविधैः कामैर्दानैश्चोच्चावचैस्तथा॥८३॥

अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः ।
प्राप्नुयाच्च क्रतुफलं तथा पर्वणि पर्वणि॥८४॥

वाचको भरतश्रेष्ठ व्यक्ताक्षरपदस्वरः ।
भविष्यं श्रावयेद्विप्रान्भारतं भरतर्षभ॥८५॥

भुक्तवत्सु द्विजेन्द्रेषु यथावत्सम्प्रदापयेत् ।
वाचकं भरतश्रेष्ठ भोजयित्वा स्वलङ्कृतम्॥८६॥

वाचके परितुष्टे तु शुभा प्रीतिरनुत्तमा ।
ब्राह्मणेषु च तुष्टेषु प्रसन्नाः सर्वदेवताः॥८७॥

ततो हि भरणं कार्यं द्विजानां भरतर्षभ ।
सर्वकामैर्यथान्यायं सादुभिश्च यथाक्रमम्॥८८॥

इत्येष विधिरुद्दिष्टो मया ते द्विपदां वर ।
श्रद्दधानेन वै भाव्यं यन्मां त्वं परिपृच्छसि॥८९॥

अतिरात्रस्येति। पारणाभावेऽपि बोद्धव्यम्। अत्यल्पपर्वश्रवणे क्षुद्रक्रतुफलम्॥८९॥

भारतश्रवणे राजन्पारणे च नृपोत्तम ।
सदा यत्नवता भाव्यं श्रेयस्तु परमिच्छता॥९०॥

यत्नवता ब्रह्मचर्यादिनियमवता॥९०॥

भारतं शृणुयान्नित्यं भारतं परिकीर्तयेत् ।
भारतं भवने यस्य तस्य हस्तगतो जयः॥९१॥

भारतं भवने पुस्तकरूपम्॥९१॥

भरतं परमं पुण्यं भारते विविधाः कथाः ।
भारतं सेव्यते देवैर्भारतं परिकीर्तयेत्॥९२॥

भारतं सर्वशास्त्राणामुत्तमं भरतर्षभ ।
भारतात्प्राप्यते मोक्षस्तत्त्वमेतद्ब्रवीमि ते॥९३॥

महाभारतमाख्यानं क्षितिं गां च सरस्वतीम् ।
ब्राह्मणं केशवं चापि कीर्तयन्नावसीदति॥९४॥

वेदे रामायणे पुण्ये भारते भरतर्षभ ।
आदौ चान्ते च मध्ये च हरिः सर्वत्र गीयते॥९५॥

यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः ।
तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता॥९६॥

एतत्पवित्रं परममेतद्धर्मनिदर्शनम् ।
एतत्सर्वगुणोपेतं श्रोतव्यं भूतिमिच्छता॥९७॥

क्रियतेऽसारसंसारे वाञ्छितस्यैव कारणम् ।
हरिवंशस्य श्रवणमिति द्वैपयनोऽब्रवीत्॥९८॥

विनापि भारतं केवलो हरिवंश एव श्रोतव्य इत्याशयेनाह- क्रियते इति। क्रियते शिष्टैरिति शेषः। असारेतिच्छेदः। वाञ्छितस्यैव कारणम् इष्टप्रदम्॥९८॥

अश्वमेधसहस्रेण वाजपेयशतैस्तथा ।
यत्फलं प्राप्यते पुम्भिस्तद्धरेर्वंशपारणात्॥९९॥

अजरममरमेकं ध्येयमाद्यन्तशून्यं सगुणमगुणमाद्यं स्थूलमत्यन्तसूक्ष्मम् ।
निरुपममनुमेयं योगिनां ज्ञानगम्यं त्रिभुवनगुरुमीशं त्वां प्रपन्नोऽस्मि विष्णो॥१००॥

भारतप्रतिपाद्यं देवतां प्रणमति- अजरमिति॥१००॥

सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ।
सर्वेषां वाञ्छिता अर्था भवन्त्वस्य च पारणात्॥१०१॥

भारतसमाप्तौ, “शं नो मित्रः शं वरुणः” इत्यादिवत् शान्तिं पठति। सर्वस्तरत्विति॥१०१॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि सर्वपर्वानुकीर्तने श्रवणफलकथने द्वात्रिंशदधिकशततमोऽध्यायः॥१३२॥
त्रिपुरवधवृत्तान्तः

जनमेजय उवाच। त्र्यक्षाद्वधमहं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ।
त्रयाणां पुरसंज्ञानां खेचराणां समासतः॥१॥

त्र्यक्षादिति। प्रश्नस्योत्थानमपि न सम्भवति भारतभावसमापनेन ज्ञातव्यानशेषात्। पूर्वमुक्तमपि दार्ढ्याय पुनः पृच्छतीत्युत्तरमिह न साधु अतिप्रसङ्गात्। इतरेषामपि अर्थानां प्रष्टव्यत्वापत्तेः। शिवोत्कर्षज्ञापनार्थमित्यपि न हरिहराद्वैतस्य भूयसा प्रबन्धेन साधितत्वात्। वक्तृविवक्षामात्रमित्यपि न निष्प्रयोजनाया महतां विवक्षाया असम्भवात्। अथ “कृत्स्नभावात्तु गृहिणोपसंहारः” इति न्यायेन छान्दोग्ये यथा, “कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः” इत्यादिना, “न च पुनरावर्तते” इत्यन्तेन भोगमोक्षोभयोपभोगतया गार्हस्थ्यायत्तत्वेनोपसंहारो दर्शितः; न तु मोक्षमात्रोपयोगिना भोगविरोधिनाऽऽश्रमान्तरेणैव, तद्वत् इहापि, “यस्यानुग्रहमिच्छामि तस्य वित्तं हराम्यहम्” इति वदता विष्णोरुपास्तिर्भोगविरोधिनी मोक्षैकफलानां समाप्त्या रुद्रोपास्त्या उभयफलया उपसंहारः। तेन संन्यासगार्हस्थ्ययोरिव हरिहरोपास्त्योरवान्तरफलभेदो ज्ञेय इति मतम्। तदपि नातीव रमणीयम्। एकैकोपास्तेः प्रत्येकं कार्त्स्न्येन फलप्रदत्वस्य सर्वशास्त्रसिद्धत्वात् विकल्पो विशिष्टफलत्वादित्यवशिष्टफलत्वेनोपासनानां विकल्पाभिधानाच्च। तस्मादन्यदिह प्रश्नकारणं वक्तव्यम्। तच्च ससाधनां ब्रह्मविद्यां समाप्यान्ते उक्तम्- “यत्र विष्णुकथा दिव्याः श्रुतयश्च सनातनाः। तच्छ्रोतव्यं मनुष्येण परं पदमिहेच्छता॥” इति विष्णुकथानां श्रुतीनां च श्रवणमात्रात्परमपदप्राप्तिरुक्ता। तत्रासम्भावनावान्पृच्छतीति। त्र्यक्षात् त्रीणि श्रवणमनननिदिध्यासनानि अक्षवदिन्द्रियवत् दर्शनसाधनानि यस्य स त्र्यक्षः विद्वान् श्रवणादिसमुदायवान् त्र्यक्षः तस्मात् त्रयाणां स्थूलसूक्ष्मकारणदेहानां वधः समूलोच्छेदः कथं स्यात्? मनननिदिध्यासनाभ्यां फलोपकार्याङ्गाभ्यां सहिताद्वेदान्तमहावाक्यश्रवणात्कथं संसारस्यात्यन्तोच्छेदः स्यात्? न हि ज्ञानमात्रात्कस्य चिदर्थस्य उच्छेद इष्ट इति भावः॥१॥

वैशम्पायन उवाच। शृणु विस्तरतः सर्वं यन्मां पृच्छसि नैधनम् ।
दैत्यानां बाहुबलिनां सर्वप्राणिविरोधिनाम्॥२॥

“द्वयाह प्राजापत्या देवाश्चासुराश्च तत्र कानीयसा एव देवा ज्यायांसोऽसुराः” इत्यादिना बृहदारण्यकोक्तरीत्याऽध्यात्मविद्यायामत्र शमादयो देवाः कामक्रोधादयोऽसुरा इत्यभिप्रेत्य समाधत्ते- शृण्वति। दैत्यानां कामादीनां नैधनं निरन्वयोच्छेदविधिम्॥२॥

शङ्करेण वधं राजन्शूलैस्त्रिभिरजिह्मगैः ।
कृतं पुरासुरेन्द्राणां सर्वभूतवधैषिणाम्॥३॥

शङ्करेण परामानन्दं प्रपित्सुना बाधनं त्रिभिः शूलैः श्रवणादिभिः साधनैः कृतम् असुरेन्द्राणां वधं शुण्वित्यनुषज्यते॥३॥

त्रिपुरं पुरुषव्याघ्रं बृहद्धातुसमीरितम् ।
विक्रामति नभोमध्ये मेघवृन्दमिवोत्थितम्॥४॥

त्रिपुरं पुरत्रयं जाग्रत्स्वप्नसुषुप्त्याभिमानिभिर्विश्वतेजसप्राज्ञैर्भोग्यं बहुभिर्धातुनिर्मायाकार्यैर्गुणैः समीरितम्। पाठान्तरे बृहद्धातुर्मुख्यप्राणस्तेन समीरितं नमसि स्वे कारणे आकाशे घनपटलामिवाकस्मादुत्थितम्॥४॥

प्राकारेण प्रवृद्धेन काञ्चानेन विराजता ।
मणिभिश्च प्रकाशद्भिः सर्वरत्नैश्च तोरणैः॥५॥

प्रकारणे अन्नमयपिण्डेन काञ्चनेन भोगमोक्षोपयोगितयाः रमणीयेन मणिभिः इन्द्रियैरित्यादि यथायथं नगरसाम्यमूह्यं पिण्डस्य॥५॥

बभासे नभसो मध्ये श्रिया परमया ज्वलन् ।
गन्धर्वाणामिवोदग्रं कर्मणा साधितं परम्॥६॥

कर्मणा यज्ञादिना। गन्धर्वाणां पुरभिवेति मिथ्यात्वे दृष्टान्तः॥६॥

वाजिनः यक्षसंयुक्ता वहन्ति बलदर्पिताः ।
पुरं प्रभाकरश्रेष्ठं मनोभिः कामबृंहणैः॥७॥

वाजिनः इन्द्रियाश्वाः मनोवृत्तिभिः प्रवर्तिकाभिः पुरं देहं वहन्ति श्रेष्ठं स्थानं प्रापयन्ति॥७॥

धावन्ति ह्रेषमाणास्ते विक्रमैः प्राणसम्भृतैः ।
आहूयन्त इवाकाशं खुरैः श्यामदलप्रभैः॥८॥

विक्रमैः उत्तरोत्तरवासनावृद्ध्या परात्परं धावन्तः कामबृंहणैस्तृष्णायाः पोषकैर्वाजिभिः। प्राणसम्भृतैरिति पाठे मुख्यप्राणेन सम्यक् चालितः॥८॥

वायुवेगसमैर्वेगैः कालयन्त इवाम्बरम् ।
असुराः समदृश्यन्त चक्षुर्भिर्विदितात्मभिः॥९॥

चतुर्भिदर्शनसाधनैः दृश्यप्रकाशेन लिङ्गेनेत्यर्थः। विदितात्मभिः अनुमानेन आज्ञातैः वेगैर्वेगवद्भिस्तैर्वाजिभिरसुरा अम्बरं कारणं ब्रह्म कालयन्त इव अपलायने ग्रसन्त इव समदृश्यन्त। असुराः कामादयः॥९॥

ऋषिभिर्ज्वलनप्रख्यैस्तपसा दग्धकिल्बिषैः ।
गीतवादित्रबहुलं गन्धर्वनगरोपमम्॥१०॥

ऋषिभिरिति। अदग्धकिल्बिषैः अविनाशितदुष्प्रचौरर्वाजिभिरेव उपेतं गन्धर्वनगरोपमं पुरं तत् शुशुभे इत्युत्तरेणान्वयः॥१०॥

चित्रायुधसमाकीर्णैः प्रतप्तकनकप्रभैः ।
भवनैर्बहुभिश्चैव प्रांशुभिः समलङ्कृतैः॥११॥

भवनैश्चित्तप्रवेशस्थानैः स्त्र्यादिभिः आयुधानि कामोद्दीपनानि स्रगादीनि कटाक्षादीनि वा तैः समाकीर्णैः॥११॥

देवेन्द्रभवनाकारैः शुशुभे तन्महाद्युति ।
प्रासादाग्रैः प्रवृद्धैश्च कैलासशिखरप्रभैः॥१२॥

देवेन्द्रभवनाकारैः साक्षात्स्वर्गरूपैरित्यर्थः। प्रासादाग्रैः गृहोपरिगृहैः, तद्वदत्र संसारपुरोपरि मनोरथपुरम्। बहुत्वम् आनन्त्यात्तेषाम्॥१२॥

शुशुभे दैत्यनगरं बहुसूर्यमिवाम्बरम् ।
वराट्टालकसम्पन्नं तप्तकाञ्चनसप्रभम्॥१३॥

प्रदीप्तमिव तेजोभी रराजाथ महाप्रभो ।
क्ष्वेडितोत्कृष्टबहुलं सिंहनादविनादितम्॥१४॥

बभौ वल्गुजनाकीर्णं वनं चैत्ररथं तथा ।
समुच्छ्रितपताकं तदसिभिश्च विराजितम्॥१५॥

रराज त्रिपुरं राजन्महाविद्युदिवाम्बरे ।
सूर्यनाभश्च दैत्येन्द्रश्चन्द्रनाभश्च भारत॥१६॥

अक्षिभ्यां चक्षुश्चक्षुष आदित्यः हृदयान्मनो मनसश्चन्द्रमाः इति ताभ्यां सूर्यो नाभौ यस्येति व्युत्पत्त्या सूर्यजनकं चक्षुः। चक्षुः सूर्यनाभ एव, चन्द्रनाभो मनः। तावुभौ पुराध्यक्षौ तदनुगाश्च सर्वे कामादय इति। तावेवं दैत्येन्द्रौ अन्ये च मदमत्सरादयो दानवाः॥१६॥

तथान्ये च महावीर्या दानवा बलदर्पिताः ।
ममृदुश्च बभञ्जुश्च मोहिताः परमेष्ठिना॥१७॥

ते सर्वे देवयानपितृयानमार्गप्रापकौ कर्मोपासनामार्गौ विनाशितवन्त इत्यर्थः॥१७॥

पन्थानं देवगमनं पितृयानं च भारत ।
तैरेवमसुराग्रैश्च प्रगृहीतशरासनैः॥१८॥

प्रगृहीतशरासनैः स्वकृतद्यूतपानादिव्यसनैः॥१८॥

दानवैर्नरशार्दूल देवयाने महापथे ।
पितृवह्निबलोपेते हृते भरतसत्तम॥१९॥

वह्निबलोपेते देवयाने पितृबलोपेते पितृयाने चापहृते श्रद्धादिराहित्येन सर्वस्मिन्कर्मणि रक्षोभिरपहृते सतीत्यर्थः॥१९॥

ब्रह्माणमभ्यधावन्त सर्वे सुरगणास्तथा ।
विवर्णवदना दीनाश्छिन्नेव गतिकर्मणि॥२०॥

ब्रह्माणम् ईश्वरं दीनाः मार्गद्वयभ्रष्टत्वादत्यन्तं शोकाकुलाः॥२०॥

अब्रुवंश्च गताः स्थित्वा स्वरेणार्तनिनादिना ।
हन्यामहे शत्रुगणैर्भागोच्छेदेन भागद॥२१॥

हन्यामहे हताः स्मः, भागोच्छेदेन पुण्यलोकप्राप्त्यभावेन॥२१॥

तेषां चैव वधोपायं वदस्व वदतां वर ।
ये ज्ञात्वा बाहुबलिनो बाधेम समरे परान्॥२२॥

सान्त्वयित्वा तु वरदो ब्रह्मा प्रोवाच देवताः ।
शृणुध्वं देवताः सर्वाः शत्रुप्रतिकृतिं पराम्॥२३॥

शत्रुप्रतिकृतिं प्रतीकारं, परां शत्रूणां निरन्वयोच्छेदकराम्॥२३॥

अवध्या दानवाः सर्वे ऋते शङ्करमव्ययम् ।
प्रतिगृह्य च तद्वाक्यं मनोभिर्वाग्भिरेव च॥२४॥

ऋते शङ्करं सुखकरं बोधं विना कामादानां निरन्वयोच्छेदो न भवति। अव्ययमिति। तद्धेतोर्मूलाज्ञानस्यैवोच्छेदात्॥२४॥

भूमौ प्रपेदिरे सर्वे सह रुद्रैश्च भारत ।
विन्ध्यपादे च मेरौ च मध्ये च पृथिवातले॥२५॥

तेन पुनरपि कारणकर्मभूमौ उग्रेण तपसा प्राणैः सह शङ्करं शरणं गता इत्याह- भूमाविति द्वाभ्याम्। तपश्चान्द्रायणादि वानप्रस्थधर्मः। योगो निष्कामकर्मानुष्ठानं गृहस्थधर्मः। जपो वेदाभ्यासो ब्रह्मचारिधर्मः। ब्रह्मसंहितां प्रणवम् इति उभयोः सम्बन्धः॥२५॥

तपसोग्रेण योगज्ञाः सर्वे ते मुनयोऽभवन् ।
काश्यपेयं हरं प्राप्ता जपन्तो ब्रह्मसंहिताम्॥२६॥

येशां च परदाराणामभवद्वन्ध्यता जने ।
विन्यस्तधर्भनिचये ताम्रलोहं च भूषणम्॥२७॥

तेषां तपोयोगजैश्वर्यं प्रार्थयमानानां सम्बन्धिनः परदाराः कामादिपरिग्रहास्तृष्णादयः तासां जने वन्ध्यता निष्फलता वैराग्यहेतुरभूत्। ततस्ते तृष्णादयोऽत्यन्तं दुर्बला अभूवन्निति रूपकेणाह- विन्यस्तेति। दर्भनिचये तृणमये कटे शेरते इत्यर्थः॥२७॥

परिधानानि चर्माणि मृदूनि च शुभानि च ।
स्वयं मृतानां कृष्णानां मृगाणां कुरुसत्तम॥२८॥

शुभानि व्याघ्राजिनादीनि॥२८॥

गृहीतानि विमुक्तानि देहेभ्यो वनचारिणाम् ।
अन्तरिक्षमथोपेत्य विविशुर्मायया वृताः॥२९॥

वनचारिणां मृगाणं देहेभ्यो गृहीतानि विमुक्तानि परिहितानि। त एवं कामादयोऽत्यन्तदारिद्र्यग्रस्ताः इतः अदर्शनं गता इत्याह- अन्तरिक्षमिति। इत उत्पन्ना अपि योगपरिपाककाले बाधितुम् अन्तरिक्षे हृदयाकाशे सूक्ष्मवासनारूपेण निलीना इत्यर्थः॥२९॥

हरालयं सुराः सर्वे व्याघ्रचर्मनिवासिनः ।
प्रणिपत्याथ ते दीना भगवन्तं जगत्पतिम्॥३०॥

योगजये क्षीणासु भोगवासनासु उपासनायाम् अधिकारिणः संसारादुद्विग्नाः सन्तः प्रवर्तन्त इत्याह- हरालयामिति। हरति संसारमिति हरो निर्गुणं ब्रह्म तस्यालयं तदुपलब्धिस्थानं हार्दाकाशाख्यं सगुणं ब्रह्म तदुपासितुं जग्मुः सुराः शान्त्यादयः विशेषेण आघ्राति विषयान् आस्वादयतीति व्याघ्रो भोक्ता तस्य चर्मवदावरकं देहं वासना इत्यर्थः। भगवन्तम् ईश्वरं प्रणिपत्य उपास्य॥३०॥

सुव्यक्तेनाभिधानेन प्रभाषन्त हरं ततः ।
हविर्दत्तमविज्ञानाद्भस्मच्छन्नेषु वह्निषु॥३१॥

हरं शुद्धं प्रभाषन्त। अडभाव आर्षः। शुद्धं ब्रह्मास्मीति परोक्षनिश्चयं कृत्वा लोकेऽपि अवदन्नित्यर्थः- हरमदृष्ट्वा भगवन्तमेव प्रार्थयन्ते। हविरिति सार्धेन। यथा भस्मच्छन्नेषु अग्निषु हावीर्निष्फलम् एवमस्मासु मलिनाचित्तेषु॥३१॥

वरदानं वृथास्मासु भगवन्विमुखे त्वयि ।
यथादेशं यथाकालं क्रियतां ब्रह्मणो वचः॥३२॥

वरदानं श्रेष्ठस्य आत्मवस्तुज्ञानस्य प्रदानं हरज्ञानं प्राप्तमपि निष्फलमतस्त्वमेवानुग्रहं कृत्वा यथा ब्रह्मणो वचो वेदवाक्यं, “यमेवैष विवृणुते तेन लभ्यः” इति तत्प्रसादफलख्यपिकं तत् यथादेशं यथाकालं कुरुष्व क्रियताम्। अस्मासु प्रसन्नो भूत्वा तत्वम् आत्मतत्त्वं प्रकाशयेति भावः॥३२॥

यदुक्तं देवदेवेन खेचराणां समीपतः ।
एवं देववचोभिश्च भावितोऽर्थस्य वैभवात्॥३३॥

खे हार्दाकाशे चरतामुपासकानां समीपे यदुक्तम्- “सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षायष्मामि मा शुचः॥” इत्यादिरूपं वचनम्। इतरदेववचोभिश्च भाविनोऽर्थस्य वैभवाच्च महादेव ईश्वरः समनह्यत् अविद्यामुच्छेत्तुं सज्जो बभूव। साधकानुग्रहं कर्तुमभिमुखोऽभूदित्यर्थः॥३३॥

समनह्यन्महादेवो देवैः सह सवासवैः ।
आदित्यपथमास्थाय सन्नद्धाः समलङ्कृताः॥३४॥

तत्रादित्यपथाख्यमुपासनामार्गमेवाह। देवैः शमादिभिः सह प्रकटीचकार इत्याह- समनह्यदिति॥३४॥

सर्वे काञ्चनवर्णाभा बभुर्दीप्ता इवाग्नयः ।
रुद्रेण सहिता रुद्रा दहन्त इव तेजसा॥३५॥

रुद्रेण ध्यातेन ईश्वरेण सहिताः रुद्रा उपासका उपासनाबलादत्यन्तमशोभन्तेत्यर्थः॥३५॥

सन्नद्धाः कुशलाः सर्वे प्रांशवः पर्वता इव ।
विश्वे विश्वेन वपुषा बलिनः कामरूपिणः॥३६॥

विश्वे विश्वेन वपुषा तपोयोगबलेन सर्वे सर्वात्मका जाता इत्यर्थः॥३६॥

समनह्यन्महात्मानो दानवान्तं विधित्सवः ।
एभिः सह धनाध्यक्षैः समन्तात्परिवारितः॥३७॥

केनोपायेन कामरूपिणोऽभवन्नित्यतः आह- समनह्यन्निति। महात्मानः वैराग्यादियुक्ता दानवानां कामादीनाम् उच्छेदं विधित्सवः एभिः साधनैः धनाध्यक्षैः श्रद्धावित्तम् अध्यक्षो मुख्यो येषु तैः शमाद्यैः परिवारितो वृतः शरणीकृतः॥३७॥

त्रिपुरं योधयत्त्र्यक्षः प्रगृह्य सशरं धनुः ।
अथ दैत्या भिन्नदेहाः पुराट्टालं गता इव॥३८॥

त्र्यक्षो विद्वान् त्रिपुरं योधयत् कोशभङ्गं कर्तुमुयुक्तः। तत्र सशरं धनुः प्रगृह्य “प्रणवो धनुः शरो ह्यात्मा” इति श्रुतेः प्रणवे चेतः संयोज्येत्यर्थः। अथ योगारम्भानन्तरं दैत्याः कामादयो भिन्नदेहाः भिन्नाः प्रविलापिनः स्थूलदेहा आश्रयभूता येषां ते तथा ध्यानबलेन स्थूलदेहाध्यासनिवृत्तौ कामाद्याः भिन्नदेहाः नष्टमूर्तयोऽभवन्। विशेषणान्तराणि कथाशोभार्थानि॥३८॥

न्यपतन्त विदेहास्ते विशीर्णा इव पर्वताः ।
अतिविद्धाः सुविद्धाश्च रणमध्यगता नृप॥३९॥

न्यपतन्दैत्यसङ्घाता वज्रेणेव हता नगाः ।
असिभिश्च हता देवैः शक्तिचक्रपरश्वधैः॥४०॥

बाणैश्च भिन्नमर्माणो दैत्येन्द्रा युद्धगोचरे ।
प्रपेतुः सहिता उर्व्यां छिन्नपक्षा इवाचलाः॥४१॥

तत्र संज्ञां विमुञ्चन्ति दीप्यमानेन तेजसा ।
एवं तेऽन्योन्यसम्बाधे क्षीयन्ते क्षयकर्मणा॥४२॥

तत्रेति। इयमत्र प्रक्रिया- “विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि” इति पातञ्जलसूत्रात् एकादशेन्द्रियाणि स्थूलभूतानि च विशेषाः, अहङ्कारः पञ्चतन्मात्राणि चाविशेषाः, महत्तत्त्वं लिङ्गमात्रम् अलिङ्गं प्रधानं, तत्र विशेषादविशेषं प्रविविक्षतो योगिनः मध्ये लयविक्षेपाख्यौ योगविघ्नौ आगच्छतः। एवमविशेषाल्लिङ्गमात्रतश्च पुरुषं च प्रविविक्षतस्तौ आगच्छत इति। तत्र योगिनो विशेषाख्यस्थूलदेहवियोगे दैनन्दिनलयाभ्यासात्प्रथमं लयोऽभ्येतीत्याह- तत्रेति। तत्र तस्याम् अवस्थायां कामादयः योगिनां बलेन निरुध्यमानाः सन्तः दुष्टाश्र वदन्तीव प्रदीप्यन्ते। ततः कषायेण जडीभूय लयं प्राप्नुवन्ति। तदिदमुक्तं- दप्यिमानेन तेजसेति। एवं कर्तुः करणेन अन्योन्यसम्बाधे सङ्कटे सति उभयेऽपि क्षीयन्ते क्षयकर्मणा अन्योन्यविरोधेन॥४२॥

नोपालभ्यन्त चक्षुर्भ्यामपि दिव्येन चक्षुषा ।
अस्तं प्राप्ते दिनकरे सुरेन्द्रास्ते निशामुखे ।
छिन्नभिन्नक्षतमुखा निपेतुर्वसुधातले॥४३॥

अत एव नोपालभ्यन्त अव्यक्तभावं गतत्वादित्यर्थः। ये हि व्यक्ताः सन्तो दुर्लक्ष्याः परमाण्वादयस्ते दिव्यचक्षुर्ग्राह्या न त्वेत इति भावः। दिनकरे बोधे निशामुखे लये च प्राप्ते सति सुरेन्द्राः शमादयोऽपि छिन्ना भिन्नरूपाः निलीना एवेत्यर्थः॥४३॥

अथ दैत्या जयं प्राप्ता निशायां निशितैः शरैः ।
विनेदुर्विपुलैर्नादैर्मेघा इव महरवाः॥४४॥

अथ सौषुप्तेन तमसा सर्वेषां नाशे सुषुप्तौ स्वरूपो विक्षेप उत्पन्न इत्याह- अथेति। तदानीमेव कामादयो लब्धवृत्तयोऽभूवन् निशायाम् अविद्यास्वरूपायां स्थिताः सन्तः शमादीनजयंश्चेत्यर्थः। शरैः सूक्ष्मैः विषयैः॥४४॥

जयप्राप्त्यासुराश्चैव तेऽन्योन्यमभिजल्पिरे ।
त्रासितास्त्रिदशाः सर्वे सङ्ग्रामजयकाङ्क्षिणः॥४५॥

अस्माभिर्बलसम्पन्नैः सह प्रासासितोमरैः ।
विरेजुश्च जयं प्राप्ता उशनोहव्यबोधिताः॥४६॥

उशनोहव्यबोधिताः इति। “बृहस्पतिर्हि शुक्रो भूत्वेन्द्रस्याभयायासुरेभ्यः क्षयायेमामविद्यामसृजत्” इति मैत्रायणीयश्रुतेः। उशनसा कल्पिताः ये वेदविरोधिनो मार्गास्तन्निषेवणादत्यन्तमलिन इत्यर्थः॥४६॥

समरे बलसम्पन्नाः सायुधा दैत्यसत्तमाः ।
सुरैश्च सहिताः सर्वै रथमास्थाय शङ्करः॥४७॥

एवं त्यक्तस्थूलदेहानामपि योगिनां सूक्ष्मदेहप्रवेशादर्वाक् लयविक्षेपाख्यं सूक्ष्मं व्याप्यमहत्तत्त्वापरपर्यायलिङ्गमात्रे अस्मितारूपं प्रपित्सूनपि लयविक्षेपबाधा भवतीति प्रपञ्चयिष्यन्सूक्ष्मं प्रति गमनं तावदाह- सुरैश्चेत्यादिना। सुरैः शमादिभिः सहायैः शङ्करो योगी रथं सूक्ष्मशरीरम् आस्थाय सम्यगधिष्ठाय॥४७॥

दर्पितान्निनदन्दैत्यान्प्रदहन्निव तेजसा ।
युगान्तकाले वितते रश्मिवानिव निर्दहन्॥४८॥

विदेहत्वदशामाह- दर्पितानिति। युगान्ताग्निर्लोकानिव कामादीन्प्रदहन्नित्यर्थः॥४८॥

सर्वभूतानि भूताग्र्यः प्रलये समुपस्थिते ।
स रथो वाजिभिः शीघ्रैरुह्यमानो मनोजवैः॥४९॥

वाजिभिर्वासनामयैः सूक्ष्मैरिन्द्रियैः॥४९॥

विबभौ नभसो मध्यं सविद्युदिव तोयदः ।
वृषभेण ध्वजाग्रेण गर्जमानेन भारत॥५०॥

वृषभेण योगजधर्मेण ध्वजाग्रेण ध्वजाग्रवदत्युच्छ्रितेन॥५०॥

भाति स्म स रथो राजन्सेन्द्रायुध इवाम्बुदः ।
ततोऽम्बरगताः सिद्धास्तुष्टुवुर्वृषभध्वजम्॥५१॥

तमेनं दर्पाक्रान्तं सुस्थितमन्यं योगिनम् आरूढभूमिस्थैर्देवादिभिः स्तूयमानं पुनर्विघ्न आविवेशेत्याह- तप इत्यादिना॥५१॥

कर्मभिः पूर्वजं पूर्वैः शुचिभिस्त्र्यम्बकं तदा ।
ऋषयश्च तपःशान्ताः सत्यव्रतपरायणाः॥५२॥

अमृतप्राशिनश्चैव सुरसङ्घास्तथैव च ।
गन्धर्वाप्सरसश्चैव गान्धर्वेण स्वरेण वै॥५३॥

प्रहृष्टवदनाः सौम्याः पैत्र्ये स्थानान्तरे नृप ।
चयाट्टालकसम्पन्ने शतघ्नीशतसङ्कुले॥५४॥

पैत्र्यं पित्रा ईश्वरेण सृष्टं स्थानान्तरं स्थूलदेहादन्यत्र सूक्ष्मदेहस्थितमिति शेषः॥५४॥

तस्मिंस्तु दैत्यनगरे सर्वभूतभयावहे ।
ततस्तु शरवर्षाणि मुमुचुर्दैत्यदानवाः॥५५॥

तस्मिन्मध्यमे॥५५॥

सुराणामरयो मध्ये तीक्ष्णाग्राणि समन्ततः ।
शतघ्नीभिश्च निघ्नन्तो भल्लैः शूलैश्च भारत॥५६॥

सुराणामुपरीति शेषः। मध्ये स्थितानां लिङ्गदेहस्थाः शुभवासनाः सर्वा योगोपसर्गभूतैः कामादिभिर्मधुमत्यां भूमौ स्थित्वा निवारिता इत्यर्थः॥५६॥

ते चक्रिरे महत्कर्म दानवा युद्धकोविदाः ।
गदाभिश्च गदां जघ्नुर्भल्लैर्भल्लांश्च चिच्छिदुः॥५७॥

अस्त्रैरस्त्राण्यबाधन्त मायां मायाभिरेव च ।
ततोऽपरे समुद्यम्य शरशक्तिपरश्वधान्॥५८॥

अशनींश्च महाघोरान्मुक्ताञ्छतसहस्रशः ।
असिभिर्मायाविहितैर्मृत्योर्विषयगोचरे॥५९॥

अशनिः अशनयः मृत्योरज्ञानसम्बन्धिनि विषयगोचरे शब्दादिपारवश्येऽवस्थिता इति सम्बन्धः॥५९॥

ते वध्यमाना विबुधाः शरवर्षैरवस्थिताः ।
गन्धर्वनगराकारः सोऽसीदत्सहरो रथः॥६०॥

एव सूक्ष्मदेहस्थस्य विक्षेपरूपं विघ्नमुक्त्वा लयरूपमपि तमाह- गन्धर्वेति। मनोमयं सूक्ष्मशरीरं ध्येयेश्वरेणापि सहितं विलीनमित्यर्थः॥६०॥

हन्यमानोऽसुरगणैः प्रासासिशरतोमरैः ।
तैश्च दैत्यप्रहरणैर्गुरुभिर्भारसाहिभिः ।
चित्रैश्च बहुभिः शस्त्रैरतिष्ठत शचीपतिः॥६१॥

शचीपतिर्योगी अतिष्टत कुण्ठितः महान्धकारमग्नत्वात्॥६१॥

ततो मध्ये दिव्यशब्दः प्रादुरासीन्महीपते ।
ऋषीणां ब्रह्मपुत्राणां महतामपि भारत॥६२॥

अस्यावस्थामन्ययोगिमुखेनानुवदति- ततो मध्य इत्यादिना श्लोकचतुष्टयेन॥६२॥

स एष शङ्करस्याग्रे रथो भूमिं प्रतिष्ठितः ।
अजेयो जय्यतां प्राप्तः सर्वलोकस्य पश्यतः॥६३॥

तस्मिन्निपतिते राजन्रथानां प्रवरे रथे ।
निपेतुः सर्वभूतानि भूतले वसुधाधिप॥६४॥

विचेलुः पर्वताग्राणि चेलुश्चैव महाद्रुमाः ।
विचुक्षुभुः समुद्राश्च न रेजुश्च दिशो दश॥६५॥

वृद्धाश्च ब्राह्मणास्तत्र जेपुश्च परमं जपम् ।
यत्तद्ब्रह्ममयं तेजः सर्वत्र विजयैषिणाम्॥६६॥

एवं विघ्नेषूत्पन्नेषु सन्तः स्वस्त्ययनानि कुर्वन्तीत्याह- वृद्धा इति। तत्फलमाह- यत्तदित्यादिना सार्धचतुष्टयेन। ब्रह्ममयं वेदप्रधानं यत् तत्तेजः सर्वभूतानां शान्त्यर्थम् आत्मना समाधाय योगबलेन वृषरूपधर्मस्वरूपमाश्रित्य रथन्तरेण साम्ना रथोत्तमम् उज्जहारेत्यन्वयः॥६६॥

शान्त्यर्थं सर्वभूतानामिह लोके परत्र च ।
समाधायात्मनाऽऽत्मानं योगप्राप्तेन हेतुना॥६७॥

इह जीवन्मुक्तिलाभार्थं परत्र विदेहमुक्तिलाभार्थमित्यर्थः। योगप्राप्तेन हेतुना बलेन॥६७॥

रथन्तरेण साम्नाथ ब्रह्मभूतेन भारत ।
तेजसा ज्वलयन्विष्णोस्त्र्यक्षस्य च महात्मनः॥६८॥

रथं लिङ्गशरीरं तरत्यनेनेति रथन्तरं प्रणवाख्यं प्रतीकं तेन साम्ना साधुना ब्रह्मभूतेन शब्दब्रह्मरूपेण। पुनः कीदृशेन। साम्ना विष्ण्वादीनां तेजसा सारभूतेन॥६८॥

सर्वेषां चैव देवानां बलिनां कामरूपिणाम् ।
ऋषीणां तपसाऽऽढ्यानां वसतां विजने वने॥६९॥

अथ विष्णुर्महायोगी सर्वतोदृश्य तत्त्वतः ।
वृषरूपं समास्थाय प्रोज्जहार रथोत्तमम्॥७०॥

किं तत्तेजो यत् रथमुज्जहारेत्यत आह- अथ विष्णुरिति। अथोपायान्तराभावनिश्चयानन्तरं सर्वतोदृश्य तत्त्वतः सर्वान् इन्द्रादीनकिञ्चित्करानवेक्ष्य धर्म एव तमसि मग्नस्य जीवस्योद्धर्तेत्यर्थः॥७०॥

समाक्रान्तं देवगणैः समग्रबलपौरुषैः ।
बलवांस्तोलयित्वा तु विषाणाभ्यां महाबलः ।
ननाद प्राणयोगेन मथ्यमान इवार्णवः॥७१॥

एतदेवाह- समाक्रान्तमिति। तं चेतोरथं देवैः शमादिभिराक्रान्तं वृषरूपी धर्मः विषाणाभ्यां हेतुभ्यां देवयानप्रयाणार्थं पितृयानप्रयाणार्थं वा तोलयित्वा तमो हृदयसकाशादुद्धृत्य ननाद गर्जति स्म प्राणयोगेन बलवत्त्वेन॥७१॥

तृतीयं वायुविषयं समाक्रम्य विषाणवान् ।
ननाद बलवान्नादं समुद्र इव पर्वणि॥७२॥

एवं लिङ्गशरीररूपामविशेषाख्यां भूमिं विजित्य लिङ्गमात्रापरपर्यायां महत्तत्त्वाख्याम् अस्मितामात्रप्रत्ययां योगभूमिं धर्मः वृष एव प्रापयतीत्याह- तृतीयमिति। वायुविषयं निरूपदेशं तत्र विषयदर्शनाभावेन शुद्धत्वं पदार्थमात्रस्याभावात्। विषाणवान् धर्मस्तामपि भूमिमेनं प्राप्य गर्जति स्मेत्यर्थः॥७२॥

ततो नादेन वित्रस्ता दैतेया युद्धदुर्मदाः ।
पुनस्ते कृतसन्नाहा युयुधुः सुमहाबलाः॥७३॥

ततो लिङ्गमात्रात् शुद्धं वस्तु प्रपित्सोरपि योगिनः पुनर्लयविक्षपौ भवत इत्याह द्वाभ्याम्- ततो नादेनेति। नादेन धर्म एष गर्जनेन। यद्यप्यत्र लयो नोक्तस्तथापि सोऽपि बोध्यः। अत एव चात्र प्रथमो लीनः सुषुप्त एवोच्यते। द्वितीयो लीनो विदेह इत्युच्यते स्थूलशरीरस्य त्यागात्। अथ तृतीयो लीनस्तु प्रकृतिलय इत्युच्यते योगिभिस्तस्मादत्रापि लयोऽस्तीति ज्ञेयम्॥७३॥

सर्वे वै बाहुबलिनः समर्थबलपौरुषाः ।
सुरसैन्यं प्रमर्दन्तः प्रगृहीतशरासनाः॥७४॥

अग्निं सन्धाय धनुषि शितं बाणं सुपत्रिणम् ।
ब्रह्मास्त्रेणाभिसंयोज्य ब्रह्मदण्डं शिवोऽव्ययः ।
मुमोच दैत्यनगरं त्रिधामात्रानुसंज्ञितम्॥७५॥

अग्निमिति। अग्निदेवतात्वादग्निं तत्त्वमस्यादि महावाक्यं धनुषि प्रणवे सन्धाय तयोरैक्यं भावयित्वा यः प्रणवार्थः स एव महावाक्यार्थः “ओमित्येतदक्षरमिदं सर्वम्” “सर्वं ह्येतद्ब्रह्म परमात्मा ब्रह्म” इति चानुसन्धायेत्यर्थः। शितं बाणं सुयन्त्रितं सूक्ष्मया बुद्ध्या सुयन्त्रितं स्वार्थे स्थापितं वाक्यतात्पर्यभ्रमरहितं यथा स्यात्तथेत्यर्थः। सूक्ष्मीकृते चेतसि वाक्यार्थानुसन्धानजन्या च परमा वृत्तिर्ब्रह्मविद्या नाम सैव ब्रह्मास्त्रं तेन ब्रह्मदण्डं ब्रह्मणा नानायोनिपातनेन दण्डयितारं चिदाभाससंज्ञे जीवं संयोज्य तृतीये दैत्यनगरे मूलाज्ञाने मुमोच। कः? अव्ययः शिवः। अयमर्थः- वाक्यजन्यवृत्त्या सङ्गतश्चिदाभासः स्वात्मना सह मूलाज्ञानं नाशयति ततश्चाव्ययश्चतुर्थ एवावशिष्यत इति। कीदृशं ब्रह्मदण्डं त्रिधामात्रानुसंज्ञितं, त्रिधा प्रकारत्रयेण मात्राभिरकारोकारमकाररूपाभिरनुसंज्ञितं विश्वतैजसप्राज्ञेतिसंज्ञावन्तं त्रिधाशब्देनेति पाठे तु शब्देन प्रणवेन त्रिधा भेदेन संज्ञितमिति स एवार्थः। सार्धश्लोकः॥७५॥

तं बाणं त्रिविधं वीर्यात्सन्धाय मनसा प्रभुः ।
सत्येन ब्रह्मयोगेन तपसोग्रेण भारत॥७६॥

एतदेव स्पष्टयति- तं बाणमिति। सूक्ष्मधारेव स्थौल्यदशायां जाग्रदादिभेदेन त्रिविधाग्रासीदिति मनसाभिनिश्चित्य शास्त्रतो युक्तितस्ततो वीर्यात् ध्यानबलेन उग्रेण तपसा मनसश्चेन्द्रियाणां च ऐकाग्र्यं परमं तप इत्येकाग्रतारूपेणालोचनेन ततः सत्येनाबाधितेन जीवस्य ब्रह्मयोगेन ब्रह्माभेदेनानन्तं धीबाणं मुमोच ध्याता। कुत्र मुमोच? अथ दैत्यनगरे मूलाज्ञाने। धीवृत्तौ नष्टायां मूलाज्ञानस्य निरन्वयोच्छेदो भवतीति भावः॥७६॥

मुमोच दैत्यनगरे सर्वप्राणहराञ्छरान् ।
दीप्तान्कनकवर्णाभान्सुवर्णांश्च सुनिर्मलान्॥७७॥

सर्वप्राणहरानित्यादिश्लोकाः काव्यशोभार्थकाः॥७७॥

मुक्त्वा वरशरान्घोरान्सविषानिव पन्नगान् ।
सुप्रदीप्तैस्त्रिभिर्बाणैर्वेगिभिस्तद्विदारितम्॥७८॥

शरघातप्रदीप्तानि विन्ध्याग्राणीव भारत ।
गोपुराणि पुरैः सार्धं व्यशीर्यन्त नराधिप॥७९॥

अग्निना सम्प्रदीप्तानि वह्निगर्भाणि भारत ।
धरणीं सम्प्रपद्यन्त पुराणि वसुधाधिप॥८०॥

त्र्यक्षाद्वधमित्यादौ पृष्टं कथं ज्ञानमात्रेण सत्यस्य वस्तुनो नाश इति तत्राह- अग्निनेति। अग्निर्विज्ञानधातुर्वाग्वा। “यादृशो यक्षस्तादृशो बलिः” इति न्यायेन धीमयानि पुराणि धियैव रज्जूरगवन्नष्टानीत्यर्थः। यद्वा- शब्दमात्राणि तानि शब्देनैव नष्टानि नाश्यनाशकयोर्द्वयोरपि मिथ्यात्वादिति भावः। धरणीमित्यादि कथाशोभा॥८०॥

तानि वैदूर्यवर्णानि शिखराणि गिरेरिव ।
शङ्करेण प्रदग्धानि ब्रह्मास्त्रेणापतन्नृप॥८१॥

एवं शङ्करेण कल्याणकरिणा जीवेन ब्रह्मविद्यास्त्रेण त्रीणि पुराणि जाग्रदादीनि प्रदग्धानि॥८१॥

हते च त्रिपुरे देवैर्वाचो हर्षात्किलेरिताः ।
सर्वाञ्जहीति शत्रूंस्त्वं प्रवृध्दान्पुरुषोत्तम॥८२॥

अत्र त्रिपुरदाहे मुख्यं कारणं धर्म एवेति तत्स्तुतिमाह- हते चेति। हे पुरुषोत्तम! हे धर्मरूपिन्महाविष्णो॥८२॥

विष्णुरेव महयोगी योगेन प्रस्मयन्निव ।
स्तूयते ब्रह्मसदृशैर्ऋषिभिः शङ्करेण च ।
ब्रह्मणा सहितैर्देवैः सम्पन्नबलपौरुषैः॥८३॥

विष्णुर्धर्मः योगेन साम्यबुद्ध्यानुष्ठितः सन् प्रस्मयन् आश्चर्यमिव स्तूयते। अविद्यामुपजीव्य प्रवृत्तोऽपि तामेव मूलत उच्छिनत्तीत्याश्चर्यम्। तदेव मनेनाध्यायेन कृत्स्नस्य भारतस्य तात्पर्यं वर्णितं धर्मबलेनैव विद्योत्पत्तावविद्योच्छेदात्परमानन्दाभिव्यक्तिरिति शिवम्॥८३॥
॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि त्रिपुरवधे त्रयस्त्रिंशदधिकशततमोऽध्यायः॥१३३॥
हरिवंशवृत्तान्तसङ्ग्रहः

वैशम्पायन उवाच। हरिवंशेऽत्र वृत्तान्ताः प्रकीर्त्यन्ते क्रमोदिताः ।
तत्राद्यमादिसर्गस्तु भूतसर्गस्ततः परः॥१॥

पृथोर्वैन्यस्य चाख्यानं मनूनां कीर्तनं तथा ।
वैवस्वतकुलोत्पत्तिर्धुन्धुमारकथा तथा॥२॥

गालवोत्पत्तिरिक्ष्वाकुवंशस्याप्यनुकीर्तनम् ।
पितृकल्पस्तथोत्पत्तिः सोमस्य च बुधस्य च॥३॥

अमावसोरन्वयस्य कीर्तनं कीर्तिवर्धनम् ।
च्युतिप्रतिष्ठे शक्रस्य प्रसवः क्षत्रवृद्धजः॥४॥

दिवोदासप्रतिष्ठा च त्रिशङ्कोः क्षत्रियस्य च ।
ययातिचरितं चैव पुरुवंशस्य कीर्तनम्॥५॥

कीर्तनं कृष्णसम्भूतेः स्यमन्तकमणेस्तथा ।
सङ्क्षेपात्कीर्तिता विष्णोः प्रादुर्भावास्ततः परम्॥६॥

तारकामययुद्धं च ब्रह्मलोकस्य वर्णनम् ।
योगनिद्रासमुत्थानं विष्णोर्वाक्यं च वेधसः॥७॥

पृथ्वीवाक्यं च देवानामंशावतरणं तथा ।
ततो नारदवाक्यं च स्वप्नगर्भविधिस्तथा॥८॥

आर्यास्तवः पुनः कृष्णसमुत्पत्तिः प्रपञ्चतः ।
गोव्रजे गमनं विष्णोः शकटस्य निवर्तनम्॥९॥

पूतनाया वधो भङ्गो यमलार्जुनयोरपि ।
वृकसन्दर्शनं चैव वृन्दावननिवेशनम्॥१०॥

प्रावृषो वर्णनं चापि यमुनाह्रददर्शनम् ।
कालियस्यापि दमनं धेनुकस्य च भञ्जनम्॥११॥

प्रलम्बनिधनं चैव शरद्वर्णनमेव च ।
गिरियज्ञप्रवृत्तिश्च गोवर्धनविधारणम्॥१२॥

गोविन्दस्याभिषेकं च गोपीसङ्क्रीडनं तथा ।
रिष्टासुरस्य निधनमक्रूरप्रेषणं तथा॥१३॥

अन्धकस्य च वाक्यानि केशिनो निधनं तथा ।
अक्रूरागमनं चैव नागलोकस्य दर्शनम्॥१४॥

धनुर्भङ्गस्य कथनं कंसवाक्यमतः परम् ।
कुवलयापीडवधश्चाणूरान्ध्रवधस्तथा॥१५॥

कंसस्य निधनं चापि विलापः कंसयोषिताम् ।
उग्रसेनाभिषेकश्च यादवाश्वासनं तथा॥१६॥

प्रत्यागतिर्गुरुकुलादथोक्ता रामकृष्णयोः ।
मथुरायाश्चोपरोधो जरासन्धनिवर्तनम्॥१७॥

विकद्रुवाक्यं रामस्य दर्शनं भाषणं तथा ।
गोमन्तारोहणं चापि जरासन्धगतिस्तथा॥१८॥

गोमन्तस्य गिरेर्दाहः करवीरपुरे गतिः ।
शृगालस्य वधस्तत्र मथुरागमनं ततः॥१९॥

यमुनाकर्षणं चैव मथुरापक्रमस्तथा ।
उपायेन वधः कालयवनस्य प्रकीर्तितः॥२०॥

निर्माणं द्वारवत्यास्तु रुक्मिणीहरणं तथा ।
विवाहश्चैव रुक्मिण्या रुक्मिणो निधनं तथा॥२१॥

बलदेवाह्निकं पुण्यं बलमाहात्म्यमेव च ।
नरकस्य वधः पारिजातस्य हरणं तथा॥२२॥

द्वारवत्या विशेषेण पुनर्निर्माणकीर्तनम् ।
द्वारकायां प्रवेशश्च सभायां च प्रवेशनम्॥२३॥

नारदस्य च वाक्यानि वृष्णिवंशानुकीर्तनम् ।
षट्पुरस्य वधाख्यानं मेध्यकस्य निबर्हणम्॥२४॥

समुद्रयात्रा कृष्णस्य जलक्रीडाकुतूहलम् ।
तथा भैमप्रवीराणां मधुपानप्रवर्तकम्॥२५॥

ततश्छालिक्यगान्धर्वसमुदाहरणं हरेः ।
भानोश्च दुहितुर्भानुमत्या हरणकीर्तनम्॥२६॥

शम्बरस्य वधश्चैव धन्योपाख्यानमेव च ।
वासुदेवस्य महात्म्यं बाणयुद्धं प्रपञ्चितम्॥२७॥

भविष्यं पुष्करं चैव प्रपञ्चेनैव कीर्तितम् ।
वराहं नारसिंहं च वामनं बहुविस्तरम्॥२८॥

कैलासयात्रा कृष्णस्य पौण्ड्रकस्य वधस्ततः ।
हंसस्य डिम्भकस्यैव वधश्चैव प्रकीर्तितः॥२९॥

पुरत्रयस्य संहार इति वृत्तान्तसङ्ग्रहः ।
कथितो नृपशार्दूल सर्वपापप्रणाशनः॥३०॥

वृत्तान्तं शृणुयाद्यस्तु सायं प्रातः समाहितः ।
स याति वैष्णवं धाम लब्धकामाः कुरूद्वह ।
धन्यं यशस्यमायुष्यं भुक्तिमुक्तिफलप्रदम्॥३१॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि वृत्तान्तसङ्ग्रहे चतुस्त्रिंशदधिकशततमोऽध्यायः॥१३४॥
हरिवंशश्रवणफलं मभारातसमाप्तिश्च

जनमजय उवाच। हरिवंशे पुराणे तु श्रुते मुनिवरोत्तम ।
किं फलं किं च देयं वै तद्ब्रूहि त्वं ममाग्रतः॥१॥

वैशम्पायन उवाच। हरिवंशे पुराणे तु श्रुते च भरतोत्तम ।
कायिकं वाचिकं चैव मनसा समुपार्जितम्॥२॥

तत्सर्वं नाशमायाति हिमं सूर्योदये यथा ।
अष्टादशपुराणानां श्रवणाद्यत्फलं भवेत्॥३॥

तत्फलं समवाप्नोति वैष्णवो नात्र संशयः ।
श्लोकार्धं श्लोकपादं वा हरिवंशसमुद्भवम्॥४॥

शृण्वन्ति श्रद्धया युक्ता वैष्णवं पदमाप्नुयुः ।
जम्बुद्वीपं समाश्रित्य श्रोतारो दुर्लभाः कलौ॥५॥

भविष्यन्ति नरा राजन्सत्यं सत्यं वदाम्यहम् ।
स्त्रीभिश्च पुत्रकामाभिः श्रोतव्यं वैष्णवं यशः॥६॥

दक्षिणा चात्र देया वै निष्कत्रयसुवर्णकम् ।
वाचकाय यथाशक्त्या यथोक्तं फलमिच्छता॥७॥

स्वर्णशृङ्गीं च कपिलां सवत्सां वस्त्रसंयुतम् ।
वाचकाय प्रदद्याद्वै आत्मनः श्रेयकाङ्क्षया॥८॥

अलङ्कारं प्रदद्याच्च पाण्योर्वै भरतर्षभ ।
कर्णस्याभरणं दद्याद्यानं च सविषेशतः॥९॥

भूमिदानं समादद्याद्ब्राह्मणाय नराधिप ।
भूमिदानसमं दानं न भूतं न भविष्यति॥१०॥

शृणोति श्रावयेद्वापि हरिवंशे तु यो नरः ।
सर्वथा पापनिर्मुक्तो वैष्णवं पदमाप्नुयात्॥११॥

पितॄनुद्धरते सर्वानेकादश समुद्भवान् ।
आत्मानं ससुतं चैव स्त्रियं च भरतर्षभ॥१२॥

दशांशश्चात्र होमो वै कार्यः श्रोत्रा नराधिप ।
इदं मया तवाग्रे च सर्वं प्रोक्तं नरर्षभ॥१३॥

यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ।
अपुत्रः पुत्रमाप्नोति अधनो धनमाप्नुयात्॥१४॥

नरमेधाश्वमेधाभ्यां यत्फलं प्राप्यते नरैः ।
तत्फलं लभते नूनं पुराणश्रवणाद्धरेः॥१५॥

ब्रह्महा भ्रूणहा गोघ्नः सुरापो गुरुतल्पगः ।
सकृत्पुराणश्रवणात्पूतो भवति नान्यथा॥१६॥

इदं मया ते परिकीर्तितं महच्छ्रीकृष्णमाहात्म्यमपारमद्भुतम् ।
शृण्वन्पठन्नाशु समाप्नुयात्फलं यच्चापि लोकेषु सुदुर्लभं महत्॥१७॥

॥इति श्रीमहाभारते खिलेषु हरिवंशे भविष्यपर्वणि श्रवणफलकथने पञ्चत्रिंशदधिकशततमोऽध्यायः॥१३५॥
॥समाप्तमिदं भविष्यपर्व॥३॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in