कर्णपर्व - १

कर्णपर्व

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

प्रथमोऽध्यायः

वैशम्पायन उवाच। ततो द्रोणे हते राजन् दुर्योधनमुखा नृपाः ।
भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन् ॥१॥

ननु विराटादिपर्वचतुष्टयतात्पर्यं क्रमेणार्थलुब्धानामर्थः सेवया नीत्या कपटपूर्वकेण कुलवृद्धवधेन नृशंसानृतपूर्वकेण महागुरुवधेन च सिद्ध्यतीत्युक्तम् । तावतैवार्थनिरूपणं समाप्तम् अतः परं काममोक्षावेव निरूपणीयाविति कर्णपर्वादित्रयं नारम्भणीयमिति चेत् सत्यम् । यथा धर्मार्थौ निरूपितौ एवं धर्माभासोऽर्थाभासश्च निरूपणीयः परिहाराय । एवमधर्मानर्थौ अधर्माभासानर्थाभासौ च निरूपणीयौ हानायोपादानाय च तदर्थमुत्तरग्रन्थः काममोक्षयोः प्रागावश्यकः । तत्र चोरेभ्यः कार्पटिकमार्गमुपदिशतः सत्यवादिनः सत्यवदनं धर्माभासः। एवमविचार्य घ्राणचक्षुषं राक्षसं घ्नतो व्याधस्य हिंस्रत्वमधर्माभासः । तथा शोकहेतुना कुलक्षयेण प्राप्तोऽर्थोऽर्थाभासः । सुप्तानां हननमधर्मः । तत्कृतोऽश्वत्थाम्नोऽभिभवोऽनर्थः। शरणागतस्वसैनिकत्राणार्थमन्यायेनापि कृतो ब्रह्मवधो न इतरब्रह्मवधवदनर्थः । अपि त्वनर्थाभास एव । न च तेन ब्रह्महा भवेदित्याततायिवधे दोषाभावस्मरणात् । इत्येषामर्थानां निरूपणार्थ उत्तरः संदर्भः । आख्यायिका तु सुखप्रतिपत्त्यर्था । तस्मादिदमपि पर्वत्रयमावश्यकमेव । ततो द्रोणे हते राजन्निति ॥१॥

ते द्रोणमनुशोचन्तः कश्मलाभिहतौजसः ।
पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम् ॥२॥

कश्मलाभिहतौजसः तीव्रशोकाभिघातजव्यामोहेन निरस्तसामर्थ्याः । शारद्वतीसुतम् द्रौणिम् ॥२॥

ते मुहूर्तं समाश्वस्य हेतुभिः शास्त्रसम्मितैः ।
रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे ॥३॥

समाश्वस्य सावधाना भूत्वा रात्र्यागमे प्रदोषकाले ॥३॥

ते वेश्मस्वपि कौरव्य पृथ्वीशा नामुवन्सुखम् ।
चिन्तयन्तः क्षयं तीव्रं दुःखशोकसमन्विताः ॥४॥

पृथ्वीशाः राजानः क्षयं भूतं भाविनं च चिन्तयन्तः परामृशन्तः ॥४॥

विशेषतः सूतपुत्रो राजा चैव सुयोधनः ।
दुःशासनश्च शकुनिः सौबलश्च महाबलः ॥५॥

उषितास्ते निशां तां तु दुर्योधननिवेशने ।
चिन्तयन्तः परिक्लेशान् पाण्डवानां महात्मनाम् ॥६॥

यत्तद्यूते परिक्लिष्टा कृष्णा चानायिता सभाम् ।
तत्स्मरन्तोऽनुशोचन्तो भृशमुद्विग्नचेतसः ॥७॥

तथा तु संचिन्तयतां तान् क्लेशान् द्यूतकारितान् ।
दुःखेन क्षणदा राजन् जगामाब्दशतोपमा ॥८॥

क्लेशान् कचग्रहणादीन् क्षणदा रात्रिः ॥८॥

ततः प्रभाते विमले स्थिता दिष्टस्य शासने ।
चक्रुरावश्यकं सर्वे विधिदिष्टेन कर्मणा ॥९॥

आवश्यकं नित्यकृत्यम् ॥९॥

ते कृत्वाऽवश्यकार्याणि समाश्वस्य च भारत ।
योगमाज्ञापयामासुर्युद्धाय च विनिर्ययुः ॥१०॥

योगं संनहनम् ॥१०॥

कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः ।
पूजयित्वा द्विजश्रेष्ठान् दधिपात्रघृताक्षतैः ॥११॥

गोभिरश्वैश्च निष्कैश्च वासोभिश्च महाधनैः ।
वन्द्यमाना जयाशीर्भिः सूत-मागध-बन्दिभिः ॥१२॥

निष्कैः सुवर्णहारैः महाधनैः बहुमूल्यैः वन्द्यमानाः स्तूयमानाः सूताः वंशानुक्रमविदः मागधाः पाणिस्वनिकाः वन्दिनः स्तुतिपाठकाः ॥१२॥

तथैव पाण्डवा राजन् कृतपूर्वाह्निकक्रियाः ।
शिबिरान्निर्ययुस्तूर्णं युद्धाय कृतनिश्चयाः ॥१३॥

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।
कुरूणां पाण्डवानां च परस्परजयैषिणाम् ॥१४॥

तयोर्द्वौ दिवसौ युद्धं कुरुपाण्डवसेनयोः ।
कर्णे सेनापतौ राजन् बभूवाद्भुतदर्शनम् ॥१५॥

ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः ।
पश्यतां धार्तराष्ट्राणां फाल्गुनेन निपातितः ॥१६॥

वृषः कर्णः । पश्यताम् अनादरे षष्ठी ॥१६॥

ततस्तु सञ्जयः सर्वं गत्वा नागपुरं द्रुतम् ।
आचष्ट धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले ॥१७॥

जनमेजय उवाच। आपगेयं हतं श्रुत्वा द्रोणं चापि महारथम् ।
आजगाम परामार्तिं वृद्धो राजाऽम्बिकासुतः ॥१८॥

स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम् ।
कथं द्विजवर प्राणानधारयत दुःखितः ॥१९॥

यस्मिञ्जयाशां पुत्राणां सममन्यत पार्थिवः ।
तस्मिन् हते स कौरव्यः कथं प्राणानधारयत्॥२०॥

सममन्यत सम्यगवधृतवान् ॥२०॥

दुर्मरं तदहं मन्ये नृणां कृछ्रेऽपि वर्तताम् ।
यत्र कर्णं हतं श्रुत्वा नात्यजज्जीवितं नृपः ॥२१॥

दुर्भरं दुःखेनापि मर्तुमशक्यं स्वेच्छया ॥२१॥

तथा शान्तनवं वृद्धं ब्रह्मन् बाह्लीकमेव च ।
द्रोणं च सोमदत्तं च भूरिश्रवसमेव च ॥२२॥

तथैव चान्यान्सुहृदः पुत्रान् पौत्रांश्च पातितान् ।
श्रुत्वा यन्नाजहात्प्राणांस्तन्मन्ये दुष्करं द्विज ॥२३॥

तत् मरणं दुष्करं मन्ये ॥२३॥

एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने ।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्॥२४॥

इति श्रीमहाभारते कर्णपर्वणि जनमेजयवाक्यं नाम प्रथमोऽध्यायः ॥१॥
द्वितीयोऽध्यायः

वैशम्पायन उवाच। हते कर्णे महाराज निशि गावल्गणिस्तदा ।
दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे ॥१॥

हते इति ॥१॥

स हास्तिनपुरं गत्वा भृशमुद्विग्नचेतनः ।
जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम् ॥२॥

क्षयं गृहम् ॥२॥

स तमुद्वीक्ष्य राजानं कश्मलाभिहतौजसम् ।
ववन्दे प्राञ्जलिर्भूत्वा मूर्ध्ना पादौ नृपस्य ह ॥३॥

संपूज्य च यथान्यायं धृतराष्ट्रं महीपतिम् ।
हा कष्टमिति चोक्त्वा स ततो वचनमाददे ॥४॥

हा कष्टमिति खेदातिशयसूचकं वाक्यमुक्त्वा पश्चाद्वचनं वक्तव्यमाददे ॥४॥

सञ्जयोऽहं क्षितिपते कच्चिदास्ते सुखं भवान् ।
स्वदोषैरापदं प्राप्य कच्चिन्नाद्य विमुह्यति ॥५॥

आस्ते तिष्ठति ॥५॥

हितान्युक्तानि विदुर-द्रोण-गाङ्गेय-केशवैः ।
अगृहीतान्यनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥६॥

राम-नारद-कण्वाद्यैर्हितमुक्तं सभातले ।
न गृहीतमनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥७॥

सुहृदस्त्वद्धिते युक्तान् ‌भीष्मद्रोणमुखान् परैः ।
निहतान्युधि संस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥८॥

तमेवंवादिनं राजा सूतपुत्रं कृताञ्जलिम् ।
सुदीर्धमय निःश्वस्य दुःखार्त इदमब्रवीत् ॥९॥

धृतराष्ट्र उवाच। आपगेये हते शूरे दिव्यास्त्रवति सञ्जय ।
द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः ॥१०॥

यो रथानां सहस्राणि दंशितानां दशैव तु ।
अहन्यहनि तेजस्वी निजघ्ने वसुसंभवः ॥११॥

दंशितानां सन्नद्धानां वसुसंभवः वसूनामंशेभ्यः संभूतः ॥११॥

तं हतं यज्ञसेनस्य पुत्रेणेह शिखण्डिना ।
पाण्डवेयाभिगुप्तेन श्रुत्वा मे व्यथितं मनः ॥१२॥

भार्गवः प्रददौ यस्मै परमास्त्रं महाहवे ।
साक्षाद्रामेण यो बाल्ये धनुर्वेद उपाकृतः ॥१३॥

भार्गवः रामः यस्मै भीष्माय धनुर्वेदे उपाकृतः स्वीकृतः शिष्यत्वेन ॥१३॥

यस्य प्रसादात्कौन्तेया राजपुत्रा महारथाः ।
महारथत्वं संप्राप्तास्तथान्ये वसुधाधिपाः ॥१४॥

यस्य द्रोणस्य ॥१४॥

तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे ।
सत्यसन्धं महेष्वासं भृशं मे व्यथितं मनः ॥१५॥

सत्यसन्धमवितथप्रतिज्ञम् ॥१५॥

ययोर्लोके पुमानस्त्रे न समोऽस्ति चतुर्विधे ।
तौ द्रोणभीष्मौ श्रुत्वा तु हतौ मे व्यथितं मनः ॥१६॥

चतुर्विधे मुक्तं बाणादि अमुक्तं खड्गादि यन्त्रमुक्तं गोलादि मुक्तामुक्तं सोपसंहारमस्त्रम् ॥१६॥

त्रैलोक्ये यस्य चास्त्रेषु न पुमान्विद्यते समः ।
तं द्रोणं निहतं श्रुत्वा किमकुर्वत मामकाः ॥१७॥

गमिते सति किमकुर्वतेत्युत्तरेण सम्बन्धः ॥१७॥

संशप्तकानां च बले पाण्डवेन महात्मना ।
धनञ्जयेन विक्रम्य गमिते यमसादनम् ॥१८॥

नारायणास्त्रे च हते द्रोणपुत्रस्य धीमतः ।
विप्रद्रुतेष्वनीकेषु किमकुर्वत मामकाः ॥१९॥

निमग्नानपि प्लवमानान् जीवितेप्सया चेष्टां कुर्वाणान् इत्युत्तरत्र सम्बन्धः ॥१९॥

विप्रद्रुतानहं मन्ये निमग्नाञ्शोकसागरे ।
प्लवमानान् हते द्रोणे सन्ननौकानिवार्णवे ॥२०॥

दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः ।
मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च ॥२१॥

मत्पुत्रस्य च शेषस्य तथाऽन्येषां च सञ्जय ।
विप्रद्रुतेष्वनीकेषु मुखवर्णोऽभवत्कथम् ॥२२॥

एतत्सर्वं यथावृत्तं तथा गावल्गणे मम ।
आचक्ष्व पाण्डवेयानां मामकानां च विक्रमम् ॥२३॥

सञ्जय उवाच। तवापराधाद्यद्वृत्तं कौरवेयेषु मारिष ।
तच्छ्रुत्वा मा व्यथां कार्षीर्दिष्टे न व्यथते बुधः ॥२४॥

दिष्टे दैवोपाहृते अभाविनः सुखस्य प्राप्तौ भाविनो दुःखस्य प्राप्तौ वा बुधो न व्यथते । तद्विपर्यये वा न हृष्यतीत्यर्थः ॥२४॥

यस्मादभावी भावी वा भवेदर्थो नरं प्रति ।
अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद्व्यथते बुधः ॥२५॥

दिष्टम् अवश्यंभावि ॥२५॥

धृतराष्ट्र उवाच। न व्यथाऽभ्यधिका काचिद्विद्यते मम सञ्जय ।
दिष्टमेतत्पुरा मन्ये कथयस्व यथेच्छकम् ॥२६॥

इति श्रीमहाभारते कर्णपर्वणि धृतराष्ट्रसञ्जयसंवादे द्वितीयोऽध्यायः ॥२॥
तृतीयोऽध्यायः

सञ्जय उवाच। हते द्रोणे महेष्वासे तव पुत्रा महारथाः ।
बभूवुरस्वस्थमुखा विषण्णा गतचेतसः ॥१॥

हते इति । अस्वस्थमुखाः दीनवद‌नाः ॥१॥

अवाङ्मुखाः शस्त्रभृतः सर्व एव विशांपते ।
अवेक्षमाणाः शोकार्ता नाभ्यभाषन् परस्परम् ॥२॥

तान् दृष्ट्वा व्यथिताकारान् सैन्यानि तव भारत ।
ऊर्ध्वमेव निरैक्षन्त दुःखत्रस्तान्यनेकशः ॥३॥

ऊर्ध्वमूर्ध्वगमनमेव न त्वधोवस्थानम् ॥३॥

शस्त्राण्येषां तु राजेन्द्र शोणिताक्तानि सर्वशः ।
प्राभ्रश्यन्त कराग्रेभ्यो दृष्ट्वा द्रोणं हतं युधि ॥४॥

तानि बद्धान्यरिष्टानि लम्बमानानि भारत ।
अदृश्यन्त महाराज नक्षत्राणि यथा दिवि ॥५॥

हस्तस्थानां भ्रंशोऽरिष्टसूचक उक्त एवं बद्धानां बन्धशैथिल्यमपीत्याह- तानीति । दिविस्थितानि पतमानानि नक्षत्राणीव अधोमुखान्यदृश्यन्तेत्यर्थः ॥५॥

तथा तु स्तिमितं दृष्ट्वा गतसत्त्वमवस्थितम् ।
बलं तव महाराज राजा दुर्योधनोऽब्रवीत् ॥६॥

स्तिमितं स्तब्धं यतो गतसत्त्वमुद्विग्नचित्तम् ॥६॥

भवतां बाहुवीर्यं हि समाश्रित्य मया युधि ।
पाण्डवेयाः समाहूता युद्धं चेदं प्रवर्तितम् ॥७॥

तदिदं निहते द्रोणे विषण्णमिव लक्ष्यते ।
युध्यमानाश्च समरे योधा वध्यन्ति सर्वशः ॥८॥

वध्यन्ति वध्यन्ते परैरिति शेषः ॥८॥

जयो वापि वधो वापि युध्यमानस्य संयुगे ।
भवेत्किमत्र चित्रं वै युध्यध्वं सर्वतोमुखाः ॥९॥

किमत्र चित्रं क्षणं पाण्डवैर्जितं चेन्नैतदाश्चर्यम् ॥९॥

पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि ।
प्रचरन्तं महेष्वासं दिव्यैरस्त्रैर्महाबलम् ॥१०॥

अस्माकमसकृज्जयो जात इत्याह - पश्यध्वमित्यादिना ॥१०॥

यस्य वै युधि संत्रासात् कुन्तीपुत्रो धनञ्जयः ।
निवर्तते सदा मन्दः सिंहात् क्षुद्रमृगो यथा ॥११॥

येन नागायुतप्राणो भीमसेनो महाबलः ।
मानुषेणैव युद्धेन तामवस्थां प्रवेशितः ॥१२॥

तां द्रोणपर्वप्रसिद्धाम् ॥१२॥

येन दिव्यास्त्रविच्छूरो मायावी स घटोत्कचः ।
अमोघया रणे शक्त्या निहतो भैरवं नदन् ॥१३॥

तस्य दुर्वारवीर्यस्य सत्यसन्धस्य धीमतः ।
बाह्वोर्द्रविणमक्षय्यमद्य द्रक्ष्यथ संयुगे ॥१४॥

द्रविणं बलम् ॥१४॥

द्रोणपुत्रस्य विक्रान्तं राधेयस्यैव चोभयोः ।
पश्यन्तु पाण्डुपुत्रास्ते विष्णुवासवयोरिव ॥१५॥

सर्व एव भवन्तश्च शक्ताः प्रत्येकशोऽपि वा ।
पाण्डुपुत्रान्रणे हन्तुं ससैन्यान् किमु संहताः ।
वीर्यवन्तः कृतास्त्राश्च द्रक्ष्यथाद्य परस्परम् ॥१६॥

द्रक्ष्यथ दर्शयिष्यथ ॥१६॥

सञ्जय उवाच। एवमुक्त्वा ततः कर्णं चक्रे सेनापतिं तदा ।
तव पुत्रो महावीर्यो भ्रातृभिः सहितोऽनघ ॥१७॥

सैनापत्यमथावाप्य कर्णो राजन्महारथः ।
सिंहनादं विनद्योच्चैः प्रायुध्यत रणोत्कटः ॥१८॥

स सृञ्जयानां सर्वेषां पञ्चालानां च मारिष ।
केकयानां विदेहानां चकार कदनं महत् ॥१९॥

तस्येषुधाराः शतशः प्रादुरासञ्छरासनात् ।
अग्रे पुंखेषु संसक्ता यथा भ्रमरपङ्क्तयः ॥२०॥

अग्रे पुंखेषु संसक्ताः प्रेर्यमाणस्य शरस्याग्रेण पुंखेन संसक्ता इषुधाराः पूर्वोत्तरेषु सन्धानादविच्छिन्नप्रवाहा इयर्थः ॥२०॥

स पीडयित्वा पञ्चालान् पाण्डवांश्च तरस्विनः ।
हत्वा सहस्रशो योधान् अर्जुनेन निपातितः ॥२१॥

पीडयित्वा हत्वेत्यनेककर्तृकेऽपि क्त्वाप्रत्ययश्छान्दसः अन्येऽभ्योऽपि दृश्यन्ते इति वनिवन्तं वा शब्दद्वयं दृशिग्रहणादाद्ये तुगपि । पीडयन् निघ्नन्निति वाऽर्थः ॥२१॥
इति श्रीमहाभारते कर्णपर्वणि सञ्जयवाक्यं नाम तृतीयोऽध्यायः ॥३॥
चतुर्थोऽध्यायः

वैशम्पायन उवाच। एतच्छ्रुत्वा महाराज धृतराष्ट्रोम्बिकासुतः ।
शोकस्यान्तमपश्यन्वै हतं मेने सुयोधनम् ॥१॥

एतदिति ॥१॥

विह्वलः पतितो भूमौ नष्टचेता इव द्विपः ।
तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे ॥२॥

विह्वलः चलनासमर्थः काष्ठवत्पतितः ॥२॥

आर्तनादो महानासीत् स्त्रीणां भरतसत्तम ।
स शब्दः पृथिवीं कृत्स्नां पूरयामास सर्वशः ॥३॥

शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः ।
रुरुदुर्दुःखशोकार्ता भृशमुद्विग्नचेतसः ॥४॥

राजानं च समासाद्य गान्धारी भरतर्षभ ।
निःसंज्ञा पतिता भूमौ सर्वाण्यन्तःपुराणि च ॥५॥

अन्तःपुराणि स्त्रियः ॥५॥

ततस्ताः सञ्जयो राजन्समाश्वासयदातुराः ।
मुह्यमानाः सुबहुशो मुञ्चन्त्यो वारि नेत्रजम् ॥६॥

समाश्वस्तास्त्रियस्तास्तु वेपमाना मुहुर्मुहुः ।
कदल्य इव वातेन धूयमानाः समन्ततः ॥७॥

कदल्य इव वेपमाना आसन्निति शेषः ॥७॥

राजानं विदुरश्चापि प्रज्ञाचक्षुषमीश्वरम् ।
आश्वासयामास तदा सिञ्चन्स्तोयेन कौरवम् ॥८॥

स लब्ध्वा शनकैः संज्ञां ताश्च दृष्ट्वा स्त्रियो नृपः ।
उन्मत्त इव राजेन्द्र स्थितस्तूष्णीं विशाम्पते ॥९॥

दृष्ट्वा मनसैवात्मप्रत्ययेन दुःखवतीर्ज्ञात्वा ॥९॥

ततो ध्यात्वा चिरं कालं निःश्वस्य च पुनः पुनः ।
स्वान् पुत्रान् गर्हयामास बहु मेने च पाण्डवान् ॥१०॥

गर्हयंश्चात्मनो बुद्धिं शकुनेः सौबलस्य च ।
ध्यात्वा तु सुचिरं कालं वेपमानो मुहुर्मुहुः ॥११॥

संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः ।
पुनर्गावल्गणिं सूतं पर्यपृच्छत सञ्जयम् ॥१२॥

यत्त्वया कथितं वाक्यं श्रुतं सञ्जय तन्मया ।
कच्चिद्दुर्योधनः सूत न गतो वै यमक्षयम् ॥१३॥

जये निराशः पुत्रो मे सततं जयकामुकः ।
ब्रूहि सञ्जय तत्त्वेन पुनरुक्तां कथामिमाम् ॥१४॥

जये इति । इष्टवियोगमात्रेण दशरथादिर्मृतः । अस्य तु जये नैराश्यमधिकं मरणकारणमस्तीति भावः । उक्तां संक्षेपेण । पुनर्ब्रूहि विस्तरेण ॥१४॥

एवमुक्तोऽब्रवीत्सुतो राजानं जनमेजय ।
हतो वैकर्तनो राजन्सह पुत्रैर्महारथः ॥१५॥

भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः ।
दुःशासनश्च निहतः पाण्डवेन यशस्विना ।
पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे ॥१६॥

इति श्रीमहाभारते कर्णपर्वणि धृतराष्ट्रशोको नाम चतुर्थोऽध्यायः ॥४॥
पञ्चमोऽध्यायः

वैशम्पायन उवाच। इति श्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः ।
अब्रवीत्सञ्जयं सूतं शोकसंविग्नमानसः ॥१॥

इतीति ॥१॥

दुष्प्रणीतेन मे तात पुत्रस्यादीर्घजीविनः ।
हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति ॥२॥

दुष्प्रणीतेन दुर्नयेन अदीर्घजीविनोऽल्पायुषः मयैव दुर्नीत्या पुत्रो मरणोन्मुखः कृत इति भावः ॥२॥

तस्य मे संशयं छिन्धि दुःखपारं तितीर्षतः ।
कुरूणां सृञ्जयानां च के च जीवन्ति के मृताः ॥३॥

सञ्जय उवाच। हतः शान्तनवो राजन् दुराधर्षः प्रतापवान् ।
हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः ॥४॥

हत्वा निघ्नन् ॥४॥

तथा द्रोणो महेष्वासः पञ्चालानां रथव्रजान् ।
निहत्य युधि दुर्धर्षः पश्चाद्रुक्मरथो हतः ॥५॥

निहत्यैव दुर्द्धर्ष इत्यन्वयः । जात इति शेषः ॥५॥

हतशेषस्य भीष्मेण द्रोणेन च महात्मना ।
अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः ॥६॥

हतो गतः परलोकमिति शेषः। एवमग्रेऽपि योज्यम् ॥६॥

विविंशतिर्महाराज राजपुत्रो महाबलः ।
आनर्तयोधाञ्शतशो निहत्य निहतो रणे ॥७॥

तथा पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन् ।
क्षीणवाहायुधः शूरः स्थितोऽभिमुखतः परान् ॥८॥

घोररूपान् परिक्लेशान् दुर्योधनकृतान्बहून् ।
प्रतिज्ञां स्मरता चैव भीमसेनेन पातितः ॥९॥

विन्दानुविन्दावावन्त्यौ राजपुत्रौ महारथौ ।
कृत्वा त्वसुकरं कर्म गतौ वैवस्वतक्षयम् ॥१०॥

सिन्धुराष्ट्रसुखानीह दश राष्ट्राणि यानिह ।
वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने ॥११॥

अक्षौहिणीर्दशैकां च विनिर्जित्य शितैः शरैः ।
अर्जुनेन हतो राजन्महावीर्यो जयद्रथः ॥१२॥

तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः ।
वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः ॥१३॥

तथा दौःशासनिः शूरो बाहुशाली रणोत्कटः ।
द्रौपदेयेन सङ्गम्य गमितो यमसादनम् ॥१४॥

किरातानामधिपतिः सागरानूपवासिनाम् ।
देवराजस्य धर्मात्मा प्रियो बहुमतः सखा ॥१५॥

भगदत्तो महीपालः क्षत्रधर्मरतः सदा ।
धनञ्जयेन विक्रम्य गमितो यमसादनम् ॥१६॥

तथा कौरवदायादो न्यस्तशस्त्रो महायशाः ।
हतो भूरिश्रवा राजञ्शूरः सात्यकिना युधि ॥१७॥

श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धुरन्धरः ।
चरन्नभीतवत्संख्ये निहतः सव्यसाचिना ॥१८॥

तव पुत्रः सदामर्षी कृतास्त्रो युद्धदुर्मदः ।
दुःशासनो महाराज भीमसेनेन पातितः ॥१९॥

यस्य राजन् गजानीकं बहुसाहस्त्रमद्भुतम् ।
सुदक्षिणः स संग्रामे निहतः सव्यसाचिना ॥२०॥

कोसलानामधिपतिर्हत्वा बहुमतान्परान् ।
सौभद्रेणेह विक्रम्य गमितो यमसादनम् ॥२१॥

बहुशो योधयित्वा तु भीमसेनं महारथम् ।
मद्रराजात्मजः शूरः परेषां भयवर्धनः ।
असि-चर्मधरः श्रीमान्सौभद्रेण निपातितः ॥२२॥

समः कर्णस्य समरे यः स कर्णस्य पश्यतः ।
वृषसेनो महातेजाः शीघ्रास्त्रो दृढविक्रमः ॥२३॥

अभिमन्योर्वधं श्रुत्वा प्रतिज्ञामपि चात्मनः ।
धनञ्जयेन विक्रम्य गमितो यमसादनम् ॥२४॥

नित्यं प्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः ।
विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः ॥२५॥

शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष ।
हतो रुक्मरथो राजन् भ्राता मातुलजो युधि ॥२६॥

राजा भगीरथो वृद्धो बृहत्क्षत्रश्च केकयः ।
पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ ॥२७॥

भगदत्तसुतो राजन् कृतप्रज्ञो महाबलः ।
श्येनवच्चरता संख्ये नकुलेन निपातितः ॥२८॥

पितामहस्तव तथा बाह्लीकः सह बाह्लीकैः ।
निहतो भीमसेनेन महाबलपराक्रमः ॥३०॥

जयत्सेनस्तथा राजञ्जारासन्धिर्महाबलः ।
मागधो निहतः संख्ये सौभद्रेण महात्मना ॥३१॥

पुत्रस्ते दुर्मुखो राजन् दुःसहश्च महारथः ।
गदया भीमसेनेन निहतौ शूरमानिनौ ॥३२॥

दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः ।
कृत्वा त्वसुकरं कर्म गता वैवस्वतक्षयम् ॥३३॥

उभौ कलिङ्गवृषकौ भ्रातरौ युद्धदुर्मदौ ।
कृत्वा चासुकरं कर्म गतौ वैवस्वतक्षयम् ॥३४॥

सचिवो वृषवर्मा ते शूरः परमवीर्यवान् ।
भीमसेनेन विक्रम्य गमितो यमसादनम् ॥३५॥

तथैव पौरवो राजा नागायुतबलो महान् ।
समरे पाण्डुपुत्रेण निहतः सव्यसाचिना ॥३६॥

वसातयो महाराज द्विसाहस्राः प्रहारिणः ।
शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः ॥३७॥

अभीषाहाः कवचिनः प्रहरन्तो रणोत्कटाः ।
शिबयश्च रथोदाराः कालिङ्गसहिता हताः॥३८॥

गोकुले नित्यसंवृद्धा युद्धे परमकोपनाः ।
तेऽपावृत्तकवीराश्च निहताः सव्यसाचिना ॥३९॥

अपावृतकवीराः अपगतम् आवृत्तकं कुत्सितं सङ्ग्रामात्परावर्तनं येषां ते संशप्तकसहचरा गोपालकाः ॥३९॥

श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये ।
ते सर्वे पार्थमासाद्य गता वैवस्वतक्षयम् ॥४०॥

स्यालौ तव महाराज राजानौ वृषकाचलौ ।
त्वदर्थमतिविक्रान्तौ निहतौ सव्यसाचिना ॥४१॥

उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा ।
शाल्वराजो महाबाहुर्भीमसेनेन पातितः ॥४२॥

ओघवांश्च महाराज बृहन्तः सहितौ रणे ।
पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम् ॥४३॥

तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशांपते ।
निहतो गदया राजन् भीमसेनेन संयुगे ॥४४॥

तथा राजन्महेष्वासो जलसन्धो महाबलः ।
सुमहत्कदनं कृत्वा हतः सात्यकिना रणे ॥४५॥

अलम्बुषो राक्षसेन्द्रः खरबन्धुरयानवान् ।
घटोत्कचेन विक्रम्य गमितो यमसादनम् ॥४६॥

खरबन्धुरयानवान् खरं तीक्ष्णं बन्धुरं रम्यं यानं विद्यते यस्य । खरैर्गर्दभैर्बन्धुरं यानमस्यास्तीति सः । गर्दभसंयुतरथवान् वा ॥४६॥

राधेयः सूतपुत्रश्च भ्रातरश्च महारथाः ।
केकयाः सर्वशश्चापि निहताः सव्यसाचिना ॥४७॥

मालवा मद्रकाश्चैव द्राविडाश्चोग्रकर्मिणः ।
यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः ॥४८॥

मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाश्च ये ।
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष ॥४९॥

पत्तीनां निहताः सङ्घा हयानां प्रयुतानि च ।
रथव्रजाश्च निहता हताश्च वरवारणाः ॥५०॥

सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः ।
कालेन महताऽऽयस्ताः कुशलैर्ये च वर्धिताः ॥५१॥

ते हताः समरे राजन् पार्थेनाक्लिष्टकर्मणा ।
अन्ये तथाऽमितबलाः परस्परवधैषिणः ॥५२॥

एते चान्ये च बहवो राजानः सगणा रणे ।
हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि ॥५३॥

एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे ।
महेन्द्रेण यथा वृत्रो यथा रामेण रावणः ॥५४॥

यथा कृष्णेन नरको मुरुश्च नरकारिणा ।
कार्तवीर्यश्च रामेण भार्गवेण यथा हतः ॥५५॥

कृष्णेन नरकारिणा नरको मुरुश्च यथेत्यन्वयः ॥५५॥

सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः ।
रणे कृत्वा महद्युद्धं घोरं त्रैलोक्यमोहनम् ॥५६॥

यथा स्कन्देन महिषो यथा रुद्रेण चान्धकः ।
तथाऽर्जुनेन स हतो द्वैरथे युद्धदुर्मदः ॥५७॥

कर्णस्तथा हत इत्यनुकृष्यते ॥५७॥

सामात्यबान्धवो राजन् कर्णः प्रहरतां वरः ।
जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः ॥५८॥

तीर्णस्तत्पाण्डवो राजन् यत्पुरा नावबुध्यसे ।
उच्यमानो महाराज बन्धुभिर्हितकाङ्गिभिः ॥५९॥

तदिदं समनुप्राप्तं व्यसनं सुमहात्ययम् ।
पुत्राणां राज्यकामानां त्वया राजन् हितैषिणा ।
अहितान्येव चीर्णानि तेषां तत्फलमागतम् ॥६०॥

इति श्रीमहाभारते कर्णपर्वणि सञ्जयवाक्ये पञ्चमोऽध्यायः ॥५॥
षष्ठोऽध्यायः

धृतराष्ट्र उवाच। आख्याता मामकास्तात निहता युधि पाण्डवैः ।
हतांश्च पाण्डवेयानां मामकैर्ब्रूहि सञ्जय ॥१॥

आख्याता इति ॥१॥

सञ्जय उवाच। कुन्तयो युधि विक्रान्ता महासत्त्वा महाबलाः ।
सानुबन्धाः सहामात्या गाङ्गेयेन निपातिताः ॥२॥

नारायणा बलभद्राः शूराश्च शतशोऽपरे ।
अनुरक्ताश्च वीरेण भीष्मेण युधि पातिताः ॥३॥

समः किरीटिना संख्ये वीर्येण च बलेन च ।
सत्यजित्सत्यसन्धेन द्रोणेन निहतो युधि ॥४॥

पञ्चालानां महेष्वासाः सर्वे युद्धविशारदाः ।
द्रोणेन सह सङ्गम्य गता वैवस्वतक्षयम् ॥५॥

तथा विराटद्रुपदौ वृद्धौ सहसुतौ नृपौ ।
पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे ॥६॥

यो बाल एव समरे संमितः सव्यसाचिना ।
केशवेन च दुर्धर्षो बलदेवेन वा विभो ॥७॥

परेषां कदनं कृत्वा महारथविशारदः ।
परिवार्य महामात्रैः षड्भिः परमकै रथैः ॥८॥

षड्भिः द्रोण-द्रौणि-शल्य-कर्ण-कृप-कृतवर्मभिः परमकै रथैः महामात्रैः मुख्यैः अशक्नुवद्भिरेकैकश्येन हन्तुमिति शेषः ॥८॥

अशक्नुवद्भिर्बीभत्सुमभिमन्युर्निपातितः ।
कृतं तं विरथं वीरं क्षत्रधर्मे व्यवस्थितम् ॥९॥

दौःशासनिर्महाराज सौभद्रं हतवान्रणे ।
सपत्नानां निहन्ता च महत्या सेनया वृतः ॥१०॥

अम्बष्ठस्य सुतः श्रीमान्मित्रहेतोः पराक्रमन् ।
आसाद्य लक्ष्मणं वीरं दुर्योधनसुतं रणे ॥११॥

सुमहत्कदनं कृत्वा गतो वैवस्वतक्षयम् ।
बृहन्तः सुमहेष्वासः कृतास्त्रो युद्धदुर्मदः ॥१२॥

दुःशासनेन विक्रम्य गमितो यमसादनम् ।
मणिमान् दण्डधारश्च राजानौ युद्धदुर्मदौ ॥१३॥

पराक्रमन्तौ मित्रार्थे द्रोणेन युधि पातितौ ।
अंशुमान् भोजराजस्तु सहसैन्यो महारथः ॥१४॥

भारद्वाजेन विक्रम्य गमितो यमसादनम् ।
सामुद्रश्चित्रसेनश्च सह पुत्रेण भारत ॥१५॥

समुद्रसेनेन वलाद्गमितो यमसादनम् ।
अनूपवासी नीलश्च व्याघ्रदत्तश्च वीर्यवान् ॥१६॥

अश्वत्थाम्ना विकर्णेन गमितो यमसादनम् ।
चित्रायुधश्चित्रयोधी कृत्वा च कदनं महत् ॥१७॥

चित्रमार्गेण विक्रम्य विकर्णेन हतो मृधे ।
वृकोदरसमो युद्धे वृतः कैकेययोधिभिः ॥१८॥

कैकेयेन च विक्रम्य भ्राता भ्रात्रा निपातितः ।
जनमेजयो गदायोधी पार्वतीयः प्रतापवान् ॥१९॥

दुर्मुखेन महाराज तव पुत्रेण पातितः ।
रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाविव ॥२०॥

रोचमानौ एकनामानौ भ्रातरौ ॥२०॥

द्रोणेन युगपद्राजन् दिवं संप्रापितौ शरैः ।
नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशांपते ॥२१॥

कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ।
पुरुजित् कुन्तिभोजश्च मातुलौ सव्यसाचिनः ॥२२॥

संग्रामनिर्जिताँल्लोकान् गमितौ द्रोणसायकैः ।
अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः ॥२३॥

वसुदानस्य पुत्रेण न्यासितो देहमाहवे ।
अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान् ॥२४॥

निहत्य शतशः शूरानस्मदीयैर्निपातिताः ।
मित्रवर्माच पाञ्चाल्यः क्षत्रधर्मा च भारत ॥२५॥

द्रोणेन परमेष्वासौ गमितौ यमसादनम् ।
शिखण्डितनयो युद्धे क्षत्रदेवो युधां पतिः ॥२६॥

लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत ।
सुचित्रश्चित्रवर्मा च पितापुत्रौ महारथौ ॥२७॥

प्रचरन्तौ महावीरौ द्रोणेन निहतौ रणे ।
वार्धक्षेमिर्महाराज समुद्र इव पर्वणि ॥२८॥

आयुधक्षयमासाद्य प्रशान्तिं परमां गतः ।
सेनाबिन्दुसुतः श्रेष्ठः शस्त्रवान् प्रवरो युधि ॥२९॥

बाह्लिकेन महाराज कौरवेन्द्रेण पातितः ।
धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः ॥३०॥

कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ।
तथा सत्यधृतिर्वीरः कृत्वा कदनमाहवे ॥३१॥

पाण्डवार्थे पराक्रान्तो गमितो यमसादनम् ।
सेनाबिन्दुः कुरुश्रेष्ठः कृत्वा कदनमाहवे ॥३२॥

पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपतिः ।
निहत्य शात्रवान्संख्ये द्रोणेन निहतो युधि ॥३३॥

तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान् ।
सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः ॥३४॥

श्रेणिमांश्च महाराज युध्यमानः पराक्रमी ।
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥३५॥

तथैव युधि विक्रान्तो मागधः परमास्त्रवित् ।
भीष्मेण निहतो राजञ्शेतेऽद्य परवीरहा ॥३६॥

विराटपुत्रः शङ्खस्तु उत्तरश्च महारथः ।
कुर्वन्तौ सुमहत्कर्म गतौ वैवस्वतक्षयम् ॥३७॥

वसुदानश्च कदनं कुर्वाणोऽतीव संयुगे ।
भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥३८॥

एते चान्ये च बहवः पाण्डवानां महारथाः ।
हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि ॥३९॥

इति श्रीमहाभारते कर्णपर्वणि सञ्जयवाक्ये षष्ठोऽध्यायः ॥६॥
सप्तमोऽध्यायः

धृतराष्ट्र उवाच। मामकस्यास्य सैन्यस्य हृतोत्सेकस्य सञ्जय ।
अवशेषं न पश्यामि ककुदे मृदिते सति ॥१॥

मामकस्योति । हृतोत्सेकस्य केदारान्प्रति प्रापितोदकस्य क्षुद्रसरस इवावशेषं न पश्यामि । ककुदे प्रधानपुरुषसमूहे भीष्मद्रोणकर्णरूपे मृदिते नाशिते सति ॥१॥

तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ ।
भीष्मद्रोणौ हतौ श्रुत्वा नार्थो वै जीवितेऽसति ॥२॥

असति तुच्छे ॥२॥

न च शोचामि राधेयं हतमाहवशोभनम् ।
यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम् ॥३॥

शतं शतं सहस्रदशकम् । आर्षो विभक्तिव्यत्ययः । कुञ्जराणामयुतेन तुल्यं बाह्वोर्बलं यस्य तस्यापि वधेन मृष्यामीति न अपि तु मृष्याम्येव । मृत्युजयिनो भीष्मस्य क्षात्रब्राह्मोभयबलवतो द्रोणस्य च वधं कुर्वतां परेषां कर्णवधस्येषत्करत्वादिति भावः ॥३॥

हतप्रवरसैन्यं मे यथा शंससि सञ्जय ।
अहतानपि मे शंस केऽत्र जीवन्ति के च न ॥४॥

एतेषु हि मृतेष्वद्य ये त्वया परिकीर्तिताः ।
येऽपि जीवन्ति ते सर्वे मृता इति मतिर्मम ॥५॥

मृताः मृतप्रायाः ॥५॥

सञ्जय उवाच। यस्मिन्महास्त्राणि समर्पितानि चित्राणि शुभ्राणि चतुर्विधानि ।
दिव्यानि राजन्विहितानि चैव द्रोणेन वीरे द्विजसत्तमेन ॥६॥

चित्राणि अनेकनानायुधप्रसवक्षमाणि शुभ्राणि दीप्तिमन्ति चतुर्विधानि दृढदूरसूक्ष्मशब्दवेधीनि विहितानि धनुर्वेदोदितानि । चित्रशुभ्रदिव्यविहितान्येव वा चतुर्विधानि । अत्र विहितानि कृत्रिमाणीति प्राञ्चः । अस्त्रान्तरनिवर्त्यमाग्नेयादि नतिमात्रनिवर्त्यं नारायणास्त्रादि प्रयोक्त्रैकनिवर्त्यं ब्रह्मशिर आदि । सर्वथाऽप्यनिवर्त्यं पाशुपतादि । एवं चतुर्विधानि वीरे निहितानि समर्पितानि ॥६॥

महारथः कृतिमान् क्षिप्रहस्तो दृढायुधो दृढमुष्टिर्दृढेषुः ।
स वीर्यवान् द्रोणपुत्रस्तरस्वी व्यवस्थितो योद्धुकामस्त्वदर्थे ॥७॥

कृतिमान् अवंध्ययत्नः ॥७॥

आनर्तवासी हृदिकात्मजोऽसौ महारथः सात्वतानां वरिष्ठः ।
स्वयं भोजः कृतवर्मा कृतास्त्रो व्यवस्थितो योद्धुकामस्त्वदर्थे ॥८॥

आर्तायनिः समरे दुष्प्रकम्प्यः सेनाग्रणीः प्रथमस्तावकानाम् ।
यः स्वस्रीयान्पाण्डवेयान्विसृज्य सत्यां वाचं स्वां चिकीर्षुस्तरस्वी ॥९॥

आर्तायनिः शल्यः स्वस्त्रीयान् भागिनेयान् । उभयोरेव भागिनेयत्त्वेऽपि लिङ्गसमवायात्सर्वेषां भागिनेयत्वम् ॥९॥

तेजोवधं सूतपुत्रस्य संख्ये प्रतिश्रुत्याजातशत्रोः पुरस्तात् ।
दुराधर्षः शक्रसमानवीर्यः शल्यः स्थितो योद्धुकामस्त्वदर्थे ॥१०॥

आजानेयैः सैन्धवैः पार्वतीयैर्नदीजकाम्बोजवनायुजैश्च ।
गान्धारराजः स्वबलेन युक्तो व्यवस्थितो योद्धुकामस्त्वर्थे ॥११॥

शारद्वतो गौतमश्चापि राजन् महाबाहुर्बहुचित्रास्त्रयोधी ।
धनुश्चित्रं सुमहद्भारसाहं व्यवस्थितो योद्धुकामः प्रगृह्य ॥१२॥

महारथः केकयराजपुत्रः सदश्वयुक्तं च पताकिनं च ।
रथं समारुह्य कुरुप्रवीर व्यवस्थितो योद्धुकामस्त्वदर्थे ॥१३॥

तथा सुतस्ते ज्वलनार्कवर्णं रथं समास्थाय कुरुप्रवीरः ।
व्यवस्थितः पुरुमित्रो नरेन्द्र व्यभ्रे सूर्यो भ्राजमानो यथा खे ॥१४॥

दुर्योधनो नागकुलस्य मध्ये व्यवस्थितः सिंह इवाबभासे ।
रथेन जाम्बूनदभूषणेन व्यवस्थितः समरे योत्स्यमानः ॥१५॥

स राजमध्ये पुरुषप्रवीरो रराज जाम्बूनदचित्रवर्मा ।
पद्मप्रभो वह्निरिवाल्पधूमो मेघान्तरे सूर्य इव प्रकाशः ॥१६॥

तथा सुषेणोऽप्यसिचर्मपाणिस्तवात्मजः सत्यसेनश्च वीरः ।
व्यवस्थितौ चित्रसेनेन सार्धं हृष्टात्मानौ समरे योद्धकामौ ॥१७॥

ह्रीनिषेवो भारत राजपुत्र उग्रायुधः क्षणभोजी सुदर्शः ।
जारासन्धिः प्रथमश्चादृढश्च चित्रायुधः श्रुतवर्मा जयश्च ॥१८॥

क्षणभोजी शीघ्रभोजी ॥१८॥

शलश्च सत्यव्रतदुःशलौ च व्यवस्थिताः सहसैन्या नराग्र्याः ।
कैतव्यानामधिपः शूरमानी रणे रणे शत्रुहा राजपुत्रः ॥१९॥

रथी हयी नागपत्तिप्रयायी व्यवस्थितो योद्धुकामस्त्वदर्थे ।
वीरः श्रुतायुश्च धृतायुधश्च चित्राङ्गदश्चित्रसेनश्च वीरः ॥२०॥

नागपत्तिप्रयायी नागैः पत्तिभिश्च प्रयातुं शीलमस्य । नागरथप्रयायीति पाठान्तरम् ॥२०॥

व्यवस्थिता योद्धकामा नराग्र्याः प्रहारिणो मानिनः सत्यसन्धाः ।
कर्णात्मजः सत्यसन्धो महात्मा व्यवस्थितः समरे योद्धुकामः ॥२१॥

अथापरौ कर्णसुतौ वरास्त्रौ व्यवस्थितौ लघुहस्तौ नरेन्द्र ।
महद्बलं दुर्भिदमल्पवीर्यैः समन्वितौ योद्धुकामौ त्वदर्थे ॥२२॥

एतैश्च मुख्यैरपरैश्च राजन् योधप्रवीरैरमितप्रभावैः ।
व्यवस्थितो नागकुलस्य मध्ये यथा महेन्द्रः कुरुराजो जयाय ॥२३॥

धृतराष्ट्र उवाच। आख्याता जीवमाना ये परे सैन्या यथायथम् ।
इतीदमवगच्छामि व्यक्तमर्थाभिपत्तितः ॥२४॥

सैन्याः सेनामर्हन्ति ते राजानः । यथायथं पक्षद्वयेऽपि जीवमाना आख्याताः इदं भाविजयपराजयादिकम् इत्यनेन पक्षद्वयबलतोलनेन व्यक्तं स्पष्टमभिगच्छामि जानामि अर्थाभिपत्तितः फलोपपत्तितः तेन जयो मदीयानां नास्तीति निश्चिनोमीति भावः ॥२४॥

वैशम्पायन उवाच। एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः ।
हतप्रवीरं विध्वस्तं किञ्चिच्छेषं स्वकं बलम् ॥२५॥

श्रुत्वा व्यामोहमागच्छच्छोकव्याकुलितेन्द्रियः ।
मुह्यमानोऽब्रवीच्चापि मुहूर्तं तिष्ठ सञ्जय ॥२६॥

व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम् ।
मनो मुह्यति चाङ्गानि न च शक्नोमि धारितुम् ॥२७॥

अङ्गानि चक्षुरादीनि मनश्च मुह्यति ॥२७॥

इत्येवमुक्त्वा वचनं धृतराष्ट्रोऽम्बिकासुतः ।
भ्रान्तचित्तस्ततः सोऽथ बभूव जगतीपतिः ॥२८॥

इति श्रीमहाभारते कर्णपर्वणि सञ्जयवाक्यं नाम सप्तमोऽध्यायः ॥७॥
अष्टमोऽध्यायः

जनमेजय उवाच। श्रुत्वा कर्णं हतं युद्धे पुत्रांश्चैव निपातितान् ।
नरेन्द्रः किञ्चिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत् ॥१॥

श्रुत्वेति ॥१॥

प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत् ।
तस्मिन् यदुक्तवान् काले तन्ममाचक्ष्व पृच्छतः ॥२॥

वैशम्पायन उवाच। श्रुत्वा कर्णस्य निधनमश्रद्धेयमिवाद्भुतम् ।
भूतसंमोहनं भीमं मेरोः संसर्पणं यथा ॥३॥

चित्तमोहमिवायुक्तं भार्गवस्य महामतेः ।
पराजयमिवेन्द्रस्य द्विषद्भ्यो भीमकर्मणः ॥४॥

भार्गवस्य रामस्य शुक्रस्य वा ॥४॥

दिवः प्रपतनं भानोरुर्व्यामिव महाद्युतेः ।
संशोषणमिवाचिन्त्यं समुद्रस्याक्षयांभसः ॥५॥

महीवियद्दिगम्बूनां सर्वनाशमिवाद्भुतम् ।
कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः ॥६॥

सञ्चिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः ।
नेदमस्तीति सञ्चिन्त्य कर्णस्य समरे वधम् ॥७॥

कर्णस्य वधं सञ्चिन्त्य मनस्यालोच्य इदं कृत्नं जगत्स्वसैन्यं वा नास्तीति सञ्चिन्त्य निश्चित्य विललापेति तृतीयेन सम्बन्धः ॥७॥

प्राणिनामेवमन्येषां स्यादपीति विनाशनम् ।
शोकाग्निना दह्यमानो धम्यमान इवाशये ॥८॥

प्राणिनामवध्यात्कर्णादन्येषां तृणतुल्यानां मन्दत्वादल्पवीर्यत्वात् इति अनेनैव प्रकारेण विनाशनं स्यादपीति हेतोराशये चेतसि धम्यमान इव विस्रस्ताङ्गः यथा भ्राष्ट्रे धम्यमानः पाषाणादिः शीर्यते तद्वद्विशीर्ण इत्यर्थः ॥८॥

विस्रस्ताङ्गः श्वसन् दीनो हाहेत्युक्त्वा सुदुःखितः ।
विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः ॥९॥

धृतराष्ट्र उवाच। सञ्जयाधिरथिर्वीरः सिंहद्विरद‌विक्रमः ।
वृषभप्रतिमस्कन्धो वृषभाक्षगतिश्चरन् ॥१०॥

वृषभो वृषभस्येव यो युद्धे न निवर्तते ।
शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा ॥११॥

न निवर्तते इति छेदः ॥११॥

यस्य ज्यातलशब्देन शरवृष्टिरवेण च ।
रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे ॥१२॥

यमाश्रित्य महाबाहुं विद्विषां जयकाङ्क्षया ।
दुर्योधनोऽकराद्वैरं पाण्डुपुत्रैर्महारथैः ॥१३॥

स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे ।
निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः ॥१४॥

यो नामन्यत वै नित्यमच्युतं च धनञ्जयम् ।
न वृष्णीन्सहितानन्यान्स्वबाहुबलदर्पितः ॥१५॥

शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ ।
अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे ॥१६॥

इति यः सततं मन्दमवोचल्लोभमोहितम् ।
दुर्योधनमवाचीनं राज्यकामुकमातुरम् ॥१७॥

अवाचीनं चिन्तयाऽधोमुखम् ॥१७॥

योऽजयत्सर्वकाम्बोजानावन्त्यान् केकयैः सह ।
गान्धारान् मद्र कान्मत्स्यांस्त्रिगर्तांस्तङ्गणाञ्शकान् ॥१८॥

पञ्चालांश्च विदेहांश्च कुलिन्दान् काशिकोसलान् ।
सुह्मानङ्गांश्च वङ्गांश्च निषादान् पुण्ड्रचीरकान् ॥१९॥

वत्सान्कलिङ्गांस्तरलानश्मकानृषिकानपि ।
जित्वैतान्समरे वीरश्चक्रे बलिभृतः पुरा ॥२०॥

शरव्रातैः सुनिशितैः सुतीक्ष्णैः कङ्कपत्रिभिः ।
दुर्योधनस्य वृद्ध्यर्थं राधेयो रथिनां वरः ॥२१॥

दिव्यास्त्रविन्महातेजाः कर्णो वैकर्तनो वृषः ।
सेनागोपश्च स कथं शत्रुभिः परमास्त्रवित् ॥२२॥

घातितः पाण्डवैः शूरैः समरे वीर्यशालिभिः ।
वृषो महेन्द्रो देवेषु वृषः कर्णो वरेष्वपि ॥२३॥

जलवर्षित्वाद्देवेषु महेन्द्रो वृषः । धनवर्षित्वान्मनुष्येषु कर्णो वृषः ॥२३॥

तृतीयमन्यं लोकेषु वृषं नैवानुशुश्रुम ।
उच्चैःश्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः ॥२४॥

तृतीयमेवमभितो वृष्टिकर्तारं वृषम् ॥२४॥

वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः ।
योजितः पार्थिवैः शूरैः समर्थैर्वीर्यशालिभिः ॥२५॥

अजित इति छेदः । योजितो नियोजितो मयेति वा ॥२५॥

दुर्योधनस्य वृद्ध्यर्थं कृत्स्नामुर्वीमथाजयत् ।
यं लब्ध्वा मागधो राजा सान्त्वमानोऽथ सौहृदैः ॥२६॥

यमिति । मागधोऽप्यस्यैव बलेन बलवानिति भावः॥२६॥

अरौत्सीत्पार्थिवं क्षत्रमृते यादवकौरवान् ।
तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना ॥२७॥

शोकार्णवे निमग्नोऽहं भिन्ना नौरिव सागरे ।
तं वृषं निहतं श्रुत्वा द्वैरथे रथिनां वरम्॥२८॥

शोकार्णवे निमग्नोऽहमप्लवः सागरे यथा ।
ईदृशैर्यद्यहं दुःखैर्न विनश्यामि सञ्जय ॥२९॥

अप्लवः नौकाहीनः ॥२९॥

वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम् ।
ज्ञातिसम्बन्धिमित्राणामिमं श्रुत्वा पराभवम् ॥३०॥

को मदन्यः पुमाँल्लोके न जह्यात्सूत जीवितम् ।
विषमग्निं प्रपातं च पर्वताग्रादहं वृणे ।
न हि शक्ष्यामि दुःखानि सोढुं कष्टानि सञ्जय ॥३१॥

इति श्रीमहाभारते कर्णपर्वणि धृतराष्ट्रवाक्येऽष्टमोऽध्यायः ॥८॥
नवमोऽध्यायः

सञ्जय उवाच। श्रिया कुलेन यशसा तपसा च श्रुतेन च ।
त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम् ॥१॥

श्रियेति ॥१॥

श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव ।
पर्यवस्थापयात्मानं मा विषादे मनः कृथाः ॥२॥

धृतराष्ट्र उवाच। दैवमेव परं मन्ये धि‌क्पौरुषमनर्थकम् ।
यत्र शालप्रतीकाशः कर्णोऽहन्यत संयुगे ॥३॥

हत्वा युधिष्ठिरानीकं पञ्चालानां रथव्रजान् ।
प्रताप्य शरवर्षेण दिशः सर्वा महारथः ॥४॥

मोहयित्वा रणे पार्थान् वज्रहस्त इवासुरान् ।
स कथं निहतः शेते वायुरुग्ण इव द्रुमः ॥५॥

शोकस्यान्तं न पश्यामि पारं जलनिधेरिव ।
चिन्ता मे वर्धतेऽतीव मुमूर्षा चापि जायते ॥६॥

कर्णस्य निधनं श्रुत्वा विजयं फाल्गुनस्य च ।
अश्रद्धेयमहं मन्ये वधं कर्णस्य सञ्जय ॥७॥

वज्रसारमयं नूनं हृदयं दुर्भिदं मम ।
यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णे न दीर्यते ॥८॥

आयुर्नूनं सुदीर्घं मे विहितं दैवतैः पुरा ।
यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः ॥९॥

धिग्जीवितमिदं चैव सुहृद्धीनस्य सञ्जय ।
अद्य चाहं दशामेतां गतः सञ्जय गर्हिताम् ॥१०॥

कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः ।
अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः ॥११॥

परिभूतः कथं सूत परैः शक्ष्यामि जीवितुम् ।
दुःखात्सुदुःखव्यसनं प्राप्तवानस्मि सञ्जय ॥१२॥

दुःखात् भीष्मद्रोणवधजात् दुःखं च व्यसनं च तदुभयं दुःखं कर्णवधजम् । व्यसनं शेषनाशजम् ॥१२॥

भीष्मद्रोणवधेनैव कर्णस्य च महात्मनः ।
नावशेषं प्रपश्यामि सूतपुत्रे हते युधि ॥१३॥

तदेवाह- भीष्मेत्यादिना ॥१३॥

स हि पार्थ महानासीत्पुत्राणां मम सञ्जय ।
युद्धे हि निहतः शूरो विसृजन्सायकान् बहून् ॥१४॥

पार्यं पारप्रदं नौकास्थानीयम् ॥१४॥

को हि मे जीवितेनार्थस्तमृते पुरुषर्षभम् ।
रथादाधिरथिर्नूनं न्यपतत्सायकार्दितः ॥१५॥

पर्वतस्येव शिखरं वज्रपाताद्विदारितम् ।
स शेते पृथिवीं नूनं शोभयन् रुधिरोक्षितः ॥१६॥

मातङ्ग इव मत्तेन द्विपेन्द्रेण निपातितः ।
यो बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम् ॥१७॥

सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम् ।
स हि वीरो महेष्वासो मित्राणामभयङ्करः ॥१८॥

प्रतिमानं ध्वजभूतम् ॥१८॥

शेते विनिहतो वीरो देवेन्द्रेण इवाचलः ।
पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम् ॥१९॥

यथा पङ्गोरध्वगमनं दुर्घटमेवं दुर्योधनस्याकूतमभिप्रायो दुर्घटः । तृषितस्य विप्रुषो जलबिन्दवो यथा तृष्णोपशमाय न भवन्ति । एवं दुर्योधनचेष्टितमपीष्टसिद्ध्यर्थे न पर्याप्तमित्यर्थः ॥१९॥

दुर्योधनस्य चाकूतं तृषितस्येव विप्रुषः ।
अन्यथा चिन्तितं कार्यमन्यथा तत्तु जायते ॥२०॥

अहो नु बलवद्दैवं ‘कालश्च दुरतिक्रमः’ ।
पलायमानः कृपणो दीनात्मा दीनपौरुषः ॥२१॥

दीनपौरुषः नष्टपराक्रमः ॥२१॥

कच्चिद्विनिहतः सूत पुत्रो दुःशासनो मम ।
कच्चिन्न दीनाचरितं कृतवांस्तात संयुगे ॥२२॥

कच्चिन्न निहतः शूरो यथाऽन्ये क्षत्रियर्षभाः ।
युधिष्ठिरस्य वचनं मा युध्यस्वेति सर्वदा ॥२३॥

अन्ये क्षुद्राः ॥२३॥

दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम् ।
शरतल्पे शयानेन भीष्मेण सुमहात्मना ॥२४॥

पानीयं याचितः पार्थः सोऽविध्यन्मेदिनीतलम् ।
जलस्य धारां जनितां दृष्ट्वा पाण्डुसुतेन च ॥२५॥

अब्रवीत्स महाबाहुस्तात संशाम्य पाण्डवैः ।
प्रशमाद्धि भवेच्छान्तिर्मदन्तं युद्धमस्तु वः ॥२६॥

भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह ।
अकुर्वन्वचनं तस्य नूनं शोचति पुत्रकः ॥२७॥

तदिदं समनुप्राप्तं वचनं दीर्घदर्शिनः ।
अहं तु निहतामात्यो हतपुत्रश्च सञ्जय ॥२८॥

द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः ।
यथा हि शकुनिं गृह्य छित्त्वा पक्षौ च सञ्जय ॥२९॥

विसर्जयन्ति संहृष्टास्ताड्यमानाः कुमारकाः ।
लूनपक्षतया तस्य गमनं नोपपद्यते ॥३०॥

ताड्यमानाः ताडयन्तः ॥३०॥

तथाऽहमपि संप्राप्तो लूनपक्ष इव द्विजः ।
क्षीणः सर्वार्थहीनश्च निर्ज्ञातिर्बन्धुवर्जितः ।
कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः ॥३१॥

वैशम्पायन उवाच। इत्येवं धृतराष्ट्रोऽथ विलप्य बहु दुःखितः ।
प्रोवाच सञ्जयं भूयः शोकव्याकुलमानसः ॥३२॥

धृतराष्ट्र उवाच। योऽजयत्सर्वकाम्बोजानम्बष्ठान्केकयैः सह ।
गान्धारांश्च विदेहांश्च जित्वा कार्यार्थमाहवे ॥३३॥

दुर्योधनस्य वृद्ध्यर्थं योऽजयत्पृथिवीं प्रभुः ।
स जितः पाण्डवैः शूरैः समरे बाहुशालिभिः ॥३४॥

तस्मिन् हते महेष्वासे कर्णे युधि किरीटिना ।
के वीराः पर्यतिष्ठन्त तन्ममाचक्ष्व सञ्जय ॥३५॥

कच्चिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे ।
उक्तं त्वया पुरा तात यथा वीरो निपातितः ॥३६॥

भीष्ममप्रतियुद्ध्यन्तं शिखण्डी सायकोत्तमैः ।
पातयामास समरे सर्वशस्त्रभृतां वरम् ॥३७॥

अप्रतियुद्ध्यन्तं शिखण्डिना प्रतियुद्धमनङ्गीकुर्वाणम् ॥३७॥

तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि ।
युक्तयोगो महेष्वासः शरैर्बहुभिराचितः ॥३८॥

द्रौपदिना द्रुपदपुत्रेण धृष्टद्युम्नेन ॥३८॥

निहतः खड्गमुद्यम्य धृष्टद्युम्नेन सञ्जय ।
अन्तरेण हतावेतौ छलेन च विशेषतः ॥३९॥

अश्रौषमहमेतद्वै भीष्मद्रोणौ निपातितौ ।
भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम् ॥४०॥

न्यायेन युध्यमानौ हि तद्वै सत्यं ब्रवीमि ते ।
कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च ॥४१॥

कथमिन्द्रोपमं वीरं मृत्युर्युद्धे समस्पृशत् ।
यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम् ॥४२॥

प्रायच्छद्द्विषतां हन्त्रीं कुण्डलाभ्यां पुरन्दरः ।
यस्य सर्पमुखो दिव्यः शरः काञ्चनभूषणः ॥४३॥

कुण्डलाभ्यां सकवचाभ्यामर्थे तादर्थ्ये चतुर्थी ॥४३॥

अशेत निहतः पत्री चन्दनेष्वरिसूदनः ।
भीष्मद्रोणमुखान्वीरान्योऽवमन्ये महारथान् ॥४४॥

अवमन्ये अवमेने ॥४४॥

जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत ।
यश्च द्रोणमुखान् दृष्ट्वा विमुखानर्दिताञ्शरैः ॥४५॥

सौभद्रस्य महाबाहुर्व्यधमत्कार्मुकं शितैः ।
यश्च नागायुतप्राणं वज्ररंहसमच्युतम् ॥४६॥

विरथं सहसा कृत्वा भीमसेनमथाहसत् ।
सहदेवं च निर्जित्य शरैः सन्नतपर्वभिः ॥४७॥

कृपया विरथं कृत्वा नाहनद्धर्मचिन्तया ।
यश्च मायासहस्त्राणि विकुर्वाणं जयैषिणम् ॥४८॥

घटोत्कचं राक्षसेन्द्रं शक्रशक्त्या निजघ्निवान् ।
एतांश्च दिवसान्यस्य युद्धे भीतो धनञ्जयः ॥४९॥

नागमद्द्वैरथं बीरः स कथं निहतो रणे ।
संशप्तकानां योधा ये आह्वयन्त सदाऽन्यतः ॥५०॥

एतान्हत्वा हनिष्यामि पश्चाद्वैकर्तनं रणे ।
इति व्यपदिशन् पार्थो वर्जयन् सूतजं रणे ॥५१॥

स कथं निहतो वीरः पार्थेन परवीरहा ।
रथभङ्गो न चेत्तस्य धनुर्वा न व्यशीर्यत ॥५२॥

रथेति । रथभङ्गाद्यभावे तस्य मृत्युर्न भवेदिति भावः ॥५२॥

न चेदस्त्राणि निर्णेशुः स कथं निहतः परैः ।
को हि शक्तो रणे कर्णं विधुन्वानं महद्धनुः ॥५३॥

विमुञ्चन्तं शरान् घोरान् दिव्यान्यस्त्राणि चाहवे ।
जेतुं पुरुषशार्दूलं शार्दूलमिव वेगिनम् ॥५४॥

ध्रुवं तस्य धनुश्छिन्नं रथो वाऽपि महीङ्गतः ।
अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम् ॥५५॥

न ह्यन्यदपि पश्यामि कारणं तस्य नाशने ।
न हन्मि फाल्गुनं यावत्तावत्पादौ न धावये ॥५६॥

इति यस्य महाघोरं व्रतमासीन्महात्मनः ।
यस्य भीतो रणे निद्रां धर्मराजो युधिष्ठिरः ॥५७॥

त्रयोदश समा नित्यं नाभजत्पुरुषर्षभः ।
यस्य वीर्यवतो वीर्यमुपाश्रित्य महात्मनः ॥५८॥

मम पुत्रः सभां भार्यां पाण्डूनां नीतवान्बलात् ।
तत्रापि च सभामध्ये पाण्डवानां च पश्यताम् ॥५९॥

दासभार्येति पाञ्चालीमब्रवीत्कुरुसन्निधौ ।
न सन्ति पतयः कृष्णे सर्वे षण्ढतिलैः समाः ॥६०॥

उपतिष्ठस्व भर्तारमन्यं वा वरवर्णिनि ।
इत्येवं यः पुरा वाचो रूक्षाः संश्रावयन् रुषा ॥६१॥

सभायां सूतजः कृष्णां स कथं निहतः परैः ।
यदि भीष्मो रणश्लाघी द्रोणो वा युधि दुर्मदः ॥६२॥

न हनिष्यति कौन्तेयान्पक्षपातात्सुयोधन ।
सर्वानेव हनिष्यामि व्येतु ते मानसो ज्वरः ॥६३॥

किं करिष्यति गाण्डीवमक्षय्यौ च महेषुधी ।
स्निग्धचन्दनदिग्धस्य मच्छरस्याभिधावतः ॥६४॥

स नूनमृषभस्कन्धो ह्यर्जुनेन कथं हतः ।
यश्च गाण्डीवमुक्तानां स्पर्शसुग्रमचिन्तयन् ॥६५॥

अपतिर्ह्यसि कृष्णेति ब्रुवन्पार्थानवैक्षत ।
यस्य नासीद्भयं पार्थैः सपुत्रैः सजनार्दनैः ॥६६॥

स्ववाहुबलमाश्रित्य मुहूर्तमपि सञ्जय ।
तस्य नाहं वधं मन्ये देवैरपि सवासवैः ॥६७॥

प्रतीपमभिधावद्भिः किंपुनस्तात पाण्डवैः ।
न हि ज्यां संस्पृशानस्य तलत्रे वाऽपि गृह्णतः ॥६८॥

प्रतीपं प्रातिभट्येन अभिधावद्भिः सर्वदिग्भ्यः समागतैः ॥६८॥

पुमानाधिरथेः स्थातुं कश्चित्प्रमुखतोऽर्हति ।
अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः ॥६९॥

आधिरथेः अधिरथपुत्रस्यासोमसूर्यसाहचर्यात् प्रकर्षेण भातीति योगाच्च प्रभो वह्निः तेषां त्रयाणामंशुभिर्मयूखैः ॥६९॥

न वधः पुरुषेन्द्रस्य संयुगेष्वपलायिनः ।
येन मन्दः सहायेन भ्रात्रा दुःशासनेन च ॥७०॥

मन्दो दुर्योधनः ॥७०॥

वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानमरोचत ।
स नूनं वृषभस्कन्धं कर्णं दृष्ट्वा निपातितम् ॥७१॥

दुःशासनं च निहतं मन्ये शोचति पुत्रकः ।
हतं वैकर्तनं श्रुत्वा द्वैरथे सव्यसाचिना ॥७२॥

जयतः पाण्डवान् दृष्ट्वा किंस्विद्दुर्योधनोऽब्रवीत् ।
दुर्मर्षणं हतं दृष्ट्वा वृषसेनं च संयुगे ॥७३॥

प्रभग्नं च वलं दृष्ट्वा वध्यमानं महारथैः ।
पराङ्मुखांश्च राज्ञस्तु पलायनपरायणान् ॥७४॥

प्राङ्मुखानिति पाठे निवर्तितमुखान् । प्रत्यङ्मुखाः कौरवाः यदि पलायन्ते तदा प्राङ्मुखा एव भवन्तीत्यर्थः ॥७४॥

विद्रुतान् रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः ।
अनेयश्चाभिमानी च दुर्बुद्धिरजितेन्द्रियः ॥७५॥

अनेयः अशिक्षणीयः येतोऽभिमानी विद्वत्त्वाभिमानी अत एव दुर्बुद्धिः हितमजानन् ॥७५॥

हतोत्साहं बलं दृष्ट्वा किंस्विद्दुर्योधनोऽब्रवीत् ।
स्वयं वैरं महत्कृत्वा वार्यमाणः सुहृद्गणैः ॥७६॥

प्रधने हतभूयिष्ठैः किंस्विद्दुर्योधनोऽब्रवीत् ।
भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे ॥७७॥

प्रधने रणे ॥७७॥

रुधिरे पीयमाने च किंद्विद्दुर्योधनोऽब्रवीत् ।
सह गान्धारराजेन सभायां यदभाषत ॥७८॥

कर्णोऽर्जुनं रणे हन्ता हते तस्मिन् किमब्रवीत् ।
द्यूतं कृत्वा पुरा हृष्टो वञ्चयित्वा च पाण्डवान् ॥७९॥

शकुनिः सौबलस्तात हते कर्णे किमब्रवीत् ।
कृतवर्मा महेष्वासः सात्वतानां महारथः ॥८०॥

हतं वैकर्तनं दृष्ट्वा हार्दिक्यः किमभाषत ।
ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते ॥८१॥

धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः ।
युवा रूपेण संपन्नो दर्शनीयो महायशाः ॥८२॥

अश्वत्थामा हते कर्णे किमभाषत सञ्जय ।
आचार्यो यो धनुर्वेदे गौतमो रथसत्तमः ॥८३॥

कृपः शारद्वतस्तात हते कर्णे किमब्रवीत् ।
मद्रराजो महेष्वासः शल्यः समिति शोभनः ॥८४॥

दृष्ट्वा विनिहतं कर्णं सारथ्ये रथिनां वरः ।
किमभाषत सौवीरो मद्राणामधिपो बली ॥८५॥

दृष्ट्वा विनिहतं सर्वे योधा वारणदुर्जयाः ।
ये च केचन राजानः पृथिव्यां योद्धुमागताः ।
वैकर्तनं हतं दृष्ट्वा कान्यभाषन्त सञ्जय ॥८६॥

कानि वाक्यानीति शेषः ॥८६॥

द्रोणे तु निहते वीरे रथव्याघ्रे नरर्षभे ।
के वा मुखमनीकानामासन् सञ्जय भागशः ॥८७॥

मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः ।
वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व सञ्जय ॥८८॥

केऽरक्षन् दक्षिणं चक्रं सूतपुत्रस्य युध्यतः ।
वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः ॥८९॥

के कर्णं न जहुः शूराः के क्षुद्राः प्राद्रवंस्ततः ।
कथं च वः समेतानां हतः कर्णो महारथः ॥९०॥

पाण्डवाश्च स्वयं शूराः प्रत्युदीयुर्महारथाः ।
सृजन्तः शरवर्षाणि वारिधारा इवाम्बुदाः ॥९१॥

प्रत्युदीयुः कथामिति शेषः॥९१॥

स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा ।
व्यर्थः कथं समभवत्तन्ममाचक्ष्व सञ्जय ॥९२॥

मामकस्यास्य सैन्यस्य हतोत्सेधस्य सञ्जय ।
अवशेषं न पश्यामि ककुदे मृदिते सति ॥९३॥

हतोत्सेधस्य विनष्टोत्कर्षस्य ॥९३॥

तौ हि वीरौ महेष्वासौ मदर्थे त्यक्तजीवितौ ।
भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे ॥९४॥

पुनः पुनर्न मृष्यामि हतं कर्णं च पाण्डवैः ।
यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतैः ॥९५॥

द्रोणे हते च यद्वृत्तं कौरवाणां परैः सह ।
संग्रामे नरवीराणां तन्ममाचक्ष्व सञ्जय ॥९६॥

यथा कर्णश्च कौन्तेयैः सह युद्धमयोजयत् ।
तथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम् ॥९७॥

इति श्रीमहाभारते कर्णपर्वणि धृतराष्ट्रप्रश्ने नवमोऽध्यायः ॥९॥
दशमोऽध्यायः

सञ्जय उवाच। हते द्रोणे महेष्वासे तस्मिन्नहनि भारत ।
कृते च मोघसङ्कल्पे द्रोणपुत्रे महारथे ॥१॥

हते द्रोण इति ॥१॥

द्रवमाणे महाराज कौरवाणां बलार्णवे ।
व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद्भ्रातृभिर्वृतः ॥२॥

तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ ।
विद्रुतं स्वबलं दृष्ट्वा पौरुषेण न्यवारयत् ॥३॥

स्वबलं प्रतिविद्रुतं द्रवन्तं दृष्ट्वा ॥३॥

स्वमनीकमवस्थाप्य बाहुवीर्यमुपाश्रितः ।
युद्ध्वा च सुचिरं कालं पाण्डवैः सह भारत ॥४॥

लब्धलक्षैः परैर्हष्टैर्व्यायच्छद्भिश्चिरं तदा ।
संध्याकालं समासाद्य प्रत्यहारमकारयत् ॥५॥

लब्धलक्षैः प्राप्तजयैः व्यायच्छद्भिः यतमानैः प्रत्यहारं प्रत्यवहारं प्रत्याहारमिति वा पाठः ॥५॥

कृत्वाऽवहारं सैन्यानां प्रविश्य शिबिरं स्वकम् ।
कुरवः सुहितं मन्त्रं मन्त्रयाञ्चक्रिरे मिथः ॥६॥

पर्यङ्गेषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च ।
वरासनेषूपविष्टाः सुखशय्यास्विवामराः ॥७॥

पर्यङ्केष्वेव वरासनेषु ॥७॥

ततो दुर्योधनो राजा साम्ना परमवल्गुना ।
तानाभाष्य महेष्वासान् प्राप्तकालमभाषत ॥८॥

साम्ना प्रियवचसा परमवल्गुनाऽतिमधुरेण ॥८॥

मतं मतिमतां श्रेष्ठाः सर्वे प्रब्रूत मा चिरम् ।
एवं गते तु किं कार्यं किं च कार्यतरं नृपाः ॥९॥

कार्यतरम् आवश्यकतरं यत्कार्यं कर्तव्यं परं मतं सम्मतं तत् प्रब्रूत ॥९॥

सञ्जय उवाच। एवमुक्ते नरेन्द्रेण नरसिंहा युयुत्सवः ।
चक्रुर्नानाविधाश्चेष्टाः सिंहासनगतास्तदा ॥१०॥

चेष्टाः शौर्याभिनयरूपाः भुजास्फालनाद्याः ॥१०॥

तेषां निशाम्येङ्गितानि युद्धे प्राणाञ्जुहूषताम् ।
समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसम् ॥११॥

निशाम्य आलोच्य वर्चसं छान्दसष्टच् ॥११॥

आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे ।
रागो योगस्तथा दाक्ष्यं नयश्चेत्यर्थसाधकाः ॥१२॥

रागः स्वामिभक्तिः योगो देशकालादिसंपत्तिः । दाक्ष्यं बलम् । नयो नीतिः ॥१२॥

उपायाः पण्डितैः प्रोक्तास्ते तु दैवमुपाश्रिताः ।
लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः ॥१३॥

नीतिमन्तस्तथा युक्ता दक्षा रक्ताश्च ते हताः ।
न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति ॥१४॥

सुनीतैरिह सर्वार्थैर्देवमप्यनुलोम्यते ।
ते वयं प्रवरं नॄणां सर्वैर्गुणगणैर्युतम् ॥१५॥

सर्वार्थैः रागादिभिः सुनीतैः दैवमनुलोम्यतेऽनुकूलं क्रियते । न केवलं रागाद्यपेक्षया दैवस्य प्राबल्यमपि तु देवापेक्षयाऽपि सुप्रणीता रागादयः प्रबला इत्यर्थः ॥१५॥

कर्णमेवाभिषेक्ष्यामः सैनापत्येन भारत ।
कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून् ॥१६॥

एष ह्यतिबलः शूरः कृतास्त्रो युद्धदुर्मदः ।
वैवस्वत इवासह्यः शक्तो जेतुं रणे रिपून् ॥१७॥

एतदाचार्यतनयाच्छ्रुत्वा राजंस्तवात्मजः ।
आशां बहुमतीं चक्रे कर्णं प्रति स वै तदा ॥१८॥

बहुमतीं बाहुल्यवतीम् अतिशयितामिति यावत् ॥१८॥

हते भीष्मे च द्रोणे च कर्णो जेष्यति पाण्डवान् ।
तामाशां हृदये कृत्वा समाश्वस्य च भारत ॥१९॥

ततो दुर्योधनः प्रीतः प्रियं श्रुत्वाऽस्य तद्वचः ।
प्रीतिसत्कारसंयुक्तं तथ्यमात्महितं शुभम् ॥२०॥

शुभं वचः श्रुत्वा मनः समवस्थाप्य समाधायाब्रवीदिति द्वयोः सम्बन्धः ॥२०॥

स्वं मनः समवस्थाप्य बाहुवीर्यमुपाश्रितः ।
दुर्योधनो महाराज राधेयमिदमब्रवीत् ॥२१॥

कर्ण जानामि ते वीर्यं सौहृदं परमं मयि ।
तथापि त्वां महाबाहो प्रवक्ष्यामि हितं वचः ॥२२॥

श्रुत्वा यथेष्टं च कुरु वीर यत्तव रोचते ।
भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः ॥२३॥

भीष्मद्रोणावतिरथौ हतौ सेनापती मम ।
सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः ॥२४॥

ताभ्यां सकाशात् द्रविणवत्तरः ॥२४॥

वृद्धौ च तौ महेष्वासौ सापेक्षौ च धनञ्जये ।
मानितौ च मया वीरौ राधेय वचनात्तव ॥२५॥

पितामहत्वं संप्रेक्ष्य पाण्डुपुत्रा महारणे ।
रक्षितास्तात भीष्मेण दिवसानि दशैव तु ॥२६॥

न्यस्तशस्त्रे च भवति हतो भीष्मः पितामहः ।
शिखण्डिनं पुरस्कृत्य फाल्गुनेन महाहवे ॥२७॥

हते तस्मिन्महेष्वासे शरतल्पगते तथा ।
त्वयोक्ते पुरुषव्याघ्र द्रोणो ह्यासीत्पुरःसरः ॥२८॥

तेनापि रक्षिताः पार्थाः शिष्यत्वादिति मे मतिः ।
स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम् ॥२९॥

निहताभ्यां प्रधानाभ्यां ताभ्यां नमितविक्रम ।
त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन् ॥३०॥

ताभ्यामपि नमितः सम्यक्ज्ञातो विक्रमो यस्य ॥३०॥

भवानेव तु नः शक्तो विजयाय न संशयः ।
पूर्वं मध्ये च पश्चाच्च तथैव विहितं हितम् ॥३१॥

विहितं त्वयेति शेषः ॥३१॥

स भवान् धुर्यवत्संख्ये धुरमुद्वोढुमहति ।
अभिषेचय सैनान्ये स्वयमात्मानमात्मना ॥३२॥

सैन्यान्ये सेनानीत्वे सैनापत्ये ॥३२॥

देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः ।
तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु वै ॥३३॥

जहि शत्रुगणान्सर्वान्महेन्द्रो दानवानिव ।
अवस्थितं रणे दृष्ट्वा पाण्डवास्त्वां महारथाः ॥३४॥

द्रविष्यन्ति च पञ्चाला विष्णुं दृष्ट्वेव दानवाः ।
तस्मात्त्वं पुरुषव्याघ्र प्रकर्षैतां महाचमूम् ॥३५॥

भवत्यवस्थिते यत्ते पाण्डवा मन्दचेतसः ।
द्रविष्यन्ति सहामात्याः पञ्चालाः सृञ्जयाश्च ह ॥३६॥

यथा ह्यभ्युदितः सूर्यः प्रतपन् स्वेन तेजसा ।
व्यपोहति तमस्तीव्रं तथा शत्रून्प्रतापय ॥३७॥

सञ्जय उवाच। आशा बलवती राजन्पुत्रस्य तव याऽभवत् ।
हते भीष्मे च द्रोणे च कर्णो जेष्यति पाण्डवान् ॥३८॥

तामाशां हृदये कृत्वा कर्णमेवं तदाऽब्रवीत् ।
सूतपुत्र न ते पार्थः स्थित्वाऽग्रे संयुयुत्सति॥३९॥

कर्णमेवं तदाऽब्रवीत् दुर्योधन इति शेषः । न संयुयुत्सति युद्धेच्छामपि न करिष्यति किं पुनर्युद्धमिति भावः ॥३९॥

कर्ण उवाच। उक्तमेतन्मया पूर्वं गान्धारे तव सन्निधौ ।
जेष्यामि पाण्डवान्सर्वान् सपुत्रान् सजनार्दनान् ॥४०॥

सेनापतिर्भविष्यामि तवाहं नात्र संशयः ।
स्थिरो भव महाराज जितान् विद्धि च पाण्डवान् ॥४१॥

सञ्जय उवाच। एवमुक्तो महाराज ततो दुर्योधनो नृपः ।
उत्तस्थौ राजभिः सार्धं देवैरिव शतक्रतुः ॥४२॥

सैनापत्येन सत्कर्तुं कर्णं स्कन्द‌मिवामराः ।
ततोऽभिषिषिचुः कर्णं विधिदृष्टेन कर्मणा ॥४३॥

दुर्योधनमुखा राजन् राजानो विजयैषिणः ।
शातकुम्भमयैः कुम्भैर्माहेयैश्चाभिमन्त्रितैः ॥४४॥

शातकुम्भमयैः सौवर्णैर्माहेयैर्महीमयैश्च कुम्भैः ॥४४॥

तोयपूर्णविषाणैश्च द्विपखड्गमहर्षभैः ।
मणिमुक्तायुतैश्चान्यैः पुण्यगन्धैस्तथौषधैः ॥४५॥

विषाणैः द्विपस्य गजस्य दन्तमयैः पात्रैः खड्गस्य गण्डकस्य महर्षभस्य गवयस्य च शृङ्गैः। ‘विषाणं दन्तशृङ्गयोः’ इति विश्वः । द्विपखड्गमहर्षभीयैरिति तद्धितलोप आर्षः ॥४५॥

औदुम्बरे सुखासीनमासने क्षौमसंवृते ।
शास्त्रदृष्टेन विधिना संभारैश्च सुसंभृतैः ॥४६॥

ब्राह्मणाः क्षत्रिया वैश्यास्तथा शूद्राश्च संमताः ।
तुष्टुवुस्तं महात्मानमभिषिक्तं वरासने ॥४७॥

ततोऽभिषिक्ते राजेन्द्र निष्कैर्गोभिर्धनेन च ।
वाचयामास विप्राग्र्यान् राधेयः परवीरहा ॥४८॥

जय पार्थान्सगोविन्दान्सानुगांस्तान्महामृधे ।
इति तं बन्दिनः प्राहुर्द्विजाश्च पुरुषर्षभम् ॥४९॥

जहि पार्थान्सपाञ्चालान्राधेय विजयाय नः ।
उद्यन्निव सदा भानुस्तमांस्युग्रैर्गभस्तिभिः ॥५०॥

न ह्यलं त्वद्विसृष्टानां शराणां वै सकेशवाः ।
उलूकाः सूर्यरश्मीनां ज्वलतामिव दर्शने ॥५१॥

न हीति । शराणां दर्शनेऽपि नालं किमुत स्पर्शे इत्यर्थः ॥५१॥

न हि पार्थाः सपाञ्चालाः स्थातुं शक्तास्त्वाग्रतः ।
आत्तशस्त्रस्य समरे महेन्द्रस्येव दानवाः ॥५२॥

अभिषिक्तस्तु राधेयः प्रभया सोऽमितप्रभः ।
अत्यरिच्यत रूपेण दिवाकर इवापरः ॥५३॥

सैनापत्ये तु राधेयमभिषिच्य सुतस्तव ।
अमन्यत तदाऽऽत्मानं कृतार्थं कालचोदितः ॥५४॥

कर्णोऽपि राजन्संप्राप्य सैनापत्यमरिन्दमः ।
योगमाज्ञापयामास सूर्यस्योदयनं प्रति ॥५५॥

तव पुत्रैर्वृतः कर्णः शुशुभे तत्र भारत ।
देवैरिव यथा स्कन्दः संग्रामे तारकामये ॥५६॥

इति श्रीमहाभारते कर्णपर्वणि कर्णाभिषेके दशमोऽध्यायः ॥१०॥
एकादशोऽध्यायः

धृतराष्ट्र उवाच। सैनापत्यं तु संप्राप्य कर्णो वैकर्तनस्तदा ।
तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः ॥१॥

सैनेति ॥१॥

योगमाज्ञाप्य सेनानामादित्येऽभ्युदिते तदा ।
अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व सञ्जय ॥२॥

सञ्जय उवाच। कर्णस्य मतमाज्ञाय पुत्रास्ते भरतर्षभ ।
योगमाज्ञापयामासुर्नन्दितूर्यपुरःसरम् ॥३॥

नन्दितूर्यम् आनन्दवाद्यम् ॥३॥

महत्यपररात्रे च तव सैन्यस्य मारिष ।
योगो योगेति सहसा प्रादुरासीन्महास्वनः ॥४॥

कल्पतां नागमुख्यानां रथानां च वरूथिनाम् ।
सन्नह्यतां नराणां च वाजिनां च विशांपते ॥५॥

कल्पतां संनह्यमानानां वरूथिनां रथगुप्तिमताम् । सन्नह्यतां नराणां सन्नह्यमानानां गजादीनां च शब्दो बभूवेति द्वयोः सम्बन्धः ॥५॥

क्रोशतां चैव योधानां त्वरितानां परस्परम् ।
बभूव तुमुलः शब्दो दिवस्पृक् सुमहांस्ततः ॥६॥

ततः श्वेतपताकेन बलाकावर्णवाजिना ।
हेमपृष्ठेन धनुषा नागकक्षेण केतुना ॥७॥

श्वेतेत्यादि विशेषणद्वयं रथेनेत्यस्य ॥७॥

तूणीरशतपूर्णेन सगदेन वरूथिना ।
शतघ्नीकिंकिणीशक्तिशूलतोमरधारिणा ॥८॥

कार्मुकैरुपपन्नेन विमलादित्यवर्चसा ।
रथेनाभिपताकेन सूतपुत्रोऽभ्यदृश्यत ॥९॥

अभिपताकेन वायोः प्रातिकूल्यादभिमुखपताकेन । एतत्पराजयसूचकम् ॥९॥

ध्मापयन् वारिजं राजन् हेमजालविभूषितम् ।
विधुन्वानो महच्चापं कार्तस्वरविभूषितम् ॥१०॥

दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम् ।
भानुमन्तमिवोद्यन्तं तमो निघ्नन् दुरासदम् ॥११॥

निघ्नन् निघ्नन्तं घ्नन्तमिति वा पाठः ॥११॥

न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष ।
नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः ॥१२॥

ततस्तु त्वरयन् योधाञ्शंखशब्देन मारिष ।
कर्णो निष्कर्षयामास कौरवाणां महद्बलम् ॥१३॥

व्यूहं व्यूह्य महेष्वासो मकरं शत्रुतापनः ।
प्रत्युद्ययौ तथा कर्णः पाण्डवान् ‌विजिगीषया ॥१४॥

मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः ।
नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः ॥१५॥

द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः ।
मध्ये दुर्योधनो राजा बलेन महता वृतः ॥१६॥

वामपादे तु राजेन्द्र कृतवर्मा व्यवस्थितः ।
नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदैः ॥१७॥

पादे तु दक्षिणे राजन् गौतमः सत्यविक्रमः ।
त्रिगर्तैः सुमहेष्वासैर्दाक्षिणात्यैश्च संवृतः ॥१८॥

अनुपादे तु यो वामस्तत्र शल्यो व्यवस्थितः ।
महत्या सेनया सार्धं मद्रदेशसमुत्थया ॥१९॥

अनुपादे पादस्थानस्यापि पश्चाद्भागे ॥१९॥

दक्षिणे तु महाराज सुषेणः सत्यसंगरः ।
वृतो रथसहस्त्रेण दन्तिनां च त्रिभिः शतैः ॥२०॥

दक्षिणे अनुपादे ॥२०॥

पुच्छेह्यास्तां महावीर्यौ भ्रातरौ पार्थिवौ तदा ।
चित्रश्च चित्रसेनश्च महत्या सेनया वृतौ ॥२१॥

तथा प्रयाते राजेन्द्र कर्णे नरवरोत्तमे ।
धनञ्जयमभिप्रेक्ष्य धर्मराजोऽब्रवीदिदम् ॥२२॥

पश्य पार्थ यथा सेना धार्तराष्ट्रीह संयुगे ।
कर्णेन विहिता वीर गुप्ता वीरैर्महारथैः ॥२३॥

हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः ।
फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम ॥२४॥

एको ह्यत्र महेष्वासः सूतपुत्रो विराजते ।
सदेवासुरगन्धर्वैः सकिन्नरमहोरगैः ॥२५॥

चराचरैस्त्रिभिर्लोकैर्योऽजय्यो रथिनां वरः ।
तं हत्वाऽद्य महाबाहो विजयस्तव फाल्गुन ॥२६॥

उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः ।
एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि ॥२७॥

व्यूह रचय ॥२७॥

भ्रातुरेतद्वचः श्रुत्वा पाण्डवः श्वेतवाहनः ।
अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् ॥२८॥

वामपार्श्वे तु तस्याथ भीमसेनो व्यवस्थितः ।
दक्षिणे च महेष्वासो धृष्टद्युम्नो व्यवस्थितः ॥२९॥

मध्ये व्यूहस्य राजा तु पाण्डवश्च धनञ्जयः ।
नकुलः सहदेवश्च धर्मराजस्य पृष्ठतः ॥३०॥

चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
नार्जुनं जहतुर्युद्धे पाल्यमानौ किरीटिना ॥३१॥

शेषा नृपतयो वीराः स्थिता व्यूहस्य दंशिताः ।
यथाभागं यथोत्साहं यथायत्नं च भारत ॥३२॥

एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः ।
तावकाश्च महेष्वासा युद्धायैव मनो दधुः ॥३३॥

दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे ।
निहतान्पाण्डवान्मेने धार्तराष्ट्रः सबान्धवः ॥३४॥

तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः ।
धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिपः ॥३५॥

ततः शंखाश्च भेर्यश्च पणवानकदुन्दुभिः ।
डिण्डिमाश्चाप्यहन्यन्त झर्झराश्च समन्ततः ॥३६॥

सेनयोरुभयो राजन् प्रावाद्यन्त महास्वनाः ।
सिंहनादश्च सञ्जज्ञे शूराणां जयगृद्धिनाम् ॥३७॥

हयहेषितशब्दाश्च वारणानां च बृंहताम् ।
रथनेमिस्वनाश्चोग्राः संबभूवुर्जनाधिप ॥३८॥

न द्रोणव्यसनं कश्चिज्जानीते तत्र भारत ।
दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम् ॥३९॥

उभे सैन्ये महाराज प्रहृष्टनरसंकुले ।
योद्धुकामे स्थिते राजन् हन्तुमन्योन्यमोजसा ॥४०॥

तत्र यत्तौ सुसंरब्धौ दृष्ट्वाऽन्योन्यं व्यवस्थितौ ।
अनीकमध्ये राजेन्द्र चेरतुः कर्णपाण्डवौ ॥४१॥

नृत्यमाने च ते सेने समेयातां परस्परम् ।
तेषां पक्षैः प्रपक्षैश्च निर्जग्मुस्ते युयुत्सवः ॥४२॥

ततः प्रववृते युद्धं नरवारणवाजिनाम् ।
रथानां च महाराज अन्योन्यमभिनिघ्नताम् ॥४३॥

इति श्रीमहाभारते कर्णपर्वणि व्यूहनिर्माणे एकादशोऽध्यायः ॥११॥
द्वादशोऽध्यायः

सञ्जय उवाच। ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे ।
बृहत्यौ संप्रजह्राते देवासुरसमप्रभे ॥१॥

ते सेने इति । प्रगृह्यत्वाभावश्छान्दसः ॥१॥

ततो नररथाश्वेभैः पत्तयश्चोग्रविक्रमाः ।
संप्रहारान् भृशं चक्रुर्देहपाप्मासुनाशनान् ॥२॥

देहानां पाप्मनामसूनां च नाशनान् ॥२॥

पूर्णचन्द्रार्कपद्मानां कान्तिभिर्गन्धतः समैः ।
उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम् ॥३॥

पूर्णचन्द्रार्काणां कान्तिभिः समैः पद्मानां गन्धतः समैः तस्तरुः आस्तीर्णवन्तः ॥३॥

अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टिशैः ।
परश्वधैश्चाप्यकृन्तन्नुत्तमाङ्गानि युध्यताम् ॥४॥

व्यायतायतबाहूनां व्यायतायतबाहुभिः ।
बाहवः पातिता रेजुर्धरण्यां सायुधाङ्गदैः॥५॥

व्यायताः पुष्टाः आयताः दीर्घाः ॥५॥

तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तथा ।
गरुडप्रहितैरुग्रैः पञ्चास्यैरुरगैरिव ॥६॥

प्रहितैः निरस्तैः ओहाक् त्यागे ॥६॥

द्विरदस्यन्दनाश्वेभ्यः पेतुर्वीरा द्विषद्धताः ।
विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गसदस्तथा ॥७॥

गदाभिरन्ये गुर्वीभिः परिघैर्मुसलैरपि ।
पोथिताः शतशः पेतुर्वीरा वीरतरै रणे ॥८॥

रथा रथैर्विमथिता मत्ता मत्तैर्द्विपा द्विपैः ।
सादिनः सादिभिश्चैव तस्मिन्परमसंकुले ॥९॥

रथैर्नरा रथा नागैरश्वारोहाश्च पत्तिभिः ।
अश्वारोहैः पदाताश्च निहता युधि शेरते ॥१०॥

रथाश्वपत्तयो नागै रथाश्वेभाश्च पत्तिभिः ।
रथपत्तिद्विपाश्चाश्वै रथैश्चापि नरद्विपाः ॥११॥

रथाश्वेभनराणां तु नराश्वेभरथैः कृतम् ।
पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत् ॥१२॥

तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च ।
अस्मानभ्याययुः पार्था वृकोदरपुरोगमाः ॥१३॥

धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ।
सात्यकिश्चेकितानश्च द्राविडैः सैनिकैः सह ॥१४॥

वृता व्यूहेन महता पाण्ड्याश्चोलाः सकेरलाः ।
व्यूढोरस्का दीर्घभुजाः प्रांशवः पृथुलोचनाः ॥१५॥

आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः ।
नानाविरागवसना गन्धचूर्णावचूर्णिताः ॥१६॥

आपीडिनः भूषावन्तः नाना पृथक् विविधरागाणि वसनानि येषां ते विरागवसनाः ॥१६॥

बद्धासयः पाशहस्ता वारणप्रतिवारणाः ।
समानमृत्यवो राजन्नात्यजन्त परस्परम् ॥१७॥

कलापिनश्चापहस्ता दीर्घकेशाः प्रियंवदाः ।
पत्तयः साद्दिनश्चान्ये घोररूपपराक्रमाः ॥१८॥

अथापरे पुनः शूराश्चेदिपञ्चालकेकयाः ।
कारूषाः कोसलाः काञ्च्या मागधाश्चापि दुद्रुवुः ॥१९॥

तेषां रथाश्वनागाश्च प्रवराश्चोग्रपत्तयः ।
नानावाद्यधरैर्हृष्टा नृत्यन्ति च हसन्ति च ॥२०॥

तस्य सैन्यस्य महतो महामात्रवरैर्वृतः ।
मध्ये वृकोदरोऽभ्यायात्त्वदीयान्नागधूर्गतः ॥२१॥

महामात्ररथैरिति पाठे श्रेष्ठरथैः गजधूर्गतः गजस्कन्धगतः ॥२१॥

स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ ।
उ‌द्याग्राद्रिभवनं यथाऽभ्युदितभास्करम् ॥२२॥

उदयाग्राद्रिभवनम् अग्रादीत्यग्रशब्दस्य पूर्वनिपात आर्षः । उदयनामा अग्राद्रिः पूर्वपर्वतः स एव भवनमिति वा । उदयाग्रात्रिभवनमिति पाठे उदयाचलस्याग्रे श्रृङ्गे अत्रेरर्कभूतस्य भवनम् ॥२२॥

तस्यायसं वर्म वरं वररत्नविभूषितम् ।
ताराव्याप्तस्य नभसः शारदस्य समत्विषम् ॥२३॥

शारदस्य शरदा उपलक्षितस्य ॥२३॥

स तोमरव्यग्रकरश्चारुमौलिः स्वलंकृतः ।
शरन्मध्यंदिनार्काभस्तेजसा व्यदहद्रिपून् ॥२४॥

चारुमौलिः रम्यकिरीटः ॥२४॥

तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थितः ।
आह्वयन्नभिदुद्राव प्रमनाः प्रमनस्तरम् ॥२५॥

द्विपस्थितो द्विपारूढः प्रमनाः प्रकृष्टमनाः । प्रमनस्तरं प्रसन्नतरमनसम् ॥२५॥

तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः ।
यदृच्छया द्रुमवतोर्महापर्वतयोरिव ॥२६॥

संसक्तनागौ तौ वीरौ तोमरैरितरेतरम् ।
बलवत्सूर्यरश्म्याभैर्भित्त्वाऽन्योन्यं विनेदतुः ॥२७॥

व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः ।
प्रगृह्य चोभौ धनुषी जघ्नतुर्वै परस्परम् ॥२८॥

क्ष्वेडितास्फोटितरवैर्बाणशब्दैस्तु सर्वतः ।
तौ जनं हर्षयन्तौ च सिंहनादं प्रचक्रतुः ॥२९॥

समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ ।
वातोद्धूतपताकाभ्यां युयुधाते महाबलौ ॥३०॥

तावन्योन्यस्य धनुषी छित्त्वाऽन्योन्यं विनेदतुः ।
शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः ॥३१॥

विनेदतुः सन्निहितौ बभूवतुः वृवषतुरित्यर्थः ॥३१॥

क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे ।
निर्बिभेदातिवेगेन षड्भिश्चाप्यपरैर्नदन् ॥३२॥

अपरैः तोमरैरेव ॥३२॥

स भीमसेनः शुशुभे तोमरै रङ्गमाश्रितैः ।
क्रोधदीप्तवपुर्मेघैः सप्तसप्तिरिवांशुमान् ॥३३॥

स भीमसेनः मेघैः सप्तसप्तिरिवांशुमान् यथा मेघान्तर्हितस्य सूर्यस्य मरीचयः रश्मिरूपेण सर्वतः प्रचरन्ति एवं रश्मिस्थानीयास्तोमराः ॥३३॥

ततो भास्करवर्णाभमञ्जोगतिमयस्मयम् ।
ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान् ॥३४॥

अञ्जोगतिम् ऋजुगतिम् ॥३४॥

ततः कुलूताधिपतिश्चापमानम्य सायकैः ।
दशभिस्तोमरं भित्त्वा षष्ट्या विव्याध पाण्डवम् ॥३५॥

अथ कार्मुकमादाय भीमो जलदनिःस्वनम् ।
रिपोरभ्यर्दयन्नागमुन्नदन्पाण्डवः शरैः ॥३६॥

स शरौघार्दितो नागो भीमसेनेन संयुगे ।
गृह्यमाणोऽपि नातिष्ठद्वातोद्धूत इवाम्बुदः ॥३७॥

गृह्यमाणः निगृह्यमाणः क्षेमधूर्तिना ॥३७॥

तमभ्यधावद्द्विरदं भीमो भीमस्य नागराट् ।
महावातेरितं मेघं वातोद्धूत इवांबुदः ॥३८॥

सन्निवार्यात्मनो नागं क्षेमधूर्तिः प्रतापवान् ।
विव्याधाभिद्रुतं बाणैर्भीमसेनस्य कुञ्जरम् ॥३९॥

ततः साधुविसृष्टेन क्षुरेणानतपर्वणा ।
छित्त्वा शरासनं शत्रोर्नागमामित्रमार्दयत् ॥४०॥

आमित्रं शत्रुसंबन्धिनम् । सामित्रमिति पाठान्तरम् ॥४०॥

ततः क्रुद्धो रणे भीमं क्षेमधूर्तिः पराभिनत् ।
जघान चास्य द्विरदं नाराचैः सर्वमर्मसु ॥४१॥

स पपात महानागो भीमसेनस्य भारत ।
पुरा नागस्य पतनादवप्लुत्य स्थितो महीम् ॥४२॥

तस्य भीमोऽपि द्विरदं गदया समपोथयत् ।
तस्मात्प्रमथितान्नागात् क्षेमधूर्तिमवप्लुतम् ॥४३॥

उद्यतायुधमायान्तं गद‌याऽहन् वृकोदरः ।
स पपात हतः सासिर्व्यसुस्तमभितो द्विपम् ॥४४॥

अहन् हतवान् हतः गदया शकलीकृतः । अत एव अभितो द्विपं द्विपस्याभितः पपात ॥४४॥

वज्रप्रभग्नमचलं सिंहो वज्रहतो यथा ।
तं हतं नृपतिं दृष्ट्वा कुलूतानां यशस्करम् ।
प्राद्रवद्व्यथिता सेना त्वदीया भरतर्षभ ॥४५॥

इति श्रीमहाभारते कर्णपर्वणि क्षेमधूर्तिवधे द्वादशोऽध्यायः ॥१२॥
त्रयोदशाऽध्यायः

सञ्जय उवाच। ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम् ।
जघान समरे शूरः शरैः सन्नतपर्वभिः ॥१॥

तत इति ॥१॥

तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम् ।
कर्णस्य प्रमुखे क्रुद्धा निजघ्नुस्ते महारथाः ॥२॥

कर्णोऽपि राजन्समरे व्यहनत्पाण्डवीं चमूम् ।
नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः ॥३॥

तत्र भारत कर्णेन नाराचैस्ताडिता गजाः ।
नेदुः सेदुश्च मम्लुश्च बभ्रमुश्च दिशो दश ॥४॥

वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष ।
नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे ॥५॥

भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम् ।
विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत् ॥६॥

द्रौणिमभ्यद्रवत् ॥६॥

श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः ।
प्रतिविन्ध्यस्तथा चित्रं चित्रकेतनकार्मुकम् ॥७॥

दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम् ।
संशप्तकगणान् क्रुद्धो ह्यभ्यधावद्धनञ्जयः ॥८॥

धृष्टद्युम्नः कृपेणाथ तस्मिन्वीरवरक्षये ।
शिखण्डी कृतवर्माणं समासादयदच्युतम् ॥९॥

कृपेण युयुधे इति शेषः ॥९॥

श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव ।
दुःशासनं महाराज सहदेवः प्रतापवान् ॥१०॥

माद्रीपुत्रः सुतं तवेत्यस्य व्याख्या दुःशासनमिति ॥१०॥

कैकेयौ सात्यकिं युद्धे शरवर्षेण भास्वता ।
सात्यकिः केकयौ चापि च्छादयामास भारत ॥११॥

तावेनं भ्रातरौ वीरौ जघ्नतुर्हृदये भृशम् ।
विषाणाभ्यां यथा नागौ प्रतिनागं महावने ॥१२॥

शरसंभिन्नवर्माणौ तावुभौ भ्रातरौ रणे ।
सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः ॥१३॥

तौ सात्यकिर्महाराज प्रहसन् सर्वतोदिशः ।
छादयञ्छरवर्षेण वारयामास भारत ॥१४॥

वार्यमाणौ ततस्तौ हि शैनेयशरवृष्टिभिः ।
शैनेयस्य रथं तूर्णं छादयामासतुः शरैः ॥१५॥

तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महायशाः ।
अथ तौ सायकैस्तीक्ष्णैर्वारयामास संयुगे ॥१६॥

अथान्ये धनुषी चित्रे प्रगृह्य च महाशरान् ।
सात्यकिं छादयन्तौ तौ चेरतुर्लघु सुष्ठु च ॥१७॥

लघु शीघ्रं सुष्ठु शोभनम् ॥१७॥

ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः ।
द्योतयन्तो दिशः सर्वाः संपेतुः स्वर्णभूषणाः ॥१८॥

बाणान्धकारमभवत्तयो राजन्महामृधे ।
अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः ॥१९॥

ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः ।
धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे ॥२०॥

क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत् ।
अपतत्तच्छिरो राजन् कुण्डलोपचितं महत् ॥२१॥

उपचितमलङ्कृतम् ॥२१॥

शम्बरस्य शिरो यद्वन्निहतस्य महारणे ।
शोचयन्केकयान्सर्वाञ्जगामाशु वसुन्धराम् ॥२२॥

तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः ।
सज्यमन्यद्धनुः कृत्वा शैनेयं पर्यवारयत् ॥२३॥

स षष्ट्या सात्यकिं विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः ।
ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत् ॥२४॥

सात्यकिं च ततस्तूर्णं केकयानां महारथः ।
शरैरनेकसाहस्रैर्बाह्वोरुरसि चार्पयत् ॥२५॥

स शरैः क्षतसर्वाङ्गः सात्यकिः सत्यविक्रमः ।
रराज समरे राजन् सपुष्प इव किंशुकः ॥२६॥

सात्यकिः समरे विद्धः कैकेयेन महात्मना ।
कैकेयं पञ्चविंशत्या विव्याध प्रहसन्निव ॥२७॥

तावन्योन्यस्य समरे संच्छिद्य धनुषी शुभे ।
हत्वा च सारथी तूर्णं हयांश्च रथिनां वरौ ॥२८॥

विरथावसियुद्धाय समाजग्मतुराहवे ।
शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तथा ॥२९॥

विरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ ।
यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ ॥३०॥

मण्डलानि ततस्तौ तु विचरन्तौ महारणे ।
अन्योन्यमभितस्तूर्णं समाजग्मतुराहवे ॥३१॥

अन्योन्यस्य वधे चैव चक्रतुर्यत्नमुत्तमम् ।
कैकेयस्य द्विधा चर्म ततश्चिच्छेद सात्वतः ॥३२॥

सात्यकेस्तु तथैवासौ चर्म चिच्छेद पार्थिवः ।
चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम् ॥३३॥

चचार मण्डलान्येव गतप्रत्यागतानि च ।
तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम् ॥३४॥

अपहस्तेन चिच्छेद शैनेयस्त्वरयाऽन्वितः ।
सवर्मा केकयो राजन्द्विधा च्छिन्नो महारणे ॥३५॥

अपहस्तेन तिर्यक्हस्तेन ॥३५॥

निपपात महेष्वासो वज्राहत इवाचलः ।
तं निहत्य रणे शूरः शैनेयो रथसत्तमः ॥३६॥

युधामन्युरथं तूर्णमारुरोह परंतपः ।
ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः ॥३७॥

केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः ।
सा वध्यमाना समरे केकयानां महाचमूः ।
तमुत्सृज्य रणे शत्रुं प्रदुद्राव दिशो दश ॥३८॥

इति श्रीमहाभारते कर्णपर्वणि विन्दानुविन्दवधे त्रयोदशोऽध्यायः ॥१३॥
चतुर्दशोऽध्यायः

सञ्जय उवाच। श्रुतकर्मा ततो राजंश्चित्रसेनं महीपतिम् ।
आजघ्ने समरे क्रुद्धः पञ्चाशद्भिः शिलीमुखैः ॥१॥

श्रुतकर्मेति ॥१॥

अभिसारस्तु तं राजन्नवभिर्नतपर्वभिः ।
श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः ॥२॥

अभिसारोऽभिसाराधिपतिश्चित्रसेनः । आहत्य संताड्य ॥२॥

श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे ।
नाराचेन सुतीक्ष्णेन मर्मदेशे समार्पयत् ॥३॥

सोऽतिविद्धो महाराज नाराचेन महात्मना ।
मूर्छामभिययौ वीरः कश्मलं चाविवेश ह ॥४॥

मूर्छाम् अर्धनिद्रां कश्मलम् अचित्तत्वम् ॥४॥

एतस्मिन्नन्तरे चैनं श्रुतकीर्तिर्महायशाः ।
नवत्या जगतीपालं छादयामास पत्रिभिः ॥५॥

एनं श्रुतकर्माणम् ॥५॥

प्रतिलभ्य ततः संज्ञां चित्रसेनो महारथः ।
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ॥६॥

तं श्रुतकर्माणम् ॥६॥

सोऽन्यत्कार्मुकमादाय वेगघ्नं रुक्मभूषितम् ।
चित्ररूपधरं चक्रे चित्रसेनं शरोर्मिभिः ॥७॥

स शरैश्चित्रितो राजा चित्रमाल्यधरो युवा ।
युवेव समरेऽशोभद्गोष्ठीमध्ये स्वलंकृतः ॥८॥

स शरैरिति । गोष्ठी गोयूथपः साण्डो महोक्षः । स यथा श्रृङ्गादौ अलङ्कृत एवं स शरैरलङ्कृत इत्यर्थः ॥८॥

श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे ।
बिभेद तरसा शूरस्तिष्ठ तिष्ठेति चाब्रवीत् ॥९॥

श्रुतकर्माऽपि समरे नाराचेन समर्पितः ।
सुस्त्राव रुधिरं तत्र गैरिकार्द्र इवाचलः ॥१०॥

ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः ।
रराजः समरे वीरः सपुष्प इव किंशुकः ॥११॥

कृतच्छविः आहितशोभः ॥११॥

श्रुतकर्मा ततो राजञ्शत्रुणा समभिद्रुतः ।
शत्रुसंवारणं क्रुद्धो द्विधा चिच्छेद कार्मुकम् ॥१२॥

अथैनं छिन्नधन्वानं नाराचानां शतैस्त्रिभिः ।
छादयन्समरे राजन् विव्याध च सुपत्रिभिः ॥१३॥

सुपत्रिभिः शोभनपुङ्खवद्भिर्नाराचानां शतैः ॥१३॥

ततोऽपरेण भल्लेन तीक्ष्णेन निशितेन च ।
जहार सशिरस्त्राणं शिरस्तस्य महात्मनः ॥१४॥

तच्छिरो न्यपतद्भूमौ चित्रसेनस्य दीप्तिमत् ।
यदृच्छया यथा चन्द्रश्च्युतः स्वर्गान्महीतलम् ॥१५॥

राजानं निहतं दृष्ट्वा तेऽभिसारं तु मारिष ।
अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः ॥१६॥

ततः क्रुद्धो महेष्वासस्तत्सैन्यं प्राद्रवच्छरैः ।
अन्तकाले यथा क्रुद्धः सर्वभूतानि प्रेतराट् ॥१७॥

प्रेतराट् यमः ॥१७॥

ते वध्यमानाः समरे तव पौत्रेण धन्विना ।
व्यद्रवन्त दिशस्तूर्णं दावदग्धा इव द्विपाः ॥१८॥

दावो दावाग्निस्तेन दग्धाः ॥१८॥

तांस्तु विद्रवतो दृष्ट्वा निरुत्साहान् द्विषज्जये ।
द्रावयन्निषुभिस्तीक्ष्णैः श्रुतकर्मा व्यरोचत ॥१९॥

प्रतिविन्ध्यस्ततश्चित्रं भित्त्वा पञ्चभिराशुगैः ।
सारथिं च त्रिभिर्विद्ध्वा ध्वजमेकेषुणाऽपि च ॥२०॥

तं चित्रो नवभिर्भल्लैर्बाह्वोरुरसि चार्पयत् ।
स्वर्णपुंखैः प्रसन्नाग्नैः कङ्कबर्हिणवाजितैः ॥२१॥

प्रतिविन्ध्यो धनुश्छित्त्वा तस्य भारत सायकैः ।
पञ्चभिर्निशितैर्बाणैरथैनं सः हि जघ्निवान् ॥२२॥

ततः शक्तिं महाराज स्वर्णघण्टां दुरासदाम् ।
प्राहिणोत्तव पौत्राय घोरामग्निशिखामिव ॥२३॥

स्वर्णघण्टां सुवर्णमयघण्टान्विताम् ॥२३॥

तामापन्ततीं सहसा महोल्काप्रतिमां तदा ।
द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्निव ॥२४॥

सा पपात द्विधा छिन्ना प्रतिविन्ध्यशरैः शितैः ।
युगान्ते सर्वभूतानि त्रासयन्ती यथाऽशनिः ॥२५॥

शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम् ।
प्रतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम् ॥२६॥

सा जघान हयांस्तस्य सारथिं च महारणे ।
रथं प्रमृद्य वेगेन धरणीमन्वपद्यत ॥२७॥

एतस्मिन्नेव काले तु रथादाप्लुत्य भारत ।
शक्तिं चिक्षेप चित्राय स्वर्णदण्डामलंकृताम् ॥२८॥

तामापतन्तीं जग्राह चित्रो राजन्महामनाः ।
ततस्तामेव चिक्षेप प्रतिविन्ध्याय पार्थिवः ॥२९॥

समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा ।
निर्भिद्य दक्षिणं बाहुं निपपात महीतले ।
पतिता भासयच्चैव तं देशमशनिर्यथा ॥३०॥

प्रतिविन्ध्यस्ततो राजंस्तोमरं हेमभूषितम् ।
प्रेषयामास संक्रुद्धश्चित्रस्य वधकांक्षया ॥३१॥

स तस्य गात्रावरणं भित्त्वा हृदयमेव च ।
जगाम धरणीं तूर्णं महोरग इवाशयम् ॥३२॥

गात्रावरणं कवचम् ॥३२॥

स पपात तदा राजा तोमरेण समाहतः ।
प्रसार्य विपुलौ बाहू पीनौ परिघसन्निभौ ॥३३॥

चित्रं संप्रेक्ष्य निहतं तावका रणशोभिनः ।
अभ्यद्रवन्त वेगेन प्रतिविन्ध्यं समंततः ॥३४॥

सृजन्तो विविधान्बाणान् शतघ्नीश्च सकिंकिणीः ।
तमवच्छादयामासुः सूर्यमभ्रगणा इव ॥३५॥

तान्विधम्य महाबाहुः शरजालेन संयुगे ।
व्यद्रावयत्तव चमूं वज्रहस्त इवासुरीम् ॥३६॥

ते वध्यमानाः समरे तावकाः पाण्डवैर्नृप ।
विप्रकीर्यन्त सहसा वातनुन्ना घना इव ॥३७॥

विप्रद्रुते बले तस्मिन्वध्यमाने समंततः ।
द्रौणिरेकोऽभ्ययात्तूर्णं भीमसेनं महाबलम् ॥३८॥

ततः समागमो घोरो बभूव सहसा तयोः ।
यथा देवासुरे युद्धे वृत्रवासवयोरिव ॥३९॥

इति श्रीमहाभारते कर्णपर्वणि चित्रवधे चतुर्दशोऽध्यायः॥१४॥
पञ्चदशोऽध्यायः

सञ्जय उवाच। भीमसेनं ततो द्रौणी राजन्विव्याध पत्रिणा ।
परया त्वरया युक्तो दर्शयन्नस्त्रलाघवम् ॥१॥

भीमेति ॥१॥

अथैनं पुनराजघ्ने नवत्या निशितैः शरैः ।
सर्वमर्माणि संप्रेक्ष्य मर्मज्ञो लघुहस्तवत् ॥२॥

भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः ।
रराज समरे राजन् रश्मिवानिव भास्करः ॥३॥

ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः ।
द्रोणपुत्रमवच्छाद्य सिंहनादममुञ्चत ॥४॥

शरैः शरांस्ततो द्रौणिः संवार्य युधि पाण्डवम् ।
ललाटेऽभ्याहनद्राजन्नाराचेन स्मयन्निव ॥५॥

ललाटस्थं ततो बाणं धारयामास पाण्डवः ।
यथा श्रृङ्गं वने दृप्तः खड्गो धारयते नृप ॥६॥

खड्गो गण्डकः ॥६॥

तता द्रौणिं रणे भीमो यतमानं पराक्रमी ।
त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव ॥७॥

ललाटस्थैस्ततो बाणैर्ब्राह्मणोऽसौ व्यशोभत ।
प्रावृषीव यथा सिक्तस्त्रिशृङ्गः पर्वतोत्तमः ॥८॥

ततः शरशतैर्द्रौणिरर्दयामास पाण्डवम् ।
न चैनं कम्पयामास मातरिश्वेव पर्वतम् ॥९॥

तथैव पाण्डवो युद्धे द्रौणिं शरशतैः शितैः ।
नाकम्पयत संहृष्टो वार्योघ इव पर्वतम् ॥१०॥

तावन्योन्यं शरैर्घोरैश्छा‌दयानौ महारथौ ।
रथवर्यगतौ वीरौ शुशुभाते बलोत्कटौ ॥११॥

आदित्याविव संदीप्तौ लोकक्षयकरावुभौ ।
स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः ॥१२॥

ततः प्रतिकृते यत्नं कुर्वाणौ तौ महारणे ।
कृतप्रतिकृते यत्तौ शरसङ्घैरभीतवत् ॥१३॥

कृतप्रतिकृते अन्योन्यास्त्रप्रतिघाते ॥१३॥

व्याघ्राविव च संग्रामे चेरतुस्तौ नरोत्तमौ ।
शरदंष्ट्रौ दुराधर्षौ चापवक्त्रौ भयंकरौ ॥१४॥

अभूतां तावदृश्यौ च शरजालैः समंततः ।
मेघजालैरिव च्छन्नौ गगने चन्द्रभास्करौ ॥१५॥

चकाशेते मुहूर्तेन ततस्तावप्यरिन्द‌मौ ।
विमुक्तावभ्रजालेन अङ्गारकबुधाविव ॥१६॥

अथ तत्रैव संग्रामे वर्तमाने सुदारणे ।
अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम् ॥१७॥

किरञ्छरशतैरुग्रैर्धाराभिरिव पर्वतम् ।
न तु तन्ममृषे भीमः शत्रोर्विजयलक्षणम् ॥१८॥

प्रतिचक्रे ततो राजन् पाण्डवोऽप्यपसव्यतः ।
मण्डलानां विभागेषु गतप्रत्यागतेषु च ॥१९॥

बभूव तुमुलं युद्धं तयोः पुरुषसिंहयोः ।
चरित्वा विविधान्मार्गान् मण्डलस्थानमेव च ॥२०॥

शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ।
अन्योन्यस्य वधे चैव चक्रतुर्यत्नमुत्तमम् ॥२१॥

ईषतुर्विरथं चैव कर्तुमन्योन्यमाहवे ।
ततो द्रौणिर्महास्त्राणि प्रादुश्चक्रे महारथः ॥२२॥

ईषतुः इच्छां चक्रतुः ॥२२॥

तान्यस्त्रैरेव समरे प्रतिजघ्नेऽथ पाण्डवः ।
ततो घोरं महाराज अस्त्रयुद्धमवर्तत ॥२३॥

ग्रहयुद्धं यथा घोरं प्रजासंहरणे ह्यभूत् ।
ते बाणाः समसज्जन्त मुक्तास्ताभ्यां तु भारत ॥२४॥

द्योतयन्तो दिशः सर्वास्तव सैन्यं समंततः ।
बाणसंघैर्वृतं घोरमाकाशं समपद्यत ॥२५॥

उल्कापातावृतं युद्धं प्रजानां संक्षये नृप ।
बाणाभिघातात्संजज्ञे तत्र भारत पावकः ॥२६॥

उल्कानामन्योन्याभिमुखं पातास्तैरावृतमिवेति लुप्तोपमा ॥२६॥

सविस्फुलिङ्गो दीप्तार्चियर्योऽदहद्वाहिनीद्वयम् ।
तत्र सिद्धा महाराज संपतन्तोऽब्रुवन्वचः ॥२७॥

युद्धानामति सर्वेषां युद्धमेतदिति प्रभो ।
सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम् ॥२८॥

नेदृशं च पुनर्युद्धं भविष्यति कदाचन ।
अहो ज्ञानेन संपन्नावुभौ ब्राह्मणक्षत्रियौ ॥२९॥

अहो शौर्येण संपन्नावुभौ चोग्रपराक्रमौ ।
अहो भीमबलो भीम एतस्य च कृतास्त्रता ॥३०॥

अहो वीर्यस्य सारत्वमहो सौष्ठवमेतयोः ।
स्थितावेतौ हि समरे कालान्तकयमोपमौ ॥३१॥

रुद्रौ द्वाविव संभूतौ यथा द्वाविव भास्करौ ।
यमौ वा पुरुषव्याघ्रौ घोररूपावुभौ रणे ॥३२॥

इति वाचः स्म श्रूयन्ते सिद्धानां वै मुहुर्मुहुः ।
सिंहनादश्च सञ्जज्ञे समेतानां दिवौकसाम् ॥३३॥

अद्भुतं चाप्यचिन्त्यं च दृष्ट्वा कर्म तयो रणे ।
सिद्धचारणसंघानां विस्मयः समपद्यत ॥३४॥

प्रशंसन्ति तदा देवाः सिद्धाश्च परमर्षयः ।
साधु द्रौणे महाबाहो साधु भीमेति चाब्रुवन् ॥३५॥

तौ शूरौ समरे राजन् परस्परकृतागसौ ।
परस्परमुदीक्षेतां क्रोधादुद्धृत्य चक्षुषी ॥३६॥

क्रोधरक्तेक्षणौ तौ तु क्रोधात्प्रस्फुरिताधरौ ।
क्रोधात्संदष्टदशनौ तथैव दशनच्छदौ ॥३७॥

तथैव दशनच्छदौ क्रोधात्संदष्टोष्ठौ ॥३७॥

अन्योन्यं छादयन्तौ स्म शरवृष्ट्या महारथौ ।
शराम्बुधारौ समरे शस्त्रविद्युत्प्रकाशिनौ ॥३८॥

तावन्योन्यं ध्वजं विद्ध्वा सारथिं च महारणे ।
अन्योन्यस्य हयान्विद्ध्वा बिभिदाते परस्परम् ॥३९॥

ततः क्रुद्धौ महाराज बाणौ गृह्य महाहवे ।
उभौ चिक्षिपतुस्तूर्णमन्योन्यस्य वधैषिणौ ॥४०॥

तौ सायकौ महाराज द्योतमानौ चमूमुखे ।
आजघ्नतुः समासाद्य वज्रवेगौ दुरासदौ ॥४१॥

तौ परस्परवेगाच्च शराभ्यां च भृशाहतौ ।
निपेततुर्महावीर्यौ रथोपस्थे तयोस्तदा ॥४२॥

तौ बाणौ भृशाहताविति हेतोः शराभ्याम् अग्रभागाभ्यां तयोः तदीययो रथयोरुपस्थे मुख्यदेशे रथनीड इति यावत् ॥४२॥

ततस्तु सारथिर्ज्ञात्वा द्रोणपुत्रमचेतनम् ।
अपोवाह रणाद्राजन्सर्वसैन्यस्य पश्यतः ॥४३॥

तथैव पाण्डवं राजन् विह्वलन्तं मुहुर्मुहुः ।
अपोवाह रथेनाजौ सारथिः शत्रुतापनम् ॥४४॥

इति श्रीमहाभारते कर्णपर्वणि अश्वत्थामभीमसेनयोर्युद्धे पञ्चदशोऽध्यायः ॥१५॥
षोडशोऽध्यायः

धृतराष्ट्र उवाच। यथा संशप्तकैः सार्धमर्जुनस्याभवद्रणः ।
अन्येषां च महीपानां पाण्डवैस्तद्ब्रवीहि मे ॥१॥

यथेति ॥१॥

अश्वत्थाम्नस्तु यद्युद्धमर्जुनस्य च सञ्जय ।
अन्येषां च महीपानां पाण्डवैस्तद्ब्रवीहि मे ॥२॥

सञ्जय उवाच। शृणु राजन्यथा वृत्तं संग्रामं ब्रुवतो मम ।
वीराणां शत्रुभिः सार्धं देहपाप्मासुनाशनम् ॥३॥

पार्थः संशप्तकबलं प्रविश्यार्णवसन्निभम् ।
व्यक्षोभयद‌मित्रघ्नो महावात इवार्णवम् ॥४॥

शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनञ्जयः ।
पूर्णचन्द्राभवक्त्राणि स्वक्षिभ्रूदशनानि च ॥५॥

सन्तस्तार क्षितिं क्षिप्रं विनालैर्नलिनैरिव ।
सुवृत्तानायतान् पुष्टांश्चन्दनागुरुभूषितान् ॥६॥

सायुधान्सतलत्रांश्च पञ्चास्योरगसन्निभान् ।
बाहून् क्षुरैरमित्राणां चिच्छेद समरेऽर्जुनः ॥७॥

धुर्यान् धुर्येतरान्सुतान्ध्वजांश्चापानि सायकान् ।
पाणीन् सरत्नानसकृद्भल्लैश्चिच्छेद पाण्डवः ॥८॥

सरत्नान् रत्नाङ्गुलीयकादियुक्तान् सरत्नीनिति पाठे रत्निः कूर्परादाकनिष्ठान्तः करः तत्सहितान्पाणीन् ॥८॥

रथान् द्विपान् हयांश्चैव सारोहानर्जुनो युधि ।
शरैरनेकसाहस्रैर्निन्ये राजन् यमक्षयम् ॥९॥

तं प्रवीराः सुसंरब्धा नर्दमाना इवर्षभाः ।
वासितार्थमिव क्रुद्धमभिद्रुत्य मदोत्कटाः ॥१०॥

सुसंरब्धा इत्यत्र सुसम्मर्दा इति पाठे शोभनः स्वर्गदः सम्मर्दो येषां तथाभूताः । वासिता पुष्पवती गौस्तदर्थम् ॥१०॥

निघ्नन्तमभिजघ्नुस्ते शरैः श्रृंगैरिवर्षभाः ।
तस्य तेषां च तद्युद्धमभवल्लोमहर्षणम् ॥११॥

त्रैलोक्यविजये यद्वद्दैत्यानां सह वज्रिणा ।
अस्त्रैरस्राणि संवार्य द्विषतां सर्वतोऽर्जुनः ॥१२॥

इषुभिर्बहुभिस्तूर्णं विद्ध्वा प्राणाञ्जहार सः ।
छिन्नत्रिवेणुचक्राक्षान् हतयोधान्ससारथीन् ॥१३॥

छिन्नेति । त्रिवेणुः उभयतः काष्ठद्वयसहितो धूर्दण्डः अक्षश्चक्राधारदण्डः ॥१३॥

विद्ध्वस्तायुधतूणीरान्समुन्मथितकेतनान् ।
संछिन्नयोक्त्ररश्मीकान् विवरूथान्विकूबरान् ॥१४॥

योक्त्राणि बन्धनरज्जवः । रश्मयः प्रग्रहाः । विवरूथान् रथगुप्तिरहितान् कूबरः त्रिवेणोरग्रभागः ॥१४॥

विस्रस्तबन्धुरयुगान् विस्रस्ताक्षप्रमण्डलान् ।
रथान्विशकलीकुर्वन् महाभ्राणीव मारुतः ॥१५॥

बन्धुरं रथतल्पः युगं धूरग्रकाष्ठम् अक्षप्रमण्डलं रथनीडाक्षयोः सन्धानकाष्ठजातं विशकलीकुर्वन् विशेषेण शकली कुर्वन् ॥१५॥

विस्मापयन्प्रेक्षणीयं द्विषतां भयवर्धनम् ।
महारथसहस्रस्य समं कर्माकरोज्जयः ॥१६॥

सिद्धदेवर्षिसंघाश्च चारणाश्चापि तुष्टुवुः ।
देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन् ॥१७॥

केशवार्जुनयोर्मूर्ध्नि प्राह वाक्चाशरीरिणी ।
चन्द्राग्न्यनिलसूर्याणां कान्तिदीप्तिबलद्युतीः ॥१८॥

चन्द्रादीनां कान्त्यादीन् यथासंख्यं बिभ्रतुः ॥१८॥

यौ सदा बिभ्रतुर्वीराविमौ तौ केशवार्जुनौ ।
ब्रह्मेशानाविवाजय्यौ वीरावेकरथे स्थितौ ॥१९॥

सर्वभूतवरौ वीरौ नरनारायणाविमौ ।
इत्येतन्महदाश्चर्यं दृष्ट्वा श्रुत्वा च भारत ॥२०॥

अश्वत्थामा सुसंयत्तः कृष्णावभ्यद्रवद्रणे ।
अथ पाण्डवमस्यन्तममित्रघ्नकराञ्छरान् ॥२१॥

अमित्रघ्नाः कराः कराकारमग्रफलकं येषां तान् अमित्रघ्नकरान् ॥२१॥

सेषुणा पाणिनाऽऽहूय प्रहसन् द्रौणिरब्रवीत् ।
यदि मां मन्यसे वीर प्राप्तमर्हमिहातिथिम् ॥२२॥

अर्हं पूजयितुं योग्यम् ॥२२॥

ततः सर्वात्मना त्वद्य युद्धातिथ्यं प्रयच्छ मे ।
एवमाचार्यपुत्रेण समाहूतो युयुत्सया ॥२३॥

बहु मेनेऽर्जुनोऽऽत्मानमिति चाह जनार्दनम् ।
संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम् ॥२४॥

यदत्रानन्तरं प्राप्तं शंस मे तद्धि माधव ।
आतिथ्यकर्माभ्युत्थाय दीयतां यदि मन्यसे ॥२५॥

अनन्तरं प्रथमम् ॥२५॥

एवमुक्तोऽवहत्पार्थं कृष्णो द्रोणात्मजान्तिके ।
जैत्रेण विधिनाऽऽहूतं वायुरिन्द्रमिवाध्वरे ॥२६॥

तमामन्त्र्यैकमनसं केशवो द्रौणिमब्रवीत् ।
अश्वत्थामन् स्थिरो भूत्वा प्रहराशु सहस्व च ॥२७॥

निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम् ।
सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जयाजयौ ॥२८॥

यामभ्यर्थयसे मोहाद्दिव्यां पार्थस्य सत्क्रियाम् ।
तामाप्तुमिच्छन् युध्यस्व स्थिरो भूत्वाऽद्य पाण्डवम् ॥२९॥

इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः ।
विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः ॥३०॥

तस्यार्जुनः सुसंक्रुद्धस्त्रिभिर्बाणैः शरासनम् ।
चिच्छेद चान्यदादत्त द्रौणिर्घोरतरं धनुः ॥३१॥

सज्यं कृत्वा निमेषाच्च विव्याधार्जुनकेशवौ ।
त्रिभिः शतैर्वासुदेवं सहस्रेण च पाण्डवम् ॥३२॥

ततः शरसहस्राणि प्रयुतान्यर्बुदानि च ।
ससृजे द्रौणिरायस्तः संस्तभ्य च रणेऽर्जुनम् ॥३३॥

आयस्तः यत्नवान् ॥३३॥

इषुधेर्धनुषश्चैव ज्यायाश्चैवाथ मारिष ।
बाह्वोः कराभ्यामुरसो वदनघ्राणनेत्रतः ॥३४॥

कर्णाभ्यां शिरसोङ्गेभ्यो लोमवर्मभ्य एव च ।
रथध्वजेभ्यश्च शरा निष्पेतुर्ब्रह्मवादिनः ॥३५॥

इषुधिप्रमृतिभ्यः शराः पेतुः लोमभ्योऽपि वर्मभ्योऽपि च पेतुस्तत्र हेतुः ब्रह्मवादिनः योगबलवत इत्यर्थः ॥३५॥

शरजालेन महता विद्ध्वा माधवपाण्डवौ ।
ननाद मुदितो द्रौणिर्महामेघौघनिःस्वनम् ॥३६॥

तस्य तं निनदं श्रुत्वा पाण्डवोऽच्युतमब्रवीत् ।
पश्य माधव दौरात्म्यं गुरुपुत्रस्य मां प्रति ॥३७॥

वधं प्राप्तौ मन्यते नौ प्रावेश्य शरवेश्मनि ।
एषोऽस्मि हन्मि संकल्पं शिक्षया च बलेन च ॥३८॥

अश्वत्थाम्नः शरानस्तान् छित्त्वैकैकं त्रिधा त्रिधा ।
व्यधमद्भरतश्रेष्ठो नीहारमिव मारुतः ॥३९॥

ततः संशप्तकान् भूयः साश्वसूतरथद्विपान् ।
ध्वजपत्तिगणानुग्रैर्बाणैर्विव्याध पाण्डवः ॥४०॥

ये ये ददृशिरे तत्र यद्यद्रूपास्तदा जनाः ।
ते ते तत्र शरैर्व्याप्तं मेनिरेऽऽत्मानमात्मना ॥४१॥

ते गाण्डीवप्रमुक्तास्तु नानारूपाः पतत्रिणः ।
क्रोशे साग्रे स्थितान् घ्नन्ति द्विपांश्च पुरुषान्रणे ॥४२॥

भल्लैश्छिन्नाः कराः पेतुः करिणां मदवर्षिणाम् ।
यथा वने परशुभिर्निकृत्ताः सुमहाद्रुमाः ॥४३॥

पश्चात्तु शैलवत्पेतुस्ते गजाः सह सादिभिः ।
वज्रिवज्रप्रमथिता यथैवाद्रिचयास्तथा ॥४४॥

गन्धर्वनगराकारान् रथांश्चैव सुकल्पितान् ।
विनीतैर्जवनैर्युक्तानास्थितान् युद्धदुर्मदैः ॥४५॥

शरैर्विशकलीकुर्वन्नमित्रानभ्यवीवृषत् ।
स्वलंकृतानश्वसादीन् पत्तींश्चाहन् धनञ्जयः ॥४६॥

धनञ्जययुगान्तार्कः संशप्तकमहार्णवम् ।
व्यशोषयत दुःशोषं तीक्ष्णैः शरगभस्तिभिः ॥४७॥

पुनर्द्रौणिं महाशैलं नाराचैर्वज्रसन्निभैः ।
निर्बिभेद महावेगैस्त्वरन्वज्रीव पर्वतम् ॥४८॥

महत् शैलं शिलासमूहो यस्मिन् तं महाशैलं पर्वतमिव ॥४८॥

तमाचार्यसुतः क्रुद्धः साश्वयन्तारमाशुगैः ।
युयुत्सुरागमद्योद्धुं पार्थस्तानच्छिनच्छरान् ॥४९॥

ततः परमसंक्रुद्धः पाण्डवेऽस्त्राण्यवासृजत् ।
अश्वत्थामाभिरूपाय गृहानतिथये यथा ॥५०॥

पाण्डवेस्त्राणीत्यत्र काण्डकोशानिति पाठे बाणानां कोशभूतान्निषङ्गान् न्यवेदयत् ॥५०॥

अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात् ।
अपांक्तेयानिव त्यक्त्वा दाता पांक्तेयमर्थिनम् ॥५१॥

इति श्रीमहाभारते कर्णपर्वणि अश्वत्थामार्जुनसंवादे षोडशोऽध्यायः ॥१६॥
सप्तदशोऽध्यायः

सञ्जय उवाच। ततः समभवद्युद्धं शुक्राङ्गिरसवर्चसोः ।
नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव ॥१॥

तत इति । नक्षत्रमभितः नक्षत्रं लक्षीकृत्य ॥१॥

सन्तापयन्तावन्योन्यं दीप्तैः शरगभस्तिभिः ।
लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव ॥२॥

विमार्गस्थौ वक्रातिचारगौ ॥२॥

ततोऽविध्यद्भ्रुवोर्मध्ये नाराचेनार्जुनो भृशम् ।
स तेन विबभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः ॥३॥

अथ कृष्णौ शरशतैरश्वत्थाम्नाऽर्दितौ भृशम् ।
स्वरश्मिजालविकचौ युगान्तार्काविवासतुः ॥४॥

कृष्णौ कृष्णार्जुनौ आसतुः दीपयाञ्चकक्रतुः ॥४॥

ततोऽर्जुनः सर्वतोधारमस्त्रमवासृजद्वासुदेवेऽभिभूते ।
द्रौणायनिं चाभ्यहनत् पृषत्कैर्वज्राग्निवैवस्वतदण्डकल्पैः ॥५॥

सर्वतोधारं सर्वतोऽस्त्रधारावर्षकं वज्रकल्पैः अमोघैः अग्निकल्पैः दाहकैः वैवस्वतदण्डकल्पैः प्राणहरैः ॥५॥

स केशवं चार्जुनं चातितेजा विव्याध मर्मस्वतिरौद्रकर्मा ।
बाणैः सुयुक्तैरतितीव्रवेगैर्यैराहतो मृत्युरपि व्यथेत ॥६॥

द्रौणेरिषूनर्जुनः सन्निवार्य व्यायच्छतस्तद्द्विगुणैः सुपुङ्खैः ।
तं साश्वसूतध्वजमेकवीरमावृत्य संशप्तकसैन्यमार्च्छत् ॥७॥

व्यायच्छतो यतमानस्य आर्च्छत् गतवान् ॥७॥

धनूंषि बाणानिषुधीर्धनुर्ज्याः पाणीन् भुजान् पाणिगतं च शस्त्रम् ।
छत्राणि केतूंस्तुरगान् रथेषां वस्त्राणि माल्यान्यथ भूषणानि ॥८॥

चर्माणि वर्माणि मनोरमाणि प्रियाणि सर्वाणि शिरांसि चैव ।
चिच्छेद पार्थो द्विषतां सुयुक्तैर्बाणैः स्थितानामपराङ्मुखानाम् ॥९॥

सुकल्पिताः स्यन्दनवाजिनागाः समास्थिता यत्नकृतैर्नृवीरैः ।
पार्थेरितैर्बाणशतैर्निरस्तास्तैरेव सार्धं नृवरा निपेतुः ॥१०॥

सुकल्पिताः सुसन्नद्धाः यत्नकृतैः कृतयत्नैः तैरेव बाणैरेव ॥१०॥

पद्मार्कपूर्णेन्दुनिभाननानि किरीटमाल्याभरणोज्ज्वलानि ।
भल्लार्धचन्द्रक्षुरकर्तितानि प्रपेतुरुर्व्यां नृशिरांस्यजस्रम् ॥११॥

अथ द्विपैर्देवरिपुद्विपाभैर्देवारिदर्पापहमत्युग्रम् ।
कलिङ्गवङ्गाङ्गनिषादवीरा जिघांसवः पाण्डवमभ्यधावन् ॥१२॥

देवरिपुश्चासौ द्विपश्चेति गजासुरतुल्यैरित्यर्थः ॥१२॥

तेषां द्विपानां निचकर्त पार्थो वर्माणि चर्माणि करान्नियन्तॄन् ।
ध्वजान्पताकाश्च ततः प्रपेतुर्वज्राहतानीव गिरेः शिरांसि ॥१३॥

करान् शुण्डाः ॥१३॥

तेषु प्रभग्नेषु गुरोस्तनूजं बाणैः किरीटी नवसूर्यवर्णैः ।
प्रच्छादयामास महाभ्रजालैर्वायुः समुद्यन्तमिवांशुमन्तम् ॥१४॥

ततोऽर्जुनेषूनिषुभिर्निरस्य द्रौणिः शितैरर्जुनवासुदेवौ ।
प्रच्छादयित्वा दिवि चन्द्रसूर्यौ ननाद सोम्भोद इवातपान्ते ॥१५॥

तमर्जुनस्तांश्च पुनस्त्वदीयानभ्यर्दितस्तैरभिसृत्य शस्त्रैः ।
बाणान्धकारं सहसैव कृत्वा विव्याध सर्वानिषुभिः सुपुंखैः ॥१६॥

तमश्वत्थामानं तान् तदन्यान् तैः कृतं बाणान्धकारं कृत्वा छित्त्वा कृती छेदने ॥१६॥

नाप्याददत्संदधन्नैव मुञ्चन् बाणान्रथेऽदृश्यत सव्यसाची ।
रथांश्च नागांस्तुरगान्पदातीन् संस्यूतदेहान्ददृशुर्हतांश्च ॥१७॥

संस्यूताः अन्योन्यं सङ्घट्टवन्तः ॥१७॥

संधाय नाराचवरान्दशाशु द्रौणिस्त्वरन्नेकमिवोत्ससर्ज ।
तेषां च पञ्चार्जुनमभ्यविध्यन् पञ्चाच्युतं निर्बिभिदुः सुपुंखाः ॥१८॥

तैराहतौ सर्वमनुष्यमुख्यावसृक् स्रवन्तौ धनदेन्द्रकल्पौ ।
समाप्तविद्येन तथाभिभूतौ हतौ रणे ताविति मेनिरेऽन्ये ॥१९॥

समाप्तविद्येन समग्रधनुर्वेदविदा ॥१९॥

अथार्जुनं प्राह दशार्हनाथः प्रमाद्यसे किं जहि योधमेतम् ।
कुर्याद्धि दोषं समुपेक्षितोऽयं कष्टो भवेद्व्याधिरिवाक्रियावान् ॥२०॥

अक्रियावान् प्रतीकाररहितः ॥२०॥

तथेति चोक्त्वाऽच्युतमप्रमादी द्रौणिं प्रयत्नादिषुभिस्ततक्ष ।
भुजौ वरौ चन्दनसारदिग्धौ वक्षः शिरोऽथाप्रतिमौ तथोरू ॥२१॥

गाण्डीवमुक्तैः कुपितोऽविकर्णैद्रौणिं शरैः संयति निर्बिभेद ।
छित्त्वा तु रश्मींस्तुरगानविध्यत्ते तं रणादूहुरतीव दूरम् ॥२२॥

अविकर्णैः अविकर्णतुल्याग्रैः ॥२२॥

स तैर्हृतो वातजवैस्तुरङ्गैर्द्रौणिर्दृढं पार्थशराभिभूतः ।
इयेष नावृत्य पुनस्तु योद्धुं पार्थेन सार्धं मतिमान्विमृश्य ।
जानञ्जयं निततं वृष्णिवीरे धनञ्जये चाङ्गिरसां वरिष्ठः ॥२३॥

अङ्गिरसाम् अङ्गिरोगोत्राणां मध्ये ॥२३॥

नियम्य स हयान् द्रौणिः समाश्वास्य च मारिष ।
रथाश्वनरसंबाधं कर्णस्य प्राविशद्बलम् ॥२४॥

प्रतीपकारिणि रणादश्वत्थाम्नि हते हयैः ।
मन्त्रौषधिक्रियायोगैर्व्याधौ देहादिवाहृते ॥२५॥

संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ ।
वातोद्धूतपताकेन स्यन्दनेनौघनादिना ॥२६॥

ओघनादिना जलौघवन्नादवता ॥२६॥
इति श्रीमहाभारते कर्णपर्वणि अश्वत्थामपराजये सप्तदशोऽध्यायः ॥१७॥
अष्टादशोऽध्यायः

सञ्जय उवाच। अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः ।
रथनागाश्वपत्तीनां दण्डधारेण वध्यताम् ॥१॥

अथेति । उत्तरेण उत्तरतः । वध्यतां वध्यमानानाम् ॥१॥

निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत् ।
वाहयन्नेव तुरगान् गरुडानिलरंहसः ॥२॥

मागधोऽप्यतिविक्रान्तो द्विरदेन प्रमाथिना ।
भगद‌त्तादनवरः शिक्षया च बलेन च ॥३॥

अनवरः अहीनः ॥३॥

एनं हत्त्वा निहन्तासि पुनः संशप्तकानिति ।
वाक्यान्ते प्रापयत् पार्थं दण्डधारान्तिकं प्रति ॥४॥

स मागधानां प्रवरोऽङ्कुशग्रहे ग्रहेऽप्रसह्यो विकचो यथा ग्रहः ।
सपत्नसेनां प्रममाथ दारुणो महीं समग्रां विकचो यथा ग्रहः ॥५॥

अङ्कुशग्रहे अङ्कुशधारणे हस्तियुद्धे इत्यर्थः । ग्रहे आदित्यादिग्रहसमूहे युद्धपरिग्रहे च अप्रसह्यः । विकचः कचोपलक्षितशिरोरहितः केतुरूपः ग्रह इव । विकचो विस्तीर्णो ग्रहो धूमकेतुरूपी उत्पातग्रहः ॥५॥

सुकल्पितं दानवनागसन्निभं महाभ्रनिर्ह्रादममित्रमर्दनम् ।
रथाश्वमातङ्गगगणान्सहस्रशः समास्थितो हन्ति शरैर्नरानपि ॥६॥

दानवनागसन्निभं गजासुरोपमं गजमित्यर्थात् समास्थितः स हन्तीत्यन्वयः ॥६॥

रथानधिष्ठाय सवाजिसारीन्नरांश्च पादैर्द्विरदो व्यपोथयत् ।
द्विपांश्च पद्भ्यां ममृदे करेण द्विपोत्तमो हन्ति च कालचक्रवत् ॥७॥

रथान् पादैरधिष्ठाय आक्रम्य ममृदे मर्दयामासेत्युत्तरार्थस्यानुकर्षः । एवं करेण शुण्डया नरादीनपोथयदिति । एवं द्विपो हन्ति रथादीनित्यर्थात् ॥७॥

नरांस्तु कार्ष्णायसवर्मभूषणान्निपात्य साश्वानपि पत्तिभिः सह ।
व्यपोथयद्दन्तिवरेण शुष्मिणा स शब्दवत्स्थूलनलं यथा तथा ॥८॥

शुष्मिणा बलवता स्थूलं सुषिरं नलं तृणविषेशम् ॥८॥

अथार्जुनो ज्यातलनेमिनिःस्वने मृदङ्गभेरीबहुशंखनादिते ।
रथाश्वमातङ्गसहस्रसंकुले रथोत्तमेनाभ्यपतद्द्विपोत्तमम् ॥९॥

सङ्कुले रणदेशे इति सामर्थ्यात् ज्ञेयम् ॥९॥

ततोऽर्जुनं द्वादशभिः शरोत्तमैर्जनार्दनं षोडशभिः समार्पयत् ।
स दण्डधारस्तुरगांस्त्रिभिस्त्रिभिस्ततो ननाद प्रजहास चासकृत् ॥१०॥

ततोऽस्य पार्थः सगुणेषुकार्मुकं चकर्त भल्लैर्ध्वजमप्यलंकृतम् ।
पुनर्नियन्तॄन्सह पादगोप्तॄंस्ततः स चुक्रोध गिरिव्रजेश्वरः ॥११॥

सगुणेषुकार्मुकं मौर्वीबाणसहितं धनुः । नियन्तॄन् नियन्तारम् ॥११॥

ततोऽर्जुनं भिन्नकटेन दन्तिना घनाघनेनानिलतुल्यवर्चसा ।
अतीव चुक्षोभयिषुर्जनार्दनं धनञ्जयं चाभिजघान तोमरैः ॥१२॥

अथास्य बाहू द्विपहस्तसन्निभौ शिरश्च पूर्णेन्दुनिभाननं त्रिभिः ।
क्षुरैः प्रचिच्छेद सहैव पाण्डवस्ततो द्विपं बाणशतैः समार्पयत् ॥१३॥

सहैव युगपत् ॥१३॥

स पार्थबाणैस्तपनीयभूषणैः समाचितः काञ्चनवर्मभृद्द्विपः ।
तथा चकाशे निशि पर्वतो यथा दावाग्निना प्रज्वलितौषधिद्रुमः ॥१४॥

स वेदनार्तोऽम्बुद‌निस्वनो नदंश्चरन् भ्रमन् प्रस्खलितान्तरोऽद्रवत ।
पपात रुग्णः सनियन्तृकस्तथा यथा गिरिर्वज्रविदारितस्तथा ॥१५॥

चरन् गच्छन् भ्रमन् भ्रान्तिं प्राप्नुवन् अत एव प्रस्खलितान्तरः मध्ये स्खलन्नित्यर्थः । सनियन्तृकः महामात्रसहितः पपात तथा पातयोग्यं यथा स्यात्तथा रुग्णः पीडितो यथैवंभूतः पपातेति पृथगन्वयः॥१५॥

हिमावदातेन सुवर्णमालिना हिमाद्रिकूटप्रतिमेन दन्तिना ।
हते रणे भ्रातरि दण्ड आव्रजज्जिघांसुरिन्द्रावरजं धनञ्जयम् ॥१६॥

इन्द्रावरजं विष्णुं कृष्णमित्यर्थः । धनञ्जयं च जिघांसुर्दण्ड आव्रजत् दन्तिना सहेति शेषः ॥१६॥

सतोमरैरर्ककरप्रभैस्त्रिभिर्जनार्दनं पञ्चभिरर्जुनं शितैः ।
समर्पयित्वा विननाद नर्दयंस्ततोऽस्य बाहू निचकर्त पाण्डवः ॥१७॥

नयन् शब्दं कारयन् ॥१७॥

क्षुरप्रकृत्तौ सुभृशं सतोमरौ शुभाङ्गदौ चन्दनरूषितौ भुजौ ।
गजात्पतन्तौ युगपद्विरेजतुर्यथाऽद्रिशृङ्गाद्रुचिरौ महोरगौ ॥१८॥

तथाऽर्धचन्द्रेण हतं किरीटिना पपात दण्डस्य शिरः क्षितिं द्विपात् ।
स शोणितार्द्रो निपतन्विरेजे दिवाकरोऽस्तादिव पश्चिमां दिशम् ॥१९॥

अस्तात् अस्ताचलात् ॥१९॥

अथ द्विपं श्वेतवराभ्रसन्निभं दिवाकरांशुप्रतिमैः शरोत्तमैः ।
बिभेद पार्थः स पपात नादयन् हिमाद्रिकूटं कुलिशाहतं यथा ॥२०॥

ततोऽपरे तत्प्रतिमा गजोत्तमा जिगीषवः संयति सव्यसाचिना ।
तथा कृतास्ते च यथैव तौ द्विपौ ततः प्रभग्न्नं सुमहद्रिपोर्बलम् ॥२१॥

गजोत्तमाः महागजारूढाः तौ दण्डधारतद्भ्रात्रोर्द्विपौ साध्यक्षौ कृत्तौ छिन्नौ तथा तेऽपि कृत्ताः छिन्नाः ॥२१॥

गजा रथाश्वाः पुरुषाश्च संघशः परस्परघ्नाः परिपेतुराहवे ।
परस्परं प्रस्खलिताः समाहिता भृशं निपेतुर्बहुभाषिणो हताः ॥२२॥

अथार्जुनं स्वे परिवार्य सैनिकाः पुरंदरं देवगणा इवाब्रुवन् ।
अभैष्म यस्मान्मरणादिव प्रजाः स वीर दिष्ट्या निहतस्त्वया रिपुः ॥२३॥

न चेदरक्षिष्य इमं जनं भयाद्द्विषद्भिरेवं बलिभिः प्रपीडितम् ।
तथा भविष्यद्द्विषतां प्रमोदनं यथा हतेष्वेष्विह नोऽरिसूदन ॥२४॥

इतीव भूयश्च सुहृद्भिरीडिता निशम्य वाचः सुमनास्ततोऽर्जुनः ।
यथानुरूपं प्रतिपूज्य तं जनं जगाम संशप्तकसंघहा पुनः ॥२५॥

इति श्रीमहाभारते कर्णपर्वणि दण्डवधेऽष्टादशोऽध्यायः ॥१८॥
एकोनविंशोऽध्यायः

सञ्जय उवाच। प्रत्यागत्य पुनर्जिष्णुर्जघ्ने संशप्तकान्बहून् ।
चक्रातिवक्रगमनादङ्गारक इव ग्रहः ॥१॥

प्रत्येति ॥१॥

पार्थबाणहता राजन्नराश्वरथकुञ्जराः ।
विचेलुर्बभ्रमुर्नेशुः पेतुर्मम्लुश्च भारत ॥२॥

धुर्यान् धुर्यगतान्सूतान् ध्वजांश्चापानि सायकान् ।
पाणीन्पाणिगतं शस्त्रं बाहूनपि शिरांसि च ॥३॥

धुर्यान् श्रेष्ठान् धुर्यगतान् वाहान् वाहादीन् अमित्रवीराणां चिच्छेदेति द्वयोः सम्बन्धः ॥३॥

भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः ।
चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम् ॥४॥

वासितार्थे युयुत्सन्तो वृषभा वृषभं यथा ।
निपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः ॥५॥

वासितार्थे स्त्रीनिमित्तम् । ‘वासिताकरिणीनार्योर्वासितं सुरभीकृते’ इति विश्वः । यथा स्वयंवरस्थां स्त्रियं प्राप्तुं वृषभाश्च अवृषभाश्च तेषां यूथं वृषभावृषभं श्रेष्ठाश्रेष्ठयोधकुलं अहंपूर्विकया निपतति एवं युद्धेऽर्जुनं प्राप्तुं राजान इत्यर्थः । वासितम् अतिश्रेष्ठं राज्यादिकं वा वस्तु ॥५॥

तेषां तस्य च तद्युद्धमभवल्लोमहर्षणम् ।
त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा ॥६॥

तमविध्यस्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः ।
उग्रायुधसुतस्तस्य शिरः कायाद‌पाहरत् ॥७॥

तस्य उग्रायुधसुतस्य अपाहरदर्जुन इति शेषः ॥७॥

तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन् ।
मरुद्भिः प्रेरिता मेघा हिमवन्तमिवोष्णगे ॥८॥

उष्णगे ग्रीष्मे गते सति प्रावृषीत्यर्थः । उष्णो ग्रीष्मो गतोऽतीतो यत्र स उष्णगः कालविशेष इति विग्रहः ॥८॥

अस्त्रैरस्राणि संवार्य द्विषतां सर्वतोऽर्जुनः ।
सम्यगस्तैः शरैः सर्वानहितानहनद्बहून् ॥९॥

अस्तैः क्षिप्तैः ॥९॥

छिन्नत्रिवेणुसङ्घातान् हताश्वान् पार्ष्णिसारथीन् ।
विस्रस्तहस्ततूणीरान् विचक्ररथकेतनान् ॥१०॥

संछिन्नरश्मियोक्त्राक्षान् व्यनुकर्षयुगान्रथान् ।
विद्ध्वस्तसर्वसन्नाहान् बाणैश्चक्रेऽर्जुनस्तदा ॥११॥

अनुकर्षः रथाधस्थं दारु ॥११॥

ते रथास्तत्र विद्ध्वस्ताः परार्ध्या भान्त्यनेकशः ।
धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः ॥१२॥

द्विपाः संभिन्नवर्माणो वज्राशनिसमैः शरैः ।
पेतुर्गिर्यग्रवेश्मानि वज्रपाताग्निभिर्यथा ॥१३॥

सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः ।
निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः ॥१४॥

निर्जिह्वांत्राः निर्गताः जिह्वाः अंत्राणि च येषां ते ॥१४॥

नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना ।
बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष ॥१५॥

अनेकैश्च शिलाधौतैर्वज्राशनिविषोपमैः ।
शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान् ॥१६॥

महार्हवर्माभरणा नानारूपाम्बरायुधाः ।
सरथाः सध्वजा वीरा हताः पार्थेन शेरते ॥१७॥

विजिताः पुण्यकर्माणो विशिष्टाभिजनश्रुताः ।
गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम् ॥१८॥

अथार्जुनं रथवरं त्वदीयाः समभिद्रवन् ।
नानाजनपदाध्यक्षाः सगणा जातमन्यवः ॥१९॥

उह्यमाना रथाश्वेभैः पत्तयश्च जिघांसवः ।
समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम् ॥२०॥

तदायुधमहावर्षं मुक्तं योधमहाम्बुदैः ।
व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः ॥२१॥

साश्वपत्तिद्विपरथं महाशस्त्रौघसंप्लवम् ।
सहसा सन्तितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना ॥२२॥

अथाब्रवीद्वासुदेवः पार्थ किं क्रीडसेऽनघ ।
संशप्तकान् प्रमथ्यैनांस्ततः कर्णवधे त्वर ॥२३ ।
तथेत्युक्त्वाऽर्जुनः कृष्णं शिष्टान्संशप्तकांस्तदा ।
आक्षिप्य शस्त्रेण बलाद्दैत्यानिन्द्र इयावधीत् ॥२४॥

आददन्संदधन्नेषून् दृष्टः कैश्चिद्रणेऽर्जुनः ।
विमुञ्चन्वा शराञ्शीघ्रं दृश्यतेऽवहितैरपि ॥२५॥

आश्चर्यमिति गोविन्दः सममन्यत भारत ।
हंसांशुगौरास्ते सेनां हंसाः सर इवाविशन् ॥२६॥

ततः संग्रामभूमिं च वर्तमाने जनक्षये ।
अवेक्षमाणो गोविंदः सव्यसाचिनमब्रवीत् ॥२७॥

एष पार्थ महारौद्रो वर्तते भरतक्षयः ।
पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान् ॥२८॥

पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम् ।
महतां चापविद्धानि कलापानिषुधींस्तथा ॥२९॥

कलापान् अलङ्कारान् ॥२९॥

जातरूपमयैः पुङ्खैः शरांश्च नतपर्वणः ।
तैलधौतांश्च नाराचान् विमुक्तानिव पन्नगान् ॥३०॥

आकीर्णांस्तोमरांश्चापि विचित्रान् हेमभूषितान् ।
चर्माणि चापविद्धानि रुक्मपृष्ठानि भारत ॥३१॥

आकीर्णान् सर्वतो विक्षिप्तान् ॥३१॥

सुवर्णविकृतान्प्रासान् शक्तीः कनकभूषिताः ।
जाम्बूनद‌मयैः पट्टैर्बद्धाश्च विपुला गदाः ॥३२॥

जातरूपमयीश्चर्ष्टीः पट्टिशान् हेमभूषितान् ।
दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वधान् ॥३३॥

परिघान् भिन्दिपालांश्च भुशुण्डीः कुणपानपि ।
अयस्कुन्तांश्च पतितान् मुसलानि गुरूणि च ॥३४॥

नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः ।
जीवन्त इव दृश्यन्ते गतसत्त्वास्तरस्विनः ॥३५॥

गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान् ।
गजवाजिरथैः क्षुण्णान्पश्य योधान्सहस्रशः ॥३६॥

मनुष्य-गज-वाजीनां शरशक्त्यृष्टितोमरैः ।
निस्त्रिंशैः पट्टिशैः प्रासैर्नखरैर्लगुडैरपि ॥३७॥

वाजीनां शरीरैरिति सम्बन्धः दैर्घ्यमार्षम् ॥३७॥

शरीरैर्बहुधा छिन्नैः शोणितौघपरिप्लुतैः ।
गतासुभिरमित्रघ्नसंवृता रणभूमयः ॥३८॥

बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः ।
सतलत्रैः सकेयूरैर्भाति भारत मेदिनी ॥३९॥

साङ्गलित्रैर्भुजाग्रैश्च विप्रविद्धैरलङ्कृतैः ।
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥४०॥

बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः ।
रथांश्च बहुधा भग्नान् हेमकिङ्किणिनः शुभान् ॥४१॥

अश्वांश्च बहुधा पश्य शोणितेन परिप्लुतान् ।
अनुकर्षानुपासङ्गान् पताका विविधान् ध्वजान् ॥४२॥

योधानां च महाशङ्खान् पाण्डुरांश्च प्रकीर्णकान् ।
निरस्तजिह्वान्मातङ्गान् शयानान्पर्वतोपमान् ॥४३॥

वैजयन्तीर्विचित्राश्च हतांश्च गजयोधिनः ।
वारणानां परिस्तोमान् संयुक्तानेककम्बलान् ॥४४॥

विपाटितविचित्राश्च रूपचित्राः कुथास्तथा ।
भिन्नाश्च बहुधा घण्टाः पतद्भिश्चूर्णिता गजैः ॥४५॥

वैदूर्यमणिदण्डांश्च पतितांश्चाङ्कुशान् भुवि ।
अश्वानां च युगापीडान् रत्नचित्रानुरश्छदान् ॥४६॥

विद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कुथाः ।
विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान् ॥४७॥

अश्वास्तरपारस्तोमान् राङ्कवान्पतितान्भुवि ।
चूडामणीन्नरेद्राणां विचित्राः काञ्चनस्रजः ॥४८॥

छत्राणि चापविद्धानि चामरव्यजनानि च ।
चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः ॥४९॥

क्लृप्तश्मश्रुभिराकीर्णां पूर्णचन्द्रनिभैर्महीम् ।
कुमुदोत्पलपद्मानां खण्डैः फुल्लं यथा सरः ॥५०॥

तथा महीभृतां वक्त्रैः कुमुदोत्पलसन्निभैः ।
तारागणविचित्रस्य निर्मलेन्दुद्युतित्विषः ॥५१॥

पश्येमां नभसस्तुल्यां शरन्नक्षत्रमालिनीम् ।
एतत्तवैवानुरूपं कर्मार्जुन महाहवे ॥५२॥

दिवि वा देवराजस्य त्वया यत्कृतमाहवे ।
एवं तां दर्शयन् कृष्णो युद्धभूमिं किरीटिने ॥५३॥

गच्छन्नेवाश्रृणोच्छब्दं दुर्योधनबले महत् ।
शङ्खदुन्दुभिनिर्घोषं भेरीपणवनिःस्वनम् ॥५४॥

रथाश्वगजनादांश्च शस्त्रशब्दांश्च दारुणान् ।
प्रविश्य तद्बलं कृष्णस्तुरगैर्वातवेगितैः ॥५५॥

पाण्ड्येनाभ्यर्दितं सैन्यं त्वदीयं वीक्ष्य विस्मितः ।
स हि नानाविधैर्बाणैरिष्वस्त्रप्रवरो युधि ॥५६॥

न्यहनद्द्विषतां पूगान् गतासूनन्तको यथा ।
गजवाजिमनुष्याणां शरीराणि शितैः शरैः ॥५७॥

भित्त्वा प्रहरतां श्रेष्ठो विदेहासूनपातयत् ।
शत्रुप्रवीरैरस्त्राणि नानाशस्त्राणि सायकैः ।
छित्त्वा तानवधीच्छत्रून् पाण्ड्यः शक्र इवासुरान् ॥५८॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे एकोनविंशोऽध्यायः ॥१९॥
विंशोऽध्यायः

धृतराष्ट्र उवाच। प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः ।
न त्वस्य कर्म संग्रामे त्वया सञ्जय कीर्तितम् ॥१॥

प्रोक्त इति ॥१॥

तस्य विस्तरशो ब्रूहि प्रवीरस्याद्य विक्रमम् ।
शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च ॥२॥

सञ्जय उवाच। भीष्म-द्रोण-कृप-द्रौणि-कर्णार्जुन-जनार्दनान् ।
समाप्तविद्यान्धनुषि श्रेष्ठान्यान्मन्यसे रथान् ॥३॥

यो ह्याक्षिपति वीर्येण सर्वानेतान्महारथान् ।
न मेने चात्मना तुल्यं कञ्चिदेव नरेश्वरम् ॥४॥

तुल्यतां द्रोणभीष्माभ्यामात्मनो यो न मृष्यते ।
वासुदेवार्जुनाभ्यां च न्यूनतां नैच्छतात्मनि ॥५॥

स पाण्ड्यो नृपतिः श्रेष्ठः सर्वशस्त्रभृतां वरः ।
कर्णस्यानीकमहनत् पराभूत इवान्तकः ॥६॥

पराभूतः प्रकोपितः ॥६॥

तदुदीर्णरथाश्वं च पत्तिप्रवरसंकुलम् ।
कुलालचक्रवद्भ्रान्तं पाण्ड्येनाभ्याहतं बलात् ॥७॥

व्यश्वसूतध्वजरथान् विप्रविद्धायुधद्विपान् ।
सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत् ॥८॥

द्विरदान् द्विरदारोहान्विपताकायुधध्वजान् ।
सपादरक्षानहनद्वज्रेणाद्रीनिवाद्रिहा ॥९॥

सशक्तिप्रासतूणीरानश्वारोहान् हयानपि ।
पुलिन्द-खस-बाह्लीक-निषादान्ध्रक-कुन्तलान् ॥१०॥

स पाण्ड्यः व्यसूनकरोदिति द्वयोः सम्बन्धः ॥१०॥

दाक्षिणात्यांश्च भोजांश्च शूरान् संग्रामकर्कशान् ।
विशस्त्रकवचान्बाणैः कृत्वा चैवाकरोद्व्यसून् ॥११॥

चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्ड्यमाहवे ।
दृष्ट्वा द्रौणिरसंभ्रान्तमसंभ्रान्तस्ततोऽभ्ययात् ॥१२॥

आभाष्य चैनं मधुरमभीतं तमभीतवत् ।
प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयत् ॥१३॥

राजन् कमलपत्राक्ष विशिष्टाभिजनश्रुत ।
वज्रसंहननप्रख्य प्रख्यातबलपौरुष ॥१४॥

मुष्टिश्लिष्टायतज्यं च व्यायताभ्यां महद्धनुः ।
दोर्भ्यां विस्फारयन् भासि महाजलदवद्भृशम् ॥१५॥

मुष्टिश्लिष्टायतज्यं मुष्टिदेशे श्लिष्टा च आयता च ज्या यस्य तत्तथा । एकस्मिन्नेव क्षणे यद्धनुर्मण्डलाकारं चिपिटाकारं च दृश्यत इति भावः ॥१५॥

शरवर्षैर्महावेगैरमित्रानभिवर्षतः ।
मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे ॥१६॥

वर्षतः मत् मत्तः ॥१६॥

रथ-द्विरद-पत्त्यश्वानेकः प्रमथसे बहून् ।
मृगसङ्घानिवारण्ये बिभीर्भीमबलो हरिः ॥१७॥

प्रमथसे प्रमथ्नासि ॥१७॥

महता रथघोषेण दिवं भूमिं च नादयन् ।
वर्षान्ते सस्यहा मेघो भासि ह्रादीव पार्थिव ॥१८॥

सस्यहा अतिवृष्ट्या धान्यहा ह्रादी गर्जन् ॥१८॥

संस्पृशानः शरांस्तीक्ष्णांस्तूणादाशीविषोपमान् ।
मयैवैकेन युध्यस्व त्र्यम्बकेनान्धको यथा ॥१९॥

एवमुक्तस्तथेत्युक्त्वा प्रहरेति च ताडितः ।
कर्णिना द्रोणतनयं विव्याध मलयध्वजः ॥२०॥

ताडितः द्रौणिना मलयवत् कृत्रिमो ध्वजो यस्य मलयध्वज इति प्रवीरस्यैव नामान्तरं वा ॥२०॥

मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः ।
स्मयन्नभ्यहनद्द्रौणिः पाण्ड्यमाचार्यसत्तमः ॥२१॥

ततोऽपरान्सुतीक्ष्णाग्रान्नाराचान्मर्मभेदिनः ।
गत्या दशम्या संयुक्तानश्वत्थामाऽप्यवासृजत् ॥२२॥

ताञ्शरानच्छिनत् पाण्ड्यो नवभिर्निशितैः शरैः ।
चतुर्भिरर्दयच्चाश्वानाशु ते व्यसवोऽभवन् ॥२३॥

अथ द्रोणसुतस्येषूंस्ताञ्छित्त्वा निशितैः शरैः ।
धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यतेजसः ॥२४॥

दिव्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा ।
प्रेक्ष्य चानु रथे युक्तान्नरैरन्यान्हयोत्तमान् ॥२५॥

ततः शरसहस्राणि प्रेषयामास वै द्विजः ।
इषुसंबाधमाकाशमकरोद्दिश एव च ॥२६॥

ततस्तानस्यतः सर्वान् द्रौणेर्बाणान्महात्मनः ।
जानानोऽप्यक्षयान्पाण्ड्योऽशातयत्पुरुषर्षभः ॥२७॥

प्रयुक्तांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः ।
चक्ररक्षौ रणे तस्य प्राणु‌दन्निशितैः शरैः ॥२८॥

अथारेर्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः ।
प्रास्यद्द्रोणसुतो बाणान् वृष्टिं पूषानुजो यथा ॥२९॥

पूषानुजः पर्जन्यः । पूषात्मज इति पाठेऽपि स एवार्थः । वृष्टेः सूर्यप्रभवत्वदर्शनात् ॥२९॥

अष्टावष्टगवान्यूहुः शकटानि यदायुधम् ।
अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष ॥३०॥

अष्टवृषभवाह्यानि अष्टौ शकटानि यदायुधसंभारम् ऊहुः वहन्ति तत्सर्वम् अह्नोऽष्टमभागेन यामार्धेन क्षीणमित्यर्थः ॥३०॥

तमन्तकमिव क्रुद्धमन्तकस्यान्तकोपमम् ।
ये ये ददृशिरे तत्र विसंज्ञाः प्रायशोऽभवन् ॥३१॥

पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम् ।
आचार्यपुत्रस्तां सेनां बाणवृष्ट्या व्यवीवृषत् ॥३२॥

द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम् ।
वायव्यास्त्रेण संक्षिप्य सुदा पाण्ड्यानिलोऽनुदत् ॥३३॥

तस्य नानदतः केतुं चन्दनागुरुरूषितम् ।
मलयप्रतिमं द्रौणिश्छित्त्वाऽश्वांश्चतुरोऽहनत् ॥३४॥

सूतमेकेषुणा हत्वा महाजलद‌निःस्वनम् ।
धनुश्छित्त्वाऽर्धचन्द्रेण तिलशो व्यधमद्रथम् ॥३५॥

अस्त्रैरस्राणि संवार्य छित्त्वा सर्वायुधानि च ।
प्राप्तमप्यहितं द्रौणिर्न जघान रणेप्सया ॥३६॥

एतस्मिन्नन्तरे कर्णो गजानीकमुपाद्रवत् ।
द्रावयामास स तदा पाण्डवानां महद्बलम् ॥३७॥

विरथान् रथिनश्चक्रे गजानश्वांश्च भारत ।
गजान्बहुभिरानर्छच्छरैः सन्नतपर्वभिः ॥३८॥

अथ द्रौणिर्महेष्वासः पाण्ड्यं शत्रुनिबर्हणम् ।
विरथं रथिनां श्रेष्ठं नाहनद्युद्धकांक्षया ॥३९॥

हतेश्वरो दन्तिवरः सुकल्पितस्त्वराभिसृष्टः प्रतिशब्द‌गो बली ।
तमाद्रवद्द्रौणिशराहतस्त्वरन् जवेन कृत्वा प्रतिहस्तिगर्जितम् ॥४०॥

हतेश्वरो यः कश्चित् तं पाण्ड्यम् ॥४०॥

तं वारणं वारणयुद्धकोविदो द्विपोत्तमं पर्वतसानुसन्निभम् ।
समभ्यतिष्ठन्मलयध्वजस्त्वरन्यथाद्रिशृङ्गं हरिरुन्नदंस्तथा ॥४१॥

मलयध्वजः पाण्ड्यस्तं यदृच्छयागतं वारणं समभ्यतिष्ठत् ॥४१॥

स तोमरं भास्कररश्मिवर्चसं बलास्त्रसर्गोत्तमयत्नमन्युभिः ।
ससर्ज शीघ्रं परिपीडयन् गजं गुरोः सुतायाद्रिपतीश्वरो नदन् ॥४२॥

बलेन अस्त्रसर्गे य उत्तमो यत्नस्तेन मन्युना च तैः परिपीडयन् अङ्कुशेन कोपयन् अद्रिपतिर्मलयस्तस्येश्वरः पाण्ड्यः ॥४२॥

मणिप्रवेकोत्तमवज्रहाटकैरलङ्कृतं चांशुकमाल्यमौक्तिकैः ।
हतो हतोऽसीत्यसकृन्मुदा नदन् पराहनद्द्रौणिवराङ्गभूषणम् ॥४३॥

द्रौणेः वराङ्गभूषणं किरीटं तोमरेण पराहनत् ॥४३॥

तदर्कचन्द्रग्रहपावकत्विषं भृशातिपातात्पतितं विचूर्णितम् ।
महेन्द्रवज्राभिहतं महास्वनं यथाद्रिशृङ्गं धरणीतले तथा ॥४४॥

ततः प्रजज्वाल परेण मन्युना पादाहतो नागपतिर्यथा तथा ।
समाददे चान्तकदण्डसन्निभानिषूनमित्रार्तिकरांश्चतुर्दश ॥४५॥

इषून् समाददे द्रौणिरिति शेषः ॥४५॥

द्विपस्य पादाग्रकरान्स पञ्चभिनृपस्य बाहू च शिरोऽथ च त्रिभिः ।
जघान शड्भिः षडनुत्तमत्विषः स पाण्ड्यराजाऽनुचरान्महारथान् ॥४६॥

सुदीर्घवृत्तौ वरचन्दनोक्षितौ सुवर्णमुक्तामणिवज्रभूषणौ ।
भुजौ धरायां पतितौ नृपस्य तौ विचेष्टतुस्तार्क्ष्यहताविवोरगौ ॥४७॥

शिरश्च तत्पूर्णशशिप्रभाननं सरोषताम्रायतनेत्रमुन्नसम् ।
क्षितावपि भ्राजति तत्सकुण्डलं विशाखयोर्मध्यगतः शशी यथा ॥४८॥

स तु द्विपः पञ्चभिरुत्तमेषुभिः कृतः षडंशश्चतुरो नृपस्त्रिभिः ।
कृतो दशांशः कुशलेन युध्यता यथा हविस्तद्दशदैवतं तथा ॥४९॥

चतुरश्चतुरंशः एवं स गजो दशधा भक्तो यथा दशहविष्कायामिष्टौ पिष्टपिण्डो दशधा क्रियते तथेत्यर्थः ॥४९॥

स पादशो राक्षसभोजनान्बहून् प्रदाय पाण्ड्योऽश्व-मनुष्य-कुञ्जरान् ।
स्वधामिवाप्य ज्वलनः पितृप्रियस्ततः प्रशान्तः सलिलप्रवाहतः ॥५०॥

पाण्ड्योऽश्वादीन् पादशः प्रदाय खण्डयित्वा प्रशान्तः द्रौणिबाणैरिति शेषः । यथा स्वधां प्रेतशरीररूपं हविः प्राप्य पितृप्रियो ज्वलनः श्मशानाग्निः जलेन शाम्यति तद्वदित्यर्थः ॥५०॥

समाप्तविद्यं तु गुरोः सुतं नृपः समाप्तकर्माणमुपेत्य ते सुतः ।
सुहृद्वृतोऽत्यर्थमपूजयन्मुदा जिते बलौ विष्णुमिवामरेश्वरः ॥५१॥

समाप्तविद्यं सम्यगाप्तविद्यं समाप्तकर्माणं कृतकृत्यम् ॥५१॥
इति श्रीमहाभारते कर्णपर्वणि पाण्ड्यवधे विंशोऽध्यायः ॥२०॥
एकविंशोऽध्यायः

धृतराष्ट्र उवाच। पाण्ड्ये हते किमकरोदर्जुनो युधि सञ्जय ।
एकवीरेण कर्णेन द्रावितेषु परेषु च ॥१॥

पाण्ड्य इति ॥१॥

समाप्तविद्यो बलवान् युक्तो वीरः स पाण्डवः ।
सर्वभूतेष्वनुज्ञातः शङ्करेण महात्मना ॥२॥

अनुज्ञातः त्वमजय्यो भविष्यसीत्यनुगृहीतः ॥२॥

तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनञ्जयात् ।
स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व सञ्जय ॥३॥

सञ्जय उवाच। हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम् ।
पश्यामि नाहं राजानमपयातांश्च पाण्डवान् ॥४॥

राजानं युधिष्ठिरम् ॥४॥

निवृत्तैश्च पुनः पार्थैर्भग्नं शत्रुबलं महत् ।
अश्वत्थाम्नश्च सङ्कल्पाद्धताः कर्णेन सृञ्जयाः ॥५॥

तथाऽश्व-रथ-नागानां कृतं च कदनं महत् ।
सर्वमाख्यातवान्वीरो वासुदेवः किरीटिने ॥६॥

एतच्छ्रुत्वा च दृष्ट्वा च भ्रातुर्घोरं महद्भयम् ।
वाहयाश्वान् हृषीकेश क्षिप्रमित्याह पाण्डवः ॥७॥

भ्रातुः युधिष्ठिरस्य ॥७॥

ततः प्रायाद्धृषीकेशो रथेनाप्रतियोधिना ।
दारुणश्च पुनस्तत्र प्रादुरासीत्समागमः ॥८॥

ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः ।
भीमसेनमुखाः पार्थाः सूतपुत्रमुखा वयम् ॥९॥

ततः प्रववृते भूयः सङ्ग्रामो राजसत्तम ।
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ॥१०॥

धनूंषि बाणान्परिघानसि-पट्टिश-तोमरान् ।
मुसलानि भुशुण्डीश्च सशक्त्यृष्टिपरश्वधान् ॥११॥

गदाः प्रासान् शितान् कुन्तान् भिन्दिपालान्महांकुशान् ।
प्रगृह्य क्षिप्रमापेतुः परस्परजिघांसया ॥१२॥

बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत् ।
पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान् ॥१३॥

द्यां स्वर्गं वियत् अन्तरिक्षम् ॥१३॥

तेन शब्देन महता संहृष्टाश्चक्रुराहवम् ।
वीरा वीरैर्महाघोरं कलहान्तं तितीर्षवः ॥१४॥

ज्यातलत्रधनुःशब्दः कुञ्जराणां च बृंहताम् ।
पादातानां च पततां नृणां नादो महानभूत् ॥१५॥

तालशब्दांश्च विविधाञ्शूराणां चाभिगर्जताम् ।
श्रुत्वा तत्र भृशं त्रेसुः पेतुर्मम्लुश्च सैनिकाः ॥१६॥

तेषां निनदतां चैव शस्त्रवर्षं च मुञ्चताम् ।
बहूनाधिरथिर्वीरः प्रममाथेषुभिः परान् ॥१७॥

पञ्च पञ्चालवीराणां रथान्दश च पञ्च च ।
साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम् ॥१८॥

योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे ।
शीघ्रास्त्रास्तूर्णमावृत्य परिवव्रुः समन्ततः ॥१९॥

ततः कर्णो द्विषत्सेनां शरवषैर्विलोडयन् ।
विजगाहाण्डजाकीर्णां पद्मिनीमिव यूथपः ॥२०॥

अण्डजैर्जलपक्षिभिः सारसादिभिः आकीर्णां व्याप्ताम् ॥२०॥

द्विषन्मध्यमवस्कन्द्य राधेयो धनुरुत्तमम् ।
विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत् ॥२१॥

अवस्कन्द्य निपत्य उन्मथ्य मार्गादन्यत्र दूरे इत्यर्थः ॥२१॥

चर्मवर्माणि संछिन्नान्यपतन्भुवि देहिनाम् ।
विषेहुर्नास्य संस्पर्शं द्वितीयस्य पतत्रिणः ॥२२॥

वर्मदेहासुमथनैर्धनुषः प्रच्युतैः शरैः ।
मौर्व्या तलत्रे न्यहनत्कशया वाजिनो यथा ॥२३॥

असुमथनैः असवः प्राणा उन्मथ्यन्त्येभिस्तैः मौर्वीच्युतैः शरैर्बाणैः तलत्रे ज्याघातवारणस्थाने न्यहनत् यथा ते शरंसन्धातुं न शक्नुवन्ति तथा चकारेत्यर्थः ॥२३॥

पाण्डुसृञ्जयपञ्चालाञ्शरगोचरमागतान् ।
ममर्द तरसा कर्णः सिंहो मृगगणानिव ॥२४॥

ततः पाञ्चालराजश्च द्रौपदेयाश्च मारिष ।
यमौ च युयुधानश्च सहिताः कर्णमभ्ययुः ॥२५॥

तेषु व्यायच्छमानेषु कुरु-पञ्चाल-पाण्डुषु ।
प्रियानसून्रणे त्यक्त्वा योधा जघ्नुः परस्परम् ॥२६॥

व्यायच्छमानेषु यतमानेषु ॥२६॥

सुसन्नद्धाः कवचिनः सशिरस्त्राणभूषणाः ।
गदाभिर्मुसलैश्चान्ये परिघैश्च महाबलाः ॥२७॥

समभ्यधावन्त भृशं कालदण्डैरिवोद्यतैः ।
नर्दन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष ॥२८॥

ततो निजघ्नुरन्योन्यं पेतुश्चान्योन्यताडिताः ।
वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणायुधाः ॥२९॥

विमस्तिष्केक्षणायुधाः मस्तिष्कं शिरोभागस्थमांसपिण्डः ॥२९॥

दन्तपूर्णैः सरुधिरैर्वक्त्रैर्दाडिमसन्निभैः ।
जीवन्त इव चाप्यके तस्थुः शस्त्रोपबृंहिताः ॥३०॥

परश्वधैश्चाप्यपरे पट्टिशैरसिभिस्तथा ।
शक्तिभिर्भिन्दि‌पालैश्च नखर-प्रास-तोमरैः ॥३१॥

परश्वधैः ततक्षुः पट्टिशैरसिभिश्च चिच्छिदुः शक्तिभिर्बिभिदुः भिन्दिपालैश्चिक्षिपुः नखरैः सञ्चकर्तुः प्रासतोमरैर्जघ्नुः ॥३१॥

ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा ।
सञ्चकर्तुश्च जघ्नुश्च क्रुद्धा रणमहार्णवे ॥३२॥

पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः ।
क्षरन्तः सुरसं रक्तं प्रकृत्ताश्चन्दना इव ॥३३॥

सुरसं स्निग्धं प्रकृत्ताश्छिन्नाश्चन्दना रक्तचन्दनाः ॥३३॥

रथै रथा विनिहता हस्तिभिश्चापि हस्तिनः ।
नरैर्नरा हताः पेतुरश्वाश्चाश्वैः सहस्रशः ॥३४॥

ध्वजाः शिरांसि छत्राणि द्विपहस्ता नृणां भुजाः ।
क्षुरैर्भल्लार्धचन्द्रैश्च च्छिनाः पेतुर्महीतले ॥३५॥

नरांश्च नागान्सरथान् हयान्ममृदुराहवे ।
अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः ॥३६॥

सपताका ध्वजाः पेतुर्विशीर्णा इव पर्वताः ।
पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा ॥३७॥

समाप्लुत्य संमुखमुत्प्लुत्य ॥३७॥

हताश्च हन्यमानाश्च पतिताश्चैव सर्वशः ।
अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः ॥३८॥

सादिभिः पत्तिसंघाश्च निहता युधि शेरते ।
मुदितानीव पद्मानि प्रम्लाना इव च स्रजः ॥३९॥

पद्मानीव वदनानि स्रज इव गात्राणि ॥३९॥

हतानां वदनान्यासन् गात्राणि च महाहवे ।
रूपाण्यत्यर्थकान्तानि द्विरदाश्वनृणां नृप ।
समुन्नानीव वस्त्राणि ययुर्दुर्दर्शतां पराम् ॥४०॥

समुन्नानि क्षारक्लिन्नानि मलिनानि ॥४०॥
इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे एकविंशोऽध्यायः ॥२१॥
द्वाविंशोऽध्यायः

सञ्जय उवाच। हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः ।
धृष्टद्युम्नं जिघांसन्तः क्रुद्धाः पार्षतमभ्ययुः ॥१॥

हस्तिभिरिति ॥१॥

प्राच्याश्च दाक्षिणात्याश्च प्रवरा गजयोधिनः ।
अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः ॥२॥

मेकलाः कोशला मद्रा दशार्णा निषधास्तथा ।
गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत ॥३॥

शर-तोमर-नाराचैर्वृष्टिमन्त इवाम्बुदाः ।
सिषिचुस्ते ततः सर्वे पाञ्चालबलमाहवे ॥४॥

तान्संमिमर्दिषून्नागान् पार्ष्ण्यङ्गुष्ठांकुशैर्भृशम् ।
चोदिप्तान्पार्षतो बाणैर्नाराचैरभ्यवीवृषत् ॥५॥

पार्ष्णिः पादस्य पश्चाद्भागः अङ्गुष्ठः प्रसिद्धः । अङ्कुशः प्रतोदः पार्ष्ण्यंकुशः अङ्गुष्ठाङ्कुशश्चेति द्वौ केवलाङ्कुशश्च तैः ॥५॥

एकैकं दशभिः ष‌ड्भिरष्टाभिरपि भारत ।
द्विरदानभिविव्याध क्षिप्तैर्गिरिनिभाञ्शरैः ॥६॥

प्रच्छाद्यमानं द्विरदैर्मेघैरिव दिवाकरम् ।
प्रययुः पाण्डुपञ्चाला नदन्तो निशितायुधाः ॥७॥

प्रच्छाद्यमानं धृष्टद्युम्नम् ॥७॥

तान्नागानभिवर्षन्तो ज्यातन्त्रीतलनादितैः ।
वीरनृत्यं प्रनृत्यन्तः शूरतालप्रचोदितैः ।
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः ॥८॥

सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान् ।
समन्तात्सिषिचुर्वीरा मेघास्तोयैरिवाचलान् ॥९॥

ते म्लेच्छैः प्रेषिता नागा नरानश्वान् रथानपि ।
हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः ॥१०॥

बिभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः ।
विषाणलग्नाश्चाप्यन्ये परिपेतुर्विभीषणाः ॥११॥

प्रमुखे वर्तमानं तु द्विपमङ्गस्य सात्यकिः ।
नाराचेनोग्रवेगेन भित्त्वा मर्माण्यपातयत् ॥१२॥

तस्यावर्जितकायस्य द्विरदादुत्पतिष्यतः ।
नाराचेनाहनद्वक्षः सात्यकिः सोऽपतद्भुवि ॥१३॥

आवर्जितः प्रहारवचनेन रक्षितः कायो येन तस्य ॥१३॥

पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम् ।
सहदेवः प्रयत्नास्तैर्नाराचैरहनत्त्रिभिः ॥१४॥

विपताकं वियन्तारं विवर्मध्वजजीवितम् ।
तं कृत्वा द्विरदं भूयः सहदेवोऽङ्गमभ्ययात् ॥१५॥

सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत् ।
नाराचैर्यमद‌ण्डाभैस्त्रिभिर्नागं शतेन तम् ॥१६॥

दिवाकरकरप्रख्यानङ्गश्चिक्षेप तोमरान् ।
नकुलाय शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत् ॥१७॥

तथाऽर्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः ।
स पपात हतो म्लेच्छस्तेनैव सह दन्तिना ॥१८॥

अथाङ्गपुत्रे निहते हस्तिशिक्षाविशारदे ।
अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः ॥१९॥

चलत्पताकैः सुमुखैर्हेमकक्षातनुच्छदैः ।
मिमर्दिषन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः ॥२०॥

मेकलोत्कलकालिङ्गा निषधास्ताम्रलिप्तकाः ।
शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः ॥२१॥

तैश्छाद्यमानं नकुलं दिवाकरमिवाम्बुदैः ।
परिपेतुः सुसंरब्धाः पाण्डु-पञ्चाल-सोमकाः ॥२२॥

ततस्तदभवद्युद्धं रथिनां हस्तिभिः सह ।
सृजतां शरवर्षाणि तोमरांश्च सहस्रशः ।
नागानां प्रास्फुटन् कुम्भा मर्माणि विविधानि च ।
दन्ताश्चैवातिविद्धानां नाराचैर्भूषणानि च ॥२४॥

तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः ।
सहदेवो जघानाशु तेऽपतन् सह सादिभिः ॥२५॥

अञ्जोगतिभिरायम्य प्रयत्नाद्धनुरुत्तमम् ।
नाराचैरहनन्नागान्नकुलः कुलनन्दनः ॥२६॥

ततः पाञ्चालशैनेयौ द्रौपदेयाः प्रभद्रकाः ।
शिखण्डी च महानागान् सिषिचुः शरवृष्टिभिः ॥२७॥

ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः ।
बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः ॥२८॥

एवं हत्वा तव गजांस्ते पाण्डुरथकुञ्जराः ।
द्रुतां सेनामवैक्षन्त भिन्नकूलामिवापगाम् ॥२९॥

तां ते सेनां समालोड्य पाण्डुपुत्रस्य सैनिकाः ।
विक्षोभयित्वा च पुनः कर्णं समभिदुद्रुवुः ॥३०॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे द्वाविंशोऽध्यायः ॥२२॥
त्रयोविंशोऽध्यायः

सञ्जय उवाच। सहदेवं तथा क्रुद्धं दहन्तं तव वाहिनीम् ।
दुःशासनो महाराज भ्राता भ्रातरमभ्ययात् ॥१॥

सहेति ॥१॥

तौ समेतौ महायुद्धे दृष्ट्वा तत्र महारथाः ।
सिंहनादरवांश्चक्रुर्वासांस्यादुधुवुश्च ह ॥२॥

आदुधुवुः भ्रामितवन्तः ॥२॥

ततो भारत क्रुद्धेन तव पुत्रेण धन्विना ।
पाण्डुपुत्रस्त्रिभिर्बाणैर्वक्षस्यभिहतो बली ॥३॥

सहदेवस्ततो राजन्नाराचेन तवात्मजम् ।
विद्ध्वा विव्याध सप्तत्या सारथिं च त्रिभिः शरैः ॥४॥

दुःशासनस्ततश्चापं छित्त्वा राजन्महाहवे ।
सहदेवं त्रिसप्तत्या बाह्वोरुरसि चार्पयत् ॥५॥

सहदेवस्तु संक्रुद्धः खड्गं गृह्य महाहवे ।
आविध्य प्रासृजत्तूर्णं तव पुत्ररथं प्रति ॥६॥

समार्गणगुणं चापं छित्त्वा तस्य महानसिः ।
निपपात ततो भूमौ च्युतः सर्प इवाम्बरात् ॥७॥

अथान्यद्धनुरादाय सहदेवः प्रतापवान् ।
दुःशासनाय चिक्षेप बाणमन्तकरं ततः ॥८॥

तमापतन्तं विशिखं यमदण्डोपमत्विषम् ।
खड्गेन शितधारेण द्विधा चिच्छेद कौरवः ॥९॥

ततस्तं निशितं खड्गमाविध्य युधि सत्वरः ।
धनुश्चान्यत्समादाय शरं जग्राह वीर्यवान् ॥१०॥

तमापतन्तं सहसा निस्त्रिंशं निशितैः शरैः ।
पातयामास समरे सहदेवो हसन्निव ॥११॥

ततो बाणांश्चतुःषष्टिं तव पुत्रो महारणे ।
सहदेवरथं तूर्णं प्रेषयामास भारत ॥१२॥

ताञ्छरान्समरे राजन् वेगेनापततो बहून् ।
एकैकं पञ्चभिर्बाणैः सहदेवो न्यकृन्तत ॥१३॥

सन्निवार्य महाबाणांस्तव पुत्रेण प्रेषितान् ।
अथास्मै सुबहून्बाणान्प्रेषयामास संयुगे ॥१४॥

तान्बाणांस्तव पुत्रोऽपि छित्त्वेकैकं त्रिभिः शरैः ।
ननाद सुमहानादं दारयाणो वसुन्धराम् ॥१५॥

ततो दुःशासनो राजन् विद्ध्वा पाण्डुसुतं रणे ।
सारथिं नवभिर्बाणैर्माद्रेयस्य समार्पयत् ॥१६॥

ततः क्रुद्धो महाराज सहदेवः प्रतापवान् ।
समाधत्त शरं घोरं मृत्युकालान्तकोपमम् ॥१७॥

विकृष्य बलवच्चापं तव पुत्राय सोऽसृजत् ।
स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत् ॥१८॥

प्राविशद्धरणीं राजन् वल्मीकमिव पन्नगः ।
ततः संमुमुहे राजंस्तव पुत्रो महारथः ॥१९॥

मूढं चैनं समालोक्य सारथिस्त्वरितो रथम् ।
अपोवाह भृशं त्रस्तो वध्यमानः शितैः शरैः ॥२०॥

पराजित्य रणे तं तु कौरव्यं पाण्डुनन्दनः ।
दुर्योधनबलं दृष्ट्वा प्रममाथ समन्ततः ॥२१॥

पिपीलिकपुटं राजन्यथा मृदूनन्नरो रुषा ।
तथा सा कौरवी सेना मृदिता तेन भारत ॥२२॥

पिपीलिकपुटं पिपीलिकावासपटलम् ॥२२॥
इति श्रीमहाभारते कर्णपर्वणि सहदेव-दुःशासनयुद्धे त्रयोविंशोऽध्यायः ॥२३॥
चतुर्विंशोऽध्यायः

सञ्जय उवाच। नकुलं रभसं युद्धे द्रावयन्तं वरूथिनीम् ।
कर्णो वैकर्तनो राजन्वारयामास वै रुषा ॥१॥

नकुलमिति । रभसं रणोत्सुकम् ॥१॥

नकुलस्तु ततः कर्णे प्रहसन्निद‌मब्रवीत् ।
चिरस्य बत दृष्टोऽहं दैवतैः सौम्यचक्षुषा ॥२॥

पश्य मां त्वं रणे पाप चक्षुर्विषयमागतम् ।
त्वं हि मूलमनर्थानां वैरस्य कलहस्य च ॥३॥

त्वद्दोषात् कुरवः क्षीणाः समासाद्य परस्परम् ।
त्वामद्य समरे हत्वा कृतकृत्योऽस्मि विज्वरः ॥४॥

एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः ।
सदृशं राजपुत्रस्य धन्विनश्च विशेषतः ॥५॥

प्रहरस्व च मे वीर पश्यामस्तव पौरुषम् ।
कर्म कृत्वा रणे शूर ततः कत्थितुमर्हसि ॥६॥

अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः ।
प्रयुध्यस्व मया शक्त्या हनिष्ये दर्पमेव ते ॥७॥

इत्युक्त्वा प्राहरत्तूर्णं पाण्डुपुत्राय सूतजः ।
विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः ॥८॥

नकुलस्तु ततो विद्धः सूतपुत्रेण भारत ।
अशीत्याशीविषप्रख्यैः सूतपुत्रमविध्यत ॥९॥

तस्य कर्णो धनुश्छित्त्वा स्वर्णपुङ्खैः शिलाशितैः ।
त्रिंशता परमेष्वासः शरैः पाण्डवमर्दयत् ॥१०॥

ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ।
आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः ॥११॥

अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् ।
कर्णं विव्याध सप्तत्या सारथिं च त्रिभिः शरैः ॥१२॥

ततः क्रुद्धो महाराज नकुलः परवीरहा ।
क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुराच्छिनत् ॥१३॥

अथैनं छिन्नधन्वानं सायकानां शतैस्त्रिभिः ।
आजघ्ने प्रहसन्वीरः सर्वलोकमहारथम् ॥१४॥

कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष ।
विस्मयं परमं जग्मू रथिनः सह दैवतैः ॥१५॥

अथान्यद्धनुरादाय कर्णो वैकर्तनस्तदा ।
नकुलं पञ्चभिर्बाणैर्जत्रुदेशे समार्पयत् ॥१६॥

तत्रस्थैरथ तैर्बाणैर्माद्रीपुत्रो व्यरोचयत् ।
स्वरश्मिभिरिवादित्यो भुवने विसृजन्प्रभाम् ॥१७॥

नकुलस्तु ततः कर्णं विद्ध्वा सप्तभिराशुगैः ।
अथास्य धनुषः कोटिं पुनश्चिच्छेद मारिष ॥१८॥

सोऽन्यत्कार्मुकमादाय समरे वेगवत्तरम् ।
नकुलस्य ततो बाणैः समन्ताच्छादयद्दिशः ॥१९॥

संछाद्यमानः सहसा कर्णचापच्युतैः शरैः ।
चिच्छेद स शरांस्तूर्णं शरैरेव महारथः ॥२०॥

ततो बाणमयं जालं विततं व्योम्नि दृश्यते ।
खद्योतानामिव व्रातैः संपतद्भिर्यथा नभः ॥२१॥

तैर्विमुक्तैः शरशतैश्छादितं गगनं तदा ।
शलभानां यथा व्रातैस्तद्वदासीद्विशांपते ॥२२॥

ते शरा हेमविकृताः सम्पतन्तो मुहुर्मुहुः ।
श्रेणीकृता व्यकाशन्त क्रौञ्चाः श्रेणीकृता इव ॥२३॥

बाणजालावृते व्योम्नि छादिते च दिवाकरे ।
न स्म संपतते भूम्यां किञ्चिदप्यन्तरिक्षगम् ॥२४॥

निरुद्धे तत्र मार्गे च शरसंघैः समन्ततः ।
व्यरोचेतां महात्मानौ कालसूर्याविवोदितौ ॥२५॥

कर्णचापच्युतैर्बाणैर्वध्यमानास्तु सोमकाः ।
अवालीयन्त राजेन्द्र वेदनार्ता भृशार्दिताः ॥२६॥

नकुलस्य तथा बाणैर्हन्यमाना चमूस्तव ।
व्यशीर्यत दिशो राजन्वातनुन्ना इवाम्बुदाः॥२७॥

ते सेने हन्यमाने तु ताभ्यां दिव्यैर्महाशरैः ।
शरपातमपाक्रम्य तस्थतुः प्रेक्षिके तदा ॥२८॥

प्रोत्सारितजने तस्मिन् कर्णपाण्डवयोः शरैः ।
अविध्येतां महात्मानावन्योन्यं शरवृष्टिभिः ॥२९॥

विदर्शयन्तौ दिव्यानि शस्त्राणि रणमूर्धनि ।
छादयन्तौ च सहसा परस्परवधैषिणौ ॥३०॥

नकुलेन शरा मुक्ताः कङ्कबर्हिणवाससः ।
सूतपुत्रमवच्छाद्य व्यतिष्ठन्त यथाऽम्बरे ॥३१॥

तथैव सूतपुत्रेण प्रेषिताः परमाहवे ।
पाण्डुपुत्रमवच्छाद्य व्यतिष्ठन्ताम्बरे शराः ॥३२॥

शरवेश्मप्रविष्टौ तौ ददृशाते न कैश्चन ।
सूर्याचन्द्रमसौ राजञ्छाद्यमानौ घनैरिव ॥३३॥

ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः ।
पाण्डवं छादयामास समन्ताच्छरवृष्टिभिः ॥३४॥

सोऽतिच्छन्नो महाराज सूतपुत्रेण पाण्डवः ।
न चकार व्यथां राजन् भास्करो जलदैर्यथा ॥३५॥

ततः प्रहस्याधिरथिः शरजालानि मारिष ।
प्रेषयामास समरे शतशोऽथ सहस्रशः ॥३६॥

एकच्छायमभूत्सर्वं तस्य बाणैर्महात्मनः ।
अभ्रच्छायेव सञ्जज्ञे संपतद्भिः शरोत्तमैः ॥३७॥

ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः ।
सारथिं पातयामास रथनीडाद्धसन्निव ॥३८॥

ततोऽश्वांश्चतुरश्चास्य चतुर्भिर्निशितैः शरैः ।
यमस्य भवनं तूर्णं प्रेषयामास भारत ॥३९॥

अथास्य तं रथं दिव्यं तिलशो व्यधमच्छरैः ।
पताकां चक्ररक्षांश्च गदां खड्गं च मारिष ॥४०॥

शतचन्द्रं च तच्चर्म सर्वोपकरणानि च ।
हताश्वो विरथश्चैव विवर्मा च विशांपते ॥४१॥

अवतीर्य रथात्तूर्णं परिघं गृह्य धिष्ठितः ।
तमुद्यतं महाघोरं परिघं तस्य सूतजः ॥४२॥

व्यहनत्सायकै राजन्सुतीक्ष्णैर्भारसाधनैः ।
व्यायुधं चैनमालक्ष्य शरैः सन्नतपर्वभिः ॥४३॥

आर्पयद्बहुभिः कर्णो न चैनं समपीडयत् ।
स हन्यमानः समरे कृतास्त्रेण बलीयसा ॥४४॥

प्राद्रवत्सहसा राजन्नकुलो व्याकुलेन्द्रियः ।
तमभिद्रुत्य राधेयः प्रहसन्वै पुनः पुनः ॥४५॥

सज्यमस्य धनुः कण्ठे व्यवासृजत भारत ।
ततः स शुशुभे राजन्कण्ठासक्तमहाधनुः ॥४६॥

परिवेषमनुप्राप्तो यथा स्याद्व्योम्नि चन्द्रमाः ।
यथैव चासितो मेघः शक्रचापेन शोभितः ॥४७॥

तमब्रवीत्ततः कर्णो व्यर्थं व्याहृतवानसि ।
वदेदानीं पुनर्हृष्टो वध्यमानः पुनः पुनः ॥४८॥

मा योत्सीः कुरुभिः सार्धं बलवद्भिश्च पाण्डव ।
सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव ॥४९॥

गृहं वा गच्छ माद्रेय यत्र वा कृष्णफाल्गुनौ ।
एवमुक्त्वा महाराज व्यसर्जयत तं तदा ॥५०॥

वधप्राप्तं तु तं शूरो नाहनद्धर्मवित्तदा ।
स्मृत्वा कुन्त्या वचो राजंस्तत एनं व्यसर्जयत् ॥५१॥

विसृष्टः पाण्डवो राजन् सूतपुत्रेण धन्विना ।
व्रीडन्निव जगामाथ युधिष्ठिररथं प्रति ॥५२॥

आरुरोह रथं चापि सूतपुत्रप्रतापितः ।
निःश्वसन् दुःखसन्तप्तः कुंभस्थ इव पन्नगः ॥५३॥

तं विजित्याथ कर्णोऽपि पञ्चालांस्त्वरितो ययौ ।
रथेनातिपताकेन चन्द्रवर्णहयेन च ॥५४॥

तत्राक्रन्दो महानासीत्पाण्डवानां विशांपते ।
दृष्ट्वा सेनापतिं यान्तं पञ्चालानां रथव्रजान् ॥५५॥

तत्राकरोन्महाराज कदनं सुतनन्दनः ।
मध्यं प्राप्ते दिनकरे चक्रवद्विचरन्प्रभुः ॥५६॥

भग्नचक्रै रथैः कैश्चिच्छिन्नध्वजपताकिभिः ।
हताश्वैर्हतसुतैश्च भग्नाक्षैश्चैव मारिष ॥५७॥

ह्रियमाणानपश्याम पञ्चालानां रथव्रजान् ।
तत्र तत्र च संभ्रान्ता विचेरुरथ कुञ्जराः ॥५८॥

दावाग्निपरिदग्धाङ्गा यथैव स्युर्महावने ।
भिन्नकुम्भार्द्ररुधिराश्छिन्नहस्ताश्च वारणाः ॥५९॥

छिन्नगात्रावराश्चैव च्छिन्नवालधयोऽपरे ।
छिन्नाभ्राणीव संपेतुर्हन्यमाना महात्मना ॥६०॥

अपरे त्रासिता नागा नाराचशरतोमरैः ।
तमेवाभिमुखं जग्मुः शलभा इव पावकम् ॥६१॥

अपरे निष्टनन्तश्च व्यदृश्यन्त महाद्विपाः ।
क्षरन्तः शोणितं गात्रैर्नगा इव जलस्त्रवाः ॥६२॥

उरश्छदैर्वियुक्तांश्च वालबन्धैश्च वाजिनः ।
राजतैश्च तथा कांस्यैः सौवर्णैश्चैव भूषणैः ॥६३॥

हीनांश्चाभरणैश्चैव खलीनैश्च विवर्जितान् ।
चामरैश्च कुथाभिश्च तूणीरैः पतितैरपि ॥६४॥

निहतैः सादिभिश्चैव शूरैराहवशोभितैः ।
अपश्याम रणे तत्र भ्राम्यमाणान् हयोत्तमान् ॥६५॥

प्रासैः खड्गैश्च रहितानृष्टिभिश्चापि भारत ।
हयसादीनपश्याम कञ्चुकोष्णीषधारिणः ॥६६॥

निहतान्वध्यमानांश्च वेपमानांश्च भारत ।
नागाङ्गावयवैर्हीनांस्तत्र तत्रैव भारत ॥६७॥

रथान् हेमपरिष्कारान्संयुक्ताञ्जवनैर्हयैः ।
भ्राम्यमाणानपश्याम हतेषु रथिषु द्रुतम् ॥६८॥

भग्नाक्षकूबरान्कांश्चिद्भग्नचक्रांश्च भारत ।
विपताकध्वजांश्चान्याञ्छिन्नेषादण्डबन्धुरान् ॥६९॥

विहतान् रथिनस्तत्र धावमानांस्ततस्ततः ।
सूतपुत्रशरैस्तीक्ष्णैर्हन्यमानान्विशांपते ॥७०॥

विशस्त्रांश्च तथैवान्यान् सशस्त्रांश्च हतान्बहून् ।
तारकाजालसंछन्नान्वरघण्टाविशोभितान् ॥७१॥

नानावर्णविचित्राभिः पताकाभिरलंकृतान् ।
वारणाननुपश्याम धावमानान्समन्ततः ॥७२॥

शिरांसि बाहूनूरूंश्च च्छिन्नानन्यांस्तथैव च ।
कर्णचापच्युतैर्बाणैरपश्याम समन्ततः ॥७३॥

महान्व्यतिकरो रौद्रो योधानामन्वपद्यत ।
कर्णसायकनुन्नानां युध्यतां च शितैः शरैः ॥७४॥

ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः ।
तमेवाभिमुखं यान्ति पतङ्गा इव पावकम् ॥७५॥

तं दहन्तमनीकानि तत्र तत्र महारथम् ।
क्षत्रिया वर्जयामासुर्युगान्ताग्निमिवोल्बणम् ॥७६॥

हतशेषास्तु ये वीराः पञ्चालानां महारथाः ।
तान्प्रभग्नान् द्रुतान्वीरः पृष्ठतो विकिरञ्छरैः ॥७७॥

अभ्यधावत तेजस्वी विशीर्णकवचध्वजान् ।
तापयामास तान्बाणैः सूतपुत्रो महाबलः ।
मध्यंदिनमनुप्राप्तो भूतानीव तमोनुदः ॥७८॥

इति श्रीमहाभारते कर्णपर्वणि कर्णयुद्धे चतुर्विंशोऽध्यायः ॥२४॥
पञ्चविंशोऽध्यायः

सञ्जय उवाच। युयुत्सुं तव पुत्रस्य द्रावयन्तं बलं महत् ।
उलूको न्यपतत्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥१॥

युयुत्सुमिति ॥१॥

युयुत्सुश्च ततो राजञ्शितधारेण पत्रिणा ।
उलूकं ताडयामास वज्रेणेव महाबलम् ॥२॥

उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे ।
क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना ॥३॥

तदपास्य धनुश्छिन्नं युयुत्सुर्वेगवत्तरम् ।
अन्यदादत्त सुमहच्चापं संरक्तलोचनः ॥४॥

शाकुनिं तु ततः षष्ट्या विव्याध भरतर्षभ ।
सारथिं त्रिभिरानर्च्छत्तं च भूयो व्यविध्यत ॥५॥

उलूकस्तंतु विंशत्या विद्ध्या स्वर्णविभूषितैः ।
अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम् ॥६॥

स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजः ।
पपात प्रमुखे राजन् युयुत्सोः काञ्चनध्वजः ॥७॥

ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्च्छितः ।
उलूकं पञ्चभिर्बाणैराजधान स्तनान्तरे ॥८॥

उलूकस्तस्य समे तैलधौतेन मारिष ।
शिरश्चिच्छेद भल्लेन यन्तुर्भरतसत्तम ॥९॥

तच्छिन्नमपतद्भूमौ युयुत्सोः सारथेस्तदा ।
तारारूपं यथा चित्रं निपपात महीतले ॥१०॥

जघान चतुरोश्वांश्च तं च विव्याध पञ्चभिः ।
सोऽतिविद्धो बलवता प्रत्यपायाद्रथान्तरम् ॥११॥

तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ ।
पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः ॥१२॥

शतानीकं महाराज श्रुतकर्मा सुतस्तव ।
व्यश्वसूतरथं चक्रे निमेषार्धादसंभ्रमः ॥१३॥

हताश्वे तु रथे तिष्ठञ्शतानीको महारथः ।
गदां चिक्षेप संक्रुद्धस्तव पुत्रस्य मारिष ॥१४॥

सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन् ।
पपात धरणीं तूर्णं दारयन्तीव भारत ॥१५॥

तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ ।
व्यपाक्रमेतां युद्धात्तु प्रेक्षमाणौ परस्परम् ॥१६॥

पुत्रस्तु तव संभ्रान्तो विविंशो रथमारुहत् ।
शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः ॥१७॥

सुतसोमं तु शकुनिर्विद्ध्वा तु निशितैः शरैः ।
नाकम्पयत संक्रुद्धो वार्यौघ इव पर्वतम् ॥१८॥

सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम् ।
शरैरनेकसाहसैश्छा‌द्यामास भारत ॥१९॥

ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः ।
लध्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे ॥२०॥

निवार्य समरे चापि शरांस्तान्निशितैः शरैः ।
आजघान सुसंक्रुद्धः सुतसोमं त्रिभिः शरैः ॥२१॥

तस्याश्वान् केतनं सूतं तिलशो व्यधमच्छरैः ।
स्यालस्तव महाराज ततः उच्चुक्रुशुर्जनाः ॥२२॥

हताश्वो विरथश्चैव छिन्नकेतुश्च मारिष ।
धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत ॥२३॥

व्यसृजत्सायकांश्चैव स्वर्णपुंखाञ्शिलाशितान् ।
छादयामास समरे तव स्यालस्य तं रथम् ॥२४॥

शलभानामिव व्राताञ्शारव्रातान्महारथः ।
रथोपगान्समीक्ष्यैवं विव्यथे नैव सौबलः ॥२५॥

प्रममाथ शरांस्तस्य शरव्रातैर्महायशाः ।
तत्रातुष्यन्त योधाश्च सिद्धाश्चापि दिवि स्थिताः ॥२६॥

सुतसोमस्य तत् कर्म दृष्ट्वा श्रद्धेयमद्भुतम् ।
रथस्थं शकुनिं यस्तु पदातिः समयोधयत् ॥२७॥

तस्य तीक्ष्णैर्महावेगैर्भल्लैःसन्नतपर्वभिः ।
व्यहनत्कार्मुकं राजंस्तूणीरांश्चैव सर्वशः ॥२८॥

स च्छिन्नधन्वा विरथः खड्गमुद्यम्य चानदत् ।
वैदूर्योत्पलवर्णाभं दन्तिदन्तमयत्सरुम् ॥२९॥

भ्राम्यमाणं ततस्तं तु विमलाम्बरवर्चसम् ।
कालदण्डोपमं मेने सुतसोमस्य धीमतः ॥३०॥

सोऽचरत्सहसा खड्गी मण्डलानि सहस्रशः ।
चतुर्दश महाराज शिक्षाबलसमन्वितः ॥३१॥

मण्डलानि भ्रान्तमु‌द्भ्रान्तमित्यादीन्मार्गान् अनुलोमविलोमभेदेन द्विगुणतया चतुर्दश ॥३१॥

भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतम् ।
संपातसमुदीर्णे च दर्शयामास संयुगे ॥३२॥

सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान् ।
तानापतत एवाशु चिच्छेद परमासिना ॥३३॥

ततः क्रुद्धो महाराज सौबलः परवीरहा ।
प्राहिणोत्सुतसोमाय शरानाशीविषोपमान् ॥३४॥

चिच्छेद तांस्तु खड्गेन शिक्षया च बलेन च ।
दर्शयঁल्लाघवं युद्धे तार्क्ष्यतुल्यपराक्रमः ॥३५॥

तस्य सञ्चरतो राजन् मण्डलावर्तने तदा ।
क्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम् ॥३६॥

मण्डलानाम् आवर्तने अनुलोमविलोमाभ्यासे ॥३६॥

स च्छिन्नः सहसा भूमौ निपपात महानसिः ।
अर्धमस्य स्थितं हस्ते सुत्सरोस्तत्र भारत ॥३७॥

अस्य असेः सुत्सरोः शोभनमुष्टेः ॥३७॥

छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् ।
प्राविध्यत ततः शेषं सुतसोमो महारथः ॥३८॥

तच्छित्त्वा सगुणं चापं रणे तस्य महात्मनः ।
पपात धरणीं तूर्णं स्वर्णवज्रविभूषितम् ॥३९॥

सुतसोमस्ततोऽगच्छ्रुतकीर्तेर्महारथम् ।
सौबलोऽपि धनुर्गुह्य घोरमन्यत्सुदुर्जयम् ॥४०॥

अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान् बहून् ।
तत्र नादो महानासीत्पाण्डवानां विशांपते ॥४१॥

सौवलं समरे दृष्ट्वा विचरन्तमभीतवत् ।
तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च ॥४२॥

द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना ।
यथा दैत्यचमूं राजन् देवराजो ममर्द ह ।
तथैव पाण्डवीं सेनां सौबलेयो व्यनाशयत् ॥४३॥

इति श्रीमहाभारते कर्णपर्वणि सुतसोमसौबलयुद्धे पञ्चविंशोऽध्यायः ॥२५॥
षड्विंशोऽध्यायः

सञ्जय उवाच। धृष्टद्युम्नं कृपो राजन् वारयामास संयुगे ।
यथा दृष्ट्वा वने सिंहं शरभो वारयेद्युधि ॥१॥

धृष्टेति । शरभोष्टपादः सिंहघाती पशुपक्षिशरीरो नृसिंहवत् द्व्यात्मा ॥१॥

निरुद्धः पार्षतस्तेन गौतमेन बलीयसा ।
पदात्पदं विचलितुं नाशकत्तत्र भारत ॥२॥

गौतमस्य रथं दृष्ट्वा धृष्टद्युम्नरथं प्रति ।
वित्रेसः सर्वभूतानि क्षयं प्राप्तं च मेनिरे ॥३॥

तत्रावोचन्विमनसो रथिनः सादिनस्तथा ।
द्रोणस्य निधनान्नूनं संक्रुद्धो द्विपदां वरः ॥४॥

शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः ।
अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात् ॥५॥

अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात् ।
अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान् ॥६॥

यादृशं दृश्यते रूपमन्तकप्रतिमं भृशम् ।
गमिष्यत्यद्य पदवीं भारद्वाजस्य गौतमः ॥७॥

आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि ।
अस्त्रवान्वीर्यसंपन्नः क्रोधेन च समन्वितः ॥८॥

पार्षतश्च महायुद्धे विमुखोऽद्याभिलक्ष्यते ।
इत्येवं विविधा वाचस्तावकानां परैः सह ॥९॥

व्यश्रूयन्त महाराज तयोस्तत्र समागमे ।
विनिःश्वस्य ततः क्रोधात्कृपः शारद्वतो नृप ॥१०॥

पार्षतं चार्दयामास निश्चेष्टं सर्वमर्मसु ।
स हन्यमानः समरे गौतमेन महात्मना ॥११॥

कर्तव्यं न स्म जानाति मोहेन महताऽऽवृतः ।
तमब्रवीत्ततो यन्ता कच्चित् क्षेमं तु पार्षत ॥१२॥

ईदृशं व्यसनं युद्धे न ते दृष्टं मया क्वचित् ।
दैवयोगात्तु ते बाणा नापतन्मर्मभेदिनः ॥१३॥

प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वतः ।
व्यावर्तये रथं तूर्णं नदीवेगमिवार्णवात् ॥१४॥

अवध्यं ब्राह्मण मन्ये येन ते विक्रमो हतः ।
धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः ॥१५॥

मुह्यते मे मनस्तात गात्रस्वेदश्च जायते ।
वेपथुश्च शरीरे मे रोमहर्षश्च सारथे ॥१६॥

वर्जयन् ब्राह्मणं युद्धे शनैर्याहि यतोऽर्जुनः ।
अर्जुनं भीमसेनं वा समरे प्राप्य सारथे ॥१७॥

क्षेममद्य भवेदेवमेषा मे नैष्ठिकी मतिः ।
ततः प्रायान्महाराज सारथिस्त्वरयन् हयान् ॥१८॥

यतो भीमो महेष्वासो युयुधे तव सैनिकैः ।
प्रद्रुतं च रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष ॥१९॥

किरञ्शतशतान्येव गौतमोऽनुययौ तदा ।
शङ्खं च पूरयामास मुहुर्मुहुररिन्दमः ॥२०॥

पार्षतं त्रासयामास महेन्द्रो नमुचिं यथा ।
शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम् ॥२१॥

हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः ।
शिखण्डी तु समासाद्य हृदिकानां महारथम् ॥२२॥

पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समाहनत् ।
कृतवर्मा तु संक्रुद्धो भित्त्वा षष्ट्या पतत्रिभिः ॥२३॥

धनुरेकेन चिच्छेद हसन् राजन्महारथः ।
अथान्यद्धनुरादाय द्रुपदस्यात्मजो बली ॥२४॥

तिष्ठ तिष्ठेति संक्रुद्धो हार्दिक्यं प्रत्यभाषत ।
ततोऽस्य नवतिं बाणान् रुक्मपुङ्खान्सुतेजनान् ॥२५॥

प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः ।
वितथांस्तान्समालक्ष्य पतितांश्च महीतले ॥२६॥

क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे भृशम् ।
अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम् ॥२७॥

अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्पयत् ।
कृतवर्मा तु संक्रुद्धो मार्गणैः क्षतविक्षतः ॥२८॥

ववाम रुधिरं गात्रैः कुंभवक्त्रादिवोदकम् ।
रुधिरेण परिक्लिन्नः कृतवर्मा त्वराजत ॥२९॥

ववाम वान्तवान् ॥२९॥

वर्षेण क्लेदितो राजन् यथा गैरिकपर्वतः ।
अथान्यद्धनुरादाय समार्गणगुणं प्रभुः ॥३०॥

शिखण्डिनं बाणगणैः स्कन्धदेशे व्यताडयत् ।
स्कन्धदेशस्थितैर्बाणैः शिखण्डी तु व्यराजत ॥३१॥

शाखाप्रशाखाविपुलः सुमहान्पादपो यथा ।
तावन्योन्यं भृशं विद्ध्वा रुधिरेण समुक्षितौ ॥३२॥

अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव ।
अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ ॥३३॥

रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः ।
कृतवर्मा महाराज पार्षतं निशितैः शरैः ॥३४॥

पार्षतं शिखण्डिनम् ॥३४॥

रणे विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ।
ततोऽस्य समरे बाणं भोजः प्रहरतां वरः ॥३५॥

जीवितान्तकरं घोरं व्यजसृत्त्वरयाऽन्वितः ।
स तेनाभिहतो राजन् मूर्च्छामाशु समाविशत् ॥३६॥

ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः ।
अपोवाह रणात्तूर्णं सारथी रथिनां वरम् ॥३७॥

हार्दिक्यशरसंतप्तं निःश्वसन्तं पुनः पुनः ।
पराजिते ततः शूरे द्रुपदस्यात्मजे प्रभो ।
व्यद्रवत्पाण्डवी सेना व्यधमाना समन्ततः ॥३८॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे षड्विंशोऽध्यायः ॥२६॥
सप्तविंशोऽध्यायः

सञ्जय उवाच। श्वेताश्वोऽथ महाराज व्यधमत्तावकं बलम् ।
यथा वायुः समासाद्य तूलराशिं समन्ततः ॥१॥

श्वेतेति ॥१॥

प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह ।
शाल्वाः संशप्तकाश्चैव नारायणबलं च तत् ॥२॥

सत्यसेनश्चन्द्रदेवो मित्रदेवः सुतञ्जयः ।
सौश्रुतिश्चित्रसेनश्च मित्रवर्मा च भारत ॥३॥

त्रिगर्तराजः समरे भ्रातृभिः परिवारितः ।
पुत्रैश्चैव महेष्वासैर्नानाशस्त्रविशारदैः ॥४॥

व्यसृजन्त शरव्रातान् किरन्तोऽर्जुनमाहवे ।
अभ्यवर्तन्त सहसा वार्योघा इव सागरम् ॥५॥

ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः ।
अगच्छन् विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः ॥६॥

ते हन्यमानाः समरे नाजहुः पाण्डवं रणे ।
हन्यमाना महाराज शलभा इव पावकम् ॥७॥

सत्यसेनस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम् ।
मित्रदेवस्त्रिषष्ट्या तु चन्द्रसेनस्तु सप्तभिः ॥८॥

मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि सप्तभिः ।
शत्रुञ्जयस्तु विंशत्या सुशर्मा नवभिः शरैः ॥९॥

स विद्धो बहुभिः संख्ये प्रतिविव्याध तान्नृपान् ।
सौश्रुतिं सप्तभिर्विद्ध्वा सत्यसेनं त्रिभिः शरैः ॥१०॥

शत्रुञ्जयं च विंशत्या चन्द्रदेवं तथाऽष्टभिः ।
मित्रदेवं शतेनैव श्रुतसेनं त्रिभिः शरैः ॥११॥

नवभिर्मित्रवर्माणं सुशर्माणं तथाऽष्टभिः ।
शत्रुञ्जयं च राजानं हत्वा तत्र शिलाशितैः ॥१२॥

सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत् ।
त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम् ॥१३॥

तथेतरान्महाराज यतमानान्महारथान् ।
पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत् ॥१४॥

सत्यसेनस्तु संक्रुद्धस्तोमरं व्यसृजन्महत् ।
समुद्दिश्य रणे कृष्णं सिंहनादं नानाद च ॥१५॥

स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः ।
अयस्मयो हेमदण्डो जगाम धरणीं तदा ॥१६॥

माधवस्य तु विद्धस्य तोमरेण महारणे ।
प्रतोदः प्रापतद्धस्ताद्रश्मयश्च विशांपते ॥१७॥

वासुदेवं विभिन्नाङ्गं दृष्ट्वा पार्थो धनञ्जयः ।
क्रोधमाहारयत्तीव्रं कृष्णं चेद‌मुवाच ह ॥१८॥

प्रापयाश्वान्महाबाहो सत्यसेनं प्रति प्रभो ।
यावदेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् ॥१९॥

प्रतोदं गृह्य सोऽन्यत्तु रश्मीनपि यथा पुरा ।
वाहयामास तानश्वान्सत्यसेनरथं प्रति ॥२०॥

विष्वक्सेनं तु निर्भिन्नं दृष्ट्वा पार्थो धनञ्जयः ।
सत्यसेनं शरैस्ततीक्ष्णैर्वारयित्वा महारथः ॥२१॥

ततः सुनिशितैर्भल्लै राज्ञस्तस्य महच्छिरः ।
कुण्डलोपचितं कायाच्चकर्त पृतनान्तरे ॥२२॥

तन्निकृत्य शितैर्बाणैर्मित्रवर्माणमाक्षिपत् ।
वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष॥२३॥

ततः शरशतैर्भूयः संशप्तकगणान्बली ।
पातयामास संक्रुद्धः शतशोऽथ सहस्रशः ॥२४॥

ततो रजतपुङ्खेन राजञ्शीर्षं महात्मनः ।
मित्रसेनस्य चिच्छेद क्षुरप्रेण महारथः ॥२५॥

सुशर्माणं सुसंक्रुद्धो जत्रुदेशे समाहनत् ।
ततः संशप्तकाः सर्वे परिवार्य धनञ्जयम् ॥२६॥

शस्त्रौघैर्ममृदुः क्रुद्धा नादयन्तो दिशो दश ।
अभ्यर्दितस्तु तज्जिष्णुः शक्रतुल्यपराक्रमः ॥२७॥

ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः ।
ततः शरसहस्राणि प्रादुरासन्विशांपते ॥२८॥

ध्वजानां छिद्यमानानां कार्मुकाणां च मारिष ।
रथानां सपताकानां तूणीराणां युगैः सह ॥२९॥

ध्वजादीनां शब्दोऽश्रूयतेति षष्ठेनान्वयः ॥२९॥

अक्षाणामथ चक्राणां योक्त्राणां रश्मिभिः सह ।
कूबराणां वरूथाणां पृषत्कानां च संयुगे ॥३०॥

अश्वानां पततां चापि प्रासानामृष्टिभिः सह ।
गदानां परिघनां च शक्ति-तोमर-पट्टिशैः ॥३१॥

शतघ्नीनां सचक्राणां भुजानां चोरुभिः सह ।
कण्ठसूत्राङ्गदानां च केयूराणां च मारिष ॥३२॥

हाराणामथ निष्काणां तनुत्राणां च भारत ।
छत्राणां व्यजनानां च शिरसां मुकुटैः सह ॥३३॥

अश्रूयत महाञ्शब्दस्तत्र तत्र विशांपते ।
सकुण्डलानि स्वक्षीणि पूर्णचन्द्रनिभानि च ॥३४॥

शिरांस्युर्व्यामदृश्यन्त ताराजालमिवाम्बरे ।
सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च ॥३५॥

शरीराणि व्यदृश्यन्त निहतानां महीतले ।
गन्धर्वनगराकारं घोरमायोधनं तदा ॥३६॥

निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः ।
हस्तिभिः पतितैश्चैव तुरङ्गैश्चाभवन्मही ॥३७॥

अगम्यरूपा समरे विशीर्णैरिव पर्वतैः ।
नासीच्चक्रपथस्तत्र पाण्डवस्य महात्मनः ॥३८॥

निघ्नतः शात्रवान् भल्लैर्हस्त्यश्वं चास्यतो महत् ।
स्वानुगा इव सीदन्ति रथचक्राणि मारिष ।
चरतस्तस्य संग्रामे तस्मिँल्लोहितकर्दमे ।
सीदमानानि चक्राणि समूहुस्तुरगा भृशम् ॥३९॥

हस्त्यश्वं चास्यतः छिन्दतः स्वानुगा इव यथा स्वस्मिन् नष्टेऽनुचराः सीदन्त्येवं रथानां भङ्गं दृष्ट्वा चक्राणि नश्यन्ति अक्षभङ्गादिति भावः । आतङ्कादिवेति पाठे चिन्तयेवेत्युपचारः ॥३९॥

श्रमेण महता युक्ता मनोमारुतरंहसः ।
वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना ॥४०॥

सीदमानानि पङ्कमज्जनात् ॥४०॥

प्रायशो विमुखं सर्वं नावतिष्ठत भारत ।
ताञ्जित्वा समरे जिष्णुः संशप्तकगणान्बहून् ।
विरराज तदा पार्थो विधूमोऽग्निरिव ज्वलन् ॥४१॥

इति श्रीमहाभारते कर्णपर्वणि संशप्तकजये सप्तविंशोऽध्यायः ॥२७॥
अष्टाविंशतितमोऽध्यायः

सञ्जय उवाच। युधिष्ठिरं महाराज विसृजन्तं शरान् बहून् ।
स्वयं दुर्योधनो राजा प्रत्यगृह्णा‌दभीतवत् ॥१॥

युधिष्ठिरमिति ॥१॥

तमापतन्तं सहसा तव पुत्रं महारथम् ।
धर्मराजो द्रुतं विद्ध्वा तिष्ठतिष्ठेति चाब्रवीत् ॥२॥

स तु तं प्रतिविव्याध नवभिर्निशितैः शरैः ।
सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत् ॥३॥

ततो युधिष्ठिरो राजन् स्वर्णपुङ्खाञ्शिलीमुखान् ।
दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान् ॥४॥

चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः ।
पञ्चमेन शिरः कायत्सारथेश्च समाक्षिपत् ॥५॥

षष्ठेन तु ध्वजं राज्ञः सप्तमेन तु कार्मुकम् ।
अष्टमेन तथा खड्गं पातयामास भूतले ॥६॥

पञ्चभिर्नृपतिं चापि धर्मराजोर्दयद्भृशम् ।
हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव ॥७॥

उत्तमं व्यसनं प्राप्तो भूमावेवावतिष्ठत ।
तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः ॥८॥

अभ्यवर्तन्त सहसा परीप्सन्तो नराधिपम् ।
अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम् ॥९॥

अन्वयुः समरे राजंस्ततो युद्धमवर्तत ।
ततस्तूर्यसहस्राणि प्रावाद्यन्त महामृधे ॥१०॥

ततः किलकिलाशब्दाः प्रादुरासन्महीपते ।
यत्राभ्यगच्छन् समरे पञ्चालाः कौरवैः सह ॥११॥

नरा नरैः समाजग्मुर्वारणा वरवारणैः ।
रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः ॥१२॥

द्वंद्वान्यासन्महाराज प्रेक्षणीयानि संयुगे ।
विविधान्यप्यचिन्त्यानि शस्त्रवन्त्युत्तमानि च ॥१३॥

ते शूराः समरे सर्वे चित्रं लघु च सुष्ठु च ।
अयुध्यन्त महावेगाः परस्परवधैषिणः ॥१४॥

अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः ।
न हि ते समरं चक्रुः पृष्ठतो वै कथञ्चन ॥१५॥

मुहूर्तमेव तद्युद्धमासीन्मधुरदर्शनम् ।
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ॥१६॥

रथी नागं समासाद्य दारयन्निशितैः शरैः ।
प्रेषयामास कालाय शरैः सन्नतपर्वभिः ॥१७॥

नागा हयान्समासाद्य विक्षिपन्तो बहून् रणे ।
दारयामासुरत्युग्रं तत्र तत्र तदा तदा ॥१८॥

हयारोहाश्च बहवः परिवार्य हयोत्तमान् ।
तलशब्दरवांश्चक्रुः संपतन्तस्ततस्ततः ॥१९॥

धावमानांस्ततस्तांस्तु द्रवमाणान्महागजान् ।
पार्श्वतः पृष्ठतश्चैव निजघ्नुर्हयसादिनः ॥२०॥

विद्राव्य च बहूनश्वान्नागा राजन्मदोत्कटाः ।
विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम् ॥२१॥

साश्वारोहांश्च तुरगान् विषाणैर्विव्यधू रुषा ।
अपरे चिक्षिपुर्वेगात् प्रगृह्यातिबलास्तदा ॥२२॥

पादातैराहता नागा विवरेषु समन्ततः ।
चक्रुरार्तस्वरं घोरं दुद्रुवुश्च दिशो दश ॥२३॥

पदातीनां तु सहसा प्रद्रुतानां महाहवे ।
उत्सृज्याभरणं तूर्णमववब्रू रणाजिरे ॥२४॥

आभरणम् अवव्रुः अवगत्य वृतवन्तः ॥२४॥

निमित्तं मन्यमानास्तु परिणाम्य महागजाः ।
जगृहुर्बिभिदुश्चैव चित्राण्याभरणानि च ॥२५॥

निमित्तं जयहेतुं महान्तो गजा येषां ते महागजाः गजारोहाः जगृहुः हस्तिभिर्ग्राहयामासुः । परिणाम्य हस्तिनमिति शेषः । बिभिदुश्च शत्रून् गजैरेव ॥२५॥

तांस्तु तत्र प्रसक्तान्वै परिवार्य पदातयः ।
हस्त्यारोहान्निजघ्नुस्ते महावेगा बलोत्कटाः ॥२६॥

अपरे हस्तिभिर्हस्तैः खं विक्षिप्ता महाहवे ।
निपतन्तो विषाणाग्रैर्भृशं विद्धाः सुशिक्षितैः ॥२७॥

अपरे सहसा गृह्य विषाणैरेव सूदिताः ।
सेनान्तरं समासाद्य केचित्तत्र महागजैः ॥२८॥

क्षुण्णगात्रा महाराज विक्षिप्य च पुनः पुनः ।
अपरे व्यजनानीव विभ्राम्य निहता मृधे ॥२९॥

पुरःसराश्च नागानामपरेषां विशांपते ।
शरीराण्यतिविद्धानि तत्र तत्र रणाजिरे ॥३०॥

प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे ।
निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः ॥३१॥

प्रतिमानेषु गजदन्तान्तरालेषु प्रासैः कुंभेषु तोमरैर्दन्तवेष्टेषु शक्तिभिश्च निगृहीताः । ‘प्रतिमानं प्रतिच्छाया गजदन्तान्तरालयोः’ इति मेदिनी ॥३१॥

निगृह्य च गजाः केचित् पार्श्वस्थैर्भृशदारुणैः ।
रथाश्वसादिभिस्तत्र संभिन्ना न्यपतन्भुवि ॥३२॥

सहयाः सादिनस्तत्र तोमरेण महामृधे ।
भूमावमृद्नन्वेगेन सचर्माणं पदातिनम् ॥३३॥

तथा सावरणान्कांश्चित्तत्र तत्र विशांपते ।
रथान्नागाः समासाद्य परिगृह्य च मारिष ॥३४॥

व्याक्षिपन्सहसा तत्र घोररूपे भयानके ।
नाराचैर्निहताश्चापि गजाः पेतुर्महाबलाः ॥३५॥

पर्वतस्येव शिखरं वज्ररुग्णं महीतले ।
योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्युधि ॥३६॥

केशेष्वन्योन्यमाक्षिप्य चिक्षिपुर्विभिदुश्च ह ।
उद्यम्य च भुजानन्ये निक्षिप्य च महीतले ॥३७॥

पदा चोरः समाक्रम्य स्फुरतोऽपाहरच्छिरः ।
पततश्चापरो राजन्विजहारासिना शिरः ॥३८॥

जीवतश्च तथैवाऽन्यः शस्त्रं काये न्यमज्जयत् ।
मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत ॥३९॥

तथा केशग्रहश्चोग्रो बाहुयुद्धं च भैरवम् ।
समासक्तस्य चान्येन अविज्ञातस्तथाऽपरः ॥४०॥

जहार समरे प्राणान्नानाशस्त्रैरनेकधा ।
संसक्तेषु च योधेषु वर्तमाने च संकुले ॥४१॥

कबन्धान्युत्थितानि स्युः शतशोऽथ सहस्रशः ।
शोणितैः सिच्यमानानि शस्त्राणि कवचानि च ॥४२॥

महारागानुरक्तानि वस्त्राणीव चकाशिरे ।
एवमेतन्महद्युद्धं दारुणं शस्त्रसंकुलम् ॥४३॥

उन्मत्तगङ्गाप्रतिमं शब्देनापूरयज्जगत् ।
नैव स्वे न परे राजन् विज्ञायन्ते शरातुराः ॥४४॥

योद्धव्यमिति युध्यन्ते राजानो जयगृद्धिनः ।
स्वान् स्वे जघ्नुर्महाराज परांश्चैव समागतान् ॥४५॥

उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत ।
रथैर्भग्नैर्महाराज वारणैश्च निपातितैः ॥४६॥

हयैश्च पतितैस्तत्र नरैश्च विनिपातितैः ।
अगम्यरूपा पृथिवी क्षणेन समपद्यत ॥४७॥

क्षणेनासीन्महीपाल क्षतजौघप्रवर्तिनी ।
पञ्चालानहनत्कर्णस्त्रिगर्तांश्च धनञ्जयः ॥४८॥

भीमसेनः कुरून् राजन् हस्त्यनीकं च सर्वशः ।
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः ।
अपराह्णे गते सूर्ये काङ्क्षतां विपुलं यशः ॥४९॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे अष्टाविंशोऽध्यायः ॥२८॥
एकोनत्रिंशोऽध्यायः

धृतराष्ट्र उवाच। अतितीव्राणि दुःखानि दुःसहानि बहूनि च ।
त्वत्तोऽहं सञ्जयाश्रौषं पुत्राणां चैव संक्षयम् ॥१॥

अतीति ॥१॥

यथा त्वं मे कथयसे यथा युद्धमवर्तत ।
न सन्ति सूत कौरव्या इति मे निश्चिता मतिः ॥२॥

दुर्योधनश्च विरथः कृतस्तत्र महारथः ।
धर्मपुत्रः कथं चक्रे तस्य वा नृपतिः कथम् ॥३॥

विरथः कृत इत्युक्तं तत्र युद्धे धर्मपुत्रः कथं तं विरथं चक्रे तस्य तं च नृपतिर्दुर्योधनः कथमयुद्ध्यत इति शेषः ॥३॥

अपराह्णे कथं युद्धमभवल्लोमहर्षणम् ।
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय ॥४॥

सञ्जय उवाच। संसक्तेषु तु सैन्येषु वध्यमानेषु भागशः ।
रथमन्यं समास्थाय पुत्रस्तव विशांपते ॥५॥

क्रोधेन महता युक्तः सविषो भुजगो यथा ।
दुर्योधनः समालक्ष्य धर्मराजं युधिष्ठिरम् ॥६॥

प्रोवाच सूतं त्वरितो याहि याहीति भारत ।
तत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः ॥७॥

ध्रियमाणातपत्रेण राजा राजति दंशितः ।
स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम् ॥८॥

युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे ।
ततो युधिष्ठिरः क्रुद्धः प्रभिन्न इव कुञ्जरः ॥९॥

सारथिं चोदयामास याहि यत्र सुयोधनः ।
तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौ ॥१०॥

समेत्य च महावीरौ संरब्धौ युद्धदुर्मदौ ।
ववर्षतुर्महेष्वासौ शरैरन्योन्यमाहवे ॥११॥

ततो दुर्योधनो राजा धर्मशीलस्य मारिष ।
शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे ॥१२॥

तं नामृष्यत संक्रुद्धो ह्यवमानं युधिष्ठिरः ।
अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः ॥१३॥

अपविद्ध्य त्यक्त्वा ॥१३॥

अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे ।
दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च ॥१४॥

अथान्यद्धनुरादाय प्राविध्यत युधिष्ठिरम् ।
तावन्योन्यं सुसंक्रुद्धौ शस्त्रवर्षाण्यमुञ्चताम् ॥१५॥

सिंहाविव सुसंरब्धौ परस्परजिगीषया ।
जघ्नतुस्तौ रणेऽन्योन्यं नर्दमानौ वृषाविव ॥१६॥

अन्तरं मार्गमाणौ च चेरतुस्तौ महारथौ ।
ततः पूर्णायतोत्सृष्टैः शरैस्तौ तु कृतव्रणौ ॥१७॥

विरेजतुर्महाराज किंशुकाविव पुष्पितौ ।
ततो राजन्विमुञ्चन्तौ सिंहनादान्मुहुर्मुहुः ॥१८॥

तलयोश्च तथा शब्दान् धनुषश्च महाहवे ।
शङ्खशब्दवरांश्चैव चक्रतुस्तौ नरेश्वरौ ॥१९॥

अन्योन्यं तौ महाराज पीडयाञ्चक्रतुर्भृशम् ।
ततो युधिष्ठिरो राजा पुत्रं तव शरैस्त्रिभिः ॥२०॥

आजघानोरसि क्रुद्धो वज्रवेगैर्दुरासदैः ।
प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिः ॥२१॥

पञ्चभिर्निशितैर्बाणैः स्वर्णपुङ्खैः शिलाशितैः ।
ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत ॥२२॥

सर्वपारसवीं तीक्ष्णां महोल्काप्रतिमां तदा ।
तामापतन्तीं सहसा धर्मराजः शितैः शरैः ॥२३॥

सर्वपारसवीं सर्वविनाशिनीं गौरादिः । ‘तिरस्कारविनाशे च पुंसि पारसवः पुमान्’ इति मेदिनी ॥२३॥

त्रिभिश्चिच्छेद सहसा तं च विव्याध पञ्चभिः ।
निपपात ततः साऽथ स्वर्णदण्डा महास्वना ॥२४॥

निपतन्ती महोल्केव व्यराजच्छिखिसन्निभा ।
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशांपते ॥२५॥

नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम् ।
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः ॥२६॥

दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः ।
समाधत्त च तं बाणं धनुर्मध्ये महाबलः ॥२७॥

चिक्षेप च महाराज ततः क्रुद्धः पराक्रमी ।
स तु बाणः समासाद्य तव पुत्रं महारथम् ॥२८॥

व्यामोहयत राजानं धरणीं च ददार ह ।
ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः ॥२९॥

विधित्सुः कलहस्यान्तं धर्मराजमुपाद्रवत् ।
तमुद्यतगदं दृष्ट्वा दण्डहस्तमिवान्तकम् ॥३०॥

धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे ।
दीप्यमानां महावेगां महोल्कां ज्वलितामिव ॥३१॥

रथस्थः स तया विद्धो वर्म भित्त्वा स्तनान्तरे ।
भृशं संविग्नहृदयः पपात च मुमोह च ॥३२॥

भीमस्तमाह च ततः प्रतिज्ञामनुचिन्तयन् ।
नायं वध्यस्तव नृप इत्युक्तः स न्यवर्तत ॥३३॥

ततस्त्वरितमागम्य कृतवर्मा तवात्मजम् ।
प्रत्यपद्यत राजानं निमग्नं व्यसनार्णवे ॥३४॥

गदामादाय भीमोऽपि हेमपट्टपरिष्कृताम् ।
अभिदुद्राव वेगेन कृतवर्माणमाहवे ॥३५॥

एवं तदद्भवद्युद्धं त्वदीयानां परैः सह ।
अपराह्णे महाराज काङ्क्षतां विजयं युधि ॥३६॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे एकोनत्रिंशोऽध्यायः ॥२९॥
त्रिंशोऽध्यायः

सञ्जय उवाच। ततः कर्णं पुरस्कृत्य त्वदीया युद्धदुर्मदाः ।
पुनरावृत्य संग्रामं चक्रुर्देवासुरोपमम् ॥१॥

तत इति ॥१॥

द्विरद-नर-रथाश्वशङ्खशब्दैः परिहृषिता विविधैश्च शस्त्रपातैः ।
द्विरद-रथ-पदातिसादिसङ्घाः परिकुपिताभिमुखाः प्रजघ्निरे ते ॥२॥

शितपरश्वधसासिपट्टिशैरिषुभिरनेकविधैश्च सूदिताः ।
द्विरद-रथ-हया महाहवे वरपुरुषैः पुरुषाश्च वाहनैः ॥३॥

कमलदिनकरेन्दुसन्निभैः सितदशनैः सुमुखाक्षिनासिकैः ।
रुचिरमुकुटकुण्डलैर्मही पुरुषशिरोभिरुपस्तृता बभौ ॥४॥

परिघ-मुसल-शक्ति-तोमरै-र्नखर-भुशुण्डि-गदाशतैर्हताः ।
द्विरद-नर-हयाः सहस्रशो रुधिरनदीप्रवहास्तदाऽभवन् ॥५॥

प्रहतरथ-नराश्व-कुञ्जरं प्रतिभयदर्शनमुल्बणव्रणम् ।
तदहितहतमाबभौ बलं पितृपतिराष्ट्रमिव प्रजाक्षये ॥६॥

अथ तव नरदेव सैनिका-स्तव च सुताः सुरसूनुसन्निभाः ।
अमितबलपुरःसरा रणे कुरुवृषभाः शिनिपुत्रमभ्ययुः ॥७॥

तदतिरुधिरभीममाबभौ पुरुषवराश्व-रथ-द्विपाकुलम् ।
लवणजलसमुद्धतस्वनं बलमसुरामरसैन्यसप्रभम् ॥८॥

लवणजलः क्षारसमुद्रः ॥८॥

सुरपतिसमविक्रमस्ततस्त्रिदशवरावरजोपमं युधि ।
दिनकरकिरणप्रभैः पृषत्कैरवितनयोऽभ्यहनच्छिनिप्रवीरम् ॥९॥

त्रिदशवरावरजोपमं विष्णुतुल्यम् ॥९॥

तमपि सरथवाजिसारथिं शिनिवृषभो विविधैः शरैस्त्वरन् ।
भुजगविषसमप्रभै रणे पुरुषवरं समवास्तृणोत्तदा ॥१०॥

शिनिवृषभशरैर्निपीडितं तव सुहृदो वसुषेणमभ्ययुः ।
त्वरितमतिरथा रथर्षभं द्विरदरथाश्वपदातिभिः सह ॥११॥

तदुद‌धिनिभमाद्रवद्बलं त्वरिततरैः समभिद्रुतं परैः ।
द्रुपदसुतमुखैस्तदाऽभवत् पुरुषरथाश्वगजक्षयो महान् ॥१२॥

अथ पुरुषवरौ कृताह्निकौ भवमभिपूज्य यथाविधि प्रभुम् ।
अरिवधकृतनिश्चयौ द्रुतं तव बलमर्जुनकेशवौ सृतौ ॥१३॥

सृतावागतौ ॥१३॥

जलद‌निनदनिःस्वनं रथं पवनविधूतपताककेतनम् ।
सितहयमुपयान्तमन्तिकं कृतमनसो ददृशुस्तदाऽरयः ॥१४॥

अथ विस्फार्य गाण्डीवं रथे नृत्यन्निवार्जुनः ।
शरसम्बाधमकरोत्खं दिशः प्रदिशस्तथा ॥१५॥

रथान्विमानप्रतिमान्मज्जयन्सायुधध्वजान् ।
ससारथींस्तदा बाणैरभ्राणीवानिलोऽवधीत् ॥१६॥

गजान् गजप्रयन्तॄंश्च वैजयन्त्यायुधध्वजान् ।
सादिनोऽश्वांश्च पत्तींश्च शरैर्निन्ये यमक्षयम् ॥१७॥

तमन्तकमिव क्रुद्धमनिवार्यं महारथम् ।
दुर्योधनोऽभ्ययादेको निघ्नन् बाणैरजिह्मगैः ॥१८॥

तस्यार्जुनो धनुः सूतमश्वान्केतुं च सायकैः ।
हत्वा सप्तभिरेकेन छत्रं चिच्छेद पत्रिणा ॥१९॥

नवमं च समाधाय व्यसृजत्प्राणघातिनम् ।
दुर्योधनायेषुवरं तं द्रौणिः सप्तधाऽच्छिनत् ॥२०॥

ततो द्रौणेर्धनुश्छित्त्वा हत्वा चाश्वरथाञ्शरैः ।
कृपस्यापि तदत्युग्रं धनुश्चिच्छेद पाण्डवः ॥२१॥

हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वांस्तदाऽवधीत् ।
दुःशासनस्येष्वसनं छित्त्वा राधेयमभ्ययात् ॥२२॥

अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः ।
विद्ध्वा विव्याध विंशत्या कृष्णं पार्थं पुनः पुनः ॥२३॥

न ग्लानिरासीत्कर्णस्य क्षिपतः सायकान् बहुन् ।
रणे विनिघ्नतः शत्रून् क्रुद्धस्येव शतक्रतोः ॥२४॥

अथ सात्यकिरागत्य कर्णं विद्ध्वा शितैः शरैः ।
नवत्या नवभिश्चोग्रैः शतेन पुनरार्पयत् ॥२५॥

ततः प्रवीराः पार्थानां सर्वे कर्णमपीडयन् ।
युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ॥२६॥

उत्तमौजा युयुत्सुश्च यमौ पार्षत एव च ।
चेदिकारूषमत्स्यानां कैकयानां च यद्बलम् ॥२७॥

चेकितानश्च बलवान् धर्मराजश्च सुव्रतः ।
एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमैः ॥२८॥

परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन् ।
भाषन्तो वाग्भिरुग्राभिः सर्वे कर्णवधे धृताः ॥२९॥

तां शस्त्रवृष्टिं बहुधा कर्णश्छित्त्वा शितैः शरैः ।
अपोवाहास्त्रवीर्येण द्रुमं भङ्क्त्वे मारुतः ॥३०॥

रथिनः समहामात्रान् गजानश्वान्ससादिनः ।
पत्तिव्रातांश्च संक्रुद्धो निघ्नन् कर्णो व्यदृश्यत ॥३१॥

तद्वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा ।
विशस्त्रपत्रदेहासु प्राय आसीत्पराङ्मुखम् ॥३२॥

अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्मयन् ।
दिशं खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः ॥३३॥

मुसलानीव संपेतुः परिघा इव चेषवः ।
शतध्न्य इव चाप्यन्ये वज्राण्युग्राणि चापरे ॥३४॥

तैर्वध्यमानं तत् सैन्यं सपत्त्यश्व-रथ-द्विपम् ।
निमीलिताक्षमत्यर्थं बभ्राम च ननाद च ॥३५॥

निष्कैवल्यं तदा युद्धं प्रापुरश्व-नर-द्विपाः ।
हन्यमानाः शरैरार्तास्तदा भीताः प्रदुद्रुवुः ॥३६॥

निष्कैवल्यं निश्चितं कैवल्यं मरणं यस्मिन् तत्तथा ॥३६॥

त्वदीयानां तदा युद्धे संसक्तानां जयैषिणाम् ।
गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान् ॥३७॥

प्रत्यपद्यत प्रविष्टः ॥३७॥

तमसा च महाराज रजसा च विशेषतः ।
न किंचित्प्रत्यपश्याम शुभं वा यदि वाऽशुभम् ॥३८॥

ते त्रस्यन्तो महेष्वासा रात्रियुद्धस्य भारत ।
अपयानं ततश्चक्रुः सहिताः सर्वयोधिभिः ॥३९॥

कौरवेष्वपयातेषु तदा राजन्दिनक्षये ।
जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः ॥४०॥

वादित्रशब्दैर्विविधैः सिंहनादैः सगर्जितैः ।
परानुपहसन्तश्च स्तुवन्तश्चाच्युतार्जुनौ ॥४१॥

कृतेऽवहारे तैर्वीरैः सैनिकाः सर्व एव ते ।
आशीर्वाचः पाण्डवेषु प्रायुञ्जन्त नरेश्वराः ॥४२॥

ततः कृतेऽवहारे च प्रहृष्टास्तत्र पाण्डवाः ।
निशायां शिबिरं गत्वा न्यवसन्त नरेश्वराः ॥४३॥

ततो रक्षः पिशाचाश्च श्वापदाश्चैव संघशः ।
जग्मुरायोधनं घोरं रुद्रस्याक्रीडसन्निभम् ॥४४॥

इति श्रीमहाभारते कर्णपर्वणि प्रथमे युद्धदिवसे त्रिंशोऽध्यायः ॥३०॥
एकत्रिंशोऽध्यायः

धृतराष्ट्र उवाच। स्वेन च्छन्देन नः सर्वानवधीद्व्यक्तमर्जुनः ।
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः ॥१॥

स्वेनेति । स्वेन च्छन्देन इच्छया आततायिनः शस्त्रयाणेः ॥१॥

पार्थश्चैकोऽहरद्भद्रामेकश्चाग्निमतर्पयत् ।
एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान् ॥२॥

भद्रां सुभद्रां बलिभृतः करदान् ॥२॥

एको निवातकवचानहनद्दिव्यकार्मुकः ।
एकः किरातरूपेण स्थितं शर्वमयोधयत् ॥३॥

एको ह्यरक्षद्भरतानेको भवमतोषयत् ।
तेनैकेन जिताः सर्वे महीपा ह्युग्रतेजसा ॥४॥

अरक्षत् घोषयात्रायां भरतान् दुर्योधनादीन् ॥४॥

न ते निन्द्याः प्रशस्यास्ते यत्ते चक्रुर्ब्रवीहि तत् ।
ततो दुर्योधनः सूत पश्चात्किमकरोत्तदा ॥५॥

ते अस्मदीयाः न निन्द्याः तेशब्दस्याभ्यासाद्वाक्यत्रयमिदम् । तथा दुर्योधनोऽपि न निन्द्यः अपि तु ततः विस्तृतः तादृशं शत्रुं प्राप्य ख्यातिं गत इत्यर्थः ॥५॥

सञ्जय उवाच। हतप्रहतविध्वस्ता विवर्मायुधवाहनाः ।
दीनस्वरा दूयमाना मानिनः शत्रुनिर्जिताः ॥६॥

हताः ताडिताः प्रहताश्छिन्नावयवाः विध्वस्ताः वाहनेभ्योऽधः पातिताः ॥६॥

शिबिरस्थाः पुनर्मन्त्रं मत्रयन्ति स्म कौरवाः ।
भग्नदंष्ट्रा हतविषाः पादाक्रान्ता इवोरगाः ॥७॥

तानब्रवीत्ततः कर्णः क्रुद्धः सर्प इव श्वसन् ।
करं करेण निष्पीड्य प्रेक्षमाणस्तवात्मजम् ॥८॥

यत्तो दृढश्च दक्षश्च धृतिमानर्जुनस्तदा ।
संबोधयति चाप्येनं यथा कालमधोक्षजः ॥९॥

सहसाऽस्त्रविसर्गेण वयं तेनाद्य वञ्चिताः ।
श्वस्त्वहं तस्य संकल्पं सर्वं हन्ता महीपते ॥१०॥

सहसा अकस्मात् ॥१०॥

एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान् ।
तेऽनुज्ञाता नृपाः सर्वे स्वानि वेश्मानि भेजिरे ॥११॥

सुखोषितास्तां रजनीं हृष्टा युद्धाय निर्ययुः ।
तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम् ॥१२॥

प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमते ।
अथ प्रतीपकर्तारं प्रवीरं परवीरहा ॥१३॥

मते स्थितेनेति शेषः । प्रतीपकर्तारं शत्रूणां छेत्तारं प्रवीरं प्रकृष्टं वीरम् ॥१३॥

सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा ।
पुरन्दरसमं युद्धे मरुद्गणसमं बले ॥१४॥

कार्तवीर्यसमं वीर्ये कर्णे राज्ञोऽगमन्मनः ।
सर्वेषां चैव सैन्यानां कर्णमेवागमन्मनः ।
सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव ॥१५॥

आत्ययिकेषु प्राणसङ्कटेषु ॥१५॥

धृतराष्ट्र उवाच। ततो दुर्योधनः सूत पश्चात्किमकरोत्तदा ।
यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं प्रति ॥१६॥

अप्यपश्यत अपिः प्रश्ने ॥१६॥

अप्यपश्यत राधेयं शीतार्त इव भास्करम् ।
कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः ॥१७॥

कथं वैकर्तनः कर्णस्तत्रायुध्यत सञ्जय ।
कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम् ॥१८॥

कर्णो ह्येको महाबाहुर्हन्यात्पार्थान्ससृंजयान् ।
कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं युधि ॥१९॥

तस्य शस्त्राणि घोराणि विक्रमश्च महात्मनः ।
कर्णमाश्रित्य संग्रामे मत्तो दुर्योधनो नृपः ॥२०॥

मत्तः कर्णाश्रयेण मूढः भाविनाशानवधानात् ॥२०॥

दुर्योधनं ततो दृष्ट्वा पाण्डवेन भृशार्दितम् ।
पराक्रान्तान्पाण्डुसुतान् दृष्ट्वा चापि महारथः ॥२१॥

कर्णमाश्रित्य संग्रामे मन्दो दुर्योधनः पुनः ।
जेतुमुत्सहते पार्थान्सपुत्रान्सह केशवान् ॥२२॥

अहो बत महद्दुःखं यत्र पाण्डुसुतान्रणे ।
नातरद्रभसः कर्णो ‘दैवं नूनं परायणम्’ ॥२३॥

अहो द्युतस्य निष्ठेयं घोरा संप्रति वर्तते ।
अहो तीव्राणि दुःखानि दुर्योधनकृतान्यहम् ॥२४॥

निष्ठा विपाकः ॥२४॥

सोढा घोराणि बहुशः शल्यभूतानि सञ्जय ।
सौबलं च तदा तात नीतिमानिति मन्यते ॥२५॥

कर्णश्च रभसो नित्य राजा तं चाप्यनुव्रतः ।
यदेवं वर्तमानेषु महायुद्धेषु सञ्जय ॥२६॥

कर्णश्च नीतिमानिति मन्यत इति पूर्वेणान्वयः ॥२६॥

अश्रौषं निहतान्पुत्रान्नित्यमेव विनिर्जितान् ।
न पाण्डवानां समरे कश्चिदस्ति निवारकः ॥२७॥

स्त्रीमध्यमिव गाहन्ते ‘दैवं तु बलवत्तरम्’ । सञ्जय उवाच। राजन्पूर्वनिमित्तानि धर्मिष्ठानि विचिन्तय ॥२८॥

स्त्रीमध्यमिव गाहन्ते सेनां मृद्नन्तीत्यर्थः। निमित्तानि द्यूतादीनि धर्मिष्ठानीति सोपालम्भं विरुद्धानीत्यर्थः ॥२८॥

अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयते नरः ।
तच्चास्य न भवेत्कार्यं चिन्तया च विनश्यति ॥२९॥

तदिदं तव कार्यं तु दूरप्राप्तं विजानता ।
न कृतं यत्त्वया पूर्वं प्राप्ताप्राप्तविचारणम् ॥३०॥

कार्यं राज्यलाभाख्यं दूरप्राप्तम् अत्यन्तदुर्लभं यत् यतः विजानताऽपि त्वया प्राप्ताप्राप्तविचारणं युक्तायुक्तपरीक्षणं न कृतमित्यन्वयः ॥३०॥

उक्तोऽसि बहुधा राजन् मा युध्यस्वेति पाण्डवैः ।
गृह्णीषे न च तन्मोहाद्वचनं च विशांपते ॥३१॥

त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु ।
त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः ॥३२॥

तत्त्विदानीमतिक्रान्तं मा शुचो भरतर्षभ ।
शृणु सर्वं यथावृत्तं घोरं वैशसमुच्यते ॥३३॥

प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात् ।
समेत्य च महाबाहुर्दुर्योधनमथाब्रवीत् ॥३४॥

कर्ण उवाच। अद्य राजन्समेष्यामि पाण्डवेन यशस्विना ।
निहनिष्यामि तं वीरं स वा मां निहनिष्यति ॥३५॥

बहुत्वान्मम कार्याणां तथा पार्थस्य भारत ।
नाभूत्समागमो राजन् मम चैवार्जुनस्य च ॥३६॥

इदं तु मे यथाप्रज्ञं शृणु वाक्यं विशांपते ।
अनिहत्य रणे पार्थं नाहमेष्यामि भारत ॥३७॥

हतप्रवीरे सैन्येऽस्मिन्मयि चावस्थिते युधि ।
अभियास्यति मां पार्थः शक्रशक्तिविनाकृतम् ॥३८॥

शक्रशक्तीति स्वस्य अर्जुनवधे सामर्थ्याभावं द्योतयति ॥३८॥

ततः श्रेयस्करं यच्च तन्निबोध जनेश्वर ।
आयुधानां च मे वीर्यं दिव्यानामर्जुनस्य च ॥३९॥

श्रेयस्करम् आत्मत्राणकरं वीर्यं समानमिति शेषः ॥३९॥

कार्यस्य महतो भेदे लाघवे दूरपातने ।
सौष्ठवे चास्त्रपाते च सव्यसाची न मत्समः ॥४०॥

कार्यस्य कर्तव्यस्य परकीयस्य भेदे विनाशे लाघवे शैघ्र्ये सौष्ठवे कौशले ॥४०॥

प्राणे शौर्येऽथ विज्ञाने विक्रमे चापि भारत ।
निमित्तज्ञानयोगे च सव्यसाची न मत्समः॥४१॥

प्राणे शारीरबले । शौर्ये मानसबले । विज्ञाने अश्वशिक्षायाम् । विक्रमे फलोपधानेऽस्त्राणां निमित्तज्ञानयोगे लक्ष्यसम्बन्धावधारणे ॥४१॥

सर्वायुधमहामात्रं विजयं नाम तद्धनुः ।
इन्द्रार्थं प्रियकामेन निर्मितं विश्वकर्मणा ॥४२॥

महामात्रं श्रेष्ठम् । विजयाख्यं नाम प्रसिद्धम् ॥४२॥

येन दैत्यगणान्राजञ्जितवान्वै शतक्रतुः ।
यस्य घोषेण दैत्यानां व्यामुह्यन्त दिशो दश ॥४३॥

तद्भार्गवाय प्रायच्छच्छक्रः परमसम्मतम् ।
तद्दिव्यं भार्गवो मह्यमददद्धनुरुत्तमम् ॥४४॥

तेन योत्स्ये महाबाहुमर्जुनं जयतां वरम् ।
यथेन्द्रः समरे सर्वान् दैतेयान्वै समागतान् ॥४५॥

धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते ।
त्रिस्सप्तकृत्वः पृथिवी धनुषा येन निर्जिता ॥४६॥

धनुषो ह्यस्य कर्माणि दिव्यानि प्राह भार्गवः ।
तद्रामो ह्यददन्मह्यं तेन योत्स्यामि पाण्डवम् ॥४७॥

अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम् ।
निहत्य समरे वीरमर्जुनं जयतां वरम् ॥४८॥

सपर्वतवनद्वीपा हतवीरा ससागरा ।
पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव ॥४९॥

नाशक्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः ।
सम्यग्धर्मानुरक्तस्य सिद्धिरात्मवतो यथा ॥५०॥

सिद्धिर्मोक्षः आत्मवतो जितचित्तस्य ॥५०॥

न हि मां समरे सोढुं संशक्तोऽग्निं तरुर्यथा ।
अवश्यं तु मया वाच्यं येन हीनोऽस्मि फाल्गुनात् ॥५१॥

ज्या तस्य धनुषो दिव्या तथाऽक्षय्ये महेषुधी ।
सारथिस्तस्य गोविन्दो मम तादृङ्न विद्यते ॥५२॥

तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजितं युधि ।
विजयं च महद्दिव्यं ममापि धनुरुत्तमम् ॥५३॥

तत्राहमधिकः पार्थाद्धनुषा तेन पार्थिव ।
येन चाप्यधिको वीरः पाण्डवस्तन्निबोध मे ॥५४॥

रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः ।
अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः ॥५५॥

अच्छेद्यः सर्वतो वीर वाजिनश्च मनोजवाः ।
ध्वजश्च दिव्यो द्युतिमान् वानरो विस्मयङ्करः ॥५६॥

कृष्णश्च स्रष्टा जगतो रथं तमभिरक्षति ।
एतैर्द्रव्यैरहं हीनो योद्धुमिच्छामि पाण्डवम् ॥५७॥

अयं तु सदृशः शौरेः शल्यः समितिशोभनः ।
सारथ्यं यदि मे कुर्याद्ध्रुवस्ते विजयो भवेत् ॥५८॥

शल्यः कृष्णतुल्यः बाणशकटबहुलतया बाणानामक्षय्यत्वं ज्ञेयम् । एवं बह्वश्वत्वेन दिव्याश्वजय इत्याह- अयमित्यादिना ॥५८॥

तस्य मे सारथिः शल्यो भवत्वसुकरः परैः ।
नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु मे ॥५९॥

रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः ।
आयान्तु पश्चात्सततं मामेव भरतर्षभ ॥६०॥

एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम् ।
शल्योप्यभ्यधिकः कृष्णादर्जुनादपि चाप्यहम् ॥६१॥

यथाऽश्वहृदयं वेद दाशार्हः परवीरहा ।
तथा शल्यो विजानीते हयज्ञानं महारथः ॥६२॥

बाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन ।
तथाऽस्त्रे मत्समो नास्ति कश्चिदेव धनुर्धरः ॥६३॥

तथा शल्यसमो नास्ति हयज्ञाने हि कश्चन ।
सोऽयमभ्यधिकः कृष्णाद्भविष्यति रथो मम ॥६४॥

एवं कृते रथस्थोऽहं गुणैरभ्यधिकोऽर्जुनात् ।
भवे युधि जयेयं च फाल्गुनं कुरुसत्तम ॥६५॥

भवे भवेयम् । भवेदिति पाठः प्रामादिकः ॥६५॥

समुद्यातुं न शक्ष्यन्ति देवा अपि सवासवाः ।
एतत्कृतं महाराज त्वयेच्छामि परंतप ॥६६॥

क्रियतामेष कामो मे मा वः कालोऽत्यगादयम् ।
एवं कृते कृतं सह्यं सर्वकामैर्भविष्यति ॥६७॥

ततो द्रक्ष्यसि संग्रामे यत्करिष्यामि भारत ।
सर्वथा पाण्डवान्संख्ये विजेष्ये वै समागतान् ॥६८॥

शक्रशक्तीति स्वस्य अर्जुनवधे सामर्थ्याभावं द्योतयति ॥६८॥

न हि मे समरे शक्ताः समुद्यातुं सुरासुराः ।
किमु पाण्डुसुता राजन् रणे मानुषयोनयः ॥६९॥

श्रेयस्करम् आत्मत्राणकरं वीर्यं समानमिति शेषः ॥६९॥

सञ्जय उवाच। एवमुक्तस्तव सुतः कर्णेनाहवशोभिना ।
संपूज्य संप्रहृष्टात्मा ततो राधेयमब्रवीत् ॥७०॥

कार्यस्य कर्तव्यस्य परकीयस्य भेदे विनाशे लाघवे शैघ्र्ये सौष्ठवे कौशले ॥७०॥

दुर्योधन उवाच। एवमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे ।
सोपासङ्गा रथाः साश्वाः स्वनुयास्यन्ति संयुगे ॥७१॥

प्राणे शारीरबले । शौर्ये मानसबले । विज्ञाने अश्वशिक्षायाम् । विक्रमे फलोपधानेऽस्त्राणां निमित्तज्ञानयोगे लक्ष्यसम्बन्धावधारणे ॥७१॥

नाराचान्गार्घ्रपत्रांश्च शकटानि वहन्तु ते ।
अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः ॥७२॥

महामात्रं श्रेष्ठम् । विजयाख्यं नाम प्रसिद्धम् ॥७२॥

सञ्जय उवाच। एवमुक्त्वा महाराज तव पुत्रः प्रतापवान् ।
अभिगम्याब्रवीद्राजा मद्रराजमिदं वचः ॥७३॥

इति श्रीमहाभारते कर्णपर्वणि कर्णदुर्योधनसंवादे एकत्रिंशोऽध्यायः ॥३१॥
द्वात्रिंशोऽध्यायः

सञ्जय उवाच। पुत्रस्तव महाराज मद्रराजं महारथम् ।
विनयेनोपसंगम्य प्रणयाद्वाक्यमब्रवीत् ॥१॥

पुत्र इति । विनयेन नत्या प्रणयात् प्रकृष्टात् न्यायात् । युक्तियुक्त इत्यर्थः ॥१॥

सत्यव्रत महाभाग द्विषतां तापवर्धन ।
मद्रेश्वर रणे शूर परसैन्यभयङ्कर ॥२॥

श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर ।
यथा नृपतिसिंहानां मध्ये त्वां वरये स्वयम् ॥३॥

तत्त्वामप्रतिवीर्याद्य शत्रुपक्षक्षयावह ।
मद्रेश्वर प्रयाचेऽहं शिरसा विनयेन च ॥४॥

तस्मात्पार्थविनाशार्थं हितार्थं मम चैव हि ।
सारथ्यं रथिनां श्रेष्ठ प्रणयात्कर्तुमर्हसि ॥५॥

त्वयि यन्तरि राधेयो विद्विषो मे विजेष्यते ।
अभीषूणां हि कर्णस्य ग्रहीताऽन्यो न विद्यते ॥६॥

अभीषूणां हयरश्मीनाम् ॥६॥

ऋते हि त्वां महाभाग वासुदेवसमं युधि ।
स पाहि सर्वथा कर्णं यथा ब्रह्मा महेश्वरम् ॥७॥

यथा च सर्वथाऽऽपत्सु वार्ष्णेयः पाति पाण्डवम् ।
तथा मद्रेश्वराद्य त्वं राधेयं प्रतिपालय ॥८॥

भीष्मो द्रोणः कृपः कर्णो भवान् भोजश्च वीर्यवान् ।
शकुनिः सौबलो द्रौणिरहमेव च नो बलम् ॥९॥

एवमेष कृतो भागो नवधा पृथिवीपते ।
न च भागोत्र भीष्मस्य द्रोणस्य च महात्मनः ॥१०॥

ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः ।
वृद्धौ हि तौ महेष्वासौ छलेन निहतौ युधि ॥११॥

कृत्वा नसुकरं कर्म गतौ स्वर्गमितोऽनघ ।
तथाऽन्ये पुरुषव्याघ्राः परैर्विनिहता युधि ॥१२॥

अस्मदीयाश्च बहवः स्वर्गायोपगता रणे ।
त्यक्त्वा प्राणान् यथाशक्ति चेष्टां कृत्वा च पुष्कलाम् ॥१३॥

तदिदं हतभूयिष्ठं बलं मम नराधिप ।
पूर्वमप्यल्पकैः पार्थैर्हतं किमुत सांप्रतम् ॥१४॥

बलवन्तो महात्मानः कौन्तेयाः सत्यविक्रमाः ।
बलं शेषं न हन्युर्मे यथा तत्कुरु पार्थिव ॥१५॥

हतवीरमिदं सैन्यं पाण्डवैः समरे विभो ।
कर्णो ह्येको महाबाहुरस्मत्प्रियहिते रतः ॥१६॥

भवांश्च पुरुषव्याघ्र सर्वलोकमहारथः ।
शल्यं कर्णोऽर्जुनेनाद्य योद्धुमिच्छति संयुगे ॥१७॥

तस्मिञ्जयाशा विपुला मद्रराज नराधिप ।
तस्याभीषुग्रहवरो नान्योऽस्ति भुवि कश्चन ॥१८॥

पार्थस्य लमरे कृष्णो यथाभीषुग्रहो वरः ।
तथा त्वमपि कर्णस्य रथेऽभीषुग्रहो भव ॥१९॥

तेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिव ।
यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव तत् ॥२०॥

पूर्वं नः समरे ह्येवमवधीदर्जुनो रिपून् ।
इदानीं विक्रमो ह्यस्य कृष्णेन सहितस्य च ॥२१॥

कृष्णेन सहितः पार्थो धार्तराष्ट्रीं महाचमूम् ।
अहन्यहनि मद्रेश द्रावयन् दृश्यते युधि ॥२२॥

भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते ।
तं भागं सह कर्णेन युगपन्नाशयाद्य हि ॥२३॥

अरुणेन यथा सार्धं तमः सूर्यो व्यपोहति ।
तथा कर्णेन सहितो जहि पार्थं महाहवे ॥२४॥

उद्यन्तौ च यथा सूर्यौ बालसूर्यसमप्रभौ ।
कर्णशल्यौ रणे दृष्ट्वा विद्रवन्तु महारथाः ॥२५॥

सूर्यारुणौ यथा दृष्ट्वा तमो नश्यति मारिष ।
तथा नश्यन्तु कौन्तेयाः सपञ्चालाः ससुञ्जयाः ॥२६॥

रथिनां प्रवरः कर्णो यन्तॄणां प्रवरो भवान् ।
संयोगो युवयोर्लोके नाभून्न च भविष्यति ॥२७॥

यथा सर्वास्ववस्थासु वार्ष्णेयः पाति पाण्डवम् ।
तथा भवान्परित्रातु कर्णं वैकर्तनं रणे ॥२८॥

त्रातु त्रायताम् ॥२८॥

त्वया सारथिना ह्येष अप्रधृष्यो भविष्यति ।
देवतानामपि रणे सशक्राणां महीपते ।
किं पुनः पाण्डवेयानां मा विशंकीर्वचो मम ॥२९॥

सञ्जय उवाच। दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितः ।
त्रिशिखां भ्रुकुटिं कृत्वा धुन्वन् हस्तौ पुनः पुनः ॥३०॥

क्रोधरक्ते महानेत्रे परिवृत्य महाभुजः ।
कुलैश्वर्यश्रुतबलैर्दृप्तः शल्योऽब्रवीदिदम् ॥३१॥

शल्य उवाच। अवमन्यसि गान्धारे ध्रुवं च परिशंकसे ।
यन्मां ब्रवीषि विश्रब्धं सारथ्यं क्रियतामिति ॥३२॥

विश्रब्धं निःशङ्कं यथा स्यात्तथा ॥३२॥

अस्मत्तोऽभ्यधिकं कर्णं मन्यमानः प्रशंससि ।
न चाहं युधि राधेयं गणये तुल्यमात्मनः ॥३३॥

आदिश्यतामभ्यधिको ममांशः पृथिवीपते ।
तमहं समरे जित्वा गमिष्यामि यथागतम् ॥३४॥

अथवाऽप्येक एवाहं योत्स्यामि कुरुनन्दन ।
पश्य वीर्यं ममाद्य त्वं संग्रामे दहतो रिपून् ॥३५॥

यथाभिमानं कौरव्य निधाय हृदये पुमान् ।
अस्मद्विधः प्रवर्तेत मा मां त्वमभिशंकिथाः ॥३६॥

निधाय त्वत्कृतमपमानमिति शेषः । प्रवर्तेत त्यक्तुमिति शेषः ॥३६॥

युधि वाऽप्यवमानो मे न कर्तव्यः कथञ्चन ।
पश्य पीनौ मम भुजौ वज्रसंहननोपमौ ॥३७॥

धनुः पश्य च मे चित्रं शरांश्चाशीविषोपमान् ।
रथं पश्य च मे क्लृप्तं सदश्वैर्वातवेगितैः ॥३८॥

गदां च पश्य गान्धारे हेमपट्टविभूषिताम् ।
दारयेयं महीं कृत्स्नां विकिरेयं च पर्वतान् ॥३९॥

शोषयेयं समुद्रांश्च तेजसा स्वेन पार्थिव ।
तं मामेवंविधं राजन् समर्थमरिनिग्रहे ॥४०॥

कस्माद्युनङ्क्षि सारथ्ये नीचस्याधिरथे रणे ।
न मामधुरि राजेन्द्र नियोक्तुं त्वमिहार्हसि ॥४१॥

अधुरि नीचे कर्मणि ॥४१॥

न हि पापीयसः श्रेयान् भूत्वा प्रेष्यत्वमुत्सहे ।
यो ह्यभ्युपगतं प्रीत्या गरीयांसं वशे स्थितम् ॥४२॥

पापीयसः नीचयोनेः प्रेष्यत्वं दासत्वं कर्तुमिति शेषः ॥४२॥

वशे पापीयसो धत्ते तत्पापमधरोत्तरम् ।
ब्रह्मणा ब्राह्मणाः सृष्टा मुखात् क्षत्रं च बाहुतः ॥४३॥

वशे आज्ञायाम् । अधरोत्तरं नीचोच्चयोर्वैपरीत्यकरणजं महत्पापम् ॥४३॥

ऊरुभ्यामसृजद्वैश्यान् शूद्रान्पद्भ्यामिति श्रुतिः ।
तेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः ॥४४॥

अथान्योन्यस्य संयोगाच्चातुर्वर्ण्यस्य भारत ।
गोप्तारः संगृहीतारो दातारः क्षत्रियाः स्मृताः ॥४५॥

याजनाध्यापनैर्विप्रा विशुद्धैश्च प्रतिग्रहैः ।
लोकस्यानुग्रहार्थाय स्थापिता ब्राह्मणा भुवि ॥४६॥

कृषिश्च पाशुपाल्यं च विशां दानं च धर्मतः ।
ब्रह्म-क्षत्र-विशां शूद्रा विहिताः परिचारकाः ॥४७॥

ब्रह्मक्षत्रस्य विहिताः सुता वै परिचारकाः ।
न क्षत्रियो वै सूतानां शृणुयाच्च कथञ्चन ॥४८॥

अहं मूर्धाभिषिक्तो हि राजर्षिकुलजो नृपः ।
महारथः समाख्यातः सेव्यः स्तुत्यश्च बन्दिनाम् ॥४९॥

सोऽहमेतादृशो भूत्वा नेहारिबलसूदनः ।
सूतपुत्रस्य संग्रामे सारथ्यं कर्तुमुत्सहे ॥५०॥

अवमानमहं प्राप्य न योत्स्यामि कथञ्चन ।
आपृच्छे त्वाऽद्य गान्धारे गमिष्यामि गृहाय वै ॥५१॥

सञ्जय उवाच। एवमुक्त्वा महाराज शल्यः समितिशोभनः ।
उत्थाय प्रययौ तूर्णं राजमध्यादमर्षितः ॥५२॥

प्रणयाद्बहुमानाच्च तन्निगृह्य सुतस्तव ।
अब्रवीन्मधुरं वाक्यं साम्ना सर्वार्थसाधकम् ॥५३॥

यथा शल्य विजानीषे एवमेतदसंशयम् ।
अभिप्रायस्तु मे कश्चित्तन्निबोध जनेश्वर ॥५४॥

न कर्णोऽभ्यधिकस्त्वत्तो न शंके त्वां च पार्थिव ।
न हि मद्रेश्वरो राजा कुर्याद्यदनृतं भवेत् ॥५५॥

ऋतमेव हि पूर्वास्ते वदन्ति पुरुषोत्तमाः ।
तस्मादार्तायनिः प्रोक्तो भवानिति मतिर्मम ॥५६॥

ऋतमिति । ऋतमेव अयनम् आश्रयो येषां ते ऋतायनास्तेषां गोत्रापत्यमार्तायनिस्त्वम् ॥५६॥

शल्यभूतस्तु शत्रणां यस्मात्त्वं युधि मानद ।
तस्माच्छल्यो हि ते नाम कथ्यते पृथिवीतले ॥५७॥

यदेतद्व्याहृतं पूर्वं भवता भूरिदक्षिण ।
तदेव कुरु धर्मज्ञ मदर्थं यद्यदुच्यते ॥५८॥

न च त्वत्तो हि राधेयो न चाहमपि वीर्यवान् ।
वृणेऽहं त्वां हयाग्र्याणां यन्तारमिह संयुगे ॥५९॥

मन्ये चाभ्यधिकं शल्य गुणैः कर्णं धनञ्जयात् ।
भवन्तं वासुदेवाच्च लोकोऽयमिति मन्यते ॥६०॥

कर्णो ह्यभ्यधिकः पार्थादस्त्रैरेव नरर्षभ ।
भवानभ्यधिकः कृष्णा‌श्वज्ञाने बले तथा ॥६१॥

यथाऽश्वहृदयं वेद वासुदेवो महामनाः ।
द्विगुणं त्वं तथा वेत्सि मद्रराजेश्वरात्मज ॥६२॥

मद्रेश्वरेत्यश्वोत्पत्तिदेशजत्वाद्विशेषेण तद्गुणाभिज्ञत्वं सूच्यते ॥६२॥

शल्य उवाच। यन्मां ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरव ।
विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि ॥६३॥

एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः ।
युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे ॥६४॥

समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति ।
उत्सृजेयं यथाश्रद्धमहं वाचोऽस्य सन्निधौ ॥६५॥

वाच उत्सृजेयं ताः अनेन क्षन्तव्या इति भावः ॥६५॥

सञ्जय उवाच। तथेति राजन्पुत्रस्ते सह कर्णेन भारत ।
अब्रवीन्मद्रराजस्य मतं भरतसत्तम ॥६६॥

इति श्रीमहाभारते कर्णपर्वणि शल्यसारथ्ये द्वात्रिंशोऽध्यायः ॥३२॥
त्रयस्त्रिंशोऽध्यायः

दुर्योधन उवाच। भूय एव तु मद्रेश यत्ते वक्ष्यामि तच्छृणु ।
यथा पुरावृत्तमिदं युद्धे देवासुरे विभो ॥१॥

भूय इति ॥१॥

यदुक्तवान् पितुर्मह्यं मार्कण्डेयो महानृषिः ।
तदशेषेण ब्रुवतो मम राजर्षिसत्तम ॥२॥

पितुः पुरतः मह्यं मम ॥२॥

निबोध मनसा चात्र न ते कार्या विचारणा ।
देवानामसुराणां च परस्परजिगीषया ।
बभूव प्रथमो राजन् संग्रामस्तारकामयः ॥३॥

तारकामयः तारकासुर एव आमयो रोगवत्पराभवहेतुर्यत्र स तथा ॥३॥

निर्जिताश्च तदा दैत्या दैवतैरिति नः श्रुतम् ।
निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः ।
ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव ॥४॥

तप उग्रं समास्थाय नियमे परमे स्थिताः ।
तपसा कर्षयामासुर्देहान् स्वान् शत्रुतापन ॥५॥

दमेन तपसा चैव नियमेन समाधिना ।
तेषां पितामहः प्रीतो वरदः प्रददौ वरम् ॥७॥

दमेन बाह्येन्द्रियजयेन तपसा चित्तस्यैकाग्र्येण नियमेन शौचादिना समाधिना अव्युत्थानेन ॥७॥

अवध्यत्वं च ते राजन् सर्वभूतस्य सर्वदा ।
सहिता वरयामासुः सर्वलोकपितामहम् ॥८॥

तानब्रवीत्तदा देवो लोकानां प्रभुरीश्वरः ।
नास्ति सर्वामरत्वं वै निवर्तध्वमितोऽसुराः ॥९॥

अन्यं वरं वृणीध्वं वै यादृशं संप्ररोचते ।
ततस्ते सहिता राजन् संप्रधार्यासकृत्प्रभुम् ॥१०॥

सर्वलोकेश्वर वाक्यं प्रणम्येदमथाब्रुवन् ।
अस्मभ्यं त्वं वरं देव संप्रयच्छ पितामह ॥११॥

वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् ।
विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः ॥१२॥

ततो वर्षसहस्त्रे तु समेष्यामः परस्परम् ।
एकीभावं गमिष्यन्ति पुराण्येतानि चानघ ॥१३॥

समागतानि चैतानि यो हन्याद्भगवंस्तदा ।
एकेषुणा देववरः स नो मृत्युर्भविष्यति ॥१४॥

एवमस्त्विति तान् देवः प्रत्युक्त्वा प्राविशद्दिवम् ।
ते तु लब्धवराः प्रीताः संप्रधार्य परस्परम् ॥१५॥

पुरत्रयविसृष्ट्यर्थं वयं वव्रुर्महासुरम् ।
विश्वकर्माणमजरं दैत्यदानवपूजितम् ॥१६॥

ततो मयः स्वतपसा चक्रे धीमान्पुराणि च ।
त्रीणि काञ्चनमेकं वै रौप्यं कार्णायसं तथा ॥१७॥

काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम् ।
आयसं चाभवद्भौमं चक्रस्थं पृथिवीपते ॥१८॥

चक्रस्थम् आज्ञावशं यथेष्टसञ्चारीत्यर्थः । चक्रस्थमित्यत्र तृतीयमिति पाठः प्रामादिकः ॥१८॥

एकैकं योजनशतं विस्तारायामतः समम् ।
गृहाट्टालकसंयुक्तं बहुप्राकारतोरणम् ॥१९॥

गृहप्रवरसंबाधमसंबाधमहापथम् ।
प्रासादैर्विविधैश्चापि द्वारैश्चैवोपशोभितम् ॥२०॥

पुरेषु चाभवन् राजन् राजानो वै पृथक् पृथक् ।
काञ्चनं तारकाक्षस्य चित्रमासीन्महात्मनः ॥२१॥

राजतं कमलाक्षस्य विद्युन्मालिन आयसम् ।
त्रयस्ते दैत्यराजानस्त्रील्लोঁकानस्त्रतेजसा ॥२२॥

आक्रम्य तस्थुरूचुश्च कश्च नाम प्रजापतिः ।
तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च ॥२३॥

कोट्यश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः ।
मांसाशिनः सुदृप्ताश्च सुरैर्विनिकृताः पुरा ॥२४॥

महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः ।
सर्वेषां च पुनश्चैषां सर्वयोगवहो मयः ॥२५॥

तमाश्रित्य हिते सर्वे वर्तयन्तेऽकुतोभयाः ।
यो हि यन्मनसा कामं दध्यौ त्रिपुरसंश्रयः ॥२६॥

तस्मै कामं मयस्तं तं विदधे मायया तदा ।
तारकाक्षसुतो वीरो हरिर्नाम महाबलः ॥२७॥

तपस्तेपे परमकं येनातुष्यत्पितामहः ।
सन्तुष्टमवृणोद्देवं वापी भवतु नः पुरे ॥२८॥

शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः ।
स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः ॥२९॥

ससृजे तत्र वापीं तां मृतानां जीविनीं प्रभो ।
येन रूपेण दैत्यस्तु येन वेषेण चैव ह ॥३०॥

मृतस्तस्यां परिक्षिप्तस्तादृशेनैव जज्ञिवान् ।
तां प्राप्यते पुनस्तांस्तु लोकान्सर्वान्बबाधिरे ॥३१॥

महता तपसा सिद्धाः सुराणां भयवर्धनाः ।
न तेषामभवद्राजन् क्षयो युद्धे कदाचन ॥३२॥

ततस्ते लोभमोहाभ्यामभिभूता विचेतसः ।
निर्ह्रीकाः संस्थिताः सर्वे स्थापिताः समलूलुपन् ॥३३॥

विद्राव्य सगणान् देवांस्तत्र तत्र तदा तदा ।
विचेरुः स्वेन कामेन वरदानेन दर्पिताः ॥३४॥

देवोद्यानानि सर्वाणि प्रियाणि च दिवौकसाम् ।
ऋषीणामाश्रमान्पुण्यान् रम्याञ्जनपदांस्तथा ॥३५॥

व्यनाशयन्नमर्यादा दानवा दुष्टचारिणः ।
पीड्यमानेषु लोकेषु ततः शक्रो मरुद्वृतः ॥३६॥

पुराण्यायोधयां चक्रे वज्रपातैः समन्ततः ।
नाशकत्तान्यभेद्यानि यदा भेत्तुं पुरन्दरः ॥३७॥

पुराणि वरदत्तानि धात्रा तेन नराधिप ।
तदा भीतः सुरपतिर्मुक्त्वा तानि पुराण्यथ ॥३८॥

तैरेव विबुधैः सार्धं पितामहरिन्दम ।
जगामाथ तदाख्यातुं विप्रकारं सुरेतरैः ॥३९॥

ते तत्त्वं सर्वमाख्याय शिरोभिः संप्रणम्य च ।
वधोपायमपृच्छन्त भगवन्तं पितामहम् ॥४०॥

श्रुत्वा तद्भगवान्देवो देवानिदमुवाच ह ।
ममापि सोऽपराध्नोति यो युष्माकमसौम्यकृत् ॥४१॥

असुरा हि दुरात्मानः सर्व एव सुरद्विषः ।
अपराध्यन्ति सततं ये युष्मान् पीडयन्त्युत ॥४२॥

अहं हि तुल्यः सर्वेषां भूतानां नात्र संशयः ।
अधार्मिकास्तु हन्तव्या इति मे व्रतमाहितम् ॥४३॥

एकेषुणा बिभेद्यानि तानि दुर्गाणि नान्यथा ।
न च स्थाणुमृते शक्तो भेत्तुमेकेषुणा पुरः ॥४४॥

ते यूयं स्थाणुमीशानं जिष्णुमक्लिष्टकारिणम् ।
योद्धारं वृणुतादित्याः स तान् हन्ता सुरेतरान् ॥४५॥

आदित्या देवाः ॥४५॥

इति तस्य वचः श्रुत्वा देवा शक्रपुरोगमाः ।
ब्रह्माणमग्रतः कृत्वा वृषाङ्कं शरणं ययुः ॥४६॥

तपोनियममास्थाय गृणन्तो ब्रह्म शाश्वतम् ।
ऋषिभिः सह धर्मज्ञा भवं सर्वात्मना गताः ॥४७॥

तुष्टुवुर्वाग्भिरुग्राभिर्भयेष्वभयदं नृप ।
सर्वात्मानं महात्मानं येनाप्तं सर्वमात्मना ॥४८॥

उग्राभिः रक्षोघ्नीभिः आप्तं व्याप्तम् आत्मना अनौपाधिकेन ॥४८॥

तपोविशेषैर्विविधैर्योगं यो वेद चात्मनः ।
यः सांख्यमात्मनो वेत्ति यस्य चात्मा वशे सदा ॥४९॥

आत्मनः मनसः योगं सर्ववृत्तिनिरोधम् । सांख्यं सम्यक्ङ्ख्यापनम् आत्मनो जडवर्गात्पृथग्ग्रहणम् आत्मा मनः वशे आज्ञायाम्॥४९॥

तं ते ददृशुरीशानं तेजोराशिमुमापतिम् ।
अनन्यसदृशं लोके भगवन्तमकल्मषम् ॥५०॥

एकं च भगवन्तं ते नानारूपमकल्पयन् ।
आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि ॥५१॥

भगवन्तं षड्विधैश्वर्यवन्तम् । एकमपि ते ‘तं यथायथोपासते’ इति श्रुतेर्यथाभावनं शिवविष्णुरुद्रादिवेषेण नानारूपमकल्पयन् । आत्मनः चित्तस्य प्रतिरूपाणि संकल्पानुसारीणि प्रतिबिम्बानि वा परस्परस्य चेति ईश्वरस्वरूपे सर्वे आत्मानं परांश्चापश्यन्निति सार्धश्लोकः एकं वाक्यम् ॥५१॥

परस्परस्य चापश्यन् सर्वे परमविस्मिताः ।
सर्वभूतमयं दृष्ट्वा तमजं जगतः पतिम् ॥५२॥

देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः ।
तान्स्वस्तिवादेनाभ्यर्च्य समुत्थाप्य च शङ्करः ॥५३॥

ब्रूत ब्रूतेति भगवान् स्मयमानोऽभ्यभाषत ।
त्र्यंबकेणाभ्यनुज्ञातास्ततस्ते स्वस्थचेतसः ॥५४॥

नमो नमो नमस्तेऽस्तु प्रभो इत्यब्रुवन्वचः ।
नमो देवाधिदेवाय धन्विने वनमालिने ॥५५॥

प्रजापतिमखघ्नाय प्रजापतिभिरीड्यते ।
नमः स्तुताय स्तुत्याय स्तूयमानाय शंभवे ॥५६॥

इड्यते ईड्यमानाय कर्मणीदमपौरुषम् ॥५६॥

विलोहिताय रुद्राय नीलग्रीवाय शूलिने ।
अमोघाय मृगाक्षाय प्रवरायुधयोधिने ॥५७॥

अर्हाय चैव शुद्धाय क्षयाय क्रथनाय च ।
दुर्वारणाय क्राथाय ब्रह्मणे ब्रह्मचारिणे ॥५८॥

क्रथनाय हिंस्राय ॥५८॥

ईशानायाप्रमेयाय नियन्त्रे चर्मवाससे ।
तपोरताय पिङ्गाय व्रतिने कृत्तिवाससे ॥५९॥

कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणे ।
प्रपन्नार्तिविनाशाय ब्रह्मद्विट्संघघातिने ॥६०॥

वनस्पतीनां पतये नराणां पतये नमः ।
गवां च पतये नित्यं यज्ञानां पतये नमः ॥६१॥

नमोऽस्तु ते ससैन्याय त्र्यम्बकायामितौजसे ।
मनोवाक्कर्मभिर्देव त्वां प्रपन्नान् भजस्व नः ॥६२॥

भजस्व इष्टैः कामैः पूरयस्व ॥६२॥

ततः प्रसन्नो भगवान् स्वागतेनाभिनन्द्य च ।
प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः ॥६३॥

व्येतु व्यपगच्छतु ॥६३॥
इति श्रीमहाभारते कर्णपर्वणि त्रिपुराख्याने त्रयस्त्रिंशोऽध्यायः ॥३३॥
चतुस्त्रिंशोऽध्यायः

दुर्योधन उवाच। पितृदेवर्षिसंघेभ्योऽभये दत्ते महात्मना ।
सत्कृत्य शङ्करं प्राह ब्रह्मा लोकहितं वचः ॥१॥

पित्रिति । अभये इति च्छेदः ॥१॥

तवातिसर्गाद्देवेश प्राजापत्यमिदं पदम् ।
मयाऽधितिष्ठता दत्तो दानवेभ्यो महान्वरः ॥२॥

तानतिक्रान्तमर्यादान् नान्यः संहर्तुमर्हति ।
त्वामृते भूतभव्येश त्वं ह्येषां प्रत्यरिर्वधे ॥३॥

वधे निमित्ते प्रत्यरिः प्रतिकूलः शत्रुः ॥३॥

स त्वं देव प्रपन्नानां याचतां च दिवौकसाम् ।
कुरु प्रसादं देवेश दानवाञ्जहि शङ्कर ॥४॥

त्वत्प्रसादाज्जगत्सर्वं सुखमैधत मानद ।
शरण्यस्त्वं हि लोकेश ते वयं शरणं गताः ॥५॥

ऐधत अवर्धत ते प्रसिद्धा वयं शरणं गतास्त्वामिति शेषः ॥५॥

स्थाणुरुवाच ।
हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः ।
न त्वेक उत्सहे हन्तुं बलस्था हि सुरद्विषः ॥६॥

ते यूयं संहताः सर्वे मदीयेनार्धतेजसाः ।
जयध्वं युधि ताञ्शत्रून् संहता हि महाबलाः ॥७॥

संहताः एकीभूताः यूयम् ॥७॥

देवा ऊचुः ।
अस्मत्तेजोबलं यावत्ताव‌द्द्विगुणमाहवे ।
तेषामिति हि मन्यामो दृष्टतेजोबला हि ते ॥८॥

तेषां तेजोऽस्मत्तेजस्तो द्विगुणं दृष्टमेवेत्यर्थः॥८॥

स्थाणुरुवाच ।
वध्यास्ते सर्वतः पापा ये युष्मास्वपराधिनः ।
मम तेजोबलार्धेन सर्वान्निघ्नत शात्रवान् ॥९॥

देवा ऊचुः ।
बिभर्तुं भवतोऽर्धं तु न शक्ष्यामो महेश्वर ।
सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान् ॥१०॥

स्थाणुरुवाच ।
यदि शक्तिर्न वः काचिद्बिभर्तुं मामकं बलम् ।
अहमेतान् हनिष्यामि युष्मत्तेजोर्धबृंहितः ॥११॥

ततस्तथेति देवेशस्तैरुक्तो राजसत्तम ।
अर्धमादाय सर्वेषां तेजसाऽभ्यधिकोऽभवत् ॥१२॥

अर्धं तेजसः ॥१२॥

स तु देवो बलेनासीत्सर्वेभ्यो बलवत्तरः ।
महादेव इति ख्यातस्ततःप्रभृति शंकरः ॥१३॥

ततोऽब्रवीन्महादेवो धनुर्बाणधरो ह्यहम् ।
हनिष्यामि रथेनाजौ तान् रिपून्वो दिवौकसः ॥१४॥

महता सर्वातिशायिना बलेन दीव्यति प्रकाशते इति महादेवः ॥१४॥

ते यूयं मे रथं चैव धनुर्बाणं तथैव च ।
पश्यध्वं यावदद्यैतान् पातयामि महीतले ॥१५॥

देवा ऊचुः ।
मूर्तीः सर्वाः समाधाय त्रैलोक्यस्य ततस्ततः ।
रथं ते कल्पयिष्यामो देवेश्वर सुवर्चसम्॥१६॥

मूर्तीस्तेजोमात्राः समाधाय एकीकृत्य ॥१६॥

तथैव बुद्ध्या विहितं विश्वकर्मकृतं शुभम् ।
ततो विबुधशार्दूलास्ते रथं समकल्पयन् ॥१७॥

विष्णुं सोमं हुताशं च तस्येषुं समकल्पयन् ।
शृङ्गमग्निर्बभूवास्य भल्लः सोमो विशांपते ॥१८॥

श्रृङ्गं शृङ्गाकारखटिकायुक्तं काण्डम् । भल्लः शल्यः कुड्मलस्तस्याग्रभागस्तस्यैव तीक्ष्णभागः । ‘सोमः शल्यो विष्णुस्तेजनम्’ इति श्रुतेः ॥१८॥

कुड्मलश्चाभवद्विष्णुस्तस्मिन्निषुवरे तदा ।
रथं वसुन्धरां देवीं विशालपुरमालिनीम् ॥१९॥

सपर्वतवनद्वीपां चक्रुर्भूतधरां तदा ।
मन्दरः पर्वतश्चाक्षो जङ्घा तस्य महानदी ॥२०॥

अक्षश्चक्राधारदण्डः । जङ्घा अक्षाधारकाष्ठं महानदी गङ्गा ॥२०॥

दिशश्च प्रदिशश्चैव परिवारो रथस्य तु ।
ईषा नक्षत्रवंशश्च युगः कृतयुगोऽभवत् ॥२१॥

ईषा युगाक्षसन्धानं त्रिवेणुमयं काष्ठं युगः धुर्ययोजनदण्डः ॥२१॥

कूबरश्च रथस्यासीद्वासुकिर्भुजगोत्तमः ।
अपस्करमधिष्ठाने हिमवान् विन्ध्यपर्वतः ।
उदयास्तावधिष्ठाने गिरी चक्रुः सुरोत्तमाः ॥२२॥

कूवरः युगंधरः अपस्करं पश्चात्काष्ठं भुजगोत्तमः शेषः । अधिष्ठाने चक्रे अधिष्ठाने चक्राधारौ ‘अधिष्ठानं पुरे चक्रे प्रभावेऽध्यासनेऽपि च’ इति मेदिनी ॥२२॥

समुद्रमक्षमसृजन्दानवालयमुत्तमम् ।
सप्तर्षिमण्डलं चैव रथस्यासीत्परिष्करः ॥२३॥

अक्षं बन्धनपाशसमुदायः । समुद्रः जलमयत्वेन चिक्कणत्वात् । परिष्करः चक्ररक्षादिः ॥२३॥

गङ्गा सरस्वती सिन्धुर्धुरमाकाशमेव च ।
उपस्करो रथस्यासन्नापः सर्वाश्च निम्नगाः ॥२४॥

सिन्धुर्यमुनाख्या नदी तिसृभिस्त्रिवेणुस्थानीयाभिः सहितमाकाशं धुरं धूर्भागः उपस्करः बन्धादिसामग्री ॥२४॥

अहोरात्रं कलाश्चैव काष्ठाश्च ऋतवस्तथा ।
अनुकर्षं ग्रहा दीप्ता वरूथं चापि तारकाः ॥२५॥

अनुकर्षं रथाधःस्थितं दारु वरूथं रथगुप्तिम् ॥२५॥

धर्मार्थकामं संयुक्तं त्रिवेणुं दारु बन्धुरम् ।
ओषधीर्वीरुधश्चैव घण्टाः पुष्पफलोपगाः ॥२६॥

धर्मादयास्त्रिवेणुसदृशा बन्धुरं रथतल्पम् ॥२६॥

सूर्याचन्द्रमसौ कृत्वा चक्रे रथवरोत्तमे ।
पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे ॥२७॥

पूर्वं हिमवद्विन्ध्यपर्वतौ चक्रत्वेनोक्तौ अत्र सूर्यचन्द्रौ चक्रत्वेन दृष्टावतश्चतुश्चक्रो रथ इति गम्यते । अतः समुद्रोऽप्यक्षान्तरमिति ऋजुरेवार्थः । पूर्वः पक्षः पूर्वाङ्गं रात्रिः । अपरः पक्षोऽपराङ्गम् अहः ॥२७॥

दश नागपतीनीषां धृतराष्ट्रमुखांस्तदा ।
योक्त्राणि चक्रुर्नागांश्च निःश्वसंतो महोरगान् ॥२८॥

द्यां युगं युगचर्माणि संवर्तकबलाहकान् ।
कालपृष्ठोऽथ नहुषः कर्कोटकधनञ्जयौ ॥२९॥

द्यां द्वितीयं युगं चतुश्चक्रत्वाद्रथस्य संवर्तकबलाहकान् युगचर्माणि धुर्यस्कन्धयुगयोरन्तरस्थानि कशिपूनि ॥२९॥

इतरे चाभवन्नागा हयानां बालबन्धनाः ।
दिशश्च प्रदिशश्चैव रश्मयो रथवाजिनाम् ॥३०॥

बालबन्धनाः अश्वकेसरबन्धनाः ॥३०॥

सन्ध्यां धृतिं च मेधां च स्थितिं सन्नतिमेव च ।
ग्रह-नक्षत्र-ताराभिश्चर्म चित्रं नभस्तलम् ॥३१॥

नभस्तलं चर्मरथस्य बाह्यमावरणं तच्च सन्ध्यादिभिर्ग्रहादिभिश्च चित्रम् ॥३१॥

सुराम्बुप्रेतवित्तानां पतील्लोঁकेश्वरान् हयान् ।
सिनीवालीमनुमतिं कुहूं राकां च सुव्रताम् ॥३२॥

सिनीवालीं पूर्वामावास्याम् अनुमतिं पूर्वपौर्णमासीम् । कुहूमुत्तरामावास्यां राकामुत्तरां पौर्णमासीम् ॥३२॥

योक्त्राणि चक्रुर्वाहानां रोहकांस्तत्र कण्टकान् ।
धर्मः सत्यं तपोऽर्थश्च विहितास्तत्र रश्मयः ॥३३॥

रोहकान् सिनीवाल्याद्यधिष्ठातॄन् पित्रादीन् कण्टकान् प्रकलिकान् धर्मादयस्तत्र कण्टकेषु रश्मयः ॥३३॥

अधिष्ठानं मनश्चासीत्परिरथ्या सरस्वती ।
नानावर्णाश्च चित्राश्च पताकाः पवनेरिताः ॥३४॥

मनः अधिष्ठानं रथाधारभूः । मनोमयो रथ इत्यर्थः । परिरथ्या प्रचारमार्गः । सरस्वती वाग्देवी काल्पतः शब्दमात्रशरीर इत्यर्थः ॥३४॥

विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयन् ।
वष‌ट्कारः प्रतोदोऽभूद्गायत्री शीर्षबन्धना ॥३५॥

यो यज्ञे विहितः पूर्वमीशानस्य महात्मनः ।
संवत्सरो धनुस्तद्वै सावित्री ज्या महास्वना ॥३६॥

दिव्यं च वर्म विहितं महार्हं रत्नभूषितम् ।
अभेद्यं विरजस्कं वै कालचक्रबहिष्कृतम् ॥३७॥

ध्यजयष्टिरभून्मेरुः श्रीमान् कनकपर्वतः ।
पताकाश्चाभवन्मेघास्तडिद्भिः समलङ्कृताः ॥३८॥

रेजुरध्वर्युमध्यस्था ज्वलन्त इव पावकाः ।
क्लप्तं तु तं रथं दृष्ट्वा विस्मिता देवताऽभवन् ॥३९॥

अध्वर्यूणामृत्विजां मध्ये स्थिताः पावकाः धिष्ण्यगाः ॥३९॥

सर्वलोकस्य तेजांसि दृष्ट्वैकस्थानि मारिष ।
युक्तं निवेद्यामासुर्देवास्तस्मै महात्मने ॥४०॥

एवं तस्मिन्महाराज कल्पिते रथसत्तमे ।
देवैर्मनुजशार्दूल द्विषतामभिमर्दने ॥४१॥

स्वान्यायुधानि मुख्यानि न्यदधाच्छङ्करो रथे ।
ध्वजयष्टिं वियत्कृत्वा स्थापयामास गोवृषम् ॥४२॥

गोवृषं ध्वजत्वेन स्थापयामास ॥४२॥

ब्रह्मदण्डः कालदण्डो रुद्रदण्डस्तथा ज्वरः ।
परिस्कन्दा रथस्यासन् सर्वतो दिशमुद्यताः ॥४३॥

परिस्कन्दाः पार्श्वगोपाः ॥४३॥

अथर्वाङ्गिरसावास्तां चक्ररक्षौ महात्मनः ।
ऋग्वेदः सामवेदश्च पुराणं च पुरःसराः ॥४४॥

इतिहासयजुर्वेदौ पृष्ठरक्षौ बभूवतुः ।
दिव्या वाचश्च विद्याश्च परिपार्श्वचराः स्थिताः ॥४५॥

स्तोत्रादयश्च राजेन्द्र वषट्‌कारस्तथैव च ।
ओङ्कारश्च मुखे राजन्नतिशोभाकरोऽभवत् ॥४६॥

विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः ।
छायामेवात्मनश्चक्रे धनुर्ज्यामक्षयां रणे ॥४७॥

छायां पूर्वोक्तां सावित्रीं शब्दब्रह्मरूपत्वादात्मनस्तुल्याम् ॥४७॥

कालो हि भगवान् रुद्रस्तस्य संवत्सरो धनुः ।
तस्माद्रौद्री कालरात्रिर्ज्या कृता धनुषो जरा ॥४८॥

इषुश्चाप्यभवद्विष्णुर्ज्वलनः सोम एव च ।
अग्नीषोमौ जगत्कृत्स्नं वैष्णवं चोच्यते जगत् ॥४९॥

विष्णुश्चात्मा भगवतो भवस्यामिततेजसः ।
तस्माद्धनुर्ज्यासंस्पर्शं न विषेहुर्हरस्य ते ॥५०॥

धनुर्ज्या कालरात्रिरूपा तस्याः संस्पर्शं न विषेहुः न सेहिरे तेऽसुराः ॥५०॥

तस्मिञ्शरे तिग्ममन्युं मुमोचासह्यमीश्वरः ।
भृग्वङ्गिरोमन्युभवं क्रोधाग्निमतिदुःसहम् ॥५१॥

तिग्ममन्युं तीक्ष्णसङ्कल्पम् ॥५१॥

स नीललोहितो धूम्रः कृत्तिवासाऽभयङ्करः ।
आदित्यायुतसङ्काशस्तेजोज्वालावृतो ज्वलन्॥५२॥

अभयमिति च्छेदः सन्धिरार्षः ॥५२॥

दुश्च्यावच्यावनो जेता हन्ता ब्रह्मद्विषां हरः ।
नित्यं त्राता च हन्ता च धर्माधर्माश्रितान्नरान् ॥५३॥

प्रमाथिभिर्भीमबलैर्भीमरूपैर्मनोजवैः ।
विभाति भगवान् स्थाणुस्तैरेवात्मगुणैर्वृतः ॥५४॥

तै रथादिभूतैः आत्मगुणैः आत्मनो भोक्तुर्गुणभूतैर्भोग्यैः ॥५४॥

तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत् ।
जङ्गमाजङ्गमं राजञ्शुशुभेऽद्भुतदर्शनम् ॥५५॥

दृष्ट्वा तु तं रथं युक्तं कवची स शरासनी ।
बाणमादाय तं दिव्यं सोमविष्ण्वग्निसंभवम् ॥५६॥

बाणमादाय स्थितं तं दृष्ट्वा देवास्तस्यानुकूलं जयावहं श्वसनं कल्पयाञ्चक्रिरे इत्यन्वयः ॥५६॥

तस्य राजंस्तदा देवाः कल्पयाञ्चक्रिरे प्रभो ।
पुण्यगन्धवहं राजञ्श्वसनं देवसत्तमम् ॥५७॥

तमास्थाय महादेवस्त्रासयन्दैवतान्यपि ।
आरुरोह तदा यत्तः कम्पयन्निव मेदिनीम् ॥५८॥

तमारुरुचं देवेशं तुष्टुवुः परमर्षयः ।
गन्धर्वा देवसङ्घाश्च तथैवाप्सरसां गणाः ॥५९॥

ब्रह्मर्षिभिः स्तूयमानो वन्द्यमानश्च बन्दिभिः ।
तथैवाप्सरसां वृन्दैर्नृत्यद्भिर्नृत्यकोविदैः ॥६०॥

स शोभमानो वरदः खड्गी बाणी शरासनी ।
हसन्निवाब्रवीद्देवान्सारथिः को भविष्यति ॥६१॥

तमब्रुवन् देवगणा यं भवान्सन्नियोक्ष्यते ।
स भविष्यति देवेश सारथिस्ते न संशयः ॥६२॥

तानब्रवीत्पुनर्देवो मत्तः श्रेष्ठतरो हि यः ।
तं सारथिं कुरुध्वं मे स्वयं सञ्चिन्त्य मा-चिरम् ॥६३॥

एतच्छ्रुत्वा ततो देवा वाक्यमुक्तं महात्मना ।
गत्वा पितामहं देवाः प्रसाद्येदं वचोऽब्रुवन् ॥६४॥

यथा त्वत्कथितं देव त्रिदशारिविनिग्रहे ।
तथा च कृतमस्माभिः प्रसन्नो नो वृषध्वजः ॥६५॥

रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः ।
सारथिं च न जानीमः कः स्यात्तस्मिन् रथोत्तमे ॥६६॥

तस्माद्विधीयतां कश्चित्सारार्थर्देवसत्तम ।
सफलां तां गिरं देव कर्तुमर्हसि नो विभो ॥६७॥

एवमस्मासु हि पुरा भगवन्नुक्तवानसि ।
हितकर्ताऽस्मि भवतामिति तत्कर्तुमर्हसि ॥६८॥

स देव युक्तो रथसत्तमो नो दुराधरो द्रावणः शात्रवाणाम् ।
पिनाकपाणिर्विहितोऽत्र योद्धा विभीषयन् दानवानुद्यतोऽसौ ॥६९॥

तथैव वेदाश्चतुरो हयाग्र्या धरा सशैला च रथो महात्मनः ।
नक्षत्रवंशानुगतो वरूथी हरो योद्धा सारथिर्नाभिलक्ष्यः ॥७०॥

तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान् ।
तत्प्रतिष्ठो रथो देव हया योद्धा तथैव च ॥७१॥

कवचानि सशस्त्राणि कार्मुकं च पितामह ।
त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम् ॥७२॥

त्वं हि सर्वगुणैर्युक्तो दैवतेभ्योऽधिकः प्रभो ।
स रथं तूर्णमारुह्य संयच्छ परमान् हयान् ॥७३॥

जयाय त्रिदिवेशानां वधाय त्रिदशद्विषाम् ।
इति ते शिरसा गत्वा त्रिलोकेशं पितामहम् ॥७४॥

देवाः प्रसाद्यामासुः सारथ्यायेति नः श्रुतम् । पितामह उवाच। नात्र किञ्चिन्मृषा वाक्यं यदुक्तं त्रिदिवौकसः ।
संयच्छामि हयानेष युध्यतो वै कपर्दिनः ॥७५॥

ततः स भगवान् देवो लोकस्रष्टा पितामहः ।
सारथ्ये कल्पितो देवैरीशानस्य महात्मनः ॥७६॥

तस्मिन्नारोहति क्षिप्रं स्यन्दने लोकपूजिते ।
शिरोभिरगमन् भूमिं ते हया वातरंहसः ।
आरुह्य भगवान्देवो दीप्यमानः स्वतेजसा ॥७७॥

अभीषून् हि प्रतोदं च संजग्राह पितामहः ।
तत उत्थाय भगवांस्तान् हयाननिलोपमान् ॥७८॥

बभाषे च तदा स्थाणुमारोहेति सुरोत्तमः ।
ततस्तमिषुमादाय विष्णुसोमाग्निसंभवम् ॥७९॥

आरुरोह तदा स्थाणुर्धनुषा कम्पयन्परान् ।
तमारूढं तु देवेशं तुष्टुवुः परमर्षयः ॥८०॥

गन्धर्वा देवसंघाश्च तथैवाप्सरसां गणाः ।
स शोभमानो वरदः खड्गी बाणी शरासनी ॥८१॥

प्रदीपयन् रथे तस्थौ त्रील्लोঁकान् स्वेन तेजसा ।
ततो भूयोऽब्रवीद्देवो देवानिन्द्रपुरोगमान् ॥८२॥

न हन्यादिति कर्तव्यो न शोको वः कथञ्चन ।
हतानित्येव जानीत बाणेनानेन चासुरान् ॥८३॥

ते देवाः सत्यमित्याहुर्निहता इति चाब्रुवन् ।
न च तद्वचनं मिथ्या यदाऽऽह भगवान् प्रभुः ॥८४॥

इति सञ्चिन्त्य वै देवाः परां तुष्टिमवाप्नुवन् ।
ततः प्रयातो देवेशः सर्वैर्देवगणैर्वृतः ॥८५॥

रथेन महता राजन्नुपमा नास्ति यस्य ह ।
स्वैश्च पारिषदैर्देवः पूज्यमानो महायशाः ॥८६॥

नृत्यद्भिरपरैश्चैव मांसभक्षैर्दुरासदैः ।
धावमानैः समन्ताच्च तर्जमानैः परस्परम् ॥८७॥

ऋषयश्च महाभागास्तपोयुक्ता महागुणाः ।
आशंसुर्वै जना देवा महादेवस्य सर्वशः ॥८८॥

एवं प्रयाते देवेशे लोकानामभयङ्करे ।
तुष्टमासीज्जगत्सर्वं देवताश्च नरोत्तम ॥८९॥

ऋषयस्तत्र देवेशं स्तुवन्तो बहुभिः स्तवैः ।
तेजश्चास्मै वर्धयन्तो राजन्नासन्पुनः पुनः ॥९०॥

गन्धर्वाणां सहस्राणि प्रयुतान्यर्बुदानि च ।
वादयन्ति प्रयाणेऽस्य वाद्यानि विविधानि च ॥९१॥

ततोऽधिरूढे वरदे प्रयाते चासुरान्प्रति ।
साधु साध्विति विश्वेशः स्मयमानोऽभ्यभाषत ॥९२॥

याहि देव यतो दैत्याश्चोदयाश्वानतन्द्रितः ।
पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान्रणे ॥९३॥

ततोऽश्वांश्चो‌दयामास मनोमारुतरंहसः ।
येन तत्त्रिपुरं राजन् दैत्यदानवरक्षितम् ॥९४॥

पिबद्भिरिव चाकाशं तैर्हयैर्लोकपूजितैः ।
जगाम भगवान् क्षिप्रं जयाय त्रिदिवौकसाम् ॥९५॥

प्रयाते रथमास्थाय त्रिपुराभिमुखे भवे ।
ननाद सुमहानादं वृषभः पूरयन्दिशः ॥९६॥

वृषभस्यास्य निनदं श्रुत्वा भयकरं महत् ।
विनाशमगमंस्तत्र तारकाः सुरशत्रवः ॥९७॥

अपरेऽवस्थितास्तत्र युद्धायाभिमुखास्तदा ।
ततः स्थाणुर्महाराज शूलधृक् क्रोधमूर्छितः ॥९८॥

त्रस्तानि सर्वभूतानि त्रैलोक्यं भूः प्रकम्पते ।
निमित्तानि च घोराणि तत्र सन्दधतः शरम् ॥९९॥

तस्मिन्सोमाग्निविष्णूनां क्षोभेण ब्रह्मरुद्रयोः ।
स रथो धनुषः क्षोभादतीव ह्यवसीदति ॥१००॥

ततो नारायणस्तस्माच्छरभागाद्विनिःसृतः ।
वृषरूपं समास्थाय उज्जहार महारथम् ॥१०१॥

सीद‌माने रथे चैव नर्दमानेषु शत्रुषु ।
स संभ्रमात्तु भगवान्नादं चक्रे महाबलः ॥१०२॥

वृषभस्य स्थितो मूर्ध्नि हयपृष्ठे च मानद ।
तदा स भगवान् रुद्रो निरैक्षद्दानवं पुरम् ॥१०३॥

वृषभस्यास्थितो रुद्रो हयस्य च नरोत्तम ।
स्तनांस्तदाऽशातयत खुरांश्चैव द्विधाऽकरोत् ॥१०४॥

ततःप्रभृति भद्रं ते गवां द्वैधीकृताः खुराः ।
हयानां च स्तना राजंस्तदाप्रभृति नाभवन् ॥१०५॥

पीडितानां बलवता रुद्रेणाद्भुतकर्मणा ।
अथाधिज्यं धनुः कृत्वा शर्वः संधाय तं शरम् ॥१०६॥

युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत् ।
तस्मिन् स्थिते महाराज रुद्रे विधृतकार्मुके ॥१०७॥

पुराणि तानि कालेन जग्मुरेवैकतां तदा ।
एकीभावं गते चैव त्रिपुरत्वमुपागते ॥१०८॥

बभूव तुमुलो हर्षो देवतानां महात्मनाम् ।
ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः ॥१०९॥

जयेति वाचो मुमुचुः संस्तुवन्तो महेश्वरम् ।
ततोऽग्रतः प्रादुरभूत्त्रिपुरं निघ्नतोऽसुरान् ॥११०॥

अनिर्देश्योऽग्रवपुषो देवस्यासह्यतेजसः ।
स तद्विकृष्य भगवान् दिव्यं लोकेश्वरो धनुः ॥१११॥

त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति ।
उत्सृष्टे वै महाभाग तस्मिन्निषुवरे तदा ॥११२॥

महानार्तस्वरो ह्यासीत्पुराणां पततां भुवि ।
तान् सोऽसुरगणान् दग्ध्वा प्राक्षिपत्पश्चिमार्णवे ॥११३॥

एवं तु त्रिपुरं दग्धं दानवाश्चाप्यशेषतः ।
महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा ॥११४॥

स चात्मक्रोधजो वह्निर्हाहेत्युक्त्वा निवारितः ।
मा कार्षीर्भस्मसाल्लोकानिति त्र्यक्षोऽब्रवीच्च तम् ॥११५॥

ततः प्रकृतिमापन्ना देवा लोकास्त्वथर्षयः ।
तुष्टुवुर्वाग्भिरग्र्याभिः स्थाणुमप्रतिमौजसम् ॥११६॥

तेऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम् ।
कृतकामाः प्रयत्नेन प्रजापतिमुखाः सुराः ॥११७॥

एवं स भगवान् देवो लोकस्रष्टा महेश्वरः ।
देवासुरगणाध्यक्षो लोकानां विदधेः शिवम् ॥११८॥

यथैव भगवान् ब्रह्मा लोकधाता पितामहः ।
सारथ्यमकरोत्तत्र रुद्रस्य परमोऽव्ययः ॥११९॥

तथा भवानपि क्षिप्रं रुद्रस्येव पितामहः ।
संयच्छतु हयानस्य राधेयस्य महात्मनः ॥१२०॥

त्वं हि कृष्णाच्च कर्णाच्च फाल्गुनाच्च विशेषतः ।
विशिष्टो राजशार्दूल नास्ति तत्र विचारणा ॥१२१॥

युद्धे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमो नये ।
तस्माच्छक्तो भवाञ्जेतुं मच्छत्रूंस्तानिवासुरान् ॥१२२॥

यथा शल्याद्य कर्णोऽयं श्वेताश्वं कृष्णसारथिम् ।
प्रमथ्य हन्यात्कौन्तेयं तथा शीघ्रं विधीयताम् ॥१२३॥

त्वयि मद्रेशराज्याशा जीविताशा तथैव च ।
विजयश्च तथैवाद्य कर्णसाचिव्यकारितः ॥१२४॥

त्वयि कर्णश्च राज्यं च वयं चैव प्रतिष्ठिताः ।
विजयश्चैव संग्रामे संयच्छाद्य हयोत्तमान् ॥१२५॥

इमं चाप्यपरं भूय इतिहासं निबोध मे ।
पितुर्मम सकाशे यद्ब्रह्मणः प्राह धर्मवित् ॥१२६॥

श्रुत्वा चैतद्वचश्चित्रं हेतुकार्यार्थसंहितम् ।
कुरु शल्य विनिश्चित्य माभूदत्र विचारणा ॥१२७॥

भार्गवाणां कुले जातो जमद‌ग्निर्महायशाः ।
तस्य रामेतिविख्यातः पुत्रस्तेजोगुणान्वितः ॥१२८॥

स तीव्रं तप आस्थाय प्रसाद‌यितवान् भवम् ।
अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः ॥१२९॥

तस्य तुष्टो महादेवो भक्त्या च प्रशमेन च ।
हृद्गतं चास्य विज्ञाय दर्शयामास शङ्करः ॥१३०॥

महेश्वर उवाच। राम तुष्टोऽस्मि भद्रं ते विदितं मे तवेप्सितम् ।
कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि ॥१३१॥

दास्यामि ते तदास्त्राणि यदा पूतो भविष्यसि ।
अपात्रमसमर्थं च दहन्त्यत्राणि भार्गव ॥१३२॥

इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना ।
प्रत्युवाच महात्मानं शिरसावनतः प्रभुम् ॥१३३॥

यदा जानाति देवेशः पात्रं मामस्त्रधारणे ।
तदा शुश्रूषवेऽस्त्राणि भवान्मे दातुमर्हति ॥१३४॥

दुर्योधन उवाच। ततः स तपसा चैव दमेन नियमेन च ।
पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः ॥१३५॥

आराधयितवान् शर्वं बहून्वर्षगणांस्तदा ।
प्रसन्नश्च महादेवो भार्गवस्य महात्मनः॥१३६॥

अब्रवीत्तस्य बहुशो गुणान्देव्याः समीपतः ।
भक्तिमानेष सततं मयि रामो दृढव्रतः ॥१३७॥

एवं तस्य गुणान्प्रीतो बहुशोऽकथयत्प्रभुः ।
देवतानां पितॄणां च समक्षमरिसूदन ॥१३८॥

एतस्मिन्नेव काले तु दैत्या ह्यासन्महाबलाः ।
तैस्तदा दर्पमोहाद्यैरबाध्यन्त दिवौकसः ॥१३९॥

ततः संभूय विबुधास्तान् हन्तुं कृतनिश्चयाः ।
चक्रुः शत्रुवधे यत्नं न शेकुर्जेतुमेव तान् ॥१४०॥

अभिगम्य ततो देवा महेश्वरमुमापतिम् ।
प्रासादयंस्तदा भक्त्या जहि शत्रुगणानिति ॥१४१॥

प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम् ।
रामं भार्गवमाहूय सोऽभ्यभाषत शङ्करः॥१४२॥

रिपून् भार्गव देवानां जहि सर्वान्समागतान् ।
लोकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च ॥१४३॥

एवमुक्तः प्रत्युवाच त्र्यंबकं वरदं प्रभुम् । राम उवाच। का शक्तिर्मम देवेश अकृतास्त्रस्य संयुगे ॥१४४॥

निहन्तुं दानवान्सर्वान् कृतास्त्रान् युद्धदुर्मदान् । महेश्वर उवाच। गच्छ त्वं मद‌नुज्ञातो निहनिष्यसि शात्रवान् ॥१४५॥

विजित्य च रिपून्सर्वान् गुणान्प्राप्स्यसि पुष्कलान् ।
एतच्छ्रुत्वा तु वचनं प्रतिगृह्य च सर्वशः ॥१४६॥

रामः कृतस्वस्त्ययनः प्रययौ दानवान्प्रति ।
अब्रवीद्देवशत्रूंस्तान् महादर्पबलान्वितान् ॥१४७॥

मम युद्धं प्रयच्छध्वं दैत्या युद्धमदोत्कटाः ।
प्रेषितो देवदेवेन वो विजेतुं महासुराः ॥१४८॥

इत्युक्ता भार्गवेणाथ दैत्या युद्धं प्रचक्रमुः ।
स तान्निहत्य समरे दैत्यान् भार्गवनन्दनः ॥१४९॥

वज्राशनिसमस्परर्शैः प्रहारैरेव भार्गवः ।
स दानवैः क्षततनुर्जामदग्न्यो द्विजोत्तमः ॥१५०॥

संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समजायत ।
प्रीतश्च भगवान्देवः कर्मणा तेन तस्य वै ॥१५१॥

वरान् प्रादाद्बहुविधान भार्गवाय महात्मने ।
उक्तश्च देवदेवेन प्रीतियुक्तेन शूलिना ॥१५२॥

निपातात्तव शस्त्राणां शरीरे याऽभवद्रुजा ।
तया ते मानुषं कर्म व्यपोढं भृगुनन्दन ॥१५३॥

गृहाणास्त्राणि दिव्यानि मत्सकाशाद्यथेप्सितम् । दुर्योधन उवाच। ततोऽस्त्राणि समस्तानि वरांश्च मनसेप्सितान् ॥१५४॥

लब्ध्वा बहुविधान्रामः प्रणम्य शिरसा भवम् ।
अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः॥१५५॥

एवमेतत्पुरावृत्तं तदा कथितवानृषिः ।
भार्गवोऽपि ददौ दिव्यं धनुर्वेदं महात्मने ॥१५६॥

कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना ।
वृजिनं हि भवेत्किञ्चिद्यदि कर्णस्य पार्थिव ॥१५७॥

नास्मै ह्यस्त्राणि दिव्यानि प्रादास्यद्भृगुनन्दनः ।
नापि सूतकुले जातं कर्णं मन्ये कथञ्चन ॥१५८॥

देवपुत्रमहं मन्ये क्षत्रियाणां कुलोद्भवम् ।
विसृष्टमवबोधार्थं कुलस्येति मतिर्मम ॥१५९॥

सर्वथा न ह्ययं शल्य कर्णः सूतकुलोद्भवः ।
सकुण्डलं सकवचं दीर्घबाहुं महारथम् ॥१६०॥

कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति ।
यथा ह्यस्य भुजौ पीनौ नागराजकरोपमौ ॥१६१॥

वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम् ।
न त्वेष प्राकृतः कश्चित् कर्णो वैकर्तनो वृषः ।
महात्मा ह्येष राजेन्द्र रामशिष्यः प्रतापवान् ॥१६२॥

इति श्रीमहाभारते कर्णपर्वणि त्रिपुरवधोपाख्याने चतुस्त्रिंशोऽध्यायः ॥३४॥
पञ्चत्रिंशोऽध्यायः

दुर्योधन उवाच। एवं स भगवान् देवः सर्वलोकपितामहः ।
सारथ्यमकरोत्तत्र ब्रह्मा रुद्रोऽभवद्रथी ॥१॥

एवमिति ॥१॥

रथिनोऽभ्यधिको वीर कर्तव्यो रथसारथिः ।
तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान् युधि ॥२॥

यथा देवगणैस्तत्र वृतो यत्नात्पितामहः ।
तथास्माभिर्भवान् यत्नात्कर्णादभ्यधिको वृत्तः ॥३॥

यथा देवैर्महाराज ईश्वरादधिको वृतः ।
तथा भवानपि क्षिप्रं रुद्रस्येव पितामहः ॥४॥

नियच्छ तुरगान् युद्धे राधेयस्य महाद्युते । शल्य उवाच। मयाऽप्येतन्नरश्रेष्ठ बहुशो नरसिंहयोः ॥५॥

नरसिंहयोः कृष्णार्जुनयोः अतस्तयोः साम्यं मम कीर्तिकरमेवेति भावः । सुरसिंहयोरिति पाठे रुद्रपितामहयोः ॥५॥

कथ्यमानं श्रुतं दिव्यमाख्यानमतिमानुषम् ।
यथा च चक्रे सारथ्यं भवस्य प्रपितामहः ॥६॥

यथाऽसुराश्च निहता इषुणैकेन भारत ।
कृष्णस्य चापि विदितं सर्वमेतत्पुरा ह्यभूत् ॥७॥

यथा पितामहो जज्ञे भगवान्सारथिस्तदा ।
अनागतमतिक्रान्तं वेद कृष्णोऽपि तत्त्वतः ॥८॥

एतदर्थं विदित्वापि सारथ्यमुपजग्मिवान् ।
स्वयंभूरिव रुद्रस्य कृष्णः पार्थस्य भारत ॥९॥

यदि हन्याच्च कौन्तेयं सूतपुत्रः कथञ्चन ।
दृष्ट्वा पार्थं हि निहतं स्वयं योत्स्यति केशवः॥१०॥

शङ्ख-चक्र-गदापाणिर्धक्ष्यते तव वाहिनीम् ।
न चापि तस्य क्रुद्धस्य वार्ष्णेयस्य महात्मनः ॥११॥

स्थास्यते प्रत्यनीकेषु कश्चिदत्र नृपस्तव । सञ्जय उवाच। तं तथा भाषमाणं तु मद्रराजमरिन्दमः ॥१२॥

प्रत्युवाच महाबाहुरदीनात्मा सुतस्तव ।
माऽवमंस्था महाबाहो कर्णं वैकर्तनं रणे ॥१३॥

सर्वशस्त्रभृतां श्रेष्ठं सर्वशास्त्रार्थपारगम् ।
यस्य ज्यातलनिर्घोषं श्रुत्वा भयकरं महत् ॥१४॥

पाण्डवेयानि सैन्यानि विद्रवन्ति दिशो दश ।
प्रत्यक्षं ते महाबाहो यथा रात्रौ घटोत्कचः ॥१५॥

मायाशतानि कुर्वाणो हतो मायापुरस्कृतः ।
न चातिष्ठत बीभत्सुः प्रत्यनीके कथञ्चन ॥१६॥

एतांश्च दिवसान्सर्वान् भयेन महता वृतः ।
भीमसेनश्च बलवान् धनुष्कोट्याऽभिचोदितः ॥१७॥

उक्तश्च संज्ञया राजन् मूढ औदरिको यथा ।
माद्रीपुत्रौ तथा शूरौ येन जित्वा महारणे ॥१८॥

कमप्यर्थं पुरस्कृत्य न हतौ युधि मारिष ।
येन वृष्णिप्रवीरस्तु सात्यकिः सात्वतां वरः ॥१९॥

निर्जित्य समरे शूरो विरथश्च बलात्कृतः ।
सृञ्जयाश्चेतरे सर्वे धृष्टद्युम्नपुरोगमाः ॥२०॥

असकृन्निर्जिताः संख्ये स्मयमानेन संयुगे ।
तं कथं पाण्डवा युद्धे विजेष्यन्ति महारथम् ॥२१॥

यो हन्यात्समरे क्रुद्धो वज्रहस्तं पुरन्दरम् ।
त्वं च सर्वास्त्रविद्वीरः सर्वविद्यास्त्रपारगः ॥२२॥

बाहुवीर्येण ते तुल्यः पृथिव्यां नास्ति कश्चन ।
त्वं शल्यभूतः शत्रूणामविषह्यः पराक्रमे ॥२३॥

ततस्त्वमुच्यसे राजञ्शल्य इत्यरिसूदन ।
तव बाहुबलं प्राप्य न शेकुः सर्वसात्त्वताः ॥२४॥

तव बाहुबलाद्राजन् किं तु कृष्णो बलाधिकः ।
यथा हि कृष्णेन बलं धार्यं वै फाल्गुने हते ॥२५॥

तथा कर्णात्ययीभावे त्वया धार्यं महद्बलम् ।
किमर्थं समरे सैन्यं वासुदेवो न्यवारयत् ॥२६॥

किमर्थमिति । सारथ्यमात्रं प्रतिज्ञाय प्रातिभट्यं चेत्कृष्णः कुर्यात्तर्हि त्वं युध्यन् तद्वन्मिथ्याप्रतिज्ञो न भविष्यसीति भावः ॥२६॥

किमर्थं च भवान् सैन्यं न हनिष्यति मारिष ।
त्वत्कृते पदवीं गन्तुमिच्छेयं युधि मारिष ।
सोदराणां च वीराणां सर्वेषां च महीक्षिताम् ॥२७॥

पदवीमानृण्यम् ॥२७॥

शल्य उवाच। यन्मां ब्रवीषि गान्धारे अग्रे सैन्यस्य मानद ।
विशिष्टं देवकीपुत्रात् प्रीतिमानस्म्यहं त्वयि ॥२८॥

एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः ।
युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे ॥२९॥

समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति ।
उत्सृजेयं यथाश्रद्धमहं वाचोऽस्य सन्निधौ ॥३०॥

सञ्जय उवाच। तथेति राजन्पुत्रस्ते सह कर्णेन मारिष ।
अब्रवीन्मद्रराजानं सर्वक्षत्रस्य सन्निधौ ॥३१॥

सारथ्यस्याभ्युपगमाच्छल्येनाश्वासितस्तदा ।
दुर्योधनस्तदा हृष्टः कर्णं तमभिषस्वजे ॥३२॥

अब्रवीच्च पुनः कर्णं स्तूयमानः सुतस्तव ।
जहि पार्थान्रणे सर्वान्महेन्द्रो दानवानिव ॥३३॥

स शल्येनाभ्युपगते हयानां सन्नियच्छने ।
कर्णो हृष्टमना भूयो दुर्योधनमभाषत ॥३४॥

नातिहृष्टमना ह्येष मद्रराजोऽभिभाषते ।
राजन्मधुरया वाचा पुनरेनं ब्रवीहि वै ॥३५॥

ततो राजा महाप्राज्ञः सर्वास्त्रकुशलो बली ।
दुर्योधनोऽब्रवीच्छल्यं मद्रराजं महीपतिम् ॥३६॥

पूरयन्निव घोषेण मेघगम्भीरया गिरा ।
शल्य कर्णोऽर्जुनेनाद्य योद्धव्यमिति मन्यते ॥३७॥

तस्य त्वं पुरुषव्याघ्र नियच्छ तुरगान् युधि ।
कर्णो हत्वेतरान्सर्वान् फाल्गुनं हन्तुमिच्छति ॥३८॥

तस्याभीषुग्रहे राजन् प्रयाचे त्वां पुनः पुनः ।
पार्थस्य सचिवः कृष्णो यथाभीषुग्रहो वरः ।
तथा त्वमपि राधेयं सर्वतः परिपालय ॥३९॥

सञ्जय उवाच। ततः शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत् ।
दुर्योधनममित्रघ्नं प्रीतो मद्राधिपस्तदा ॥४०॥

शल्य उवाच। एवं चेन्मन्यसे राजन् गान्धारे प्रियदर्शन ।
तस्मात्ते यत्प्रियं किञ्चित्तत्सर्वं करवाण्यहम् ॥४१॥

यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित् ।
तत्र सर्वात्मना युक्तो वक्ष्ये कार्यं परन्तप ॥४२॥

वक्ष्ये वोढास्मि ॥४२॥

यत्तु कर्णमहं ब्रूयां हितकामः प्रियाप्रिये ।
मम तत् क्षमतां सर्वं भवान्कर्णश्च सर्वशः ॥४३॥

कर्ण उवाच। ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः ।
तथा नित्यं हिते युक्तो मद्रराज भवस्व नः ॥४४॥

शल्य उवाच। आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः ।
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ॥४५॥

आत्मनिन्दापरस्तवावपि श्रेयसां निन्द्यौ किमुतात्मपूजापरनिन्दे तदुभयमहं करोमीति भावः ॥४५॥

यत्तु विद्वन्प्रवक्ष्यामि प्रत्ययार्थमहं तव ।
आत्मनस्तव संयुक्तं तन्निबोध यथातथम् ॥४६॥

अहं शक्रस्य सारथ्ये योग्यो मातलिवत्प्रभो ।
अप्रमादात्प्रयोगाच्च ज्ञानविद्याचिकित्सनैः ॥४७॥

अप्रमादोऽवधानं प्रयोगः अश्वप्रेरणम् । ज्ञानम् आगामिदोषावेक्षणम् विद्या तत्परिहारज्ञानं चिकित्सनं दोषपरिहारसामर्थ्यम् ॥४७॥

ततः पार्थेन संग्रामे युध्यमानस्य तेऽनघ ।
वाहयिष्यामि तुरगान् ‌विज्वरो भव सूतज ॥४८॥

इति श्रीमहाभारते कर्णपर्वणि शल्यसारथ्यस्वीकारे पञ्चत्रिंशोऽध्यायः ॥३५॥
षट्त्रिंशोऽध्यायः

दुर्योधन उवाच। अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति ।
कृष्णादभ्यधिको यन्ता देवेशस्येव मातलिः ॥१॥

अयमिति ॥१॥

यथा हरिहयैर्युक्तं संगृह्णाति स मातलिः ।
शल्यस्तथा तवाद्यायं संयन्ता रथवाजिनाम् ॥२॥

हरिहयैः इन्द्रतुरगैर्युक्तं रथम् ॥२॥

योधे त्वयि रथस्थे च मद्रराजे च सारथौ ।
रथश्रेष्ठो ध्रुवं संख्ये पार्थानभिभविष्यति ॥३॥

सञ्जय उवाच। ततो दुर्योधनो भूयो मद्रराजं तरस्विनम् ।
उवाच राजन्संग्रामेऽध्युषिते पर्युपस्थिते ॥४॥

अभ्युषिते प्रातःकाले ॥४॥

कर्णस्य यच्छ संग्रामे मद्रराज हयोत्तमान् ।
त्वयाऽभिगुप्तो राधेयो विजेष्यति धनञ्जयम् ॥५॥

इत्युक्तो रथमास्थाय तथेति प्राह भारत ।
शल्येऽभ्युपगते कर्णः सारथिं सुमनाऽब्रवीत् ॥६॥

त्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन् ।
ततो जैत्रं रथवरं गन्धर्वनगरोपमम् ॥७॥

विधिवत्कल्पितं भद्रं जयेत्युक्त्वा न्यवेदयत् ।
तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि ॥८॥

संपादितं ब्रह्मविदा पूर्वमेव पुरोधसा ।
कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम् ॥९॥

समीपस्थं मद्रराजमारोह त्वमथाब्रवीत् ।
ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत् ॥१०॥

आरुरोह महातेजाः शल्यः सिंह इवाचलम् ।
ततः शल्याश्रितं दृष्ट्वा कर्णः स्वं रथमुत्तमम् ॥११॥

अध्यतिष्ठद्यथाऽम्भोदं विद्युत्वन्तं दिवाकरः ।
तावेकरथमारूढावादित्याग्निसमत्विषौ ॥१२॥

अभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि ।
संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तमौ ॥१३॥

ऋत्विक्सदस्यैरिन्द्राग्नी स्तूयमानाविवाध्वरे ।
स शल्यसंगृहीताश्वे रथे कर्णः स्थितो बभौ ॥१४॥

धनुर्विस्फारयन् घोरं परिवेषीव भास्करः ।
आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान् ॥१५॥

प्रबभौ पुरुषव्याघ्रो मन्द्रस्थ इवांशुमान् ।
तं रथस्थं महाबाहुं युद्धायामिततेजसम् ॥१६॥

दुर्योधनस्तु राधेयमिदं वचनमब्रवीत् ।
अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे ॥१७॥

कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम् ।
मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ ॥१८॥

अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम् ।
ताभ्यां यदकृतं वीर वीरकर्म महामृधे ॥१९॥

तत् कर्म कुरु राधेय वज्रपाणिरिवापरः ।
गृहाण धर्मराजं वा जहि वा त्वं धनञ्जयम् ॥२०॥

भीमसेनं च राधेय माद्रीपुत्रौ यमावपि ।
जयश्च तेऽस्तु भद्रं ते प्रयाहि पुरुषर्षभ ॥२१॥

पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात् ।
ततस्तूर्यसहस्राणि भेरीणामयुतानि च ॥२२॥

वाद्यमानान्यराजन्त मेघशब्दो यथा दिवि ।
प्रतिगृह्य तु तद्वाक्यं रथस्थो रथसत्तमः ॥२३॥

अभ्यभाषत राधेयः शल्यं युद्धविशारदम् ।
चोदयाश्वान्महाबाहो यावद्धन्मि धनञ्जयम् ॥२४॥

भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम् ।
अद्य पश्यतु मे शल्य बाहुवीर्यं धनञ्जयः ॥२५॥

अस्यतः कङ्कपत्राणां सहस्राणि शतानि च ।
अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान् ॥२६॥

पाण्डवानां विनाशाय दुर्योधनजयाय च । शल्य उवाच। सूतपुत्र कथं नु त्वं पाण्डवानवमन्यसे ॥२७॥

सर्वास्त्रज्ञान्महेष्वासान् सर्वानेव महाबलान् ।
अनिवर्तिनो महाभागानजय्यान्सत्यविक्रमान् ॥२८॥

अपि सन्तनयेयुर्ये भयं साक्षाच्छतक्रतोः ।
यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः ॥२९॥

राधेय गाण्डिवस्याजौ तदा नैवं वदिष्यसि ।
यदा द्रक्ष्यसि भीमेन कुञ्जरानीकमाहवे ॥३०॥

विशीर्णदन्तं निहतं तदा नैवं वदिष्यसि ।
यदा द्रक्ष्यसि संग्रामे धर्मपुत्रं यमौ तथा ॥३१॥

शितैः पृषत्कैः कुर्वाणानभ्रच्छायामिवाम्बरे ।
अस्यतः क्षिण्वतश्चारीन् लघुहस्तान्दुरासदान् ।
पार्थिवानपि चान्यांस्त्वं तदा नैवं वदिष्यसि ॥३२॥

सञ्जय उवाच। अनादृत्य तु तद्वाक्यं मद्रराजेन भाषितम् ।
याहीत्येवाब्रवीत्कर्णो मद्रराजं तरस्विनम् ॥३३॥

इति श्रीमहाभारते कर्णपर्वणि शल्यसंवादे षट्त्रिंशोऽध्यायः ॥३६॥
सप्तत्रिंशोऽध्यायः

सञ्जय उवाच। दृष्ट्वा कर्णं महेष्वासं युयुत्सुं समवस्थितम् ।
चुक्रुशुः कुरवः सर्वे हृष्टरूपाः समन्ततः ॥१॥

दृष्ट्वेति ॥१॥

ततो दुन्दुभिनिर्घोषैर्भेरीणां निनदेन च ।
बाणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् ॥२॥

तरस्विनाम् अश्वादीनाम् ॥२॥

निर्ययुस्तावका युद्धे मृत्युं कृत्वा निवर्तनम् ।
प्रयाते तु ततः कर्णे योधेषु मुदितेषु च ॥३॥

चचाल पृथिवी राजन् ववाश च सुविस्तरम् ।
निःसरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः ॥४॥

ववाश शब्दं चकार । ररासेतिपाठेऽपि स एवार्थः । निःसरन्तो युद्धार्थमिति शेषः । सूर्यात्सूर्यमारभ्य' सूर्यादयोऽन्योन्यं युध्यन्तीत्यर्थः ॥४॥

उल्कापाताश्च संजज्ञुर्दिशां दाहास्तथैव च ।
शुष्काशन्यश्च संपेतुर्ववुर्वाताश्च भैरवाः॥५॥

मृगपक्षिगणाश्चैव पृतनां बहुशस्तव ।
अपसव्यं तदा चक्रुर्वेदयन्तो महाभयम् ॥६॥

प्रथितस्य च कर्णस्य निपेतुस्तुरगा भुवि ।
अस्थिवर्षं च पतितमन्तरिक्षाद्भयानकम् ॥७॥

जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे ।
अश्रूणि च व्यमुञ्चन्त वाहनानि विशांपते ॥८॥

एते चान्ये च बहव उत्पातास्तत्र दारुणाः ।
समुत्पेतुर्विनाशाय कौरवाणां सुदारुणाः ॥९॥

न च तान् गणयामासुः सर्वे दैवेन मोहिताः ।
प्रस्थितं सूतपुत्रं च जयेत्यूचुर्नराधिपाः ।
निर्जितान्पाण्डवांश्चैव मेनिरे तत्र कौरवाः ॥१०॥

ततो रथस्थः परवीरहन्ता भीष्म-द्रोणावतिवीर्यौ समीक्ष्य ।
समुज्ज्वलन् भास्करपावकाभो वैकर्तनोऽसौ रथकुञ्जरो नृप ॥११॥

भीष्मद्रोणौ अतिक्रान्तं वीर्यं ययोस्तावतिवीर्यौ समीक्ष्य स्वकृत्यमालोच्य जगादेत्युत्तरेणान्वयः ॥११॥

स शल्यमाभाष्य जगाद वाक्यं पार्थस्य कर्मातिशयं विचिन्त्य ।
मानेन दर्पण विदह्यमानः क्रोधेन दीप्यन्निव निःश्वसंश्च ॥१२॥

आभाष्य भो शल्य इति सम्बोध्य ॥१२॥

नाहं महेन्द्रादपि वज्रपाणेः क्रुद्धाद्बिभेम्यायुधवान्रथस्थः ।
दृष्ट्वा हि भीष्मप्रमुखान् शयानानतीव मां ह्यस्थिरता जहाति ॥१३॥

अस्थिरता जहातीत्यचञ्चलोऽस्मीत्यर्थः ॥१३॥

महेन्द्र-विष्णुप्रतिमावनिन्दितौ रथाश्व-नागप्रवरप्रमाथिनौ ।
अवध्यकल्पौ निहतौ यदा परैस्ततो न मेऽप्यस्ति रणेऽद्य साध्वसम् ॥१४॥

ततोऽपि मेऽद्य साध्वसं भयं नास्तीति योजना ॥१४॥

समीक्ष्य संख्येऽतिबलान्नराधिपान् ससूत-मातङ्ग-रथान्परैर्हतान् ।
कथं न सर्वानहितान्रणेऽवधीन्महास्त्रविद्ब्राह्मणपुङ्गवो गुरुः ॥१५॥

स संस्मरन् द्रोणमहं महाहवे ब्रवीमि सत्यं कुरवो निबोधत ।
न वा मदन्यः प्रसहेद्रणेऽर्जुनं समागतं मृत्युमिवोग्ररूपिणम् ॥१६॥

शिक्षा प्रसादश्च बलं धृतिश्च द्रोणे महास्त्राणि च संनतिश्च ।
स चेदगान्मृत्युवशं महात्मा सर्वानन्यानातुरानद्य मन्ये ॥१७॥

आतुरान् आसन्नमृत्यून् ॥१७॥

नेह ध्रुवं किञ्चिदपि प्रचिन्तयन् विद्यां लोके कर्मणो दैवयोगात् ।
सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीताद्य गुरौ निपातिते ॥१८॥

विद्यां जानीयां भावं श्वोऽहं स्थास्यामीति निश्चयम् ॥१८॥

न नूनमस्त्राणि बलं पराक्रमः क्रियाः सुनीतं परमायुधानि वा ।
अलं मनुष्यस्य सुखाय वर्तितुं तथा हि युद्धे निहतः परैर्गुरुः ॥१९॥

अस्त्रादीनि मनुष्यस्य सुखाय वर्तितुं नालमिति सम्बन्धः ॥१९॥

हुताशनादित्यसमानतेजसं पराक्रमे विष्णु-पुरन्दरोपमम् ।
नये बृहस्पत्युशनोः सदा समं न चैनमस्त्रं तदुपास्त दुःसहम् ॥२०॥

उशनोः उशनसोः उपास्त उपातिष्ठत त्रातुमिति शेषः । अस्त्रम् अस्त्रादि ॥२०॥

संप्राक्रुष्टे रुदितस्त्री-कुमारे पराभूते पौरुषे धार्तराष्ट्रे ।
मया कृत्यमिति जानामि शल्य प्रयाहि तस्माद्द्विषतामनीकम् ॥२१॥

संप्राक्रुष्टे सम्यगाक्रोशवति पराभूते निरस्ते धार्तराष्ट्रे धृतराष्ट्रपुत्रसम्बन्धिनि पौरुषे यत्ने ॥२१॥

यत्र राजा पाण्डवः सत्यसन्धो व्यवस्थितो भीमसेनार्जुनौ च ।
वासुदेवः सात्यकिः सृञ्जयाश्च यमौ च कस्तान् विषहेन्मदन्यः ॥२२॥

तस्मात्क्षिप्रं मद्रपते प्रयाहि रणे पञ्चालान्पाडवान्सृञ्जयांश्च ।
तान्वा हनिष्यामि समेत्य संख्ये यास्यामि वा द्रोणपथा यमाय ॥२३॥

द्रोणपथा द्रोणपथेन ॥२३॥

नन्वेवाहं न गमिष्यामि मध्ये तेषां शूराणामिति मां शल्य विद्धि ।
मित्रद्रोहो मर्षणीयो न मेऽयं त्यक्त्वा प्राणाननुयास्यामि द्रोणम् ॥२४॥

वैयाघ्रचर्माणं व्याघ्रचर्मपरिवृतम् ॥२७॥

प्राज्ञस्य मूढस्य च जीवितान्ते नास्ति प्रमोक्षोऽन्तकसत्कृतस्य ।
अतो विद्वन्नभियास्यामि पार्थान् दिष्टं न शक्यं व्यतिवर्तितुं वै ॥२५॥

कल्याणवृत्तः सततं हि राजा वैचित्रवीर्यस्य सुतो ममासीत् ।
तस्यार्थसिद्ध्यर्थमहं त्यजामि प्रियान् भोगान् दुस्त्यजं जीवितं च ॥२६॥

वैयाघ्रचर्माणमकूजनाक्षं हैमं त्रिकोशं रजतत्रिवेणुम् ।
रथप्रबर्हं तुरगप्रबर्हैर्युक्तं प्रादान्मह्यमिमं हि रामः ॥२७॥

वैयाघ्रचर्माणं व्याघ्रचर्मपरिवृतम् ॥२७॥

धनूंषि चित्राणि निरीक्ष्य शल्य ध्वजान् गदाः सायकांश्चोग्ररूपान् ।
असिं च दीप्तं परमायुधं च शङ्खं च शुभ्रं स्वनवन्तमुग्रम् ॥२८॥

पताकिनं वज्रनिपातनिःस्वनं सिताश्वयुक्तं शुभतूणशोभितम् ।
इमं समास्थाय रथं रथर्षभं रणे हनिष्याम्यहमर्जुनं बलात् ॥२९॥

तं चेन्मृत्युः सर्वहरोऽभिरक्षेत् सदाऽप्रमत्तः समरे पाण्डुपुत्रम् ।
तं वा हनिष्यामि रणे समेत्य यास्यामि वा भीष्ममुखो यमाय ॥३०॥

अप्रमत्त इति च्छेदः । भीष्ममुखः भीष्माभिमुखः ॥३०॥

यम-वरुण-कुबेर-वासवा वा यदि युगपत्सगणा महाहवे ।
जुगुपिषव इहाद्य पाण्डवं किमु बहुना सह तैर्जयामि तम् ॥३१॥

जुगुपिषवः गोप्तुमिच्छवः ॥३१॥

सञ्जय उवाच। इति रणरभसस्य कत्थतस्तदुत निशम्य वचः सः मद्रराट् ।
अवहसदवमन्य वीर्यवान् प्रतिषिषिधे च जगाद चोत्तरम् ॥३२॥

रणरसभस्य रणोत्कटस्य ॥३२॥

शल्य उवाच। विरम विरम कर्ण कत्थनादतिरभसोऽप्यतिवाचमुक्तवान् ।
क्व च हि नरवरो धनञ्जयः क्व पुनरहो पुरुषाधमो भवान् ॥३३॥

अतिरभसोऽपि त्वमतिवाचं स्वसामर्थ्यादधिकाम् ॥३३॥

यदुसदनमुपेन्द्रपालितं त्रिदशमिवामरराजरक्षितम् ।
प्रसभमतिविलोड्य को हरेत् पुरुषवरावरजामृतेऽर्जुनात् ॥३४॥

पुरुषवरस्य कृष्णस्यावरजां कनीयसीं सुभद्राम् ॥३४॥

त्रिभुवनविभुमीश्वरेश्वरं क इह पुमान् भवमाह्वयेद्युधि ।
मृगवधकलहे ऋतेऽर्जुनात् सुरपतिवीर्यसमप्रभावतः ॥३५॥

असुर-सुर-महोरगान्नरान् गरुड-पिशाच-सयक्षराक्षसान् ।
इषुभिरजयदग्निगौरवात् स्वभिलषितं च हविर्ददौ जयः ॥३६॥

स्मरसि ननु यदा परैर्हृतः स च धृतराष्ट्रसुतोऽपि मोक्षितः ।
दिनकरसदृशैः शरोत्तमैर्युधा कुरुषु बहून्विनिहत्य तानरीन् ॥३७॥

स्मरसीति विषमं छन्दः ॥३७॥

प्रथममपि पलायिते त्वयि प्रियकलहा धृतराष्ट्रसूनवः ।
स्मरसि ननु यदा प्रमोचिताः खचरगणानवजित्य पाण्डवैः ॥३८॥

खचरगणान् गन्धर्वान् ॥३८॥

समुदितबलवाहनाः पुनः पुरुषवरेण जिताः स्थ गोग्रहे ।
सगुरुगुरुसुताः सभीष्मकाः किमु न जितः स तदा त्वयाऽर्जुनः ॥३९॥

इदमपरमुपस्थितं पुनस्तव निधनाय सुयुद्धमद्य वै ।
यदि न रिपुभयात्पलायसे समरगतोऽद्य हतोऽसि सूतज ॥४०॥

सञ्जय उवाच। इति बहु परुषं प्रभाषति प्रमनसि मद्रपतौ रिपुस्तवम् ।
भृशमभिरुषितः परन्तपः कुरुपृतनापतिराह मद्रपम् ॥४१॥

कर्ण उवाच। भवतु भवतु किं विकत्थसे ननु मम तस्य हि युद्धमुद्यतम् ।
यदि स जयति मामिहाहवे तत इदमस्तु सुकत्थितं तव ॥४२॥

सञ्जय उवाच। एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् ।
याहि शल्येति चाप्येनं कर्णः प्राह युयुत्सया ॥४३॥

स रथः प्रययौ शत्रून् श्वेताश्वः शल्यसारथिः ।
निघ्नन्नमित्रान्समरे तमो घ्नन्सविता यथा ॥४४॥

ततः प्रायात्प्रीतिमान्वै रथेन वैयाघ्रेण श्वेतयुजाऽथ कर्णः ।
स चालोक्य ध्वजिनीं पाण्डवानां धनञ्जयं त्वरया पर्यपृच्छत् ॥४५॥

श्वेतयुजा श्वेताश्वयुजा ॥४५॥
इति श्रीमहाभारते कर्णपर्वणि कर्णशल्यसंवादे सप्तत्रिंशोऽध्यायः ॥३७॥
अष्टत्रिंशोऽध्यायः

सञ्जय उवाच। प्रयाणे च ततः कर्णो हर्षयन्वाहिनीं तव ।
एकैकं समरे दृष्ट्वा पाण्डवान्पर्यपृच्छत ॥१॥

प्रयाणे इति ॥१॥

यो मामद्य महात्मानं दर्शयेच्छ्वेतवाहनम् ।
तस्मै दद्यामभिप्रेतं धनं यन्मनसेच्छति ॥२॥

न चेत्तद‌भिमन्येत तस्मै दद्यामहं पुनः ।
शकटं रत्नसंपूर्णं यो मे ब्रूयाद्धनञ्जयम् ॥३॥

अभिमन्येत अल्पमित्यवजानीत ॥३॥

न चेत्तद‌भिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
शतं दद्यां गवां तस्मै नैत्यकं कांस्यदोहनम् ॥४॥

शतं ग्रामवरांश्चैव दद्यामर्जुनदर्शिने ।
तथा तस्मै पुनर्दद्यां श्वेतमश्वतरीरथम् ॥५॥

युक्तमञ्जनकेशीभिर्यो मे ब्रूयाद्धनञ्जयम् ।
न चेत्तद‌भिमन्येत पुरुषोऽर्जुनद‌र्शिवान् ॥६॥

अञ्जनकेशीभिः कृष्णकेशीभिरश्वतरीभिर्युवतीभिर्वा युक्तम् ॥६॥

अन्यं वाऽस्मै पुनर्दद्यां सौवर्णं हस्तिषड्गवम् ।
तथाप्यस्मै पुनर्दद्यां स्त्रीणां शतमलङ्कृतम् ॥७॥

हस्तिषङ्गवं इस्तिषट्कं ‘हस्तिषङ्गवमिच्छन्ति वीराः षट्के च दन्तिनाम्’ इति प्राञ्चः । अन्यं वा सौवर्णरथमिति शेषः । हस्तितुल्याः षट् ‌गाव उक्षाणो यस्मिन् तं षट् हस्तिन एव गोवत् वोढारो यस्य तादृशम् ॥७॥

श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम् ।
न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ॥८॥

श्यामानाम् अप्रजातानां निष्कमुरोभूषणम् ॥८॥

तस्मै दद्याञ्शतं नागान् शतं ग्रामाञ्शतं रथान् ।
सुवर्णस्य च मुख्यस्य हयाग्र्याणां शतं शतान् ॥९॥

शतं शतान् दशसहस्राणि ॥९॥

ऋद्ध्या गुणैः सुदान्तांश्च धुर्यवाहान्सुशिक्षितान् ।
तथा सुवर्णशृङ्गीणां गोधेनूनां चतुःशतम् ॥१०॥

ऋद्ध्या पुष्ट्या । सुदान्तान् विनीतान् । धुर्यवाहान् रथोद्वहनक्षमान् ॥१०॥

दद्यां तस्मै सवत्सानां यो मे ब्रूयाद्धनञ्जयम् ।
न चेत्त‌दभिमन्येत पुरुषोऽर्जुनदर्शिवान् ॥११॥

अन्यदस्मै वरं दद्यां श्वेतान् पञ्चशतान् हयान् ।
हेमभाण्डपरिच्छन्नान्सुमृष्टमणिभूषणान् ॥१२॥

भाण्डमाभरणम् ॥१२॥

सुदान्तानपि चैवाहं दद्यामष्टाद‌शापरान् ।
रथं च शुभ्रं सौवर्णं दद्यां तस्मै सलङ्कृतम् ॥१३॥

युक्तं परमकाम्बोजैर्यो मे ब्रूयाद्धनञ्जयम् ।
न चेत्त‌दभिमन्येत पुरुषोऽर्जुनदर्शिवान् ॥१४॥

अन्यदस्मै वरं दद्यां कुञ्जराणां शतानि षट् ।
काञ्चनैर्विविधैर्भाण्डैराच्छन्नान् हेममालिनः ॥१५॥

उत्पन्नानपरान्तेषु विनीतान् हस्तिशिक्षकैः ।
न चेत्तद‌भिमन्येत पुरुषोऽर्जुनदर्शिवान् ॥१६॥

अपरान्तेषु पश्चिमकच्छेषु ॥१६॥

अन्यदस्मै वरं दद्यां वैश्यग्रामांश्चतुर्दश ।
सुस्फीतान् धनसंयुक्तान् प्रत्यासन्नवनोदकान् ॥१७॥

अकुतोभयान् सुसंपन्नान् राजभोज्यांश्चतुर्दश ।
दासीनां निष्ककण्ठीनां मागधीनां शतं तथा ।
प्रत्यग्रवयसां दद्यां यो मे बूयाद्धनञ्जयम् ॥१८॥

प्रत्यग्रवयसाम् अभिनवयौवनानाम् ॥१८॥

न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् ।
अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम् ॥१९॥

पुत्र-दारान्विहारांश्च यदन्यद्वित्तमस्ति मे ।
तच्च तस्मै पुनर्दद्यां यद्यच्च मनसेच्छति ॥२०॥

हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः ।
तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ ॥२१॥

एता वाचः सुबहुशः कर्ण उच्चारयन् युधि ।
दध्मौ सागरसंभूतं सुस्वरं शङ्खमुत्तमम् ॥२२॥

ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु ।
दुर्योधनो महाराज संहृष्टः सानुगोऽभवत् ॥२३॥

ततो दुंदुभिनिर्घोषो मृदङ्गानां च सर्वशः ।
सिंहनादः सवादित्रः कुञ्जराणां च निःस्वनः ॥२४॥

प्रादुरासीत्तदा राजन्सैन्येषु पुरुषर्षभ ।
योधानां संप्रहृष्टानां तथा समभवत्स्वनः ॥२५॥

तथा प्रहृष्टे सैन्ये तु प्लवमानं महारथम् ।
विकत्थमानं च तदा राधेयमरिकर्षणम् ।
मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत ॥२६॥

प्लवमानं प्रयान्तम् ॥२६॥
इति श्रीमहाभारते कर्णपर्वणि कर्णावलेपे अष्टत्रिंशोऽध्यायः ॥३८॥
एकोनचत्वारिंशोऽध्यायः

शल्य उवाच। मा सूतपुत्र दानेन सौवर्णं हस्तिषड्गवम् ।
प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनञ्जयम् ॥१॥

मा सूतेति ॥१॥

बाल्यादिह त्वं त्यजसि वसु वैश्रवणो यथा ।
अयत्नेनैव राधेय द्रष्टास्यद्य धनञ्जयम् ॥२॥

वसु वित्तं द्रष्टासि द्रक्ष्यसि ॥२॥

परान्सृजसि यद्वित्तं किञ्चित्त्वं बहु मूढवत् ।
अपात्रदाने ये दोषास्तान्मोहान्नावबुध्यसे ॥३॥

परासृजसि वृथा त्यजसि ॥३॥

यत्त्वं प्रेरयसे वित्तं बहु तेन खलु त्वया ।
शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः ॥४॥

यच्च प्रार्थयसे हन्तुं कृष्णौ मोहाद्वृथैव तत् ।
न हि शुश्रुम सम्मर्दे क्रोष्ट्रा सिंहौ निपातितौ ॥५॥

अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते ।
ये त्वां निवारयन्त्याशु प्रपतन्तं हुताशने ॥६॥

कार्याकार्यं न जानीषे कालपक्वोऽस्यसंशयम् ।
बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः ॥७॥

अबद्धमनर्थकम् अकर्णीयम् अनाकर्णनीयम् ॥७॥

समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम् ।
गिर्यग्राद्वा निपतनं तादृक् तव चिकीर्षितम् ॥८॥

सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः ।
धनञ्जयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि ॥९॥

सहितो युध्यस्व न त्वेकाकी ॥९॥

हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वां न हिंसया ।
श्रद्धस्वैवं मया प्रोक्तं यदि तेऽस्ति जिजीविषा ॥१०॥

एवं श्रद्धस्व यदि जिजीविषा तेऽस्ति अन्यथा मरिष्यसि ॥१०॥

कर्ण उवाच। स्वबाहुवीर्यमाश्रित्य प्रार्थयाम्यर्जुनं रणे ।
त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छास ॥११॥

न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत् ।
अपीन्द्रो वज्रमुद्यम्य किमु मर्त्यः कथञ्चन ॥१२॥

सञ्जय उवाच। इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः ।
चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः ॥१३॥

यदा वै त्वां फाल्गुनवेगयुक्ता ज्याचोदिता हस्तवता विसृष्टाः ।
अन्वेतारः कङ्कपत्राः शिताग्रास्तदा तप्स्यस्यर्जुनस्यानुयोगात् ॥१४॥

यदा दिव्यं धनुरादाय पार्थः प्रतापयन् पृतनां सव्यसाची ।
त्वां मर्चयिष्यन्निशितैः पृषत्कैस्तदा पश्चात्तप्स्यसे सूतपुत्र ॥१५॥

बालश्चन्द्रं मातुरङ्के शयानो यथा कश्चित्प्रार्थयतेऽपहर्तुम् ।
तद्वन्मोहात् द्योतमानं रथस्थं संप्रार्थयस्यर्जुनं जेतुमद्य ॥१६॥

त्रिशूलमाश्रित्य सुतीक्ष्णधारं सर्वाणि गात्राणि विघर्षसि त्वम् ।
सुतीक्ष्णधारोपमकर्मणा त्वं युयुत्ससे योऽर्जुनेनाद्य कर्ण ॥१७॥

क्रुद्धं सिंहं केसरिणं बृहन्तं बालो मूढः क्षुद्रमृगस्तरस्वी ।
समाह्वयेत्तद्वदेतत्तवाद्य समाह्वानं सूतपुत्रार्जुनस्य ॥१८॥

मा सूतपुत्राह्वय राजपुत्रं महावीर्यं केसरिणं यथैव ।
वने शृगालः पिशितेन तृप्तो मा पार्थमासाद्य विनंक्ष्यसि त्वम् ॥१९॥

ईषादन्तं महानागं प्रभिन्नकरटामुखम् ।
शशको ह्वयसे युद्धे कर्ण पार्थं धनञ्जयम् ॥२०॥

बिलस्थं कृष्णसर्पं त्वं बाल्यात्काष्ठेन विध्यसि ।
महाविषं पूर्णकोपं यत्पार्थं योद्धुमिच्छसि ॥२१॥

सिंहं केसरिणं क्रुद्धमतिक्रम्याभिनर्दसे ।
शृगाल इव मूढस्त्वं नृसिंहं कर्ण पाण्डवम् ॥२२॥

सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम् ।
भोगी वा ह्वयसे पाते कर्ण पार्थं धनञ्जयम् ॥२३॥

भोगी सर्पः । पाते पतनार्थम् ॥२३॥

सर्वांभसां निधिं भीमं मूर्तिमन्तं झषायुतम् ।
चन्द्रोदये विवर्धन्तमप्लवः सन् तितीर्षसि ॥२४॥

झषैर्मीनैरासमन्ताद्युतं झषायुतम्। अप्लव बाहुभ्यामित्यर्थः ॥२४॥

ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम् ।
वत्स आह्वयसे युद्धे कर्ण पार्थं धनञ्जयम् ॥२५॥

दुन्दुभिग्रीवं दुन्दुभिस्वनकण्ठम् ॥२५॥

महामेघं महाघोरं दर्दुरः प्रतिनर्दसि ।
कामतोयप्रदं लोके नरपर्जन्यमर्जुनम् ॥२६॥

यथा च स्वगृहस्थः श्वा व्याघ्रं वनगतं भषेत् ।
तथा त्वं भषसे कर्ण नरव्याघ्रं धनञ्जयम् ॥२७॥

शृगालोऽपि वने कर्ण शशैः परिवृतो वसन् ।
मन्यते सिंहमात्मानं यावत्सिहं न पश्यति ॥२८॥

तथा त्वमपि राधेय सिंहमात्मानमिच्छसि ।
अपश्यन् शत्रुदमनं नरव्याघ्रं धनञ्जयम् ॥२९॥

व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि ।
समास्थितावेकरथे सूर्याचन्द्रमसाविव ॥३०॥

यावद्गाण्डीवघोषं त्वं न शृणोषि महाहवे ।
तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि ॥३१॥

रथशब्दधनुःशब्दैर्नादयन्तं दिशो दश ।
नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि ॥३२॥

नित्यमेव शृगालस्त्वं नित्यं सिंहो धनञ्जयः ।
वीरप्रद्वेषणान्मूढ तस्मात्क्रोष्टेव लक्ष्यसे ॥३३॥

यथाखुः स्याद्बिडालश्च श्वा व्याघ्रश्च बलाबले ।
यथा शृगालः सिंहश्च यथा च शशकुञ्जरौ ॥३४॥

यथाऽनृतं च सत्यं च यथा चापि धिषामृते ।
तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः ॥३५॥

इति श्रीमहाभारते कर्णपर्वणि कर्णशल्याधिक्षेपे एकोनचत्वारिंशोऽध्यायः ॥३९॥
चत्वारिंशोऽध्यायः

सञ्जय उवाच। अधिक्षिप्तस्तु राधेयः शल्येनामिततेजसा ।
शल्यमाह सुसंक्रुद्धो वाक्शल्यमवधारयन् ॥१॥

अधीति । वाक्शल्यत्वादेवायं शल्यनामेति निश्चिन्वन् ॥१॥

कर्ण उवाच। गुणान् गुणवतां शल्य गुणवान्वेत्ति नागुणः ।
त्वं तु शल्य गुणैर्हीनः किं ज्ञास्यसि गुणागुणम् ॥२॥

अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः शरान् ।
अहं शल्याभिजानामि विक्रमं च महात्मनः ॥३॥

तथा कृष्णस्य माहात्म्यमृषभस्य महीक्षिताम् ।
यथाऽहं शल्य जानामि न त्वं जानासि तत्तथा ॥४॥

एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे ।
जानन्नेवाह्वये युद्धे शल्य गाण्डीवधारिणम् ॥५॥

अस्ति वाऽयमिषुः शल्य सुपुङ्खो रक्तभोजनः ।
एकतूणीशयः पत्री सुधौतः समलङ्कृतः ॥६॥

शेते चन्दनचूर्णेषु पूजितो बहुलाः समाः ।
आहेयो विषवानुग्रो नराश्वद्विपसंघहा ॥७॥

आहेयः सर्पमयः ॥७॥

घोररूपो महारौद्रस्तनुत्रास्थिविदारणः ।
निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम् ॥८॥

तमहं जातु नास्येयमन्यस्मिन् फाल्गुनादृते ।
कृष्णाद्वा देवकीपुत्रात्सत्यं चापि शृणुष्व मे ॥९॥

नास्येयं न क्षिपेयम् ॥९॥

तेनाहमिषुणा शल्य वासुदेवधनञ्जयौ ।
योत्स्ये परमसंक्रुद्धस्तत्कर्म सदृशं मम ॥१०॥

सर्वेषां वृष्णिवीराणां कृष्णे लक्ष्मीः प्रतिष्ठिता ।
सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः ॥११॥

उभयं तु समासाद्य को निवर्तितुमर्हति ।
तावेतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ ॥१२॥

मामेकमभिसंयातौ सुजातं पश्य शल्य मे ।
पितृष्वसा मातुलजौ भ्रातरावपराजितौ ॥१३॥

सुजातं शोभनं जन्म ॥१३॥

मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया ।
अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ ॥१४॥

प्रोतौ एक सूत्रे मणी इव प्रेमसम्बद्धौ ॥१४॥

भीरूणां त्रासजननं शल्य हर्षकरं मम ।
त्वं तु दुष्प्रकृतिर्मूढो महायुद्धेष्वकोविदः ॥१५॥

त्रासजननमिति समुदायापेक्षया सामान्येन निर्देशः ॥१५॥

भयावदीर्णः संत्रासादबद्धं बहु भाषसे ।
संस्तौषि तौ तु केनापि हेतुना त्वं कुदेशज ॥१६॥

तौ हत्वा समरे हन्ता त्वामद्य सहबान्धवम् ।
पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन ॥१७॥

सुहृद्भूत्वा रिपुः किं मां कृष्णाभ्यां भीषयिष्यसि ।
तौ वा मामद्य हन्तारौ हनिष्ये वापि तावहम् ॥१८॥

नाहं बिभेमि कृष्णाभ्यां विजानन्नात्मनो बलम् ।
वासुदेवसहस्रं वा फाल्गुनानां शतानि वा ॥१९॥

अहमेको हनिष्यामि जोषमास्स्व कुदेशज ।
स्त्रियो बालाश्च वृद्धाश्च प्रायः क्रीडागता जनाः ॥२०॥

जोषं तूष्णीम् आस्स्व तिष्ठ । क्रीडागताः लीलया आगताः ॥२०॥

या गाथाः संप्रगायन्ति कुर्वन्तोऽध्ययनं यथा ।
ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु ॥२१॥

मद्रकेषु कुत्सितेषु मद्रदेशेषु ॥२१॥

ब्राह्मणैः कथिताः पूर्वं यथावद्राजसन्निधौ ।
श्रुत्वा चैकमना मूढ क्षम वा ब्रूहि चोत्तरम् ॥२२॥

मित्रध्रुङ्मद्रको नित्यं यो नो द्वेष्टि स मद्रकः ।
मद्रके सङ्गतं नास्ति क्षुद्रवाक्ये नराधमे ॥२३॥

दुरात्मा मद्रको नित्यं नित्यमानृतिकोऽनृजुः ।
यावदन्त्यं हि दौरात्म्यं मद्रकेष्विति नः श्रुतम् ॥२४॥

अनृतेन चरतीत्यानृतिकः । यावदन्त्यम् अन्त्यजपर्यन्तं मरणावधीति वा ॥२४॥

पिता पुत्रश्च माता च श्वश्रूश्वशुरमातुलाः ।
जामाता दुहिता भ्राता नप्ताऽन्ये ते च बान्धवाः ॥२५॥

वयस्याभ्यागताश्चान्ये दासीदासं च सङ्गतम् ।
पुंभिर्विमिश्रा नार्यश्च ज्ञाताज्ञाताः स्वयेच्छया ॥२६॥

पुंभिः पुरुषैः विमिश्राः संगताः इच्छया मैथुनिनः अज्ञातवत् ज्ञाता अप्यविगीता इत्यर्थः ॥२६॥

येषां गृहेष्वशिष्टानां सक्तुमत्स्याशिनां तथा ।
पीत्वा सीधु सगोमांसं क्रन्दन्ति च हसन्ति च ॥२७॥

येषां मद्रकाणां सक्तुमिश्रितमत्स्याशिनां सोधु मद्यम् ॥२७॥

गायन्ति चाप्यबद्धानि प्रवर्तन्ते च कामतः ।
कामप्रलापिनोऽन्योन्यं तेषु धर्मः कथं भवेत् ॥२८॥

मद्रकेष्ववलिप्तेषु प्रख्याता शुभकर्मसु ।
नापि वैरं न सौहार्दं मद्रकेण समाचरेत् ॥२९॥

मद्रके सङ्गतं नास्ति मद्रको हि सदा मलः ।
मद्रकेषु च संसृष्टं शौचं गान्धारकेषु च ॥३०॥

मद्रकेषु संसृष्टं नष्टम् एवं गान्धारकेषु शौचं नष्टं भवेत् ॥३०॥

राजयाजकयाज्ये च नष्टं दत्तं हविर्भवेत् ।
शूद्रसंस्कारको विप्रो यथा याति पराभवम् ॥३१॥

राजा याजको यस्य तस्मिन्याज्ये हविर्नष्टं भवेत् ॥३१॥

यथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम् ।
यथैव सङ्गतं कृत्वा नरः पतति मद्रकैः ॥३२॥

यथैवेति । यथा मद्रकैः सङ्गतं कृत्वा पतति यथा वा मद्रके सङ्गतं नास्ति हे वृश्चिक तथा ते विषं हतमित्युत्तरेण सम्बन्धः । यद्येतत्सत्यं तर्हि तव विषं नश्यत्विति मन्त्रेण सर्वथा विषं नश्यतीत्यर्थः ॥३२॥

मद्रके सङ्गतं नास्ति हतं वृश्चिक ते विषम् ।
आथर्वणेन मन्त्रेण यथा शान्तिः कृता मया ॥३३॥

मयेत्यात्मानुभवसिद्धमिद‌मिति द्योतयति ॥३३॥

इति वृश्चिकद‌ष्टस्य विषवेगहतस्य च ।
कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच्चापि दृश्यते ॥३४॥

एवं विद्वञ्जोषमास्स्व शृणु चात्रोत्तरं वचः ।
वासांस्युत्सृज्य नृत्यन्ति स्त्रियो या मद्यमोहिताः ॥३५॥

मैथुनेऽसंयताश्चापि यथाकामवराश्च ताः ।
तासां पुत्रः कथं धर्मं मद्रको वक्तुमर्हति ॥३६॥

यथाकामं वरयन्ति ताः असंयता इति च्छेदः । तासां पुत्रः सङ्करजात इत्यर्थः ॥३६॥

यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रदशेरकाः ।
तासां विभ्रष्टधर्माणां निर्लज्जानां ततस्ततः ॥३७॥

प्रमेहन्ति सूत्रयन्ते दशेरकाः गर्दभाः ॥३७॥

त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि ।
सुवीरकं याच्यमाना मद्रिका कर्षति स्फिचौ ॥३८॥

सुवीरकं काञ्जिकम् । स्फिचौ कटिप्रोथौ ॥३८॥

अदातुकामा वचनमिदं वदति दारुणम् ।
’मा मां सुवीरकं कश्चिद्याचतां दयितं मम ॥३९॥

पुत्रं दद्यां पतिं दद्यां न तु दद्यां सुवीरकम्’ ।
गौर्यो बृहत्यो निर्ह्रीका मद्रिकाः कम्बलावृताः ॥४०॥

निह्रीकाः निर्लज्जाः ॥४०॥

घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुम ।
एवमादि मयाऽन्यैर्वा शक्यं वक्तुं भवेद्बहु ॥४१॥

घस्मराः बहुभक्षकाः ॥४१॥

आकेशाग्रान्नखाग्राच्च वक्तव्येषु कुकर्मसु ।
मद्रकाः सिन्धुसौवीराः धर्मं विद्युः कथं त्विह ॥४२॥

वक्तव्येषु गर्हणीयेषु ॥४२॥

पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः ।
एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम् ॥४३॥

यदाजौ निहतः शेते सद्भिः समभिपूजितः ।
आयुधानां सांपराये यन्मुच्येयमहं ततः ॥४४॥

सांपराये समूहे संग्रामे इत्यर्थः । मुच्येयं जीवितमिति शेषः ॥४४॥

ममैष प्रथमः कल्पो निधने स्वर्गमिच्छतः ।
सोयं प्रियः सखा चास्मि धार्तराष्ट्रस्य धीमतः ॥४५॥

तदर्थे हि मम प्राणा यच्च मे विद्यते वसु ।
व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज ॥४६॥

उपहितः उपजप्तः ॥४६॥

यथा चामित्रवत्सर्वं त्वमस्मासु प्रवर्तसे ।
कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि ॥४७॥

संग्रामाद्विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः ।
सारङ्ग इव घर्मार्तः कामं विलप शुष्य च ॥४८॥

नाहं भीषयितुं शक्यः क्षत्रवृत्ते व्यवस्थितः ।
तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम् ॥४९॥

या गतिर्गुरुणा प्रोक्ता पुरा रामेण तां स्मरे ।
तेषां त्राणार्थमुद्यन्तं वधार्थं द्विषतामपि ॥५०॥

तेषां धार्तराष्ट्राणाम् ॥५०॥

विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम् ।
न तद्भूतं प्रपश्यामि त्रिषु लोकेषु मद्रप ॥५१॥

यो मामस्माद‌भिप्रायाद्वारयेदिति मे मतिः ।
एवं विद्वञ्जोषमास्स्व त्रासात्किं बहु भाषसे ॥५२॥

न त्वां हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधम ।
मित्रप्रतीक्षया शल्य धृतराष्ट्रस्य चोभयोः ॥५३॥

हत्वा अर्जुनेन घातयित्वा । मित्रप्रतीक्षया मित्रकार्यावेक्षणेन चात् दुर्योधनस्य तयोरेवोभयोः ॥५३॥

अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि ।
पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि ॥५४॥

अपवादो निन्दा तितिक्षा च तैस्त्रिभिर्हेतुभिः ॥५४॥

शिरस्ते पातयिष्यामि गदया वज्रकल्पया ।
श्रोतारस्त्विदमद्येह द्रष्टारो वा कुदेशज ॥५५॥

कर्णं वा जघ्नतुः कृष्णौ कर्णो वा निजघान तौ ।
एवमुक्त्वा तु राधेयः पुनरेव विशांपते ।
अब्रवीन्मद्रराजानं याहि याहीत्यसंभ्रमम् ॥५६॥

इति श्रीमहाभारते कर्णपर्वणि कर्णमद्राधिपसंवादे चत्वारिंशोऽध्यायः ॥४०॥
एकचत्वारिंशोऽध्यायः

सञ्जय उवाच। मारिषाधिरथेः श्रुत्वा वाचो युद्धाभिनन्दिनः ।
शल्योऽब्रवीत्पुनः कर्णं निदर्शनमिदं वचः ॥१॥

मारिष हे राजन् ॥१॥

जातोऽहं यज्वानां वंशे सङ्ग्रामेष्वनिवर्तिनाम् ।
राज्ञां मूर्धाभिषिक्तानां स्वयं धर्मपरायणः ॥२॥

यथैव मत्तो मद्येन त्वं तथा लक्ष्यसे वृष ।
तथाऽद्य त्वां प्रमाद्यन्तं चिकित्सेयं सुहृत्तया ॥३॥

वृषः महोक्षः ॥३॥

इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे ।
श्रुत्वा यथेष्टं कुर्यास्त्वं निहीन कुलपांसन ॥४॥

नाहमात्मनि किञ्चिद्वै किल्बिषं कर्ण संस्मरे ।
येन मां त्वं महाबाहो हन्तुमिच्छस्यनागसम् ॥५॥

अवश्यं तु मया वाच्यं बुद्ध्यता त्वद्धिताहितम् ।
विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा ॥६॥

समं च विषमं चैव रथिनश्च बलाबलम् ।
श्रमः खेदश्च सततं हयानां रथिना सह ॥७॥

आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम् ।
भारश्चाप्यतिभारश्च शल्यानां च प्रतिक्रिया ॥८॥

आयुधस्यास्ति न वेति ज्ञानं परिज्ञानं रुतं जयपराजयसूचकम् । अतिभारो दुर्वहत्वम् ॥८॥

अस्त्रयोगश्च युद्धं च निमित्तानि तथैव च ।
सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना ॥९॥

निमित्तानि दिव्यान्तरिक्षभौमानि ग्रहाद्यानुकूल्यप्रातिकूल्यादीनि ॥९॥

अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः ।
वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान् ॥१०॥

निदर्शनं दृष्टान्तम् ॥१०॥

यज्वा दानपतिः क्षान्तः स्वकर्मस्थोऽभवच्छुचिः ।
बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः ॥११॥

राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः ।
पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम् ॥१२॥

काको बहूनामभवदुच्छिष्टकृतभोजनः ।
तस्मै सदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः ॥१३॥

मांसोदनं, दधि, क्षीरं, पायसं, मधुसर्पिषी ।
स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः ॥१४॥

सदृशान्पक्षिणो दृप्तः श्रेयसश्चाधिचिक्षिपे ।
अथ हंसाः समुद्रान्ते कदाचिदतिपातिनः ॥१५॥

अतिपातिनः गत्यतिशयगामिनः ॥१५॥

गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः ।
कुमारकास्तदा हंसान् दृष्ट्वा काकमथाब्रुवन् ॥१६॥

चक्राङ्गाः मानसचारिणः ॥१६॥

भवानेव विशिष्टो हि पतत्रिभ्यो विहङ्गम ।
प्रतार्यमाणस्तैः सर्वैरल्पबुद्धिभिरण्डजः ॥१७॥

पतत्रिभ्योऽन्येभ्यः प्रतार्यमाणोऽन्यथा प्रत्याय्यमानः ॥१७॥

तद्वचः सत्यमित्येव मौर्ख्याद्दर्पाच्च मन्यते ।
तान्सोऽभिपत्य जिज्ञासुः क एषां श्रेष्ठभागिति ॥१८॥

श्रेष्ठभाक् श्रेष्ठम् अन्नं भजते ॥१८॥

उच्छिष्टदर्पितः काको बहूनां दूरपातिनाम् ।
तेषां यं प्रवरं मेने हंसानां दूरपातिनाम् ॥१९॥

तमाह्वयत दुर्बुद्धिः पताव इति पक्षिणम् ।
तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः ॥२०॥

पतावः गच्छावः ॥२०॥

भाषतो बहु काकस्य बलिनः पततां वराः ।
इदमूचुः स्म चक्रांगा वचः काकं विहङ्गमाः ॥२१॥

हंसा ऊचुः ।
वयं हंसाश्चरामेमां पृथिवीं मानसौकसः ।
पक्षिणां च वयं नित्यं दूरपातेन पूजिताः ॥२२॥

दूरपातेन दूरगमनेन ॥२२॥

कथं हंसं नु बलिनं चक्राङ्गं दूरपातिनम् ।
काको भूत्वा निपतने समाह्वयसि दुर्मते ॥२३॥

कथं त्वं पतिता काक सहास्माभिर्ब्रवीहि तत् ।
अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः ।
प्रजगादोत्तरं काकः कत्थनो जातिलाघवात् ॥२४॥

पतिता पतिष्यसि कत्थनः गुणश्लाघी ॥२४॥

काक उवाच। शतमेकं च पातानां पतिताऽस्मि न संशयः ।
शतयोजनमेकैकं विचित्रं विविधं तथा ॥२५॥

पतितास्मि पतिष्यामि ॥२५॥

उड्डीनमवडीनं च प्रडीनं डीनमेव च ।
निंडीनमथ संडीनं तिर्यक्डीनगतानि च ॥२६॥

पातानां शतमेकं गणयति - उड्डीनमित्यादिना । ‘उड्डीनमूर्ध्वगमनमवडीनमधोगतिः ॥ प्रडीनं सर्वतोयानं डीनं गमनमात्रकम् । निडीनं शनकैर्यानं संडीनं ललितं गतम् ॥ तिर्यग्डीनं गतं प्राहुस्तिरःप्रचरणं बुधाः । तान्याशाभेदभिन्नानि चत्वारि प्रतिजानते’॥ तानि तिर्यक्डीनानि ॥२६॥

विडीनं परिडीनं च पराडीनं सुडीनकम् ।
अभिडीनं महाडीनं निर्डीनमतिडीनकम् ॥२७॥

अवडीनं प्रडीनं च संडीनं डीनडीनकम् ।
संडीनोड्डीनडीनं च पुनर्डीनविडीनकम् ॥२८॥

अवरोहोऽवडीनं स्यात् प्रडीनं चित्रमुच्यते । गत्या ललितया पूर्वमुपक्रम्य समन्ततः ॥ परिक्रम्य प्रपतनं सण्डीनं डीनडीनकम् । सण्डीनोड्डीनडीनं स्यात्तदेवोर्ध्वप्रकल्पनात् ॥ गतौ गत्यन्तरोद्भेदो भवेड्डीनविडीनकम् ॥२८॥

संपातं समुदीपं च ततोऽन्यद्व्यतिरिक्तकम् ।
गतागतप्रतिगतं बह्वीश्च निकुलीनकाः ॥२९॥

कर्ताऽस्मि मिषतां वोऽद्य ततो द्रक्ष्यथ मे बलम् ।
तेषामन्यतमेनाहं पतिष्यामि विहायसम् ॥३०॥

मिषतां पश्यताम् ॥३०॥

प्रदिशध्वं यथान्यायं केन हंसाः पताम्यहम् ।
ते वै ध्रुवं विनिश्चित्य पतध्वं न मया सह ॥३१॥

केन पातेन पतध्वं नेति शिरश्चालनेन किं न पतध्वमपि तु पतध्वमेवेति काकूक्त्या परिहासः । सम्पतध्वमिति वा पाठः ॥३१॥

पातैरेभिः खलु खगाः पतितुं खे निराश्रये ।
एवमुक्ते तु काकेन प्रहस्यैको विहङ्गमः ॥३२॥

उवाच काकं राधेय वचनं तन्निबोध मे । हंस उवाच। शतमेकं च पातानां त्वं काक पतिता ध्रुवम् ॥३३॥

एकमेव तु यं पातं विदुः सर्वे विहङ्गमाः ।
तमहं पतिता काक नान्यं जानामि कञ्चन ॥३४॥

एकं मुख्यम् ॥३४॥

पत त्वमपि ताम्राक्ष येन पातेन मन्यसे ।
अथ काकाः प्रजहसुर्ये तत्रासन्समागताः ॥३५॥

कथमेकेन पातेन हंसः पातशतं जयेत् ।
एकेनैव शतस्यैष पातेनाभिपतिष्यति ॥३६॥

एकेन पातेन ॥३६॥

हंसस्य पतितं काको बलवानाशु विक्रमः ।
प्रपेततुः स्पर्धया च ततस्तौ हंसवायसौ ॥३७॥

एकपाती च चक्राङ्गः काकः पातशतेन च ।
पतिता वाऽथ चक्राङ्गः पतिता वाऽथ वायसः ॥३८॥

विसिस्मापयिषुः पातैराचक्षाणोऽऽत्मनः क्रियाः ।
अथ काकस्य चित्राणि पतितानि मुहुर्मुहुः ॥३९॥

दृष्ट्वा प्रमुदिताः काका विनेदुरधिकैः स्वरैः ।
हंसांश्चावहसन्ति स्म प्रावदन्नप्रियाणि च ॥४०॥

उत्पत्योत्पत्य च मुहुर्मुहूर्तमिति चेति च ।
वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति च ॥४१॥

कुर्वाणा विविधान् रावानाशंसन्तो जयं तथा ।
हंसस्तु मृदुनैकेन विक्रान्तुमुपचक्रमे ॥४२॥

प्रत्यहीयत काकाच्च मुहूर्तमिव मारिष ।
अवमन्य च हंसांस्तानिदं वचनमब्रुवन् ॥४३॥

इदमब्रुवन्काका इत्यर्थात् ॥४३॥

योऽसावुत्पतितो हंसः सोऽसावेवं प्रहीयते ।
अथ हंसः स तच्छ्रुत्वा प्रापतत्पश्चिमां दिशम् ॥४४॥

उपर्युपरि वेगेन सागरं मकरालयम् ।
ततो भीः प्राविशत्काकं तदा तत्र विचेतसम् ॥४५॥

द्वीपद्रुमानपश्यन्तं निपातार्थे श्रमान्वितम् ।
निपतेयं क्व नु श्रान्त इति तस्मिञ्जलार्णवे ॥४६॥

अविषह्यः समुद्रो हि बहुसत्त्वगणालयः ।
महासत्त्वशतोद्भासी नभसोऽपि विशिष्यते ॥४७॥

नभसः आकाशात् ॥४७॥

गांभीर्याद्धि समुद्रस्य न विशेषं हि सूतज ।
दिगम्बरांभसः कर्ण समुद्रस्था विदुर्जनाः ॥४८॥

गांभीर्यात् गहनत्वाद्दिगम्बरांभसः । दिश एवाम्बरमावरणं यस्य तादृशमंभो यस्येत्याकाशोपमा समुद्रस्य सम्बन्धिनस्तोयस्य ॥४८॥

विदूरपातात्तोयस्य किं पुनः कर्ण वायसः ।
अथ हंसोऽप्यतिक्रम्य मुहूर्तमिति चेति च ॥४९॥

अवेक्षमाणस्तं काकं नाशकद्व्यपसर्पितुम् ।
अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत ॥५०॥

अपसर्पितं त्यक्त्वा गन्तुं दयावशत्वान्नाशकत् ॥५०॥

यावद्गत्वा पतत्येष काको मामिति चिन्तयन् ।
ततः काको भृशं श्रान्तो हंसमभ्यागमत्तदा ॥५१॥

मामनुलक्ष्येति शेषः ॥५१॥

तं तथा हीयमानं तु हंसो दृष्ट्वाऽब्रवीदिदम् ।
उज्जिहीर्षुर्निमज्जन्तं स्मरन्सत्पुरुषव्रतम् ॥१२॥

हंस उवाच। बहूनि पतितानि त्वमाचक्षाणो मुहुर्मुहुः ।
पातस्य व्याहरंश्चेदं न नो गुह्यं प्रभाषसे ॥५३॥

किं नाम पतितं काक यत्त्वं पतसि सांप्रतम् ।
जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः ॥५४॥

प्रब्रूहि कतमे तत्र पाते वर्तसि वायस ।
एह्येहि काक शीघ्रं त्वमेष त्वां प्रतिपालये ॥५५॥

शल्य उवाच। स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन च जलं तदा ।
दृष्टो हंसेन दुष्टात्मन्निदं हंसं ततोऽब्रवीत् ॥५६॥

दुष्टात्मन्निति कर्णसंबोधनम् ॥५६॥

अपश्यन्नंभसः पारं निपतंश्च श्रमान्वितः ।
पातवेगप्रमथितो हंसं काकोऽब्रवीदिदम् ॥५७॥

वयं काकाः कुतो नाम चरामः काकवाशिकाः ।
हंस प्राणैः प्रपद्ये त्वामुदकान्तं नयस्व माम् ॥५८॥

काकवाशिकाः काका इति वाशन्तः शब्दं कुर्वन्तः ॥५८॥

स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन च महार्णवे ।
काको दृढपरिश्रान्तः सहसा निपपात ह ॥५९॥

सागरांभसि तं दृष्ट्वा पतितं दीनचेतसम् ।
म्रियमाणमिदं काकं हंसो वाक्यमुवाच ह ॥६०॥

शतमेकं च पातानां पताम्यहमनुस्मर ।
श्लाघमानस्त्वमात्मानं काक भाषितवानसि ॥६१॥

स त्वमेकशतं पातं पतन्नभ्यधिको मया ।
कथमेवं परिश्रान्तः पतितोऽसि महार्णवे ॥६२॥

प्रत्युवाच ततः काकः सीद‌मान इदं वचः ।
उपरिष्ठं तदा हंसमभिवीक्ष्य प्रसादयन् ॥६३॥

काक उवाच। उच्छिष्टदर्पितो हंस मन्येत्मानं सुपर्णवत् ।
अवमन्य बहूंश्चाहं काकानन्यांश्च पक्षिणः ॥६४॥

त्मानम् आत्मानम् ॥६४॥

प्राणैर्हंस प्रपद्ये त्वां द्वीपान्तं प्रापयस्व माम् ।
यद्यहं स्वस्तिमान् हंस स्व देशं प्राप्नुयां विभो ॥६५॥

न कञ्चिदवमन्येऽहमापदो मां समुद्धर ।
तमेवंवादिनं दीनं विलपन्तमचेतनम् ॥६६॥

काक काकेति वाशन्तं निमज्जन्तं महार्णवे ।
कृपयाऽऽदाय हंसस्तं जलक्लिनं सुदुर्दशम् ॥६७॥

पद्भ्यामुत्क्षिप्य वेगेन पृष्ठमारोपयच्छनैः ।
आरोप्य पृष्ठं हंसस्तं काकं तूर्णं विचेतनम् ॥६८॥

आजगाम पुनर्द्वीपं स्पर्धया पेततुर्यतः ।
संस्थाप्य तं चापि पुनः समाश्वास्य च खेचरम् ॥६९॥

गतो यथेप्सितं देशं हंसो मन इवाशुगः ।
एवमुच्छिष्टपुष्टः स काको हंसपराजितः ॥७०॥

बलं वीर्यं महत्कर्णं त्यक्त्वा क्षान्तिमुपागतः ।
उच्छिष्टभोजनः काको यथा वैश्यकुले पुरा ॥७१॥

एवं त्वमुच्छिष्टभृतो धार्तराष्ट्रैर्न संशयः ।
सदृशान् श्रेयसश्चापि सर्वान्कर्णावमन्यसे ॥७२॥

द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः ।
विराटनगरे पार्थमेकं किं नावधीस्तदा ॥७३॥

यत्र व्यस्ताः समस्ताश्च निर्जिताः स्य किरीटिना ।
शृगाला इव सिंहेन क्व त वीर्यमभूत्तदा ॥७४॥

भ्रातरं निहतं दृष्ट्वा समरे सव्यसाचिना ।
पश्यतां कुरुवीराणां प्रथमं त्वं पलायितः ॥७५॥

तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतः ।
कुरून् समग्रानुत्सृज्य प्रथमं त्वं पलायितः ॥७६॥

हत्वा जित्वा च गन्धर्वांश्चित्रसेनमुखान्रणे ।
कर्ण दुर्योधनं पार्थः सभार्यं सममोक्षयत् ॥७७॥

पुनः प्रभावः पार्थस्य पौराणः केशवस्य च ।
कथितः कर्ण रामेण सभायां राजसंसदि ॥७८॥

सततं च त्वमश्रौषीर्वचनं द्रोणभीष्मयोः ।
अवध्यौ वदतः कृष्णौ सन्निधौ च महीक्षिताम् ॥७९॥

कियत्तत्तत्प्रवक्ष्यामि येन येन धनञ्जयः ।
त्वत्तोऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा ॥८०॥

इदानीमेव द्रष्टासि प्रधाने स्यन्दने स्थितौ ।
पुत्रं च वसुदेवस्य कुन्तीपुत्रं च पाण्डवम् ॥८१॥

यथाश्रयत चक्राङ्गं वायसो बुद्धिमास्थितः ।
तथाश्रयस्व वार्ष्णेयं पाण्डवं च धनञ्जयम् ॥८२॥

यदा त्वं युधि विक्रान्तौ वासुदेवधनञ्जयौ ।
द्रष्टास्येकरथे कर्ण तदा नैवं वदिष्यसि ॥८३॥

यदा शरशतैः पार्थो दर्पं तव वधिष्यति ।
तदा त्वमन्तरं द्रष्टा आत्मनश्चार्जुनस्य च ॥८४॥

देवासुरमनुष्येषु प्रख्यातौ यौ नरोत्तमौ ।
तौ मावमंस्था मौर्ख्यात्त्वं खद्योत इव रोचतौ ॥८५॥

सूर्याचन्द्रमसौ यद्वत्तद्वदर्जुनकेशवौ ।
प्राकाश्येनाभिविख्यातौ त्वं तु खद्योतवन्नृषु ॥८६॥

एवं विद्वन् मावमंस्थाः सूतपुत्राच्युतार्जुनौ ।
नृसिंहौ तौ महात्मानौ जोषमास्स्व विकत्थने ॥८७॥

इति श्रीमहाभारते कर्णपर्वणि कर्णशल्यसंवादे हंसकाकीयोपाख्याने एकचत्वारिंशोऽध्यायः ॥४१॥
द्विचत्वारिंशोऽध्यायः

सञ्जय उवाच। मद्राधिपस्याधिरधिर्महात्मा वचो निशम्याप्रियमप्रतीतः ।
उवाच शल्यं विदितं ममैतद्यथाविधावर्जुनवासुदेवौ ॥१॥

मद्रेति ॥१॥

शौरे रथं वाहयतोऽर्जुनस्य बलं महास्त्राणि च पाण्डवस्य ।
अहं विजानामि यथावदद्य परोक्षभूतं तव तत्तु शल्य ॥२॥

तौ चाप्यहं शस्त्रभृतां वरिष्ठौ व्यपेतभीर्योधयिष्यामि कृष्णौ ।
संतापयत्यभ्यधिकं नु रामाच्छापोऽद्य मां ब्राह्मणसत्तमाच्च ॥३॥

अवसं वै ब्राह्मणच्छद्मनाऽहं रामे पुरा दिव्यमस्त्रं चिकीर्षुः ।
तत्रापि मे देवराजेन विघ्नो हितार्थिना फाल्युनस्यैव शल्य ॥४॥

कृतो बिभेदेन ममोरुमेत्य प्रविश्य कीटस्य तनुं विरूपाम् ।
ममोरुमेत्य प्रबिभेद कीटः सुप्ते गुरौ तत्र शिरो निधाय ॥५॥

ऊरूप्रभेदाच्च महान्बभूव शरीरतो मे घनशोणितौघः ।
गुरोर्भयाच्चापि न चोलवानहं ततो विबुद्धो ददृशे स विप्रः ॥६॥

चेलिवान् चलितवान् ॥६॥

स धैर्ययुक्तं प्रसमीक्ष्य मां वै न त्वं विप्रः कोऽसि सत्यं वदेति ।
तस्मै तदाऽऽत्मानमहं यथावदाख्यातवान्सूत इत्येव शल्य ॥७॥

स मां निशम्याथ महातपस्वी संशप्तवान् रोषपरीतचेताः ।
सूतोपधावाप्तमिदं तवास्त्रं न कर्मकाले प्रतिभास्यति त्वाम् ॥८॥

सूतोपधौ सूतवपिधाननिमित्तं कर्मकाले स्वप्रतिज्ञारक्षणकाले ॥८॥

अन्यत्र तस्मात्तव मृत्युकालादब्राह्मणे ब्रह्म न हि ध्रुवं स्यात् ।
तदद्य पर्याप्तमतीव चास्त्रमस्मिन्संग्रामे तुमुलेऽतीव भीमे ॥९॥

पर्याप्तं समाप्तं विस्मृतमित्यर्थः ॥९॥

योऽयं शल्य भरतेषूपपन्नः प्रकर्षणः सर्वहरोऽतिभीमः ।
सोऽभिमन्ये क्षत्रियाणां प्रवीरान् प्रतापिता बलवान्वै विमर्दः ॥१०॥

शल्योग्रधन्वानमहं वरिष्ठं तरस्विनं भीममसह्यवीर्यम् ।
सत्यप्रतिज्ञं युधि पाण्डवेयं धनञ्जयं मृत्युमुखं नयिष्ये ॥११॥

अस्त्रं ततोऽन्यत्प्रतिपन्नमद्य येन क्षेप्स्ये समरे शत्रुपूगान् ।
प्रतापिनं बलवन्तं कृतास्त्रं तमुग्रधन्वानममितौजसं च ॥१२॥

अस्त्रं ततो रामदत्तादस्त्रादन्यत्प्रतिपन्नं प्राप्तम् अहिबाणाख्यमित्यर्थः ॥१२॥

क्रूरं शूरं रौद्रममित्रसाहं धनञ्जयं संयुगेऽहं हनिष्ये ।
अपां पतिर्वेगवानप्रमेयो निमज्जयिष्यन्बहुलाः प्रजाश्च ॥१३॥

महावेगं संकुरुते समुद्रो वेला चैनं धारयत्यप्रमेयम् ।
प्रमुञ्चन्तं बाणसङ्घानमेयान्मर्मच्छिदो वीरहणः सुपुत्रान् ॥१४॥

कुन्तीपुत्रं यत्र योत्स्यामि युद्धे ज्यां कर्षतामुत्तममद्य लोके ।
एवं बलेनातिबलं महास्त्रं समुद्रकल्पं सुदुरापमुग्रम् ॥१५॥

शरौघिणं पार्थिवान्मज्जयन्तं वेलेव पार्थमिषुभिः संसहिष्ये ।
अद्याहवे यस्य न तुल्यमन्यं मन्ये मनुष्यं धनुराददानम् ॥१६॥

सुरासुरान् युधि वै यो जयेत तेनाद्य मे पश्य युद्धं सुघोरम् ।
अतीव मानी पाण्डवो युद्धकामो ह्यमानुषैरेष्यति मे महास्त्रैः ॥१७॥

मे मां प्रति एष्यति ॥१७॥

तस्यास्त्रमस्त्रैः प्रतिहत्य संख्ये बाणोत्तमैः पातयिष्यामि पार्थम् ।
सहस्त्ररश्मिप्रतिमं ज्वलन्तं दिशश्च सर्वाः प्रतपन्तमुग्रम् ॥१८॥

अस्त्रैरस्त्रतुल्यैः ॥१८॥

तमोनुदं मेघ इवातिमात्रं धनञ्जयं छादयिष्यामि बाणैः ।
वैश्वानरं धूमशिखं ज्वलन्तं तेजस्विनं लोकमिदं दहन्तम् ॥१९॥

पर्जन्यभूतः शरवर्षैर्यथाग्निं तथा पार्थं शमयिष्यामि युद्धे ।
आशीविषं दुर्धरमप्रमेयं सुतीक्ष्णदंष्ट्रं ज्वलनप्रभावम् ॥२०॥

क्रोधप्रदीप्तं त्वहितं महान्तं कुन्तीपुत्रं शमयिष्यामि भल्लैः ।
प्रमाथिनं बलवन्तं प्रहारिणं प्रभञ्जनं मातरिश्वानमुग्रम् ॥२१॥

युद्धे सहिष्ये हिमवानिवाचलो धनञ्जयं क्रुद्धममृष्यमाणम् ।
विशारदं रथमार्गेषु शक्तं धुर्यं नित्यं समरेषु प्रवीरम् ॥२२॥

लोके वरं सर्वधनुर्धराणां धनञ्जयं संयुगे संसहिष्ये ।
अद्यावे यस्य न तुल्यमन्यं मन्ये मनुष्यं धनुराददानम् ॥२३॥

सर्वामिमां यः पृथिवीं विजिग्ये तेन प्रयोद्धाऽस्मि समेत्य संख्ये ।
यः सर्वभूतानि सदैवतानि प्रस्थेऽजयत्खाण्डवे सव्यसाची ॥२४॥

खाण्डवे खाण्डवदाहे ॥२४॥

को जीवितं रक्ष्यमाणो हि तेन युयुत्सेद्वै मानुषो मामृतेऽन्यः ।
मानी कृतास्त्रः कृतहस्तयोगो दिव्यास्त्रविच्छ्वेतहयः प्रमाथी ॥२५॥

तस्याहमद्यातिरथस्य कायाच्छिरो हरिष्यामि शितैः पृषत्कैः ।
योत्स्याम्येनं शल्य धनञ्जयं वै मृत्युं पुरस्कृत्य रणे जयं वा ॥२६॥

अन्यो हि न ह्येकरथेन मर्त्यो युध्येत यः पाण्डवमिन्द्र कल्पम् ।
तस्याहवे पौरुषं पाण्डवस्य ब्रूयां हृष्टः समितौ क्षत्रियाणाम् ॥२७॥

किं त्वं मूर्खः प्रसभं मूढचेता ममावोचः पौरुषं फाल्गुनस्य ।
अप्रियो यः पुरुषो निष्ठुरो हि क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान् ॥२८॥

हन्यामहं त्वादृशानां शतानि क्षमाम्यहं क्षमया कालयोगात् ।
अवोचस्त्वं पाण्डवार्थेऽप्रियाणि प्रधर्षयन्मां मूढवत्पापकर्मन् ॥२९॥

मयाऽऽर्जवे जिह्ममतिर्हतस्त्वं मित्रद्रोही साप्तपदं हि मैत्रम् ।
कालस्त्वयं प्रत्युपयाति दारुणो दुर्योधनो युद्धमुपागमद्यत् ॥३०॥

आर्जवे कर्तव्ये सति ॥३०॥

अस्यार्थसिद्धिं त्वभिकांक्षमाणस्तन्मन्यसे यत्र नैकान्त्यमस्ति ।
मित्रं मिन्देर्नन्दतेः प्रीयतेर्वा संत्रायतेर्मिनुतेर्मोदतेर्वा ॥३१॥

अहं सिद्धिं काङ्क्षमाणोऽस्मि त्वं तु तन्मन्यसे यत्र ऐकान्त्यं सख्यं नास्ति । अस्मत्पक्षीयोऽप्यन्यत्र स्नेहवानसीत्यर्थः। तदेवाह - मित्रमिति । मिन्दयति मेदयति वा स्नेहार्थान्मिन्देर्मिदेर्वा मित्रमिति रूपम् । नन्दतेरित्यत्र मदतेरिति पाठः । मदी हर्षे इत्यस्य वा रूपं मादयति तर्पयतीति वा मादयतेर्मित्रं मिदतेस्त्राणार्थस्य वा मिदेरिदं रूपम् । नन्दयतेः प्रीयतेः सन्त्रायतेर्वाऽर्थे वर्तमानस्य मिदेर्मित्रमिति वाऽर्थः । मिनुते मानं करोति सर्वं हितमस्य सङ्गृह्णातीति वा मोदतेऽस्य सुखेनेति वा मित्रमित्येतेऽर्था मयि सन्तीत्यर्थः ॥३१॥

ब्रवीमि ते सर्वमिदं ममास्ति तच्चापि सर्वं मम वेत्ति राजा ।
शत्रुः शदेः शासतेर्वा श्यतेर्वा ऋणातेर्वा श्वसतेः सीदतेर्वा ॥३२॥

शत्रुरिति । शदेः शातनार्थात् शास्तेः शासनार्थात् श्यतेस्तनूकरणार्थात् शृणातेर्हिंसार्थात् श्वसतेरुच्छ्वासार्थादन्तर्भावितण्यर्थात् सीदतेः सूदतेर्वा दन्त्यस्थाने तालव्यस्योपसर्जनात् शत्रुरिति शब्द उत्पन्नस्तदर्थश्च सर्वस्त्वय्यस्तीत्यर्थः ॥३२॥

उपसर्गाद्बहुधा सूदतेश्च प्रायेण सर्वं त्वयि तच्च मह्यम् ।
दुर्योधनार्थं तव च प्रियार्थं यशोऽर्थमात्मार्थमपीश्वरार्थम् ॥३३॥

दुर्योधनस्य तव मम च प्रीतिर्जयलाभेन यशसश्च प्राप्तिस्त्रयाणामपि ईश्वरप्रीतिः स्वधर्माचरणेनेत्यर्थः ॥३३॥

तस्मादहं पाण्डववासुदेवौ योत्स्ये यत्नात्कर्म तत्पश्य मेऽद्य ।
अस्त्राणि पश्याद्य ममोत्तमानि ब्राह्माणि दिव्यान्यथ मानुषाणि ॥३४॥

अस्त्राणीति । कालेऽस्त्रं न प्रतिभास्याति पूर्वमुक्त्त्वापि आवेशात्स्वस्य विद्यमानामस्त्रसंपद‌मभिप्रेत्याह - ब्राह्माणि ब्रह्मशिर आदीनि दिव्यानि ऐन्द्रवारुणगान्धर्वादीनि मानुषाणि भौमानि दिव्यधनुरादीनि ॥३४॥

आसादयिष्याम्यहमुग्रवीर्यं द्विपो द्विपं मत्तमिवातिमत्तः ।
अस्त्रं ब्राह्मं मनसा युध्यजेयं क्षेप्स्ये पार्थायाप्रमेयं जयाय ।
तेनापि मे नैव मुच्येत युद्धे न चेत्पतेद्विषमे मेऽद्य चक्रम् ॥३५॥

अस्त्रमिति । यत् यदि हि प्रसिद्धं क्षेप्स्ये तर्हि नैव मुच्येत शत्रुः परन्तु यदि चक्रं विषमेन पतेदित्ययमपि द्वितीयो दोषो दर्शितः ॥३५॥

वैवस्वताद्दण्डहस्ताद्वरुणाद्वापि पाशिनः ।
सगदाद्वा धनपतेः सवज्राद्वापि वासवात् ॥३६॥

अन्यस्मादपि कस्माच्चिदमित्रादाततायिनः ।
इति शल्य विजानीहि यथा नाहं बिभेम्यतः ।
तस्मान्न मे भयं पार्थान्नापि चैव जनार्दनात् ॥३७॥

सह युद्धं हि मे ताभ्यां सांपराये भविष्यति ।
कदाचिद्विजयस्याहमस्त्रहेतोरटन्नृप ॥३८॥

अज्ञानाद्धि क्षिपन्बाणान् घोररूपान् भयानकान् ।
होमधेन्वा वत्समस्य प्रमत्त इषुणाऽहनम् ॥३९॥

चरन्तं विजने शल्य ततोऽनुव्याजहार माम् ।
यस्मात्त्वत्या प्रमत्तेन होमधेन्वा हतः सुतः ॥४०॥

श्वभ्रे ते पततां चक्रमिति मां ब्राह्मणोऽब्रवीत् ।
युध्यमानस्य संग्रामे प्राप्तस्यैकायनं भयम् ॥४१॥

तस्माद्बिभेमि बलवद्ब्राह्मणव्याहृतादहम् ।
एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥४२॥

अदां तस्मै गोसहस्रं बलीवर्दांश्च षट्शतान् ।
प्रसादं न लभे शल्य ब्राह्मणान्मद्रकेश्वर ॥४३॥

ईषादन्तान् सप्तशतान् दासीदासशतानि च ।
ददतो द्विजमुख्यो मे प्रसादं न चकार सः ॥४४॥

कृष्णानां श्वेतवत्सानां सहस्राणि चतुर्दश ।
आहरं न लभे तस्मात्प्रसादं द्विजसत्तमात् ॥४५॥

ऋद्धं गृहं सर्वकामैर्यच्च मे वसु किञ्चन ।
तत्सर्वमस्मै सत्कृत्य प्रयच्छामि न चेच्छति ॥४६॥

ततोऽब्रवीन्मां याचन्तमपराधं प्रयत्नतः ।
व्याहृतं यन्मया सूत तत्तथा न तदन्यथा ॥४७॥

अनृतोक्तं प्रजां हन्यात्ततः पापमवाप्नुयाम् ।
तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे ॥४८॥

मा त्वं ब्रह्म गतिं हिंस्याः प्रायश्चित्तं कृतं त्वया ।
मद्वाक्यं नानृतं लोके कश्चित्कुर्यात्समाप्नुहि ॥४९॥

समाप्नुहि शापमनुभवस्वेत्यर्थः ॥४९॥

इत्येतत्ते मया प्रोक्तं क्षिप्तेनापि सुहृत्तया ।
जानामि त्वां विक्षिपन्तं जोषमास्वोत्तरं शृणु ॥५०॥

इति श्रीमहाभारते कर्णपर्वणि कर्णशल्यसंवादे द्वाचत्वारिंशोऽध्यायः ॥४२॥
त्रिचत्वारिंशोऽध्यायः

सञ्जय उवाच। ततः पुनर्महाराज मद्रराजमरिन्दमः ।
अभ्यभाषत राधेयः सन्निवार्योत्तरं वचः ॥१॥

तत इति । ततः अनन्तरं शल्येन वक्तव्यं वचः सन्निवार्य स्वयमेवाहेत्यर्थः ॥१॥

यत्त्वं निदर्शनार्थं मां शल्य जल्पितवानसि ।
नाहं शक्यस्त्वया वाचा बिभीषयितुमाहवे ॥२॥

यदि मां देवताः सर्वा योधयेयुः सवासवाः ।
तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात् ॥३॥

नाहं भीषयितुं शक्यो वाङ्मात्रेण कथञ्चन ।
अन्यं जानीहि यः शक्यस्त्वया भीषयितुं रणे ॥४॥

नीचस्य बलमेतावत्पारुष्यं यत्त्वमात्थ माम् ।
अशक्तो मद्गुणान् वक्तुं वल्गसे बहु दुर्मते ॥५॥

न हि कर्णः समुद्भूतो भयार्थमिह मद्रक ।
विक्रमार्थमहं जातो यशोर्थं च तथाऽऽत्मनः ॥६॥

सखिभावेन सौहार्दान्मित्रभावेन चैव हि ।
कारणैस्त्रिभिरेतैस्त्वं शल्य जीवसि सांप्रतम् ॥७॥

सखिभावः सारथ्येनोपकारकत्वं सौहार्दं मदीया क्षमा मित्रस्य दुर्योधनस्य भावः इष्टसिद्धिः हेतुरित्यर्थः ॥७॥

राज्ञश्च धार्तराष्ट्रस्य कार्यं सुमहदुद्यतम् ।
मयि तच्चाहितं शल्य तेन जीवसि मे क्षणम् ॥८॥

एतदेव त्रयं व्याचष्टे राज्ञश्चेत्यादिना ॥८॥

कुतश्च समयः पूर्वं क्षन्तव्यं विप्रियं तव ।
ऋते शल्यसहस्त्रेण विजयेयमहं परान् ।
मित्रद्रोहस्तु पापीयानिति जीवसि सांप्रतम् ॥९॥

कृत इति । शल्यसहस्त्रतुल्योऽहमेवास्मीत्यर्थः ॥९॥
इति श्रीमहाभारते कर्णपर्वणि कर्णशल्यसंवादे त्रिचत्वारिंशोऽध्यायः ॥४३॥
चतुश्चत्वारिंशोऽध्यायः

शल्य उवाच। ननु प्रलापाः कर्णैते यान् ब्रवीषि परान्प्रति ।
ऋते कर्णसहस्रेण शक्या जेतुं परे युधि ॥१॥

नन्विति । कर्णसहस्रेण विनाऽपि परे जेतुं शक्याः मयेति शेषः । कर्णसहस्त्रतुल्योऽहमेक एवास्मीति भावः ॥१॥

सञ्जय उवाच। तथा ब्रुवन्तं परुषं कर्णो मद्राधिपं तदा ।
परुषं द्विगुणं भूयः प्रोवाचाप्रियदर्शनम् ॥२॥

भूयः द्विगुम् अधिकगुणम् ॥२॥

कर्ण उवाच। इदं तु ते त्वमेकाग्रः शृणु मद्रजनाधिप ।
संनिधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम् ॥३॥

देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान् ।
ब्राह्मणाः कथयन्ति स्म धृतराष्ट्रनिवेशने ॥४॥

तत्र वृद्धः पुरावृत्ताः कथाः कश्चिद्द्विजोत्तमः ।
वाहीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत् ॥५॥

'बहिष्कृता हिमवता गङ्गया च बहिष्कृताः ।
सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये ॥६॥

पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः ।
तान् धर्मबाह्यानशुचीन्वाहीकानपि वर्जयेत् ॥७॥

पञ्चानां वक्ष्यमाणानां सिन्धुः षष्ठी यासाम् अन्तरमवकाशमाश्रिताः ॥७॥

गोवर्धनो नाम वटः सुभद्रं नाम चत्वरम् ।
एतद्राजकुलद्वारमाकुमारात्स्मराम्यहम् ॥८॥

गोवर्धनः गवां छेदनस्थानं सुभद्रं चत्वरं सुराभाण्डाश्रयभूतम् । एतदुभयं राजकुलस्य राजगृहद्वारस्योपलक्षणम् ॥८॥

कार्येणात्यर्थगूढेन वाहीकेषूषितं मया ।
तत एषां समाचारः संवासाद्विदितो मम ॥९॥

शाकलं नाम नगरमापगा नाम निम्नगा ।
जर्तिका नाम वाहीकास्तेषां वृत्तं सुनिन्दितम् ॥१०॥

वृत्तं चरित्रम् ॥१०॥

धाना गौड्यासवं पीत्वा गोमांसं लशुनैः सह ।
अपूपमांसवाट्यानामाशिनः शीलवर्जिताः ॥११॥

धाना भ्रष्टयवाः गौड्यासवं सुराविशेषम् । वाट्यं यवान्नं क्रीतान्नं वा । ‘वाटो वृत्तौ च मार्गे च वरण्डेङ्गागान्नभेदयोः’ इति विश्वः । स्वार्थे ष्यञ् आशिनः भक्षणशीलाः ॥११॥

गायन्त्यथ च नृत्यन्ति स्त्रियो मत्ता विवाससः ।
नगरागारवप्रेषु बहिर्माल्यानुलेपनाः ॥१२॥

वप्रेषु प्राकाराभित्तिषु ॥१२॥

मत्तावगीतैर्विविधैः खरोष्ट्रनिनदोपमैः ।
अनावृता मैथुने ताः कामचाराश्च सर्वशः ॥१३॥

अवगीतैः भगलिङ्गादिविगीतशब्दैः । अनावृताः स्वपरपुरुषविवेकहीनाः कामचाराः यथेष्टचारिण्यः ॥१३॥

आहुरन्योन्यसूक्तानि प्रब्रुवाणा मदोत्कटाः ।
हे हते हे हतेत्येवं स्वामिभतृहतेति च ॥१४॥

सूक्तानि विनोदवचनानि हेहते भोलिङ्गताडिते इत्याक्रोशे द्वित्वं सन्धिश्छान्दसः । स्वामिहते भर्तृहते इति च तद्वत् ॥१४॥

आक्रोशन्त्यः प्रनृत्यन्ति व्रात्याः पर्वस्वसंयताः ।
तासां किलावलिप्तानां निवसन्कुरुजाङ्गले ॥१५॥

पर्वसु उत्सवदिनेषु आक्रोशन्त्यः गालयन्त्यः तासां पतिरिति शेषः ॥१५॥

कश्चिद्वाहीकदुष्टानां नातिहृष्टमना जगौ ।
सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी ॥१६॥

मामनुस्मरती शेते वाहीकं कुरुजाङ्गले ।
शतद्रुकामहं तीर्त्वा तां च रम्यामिरावतीम् ॥१७॥

गत्वा स्वदेशं द्रक्ष्यामि स्थूलशंखाः शुभाः स्त्रियः ।
मनःशिलोज्ज्वलापांग्यो गौर्यस्त्रिककुदांजनाः ॥१८॥

कम्बलाजिनसंवीताः क्रन्दन्त्यः प्रियदर्शनाः ।
मृदङ्गानकशंखानां मर्दलानां च निःस्वनैः ॥१९॥

खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम् ।
शमीपीलुकरीराणां वनेषु सुखवर्मसु ॥२०॥

खरादियानैः ॥२०॥

अपूपान्सक्तुपिण्डांश्च प्राश्नन्तो मथितान्वितान् ।
पथि सुप्रबला भूत्वा कदा सम्पततोऽध्वगान् ॥२१॥

मथितं तक्रम् ॥२१॥

चेलापहारं कुर्वाणास्ताडयिष्याम भूयसः ।
एवं शीलेषु व्रात्येषु वाहीकेषु दुरात्मसु ॥२२॥

भूयसः बहून् ॥२२॥

कश्चेतयानो निवसेन्मुहूर्तमपि मानवः ।
ईदृशा ब्राह्मणेनोक्ता वाहीका मोघचारिणः ॥२३॥

येषां षड्भागहर्ता त्वमुभयोः शुभपापयोः ।
इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान् ॥२४॥

वाहीकेष्वविनीतेषु प्रोच्यमानं निबोध तत् ।
तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम् ॥२५॥

नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम् ।
कदा वाहेयिका गाथाः पुनर्गास्यामि शाकले ॥२६॥

वहो वृषभः तस्येदं वधपर्व वाहं तत्रोचिताः वाहोयिकाः गाथा गीतीः ॥२६॥

गव्यस्य तृप्ता मांसस्य पीत्वा गौडं सुरासवम् ।
गौरीभिः सह नारीभिर्बृहतीभिः स्वलंकृताः ॥२७॥

पलाण्डुगण्डूषयुतान् खादन्ती चैडकान्बहून् ।
वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रिकम् ॥२८॥

खादन्ती बलिरूपान् एडकान्मेषान् वाराहं विड्वराहजम् ॥२८॥

ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम् ।
इति गायन्ति ये मत्ताः सीधुना शाकलाश्च ये ॥२९॥

शाकलाः शाकलपुरवासिनः ॥२९॥

सबालवृद्धाः क्रन्दन्तस्तेषु धर्मः कथं भवेत् ।
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते ॥३०॥

यदन्योप्युक्तवानस्मान् ब्राह्मणः कुरुसंसदि ।
पञ्च नद्यो वहन्त्येता यत्र पीलुवनान्युत ॥३१॥

शतद्रुश्च विपाशा च तृतीयैरावती तथा ।
चन्द्रभागा वितस्ता च सिन्धुषष्ठा बहिर्गिरेः ॥३२॥

गिरेः हिमाद्रेः ॥३२॥

आरट्टा नाम ते देशा नष्टधर्मा न तान्व्रजेत् ।
व्रात्यानां दासमीयानां वाहीकानामयज्वनाम् ॥३३॥

व्रात्यानाम् उपनयनादिसंस्कारहीनानां दासमीयानां दसमदेशोद्भवानाम् । दासं गृहशूद्रं मिमते मानयन्ति मैथुनार्थिन्यस्ताः दासम्यः तज्जानां दासमीयानां वा ॥३३॥

न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा ।
तेषां प्रनष्टधर्माणां वाहीकानामिति श्रुतिः ॥३४॥

ब्राह्मणेन तथा प्रोक्तं विदुषा साधुसंसदि ।
काष्ठकुण्डेषु वाहीका मृन्मयेषु च भुञ्जते ॥३५॥

कुण्डेषु महोदरपात्रेषु ॥३५॥

सक्तुमद्यावलिप्तेषु श्वावलीढेषु निर्घृणाः ।
आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च ॥३६॥

तद्विकारांश्च वाहीकाः खादन्ति च पिबन्ति च ।
पुत्रसंकरिणो जाल्माः सर्वान्नक्षीरभोजनाः ॥३७॥

सर्वमन्नमदनीयं क्षीरं च भोजनं येषां ते ॥३७॥

आरट्टा नाम वाहीका वर्जनीया विपश्चिता ।
हन्त शल्य विजानीहि हन्त भूयो ब्रवीमि ते ॥३८॥

यदन्योऽप्युक्तवान्मह्यं ब्राह्मणः कुरुसंसदि ।
युगन्धरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले ॥३९॥

युगन्धरे नगरे औष्ट्रादिकमपि क्षीरं पीयते भक्ष्याभक्ष्यविवेकाभावात्तत्रावश्यमभक्ष्यभक्षणम् आपतत्येव एवमच्युतस्थले नगरे उषितस्यागम्यागमनमवश्यं भावि तादृशानामेव तत्र सत्त्वात् ॥३९॥

तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति ।
पञ्च नद्यो वहन्त्येता यत्र निःसृत्य पर्वतात् ॥४०॥

भूतिलये हि चण्डालब्राह्मणसाधारण एको जलाशयस्तत्र च स्नातः कथं स्वर्गं गच्छेन्न कथञ्चिदित्यर्थः ॥४०॥

आरट्टा नाम वाहीका न तेष्वार्यो द्व्यहं वसेत् ।
वहिश्च नाम हीकश्च विपाशायां पिशाचकौ ॥४१॥

द्व्यहमित्येकरात्रवासे न दोष इत्यर्थः ॥४१॥

तयोरपत्यं वाहीका नैषा सृष्टिः प्रजापतेः ।
ते कथं विविधान् धर्मान् ज्ञास्यन्ते हीनयोनयः ॥४२॥

कारस्करान्माहिषकान् कालिङ्गान्केरलांस्तथा ।
कर्कोटकान् वीरकांश्च दुर्धर्मांश्च विवर्जयेत् ॥४३॥

कारस्करादयो देशाः ॥४३॥

इति तीर्थानुसर्तारं राक्षसी काचिदब्रवीत् ।
एकरात्रशयी गेहे महोलूखलमेखला ॥४४॥

एकरात्रशयी एकरात्रशायिनं ब्राह्मणमिति द्वितीयार्थे प्रथमा ॥४४॥

आरट्टा नाम ते देशा वाहीकं नाम तज्जलम् ।
ब्राह्मणापसदा यत्र तुल्यकालाः प्रजापतेः ॥४५॥

वेदा न तेषां वेद्यश्च यज्ञा यजनमेव च ।
व्रात्यानां दासमीयानामन्नं देवा न भुञ्जते ॥४६॥

प्रस्थला मद्रगान्धारा आरट्टा नामतः खशाः ।
वसातिसिन्धुसौवीरा इति प्रायोऽतिकुत्सिताः ॥४७॥

इति श्रीमहाभारते कर्णपर्वणि कर्णशल्यसंवादे चतुश्चत्वारिंशोऽध्यायः ॥४४॥
पञ्चचत्वारिंशोऽध्यायः

कर्ण उवाच। हन्त शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
उच्यमानं मया सम्यक् त्वमेकाग्रमनाः शृणु ॥१॥

हन्तेति ॥१॥

ब्राह्मणः किल नो गेहमध्यगच्छत्पुराऽतिथिः ।
आचारं तत्र संप्रेक्ष्य प्रीतो वचनमब्रवीत् ॥२॥

मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम् ।
दृष्टाश्च बहवो देशा नानाधर्मसमावृताः ॥३॥

न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः ।
सर्वं हि तेऽब्रुवन् धर्मं यदुक्तं वेद‌पारगैः ॥४॥

इमाः अनुभूतपूर्वाः प्रजाः केनच केनापि अर्थकामादिना निमित्तेन धर्मेण सह न विरुध्यन्ते न केनचिदधर्मेण इति पाठे केनाप्यधर्मेणैता न विरुध्यन्ते न कंचिदप्यधर्मं कृत्वा शास्त्रेण विरुध्यन्ते इत्यर्थः ॥४॥

अटता तु ततो देशान्नानाधर्मसमाकुलान् ।
आगच्छता महाराज वाहीकेषु निशामितम् ॥५॥

निशामितं श्रुतम् ॥५॥

तत्र वै ब्राह्मणो भूत्वा ततो भवति क्षत्रियः ।
वैश्यः शूद्रश्च वाहीकस्ततो भवति नापितः ॥६॥

ब्राह्मणो भूत्वेत्यादि तज्जातीयकर्माचरणनिबन्धनम् ॥६॥

नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः ।
द्विजो भूत्वा च तत्रैव पुनर्दासोऽभिजायते ॥७॥

भवन्त्येककुले विप्राः प्रसृष्टाः कामचारिणः ।
गान्धारा मद्रकाश्चैव वाहीकाश्चाल्पचेतसः ॥८॥

कुले एक एव विप्रो भवत्यन्ये भ्रातरः प्रसृष्टाः संकीर्णक्रिया इत्यर्थः ॥८॥

एतन्मया श्रुतं तत्र धर्मसंकरकारकम् ।
कृत्स्नामटित्वा पृथिवीं वाहीकेषु विपर्ययः ॥९॥

तत्र वाहीकेषु धर्मसंकरकारको विपर्ययः श्रुत इति लिङ्गं विपरिणेयम्। विपर्ययो विहितवैपरीत्यम्॥९॥

हन्त शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
यदप्यन्योऽब्रवीद्वाक्यं वाहीकानां च कुत्सितम् ॥१०॥

सती पुरा हृता काचिदारट्टात्किल दस्युभिः ।
अधर्मतश्चोपयाता सा तानभ्यशपत्ततः ॥११॥

बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ ।
तस्मान्नार्यो भविष्यन्ति बन्धक्यो वै कुलस्य च ॥१२॥

बन्धक्यो वेश्याः पञ्चमे व्याभिचारे बन्धक्यः॥१२॥

न चैवास्मात्प्रमोक्षध्वं घोरात्पापान्नराधमाः ।
तस्मात्तेषां भागहरा भागिनेया न सूनवः ॥१३॥

न चैवेति । उत्तरत्रेदं बन्धकीत्वं सर्वत्रानुवर्तिष्यते यस्मात् मातुर्धनं दुहिता हरति पितुः पुत्र इति नियमात् । यद्यपि पुत्री पुत्रश्च द्वावपि जारजौ तथापि पितृत्व इव मातृत्वे विसंवादाभावात् दौहित्र एव रिक्थहारी भवति न पुत्र इति भावः । यतस्ते भगिनीष्वेवापत्यानि जनयन्ति न स्वदारेष्वतस्तेषां भागिनेया भागहरा इति व्याख्यानं प्राचाम् ॥१३॥

कुरवः सहपञ्चालाः शाल्वा मत्स्याः सनैमिषाः ।
कोसलाः काशपौण्ड्राश्च कालिङ्गा मागधास्तथा ॥१४॥

चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम् ।
नानादेशेष्वसन्तश्च प्रायो वा ह्यनयादृते ॥१५॥

असन्तश्चात्सन्तश्च वर्तन्ते परन्तु वाह्यनयादृते वाहीकनीतिं विना तत्र केवलमसन्त एव वर्तन्त इत्यर्थः ॥१५॥

आमत्स्येभ्यः कुरुपञ्चालदेश्या आनैमिषाच्चेदयो ये विशिष्टाः ।
धर्मं पुराणमुपजीवन्ति सन्तो मद्रादृते पाञ्चनदांश्च जिह्मान् ॥१६॥

एवं विद्वान् धर्मकथासु राजंस्तूष्णींभूतो जडवच्छल्य भूयः ।
त्वं तस्य गोप्ता च जनस्य राजा षड्भागहर्ता शुभदुष्कृतस्य ॥१७॥

अथवा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता ।
रक्षिता पुण्यभाग्राजा प्रजानां त्वं ह्यपुण्यभाक् ॥१८॥

पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते ।
धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः ॥१९॥

पूज्यमाने प्रशस्यमाने ॥१९॥

व्रात्थानां दासमीयानां कृतेप्यशुभकर्मणाम् ।
ब्रह्मणा निन्दिते धर्मे स त्वं लोके किमब्रवीः ॥२०॥

कृते कृतयुगेऽपि धर्मे वाहीकानामिति शेषः । स वाहीकस्त्वम् ॥२०॥

इति पाञ्चनदं धर्ममवमेने पितामहः ।
स्वधर्मस्थेषु वर्षेषु सोऽप्येतान्नाभ्यपूजयत् ॥२१॥

नाभ्यपूजयत् न प्रशंसितवान् ॥२१॥

हन्त शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।
कल्माषपादः सरसि निमज्जन्राक्षसोऽब्रवीत् ॥२२॥

क्षत्रियस्य मलं भैक्ष्यं ब्राह्मणस्याश्रुतं मलम् ।
मलं पृथिव्यां वाहीकाः स्त्रीणां मद्रस्त्रियो मलम् ॥२३॥

निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम् ।
अपृच्छत्तेन चाख्यातं प्रोक्तवांस्तन्निबोध मे ॥२४॥

मानुषाणां मलं म्लेच्छा म्लेच्छानामौष्ट्रिका मलम् ।
औष्ट्रिकाणां मलं षण्ढाः षण्ढानां राजयाजकाः ॥२५॥

म्लेच्छाः पापरताः धर्माधर्मविचारहीनाः ‘म्लेच्छः पापरते जातिभेदे स्यादपभाषणे’ इति विश्वः। ‘उष्ट्रिका मृत्तिकाभाण्डभेदेऽपि करभस्त्रियाम्’ इति विश्वः । औष्ट्रिकः स्नेहभाण्डजीवी तैलिक इत्यर्थः । षण्ढा वर्षवराः राजयाजकाः क्षत्रियस्य याज्यास्तेषामपि याज्याः। राजपुरोहितयाज्या वा ॥२५॥

राजयाजकयाज्यानां मद्रकाणां च यन्मलम् ।
तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि ॥२६॥

इति रक्षोपसृष्टेषु विषवीर्यहतेषु च ।
राक्षसं भैषजं प्रोक्तं संसिद्धवचनोत्तरम् ॥२७॥

रक्षोपसृष्टेषु रक्षसा उपद्रुतेषु राक्षसं रक्षसां नाशकमिदं राक्षसम् ॥२७॥

ब्राह्मं पाञ्चालाः कौरवेयास्तु धर्म्यं सत्यं मत्स्या शूरसेनाश्च यज्ञम् ।
प्राच्या दासा वृषला दाक्षिणात्याः स्तेना वाहीकाः संकरा वै सुराष्ट्राः ॥२८॥

ब्राह्मं वेदसमूहं धर्म्यं धर्मादनपेतं कर्म मानयन्तीति शेषः । प्राच्या दासाः शूद्रधर्माणः दाशा इति पाठे मत्स्यजीविनः वृषं धर्मं लान्ति आददते ते वृषलाः । धर्मसङ्ग्रहपराः धर्मद्रोहिण इति वा ॥२८॥

कृतघ्नता परवित्तापहारो मद्यपानं गुरुदारावमर्दः ।
वाक्पारुष्यं गोवधो रात्रिचर्या बहिर्गेहं परवस्त्रोपभोगः ॥२९॥

बहिर्गेहं रात्रिचर्याप्रच्छन्नं चौर्यपारदार्यादि ॥२९॥

येषां धर्मस्तान्प्रति नास्त्यधर्मो ह्यारट्टानां पञ्चनदान् धिगस्तु ।
आपाञ्चाल्येभ्यः कुरवो नैमिषाश्च मत्स्याश्चैतेऽप्यथ जानन्ति धर्मम् ।
अथोदीच्याश्चाङ्गका मागधाश्च शिष्टान् धर्मानुपजीवन्ति वृद्धाः ॥३०॥

आपाञ्चाल्येभ्यः धर्मज्ञाः उदीच्याद्यास्तु स्वयं धर्मस्वरूपमजानन्तोऽपि शिष्टानुगामिन इत्यर्थः । आरट्टास्तूभयभ्रष्टा इति भावः ॥३०॥

प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः ।
दक्षिणां पितरो गुप्तां यमेन शुभकर्मणा ॥३१॥

प्राचीमित्यत्र जातवेद इत्यनेनाग्नेयीसहिता प्राची देवानामाश्रयः । दक्षिणा पितॄणां तत्रैव श्राद्धादिधर्मो दृश्यते ॥३१॥

प्रतीचीं वरुणः पाति पालयानः सुरान्बली ।
उदीचीं भगवान्सोमो ब्राह्मणैः सह रक्षति ॥३२॥

एवं प्रतीचीं वरुणः । उदीचीं सोम इति कुबेरेशानयोर्ग्रहणम् । परिशेषान्नैर्ऋत्यां वायव्यां च वाहीकाश्रयायां नैर्ऋतास्त्वादृशा वातूलाश्च सन्तीत्यर्थः ॥३२॥

तथा रक्षःपिशाचाश्च हिमवन्तं नगोत्तमम् ।
गुह्यकाश्च महाराज पर्वतं गन्धमादनम् ॥३३॥

तथा रक्ष इति । हिमवतोऽप्यप्रशस्यजनाश्रयत्वमुक्तम् । गन्धमादनस्तु भोगलोलुपानां गुह्यकादीनामाश्रयः ॥३३॥

ध्रुवः सर्वाणि भूतानि विष्णुः पाति जनार्दनः ।
इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः ॥३४॥

एवमपि सवाहीकान्सनैर्ऋतान् देशान् विष्णुः पाति पर्जन्यवत् न देशान्तरेष्विव वाहीकेषु विशेषतो देवतानुग्रहो दृश्यत इत्यभिप्रायः । अत एव तेषां मौढ्यं वर्णयति - इङ्गितज्ञाश्चेति ॥३४॥

अर्धोक्ताः कुरुपञ्चालाः शाल्वाः कृत्स्नानुशासनाः ।
पार्वतीयाश्च विषमा यथैव शिबयस्तथा ॥३५॥

विषमाः दुःखसाध्याः ॥३५॥

सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः ।
म्लेच्छाः स्वसंज्ञानियता नानुक्तमितरे जनाः ॥३६॥

सर्वं जानन्तोऽपि यवना म्लेच्छाश्च स्वसंज्ञायां स्वीयैः कृतो यो धर्मसङ्केतस्तत्रैव नियताः वैदिकं धर्मं न मानयन्तीत्यर्थः । इतरे त्वनुक्तं हितं नावबुध्यन्ते ॥३६॥

प्रतिरथास्तु वाहीका न च केचन मद्रकाः ।
स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि ।
पृथिव्यां सर्वदेशानां मद्रको मलमुच्यते ॥३७॥

प्रतिरथाः हितवादिनि प्रतिकूलाः गुरुद्रोहिण इत्यर्थः । तादृशश्च त्वं हितोपदेष्टारं मां निन्दसीत्यर्थः ॥३७॥

सीधोः पानं गुरुतल्पावमर्दो भ्रूणहत्या परवित्तापहारः ।
येषां धर्मस्तान्प्रति नास्त्यधर्म आरट्टजान् पञ्चनदान् धिगस्तु ॥३८॥

एतज्ज्ञात्वा जोषमास्स्व प्रतीपं मा स्म वै कृथाः ।
मा त्वां पूर्वमहं हत्वा हनिष्ये केशवार्जुनौ ॥३९॥

प्रतीपं प्रतिकूलं तेजोवधाख्यम् ॥३९॥

शल्य उवाच। आतुराणां परित्यागः स्वदारसुतविक्रयः ।
अङ्गे प्रवर्तते कर्ण येषामधिपतिर्भवान् ॥४०॥

रथातिरथसंख्यायां यत्त्वां भीष्मस्तदाब्रवीत् ।
तान्विदित्वात्मनो दोषान्निर्मन्युर्भव मा क्रुधः ॥४१॥

'सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः ।
वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्चसुव्रताः ॥४२॥

रमन्ते चोपहासेन पुरुषाः पुरुषैः सह ।
अन्योन्यमवरक्षन्तो देशे देशे समैथुनाः ॥४३॥

परवाच्येषु निपुणः सर्वो भवति सर्वदा ।
आत्मवाच्यं न जानीते जानन्नपि च मुह्यति ॥४४॥

सर्वत्र सन्ति राजानः स्वं स्वं धर्ममनुव्रताः ।
दुर्मनुष्यान्निगृह्णन्ति सन्ति सर्वत्र धार्मिकाः ॥४५॥

न कर्ण देशसामान्यात् सर्वः पापं निषेवते ।
यादृशाः स्वस्वभावेन देवा अपि न तादृशाः' ॥४६॥

देवा अपीति । वृत्तेन देवानप्यतिक्रामन्तीत्यर्थः ॥४६॥

सञ्जय उवाच। ततो दुर्योधनो राजा कर्णशल्याववारयत् ।
सखिभावेन राधेयं शल्यं स्वाञ्जल्यकेन च ॥४७॥

स्वाञ्जल्यकेन स्वस्य अञ्जलिकर्मणा ॥४७॥

ततो निवारितः कर्णो धार्तराष्ट्रेण मारिष ।
कर्णोऽपि नोत्तरं प्राह शल्योऽप्यभिमुखः परान् ।
ततः प्रहस्य राधेयः पुनर्याहीत्यचोदयत् ॥४८॥

इति श्रीमहाभारते कर्णपर्वणि कर्णशल्यसंवादे पञ्चचत्वारिंशोऽध्यायः ॥४५॥
षट्चत्वारिंशोऽध्यायः

सञ्जय उवाच। ततः परानीकसहं व्यूहमप्रतिमं कृतम् ।
समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम् ॥१॥

तत इति ॥१॥

प्रययौ रथघोषेण सिंहनादरवेण च ।
वादित्राणां च निनदैः कम्पयन्निव मेदिनीम् ॥२॥

वेपमान इव क्रोधाद्युद्धशौण्डः परन्तपः ।
प्रतिव्यूह्य महातेजा यथावद्भरतर्षभ ॥३॥

व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव ।
युधिष्ठिरं चाभ्यहनदपसव्यं चकार ह ॥४॥

धृतराष्ट्र उवाच। कथं सञ्जय राधेयः प्रत्यव्यूहत पाण्डवान् ।
धृष्टद्युम्नमुखान्सर्वान् भीमसेनाभिरक्षितान् ॥५॥

सर्वानेव महेष्वासानजय्यानमरैरपि ।
के च प्रपक्षौ पक्षौ वा मम सैन्यस्य सञ्जय ॥६॥

'प्रविभज्य यथान्यायं कथं वा समवस्थिताः ।
कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान् ॥७॥

कथं चैव महद्युद्धं प्रावर्तत सुदारुणम् ।
क्व च बीभत्सुरभवद्यत्कर्णोऽयाद्युधिष्ठिरम् ॥८॥

को ह्यर्जुनस्य सान्निध्ये शक्तोऽभ्येतुं युधिष्ठिरम् ।
सर्वभूतानि यो ह्येकः खाण्डवे जितवान्पुरा ।
कस्तमन्यस्तु राधेयात्प्रतियुद्ध्येज्जिजीविषुः ॥९॥

सञ्जय उवाच। शृणु व्यूहस्य रचनामर्जुनश्च यथागतः ।
परिवार्य नृपं स्वं स्वं सङ्ग्रामश्चाभवद्यथा ॥१०॥

कृपः शारद्वतो राजन् मागधाश्च तरस्विनः ।
सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः ॥११॥

तेषां प्रपक्षे शकुनिरुलूकश्च महारथः ।
सादिभिर्विमलप्रासैस्तवानीकमरक्षताम् ॥१२॥

गान्धारिभिरसंभ्रान्तैः पार्वतीयैश्च दुर्जयैः ।
शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः ॥१३॥

चतुर्विंशत्सहस्राणि रथानामनिवर्तिनाम् ।
संशप्तका युद्धशौण्डा वामं पार्श्वमपालयन् ॥१४॥

समन्वितास्तव सुतैः कृष्णार्जुनजिघांसवः ।
तेषां प्रपक्षाः काम्बोजाः शकाश्च यवनैः सह ॥१५॥

निदेशात्सूतपुत्रस्य सरथाः साश्वपत्तयः ।
आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम् ॥१६॥

मध्ये सेनामुखे कर्णोऽप्यवातिष्ठत दंशितः ।
चित्रवर्माङ्गदः स्रग्वी पालयन्वाहिनीमुखम् ॥१७॥

रक्षमाणैः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः ।
वाहिनीं प्रमुखे वीरः संप्रकर्षन्नशोभत ॥१८॥

अभ्यवर्तन्महाबाहुः सूर्यवैश्वानरप्रभः ।
महाद्विपस्कन्धगतः पिङ्गाक्षः प्रियदर्शनः ॥१९॥

दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः ।
तमन्वयान्महाराज स्वयं दुर्योधनो नृपः ॥२०॥

चित्रास्त्रैश्चित्रसन्नाहैः सोदर्यैरभिरक्षितः ।
रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः ॥२१॥

अशोभत महाराज देवैरिव शतक्रतुः ।
अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः ॥२२॥

नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैः समन्विताः ।
अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः ॥२३॥

ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः ।
सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः ॥२४॥

तेषां पदातिनागानां पादरक्षाः सहस्रशः ।
पट्टिशासिधराः शूरा बभूवुरनिवर्तिनः ॥२५॥

सादिभिः स्यन्दनैर्नागैरधिकं समलङ्कृतैः ।
स व्यूहराजो विबभौ देवासुरचमूपमः ॥२६॥

बार्हस्पत्यः सुविहितो नायकेन विपश्चिता ।
नृत्यतीव महाव्यूहः परेषां भयमादधत् ॥२७॥

तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः ।
हस्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः ॥२८॥

ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः ।
धनञ्जयममित्रघ्नमेकवीरमुवाच ह ॥२९॥

पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे ।
युक्तं पक्षैः प्रपक्षैश्च परानीकं प्रकाशते ॥३०॥

तदेतद्वै समालोक्य प्रत्यमित्रं महद्बलम् ।
यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम् ॥३१॥

एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमब्रवीत् ।
यथा भवानाह तथा तत्सर्वं न तदन्यथा ॥३२॥

यस्त्वस्य विहितो घातस्तं करिष्यामि भारत ।
प्रधानवध एवास्य विनाशस्तं करोम्यहम् ॥३३॥

युधिष्ठिर उवाच। तस्मात्त्वमेव राधेयं भीमसेनः सुयोधनम् ।
वृषसेनं च नकुलः सहदेवोऽपि सौबलम् ॥३४॥

दुःशासनं शतानीको हार्दिक्यं शिनिपुङ्गवः ।
धृष्टद्युम्नो द्रोणसुतं स्वयं योत्स्याम्यहं कृपम् ॥३५॥

द्रौपदेया धार्तराष्ट्रान् शिष्टान्सह शिखण्डिना ।
ते ते च तांस्तानहितानस्माकं घ्नन्तु मामकाः ॥३६॥

सञ्जय उवाच। इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनञ्जयः ।
व्यादिदेश स्वसैन्यानि स्वयं चागाच्चमूमुखम् ॥३७॥

अग्निर्वैश्वानरः पूर्वो ब्रह्मेन्दुः सप्तितां गतः ।
तस्माद्यः प्रथमं जातस्तं देवा ब्राह्मणं विदुः ॥३८॥

अग्निरिति । योऽयं वैश्वानरो विश्वस्य नेता अग्निः स ब्रह्मा ब्राह्मणः प्रजापतिमुखोद्भवत्वसाम्यात् स एव इन्दुः उनत्तीति व्युत्पत्तेर्जलाधीशः सोमरसश्च स एव सप्तितामश्वत्वं गतः । ‘वारुणो वा अश्वः’ इति श्रुतेः । सोमोऽप्यश्वत्वेन स्तूयते ‘अत्यं मृजन्ति कलशे दश क्षिप’ इत्यादौ अत्यम् अश्वं कलशे द्रोणकलशे क्षिपोङ्गुलयः । तमश्वं देवा ब्राह्मणाश्च विदुः स एक एव देवश्चतुर्धाऽऽत्मानं व्यूह्यार्जुनरथं वाहयतीत्यर्थः । ब्रह्मेद्ध इति पाठे ब्रह्मणा वेदेन इद्धः स्तुत्या प्रदीप्तः । स एवाश्वत्वं गत इत्यर्थः ॥३८॥

ब्रह्मेशानेन्द्रवरुणान् क्रमशो योऽवहत्पुरा ।
तमाद्यं रथमास्थाय प्रयातौ केशवार्जुनौ ॥३९॥

एवमश्वान्स्तुत्वा रथं स्तौति - ब्रह्मेति ॥३९॥

अथ तं रथमायान्तं दृष्ट्वाऽत्यद्भुतदर्शनम् ।
उवाचाधिरथिं शल्यः पुनस्तं युद्धदुर्मदम् ॥४०॥

अयं सरथ आयातः श्वेताश्वः कृष्णसारथिः ।
दुर्वारः सर्वसैन्यानां विपाकः कर्मणामिव ॥४१॥

अयं सरथः कौन्तेय आयात इति द्वयोः सम्बन्धः ॥४१॥

निघ्नन्नभिवान् कौन्तेयो यं कर्ण परिपृच्छसि ।
श्रूयते तुमुलः शब्दो यथा मेघस्वनो महान् ॥४२॥

शब्दो रथस्येति शेषः ॥४२॥

ध्रुवमेतौ महात्मानौ वासुदेवधनञ्जयौ ।
एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति ॥४३॥

चक्रनेमिप्रणुन्नेव कम्पते कर्ण मेदिनी ।
प्रवात्येष महावायुरभितस्तव वाहिनीम् ॥४४॥

प्रवातीत्यादिपराजयलक्षणमाह तेजोभङ्गार्थमेव ॥४४॥

क्रव्यादा व्याहरन्त्येते मृगाः क्रन्दन्ति भैरवम् ।
पश्य कर्ण महाघोरं भयदं लोमहर्षणम् ॥४५॥

कबन्धं मेघसंकाशं भानुमावृत्य संस्थितम् ।
पश्य यूथैर्बहुविधैर्मृगाणां सर्वतोदिशम् ॥४६॥

कबन्धं केतुं मृगादिभिरादित्यावेक्षणं क्रियमाणं मृत्युसूचकम् ॥४६॥

बलिभिर्दृप्तशार्दूलैरादित्योऽभिनिरीक्ष्यते ।
पश्य कङ्कांश्च गृध्रांश्च समवेतान्सहस्रशः ॥४७॥

स्थितानभिमुखान् घोरानन्योन्यमभिभाषतः ।
रञ्जिताश्चामरा युक्तास्तव कर्ण महारथे ॥४८॥

चामराः रथेऽवलम्बन्तो रथाक्षचक्रयोः सङ्घर्षजैः स्फुलिंगैर्ज्वलन्तीत्यर्थः ॥४८॥

प्रवराः प्रज्वलन्त्येते ध्वजश्चैव प्रकम्पते ।
सवेपथून् हयान्पश्य महाकायान्महाजवान् ॥४९॥

प्लवमानान्दर्शनीयानाकाशे गरुडानिव ।
ध्रुवमेष निमित्तेषु भूमिमाश्रित्य प्रार्थिवाः ॥५०॥

स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः ।
शङ्खानां तुमुलः शब्दः श्रूयते लोमहर्षणः ॥५१॥

आनकानां च राधेय मृदङ्गानां च सर्वशः ।
बाणशब्दान्बहुविधान्नराश्वगजवाजिनाम् ॥५२॥

ज्यातलत्रेषु शब्दांश्च शृणु कर्ण महात्मनाम् ।
हेमरूप्यप्रसृष्टानां वाससां शिल्पिनिर्मिताः ॥५३॥

ज्यातलत्रेषु कर्णानिति पाठे कर्णो वाद्यविशेषः। तेषां ध्वनीन् शिल्पिनो रञ्जकाः ॥५३॥

नानावर्णा रथे भान्ति श्वसनेन प्रकम्पिताः ।
सहेमचन्द्रतारार्काः पताकाः किंकिणीयुताः ॥५४॥

पश्य कर्णार्जुनस्यैताः सौदामन्य इवाम्बुदे ।
ध्वजाः कणकणायन्ते वातेनाभिसमीरिताः ॥५५॥

विभ्राजन्ति रथे कर्ण विमाने दैवते यथा ।
सपताका रथाश्चैते पञ्चालानां महात्मनाम् ॥५६॥

पश्य कुन्तीसुतं वीरं बीभत्सुमपराजितम् ।
प्रधर्षयितुमायान्तं कपिप्रवरकेतनम् ॥५७॥

एष ध्वजाग्रे पार्थस्य प्रेक्षणीयः समन्ततः ।
दृश्यते वानरो भीमो द्विषतामघवर्धनः ॥५८॥

अघवर्धनः दुःखस्य वर्धयिता ॥५८॥

एतच्चक्रं गदा शार्ङ्गं शङ्खः कृष्णस्य धीमतः ।
अत्यर्थं भ्राजते कृष्णे कौस्तुभस्तु मणिस्ततः ॥५९॥

एष शार्ङ्गगदापाणिर्वासुदेवोऽतिवीर्यवान् ।
वाहयन्नेति तुरगान्पाण्डुरान्वातरंहसः ॥६०॥

एतत्कूजति गाण्डीवं विकृष्टं सव्यसाचिना ।
एते हस्तवता मुक्ता घ्नन्त्यमित्राञ्शिताः शराः ॥६१॥

विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः ।
एषा भूः कीर्यते राज्ञां शिरोभिरपलायिनाम् ॥६२॥

एते सुपरिघाकाराः पुण्यगन्धानुलेपनाः ।
उद्यतायुधशौण्डानां पात्यन्ते सायुधा भुजाः ॥६३॥

निरस्तनेत्रजिह्वाश्च वाजिनः सह सादिभिः ।
पतिताः पात्यमानाश्च क्षितौ क्षीणाश्च शेरते ॥६४॥

एते पर्वतशृङ्गाणां तुल्यरूपा हता द्विपाः ।
संछिन्नभिन्नाः पार्थेन प्रचरन्त्यद्रयो यथा ॥६५॥

गन्धर्वनगराकारा रथा हतनरेश्वराः ।
विमानानीव पुण्यानि स्वर्गिणां निपतन्त्यमी ॥६६॥

व्याकुलीकृतमत्यर्थं पश्य सैन्यं किरीटिना ।
नानामृगसहस्राणां यूथं केसरिणा यथा ॥६७॥

घ्नन्त्येते पार्थिवान्वीराः पाण्डवाः समभिद्रुताः ।
नागाश्वरथपत्त्योघांस्तावकान्समभिघ्नतः ॥६८॥

एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते ।
ध्वजाग्रं दृश्यते त्वस्य ज्याशब्दश्चापि श्रूयते ॥६९॥

अद्य द्रक्ष्यसि तं वीरं श्वेताश्वं कृष्णसारथिम् ।
निघ्नन्तं शात्रवान्संख्ये यं कर्ण परिपृच्छसि ॥७०॥

अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परन्तपौ ।
वासुदेवार्जुनौ कर्ण द्रष्टास्येकरथे स्थितौ ॥७१॥

सारथिर्यस्य वार्ष्णेयो गाण्डीवं यस्य कार्मुकम् ।
तं चेद्धन्तासि राधेय त्वं नो राजा भविष्यसि ॥७२॥

एष संशप्तकाहूतस्तानेवाभिमुखो गतः ।
करोति कदनं चैषां संग्रामे द्विषतां बली ॥७३॥

इति ब्रुवाणं मद्रेशं कर्णः प्राहातिमन्युना ।
पश्य संशप्तकैः क्रुद्धैः सर्वतः समभिद्रुतः ॥७४॥

एष सूर्य इवांभोदैश्छन्नः पार्थो न दृश्यते ।
एतदन्तोऽर्जुनः शल्य निमग्नो योधसागरे ॥७५॥

शल्य उवाच। वरुणं कोऽम्भसा हन्यादिन्धनेन च पावकम् ।
को वाऽनिलं निगृह्णीयात्पिबेद्वा को महार्णवम् ॥७६॥

ईदृग्रूपमहं मन्ये पार्थस्य युधि विग्रहम् ।
न हि शक्योऽर्जुनो जेतुं युधि सेन्द्रैः सुरासुरैः ॥७७॥

अथवा परितोषस्ते वाचोक्त्वा सुमना भव ।
न स शक्यो युधा जेतुमन्यं कुरु मनोरथम् ॥७८॥

बाहुभ्यामुद्धरेद्भूमिं दहेत्कुद्ध इमाः प्रजाः ।
पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ॥७९॥

पश्य कुन्तीसुतं वीरं भीममक्लिष्टकारिणम् ।
प्रभासन्तं महाबाहुं स्थितं मेरुमिवापरम् ॥८०॥

अमर्षी नित्यसंरब्धश्चिरं वैरमनुस्मरन् ।
एष भीमो जयप्रेप्सुर्युधि तिष्ठति वीर्यवान् ॥८१॥

एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः ।
तिष्ठत्यसुकरः संख्ये परैः परपुरञ्जयः ॥८२॥

एतौ च पुरुषव्याघ्रावश्विनाविव सोदरौ ।
नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ ॥८३॥

अमी स्थिता द्रौपदेयाः पञ्च पञ्चाचला इव ।
व्यवस्थिता योद्धुकामाः सर्वेऽर्जुनसमा युधि ॥८४॥

एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः ।
स्फीताः सत्यजितो वीरास्तिष्ठन्ति परमौजसः ॥८५॥

असाविन्द्र इवासह्यः सात्यकिः सात्वतां वरः ।
युयुत्सुरुपयात्यस्मान् क्रुद्धान्तकसमः पुरः ॥८६॥

इति संवद‌तोरेव तयोः पुरुषसिंहयोः ।
ते सेने समसज्जेतां गङ्गायमुनवद्भृशम् ॥८७॥

इति श्रीमहाभारते कर्णपर्वणि कर्णशल्यसंवादे षट्चत्वारिंशोऽध्यायः ॥४६॥
सप्तचत्वारिंशोऽध्यायः

धृतराष्ट्र उवाच। तथा व्यूढेष्वनीकेषु संसक्तेषु च सञ्जय ।
संशप्तकान् कथं पार्थो गतः कर्णश्च पाण्डवान् ॥१॥

तथेति ॥१॥

एतद्विस्तरशो युद्धं प्रब्रूहि कुशलो ह्यसि ।
न हि तृप्यामि वीराणां शृण्वानो विक्रमान्रणे ॥२॥

सञ्जय उवाच। तदास्थितमवज्ञाय प्रत्यमित्रबलं महत् ।
अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्नये ॥३॥

तत्सादिनागकलिलं पदातिरथसंकुलम् ।
धृष्टद्युम्नमुखं व्यूहमशोभत महद्बलम् ॥४॥

पारावतसवर्णाश्वश्चन्द्रादित्यसमद्युतिः ।
पार्षतः प्रबभौ धन्वी कालो विग्रहवानिव ॥५॥

पार्षतं जुगुपुः सर्वे द्रौपदेया युयुत्सवः ।
दिव्यवर्मायुधधराः शार्दूलसमविक्रमाः ॥६॥

सानुगा दीप्तवपुषश्चन्द्रं तारागणा इव ।
अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे ॥७॥

क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन् गाण्डिवं धनुः ।
अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः ॥८॥

विजये धृतसंकल्पा मृत्युं कृत्वानिवर्तनम् ।
तन्नराश्वौघबहुलं मत्तनागरथाकुलम् ॥९॥

पत्तिमच्छूरवीरौघं द्रुतमर्जुनमार्दयत् ।
स संप्रहारस्तुमुलस्तेषामासीत्किरीटिना ॥१०॥

तस्यैव नः श्रुतो यादृङ्निवातकवचैः सह ।
रथानश्वान् ध्वजान्नागान्पत्तीन्रणगतानपि ॥११॥

इषून् धनूंषि खड्गांश्च चक्राणि च परश्वधान् ।
सायुधानुद्यतान्बाहून्विविधान्यायुधानि च ॥१२॥

चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः ।
तस्मिन्सैन्यमहावर्ते पातालतलसन्निभे ॥१३॥

निमग्नं तं रथं मत्वा नेदुः संशप्तकास्तथा ।
स पुनस्तानरीन्हत्वा पुनरुत्तरतोऽवधीत् ॥१४॥

दक्षिणेन च पश्चाच्च क्रुद्धो रुद्रः पशूनिव ।
अथ पञ्चालचेदीनां सृञ्जयानां च मारिष ॥१५॥

त्वदीयैः सह संग्राम आसीत् परमदारुणः ।
कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः ॥१६॥

हृष्टसेनाः सुसंरब्धा रथानीकप्रहारिणः ।
कोसलैः काश्य-मत्स्यैश्च कारूषैः केकयैरपि ॥१७॥

शूरसेनैः शूरवरैर्युयुधुर्युद्धदुर्मदाः ।
तेषामन्तकरं युद्धं देहपाप्मासुनाशनम् ॥१८॥

क्षत्र-विट्-शूद्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम् ।
दुर्योधनोऽथ सहितो भ्रातृभिर्भरतर्षभ ॥१९॥

क्षत्र-विट्-शूद्रवीराणामित्यनेन ब्राह्मणादृते युद्धं सर्वेषां श्रेयस्करमित्यर्थः ॥१९॥

गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः ।
पाण्डवैः सह पाञ्चालैश्चेदिभिः सात्यकेन च ॥२०॥

युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत् ।
कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम् ॥२१॥

प्रमृद्य च रथश्रेष्ठान् युधिष्ठिरमपीडयत् ।
विवस्त्रायुधदेहासून् कृत्वा शत्रून्सहस्रशः ॥२२॥

युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत् ।
एवं मारिष संग्रामो नर-वाजि-गजक्षयः ।
कुरूणां सृञ्जयानां च देवासुरसमोऽभवत् ॥२३॥

युक्त्वा योजयित्वा ॥२३॥
इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे सप्तचत्वारिंशोऽध्यायः ॥४७॥
अष्टचत्वारिंशोऽध्यायः

धृतराष्ट्र उवाच। यत्तत्प्रविश्य पार्थानां सैन्यं कुर्वञ्जनक्षयम् ।
कर्णो राजानमभ्येत्य तन्ममाचक्ष्व सञ्जय ॥१॥

यत्तदिति । अभ्येत्य यदकरोत्तन्ममाचक्ष्वेत्यन्वयः ॥१॥

के च प्रवीराः पार्थानां युधि कर्णमवारयन् ।
कांश्च प्रमथ्याधिरथिर्युधिष्ठिरमपीडयत् ॥२॥

सञ्जय उवाच। धृष्टद्युम्नमुखान् पार्थान् दृष्ट्वा कर्णो व्यवस्थितान् ।
समभ्यधावत्त्वरितः पञ्चालाञ्छत्रुकर्षिणः ॥३॥

तं तूर्णमभिधावन्तं पञ्चाला जितकाशिनः ।
प्रत्युद्ययुर्महात्मानं हंसा इव महार्णवम् ॥४॥

ततः शङ्खसहस्राणां निःस्वनो हृदयङ्गमः ।
प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः ॥५॥

नानाबाणनिपाताश्च द्विपाश्व-रथ-निःस्वनः ।
सिंहनादश्च वीराणामभवद्दारुणस्तदा ॥६॥

साद्रिद्रुमार्णवा भूमिः सवाताम्बुदमम्बरम् ।
सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं विघूर्णिता ॥७॥

इति भूतानि तं शब्दं मेनिरे ते च विव्यथुः ।
यानि चाप्यल्पसत्त्वानि प्रायस्तानि मृतानि च ॥८॥

अथ कर्णो भृशं क्रुद्धः शीघ्रमस्त्रमुदीरयन् ।
जघान पाण्डवीं सेनामासुरीं मघवानिव ॥९॥

स पाण्डवबलं कर्णः प्रविश्य विसृजञ्छरान् ।
प्रभद्रकाणां प्रवरानहनत्सप्तसप्ततिम् ॥१०॥

ततः सुपुङ्खैर्निशितै रथश्रेष्ठो रथेषुभिः ।
अवधीत्पञ्चविंशत्या पञ्चालान् पञ्चविंशतिम् ॥११॥

सुवर्णपुङ्खैर्नाराचैः परकायविदारणैः ।
चेदिकानवधीद्वीरः शतशोऽथ सहस्रशः ॥१२॥

तं तथा समरे कर्म कुर्वाणमतिमानुषम् ।
परिवव्रुर्महाराज पञ्चालानां रथव्रजाः ॥१३॥

ततः सन्धाय विशिखान्पञ्च भारत दुःसहान् ।
पञ्चालानवधीत्पञ्च कर्णो वैकर्तनो वृषः ॥१४॥

भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत ।
तपनं शूरसेनं च पञ्चालानहनद्रणे ॥१५॥

पञ्चालेषु च शूरेषु वध्यमानेषु सायकैः ।
हाहाकारो महानासीत्पञ्चालानां महाहवे ॥१६॥

परिवव्रुर्महाराज पञ्चालानां रथा दश ।
पुनरेव च तान् कर्णो जघानाशु पतत्रिभिः ॥१७॥

चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ ।
सुषेणः सत्यसेनश्च त्यक्त्वा प्राणानयुध्यताम् ॥१८॥

पृष्ठगोप्ता तु कर्णस्य ज्येष्ठः पुत्रो महारथः ।
वृषसेनः स्वयं कर्णं पृष्ठतः पर्यपालयत् ॥१९॥

धृष्टद्युम्नः सात्यकिश्च द्रौपदेया वृकोदरः ।
जनमेजयः शिखण्डी च प्रवीराश्च प्रभद्रकाः ॥२०॥

चेदिकेकयपञ्चाला यमौ मत्स्याश्च दंशिताः ।
समभ्यधावन् राधेयं जिघांसन्तः प्रहारिणम् ॥२१॥

त एनं विविधैः शस्त्रैः शरधाराभिरेव च ।
अभ्यवर्षन्विमर्दन्तं प्रावृषीवाम्बुदा गिरिम् ॥२२॥

विमर्दन्तं विमृद्नन्तम् ॥२२॥

पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः ।
त्वदीयाश्चापरे राजन्वीरा वीरानवारयन् ॥२३॥

सुषेणो भीमसेनस्य च्छित्त्वा भल्लेन कार्मुकम् ।
नाराचैः सप्तभिर्विद्ध्वा हृदि भीमं ननाद ह ॥२४॥

अथान्यद्धनुरादाय सुदृढं भीमविक्रमः ।
सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद्धनुः ॥२५॥

विव्याध चैनं दशभिः क्रुद्धो नृत्यन्निवेषुभिः ।
कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः ॥२६॥

भानुसेनं च दशभिः साश्वसूतायुधध्वजम् ।
पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत् ॥२७॥

क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम् ।
शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम् ॥२८॥

हत्वा कर्णसुतं भीमस्तावन्कापुनरार्दयत् ।
कृपहार्दिक्ययोश्छित्त्वा चापौ तावप्यथार्दयत् ॥२९॥

दुःशासनं त्रिभिर्विद्ध्वा शकुनिं षड्भिरायसैः ।
उलूकं च पतत्रिं च चकार विरथावुभौ ॥३०॥

सुषेणं च हतोऽसीति ब्रुवन्नादत्त सायकम् ।
तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडयत् ॥३१॥

अथान्यं परिजग्राह सुपर्वाणं सुतेजनम् ।
सुषेणायासृजद्भीमस्तमप्यस्याच्छिनद्वृषः ॥३२॥

पुनः कर्णस्त्रिसप्तत्या भीमसेनमथेषुभिः ।
पुत्रं परीप्सन्विव्याध क्रूरं क्रूरैर्जिघांसया ॥३३॥

सुषेणस्तु धनुर्गुह्य भारसाधनमुत्तमम् ।
नकुलं पञ्चभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥३४॥

नकुलस्तं तु विंशत्या विद्ध्वा भारसहैर्दृढैः ।
ननाद बलवन्नादं कर्णस्य भयमादधत् ॥३५॥

तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः ।
चिच्छेद च धनुः शीघ्रं क्षुरप्रेण महारथः ॥३६॥

अथान्यद्धनुरादाय नकुलः क्रोधमूर्च्छितः ।
सुषेणं नवभिर्बाणैर्वारयामास संयुगे ॥३७॥

स तु बाणैर्दिशो राजन्नाच्छाद्य परवीरहा ।
आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः ॥३८॥

चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा ।
अथान्यद्धनुरादाय सुषेणः क्रोधमूर्च्छितः ॥३९॥

आविध्यकुन्नलं पष्ट्या सहदेवं च सप्तभिः ।
तद्युद्धं सुमहद्धोरमासीद्देवासुरोपमम् ॥४०॥

निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति ।
सात्यकिर्वृषसेनस्य सूतं हत्वा त्रिभिः शरैः ॥४१॥

धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः ।
ध्वजमेकेषुणोन्मध्य त्रिभिस्तं हृद्यताडयत् ॥४२॥

अथावसन्नः स्वरथे मुहूर्तात्पुनरुत्थितः ।
स रणे युयुधानेन विसूताश्वरथध्वजः ॥४३॥

कृतो जिघांसुः शैनेयं खड्गचर्मधृगभ्ययात् ।
तस्य चापततः शीघ्रं वृषसेनस्य सात्यकिः॥४४॥

वाराहकर्णैर्दशभिरविध्यदसिचर्मणी ।
दुःशासनस्तु तं दृष्ट्वा विरथं व्यायुधं कृतम् ॥४५॥

आरोप्य स्वरथं तूर्णमपोवाह रणातुरम् ।
अथान्यं रथमास्थाय वृषसेनो महारथः ॥४६॥

द्रौपदेयांस्त्रिसप्तत्या युयुधानं च पञ्चभिः ।
भीमसेनं चतुःषष्ट्या सहदेवं च पञ्चभिः॥४७॥

नकुलं त्रिंशता बाणैः शतानीकं च सप्तभिः ।
शिखण्डिनं च दशभिर्धर्मराजं शतेन च ॥४८॥

एतांश्चान्यांश्च राजेन्द्र प्रवीराञ्जयगृद्धिनः ।
अभ्यर्दयन्महेष्वासः कर्णपुत्रो विशांपते ॥४९॥

कर्णस्य युधि दुर्धर्षस्ततः पृष्ठमपालयत् ।
दुःशासनं च शैनेयो नवैर्नवभिरायसैः ॥५०॥

विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत् ।
स त्वन्यं रथमास्थाय विधिवत्कल्पितं पुनः ॥५१॥

युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन्बलम् ।
धृष्टद्युम्नस्ततः कर्णमविध्यद्दशभिः शरैः ॥५२॥

द्रौपदेयास्त्रिसप्तत्या युयुधानस्तु सप्तभिः ।
भीमसेनश्चतुःषष्ट्या सहदेवश्च सप्तभिः ॥५३॥

नकुलस्त्रिंशता बाणैः शतानीकस्तु सप्तभिः ।
शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु ॥५४॥

एते चान्ये च राजेन्द्र प्रवीरा जयगृद्धिनः ।
अभ्यर्दयन्महेष्वासं सूतपुत्रं महामृधे ॥५५॥

तान्सूतपुत्रो विशिखैर्दशभिर्दशभिः शरैः ।
रथेनानुचरन्वीरः प्रत्यविध्यदरिन्दमः ॥५६॥

तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः ।
अपश्याम महाभाग तद‌द्भुतमिवाभवत् ॥५७॥

न ह्याददानं ददृशुः सन्दधानं च सायकान् ।
विमुञ्चन्तं च संरंभादपश्यन्त हतानरीन् ॥५८॥

द्यौर्वियद्भूर्दिशश्चैव प्रपूर्णानि शितैः शरैः ।
अरुणाभ्रावृताकारं तस्मिन्देशे बभौ वियत् ॥५९॥

नृत्यन्निव हि राधेयश्चापहस्तः प्रतापवान् ।
यैर्विद्धः प्रत्यविद्ध्यत्तानेकैकं त्रिगुणैः शरैः ॥६०॥

शतैश्च दशभिश्चैतान् पुनर्विद्ध्वा ननाद च ।
साश्वसूतरथाश्छन्नास्ततस्ते विवरं ददुः ॥६१॥

विवरम् अन्तरं ददुः प्रसृता इत्यर्थः ॥६१॥

तान्प्रमथ्य महेष्वासान् राधेयः शरवृष्टिभिः ।
गजानीकमसम्बाधं प्राविशच्छत्रुकर्शनः ॥६२॥

स रथांस्त्रिशतं हत्वा चेदीनामनिवर्तिनाम् ।
राधेयो निशितैर्बाणैस्ततोऽभ्यार्छद्युधिष्ठिरम् ॥६३॥

ततस्ते पाण्डवा राजच्छिखंडी च ससात्यकिः ।
राधेयात्परिरक्षन्तो राजानं पर्यवारयन्‌ ॥६४॥

तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे ।
यत्ताः शूरा महेष्वासाः पर्यरक्षन्त सर्वशः॥६५॥

नानावादित्रघोषाश्च प्रादुरासन्विशांपते ।
सिंहनादश्च सञ्जज्ञे शूराणामभिगर्जताम् ॥६६॥

ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः ।
युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम् ॥६७॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे अष्टचत्वारिंशोऽध्यायः ॥४८॥
एकोनपञ्चाशत्तमोऽध्यायः

सञ्जय उवाच। विदार्य कर्णस्तां सेनां युधिष्ठिरमथाद्रवत् ।
रथहस्त्यश्वपत्तीनां सहस्त्रैः परिवारितः ॥१॥

विदार्येति ॥१॥

नानायुधसहस्राणि प्रेरितान्यरिभिर्वृषः ।
छित्त्वा बाणशतैरुग्रैस्तानविध्यदसंभ्रमात् ॥२॥

निचकर्त शिरांस्येषां बाहूनूरूंश्च सूतजः ।
ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवुः ॥३॥

द्राविडास्तु निषादास्तु पुनः सात्यकिचोदिताः ।
अभ्यद्रवज्जिघांसन्तः पत्तयः कर्णमाहवे ॥४॥

ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः ।
पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा ॥५॥

एवं योधशतान्याजौ सहस्राण्ययुतानि च ।
हतानीयुर्महीं देहैर्यशसा पूरयन्दिशः ॥६॥

अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम् ।
रुरुधुः पाण्डुपञ्चाला व्याधिं मन्त्रौषधैरिव ॥७॥

स तान्प्रमृद्याभ्यपतत्पुनरेव युधिष्ठिरम् ।
मन्त्रौषधिक्रियातीतो व्याधिरत्युल्वणो यथा ॥८॥

स राजगृद्धिभी रुद्धः पाण्डुपञ्चालकेकयैः ।
नाशकत्तानतिक्रान्तुं मृत्युर्ब्रह्मविदो यथा ॥९॥

ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम् ।
अब्रवीत्परवीरघ्नं क्रोधसंरक्तलोचनः ॥१०॥

कर्ण कर्ण वृथादृष्टे सूतपुत्र वचः शृणु ।
सदा स्पर्धसि संग्रामे फाल्गुनेन तरस्विना ॥११॥

तथास्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः ।
यद्बलं यच्च ते वीर्यं प्रद्वेषो यस्तु पाण्डुषु ॥१२॥

तत्सर्वं दर्शयस्वाद्य पौरुपं महदास्थितः ।
युद्धश्रद्धां च तेऽद्याहं विनेष्यामि महाहवे ॥१३॥

एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा ।
सुवर्णपुङ्खैर्दशभिर्विव्याधायस्मयैः शरैः ॥१४॥

तं सूतपुत्रो दशभिः प्रत्यविद्ध्यद‌रिन्दमः ।
वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत ॥१५॥

सोऽवज्ञाय तु निर्विद्धः सूतपुत्रेण मारिष ।
प्रजज्वाल ततः क्रोधाद्धविषेव हुताशनः ॥१६॥

ज्वालामालापरिक्षिप्तो राज्ञो देहो व्यदृश्यत ।
युगान्ते दग्धुकामस्य संवर्ताग्नेरिवापरः ॥१७॥

ततो विस्फार्य सुमहच्चापं हेमपरिष्कृतम् ।
समाधत्त शितं बाणं गिरीणामपि दारणम् ॥१८॥

ततः पूर्णायतोत्कृष्टं यमदण्डनिभं शरम् ।
मुमोच त्वरितो राजा सूतपुत्रजिघांसया ॥१९॥

स तु वेगवता मुक्तो बाणो वज्राशनिस्वनः ।
विवेश सहसा कर्णं सव्ये पार्श्वे महारथम् ॥२०॥

स तु तेन प्रहारेण पीडितः प्रमुमोह वै ।
स्रस्तगात्रो महाबाहुर्धनुरुत्सृज्य स्यन्दने ॥२१॥

गतासुरिव निश्चेताः शल्यस्याभिमुखोऽपतत् ।
राजापि भूयो नाजघ्ने कर्णं पार्थहितेप्सया ॥२२॥

ततो हाहाकृतं सर्वं धार्तराष्ट्रबलं महत् ।
विवर्णमुखभूयिष्ठं कर्णं दृष्ट्वा तथागतम् ॥२३॥

सिंहनादश्च संजज्ञे क्ष्वेलाः किलकिलास्तथा ।
पाण्डवानां महाराज दृष्ट्वा राज्ञः पराक्रमम् ॥२४॥

प्रतिलभ्य तु राधेयः संज्ञां नातिचिरादिव ।
दध्रे राजविनाशाय मनः क्रूरपराक्रमः ॥२५॥

स हेमविकृतं चापं विस्फार्य विजयं महत् ।
अवाकिरदमेयात्मा पाण्डवं निशितैः शरैः ॥२६॥

ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः ।
जघान चन्द्रदेवं च दण्डधारं च संयुगे ॥२७॥

तावुभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः ।
रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू ॥२८॥

युधिष्ठिरः पुनः कर्णमविद्ध्यस्त्रिंशता शरैः ।
सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत् ॥२९॥

शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम् ।
तांस्तस्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः ॥३०॥

ततः प्रहस्याधिरथिर्विधुन्वानः स कार्मुकम् ।
भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्याऽनद‌त्तदा ॥३१॥

ततः प्रवीराः पाण्डूनामभ्यधावन्नमर्षिताः ।
युधिष्ठिरं परीप्सन्तः कर्णमभ्यर्दयञ्छरैः ॥३२॥

सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च ।
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ॥३३॥

यमौ च भीमसेनश्च शिशुपालस्य चात्मजः ।
कारूषा मत्स्यशेषाश्च केकयाः काशिकोसलाः ॥३४॥

एते च त्वरिता वीरा वसुषेणमताडयन् ।
जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः ॥३५॥

वाराहकर्णनाराचैर्नालीकैर्निशितैः शरैः ।
वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः ॥३६॥

नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिभिः ।
सर्वतोऽभ्यद्रवत्कर्णं परिवार्य जिघांसया ॥३७॥

स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः ।
उदीरयन् ब्राह्ममस्त्रं शरैरापूरयन्दिशः ॥३८॥

ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः ।
निर्दहन्पाण्डववनं वीरः पर्यचरद्रणे ॥३९॥

स सन्धाय महास्त्राणि महेष्वासा महामनाः ।
प्रहस्य पुरुषेन्द्रस्य शरैश्चिच्छेद कार्मुकम् ॥४०॥

पुरुषेन्द्रस्य युधिष्ठिरस्य ॥४०॥

ततः सन्धाय नवतिं निमेषान्नतपर्वणाम् ।
बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः ॥४१॥

तद्वर्म हेमविकृतं रत्नचित्रं बभौ पतत् ।
सविद्युदभ्रं सवितुः श्लिष्टं वातहतं यथा ॥४२॥

तदङ्गात्पुरुषेन्द्रस्य भ्रष्टं वर्म व्यरोचत ।
रत्नैरलङ्कृतं चित्रैर्व्यभ्रं निशि यथा नभः ॥४३॥

छिन्नवर्मा शरैः पार्थो रुधिरेण समुक्षितः ।
ततः सर्वायसीं शक्तिं चिक्षेपाधिरथिं प्रति ॥४४॥

तां ज्वलन्तीमिवाकाशे शरैश्चिच्छेद सप्तभिः ।
सा छिन्ना भूमिमगमन्महेष्वासस्य सायकैः ॥४५॥

ततो बाह्वोर्लर्लाटे च हृदि चैव युधिष्ठिरः ।
चतुर्भिस्तोमरैः कर्णं ताडयित्वा नदन्मुदा ॥४६॥

उद्भिन्नरुधिरः कर्णः क्रुद्धः सर्प इव श्वसन् ।
ध्वजं चिच्छेद भल्लेन त्रिभिर्विव्याध पाण्डवम् ॥४७॥

इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत् ।
कालवालास्तु ये पार्थं दन्तवर्णाऽवहन्हयाः ॥४८॥

तैर्युक्तं रथमास्थाय प्रायाद्राजा पराङ्मुखः ।
एवं पार्थोभ्युपायात्स निहतः पार्ष्णिसारथिः ॥४९॥

अशक्नुवन्प्रमुखतः स्थातुं कर्णस्य दुर्मनाः ।
अभिद्रुत्य तु राधेयः पाण्डुपुत्रं युधिष्ठिरम् ॥५०॥

वज्रच्छत्रांकुशैर्मत्स्यैर्ध्वजकूर्माम्बुजादिभिः ।
लक्षणैरुपपन्नेन पाण्डुना पाण्डुनन्दनम् ॥५१॥

पवित्रीकर्तुमात्मानं स्कन्धे संस्पृश्य पाणिना ।
ग्रहीतुमिच्छन्स बलात् कुन्तीवाक्यं च सोऽस्मरत् ॥५२॥

तं शल्यः प्राह मा कर्ण गृहीथाः पार्थिवोत्तमम् ।
गृहीतमात्रो हत्वा त्वां मा करिष्यति भस्मसात् ॥५३॥

अब्रवीत्प्रहसन्राजन् कुत्सयन्निव पाण्डवम् ।
कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः ॥५४॥

प्रजह्यात्समरं भीतः प्राणान्रक्षन्महाहवे ।
न भवान् क्षत्रधर्मेषु कुशलो हीति मे मतिः ॥५५॥

ब्राह्मे बले भवान् युक्तः स्वाध्याये यज्ञकर्मणि ।
मा स्म युद्ध्यस्व कौन्तेय मा स्म वीरान्समासदः ॥५६॥

मा चैतानप्रियं ब्रूहि मा वै व्रज महारणम् ॥५७॥

वक्तव्या मारिषान्ये तु न वक्तव्यास्तु मादृशाः ।
मादृशान्विब्रुवन्युद्धे एतदन्यच्च लप्स्यसे ।
स्वगृहं गच्छ कौन्तेय यत्र तौ केशवार्जुनौ ॥५८॥

न हि त्वां समरे राजन् हन्यात्कर्णः कथञ्चन ।
एवमुक्त्वा ततः पार्थं विसृज्य च महाबलः ॥५९॥

न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम् ।
ततोपायाद्द्रुतं राजन्व्रीडन्निव नरेश्वरः ॥६०॥

अथापयति राजानं मत्वान्वीयुस्तमच्युतम् ।
चेदिपाण्डवपञ्चालाः सात्यकिश्च महारथः ॥६१॥

द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ ।
ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम् ॥६२॥

कुरुभिः सहितो वीरः प्रहृष्टः पृष्ठतोऽन्वगात् ।
भेरीशङ्खमृदंगानां कार्मुकाणां च निःस्वनः ॥६३॥

बभूव धार्तराष्ट्राणां सिंहनादरवस्तथा ।
युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरम् ॥६४॥

श्रुतकीर्तेर्महाराज दृष्टवान्कर्णविक्रमम् ।
काल्यमानं बलं दृष्ट्वा धर्मराजो युधिष्ठिरः ॥६५॥

स्वान् योधानब्रवीत्कुद्धो निघ्नतैतान् किमासतः ।
ततो राज्ञाऽभ्यनुज्ञाताः पाण्डवानां महारथाः ॥६६॥

भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन् ।
अभवत्तुमुलः शब्दो योधानां तत्र भारत ॥६७॥

रथहस्त्यश्वपत्तीनां शस्त्राणां च ततस्ततः ।
उत्तिष्ठत प्रहरत प्रैताभिपततेति च ॥६८॥

इति ब्रुवाणा ह्यन्योन्यं जघ्नुर्योधा महारणे ।
अभ्रच्छायेव तत्रासीच्छरवृष्टिभिरम्बरे ॥६९॥

समावृतैर्नरवरैर्निघ्नद्भिरितरेतरम् ।
विपताकध्वजच्छत्रा व्यश्वसूतायुधा रणे ॥७०॥

व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणाः क्षितीश्वराः ।
प्रवणादिव शैलानां शिखराणि द्विपोत्तमाः ॥७१॥

सारोहा निहताः पेतुर्वज्रभिन्ना इवाद्रयः ।
छिन्नभिन्नविपर्यस्तैर्वर्मालङ्कारभूषणैः ॥७२॥

सारोहास्तुरगाः पेतुर्हतवीराः सहस्रशः ।
विप्रविद्धायुधाश्चैव विरथाश्च रथैर्हताः ॥७३॥

प्रतिवीरैश्च संमर्दे पत्तिसंघाः सहस्रशः ।
विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः ॥७४॥

शिरोभिर्युद्धशौण्डानां सर्वतः संवृता मही ।
यथा भुवि तथा व्योम्नि निःस्वनं शुश्रुवुर्जनाः ॥७५॥

विमानैरप्सरः सङ्घैर्गीतवादित्रनिःस्वनैः ।
हतानभिमुखान्वीरान् वीरैः शतसहस्रशः ॥७६॥

आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः ।
तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया ॥७७॥

प्रहृष्टमनसः शूराः क्षिप्रं जघ्नुः परस्परम् ।
रथिनो रथिभिः सार्धं चित्रं युयुधुराहवे ॥७८॥

पत्तयः पत्तिभिर्नागाः सह नागैर्हयैर्हयाः ।
एवं प्रवृत्ते संग्रामे गज-वाजि-नरक्षये ॥७९॥

सैन्येन रजसा वृत्ते स्वे स्वाञ्जघ्नुः परे परान् ।
कचाकचि युद्धमासीद्दन्तादन्ति नखानखि ॥८०॥

मुष्टियुद्धं नियुद्धं च देहपाप्मासुनाशनम् ।
तथा वर्तति संग्रामे गज-वाजि-नरक्षये ॥८१॥

नराश्वनागदेहेभ्यः प्रसृता लोहितापगा ।
गजाश्वनरदेहान्सा व्युवाह पतितान्बहून् ॥८२॥

नराश्व-गजसम्बाधे नराश्व-गज-सादिनाम् ।
लोहितोदा महाघोरा मांसशोणितकर्दमा ॥८३॥

नराश्वगजदेहानां वहन्ती भीरुभीषणा ।
तस्याः पारमपारं च व्रजन्ति विजयैषिणः ॥८४॥

गाधेन चोत्प्लवन्तश्च निमज्ज्योन्मज्य चापरे ।
ते तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः ॥८५॥

सस्रुस्तस्यां पपुश्चास्यां मम्लुश्च भरतर्षभ ।
रथानश्वान्नरान्नागानायुधाभरणानि च ॥८६॥

वसनान्यथ वर्माणि वध्यमानान् हतानपि ।
भूमिं खं द्यां दिशश्चैव प्रायः पश्याम लोहितम् ॥८७॥

लोहितस्य तु गन्धेन स्पर्शेन च रसेन च ।
रूपेण चातिरक्तेन शब्देन च विसर्पता ॥८८॥

विषादः सुमहानासीत्प्रायः सैन्यस्य भारत ।
तत्तु विप्रहतं सैन्यं भीमसेनमुखास्तदा ॥८९॥

भूयः समाद्रवन्वीराः सात्यकिप्रमुखास्तदा ।
तेषामापततां वेगमविषह्यं निरीक्ष्य च ॥९०॥

पुत्राणां ते महासैन्यमासीद्राजन् पराङ्मुखम् ।
तत्प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम् ॥९१॥

विध्वस्तवर्मकवचं प्रविद्धायुधकार्मुकम् ।
व्यद्रवत्तावकं सैन्यं लोड्यमानं समंततः ।
सिंहार्दितमिवारण्ये यथा गजकुलं तथा ॥९२॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे ऊनपञ्चाशत्तमोऽध्यायः ॥४९॥
पञ्चाशत्तमोऽध्यायः

सञ्जय उवाच। तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम् ।
दुर्योधनो महाराज वारयामास सर्वशः ॥१॥

तानिति ॥१॥

योधांश्च स्वबलं चैव समन्ताद्भरतर्षभ ।
क्रोशतस्तव पुत्रस्य न स्म राजन्यवर्तत ॥२॥

ततः पक्षः प्रपक्षश्च शकुनिश्चापि सौबलः ।
तदा सशस्त्राः कुरवो भीममभ्यद्रवन्रणे ॥३॥

कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान्सराजकान् ।
मद्रराजमुवाचेदं याहि भीमरथं प्रति ॥४॥

एवमुक्तश्च कर्णेन शल्यो मद्राधिपस्तदा ।
हंसवर्णान्हयानग्र्यान्प्रैषीद्यत्र वृकोदरः ॥५॥

ते प्रेरिता महाराज शल्येनाहवशोभिना ।
भीमसेनरथं प्राप्य समसज्जन्त वाजिनः ॥६॥

दृष्ट्वा कर्णं समायान्तं भीमः क्रोधसमन्वितः ।
मतिं चक्रे विनाशाय कर्णस्य भरतर्षभ ॥७॥

सोऽब्रवीत्सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम् ।
यूयं रक्षत राजानं धर्मात्मानं युधिष्ठिरम् ॥८॥

संशयान्महतो मुक्तं कथञ्चित्प्रेक्षतो मम ।
अग्रतो मे कृतो राजा छिन्नसर्वपरिच्छदः ॥९॥

दुर्योधनस्य प्रीत्यर्थं राधेयेन दुरात्मना ।
अन्तमद्य गमिष्यामि तस्य दुःखस्य पार्षत ॥१०॥

हन्तास्म्यद्य रणे कर्णं स वा मां निहनिष्यति ।
संग्रामेण सुघोरेण सत्यभेतद्ब्रवीमि ते ॥११॥

राजानमद्य भवतां न्यासभूतं ददानि वै ।
तस्य संरक्षणे सर्वे यतध्वं विगतज्वराः ॥१२॥

एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति ।
सिंहनादेन महता सर्वाः सन्नादयन्दिशः ॥१३॥

दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम् ।
सूतपुत्रमथोवाच मद्राणामश्विरो विभुः ॥१४॥

शल्य उवाच। पश्य कर्ण महाबाहुं संक्रुद्धं पाण्डुनन्दनम् ।
दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम् ॥१५॥

ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन ।
अभिमन्यौ हते कर्ण राक्षसे च घटोत्कचे ॥१६॥

त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे ।
बिभर्ति सदृशं रूपं युगान्ताग्निसमप्रभम् ॥१७॥

सञ्जय उवाच। इति ब्रुवति राधेयं मद्राणामीश्वरे नृप ।
अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः ॥१८॥

अथागतं तु संप्रेक्ष्य भीमं युद्धाभिनन्दिनम् ।
अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव ॥१९॥

यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर ।
भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः ॥२०॥

एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः ।
निरपेक्षः शरीरे च प्राणतश्च बलाधिकः ॥२१॥

अज्ञातवासं वसता विराटनगरे तदा ।
द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात् ॥२२॥

गूढभावं समाश्रित्य कीचकः सगणो हतः ।
सोऽद्य संग्रामशिरसि सन्नद्धः क्रोधमूर्छितः ॥२३॥

किं करोद्यतदण्डेन मृत्युनाऽपि व्रजेद्रणम् ।
चिरकालाभिलषितो ममायं तु मनोरथः ॥२४॥

किं करोद्यतदण्डेन करेणोद्यतो दण्डो येन तेन मृत्युना समः । किंशब्द उपमार्थे ॥२४॥

अर्जुनं समरे हन्यां मां वा हन्याद्धनञ्जयः ।
स मे कदाचिद‌द्यैव भवेद्भीमसमागमात् ॥२५॥

निहते भीमसेने वा यदि वा विरथीकृते ।
अभियास्यति मां पार्थस्तन्मे साधु भविष्यति ॥२६॥

अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं संप्रधारय ।
एतच्छ्रुत्वा तु वचनं राधेयस्यामितौजसः ॥२७॥

उवाच वचनं शल्यः सूतपुत्रं तथागतम् ।
अभियाहि महाबाहो भीमसेनं महाबलम् ॥२८॥

निरस्य भीमसेनं तु ततः प्राप्स्यसि फाल्गुनम् ।
यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गतः ॥२९॥

स वै संपत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते ।
एवमुक्ते ततः कर्णः शल्यं पुनरभाषत ॥३०॥

हन्ताऽहमर्जुनं संख्ये मां वा हन्याद्धनञ्जयः ।
युद्धे मनः समाधाय याहि यत्र वृकोदरः ॥३१॥

सञ्जय उवाच। ततः प्रायाद्रथेनाशु शल्यस्तत्र विशांपते ।
यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम् ॥३२॥

ततस्तूर्यनिनादश्च भेरीणां च महास्वनः ।
उद‌तिष्ठच्च राजेन्द्र कर्णभीमसमागमे ॥३३॥

भीमसेनोऽथ संक्रुद्धस्तस्य सैन्यं दुरासदम् ।
नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली ॥३४॥

स सन्निपातस्तुमुलो घोररूपो विशांपते ।
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ॥३५॥

ततो मुहूर्ताद्राजेन्द्र पाण्डवः कर्णमाद्रवत् ।
समापतन्तं संप्रेक्ष्य कर्णो वैकर्तनो वृषः ॥३६॥

आजघान सुसंकुद्धो नाराचेन स्तनान्तरे ।
पुनश्चैनममेयात्मा शरवर्षैरवाकिरत् ॥३७॥

स विद्धः सूतपुत्रेण च्छाद‌यामास पत्रिभिः ।
विव्याध निशितैः कर्णं नवभिर्नतपर्वभिः ॥३८॥

तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिभिः ।
अथैनं छिन्नधन्वानं प्रत्यविध्यत्स्तनान्तरे ॥३९॥

नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना ।
सोऽन्यत्कार्मुकमादाय सूतपुत्रं वृकोदरः ॥४०॥

राजन्मर्मसु मर्मज्ञो विव्याध निशितैः शरैः ।
ननाद बलवन्नादं कम्पयन्निव रोदसी ॥४१॥

तं कर्णः पञ्चविंशत्या नाराचेन समार्पयत् ।
मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम् ॥४२॥

ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः ।
संरंभामर्षताम्राक्षः सूतपुत्रवधेप्सया ॥४३॥

स कार्मुके महावेगं भारसाधनमुत्तमम् ।
गिरीणामपि भेत्तारं सायकं समयोजयत् ॥४४॥

विकृष्य बलवच्चापमाकर्णादतिमारुतिः ।
तं मुमोच महेष्वासः कुद्धः कर्णजिघांसया ॥४५॥

स विसृष्टो बलवता बाणो वज्राशनिस्वनः ।
अदारयद्रणे कर्णं वज्रवेगो यथाचलम् ॥४६॥

स भीमसेनाभिहतः सूतपूत्रः कुरूद्वह ।
निषसाद रथोपस्थे विसंज्ञः पृतनापतिः ॥४७॥

ततो मद्राधिपो दृष्ट्वा विसंज्ञं सूतनन्दनम् ।
अपोवाह रथेनाजौ कर्णमाहवशोभिनम् ॥४८॥

ततः पराजिते कर्णे धार्तराष्ट्रीं महाचमूम् ।
व्यद्रावयद्भीमसेनो यथेन्द्रो दानवान् पुरा ॥४९॥

इति श्रीमहाभारते कर्णपर्वणि कर्णापयाने पञ्चाशत्तमोऽध्यायः ॥५०॥
एकपञ्चाशत्तमोऽध्यायः

धृतराष्ट्र उवाच। सुदुष्करमिदं कर्म कृतं भीमेन सञ्जय ।
येन कर्णो महाबाहू रथोपस्थे निपातितः ॥१॥

सुदुष्करमिति ॥१॥

कर्णो ह्येको रणे हन्ता पाण्डवान्सृञ्जयैः सह ।
इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः ॥२॥

पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे ।
ततः परं किमकरोत्पुत्रो दुर्योधनो मम ॥३॥

सञ्जय उवाच। विमुखं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे ।
पुत्रस्तव महाराज सोदर्यान्समभाषत ॥४॥

शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत ।
भीमसेनभयागाधे मज्जन्तं व्यसनार्णवे ॥५॥

ते तु राज्ञा समादिष्टा भीमसेनं जिघांसवः ।
अभ्यवर्तन्त संक्रुद्धाः पतङ्गाः पावकं यथा ॥६॥

श्रुतर्वा दुर्धरः क्राथो विवित्सुर्विकटः समः ।
निषङ्गी कवची पाशी तथा नन्दोपनन्द‌कौ ॥७॥

दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ ।
धनुर्ग्राहो दुर्मदश्च जलसन्धः शलः सहः ॥८॥

एते रथैः परिवृता वीर्यवन्तो महाबलाः ।
भीमसेनं समासाद्य समन्तात्पर्यवारयन् ॥९॥

ते व्यमुञ्चच्छरव्रातान्नानालिंगान्समन्ततः ।
स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः ॥१०॥

तेषामापततां क्षिप्रं सुतानां ते जनाधिप ।
रथैः पञ्चदशैः सार्धं पञ्चाशदहनद्रथान् ॥११॥

विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः ।
भीमसेनो महाराज तत् पपात हतं भुवि ॥१२॥

सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तथा ।
तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतः प्रभो ॥१३॥

अभ्यद्रवन्त समरे भीमं भीमपराक्रमम् ।
ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे ॥१४॥

जहार समरे प्राणान् भीमो भीमपराक्रमः ।
तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ ॥१५॥

विकटश्च सहश्चोभौ देवपुत्रोपमौ नृप ।
ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम् ॥१६॥

नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि ।
हाहाकारस्ततस्तीव्रः संबभूव जनेश्वर ॥१७॥

वध्यमानेषु वीरेषु तव पुत्रेषु धन्विषु ।
तेषां सुलुलिते सैन्ये पुनर्भीमो महाबलः ॥१८॥

नन्दोपनन्दौ समरे प्रैषयद्यमसादनम् ।
ततस्ते प्राद्रवन् भीताः पुत्रास्ते विह्वलीकृताः ॥१९॥

भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम् ।
पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रः सुदुर्मनाः ॥२०॥

हंसवर्णान् हयान्भूयः प्रैषयद्यत्र पाण्डवः ।
ते प्रेषिता महाराज मद्रराजेन वाजिनः ॥२१॥

भीमसेनरथं प्राप्य समसज्जन्त वेगिताः ।
स सन्निपातस्तुमुलो घोररूपो विशांपते ॥२२॥

आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ।
दृष्ट्वा मम महाराज तौ समेतौ महारथौ ॥२३॥

आसीद्बुद्धिः कथं युद्धमेतदद्य भविष्यति ।
ततो भीमो रणश्लाघी छाद‌यामास पत्रिभिः ॥२४॥

कर्णं रणे महाराज पुत्राणां तव पश्यताम् ।
ततः कर्णो भृशं क्रुद्धो भीमं नवभिरायसैः ॥२५॥

विव्याध परमास्त्रज्ञो भल्लैः सन्नतपर्वभिः ।
आहतः स महाबाहुर्भीमो भीमपराक्रमः ॥२६॥

आकर्णपूर्णैर्विशिखैः कर्णं विव्याध सप्तभिः ।
ततः कर्णो महाराज आशीविष इव श्वसन् ॥२७॥

शरवर्षेण महता छादयामास पाण्डवम् ।
भीमोऽपि तं शरव्रातैश्छादयित्वा महारथम् ॥२८॥

पश्यतां कौरवेयाणां विननर्द महाबलः ।
ततः कर्णो भृशं क्रुद्धो दृढमादाय कार्मुकम् ॥२९॥

भीमं विव्याध दशभिः कङ्कपत्रैः शिलाशितैः ।
कार्मुकं चास्य चिच्छेद भल्लेन निशितेन च ॥३०॥

ततो भीमो महाबाहुर्हेमपट्टविभूषितम् ।
परिघं घोरमादाय मृत्युदण्डमिवापरम् ॥३१॥

कर्णस्य निधनाकांक्षी चिक्षेपातिबलो नदन् ।
तमापतन्तं परिघं वज्राशनिसमस्वनम् ॥३२॥

चिच्छेद बहुधा कर्णः शरैराशीविषोपमैः ।
ततः कार्मुकमादाय भीमो दृढतरं तदा ॥३३॥

छादयामास विशिखैः कर्णं परबलार्दनम् ।
ततो युद्धमभूद्धोरं कर्णपाण्डवयोर्मृधे ॥३४॥

हरीन्द्रयोरिव मुहुः परस्परवधैषिणोः ।
ततः कर्णो महाराज भीमसेनं त्रिभिः शरैः ॥३५॥

हरीन्द्रयोः वानरेन्द्रयोर्वालिसुग्रीवयोरित्यर्थः ॥३५॥

आकर्णमूलं विव्याध दृढमायम्य कार्मुकम् ।
सोऽतिविद्धो महेष्वासः कर्णेन बलिनां वरः ॥३६॥

घोरमादत्त विशिखं कर्णकायावदारणम् ।
तस्य भित्त्वा तनुत्राणं भित्त्वा कायं च सायकैः ॥३७॥

प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ।
स तेनातिप्रहारेण व्यथितो विह्वलन्निव ॥३८॥

संचचाल रथे कर्णः क्षितिकम्पे यथाऽचलः ।
ततः कर्णो महाराज रोषामर्षसमन्वितः ॥३९॥

पाण्डवं पञ्चविंशत्या नाराचानां समार्पयत् ।
आजघ्ने बहुभिर्बाणैर्ध्वजमेकेषुणाऽहनत् ॥४०॥

सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे ।
छित्त्वा च कार्मुकं तूर्णं पाण्डवस्याशु पत्रिणा ॥४१॥

ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव ।
विरथं भीमकर्माणं भीमं कर्णश्चकार ह ॥४२॥

विरथो भरतश्रेष्ठ प्रहसन्ननिलोपमः ।
गदां गृह्य महाबाहुरपतत्स्यन्दनोत्तमात् ॥४३॥

अवप्लुत्य च वेगेन तव सैन्यं विशांपते ।
व्यधमद्गदया भीमः शरन्मेघानिवानिलः ॥४४॥

नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः ।
व्यधमत्सहसा भीमः क्रुद्धरूपः परंतपः ॥४५॥

दन्तवेष्टेषु नेत्रेषु कुम्भेषु च कटेषु च ।
मर्मस्वपि च मर्मज्ञस्तान्नागानवधीद्बली ॥४६॥

ततस्ते प्राद्रवन्भीताः प्रतीपं प्रहिताः पुनः ।
महामात्रैस्तमावव्रुर्मेधा इव दिवाकरम् ॥४७॥

तान् स सप्तशतान्नागान् सारोहायुधकेतनान् ।
भूमिष्ठो ग‌दया जघ्ने वज्रेणेन्द्र इवाचलान् ॥४८॥

ततः सुबलपुत्रस्य नागानतिबलान्पुनः ।
पोथयामास कौन्तेयो द्विपञ्चाशदरिंदमः ॥४९॥

तथा रथशतं साग्रं पत्तींश्च शतशोऽपरान् ।
न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम् ॥५०॥

प्रताप्यमानं सूर्येण भीमेन च महात्मना ।
तव सैन्यं संचुकोच चर्माग्नावाहितं यथा ॥५१॥

ते भीमभयसंत्रस्तास्तावका भरतर्षभ ।
विहाय समरे भीमं दुद्रुवुर्वै दिशो दिश ॥५२॥

रथाः पञ्चशताश्चान्ये ह्रादिनश्चर्मवर्मिणः ।
भीममभ्यद्रवन् घ्नन्तः शरपूगैः समन्ततः ॥५३॥

तान्स पञ्चशतान्वीरान्सपताकध्वजायुधान् ।
पोथयामास गदया भीमो विष्णुरिवासुरान् ॥५४॥

ततः शकुनिनिर्दिष्टाः सादिनः शूरसंमताः ।
त्रिसाहस्राभ्ययुर्भीमं शक्त्यृष्टिप्रासपाणयः ॥५५॥

प्रत्युद्गम्य जवेनाशु साश्वारोहांस्तदाऽरिहा ।
विविधान्विचरन्मार्गान् गदया समपोथयत् ॥५६॥

तेषामासीन्महाञ्छब्दस्ताडितानां च सर्वशः ।
अश्मभिर्विध्यमानानां नगानामिव भारत ॥५७॥

एवं सुबलपुत्रस्य त्रिसाहस्रान् हयोत्तमान् ।
हत्वाऽन्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात् ॥५८॥

कर्णोऽपि समरे राजन् धर्मपुत्रमरिन्दमम् ।
स शरैश्छाद‌यामास सारथिं चाप्यपातयत् ॥५९॥

ततः स प्रद्रुतः संख्ये रथं दृष्ट्वा महारथः ।
अन्वधावत्किरन्बाणैः कङ्कपत्रैराजह्मगैः ॥६०॥

राजानमभिधावन्तं शरैरावृत्य रोदसी ।
क्रुद्धः प्रच्छाद‌यामास शरजालेन मारुतिः॥६१॥

सन्निवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः ।
भीमं प्रच्छाद‌यामास समन्तान्निशितैः शरैः ॥६२॥

भीमसेनरथव्यग्रं कर्णं भारत सात्यकिः ।
अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात् ॥६३॥

अभ्यवर्तत कर्णस्तमर्दितोऽपि शरैर्भृशम् ।
तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम् ॥६४॥

विसृजन्तौ शरान्दीप्तान् विभ्राजेतां मनस्विनौ ।
ताभ्यां वियति राजेन्द्र विततं भीमदर्शनम् ॥६५॥

क्रौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत ।
नैव सूर्यप्रभा राजन्न दिशः प्रदिशस्तथा ॥६६॥

प्राज्ञासिष्म वयं ते वा शरैर्मुक्तैः सहस्रशः ।
मध्याह्ने तपतो राजन् भास्करस्य महाप्रभाः ॥६७॥

हृताः सर्वाः शरौघैस्तैः कर्णपाण्डवयोस्तदा ।
सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम् ॥६८॥

संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः ।
तेषामापततां शब्दस्तीव्र आसीद्विशांपते ॥६९॥

उद्वृत्तानां यथा वृष्ट्या सागराणां भयावहः ।
ते सेने भृशसंसक्ते दृष्ट्वाऽन्योन्यं महाहवे ॥७०॥

हर्षेण महता युक्ते परिगृह्य परस्परम् ।
ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे ॥७१॥

तादृशं न कदाचिद्धि दृष्टपूर्वं न च श्रुतम् ।
बलौघस्तु समासाद्य बलौघं सहसा रणे ॥७२॥

उपासर्पत वेगेन वार्योघ इव सागरम् ।
आसीन्निनादः सुमहान्बाणौघानां परस्परम् ॥७३॥

गर्जतां सागरौघाणां यथा स्यान्निःस्वनो महान् ।
ते तु सेने समासाद्य वेगवत्यौ परस्परम् ॥७४॥

एकीभावमनुप्राप्ते नद्याविव समागमे ।
ततः प्रववृते युद्धं घोररूपं विशांपते ॥७५॥

कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः ।
शूराणां गर्जतां तत्र ह्यविच्छेदकृता गिरः ॥७६॥

श्रूयन्ते विविधा राजन्नामान्युद्दिश्य भारत ।
यस्य यद्धि रणे व्यङ्गं पितृतो मातृतोऽपि वा ॥७७॥

कर्मतः शीलतो वाऽपि स तच्छ्रावयते युधि ।
तान्दृष्ट्वा समरे शूरांस्तर्जमानान्परस्परम् ॥७८॥

अभवन्मे मती राजन्नैषामस्तीति जीवितम् ।
तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम् ॥७९॥

अभवन्मे भयं तीव्रं कथमेतद्भविष्यति ।
ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः ।
ततक्षुः सायकैस्तीक्ष्णैर्निघ्नन्तो हि परस्परम् ॥८०॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे एकपञ्चाशत्तमोऽध्यायः ॥५१॥
द्विपञ्चाशत्तमोऽध्यायः

सञ्जय उवाच। क्षत्रियास्ते महाराज परस्परवधैषिणः ।
अन्योन्यं समरे जघ्नुः कृतवैराः परस्परम् ॥१॥

क्षत्रिया इति ॥१॥

रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः ।
गजौघाश्च महाराज संसक्ताश्च परस्परम् ॥२॥

गदानां परिघाणां च कणपानां च क्षिप्यताम् ।
प्रासानां भिन्दिपालानां भुशुण्डीनां च सर्वशः ॥३॥

संपातं चानुपश्याम संग्रामे भृशदारुणे ।
शलभा इव संपेतुः शरवृष्ट्यः समंततः ॥४॥

वृष्ट्यः वृष्टयः ॥४॥

नागान्नागाः समासाद्य व्यधमन्त परस्परम् ।
हया हयांश्च समरे रथिनो रथिनस्तथा ॥५॥

पत्तयः पत्तिसंघांश्च हयसंघांश्च पत्तयः ।
पत्तयो रथमातङ्गान् रथा हस्त्यश्वमेव च ॥६॥

नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप ।
वध्यतां तत्र शूराणां क्रोशतां च परस्परम् ॥७॥

घोरमायोधनं जज्ञे पशूनां वैशसं यथा ।
रुधिरेण समास्तीर्णा भाति भारत मेदिनी ॥८॥

शक्रगोपगणाकीर्णा प्रावृषीव यथा धरा ।
यथा वा वाससी शुक्ले महारञ्जनरञ्जिते ॥९॥

बिभृयाद्युवती श्यामा तद्वदासीद्वसुन्धरा ।
मांसशोणितचित्रेव शातकुम्भमयीव च ॥१०॥

भिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह ।
कुण्डलानां प्रवृद्धानां भूषणानां च भारत ॥११॥

निष्काणामथ शूराणां शरीराणां च धन्विनाम् ।
चर्मणां सपताकानां सङ्घास्तत्रापतन्भुवि ॥१२॥

गजा गजान्समासाद्य विषाणैरार्दयन्नृप ।
विषाणाभिहतास्तत्र भ्राजन्ते द्विरदास्तथा ॥१३॥

रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव ।
यथा भ्राजन्ति स्यन्दन्तः पर्वता धातुमंडिताः ॥१४॥

तोमरान् सादिभिर्मुक्तान्प्रतीपानास्थितान् बहून् ।
हस्तैर्विचेरुस्ते नागा बभञ्जुश्चापरे तथा ॥१५॥

नाराचैश्छिन्नवर्माणो भ्राजन्ति स्म गजोत्तमाः ।
हिमागमे यथा राजन् व्यभ्रा इव महीधराः ॥१६॥

शरैः कनकपुङ्खैश्च चित्रा रेजुर्गजोत्तमाः ।
उल्काभिः संप्रदीप्ताग्राः पर्वता इव भारत ॥१७॥

केचिदभ्याहता नागैर्नागा नगनिभोपमाः ।
विनेशुः समरे तस्मिन्पक्षवन्त इवाद्रयः ॥१८॥

नगनिभोपमाः नगेषु नितरां भान्ति ते नगनिभाः पर्वतोत्तमास्ते उपमा येषामित्यर्थः ॥१८॥

अपरे प्राद्रवन्नागाः शल्यार्ता व्रणपीडिताः ।
प्रतिमानैश्च कुंभैश्च पेतुरुर्व्यां महाहवे ॥१९॥

विनेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान् ।
बभ्रमुर्बहवो राजंश्चक्रुशुश्चापरे गजाः ॥२०॥

हयाश्च निहता बाणैर्हेमभाण्डविभूषिताः ।
निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश ॥२१॥

अपरे कृष्यमाणाश्च विचेष्टन्तो महीतले ।
भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः ॥२२॥

नरास्तु निहता भूमौ कूजन्तस्तत्र मारिष ।
दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान् ॥२३॥

धावमानान्परांश्चान्ये दृष्ट्वाऽन्ये तत्र भारत ।
गोत्रनामानि ख्यातानि शशंसुरितरेतरम् ॥२४॥

तेषां छिन्ना महाराज भुजाः कनकभूषणाः ।
उद्वेष्टन्ते विचेष्टन्ते पतन्ते चोत्पतन्ति च ॥२५॥

निपतन्ति तथैवान्ये स्फुरन्ति च सहस्रशः ।
वेगांश्चान्ये रणे चक्रुः पञ्चास्या इव पन्नगाः ॥२६॥

ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशांपते ।
लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव ॥२७॥

वर्तमाने तथा घोरे संकुले सर्वतोदिशम् ।
अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम् ॥२८॥

भौमेन रजसाकीर्णे शस्त्रसंपातसंकुले ।
नैव स्वे न परे राजन् व्यज्ञायन्त तमोवृताः ॥२९॥

तथा तदभवद्युद्धं घोररूपं भयानकम् ।
लोहितोदा महानद्यः प्रसस्रुस्तत्र चासकृत् ॥३०॥

शीर्षपाषाणसंछन्नाः केशशैवलशाद्वलाः ।
अस्थिमीनसमाकीर्णा धनुःशरगदोडुपाः ॥३१॥

धनुःशरगदा एव भास्वरत्वादुडुवन्नक्षत्रसदृशीः पान्तीत्युडुपाः धनुरादिवदुडुपाः शोभा यासां ता इति वा । ‘उडुपस्तु प्लवे चन्द्रे प्रतापे स्वेदतेजसोः । शोभायां च’ इति विश्वः ॥३१॥

मांसशोणितपंकिन्यो घोररूपाः सुदारुणाः ।
नदीः प्रवर्तयामासुः शोणितौघविवर्धिनीः ॥३२॥

भीरुवित्रासकारिण्यः शूराणां हर्षवर्धनाः ।
ता नद्यो घोररूपास्तु नयन्त्यो यमसादनम् ॥३३॥

अवगाढान्मज्जयन्त्यः क्षत्रस्याजनयन् भयम् ।
क्रव्यादानां नरव्याघ्र नर्दतां तत्र तत्र ह ॥३४॥

घोरमायोधनं जज्ञे प्रेतराजपुरोपमम् ।
उत्थितान्यगणेयानि कबन्धानि समंततः ॥३५॥

अगणेयानि गणयितुमशक्यानि ॥३५॥

नृत्यन्ति वै भूतगणाः सुतृप्ता मांसशोणितैः ।
पीत्वा च शोणितं तत्र वसां पीत्वा च भारत ॥३६॥

मेदोमज्जावसामत्तास्तृप्ता मांसस्य चैव ह ।
धावमानाः स्म दृश्यन्ते काकगृध्रबकास्तथा ॥३७॥

शूरास्तु समरे राजन् भयं त्यक्त्वा सुदुस्त्यजम् ।
योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत् ॥३८॥

शरशक्तिसमाकीर्णे क्रव्यादगणसंकुले ।
व्यचरन्त रणे शूराः ख्यापयन्तः स्वपौरुषम् ॥३९॥

अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत ।
पितृनामानि च रणे गोत्रनामानि वा विभो ॥४०॥

श्रावयाणाश्च बहवस्तत्र योधा विशांपते ।
अन्योन्यमवमृद्नन्तः शक्ति-तोमर-पट्टिशैः ॥४१॥

वर्तमाने तथा युद्धे घोररूपे सुदारुणे ।
व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे ॥४२॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे द्विपञ्चाशत्तमोऽध्यायः ॥५२॥
त्रिपञ्चाशत्तमोऽध्यायः

सञ्जय उवाच। वर्तमाने तथा युद्धे क्षत्रियाणां निमज्जने ।
गाण्डीवस्य महाघोषः श्रूयते युधि मारिष ॥१॥

वर्तमाने इति ॥१॥

संशप्तकानां कदनमकरोद्यत्र पाण्डवः ।
कोसलानां तथा राजन्नारायणबलस्य च ॥२॥

संशप्तकास्तु समरे शरवृष्टीः समन्ततः ।
अपातयन्पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः ॥३॥

ता वृष्टीः सहसा राजंस्तरसा धारयन्प्रभुः ।
व्यगाहत रणे पार्थो विनिघ्नन्रथिनां वरान् ॥४॥

विगाह्य तद्रथानीकं कङ्कपत्रैः शिलाशितैः ।
आससाद ततः पार्थः सुशर्माणं वरायुधम् ॥५॥

स तस्य शरवर्षाणि ववर्ष रथिनां वरः ।
तथा संशप्तकाश्चैव पार्थं बाणैः समार्पयन् ॥६॥

सुशर्मा तु ततः पार्थं विद्ध्वा दशभिराशुगैः ।
जनार्दनं त्रिभिर्बाणैरहनद्दक्षिणे भुजे ॥७॥

ततोऽपरेण भल्लेन केतुं विव्याध मारिष ।
स वानरवरो राजन्विश्वकर्मकृतो महान् ॥८॥

ननाद सुमहानादं भीषयाणो जगर्ज च ।
कपेस्तु निनदं श्रुत्वा संत्रस्ता तव वाहिनी ॥९॥

भयं विपुलमाधाय निश्चेष्टा समपद्यत ।
ततः सा शुशुभे सेना निश्चेष्टाऽवस्थिता नृप ॥१०॥

नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम् ।
प्रतिलभ्य ततः संज्ञां योधास्ते कुरुसत्तम ॥११॥

अर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इव ।
परिवव्रुस्ततः सर्वे पाण्डवस्य महारथम् ॥१२॥

निगृह्य तं प्रचुक्रुशुर्वध्यमानाः शितैः शरैः ।
ते हयान् रथचक्रे च रथेषां चापि मारिष ॥१३॥

निग्रहीतुमुपाक्रामन् क्रोधाविष्टाः समन्ततः ।
निगृह्य तं रथं तस्य योधास्ते तु सहस्रशः ॥१४॥

निगृह्य बलवत्सर्वे सिंहना‌दमथानदन् ।
अपरे जगृहुश्चैव केशवस्य महाभुजौ ॥१५॥

पार्थमन्ये महाराज रथस्थं जगृहुर्मुदा ।
केशवस्तु ततो बाहू विधुन्वन् रणमूर्धनि ॥१६॥

पातयामास तान्सर्वान्दुष्टहस्तीव हस्तिपान् ।
ततः क्रुद्धो रणे पार्थः संवृतस्तैर्महारथैः ॥१७॥

निगृहीतं रथं दृष्ट्वा केशवं चाप्यभिद्रुतम् ।
रथारूढांस्तु सुबहून्पदातींश्चाप्यपातयत् ॥१८॥

आसन्नांश्च तथा योधान् शरैरासन्नयोधिभिः ।
छादयामास समरे केशवं चेदमब्रवीत् ॥१९॥

पश्य कृष्ण महाबाहो संशप्तकगणान्बहून् ।
कुर्वाणान्दारुणं कर्म वध्यमानान्सहस्रशः ॥२०॥

रथबन्धमिमं घोरं पृथिव्यां नास्ति कश्चन ।
यः सहेत पुमाँल्लोके मदन्यो यदुपुङ्गव ॥२१॥

इत्येवमुक्त्वा बीभत्सुर्देवदत्तमथाधमत् ।
पाञ्चजन्यं च कृष्णोऽपि पूरयन्निव रोदसी ॥२२॥

तं तु शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी ।
सञ्चचाल महाराज वित्रस्ता चाद्रवद्भृशम् ॥२३॥

पादबन्धं ततश्चक्रे पाण्डवः परवीरहा ।
नागमस्त्रं महाराज संप्रकीर्य मुहुर्मुहुः ॥२४॥

ते बद्धाः पादबन्धेन पाण्डवेन महात्मना ।
निश्चेष्टाश्चाभवन् राजन्नश्मसारमया इव ॥२५॥

निश्चेष्टांस्तु ततो योधानवधीत्पाण्डुनन्दनः ।
यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा ॥२६॥

ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम् ।
आयुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः ॥२७॥

ते बद्धाः पादबन्धेन न शेकुश्चेष्टितुं नृप ।
ततस्तानवधीत्पार्थः शरैः सन्नतपर्वभिः ॥२८॥

सर्वयोधा हि समरे भुजगैर्वेष्टिता भवन् ।
यानुद्दिश्य रणे पार्थः पादबन्धं चकार ह ॥२९॥

ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम् ।
सौपर्णमस्त्रं त्वरितः प्रादुश्चक्रे महारथः ॥३०॥

ततः सुपर्णाः संपेतुर्भक्षयन्तो भुजङ्गमान् ।
ते वै विदुद्रुवुर्नागा दृष्ट्वा तान् खचरान्नृप ॥३१॥

बभौ बलं तद्विमुक्तं पादबन्धाद्विशांपते ।
मेघवृन्दाद्यथा मुक्तो भास्करस्तापयन्प्रजाः ॥३२॥

विप्रमुक्तास्तु ते योधाः फाल्गुनस्य रथं प्रति ।
ससृजुर्बाणसंघांश्च शस्त्रसंघांश्च मारिष ॥३३॥

विविधानि च शस्त्राणि प्रत्यविध्यन्त सर्वशः ।
तां महास्त्रमयीं दृष्टिं संछिद्य शरवृष्टिभिः ॥३४॥

न्यवधीच्च ततो योधान्वासविः परवीरहा ।
सुशर्मा तु ततो राजन्बाणेनानतपर्वणा ॥३५॥

अर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिभिः शरैः ।
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥३६॥

तत उच्चुक्रुशुः सर्वे हतः पार्थ इति स्म ह ।
ततः शंखनिनादाश्च भेरीशब्दाश्च पुष्कलाः ॥३७॥

नानावादित्रनिनदाः सिंहनादाश्च जज्ञिरे ।
प्रतिलभ्य ततः संज्ञां श्वेताश्वः कृष्णसारथिः ॥३८॥

ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे त्वरान्वितः ।
ततो बाणसहस्राणि समुत्पन्नानि मारिष ॥३९॥

सर्वदिक्षु व्यदृश्यन्त निघ्नन्ति तव वाहिनीम् ।
हयान् रथांश्च समरे शस्त्रैः शतसहस्रशः ॥४०॥

वध्यमाने ततः सैन्ये भयं सुमहदाविशत् ।
संशप्तकगणानां च गोपालानां च भारत ॥४१॥

न हि तत्र पुमान्कश्चिद्योऽर्जुनं प्रत्यविध्यत ।
पश्यतां तत्र वीराणामहन्यत बलं तव ॥४२॥

हन्यमानमपश्यंश्च निश्चेष्टं स्म पराक्रमे ।
अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे ॥४३॥

व्यभ्राजत महाराज विधूमोऽग्निरिव ज्वलन् ।
चतुर्दश सहस्राणि यानि शिष्टानि भारत ॥४४॥

रथानामयुतं चैव त्रिसाहस्राश्च दन्तिनः ।
ततः संशप्तका भूयः परिवव्रुर्धनञ्जयम् ॥४५॥

मर्तव्यमिति निश्चित्य जयं वाप्यनिवर्तनम् ।
तत्र युद्धं महच्चासीत्तावकानां विशांपते ।
शूरेण बलिना सार्धं पाण्डवेन किरीटिना ॥४६॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥
चतुष्पञ्चाशत्तमोऽध्यायः

सञ्जय उवाच। कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष ।
उलूकः सौबलश्चैव राजा च सह सोदरैः ॥१॥

सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम् ।
समुज्जह्रुः स्म वेगेन भिन्नां नावमिवार्णवे ॥२॥

ततो युद्धमतीवासीन्मुहूर्तमिव भारत ।
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥३॥

कृपेण शरवर्षाणि प्रतिमुक्तानि संयुगे ।
सृञ्जयांश्छादयामासुः शलभानां व्रजा इव ॥४॥

शिखण्डी च ततः क्रुद्धो गौतमं त्वरितो ययौ ।
ववर्ष शरवर्षाणि समन्ताद्द्विजपुङ्गवम् ॥५॥

कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित् ।
शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः ॥६॥

ततः शिखण्डी कुपितः शरैः सप्तभिराहवे ।
कृपं विव्याध कुपितं कङ्कपत्रैरजिह्मगैः ॥७॥

ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः ।
व्यश्वसूतरथं चक्रे शिखण्डिनमथो द्विजः ॥८॥

हताश्वात्तु ततो यानादवप्लुत्य महारथः ।
खड्गं चर्म तथा गृह्य सत्वरं ब्राह्मणं ययौ ॥९॥

तमापतन्तं सहसा शरैः सन्नतपर्वभिः ।
छादयामास समरे तद‌द्भुतमिवाभवत् ॥१०॥

तत्राद्भुतमपश्याम शिलानां प्लवनं यथा ।
निश्चेष्टस्तद्रणे राजञ्छिखण्डी समतिष्ठत ॥११॥

कृपेण च्छादितं दृष्ट्वा नृपोत्तमशिखण्डिनम् ।
प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः ॥१२॥

धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति ।
प्रतिजग्राह वेगेन कृतवर्मा महारथः ॥१३॥

युधिष्ठिरमथायान्तं शारद्वतरथं प्रति ।
सपुत्रं सहसैन्यं च द्रोणपुत्रो न्यवारयत् ॥१४॥

नकुलं सहदेवं च त्वरमाणौ महारथौ ।
प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन् ॥१५॥

भीमसेनं करूषांश्च केकयान्सह सृञ्जयैः ।
कर्णो वैकर्तनो युद्धे वारयामास भारत ॥१६॥

शिखण्डिनस्ततो बाणान्कृपः शारद्वतो युधि ।
प्राहिणोत्त्वरया युक्तो दिधक्षुरिव मारिष ॥१७॥

ताञ्छरान्प्रेषितांस्तेन समन्तात्स्वर्णभूषितान् ।
चिच्छेद खड्गमाविध्य भ्रामयंश्च पुनः पुनः ॥१८॥

शतचन्द्रं च तच्चर्म गौतमस्तस्य भारत ।
व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः ॥१९॥

स विचर्मा महाराज खड्गपाणिरुपाद्रवत् ।
कृपस्य वशमापन्नो मृत्योरास्यमिवातुरः ॥२०॥

शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलः ।
चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ ॥२१॥

विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः ।
अभ्यापतद‌मेयात्मा गौतमस्य रथं प्रति ॥२२॥

दृष्ट्वा च युक्तं तं युद्धे ब्राह्मणं चरितव्रतम् ।
अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम ॥२३॥

सुकेतुस्तु ततो राजन् गौतमं नवभिः शरैः ।
विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः ॥२४॥

अथास्य सशरं चापं पुनश्चिच्छेद मारिष ।
सारथिं च शरेणास्य भृशं मर्मस्वताडयत् ॥२५॥

गौतमस्तु ततः क्रुद्धो धनुर्गुह्य नवं दृढम् ।
सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत् ॥२६॥

स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे ।
भूमिकंपे यथा वृक्षश्चचाल कम्पितो भृशम् ॥२७॥

चलतस्तस्य कायात्तु शिरो ज्वलितकुण्डलम् ।
सोष्णीषं सशिरस्त्राणं क्षुरप्रेण त्वपातयत् ॥२८॥

तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम् ।
ततोऽस्य कायो वसुधां पश्चात्प्रापतदच्युत ॥२९॥

तस्मिन् हते महाराज त्रस्तास्तस्य पुरोगमाः ।
गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥३०॥

धृष्टद्युम्नं तु समरे सन्निवार्य महारथः ।
कृतवर्माऽब्रवीद्धृष्टस्तिष्ठ तिष्ठेति भारत ॥३१॥

तदभूत्तुमुलं युद्धं वृष्णिपार्षतयो रणे ।
आमिषार्थे यथा युद्धं श्येनयोः क्रुद्धयोर्नृप ॥३२॥

धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः ।
आजघानोरसि क्रुद्धः पीडयन् हृदिकात्मजम् ॥३३॥

कृतवर्मा तु समरे पार्षतेन दृढाहतः ।
पार्षतं सरथं साश्वं छाद‌यामास सायकैः ॥३४॥

सरथश्छादितो राजन् धृष्टद्युम्नो न दृश्यते ।
मेघैरिव परिच्छन्नो भास्करो जलधारिभिः ॥३५॥

विधूय तं बाणगणं शरैः कनकभूषणैः ।
व्यरोचत रणे राजन् धृष्टद्युम्नः कृतव्रणः ॥३६॥

ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम् ।
कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः ॥३७॥

तामापतन्तीं सहसा शस्त्रवृष्टिं सुदारुणाम् ।
शरैरनेकसाहस्रैर्हार्दिक्योऽवारयद्युधि ॥३८॥

दृष्ट्वा तु वारितां युद्धे शस्त्रवृष्टिं दुरासदाम् ।
कृतवर्माणमासाद्य वारयामास पार्षतः ॥३९॥

सारथिं चास्य तरसा प्राहिणोद्यमसादनम् ।
भल्लेन शितधारेण स हतः प्रापतद्रथात् ॥४०॥

धृष्टद्युम्नस्तु बलवाञ्जित्वा शत्रुं महाबलम् ।
कौरवान्समरे तूर्णं वारयामास सायकैः ॥४१॥

ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन् ।
सिंहनादरवं कृत्वा ततो युद्धमवर्तत ॥४२॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे चतुष्पञ्चाशत्तमोऽध्यायः ॥५४॥
पञ्चपञ्चाशत्तमोऽध्यायः

सञ्जय उवाच। द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम् ।
द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत् ॥१॥

द्रौणिरिति ॥१॥

किरन्निषुगणान् घोरान् स्वर्णपुङ्खाञ्शिलाशितान् ।
दर्शयन् विविधान् मार्गान् शिक्षाश्च लघुहस्तवत् ॥२॥

ततः खं पूरयामास शरैर्दिव्यास्त्रमन्त्रितैः ।
युधिष्ठिरं च समरे परिवार्य महास्त्रवित् ॥३॥

द्रौणायनिशरच्छन्नं न प्राज्ञायत किञ्चन ।
बाणभूतमभूत्सर्वमायोधनशिरो महत् ॥४॥

बाणजालं दिवि च्छन्नं स्वर्णजालविभूषितम् ।
शुशुभे भरतश्रेष्ठ वितानमिव धिष्ठितम् ॥५॥

तेन च्छन्न नभो राजन्बाणजालेन भास्वता ।
अभ्रच्छायेव सञ्जज्ञे बाणरुद्धे नभस्तले ॥६॥

तत्राश्चर्यमपश्याम बाणभूते तथाविधे ।
न स्म संपतते भूतं किञ्चिदेवान्तरिक्षगम् ॥७॥

सात्यकिर्यतमानस्तु धर्मराजश्च पाण्डवः ।
तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम् ॥८॥

लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः ।
व्यस्मयन्त महाराज न चैनं प्रत्युदीक्षितुम् ॥९॥

शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम् ।
वध्यमाने ततः सैन्ये द्रौपदेया महारथाः ॥१०॥

सात्यकिर्धर्मराजश्च पञ्चालाश्चापि संगताः ।
त्यक्त्वा मृत्युभयं घोरं द्रौणायनिमुपाद्रवन् ॥११॥

सात्यकिः सप्तविंशत्या द्रौणिं विद्ध्वा शिलीमुखैः ।
पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः ॥१२॥

युधिष्ठिरस्त्रिसप्तत्या प्रतिविंध्यश्च सप्तभिः ।
श्रुतकर्मा त्रिभिर्बाणैः श्रुतकीर्तिश्च सप्तभिः ॥१३॥

सुतसोमस्तु नवभिः शतानीकश्च सप्तभिः ।
अन्ये च बहवः शूरा विव्यधुस्तं समन्ततः ॥१४॥

स तु क्रुद्धस्ततो राजन्नाशीविष इव श्वसन् ।
सात्यकिं पञ्चविंशत्या प्राविध्यत शिलीमुखैः ॥१५॥

श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः ।
अष्टभिः श्रुतकर्माणं प्रतिविंध्यं त्रिभिः शरैः ॥१६॥

शतानीकं च नवभिर्धर्मपुत्रं च पञ्चभिः ।
तथेतरांस्ततः शूरान्द्वाभ्यां द्वाभ्यामताडयत् ॥१७॥

श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः ।
अथान्यद्धनुरादाय श्रुतिकीर्तिर्महारथः ॥१८॥

द्रौणायनिं त्रिभिर्विद्ध्या विव्याधान्यैः शितैः शरैः ।
ततो द्रौणिर्महाराज शरवर्षेण मारिष ॥१९॥

छादयामास तत् सैन्यं समन्ताद्भरतर्षभ ।
ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम् ॥२०॥

द्रौणिश्चिच्छेद विहसन्विव्याध च शरैस्त्रिभिः ।
ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः ॥२१॥

द्रौणिं विव्याध सप्तत्या बाह्वोरुरसि चार्पयत् ।
सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे ॥२२॥

अर्धचन्द्रेण तीक्ष्णेन धनुश्छित्त्वाऽनदद्भृशम् ।
छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः ॥२३॥

सारथिं पातयामास शैनेयस्य रथाद्द्रुतम् ।
अथान्यद्धनुरादाय द्रोणपुत्रः प्रतापवान् ॥२४॥

शैनेयं शरवर्षेण च्छादयामास भारत ।
तस्याश्वाः प्रद्रुताः संख्ये पतिते रथसारथौ ॥२५॥

तत्र तत्रैव धावन्तः समदृश्यन्त भारत ।
युधिष्ठिरपुरोगास्तु द्रौणिं शस्त्रभृतां वरम् ॥२६॥

अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्छरान् ।
आगच्छमानांस्तान्दृष्ट्वा क्रुद्धरूपान्परंतपः ॥२७॥

प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे ।
ततः शरशतज्वालः सेनाकक्षं महारथः ॥२८॥

द्रौणिर्ददाह समरे कक्षमग्निर्यथा वने ।
तद्बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम् ॥२९॥

चुक्षुभे भरतश्रेष्ठ तिमिनेव नदीमुखम् ।
दृष्ट्वा चैव महाराज द्रोणपुत्रपराक्रमम् ॥३०॥

निहतान्मेनिरे सर्वान्पाण्डून् द्रोणसुतेन वै ।
युधिष्ठिरस्तु त्वरितो द्रोणशिष्यो महारथः ॥३१॥

अब्रवीद्द्रोणपुत्राय राषामर्षसमन्वितः ।
नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता ॥३२॥

यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि ।
ब्राह्मणेन तपः कार्यं दानमध्ययनं तथा ॥३३॥

क्षत्रियेण धनुर्नाम्यं स भवान्ब्राह्मणब्रुवः ।
मिषतस्ते महाबाहो युधि जेष्यामि कौरवान् ॥३४॥

कुरुष्व समरे कर्म ब्रह्मबन्धुरसि ध्रुवम् ।
एवमुक्तो महाराज द्रोणपुत्रः स्मयन्निव ॥३५॥

युक्तं तत्त्वं च संचिन्त्य नोत्तरं किञ्चिदब्रवीत् ।
अनुक्त्वा च ततः किञ्चिच्छरवर्षेण पाण्डवम् ॥३६॥

छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः ।
स च्छाद्यमानस्तु तदा द्रोणपुत्रेण मारिष ॥३७॥

पार्थोऽपयातः शीघ्रं वै विहाय महतीं चमूम् ।
अपयाते ततस्तस्मिन् धर्मपुत्रे युधिष्ठिरे ॥३८॥

द्रोणपुत्रस्ततो राजन्प्रत्यगात्स महामनाः ।
ततो युधिष्ठिरो राजंस्त्यक्त्वा द्रौणिं महाहवे ।
प्रययौ तावकं सैन्यं युक्तः क्रूराय कर्मणे ॥३९॥

इति श्रीमहाभारते कर्णपर्वणि पार्थापयाने पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥
षट्पञ्चाशत्तमोऽध्यायः

सञ्जय उवाच। भीमसेनं च पाञ्चाल्यं चेदिकेकयसंवृतम् ।
वैकर्तनः स्वयं रुद्ध्वा वारयामास सायकैः ॥१॥

भीमसेनमिति ॥१॥

ततस्तु चेदिकारूषान्सृञ्जयांश्च महारथान् ।
कर्णो जघान समरे भीमसेनस्य पश्यतः ॥२॥

भीमसेनस्ततः कर्णं विहाय रथसत्तमम् ।
प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन् ॥३॥

सूतपुत्रोऽपि समरे पञ्चालान्केकयांस्तथा ।
सृञ्जयांश्च महेष्वासान्निजघान सहस्रशः ॥४॥

संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः ।
पञ्चालेषु तथा कर्णः क्षयं चक्रुर्महारथाः ॥५॥

ते क्षत्रिया दह्यमानास्त्रिभिस्तैः पावकोपमैः ।
जग्मुर्विनाशं समरे राजन् दुर्मन्त्रिते तव ॥६॥

ततो दुर्योधनः क्रुद्धो नकुलं नवभिः शरैः ।
विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः ॥७॥

ततः पुनरमेयात्मा तव पुत्रो जनाधिप ।
क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम् ॥८॥

नकुलस्तु ततः क्रुद्धस्तव पुत्रं च सप्तभिः ।
जघान समरे राजन् सहदेवश्च पञ्चभिः ॥९॥

तावुभौ भरतश्रेष्ठौ ज्येष्ठौ सर्वधनुष्मताम् ।
विव्याधोरसि संक्रुद्धः पञ्चभिः पञ्चभिः शरैः ॥१०॥

ततो पराभ्यां भल्लाभ्यां धनुषी समकृन्तत ।
यमयोः सहसा राजन्विव्याध च त्रिसप्तभिः ॥११॥

तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे ।
प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि ॥१२॥

ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं युधि ।
शरैर्ववृषतुर्घोरैर्महामेघौ यथाऽचलम् ॥१३॥

ततः क्रुद्धो महाराज तव पुत्रो महारथः ।
पाण्डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः ॥१४॥

धनुर्मण्डलमेवास्य दृश्यते युधि भारत ।
सायकाश्चैव दृश्यन्ते निश्चरन्तः समन्ततः ॥१५॥

आच्छादयन्दिशः सर्वाः सूर्यस्येवांशवो यथा ।
बाणभूते ततस्तस्मिन्संछन्ने च नभस्तले ॥१६॥

यमाभ्यां ददृशे रूपं कालान्तकयमोपमम् ।
पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः ॥१७॥

मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे ।
ततः सेनापती राजन्पाण्डवस्य महारथः ॥१८॥

पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः ।
माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ ॥१९॥

धृष्टद्युम्नस्तव सुतं वारयामास सायकैः ।
तमविध्यदमेयात्मा तव पुत्रो ह्यमर्षणः ॥२०॥

पाञ्चाल्यं पञ्चविंशत्या प्रहसन् पुरुषर्षभः ।
ततः पुनरमेयात्मा तव पुत्रो ह्यमर्षणः ॥२१॥

विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च ।
तथाऽस्य सशरं चापं हस्तावापं च मारिष ॥२२॥

क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे ।
तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः ॥२३॥

अन्यदादत्त वेगेन धनुर्भारसहं नवम् ।
प्रज्वलन्निव वेगेन संरंभाद्रुधिरेक्षणः ॥२४॥

अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः ।
स पञ्चदश नाराचान् श्वसतः पन्नगानिव ॥२५॥

जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यपासृजत् ।
ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलाशिताः ॥२६॥

विविशुर्वसुधां वेगात्कङ्कबर्हिणवाससः ।
सोऽतिविद्धो महाराज पुत्रस्तेऽतिव्यराजत ॥२७॥

वसन्तकाले सुमहान् प्रफुल्ल इव किंशुकः ।
स छिन्नवर्मा नाराचप्रहारैर्जर्जरीकृतः ॥२८॥

धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम् ।
अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः ॥२९॥

सायकैर्दशभी राजन् भ्रुवोर्मध्ये समार्पयत् ।
तस्य तेऽशोभयन्वक्त्रं कर्मारपरिमार्जिताः ॥३०॥

प्रफुल्लं पङ्कजं यद्वद्भ्रमरा मधुलिप्सवः ।
त‌दपास्य धनुश्छिन्नं धृष्टद्युम्नो महामनाः ॥३१॥

अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ।
ततो दुर्योधनस्याश्वान् हत्वा सूतं च पञ्चभिः ॥३२॥

धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम् ।
रथं सोपस्करं छत्रं शक्तिं खड्गं गदां ध्वजम् ॥३३॥

भल्लैश्चिच्छेद दशभिः पुत्रस्य तव पार्षतः ।
तपनीयाङ्गदं चित्रं नागं मणिमयं शुभम् ॥३४॥

ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ।
दुर्योधनं तु विरथं छिन्नवर्मायुधं रणे ॥३५॥

भ्रातरः पर्यरक्षन्त सोदरा भरतर्षभ ।
तमारोप्य रथे राजन्दण्डधारो जनाधिपः ॥३६॥

अपाहरदसंभ्रान्तो धृष्टद्युम्नस्य पश्यतः ।
कर्णस्तु सात्यकिं जित्वा राजगृद्धी महाबलः ॥३७॥

द्रोणहन्तारमुग्रेषुं ससाराभिमुखो रणे ।
तं पृष्ठतोऽभ्ययात्तूर्णं शैनेयो वितुदञ्छरैः ॥३८॥

वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः ।
स भारत महानासीद्योधानां सुमहात्मनाम् ॥३९॥

कर्णपार्षतयोर्मध्ये त्वदीयानां महारणः ।
न पाण्डवानां नास्माकं योधः कश्चित्पराङ्मुखः ॥४०॥

प्रत्यदृश्यत्ततः कर्णः पञ्चालांस्त्वरितो ययौ ।
तस्मिन् क्षणे नरश्रेष्ठ गज-वाजि-जनक्षयः ॥४१॥

प्रादुरासीदुभयतो राजन्मध्यगतेऽहनि ।
पञ्चालास्तु महाराज त्वरिता विजिगीषवः ॥४२॥

ते सर्वेऽभ्यद्रवन्कर्णं पतत्रिण इव द्रुमम् ।
तांस्तथाधिरथिः क्रुद्धो यतमानान्मनस्विनः ॥४३॥

विचिन्वन्निव बाणौघैः समासादयदग्रगान् ।
व्याघ्रकेतुं सुशर्माणं चित्रं चोग्रायुधं जयम् ॥४४॥

शुक्लं च रोचमानं च सिंहसेनं च दुर्जयम् ।
ते वीरा रथमार्गेण परिवव्रुर्नरोत्तमम् ॥४५॥

सृजन्तं सायकान् क्रुद्धं कर्णमाहवशोभिनम् ।
युध्यमानांस्तु तान्दूरान्मनुजेन्द्र प्रतापवान् ॥४६॥

अष्टाभिरष्टौ राधेयोऽभ्यर्दयन्निशितैः शरैः ।
अथापरान्महाराज सूतपुत्रः प्रतापवान् ॥४७॥

जघान बहुसाहस्रान् योधान्युद्धविशारदान् ।
जिष्णुं च जिष्णुकर्माणं देवापिं भद्रमेव च ॥४८॥

दण्डं च राजन्समरे चित्रं चित्रायुधं हरिम् ।
सिंहकेतुं रोचमानं शलभं च महारथम् ॥४९॥

निजघान सुसंक्रुद्धश्चेदीनां च महारथान् ।
तेषामाददतः प्राणानासीदाधिरथेर्वपुः ॥५०॥

शोणिताभ्युक्षिताङ्गस्य रुद्रस्येवोर्जितं महत् ।
तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः ॥५१॥

सर्वतोऽभ्यद्रवन् भीताः कुर्वन्तो महदाकुलम् ।
निपेतुरुर्व्यां समरे कर्णसायकताडिताः ॥५२॥

कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः ।
गज-वाजि-मनुष्यैश्च निपतद्भिः समन्ततः ॥५३॥

रथैश्चाधिरथेर्मार्गे समास्तीर्यत मेदिनी ।
नैवं भीष्मो न च द्रोणो नान्ये युधि च तावकाः ॥५४॥

चक्रः स्म तादृशं कर्म यादृशं वै कृतं रणे ।
सूतपुत्रेण नागेषु हयेषु च रथेषु च ॥५५॥

नरेषु च महाराज कृतं स्म कदनं महत् ।
मृगमध्ये यथा सिंहो दृश्यते निर्भयश्चरन् ॥५६॥

पञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत् ।
यथा मृगगणांस्त्रस्तान्सिंहो द्रावयते दिशः ॥५७॥

पञ्चालानां रथव्रातान् कर्णो व्यद्रावयत्तथा ।
सिहास्यं च यथा प्राप्य न जीवन्ति मृगाः क्वचित् ॥५८॥

तथा कर्णमनुप्राप्य न जिजीवुर्महारथाः ।
वैश्वानरं यथा प्राप्य प्रतिदह्यन्ति वै जनाः ॥५९॥

कर्णाग्निना वने तद्वद्दग्धा भारत सुञ्जयाः ।
कर्णेन चेदिकैकेयपाञ्चालेषु च भारत ॥६०॥

विश्राव्य नाम निहता बहवः शूरसंमताः ।
मम चासीन्मती राजन्दृष्ट्वा कर्णस्य विक्रमम् ॥६१॥

नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि ।
पञ्चालान्व्यधमत्संख्ये सूतपुत्रः पुनः पुनः ॥६२॥

पञ्चालानथ निघ्नन्तं कर्णं दृष्ट्वा महारणे ।
अभ्यधावत्सुसंक्रुद्धो धर्मराजो युधिष्ठिरः ॥६३॥

धृष्टद्युम्नश्च राधेयं द्रौपदेयाश्च मारिष ।
परिवव्रुरभित्रघ्नं शतशश्चापरे जनाः ॥६४॥

शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा ।
जनमेजयः शिनेर्नप्ता बहवश्च प्रभद्रकाः ॥६५॥

एते पुरोगमा भूत्वा धृष्टद्युम्नश्च संयुगे ।
कर्णमस्यन्तमिष्वस्त्रैर्विचेरुरमितौजसः ॥६६॥

तांस्तत्राधिरथिः संख्ये चेदिपाञ्चालपाण्डवान् ।
एको बहूनभ्यपतद्गरुत्मान्पन्नगानिव ॥६७॥

तैः कर्णस्याभवद्युद्धं घोररूपं विशांपते ।
तादृग्यादृक्पुरा वृत्तं देवानां दानवैः सह ॥६८॥

तान् समेतान्महेष्वासान् शरवर्षौघवर्षिणः ।
एको व्यधमदव्यग्रस्तमांसीव दिवाकरः ॥६९॥

भीमसेनस्तु संसक्ते राधेये पाण्डवैः सह ।
सर्वतोऽभ्यहनत्क्रुद्धो यमदण्डनिभैः शरैः ।
वाहीकान्केकयान्मत्स्यान् वासात्यान्मद्रसैन्धवान् ॥७०॥

एकः संख्ये महेष्वासो योधयन्बह्वशोभत ।
तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः ॥७१॥

प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम् ।
वाजिनश्च हतारोहाः पत्तयश्च गतासवः ॥७२॥

शेरते युधि निर्भिन्ना वमन्तो रुधिरं बहु ।
सहस्रशश्च रथिनः पातिताः पातितायुधाः ॥७३॥

ते क्षताः समदृश्यन्त भीमभीता गतासवः ।
रथिभिः सादिभिः सूतैः पादातैर्वाजिभिर्गजैः ॥७४॥

भीमसेनशरैश्छिन्नैराच्छन्ना वसुधाऽभवत् ।
तत्स्तम्भितमिवातिष्ठद्भीमसेनभयार्दितम् ॥७५॥

दुर्योधनबलं सर्वं निरुत्साहं कृतव्रणम् ।
निश्चेष्टं तुमुलं दीनं बभौ तस्मिन्महारणे ॥७६॥

प्रसन्नसलिले काले यथा स्यात्सागरो नृप ।
तद्वत्तव बलं तद्वै निश्चलं समवस्थितम् ॥७७॥

मन्युवीर्यबलोपेतं दर्पात्प्रत्यवरोपितम् ।
अभवत्तव पुत्रस्य तत्सैन्यं निष्प्रभं तदा ॥७८॥

तद्बलं भरतश्रेष्ठ वध्यमानं परस्परम् ।
रुधिरौघपरिक्लिन्नं रुधिरार्द्रं बभूव ह ॥७९॥

जगाम भरतश्रेष्ठ वध्यमानं परस्परम् ।
सूतपुत्रो रणे क्रुद्धः पाण्डवानामनीकिनीम् ॥८०॥

भीमसेनः कुरूंश्चापि द्रावयन्तौ विरेजतुः ।
वर्तमाने तथा रौद्रे संग्रामेऽद्भुतदर्शने ॥८१॥

निहत्य पृतनामध्ये संशप्तकगणान्बहून् ।
अर्जुनो जयतां श्रेष्ठो वासुदेवमथाब्रवीत् ॥८२॥

प्रभग्नं बलमेतद्धि योत्स्यमानं जनार्दन ।
एते द्रवन्ति सगणाः संशप्तकमहारथाः ॥८३॥

अपारयन्तो मद्बाणान्सिंहशब्दं मृगा इव ।
दीर्यते च महत्सैन्यं सृञ्जयानां महारणे ॥८४॥

हस्तिकक्षो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः ।
दृश्यते राजसैन्यस्य मध्ये विचरतो मुदा ॥८५॥

न च कर्णं रणे शक्ता जेतुमन्ये महारथाः ।
जानीते हि भवान् कर्णं वीर्यवन्तं पराक्रमे ॥८६॥

तत्र याहि यतः कर्णो द्रावयत्येष नो बलम् ।
वर्जयित्वा रणे याहि सूतपुत्रं महारथम् ॥८७॥

एतन्मे रोचते कृष्ण यथा वा तव रोचते ।
एतच्छ्रुत्वा वचस्तस्य गोविन्दः प्रहसन्निव ॥८८॥

अब्रवीद‌र्जुनं तूर्णं कौरवाञ्जहि पाण्डव ।
ततस्तव महासैन्यं गोविन्दप्रेरिता हयाः ॥८९॥

हंसवर्णाः प्रविविशुर्वहन्तः कृष्णपाण्डवौ ।
केशवप्रेरितैरश्वैः श्वेतैः काञ्चनभूषणैः ॥९०॥

प्रविशद्भिस्तव बलं चतुर्दिशमभिद्यत ।
मेघस्तनितनिर्ह्रादः स रथो वानरध्वजः ॥९१॥

चलत्पताकस्तां सेनां विमानं द्यामिवाविशत् ।
तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनौ ॥९२॥

क्रुद्धौ संरम्भरक्ताक्षौ विभ्राजेतां महाद्युती ।
युद्धशौण्डौ समाहूतावागतौ तौ रणाध्वरम् ॥९३॥

यज्वभिर्विधिनाहूतौ मखे देवाविवाश्विनौ ।
क्रुद्धौ तौ तु नरव्याघ्रौ योगवन्तौ बभूवतुः ॥९४॥

तलशब्देन रुषितौ यथा नागौ महावने ।
विगाह्य तु रथानीकमश्वसङ्घांश्च फाल्गुनः ॥९५॥

व्यचरत्पृतनामध्ये पाशहस्त इवान्तकः ।
तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत ॥९६॥

संशप्तकगणान्भूयः पुत्रस्ते समचूचुदत् ।
ततो रथसहस्त्रेण द्विरदानां त्रिभिः शतैः ॥९७॥

चतुर्दशसहस्रैस्तु तुरगाणां महाहवे ।
द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम् ॥९८॥

शूराणां लब्धलक्षाणां विदितानां समन्ततः ।
अभ्यवर्तन्त कौन्तेयं छादयन्तो महारथाः ॥९९॥

शरवर्षैर्महाराज सर्वतः पाण्डुनन्दनम् ।
स च्छाद्यमानः समरे शरैः परबलार्दनः ॥१००॥

दर्शयन् रौद्रमात्मानं पाशहस्त इवान्तकः ।
निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत् ॥१०१॥

ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः ।
निरन्तरमिवाकाशमासीच्छन्नं किरीटिना ॥१०२॥

किरीटिभुजनिर्मुक्तैः संपतद्भिर्महाशरैः ।
समाच्छन्नं बभौ सर्वं काद्रवेयैरिव प्रभो ॥१०३॥

रुक्मपुङ्खान्प्रसन्नाग्राञ्छरान्सन्नतपर्वणः ।
अवासृजद‌मेयात्मा दिक्षु सर्वासु पाण्डवः ॥१०४॥

मही वियद्दिशः सर्वाः समुद्रा गिरयोऽपि वा ।
स्फुटन्तीति जना जज्ञुः पार्थस्य तलनिःस्वनात् ॥१०५॥

हत्वा दशसहस्राणि पार्थिवानां महारथः ।
संशप्तकानां कौन्तेयः प्रत्यक्षं त्वरितोऽभ्ययात् ॥१०६॥

प्रत्यक्षं च समासाद्य पार्थः काम्बोजरक्षितम् ।
प्रममाथ बलं बाणैर्दानवानिव वासवः ॥१०७॥

प्रचिच्छेदाशु भल्लेन द्विषतामाततायिनाम् ।
शस्त्रं पाणिं तथा बाहुं तथापि च शिरांस्युत ॥१०८॥

अङ्गाङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन् भुवि ।
विष्वग्वाताभिसंभग्ना बहुशाखा इव द्रुमाः ॥१०९॥

हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम् ।
सुदक्षिणादवरजः शरवृष्ट्याऽभ्यवीवृषत् ॥११०॥

तस्यास्यतोर्धचन्द्राभ्यां बाहू परिघसन्निभौ ।
पूर्णचन्द्राभवक्त्रं च क्षुरेणाभ्यहरच्छिरः ॥१११॥

स पपात ततो वाहात्सुलोहितपरिस्रवः ।
मनःशिलागिरेः शृङ्गं वज्रेणेवावदारितम् ॥११२॥

सुदक्षिणादवरजं काम्बोजं ददृशुर्हतम् ।
प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम् ॥११३॥

काञ्चनस्तम्भसदृशं भिन्नं हेमगिरिं यथा ।
ततोऽभवत्पुनर्युद्धं घोरमत्यर्थमद्भुतम् ॥११४॥

नानावस्थाश्च योधानां बभूवुस्तत्र युद्ध्यताम् ।
एकेषुनिहतैरश्वैः काम्बोजैर्यवनैः शकैः ॥११५॥

शोणिताक्तैस्तदा रक्तं सर्वमासीद्विशांपते ।
रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः ॥११६॥

द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः ।
अन्योन्येन महाराज कृतो घोरो जनक्षयः ॥११७॥

तस्मिन्प्रपक्षे पक्षे च निहते सव्यसाचिना ।
अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिरभ्ययात् ॥११८॥

विधुन्वानो महच्चापं कार्तस्वरविभूषितम् ।
आददानः शरान् घोरान् स्वरश्मीनिव भास्करः ॥११९॥

क्रोधामर्षविवृत्तास्यो लोहिताक्षो बभौ बली ।
अन्तकाले यथा क्रुद्धो मृत्युः किं करदण्डभृत् ॥१२०॥

किं करवद्दण्डं बिभर्ति किंकरनामानं वा दण्डं बिभर्ति सः ॥१२०॥

ततः प्रासृजदुग्राणि शरवर्षाणि सङ्घशः ।
तैर्विसृष्टैर्महाराज व्यद्रवत्पाण्डवी चमूः ॥१२१॥

स दृष्ट्वैव तु दाशार्हं स्यन्दनस्थं विशांपते ।
पुनः प्रासृजदुग्राणि शरवर्षाणि मारिष ॥१२२॥

तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः ।
सञ्छादितौ रथस्थौ तावुभौ कृष्णधनञ्जयौ ॥१२३॥

ततः शरशतैस्तीक्ष्णैरश्वत्थामा प्रतापवान् ।
निश्चेष्टौ तावुभौ युद्धे कृत्वा माधवपाण्डवौ ॥१२४॥

हाहाकृतमभूत्सर्वं स्थावरं जङ्गमं तथा ।
चराचरस्य गोप्तारौ दृष्ट्वा संछादितौ शरैः ॥१२५॥

सिद्धचारणसंघाश्च संपेतुस्ते समन्ततः ।
चिन्तयन्तो भवेदद्य लोकानां स्वस्त्यपीति च ॥१२६॥

न मया तादृशो राजन् दृष्टपूर्वः पराक्रमः ।
संग्रामे यादृशो द्रौणेः कृष्णौ संछाद‌यिष्यतः ॥१२७॥

द्रौणेस्तु धनुषः शब्द‌महितत्रासनं रणे ।
अश्रौषं बहुशो राजन् सिंहस्य निनदो यथा ॥१२८॥

ज्या चास्य चरतो युद्धे सव्यद‌क्षिणमस्यतः ।
विद्युदम्बुदमध्यस्था भ्राजमानेव साऽभवत् ॥१२९॥

स तथा क्षिप्रकारी च दृढहस्तश्च पाण्डवः ।
प्रमोहं परमं गत्वा प्रेक्षन्तं द्रोणजं ततः ॥१३०॥

विक्रमं विहतं मेने आत्मनः स महायशाः ।
तस्यास्य समरे राजन्वपुरासीत्सुदुर्दृशम् ॥१३१॥

द्रौणिपाण्डवयोरेवं वर्तमाने महारणे ।
वर्धमाने च राजेन्द्र द्रोणपुत्रे महाबले ॥१३२॥

हीयमाने च कौन्तेये कृष्णे रोषः समाविशत् ।
स रोषान्निःश्वसन् राजन्निर्दहन्निव चक्षुषा ॥१३३॥

द्रौणिं ह्यपश्यत्संग्रामे फाल्गुनं च मुहुर्मुहुः ।
ततः क्रुद्धोऽब्रवीत्कृष्णः पार्थं सप्रणयं तदा ॥१३४॥

अत्यद्भुतमिदं पार्थ तव पश्यामि संयुगे ।
अतिशेते हि यत्र त्वां द्रोणपुत्रोऽद्य भारत ॥१३५॥

कच्चिद्वीर्यं यथापूर्वं भूजयोर्वा बलं तव ।
कच्चित्ते गाण्डिवं हस्ते रथे तिष्ठसि चार्जुन ॥१३६॥

कच्चित्कुशलिनो बाहू मुष्टिर्वा न व्यशीर्यत ।
उदीर्यमाणं हि रणे पश्यामि द्रौणिमाहवे ॥१३७॥

गुरुपुत्र इति ह्येनं मानयन् भरतर्षभ ।
उपेक्षां कुरु मा पार्थ नायं काल उपेक्षितुम् ॥१३८॥

एवमुक्तस्तु कृष्णेन गृह्य भल्लांश्चतुर्दश ।
त्वरमाणस्त्वराकाले द्रौणेर्धनुरथाच्छिनत् ॥१३९॥

ध्वजं छत्रं पताकाश्च रथं शक्तिं गदां तथा ।
जत्रुदेशे च सुभृशं वत्सदन्तैरताडयत् ॥१४०॥

स मूर्छां परमां गत्वा ध्वजयष्टिं समाश्रितः ।
तं विसंज्ञं महाराज शत्रुणा भृशपीडितम् ॥१४१॥

अपोवाह रणात्सूतो रक्षमाणो धनञ्जयः ।
एतस्मिन्नेव काले च विजयः शत्रुतापनः ॥१४२॥

व्यहनत्तावकं सैन्यं शतशोऽथ सहस्रशः ।
पश्यतस्तस्य वीरस्य तव पुत्रस्य भारत ॥१४३॥

एवमेष क्षयो वृत्तस्तावकानां परैः सह ।
क्रूरो विशसनो घोरो राजन् दुर्मन्त्रिते तव ॥१४४॥

संशप्तकांश्च कौन्तेयः कुरूंश्चापि वृकोदरः ।
वसुषेणश्च पञ्चालान् क्षणेन व्यधमद्रणे ॥१४५॥

वर्तमाने तथा रौद्रे राजन्वीरवरक्षये ।
उत्थितान्यगणेयानि कबन्धानि समन्ततः ॥१४६॥

युधिष्ठिरोऽपि संग्रामे प्रहारैर्गाढवेदनः ।
क्रोशमात्रमपक्रम्य तस्थौ भरतसत्तमः ॥१४७॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे षट्पञ्चाशत्तमोऽध्यायः ॥५६॥
सप्तपञ्चाशत्तमोऽध्यायः

सञ्जय उवाच। दुर्योधनस्ततः कर्णमुपेत्य भरतर्षभ ।
अब्रवीन्मद्रराजं च तथैवान्यांश्च पार्थिवान् ॥१॥

दुर्योधन इति ॥१॥

यदृच्छयैतत्संप्राप्तं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः कर्ण लभन्ते युद्धमीदृशम् ॥२॥

सदृशैः क्षत्रियैः शूरैः शूराणां युद्ध्यतां युधि ।
इष्टं भवति राधेय तदिदं समुपस्थितम् ॥३॥

हत्वा च पाण्डवान्युद्धेस्फीतामुर्वीमवाप्स्यथ ।
निहता वा परैर्युद्धे वीरलोकमवाप्स्यथ ॥४॥

दुर्योधनस्य तच्छ्रुत्वा वचनं क्षत्रियर्षभाः ।
हृष्टा नादानुदक्रोशन्वादित्राणि च सर्वशः ॥५॥

ततः प्रमुदिते तस्मिन् दुर्योधनबले तदा ।
हर्षयंस्तावकान्योधान् द्रौणिर्वचनमब्रवीत् ॥६॥

प्रत्यक्षं सर्वसैन्यानां भवतां चापि पश्यताम् ।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः ॥७॥

स तेनाहममर्षेण मित्रार्थे चापि पार्थिवाः ।
सत्यं वः प्रतिजानामि तद्वाक्यं मे निबोधत ॥८॥

धृष्टद्युम्नमहत्वाऽहं न विमोक्ष्यामि दंशनम् ।
अनृतायां प्रतिज्ञायां नाहं स्वर्गमवाप्नुयाम् ॥९॥

अर्जुनो भीमसेनश्च योधो यो रक्षिता रणे ।
धृष्टद्युम्नस्य तं संख्ये निहनिष्यामि सायकैः ॥१०॥

एवमुक्ते ततः सर्वा सहिता भारती चमूः ।
अभ्यद्रवत कौन्तेयांस्तथा ते चापि पाण्डवाः ॥११॥

पाण्डवा अपि कौरवानभ्यद्रवन्तेति शेषः ॥११॥

स संनिपातो रथयूथपानां बभूव राजन्नतिभीमरूपः ।
जनक्षयः कालयुगान्तकल्पः प्रावर्तताग्रे कुरुसृञ्जयानाम् ॥१२॥

कालयुगान्तः महाप्रलयः ॥१२॥

ततः प्रवृत्ते युधि संप्रहारे भूतानि सर्वाणि सदैवतानि ।
आसन्समेतानि सहाप्सरोभिर्दिदृक्षमाणानि नरप्रवीरान् ॥१३॥

दिव्यैश्च माल्यैर्विविधैश्च गन्धैर्दिव्यैश्च रत्नैर्विविधैर्नराग्र्यान् ।
रणे स्वकर्मोद्वहतः प्रवीरानवाकिरन्नप्सरसः प्रहृष्टाः ॥१४॥

स्वकर्म आभिमुख्येन प्रहारसहनादि उद्वहतो निर्वोढॄन् ॥१४॥

समीरणस्तांश्च निषेव्य गन्धान् सिषेव सर्वानपि योधमुख्यान् ।
निषेव्यमाणास्त्वनिलेन योधाः परस्परघ्ना धरणीं निपेतुः ॥१५॥

समीरणः सिषेवेत्यन्वयः । परस्परं घ्नन्ति ते परस्परेण मारिता इत्यर्थः ॥१५॥

सा दिव्यमाल्यैरवकीर्यमाणा सुवर्णपुंखैश्च शरैर्विचित्रैः ।
नक्षत्रसङ्घैरिव चित्रिता द्यौः क्षितिर्बभौ योधवरैर्विचित्रा ॥१६॥

ततोऽन्तरिक्षादपि साधुवादैर्वादित्रघोषैः समुदीर्यमाणः ।
ज्याघोषनेमिस्वननादचित्रः समाकुलः सोऽभवत्संप्रहारः ॥१७॥

इति श्रीमहाभारते कर्णपर्वणि अश्वत्थामप्रतिज्ञायां सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥
अष्टपञ्चाशत्तमोऽध्यायः

सञ्जय उवाच। एवमेष महानासीत्संग्रामः पृथिवीक्षिताम् ।
क्रुद्धेऽर्जुने तथा कर्णे भीमसेने च पाण्डवे ॥१॥

एवमिति ॥१॥

द्रोणपुत्रं पराजित्य जित्वा चान्यान्महारथान् ।
अब्रवीदर्जुनो राजन्वासुदेवमिदं वचः ॥२॥

पश्य कृष्ण महाबाहो द्रवन्तीं पाण्डवीं चमूम् ।
कर्णं पश्य च संग्रामे कालयन्तं महारथान् ॥३॥

न च पश्यामि दाशार्ह धर्मराजं युधिष्ठिरम् ।
नापि केतुर्युधां श्रेष्ठ धर्मराजस्य दृश्यते ॥४॥

त्रिभागश्चावशिष्टोऽयं दिवसस्य जनार्दन ।
न च मां धार्तराष्ट्रेषु कच्चिद्युध्यति संयुगे ॥५॥

तस्मात्त्वं मत्प्रियं कुर्वन्याहि यत्र युधिष्ठिरः ।
दृष्ट्वा कुशलिनं युद्धे धर्मपुत्रं सहानुजम् ॥६॥

पुनर्योद्धाऽस्मि वार्ष्णेय शत्रुभिः सह संयुगे ।
ततः प्रायाद्रथेनानुशु बीभत्सोर्वचनाद्धरिः ॥७॥

यतो युधिष्ठिरो राजा सृञ्जयाश्च महारथाः ।
अयुध्यंस्तावकैः सार्धं मृत्युं कृत्वा निवर्तनम् ॥८॥

ततः संग्रामभूमिं तां वर्तमाने जनक्षय ।
अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत् ॥९॥

पश्य पार्थ महारौद्रो वर्तते भरतक्षयः ।
पृथिव्यां क्षत्रियाणां वै दुर्योधनकृते महान् ॥१०॥

पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम् ।
मृतानामपविद्धानि कलापांश्च महाधनान् ॥११॥

जातरूपमयैः पुङ्खैः शरांश्चानतपर्वणः ।
तैलधौतांश्च नाराचान् निर्मुक्तान्पन्नगानिव ॥१२॥

हस्तिदन्तत्सरून् खड्गान् जातरूपपरिष्कृतान् ।
वर्माणि चापविद्धानि रुक्मगर्भाणि भारत ॥१३॥

सुवर्णविकृतान् प्रासान् शक्तीः कनकभूषणाः ।
जाम्बूनदमयैः पट्टैर्बद्धाश्च विपुला गदाः ॥१४॥

जातरूपमयीश्चर्ष्टीः पट्टिशान् हेमभूषणान् ।
दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वधान् ॥१५॥

अयःकुन्तांश्च पतितान् मुसलानि गुरूणि च ।
शतघ्नीः पश्य चित्राश्च विपुलान्परिघांस्तथा ॥१६॥

चक्राणि चापविद्धानि तोमरांश्च महारणे ।
नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः ॥१७॥

जीवन्त इव दृश्यन्ते गतसत्त्वास्तरस्विनः ।
गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान् ॥१८॥

गज-वाजि-रथक्षुण्णान्पश्य योधान्सहस्रशः ।
मनुष्य-हय-नागानां शरशक्त्यृष्टिपट्टिशैः ॥१९॥

परिघैरायसैर्घोरैरयस्कुन्तैः परश्वधैः ।
शरीरैर्बहुभिश्छिन्नैः शोणितौघपरिप्लुतैः ॥२०॥

गतासुभिरमित्रघ्न संवृता रणभूमयः ।
बाहुभिश्चन्दनादिग्धैः साङ्गदैर्हेमभूषितैः ॥२१॥

सतलत्रैः सकेयूरैर्भाति भारत मेदिनी ।
साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्धैरलङ्कृतैः ॥२२॥

हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ।
बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः ॥२३॥

पतितैरृषभाक्षाणां विराजति वसुन्धरा ।
कबन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः ॥२४॥

भूर्भाति भरतश्रेष्ठ शान्तार्चिभिरिवाग्निभिः ।
रथांश्च बहुधा भग्नान् हेमकिङ्किणिनः शुभान् ॥२५॥

किंकिणिनः किंकिणीमन्तः व्रीह्यादित्वादिनिः ॥२५॥

वाजिनश्च हतान्पश्य निष्कीर्णान्त्रान् शराहतान् ।
अनुकर्षानुपासङ्गान् पताका विविधध्वजान् ॥२६॥

रथिनां च महाशंखान् पाण्डुरांश्च प्रकीर्णकान् ।
निरस्तजिह्वान् मातङ्गान् शयानान् पर्वतोपमान् ॥२७॥

प्रकीर्णकान् चामरान् ‘प्रकीर्णकं चामरे स्याद्विस्तरे ना तुरङ्गमे’ इति मेदिनी ॥२७॥

वैजयन्तीर्विचित्राश्च हतांश्च गजवाजिनः ।
वारणानां परिस्तोमांस्तथैवाजिनकम्बलान् ॥२८॥

विपाटितविचित्रांश्च रूप्यचित्रान् कुथाङ्कुशान् ।
भिन्नाश्च बहुधा घण्टा महद्भिः पतितैर्गजैः ॥२९॥

वैदूर्यदण्डांश्च शुभान् पतितानङ्कुशान्भुवि ।
बद्धाः सादिभुजाग्रेषु सुवर्णविकृताः कशाः ॥३०॥

विचित्रमणिचित्रांश्च जातरूपपरिष्कृतान् ।
अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान् भुवि ॥३१॥

चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः ।
छत्राणि चापविद्धानि चामरव्यजनानि च ॥३२॥

चन्द्र-नक्षत्रभासैश्च वदनैश्चारुकुण्डलैः ।
क्लुप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः ॥३३॥

वदनैः पश्य संछन्नां महीं शोणितकर्दमाम् ।
सजीवांश्चापरान्पश्य कूजमानान्समंततः ॥३४॥

उपास्यमानान् बहुशो न्यस्तशस्त्रैर्विशांपते ।
ज्ञातिभिः सहितांस्तत्र रोदमानैर्मुहुर्मुहुः ॥३५॥

व्युत्क्रान्तानपरान्योधांश्छादयित्वा तरस्विनः ।
पुनर्युद्धाय गच्छन्ति जयगृद्धाः प्रमन्यवः ॥३६॥

अपरे तत्र तत्रैव परिधावन्ति मानवाः ।
ज्ञातिभिः पतितैः शूरैर्याच्यमानास्तथोद‌कुम् ॥३७॥

जलार्थं च गताः केचिन्निष्प्राणा बहवोऽर्जुन ।
सन्निवृत्ताश्च ते शूरास्तान्वै दृष्ट्वा विचेतसः ॥३८॥

जलं त्यक्त्वा प्रधावन्ति क्रोशमानाः परस्परम् ।
जलं पीत्वा मृतान्पश्य पिबतोऽन्यांश्च मारिष ॥३९॥

परित्यज्य प्रियानन्ये बान्धवान्बान्धवप्रियाः ।
व्युत्क्रान्ताः समदृश्यन्त तत्र तत्र महारणे ॥४०॥

तथा परान्नरश्रेष्ठ सन्दष्टौष्ठपुटान्पुनः ।
भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्समन्ततः ॥४१॥

एवं ब्रुवंस्तदा कृष्णो ययौ यत्र युधिष्ठिरः ।
अर्जुनश्चापि नृपतेर्दर्शनार्थं महारणे ॥४२॥

याहि याहीति गोविन्दं मुहुर्मुहुरचोदयत् ।
तां युद्धभूमिं पार्थस्य दर्शयित्वा च माधवः ॥४३॥

त्वरमाणस्ततः कृष्णः पार्थमाह शनैरिदम् ।
पश्य पाण्डव राजानमुपयातांश्च पार्थिवान् ॥४४॥

कर्णं पश्य महारङ्गे ज्वलन्तमिव पावकम् ।
असौ भीमो महेष्वासः सन्निवृत्तो रणं प्रति ॥४५॥

तमेते विनिवर्तन्ते धृष्टद्युम्नपुरोगमाः ।
पञ्चालसृञ्जयानां च पाण्डवानां च ये मुखम् ॥४६॥

निवृत्तैश्च पुनः पार्थैर्भग्नं शत्रुबलं महत् ।
कौरवान्द्रवतो ह्येष कर्णो रोधय तेऽर्जुन ॥४७॥

अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः ।
असौ गच्छति कौरव्य द्रौणिः शस्त्रभृतां वरः ॥४८॥

तमेव प्रद्रुतं संख्ये धृष्टद्युम्नो महारथः ।
अनुप्रयाति संग्रामे हतान्पश्य च सृञ्जयान् ॥४९॥

सर्वमाह सुदुर्धर्षो वासुदेवः किरीटिने ।
ततो राजन्महाघोरः प्रादुरासीन्महारणः ॥५०॥

सिंहनादरवाश्चैव प्रादुरासन्समागमे ।
उभयोः सेनयो राजन् मृत्युं कृत्वा निवर्तनम् ॥५१॥

एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते ।
तावकानां परेषां च राजन्दुर्मन्त्रिते तव ॥५२॥

इति श्रीमहाभारते कर्णपर्वणि वासुदेववाक्ये अष्टपञ्चाशत्तमोऽध्यायः ॥५८॥
ऊनषष्टितमोऽध्यायः

सञ्जय उवाच। ततः पुनः समाजग्मुरभीताः कुरुसृञ्जयाः ।
युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम् ॥१॥

ततः पुनः समाजग्मुरिति ॥१॥

ततः प्रववृते भीमः संग्रामो लोमहर्षणः ।
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ॥२॥

तस्मिन्प्रवृत्ते संग्रामे तुमुले शोणितोदके ।
संशप्तकेषु शूरेषु किंचिच्छिष्टेषु भारत ॥३॥

धृष्टद्युम्नो महाराज सहितः सर्वराजभिः ।
कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः ॥४॥

आगच्छमानांस्तान्संख्ये प्रहृष्टान्विजयैषिणः ।
दधारैको रणे कर्णो जलौघानिव पर्वतः ॥५॥

समासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः ।
यथाचलं समासाद्य वार्योघाः सर्वतोदिशम् ॥६॥

तयोरासीन्महाराज संग्रामो लोमहर्षणः ।
धृष्टद्युम्नस्तु राधेयं शरेणानतपर्वणा ॥७॥

ताडयामास समरे तिष्ठ तिष्ठेति चाब्रवीत् ।
विजयं च धनुः श्रेष्ठं विधुन्वानो महारथः ॥८॥

पार्षतस्य धनुश्छित्त्वा शरांश्चाशीविषोपमान् ।
ताडयामास संक्रुद्धः पार्षतं नवभिः शरैः ॥९॥

ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः ।
शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ ॥१०॥

त‌दपास्य धनुश्छिन्नं धृष्टद्युम्नो महारथः ।
अथान्यद्धनुरादाय शरांश्चाशीविषोपमान् ॥११॥

कर्णं विव्याध सप्तत्या शरैः सन्नतपर्वभिः ।
तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम् ॥१२॥

छादयामास समरे शरैराशीविषोपमैः ।
द्रोणशत्रुर्महेष्वासो विव्याध निशितैः शरैः ॥१३॥

तस्य कर्णो महाराज शरं कनकभूषणम् ।
प्रेषयामास संक्रुद्धो मृत्युदण्डमिवापरम् ॥१४॥

तमापतन्तं सहसा घोररूपं विशांपते ।
चिच्छेद शतधा राजञ्शैनेयः कृतहस्तवत् ॥१५॥

दृष्ट्वा विनिहतं बाणं शरैः कर्णो विशांपते ।
सात्यकिं शरवर्षेण समन्तात्पर्यवारयत् ॥१६॥

विव्याध चैनं समरे नाराचैस्तत्र सप्तभिः ।
तं प्रत्यविध्यच्छैनेयः शरैर्हेमपरिष्कृतैः ॥१७॥

ततो युद्धं महाराज चक्षुःश्रोत्रभयानकम् ।
आसीद्धोरं च चित्रं च प्रेक्षणीयं समन्ततः ॥१८॥

सर्वेषां तत्र भूतानां लोमहर्षोऽभ्यजायत ।
तद्‌ दृष्ट्वा समरे कर्म कर्णशैनेययोर्नृप ॥१९॥

एतस्मिन्नन्तरे द्रौणिरभ्ययात्सुमहाबलम् ।
पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम् ॥२०॥

अभ्यभाषत संक्रुद्धो द्रौणिः परपुरंजयः ।
तिष्ठ तिष्ठाद्य ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे ॥२१॥

इत्युक्त्वा सुभृशं वीरं शीघ्रकृन्निशितैः शरैः ।
पार्षतं छाद‌यामास घोररूपैः सुतेजनैः ॥२२॥

यतमानं परं शक्त्या यतमानो महारथः ।
यथा हि समरे द्रोणः पार्षतं वीक्ष्य मारिष ॥२३॥

तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा ।
नातिहृष्टमना भूत्वा मन्यते मृत्युमात्मनः ॥२४॥

स ज्ञात्वा समरेत्मानं शस्त्रेणावध्यमेव तु ।
जवेनाभ्याययौ द्रौणिं कालः कालमिव क्षये ॥२५॥

द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नमवस्थितम् ।
क्रोधेन निःश्वसन्वीरः पाषतं समुपाद्रवत् ॥२६॥

तावन्योन्यं तु दृष्ट्वैव संरंभं जग्मतुः परम् ।
अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान् ॥२७॥

धृष्टद्युम्नं समीपस्थं त्वरमाणो विशांपते ।
पञ्चालापसदाद्य त्वां प्रेषयिष्यामि मृत्यवे ॥२८॥

पापं हि यत्त्वत्या कर्म घ्नता द्रोणं पुरा कृतम् ।
अद्य त्वां तप्स्यते तद्वै यथा न कुशलं तथा ॥२९॥

अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे ।
नापक्रामसि वा मूढ सत्यमेतद्ब्रवीमि ते ॥३०॥

एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान् ।
प्रतिवाक्यं स एवासिर्मामको दास्यते तव ॥३१॥

येनैव ते पितुर्दत्तं यतमानस्य संयुगे ।
यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः ॥३२॥

त्वामिदानीं कथं युद्धे न हनिष्यामि विक्रमात् ।
एवमुक्त्वा महाराज सेनापतिरमर्षणः ॥३३॥

निशितेनातिबाणेन द्रौणिं विव्याध पार्षतः ।
ततो द्रौणिः सुसंक्रुद्धः शरैः संनतपर्वभिः ॥३४॥

आच्छादयद्दिशो राजन् धृष्टद्युम्नस्य संयुगे ।
नैवान्तरिक्षं न दिशो नापि योधाः समंततः ॥३५॥

दृश्यन्ते वै महाराज शरैश्छन्नाः सहस्रशः ।
तथैव पार्षतो राजन् द्रौणिमाहवशोभिनम् ॥३६॥

शरैः संछादयामास सूतपुत्रस्य पश्यतः ।
राधेयोऽपि महाराज पञ्चालान्सह पाण्डवैः ॥३७॥

द्रौपदेयान्युधामन्युं सात्यकिं च महारथम् ।
एकः संवारयामास प्रेक्षणीयः समन्ततः ॥३८॥

धृष्टद्युम्नस्तु समरे द्रौणेश्चिच्छेद कार्मुकम् ।
तदपास्य धनर्द्रौणिरन्यदादाय कार्मुकम् ॥३९॥

वेगवान्समरे घोरे शरांश्चाशीविषोपमान् ।
स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम् ॥४०॥

हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः ।
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥४१॥

खड्गमादत्त विपुलं शतचन्द्रं च भानुमत् ।
द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः ॥४२॥

चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः ।
रथादनवरूढस्य तद‌द्भुतमिवाभवत् ॥४३॥

धृष्टद्युम्नं हि विरथं हताश्वं छिन्नकार्मुकम् ।
शरैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम् ॥४४॥

नाशकद्भरतश्रेष्ठ यतमानो महारथः ।
तस्यान्तमिषुभी राजन् यदा द्रौणिर्न जग्मिवान् ॥४५॥

अथ त्यक्त्वा धनुर्वीरः पार्षतं त्वरितोऽन्वगात् ।
आसीदाप्लवतो वेगस्तस्य राजन्महात्मनः ॥४६॥

गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम् ।
एतस्मिन्नेव काले तु माधवोऽर्जुनमब्रवीत् ॥४७॥

पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति ।
यत्नं करोति विपुलं हन्याच्चैनं न संशयः ॥४८॥

तं मोचय महाबाहो पार्षतं शत्रुकर्शन ।
द्रौणेरास्यमनुप्राप्तं मृत्योरास्यगतं यथा ॥४९॥

एवमुक्त्वा महाराज वासुदेवः प्रतापवान् ।
प्रैषयत्तुरगांस्तत्र यन्त्र द्रौणिर्व्यवस्थितः ॥५०॥

ते हयाश्चन्द्रसंकाशाः केशवेन प्रचोदिताः ।
आपिबन्त इव व्योम जग्मुर्द्रौणिरथं प्रति ॥५१॥

दृष्ट्वाऽऽयातौ महावीर्यावुभौ कृष्णधनञ्जयौ ।
धृष्टद्युम्नवधे यत्नं चक्रे राजन्महाबलः ॥५२॥

विकृष्यमाणं दृष्ट्वैव धृष्टद्युम्नं नरेश्वर ।
शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महाबलः॥५३॥

ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम् ।
द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः॥५४॥

स विद्धस्तैः शरैर्घोरैर्द्रोणपुत्रः प्रतापवान् ।
उत्सृज्य समरे राजन्पाञ्चाल्यममितौजसम् ॥५५॥

रथमारुरुहे वीरो धनञ्जयशरार्दितः ।
प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः ॥५६॥

एतस्मिन्नन्तरे वीरः सहदेवो जनाधिप ।
अपोवाह रथेनाजौ पार्षतं शत्रुतापनम् ॥५७॥

अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः ।
तं द्रोणपुत्रः संक्रुद्धो बाह्वोरुरसि चार्पयत् ॥५८॥

क्रोधितस्तु रणे पार्थो नाराचं कालसंमितम् ।
द्रोणपुत्राय चिक्षेप कालदण्डमिवापरम् ॥५९॥

ब्राह्मणस्यांसदेशे स निपपात महाद्युतिः ।
स विह्वलो महाराज शरवेगेन संयुगे ॥६०॥

निषसाद रथोपस्थे वैक्लव्यं च परं ययौ ।
ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः ॥६१॥

अर्जुनं समरे क्रुद्धः प्रेक्षमाणो मुहुर्मुहुः ।
द्वैरथं चापि पार्थेन कामयानो महारणे ॥६२॥

विह्वलं तन्तु वीक्ष्याथ द्रोणपुत्रं च सारथिः ।
अपोवाह रथेनाजौ त्वरमाणो रणाजिरात् ॥६३॥

अथोत्क्रुष्टं महाराज पञ्चालैर्जितकाशिभिः ।
मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम् ॥६४॥

वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः ।
सिंहनादांश्च चक्रुस्ते दृष्ट्वा संख्ये तद‌द्भुतम् ॥६५॥

एवं कृत्वाऽब्रवीत्पार्थो वासुदेवं धनञ्जयः ।
याहि संशप्तकान् कृष्ण कार्यमेतत्परं मम ॥६६॥

ततः प्रयातो दाशार्हः श्रुत्वा पाण्डवभाषितम् ।
रथेनातिपताकेन मनोमारुतरंहसा ॥६७॥

इति श्रीमहाभारते कर्णपर्वणि द्रौण्यपयाने ऊनषष्टितमोऽध्यायः ॥५९॥
षष्टितमोऽध्यायः

सञ्जय उवाच। एतस्मिन्नन्तरे कृष्णः पार्थं वचनमब्रवीत् ।
दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम् ॥१॥

एतस्मिन्निति ॥१॥

एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः ।
जिघांसुभिर्महेष्वासैर्द्रुतं पार्थोऽनुसार्यते ॥२॥

तं चानुयान्ति संरब्धाः पञ्चाला युद्धदुर्मदाः ।
युधिष्ठिरं महात्मानं परीप्सन्तो महाबलाः ॥३॥

एष दुर्योधनः पार्थ रथानीकेन दंशितः ।
राजा सर्वस्य लोकस्य राजानमनुधावति ॥४॥

जिघांसुः पुरुषव्याघ्र भ्रातृभिः सहितो बली ।
आशीविषसमस्पर्शैः सर्वयुद्धविशारदैः ॥५॥

एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः ।
युधिष्ठिरं धार्तराष्ट्रा नरोत्तममिवार्थिनः ॥६॥

नरोत्तमं वदान्यं रत्नोत्तममिति पाठे काञ्चनं तद्धि उत्कृष्टानां मध्येऽत्युत्तमम् ॥६॥

पश्य सात्वतभीमाभ्यां निरुद्धाधिष्ठिताः पुनः ।
जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवासकृत् ॥७॥

जिहीर्षवो युधिष्ठिरं हर्तुमिच्छन्तः निरुद्धाः सन्तोऽपि अधिष्ठिताः ॥७॥

एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम् ।
समुद्रमिव वार्योघाः प्रावृट्‌काले महारथाः ॥८॥

नदन्तः सिंहनादांश्च धमन्तश्चापि वारिजान् ।
बलवन्तो महेष्वासा विधुन्वन्तो धनूंषि च ॥९॥

मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम् ।
हुतमग्नौ च कौन्तेयं दुर्योधनवशं गतम् ॥१०॥

यथाविधमनीकं तु धार्तराष्ट्रस्य पाण्डव ।
नास्य शक्रोऽपि मुच्येत संप्राप्तो बाणगोचरम् ॥११॥

दुर्योधनस्य वीरस्य शरौघान् शीघ्रमस्यतः ।
संक्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे ॥१२॥

दुर्योधनस्य वीरस्य द्रौणेः शारद्वतस्य च ।
कर्णस्य चेषुवेगो वै पर्वतानपि शातयेत् ॥१३॥

कर्णेन च कृतो राजा विमुखः शत्रुतापनः ।
बलवाँल्लघुहस्तश्च कृती युद्धविशारदः ॥१४॥

राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे ।
सहितो धृतराष्ट्रस्य पुत्रैः शूरैर्महाबलैः ॥१५॥

तस्यैभिर्युध्यमानस्य संग्रामे संशितात्मनः ।
अन्यैरपि च पार्थस्य कृतं कर्म महारथैः ॥१६॥

तस्य युधिष्ठिरस्य कर्म कर्तव्यं पराजयाख्यम् । एभिर्दुर्योधनादिभिः कृतं निष्पादितम् ॥१६॥

उपवासकृशो राजा भृशं भरतसत्तमः ।
ब्राह्मे बले स्थितो ह्येष न क्षात्रे हि बले विभुः॥१७॥

तत्र हेतुः ब्राह्मे बले क्षमायां क्षात्रे बले निष्ठुरत्वे ॥१७॥

कर्णेन चाभियुक्तोऽयं भूपतिः शत्रुतापनः ।
संशयं समनुप्राप्तः पाण्डवो वै युधिष्ठिरः ॥१८॥

न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः ।
यद्भीमसेनः सहते सिंहनादममर्षणः ॥१९॥

नर्दतां धार्तराष्ट्राणां पुनः पुनररिन्दमः ।
धमतां च महाशंखान्संग्रामे जितकाशिनाम् ॥२०॥

युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ ।
संचोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान् ॥२१॥

हत नाशयतेति कर्णश्चोदयतीति सम्बन्धः ॥२१॥

स्थूणाकर्णेन्द्रजालेन पार्थपाशुपतेन च ।
प्रच्छादयन्ति राजानं शस्त्रजालैर्महारथाः ॥२२॥

स्थूणाकर्णो गन्धर्वस्तस्यास्त्रं स्थूणाकर्णं गान्धर्वम् । इन्द्रजालमयं तत् ॥२२॥

आतुरो हि कृतो राजा सन्निषेव्यश्च भारत ।
यथैनमनुवर्तन्ते पञ्चालाः सह पाण्डवैः ॥२३॥

निषेव्यः चिकित्सकैराराध्यः सन्निषण्ण इति पाठे अवसन्नः ॥२३॥

त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः ।
मज्जन्तमिव पाताले बलिनोऽप्युज्जिहीर्षवः ॥२४॥

न केतुर्दृश्यते राज्ञः कर्णेन निहतः शरैः ।
पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः ॥२५॥

धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो ।
पञ्चालानां च सर्वेषां चेदीनां चैव भारत ॥२६॥

एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम् ।
शरैर्विध्वंसयति वै नलिनीमिव कुञ्जरः ॥२७॥

एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन ।
पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः ॥२८॥

एते भारत मातङ्गाः कर्णेनाभिहताः शरैः ।
आर्तनादान् विकुर्वाणा विद्रवन्ति दिशो दश ॥२९॥

रथानां द्रवते वृन्दमेतच्चैव समन्ततः ।
द्राव्यमाणं रणे पार्थ कर्णेनामित्रकर्षिणा ॥३०॥

हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह ।
रथस्थं सूतपुत्रस्य केतुं केतुमतां वर ॥३१॥

हस्तिकक्ष्यां केतुमिति सम्बन्धः ॥३१॥

असौ धावति राधेयो भीमसेनरथं प्रति ।
किरञ्शरशतान्येव विनिघ्नंस्तव वाहिनीम् ॥३२॥

एतान् पश्य च पञ्चालान् द्राव्यमाणान् महारथान् ।
शक्रेणेव यथा दैत्यान् हन्यमानान्महाहवे ॥३३॥

एष कर्णो रणे जित्वा पञ्चालान्पाण्डुसृञ्जयान् ।
दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः ॥३४॥

पश्य पार्थ धनुः श्रेष्ठं विकर्षन्साधु शोभते ।
शत्रुं जित्वा यथा शक्रो देवसंघैः समावृतः ॥३५॥

एते नर्दन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम् ।
त्रासयन्तो रणे पाण्डून् सृञ्जयांश्च समन्ततः ॥३६॥

एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे ।
अभिभाषति राधेयः सर्वसैन्यानि मानद ॥३७॥

अभिद्रवत भद्रं वो द्रुतं द्रवत कौरवाः ।
यथा जीवन्न वः कश्चिन्मुच्येत युधि सृञ्जयः ॥३८॥

तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः ।
एवमुक्त्वा गतो ह्येष पृष्ठतो विकिरञ्छरान् ॥३९॥

पश्य कर्णं रणे पार्थ श्वेतच्छत्रविराजितम् ।
उदयं पर्वतं यद्वच्छशाङ्केनाभिशोभितम् ॥४०॥

पूर्णचन्द्रनिकाशेन मूर्ध्नि च्छत्रेण भारत ।
ध्रियमाणेन समरे श्रीमच्छतशलाकिना ॥४१॥

छत्रेणोपलक्षितः ॥४१॥

एष त्वां प्रेक्षते कर्णः सकटाक्षं विशांपते ।
उत्तमं जवमास्थाय ध्रुवमेष्यति संयुगे ॥४२॥

पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुः ।
शरांश्चाशीविषाकारान्विसृजन्तं महारणे ॥४३॥

असौ निवृत्तो राधेयो दृष्ट्वा ते वानरध्वजम् ।
प्रार्थयन्समरे पार्थ त्वया सह परंतप ॥४४॥

प्रार्थयन्युद्धमिति शेषः ॥४४॥

वधाय चात्मनोऽभ्येति दीप्तास्यं शलभो यथा ।
कर्णमेकाकिनं दृष्ट्वा रथानीकेन भारत ॥४५॥

रिरक्षिषुः सुसंवृत्तो धार्तराष्ट्रो निवर्तते ।
सर्वैः सहैभिर्दुष्टात्मा वध्यतां च प्रयत्नतः ॥४६॥

त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता ।
अदीनयोर्विश्रुतयोर्युवयोर्योत्स्यमानयोः ॥४७॥

युवयोः कर्णार्जुनयोः ॥४७॥

देवासुरे पार्थमृधे देवदानवयोरिव ।
पश्यन्तु कौरवाः सर्वे तव पार्थ पराक्रमम् ॥४८॥

त्वां च दृष्ट्वाऽतिसंरब्धं कर्णं च भरतर्षभ ।
असौ दुर्योधनः क्रुद्धो नोत्तरं प्रतिपद्यते ॥४९॥

आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ ।
कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे ।
प्रतिपद्यस्व कौन्तेय प्राप्तकालमनन्तरम् ॥५०॥

आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम् ।
पञ्च ह्येतानि मुख्यानि रथानां रथसत्तम ॥५१॥

शतान्यायान्ति समरे बलिनां तिग्मतेजसाम् ।
पञ्च नागसहस्राणि द्विगुणा वाजिनस्तथा ॥५२॥

अभिसंहत्य कौन्तेय पदातिप्रयुतानि च ।
अन्योन्यरक्षितं वीर बलं त्वामभिवर्तते ॥५३॥

द्रोणपुत्रं पुरस्कृत्य तच्छीघ्रं सन्निषूदय ।
निकृत्यैतद्रथानीकं बलिनं लोकविश्रुतम् ॥५४॥

सूतपुत्रं महेष्वासं दर्शयात्मानमात्मना ।
उत्तमं जवमास्थाय प्रत्येहि भरतर्षभ ॥५५॥

असौ कर्णः सुसंरब्धः पञ्चालानभिधावति ।
केतुमस्य हि पश्यामि धृष्टद्युम्नरथं प्रति ॥५६॥

समुपैष्यति पञ्चालानिति मन्ये परंतप ।
आचचक्षे प्रियं पार्थ तवेदं भरतर्षभ ॥५७॥

राजाऽसौ कुशली श्रीमान् धर्मपुत्रो युधिष्ठिरः ।
असौ भीमो महाबाहुः सन्निवृत्तश्चमूमुखे ॥५८॥

वृतः सृञ्जयसैन्येन शैनेयेन च भारत ।
वध्यन्त एते समरे कौरवा निशितैः शरैः ॥५९॥

भीमसेनेन कौन्तेय पञ्चालैश्च महात्मभिः ।
सेना हि धार्तराष्ट्रस्य विमुखा विक्षरद्व्रणा ॥६०॥

विप्रधावति वेगेन भीमस्याभिहता शरैः ।
विपन्नसस्येव मही रुधिरेण समुक्षिता ॥६१॥

भारती भरतश्रेष्ठ सेना कृपणदर्शना ।
निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम् ॥६२॥

आशीविषमिव क्रुद्धं द्रावयन्तं वरूथिनीम् ।
पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः ॥६३॥

पताका विप्रकीर्यन्ते च्छत्राण्येतानि चार्जुन ।
सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः ॥६४॥

केतवोऽभिनिपात्यन्ते हस्त्यश्वं च प्रकीर्यते ।
रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः ॥६५॥

नानावर्णैर्हता बाणैः पञ्चालैरपलायिभिः ।
निर्मनुष्यान् गजानश्वान्रथांश्चैव धनञ्जय ॥६६॥

समाद्रवन्ति पञ्चाला धार्तराष्ट्रांस्तरस्विनः ।
विमृद्नन्ति नरव्याघ्रा भीमसेनबलाश्रयात् ॥६७॥

बलं परेषां दुर्धर्षास्त्यक्त्वा प्राणानरिन्दम ।
एते नर्दन्ति पञ्चाला ध्मापयन्ति च वारिजान् ॥६८॥

अभिद्रवन्ति च रणे मृद्नन्तः सायकैः परान् ।
पश्यस्वैषां च माहात्म्यं पञ्चाला हि पराक्रमात् ॥६९॥

धार्तराष्ट्रान्विनिघ्नन्ति क्रुद्धाः सिंहा इव द्विपान् ।
शस्त्रमाच्छिद्य शत्रूणां सायुधानां निरायुधाः ॥७०॥

तेनैवैतानमोघास्त्रा निघ्नन्ति च नदन्ति च ।
शिरांस्येतानि पात्यन्ते शत्रूणां बाहवोऽपि च ॥७१॥

रथ-नाग-हया वीरा यशस्याः सर्व एव च ।
सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः ॥७२॥

पञ्चालैर्मानसादेत्य हंसैर्गङ्गेव वेगितैः ।
सुभृशं च पराक्रान्ताः पञ्चालानां निवारणे ॥७३॥

कृपकर्णाद‌यो वीरा ऋषभाणामिवर्षभाः ।
भीमास्त्रेण सुनिर्भग्नान् धार्तराष्ट्रान्महारथान् ॥७४॥

धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून् सहस्रशः ।
पञ्चालेष्वभिभूतेषु द्विषद्भिरपभीर्नदन् ॥७५॥

शत्रुपक्षमवस्कन्द्य शरानस्यति मारुतिः ।
विषण्णभूयिष्ठतरा धार्तराष्ट्री महाचमूः ॥७६॥

रथाश्चैते सुवित्रस्ता भीमसेनभयार्दिताः ।
पश्य भीमेन नाराचैर्भिन्ना नागाः पतन्त्यमी ॥७७॥

वज्रिवज्रहतानीव शिखराणि धराभृताम् ।
भीमसेनस्य निर्विद्धा बाणैः सन्नतपर्वभिः ॥७८॥

स्वान्यनीकानि मृद्नन्तो द्रवन्त्येते महागजाः ।
अभिजानीहि भीमस्य सिंहनादं सुदुःसहम् ॥७९॥

नदतोऽर्जुन संग्रामे वीरस्य जितकाशिनः ।
एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम् ॥८०॥

जिघांसुस्तोमरैः क्रुद्धो दण्डपाणिरिवान्तकः ।
सतोमरावस्य भुजौ छिन्नौ भीमेन गर्जतः ॥८१॥

तीक्ष्णैरग्निरविप्रख्यैर्नाराचैर्दशभिर्हतः ।
हत्वैनं पुनरायाति नागानन्यान्प्रहारिणः ॥८२॥

पश्य नीलाम्बुदनिभान्महामात्रैरधिष्ठितान् ।
शक्तितोमरसङ्घातैर्विनिघ्नन्तं वृकोदरम् ॥८३॥

सप्त सप्त च नागांस्तान्वैजयन्तीश्च सध्वजाः ।
निहत्य निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते ॥८४॥

दशभिर्दशभिश्चैको नाराचैर्निहतो गजः ।
न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा ॥८५॥

पुरन्दरसमे क्रुद्धे निवृत्ते भरतर्षभ ।
अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य संहताः ।
क्रुद्धेन भीमसेनेन नरसिंहेन वारिताः ॥८६॥

न शक्नुवन्ति वै पार्थं पार्थिवाः समुदीक्षितुम् ।
मध्यंदिनगतं सूर्यं यथा दुर्बलचक्षुषः ॥८७॥

एते भीमस्य संत्रस्ताः सिंहस्येवेतरे मृगाः ।
शरैः संत्रासिताः संख्ये न लभन्ते सुखं क्वचित् ॥८८॥

सञ्जय उवाच। एतच्छ्रुत्वा महाबाहुर्वासुदेवाद्धनञ्जयः ।
भीमसेनेन तत् कर्म कृतं दृष्ट्वा सुदुष्करम् ॥८९॥

अर्जुनो व्यधमच्छिष्टानहितान्निशितैः शरैः ।
ते वध्यमानाः समरे संशप्तकगणाः प्रभो ॥९०॥

प्रभग्नाः समरे भीता दिशो दश महाबलाः ।
शक्रस्यातिथितां गत्वा विशोका ह्यभवंस्तदा ॥९१॥

पार्थश्च पुरुषव्याघ्रः शरैः सन्नतपर्वभिः ।
जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम् ॥९२॥

इति श्रीमहाभारते कर्णपर्वणि कृष्णार्जुनसंवादे षष्टितमोऽध्यायः ॥६०॥
एकषष्टितमोऽध्यायः

धृतराष्ट्र उवाच। निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे ।
वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः ॥१॥

निवृत्त इति ॥१॥

द्रवमाणे बलौघे च निरानन्दे मुहुर्मुहुः ।
किमकुर्वन्त कुरवस्तन्ममाचक्ष्व सञ्जय ॥२॥

सञ्जय उवाच। दृष्ट्वा भीमं महाबाहुं सूतपुत्रः प्रतापवान् ।
क्रोधरक्तेक्षणो राजन्भीमसेनमुपाद्रवत् ॥३॥

तावकं तु बलं दृष्ट्वा भीमसेनात्पराङ्मुखम् ।
यत्नेन महता राजन्पर्यवस्थापयद्बली ॥४॥

व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम् ।
प्रत्युद्ययौ तदा कर्णः पाण्डवान् युद्धदुर्मदान् ॥५॥

प्रत्युद्ययुस्तु राधेयं पाण्डवानां महारथाः ।
धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान् ॥६॥

भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः ।
धृष्टद्युम्नश्च बलवान् सर्वे चापि प्रभद्रकाः ॥७॥

जिघांसन्तो नरव्याघ्राः समन्तात् तव वाहिनीम् ।
अभ्यद्रवन्त संक्रुद्धाः समरे जितकाशिनः ॥८॥

तथैव तावका राजन्पाण्डवानामनीकिनीम् ।
अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः ॥९॥

रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् ।
बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम् ॥१०॥

शिखण्डी च ययौ कर्णं धृष्टद्युम्नः सुतं तव ।
दुःशासनं महाराज महत्या सेनया वृतम् ॥११॥

नकुलो वृषसेनं तु चित्रसेनं युधिष्ठिरः ।
उलूकं समरे राजन् सहदेवः समभ्ययात् ॥१२॥

सात्यकिः शकुनिं चापि द्रौपदेयाश्च कौरवान् ।
अर्जुनं च रणे यत्तो द्रोणपुत्रो महारथः ॥१३॥

युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे ।
कृतवर्मा च बलवानुत्तमौजसमाद्रवत् ॥१४॥

भीमसेनः कुरून् सर्वान् पुत्रांश्च तव मारिष ।
सहानीकान्महाबाहुरेक एव न्यवारयत् ॥१५॥

शिखण्डी तु ततः कर्णं विचरन्तमभीतवत् ।
भीष्महन्ता महाराज वारयामास पत्रिभिः ॥१६॥

प्रतिरुद्धस्ततः कर्णो रोषात् प्रस्फुरिताधरः ।
शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्येऽभ्यताडयत् ॥१७॥

धारयंस्तु स तान्बाणाञ्शिखण्डी बह्वशोभत ।
राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैरिवोत्थितैः ॥१८॥

सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे ।
कर्णं विव्याध समरे नवत्या निशितैः शरैः ॥१९॥

तस्य कर्णो हयान् हत्वा सारथिं च त्रिभिः शरैः ।
उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः ॥२०॥

हताश्वात्तु ततो यानादवप्लुत्य महारथः ।
शक्तिं चिक्षेप कर्णाय संक्रुद्धः शत्रुतापनः ॥२१॥

तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः ।
शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः ॥२२॥

कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः ।
अपयातस्ततस्तूर्णं शिखण्डी भृशविक्षतः ॥२३॥

ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत् ।
तूलराशिं समासाद्य यथा वायुर्महाबलः ॥२४॥

धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः ।
दुःशासनं त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥२५॥

तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष ।
स तेन रुक्मपुङ्खेन भल्लेनानतपर्वणा ॥२६॥

धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः ।
दुःशासनाय संक्रुद्धः प्रेषयामास भारत ॥२७॥

आपतन्तं महावेगं धृष्टद्युम्नसमीरितम् ।
शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशांपते ॥२८॥

अथापरैः सप्तदशैर्भल्लैः कनकभूषणैः ।
धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्पयत् ॥२९॥

ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष ।
क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः ॥३०॥

अथान्यद्धनुरादाय पुत्रस्ते प्रहसन्निव ।
धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत् ॥३१॥

तव पुत्रस्य ते दृष्ट्वा विक्रमं सुमहात्मनः ।
व्यस्मयन्त रणे योधाः सिद्धाश्चाप्सरसां गणाः ॥३२॥

धृष्टद्युम्नं न पश्याम घटमानं महाबलम् ।
दुःशासनेन संरुद्धं सिंहेनेव महागजम् ॥३३॥

ततः सरथनागाश्वाः पञ्चालाः पाण्डुपूर्वज ।
सेनापतिं परीप्सन्तो रुरुधुस्तनयं तव ॥३४॥

ततः प्रववृते युद्धं तावकानां परैः सह ।
घोरं प्राणभृतां काले भीमरूपं परन्तप ॥३५॥

नकुलं वृषसेनस्तु भित्त्वा पञ्चभिरायसैः ।
पितुः समीपे तिष्ठन्वै त्रिभिरन्यैरविध्यत ॥३६॥

नकुलस्तु ततः शूरो वृषसेनं हसन्निव ।
नाराचेन सुतीक्ष्णेन विव्याध हृदये भृशम् ॥३७॥

सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्षण ।
शत्रुं विव्याध विंशत्या स च तं पञ्चभिः शरैः ॥३८॥

ततः शरसहस्रेण तावुभौ पुरुषर्षभौ ।
अन्योन्यमाच्छादयतामथोऽभज्यत वाहिनी ॥३९॥

स दृष्ट्वा प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः ।
निवारयामास बलाद‌नुसृत्य विशांपते ॥४०॥

निवृत्ते तु ततः कर्णे नकुलः कौरवान् ययौ ।
कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु ॥४१॥

जुगोप चक्रं त्वरितो राधेयस्यैव मारिष ।
उलूकस्तु रणे क्रुद्धः सहदेवेन वारितः ॥४२॥

तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान् ।
सारथिं प्रेषयामास यमस्य सदनं प्रति ॥४३॥

उलूकस्तु ततो यानादवप्लुत्य विशांपते ।
त्रिगर्तानां बलं तूर्णं जगाम पितृनन्दनः ॥४४॥

सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः ।
ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव ॥४५॥

सौबलस्तस्य समरे क्रुद्धो राजन् प्रतापवान् ।
विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम् ॥४६॥

तथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत ।
सारथिं च महाराज त्रिभिरेव समार्पयत् ॥४७॥

अथास्य वाहांस्त्वरितः शरैर्निन्ये यमक्षयम् ।
ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ ॥४८॥

आरुरोह रथं तूर्णमुलूकस्य महात्मनः ।
अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः ॥४९॥

सात्यकिस्तु रणे राजंस्तावकानामनीकिनीम् ।
अभिदुद्राव वेगेन ततोऽनीकमभज्यत ॥५०॥

शैनेयशरसंछन्नं तव सैन्यं विशांपते ।
भेजे दश दिशस्तूर्णं न्यपतच्च गतासुवत् ॥५१॥

भीमसेनं तव सुतो वारयामास संयुगे ।
तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम् ॥५२॥

चक्रे लोकेश्वरं तत्र तेनातुष्यन्त वै जनाः ।
ततोऽपायान्नृपस्तत्र भीमसेनस्य गोचरात् ॥५३॥

कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत् ।
तत्र नादो महानासीद्भीमसेनं जिघांसताम् ॥५४॥

युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छिदे ।
अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः ॥५५॥

युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ ।
ततोऽपायाद्रथेनैव युधामन्युर्महारथः ॥५६॥

उत्तमौजाश्च हार्दिक्यं भीमं भीमपराक्रमम् ।
छादयामास सहसा मेघो वृष्ट्येव पर्वतम् ॥५७॥

तद्युद्धमासीत्सुमहद्धोररूपं परन्तप ।
यादृशं न मया युद्धं दृष्टपूर्वं विशांपते ॥५८॥

कृतवर्मा ततो राजन्नुत्तमौजसमाहवे ।
हृदि विव्याध सहसा रथोपस्थ उपाविशत् ॥५९॥

सारथिस्तमपोवाह रथेन रथिनां वरम् ।
कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत् ॥६०॥

दुःशासनः सौबलश्च गजानीकेन पाण्डवम् ।
महता परिवार्यैव क्षुद्रकैरभ्यताडयत् ॥६१॥

ततो भीमः शरशतैर्दुर्योधनममर्षणम् ।
विमुखीकृत्य तरसा गजानीकमुपाद्रवत् ॥६२॥

तमापतन्तं सहसा गजानीकं वृकोदरः ।
दृष्ट्वैव सुभृशं क्रुद्धो दिव्यमस्त्रमुदैरयत् ॥६३॥

गजैर्गजानभ्यहनद्वज्रेणेन्द्र इवासुरान् ।
ततोऽन्तरिक्षं बाणौघै शलभैरिव पादपम् ॥६४॥

छादयामास समरे गजान्निघ्नन् वृकोदरः ।
ततः कुञ्जरयूथानि समेतानि सहस्रशः ॥६५॥

व्यधमत्तरसा भीमो मेघसङ्घानिवानिलः ।
सुवर्णजालापिहिता मणिजालैश्च कुञ्जराः ॥६६॥

रेजुरभ्यधिकं संख्ये विद्युत्वन्त इवाम्बुदाः ।
ते वध्यमाना भीमेन गजा राजन्विदुद्रुवुः ॥६७॥

केचिद्विभिन्नहृदयाः कुञ्जरा न्यपतन् भुवि ।
पतितैर्निपतद्भिश्च गजैर्हेमविभूषितैः ॥६८॥

अशोभत मही तत्र विशीर्णैरिव पर्वतैः ।
दीप्ताभै रत्नवद्भिश्च पतितैर्गजयोधिभिः ॥६९॥

रराज भूमिः पतितैः क्षीणपुण्यैरिव ग्रहैः ।
ततो भिन्नकटा नागा भिन्नकुम्भकरास्तथा ॥७०॥

दुद्रुवुः शतशः संख्ये भीमसेनशराहताः ।
केचिद्वमन्तो रुधिरं भयार्ताः पर्वतोपमाः ॥७१॥

व्यद्रवञ्छरविद्धाङ्गा धातुचित्रा इवाचलाः ।
महाभुजगसङ्काशौ चन्दनागुरुरूषितौ ॥७२॥

अपश्यं भीमसेनस्य धातुर्विक्षिपतो भुजौ ।
तस्य ज्यातलनिर्घोषं श्रुत्वाऽशनिसमस्वनम् ॥७३॥

विमुञ्चन्तः शकृन्मूत्रं गजाः प्रादुद्रुवुर्भृशम् ।
भीमसेनस्य तत् कर्म राजन्नेकस्य धीमतः ।
निघ्नतः सर्वभूतानि रुद्रस्येव च निर्बभौ ॥७४॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे एकषष्टितमोऽध्यायः ॥६१॥
द्विषष्टितमोऽध्यायः

सञ्जय उवाच। ततः श्वेताश्वसंयुक्ते नारायणसमाहिते ।
तिष्ठन्रथवरे श्रीमानर्जुनः समपद्यत ॥१॥

तत इति ॥१॥

तद्बलं नृपतिश्रेष्ठ तावकं विजयो रणे ।
व्यक्षोभयदुदीर्णाश्वं महोदधिमिवानिलः ॥२॥

दुर्योधनस्तव सुतः प्रमत्ते श्वेतवाहने ।
अभ्येत्य सहसा क्रुद्धः सैन्यार्धेनाभिसंवृतः ॥३॥

पर्यवारयदायान्तं युधिष्ठिरममर्षणम् ।
क्षुरप्राणां त्रिसप्तत्या ततोऽविध्यत पाण्डवम् ॥४॥

अक्रुध्यत भृशं तत्र कुन्तीपुत्रो युधिष्ठिरः ।
स भल्लांस्त्रिशतस्तूर्णं तव पुत्रे न्यवेशयत् ॥५॥

ततोऽधावन्त कौरव्या जिघृक्षन्तो युधिष्ठिरम् ।
दुष्टभावान्पराञ्ज्ञात्वा समवेता महारथाः ॥६॥

आजग्मुस्तं परीप्सन्तः कुन्तीपुत्रं युधिष्ठिरम् ।
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥७॥

अक्षौहिण्या परिवृतास्तेऽभ्यधावन् युधिष्ठिरम् ।
भीमसेनश्च समरे मृद्नंस्तव महारथान् ॥८॥

अभ्यधावदभिप्रेप्सू राजानं शत्रुभिर्वृतम् ।
तांस्तु सर्वान्महेष्वासान्कर्णो वैकर्तनो नृप ॥९॥

शरवर्षेण महता प्रत्यवारयदागतान् ।
शरौघान्विसृजन्तस्ते प्रेरयन्तश्च तोमरान् ॥१०॥

न शेकुर्यत्नवन्तोऽपि राधेयं प्रतिवीक्षितुम् ।
तांश्च सर्वान्महेष्वासान्सर्वशस्त्रास्त्रपारगः ॥११॥

महता शरवर्षेण राधेयः प्रत्यवारयत् ।
दुर्योधनं च विंशत्या शीघ्रमस्त्रमुदीरयन् ॥१२॥

अविध्यत्तूर्णमभ्येत्य सहदेवः प्रतापवान् ।
स विद्धः सहदेवेन रराजाचलसन्निभः ॥१३॥

प्रभिन्न इव मातङ्गो रुधिरेण परिप्लुतः ।
दृष्ट्वा तव सुतं तत्र गाढविद्धं सुतेजनैः ॥१४॥

अभ्यधावद्दृढं क्रुद्धो राधेयो रथिनां वरः ।
दुर्योधनं तथा दृष्ट्वा शीघ्रमस्त्रमुदैरयत् ॥१५॥

तेन यौधिष्ठिरं सैन्यमवधीत्पार्षतं तथा ।
ततो यौधिष्ठिरं सैन्यं वध्यमानं महात्मना ॥१६॥

सहसा प्राद्रवद्राजन् सुतपुत्रशरार्दितम् ।
विविधा विशिखास्तत्र संपतन्तः परस्परम् ॥१७॥

फलैः पुंखान्समाजग्मुः सूतपुत्रधनुश्च्युताः ।
अन्तरिक्षे शरौघाणां पततां च परस्परम् ॥१८॥

संघर्षेण महाराज पावकः समजायत ।
ततो दश दिशः कर्णः शलभैरिव यायिभिः ॥१९॥

अभ्यघ्नंस्तरसा राजञ्शरैः परशरीरगैः ।
रक्तचन्दनसन्दिग्धौ मणिहेमविभूषितौ ॥२०॥

बाहू व्यत्यक्षिपत्कर्णः परमास्त्रं विदर्शयन् ।
ततः सर्वा दिशो राजन्सायकैर्विप्रमोहयन् ॥२१॥

अपीडयद्भृशं कर्णो धर्मराजं युधिष्ठिरम् ।
ततः क्रुद्धो महाराज धर्मपुत्रो युधिष्ठिरः ॥२२॥

निशितैरिषुभिः कर्णं पञ्चाशद्भिः समार्पयत् ।
बाणान्धकारमभवत्तद्युद्धं घोरदर्शनम् ॥२३॥

हाहाकारो महानासीत्तावकानां विशांपते ।
वध्यमाने तदा सैन्ये धर्मपुत्रेण मारिष ॥२४॥

सायकैर्विविधैस्तीक्ष्णैः कङ्कपत्रैः शिलाशितैः ।
भल्लैरनेकैर्विविधैः शक्त्यृष्टिमुसलैरपि ॥२५॥

यत्र यत्र स धर्मात्मा दुष्टां दृष्टिं व्यसर्जयत् ।
तत्र तत्र व्यशीर्यन्त तावका भरतर्षभ ॥२६॥

कर्णोऽपि भृशसंक्रुद्धो धर्मराजं युधिष्ठिरम् ।
नाराचैरर्धचन्द्रैश्च वत्सदन्तैश्च संयुगे ॥२७॥

अमर्षी क्रोधनश्चैव रोषप्रस्फुरिताननः ।
सायकैरप्रमेयात्मा युधिष्ठिरमभिद्रवत् ॥२८॥

युधिष्ठिरश्चापि स तं स्वर्णपुङ्खैः शितैः शरैः ।
प्रहसन्निव तं कर्णः कङ्कपत्रैः शिलाशितैः ॥२९॥

उरस्यविध्यद्राजानं त्रिभिर्भल्लैश्च पाण्डवम् ।
स पीडितो भृशं तेन धर्मराजो युधिष्ठिरः ॥३०॥

उपविश्य रथोपस्थे सूतं याहीत्यचोदयत् ।
अक्रोशन्त ततः सर्वे धार्तराष्ट्राः सराजकाः ॥३१॥

गृह्णीध्वमिति राजानमभ्यधावन्त सर्वशः ।
ततः शताः सप्तदश केकयानां प्रहारिणाम् ॥३२॥

पञ्चालैः सहिता राजन् धार्तराष्ट्रान्न्यवारयन् ।
तस्मिन् सुतुमुले युद्धे वर्तमाने जनक्षये ॥३३॥

दुर्योधनश्च भीमश्च समेयातां महाबलौ ॥३४॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे द्विषष्टितमोऽध्यायः ॥६२॥
त्रिषष्टितमोऽध्यायः

सञ्जय उवाच। कर्णोऽपि शरजालेन केकयानां महारथान् ।
व्यधमत्परमेष्वासानग्रतः पर्यवस्थितान् ॥१॥

कर्ण इति ॥१॥

तेषां प्रयतमानानां राधेयस्य निवारणे ।
रथान् पञ्चशतान्कर्णः प्राहिणोद्यमसादनम् ॥२॥

अविषह्यं ततो दृष्ट्वा राधेयं युधि योधिनः ।
भीमसेनमुपागच्छन्कर्णबाणप्रपीडिताः ॥३॥

रथानीकं विदार्यैव शरजालैरनेकधा ।
कर्ण एकरथेनैव युधिष्ठिरमुपाद्रवत् ॥४॥

सेनानिवेशमार्च्छन्तं मार्गणैः क्षतविक्षतम् ।
यमयोर्मध्यगं वीरं शनैर्यान्तं विचेतसम् ॥५॥

समासाद्य तु राजानं दुर्योधनहितेप्सया ।
सूतपुत्रस्त्रिभिस्तीक्ष्णैर्विव्याध परमेषुभिः ॥६॥

तथैव राजा राधेयं प्रत्यविध्यत्स्तनान्तरे ।
शरैस्त्रिभिश्च यन्तारं चतुर्भिश्चतुरो हयान् ॥७॥

चक्ररक्षौ तु पार्थस्य माद्रीपुत्रौ परन्तपौ ।
तावप्यधावतां कर्णं राजानं मा वधीरिति ॥८॥

तौ पृथक् शरवर्षाभ्यां राधेयमभ्यवर्षताम् ।
नकुलः सहदेवश्च परमं यत्नमास्थितौ ॥९॥

तथैव तौ प्रत्यविध्यत्सूतपुत्रः प्रतापवान् ।
भल्लाभ्यां शितधाराभ्यां महात्मानावरिन्द‌मौ ॥१०॥

दन्तवर्णांस्तु राधेयो निजघान मनोजवान् ।
युधिष्ठिरस्य संग्रामे कालवालान्हयोत्तमान् ॥११॥

ततोऽपरेण भल्लेन शिरस्त्राणमपातयत् ।
कौन्तेयस्य महेष्वासः प्रहसन्निव सूतजः ॥१२॥

तथैव नकुलस्यापि हयान्हत्वा प्रतापवान् ।
ईषां धनुश्च चिच्छेद माद्रीपुत्रस्य धीमतः ॥१३॥

तौ हताश्वौ हतरथौ पाण्डवौ भृशविक्षतौ ।
भ्रातरावारुरुहतुः सहदेवरथं तदा ॥१४॥

तौ दृष्ट्वा मातुलस्तत्र विरथौ परवीरहा ।
अभ्यभाषत राधेयं मद्रराजोऽनुकंपया ॥१५॥

योद्धव्यमद्य पार्थेन फाल्गुनेन त्वया सह ।
किमर्थं धर्मराजेन युध्यसे भृशरोषितः ॥१६॥

क्षीणशस्त्रास्त्रकवचः क्षीणबाणो विबाणधिः ।
श्रान्तसारथिवाहश्च च्छन्नोऽस्त्रैररिभिस्तथा ॥१७॥

पार्थमासाद्य राधेय उपहास्यो भविष्यसि ।
एवमुक्तोऽपि कर्णस्तु मद्रराजेन संयुगे ॥१८॥

तथैव कर्णः संरब्धो युधिष्ठिरमताडयत् ।
शरैस्तीक्ष्णैः पराविध्य माद्रीपुत्रौ च पाण्डवौ ॥१९॥

प्रहस्य समरे कर्णश्चकार विमुखं शरैः ।
ततः शल्यः प्रहस्येदं कर्णं पुनरुवाच ह ॥२०॥

रथस्थमतिसंरब्धं युधिष्ठिरवधे धृतम् ।
यदर्थं धार्तराष्ट्रेण सततं मानितो भवान् ॥२१॥

तं पार्थं जहि राधेय किं ते हत्वा युधिष्ठिरम् ।
शंखयोर्ध्मायतोः शब्दः सुमहानेष कृष्णयोः ॥२२॥

श्रूयते चापघोषोऽयं प्रावृषीवाम्बुदस्य ह ।
असौ निघ्नन्रथोदारानर्जुनः शरवृष्टिभिः ॥२३॥

सर्वां ग्रसति नः सेनां कर्ण पश्यैनमाहवे ।
पृष्ठरक्षौ च शूरस्य युधामन्यूत्तमौजसौ ॥२४॥

उत्तरं चास्य वै शूरश्चक्रं रक्षति सात्यकिः ।
धृष्टद्युम्नस्तथा चास्य चक्रं रक्षति दक्षिणम् ॥२५॥

भीमसेनश्च वै राज्ञा धार्तराष्ट्रेण युध्यते ।
यथा न हन्यात्तं भीमः सर्वेषां नोऽद्य पश्यताम् ॥२६॥

तथा राधेय क्रियतां राजा मुच्येत नो यथा ।
पश्यैनं भीमसेनेन ग्रस्तमाहवशोभिनम् ॥२७॥

यदि त्वासाद्य मुच्येत विस्मयः सुमहान्‌ भवेत् ।
परित्राह्येनमभ्येत्य संशयं परमं गतम् ॥२८॥

किं नु माद्रीसुतौ हत्वा राजानं च युधिष्ठिरम् ।
इति शल्यवचः श्रुत्वा राधेयः पृथिवीपते ।
दृष्ट्वा दुर्योधनं चैव भीमग्रस्तं महाहवे ॥२९॥

राजगृद्धी भृशं चैव शल्यवाक्यप्रचोदितः ।
अजातशत्रुमुत्सृज्य माद्रीपुत्रौ च पाण्डवौ ॥३०॥

तव पुत्रं परित्रातुमभ्यधावत वीर्यवान् ।
मद्रराजप्रणुदि‌तैरश्वैराकाशगैरिव ॥३१॥

गते कर्णे तु कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः ।
अपायाज्जवनैरश्वैः सहदेवश्च मारिष ॥३२॥

ताभ्यां स सहितस्तूर्णं व्रीडन्निव नरेश्वरः ।
प्राप्य सेनानिवेशं च मार्गणैः क्षतविक्षतः ॥३३॥

अवतीर्णो रथात्तूर्णमाविशच्छयनं शुभम् ।
अपनीतशल्यः सुभृशं हृच्छल्याभिनिपीडितः ॥३४॥

सोऽब्रवीद्भ्रातरौ राजा माद्रीपुत्रौ महारथौ ।
अनीकं भीमसेनस्य पाण्डवावाशु गच्छताम् ॥३५॥

जीमूत इव नर्दंस्तु युध्यते स वृकोदरः ।
ततोऽन्यं रथमास्थाय नकुलो रथपुङ्गवः ॥३६॥

सहदेवश्च तेजस्वी भ्रातरौ शत्रुकर्षणौ ।
तुरगैरग्र्यरंहोभिर्यात्वा भीमस्य शुष्मिणौ ।
अनीकैः सहितौ तत्र भ्रातरौ समवस्थितौ ॥३७॥

इति श्रीमहाभारते कर्णपर्वणि धर्मापयाने त्रिषष्टितमोऽध्यायः ॥६३॥
चतुःषष्टितमोऽध्यायः

सञ्जय उवाच। द्रौणिस्तु रथवंशेन महता परिवारितः ।
अपतत्सहसा राजन् यत्र पार्थो व्यवस्थितः ॥१॥

द्रौणिरिति ॥१॥

तमापतन्तं सहसा शूरः शौरिसहायवान् ।
दधार सहसा पार्थो वेलेव मकरालयम् ॥२॥

ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान् ।
अर्जुनं वासुदेवं च छादयामास सायकैः ॥३॥

अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः ।
विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा ॥४॥

अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव ।
तदस्त्रं वारयामास ब्राह्मणो युधि भारत ॥५॥

यद्यद्धि व्याक्षिपद्युद्धे पाण्डवोऽस्त्रजिघांसया ।
तत्तदस्त्रं महेष्वासो द्रोणपुत्रो व्यशातयत् ॥६॥

अस्त्रयुद्धे ततो राजन् वर्तमाने महाभये ।
अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम् ॥७॥

स दिशः प्रदिशश्चैव च्छादयित्वा ह्यजिह्मगैः ।
वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे ॥८॥

ततोऽर्जुनो हयान्हत्वा सर्वांस्तस्य महात्मनः ।
चकार समरे भूमिं शोणितौघतरङ्गिणीम् ॥९॥

सर्वलोकवहां रौद्रां परलोकवहां नदीम् ।
सरथान्रथिनः सर्वान्पार्थचापच्युतैः शरैः ॥१०॥

द्रौणेः सम्बन्धिनो रथिनः शरैरपहतान्ददृशुरित्युत्तरश्लोकेन सम्बन्धः । लोका इति शेषः॥१०॥

द्रौणेरपहतान्संख्ये ददृशुः स च तां तथा ।
प्रावर्तयन्महाघोरां नदीं परवहां तदा ॥११॥

तयोस्तु व्याकुले युद्धे द्रौणेः पार्थस्य दारुणे ।
अमर्यादं योधयन्तः पर्यधावन्त पृष्ठतः ॥१२॥

रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः ।
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः ॥१३॥

पार्थेन समरे राजन् कृतो घोरो जनक्षयः ।
निहता रथिनः पेतुः पार्थचापच्युतैः शरैः ॥१४॥

हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः ।
तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः ॥१५॥

अर्जुनं जयतां श्रेष्ठं त्वरितोऽभ्येत्य वीर्यवान् ।
विधुन्वानो महच्चापं कार्तस्वरविभूषितम् ॥१६॥

अवाकिरत्ततो द्रौणिः समन्तान्निशितैः शरैः ।
भूयोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा ॥१७॥

वक्षोदेशे भृशं पार्थं ताडयामास निर्दयम् ।
सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत ॥१८॥

गाण्डीवधन्वा प्रसभं शरवर्षैरुदारधीः ।
संछाद्य समरे द्रौणिं चिच्छेदास्य च कार्मुकम् ॥१९॥

स छिन्नधन्वा परिघं वज्रस्पर्शसमं युधि ।
आदाय चिक्षेप तदा द्रोणपुत्रः किरीटिने ॥२०॥

तमापतन्तं परिघं जाम्बूनद‌परिष्कृतम् ।
चिच्छेद सहसा राजन्प्रहसन्निव पाण्डवः ॥२१॥

स पपात तदा भूमौ निकृत्तः पार्थसायकैः ।
विकीर्णः पर्वतो राजन् यथा वज्रेण ताडितः॥२२॥

ततः क्रुद्धो महाराज द्रोणपुत्रो महारथः ।
ऐन्द्रेण चास्त्रवेगेन बीभत्सुं समवाकिरत् ॥२३॥

तस्येन्द्रजालावततं समीक्ष्य पार्थो राजन् गाण्डिवमाददे सः ।
ऐन्द्रं जालं प्रत्यहरत्तरस्वी वरास्त्रमादाय महेन्द्रसृष्टम् ॥२४॥

विदार्य तज्जालमथेन्द्रमुक्तं पार्थस्ततो द्रौणिरथं क्षणेन ।
प्रच्छादयामास ततोऽभ्युपेत्य द्रौणिस्तदा पार्थशराभिभूतः ॥२५॥

विगाह्य तां पाण्डवबाणवृष्टिं शरैः परं नाम ततः प्रकाश्य ।
शतेन कृष्णं सहसाऽभ्यविद्ध्यस्त्रिभिः शतैरर्जुनं क्षुद्रकाणाम् ॥२६॥

ततोऽर्जुनः सायकानां शतेन गुरोः सुतं मर्मसु निर्बिभेद ।
अश्वांश्च सूतं च तथा धनुर्ज्यामवाकिरत् पश्यतां तावकानाम् ॥२७॥

स विद्ध्वा मर्मसु द्रौणिं पाण्डवः परवीरहा ।
सारथिं चास्य भल्लेन रथनीडाद‌पातयत् ॥२८॥

स संगृह्य स्वयं वाहान् कृष्णौ प्राच्छादयच्छरैः ।
तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम् ॥२९॥

प्रायच्छत्तुरगान्यच्च फाल्गुनं चाप्ययोधयत् ।
तदस्य समरे राजन् सर्वे योधा अपूजयन् ॥३०॥

ततः प्रहस्य बीभत्सुर्द्रोणपुत्रस्य संयुगे ।
क्षिप्रं रश्मीनथाश्वानां क्षुरप्रैश्चिच्छिदे जयः ॥३१॥

प्राद्रवंस्तुरगास्ते तु शरवेगप्रपीडिताः ।
ततोऽभून्निनदो घोरस्तव सैन्यस्य भारत ॥३२॥

पाण्डवास्तु जयं लब्ध्वा तव सैन्यं समाद्रवन् ।
समन्तान्निशितान् बाणान् विमुञ्चन्तो जयैषिणः ॥३३॥

पाण्डवैस्तु महाराज धार्तराष्ट्री महाचमूः ।
पुनः पुनरथो वीरैः संयुगे जितकाशिभिः ॥३४॥

पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम् ।
शकुनेः सौबलेयस्य कर्णस्य च विशांपते ॥३५॥

वार्यमाणा महासेना पुत्रैस्तव जनेश्वर ।
न चातिष्ठत संग्रामे पीड्यमाना समन्ततः ॥३६॥

ततो योधैर्महाराज पलायद्भिः समन्ततः ।
अभवद्व्याकुलं भीतं पुत्राणां ते महद्बलम् ॥३७॥

तिष्ठ तिष्ठेति च ततः सूतपुत्रस्य जल्पतः ।
नावतिष्ठति सा सेना वध्यमाना महात्मभिः ॥३८॥

अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः ।
धार्तराष्ट्रबलं दृष्ट्वा विद्रुतं वै समन्ततः ॥३९॥

ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव ।
पश्य कर्ण महासेना पञ्चालैरर्दिता भृशम् ॥४०॥

त्वयि तिष्ठति संत्रासात्पलायनपरायणा ।
एतज्ज्ञात्वा महाबाहो कुरु प्राप्तमरिन्दम ॥४१॥

सहस्राणि च योधानां त्वामेव पुरुषोत्तम ।
क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः ॥४२॥

एतच्छ्रुत्वाऽपि राधेयो दुर्योधनवचो महान् ।
मद्रराजमिदं वाक्यमब्रवीत्प्रहसन्निव ॥४३॥

पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर ।
अद्य हन्मि रणे सर्वान्पञ्चालान्पाण्डुभिः सह ॥४४॥

वाहयाश्वान्नरव्याघ्र भद्रेणैव न संशयः ।
एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान् ॥४५॥

प्रगृह्य विजयं वीरो धनुः श्रेष्ठं पुरातनम् ।
सज्यं कृत्वा महाराज संगृह्य च पुनः पुनः ॥४६॥

सन्निवार्य च योधान्स सत्येन शपथेन च ।
प्रायोजयद‌मेयात्मा भार्गवास्त्रं महाबलः ॥४७॥

ततो राजन्सहस्राणि प्रयुतान्यर्बुदानि च ।
कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे ॥४८॥

ज्वलितैस्तैः शरैर्घोरैः कङ्कबर्हिणवाजितैः ।
संछन्ना पाण्डवी सेना न प्राज्ञायत किञ्चन ॥४९॥

हाहाकारो महानासीत्पञ्चालानां विशांपते ।
पीडितानां बलवता भार्गवास्त्रेण संयुगे ॥५०॥

निपतद्भिर्गजै राजन्नश्वैश्चापि सहस्रशः ।
रथैश्चापि नरव्याघ्र नरैश्चैव समन्ततः ॥५१॥

प्राकम्पत मही राजन्निहतैस्तैः समन्ततः ।
व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम् ॥५२॥

कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः ।
दहन् शत्रून्नरव्याघ्र शुशुभे स परंतपः ॥५३॥

ते वध्यमानाः कर्णेन पञ्चालाश्चेदिभिः सह ।
तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः ॥५४॥

चुक्रुशुश्च नरव्याघ्र यथा व्याघ्रा नरोत्तमाः ।
तेषां तु क्रोशतामासीद्भीतानां रणमूर्धनि ॥५५॥

धावतां च ततो राजंस्त्रस्तानां च समन्ततः ।
आर्तनादो महांस्तत्र भूतानामिव संप्लवे ॥५६॥

वध्यमानांस्तु तान् दृष्ट्वा सूतपुत्रेण मारिष ।
वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि ॥५७॥

ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः ।
अर्जुनं वासुदेवं च क्रोशन्ति च मुहुर्मुहुः ॥५८॥

प्रेतराजपुरे यद्वत् प्रेतराजं विचेतसः ।
श्रुत्वा तु निनदं तेषां वध्यतां कर्णसायकैः ॥५९॥

अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धनञ्जयः ।
भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र समीरितम् ॥६०॥

पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम् ।
नैतदस्त्रं हि समरे शक्यं हन्तुं कथञ्चन ॥६१॥

सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे ।
अन्तकप्रतिमं वीर्ये कुर्वाणं कर्म दारुणम् ॥६२॥

अभीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः ।
न च पश्यामि समरे कर्णं प्रति पलायितुम् ॥६३॥

कर्णं प्रति लक्षीकृत्य पलायितुं न पश्यामि निषिद्धत्वात् ॥६३॥

जीवन्प्राप्नोति पुरुषः संख्ये जयपराजयौ ।
मृतस्य तु हृषीकेश भङ्ग एव कुतो जयः ॥६४॥

एवमुक्तस्तु पार्थेन कृष्णो मतिमतां वरम् ।
धनञ्जयमुवाचेदं प्राप्तकालमरिन्दमम् ॥६५॥

कर्णेन हि दृढं राजा कुन्तीपुत्रः परिक्षितः ।
तं दृष्ट्वाश्वास्य च पुनः कर्णं पार्थ वधिष्यसि ॥६६॥

एवमुक्त्वा पुनः प्रायाद्द्रष्टुमिच्छन् युधिष्ठिरम् ।
श्रमेण ग्राहयिष्यंश्च युद्धे कर्णं विशांपते ॥६७॥

ततो धनञ्जयो द्रष्टुं राजानं बाणपीडितम् ।
रथेन प्रययौ क्षिप्रं संग्रामात्केशवाज्ञया ॥६८॥

गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया ।
सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम् ॥६९॥

युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत ।
दुःसहं वज्रिणा संख्ये पराजित्य गुरोः सुतम् ॥७०॥

इति श्रीमहाभारते कर्णपर्वणि धर्मराजशोधने चतुःषष्टितमोऽध्यायः ॥६४॥
पञ्चषष्टितमोऽध्यायः

सञ्जय उवाच। द्रौणिं पराजित्य ततोऽग्रधन्वा कृत्वा महद्दुष्करं शूरकर्म ।
आलोकयामास ततः स्वसैन्यं धनञ्जयः शत्रुभिरप्रधृष्यः ॥१॥

द्रौणिमिति । ततोग्रधन्वा विस्तारितोग्रचापः ॥१॥

अयुध्यमानान्पृतनामुखस्थान् शूरः शूरान् हर्षयन्सव्यसाची ।
पूर्वप्रहारैर्मथितान् प्रशंसन् स्थितान्महात्मा सरथाननेकान् ॥२॥

अनेकान् बहून् ॥२॥

अपश्यमानस्तु किरीटमाली युधिष्ठिरं भ्रातरमाजमीढम् ।
उवाच भीमं तरसाऽभ्युपेत्य राज्ञः प्रवृत्तिं त्विह कुत्र राजा ॥३॥

उवाच तं पप्रच्छ ॥३॥

भीमसेन उवाच। अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः ।
कर्णबाणाभितप्ताङ्गो यदि जीवेत्कथञ्चन ॥४॥

अर्जुन उवाच। तस्माद्भवान् शीघ्रमितः प्रयातु राज्ञः प्रवृत्त्यै कुरुसत्तमस्य ।
नूनं स विद्धोऽतिभृशं पृषत्कैः कर्णेन राजा शिबिरं गतोऽसौ ॥५॥

यः संप्रहारैर्निशितैः पृषत्कैर्द्रोणेन विद्धोऽतिभृशं तरस्वी ।
तस्थौ स तत्रापि जयप्रतीक्षो द्रोणोऽपि यावन्न हतः किलासीत् ॥६॥

स संशयं गमितः पाण्डवाग्र्यः संख्येऽद्य कर्णेन महानुभावः ।
ज्ञातुं प्रयाह्याशु तमद्य भीम स्थास्याम्यहं शत्रुगणान्निरुद्ध्य ॥७॥

भीमसेन उवाच। त्वमेव जानीहि महानुभाव राज्ञः प्रवृत्तिं भरतर्षभस्य ।
अहं हि यद्यर्जुन याम्यमित्रा वदन्ति मां भीत इति प्रवीराः ॥८॥

ततोऽब्रवीदर्जुनो भीमसेनं संशप्तकाः प्रत्यनीकस्थिता मे ।
एतानहत्वाऽद्य मया न शक्यमितोपयातुं रिपुसङ्घगोष्ठात् ॥९॥

गोष्ठात् स्थानात् ॥९॥

अथाब्रवीदर्जुनं भीमसेनः स्ववीर्यमासाद्य कुरुप्रवीर ।
संशप्तकान् प्रतियोत्स्यामि संख्ये सर्वानहं याहि धनञ्जय त्वम् ॥१०॥

तद्भीमसेनस्य वचो निशम्य सुदुष्करं भ्रातुरमित्रमध्ये ।
संशप्तकानीकमसह्यमेकः सुदुष्करं धारयामीति पार्थः ॥११॥

उवाच नारायणमप्रमेयं कपिध्वजः सत्यपराक्रमस्य ।
श्रुत्वा वचो भ्रातुरदीनसत्त्वस्तदाहवे सत्यवचो महात्मा ।
द्रष्टुं कुरुश्रेष्ठमभिप्रयास्यन् प्रोवाच वृष्णिप्रवरं तदानीम् ॥१२॥

भ्रातुर्वचः श्रुत्वा तदेव सत्यं वचो नारायणं प्रति कपिध्वज उवाचेत्यन्वयः ॥१२॥

अर्जुन उवाच। चोदयाश्वान् हृषीकेश विहायैतद्बलार्णवम् ।
अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव ॥१३॥

सञ्जय उवाच। ततो हयान्सर्वदाशार्हमुख्यः प्रचोदयन् भीममुवाच चेदम् ।
नैतच्चित्रं तव कर्माद्य भीम यास्याम्यहं जहि पार्थारिसंघान् ॥१४॥

ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः ।
शीघ्राच्छीघ्रतरं राजन्वाजिभिर्गरुडोपमैः ॥१५॥

प्रत्यनीके व्यवस्थाप्य भीमसेनमरिन्दमम् ।
सन्दिश्य चैतं राजेन्द्र युद्धं प्रति वृकोदरम् ॥१६॥

प्रत्यनीके शत्रुसैन्यसमीपे ॥१६॥

ततस्तु गत्वा पुरुषप्रवीरौ राजानमासाद्य शयानमेकम् ।
रथादुभौ प्रत्यवरुह्य तस्माद्ववन्दतुर्धर्मराजस्य पादौ ॥१७॥

तं दृष्ट्वा पुरुषव्याघ्रं क्षेमिणं पुरुषर्षभम् ।
मुदाभ्युपगतौ कृष्णावश्विनाविव वासवम् ॥१८॥

तावभ्यनन्दद्राजाऽपि विवस्वानश्विनाविव ।
हते महासुरे जंभे शक्रविष्णू यथा गुरुः ॥१९॥

मन्यमानो हतं कर्णं धर्मराजो युधिष्ठिरः ।
हर्षगद्गदया वाचा प्रीतः प्राह परन्तपः ॥२०॥

सञ्जय उवाच। अथोपयातौ पृथुलोहिताक्षौ शराचिताङ्गौ रुधिरप्रदिग्धौ ।
समीक्ष्य सेनाग्रनरप्रवीरौ युधिष्ठिरो वाक्यमिदं बभाषे ॥२१॥

महासत्त्वौ हि तौ दृष्ट्वा सहितौ केशवार्जुनौ ।
हतमाधिरथिं मेने संख्ये गाण्डीवधन्वना ॥२२॥

तावभ्यनन्दत् कौन्तेयः साम्ना परमवल्गुना ।
स्मितपूर्वममित्रघ्नं पूजयन् भरतर्षभ ॥२३॥

इति श्रीमहाभारते कर्णपर्वणि युधिष्ठिरं प्रति कृष्णार्जुनागमे पञ्चषष्टितमोऽध्यायः ॥६५॥
षट्षष्टितमोऽध्यायः

युधिष्ठिर उवाच। स्वागतं देवकीमातः स्वागतं ते धनञ्जय ।
प्रियं मे दर्शनं गाढं युवयोरच्युतार्जुनौ ॥१॥

स्वागतमिति । भो अच्युतार्जुनौ युवयोर्दर्शनं मे गाढम् प्रियम् । कुशलमिति पाठे युवयोः कुशलं यत्तन्मे गाढं प्रियमिति योज्यम् ॥१॥

अक्षताभ्यामरिष्टाभ्यां हतः कर्णो महारथः ।
आशीविषसमं युद्धे सर्वशस्त्रविशारदम् ॥२॥

अरिष्टाभ्यां शुभाभ्याम् ॥२॥

अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च ।
रक्षितं वृषसेनेन सुषेणेन च धन्विना ॥३॥

अनुज्ञातं महावीर्यं रामेणास्त्र सुदुर्जयम् ।
अग्र्यं सर्वस्य लोकस्य रथिनं लोकविश्रुतम् ॥४॥

अनुज्ञातम् अनुगृहीतम् ॥४॥

त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे ।
हन्तारं परसैन्यानाममित्रगणमर्दनम् ॥५॥

दुर्योधनहिते युक्तमस्मद्दुःखाय चोद्यतम् ।
अप्रधृष्यं महायुद्धे देवैरपि सवासवैः ॥६॥

अनलानिलयोस्तुल्यं तेजसा च बलेन च ।
पातालमिव गंभीरं सुहृदां नन्दिवर्धनम् ॥७॥

अनलानिलयोरिति क्रमात्तेजोबलाभ्याम्॥७॥

अन्तकं मम मित्राणां हत्वा कर्णं महामृधे ।
दिष्ट्या युवामनुप्राप्तौ जित्त्वाऽसुरमिवामरौ ॥८॥

घोरं युद्धमदीनेन मया ह्यद्याच्युतार्जुनौ ।
कृतं तेनान्तकेनेव प्रजाः सर्वा जिघांसता ॥९॥

तेन केतुश्च मे च्छिन्नो हतौ च पार्ष्णिसारथी ।
हतवाहस्ततश्चास्मि युयुधानस्य पश्यतः ॥१०॥

धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः ।
पश्यतां द्रौपदेयानां पञ्चालानां च सर्वशः ॥११॥

एताञ्जित्वा महावीर्यः कर्णः शत्रुगणान् बहुन् ।
जितवान्मां महाबाहो यतमानो महारणे ॥१२॥

अभिसृत्य च मां युद्धे परुषाण्युक्तवान्बहु ।
तत्र तत्र युधां श्रेष्ठ परिभूय न संशयः ॥१३॥

भीमसेनप्रभावात्तु यज्जीवामि धनञ्जय ।
बहुनाऽत्र किमुक्तेन नाहं तत् सोढुमुत्सहे ॥१४॥

त्रयोदशाहं वर्षाणि यस्माद्भीतो धनञ्जय ।
न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित् ॥१५॥

तस्य द्वेषेण संयुक्तः परिदह्ये धनञ्जय ।
आत्मनो मरणे यातो वाध्रीणस इव द्विपः ॥१६॥

मरणे उपस्थिते सति यातः पलायितोऽस्मि वाध्रीणसः मेषविशेषः यस्य नासापुटयोर्वध्रीसदृशं चर्म भवति द्विपः द्वाभ्यां वक्त्रकर्णाभ्यां पिबतीति । द्विज इति पाठे ‘कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहंगमः । स वै वाध्रीणसः प्रोक्तो याज्ञिकैः पितृकर्मणि’ इति प्राञ्चः ॥१६॥

तस्यायमगमत्कालश्चिन्तयानस्य मे चिरम् ।
कथं कर्णो मया शक्यो युद्धे क्षपयितुं भवेत् ॥१७॥

जाग्रत्स्वपंश्च कौन्तेय कर्णमेव सदा ह्यहम् ।
पश्यामि तत्र तत्रैव कर्णभूतमिदं जगत् ॥१८॥

यत्र यत्र हि गच्छामि कर्णाद्भीतो धनञ्जय ।
तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम् ॥१९॥

सोऽहं तेनैव वीरेण समरेष्वपलायिना ।
सहयः सरथः पार्थ जित्त्वा जीवन् विसर्जितः ॥२०॥

को नु मे जीवितेनार्थो राज्येनार्थो भवेत्पुनः ।
ममैवं विक्षतस्याद्य कर्णेनाहवशोभिना ॥२१॥

न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे ।
तत् प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात् ॥२२॥

स त्वां पृच्छामि कौन्तेय यथाऽद्य कुशलं तथा ।
तन्ममाचक्ष्व कार्त्स्येन यथा कर्णो हतस्त्वया ॥२३॥

शक्रतुल्यबलो युद्धे यमतुल्यः पराक्रमे ।
रामतुल्यस्तथाऽस्त्रेण स कथं वै निषूदितः ॥२४॥

महारथः समाख्यातः सर्वयुद्धविशारदः ।
धनुर्धराणां प्रवरः सर्वेषामेकपूरुषः ॥२५॥

पूजितो धृतराष्ट्रेण सपुत्रेण विशांपते ।
त्वदर्थमेव राधेयः स कथं निहतस्त्वया ॥२६॥

धार्तराष्ट्रो हि योधेषु सर्वेष्वेव सदाऽर्जुन ।
तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभ ॥२७॥

स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः ।
तन्ममाचक्ष्व कौन्तेय यथा कर्णो हतस्त्वया ॥२८॥

युध्यमानस्य च शिरः पश्यतां सुहृदां हृतम् ।
त्वया पुरुषशार्दूल सिंहेनेव यथा रुरोः ॥२९॥

यः पर्युपासीत् प्रदिशो दिशश्च त्वां सूतपुत्रः समरे परीप्सन् ।
दित्सुः कर्णः समरे हस्तिषङ्गवं स हीदानीं कङ्कपत्रैः सुतीक्ष्णैः ॥३०॥

त्वया रणे निहतः सूतपुत्रः कच्चिच्छेते भूमितले दुरात्मा ।
प्रियश्च मे परमो वै कृतोऽयं त्वया रणे सूतपुत्रं निहत्य ॥३१॥

अयं सूतपुत्रः ॥३१॥

यः सर्वतः पर्यपतत्त्वदर्थे सदार्चितो गर्वितः सूतपुत्रः ।
स शूरमानी समरे समेत्य कच्चित्त्वया निहतः संयुगेऽसौ ॥३२॥

रौक्मं वरं हस्तिगजाश्वयुक्तं रथं प्रदित्सुर्यः परेभ्यस्त्वदर्थे ।
सदा रणे स्पर्धते यः स पापः कच्चित्त्वया निहतस्तात युद्धे ॥३३॥

योऽसौ सदा शूरमदेन मत्तो विकत्थते संसदि कौरवाणाम् ।
प्रियोऽत्यर्थं तस्य सुयोधनस्य कच्चित्स पापो निहतस्त्वयाऽद्य ॥३४॥

कच्चित्समागम्य धनुःप्रयुक्तैस्त्वत्प्रेषितैर्लोहिताङ्गैर्विहङ्गैः ।
शेते स पापः सुविभिन्नगात्रः कच्चिद्भग्नौ धार्तराष्ट्रस्य बाहू ॥३५॥

विहङ्गैर्बाणैः ॥३५॥

योऽसौ सदा श्लाघते राजमध्ये दुर्योधनं हर्षयन्दर्पपूर्णः ।
अहं हन्ता फाल्गुनस्येति मोहात्कच्चिद्वचस्तस्य न वै तथा तत् ॥३६॥

नाहं पादौ धावयिष्ये कदाचिद्यावत्स्थितः पार्थ इत्यल्पबुद्धेः ।
व्रतं तस्यैतत् सर्वदा शक्रसूनो कच्चित्त्वया निहतः सोऽद्य कर्णः ॥३७॥

योऽसौ कृष्णामब्रवीद्दुष्टबुद्धिः कर्णः सभायां कुरुवीरमध्ये ।
किं पाण्डवांस्त्वं न जहासि कृष्णे सुदुर्बलान्पतितान्हीनसत्त्वान् ॥३८॥

योऽसौ कर्णः प्रत्यजानात्त्वदर्थे नाहं हत्वा सह कृष्णेन पार्थम् ।
इहोपयातेति स पापबुद्धिः कच्चिच्छेते शरसंभिन्नगात्रः ॥३९॥

कच्चित्संग्रामो विदितो वै तवायं समागमे सृञ्जयकौरवाणाम् ।
यत्रावस्थामीदृशीं प्रापितोऽहं कच्चित्त्वया सोऽद्य हतो दुरात्मा ॥४०॥

कच्चित्त्वया तस्य सुमन्दबुद्धेर्गाण्डीवमुक्तैर्विशिखैर्ज्वलद्भिः ।
सकुण्डलं भानुमदुत्तमाङ्गं कायात्प्रकृत्तं युधि सव्यसाचिन् ॥४१॥

यत्तन्मया बाणसमर्पितेन ध्यातोऽसि कर्णस्य वधाय वीर ।
तन्मे त्वया कच्चिदमोघमद्य ध्यानं कृतं कर्णनिपातनेन ॥४२॥

बाणेभ्यः समर्पितेन कर्णबाणैरत्यन्तं प्रविद्धेनेत्यर्थः ॥४२॥

यद्दर्पपूर्णः स सुयोधनोऽस्मानुदीक्षते कर्णसमाश्रयेण ।
कच्चित्त्वया सोऽद्य समाश्रयोऽस्य भग्नः पराक्रम्य सुयोधनस्य ॥४३॥

यो नः पुरा षण्ढतिलानवोचत्सभामध्ये कौरवाणां समक्षम् ।
स दुर्मतिः कच्चिदुपेत्य संख्ये त्वया हतः सूतपुत्रो ह्यमर्षी ॥४४॥

यः सूतपुत्रः प्रहसन् दुरात्मा पुराऽब्रवीन्निर्जितां सौबलेन ।
स्वयं प्रसह्यानय याज्ञसेनीमपीह कच्चित्स हतस्त्वयाऽद्य ॥४५॥

यः शस्त्रभृच्छ्रेष्ठतमः पृथिव्यां पितामहं व्याक्षिपदल्पचेताः ।
संख्यायमानोऽर्धरथः स कच्चित्त्वया हतोऽद्याधिरथिर्महात्मन् ॥४६॥

अमर्षजं निकृतिसमीरणेरितं हृदि स्थितं ज्वलनमिमं सदा मम ।
हतो मया सोऽद्य समेत्य कर्ण इति ब्रुवन् प्रशमयसेऽद्य फाल्गुन ॥४७॥

ब्रवीहि मे दुर्लभमेतदद्य कथं त्वया निहतः सूतपुत्रः ।
अनुध्याये त्वां सततं प्रवीर वृत्रे हतेऽसौ भगवानिवेन्द्रः ॥४८॥

इति श्रीमहाभारते कर्णपर्वणि युधिष्ठिरवाक्ये षट्षष्टितमोऽध्यायः ॥६६॥
सप्तषष्टितमोऽध्यायः

सञ्जय उवाच। तद्धर्मशीलस्य वचो निशम्य राज्ञः क्रुद्धस्यातिरथो महात्मा ।
उवाच दुर्धर्षमदीनसत्त्वं युधिष्ठिरं जिष्णुरनन्तवीर्यः ॥१॥

तद्धर्मेति ॥१॥

अर्जुन उवाच। संशप्तकैर्युध्यमानस्य मेऽद्य सेनाग्रयायो कुरुसैन्येषु राजन् ।
आशीविषाभान् खगमान् प्रमुञ्चन् द्रौणिः पुरस्तात्सहसाऽभ्यतिष्ठत् ॥२॥

खगमान् बाणान् ॥२॥

दृष्ट्वा रथं मेघरवं ममैव समस्तसेनावरणेऽभ्यतिष्ठन् ।
तेषामहं पञ्च शतानि हत्वा ततो द्रौणिमगमं पार्थिवाग्र्य ॥३॥

स मां समासाद्य नरेन्द्र यत्तः समभ्ययात्सिंहमिव द्विपेन्द्रः ।
अकार्षीच्च रथिनामुज्जिहीर्षां महाराज वध्यतां कौरवाणाम् ॥४॥

वध्यतां वध्यमानानां कौरवाणाम् उज्जिहीर्षाम् उद्धर्तुमिच्छामकार्षीत् ॥४॥

ततो रणे भारत दुष्प्रकम्प्य आचार्यपुत्रः प्रवरः कुरूणाम् ।
मामर्दयामास शितैः पृषत्कैर्जनार्दनं चैव विषाग्निकल्पैः ॥५॥

अष्टागवामष्टशतानि बाणान् मया प्रयुद्धस्य वहन्ति तस्य ।
तांस्तेन मुक्तानहमस्य बाणैर्व्यनाशयं वायुरिवाभ्रजालम् ॥६॥

अष्टौ गावो यस्मिन् तदष्टागवं शकटं तेषामष्टागवामष्ट अष्टसंख्यानि शकटानि । नुडभावः आर्षः । शतानि बाणान् अनेकशतसंख्यान्वहन्ति ॥६॥

ततोऽपरान्बाणसङ्घाननेकानाकर्णपूर्णायतविप्रमुक्तान् ।
ससर्ज शिक्षास्त्रबलप्रयत्नैस्तथा यथा प्रावृषि कालमेघः ॥७॥

नैवाददानं न च संदधानं जानीमहे कतरेणास्यतीति ।
वामेन वा यदि वा दक्षिणेन स द्रोणपुत्रः समरे पर्यवर्तत् ॥८॥

तस्याततं मण्डलमेव सज्यं प्रदृश्यते कार्मुकं द्रोणसूनोः ।
सोऽविध्यन्मां पञ्चभिर्द्रोणपुत्रः शितैः शरैः पञ्चभिर्वासुदेवम् ॥९॥

अहं हि तं त्रिंशता वज्रकल्पैः समार्दयं निमिषस्यान्तरेण ।
क्षणात् श्वावित्समरूपो बभूव समार्दितो मद्विसृष्टैः पृषत्कैः ॥१०॥

स विक्षरन्रुधिरं सर्वगात्रे रथानीकं सूतसूनोर्विवेश ।
मयाऽभिभूतान्सैनिकानां प्रबर्हानसौ प्रपश्यन्रुधिरप्रदिग्धान् ॥११॥

ततोऽभिभूतं युधि वीक्ष्य सैन्यं वित्रस्तयोधं द्रुतवाजिनागम् ।
पञ्चाशता रथमुख्यैः समेत्य कर्णस्त्वरन्मामुपायात्प्रमाथी ॥१२॥

तान्सूदयित्वाऽहमपास्य कर्णं द्रष्टुं भवन्तं त्वरयाऽभियातः ।
सर्वे पञ्चाला ह्युद्विजन्ते स्म कर्णं दृष्ट्वा गावः केसरिणं यथैव ॥१३॥

मृत्योरास्यं व्यात्तमिवाभिपद्य प्रभद्रकाः कर्णमासाद्य राजन् ।
रथांस्तु तान्सप्तशतान्निमग्नांस्तदा कर्णः प्राहिणोन्मृत्युसद्म ॥१४॥

न चाप्यभूत्क्लान्तमनाः स राजन् यावन्नास्मान्दृष्टवान् सूतपुत्रः ।
श्रुत्वा तु त्वां तेन दृष्टं समेतमश्वत्थाम्ना पूर्वतरं क्षतं च ॥१५॥

मन्ये कालमपयानस्य राजन् क्रूरात्कर्णात्तेऽहमचिन्त्यकर्मन् ।
मया कर्णस्यास्त्रमिदं पुरस्ताद्युद्धे दृष्टं पाण्डव चित्ररूपम् ॥१६॥

न ह्यन्ययोद्धा विद्यते सृञ्जयानां महारथं योऽद्य सहेत कर्णम् ।
शैनेयो मे सात्यकिश्चक्ररक्षौ धृष्टद्युम्नश्चापि तथैव राजन् ॥१७॥

युधामन्युश्चोत्तमौजाश्च शूरौ पृष्ठतो मां रक्षतां राजपुत्रौ ।
रथप्रवीरेण महानुभाव द्विषत्सैन्ये वर्तता दुस्तरेण ॥१८॥

समेत्याहं सूतपुत्रेण संख्ये वृत्रेण वज्रीव नरेन्द्रमुख्य ।
योत्स्याम्यहं भारत सूतपुत्रमस्मिन्संग्रामे यदि वै दृश्यतेऽद्य ॥१९॥

आयाहि पश्याद्य युयुत्समानं मां सूतपुत्रस्य रणे जयाय ।
महर्षभस्येव मुखं प्रपन्नाः प्रभद्रकाः कर्णमभिद्रवन्ति ॥२०॥

षट्साहस्रा भारत राजपुत्राः स्वर्गाय लोकाय रणे निमग्नाः ।
कर्णं न चेदद्य निहन्मि राजन् सबान्धवं युध्यमानं प्रसह्य ॥२१॥

प्रतिश्रुत्याकुर्वतो वै गतिर्या कष्टा याता तामहं राजसिंह ।
आमन्त्रये त्वां ब्रूहि जयं रणे मे पुरा भीमं धार्तराष्ट्रा ग्रसन्ते ॥२२॥

सौतिं हनिष्यामि नरेन्द्रसिंह ।
सैन्यं तथा शत्रुगणांश्च सर्वान् ॥२३॥

इति श्रीमहाभारते कर्णपर्वणि अर्जुनवाक्ये सप्तषष्टितमोऽध्यायः ॥६७॥
अष्टषष्टितमोऽध्यायः

सञ्जय उवाच। श्रुत्वा कर्णं कल्पमुदारवीर्यं क्रुद्धः पार्थः फाल्गुनस्यामितौजाः ।
धनञ्जयं वाक्यमुवाच चेदं युधिष्ठिरः कर्णशराभितप्तः ॥१॥

श्रुत्वा कर्णमिति । स्पष्टार्थोऽष्टषष्टिमः ॥१॥

विप्रद्रुता तात चमूस्त्वदीयातिरस्कृता चाद्य यथा न साधु ।
भीतो भीमं त्यज्य चायास्तथा त्वं यन्नाशकः कर्णमथो निहन्तुम् ॥२॥

स्नेहस्त्वया पार्थ कृतः पृथाया गर्भं समाविश्य यथा न साधु ।
त्यक्त्वा रणे यदपायाः स भीमं यन्नाशकः सूतपुत्रं निहन्तुम् ॥३॥

यत्तद्वाक्यं द्वैतवने त्वयोक्तं कर्णं हन्ताऽस्म्येकरथेन सत्यम् ।
त्यक्त्वा तं वै कथमद्यापयातः कर्णाद्भीतो भीमसेनं विहाय ॥४॥

इदं यदि द्वैतवनेऽप्यचक्षः कर्णं योद्धुं न प्रशक्ष्ये नृपेति ।
वयं ततः प्राप्तकालं च सर्वे कृत्यान्युपैष्याम तथैव पार्थ ॥५॥

मयि प्रतिश्रुत्य वधं हि तस्य न वै कृतं तच्च तथैव वीर ।
आनीय नः शत्रुमध्यं स कस्मात्समुत्क्षिप्य स्थण्डिले प्रत्यर्पिष्ठाः ॥६॥

अप्याशिष्म वयमर्जुन त्वयि यियासवो बहुकल्याणमिष्टम् ।
तन्नः सर्वं विफलं राजपुत्र फलार्थिनां विफल इवातिपुष्पः ॥७॥

प्रच्छादितं बडिशमिवाभिषेण संच्छादितं गरलमिवाशनेन ।
अनर्थकं मे दर्शितवानसि त्वं राज्यार्थिनो राज्यरूपं विनाशम् ॥८॥

त्रयोदशेमा हि समाः सदा वयं त्वामन्वजीविष्म धनञ्जयाशया ।
काले वर्षं देवमिवोप्तबीजं तन्नः सर्वान्नरके त्वं न्यमज्जः ॥९॥

यत्तत्पृथां वागुवाचान्तरिक्षे सप्ताहजाते त्वयि मन्दबुद्धौ ।
जातः पुत्रो वासवविक्रमोऽयं सर्वान् शूरान् शात्रवाञ्जेष्यतीति ॥१०॥

अयं जेता खाण्डवे देवसङ्घान् सर्वाणि भूतान्यपि चोत्तमौजाः ।
अयं जेता मद्र-कलिङ्ग-केकयानयं कुरून्राजमध्ये निहन्ता ॥११॥

अस्मात्परो नो भविता धनुर्धरो नैनं भूतं किञ्चन जातु जेता ।
इच्छन्नयं सर्वभूतानि कुर्याद्वशे वशी सर्वसमाप्तविद्यः ॥१२॥

कान्त्या शशाङ्कस्य जवेन वायोः स्थैर्येण मेरोः क्षमया पृथिव्याः ।
सूयस्य भासा धनदस्य लक्ष्म्या शौर्येण शक्रस्य बलेन विष्णोः ॥१३॥

तुल्यो महात्मा तव कुन्तिपुत्रो जातोऽदितेर्विष्णुरिवारिहन्ता ।
स्वेषां जयाय द्विषतां वधाय ख्यातोऽमितौजाः कुलतन्तुकर्ता ॥१४॥

इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि तपस्विनां शृण्वतां वागुवाच ।
एवंविधं तच्च नाभूत्तथा च देवाऽपि नूनमनृतं वदन्ति ॥१५॥

तथा परेषामृषिसत्तमानां श्रुत्वा गिरः पूजयतां सदा त्वाम् ।
न संनतिं प्रैमि सुयोधनस्य न त्वां जानाम्याधिरथेर्भयार्तम् ॥१६॥

पूर्वं यदुक्तं हि सुयोधनेन न फाल्गुनः प्रमुखे स्थास्यतीति ।
कर्णस्य युद्धे हि महाबलस्य मौर्ख्यात्तु तन्नावबुद्धं मयाऽऽसीत् ॥१७॥

तेनाद्य तप्स्ये भृशमप्रमेयं यच्छत्रुवर्गे नरकं प्रविष्टः ।
तदैव वाच्योऽस्मि ननु त्वयाऽहं न योत्स्येऽहं सूतपुत्रं कथञ्चित् ॥१८॥

ततो नाहं सृञ्जयान्केकयांश्च समानयेयं सुहृदो रणाय ।
एवं गते किञ्च मयाऽद्य शक्यं कार्यं कर्तुं विग्रहे सूतजस्य ॥१९॥

तथैव राज्ञश्च सुयोधनस्य ये वापि मां योद्धुकामाः समेताः ।
धिगस्तु मज्जीवितमद्य कृष्ण योऽहं वशं सूतपुत्रस्य यातः ॥२०॥

मध्ये कुरूणां सुहृदां च मध्ये ये चाप्यन्ये योद्धुकामाः समेताः ।
यदि स्म जीवेत् स भवेन्निहन्ता महारथानां प्रवरो रथोत्तमः ।
तवाभिमन्युस्तनयोऽद्य पार्थ न चास्मि गन्ता समरे पराभवम् ॥२१॥

अथापि जीवेत्समरे घटोत्कचस्तथापि नाहं समरे पराङ्मुखः ।
मम ह्यभाग्यानि पुरा कृतानि पापानि नूनं बलवन्ति युद्धे ॥२२॥

तृणं च कृत्वा समरे भवन्तं ततोऽहमेवं निकृतो दुरात्मना ।
वैकर्तनेनैव तथा कृतोऽहं यथा ह्यशक्तः क्रियते ह्यबान्धवः ॥२३॥

आपद्गतं कश्चन यो विमोक्षेत्स बान्धवः स्नेहयुक्तं सुहृच्च ।
एवं पुराणा मुनयो वदन्ति धर्मः सदा सद्भिरनुष्ठितश्च ॥२४॥

त्वष्ट्रा कृतं वाहमकूजनाक्षं शुभं समास्थाय कपिध्वजं तम् ।
खड्गं गृहीत्वा हेमपट्टानुबद्धं धनुश्चेदं गाण्डिवं तालमात्रम् ॥२५॥

स केशवेनोह्यमानः कथं त्वं कर्णाद्भीतो व्यपयातोऽसि पार्थ ।
धनुश्च तत् केशवाय प्रयच्छ यन्ता भविष्यस्त्वं रणे केशवस्य ॥२६॥

तदा हनिष्यत्केशवः कर्णमुग्रं मरुत्पतिर्वृत्रमिवात्तवज्रः ।
राधेयमेतं यदि नाद्य शक्तश्चरन्तमुग्रं प्रतिबाधनाय ॥२७॥

प्रयच्छान्यस्मै गाण्डिवमेतदद्य त्वत्तो योऽस्त्रैरभ्यधिको वा नरेन्द्रः ।
अस्मान्नैवं पुत्रदारैर्विहीनान्सुखाद्भ्रष्टान् राज्यनाशाच्च भूयः ॥२८॥

द्रष्टा लोकः पतितानप्यगाधे पापैर्जुष्टे नरके पाण्डवेय ।
मासेऽपतिष्यः पञ्चमे त्वं सुकृच्छ्रे न वा गर्भे आभविष्यः पृथायाः ॥२९॥

तत्ते श्रेयो राजपुत्राभविष्यन्न चेत्संग्रामादपयानं दुरात्मन् ।
धिग्गाण्डीवं धिक् च ते बाहुवीर्यमसंख्येयान् बाणगणांश्च धिक्ते ।
धिक्ते केतुं केसरिणः सुतस्य कृशानुदत्तं च रथं च धिक्ते ॥३०॥

इति श्रीमहाभारते कर्णपर्वणि युधिष्ठिरक्रोधवाक्ये अष्टषष्टितमोऽध्यायः ॥६८॥
ऊनसप्ततितमोऽध्यायः

सञ्जय उवाच। युधिष्ठिरेणैवमुक्तः कौन्तेयः श्वेतवाहनः ।
असिं जग्राह संक्रुद्धो जिघांसुर्भरतर्षभम् ॥१॥

युधिष्ठिरेणेति ॥१॥

तस्य कोपं समुद्वीक्ष्य चित्तज्ञः केशवस्तदा ।
उवाच किमिदं पार्थ गृहीतः खड्ग इत्युत ॥२॥

न हि पश्यामि योद्धव्यं त्वया किञ्चिद्धनञ्जय ।
ते ग्रस्ता धार्तराष्ट्रा हि भीमसेनेन धीमता ॥३॥

अपयातोऽसि कौन्तेय राजा द्रष्टव्य इत्यपि ।
स राजा भवता दृष्टः कुशली च युधिष्ठिरः ॥४॥

स दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम् ।
हर्षकाले च संप्राप्ते किमिदं मोहकारितम् ॥५॥

न तं पश्यामि कौन्तेय यस्ते वध्यो भविष्यति ।
प्रहर्तुमिच्छसे कस्मात्किं वा ते चित्तविभ्रमः ॥६॥

कस्माद्भवान्महाखड्गं परिगृह्णाति सत्वरः ।
तत्त्वां पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम् ॥७॥

परामृशसि यत्क्रुद्धः खड्गमद्भुतविक्रम ।
एवमुक्तस्तु कृष्णेन प्रेक्षमाणो युधिष्ठिरम् ॥८॥

अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन् ।
अन्यस्मै देहि गाण्डीवमिति मां योऽभिचोदयेत् ॥९॥

भिन्द्यामहं तस्य शिर इत्युपांशुव्रतं मम ।
तदुक्तं मम चानेन राज्ञाऽमितपराक्रम ॥१०॥

समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे ।
तस्मादेनं वधिष्यामि राजानं धर्मभीरुकम् ॥११॥

प्रतिज्ञां पालयिष्यामि हत्वैनं नरसत्तमम् ।
एतदर्थं मया खड्गो गृहीतो यदुनन्दन ॥१२॥

सोऽहं युधिष्ठिरं हत्वा सत्यस्यानृण्यतां गतः ।
विशोको विज्वरश्चापि भविष्यामि जनार्दन ॥१३॥

किं वा त्वं मन्यसे प्राप्तमस्मिन्काल उपस्थिते ।
त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम् ॥१४॥

तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान् । सञ्जय उवाच। धिग्धिगित्येव गोविन्दः पार्थमुक्त्वाब्रवीत्पुनः ॥१५॥

कृष्ण उवाच। 'इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया ।
काले न पुरुषव्याघ्र संरंभं यद्भवानगात् ॥१६॥

भवान्यत्संरम्भम् अगात् तत्काले न अकाले इत्यर्थः ॥१६॥

न हि धर्मविभागज्ञः कुर्यादेवं धनञ्जय ।
यथा त्वं पाण्डवाद्येह धर्मभीरुरपण्डितः ॥१७॥

अकार्याणां क्रियाणां च संयोगं यः करोति वै ।
कार्याणामक्रियाणां च स पार्थ पुरुषाधमः ॥१८॥

कर्तुमयोग्यानां कर्मणां संयोगं कर्तुं योग्यानामपि अक्रियाणां निषिद्धक्रियाणां संयोगं यः करोति स पुरुषाधम इत्याह - अकार्याणामिति ॥१८॥

अनुसृत्य तु ये धर्मं कथयेयुरुपस्थिताः ।
समासविस्तरविदां न तेषां वेत्सि निश्चयम् ॥१९॥

उपस्थिताः शिष्यैरनुसृताः गुरवः ॥१९॥

अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये ।
अवशो मुह्यते पार्थ यथा त्वं मूढ एव तु ॥२०॥

न हि कार्यमकार्यं वा सुखं ज्ञातुं कथंचन ।
श्रुतेन ज्ञायते सर्वं तच्च त्वं नावबुध्यसे ॥२१॥

सुखम् अनधीत्येत्यर्थः । श्रुतेन शास्त्रेण ॥२१॥

अविज्ञानाद्भवान्यच्च धर्मं रक्षति धर्मवित् ।
प्राणिनां त्वं वधं पार्थ धार्मिको नावबुध्यसे ॥२२॥

यत् भवान् धर्मं रक्षति तदवज्ञानात् अधर्ममेव धर्मं मनुषे इत्यर्थः । यतः प्राणिनां वधं दोषकरं इत्येतन्नावबुध्यसे ॥२२॥

प्राणिनामवधस्तात सर्वज्यायान्मतो मम ।
अनृतां वा वदेद्वाचं न तु हिंस्यात्कथञ्चन ॥२३॥

स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम् ।
हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव ॥२४॥

अयुध्यमानस्य वधस्तथाऽशत्रोश्च मानद ।
पराङ्मुखस्य द्रवतः शरणं चापि गच्छतः ॥२५॥

अशत्रोः अशातनीयस्य अवध्यस्य ॥२५॥

कृताञ्जलेः प्रपन्नस्य प्रमत्तस्य तथैव च ।
न वधः पूज्यते सद्भिस्तच्च सर्वं गुरौ तव ॥२६॥

त्वया चैवं व्रतं पार्थ बालेनेव कृतं पुरा ।
तस्मादधर्मसंयुक्तं मौर्ख्यात्कर्म व्यवस्यसि ॥२७॥

स गुरुं पार्थ कस्मात्त्वं हन्तुकामोऽभिधावसि ।
असंप्रधार्य धर्माणां गतिं सूक्ष्मां दुरत्ययाम् ॥२८॥

इदं धर्मरहस्यं च तव वक्ष्यामि पाण्डव ।
यद्ब्रूयात्तव भीष्मो हि पाण्डवो वा युधिष्ठिरः ॥२९॥

विदुरो वा तथा क्षत्ता कुन्ती वाऽपि यशस्विनी ।
तत् ते वक्ष्यामि तत्त्वेन निबोधैतद्धनञ्जय ॥३०॥

सत्यस्य वदिता साधुर्न सत्याद्विद्यते परम् ।
तत्त्वेनैव सुदुर्ज्ञेयं पश्य सत्यमनुष्ठितम् ॥३१॥

सत्यं तत्त्वेन याथातथ्येन सुदुर्ज्ञेयं पश्य । क्वचित्सत्यमप्यधर्माय भवतीत्यर्थः ॥३१॥

भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत् ।
यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् ॥३२॥

विवाहकाले रतिसंप्रयोगे प्राणात्यये सर्वधनापहारे ।
विप्रस्य चार्थे ह्यनृतं वदेत पञ्चानृतान्याहुरपातकानि ॥३३॥

सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत् ।
तत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत् ।
तादृशं पश्यते बालो यस्य सत्यमनुष्ठितम् ॥३४॥

यस्य येन हेतुना सत्यमेव सत्यतया अनुष्ठितं तादृशमेव पश्यति सत्यवादितया अनेन हेतुना बालः अज्ञः ॥३४॥

भवेत्सत्यमवक्तव्यं न वक्तव्यमनुष्ठितम् ।
सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ॥३५॥

किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः ।
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ॥३६॥

किमाश्चर्यं पुनर्मूढो धर्मकामो ह्यपण्डितः ।
सुमहत्प्राप्नुयात्पापमापगास्विव कौशिकः' ॥३७॥

अर्जुन उवाच। आचक्ष्व भगवन्नेतद्यथा विन्दाम्यहं तथा ।
बलाकस्यानुसंबन्धं नदीनां कौशिकस्य च ॥३८॥

वासुदेव उवाच। 'पुरा व्याधोऽभवत्कश्चिद्बलाको नाम भारत ।
यात्रार्थं पुत्रदारस्य मृगान् हन्ति न कामतः ॥३९॥

वृद्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान् ।
स्वधर्मनिरतो नित्यं सत्यवागनसूयकः ॥४०॥

स कदाचिन्मृगं लिप्सुर्नाभ्यविन्दन्मृगं क्वचित् ।
अपः पिबन्तं ददृशे श्वापदं घ्राणचक्षुषम् ॥४१॥

अदृष्टपूर्वमपि तत्सत्त्वं तेन हतं तदा ।
अन्धे हते ततो व्योम्नः पुष्पवर्षं पपात च ॥४२॥

अप्सरोगीतवादित्रैर्नादितं च मनोरमम् ।
विमानमगमत्स्वर्गान्मृगव्याधनिनीषया ॥४३॥

तद्भूतं सर्वभूतानामभावाय किलार्जुन ।
तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयंभुवा ॥४४॥

तद्धत्वा सर्वभूतानामभावकृतनिश्चयम् ।
ततो बलाकः स्वरगादेवं धर्मः सुदुर्विदः ॥४५॥

कौशिकोऽप्यभवद्विप्रस्तपस्वीनो बहुश्रुतः ।
नदीनां सङ्गमे ग्रामाददूरात्स किलावसत् ॥४६॥

तपस्विनः तपस्विनामिनः श्रेष्ठः ॥४६॥

सत्यं मया सदा वाच्यमिति तस्याभवद्व्रतम् ।
सत्यवादीति विख्यातः स तदाऽसीद्धनञ्जय ॥४७॥

अथ दस्युभयात्केचित्तदा तद्वनमाविशन् ।
तत्रापि दस्यवः क्रुद्धास्तानमार्गन्त यत्नतः ॥४८॥

अथ कौशिकमभ्येत्य प्राहुस्ते सत्यवादिनम् ।
कतमेन पथा याता भगवन्बहवो जनाः ॥४९॥

सत्येन पृष्टः प्रब्रूहि यदि तान् वेत्थ शंस नः ।
स पृष्टः कौशिकः सत्यं वचनं तानुवाच ह ॥५०॥

बहुवृक्षलतागुल्ममेतद्वनमुपाश्रिताः ।
इति तान् ख्यापयामास तेभ्यस्तत्त्वं स कौशिकः ॥५१॥

ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः ।
तेनाधर्मेण महता वाग्दुरुक्तेन कौशिकः ॥५२॥

गतः स कष्टं नरकं सूक्ष्मधर्मेष्वकोविदः ।
यथा चाल्पश्रुतो मूढो धर्माणामविभागवित् ॥५३॥

वृद्धानपृष्ट्वा सन्देहं महछ्वभ्रमिवार्हति ।
तत्र ते लक्षणोद्देशः कश्चिदेवं भविष्यति ॥५४॥

श्वभ्रमिव नरकमिव अपृष्ट्वा प्रश्नमकृत्वार्हति तत्र धर्माधर्मयोस्तत्त्वे निश्चेतव्ये लक्षणस्य उद्देशः- वचनं भविष्यति ॥५४॥

दुष्करं परमं ज्ञानं तर्केणानुव्यवस्यति ।
श्रुतेर्धर्म इति ह्येके वदन्ति बहवो जनाः ॥५५॥

क्वचित्तर्केणापि धर्मस्वरूपं निर्णेयमित्याह- दुष्करमिति ॥५५॥

तत्ते न प्रत्यसूयामि न च सर्वं विधीयते ।
प्रभवार्थाय भूतानां धर्मप्रवचनं कृतम् ॥५६॥

न प्रत्यसूयामि न दूषयामि अनुमानतोऽपि धर्मो ज्ञेय इत्याशयेनाह- न चेति । लक्षणोद्देशमाह- प्रभवेति ॥५६॥

यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः ।
अहिंसार्थाय हिंस्त्राणां धर्मप्रवचनं कृतम् ॥५७॥

अहिंसैव धारणाद्धर्म इत्याह- हिंसार्थायेति ॥५७॥

धारणाद्धर्ममित्याहुर्धर्मो धारयते प्रजाः ।
यत्स्याद्धारणसंयुक्तं स धर्म इति निश्चयः ॥५८॥

येऽन्यायेन जिहीर्षन्तो धर्ममिच्छन्ति कर्हिचित् ।
अकूजनेन मोक्षं वा नानुकूजेत्कथञ्चन ॥५९॥

न्यायेन ‘सन्तोषं जनयेत्प्राज्ञस्तदेवेश्वरपूजनम्’ इत्यादिवाक्यावष्टम्भेन अन्योन्यसुखहेतुत्वात्पारदार्यादिकमपि धर्म इति वदन्तो धर्मापहारमिच्छन्ति ते अकूजनेन वेदशब्दराहित्येन तद्विरुद्धं धर्मं मोक्षं वा वेदबाह्यमिच्छन्ति तान्प्रति नानुकूजेत् तैः सह संवादमपि न कुर्यादसंभाष्यास्ते तेन वेदाविरोधे सति यदन्यस्य सुखकरं तद्धर्म इत्यर्थः ॥५९॥

अवश्यं कूजितव्ये वा शंकेरन्नप्यकूजतः ।
श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितम् ॥६०॥

यत्र तु धर्मसन्देहे वेदशब्दो नास्ति नापि लौकिकी युक्तिरस्ति । तत्र किं कर्तव्यमित्याशङ्क्याह - अवश्यमिति । यत्र ब्राह्मणः स्तेनत्वेन ज्ञातः तत्रेतरेषां स्तेनोऽयमस्ति नो वेति संशये पक्षद्वयेऽपि हिंसाप्राप्तौ मौनमेवाश्रयेत् । मौनेनाप्यसिद्धौ अनृतमपि वदेदित्यर्थः ॥६०॥

यः कार्येभ्यो व्रतं कृत्वा तस्य नानोपपादयेत् ।
न तत्फलमवाप्नोति एवमाहुर्मनीषिणः ॥६१॥

य इति । कार्येभ्यः यत्किञ्चित्कार्यं मनस्युद्दिश्य व्रतं कृत्वा तस्य व्रतस्य नाना अन्येन प्रकारेणोपपादनं करोति स दाम्भिको व्रतफलं नाप्नोतीत्यर्थः ॥६१॥

प्राणात्यये विवाहे वा सर्वज्ञातिवधात्यये ।
नर्मण्यभिप्रवृत्ते वा न च प्रोक्तं मृषा भवेत् ॥६२॥

अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्थदर्शिनः ।
यः स्तेनैः सह संबंधान्मुच्यते शपथैरपि ॥६३॥

श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितम् ।
न च तेभ्यो धनं देयं शक्ये सति कथञ्चन ॥६४॥

तेभ्यः स्तेनेभ्यः ॥६४॥

पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् ।
तस्माद्धर्मार्थमनृतमुक्त्वा नानृतभाग्भवेत् ॥६५॥

पीडयेत् नरकं प्रापयेत् ॥६५॥

एष ते लक्षणोद्देशो मयोद्दिष्टो यथाविधि ।
यथाधर्मं यथाबुद्धि मयाद्य वै हितार्थिना ॥६६॥

एतच्छ्रुत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः । अर्जुन उवाच। यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महामतिः ॥६७॥

हितं चैव यथाऽस्माकं तथैतद्वचनं तव ।
भवान्मातृसमोऽस्माकं तथा पितृसमोऽपि च ॥६८॥

गतिश्च परमा कृष्ण त्वमेव च परायणम् ।
न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित् ॥६९॥

अविदितमिति च्छेदः ॥६९॥

तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम् ।
अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम् ॥७०॥

अस्मिंस्तु मम संकल्पे ब्रूहि किंचिदनुग्रहम् ।
इदं वा परमत्रैव शृणु हृत्स्थं विवक्षितम् ॥७१॥

अनुग्रहम् अवधेन प्रतिज्ञारक्षणम् ॥७१॥

जानासि दाशार्ह मम व्रतं त्वं यो मां ब्रूयात्कश्चन मानुषेषु ।
अन्यस्मै त्वं गाण्डिवं देहि पार्थ त्वत्तोऽस्त्रैर्वा वीर्यतो वा विशिष्टः ॥७२॥

हन्यामहं केशव तं प्रसह्य भीमो हन्यात्तूबरकेति चोक्तः ।
तन्मे राजा प्रोक्तवांस्ते समक्षं धनुर्देहीत्यसकृद्वृष्णिवीर ॥७३॥

तूबरकः बहुभोजनः ॥७३॥

तं हन्यां चेत्केशव जीवलोके स्थाता नाहं कालमप्यल्पमात्रम् ।
ध्यात्वा नूनं ह्येनसा चापि मुक्तो वधं राज्ञो भ्रष्टवीर्यो विचेताः ॥७४॥

तं हन्यामिति । स्थाता न - न स्थास्ये एनसा मुक्तोऽपि कृतप्रायश्चित्तोऽपि न स्थास्ये इत्यर्थः । किं कृत्वा राज्ञो वधं ध्यात्वा ॥७४॥

यथा प्रतिज्ञा मम लोकबुद्धौ भवेत्सत्या धर्मभृतां वरिष्ठ ।
यथा जीवेत् पाण्डवोऽहं च कृष्ण तथा बुद्धिं दातुमप्यर्हसि त्वम् ॥७५॥

वासुदेव उवाच। राजा श्रान्तो विक्षतो दुःखितश्च कर्णेन संख्ये निशितैर्बाणसङ्घैः ।
यश्चानिशं सूतपुत्रेण वीर शरैर्भृशं ताडितो युध्यमानः ॥७६॥

अतस्त्वमेतेन सरोषमुक्तो दुःखान्वितेनेदमयुक्त रूपम् ।
अकोपितो ह्येष यदि स्म संख्ये कर्णं न हन्यादिति चाब्रवीत्सः ॥७७॥

जानाति तं पाण्डव एष चापि पापं लोके कर्णमसह्यमन्यैः ।
ततस्त्वमुक्तो भृशरोषितेन राज्ञा समक्षं परुषाणि पार्थ ॥७८॥

नित्योद्युक्ते सततं चाप्रसह्ये कर्णे द्यूतं ह्यद्य रणे निबद्धम् ।
तस्मिन् हते कुरवो निर्जिताः स्युरेवं बुद्धिः पार्थिवे धर्मपुत्रे ॥७९॥

समक्षम् आवयोरिति शेषः ॥७८॥ कर्णे पणीकृते द्यूतं युद्धरूपम् ॥७९॥

ततो वधं नार्हति धर्मपुत्रस्त्वया प्रतिज्ञाऽर्जुन पालनीया ।
जीवन्नयं येन मृतो भवेद्धि तन्मे निबोधेह तवानुरूपम् ॥८०॥

यदा मानं लभते माननार्हस्तदा स वै जीवति जीवलोके ।
यदाऽवमानं लभते महान्तं तदा जीवन्मृत इत्युच्यते सः ॥८१॥

संमानितः पार्थिवोऽयं सदैव त्वया च भीमेन तथा यमाभ्याम् ।
वृद्धैश्च लोके पुरुषैश्च शूरैस्तस्यापमानं कलया प्रयुङ्क्ष्व ॥८२॥

त्वमित्यत्रभवन्तं हि ब्रूहि पार्थ युधिष्ठिरम् ।
त्वमित्युक्तो हि निहतो गुरुर्भवति भारत ॥८३॥

अत्रभवन्तं मान्यं त्वमिति ब्रूहि तावतैव तद्वधः कृतो भवतीत्यर्थः ॥८३॥

एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे ।
अधर्मयुक्तं संयोगं कुरुष्वैनं कुरूद्वह ॥८४॥

एवं पूज्यावमानरूपं संयोगम् आत्मनानुष्ठितं कुरुष्व ॥८४॥

अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः ।
अविचार्यैव कार्यैषा श्रेयस्कामैर्नरैः सदा ॥८५॥

तत्र मानमाह- अथर्वेति ॥८५॥

अवधेन वधः प्रोक्तो यद्गुरुस्त्वमिति प्रभुः ।
तद्ब्रूहि त्वं यन्मयोक्तं धर्मराजस्य धर्मवित् ॥८६॥

यत् गुरुस्त्वमिति प्रोक्तस्तदवधेन शस्त्रपातनमन्तरेणैव वधः वधकरं भवतीत्यर्थः ॥८६॥

वधं ह्ययं पाण्डव धर्मराजस्त्वत्तोऽयुक्तं वेत्स्यते चैवमेषः ।
ततोऽस्य पादावभिवाद्य पश्चात्समं ब्रूयाः सान्त्वयित्वा च पार्थम् ॥८७॥

अयुक्तमेवं त्वत्तो वधं वेत्स्यते अनेनाहं हत इति ज्ञास्यतीत्यर्थः । समं वैषम्यपरिहारम् ॥८७॥

भ्राता प्राज्ञस्तव कोपं न जातु कुर्याद्राजा धर्ममवेक्ष्य चापि ।
मुक्तोऽनृताद्भ्रातृवधाच्च पार्थ हृष्टः कर्णं त्वं जहि सूतपुत्रम् ॥८८॥

इति श्रीमहाभारते कर्णपर्वणि कृष्णार्जुनसंवादे ऊनसप्ततितमोऽध्यायः ॥६९॥
सप्ततितमोऽध्यायः

सञ्जय उवाच। इत्येवमुक्तस्तु जनार्दनेन पार्थः प्रशस्याथ सुहृद्वचस्तत् ।
ततोऽब्रवीदर्जुनो धर्मराजमनुक्तपूर्वं परुषं प्रसह्य ॥१॥

इत्येवमिति ॥१॥

अर्जुन उवाच। 'मा त्वं राजन् व्याहर व्याहरस्व यस्तिष्ठसे क्रोशमात्रे रणाद्वै ।
भीमस्तु मामर्हति गर्हणाय यो युध्यते सर्वलोकप्रवीरैः ॥२॥

व्याहर व्याहरस्व वचनम् । क्रोशमात्रे न तिष्ठसे अपि तु ततोऽपि दूरे इत्यर्थः ॥२॥

काले हि शत्रून् परिपीड्य संख्ये हत्वा च शूरान् पृथिवीपतींस्तान् ।
रथप्रधानोत्तमनागमुख्यान् सादिप्रवेकानमितांश्च वीरान् ॥३॥

यः कुञ्जराणामधिकं सहस्रं हत्वा नदंस्तुमुलं सिंहनादम् ।
काम्बोजानामयुतं पार्वतीयान् मृगान्सिंहो विनिहत्येव चाजौ ॥४॥

सुदुष्करं कर्म करोति वीरः कर्तुं यथा नार्हसि त्वं कदाचित् ।
रथादवप्लुत्य गदां परामृशंस्तया निहन्त्यश्वरथद्विपान्रणे ॥५॥

वरासिना वाजिरथाश्वकुञ्जरांस्तथा रथाङ्गैर्धनुषा दहत्यरीन् ।
प्रगृह्य पद्भ्यामहितान्निहन्ति पुनस्तु दोर्भ्यां शतमन्युविक्रमः ॥६॥

महाबलो वैश्रवणान्तकोपमः प्रसह्य हन्ता द्विषतामनीकिनीम् ।
स भीमसेनोऽर्हति गर्हणां मे न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः ॥७॥

महारथान्नागवरान्हयांश्च पदातिमुख्यानपि च प्रमथ्य ।
एको भीमो धार्तराष्ट्रेषु मग्नः स मामुपालब्धुमरिन्द‌मोऽर्हति ॥८॥

कलिङ्गवङ्गाङ्गनिषादमागधान् सदामदान्नीलबलाहकोपमान् ।
निहन्ति यः शत्रुगणाननेकान् स मामुपालब्धुमरिन्दमोऽर्हति ॥९॥

स युक्तमास्थाय रथं हि काले धनुर्विधुन्वञ्शरपूर्णमुष्टिः ।
सृजत्यसौ शरवर्षाणि वीरो महाहवे मेघ इवाम्बुधाराः ॥१०॥

शतान्यष्टौ वारणानामवश्यं विशातितैः कुम्भकराग्रहस्तैः ।
भीमेनाजौ निहतान्यद्य बाणैः स मां क्रूरं वक्तुमर्हत्यरिघ्नः ॥११॥

बलं तु वाचि द्विजसत्तमानां क्षात्रं बुधा बाहुबलं वदन्ति ।
त्वं वाग्बलो भारत निष्ठुरश्च त्वमेव मां वेत्थ यथाऽबलोहम् ॥१२॥

यतेह नित्यं तव कर्तुमिष्टं दारैः सुतैर्जीवितेनात्मना च ।
एवं यन्मां वाग्विशिखेन हंसि त्वत्तः सुखं न वयं विद्म किञ्चित् ॥१३॥

मां मावसंस्था द्रौपदीतल्पसंस्थो महारथान्प्रतिहन्मि त्वदर्थे ।
तेनाभिशङ्की भारत निष्ठुरोऽसि त्वत्तः सुखं नाभिजानामि किञ्चित ॥१४॥

प्रोक्तः स्वयं सत्यसन्धेन मृत्युस्तव प्रियार्थं नरदेव युद्धे ।
वीरः शिखण्डी द्रौपदोऽसौ महात्मा मयाऽभिगुप्तेन हतश्च तेन ॥१५॥

सत्यसन्धेन भीष्मेण ॥१५॥

न चाभिनन्दामि तवाधिराज्यं यतस्त्वमक्षेष्वहिताय सक्तः ।
स्वयं कृत्वा पापमनार्यजुष्टमस्माभिर्वा तर्तुमिच्छस्यरींस्त्वम् ॥१६॥

अक्षेषु दोषा बहवो विधर्माः श्रुतास्त्वया सहदेवोऽब्रवीद्यान् ।
तान्नैषि त्वं त्यक्तुमसाधुजुष्टांस्तेन स्म सर्वे निरयं प्रपन्नाः ॥१७॥

सुखं त्वत्तो नाभिजानीम किञ्चिद्यतस्त्वमक्षैर्देवितुं संप्रवृत्तः ।
स्वयं कृत्वा व्यसनं पाण्डव त्वमस्मांस्तीव्राः श्रावयस्यद्य वाचः ॥१८॥

शेतेऽस्माभिर्निहता शत्रुसेना छिन्नैर्गात्रैर्भूमितले नदन्ती ।
त्वया हि तत् कर्म कृतं नृशंसं यस्माद्दोषः कौरवाणां वधश्च ॥१९॥

हता उदीच्या निहताः प्रतीच्या नष्टाः प्राच्या दाक्षिणात्या विशस्ताः ।
कृतं कर्माप्रतिरूपं महद्भिस्तेषां योधैरस्मदीयैश्च युद्धे ॥२०॥

त्वं देविता त्वत्कृते राज्यनाशस्त्वत्संभवं नो व्यसनं नरेन्द्र ।
माऽस्मान् क्रूरैर्वाक्प्रतोदैस्तुदंस्त्वं भूयो राजन्कोपयेस्त्वल्पभाग्यः' ॥२१॥

सञ्जय उवाच। एता वाचः परुषाः सव्यसाची स्थिरप्रज्ञः श्रावयित्वा तु रूक्षाः ।
बभूवासौ विमना धर्मभीरुः कृत्वा प्राज्ञः पातकं किञ्चिदेवम् ॥२२॥

तदानुतेपे सुरराजपुत्रो विनिःश्वसंश्चासिमथोद्बबर्ह ।
तमाह कृष्णः किमिदं पुनर्भवान्विकोशमाकाशनिभं करोत्यसिम् ॥२३॥

अनुतेपे अनुतापं प्राप्तवान् उद्बबर्ह कोशान्निष्कासितवान् ॥२३॥

ब्रवीहि मां त्वं पुनरुत्तरं वचस्तथा प्रवक्ष्याम्यहमर्थसिद्धये ।
इत्येवमुक्तः पुरुषोत्तमेन सुदुःखितः केशवमर्जुनोऽब्रवीत् ॥२४॥

अहं हनिष्ये स्वशरीरमेव प्रसह्य येनाहितमाचरं वै ।
निशम्य तत् पार्थवचोऽब्रवीदिदं धनञ्जयं धर्मभृतां वरिष्ठः ॥२५॥

राजानमेनं त्वमितीदमुक्त्वा किं कश्मलं प्राविशः पार्थ घोरम् ।
त्वं चात्मानं हन्तुमिच्छस्यरिघ्न नेदं सद्भिः सेवितं वै किरीटिन् ॥२६॥

धर्मात्मानं भ्रातरं ज्येष्ठमद्य खड्गेन चैनं यदि हन्या नृवीर ।
धर्माद्भीतस्तत्कथं नाम ते स्यात्किञ्चोत्तरं वा करिष्यस्त्वमेव ॥२७॥

सूक्ष्मो धर्मो दुर्विदश्चापि पार्थ विशेषतोऽज्ञैः प्रोच्यमानं निबोध ।
हत्वाऽऽत्मानमात्मना प्राप्नुयास्त्वं वधाद्भ्रातुर्नरकं चातिघोरम् ॥२८॥

आत्मनः स्तवादात्महत्या परहत्यास्य कुत्सनादित्यध्यायतात्पर्यम् ॥२८॥

ब्रवीहि वाचाऽद्य गुणानिहात्मनस्तथा हतात्मा भवितासि पार्थ ।
तथाऽस्तु कृष्णेत्यभिनन्द्य तद्वचो धनञ्जयः प्राह धनुर्विनाम्य ॥२९॥

युधिष्ठिरं धर्मभृतां वरिष्ठं शृणुष्व राजन्निति शक्रसूनुः ।
'न मादृशोऽन्यो नरदेव विद्यते धनुर्धरो देवमृते पिनाकिनम् ॥३०॥

अहं हि तेनानुमतो महात्मना क्षणेन हन्यां सचराचरं जगत् ।
मया हि राजन्सदिगीश्वरा दिशो विजित्य सर्वा भवतः कृता वशे ॥३१॥

स राजसूयश्च समाप्तदक्षिणः सभा च दिव्या भवतो ममौजसा ।
पाणौ पृषत्का निशिता ममैव धनुश्च सज्यं विततं सबाणम् ॥३२॥

पादौ च मे सरथौ सध्वजौ च न मादृशं युद्धगतं जयन्ति ।
हता उदीच्या निहताः प्रतीच्याः प्राच्या निरस्ता दाक्षिणात्या विशस्ताः ॥३३॥

संशप्तकानां किञ्चिदेवास्ति शिष्टं सर्वस्य सैन्यस्य हतं मयार्धम् ।
शेते मया निहता भारतीयं चमू राजन्देवचमूप्रकाशा ॥३४॥

ये चास्त्रज्ञास्तानहं हन्मि चास्त्रैस्तस्माल्लोकानेष करोमि भस्म ।
जैत्रं रथं भीममास्थाय कृष्ण यावः शीघ्रं सूतपुत्रं निहन्तुम् ॥३५॥

राजा भवत्वद्य सुनिर्वृतोऽयं कर्णं रणे नाशयिताऽस्मि बाणैः' ।
इत्येवमुक्त्वा पुनराह पार्थो युधिष्ठिरं धर्मभृतां वरिष्ठम् ॥३६॥

'अद्यापुत्रा सूतमाता भवित्री कुन्ती वाऽथो वा मया तेन वापि ।
सत्यं वदाम्यद्य न कर्णमाजौ शरैरहत्वा कवचं विमोक्ष्ये '॥३७॥

सञ्जय उवाच। इत्येवमुक्त्वा पुनरेव पार्थो युधिष्ठिरं धर्मभृतां वरिष्ठम् ।
विमुच्य शस्त्राणि धनुर्विसृज्य कोशे च खड्गं विनिधाय तूर्णम् ॥३८॥

स व्रीडया नम्रशिराः किरीटी युधिष्ठिरं प्राञ्जलिरभ्युवाच ।
प्रसीद राजन् क्षम यन्मयोक्तं काले भवान्वेत्स्यति तन्नमस्ते ॥३९॥

प्रसाद्य राजानममित्रसाहं स्थितोऽब्रवीच्चैव पुनः प्रवीरः ।
नेदं चिरात्क्षिप्रमिदं भविष्यत्यावर्तते साध्वभियामि चैनम् ॥४०॥

याम्येष भीमं समरात्प्रमोक्तुं सर्वात्मना सूतपुत्रं च हन्तुम् ।
तव प्रियार्थं मम जीवितं हि ब्रवीमि सत्यं तदवेहि राजन् ॥४१॥

इति प्रयास्यन्नुपगृह्य पादौ समुत्थितो दीप्ततेजाः किरीटी ।
एतच्छ्रुत्वा पाण्डवो धर्मराजो भ्रातुर्वाक्यं परुषं फाल्गुनस्य ॥४२॥

उत्थाय तस्माच्छयनादुवाच पार्थं ततो दुःखपरीतचेताः ।
'कृतं मया पार्थ यथा न साधु येन प्राप्तं व्यसनं वः सुघोरम् ॥४३॥

तस्माच्छिरश्छिन्धि ममेदमद्य कुलान्तकस्याधमपूरुषस्य ।
पापस्य पापव्यसनान्वितस्य विमूढबुद्धेरलसस्य भीरोः ॥४४॥

वृद्धावमन्तुः परुषस्य चैव किं ते चिरं मे ह्यनुसृत्य रूक्षम् ।
गच्छाम्यहं वनमेवाद्य पापः सुखं भवान्वर्ततां मद्विहीनः ॥४५॥

योग्यो राजा भीमसेनो महात्मा क्लीबस्य वा मम किं राज्यकृत्यम् ।
न चापि शक्तः परुषाणि सोढुं पुनस्तवेमानि रुषान्वितस्य ॥४६॥

भीमोऽस्तु राजा मम जीवितेन न कार्यमद्यावमतस्य वीर' ।
इत्येवमुक्त्वा सहसोत्पपात राजा ततस्तच्छयनं विहाय ॥४७॥

इयेष निर्गन्तुमथो वनाय ।
तं वासुदेवः प्रणतोऽभ्युवाच ॥४८॥

राजन्विदितमेतद्वै यथा गाण्डीवधन्वनः ।
प्रतिज्ञा सत्यसन्धस्य गाण्डीवं प्रति विश्रुता ।
ब्रूयाद्य एवं गाण्डीवमन्यस्मै देयमित्युत ॥४९॥

वध्योऽस्य स पुमाँल्लोके त्वया चोक्तोऽयमीदृशम् ।
ततः सत्यां प्रतिज्ञां तां पार्थेन प्रतिरक्षता ॥५०॥

मच्छन्दादवमानोऽयं कृतस्तव महीपते ।
गुरूणामवमानो हि वध इत्यभिधीयते ॥५१॥

तस्मात्त्वं वै महाबाहो मम पार्थस्य चोभयोः ।
व्यतिक्रममिमं राजन्सत्यसंरक्षणं प्रति ॥५२॥

शरणं त्वां महाराज प्रपन्नौ स्व उभावपि ।
क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः ॥५३॥

राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम् ।
सत्यं ते प्रतिजानामि हतं विद्ध्यद्य सूतजम् ॥५४॥

यस्येच्छसि वधं तस्य गतमप्यस्य जीवितम् ।
इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः ॥५५॥

ससंभ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा ।
कृताञ्जलिस्ततो वाक्यमुवाचानन्तरं वचः ॥५६॥

एवमेव यथाऽऽत्थ त्वमस्त्येषोऽतिक्रमो मम ।
अनुनीतोऽस्मि गोविन्द तारितश्चास्मि माधव ॥५७॥

मोचिता व्यसनाद्धोराद्वयमद्य त्वयाऽच्युत ।
भवन्तं नाथमासाद्य ह्यावां व्यसनसागरात् ॥५८॥

घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ ।
त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम् ॥५९॥

समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाऽच्युत ॥६०॥

इति श्रीमहाभारते कर्णपर्वणि युधिष्ठिरसमाश्वासने सप्ततितमोऽध्यायः ॥७०॥
एकसप्ततितमोऽध्यायः

सञ्जय उवाच। धर्मराजस्य तच्छ्रुत्वा प्रीतियुक्तं वचस्ततः ।
पार्थं प्रोवाच धर्मात्मा गोविन्दो यदुनन्दनः ॥१॥

धर्मराजस्येति । स्पष्टार्थः ॥१॥

इति स्म कृष्णवचनात् प्रत्युच्चार्य युधिष्ठिरम् ।
बभूव विमनाः पार्थः किञ्चित्कृत्वेव पातकम् ॥२॥

ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम् ।
कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम् ॥३॥

असिना तीक्ष्णधारेण हन्या धर्मे व्यवस्थितम् ।
त्वमित्युक्त्वाऽथ राजानमेवं कश्मलमाविशः ॥४॥

हत्वा तु नृपतिं पार्थ आकरिष्यः किमुत्तरम् ।
एवं हि दुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः ॥५॥

स भवान् धर्मभीरुत्वाद्ध्रुवमैष्यन्महत्तमः ।
नरकं घोररूपं च भ्रातुर्ज्येष्ठस्य वै वधात् ॥६॥

स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम् ।
प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम ॥७॥

प्रसाद्य भक्त्या राजानं प्रीते चैव युधिष्ठिरे ।
प्रयावस्त्वरितौ योद्धुं सूतपुत्ररथं प्रति ॥८॥

हत्वा तु समरे कर्णं त्वमद्य निशितैः शरैः ।
विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद ॥९॥

एतदत्र महाबाहो प्राप्तकालं मतं मम ।
एवं कृते कृतं चैव तव कार्यं भविष्यति ॥१०॥

ततोऽर्जुनो महाराज लज्जया वै समन्वितः ।
धर्मराजस्य चरणौ प्रपद्य शिरसा नतः ॥११॥

उवाच भरतश्रेष्ठं प्रसीदेति पुनः पुनः ।
क्षमस्व राजन् यत् प्रोक्तं धर्मकामेन भीरुणा ॥१२॥

दृष्ट्वा तु पतितं पद्भ्यां धर्मराजो युधिष्ठिरः ।
धनञ्जयममित्रघ्नं रुदन्तं भरतर्षभ ॥१३॥

पद्भ्यां पादयोः ॥१३॥

उत्थाप्य भ्रातरं राजा धर्मराजो धनञ्जयम् ।
समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः ॥१४॥

रुदित्वा सुचिरं कालं भ्रातरौ सुमहाद्युती ।
कृतशौचौ महाराज प्रीतिमन्तौ बभूवतुः ॥१५॥

तत आश्लिष्य तं प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवः ।
प्रीत्या परमया युक्तो विस्मयंश्च पुनः पुनः ।
अब्रवीत्तं महेष्वासं धर्मराजो धनञ्जयम् ॥१६॥

कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः ।
कवचं च ध्वजं चैव धनुः शक्तिर्हयाः शराः ॥१७॥

शरैः कृत्ता महेष्वास यतमानस्य संयुगे ।
सोऽहं ज्ञात्वा रणे तस्य कर्म दृष्ट्वा च फाल्गुन ॥१८॥

व्यवसीदामि दुःखेन न च मे जीवितं प्रियम् ।
न चेदद्य हि तं वीरं निहनिष्यसि संयुगे ॥१९॥

प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम ।
एवमुक्तः प्रत्युवाच विजयो भरतर्षभ ॥२०॥

सत्येन ते शपे राजन्प्रसादेन तथैव च ।
भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते ॥२१॥

यथाद्य समरे कर्णं हनिष्यामि हतोऽपि वा ।
महीतले पतिष्यामि सत्येनायुधमालभे ॥२२॥

एवमाभाष्य राजानमब्रवीन्माधवं वचः ।
अद्य कर्णं रणे कृष्ण सू‌दयिष्ये न संशयः ॥२३॥

तव बुद्ध्या हि भद्रं ते वधस्तस्य दुरात्मनः ।
एवमुक्तोऽब्रवीत्पार्थं केशवो राजसत्तम ॥२४॥

शक्तोऽसि भरतश्रेष्ठ हन्तुं कर्णं महाबलम् ।
एष चापि हि मे कामो नित्यमेव महारथ ॥२५॥

कथं भवान्रणे कर्णं निहन्यादिति सत्तम ।
भूयश्चोवाच मतिमान् माधवो धर्मनन्दनम् ॥२६॥

युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि ।
अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः ॥२७॥

श्रुत्वा ह्यहमयं चैव त्वां कर्णशरपीडितम् ।
प्रवृत्तिं ज्ञातुमायाताविहावां पाण्डुनन्दन ॥२८॥

दिष्ट्याऽसि राजन्न हतो दिष्ट्या न ग्रहणं गतः ।
परिसान्त्वय बीभत्सुं जयमाशाधि चानघ ॥२९॥

युधिष्ठिर उवाच। एह्येहि पार्थ बीभत्सो मां परिष्वज्य पाण्डव ।
वक्तव्यमुक्तोऽस्मि हितं त्वया क्षान्तं च तन्मया ॥३०॥

अहं त्वामनुजानामि जहि कर्णं धनञ्जय ।
मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणम् ॥३१॥

सञ्जय उवाच। ततो धनञ्जयो राजञ्शिरसा प्रणतस्तदा ।
पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष ॥३२॥

तमुत्थाप्य ततो राजा परिष्वज्य च पीडितम् ।
मूर्ध्न्युपाघ्राय चैवैनमिदं पुनरुवाच ह ॥३३॥

धनञ्जय महाबाहो मानितोऽस्मि दृढं त्वया ।
माहात्म्यं विजयं चैव भूयः प्राप्नुहि शाश्वतम् ॥३४॥

अर्जुन उवाच। अद्य तं पापकर्माणं सानुबन्धं रणे शरैः ।
नयाम्यन्तं समासाद्य राधेयं बलगर्वितम् ॥३५॥

येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम् ।
तस्याद्य कर्मणः कर्णः फलमाप्स्यति दारुणम् ॥३६॥

अद्य त्वामनुपश्यामि कर्णं हत्वा महीपते ।
सभाजयितुमाक्रन्दादिति सत्यं ब्रवीमि ते ॥३७॥

नाहत्वा विनिवर्तिष्ये कर्णमद्य रणाजिरात् ।
इति सत्येन ते पादौ स्पृशामि जगतीपते ॥३८॥

सञ्जय उवाच। इति ब्रुवाणं सुमनाः किरीटिनं युधिष्ठिरः प्राह वचो बृहत्तरम् ।
यशोऽक्षयं जीवितमीप्सितं ते जयं सदा वीर्यमरिक्षयं तदा ॥३९॥

प्रयाहि वृद्धिं च दिशन्तु देवता यथाऽहमिच्छामि तवास्तु तत्तथा ॥ प्रयाहि शीघ्रं जहि कर्णमाहवे पुरन्दरो वृत्रमिवात्मवृद्धये ॥४०॥

इति श्रीमहाभारते कर्णपर्वणि अर्जुनप्रतिज्ञायामेकसप्ततितमोऽध्यायः ॥७१॥
द्विसप्ततितमोऽध्यायः

सञ्जय उवाच। प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना ।
पार्थः प्रोवाच गोविन्दं सूतपुत्रवधोद्यतः ॥१॥

प्रसाद्येति ॥१॥

कल्पतां मे रथो भूयो युज्यन्तां च हयोत्तमाः ।
आयुधानि च सर्वाणि सज्जन्तां मे महारथे ॥२॥

उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिभिः ।
रथोपकरणैः सज्जा उपायान्तुं त्वरान्विताः ॥३॥

प्रयाहि शीघ्रं गोविन्द सूतपुत्रजिघांसया ।
एवमुक्तो महाराज फाल्गुनेन महात्मना ॥४॥

उवाच दारुकं कृष्णः कुरु सर्वं यथाऽब्रवीत् ।
अर्जुनो भरतश्रेष्ठ श्रेष्ठः सर्वधनुष्मताम् ॥५॥

आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम ।
योजयामास स रथं वैयाघ्रं शत्रुतापनम् ॥६॥

सज्जं निवेदयामास पाण्डवस्य महात्मनः ।
युक्तं तु तं रथं दृष्ट्वा दारुकेण महात्मना ॥७॥

आपृच्छ्य धर्मराजानं ब्राह्मणान्स्वस्ति वाच्य च ।
सुमङ्गलस्वस्त्ययनमारुरोह रथोत्तमम् ॥८॥

तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः ।
आशिषोऽयुङ्क्त स ततः प्रायात्कर्णरथं प्रति ॥९॥

तमायान्तं महेष्वासं दृष्ट्वा भूतानि भारत ।
निहतं मेनिरे कर्णं पाण्डवेन महात्मना ॥१०॥

बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः ।
चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर ॥११॥

प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम् ।
बहवः पक्षिणो राजन्पुन्नामानः शुभाः शिवाः ॥१२॥

त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे ।
कङ्का गृध्रा बकाः श्येना वायसाश्च विशांपते ॥१३॥

अग्रतस्तस्य गच्छन्ति मांसहेतोर्भयानकाः ।
निमित्तानि च धन्यानि पाण्डवस्य शशंसिरे ॥१४॥

विनाशमरिसैन्यानां कर्णस्य च वधं प्रति ।
प्रयातस्याथ पार्थस्य महान् स्वेदो व्यजायत ॥१५॥

चिन्ता च विपुला जज्ञे कथं चेदं भविष्यति ।
ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः ॥१६॥

दृष्ट्वा पार्थं तथाऽऽयान्तं चिन्तापरिगतं तदा । वासुदेव उवाच। गाण्डीवधन्वन्संग्रामे ये त्वया धनुषा जिताः ।
न तेषां मानुषो जेता त्वदन्य इह विद्यते ॥१७॥

दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः ।
त्वां प्राप्य समरे शूरं ते गताः परमां गतिम् ॥१८॥

को हि द्रोणं च भीष्मं च भगदत्तं च मारिष ।
विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् ॥१९॥

श्रुतायुषं महावीर्यमच्युतायुषमेव च ।
प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वमिव प्रभो ॥२०॥

तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च ।
असंमोहश्च युद्धेषु विज्ञानस्य च संनतिः ॥२१॥

वेधः पातश्च लक्षेषु योगश्चैव तथाऽर्जुन ।
भवान्देवान्सगन्धर्वान् हन्यात्सह चराचरान् ॥२२॥

पृथिव्यां तु रणे पार्थ न योद्धा त्वत्समः पुमान् ।
धनुर्ग्राहा हि ये केचित् क्षत्रिया युद्धदुर्मदाः ॥२३॥

आदेवात्त्वत्समं तेषां न पश्यामि शृणोमि च ।
ब्रह्मणा च प्रजाः सृष्टा गाण्डीवं च महद्धनुः ॥२४॥

येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः ।
अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव ॥२५॥

मावमंस्था महाबाहो कर्णमाहवशोभिनम् ।
कर्णो हि बलवान्दृप्तः कृतास्त्रश्च महारथः ॥२६॥

कृती च चित्रयोधी च देशकालस्य कोविदः ।
बहुनाऽत्र किमुक्तेन संक्षेपाच्छृणु पाण्डव ॥२७॥

त्वत्समं त्वद्विशिष्टं वा कर्णं मन्ये महारथम् ।
परमं यत्नमास्थाय त्वया वध्यो महाहवे ॥२८॥

तेजसा वह्निसदृशो वायुवेगसमो जवे ।
अन्तकप्रतिमः क्रोधे सिंहसंहननो बली ॥२९॥

अष्टरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः ।
अभिमानी च शूरश्च प्रवीरः प्रियदर्शनः ॥३०॥

अष्टरत्निरित्यस्य विवरणं महाबाहुर्व्यूढोरस्क इति । तथाहि सर्वस्य पुरुषस्य व्याममात्रं दैर्घ्यं तच्च पञ्चहस्तं विंशत्यधिकशताङ्गुलं रत्निस्त्वेकविंशत्यङ्गुलः । अष्टानां रत्नीनाम् अष्टषष्ट्यधिकं शतम् अङ्गुलानि च भवन्ति आजानुबाहुपुरुषस्य व्यामम् अष्टरत्निमितं भवति अष्टाचत्वारिंशदङ्गुला तत्र वृद्धिः तत्रापि पञ्चमांशेन वक्षसि विशालता शेषम् अंसादारभ्य बाह्वोवृद्धिरिति ज्ञेयम् ॥३०॥

सर्वयोधगुणैर्युक्तो मित्राणामभयंकरः ।
सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः ॥३१॥

सर्वैरवध्यो राधेयो देवैरपि सवासवैः ।
ऋते त्वामिति मे बुद्धिस्तदद्य जहि सूतजम् ॥३२॥

देवैरपि हि संयत्तैर्बिभ्रद्भिर्मांसशोणितम् ।
अशक्यः स रथो जेतुं सर्वैरपि युयुत्सुभिः ॥३३॥

दुरात्मानं पापवृत्तं नृशंसं दुष्टप्रज्ञं पाण्डवेयेषु नित्यम् ।
हीनस्वार्थं पाण्डवेयैर्विरोधे हत्वा कर्णं निश्चितार्थो भवाद्य ॥३४॥

तं सूतपुत्रं रथिनां वरिष्ठं निष्कालिकं कालवशं नयाद्य ।
तं सूतपुत्रं रथिनां वरिष्ठं हत्वा प्रीतिं धर्मराजे कुरुष्व ॥३५॥

जानामि ते पार्थ वीर्यं यथावद्दुर्वारणीयं च सुरासुरैश्च ।
सदाऽवजानाति हि पाण्डुपुत्रानसौ दर्पात्सूतपुत्रो दुरात्मा ॥३६॥

आत्मानं मन्यते वीरं येन पापः सुयोधनः ।
तमद्य मूलं पापानां जहि सौतिं धनञ्जय ॥३७॥

खड्गजिह्वं धनुरास्यं शरदंष्ट्रं तरस्विनम् ।
दृप्तं पुरुषशार्दूलं जहि कर्णं धनञ्जय ॥३८॥

अहं त्वामनुजानामि वीर्येण च बलेन च ।
जहि कर्णं रणे शूरं मातङ्गमिव केसरी ॥३९॥

यस्य वीर्येण वीर्यं ते धार्तराष्ट्रोऽवमन्यते ।
तमद्य पार्थ संग्रामे कर्णं वैकर्तनं जहि ॥४०॥

इति श्रीमहाभारते कर्णपर्वणि कृष्णार्जुनसंवादे द्विसप्ततितमोऽध्यायः ॥७२॥
त्रिसप्ततितमोऽध्यायः

सञ्जय उवाच। ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत् ।
कृतसंकल्पमायान्तं वधे कर्णस्य भारत ॥१॥

तत इति ॥१॥

अद्य सप्तदशाहानि वर्तमानस्य भारत ।
विनाशस्यातिघोरस्य नरवारणवाजिनाम् ॥२॥

भूत्वा हि विपुला सेना तावकानां परैः सह ।
अन्योन्यं समरं प्राप्य किञ्चिच्छेषा विशांपते ॥३॥

भूत्वा वै कौरवाः पार्थ प्रभूतगजवाजिनः ।
त्वां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि ॥४॥

एते ते पृथिवीपालाः सृञ्जयाश्च समागताः ।
त्वां समासाद्य दुर्धर्षं पाण्डवाश्च व्यवस्थिताः ॥५॥

पञ्चालैः पाण्डवैर्मत्स्यैः कारूषैश्चेदिभिः सह ।
त्वया गुप्तैरमित्रघ्नैः कृतः शत्रुगणक्षयः ॥६॥

को हि शक्तो रणे जेतुं कौरवांस्तात संयुगे ।
अन्यत्र पाण्डवान्युद्धे त्वया गुप्तान्महारथान् ॥७॥

शक्तस्त्वं हि रणे जेतुं ससुरासुरमानुषान् ।
त्रीन् लोकान्समरे युक्तान्किं पुनः कौरवं बलम् ॥८॥

भगदत्तं च राजानं कोऽन्यः शक्तस्त्वया विना ।
जेतुं पुरुषशार्दूल योऽपि स्याद्वासवोपमः ॥९॥

तथेमां विपुलां सेनां गुप्तां पार्थ त्वयाऽनघ ।
न शेकुः पार्थिवाः सर्वे चक्षुर्भिरपि वीक्षितुम् ॥१०॥

तथैव सततं पार्थ रक्षिताभ्यां त्वया रणे ।
धृष्टद्युम्नशिखण्डिभ्यां भीष्मद्रोणौ निपातितौ ॥११॥

को हि शक्तो रणे पार्थ भारतानां महारथौ ।
भीष्मद्रोणौ युधा जेतुं शक्रतुल्यपराक्रमौ ॥१२॥

को हि शान्तनवं भीष्मं द्रोणं वैकर्तनं कृपम् ।
द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च ॥१३॥

सैन्धवं मद्रराजानं राजानं च सुयोधनम् ।
वीरान् कृतास्त्रान् समरे सर्वानेवानिवर्तिनः ॥१४॥

अक्षौहिणीपतीनुग्रान्संहतान् युद्धदुर्मदान् ।
त्वामृते पुरुषव्याघ्र जेतुं शक्तः पुमानिह ॥१५॥

श्रेण्यश्च बहुलाः क्षीणाः प्रदीर्णाश्वरथद्विपाः ।
नानाजनपदाश्चोग्राः क्षत्रियाणाममर्षिणाम् ॥१६॥

गोवासदासमीयानां वसातीनां च भारत ।
प्राच्यानां वाटधानानां भोजानां चाभिमानिनाम् ॥१७॥

उदीर्णाश्वगजा सेना सर्वक्षत्रस्य भारत ।
त्वां समासाद्य निधनं गता भीमं च भारत ॥१८॥

उग्राश्च भीमकर्माणस्तुषारा यवनाः खशाः ।
दार्वाभिसारा दरदाः शका माठरतङ्गणाः ॥१९॥

आन्ध्रकाश्च पुलिंदाश्च किराताश्चोग्रविक्रमाः ।
म्लेच्छाश्च पर्वतीयाश्च सागरानूपवासिनः ॥२०॥

संरंभिणो युद्धशौण्डा बलिनो दण्डपाणयः ।
एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह ॥२१॥

न शक्या युधि निर्जेतुं त्वदन्येन परन्तप ।
धार्तराष्ट्रमुदग्रं हि व्यूढं दृष्ट्वा महद्बलम् ॥२२॥

यदि त्वं न भवेस्त्राता प्रतीयात्को नु मानवः ।
तत्सागरमिवोद्धूतं रजसा संवृतं बलम् ॥२३॥

यदि त्वं त्राता न भवेस्तर्हि तद्धार्तराष्ट्रं बलं कोऽनुप्रतीयादिति सम्बन्धः ॥२३॥

विदार्य पाण्डवैः क्रुद्धैस्त्वया गुप्तैर्हतं विभो ।
मागधानामधिपतिर्जयत्सेनो महाबलः ॥२४॥

अद्य सप्तैव चाहानि हतः संख्येऽभिमन्युना ।
ततो दशसहस्राणि गजानां भीमकर्मणाम् ॥२५॥

जघान गदया भीमस्तस्य राज्ञः परिच्छदम् ।
ततोऽन्येऽभिहता नागा रथाश्च शतशो बलात् ॥२६॥

तदेवं समरे पार्थ वर्तमाने महाभये ।
भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः ॥२७॥

सवाजिरथमातङ्गा मृत्युलोकमितो गताः ।
तथा सेनामुखे तत्र निहते पार्थ पाण्डवैः ॥२८॥

भीष्मः प्रासृजदुग्राणि शरजालानि मारिष ।
स चेदिकाशिपञ्चालान् करूषान् मत्स्यकेकयान् ॥२९॥

शरैः प्रच्छाद्य निधनमनयत्परमास्त्रवित् ।
तस्य चापच्युतैर्बाणैः परदेहविदारणैः ॥३०॥

पूर्णमाकाशमभवद्रुक्मपुंखैरजिह्मगैः ।
हन्याद्रथसहस्त्राणि एकैकेनैव मुष्टिना ॥३१॥

लक्षं नरद्विपान्हत्वा समेतान्समहाबलान् ।
गत्या दशम्या ते गत्वा जघ्नुर्वाजिरथद्विपान् ॥३२॥

हित्वा नवगतीर्दुष्टाः स बाणानाहवेऽत्यजत् ।
दिनानि दश भीष्मेण निघ्नता तावकं बलम् ॥३३॥

शून्याः कृता रथोपस्था हताश्च गजवाजिनः ।
दर्शयित्त्वाऽऽत्मनो रूपं रुद्रोपेन्द्रसमं युधि ॥३४॥

पाण्डवानामनीकानि प्रगृह्यासौ व्यशातयत् ।
विनिघ्नन्पृथिवीपालांश्चेदिपञ्चालकेकयान् ॥३५॥

अदहत्पाण्डवीं सेनां रथाश्वगजसंकुलाम् ।
मज्जन्तमप्लवे मन्दमुज्जिहीर्षुः सुयोधनम् ॥३६॥

तथा चरन्तं समरे तपन्तमिव भास्करम् ।
पदातिकोटिसाहस्त्राः प्रवरायुधपाणयः ॥३७॥

न शेकुः सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः ।
विचरन्तं तथा तं तु संग्रामे जितकाशिनम् ॥३८॥

सर्वोद्यमेन महता पाण्डवान्समभिद्रवत् ।
स तु विद्राव्य समरे पाण्डवान्सृञ्जयानपि ॥३९॥

एक एव रणे भीष्म एकवीरत्वमागतः ।
तं शिखण्डी समासाद्य त्वया गुप्तो महाव्रतम् ॥४०॥

जघान पुरुषव्याघ्रं शरैः सन्नतपर्वभिः ।
स एष पतितः शेते शरतल्पे पितामहः ॥४१॥

त्वां प्राप्य पुरुषव्याघ्रं वृत्रः प्राप्येव वासवम् ।
द्रोणः पञ्चदिनान्युग्रो विधम्य रिपुवाहिनीम् ॥४२॥

कृत्वा व्यूहमभेद्यं च पातयित्वा महारथान् ।
जयद्रथस्य समरे कृत्वा रक्षां महारथः ॥४३॥

अन्तकप्रतिमश्चोग्रो रात्रियुद्धेऽदहत्प्रजाः ।
दग्ध्वा योधाञ्छरैर्वीरो भारद्वाजः प्रतापवान् ॥४४॥

धृष्टद्युम्नं समासाद्य स गतः परमां गतिम् ।
यदि वाऽद्य भवान्युद्धे सूतपुत्रमुखान्रथान् ॥४५॥

नावारयिष्यः संग्रामे न स्म द्रोणो व्यनङ्क्ष्यत ।
भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम् ॥४६॥

ततो द्रोणो हतो युद्धे पार्षतेन धनञ्जयः ।
एवं वा को रणे कुर्यात्त्वदन्यः क्षत्रियो युधि ॥४७॥

यादृशं ते कृतं पार्थ जयद्रथवधं प्रति ।
निवार्य सेनां महतीं हत्वा शूरांश्च पार्थिवान् ॥४८॥

निहतः सैन्धवो राजा त्वयाऽस्त्रबलतेजसा ।
आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः ॥४९॥

अनाश्चर्यं हि तत्त्वत्तस्त्वं हि पार्थ महारथः ।
त्वां हि प्राप्य रणे क्षत्रमेकाहादिति भारत ॥५०॥

त्वां हीति । क्षणेन सर्वं भस्मीकर्तुं समर्थं त्वां प्राप्य एकाहान्नश्यमानं क्षत्रं युक्तं बलवत्तरं मन्येयं जानीयां क्षणेन नाश्यमपि पूर्णैकाहपर्यन्तं स्थायित्वादिति भावः । सार्धः ॥५०॥

नश्यमानमहं युक्तं मन्येयमिति मे मतिः ।
सेयं पार्थचमूर्घोरा धार्तराष्ट्रस्य संयुगे ॥५१॥

हतसर्वस्ववीरा हि भीष्मद्रोणौ यदा हतौ ।
शीर्णप्रवरयोधाऽद्य हतवाजिरथद्विपा ॥५२॥

हीना सूर्येन्दुनक्षत्रैर्द्योरिवाभाति भारती ।
विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रम ॥५३॥

आसुरीव पुरा सेना शक्रस्येव पराक्रमैः ।
तेषां हतावशिष्टास्तु सन्ति पञ्च महारथाः ॥५४॥

अश्वत्थामा कृतवर्मा कर्णो मद्राधिपः कृपः ।
तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान् ॥५५॥

हतामित्रः प्रयच्छोर्वी राज्ञे सद्वीपपत्तनाम् ।
साकाशजलपातालां सपर्वतमहावनाम् ॥५६॥

प्राप्नोत्वमितवीर्यश्रीरद्य पार्थो वसुंधराम् ।
एतां पुरा विष्णुरिव हत्वा दैतेयदानवान् ॥५७॥

प्रयच्छ मेदिनीं राज्ञे शक्रायैव हरिर्यथा ।
अद्य मोदन्तु पञ्चाला निहतेष्वरिषु त्वया ।
विष्णुना निहतेष्वेव दानवेयेषु देवताः ॥५८॥

यदि वा द्विपदां श्रेष्ठं द्रोणं मानयतो गुरुम् ।
अश्वत्थाम्नि कृपा तेऽस्ति कृपे वाचार्यगौरवात् ॥५९॥

अत्यन्तापचितान्बन्धून्मानयन्मातृबान्धवान् ।
कृतवर्माणमासाद्य न नेष्यसि यमक्षयम् ॥६०॥

भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम् ।
यदि त्वमरविन्दाक्ष दयावान्न जिघांससि ॥६१॥

इमं पापमतिं क्षुद्रमत्यन्तं पाण्डवान्प्रति ।
कर्णमद्य नरश्रेष्ठ जह्याः सुनिशितैः शरैः ॥६२॥

एतत्ते सुकृतं कर्म नात्र किंचन युज्यते ।
वयमप्यनुजानीमो नात्र दोषोऽस्ति कश्चन ॥६३॥

दहने यत्सपुत्राया निशि मातुस्तवानघ ।
द्यूतार्थे यच्च युष्मासु प्रावर्तत सुयोधनः ॥६४॥

तस्य सर्वस्य दुष्टात्मा कर्णो वै मूलमित्युत ।
कर्णाद्धि मन्यते त्राणं नित्यमेव सुयोधनः ॥६५॥

ततो मामपि संरब्धो निग्रहीतुं प्रचक्रमे ।
स्थिरा बुद्धिर्नरेन्द्रस्य धार्तराष्ट्रस्य मानद ॥६६॥

कर्णः पार्थान् रणे सर्वान्विजेष्यति न संशयः ।
कर्णमाश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः ॥६७॥

रोचितो भवता सार्धं जानताऽपि बलं तव ।
कर्णो हि भाषते नित्यमहं पार्थान्समागतान् ॥६८॥

वासुदेवं च दाशार्हं विजेष्यामि महारथम् ।
प्रोत्साहयन्दुरात्मानं धार्तराष्ट्रं सुदुर्मतिम् ॥६९॥

समितौ गर्जते कर्णस्तमद्य जहि भारत ।
यच्च युष्मासु पापं वै धार्तराष्ट्रः प्रयुक्तवान् ॥७०॥

तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर्मुखम् ।
यच्च तद्धार्तराष्ट्रस्य क्रूरैः षड्भिर्महारथैः ॥७१॥

अपश्यं निहतं वीरं सौभद्रमृषभेक्षणम् ।
द्रोणद्रौणिकृपान्वीरान्कर्षयन्तं नरर्षभान् ॥७२॥

निर्मनुष्यांश्च मातंगान्विरथांश्च महारथान् ।
व्यश्वारोहांश्च तुरगान्पत्तीन्व्यायुधजीविनः ॥७३॥

कुर्वन्तमृषभस्कंधं कुरुवृष्णियशस्करम् ।
विधमन्तमनीकानि व्यथयन्तं महारथान् ॥७४॥

मनुष्यवाजिमातङ्गान्प्राहिण्वन्तं यमक्षयम् ।
शरैः सौभद्रमायान्तं दहन्तमिव वाहिनीम् ॥७५॥

तन्मे दहति गात्राणि सखे सत्येन ते शपे ।
यत्तत्रापि च दुष्टात्मा कर्णोऽभ्यद्रुह्यत प्रभो ॥७६॥

अशक्नुवंश्चाभिमन्योः कर्णः स्थातुं रणेऽग्रतः ।
सौभद्रशरनिर्भिन्नो विसंज्ञः शोणितोक्षितः ॥७७॥

निःश्वसन् क्रोधसंदीप्तो विमुखः सायकार्दितः ।
अपयानकृतोत्साहो निराशश्चापि जीविते ॥७८॥

तस्थौ सुविह्वलः संख्ये प्रहारजनितश्रमः ।
अथ द्रोणस्य समरे तत्कालसदृशं तदा ॥७९॥

श्रुत्वा कर्णो वचः क्रूरं ततश्चिच्छेद कार्मुकम् ।
ततश्छिन्नायुधं तेन रणे पञ्च महारथाः ॥८०॥

तं चैव निकृतिप्रज्ञाः प्राहरञ्छरवृष्टिभिः ।
तस्मिन्विनिहते वीरे सर्वेषां दुःखमाविशत् ॥८१॥

प्राहसत्स तु दुष्टात्मा कर्णः स च सुयोधनः ।
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः ॥८२॥

प्रमुखे पाण्डवेयानां कुरूणां च नृशंसवत् ।
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः ॥८३॥

पतिमन्यं पृथुश्रोणि वृणीष्व मृदुभाषिणि ।
एषा त्वं धृतराष्ट्रस्य दासीभूता निवेशनम् ॥८४॥

प्रविशारालपद्माक्षि न सन्ति पतयस्तव ।
न पाण्डवाः प्रभवन्ति तव कृष्णे कथञ्चन ॥८५॥

दासभार्या च पाञ्चालि स्वयं दासी च शोभने ।
अद्य दुर्योधनो ह्येकः पृथिव्यां नृपतिः स्मृतः ॥८६॥

सर्वे चास्य महीपाला योगक्षेममुपासते ।
पश्येदानीं यथा भद्रे विनष्टाः पाण्डवाः समम् ॥८७॥

अन्योन्यं समुदीक्षन्ते धार्तराष्ट्रस्य तेजसा ।
व्यक्तं षण्ढतिला ह्येते न पुरेव निमज्जिताः ॥८८॥

प्रेष्यवच्चापि राजानमुपस्थास्यन्ति कौरवम् ।
इत्युक्तवानधर्मज्ञस्तदा परमदुर्मतिः ॥८९॥

पापः पापवचः कर्णः शृण्वतस्तव भारत ।
अद्य पापस्य तद्वाक्यं सुवर्णविकृताः शराः ॥९०॥

शमयन्तु शिलाधौतास्त्वयास्ता जीवितच्छिदः ।
यानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वयि ॥९१॥

तान्यद्य जीवितं चास्य शमयन्तु शरास्तव ।
गाण्डीवप्रहितान्घोरानद्य गात्रैःस्पृशञ्छरान् ॥९२॥

कर्णः स्मरतु दुष्टात्मा वचनं द्रोणभीष्मयोः ।
सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युतप्रभाः ॥९३॥

त्वयाऽस्तास्तस्य वर्माणि भित्त्वा पास्यन्ति शोणितम् ।
उग्रास्त्वद्भुजनिर्मुक्ता मर्म भित्त्वा महाशराः ॥९४॥

अद्य कर्णं महावेगाः प्रेषयन्तु यमक्षयम् ।
अद्य हाहाकृता दीना विषण्णास्त्वच्छरार्दिताः ॥९५॥

प्रपतन्तं रथात्कर्णं पश्यन्तु वसुधाधिपाः ।
अद्य शोणितसंमग्नं शयानं पतितं भुवि ।
अपविद्धायुधं कर्णं दीनाः पश्यन्तु बान्धवाः ॥९६॥

हस्तिकक्षो महानस्य भल्लेनोन्मथितस्त्वया ।
प्रकम्पमानः पततु भूमावपि रथध्वजः ॥९७॥

त्वया शरशतैश्छिन्नं रथं हेमविभूषितम् ।
हतयोधाश्वमुत्सृज्य भीतः शल्यः पलायताम् ॥९८॥

त्वं चेत्कर्णसुतं पार्थ सूतपुत्रस्य पश्यतः ।
प्रतिज्ञावारणार्थाय निहनिष्यसि सायकैः ॥९९॥

हतं कर्णस्तु तं दृष्ट्वा प्रियं पुत्रं दुरात्मवान् ।
स्मरतां द्रोणभीष्माभ्यां वचः क्षत्तुश्च मानद ॥१००॥

ततः सुयोधनो दृष्ट्वा हतमाधिरथिं त्वया ।
निराशो जीविते त्वद्य राज्ये चैव भवत्वरिः ॥१०१॥

एते द्रवन्ति पञ्चाला वध्यमानाः शितैः शरैः ।
कर्णेन भरतश्रेष्ठ पाण्डवानुज्जिहीर्षवः ॥१०२॥

पञ्चालान् द्रौपदेयांश्च धृष्टद्युम्नशिखण्डिनौ ।
धृष्टद्युम्नतनूजांश्च शतानीकं च नाकुलिम् ॥१०३॥

नकुलं सहदेवं च दुर्मुखं जनमेजयम् ।
सुधर्माणं सात्यकिं च विद्धि कर्णवशं गतान् ॥१०४॥

अभ्याहतानां कर्णेन पञ्चालानामसौ रणे ।
श्रूयते निनदो घोरस्त्वद्बन्धूनां परन्तप ॥१०५॥

न त्वेव भीताः पञ्चालाः कथंचित्स्युः पराङ्मुखाः ।
न हि मृत्युं महेष्वासा गणयन्ति महारणे ॥१०६॥

य एकः पाण्डवीं सेनां शरौघैः समवेष्टयत् ।
तं समासाद्य पञ्चाला भीष्मान्नासन्पराङ्गुखाः ॥१०७॥

ते कथं कर्णमासाद्य विद्रवेयुर्महारथाः ।
यस्त्वेकः सर्वपञ्चालानहन्यहनि नाशयन् ॥१०८॥

कालवच्चरते वीरः पञ्चालानां रथव्रजे ।
तमप्यासाद्य समरे मित्रार्थे मित्रवत्सल ॥१०९॥

तथा ज्वलन्तमस्त्राग्निं गुरुं सर्वधनुष्मताम् ।
निर्दहन्तं च समरे दुर्धर्षं द्रोणमोजसा ॥११०॥

ते नित्यमुदिता जेतुं मृधे शत्रूनरिंदम ।
न जात्वाधिरथेर्भीताः पञ्चालाः स्युः पराङ्मुखाः ॥१११॥

तेषामापततां शूरः पञ्चालानां तरस्विनाम् ।
आदत्तासूञ्शरैः कर्णः पतङ्गानामिवानलः ॥११२॥

एते द्रवन्ति पञ्चाला द्राव्यन्ते योधिभिर्ध्रुवम् ।
कर्णेन भरतश्रेष्ठ पश्य पश्य तथाकृतान् ॥११३॥

तांस्तथाऽभिमुखान्वीरान्मित्रार्थे त्यक्तजीवितान् ।
क्षयं नयति राधेयः पञ्चालाञ्छतशो रणे ॥११४॥

तद्भारत महेष्वासानगाधे मज्जतोऽप्लवे ।
कर्णार्णवे प्लवो भूत्वा पञ्चालांस्त्रातुमर्हसि ॥११५॥

अस्त्रं हि रामात्कर्णेन भार्गवादृषिसत्तमात् ।
यदुपात्तं महाघोरं तस्य रूपमुदीर्यते ॥११६॥

तापनं सर्वसैन्यानां घोररूपं सुदारुणम् ।
समावृत्य महासेनां ज्वलन्तं स्वेन तेजसा ॥११७॥

एते चरन्ति संग्रामे कर्णचापच्युताः शराः ।
भ्रमराणामिव व्रातास्तापयन्ति स्म तावकान् ॥११८॥

एते द्रवन्ति पञ्चाला दिक्षु सर्वासु भारत ।
कर्णास्त्रं समरे प्राप्य दुर्निवार्यमनात्मभिः ॥११९॥

एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः ।
सृञ्जयैर्योधयन्कर्णं पीड्यते निशितैः शरैः ॥१२०॥

पाण्डवान्सृञ्जयांश्चैव पञ्चालांश्चैव भारत ।
हन्यादुपेक्षितः कर्णो रोगो देहमिवागतः ॥१२१॥

नान्यं त्वत्तो हि पश्यामि योधं यौधिष्ठिरे बले ।
यः समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहम् ॥१२२॥

तमद्य निशितैर्बाणैर्विनिहत्य नरर्षभ ।
यथाप्रतिज्ञं पार्थ त्वं कृत्वा कीर्तिमवाप्नुहि ॥१२३॥

त्वं हि शक्तो रणे जेतुं सकर्णानपि कौरवान् ।
नान्यो युधि युधां श्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥१२४॥

एतत्कृत्वा महत्कर्म हत्वा कर्णं महारथम् ।
कृतार्थः सफलः पार्थ सुखी भव नरोत्तम ॥१२५॥

इति श्रीमहाभारते कर्णपर्वणि कृष्णवाक्ये त्रिसप्ततितमोऽध्यायः ॥७३॥
चतुःसप्ततितमोऽध्यायः

सञ्जय उवाच। स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम् ।
विशोकः संप्रहृष्टश्च क्षणेन समपद्यत ॥१॥

स केशवस्येति ॥१॥

ततो ज्यामभिमृज्याशु व्याक्षिपद्गाण्डिवं धनुः ।
दध्रे कर्णविनाशाय केशवं चाभ्यभाषत ॥२॥

त्वया नाथेन गोविन्द ध्रुव एव जयो मम ।
प्रसन्नो यस्य मेऽद्य त्वं लोके भूतभविष्यकृत् ॥३॥

त्वत्सहायो ह्यहं कृष्ण त्रीन्लोकान्वै समागतान् ।
प्रापयेयं परं लोकं किमु कर्णं महाहवे ॥४॥

पश्यामि द्रवतीं सेनां पञ्चालानां जनार्दन ।
पश्यामि कर्णं समरे विचरन्तमभीतवत् ॥५॥

भार्गवास्त्रं च पश्यामि ज्वलन्तं कृष्ण सर्वशः ।
सृष्टं कर्णेन वार्ष्णेय शक्रेणेव यथाऽशनिम् ॥६॥

ज्वलन्तं पुंस्त्वमार्षम् ॥६॥

अयं खलु स संग्रामो यत्र कर्णं मया हतम् ।
कथयिष्यन्ति भूतानि यावद्भूमिर्धरिष्यति ॥७॥

अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे ।
गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः ॥८॥

अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते ।
दुर्योधनमराज्यार्हं यया राज्येऽभ्यषेचयत् ॥९॥

अद्य राज्यात्सुखाच्चैव श्रियो राष्ट्रात्तथा पुरात् ।
पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो विमोक्ष्यति ॥१०॥

गुणवन्तं हि यो द्वेष्टि निर्गुणं कुरुते प्रभुम् ।
स शोचति नृपः कृष्ण क्षिप्रमेवागते क्षये ॥११॥

यथा च पुरुषः कश्चिच्छित्त्वा चाम्रवणं महत् ।
फलं दृष्ट्वा भृशं दुःखी भविष्यति जनार्दन ।
सूतपुत्रे हते त्वद्य निराशो भविता प्रभुः ॥१२॥

अद्य दुर्योधनो राज्याज्जीविताच्च निराशकः ।
भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते ॥१३॥

अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम् ।
स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः ॥१४॥

स्मरतां स्मरतु ॥१४॥

अद्यासौ सौबलः कृष्ण ग्लहाञ्जानातु वै शरान् ।
दुरोदरं च गाण्डीवं मण्डलं च रथं प्रति ॥१५॥

मण्डलं द्यूते शारीस्थापनपट्टं दुरोदरं पाशम् ॥१५॥

अद्य कुन्तीसुतस्याहं दृढं राज्ञः प्रजागरम् ।
व्यपनेष्यामि गोविन्द हत्वा कर्णं शितैः शरैः ॥१६॥

अद्य कुन्तीसुतो राजा हते सूतसुते मया ।
सुप्रहृष्टमनाः प्रीतश्चिरं सुखमवाप्स्यति ॥१७॥

अद्य चाहमनाधृष्यं केशवाप्रतिमं शरम् ।
उत्स्रक्ष्यामीह यः कर्णं जीविताद्भ्रंशयिष्यति ॥१८॥

यस्य चैतद्व्रतं मह्यं वधे किल दुरात्मनः ।
पादौ न धावये तावद्यावद्धन्यां न फाल्गुनम् ॥१९॥

मृषा कृत्वा व्रतं तस्य पापस्य मधुसूदन ।
पातयिष्ये रथात्कायं शरैः सन्नतपर्वभिः ॥२०॥

योऽसौ रणे नरं नान्यं पृथिव्यामनुमन्यते ।
तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम् ॥२१॥

'अपतिर्ह्यसि कृष्णे'-ति सूतपुत्रो यदब्रवीत् ।
धृतराष्ट्रमते कर्णः श्लाघमानः स्वकान् गुणान् ॥२२॥

अनृतं तत्करिष्यन्ति मामका निशिताः शराः ।
आशीविषा इव क्रुद्धास्तस्य पास्यन्ति शोणितम् ॥२३॥

मया हस्तवता मुक्ता नाराचा वैद्युतत्विषः ।
गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम् ॥२४॥

अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदाब्रवीत् ।
सभामध्ये वचः क्रूरं कुत्सयन्पाण्डवान्प्रति ॥२५॥

ये वै षण्ढतिलास्तत्र भवितारोऽद्य ते तिलाः ।
हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि ॥२६॥

अहं वः पाण्डुपुत्रेभ्यस्त्रास्यामीति यदब्रवीत् ।
धृतराष्ट्रसुतान्कर्णः श्लाघमानोत्मनो गुणान् ॥२७॥

अनृतं तत्करिष्यन्ति मामका निशिताः शराः ।
उद्योगः पाण्डुपुत्राणां समाप्तिमुपयास्यति ॥२८॥

हन्ताहं पाण्डवान्सर्वान्सपुत्रानिति योब्रवीत् ।
तमद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम् ॥२९॥

यस्य वीर्यं समाश्रित्य धार्तराष्ट्रो महामनाः ।
अवामन्यत दुर्बुद्धिर्नित्यमस्मान् दुरात्मवान् ।
हत्वाऽहं कर्णमाजौ हि तोषयिष्यामि भ्रातरम् ॥३०॥

शरान्नानाविधान्मुक्त्वा त्रासयिष्यामि शात्रवान् ।
आकर्णमुक्तैरिषुभिर्यमराष्ट्रविवर्धनैः ॥३१॥

भूमिशोभां करिष्यामि पातितै रथकुञ्जरैः ।
तत्राहं वै महासंख्ये संपन्नं युद्धदुर्मदम् ॥३२॥

अद्य कर्णमहं घोरं सूदयिष्यामि सायकैः ।
अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः ॥३३॥

विद्रवन्तु दिशो भीताः सिंहत्रस्ता मृगा इव ।
अद्य दुर्योधनो राजा आत्मानं चानुशोचताम् ॥३४॥

हते कर्णे मया संख्ये सपुत्रे ससुहृज्जने ।
अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः ॥३५॥

जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम् ।
सपुत्रपौत्रं सामात्यं सभृत्यं च निराशिषम् ॥३६॥

अद्य राज्ये करिष्यामि धृतराष्ट्रं जनेश्वरम् ।
अद्य कर्णस्य चक्राङ्गाः क्रव्यादाश्च पृथग्विधाः ॥३७॥

शरैश्छिन्नानि गात्राणि विचरिष्यन्ति केशव ।
अद्य राधासुतस्याहं संग्रामे मधुसूदन ॥३८॥

शिरश्छेत्स्यामि कर्णस्य मिषतां सर्वधन्विनाम् ।
अद्य तीक्ष्णैर्विपाठैश्च क्षुरैश्च मधुसूदन ॥३९॥

रणे छेत्स्यामि गात्राणि राधेयस्य दुरात्मनः ।
अद्य राजा महत्कृच्छ्रं सन्त्यक्ष्यति युधिष्ठिरः ॥४०॥

सन्तापं मानसं वीरश्चिरसंभृतमात्मनः ।
अद्य केशव राधेयमहं हत्वा सबान्धवम् ॥४१॥

नन्दयिष्यामि राजानं धर्मपुत्रं युधिष्ठिरम् ।
अद्याहमनुगान् कृष्ण कर्णस्य कृपणान् युधि ॥४२॥

हन्ता ज्वलनसंकाशैः शरैः सर्पविषोपमैः ।
अद्याहं हेमकवचैराबद्धमणिकुण्डलैः ॥४३॥

संस्तरिष्यामि गोविन्द वसुधां वसुधाधिपैः ।
अद्याभिमन्योः शत्रूणां सर्वेषां मधुसुदन ॥४४॥

प्रमथिष्यामि गात्राणि शिरांसि च शितैः शरैः ।
अद्य निर्धार्तराष्ट्रां च भ्रात्रे दास्यामि मेदिनीम् ॥४५॥

निरर्जुनां वा पृथिवीं केशवानुचरिष्यसि ।
अद्याहमनृणः कृष्ण भविष्यामि धनुर्भृताम् ॥४६॥

कोपस्य च कुरूणां च शराणां गाण्डिवस्य च ।
अद्य दुःखमहं मोक्ष्ये त्रयोदशसमार्जितम् ॥४७॥

हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव ।
अद्य कर्णे हते युद्धे सोमकानां महारथाः ॥४८॥

कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि ।
मम चैव कथं प्रीतिः शैनेयस्याद्य माधव ॥४९॥

भविष्यति हते कर्णे मयि चापि जयाधिके ।
अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम् ॥५०॥

प्रीतिं दास्यामि भीमस्य यमयोः सात्यकस्य च ।
धृष्टद्युम्नशिखण्डिभ्यां पञ्चालानां च माधव ॥५१॥

अद्यानृण्यं गमिष्यामि हत्वा कर्णं महाहवे ।
अद्य पश्यन्तु संग्रामे धनञ्जयममर्षणम् ॥५२॥

युध्यन्तं कौरवान्संख्ये घातयन्तं च सूतजम् ।
भवत्सकाशे वक्ष्ये च पुनरेवात्मसंस्तवम् ॥५३॥

धनुर्वेदे मत्समो नास्ति लोके पराक्रमे वा मम कोऽस्ति तुल्यः ।
को वाप्यन्यो मत्समोऽस्ति क्षमावांस्तथा क्रोधे सदृशोऽन्यो न मेऽस्ति ॥५४॥

अहं धनुष्मान्ससुरासुरांश्च सर्वाणि भूतानि च सङ्गतानि ।
स्वबाहुवीर्याद्गमये पराभवं मत्पौरुषं विद्धि परं परेभ्यः ॥५५॥

शरार्चिषा गाण्डिवेनाहमेकः सर्वान्कुरून्बाह्लिकांश्चाभिहत्य ।
हिमात्यये कक्षगतो यथाग्निस्तथा दहेयं सगणान्प्रसह्य ॥५६॥

पाणौ पृषत्का लिखिता ममैते धनुश्च दिव्यं विततं सबाणम् ।
पादौ च मे सरथौ सध्वजौ च न मादृशं युद्धगतं जयन्ति ॥५७॥

इत्येवमुक्त्वाऽर्जुन एकवीरः क्षिप्रं रिपुघ्नः क्षतजोपमाक्षः ।
भीमं मुमुक्षुः समरे प्रयातः कर्णस्य कायाच्च शिरो जिहीर्षुः ॥५८॥

इति श्रीमहाभारते कर्णपर्वणि अर्जुनवाक्ये चतुःसप्ततितमोऽध्यायः ॥७४॥
पञ्चसप्ततितमोऽध्यायः

धृतराष्ट्र उवाच। समागमे पाण्डवसृञ्जयानां महाभये मामकानामगाधे ।
धनञ्जये तात रणाय याते कर्णेन तद्युद्धमथोऽत्र कीदृक् ॥१॥

सञ्जय उवाच। तेषामनीकानि बृहद्ध्वजानि रणे समृद्धानि समागतानि ।
गर्जन्ति भेरीनिनदोन्मुखानि नादैर्यथा मेघगणास्तपान्ते ॥२॥

महागजाभ्राकुलमस्त्रतोयं वादित्रनेमीतलशब्दवच्च ।
हिरण्यचित्रायुधविद्युतं च शरासिनाराचमहास्त्रधारम् ॥३॥

तद्भीमवेगं रुधिरौघवाहि खड्गाकुलं क्षत्रियजीवघाति ।
अनार्तवं क्रूरमनिष्टवर्षं बभूव तत्संहरणं प्रजानाम् ॥४॥

एकं रथं संपरिवार्य मृत्युं नयन्त्यनेके च रथाः समेताः ।
एकस्तथैकं रथिनं रथाग्र्यांस्तथा रथश्चापि रथाननेकान् ॥५॥

रथं ससूतं सहयं च कञ्चित्कश्चिद्रथी मृत्युवशं निनाय ।
निनाय चाप्येकगजेन कश्चिद्रथान्बहून् मृत्युवशे तथाऽश्वान् ॥६॥

रथान्ससूतान् सहयान्गजांश्च सर्वानरीन्मृत्युवशं शरौघैः ।
निन्ये हयांश्चैव तथा ससादीन् पदातिसङ्घांश्च तथैव पार्थः ॥७॥

कृपः शिखण्डी च रणे समेतौ दुर्योधनं सात्यकिरध्यगच्छत् ।
श्रुतस्तथा द्रोणपुत्रेण सार्धं युधामन्युश्चित्रसेनेन सार्धम् ॥८॥

कर्णस्य पुत्रं तु रथी सुषेणं समागतं सृञ्जयश्चोत्तमौजाः ।
गान्धारराजं सहदेवः क्षुधार्तो महर्षभं सिंह इवाभ्यधावत् ॥९॥

शतानीको नाकुलिः कर्णपुत्रं युवा युवानं वृषसेनं शरौघैः ।
समार्पयत्कर्णपुत्रश्च शूरः पाञ्चालेयं शरवर्षैरनेकैः ॥१०॥

पाञ्चालेयं पाञ्चालीतनयं नाकुलिम् ॥१०॥

रथर्षभः कृतवर्माणमार्छन्माद्रीपुत्रो नकुलश्चित्रयोधी ।
पञ्चालानामधिपो याज्ञसेनिः सेनापतिः कर्णमार्छत्ससैन्यम् ॥११॥

दुःशासनो भारत भारती च संशप्तकानां पृतना समृद्धा ।
भीमं रणे शस्त्रभृतां वरिष्ठं भीमं समार्छत्तमसह्यवेगम् ॥१२॥

कर्णात्मजं तत्र जघान वीरस्तथाऽच्छिनच्चोत्तमौजाः प्रसह्य ।
तस्योत्तमाङ्गं निपपात भूमौ निनादयद्गां निनदेन खं च ॥१३॥

सुषेणशीर्षं पतितं पृथिव्यां विलोक्य कर्णोऽथ तदार्तरूपः ।
क्रोधाद्धयांस्तस्य रथं ध्वजं च बाणैः सुधारैर्निशितैरकृन्तत् ॥१४॥

स तूत्तमौजा निशितैः पृषत्कैर्विव्याध खड्गेन च भास्वरेण ।
पार्ष्णिग्रहांश्चैव कृपस्य हत्वा शिखण्डिवाहं स ततोऽध्यरोहत् ॥१५॥

कृपं तु दृष्ट्वा विरथं रथस्थो नैच्छच्छरैस्ताडयितुं शिखण्डी ।
तं द्रौणिरावार्य रथं कृपस्य समुज्जह्रे पङ्कगतां यथा गाम् ॥१६॥

हिरण्यवर्मा निशितैः पृषत्कैस्तवात्मजानामनिलात्मजो वै ।
अतापयत्सैन्यमतीव भीमः काले शुचौ मध्यगतो यथाऽर्कः ॥१७॥

इति श्रीमहाभारते कर्णपर्वणि संकुलद्वन्द्वयुद्धे पञ्चसप्ततितमोऽध्यायः ॥७५॥
षट्सप्ततितमोऽध्यायः

सञ्जय उवाच। अथ त्विदानीं तुमुले विमर्दे द्विषद्भिरेको बहुभिः समावृतः ।
महारणे सारथिमित्युवाच भीमश्चमूं वाहय धार्तराष्ट्रीम् ॥१॥

अथेति ॥१॥

त्वं सारथे याहि जवेन वाहैर्नयाम्येतान्धार्तराष्ट्रान् यमाय ।
सञ्चोदितो भीमसेनेन चैवं स सारथिः पुत्रबलं त्वदीयम् ॥२॥

प्रायात्ततः सत्वरमुग्रवेगो यतो भीमस्तद्बलं गन्तुमैच्छत् ।
ततोऽपरे नागरथाश्वपत्तिभिः प्रत्युद्ययुस्तं कुरवः समन्तात् ॥३॥

भीमस्य वाहाग्र्यमुदारवेगं समन्ततो बाणगणैर्निजघ्नुः ।
ततः शरानापततो महात्मा चिच्छेद बाणैस्तपनीयपुङ्खैः ॥४॥

ते वै निपेतुस्तपनीयपुङ्खा द्विधा त्रिधा भीमशरैर्निकृत्ताः ।
ततो राजन्नागरथाश्वयूनां भीमाहतानां वरराजमध्ये ॥५॥

घोरो निनादः प्रबभौ नरेन्द्र वज्राहतानामिव पर्वतानाम् ।
ते वध्यमानाश्च नरेन्द्रमुख्याः निर्भिद्यतो भीमशरप्रवेकैः ॥६॥

भीमं समन्तात्समरेऽभ्यरोहन् वृक्षं शकुन्ता इव पुष्पहेतोः ।
ततोऽभियाते तव सैन्ये स भीमः प्रादुश्चक्रे वेगमनन्तवेगः ॥७॥

यथाऽन्तकाले क्षपयन्दिधक्षुर्भूतान्तकृत्काल इवात्तदण्डः ।
तस्यातिवेगस्य रणेऽतिवेगं नाशक्नुवन्वारयितुं त्वदीयाः ॥८॥

व्यात्ताननस्यापततो यथैव कालस्य काले हरतः प्रजा वै ।
ततो बलं भारत भारतानां प्रदह्यमानं समरे महात्मना ॥९॥

भीतं दिशोऽकीर्यत भीमनुन्नं महानिलेनाभ्रगणा यथैव ।
ततो धीमान्सारथिमब्रवीद्बली स भीमसेनः पुनरेव हृष्टः ॥१०॥

सूताभिजानीहि स्वकान्परान्वा रथान् ध्वजांश्चापततः समेतान् ।
युद्ध्यन् ह्यहं नाभिजानामि किञ्चिन्मा सैन्यं स्वं छादयिष्ये पृषत्कैः ॥११॥

अरीन्विशोकाभिनिरीक्ष्य सर्वतो रथो ध्वजाग्राणि धुनोति मे भृशम् ।
राजाऽऽतुरो नागमद्यत्किरीटी बहूनि दुःखान्यभियातोऽस्मि सूत ॥१२॥

एतद्दुःखं सारथे धर्मराजो यन्मां हित्वा यातवञ्शत्रुमध्ये ।
नैनं जीवं नाद्य जानाम्यजीवं बीभत्सुं वा तन्ममाद्यातिदुःखम् ॥१३॥

सोऽहं द्विषत्सैन्यमुदग्रकल्पं विनाशयिष्ये परमप्रतीतः ।
एतन्निहत्याजिमध्ये समेतं प्रीतो भविष्यामि सह त्वयाऽद्य ॥१४॥

सर्वांस्तूणान्सायकानामवेक्ष्य किं शिष्टं स्यात्सायकानां रथे मे ।
का वा जातिः किं प्रमाणं च तेषां ज्ञात्वा व्यक्तं तत्समाचक्ष्व सूत ॥१५॥

विशोक उवाच। षण्मार्गणानामयुतानि वीर क्षुराश्च भल्लाश्च तथाऽयुताख्याः ।
नाराचानां द्वे सहस्त्रे च वीर त्रीण्येव च प्रदराणां स्म पार्थ ॥१६॥

प्रदरा बाणविशेषाः ॥१६॥

अस्त्यायुधं पाण्डवेयावशिष्टं न यद्वहेच्छकटं षड्गवीयम् ।
एतद्विद्वन्मुञ्च सहस्रशोऽपि गदासिबाहुद्रविणं च तेऽस्ति ॥१७॥

प्रासाश्च मुद्गराः शक्तयस्तोमराश्च ।
मा भैषीस्त्वं संक्षयादायुधानाम् ॥१८॥

भीमसेन उवाच। सूताद्यैनं पश्य भीमप्रयुक्तैः संछिन्दद्भिः पार्थिवानां सुवेगैः ।
छन्नं बाणैराहवं घोररूपं नष्टादित्यं मृत्युलोकेन तुल्यम् ॥१९॥

अद्यैतद्वै विदितं पार्थिवानां भविष्यति ह्याकुमारं च सूत ।
निमग्नो वा समरे भीमसेन एकः कुरून्वा समरे व्यजैषीत् ॥२०॥

सर्वे संख्ये कुरवो निष्पतन्तु मां वा लोकाः कीर्तयन्त्वाकुमारम् ।
सर्वानेकस्तानहं पातयिष्ये ते वा सर्वे भीमसेनं तुदन्तु ॥२१॥

आशास्तारः कर्म चाप्युत्तमं ये तन्मे देवाः केवलं साधयन्तु ।
आयात्विहाद्यार्जुनः शस्त्रघाती शक्रस्तूर्णं यज्ञ इवोपहूतः ॥२२॥

ईक्षस्वैतां भारतीं दीर्यमाणामेते कस्माद्विद्रवन्ते नरेन्द्राः ।
व्यक्तं धीमान्सव्यसाची नराग्र्यः सैन्यं ह्येतच्छादयत्याशु बाणैः ॥२३॥

पश्य ध्वजांश्च द्रवतो विशोकः नागान् हयान्पत्तिसंघांश्च संख्ये ।
रथान्विकीर्णाञ्शरशक्तिताडितान् पश्यस्वैतान् रथिनश्चैव सूत ॥२४॥

आपूर्यते कौरवी चाप्यभीक्ष्णं सेना ह्यसौ सुभृशं हन्यमाना ।
धनञ्जयस्याशनितुल्यवेगैर्ग्रस्ता शरैः काञ्चनबर्हिजालैः ॥२५॥

एते द्रवन्ति स्म रथाश्वनागाः पदातिसङ्घानतिमर्दयन्तः ।
संमुह्यमानाः कौरवाः सर्व एव द्रवन्ति नागा इव दाहभीताः ॥२६॥

हाहाकृताश्चैव रणे विशोक ।
मुञ्चन्ति नादान्विपुलान्गजेन्द्राः ॥२७॥

विशोक उवाच। किं भीम नैनं त्वमिहाश्रृणोषि विस्फारितं गाण्डिवस्यातिघोरम् ।
क्रुद्धेन पार्थेन विकृष्यतोऽद्य कच्चिन्नेमौ तव कर्णौ विनष्टौ ॥२८॥

सर्वे कामाः पाण्डव ते समृद्धाः कपिर्ह्यसौ दृश्यते हस्तिसैन्ये ।
नीलाद्धनाद्विद्युतमुञ्चरन्तीं तथा पश्य विस्फुरन्तीं धनुर्ज्याम् ॥२९॥

कपिर्ह्यसौ वीक्षते सर्वतो वै ध्वजाग्रमारुह्य धनञ्जयस्य ।
वित्रासयन् रिपुसङ्घान्विमर्दे बिभेम्यस्मादात्मनैवाभिवीक्ष्य ॥३०॥

विभ्राजते चातिमात्रं किरीटं विचित्रमेतच्च धनञ्जयस्य ।
दिवाकराभो मणिरेष दिव्यो विभ्राजते चैव किरीटसंस्थः ॥३१॥

पार्श्वे भीमं पाण्डुराभ्रप्रकाशं पश्यस्व शङ्खं देवदत्तं सुघोषम् ।
अभीषुहस्तस्य जनार्दनस्य विगाहमानस्य चमूं परेषाम् ॥३२॥

रविप्रभं वज्रनाभं क्षुरान्तं पार्श्वे स्थितं पश्य जनार्दनस्य ।
चक्रं यशोवर्धनं केशवस्य सदार्चितं यदुभिः पश्य वीर ॥३३॥

महाद्विपानां सरलद्रुमोपमाः करा निकृत्ताः प्रपतन्त्यमी क्षुरैः ।
किरीटिना तेन पुनः ससादिनः शरैर्निकृत्ताः कुलिशैरिवाद्रयः ॥३४॥

तथैव कृष्णस्य च पाञ्चजन्यं महार्हमेतं द्विजराजवर्णम् ।
कौन्तेय पश्योरसि कौस्तुभं च जाज्वल्यमानं विजयां स्रजं च ॥३५॥

ध्रुवं रथाग्र्यः समुपैति पार्थो विद्रावयन्सैन्यमिदं परेषाम् ।
सिताभ्रवर्णैरसितप्रयुक्तैर्हयैर्महार्है रथिनां वरिष्ठः ॥३६॥

असितप्रयुक्तैः कृष्णप्रयुक्तैः ॥३६॥

रथान् हयान्पत्तिगणांश्च सायकैर्विदारितान्पश्य पतन्त्यमी यथा ।
तवानुजेनामरराजतेजसा महावनानीव सुपर्णवायुना ॥३७॥

चतुःशतान्पश्य रथानिमान्हतान् सवाजिसूतान्समरे किरीटिना ।
महेषुभिः सप्तशतानि दन्तिनां पदातिसादींश्च रथाननेकशः ॥३८॥

अयं समभ्येति तवान्तिकं बली निघ्नन् कुरूंश्चित्र इव ग्रहोऽर्जुनः ।
समृद्धकामोऽसिहतास्तवाहिता बलं तवायुश्च चिराय वर्धताम् ॥३९॥

भीमसेन उवाच। ददानि ते ग्रामवरांश्चतुर्दश प्रियाख्याने सारथे सुप्रसन्नः ।
दासीशतं चापि रथांश्च विंशतिं यदर्जुनं वेदयसे विशोक ॥४०॥

इति श्रीमहाभारते कर्णपर्वणि भीमसेनविशोकसंवादे षट्सप्ततितमोऽध्यायः ॥७६॥
सप्तसप्ततितमोऽध्यायः

सञ्जय उवाच। श्रुत्वा तु रथनिर्घोषं सिंहनादं च संयुगे ।
अर्जुनः प्राह गोविन्दं शीघ्रं नोदय वाजिनः ॥१॥

श्रुत्वेति ॥१॥

अर्जुनस्य वचः श्रुत्वा गोविंदोऽर्जुनमब्रवीत् ।
एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः ॥२॥

तं यान्तमश्वैर्हिमशङ्खवर्णैः सुवर्णमुक्तामणिजालनद्धैः ।
जम्भं जिघांसुं प्रगृहीतवज्रं जयाय देवेन्द्रमिवोग्रमन्युम् ॥३॥

रथाश्वमातङ्गपदातिसंघा बाणस्वनैर्नेमिखुरस्वनैश्च ।
संनादयन्तो वसुधां दिशश्च क्रुद्धा नृसिंहा जयमभ्युदीयुः ॥४॥

तेषां च पार्थस्य च मारिषासीद्देहासुपापक्षपणं सुयुद्धम् ।
त्रैलोक्यहेतोरसुरैर्यथासीद्देवस्य विष्णोर्जयतां वरस्य ॥५॥

तैरस्तमुच्चावचमायुधं तदेकः प्रचिच्छेद किरीटमाली ।
क्षुरार्धचन्द्रैर्निशितैश्च भल्लैः शिरांसि तेषां बहुधा च बाहून् ॥६॥

छत्राणि वालव्यजनानि केतूनश्वान्रथान्पत्तिगणान्द्विपांश्च ।
ते पेतुरुर्व्यां बहुधा विरूपा वातप्रणुन्नानि यथा वनानि ॥७॥

सुवर्णजालावतता महागजाः सवैजयन्तीध्वजयोधकल्पिताः ।
सुवर्णपुङ्खैरिषुभिः समाचिताश्चकाशिरे प्रज्वलिता यथाऽचलाः ॥८॥

विदार्य नागाश्वरथान् धनञ्जयः शरोत्तमैर्वासववज्रसन्निभैः ।
द्रुतं ययौ कर्णजिघांसया तथा यथा मरुत्वान् बलभेदने पुरा ॥९॥

ततः स पुरुषव्याघ्रस्तव सैन्यमरिंदमः ।
प्रविवेश महाबाहुर्मकरः सागरं यथा ॥१०॥

तं हृष्टास्तावका राजन्रथपत्तिसमन्विताः ।
गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन् ॥११॥

तेषामापततां पार्थमारावः सुमहानभूत् ।
सागरस्येव क्षुब्धस्य यथा स्यात्सलिलस्वनः ॥१२॥

ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः ।
अभ्यद्रवन्त संग्रामे त्यक्त्वा प्राणकृतं भयम् ॥१३॥

तेषामापततां तत्र शरवर्षाणि मुञ्चताम् ।
अर्जुनो व्यधमत्सैन्यं महावातो घनानिव ॥१४॥

तेऽर्जुनं सहिता भूत्वा रथवंशैः प्रहारिणः ।
अभियाय महेष्वासा विव्यधुर्निशितैः शरैः ॥१५॥

ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम् ।
प्रेषयामास विशिखैर्यमस्य सदनं प्रति ॥१६॥

ते वध्यमानाः समरे पार्थचापच्युतैः शरैः ।
तत्र तत्र स्म लीयन्ते भये जाते महारथाः ॥१७॥

तेषां चतुःशतान्वीरान्यतमानान्महारथान् ।
अर्जुनो निशितैर्बाणैरनयद्यमसादनम् ॥१८॥

ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः ।
अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो दश ॥१९॥

तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखे ।
महौघस्येव जलधेर्गिरिमासाद्य दीर्यतः ॥२०॥

तां तु सेनां भृशं विद्ध्वा द्रावयित्वाऽर्जुनः शरैः ।
प्रायादभिमुखः पार्थः सूतानीकं हि मारिष ॥२१॥

तस्य शब्दो महानासीत्परानभिमुखस्य वै ।
गरुडस्येव पततः पन्नगार्थे यथा पुरा ॥२२॥

तं तु शब्दमभिश्रुत्य भीमसेनो महाबलः ।
बभूव परमप्रीतः पार्थदर्शनलालसः ॥२३॥

श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान् ।
त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह ॥२४॥

स वायुवीर्यप्रतिमो वायुवेगसमो जवे ।
वायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान् ॥२५॥

तेनार्द्यमाना राजेन्द्र सेना तव विशांपते ।
व्यभ्रश्यत महाराज भिन्ना नौरिव सागरे ॥२६॥

तां तु सेनां तदा भीमो दर्शयन् पाणिलाघवम् ।
शरैरवचकर्तोग्रैः प्रेषयिष्यन् यमक्षयम् ॥२७॥

तत्र भारत भीमस्य बलं दृष्ट्वाऽतिमानुषम् ।
व्यभ्रमन्त रणे योधाः कालस्येव युगक्षये ॥२८॥

तथाऽर्दितान्भीमबलान् भीमसेनेन भारत ।
दृष्ट्वा दुर्योधनो राजा इदं वचनमब्रवीत् ॥२९॥

सैनिकांश्च महेष्वासान् योधांश्च भरतर्षभ ।
समादिशन्रणे सर्वान्हत भीममिति स्म ह ॥३०॥

तस्मिन्हते हतं मन्ये पाण्डुसैन्यमशेषतः ।
प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाः ॥३१॥

भीमं प्रच्छा‌दयामासुः शरवर्षैः समन्ततः ।
गजाश्च बहुला राजन्नराश्च जयगृद्धिनः ॥३२॥

रथे स्थिताश्च राजेन्द्र परिवव्रुर्वृकोदरम् ।
स तैः परिवृतः शूरैः शूरो राजन्समन्ततः ॥३३॥

शुशुभे भरतश्रेष्ठो नक्षत्रैरिव चन्द्रमाः ।
परिवेषी यथा सोमः परिपूर्णो विराजते ॥३४॥

स रराज तथा संख्ये दर्शनीयो नरोत्तमः ।
निर्विशेषो महाराज यथा हि विजयस्तथा ॥३५॥

तस्य ते पार्थिवाः सर्वे शरवृष्टिं समासृजन् ।
क्रोधरक्तेक्षणाः शूरा हन्तुकामा वृकोद्रम् ॥३६॥

तां विदार्य महासेनां शरैः सन्नतपर्वभिः ।
निश्चक्राम रणाद्भीमो मत्स्योजालादिवांभसि ॥३७॥

हत्वा दशसहस्राणि गजानामनिवर्तिनाम् ।
नृणां शतसहस्त्रे द्वे द्वे शते चैव भारत ॥३८॥

पञ्च चाश्वसहस्राणि रथानां शतमेव च ।
हत्वा प्रास्यन्दयद्भीमो नदीं शोणितवाहिनीम् ॥३९॥

शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् ।
नरमीनाश्वनक्रान्तां केशशैवलशाद्वलाम् ॥४०॥

संच्छिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम् ।
ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमावृताम् ॥४१॥

धनुःकाशां शरावापां गदापरिघकेतनाम् ।
हंसछत्रध्वजोपेतामुष्णीषवरफेनिलाम् ॥४२॥

हारपद्माकरां चैव भूमिरेणूर्मिमालिनीम् ।
आर्यवृत्तवतीं संख्ये सुतरां भीरुदुस्तराम् ॥४३॥

योधग्राहवतीं संख्ये वहन्तीं पितृसादनम् ।
क्षणेन पुरुषव्याघ्रः प्रावर्तयत निम्नगाम् ॥४४॥

यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः ।
तथा दुस्तरणीं घोरां भीरूणां भयवर्धनीम् ॥४५॥

यतो यतः पाण्डवेयः प्रविष्टो रथसत्तमः ।
ततस्ततो घातयत योधाञ्शतसहस्रशः ॥४६॥

एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे ।
दुर्योधनो महाराज शकुनिं वाक्यमब्रवीत् ॥४७॥

जहि मातुल संग्रामे भीमसेनं महाबलम् ।
अस्मिञ्जिते जितं मन्ये पाण्डवेयं महाबलम् ॥४८॥

ततः प्रायान्महाराज सौबलेयः प्रतापवान् ।
रणाय महते युक्तो भ्रातृभिः परिवारितः ॥४९॥

स समासाद्य संग्रामे भीमं भीमपराक्रमम् ।
वारयामास तं वीरो वेलेव मकरालयम् ॥५०॥

संन्यवर्तत तं भीमो वार्यमाणः शितैः शरैः ।
शकुनिस्तस्य राजेन्द्र वामपार्श्वे स्तनान्तरे ॥५१॥

प्रेषयामास नाराचान् रुक्मपुङ्खाञ्शिलाशितान् ।
वर्म भित्त्वा तु ते घोराः पाण्डवस्य महात्मनः ॥५२॥

न्यमज्जन्त महाराज कङ्कबर्हिणवाससः ।
सोऽतिविद्धो रणे भीमः शरं रुक्मविभूषितम् ॥५३॥

प्रेषयामास स रुषा सौबलं प्रति भारत ।
तमायान्तं शरं घोरं शकुनिः शत्रुतापनः ॥५४॥

चिच्छेद सप्तधा राजन् कृतहस्तो महाबलः ।
तस्मिन्निपतिते भूमौ भीमः क्रुद्धो विशांपते ॥५५॥

धनुश्छिच्छेद भल्लेन सौबलस्य हसन्निव ।
तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान् ॥५६॥

अन्यदादाय वेगेन धनुर्भल्लांश्च षोडश ।
तैस्तस्य तु महाराज भल्लैः सन्नतपर्वभिः ॥५७॥

द्वाभ्यां स सारथिं ह्यार्च्छद्भीमं सप्तभिरेव च ।
ध्वजमेकेन चिच्छेद द्वाभ्यां छत्रं विशांपते ॥५८॥

चतुर्भिश्चतुरो वाहान्विव्याध सुबलात्मजः ।
ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् ॥५९॥

शक्तिं चिक्षेप समरे रुक्मदण्डामयस्मयीम् ।
सा भीमभुजनिर्मुक्ता नागजिह्वेव चञ्चला ॥६०॥

निपपात रणे तूर्णं सौबलस्य महात्मनः ।
ततस्तामेव संगृह्य शक्तिं कनकभूषणाम् ॥६१॥

भीमसेनाय चिक्षेप क्रुद्धरूपो विशांपते ।
सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः ॥६२॥

निपपात तदा भूमौ यथा विद्युन्नभश्च्युता ।
अथोत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः ॥६३॥

न तु तं ममृषे भीमः सिंहनादं तरस्विनाम् ।
अन्यद्गृह्य धनुः सज्यं त्वरमाणो महाबलः ॥६४॥

मुहूर्तादिव राजेन्द्र च्छादयामास सायकैः ।
सौबलस्य बलं संख्ये त्यक्त्वाऽऽमानं महाबलः ॥६५॥

तस्याश्वांश्चतुरो हत्वा सूतं चैव विशांपते ।
ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी ॥६६॥

हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमः ।
तस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणः श्वसन् ॥६७॥

शरैश्च बहुधा राजन् भीममार्च्छत्समन्ततः ।
प्रतिहत्य तु वेगेन भमिसेनः प्रतापवान् ॥६८॥

धनुश्चिच्छेद संक्रुद्धो विव्याध च शितैः शरैः ।
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः ॥६९॥

निपपात तदा भूमौ किञ्चित्प्राणो नराधिपः ।
ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशांपते ॥७०॥

अपोवाह रथेनाजौ भीमसेनस्य पश्यतः ।
रथस्थे तु नरव्याघ्रे धार्तराष्ट्राः पराङ्मुखाः ॥७१॥

प्रदुद्रुवुर्दिशो भीता भीमाज्जाते महाभये ।
सौबले निर्जिते राजन्भीमसेनेन धन्विना ॥७२॥

भयेन महताऽऽविष्टः पुत्रो दुर्योधनस्तव ।
अपायाज्जवनैरश्वैः सापेक्षो मातुलं प्रति ॥७३॥

पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत ।
विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः ॥७४॥

तान् दृष्ट्वा विद्रुतान्सर्वान् धार्तराष्ट्रान्पराङ्मुखान् ।
जवेनाभ्यापतद्भीमः किरञ्शरशतान्बहून् ॥७५॥

ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः ।
कर्णमासाद्य समरे स्थिता राजन् समन्ततः ॥७६॥

स हि तेषां महावीर्यो द्वीपोऽभूत्सुमहाबलः ।
भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताः ॥७७॥

भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये ।
तथा कर्णं समासाद्य तावकाः पुरुषर्षभ ॥७८॥

समाश्वस्ताः स्थिता राजन्संप्रहृष्टाः परस्परम् ।
समाजग्मुश्च युद्धाय मृत्युं कृत्वा निवर्तनम् ॥७९॥

इति श्रीमहाभारते कर्णपर्वणि शकुनिपराजये सप्तसप्ततितमोऽध्यायः ॥७७॥
अष्टसप्ततितमोऽध्यायः

धृतराष्ट्र उवाच। ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे ।
दुर्योधनोऽब्रवीत्किं नु सौबलो वापि सञ्जय ॥१॥

तत इति ॥१॥

कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि ।
कृपो वा कृतवर्मा वा द्रौणिर्दुःशासनोऽपि वा ॥२॥

अत्यद्भुतमहं मन्ये पाण्डवेयस्य विक्रमम् ।
यदेकः समरे सर्वान् योधयामास मामकान् ॥३॥

यथाप्रतिज्ञं योधानां राधेयः कृतवानपि ।
कुरूणामथ सर्वेषां कर्णः शत्रुनिषूदनः ॥४॥

शर्म वर्म प्रतिष्ठा च जीविताशा च सञ्जय ।
तत्प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा ॥५॥

राधेयो वाप्याधिरथिः कर्णः किमकरोद्युधि ।
पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः ।
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि सञ्जय ॥६॥

सञ्जय उवाच। अपराह्णे महाराज सूतपुत्रः प्रतापवान् ।
जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः ॥७॥

भीमोऽप्यतिबलं सैन्यं धार्तराष्ट्रं व्यपोथयत् ।
अथ कर्णोऽब्रवीच्छल्यं पञ्चालान्प्रापयस्व माम् ॥८॥

द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता ।
यन्तारमब्रवीत्कर्णः पञ्चालानेव मां वह ॥९॥

मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान् ।
प्राहिणोच्चेदिपञ्चालान्करूषांश्च महाबलः ॥१०॥

प्रविश्य च महत्सैन्यं शल्यः परबलार्दनः ।
न्ययच्छत्तुरगान् हृष्टो यत्र यत्रैच्छदग्रणीः ॥११॥

तं रथं मेघसंकाशं वैयाघ्रपरिवारणम् ।
संदृश्य पाण्डुपञ्चालास्त्रस्ता ह्यासन्विशांपते ॥१२॥

ततो रथस्य निनदः प्रादुरासीन्महारणे ।
पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः ॥१३॥

ततः शरशतैस्तीक्ष्णैः कर्ण आकर्णनिःसृतैः ।
जघान पाण्डवबलं शतशोऽथ सहस्रशः ॥१४॥

तं तथा समरे कर्म कुर्वाणमपराजितम् ।
परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः ॥१५॥

तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः ।
नकुलः सहदेवश्च द्रौपदेयाश्च सात्यकिः ॥१६॥

परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः ।
सात्यकिस्तु तदा कर्णं विंशत्या निशितैः शरैः ॥१७॥

अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः ।
शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च सप्तभिः ॥१८॥

द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः ।
नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः ॥१९॥

भीमसेनस्तु राधेयं नवत्या नतपर्वणाम् ।
विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः ॥२०॥

अथ प्रहस्याधिरथिर्व्याक्षिपद्धनुरुत्तमम् ।
मुमोच निशितान्बाणान् पीडयन्सुमहाबलः ॥२१॥

तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः ।
सात्यकेस्तु धनुश्छित्त्वा ध्वजं च भरतर्षभ ॥२२॥

तं तथा नवभिर्बाणैराजघान स्तनान्तरे ।
भीमसेनं ततः कुद्धो विव्याध त्रिंशता शरैः ॥२३॥

सहदेवस्य भल्लेन ध्वजं चिच्छेद मारिष ।
सारथिं च त्रिभिर्बाणैराजघान परन्तपः ॥२४॥

विरथान्द्रौपदेयांश्च चकार भरतर्षभ ।
अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत् ॥२५॥

विमुखीकृत्य तान्सर्वाञ्शरैः सन्नतपर्वभिः ।
पञ्चालानहनच्छूरांश्चेदीनां च महारथान् ॥२६॥

ते वध्यमानाः समरे चेदिमत्स्या विशांपते ।
कर्णमेकमभिद्रुत्य शरसङ्घैः समार्पयन् ॥२७॥

ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः ।
ते वध्यमानाः समरे चेदिमत्स्या विशांपते ॥२८॥

प्राद्रवन्त रणे भीताः सिंहत्रस्ता मृगा इव ।
एतदत्यद्भुतं कर्म दृष्टवानस्मि भारत ॥२९॥

यदेकः समरे शूरान्सूतपुत्रः प्रतापवान् ।
यतमानान्परं शक्त्या योधयानांश्च धन्विनः ॥३०॥

पाण्डवेयान्महाराज शरैर्वारितवान् रणे ।
तत्र भारत कर्णस्य लाघवेन महात्मनः ॥३१॥

तुतुषुर्देवताः सर्वाः सिद्धाश्च सह चारणैः ।
अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम् ॥३२॥

कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् ।
ततः कर्णो महाराज ददाह रिपुवाहिनीम् ॥३३॥

कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान् ।
ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः ॥३४॥

प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महारथम् ।
तत्राक्रन्दो महानासीत्पञ्चालानां महारणे ॥३५॥

वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः ।
तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः ॥३६॥

कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः ।
तत्राद्भुतं पुनश्चक्रे राधेयः शत्रुकर्शनः ॥३७॥

यदेनं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम् ।
यथौघः पर्वतश्रेष्ठमासाद्याभिप्रदीर्यते ॥३८॥

तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते ।
कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलन् ॥३९॥

दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम् ।
शिरांसि च महाराज कर्णांश्चैव सकुण्डलान् ॥४०॥

बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः ।
हस्तिदन्तत्सरून् खड्गान् ध्वजाञ्शक्तीर्हयान् गजान् ॥४१॥

रथांश्च विविधान्राजन्पताका व्यजनानि च ।
अक्षं च युगयोक्त्राणि चक्राणि विविधानि च ॥४२॥

चिच्छेद बहुधा कर्णो योधव्रतमनुष्ठितः ।
तत्र भारत कर्णेन निहतैर्गजवाजिभिः ॥४३॥

अगम्यरूपा पृथिवी मांसशोणितकर्दमा ।
विषमं च समं चैव हतैरश्वपदातिभिः ॥४४॥

रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किञ्चन ।
नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम् ॥४५॥

घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते ।
राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषणैः ॥४६॥

संछादिता महाराज पाण्डवानां महारथाः ।
ते पाण्डवेयाः समरे राधेयेन पुनःपुनः ॥४७॥

अभज्यन्त महाराज यतमाना महारथाः ।
मृगसङ्घान् यथा क्रुद्धः सिंहो द्रावयते वने ॥४८॥

पञ्चालानां रथश्रेष्ठान्द्रावयवञ्शात्रवांस्तथा ।
कर्णस्तु समरे योधांस्त्रासयन्सुमहायशाः ॥४९॥

कालयामास तत्सैन्यं यथा पशुगणान् वृकः ।
दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम् ॥५०॥

तत्राजग्मुर्महेष्वासा रुवन्तो भैरवान्रवान् ।
दुर्योधनो हि राजेन्द्र मुदा परमया युतः ॥५१॥

वादयामास संहृष्टो नानावाद्यानि सर्वशः ।
पञ्चालापि महेष्वासा भग्नास्तत्र नरोत्तमाः ॥५२॥

न्यवर्तन्त यथा शूरं मृत्युं कृत्वा निवर्तनम् ।
तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः ॥५३॥

अनेकशो महाराज बभञ्ज पुरुषर्षभः ।
तत्र भारत कर्णेन पञ्चाला विंशती रथाः ॥५४॥

निहताः सायकैः क्रोधाच्चेदयश्च परंशताः ।
कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत ॥५५॥

निर्मनुष्यान् गजस्कन्धान् पादातांश्चैव विद्रुतान् ।
आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परन्तपः ॥५६॥

कालान्तकवपुः शूरः सूतपुत्रोऽभ्यराजत ।
एवमेतन्महाराज नरवाजिरथद्विपान् ॥५७॥

हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः ।
यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः ॥५८॥

तथा स सोमकान्हत्वा तस्थावेको महारथः ।
तत्राद्भुतमपश्याम पञ्चालानां पराक्रमम् ॥५९॥

वध्यमानाऽपि यत्कर्णं नाजहू रणमूर्धनि ।
राजा दुःशासनश्चैव कृपः शारद्वतस्तथा ॥६०॥

अश्वत्थामा कृतवर्मा शकुनिश्च महाबलः ।
न्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः ॥६१॥

कर्णपुत्रौ तु राजेन्द्र भ्रातरौ सत्यविक्रमौ ।
निजघ्नाते बलं क्रुद्धौ पाण्डवानामितस्ततः ॥६२॥

तत्र युद्धं महच्चासीत्क्रूरं विशसनं महत् ।
तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ ॥६३॥

द्रौपदेयाश्च संक्रुद्धा अभ्यघ्नंस्तावकं बलम् ।
एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः ।
तावकानामपि रणे भीमं प्राप्य महाबलम् ॥६४॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे अष्टसप्ततितमोऽध्यायः ॥७८॥
ऊनाशीतितमोऽध्यायः

सञ्जय उवाच। अर्जुनस्तु महाराज हत्वा सैन्यं चतुर्विधम् ।
सूतपुत्रं च संक्रुद्धं दृष्ट्वा चैव महारणे ॥१॥

अर्जुन इति ॥१॥

शोणितोदां महीं कृत्वा मांसमज्जास्थिपङ्किलाम् ।
मनुष्यशीर्षपाषाणां हस्त्यश्वकृतरोधसम् ॥२॥

शूरास्थिचयसंकीर्णां काकगृध्रानुनादिताम् ।
छत्रहंसप्लवोपेतां वीरवृक्षापहारिणीम् ॥३॥

हारपद्माकरवतीमुष्णीषवरफेनिलाम् ।
धनुःशरध्वजोपेतां नरक्षुद्रकपालिनीम् ॥४॥

चर्मवर्मभ्रमोपेतां रथोडुपसमाकुलाम् ।
जयैषिणां च सुतरां भीरूणां च सुदुस्तराम् ॥५॥

नदीं प्रावर्तयित्वा च बीभत्सुः परवीरहा ।
वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभः ॥६॥

अर्जुन उवाच। एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते ।
भीमसेनादयश्चैते योधयन्ति महारथम् ॥७॥

एते द्रवन्ति पञ्चालाः कर्णत्रस्ता जनार्दन ।
एष दुर्योधनो राजा श्वेतच्छत्रेण धार्यता ॥८॥

कर्णेन भग्नान्पञ्चालान् द्रावयन्बहु शोभते ।
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ॥९॥

एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः ।
अवध्यमानास्तेऽस्माभिर्घातयिष्यन्ति सोमकान् ॥१०॥

एष शल्यो रथोपस्थे रश्मिसंचारकोविदः ।
सूतपुत्ररथं कृष्ण वाहयन् बहु शोभते ॥११॥

तत्र मे बुद्धिरुत्पन्ना वाहयात्र महारथम् ।
नाहत्वा समरे कर्णं निवर्तिष्ये कथञ्चन ॥१२॥

राधेयो ह्यन्यथा पार्थान्सृञ्जयांश्च महारथान् ।
निःशेषान्समरे कुर्यात्पश्यतां नो जनार्दन ॥१३॥

ततः प्रायाद्रथेनाशु केशवस्तव वाहिनीम् ।
कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिना ॥१४॥

प्रयातश्च महाबाहुः पाण्डवानुज्ञया हरिः ।
आश्वासयन्रथेनैव पाण्डुसैन्यानि सर्वशः ॥१५॥

रथघोषः स संग्रामे पाण्डवेयस्य संबभौ ।
वासवाशनितुल्यस्य मेघौघस्येव मारिष ॥१६॥

महता रथघोषेण पाण्डवः सत्यविक्रमः ।
अभ्ययादप्रमेयात्मा निर्जयंस्तव वाहिनीम् ॥१७॥

तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम् ।
मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः ॥१८॥

अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः ।
निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि ॥१९॥

एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः ।
तं हनिष्यसि चेदद्य तन्न श्रेयो भविष्यति ॥२०॥

धनुर्ज्या चन्द्रताराङ्का पताकाकिङ्किणीयुता ।
पश्य कर्णार्जुनस्यैषा सौदामन्यम्बरे यथा ॥२१॥

एष ध्वजाग्रे पार्थस्य प्रेक्षमाणः समन्ततः ।
दृश्यते वानरो भीमो वीराणां भयवर्धनः ॥२२॥

पतच्चक्रं गदा शङ्खः शार्ङ्गं कृष्णस्य च प्रभो ।
दृश्यते पाण्डवरथे वाहयानस्य वाजिनः ॥२३॥

एतत्कूजति गाण्डीवं विसृष्टं सव्यसाचिना ।
एते हस्तवता मुक्ता घ्नन्त्यमित्राञ्शिताः शराः ॥२४॥

विशालायतताम्राक्षैः पूर्णचन्द्रनिभाननैः ।
एषा भूः कीर्यते राज्ञां शिरोभिरपलायिनाम् ॥२५॥

एते परिघसङ्काशाः पुण्यगन्धानुलेपनाः ।
उद्धता रणशूराणां पात्यन्ते सायुधा भुजाः ॥२६॥

निरस्तजिह्वा नेत्रान्ता वाजिनः सह सादिभिः ।
पतिताः पात्यमानाश्च क्षितौ क्षीणा विशेरते ॥२७॥

एते पर्वतशृङ्गाणां तुल्या हैमवता गजाः ।
संछिन्नकुम्भाः पार्थेन प्रपतन्त्यद्रयो यथा ॥२८॥

गन्धर्वनगराकारा यथा वा ते नरेश्वराः ।
विमानादिव पुण्यान्ते स्वर्गिणो निपतन्त्यमी ॥२९॥

व्याकुलीकृतमत्यर्थं परसैन्यं किरीटिना ।
नानामृगसहस्त्राणां यूथं केसरिणां यथा ॥३०॥

त्वामभिप्रेप्सुरायाति कर्ण निघ्नन्वरान्रथान् ।
असह्यमानो राधेय तं याहि प्रति भारत ॥३१॥

एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः ।
अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहुन् ॥३२॥

वर्जयन्सर्वसैन्यानि त्वरते हि धनञ्जयः ।
त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः ॥३३॥

न ह्यवस्थास्यते पार्थो युयुत्सुः केनचित्सह ।
त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे ॥३४॥

विरथं धर्मराजं तु दृष्ट्वा सुदृढविक्षतम् ।
शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम् ॥३५॥

द्रौपदेयान् युधामन्युमुत्तमौजसमेव च ।
नकुलं सहदेवं च भ्रातरौ द्वौ समीक्ष्य च ॥३६॥

सहसैकरथः पार्थस्त्वामभ्येति परन्तपः ।
क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वपार्थिवान् ॥३७॥

त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम् ।
त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः ॥३८॥

न तं पश्यामि लोकेऽस्मिंस्त्वत्तो ह्यन्यं धनुर्धरम् ।
अर्जुनं समरे क्रुद्धं यो वेलामिव धारयेत् ॥३९॥

न चास्य रक्षां पश्यामि पार्श्वतो न च पृष्ठतः ।
एक एवाभियाति त्वां पश्य साफल्यमात्मनः ॥४०॥

त्वं हि कृष्णौ रणे शक्तः संसाधयितुमाहवे ।
तवैव भारो राधेय प्रत्युद्याहि धनञ्जयम् ॥४१॥

समानो ह्यसि भीष्मेण द्रोणद्रौणिकृपेण च ।
सव्यसाचिनमायान्तं निवारय महारणे ॥४२॥

लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा ।
वनस्थितं यथा व्याघ्रं जहि कर्ण धनञ्जयम् ॥४३॥

एते द्रवन्ति समरे धार्तराष्ट्रा महारथाः ।
अर्जुनस्य भयात्तूर्णं निरपेक्षा जनाधिपाः ॥४४॥

द्रवतामथ तेषां तु नान्योऽस्ति युधि मानवः ।
भयहा यो भवेद्वीरस्त्वामृते सूतनन्दन ।
एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे ॥४५॥

धिष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः ।
वैदेहाम्बष्ठकाम्बोजास्तथा नग्नजितस्त्वया ॥४६॥

गान्धाराश्च यया धृत्या जिताः संख्ये सुदुर्जयाः ।
तां धृतिं कुरु राधेय ततः प्रत्येहि पाण्डवम् ॥४७॥

वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना ।
प्रत्युद्याहि महाबाहो पौरुषे महति स्थितः ॥४८॥

कर्ण उवाच। प्रकृतिस्थोऽसि मे शल्य इदानीं संमतस्तथा ।
प्रतिभासि महाबाहो मा भैषीस्त्वं धनञ्जयात् ॥४९॥

पश्य बाह्वोर्बलं मेऽद्य शिक्षितस्य च पश्य मे ।
एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम् ॥५०॥

कृष्णौ च पुरुषव्याघ्र ततः सत्यं ब्रवीमि ते ।
नाहत्वा युधि तौ वीरौ व्यपयास्ये कथञ्चन ॥५१॥

शिश्ये वा निहतस्ताभ्यामनित्यो हि रणे जयः ।
कृतार्थोऽद्य भविष्यामि हत्वा वाऽप्यथ वा हतः ॥५२॥

शल्य उवाच। अजय्यमेनं प्रवदन्ति युद्धे महारथाः कर्ण रथप्रवीरम् ।
एकाकिनं किमु कृष्णाभिगुप्तं विजेतुमेनं क इहोत्सहेत ॥५३॥

कर्ण उवाच। नैतादृशो जातु बभूव लोके रथोत्तमो यावदुपश्रुतं नः ।
तमीदृशं प्रतियोत्स्यामि पार्थं महाहवे पश्य च पौरुषं मे ॥५४॥

रणे चरत्येष रथप्रवीरः सितैर्हयैः कौरवराजपुत्रः ।
स वाऽद्य मां नेष्यति कृच्छ्रमेतत्कर्णस्यान्तादेतदन्तास्तु सर्वे ॥५५॥

अस्वेदिनौ राजपुत्रस्य हस्ताववेपमानौ जातकिणौ बृहन्तौ ।
दृढायुधः कृतिमान् क्षिप्रहस्तो न पाण्डवेयेन समोऽस्ति योधः ॥५६॥

गृह्णात्यनेकानपि कङ्कपत्रानेकं यथा तान्प्रति योज्य चाशु ।
ते क्रोशमात्रे निपतन्त्यमोघाः कस्तेन योधोऽस्ति समः पृथिव्याम् ॥५७॥

अतोषयत्खाण्डवे यो हुताशं कृष्णद्वितीयोऽतिरथस्तरस्वी ।
लेभे चक्रं यत्र कृष्णो महात्मा धनुर्गाण्डीवं पाण्डवः सव्यसाची ॥५८॥

श्वेताश्वयुक्तं च सुघोषमुग्रं रथं महाबाहुरदीनसत्त्वः ।
महेषुधी चाक्षये दिव्यरूपे शस्त्राणि दिव्यानि च हव्यवाहात् ॥५९॥

तथेन्द्रलोके निजघान दैत्यानसंख्येयान् कालकेयांश्च सर्वान् ।
लेभे शङ्खं देवदत्तं स्म तत्र को नाम तेनाभ्यधिकः पृथिव्याम् ॥६०॥

महादेवं तोषयामास योऽस्त्रैः साक्षात्सुयुद्धेन महानुभावः ।
लेभे ततः पाशुपतं सुघोरं त्रैलोक्यसंहारकरं महास्त्रम् ॥६१॥

पृथक्पृथग्लोकपालाः समेता ददुर्महास्त्राण्यप्रमेयाणि संख्ये ।
यैस्ताञ्जघानाशु रणे नृसिंहः सकालकेयानसुरान्समेतान् ॥६२॥

तथा विराटस्य पुरे समेतान्सर्वानस्मानेकरथेन जित्वा ।
जहार तद्गोधनमाजिमध्ये वस्त्राणि चादत्त महारथेभ्यः ॥६३॥

तमीदृशं वीर्यगुणोपपन्नं कृष्णद्वितीयं परमं नृपाणाम् ।
तमाह्वयन्साहसमुत्तमं वै जाने स्वयं सर्वलोकस्य शल्य ॥६४॥

अनन्तवीर्येण च केशवेन नारायणेनाप्रतिमेन गुप्तः ।
वर्षायुतैर्यस्य गुणा न शक्या वक्तुं समेतैरपि सर्वलोकैः ॥६५॥

महात्मनः शङ्खचक्रासिपाणेर्विष्णोर्जिष्णोर्वसुदेवात्मजस्य ।
भयं न मे जायते साध्वसं च दृष्ट्वा कृष्णावेकरथे समेतौ ॥६६॥

अतीव पार्थो युधि कार्मुकिभ्यो नारायणश्चाप्रतिचक्रयुद्धे ।
एवंविधौ पाण्डववासुदेवौ चलेत्स्वदेशाद्धिमवान्न कृष्णौ ॥६७॥

उभौ हि शूरौ बलिनौ दृढायुधौ महारथौ संहननोपपन्नौ ।
एतादृशौ फाल्गुनवासुदेवौ कोऽन्यः प्रतीयान्मदृते तौ तु शल्य ॥६८॥

मनोरथो यस्तु ममाद्य तस्य मद्रेश युद्धं प्रति पाण्डवस्य ।
नैतच्चिरादाशु भविष्यतीदमत्यद्भुतं चित्रमतुल्यरूपम् ॥६९॥

एतौ च हत्वा युधि पातयिष्ये मां वापि कृष्णौ निहनिष्यतोऽद्य ।
इति ब्रुवञ्शल्यममित्रहन्ता कर्णो रणे मेघ इवोन्ननाद ॥७०॥

अभ्येत्य पुत्रेण तवाभिनन्दितः समेत्य चोवाच कुरुप्रवीरम् ।
कृपं च भोजं च महाभुजावुभौ तथैव गान्धारपतिं सहानुजम् ॥७१॥

गुरोः सुतं चावरजं तथाऽऽत्मनः पदातिनोऽथ द्विपसादिनश्च तान् ।
निरुध्यताभिद्रवताच्युतार्जुनौ श्रमेण संयोजयताशु सर्वशः ॥७२॥

यथा भवद्भिर्भृशविक्षितावुभौ सुखेन हन्यामहमद्य भूमिपाः ।
तथेति चोक्त्वा त्वरिताः स्म तेऽर्जुनं जिघांसवो वीरतराः समाययुः ॥७३॥

शरैश्च जघ्नुर्युधि तं महारथा धनञ्जयं कर्णनिदेशकारिणः ।
नदीनदं भूरिजलो महार्णवो यथा तथा तान् समरेऽर्जुनोऽग्रसत् ॥७४॥

न संदधानो न तथा शरोत्तमान् प्रमुञ्चमानो रिपुभिः प्रदृश्यते ।
धनञ्जयास्तैस्तु शरैर्विदारिता हता निपेतुर्नर-वाजि-कुञ्जराः ॥७५॥

शरार्चिषं गाण्डिवचारुमण्डलं युगान्तसूर्यप्रतिमानतेजसम् ।
न कौरवाः शेकुरुदीक्षितुं जयं यथा रविं व्याधितचक्षुषो जनाः ॥७६॥

शरोत्तमान्संप्रहितान्महारथैश्चिच्छेद पार्थः प्रहसञ्छरौघैः ।
भूयश्च तानहनद्बाणसङ्घान् गाण्डीवधन्वायतपूर्णमण्डलम् ॥७७॥

यथोग्ररश्मिः शुचिशुक्रमध्यगः सुखं विवस्वान् हरते जलौघान् ।
तथाऽर्जुनो बाणगणान्निरस्य ददाह सेनां तव पार्थिवेन्द्र ॥७८॥

शुचिशुक्रयोः आषाढज्येष्ठयोर्मध्येगतः ॥७८॥

तमभ्यधावद्विसृजन्कृपः शरांस्तथैव भोजस्तव चात्मजः स्वयम् ।
महारथो द्रोणसूतश्च सायकैरवाकिरंस्तोयधरा यथाऽचलम् ॥७९॥

जिघांसुभिस्तान् कुशलः शरोत्तमान् महाहवे संप्रहितान्प्रयत्नतः ।
शरैः प्रचिच्छेद स पाण्डवस्त्वरन् पराभिनद्वक्षसि चेषुभिस्त्रिभिः ॥८०॥

स गाण्डिवव्यायतपूर्णमण्डलस्तपन् रिपूनर्जुनभास्करो बभौ ।
शरोग्ररश्मिः शुचिशुक्रमध्यगो यथैव सूर्यः परिवेषवांस्तथा ॥८१॥

अथाग्र्यबाणैर्दशभिर्धनञ्जयं पराभिनद्द्रोणसुतोऽच्युतं त्रिभिः ।
चतुर्भिरश्वांश्चतुरः कपिं ततः शरैश्च नाराचवरैरवाकिरत् ॥८२॥

तथापि तं प्रस्फुरदात्तकार्मुकं त्रिभिः शरैर्यन्तृशिरः क्षुरेण ।
हयांश्चतुर्भिश्च पुनस्त्रिभिर्ध्वजं धनञ्जयो द्रौणिरथाद‌पातयत् ॥८३॥

स रोषपूर्णो मणिवज्रहाटकैरलङ्कृतं तक्षकभोगवर्चसम् ।
महाधनं कार्मुकमन्यदाददे यथा महाहिप्रवरं गिरेस्तटात् ॥८४॥

स्वमायुधं चोपनिकीर्य भूतले धनुश्च कृत्वा सगुणं गुणाधिकः ।
समार्दयत्तावजितौ नरोत्तमौ शरोत्तमैर्द्रौणिरविध्यदन्तिकात् ॥८५॥

आयुधम् आयुधजातम् । उपनिकीर्य निषङ्गकोशादिभ्यो निष्काश्य भूतले भूतलतुल्ये हताश्वसारथी ध्वजस्य रथस्योपस्थे ॥८५॥

कृपश्च भोजश्च तवात्मजश्च ते शरैरनेकैर्युधि पाण्डवर्षभम् ।
महारथाः संयुगमूर्धनि स्थितास्तमोनुदं वारिधरा इवापतन् ॥८६॥

कृपस्य पार्थः सशरं शरासनं हयान् ध्वजान्सारथिमेव पत्रिभिः ।
समार्पयद्बाहुसहस्रविक्रमस्तथा यथा वज्रधरः पुरा बलेः ॥८७॥

स पार्थबाणैर्विनिपातितायुधो ध्वजावमर्दे च कृते महाहवे ।
कृतः कृपो बाणसहस्रयन्त्रितो यथाऽऽपगेयः प्रथमं किरीटिना ॥८८॥

शरैः प्रचिच्छेद तवात्मजस्य ध्वजं धनुश्च प्रचकर्त नर्दतः ।
जघान चाश्वान्कृतवर्मणः शुभान् ध्वजं च चिच्छेद ततः प्रतापवान् ॥८९॥

सवाजिसुतेष्वसनान्सकेतनान् जधान नागाश्वरथांस्त्वरंश्च सः ।
ततः प्रकीर्णं सुमहद्बलं तव प्रदारितं सेतुरिवांभसा यथा ॥९०॥

ततोऽर्जुनस्याशु रथेन केशवश्चकार शत्रूनपसव्यमातुरान् ।
ततः प्रयातं त्वरितं धनञ्जयं शतक्रतुं वृत्रनिजघ्नुषं यथा ॥९१॥

समन्वधावन्पुनरुत्थितैर्ध्वजै रथैः सुयुक्तैरपरे युयुत्सवः ।
अथाभिसृत्य प्रतिवार्य तानरीन् धनञ्जयस्याभिमुखं महारथाः ॥९२॥

शिखण्डिशैनेययमाः शितैः शरैर्विदारयन्तो व्यनदन्सुभैरवम् ।
ततोऽभिजघ्नुः कुपिताः परस्परं शरैस्तदाञ्जोगतिभिः सुतेजनैः ॥९३॥

कुरुप्रवीराः सह सृञ्जयैर्यथाऽसुराः पुरा देवगणैस्तथाऽऽहवे ।
जयेप्सवः स्वर्गमनाय चोत्सुकाः पतन्ति नागाश्वरथाः परन्तप ॥९४॥

जगर्जुरुच्चैर्बलवच्च विव्यधुः शरैः सुमुक्तैरितरेतरं पृथक् ।
शरान्धकारे तु महात्मभिः कृते महामृधे योधवरैः परस्परम् ।
चतुर्दिशो वै विदिशश्च पार्थिव प्रभा च सूर्यस्य तमोवृताऽभवत् ॥९५॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे ऊनाशीतितमोऽध्यायः ॥७९॥
अशीतितमोऽध्यायः

सञ्जय उवाच। राजन् कुरूणां प्रवरैर्बलैर्भीममभिद्रुतम् ।
मज्जन्तमिव कौन्तेयमुज्जिहीर्षर्धनञ्जयः ॥१॥

राजन्निति ॥१॥

विमृद्य सूतपुत्रस्य सेनां भारत सायकैः ।
प्राहिणोन्मृत्युलोकाय परवीरान् धनञ्जयः ॥२॥

ततोऽस्याम्बरमाश्रित्य शरजालानि भागशः ।
अदृश्यन्त तथाऽन्ये च निजघ्नुस्तव वाहिनीम् ॥३॥

स पक्षिसंघाचरितमाकाशं पूरयञ्शरैः ।
धनञ्जयो महाबाहुः कुरूणामन्तकोऽभवत् ॥४॥

ततो भल्लैः क्षुरप्रैश्च नाराचैर्विमलैरपि ।
गात्राणि प्राच्छिनत्पार्थः शिरांसि च चकर्त ह ॥५॥

छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः ।
पातितैश्च पतद्भिश्च योधैरासीत्समावृता ॥६॥

धनञ्जयशराभ्यस्तैः स्यन्दनाश्वरथाद्विपैः ।
संछिन्नभिन्नाविध्वस्तैर्व्यङ्गाङ्गावयवैः स्तृता ॥७॥

सुदुर्गमा सुविषमा घोराऽत्यर्थं सुदुर्दृशा ।
रणभूमिरभूद्राजन्महावैतरणी यथा ॥८॥

ईषाचक्राक्षभल्लैश्च व्यश्वैः साश्वैश्च युध्यताम् ।
ससूतैर्हतसूतैश्च रथैस्तीर्णाऽभवन्मही ॥९॥

सुवर्णवर्णसन्नाहैर्योधैः कनकभूषणैः ।
आस्थिताः क्लृप्तवर्माणो भद्रा नित्यमदा द्विपाः ॥१०॥

क्रुद्धाः क्रूरैर्महामात्रैः पार्ष्ण्यङ्गुष्ठप्रचोदिताः ।
चतुःशताः शरवरैर्हताः पेतुः किरीटिना ॥११॥

पर्यस्तानीव शृङ्गाणि समृद्धानि महागिरेः ।
धनञ्जयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः ॥१२॥

समन्ताज्जलदप्रख्यान्वारणान्मदवर्षिणः ।
अभिपेदेऽर्जुनरथो घनान् भिन्दन्निवांशुमान् ॥१३॥

हतैर्गजमनुष्याश्वैर्भिन्नैश्च बहुधा रथैः ।
विशस्त्रयन्त्रकवचैर्युद्धशौण्डैर्गतासुभिः ॥१४॥

अपविद्धायुधैर्मार्गः स्तीर्णोऽभूत्फाल्गुनेन वै ।
व्यस्फारयद्वै गाण्डीवं सुमहद्भैरवारवम् ॥१५॥

घोरवज्रविनिष्पेषं स्तनयित्नुरिवाम्बरे ।
ततः प्रादीर्यत चमूर्धनञ्जयशराहता ॥१६॥

महावातसमाविद्धा महानौरिव सागर ।
नानारूपाः प्राणहराः शरा गाण्डीवचोदिताः ॥१७॥

अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन् ।
महागिरौ वेणुवनं निशि प्रज्वलितं यथा ॥१८॥

विनिर्दहन्नित्यत्राडभाव आर्षः ॥१८॥

तथा तव महासैन्यं प्रास्फुरच्छरपीडितम् ।
संपिष्टदग्धविध्वस्तं तव सैन्यं किरीटिना ॥१९॥

कृतं प्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः ।
महावने मृगगणा दावाग्नित्रासता यथा ॥२०॥

कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना ।
उत्सृज्य च महाबाहुं भीमसेनं तथा रणे ॥२१॥

बलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम् ।
ततः कुरुषु भग्नेषु बीभत्सुरपराजितः ॥२२॥

भीमसेनं समासाद्य मुहूर्तं सोऽभ्यवर्तत ।
समागम्य च भीमेन मन्त्रयित्वा च फाल्गुनः ॥२३॥

विशल्यमरुजं चास्मै कथयित्वा युधिष्ठिरम् ।
भीमसेनाभ्यनुज्ञातस्ततः प्रायाद्धनञ्जयः ॥२४॥

नादयन् रथघोषेण पृथिवीं द्यां च भारत ।
ततः परिवृतो वीरैर्दशभिर्योधपुङ्गवैः ॥२५॥

दुःशासनादवरजैस्तव पुत्रैर्धनञ्जयः ।
ते तमभ्यर्दयन्बाणैरुल्काभिरिव कुञ्जरम् ॥२६॥

आततेष्वसनाः शूरा नृत्यन्त इव भारत ।
अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः ॥२७॥

नियुक्तान्हि स तान्मेने यमायाशु किरीटिना ।
ततस्ते प्राद्रवञ्शूराः पराङ्मुखरथेऽर्जुने ॥२८॥

तेषामापततां केतूनश्वांश्चापानि सायकान् ।
नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यपातयत् ॥२९॥

अथान्यैर्दशभिर्भल्लैः शिरांस्येषामपातयत् ।
रोषसंरक्तनेत्राणि संद‌ष्टौष्ठानि भूतले ॥३०॥

तानि वक्त्राणि विबभुः कमलानीव भूरिशः ।
तांस्तु भल्लैर्महावेगैर्दशभिर्दश कौरवान् ॥३१॥

रुक्माङ्गदान् रुक्मपुङ्खैर्हत्वा प्रायाद‌मित्रहा ॥३२॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे अशीतितमोऽध्यायः ॥८०॥
एकाशीतितमोऽध्यायः

सञ्जय उवाच। तं प्रयान्तं महावेगैरश्वैः कपिवरध्वजम् ।
युद्धायाभ्यद्रवन्वीराः कुरूणां नवती रथाः ॥१॥

तमिति ॥१॥

कृत्वा संशप्तका घोरं शपथं पारलौकिकम् ।
परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम् ॥२॥

कृष्णः श्वेतान्महावेगानश्वान्काञ्चनभूषणान् ।
मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति ॥३॥

ततः कर्णरथं यान्तमरिघ्नं तं धनञ्जयम् ।
बाणवर्षैरभिघ्नन्तः संशप्तकर ययुः ॥४॥

त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान् ।
जघान नवतिं वीरानर्जुनो निशितैः शरैः ॥५॥

तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना ।
सविमाना यथा सिद्धाः स्वर्गात्पुण्यक्षये तथा ॥६॥

ततः सरथनागाश्वाः कुरवः कुरुसत्तमम् ।
निर्भया भरतश्रेष्ठमभ्यवर्तन्त फाल्गुनम् ॥७॥

तदायस्तमनुष्याश्वमुदीर्णवरवारणम् ।
पुत्राणां ते महासैन्यं समरौत्सीद्धनञ्जयम् ॥८॥

शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः ।
प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम् ॥९॥

तामन्तरिक्षे विततां शस्त्रवृष्टिं समन्ततः ।
व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः ॥१०॥

ततो म्लेच्छाः स्थिता मत्तैस्त्रयोदशशतैर्गजैः ।
पार्श्वतो व्यहनन्पार्थं तव पुत्रस्य शासनात् ॥११॥

कर्णिनालीकनाराचैस्तोमरप्रासशक्तिभिः ।
मुसलैर्भिन्दिपालैश्च रथस्थं पार्थमार्दयन् ॥१२॥

तां शस्त्रवृष्टिमतुलां द्विपहस्तैः प्रवेरिताम् ।
चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फाल्गुनः ॥१३॥

अथ तान् द्विरदान्सर्वान्नानालिङ्गैः शरोत्तमैः ।
सपताकध्वजारोहान् गिरीन् वज्रैरिवाहनत् ॥१४॥

ते हेमपुङ्खैरिषुभिरर्दिता हेममालिनः ।
हताः पेतुर्महानागाः साग्निज्वाला इवाद्रयः ॥१५॥

ततो गाण्डीवनिर्घोषो महानासीद्विशांपते ।
स्तनतां कूजतां चैव मनुष्यगजवाजिनाम् ॥१६ ।
कुञ्जराश्च हता राजन् दुद्रुवुस्ते समन्ततः ।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥१७॥

रथा हीना महाराज रथिभिर्वाजिभिस्तथा ।
गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः ॥१८॥

अश्वारोहा महाराज धावमाना इतस्ततः ।
तत्र तत्रैव दृश्यन्ते निहताः पार्थसायकैः ॥१९॥

तस्मिन् क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत ।
यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि ॥२०॥

ततस्त्र्यङ्गेण महता बलेन भरतर्षभ ।
दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम् ॥२१॥

हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान् ।
जवेनाभ्यद्रवद्राजन् धनञ्जयरथं प्रति ॥२२॥

ततस्तत् प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम् ।
दृष्ट्वाऽर्जुनं तदा भीमो जगाम भ्रातरं प्रति ॥२३॥

हतावशिष्टांस्तुरगानर्जुनेन महाबलान् ।
भीमो व्यधमदश्रान्तो गदापाणिर्महाहवे ॥२४॥

कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम् ।
प्राकाराट्टपुरद्वारदारणीमतिदारुणाम् ॥२५॥

ततो गदां नृनागाश्वेष्वाशु भीमो व्यवासृजत् ।
सा जघान बहूनश्वानश्वारोहांश्च मारिष ॥२६॥

कार्ष्णायसतनुत्राणान्नरानश्वांश्च पाण्डवः ।
पोथयामास गदया सशब्दं तेऽपतन्हताः ॥२७॥

दन्तैर्दशन्तो वसुधां शेरते क्षतजोक्षिताः ।
भग्नमूर्धास्थिचरणाः क्रव्यादगणभोजनाः ॥२८॥

असृङ्मांसवसाभिश्च तृप्तिमभ्यागता गदा ।
अस्थीन्यप्यश्नती तस्थौ कालरात्रीव दुर्दृशा ॥२९॥

सहस्राणि दशाश्वानां हत्वा पत्तींश्च भूयसा ।
भीमोऽभ्यधावत्संक्रुद्धो गदापाणिरितस्ततः ॥३०॥

गदापाणिं ततो भीमं दृष्ट्वा भारत तावकाः ।
मेनिरे समनुप्राप्तं कालदण्डोद्यतं यमम् ॥३१॥

स मत्त इव मातङ्गः संक्रुद्धः पाण्डुनन्दनः ।
प्रविवेश गजानीकं मकरः सागरं यथा ॥३२॥

विगाह्य च गजानीकं प्रगृह्य महतीं गदाम् ।
क्षणेन भीमः संकुद्धस्तन्निन्ये यमसादनम् ॥३३॥

गजान्सकङ्कटान्मत्तान्सारोहान्सपताकिनः ।
पततः समपश्याम सपक्षान्पर्वतानिव ॥३४॥

हत्वा तु तद्गजानीकं भीमसेनो महाबलः ।
पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमभ्ययात् ॥३५॥

हतं पराङ्मुखप्रायं निरुत्साहं परं बलम् ।
व्यालं बत महाराज प्रायशः शस्त्रवेष्टितम् ॥३६॥

विलम्बमानं तत्सैन्यमप्रगल्भमवस्थितम् ।
दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः प्राणतापनैः ॥३७॥

नराश्वरथमातङ्गा युधि गाण्डीवधन्वना ।
शरव्रातैश्चिता रेजुः कदम्बा इव केसरैः ॥३८॥

ततः कुरूणामभवदार्तनादो महान्नृप ।
नराश्वनागासुहरैर्वध्यतामर्जुनेषुभिः ॥३९॥

हाहाकृतं भृशं त्रस्तं लीयमानं परस्परम् ।
अलातचक्रवत्सैन्यं तदाऽभ्रमत तावकम् ॥४०॥

ततस्तद्युद्धमभवत्कुरूणां सुमहद्बलैः ।
न ह्यत्रासीदनिर्भिन्नो रथः सादी हयो गजः॥४१॥

आदीप्तमिव तत्सैन्यं शरैश्छिन्नतनुच्छदम् ।
आसीत्सुशोणितक्लिन्नं फुल्लाशोकवनं यथा ॥४२॥

तं दृष्टा कुरवस्तत्र विक्रान्तं सव्यसाचिनम् ।
निराशाः समपद्यन्त सर्वे कर्णस्य जीविते ॥४३॥

अविषह्यं तु पार्थस्य शरसंपातमाहवे ।
मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना ॥४४॥

ते हित्वा समरे कर्णं वध्यमानाश्च सायकैः ।
प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम् ॥४५॥

अभ्यद्रवत तान्पार्थः किरञ्शरशतान्बहून् ।
हर्षयन्पाण्डवान्योधान् भीमसेनपुरोगमान् ॥४६॥

पुत्रास्तु ते महाराज जग्मुः कर्णरथं प्रति ।
अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा ॥४७॥

कुरवो हि महाराज निर्विषाः पन्नगा इव ।
कर्णमेवोपलीयन्त भयाद्गाण्डीवधन्वनः ॥४८॥

यथा सर्वाणि भूतानि मृत्योर्भीतानि मारिष ।
धर्ममेवोपलीयन्ते कर्मवन्ति हि यानि च ॥४९॥

तथा कर्णं महेष्वासं पुत्रास्तव नराधिप ।
उपालीयन्त संत्रासात्पाण्डवस्य महात्मनः ॥५०॥

ताञ्शोणितपरिक्लिनान् विषमस्थान् शरातुरान् ।
मा भैष्टेत्यब्रवीत्कर्णो ह्यभीतो मामितेति च ॥५१॥

संभग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम् ।
धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया ॥५२॥

तान्प्रद्रुतान्कुरून्दृष्ट्वा कर्णः शस्त्रभृतां वरः ।
सञ्चिन्तयित्वा पार्थस्य वधे दध्रे मनः श्वसन् ॥५३॥

विस्फार्य सुमहच्चापं ततश्चाधिरथिर्वृषः ।
पञ्चालान्पुनराधावत् पश्यतः सव्यसाचिनः ॥५४॥

ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः ।
कर्णं ववर्षुर्बाणौघैर्यथा मेघा महीधरम् ॥५५॥

ततः शरसहस्त्राणि कर्णमुक्तानि मारिष ।
व्ययोजयन्त पञ्चालान्प्राणैः प्राणभृतां वर ॥५६॥

तत्र शब्दो महानासीत्पञ्चालानां महामते ।
वध्यतां सूतपुत्रेण मित्रार्थे मित्रगृद्धिना ॥५७॥

इति श्रीमहाभारते कर्णपर्वणि संकुलयुद्धे एकाशीतितमोऽध्यायः ॥८१॥
द्व्यशीतितमोऽध्यायः

सञ्जय उवाच। ततः कर्णः कुरुषु प्रद्रुतेषु वरूथिना श्वेतहयेन राजन् ।
पाञ्चालपुत्रान् व्यधमत्सूतपुत्रो महेषुभिर्वात इवाभ्रसङ्घान् ॥१॥

तत इति ॥१॥

सूतं रथादञ्जलिकैर्निपात्य जघान चाश्वाञ्जनमेजयस्य ।
शतानीकं सुतसोमं च भल्लैरवाकिरद्धनुषी चाप्यकृन्तत् ॥२॥

धृष्टद्युम्नं निर्बिभेदाथ षड्भिर्जघानाश्वांस्तरसा तस्य संख्ये ।
हत्वा चाश्वान् सात्यकेः सूतपुत्रः कैकेयपुत्रं न्यवधीद्विशोकम् ॥३॥

तमभ्यधावन्निहते कुमारे कैकेयसेनापतिरुग्रकर्मा ।
शरैर्विधुन्वन् भृशमुग्रवेगैः कर्णात्मजं चाप्यहनत्प्रसेनम् ॥४॥

तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त प्रहस्य बाहू च शिरश्च कर्णः ।
स स्यन्दनाद्गामगमद्गतासुः परश्वधैः शाल इवावरुग्णः ॥५॥

हताश्वमञ्जोगतिभिः प्रसेनः शिनिप्रवीरं निशितैः पृषत्कैः ।
प्रच्छाद्य नृत्यन्निव कर्णपुत्रः शैनेयबाणाभिहतः पपात ॥६॥

अञ्जोगतिभिः पूर्णायतोत्सृष्टैः ॥६॥

पुत्रे हते क्रोधपरीतचेताः कर्णः शिनीनामृषभं जिघांसुः ।
हतोऽसि शैनेय इति ब्रुवन्स व्यवासृजद्बाणममित्रसाहम् ॥७॥

तमस्य चिच्छेद शरं शिखण्डी त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम् ।
शिखण्डिनः कार्मुकं च ध्वजं च छित्त्वा क्षुराभ्यां न्यपतत्सुजातः ॥८॥

शिखण्डिनं षड्भिरविध्यदुग्रो धार्ष्ट्रद्युम्नेः स शिरश्चोच्चकर्त ।
तथाऽभिनत्सुतसोमं शरेण सुसंशितेनाधिरथिर्महात्मा ॥९॥

अथाक्रन्दे तुमुले वर्तमाने धार्ष्ट्रद्युम्ने निहते तत्र कृष्णः ।
अपाञ्चाल्यं क्रियते याहि पार्थ कर्णं जहीत्यब्रवीद्राजसिंह ॥१०॥

ततः प्रहस्याशु नरप्रवीरो रथं रथेनाधिरथेर्जगाम ।
भये तेषां त्राणमिच्छन्सुबाहुरभ्याहतानां रथयूथपेन ॥११॥

विस्फार्य गाण्डीवमथोग्रघोषं ज्यया समाहत्य तले भृशं च ।
बाणान्धकारं सहसैव कृत्वा जघान नागाश्वरथध्वजांश्च ॥१२॥

प्रतिश्रुतः प्राहरदन्तरिक्षे गुहा गिरीणामपतन्वयांसि ।
यन्मण्डलज्येन विजृंभमाणो रौद्रे मुहूर्तेऽभ्यपतत्किरीटी ॥१३॥

प्रतिश्रुतः प्रतिस्वनः ॥१३॥

तं भीमसेनोऽनुययौ रथेन पृष्ठे रक्षन्पाण्डवमेकवीरः ।
तौ राजपुत्रौ त्वरितौ रथाभ्यां कर्णाय यातावरिभिर्विषक्तौ ॥१४॥

तत्रान्तरे सुमहान्सूतपुत्रश्चक्रे युद्धं सोमकान्संप्रगृह्य ।
रथाश्वमातङ्गगणाञ्जघान प्रच्छादयामास शरैर्दिशश्च ॥१५॥

तमुत्तमौजा जनमेजयश्च क्रुद्धौ युधामन्युशिखण्डिनौ च ।
कर्णं बिभेदुः सहिताः पृषत्कैः सन्नर्दमानाः सह पार्षतेन ॥१६॥

ते पञ्च पञ्चालरथप्रवीरा वैकर्तनं कर्णमभिद्रवन्तः ।
तस्माद्रथाच्च्यावयितुं न शेकुर्धैर्यात्कृतात्मानमिवेन्द्रियार्थाः ॥१७॥

तेषां धनूंषि ध्वजवाजिसूतांस्तूर्णं पताकाश्च निकृत्य बाणैः ।
तान्पञ्चभिस्त्वभ्यहनत्पृषत्कैः कर्णस्ततः सिंह इवोन्ननाद ॥१८॥

तस्यास्यतस्तानभिनिघ्नतश्च ज्याबाणहस्तस्य धनुःस्वनेन ।
साद्रिद्रुमा स्यात्पृथिवी विशीर्णेत्यतीव मत्वा जनता व्यषीदत् ॥१९॥

स शक्रचापप्रतिमेन धन्वना भृशायतेनाधिरथिः शरान्सृजन् ।
बभौ रणे दीप्तमरीचिमण्डलो यथांशुमाली परिवेषवांस्तथा ॥२०॥

शिखण्डिनं द्वादशभिः पराभिनच्छितैः शरैः ष‌ड्भिरथोत्तमौजसम् ।
त्रिभिर्युधामन्युमविध्यदाशुगैस्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ ॥२१॥

पराजिताः पञ्च महारथास्तु ते महाहवे सूतसुतेन मारिष ।
निरुद्यमास्तस्थुरमित्रनन्दना यथेन्द्रियार्थाऽऽत्मवता पराजिताः ॥२२॥

निमज्जतस्तानथ कर्णसागरे विपन्ननावो वणिजो यथाऽर्णवे ।
उद्दध्रिरे नौभिरिवार्णवाद्रथैः सुकल्पितैर्द्रौपदिजाः स्वमातुलान् ॥२३॥

ततः शिनीनामृषभः शितैः शरैर्निकृत्य कर्णप्रहितानिषून्बहून् ।
विदार्य कर्णं निशितैरयस्मयैस्तवात्मजं ज्येष्ठमविध्यष्टभिः ॥२४॥

कृपोऽथ भोजश्च तवात्मजस्तथा स्वयं च कर्णो निशितैरताडयत् ।
स तैश्चतुर्भिर्युयुधे यदूत्तमो दिगीश्वरैर्दैत्यपतिर्यथा तथा ॥२५॥

समाततेनेष्वसनेन कूजता भृशायतेनामितबाणवर्षिणा ।
बभूव दुर्धर्षतरः स सात्यकिः शरन्नभोमध्यगतो यथा रविः ॥२६॥

पुनः समास्थाय रथान् सुदंशिताः शिनिप्रवीरं जुगुपुः परन्तपाः ।
समेत्य पञ्चालमहारथा रणे मरुद्गणाः शक्रमिवारिनिग्रहे ॥२७॥

ततोऽभवद्युद्धमतीव दारुणं तवाहितानां तव सैनिकैः सह ।
रथाश्वमातङ्गविनाशनं तथा यथा सुराणामसुरैः पुराऽभवत् ॥२८॥

रथा द्विपा वाजिपदातयस्तथा भवन्ति नानाविधशस्त्रवेष्टिताः ।
परस्परेणाभिहताश्च चस्खलुर्विनेदुरार्ता व्यसवोऽपतंस्तथा ॥२९॥

तथागतं भीममभीस्तवात्मजः ससार राजावरजः किरञ्शरैः ।
तमभ्यधावत्त्वरितो वृकोदरो महारुरुं सिंह इवाभिपेदिवान् ॥३०॥

ततस्तयोर्युद्धमतीव दारुणं प्रदीव्यतोः प्राणदुरोदरं द्वयोः ।
परस्परेणाभिनिविष्टरोषयोरुदग्रयोः शम्बरशक्रयोर्यथा ॥३१॥

शरैः शरीरार्तिकरैः सुतेजनैर्निजघ्नतुस्तावितरेतरं भृशम् ।
सकृत्प्रभिन्नाविव वासितान्तरे महागजौ मन्मथसक्तचेतसौ ॥३२॥

तवात्मजस्याथ वृकोदरस्त्वरन् धनुःक्षुराभ्यां ध्वजमेव चाच्छिनत् ।
ललाटमप्यस्य बिभेद पत्रिणा शिरश्च कायात्प्रजहार सारथेः ॥३३॥

स राजपुत्रोऽन्यदवाप्य कार्मुकं वृकोदरं द्वादशभिः पराभिनत् ।
स्वयं नियच्छंस्तुरगानजिह्मगैः शरैश्च भीमं पुनरप्यवीवृषत् ॥३४॥

ततः शरं सूर्यमरीचिसप्रभं सुवर्णवज्रोत्तमरत्नभूषितम् ।
महेन्द्रवज्राशनिपातदुःसहं मुमोच भीमाङ्गविदारणक्षमम् ॥३५॥

स तेन निर्विद्धतनुर्वृकोदरो निपातितः स्रस्ततनुर्गतासुवत् ।
प्रसार्य बाहू रथवर्यमाश्रितः पुनः स संज्ञामुपलभ्य चानदत् ॥३६॥

इति श्रीमहाभारते कर्णपर्वणि दुःशासनभीमसेनयुद्धे द्व्यशीतितमोऽध्यायः ॥८२॥
त्र्यशीतितमोऽध्यायः

सञ्जय उवाच। तत्राकरोद्दुष्करं राजपुत्रो दुःशासनस्तुमुलं युद्ध्यमानः ।
चिच्छेद भीमस्य धनुः शरेण षष्ट्या शरैः सारथिमप्यविध्यत् ॥१॥

तत्रेति ॥१॥

स तत्कृत्वा राजपुत्रस्तरस्वी विव्याध भीमं नवभिः पृषत्कैः ।
ततोऽभिनद्बहुभिः क्षिप्रमेव वरेषुभिर्भीमसेनं महात्मा ॥२॥

ततः क्रुद्धो भीमसेनस्तरस्वी शक्तिं चोग्रां प्राहिणोत्ते सुताय ।
तामापतन्तीं सहसाऽतिघोरां दृष्ट्वा सुतस्ते ज्वलितामिवोल्काम् ॥३॥

आकर्णपूर्णैरिषुभिर्महात्मा चिच्छेद पुत्रो दशभिः पृषत्कैः ।
दृष्ट्वा तु तत् कर्म कृतं सुदुष्करं प्रापूजयन्सर्वयोधाः प्रहृष्टाः ॥४॥

अथाशु भीमं च शरेण भूयो गाढं स विव्याध सुतस्त्वदीयः ।
चुक्रोध भीमः पुनराशु तस्मै भृशं प्रजज्वाल रुषाऽभिवीक्ष्य ॥५॥

विद्धोऽस्मि वीराशु भृशं त्वयाद्य सहस्व भूयोऽपि गदाप्रहारम् ।
उक्त्वैवमुच्चैः कुपितोऽथ भीमो जग्राह तां भीमगदां वधाय ॥६॥

उवाच चाद्याहमहं दुरात्मन् पास्यामि ते शोणितमाजिमध्ये ।
अथैवमुक्तस्तनयस्तवोग्रां शक्तिं वेगात्प्राहिणोन्मृत्युरूपाम् ॥७॥

आविध्य भीमोऽपि गदां सुघोरां विचिक्षिपे रोषपरीतमूर्तिः ।
सा तस्य शक्तिं सहसा विरुज्य पुत्रं तवाजौ ताडयामास मूर्ध्नि ॥८॥

स विक्षरन्नाग इव प्रभिन्नो गदामस्मै तुमुले प्राहिणोद्वै ।
तयाऽहरद्दश धन्वन्तराणि दुःशासनं भीमसेनः प्रसह्य ॥९॥

तया हतः पतितो वेपमानो दुःशासनो गदया वेगवत्या ।
विध्वस्तवर्माभरणाम्बरस्रक् विचेष्टमानो भृशवेदनातुरः ॥१०॥

हयाः ससूता निहता नरेन्द्र चूर्णीकृतश्चास्य रथः पतन्त्या ।
दुःशासनं पाण्डवाः प्रेक्ष्य सर्वे हृष्टाः पञ्चालाः सिंहनादानमुञ्चन् ॥११॥

तं पातयित्वाऽथ वृकोदरोऽथ जगर्ज हर्षेण विनादयन् दिशः ।
नादेन तेनाखिलपार्श्ववर्तिनो मूर्छाकुलाः पतितास्त्वाजमीढ ॥१२॥

भीमोऽपि वेगादवतीर्य यानाद्दुःशासनं वेगवानभ्यधावत् ।
ततः स्मृत्वा भीमसेनस्तरस्वी सापत्नकं यत् प्रयुक्तं सुतैस्ते ॥१३॥

तस्मिन्सुघोरे तुमुले वर्तमाने प्रधानभूयिष्ठतरैः समन्तात् ।
दुःशासनं तत्र समीक्ष्य राजन् भीमो महाबाहुरचिन्त्यकर्मा ॥१४॥

स्मृत्वाऽथ केशग्रहणं च देव्या वस्त्रापहारं च रजस्वलायाः ।
अनागसो भर्तृपराङ्मुखाया दुःखानि दत्तान्यपि विप्रचिन्त्य ॥१५॥

जज्वाल क्रोधादथ भीमसेन आज्यप्रसिक्तो हि यथा हुताशः ।
तत्राह कर्णं च सुयोधनं च कृपं द्रौणिं कृतवर्माणमेव ॥१६॥

निहन्मि दुःशासनमद्य पापं संरक्ष्यतामद्य समस्तयोधाः ।
इत्येवमुक्त्वा सहसाऽभ्यधावन्निहन्तुकामोऽतिबलस्तरस्वी ॥१७॥

तथा तु विक्रम्य रणे वृकोदरो महागजं केसरिको यथैव ।
निगृह्य दुःशासनमेकवीरः सुयोधनस्याधिरथेः समक्षम् ॥१८॥

रथादवप्लुत्य गतः स भूमौ यत्नेन तस्मिन्प्रणिधाय चक्षुः ।
असिं समुद्यम्य सितं सुधारं कण्ठे पदाऽऽक्रम्य च वेपमानम् ॥१९॥

उवाच तद्गौरिति यद्ब्रुवाणो दृष्टो वदेः कर्णसुयोधनाभ्याम् ।
ये राजसूयावभृथे पवित्रा जाताः कचा याज्ञसेन्या दुरात्मन् ॥२०॥

ते पाणिना कतरेणावकृष्टास्तद्ब्रूहि त्वां पृच्छति भीमसेनः ।
श्रुत्वा तु तद्भीमवचः सुघोरं दुःशासनो भीमसेनं निरीक्ष्य ॥२१॥

जज्वाल भीमं स तदा स्मयेन संशृण्वतां कौरवसोमकानाम् ।
उक्तस्तदाऽऽजौ स तथा सरोषं जगाद भीमं परिवर्तनेत्रः ॥२२॥

'अयं करिकराकारः पीनस्तनविमर्दनः ।
गोसहस्रप्रदाता च क्षत्रियान्तकरः करः ॥२३॥

अनेन याज्ञसेन्या मे भीम केशा विकर्षिताः ।
पश्यतां कुरुमुख्यानां युष्माकं च सभासदाम्' ॥२४॥

एवं त्वसौ राजसुतं निशम्य ब्रुवन्तमाजौ विनिपीड्य वक्षः ।
भीमो बलात्तं प्रतिगृह्य दोर्भ्यामुच्चैर्ननादाथ समस्तयोधान् ॥२५॥

उवाच यस्यास्ति बलं स रक्षत्वसौ भवेदद्य निरस्तबाहुः ।
दुःशासनं जीवितं प्रोत्सृजन्तमाक्षिप्य योधांस्तरसा महाबलः ॥२६॥

एवं क्रुद्धो भीमसेनः करेण उत्पाटयामास भुजं महात्मा ।
दुःशासनं तेन स वीरमध्ये जघान वज्राशनिसन्निभेन ॥२७॥

उत्कृत्य वक्षः पतितस्य भूमावथापिबच्छोणितमस्य कोष्णम् ।
ततो निपात्यास्य शिरोपकृत्य तेनासिना तव पुत्रस्य राजन् ॥२८॥

सत्यां चिकीर्षुर्मतिमान् प्रतिज्ञां भीमोऽपिबच्छोणितमस्य कोष्णम् ।
आस्वाद्य चास्वाद्य च वीक्षमाणः क्रुद्धो हि चैनं निजगाद वाक्यम् ॥२९॥

'स्तन्यस्य मातुर्मधुसर्पिषोर्वा माध्वीकपानस्य च सत्कृतस्य ।
दिव्यस्य वा तोयरसस्य पानात्पयोदधिभ्यां मथिताच्च मुख्यात् ॥३०॥

अन्यानि पानानि च यानि लोके सुधामृतस्वादुरसानि तेभ्यः ।
सर्वेभ्य एवाभ्यधिको रसोऽयं ममाद्य चास्याहितलोहितस्य’ ॥३१॥

अथाह भीमः पुनरुग्रकर्मा दुःशासनं क्रोधपरीतचेताः ।
गतासुमालोक्य विहस्य सुस्वरं ‘किं वा कुर्यां मृत्युना रक्षितोऽसि’ ॥३२॥

एवं ब्रुवाणं पुनराद्रवन्तमास्वाद्यमानं तमतिप्रहृष्टम् ।
ये भीमसेनं ददृशुस्तदानीं भयेन तेऽपि व्यथिता निपेतुः ॥३३॥

ये चापि नासन् व्यथिता मनुष्यास्तेषां करेभ्यः पतितं हि शस्त्रम् ।
भयाच्च संचुक्रुशुरस्वरैस्ते निमीलिताक्षा ददृशुः समन्ततः ॥३४॥

तं तत्र भीमं ददृशुः समन्ताद्दौःशासनं तद्रुधिरं पिबन्तम् ।
सर्वेऽपलायन्त भयाभिपन्ना न वै मनुष्योऽयमिति ब्रुवाणाः ॥३५॥

तस्मिन् कृते भीमसेनेन रूपे दृष्ट्वा जनाः शोणितं पीयमानम् ।
संप्राद्रवंश्चित्रसेनेन सार्धं भीमं रक्षो भाषमाणा भयार्ताः ॥३६॥

युधामन्युं प्रद्रुतं चित्रसेनं सहानीकस्त्वभ्ययाद्राजपुत्रः ।
विव्याध चैनं निशितैः पृषत्कैर्व्यपेतभीः सप्तभिराशुमुक्तैः ॥३७॥

संक्रान्तभोग इव लेलिहानो महोरगः क्रोधविषं सिसृक्षुः ।
निवृत्य पाञ्चालजमभ्यविध्यत्त्रिभिः शरैः सारथिमस्य षड्भिः ॥३८॥

ततः सुपुङ्खेन सुयन्त्रितेन सुसंशिताग्रेण शरेण शूरः ।
आकर्णमुक्तेन समाहितेन युधामन्युस्तस्य शिरो जहार ॥३९॥

तस्मिन् हते भ्रातरि चित्रसेने क्रुद्धः कर्णः पौरुषं दर्शयानः ।
व्यद्रावयत्पाण्डवानामनीकं प्रत्युद्यातो नकुलेनामितौजाः ॥४०॥

भीमोऽपि हत्वा तत्रैव दुःशासनममर्षणम् ।
पूरयित्त्वाऽञ्जलिं भूयो रुधिरस्योग्रनिःस्वनः ॥४१॥

शृण्वतां लोकवीराणामिदं वचनमब्रवीत् ।
एष ते रुधिरं कण्ठात्पिबामि पुरुषाधम ॥४२॥

ब्रूहीदानीं तु संहृष्टः पुनर्गौरिति गौरिति ।
ये तदाऽस्मान्प्रनृत्यन्ति पुनर्गौरिति गौरिति ॥४३॥

तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति ।
प्रमाणकोट्यां शयनं कालकूटस्य भोजनम् ॥४४॥

दंशनं चाहिभिः कृष्णैर्दाहं च जतुवेश्मनि ।
द्यूतेन राज्यहरणमरण्ये वसतिश्च या ॥४५॥

द्रौपद्याः केशपक्षस्य ग्रहणं च सुदारुणम् ।
इष्वस्त्राणि च संग्रामेष्वसुखानि च वेश्मनि ॥४६॥

विराटभवने यश्च क्लेशोऽस्माकं पृथग्विधः ।
शकुनेर्धार्तराष्ट्रस्य राधेयस्य च मन्त्रिते ॥४७॥

अनुभूतानि दुःखानि तेषां हेतुस्त्वमेव हि ।
दुःखान्येतानि जानीमो न सुखानि कदाचन ॥४८॥

धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य सदा वयम् ।
इत्युक्त्वा वचनं राजञ्जयं प्राप्य वृकोदरः ।
पुनराह महाराज स्मयंस्तौ केशवार्जुनौ ॥४९॥

असृग्दिग्धो विस्त्रवल्लोहितास्यः क्रुद्धोऽत्यर्थं भीमसेनस्तरस्वी ।
दुःशासने यद्रणे संश्रुतं मे तद्वै सत्यं कृतमद्येह वीरौ ॥५०॥

अत्रैव दास्याम्यपरं द्वितीयं दुर्योधनं यज्ञपशुं विशस्य ।
शिरो मृदित्वा च पदा दुरात्मनः शान्तिं लप्स्ये कौरवाणां समक्षम् ॥५१॥

एतावदुक्त्वा वचनं प्रहृष्टो ननाद चोच्चै रुधिरार्द्रगात्रः ।
ननर्द चैवातिबलो महात्मा वृत्रं निहत्येव सहस्रनेत्रः ॥५२॥

इति श्रीमहाभारते कर्णपर्वणि दुःशासनवधे त्र्यशीतितमोऽध्यायः ॥८३॥
चतुरशीतितमोऽध्यायः

सञ्जय उवाच। दुःशासने तु निहते तव पुत्रा महारथाः ।
महाक्रोधविषा वीराः समरेष्वपलायिनः ॥१॥

दुःशासने इति ॥१॥

दश राजन्महावीर्या भीमं प्राच्छादयञ्शरैः ।
निषङ्गी कवची पाशी दण्डधारो धनुर्धरः ॥२॥

अलोलुपः सहः षण्ढो वातवेगसुवर्चसौ ।
एते समेत्य सहिता भ्रातृव्यसनकर्शिताः ॥३॥

भीमसेनं महाबाहुं मार्गणैः समवारयन् ।
स वार्यमाणो विशिखैः समन्तात्तैर्महारथैः ॥४॥

भीमः क्रोधाग्निरक्ताक्षः क्रुद्धः काल इवाबभौ ।
तांस्तु भल्लैर्महावेगैर्दशभिर्दश भारतान् ॥५॥

रुक्माङ्गदान् रुक्मपुंखैः पार्थो निन्ये यमक्षयम् ।
हतेषु तेषु वीरेषु प्रदुद्राव बलं तव ॥६॥

पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम् ।
ततः कर्णो महाराज प्रविवश महद्भयम् ॥७॥

दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव ।
तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः ॥८॥

उवाच वचनं कर्णं प्राप्तकालमरिन्दमम् ।
मा व्यथां कुरु राधेय नैवं त्वय्युपपद्यते ॥९॥

एते द्रवन्ति राजानो भीमसेनभयार्दिताः ।
दुर्योधनश्च संमूढो भ्रातृव्यसनकर्शितः ॥१०॥

दुःशासनस्य रुधिरे पीयमाने महात्मना ।
व्यापन्नचेतसश्चैव शोकोपहतचेतसः ॥११॥

दुर्योधनमुपासन्ते परिवार्य समन्ततः ।
कृपप्रभृतयश्चैते हतशेषाः सहोदराः ॥१२॥

पाण्डवा लब्धलक्षाश्च धनञ्जयपुरोगमाः ।
त्वामेवाभिमुखाः शूरा युद्धाय समुपस्थिताः ॥१३॥

स त्वं पुरुषशार्दूल पौरुषेण समास्थितः ।
क्षत्र धर्मं पुरस्कृत्य प्रत्युद्याहि धनञ्जयम् ॥१४॥

भारो हि धार्तराष्ट्रेण त्वाय सर्वः समाहितः ।
तमुद्वह महाबाहो यथाशक्ति यथाबलम् ॥१५॥

जये स्याद्विपुला कीर्तिर्ध्रुवः स्वर्गः पराजये ।
वृषसेनश्च राधेय संक्रुद्धस्तनयस्तव ॥१६॥

त्वयि मोहं समापन्ने पाण्डवानभिधावति ।
एतच्छ्रुत्वा तु वचनं शल्यस्यामिततेजसः ।
हृदि चावश्यकं भावं चक्रे युद्धाय सुस्थिरम् ॥१७॥

ततः क्रुद्धो वृषसेनोऽभ्यधावदवस्थितं प्रमुखे पाण्डवं तम् ।
वृकोदरं कालमिवात्तदण्डं गदाहस्तं योधयन्तं त्वदीयान् ॥१८॥

तमभ्यधावन्नकुलः प्रवीरो रोषाद‌मित्रं प्रतुदन्पृषत्कैः ।
कर्णस्य पुत्रं समरे प्रहृष्टं पुरा जिघांसुर्मघवेव जम्भम् ॥१९॥

ततो ध्वजं स्फाटिकचित्रकञ्चुकं चिच्छेद वीरो नकुलः क्षुरेण ।
कर्णात्मजस्येष्वसनं च चित्रं भल्लेन जाम्बूनदचित्रनद्धम् ॥२०॥

अथान्यदादाय धनुः स शीघ्रं कर्णात्मजः पाण्डवमभ्यविध्यत् ।
दिव्यैरस्त्रैरभ्यवर्षच्च सोऽपि कर्णस्य पुत्रो नकुलं कृतास्त्रः ॥२१॥

शराभिघाताच्च रुषा च राजन् स्वया च भासाऽस्त्रसमीरणाच्च ।
जज्वाल कर्णस्य सुतोऽतिमात्रमिद्धो यथाऽऽज्याहुतिभिर्हुताशः ॥२२॥

कर्णस्य पुत्रो नकुलस्य राजन् सर्वानश्वानक्षिणोदुत्तमास्त्रैः ।
वनायुजान् वै नकुलस्य शुभ्रानुदग्रगान् हेमजालावनद्धान् ॥२३॥

ततो हताश्वादवरुह्य यानादादाय चर्मामलरुक्मचन्द्रम् ।
आकाशसंकाशमसिं प्रगृह्य दोधूयमानः खगवञ्चचार ॥२४॥

ततोऽन्तरिक्षे च रथाश्वनागं चिच्छेद तूर्णं नकुलश्चित्रयोधी ।
ते प्रापतन्नसिना गां विशस्ता यथाश्वमेधे पशवः शमित्रा ॥२५॥

द्विसाहस्राः पातिता युद्धशौण्डा नानादेश्याः सुभृताः सत्यसन्धाः ।
एकेन संख्ये नकुलेन कृत्ता जयेप्सुनाऽनुत्तमचन्दनाङ्गाः ॥२६॥

तमापतन्तं नकुलं सोऽभिपत्य समन्ततः सायकैः प्रत्यविद्ध्यत् ।
स तुद्यमानो नकुलः पृषत्कैर्विव्याध वीरं स चुकोप विद्धः ॥२७॥

महाभये रक्ष्यमाणो महात्मा भ्रात्रा भीमेनाकरोत्तत्र भीमम् ।
तं कर्णपुत्रो व्यधमन्तमेकं नराश्वमातङ्गरथाननेकान् ॥२८॥

क्रीडन्तमष्टादशभिः पृषत्कैर्विव्याध वीरं नकुलं सरोषः ।
स तेन विद्धोऽतिभृशं तरस्वी महाहवे वृषसेनेन राजन् ॥२९॥

क्रुद्धेन धावन्समरे जिघांसुः कर्णात्मजं पाण्डुसुतो नृवीरः ।
वितत्य पक्षौ सहसा पतन्तं श्येनं यथैवाभिषलुब्धमाजौ ॥३०॥

अवाकिरद्वृषसेनस्ततस्तं शितैः शरैर्नकुलमुदारवीर्यम् ।
स तान्मोघांस्तस्य कुर्वञ्शरौघान् चचार मार्गान्नकुलश्चित्ररूपान् ॥३१॥

अथास्य तूर्णं चरतो नरेन्द्र खड्गेन चित्रं नकुलस्य तस्य ।
महेषुभिर्व्यधमत्कर्णपुत्रो महाहवे चर्मसहस्रतारम् ॥३२॥

तं चायसं निशितं तीक्ष्णधारं विकोशमुग्रं गुरुभारसाहम् ।
द्विषच्छरीरान्तकरं सुघोरमाधुन्वतः सर्पमिवोग्ररूपम् ॥३३॥

क्षिप्रं शरैः षड्भिरमित्रसाहश्चकर्त खड्गं निशितैः सुवेगैः ।
पुनश्च दीप्तैर्निशितैः पृषत्कैः स्तनान्तरे गाढमथाभ्यविद्ध्यत् ॥३४॥

कृत्वा तु तद्दुष्करमार्यजुष्टमन्यैर्नरैः कर्म रणे महात्मा ।
ययौ रथं भीमसेनस्य राजन् शराभितप्तो नकुलस्त्वरावान् ॥३५॥

स भीमसेनस्य रथं हताश्वो माद्रीसुतः कर्णसुताभितप्तः ।
आपुप्लुवे सिंह इवाचलाग्रं संप्रेक्ष्यमाणस्य धनञ्जयस्य ॥३६॥

ततः क्रुद्धो वृषसेनो महात्मा ववर्ष ताविषुजालेन वीरः ।
महारथावेकरथे समेतौ शरैः प्रभिन्दन्निव पाण्डवेयौ ॥३७॥

तस्मिन्रथे निहते पाण्डवस्य क्षिप्रं च खड्गे विशिखैर्निकृत्ते ।
अन्ये च संहत्य कुरुप्रवीरास्ततो न्यघ्नञ्शरवर्षैरुपेत्य ॥३८॥

तौ पाण्डवेयौ परितः समेतान् संहूयमानाविव हव्यवाहौ ।
भीमार्जुनौ वृषसेनाय क्रुद्धौ ववर्षतुः शरवर्षं सुघोरम् ॥३९॥

अथाब्रवीन्मारुतिः फाल्गुनं च पश्यस्वैनं नकुलं पीड्यमानम् ।
अयं च नो बाधते कर्णपुत्रस्तस्माद्भवान्प्रत्युपयातु कार्णिम् ॥४०॥

स तन्निशम्यैव वचः किरीटी रथं समासाद्य वृकोदरस्य ।
अथाब्रवीन्नकुलो वीक्ष्य वीरमुपागतं शातय शीघ्रमेनम् ॥४१॥

इत्येवमुक्तः सहसा किरीटी भ्रात्रा समक्षं नकुलेन संख्ये ।
कपिध्वजं केशवसंगृहीतं प्रैषीदुदग्रो वृषसेनाय वाहम् ॥४२॥

इति श्रीमहाभारते कर्णपर्वणि वृषसेनयुद्धे नकुलपराजये चतुरशीतितमोऽध्यायः ॥८४॥
पञ्चाशीतितमोऽध्यायः

सञ्जय उवाच। नकुलमथ विदित्वा छिन्नबाणासनासिं विरथमरिशरार्तं कर्णपुत्रास्त्रभग्नम् ।
पवनधुतपताकाह्रादिनो वल्गिताश्वा वरपुरुषनियुक्तास्ते रथैः शीघ्रमीयुः ॥१॥

नकुलमिति ॥१॥

द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः ।
द्विरदरथनराश्वान्सूदयन्तस्त्वदीयान् भुजगपतिनिकाशैर्मार्गणैरात्तशस्त्राः ॥२॥

अथ तव रथमुख्यास्तान्प्रतीयुस्त्वरन्तः कृपहृदिकसुतौ च द्रौणिदुर्योधनौ च ।
शकुनिसुतवृकौ च क्राथदेवावृधौ च द्विरदजल‌घोषैः स्यन्दनैः कार्मुकैश्च ॥३॥

तव नृपरथिवीरास्तान्दशैकं च वीरान्नृवरशरवराग्रैस्ताडयन्तोऽभ्यरुन्धन् ।
नवजलदसवर्णैर्हस्तिभिस्तानुदीयुर्गिरिशिखरनिकाशैर्भीमवेगैः कुलिन्दाः ॥४॥

सुकल्पिता हैमवता मदोत्कटा रणाभिकामैः कृतिभिः समास्थिताः ।
सुवर्णजालैर्वितता बभुर्गजास्तथा यथा खे जलदाः सविद्युतः ॥५॥

कुलिन्दपुत्रो दशभिर्महायसैः कृपं ससूताश्वमपीडयद्भृशम् ।
ततः शरद्वत्सुतसायकैर्हतः सहैव नागेन पपात भूतले ॥६॥

कुलिन्दपुत्रावरजस्तु तोमरैर्दिवाकरांशुप्रतिमैरयस्मयैः ।
रथं च विक्षोभ्य ननाद नर्दतस्ततोऽस्य गान्धारपतिः शिरोऽहरत् ॥७॥

ततः कुलिन्देषु हतेषु तेष्वथ प्रहृष्टरूपास्तव ते महारथाः ।
भृशं प्रदध्मुर्लवणाम्बुसंभवान् परांश्च बाणासनपाणयोऽभ्ययुः ॥८॥

अथाभवद्युद्धमतीव दारुणं पुनः कुरूणां सह पाण्डुसृञ्जयैः ।
शरासिशक्त्यृष्टिगदापरश्वधैर्नराश्वनागासुहरं भृशाकुलम् ॥९॥

रथाश्वमातङ्गपदातिभिस्ततः परस्परं विप्रहताः पतन् क्षितौ ।
यथा सविद्युत्स्तनिता बलाहकाः समाहता दिग्भ्य इवोग्रमारुतैः ॥१०॥

ततः शतानीकमतान् महागजांस्तथा रथान्पत्तिगणांश्च तान् बहून् ।
जघान भोजस्तु हयानथापतन् क्षणाद्विशस्ताः कृतवर्मणः शरैः ॥११॥

अथापरे द्रौणिहता महाद्विपास्त्रयः ससर्वायुधयोधकेतनाः ।
निपेतुरुर्व्यां व्यसवो निपातितास्तथा यथा वज्रहता महाचलाः ॥१२॥

कुलिन्दराजावरजादनन्तरः स्तनान्तरे पत्रिवरैरताडयत् ।
तवात्मजं तस्य तवात्मजः शरैः शितैः शरीरं व्यहनद्द्विपं च तम् ॥१३॥

स नागराजः सह राजसूनुना पपात रक्तं बहु सर्वतः क्षरन् ।
महेन्द्रवज्रप्रहतोऽम्बुदागमे यथा जलं गैरिकपर्वतस्तथा ॥१४॥

कुलिन्दपुत्रप्रहितोऽपरो द्विपः क्राथं ससूताश्वरथं व्यपोथयत् ।
ततोऽपतत्क्राथशराभिघातितः सहेश्वरो वज्रहतो यथा गिरिः ॥१५॥

रथी द्विपस्थेन हतोऽपतच्छरैः क्राथाधिपः पर्वतजेन दुर्जयः ।
सवाजिसूतेष्वसनध्वजस्तथा यथा महावातहतो महाद्रुमः ॥१६॥

वृको द्विपस्थं गिरिराजवासिनं भृशं शरैर्द्वादशभिः पराभिनत् ।
ततो वृकं साश्वरथं महाद्विपो द्रुतं चतुर्भिश्चरणैर्व्यपोथयत् ॥१७॥

स नागराजः सनियन्तृकोऽपतत्तथा हतो बभ्रुसुतेषुभिर्भृशम् ।
स चापि देवावृधसूनुरर्दितः पपात नुन्नः सहदेवसूनुना ॥१८॥

विषाणगात्रावरयोधपातिना गजेन हन्तुं शकुनिं कुलिन्दजः ।
जगाम वेगेन भृशार्दयंश्च तं ततोऽस्य गान्धारपतिः शिरोऽहरत् ॥१९॥

ततः शतानीकहता महागजा हया रथाः पत्तिगणाश्च तावकाः ।
सुपर्णवातप्रहता यथोरगास्तथागता गां विवशा विचूर्णिताः ॥२०॥

ततोऽभ्यविद्ध्यद्बहुभिः शितैः शरैः कलिङ्गपुत्रो नकुलात्मजं स्मयन् ।
ततोऽस्य कोपाद्विचकर्त नाकुलिः शिरः क्षुरेणाम्बुजसन्निभाननम् ॥२१॥

ततः शतानीकमविध्यदायसैस्त्रिभिः शरैः कर्णसुतोऽर्जुनं त्रिभिः ।
त्रिभिश्च भीमं नकुलं च सप्तभिर्जनार्दनं द्वादशभिश्च सायकैः ॥२२॥

तदस्य कर्मातिमनुष्यकर्मणः समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन् ।
पराक्रमज्ञास्तु धनञ्जयस्य ये हुतोऽयमग्नाविति ते तु मेनिरे ॥२३॥

ततः किरीटी परवीरघाती हताश्वमालोक्य नरप्रवीरः ।
माद्रीसुतं नकुलं लोकमध्ये समीक्ष्य कृष्णं भृशविक्षतं च ॥२४॥

समभ्यधावद्वृषसेनमाहवे स सूतजस्य प्रमुखे स्थितस्तदा ।
तमापतन्तं नरवीरमुग्रं महाहवे बाणसहस्रधारिणम् ॥२५॥

अभ्यापतत्कर्णसुतो महारथं यथा महेन्द्रं नमुचिः पुरा तथा ।
ततो द्रुतं चैकशरेण पार्थं शितेन विद्ध्वा युधि कर्णपुत्रः ॥२६॥

ननाद नादं सुमहानुभावो विद्ध्वेव शक्रं नमुचिः स वीरः ।
पुनः स पार्थं वृषसेन उग्रैर्बाणैरविद्ध्यद्भुजमूले तु सव्ये ॥२७॥

तथैव कृष्णं नवभिः समार्दयत् पुनश्च पार्थं दशभिर्जघान ।
पूर्वं यथा वृषसेनप्रयुक्तैरभ्याहतः श्वेतहयः शरैस्तैः ॥२८॥

संरम्भमीषद्गमितो वधाय कर्णात्मजस्याथ मनः प्रदध्रे ।
ततः किरीटी रणमूर्ध्नि कोपात् कृत्वा त्रिशाखां भ्रुकुटिं ललाटे ॥२९॥

मुमोच तूर्णं विशिखान्महात्मा वधे धृतः कर्णसुतस्य संख्ये ।
आरक्तनेत्रोऽन्तकशत्रुहन्ता उवाच कर्णं भृशमुत्स्मयंस्तदा ॥३०॥

दुर्योधनं द्रौणिमुखांश्च सर्वानहं रणे वृषसेनं तमुग्रम् ।
संपश्यतः कर्णं तवाद्य संख्ये नयामि लोकं निशितैः पृषत्कैः ॥३१॥

ऊनं च तावद्धि जना वदन्ति सर्वैर्भवद्भिर्मम सूनुर्हतोऽसौ ।
एको रथो मद्विहीनस्तरस्वी अहं हनिष्ये भवतां समक्षम् ॥३२॥

संरक्ष्यतां रथसंस्थाः सुतोऽयमहं हनिष्ये वृषसेनमुग्रम् ।
पश्चाद्वधिष्ये त्वामपि संप्रमूढमहं हनिष्येऽर्जुन आजिमध्ये ॥३३॥

तमद्य मूलं कलहस्य संख्ये दुर्योधनापाश्रयजातदर्पम् ।
त्वामद्य हन्ताऽस्मि रणे प्रसह्य अस्यैव हन्ता युधि भीमसेनः ॥३४॥

दुर्योधनस्याधमपूरुषस्य यस्यानयादेष महान् क्षयोऽभवत् ।
स एवमुक्त्वा विनिमृज्य चापं लक्ष्यं हि कृत्वा वृषसेनमाजौ ॥३५॥

ससर्ज बाणान्विशिखान्महात्मा वधाय राजन् कर्णसुतस्य संख्ये ।
विव्याध चैनं दशभिः पृषत्कैर्मर्मस्वशङ्कं प्रहसन्किरीटी ॥३६॥

चिच्छेद चास्येष्वसनं भुजौ च क्षुरैश्चतुर्भिर्निशितैः शिरश्च ।
स पार्थबाणाभिहतः पपात रथाद्विबाहुर्विशिरा धरायाम् ॥३७॥

सुपुष्पितो वृक्षवरोऽतिकायो वातेरितः शाल इवाद्रिशृङ्गात् ।
संप्रेक्ष्य बाणाभिहतं पतन्तं रथात्सुतं सूतजः क्षिप्रकारी ॥३८॥

रथं रथेनाशु जगाम रोषात् किरीटिनः पुत्रवधाभितप्तः ।
ततः समक्षं स्वसुतं विलोक्य कर्णो हतं श्वेतहयेन संख्ये ।
संरम्भमागम्य परं महात्मा कृष्णार्जुनौ सहसैवाभ्यधावत् ॥३९॥

इति श्रीमहाभारते कर्णपर्वणि वृषसेनवधे पञ्चाशीतितमोऽध्यायः ॥८५॥
षडशीतितमोऽध्यायः

सञ्जय उवाच। तमायान्तमभिप्रेक्ष्य वेलोद्वृत्तमिवार्णवम् ।
गर्जन्तं सुमहाकायं दुर्निवारं सुरैरपि ॥१॥

तमायान्तमिति ॥१॥

अर्जुनं प्राह दाशार्हः प्रहस्य पुरुषर्षभः ।
अयं सरथ आयाति श्वेताश्वः शल्यसारथिः ॥२॥

येन ते सह योद्धव्यं स्थिरो भव धनञ्जय ।
पश्य चैनं समायुक्तं रथं कर्णस्य पाण्डव ॥३॥

श्वेतवाजिसमायुक्तं युक्तं राधासुतेन च ।
नानापताकाकलिलं किङ्किणीजालमालिनम् ॥४॥

उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः ।
ध्वजं च पश्य कर्णस्य नागकक्षं महात्मनः ॥५॥

आखण्डलधनुःप्रख्यमुल्लिखन्तमिवाम्बरम् ।
पश्य कर्णं समायान्तं धार्तराष्ट्रप्रियैषिणम् ॥६॥

शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम् ।
एष मद्रेश्वरो राजा रथाग्रे पर्यवस्थितः ॥७॥

नियच्छति हयानस्य राधेयस्यामितौजसः ।
शृणु दुन्दुभिनिर्घोषं शङ्खशब्दं च दारुणम् ॥८॥

सिंहनादांश्च विविधाञ्शृणु पाण्डव सर्वतः ।
अन्तर्धाय महाशब्दान् कर्णेनामिततेजसा ॥९॥

दोधूयमानस्य भृशं धनुषः शृणु निःस्वनम् ।
एते दीर्यन्ति सगणाः पञ्चालानां महारथाः ॥१०॥

दृष्ट्वा केसरिणं क्रुद्धं मृगा इव महावने ।
सर्वयत्नेन कौन्तेय हन्तुमर्हसि सूतजम् ॥११॥

न हि कर्णशरानन्यः सोढुमुत्सहते नरः ।
सदेवासुरगन्धर्वांस्त्रील्लोঁकान्सचराचरान् ॥१२॥

त्वं हि जेतुं रणे शक्तस्तथैव विदितं मम ।
भीममुग्रं महात्मानं त्र्यक्षं शर्वं कपर्दिनम् ॥१३॥

न शक्ता द्रष्टुमीशानं किं पुनर्योधितुं प्रभुम् ।
त्वया साक्षान्महादेवः सर्वभूतशिवः शिवः ॥१४॥

युद्धेनाराधितः स्थाणुर्देवाश्च वरदास्तव ।
तस्य पार्थ प्रसादेन देवदेवस्य शूलिनः ॥१५॥

जहि कर्णं महाबाहो नमुचिं वृत्रहा यथा ।
श्रेयस्तेऽस्तु सदा पार्थ युद्धे जयमवाप्नुहि ॥१६॥

अर्जुन उवाच। ध्रुव एव जयः कृष्ण मम नास्त्यत्र संशयः ।
सर्वलोकगुरुर्यस्त्वं तुष्टोऽसि मधुसूदन ॥१७॥

चोदयाश्वान् हृषीकेश रथं मम महारथ ।
नाहत्वा समरे कर्णं निवर्तिष्यति फाल्गुनः ॥१८॥

अद्य कर्णं हतं पश्य मच्छरैः शकलीकृतम् ।
मां वा द्रक्ष्यसि गोविन्द कर्णेन निहतं शरैः ॥१९॥

उपस्थितमिदं घोरं युद्धं त्रैलोक्यमोहनम् ।
यज्जनाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति ॥२०॥

एवं ब्रुवंस्तदा पार्थः कृष्णमक्लिष्टकारिणम् ।
प्रत्युद्ययौ रथेनाशु गजं प्रतिगजो यथा ॥२१॥

पुनरप्याह तेजस्वी पार्थः कृष्णमरिन्दम ।
चोदयाश्वान् हृषीकेश कालोऽयमतिवर्तते ।
एवमुक्तस्तदा तेन पाण्डवेन महात्मना ॥२२॥

जयेन संपूज्य स पाण्डवं तदा प्रचोदयामास हयान्मनोजवान् ।
स पाण्डुपुत्रस्य रथो मनोजवः क्षणेन कर्णस्य रथाग्रतोऽभवत् ॥२३॥

इति श्रीमहाभारते कर्णपर्वणि कर्णार्जुनद्वैरथे वासुदेववाक्ये षडशीतितमोऽध्यायः ॥८६॥
सप्ताशीतितमोऽध्यायः

सञ्जय उवाच। वृषसेनं हतं दृष्ट्वा शोकामर्षसमन्वितः ।
पुत्रशोकोद्भवं वारि नेत्राभ्यां समवासृजत् ॥१॥

वृषसेनमिति ॥१॥

रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपुम् ।
युद्धायामर्षताम्राक्षः समाहूय धनञ्जयम् ॥२॥

तौ रथौ सूर्यसङ्काशौ वैयाघ्रपरिवारितौ ।
समेतौ ददृशुस्तत्र द्वाविवार्कौ समुद्गतौ ॥३॥

श्वेताश्वौ पुरुषौ दिव्यावास्थितावरिमर्दनौ ।
शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि ॥४॥

तौ दृष्ट्वा विस्मयं जग्मुः सर्वसैन्यानि मारिष ।
त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव ॥५॥

रथज्यातलनिर्ह्रादैर्बाणसिंहरवैस्तथा ।
तौ रथावभ्यधावन्तौ समालोक्य महीक्षिताम् ॥६॥

ध्वजौ च दृष्ट्वा संसक्तौ विस्मयः समपद्यत ।
हस्तिकक्षं च कर्णस्य वानरं च किरीटिनः ॥७॥

तौ रथौ संप्रसक्तौ तु दृष्ट्वा भारत पार्थिवाः ।
सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान् ॥८॥

दृष्ट्वा च द्वैरथं ताभ्यां तत्र योधाः सहस्रशः ।
चक्रुर्बाहुस्वनांश्चैव तथा चैवावधूननम् ॥९॥

आजघ्नुः कुरवस्तत्र वादित्राणि समन्ततः ।
कर्णं प्रहर्षयिष्यन्तः शङ्खान् दध्मुश्च सर्वशः ॥१०॥

तथैव पाण्डवाः सर्वे हर्षयन्तो धनञ्जयम् ।
तूर्यशंखनिनादेन दिशः सर्वा व्यनादयन् ॥११॥

क्ष्वेडितास्फोटितोत्कृष्टैस्तुमुलं सर्वतोऽभवत् ।
बाहुशब्दैश्च शूराणां कर्णार्जुनसमागमे ॥१२॥

तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ ।
प्रगृहीतमहाचापौ शरशक्तिध्वजायुतौ ॥१३॥

वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वी शंखशोभितौ ।
तूणीरवरसंपन्नौ द्वावप्येतौ सुदर्शनौ ॥१४॥

रक्तचन्दनदिग्धाङ्गौ समदौ गोवृषाविव ।
चापविद्युदूध्वजोपेतौ शस्त्रसंपत्तियोधिनौ ॥१५॥

चामरव्यजनोपेतौ श्वेतच्छत्रोपशोभितौ ।
कृष्णशल्यरथोपेतौ तुल्यरूपौ महारथौ ॥१६॥

सिंहस्कन्धौ दीर्घभुजौ रक्ताक्षौ हेममालिनौ ।
सिंहस्कन्धप्रतीकाशौ व्यूढोरस्कौ महाबलौ ॥१७॥

अन्योन्यवधमिच्छन्तावन्योन्यजयकांक्षिणौ ।
अन्योन्यमभिधावन्तौ गोष्ठे गोवृषभाविव ।
प्रभिन्नाविव मातङ्गौ सुसंरब्धाविवाचलौ ॥१८॥

आशीविषशिशुप्रख्यौ यमकालान्तकोपमौ ।
इन्द्रवृत्राविव क्रुद्धौ सूर्यचन्द्रसमप्रभौ ॥१९॥

महाग्रहाविव क्रुद्धौ युगान्ताय समुत्थितौ ।
देवगर्भौ देवबलौ देवतुल्यौ च रूपतः ॥२०॥

यदृच्छया समायातौ सूर्याचन्द्रमसौ यथा ।
बलिनौ समरे दृप्तौ नानाशस्त्रधरौ युधि ॥२१॥

तौ दृष्ट्वा पुरुषव्याघ्रौ शार्दूलाविव धिष्ठितौ ।
बभूव परमो हर्षस्तावकानां विशांपते ॥२२॥

संशयः सर्वभूतानां विजये समपद्यत ।
समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनञ्जयौ ॥२३॥

उभौ वरायुधधरावुभौ रणकृतश्रमौ ।
उभौ च बाहुशब्देन नादयन्तौ नभस्तलम् ॥२४॥

उभौ विश्रुतकर्माणौ पौरुषेण बलेन च ।
उभौ च सदृशौ युद्धे शम्बरामरराजयोः ॥२५॥

कार्तवीर्यसमौ चोभौ तथा दाशरथेः समौ ।
विष्णुवीर्यसमौ चोभौ तथा भवसमौ युधि ॥२६॥

उभौ श्वेतहयौ राजन् रथप्रवरवाहिनौ ।
सारथी प्रवरौ चैव तयोरास्तां महारणे ॥२७॥

ततो दृष्ट्वा महाराज राजमानौ महारथौ ।
सिद्धचारणसंघानां विस्मयः समपद्यत ॥२८॥

तव पुत्रास्ततः कर्णं सबला भरतर्षभ ।
परिवव्रुर्महात्मानं क्षिप्रमाहवशोभिनम् ॥२९॥

तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरोगमाः ।
परिवव्रुर्महात्मानं पार्थमप्रतिमं युधि ॥३०॥

तावकानां रणे कर्णौ ग्लहो ह्यासीद्विशांपते ।
तथैव पाण्डवेयानां ग्लहः पार्थोऽभवत्तदा ॥३१॥

त एव सभ्यास्तत्रासन् प्रेक्षकाश्चाभवन् स्म ते ।
तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ ॥३२॥

ताभ्यां द्यूतं समासक्तं विजयायेतराय च ।
अस्माकं पाण्डवानां च स्थितानां रणमूर्धनि ॥३३॥

तौ तु स्थितौ महाराज समरे युद्धशालिनौ ।
अन्योन्यं प्रतिसंरब्धावन्योन्यवधकांक्षिणौ ॥३४॥

तावुभौ प्रजिहीर्षन्ताविन्द्रवृत्राविव प्रभो ।
भीमरूपधरावास्तां महाधूमाविव ग्रहौ ॥३५॥

ततोऽन्तरिक्षे साक्षेपा विवादा भरतर्षभ ।
मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे ॥३६॥

व्यश्रूयन्त मिथो भिन्नाः सर्वलोकास्तु मारिष ।
देव-दानव-गन्धर्वाः पिशाचोरगराक्षसाः ॥३७॥

प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे ।
द्यौरासीत्सूतपुत्रस्य पक्षे मातेव धिष्ठिता ॥३८॥

भूमिर्धनञ्जयस्यासीन्मातेव जयकाङ्किणी ।
गिरयः सागराश्चैव नद्यश्च सजलास्तथा ॥३९॥

वृक्षाश्चौषधयश्चैव व्याश्रयन्त परस्परम् ।
असुरा यातुधानाश्च गुह्यकाश्च परन्तप ॥४०॥

ते कर्णं समपद्यन्त हृष्टरूपाः समन्ततः ।
मुनयश्चारणाः सिद्धा वैनतेया वयांसि च ॥४१॥

रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः ।
सोपवेदोपनिषदः सरहस्याः ससंग्रहाः ॥४२॥

वासुकिश्चित्रसेनश्च तक्षको मणिकस्तथा ।
सर्पाश्चैव तथा सर्वे काद्रवेयाश्च सान्वयाः ॥४३॥

विषवन्तो महाराज नागाश्चार्जुनतोऽभवन् ।
ऐरावताः सौरभेया वैशालेयाश्च भोगिनः ॥४४॥

एतेऽभवन्नर्जुनतः क्षुद्रसर्पाश्च कर्णतः ।
ईहामृगा व्यालमृगा मांगल्याश्च मृगद्विजाः ॥४५॥

व्यालमृगाः शशमृगाः॥४५॥

पार्थस्य विजये राजन् सर्व एवाभिसंसृताः ।
वसवो मरुतः साध्या रुद्रा विश्वेऽश्विनौ तथा ॥४६॥

अग्निरिन्द्रश्च सोमश्च पवनोऽथ दिशो दश ।
धनञ्जयस्य ते पक्षे आदित्याः कर्णतोऽभवन् ॥४७॥

विशः शूद्राश्च सूताश्च ये च संकरजातयः ।
सर्वशस्ते महाराज राधेयमभजंस्तदा ॥४८॥

देवास्तु पितृभिः सार्धं सगणाः सपदानुगाः ।
यमो वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः ॥४९॥

ब्रह्मक्षत्रं च यज्ञाश्च दक्षिणाश्चार्जुनं श्रिताः ।
प्रेताश्चैव पिशाचाश्च क्रव्यादाश्च मृगाण्डजाः ॥५०॥

राजसाः सह यादोभिः श्वसृगालाश्च कर्णतः ।
देवब्रह्मनृपर्षीणां गणाः पाण्डवतोऽभवन् ॥५१॥

तुम्बुरुप्रमुखा राजन् गन्धर्वाश्च यतोऽर्जुनः ।
प्रालेयाः सहमौनेया गन्धर्वाप्सरसां गणाः ॥५२॥

ईहामृगाः पक्षिगणा द्विपाश्वरथपत्तिभिः ।
उह्यमानास्तथा मेघैर्वायुना च मनीषिणः ॥५३॥

दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम् ।
देवदानवगन्धर्वा नागयक्षाः पतत्रिणः ॥५४॥

महर्षयो वेदविदः पितरश्च स्वधाभुजः ।
तपोविद्यास्तथौषध्यो नानारूपबलान्विताः ॥५५॥

अन्तरिक्षे महाराज विनदन्तोऽवतस्थिरे ।
ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च ॥५६॥

भवश्चैव स्थितो याने दिव्यं तं देशमागमत् ।
समेतौ तौ महात्मानौ दृष्ट्वा कर्णधनञ्जयौ ॥५७॥

अर्जुनो जयतां कर्णमिति शक्रोऽब्रवीत्तदा ।
जयतामर्जुनं कर्ण इति सूर्योऽभ्यभाषत ॥५८॥

हत्वाऽर्जुनं मम सुतः कर्णो जयतु संयुगे ।
हत्वा कर्णं जयत्वद्य मम पुत्रो धनञ्जयः ॥५९॥

इति सूर्यस्य चैवासीद्विवादो वासवस्य च ।
पक्षसंस्थितयोस्तत्र तयोर्विबुधसिंहयोः ।
द्वैपक्ष्यमासीद्देवानामसुराणां च भारत ॥६०॥

समेतौ तौ महात्मानौ दृष्ट्वा कर्णधनञ्जयौ ।
अकम्पन्त त्रयो लोकाः सहदेवर्षिचारणाः ॥६१॥

सर्वे देवगणाश्चैव सर्वभूतानि यानि च ।
यतः पार्थस्ततो देवा यतः कर्णस्ततोऽसुराः ॥६२॥

रथयूथपयोः पक्षौ कुरुपाण्डववीरयोः ।
दृष्ट्वा प्रजापतिं देवाः स्वयंभुवमचोदयन् ॥६३॥

कोऽनयोर्विजयी देव कुरुपाण्डवयोधयोः ।
समोऽस्तु विजयो देव एतयोर्नरसिंहयोः ॥६४॥

कर्णार्जुनविवादेन सर्वं संशयितं जगत् ।
स्वयंभो ब्रूहि नस्तथ्यमेतयोर्विजयं प्रभो ॥६५॥

स्वयंभो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः ।
तदुपश्रुत्य मघवा प्रणिपत्य पितामहम् ॥६६॥

व्यज्ञापयत देवेशमिदं मतिमतां वरः ।
पूर्वं भगवता प्रोक्तं कृष्णयोर्विजयो ध्रुवः ॥६७॥

तत्तथास्तु नमस्तेऽस्तु प्रसीद भगवन्मम ।
ब्रह्मेशानावथो वाक्यमूचतुस्त्रिदशेश्वरम् ॥६८॥

विजयो ध्रुवमेवास्य विजयस्य महात्मनः ।
खाण्डवे येन हुतभुक्तोषितः सव्यसाचिना ॥६९॥

स्वर्गं च समनुप्राप्य साहाय्यं शक्र ते कृतम् ।
कर्णश्च दानवः पक्ष अतः कार्यः पराजयः ॥७०॥

एवं कृते भवेत्कार्यं देवानामेव निश्चितम् ।
आत्मकार्यं च सर्वेषां गरीयस्त्रिदशेश्वर ॥७१॥

महात्मा फाल्गुनश्चापि सत्यधर्मरतः सदा ।
विजयस्तस्य नियतं जायते नात्र संशयः ॥७२॥

तोषितो भगवान् येन महात्मा वृषभध्वजः ।
कथं वा तस्य न जयो जायते शतलोचन ॥७३॥

यस्य चक्रे स्वयं विष्णुः सारथ्यं जगतः प्रभुः ।
मनस्वी बलवाञ्शूरः कृतास्त्रोऽथ तपोधनः ॥७४॥

बिभर्ति च महातेजा धनुर्वेदमशेषतः ।
पार्थः सर्वगुणोपेतो देवकार्यमिदं यतः ॥७५॥

क्लिश्यन्ते पाण्डवा नित्यं वनवासादिभिर्भृशम् ।
संपन्नस्तपसा चैव पर्याप्तः पुरुषर्षभः ॥७६॥

अतिक्रमेच्च माहात्म्याद्दिष्टमप्यर्थपर्ययम् ।
अतिक्रान्ते च लोकानामभावो नियतं भवेत् ॥७७॥

दिष्टमपि दैवविहितमपि ॥७७॥

न विद्यते व्यवस्थानं क्रुद्धयोः कृष्णयोः क्वचित् ।
स्रष्टारौ जगतश्चैव सततं पुरुषर्षभौ ॥७८॥

व्यवस्थानं मर्यादा ॥७८॥

नरनारायणावेतौ पुराणावृषिसत्तमौ ।
अनियम्यौ नियन्तारावेतौ तस्मात्परन्तपौ ॥७९॥

नैतयोस्तु समः कश्चिद्दिवि वा मानुषेषु वा ।
अनुगम्यास्त्रयो लोकाः सह देवर्षिचारणैः ॥८०॥

सर्वदेवगणाश्चापि सर्वभूतानि यानि च ।
अनयोस्तु प्रभावेन वर्तते निखिलं जगत् ॥८१॥

कर्णो लोकानयं मुख्यानाप्नोतु पुरुषर्षभः ।
कर्णो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः ॥८२॥

वसूनां समलोकत्वं मरुतां वा समाप्नुयात् ।
सहितो द्रोणभीष्माभ्यां नाकलोकमवाप्नुयात् ॥८३॥

इत्युक्तो देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः ।
आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनम् ॥८४॥

श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम् ।
तत्तथा नान्यथा तद्धि तिष्ठध्वं विगतज्वराः ॥८५॥

इति श्रुत्वेन्द्रवचनं सर्वभूतानि मारिष ।
विस्मितान्यभवन्राजन् पूजयांचक्रिरे तदा ॥८६॥

व्यसृजंश्च सुगन्धीनि पुष्पवर्षाणि हर्षिताः ।
नानारूपाणि विबुधा देवतूर्याण्यवादयन् ॥८७॥

दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः ।
देव-दानव-गन्धर्वाः सर्व एवावतस्थिरे ॥८८॥

रथौ तयोः श्वेतहयौ दिव्यौ युक्तौ महात्मनोः ।
यौ तौ कर्णार्जुनौ राजन् प्रहृष्टौ व्यवतिष्ठताम् ॥८९॥

समागता लोकवीराः शंखान् दध्मुः पृथक् पृथक् ।
वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत ॥९०॥

तद्भीरुसंत्रासकरं युद्धं समभवत्तदा ।
अन्योन्यस्पर्धिनोरुग्रं शक्रशम्बरयोरिव ॥९१॥

तयोर्ध्वजौ वीतमलौ शुशुभाते रथे स्थितौ ।
राहुकेतू यथाऽऽकाशे उदितौ जगतः क्षये ॥९२॥

कर्णस्याशीविषनिभा रत्नसारमयी दृढा ।
पुरन्दरधनुःप्रख्या हस्तिकक्ष्या विराजते ॥९३॥

कपिश्रेष्ठस्तु पार्थस्य व्यादितास्य इवान्तकः ।
दंष्ट्राभिर्भीषयन् भाभिर्दुर्निरीक्ष्यो रविर्यथा ॥९४॥

युद्धाभिलाषुको भूत्वा ध्वजो गांडीवधन्वनः ।
कर्णध्वजमुपातिष्ठत्स्वस्थानाद्वेगवान्कपिः ॥९५॥

उत्पपात महावेगः कक्ष्यामभ्याहनत्तदा ।
नखैश्च दशनैश्चैव गरुडः पन्नगं यथा ॥९६॥

सा किङ्किणीकाभरणा कालपाशोपमायसी ।
अभ्यद्रवत्सुसंरब्धा हस्तिकक्ष्याऽथ तं कपिम् ॥९७॥

तयोर्घोरतरे युद्धे द्वैरथे द्यूत आहिते ।
प्राकुर्वतां ध्वजौ युद्धं पूर्वं पूर्वतरं तदा ॥९८॥

हया हयानभ्यहेषन् स्पर्धमानाः परस्परम् ।
अविध्यत् पुण्डरीकाक्षः शल्यं नयनसायकैः ॥९९॥

शल्यश्च पुण्डरीकाक्षं तथैवाभिसमैक्षत ।
तत्राजयद्वासुदेवः शल्यं नयनसायकैः ॥१००॥

कर्णं चाप्यजयद्दृष्ट्या कुन्तीपुत्रो धनञ्जयः ।
अथाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम् ॥१०१॥

यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित् ।
किं करिष्यसि संग्रामे शल्य सत्यमथोच्यताम् ॥१०२॥

शल्य उवाच। यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः ।
उभावेकरथेनाहं हन्यां माधवपाण्डवौ ॥१०३॥

सञ्जय उवाच। एवमेव तु गोविन्दमर्जुनः प्रत्यभाषत ।
तं प्रहस्याब्रवीत्कृष्णः सत्यं पार्थमिदं वचः ॥१०४॥

'पतेद्दिवाकरः स्थानाच्छुष्येदपि महोदधिः ।
शैत्यमग्निरियान्न त्वां हन्यात्कर्णो धनञ्जय ॥१०५॥

यदि चैतत्कथञ्चित्स्याल्लोकपर्यासनं भवेत् ।
हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे' ॥१०६॥

इति कृष्णवचः श्रुत्वा प्रहसन् कपिकेतनः ।
अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम् ॥१०७॥

'मम तावदपर्याप्तौ कर्णशल्यौ जनार्दन ।
सपताकध्वजं कर्णं सशल्यरथवाजिनम् ॥१०८॥

सच्छत्रकवचं चैव सशक्तिशरकार्मुकम् ।
द्रष्टास्यद्य रणे कृष्ण शरैश्छिन्नमनेकधा ॥१०९॥

अद्यैव सरथं साश्वं सशक्तिकवचायुधम् ।
सञ्चूर्णितमिवारण्ये पादपं दन्तिना यथा ॥११०॥

अद्य राधेयभार्याणां वैधव्यं समुपस्थितम् ।
ध्रुवं स्वप्नेष्वनिष्टानि ताभिर्दृष्टानि माधव ॥१११॥

द्रष्टासि ध्रुवमद्यैव विधवाः कर्णयोषितः ।
न हि मे शाम्यते मन्युर्यदनेन पुरा कृतम् ॥११२॥

कृष्णां समागतां दृष्ट्वा मूढेनादीर्घद‌र्शिना ।
अस्मांस्तथाऽवहसता क्षिपता च पुनः पुनः ॥११३॥

अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया ।
वारणेनेव मत्तेन पुष्पितं जगतीरुहम् ॥११४॥

अद्य ता मधुरा वाचः श्रोताऽसि मधुसूदन ।
दिष्ट्या जयसि वार्ष्णेय इति कर्णे निपातिते ॥११५॥

अद्याभिमन्युजननीं प्रहृष्टः सान्त्वयिष्यसि ।
कुन्तीं पितृष्वसारं च प्रहृष्टः सञ्जनार्दन ॥११६॥

अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव ।
वाग्भिश्चामृतकल्पाभिर्धर्मराजं च पाण्डवम्' ॥११७॥

इति श्रीमहाभारते कर्णपर्वणि कर्णार्जुनसमागमे द्वैरथे सप्ताशीतितमोऽध्याय ॥८७॥
अष्टाशीतितमोऽध्यायः

सञ्जय उवाच। तद्देवनागासुरसिद्धयक्षैर्गन्धर्वरक्षोप्सरसां च सङ्घैः ।
ब्रह्मर्षिराजर्षिसुपर्णजुष्टं बभौ वियद्विस्मयनीयरूपम् ॥१॥

तदिति ॥१॥

नानद्यमानं निनदैर्मनोज्ञैर्वादित्र-गीत-स्तुति-नृत्य-हासैः ।
सर्वेऽन्तरिक्षं ददृशुर्मनुष्याः खस्थाश्च तद्विस्मयनीयरूपम् ॥२॥

ततः प्रहृष्टाः कुरुपाण्डुयोधा वादित्रशङ्खस्वनसिंहनादैः ।
विनादयन्तो वसुधां दिशश्च स्वनेन सर्वान् द्विषतो निजघ्नुः ॥३॥

द्विषतः शत्रून् ॥३॥

नराश्वमातङ्गरथैः समाकुलं शरासिशक्त्यृष्टिनिपातदुःसहम् ।
अभीरुजुष्टं हतदेहसंकुलं रणाजिरं लोहितमाबभौ तदा ॥४॥

बभूव युद्धं कुरुपाण्डवानां यथा सुराणामसुरैः सहाभवत् ।
तथा प्रवृत्ते तुमुले सुदारुणे धनञ्जयस्याधिरथेश्च सायकैः ॥५॥

दिशश्च सैन्यं च शितैरजिह्मगैः परस्परं प्रावृणुतां सुदंशितैः ।
ततस्त्वदीयाश्च परे च सायकैः कृतेऽन्धकारे ददृशुर्न किञ्चन ॥६॥

भयातुरा एकरथौ समाश्रयंस्ततोऽभवत्त्वद्भुतमेव सर्वतः ।
ततोऽस्त्रमस्त्रेण परस्परं तौ विधूय वाताविव पूर्वपश्चिमौ ॥७॥

एकौ मुख्यौ रथौ रथिनौ कर्णार्जुनौ एकौ च तौ रथौ चेति विग्रहः ॥७॥

घनान्धकारे वितते तमोनुदौ यथोदितौ तद्वदतीव रेजतुः ।
न चाभिसर्तव्यमिति प्रचोदिताः परे त्वदीयाश्च तथाऽवतस्थिरे ॥८॥

तमोनुदौ सूर्यचन्द्रौ न च अभिसर्तव्यं नापयातव्यमिति नियमेन प्रचोदिताः प्रेरिताः ॥८॥

महारथौ तौ परिवार्य सर्वतः सुरासुराः शम्बरवासवाविव ।
मृदङ्ग-भेरी-पणवानकस्वनैः ससिंहनादैर्नदतुर्नरोत्तमौ ॥९॥

शशाङ्कसूर्याविव मेघनिःस्वनैर्विरेजतुस्तौ पुरुषर्षभौ तदा ।
महाधनुर्मण्डलमध्यगावुभौ सुवर्चसौ बाणसहस्रदीधिती ॥१०॥

दिधक्षमाणौ सचराचरं जगद्युगान्तसूर्याविव दुःसहौ रणे ।
उभावजेयावहितान्तकावुभावुभौ जिघांसू कृतिनौ परस्परम् ॥११॥

महाहवे वीतभयौ समीयतुर्महेन्द्रजम्भाविव कर्णपाण्डवौ ।
ततो महास्त्राणि महाधनुर्धरौ विमुञ्चमानाविषुभिर्भयानकैः ॥१२॥

नराश्वनागानमितान्निजघ्नतुः परस्परं चापि महारथौ नृप ।
ततो विसस्रुः पुनरर्दिता नरा नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः ॥१३॥

विसस्रुः विप्रदुताः ॥१३॥

सनागपत्त्यश्वरथा दिशो दश तथा यथा सिंहहता वनौकसः ।
ततस्तु दुर्योधनभोजसौबलाः कृपेण शारद्वतसूनुना सह ॥१४॥

पञ्चैवावशिष्टा इत्याह- तत इति ॥१४॥

महारथाः पञ्च धनञ्जयाच्युतौ शरैः शरीरार्तिकरैरताडयन् ।
धनूंषि तेषामिषुधीन् ध्वजान्हयान् रथांश्च सूतांश्च धनञ्जयः शरैः ॥१५॥

समं प्रमथ्याशु परान्समन्ततः शरोत्तमैर्द्वादशभिश्च सूतजम् ।
अथाभ्यधावंस्त्वरिताः शतं रथाः शतं गजाश्चार्जुनमाततायिनः ॥१६॥

शकास्तुषारा यवनाश्च सादिनः सहैव काम्बोजवरैर्जिघांसवः ।
वरायुधान्पाणिगतैः शरैः सह क्षुरैर्न्यकृन्तत्प्रपतन् शिरांसि च ॥१७॥

हयांश्च नागांश्च रथांश्च युध्यतो धनञ्जयः शत्रुगणान् क्षितौ क्षिणोत् ।
ततोऽन्तरिक्षे सुरतूर्यनिःस्वनाः ससाधुवादा हृषितैः समीरिताः ॥१८॥

निपेतुरप्युत्तमपुष्पवृष्टयः सुगन्धिगन्धाः पवनेरिताः शुभाः ।
तद‌द्भुतं देवमनुष्यसाक्षिकं समीक्ष्य भूतानि विसिस्मियुस्तदा ॥१९॥

तवात्मजः सूतसुतश्च न व्यथां न विस्मयं जग्मतुरेकनिश्चयौ ।
अथाब्रवीद्द्रोणसुतस्तवात्मजं करं करेण प्रतिपीड्य सान्त्वयन् ॥२०॥

प्रसीद दुर्योधन शाम्य पाण्डवैरलं विरोधेन धिगस्तु विग्रहम् ।
हतो गुरुर्ब्रह्मसमो महास्त्रवित्तथैव भीष्मप्रमुखा महारथाः ॥२१॥

अहं त्ववध्यो मम चापि मातुलः प्रशाधि राज्यं सह पाण्डवैश्चिरम् ।
धनञ्जयः शाम्यति वारितो मया जनार्दनो नैव विरोधमिच्छति ॥२२॥

युधिष्ठिरो भूतहिते रतः सदा वृकोदरस्तद्वशगस्तथा यमौ ।
त्वया तु पार्थैश्च कृते च संविदे प्रजाः शिवं प्राप्नुयुरिच्छया तव ॥२३॥

व्रजन्तु शेषाः स्वपुराणि बान्धवा निवृत्तयुद्धाश्च भवन्तु सैनिकाः ।
न चेद्वचः श्रोष्यसि मे नराधिप ध्रुवं प्रतप्तासि हतोऽरिभिर्युधि ॥२४॥

इदं च दृष्टं जगता सह त्वया कृतं यदेकेन किरीटमालिना ।
यथा न कुर्याद्बलभिन्न चान्तको न चापि धाता भगवान्न यक्षराट् ॥२५॥

अतोऽपि भूयान् स्वगुणैर्धनञ्जयो न चातिवर्तिष्यति मे वचोऽखिलम् ।
तवानुयात्रां च सदा करिष्यति प्रसीद राजेन्द्र शमं त्वमाप्नुहि ॥२६॥

ममापि मानः परमः सदा त्वयि ब्रवीम्यतस्त्वां परमाच्च सौहृदात् ।
निवारयिष्यामि च कर्णमप्यहं यदा भवान्सप्रणयो भविष्यति ॥२७॥

वदन्ति मित्रं सहजं विचक्षणास्तथैव साम्ना च धनेन चार्जितम् ।
प्रतापतश्चोपनतं चतुर्विधं तदस्ति सर्वं तव पाण्डवेषु ॥२८॥

निसर्गतस्ते तव वीर बान्धवाः पुनश्च साम्ना समवाप्नुहि प्रभो ।
त्वयि प्रसन्ने यदि मित्रतां गते हितं कृतं स्याज्जगतस्त्वयाऽतुलम् ॥२९॥

निसर्गत इति सहजमित्रत्वोपपादनं साम्ना प्रीत्या । प्रसन्ने राज्यार्धदानेन हितम् अर्जुनकोपशमनेनेति चतुर्धापक्षोऽपि विवृतः ॥२९॥

स एवमुक्तः सुहृदा वचो हितं विचिन्त्य निःश्वस्य च दुर्मनाऽब्रवीत् ।
यथा भवानाह सखे तथैवतन्ममापि विज्ञापयतो वचः शृणु ॥३०॥

निहत्य दुःशासनमुक्तवान्वचः प्रसह्य शार्दूलवदेष दुर्मतिः ।
वृकोदरस्तद्धृदये मम स्थितं न तत्परोक्षं भवतः कुतः शमः ॥३१॥

वचः दुर्योधनस्य हतस्य शिरः पदा ताडयिष्यामीत्येवंरूपम् ॥३१॥

न चापि कर्णं प्रसहेद्रणेऽर्जुनो महागिरिं मेरुमिवोग्रमारुतः ।
न चाश्वसिष्यन्ति पृथात्मजा मयि प्रसह्य वैरं बहुशो विचिन्त्य ॥३२॥

यथाऽर्जुनः कर्णं न प्रसहेत्तदपि भवतः परोक्षं नेति पूर्वेणान्वयः ॥३२॥

न चापि कर्णं गुरुपुत्रसंयुगादुपारमेत्यर्हसि वक्तुमच्युत ।
श्रमेण युक्तो महताऽद्य फाल्गुनस्तमेष कर्णः प्रसभं हनिष्यति ॥३३॥

तमेवमुक्त्वाऽप्यनुनीय चासकृत्तवात्मजः स्वाननुशास्ति सैनिकान् ।
समाहिताभिद्रवताहितान्मम सबाणहस्ताः किमु जोषमासत ॥३४॥

इति श्रीमहाभारते कर्णपर्वणि अश्वत्थामवाक्ये अष्टाशीतितमोऽध्यायः ॥८८॥
ऊननवतितमोऽध्यायः

सञ्जय उवाच। तौ शङ्खभेरीनिनदे समृद्धे समीयतुः श्वेतहयौ नराग्र्यौ ।
वैकर्तनः सूतपुत्रोऽर्जुनश्च दुर्मन्त्रिते तव पुत्रस्य राजन् ॥१॥

ताविति ॥१॥

यथा गजौ हैमवतौ प्रभिन्नौ प्रवृद्धदन्ताविव वासितार्थे ।
तथा समाजग्मतुरुग्रवीर्यौ धनञ्जयश्चाधिरथिश्च वीरौ ॥२॥

बलाहकेनेव महाबलाहको यदृच्छया वा गिरिणा यथा गिरिः ।
तथा धनुर्ज्यातलनेमिनिःस्वनैः समीयतुस्ताविषुवर्षवर्षिणौ ॥३॥

प्रवृद्धशृङ्गद्रुमवीरुदोषधी प्रवृद्धनानाविधानिर्झरौकसौ ।
यथाऽचलौ वा चलितौ महाबलौ तथा महास्त्रैरितरेतरं हतः ॥४॥

स सन्निपातस्तु तयोर्महानभूत्सुरेशवैरोचनयोर्यथा पुरा ।
शरैर्विनुन्नाङ्गनियन्तृवाहयोः सुदुःसहोऽन्यैः कटुशोणितोदकः ॥५॥

प्रभूतपद्मोत्पलमत्स्यकच्छपौ महाह्रदौ पक्षिगणैरिवावृतौ ।
सुसन्निकृष्टावनिलोद्धतौ यथा तथा रथौ तौ ध्वजिनौ समीयतुः ॥६॥

उभौ महेन्द्रस्य समानविक्रमावुभौ महेन्द्रप्रतिमौ महारथौ ।
महेन्द्रवज्रप्रतिमैश्च सायकैर्महेन्द्रवृत्राविव संप्रजघ्नुतुः ॥७॥

सनागपत्त्यश्वरथे शुभे बले विचित्रवर्माभरणाम्बरायुधे ।
चकम्पतुर्विस्मयनीयरूपे वियद्गताश्चार्जुनकर्णसंयुगे ॥८॥

भुजाः सवस्त्राङ्गुलयः समुच्छ्रिताः ससिंहनादैर्हृषितैर्दिदृक्षुभिः ।
यदजुनो मत्त इव द्विपो द्विपं समभ्ययादाधिरथिं जिघांसया ॥९॥

उदक्रोशन्सोमकास्तत्र पार्थं पुरःसराश्चार्जुन भिन्धि कर्णम् ।
छिन्ध्यस्य मूर्धानमलं चिरेण श्रद्धां च राज्याद्धृतराष्ट्रसूनोः ॥१०॥

तथाऽस्माकं बहवस्तत्र योधाः कर्णं तथा याहि याहीत्यवोचन् ।
जह्यर्जुनं कर्ण शरैः सुतीक्ष्णैः पुनर्वनं यान्तु चिराय पार्थाः ॥११॥

तथा कर्णः प्रथमं तत्र पार्थं महेषुभिर्दशभिः प्रत्यविध्यत् ।
तं चार्जुनः प्रत्यविद्ध्यच्छिताग्रैः कक्षान्तरे दशभिः संप्रहस्य ॥१२॥

परस्परं तौ विशिखैः सुपुंखैस्ततक्षतुः सूतपुत्रोऽर्जुनश्च ।
परस्परं तौ बिभिदुर्विमर्दे सुभीममभ्यापततुश्च हृष्टौ ॥१३॥

ततोऽर्जुनः प्रासृजदुग्रधन्वा भुजावुभौ गाण्डिवं चानुमृज्य ।
नाराचनालीकवराहकर्णान् क्षुरांस्तथा साञ्जलिकार्धचन्द्रान् ॥१४॥

ते सर्वतः समकीर्यन्त राजन् पार्थेषवः कर्णरथं विशन्तः ।
अवाङ्मुखाः पक्षिगणा दिनान्ते विशन्ति केतार्थमिवाशु वृक्षम् ॥१५॥

केतार्थं स्थानार्थं नीडे पक्षिगणा इव देहे बाणा लीयन्त इत्यर्थः ॥१५॥

यानर्जुनः सभ्रुकुटीकटाक्षं कर्णाय राजन्नसृजज्जितारिः ।
तान्सायकैर्ग्रसते सूतपुत्रः क्षिप्तान् क्षिप्तान्‌ पाण्डवस्याशु संघान् ॥१६॥

संघान् बाणसंघान् ॥१६॥

ततोऽस्त्रमाग्नेयममित्रसाधनं मुमोच कर्णाय महेन्द्रसुनुः ।
भूम्यन्तरिक्षे च दिशोऽर्कमार्गं प्रावृत्त्य देहोऽस्य बभूव दीप्तः ॥१७॥

योधाश्च सर्वे ज्वलिताम्बरा भृशं प्रदुद्रुवुस्तत्र विदग्धवस्राः ।
शब्दश्च घोरोऽतिबभूव तत्र यथा वने वेणुवनस्य दह्यतः ॥१८॥

तद्वीक्ष्य कर्णो ज्वलनास्त्रमुद्यतं स वारुणं तत्प्रशमार्थमाहवे ।
समुत्सृजन् सूतसुतः प्रतापवान् स तेन वह्निं शमयांबभूव ॥१९॥

बलाहकौघश्च दिशस्तरस्वी चकार सर्वास्तिमिरेण संवृताः ।
ततो धरित्रीधरतुल्यरोधसः समन्ततो वै परिवार्य वारिणा ॥२०॥

तैश्चातिवेगात्स तथाविधोऽपि नीतः शमं वह्निरतिप्रचण्डः ।
बलाहकैरेव दिगन्तराणि व्याप्तानि सर्वाणि यथा नभश्च ॥२१॥

तथा च सर्वास्तिमिरेण वै दिशो मेघैर्वृता न प्रदृश्येत किंचित् ।
अथापोवाह्याभ्रसंघान्समस्तान् वायव्यास्त्रेणापततः स कर्णात् ॥२२॥

ततोऽप्यस्त्रं दयितं देवराज्ञः प्रादुश्चक्रे वज्रमतिप्रभावम् ।
गाण्डीवं ज्यां विशिखांश्चानुमंत्र्य धनञ्जयः शत्रुभिरप्रधृष्यः ॥२३॥

ततः क्षुरप्राञ्जलिकार्धचन्द्रा नालीकनाराचवराहकर्णाः ।
गाण्डीवतः प्रादुरासन्सुतीक्ष्णाः सहस्रशो वज्रसमानवेगाः ॥२४॥

ते कर्णमासाद्य महाप्रभावाः सुतेजना गार्ध्रपत्राः सुवेगाः ।
गात्रेषु सर्वेषु हयेषु चापि शरासने युगचक्रे ध्वजे च ॥२५॥

निर्भिद्य तूर्णं विविशुः सुतीक्ष्णास्तार्क्ष्यत्रस्ता भूमिमिवोरगास्ते ।
शराचिताङ्गो रुधिरार्द्रगात्रः कर्णस्तदा रोषविवृत्तनेत्रः ॥२६॥

दृढज्यमानाम्य समुद्रघोषं प्रादुश्चक्रे भार्गवास्त्रं महात्मा ।
महेन्द्रशस्त्राभिमुखान्विमुक्तांश्छित्त्वा कर्णः पाण्डवस्येषुसंघान् ॥२७॥

तस्यास्त्रमस्त्रेण निहत्य सोऽथ जघान संख्ये रथनागपत्तीन् ।
अमृष्यमाणश्च महेन्द्रकर्मा महारणे भार्गवास्त्रप्रतापात् ॥२८॥

पञ्चालानां प्रवरांश्चापि योधान् क्रोधाविष्टः सूतपुत्रस्तरस्वी ।
बाणैर्विव्याधाहवे सुप्रमुक्तैः शिलाशितैरुक्मपुंखैः प्रसह्य ॥२९॥

तत्पञ्चालाः सोमकाश्चापि राजन् कर्णेनाजौ पीड्यमानाः शरौघैः ।
क्रोधाविष्टा विव्यधुस्तं समन्तात्तीक्ष्णैर्बाणैः सूतपुत्रं समेताः ॥३०॥

तान् सूतपुत्रो निजघान बाणैः पञ्चालानां रथनागाश्वसंघान् ।
अभ्यर्दयद्बाणगणैः प्रसह्य विद्ध्वा हर्षात्संगरे सूतपुत्रः ॥३१॥

ते भिन्नदेहा व्यसवो निपेतुः कर्णेषुभिर्भूमितले स्वनन्तः ।
क्रुद्धेन सिंहेन यथेभयूथा महावने भीमबलेन तद्वत् ॥३२॥

पञ्चालानां प्रवरान्संनिहत्य प्रसह्य योधानखिलानदीनः ।
ततः स राजन्विरराज कर्णो यथाम्बरे भास्कर उग्ररश्मिः ॥३३॥

कर्णस्य मत्वा तु जयं त्वदीयाः परां मुदं सिंहनादांश्च चक्रुः ।
सर्वे ह्यमन्यन्त भृशाहतौ च कर्णेन कृष्णाविति कौरवेन्द्र ॥३४॥

तत्तादृशं प्रेक्ष्य महारथस्य कर्णस्य वीर्यं च परैरसह्यम् ।
दृष्ट्वा च कर्णेन धनञ्जयस्य तथाऽऽजिमध्ये निहतं तदस्त्रम् ॥३५॥

ततस्त्वमर्षी क्रोधसन्दीप्तनेत्रो वातात्मजः पाणिना पाणिमार्च्छत् ।
भीमोऽब्रवीदर्जुनं सत्यसन्धममर्षितो निःश्वसञ्जातमन्युः ॥३६॥

कथं नु पापोऽयमपेतधर्मः सूतात्मजः समरेऽद्य प्रसह्य ।
पञ्चालानां योधमुख्याननेकान्निजघ्निवांस्तव जिष्णो समक्षम् ॥३७॥

पूर्वं देवैरजितं कालकेयैः साक्षात्स्थाणोर्बाहुसंस्पर्शमेत्य ।
कथं नु त्वां सूतपुत्रः किरीटिन्नथेषुभिर्दशभिः प्रागविद्ध्यत् ॥३८॥

त्वया क्षिप्तांश्चाग्रसद्बाणसंघानाश्चर्यमेतत्प्रतिभाति मेऽद्य ।
कृष्णापरिक्लेशमनुस्मर त्वं यथाब्रवीत्षण्ढतिलान् स्म वाचः ॥३९॥

रूक्षाः सुतीक्ष्णाश्च हि पापबुद्धिः सूतात्मजोऽयं गतभीर्दुरात्मा ।
संस्मृत्य सर्वं तदिहाद्य पापं जह्याशु कर्णं युधि सव्यसाचिन् ॥४०॥

कस्मादुपेक्षां कुरुषे किरीटिन्नुपेक्षितुं नायमिहाद्य कालः ।
यया धृत्या सर्वभूतान्यजैषीर्ग्रासं ददत्खाण्डवे पावकाय ॥४१॥

तया धृत्या सूतपुत्रं जहि त्वमहं चैनं गदया पोथयिष्ये ।
अथाब्रवीद्वासुदेवोऽपि पार्थं दृष्ट्वा रथेषून्प्रतिहन्यमानान् ॥४२॥

अमीमृदत्सर्वपातेऽद्य कर्णो ह्यस्त्रैरस्त्रं किमिदं भो किरीटिन् ।
स वीर कि मुह्यसि नावधत्से नदन्त्येते कुरवः संप्रहृष्टाः ॥४३॥

कर्णं पुरस्कृत्य विदुर्हि सर्वे तवास्त्रमस्त्रैर्विनिपात्यमानम् ।
यया धृत्या निहतं तामसास्त्रं युगे युगे राक्षसाश्चापि घोराः ॥४४॥

दंभोद्भवाश्चासुराश्चाहवेषु तया धृत्या जहि कर्णं त्वमद्य ।
अनेन चास्य क्षुरनेमिनाद्य संछिन्धि मूर्धानमरेः प्रसह्य ॥४५॥

मया विसृष्टेन सुदर्शनेन वज्रेण शक्रो नमुचेरिवारेः ।
किरातरूपी भगवान्सुधृत्या त्वया महात्मा परितोषितोऽभूत् ॥४६॥

तां त्वं पुनर्वीर धृतिं गृहीत्वा सहानुबन्धं जहि सूतपुत्रम् ।
ततो महीं सागरमेखलां त्वं सपत्तनां ग्रामवतीं समृद्धाम् ॥४७॥

प्रयच्छ राज्ञे निहतारिसङ्घां यशश्च पार्थातुलमाप्नुहि त्वम् ।
स एवमुक्तोऽतिबलो महात्मा चकार बुद्धिं हि वधाय सौतः ॥४८॥

स चोदितो भीमजनार्दनाभ्यां स्मृत्वा तथाऽऽत्मानमवेक्ष्य सर्वम् ।
इहात्मनश्चागमने विदित्वा प्रयोजनं केशवमित्युवाच ॥४९॥

आत्मनो नरस्य चात् नारायणस्य च इह भूमौ प्रयोजनं भूभारावतरणं विदित्वा स्मृत्वा ॥४९॥

प्रादुष्करोम्येष महास्त्रमुग्रं शिवाय लोकस्य वधाय सौतेः ।
तन्मेऽनुजानातु भवान्सुराश्च ब्रह्मा भवो वेदविदश्च सर्वे ॥५०॥

इत्युच्य देवं स तु सव्यसाची नमस्कृत्वा ब्रह्मणे सोऽमितात्मा ।
तदुत्तमं ब्राह्ममसह्यमस्त्रं प्रादुश्चक्रे मनसा यद्विधेयम् ॥५१॥

तदस्य हत्वा विरराज कर्णो मुक्त्वा शरान्मेघ इवाम्बुधाराः ।
समीक्ष्य कर्णेन किरीटिनस्तु तथाऽऽजिमध्ये निहतं तदस्त्रम् ॥५२॥

ततोऽमर्षी बलवान् क्रोधदीप्तो भीमोऽब्रवीद‌र्जुनं सत्यसन्धम् ।
ननु त्वाहुर्वेदितारं महास्त्रं ब्राह्मं विधेयं परमं जनास्तत् ॥५३॥

तस्मादन्यद्योजय सव्यसाचिन्निति स्मोक्तो योऽजयत्सव्यसाची ।
ततो दिशः प्रदिशश्चापि सर्वाः समावृणोत्सायकैर्भूरितेजाः ॥५४॥

गाण्डीवमुक्तैर्भुजगैरिवोग्रैर्दिवाकरांशुप्रतिमैर्ज्वलद्भिः ।
सृष्टास्तु बाणा भरतर्षभेण शतं शतानीव सुवर्णपुंखाः ॥५५॥

प्राच्छादयन्कर्णरथं क्षणेन युगान्तवह्न्यर्ककरप्रकाशाः ।
ततश्च शूलानि परश्वधानि चक्राणि नाराचशतानि चैव ॥५६॥

निश्चक्रमुर्घोरतराणि योधास्ततो ह्यहन्यन्त समन्ततोऽपि ।
छिन्नं शिरः कस्यचिदाजिमध्ये पपात योधस्य परस्य कायात् ॥५७॥

भयेन सोऽप्याशु पपात भूमावन्यः प्रनष्टः पतितं विलोक्य ।
अन्यस्य सासिर्निपपात कृत्तो योधस्य बाहुः करिहस्ततुल्यः ॥५८॥

अन्यस्य सव्यः सह वर्मणा च क्षुरप्रकृत्तः पतितो धरण्याम् ।
एवं समस्तानपि योधमुख्यान्विध्वंसयामास किरीटमाली ॥५९॥

शरैः शरीरान्तकरैः सुघोरैर्दौर्योधनं सैन्यमशेषमेव ।
वैकर्तनेनापि तथाऽऽजिमध्ये सहस्रशो बाणगणा विसृष्टाः ॥६०॥

ते घोषिणः पाण्डवमभ्युपेयुः पर्जन्यमुक्ता इव वारिधाराः ।
ततः स कृष्णं च किरीटिनं च वृकोदरं चाप्रतिमप्रभावः ॥६१॥

त्रिभिस्त्रिभिर्भीमबलो निहत्य ननाद घोरं महता स्वरेण ।
स कर्णबाणाभिहतः किरीटी भीमं तथा प्रेक्ष्य जनार्दनं च ॥६२॥

अमृष्यमाणः पुनरेव पार्थः शरान्दशाष्टौ च समुद्बवर्ह ।
स केतुमेकेन शरेण विद्ध्वा शल्यं चतुर्भिस्त्रिभिरेव कर्णम् ॥६३॥

ततः स मुक्तैर्दशभिर्जघान सभापतिं काञ्चनवर्मनद्धम् ।
स राजपुत्रो विशिरा विबाहुर्विवाजिसूतो विधनुर्विकेतुः ॥६४॥

हतो रथाग्रादपतत्स रुग्णः परश्वधैः शाल इवावकृत्तः ।
पुनश्च कर्णं त्रिभिरष्टभिश्च द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा ॥६५॥

चतुःशतान् द्विरदान्सायुधान्वै हत्वा रथानष्टशताञ्जघान ।
सहस्रशोऽश्वांश्च पुनः स सादीनष्टौ सहस्राणि च पत्तिवीरान् ॥६६॥

कर्णं ससूतं सरथं सकेतुमदृश्यमञ्जोगतिभिः प्रचक्रे ।
अथाक्रोशन् कुरवो वध्यमाना धनञ्जयेनाधिरथिं समन्तात् ॥६७॥

मुञ्चाभिविध्यार्जुनमाशु कर्ण बाणैः पुरा हन्ति कुरून्समग्रान् ।
स चोदितः सर्वयत्नेन कर्णो मुमोच बाणान्सुबहूनभीक्ष्णम् ॥६८॥

ते पाण्डुपञ्चालगणान्निजघ्नुर्मर्मच्छिदः शोणितपांसुदिग्धाः ।
तावुत्तमौ सर्वधनुर्धराणां महाबलौ सर्वसपत्नसाहौ ॥६९॥

निजघ्नतुश्चाहितसैन्यमुग्रमन्योन्यमप्यस्त्रविदौ महास्त्रैः ।
अथोपयातस्त्वरितो दिदृक्षुर्मन्त्रौषधीभिर्निरुजो विशल्यः ॥७०॥

कृत्तः सुहृद्भिर्भिषजां वरिष्ठैर्युधिष्ठिरस्तत्र सुवर्णवर्मा ।
तथोपयातं युधि धर्मराजं दृष्ट्वा मुदा सर्वभूतान्यनन्दन् ॥७१॥

राहोर्विमुक्तं विमलं समग्रं चन्द्रं यथैवाभ्युदितं तथैव ।
दृष्ट्वा तु मुख्यावथ युध्यमानौ दिदृक्षवः शूरवरावरिघ्नौ ॥७२॥

कर्णं च पार्थं च विलोकयन्तः खस्था महीस्थाश्च जनावतस्थुः ।
स कार्मुकज्यातलसन्निपातः सुमुक्तबाणस्तुमुलो बभूव ॥७३॥

घ्नतोस्तथाऽन्योन्यमिषुप्रवेकैर्धनञ्जयस्याधिरथेश्च तत्र ।
ततो धनुर्ज्या सहसाऽतिकृष्टा सुघोषमच्छिद्यत पाण्डवस्य ॥७४॥

तस्मिन् क्षणे पाण्डवं सूतपुत्रः समाचिनोत् क्षुद्रकाणां शतेन ।
निर्मुक्तसर्पप्रतिमैरभीक्ष्णं तैलप्रधौतैः खगपत्रवाजैः ॥७५॥

षष्ट्या बिभेदाशु च वासुदेवमनन्तरं फाल्गुनमष्टभिश्च ।
पूषात्मजो मर्मसु निर्बिभेद मरुत्सुतं चायुतशः शराग्र्यैः ॥७६॥

कृष्णं च पार्थं च तथा ध्वजं च पार्थानुजान्सोमकान्पातयंश्च ।
प्राच्छादयंस्ते विशिखैः पृषत्कैर्जीमूतसंघा नभसीव सूर्यम् ॥७७॥

आगच्छतस्तान्विशिखैरनेकैर्व्यष्टंभयत्सूतपुत्रः कृतास्रः ।
तैरस्तमस्त्रं विनिहत्य सर्वं जघान तेषां रथवाजिनागान् ॥७८॥

तथा तु सैन्यप्रवरांश्च राजन्नभ्यर्दयन्मार्गणैः सूतपुत्रः ।
ते भिन्नदेहा व्यसवो निपेतुः कर्णेषुभिर्भूमितले स्वनन्तः ॥७९॥

सिंहेन क्रुद्धेन यथाश्वयूथ्या महाबला भीमबलेन तद्वत् ।
पुनश्च पाञ्चालवरास्तथाऽन्ये तदन्तरे कर्णधनञ्जयाभ्याम् ॥८०॥

प्रस्कन्दन्तो बलिना साधुमुक्तैः कर्णेन बाणैर्निहताः प्रसह्य ।
जयं मत्वा विपुलं वै त्वदीयास्तलान्निजघ्नुः सिंहनादांश्च नेदुः ॥८१॥

सर्वे ह्यमन्यन्त वशे कृतौ तौ कर्णेन कृष्णाविति ते विमर्दे ।
ततो धनुर्ज्यामवनाम्य शीघ्रं शरानस्तानाधिरथेर्विधम्य ॥८२॥

सुसंख्धः कर्णशरक्षताङ्गो रणे पार्थः कौरवान् प्रत्यगृह्णात् ।
ज्यां चानुमृज्याभ्यहनत्तलत्रे बाणान्धकारं सहसा च चक्रे ॥८३॥

कर्णं च शल्यं च कुरूंश्च सर्वान् बाणैरविध्यत्प्रसभं किरीटी ।
न पक्षिणो बभ्रमुरन्तरिक्षे तदा महास्त्रेण कृतेऽन्धकारे ॥८४॥

वायुर्वियत्स्थैरीरितो भूतसङ्घैरुवाह दिव्यः सुरभिस्तदानीम् ।
शल्यं च पार्थो दशभिः पृषत्कैर्भृशं तनुत्रे प्रहसन्नविध्यत् ॥८५॥

ततः कर्णं द्वादशभिः सुमुक्तैर्विद्ध्वा पुनः सप्तभिरभ्यविद्ध्यत् ।
स पार्थबाणासनवेगमुक्तैर्दृढाहतः पत्रिभिरुग्रवेगैः ॥८६॥

विभिन्नगात्रः क्षतजोक्षिताङ्गः कर्णो बभौ रुद्र इवाततेषुः ।
प्रक्रीडमानोऽथ श्मशानमध्ये रौद्रे मुहूर्ते रुधिरार्द्रगात्रः ॥८७॥

ततस्त्रिभिस्तं त्रिदशाधिपोपमं शरैर्बिभेदाधिरथिर्धनञ्जयम् ।
शरांश्च पञ्च ज्वलितानिवोरगान् प्रवेशयामास जिघांसयाऽच्युतम् ॥८८॥

ते वर्म भित्त्वा पुरुषोत्तमस्य सुवर्णचित्रा न्यपतन्सुमुक्ताः ।
वेगेन गामाविविशुः सुवेगाः स्नात्वा च कर्णाद्विमुखाः प्रतीयुः ॥८९॥

स्नात्वेत्यनेन पातालगङ्गायास्तलं प्राप्य तदभिघातेन परावृत्ता इत्यर्थः ॥८९॥

तान् पञ्च भल्लैर्दशभिः सुमुक्तैस्त्रिधा त्रिधैकैकमथोच्चकर्त ।
धनञ्जयास्त्रैर्न्यपतन् पृथिव्यां महाहयस्तक्षकपुत्रपक्षाः ॥९०॥

तक्षकपुत्रपक्षा इति ते सर्पबाणाः अश्वसेनप्रयुक्ताः ॥९०॥

ततः प्रजज्वाल किरीटमाली क्रोधेन कक्षं प्रदहन्निवाग्निः ।
तथा विनुन्नाङ्गमवेक्ष्य कृष्णं सर्वेषुभिः कर्णभुजप्रसृष्टैः ॥९१॥

स कर्णमाकर्णविकृष्टसृष्टैः शरैः शरीरान्तकरैर्ज्वलद्भिः ।
मर्मस्वविध्यत्स चचाल दुःखाद्दैवा‌दवातिष्ठत धैर्यबुद्धिः ॥९२॥

ततः शरौघैः प्रदिशो दिशश्च रवेः प्रभा कर्णरथश्च राजन् ।
अदृश्यमासीत्कुपिते धनञ्जये तुषारनीहारवृतं यथा नभः ॥९३॥

स चक्ररक्षानथ पादक्षान् पुरःसरान् पृष्ठगोपांश्च सर्वान् ।
दुर्योधनेनानुमतानरिघ्नः समुद्यतान्सरथान्सारभूतान् ॥९४॥

द्विसाहस्रान्समरे सव्यसाची कुरुप्रवीरानृषभः कुरूणाम् ।
क्षणेन सर्वान्सरथाश्वसूतान्निनाय राजन् क्षयमेकवीरः ॥९५॥

ततोऽपलायन्त विहाय कर्णं तवात्मजाः कुरवो येऽवशिष्टाः ।
हतानपाकीर्य शरक्षतांश्च लालप्यमानांस्तनयान् पितॄंश्च ॥९६॥

स सर्वतः प्रेक्ष्य दिशो विशून्या भयावदीर्णैः कुरुभिर्विहीनः ।
न विव्यथे भारत तत्र कर्णः प्रहृष्ट एवार्जुनमभ्यधावत् ॥९७॥

इति श्रीमहाभारते कर्णपर्वणि कर्णार्जुनद्वैरथे ऊननवतितमोऽध्यायः ॥८९॥
नवतितमोऽध्यायः

सञ्जय उवाच। ततः प्रयाताः शरपातमात्रमवस्थिताः कुरवो भिन्नसेनाः ।
विद्युत्प्रकाशं ददृशुः समन्ताद्धनञ्जयास्त्रं समुदीर्यमाणम् ॥१॥

तत इति ॥१॥

तदर्जुनास्त्रं ग्रसति स्म कर्णो वियद्गतं घोरतरैः शरैस्तत् ।
क्रुद्धेन पार्थेन भृशाभिसृष्टं वधाय कर्णस्य महाविमर्दे ॥२॥

उदीर्यमाणं स्म कुरून्दहन्तं सुवर्णपुङ्खैर्विशिखैर्ममर्द ।
कर्णस्त्वमोघेष्वसनं दृढज्यं विस्फारयित्वा विसृजञ्छरौघान् ॥३॥

रामादुपात्तेन महामहिम्ना ह्याथर्वणेनारिविनाशनेन ।
तदर्जुनास्त्रं व्यधमद्दहन्तं कर्णस्तु बाणैर्निशितैर्महात्मा ॥४॥

ततो विमर्दः सुमहान् बभूव तत्रार्जुनस्याधिरथेश्च राजन् ।
अन्योन्यमासादयतोः पृषत्कैर्विषाणघातैर्द्विपयोरिवोग्रैः ॥५॥

तत्रास्त्रसंघातसमावृतं तदा बभूव राजंस्तुमुलं स्म सर्वतः ।
तत्कर्णपार्थो शरवृष्टिसंधैर्निरन्तरं चक्रतुरम्बरं तदा ॥६॥

ततो जालं बाणमयं महान्तं सर्वेऽद्राक्षुः कुरवः सोमकाश्च ।
नान्यं च भूतं ददृशुस्तदा ते बाणान्धकारे तुमुलेऽथ किंचित् ॥७॥

तौ सन्दधानावनिशं च राजन् समस्यन्तौ चापि शराननेकान् ।
सन्दर्शयेतां युधि मार्गान्विचित्रान् धनुर्धरौ तौ विविधैः कृतास्त्रैः ॥८॥

तयोरेवं युद्ध्यतोराजिमध्ये सूतात्मजोऽभूदधिकः कदाचित् ।
पार्थः कदाचित्त्वाधिकः किरीटी वीर्यास्त्रमायाबलपौरुषेण ॥९॥

दृष्ट्वा तयोस्तं युधि संप्रहारं परस्परस्यान्तरमीक्षमाणयोः ।
घोरं तयोर्दुर्विषहं रणेऽन्यैर्योधाः सर्वे विस्मयमभ्यगच्छन् ॥१०॥

ततो भूतान्यन्तरिक्षस्थितानि तौ कर्णपार्थौ प्रशशंसुर्नरेन्द्र ।
भोः कर्ण साध्वर्जुन साधु चेति वियत्सु वाणी श्रूयते सर्वतोऽपि ॥११॥

तस्मिन्विमर्दे रथवाजिनागैस्तदाभिघातैर्दलिते हि भूतले ।
ततस्तु पातालतले शयानो नागोऽश्वसेनः कृतवैरोऽर्जुनेन ॥१२॥

राजंस्तदा खाण्डवदाहमुक्तो विवेश कोपाद्वसुधातले यः ।
अथोत्पपातोर्ध्वगतिर्जवेन संदृश्य कर्णार्जुनयोर्विमर्दम् ॥१३॥

अयं हि कालोऽस्य दुरात्मनो वै पार्थस्य वैरप्रतियातनाय ।
सञ्चिन्त्य तूणं प्रविवेश चैव कर्णस्य राजञ्शररूपधारी ॥१४॥

ततोऽस्त्रसंघातसमाकुलं तदा बभूव जन्यं विततांशुजालम् ।
तत्कर्णपार्थौ शरसङ्घवृष्टिभिर्निरन्तरं चक्रतुरम्बरं तदा ॥१५॥

तद्बाणजालैकमयं महान्तं सर्वेऽत्रसन्कुरवः सोमकाश्च ।
नान्यत्किञ्चि‌द्ददृशुः संपतद्वै बाणान्धकारे तुमुलेऽतिमात्रम् ॥१६॥

बाणजालैकमयं दृष्ट्वेति शेषः ॥१६॥

ततस्तौ पुरुषव्याघ्रौ सर्वलोकधनुर्धरौ ।
त्यक्तप्राणौ रणे वीरौ युद्धश्रममुपागतौ ।
समुत्क्षेपैर्वीक्षमाणौ सिक्तौ चन्दनवारिणा ॥१७ ।
सवालव्यजनैर्दिव्यैर्दिविस्थैरप्सरोगणैः ।
शक्रसूर्यकराब्जाभ्यां प्रमार्जितमुखावुभौ ॥१८॥

कर्णोऽथ पार्थं न विशेषयद्यदा भृशं च पार्थेन शराभितप्तः ।
ततस्तु वीरः शरविक्षताङ्गो दध्रे मनो ह्येकशयस्य तस्य ॥१९॥

ततो रिपुघ्नं समधत्त कर्णः सुसञ्चितं सर्पमुखं ज्वलन्तम् ।
रौद्रं शरं सन्नतमुग्रधौतं पार्थार्थमत्यर्थचिराभिगुप्तम् ॥२०॥

सदार्चितं चन्दनचूर्णशायितं सुवर्णतूणीरशयं महार्चिषम् ।
आकर्णपूर्णं च विकृष्य कर्णः पार्थोन्मुखः सन्दधे चोत्तमौजाः ॥२१॥

प्रदीप्तमैरावतवंशसंभवं शिरो जिहीर्षुर्युधि सव्यसाचिनः ।
ततः प्रजज्वाल दिशो नभश्च उल्काश्च घोराः शतशः प्रपेतुः ॥२२॥

तस्मिंस्तु नागे धनुषि प्रयुक्ते हाहाकृता लोकपालाः सशक्राः ।
न चापि तं बुबुधे सूतपुत्रो बाणे प्रविष्टं योगबलेन नागम् ॥२३॥

दशशतनयनोऽर्हि दृश्य बाणे प्रविष्टं निहत इति सुतो मे स्रस्तगात्रो बभूव ।
जलजकुसुमयोनिः श्रेष्ठभावो जितात्मा त्रिदशपतिमवोचन्मा व्यथिष्ठा जये श्रीः ॥२४॥

ततोऽब्रवीन्मद्रराजो महात्मा दृष्ट्वा कर्णं प्रहितेषुं तमुग्रम् ।
न कर्णग्रीवामिषुरेष लप्स्यते समीक्ष्य सन्धत्स्व शरं शिरोध्रम् ॥२५॥

अथाब्रवीत्क्रोधसंरक्तनेत्रो मद्राधिपं सूतपुत्रस्तरस्वी ।
न संधत्ते द्विः शरं शल्य कर्णो न मादृशा जिह्मयुद्धा भवन्ति ॥२६॥

इतीदमुक्त्वा विससर्ज तं शरं प्रयत्नतो वर्षगणाभिपूजितम् ।
हतोऽसि वै फाल्गुन इत्यधिक्षिपन्नुवाच चोच्चैर्गिरमूर्जितां वृषः ॥२७॥

स सायकः कर्णभुजप्रसृष्टो हुताशनार्कप्रतिमः सुघोरः ।
गुणच्युतः कर्णधनुःप्रमुक्तो वियद्गतः प्राज्वलदन्तरिक्षे ॥२८॥

तं प्रेक्ष्य दीप्तं युधि माधवस्तु त्वरान्वितं सत्वरयैव लीलया ।
पदा विनिष्पिष्य रथोत्तमं स प्रावेशयत्पृथिवीं किञ्चिदेव ॥२९॥

क्षितिं गता जानुभिस्तेऽथ वाहा हेमच्छन्नाश्चन्द्रमरीचिवर्णाः ।
ततोऽन्तरिक्षे सुमहान्निनादः संपूजनार्थं मधुसूदनस्य ॥३०॥

दिव्याश्च वाचः सहसा बभुवुर्दिव्यानि पुष्पाण्यथ सिंहनादाः ।
तस्मिंस्तथा वै धरणीं निमग्ने रथे प्रयत्नान्मधुसूदनस्य ॥३१॥

ततः शरः सोऽभ्यहनत् किरीटं तस्येन्द्रदत्तं सुदृढं च धीमतः ।
अथार्जुनस्योत्तमगात्रभूषणं धराविय‌द्द्योसलिलेषु विश्रुतम् ॥३२॥

अथेति । मूर्ध्नः सकाशात् व्यालास्त्रस्य सर्गश्चोत्तमयत्नश्च मन्युश्च तैः प्रयुक्तेन शरेणोत्तमगात्रभूषणमुत्तमाङ्गभूषणं प्रजहारेति द्वयोः सम्बन्धः ॥३२॥

व्यालास्त्रसर्गोत्तमयत्नमन्युभिः शरेण मूर्ध्नः प्रजहार सूतजः ।
दिवाकरेन्दुज्वलनप्रभत्विषं सुवर्णमुक्तामणिवज्रभूषितम् ॥३३॥

पुरन्दरार्थं तपसा प्रयत्नतः स्वयं कृतं यद्विभुना स्वयंभुवा ।
महार्हरूपं द्विषतां भयंकरं बिभर्तुरत्यर्थसुखं सुगन्धिनम् ॥३४॥

जिघांसते देवरिपून्सुरेश्वरः स्वयं ददौ यत्सुमनः किरीटिने ।
हराम्बुपाखण्डलवित्तगोप्तृभिः पिनाकपाशाशनिसायकोत्तमैः ॥३५॥

सुरोत्तमैरप्यविषह्यमर्दितुं प्रसह्य नागेन जहार यद्वृषः ।
स दुष्टभावो वितथप्रतिज्ञः किरीटमत्यद्भुतमर्जुनस्य ॥३६॥

नागो महार्हं तपनीयचित्रं पार्थोत्तमाङ्गात्प्रहरत्तरस्वी ।
तद्धेमजालावततं सुघोषं जाज्वल्यमानं निपपात भूमौ ॥३७॥

तदुत्तमेषून्मथितं विषाग्निना प्रदीप्तमर्चिष्मदथो क्षितौ प्रियम् ।
पपात पार्थस्य किरीटमुत्तमं दिवाकरोऽस्तादिव रक्तमण्डलः ॥३८॥

स वै किरीटं बहुरत्नभूषितं जहार नागोऽर्जुनमूर्धतो बलात् ।
गिरेः सुजाताङ्कुरपुष्पितद्रुमं महेन्द्रवज्रः शिखरोत्तमं यथा ॥३९॥

मही वियत् द्यौः सलिलं च वायुना प्रसह्यमुग्रं विनिघूर्णितं यथा ।
अतीव शब्दो भुवनेषु वै तदा जनाऽध्यवस्यन्व्यथिताश्च चस्खलुः ॥४०॥

विना किरीटं शुशुभे स पार्थः श्यामो युवा नील इवोच्चशृङ्गः ।
ततः समुद्ग्रथ्य सितेन वाससा स्वमूर्धजानव्यथितस्तदाऽर्जुनः ।
विभासितः सूर्यमरीचिना दृढं शिरोगतेनोदयपर्वतो यथा ॥४१॥

गोकर्णा सुमुखी कृतेन इषुणा गोपुत्रसंप्रेषिता ।
गोशब्दात्मजभूषणं सुविहितं सुव्यक्तगोऽसुप्रभम् ।
दृष्ट्वा गोगतकं जहार मुकुटं गोशब्दगोपूरि वै ।
गोकर्णासनमर्दनश्च न ययावप्राप्य मृत्योर्वशम् ॥४२॥

नृस्त्रियोः स्वर्गवज्रांबुरश्मिदृग्बाणलोमसु' इति कोशः ॥४२॥

स सायकः कर्णभुजप्रसृष्टो हुताशनार्कप्रतिमो महार्हः ।
महोरगः कृतवैरोऽर्जुनेन किरीटमाहत्य ततो व्यतीयात् ॥४३॥

तं चापि दग्ध्वा तपनीयचित्रं किरीटमाकृष्य तदर्जुनस्य ।
इयेष गन्तुं पुनरेव तूणं दृष्टश्च कर्णेन ततोऽब्रवीत्तम् ॥४४॥

मुक्तस्त्वयाऽहं त्वसमीक्ष्य कर्ण शिरो हृतं यन्न मयाऽर्जुनस्य ।
समीक्ष्य मां मुञ्च रणे त्वमाशु हन्ताऽस्मि शत्रुं तव चात्मनश्च ॥४५॥

स एवमुक्तो युधि सूतपुत्रस्तमब्रवीत्को भवानुग्ररूपः ।
नागोऽब्रवीद्विद्धि कृतागसं मां पार्थेन मातुर्वधजातवैरम् ॥४६॥

यदि स्वयं वज्रधरोऽस्य गोप्ता तथाऽपि याता पितृराजवेश्मनि । कर्ण उवाच। न नाग कर्णोऽद्य रणे परस्य बलं समास्थाय जयं बुभूषेत् ॥४७॥

न सन्दध्यां द्विः शरं चैव नाग यद्यर्जुनानां शतमेव हन्याम् ।
तमाह कर्णः पुनरेव नागं तदाऽऽजिमध्ये रविसूनुसत्तमः ॥४८॥

व्यालास्त्रसर्गोत्तमयत्नमन्युभिर्हन्तास्मि पार्थं सुसुखी व्रज त्वम् ।
इत्येवमुक्तो युधि नागराजः कर्णेन रोषादसहंस्तस्य वाक्यम् ॥४९॥

कर्णेन वाक्यम् उक्तः संस्तद्वाक्यमसहन् असहमानः स्वयं प्रायादित्युत्तरेणान्वयः ॥४९॥

स्वयं प्रायात्पार्थवधाय राजन् कृत्वा स्वरूपं विजिघांसुरुग्रः ।
ततः कृष्णः पार्थमुवाच संख्ये महोरगं कृतवैरं जहि त्वम् ॥५०॥

स एवमुक्तो मधुसूदनेन गाण्डीवधन्वा रिपुवीर्यसाहः ।
उवाच को ह्येष ममाद्य नागः स्वयं य आयाद्गरुडस्य वक्त्रम् ॥५१॥

कृष्ण उवाच। योऽसौ त्वया खाण्डवे चित्रभानुं सन्तर्पयाणेन धनुर्धरेण ।
वियद्गतो जननीगुप्तदेहो मत्वैकरूपं निहताऽस्य माता ॥५२॥

स एष तद्वैरमनुस्मरन्वै त्वां प्रार्थयत्यात्मवधाय नूनम् ।
नभश्च्युतां प्रज्वलितामिवोल्कां पश्यैनमायान्तममित्रसाह ॥५३॥

महोल्कामिति पाठे इवेत्यध्याहृत्य योज्यम् ॥५३॥

सञ्जय उवाच। ततः स जिष्णुः परिवृत्य रोषाच्चिच्छेद पड्भिर्निशितैः सुधारैः ।
नागं वियत्तिर्यगिवोत्पतन्तं स च्छिन्नगात्रो निपपात भूमौ ॥५४॥

गते च तस्मिन् भुजगे किरीटिना स्वयं विभुः पार्थिवभूतलादथ ।
समुज्जहाराशु पुनः पतन्तं रथं भुजाभ्यां पुरुषोत्तमस्ततः ॥५५॥

गते गमिते विभुः समर्थः ॥५५॥

तस्मिन्मुहूर्ते दशभिः पृषत्कैः शिलाशितैर्बर्हिणबर्हवाजितैः ।
विव्याध कर्णः पुरुषप्रवीरो धनञ्जयं तिर्यगवेक्षमाणः ॥५६॥

बर्हिणां बर्हा एव वाजाः पक्षाः सञ्जाता येषां तैर्बर्हिणबर्हवाजितैः ॥५६॥

ततोऽर्जुनो द्वादशभिः सुमुक्तैर्वराहकर्णैर्निशितैः समर्प्य ।
नाराचमाशीविषतुल्यवेगमाकर्णपूर्णायतमुत्ससर्ज ॥५७॥

स चित्रवर्मेषुवरो विदार्य प्राणान्निरस्यन्निव साधु मुक्तः ।
कर्णस्य पीत्वा रुधिरं विवेश वसुन्धरां शोणितदिग्धवाजः ॥५८॥

ततो वृषो बाणनिपातकोपितो महोरगो दण्डविघट्टितो यथा ।
तदाशुकारी व्यसृजच्छरोत्तमान् महाविषः सर्प इवोत्तमं विषम् ॥५९॥

जनार्दनं द्वादशभिः पराभिनन्नवैर्नवत्या च शरैस्तथाऽर्जुनम् ।
शरेण घोरेण पुनश्च पाण्डवं विदार्य कर्णो व्यनदज्जहास च ॥६०॥

तमस्य हर्षं ममृषे न पाण्डवो बिभेद मर्माणि ततोऽस्य मर्मवित् ।
परःशतैः पत्रिभिरिन्द्रविक्रमस्तथा यथेन्द्रो बलमोजसा रणे ॥६१॥

ततः शराणां नवतिं तदाऽर्जुनः ससर्ज कर्णेऽन्तकदण्डसन्निभाम् ।
तैः पत्रिभिर्विद्धतनुः स विव्यथे तथा यथा वज्रविदारितोऽचलः ॥६२॥

मणिप्रवेकोत्तमवज्रहाटकैरलंकृतं चास्य वराङ्गभूषणम् ।
प्रविद्धमुर्व्यां निपपात पत्रिभिर्धनञ्जयेनोत्तमकुण्डलेऽपि च ॥६३॥

महाधनं शिल्पिवरैः प्रयत्नतः कृतं यदस्योत्तमवर्म भास्वरम् ।
सुदीर्घकालेन ततोऽस्य पाण्डवः क्षणेन बाणैर्बहुधा व्यशातयत् ॥६४॥

स तं विवर्माणमथोत्तमेषुभिः शितैश्चतुर्भिः कुपितः पराभिनत् ।
स विव्यथेऽत्यर्थमरिप्रताडितो यथाऽऽतुरः पित्तकफानिलज्वरैः ॥६५॥

महाधनुर्मण्डलनिःसृतैः शितैः क्रियाप्रयत्नप्रहितैर्बलेन च ।
ततक्ष कर्णं बहुभिः शरोत्तमैर्बिभेद मर्मस्वपि चार्जुनस्त्वरन् ॥६६॥

दृढाहतः पत्रिभिरुग्रवेगैः पार्थेन कर्णो विविधैः शिताग्रैः ।
बभौ गिरिर्गैरिकधातुरक्तः क्षरन्प्रपातैरिव रक्तमंभः ॥६७॥

ततोऽर्जुनः कर्णमवक्रगैर्नवैः सुवर्णपुंखैः सुदृढैरयस्मयैः ।
यमाग्निदण्डप्रतिमैः स्तनान्तरे पराभिनत्क्रौञ्चमिवाद्रिमग्निजः ॥६८॥

अग्निजः कार्तिकेयः ॥६८॥

ततः शरावापमपास्य सूतजो धनुश्च तच्छक्रशरासनोपमम् ।
ततो रथस्थः स मुमोह च स्खलन् प्रशीर्णमुष्टिः सुभृशाहतः प्रभो ॥६९॥

न चार्जुनस्तं व्यसने तदेषिवान्निहन्तुमार्यः पुरुषव्रते स्थितः ।
ततस्तमिन्द्रावरजः सुसंभ्रमादुवाच किं पाण्डव हे प्रमाद्यसे ॥७०॥

ईषिवान् मनसि कृतवान् ॥७०॥

नैवाहितानां सततं विपश्चितः क्षणं प्रतीक्षन्त्यपि दुर्बलीयसाम् ।
विशेषतोऽरीन्व्यसनेषु पण्डितो निहत्य धर्मं च यशश्च विन्दते ॥७१॥

तदेकवीरं तव चाहितं सदा त्वरस्व कर्णं सहसाऽभिमर्दितुम् ।
पुरा समर्थः समुपैति सूतजो भिन्धि त्वमेनं नमुचिं यथा हरिः ॥७२॥

ततस्तदेवेत्यभिपूज्य सत्वरं जनार्दनं कर्णमविध्यदर्जुनः ।
शरोत्तमैः सर्वकुरूत्तमस्त्वरंस्तथा यथा शम्बरहा पुरा बलिम् ॥७३॥

साश्वं तु कर्णं सरथं किरीटी समाचिनोद्भारत वत्सदन्तैः ।
प्रच्छादयामास दिशश्च बाणैः सर्वप्रयत्नात्तपनीयपुंखैः ॥७४॥

स वत्सदन्तैः पृथुपीनवक्षाः समाचितः सोऽधिरथिर्विभाति ।
सुपुष्पिताशोकपलाशशाल्मलिर्यथाऽचलश्चन्दनकाननायुतः ॥७५॥

शरैः शरीरे बहुभिः समर्पितैर्विभाति कर्णः समरे विशांपते ।
महीरुहैराचितसानुकन्दरो यथा गिरीन्द्रः स्फुटकर्णिकारवान् ॥७६॥

स बाणसङ्घान् बहुधा व्यवासृजन् विभाति कर्णः शरजालरश्मिवान् ।
स लोहितो रक्तगभस्तिमण्डलो दिवाकरोऽस्ताभिमुखो यथा तथा ॥७७॥

बाह्वन्तरादाधिरथेर्विमुक्तान् बाणान्महाहीनिव दीप्यमानान् ।
व्यध्वंसयन्नर्जुनबाहुमुक्ताः शराः समासाद्य दिशः शिताग्राः ॥७८॥

ततः स कर्णः समवाप्य धैर्यं बाणान्विमुञ्चन् कुपिताहिकल्पान् ।
विव्याध पार्थ दशभिः पृषत्कैः कृष्णं च षड्भिः कुपिताहिकल्पैः ॥७९॥

ततः किरीटी भृशमुग्रनिःस्वनं महाशरं सर्पविषानलोपमम् ।
अयस्मयं रौद्रमहास्त्रसंभृतं महाहवे क्षेप्तुमना महामतिः ॥८०॥

कालो ह्यदृश्यो नृप विप्रकोपान्निदर्शयन्कर्णवधं ब्रुवाणः ।
भूमिस्तु चक्रं ग्रसतीत्यवोचत्कर्णस्य तस्मिन्वधकाल आगते ॥८१॥

काल इति । हे नृप कर्णवधम् अभिलक्ष्येति शेष । ब्रुवाणः वक्ता ॥८१॥

ततस्तदस्त्रं मनसः प्रनष्टं यद्भार्गवोऽस्मै प्रददौ महात्मा ।
चक्रं च वामं ग्रसते भूमिरस्य प्राप्ते तस्मिन्वधकाले नृवीर ॥८२॥

वामं चक्रं ग्रसते नृवीरेत्यत्रात्ति सौतेरिति पाठे ग्रसते अत्ति च न तु निगीर्णमुद्वमन्तीत्यर्थः ॥८२॥

ततो रथो घूर्णितवान्नरेन्द्र शापात्तदा ब्राह्मणसत्तमस्य ।
ततश्चक्रमपतत्तस्य भूमौ स विह्वलः समरे सूतपुत्रः ॥८३॥

सवेदिकश्चैत्य इवातिमात्रः सुपुष्पितो भूमितले निमग्नः ।
घूर्णे रथे ब्राह्मणस्याभिशापाद्रामादुपात्ते त्वविभाति चास्त्रे ॥८४॥

चैत्यः सवेदिको ग्रामसूचको महाद्रुमः ॥८४॥

छिन्ने शरे सर्पमुखे च घोरे पार्थेन तस्मिन्विषसाद कर्णः ।
अमृष्यमाणो व्यसनानि तानि हस्तौ विधुन्वन्स विगर्हमाणः ॥८५॥

धर्मप्रधानं किल पाति धर्म इत्यब्रुवन् धर्मविदः सदैव ।
वयं च धर्मे प्रयताम नित्यं चर्तुं यथाशक्ति यथाश्रुतं च ॥८६॥

स चापि निघ्नाति न पाति भक्तान् मन्ये न नित्यं परिपाति धर्मः ।
एवं ब्रुवन्प्रस्खलिताश्वसूतो विचाल्यमानोऽर्जुनबाणपातैः ।
मर्माभिघाताच्छिथिलः क्रियासु पुनः पुनर्धर्ममसौ जगर्ह ॥८७॥

ततः शरैर्भीमतरैरविध्यत्त्रिभिराहवे ।
हस्ते कृष्णं तथा पार्थमभ्यविध्यच्च सप्तभिः ॥८८॥

ततोऽर्जुनः सप्तदश तिग्मवेगानजिह्मगान् ।
इन्द्राशनिसमान् घोरानसृजत्पावकोपमान् ॥८९॥

निर्भिद्य ते भीमवेगा ह्यपतन् पृथिवीतले ।
कम्पितात्मा ततः कर्णः शक्त्या चेष्टामदर्शयत् ॥९०॥

बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत् ।
ऐन्द्रं ततोऽर्जुनश्चापि तं दृष्ट्वाऽभ्युपमन्त्रयत् ॥९१॥

अभ्युपमन्त्रयत् गाण्डीवमित्युत्तरान्वयि ॥९१॥

गाण्डीवं ज्यां च बाणांश्च सोऽनुमन्त्र्य परन्तपः ।
व्यसृजच्छरवर्षाणि वर्षाणीव पुरन्दरः ॥९२॥

ततस्तेजोमया बाणा रथात्पार्थस्य निःसृताः ।
प्रादुरासन्महावीर्याः कर्णस्य रथमन्तिकात् ॥९३॥

तान् कर्णस्त्वग्रतो न्यस्तान् मोघांश्चक्रे महारथः ।
ततोऽवव्रीद्वृष्णिवीरस्तस्मिन्नस्त्रे विनाशिते ॥९४॥

विसृजास्त्रं परं पार्थ राधेयो ग्रसते शरान् ।
ततो ब्रह्मास्त्रमत्युग्रं संमन्त्र्य समयोजयत् ॥९५॥

छा‌दयित्वा ततो बाणैः कर्णं प्रत्यस्यदर्जुनः ।
ततः कर्णः शितैर्बाणैर्ज्यां चिच्छेद सुतेजनैः ॥९६॥

प्रत्यस्यत् प्रतिप्राक्षिपत् ॥९६॥

द्वितीयां च तृतीयां च चतुर्थीं पञ्चमीं तथा ।
षष्ठीमथास्य चिच्छेद सप्तमीं च तथाऽष्टमीम् ॥९७॥

नवमीं दशमीं चास्य तथा चैकादशीं वृषः ।
ज्याशतं शतसन्धानः स कर्णो नावबुध्यते ॥९८॥

ततो ज्यां विनिधायान्यामभिमन्त्र्य च पाण्डवः ।
शरैरवाकिरत्कर्णं दीप्यमानैरिवाहिभिः ॥९९॥

तस्य ज्याच्छेदनं कर्णो ज्यावधानं च संयुगे ।
नान्वबुध्यत शीघ्रत्वात्तद‌द्भुतमिवाभवत् ॥१००॥

अस्त्रैरस्त्राणि संवार्य प्रनिघ्नन्संव्यसाचिनः ।
चक्रे चाप्यधिकं पार्थात् स्ववीर्यमतिदर्शयन् ॥१०१॥

ततः कृष्णोऽर्जुनं दृष्ट्वा कर्णास्त्रेण च पीडितम् ।
अभ्यसेत्यब्रवीत्पार्थमातिष्ठास्त्रं व्रजेति च ॥१०२॥

अभ्यस पुनः पुनः अस्त्रम् आतिष्ठ, व्रज प्रेरयेत्यब्रवीदिति योजना ॥१०२॥

ततोऽग्निसदृशं घोरं शरं सर्पविषोपमम् ।
अश्मसारमयं दिव्यमभिमन्त्र्य परन्तपः ॥१०३॥

रौद्रमस्त्रं समाधाय क्षेप्तुकामः किरीटवान् ।
ततोऽग्रसन्मही चक्रं राधेयस्य तदा नृप ॥१०४॥

ततोऽवतीर्य राधेयो रथादाशु समुद्यतः ।
चक्रं भुजाभ्यामालम्ब्य समुत्क्षेप्तुमियेष सः ॥१०५॥

सप्तद्वीपा वसुमती सशैलवनकानना ।
गीर्णचक्रा समुत्क्षिप्ता कर्णेन चतुरङ्गुलम् ॥१०६॥

ग्रस्तचक्रस्तु राधेयः क्रोधादश्रूण्यवर्तयत् ।
अर्जुनं वीक्ष्य संरब्धमिदं वचनमब्रवीत् ॥१०७॥

भो भो पार्थ महेष्वास मुहूर्तं परिपालय ।
यावच्चक्रमिदं ग्रस्तमुद्धरामि महीतलात् ॥१०८॥

सव्यं चक्रं महीग्रस्तं दृष्ट्वा दैवादिदं मम ।
पार्थ कापुरुषाचीर्णमभिसन्धिं विसर्जय ॥१०९॥

न त्वं कापुरुषाचीर्णं मार्गमास्थातुमर्हसि ।
ख्यातस्त्वमसि कौन्तेय विशिष्टो रणकर्मसु ॥११०॥

विशिष्टतरमेव त्वं कर्तुमर्हसि पाण्डव ।
प्रकीर्णकेशे विमुखे ब्राह्मणेऽथ कृताञ्जलौ ॥१११॥

शरणागते न्यस्तशस्त्रे याचमाने तथाऽर्जुन ।
अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा ॥११२॥

न विमुञ्चन्ति शस्त्राणि शूराः साधुव्रते स्थिताः ।
त्वं च शूरतमो लोके साधुवृत्तश्च पाण्डव ॥११३॥

अभिज्ञो युद्धधर्माणां वेदान्तावभृथाप्लुतः ।
दिव्यास्त्रविदमेयात्मा कार्तवीर्यसमो युधि ॥११४॥

यावच्चक्रमिदं ग्रस्तमुद्धरामि महाभुज ।
न मां रथस्थो भूमिष्ठं विकलं हन्तुमर्हसि ॥११५॥

न वासुदेवात्त्वत्तो वा पाण्डवेय बिभेम्यहम् ।
त्वं हि क्षत्रियदायादो महाकुलविवर्धनः ।
अतस्त्वां प्रब्रवीम्येष मुहूर्तं क्षम पाण्डव ॥११६॥

इति श्रीमहाभारते कर्णपर्वणि कर्णरथचक्रग्रसने नवतितमोऽध्यायः ॥९०॥
एकनवतितमोऽध्यायः

सञ्जय उवाच। तमब्रवीद्वासुदेवो रथस्थो राधेय दिष्ट्या स्मरसीह धर्मम् ।
प्रायेण नीचा व्यसनेषु मग्ना निन्दन्ति दैवं कुकृतं न तु स्वम् ॥१॥

तमिति ॥१॥

यद्द्रौपदीमेकवस्त्रां सभायामानाययेस्त्वं च सुयोधनश्च ।
दुःशासनः शकुनिः सौबलश्च न ते कर्ण प्रत्यभात्तत्र धर्मः ॥२॥

यदा सभायां राजानमनक्षज्ञं युधिष्ठिरम् ।
अजैषीच्छकुनिर्ज्ञानात् क्व ते धर्मस्तदा गतः ॥३॥

वनवासे व्यतीते च कर्ण वर्षे त्रयोदशे ।
न प्रयच्छसि यद्राज्यं क्व ते धर्मस्तदा गतः ॥४॥

यद्भीमसेनं सर्पैश्च विषयुक्तैश्च भोजनैः ।
आचरत्त्वन्मते राजा क्व ते धर्मस्तदा गतः ॥५॥

यद्वारणावते पार्थान्सुप्ताञ्जतुगृहे तदा ।
आदीपयस्त्वं राधेय क्व ते धर्मस्तदा गतः ॥६॥

यदा रजस्वलां कृष्णां दुःशासनवशे स्थिताम् ।
सभायां प्राहसः कर्ण क्व ते धर्मस्तदा गतः ॥७॥

यदनार्यैः पुरा कृष्णां क्लिश्यमानामनागसम् ।
उपप्रेक्षसि राधेय क्व ते धर्मस्तदा गतः ॥८॥

विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः ।
पतिमन्यं वृणीष्वेति वदंस्त्वं गजगामिनीम् ॥९॥

उपप्रेक्षसि राधेय क्व ते धर्मस्तदा गतः ।
राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवान् ॥१०॥

यदा शकुनिमाश्रित्य क्व ते धर्मस्तदा गतः ।
यदाऽभिमन्युं बहवो युद्धे जघ्नुर्महारथाः ।
परिवार्य रणे बालं क्व ते धर्मस्तदा गतः ॥११॥

यद्येष धर्मस्तत्र न विद्यते हि किं सर्वथा तालुविशोषणेन ॥१२॥

अद्येह धर्म्याणि विधत्स्व सूत तथापि जीवन्न विमोक्ष्यसे हि ।
नलो ह्यक्षैर्निर्जितः पुष्करेण पुनर्यशो राज्यमवाप वीर्यात् ॥१३॥

प्राप्तास्तथा पाण्डवा बाहुवीर्यात्सर्वैः समेताः परिवृत्तलोभाः ।
निहत्य शत्रून्समरे प्रवृद्धान् ससोमका राज्यमवाप्नुयुस्ते ॥१४॥

तथा गता धार्तराष्ट्रा विनाशं धर्माभिगुप्तैः सततं नृसिंहैः । सञ्जय उवाच। एवमुक्तस्तदा कर्णो वासुदेवेन भारत ॥१५॥

लज्जयावनतो भूत्वा नोत्तरं किञ्चिदुक्तवान् ।
क्रोधात्प्रस्फुरमाणौष्ठो धनुरुद्यम्य भारत ॥१६॥

योधयामास वै पार्थं महावेगपराक्रमः ।
ततोऽब्रवीद्वासुदेवः फाल्गुनं पुरुषर्षभम् ॥१७॥

दिव्यास्त्रेणैव निर्भिद्य पातयस्व महाबल ।
एवमुक्तस्तु देवेन क्रोधमागात्तदार्जुनः ॥१८॥

मन्युमभ्याविशद्धोरं स्मृत्वा तत्तु धनञ्जयः ।
तस्य क्रुद्धस्य सर्वेभ्यः स्रोतोभ्यस्तेजसोर्चिषः ॥१९॥

प्रादुरासंस्तदा राजंस्तद‌द्भुतमिवाभवत् ।
तत्समीक्ष्य ततः कर्णो ब्रह्मास्त्रेण धनञ्जयम् ॥२०॥

अभ्यवर्षत्पुनर्यत्नमकरोद्रथसर्जने ।
ब्रह्मास्त्रेणैव तं पार्थो ववर्ष शरवृष्टिभिः ॥२१॥

तदस्त्रमस्त्रेणावार्य प्रजहार च पाण्डवः ।
ततोऽन्यदस्त्रं कौन्तेयो दयितं जातवेदसः ॥२२॥

मुमोच कर्णमुद्दिश्य तत्प्रजज्वाल तेजसा ।
वारुणेन ततः कर्णः शमयामास पावकम् ॥२३॥

जीमूतैश्च दिशः सर्वाश्चक्रे तिमिरदुर्दिनाः ।
पाण्डवेयस्त्वसंभ्रान्तो वायव्यास्त्रेण वीर्यवान् ॥२४॥

अपोवाह तदाऽभ्राणि राधेयस्य प्रपश्यतः ।
ततः शरं महाघोरं ज्वलन्तमिव पावकम् ॥२५॥

आददे पाण्डुपुत्रस्य सूतपुत्रो जिघांसया ।
योज्यमाने ततस्तस्मिन् बाणे धनुषि पूजिते ॥२६॥

चचाल पृथिवी राजन् सशैलवनकानना ।
ववौ सशर्करो वायुर्दिशश्च रजसा वृताः ॥२७॥

हाहाकारश्च सञ्जज्ञे सुराणां दिवि भारत ।
तमिषुं सन्धितं दृष्ट्वा सूतपुत्रेण मारिष ॥२८॥

विषादं परमं जग्मुः पाण्डवा दीनचेतसः ।
स सायकः कर्णभुजप्रमुक्तः शक्राशनिप्रख्यरुचिः शिताग्रः ॥२९॥

भुजान्तरं प्राप्य धनञ्जयस्य विवेश वल्मीकमिवोरगोत्तमः ।
स गाढविद्धः समरे महात्मा विघूर्णमानः श्लथहस्तगाण्डिवः ॥३०॥

चचाल बीभत्सुरमित्रमर्दनः क्षितेः प्रकम्पे च यथाऽचलोत्तमः ।
तदन्तरं प्राप्य वृषो महारथो रथाङ्गमुर्वीगतमुज्जिहीर्षुः ॥३१॥

रथादवप्लुत्य निगृह्य दोर्भ्यां शशाक देवान्न महाबलोऽपि ।
ततः किरीटी प्रतिलभ्य संज्ञां जग्राह बाणं यमदण्डकल्पम् ॥३२॥

ततोऽर्जुनः प्राञ्जलिकं महात्मा ततोऽब्रवीद्वासुदेवोऽपि पार्थम् ।
छिन्ध्यस्य मूर्धानमरेः शरेण न यावदारोहति वै रथं वृषः ॥३३॥

तथैव सम्पूज्य स तद्वचः प्रभोस्ततः शरं प्रज्वलितं प्रगृह्य ।
जघान कक्षाममलार्कवर्णां महारथे रथचक्रे विमग्ने ॥३४॥

तं हस्तिकक्षाप्रवरं च केतुं सुवर्णमुक्तामणिवज्रपृष्ठम् ।
ज्ञानप्रकर्षोत्तमशिल्पियुक्तैः कृतं सुरूपं तपनीयचित्रम् ॥३५॥

जयास्पदं तव सैन्यस्य नित्यममित्रवित्रासनीड्यरूपम् ।
विख्यातमादित्यसमं स्म लोके त्विषा समं पावक-भानु-चन्द्रैः ॥३६॥

ततः क्षुरप्रेण सुसंशितेन सुवर्णपुङ्खेन हुताग्निवर्चसा ।
श्रिया ज्वलन्तं ध्वजमुन्ममाथ महारथस्याधिरथेः किरीटी ॥३७॥

यशश्च दर्पश्च तथा प्रियाणि सर्वाणि कार्याणि च तेन केतुना ।
साकं कुरूणां हृ‌दयानि चापतन् बभूव हाहेति च निःस्वनो महान् ॥३८॥

दृष्ट्वा ध्वजं पातितमाशुकारिणा कुरुप्रवीरेण निकृत्तमाहवे ।
नाशंसिरे सूतपुत्रस्य सर्वे जयं तदा भारत ये त्वदीयाः ॥३९॥

अथ त्वरन् कर्णवधाय पार्थो महेन्द्रवज्रानलदण्डसन्निभम् ।
आदत्त चाथाञ्जलिकं निषङ्गात्सहस्ररश्मेरिव रश्मिमुत्तमम् ॥४०॥

मर्मच्छिदं शोणितमांसदिग्धं वैश्वानरार्कप्रतिमं महार्हम् ।
नराश्वनागासुहरं त्र्यरत्निं षड्वाजमञ्जोगतिमुग्रवेगम् ॥४१॥

सहस्रनेत्राशनितुल्यवीर्यं कालानलं व्यात्तमिवातिघोरम् ।
पिनाकनारायणचक्रसन्निभं भयङ्करं प्राणभृतां विनाशनम् ॥४२॥

जग्राह पार्थः स शरं प्रहृष्टो यो देवसङ्घैरपि दुर्निवार्यः ।
संपूजितो यः सततं महात्मा देवासुरान्यो विजयेन्महेषुः ॥४३॥

तं वै प्रमृष्टं प्रसमीक्ष्य युद्धे चचाल सर्वं सचराचरं जगत् ।
स्वस्ति जगत्स्यादृषयः प्रचुक्रुशुस्तमुद्यतं प्रेक्ष्य महाहवेषुम् ॥४४॥

ततस्तु तं वै शरमप्रमेयं गाण्डीवधन्वा धनुषि व्ययोजयत् ।
युक्त्वा महास्त्रेण परेण चापं विकृष्य गाण्डीवमुवाच सत्वरम् ॥४५॥

अयं महास्त्रप्रहितो महाशरः शरीरहृच्चासुहरश्च दुर्हृदः ।
तपोऽस्ति तप्तं गुरवश्च तोषिता मया यदीष्टं सुहृदां श्रुतं तथा ॥४६॥

अनेन सत्येन निहन्त्वयं शरः सुसंश्रितः कर्णमरिं ममोर्जितम् ।
इत्यूचिवांस्तं प्रमुमोच बाणं धनञ्जयः कर्णवधाय घोरम् ॥४७॥

कृत्यामथर्वाङ्गिरसीमिवोग्रां दीप्तामसह्यां युधि मृत्युनापि ।
ब्रुवन् किरीटी तमतिप्रहृष्टो ह्ययं शरो मे विजयावहोऽस्तु ॥४८॥

जिघांसुरर्केन्दुसमप्रभावः कर्णं मयास्तो नयतां यमाय ।
तेनेषुवर्येण किरीटमाली प्रहृष्टरूपो विजयावहेन ॥४९॥

जिघांसुरर्केन्दुसमप्रभेण चक्रे विषक्तं रिपुमाततायी ।
तथा विमुक्तो बलिनाऽर्कतेजाः प्रज्वालयामास दिशो नभश्च ।
ततोऽर्जुनस्तस्य शिरो जहार वृत्रस्य वज्रेण यथा महेन्द्रः ॥५०॥

शरोत्तमेनाञ्जलिकेन राजंस्तदा महास्त्रप्रतिमन्त्रितेन ।
पार्थोऽपराह्णे शिर उच्चकर्त वैकर्तनस्याथ महेन्द्रसूनुः ॥५१॥

तत्प्रापतच्चाञ्जलिकेन च्छिन्नमपास्य कायो निपपात पश्चात् ।
तदुद्यतादित्यसमानतेजसं शरन्नभोमध्यगभास्करोपमम् ॥५२॥

वराङ्गमुर्व्यामपतच्चमूमुखे दिवाकरोऽस्तादिव रक्तमण्डलः ।
ततोऽस्य देहं सततं सुखोचितं सुरूपमत्यर्थमुदारकर्मणः ॥५३॥

परेण कृच्छ्रेण शिरः समत्यजद्गृहं महर्धीव सुसङ्गमीश्वरः ।
शरैर्विभिन्नं व्यसु तत्सुवर्चसः पपात कर्णस्य शरीरमुच्छ्रितम् ॥५४॥

स्रवद्व्रणं गैरिकतोयविस्रवं गिरेर्यथा वज्रहतं महाशिरः ।
देहाच्च कर्णस्य निपातितस्य तेजः सूर्यं खं वितत्याविवेश ॥५५॥

तद‌द्भुतं सर्वमनुष्ययोधाः संदृष्टवन्तो निहते स्म कर्णे ।
ततः शङ्खान् पाण्डवा दध्मुरुच्चैर्दृष्ट्वा कर्णं पातितं फाल्गुनेन ॥५६॥

तथैव कृष्णश्च धनञ्जयश्च हृष्टौ यमौ दध्मतुर्वारिजातौ ।
तं सोमकाः प्रेक्ष्य हतं शयानं सैन्यैः सार्धं सिंहनादान्प्रचकुः ॥५७॥

तूर्याणि सञ्जघ्नुरतीव हृष्टा वासांसि चैवादुधुवुर्भुजांश्च ।
संवर्धयन्तश्च नरेन्द्रयोधाः पार्थं समाजग्मुरतीव हृष्टाः ॥५८॥

बलान्विताश्चापरे ह्यप्यनृत्यन्नन्योन्यमाश्लिष्य नदन्त ऊचुः ।
दृष्ट्वा तु कर्णं भुवि वा विपन्नं कृत्तं रथात्सायकैरर्जुनस्य ॥५९॥

महानिलेनाद्रिमिवापविद्धं यज्ञावसानेऽग्निमिव प्रशान्तम् ।
रराज कर्णस्य शिरो निकृत्तमस्तं गतं भास्करस्येव बिम्बम् ॥६०॥

शरैराचितसर्वाङ्गः शोणितौघपरिप्लुतः ।
विभाति देहः कर्णस्य स्वरश्मिभिरिवांशुमान् ॥६१॥

प्रताप्य सेनामामित्रीं दीप्तैः शरगभस्तिभिः ।
बलिनाऽर्जुनकालेन नीतोऽस्तं कर्णभास्करः ॥६२॥

अस्तं गच्छन्यथादित्यः प्रभामादाय गच्छति ।
तथा जीवितमादाय कर्णस्येषुर्जगाम सः ।
अपराह्णेऽपराह्णोऽस्य सूतपुत्रस्य मारिष ॥६३॥

अपराह्णे दिवसस्य पश्चिमे भागे अपरं चरमम् अहः मरणदिनं यस्य ॥६३॥

छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः ।
उपर्युपरि सैन्यानामस्य शत्रोस्तदञ्जसा ।
शिरः कर्णस्य सोत्सेधमिषुः सोऽप्यहरद्द्रुतम् ॥६४॥

कर्णं तु शूरं पतितं पृथिव्यां शराचितं शोणितदिग्धगात्रम् ।
दृष्ट्वा शयानं भुवि मद्रराजश्छिन्नध्वजेनाथ ययौ रथेन ॥६५॥

हते कर्णे कुरवः प्राद्रवन्त भयार्दिता गाढविद्धाश्च संख्ये ।
अवेक्षमाणा मुहुरर्जुनस्य ध्वजं महान्तं वपुषा ज्वलन्तम् ॥६६॥

सहस्रनेत्रप्रतिमानकर्मणः सहस्रपत्रप्रतिमाननं शुभम् ।
सहस्ररश्मिर्दिनसंक्षये यथा तथाऽपतत्कर्णशिरो वसुन्धराम् ॥६७॥

इति श्रीमहाभारते कर्णपर्वणि कर्णवधे एकनवतितमोऽध्यायः ॥९१॥
द्विनवतितमोऽध्यायः

सञ्जय उवाच। शल्यस्तु कर्णार्जुनयोर्विमर्दे बलानि दृष्ट्वा मृदितानि बाणैः ।
ययौ हते चाधिरथौ पदानुगे रथेन संछिन्नपरिच्छदेन ॥१॥

शल्य इति । रथेन ग्रस्तचक्रेण हेतुना पदानुगे पदचारिणि ॥१॥

निपातितस्यनन्दनवाजिनागं बलं च दृष्ट्वा हतसूतपुत्रम् ।
दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो दीनो मुहुर्निःश्वसंश्चार्तरूपः ॥२॥

कर्णं तु शूरं पतितं पृथिव्यां शराचितं शोणितदिग्धगात्रम् ।
यदृच्छया सूर्यमिवावनिस्थं दिदृक्षवः संपरिवार्य तस्थुः ॥३॥

प्रहृष्टवित्रस्तविषण्णविस्मितास्तथा परे शोकहता इवाभवन् ।
परे त्वदीयाश्च परस्परेण यथायथैषां प्रकृतिस्तथाऽभवन् ॥४॥

प्रहृष्टा अर्जुनादयः वित्रस्ता भीरवः विषण्णाः शत्रवः विस्मिताः प्रेक्षकाः ॥४॥

प्रविद्धवर्माभरणाम्बरायुधं धनञ्जयेनाभिहतं महौजसम् ।
निशाम्य कर्णं कुरवः प्रदुद्रुवुर्हतर्षभा गाव इवाजने वने ॥५॥

भीमश्च भीमेन तदा स्वनेन नादं कृत्वा रोदसी कम्पयानः ।
आस्फोटयन्वल्गते नृत्यते च हते कर्णे त्रासयन् धार्तराष्ट्रान् ॥६॥

तथैव राजन् सोमकाः सृञ्जयाश्च शङ्खान् दध्मुः सस्वजुश्चापि सर्वे ।
परस्परं क्षत्रिया हृष्टरूपाः सूतात्मजे वै निहते तदानीम् ॥७॥

कृत्वा विमर्दं महदर्जुनेन कर्णो हतः केसरिणेव नागः ।
तीर्णा प्रतिज्ञा पुरुषर्षभेण वैरस्यान्तं गतवांश्चापि पार्थः ॥८॥

मद्राधिपश्चापि विमूढचेतास्तूर्णं रथेनापकृतध्वजेन ।
दुर्योधनस्यान्तिकमेत्य राजन् सबाष्पदुःखाद्वचनं बभाषे ॥९॥

विशीर्णनागाश्वरथप्रवीरं बलं त्वदीयं यमराष्ट्रकल्पम् ।
अन्योन्यमासाद्य हतं महद्भिर्नराश्वनागैर्गिरिकूटकल्पैः ॥१०॥

नैतादृशं भारत युद्धमासीद्यथा तु कर्णार्जुनयोर्बभूव ।
ग्रस्तौ हि कर्णेन समेत्य कृष्णावन्ये च सर्वे तव शत्रवो ये ॥११॥

दैवं ध्रुवं पार्थवशात्प्रवृत्तं यत्पाण्डवान्पाति हिनस्ति चास्मान् ।
तवार्थसिद्ध्यर्थकरास्तु सर्वे प्रसह्य वीरा निहता द्विषद्भिः ॥१२॥

कुबेरवैवस्वतवासवानां तुल्यप्रभावा नृपते सुवीराः ।
वीर्येण शौर्येण बलेन तेजसा तैस्तैस्तु युक्ता विविधैर्गुणौघैः ॥१३॥

अवध्यकल्पा निहता नरेन्द्रास्तवार्थकामा युधि पाण्डवेयैः ।
तान्मा शुचो भारत दिष्टमेतत् पर्याश्वस त्वं न सदाऽस्ति सिद्धिः ॥१४॥

एतद्वचो मद्रपतेर्निशम्य स्वं चाप्यनीतं मनसा निरीक्ष्य ।
दुर्योधनो दीनमना विसंज्ञः पुनः पुनर्न्यश्वसदार्तरूपः ॥१५॥

इति श्रीमहाभारते कर्णपर्वणि शल्यप्रत्यागमने द्विनवतितमोऽध्यायः ॥९२॥
त्रिनवतितमोऽध्यायः

धृतराष्ट्र उवाच। तस्मिंस्तु कर्णार्जुनयोर्विमर्दे दग्धस्य रौद्रेऽहनि विद्रुतस्य ।
बभूव रूपं कुरुसृञ्जयानां बलस्य बाणोन्मथितस्य कीदृक् ॥१॥

तस्मिन्निति ॥१॥

सञ्जय उवाच। शृणु राजन्नवहितो यथा वृत्तो महाक्षयः ।
घोरो मनुष्यदेहानामाजौ च गजवाजिनाम् ॥२॥

यत्र कर्णे हते पार्थः सिंहनाद‌मथाकरोत् ।
तदा तव सुतान्राजन्नाविवेश महद्भयम् ॥३॥

न सन्धातुमनीकानि न चैवाशु पराक्रमे ।
आसीद्बुद्धिर्हते कर्णे तव योधस्य कर्हिचित् ॥४॥

वणिजो नावि भिन्नायामगाधे विप्लवे यथा ।
अपारे पारमिच्छन्तो हते द्वीपे किरीटिना ॥५॥

सूतपुत्रे हते राजन् वित्रस्ताः शस्त्रविक्षताः ।
अनाथा नाथमिच्छन्तो मृगाः सिंहैरिवार्दिताः ॥६॥

भग्नशृंगा वृषा यद्वद्भग्नदंष्ट्रा इवोरगाः ।
प्रत्यपायामसायान्हे निर्जिताः सव्यसाचिना ॥७॥

हतप्रवीरा विध्वस्ता निकृत्ता निशितैः शरैः ।
सूतपुत्रे हते राजन् पुत्रास्ते दुद्रुवुर्भयात् ॥८॥

विस्रस्तयन्त्रकवचाः कांदिग्भूता विचेतसः ।
अन्योन्यमवमृद्नन्तो वीक्षमाणा भयार्दिताः ॥९॥

मामेव नूनं बीभत्सुर्मामेव च वृकोदरः ।
अभियातीति मन्वानाः पेतुर्मम्लुश्च संभ्रमात् ॥१०॥

हयानन्ये गजानन्ये रथानन्ये महारथाः ।
आरुह्य जवसंपन्नाः पदातीन्प्रजहुर्भयात् ॥११॥

कुञ्जरैः स्यन्दनाः क्षुण्णाः सादिनश्च महारथैः ।
पदातिसंघाश्चाश्वौघैः पलायद्भिर्भयार्दितैः ॥१२॥

व्यालतस्करसंकीर्णे सार्थहीना यथा वने ।
सूतपुत्रे हते राजंस्तव योधास्तथाऽभवन् ॥१३॥

हतारोहा यथा नागाश्छिन्नहस्ता यथा नराः ।
सर्वे पार्थमयं लोकं संपश्यन्तो भयार्दिताः ॥१४॥

संप्रेक्ष्य द्रवतः सर्वान् भीमसेनभयार्दितान् ।
दुर्योधनोऽथ स्वं सूतं हाहाकृत्वेद‌मब्रवीत् ॥१५॥

नातिक्रमेच्च मां पार्थो धनुष्पाणिमवस्थितम् ।
जघने सर्वसैन्यानां शनैरश्वान्प्रचोदय ॥१६॥

युध्यमानं हि कौन्तेयं हनिष्यामि न संशयः ।
नोत्सहेन्मामतिक्रान्तुं वेलामिव महोदधिः ॥१७॥

अद्यार्जुनं सगोविन्दं मानिनं च वृकोदरम् ।
हन्यां शिष्टांस्तथा शत्रून् कर्णस्यानृण्यमाप्नुयाम् ॥१८॥

तच्छ्रुत्वा कुरुराजस्य शूरार्यसदृशं वचः ।
सूतो हेमपरिच्छन्नान् शनैरश्वानचोदयत् ॥१९॥

रथाश्वनागहीनास्तु पादातास्तव मारिष ।
पञ्चविंशतिसाहस्रा युद्धायैव व्यवस्थिताः ॥२०॥

तान् भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः ।
बलेन चतुरङ्गेण संवृत्याजघ्नतुः शरैः ॥२१॥

प्रत्ययुध्यन्त समरे भीमसेनं सपार्षतम् ।
पार्थपार्षतयोश्चान्ये जगृहुस्तत्र नामनी ॥२२॥

अक्रुध्यत रणे भीमस्तैस्तदा पर्यवस्थितैः ।
सोऽवतीर्य रथात्तूर्णं गदापाणिरयुध्यत ॥२३॥

न तान्रथस्थो भूमिष्ठान् धर्मापेक्षी वृकोदरः ।
योधयामास कौन्तेयो भुजवीर्यव्यपाश्रयः ॥२४॥

जातरूपपरिच्छन्नां प्रगृह्य महतीं गदाम् ।
अवधीत्तावकान्सर्वान् दण्डपाणिरिवान्तकः ॥२५॥

पदातिनोऽपि संत्यक्त्वा प्रियं जीवितमात्मनः ।
भीममभ्यद्रवन्संख्ये पतङ्गा ज्वलनं यथा ॥२६॥

आसाद्य भीमसेनं तु संरब्धा युद्धदुर्मदाः ।
विनेशुः सहसा दृष्ट्वा भूतग्रामा इवान्तकम् ॥२७॥

श्येनवद्विचरन् भीमो गदाहस्तो महाबलः ।
पञ्चविंशतिसाहस्रांस्तावकानवपोथयत् ॥२८॥

हत्वा तत्पुरुषानीकं भीमः सत्यपराक्रमः ।
धृष्टद्युम्नं पुरस्कृत्य तस्थौ तत्र महाबलः ॥२९॥

धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान् ।
माद्रीपुत्रौ तु शकुनिं सात्यकिश्च महारथः ॥३०॥

जवेनाभ्यपतन् हृष्टा घ्नन्तो दौर्योधनं बलम् ।
तस्याश्वसादीन्सुबहूंस्ते निहत्य शितैः शरैः ॥३१॥

समभ्यधावंस्त्वरितास्तत्र युद्धमभून्महत् ।
धनञ्जयोऽपि चाभ्येत्य रथानीकं तव प्रभो ॥३२॥

विश्रुतं त्रिषु लोकेषु गाण्डीवं विक्षिपन् धनुः ।
कृष्णसारथिमायान्तं दृष्ट्वा श्वेतहयं रथम् ॥३३॥

अर्जुनं चापि योद्धारं त्वदीयाः प्राद्रवन्भयात् ।
विप्रहीणरथाश्चैव शरैश्च परिकर्षिताः ॥३४॥

पञ्चविंशतिसाहस्राः कालमार्छन् पदातयः ।
हत्वा तान् पुरुषव्याघ्रः पञ्चालानां महारथः ॥३५॥

पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महामनाः ।
भीमसेनं पुरस्कृत्य न चिरात्प्रत्यदृश्यत ॥३६॥

महाधनुर्धरः श्रीमानमित्रगणतापनः ।
पारावतसवर्णाश्वं कोविदारमयध्वजम् ॥३७॥

धृष्टद्युम्नं रणे दृष्ट्वा त्वदीयाः प्राद्रवन् भयात् ।
गान्धारराजं शीघ्रास्त्रमनुसृत्य यशस्विनौ ॥३८॥

न चिरात्प्रत्यदृश्येतां माद्रीपुत्रौ ससात्यकी ।
चेकितानः शिखण्डी च द्रौपदेयाश्च मारिष ॥३९॥

हत्वा त्वदीयं सुमहत्सैन्यं शंखांस्तथाऽधमन् ।
ते सर्वे तावकान् प्रेक्ष्य द्रवतोऽपि पराङ्मुखान् ॥४०॥

अभ्यवर्तन्त संरब्धान् वृषाञ्जित्वा यथा वृषाः ।
सेनावशेषं तं दृष्ट्वा तव सैन्यस्य पाण्डवः ॥४१॥

व्यवस्थितः सव्यसाची चुक्रोध बलवान्नृप ।
धनञ्जयो रथानीकमभ्यवर्तत वीर्यवान् ॥४२॥

विश्रुतं त्रिषु लोकेषु व्याक्षिपद्गाण्डिवं धनुः ।
तत एनाञ्शरव्रातैः सहसा समवाकिरत् ॥४३॥

तमसा संवृतेनाथ न स्म किंचिद्व्यदृश्यत ।
अन्धकारीकृते लोके रजोभूते महीतले ॥४४॥

योधाः सर्वे महाराज तावकाः प्राद्रवन्भयात् ।
संभज्यमाने सैन्ये तु कुरुराजो विशांपते ॥४५॥

परानभिमुखांश्चैव सुतस्ते समुपाद्रवत् ।
ततो दुर्योधनः सर्वानाजुहावाथ पाण्डवान् ॥४६॥

युद्धाय भरतश्रेष्ठ देवानिव पुरा बलिः ।
त एनमभिगर्जन्तः सहिताः समुपाद्रवन् ॥४७॥

नानाशस्त्रभृतः क्रुद्धा भर्त्सयन्तो मुहुर्मुहुः ।
दुर्योधनोऽप्यसंभ्रान्तस्तान्रणे निशितैः शरैः ॥४८॥

तत्रावधीत्ततः क्रुद्धः शतशोऽथ सहस्रशः ।
तत्सैन्यं पाण्डवेयानां योधयामास सर्वतः ॥४९॥

तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् ।
यदेकः सहितान्सर्वान् रणेऽयुध्यत पाण्डवान् ॥५०॥

ततोऽपश्यन्महात्मा स स्वसैन्यं भृशदुःखितम् ।
ततोऽवस्थाप्य राजेन्द्र कृतबुद्धिस्तवात्मजः ॥५१॥

हर्षयन्निव तान् योधानिदं वचनमब्रवीत् ।
न तं देशं प्रपश्यामि यत्र याता भयार्दिताः ॥५२॥

गतानां यत्र वै मोक्षः पाण्डवात्किं गतेन वः ।
अल्पं च बलमेतेषां कृष्णौ च भृशविक्षतौ ॥५३॥

अद्य सर्वान्हनिष्यामि ध्रुवो हि विजयो भवेत् ।
विप्रयातांस्तु वो भिन्नान् पाण्डवाः कृतकिल्बिषान् ॥५४॥

अनुसृत्य वधिष्यन्ति श्रेयान्नः समरे वधः ।
सुखं सांग्रामिको मृत्युः क्षत्रधर्मेण युध्यताम् ॥५५॥

मृतो दुःखं न जानीते प्रेत्य चानन्त्यमश्नुते ।
शृणुध्वं क्षत्रियाः सर्वे यावन्तः स्थ समागताः ॥५६॥

यदा शूरं च भीरुं च मारयत्यन्तको यमः ।
को न मूढो न युध्येत मादृशः क्षत्रियव्रतः ॥५७॥

द्विषतो भीमसेनस्य क्रुद्धस्य वशमेष्यथ ।
पितामहैराचरितं न धर्मं हातुमर्हथ ॥५८॥

न ह्यधर्मोऽस्ति पापीयान् क्षत्रियस्य पलायनात् ।
न युद्धधर्माच्छ्रेयो हि पन्थाः स्वर्गस्य कौरवाः ।
अचिरेण हता लोकान् सद्यो योधाः समश्नुत ॥५९॥

सञ्जय उवाच। एवं ब्रुवति पुत्रे ते सैनिका भृशविक्षताः ।
अनवेक्ष्यैव तद्वाक्यं प्राद्रवन्सर्वतो दिशः ॥६०॥

इति श्रीमहाभारते कर्णपर्वणि कौरवसैन्यपलायने त्रिनवतितमोऽध्यायः ॥९३॥
चतुर्नवतितमोऽध्यायः

सञ्जय उवाच। दृष्ट्वा तु सैन्यं परिवृत्यमानं पुत्रेण ते मद्रपतिस्तदानीम् ।
संत्रस्तरूपः परिमूढचेता दुर्योधनं वाक्यमिदं बभाषे ॥१॥

दृष्ट्वेति ॥१॥

शल्य उवाच। पश्येदमुग्रं नरवाजिनागैरायोधनं वीरशतैः सुपूर्णम् ।
महीधराभैः पतितैश्च नागैः सकृत्प्रभिन्नैः शरभिन्नदेहैः ॥२॥

सविह्वलद्भिश्च गतासुभिश्च प्रध्वस्तवर्मायुधचर्मखड्गैः ।
वज्रापविद्धैरिव चाचलोत्तमैर्विभिन्नपाषाणमहाद्रुमौषधैः ॥३॥

प्रविद्धघण्टाङ्कुशतोमरध्वजैः सहेमजालै रुधिरौघसंप्लुतैः ।
शरावभिन्नैः पतितैस्तुरङ्गमैः श्वसद्भिरार्तैः क्षतजं वमद्भिः ॥४॥

दीनं स्तनद्भिः परिवृत्तनेत्रैर्महीं दशद्भिः कृपणं नदद्भिः ।
तथापविद्धैर्गजवाजियोधैर्बलापविद्धैरथ वीरसंघैः ॥५॥

मन्दासुभिश्चैव गतासुभिश्च नराश्वनागैश्च रथैश्च मर्दितैः ।
मन्दांशुभिश्चैव मही महाहवे नूनं यथा वैतरणीव भाति ॥६॥

गजैर्निकृत्तैर्वरहस्तगात्रैरुद्वेपमानैः पतितैः पृथिव्याम् ।
विशीर्णदन्तैः क्षतजं वमद्भिः स्फुरद्भिरार्तैः करुणं नदद्भिः ॥७॥

निकृत्तचक्रेषुयुगैः सयोक्तृभिः प्रविद्धतूणीरपताककेतुभिः ।
सुवर्णजालावततैर्भृशाहतैर्महारथौघैर्जलदैरिवावृता ॥८॥

यशस्विभिर्नागरथाश्वयोधिभिः पदातिभिश्चाभिमुखैर्हतैः परैः ।
विशीर्णवर्माभरणाम्बरायुधैर्वृता प्रशान्तैरिव तावकैर्मही ॥९॥

शरप्रहाराभिहतैर्महाबलैरवेक्ष्यमाणैः पतितैः सहस्रशः ।
दिवश्च्युतैर्भूरतिदीप्तिमद्भिर्नक्तं ग्रहैर्द्यौरमलप्रदीप्तैः ॥१०॥

प्रनष्टसंज्ञैः पुनरुच्छ्वसद्भिर्मही बभूवानुगतैरिवार्चिभिः ।
कर्णार्जुनाभ्यां शरभिन्नगात्रैर्हतैः प्रवीरैः कुरुसृञ्जयानाम् ॥११॥

शरास्तु कर्णार्जुनबाहुमुक्ता विदार्य नागाश्वमनुष्यदेहान् ।
प्राणान्निरस्याशु महीं प्रतीयुर्महोरगा वासमिवाभिनम्राः ॥१२॥

हतैर्मनुष्याश्वगजैश्च संख्ये शरापविद्धैश्च रथैर्नरेन्द्र ।
धनञ्जयस्याधिरथेश्च मार्गणैरगम्यरूपा वसुधा बभूव ॥१३॥

रथैर्वरेषून्मथितैः सुकल्पैः सयोधशस्त्रैश्च वरायुधैर्ध्वजैः ।
विशीर्णयोक्त्रैर्विनिकृत्य बन्धनैर्निकृत्तचक्राक्षयुगत्रिवेणुभिः ॥१४॥

विमुक्तशस्त्रैश्च तथा व्युपस्करैर्हतानुकर्षैर्विनिषङ्गबन्धनैः ।
प्रभग्ननीडैर्मणिहेमभूषितैः स्तृता मही द्यौरिव शारदैर्घनैः ॥१५॥

विकृष्यमाणैर्जवनैस्तुरङ्गमैर्हतेश्वरै राजरथैः सुकल्पितैः ।
मनुष्य-मातङ्ग-रथाश्वराशिभिर्द्रुतं व्रजन्तो बहुधा विचूर्णिताः ॥१६॥

सहेमपट्टाः परिघाः परश्वधाः शिताश्च शूला मुसलानि मुद्गराः ।
पेतुश्च खड्गा विमला विकोशा गदाश्च जाम्बूनदपनद्धाः ॥१७॥

चापानि रुक्माङ्गद‌भूषणानि शराश्च कार्तस्वरचित्रपुङ्खाः ।
ऋष्ट्यश्च पीता विमला विकोशाः प्रासाश्च दण्डैः कनकावभासैः ॥१८॥

छत्राणि वालव्यजनानि शङ्खाश्छिन्नापविद्धाश्च स्रजो विचित्राः ।
कुथाः पताकाम्बरभूषणानि किरीटमाला मुकुटाश्च शुभ्राः ॥१९॥

प्रकीर्णका विप्रकीर्णाश्च राजन् प्रवालमुक्तातरलाश्च हाराः ।
आपीडकेयूरवराङ्गदानि ग्रैवेयनिष्काः ससुवर्णसूत्राः ॥२०॥

मण्युत्तमा वज्रसुवर्णमुक्ता रत्नानि चोच्चावचमङ्गलानि ।
गात्राणि चात्यन्तसुखोचितानि शिरांसि चेन्दुप्रतिमाननानि ॥२१॥

देहांश्च भोगांश्च परिच्छदांश्च त्यक्त्वा मनोज्ञानि सुखानि चैव ।
स्वधर्मनिष्ठां महतीमवाप्य व्याप्याशु लोकान् यशसा गतास्ते ॥२२॥

निवर्त दुर्योधन यान्तु सैनिका व्रजस्व राजञ्शिबिराय मानद ।
दिवाकरोऽप्येष विलम्बते प्रभो पुनस्त्वमेवात्र नरेन्द्र कारणम् ॥२३॥

इत्येवमुक्त्वा विरराम शल्यो दुर्योधनं शोकपरीतचेताः ।
हा कर्ण हा कर्ण इति ब्रुवाणमार्तं विसंज्ञं भृशमश्रुनेत्रम् ॥२४॥

तं द्रोणपुत्रप्रमुखा नरेन्द्राः सर्वे समाश्वास्य मुहुः प्रयान्ति ।
निरीक्षमाणा मुहुरर्जुनस्य ध्वजं महान्तं यशसा ज्वलन्तम् ॥२५॥

नराश्वमातङ्गशरीरजेन रक्तेन सिक्तां च तथैव भूमिम् ।
रक्ताम्बरस्रक्तपनीययोगान्नारीं प्रकाशामिव सर्वगम्याम् ॥२६॥

प्रच्छन्नरूपां रुधिरेण राजन्रौद्रे मुहूर्तेऽतिविराजमाने ।
नैवावतस्थुः कुरवः समीक्ष्य प्रव्राजिता देवलोकाय सर्वे ॥२७॥

वधेन कर्णस्य तु दुःखितास्ते हा कर्ण हा कर्ण इति ब्रुवाणाः ।
द्रुतं प्रयाताः शिबिराणि राजन्दिवाकरं रक्तमवेक्षमाणाः ॥२८॥

गाण्डीवमुक्तैस्तु सुवर्णपुङ्खैः शिलाशितैः शोणितदिग्धवाजैः ।
शरैश्चिताङ्गो युधि भाति कर्णो हतोऽपि सन्सुर्य इवांशुमाली ॥२९॥

कर्णस्य देहं रुधिरावसिक्तं भक्तानुकम्पी भगवान्विवस्वान् ।
स्पृष्ट्वांशुभिर्लोहितरक्तरूपः सिष्णासुरभ्येति परं समुद्रम् ॥३०॥

इतीव सञ्चिन्त्य सुरर्षिसङ्घाः संप्रस्थिता यान्ति यथा निकेतनम् ।
सञ्चिन्तयित्वा जनता विसस्रुर्यथासुखं खं च महीतलं च ॥३१॥

तदद्भुतं प्राणभृतां भयंकरं निशाम्य युद्धं कुरुवीरमुख्ययोः ।
धनञ्जयस्याधिरथेश्च विस्मिताः प्रशंसमानाः प्रययुस्तदा जनाः ॥३२॥

शरसंकृत्तवर्माणं रुधिरोक्षितवाससम् ।
गतासुमपि राधेयं नैव लक्ष्मीर्विमुञ्चति ॥३३॥

तप्तजाम्बूनदनिभं ज्वलनार्कसमप्रभम् ।
जीवन्तमिव तं शूरं सर्वभूतानि मेनिरे ॥३४॥

हतस्यापि महाराज सूतपुत्रस्य संयुगे ।
वित्रेसुः सर्वतो योधाः सिंहस्येवेतरे मृगाः ॥३५॥

हतोऽपि पुरुषव्याघ्र जीववानिव लक्ष्यते ।
नाभवद्विकृतिः काचिद्धतस्यापि महात्मनः ॥३६॥

चारुवेषधरं वीरं चारुमौलिशिरोधरम् ।
तन्मुखं सूतपुत्रस्य पूर्णचन्द्रसमद्युति ॥३७॥

नानाभरणवान्राजंस्तप्तजाम्बूनदाङ्गदः ।
हतो वैकर्तनः शेते पा‌दपोऽङ्कुरवानिव ॥३८॥

कनकोत्तमसंकाशो ज्वलन्निव विभावसुः ।
स शान्तः पुरुषव्याघ्र पार्थसायकवारिणा ॥३९॥

यथा हि ज्वलनो दीप्तो जलमासाद्य शाम्यति ।
कर्णाग्निः समरे तद्वत्पार्थमेघेन शामितः ॥४०॥

आहत्य च यशो दीप्तं सुयुद्धेनात्मनो भुवि ।
विसृज्य शरवर्षाणि प्रताप्य च दिशो दश ॥४१॥

सपुत्रः समरे कर्णः स शान्तः पार्थतेजसा ।
प्रताप्य पाण्डवान्सर्वान्पञ्चालांश्चास्त्रतेजसा ॥४२॥

वर्षित्वा शरवर्षेण प्रताप्य रिपुवाहिनीम् ।
श्रीमानिव सहस्रांशुर्जगत्सर्वं प्रताप्य च ॥४३॥

हतो वैकर्तनः कर्णः सपुत्रः सहवाहनः ।
अर्थिनां पक्षिसंघस्य कल्पवृक्षो निपातितः ॥४४॥

ददानीत्येव योऽवोचन्न नास्तीत्यर्थितोऽर्थिभिः ।
सद्भिः सदा सत्पुरुषः स हतो द्वैरथे वृषः ॥४५॥

यस्य ब्राह्मणसात्सर्वं वित्तमासीन्महात्मनः ।
नादेयं ब्राह्मणेष्वासीद्यस्य स्वमपि जीवितम् ॥४६॥

सदा स्त्रीणां प्रियो नित्यं दाता चैव महारथः ।
स वै पार्थास्त्रनिर्दग्धो गतः परमिकां गतिम् ॥४७॥

यमाश्रित्याकरोद्वैरं पुत्रस्ते स गतो दिवम् ।
आदाय तव पुत्राणां जयाशां शर्म वर्म च ॥४८॥

हते कर्णे सरितो न प्रसस्रुर्जगाम चास्तं सविता दिवाकरः ।
ग्रहश्च तिर्यक्ज्वलनार्कवर्णः सोमस्य पुत्रोऽभ्युदियाय तिर्यक् ॥४९॥

नभः पफालेव ननाद चोर्वी ववुश्च वाताः परुषाः सुघोराः ।
दिशो बभूवुर्ज्वलिता सधूमा महार्णवाः सस्वनुश्चुक्षुभुश्च ॥५०॥

सकाननाश्चाद्रिचयाश्चकम्पिरे प्रविव्यथुर्भूतगणाश्च सर्वे ।
बृहस्पतिः संपरिवार्य रोहिणीं बभूव चन्द्रार्कसमो विशांपते ॥५१॥

हते तु कर्णे विदिशोऽपि जज्वलुस्तमोवृता द्यौर्विचचाल भूमिः ।
पपात चोल्का ज्वलनप्रकाशा निशाचराश्चाप्यभवन् प्रहृष्टाः ॥५२॥

शशिप्रकाशाननमर्जुनो यदा क्षुरेण कर्णस्य शिरो न्यपातयत् ।
तदाऽन्तरिक्षे सहसैव शब्दो बभूव हाहेति सुरैर्विमुक्तः ॥५३॥

सदेवगन्धर्वमनुष्यपूजितं निहत्य कर्णं रिपुमाहवेऽर्जुनः ।
रराज राजन् परमेण वर्चेसा यथा पुरा वृत्रवधे शतक्रतुः ॥५४॥

ततो रथेनाम्बुदवृन्दनादिना शरन्नभोमध्यदिवाकरार्चिषा ।
पताकिना भीमनिनादकेतुना हिमेन्दुशङ्खस्फटिकावभासिना ॥५५॥

महेन्द्रवाहप्रतिमेन तावुभौ महेन्द्रवीर्यप्रतिमानपौरुषौ ।
सुवर्णमुक्तामणिवज्रविद्रुमैरलंकृतावप्रतिमेन रंहसा ॥५६॥

नरोत्तमौ केशवपाण्डुनन्दनौ तदाहितावग्निदिवाकराविव ।
रणाजिरे वीतभयौ विरेजतुः समानयानाविव विष्णुवासवौ ॥५७॥

ततो धनुर्ज्यातलबाणनिःस्वनैः प्रसह्य कृत्वा च रिपून् हतप्रभान् ।
संछादयित्वा तु कुरून् शरोत्तमैः कपिध्वजः पक्षिवरध्वजश्च ॥५८॥

हृष्टौ ततस्तावमितप्रभावौ मनांस्यरीणामवदारयन्तौ ।
सुवर्णजालावततौ महास्वनौ हिमावदातौ परिगृह्य पाणिभिः ।
चुचुम्बतुः शङ्खवरौ नृणां वरौ वराननाभ्यां युगपच्च दध्मतुः ॥५९॥

पाञ्चजन्यस्य निर्घोषो देवदत्तस्य चोभयोः ।
पृथिवीं चान्तरिक्षं च दिशश्चैवान्वनादयत् ॥६०॥

वित्रस्ताश्चाभवन्सर्वे कौरवा राजसत्तम ।
शङ्खशब्देन तेनाथ माधवस्यार्जुनस्य च ॥६१॥

तौ शङ्खशब्देन निनादयन्तौ वनानि शैलान्सरितो गुहाश्च ।
वित्रासयन्तौ तव पुत्रसेनां युधिष्ठिरं नन्दयतां वरिष्ठौ ॥६२॥

ततः प्रयाताः कुरवो जवेन श्रुत्वैव शङ्खस्वनमीर्यमाणम् ।
विहाय मद्राधिपतिं पतिं च दुर्योधनं भारत भारतानाम् ॥६३॥

महाहवे तं बहु रोचमानं धनञ्जयं भूतगणाः समेताः ।
तदाऽन्वमोदन्त जनार्दनं च दिवाकरावभ्युदितौ यथैव ॥६४॥

समाचितौ कर्णशरैः परन्तपावुभौ व्यभातां समरेऽच्युतार्जुनौ ।
तमो निहत्याभ्युदितौ यथामलौ शशाङ्कसूर्यै दिवि रश्मिमालिनौ ॥६५॥

विहाय तान् बाणगणानथागतौ सुहृद्वृतावप्रतिमानविक्रमौ ।
सुखं प्रविष्टौ शिबिरं स्वमीश्वरौ सदस्यहूताविव विष्णुवासवौ ॥६६॥

तौ देव-गन्धर्व-मनुष्य-चारणैर्महर्षिभिर्यक्षमहोरगैरपि ।
जयाभिवृद्ध्या परयाऽभिपूजितौ हते तु कर्णे परमाहवे तदा ॥६७॥

यथानुरूपं प्रतिपूजितावुभौ प्रशस्यमानौ स्वकृतैर्गुणौघैः ।
ननन्दतुस्तौ ससुहृद्गणौ तदा बलं नियम्येव सुरेशकेशवौ ॥६८॥

इति श्रीमहाभारते कर्णपर्वणि रणभूमिवर्णनं नाम चतुर्नवतितमोऽध्यायः ॥९४॥
पञ्चनवतितमोऽध्यायः

सञ्जय उवाच। हते वैकर्तने राजन् कुरवो भयपीडिताः ।
वीक्षमाणा दिशः सर्वाः पर्यापेतुः सहस्रशः ॥१॥

हत इति ॥१॥

कर्णं तु निहतं दृष्ट्वा शत्रुभिः परमाहवे ।
भीता दिशो व्यकीर्यन्त तावकाः क्षतविक्षताः ॥२॥

ततोऽवहारं चक्रुस्ते योधाः सर्वे समन्ततः ।
निवार्यमाणाश्चोद्विग्नास्तावका भृशदुःखिताः ॥३॥

तेषां तन्मतमाज्ञाय पुत्रो दुर्योधनस्तव ।
अवहारं ततश्चक्रे शल्यस्यानुमते नृप ॥४॥

कृतवर्मा रथैस्तूर्णं वृतो भारत तावकैः ।
नारायणावशेषैश्च शिबिरायैव दुद्रुवे ॥५॥

गान्धाराणां सहस्त्रेण शकुनिः परिवारितः ।
हतमाधिरथिं दृष्ट्वा शिबिरायैव दुद्रुवे ॥६॥

कृपः शारद्वतो राजन्नागानीकेन भारत ।
महामेघनिभेनानु शिबिरायैव दुद्रुवे ॥७॥

अश्वत्थामा ततः शूरो विनिःश्वस्य पुनः पुनः ।
पाण्डवानां जयं दृष्ट्वा शिबिरायैव दुद्रुवे ॥८॥

संशप्तकावशिष्टेन बलेन महता वृतः ।
सुशर्मापि ययौ राजन् वीक्षमाणो भयार्दितः ॥९॥

दुर्योधनोऽपि नृपतिर्हतसर्वस्वबान्धवः ।
ययौ शोकसमाविष्टश्चिन्तयन्विमना बहु ॥१०॥

छिन्नध्वजेन शल्यस्तु रथेन रथिनां वरः ।
प्रययौ शिबिरायैव वीक्षमाणो दिशो दश ॥११॥

ततोऽपरे सुबहवो भारतानां महारथाः ।
प्राद्रवन्त भयत्रस्ता ह्रियाविष्टा विचेतसः ॥१२॥

असृक् क्षरन्तः सोद्विग्ना वेपमानास्तथातुराः ।
कुरवो दुद्रुवुः सर्वे दृष्ट्वा कर्णं निपातितम् ॥१३॥

प्रशंसन्तोऽर्जुनं केचित्केचित्कर्णं महारथाः ।
व्यद्रवन्त दिशो भीताः कुरवः कुरुसत्तम ॥१४॥

तेषां योधसहस्राणां तावकानां महामृधे ।
नासीत्तत्र पुमान् कश्चिद्यो युद्धाय मनो दधे ॥१५॥

हते कर्णे महाराज निराशाः कुरवोऽभवन् ।
जीवितेष्वपि राज्येषु दारेषु च धनेषु च ॥१६॥

तान्समानीय पुत्रस्ते यत्नेन महता विभुः ।
निवेशाय मनो दध्रे दुःखशोकसमन्वितः ॥१७॥

तस्याज्ञां शिरसा योधाः परिगृह्य विशांपते ।
विवर्णवदना राजन्न्यविशन्त महारथाः ॥१८॥

इति श्रीमहाभारते कर्णपर्वणि शिबिरप्रयाणे पञ्चनवतितमोऽध्यायः ॥९५॥
षण्णवतितमोऽध्यायः

सञ्जय उवाच। तथा निपतिते कर्णे परसैन्ये च विद्रुते ।
आश्लिष्य पार्थं दाशार्हो हर्षाद्वचनमब्रवीत् ॥१॥

तथेति ॥१॥

हतो वज्रभृता वृत्रस्त्वया कर्णो धनञ्जय ।
वृत्रकर्णवधं घोरं कथयिष्यन्ति मानवाः ॥२॥

वज्रेण निहतो वृत्रः संयुगे भूरितेजसा ।
त्वया तु निहतः कर्णो धनुषा निशितैः शरैः ॥३॥

तमिमं विक्रमं लोके प्रथितं ते यशस्करम् ।
निवेदयावः कौन्तेय कुरुराजस्य धीमतः ॥४॥

वधं कर्णस्य संग्रामे दीर्घकालचिकीर्षितम् ।
निवेद्य धर्मराजाय त्वमानृण्यं गमिष्यसि ॥५॥

वर्तमाने महायुद्धे तव कर्णस्य चोभयोः ।
द्रष्टुमायोधनं पूर्वमागतो धर्मनन्दनः ॥६॥

भृशं तु गाढविद्धत्वान्नाशकत् स्थातुमाहवे ।
ततः स शिबिरं गत्वा स्थितवान्पुरुषर्षभः ॥७॥

तथेत्युक्तः केशवस्तु पार्थेन यदुपुङ्गवः ।
पर्यावर्तयदव्यग्रो रथं रथवरस्य तम् ॥८॥

एवमुक्त्वाऽर्जुनं कृष्णः सैनिकानिदमब्रवीत् ।
परानभिमुखा यत्तास्तिष्ठध्वं भद्रमस्तु वः ॥९॥

धृष्टद्युम्नं युधामन्युं माद्रीपुत्रौ वृकोदरम् ।
युयुधानं च गोविन्द इदं वचनमब्रवीत् ॥१०॥

यावदावेद्यते राज्ञे हतः कर्णोऽर्जुनेन वै ।
तावद्भवद्भिर्यत्तैस्तु भवितव्यं नराधिपैः ॥११॥

स तैः शूरैरनुज्ञातो ययौ राजनिवेशनम् ।
पार्थमादाय गोविन्दो ददर्श च युधिष्ठिरम् ॥१२॥

शयानं राजशार्दूलं काञ्चने शयनोत्तमे ।
अगृह्णीतां च मुदितौ चरणौ पार्थिवस्य तौ ॥१३॥

तयोः प्रहर्षमालक्ष्य हर्षादश्रूण्यवर्तयत् ।
राधेयं निहतं मत्त्वा समुत्तस्थौ युधिष्ठिरः ॥१४॥

उवाच च महाबाहुः पुनः पुनररिन्दमः ।
वासुदेवार्जुनौ प्रेम्णा तावुभौ परिषस्वजे ॥१५॥

तत्तस्मै तद्यथावृत्तं वासुदेवः सहार्जुनः ।
कथयामास कर्णस्य निधनं यदुपुङ्गवः ॥१६॥

ईषदुत्स्मयमानस्तु कृष्णो राजानमब्रवीत् ।
युधिष्ठिरं हतामित्रं कृताञ्जलिरथाच्युतः ॥१७॥

दिष्ट्या गाण्डीवधन्वा च पाण्डवश्च वृकोदरः ।
त्वं चापि कुशली राजन् माद्रीपुत्रौ च पाण्डवौ ॥१८॥

मुक्ता वीरक्षयादस्मात्संग्रामाल्लोमहर्षणात् ।
क्षिप्रमुत्तरकालानि कुरु कार्याणि पाण्डव ॥१९॥

हतो वैकर्तनो राजन्सूतपुत्रो महारथः ।
दिष्ट्या जयसि राजेन्द्र दिष्ट्या वर्धसि भारत ॥२०॥

यस्तु द्यूतजितां कृष्णां प्राहसत्पुरुषाधमः ।
तस्याद्य सूतपुत्रस्य भूमिः पिबति शोणितम् ॥२१॥

शेतेऽसौ शरपूर्णाङ्गः शत्रुस्ते कुरुपुङ्गव ।
तं पश्य पुरुषव्याघ्र विभिन्नं बहुभिः शरैः ॥२२॥

हतामित्रामिमामुर्वीमनुशाधि महाभुज ।
यत्तो भूत्वा सहास्माभिर्भुङ्क्ष्व भोगांश्च भोगांश्च पुष्कलान् ॥२३॥

सञ्जय उवाच। इति श्रुत्वा वचस्तस्य केशवस्य महात्मनः ।
धर्मपुत्रः प्रहृष्टात्मा दाशार्हं वाक्यमब्रवीत् ॥२४॥

दिष्ट्या दिष्ट्येति राजेन्द्र वाक्यं चेदमुवाच ह ।
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन ॥२५॥

त्वया सारथिना पार्थो यत्नवानहनच्च तम् ।
न तच्चित्रं महाबाहो युष्मद्बुद्धिप्रसादजम् ॥२६॥

प्रगृह्य च कुरुश्रेष्ठ साङ्गदं दक्षिणं भुजम् ।
उवाच धर्मभृत्पार्थ उभौ तौ केशवार्जुनौ ॥२७॥

नरनारायणौ देवौ कथितौ नारदेन मे ।
धर्मात्मानौ महात्मानौ पुराणावृषिसत्तमौ ॥२८॥

असकृच्चापि मेधावी कृष्णद्वैपायनो मम ।
कथामेतां महाभाग कथयामास तत्त्ववित् ॥२९॥

तव कृष्ण प्रसादेन पाण्डवोऽयं धनञ्जयः ।
जिगायाभिमुखः शत्रून्न चासीद्विमुखः क्वचित् ॥३०॥

जयश्चैव ध्रुवोऽस्माकं न त्वस्माकं पराजयः ।
यदा त्वं युधि पार्थस्य सारथ्यमुपजग्मिवान् ॥३१॥

भीष्मो द्रोणश्च कर्णश्च महात्मा गौतमः कृपः ।
अन्ये च बहवः शूरा ये च तेषां पदानुगाः ॥३२॥

त्वद्बुद्ध्या निहते कर्णे हता गोविन्द सर्वथा ।
इत्युक्त्वा धर्मराजस्तु रथं हेमविभूषितम् ॥३३॥

श्वेतवर्णैर्हयैर्युक्तं कालवालैर्मनोजवैः ।
आस्थाय पुरुषव्याघ्रः स्वबलेनाभिसंवृतः ॥३४॥

प्रययौ स महाबाहुर्द्रष्टुमायोधनं तदा ।
कृष्णार्जुनाभ्यां वीराभ्यामनुमन्त्र्य ततः प्रियम् ॥३५॥

आभाषमाणस्तौ वीरावुभौ माधवफाल्गुनौ ।
स ददर्श रणे कर्णं शयानं पुरुषर्षभम् ॥३६॥

यथा कदम्बकुसुमं केसरैः सर्वतोवृतम् ।
चितं शरशतैः कर्णं धर्मराजो ददर्श सः ॥३७॥

गन्धतैलावसिक्ताभिः काञ्चनीभिः सहस्रशः ।
दीपिकाभिः कृतोद्योतं पश्यन्ते वै वृतं तदा ॥३८॥

संछिन्नभिन्नकवचं बाणैश्च विद‌लीकृतम् ।
सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः ॥३९॥

सिंजातप्रत्ययोऽतीव वीक्ष्य चैवं पुनः पुनः ।
प्रशशंस नरव्याघ्रावुभौ माधवपाण्डवौ ॥४०॥

अद्य राजास्मि गोविन्द पृथिव्यां भ्रातृभिः सह ।
त्वया नाथेन वीरेण विदुषा परिपालितः ॥४१॥

हतं श्रुत्वा नरव्याघ्रं राधेयमतिमानिनम् ।
निराशोऽद्य दुरात्माऽसौ धार्तराष्ट्रो भविष्यति ॥४२॥

जीविते चैव राज्ये च हते राधात्मजे रणे ।
त्वत्प्रसादाद्वयं चैव कृतार्थाः पुरुषर्षभ ॥४३॥

दिष्ट्या जयसि गोविन्द दिष्ट्या शत्रुर्निपातितः ।
दिष्ट्या गाण्डीवधन्वा च विजयी पाण्डुनन्दनः ॥४४॥

त्रयोदश समास्तीर्णा जागरेण सुदुःखिताः ।
स्वप्स्यामोऽद्य सुखं रात्रौ त्वत्प्रसादान्महाभुज ॥४५॥

एवं स बहुशो राजा प्रशशंस जनार्दनम् ।
अर्जुनं च कुरुश्रेष्ठं धर्मराजो युधिष्ठिरः ॥४६॥

सञ्जय उवाच। दृष्ट्वा च निहतं कर्णं सपुत्रं पार्थसायकैः ।
पुनर्जातमिवात्मानं मेने च स महीपतिः ॥४७॥

समेत्य च महाराज कुन्तीपुत्रं युधिष्ठिरम् ।
हर्षयन्ति स्म राजानं हर्षयुक्ता महारथाः ॥४८॥

नकुलः सहदेवश्च पाण्डवश्च वृकोदरः ।
सात्यकिश्च महाराज वृष्णीनां प्रवरो रथः ॥४९॥

धृष्टद्युम्नः शिखण्डी च पाण्डुपञ्चालसृञ्जयाः ।
पूजयन्ति स्म कौन्तेयं निहते सूतनन्दने ॥५०॥

ते वर्धयित्त्वा नृपतिं धर्मात्मानं युधिष्ठिरम् ।
जितकाशिनो लब्धलक्ष्या युद्धशौण्डाः प्रहारिणः ॥५१॥

स्तुवन्तः स्तवयुक्ताभिर्वाग्भिः कृष्णौ परन्तपौ ।
जग्मुः स्वशिबिरायैव मुदा युक्ता महारथाः॥५२॥

एवमेष क्षयो वृत्तः सुमहाঁल्लोमहर्षणः ।
तव दुर्मन्त्रिते राजन् किमर्थमनुशोचसि ॥५३॥

वैशम्पायन उवाच। श्रुत्वैतदप्रियं राजा धृतराष्ट्रोऽम्बिकासुतः ।
पपात भूमौ निश्चेष्टश्छिन्नमूल इव द्रुमः ॥५४॥

तथा सा पतिता देवी गान्धारी दीर्घदर्शिनी ।
शुशोच बहुलालापैः कर्णस्य निधनं युधि ॥५५॥

तां पर्यगृह्णाद्विदुरो नृपतिं सञ्जयस्तथा ।
पर्याश्वासयतां चैव तावुभावेव भूमिपम् ॥५६॥

तथैवोत्थापयामासुर्गान्धारीं कुरुयोषितः ।
स दैवं परमं मत्वा भवितव्यं च पार्थिवः ॥५७॥

परां पीडां समाश्रित्य नष्टचित्तो महातपाः ।
चिन्ताशोकपरीतात्मा न जज्ञे मोहपीडितः ।
स समाश्वासितो राजा तूष्णीमासीद्विचेतनः ॥५८॥

॥ श्रवणमहिमा॥ इमं महायुद्धमखं महात्मनोर्धनञ्जयस्याधिरथेश्च यः पठेत् ।
स सम्यगिष्टस्य मखस्य यत्फलं तदाप्नुयात्संश्रवणाच्च भारत ॥५९॥

मखो हि विष्णुर्भगवान्सनातनो वद‌न्ति तच्चाग्न्यनिलेन्दुमानवः ।
अतोऽनसूयुः शृणुयात् पठेच्च यः स सर्वलोकानुचरः सुखी भवेत् ॥६०॥

तां सर्वदा भक्तिमुपागता नराः पठन्ति पुण्यां वरसंहितामिमाम् ।
धनेन धान्येन यशसा च मानुषा नन्दन्ति ते नात्र विचारणाऽस्ति ॥६१॥

अतोऽनसूयुः शृणुयात्सदा तु वै नरः स सर्वाणि सुखानि चाप्नुयात् ।
विष्णुः स्वयंभूर्भगवान् भवश्च तुष्यन्ति ते तस्य नरोत्तमस्य ॥६२॥

वेदावाप्तिर्बाह्मणस्येह दृष्टा रणे बलं क्षत्रियाणां जयो युधि ।
धनज्येष्ठाश्चापि भवन्ति वैश्याः शूद्राऽऽरोग्यं प्राप्नुवन्तीह सर्वे ॥६३॥

तथैव विष्णुर्भगवान्सनातनः स चात्र देवः परिकीर्त्यते यतः ।
ततः स कामान् लभते सुखी नरो महामुनेस्तस्य वचोऽर्चितं यथा ॥६४॥

कपिलानां सवत्सानां वर्षमेकं निरन्तरम् ।
यो दद्यात्सुकृतं तद्धि श्रवणात्कर्णपर्वणः ॥६७॥

इति श्रीमहाभारते कर्णपर्वणि युधिष्ठिरहर्षे षण्णवतितमोऽध्यायः ॥९६॥
॥कर्णपर्व समाप्तम्॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in