महाप्रस्थानिकपर्व - १

महाप्रस्थानिकपर्व

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

प्रथमोऽध्यायः

जनमेजय उवाच। एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् ।
पाण्डवाः किमकुर्वंत तथा कृष्णे दिवं गते॥१॥

कृतकृत्यानां दुःसहः उग्रदुःखग्रस्तानां महाप्रस्थानादिनोपायेन देहत्यागो युक्त इति पाण्डवाचारेण प्रदर्शयन् महाप्रस्थानिकं पर्वारभते। प्रसङ्गाच्च स्वर्गतिहेतून् गुणान् स्वर्गतिप्रबन्धकांश्च दोषान् दर्शयति संक्षेपेण एवं वृष्ण्यन्धककुले इत्यादिना॥१॥

वैशम्पायन उवाच। श्रुत्वैवं कौरवो राजा वृष्णीनां कदनं महत् ।
प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत्॥२॥

प्रस्थाने स्वर्गं गन्तुं गृहान्निःसरणे॥२॥

कालः पचति भूतानि सर्वाण्येव महामते ।
कालपाशमहं मन्ये त्वमपि द्रष्टुमर्हसि॥३॥

पाशं तत्कृतमाकर्ष मरणमिति यावत् तदहं मन्ये अङ्गीकरोमि त्वमप्येतद्द्रष्टुमालोचितुम्॥३॥

इत्युक्तः स तु कौन्तेयः कालः कालः इति ब्रुवन् ।
अन्वपद्यत तद्वाक्यं भ्रातुर्ज्येष्ठस्य धीमतः॥४॥

कालः काल इति नित्यार्थे द्वित्वम् अपरिहार्यः कालो मृत्युः सोऽद्यैवास्तु किं चिरेणेत्याशय॥४॥

अजुनस्य मतं ज्ञात्वा भीमसेनो यमौ तथा ।
अन्वपद्यन्त तद्वाक्यं यदुक्तं सव्यसाचिना॥५॥

ततो युयुत्सुमानाय्य प्रव्रजन् धर्मकाम्यया ।
राज्यं परिददौ सर्वं वैश्यापुत्रं युधिष्ठिरः॥६॥

धर्मकाम्यया प्रव्रजन्नतूद्वेगेन परिददौ तदधीनं कृतवान् तस्याभिषेकेऽनधिकारात्॥६॥

अभिषिच्य स्वराज्ये च राजानं च परिक्षितम् ।
दुःखार्तश्चाब्रवीद्राजा सुभद्रां पाण्डवाग्रजः॥७॥

स्वराज्ये हास्तिनपुरे॥७॥

एष पुत्रस्य पुत्रस्ते कुरुराजो भविष्यति ।
यदूनां परिशेषश्च वज्रो राजा कृतश्च ह॥८॥

परिक्षिद्धास्तिनपुरे शक्रप्रस्थे च यादवः ।
वज्रो राजा त्वया रक्ष्यो मा चाधर्मे मनः कृथाः॥९॥

अधर्मे परिक्षिद्वज्रयोर्बालयोररक्षणजे महाप्रस्थानमियं मा कुर्यादिति भावः॥९॥

इत्युक्त्वा धर्मराजः स वासुदेवस्य धीमतः ।
मातुलस्य च वृद्धस्य रामादीनां तथैव च॥१०॥

भ्रातृभिः सह धर्मात्मा कृत्वोदकमतन्द्रितः ।
श्राद्धान्युद्दिश्य सर्वेषां चकार विधिवत्तदा॥११॥

द्वैपायनं नारदं च मार्कंडेयं तपोधनम् ।
भारद्वाजं याज्ञवल्क्यं हरिमुद्दिश्य यत्नवान्॥१२॥

अभोजयत्स्वादुभोज्यं कीर्तयित्वा च शार्ङ्गिणम् ।
ददौ रत्नानि वासांसि ग्रामानश्वान् रथांस्तथा॥१३॥

स्त्रियश्च द्विजमुख्येभ्यस्तदा शतसहस्रशः ।
कृपमभ्यर्च्य च गुरुमथ पौरपुरस्कृतम्॥१४॥

स्त्रियः दासीः॥१४॥

शिष्यं परिक्षितं तस्मै ददौ भरतसत्तमः ।
ततस्तु प्रकृतीः सर्वाः समानाय्य युधिष्ठिरः॥१५॥

सर्वमाचष्ट राजर्षिश्चिकीर्षितमथात्मनः ।
ते श्रुत्वैव वचस्तस्य पौरजानपदा जनाः॥१६॥

भृशमुद्विग्नमनसो नाभ्यनन्दन्त तद्वचः ।
नैवं कर्तव्यमिति ते तदोचुस्तं जनाधिपम्॥१७॥

न च राजा तथाऽकार्षोत्कालपर्यायधर्मवित् ।
ततोऽनुमान्य धर्मात्मा पौरजानपदं जनम्॥१८॥

अनुमान्याऽनुमतिप्रदं कृत्वा॥१८॥

गमनाय मतिं चक्रे भ्रातरश्चास्य ते तदा ।
ततः स राजा कौरव्यो धर्मपुत्रो युधिष्ठिरः॥१९॥

उत्सृज्याभरणान्यङ्गाज्जगृहे वल्कलान्युत ।
भीमार्जुनयमाश्चैव द्रोपदी च यशस्विनी॥२०॥

तथैव जगृहुः सर्वे वल्कलानि नराधिप ।
विधिवत्कारयित्वेष्टिं नैष्ठिकीं भरतर्षभ॥२१॥

नैष्ठिकीं पार्यतिकीम् उत्सर्गेष्टिमित्यर्थः॥२१॥

समुत्सृज्याप्सु सर्वेऽग्नीन् प्रतस्थुर्नरपुंगवाः ।
ततः प्ररुरुदुः सर्वाः स्त्रियो दृष्ट्वा नरोत्तमान्॥२२॥

आत्मन्यग्रीन्समारोप्याप्स्वग्नीनुत्सृज्येति ज्ञेयम्॥२२॥

प्रस्थितान् द्रौपदी षष्ठान् पुरा द्यूतजितान् यथा ।
हृर्षोऽभवच्च सर्वेषां भ्रातॄणां गमनं प्रति॥२३॥

युधिष्ठिरमतं ज्ञात्वा वृष्णिक्षयमवेक्ष्य च ।
भ्रातरः पञ्च कृष्णा च षष्ठी श्वा चैव सप्तमः॥२४॥

आत्मना सप्तमो राजा निर्ययौ गजसाह्वयात् ।
पौरैरनुगतो दूरं सर्वैरन्तः पुरैस्तथा॥२५॥

न चैनमशकत्कश्चिन्निवर्तस्वेति भाषितुम् ।
न्यवर्तंत ततः सर्वे नरा नगरवासिनः॥२६॥

कृपप्रभृतयश्चैव युयुत्सुं पर्यवारयन् ।
विवेश गङ्गां कौरव्य उलूपी भुजगात्मजा॥२७॥

चित्राङ्गदा ययौ चापि मणिपूरपुरं प्रति ।
शिष्टाः परिक्षितं त्वन्या मातरः पर्यवारयन्॥२८॥

अन्या युधिष्ठिरादीनां भार्याः श्रुतसोमादीनां मातरः॥२८॥

पाण्डवाश्च महात्मानो द्रौपदी च यशस्विनी ।
कृतोपवासाः कौरव्य प्रययुः प्राङ्मुखास्ततः॥२९॥

योगयुक्ता महात्मानस्त्यागधर्ममुपेयुषः ।
अभिजग्मुर्बहून्देशान्सरितः सागरांस्तथा॥३०॥

युधिष्ठिरो ययावग्रे भीमस्तु तदनन्तरम् ।
अर्जुनस्तस्य चान्वेव ययौ चापि यथाक्रमम्॥३१॥

पृष्ठतस्तु वरारोहा श्यामा पद्मदलेक्षणा ।
द्रौपदी योषितां श्रेष्ठा ययौ भरतसत्तम॥३२॥

श्वा चैवानुययावेकः प्रस्थितान्पाण्डवान्वनम् ।
क्रमेण ते ययुर्वीरा लौहित्यं सलिलार्णवम्॥३३॥

लौहित्यमुदयाचलप्रान्तस्थं समुद्रम्॥३३॥

गाण्डीवं तु धनुर्दिव्यं न मुमोच धनंजयः ।
रत्नलोभान्महाराज ते चाक्षय्ये महेषुधी॥३४॥

अग्निं ते ददृशुस्तत्र स्थितं शैलमिवाग्रतः ।
मार्गमावृत्य तिष्ठन्तं साक्षात्पुरुषविग्रहम्॥३५॥

ततो देवः ससप्तार्चिः पाण्डवानिदमब्रवीत् ।
भो भो पाण्डुसुता वीराः पावकं मां निबोधत॥३६॥

युधिष्ठिर महाबाहो भीमसेन परन्तप ।
अर्जुनाश्विसुतौ वीरौ निबोधत वचो मम॥३७॥

अहमग्निः कुरुश्रेष्ठा मया दग्धं च खाण्डवम् ।
अर्जुनस्य प्रभावेण तथा नारायणस्य च॥३८॥

अयं वः फाल्गुनो भ्राता गाण्डीवं परमायुधम् ।
परित्यज्य वने यातु नानेनार्थोऽस्ति कश्चन॥३९॥

अनेन गाण्डीवेन अर्थः प्रयोजनम्॥३९॥

चक्ररत्नं तु यत्कृष्णे स्थितमासीन्महात्मनि ।
गतं तच्च पुनर्हस्ते कालेनैष्यति तस्य ह॥४०॥

कालेनावतारान्तरे॥४०॥

वरुणादाहृतं पूर्वं मयैतत्पार्थकारणात् ।
गाण्डीवं धनुषां श्रेष्ठं वरुणायैव दीयताम्॥४१॥

ततस्ते भ्रातरः सर्वे धनञ्जयमचोदयन् ।
सजले प्राक्षिपच्चैतत्तथाऽक्षय्ये महेषुधी॥४२॥

ततोऽग्निर्भरतश्रेष्ठ तत्रैवान्तरधीयत ।
ययुश्च पाण्डवा वीरास्ततस्ते दक्षिणामुखाः॥४३॥

ततस्ते तूत्तरेणैव तीरेण लवणाम्भसः ।
जग्मुर्भरतशार्दूल दिशं दक्षिणपश्चिमाम्॥४४॥

ततः पुनः समावृत्ताः पश्चिमां दिशमेव ते ।
ददृशुर्द्वारकां चापि सागरेण परिप्लुताम्॥४५॥

उदीचीं पुनरावृत्त्य ययुर्भरतसत्तमाः ।
प्रादक्षिण्यं चिकीर्षन्तः पृथिव्या योगधर्मिणः॥४६॥

॥इति श्रीमहाभारते महाप्रस्थानिके पर्वणि प्रथमोऽध्यायः॥१॥
द्वितीयोऽध्यायः

वैशम्पायन उवाच। ततस्ते नियतात्मान उदीचीं दिशमास्थिताः ।
ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम्॥१॥

तत इति। ततो दिक्त्रयप्रदक्षिणीकरणानन्तरं योगयुक्ताः समाहितमनसः॥१॥

तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् ।
अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम्॥२॥

तेषां गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम् ।
याज्ञसेनी भ्रष्टयोगा निपपात महीतले॥३॥

भ्रष्टयोगा ध्यानात् स्खलितमानसा॥३॥

तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः ।
उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह॥४॥

नाधर्मश्चरितः कश्चिद्राजपुत्र्या परंतप ।
कारणं किं नु तद्ब्रूहि यत्कृष्णा पतिता भुवि॥५॥

युधिष्ठिर उवाच। पक्षपातो महानस्याविशेषेण धनञ्जये ।
तस्यैतत्फलमद्यैषा भुंक्ते पुरुषसत्तम॥६॥

पक्षेति। तुल्येषु वैषम्येण पूजा न कार्येति भावः॥६॥

वैशम्पायन उवाच। एवमुक्त्वाऽनवेक्ष्यैनां ययौ भरतसत्तमः ।
समाधाय मनो धीमान् धर्मात्मा पुरुषर्षभः॥७॥

अनवेक्ष्य स्वर्गान्तरायरूपः स्नेहो माऽभूदिति भावः॥७॥

सहदेवस्ततो विद्वान्निपपात महीतले ।
तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत्॥८॥

योऽयमस्मासु सर्वेषु शुश्रूषुरनहङ्कृतः ।
सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि॥९॥

युधिष्ठिर उवाच। आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कञ्चन ।
तेन दोषेण पतितस्तस्मादेष नृपात्मजः॥१०॥

आत्मन इति। प्राज्ञत्वाभिमानोऽपि पतनहेतुरिति भावः॥१०॥

वैशम्पायन उवाच। इत्युक्त्वा तं समुत्सृज्य सहदेवं ययौ तदा ।
भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः॥११॥

कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम् ।
आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह॥१२॥

तस्मिन्निपतिते वीरे नकुले चारुदर्शने ।
पुनरेव तदा भीमो राजानमिदमब्रवीत्॥१३॥

योऽयमक्षतधर्मात्मा भ्राता वचनकारकः ।
रूपेणाप्रतिमो लोके नकुलः पतितो भुवि॥१४॥

इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः ।
नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः॥१५॥

रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम् ।
अधिकश्चाहमेवैक इत्यस्य मनसिस्थितम्॥१६॥

रूपेणेति रूपगर्वान्नकुलः पपातेत्यर्थः॥१६॥

नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर ।
यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्रुते॥१७॥

तांस्तु प्रपतितान् दृष्ट्वा पाण्डवः श्वेतवाहनः ।
पपात शोकसन्तप्तस्ततोऽनु परवीरहा॥१८॥

तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि ।
म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत्॥१९॥

अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः ।
अथ कस्य विकारोऽयं येनायं पतितो भुवि॥२०॥

युधिष्ठिर उवाच। एकाह्ना निर्दहेयं वै शत्रुनित्यर्जुनोऽब्रवीत् ।
न च तत्कृतवानेष शूरमानी ततोऽपतत्॥२१॥

एकाह्नेति। शौर्यगर्वादर्जुनोऽपि मिथ्याप्रतिज्ञत्वाच्च पपातेत्यर्थः॥२१॥

अवमेने धनुर्ग्राहानेष सर्वांश्च फाल्गुनः ।
तथा चैतन्न तु तथा कर्तव्यं भूतिमिच्छता॥२२॥

वैशम्पायन उवाच। इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह ।
पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम्॥२३॥

भो भो राजन्नवेक्षस्व पतितोऽह प्रियस्तव ।
किं निमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह॥२४॥

युधिष्ठिर उवाच। अविभुक्तं च भवता प्राणेन च विकत्थसे ।
अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ॥२५॥

अत्यशनाद्बलगर्वाच्च भीमसेनः पपातेत्याहातिभुक्तमिति॥२५॥

इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् ।
श्वाऽप्येकोऽनुययौ यस्ते बहुशः कीर्तितो मया॥२६॥

॥इति श्रीमहाभारते महाप्रस्थानिके पर्वणि द्रौपद्यादिपतने द्वितीयोऽध्यायः॥२॥
तृतीयोऽध्यायः

वैशम्पायन उवाच। ततः सन्नादयन् शक्रो दिवं भूमिं च सर्वशः ।
रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम्॥१॥

ततः सन्नादयन्नित्यस्य बान्धवभोज्यैव लक्ष्मीः श्रेयसी न स्वमात्रभोज्येति तात्पर्यम्॥१॥

स्वभातॄन् पतितान् दृष्ट्वा धर्मराजो युधिष्ठिरः ।
अब्रवीच्छोकसन्तप्तः सहस्राक्षमिदं वचः॥२॥

भ्रातरः पतितामेऽत्र गच्छेयुस्ते मया सह ।
न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर॥३॥

सुकुमारी सुखार्हा च राजपुत्री पुरंदर ।
साऽस्माभिः सह गच्छेत तद्भवाननुमन्यताम्॥४॥

शक्र उवाच। भ्रातॄन् द्रक्ष्यसि स्वर्गे त्वमग्रता स्त्रिदिवं गतान् ।
कृष्णया सहितान्सर्वान्माशुचो भरतर्षभ॥५॥

निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ ।
अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः॥६॥

युधिष्ठिर उवाच। अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह ।
स गच्छेत मया सार्धमानृशंस्याहि मे मतिः॥७॥

अयं श्वेत्यादेर्नीचतरमपि सन्निहितं प्रथमं स्वसुखविभागेन सम्भावयेत्पश्चात्स्वयं तद्भोक्तव्यमिति तात्पर्यम्॥७॥

शक्र उवाच। अमर्त्यत्वं मत्समत्वं च राजन् श्रियं कृत्स्नां महतीं चैव सिद्धिम् ।
संप्राप्तोऽद्य स्वर्गसुखानि च त्वं त्यज श्वानं नात्र नृशंसमस्ति॥८॥

नात्रेति असृश्यस्य सङ्गत्यागे नृशंसं निर्दयत्वं नास्ति॥८॥

युधिष्ठिर उवाच। अनार्यमार्येण सहस्रनेत्रशक्यं कर्तुं दुष्करमेतदार्य ।
मा मे श्रिया सङ्गमनं तयाऽस्तु यस्याः कृते भक्तजनं त्यजेयम्॥९॥

इंद्र उवाच। स्वर्गे लोकेश्ववतां नास्ति धिष्ण्यमिष्टापूर्तं क्रोधवशाहरन्ति ।
ततो विचार्य क्रियतां धर्मराजत्यज श्वानं नात्र नृशंसमस्ति॥१०॥

श्ववतामशुचित्वात् विष्ण्यं स्थानं स्वर्गे नास्ति क्रोधवशा नाम देवगणा अशुचेरिष्टापूर्तफलं घ्नन्ति॥१०॥

युधिष्ठिर उवाच। भक्तत्यागं प्राहुरत्यन्त पापं तुल्यं लोके ब्रह्मवध्याकृतेन ।
तस्मान्नाहं जातु कथं च नाद्यत्यक्ष्याम्येनं स्वसुखार्थी महेंद्र॥११॥

भीतं भक्तं नान्यदस्तीति चार्त प्राप्तं क्षीणं रक्षणे प्राणलिप्सुम् ।
प्राणत्यागादप्यहं नैव भोक्तुं यतेयं वै नित्यमेतद्ब्रुतं मे॥१२॥

इंद्र उवाच। शुना दृष्टं क्रोधवशा हरन्ति यद्दत्तमिष्टं विवृतमथो हुतं च ।
तस्माच्छुनस्त्यागमिमं कुरुष्व शुनस्त्यागात्प्राप्स्यसे देवलोकम्॥१३॥

त्यक्त्वा भ्रातॄन् दयितां चापि कृष्णां प्राप्तो लोकः कर्मणा स्वेन वीर ।
श्वानं चैनं न त्यजसे कथं नु त्यागं कृत्स्नं चास्थितोमुह्यसेऽद्य॥१४॥

युधिष्ठिर उवाच। न विद्यते सन्धिरथापि विग्रहो मृतैर्मर्त्यैरिति लोकेषु निष्ठा ।
न ते मया जीवयितुं हि शक्या स्ततस्त्यागस्तेषु कृतो न जीवताम्॥१५॥

भीतिप्रदानं शरणागतस्य स्त्रियावधो ब्राह्मणस्वापहारः ।
मित्रद्रोहस्तानि चत्वारि शक्र भक्तत्यागश्चैव समो मतो मे॥१६॥

वैशम्पायन उवाच। तद्धर्मराजस्य वचो निशम्य धर्मस्वरूपी भगवानुवाच ।
युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं श्लक्ष्णैर्वाक्यैः संस्तवसम्प्रयुक्तैः॥१७॥

धर्मराज उवाच। अभिजातोऽसि राजेन्द्र पितुर्वृत्तेन मेधया ।
अनुक्रोशेन चानेन सर्वभूतेषु भारत॥१८॥

अभिजातोऽतिकुलीनोऽसि पितुः पाण्डोः॥१८॥

पुरा द्वैतवने चासि मया पुत्र परीक्षितः ।
पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः॥१९॥

भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ ।
मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि॥२०॥

अयं श्वा भक्त इत्येवं त्यक्तो देवरथस्त्वया ।
तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिपः॥२१॥

अतस्तवाक्षया लोकाः स्वशरीरेण भारत ।
प्राप्तोऽसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम्॥२२॥

वैशम्पायन उवाच। ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि ।
देवा देवर्षयश्चैव रथमारोप्य पाण्डवम्॥२३॥

प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः ।
सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः॥२४॥

सतं रथं समास्थाय राजाकुरुकुलोद्वहः ।
ऊर्ध्वमाचक्रमेशीघ्रं तेजसाऽऽवृत्य रोदसी॥२५॥

ततो देवनिकाय्यस्थो नारदः सर्वलोकवित् ।
उवाचाच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः॥२६॥

निकाय्यस्थो निवासस्थः॥२६॥

येऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः ।
कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति॥२७॥

वाक्यमेवाह येऽपीति समुपुस्थिता स्मृतिविषयाः सन्ति॥२७॥

लोकानावृत्य यशसा तेजसा वृत्तसम्पदा ।
स्वशरीरेण सम्प्राप्तं नान्यं शुश्रुम पाण्डवात्॥२८॥

तेजांसि यानि दृष्टानि भूमिष्ठेन त्वया विभो ।
वेश्मानि भुवि देवानां पश्यामूनि सहस्रशः॥२९॥

नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत् ।
देवानामंत्र्य धर्मात्मा स्वपक्षांश्चैव पार्थिवान्॥३०॥

यदेव भ्रातॄणां स्थानं तदेव प्राप्तुमिच्छामि॥३०॥

शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे ।
तदेव प्रातुमिच्छामि लोकानन्यान्न कामये॥३१॥

राज्ञस्तु वचनं श्रुत्वा देवराजः पुरन्दरः ।
आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम्॥३२॥

स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः ।
किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि॥३३॥

सिद्धिं प्राप्तोऽसि परमां यथा नान्यः पुमान् क्वचित् ।
नैव ते भ्रातरः स्थानं सम्प्राप्ताः कुरुनन्दन॥३४॥

अद्यापि मानुषो भावः स्पृशते त्वां नराधिप ।
स्वर्गोऽयं पश्य देवर्षीन् सिद्धांश्च त्रिदिवालयान्॥३५॥

युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम् ।
पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत्॥३६॥

तैर्विना नोत्सहे वस्तुमिहदैत्यनिबर्हण ।
गन्तुमिच्छामि तत्राहं यत्र ते भ्रातरो गताः॥३७॥

यत्र सा बृहती श्यामा बुद्धिसत्वगुणान्विता ।
द्रौपदी योषितां श्रेष्ठा यत्र चैवगता मम॥३८॥

॥इति श्रीमहाभारते महाप्रस्थानिके पर्वणि युधिष्ठिरस्वर्गारोहे तृतीयोऽध्यायः॥३॥
॥महाप्रस्थानिकं पर्व समाप्तम्॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in