मौसलपर्व - १

मौसलपर्व

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

प्रथमोऽध्यायः

वैशम्पायन उवाच। षट्त्रिंशे त्वथ सम्प्राप्ते वर्षे कौरवनन्दनः ।
ददर्श विपरीतानि निमित्तानि युधिष्ठिरः॥१॥

एवमादिपर्वणि सूत्रितानां धमार्थकाममोक्षाणां मध्ये सभावनयोर्यज्ञसत्यधृतिगुरुसत्तीर्थसेवनादिना धर्मः प्रतिपादितः। विराटाद्यष्टके सेवानीतिहिंसानृतकुलक्षयादिनार्थः शोकप्रदो निरूपितः। द्वादशेऽर्थफलभूतः कामः सोपसर्गो निरुपप्लवं च मोक्षपदं निरूपितम्। त्रयोदशादित्रये मोक्षहेतून्दानविद्यावनवासाश्च निरूप्य षोडशे धृतराष्ट्रवद्वनमनाश्रित्य केवलमर्थकामसक्तास्ते मदिरादिकलहेन व्यसनेन विनश्यन्तीति प्रतिपाद्यते। सप्तदशे निष्कामधर्मस्य फलं गृहादेस्त्यागोऽष्टादशे तत्पूर्विका स्वर्गप्राप्तिश्च निरूपयिष्यते। तत्र राज्यप्रात्यनन्तरं षट्त्रिंशत्तमे वर्षे सर्वनाशसूचकानुत्पातानाह वैशम्पायनः षट्त्रिंश इति॥१॥

ववुर्वाताश्च निर्घाता रूक्षाः शर्करवर्षिणः ।
अपसव्यानि शकुना मण्डलानि प्रचक्रिरे॥२॥

प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः ।
उल्काश्चाङ्गारवर्षिण्यः प्रापतन्गगनाद्भुवि॥३॥

आदित्यो रजसा राजन् समवच्छन्नमण्डलः ।
विरश्मिरुदये नित्यं कबन्धैः समदृश्यत॥४॥

परिवेषाश्च दृश्यन्ते दारुणाश्चन्द्रसूर्ययोः ।
त्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः॥५॥

एते चान्ये च बहव उत्पाता भयशंसिनः ।
दृश्यन्ते बहवो राजन् ह्रदयोद्वेगकारकाः॥६॥

कस्यचित्त्वथ कालस्य कुरुराजो युधिष्ठिरः ।
शुश्राव वृष्णिचक्रस्य मौसले कदनं कृतम्॥७॥

विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः ।
समानीयाब्रवीद्भ्रातॄन्किं करिष्याम इत्युत॥८॥

परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान् ।
वृष्णीन्विनष्टांस्ते श्रुत्वा व्यथिताः पाण्डवाभवन्॥९॥

भवन् अभवन्॥९॥

निधनं वासुदेवस्य समुद्रस्येव शोषणम् ।
वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः॥१०॥

मौसलं ते समाश्रित्य दुःखशोकसमन्विताः ।
विषण्णा हतसङ्कल्पाः पाण्डवाः समुपाविशन्॥११॥

मौसलं मुसलकृतं कदनं समाश्रित्य मनसि धृत्वा॥११॥

जनमेजय उवाच। कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह ।
पश्यतो वासुदेवस्य भोजाश्चैव महारथाः॥१२॥

वैशम्पायन उवाच। षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान् ।
अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः॥१३॥

मुसलैरेरकालग्नैर्मुसलकणैः॥१३॥

जनमेजय उवाच। केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका गताः ।
भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे॥१४॥

वैशम्पायन उवाच। विश्वामित्रं च कण्वं च नारदं च तपोधनम् ।
सारणप्रमुखा वीरा ददृशुर्द्वारकां गतान्॥१५॥

ते तान्साम्बं पुरस्कृत्य भूषयित्वा स्त्रियं यथा ।
अब्रुवन्नुपसं गम्य दैवदण्डनिपीडिताः॥१६॥

इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः ।
ऋषयः साधु जानीत किमियं जनयिष्यति॥१७॥

इत्युक्तास्तेतदाराजन्विप्रलम्भप्रधर्षिताः ।
प्रत्युब्रुवंस्तान्मुनयो यत्तच्छृणु नराधिप॥१८॥

वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम् ।
वासुदेवस्य दायादः साम्बोऽयं जनयिष्यति॥१९॥

येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः ।
उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ॥२०॥

समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः ।
जरा कृष्णं महात्मानं शयानं भुवि भेत्स्यति॥२१॥

जरानामा कश्चित्कैवर्तः॥२१॥

इत्यब्रुवन्त ते राजन्प्रलब्धास्तैर्दुरात्मभिः ।
मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम्॥२२॥

तथोक्त्वा मुनयस्ते तु ततः केशवमभ्ययुः ।
अथाब्रवीत्तदा वृष्णीन् श्रुत्वैवं मधुसूदनः॥२३॥

अभ्ययुर्मनसाऽस्माभिर्दत्तः शापस्त्वया क्षन्तव्य इति॥२३॥

अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान् ।
एवमुक्त्वा हृषीकेशः प्रविवेश पुरन्तदा॥२४॥

कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः ।
श्वोभूतेऽथ ततः साम्बो मुसलं तदसूत वै॥२५॥

येन वृष्ण्यन्धककुले पुरुषा भस्मसात्कृताः ।
वृष्ण्यन्धकविनाशाय किङ्करप्रतिमं महत्॥२६॥

किङ्करो यमदूतस्तत्तुल्यम्॥२६॥

असूत शापजं घोरं तच्च राज्ञे न्यवेदयन् ।
विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत्॥२७॥

तच्चूर्णं सागरे चापि प्राक्षिपन्पुरुषा नृप ।
अघोषयंश्च नगरे वचनादाहुकस्य ते॥२८॥

जनार्दनस्य रामस्य बभ्रोश्चैव महात्मनः ।
अद्यप्रभृति सर्वेषु वृष्ण्यन्धककुलेष्विह॥२९॥

सुरासवो न कर्तव्यः सर्वैर्नगरवासिभिः ।
यश्च नो विदितङ्कुर्यात्पेयं कश्चिन्नरः क्वचित्॥३०॥

जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः ।
ततो राजभयात्सर्वे नियमं चक्रिरे तदा ।
नराः शासनमाज्ञाय रामस्याक्लिष्टकर्मणः॥३१॥

स्वयङ्कृत्वा स्वयङ्कर्ता॥३१॥
॥इति श्रीमहाभारते मौसलपर्वणि मुसलोत्पत्तौ प्रथमोऽध्यायः॥१॥
द्वितीयोऽध्यायः

वैशम्पायन उवाच। एवं प्रयतमानानां वृष्णीनामन्धकैः सह ।
कालो गृहाणि सर्वेषां परिचक्राम नित्यशः॥१॥

एवमिति कालः कपोतोलूकादिरूपेण॥१॥

करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ।
गृहाण्यावेक्ष्य वृष्णीनां नादृश्यत क्वचित् क्वचित्॥२॥

स एव क्वचित्करालादिरूपोऽदृश्यत क्वचिन्न आवेक्ष्य परिक्रामन्निति शेषः॥२॥

तमघ्नन्त महेष्वासाः शरैः शतसहस्रशः ।
न चाशक्यत वेद्धुं स सर्वभूतात्ययस्तदा॥३॥

सर्वभूतानामत्ययो नाशो यस्मात्॥३॥

उत्पेदिरे महावाता दारुणाश्च दिने दिने ।
वृष्ण्यन्धकविनाशाय बहवो लोमहर्षणाः॥४॥

विवृद्धमूषिका रथ्या विभिन्नमणिकास्तथा ।
केशा नखाश्च सुप्तानामद्यन्ते मूषिकैर्निशि॥५॥

मणिका मृत्पात्राणि॥५॥

चीचीकूचीति वाशन्ति सारिका वृष्णिवेश्मसु ।
नोपशाम्यति शब्दश्च स दिवारात्रमेव हि॥६॥

अन्वकुर्वन्नुलूकानां सारसा विरुतं तथा ।
अजाः शिवानां विरुतमन्वकुर्वत भारत॥७॥

पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः ।
वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा॥८॥

व्यजायन्त खरा गोषु करभाऽश्वतरीषु च ।
शुनीष्वपि बिडालाश्च मूषिका नकुलीषु च॥९॥

नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा ।
प्राद्विषन् ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च॥१०॥

गुरूंश्चाप्यवमन्यते न तु रामजनार्दनौ ।
पत्न्यः पतीनुच्चरन्त पत्नीश्च पतयस्तथा॥११॥

उच्चरन्त वञ्चितवत्यः॥११॥

विभावसुः प्रज्वलितो वामं विपरिवर्तते ।
नीललोहितमञ्जिष्ठा विसृजन्नर्चिषः पृथक्॥१२॥

उदयास्तमने नित्यं पुर्यां तस्यां दिवाकरः ।
व्यदृश्यतासकृत्पुम्भिः कबन्धैः परिवारितः॥१३॥

महानसेषु सिद्धेषु संस्कृतेऽतीव भारत ।
आहार्यमाणे कृमयो व्यदृश्यन्त सहस्रशः॥१४॥

आहार्यमाणे अन्ने॥१४॥

पुण्याहे वाच्यमाने तु जपत्सु च महात्मसु ।
अभिधावन्तः श्रूयन्ते न चादृश्यन्त कश्चन॥१५॥

परस्परं च नक्षत्रं हन्यमानं पुनः पुनः ।
ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथञ्चन॥१६॥

परेति स्वनक्षत्रादर्शनमपि स्वमृत्युसूचकमित्यर्थः॥१६॥

नदन्तं पाञ्चजन्यं च वृष्ण्यन्धकनिवेशने ।
समन्तात्पर्यवाशन्त रासभा दारुणस्वराः॥१७॥

एवं पश्यन् ह्रषीकेशः सम्प्राप्तं कालपर्ययम् ।
त्रयोदश्याममावास्यां तान् दृष्ट्वा प्राब्रवीदिदम्॥१८॥

एवमिति त्रयोदशदिवसः कृष्णपक्षोभूदित्यर्थः॥१८॥

चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः ।
प्राप्ते वै भारते युद्धे प्राप्ता चाद्य क्षयाय नः॥१९॥

एवं सत्यग्रिमपक्षे वृद्ध्या भाव्यं तन्न जातं प्रत्युतैका तिथिः क्षीणा तत्र ग्रहणं च जातमित्याह चतुर्दशीति॥१९॥

विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः ।
मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः॥२०॥

पुत्रशोकाभिसन्तप्ता गान्धारी हतबान्धवा ।
यदनुव्याजहारार्ता तदिदं समुपागमत्॥२१॥

इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः ।
पुरा व्यूढेष्वनीकेषु दृष्ट्वोत्पातान् सुदारुणान्॥२२॥

इत्युक्त्वा वासुदेवस्तु चिकीर्षुः सत्यमेव तत् ।
आज्ञापयामास तदा तीर्थयात्रामरिन्दमः॥२३॥

अघोषयन्त पुरषास्तत्र केशवशासनात् ।
तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः॥२४॥

॥इति श्रीमहाभारते मौसलपर्वणि उत्पातदर्शने द्वितीयोऽध्यायः॥२॥
तृतीयोऽध्यायः

वैशम्पायन उवाच। कालीस्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि ।
स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति॥१॥

कालीति मुष्णन्ती स्त्रीणां मङ्गलसूत्रादिकं चोरयन्ती॥१॥

अग्रिहोत्रनिकेतेषु वास्तुमध्येषु वेश्मसु ।
वृष्ण्यन्धकानखादन्त स्वप्ने गृध्रा भयानकाः॥२॥

अलङ्काराश्च छत्रं च ध्वजाश्च कवचानि च ।
ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः॥३॥

तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयोमयम् ।
दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा॥४॥

युक्तं रथं दिव्यमादित्यवर्णं हया हरन्पश्यतो दारुकस्य ।
ते सागरस्योपरिष्टादवर्तन्मनोजवाश्चतुरो वाजिमुख्याः॥५॥

तालः सुपर्णश्च महाध्वजौ तौ सुपूजितौ रामजनार्दनाभ्याम् ।
उच्चैर्जह्रुरप्सरसो दिवानिशं वाचश्चोचुर्गम्यतां तीर्थयात्रा॥६॥

ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः ।
सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः॥७॥

ततो भोज्यं च भक्ष्यं च पेयं चान्धकवृष्णयः ।
बहु नानाविधं चक्रुर्मद्य मांसमनेकशः॥८॥

ततः सैनिकवर्गाश्च निर्ययुर्नगराद्बहिः ।
यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः॥९॥

ततः प्रभासे न्यवसन्यथोद्दिष्टं यथागृहम् ।
प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा॥१०॥

निविष्ठांस्तान्निशम्याथ समुद्रान्ते स योगवित् ।
जगामामन्त्र्य तान्वीरानुद्धवोर्थविशारदः॥११॥

निशम्य दृष्ट्वा अर्थविशारदो मोक्षपण्डितः॥११॥

तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम् ।
जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः॥१२॥

ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः ।
अपश्यन्नुद्धवं यातं तेजसाऽऽवृत्य रोदसी॥१३॥

ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम् ।
तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम्॥१४॥

ब्राह्मणार्थेष्विति ब्राह्मणार्थद्रव्यस्यान्यत्र विनियोजनमायुःक्षयकरमित्यर्थः॥१४॥

ततस्तूर्यशताकीर्णं नटनर्तकसङ्कुलम् ।
अवर्तत महापानं प्रभासे तिग्मतेजसाम्॥१५॥

कृष्णस्य सन्निधौ रामः सहितः कृतवर्मणा ।
अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च॥१६॥

ततः परिषदो मध्ये युयुधानो मदोत्कटः ।
अब्रवीत्कृतवर्माणमवहास्यावमन्य च॥१७॥

कः क्षत्रियो हन्यमानः सुप्तान्हन्यान्मृतानिव ।
तन्न मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम्॥१८॥

इत्युक्ते युयुधानेन पूजयामास तद्वचः ।
प्रद्युम्रो रथिनां श्रेष्ठो हार्दिक्यमवमन्य च॥१९॥

ततः परमसङ्क्रुद्धः कृतवर्मा तमब्रवीत् ।
निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना॥२०॥

भूरिश्रवाश्छिन्नबाहुर्युद्धे प्रायगतस्त्वमा ।
वधेन सुनृशंसेन कथं वीरेण पातितः॥२१॥

इति तस्य वचः श्रुत्वा केशवः परवीरहा ।
तिर्यक्सरोषया दृष्ट्या वीक्षाञ्चक्रे स मन्युमान्॥२२॥

मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत् ।
तां कथां श्रावयामास सात्यकिर्मधुसूदनम्॥२३॥

तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा ।
सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम्॥२४॥

तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत् ।
पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः॥२५॥

एष गच्छामि पदवीं सत्येन च तथा शपे ।
सौप्तिके ये च निहताः सुप्ता येन दुरात्मना॥२६॥

द्रोणपुत्रसहायेन पापेन कृतवर्मणा ।
समाप्तमायुरस्याद्य यशश्चैव सुमध्यमे॥२७॥

इत्येवमुक्त्वा खड्गेन केशवस्य समीपतः ।
अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः॥२८॥

तथाऽन्यानपि निघ्नन्तं युयुधानं समन्ततः ।
अभ्यधावद्धृषीकेशो विनिवारयितुं तदा॥२९॥

एकीभूतास्ततः सर्वे कालपर्यायचोदिताः ।
भोजान्धका महाराज शैनेयं पर्यवारयन्॥३०॥

तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाज्जनार्दनः ।
न चुक्रोध महातेजा जानन्कालस्य पर्ययम्॥३१॥

ते तु पानमदाविष्टाश्चोदिताः कालधर्मणा ।
युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा॥३२॥

हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः ।
तदनन्तरमागच्छन्मोक्षयिष्यन् शिनेः सुतम्॥३३॥

स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह ।
व्यायच्छमानौ तौ वीरौ बाहुद्रविणशालिनौ॥३४॥

बहुत्वान्निहतौ तत्र उभौ कृष्णस्य पश्यतः ।
हतं दृष्ट्वा च शैनेयं पुत्रं च यदुनन्दनः॥३५॥

एरकानां ततो मुष्टिं कोपाज्जग्राह केशवः ।
तदभून्मुसलं घोरं वज्रकल्पमयोमयम्॥३६॥

जघान कृष्णस्तांस्तेन ये ये प्रमुखतोऽभवन् ।
ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा॥३७॥

जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः ।
यस्तेषामेरकां कश्चिज्जग्राह कुपितो नृप॥३८॥

वज्रभूतेव सा राजन्नदृश्यत तदा विभो ।
तृणं च मुसलीभूतमपि तत्र व्यदृश्यत॥३९॥

ब्रह्मदण्डकृतं सर्वमिति तद्विद्धि पार्थिव ।
अविध्यान् विध्य ते राजन् प्रक्षिपन्ति स्म यत्तृणम्॥४०॥

विधस्ताडनं तदनर्हान् तौदादिकाद्विधेरिगुपधलक्षणः कस्ततोऽर्हार्थे यत् विध्य विध्वा॥४०॥

तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् ।
अवधीत्पितरं पुत्रः पिता पुत्रं च भारत॥४१॥

मत्ताः परिपतन्ति स्म योधयन्तः परस्परम् ।
पतंगा इव चाग्नौ ते निपेतुः कुकुरान्धकाः॥४२॥

नासीत्पलायने बुद्धिर्वध्यमानस्य कस्यचित् ।
तत्रापश्यन्महाबाहुर्जानन्कालस्य पर्ययम्॥४३॥

तत्र यन्मुसलमपश्यत्तदेवावष्टभ्य तस्थावित्यन्वयः॥४३॥

मुसलं समवष्टभ्य तस्थौ स मधुसूदनः ।
साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः॥४४॥

प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत ।
गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः॥४५॥

स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः ।
तन्निघ्नन्तं महातेजा बभ्रुः परपुरञ्जयः॥४६॥

दारुकश्चैव दाशार्हमूचतुर्यन्निबोध तत् ।
भगवन्निहताः सर्वे त्वया भूयिष्ठशो नराः ।
रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः॥४७॥

॥इति श्रीमहाभारते मौसलपर्वणि कृतवर्मादीनां परस्परहनने तृतीयोऽध्यायः॥३॥
चतुर्थोऽध्यायः

वैशम्पायन उवाच। ततो ययुर्दारुकः केशवश्च बभ्रुश्च रामस्य पदं पतन्तः ।
अथापश्यन् राममनन्तवीर्यं वृक्षे स्थितं चिन्तयानं विविक्ते॥१॥

तत इति पतन्तः शीघ्रं गच्छन्तः॥१॥

ततः समासाद्य महानुभावं कृष्णस्तदा दारुकमन्वशासत् ।
गत्वा कुरून्सर्वमिमं महान्तं पार्थाय शंसस्व वधं यदूनाम्॥२॥

ततोऽर्जुनः क्षिप्रमिहोपयातु श्रुत्वा मृतान् यादवान्ब्रह्मशापात् ।
इत्येवमुक्तः स ययौ रथेन कुरूंस्तदा दारुको नष्टचेताः॥३॥

ततो गते दारुके केशवोऽथ दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम् ।
स्त्रियो भवान्रक्षितुं यातु शीघ्रं नैता हिंस्युर्दस्यवो वित्तलोभात्॥४॥

स प्रस्थितः केशवेनानुशिष्टो मदातुरो ज्ञातिवधार्दितश्च ।
तं विश्रान्तं सन्निधौ केशवस्य दुरन्तमेकं सहसैव बभ्रुम्॥५॥

ब्रह्मानुशप्तमवधीन्महद्वै कूटे युक्तं मुसलं लुब्धकस्य ।
ततो दृष्ट्वा भिहतं बभ्रुमाह कृष्णोऽग्रजं भ्रातरमुग्रतेजाः॥६॥

कूटलोहमुद्गरे युक्तं बद्धं मुसलं बाह्मणशप्तं बभ्रुं स्वयमेव निपत्यावधीत् स इत्यादि सार्धः श्लोकः॥६॥

इहैव त्वं मां प्रतीक्षस्व राम यावत्स्त्रियो ज्ञातिवशाः करोमि ।
ततः पुरीं द्वारवतीं प्रविश्य जनार्दनः पितरं प्राह वाक्यम्॥७॥

स्त्रियो भवान्रक्षतु नः समग्रा धनञ्जयस्यागमनं प्रतीक्षन् ।
रामो वनान्ते प्रतिपालयन्मामास्तेऽद्याहं तेन समागमिष्ये॥८॥

दृष्टं मयेदं निधनं यदूनां राज्ञां च पूर्वं कुरुपुङ्गवानाम् ।
नाहं विना यदुभिर्यादवानां पुरीमिमामशकं द्रष्टुमद्य॥९॥

तपश्चरिष्यामि निबोध तन्मे रामेण सार्धं वनमभ्युपेत्य ।
इतीदमुक्त्वा शिरसा च पादौ संस्पृश्य कृष्णस्त्वरितो जगाम॥१०॥

ततो महान्निनदः प्रादुरासीत्सस्त्रीकुमारस्य पुरस्य तस्य ।
अथाब्रवीत्केशवः सन्निवर्त्य शब्दं श्रुत्वा योषितां क्रोशतीनाम्॥११॥

पुरीमिमामेष्यति सव्यसाची स वो दुःखान्मोचयिता नराग्र्यः ।
ततो गत्वा केशवस्तं ददर्श रामं वने स्थितमेकं विविक्ते॥१२॥

अथापश्यद्योगयुक्तस्य तस्य नागं मुखान्निश्चरन्तं महान्तम् ।
श्वेतं ययौ स ततः प्रेक्ष्यमाणो महार्णवो येन महानुभावः॥१३॥

सहस्रशीर्षः पर्वताभोगवर्ष्मा रक्ताननः स्वां तनुं तां विमुच्य ।
सम्यक् च तं सागरः प्रत्यगृह्णान्नागा दिव्याः सरितश्चैव पुण्याः॥१४॥

कर्कोटको वासुकिस्तक्षकश्च पृथुश्रवा अरुणः कुञ्जरश्च ।
मिश्री शङ्खः कुमुदः पुण्डरीकस्तथा नागो धृतराष्ट्रो महात्मा॥१५॥

ह्रादः क्राथः शितिकण्ठोग्रतेजास्तथा नागौ चक्रमन्दातिषण्डौ ।
नागश्रेष्ठो दुर्मुखश्चाम्बरीषः स्वयं राजा वरुणश्चापि राजन्॥१६॥

प्रत्युद्गम्य स्वागतेनाभ्यनन्दंस्तेपूजयंश्चार्घ्यपाद्यक्रियाभिः ।
ततो गते भ्रातरि वासुदेवो जानन् सर्वा गतयो दिव्यदृष्टिः॥१७॥

वने शून्ये विचरंश्चिन्तयानो भूमौ चाथ संविवेशाग्र्यतेजाः ।
सर्वं तेन प्राक्तदा वित्तमासीद्गान्धार्या यद्वाक्यमुक्तः स पूर्वम्॥१८॥

दुर्वाससा पायसोच्छिष्टलिप्ते यच्चाप्युक्तं तच्च सस्मार वाक्यम् ।
स चिन्तयन्नन्धकवृष्णिनाशं कुरुक्षयं चैव महानुभावः॥१९॥

मेने ततः सङ्क्रमणस्य कालं ततश्चकारेन्द्रियसन्निरोधम् ।
तथा च लोकत्रयपालनार्थमात्रेयवाक्यप्रतिपालनाय॥२०॥

देवोऽपि सन् देहविमोक्षहेतोर्निर्णीतमैच्छत्सकलार्थतत्त्ववित् ।
स सन्निरुद्धेन्द्रियवाङ्मनास्तु शिश्ये महायोगमुपेत्य कृष्णः॥२१॥

जराऽथ तं देशमुपाजगाम लुब्धस्तदानीं मृगलिप्सुरुग्रः ।
स केशवं योगयुक्तं शयानं मृगासक्तो लुब्धकः सायकेन॥२२॥

जराऽविध्यत्पादतले त्वरावांस्तं चाभितस्तज्जिघृक्षुर्जगाम ।
अथापश्यत्पुरुषं योगयुक्तं पीताम्बरं लुब्धकोऽनेऽकबाहुम्॥२३॥

मत्वाऽऽत्मानं त्वपराद्धं स तस्य पादौ जरा जगृहे शङ्कितात्मा ।
आश्वासयंस्तं महात्मा तदानीं गच्छन्नूर्ध्वं रोदसी व्याप्य लक्ष्म्या॥२४॥

दिवं प्राप्तं वासवोऽथाश्विनौ च रुद्रादित्या वसवश्चाथ विश्वे ।
प्रत्युद्ययुर्मुनयश्चापि सिद्धा गन्धर्वमुख्याश्च सहाप्सरोभिः॥२५॥

ततो राजन्भगवानुग्रतेजा नारायणः प्रभवश्चाव्ययश्च ।
योगाचार्यो रोदसी व्याप्य लक्ष्म्या स्थानं प्राप स्वं महात्माऽप्रमेयम्॥२६॥

ततो दैवेर्ऋषिभिश्चापि कृष्णः समागतश्चारणैश्चैव राजन् ।
गन्धर्वाग्र्यैरप्सरोभिर्वराभिः सिद्धैः साध्यैश्चानतैः पूज्यमानः॥२७॥

तं वै देवाः प्रत्यनन्दन्त राजन्मुनिश्रेष्ठा ऋग्भिरानर्चुरीशम् ।
तं गन्धर्वाश्चापि तस्थुः स्तुवन्तः प्रीत्या चैनं पुरुहूतोऽभ्यनन्दत्॥२८॥

॥इति श्रीमहाभारते मौसलपर्वणि श्रीकृष्णस्य स्वलोकगमने चतुर्थोऽध्यायः॥४॥
पञ्चमोऽध्यायः

वैशम्पायन उवाच। दारुकोऽपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् ।
आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान्॥१॥

दारुक इति॥१॥

श्रुत्वा विनष्टान्वार्ष्णेयान् सभोजान्धककौकुरान् ।
पाण्डवाः शोकसन्तप्ता वित्रस्तमनसोऽभवन्॥२॥

ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा ।
प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत्॥३॥

स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो ।
ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम्॥४॥

या स्म ता लोकनाथेन नाथवन्त्यः पुराऽभवन् ।
तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः॥५॥

षोडश स्त्रीसहस्राणि वासुदेवपरिग्रहः ।
तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम्॥६॥

तास्तु दृष्ट्वैव कौरव्यो बाष्पेणापिहितेक्षणः ।
हीनाः कृष्णेन पुत्रैश्च नाशकत्सोऽभिवीक्षितुम्॥७॥

स तां वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् ।
वादित्ररथघो षौघां वेश्मतीर्थमहाह्रदाम्॥८॥

रत्नशैवलसङ्घातां वज्रप्राकारमालिनीम् ।
रथ्यास्रोतोजलावर्त्तां चत्वरस्तिमितह्रदाम्॥९॥

रामकृष्णमहाग्राहां द्वारकां सरितं तदा ।
कालपाशग्रहां भीमां नदीं वैतरणीमिव॥१०॥

ददर्श वासविर्धीमान्विहीनां वृष्णिपुङ्गवैः ।
गतश्रियं निरानन्दां पद्मिनी शिशिरे यथा॥११॥

तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः ।
सस्वनं बाष्पमुत्सृज्य निपपात महीतले॥१२॥

सात्राजिती ततः सत्या रुक्मिणी च विशाम्पते ।
अभिपत्य प्ररुरुदुः परिवार्य धनञ्जयम्॥१३॥

ततस्तं काञ्चने पीठे समुत्थाप्योपवेश्य च ।
अब्रुवन्त्यो महात्मानं परिवार्योपतस्थिरे॥१४॥

ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः ।
आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात्॥१५॥

॥इति श्रीमहाभारते मौसलपर्वणि अर्जुनागमन पञ्चमोऽध्यायः॥५॥
षष्टोऽध्यायः

वैशम्पायन उवाच। तं शयानं महात्मानं वीरमानकदुन्दुभिम् ।
पुत्रशोकेन सन्तप्तं ददर्श कुरुपुङ्गवः॥१॥

तं शयानमिति॥१॥

तस्याश्रुपरिपूर्णाक्षो व्यूढोरस्को महाभुजः ।
आर्तस्यार्ततरः पार्थः पादौ जग्राह भारत॥२॥

तस्य मूर्धानमाघ्रातुमियेषानकदुन्दुभिः ।
स्वस्त्रीयस्य महाबाहुर्न शशाक च शत्रुहन्॥३॥

समालिङ्ग्यार्जुनं वृद्धः स भुजाभ्यां महाभुजः ।
रुदन्पुत्रान्स्मरन्सर्वान् विललाप सुविह्वलः॥४॥

भ्रातॄन्पुत्रांश्च पौत्रांश्च दौहित्रान् ससखीनपि ।
वसुदेव उवाच। यैर्जिता भूमिपालाश्च दैत्याश्च शतशोऽर्जुन॥५॥

तान् दृष्ट्वा नेह पश्यामि जीवाम्यर्जुन दुर्मरः ।
यौ तावर्जुन शिष्यौ ते प्रियौ बहुमतौ सदा॥६॥

शिष्यौ प्रद्युम्नसात्यकी॥६॥

तयोरपनयात्पार्थ वृष्णयो निधनं गताः ।
यौ तौ वृष्णिप्रवीराणां द्वावेवातिरथौ मतौ॥७॥

प्रद्युम्नो युयुधानश्च कथयन्कत्थसे च यौ ।
तौ सदा कुरुशार्दूल कृष्णस्य प्रियभाजनौ॥८॥

तावुभौ वृष्णिनाशस्य मुखमास्तां धनञ्जय ।
न तु गर्हामि शैनेयं हार्दिक्यं चाहमर्जुन॥९॥

अक्रूरं रौक्मिणेयं च शापो ह्येवात्र कारणम् ।
केशिनं यस्तु कंसं च विक्रम्य जगतः प्रभुः॥१०॥

विदेहावकरोत्पार्थ चैद्यं च बलगर्वितम् ।
नैषादिमेकलव्यं च चक्रे कालिङगमागधान्॥११॥

गान्धारान्काशिराजं च मरुभूमौ च पार्थिवान् ।
प्राच्यांश्च दाक्षिणात्यांश्च पार्वतीयांस्तथा नृपान्॥१२॥

काशिराजं पौण्ड्रकम्॥१२॥

सोऽभ्युपेक्षितवानेतमनयान्मधुसूदनः ।
त्वं हि तं नारदश्चैव मुनयश्च सनातनम्॥१३॥

एतं वंशक्षयम् अनयात् बालानामपराधात् सत्यपि सामर्थ्ये उपेक्षाकरणमनयस्तस्माद्वा सामर्थ्यमेवाह त्वमिति॥१३॥

गोविन्दमनघं देवमभिजानीध्वमच्युतम् ।
प्रत्यपश्यच्च स विभुर्ज्ञातिक्षयमधोक्षजः॥१४॥

समुपेक्षितवान्नित्यं स्वयं स मम पुत्रकः ।
गान्धार्यां वचनं यत्तदृषीणां च परन्तप॥१५॥

तन्नूनमन्यथा कर्तुं नैच्छत्स जगतः प्रभुः ।
प्रत्यक्षं भवतश्चापि तव पौत्रः परन्तप॥१६॥

अश्वत्थाम्ना हतश्चापि जीवितस्तस्य तेजसा ।
इमांस्तुनैच्छत्स्वान् ज्ञातीन् रक्षितुं च सखा तव॥१७॥

ततः पुत्रांश्च पौत्रांश्च भ्रातॄनथ सखींस्तथा ।
शयानान्निहतान्दृष्ट्वा ततो मामब्रवीदिदम्॥१८॥

सम्प्राप्तोऽद्यायमस्यान्तः कुलस्य भरतर्षभ ।
आगमिष्यति बीभत्सुरिमां द्वारवतीं पुरीम्॥१९॥

आख्येयं तस्य यद्वृत्तं वृष्णीनां वैशसं महत् ।
स तु श्रुत्वा महातेजा यदूनां निधनं प्रभो॥२०॥

आगन्ता क्षिप्रमेवेह न मेऽत्रास्ति विचारणा ।
योऽहं तमर्जुनं विद्धि योऽर्जुनः सोहमेव तु॥२१॥

योऽहमिति नरनारायणयोर्जीवपरमात्मनोर्व्यतिहारेण भगवताऽभेद उक्तस्तं ज्ञात्वाऽनुवन्नपि वसुदेवो न शोकं मुञ्चतीत्याश्चर्य भगवन्मायाबलमिति भावः॥२१॥

यद्ब्रूयात्तत्तथा कार्यमिति बुत्ध्यस्व भारत ।
स स्त्रीषु प्राप्तकालासुपाण्डवो बालकेषु च॥२२॥

प्रतिपत्स्यति बीभत्सुर्भवतश्चौर्ध्वदेहिकम् ।
इमां च नगरीं सद्यः प्रतियाते धनञ्जये॥२३॥

प्राकाराट्टालकोपेतां समुद्रः प्लावयिष्यति ।
अहं देशे तु कस्मिंश्चित्पुण्ये नियममास्थितः॥२४॥

कालं कर्ता सत्य एव रामेण सह धीमता ।
एवमुक्त्वा हृषीकेशो मामचिंत्यपराक्रमः॥२५॥

कालं मृत्युमात्मनः कर्त्ता करिष्यामि सत्य इत्यनेन मद्वाक्ये संशयो न कर्तव्य इत्युक्तम्॥२५॥

हित्वा मां बालकैः सार्धं दिशं कामप्यगात्प्रभुः ।
सोऽहं तौ च महात्मानौ चिंतयन्भ्रातरौ तव॥२६॥

घोरं ज्ञातिवधं चैव न भुञ्जे शोककर्शितः ।
न मोक्षे न च जिविष्ये दिष्ट्या प्राप्तोऽसि पाण्डव॥२७॥

यदुक्तं पार्थ कृष्णेन तत्सर्वमखिलं कुरु ।
एतत्ते पार्थ राज्यं च स्त्रियो रत्नानि चैव हि ।
इष्टान्प्राणानहं हीमांस्त्यक्ष्यामि रिपुसूदन॥२८॥

॥इति श्रीमहाभारते मौसलपर्वणि अर्जुनवसुदेवसंवादे षष्टोऽध्यायः॥६॥
सप्तमोऽध्यायः

वैशम्पायन उवाच। एवमुक्तः स बीभत्सुर्मातुलेन परंतप ।
दुर्मना दीनवदनो वसुदेवमुवाचह॥१॥

एवमिति॥१॥

नाहं वृष्णिप्रवीरेण बन्धुभिश्चैव मातुल ।
विहीनां पृथिवीं द्रष्टुं शक्यामीह कथञ्चन॥२॥

राजा च भीमसेनश्च सहदेवश्च पांडवः ।
नकुलो याज्ञसेनी च षडेकमनसो वयम्॥३॥

राज्ञः सङ्क्रमणे चापि कालोऽयं वर्तते ध्रुवम् ।
तमिमं विद्धि सम्प्राप्तं कालं कालविदां वर॥४॥

सर्वथा वृष्णिदारास्तु बालं वृद्धं तथैव च ।
नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिन्दम॥५॥

इत्युक्त्वा दारुकमिदं वाक्यमाह धनञ्जयः ।
अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि मा चिरम्॥६॥

इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम् ।
प्रविवेशार्जुनः शूरः शोचमानो महारथान्॥७॥

तमासनगतं तत्र सर्वाः प्रकृतयस्तथा ।
ब्राह्मणा नैगमास्तत्र परिवार्योपतस्थिरे॥८॥

तान्दीनमनसः सर्वान्विमूढान्गतचेतसः ।
उवाचेदं वचः काले पार्थो दीनतरस्तथा॥९॥

शक्रप्रस्थमहं नेष्ये वृष्ण्यन्धकजनं स्वयम् ।
इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति॥१०॥

सज्जीकुरुत यानानि रत्नानि विविधानि च ।
वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति॥११॥

सप्तमे दिवसे चैव रवौ विमल उद्गते ।
बहिर्वत्स्यामहे सर्वे सज्जीभवत मा चिरम्॥१२॥

इत्युक्तास्तेन ते सर्वे पार्थेनाक्लिष्टकर्मणा ।
सज्जमाशु ततश्चकुः स्वसिद्ध्यर्थं समुत्सुकाः॥१३॥

तां रात्रिमवसत्पार्थः केशवस्य निवेशन ।
महता शोकमोहेन सहसाऽभिपरिप्लुतः॥१४॥

श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान् ।
युक्त्वाऽऽत्मानं महातेजा जगाम गतिमुत्तमाम्॥१५॥

ततः शब्दो महानासीद्वसुदेवनिवेशने ।
दारुणः क्रोशतीनां च रुदतीनां च योषिताम्॥१६॥

प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः ।
उरांसि पाणिभिर्घ्नंत्यो व्यलपन्करुणं स्त्रियः॥१७॥

तं देवकी च भद्रा च रोहिणी मदिरा तथा ।
अन्वारोहंत च तदा भर्तारं योषितां वराः॥१८॥

ततः शौरिं नृयुक्तेन बहुमूल्येन भारत ।
यानेन महता पार्थो बहिर्निष्क्रामयत्तदा॥१९॥

तमन्वयुस्तत्र तत्र दुःखशोकसमन्विताः ।
द्वारकावासिनः सर्वे पौरजानपदा हिताः॥२०॥

तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः ।
पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः॥२१॥

अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलङ्कृताः ।
स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः॥२२॥

यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः ।
तत्रैनमुपसङ्कल्प्य पितृमेधं प्रचक्रिरे॥२३॥

तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः ।
ततोऽन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः॥२४॥

तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः ।
अदाहयच्चन्दनेश्च गन्धैरुच्चावचैरपि॥२५॥

ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः ।
सामगानां च निर्घोषो नराणां रुदतामपि॥२६॥

ततो वज्रप्रधानास्ते वृष्ण्यन्धककुमारकाः ।
सर्वे चैवोदकं चक्रुः स्त्रियश्चैव महात्मनः॥२७॥

अलुप्तधर्मस्तं धर्मं कारयित्वा स फाल्गुनः ।
जगाम वृष्णयो यत्र विनष्टा भरतर्षभ॥२८॥

स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः ।
बभूवातीव कौरव्यः प्राप्तकालं चकार ह॥२९॥

यथा प्रधानतश्चैव चक्रे सर्वास्तथा क्रियाः ।
ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः॥३०॥

ततः शरीरे रामस्य वासुदेवस्य चोभयोः ।
अन्विष्य दाहयामास पुरुषैराप्तकारिभिः॥३१॥

स तेषां विधिवत्कृत्वा प्रेतकार्याणि पांडवः ।
सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः॥३२॥

अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि ।
स्त्रियस्ता वृष्णिवीराणां रुदत्यः शोककर्शिताः॥३३॥

अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनञ्जयम् ।
भृत्याश्चान्धकवृष्णीनां सादिनो रथिनश्च ये॥३४॥

वीरहीनं वृद्धबालं पौरजानपदास्तथा ।
ययुस्ते परिवार्याथ कलत्रं पार्थशासनात्॥३५॥

कुञ्जरैश्च गजारोहा ययुः शैलनिभैस्तथा ।
सपादरक्षैः संयुक्ताः सान्तरायुधिका ययुः॥३६॥

पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः॥३७॥

दश षट् च सहस्राणि वासुदेवावरोधनम् ।
पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः॥३८॥

बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च ।
भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः॥३९॥

तत्सागरसमप्रख्यं वृष्णिचक्रं महर्धिमत् ।
उवाह रथिनां श्रेष्ठः पार्थः परपुरञ्जयः॥४०॥

निर्याते तु जने तस्मिन्सागरो मकरालयः ।
द्वारकां रत्नसम्पूर्णां जलेनाप्लावयत्तदा॥४१॥

यद्यद्धि पुरुषव्याघ्रो भूमेस्तस्या व्यमुञ्चत ।
तत्तत्सम्प्लावयामास सलिलेन स सागरः॥४२॥

तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः ।
तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन्॥४३॥

काननेषु च रम्येषु पर्वतेषु नदीषु च ।
निवसन्नानयामास वृष्णिदारान् धनञ्जयः॥४४॥

स पञ्चनदमासाद्य धीमानतिसमृद्धिमत् ।
देशे गोपशुधान्याढ्ये निवासमकरोप्रभुः॥४५॥

ततो लोभः समभवद्दस्यूनां निहतेश्वराः ।
दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत॥४६॥

ततस्ते पापकर्माणो लोभोपहतचेतसः ।
आभीरा मन्त्रयामासुः सामात्याः शुभदर्शनाः॥४७॥

अयमेकोऽर्जुनो धन्वी वृद्धबालं हतेश्वरम् ।
नयत्यस्मानतिक्रम्य योधाश्चेमेहतौजसः॥४८॥

ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः ।
अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः॥४९॥

महता सिंहनादे नत्रासयन्तः पृथग्जनम् ।
अभिपेतुर्वधार्थं ते कालपर्यायचोदिताः॥५०॥

ततो निवृत्तः कौन्तेयः सहसा सपदानुगः ।
उवाच तान्महाबाहुरर्जुनः प्रहसन्निव॥५१॥

निवर्तध्वमधर्मज्ञा यदि जीवितुमिच्छथ ।
इदानीं शरनिर्भिन्नाः शोचध्वं निहता मया॥५२॥

तथोक्तास्तेन वीरेण कदर्थीकृत्य तद्वचः ।
अभिपेतुर्जनं मूढा वार्यमाणाः पुनः पुनः॥५३॥

ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत् ।
आरोपयितुमारेभे यत्नादिव कथञ्चन॥५४॥

चकार सज्जं कृच्छ्रेण सम्भ्रमे तुमुले सति ।
चिंतयामास शस्त्राणि न च सस्मार तान्यपि॥५५॥

वैकृत्यं तन्महदृष्ट्वा भुजवीर्यं तथा युधि ।
दिव्यानां च महास्त्राणां विनाशाद्व्रिडितोऽभवत्॥५६॥

वृष्णियोधाश्च ते सर्वे गजाश्वरथयोधिनः ।
न शेकुरावर्तयितुं ह्रियमाणं च तं जनम्॥५७॥

कलत्रस्य बहुत्त्वाद्धि सम्पतत्सु ततस्ततः ।
प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे॥५८॥

मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः ।
समन्ततोऽवकृष्यन्त कामाच्चान्याः प्रवव्रजुः॥५९॥

ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनञ्जयः ।
जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सहस्रशः॥६०॥

क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः ।
अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः॥६१॥

स शरक्षयमासाद्य दुःखशोकसमाहतः ।
धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः॥६२॥

प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः ।
जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय॥६३॥

धनञ्जयस्तु दैवं तन्मनसाऽचिन्तयत्प्रभुः ।
दुःखशोकसमाविष्टो निःश्वासपरमोऽभवत्॥६४॥

अस्त्राणां च प्रणाशेन बाहुवीर्यस्य संशयात् ।
धनुषश्चाविधेयत्वाच्छराणां संक्षयेण च॥६५॥

बभूव विमनाः पार्थो दैवमित्यनुचिंतयन् ।
न्यवर्तत ततो राजन्नेदमस्तीति चाब्रवीत्॥६६॥

ततः शेषं समादाय कलत्रस्य महामतिः ।
हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत्॥६७॥

एवं कलत्रमानीय वृष्णीनां हृतशेषितम् ।
न्यवेशयत कौरव्यस्तत्र तत्र धनञ्जयः॥६८॥

हार्दिक्यतनयं पार्थो नगरं मार्तिकावतम् ।
भोजराजकलत्रं च हृतशेषं नरोत्तमः॥६९॥

ततो वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डव ।
वीरैर्विहीनान् सर्वांस्तान् शक्रप्रस्थे न्यवेशयत्॥७०॥

यौयुधानिं सरस्वत्यां पुत्रं सात्यकिनः प्रियम् ।
न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम्॥७१॥

इन्द्रप्रस्थे ददौ राज्यं वज्राय परवीरहा ।
वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः॥७२॥

रुक्मिणी त्वथ गान्धारी शैब्या हैमवतीत्यपि ।
देवी जाम्बवती चैव विविशुर्जातवेदसम्॥७३॥

सत्यभामा तथैवान्या देव्यः कृष्णस्य सम्मताः ।
वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः॥७४॥

द्वारकावासिनो ये तु पुरुषाः पार्थमभ्ययुः ।
यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः॥७५॥

स तत्कृत्वा प्राप्तकालं बाष्पेणापिहितोऽर्जुनः ।
कृष्णद्वैपायनं व्यासं ददर्शासीनमाश्रमे॥७६॥

॥इति श्रीमहाभारते मौसलपर्वणि वृष्णिकलत्राद्यानयने सप्तमोऽध्यायः॥७॥
अष्टमोऽध्यायः

वैशम्पायन उवाच। प्रविशन्नर्जुनो राजन्नाश्रमं सत्यवादिनः ।
ददर्शासीनमेकान्ते मुनिं सत्यवतीसुतम्॥१॥

प्रविशन्निति॥१॥

स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम् ।
अर्जुनोऽस्मीति नामास्मै निवेद्याभ्यवदत्ततः॥२॥

स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः ।
आस्यतामिति होवाच प्रसन्नात्मा महामुनिः॥३॥

तमप्रतीतमनसं निःश्वसन्तं पुनः पुनः ।
निर्विण्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम्॥४॥

नखकेशदशाकुम्भवारिणा किं समुक्षितः ।
आवीरजानुगमनं ब्राह्मणो वा हतस्त्वया॥५॥

नखोदकं केशोदकं वस्त्रप्रान्तो दशा तदुदकं कुभमुखोदकं च आवीरजा नारी रजस्वला तस्या रजः प्रस्रवकाले दिनत्रयादर्वागनुगमनं तस्यां मैथुनं ब्राह्मणस्य वधो युद्धे पराजयश्चेति सप्तभिर्निमित्तैः पुरुषोभ्रष्टश्रीर्भवति॥५॥

युद्धे पराजितो वाऽसि गतश्रीरिव लक्ष्यसे ।
न त्वां प्रभिन्नं जानामि किमिदं भरतर्षभ॥६॥

प्रभिन्नं पराजितं त्वां कदाचिदपि न जानामि॥६॥

श्रोतव्यं चेन्मया पार्थ क्षिप्रमाख्यातुमर्हसि ।
अर्जुन उवाच। यः स मेघवपुः श्रीमान् बृहत्पङ्कजलोचनः॥७॥

स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः ।
मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः॥८॥

बभूव वीरान्तकरः प्रभासे लोमहर्षणः ।
एते शूरा महात्मानः सिंहदर्पा महाबलाः॥९॥

भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि ।
गदापरिघशक्तीनां सहाः परिघबाहवः॥१०॥

हतं मृतं मारितवन्त इत्यर्थः॥१०॥

त एरकाभिर्निहिताः पश्य कालस्य पर्ययम् ।
हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम्॥११॥

पञ्चशतं सहस्रं सहस्रगुणितं पञ्चलक्षाणीत्यर्थः॥११॥

निधनं समनुप्राप्तं समासाद्येतरेतरम् ।
पुनः पुनर्न मृष्यामि विनाशममितौजसाम्॥१२॥

न केवलं हतं ताडितमपि तु निधनं प्राप्तमित्यर्थः॥१२॥

चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः ।
शोषणं सागरस्येव पर्वतस्येव चालनम्॥१३॥

नभसः पतनं चैव शैत्यमग्नेस्तथैव च ।
अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः॥१४॥

न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः ।
इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन॥१५॥

मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः ।
पश्यतो वृष्णिदाराश्च मम ब्रह्मन् सहस्रशः॥१६॥

पश्यतः अनादरे षष्ठी मां पश्यन्त मनादृत्येत्यर्थः॥१६॥

आभीरैरनुसृत्याजौ हृताः पञ्चनदालयैः ।
धनुरादाय तत्राहं नाशकं तस्य पूरणे॥१७॥

यथा पुरा च मे वीर्यं भुजयोर्न तथाऽभवत् ।
अस्त्राणि मे प्रनष्टानि त्रिविधानि महामुने॥१८॥

शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः ।
पुरुषश्चाप्रमेयात्मा शङ्खचक्रगदाधरः॥१९॥

पुरुषश्चेति इदमेव रूपञ्चतुर्भुजं नित्यमर्जुनदृग्गोचरमस्ति अत एव विश्वरूपदर्शनानन्तर मुक्तम्। ‘तेनैव रूपेण चतुर्भुजेन सहस्त्रबाहो भव विश्वमूर्ते’ इति। अन्यथा द्विभुजेनेत्यवक्ष्यत् चतुर्भुजेनेति नावक्ष्यच्च॥१९॥

चतुर्भुजः पीतवासाः श्यामः पद्मदलेक्षणः ।
यश्च याति पुरस्तान्मे रथस्य सुमहाद्युतिः॥२०॥

प्रदहन् रिपुसैन्यानि न पश्याम्यहमच्युतम् ।
येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा॥२१॥

शरैर्गाण्डीवनिर्मुक्तैरहं पश्चाच्च नाशयम् ।
तमपश्यन्विषीदामि घूर्णामीव च सत्तम॥२२॥

परिनिर्विण्णचेताश्च शान्ति नोपलभेऽपि च ।
विना जनार्दनं वीरं नाहं जीवितुमुत्सहे॥२३॥

श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः ।
प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः॥२४॥

उपदेष्टुं मम श्रेयो भवानर्हति सत्तम ।
व्यास उवाच। ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः॥२५॥

विनष्टाः कुरुशार्दूल न तान् शोचितुमर्हसि ।
भवितव्यं तथा तच्च दिष्टमेतन्महात्मनाम्॥२६॥

उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् ।
त्रैलोक्यमपि गोविंदः कृत्स्नं स्थावरजङ्गमम्॥२७॥

प्रसहेदन्यथाकर्तुं कुतः शापं महात्मनाम् ।
रथस्य पुरतो याति यः सचक्रगदाधरः॥२८॥

तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः ।
कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः॥२९॥

मोक्षयित्वा तनुं प्राप्तः कृष्णः स्वस्थानमुत्तमम् ।
त्वयाऽपीह महत्कर्म देवानां पुरुषर्षभ॥३०॥

कृतं भीमसहायेन यमाभ्यां च महाभुज ।
कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुङ्गव॥३१॥

गमनं प्राप्तकालं व इदं श्रेयस्करं विभो ।
एवं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत॥३२॥

बुद्धिरूपस्थितकार्यावधारणं तेजः प्रागल्भ्यं प्रतिपत्तिरनागतावेक्षणम्॥३२॥

भवन्ति भवकालेषु विपद्यन्ते विपर्यये ।
कालमूलमिदं सर्वं जगद्बीजं धनञ्जय॥३३॥

भवन्ति उत्पद्यन्ते भवकालेषु ऐश्वर्यावाप्तिसमयेषु विपर्यये विनाशकाले विपद्यन्ते विनश्यन्ति कालः ईश्वरः जगद्बीजं वियदादिपञ्चकम्॥३३॥

काल एव समादत्ते पुनरेव यदृच्छया ।
स एव बलवान्भूत्वा पुनर्भवति दुर्बलः॥३४॥

समादत्ते संहरति यदा भूतानामपि संहारो भवति कियांस्तत्र भौतिकानां नाश इति तदर्थं शोकोऽनुचित इति भावः य एव बलवान्स एव दुर्बलो भवत्येवं विपर्ययोऽपि कालमूलो ज्ञेयः॥३४॥

स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः ।
कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम्॥३५॥

कृतेति भवन्तोऽपि अस्त्रवत्कृतकृत्या इति भावः॥३५॥

पुनरेष्यन्ति ते हस्ते यदा कालो भविष्यति ।
कालो गन्तुं गतिं मुख्यां भवतामपि भारत॥३६॥

पुनर्युगान्तरे मुख्यां गतिं स्वर्ग गन्तुम्॥३६॥

एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ ।
वैशम्पायन उवाच। एतद्वचनमाज्ञाय व्यासस्यामिततेजसः॥३७॥

एतत् प्रस्थानं श्रेयः॥३७॥

अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम् ।
प्रविश्य च पुरी वीरा समासाद्य युधिष्ठिरम् ।
आचष्ट तद्यथावृत्तं वृष्ण्यन्धककुलं प्रति॥३८॥

॥इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासक्यां मौसलपर्वणि व्यासार्जुनसंवादे अष्टमोऽध्यायः॥८॥॥मौसलं पर्व समाप्तम्॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in