नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्॥१॥
वैशम्पायन उवाच।
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य सन्निधौ
।
प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः॥२॥
तत्र पूर्वस्मिन्पर्वणि अन्ते शार्ङ्गकाः ज्ञानबलादेव वह्निमुखाद्विमुक्ता इत्युक्तं तच्च ज्ञानं भगवद्भक्तिबलादेव लभ्यत इति प्रतिपादनायेदं सभापर्व आरभ्यते । तत्र भक्तावपि रुच्युत्पादनार्थं भक्तिबलेनैव पाण्डवानां दिव्यसभालाभाद्यैश्वर्यं द्वेषेणापि भगवद्ध्यानं भगवत्सायुज्यप्रापकमिति शिशुपालनिर्याणेन ध्यानमाहात्म्यम् । निरपराधिष्वपि पाण्डवेषु अभक्तानां दुर्योधनादीनां द्वेषोत्पत्त्याऽभक्तदोषाः । द्यूते द्रौपदीत्राणेन भगवतो भक्तपक्षपातित्वं समर्थानामपि पाण्डवानां सापराधेष्वपि दुर्योधनादिषु अप्रकोपेन भक्तानां तितिक्षा चेति भक्तगुणाश्च दर्शिताः । तत्र उपकर्त्रे प्रत्युपकारोऽवश्यं कर्त्तव्य इत्येतद्दर्शयितुं पाण्डवार्थे मयेन वह्नितो मोचितेन अभूतपूर्वा सभा कृतेति तावद्वर्ण्यते ततोऽब्रवीन्मयःपार्थमित्यादिना ॥२॥
मय उवाच।
अस्मात्कृष्णात्सुसंरब्धात्पावकाच्च दिधक्षतः
।
त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते॥३॥
खाण्डवदाहे कृष्णात् चक्रेण जिघांसतः ॥३॥
अर्जुन उवाच।
कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर
।
प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते॥४॥
मय उवाच।
युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ
।
प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि भारत॥५॥
अहं हि विश्वकर्मा वै दानवानां महाकविः
।
सोहं वै त्वत्कृते कर्तुं किञ्चिदिच्छामि पाण्डव॥६॥
विश्वं कर्म कृतिसाध्यं यस्य स विश्वकर्मा महाकविः शिल्पपण्डितः ॥६॥
अर्जुन उवाच।
प्राणकृच्छ्राद्विनिर्मुक्तम् त्वमात्मानं मन्यसे मया
।
एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया॥७॥
एवं गते प्रत्युपकारार्थं प्राप्ते त्वयि सति ॥७॥
न चापि तव सङ्कल्पं मोघमिच्छामि दानव
।
कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि॥८॥
चोदितो वासुदेवस्तु मयेन प्रति भरतर्षभ
।
मुहूर्तमिव सन्दध्यौ किमयं चोद्यतामिति॥९॥
संदध्यौ विचारितवान् ॥९॥
ततो विचिन्त्य मनसा लोकनाथः प्रजापितः
।
चोदयामास तं कृष्णः सभा वै क्रियतामिति॥१०॥
यदि त्वं कर्तुकामोऽसि प्रियं शिल्पवतां वर
।
धर्मराजस्य दैतेय यादृशीमिह मन्यसे॥११॥
हे दैतेय हे दानव ॥११॥
यां क्रियां नानुकुर्युस्ते मानवाः प्रेक्ष्य धिष्ठिताः
।
मनुष्यलोके सकले तादृशीं कुरु वै सभाम्॥१२॥
यत्र द्विव्यानभिप्रायान्पश्येम हि कृतांस्त्वया
।
आसुरान्मानुषांश्चैव सभां तां कुरु वै मय॥१३॥
आसुरान्मानुषानित्युपलक्षणम् । देवगन्धर्वार्दानामप्यभिप्रायान् । लेपचित्रे लेख्याचित्रे च चतुर्दशभुवनान्तरस्थतत्तज्जातीयस्वाभाविकनानाविधलीलाप्रदर्शनेन मनोवृत्तीः पश्येम । यद्दर्शनेन ब्रह्माण्डान्तरवर्ति सर्वं वस्तुजातं दृष्टप्रायं भवतीत्यर्थः ॥१३॥
वैशम्पायन उवाच।
प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा
।
विमानप्रतिमां चक्रे पाण्डवस्य शुभां सभाम्॥१४॥
विमानप्रतिमेति नाम विमानसदृशीं वा ॥१४॥
ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे
।
सर्वमेतत्समावेद्य दर्शयामासतुर्मयम्॥१५॥
तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा
।
स तु तां प्रतिजग्राह मयः सत्कृत्य भारत॥१६॥
स पूर्वदेवचरितं तदा तत्र विशाम्पते
।
कथयामास दैतेयः पाण्डुपुत्रेषु भारत॥१७॥
पूर्वदेवो वृषपर्वा दानवः तस्य चरितं बिन्दुसरसि यज्ञकरणादि ॥१७॥
स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य तु
।
सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम्॥१८॥
आश्वस्य स्वस्थचित्तो भूत्वा । प्रचक्रमे आरब्धवान् ॥१८॥
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः
।
पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः॥१९॥
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः
।
धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान्॥२०॥
सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम्
।
दशकिष्कुसहस्रां तां मापयामास सर्वतः॥२१॥
किष्कुर्हस्तः । सर्वतश्चतुर्दिक्षु ॥२१॥
॥ इति श्रीमहाभारते सभापर्वणि सभाक्रियापर्वणि सभास्थाननिर्णये प्रथमोऽध्यायः॥१॥
वैशम्पायन उवाच।
उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः
।
पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः॥१॥
उषित्वेति ॥१॥
गमनाय मतिं चक्रे पितुर्दर्शनलालसः
।
धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः॥२॥
ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः
।
स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः॥३॥
ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः
।
तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः॥४॥
अर्थ्यं तथ्यं हितं वाक्यं लघुयुक्तमनुत्तरम्
।
उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम्॥५॥
अर्थ्यम् अर्थादनपेतम् । तथ्यं सत्यम्। लघु स्वल्पाक्षरं युक्तं युक्तिमत् अत एवानुत्तरं पूर्वपक्षवदप्रत्याख्येयम्। ‘तथ्यं पथ्यं हितं वाक्यं गुरु स्वल्पाक्षरं मृदु’ इति पाठे पथ्यं सन्मार्गादनपेतं गुरु बह्वर्थम् ॥५॥
तया स्वजनगामीनि श्रावितो वचनानि सः
।
सम्पूजितश्चाप्यसकृच्छिरसा चाभिवादितः॥६॥
स्वजनगामीनि मात्रादिषु स्वबान्धवेषु कुशलसंदेशरूपाणि ॥६॥
तामनुज्ञाय वार्ष्णेयः प्रतिनन्द्य च भामिनीम्
।
ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः॥७॥
भामिनीं दीप्तिमतीं भाविनीमिति पाठे सद्भावयुक्ताम् ॥७॥
ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः
।
द्रौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः॥८॥
ववन्दे चेति । पुरुषसत्तमः पुरुषेषु अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयेषु पञ्चसु । आद्यो व्यवहारतः सत्यः । उत्तरोत्तरेषां तु पूर्वपूर्वाधिष्ठानत्वात् तत्तदपेक्षया सत्यतरत्वम् । पुच्छं ब्रह्म तु षष्ठं तेषामधिष्ठानभूतं मोक्षेप्यबाध्यत्वात्सत्तमः । ननु कथं सत्तमे ‘अस्थूलमनणु निष्कलं निष्क्रियं शान्तम्’ इत्यादिश्रुतेः । सर्वविशेषशून्ये नामरूपवन्दनादिक्रियायोगो घटेतेति चेत् । अत्र ब्रूमः । ‘कौलिके प्रतिमाद्वारा चैत्रे भोग इवेशता। असगे भूम्नि जीवौघकल्पितोपाधियोगतः’॥ अनादौ संसारे जीवेश्वरविभागस्याप्यनादित्वाद्रज्वां भुजङ्ग इव जीवौघस्याविद्यया शुद्धेऽपि चिदात्मनि ईशसूत्रादिकं कल्पितम् । इदमेव ब्रह्मणः शरीरमिति । यथा कौलिकः प्रतिमां कृत्वा इदमेव चैत्रस्य शरीरमिति भावयति तद्वत् । यथा च प्रतिमाद्वारा चैत्रस्य भोगो भवत्येवं शुद्धायामपि चिति जीवौघकल्पितोपाधिद्वारा ईशनादिकं भवति । एतावांस्तु विशेषः। जीवस्य स्वाविद्याकल्पितं शरीरान्तरमस्तीति प्रतिमानिमित्तकोऽपि भोगः स्वदेहावच्छेदेनैव जायते न प्रतिमावच्छेदेन। चितस्तु तदभावाद्विभुत्वाच्च परकल्पितोपाध्यवच्छेदेनैव नियन्तृत्वादिकं भवति । तच्चाकर्मजत्वाच्चितौ न संसृज्यते। यथा जीवे भोगः यथा वा कल्पितसर्पगतं भीषणत्वं रज्वाम्। एवं च व्यवहारतः संसारस्याद्यन्तशून्यत्वात् तत्कारणीभूतस्य ईशादेरपि तथात्वं वक्तव्यं किमुत ईशादिकारणीभूतायाः कृष्णमूर्तेः । तथा हि बीजाङ्करतरूपमेषु ईशसूत्रविराट्सु अनन्तबीजगर्भफलोपमः श्रीकृष्णः अनन्तकोटिब्रह्माण्डनायक इति प्रसिद्धम् । अयमेव श्रीमच्छंकरभगवत्पादैर्वेदान्तसारे वनवृक्षदृष्टान्तेन समष्टिव्यष्टिरूपेण स्थूलसूक्ष्मकारणानि प्रतिपाद्य समष्टिवनदृष्टान्तेन प्रतिपादितः। शास्त्रेऽपि ’अन्तस्तद्धर्मोपदेशात्’ इत्यत्र ‘य एषोन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्राणनखात् सर्व एव सुवर्णस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्य्ह् पाप्मभ्य उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद‘ इति नामरूपवन्त आदित्यमण्डलान्तर्वर्तिनं नारायणमुदाहृत्य ‘तस्य ऋक् च साम च गेष्णौ’ इति नारायणस्य कृत्स्नप्रपञ्चात्मके ऋक्सामे अंगुलिपर्वणी इत्युक्तम्। ततोऽनन्तकोटिब्रह्माण्डाश्रयत्वं सूर्याकृतेर्ब्रह्मणो युज्यते। अयमेव नन्दनन्दनो महामायावी सुप्तिप्रलयकैवल्येषु कर्मोपरमे सति जगदिन्द्रजालं स्वमूर्त्या सह तिरोधायापास्तसमस्तविशेषं ब्रह्मात्मानं प्रापयति कर्मशेषसत्त्वे पुनरुद्भावयति च । ततश्चास्य स्वाविद्याभावादसंगत्वं पराविद्याकल्पितोपाधिसंबन्धात्प्रतिमाया भोजकत्ववत् नियन्तृत्वं अविद्यायाश्चाद्यन्तशून्यत्वात्तन्नित्यत्वं चेति सिद्धम्। ततश्चासंगत्वाद्युक्तमस्य पुरुषसत्तमत्वं जनगमयितृत्वरूपजनार्दनत्वेन नियन्तृत्वं नियन्तृत्वादेव च ‘उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्’ इति वक्ष्यमाणरीत्या जनशिक्षार्थं धौम्यबन्दनेन वैदिकमर्यादापरिपालकत्वं द्रौपदीसान्त्वनेन च सुहृदनुग्राहकत्वं चेत्यादि सर्वं समञ्जसम्। अयमेवार्थे मङ्गलश्लोकाभ्यामस्माभिः संगृहीतो न विस्मर्तव्यः ॥८॥
भ्रातॄनभ्यगमद्विद्वान्पार्थेन सहितो बली
।
भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः॥९॥
भ्रातॄन् पितृष्वसुः पुत्रान् ॥९॥
यात्राकालस्य योग्यानि कर्माणि गरुडध्वजः
।
कर्तुकामः शुचिर्भूत्वा स्नातवान्समलङ्कृतः॥१०॥
अर्चयामास देवांश्च द्विजांश्च यदुपुङ्गवः
।
माल्यजाप्यनमस्कारैर्गन्धैरुच्चावचैरपि॥११॥
स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुपां वरः
।
उपेत्य स यदुश्रेष्ठो बाह्यकक्षाद्विनिर्गतः॥१२॥
तस्थुषां स्थितिमतां वर सनातन इत्यर्थः ॥१२॥
स्वस्तिवाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः
।
वसु प्रदाय च ततः प्रदक्षिणमथाकरोत्॥१३॥
काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम्
।
गदाचक्रासिशार्ङ्गाद्यैरायुधैरावृतं शुभम्॥१४॥
सतिथावप्यथ नक्षत्रे मुहूर्ते च गुणान्विते
।
प्रययौ पुण्डरीकाक्षः शैब्यसुग्रीववाहनः॥१५॥
अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः
।
अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम्॥१६॥
अभीषून्सम्प्रजग्राह स्वयं कुरुपतिस्तदा
।
उपारुह्यार्जुनश्चाऽपि चामरव्यजनं सितम्॥१७॥
अभीषून् रथाश्वरश्मीन् ॥१७॥
रुक्मदण्डं बृहद्बाहुर्विदुधाव प्रदक्षिणम्
।
तथैव भीमसेनोऽपि यमाभ्यां सहितो बली॥१८॥
पृष्ठतोऽनुययौ कृष्णमृत्विक्पौरजनैः सह
।
स तथा भ्रातृभिः सर्वैः केशवः परवीरहा॥१९॥
अन्वीयमानः शुशुभे शिष्यैरिव गुरुः प्रियैः
।
पार्थमामन्त्र्य गोविन्दः परिष्वज्य सुपीडितम् ॥२०॥
सुपडितं गाढं यथा भवति तथा परिष्वज्य ॥२०॥
युधिष्ठरं पूजयित्वा भीमसेनं यमौ तथा
।
परिष्वक्तो भृशं तैस्तु यमाभ्यामभिवादितः॥२१॥
योजनार्धमथो गत्वा कृष्णः परपुरञ्जयः
।
युधिष्ठिरं समामन्त्र्य निवर्तस्वेति भारत॥२२॥
ततोऽभिवाद्य गोविन्दः पादौ जग्राह धर्मवित्
।
उत्थाप्य धर्मराजस्तु मूर्ध्न्युपाघ्राय केशवम्॥२३॥
पाण्डवो यादवश्रेष्ठं कृष्णं कमललोचनम्
।
गम्यतामित्यनुज्ञाप्य धर्मराजो युधिष्ठिरः॥२४॥
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः
।
निवर्त्य च तथा कृच्छ्रात्पाण्डवान्सपदानुगान्॥२५॥
संविदं पुनरेष्यामीति निश्चयं कृत्वा ॥२५॥
स्वां पुरीं प्रययौ हृष्टो यथा शक्रोऽमरावतीम्
।
लोचनैरनुजग्मुस्ते तमादृष्टिपथात्तदा॥२६॥
लोचनैरिति सर्वेन्द्रियाग्राह्यमपि परमात्मानं प्रथमं प्रतिमादिषु संचिन्त्य मनोभिरिति पश्चात्प्रतिमां त्यक्त्वा मनसैव चिन्तयेदित्युक्तम् ॥२६॥
मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात्
।
अतृप्तमनसामेव तेषां केशवदर्शने॥२७॥
क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः
।
अकामा एव पार्थास्ते गोविन्दगमानसाः॥२८॥
मनसो लये शौरिर्मानसमूर्तिरूपोऽन्तर्दधे अत एव ते अकामाः निर्विकल्पसमाधिस्थाः ‘यदा सर्वे प्रमुच्यन्ते कामा येस्य हृदि श्रिताः । अथ मर्योऽमृतो भवत्यत्र ब्रह्म समश्नुत’ इति श्रुतेः यतो गोविन्दे निर्विकल्पे ब्रह्माणि गतं लीनं मानसं येषां ते तथा भूताः ॥२८॥
निवृत्योपययुस्तूर्णं स्वं पुरं पुरुषर्षभाः
।
स्यन्दनेनाथ कृष्णोऽपि त्वरितं द्वारकामगात्॥२९॥
निवृत्येति समाधिसुस्वानुभवानन्तरं व्युत्थानं ध्वनितम् ॥२९॥
सात्वतेन च वीरेण पृष्ठतो यायिना तदा
।
दारुकेण च सूतेन सहितो देवकीसुतः
।
स गतो द्वारकां विष्णुर्गरुत्मानिव वेगवान्॥३०॥
स गत्वेति पाठे गत्वा शीघ्रगमनशीलः गमेः ‘अन्येभ्योपि दृश्यते’ इति क्वनिप् । अनुदात्तोपदेशेति अनुनासिकलोपे ह्रस्वस्येति तुगागमः ॥३०॥
वैशम्पायन उवाच।
निवृत्य धर्मराजस्तु सह भ्रातृभिरच्युतः
।
सुहृत्परिवृतो राजा प्रविवेश पुरोत्तमम्॥३१॥
विसृज्य सुहृदः सर्वान्भ्रातृन्पुत्रांश्च धर्मराट्
।
मुमोद पुरुषव्याघ्रो द्रौपद्या सहितो नृप॥३२॥
केशवोपि मुदा युक्तः प्रविवेश पुरोत्तमम्
।
पूज्यमानो यदुश्रेष्ठैरुग्रसेनमुखैस्तथा॥३३॥
आहुकं पितरं वृद्धं मातरं च यशस्विनीम्
।
अभिवाद्य बलं चैव स्थितः कमललोचनः॥३४॥
प्रद्युम्नसाम्बनिशठांश्चारुदेष्णं गदं तथा
।
अनिरुद्धं च भानुं च परिष्वज्य जनार्दनः॥३५॥
स वृद्धैरभ्यनुज्ञातो रुक्मिण्या भवनं ययौ
।
मयोऽपि स महाभागः सर्वरत्नविभूषिताम्
।
विधिवत्कल्पयामास सभां धर्मसुताय वै॥३६॥
कल्पयामास एवमेवं करिष्यामीति मनसि विचारयामासेत्यर्थः ॥३६॥
॥ इति श्रीमहाभारते सभापर्वणि सभाक्रियापर्वणि भगवद्याने द्वितीयोऽध्यायः॥२॥
वैशम्पायन उवाच।
अथाब्रवीन्मयः पार्थमर्जुनं जयतां वरम्
।
आपृच्छे त्वां गमिष्यामि पुनरेष्यामि चाप्यहम्॥१॥
अथेति ॥१॥
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति
।
यियक्षमाणेषु पुरा दानवेषु मया कृतम्॥२॥
चित्रं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति
।
सभायां सत्यसन्धस्य यदासीद्वृषपर्वणः॥३॥
भाण्डमिव भाण्डं मूलधनं विचित्ररङ्गोपादानद्रव्यं कृतं हिङ्गुलादिवन्निर्मितं मणिमयं मणिप्रचुरं येन। कृत्रिममयूरादीनां चन्द्रकलोचनादीनि क्रियन्ते ॥३॥
आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत
।
ततः सभां करिष्यामि पाण्डवस्य यशस्विनीम्॥४॥
मनः प्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम्
।
अस्ति बिन्दुसारस्युग्रा गदा च कुरुनन्दन॥५॥
निहिता भावयाम्येवं राज्ञा हत्वा रणे रिपून्
।
सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा॥६॥
राज्ञा वृषपर्वणा निहिता सा इदानीमप्यस्तीति भावयति योज्यम् ततोऽर्वाग्भीमसेनं विना तदुद्यमनयोग्यस्य पुंसोऽजातत्वादिति भावः । भारसहा गदान्तरेण संनिपाते सत्यविचाल्या यतो दृढा ॥६॥
सा वै शतसहस्रस्य सम्मिता शत्रुघातिनी
।
अनुरूपा च भीमस्य गाण्डीवं भवतो यथा॥७॥
सा वै शतसहस्त्रस्य लक्षस्य गदालक्षेण तुल्येत्यर्थः । स्वर्णभारसहस्रस्येति पाठे तु ‘तुलां पलशतं प्राहुर्भारः स्याद्विंशतिस्तुल’ इति शास्त्रोक्तमानेन गुर्वीत्यर्थः ॥७॥
वारुणश्च महाशङ्खो देवदत्तः सुघोषवान्
।
सर्वमेतत्प्रदास्यामि भवते नात्र संशयः॥८॥
इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीं दिशं गतः
।
अथोत्तरेण कैलासान्मैनाकं पर्वतं प्रति॥९॥
प्रागुदीचीमैशानीम् उत्तरेण उत्तरतः ॥९॥
हिरण्यशृङ्गः सुमहान्महामणिमयो गिरिः
।
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः॥१०॥
हिरण्यश्टङ्गो मैनाकावयवभूतो गिरिः ॥१०॥
द्रुष्टुं भागीरथीं गङ्गामुवास बहुलाः समाः
।
यत्रेष्टं सर्वभूतानामीश्वरेण महात्मना॥११॥
ईश्वरेण प्रजापतिना ॥११॥
आहृताः क्रतवो मुख्याः शतं भरतसत्तम
।
यत्र यूपा मणिमयाश्चैत्याश्चापि हिरण्मयाः॥१२॥
शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः
।
यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः॥१३॥
दृष्टान्ततः शास्त्रसिद्धान्ततः ॥१३॥
यत्र भूतपतिः सृष्ट्वा सर्वान्लोकान्सनातनः
।
उपास्यते तिग्मतेजाः स्थितो भूतैः सहस्रशः॥१४॥
भूतपतिर्महादेवः सृष्ट्वा सृष्टिकर्ता । अत्रापि गत्वेतिवत् क्वनिप् ॥१४॥
नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः
।
उपासते यत्र सत्रं सहस्रयुगपर्यये॥१५॥
यत्रेष्टं वासुदेवेन सत्रैर्वर्षगणान्बहून्
।
श्रद्दधानेन सततं धर्मसम्प्रतिपत्तये॥१६॥
शिष्टसंप्रतिपत्तये इति पाठेऽपि शिष्टान् धर्मानुष्ठाने प्रवर्तयितुमित्यर्थः ॥१६॥
सुवर्णमालिनो यूपान्श्चैत्यान्श्चाप्यतिभास्वरान्
।
ददौ यत्र सहस्राणि प्रयुतानि च केशवः॥१७॥
तत्र गत्वा स जग्राह गदां शङ्खं च भारत
।
स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः॥१८॥
स्फाटिकं स्फटिक इत्युपलक्षणं नानारत्नमयम् । सितसारङ्गपिशङ्गादिवर्णानां महामणीनां चूर्णानि यथापेक्षितं मिश्राणि शुकपारावतमयूरजपादाडिमजम्बूफलवर्णाद्यवान्तरामिश्ररङ्गरचनार्थं वृषपर्वयागे सभार्थं संपादितं तत्रोपयुक्तावशिष्टम् आनीतवानित्यर्थः ॥१८॥
किङ्करैः सह रक्षोभिर्यदरक्षन्महद्धनम्
।
तदगृह्णान्मयस्तत्र गत्वा सर्वं महासुरः॥१९॥
किंकरैः रक्षसां जातिविशेषैः ॥१९॥
तदाहृत्य च तां चक्रे सोऽसुरोऽप्रतिमां सभाम्
।
विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम्॥२०॥
गदां च भीमसेनाय प्रवरां प्रददौ तदा
।
देवदत्तं चार्जुनाय शङ्खप्रवरमुत्तमम्॥२१॥
यस्य शङ्खस्य नादेन भूतानि प्रचकम्पिरे
।
सभा च सा महाराज शातकुम्भमयद्रुमा॥२२॥
दशकिष्कुसहस्राणि समन्तादादायताभवत्
।
यथा वह्नेर्यथार्कस्य सोमस्य च यथा सभा॥२३॥
भ्राजमाना तथात्यर्थं दधार परमं वपुः
।
अभिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम्॥२४॥
प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा
।
नवमेघप्रतीकाशा दिवमाकृत्य विष्ठिता
।
आयता विपुला रम्या विपाप्मा विगतक्लमा ॥२५॥
दिव्या दिव्येन वर्चसा अलौकिकेन च तेजसा नवमेघप्रतीकाशा नवभिर्मेधैरिव मेधैश्चित्तक्षेत्र चमत्कारामृतवर्षिभिः शृङ्गारादिभी रसैस्तत्तच्चित्रेष्वभिनीय प्रदर्शितैः शोभमाना दिवम् आवृत्य व्याप्य अभिभूयेति यावत् विष्ठिता विशेषेण स्थिता विपाप्मा पापघ्नी दिव्यतेजःसंपन्नत्वात् विगतक्लमा श्रमच्छेदिनी । व्यूढास्त्वत्र विचित्रमणिवेदिकेति पाठं कल्पयन्ति ॥२५॥
उत्तमद्रव्यसम्पन्ना रत्नप्राकारतोरणा
।
बहुचित्रा बहुधना सुकृता विश्वकर्मणा॥२६॥
प्राकारः परिधिभित्तिः तोरणानि बहिर्द्वाराणि । प्राकारमालिनीत्यपि पाठः ॥२६॥
न दाशार्ही सुधर्मा वा ब्रह्मणो वाथ तादृशी
।
सभा रूपेण सम्पन्ना यां चक्रे मतिमान्मयः॥२७॥
दश अहिंसादीन् यमनियमान् अर्हन्ति ते दशार्हा भगवद्भक्ताः बलिबाणप्रभृतयः तेषामियं दाशार्ही । सात्वतीति पाठे सात्परमात्मा सोस्त्येषां ते । सात्वन्तस्तेषामियं सात्वतीति स एवार्थः ॥२७॥
तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च
।
सभामष्टौ सहस्राणि किङ्करा नाम राक्षसाः॥२८॥
वहन्तीति सभायाः जंगमत्वमुक्तम् । अत एव विमानप्रतिमेति नाम तस्या युकम् ॥२८॥
अन्तरिक्षचरा घोरा महाकाया महाबलाः
।
रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः॥२९॥
तस्यां सभायां नलिनीं चकाराप्रतिमां मयः
।
वैदूर्यपत्रविततां मणिनालमयाम्बुजाम्॥३०॥
नलिनीं कमलवतीं सरसीं वैर्द्र्यैः इन्द्रनीलमणिमयैः पत्रैर्व्याप्तां मणिनालमयाम्बुजां मणिमयनालां कनकाम्बुजां च मयः शिल्पिनि दैत्यानां करमेऽश्वतरेऽपि च‘ इति विश्वः ‘करभः कलमो वाष्टापदे’ इति च विश्वः। मणिनालोज्ज्वलाम्बुजामिति पाठे तु मणिमयानि नालेषु विकस्वराणि अम्बुजानि यस्यां सा तथा । मणिमयनालेषु स्वच्छाम्बुजां वा ॥३०॥
पद्मसौगन्धिकवतीं नानाद्विजगणायुताम्
।
पुष्पितैः पङ्कजैश्चित्रां कूर्मैर्मत्स्यैश्च काञ्चनैः
।
चित्रस्फटिकसोपानां निष्पङ्कसलिलां शुभाम्॥३१॥
पद्मसौगन्धिकवतीं । पद्माकारैः सौगन्धिकैः पद्मरागैर्युक्ताम्। पद्मरागमयपद्मामित्यर्थः । ‘सौगन्धिकं तु कल्हारे पद्मरागे च’ इति मेदिनी । हैमसौगन्धिकवतीमिति पाठः स्पष्टार्थः । पुष्पितैर्विकसितैः । निष्पङ्केति विद्यमानमपि सलिलमतिस्वच्छत्वात् आशयरूपेणैव प्रकाशते न स्वरूपेण स्फटिकजपाकुसुमवत् । अनेन तत्र स्थलभ्रमकारणमुक्तम् ॥३१॥
मन्दानिलसमुद्धूतां मुक्ताबिन्दुभिराचिताम्
।
महामणिशिलापट्टबद्धपर्यन्तवेदिकाम्॥३२॥
मध्द्वानिलेन समुद्धूतां समुच्छलितबिन्दुम् । अत एव सर्वतः प्रसृतनलिनीपत्रेषु मुक्तातुल्यैर्जलबिन्दुभिः आचितां व्याप्ताम् । महामणिमयाः शिलापट्टाः दीर्घचतुरस्त्रपाषाणाः तैर्बद्धाः पर्यन्ते समीपे चतुर्दिक्षु वेदिकाः यस्यास्ताम् ॥३२॥
मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः
।
दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत ॥३३॥
मणिरत्नचितां तां नलिनीं तु अभ्येत्य अधिगत्य ज्ञात्वा । अयं भावः अदृष्टपूर्वैरतिभास्वरैः पत्रनालपुष्पैराच्छन्नत्वात्सलिलस्य काचमय्यांवैदूर्यमणिमय्यां वा भुवि कृत्रिमाण्येव कमलादीनीति भ्रमान्मणिरत्नचिताभूमिरेवेयमिति तां नलिनीं ज्ञात्वा स्थलभ्रमाज्जले पतन्तीति ॥३३॥
तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः
।
आसन्नानाविधा लोलाः शीतच्छाया मनोरमाः॥३४॥
तां सभाम् अभित इति कर्मप्रवचनीययोगात् द्वितीया । तस्याः सभायाः समन्तत इत्यर्थः ॥३४॥
काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः
।
हंसकारण्डवोपेताश्चक्रवाकोपशोभिताः॥३५॥
पुष्करिण्यस्तटाकाः ॥३५॥
जलजानां च पद्मानां स्थलजानां च सर्वशः
।
मारुतो गन्धमादाय पाण्डवान्स्म निषेवते॥३६॥
ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः
।
निष्ठितां धर्मराजाय मयो राजन्न्यवेदयत्॥३७॥
परिचतुर्दशैः चतुर्दशाधिकैः ॥३७॥
॥ इति श्रीमहाभारते सभापर्वणि सभाक्रियापर्वणि सभानिर्माणे तृतीयोऽध्यायः॥३॥
वैशम्पायन उवाच।
ततः प्रवेशनं तस्यां चक्रे राजा युधिष्ठिरः
।
अयुतं भोजयित्वा तु ब्राह्मणानां नराधिपः॥१॥
तत इति ॥१॥
साज्येन पायसेनैव मधुना मिश्रितेन च
।
भक्ष्यैर्मूलैः फलैश्चैव मांसैर्वाराहहारिणैः
।
कृसरेणाथ जीवन्त्या हविष्येण च सर्वशः॥२॥
कृसरेण तिलमिश्रौदनेन । ‘ओदनस्तिलमिश्रस्तु कृसरः परिकीर्तितः । तिलकल्कान्विनिक्षिप्यश्रितो वा कृसरो भवेत्’ इति गृह्यविदः । जीवन्त्या पाकविशेषेण । ओदनस्यैव यवनभाषया ‘विरिंजि’ इत्युच्यते शाकविशेषेणेत्यन्ये ॥२॥
मांसप्रकारैर्विविधैः खाद्यैश्चापि तथा नृप
।
चोष्यैश्च विविधै राजन्पेयैश्च बहुविस्तरैः॥३॥
अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि
।
तर्पयामास विप्रेन्द्रान्नानादिग्भ्यः समागतान्॥४॥
अहतैः अनुपभुक्तैः ॥४॥
ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः पुनः
।
पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत॥५॥
वादित्रैर्विविधैर्दिव्यैर्गन्धैरुच्चावचैरपि
।
पूजयित्वा कुरुश्रेष्ठो देवतानि निवेश्य च॥६॥
दैवतानिद्वारादिषु स्थानेषु पितामहादीनि । ‘द्वारे पितामहं विद्यात्’ इति गृह्यात् ॥६॥
तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा
।
उपतस्थुर्महात्मानं धर्मपुत्रं युधिष्ठिरम्॥७॥
मल्लाः बाहुयोधिनः झल्लाः लकुटयोधिनः ॥७॥
तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः
।
तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि॥८॥
सभायामृषयस्तस्यां पाण्डवैः सह आसते
।
आसाञ्चक्रुर्नरेन्द्राश्च नानादेशसमागताः॥९॥
असितो देवलः सत्यः सर्पिर्माली महाशिराः
।
अर्वावसुः सुमित्रश्च मैत्रेयः शुनको बलिः॥१०॥
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः
।
सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् ॥११॥
तित्तिरिर्याज्ञवल्क्यश्च ससुतो रोमहर्षणः
।
अप्सुहोम्यश्च धौम्यश्च अणीमाण्डव्यकौशिकौ॥१२॥
दामोष्णीषस्त्रैबलिश्च पर्णादो घटजानुकः
।
मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकः॥१३॥
बलिवाकः सिनीवाकः सप्तपालः कृतश्रमः
।
जातूकर्णः शिखावांश्च आलम्बः पारिजातकः॥१४॥
पर्वतश्च महाभागो मार्कण्डेयो महामुनिः
।
पवित्रपाणिः सावर्णो भालुकिर्गालवस्तथा॥१५॥
जङ्घाबन्धुश्च रैभ्यश्च कोपवेगस्तथा भृगुः
।
हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः॥१६॥
काक्षीवानौशिजश्चैव नाचिकेतोथ गौतमः
।
पैङ्ग्यो वराहः शुनकः शाण्डिल्यश्च महातपाः॥१७॥
कुक्कुरो वेणुजङ्घोथ कालापः कठ एव च
।
मुनयो धर्मविद्वांसो धृतात्मानो जितेन्द्रियाः॥१८॥
एते चान्ये च बहवो वेदवेदाङ्गपारगाः
।
उपासते महात्मानं सभायामृषिसत्तमाः॥१९॥
कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः
।
तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते॥२०॥
श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः
।
सङ्ग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान्॥२१॥
कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः
।
कम्बोजराजः कमठः कम्पनश्च महाबलः॥२२॥
सततं कम्पयामास यवनानेक एव यः
।
बलपौरुषसम्पन्नान्कृतास्त्राममितौजसः
।
यथाऽसुरान्कालकेयान्देवो वज्रधरस्तथा॥२३॥
कालकेयाः कालकाया अपत्यानि असुराः ॥२३॥
जटासुरो मद्रकानां च राजा कुन्तिः पुलिन्दश्च किरातराजः
।
तथाङ्गवाङ्गौ सह पुण्ड्रकेण पाण्ड्योड्रराजौ च सहान्ध्रकेण ॥२४॥
अङ्गो वङ्गः सुमित्रश्च शैब्यश्चामित्रकर्शनः
।
किरातराजः सुमना यवनाधिपतिस्तथा॥२५॥
चाणूरो देवरातश्च भोजो भीमरथश्च यः
।
श्रुतायुधश्च कालिङ्गो जयसेनश्च मागधः॥२६॥
सुकर्मा चेकितानश्च पुरुश्चामित्रकर्शनः
।
केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः॥२७॥
सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः
।
अनूपराजो दुर्धर्षः क्रमजिच्च सुदर्शनः॥२८॥
शिशुपालः सहसुतः करूषाधिपतिस्तथा
।
वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः॥२९॥
आहुको विपृथुश्चैव गदः सारण एव च
।
अक्रूरः कृतवर्मा च सत्यकश्च शिनेः सुतः॥३०॥
भीष्मकोथाकृतिश्चैव द्युमत्सेनश्च वीर्यवान्
।
केकयाश्च महेष्वासा यज्ञसेनश्च सोमकिः॥३१॥
केतुमान्वसुमांश्चैव कृतास्त्रश्च महाबलः
।
एते चान्ये च बहवः क्षत्रिया मुख्यसंमताः॥३२॥
उपासते सभायां स्म कुन्तीपुत्रं युधिष्ठिरम्
।
अर्जुनं ये व संश्रित्य राजपुत्रा महाबलाः॥३३॥
अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः
।
तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः॥३४॥
रौरवाजिनवाससः मृगचर्मपरीधानाः ॥३४॥
रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः
।
सुधर्मा चानिरुद्धश्च शैब्यश्च नरपुङ्गवः॥३५॥
एते चान्ये च बहवो राजानः पृथिवीपते
।
धनञ्जयसखा चात्र नित्यमास्ते स्म तुम्बुरुः॥३६॥
उपासते महात्मानमासीनं सप्तविंशतिः
।
चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा॥३७॥
सप्तविंशतिश्चित्रसेनाद्या गन्धर्वगणाः ॥३७॥
गीतवादित्रकुशलाः साम्यतालविशारदाः
।
प्रमाणोऽथ लये स्थाने किन्नराः कृतनिश्रमाः॥३८॥
साम्यं तालविशेषः शंपेत्यपि पाठः शंपा दक्षिणहस्तगृहीततालविशेषः ‘शंपा दक्षिणपातस्तु वामे ताल इति स्मृतः’ इत्युक्तेः । प्रमाणे गीतवाद्यतालानां ध्वनिसाम्ये लये द्रुतमध्यविलम्बिते स्थाने उरःशिरःकुण्ठादौ ॥३८॥
सञ्चोदितास्तुम्बुरुणा गन्धर्वसहितास्तदा
।
गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः॥३९॥
पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते
।
तस्यां सभायामासीनाः सुव्रताः सत्यसङ्गराः॥४०॥
दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते॥४१॥
॥ इति श्रीमहाभारते सभापर्वणि सभाक्रियापर्वणि सभाप्रवेशो नाम चतुर्थोऽध्यायः॥४॥