वैशम्पायन उवाच।
अथ तत्रोपविष्टेषु पाण्डवेषु महात्मसु
।
महत्सु चोपविष्टेषु गन्धर्वेषु च भारत॥१॥
अथ तत्रोपविष्टेष्विति । अत्र नारदो युधिष्ठिरं प्रश्नमुखेन राजधर्माननुशास्ति ॥१॥
वेदोपनिषदां वेत्ता ऋषिः सुरगणार्चितः
।
इतिहासपुराणज्ञः पुराकल्पविशेषवित्॥२॥
तत्र शास्तुः स्वरूपं तावत् व्याचष्टे । अस्यापि कणिकतुल्यता माभूदिति वेदोपनिषदां वेत्तेति । वेदाः ऋग्यजुःसामाथर्वाणः। उपनिषदो रहस्यविद्याश्चतुर्विधाः । तत्र कर्माङ्गावबद्धोपासनम् ‘उषा वा अश्वस्य मेध्यस्य शिरः’ इत्यादि शास्त्रविहितं कर्माङ्गेष्वश्वादिषु विराड्दृष्टिकरणम् । प्रतीकोपासनम् ‘अन्नं ब्रह्मेत्युपासीत आदित्यो ब्रह्मेत्यादेशः’ इत्यादित्यादिमूर्तिषु ब्रह्मदृष्टिकरणम् । अहंग्रहोपासनं ‘त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि’ इति व्यतिहारेणात्मनो देवतायाश्चाभेदचिन्तनं ज्ञानं ब्रह्मात्मानुभवः । वेदानां कर्मप्रतिपादकानां तदन्तर्गतानामुपनिषदां च वेत्ता पाठतोऽर्थतश्च ज्ञाता । अतः एव ऋषिः गन्ता फलं प्रति वेदोक्तकृत्स्नफलभागी । कृतानुष्ठानत्वात् । अत एव सुरगणार्चितः इतिहासपुराणे प्रश्चिद्धे पुराकल्पः बहुकर्तृकमन्वाख्यानं ‘देवासुरा संयता आसन्’ इत्यादिकं वेदोक्तम् विशेषः एककर्तृकमन्वाख्यानं परिकृत्याख्यं ‘हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजाऽपुत्र आस’ इत्यादि तस्य योगबलात् प्रत्यक्षदर्शी ॥२॥
न्यायविद्धर्मतत्त्वज्ञः षडङ्गविदनुत्तमः
।
ऐक्यसंयोगनानात्वसमवायविशारदः॥३॥
न्यायः पञ्चाङ्गमधिकरणम् यथा ‘विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम्। संगतिश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं विदुः’ अत्र यूपस्य स्वरुं करोतीति वाक्यं विषयः । तत्र षष्ठी यूपसंबन्धीतिकर्तव्यतालक्षणार्था । उत यूपावयवलक्षणार्थेति संदेहो विशयः । एतावेव पूर्वोत्तरपक्षौ ज्ञेयौ । कल्पनालाघवानुप्रहादुत्तरः सिद्धान्तः । फलम् अनुष्ठानभेदः । पूर्वपक्षे तक्षणाष्टास्त्रीकरणादिना काष्ठान्तरं यूपसदृशं निर्मातव्यम् । सिद्धान्ते एकदेशस्य पृथक्करणमात्रमिति । इदमेव पञ्चकं मोक्षधर्मेषूक्तम्। ‘सूक्ष्मं सांख्यं क्रमौ चोभौ निर्णयः सप्रयोजनः । पञ्चैतान्यनुजानीहि वाक्यमित्युच्यते बुधैः’॥ इति सूक्ष्मं गहनार्थत्वाद्विषयः। सांख्यम् एवमेवं वेति विचारः । क्रमः अतिक्रमः । सिद्धान्तस्य पूर्वपक्ष इत्यर्थः । निर्णयः सिद्धान्तः । प्रयोजनं फलमिति वाक्यं वाक्यार्थनिर्णयोपायः । एवं पूर्वोत्तरमीमांसाधिकरणानि न्यायः तद्वित् । धर्मज्ञः मन्वादिप्रणीतशास्त्रतत्त्वज्ञः । षडङ्गवित् । शिक्षा कल्पो व्याकरणं छंदोविचितिर्निरुक्तं ज्योतिषमिति षड्वेदाङ्गानि । अनुत्तमः अत्युत्कृष्टः । ऐक्यसंयोगनानात्वसमवायविशारदः । ऐक्यादित्रयं सर्वेष्वपि शास्त्रेषु समानम् । यथा मीमांसायां समिधो यजतीत्यादि प्रयाजाद्यङ्गवाक्यानां दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति महावाक्येनैकवाक्यत्वमैक्यम् । संयोगनानात्वं संयोगपृथक्त्वम् । यथा दध्ना जुहोतीति वाक्यान्नित्यमपि दधि दध्नेन्द्रियकामस्येति वाक्यान्तरेणेन्द्रियार्थमीप पृथग्विधीयते तेन द्वयमपि युगपद्दध्ना साध्यत इति । समवायः एकस्मिन्कर्मण्यनेकेषां धर्माणां संनिपातः । यथा इष्टिपशुसोमात्मके राजसूये इष्ट्यादीनां दर्शादित्रिकद्वयस्येव साक्षात्परमापूर्वजनकत्वे उपनिपातः न त्वङ्गानामिव परंपरया परमापूर्वोपकारकत्वम्। यद्वा तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा अनाशकेन' इति आत्मविविदिषोत्पादकापूर्वे वेदानुवचनादीनामेककार्यकारित्वलक्षणमैक्यम्। नन्वेककर्माङ्गत्वाभावे कथमेषामैक्यम् अत आह। संयोगनानात्वेति । स्वस्ववाक्योत्पन्नानां पृथक्फलानामप्येषां संयोग पृथक्त्वन्यायेन विविदिषार्थत्वमपि युक्तमेवेत्यर्थः । नन्वेषां समुच्चितानामेककार्यकारित्वे समुच्चयासंभवः । राजसूयादीनां ब्राह्मणाद्यनुपयोगित्वात् । प्रत्येकं चेदितरवैयर्थ्यमित्याशंक्याह समवायविशारद इति । समवायः यथाधिकारं कर्मसंबन्धः । अयमर्थः ब्राह्मणादीनां राजसूयादिष्वनधिकारान्न तत्प्राप्तिः । विविदिषायाः पापनिवृत्तिफलकैर्नित्यैरेवोत्पत्तेर्न तदर्थं फलतो निषिद्धानां श्येनादीनां प्राप्तिः । अत एव हेतुद्वयात्पवित्रेष्ट्यादिकं काम्यमपि न निवार्यते। नित्यानामपि न सर्वेषां समुच्चयः । विविदिषाख्यदृष्टफलकत्वात् । तस्मान्न सर्वकर्मसमुच्चयो नापीतरवैयर्थ्यमिति । एवंरूप एव समुच्चयोऽत्र समवायशब्दार्थः । अस्मिंस्त्रये विशारदः विवेकसमर्थः । यद्वा ऐक्यं साधर्म्यात्पृथिव्यादीनां द्रव्यत्वेन रूपेण । संयोगनानात्वम् असाधारणधर्मसंबन्धः तेन पृथिवीत्वजलत्वादिरूपेण भेदोऽपि । समवायः शरीरे पञ्चानामपि भूतानां मेलकः एतेषां तत्त्वं साधर्म्यं वैधर्म्यं संकरं च ज्ञातुं कुशल इत्यर्थः ॥३॥
वक्ता प्रगल्भो मेधावी स्मृतिमान्नयवित्कविः
।
परापरविभागज्ञः प्रमाणकृतनिश्चयः॥४॥
न केवलं ज्ञातुमेव कुशलः किं तु वक्तुमित्याह । वक्तेति । वक्तापि समानाधिकरण एवेत्याह प्रगल्भ इति । असंबद्धप्रलापी नेत्यर्थः । यतः मेधावी ऊहापोहकुशलः । तादृशोपि स्मृतिमान्। अधीतं न नाशितवानित्यर्थः । नयवित् दायविभागादिव्यवहारवित् । कविः अनागतदर्शी । परापरविभागज्ञः परापरयोर्शानकाण्डकर्मकाण्डयोः विभागः यथायोग्यं शिष्येषु विभजनं तज्ज्ञः । यतः प्रमाणकृतनिश्चयः प्रमाणं प्रत्यक्षानुमानागमादि। तच्च द्विविधं लौकिकमलौकिकं च। आद्यं घटवह्निस्वर्गादिविषयम्। द्वितीयं निर्विशेषात्मवस्तुतत्त्वविषयम् । तथा हि अहंकारादिकमात्मनि सुषुप्त्यादावदृष्टत्वान्मिथ्येति तत्र प्रत्यक्षं सुप्तौ निर्विशेषत्वम्। तथा द्रष्टृदृश्यौ एकोपादानकौ भास्यभासकत्वात् श्रोत्रशब्दवत् भास्यभासकौ च दृश्यद्रष्टारौ तस्मादेकोपादानकौ यौ न तथा तौ नैकोपादानकौ यथा शब्दघ्राणाविति व्यतिरेकतो वा साध्यसिद्धौ सत्याम् उपादानोपादेययोरभेदादृङ्मात्रवस्तुतत्वमिति सिद्ध्यति । अनुमानादप्यात्मनो निर्विशेषत्वं घटज्ञानं पटज्ञानमिति दृशिविशेषदर्शनानुभवस्य घटाकाशादिवदौपाधिकत्वात् । तथागमोऽपि आत्मनो निर्विशेषत्वे प्रसिद्धः ‘अस्थूलमनणु निर्गुणं निष्क्रियम्’ इत्यादिः ॥४॥
पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित्
।
उत्तरोत्तरवक्ता च वदतोपि बृहस्पतेः॥५॥
नन्वनुमानबलात् चन्द्रप्रादेशिकत्वप्रत्यक्षं यजमानः प्रस्तर इत्यादिरागमश्च शिथिलीक्रियते । अनुमानमपि नरशिरःकपालं शुचि प्राण्यङ्गत्वात् शङ्खवदित्यादिकं ‘नारं स्पृष्ट्वास्थि सस्नेहं सवासा जलमाविशेत्’ इत्यागमेन तथा च सर्वमपि प्रमाणं सदोषमतस्तत्र कृतनिश्चयत्वं दूरापेतमित्याशंक्याह । पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् । तत्र परं बोधयितुं प्रवृत्तस्यानुमानवाक्ये प्रतिज्ञादयः पञ्चावयवाः । तत्र पर्वतो वह्निमानिति प्रतिज्ञा । धूमादिति हेतुः । यथा महानस इति दृष्टान्त उदाहरणम् । धूमवांश्चायं इत्युपनयः । तस्माद्वह्निमानिति निगमनम् । अस्मिन्वाक्ये गुणोनुकूलतर्कः यदि वह्निमान्न स्यात्तर्हि धूमवानपि न स्यात् । दोषः ह्रदो वह्निमानित्यादविवाश्रयासिद्धिप्रभृतिः । तावुभौ वेत्तीति तथा। तथा चानुमानं प्रत्यक्षागमौ शिथिलीकरोतु व्रीहिमसूरादौ शुचित्वाशुचित्वविभागस्य शास्त्रैकगम्यत्वात् । तत्रानुकूलतकर्काभाव एवानुमानबाधको न त्वागम इति स्थितम्। तथा च लौकिकप्रमाणाधिकारिणे अपरं कर्मकाण्डमेव विभजते इतरस्य इतरदिति विवेकः ॥५॥
धर्मकामार्थमोक्षेषु यथावत्कृतनिश्चयः
।
तथा भुवनकोशस्य सर्वस्यास्य महामतिः॥६॥
यथावत्कृतनिश्चयः। लौकिकानां प्रमाणानां प्रामाण्यमादाय धर्मार्थकामानां पुरुषार्थत्वनिश्वयः । इतरेषां प्रामाण्यमुरजीव्यमप्युपस्पृद्य मोक्षरसस्य पुरुषार्थत्वनिश्चयः । तदा लौकिकप्रमाणबाधात्। वेदा अवेदा इति श्रुतेः । ‘लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात्’ इत्यभियुक्तोक्तेश्च । आत्मनिश्वयादर्वागेवेति शेषः आ आत्मनिश्चयादिति वा छेदः । महामतिः आत्मज्ञः । ‘आत्मनो वा अरे दर्शनेन मत्या विज्ञानेनेदं सर्वं विदितम्’ इति तस्यैव सार्वज्ञ्यश्रुतेः ॥६॥
प्रत्यक्षदर्शी लोकस्य तिर्यगूर्ध्वमधस्तथा
।
साङ्ख्ययोगविभागज्ञो निर्विवित्सुः सुरासुरान्॥७॥
सांख्ययोगविभागज्ञः । सांख्यं वेदान्तविचारः । योगश्चित्तवृत्तिनिरोधः अनयोर्विभागः। उपयोगः । तत्र श्रवणात्मको वाक्यार्थविचारः प्रमाणगतासंभावनानिवृत्युपयोगी । मननाख्यः श्रुतस्यार्थस्य तर्केणानुसन्धानरूपोविचारः प्रमेयगता संभावना निवृत्युपयोगी । अद्वैतमेव वेदो वदति युक्तियुक्तं चैतदेवेति सांख्यविभागः । निदिध्यासनापरपर्यायो योगः अनात्मसु देहादिष्वात्मप्रत्ययरूपां विपरीतभावनां निवर्त्य ज्ञातृज्ञानज्ञेयामाववन्तं दृङ्मात्रप्रत्ययं गोचरयतीति योगविभागः। ये तु ‘द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव । योगो वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम्’ इति वासिष्ठवचनमुदाहृत्य चित्तनाशाख्यात्मदर्शनस्य द्वावुपायाविति वदन्ति । ‘तेषां तमेव विदित्वातिसृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ इति श्रुतिविरोधः । संवादिभ्रमवद्योगोऽपि ज्ञानं जनयित्वैव फलदः इति चेत्तस्योपसर्जनत्वं कर्मणामिव स्यात्तथा च नोपायान्तरं योग इत्यापतति । वासिष्ठवाक्यं तु क्रमभेदमाह न तूपायभेदम् । तथा च कृतोपास्तेर्योग उपसर्जनं वाक्यार्थसंभवं ज्ञानं प्रधानम्। अकृतोपास्तेस्तु ज्ञानमुपसर्जनं योगः प्रधानम्। यथा दृष्टगोपिण्डस्यापि अगृहीतशब्दार्थसंगतिकस्य इयं गौरिति वाक्यमेव गवाज्ञाननुत् न चक्षुस्तेन विषयीकृतेऽपि गोपिण्डे गोबुभुत्सानुवृत्तेः। एवं साक्षात्कृतत्वं पदार्थस्यापि तत्त्वमसीति वाक्यमेव संसारानर्थमूलब्रह्माज्ञानस्य निवर्तकं न मनः तेन दृष्टेऽपि त्वमर्थे ब्रह्माज्ञानानुवृत्तिदर्शनात्। एवं सास्वादिमती गौरिति लक्षणतो ज्ञातगोपदार्थस्यापि गोपिण्डदर्शनमेव गोबुभुत्सानिवर्तकं न तु वाक्यम् । तथा श्रणादिना ज्ञातव्रह्मपदार्थस्यापि योगादेव दर्शनं न तु वाक्यात् तेन तं त्वौपनिषदं पुरुषं पृच्छामीति मनसैवानुद्रष्टव्यमिति च शब्दमनसोः ज्ञानकरणत्वानुवादकश्रुत्योर्व्यवस्था सिद्ध्यति । तदिदमुक्तं सांख्ययोगविभागज्ञ इति । विभागो हि द्वयोः समुच्चित्यैककार्यकारित्वे सति संभवति न तु व्रीहियववद्विकल्पैककार्यकारित्वे इत्यास्तां तावत् । ‘सांख्ययोगौ पृथग्बालाः प्रवदान्त न पण्डिताः’ इत्यत्र प्रपञ्चयिष्यमाणत्वात् । एवं व्राह्न्या विद्यया संपन्नत्वमुक्त्वा राजयोगविद्यान्तरसंपत्तिमप्याह । निर्विचित्सुः सुरासुरानित्यादिना । निर्विवित्सुः विवित्सुर्विचारं कर्तुमिच्छुः निर्विवित्सुस्तद्विरोधी उभयेषां धीप्रमोषणेन कलहप्रवर्तकः । यद्वा निर्वेदो युद्धादुपरतिस्तं कर्तुमिच्छुः लोकनाशभयादित्यर्थः। एतेन भेदाभिज्ञत्वमुक्तम् ॥७॥
सन्धिविग्रहतत्त्वज्ञस्त्वनुमानविभागवित्
।
षाङ्गुण्यविधियुक्तश्च सर्वशास्त्रविशारदः॥८॥
सन्धिः साम विग्रहो निग्रहो दण्ड इत्यर्थः । अनुमानविभागवित् । स्वपरशक्तिबलाबलेऽनुमानतो निश्चित्य विभागं विभजनं परामात्यादिभ्यो धनप्रदानं तद्वित्। अनुमाय विभागविदिति गौडाः पठन्ति । एवं च नीतिशास्त्रप्रसिद्धोपायचतुष्टयाभिज्ञत्वम् उक्तम् । पाड्गुण्यविधियुक्तश्च षड्गुणाः संधिविग्रहयानासनद्वैधीभावसमाश्रयाख्याः त एव षाड्गुण्यम् । स्वार्थे ष्यञ् । तस्य विधिः अज्ञातज्ञापनं तेन युक्तः। सर्वदा विजिगीषुभ्यः षाड्गुण्यादिकमुपदिशति स्वस्य निःशत्रुत्वेप्याधिकारिकत्वात् । तत्र संधिविग्रहौ प्रत्येकं द्विविधौ । प्रबलदुर्बलयोर्विजिगीषावतोः समभूमौ युद्धप्रसंगे आद्यो विग्रहमिच्छति दण्डेनैव । परः संधिमिच्छति दानेनेति । तयोरेव दुर्बलोऽभेद्यदुर्गाश्रितश्चेद्बलवतापि सह देशोल्लुण्ठनादिना विग्रहमिच्छति । इतरस्तु तेन सहाल्पकरग्रहेणापि संधिमेवेच्छति । तथा च दुर्बलद्वारकौ सन्धिविग्रहावन्यौ प्रवलद्वारकावन्यौ । तदिदमुक्तं रामायणे ‘द्वियोनी संधिविग्रहौ’ इति तत्र प्रबलयोनिर्विग्रहः यानासनयोः प्रयोजकः । दुर्बलयोनिः संधिर्द्वैधीभावसमाश्रययोः । तथोक्तं कामन्दकीये। ‘संधेश्च विग्रहस्यापि द्वैगुण्यं संप्रचक्षते । यानासने विग्रहस्य रूपं संधेः परं द्वयम्’ इति । द्वौ गुणभूतौ यस्य सः द्विगुणः। स च स च तौ तयोर्भावो द्वैगुण्यं तत्र यानं विजिगीषोररिं प्रति यात्रा । आसनं कदाचिच्छक्तिप्रतिबन्धे च तत्रैव शत्रोदुर्गमावेष्ट्य तत्र घान्यादिप्रवेशनं प्रतिबध्नतावस्थानम् । बलवता विग्रहे बलवत्तरेण तच्छत्रुणा संधिं कृत्वा उभयत्र दासोस्मीति वाचैवात्मसमर्पणं कर्तव्यं न कर्मणेति स द्वैधीभावः । यथोक्तं तत्रैव ‘बलिनोर्द्विषतोर्मध्ये वाचात्मानं समर्पयन् । द्वैधीभावेन वर्तेत काकाक्षिवदलक्षित’ इति । अरिणा पीड्यमानस्य बलबद्दुर्गभूपालाद्याश्रयणं समाश्रयः। एवं चोपायान्तर्गतौ संधिविग्रहावन्यौ षाड्गुण्यान्तर्गतौ चान्याविति न पुनरुक्तिः ॥८॥
युद्धगान्धर्वसेवी च सर्वत्राप्रतिघस्तथा
।
एतैश्चान्यैश्च बहुभिर्युक्तो गुणगणैर्मुनिः॥९॥
युद्धगान्धर्वसेवी तदुभयप्रिय इत्यर्थः । सर्वत्र सर्वासु विद्यासु सर्वेषु कर्मसु च अप्रतिघः अप्रतिहतः पूर्णशक्तित्वात् । अन्यैः असंगत्वकारुण्यादिभिः मुनिः आत्मतत्त्वानुसंधानवान् ॥९॥
लोकाननुचरन्सर्वानागमत्तां सभां नृप
।
नारदः सुमहातेजा ऋषिभिः सहितस्तदा॥१०॥
आगमत् आगतवान् ॥१०॥
पारिजातेन राजेन्द्र पर्वतेन च धीमता
।
सुमुखेन च सौम्येन देवर्षिरमितद्युतिः॥११॥
सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः
।
जयाशीर्भिस्तु तं विप्रो धर्मराजानमार्चयत्॥१२॥
आर्चयत् पूजितवान् ॥१२॥
तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित्
।
सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह॥१३॥
अभ्यवादयत प्रीत्या विनयावनतस्तदा
।
तदर्हमासनं तस्मै सम्प्रदाय यथाविधि॥१४॥
गां चैव मधुपर्कं च सम्प्रदायार्घ्यमेव च
।
अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित्॥१५॥
तुतोष च यथावच्च पूजां प्राप्य युधिष्ठिरात्
।
सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः
।
धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम्॥१६॥
नारद उवाच।
कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः
।
सुखानि चानुभूयन्ते मनश्च न विहन्यते॥१७॥
कच्चिदर्थाश्च कल्पन्त इति कच्चिदिति कामप्रवेदने स्वाभिप्रायाविष्करणे त्वदीया अर्थाः स्वकार्ये यागदानकुटुंबभरणादौ समर्था भवन्त्विति ममाभिप्राय इत्यर्थः। एवं करिष्यामि यथैतदुक्तमित्यन्ते राज्ञाङ्गीकृतत्वादुपदेशपरोयं ग्रन्थ इत्यवसीयते । अर्थधर्मकाममोक्षान् त्वदीयान् अविहतानिच्छामीति क्रमेण पादचतुष्टयार्थः कच्चिदिति सर्वत्र संबन्धनीयम् । तत्रापि मनश्चान्तरात्मनि प्रणिधीयमानं प्रतिहन्यते वृत्यन्तरैरित्यन्त्यपादार्थः ॥१७॥
कच्चिदाचरितं पूर्वैर्नरदेव पितामहैः
।
वर्तसे वृत्तिमक्षुद्रां धर्मार्थसहितां त्रिषु॥१८॥
त्रिषु उत्तमाधममध्यमेषु ऋत्विक्पुरोहितादिषु धर्मेण सहितां वृत्तिं वर्तसे दण्ड्यद्वेष्यादिषु अर्थेन सहितां ग्रजासु पालनषड्भागहाराभ्यां धर्मार्थसहितामिति विवेकः धर्मार्थौ चेति द्वन्द्वैकशेषः तैः सहितामिति समासः ॥१८॥
कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा
।
उभौ वा प्रीतिसारेण न कामेन प्रबाधसे॥१९॥
कश्चिदर्थेनेति । अर्थलोभाद्धर्मवाधो नीचानां धर्मलोभादर्थवाधो विरक्तानां कामेन प्रीतिसारेण तात्कालिकसुखाभासप्रदर्शनबलेन मोहयता धर्मार्थयोर्बाधः कामुकानां प्रसक्तः त्वयि राज्यप्रतिकूलानां नीचत्वाविरक्तत्वकामुकत्वानामभावमिच्छामीत्यर्थः ॥१९॥
कच्चिदर्थं च धर्मं च कामं च जयतां वर
।
विभज्य काले कालज्ञः सदा वरद सेवसे॥२०॥
परस्परविरोधिनामेषां कथमेकेनानुष्ठानमित्याशंक्य कालभेदेनेत्याह । कश्चिदर्थमिति । ‘पूर्वाह्णे चाचरेद्धर्मं मध्याह्नेऽर्थमुपार्जयेत् । सायाह्ने चाचरत्काममित्येषा वैदिकी श्रुतिः’ इति दक्षोक्तकालव्यवस्थामास्थाय त्रिवर्गं सेवेतेत्यर्थः । सदा वरदेति संबोधनेन परानुग्रहरूपो धर्मः सर्वस्मिन्नपि काले कर्तव्य इति सूचयति। सममिति पाठे अवैषम्येण आत्मसाम्येनेत्यर्थः ॥२०॥
कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथाऽनघ
।
बलाबलं तथा सम्यक्चतुर्दश परीक्षसे॥२१॥
कच्चिद्राजेति षड्गुणाः ‘वक्ता प्रगल्भो मेधावी स्मृतिमान्नयवित्कविः’ इति नारदस्तुतौ सूचिता वक्तृत्वादयः । अत्र राजगुणेषु वक्तृत्वं चारामात्यादिषु यथायोग्यं कार्योपदेशकौशलम् । प्रागल्भ्यं शत्रुदमनादौ उत्कर्षप्रदर्शनम्। मेधावित्वं तर्ककौशलम् । स्मृतिमान् कविरिति च अतीतानागतयोः परामर्शित्वम् । नयविदिति नीतिशास्त्रवित्त्वम्। एतैः राजगुणैरुपायान्बलाबलम् अन्यांश्चतर्दश त्वं परीक्षसे इति योजना। हे अनघ चतुर्दशमी राजदोषैर्वर्जित ते च वक्ष्यन्ते ‘नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम् । निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम्। मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः ॥ कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश’ इति ॥ नास्तिक्यं परलोकापलापः । प्रमादोऽनवधानता । दीर्घसूत्रतां चिरक्रियत्वम् । पञ्चवृत्तितां पश्चेन्द्रियपरवशताम् । अर्थानां प्रयोजनानाम् एकचिन्तनम् एकेनैव चिंतनम् । अनर्थज्ञैः विपरीतार्थदर्शिभिः सह चिन्तनं मन्त्रः । मङ्गलम् उत्सवः। आदिपदाद्देवपूजादि तस्याप्रयोगमननुष्ठानम् । प्रत्युत्थानं च सर्वतः युगपत्सर्वदिगवस्थितशत्रूद्देशेन दण्डयात्रेति तदर्थः । यद्वा अयं पराजयमूलं विंशतिवर्गस्तद्रहित । स च कामन्दकीये उक्तः । ‘बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः। भीरुको भीरुजनको लुब्धो लुब्धजनस्तथा ॥ विरक्तप्रकृतिश्चैव विषयेष्वपि सक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः ॥ दैवोपहतकश्चैव दैवचिन्तक एव च । दुर्भिक्षव्यसनोपेतो बलव्यसनसंकुलः । अदेशस्थो बहुरिपुर्युक्तो कालेना यश्च सः ॥ सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी । एतैः संधिं न कुर्वीत विग्रही स्थातु स्यात्तु केवलम् इति। उपायाः सप्त सामदानभेददण्डमन्त्रौषधेन्द्रजालाख्याः ॥ बलाबलं स्वपरपक्षयोः साम्यं परस्य हीनता स्वस्य वा हीनतेति त्रिविधम् । यथायोगं बुद्ध्यादिभिः सामादयः परीक्षिणीयाः । किमनेन शत्रुणा साम कर्तव्यं न वा । कर्तुमारब्धं चेत् सिद्ध्यति न वा । सिद्धं चेदं ते कुशलं नवेति चारप्रेषणादिना च बलाबलप्रसृतिकं परीक्षणीयम्। तथा चतुर्दश देशादयोऽपि परीक्षणीयाः। ते च नीतिशास्त्रोक्ताः। ’देशो दुर्गं रथो हस्तिवाजियोधाधिकारिणः । अन्तःपुरान्नगणनाः शास्त्रलेख्यधनासवाः ॥ परीक्ष्या ह्यधिपास्तेषां चतुर्दश नरेश्वरैः’ इति । योधाः शूराः अधिकारिणः देशपालदुर्गपालसेनापत्यादयः गणना अश्वरथधनादीनां संख्या । लेख्यम् आयव्ययनिर्णयाय सर्वस्य पत्रारोहकरणम् । धनं पर्याप्तमपर्याप्तं चेति विचार्यम् । आसवाः मद्यवदपकारिणः प्रच्छन्नशत्रवः असव इति पाठे असुर्बलमित्यर्थः । बलाबलेन सम्यक्त्वमिति स्वीयं परकीयं च देशादिकम् उक्तविधेन बलाबलेन बुद्ध्याचारैश्च परीक्षणीयमित्यर्थः ॥२१॥
कच्चिदात्सानमर्न्वाक्ष्य परांश्च जयतां वर
।
तथा सन्धाय कर्माणि अष्टौ भारत सेवसे॥२२॥
एतदेवाह कश्चिदात्मानमिति । आत्मानं प्रबलं परान् दुर्बलान्परीक्ष्य सेवसे राज्यं तथा विपरीते जयमूलस्य कोशस्य वृद्धये सन्धाय परैः सह साम कृत्वाऽष्टौ कर्माणि। ‘कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् । खन्याकरकरादानं शून्यानां च निवेशनम् अष्टौ संधानकर्माणि प्रयुक्तानि मनीषिभिः’ इति शास्त्रोक्तानि सेवसे। कुञ्जरबन्धनं वहुभक्षकत्वात्तेषां यथाविभागं ग्रामीणधनैरेव ग्रामे ग्रामे पोषणार्थं बन्धनम् । खनीरत्नाद्युत्पत्तिस्थानम् आकरः सुवर्णाद्युत्पत्तिस्थानमितिभेदः । खननमात्रेण धमनदिनाऽभिमुखीकरणेन च तयोस्तल्लाभहेतुत्वात् ॥२२॥
कच्चित्प्रकृतयः सप्त न लुप्ता भरतर्षभ
।
आढ्यास्तथा व्यसनिनः स्वनुरक्ताश्च सर्वशः॥२३॥
कृष्यादिनापि कोशवृद्धिः स्वाम्यादिप्रकृतिसप्तकस्य परैर्धनादिना मोहने कृते सति न भवतीत्यत आह कच्चित्प्रकृतय इति । सप्त ‘स्वाम्यमात्ममुहृत्कोशराष्ट्रदुर्गबलानि च । राज्यांगानि प्रकृतयः पौराणां श्रेणयोऽपि च’ इति कोशोक्ताः । तत्र स्वामिरूपा प्रकृतिः सप्तविधा । ‘दुर्गाध्यक्षो बलाध्यक्षो धर्माध्यक्षश्चमूपति । पुरौधा वैद्यदैवज्ञौ सप्त प्रकृतयः स्मृताः’ इति प्रोक्ताः । बलाध्यक्षः बलस्य चतुरंगस्याहारादिदानेन पालकः। चमूपतिर्युद्धे चम्बाः प्रणेता । धर्मः कार्यमात्रम् । अमात्यः मन्त्री । सुहृत् न्यायान्यायविभागकर्ता पर्षद्रूपः। एते न तावका लुप्ताः परैर्मोहिता माभूवन् । लुप्यतेमोहनार्थस्येदं रूपम् । लुप्ताश्चेद्दुर्गादीनामेव नाशापत्तिरित्यर्थः । अथवा त एवाढ्याः सन्तो व्यसनिनो द्यूतपानादिरताः माभूवन् । ‘हृष्टो दृष्यति दृप्तो धर्ममतिक्रामति धर्मातिक्रमात्पापं करोति’ इति स्मृतेः अस्त्याद्यस्य व्यसनप्रसक्तिस्तदापि न कोशादीनां वृद्धिः स्यात् । कथं तर्हि स्युः । सर्वप्रकारैः स्वनुरक्ता अत्यन्तं स्वामिकार्ये प्रीतिमन्तः ॥२३॥
कच्चिन्न कृतकैर्दूतैर्ये चाप्यपरिशङ्किताः
।
त्वत्तो वा तव चामात्यैर्भिद्यते मन्त्रितं तथा॥२४॥
दुर्गाध्यक्षादीनां लोमतो विपरीतकार्यकारित्वेन नाशहेतुत्वं प्रसिद्धम् । अमात्यसुहृदोस्तु लोभेन कथं नाशहेतुत्वमित्याशंक्य मन्त्रभेदेनेत्याह । कच्चिन्नेत्यादिना । अपरिशङ्किताः येषु दौष्ट्यशङ्का नास्ति तैः कृतकैः कृत्रिमैः सुहृद्भूतैर्दूतैः उभयवेतनैः तव मन्त्रितं मन्त्रः न भिद्यते प्रकाश्यते कश्चित् । तकैर्दूतैर्वेति पाठे सम्यगपि मन्त्रितं कुयुक्तिभिर्न विप्लाव्यत इत्यर्थः । त्वत्तो वा कृतकमित्रं प्रति कथयतः अमात्यैर्वा कृतकैः मन्त्रितं भिद्यत इति सर्वत्र संबन्धनीयम् ॥२४॥
मित्रोदासीनशत्रूणां कच्चिद्वेत्सि चिकीर्षितम्
।
कच्चित्सन्धिं यथाकालं विग्रहं चोपसेवसे॥२५॥
मित्रेति । मित्रं सम्यक् परीक्ष्य तेन सह संमन्त्र्य बलवता शत्रुणा सन्धिं दुर्बलेन सह विग्रहं मध्यमेन उभयवेतनेन उदासीनेन राज्ञा च सह वृत्तिं साम्येन स्थितिं च कुर्यादिति सार्धश्लोकार्थः ॥२५॥
कच्चिद्वृत्तिमुदासीने मध्यमे चानुमन्यसे
।
कच्चिदात्मसमा वृद्धाः शुद्धाः सम्बोधनक्षमाः॥२६॥
तत्र मित्रं कैर्गुणैः परीक्षेतेत्यत आह । कच्चिदात्मसमा इति । शुद्धाचारत्वं कुलीनत्वं च नैर्मल्यस्यासाधारणं लिङ्गम् । शुद्धाः संबोधनक्षमा इत्यत्र शुचयो जीवितक्षमा इति पाठे आपन्मग्नस्य राज्ञ उज्जीवने क्षमा इत्यर्थः ॥२६॥
कुलीनाश्चानुरक्ताश्च कृतास्ते वीरमन्त्रिणः
।
विजयो मन्त्रमूलो हि राज्ञो भवति भारत॥२७॥
किमेवंविधेन मन्त्रेणेत्यत आह अर्धेन विजय इति ॥२७॥
कच्चित्संवृतमन्त्रैस्ते अमात्यैः शास्त्रकोविदैः
।
राष्ट्रं सुरक्षितं तात शत्रुभिर्न विलुप्यते॥२८॥
मन्त्रभेदो माभूदित्युक्तं तत्फलमाह कच्चित्संवृतेति ॥२८॥
कच्चिन्निद्रावशं नैषि कच्चित्काले विबुद्ध्यसे
।
कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित्॥२९॥
कच्चिन्निद्रेति । यथाकालं स्वप्नप्रबोधवता ब्राह्मे मुहूर्तेऽमात्यादिभिः सह कृतस्य मन्त्रस्य पर्यालोचनं कर्तव्यम्। ‘ब्राह्मे मुहूर्ते चोत्याय विन्तयेदात्मनो हितम्’ इति स्मृतेस्तदा निर्णीतोर्थो न विप्लवत इत्यवसायात् ॥२९॥
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह
।
कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रं परिधावति॥३०॥
कच्चिन्मन्त्रेति । ‘षट्कर्णो भिद्यते मन्त्र’ इति प्रसिद्धेर्द्वाभ्यामेव मन्त्रयितव्यमित्यर्थः । मन्त्रभेदो न कर्तव्य इत्युक्तं तदुपसंहरति कच्चित्त इति ॥३०॥
कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान्
।
क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान्॥३१॥
स्वाम्यमात्यादिप्रकृतिसप्तकानुग्रहात् कृष्यादिकर्माष्टकसिद्धितश्च कोशवृद्धिरित्युक्तं तदनुवदति विशेषविधानार्थम् । कच्चिदर्थानिति । अर्थान् अर्थप्राप्त्युपायान् लघुमूलान् अल्पव्ययसाध्यान् । महोदयान् प्रचुरफलान् । तादृशान्कृष्याद्यारम्भकर्तनन्यान् वैश्यादीन् तेभ्योपि करादानेन कोशवृद्धिरवे भवतीति भावः ॥३१॥
कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः
।
सर्वे वा पुनरुत्सृष्टाः संसृष्टं चात्र कारणम्॥३२॥
कच्चिन्न सर्व इति । कर्मणा अत्यन्ते बध्यन्त इति कर्मान्ताः कृष्यादिकर्मबद्धाः कृषीवलादयः कच्चित्ते परोक्षा अज्ञाता न सन्ति । अथवा विशंकिता अविश्वास्याः न सन्ति । अथवा पुनरुत्सृष्टाः । पुनःपुनस्त्यक्तोपात्ताः। संसृष्टं स्नेहः । ‘संसृष्टं त्रिषुसंगते’ इति मेदिनी । चिरपरिग्रहात् ज्ञाताः विश्वास्याः स्निग्धाश्व कर्मकरा अत्र महोदये कर्मणि कारणम् उदयनिमित्तं ज्ञात्वा तादृशानेव संगृह्णीयादित्यर्थः ॥३२॥
आप्तैरलुब्धैः क्रमिकैस्ते च कच्चिदनुष्ठिताः
।
कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः॥३३॥
एतदेवाहार्धेनाप्तैरिति । क्रमिकैः वृद्धक्रमागतैः । ते च कृष्यादयश्च । कच्चिदिति । मन्त्रगुप्तिवत् कर्मगुप्तिरपि कर्तव्येत्यर्थः ॥३३॥
विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित्
।
कच्चित्कारणिका धर्मे सर्वशास्त्रेषु कोविदाः
।
कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः॥३४॥
अनवाप्तानि अनारब्धानि न विदुः कच्चिदिति आवृत्त्या योज्यम् । कोशवृद्ध्युपायमुक्त्वा बलवृद्ध्युपायमाह । कच्चित्कारणिका इति । कारणं ज्ञापनं शिष्येभ्यो विद्याप्रतिपादनं तदर्थं चरन्ति ते काराणिकाः कृपद्रोणसदृशा आचार्याः कारयन्ति शिक्षयन्ति ॥३४॥
कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम्
।
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्नः श्रेयसं परम्॥३५॥
सुहृद्दुर्गामात्यसंपदं कमेण त्रिभिराह । कञ्चित्सहस्रैरित्यादिभिः । अर्थकृच्छ्रेषु प्रयोजनसंकटेषु । निःश्रेयसं कल्याणम् ॥३५॥
कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः
।
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः॥३६॥
एकोप्यमात्यो मेधावी शूरो दान्तो विचक्षणः
।
राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम्॥३७॥
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च
।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः॥३८॥
पष्ठीं राष्ट्रसंपदमाह । कच्चिदष्टादशान्येष्यिति । तीर्थानि मन्त्रिप्रभृतीन्यष्टादश यान्यवगाह्य राजा कृतकृत्यो भवति । तानि चोक्तानि नीतिशास्रे ।
'मन्त्री पुरोहितश्चैव युवराजश्चमूपतिः
।
पञ्चमो द्वारपालश्च षष्ठोन्तर्वेशिकस्तथा ॥१॥
कारागाराधिकारी च द्रव्यसंचयकृत्तथा
।
कृत्याकृत्येषु चार्थानां नवमो विनियोजकः ॥२॥
प्रदेष्टा नगराध्यक्षः कार्यनिर्माणकृत्तथा
।
धर्माध्यक्षः सभाध्यक्षो दण्डपालत्रिपञ्चमः ॥३॥
षोडशो दुर्गपालश्च तथा राष्ट्रान्तपालकः
।
अटवीपालकान्तानि तीर्थान्यष्टादशैव तु ॥४॥
चारान्विचारयेतीर्थेष्वात्मनश्च परस्य च
।
पाखण्डादीनविज्ञातानन्योन्यमितरेष्वपि ॥५॥
मन्त्रिणं युवराजं च हित्वा स्वेषु पुरोहितम्
।
'
इति । एषां तीर्थशब्दवाच्यत्वे हलायुधः। ‘योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थं स्याद्दर्शनेष्वपि’ इति । परेषामष्टादशसु स्वस्य मन्त्रिपुरोहितयुवराजवर्जं पश्चदशसु च तीर्थेषु चारान् अन्यैः परस्परं चाविज्ञातान् त्रींस्त्रीन्प्रयुज्य तत्रत्यां वार्तां सर्वचारसंवादे तथ्यां जानीयात् ज्ञात्वा च स्वप्रजानामनुरञ्जनेन परप्रजानां दुःखितानामभयदानादिना आकर्षणेन च स्वराष्ट्रं वर्धयेदित्युक्तं भवति ॥३८॥
कच्चिद्द्विषामविदितः प्रतिपन्नश्च सर्वदा
।
नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन॥३९॥
पूर्वोक्तानां गौणस्वामिनां संपदं विवक्षुः मुख्यस्वामिसंपदं तावदाह । कच्चिद्द्विषामिति । अविदितः पुरकिंकरैः प्रतिपन्नः सावधानः । प्रतियत्त इति पाठे प्रतीकारे यत्नवान्। नित्ययुक्तो नित्योद्योगी ॥३९॥
कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः
।
अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः॥४०॥
विनयसंपन्नः शिक्षायुक्तः । कुलपुत्रः सत्कुलजः । अनसूयुः परगुणेषु दोषारोपमकुर्वन् । अनुप्रष्टा शास्त्रचर्चाकुशलः । असंकीर्ण इति पाठे सदसद्विवेकवान् ॥४०॥
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः
।
हुतं च होष्यमाणं च काले वेदयते सदा॥४१॥
ऋजुरकुटिलः ॥४१॥
कच्चिदङ्गेषु निष्णातो ज्योतिषः प्रतिपादकः
।
उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव॥४२॥
अङ्गेषु सामुद्रिकशास्त्रोक्तरीत्या अङ्गानां परीक्षायाम् । उत्पातेषु दिव्यभौमशारीरेषु धूमकेतुभूकंपवामनेत्रस्फुरणादिषु आगाम्यशुभसूचकेषु ॥४२॥
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः
।
जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः॥
अमात्यानुपधातीतान्पितृपैतामहान् शुचीन्
।
श्रेष्ठान्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु॥४३॥
सेनापत्याकरकोशाध्यक्षकृष्याद्यवेक्षणानि मुख्यमध्यमनीचानि । उपधातीतान् छलरहितान् श्रेष्ठेषु ॥४३॥
कच्चिन्नोग्रेण दण्डेन भृशमुद्विजसे प्रजाः
।
राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ॥४४॥
मन्त्रकार्येषु ॥४४॥
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा
।
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः॥४५॥
पतितमिति व्यतिरेकदृष्टान्तः । नावजानन्ति नावमन्यन्ते । तत्र हेतुः । उग्रप्रतिग्रहीतारम् उग्रमिति क्रियाविशेषणम् । यद्वा उग्रं हिंस्रं कर्म तेन प्रतिग्रहीतारं धनस्य प्रजापीडकमित्यर्थः । यथोक्तं ‘प्रजापीडनसंतापात्समुद्भूतो महानलः । राज्ञः प्राणान् बलं कोशं नादग्ध्वा विनिवर्तते’ इति । तथा च नाशहेतुकर्मकारिणः अवज्ञैव उचिताऽतस्त्वया तन्न कर्तव्यमित्यर्थः । कामयानं कामतो यानं पर्यटनं यस्य तं स्वैरिणमिव भ्रष्टत्वादरतिप्रदत्वाच्च स्त्रियोवमन्यन्ते तद्वत् ॥४५॥
कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमान् शुचिः
।
कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तथा॥४६॥
हृष्टो धनमानादिनाम् ॥४६॥
कच्चिद्बलस्य ते मुख्याः सर्वयुद्धविशारदाः
।
धृष्टावदाता विक्रान्तास्त्वया सत्कृत्य मानिताः॥४७॥
धृष्टावदाताः प्रगल्भाः निष्कपटाश्च अत एव विक्रान्ता जयं कृतवन्तः । एवं गौणस्वामिसंपदमुक्त्वा तद्वृद्धिहेतुमाह । त्वया सत्कृत्य मानिताः इत्यादिना ॥४७॥
कच्चिद्वलस्य भक्तं च वेतनं च यथोचितम्
।
सम्प्राप्तकाले दातव्यं ददासि न विकर्षसि॥४८॥
भक्तम् अहरहर्देयं धान्यादि। वेतनं मासांतदेयं वित्तम् । विकर्षणं कालातिक्रमः॥४८॥
कालातिक्रमणादेते भक्तवेतनयोर्भृताः
।
भर्तुः कुर्वन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः॥४९॥
दौर्गत्यात् दारिद्र्येण ॥४९॥
कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः
।
कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति सदा युधि॥५०॥
प्रधानतः मन्त्रिणमारभ्य मन्त्रिप्रभृतयः इत्यर्थः ॥५०॥
कच्चिन्नैको बहूनर्थान्सर्वशः साम्परायिकान्
।
अनुशास्ति यथाकामं कामात्मा शासनातिगः॥५१॥
सांपरायिकान् संग्रामहितान् शूरान् गजरयतुरगारोहान् पदातींश्च अर्थान्प्रयोजनानि नानुशास्ति । सर्वस्यैकाधिपत्ये तद्भेदेन सर्वनाशो युगपदेव स्यादिति भावः ॥५१॥
कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन्
।
लभते मानमधिकं भूयो वा भक्तवेतनम्॥५२॥
कच्चित्पुरुषेति । कृतज्ञो भवेदिति भावः ॥५२॥
कच्चिद्विद्याविनीतांश्च नरान् ज्ञानविशारदान्
।
यथार्हं गुणतश्चैव दानेनाभ्युपपद्यसे॥५३॥
कश्चिद्विद्येति । बुद्धिदान् मानयस्वेति भावः ॥५३॥
कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमीयुषाम्
।
व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ॥५४॥
कच्चिद्दारानिति । जीवतां शूराणां विश्वासार्थं व्यसनं चेति परलोकार्थम् ॥५४॥
कच्चिद्भयादुपगतं क्षीणं वा रिपुमागतम्
।
युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि॥५५॥
तदेवाह युद्धे वेति ॥५५॥
कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते
।
समश्चानभिशङ्क्यश्च यथा माता यथा पिता॥५६॥
सर्वस्या इति । प्रजानुकूल्यमपि जयहेतुः ॥५६॥
कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ
।
अभियासि जवेनैव समीक्ष्य त्रिविधं बलम्॥५७॥
एवं विजयहेतुं प्रकृतिसंपदमुक्त्वा विजयकालमाह । कच्चिद्व्यसनिनमिति। व्यसनैः ‘स्त्री द्यूतं मृगया मद्यं नृत्यं गीतं वृथाटनम् । वाद्यं निन्दादिवास्वापो व्यसनानि नृणां दश’ इत्युक्तैर्युक्तम् । त्रिविधं बलं । मन्त्रकोशभृत्यबलानि प्रभुमन्त्रोत्साहशक्तीर्वा ॥५७॥
यात्रामारभसे दिष्ट्या प्राप्तकालमरिन्दम
।
पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम्॥५८॥
पार्ष्णिमूलं पार्ष्णिग्राहकः आदिर्यस्य तत् द्वादशविधं मण्डलम् । तच्चोक्तं कामन्दकीये ‘अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चमः । एता प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः ॥ संपन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः । जेतुमेषणशीलश्च विजिगीषुरितिस्मृतः ॥ अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम् । अथारिमित्रमित्रं च विजिगीषोः पुरस्कृताः ॥ पार्ष्णिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरम् । आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः ॥ अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोर्व्यस्तयोर्निग्रहे प्रभुः ॥ मण्डलाद्बहिरेतेषामुदासीनो बलाधिकः । अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः’ इति विजिगीषुशत्रू तयोर्मित्रे तन्मित्रे चेति त्रीणि द्वन्द्वानि क्रमेण पुरतः विजिगीषोः पृष्टतः पार्ष्णिग्राहाक्रन्दौ । पार्ष्णिग्राहः पृष्टरक्षकः । आक्रन्दः प्रोत्साहकः । एतयोरनुग्राहकौ आसारौ तत्तत्पृष्ठगतौ पार्ष्णिग्राहासार आक्रंदासारश्चेति दश पुरुषाः। विजिगीषु शत्र्वोः पार्श्वे मध्यमः सर्वेषां पार्श्वे उदासीनः। इति मण्डलं पार्ष्णिमूलमित्युच्यते । व्यवसायं कृत्यनिश्चयं कृत्यं च । ‘अलब्धवेतनो लुब्धो मानी चाप्यवमानितः । क्रुद्धश्च कोपितोऽकस्मात्तथा भीतश्च भीषितः ॥ यथाभिलषितैः कामैर्भिन्द्यादेतांश्चतुर्विधान् । परकायान् स्वकीयांस्तु रक्षेद्विजयकामुकः ॥’ इति नीतिशास्त्रोक्तम्। पराजयं पराजयमूलानां व्यसनानां परपक्षे सद्भावं स्वपक्षे चाभावं विज्ञाय दिष्ट्या विशेषतो दैवज्ञादिद्वारा ज्ञात्वा । तत्र दैवं व्यसनं पञ्चविधम्। मानुषं च पञ्चविधम् । यथोक्तं कामन्दकीये। ‘हुताशनो जलं व्याधिर्दुभिक्षं मरकस्तथा । इति पञ्चविधं दैवं व्यसनं मानुषं परम् ॥ अयुक्तेभ्यश्च चोरेभ्यः परेभ्यो राजवल्लभात् । पृथिवीपतिलोभाच्च प्रजानां पञ्चधा भयम् ॥’ इति ॥५८॥
बलस्य च महाराज दत्त्वा वेतनमग्रतः
।
कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परन्तप
।
उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः॥५९॥
उपच्छन्नानि परैरलक्ष्याणि । रत्नानि उत्कृष्टवस्तूनि भेदायेत्यर्थः ॥५९॥
कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः
।
पारन् जुगीषसे पार्थ प्रमत्तानजितेन्द्रियान्॥६०॥
कच्चित्ते यास्यतः शत्रून्पर्वं यान्ति स्वनुष्ठिताः
।
सामदानं च भेदश्च दण्डश्च विधिवद्गुणाः॥६१॥
स्वनुष्ठिताः शोभनेन पुरुषेण सम्यगनुष्ठिताः । विधिवद्गुणाः ये सामादयः विधिवत् अनुष्ठिताः सन्तो गुणाः हिताय भवन्ति । अन्यथा विपरीताय । यथोक्तमभियुक्तैः । ‘चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया’ इति। यद्वा सामादयोऽवश्यमनुष्ठेयाः यतो राज्ञां गुणाः संधिविग्रह्ययानासनद्वैधीभावसंश्रयाः विधिवदग्निहोत्रादिविधिवदवश्यानुष्ठेयाः तदकरणे स्वराष्ट्रभङ्गादिना जातेन प्रजापीडनेन राज्ञां दोषोत्पत्तिः ॥६१॥
कच्चिद्बलं दृढं कृत्वा परान्यासि विशांपते
।
तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि॥६२॥
मूलं स्वराज्यं दृढप्रत्ययिभिः शूरैराधष्ठितं सत् दृढं परानभिभाव्यं कृत्वा॥६२॥
कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः
।
बलमुख्यैः सुनीता ते द्विषतां प्रतिवर्धिनी॥६३॥
अष्टाङ्गसंयुक्ता “रथा नागा हया योधाः पत्तयः कर्मकारकाः । चारा दैशिकमुख्याश्च ध्वजिन्यष्टाङ्गिका मता' चतुर्विधबला मौलमैत्रभृत्याटविकैर्बलैर्युक्ता बलमुख्यैः सेनापतिभिः प्रतिवर्धिनी प्रातिकूल्येन छेदिनी ॥६३॥
कच्चिल्लवं च मुष्टिं च परराष्ट्रे परन्तप
।
अविहाय महाराज निहंसि समरे रिपून्॥६४॥
लवः सस्यच्छेदनकालः मुष्टिः सस्यानां गोपनकालः दुर्भिक्षमिति यावत् । लुञ्छेदने मुषस्तेये आभ्याम् अधिकरणे वक्तिनौ । परराष्ट्रे क्षेत्रस्थेषु सस्येषु सुखलब्धान्नैर्दुर्भिक्षे च राजकुललब्धभक्तोपजीविभिर्निरचताक्रांताः शत्रवः सुखं जेया इत्यर्थः ॥६४॥
कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव
।
अर्थान्समधितिष्ठन्ति रक्षन्ति च परस्परम्॥६५॥
स्वपरराष्ट्रेषु स्वेति दृष्टान्तार्थं स्वराष्ट्रे इव परराष्ट्रे प्रविष्टाः बहवः अधिकृताः स्थाने स्थाने स्थिताः स्थानपत्यादयोऽर्थान् प्रयोजनानि प्रजावशीकरणकरग्रहणादीनि रक्षन्ति च परस्परं संभूय परकीयमागतं सेनापत्यादिकम् अभिभूय राष्ट्रं स्वीयांश्च रक्षन्तीत्यर्थः ॥६५॥
कच्चिदभ्यवहार्याणि गात्रसंस्पर्शनानि च
।
घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव॥६६॥
अभ्यवहार्याणि भक्ष्याणि । गात्रसंस्पर्शनानि वस्त्राणि । संघर्षणानीति पाठे चन्दनागुरुकुंकुमकस्तूरिकादीनि घ्रेयाणि उत्तमधूपादीनि । अनुमताः विश्वस्ताः । तव त्वदर्थं रक्षन्ति न तु देशान्तरोत्पन्नानि तानि स्वयमेव स्वीकुर्वन्तीत्यर्थः ॥६६॥
कच्चित्कोशश्च कोष्ठं च वाहनं द्वारमायुधम्
।
आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः॥६७॥
कोशो धनगृहम् । कोष्ठं धान्यस्थानम् ॥६७॥
कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशाम्पते
।
रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान्॥६८॥
आभ्यन्तरेभ्यः सूदादिभ्यः। बाह्येभ्यः सेनापत्यादिभ्यः । तानुभयान्स्वेभ्यः पुत्रामात्यादिभ्यः। तानपि मिथः पुत्रममात्यादमात्यं च पुत्राद्रक्षसि ॥६८॥
कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च
।
प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव॥६९॥
कच्चिन्नेति। पानादिव्यसनजं व्ययं तव पूर्वाह्ने धर्माचरणकाले भृत्याः न प्रतिजानन्ति नावेदयन्ति। आवेदने हि तदानीमागताः शिष्टाः पुरोहितादयः पानादिदुर्व्यसनासक्तं त्वां ज्ञात्वा त्यजेयुरिति भावः ॥६९॥
कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः
।
पादभागैस्त्रिभिर्वापि व्ययः संशुद्ध्यते तव॥७०॥
सुभिक्षसाम्यदुदुर्भिक्षेषु आयस्य पादेन पादाभ्यां त्रिभिः पादैर्वा व्ययः संशुद्ध्यते पूर्यते । सर्वथापि कोशवृद्धिः कार्येति भावः ॥७०॥
कच्चिज्ज्ञातीन्गुरून्वृद्धान्वणिजः शिल्पिनः श्रितान्
।
अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान्॥७१॥
दुर्गतान् दरिद्रान् ॥७१॥
कच्चिच्चापव्यये युक्ताः सर्वे गणकलेखकाः
।
अनुतिष्ठन्ति पूर्वाह्णे नित्यमायं व्ययं तव॥७२॥
अनुतिष्ठन्ति निवेदयन्ति ॥७२॥
कच्चिदर्थेषु सम्प्रौढान्हितकामाननुप्रियान्
।
नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम्॥७३॥
अनु प्रौढत्वहितकामत्वज्ञानानन्तरं प्रियान् कर्मभ्योपकर्षः अधिकारच्युतिः सा च पूर्वं किल्विषम् अप्राप्य दोषमदृष्ट्वा न कर्तव्येत्यर्थः ॥७३॥
कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान्
।
त्वं कर्मस्वनुरूपेषु नियोजयसि भारत॥७४॥
कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशाम्पते
।
अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः॥७५॥
अप्राप्तव्यवहाराः अप्रौढाः ॥७५॥
कच्चिन्न चौरैर्लुब्धैर्वा कुमारैः स्त्रीबलेन वा
।
त्वया वा पीड्यते राष्ट्रं कच्चित्तुष्टाः कृषीवलाः॥७६॥
कच्चिद्राष्ट्रे तडागानि पूर्णानि च बृहन्ति च
।
भागशो विनिविष्टानि न कृषिर्देवमातृका॥७७॥
देवमातृका वृष्टिनिष्पाद्यसस्या ॥७७॥
कच्चिन्नं भक्तं बीजं च कर्षकस्यावसीदति
।
प्रत्येकं च शतं वृद्ध्या ददास्यृणमनुग्रहम्॥७८॥
प्रत्येकं च शतं प्रतिशतमेकं वृद्ध्येति संबन्धः। एकैकः प्रतिमासं वर्धनीय इत्यर्थः। पादिकं च शतं वृद्ध्येति पाठे तु वर्षस्य शतचतुर्थांशो वृद्धिः । तथा च किंचिदधिकाद्द्व्युत्तरवृद्धिः। आद्ये संबन्धके वृद्धिरन्यत्र निर्बन्धके इति विभागः । यत्तु ‘द्विकं त्रिकं चतुष्कं च पञ्चकं च समं शतम्। भासस्य वृद्धिं गृह्णीयात्’ इति त्रिकादिपक्षस्तु आधमर्णिकव्यवसायानुसारेणेति ज्ञेयम् ॥७८॥
कच्चित्स्वनुष्ठिता तात वार्ता ते साधुभिर्जनैः
।
वार्तायां संश्रितस्तात लोकोऽयं सुखमेधते॥७९॥
वार्ता कृषिर्वाणिज्यं पाशुपाल्यं कुसीदं चेति चतुर्विधा ॥७९॥
कच्चिच्छूराः कृतप्रज्ञाः पञ्च पञ्च स्वनुष्ठिताः
।
क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव॥८०॥
कच्चिच्छूरा इति । प्रतिग्रामं पञ्च पञ्चेति स्वनुष्ठिताः शोभनमनुष्ठितमनुष्ठानं येषां ते तथा । ते च प्रशास्ता समाहर्ता संविधाता लेखकः साक्षी चेति । समाहर्ता प्रजाभ्यो द्रव्यमुद्गृह्यैकीकृत्य राज्ञेऽर्पयिता। संविधाता प्रजासमाहर्त्रोरेकवाक्यताघटकः । संहत्य एकीभूय ॥ ॥८०॥
कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः
।
ग्रामवच्च कृताः प्रान्तास्ते च सर्वे त्वदर्पणाः॥८१॥
नगरवदित्यनेन बहुभिः शूरैरधिष्ठिता ग्रामाः । बहुतरैर्नगराणि । बहुतमैर्जनपदेश्वरस्थानं पुरसंज्ञम् । ग्रामाः शूद्रजनबहुलाः। आपणादियुक्तं नगरम् । प्रान्ताः सीमास्थाः आटविकानां ग्रमाः । ते च सर्वे त्वदर्पणाः। ते प्रान्तग्रामनगरपुरेशाः त्वय्येव कृताकृतस्य धनस्य चार्पणं निवेदनं येषां ते तथाभूताः । प्रान्ताधिपो ग्रामाधिपतौ। सोऽपि नगराधिपतौ । सोऽपि देशाधिपतौ । सोऽपि साक्षाद्राज्ञि सर्वं निवेदयतीत्यर्थः ॥८१॥
कच्चिद्बलेनानुगताः समानि विषमाणि च
।
पुराणि चौरा निघ्नन्तश्चरन्ति विषये तव॥८२॥
विषमाणि सदुर्गाणि निघ्नन्तो ये चरन्ति तान् बलेन सहितः पुराध्यक्षोऽनुद्रवेदित्यर्थः । समेषु विषमेष्वपीति पाठे विषमेषु ईतिकालेषु । अतिवृष्ट्यादय ईतयः ॥८२॥
कच्चित्स्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः
।
कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे॥८३॥
आसां वचनम् आसां पुरश्च गुह्यं न भाषसे ॥८३॥
कच्चिदात्ययिकं श्रुत्वा तदर्थमनुचिन्त्य च
।
प्रियाण्यनुभवन्च्छेषे न त्वमन्तःपुरे नृप॥८४॥
आत्ययिकम् अकल्याणम् ॥८४॥
कच्चिद्द्वौ प्रथमौ यामौ रात्रेः सुप्त्वा विशाम्पते
।
सञ्चिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे॥८५॥
पश्चिमे चतुर्थे तस्मादेव द्वौ प्रथमौ द्वितीयतृतीयावित्यर्थः ॥८५॥
कच्चिदर्थयसे नित्यं मनुष्यान्समलङ्कृतः
।
उत्थाय काले कालज्ञैः सह पाण्डव मन्त्रिभिः॥८६॥
कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलङ्कृताः
।
उपासते त्वामभितो रक्षणार्थमरिन्दम॥८७॥
कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशाम्पते
।
परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च॥८८॥
यमवत् स हि दण्ड्येषु क्रूरः पूज्येषु विनयवान् तद्वत् ॥८८॥
कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा
।
मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि॥८९॥
आबाधं दुःखम्। नियमेन पथ्याशनादिना । मानसमावाधम् ॥८९॥
कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः
।
सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा॥९०॥
अष्टाङ्गायां विचित्कित्सायाम्। ‘निदानं पूर्वलिङ्गानि रूपाण्युपशयस्तथा । संप्राप्तिरौषधी रोगी परिचारक एव च’ इति । अष्टावङ्गानि । अथवा रोगो रोगहेतुः। आरोग्यमारोग्यहेतुः । तेषां लक्षणानि च ॥९०॥
कच्चिन्न लोभान्मोहाद्वा मानाद्वापि विशाम्पते
।
अर्थि प्रत्यर्थिनः प्राप्तान्न पश्यसि कथञ्चन॥९१॥
अर्थिनः याचकाः प्रत्यर्थिनः परंपरागतवृत्तिप्रतिबन्धात्क्षुब्धचित्ताः । प्रत्येत्य तदर्थिनः शत्रवो वा नशब्दद्वयेन पश्येदेवेति उच्यते ॥९१॥
कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा
।
आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणात्सि वै॥९२॥
कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः
।
त्वया सह विरुध्यन्ते परैः क्रीताः कथञ्चन॥९३॥
कच्चिन्न दुर्बलः शत्रुर्बलेन परिपीडितः
।
मन्त्रेण बलवान्कश्चिदुभाभ्यां च कथञ्चन॥९४॥
कच्चिन्नेति । योरिर्बलेन पूर्वं परिपीडित एव न हतः स एव कालान्तरे मन्त्रेण उभाभ्यां च मन्त्रबलाभ्यां कच्चिद्बलवान्नेति योजना। कच्चित्ते इति पाठे ते तव बले सैन्येयोरिः पूर्वपीडित इत्योदि पूर्ववत् ॥९४॥
कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः
।
कच्चित्प्राणांस्त्वदर्थेषु सन्त्यजन्ति त्वया हृताः॥९५॥
प्रधानतः प्राधान्येन हृता दानमानाभ्यां वशीकृताः। आदृता इति वा पाठः ॥९५॥
कच्चित्ते सर्वविद्यासु गुणतोर्चा प्रवर्तते
।
ब्राह्मणानां च साधूनां तव नैः श्रेयसी शुभा
।
दक्षिणास्त्वं ददास्येषां नित्यं स्वर्गापवर्गदाः॥९६॥
विद्यासु साधुनां ब्राह्मणानां गुणतो गुणं दृष्ट्वाऽर्चा पूजा प्रवर्त्तते ॥९६॥
कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः
।
यतमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे॥९७॥
तथा कर्तुं पूर्वैराचरितवत्कर्त्तुम् । तस्मिंस्त्रयी मूले ॥९७॥
कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः
।
गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम्॥९८॥
तवाध्यक्षं त्वत्समक्षम्। सदक्षिणं सदक्षिणालाभं यथास्थात्तथाऽश्नन्ति ॥९८॥
कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः
।
पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान्॥९९॥
कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि
।
चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि॥१००॥
चैत्यान्स्थण्डिलवतो ग्रामसूचकान् वृक्षान् ॥१००॥
कच्चिच्छोको न मन्युर्वा त्वया प्रोत्पाद्यतेऽनघ
।
अपि मङ्गलहस्तश्च जनः पार्श्वेनुतिष्ठति॥१०१॥
शोकःनीचानां मन्युः श्रेष्ठानां मङ्गलहस्तो मङ्गलप्रदो मन्त्रादिवित् पुरोहितादिः अनुतिष्ठति स्वस्त्ययनं करोति ॥१०१॥
कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ
।
आयुष्या च यशस्या च धर्मकामार्थदर्शिनी॥१०२॥
या एषा इदानीं वृत्तिरास्ति सैव सार्वदिकी कच्चिदस्तीत्यर्थः ॥१०२॥
एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति
।
विजित्य च महीं राजा सोत्यन्तसुखमेद्यते॥१०३॥
कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि
।
अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचिः॥१०४॥
कच्चिदार्य इति । आर्यो विशुद्धात्मा च सन्नपि कस्मिंश्चिन्निन्द्ये कर्मणि निमित्ते क्षारितो धनधान्यादिना रिक्तः कृतः । ‘राजाभिः कृतदण्डास्तु शुद्ध्यन्ति मलिना जनाः’ इत्यादिशास्त्रप्रामाण्यात् शुचिरपि सन् अदृष्टशास्त्रकुशलैरनुपासितपण्डितैर्मूर्खैरमात्यैः कच्चिन्न वध्यते हन्यतेऽधिकधनलोभात् । अदृष्ट इति सविसर्गपाठे तु शास्त्रकुशलैरमात्यैरज्ञात इत्यर्थः ॥१०४॥
दुष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टः सकारणः
।
कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ॥१०५॥
दुष्टः स्वभावतः । तत्कारी दुष्टकर्मकारी। तज्ज्ञैः चोरान्वेषिभिः कोष्ठपालैः दृष्टः सकारणः चोरितद्रव्यसहितो गृहीतो विवृतश्चेति योजना ॥१०५॥
उत्पन्नान्कच्चिदाढ्यस्य दरिद्रस्य च भारत
।
अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता जनैः॥१०६॥
उत्पन्नानिति चो वार्थे। आढ्यस्य दरिद्रस्य वार्थान् उत्पन्नान् वीजकणिशन्यायेन स्वल्पकालेनैव बहुगुणां वृद्धिं प्राप्तान् तव अमात्याः मिथ्या अनृतान् चौर्यादिनाऽन्यायेनार्जितानिति कच्चिन्न पश्यन्ति। जनैः पिशुनैः हृताः हृतविवेकाः । पाठान्तरे धनैर्हताः वशीकृताः । लुब्धो हि लिप्सुः परत्रासं तमपि दोषमारोप्य तद्वित्तं जिहीर्षतीति प्रसिद्धम् ॥१०६॥
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्
।
अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम्
।
एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम्॥१०७॥
नास्तिक्यमित्यादि सार्धश्लोकत्रयं व्याख्यातम् ॥१०७॥
निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम्
।
मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः॥१०८॥
कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश
।
प्रायशो यैर्विनश्यन्ति कृतमूलापि पार्थिवः॥१०९॥
कच्चित्ते सफला वेदाः कच्चित्ते सफळं धनम्
।
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम्॥११०॥
युधिष्ठिर उवाच।
कथं वै सफला वेदाः कथं वै सफलं धनम्
।
कथं वै सफला दाराः कथं वै सफलं श्रुतम्॥१११॥
नारद उवाच।
अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम्
।
रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम्॥११२॥
वैशम्पायन उवाच।
एतदाख्याय स मुनिर्नारदो वै महातपाः
।
पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम्॥११३॥
नारद उवाच।
कच्चिदभ्यागता दूराद्वणिजो लाभकारणात्
।
यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः॥११४॥
कच्चिदभ्यागता इति । अवहार्यन्ते दाप्यन्ते शुल्कं राजग्राह्यं करम् ॥११४॥
कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः
।
उपानयन्ति पण्यानि उपाधाभिरवञ्चिताः॥११५॥
पण्यानि विक्रेयद्रव्याणि । उपधाभिः छलैः ॥११५॥
कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः
।
नित्यमर्थविदां तात यथाधर्मार्थदर्शिनाम्॥११६॥
कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च
।
धर्मार्थं च द्विजातिभ्यो दीयेते मधुसर्पिषी॥११७॥
कृषितन्त्रेषु कृष्युत्पाद्येषु पुष्पफलेषु आर्द्रशुष्कधान्येषु । तथा गोषु जातेषु पुष्पफलेषु दुग्धघृतरूपेषु उत्पन्नेषु सत्सु मधुसर्पिषी ‘अन्नं वै मधु’ इति श्रुतेर्धान्यादिकम् अन्नं वृतं च यल्लोके ब्रह्मोत्तरम् इत्युच्यते ॥१७॥
द्रव्योपकरणं किञ्चित्सर्वदा सर्वशिल्पिनाम्
।
चातुर्मास्यावरं सम्यङ्नियतं सम्प्रयच्छसि॥११८॥
द्रव्यं शिल्पिनां वेतनम् उपकरणं स्वकार्यसाधनसामग्री । यथा चित्रोत्पादने रञ्जकद्रव्याणि चातुर्मास्यावरं मासचतुष्टयपर्याप्तानाधिकम् ॥११८॥
कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि
।
सतां मध्ये महाराज सत्करोषि च पूजयन्॥११९॥
कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ
।
हस्तिसूत्राश्वसूत्राणि रथसूत्राणि वा विभो॥१२०॥
सूत्रं संक्षेपवाक्यं व्यवस्था वा । हस्त्यादीनां लक्षणपरीक्षाचिकित्सौषधोद्दीपनमादनादिप्रकारप्रतिपादकग्रन्थसिद्धान्तमात्रसंक्षेपयुक्तान् गृह्णासि तत्तदाचार्येभ्यः ॥१२०॥
कच्चिदभ्यस्यते सम्यग्गृहे ते भरतर्षभ
।
धनुर्वेदस्य सूत्रं वै यन्त्रसूत्रं च नागरम्॥१२१॥
यन्त्राणि आग्नेयौषधबलेन सीसकांस्यदृषद्गोलप्रक्षेपकाणि लोहमयानि भाषायां नालशब्दाभिधेयानि तेषां सूत्रं सूचकं शास्त्रम् । नागरं नगरहितम् ॥१२१॥
कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ
।
विषयोगास्तथा सर्वे विदिताः शत्रुनाशनाः॥१२२॥
अस्त्राणि मन्त्रप्रयुक्तानि शस्त्राणि । ब्रह्मदण्ड आभिचारिकविद्या ॥१२२॥
कच्चिदग्निभयाच्चैव सर्वं व्यालभयात्तथा
।
रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि॥१२३॥
व्यालः सर्पः व्याघ्रादेरप्येतदुपलक्षणम् ॥१२३॥
कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानबान्धवान्
।
पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि॥१२४॥
प्रव्रजितान् जातिबहिष्कृतान् अन्नमात्रार्थिनो दीनान् ॥१२४॥
षडनर्था महाराज कच्चित्ते पृष्ठतः कृताः
।
निद्राऽऽलस्यं भयं क्रोधो मार्दवं दीर्घसूत्रता॥१२५॥
वैशम्पायन उवाच।
ततः कुरूणामृषभो महात्मा श्रुत्वा गिरो ब्राह्मणसत्तमस्य
।
प्रणम्य पादावभिवाद्य तुष्टो राजाऽब्रवीन्नारदं देवरूपम्॥१२६॥
युधिष्ठिर उवाच।
एवं करिष्यामि यथा त्वयोक्तं प्रज्ञा हि मे भूय एवाभिवृद्धा
।
उक्त्वा तथा चैव चकार राजा लेभे महीं सागरमेखलां च॥१२७॥
नारद उवाच।
एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे
।
स विहृत्येह सुसुखी शुक्रस्यैति सलोकताम्॥१२८॥
उपसंहरति एवं यो वर्तत इति ॥१२८॥
॥ इति श्रीमहाभारते लोकपालसभाख्यानपर्वणि नारदप्रश्नमुखेन राजधर्मानुशासने पञ्चमोऽध्यायः॥५॥
नारद उवाच।
कथयिष्ये सभां याम्यां युधिष्ठिर निबोध ताम्
।
वैवस्वतस्य यां पार्थ विश्वकर्मा चकार ह॥१॥
कथयिष्ये इति ॥१॥
तैजसी सा सभा राजन्बभूव शतयोजना
।
विस्तारायामसम्पन्ना भूयसी चापि पाण्डव॥२॥
तैजसी ज्योतिर्मयी सौवर्णी वा भूयसी महती पूर्वसभातः ॥२॥
अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामरूपिणी
।
नातिशीता न चात्युष्णा मनसश्च प्रहर्षिणी॥३॥
सर्वतः कामरूपिणी यस्यां सर्वं वस्तु संकल्पसमकालमेव सर्वात्मकं भवतीत्यर्थः ॥३॥
न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम्
।
न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत॥४॥
सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः
।
सारवच्च प्रभूतं च भक्ष्यं भोज्यमरिन्दम॥५॥
कामाः काम्यमाना विषयाः। प्रभूतं बहुलम् । भक्ष्यम् अपूपादि । भोज्यं ओदनादि ॥५॥
लेह्यं चोष्यं च पेयं च हृद्यं स्वादु मनोहरम्
।
पुण्यगन्धाः स्रजस्तस्य नित्यं कामफला द्रुमाः॥६॥
लेह्यं खण्डशर्करादि चोष्यं इक्षुकाण्डादि स्रजः परंपराः तस्य भक्ष्याद्यन्नस्य कामफलाः आम्रादेरपि पनसादिकं फलमुद्भवति कामानुसारादित्यर्थः ॥६॥
रसवन्ति च तोयानि शीतान्युष्णानि चैव हि
।
तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः॥७॥
यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते
।
ययातिर्नहुषः पूरुर्मान्धाता सोमको नुगः॥८॥
त्रसदस्युश्च राजर्षिः कृतवीर्यः श्रुतश्रवाः
।
अरिष्टनेमिः सिद्धश्च कृतवेगः कृतिर्निमिः॥९॥
प्रतर्दनः शिबिर्मत्स्यः पृथुलाक्षो बृहद्रथः
।
वार्तो मरुत्तः कुषिकः साङ्काश्यः साङ्कृतिर्ध्रुवः॥१०॥
चतुरश्च सदस्योर्मिः कार्तवीर्यश्च पार्थिवः
।
भारतः सुरथश्चैव सुनीथो निशठोऽनलः॥११॥
दिवोदासश्च सुमना अम्बरीषो भगीरथः
।
व्यश्वः सदश्वो वघ्र्यश्वः पृथुवेगः पृथुश्रवाः॥१२॥
पृषदश्वा वसुमनाः क्षुपश्च सुमहाबलः
।
रुषद्रुर्वृषसेनश्च पुरुकुत्सो ध्वजी रथी॥१३॥
आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः
।
औशीनरिः पुण्डरीकः शर्यातिः शरभः शुचिः॥१४॥
अङ्गोरिष्टश्च वेनश्च दुष्यन्तः सृञ्जयो जयः
।
भाङ्गासुरिः सुनीथश्च निषधोऽथ वहीनरः॥१५॥
करन्धमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः
।
ऐलो मरुत्तश्च तथा बलवान्पृथिवीपतिः॥१६॥
कपोतरोमा तृणकः सहदेवार्जुनौ तथा
।
व्यश्वः साश्वः कृशाश्वश्च शशबिन्दुश्च पार्थिवः॥१७॥
रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः
।
अलर्कः कक्षसेनश्च गयो गौराश्व एव च॥१८॥
राम इति । रामलक्ष्मणयोर्विष्णुशेषरूपेण स्वस्थानस्थयोरपि प्रतिमारूपेण उपासकानुग्रहार्थमत्रावस्थानं बोध्यम् ॥१८॥
जामदग्न्यश्च रामश्च नाभागसगरौ तथा
।
भूरिद्युम्नो महाश्वश्च पृथाश्वो जनकस्तथा॥१९॥
राजा वैन्यो वारिसेनः पुरिजिज्जनमेजयः
।
ब्रह्मदत्तस्त्रिगर्तिश्च राजोपरिचरस्तथा॥२०॥
इन्द्रद्युम्नो भीमजानुर्गौरपृष्ठोऽनघो लयः
।
पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित्॥२१॥
अरिष्टनेमिः सुद्युम्नः पृथुलाश्वोऽष्टकस्तथा
।
शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः॥२२॥
धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः
।
शतं च ब्रह्मदत्तानां वीरिणामीरिणां शतम्॥२३॥
धृतराष्ट्राश्चैकशतमिति । पुराणेषु प्रायेणाधिकारिणामेव कीर्तनात्तेषां च प्रतिकल्पं समाननामरूपकर्मत्वादनेककल्पं धर्मसभावासिनां तेषां बहुत्वं युक्तम् सेनापत्यादिशब्दवदधिकारवाचित्वाद्धृतराष्ट्रादिशब्दानाम् ॥२३॥
भीष्णाणां द्वे शतेप्यत्र भीमानां तु तथा शतम्
।
शतं च प्रतिविन्ध्यानां शतं नागाः शतं हयाः॥२४॥
पलाशानां शतं ज्ञेयं शतं काशकुशादयः
।
शान्तनुश्चैव राजेन्द्र पाण्डुश्चैव पिता तव॥२५॥
अयमेव न्यायः पलाशादियज्ञियद्रव्याद्यभिमानिदेवतासु ज्ञेय इत्याशयवानाह पलाशानामिति ॥२५॥
उशङ्गवः शतरथो देवराजो जयद्रथः
।
वृषदर्भश्च राजर्षिर्बुद्धिमान्सह मन्त्रिभिः॥२६॥
अथापरे सहस्राणि ये गताः शशबिन्दवः
।
इष्ट्वाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः॥२७॥
एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः
।
तस्यां सभायां राजेन्द्र वैवस्वतमुपासते॥२८॥
अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च
।
यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः॥२९॥
अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये
।
सुधावन्तो बर्हिषदो मूर्तिमन्तस्तथाऽपरे॥३०॥
कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः
।
नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः॥३१॥
कालचक्रं चेति । संवत्सराद्यभिमानिन्यो देवताः । दुष्कृतकर्माणः विद्याविहीनकर्ममात्रनिष्ठाः ॥३१॥
कालस्य नयने युक्ता यमस्य पुरुषाश्च ये
।
तस्यां शिंशपपालाशास्तथा काशकुशादयः॥३२॥
उपासते धर्मराजं मूर्तिमन्तो जनाधिप
।
एते चान्ये च बहवः पितृराजसभासदः
।
न शक्याः परिसङ्ख्यातुं नामभिः कर्मभिस्तथा॥३३॥
असम्बाधा हि सा पार्थ रम्या कामगमा सभा
।
दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा॥३४॥
असंबांधाम् असंकीर्णा ॥३४॥
ज्वलन्ती भासमाना च तेजसा स्वेन भारत
।
तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः॥३५॥
शान्ताः सन्यासिनः शुद्धाः पूताः पुण्येन कर्मणा
।
सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः॥३६॥
संन्यासिनः निष्कामकर्मकर्तारः काम्यानां कर्मणां त्यागिनो वा । पूर्वेषामपि आपस्तम्बेन तद्यथाम्रे फलार्थं निर्मिते छायागन्ध इत्यनुत्पद्येते। एवं धर्मं चर्यमाणमर्था अनुत्पद्यन्ते' इति आनुषङ्गिकफलभागित्वदर्शनात् । निर्मिते रोपिते । अर्था दिव्यान्नपानादयः ॥३६॥
चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः
।
सुकृतैः कर्मभिः पुण्यैः पारिबर्हैश्च भूषिताः॥३७॥
गन्धर्वाश्च महात्मानः सङ्घशश्चाप्सरोगणाः
।
वादित्रं नृत्यगीतं च हास्यं लास्यं च सर्वशः॥३८॥
पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः
।
दिव्यानि चैव माल्यानि उपतिष्ठन्ति नित्यशः॥३९॥
शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम्
।
उपासते महात्मानं रूपयुक्ता मनस्विनः॥४०॥
ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः
।
वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम्॥४१॥
पुष्करैर्मूर्तिमद्भिस्तीर्थविशेषैः मालिनीं शोभिनीम् ॥४१॥
॥ इति श्रीमहाभारते सभापर्वणि लोकपालसभाख्यानपर्वणि यमसभावर्णनं नामाष्टमोऽध्यायः॥८॥
नारद उवाच।
पितामहसभां तात कथ्यमानां निबोध मे
।
शक्यते या न निर्देष्टुमेवंरूपेति भारत॥१॥
पितामहेति ॥१॥
पुरा देवयुगे राजन्नादित्यो भगवान्दिवः
।
आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः॥२॥
देवयुगे कृतयुगे ॥२॥
चरन्मानुषरूपेण सभां दृष्ट्वा स्वयम्भुवः
।
स तामकथयन्मह्यं दृष्ट्वा तत्त्वेन पाण्डव॥३॥
अप्रमेयां सभां दिव्यां मानसीं भरतर्षभ
।
अनिर्देश्यां प्रभावेण सर्वभूतमनोरमाम्॥४॥
मानसीमित्यनेन भौतिकत्वव्यावृत्तिः तथाहि । ‘आतिवाहिक एवायं त्वादृशैश्चित्तदेहकः । आधिभौतिकया बुद्ध्या गृहीतश्चिरभावनात्’ इति वासिष्ठोक्तरीत्या प्रपञ्चस्य त्रैविध्यं दृश्यते । तत्रायं स्थूलभूतमय आधिभौतिकः । सूक्ष्मभूतमय आतिवाहिकः स एव अति अत्यन्तं कार्याकारं वोढुं समर्थोऽतिवाही सूक्ष्मभूतसंघस्तेन निर्वृत्त इति योगात् । अत एव तत्र इन्द्रादिलोकरूपे स्वर्गे । ‘यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम्’ इति स्वर्गपदनिर्वचनं संगच्छते । संभिन्नं मिश्रं ग्रस्तं भोगोत्तरपापावहम् । अभिलाषः संकल्पः तत्राप्याधिभौतिकस्य तत्त्वं आतिवाहिकः रज्जुरिव भुजङ्गस्य । अस्यापि तत्त्वं चित्तमेव । तदिदमुक्तं चित्तदेहक इति । तादृशी च प्रजापतिसभाऽतो मानसत्वं तत्र युक्तम् ॥४॥
श्रुत्वा गुणानहं तस्याः सभायाः पाण्डवर्षभ
।
दर्शनेप्सुस्तथा राजन्नादित्यमिदमब्रुवम्॥५॥
भगवन्द्रष्टुमिच्छामि पितामहसभां शुभाम्
।
येन वा तपसा शक्या कर्मणा वाऽपि गोपते॥६॥
औषधैर्या तथा युक्तैरुत्तमा पापनाशिनी
।
तन्ममाचक्ष्व भगवन्पश्येयं तां सभां यथा॥७॥
औषधैः ज्योतिष्मत्यादिभिः कल्पोक्तप्रकारेण साधितैः ॥७॥
स तन्मम वचः श्रुत्वा सहस्रांशुर्दिवाकरः
।
प्रोवाच भारतश्रेष्ठ व्रतं वर्षसहस्रकम्॥८॥
ब्रह्मव्रतमुपास्स्व त्वं प्रयतेनान्तरात्मना
।
ततोऽहं हिमवत्पृष्ठे समारब्धो महाव्रतम्॥९॥
ब्रह्मव्रतं हार्दब्रह्मोपासनाम् ॥९॥
ततः स भगवान्सूर्यो मामुपादाय वीर्यवान्
।
आगच्छत्तां सभां ब्राह्मीं विपाप्मा विगतक्लमः ॥१०॥
ततः स इति । सूर्यद्वारेण ते विरजाः प्रयान्तीति ब्रह्मसभाप्रवेशेऽधिदैवं प्रत्यक्षसूर्यस्यैव द्वारत्वम् अध्यात्मं तु इडाख्यसूर्यनाडीद्वारा ॥१०॥
एवंरूपेति सा शक्या न निर्देष्टुं नराधिप
।
क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा॥११॥
एवमिति मानसत्वादेव रज्जूरगवत्सत्यसती वेति निर्वक्तुं न शक्या क्षणेनेति रज्जुर्यथा भावकबुद्ध्यनुरोधात् स्रक्सर्पदण्डधारादिरूपा तथेयमपि वैकुण्ठकैलासादिरूपेण भातीत्यर्थः ॥११॥
न वेद परिमाणं वा संस्थानं चापि भारत
।
न च रूपं मया तादृक् दृष्टपूर्वं कदाचन॥१२॥
सुसुखा सा सदा राजन्न शीता न च घर्मदा
।
न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्तुवन्त्युत ॥१३॥
नानारूपैरिव कृता मणिभिः सा सुभास्वरैः
।
स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा ॥
दिव्यैर्नानाविधैर्भावैर्भासद्भिरमितप्रभैः॥१५॥
अतिचन्द्रं च सूर्यं च शिखिनं च स्वयम्प्रभा
।
दीप्यते नाकपृष्ठस्था भर्त्सयन्तीव भास्करम्॥१६॥
अतिचन्द्रमिति । स्वयमित्यव्ययं स्वयमहं करोमि स्वयं त्वं करोषि स स्वयंकृतवानित्यादिप्रयोगादव्याकृतप्रत्यगात्मवाचकम् । स एव प्रभा प्रकाशकं ज्योतिर्यस्यां सा स्वयंप्रभा । जागरे हि सूर्यादीनां घटादिप्रकाशकत्वं दृष्टं तदात्मन एवेति साधयितुं सूर्याद्यभावकाले स्वप्नं प्रकृत्यात्रायं पुरुषः स्वयंज्योतिरिति श्रुत्या साटोपमुक्तम् ॥१६॥
तस्यां स भगवानास्ते विदधद्देवमायया
।
स्वयमेकोनिशं राजन्सर्वलोकपितामहः॥१७॥
तस्यामिति । सः महत्तत्वाभिमानी सूक्ष्ममन आख्यः यं प्रकृत्य स्मर्यते ‘मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः । प्रज्ञा संवित् चितिश्चैव स्मृतिश्च परिपठ्यते’ इति अत एव भगवान्सर्वैश्वर्यवान् देवमायया स्वाविद्यया विदधल्लोकानिति शेषः। विदधद्देवमानुषानिति पाठेऽपि स्वाविद्ययेत्यध्याहार्यम् । एकोनिशं सत्स्वपि स्वसृष्टेषु पदार्थेषु ऐन्द्रजालिकवदेक एवेत्यर्थः ॥१७॥
उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम्
।
दक्षः प्रचेताः पुलहो मरीचिः कश्यपः प्रभुः॥१८॥
एकस्यैव विद्यैकव्यंग्यं सार्वात्म्यम् ‘अहं मनुरभवं सूर्यश्च’ इत्यादिश्रुतिप्रसिद्धं प्रपञ्चयति उपतिष्ठन्तीत्यादिनाऽध्यायशेषेण ॥१८॥
भृगुरत्रिर्वसिष्ठश्च गौतमोऽथ तथाङ्गिराः
।
पुलस्त्यश्च कतुश्चैव प्रह्लादः कर्दमस्तथा॥१९॥
अथर्वाङ्गिरसश्चैव वालखिल्या मरीचिपाः
।
मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही॥२०॥
शब्दस्पर्शौ तथा रूपं रसो गन्धश्च भारत
।
प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः॥२१॥
यच्चान्यत् कालादृष्टादि ॥२१॥
अगस्त्यश्च महातेजा मार्कण्डेयश्च वीर्यवान्
।
जमदग्निर्भरद्वाजः संवर्तश्च्यवनस्तथा॥२२॥
दुर्वासाश्च महाभाग ऋष्यशृङ्गश्च धार्मिकः
।
सनत्कुमारो भगवान्योगाचार्यो महातपाः॥२३॥
असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित्
।
ऋषभो जितशत्रुश्च महावीर्यस्तथा मणिः॥२४॥
आयुर्वेदस्तथाष्टाङ्गो देहवांस्तत्र भारत
।
चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान्॥२५॥
वायवः क्रतवश्चैव सङ्कल्पः प्राण एव च
।
मूर्तिमन्तो महात्मानो महाव्रतपरायणाः॥२६॥
एते चान्ये च बहवो ब्रह्माणं समुपस्थिताः
।
अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः॥२७॥
आयान्ति तस्यां सहिता गन्धर्वाप्सरसां गणाः
।
विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः॥२८॥
सप्त चैवान्ये इति सप्तविंशतिर्नक्षत्राणीत्येके अन्ये तु विंशतिर्गन्धर्वाप्सरसां गणाः सप्त चान्ये गन्धर्वा मुख्याः ते च । ‘हंसो हाहाहुहूर्विश्वावसुर्वररुचिस्तथा । वृषणस्तुम्बुरुश्चैव गन्धर्वाः सप्त कीर्तिताः’ इति ॥२८॥
शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च
।
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च॥२९॥
मन्त्रो रथन्तरं चैव हरिमान्वसुमानपि
।
आदित्याः साधिराजानो नामद्वन्द्वैरुदाहृताः॥३०॥
मन्त्रः सामगानाश्रयभूतोऽग्न आयाहीत्यादिः रथंतरं सामविशेषः हरिमान्वसुमानिति कर्मविशेषयोरिन्द्रनामनी साधिराजानः सेन्द्राः नामद्वन्द्वैः अग्नीषोमेन्द्राग्न्यादिभिः ॥३०॥
मरुतो विश्वकर्मा च वसवश्चैव भारत
।
तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ॥३१॥
हवींषि व्रीहिपश्वादिजीवाः ॥३१॥
ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव
।
अथर्ववेदश्च तथा सर्वशास्त्राणि चैव ह॥३२॥
इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः
।
ग्रहा यज्ञाश्च सोमश्च देवताश्चापि सर्वशः॥३३॥
उपवेदाः ‘आयुर्वेदो धनुर्वेदो गान्धर्वश्चार्थशास्त्रकम्’ इति अङ्गानि शिक्षादीनि ॥३३॥
सावित्री दुर्गतरणी वाणी सप्तविधा तथा
।
मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा॥३४॥
दुर्गतरणी वाणी प्रणवः सा च सप्तविधा अकार उकारो मकारः अर्धमात्रानादः बिन्दुः शक्तिरिति सप्तप्रकाराः शान्तरूपाधिष्ठानप्रापका इत्यर्थः । संस्कृतप्राकृतपैशाच्यपभ्रंशललितमागधगद्यरूपा इत्यन्ये ॥३४॥
सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा
।
भाष्याणि तर्कयुक्तानि देहवन्ति विशांपते॥३५॥
नाटका विविधाः काव्याः कथाख्यायिककारिकाः
।
तत्र तिष्ठन्ति ते पुण्या ये चान्ये गुरुपूजकाः॥३६॥
क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च
।
अर्धमासाश्च मासाश्च ऋतवः षट् च भारत॥३७॥
संवत्सराः पञ्चयुगमहोरात्रश्चतुर्विधः
।
कालचक्रं च तद्दिव्यं नित्यमक्षयमव्ययम्॥३८॥
संवत्संराः षष्टिः प्रभवादयः ते च पञ्च पञ्च एकैकं युगम् । चतुर्विधः मानुषोऽहोरात्र षष्टिघटिकाभिः । पैत्रो मासेन दैवो वत्सरेण ब्राह्मः कल्पनेति कालचक्रं द्वादशराश्यात्मकम् ॥३८॥
धर्मचक्रं तथा चापि नित्यमास्ते युधिष्ठिर
।
अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा॥३९॥
कालिका सुरभी देवी सरमा चाथ गौतमी
।
प्रभा कद्रूश्च वै देव्यौ देवतानां च मातरः
।
रुद्राणी श्रीश्च लक्ष्मीश्च भद्रा षष्ठी तथाऽपरा॥४१॥
पृथिवी गां गता देवी ह्रीः स्वाहा कीर्तिरेव च
।
सुरा देवी शची चैव तथा पुष्टिररुन्धती॥४२॥
संवृत्तिराशा नियतिः सृष्टिर्देवी रतिस्तथा
।
एताश्चान्याश्च वै देव्य उपतस्थुः प्रजापतिम्॥४३॥
आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि
।
विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः॥४४॥
पितॄणां च गणान्विद्धि सप्तैव पुरुषर्षभ
।
मूर्तिमन्तो वै चत्वारस्त्रयश्चापि शरीरिणः॥४५॥
वैराजश्च महाभागा अग्निष्वात्ताश्च भारत
।
गार्हपत्या नाकचराः पितरो लोकविश्रुताः॥४६॥
वैराजाः विराट्प्रभवाः सप्तपितृणा अग्निष्वात्तादयः ॥४६॥
सोमपा एकशृङ्गाश्च चतुर्वेदाः कलास्तथा
।
एते चतुर्षु वर्णेषु पूज्यन्ते पितरो नृप॥४७॥
एतैराप्यायितैः पुर्वं सोमश्चाप्याय्यते पुनः
।
त एते पितरः सर्वे प्रजापतिमुपस्थिताः॥४८॥
उपासते च संहृष्टा ब्रह्माणममितौजसम्
।
राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा॥४९॥
नागाः सुपर्णाः पशवः पितामहमुपासते
।
स्थावरा जङ्गमाश्चैव महाभूतास्तथाऽपरे॥५०॥
पुरन्दरश्च देवेन्द्रो वरुणो धनदो यमः
।
महादेवः सहोमोऽत्र सदा गच्छति सर्वशः॥५१॥
महादेव ईश्वरोऽपि सहोमो ब्रह्मविद्यासहितस्तत्रैवान्तर्भूतः ॥५१॥
नारायणश्च विद्याप्राप्यः शुद्ध आत्मापि तत्रैव प्राप्यत इत्यर्थः ॥५१॥
महासेनश्च राजेन्द्र सदोपास्ते पितामहम्
।
देवो नारायणस्तस्यां तथा देवर्षयश्च ये॥५२॥
ऋषयो वालखिल्याश्च योनिजाऽयोनिजास्तथा
।
यच्च किञ्चित्रिलोकेऽस्मिन्दृश्यते स्थाणु जङ्गमम्
।
सर्वं तस्यां मया दृष्टमिति विद्धि नराधिप॥५३॥
एकस्यापिसार्वात्म्यमुक्तम् उपसंहरति यच्चेति ॥५३॥
अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम्
।
प्रजावतां च पञ्चाशदृषीणामपि पाण्डव॥५४॥
तत्प्राप्त्यधिकारिण आह अष्टाशीतीति ॥५४॥
ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः
।
प्रणम्य शिरसा तस्मै सर्वे यान्ति यथागमम्॥५५॥
ते स्म तत्रेत्यादिना यत्कौषीतकीये श्रुतं पर्यङ्कस्थं ब्रह्म तेन सह संवादादिक च तदुपबृंहयति॥५५॥
अतिथीनागतान्देवान्दैत्यान्नागांस्तथा द्विजान्
।
यक्षान्सुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा॥५६॥
महाभागानमितधीर्ब्रह्मा लोकपितामहः
।
दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते॥५७॥
प्रतिगृह्य तु विश्वात्मा स्वयम्भूरमितद्युतिः
।
सान्त्वमानार्थसम्भोगैर्युनक्ति मनुजाधिप॥५८॥
तथा तैरुपयातैश्च प्रतियद्भिश्च भारत
।
आकुला सा सभा तात भवति स्म सुखप्रदा॥५९॥
सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता
।
ब्राहया श्रिया दीप्यमाना शुशुभे विगतक्लमा॥६०॥
ब्राह्म्या श्रिया शमो दमस्तपः शौचमित्यादिना प्रसिद्धया शमादिसंपत्त्या ॥६०॥
सा सभा तादृशी दृष्टा मया लोकेषु दुर्लभा
।
सभेयं राजशार्दूल मनुष्येषु यथा तव॥६१॥
एता मया दृष्टपूर्वाः सभा देवेषु भारत
।
सभेयं मानुषे लोके सर्वश्रेष्ठतमा तव॥६२॥
॥ इति श्रीमहाभारते सभापर्वणि लोकपालसभाख्यानपर्वणि ब्रह्मसभावर्णनं नाम एकादशोऽध्यायः॥ ११॥