सभाक्रियापर्व - १लोकपालसभाख्यानपर्व - २राजसूयारम्भपर्व - ३जरासन्धवधपर्वः - ४दिग्विजयपर्व - ५राजसूयपर्व - ६अर्घ्याभिहरणपर्व - ७शिशुपालवधपर्व - ८द्यूतपर्व - ९अनुद्यूतपर्व - १०

लोकपालसभाख्यानपर्व

पञ्चमोऽध्यायः

वैशम्पायन उवाच। अथ तत्रोपविष्टेषु पाण्डवेषु महात्मसु ।
महत्सु चोपविष्टेषु गन्धर्वेषु च भारत॥१॥

अथ तत्रोपविष्टेष्विति । अत्र नारदो युधिष्ठिरं प्रश्नमुखेन राजधर्माननुशास्ति ॥१॥

वेदोपनिषदां वेत्ता ऋषिः सुरगणार्चितः ।
इतिहासपुराणज्ञः पुराकल्पविशेषवित्॥२॥

तत्र शास्तुः स्वरूपं तावत् व्याचष्टे । अस्यापि कणिकतुल्यता माभूदिति वेदोपनिषदां वेत्तेति । वेदाः ऋग्यजुःसामाथर्वाणः। उपनिषदो रहस्यविद्याश्चतुर्विधाः । तत्र कर्माङ्गावबद्धोपासनम् ‘उषा वा अश्वस्य मेध्यस्य शिरः’ इत्यादि शास्त्रविहितं कर्माङ्गेष्वश्वादिषु विराड्दृष्टिकरणम् । प्रतीकोपासनम् ‘अन्नं ब्रह्मेत्युपासीत आदित्यो ब्रह्मेत्यादेशः’ इत्यादित्यादिमूर्तिषु ब्रह्मदृष्टिकरणम् । अहंग्रहोपासनं ‘त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि’ इति व्यतिहारेणात्मनो देवतायाश्चाभेदचिन्तनं ज्ञानं ब्रह्मात्मानुभवः । वेदानां कर्मप्रतिपादकानां तदन्तर्गतानामुपनिषदां च वेत्ता पाठतोऽर्थतश्च ज्ञाता । अतः एव ऋषिः गन्ता फलं प्रति वेदोक्तकृत्स्नफलभागी । कृतानुष्ठानत्वात् । अत एव सुरगणार्चितः इतिहासपुराणे प्रश्चिद्धे पुराकल्पः बहुकर्तृकमन्वाख्यानं ‘देवासुरा संयता आसन्’ इत्यादिकं वेदोक्तम् विशेषः एककर्तृकमन्वाख्यानं परिकृत्याख्यं ‘हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजाऽपुत्र आस’ इत्यादि तस्य योगबलात् प्रत्यक्षदर्शी ॥२॥

न्यायविद्धर्मतत्त्वज्ञः षडङ्गविदनुत्तमः ।
ऐक्यसंयोगनानात्वसमवायविशारदः॥३॥

न्यायः पञ्चाङ्गमधिकरणम् यथा ‘विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम्। संगतिश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं विदुः’ अत्र यूपस्य स्वरुं करोतीति वाक्यं विषयः । तत्र षष्ठी यूपसंबन्धीतिकर्तव्यतालक्षणार्था । उत यूपावयवलक्षणार्थेति संदेहो विशयः । एतावेव पूर्वोत्तरपक्षौ ज्ञेयौ । कल्पनालाघवानुप्रहादुत्तरः सिद्धान्तः । फलम् अनुष्ठानभेदः । पूर्वपक्षे तक्षणाष्टास्त्रीकरणादिना काष्ठान्तरं यूपसदृशं निर्मातव्यम् । सिद्धान्ते एकदेशस्य पृथक्करणमात्रमिति । इदमेव पञ्चकं मोक्षधर्मेषूक्तम्। ‘सूक्ष्मं सांख्यं क्रमौ चोभौ निर्णयः सप्रयोजनः । पञ्चैतान्यनुजानीहि वाक्यमित्युच्यते बुधैः’॥ इति सूक्ष्मं गहनार्थत्वाद्विषयः। सांख्यम् एवमेवं वेति विचारः । क्रमः अतिक्रमः । सिद्धान्तस्य पूर्वपक्ष इत्यर्थः । निर्णयः सिद्धान्तः । प्रयोजनं फलमिति वाक्यं वाक्यार्थनिर्णयोपायः । एवं पूर्वोत्तरमीमांसाधिकरणानि न्यायः तद्वित् । धर्मज्ञः मन्वादिप्रणीतशास्त्रतत्त्वज्ञः । षडङ्गवित् । शिक्षा कल्पो व्याकरणं छंदोविचितिर्निरुक्तं ज्योतिषमिति षड्वेदाङ्गानि । अनुत्तमः अत्युत्कृष्टः । ऐक्यसंयोगनानात्वसमवायविशारदः । ऐक्यादित्रयं सर्वेष्वपि शास्त्रेषु समानम् । यथा मीमांसायां समिधो यजतीत्यादि प्रयाजाद्यङ्गवाक्यानां दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति महावाक्येनैकवाक्यत्वमैक्यम् । संयोगनानात्वं संयोगपृथक्त्वम् । यथा दध्ना जुहोतीति वाक्यान्नित्यमपि दधि दध्नेन्द्रियकामस्येति वाक्यान्तरेणेन्द्रियार्थमीप पृथग्विधीयते तेन द्वयमपि युगपद्द‌ध्ना साध्यत इति । समवायः एकस्मिन्कर्मण्यनेकेषां धर्माणां संनिपातः । यथा इष्टिपशुसोमात्मके राजसूये इष्ट्यादीनां दर्शादित्रिकद्वयस्येव साक्षात्परमापूर्वजनकत्वे उपनिपातः न त्वङ्गानामिव परंपरया परमापूर्वोपकारकत्वम्। यद्वा तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा अनाशकेन' इति आत्मविविदिषोत्पादकापूर्वे वेदानुवचनादीनामेककार्यकारित्वलक्षणमैक्यम्। नन्वेककर्माङ्गत्वाभावे कथमेषामैक्यम् अत आह। संयोगनानात्वेति । स्वस्ववाक्योत्पन्नानां पृथक्फलानामप्येषां संयोग पृथक्त्वन्यायेन विविदिषार्थत्वमपि युक्तमेवेत्यर्थः । नन्वेषां समुच्चितानामेककार्यकारित्वे समुच्चयासंभवः । राजसूयादीनां ब्राह्मणाद्यनुपयोगित्वात् । प्रत्येकं चेदितरवैयर्थ्यमित्याशंक्याह समवायविशारद इति । समवायः यथाधिकारं कर्मसंबन्धः । अयमर्थः ब्राह्मणादीनां राजसूयादिष्वनधिकारान्न तत्प्राप्तिः । विविदिषायाः पापनिवृत्तिफलकैर्नित्यैरेवोत्पत्तेर्न तदर्थं फलतो निषिद्धानां श्येनादीनां प्राप्तिः । अत एव हेतुद्वयात्पवित्रेष्ट्यादिकं काम्यमपि न निवार्यते। नित्यानामपि न सर्वेषां समुच्चयः । विविदिषाख्यदृष्टफलकत्वात् । तस्मान्न सर्वकर्मसमुच्चयो नापीतरवैयर्थ्यमिति । एवंरूप एव समुच्चयोऽत्र समवायशब्दार्थः । अस्मिंस्त्रये विशारदः विवेकसमर्थः । यद्वा ऐक्यं साधर्म्यात्पृथिव्यादीनां द्रव्यत्वेन रूपेण । संयोगनानात्वम् असाधारणधर्मसंबन्धः तेन पृथिवीत्वजलत्वादिरूपेण भेदोऽपि । समवायः शरीरे पञ्चानामपि भूतानां मेलकः एतेषां तत्त्वं साधर्म्यं वैधर्म्यं संकरं च ज्ञातुं कुशल इत्यर्थः ॥३॥

वक्ता प्रगल्भो मेधावी स्मृतिमान्नयवित्कविः ।
परापरविभागज्ञः प्रमाणकृतनिश्चयः॥४॥

न केवलं ज्ञातुमेव कुशलः किं तु वक्तुमित्याह । वक्तेति । वक्तापि समानाधिकरण एवेत्याह प्रगल्भ इति । असंबद्धप्रलापी नेत्यर्थः । यतः मेधावी ऊहापोहकुशलः । तादृशोपि स्मृतिमान्। अधीतं न नाशितवानित्यर्थः । नयवित् दायविभागादिव्यवहारवित् । कविः अनागतदर्शी । परापरविभागज्ञः परापरयोर्शानकाण्डकर्मकाण्डयोः विभागः यथायोग्यं शिष्येषु विभजनं तज्ज्ञः । यतः प्रमाणकृतनिश्चयः प्रमाणं प्रत्यक्षानुमानागमादि। तच्च द्विविधं लौकिकमलौकिकं च। आद्यं घटवह्निस्वर्गादिविषयम्। द्वितीयं निर्विशेषात्मवस्तुतत्त्वविषयम् । तथा हि अहंकारादिकमात्मनि सुषुप्त्यादावदृष्टत्वान्मिथ्येति तत्र प्रत्यक्षं सुप्तौ निर्विशेषत्वम्। तथा द्रष्टृदृश्यौ एकोपादानकौ भास्यभासकत्वात् श्रोत्रशब्दवत् भास्यभासकौ च दृश्यद्रष्टारौ तस्मादेकोपादानकौ यौ न तथा तौ नैकोपादानकौ यथा शब्दघ्राणाविति व्यतिरेकतो वा साध्यसिद्धौ सत्याम् उपादानोपादेययोरभेदादृङ्मात्रवस्तुतत्वमिति सिद्ध्यति । अनुमानादप्यात्मनो निर्विशेषत्वं घटज्ञानं पटज्ञानमिति दृशिविशेषदर्शनानुभवस्य घटाकाशादिवदौपाधिकत्वात् । तथागमोऽपि आत्मनो निर्विशेषत्वे प्रसिद्धः ‘अस्थूलमनणु निर्गुणं निष्क्रियम्’ इत्यादिः ॥४॥

पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ।
उत्तरोत्तरवक्ता च वदतोपि बृहस्पतेः॥५॥

नन्वनुमानबलात् चन्द्रप्रादेशिकत्वप्रत्यक्षं यजमानः प्रस्तर इत्यादिरागमश्च शिथिलीक्रियते । अनुमानमपि नरशिरःकपालं शुचि प्राण्यङ्गत्वात् शङ्खवदित्यादिकं ‘नारं स्पृष्ट्वास्थि सस्नेहं सवासा जलमाविशेत्’ इत्यागमेन तथा च सर्वमपि प्रमाणं सदोषमतस्तत्र कृतनिश्चयत्वं दूरापेतमित्याशंक्याह । पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् । तत्र परं बोधयितुं प्रवृत्तस्यानुमानवाक्ये प्रतिज्ञादयः पञ्चावयवाः । तत्र पर्वतो वह्निमानिति प्रतिज्ञा । धूमादिति हेतुः । यथा महानस इति दृष्टान्त उदाहरणम् । धूमवांश्चायं इत्युपनयः । तस्माद्वह्निमानिति निगमनम् । अस्मिन्वाक्ये गुणोनुकूलतर्कः यदि वह्निमान्न स्यात्तर्हि धूमवानपि न स्यात् । दोषः ह्रदो वह्निमानित्यादविवाश्रयासिद्धिप्रभृतिः । तावुभौ वेत्तीति तथा। तथा चानुमानं प्रत्यक्षागमौ शिथिलीकरोतु व्रीहिमसूरादौ शुचित्वाशुचित्वविभागस्य शास्त्रैकगम्यत्वात् । तत्रानुकूलतकर्काभाव एवानुमानबाधको न त्वागम इति स्थितम्। तथा च लौकिकप्रमाणाधिकारिणे अपरं कर्मकाण्डमेव विभजते इतरस्य इतरदिति विवेकः ॥५॥

धर्मकामार्थमोक्षेषु यथावत्कृतनिश्चयः ।
तथा भुवनकोशस्य सर्वस्यास्य महामतिः॥६॥

यथावत्कृतनिश्चयः। लौकिकानां प्रमाणानां प्रामाण्यमादाय धर्मार्थकामानां पुरुषार्थत्वनिश्वयः । इतरेषां प्रामाण्यमुरजीव्यमप्युपस्पृद्य मोक्षरसस्य पुरुषार्थत्वनिश्चयः । तदा लौकिकप्रमाणबाधात्। वेदा अवेदा इति श्रुतेः । ‘लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात्’ इत्यभियुक्तोक्तेश्च । आत्मनिश्वयादर्वागेवेति शेषः आ आत्मनिश्चयादिति वा छेदः । महामतिः आत्मज्ञः । ‘आत्मनो वा अरे दर्शनेन मत्या विज्ञानेनेदं सर्वं विदितम्’ इति तस्यैव सार्वज्ञ्यश्रुतेः ॥६॥

प्रत्यक्षदर्शी लोकस्य तिर्यगूर्ध्वमधस्तथा ।
साङ्ख्ययोगविभागज्ञो निर्विवित्सुः सुरासुरान्॥७॥

सांख्ययोगविभागज्ञः । सांख्यं वेदान्तविचारः । योगश्चित्तवृत्तिनिरोधः अनयोर्विभागः। उपयोगः । तत्र श्रवणात्मको वाक्यार्थविचारः प्रमाणगतासंभावनानिवृत्युपयोगी । मननाख्यः श्रुतस्यार्थस्य तर्केणानुसन्धानरूपोविचारः प्रमेयगता संभावना निवृत्युपयोगी । अद्वैतमेव वेदो वदति युक्तियुक्तं चैतदेवेति सांख्यविभागः । निदिध्यासनापरपर्यायो योगः अनात्मसु देहादिष्वात्मप्रत्ययरूपां विपरीतभावनां निवर्त्य ज्ञातृज्ञानज्ञेयामाववन्तं दृङ्मात्रप्रत्ययं गोचरयतीति योगविभागः। ये तु ‘द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव । योगो वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम्’ इति वासिष्ठवचनमुदाहृत्य चित्तनाशाख्यात्मदर्शनस्य द्वावुपायाविति वद‌न्ति । ‘तेषां तमेव विदित्वातिसृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ इति श्रुतिविरोधः । संवादिभ्रमवद्योगोऽपि ज्ञानं जनयित्वैव फलदः इति चेत्तस्योपसर्जनत्वं कर्मणामिव स्यात्तथा च नोपायान्तरं योग इत्यापतति । वासिष्ठवाक्यं तु क्रमभेदमाह न तूपायभेदम् । तथा च कृतोपास्तेर्योग उपसर्जनं वाक्यार्थसंभवं ज्ञानं प्रधानम्। अकृतोपास्तेस्तु ज्ञानमुपसर्जनं योगः प्रधानम्। यथा दृष्टगोपिण्डस्यापि अगृहीतशब्दार्थसंगतिकस्य इयं गौरिति वाक्यमेव गवाज्ञाननुत् न चक्षुस्तेन विषयीकृतेऽपि गोपिण्डे गोबुभुत्सानुवृत्तेः। एवं साक्षात्कृतत्वं पदार्थस्यापि तत्त्वमसीति वाक्यमेव संसारानर्थमूलब्रह्माज्ञानस्य निवर्तकं न मनः तेन दृष्टेऽपि त्वमर्थे ब्रह्माज्ञानानुवृत्तिदर्शनात्। एवं सास्वादिमती गौरिति लक्षणतो ज्ञातगोपदार्थस्यापि गोपिण्डदर्शनमेव गोबुभुत्सानिवर्तकं न तु वाक्यम् । तथा श्रणादिना ज्ञातव्रह्मपदार्थस्यापि योगादेव दर्शनं न तु वाक्यात् तेन तं त्वौपनिषदं पुरुषं पृच्छामीति मनसैवानुद्रष्टव्यमिति च शब्दमनसोः ज्ञानकरणत्वानुवादकश्रुत्योर्व्यवस्था सिद्ध्यति । तदिदमुक्तं सांख्ययोगविभागज्ञ इति । विभागो हि द्वयोः समुच्चित्यैककार्यकारित्वे सति संभवति न तु व्रीहियववद्विकल्पैककार्यकारित्वे इत्यास्तां तावत् । ‘सांख्ययोगौ पृथग्बालाः प्रवदान्त न पण्डिताः’ इत्यत्र प्रपञ्चयिष्यमाणत्वात् । एवं व्राह्न्या विद्यया संपन्नत्वमुक्त्वा राजयोगविद्यान्तरसंपत्तिमप्याह । निर्विचित्सुः सुरासुरानित्यादिना । निर्विवित्सुः विवित्सुर्विचारं कर्तुमिच्छुः निर्विवित्सुस्तद्विरोधी उभयेषां धीप्रमोषणेन कलहप्रवर्तकः । यद्वा निर्वेदो युद्धादुपरतिस्तं कर्तुमिच्छुः लोकनाशभयादित्यर्थः। एतेन भेदाभिज्ञत्वमुक्तम् ॥७॥

सन्धिविग्रहतत्त्वज्ञस्त्वनुमानविभागवित् ।
षाङ्गुण्यविधियुक्तश्च सर्वशास्त्रविशारदः॥८॥

सन्धिः साम विग्रहो निग्रहो दण्ड इत्यर्थः । अनुमानविभागवित् । स्वपरशक्तिबलाबलेऽनुमानतो निश्चित्य विभागं विभजनं परामात्यादिभ्यो धनप्रदानं तद्वित्। अनुमाय विभागविदिति गौडाः पठन्ति । एवं च नीतिशास्त्रप्रसिद्धोपायचतुष्टयाभिज्ञत्वम् उक्तम् । पाड्गुण्यविधियुक्तश्च षड्गुणाः संधिविग्रहयानासनद्वैधीभावसमाश्रयाख्याः त एव षाड्गुण्यम् । स्वार्थे ष्यञ् । तस्य विधिः अज्ञातज्ञापनं तेन युक्तः। सर्वदा विजिगीषुभ्यः षाड्गुण्यादिकमुपदिशति स्वस्य निःशत्रुत्वेप्याधिकारिकत्वात् । तत्र संधिविग्रहौ प्रत्येकं द्विविधौ । प्रबलदुर्बलयोर्विजिगीषावतोः समभूमौ युद्धप्रसंगे आद्यो विग्रहमिच्छति दण्डेनैव । परः संधिमिच्छति दानेनेति । तयोरेव दुर्बलोऽभेद्यदुर्गाश्रितश्चेद्बलवतापि सह देशोल्लुण्ठनादिना विग्रहमिच्छति । इतरस्तु तेन सहाल्पकरग्रहेणापि संधिमेवेच्छति । तथा च दुर्बलद्वारकौ सन्धिविग्रहावन्यौ प्रवलद्वारकावन्यौ । तदिदमुक्तं रामायणे ‘द्वियोनी संधिविग्रहौ’ इति तत्र प्रबलयोनिर्विग्रहः यानासनयोः प्रयोजकः । दुर्बलयोनिः संधिर्द्वैधीभावसमाश्रययोः । तथोक्तं कामन्दकीये। ‘संधेश्च विग्रहस्यापि द्वैगुण्यं संप्रचक्षते । यानासने विग्रहस्य रूपं संधेः परं द्वयम्’ इति । द्वौ गुणभूतौ यस्य सः द्विगुणः। स च स च तौ तयोर्भावो द्वैगुण्यं तत्र यानं विजिगीषोररिं प्रति यात्रा । आसनं कदाचिच्छक्तिप्रतिबन्धे च तत्रैव शत्रोदुर्गमावेष्ट्य तत्र घान्यादिप्रवेशनं प्रतिबध्नतावस्थानम् । बलवता विग्रहे बलवत्तरेण तच्छत्रुणा संधिं कृत्वा उभयत्र दासोस्मीति वाचैवात्मसमर्पणं कर्तव्यं न कर्मणेति स द्वैधीभावः । यथोक्तं तत्रैव ‘बलिनोर्द्विषतोर्मध्ये वाचात्मानं समर्पयन् । द्वैधीभावेन वर्तेत काकाक्षिवदलक्षित’ इति । अरिणा पीड्यमानस्य बलबद्दुर्गभूपालाद्याश्रयणं समाश्रयः। एवं चोपायान्तर्गतौ संधिविग्रहावन्यौ षाड्गुण्यान्तर्गतौ चान्याविति न पुनरुक्तिः ॥८॥

युद्धगान्धर्वसेवी च सर्वत्राप्रतिघस्तथा ।
एतैश्चान्यैश्च बहुभिर्युक्तो गुणगणैर्मुनिः॥९॥

युद्धगान्धर्वसेवी तदुभयप्रिय इत्यर्थः । सर्वत्र सर्वासु विद्यासु सर्वेषु कर्मसु च अप्रतिघः अप्रतिहतः पूर्णशक्तित्वात् । अन्यैः असंगत्वकारुण्यादिभिः मुनिः आत्मतत्त्वानुसंधानवान् ॥९॥

लोकाननुचरन्सर्वानागमत्तां सभां नृप ।
नारदः सुमहातेजा ऋषिभिः सहितस्तदा॥१०॥

आगमत् आगतवान् ॥१०॥

पारिजातेन राजेन्द्र पर्वतेन च धीमता ।
सुमुखेन च सौम्येन देवर्षिरमितद्युतिः॥११॥

सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः ।
जयाशीर्भिस्तु तं विप्रो धर्मराजानमार्चयत्॥१२॥

आर्चयत् पूजितवान् ॥१२॥

तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित् ।
सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह॥१३॥

अभ्यवादयत प्रीत्या विनयावनतस्तदा ।
तदर्हमासनं तस्मै सम्प्रदाय यथाविधि॥१४॥

गां चैव मधुपर्कं च सम्प्रदायार्घ्यमेव च ।
अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित्॥१५॥

तुतोष च यथावच्च पूजां प्राप्य युधिष्ठिरात् ।
सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः ।
धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम्॥१६॥

नारद उवाच। कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः ।
सुखानि चानुभूयन्ते मनश्च न विहन्यते॥१७॥

कच्चिदर्थाश्च कल्पन्त इति कच्चिदिति कामप्रवेदने स्वाभिप्रायाविष्करणे त्वदीया अर्थाः स्वकार्ये यागदानकुटुंबभरणादौ समर्था भवन्त्विति ममाभिप्राय इत्यर्थः। एवं करिष्यामि यथैतदुक्तमित्यन्ते राज्ञाङ्गीकृतत्वादुपदेशपरोयं ग्रन्थ इत्यवसीयते । अर्थधर्मकाममोक्षान् त्वदीयान् अविहतानिच्छामीति क्रमेण पादचतुष्टयार्थः कच्चिदिति सर्वत्र संबन्धनीयम् । तत्रापि मनश्चान्तरात्मनि प्रणिधीयमानं प्रतिहन्यते वृत्यन्तरैरित्यन्त्यपादार्थः ॥१७॥

कच्चिदाचरितं पूर्वैर्नरदेव पितामहैः ।
वर्तसे वृत्तिमक्षुद्रां धर्मार्थसहितां त्रिषु॥१८॥

त्रिषु उत्तमाधममध्यमेषु ऋत्विक्पुरोहितादिषु धर्मेण सहितां वृत्तिं वर्तसे दण्ड्यद्वेष्यादिषु अर्थेन सहितां ग्रजासु पालनषड्‌भागहाराभ्यां धर्मार्थसहितामिति विवेकः धर्मार्थौ चेति द्वन्द्वैकशेषः तैः सहितामिति समासः ॥१८॥

कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा ।
उभौ वा प्रीतिसारेण न कामेन प्रबाधसे॥१९॥

कश्चिदर्थेनेति । अर्थलोभाद्धर्मवाधो नीचानां धर्मलोभादर्थवाधो विरक्तानां कामेन प्रीतिसारेण तात्कालिकसुखाभासप्रदर्शनबलेन मोहयता धर्मार्थयोर्बाधः कामुकानां प्रसक्तः त्वयि राज्यप्रतिकूलानां नीचत्वाविरक्तत्वकामुकत्वानामभावमिच्छामीत्यर्थः ॥१९॥

कच्चिदर्थं च धर्मं च कामं च जयतां वर ।
विभज्य काले कालज्ञः सदा वरद सेवसे॥२०॥

परस्परविरोधिनामेषां कथमेकेनानुष्ठानमित्याशंक्य कालभेदेनेत्याह । कश्चिदर्थमिति । ‘पूर्वाह्णे चाचरेद्धर्मं मध्याह्नेऽर्थमुपार्जयेत् । सायाह्ने चाचरत्काममित्येषा वैदिकी श्रुतिः’ इति दक्षोक्तकालव्यवस्थामास्थाय त्रिवर्गं सेवेतेत्यर्थः । सदा वरदेति संबोधनेन परानुग्रहरूपो धर्मः सर्वस्मिन्नपि काले कर्तव्य इति सूचयति। सममिति पाठे अवैषम्येण आत्मसाम्येनेत्यर्थः ॥२०॥

कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथाऽनघ ।
बलाबलं तथा सम्यक्चतुर्दश परीक्षसे॥२१॥

कच्चिद्राजेति षड्गुणाः ‘वक्ता प्रगल्भो मेधावी स्मृतिमान्नयवित्कविः’ इति नारदस्तुतौ सूचिता वक्तृत्वादयः । अत्र राजगुणेषु वक्तृत्वं चारामात्यादिषु यथायोग्यं कार्योपदेशकौशलम् । प्रागल्भ्यं शत्रुदमनादौ उत्कर्षप्रदर्शनम्। मेधावित्वं तर्ककौशलम् । स्मृतिमान् कविरिति च अतीतानागतयोः परामर्शित्वम् । नयविदिति नीतिशास्त्रवित्त्वम्। एतैः राजगुणैरुपायान्बलाबलम् अन्यांश्चतर्दश त्वं परीक्षसे इति योजना। हे अनघ चतुर्दशमी राजदोषैर्वर्जित ते च वक्ष्यन्ते ‘नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम् । निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम्। मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः ॥ कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश’ इति ॥ नास्तिक्यं परलोकापलापः । प्रमादोऽनवधानता । दीर्घसूत्रतां चिरक्रियत्वम् । पञ्चवृत्तितां पश्चेन्द्रियपरवशताम् । अर्थानां प्रयोजनानाम् एकचिन्तनम् एकेनैव चिंतनम् । अनर्थज्ञैः विपरीतार्थदर्शिभिः सह चिन्तनं मन्त्रः । मङ्गलम् उत्सवः। आदिपदाद्देवपूजादि तस्याप्रयोगमननुष्ठानम् । प्रत्युत्थानं च सर्वतः युगपत्सर्वदिगवस्थितशत्रूद्देशेन दण्डयात्रेति तदर्थः । यद्वा अयं पराजयमूलं विंशतिवर्गस्तद्रहित । स च कामन्दकीये उक्तः । ‘बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः। भीरुको भीरुजनको लुब्धो लुब्धजनस्तथा ॥ विरक्तप्रकृतिश्चैव विषयेष्वपि सक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः ॥ दैवोपहतकश्चैव दैवचिन्तक एव च । दुर्भिक्षव्यसनोपेतो बलव्यसनसंकुलः । अदेशस्थो बहुरिपुर्युक्तो कालेना यश्च सः ॥ सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी । एतैः संधिं न कुर्वीत विग्रही स्थातु स्यात्तु केवलम् इति। उपायाः सप्त सामदानभेददण्डमन्त्रौषधेन्द्रजालाख्याः ॥ बलाबलं स्वपरपक्षयोः साम्यं परस्य हीनता स्वस्य वा हीनतेति त्रिविधम् । यथायोगं बुद्ध्यादिभिः सामादयः परीक्षिणीयाः । किमनेन शत्रुणा साम कर्तव्यं न वा । कर्तुमारब्धं चेत् सिद्ध्यति न वा । सिद्धं चेदं ते कुशलं नवेति चारप्रेषणादिना च बलाबलप्रसृतिकं परीक्षणीयम्। तथा चतुर्दश देशादयोऽपि परीक्षणीयाः। ते च नीतिशास्त्रोक्ताः। ’देशो दुर्गं रथो हस्तिवाजियोधाधिकारिणः । अन्तःपुरान्नगणनाः शास्त्रलेख्यधनासवाः ॥ परीक्ष्या ह्यधिपास्तेषां चतुर्दश नरेश्वरैः’ इति । योधाः शूराः अधिकारिणः देशपालदुर्गपालसेनापत्यादयः गणना अश्वरथधनादीनां संख्या । लेख्यम् आयव्ययनिर्णयाय सर्वस्य पत्रारोहकरणम् । धनं पर्याप्तमपर्याप्तं चेति विचार्यम् । आसवाः मद्यवदपकारिणः प्रच्छन्नशत्रवः असव इति पाठे असुर्बलमित्यर्थः । बलाबलेन सम्यक्त्वमिति स्वीयं परकीयं च देशादिकम् उक्तविधेन बलाबलेन बुद्ध्याचारैश्च परीक्षणीयमित्यर्थः ॥२१॥

कच्चिदात्सानमर्न्वाक्ष्य परांश्च जयतां वर ।
तथा सन्धाय कर्माणि अष्टौ भारत सेवसे॥२२॥

एतदेवाह कश्चिदात्मानमिति । आत्मानं प्रबलं परान् दुर्बलान्परीक्ष्य सेवसे राज्यं तथा विपरीते जयमूलस्य कोशस्य वृद्धये सन्धाय परैः सह साम कृत्वाऽष्टौ कर्माणि। ‘कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् । खन्याकरकरादानं शून्यानां च निवेशनम् अष्टौ संधानकर्माणि प्रयुक्तानि मनीषिभिः’ इति शास्त्रोक्तानि सेवसे। कुञ्जरबन्धनं वहुभक्षकत्वात्तेषां यथाविभागं ग्रामीणधनैरेव ग्रामे ग्रामे पोषणार्थं बन्धनम् । खनीरत्नाद्युत्पत्तिस्थानम् आकरः सुवर्णाद्युत्पत्तिस्थानमितिभेदः । खननमात्रेण धमनदिनाऽभिमुखीकरणेन च तयोस्तल्लाभहेतुत्वात् ॥२२॥

कच्चित्प्रकृतयः सप्त न लुप्ता भरतर्षभ ।
आढ्यास्तथा व्यसनिनः स्वनुरक्ताश्च सर्वशः॥२३॥

कृष्यादिनापि कोशवृद्धिः स्वाम्यादिप्रकृतिसप्तकस्य परैर्धनादिना मोहने कृते सति न भवतीत्यत आह कच्चित्प्रकृतय इति । सप्त ‘स्वाम्यमात्ममुहृत्कोशराष्ट्रदुर्गबलानि च । राज्यांगानि प्रकृतयः पौराणां श्रेणयोऽपि च’ इति कोशोक्ताः । तत्र स्वामिरूपा प्रकृतिः सप्तविधा । ‘दुर्गाध्यक्षो बलाध्यक्षो धर्माध्यक्षश्चमूपति । पुरौधा वैद्यदैवज्ञौ सप्त प्रकृतयः स्मृताः’ इति प्रोक्ताः । बलाध्यक्षः बलस्य चतुरंगस्याहारादिदानेन पालकः। चमूपतिर्युद्धे चम्बाः प्रणेता । धर्मः कार्यमात्रम् । अमात्यः मन्त्री । सुहृत् न्यायान्यायविभागकर्ता पर्षद्रूपः। एते न तावका लुप्ताः परैर्मोहिता माभूवन् । लुप्यतेमोहनार्थस्येदं रूपम् । लुप्ताश्चेद्दुर्गादीनामेव नाशापत्तिरित्यर्थः । अथवा त एवाढ्याः सन्तो व्यसनिनो द्यूतपानादिरताः माभूवन् । ‘हृष्टो दृष्यति दृप्तो धर्ममतिक्रामति धर्मातिक्रमात्पापं करोति’ इति स्मृतेः अस्त्याद्यस्य व्यसनप्रसक्तिस्तदापि न कोशादीनां वृद्धिः स्यात् । कथं तर्हि स्युः । सर्वप्रकारैः स्वनुरक्ता अत्यन्तं स्वामिकार्ये प्रीतिमन्तः ॥२३॥

कच्चिन्न कृतकैर्दूतैर्ये चाप्यपरिशङ्किताः ।
त्वत्तो वा तव चामात्यैर्भिद्यते मन्त्रितं तथा॥२४॥

दुर्गाध्यक्षादीनां लोमतो विपरीतकार्यकारित्वेन नाशहेतुत्वं प्रसिद्धम् । अमात्यसुहृदोस्तु लोभेन कथं नाशहेतुत्वमित्याशंक्य मन्त्रभेदेनेत्याह । कच्चिन्नेत्यादिना । अपरिशङ्किताः येषु दौष्ट्यशङ्का नास्ति तैः कृतकैः कृत्रिमैः सुहृद्भूतैर्दूतैः उभयवेतनैः तव मन्त्रितं मन्त्रः न भिद्यते प्रकाश्यते कश्चित् । तकैर्दूतैर्वेति पाठे सम्यगपि मन्त्रितं कुयुक्तिभिर्न विप्लाव्यत इत्यर्थः । त्वत्तो वा कृतकमित्रं प्रति कथयतः अमात्यैर्वा कृतकैः मन्त्रितं भिद्यत इति सर्वत्र संबन्धनीयम् ॥२४॥

मित्रोदासीनशत्रूणां कच्चिद्वेत्सि चिकीर्षितम् ।
कच्चित्सन्धिं यथाकालं विग्रहं चोपसेवसे॥२५॥

मित्रेति । मित्रं सम्यक् परीक्ष्य तेन सह संमन्त्र्य बलवता शत्रुणा सन्धिं दुर्बलेन सह विग्रहं मध्यमेन उभयवेतनेन उदासीनेन राज्ञा च सह वृत्तिं साम्येन स्थितिं च कुर्यादिति सार्धश्लोकार्थः ॥२५॥

कच्चिद्वृत्तिमुदासीने मध्यमे चानुमन्यसे ।
कच्चिदात्मसमा वृद्धाः शुद्धाः सम्बोधनक्षमाः॥२६॥

तत्र मित्रं कैर्गुणैः परीक्षेतेत्यत आह । कच्चिदात्मसमा इति । शुद्धाचारत्वं कुलीनत्वं च नैर्मल्यस्यासाधारणं लिङ्गम् । शुद्धाः संबोधनक्षमा इत्यत्र शुचयो जीवितक्षमा इति पाठे आपन्मग्नस्य राज्ञ उज्जीवने क्षमा इत्यर्थः ॥२६॥

कुलीनाश्चानुरक्ताश्च कृतास्ते वीरमन्त्रिणः ।
विजयो मन्त्रमूलो हि राज्ञो भवति भारत॥२७॥

किमेवंविधेन मन्त्रेणेत्यत आह अर्धेन विजय इति ॥२७॥

कच्चित्संवृतमन्त्रैस्ते अमात्यैः शास्त्रकोविदैः ।
राष्ट्रं सुरक्षितं तात शत्रुभिर्न विलुप्यते॥२८॥

मन्त्रभेदो माभूदित्युक्तं तत्फलमाह कच्चित्संवृतेति ॥२८॥

कच्चिन्निद्रावशं नैषि कच्चित्काले विबुद्ध्यसे ।
कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित्॥२९॥

कच्चिन्निद्रेति । यथाकालं स्वप्नप्रबोधवता ब्राह्मे मुहूर्तेऽमात्यादिभिः सह कृतस्य मन्त्रस्य पर्यालोचनं कर्तव्यम्। ‘ब्राह्मे मुहूर्ते चोत्याय विन्तयेदात्मनो हितम्’ इति स्मृतेस्तदा निर्णीतोर्थो न विप्लवत इत्यवसायात् ॥२९॥

कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह ।
कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रं परिधावति॥३०॥

कच्चिन्मन्त्रेति । ‘षट्कर्णो भिद्यते मन्त्र’ इति प्रसिद्धेर्द्वाभ्यामेव मन्त्रयितव्यमित्यर्थः । मन्त्रभेदो न कर्तव्य इत्युक्तं तदुपसंहरति कच्चित्त इति ॥३०॥

कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान् ।
क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान्॥३१॥

स्वाम्यमात्यादिप्रकृतिसप्तकानुग्रहात् कृष्यादिकर्माष्टकसिद्धितश्च कोशवृद्धिरित्युक्तं तदनुवदति विशेषविधानार्थम् । कच्चिदर्थानिति । अर्थान् अर्थप्राप्त्युपायान् लघुमूलान् अल्पव्ययसाध्यान् । महोदयान् प्रचुरफलान् । तादृशान्कृष्याद्यारम्भकर्तनन्यान् वैश्यादीन् तेभ्योपि करादानेन कोशवृद्धिरवे भवतीति भावः ॥३१॥

कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः ।
सर्वे वा पुनरुत्सृष्टाः संसृष्टं चात्र कारणम्॥३२॥

कच्चिन्न सर्व इति । कर्मणा अत्यन्ते बध्यन्त इति कर्मान्ताः कृष्यादिकर्मबद्धाः कृषीवलादयः कच्चित्ते परोक्षा अज्ञाता न सन्ति । अथवा विशंकिता अविश्वास्याः न सन्ति । अथवा पुनरुत्सृष्टाः । पुनःपुनस्त्यक्तोपात्ताः। संसृष्टं स्नेहः । ‘संसृष्टं त्रिषुसंगते’ इति मेदिनी । चिरपरिग्रहात् ज्ञाताः विश्वास्याः स्निग्धाश्व कर्मकरा अत्र महोदये कर्मणि कारणम् उदयनिमित्तं ज्ञात्वा तादृशानेव संगृह्णीयादित्यर्थः ॥३२॥

आप्तैरलुब्धैः क्रमिकैस्ते च कच्चिदनुष्ठिताः ।
कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः॥३३॥

एतदेवाहार्धेनाप्तैरिति । क्रमिकैः वृद्धक्रमागतैः । ते च कृष्यादयश्च । कच्चिदिति । मन्त्रगुप्तिवत् कर्मगुप्तिरपि कर्तव्येत्यर्थः ॥३३॥

विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित् ।
कच्चित्कारणिका धर्मे सर्वशास्त्रेषु कोविदाः ।
कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः॥३४॥

अनवाप्तानि अनारब्धानि न विदुः कच्चिदिति आवृत्त्या योज्यम् । कोशवृद्ध्युपायमुक्त्वा बलवृद्ध्युपायमाह । कच्चित्कारणिका इति । कारणं ज्ञापनं शिष्येभ्यो विद्याप्रतिपादनं तदर्थं चरन्ति ते काराणिकाः कृपद्रोणसदृशा आचार्याः कारयन्ति शिक्षयन्ति ॥३४॥

कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् ।
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्नः श्रेयसं परम्॥३५॥

सुहृद्दुर्गामात्यसंपदं कमेण त्रिभिराह । कञ्चित्सहस्रैरित्यादिभिः । अर्थकृच्छ्रेषु प्रयोजनसंकटेषु । निःश्रेयसं कल्याणम् ॥३५॥

कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः ।
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः॥३६॥

एकोप्यमात्यो मेधावी शूरो दान्तो विचक्षणः ।
राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम्॥३७॥

कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः॥३८॥

पष्ठीं राष्ट्रसंपदमाह । कच्चिदष्टादशान्येष्यिति । तीर्थानि मन्त्रिप्रभृतीन्यष्टादश यान्यवगाह्य राजा कृतकृत्यो भवति । तानि चोक्तानि नीतिशास्रे ।

'मन्त्री पुरोहितश्चैव युवराजश्चमूपतिः ।
पञ्चमो द्वारपालश्च षष्ठोन्तर्वेशिकस्तथा ॥१॥

कारागाराधिकारी च द्रव्यसंचयकृत्तथा ।
कृत्याकृत्येषु चार्थानां नवमो विनियोजकः ॥२॥

प्रदेष्टा नगराध्यक्षः कार्यनिर्माणकृत्तथा ।
धर्माध्यक्षः सभाध्यक्षो दण्डपालत्रिपञ्चमः ॥३॥

षोडशो दुर्गपालश्च तथा राष्ट्रान्तपालकः ।
अटवीपालकान्तानि तीर्थान्यष्टादशैव तु ॥४॥

चारान्विचारयेतीर्थेष्वात्मनश्च परस्य च ।
पाखण्डादीनविज्ञातानन्योन्यमितरेष्वपि ॥५॥

मन्त्रिणं युवराजं च हित्वा स्वेषु पुरोहितम् ।
'

इति । एषां तीर्थशब्दवाच्यत्वे हलायुधः। ‘योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थं स्याद्दर्शनेष्वपि’ इति । परेषामष्टादशसु स्वस्य मन्त्रिपुरोहितयुवराजवर्जं पश्चदशसु च तीर्थेषु चारान् अन्यैः परस्परं चाविज्ञातान् त्रींस्त्रीन्प्रयुज्य तत्रत्यां वार्तां सर्वचारसंवादे तथ्यां जानीयात् ज्ञात्वा च स्वप्रजानामनुरञ्जनेन परप्रजानां दुःखितानामभयदानादिना आकर्षणेन च स्वराष्ट्रं वर्धयेदित्युक्तं भवति ॥३८॥

कच्चिद्द्विषामविदितः प्रतिपन्नश्च सर्वदा ।
नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन॥३९॥

पूर्वोक्तानां गौणस्वामिनां संपदं विवक्षुः मुख्यस्वामिसंपदं तावदाह । कच्चिद्द्विषामिति । अविदितः पुरकिंकरैः प्रतिपन्नः सावधानः । प्रतियत्त इति पाठे प्रतीकारे यत्नवान्। नित्ययुक्तो नित्योद्योगी ॥३९॥

कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः ।
अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः॥४०॥

विनयसंपन्नः शिक्षायुक्तः । कुलपुत्रः सत्कुलजः । अनसूयुः परगुणेषु दोषारोपमकुर्वन् । अनुप्रष्टा शास्त्रचर्चाकुशलः । असंकीर्ण इति पाठे सदसद्विवेकवान् ॥४०॥

कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः ।
हुतं च होष्यमाणं च काले वेदयते सदा॥४१॥

ऋजुरकुटिलः ॥४१॥

कच्चिदङ्गेषु निष्णातो ज्योतिषः प्रतिपादकः ।
उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव॥४२॥

अङ्गेषु सामुद्रिकशास्त्रोक्तरीत्या अङ्गानां परीक्षायाम् । उत्पातेषु दिव्यभौमशारीरेषु धूमकेतुभूकंपवामनेत्रस्फुरणादिषु आगाम्यशुभसूचकेषु ॥४२॥

कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः ।
जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः॥

अमात्यानुपधातीतान्पितृपैतामहान् शुचीन् ।
श्रेष्ठान्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु॥४३॥

सेनापत्याकरकोशाध्यक्षकृष्याद्यवेक्षणानि मुख्यमध्यमनीचानि । उपधातीतान् छलरहितान् श्रेष्ठेषु ॥४३॥

कच्चिन्नोग्रेण दण्डेन भृशमुद्विजसे प्रजाः ।
राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ॥४४॥

मन्त्रकार्येषु ॥४४॥

कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा ।
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः॥४५॥

पतितमिति व्यतिरेकदृष्टान्तः । नावजानन्ति नावमन्यन्ते । तत्र हेतुः । उग्रप्रतिग्रहीतारम् उग्रमिति क्रियाविशेषणम् । यद्वा उग्रं हिंस्रं कर्म तेन प्रतिग्रहीतारं धनस्य प्रजापीडकमित्यर्थः । यथोक्तं ‘प्रजापीडनसंतापात्समुद्भूतो महानलः । राज्ञः प्राणान् बलं कोशं नादग्ध्वा विनिवर्तते’ इति । तथा च नाशहेतुकर्मकारिणः अवज्ञैव उचिताऽतस्त्वया तन्न कर्तव्यमित्यर्थः । कामयानं कामतो यानं पर्यटनं यस्य तं स्वैरिणमिव भ्रष्टत्वादरतिप्रदत्वाच्च स्त्रियोवमन्यन्ते तद्वत् ॥४५॥

कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमान् शुचिः ।
कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तथा॥४६॥

हृष्टो धनमानादिनाम् ॥४६॥

कच्चिद्बलस्य ते मुख्याः सर्वयुद्धविशारदाः ।
धृष्टावदाता विक्रान्तास्त्वया सत्कृत्य मानिताः॥४७॥

धृष्टावदाताः प्रगल्भाः निष्कपटाश्च अत एव विक्रान्ता जयं कृतवन्तः । एवं गौणस्वामिसंपद‌मुक्त्वा तद्वृद्धिहेतुमाह । त्वया सत्कृत्य मानिताः इत्यादिना ॥४७॥

कच्चिद्वलस्य भक्तं च वेतनं च यथोचितम् ।
सम्प्राप्तकाले दातव्यं ददासि न विकर्षसि॥४८॥

भक्तम् अहरहर्देयं धान्यादि। वेतनं मासांतदेयं वित्तम् । विकर्षणं कालातिक्रमः॥४८॥

कालातिक्रमणादेते भक्तवेतनयोर्भृताः ।
भर्तुः कुर्वन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः॥४९॥

दौर्गत्यात् दारिद्र्येण ॥४९॥

कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः ।
कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति सदा युधि॥५०॥

प्रधानतः मन्त्रिणमारभ्य मन्त्रिप्रभृतयः इत्यर्थः ॥५०॥

कच्चिन्नैको बहूनर्थान्सर्वशः साम्परायिकान् ।
अनुशास्ति यथाकामं कामात्मा शासनातिगः॥५१॥

सांपरायिकान् संग्रामहितान् शूरान् गजरयतुरगारोहान् पदातींश्च अर्थान्प्रयोजनानि नानुशास्ति । सर्वस्यैकाधिपत्ये तद्भेदेन सर्वनाशो युगपदेव स्यादिति भावः ॥५१॥

कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन् ।
लभते मानमधिकं भूयो वा भक्तवेतनम्॥५२॥

कच्चित्पुरुषेति । कृतज्ञो भवेदिति भावः ॥५२॥

कच्चिद्विद्याविनीतांश्च नरान् ज्ञानविशारदान् ।
यथार्हं गुणतश्चैव दानेनाभ्युपपद्यसे॥५३॥

कश्चिद्विद्येति । बुद्धिदान् मानयस्वेति भावः ॥५३॥

कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमीयुषाम् ।
व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ॥५४॥

कच्चिद्दारानिति । जीवतां शूराणां विश्वासार्थं व्यसनं चेति परलोकार्थम् ॥५४॥

कच्चिद्भयादुपगतं क्षीणं वा रिपुमागतम् ।
युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि॥५५॥

तदेवाह युद्धे वेति ॥५५॥

कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते ।
समश्चानभिशङ्क्यश्च यथा माता यथा पिता॥५६॥

सर्वस्या इति । प्रजानुकूल्यमपि जयहेतुः ॥५६॥

कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ ।
अभियासि जवेनैव समीक्ष्य त्रिविधं बलम्॥५७॥

एवं विजयहेतुं प्रकृतिसंपदमुक्त्वा विजयकालमाह । कच्चिद्व्यसनिनमिति। व्यसनैः ‘स्त्री द्यूतं मृगया मद्यं नृत्यं गीतं वृथाटनम् । वाद्यं निन्दादिवास्वापो व्यसनानि नृणां दश’ इत्युक्तैर्युक्तम् । त्रिविधं बलं । मन्त्रकोशभृत्यबलानि प्रभुमन्त्रोत्साहशक्तीर्वा ॥५७॥

यात्रामारभसे दिष्ट्या प्राप्तकालमरिन्दम ।
पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम्॥५८॥

पार्ष्णिमूलं पार्ष्णिग्राहकः आदिर्यस्य तत् द्वादशविधं मण्डलम् । तच्चोक्तं कामन्दकीये ‘अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चमः । एता प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः ॥ संपन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः । जेतुमेषणशीलश्च विजिगीषुरितिस्मृतः ॥ अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम् । अथारिमित्रमित्रं च विजिगीषोः पुरस्कृताः ॥ पार्ष्णिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरम् । आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः ॥ अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोर्व्यस्तयोर्निग्रहे प्रभुः ॥ मण्डलाद्बहिरेतेषामुदासीनो बलाधिकः । अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः’ इति विजिगीषुशत्रू तयोर्मित्रे तन्मित्रे चेति त्रीणि द्वन्द्वानि क्रमेण पुरतः विजिगीषोः पृष्टतः पार्ष्णिग्राहाक्रन्दौ । पार्ष्णिग्राहः पृष्टरक्षकः । आक्रन्दः प्रोत्साहकः । एतयोरनुग्राहकौ आसारौ तत्तत्पृष्ठगतौ पार्ष्णिग्राहासार आक्रंदासारश्चेति दश पुरुषाः। विजिगीषु शत्र्वोः पार्श्वे मध्यमः सर्वेषां पार्श्वे उदासीनः। इति मण्डलं पार्ष्णिमूलमित्युच्यते । व्यवसायं कृत्यनिश्चयं कृत्यं च । ‘अलब्धवेतनो लुब्धो मानी चाप्यवमानितः । क्रुद्धश्च कोपितोऽकस्मात्तथा भीतश्च भीषितः ॥ यथाभिलषितैः कामैर्भिन्द्यादेतांश्चतुर्विधान् । परकायान् स्वकीयांस्तु रक्षेद्विजयकामुकः ॥’ इति नीतिशास्त्रोक्तम्। पराजयं पराजयमूलानां व्यसनानां परपक्षे सद्भावं स्वपक्षे चाभावं विज्ञाय दिष्ट्या विशेषतो दैवज्ञादिद्वारा ज्ञात्वा । तत्र दैवं व्यसनं पञ्चविधम्। मानुषं च पञ्चविधम् । यथोक्तं कामन्दकीये। ‘हुताशनो जलं व्याधिर्दुभिक्षं मरकस्तथा । इति पञ्चविधं दैवं व्यसनं मानुषं परम् ॥ अयुक्तेभ्यश्च चोरेभ्यः परेभ्यो राजवल्लभात् । पृथिवीपतिलोभाच्च प्रजानां पञ्चधा भयम् ॥’ इति ॥५८॥

बलस्य च महाराज दत्त्वा वेतनमग्रतः ।
कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परन्तप ।
उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः॥५९॥

उपच्छन्नानि परैरलक्ष्याणि । रत्नानि उत्कृष्टवस्तूनि भेदायेत्यर्थः ॥५९॥

कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः ।
पारन् जुगीषसे पार्थ प्रमत्तानजितेन्द्रियान्॥६०॥

कच्चित्ते यास्यतः शत्रून्पर्वं यान्ति स्वनुष्ठिताः ।
सामदानं च भेदश्च दण्डश्च विधिवद्गुणाः॥६१॥

स्वनुष्ठिताः शोभनेन पुरुषेण सम्यगनुष्ठिताः । विधिवद्गुणाः ये सामादयः विधिवत् अनुष्ठिताः सन्तो गुणाः हिताय भवन्ति । अन्यथा विपरीताय । यथोक्तमभियुक्तैः । ‘चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया’ इति। यद्वा सामादयोऽवश्यमनुष्ठेयाः यतो राज्ञां गुणाः संधिविग्रह्ययानासनद्वैधीभावसंश्रयाः विधिवदग्निहोत्रादिविधिवदवश्यानुष्ठेयाः तदकरणे स्वराष्ट्रभङ्गादिना जातेन प्रजापीडनेन राज्ञां दोषोत्पत्तिः ॥६१॥

कच्चिद्बलं दृढं कृत्वा परान्यासि विशांपते ।
तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि॥६२॥

मूलं स्वराज्यं दृढप्रत्ययिभिः शूरैराधष्ठितं सत् दृढं परानभिभाव्यं कृत्वा॥६२॥

कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः ।
बलमुख्यैः सुनीता ते द्विषतां प्रतिवर्धिनी॥६३॥

अष्टाङ्गसंयुक्ता “रथा नागा हया योधाः पत्तयः कर्मकारकाः । चारा दैशिकमुख्याश्च ध्वजिन्यष्टाङ्गिका मता' चतुर्विधबला मौलमैत्रभृत्याटविकैर्बलैर्युक्ता बलमुख्यैः सेनापतिभिः प्रतिवर्धिनी प्रातिकूल्येन छेदिनी ॥६३॥

कच्चिल्लवं च मुष्टिं च परराष्ट्रे परन्तप ।
अविहाय महाराज निहंसि समरे रिपून्॥६४॥

लवः सस्यच्छेदनकालः मुष्टिः सस्यानां गोपनकालः दुर्भिक्षमिति यावत् । लुञ्छेदने मुषस्तेये आभ्याम् अधिकरणे वक्तिनौ । परराष्ट्रे क्षेत्रस्थेषु सस्येषु सुखलब्धान्नैर्दुर्भिक्षे च राजकुललब्धभक्तोपजीविभिर्निरचताक्रांताः शत्रवः सुखं जेया इत्यर्थः ॥६४॥

कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव ।
अर्थान्समधितिष्ठन्ति रक्षन्ति च परस्परम्॥६५॥

स्वपरराष्ट्रेषु स्वेति दृष्टान्तार्थं स्वराष्ट्रे इव परराष्ट्रे प्रविष्टाः बहवः अधिकृताः स्थाने स्थाने स्थिताः स्थानपत्यादयोऽर्थान् प्रयोजनानि प्रजावशीकरणकरग्रहणादीनि रक्षन्ति च परस्परं संभूय परकीयमागतं सेनापत्यादिकम् अभिभूय राष्ट्रं स्वीयांश्च रक्षन्तीत्यर्थः ॥६५॥

कच्चिदभ्यवहार्याणि गात्रसंस्पर्शनानि च ।
घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव॥६६॥

अभ्यवहार्याणि भक्ष्याणि । गात्रसंस्पर्शनानि वस्त्राणि । संघर्षणानीति पाठे चन्दनागुरुकुंकुमकस्तूरिकादीनि घ्रेयाणि उत्तमधूपादीनि । अनुमताः विश्वस्ताः । तव त्वदर्थं रक्षन्ति न तु देशान्तरोत्पन्नानि तानि स्वयमेव स्वीकुर्वन्तीत्यर्थः ॥६६॥

कच्चित्कोशश्च कोष्ठं च वाहनं द्वारमायुधम् ।
आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः॥६७॥

कोशो धनगृहम् । कोष्ठं धान्यस्थानम् ॥६७॥

कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशाम्पते ।
रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान्॥६८॥

आभ्यन्तरेभ्यः सूदादिभ्यः। बाह्येभ्यः सेनापत्यादिभ्यः । तानुभयान्स्वेभ्यः पुत्रामात्यादिभ्यः। तानपि मिथः पुत्रममात्यादमात्यं च पुत्राद्रक्षसि ॥६८॥

कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च ।
प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव॥६९॥

कच्चिन्नेति। पानादिव्यसनजं व्ययं तव पूर्वाह्ने धर्माचरणकाले भृत्याः न प्रतिजानन्ति नावेदयन्ति। आवेदने हि तदानीमागताः शिष्टाः पुरोहितादयः पानादिदुर्व्यसनासक्तं त्वां ज्ञात्वा त्यजेयुरिति भावः ॥६९॥

कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः ।
पादभागैस्त्रिभिर्वापि व्ययः संशुद्ध्यते तव॥७०॥

सुभिक्षसाम्यदुदुर्भिक्षेषु आयस्य पादेन पादाभ्यां त्रिभिः पादैर्वा व्ययः संशुद्ध्यते पूर्यते । सर्वथापि कोशवृद्धिः कार्येति भावः ॥७०॥

कच्चिज्ज्ञातीन्गुरून्वृद्धान्वणिजः शिल्पिनः श्रितान् ।
अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान्॥७१॥

दुर्गतान् दरिद्रान् ॥७१॥

कच्चिच्चापव्यये युक्ताः सर्वे गणकलेखकाः ।
अनुतिष्ठन्ति पूर्वाह्णे नित्यमायं व्ययं तव॥७२॥

अनुतिष्ठन्ति निवेदयन्ति ॥७२॥

कच्चिदर्थेषु सम्प्रौढान्हितकामाननुप्रियान् ।
नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम्॥७३॥

अनु प्रौढत्वहितकामत्वज्ञानानन्तरं प्रियान् कर्मभ्योपकर्षः अधिकारच्युतिः सा च पूर्वं किल्विषम् अप्राप्य दोषमदृष्ट्वा न कर्तव्येत्यर्थः ॥७३॥

कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान् ।
त्वं कर्मस्वनुरूपेषु नियोजयसि भारत॥७४॥

कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशाम्पते ।
अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः॥७५॥

अप्राप्तव्यवहाराः अप्रौढाः ॥७५॥

कच्चिन्न चौरैर्लुब्धैर्वा कुमारैः स्त्रीबलेन वा ।
त्वया वा पीड्यते राष्ट्रं कच्चित्तुष्टाः कृषीवलाः॥७६॥

कच्चिद्राष्ट्रे तडागानि पूर्णानि च बृहन्ति च ।
भागशो विनिविष्टानि न कृषिर्देवमातृका॥७७॥

देवमातृका वृष्टिनिष्पाद्यसस्या ॥७७॥

कच्चिन्नं भक्तं बीजं च कर्षकस्यावसीदति ।
प्रत्येकं च शतं वृद्ध्या ददास्यृणमनुग्रहम्॥७८॥

प्रत्येकं च शतं प्रतिशतमेकं वृद्ध्येति संबन्धः। एकैकः प्रतिमासं वर्धनीय इत्यर्थः। पादिकं च शतं वृद्ध्येति पाठे तु वर्षस्य शतचतुर्थांशो वृद्धिः । तथा च किंचिदधिकाद्द्व्युत्तरवृद्धिः। आद्ये संबन्धके वृद्धिरन्यत्र निर्बन्धके इति विभागः । यत्तु ‘द्विकं त्रिकं चतुष्कं च पञ्चकं च समं शतम्। भासस्य वृद्धिं गृह्णीयात्’ इति त्रिकादिपक्षस्तु आधमर्णिकव्यवसायानुसारेणेति ज्ञेयम् ॥७८॥

कच्चित्स्वनुष्ठिता तात वार्ता ते साधुभिर्जनैः ।
वार्तायां संश्रितस्तात लोकोऽयं सुखमेधते॥७९॥

वार्ता कृषिर्वाणिज्यं पाशुपाल्यं कुसीदं चेति चतुर्विधा ॥७९॥

कच्चिच्छूराः कृतप्रज्ञाः पञ्च पञ्च स्वनुष्ठिताः ।
क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव॥८०॥

कच्चिच्छूरा इति । प्रतिग्रामं पञ्च पञ्चेति स्वनुष्ठिताः शोभनमनुष्ठितमनुष्ठानं येषां ते तथा । ते च प्रशास्ता समाहर्ता संविधाता लेखकः साक्षी चेति । समाहर्ता प्रजाभ्यो द्रव्यमुद्गृह्यैकीकृत्य राज्ञेऽर्पयिता। संविधाता प्रजासमाहर्त्रोरेकवाक्यताघटकः । संहत्य एकीभूय ॥ ॥८०॥

कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः ।
ग्रामवच्च कृताः प्रान्तास्ते च सर्वे त्वदर्पणाः॥८१॥

नगरवदित्यनेन बहुभिः शूरैरधिष्ठिता ग्रामाः । बहुतरैर्नगराणि । बहुतमैर्जनपदेश्वरस्थानं पुरसंज्ञम् । ग्रामाः शूद्रजनबहुलाः। आपणादियुक्तं नगरम् । प्रान्ताः सीमास्थाः आटविकानां ग्रमाः । ते च सर्वे त्वदर्पणाः। ते प्रान्तग्रामनगरपुरेशाः त्वय्येव कृताकृतस्य धनस्य चार्पणं निवेदनं येषां ते तथाभूताः । प्रान्ताधिपो ग्रामाधिपतौ। सोऽपि नगराधिपतौ । सोऽपि देशाधिपतौ । सोऽपि साक्षाद्राज्ञि सर्वं निवेदयतीत्यर्थः ॥८१॥

कच्चिद्बलेनानुगताः समानि विषमाणि च ।
पुराणि चौरा निघ्नन्तश्चरन्ति विषये तव॥८२॥

विषमाणि सदुर्गाणि निघ्नन्तो ये चरन्ति तान् बलेन सहितः पुराध्यक्षोऽनुद्रवेदित्यर्थः । समेषु विषमेष्वपीति पाठे विषमेषु ईतिकालेषु । अतिवृष्ट्यादय ईतयः ॥८२॥

कच्चित्स्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः ।
कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे॥८३॥

आसां वचनम् आसां पुरश्च गुह्यं न भाषसे ॥८३॥

कच्चिदात्ययिकं श्रुत्वा तदर्थमनुचिन्त्य च ।
प्रियाण्यनुभवन्च्छेषे न त्वमन्तःपुरे नृप॥८४॥

आत्ययिकम् अकल्याणम् ॥८४॥

कच्चिद्द्वौ प्रथमौ यामौ रात्रेः सुप्त्वा विशाम्पते ।
सञ्चिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे॥८५॥

पश्चिमे चतुर्थे तस्मादेव द्वौ प्रथमौ द्वितीयतृतीयावित्यर्थः ॥८५॥

कच्चिदर्थयसे नित्यं मनुष्यान्समलङ्कृतः ।
उत्थाय काले कालज्ञैः सह पाण्डव मन्त्रिभिः॥८६॥

कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलङ्कृताः ।
उपासते त्वामभितो रक्षणार्थमरिन्दम॥८७॥

कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशाम्पते ।
परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च॥८८॥

यमवत् स हि दण्ड्येषु क्रूरः पूज्येषु विनयवान् तद्वत् ॥८८॥

कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा ।
मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि॥८९॥

आबाधं दुःखम्। नियमेन पथ्याशनादिना । मानसमावाधम् ॥८९॥

कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः ।
सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा॥९०॥

अष्टाङ्गायां विचित्कित्सायाम्। ‘निदानं पूर्वलिङ्गानि रूपाण्युपशयस्तथा । संप्राप्तिरौषधी रोगी परिचारक एव च’ इति । अष्टावङ्गानि । अथवा रोगो रोगहेतुः। आरोग्यमारोग्यहेतुः । तेषां लक्षणानि च ॥९०॥

कच्चिन्न लोभान्मोहाद्वा मानाद्वापि विशाम्पते ।
अर्थि प्रत्यर्थिनः प्राप्तान्न पश्यसि कथञ्चन॥९१॥

अर्थिनः याचकाः प्रत्यर्थिनः परंपरागतवृत्तिप्रतिबन्धात्क्षुब्धचित्ताः । प्रत्येत्य तदर्थिनः शत्रवो वा नशब्दद्वयेन पश्येदेवेति उच्यते ॥९१॥

कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा ।
आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणात्सि वै॥९२॥

कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः ।
त्वया सह विरुध्यन्ते परैः क्रीताः कथञ्चन॥९३॥

कच्चिन्न दुर्बलः शत्रुर्बलेन परिपीडितः ।
मन्त्रेण बलवान्कश्चिदुभाभ्यां च कथञ्चन॥९४॥

कच्चिन्नेति । योरिर्बलेन पूर्वं परिपीडित एव न हतः स एव कालान्तरे मन्त्रेण उभाभ्यां च मन्त्रबलाभ्यां कच्चिद्बलवान्नेति योजना। कच्चित्ते इति पाठे ते तव बले सैन्येयोरिः पूर्वपीडित इत्योदि पूर्ववत् ॥९४॥

कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः ।
कच्चित्प्राणांस्त्वदर्थेषु सन्त्यजन्ति त्वया हृताः॥९५॥

प्रधानतः प्राधान्येन हृता दानमानाभ्यां वशीकृताः। आदृता इति वा पाठः ॥९५॥

कच्चित्ते सर्वविद्यासु गुणतोर्चा प्रवर्तते ।
ब्राह्मणानां च साधूनां तव नैः श्रेयसी शुभा ।
दक्षिणास्त्वं ददास्येषां नित्यं स्वर्गापवर्गदाः॥९६॥

विद्यासु साधुनां ब्राह्मणानां गुणतो गुणं दृष्ट्वाऽर्चा पूजा प्रवर्त्तते ॥९६॥

कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः ।
यतमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे॥९७॥

तथा कर्तुं पूर्वैराचरितवत्कर्त्तुम् । तस्मिंस्त्रयी मूले ॥९७॥

कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः ।
गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम्॥९८॥

तवाध्यक्षं त्वत्समक्षम्। सदक्षिणं सदक्षिणालाभं यथास्थात्तथाऽश्नन्ति ॥९८॥

कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः ।
पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान्॥९९॥

कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि ।
चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि॥१००॥

चैत्यान्स्थण्डिलवतो ग्रामसूचकान् वृक्षान् ॥१००॥

कच्चिच्छोको न मन्युर्वा त्वया प्रोत्पाद्यतेऽनघ ।
अपि मङ्गलहस्तश्च जनः पार्श्वेनुतिष्ठति॥१०१॥

शोकःनीचानां मन्युः श्रेष्ठानां मङ्गलहस्तो मङ्गलप्रदो मन्त्रादिवित् पुरोहितादिः अनुतिष्ठति स्वस्त्ययनं करोति ॥१०१॥

कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ ।
आयुष्या च यशस्या च धर्मकामार्थदर्शिनी॥१०२॥

या एषा इदानीं वृत्तिरास्ति सैव सार्वदिकी कच्चिदस्तीत्यर्थः ॥१०२॥

एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति ।
विजित्य च महीं राजा सोत्यन्तसुखमेद्यते॥१०३॥

कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि ।
अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचिः॥१०४॥

कच्चिदार्य इति । आर्यो विशुद्धात्मा च सन्नपि कस्मिंश्चिन्निन्द्ये कर्मणि निमित्ते क्षारितो धनधान्यादिना रिक्तः कृतः । ‘राजाभिः कृतदण्डास्तु शुद्ध्यन्ति मलिना जनाः’ इत्यादिशास्त्रप्रामाण्यात् शुचिरपि सन् अदृष्टशास्त्रकुशलैरनुपासितपण्डितैर्मूर्खैरमात्यैः कच्चिन्न वध्यते हन्यतेऽधिकधनलोभात् । अदृष्ट इति सविसर्गपाठे तु शास्त्रकुशलैरमात्यैरज्ञात इत्यर्थः ॥१०४॥

दुष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टः सकारणः ।
कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ॥१०५॥

दुष्टः स्वभावतः । तत्कारी दुष्टकर्मकारी। तज्ज्ञैः चोरान्वेषिभिः कोष्ठपालैः दृष्टः सकारणः चोरितद्रव्यसहितो गृहीतो विवृतश्चेति योजना ॥१०५॥

उत्पन्नान्कच्चिदाढ्यस्य दरिद्रस्य च भारत ।
अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता जनैः॥१०६॥

उत्पन्नानिति चो वार्थे। आढ्यस्य दरिद्रस्य वार्थान् उत्पन्नान् वीजकणिशन्यायेन स्वल्पकालेनैव बहुगुणां वृद्धिं प्राप्तान् तव अमात्याः मिथ्या अनृतान् चौर्यादिनाऽन्यायेनार्जितानिति कच्चिन्न पश्यन्ति। जनैः पिशुनैः हृताः हृतविवेकाः । पाठान्तरे धनैर्हताः वशीकृताः । लुब्धो हि लिप्सुः परत्रासं तमपि दोषमारोप्य तद्वित्तं जिहीर्षतीति प्रसिद्धम् ॥१०६॥

नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।
अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ।
एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम्॥१०७॥

नास्तिक्यमित्यादि सार्धश्लोकत्रयं व्याख्यातम् ॥१०७॥

निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ।
मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः॥१०८॥

कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ।
प्रायशो यैर्विनश्यन्ति कृतमूलापि पार्थिवः॥१०९॥

कच्चित्ते सफला वेदाः कच्चित्ते सफळं धनम् ।
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम्॥११०॥

युधिष्ठिर उवाच। कथं वै सफला वेदाः कथं वै सफलं धनम् ।
कथं वै सफला दाराः कथं वै सफलं श्रुतम्॥१११॥

नारद उवाच। अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् ।
रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम्॥११२॥

वैशम्पायन उवाच। एतदाख्याय स मुनिर्नारदो वै महातपाः ।
पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम्॥११३॥

नारद उवाच। कच्चिदभ्यागता दूराद्वणिजो लाभकारणात् ।
यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः॥११४॥

कच्चिदभ्यागता इति । अवहार्यन्ते दाप्यन्ते शुल्कं राजग्राह्यं करम् ॥११४॥

कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः ।
उपानयन्ति पण्यानि उपाधाभिरवञ्चिताः॥११५॥

पण्यानि विक्रेयद्रव्याणि । उपधाभिः छलैः ॥११५॥

कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः ।
नित्यमर्थविदां तात यथाधर्मार्थदर्शिनाम्॥११६॥

कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च ।
धर्मार्थं च द्विजातिभ्यो दीयेते मधुसर्पिषी॥११७॥

कृषितन्त्रेषु कृष्युत्पाद्येषु पुष्पफलेषु आर्द्रशुष्कधान्येषु । तथा गोषु जातेषु पुष्पफलेषु दुग्धघृतरूपेषु उत्पन्नेषु सत्सु मधुसर्पिषी ‘अन्नं वै मधु’ इति श्रुतेर्धान्यादिकम् अन्नं वृतं च यल्लोके ब्रह्मोत्तरम् इत्युच्यते ॥१७॥

द्रव्योपकरणं किञ्चित्सर्वदा सर्वशिल्पिनाम् ।
चातुर्मास्यावरं सम्यङ्नियतं सम्प्रयच्छसि॥११८॥

द्रव्यं शिल्पिनां वेतनम् उपकरणं स्वकार्यसाधनसामग्री । यथा चित्रोत्पादने रञ्जकद्रव्याणि चातुर्मास्यावरं मासचतुष्टयपर्याप्तानाधिकम् ॥११८॥

कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि ।
सतां मध्ये महाराज सत्करोषि च पूजयन्॥११९॥

कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ ।
हस्तिसूत्राश्वसूत्राणि रथसूत्राणि वा विभो॥१२०॥

सूत्रं संक्षेपवाक्यं व्यवस्था वा । हस्त्यादीनां लक्षणपरीक्षाचिकित्सौषधोद्दीपनमाद‌नादिप्रकारप्रतिपादकग्रन्थसिद्धान्तमात्रसंक्षेपयुक्तान् गृह्णासि तत्तदाचार्येभ्यः ॥१२०॥

कच्चिदभ्यस्यते सम्यग्गृहे ते भरतर्षभ ।
धनुर्वेदस्य सूत्रं वै यन्त्रसूत्रं च नागरम्॥१२१॥

यन्त्राणि आग्नेयौषधबलेन सीसकांस्यदृषद्गोलप्रक्षेपकाणि लोहमयानि भाषायां नालशब्दाभिधेयानि तेषां सूत्रं सूचकं शास्त्रम् । नागरं नगरहितम् ॥१२१॥

कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ ।
विषयोगास्तथा सर्वे विदिताः शत्रुनाशनाः॥१२२॥

अस्त्राणि मन्त्रप्रयुक्तानि शस्त्राणि । ब्रह्मदण्ड आभिचारिकविद्या ॥१२२॥

कच्चिदग्निभयाच्चैव सर्वं व्यालभयात्तथा ।
रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि॥१२३॥

व्यालः सर्पः व्याघ्रादेरप्येतदुपलक्षणम् ॥१२३॥

कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानबान्धवान् ।
पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि॥१२४॥

प्रव्रजितान् जातिबहिष्कृतान् अन्नमात्रार्थिनो दीनान् ॥१२४॥

षडनर्था महाराज कच्चित्ते पृष्ठतः कृताः ।
निद्राऽऽलस्यं भयं क्रोधो मार्दवं दीर्घसूत्रता॥१२५॥

वैशम्पायन उवाच। ततः कुरूणामृषभो महात्मा श्रुत्वा गिरो ब्राह्मणसत्तमस्य ।
प्रणम्य पादावभिवाद्य तुष्टो राजाऽब्रवीन्नारदं देवरूपम्॥१२६॥

युधिष्ठिर उवाच। एवं करिष्यामि यथा त्वयोक्तं प्रज्ञा हि मे भूय एवाभिवृद्धा ।
उक्त्वा तथा चैव चकार राजा लेभे महीं सागरमेखलां च॥१२७॥

नारद उवाच। एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे ।
स विहृत्येह सुसुखी शुक्रस्यैति सलोकताम्॥१२८॥

उपसंहरति एवं यो वर्तत इति ॥१२८॥
॥ इति श्रीमहाभारते लोकपालसभाख्यानपर्वणि नारदप्रश्नमुखेन राजधर्मानुशासने पञ्चमोऽध्यायः॥५॥
षष्टोऽध्यायः

वैशमापायन उवाच। सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम् ।
प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः॥१॥

संपूज्याथाभ्यनुज्ञात इति ॥१॥

युधिष्ठिर उवाच। भगवन्न्याय्यमाहैतं यथावद्धर्मनिश्चयम् ।
यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया॥२॥

राजभिर्यद्यथा कार्यं पुरा वै तन्न संशयः ।
यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत्॥३॥

वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो ।
न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः॥४॥

वैशम्पायन उवाच। एकमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च ।
मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम्॥५॥

नारदं सुस्थमासीनमुपासीनो युधिष्ठिरः ।
अपृच्छत्पाण्डवस्तत्र राजमध्ये माहद्युतिः॥६॥

युधिष्ठिर उवाच। भवान्सञ्चरते लोकान्सदा नानाविधान्बहून् ।
ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः॥७॥

दिव्यसभालाभाद्गर्वितो युधिष्ठिर उवाच भवानिति । संचरते समो गम्यृच्छीति सूत्रे गमेर्गत्यर्थमात्रोपलक्षणपरत्वात् चरेरपि तङ्कर्मव्यतिहारे वा तङ् । त्वं हि लोकेषु संचरसि । लोकाश्च हार्द्दाकाशनिष्ठे त्वयि संचरन्तीति वार्थः तेन सर्वज्ञत्वमुक्तम् पूर्वं मनुष्यसृष्टेः प्राक् निर्मितान् देवलोकानित्यर्थः ॥७॥

ईदृशी भविता काचिद्दृष्टपूर्वा सभा क्वचित् ।
इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः॥८॥

क्वचिदिति । देवलोकापेक्षया मनुष्यलोके क्वचित्काले वा भविता भवित्री अनागतद‌र्शित्वात्तव तदपि विदितमेवेत्यर्थः ॥८॥

वैशम्पायन उवाच। तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम् ।
पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा॥९॥

स्मयन् युधिष्ठिरस्यापि गर्वोभूत् देवतामहाभाग्याज्ञानं चेति विस्मयं प्राप्नुवन् ॥९॥

नारद उवाच। मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता ।
सभा मणिमयी राजन्यथेयं तव भारत॥१०॥

मानुषेषु न दृष्टा न श्रुतेति अग्रेपि न द्रक्ष्यते न श्रोष्यते पूर्वकल्पसमानरूपत्वादुत्तरस्यापीत्यर्थः ॥१०॥

सभां तु पितृराजस्य वरुणस्य च धीमतः ।
कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च॥११॥

कैलासेति । कुबेरस्येत्यर्थः ॥११॥

ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम् ।
दिव्यादिव्यैरभिप्रायैरुपेतां विश्वरूपिणीम्॥१२॥

गतक्लमाम् अविद्यादिक्लेशैर्वजितां तेन पूर्वासु तत्सत्त्वं ज्ञायते । दिव्यादिव्यैरिति । दिव्या दिविभवाः रम्भोर्वश्यादयः अदिव्यास्तदन्ये मानुषाः पित्रादयः । ‘स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन स पितृलोकेन संपन्नो महीयत’ इति ब्रह्मलोके तत्सत्त्वस्यापि श्रवणात् । अभिप्रेयन्ते संकल्प्यन्ते इत्यभिप्रायाः विषयाः तैः विश्वरूपिणीं भावकसंकल्पानुसारि नानारूपवतीं मानसीमित्यर्थः ॥१२॥

देवैः पितृगणैः साध्यैर्यज्वभिर्नियतात्मभिः ।
जुष्टां मुनिगणैः शान्तैर्वेदयज्ञैः सदक्षिणैः ।
यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ॥१३॥

जुष्टां सेवितां यदि श्रवणे बुद्धिर्वर्तते तर्हि कथयिष्ये इति पूर्वण संबन्धः ॥१३॥

नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः ।
प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्द्विजोत्तमैः॥१४॥

नारदं प्रत्युवाचेदं धर्मराजो महामनाः ।
सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम्॥१५॥

किंद्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः ।
पितामहं च के तस्यां सभायां पर्युपासते॥१६॥

वासवं देवराजं च यमं वैवस्वतं च के ।
वरुणं च कुबेरं च सभायां पर्युपासते॥१७॥

एतत्सर्वं यथान्यायं ब्रह्मर्षे वदतस्तव ।
श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः॥१८॥

एवमुक्तः पाण्डवेन नारदः प्रत्यभाषत ।
क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः॥१९॥

॥ इति श्रीमहाभारते सभापर्वणि लोकपालसभाख्यानपर्वणि युधिष्ठिरसभाजिज्ञासायां षष्टोऽध्यायः॥६॥
सप्तमोऽध्यायः

नारद उवाच। शक्रस्य तु सभा दिव्या भास्वरा कर्मनिर्मिता ।
स्वयं शक्रेण कौरव्य निर्जितार्कसमप्रभा॥१॥

शक्रस्येति । कर्मभिर्विश्वकर्मणो यत्नैर्निर्मिता । शक्रेण निर्जिता चेति संबन्धः ॥१॥

विस्तीर्णा योजनशतं शतमध्यर्धमायता ।
वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता॥२॥

अध्यर्धं सार्धम् आयता दीर्घा वैहायसी खेचरी ॥२॥

जराशोकक्लमापेता निरातङ्का शिवा शुभा ।
वेश्मासनवती रम्या दिव्यपादपशोभिता॥३॥

निरातङ्का निर्भया शिवा शान्तजना शुभा कल्याणावहा ॥३॥

तस्यां देवेश्वरः पार्थ सभायां परमासने ।
आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत॥४॥

शच्या नामतः श्रिया शोभया ॥४॥

बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः ।
विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह॥५॥

तस्यामुपासते नित्यं महात्मानं शतक्रतुम् ।
मरुतः सर्वशो राजन्सर्वे च गृहमेधिनः॥६॥

मरुतो गृहमेधिन इति सामानाधिकरण्यम् ॥६॥

सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा ।
मरुत्त्वन्तश्च सहिता भास्वन्तो हेममालिनः॥७॥

एते सानुचराः सर्वे दिव्यरूपाः स्वलङ्कृताः ।
उपासते महात्मानं देवराजमरिन्दमम्॥८॥

तथा देवर्षयः सर्वे पार्थ शक्रमुपासते ।
अमला धूतपाप्मानो दीप्यमाना इवाग्नयः॥९॥

तेजस्विनः सोमसुतो विशोका विगतज्वराः ।
पराशरः पर्वतश्च तथा सावर्णिगालवौ॥१०॥

सोमसुतः सोमाभिषवकर्तारः सोमयाजिन इति यावत् ॥१०॥

शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः ।
दुर्वासाः क्रोधनः श्येनस्तथा दीर्घतमा मुनिः॥११॥

पवित्रपाणिः सावर्णिर्याज्ञवल्क्योऽथ भालुकिः ।
उद्दालकः श्वेतकेतुस्ताण्ड्यो भाण्डायनिस्तथा॥१२॥

हविष्मांश्च गरिष्ठश्च हरिश्चन्द्रश्च पार्थिवः ।
हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः॥१३॥

वातस्कन्धो विशाखश्च विधाता काल एव च ।
करालदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः॥१४॥

अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः ।
ईशानं सर्वलोकस्य वज्रिणं समुपासते॥१५॥

सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः ।
समीकः सत्यवाक्चैव प्रचेताः सत्यसङ्गरः॥१६॥

मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः ।
मरुत्तश्च मरीचिश्च स्थाणुश्चात्र महातपाः॥१७॥

कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः ।
मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्मयः॥१८॥

संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान् ।
दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती॥१९॥

अर्थो धर्मश्च कामश्च विद्युतश्चैव पाण्डव ।
जलवाहास्तथा मेघा वायवस्तनयित्नवः॥२०॥

अर्थः अर्थाद्यभिमानिन्यो देवताः ॥२०॥

प्राची दिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः ।
अग्नीषोमौ तथेन्द्राग्नी मित्रश्च सविताऽर्यमा॥२१॥

भगो विश्वे च साध्याश्च गुरुः शुक्रस्तथैव च ।
विश्वावसुश्चित्रसेनः सुमनस्तरुणस्तथा॥२२॥

यज्ञाश्च दक्षिणाश्चैवं ग्रहास्तोभाश्च भारत ।
यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते॥२३॥

एवं यज्ञदक्षिणादयः ॥२३॥

तथैवाप्सरसो राजन्गन्धर्वाश्च मनोरमाः ।
नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि॥२४॥

रमयन्ति स्म नृपते देवराजं शतक्रतुम् ।
स्तुतिभिर्मङ्गलैश्चैव वस्तुवन्तः कर्मभिस्तथा॥२५॥

विक्रमैश्च महात्मानं बलवृत्रनिषूदनम् ।
ब्रह्मराजर्षयश्चैव सर्वे देवर्षयस्तथा॥२६॥

विमानैर्विविधैर्दिव्यैर्दीप्यमाना इवाग्नयः ।
स्रग्विणो भूषिताः सर्वे यान्ति चायान्ति चापरे॥२७॥

बृहस्पतिश्च शुक्रश्च नित्यमास्तां हि तत्र वै ।
एते चान्ये च बहवो महात्मानो यतव्रताः॥२८॥

विमानैश्चन्द्रसङ्काशैः सोमवत्प्रियदर्शनाः ।
ब्रह्मणः सदृशा राजन्भृगुः सप्तर्षयस्तथा॥२९॥

एषा सभा मया राजन्दृष्टा पुष्करमालिनी ।
शतक्रतोर्महाबाहो याम्यामपि सभां शृणु॥३०॥

पुष्करमालिनी नामतः ॥३०॥
॥ इति श्रीमहाभारते सभापर्वणि लोकपालसभाख्यानपर्वणि इन्द्रसभावर्णनं नाम सप्तमोऽध्यायः॥७॥
अष्टमोऽध्यायः

नारद उवाच। कथयिष्ये सभां याम्यां युधिष्ठिर निबोध ताम् ।
वैवस्वतस्य यां पार्थ विश्वकर्मा चकार ह॥१॥

कथयिष्ये इति ॥१॥

तैजसी सा सभा राजन्बभूव शतयोजना ।
विस्तारायामसम्पन्ना भूयसी चापि पाण्डव॥२॥

तैजसी ज्योतिर्मयी सौवर्णी वा भूयसी महती पूर्वसभातः ॥२॥

अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामरूपिणी ।
नातिशीता न चात्युष्णा मनसश्च प्रहर्षिणी॥३॥

सर्वतः कामरूपिणी यस्यां सर्वं वस्तु संकल्पसमकालमेव सर्वात्मकं भवतीत्यर्थः ॥३॥

न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् ।
न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत॥४॥

सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः ।
सारवच्च प्रभूतं च भक्ष्यं भोज्यमरिन्दम॥५॥

कामाः काम्यमाना विषयाः। प्रभूतं बहुलम् । भक्ष्यम् अपूपादि । भोज्यं ओदनादि ॥५॥

लेह्यं चोष्यं च पेयं च हृद्यं स्वादु मनोहरम् ।
पुण्यगन्धाः स्रजस्तस्य नित्यं कामफला द्रुमाः॥६॥

लेह्यं खण्डशर्करादि चोष्यं इक्षुकाण्डादि स्रजः परंपराः तस्य भक्ष्याद्यन्नस्य कामफलाः आम्रादेरपि पनसादिकं फलमुद्भवति कामानुसारादित्यर्थः ॥६॥

रसवन्ति च तोयानि शीतान्युष्णानि चैव हि ।
तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः॥७॥

यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते ।
ययातिर्नहुषः पूरुर्मान्धाता सोमको नुगः॥८॥

त्रसदस्युश्च राजर्षिः कृतवीर्यः श्रुतश्रवाः ।
अरिष्टनेमिः सिद्धश्च कृतवेगः कृतिर्निमिः॥९॥

प्रतर्दनः शिबिर्मत्स्यः पृथुलाक्षो बृहद्रथः ।
वार्तो मरुत्तः कुषिकः साङ्काश्यः साङ्कृतिर्ध्रुवः॥१०॥

चतुरश्च सदस्योर्मिः कार्तवीर्यश्च पार्थिवः ।
भारतः सुरथश्चैव सुनीथो निशठोऽनलः॥११॥

दिवोदासश्च सुमना अम्बरीषो भगीरथः ।
व्यश्वः सदश्वो वघ्र्यश्वः पृथुवेगः पृथुश्रवाः॥१२॥

पृषदश्वा वसुमनाः क्षुपश्च सुमहाबलः ।
रुषद्रुर्वृषसेनश्च पुरुकुत्सो ध्वजी रथी॥१३॥

आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः ।
औशीनरिः पुण्डरीकः शर्यातिः शरभः शुचिः॥१४॥

अङ्गोरिष्टश्च वेनश्च दुष्यन्तः सृञ्जयो जयः ।
भाङ्गासुरिः सुनीथश्च निषधोऽथ वहीनरः॥१५॥

करन्धमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः ।
ऐलो मरुत्तश्च तथा बलवान्पृथिवीपतिः॥१६॥

कपोतरोमा तृणकः सहदेवार्जुनौ तथा ।
व्यश्वः साश्वः कृशाश्वश्च शशबिन्दुश्च पार्थिवः॥१७॥

रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः ।
अलर्कः कक्षसेनश्च गयो गौराश्व एव च॥१८॥

राम इति । रामलक्ष्मणयोर्विष्णुशेषरूपेण स्वस्थानस्थयोरपि प्रतिमारूपेण उपासकानुग्रहार्थमत्रावस्थानं बोध्यम् ॥१८॥

जामदग्न्यश्च रामश्च नाभागसगरौ तथा ।
भूरिद्युम्नो महाश्वश्च पृथाश्वो जनकस्तथा॥१९॥

राजा वैन्यो वारिसेनः पुरिजिज्जनमेजयः ।
ब्रह्मदत्तस्त्रिगर्तिश्च राजोपरिचरस्तथा॥२०॥

इन्द्रद्युम्नो भीमजानुर्गौरपृष्ठोऽनघो लयः ।
पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित्॥२१॥

अरिष्टनेमिः सुद्युम्नः पृथुलाश्वोऽष्टकस्तथा ।
शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः॥२२॥

धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः ।
शतं च ब्रह्मदत्तानां वीरिणामीरिणां शतम्॥२३॥

धृतराष्ट्राश्चैकशतमिति । पुराणेषु प्रायेणाधिकारिणामेव कीर्तनात्तेषां च प्रतिकल्पं समाननामरूपकर्मत्वादनेककल्पं धर्मसभावासिनां तेषां बहुत्वं युक्तम् सेनापत्यादिशब्दवदधिकारवाचित्वाद्धृतराष्ट्रादिशब्दानाम् ॥२३॥

भीष्णाणां द्वे शतेप्यत्र भीमानां तु तथा शतम् ।
शतं च प्रतिविन्ध्यानां शतं नागाः शतं हयाः॥२४॥

पलाशानां शतं ज्ञेयं शतं काशकुशादयः ।
शान्तनुश्चैव राजेन्द्र पाण्डुश्चैव पिता तव॥२५॥

अयमेव न्यायः पलाशादियज्ञियद्रव्याद्यभिमानिदेवतासु ज्ञेय इत्याशयवानाह पलाशानामिति ॥२५॥

उशङ्गवः शतरथो देवराजो जयद्रथः ।
वृषदर्भश्च राजर्षिर्बुद्धिमान्सह मन्त्रिभिः॥२६॥

अथापरे सहस्राणि ये गताः शशबिन्दवः ।
इष्ट्वाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः॥२७॥

एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः ।
तस्यां सभायां राजेन्द्र वैवस्वतमुपासते॥२८॥

अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च ।
यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः॥२९॥

अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये ।
सुधावन्तो बर्हिषदो मूर्तिमन्तस्तथाऽपरे॥३०॥

कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः ।
नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः॥३१॥

कालचक्रं चेति । संवत्सराद्यभिमानिन्यो देवताः । दुष्कृतकर्माणः विद्याविहीनकर्ममात्रनिष्ठाः ॥३१॥

कालस्य नयने युक्ता यमस्य पुरुषाश्च ये ।
तस्यां शिंशपपालाशास्तथा काशकुशादयः॥३२॥

उपासते धर्मराजं मूर्तिमन्तो जनाधिप ।
एते चान्ये च बहवः पितृराजसभासदः ।
न शक्याः परिसङ्ख्यातुं नामभिः कर्मभिस्तथा॥३३॥

असम्बाधा हि सा पार्थ रम्या कामगमा सभा ।
दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा॥३४॥

असंबांधाम् असंकीर्णा ॥३४॥

ज्वलन्ती भासमाना च तेजसा स्वेन भारत ।
तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः॥३५॥

शान्ताः सन्यासिनः शुद्धाः पूताः पुण्येन कर्मणा ।
सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः॥३६॥

संन्यासिनः निष्कामकर्मकर्तारः काम्यानां कर्मणां त्यागिनो वा । पूर्वेषामपि आपस्तम्बेन तद्यथाम्रे फलार्थं निर्मिते छायागन्ध इत्यनुत्पद्येते। एवं धर्मं चर्यमाणमर्था अनुत्पद्यन्ते' इति आनुषङ्गिकफलभागित्वदर्शनात् । निर्मिते रोपिते । अर्था दिव्यान्नपानादयः ॥३६॥

चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः ।
सुकृतैः कर्मभिः पुण्यैः पारिबर्हैश्च भूषिताः॥३७॥

गन्धर्वाश्च महात्मानः सङ्घशश्चाप्सरोगणाः ।
वादित्रं नृत्यगीतं च हास्यं लास्यं च सर्वशः॥३८॥

पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः ।
दिव्यानि चैव माल्यानि उपतिष्ठन्ति नित्यशः॥३९॥

शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् ।
उपासते महात्मानं रूपयुक्ता मनस्विनः॥४०॥

ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः ।
वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम्॥४१॥

पुष्करैर्मूर्तिमद्भिस्तीर्थविशेषैः मालिनीं शोभिनीम् ॥४१॥
॥ इति श्रीमहाभारते सभापर्वणि लोकपालसभाख्यानपर्वणि यमसभावर्णनं नामाष्टमोऽध्यायः॥८॥
नवमोऽध्यायः

नारद उवाच। युधिष्ठिर सभा दिव्या वरुणस्यामितप्रभा ।
प्रमाणेन यथा याम्या शुभप्राकारतोरणा॥१॥

युधिष्ठिरेति ॥१॥

अन्तः सलिलमास्थाय विहिता विश्वकर्मणा ।
दिव्यै रत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युताः॥२॥

दिव्यैरिति तस्यामित्युत्तरश्लोकादपकृष्यते ॥२॥

नीलपीतैः सिताः श्यामैः सितैर्लोहितकैरपि ।
अवतानैस्तथा गुल्मैर्मञ्जरीजालधारिभिः॥३॥

अवतानैर्वितानवद्धृक्षस्वरूपाच्छाद‌कैः लताप्रतानैः सिताः बद्धाः प्रदेशा इति शेषः ॥३॥

तथा शकुनयस्तस्यां विचित्रा मधुरस्वराः ।
अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः॥४॥

वपुष्मन्तः प्रशस्तदेहाः ॥४॥

सा सभा सुखसंस्पर्शा न शीता न च धर्मदा ।
वेश्मासनवती रम्या सिता वरुणपालिता॥५॥

यस्यामास्ते स वरुणो वारुण्या च समन्वितः ।
दिव्यरत्नाम्बरधरो दिव्याभरणभूषितः॥६॥

वारुण्या वरुणान्या माध्व्या वा ॥६॥

स्रग्विणो दिव्यगन्धाश्च दिव्यगन्धानुलेपनाः ।
आदित्यास्तत्र वरुणं जलेश्वरमुपासते॥७॥

वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा ।
कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान्॥८॥

कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ ।
मणिमान्कुण्डधारश्च कर्कोटकधनञ्जयौ॥९॥

पाणिमान्कुण्डधारश्च बलवान्पृथिवीपते ।
प्रह्रादो मुषिकादश्च तथैव जनमेजयः॥१०॥

पताकिनो मण्डलिनः फणवन्तश्च सर्वशः ।
एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर ।
उपासते महात्मानं वरुणं विगतक्लमाः॥११॥

बलिर्वैरोचनो राजा नरकः पृथिवीञ्जयः ।
संह्रादो विप्रचित्तिश्च कालखञ्जाश्च दानवाः॥१२॥

सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिस्ततः ।
घटोदरो महापार्श्वः क्रथनः पिठरस्तथा॥१३॥

विश्वरूपः स्वरूपश्च विरूपोऽथ महाशिराः ।
दशग्रीवश्च वाली च मेघवासा दशावरः॥१४॥

टिट्टिभो विटभूतश्च संह्रादश्चेन्द्रतापनः ।
दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः॥१५॥

स्रग्विणो मौलिनश्चैव तथा दिव्यपरिच्छदाः ।
सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः॥१६॥

ते तस्यां वरुणं देवं धर्मपाशधरं सदा ।
उपासते महात्मानं सर्वे सुचरितव्रताः॥१७॥

तथा समुद्राश्चत्वारो नदी भागीरथी च सा ।
कालिन्दी विदिशा वेणा नर्मदा वेगवाहिनी॥१८॥

विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती ।
इरावती वितस्ता च सिन्धुर्देवनदी तथा॥१९॥

गोदावरी कृष्णवेणी कावेरी च सरिद्वरा ।
किंपुना च विशल्या च तथा वैतरणी नदी॥२०॥

तृतीया ज्येष्ठिला चैव शोणश्चापि महानदः ।
चर्मण्वती तथा चैव पर्णाशा च महानदी॥२१॥

सरयूर्वारवत्याऽथ लाङ्गली च सरिद्वरा ।
करतोया तथात्रेयी लौहित्यश्च महानदः॥२२॥

लङ्घती गोमती चैव सन्ध्या त्रिःस्रोतसी तथा ।
एताश्चन्याश्च राजेन्द्र सुतीर्था लोकविश्रुताः॥२३॥

सरितः सर्वतश्चान्याः तीर्थानि च सरांसि च ।
कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर॥२४॥

पल्वलानि तडागानि देहवन्त्यथ भारत ।
दिशस्तथा मही चैव तथा सर्वे महीधराः॥२५॥

उपासते महात्मानं सर्वे जलचरास्तथा ।
गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः॥२६॥

स्तुवन्तो वरुणं तस्यां सर्व एव समासते ।
महीधरा रत्नवन्तो रसा ये च प्रतिष्ठिताः॥२७॥

कथयन्तः सुमधुराः कथास्तत्र समासते ।
वारुणश्च तथा मन्त्री सुनाभः पर्युपासते॥२८॥

पुत्रपौत्रैः परिवृतो गोनाम्ना पुष्करेण च ।
सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते॥२९॥

एषा मया संपतता वारुणी भरतर्षभ ।
दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु॥३०॥

संपतता समागछता ॥३०॥
॥ इति श्रीमहाभारते सभापर्वणि लोकपालसभाख्यानपर्वणि वरुणसभावर्णने नवमोऽध्यायः॥९॥
दशमोऽध्यायः

नारद उवाच। सभा वैश्रवणी राजञ्च्छतयोजनमायता ।
विस्तीर्णा सप्ततिश्चैव योजनानि सितप्रभा॥१॥

सभेति ॥१॥

तपसा निर्जिता राजन्स्वयं वैश्रवणेन सा ।
शशिप्रभा प्रावरणा कैलासशिखरोपमा॥२॥

शशिप्रभाप्रावरणा शशिप्रभामपि धावल्येन तिरस्करोतीत्यर्थः ॥२॥

गुह्यकैरुह्यमाना सा खे विषक्तेव शोभते ।
दिव्या हेममयैरुच्चैः प्रासादैरुपशोभिता॥३॥

विषक्ता लग्ना ॥३॥

महारत्नवती चित्रा दिव्यगन्धा मनोरमा ।
सिताभ्रशिखराकारा प्लवमानेव दृश्यते॥४॥

दिव्या हेममयैरङ्गैर्विद्युद्भिरिव चित्रिता ।
तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः॥५॥

रङ्गैरिति छेदः ॥५॥

स्त्रीसहस्रैर्वृतः श्रीमानास्ते ज्वलितकुण्डलः ।
दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते ।
दिव्यपादोपधाने च निषण्णः परमासने॥६॥

मन्दाराणामुदाराणां वनानि परिलोडयन् ।
सौगन्धिकवनानां च गन्धं गन्धवहो वहन्॥७॥

नलिन्याश्चालकाख्याया नन्दनस्य वनस्य च ।
शीतो हृदयसंह्लादी वायुस्तमुपसेवते॥८॥

मनोहृदयसंह्लादीति पाठे मनश्चित्तं हृदयं कदम्बगोलकाकृतिर्मांसखण्डः ॥८॥

तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः ।
दिव्यतानैर्महाराज गायन्ति स्म सभागताः॥९॥

दिव्यतानैः रम्यैस्तानैर्गीतशास्त्रप्रसिद्धैरेकोनपञ्चाशत्संख्यैः ॥९॥

मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता ।
चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला॥१०॥

विश्वाची सहजन्या च प्रम्लोचा उर्वशी इरा ।
वर्गा च सौरभेयी च समीची बुद्बुदा लता॥

एताः सहस्रशश्चान्या नृत्यगीतविशारदाः॥१२॥

उपतिष्ठन्ति धनदं गन्धर्वाप्सरसां गणाः ।
अनिशं दिव्यवादित्रैर्नृत्यगीतैश्च स सभा॥१३॥

अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः ।
किन्नरा नाम गन्धर्वा नरा नाम तथाऽपरे॥१४॥

माणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः ।
कशेरको गण्डकण्डूः प्रद्योतश्च महाबलः॥१५॥

कुस्तम्बरुः पिशाचश्च गजकर्णो विशालकः ।
वराहकर्णस्ताम्रौष्ठः फलकक्षः फलोदकः॥१६॥

हंसचूडः शइखावर्तो हेमनेत्रो विभीषणः ।
पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः॥१७॥

वृक्षवास्यनिकेतश्च चीरवासाश्च भारत ।
एते चान्ये च बहवो यक्षाः शतसहस्रशः॥१८॥

सदा भगवती लक्ष्मीस्तत्रैव नलकूबरः ।
अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः॥१९॥

ब्रह्मर्षयो भवन्त्यत्र तथा देवर्षयोऽपरे ।
क्रव्यादाश्च तथैवान्ये गन्धर्वाश्च महाबलाः॥२०॥

उपासते महात्मानं तस्यां धनदमीश्वरम् ।
भगवान्भूतसङ्घैश्च वृतः शतसहस्रशः॥२१॥

उमापतिः पशुपतिः शूलभृद्भगनेत्रहा ।
त्र्यम्बको राजशार्दूल देवी च विगतक्लमा॥२२॥

वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्महारवैः ।
मेदोमांसाशनैरुग्रैरुग्रधन्वा महाबलः॥२३॥

नानाप्रहरणैरुग्रैर्वातैरिव महाजवैः ।
वृतः सखायमन्वास्ते सदैव धनदं नृप॥२४॥

प्रहृष्टाः शतशश्चान्ये बहुशः सपरिच्छदाः ।
गन्धर्वाणां च पतयो विश्वावसुर्हहाहुहूः॥२५॥

तुम्बुरुः प्रर्वतश्चैव शैलूषश्च तथाऽपरः ।
चित्रसेनश्च गीतज्ञस्तथा चित्ररथोपि च॥२६॥

एते चान्ये च गन्धर्वा धनेश्वरमुपासते ।
विद्याधराधिपश्चैव चक्रधर्मा सहानुजैः॥२७॥

उपाचरति तत्र स्म धनानामीश्वरं प्रभुम् ।
किन्नराः शतशस्तत्र धनानामीश्वरं प्रभुम्॥२८॥

आसते चापि राजानो भगदत्तपुरोगमाः ।
द्रुमः किंपुरुषेशश्च उपास्ते धनदेश्वरम्॥२९॥

राक्षसाधिपतिश्चैव महेन्द्रो गन्धमादनः ।
सह यक्षैः सगन्धर्वैः सह सर्वैर्निशाचरैः॥३०॥

विभीषणश्च धर्मिष्ठ उपास्ते भ्रातरं प्रभुम् ।
हिमवान्पारियात्रश्च विन्ध्यकैलासमन्दराः॥३१॥

मलयो दर्दुरश्चैव महेन्द्रो गन्धमादनः ।
इन्द्रकीलः सुनाभश्च तथा दिव्यौ च पर्वतौ॥३२॥

एते चान्ये च बहवः सर्वे मेरुपुरोगमाः ।
उपासते महात्मानं धनानामीश्वरं प्रभुम्॥३३॥

नन्दीश्वरश्च भगवान्महाकालस्तथैव च ।
शङ्कुकर्णमुखाः सर्वे दिव्याः पारिषदास्तथा॥३४॥

काष्ठः कुटी मुखो दन्ती विजयश्च तपोधिकः ।
श्वेतश्च वृषभस्तत्र नर्दन्नास्ते महाबलः॥३५॥

धनदं राक्षसाश्चान्ये पिशाचाश्च उपासते ।
पारिषदैः परिवृतमुपायान्तं महेश्वरम्॥३६॥

सदा हि देवदेवेशं शिवं त्रैलोक्यभावनम् ।
प्रणम्य मूर्ध्ना पौलस्त्यो बहुरूपमुमापतिम्॥३७॥

ततोऽभ्यनुज्ञां सम्प्राप्य महादेवाद्धनेश्वरः ।
आस्ते कदाचिद्भगवान्भवो धनपतेः सखा॥३८॥

आस्ते इत्यावृत्त्या योजनीयम् । यदा भवः कदाचित्कुबेरसभामध्यास्ते तदा कुबेरोऽपि भवाद‌नुज्ञां प्राप्य तन्निकटे आस्ते उपविशति ॥३८॥

निधिप्रवरमुख्यौ च शङ्खपद्मौ धनेश्वरौ ।
सर्वान्निधीन्प्रगृह्याथ उपास्तां वै धनेश्वरम्॥३९॥

सा सभा तादृशी रम्या मया दृष्टान्तरिक्षगा ।
पितामहसभां राजन्कीर्तयिष्ये निबोध ताम्॥४०॥

॥ इति श्रीमहाभारते सभापर्वणि लोकपालसभाख्यानपर्वणि धनदसभावर्णनं नाम दशमोऽध्यायः॥१०॥
एकादशोऽध्यायः
नारद उवाच।

पितामहसभां तात कथ्यमानां निबोध मे ।
शक्यते या न निर्देष्टुमेवंरूपेति भारत॥१॥

पितामहेति ॥१॥

पुरा देवयुगे राजन्नादित्यो भगवान्दिवः ।
आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः॥२॥

देवयुगे कृतयुगे ॥२॥

चरन्मानुषरूपेण सभां दृष्ट्वा स्वयम्भुवः ।
स तामकथयन्मह्यं दृष्ट्वा तत्त्वेन पाण्डव॥३॥

अप्रमेयां सभां दिव्यां मानसीं भरतर्षभ ।
अनिर्देश्यां प्रभावेण सर्वभूतमनोरमाम्॥४॥

मानसीमित्यनेन भौतिकत्वव्यावृत्तिः तथाहि । ‘आतिवाहिक एवायं त्वादृशैश्चित्तदेहकः । आधिभौतिकया बुद्ध्या गृहीतश्चिरभावनात्’ इति वासिष्ठोक्तरीत्या प्रपञ्चस्य त्रैविध्यं दृश्यते । तत्रायं स्थूलभूतमय आधिभौतिकः । सूक्ष्मभूतमय आतिवाहिकः स एव अति अत्यन्तं कार्याकारं वोढुं समर्थोऽतिवाही सूक्ष्मभूतसंघस्तेन निर्वृत्त इति योगात् । अत एव तत्र इन्द्रादिलोकरूपे स्वर्गे । ‘यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम्’ इति स्वर्गपदनिर्वचनं संगच्छते । संभिन्नं मिश्रं ग्रस्तं भोगोत्तरपापावहम् । अभिलाषः संकल्पः तत्राप्याधिभौतिकस्य तत्त्वं आतिवाहिकः रज्जुरिव भुजङ्गस्य । अस्यापि तत्त्वं चित्तमेव । तदिदमुक्तं चित्तदेहक इति । तादृशी च प्रजापतिसभाऽतो मानसत्वं तत्र युक्तम् ॥४॥

श्रुत्वा गुणानहं तस्याः सभायाः पाण्डवर्षभ ।
दर्शनेप्सुस्तथा राजन्नादित्यमिदमब्रुवम्॥५॥

भगवन्द्रष्टुमिच्छामि पितामहसभां शुभाम् ।
येन वा तपसा शक्या कर्मणा वाऽपि गोपते॥६॥

औषधैर्या तथा युक्तैरुत्तमा पापनाशिनी ।
तन्ममाचक्ष्व भगवन्पश्येयं तां सभां यथा॥७॥

औषधैः ज्योतिष्मत्यादिभिः कल्पोक्तप्रकारेण साधितैः ॥७॥

स तन्मम वचः श्रुत्वा सहस्रांशुर्दिवाकरः ।
प्रोवाच भारतश्रेष्ठ व्रतं वर्षसहस्रकम्॥८॥

ब्रह्मव्रतमुपास्स्व त्वं प्रयतेनान्तरात्मना ।
ततोऽहं हिमवत्पृष्ठे समारब्धो महाव्रतम्॥९॥

ब्रह्मव्रतं हार्दब्रह्मोपासनाम् ॥९॥

ततः स भगवान्सूर्यो मामुपादाय वीर्यवान् ।
आगच्छत्तां सभां ब्राह्मीं विपाप्मा विगतक्लमः ॥१०॥

ततः स इति । सूर्यद्वारेण ते विरजाः प्रयान्तीति ब्रह्मसभाप्रवेशेऽधिदैवं प्रत्यक्षसूर्यस्यैव द्वारत्वम् अध्यात्मं तु इडाख्यसूर्यनाडीद्वारा ॥१०॥

एवंरूपेति सा शक्या न निर्देष्टुं नराधिप ।
क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा॥११॥

एवमिति मानसत्वादेव रज्जूरगवत्सत्यसती वेति निर्वक्तुं न शक्या क्षणेनेति रज्जुर्यथा भावकबुद्ध्यनुरोधात् स्रक्सर्पदण्डधारादिरूपा तथेयमपि वैकुण्ठकैलासादिरूपेण भातीत्यर्थः ॥११॥

न वेद परिमाणं वा संस्थानं चापि भारत ।
न च रूपं मया तादृक् दृष्टपूर्वं कदाचन॥१२॥

सुसुखा सा सदा राजन्न शीता न च घर्मदा ।
न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्तुवन्त्युत ॥१३॥

नानारूपैरिव कृता मणिभिः सा सुभास्वरैः ।
स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा ॥

दिव्यैर्नानाविधैर्भावैर्भासद्भिरमितप्रभैः॥१५॥

अतिचन्द्रं च सूर्यं च शिखिनं च स्वयम्प्रभा ।
दीप्यते नाकपृष्ठस्था भर्त्सयन्तीव भास्करम्॥१६॥

अतिचन्द्रमिति । स्वयमित्यव्ययं स्वयमहं करोमि स्वयं त्वं करोषि स स्वयंकृतवानित्यादिप्रयोगादव्याकृतप्रत्यगात्मवाचकम् । स एव प्रभा प्रकाशकं ज्योतिर्यस्यां सा स्वयंप्रभा । जागरे हि सूर्यादीनां घटादिप्रकाशकत्वं दृष्टं तदात्मन एवेति साधयितुं सूर्याद्यभावकाले स्वप्नं प्रकृत्यात्रायं पुरुषः स्वयंज्योतिरिति श्रुत्या साटोपमुक्तम् ॥१६॥

तस्यां स भगवानास्ते विदधद्देवमायया ।
स्वयमेकोनिशं राजन्सर्वलोकपितामहः॥१७॥

तस्यामिति । सः महत्तत्वाभिमानी सूक्ष्ममन आख्यः यं प्रकृत्य स्मर्यते ‘मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः । प्रज्ञा संवित् चितिश्चैव स्मृतिश्च परिपठ्यते’ इति अत एव भगवान्सर्वैश्वर्यवान् देवमायया स्वाविद्यया विदधल्लोकानिति शेषः। विदधद्देवमानुषानिति पाठेऽपि स्वाविद्ययेत्यध्याहार्यम् । एकोनिशं सत्स्वपि स्वसृष्टेषु पदार्थेषु ऐन्द्रजालिकवदेक एवेत्यर्थः ॥१७॥

उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम् ।
दक्षः प्रचेताः पुलहो मरीचिः कश्यपः प्रभुः॥१८॥

एकस्यैव विद्यैकव्यंग्यं सार्वात्म्यम् ‘अहं मनुरभवं सूर्यश्च’ इत्यादिश्रुतिप्रसिद्धं प्रपञ्चयति उपतिष्ठन्तीत्यादिनाऽध्यायशेषेण ॥१८॥

भृगुरत्रिर्वसिष्ठश्च गौतमोऽथ तथाङ्गिराः ।
पुलस्त्यश्च कतुश्चैव प्रह्लादः कर्दमस्तथा॥१९॥

अथर्वाङ्गिरसश्चैव वालखिल्या मरीचिपाः ।
मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही॥२०॥

शब्दस्पर्शौ तथा रूपं रसो गन्धश्च भारत ।
प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः॥२१॥

यच्चान्यत् कालादृष्टादि ॥२१॥

अगस्त्यश्च महातेजा मार्कण्डेयश्च वीर्यवान् ।
जमदग्निर्भरद्वाजः संवर्तश्च्यवनस्तथा॥२२॥

दुर्वासाश्च महाभाग ऋष्यशृङ्गश्च धार्मिकः ।
सनत्कुमारो भगवान्योगाचार्यो महातपाः॥२३॥

असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित् ।
ऋषभो जितशत्रुश्च महावीर्यस्तथा मणिः॥२४॥

आयुर्वेदस्तथाष्टाङ्गो देहवांस्तत्र भारत ।
चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान्॥२५॥

वायवः क्रतवश्चैव सङ्कल्पः प्राण एव च ।
मूर्तिमन्तो महात्मानो महाव्रतपरायणाः॥२६॥

एते चान्ये च बहवो ब्रह्माणं समुपस्थिताः ।
अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः॥२७॥

आयान्ति तस्यां सहिता गन्धर्वाप्सरसां गणाः ।
विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः॥२८॥

सप्त चैवान्ये इति सप्तविंशतिर्नक्षत्राणीत्येके अन्ये तु विंशतिर्गन्धर्वाप्सरसां गणाः सप्त चान्ये गन्धर्वा मुख्याः ते च । ‘हंसो हाहाहुहूर्विश्वावसुर्वररुचिस्तथा । वृषणस्तुम्बुरुश्चैव गन्धर्वाः सप्त कीर्तिताः’ इति ॥२८॥

शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च ।
शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च॥२९॥

मन्त्रो रथन्तरं चैव हरिमान्वसुमानपि ।
आदित्याः साधिराजानो नामद्वन्द्वैरुदाहृताः॥३०॥

मन्त्रः सामगानाश्रयभूतोऽग्न आयाहीत्यादिः रथंतरं सामविशेषः हरिमान्वसुमानिति कर्मविशेषयोरिन्द्रनामनी साधिराजानः सेन्द्राः नामद्वन्द्वैः अग्नीषोमेन्द्राग्न्यादिभिः ॥३०॥

मरुतो विश्वकर्मा च वसवश्चैव भारत ।
तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ॥३१॥

हवींषि व्रीहिपश्वादिजीवाः ॥३१॥

ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव ।
अथर्ववेदश्च तथा सर्वशास्त्राणि चैव ह॥३२॥

इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः ।
ग्रहा यज्ञाश्च सोमश्च देवताश्चापि सर्वशः॥३३॥

उपवेदाः ‘आयुर्वेदो धनुर्वेदो गान्धर्वश्चार्थशास्त्रकम्’ इति अङ्गानि शिक्षादीनि ॥३३॥

सावित्री दुर्गतरणी वाणी सप्तविधा तथा ।
मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा॥३४॥

दुर्गतरणी वाणी प्रणवः सा च सप्तविधा अकार उकारो मकारः अर्धमात्रानादः बिन्दुः शक्तिरिति सप्तप्रकाराः शान्तरूपाधिष्ठानप्रापका इत्यर्थः । संस्कृतप्राकृतपैशाच्यपभ्रंशललितमागधगद्यरूपा इत्यन्ये ॥३४॥

सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा ।
भाष्याणि तर्कयुक्तानि देहवन्ति विशांपते॥३५॥

नाटका विविधाः काव्याः कथाख्यायिककारिकाः ।
तत्र तिष्ठन्ति ते पुण्या ये चान्ये गुरुपूजकाः॥३६॥

क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च ।
अर्धमासाश्च मासाश्च ऋतवः षट् च भारत॥३७॥

संवत्सराः पञ्चयुगमहोरात्रश्चतुर्विधः ।
कालचक्रं च तद्दिव्यं नित्यमक्षयमव्ययम्॥३८॥

संवत्संराः षष्टिः प्रभवादयः ते च पञ्च पञ्च एकैकं युगम् । चतुर्विधः मानुषोऽहोरात्र षष्टिघटिकाभिः । पैत्रो मासेन दैवो वत्सरेण ब्राह्मः कल्पनेति कालचक्रं द्वादशराश्यात्मकम् ॥३८॥

धर्मचक्रं तथा चापि नित्यमास्ते युधिष्ठिर ।
अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा॥३९॥

कालिका सुरभी देवी सरमा चाथ गौतमी ।
प्रभा कद्रूश्च वै देव्यौ देवतानां च मातरः ।
रुद्राणी श्रीश्च लक्ष्मीश्च भद्रा षष्ठी तथाऽपरा॥४१॥

पृथिवी गां गता देवी ह्रीः स्वाहा कीर्तिरेव च ।
सुरा देवी शची चैव तथा पुष्टिररुन्धती॥४२॥

संवृत्तिराशा नियतिः सृष्टिर्देवी रतिस्तथा ।
एताश्चान्याश्च वै देव्य उपतस्थुः प्रजापतिम्॥४३॥

आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि ।
विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः॥४४॥

पितॄणां च गणान्विद्धि सप्तैव पुरुषर्षभ ।
मूर्तिमन्तो वै चत्वारस्त्रयश्चापि शरीरिणः॥४५॥

वैराजश्च महाभागा अग्निष्वात्ताश्च भारत ।
गार्हपत्या नाकचराः पितरो लोकविश्रुताः॥४६॥

वैराजाः विराट्प्रभवाः सप्तपितृणा अग्निष्वात्तादयः ॥४६॥

सोमपा एकशृङ्गाश्च चतुर्वेदाः कलास्तथा ।
एते चतुर्षु वर्णेषु पूज्यन्ते पितरो नृप॥४७॥

एतैराप्यायितैः पुर्वं सोमश्चाप्याय्यते पुनः ।
त एते पितरः सर्वे प्रजापतिमुपस्थिताः॥४८॥

उपासते च संहृष्टा ब्रह्माणममितौजसम् ।
राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा॥४९॥

नागाः सुपर्णाः पशवः पितामहमुपासते ।
स्थावरा जङ्गमाश्चैव महाभूतास्तथाऽपरे॥५०॥

पुरन्दरश्च देवेन्द्रो वरुणो धनदो यमः ।
महादेवः सहोमोऽत्र सदा गच्छति सर्वशः॥५१॥

महादेव ईश्वरोऽपि सहोमो ब्रह्मविद्यासहितस्तत्रैवान्तर्भूतः ॥५१॥
नारायणश्च विद्याप्राप्यः शुद्ध आत्मापि तत्रैव प्राप्यत इत्यर्थः ॥५१॥

महासेनश्च राजेन्द्र सदोपास्ते पितामहम् ।
देवो नारायणस्तस्यां तथा देवर्षयश्च ये॥५२॥

ऋषयो वालखिल्याश्च योनिजाऽयोनिजास्तथा ।
यच्च किञ्चित्रिलोकेऽस्मिन्दृश्यते स्थाणु जङ्गमम् ।
सर्वं तस्यां मया दृष्टमिति विद्धि नराधिप॥५३॥

एकस्यापिसार्वात्म्यमुक्तम् उपसंहरति यच्चेति ॥५३॥

अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् ।
प्रजावतां च पञ्चाशदृषीणामपि पाण्डव॥५४॥

तत्प्राप्त्यधिकारिण आह अष्टाशीतीति ॥५४॥

ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः ।
प्रणम्य शिरसा तस्मै सर्वे यान्ति यथागमम्॥५५॥

ते स्म तत्रेत्यादिना यत्कौषीतकीये श्रुतं पर्यङ्कस्थं ब्रह्म तेन सह संवादादिक च तदुपबृंहयति॥५५॥

अतिथीनागतान्देवान्दैत्यान्नागांस्तथा द्विजान् ।
यक्षान्सुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा॥५६॥

महाभागानमितधीर्ब्रह्मा लोकपितामहः ।
दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते॥५७॥

प्रतिगृह्य तु विश्वात्मा स्वयम्भूरमितद्युतिः ।
सान्त्वमानार्थसम्भोगैर्युनक्ति मनुजाधिप॥५८॥

तथा तैरुपयातैश्च प्रतियद्भिश्च भारत ।
आकुला सा सभा तात भवति स्म सुखप्रदा॥५९॥

सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता ।
ब्राहया श्रिया दीप्यमाना शुशुभे विगतक्लमा॥६०॥

ब्राह्म्या श्रिया शमो दमस्तपः शौचमित्यादिना प्रसिद्धया शमादिसंपत्त्या ॥६०॥

सा सभा तादृशी दृष्टा मया लोकेषु दुर्लभा ।
सभेयं राजशार्दूल मनुष्येषु यथा तव॥६१॥

एता मया दृष्टपूर्वाः सभा देवेषु भारत ।
सभेयं मानुषे लोके सर्वश्रेष्ठतमा तव॥६२॥

॥ इति श्रीमहाभारते सभापर्वणि लोकपालसभाख्यानपर्वणि ब्रह्मसभावर्णनं नाम एकादशोऽध्यायः॥ ११॥
द्वादशोऽध्यायः
युधिष्ठिर उवाच।

प्रायशो राजलोकस्ते कथितो वदतां वर ।
वैवस्वतसभायां तु यथा वदसि मे प्रभो॥१॥

राजसूयमुपोद्घातयति । प्रायश इत्यादिना ॥१॥

वरुणस्य सभायां तु नागास्ते कथिता विभो ।
दैत्येन्द्राश्चापि भूयिष्ठाः सरितः सागरास्तथा॥२॥

तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा ।
गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः॥३॥

पितामहसभायां तु कथितास्ते महर्षभः ।
सर्वे देवनिकायाश्च सर्वशास्त्राणि चैव ह॥४॥

शक्रस्य तु सभायां तु देवाः सङ्कीर्तिता मुने ।
उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः॥५॥

एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने ।
कथितस्ते सभायां वै देवेन्द्रस्य महात्मनः॥६॥

सहस्त्रवर्षव्रतप्राप्यां ब्रह्मसभामुपेक्ष्य हरिश्चन्द्रप्राप्ताम् इन्द्रसभां शक्यप्रवेशां मत्वा तत्साधनं पृच्छति एक एवेति ॥६॥

किं कर्म तेनाचरितं तपो वा नियतव्रत ।
येनासौ सह शक्रेण स्पद्धते सुमहायशाः॥७॥

पितृलोकगतश्चैव त्वया विप्र पिता मम ।
दृष्टः पाण्डुर्महाभागः कथं वाऽपि समागतः॥८॥

किमुक्तवांश्च भगवंस्तन्ममाचक्ष्व सुव्रत ।
त्वत्तः श्रोतुं सर्वमिदं परं कौतूहलं हि मे॥९॥

नारद उवाच। यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो ।
तत्तेऽहं सम्प्रवक्ष्यामि माहात्म्यं तस्य धीमतः॥१०॥

यन्मां पृच्छसीत्यादेः दाशार्हनगरीं प्रतीत्यन्तस्य परमतात्पर्यं शक्रलोकप्रापको राजसूयः अतियत्नसाध्यः सिद्धश्च तीव्रानर्थहेतुरतो ब्रह्मसभाप्रापकमेव व्रतमनुष्ठेयमिति । अवान्तरतात्पर्यं तु भूभारहरणार्थं ब्रह्मणा प्रेरितो नारदः सर्वसंहारहेतुं राजसूयं युधिष्ठिरद्वारा कारयितुं युधिष्ठिरं कृष्णं चोद्योजयतीति ॥१०॥

स राजा बलवानासीत्सम्राट् सर्वमहीक्षिताम् ।
तस्य सर्वे महीपालाः शासनावनताः स्थिताः॥११॥

तेनैकं रथमास्थाय जैत्रं हेमविभूषितम् ।
शस्त्रप्रतापेन जिता द्वीपाः सप्त जनेश्वर॥१२॥

स निर्जित्य महीं कृत्स्नां सशैलवनकाननाम् ।
आजहार महाराज राजसूयं महाक्रतुम्॥१३॥

तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया ।
द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन्॥१४॥

प्रादाच्च द्रविणं प्रीत्या याचकानां नरेश्वरः ।
यथोक्तवन्तस्ते तस्मिंस्ततः पञ्चगुणाधिकम्॥१५॥

अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तदा ।
प्रसर्पकाले सम्प्राप्ते नानादिग्भ्यः समागतान्॥१६॥

प्रसर्पोऽग्निविसर्जनमिति निघण्टुः ॥१६॥

भक्ष्यभोज्यैश्च विविधैर्यथाकामपुरस्कृतैः ।
रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम्॥१७॥

तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत् ।
एतस्मात्कारणाद्राजन्हरिश्चन्द्रो विराजते ।
तेभ्यो राजसहस्रेभ्यस्तद्विद्धि भरतर्षभ॥१८॥

समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान् ।
अभिषिक्तश्च शुशुभे साम्राज्येन नराधिप॥१९॥

ये चान्ये च महीपाला राजसूयं महाक्रतुम् ।
यजन्ते ते सहेन्द्रेण मोदन्ते भरतर्षभ॥२०॥

ये चापि नि नं प्राप्ताः सङ्ग्रामेष्वपलायिनः ।
ते तत्सदनमासाद्य मोन्दते भरतर्षभ॥२१॥

तपसा ये च तीव्रेण त्यजन्तीह कलेवरम् ।
ते तत्स्थानं समासाद्य श्रीमन्तो भान्ति नित्यशः॥२२॥

पिता च त्वाऽऽह कौन्तेय पाण्डुः कौरवनन्दन ।
हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः॥२३॥

त्वाह त्वामाह ॥२३॥

विज्ञाय मानुषं लोकमायान्तं मां नराधिप ।
प्रोवाच प्रणतो भूत्वा वदेथास्त्वं युधिष्ठिरम्॥२४॥

समर्थोऽसि महीं जेतुं भ्रातरस्ते स्थिता वशे ।
राजसूयं क्रतुश्रेष्ठमाहरस्वेति भारत॥२५॥

त्वयीष्टवति पुत्रेऽहं हरिश्चन्द्रवदाशु वै ।
मोदिष्ये बहुलाः शश्वत्समाः शक्रस्य संसदि॥२६॥

एवं भवतु वक्ष्येऽहं तव पुत्रं नराधिपम् ।
भूर्लोकं यदि गच्छेयमिति पाण्डुमथाब्रुवम्॥२७॥

तस्य त्वं पुरुषव्याघ्र सङ्कल्पं कुरु पाण्डव ।
गन्तासि त्वं महेन्द्रस्य पूर्वैः सह सलोकताम्॥२८॥

संकल्पं कामं गन्तासि गमिष्यसि ॥२८॥

बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान् ।
छिद्राण्यस्य तु वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः॥२९॥

युद्धं च क्षत्रशमनं पृथिवीक्षयकारणम् ।
किञ्चिदेव निमित्तं च भवत्यत्र क्षयावहम्॥३०॥

एतत्सञ्चिन्त्य राजेन्द्र यत्क्षमं तत्समाचर ।
अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे॥३१॥

भव एधस्व मोदस्व धनैस्तर्पय च द्विजान् ।
एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि ।
आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति॥३२॥

वैशम्पायन उवाच। एवमाख्याय पार्थेभ्यो नारदो जनमेजय ।
जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः॥३३॥

गते तु नारदे पार्थो भ्रातृभिः सह कौरवः ।
राजसूयं क्रतुश्रेष्ठं चिन्तयामास पार्थिवः॥३४॥

॥ इति श्रीमहाभारते सभापर्वणि लोकपालसभापर्वणि पाण्डुसन्देशकथने द्वादशोऽध्यायः॥ १२॥
॥समाप्तं लोकपालसभाख्यानपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in