वैशम्पायन उवाच।
ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः
।
चिन्तयन्राजसूयेष्टिं न लेभे शर्म भारत॥१॥
राजर्षीणां च तं श्रुत्वा महिमानं महात्मनाम्
।
यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च॥२॥
हरिश्चन्द्रं च राजर्षि रोजमानं विशेषतः
।
यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः॥३॥
युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः
।
प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे॥४॥
स राजसूयं राजेन्द्र कुरूणामृषभस्तदा
।
आहर्तुं प्रवणं चक्रे मनः सञ्चिन्त्य चासकृत्॥५॥
भूयश्चाद्भुतवीर्यौजा धर्ममेवानुचिन्तयन्
।
किं हितं सर्वलोकानां भवेदिति मनो दधे॥६॥
अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मभृतां वरः
।
अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः॥७॥
सर्वेषां दीयतां देयं मुष्णन्कोपमदावुभौ
।
साधु धर्मेति धर्मेति नान्यच्छ्रूयेत भाषितम्॥८॥
ऋषेरिति ॥१॥ दीयतामित्युवाचेति शेषः पाठान्तरे तु स्पष्टम् ॥८॥
एवंगते ततस्तस्मिन्पितरीवाश्वसञ्जनाः
।
न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता॥९॥
परिग्रहान्नरेन्द्रस्य भीमस्य परिपालनात्
।
शत्रूणां क्षपणाच्चैव बीभत्सोः सव्यसाचिनः॥१०॥
धीमतः सहदेवस्य धर्माणामनुशासनात्
।
वैनत्यात्सर्वतश्चैव नकुलस्य स्वभावतः
।
अविग्रहा वीतभयाः स्वकर्मनिरताः सदा॥११॥
अविग्रहाः कलहशून्याः ॥११॥
निकामवर्षाः स्फीताश्च आसञ्जनपदास्तथा
।
वार्धुषी यज्ञसत्त्वानि गोरक्षं कर्षणं वणिक् ॥१२॥
वार्धुषी वृद्ध्युपजीविका यज्ञसत्त्वानि क्रतूनां सामर्थ्यानि सद्यः पुष्कलफलप्रदत्वादिविषयाणि॥१२॥
विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणा
।
अनुकर्षं च निष्कर्षं व्याधिपावकमूर्छनम्॥१३॥
अनुकर्षे दारिद्र्यात् राजकीयद्रव्यस्यातीतवर्षस्य ऋणत्वेन धारणम् । निष्कर्षं करार्थं प्रजापीडनं मूर्छनं वृद्धिः ॥१३॥
सर्वमेव न तत्रासीद्धर्मनित्ये युधिष्ठिरे
।
दस्युभ्यो वञ्चकेभ्यश्च राज्ञः प्रति परस्परम्॥१४॥
राजवल्लभतश्चैव नाश्रूयत मृषाकृतम्
।
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वकर्मजम्॥१५॥
अभिहर्तुं नृपाः षट्सु पृथक्जात्यैश्च नैगमैः
।
ववृधे विषयस्तत्र धर्मनित्ये युधिष्ठिरे॥१६॥
षट्सु संधिविग्रहादिषु यस्य प्रियादिकं कर्तुं नैगमैर्वणिग्भिः सह आसन्निति शेषः इतरे नृपाः वणिग्वत् येन करदीकृता इत्यर्थः तत्र तस्मिन् विषयो देशः ॥१६॥
कामतोऽप्युपयुञ्जानै राजसैर्लोभजैर्जनैः
।
सर्वव्यापी सर्वगुणी सर्वसाहः स सर्वराट्॥१७॥
कामतो यथेष्टम् उपयुञ्जानैः दिव्यान्नवस्त्रादिभोगं कुर्वद्भिः । यतो लोभजैः विमोहोत्थैः । राजसैर्वृत्तिविशेषैस्तृष्णादिभिस्तादृशैरपि ववृधे वृद्धिमान् अभूत् ॥१७॥
यस्मिन्नधिकृतः सम्राड् भ्राजमानो महायशाः
।
यत्र राजन्दश दिशः पितृतो मातृतस्तथा
।
अनुरक्ताः प्रजा आसन्नागोपाला द्विजातयः ॥१८॥
यस्मिन्विषये राजन्राज्ञि पितृतः पितृगुणैः नीतिशिक्षणादिभिः मातृतो मातृगुणैः वात्सल्यादिभिः ॥१८॥
वैशंपायन उवाच।
स मन्त्रिणः समानाय्य भ्रातॄंश्च वदतां वरः
।
राजसूयं प्रति तदा पुनः पुनरपृच्छत॥१९॥
ते पृच्छमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा
।
युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन्॥२०॥
येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति
।
तेन राजाऽपि तं कुत्स्नं सम्राड्गुणमभीप्सृति॥२१॥
वारुणं गुणं जलधातुजयम् सम्राड्गुणं भूधातुजयम् ॥२१॥
तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन
।
राजसूयस्य समयं मन्यन्ते सुहृदस्तव॥२२॥
तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसम्पदा
।
साम्ना षडग्नयो यस्मिंश्चीयन्ते शंसितव्रतैः॥२३॥
अग्नयः अग्निस्थापनार्थानि स्थण्डिलानि । साम्ना सामवेदविहितैः मन्त्रैश्चीयन्ते रच्यन्ते॥२३॥
दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून्
।
अभिषेकं च यस्यान्ते सर्वजित्तेन चोच्यते॥२४॥
दर्वीति । दर्वीहोमोऽग्निहोत्रादिस्तत्प्रभृतीन् सर्वान् ऋतून् इष्टिपशुसोमयागान्प्राप्नुते व्याप्नोति । तत्समुदायात्मक इत्यर्थः । अभिषेकफलं सर्वजित्त्वम् । ‘आत्रेयोऽङ्गमभिषिषेच तस्माद्वङ्गं समन्तं सर्वतः पृथिवीं जयन्परीयाय’ इति श्रुतम् ॥२४॥
समर्थोऽसि महाबाहो सर्वे ते वशगा वयम्
।
अचिरात्त्वं महाराज राजसूयमवाप्स्यसि॥२५॥
अविचार्य महाराज राजसूये मनः कुरु
।
इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन्॥२६॥
स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशाम्पते
।
धृष्टमिष्टं वरिष्टं च जग्राह मनसाऽरिहा॥२७॥
धृष्टं प्रगल्भम् । इष्टम् आप्ततमं वरिष्ठं श्रेष्ठतमम् ॥२७॥
श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम्
।
पुनः पुनर्मनो दध्रे राजसूयाय भारत॥२८॥
स भ्रातृभिः पुनर्धीमानृत्विग्भिश्च महात्मभिः
।
मन्त्रिभिश्चापि सहितो धर्मराजो युधिष्ठिरः
।
धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रवित्॥२९॥
युधिष्ठिर उवाच।
इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोः
।
श्रद्दधानस्य वदत स्पृहा मे सा कथं भवेत्॥३०॥
कथं भवेत् फलवतीति शेषः ॥३०॥
वैशम्पायन उवाच।
एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन
।
इदमूचुर्वचः काले धर्मराजं युधिष्ठिरम्॥३१॥
अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम्
।
अथैवमुक्ते नृपतावृत्विग्भिर्ऋषिभिस्तथा॥३२॥
मन्त्रिणो भ्रातरश्चान्ये तद्वचः प्रत्यपूजयन्
।
स तु राजा महाप्राज्ञः पुनरेवात्मनात्मवान्॥३३॥
आत्मवान् जितचितः ॥३३॥
भूयो विममृशे पार्थो लोकानां हितकाम्यया
।
सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ॥३४॥
विममृशे कथं यज्ञः सिद्ध्येत्कथं वा लोकनाशो न स्यादिति विमर्शं कृतवान् । सामर्थ्ये पृथ्वीं जेतुम् । योगं धनसंपत्तिं व्ययागमौ धनस्यैव ॥३४॥
विमृश्य सम्यक् च धिया कुर्वन्प्राज्ञो न सीदति
।
न हि यज्ञसमारम्भः केवलात्मविनिश्चयात्॥३५॥
एतान्सम्यक् संख्यादिना धिया च विमृश्य ॥३५॥
भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन्
।
स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम्॥३६॥
सर्वलोकात्परं मत्वा जगाम मनसा हरिम्
।
अप्रमेयं महाबाहुं कामाञ्जातमजं नृषु॥३७॥
सर्वस्मात् लोक्यत इति लोको दृश्यं मूलाज्ञानं तस्मात्परम् । ‘तमसः परस्तात्’ इति श्रुतेः अत एव अप्रमेयं वाङ्मनसातीतत्वात् । कामात् बहुस्यां प्रजायेयेत्यादिश्रुतादीक्षणात् न तु कर्मवशत्वात्॥३७॥
पाण्डवस्तर्कयामास कर्मभिर्देवसंमतैः
।
नास्य किञ्चिदविज्ञातं नास्य किञ्चिदकर्मजम्॥३८॥
देवानां संमतैः कर्मभिः बालेनापि पूतनावधादिभिः संमितैरिति पाठे देवकर्मतुल्यैरित्यर्थः । नास्येति सर्वज्ञः सर्वकृत् सर्वसह इति पादत्रयार्थः ॥३८॥
न स किञ्चिन्न विषहेदिति कृष्णममन्यत
।
स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः ॥३९॥
गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा
।
शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान्॥४०॥
भूतगुरवेपि गुरुवत् आशीर्वादसंदेशादिना युक्तम् ॥४०॥
द्वारकावासिनं कृष्णं द्वारवत्यां समासदत्
।
दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः॥४१॥
इन्द्रसेनेन सहित इन्द्रप्रस्थमगात्तदा
।
व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनवः॥४२॥
इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः
।
स गृहे पितृवद्भ्रात्रा धर्मराजेन पूजितः॥४३॥
भ्रात्रा पितृष्वसृजेन ॥४३॥
भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः
।
प्रीतः प्रीतेन सुहृदा रेमे स सहितस्तदा॥४४॥
अर्जुनेन यमाभ्यां च गुरुवत्पर्युपासितः
।
तं विश्रान्तं शुभे देशे क्षणिनं कल्पमच्युतम्
।
धर्मराजः समागम्य ज्ञापयत्स्वप्रयोजनम्॥४५॥
क्षणिनं सावसरं कल्पं समर्थम् ॥४५॥
युधिष्ठिर उवाच।प्रार्थितो राजसूयो मे न चासौ केवलेप्सया
।
प्राप्यते येन तत्ते हि विदितं कृष्ण सर्वशः॥४६॥
यस्मिन्सर्वं सम्भवति यश्च सर्वत्र पूज्यते
।
यश्च सर्वेश्वरो राजा राजसूयं स विन्दति॥४७॥
तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे
।
तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत्॥४८॥
केचिद्धि सौहृदादेवे न दोषं परिचक्षते
।
स्वार्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत॥४९॥
प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम्
।
एवम्प्रायाश्च दृश्यन्ते जनवादाः प्रयोजने॥५०॥
त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्युदस्य च
।
परमं यत्क्षमं लोके यथावद्वक्तुमर्हसि॥५१॥
॥ इति श्रीमहाभारते सभापर्वणि राजसूयारम्भपर्वणि वासुदेवागमने त्रयोदशोऽध्यायः॥ १३॥
कृष्ण उवाच।
सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि
।
जानतस्त्वेव ते सर्वं किञ्चिद्वक्ष्यामि भारत॥१॥
सर्वैरिति । सर्वराजजयाद्राजसूयेऽधिक्रियते राजजयश्च प्रधानमल्लनिबर्हणन्यायेन जरासंधवधेनैव जायत इत्यभिप्रेत्याह जानत इत्यादिना ॥१॥
जामदग्न्येन रामेण क्षत्रं यदवशेषितम्
।
तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम्॥२॥
अवरजम् अर्वाग्जातं यद्वा यत्पलायनपरम् अवशेषितं क्षत्रं तस्मात् । अवरात् नीचात् जातं नीचजम् । अत एव क्षत्रसंज्ञितं न तु क्षत्रकर्मयोग्यम् ॥२॥
कृतोऽयं कलुसङ्कल्पः क्षत्रियैर्वसुधाधिप
।
निदेशवाग्भिस्तत्तेह विदितं भरतर्षभ॥३॥
तैश्चायं कुलसंकल्पः सर्वक्षत्रसमुदाये संकेतः कृतः यः सर्वक्षत्रजित्सः अस्माकं मध्ये सम्राट्राज्ञामपि राजा भविष्यतीति वक्ष्यमाणः । निदेशवाग्भिः पूर्वपूर्वोपदेशवाक्यैः ह प्रसिद्धम् । तत्ते विदितम् । निदेशभाग्भिरिति पाठे अस्वतन्त्रैः क्षत्रियैरित्यर्थः ॥३॥
ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते
।
राजानः श्रेणिबद्धाश्च तथाऽन्ये क्षत्रिया भुवि॥४॥
तत्र पूर्वं ऐलः सम्राट् जातः इत्याह । ऐलस्येति । ऐलः पुरूरवाः इक्ष्वाकुवंशस्य च मनोः इला इक्ष्वाकुश्च तत्र इलायाः पुरूरवादयः इक्ष्वाकोर्नाभागादयश्चेति सोमसूर्यवंशीयराजसु द्वौ सुख्यौ तयोः प्रकृतिं प्रजामिव प्रजां करदत्वात् । कासौ प्रकृतिरित्यत आह राजान इति । श्रेणिबद्धाः तंत्या दाम्ना बलीवर्दा इव आज्ञया बद्धाः ॥४॥
ऐलवंश्याश्च ये राजंस्तथैवेक्ष्वाकवो नृपाः
।
तानि चैकशतं विद्धि कुलानि भरतर्षभ॥५॥
वंशद्वयेप्येवं क्रमतः शतं सम्राजां कुलानि जातानीत्याह । ऐलवंश्या इति ॥५॥
ययातेस्त्वेव भोजानां विस्तरो गुणतो महान्
।
भजतेऽद्य महाराज विस्तरं सचतुर्दिशम्॥६॥
ययातेः वंशे । इति शेषः अद्य संप्रति ॥६॥
तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते
।
इदानीमेव वै राजञ्जरासन्धो महीपतिः॥७॥
इदानीमेव अभिषेचितो नरेन्द्रैरिति शेषः ॥७॥
अभिभूय श्रियं तेषां कुलानामभिषेचितः
।
स्थितो मूर्ध्नि नरेन्द्राणामोजसाक्रम्य सर्वशः॥८॥
सोवनीं मध्यमां भुक्त्वा मिथो भेदममन्यत
।
प्रभुर्यस्तु परो राजा यस्मिन्नेकवशे जगत्॥९॥
मध्यमां मथुरादेशरूपाम् अस्मदीयाम् अस्मासु द्वारवतीं गतेषु भुक्त्वा मिथः अस्माभिः सह भेदं वैरम् अमन्यत । तेन सः अस्मान्सर्वश्रेष्टान् जित्वा स एव साम्राज्यं प्राप्त इत्याह प्रभुरित्यादिना । चतुर्जस्तु परो राजेति पाठे चतुर्जो जरासंधः । द्वे मातरौ पिता जरा राक्षसी चेति चतुर्भ्यो जातत्वात्॥९॥
स साम्राज्यं महाराज प्राप्तो भवति योगतः
।
तं स राजा जरासन्धं संश्रित्य किल सर्वशः॥१०॥
राजन्सेनापतिर्जातः शिशुपालः प्रतापवान्
।
तमेव च महाराज शिष्यवत्समुपस्थितः॥११॥
वक्रः करूषाधिपतिर्मायायोधी महाबलः
।
अपरौ च महावीर्यौ महात्मानौ समाश्रितौ॥१२॥
जरासन्धं महावीर्यं तौ हंसडिम्भकावुभौ
।
वक्रदन्तः करूषस्य करभो मेघवाहनः
।
मूर्ध्ना दिव्यमणिं बिभ्रद्यमद्भुतमणिं विदुः॥१३॥
मरुं च नरकं चैव शास्ति यो यवनाधिपः
।
अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा॥१४॥
भगदत्तो महाराज वृद्धस्तव पितुः सखा
।
स वाचा प्रणतस्तस्य कर्मणा च विशेषतः॥१५॥
भगदत्तो मध्यस्थ इत्याह भगेति ॥१५॥
स्नेहबद्धश्च मनसा पितृवद्भक्तिमांस्त्वयि
।
प्रतीच्यां दक्षिणं चान्तं पृथिव्याः प्रति यो नृपः॥१६॥
मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः
।
स ते सन्नितिमानेकः स्नेहतः शत्रुसूदनः॥१७॥
त्वत्पक्षे तु कुन्तिभोज एक एवेत्याह । मातुल इति ॥१७॥
जरासन्धं गतस्त्वेव पुरा यो न मया हतः
।
पुरुषोत्तमविज्ञातो योसौ चेदिषु दुर्मतिः॥१८॥
पौण्ड्रकोऽपि परपक्षे एवास्तीत्याह जरेति ॥१८॥
आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम्
।
आदत्ते सततं मोहाद्यः स चिह्नं च मामकम्॥१९॥
वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः
।
पौण्ड्रको वासुदेवेति योऽसौ लोकेऽभिविश्रुतः॥२०॥
चतुर्थभाङ्महाराज भोजम् इन्द्रसखो बली
।
विद्याबलाद्यो व्यजयत्स पाण्ड्यक्रथकैशिकान्॥२१॥
अस्मच्छ्वशुरो भीष्मकोऽपि परपक्षे एवास्तीत्याह चतुर्थेति । पृथिव्याश्चतुर्थांशभाक् ॥२१॥
भ्राता यस्याकृतिः शूरो जामदग्न्यसमोऽभवत्
।
स भक्तो मागधं राजा भीष्मकः परवीरहा॥२२॥
प्रियाण्याचरतः प्रह्वान्सदा सम्बन्धिनस्ततः
।
भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः॥२३॥
न कुलं सबलं राजन्नभ्यजानात्तथात्मनः
।
पश्यमानो यशोदीप्तं जरासन्धमुपस्थितः॥२४॥
सः बलं कुलं च आत्मनो न ज्ञातवान् यतो मच्छत्रुपक्षे गत्वा मया जामात्रापि सह कलहमिच्छतीति भावः ॥२४॥
उदीच्याश्च तथा भोजाः कुलान्यष्टादश प्रभो
।
जरासन्धभयादेव प्रतीचीं दिशमास्थिताः॥२५॥
शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः
।
सुस्थलाश्च सुकुट्टाश्च कुलिन्दाः कुन्तिभिः सह॥२६॥
शाल्वायनाश्च राजानः सोदर्यानुचरैः सह
।
दक्षिणा ये च पञ्चालाः पूर्वाः कुन्तिषु कोशलाः॥२७॥
तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः
।
मत्स्याः सन्न्यस्तपादाश्च दक्षिणां दिशमाश्रिताः॥२८॥
तथैव सर्वपञ्चाला जरासन्धभायर्दिताः
।
स्वराज्यं सम्परित्यज्य विद्रुताः सर्वतोदिशम्॥२९॥
कस्यचित्त्वथ कालस्य कंसो निर्मथ्य यादवान्
।
बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः॥३०॥
अस्तिः प्रास्तिश्च नाम्ना ते सहदेवानुजेऽबले
।
बलेन तेन स्वज्ञातीनभिभूय वृथामतिः॥३१॥
श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान्
।
भोजराजन्यवृद्धैश्च पीड्यमानैर्दुरात्मना॥३२॥
ज्ञातित्राणमभीप्सद्भिरस्मत्सम्भावना कृता
।
दत्वाऽऽक्रूराय सुतनुं तामाहुकसुतां तदा॥३३॥
सङ्कर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम्
।
हतौ कंससुनामानौ मया रामेण चाप्युत॥३४॥
भये तु समतिक्रान्ते जरासन्धे समुद्यते
।
मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः॥३५॥
कुलैः मन्त्रीपुरोहितश्चैवेत्यादिना प्राक् प्रदर्शितैः ॥३५॥
अनारमन्तो निघ्नन्तो महास्त्रैः शत्रुघातिभिः
।
न हन्यामो वयं तस्य त्रिभिर्वर्षशतैर्बलम्॥३६॥
न हन्यामो न हतवन्तः वर्षशतैर्वर्षशततुल्यैस्त्रिभिर्वर्षैरित्यर्थः ॥३६॥
तस्य ह्यमरसङ्काशौ बलेन बलिनां वरौ
।
नामभ्यां हंसडिम्भकावशस्त्रनिधनावुभौ॥३७॥
तावुभौ सहितौ वीरौ जरासन्धश्च वीर्यवान्
।
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः॥३८॥
न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः
।
तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर॥३९॥
अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः
।
रामेण स हतस्तत्र सङ्ग्रामेऽष्टादशावरे॥४०॥
स हंसः हतः मरणतुल्यां मूर्छां प्रापितः ॥४०॥
हतो हंस इति प्रोक्तस्य केनापि भारत
।
तच्छ्रुत्वा डिबिको राजन्यमुनाम्भस्यमज्जत ॥४१॥
विना हसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे
।
इत्येतां मतिमास्थाय डिम्भको निधनं गतः॥४२॥
तथा तु डिबिकं श्रुत्वा हंसः परुपुरञ्जयः
।
प्रपेदे यमुनामेव सोपि तस्यां न्यमज्जत॥४३॥
तौ स राजा जराजन्धः श्रुत्वा च निधनं गतौ
।
पुरं शून्येन मनसा प्रययौ भरतर्षभ॥४४॥
ततो वयमित्रघ्न तस्मिन्प्रतिगते नृपे
।
पुनरान्दिनः सर्वे मधुरायां वसामहे॥४५॥
यदा त्वभ्येत्य पितरं सा वै राजीवलोचना
।
कंसभार्या जरासन्धं दुहिता मागधं नृपम्
।
चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता॥४६॥
पतिघ्नं मे जहीत्येवं पुनः पुनररिन्दम
।
ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम्॥४७॥
संस्मरन्तो विमनसो व्यपयाता नराधिप
।
पृथक्त्वेन महाराज सङ्क्षिप्य महतीं श्रियम्॥४८॥
पलायामो भयात्तस्य ससुतज्ञातिबान्धवाः
।
इति सञ्चिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः॥४९॥
कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम्
।
ततो निवेशं तस्यां च कृतवन्तो वयं नृप॥५०॥
तथैव दुर्गसंस्कारं देवैरपि दुरासदम्
।
स्त्रियोऽपि यस्यां युध्येयुः किमु वृष्णिमहारथाः॥५१॥
तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः
।
आलोच्य गिरिमुख्यं तं मागधं तीर्णमेव च॥५२॥
माधवाः कुरुशार्दूल परां मुदमवाप्नुवन्
।
एवं वयं जरासन्धादभितः कृतकिल्बिषाः॥५३॥
सामर्थ्यवन्तः सम्बन्धाद्गोमन्तं समुपाश्रिताः
।
त्रियोजनायतं सद्म त्रिस्कन्धं योजनावधि॥५४॥
योजनान्ते शतद्वारं वीरविक्रमतोरणम्
।
अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः॥५५॥
अष्टादश सहस्राणि भ्रातॄणां सन्ति नः कले
।
आहुकस्य शतं पुत्रा एकैकस्त्रिदशावरः॥५६॥
चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः
।
अहं च रोहिणेयश्च साम्बः प्रद्युम्न एव च॥५७॥
एवमेते रथाः सप्त राजन्नन्यान्निबोध मे
।
कृतवर्मा ह्यनाधृष्टिः समीकः समिर्तिजयः॥५८॥
कङ्कः शङ्कुश्च कुन्तिश्च सप्तैते वै महारथाः
।
पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश॥५९॥
वज्रसंहनना वीरी वीर्यवन्तो महारथाः
।
स्मरन्तो मध्यमं देशं वृष्णिमध्ये व्यवस्थिताः ॥६०॥
स त्वं सम्राड्गुणैर्युक्तः सदा भरतसत्तम
।
क्षेत्रे सम्राजमात्मानं कर्तुमर्हसि भरत॥६१॥
न तु शक्यं जरासन्धे जीवमाने महाबले
।
राजसूयस्त्वयाऽवाप्तुमेषा राजन्मतिर्मम॥६२॥
तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे
।
कन्दरे पर्वतेन्द्रस्य सिंहेनेव महाद्विपाः॥६३॥
स हि राजा जरासन्धो यियक्षुर्वसुधाधिपैः
।
महादेवं महात्मानमुमापतिमरिन्दम॥६४॥
आराध्य तपसोग्रेण निर्जितास्तेन पार्थिवाः
।
प्रतिज्ञायाश्च पारं स गतः पार्थिवसत्तम॥६५॥
स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान्
।
पुरमानीय बद्ध्वा च चकार पुरुषव्रजम्॥६६॥
वयं चैव महाराज जरासन्धभयात्तदा
।
मधुरां सम्परित्यज्य गता द्वारवतीं पुरीम्॥६७॥
यदि त्वेनं महाराज यज्ञं प्राप्तुमभीप्ससि
।
यतस्व तेषां मोक्षाय जरासन्धवधाय च॥६८॥
समारम्भो न शक्योऽयमन्यथा कुरुनन्दन
।
राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर॥६९॥
इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ
।
एवंगते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः॥७०॥
॥ इति श्रीमहाभारते सभापर्वणि राजसूयारम्भपर्वणि कृष्णवाक्ये चतुर्दशोऽध्यायः॥ १४॥
युधिष्ठिर उवाच।
उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति
।
संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि॥१॥
गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियङ्कराः
।
न च साम्राज्यमाप्तास्ते सम्राट्शब्दो हि कृच्छ्रभाक्॥ २॥
कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति
।
परेण समवेतस्तु यः प्रशस्यः स पूज्यते॥३॥
विशाला बहुला भूमिर्बहुरत्नसमाचिता
।
दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह॥ ४॥
शममेव परं मन्ये शमात्क्षेमं भवेन्मम
।
आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः॥ ५॥
एवमेते हि जानन्ति कुले जाता मनस्विनः
।
कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन॥६॥
कृष्णमेवोद्दिश्याह एवमिति । एते अस्मदीयाः सभासदः मनस्विनो भीमादयः श्रेष्ठः सर्वान् जेतुं समर्थो भविष्यतीति जानन्ति ॥६॥
वयं यैव महाभाग जरासन्धभयात्तदा
।
शङ्किताः स्म महाभाग द्वौरात्म्यात्तस्य चानघ॥ ७॥
अहं हि तव दुर्द्धर्ष भुजवीर्याश्रयः प्रभो
।
नात्मानं बलिनं मन्ये त्वयि तस्माद्विशङ्किते॥ ८॥
त्वत्सकाशाच्च रामाच्च भीमसेनाच्च माधव
।
अर्जुनाद्वा महाबाहो हन्तुं शक्यो न वेति वै
।
एवं जानन्हि वार्ष्णेय विमृशामि पुनः पुनः॥९॥
तथापि त्वत्प्रभृतीनां चतुर्णां मध्ये कश्चिदेनं हन्तुं समर्थोऽस्ति न वेति विमृशामि युष्माकमप्यनन्तशक्तित्वं जानान्नित्याह त्वत्सकाशादिति ॥९॥
त्वं मे प्रमाणभूतोऽसि सर्वकार्येषु केशव
।
तच्छ्रुत्वा चाब्रवीद्भीमो वाक्यं वाक्यविशारदः॥१०॥
भीम उवाच।अनारम्भपरो राजा वल्मीक इव सीदति
।
दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति॥११॥
अतन्द्रितश्च प्रायेण दुर्बलो बलिनं रिपुम्
।
जयेत्सम्यक्प्रयोगेण नीत्याऽर्थानात्मनो हितान्॥ १२॥
कृष्णेन यो मयि बलं जयः पार्थे धनञ्जये
।
मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः॥
कृष्ण उवाच।
अर्थानारभते बालो नानुबन्धमवेक्षते
।
तस्मादरिं न मृष्यन्ति बालमर्थपरायणम्॥१४॥
भीमं प्रकोपयन्कृष्ण उवाच अर्थानिति । बालः अव्युत्पन्नः अनुबन्धं विपाकम् अर्थपरायणं स्वकार्यतत्परं न मृष्यन्ति न विचारयन्ति ॥१४॥
जित्वा जय्यान्यौवनाश्विः पालनाच्च भगीरथः
।
कार्तवीर्यस्तपोवीर्याद्बलात्तु भरतो विभुः॥ १५॥
ऋद्ध्या मरुत्तस्तान्पञ्च सम्राजस्त्वनुशुश्रुम
।
साम्राज्यमिच्छतस्ते तु सर्वाकारं युधिष्ठिर॥१६॥
सर्वाकारं जयादिपञ्चप्रकारम् । यौवनाश्विप्रभृतयः एकैकेन गुणेन साम्राज्यं प्राप्तास्त्वं तु तत्सर्वैरपि गुणैरिच्छसीति भावः ॥१६॥
निग्राह्यलक्षणं प्राप्तिर्धर्मार्थनयलक्षणैः॥ १७॥
बार्हद्रथो जरासन्धस्तद्विद्धि भरतर्षभ
।
न चैनमनुरुद्ध्यन्ते कुलान्येकशतं नृपाः॥ १८॥
तस्मादिह बलादेव साम्राज्यं कुरुते हि सः॥१९॥
रत्नभाजो हि राजानो जरासन्धमुपासते
।
न च तुष्यति तेनापि बाल्यादनयमास्थितः॥ २०॥
मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषो बलात्
।
आदत्ते न च नो दृष्टो भागः पुरुषतः क्वचित्॥२१॥
नः अस्माभिर्न च दृष्टः जरासंधेन अभागः अस्वीकृतः पुरुषतः मूर्धाभिषिक्तेषु पुरुषेषु तेन सर्वे वशीकृता इत्यर्थः ॥२१॥
एवं सर्वान्वशे चक्रे जरासन्धः शतावरान्
।
तं दुर्बलतरो राजा कथं पार्थ उपैष्यति॥२२॥
शतावरान् शतन्यूनान् ॥२२॥
प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे
।
पशूनामिव का प्रीतिर्जीविते भरतर्षभ॥२३॥
प्रमृष्टानां रुद्रदेवत्योऽयमिति प्रत्येकमभिमृष्टानाम् ॥२३॥
क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः
।
ततः स्म मागधं सङ्ख्ये प्रतिबाधेम यद्वयम्॥ २४॥
षडशीतिः समानीताः शेषा राजंश्चतुर्दश
।
जरासन्धेन राजानस्ततः क्रूरं प्रवर्त्स्यते॥२५॥
क्रूरं राजवधाख्यं कर्म । पशुपतये बलिदानं प्रवर्त्स्यते कारयिष्यति ॥२५॥
प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत्
।
जयेद्यश्च जरासन्धं स सम्राण्नियतं भवेत्॥ २६॥
॥ इति श्रीमहाभारते सभापर्वणि राजसूयारम्भपर्वणि कृष्णवाक्ये पञ्चदशोऽध्यायः॥ १५॥
युधिष्ठिर उवाच।
सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः
।
कथं प्रहिणुयां कृष्ण सोऽहं केवलसाहसात्॥१॥
सम्राडिति । एवं जरासंधात् भीषितो राजा कृष्णेन य इत्यादिना श्लोकेन भीमेनोक्त उपायो दुष्कर इत्याह युष्मान् कृष्णभीमार्जुनान् प्रहिणुयां जरासंधवधार्थमिति शेषः ॥१॥
भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम्
।
मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत्॥२॥
जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम्
।
यमोऽपि न विजेताजौ तत्र वः किं विचेष्टितम्॥३॥
विजेता जेष्यति श्रमोऽपि विजयेताजाविति गौडपाठे तु श्रमः भ्रमणो दुर्बलोऽपि जरासंधे सहाये सति विजयेत शत्रूनिति शेषः ॥३॥
अस्मिंस्त्वर्थान्तरे युक्तमनर्थः प्रतिपद्यते
।
तस्मान्न प्रतिपत्तिस्तु कार्या युक्ता मता मम॥४॥
अर्थान्तरे इष्टफलाद्विपरीतफले कार्ये युक्तं पुरुषं प्रति अनर्थः प्रतिपद्यते प्राप्नोति तस्मात्कार्या कर्तुमिष्टा प्रतिपत्तिः । राजसूयबुद्धिः न युक्ता ॥४॥
यथाहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम
।
संन्यासं रोचये साधु कार्यस्यास्य जनार्दन
।
प्रतिहन्ति मनो मेऽद्य राजसूयो दूराहरः॥५॥
कार्यस्य संन्यासं कर्ममात्रस्य त्यागं न तु क्रतुमात्रस्य काषायं सुलभमित्यन्ते दर्शनात् पारिव्राज्यमेव रोचये इत्यर्थः ॥५॥
वैशम्पायन उवाच।पार्थः प्राप्य धनुश्रेष्ठमक्षय्यौ च महेषुधी
।
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत॥६॥
अर्जुन उवाच।
धनुः शस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम्
।
प्राप्तमेतन्मय राजन्दुष्प्रापं यदभीप्सितम्॥७॥
वीर्यम् उत्साहः । पक्षो वासुदेवः । भूमिः मन्त्रपूर्वकः कार्यनिश्चयः । बलं शारीरसेनादिरूपं सामर्थ्यम् ॥७॥
कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः
।
बलेन सदृशं नास्ति वीर्यं तु मम रोचते॥८॥
वैद्याः विद्यावन्तः बलेनेति उत्साह एव श्रेयानित्यर्थः ॥८॥
कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति
।
निर्वीर्ये तु कुले जातो वीर्यवांस्तु विशिष्यते॥९॥
क्षत्रियः सर्वशो राजन्यस्य वृत्तिर्द्विषज्जये
।
सर्वैगुणैर्विहीनोऽपि वीर्यवान्हि तरेन्द्रिपून्॥१०॥
सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति
।
गुणीभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे॥११॥
जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम्
।
संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते॥१२॥
सिद्धिर्योगः अत्यन्ताभिनिवेश इति यावत् ‘सिद्धिर्निष्पत्तियोगयोः’ इति विश्वः तच्च सिद्धिरूपं वीर्यम् । कर्म परिस्पन्दः दैवं भाग्यं तदुभयापेक्षं नोपयुज्यते न कार्यक्षमो भवति ॥१२॥
तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः॥१३॥
दैन्यं यथा बलवति तथा मोहो बलान्विते
।
तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना॥१४॥
जरासन्धिविनाशं च राज्ञां च परिरक्षणम्
।
यदि कुर्याम् यज्ञार्थं किं ततः परमं भवेत्॥१५॥
तस्मादुत्साहवता कर्मैव कर्तव्यं जयायेत्याह जरेति ॥१५॥
अनारम्भे हि नियतो भवेदगुणनिश्चयः
।
गुणान्निःसंशयाद्राजन्नैर्गुण्यं मन्यसे कथम्॥१६॥
अकरणे दोषमाह अनारम्भ इति । कर्मण इति शेषः आरब्धमपि प्रतिकूलं चेत्तत्राह गुणात्पूर्वोक्ताद्धनुरादिसंपत्तिरूपात् । नैर्गुण्यम् अशक्तत्वम् ॥१६॥
काषायं सुलभं पश्चान्मुनीनां शममिच्छताम्
।
साम्राज्यं तु भवेच्छक्यं वयं योत्स्यामहे परान्॥१७॥
पश्चात् अशक्तत्वनिश्चयादूर्ध्वम् । काषायं गैरिकरक्तं वस्त्रम् ॥१७॥
॥ इति श्रीमहाभारते सभापर्वणि राजसूयारम्भपर्वणि जरासंधवधमन्त्रणे षोडशोऽध्यायः॥१६॥
वासुदेव उवाच।
जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च
।
या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता॥१॥
जातस्येति ॥१॥
न स्म मृत्युं वयं विद्म रात्रौ वा यदि वा दिवा
।
न चापि कञ्चिदमरमयुद्धेनानुशुश्रुम॥२॥
एतावदेव पुरुषैः कार्यं हृदयतोषणम्
।
नयेन विधिदृष्टेन यदुपक्रमते परान्॥३॥
सुनयस्यानपायस्य संयोगे परमः क्रमः
।
सङ्गत्या जायतेऽसाम्यं साम्यं च न भवेद्द्वयोः॥४॥
सुनयस्य शोभनस्य मन्त्रस्य । अनपायस्य दैवादिप्रातिकूल्यहीनस्य । संयोगे प्राप्तौ सत्यां परमोत्कृष्टः क्रमः उपक्रमः सिद्ध्यति तेन च संगत्या द्वयोर्मेलनेन असाम्यम् अन्यतरोत्कर्षः जायते चकारो हेतौ यतः द्वयोर्युध्यतोः साम्यं न भवति तस्माद्विना युद्धम् अशक्तत्वनिश्चयायोगादशक्तिशंकया तूष्णीमवस्थानं पराभवहेतुरिति भावः ॥४॥
अनयस्यानुपायस्य संयुगे परमः क्षयः
।
संशयो जायते साम्याज्जयश्च न भवेद्द्वयोः॥५॥
विपक्षे दोषमाह । अनयस्यानुपायस्य संयुगे परमक्षय इति । ननु परस्यापि नयादिमत्त्वे कथं स्वस्य जयः स्यादित्याशंक्याह । संशयो जायते साम्याज्जयश्च न भवेद्द्वयोरिति । द्वयोरुपायादिसाम्ये तु द्वयोरपि परस्परभयाज्जये संशय एव भवति न तु जयः चात् पराजयो वा किं तु ताटस्थ्येन द्वावपि तिष्ठत इत्यर्थः ॥५॥
ते वयं नयमास्थाय शत्रुदेशसमीपगाः
।
कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः
।
पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः॥६॥
साम्येऽप्यारम्भवैफल्यमित्याशंक्य स्वस्योत्कर्षमाह सार्धेन ते वयमिति ॥६॥
व्यूढानीकैरतिबलैर्न युद्व्येदरिभिः सह
।
इति बुद्धिमतां नीतिस्तन्ममापीह रोचते॥७॥
नन्वेवं महतो राजकस्योत्थापने क्रतुविघ्न एव भवेदित्याशंक्याह व्यूढेति ॥७॥
अनवद्या ह्यसम्बुद्धाः प्रविष्टाः शत्रुसद्म तत्
।
शत्रुदेशमुपाक्रम्य तं कामं प्राप्नुयामहे॥८॥
एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभः
।
अन्तरात्मेव भूतानां तत्क्षयं नैव लक्षये॥९॥
उत्कर्षे कामप्राप्तिः सिद्धा साम्यं तु नैव भवोदित्याह एक इति । श्रियं साम्राज्यलक्ष्मीं तत्तस्मादन्यतरजयनिश्चयाद्धेतोः अहं क्षयं स्वीयं नैवोपलक्षये किं तु परस्यैव क्षयो भविष्यतीत्यर्थः। तत्क्षयं चैवेति पाठे तस्य जरासंधस्य क्षयं लक्षये संभावये ॥९॥
अथवैनं निहत्याजौ शेषेणापि समाहताः
।
प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः॥१०॥
निहत्य संप्राप्य शेषेण वधेन वधहेतुना शत्रुणा ‘शेषः संकर्षणेनन्ते उपयुक्तेतरे वधे’ इति विश्वः । ज्ञातयः जरासंधबद्धा राजानः ॥१०॥
युधिष्ठिर उवाच।कृष्ण कोऽयं जरासन्धः किंवीर्यः किम्पराक्रमः
।
यस्त्वां स्पृष्ट्वाऽग्निसदृशं न दग्धः शलभो यथा॥११॥
कृष्ण उवाच।शृणु राजञ्जरासन्धो यद्वीर्यो यत्पराक्रमः
।
यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः॥१२॥
अक्षौहिणीनां तिसृणां पतिः समरदर्पितः
।
राजा बृहद्रथो नाम मगधाधिपतिर्बली॥१३॥
पतिः पालकः ॥१३॥
रूपवान्वीर्यसम्पन्नः श्रीमानतुलविक्रमः
।
नित्यं दीक्षाङ्किततनुः शतक्रतुरिवापरः॥१४॥
तेजसा सूर्यसङ्काशः क्षमया पृथिवीसमः
।
यश्चान्तकसमः क्रोधे श्रिया वैश्रवणोपमः॥१५॥
यमो वैवस्वतः अन्तकः कालः ॥१५॥
तस्याभिजनसंयुक्तैर्गणैर्भरतसत्तम
।
व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः॥१६॥
स काशिराजस्य सुते यमजे भरतर्षभः
।
उपयेमे महावीर्यो रूपद्रविणसंयुते
।
तयोश्चकार समयं मिथः स पुरुषर्षभः॥१७॥
नातिवर्तिष्य इत्येवं पत्नीभ्यां सन्निधौ तदा
।
स ताभ्यां शुशुभे राजा पत्नीभ्यां वसुधाधिपः॥१८॥
नातिवर्तिष्ये वैषम्यं न करिष्ये ॥१८॥
प्रियाम्भामनुरूपाभ्यां करेणुभ्यामिव द्विपः
।
तयोर्मध्यगतश्चापि रराज वसुधाधिपः॥१९॥
गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः
।
विषयेषु निमग्नस्य तस्य यौवनमभ्यगात्॥२०॥
न च वंशकरः पुत्रस्तस्याजायत कश्चन
।
मङ्गलैर्बहुभिर्होमैः पुत्रकामाभिरिष्टिभिः
।
नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम्॥२१॥
अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः
।
शुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम्॥२२॥
यदृच्छयागतं तं तु वृक्षमूलमुपाश्रितम्
।
पत्नीभ्यां सहितो राजा सर्वयत्नैरतोषयत्॥२३॥
रत्नैः मुनियोग्यैः उत्कृष्टद्रव्यैः ॥२३॥
तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः
।
परितुष्टोऽस्मि राजेन्द्र वरं वरय सुव्रत॥२४॥
ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः
।
पुत्रदर्शननैराश्याद्बाष्पसन्दिग्धया गिरा॥२५॥
भगवन् राज्यमुत्सृज्य प्रस्थितोऽहं तपोवनम्
।
किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे॥२६॥
कृष्ण उवाच।
एतच्छ्रुत्वा मुनिर्ध्यानमगमत्क्षुभितेन्द्रियः
।
तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत॥२७॥
तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह
।
अवानमशुकादष्टमेकमाम्रफलं किल॥२८॥
अवानम् अशुष्कं सरसमिति यावत् ‘आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु’ इत्यमरः । अवातमिति पाठे नास्ति पातयिता वातो यस्य तत् ॥२८॥
तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च
।
राज्ञे ददावप्रतिमं पुत्रसम्प्राप्तिकारणम्॥२९॥
उवाच च महाप्राज्ञस्तं राजानं महामुनिः
।
गच्छ राजन्कृतार्थोऽसि निवर्तस्व नराधिप॥३०॥
एतच्छ्रुत्वा मुनेर्वाक्यं शिरसा प्रणिपत्य च
।
मुनेः पादौ महाप्राज्ञः स नृपः स्वगृहं गतः॥३१॥
यथासमयमाज्ञाय तदा स नृपसत्तमः
।
द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ॥३२॥
थथासमयं यथाप्रतिज्ञं नातिवर्तिष्य इति दर्शितरीत्या ॥३२॥
ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे
।
भावित्वादपि चार्थस्य सत्यवाक्यतया मुनेः॥३३॥
तयोः समभवद्गर्भः फलप्राशनसम्भवः
।
ते च दृष्ट्वा स नृपतिः परां मुदमवाप ह॥३४॥
अथ काले महाप्राज्ञ यथासमयमागते
।
प्रजायेतामुभे राजञ्च्छरीरशकले तदा॥३५॥
प्रजायेतां सुषुवतुः ॥३५॥
एकाक्षिबाहुचरणे अर्धोदरमुखस्फिचे
।
दृष्ट्वा शरीरशकले प्रवेपतुरुभे भृशम्॥३६॥
स्फिक् कट्या अधोभागः ॥३६॥
उद्विग्रे सह संमन्त्र्य ते भगिन्यौ तदाऽबले
।
सजीवे प्राणिशकले तत्यजाते सुदुःखिते॥३७॥
ते शकले ॥३७॥
तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे
।
निर्गम्यान्तःपुरद्वारात्समुत्सृज्याभिजग्मतुः॥३८॥
गर्भसंप्लवे गर्भपाते सति ॥३८॥
ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी
।
जग्राह मनुजव्याघ्र मांसशोणितभोजना॥३९॥
कर्तुकामा सुखवहे शकले सा तु राक्षसी
।
संयोजयामास तदा विधानबलचोदिता॥४०॥
सुखवहे एकीकृतयोर्वहनं हि सुखेन भवतीति प्रसिद्धम् ॥४०॥
ते समानीतमात्रे तु शकले पुरुषर्षभ
।
एकमूर्तिधरो वीरः कुमारः समपद्यत॥४१॥
समानीतमात्रे संयोजितमात्रे ॥४१॥
ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना
।
न शशाक समुद्वोढुं वज्रसारमयं शिशुम्॥४२॥
बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः
।
प्राक्रोशदतिसंरब्धः सतोय इव तोयदः॥४३॥
तेन शब्देन सम्भ्रान्तः सहसाऽन्तःपुरे जनः
।
निर्जगाम नरव्याघ्र राज्ञा सह परन्तप॥४४॥
ते चाबले परिम्लाने पयःपूर्णपयोधरे
।
निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम्॥४५॥
ते च दृष्ट्वा तथाभूते राजानं चेष्टसंततिम्
।
तं च बालं सुबलिनं चिन्तयामास राक्षसी॥४६॥
नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः
।
बालं पुत्रमिमं हन्तुं धार्मिकस्य महात्मनः॥४७॥
सा तं बालमुपादाय मेघलेखेन भास्करम्
।
कृत्वा च मानुषं रूपमुवाच वसुधाधिपम्॥४८॥
कृष्ण उवाच।
ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे
।
तं बालमभिपद्याशु प्रस्रवैरभ्यषिञ्जताम्॥५०॥
ततः स राजा संहृष्टः सर्वं तदुपलभ्य च
।
अपृच्छद्धेमगर्भाभां राक्षसीं तामराक्षसीम्॥५१॥
अराक्षसीं वेषतः ॥५१॥
राजोवाच
।
का त्वं कमलगर्भाभे मम पुत्रप्रदायिनी
।
कामं मा ब्रूहि कल्याणि देवता प्रतिभासि मे॥५२॥
कामया कामेन यातीति इच्छाविहारिणी ॥५२॥
॥ इति श्रीमहाभारते सभापर्वणि राजसूयारम्भपर्वणि जरासंधोत्पत्तौ सप्तदशोऽध्यायः॥१७॥
कृष्ण उवाच।
कस्यचित्त्वथ कालस्य पुनरेव महातपाः
।
मगधेषुपजक्राम भगवांश्चण्डकौशिकः॥१॥
कस्येति ॥१॥
तस्यागमनसंहृष्टः सामात्यः स पुरःसरः
।
सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः॥२॥
पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत
।
स नृपो राज्यसहितं पुत्रं तस्मै न्यवेदयत्॥३॥
प्रतिगृह्य च तां पूजां पार्थिवाद्भगवानृषिः
।
उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना॥४॥
सर्वमेतन्मया ज्ञातं राजन्दिव्येन चक्षुषा
।
पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति॥५॥
अस्य रूपं च सत्त्वं च बलमूर्जितमेव च
।
एष श्रिया समुदितः पुत्रस्तव न संशयः॥६॥
प्रापयिष्यति तत्सर्वं विक्रमेण समन्वितः
।
अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः॥७॥
पततो वैनतेयस्य गतिमन्ये यथा खगाः
।
विनाशमुपयास्यन्ति ये चास्य परिपन्थिनः॥८॥
देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते
।
न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः॥९॥
सर्वमूर्धाभिषिक्तानामेव मूर्ध्नि ज्वलिष्यति
।
प्रभाहरोऽयं सर्वेषां ज्योतिषामिव भास्करः॥१०॥
एनमासाद्य राजानः समृद्धबलवाहनाः
।
विनाशमुपयास्यन्ति शलभा इव पावकम्॥११॥
एष श्रियः समुदिताः सर्वराज्ञां ग्रहीष्यति
।
वर्षास्विवोदीर्णजला नदीर्नदनदीपतिः॥१२॥
एष धारयित सम्यक्चातुर्वर्ण्यं महाबलः
।
शुभाशुभमिव स्फीतां सर्वसस्यधरा धरा॥१३॥
अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः
।
सर्वभूतात्मभूतस्य वायोरिव शरीरिणः॥१४॥
सर्वभूतात्मभूतस्य सर्वेषां भूतानाम् आत्मवत्प्रियतमस्येत्यर्थः ॥१४॥
एष रुद्रं महादेवं त्रिपुरान्तकरं हरम्
।
सर्वलोकेष्वतिबलः साक्षाद्द्रक्ष्यति मागधः॥१५॥
एवं ब्रुवन्नेव मुनिः स्वकार्यमिव चिन्तयन्
।
विसर्जयामास नृपं बृहद्रथमथारिहन्॥१६॥
प्रविश्य नगरीं चापि ज्ञातिसम्बन्धिभिर्वृतः
।
अभिषिच्य जरासन्धं मगधाधिपतिस्तदा॥१७॥
बृहद्रथो नरपतिः परां निर्वृतिमाययौ
।
अभिषिक्ते जरासन्धे तदा राजा बृहद्रथः
।
पत्नीद्वयेनानुगतस्तपोवनचरोऽभवत्॥१८॥
ततो वनस्थे पितरि मात्रोश्चैव विशांपते
।
जरासन्धः स्ववीर्येण पार्थिवानकरोद्वशे॥१९॥
वैशंपायन उवाच।
अथ दीर्घस्य कालस्य तपोवनचरो नृपः
।
सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः॥२०॥
जरासन्धोऽपि नृपतिर्यथोक्तं कौशिकेन तत्
।
वरप्रदानमखिलं प्राप्य राज्यमपालयत्॥२१॥
निहते वासुदेवेन तदा कंसे महीपतौ
।
जातो वै वैरनिर्बन्धो कृष्णेन सह तस्य वै॥२२॥
भ्रामयित्वा शतगुणमेकोनं येन भारत
।
गदा क्षिप्ता बलवता मागधेन गिरिव्रजात्॥२३॥
तिष्ठतो मथुरायां वै कुष्णस्याद्भुतकर्मणः
।
एकोनयोजनशते सा पपात गदा शुभा॥२४॥
दृष्ट्वा पौरैस्तदा सम्यग्गदा चैव निवेदिता
।
गदावसानं तत्ख्यातं मथुरायाः समीपतः॥२५॥
तस्यास्तां हंसडिम्भकावशस्त्रनिधनावुभौ
।
मन्त्रे मतिमतां श्रेष्ठौ नीतिशास्त्रे विशारदौ॥२६॥
अशस्त्रनिधनौ न विद्यते शस्त्रेण निधनं ययोस्तौ ॥२६॥
यौ तौ मया ते कथितौ पूर्वमेव महाबलौ
।
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः॥२७॥
एवमेष तदा वीर बलिभिः कुकुरान्धकैः
।
वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः॥२८॥
नीतिहेतोः वलीयसा स्पर्धा न कर्तव्येति नीतिस्तदर्थम् ॥२८॥
॥ इति श्रीमहाभारते सभापर्वणि राजसूयारम्भपर्वणि जरासन्धप्रशंसायाम् एकोनविंशतितमोऽध्यायः॥१९॥