सभाक्रियापर्व - १लोकपालसभाख्यानपर्व - २राजसूयारम्भपर्व - ३जरासन्धवधपर्वः - ४दिग्विजयपर्व - ५राजसूयपर्व - ६अर्घ्याभिहरणपर्व - ७शिशुपालवधपर्व - ८द्यूतपर्व - ९अनुद्यूतपर्व - १०

राजसूयारम्भपर्व

त्रयोदशोऽध्यायः

वैशम्पायन उवाच। ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः ।
चिन्तयन्राजसूयेष्टिं न लेभे शर्म भारत॥१॥

राजर्षीणां च तं श्रुत्वा महिमानं महात्मनाम् ।
यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च॥२॥

हरिश्चन्द्रं च राजर्षि रोजमानं विशेषतः ।
यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः॥३॥

युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः ।
प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे॥४॥

स राजसूयं राजेन्द्र कुरूणामृषभस्तदा ।
आहर्तुं प्रवणं चक्रे मनः सञ्चिन्त्य चासकृत्॥५॥

भूयश्चाद्भुतवीर्यौजा धर्ममेवानुचिन्तयन् ।
किं हितं सर्वलोकानां भवेदिति मनो दधे॥६॥

अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मभृतां वरः ।
अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः॥७॥

सर्वेषां दीयतां देयं मुष्णन्कोपमदावुभौ ।
साधु धर्मेति धर्मेति नान्यच्छ्रूयेत भाषितम्॥८॥

ऋषेरिति ॥१॥ दीयतामित्युवाचेति शेषः पाठान्तरे तु स्पष्टम् ॥८॥

एवंगते ततस्तस्मिन्पितरीवाश्वसञ्जनाः ।
न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता॥९॥

परिग्रहान्नरेन्द्रस्य भीमस्य परिपालनात् ।
शत्रूणां क्षपणाच्चैव बीभत्सोः सव्यसाचिनः॥१०॥

धीमतः सहदेवस्य धर्माणामनुशासनात् ।
वैनत्यात्सर्वतश्चैव नकुलस्य स्वभावतः ।
अविग्रहा वीतभयाः स्वकर्मनिरताः सदा॥११॥

अविग्रहाः कलहशून्याः ॥११॥

निकामवर्षाः स्फीताश्च आसञ्जनपदास्तथा ।
वार्धुषी यज्ञसत्त्वानि गोरक्षं कर्षणं वणिक् ॥१२॥

वार्धुषी वृद्ध्युपजीविका यज्ञसत्त्वानि क्रतूनां सामर्थ्यानि सद्यः पुष्कलफलप्रदत्वादिविषयाणि॥१२॥

विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणा ।
अनुकर्षं च निष्कर्षं व्याधिपावकमूर्छनम्॥१३॥

अनुकर्षे दारिद्र्यात् राजकीयद्रव्यस्यातीतवर्षस्य ऋणत्वेन धारणम् । निष्कर्षं करार्थं प्रजापीडनं मूर्छनं वृद्धिः ॥१३॥

सर्वमेव न तत्रासीद्धर्मनित्ये युधिष्ठिरे ।
दस्युभ्यो वञ्चकेभ्यश्च राज्ञः प्रति परस्परम्॥१४॥

राजवल्लभतश्चैव नाश्रूयत मृषाकृतम् ।
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वकर्मजम्॥१५॥

अभिहर्तुं नृपाः षट्सु पृथक्जात्यैश्च नैगमैः ।
ववृधे विषयस्तत्र धर्मनित्ये युधिष्ठिरे॥१६॥

षट्सु संधिविग्रहादिषु यस्य प्रियादिकं कर्तुं नैगमैर्वणिग्भिः सह आसन्निति शेषः इतरे नृपाः वणिग्वत् येन करदीकृता इत्यर्थः तत्र तस्मिन् विषयो देशः ॥१६॥

कामतोऽप्युपयुञ्जानै राजसैर्लोभजैर्जनैः ।
सर्वव्यापी सर्वगुणी सर्वसाहः स सर्वराट्॥१७॥

कामतो यथेष्टम् उपयुञ्जानैः दिव्यान्नवस्त्रादि‌भोगं कुर्वद्भिः । यतो लोभजैः विमोहोत्थैः । राजसैर्वृत्तिविशेषैस्तृष्णादिभिस्तादृशैरपि ववृधे वृद्धिमान् अभूत् ॥१७॥

यस्मिन्नधिकृतः सम्राड् भ्राजमानो महायशाः ।
यत्र राजन्दश दिशः पितृतो मातृतस्तथा ।
अनुरक्ताः प्रजा आसन्नागोपाला द्विजातयः ॥१८॥

यस्मिन्विषये राजन्राज्ञि पितृतः पितृगुणैः नीतिशिक्षणादिभिः मातृतो मातृगुणैः वात्सल्यादिभिः ॥१८॥

वैशंपायन उवाच। स मन्त्रिणः समानाय्य भ्रातॄंश्च वदतां वरः ।
राजसूयं प्रति तदा पुनः पुनरपृच्छत॥१९॥

ते पृच्छमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा ।
युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन्॥२०॥

येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति ।
तेन राजाऽपि तं कुत्स्नं सम्राड्गुणमभीप्सृति॥२१॥

वारुणं गुणं जलधातुजयम् सम्राड्गुणं भूधातुजयम् ॥२१॥

तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन ।
राजसूयस्य समयं मन्यन्ते सुहृदस्तव॥२२॥

तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसम्पदा ।
साम्ना षडग्नयो यस्मिंश्चीयन्ते शंसितव्रतैः॥२३॥

अग्नयः अग्निस्थापनार्थानि स्थण्डिलानि । साम्ना सामवेदविहितैः मन्त्रैश्चीयन्ते रच्यन्ते॥२३॥

दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून् ।
अभिषेकं च यस्यान्ते सर्वजित्तेन चोच्यते॥२४॥

दर्वीति । दर्वीहोमोऽग्निहोत्रादिस्तत्प्रभृतीन् सर्वान् ऋतून् इष्टिपशुसोमयागान्प्राप्नुते व्याप्नोति । तत्समुदायात्मक इत्यर्थः । अभिषेकफलं सर्वजित्त्वम् । ‘आत्रेयोऽङ्गमभिषिषेच तस्माद्वङ्गं समन्तं सर्वतः पृथिवीं जयन्परीयाय’ इति श्रुतम् ॥२४॥

समर्थोऽसि महाबाहो सर्वे ते वशगा वयम् ।
अचिरात्त्वं महाराज राजसूयमवाप्स्यसि॥२५॥

अविचार्य महाराज राजसूये मनः कुरु ।
इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन्॥२६॥

स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशाम्पते ।
धृष्टमिष्टं वरिष्टं च जग्राह मनसाऽरिहा॥२७॥

धृष्टं प्रगल्भम् । इष्टम् आप्ततमं वरिष्ठं श्रेष्ठतमम् ॥२७॥

श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम् ।
पुनः पुनर्मनो दध्रे राजसूयाय भारत॥२८॥

स भ्रातृभिः पुनर्धीमानृत्विग्भिश्च महात्मभिः ।
मन्त्रिभिश्चापि सहितो धर्मराजो युधिष्ठिरः ।
धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रवित्॥२९॥

युधिष्ठिर उवाच।

इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोः ।
श्रद्दधानस्य वदत स्पृहा मे सा कथं भवेत्॥३०॥

कथं भवेत् फलवतीति शेषः ॥३०॥

वैशम्पायन उवाच। एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन ।
इदमूचुर्वचः काले धर्मराजं युधिष्ठिरम्॥३१॥

अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम् ।
अथैवमुक्ते नृपतावृत्विग्भिर्ऋषिभिस्तथा॥३२॥

मन्त्रिणो भ्रातरश्चान्ये तद्वचः प्रत्यपूजयन् ।
स तु राजा महाप्राज्ञः पुनरेवात्मनात्मवान्॥३३॥

आत्मवान् जितचितः ॥३३॥

भूयो विममृशे पार्थो लोकानां हितकाम्यया ।
सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ॥३४॥

विममृशे कथं यज्ञः सिद्ध्येत्कथं वा लोकनाशो न स्यादिति विमर्शं कृतवान् । सामर्थ्ये पृथ्वीं जेतुम् । योगं धनसंपत्तिं व्ययागमौ धनस्यैव ॥३४॥

विमृश्य सम्यक् च धिया कुर्वन्प्राज्ञो न सीदति ।
न हि यज्ञसमारम्भः केवलात्मविनिश्चयात्॥३५॥

एतान्सम्यक् संख्यादिना धिया च विमृश्य ॥३५॥

भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन् ।
स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम्॥३६॥

सर्वलोकात्परं मत्वा जगाम मनसा हरिम् ।
अप्रमेयं महाबाहुं कामाञ्जातमजं नृषु॥३७॥

सर्वस्मात् लोक्यत इति लोको दृश्यं मूलाज्ञानं तस्मात्परम् । ‘तमसः परस्तात्’ इति श्रुतेः अत एव अप्रमेयं वाङ्मनसातीतत्वात् । कामात् बहुस्यां प्रजायेयेत्यादिश्रुतादीक्षणात् न तु कर्मवशत्वात्॥३७॥

पाण्डवस्तर्कयामास कर्मभिर्देवसंमतैः ।
नास्य किञ्चिदविज्ञातं नास्य किञ्चिदकर्मजम्॥३८॥

देवानां संमतैः कर्मभिः बालेनापि पूतनावधादिभिः संमितैरिति पाठे देवकर्मतुल्यैरित्यर्थः । नास्येति सर्वज्ञः सर्वकृत् सर्वसह इति पादत्रयार्थः ॥३८॥

न स किञ्चिन्न विषहेदिति कृष्णममन्यत ।
स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः ॥३९॥

गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा ।
शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान्॥४०॥

भूतगुरवेपि गुरुवत् आशीर्वादसंदेशादिना युक्तम् ॥४०॥

द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् ।
दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः॥४१॥

इन्द्रसेनेन सहित इन्द्रप्रस्थमगात्तदा ।
व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनवः॥४२॥

इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः ।
स गृहे पितृवद्भ्रात्रा धर्मराजेन पूजितः॥४३॥

भ्रात्रा पितृष्वसृजेन ॥४३॥

भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः ।
प्रीतः प्रीतेन सुहृदा रेमे स सहितस्तदा॥४४॥

अर्जुनेन यमाभ्यां च गुरुवत्पर्युपासितः ।
तं विश्रान्तं शुभे देशे क्षणिनं कल्पमच्युतम् ।
धर्मराजः समागम्य ज्ञापयत्स्वप्रयोजनम्॥४५॥

क्षणिनं सावसरं कल्पं समर्थम् ॥४५॥
युधिष्ठिर उवाच।

प्रार्थितो राजसूयो मे न चासौ केवलेप्सया ।
प्राप्यते येन तत्ते हि विदितं कृष्ण सर्वशः॥४६॥

यस्मिन्सर्वं सम्भवति यश्च सर्वत्र पूज्यते ।
यश्च सर्वेश्वरो राजा राजसूयं स विन्दति॥४७॥

तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे ।
तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत्॥४८॥

केचिद्धि सौहृदादेवे न दोषं परिचक्षते ।
स्वार्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत॥४९॥

प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम् ।
एवम्प्रायाश्च दृश्यन्ते जनवादाः प्रयोजने॥५०॥

त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्युदस्य च ।
परमं यत्क्षमं लोके यथावद्वक्तुमर्हसि॥५१॥

॥ इति श्रीमहाभारते सभापर्वणि राजसूयारम्भपर्वणि वासुदेवागमने त्रयोदशोऽध्यायः॥ १३॥
चतुर्दशोऽध्यायः
कृष्ण उवाच।

सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि ।
जानतस्त्वेव ते सर्वं किञ्चिद्वक्ष्यामि भारत॥१॥

सर्वैरिति । सर्वराजजयाद्राजसूयेऽधिक्रियते राजजयश्च प्रधानमल्लनिबर्हणन्यायेन जरासंधवधेनैव जायत इत्यभिप्रेत्याह जानत इत्यादिना ॥१॥

जामदग्न्येन रामेण क्षत्रं यदवशेषितम् ।
तस्मादवरजं लोके यदिदं क्षत्रसंज्ञितम्॥२॥

अवरजम् अर्वाग्जातं यद्वा यत्पलायनपरम् अवशेषितं क्षत्रं तस्मात् । अवरात् नीचात् जातं नीचजम् । अत एव क्षत्रसंज्ञितं न तु क्षत्रकर्मयोग्यम् ॥२॥

कृतोऽयं कलुसङ्कल्पः क्षत्रियैर्वसुधाधिप ।
निदेशवाग्भिस्तत्तेह विदितं भरतर्षभ॥३॥

तैश्चायं कुलसंकल्पः सर्वक्षत्रसमुदाये संकेतः कृतः यः सर्वक्षत्रजित्सः अस्माकं मध्ये सम्राट्राज्ञामपि राजा भविष्यतीति वक्ष्यमाणः । निदेशवाग्भिः पूर्वपूर्वोपदेशवाक्यैः ह प्रसिद्धम् । तत्ते विदितम् । निदेशभाग्भिरिति पाठे अस्वतन्त्रैः क्षत्रियैरित्यर्थः ॥३॥

ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते ।
राजानः श्रेणिबद्धाश्च तथाऽन्ये क्षत्रिया भुवि॥४॥

तत्र पूर्वं ऐलः सम्राट् जातः इत्याह । ऐलस्येति । ऐलः पुरूरवाः इक्ष्वाकुवंशस्य च मनोः इला इक्ष्वाकुश्च तत्र इलायाः पुरूरवादयः इक्ष्वाकोर्नाभागादयश्चेति सोमसूर्यवंशीयराजसु द्वौ सुख्यौ तयोः प्रकृतिं प्रजामिव प्रजां करदत्वात् । कासौ प्रकृतिरित्यत आह राजान इति । श्रेणिबद्धाः तंत्या दाम्ना बलीवर्दा इव आज्ञया बद्धाः ॥४॥

ऐलवंश्याश्च ये राजंस्तथैवेक्ष्वाकवो नृपाः ।
तानि चैकशतं विद्धि कुलानि भरतर्षभ॥५॥

वंशद्वयेप्येवं क्रमतः शतं सम्राजां कुलानि जातानीत्याह । ऐलवंश्या इति ॥५॥

ययातेस्त्वेव भोजानां विस्तरो गुणतो महान् ।
भजतेऽद्य महाराज विस्तरं सचतुर्दिशम्॥६॥

ययातेः वंशे । इति शेषः अद्य संप्रति ॥६॥

तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते ।
इदानीमेव वै राजञ्जरासन्धो महीपतिः॥७॥

इदानीमेव अभिषेचितो नरेन्द्रैरिति शेषः ॥७॥

अभिभूय श्रियं तेषां कुलानामभिषेचितः ।
स्थितो मूर्ध्नि नरेन्द्राणामोजसाक्रम्य सर्वशः॥८॥

सोवनीं मध्यमां भुक्त्वा मिथो भेदममन्यत ।
प्रभुर्यस्तु परो राजा यस्मिन्नेकवशे जगत्॥९॥

मध्यमां मथुरादेशरूपाम् अस्मदीयाम् अस्मासु द्वारवतीं गतेषु भुक्त्वा मिथः अस्माभिः सह भेदं वैरम् अमन्यत । तेन सः अस्मान्सर्वश्रेष्टान् जित्वा स एव साम्राज्यं प्राप्त इत्याह प्रभुरित्यादिना । चतुर्जस्तु परो राजेति पाठे चतुर्जो जरासंधः । द्वे मातरौ पिता जरा राक्षसी चेति चतुर्भ्यो जातत्वात्॥९॥

स साम्राज्यं महाराज प्राप्तो भवति योगतः ।
तं स राजा जरासन्धं संश्रित्य किल सर्वशः॥१०॥

राजन्सेनापतिर्जातः शिशुपालः प्रतापवान् ।
तमेव च महाराज शिष्यवत्समुपस्थितः॥११॥

वक्रः करूषाधिपतिर्मायायोधी महाबलः ।
अपरौ च महावीर्यौ महात्मानौ समाश्रितौ॥१२॥

जरासन्धं महावीर्यं तौ हंसडिम्भकावुभौ ।
वक्रदन्तः करूषस्य करभो मेघवाहनः ।
मूर्ध्ना दिव्यमणिं बिभ्रद्यमद्भुतमणिं विदुः॥१३॥

मरुं च नरकं चैव शास्ति यो यवनाधिपः ।
अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा॥१४॥

भगदत्तो महाराज वृद्धस्तव पितुः सखा ।
स वाचा प्रणतस्तस्य कर्मणा च विशेषतः॥१५॥

भगदत्तो मध्यस्थ इत्याह भगेति ॥१५॥

स्नेहबद्धश्च मनसा पितृवद्भक्तिमांस्त्वयि ।
प्रतीच्यां दक्षिणं चान्तं पृथिव्याः प्रति यो नृपः॥१६॥

मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः ।
स ते सन्नितिमानेकः स्नेहतः शत्रुसूदनः॥१७॥

त्वत्पक्षे तु कुन्तिभोज एक एवेत्याह । मातुल इति ॥१७॥

जरासन्धं गतस्त्वेव पुरा यो न मया हतः ।
पुरुषोत्तमविज्ञातो योसौ चेदिषु दुर्मतिः॥१८॥

पौण्ड्रकोऽपि परपक्षे एवास्तीत्याह जरेति ॥१८॥

आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम् ।
आदत्ते सततं मोहाद्यः स चिह्नं च मामकम्॥१९॥

वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः ।
पौण्ड्रको वासुदेवेति योऽसौ लोकेऽभिविश्रुतः॥२०॥

चतुर्थभाङ्महाराज भोजम् इन्द्रसखो बली ।
विद्याबलाद्यो व्यजयत्स पाण्ड्यक्रथकैशिकान्॥२१॥

अस्मच्छ्वशुरो भीष्मकोऽपि परपक्षे एवास्तीत्याह चतुर्थेति । पृथिव्याश्चतुर्थांशभाक् ॥२१॥

भ्राता यस्याकृतिः शूरो जामदग्न्यसमोऽभवत् ।
स भक्तो मागधं राजा भीष्मकः परवीरहा॥२२॥

प्रियाण्याचरतः प्रह्वान्सदा सम्बन्धिनस्ततः ।
भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः॥२३॥

न कुलं सबलं राजन्नभ्यजानात्तथात्मनः ।
पश्यमानो यशोदीप्तं जरासन्धमुपस्थितः॥२४॥

सः बलं कुलं च आत्मनो न ज्ञातवान् यतो मच्छत्रुपक्षे गत्वा मया जामात्रापि सह कलहमिच्छतीति भावः ॥२४॥

उदीच्याश्च तथा भोजाः कुलान्यष्टादश प्रभो ।
जरासन्धभयादेव प्रतीचीं दिशमास्थिताः॥२५॥

शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः ।
सुस्थलाश्च सुकुट्टाश्च कुलिन्दाः कुन्तिभिः सह॥२६॥

शाल्वायनाश्च राजानः सोदर्यानुचरैः सह ।
दक्षिणा ये च पञ्चालाः पूर्वाः कुन्तिषु कोशलाः॥२७॥

तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः ।
मत्स्याः सन्न्यस्तपादाश्च दक्षिणां दिशमाश्रिताः॥२८॥

तथैव सर्वपञ्चाला जरासन्धभायर्दिताः ।
स्वराज्यं सम्परित्यज्य विद्रुताः सर्वतोदिशम्॥२९॥

कस्यचित्त्वथ कालस्य कंसो निर्मथ्य यादवान् ।
बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः॥३०॥

अस्तिः प्रास्तिश्च नाम्ना ते सहदेवानुजेऽबले ।
बलेन तेन स्वज्ञातीनभिभूय वृथामतिः॥३१॥

श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान् ।
भोजराजन्यवृद्धैश्च पीड्यमानैर्दुरात्मना॥३२॥

ज्ञातित्राणमभीप्सद्भिरस्मत्सम्भावना कृता ।
दत्वाऽऽक्रूराय सुतनुं तामाहुकसुतां तदा॥३३॥

सङ्कर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम् ।
हतौ कंससुनामानौ मया रामेण चाप्युत॥३४॥

भये तु समतिक्रान्ते जरासन्धे समुद्यते ।
मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः॥३५॥

कुलैः मन्त्रीपुरोहितश्चैवेत्यादिना प्राक् प्रदर्शितैः ॥३५॥

अनारमन्तो निघ्नन्तो महास्त्रैः शत्रुघातिभिः ।
न हन्यामो वयं तस्य त्रिभिर्वर्षशतैर्बलम्॥३६॥

न हन्यामो न हतवन्तः वर्षशतैर्वर्षशततुल्यैस्त्रिभिर्वर्षैरित्यर्थः ॥३६॥

तस्य ह्यमरसङ्काशौ बलेन बलिनां वरौ ।
नामभ्यां हंसडिम्भकावशस्त्रनिधनावुभौ॥३७॥

तावुभौ सहितौ वीरौ जरासन्धश्च वीर्यवान् ।
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः॥३८॥

न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः ।
तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर॥३९॥

अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः ।
रामेण स हतस्तत्र सङ्ग्रामेऽष्टादशावरे॥४०॥

स हंसः हतः मरणतुल्यां मूर्छां प्रापितः ॥४०॥

हतो हंस इति प्रोक्तस्य केनापि भारत ।
तच्छ्रुत्वा डिबिको राजन्यमुनाम्भस्यमज्जत ॥४१॥

विना हसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे ।
इत्येतां मतिमास्थाय डिम्भको निधनं गतः॥४२॥

तथा तु डिबिकं श्रुत्वा हंसः परुपुरञ्जयः ।
प्रपेदे यमुनामेव सोपि तस्यां न्यमज्जत॥४३॥

तौ स राजा जराजन्धः श्रुत्वा च निधनं गतौ ।
पुरं शून्येन मनसा प्रययौ भरतर्षभ॥४४॥

ततो वयमित्रघ्न तस्मिन्प्रतिगते नृपे ।
पुनरान्दिनः सर्वे मधुरायां वसामहे॥४५॥

यदा त्वभ्येत्य पितरं सा वै राजीवलोचना ।
कंसभार्या जरासन्धं दुहिता मागधं नृपम् ।
चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता॥४६॥

पतिघ्नं मे जहीत्येवं पुनः पुनररिन्दम ।
ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम्॥४७॥

संस्मरन्तो विमनसो व्यपयाता नराधिप ।
पृथक्त्वेन महाराज सङ्क्षिप्य महतीं श्रियम्॥४८॥

पलायामो भयात्तस्य ससुतज्ञातिबान्धवाः ।
इति सञ्चिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः॥४९॥

कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् ।
ततो निवेशं तस्यां च कृतवन्तो वयं नृप॥५०॥

तथैव दुर्गसंस्कारं देवैरपि दुरासदम् ।
स्त्रियोऽपि यस्यां युध्येयुः किमु वृष्णिमहारथाः॥५१॥

तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः ।
आलोच्य गिरिमुख्यं तं मागधं तीर्णमेव च॥५२॥

माधवाः कुरुशार्दूल परां मुदमवाप्नुवन् ।
एवं वयं जरासन्धादभितः कृतकिल्बिषाः॥५३॥

सामर्थ्यवन्तः सम्बन्धाद्गोमन्तं समुपाश्रिताः ।
त्रियोजनायतं सद्म त्रिस्कन्धं योजनावधि॥५४॥

योजनान्ते शतद्वारं वीरविक्रमतोरणम् ।
अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः॥५५॥

अष्टादश सहस्राणि भ्रातॄणां सन्ति नः कले ।
आहुकस्य शतं पुत्रा एकैकस्त्रिदशावरः॥५६॥

चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः ।
अहं च रोहिणेयश्च साम्बः प्रद्युम्न एव च॥५७॥

एवमेते रथाः सप्त राजन्नन्यान्निबोध मे ।
कृतवर्मा ह्यनाधृष्टिः समीकः समिर्तिजयः॥५८॥

कङ्कः शङ्कुश्च कुन्तिश्च सप्तैते वै महारथाः ।
पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश॥५९॥

वज्रसंहनना वीरी वीर्यवन्तो महारथाः ।
स्मरन्तो मध्यमं देशं वृष्णिमध्ये व्यवस्थिताः ॥६०॥

स त्वं सम्राड्गुणैर्युक्तः सदा भरतसत्तम ।
क्षेत्रे सम्राजमात्मानं कर्तुमर्हसि भरत॥६१॥

न तु शक्यं जरासन्धे जीवमाने महाबले ।
राजसूयस्त्वयाऽवाप्तुमेषा राजन्मतिर्मम॥६२॥

तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे ।
कन्दरे पर्वतेन्द्रस्य सिंहेनेव महाद्विपाः॥६३॥

स हि राजा जरासन्धो यियक्षुर्वसुधाधिपैः ।
महादेवं महात्मानमुमापतिमरिन्दम॥६४॥

आराध्य तपसोग्रेण निर्जितास्तेन पार्थिवाः ।
प्रतिज्ञायाश्च पारं स गतः पार्थिवसत्तम॥६५॥

स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान् ।
पुरमानीय बद्ध्वा च चकार पुरुषव्रजम्॥६६॥

वयं चैव महाराज जरासन्धभयात्तदा ।
मधुरां सम्परित्यज्य गता द्वारवतीं पुरीम्॥६७॥

यदि त्वेनं महाराज यज्ञं प्राप्तुमभीप्ससि ।
यतस्व तेषां मोक्षाय जरासन्धवधाय च॥६८॥

समारम्भो न शक्योऽयमन्यथा कुरुनन्दन ।
राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर॥६९॥

इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ ।
एवंगते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः॥७०॥

॥ इति श्रीमहाभारते सभापर्वणि राजसूयारम्भपर्वणि कृष्णवाक्ये चतुर्दशोऽध्यायः॥ १४॥
पञ्चदशोऽध्यायः

युधिष्ठिर उवाच। उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति ।
संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि॥१॥

गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियङ्कराः ।
न च साम्राज्यमाप्तास्ते सम्राट्शब्दो हि कृच्छ्रभाक्॥ २॥

कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति ।
परेण समवेतस्तु यः प्रशस्यः स पूज्यते॥३॥

विशाला बहुला भूमिर्बहुरत्नसमाचिता ।
दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह॥ ४॥

शममेव परं मन्ये शमात्क्षेमं भवेन्मम ।
आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः॥ ५॥

एवमेते हि जानन्ति कुले जाता मनस्विनः ।
कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन॥६॥

कृष्णमेवोद्दिश्याह एवमिति । एते अस्मदीयाः सभासदः मनस्विनो भीमादयः श्रेष्ठः सर्वान् जेतुं समर्थो भविष्यतीति जानन्ति ॥६॥

वयं यैव महाभाग जरासन्धभयात्तदा ।
शङ्किताः स्म महाभाग द्वौरात्म्यात्तस्य चानघ॥ ७॥

अहं हि तव दुर्द्धर्ष भुजवीर्याश्रयः प्रभो ।
नात्मानं बलिनं मन्ये त्वयि तस्माद्विशङ्किते॥ ८॥

त्वत्सकाशाच्च रामाच्च भीमसेनाच्च माधव ।
अर्जुनाद्वा महाबाहो हन्तुं शक्यो न वेति वै ।
एवं जानन्हि वार्ष्णेय विमृशामि पुनः पुनः॥९॥

तथापि त्वत्प्रभृतीनां चतुर्णां मध्ये कश्चिदेनं हन्तुं समर्थोऽस्ति न वेति विमृशामि युष्माकमप्यनन्तशक्तित्वं जानान्नित्याह त्वत्सकाशादिति ॥९॥

त्वं मे प्रमाणभूतोऽसि सर्वकार्येषु केशव ।
तच्छ्रुत्वा चाब्रवीद्भीमो वाक्यं वाक्यविशारदः॥१०॥

भीम उवाच।

अनारम्भपरो राजा वल्मीक इव सीदति ।
दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति॥११॥

अतन्द्रितश्च प्रायेण दुर्बलो बलिनं रिपुम् ।
जयेत्सम्यक्प्रयोगेण नीत्याऽर्थानात्मनो हितान्॥ १२॥

कृष्णेन यो मयि बलं जयः पार्थे धनञ्जये ।
मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः॥

कृष्ण उवाच। अर्थानारभते बालो नानुबन्धमवेक्षते ।
तस्मादरिं न मृष्यन्ति बालमर्थपरायणम्॥१४॥

भीमं प्रकोपयन्कृष्ण उवाच अर्थानिति । बालः अव्युत्पन्नः अनुबन्धं विपाकम् अर्थपरायणं स्वकार्यतत्परं न मृष्यन्ति न विचारयन्ति ॥१४॥

जित्वा जय्यान्यौवनाश्विः पालनाच्च भगीरथः ।
कार्तवीर्यस्तपोवीर्याद्बलात्तु भरतो विभुः॥ १५॥

ऋद्ध्या मरुत्तस्तान्पञ्च सम्राजस्त्वनुशुश्रुम ।
साम्राज्यमिच्छतस्ते तु सर्वाकारं युधिष्ठिर॥१६॥

सर्वाकारं जयादिपञ्चप्रकारम् । यौवनाश्विप्रभृतयः एकैकेन गुणेन साम्राज्यं प्राप्तास्त्वं तु तत्सर्वैरपि गुणैरिच्छसीति भावः ॥१६॥

निग्राह्यलक्षणं प्राप्तिर्धर्मार्थनयलक्षणैः॥ १७॥

बार्हद्रथो जरासन्धस्तद्विद्धि भरतर्षभ ।
न चैनमनुरुद्ध्यन्ते कुलान्येकशतं नृपाः॥ १८॥

तस्मादिह बलादेव साम्राज्यं कुरुते हि सः॥१९॥

रत्नभाजो हि राजानो जरासन्धमुपासते ।
न च तुष्यति तेनापि बाल्यादनयमास्थितः॥ २०॥

मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषो बलात् ।
आदत्ते न च नो दृष्टो भागः पुरुषतः क्वचित्॥२१॥

नः अस्माभिर्न च दृष्टः जरासंधेन अभागः अस्वीकृतः पुरुषतः मूर्धाभिषिक्तेषु पुरुषेषु तेन सर्वे वशीकृता इत्यर्थः ॥२१॥

एवं सर्वान्वशे चक्रे जरासन्धः शतावरान् ।
तं दुर्बलतरो राजा कथं पार्थ उपैष्यति॥२२॥

शतावरान् शतन्यूनान् ॥२२॥

प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे ।
पशूनामिव का प्रीतिर्जीविते भरतर्षभ॥२३॥

प्रमृष्टानां रुद्रदेवत्योऽयमिति प्रत्येकमभिमृष्टानाम् ॥२३॥

क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः ।
ततः स्म मागधं सङ्ख्ये प्रतिबाधेम यद्वयम्॥ २४॥

षडशीतिः समानीताः शेषा राजंश्चतुर्दश ।
जरासन्धेन राजानस्ततः क्रूरं प्रवर्त्स्यते॥२५॥

क्रूरं राजवधाख्यं कर्म । पशुपतये बलिदानं प्रवर्त्स्यते कारयिष्यति ॥२५॥

प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत् ।
जयेद्यश्च जरासन्धं स सम्राण्नियतं भवेत्॥ २६॥

॥ इति श्रीमहाभारते सभापर्वणि राजसूयारम्भपर्वणि कृष्णवाक्ये पञ्चदशोऽध्यायः॥ १५॥
षोडशोऽध्यायः
युधिष्ठिर उवाच।

सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः ।
कथं प्रहिणुयां कृष्ण सोऽहं केवलसाहसात्॥१॥

सम्राडिति । एवं जरासंधात् भीषितो राजा कृष्णेन य इत्यादिना श्लोकेन भीमेनोक्त उपायो दुष्कर इत्याह युष्मान् कृष्णभीमार्जुनान् प्रहिणुयां जरासंधवधार्थमिति शेषः ॥१॥

भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम् ।
मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत्॥२॥

जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम् ।
यमोऽपि न विजेताजौ तत्र वः किं विचेष्टितम्॥३॥

विजेता जेष्यति श्रमोऽपि विजयेताजाविति गौडपाठे तु श्रमः भ्रमणो दुर्बलोऽपि जरासंधे सहाये सति विजयेत शत्रूनिति शेषः ॥३॥

अस्मिंस्त्वर्थान्तरे युक्तमनर्थः प्रतिपद्यते ।
तस्मान्न प्रतिपत्तिस्तु कार्या युक्ता मता मम॥४॥

अर्थान्तरे इष्टफलाद्विपरीतफले कार्ये युक्तं पुरुषं प्रति अनर्थः प्रतिपद्यते प्राप्नोति तस्मात्कार्या कर्तुमिष्टा प्रतिपत्तिः । राजसूयबुद्धिः न युक्ता ॥४॥

यथाहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम ।
संन्यासं रोचये साधु कार्यस्यास्य जनार्दन ।
प्रतिहन्ति मनो मेऽद्य राजसूयो दूराहरः॥५॥

कार्यस्य संन्यासं कर्ममात्रस्य त्यागं न तु क्रतुमात्रस्य काषायं सुलभमित्यन्ते दर्शनात् पारिव्राज्यमेव रोचये इत्यर्थः ॥५॥
वैशम्पायन उवाच।

पार्थः प्राप्य धनुश्रेष्ठमक्षय्यौ च महेषुधी ।
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत॥६॥

अर्जुन उवाच। धनुः शस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् ।
प्राप्तमेतन्मय राजन्दुष्प्रापं यदभीप्सितम्॥७॥

वीर्यम् उत्साहः । पक्षो वासुदेवः । भूमिः मन्त्रपूर्वकः कार्यनिश्चयः । बलं शारीरसेनादिरूपं सामर्थ्यम् ॥७॥

कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः ।
बलेन सदृशं नास्ति वीर्यं तु मम रोचते॥८॥

वैद्याः विद्यावन्तः बलेनेति उत्साह एव श्रेयानित्यर्थः ॥८॥

कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति ।
निर्वीर्ये तु कुले जातो वीर्यवांस्तु विशिष्यते॥९॥

क्षत्रियः सर्वशो राजन्यस्य वृत्तिर्द्विषज्जये ।
सर्वैगुणैर्विहीनोऽपि वीर्यवान्हि तरेन्द्रिपून्॥१०॥

सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति ।
गुणीभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे॥११॥

जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम् ।
संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते॥१२॥

सिद्धिर्योगः अत्यन्ताभिनिवेश इति यावत् ‘सिद्धिर्निष्पत्तियोगयोः’ इति विश्वः तच्च सिद्धिरूपं वीर्यम् । कर्म परिस्पन्दः दैवं भाग्यं तदुभयापेक्षं नोपयुज्यते न कार्यक्षमो भवति ॥१२॥

तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः॥१३॥

दैन्यं यथा बलवति तथा मोहो बलान्विते ।
तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना॥१४॥

जरासन्धिविनाशं च राज्ञां च परिरक्षणम् ।
यदि कुर्याम् यज्ञार्थं किं ततः परमं भवेत्॥१५॥

तस्मादुत्साहवता कर्मैव कर्तव्यं जयायेत्याह जरेति ॥१५॥

अनारम्भे हि नियतो भवेदगुणनिश्चयः ।
गुणान्निःसंशयाद्राजन्नैर्गुण्यं मन्यसे कथम्॥१६॥

अकरणे दोषमाह अनारम्भ इति । कर्मण इति शेषः आरब्धमपि प्रतिकूलं चेत्तत्राह गुणात्पूर्वोक्ताद्धनुरादिसंपत्तिरूपात् । नैर्गुण्यम् अशक्तत्वम् ॥१६॥

काषायं सुलभं पश्चान्मुनीनां शममिच्छताम् ।
साम्राज्यं तु भवेच्छक्यं वयं योत्स्यामहे परान्॥१७॥

पश्चात् अशक्तत्वनिश्चयादूर्ध्वम् । काषायं गैरिकरक्तं वस्त्रम् ॥१७॥
॥ इति श्रीमहाभारते सभापर्वणि राजसूयारम्भपर्वणि जरासंधवधमन्त्रणे षोडशोऽध्यायः॥१६॥
सप्तदशोऽध्यायः

वासुदेव उवाच। जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च ।
या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता॥१॥

जातस्येति ॥१॥

न स्म मृत्युं वयं विद्म रात्रौ वा यदि वा दिवा ।
न चापि कञ्चिदमरमयुद्धेनानुशुश्रुम॥२॥

एतावदेव पुरुषैः कार्यं हृदयतोषणम् ।
नयेन विधिदृष्टेन यदुपक्रमते परान्॥३॥

सुनयस्यानपायस्य संयोगे परमः क्रमः ।
सङ्गत्या जायतेऽसाम्यं साम्यं च न भवेद्द्वयोः॥४॥

सुनयस्य शोभनस्य मन्त्रस्य । अनपायस्य दैवादिप्रातिकूल्यहीनस्य । संयोगे प्राप्तौ सत्यां परमोत्कृष्टः क्रमः उपक्रमः सिद्ध्यति तेन च संगत्या द्वयोर्मेलनेन असाम्यम् अन्यतरोत्कर्षः जायते चकारो हेतौ यतः द्वयोर्युध्यतोः साम्यं न भवति तस्माद्विना युद्धम् अशक्तत्वनिश्चयायोगादशक्तिशंकया तूष्णीमवस्थानं पराभवहेतुरिति भावः ॥४॥

अनयस्यानुपायस्य संयुगे परमः क्षयः ।
संशयो जायते साम्याज्जयश्च न भवेद्द्वयोः॥५॥

विपक्षे दोषमाह । अनयस्यानुपायस्य संयुगे परमक्षय इति । ननु परस्यापि नयादिमत्त्वे कथं स्वस्य जयः स्यादित्याशंक्याह । संशयो जायते साम्याज्जयश्च न भवेद्द्वयोरिति । द्वयोरुपायादिसाम्ये तु द्वयोरपि परस्परभयाज्जये संशय एव भवति न तु जयः चात् पराजयो वा किं तु ताटस्थ्येन द्वावपि तिष्ठत इत्यर्थः ॥५॥

ते वयं नयमास्थाय शत्रुदेशसमीपगाः ।
कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः ।
पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः॥६॥

साम्येऽप्यारम्भवैफल्यमित्याशंक्य स्वस्योत्कर्षमाह सार्धेन ते वयमिति ॥६॥

व्यूढानीकैरतिबलैर्न युद्व्येदरिभिः सह ।
इति बुद्धिमतां नीतिस्तन्ममापीह रोचते॥७॥

नन्वेवं महतो राजकस्योत्थापने क्रतुविघ्न एव भवेदित्याशंक्याह व्यूढेति ॥७॥

अनवद्या ह्यसम्बुद्धाः प्रविष्टाः शत्रुसद्म तत् ।
शत्रुदेशमुपाक्रम्य तं कामं प्राप्नुयामहे॥८॥

एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभः ।
अन्तरात्मेव भूतानां तत्क्षयं नैव लक्षये॥९॥

उत्कर्षे कामप्राप्तिः सिद्धा साम्यं तु नैव भवोदित्याह एक इति । श्रियं साम्राज्यलक्ष्मीं तत्तस्मादन्यतरजयनिश्चयाद्धेतोः अहं क्षयं स्वीयं नैवोपलक्षये किं तु परस्यैव क्षयो भविष्यतीत्यर्थः। तत्क्षयं चैवेति पाठे तस्य जरासंधस्य क्षयं लक्षये संभावये ॥९॥

अथवैनं निहत्याजौ शेषेणापि समाहताः ।
प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः॥१०॥

निहत्य संप्राप्य शेषेण वधेन वधहेतुना शत्रुणा ‘शेषः संकर्षणेनन्ते उपयुक्तेतरे वधे’ इति विश्वः । ज्ञातयः जरासंधबद्धा राजानः ॥१०॥
युधिष्ठिर उवाच।

कृष्ण कोऽयं जरासन्धः किंवीर्यः किम्पराक्रमः ।
यस्त्वां स्पृष्ट्वाऽग्निसदृशं न दग्धः शलभो यथा॥११॥

कृष्ण उवाच।

शृणु राजञ्जरासन्धो यद्वीर्यो यत्पराक्रमः ।
यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः॥१२॥

अक्षौहिणीनां तिसृणां पतिः समरदर्पितः ।
राजा बृहद्रथो नाम मगधाधिपतिर्बली॥१३॥

पतिः पालकः ॥१३॥

रूपवान्वीर्यसम्पन्नः श्रीमानतुलविक्रमः ।
नित्यं दीक्षाङ्किततनुः शतक्रतुरिवापरः॥१४॥

तेजसा सूर्यसङ्काशः क्षमया पृथिवीसमः ।
यश्चान्तकसमः क्रोधे श्रिया वैश्रवणोपमः॥१५॥

यमो वैवस्वतः अन्तकः कालः ॥१५॥

तस्याभिजनसंयुक्तैर्गणैर्भरतसत्तम ।
व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः॥१६॥

स काशिराजस्य सुते यमजे भरतर्षभः ।
उपयेमे महावीर्यो रूपद्रविणसंयुते ।
तयोश्चकार समयं मिथः स पुरुषर्षभः॥१७॥

नातिवर्तिष्य इत्येवं पत्नीभ्यां सन्निधौ तदा ।
स ताभ्यां शुशुभे राजा पत्नीभ्यां वसुधाधिपः॥१८॥

नातिवर्तिष्ये वैषम्यं न करिष्ये ॥१८॥

प्रियाम्भामनुरूपाभ्यां करेणुभ्यामिव द्विपः ।
तयोर्मध्यगतश्चापि रराज वसुधाधिपः॥१९॥

गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः ।
विषयेषु निमग्नस्य तस्य यौवनमभ्यगात्॥२०॥

न च वंशकरः पुत्रस्तस्याजायत कश्चन ।
मङ्गलैर्बहुभिर्होमैः पुत्रकामाभिरिष्टिभिः ।
नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम्॥२१॥

अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः ।
शुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम्॥२२॥

यदृच्छयागतं तं तु वृक्षमूलमुपाश्रितम् ।
पत्नीभ्यां सहितो राजा सर्वयत्नैरतोषयत्॥२३॥

रत्नैः मुनियोग्यैः उत्कृष्टद्रव्यैः ॥२३॥

तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः ।
परितुष्टोऽस्मि राजेन्द्र वरं वरय सुव्रत॥२४॥

ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः ।
पुत्रदर्शननैराश्याद्बाष्पसन्दिग्धया गिरा॥२५॥

भगवन् राज्यमुत्सृज्य प्रस्थितोऽहं तपोवनम् ।
किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे॥२६॥

कृष्ण उवाच। एतच्छ्रुत्वा मुनिर्ध्यानमगमत्क्षुभितेन्द्रियः ।
तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत॥२७॥

तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह ।
अवानमशुकादष्टमेकमाम्रफलं किल॥२८॥

अवानम् अशुष्कं सरसमिति यावत् ‘आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु’ इत्यमरः । अवातमिति पाठे नास्ति पातयिता वातो यस्य तत् ॥२८॥

तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च ।
राज्ञे ददावप्रतिमं पुत्रसम्प्राप्तिकारणम्॥२९॥

उवाच च महाप्राज्ञस्तं राजानं महामुनिः ।
गच्छ राजन्कृतार्थोऽसि निवर्तस्व नराधिप॥३०॥

एतच्छ्रुत्वा मुनेर्वाक्यं शिरसा प्रणिपत्य च ।
मुनेः पादौ महाप्राज्ञः स नृपः स्वगृहं गतः॥३१॥

यथासमयमाज्ञाय तदा स नृपसत्तमः ।
द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ॥३२॥

थथासमयं यथाप्रतिज्ञं नातिवर्तिष्य इति दर्शितरीत्या ॥३२॥

ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे ।
भावित्वादपि चार्थस्य सत्यवाक्यतया मुनेः॥३३॥

तयोः समभवद्गर्भः फलप्राशनसम्भवः ।
ते च दृष्ट्वा स नृपतिः परां मुदमवाप ह॥३४॥

अथ काले महाप्राज्ञ यथासमयमागते ।
प्रजायेतामुभे राजञ्च्छरीरशकले तदा॥३५॥

प्रजायेतां सुषुवतुः ॥३५॥

एकाक्षिबाहुचरणे अर्धोदरमुखस्फिचे ।
दृष्ट्वा शरीरशकले प्रवेपतुरुभे भृशम्॥३६॥

स्फिक् कट्या अधोभागः ॥३६॥

उद्विग्रे सह संमन्त्र्य ते भगिन्यौ तदाऽबले ।
सजीवे प्राणिशकले तत्यजाते सुदुःखिते॥३७॥

ते शकले ॥३७॥

तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे ।
निर्गम्यान्तःपुरद्वारात्समुत्सृज्याभिजग्मतुः॥३८॥

गर्भसंप्लवे गर्भपाते सति ॥३८॥

ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी ।
जग्राह मनुजव्याघ्र मांसशोणितभोजना॥३९॥

कर्तुकामा सुखवहे शकले सा तु राक्षसी ।
संयोजयामास तदा विधानबलचोदिता॥४०॥

सुखवहे एकीकृतयोर्वहनं हि सुखेन भवतीति प्रसिद्धम् ॥४०॥

ते समानीतमात्रे तु शकले पुरुषर्षभ ।
एकमूर्तिधरो वीरः कुमारः समपद्यत॥४१॥

समानीतमात्रे संयोजितमात्रे ॥४१॥

ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना ।
न शशाक समुद्वोढुं वज्रसारमयं शिशुम्॥४२॥

बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः ।
प्राक्रोशदतिसंरब्धः सतोय इव तोयदः॥४३॥

तेन शब्देन सम्भ्रान्तः सहसाऽन्तःपुरे जनः ।
निर्जगाम नरव्याघ्र राज्ञा सह परन्तप॥४४॥

ते चाबले परिम्लाने पयःपूर्णपयोधरे ।
निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम्॥४५॥

ते च दृष्ट्वा तथाभूते राजानं चेष्टसंततिम् ।
तं च बालं सुबलिनं चिन्तयामास राक्षसी॥४६॥

नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः ।
बालं पुत्रमिमं हन्तुं धार्मिकस्य महात्मनः॥४७॥

सा तं बालमुपादाय मेघलेखेन भास्करम् ।
कृत्वा च मानुषं रूपमुवाच वसुधाधिपम्॥४८॥

कृष्ण उवाच। ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे ।
तं बालमभिपद्याशु प्रस्रवैरभ्यषिञ्जताम्॥५०॥

ततः स राजा संहृष्टः सर्वं तदुपलभ्य च ।
अपृच्छद्धेमगर्भाभां राक्षसीं तामराक्षसीम्॥५१॥

अराक्षसीं वेषतः ॥५१॥

राजोवाच ।
का त्वं कमलगर्भाभे मम पुत्रप्रदायिनी ।
कामं मा ब्रूहि कल्याणि देवता प्रतिभासि मे॥५२॥

कामया कामेन यातीति इच्छाविहारिणी ॥५२॥
॥ इति श्रीमहाभारते सभापर्वणि राजसूयारम्भपर्वणि जरासंधोत्पत्तौ सप्तदशोऽध्यायः॥१७॥
अष्टादशोऽध्यायः

जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी ।
तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम्॥१॥

जरेति ॥१॥

गृहे गृहे मनुष्याणां नित्यं तिष्ठामि राक्षसी ।
गृहदेवीति नाम्ना वै पुरा सृष्टा स्वयंम्भुवा॥२॥

दानवानां विनाशाय स्थापिता दिव्यरूपिणी ।
यो मां भक्त्या लिखेत्कुड्ये सपुत्रां यौवनान्विताम्॥३॥

गृहे तस्य भवेद्वृद्धिरन्यथा क्षयमाप्नुयात् ।
त्वद्गृहे तिष्ठमानाऽहं पूजिताऽहं सदा विभो॥४॥

तिष्ठमाना सुस्थिरा ॥४॥

लिखिता चैव कुड्येषु पुत्रैर्बहुभिरावृता ।
गन्धपुष्पैस्तथा धूपैर्भक्ष्यभोज्यैः सुपूजिता॥५॥

साहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप ।
तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिका॥६॥

संश्लिषिते मया दैवात्कुमारः समपद्यत ।
तव भाग्यान्महाराज हेतुमात्रमहं त्विह॥७॥

मेरुं वा खादितुं शक्ता किं पुनस्तव बालकम् ।
गृहसम्पूजनात्तुष्ट्या मया प्रत्यर्पितस्तव॥८॥

कृष्ण उवाच। एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत ।
स सङ्गृह्य कुमारं तं प्रविवेश गृहं नृपः॥९॥

तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा ।
आज्ञापयच्च राक्षस्या मगधेषु महोत्सवम्॥१०॥

तस्य नामाकरोच्चैव पितामहसमः पिता ।
जरया सन्धितो यस्माज्जरासन्धो भवत्वयम्॥११॥

सोवर्धत महातेजा मागधाधिपतेः सुतः ।
प्रमाणबलसम्पन्नो हुताहुतिरिवानलः ।
मातापित्रोर्नन्दकरः शुक्लपक्षे यथा शशी॥१२॥

नन्दिकरः समृद्धिक्कृत् ॥१२॥
॥ इति श्रीमहाभारते सभापर्वणि राजसूयारम्भपर्वणि जरासंधोत्पत्तौ अष्टादशोऽध्यायः॥१८॥
नवदशोऽध्यायः
कृष्ण उवाच।

कस्यचित्त्वथ कालस्य पुनरेव महातपाः ।
मगधेषुपजक्राम भगवांश्चण्डकौशिकः॥१॥

कस्येति ॥१॥

तस्यागमनसंहृष्टः सामात्यः स पुरःसरः ।
सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः॥२॥

पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत ।
स नृपो राज्यसहितं पुत्रं तस्मै न्यवेदयत्॥३॥

प्रतिगृह्य च तां पूजां पार्थिवाद्भगवानृषिः ।
उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना॥४॥

सर्वमेतन्मया ज्ञातं राजन्दिव्येन चक्षुषा ।
पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति॥५॥

अस्य रूपं च सत्त्वं च बलमूर्जितमेव च ।
एष श्रिया समुदितः पुत्रस्तव न संशयः॥६॥

प्रापयिष्यति तत्सर्वं विक्रमेण समन्वितः ।
अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः॥७॥

पततो वैनतेयस्य गतिमन्ये यथा खगाः ।
विनाशमुपयास्यन्ति ये चास्य परिपन्थिनः॥८॥

देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते ।
न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः॥९॥

सर्वमूर्धाभिषिक्तानामेव मूर्ध्नि ज्वलिष्यति ।
प्रभाहरोऽयं सर्वेषां ज्योतिषामिव भास्करः॥१०॥

एनमासाद्य राजानः समृद्धबलवाहनाः ।
विनाशमुपयास्यन्ति शलभा इव पावकम्॥११॥

एष श्रियः समुदिताः सर्वराज्ञां ग्रहीष्यति ।
वर्षास्विवोदीर्णजला नदीर्नदनदीपतिः॥१२॥

एष धारयित सम्यक्चातुर्वर्ण्यं महाबलः ।
शुभाशुभमिव स्फीतां सर्वसस्यधरा धरा॥१३॥

अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः ।
सर्वभूतात्मभूतस्य वायोरिव शरीरिणः॥१४॥

सर्वभूतात्मभूतस्य सर्वेषां भूतानाम् आत्मवत्प्रियतमस्येत्यर्थः ॥१४॥

एष रुद्रं महादेवं त्रिपुरान्तकरं हरम् ।
सर्वलोकेष्वतिबलः साक्षाद्द्रक्ष्यति मागधः॥१५॥

एवं ब्रुवन्नेव मुनिः स्वकार्यमिव चिन्तयन् ।
विसर्जयामास नृपं बृहद्रथमथारिहन्॥१६॥

प्रविश्य नगरीं चापि ज्ञातिसम्बन्धिभिर्वृतः ।
अभिषिच्य जरासन्धं मगधाधिपतिस्तदा॥१७॥

बृहद्रथो नरपतिः परां निर्वृतिमाययौ ।
अभिषिक्ते जरासन्धे तदा राजा बृहद्रथः ।
पत्नीद्वयेनानुगतस्तपोवनचरोऽभवत्॥१८॥

ततो वनस्थे पितरि मात्रोश्चैव विशांपते ।
जरासन्धः स्ववीर्येण पार्थिवानकरोद्वशे॥१९॥

वैशंपायन उवाच। अथ दीर्घस्य कालस्य तपोवनचरो नृपः ।
सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः॥२०॥

जरासन्धोऽपि नृपतिर्यथोक्तं कौशिकेन तत् ।
वरप्रदानमखिलं प्राप्य राज्यमपालयत्॥२१॥

निहते वासुदेवेन तदा कंसे महीपतौ ।
जातो वै वैरनिर्बन्धो कृष्णेन सह तस्य वै॥२२॥

भ्रामयित्वा शतगुणमेकोनं येन भारत ।
गदा क्षिप्ता बलवता मागधेन गिरिव्रजात्॥२३॥

तिष्ठतो मथुरायां वै कुष्णस्याद्भुतकर्मणः ।
एकोनयोजनशते सा पपात गदा शुभा॥२४॥

दृष्ट्वा पौरैस्तदा सम्यग्गदा चैव निवेदिता ।
गदावसानं तत्ख्यातं मथुरायाः समीपतः॥२५॥

तस्यास्तां हंसडिम्भकावशस्त्रनिधनावुभौ ।
मन्त्रे मतिमतां श्रेष्ठौ नीतिशास्त्रे विशारदौ॥२६॥

अशस्त्रनिधनौ न विद्यते शस्त्रेण निधनं ययोस्तौ ॥२६॥

यौ तौ मया ते कथितौ पूर्वमेव महाबलौ ।
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः॥२७॥

एवमेष तदा वीर बलिभिः कुकुरान्धकैः ।
वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः॥२८॥

नीतिहेतोः वलीयसा स्पर्धा न कर्तव्येति नीतिस्तदर्थम् ॥२८॥
॥ इति श्रीमहाभारते सभापर्वणि राजसूयारम्भपर्वणि जरासन्धप्रशंसायाम् एकोनविंशतितमोऽध्यायः॥१९॥
समाप्तं राजसूयारम्भपर्व।

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in