सभाक्रियापर्व - १लोकपालसभाख्यानपर्व - २राजसूयारम्भपर्व - ३जरासन्धवधपर्वः - ४दिग्विजयपर्व - ५राजसूयपर्व - ६अर्घ्याभिहरणपर्व - ७शिशुपालवधपर्व - ८द्यूतपर्व - ९अनुद्यूतपर्व - १०

जरासन्धवधपर्वः

विंशोऽध्यायः

वासुदेव उवाच। पतितौ हंसडिभिकौ कंसश्च सगणो हतः ।
जरासन्धस्य निधने कालोऽयं समुपागतः॥१॥

पतिताविति ॥१॥

न शक्योऽसौ रणे जेतुं सर्वैरपि सुरासुरैः ।
प्राणयुद्धेन जेतव्यः स इत्युपलभामहे॥२॥

मयि नीतिर्बलं भीमे रक्षिता चावयोर्जयः ।
मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः॥३॥

जयोर्जुनः ॥३॥

त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः ।
न सन्देहो यथा युद्धमेकेनाप्युपयास्यति॥४॥

अवमानाच्च लोभाच्च बाहुवीर्याच्च दर्पितः ।
भीमसेनेन युद्धाय ध्रुवमप्युपयास्यति॥५॥

अलं तस्य महाबाहुर्भीमसेनो महाबलः ।
लोकस्य समुदीर्णस्य निधनायान्तको यथा॥६॥

यदि मे हृदयं वेत्सि यदि ते प्रत्ययो मयि ।
भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे॥७॥

वैशम्पायन उवाच।

एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः ।
भीमार्जुनौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ॥८॥

युधिष्ठर उवाच। अच्युताच्युत मामैवं व्याहरामित्रकर्शन ।
पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम्॥९॥

यथा वदसि गोविन्द सर्वं तदुपपद्यते ।
न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी॥१०॥

निहतश्च जरासन्धो मोक्षिताश्च महीक्षितः ।
राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः॥११॥

क्षिप्रमेव यथा त्वेतत्कार्यं समुपपद्यते ।
अप्रमत्तो जगन्नाथ तथा कुरु नरोत्तम॥१२॥

त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे ।
धर्मकामार्थरहितो रोगार्त इव दुःखितः॥१३॥

न शौरिणा विना पार्थो न शौरिः पाण्डवं विना ।
नाजेयोस्त्यनयोर्लोके कृष्णयोरिति मे मतिः॥१४॥

अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः ।
युवाभ्यां सहितो वीर किं न कुर्यान्महायशाः॥१५॥

सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम् ।
अन्धं बलं जडं प्राहुः प्रणेतव्यं विचक्षणैः॥१६॥

बलौघः सेनाप्रवाहः विचक्षणैः प्रणेतव्यः अन्यथा अन्धजडवदाकचित्कंर बलमित्यर्थः ॥१६॥

यतो हि निम्नं भवति नयन्ति हि ततो जलम् ।
यतश्छिद्रं ततश्चापि नयन्ते धीवरा जलम्॥१७॥

एतदेव सदृष्टान्तमाह यत इति । धीवराः वरधियः यतो यस्मिन् देशे निम्नम् अयत्नत आक्रमणीयं स्थानं भवति तं हि ततः द्वितीयार्थे तसिः इष्टं निरुपद्रवं देशं प्रति जडं सैन्यं नयन्ति न तु मृत्युमुखे महावीरस्याग्रे पातयान्ति अत्र दृष्टान्तः यथा धीवराः नदीजलजीविनः यतश्छिद्रं कुल्यारूपं ततः तेनैव मार्गेण जलं वारि इष्टं केदारादिप्रदेशं नयन्ति तद्वत् ॥१७॥

तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम् ।
वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये॥१८॥

बलापेक्षया नीतिरेव श्रेष्ठेत्युपसंहरति तस्मादिति ॥१८॥

एवं प्रज्ञानयबलं क्रियोपायसमन्वितम् ।
पुरस्कृर्वीत कार्येषु कृष्णं कार्यार्थसिद्धये॥१९॥

एवमेव यदुश्रेष्ठ यावत्कार्याथिसिद्धये ।
अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयम् ।
नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति॥२०॥

वैशम्पायन उवाच। एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः ।
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति॥२१॥

वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदैः ।
आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः॥२२॥

परिच्छदम् अजिनं दण्डकमण्डलुकाषायादिरूपां सामग्रीम् आच्छाद्य स्वीकृत्य तया स्वं वेषं तिरोधाय वा ॥२२॥

अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यतेजसाम् ।
रविसोमाग्निवपुषां दीप्तमासीत्तदा वपुः॥२३॥

इतं मेने जरासन्धं दृष्ट्वा भीमपुरोगमौ ।
एककार्यसमुद्यन्तौ कृष्णौ युद्धेऽपराजितौ॥२४॥

ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तिनौ ।
धर्मकामार्थलोकानां कार्याणां च प्रवर्तकौ॥२५॥

ईशो नरनारायणौ सर्वाणि कार्याणि निमेषोन्मेषादिमहाप्रलयान्तानि वर्तयितुं शीलं ययोस्तौ नियन्तारावित्यर्थः ॥२५॥

कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् ।
रम्यं पद्मसरो गत्वा कालकूडमतीत्य च॥२६॥

गण्डकीं च महाशोणं सदानीरां तथैव च ।
एकपर्वतके नद्यः क्रमेणैत्याव्रजन्त ते॥२७॥

उत्तीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान् ।
अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम्॥२८॥

अतीत्य गङ्गां शोणं च त्रयस्ते प्राङ्मुखास्तदा ।
कुशचीरच्छदा जग्मुर्मागधं क्षेत्रमच्युताः॥२९॥

ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम् ।
गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम्॥३०॥

॥ इति श्रीमहाभारते सभापर्वणि जरासन्धवधपर्वणि कृष्णपाण्डवमागधयात्रायां विंशोऽध्यायः॥ २०॥
एकविंशतितमोऽध्यायः

वासुदेव उवाच। एष पार्थ महान्भाति पशुमान्नित्यमम्बुमान् ।
निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः॥१॥

एष मागधः मगधदेशसंबन्धी निवेशः विन्यासः ॥१॥

वैहारो विपुलः शैलो वराहो वृषभस्तथा ।
तथा ऋषिगिरिस्तात शुभाश्चैत्यकपञ्चमाः॥२॥

एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः ।
रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिध्रजम्॥३॥

पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोहरैः ।
निगूढा इव लोध्राणां वनैः कामिजनप्रियैः॥४॥

शूद्रायां गौतमो यत्र महात्मा संशितव्रतः ।
औशीनर्यामजनयत्काक्षीवाद्यान्सुतान्मुनिः॥५॥

गौतमस्य क्षणात्तस्माद्यथाऽसौ तत्र सद्मनि ।
भजते मागधं वंशं स नृपाणामनुग्रहः॥६॥

गौतमस्य क्षयादिति क्षयात्‌ ऐश्वर्यात्‌ असौ शूद्रायां जातोऽपि काक्षीवदादीनां वंशः मानवं वंशं भजते । स गौतमस्य नृपाणामुपर्यनुग्रहः ॥६॥

अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः ।
गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन॥७॥

गौतमक्षयं गृहम्‌ ॥७॥

वनराजीस्तु पश्येमाः पिप्पलानां मनोरमाः ।
लोघ्राणां च शुभाः पार्थ गौतमौकःसमीपजाः॥८॥

गौतमौकः गौतमस्य ओको गृहम्‌ ॥८॥

अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ ।
स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः॥९॥

अपरिहार्या मेघानां मागधा मनुना कृताः ।
कौशिको मणिमांश्चैव चक्राते चाप्यनुग्रहम्॥१०॥

एवं प्राप्य पुरं रम्यं दुराधर्षं समन्ततः ।
अर्थसिद्धिं त्वनुपमां जरासन्धोऽभिमन्यते॥११॥

वयमासादने तस्य दर्पमद्य हरेमहि ।
वैशम्पायन उवाच। एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः॥१२॥

वार्ष्णेयः पाण्डवौ चैव प्रतस्थुर्मागधं पुरम् ।
हृष्टपुष्टजनोपेतं चातुर्वर्ण्यसमाकुलम्॥१३॥

स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम् ।
ततो द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम्॥१४॥

पुरस्य गिरिं पुरप्राकारसंलग्नं गिरितुल्यं महास्तम्भं ’वुरुज’ इति भाषायां प्रसिद्धम्‌ ॥१४॥

बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः ।
मागधानां तु रुचिरं चैत्यकान्तरमाद्रवन्॥१५॥

चैत्यकं नगरसूचकम्‌ ॥१५॥

यत्र मांसादमृषभमाससाद बृहद्रथः ।
तं हत्वा मासतालाभिस्तिस्रो भेरीरकारयत्॥१६॥

यत्रेति । मांसादं मांसाहारम् ऋषभं वृषभाकारं दैत्यमाससाद हतवान्‌ । भेरीः दुन्दुभीन्‌ मासतालाभिः मासेन तालो ध्वनिपरिच्छेदो यासां ताभिराकृतिभिः उपलक्षिता इति योज्यम्‌ । महतो हि कांस्यादिभाजनस्य सकृदाह तस्य चिरकालानुवर्ती ध्वनिरिति प्रसिद्धम् । पूर्वे तु मासशब्देन द्वादशसंख्या तालशब्देन मध्यमाङ्गुष्ठप्रमाणं चोक्त्वा द्वादशतालप्रमाणाभिरिति व्याचक्षते । आकृतिभिः संमिता इत्यध्याहृत्य योजना उभयत्र समाना । ‘तालःकरतलेऽङ्गुष्ठमध्यमाभ्यां च संमिते । गीतकालक्रियामाने तालःखड्गादिमुष्टिषु’ इति विश्वः । मांसनालाभिरिति गोडपाठे तु मांसस्य नालवद्वेष्टनकर्त्रीभिः मांसनालाभिबर्ध्रीभिः ॥१६॥

स्वपुरे स्थापयामास तेन चानह्यचर्मणा ।
यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः॥१७॥

तेन चर्मणा च आनह्येति व्यवहितेन संबन्धः अवचूर्णिताः अवकीर्णा व्याप्ता इत्यर्थः यत्र पुरस्य गिरौ ॥१७॥

भङ्क्त्वा भेरीत्रयं तेऽपि चैत्यप्राकारमाद्रवन् ।
द्वारतोऽभिमुखाः सर्वे ययुर्नानायुधास्तदा॥१८॥

मागधानां सुरुचिरं चैत्यकं तं समाद्रवन् ।
शिरसीव समाघ्नन्तो जरासन्धं जिघांसवः॥१९॥

चैत्यकं चित्या दृषदां चयनेन निर्वृत्तम् ॥१९॥

स्थिरं सुविपुलं शृङ्गं सुमहत्तत्पुरातनम् ।
अर्चितं गन्धमाल्यैश्च सततं सुप्रतिष्ठितम्॥२०॥

शृङ्गं तं गिरिमेव श्रृङ्गवदुच्छ्रितं भाषायां ’मनुरा’ इति प्रसिद्धम्‌ ॥२०॥

विपुलैर्बाहुभिर्वीरास्तेभिहत्याभ्यपातयन् ।
ततस्ते मागधं हृष्टाः पुरं प्रविविशुस्तदा॥२१॥

एतस्मिन्नेव काले तु ब्राह्मणा वेदपारगाः ।
दृष्ट्वा तु दुर्निमित्तानि जरासन्धमदर्शयन्॥२२॥

पर्यग्न्यकुर्वंश्च नृपं द्विरदस्थं पुरोहिताः ।
ततस्तच्छान्तये राजा जरासन्धः प्रतापवान् ।
दीक्षितो नियमस्थोऽसावुपवासपरोऽभवत्॥२३॥

पर्यग्न्यकुर्वन्‌ ज्वलता उल्मुकेन परितो भ्राम्यमाणेन याज्ञियं पशुमिव पर्यग्निकृतवन्तः ॥२३॥

स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः ।
युयुत्सवः प्रविविशुर्जरासन्धेन भारत॥२४॥

भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम् ।
स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम्॥२५॥

तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः ।
राजमार्गेण गच्छन्तः कृष्णभीमधनञ्जयाः ।
बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः॥२६॥

विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः ।
निवेशनमथाजग्मुर्जरासन्धस्य धीमतः॥२७॥

विरागवसनाः विचित्ररागवसनाः ॥२७॥

गोवासमिव वीक्षन्तः सिंहा हैमवता यथा ।
शालस्तम्भनिभास्तेषां चन्दनागुरुरूषिताः॥२८॥

गोवासं गोष्ठम्‌ ॥२८॥

अशोभन्त महाराज बाहवो युद्धशालिनाम् ।
तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्धानिवोद्गतान् ।
व्यूढोरस्कान्मागधानां विस्मयः समपद्यत॥२९॥

ते त्वतीत्य जनाकीर्णाः कक्षास्तिस्रो नरर्षभाः ।
अहङ्कारेण राजानमुपतस्थुर्गतव्यथाः॥३०॥

कक्षाः द्वारदेशाः उत्तममध्यमाधमजनावस्थितियोग्याः ॥३०॥

तान्पाद्यमधुपर्कार्हान्गवार्हान्सत्कृतिं गतान् ।
प्रत्युत्थाय जरासन्ध उपतस्थे यथाविधि॥३१॥

उवाच चैतान्राजाऽसौ स्वागतं वोस्त्विति प्रभुः ।
मौनमासीत्तदा पार्थभीमयोर्जनमेजय॥३२॥

तेषां मध्ये महाबुद्धिः कृष्णो वचनमब्रवीत् ।
वक्तुं नायाति राजेन्द्र एतयोर्नियमस्थयोः॥३३॥

अर्वाङ्निशीथात्परतस्त्वाया सार्धं वदिष्यतः ।
यज्ञागारे स्थापयित्वा राजा राजगृहं गतः॥३४॥

ततोऽर्धरात्रे सम्प्राप्ते यातो यत्र स्थिता द्विजाः ।
तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम् ।
॥३५॥

स्नातकान्ब्राह्मणान्प्राप्ताञ्च्छ्रुत्वा स समितिञ्जयः ।
अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत॥३६॥

तांस्त्वपूर्वेण वेषेण दृष्ट्वा स नृपसत्तमः ।
उपतस्थे जरासन्धो विस्मितश्चाभवत्तदा॥३७॥

ते तु दृष्ट्वैव राजानं जरासन्धं नरर्षभाः ।
इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम॥३८॥

स्वस्त्यस्तु कुशलं राजन्निति तत्र व्यवस्थिताः ।
तं नृपं नृपशार्दूल प्रेक्षमाणाः परस्परम्॥३९॥

स्वस्त्यस्तु कुशलं राजन्‌ । कुशलं निर्विघ्नं यथा स्यात्तथा स्वस्ति सुतरां यत् अस्ति अविनाशि मोक्षपदं तत्ते अस्तु । कृष्णसमक्षं मरिष्यमाणस्य तत्प्राप्त्यवश्यंभावादिति भावः । मा जीवेत्यर्थः ॥३९॥

तानब्रवीज्जरासन्धस्तथा पाण्डवयादवान् ।
आस्यतामिति राजेन्द्र ब्राह्मणछद्मसंवृतान्॥४०॥

अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः ।
सम्प्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः॥४१॥

तानुवाच जरासन्धः सत्यसन्धो नराधिपः ।
विगर्हमाणः कौरव्य वेषग्रहणवैकृतान् ।
न स्नातकव्रता विप्रा वहिर्माल्यानुलेपनाः॥४२॥

बहिर्माल्यानुलेपनाः बहिः समावर्तनादिनिमित्तं विना ॥४२॥

भवन्तीति नृलोकेस्मिन्विदितं मम सर्वशः ।
के यूयं पुष्पवन्तश्च भुजैर्ज्याकृतलक्षणैः॥४३॥

बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ ।
एवं विरागवसना बहिर्माल्यानुलेपनाः ।
सत्यं वदत के यूयं सत्यं राजसु शोभते॥४४॥

चैत्यकस्य गिरेः शृङ्गं भित्त्वा किमिह छद्मना ।
अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्विषात्॥४५॥

वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः ।
कर्म चैतद्विलिङ्गस्थं किं वोद्य प्रसमीक्षितम्॥४६॥

वाचि वीर्यं न तु क्रियायां विलिङ्गस्थम् अन्यलिङ्गमन्यत्कर्मेत्यर्थः ॥४६॥

एवं च मामुपास्थाय कस्माच्च विधिनार्हणाम् ।
प्रतीतां नानुगृह्णीत कार्यं किं वाऽस्मदागमे॥४७॥

अर्हणां पूजाम् अस्मदागमे अस्मान्‌ प्रति आगमने ॥४७॥

एवमुक्ते ततः कृष्णः प्रत्युवाच महामनाः ।
स्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः॥४८॥

कृष्ण उवाच। स्नातकान्ब्राह्मणान्राजन्विद्ध्यस्मांस्त्वं नराधिप ।
स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः॥४९॥

विशेषनियमाश्चैषामविशेषाश्च सन्त्युत ।
विशेषवांश्च सततं क्षत्रियः श्रियमृच्छति॥५०॥

स्नातकत्वं समर्थ्य बहिर्माल्यत्वादिकमपि क्षत्रियत्वेन समर्थयते विशेषेत्यादिना ॥५०॥

पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम् ।
क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान् ।
अप्रगल्भं वचस्तस्य तस्माद्बार्हद्रथेरितम्॥५१॥

वचस्तस्य वाग्वीर्यत्वस्य ॥५१॥

स्ववीर्यं क्षत्रियाणां तु बाह्वोर्धाता न्यवेशयत् ।
तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयः॥५२॥

अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहान् ।
प्रविशन्ति नरा धीरा द्वाराण्येतानि धर्मतः॥५३॥

अद्वारेणेत्यादिना वैरं प्रकाशयति ॥५३॥

कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम् ।
प्रतिगृह्णीम् तद्विद्धि एतन्नः शाश्वतं व्रतम्॥५४॥

॥ इति श्रीमहाभारते सभापर्वणि जरासन्धवधपर्वणि कृष्णजरासन्धसंवादे एकविंशोऽध्यायः॥२१॥
द्वाविंशतितमोऽध्यायः

जरासन्ध उवाच। न स्मरामि कदा वैरं कृतं युष्माभिरित्युत ।
चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम्॥१॥

वैकृतम् अपकारः ॥१॥

वैकृते वा सति कथं मन्यध्वं मामनागसम् ।
अरिं वै ब्रूत हे विप्राः सतां समय एष हि॥२॥

कथम् अरिं मन्यध्वं तद्द्रूत एषः सत्यवचनस्य समयः मर्यादा ॥२॥

अथ धर्मोपघाताद्धि मनः समुपतप्यते ।
योऽनागसि प्रसजति क्षत्रियो हि न संशयः॥३॥

प्रसजति प्रसञ्जयति अर्थद्रव्योपघातम् आरोपयति । सः क्षत्रियः वृजिनां कष्टां गतिम् आप्नोति न संशय इति योजना ॥३॥

अतोऽन्यथा चरँल्लोके धर्मज्ञः सन्महारथः ।
वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च॥४॥

उपहन्ति चात्मानम्‌ ॥४॥

त्रैलोक्ये क्षत्रधर्मो हि श्रेयान्वै साधुचारिणाम् ।
नान्यं धर्मं प्रशंसन्ति ये च धर्मविदो जनाः॥५॥

तस्य मेद्य स्थितस्येह स्वधर्मे नियतात्मनः ।
अनागसं प्रजानां च प्रमादादिव जल्पथ॥६॥

प्रजानां चानागसं जल्पथ विपरीतमर्थं वदथ ॥६॥

कृष्ण उवाच। कुलकार्यं महाबाहो कश्चिदेकः कुलोद्वहः ।
वहते यस्तन्नियोगाद्वयमभ्युद्यतास्त्वयि॥७॥

वैरमूलं प्रकाशयति कुलेति ॥७॥

त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः ।
तदागः क्रूरमुत्पाद्य मन्यसे किमनागसम्॥८॥

राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम ।
तद्राज्ञः सन्निगृह्य त्वं रुद्रायोपजिहीर्षसि॥९॥

अस्मांस्तदेनो गच्छेद्धि कृतं बार्हद्रथ त्वया ।
वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः॥१०॥

एनोपगच्छेत्‌ एनः पापं कर्तृ उपगच्छेत्प्राप्नुयात्‌ संधिराषः॥१०॥

मनुष्याणां समालम्भो न च दृष्टः कदाचन ।
स कथं मानुषैर्देवं यष्टुमिच्छसि शङ्करम्॥११॥

सवर्णो हि सवर्णानां पशुसञ्ज्ञां करिष्यसि ।
कोऽन्यं एवं यथा हि त्वं जरासन्ध वृथामतिः॥१२॥

ननु ’ब्राह्मणे ब्राह्मणमालभेत’ इत्यादिनां सर्वजातीयानां सर्वकर्मणां मानुषाणामालम्भो देवतार्थं वधः श्रूयते इत्याशङ्क्याह सवर्णो हीति ॥१२॥

यस्यां यस्यामवस्थायां यद्यत्कर्म करोति यः ।
तस्यां तस्यामवस्थायां तत्फलं समवाप्नुयात्॥१३॥

ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः ।
ज्ञातिवृद्धिनिमित्तार्थं विनिहन्तुमिहागताः॥१४॥

नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव तत् ।
मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः॥१५॥

को हि जानन्नभिजनमात्मवान्क्षत्रियो नृप ।
नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम्॥१६॥

अभिजनं सजातीयं पाल्यतया जानन्‌ ॥१६॥

स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः ।
जयन्ति क्षत्रिया लोकांस्तद्विद्धि मनुजर्षभ॥१७॥

स्वर्गयोनिर्महद्ब्रह्म स्वर्गयोनिर्महद्यशः ।
स्वर्गं योनिस्तपो युद्धे मृत्युः सोऽव्यभिचारवान्॥१८॥

स्वर्गेति ब्रह्म वेदः यशः तपो वेदोक्तं कर्म च स्वर्गयोनिः सुखहेतुः । युद्धे मृत्युश्च अव्यमिचारवान्‌ स्वर्गहेतुः वेदादीनाम् अव्रतादीन्‌ प्रति स्वर्गहेतुत्वं नास्ति युद्धे मृत्युस्तु न तथेत्यर्थः ॥१८॥

एष ह्यैन्द्रो वैजयन्तो गुणैर्नित्यं समाहितः ।
येनासुरान्पराजित्य जगत्पाति शतक्रतुः॥१९॥

एषः युद्धे मृत्युः ऐन्द्रः इन्द्रसंबन्धी । वैजयन्तः प्रासादः तत्प्राप्तिहेतुरित्यर्थः येन लब्धेन समाहितः पूर्णः ॥१९॥

स्वर्गमार्गाय कस्य स्याद्विग्रहो वै यथा तव ।
मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितः॥२०॥

स्वर्गमार्गहेतोर्विग्रहो वैरम् अस्माभिः सह यथा तव पुण्यातिशयात्‌ न तथान्यस्यास्ति अत्र हेतुः क्षत्रियावमान इत्याह मागधैरिति सैन्यैरेव न बाहुबलेन॥२०॥

मावमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे ।
समं तेजस्त्वया चैव विशिष्टं वा नरेश्वर॥२१॥

यावदेतदसम्बुद्धं तावदेव भवेत्तव ।
विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते॥२२॥

विषह्यम् असह्यं विगतः सह्यः सोढुं योग्यः सोढा यस्य तत्‌ यद्वा तव एतावत्‌ बलम् अस्माकं विषह्यं सुसहम्‌ ॥२२॥

जहि त्वं सदृशेष्वेव मानं दर्पं च मागध ।
मागमः ससुतामात्यः सबलश्च यमक्षयम्॥२३॥

दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः ।
श्रेयसो ह्यवमन्येह विनेशुः सबला नृपाः॥२४॥

युयुक्षमाणास्त्वत्तो हि न वयं ब्राह्मणा ध्रुवम् ।
शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ ।
अनयोर्मातुलेयं च कृष्णं मां विद्धि ते रिपुम्॥२५॥

युयुक्षमाणास्त्वत्तो हि त्वत्तः त्वां युयुक्षमाणाः योगः कपटेन हननं तत्कर्तुमिच्छन्तः ’योगो विश्रब्धधातिनि’ इति विश्वः । मुमुक्षमाणा इति पाठे नृपानिति शेषः । ब्राह्मणब्रुवा इति पाठे ब्राह्मणाधमाः ॥२५॥

त्वामाह्वयामहे राजन्स्थिरो युध्वस्व मागध ।
मुञ्च वा नृपतीन्सर्वान् गच्छ वा त्वं यमक्षयम्॥२६॥

जरासन्ध उवाच। नाजितान्वै नरपतीनहमादद्मि कांश्चन ।
अजितः पर्यवस्थाता कोऽत्र यो न मया जितः॥२७॥

अजितः अन्यैरिति शेषः । पर्यवस्थाता शत्रुः ॥२७॥

क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम् ।
विक्रम्य वशमानीय कामतो यत्समाचरेत्॥२८॥

देवातार्थमुपाहृत्य राज्ञः कृष्ण कथं भयात् ।
अहमद्य विमुच्येयं क्षात्रं व्रतमनुस्मरन्॥२९॥

सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः ।
द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगत्पृथगेव वा॥३०॥

व्यूढेन व्यूहरचनायास्थितेन ॥३०॥

वैशम्पाय उवाच। एवमुक्त्वा जरासन्धः सहदेवाभिषेचनम् ।
आज्ञापयत्तदा राजा ययुत्सुर्भीमकर्मभिः॥३१॥

स तु सेनापतिं राजा सस्मार भरतर्षभ ।
कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते॥३२॥

ययोस्ते नामनी राजन्हंसेति डिम्भकेति च ।
पूर्वं सङ्कथितं पुम्भिर्नृलोके लोकसत्कृते॥३३॥

हंसडिम्भकाविव कौशिकचित्रसेनावित्याह ययोरिति ॥३३॥

तं तु राजन्विभुः शौरी राजानं बलिनां वरम् ।
स्मृत्वा पुरुषशार्दूलः शार्दूलसमविक्रमम्॥३४॥

सत्यसन्धो जरासन्धं भुवि भीमपराक्रमम् ।
भागमन्यस्य निर्दिष्टमवध्यं मधुर्भिर्मृधेः॥३५॥

मधुभिः यादवैः ॥३५॥

नात्मनाऽऽत्मवतां मुख्य इयेष मधुसूदनः ।
ब्राह्मीमाज्ञां पुरस्कृत्य हन्तुं हलधरानुजः॥३६॥

॥ इति श्रीमहाभारते सभापर्वणि जरासन्धवधपर्वणि जरासंधयुद्धोद्योगे द्वाविंशोऽध्यायः॥२२॥
त्रयोविंशतितमोऽध्यायः

वैशम्पायन उवाच। ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः ।
उवाच वाग्मी राजानं जरासन्धमधोक्षजः॥१॥

तत इति ॥१॥

कृष्ण उवाच। त्रयाणां केन ते राजन्योद्धुमुत्सहते मनः ।
अस्मदन्यतमेनेह सज्जीभवतु को युधि॥२॥

एवमुक्तः स नृपतिर्युद्धं वव्रे महाद्युतिः ।
जरासन्धस्ततो राजा भीमसेनेन मागधः॥३॥

आदाय रोचनां माल्यं मङ्गल्यान्यपराणि च ।
धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च ।
उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः॥४॥

आदाय पुरोहित उपतस्थे इति सार्धसंबन्धः । अगदान्‌ औषधानि । निर्वृर्तोवदनानि च । दुःखमूर्च्छयोः काले सुखसंज्ञाकराणि ॥४॥

कृतस्वस्त्ययनो राजा ब्राह्मणेन यशस्विना ।
समनह्यज्जरासन्धः क्षात्रं धर्ममनुस्मरन्॥५॥

समनह्यत्‌ संनद्धो बभूव ॥५॥

अवमुच्य किरीटं स केशान्समनुगृह्य च ।
उदतिष्ठज्जरासन्धो वेलातिग इवार्णवः॥६॥

उवाच मतिमान्राजा भीमं भीमपराक्रमः ।
भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम्॥७॥

एवमुक्त्वा जरासन्धो भीमसेनमरिन्दमः ।
प्रत्युद्ययौ महातेजाः शक्रं बल इवासुरः॥८॥

ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली ।
भीमसेनो जरासन्धमाससाद युयुत्सया॥९॥

ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः ।
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ॥१०॥

करग्रहणपूर्वं तु कृत्वा पादाभिवन्दनम् ।
कक्षैः कक्षां विधुन्वानावास्फोटं तत्र चक्रतुः॥११॥

कक्षैः दोर्मूलैः कक्षां प्रकोष्ठगतां रज्जुं धुन्वानौ । यतः तत्र कक्षे आस्फोटं चक्रतुः । बाहुमूलास्फालनेन अङ्गदबन्धरज्जुशेषं कम्पयन्तावित्यर्थः ॥११॥

स्कन्धे दोर्भ्यां समाहत्य निहत्य च मुहुर्मुहुः ।
अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं विभोः॥१२॥

चित्रहस्तादिकं कृत्वा कक्षाबन्धं च चक्रतुः ।
गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम्॥१३॥

चित्रहस्तादिकं हस्तस्यातिवेगेन आकुञ्चनप्रसारणोपर्यधश्चालनमुष्टीकरणानि चित्रहस्ताः आदिपदात्‌ पादस्याप्याकुञ्चनादि । कक्षाबन्धं परस्परकक्षायां हस्तौ कृत्वा बन्धनम्‌ । गलेति गले गण्डेन भालदेशेनाभिघातस्तेन । पाषाणसदृशांगत्वात्तयोरभिघातेन विस्फुलिङ्गोत्पत्त्याऽशनिं वज्रमिव ससृजतुरित्यर्थः ॥१३॥

बाहुपाशादिकं कृत्वा पादाहतशिरावुभौ ।
उरोहस्तं ततश्चक्रे पूर्णकुम्भौ प्रयुज्य तौ॥१४॥

बाहुपाशादिकं चरणपाश आदिशब्दार्थः पादाभ्याम् आहृताः शिराः स्नायवो याभ्यां तौ । दृढप्रहारेण नाडीपर्यन्तमपि वेदनावन्तावित्यर्थः । उरोहस्तम् उरसि चपेटाप्रहारम् । पूर्णकुम्भौ ग्रथिताङ्गुलिभ्यां हस्ताभ्यां परशिरसः पीडनं पूर्णकुम्भः । द्वित्वं परस्परं द्वावपि चक्रुरिति वक्तुम्‌ ॥१४॥

करसम्पीडनं कृत्वा गर्जन्तौ वारणाविव ।
नर्दन्तौ मेघसङ्काशौ बाहुप्रहरणावुभौ॥१५॥

तलेनाहन्यमानौ तु अन्योन्यं कृतवीक्षणौ ।
सिंहाविव सुसंङ्क्रुद्धावाकृष्याकृष्य युध्यताम्॥१६॥

तलेन चपेट्या ॥१६॥

अङ्गेनाङ्गं समापीड्य बाहुभ्यामुभयोरपि ।
आवृत्य बाहुभिश्चापि उदरं च प्रचक्रतुः॥१७॥

आवृत्य जत्रुदेशे पृष्ठं कृत्वा बाहुभिः बहुत्वाद्द्वावपि मिथः उदरम् आदाय प्रचक्रतुः प्रचिक्षिपतुः कॄ विक्षेपेऽस्य रूपम् ॥१७॥

उभौ कट्यां सुपार्श्वे तु तक्षवन्तौ च शिक्षितौ ।
अधो हस्तं स्वकण्ठे तूदरस्योरसि चाक्षिपत्॥१८॥

एवं कट्यां सुपार्श्वे च प्रचक्रतुः । तक्षवन्तौ तक्षस्तनूकरणं गात्रसङ्कोच इत्यर्थः तद्वन्तौ । अधोहस्तम् उदरस्याधस्तात् हस्तं कृत्वा हस्ताभ्यामुदरमावेष्ट्य स्वकण्ठे स्वोरसि च कण्ठोरः समीपे आनीय आक्षिपत्‌ आस्फालितवान्‌ ॥१८॥

सर्वातिक्रान्तमर्यादं पृष्ठभङ्गं च चक्रतुः ।
सम्पूर्णमूर्च्छां बाहुभ्यां पूर्णकुम्भं प्रचक्रतुः॥१९॥

पृष्ठस्य भूसंबन्धेन जातं भङ्गं पराभवम्‌ । बाहुभ्याम् उदरादिनिपीडने संपूर्णमूर्च्छाम्‌ ॥१९॥

तृणपीडं यथाकामं पूर्णयोगं समुष्टिकम् ।
एवमादीनि युद्धानि प्रकुर्वन्तौ परस्परम्॥२०॥

तृणपीडं रज्जूकरणे तृणमिव यत्र बाह्वादिकं व्यावर्त्यते तद्युद्धं तृणपीडम्‌ । पूर्णयोगं योगो विश्रब्धयातनं तच्च पूर्णम् अन्यत्र मुष्टेः पातं प्रदर्श्य अन्यत्रपातनमित्यर्थः । एवमादीनि पादाकर्षणशीर्षकक्षीकरणादीनि ॥२०॥

तयोर्युद्धं ततो द्रष्टुं समेताः पुरवासिनः ।
ब्राह्मणा वणिजश्चैव क्षत्रियाश्च सहस्रशः॥२१॥

शूद्राश्च नरशार्दूल स्त्रियो वृद्धाश्च सर्वशः ।
निरन्तरमभूत्तत्र जनौघैरभिसंवृतम्॥२२॥

तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा ।
आसीत्सुभीमसम्पातो वज्रपर्वतयोरिव॥२३॥

निग्रहः हस्ताभ्यां कन्धराकर्षणेन शत्रोरधोमुखीकरणम् । प्रग्रहः शत्रोरुत्तानपातनार्थं पादाकर्षणम्‌ ॥२३॥

उभौ परमसंहृष्टौ बलेन बलिनां वरौ ।
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ॥२४॥

तद्भीममुत्सार्य जनं युद्धमासीदुपप्लवे ।
बलिनोः संयुगे राजन्वृत्रवासवयोरिव॥२५॥

उत्सार्यजनं हस्तबाहुबन्धेन परस्परापसारणाद्दूरीकृतप्रेक्षकजनम्‌ । उपप्लवे युद्धभूमौ उपह्वरे इति पाठे निकटदेशे ॥२५॥

प्रकर्षणाकर्षणाभ्यामनुकर्षविकर्षणैः ।
आचकर्षतुरन्योन्यं जानुभिश्चावजघ्नतुः॥२६॥

प्रकर्षणे पश्चादपसारणे इतरोऽनुकर्षति अवाङ्मुखं पातयितुम्‌ । आकर्षणे अर्वाक्कर्षणे इतरो विकर्षति तिर्यक्‌ नयतीत्यर्थः । आचकर्षतुः देहौ विलिलिखतुः प्रहारैरिति शेषः ॥२६॥

ततः शब्देन महता भर्त्सयन्तौ परस्परम् ।
पाषाणसङ्घातनिभैः प्रहारैरभिजघ्नतुः॥२७॥

व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ।
बाहुभिः समसज्जोतामायसैः परिघैरिव॥२८॥

नियुद्धं निगृह्य युद्धम् ॥२८॥

कार्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि ।
अनाहारं दिवारात्रमविश्रान्तमवर्तत॥२९॥

अनाहारं नास्ति आहरणम् आहार उपसंहारो यस्य तत्‌ । अविश्रान्तं न विशेषेण श्रान्तोऽन्यतरो यस्मिंस्तत्तथा ॥२९॥

तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः ।
चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात्॥३०॥

तद्वृत्तं तादृशप्रकारं युद्धं त्रयोदश्यां समवेतं त्रयोदशीपर्यन्तं जातमिति शेषः। क्लमात्‌ क्लमं प्राप्य निवृत्तः निगृहीतप्रवृत्तोऽभूत् ॥३०॥

तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः ।
उवाच भीमकर्माणं भीमं सम्बोधयन्निव॥३१॥

संबोधयन्निव शिष्टाचारप्रदर्शनव्याजेन शत्रुवधकालं सूचयन्निव ॥३१॥

क्लान्तः शत्रुर्न कौन्तेय लभ्यःपीडयितुं रणे ।
पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः॥३२॥

तस्मात्तेनैव कौन्तेय पीडनीयो जनाधिपः ।
सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ॥३३॥

तस्मात्ते त्वया ॥३३॥

एवमुक्तःस कृष्णेन पाण्डवः परवीरहा ।
जरासन्धस्य तद्रूपं ज्ञात्वा चक्रे मतिं वधे॥३४॥

तद्रूपं क्लान्तरूपम्‌ ॥३४॥

ततस्तमजितं जेतुं जरासन्धं वृकोदरः ।
संरम्भं बलिनां श्रेष्ठो जग्राह कुरुनन्दनः॥३५॥

संरम्भं कोपम्‌ ॥३५॥
॥ इति श्रीमहाभारते सभापर्वणि जरासन्धवधपर्वणि जरासन्धक्लान्तौ त्रयोविंशोऽध्यायः॥२३॥
चतुर्विंशतितमोऽध्यायः

वैशम्पायन उवाच। भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम् ।
बुद्धिमास्थाय विपुलां जरासन्धवधोप्सया॥१॥

भीमसेन इति ॥१॥

नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम् ।
प्रायेण यदुशार्दूल बद्धकक्षेण वाससा॥२॥

अनुरोधितुं निरोद्धुं प्राणेन बलेन ॥२॥

एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम् ।
त्वरयन्पुरुषव्याघ्रो जरासन्धवधेप्सया॥३॥

यत्ते दैवं परं सत्वं यच्च ते मातरिश्वनः ।
बलं भीम जरासन्धे दर्शयाशु तदद्य वै॥४॥

एवमुक्तस्तदा भीमो जरासन्धमरिन्दमः ।
उत्क्षिप्य भ्रामयामास बलवन्तं महाबलः॥५॥

भ्रामयित्वा शतगुणं जानुभ्यां भरतर्षभ ।
बभञ्ज पृष्ठं सङ्क्षिप्य निष्पिष्य विननाद च॥६॥

जानुभ्यां धनुर्यष्टिवत्पृष्ठं संक्षिप्य विनाम्य ॥६॥

करे गृहीत्वा चरणं द्वेधा चक्रे महाबलः॥७॥

तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः ।
अभवत्तुमुलो नादः सर्वप्राणिभयङ्करः॥८॥

वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः ।
भीमसेनस्य नादेन जरासन्धस्य चैव ह॥९॥

किं नु स्याद्धिमवान्भिन्नः किं नु स्विद्दीर्यते मही ।
इति वै मागधा जज्ञुर्भीमसेनस्य निःस्वनात्॥१०॥

ततो राज्ञः कुलद्वारि प्रसुप्तमिव तं नृपम् ।
रात्रौ गतासुमुत्सृज्य निश्चक्रमुररिन्दमाः॥११॥

कुलद्वारि गृहद्वारि ॥११॥

जरासन्धरथं कृष्णो योजयित्वा बान्धवान् ।
आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान्॥१२॥

भ्रातरौ भीमार्जुनौ बान्धवान्‌ जरासन्धबद्धान्‌ नृपान्‌ ॥१२॥

ते वै रत्नुभुजं कृष्णं रत्नार्हाः पृथिवीश्वराः ।
राजानश्चक्रुरासाद्य मोक्षिता महतो भयात्॥१३॥

ते कृष्णं रत्नभुजं चक्रुरित्यन्वयः ॥१३॥

अक्षतः शस्त्रसंपन्नो जितारिः सह राजभिः ।
रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात्॥१४॥

यः स सोदर्यवान्नाम द्वियोधी कृष्णसारथिः ।
अभ्यासघाती संदृश्यो दुर्जयः सर्वराजभिः॥१५॥

सोदर्यवान्‌ भीमयुक्तः द्वियोधी द्वाभ्यां हस्ताभ्यां शराणां प्रक्षेपात् अभ्यासघाती पुनःपुनरावृत्तिरभ्यासः तं परकीयं हन्तुं शीलमस्य धनुर्विद्यायां परोत्कर्षजेता । संदृश्यः रमणीयाङ्गः ॥१५॥

भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः ।
शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः॥१६॥

शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये ।
रथेन तेन वै कृष्ण उपारुह्य ययौ तदा॥१७॥

शक्रविष्णू हिशब्द इवार्थे । तारकामये तारका तारा बृहस्पतिभार्या सैव आमयवत्‌ विनाशहेतुर्यस्मिन्‌ । आमयो रोगः ॥१७॥

तप्तचामीकराभेण किङ्किणीजालमालिना ।
मेघनिर्घोषनादेन जैत्रेणामित्रघातिना॥१८॥

येन शक्रो दानवानां जघान नवतीर्नव ।
तं प्राप्य समहृष्यन्त रथं ते पुरुषर्थभाः॥१९॥

ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा ।
रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः॥२०॥

हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे ।
अधिष्ठितः स शुशुभे कृष्णेनातीव भारत॥२१॥

असङ्गो देवविहितस्तस्मिन्रथवरे ध्वजः ।
योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः॥२२॥

असंगः रथस्पर्शहीनः ॥२२॥

चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात् ।
क्षणे तस्मिन्स तेनासीच्चैत्यवृक्ष इवोत्थितः॥२३॥

चैत्यवृक्षः ग्रामादिचिह्नभूतो वृक्षः ॥२३॥

व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः ।
तस्मिन्रथवरे तस्थौ गुरुत्मान्पन्नगाशनः॥२४॥

दुर्निरीक्ष्यो हि भूतानां तेजसाऽऽभ्यधिकं बभौ ।
आदित्य इव मध्याह्ने सहस्रकिरणावृतः॥२५॥

न स सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते ।
दिव्यो ध्वजवरो राजन्दृश्यते चेह मानुषैः॥२६॥

रिष्यते हिंस्यते विध्यते इत्यपि पाठः ॥२६॥

तमास्थाय रथं दिव्यं पर्जन्यसमनिः स्वनम् ।
निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः॥२७॥

यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः ।
बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथं नृप॥२८॥

स निर्याय महाबाहुः पुण्डरीकेक्षणस्ततः ।
गिरिव्रजाद्बहिस्तस्थौ समदेशे महायशाः॥२९॥

तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा ।
ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा॥३०॥

बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम् ।
पूजयामासुरूचुश्च स्तुतिपूर्वमिदं वचः॥३१॥

नैतच्चित्रं महाबाहो त्वयि देवकिनन्दने ।
भीमार्जुनबलोपेते धर्मस्य प्रतिपालनम्॥३२॥

जरासन्धह्रदे घोरे दुःखपङ्के निमज्जताम् ।
राज्ञां समभ्युद्धरणं यदिदं कृतमद्य वै॥३३॥

विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे ।
दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते यदुनन्दन॥३४॥

किं कर्मः पुरुषव्याघ्र शाधि नः प्रणतिस्थितान् ।
कृतमित्येव तद्विद्धि नृपैर्यद्यपि दुष्करम्॥३५॥

तानुवाच हृषीकेशः समाश्वास्य महामनाः ।
युधिष्ठिरो राजसूयं क्रतुमार्हतुमिच्छति॥३६॥

तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः ।
सर्वैर्भवद्भिर्विज्ञाय साहाय्यं क्रियतामिति॥३७॥

पार्थिवत्वं साम्राज्यम्‌ ॥३७॥

ततः सुप्रीतमनसस्ते नृपा नृपसत्तम ।
तथेत्येवाब्रुवन्सर्वे प्रतिगृह्यास्य तां गिरम्॥३८॥

रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः ।
कृच्छ्राज्जग्राह गोविन्दस्तेषां तदनुकम्पया॥३९॥

कृच्छ्रान्मोचितेभ्यो धनग्रहणं यशोहानिकरमिति संकटात्‌ ॥३९॥

जरासन्धात्मजश्चैव सहदेवो महामनाः ।
निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम्॥४०॥

स नीचैः प्रणतो भूत्वा बहुरत्नपुरोगमः ।
सहदेवो नृणां देवं वासुदेवमुपस्थितः॥४१॥

भयार्ताय ततस्तस्मै कृष्णो दत्त्वाऽभयं तदा ।
आददेस्य महार्हाणि रत्नानि पुरुषोत्तमः॥४२॥

अभ्यर्षिञ्चत तत्रैव जरासन्धात्मजं मुदा ।
गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः॥४३॥

एकत्वं सख्यम्‌ ॥४३॥

विवेश राजा द्युतिमान्बार्हद्रथपुरं नृप ।
अभिषिक्तो महाबाहुर्जारासन्धिर्महात्मभिः॥४४॥

कृष्णस्तु सह पार्थाभ्यां श्रिया परमया युतः ।
रत्नान्यादाय भूरीणि प्रययौ पुरुषर्षभः॥४५॥

इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः ।
समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत॥४६॥

दिष्ट्या भीमेन बलवाञ्जरासन्धो निपातितः ।
राजानो मोक्षिताश्चैव बन्धनान्नृपसत्तम॥४७॥

दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ ।
पुनः स्वनगरं प्राप्तावक्षताविति भारत॥४८॥

ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः ।
भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे॥४९॥

ततः क्षीणे जरासन्धे भ्रातृभ्यां विहितं जयम् ।
अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह॥५०॥

यथावयः समागम्य भ्रातृभिः सह पाण्डवः ।
सत्कृत्य पूजयित्वा च विससर्ज नराधिपान्॥५१॥

यथावयः ज्येष्ठानुक्रमेण प्रथमं भीमेन ततः कृष्णेन ततोऽर्जुनेन ॥५१॥

युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः ।
जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः॥५२॥

एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः ।
पाण्डवैर्घातयामास जरासन्धमरिं तदा॥५३॥

घातयित्वा जरासन्धं बुद्धिपूर्वमरिन्दमः ।
धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत॥५४॥

सुभद्रां भीमसेनं च फाल्गुनं यमजौ तथा ।
धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति॥५५॥

तेनैव रथमुख्येन मनसस्तुल्यगामिना ।
धर्मराजविसृष्टेन दिव्येनानादयन्दिशः॥५६॥

ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ ।
प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम्॥५४॥

ततो गते भगवति कृष्णे देवकिनन्दने ।
जयं लब्ध्वा सुविपुलं राज्ञां दत्त्वाऽभयं तदा॥५५॥

संवर्धितं यशो भूयः कर्मणा तेन भारत ।
द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन्॥५९॥

तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम् ।
तद्राजा धर्मतश्चक्रे प्रजापालनकीर्तनम्॥६०॥

॥ इति श्रीमहाभारते सभापर्वणि जरासन्धवधपर्वणि जरासन्धवधे चतुर्विंशोऽध्यायः॥२४॥
॥समाप्तं जरासन्धवधपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in