वासुदेव उवाच।
पतितौ हंसडिभिकौ कंसश्च सगणो हतः
।
जरासन्धस्य निधने कालोऽयं समुपागतः॥१॥
पतिताविति ॥१॥
न शक्योऽसौ रणे जेतुं सर्वैरपि सुरासुरैः
।
प्राणयुद्धेन जेतव्यः स इत्युपलभामहे॥२॥
मयि नीतिर्बलं भीमे रक्षिता चावयोर्जयः
।
मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः॥३॥
जयोर्जुनः ॥३॥
त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः
।
न सन्देहो यथा युद्धमेकेनाप्युपयास्यति॥४॥
अवमानाच्च लोभाच्च बाहुवीर्याच्च दर्पितः
।
भीमसेनेन युद्धाय ध्रुवमप्युपयास्यति॥५॥
अलं तस्य महाबाहुर्भीमसेनो महाबलः
।
लोकस्य समुदीर्णस्य निधनायान्तको यथा॥६॥
यदि मे हृदयं वेत्सि यदि ते प्रत्ययो मयि
।
भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे॥७॥
वैशम्पायन उवाच।एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः
।
भीमार्जुनौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ॥८॥
युधिष्ठर उवाच।
अच्युताच्युत मामैवं व्याहरामित्रकर्शन
।
पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम्॥९॥
यथा वदसि गोविन्द सर्वं तदुपपद्यते
।
न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी॥१०॥
निहतश्च जरासन्धो मोक्षिताश्च महीक्षितः
।
राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः॥११॥
क्षिप्रमेव यथा त्वेतत्कार्यं समुपपद्यते
।
अप्रमत्तो जगन्नाथ तथा कुरु नरोत्तम॥१२॥
त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे
।
धर्मकामार्थरहितो रोगार्त इव दुःखितः॥१३॥
न शौरिणा विना पार्थो न शौरिः पाण्डवं विना
।
नाजेयोस्त्यनयोर्लोके कृष्णयोरिति मे मतिः॥१४॥
अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः
।
युवाभ्यां सहितो वीर किं न कुर्यान्महायशाः॥१५॥
सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम्
।
अन्धं बलं जडं प्राहुः प्रणेतव्यं विचक्षणैः॥१६॥
बलौघः सेनाप्रवाहः विचक्षणैः प्रणेतव्यः अन्यथा अन्धजडवदाकचित्कंर बलमित्यर्थः ॥१६॥
यतो हि निम्नं भवति नयन्ति हि ततो जलम्
।
यतश्छिद्रं ततश्चापि नयन्ते धीवरा जलम्॥१७॥
एतदेव सदृष्टान्तमाह यत इति । धीवराः वरधियः यतो यस्मिन् देशे निम्नम् अयत्नत आक्रमणीयं स्थानं भवति तं हि ततः द्वितीयार्थे तसिः इष्टं निरुपद्रवं देशं प्रति जडं सैन्यं नयन्ति न तु मृत्युमुखे महावीरस्याग्रे पातयान्ति अत्र दृष्टान्तः यथा धीवराः नदीजलजीविनः यतश्छिद्रं कुल्यारूपं ततः तेनैव मार्गेण जलं वारि इष्टं केदारादिप्रदेशं नयन्ति तद्वत् ॥१७॥
तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम्
।
वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये॥१८॥
बलापेक्षया नीतिरेव श्रेष्ठेत्युपसंहरति तस्मादिति ॥१८॥
एवं प्रज्ञानयबलं क्रियोपायसमन्वितम्
।
पुरस्कृर्वीत कार्येषु कृष्णं कार्यार्थसिद्धये॥१९॥
एवमेव यदुश्रेष्ठ यावत्कार्याथिसिद्धये
।
अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयम्
।
नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति॥२०॥
वैशम्पायन उवाच।
एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः
।
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति॥२१॥
वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदैः
।
आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः॥२२॥
परिच्छदम् अजिनं दण्डकमण्डलुकाषायादिरूपां सामग्रीम् आच्छाद्य स्वीकृत्य तया स्वं वेषं तिरोधाय वा ॥२२॥
अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यतेजसाम्
।
रविसोमाग्निवपुषां दीप्तमासीत्तदा वपुः॥२३॥
इतं मेने जरासन्धं दृष्ट्वा भीमपुरोगमौ
।
एककार्यसमुद्यन्तौ कृष्णौ युद्धेऽपराजितौ॥२४॥
ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तिनौ
।
धर्मकामार्थलोकानां कार्याणां च प्रवर्तकौ॥२५॥
ईशो नरनारायणौ सर्वाणि कार्याणि निमेषोन्मेषादिमहाप्रलयान्तानि वर्तयितुं शीलं ययोस्तौ नियन्तारावित्यर्थः ॥२५॥
कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम्
।
रम्यं पद्मसरो गत्वा कालकूडमतीत्य च॥२६॥
गण्डकीं च महाशोणं सदानीरां तथैव च
।
एकपर्वतके नद्यः क्रमेणैत्याव्रजन्त ते॥२७॥
उत्तीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान्
।
अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम्॥२८॥
अतीत्य गङ्गां शोणं च त्रयस्ते प्राङ्मुखास्तदा
।
कुशचीरच्छदा जग्मुर्मागधं क्षेत्रमच्युताः॥२९॥
ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम्
।
गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम्॥३०॥
॥ इति श्रीमहाभारते सभापर्वणि जरासन्धवधपर्वणि कृष्णपाण्डवमागधयात्रायां विंशोऽध्यायः॥ २०॥
वासुदेव उवाच।
एष पार्थ महान्भाति पशुमान्नित्यमम्बुमान्
।
निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः॥१॥
एष मागधः मगधदेशसंबन्धी निवेशः विन्यासः ॥१॥
वैहारो विपुलः शैलो वराहो वृषभस्तथा
।
तथा ऋषिगिरिस्तात शुभाश्चैत्यकपञ्चमाः॥२॥
एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः
।
रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिध्रजम्॥३॥
पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोहरैः
।
निगूढा इव लोध्राणां वनैः कामिजनप्रियैः॥४॥
शूद्रायां गौतमो यत्र महात्मा संशितव्रतः
।
औशीनर्यामजनयत्काक्षीवाद्यान्सुतान्मुनिः॥५॥
गौतमस्य क्षणात्तस्माद्यथाऽसौ तत्र सद्मनि
।
भजते मागधं वंशं स नृपाणामनुग्रहः॥६॥
गौतमस्य क्षयादिति क्षयात् ऐश्वर्यात् असौ शूद्रायां जातोऽपि काक्षीवदादीनां वंशः मानवं वंशं भजते । स गौतमस्य नृपाणामुपर्यनुग्रहः ॥६॥
अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः
।
गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन॥७॥
गौतमक्षयं गृहम् ॥७॥
वनराजीस्तु पश्येमाः पिप्पलानां मनोरमाः
।
लोघ्राणां च शुभाः पार्थ गौतमौकःसमीपजाः॥८॥
गौतमौकः गौतमस्य ओको गृहम् ॥८॥
अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ
।
स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः॥९॥
अपरिहार्या मेघानां मागधा मनुना कृताः
।
कौशिको मणिमांश्चैव चक्राते चाप्यनुग्रहम्॥१०॥
एवं प्राप्य पुरं रम्यं दुराधर्षं समन्ततः
।
अर्थसिद्धिं त्वनुपमां जरासन्धोऽभिमन्यते॥११॥
वयमासादने तस्य दर्पमद्य हरेमहि
।
वैशम्पायन उवाच।
एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः॥१२॥
वार्ष्णेयः पाण्डवौ चैव प्रतस्थुर्मागधं पुरम्
।
हृष्टपुष्टजनोपेतं चातुर्वर्ण्यसमाकुलम्॥१३॥
स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम्
।
ततो द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम्॥१४॥
पुरस्य गिरिं पुरप्राकारसंलग्नं गिरितुल्यं महास्तम्भं ’वुरुज’ इति भाषायां प्रसिद्धम् ॥१४॥
बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः
।
मागधानां तु रुचिरं चैत्यकान्तरमाद्रवन्॥१५॥
चैत्यकं नगरसूचकम् ॥१५॥
यत्र मांसादमृषभमाससाद बृहद्रथः
।
तं हत्वा मासतालाभिस्तिस्रो भेरीरकारयत्॥१६॥
यत्रेति । मांसादं मांसाहारम् ऋषभं वृषभाकारं दैत्यमाससाद हतवान् । भेरीः दुन्दुभीन् मासतालाभिः मासेन तालो ध्वनिपरिच्छेदो यासां ताभिराकृतिभिः उपलक्षिता इति योज्यम् । महतो हि कांस्यादिभाजनस्य सकृदाह तस्य चिरकालानुवर्ती ध्वनिरिति प्रसिद्धम् । पूर्वे तु मासशब्देन द्वादशसंख्या तालशब्देन मध्यमाङ्गुष्ठप्रमाणं चोक्त्वा द्वादशतालप्रमाणाभिरिति व्याचक्षते । आकृतिभिः संमिता इत्यध्याहृत्य योजना उभयत्र समाना । ‘तालःकरतलेऽङ्गुष्ठमध्यमाभ्यां च संमिते । गीतकालक्रियामाने तालःखड्गादिमुष्टिषु’ इति विश्वः । मांसनालाभिरिति गोडपाठे तु मांसस्य नालवद्वेष्टनकर्त्रीभिः मांसनालाभिबर्ध्रीभिः ॥१६॥
स्वपुरे स्थापयामास तेन चानह्यचर्मणा
।
यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः॥१७॥
तेन चर्मणा च आनह्येति व्यवहितेन संबन्धः अवचूर्णिताः अवकीर्णा व्याप्ता इत्यर्थः यत्र पुरस्य गिरौ ॥१७॥
भङ्क्त्वा भेरीत्रयं तेऽपि चैत्यप्राकारमाद्रवन्
।
द्वारतोऽभिमुखाः सर्वे ययुर्नानायुधास्तदा॥१८॥
मागधानां सुरुचिरं चैत्यकं तं समाद्रवन्
।
शिरसीव समाघ्नन्तो जरासन्धं जिघांसवः॥१९॥
चैत्यकं चित्या दृषदां चयनेन निर्वृत्तम् ॥१९॥
स्थिरं सुविपुलं शृङ्गं सुमहत्तत्पुरातनम्
।
अर्चितं गन्धमाल्यैश्च सततं सुप्रतिष्ठितम्॥२०॥
शृङ्गं तं गिरिमेव श्रृङ्गवदुच्छ्रितं भाषायां ’मनुरा’ इति प्रसिद्धम् ॥२०॥
विपुलैर्बाहुभिर्वीरास्तेभिहत्याभ्यपातयन्
।
ततस्ते मागधं हृष्टाः पुरं प्रविविशुस्तदा॥२१॥
एतस्मिन्नेव काले तु ब्राह्मणा वेदपारगाः
।
दृष्ट्वा तु दुर्निमित्तानि जरासन्धमदर्शयन्॥२२॥
पर्यग्न्यकुर्वंश्च नृपं द्विरदस्थं पुरोहिताः
।
ततस्तच्छान्तये राजा जरासन्धः प्रतापवान्
।
दीक्षितो नियमस्थोऽसावुपवासपरोऽभवत्॥२३॥
पर्यग्न्यकुर्वन् ज्वलता उल्मुकेन परितो भ्राम्यमाणेन याज्ञियं पशुमिव पर्यग्निकृतवन्तः ॥२३॥
स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः
।
युयुत्सवः प्रविविशुर्जरासन्धेन भारत॥२४॥
भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम्
।
स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम्॥२५॥
तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः
।
राजमार्गेण गच्छन्तः कृष्णभीमधनञ्जयाः
।
बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः॥२६॥
विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः
।
निवेशनमथाजग्मुर्जरासन्धस्य धीमतः॥२७॥
विरागवसनाः विचित्ररागवसनाः ॥२७॥
गोवासमिव वीक्षन्तः सिंहा हैमवता यथा
।
शालस्तम्भनिभास्तेषां चन्दनागुरुरूषिताः॥२८॥
गोवासं गोष्ठम् ॥२८॥
अशोभन्त महाराज बाहवो युद्धशालिनाम्
।
तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्धानिवोद्गतान्
।
व्यूढोरस्कान्मागधानां विस्मयः समपद्यत॥२९॥
ते त्वतीत्य जनाकीर्णाः कक्षास्तिस्रो नरर्षभाः
।
अहङ्कारेण राजानमुपतस्थुर्गतव्यथाः॥३०॥
कक्षाः द्वारदेशाः उत्तममध्यमाधमजनावस्थितियोग्याः ॥३०॥
तान्पाद्यमधुपर्कार्हान्गवार्हान्सत्कृतिं गतान्
।
प्रत्युत्थाय जरासन्ध उपतस्थे यथाविधि॥३१॥
उवाच चैतान्राजाऽसौ स्वागतं वोस्त्विति प्रभुः
।
मौनमासीत्तदा पार्थभीमयोर्जनमेजय॥३२॥
तेषां मध्ये महाबुद्धिः कृष्णो वचनमब्रवीत्
।
वक्तुं नायाति राजेन्द्र एतयोर्नियमस्थयोः॥३३॥
अर्वाङ्निशीथात्परतस्त्वाया सार्धं वदिष्यतः
।
यज्ञागारे स्थापयित्वा राजा राजगृहं गतः॥३४॥
ततोऽर्धरात्रे सम्प्राप्ते यातो यत्र स्थिता द्विजाः
।
तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम्
।
॥३५॥
स्नातकान्ब्राह्मणान्प्राप्ताञ्च्छ्रुत्वा स समितिञ्जयः
।
अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत॥३६॥
तांस्त्वपूर्वेण वेषेण दृष्ट्वा स नृपसत्तमः
।
उपतस्थे जरासन्धो विस्मितश्चाभवत्तदा॥३७॥
ते तु दृष्ट्वैव राजानं जरासन्धं नरर्षभाः
।
इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम॥३८॥
स्वस्त्यस्तु कुशलं राजन्निति तत्र व्यवस्थिताः
।
तं नृपं नृपशार्दूल प्रेक्षमाणाः परस्परम्॥३९॥
स्वस्त्यस्तु कुशलं राजन् । कुशलं निर्विघ्नं यथा स्यात्तथा स्वस्ति सुतरां यत् अस्ति अविनाशि मोक्षपदं तत्ते अस्तु । कृष्णसमक्षं मरिष्यमाणस्य तत्प्राप्त्यवश्यंभावादिति भावः । मा जीवेत्यर्थः ॥३९॥
तानब्रवीज्जरासन्धस्तथा पाण्डवयादवान्
।
आस्यतामिति राजेन्द्र ब्राह्मणछद्मसंवृतान्॥४०॥
अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः
।
सम्प्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः॥४१॥
तानुवाच जरासन्धः सत्यसन्धो नराधिपः
।
विगर्हमाणः कौरव्य वेषग्रहणवैकृतान्
।
न स्नातकव्रता विप्रा वहिर्माल्यानुलेपनाः॥४२॥
बहिर्माल्यानुलेपनाः बहिः समावर्तनादिनिमित्तं विना ॥४२॥
भवन्तीति नृलोकेस्मिन्विदितं मम सर्वशः
।
के यूयं पुष्पवन्तश्च भुजैर्ज्याकृतलक्षणैः॥४३॥
बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ
।
एवं विरागवसना बहिर्माल्यानुलेपनाः
।
सत्यं वदत के यूयं सत्यं राजसु शोभते॥४४॥
चैत्यकस्य गिरेः शृङ्गं भित्त्वा किमिह छद्मना
।
अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्विषात्॥४५॥
वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः
।
कर्म चैतद्विलिङ्गस्थं किं वोद्य प्रसमीक्षितम्॥४६॥
वाचि वीर्यं न तु क्रियायां विलिङ्गस्थम् अन्यलिङ्गमन्यत्कर्मेत्यर्थः ॥४६॥
एवं च मामुपास्थाय कस्माच्च विधिनार्हणाम्
।
प्रतीतां नानुगृह्णीत कार्यं किं वाऽस्मदागमे॥४७॥
अर्हणां पूजाम् अस्मदागमे अस्मान् प्रति आगमने ॥४७॥
एवमुक्ते ततः कृष्णः प्रत्युवाच महामनाः
।
स्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः॥४८॥
कृष्ण उवाच।
स्नातकान्ब्राह्मणान्राजन्विद्ध्यस्मांस्त्वं नराधिप
।
स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः॥४९॥
विशेषनियमाश्चैषामविशेषाश्च सन्त्युत
।
विशेषवांश्च सततं क्षत्रियः श्रियमृच्छति॥५०॥
स्नातकत्वं समर्थ्य बहिर्माल्यत्वादिकमपि क्षत्रियत्वेन समर्थयते विशेषेत्यादिना ॥५०॥
पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम्
।
क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान्
।
अप्रगल्भं वचस्तस्य तस्माद्बार्हद्रथेरितम्॥५१॥
वचस्तस्य वाग्वीर्यत्वस्य ॥५१॥
स्ववीर्यं क्षत्रियाणां तु बाह्वोर्धाता न्यवेशयत्
।
तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयः॥५२॥
अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहान्
।
प्रविशन्ति नरा धीरा द्वाराण्येतानि धर्मतः॥५३॥
अद्वारेणेत्यादिना वैरं प्रकाशयति ॥५३॥
कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम्
।
प्रतिगृह्णीम् तद्विद्धि एतन्नः शाश्वतं व्रतम्॥५४॥
॥ इति श्रीमहाभारते सभापर्वणि जरासन्धवधपर्वणि कृष्णजरासन्धसंवादे एकविंशोऽध्यायः॥२१॥
जरासन्ध उवाच।
न स्मरामि कदा वैरं कृतं युष्माभिरित्युत
।
चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम्॥१॥
वैकृतम् अपकारः ॥१॥
वैकृते वा सति कथं मन्यध्वं मामनागसम्
।
अरिं वै ब्रूत हे विप्राः सतां समय एष हि॥२॥
कथम् अरिं मन्यध्वं तद्द्रूत एषः सत्यवचनस्य समयः मर्यादा ॥२॥
अथ धर्मोपघाताद्धि मनः समुपतप्यते
।
योऽनागसि प्रसजति क्षत्रियो हि न संशयः॥३॥
प्रसजति प्रसञ्जयति अर्थद्रव्योपघातम् आरोपयति । सः क्षत्रियः वृजिनां कष्टां गतिम् आप्नोति न संशय इति योजना ॥३॥
अतोऽन्यथा चरँल्लोके धर्मज्ञः सन्महारथः
।
वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च॥४॥
उपहन्ति चात्मानम् ॥४॥
त्रैलोक्ये क्षत्रधर्मो हि श्रेयान्वै साधुचारिणाम्
।
नान्यं धर्मं प्रशंसन्ति ये च धर्मविदो जनाः॥५॥
तस्य मेद्य स्थितस्येह स्वधर्मे नियतात्मनः
।
अनागसं प्रजानां च प्रमादादिव जल्पथ॥६॥
प्रजानां चानागसं जल्पथ विपरीतमर्थं वदथ ॥६॥
कृष्ण उवाच।
कुलकार्यं महाबाहो कश्चिदेकः कुलोद्वहः
।
वहते यस्तन्नियोगाद्वयमभ्युद्यतास्त्वयि॥७॥
वैरमूलं प्रकाशयति कुलेति ॥७॥
त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः
।
तदागः क्रूरमुत्पाद्य मन्यसे किमनागसम्॥८॥
राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम
।
तद्राज्ञः सन्निगृह्य त्वं रुद्रायोपजिहीर्षसि॥९॥
अस्मांस्तदेनो गच्छेद्धि कृतं बार्हद्रथ त्वया
।
वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः॥१०॥
एनोपगच्छेत् एनः पापं कर्तृ उपगच्छेत्प्राप्नुयात् संधिराषः॥१०॥
मनुष्याणां समालम्भो न च दृष्टः कदाचन
।
स कथं मानुषैर्देवं यष्टुमिच्छसि शङ्करम्॥११॥
सवर्णो हि सवर्णानां पशुसञ्ज्ञां करिष्यसि
।
कोऽन्यं एवं यथा हि त्वं जरासन्ध वृथामतिः॥१२॥
ननु ’ब्राह्मणे ब्राह्मणमालभेत’ इत्यादिनां सर्वजातीयानां सर्वकर्मणां मानुषाणामालम्भो देवतार्थं वधः श्रूयते इत्याशङ्क्याह सवर्णो हीति ॥१२॥
यस्यां यस्यामवस्थायां यद्यत्कर्म करोति यः
।
तस्यां तस्यामवस्थायां तत्फलं समवाप्नुयात्॥१३॥
ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः
।
ज्ञातिवृद्धिनिमित्तार्थं विनिहन्तुमिहागताः॥१४॥
नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव तत्
।
मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः॥१५॥
को हि जानन्नभिजनमात्मवान्क्षत्रियो नृप
।
नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम्॥१६॥
अभिजनं सजातीयं पाल्यतया जानन् ॥१६॥
स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः
।
जयन्ति क्षत्रिया लोकांस्तद्विद्धि मनुजर्षभ॥१७॥
स्वर्गयोनिर्महद्ब्रह्म स्वर्गयोनिर्महद्यशः
।
स्वर्गं योनिस्तपो युद्धे मृत्युः सोऽव्यभिचारवान्॥१८॥
स्वर्गेति ब्रह्म वेदः यशः तपो वेदोक्तं कर्म च स्वर्गयोनिः सुखहेतुः । युद्धे मृत्युश्च अव्यमिचारवान् स्वर्गहेतुः वेदादीनाम् अव्रतादीन् प्रति स्वर्गहेतुत्वं नास्ति युद्धे मृत्युस्तु न तथेत्यर्थः ॥१८॥
एष ह्यैन्द्रो वैजयन्तो गुणैर्नित्यं समाहितः
।
येनासुरान्पराजित्य जगत्पाति शतक्रतुः॥१९॥
एषः युद्धे मृत्युः ऐन्द्रः इन्द्रसंबन्धी । वैजयन्तः प्रासादः तत्प्राप्तिहेतुरित्यर्थः येन लब्धेन समाहितः पूर्णः ॥१९॥
स्वर्गमार्गाय कस्य स्याद्विग्रहो वै यथा तव
।
मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितः॥२०॥
स्वर्गमार्गहेतोर्विग्रहो वैरम् अस्माभिः सह यथा तव पुण्यातिशयात् न तथान्यस्यास्ति अत्र हेतुः क्षत्रियावमान इत्याह मागधैरिति सैन्यैरेव न बाहुबलेन॥२०॥
मावमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे
।
समं तेजस्त्वया चैव विशिष्टं वा नरेश्वर॥२१॥
यावदेतदसम्बुद्धं तावदेव भवेत्तव
।
विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते॥२२॥
विषह्यम् असह्यं विगतः सह्यः सोढुं योग्यः सोढा यस्य तत् यद्वा तव एतावत् बलम् अस्माकं विषह्यं सुसहम् ॥२२॥
जहि त्वं सदृशेष्वेव मानं दर्पं च मागध
।
मागमः ससुतामात्यः सबलश्च यमक्षयम्॥२३॥
दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः
।
श्रेयसो ह्यवमन्येह विनेशुः सबला नृपाः॥२४॥
युयुक्षमाणास्त्वत्तो हि न वयं ब्राह्मणा ध्रुवम्
।
शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ
।
अनयोर्मातुलेयं च कृष्णं मां विद्धि ते रिपुम्॥२५॥
युयुक्षमाणास्त्वत्तो हि त्वत्तः त्वां युयुक्षमाणाः योगः कपटेन हननं तत्कर्तुमिच्छन्तः ’योगो विश्रब्धधातिनि’ इति विश्वः । मुमुक्षमाणा इति पाठे नृपानिति शेषः । ब्राह्मणब्रुवा इति पाठे ब्राह्मणाधमाः ॥२५॥
त्वामाह्वयामहे राजन्स्थिरो युध्वस्व मागध
।
मुञ्च वा नृपतीन्सर्वान् गच्छ वा त्वं यमक्षयम्॥२६॥
जरासन्ध उवाच।
नाजितान्वै नरपतीनहमादद्मि कांश्चन
।
अजितः पर्यवस्थाता कोऽत्र यो न मया जितः॥२७॥
अजितः अन्यैरिति शेषः । पर्यवस्थाता शत्रुः ॥२७॥
क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम्
।
विक्रम्य वशमानीय कामतो यत्समाचरेत्॥२८॥
देवातार्थमुपाहृत्य राज्ञः कृष्ण कथं भयात्
।
अहमद्य विमुच्येयं क्षात्रं व्रतमनुस्मरन्॥२९॥
सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः
।
द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगत्पृथगेव वा॥३०॥
व्यूढेन व्यूहरचनायास्थितेन ॥३०॥
वैशम्पाय उवाच।
एवमुक्त्वा जरासन्धः सहदेवाभिषेचनम्
।
आज्ञापयत्तदा राजा ययुत्सुर्भीमकर्मभिः॥३१॥
स तु सेनापतिं राजा सस्मार भरतर्षभ
।
कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते॥३२॥
ययोस्ते नामनी राजन्हंसेति डिम्भकेति च
।
पूर्वं सङ्कथितं पुम्भिर्नृलोके लोकसत्कृते॥३३॥
हंसडिम्भकाविव कौशिकचित्रसेनावित्याह ययोरिति ॥३३॥
तं तु राजन्विभुः शौरी राजानं बलिनां वरम्
।
स्मृत्वा पुरुषशार्दूलः शार्दूलसमविक्रमम्॥३४॥
सत्यसन्धो जरासन्धं भुवि भीमपराक्रमम्
।
भागमन्यस्य निर्दिष्टमवध्यं मधुर्भिर्मृधेः॥३५॥
मधुभिः यादवैः ॥३५॥
नात्मनाऽऽत्मवतां मुख्य इयेष मधुसूदनः
।
ब्राह्मीमाज्ञां पुरस्कृत्य हन्तुं हलधरानुजः॥३६॥
॥ इति श्रीमहाभारते सभापर्वणि जरासन्धवधपर्वणि जरासंधयुद्धोद्योगे द्वाविंशोऽध्यायः॥२२॥
वैशम्पायन उवाच।
ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः
।
उवाच वाग्मी राजानं जरासन्धमधोक्षजः॥१॥
तत इति ॥१॥
कृष्ण उवाच।
त्रयाणां केन ते राजन्योद्धुमुत्सहते मनः
।
अस्मदन्यतमेनेह सज्जीभवतु को युधि॥२॥
एवमुक्तः स नृपतिर्युद्धं वव्रे महाद्युतिः
।
जरासन्धस्ततो राजा भीमसेनेन मागधः॥३॥
आदाय रोचनां माल्यं मङ्गल्यान्यपराणि च
।
धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च
।
उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः॥४॥
आदाय पुरोहित उपतस्थे इति सार्धसंबन्धः । अगदान् औषधानि । निर्वृर्तोवदनानि च । दुःखमूर्च्छयोः काले सुखसंज्ञाकराणि ॥४॥
कृतस्वस्त्ययनो राजा ब्राह्मणेन यशस्विना
।
समनह्यज्जरासन्धः क्षात्रं धर्ममनुस्मरन्॥५॥
समनह्यत् संनद्धो बभूव ॥५॥
अवमुच्य किरीटं स केशान्समनुगृह्य च
।
उदतिष्ठज्जरासन्धो वेलातिग इवार्णवः॥६॥
उवाच मतिमान्राजा भीमं भीमपराक्रमः
।
भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम्॥७॥
एवमुक्त्वा जरासन्धो भीमसेनमरिन्दमः
।
प्रत्युद्ययौ महातेजाः शक्रं बल इवासुरः॥८॥
ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली
।
भीमसेनो जरासन्धमाससाद युयुत्सया॥९॥
ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः
।
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ॥१०॥
करग्रहणपूर्वं तु कृत्वा पादाभिवन्दनम्
।
कक्षैः कक्षां विधुन्वानावास्फोटं तत्र चक्रतुः॥११॥
कक्षैः दोर्मूलैः कक्षां प्रकोष्ठगतां रज्जुं धुन्वानौ । यतः तत्र कक्षे आस्फोटं चक्रतुः । बाहुमूलास्फालनेन अङ्गदबन्धरज्जुशेषं कम्पयन्तावित्यर्थः ॥११॥
स्कन्धे दोर्भ्यां समाहत्य निहत्य च मुहुर्मुहुः
।
अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं विभोः॥१२॥
चित्रहस्तादिकं कृत्वा कक्षाबन्धं च चक्रतुः
।
गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम्॥१३॥
चित्रहस्तादिकं हस्तस्यातिवेगेन आकुञ्चनप्रसारणोपर्यधश्चालनमुष्टीकरणानि चित्रहस्ताः आदिपदात् पादस्याप्याकुञ्चनादि । कक्षाबन्धं परस्परकक्षायां हस्तौ कृत्वा बन्धनम् । गलेति गले गण्डेन भालदेशेनाभिघातस्तेन । पाषाणसदृशांगत्वात्तयोरभिघातेन विस्फुलिङ्गोत्पत्त्याऽशनिं वज्रमिव ससृजतुरित्यर्थः ॥१३॥
बाहुपाशादिकं कृत्वा पादाहतशिरावुभौ
।
उरोहस्तं ततश्चक्रे पूर्णकुम्भौ प्रयुज्य तौ॥१४॥
बाहुपाशादिकं चरणपाश आदिशब्दार्थः पादाभ्याम् आहृताः शिराः स्नायवो याभ्यां तौ । दृढप्रहारेण नाडीपर्यन्तमपि वेदनावन्तावित्यर्थः । उरोहस्तम् उरसि चपेटाप्रहारम् । पूर्णकुम्भौ ग्रथिताङ्गुलिभ्यां हस्ताभ्यां परशिरसः पीडनं पूर्णकुम्भः । द्वित्वं परस्परं द्वावपि चक्रुरिति वक्तुम् ॥१४॥
करसम्पीडनं कृत्वा गर्जन्तौ वारणाविव
।
नर्दन्तौ मेघसङ्काशौ बाहुप्रहरणावुभौ॥१५॥
तलेनाहन्यमानौ तु अन्योन्यं कृतवीक्षणौ
।
सिंहाविव सुसंङ्क्रुद्धावाकृष्याकृष्य युध्यताम्॥१६॥
तलेन चपेट्या ॥१६॥
अङ्गेनाङ्गं समापीड्य बाहुभ्यामुभयोरपि
।
आवृत्य बाहुभिश्चापि उदरं च प्रचक्रतुः॥१७॥
आवृत्य जत्रुदेशे पृष्ठं कृत्वा बाहुभिः बहुत्वाद्द्वावपि मिथः उदरम् आदाय प्रचक्रतुः प्रचिक्षिपतुः कॄ विक्षेपेऽस्य रूपम् ॥१७॥
उभौ कट्यां सुपार्श्वे तु तक्षवन्तौ च शिक्षितौ
।
अधो हस्तं स्वकण्ठे तूदरस्योरसि चाक्षिपत्॥१८॥
एवं कट्यां सुपार्श्वे च प्रचक्रतुः । तक्षवन्तौ तक्षस्तनूकरणं गात्रसङ्कोच इत्यर्थः तद्वन्तौ । अधोहस्तम् उदरस्याधस्तात् हस्तं कृत्वा हस्ताभ्यामुदरमावेष्ट्य स्वकण्ठे स्वोरसि च कण्ठोरः समीपे आनीय आक्षिपत् आस्फालितवान् ॥१८॥
सर्वातिक्रान्तमर्यादं पृष्ठभङ्गं च चक्रतुः
।
सम्पूर्णमूर्च्छां बाहुभ्यां पूर्णकुम्भं प्रचक्रतुः॥१९॥
पृष्ठस्य भूसंबन्धेन जातं भङ्गं पराभवम् । बाहुभ्याम् उदरादिनिपीडने संपूर्णमूर्च्छाम् ॥१९॥
तृणपीडं यथाकामं पूर्णयोगं समुष्टिकम्
।
एवमादीनि युद्धानि प्रकुर्वन्तौ परस्परम्॥२०॥
तृणपीडं रज्जूकरणे तृणमिव यत्र बाह्वादिकं व्यावर्त्यते तद्युद्धं तृणपीडम् । पूर्णयोगं योगो विश्रब्धयातनं तच्च पूर्णम् अन्यत्र मुष्टेः पातं प्रदर्श्य अन्यत्रपातनमित्यर्थः । एवमादीनि पादाकर्षणशीर्षकक्षीकरणादीनि ॥२०॥
तयोर्युद्धं ततो द्रष्टुं समेताः पुरवासिनः
।
ब्राह्मणा वणिजश्चैव क्षत्रियाश्च सहस्रशः॥२१॥
शूद्राश्च नरशार्दूल स्त्रियो वृद्धाश्च सर्वशः
।
निरन्तरमभूत्तत्र जनौघैरभिसंवृतम्॥२२॥
तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा
।
आसीत्सुभीमसम्पातो वज्रपर्वतयोरिव॥२३॥
निग्रहः हस्ताभ्यां कन्धराकर्षणेन शत्रोरधोमुखीकरणम् । प्रग्रहः शत्रोरुत्तानपातनार्थं पादाकर्षणम् ॥२३॥
उभौ परमसंहृष्टौ बलेन बलिनां वरौ
।
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ॥२४॥
तद्भीममुत्सार्य जनं युद्धमासीदुपप्लवे
।
बलिनोः संयुगे राजन्वृत्रवासवयोरिव॥२५॥
उत्सार्यजनं हस्तबाहुबन्धेन परस्परापसारणाद्दूरीकृतप्रेक्षकजनम् । उपप्लवे युद्धभूमौ उपह्वरे इति पाठे निकटदेशे ॥२५॥
प्रकर्षणाकर्षणाभ्यामनुकर्षविकर्षणैः
।
आचकर्षतुरन्योन्यं जानुभिश्चावजघ्नतुः॥२६॥
प्रकर्षणे पश्चादपसारणे इतरोऽनुकर्षति अवाङ्मुखं पातयितुम् । आकर्षणे अर्वाक्कर्षणे इतरो विकर्षति तिर्यक् नयतीत्यर्थः । आचकर्षतुः देहौ विलिलिखतुः प्रहारैरिति शेषः ॥२६॥
ततः शब्देन महता भर्त्सयन्तौ परस्परम्
।
पाषाणसङ्घातनिभैः प्रहारैरभिजघ्नतुः॥२७॥
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ
।
बाहुभिः समसज्जोतामायसैः परिघैरिव॥२८॥
नियुद्धं निगृह्य युद्धम् ॥२८॥
कार्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि
।
अनाहारं दिवारात्रमविश्रान्तमवर्तत॥२९॥
अनाहारं नास्ति आहरणम् आहार उपसंहारो यस्य तत् । अविश्रान्तं न विशेषेण श्रान्तोऽन्यतरो यस्मिंस्तत्तथा ॥२९॥
तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः
।
चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात्॥३०॥
तद्वृत्तं तादृशप्रकारं युद्धं त्रयोदश्यां समवेतं त्रयोदशीपर्यन्तं जातमिति शेषः। क्लमात् क्लमं प्राप्य निवृत्तः निगृहीतप्रवृत्तोऽभूत् ॥३०॥
तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः
।
उवाच भीमकर्माणं भीमं सम्बोधयन्निव॥३१॥
संबोधयन्निव शिष्टाचारप्रदर्शनव्याजेन शत्रुवधकालं सूचयन्निव ॥३१॥
क्लान्तः शत्रुर्न कौन्तेय लभ्यःपीडयितुं रणे
।
पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः॥३२॥
तस्मात्तेनैव कौन्तेय पीडनीयो जनाधिपः
।
सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ॥३३॥
तस्मात्ते त्वया ॥३३॥
एवमुक्तःस कृष्णेन पाण्डवः परवीरहा
।
जरासन्धस्य तद्रूपं ज्ञात्वा चक्रे मतिं वधे॥३४॥
तद्रूपं क्लान्तरूपम् ॥३४॥
ततस्तमजितं जेतुं जरासन्धं वृकोदरः
।
संरम्भं बलिनां श्रेष्ठो जग्राह कुरुनन्दनः॥३५॥
संरम्भं कोपम् ॥३५॥
॥ इति श्रीमहाभारते सभापर्वणि जरासन्धवधपर्वणि जरासन्धक्लान्तौ त्रयोविंशोऽध्यायः॥२३॥
वैशम्पायन उवाच।
भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम्
।
बुद्धिमास्थाय विपुलां जरासन्धवधोप्सया॥१॥
भीमसेन इति ॥१॥
नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम्
।
प्रायेण यदुशार्दूल बद्धकक्षेण वाससा॥२॥
अनुरोधितुं निरोद्धुं प्राणेन बलेन ॥२॥
एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम्
।
त्वरयन्पुरुषव्याघ्रो जरासन्धवधेप्सया॥३॥
यत्ते दैवं परं सत्वं यच्च ते मातरिश्वनः
।
बलं भीम जरासन्धे दर्शयाशु तदद्य वै॥४॥
एवमुक्तस्तदा भीमो जरासन्धमरिन्दमः
।
उत्क्षिप्य भ्रामयामास बलवन्तं महाबलः॥५॥
भ्रामयित्वा शतगुणं जानुभ्यां भरतर्षभ
।
बभञ्ज पृष्ठं सङ्क्षिप्य निष्पिष्य विननाद च॥६॥
जानुभ्यां धनुर्यष्टिवत्पृष्ठं संक्षिप्य विनाम्य ॥६॥
करे गृहीत्वा चरणं द्वेधा चक्रे महाबलः॥७॥
तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः
।
अभवत्तुमुलो नादः सर्वप्राणिभयङ्करः॥८॥
वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः
।
भीमसेनस्य नादेन जरासन्धस्य चैव ह॥९॥
किं नु स्याद्धिमवान्भिन्नः किं नु स्विद्दीर्यते मही
।
इति वै मागधा जज्ञुर्भीमसेनस्य निःस्वनात्॥१०॥
ततो राज्ञः कुलद्वारि प्रसुप्तमिव तं नृपम्
।
रात्रौ गतासुमुत्सृज्य निश्चक्रमुररिन्दमाः॥११॥
कुलद्वारि गृहद्वारि ॥११॥
जरासन्धरथं कृष्णो योजयित्वा बान्धवान्
।
आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान्॥१२॥
भ्रातरौ भीमार्जुनौ बान्धवान् जरासन्धबद्धान् नृपान् ॥१२॥
ते वै रत्नुभुजं कृष्णं रत्नार्हाः पृथिवीश्वराः
।
राजानश्चक्रुरासाद्य मोक्षिता महतो भयात्॥१३॥
ते कृष्णं रत्नभुजं चक्रुरित्यन्वयः ॥१३॥
अक्षतः शस्त्रसंपन्नो जितारिः सह राजभिः
।
रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात्॥१४॥
यः स सोदर्यवान्नाम द्वियोधी कृष्णसारथिः
।
अभ्यासघाती संदृश्यो दुर्जयः सर्वराजभिः॥१५॥
सोदर्यवान् भीमयुक्तः द्वियोधी द्वाभ्यां हस्ताभ्यां शराणां प्रक्षेपात् अभ्यासघाती पुनःपुनरावृत्तिरभ्यासः तं परकीयं हन्तुं शीलमस्य धनुर्विद्यायां परोत्कर्षजेता । संदृश्यः रमणीयाङ्गः ॥१५॥
भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः
।
शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः॥१६॥
शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये
।
रथेन तेन वै कृष्ण उपारुह्य ययौ तदा॥१७॥
शक्रविष्णू हिशब्द इवार्थे । तारकामये तारका तारा बृहस्पतिभार्या सैव आमयवत् विनाशहेतुर्यस्मिन् । आमयो रोगः ॥१७॥
तप्तचामीकराभेण किङ्किणीजालमालिना
।
मेघनिर्घोषनादेन जैत्रेणामित्रघातिना॥१८॥
येन शक्रो दानवानां जघान नवतीर्नव
।
तं प्राप्य समहृष्यन्त रथं ते पुरुषर्थभाः॥१९॥
ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा
।
रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः॥२०॥
हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे
।
अधिष्ठितः स शुशुभे कृष्णेनातीव भारत॥२१॥
असङ्गो देवविहितस्तस्मिन्रथवरे ध्वजः
।
योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः॥२२॥
असंगः रथस्पर्शहीनः ॥२२॥
चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात्
।
क्षणे तस्मिन्स तेनासीच्चैत्यवृक्ष इवोत्थितः॥२३॥
चैत्यवृक्षः ग्रामादिचिह्नभूतो वृक्षः ॥२३॥
व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः
।
तस्मिन्रथवरे तस्थौ गुरुत्मान्पन्नगाशनः॥२४॥
दुर्निरीक्ष्यो हि भूतानां तेजसाऽऽभ्यधिकं बभौ
।
आदित्य इव मध्याह्ने सहस्रकिरणावृतः॥२५॥
न स सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते
।
दिव्यो ध्वजवरो राजन्दृश्यते चेह मानुषैः॥२६॥
रिष्यते हिंस्यते विध्यते इत्यपि पाठः ॥२६॥
तमास्थाय रथं दिव्यं पर्जन्यसमनिः स्वनम्
।
निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः॥२७॥
यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः
।
बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथं नृप॥२८॥
स निर्याय महाबाहुः पुण्डरीकेक्षणस्ततः
।
गिरिव्रजाद्बहिस्तस्थौ समदेशे महायशाः॥२९॥
तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा
।
ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा॥३०॥
बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम्
।
पूजयामासुरूचुश्च स्तुतिपूर्वमिदं वचः॥३१॥
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दने
।
भीमार्जुनबलोपेते धर्मस्य प्रतिपालनम्॥३२॥
जरासन्धह्रदे घोरे दुःखपङ्के निमज्जताम्
।
राज्ञां समभ्युद्धरणं यदिदं कृतमद्य वै॥३३॥
विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे
।
दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते यदुनन्दन॥३४॥
किं कर्मः पुरुषव्याघ्र शाधि नः प्रणतिस्थितान्
।
कृतमित्येव तद्विद्धि नृपैर्यद्यपि दुष्करम्॥३५॥
तानुवाच हृषीकेशः समाश्वास्य महामनाः
।
युधिष्ठिरो राजसूयं क्रतुमार्हतुमिच्छति॥३६॥
तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः
।
सर्वैर्भवद्भिर्विज्ञाय साहाय्यं क्रियतामिति॥३७॥
पार्थिवत्वं साम्राज्यम् ॥३७॥
ततः सुप्रीतमनसस्ते नृपा नृपसत्तम
।
तथेत्येवाब्रुवन्सर्वे प्रतिगृह्यास्य तां गिरम्॥३८॥
रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः
।
कृच्छ्राज्जग्राह गोविन्दस्तेषां तदनुकम्पया॥३९॥
कृच्छ्रान्मोचितेभ्यो धनग्रहणं यशोहानिकरमिति संकटात् ॥३९॥
जरासन्धात्मजश्चैव सहदेवो महामनाः
।
निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम्॥४०॥
स नीचैः प्रणतो भूत्वा बहुरत्नपुरोगमः
।
सहदेवो नृणां देवं वासुदेवमुपस्थितः॥४१॥
भयार्ताय ततस्तस्मै कृष्णो दत्त्वाऽभयं तदा
।
आददेस्य महार्हाणि रत्नानि पुरुषोत्तमः॥४२॥
अभ्यर्षिञ्चत तत्रैव जरासन्धात्मजं मुदा
।
गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः॥४३॥
एकत्वं सख्यम् ॥४३॥
विवेश राजा द्युतिमान्बार्हद्रथपुरं नृप
।
अभिषिक्तो महाबाहुर्जारासन्धिर्महात्मभिः॥४४॥
कृष्णस्तु सह पार्थाभ्यां श्रिया परमया युतः
।
रत्नान्यादाय भूरीणि प्रययौ पुरुषर्षभः॥४५॥
इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः
।
समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत॥४६॥
दिष्ट्या भीमेन बलवाञ्जरासन्धो निपातितः
।
राजानो मोक्षिताश्चैव बन्धनान्नृपसत्तम॥४७॥
दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ
।
पुनः स्वनगरं प्राप्तावक्षताविति भारत॥४८॥
ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः
।
भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे॥४९॥
ततः क्षीणे जरासन्धे भ्रातृभ्यां विहितं जयम्
।
अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह॥५०॥
यथावयः समागम्य भ्रातृभिः सह पाण्डवः
।
सत्कृत्य पूजयित्वा च विससर्ज नराधिपान्॥५१॥
यथावयः ज्येष्ठानुक्रमेण प्रथमं भीमेन ततः कृष्णेन ततोऽर्जुनेन ॥५१॥
युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः
।
जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः॥५२॥
एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः
।
पाण्डवैर्घातयामास जरासन्धमरिं तदा॥५३॥
घातयित्वा जरासन्धं बुद्धिपूर्वमरिन्दमः
।
धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत॥५४॥
सुभद्रां भीमसेनं च फाल्गुनं यमजौ तथा
।
धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति॥५५॥
तेनैव रथमुख्येन मनसस्तुल्यगामिना
।
धर्मराजविसृष्टेन दिव्येनानादयन्दिशः॥५६॥
ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ
।
प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम्॥५४॥
ततो गते भगवति कृष्णे देवकिनन्दने
।
जयं लब्ध्वा सुविपुलं राज्ञां दत्त्वाऽभयं तदा॥५५॥
संवर्धितं यशो भूयः कर्मणा तेन भारत
।
द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन्॥५९॥
तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम्
।
तद्राजा धर्मतश्चक्रे प्रजापालनकीर्तनम्॥६०॥
॥ इति श्रीमहाभारते सभापर्वणि जरासन्धवधपर्वणि जरासन्धवधे चतुर्विंशोऽध्यायः॥२४॥