जनमेजय उवाच।
दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय
।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्॥१॥
वैशम्पायन उवाच।
धनञ्जयस्य वक्ष्यामि विजयं पूर्वमेव ते
।
यौगपद्येन पार्थैर्हि निर्जितेयं वसुन्धरा॥२॥
पूर्वं कुलिन्दविषये वशे चक्रे महीपतीन्
।
धनञ्जयो महाबाहुर्नातितीव्रेण कर्मणा॥३॥
आनर्तान्कालकूटांश्च कुलिन्दांश्च विजित्य सः
।
सुमण्डलं च विजितं कृतवान्सह सैनिकम्॥४॥
स तेन सहितो राजन्सव्यसाची परन्तपः
।
विजिग्ये शाकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम्॥५॥
शाकलद्वीपवासाश्च सप्तद्वीपेषु ये नृपाः
।
अर्जुनस्य च सैन्यैस्तैर्विग्रहस्तुमुलोऽभवत्॥६॥
स तानपि महेष्वासान्विजिग्ये भरतर्षभ
।
तैरेव सहितः सर्वैः प्रग्ज्योतिषमुपाद्रवत्॥९॥
तत्र राजा महानासीद्भगदत्तो विशाम्पते
।
तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः॥८॥
स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत्
।
अन्यैश्च बहुभिर्योधैः सागरानुपवासिभिः॥९॥
ततः स दिवसानष्टौ योधयित्वा धनञ्जयम्
।
प्रहसन्नब्रवीद्राजा सङ्ग्रामविगतक्लमम्॥१०॥
उपपन्नं महाबाहो त्वयि कौरवनन्दन
।
पाकशासनदायादे वीर्यमाहवशोभिनि॥१३॥
अहं सखा महेन्द्रस्य शक्रादनवरो रणे
।
न शक्ष्यामि च ते तात स्थातुं प्रमुखतो युधि॥१४॥
त्वमीप्सितं पाण्डवेयं ब्रूहि किं करवाणि ते
।
यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक॥१३॥
अर्जुन उवाच।
कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः
।
धर्मज्ञः सत्यसन्धश्च यज्वा विपुलदक्षिणः॥१४॥
तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम्
।
भवान्पितृसखा चैव प्रीयमाणो मयापि च
।
ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम्॥१५॥
भगदत्त उवाच।
कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः
।
सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते॥१६॥
॥ इति श्रीमहाभारते सभापर्वणि दिग्विजयपर्वणि अर्जुनदिग्विजये भदगत्तजये षड्विंविंशोऽध्यायः॥२६॥
वैशम्पायन उवाच।
एवमुक्तः प्रत्युवाच भगदत्तं धनञ्जयः
।
अनेनैव कृतं सर्वं भविष्यत्यनुजानता॥१॥
एवमिति अनेनैव करदानेनैव अनुजानता अनुज्ञां दत्तवता ॥१॥
तं विजित्य महाबाहुः कुन्तीपुत्रो धनञ्जयः
।
प्रययावुत्तरां तस्माद्दिशं धनदपालिताम्॥२॥
अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम्
।
तथैवोपगिरं चैव विजिग्ये पुरुषर्षभः॥३॥
विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः
।
तान्वशे स्थापयित्वा स धनान्यादाय सर्वशः॥४॥
तैरेव सहितः सर्वैरनुरज्य च तान्नृपान्
।
उलूकवासिनं राजन्बृहन्तमुपजग्मिवान्॥५॥
मृदङ्गवरनादेन रथनेमिस्वनेन च
।
हस्तिनां च निनादेन कम्पयन्वसुधामिमाम्॥६॥
ततो बृहन्तस्त्वरितो बलेन चतुरङ्गिणा
।
निष्क्रम्य नगरात्तस्माद्योधयामास फाल्गुनम्॥७॥
सुमहान्सन्निपातोऽभूद्धनञ्जयबृहन्तयोः
।
न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम्॥८॥
संनिपातः संघर्षः ॥८॥
सोऽविषह्यतमं मत्वा कौन्तेयं पर्वतेश्वरः
।
उपावर्तत दुर्धर्षो रत्नान्यादाय सर्वशः॥९॥
स तद्राज्यमवस्थाप्य उलूकसहितो ययौ
।
सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत्॥१०॥
मोदापुरं वामवेदं सुदामानं सुसङ्कुलम्
।
उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत्॥११॥
तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात्
।
किरीटी जितवान्राजन्देशान्पञ्चगणांस्ततः॥१२॥
स देवप्रस्थमासाद्य सेनाबिन्दोः पुरं प्रति
।
बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः॥१३॥
स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम्
।
अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभ॥१४॥
विजित्य चाहवे शूरान्पार्वतीयान्महारथान्
।
जिगाय सेनया राजन्पुरं पौरवरक्षितम्॥१५॥
पौरवं युधि निर्जित्य दस्यून्पर्वतवासिनः
।
गणानुत्सवसङ्केतानजयत्सप्त पाण्डवः॥१६॥
उत्सवसंकेतान् स्त्रीपुंसयोः परस्परप्रीतिरेव रत्यर्थं संकेतः न तु दांपत्यव्यवस्था पशूनामिव यत्रास्तीत्यर्थः ॥१६॥
ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः
।
व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह॥१७॥
मण्डलैः क्षुद्रराज्यैः ॥१७॥
ततस्त्रिगर्ताः कौन्तेयं दार्वाः कोकनदास्तथा
।
क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः॥१८॥
अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः
।
उरगावासिनं चैव रोचमानं रणेऽजयत्॥१९॥
अभिसारीं नगरीम् ॥१९॥
ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम्
।
प्राधमद्बलमास्थाय पाकशासन्निराहवे॥२०॥
ततः सुह्यांश्च चोलांश्च किरीटी पाण्डवर्षभः
।
सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः॥२१॥
ततः परमविक्रान्तो बाह्लीकान्पाकशासनिः
।
महता परिमर्देन वशे चक्रे दुरासदान्॥२२॥
गृहीत्वा तु बलं सारं फल्गुनः पाण्डुनन्दनः
।
दरदान्सह काम्भोजैरजयत्पाकशासनिः॥२३॥
प्रागुत्तरं दिशं ये च वसन्त्याश्रित्य दस्यवः
।
निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः॥२४॥
प्रागुत्तराम् ऐशानीम् ॥२४॥
लोहान्परमकाम्भोजानृषिकानुत्तरानपि
।
सहितांस्तान्महाराज व्यजयत्पाकशासनिः॥२५॥
ऋषिकेष्वपि सङ्ग्रामे बभूवातिभयङ्करः
।
तारकामयसङ्काशः परस्त्वृषिकपार्थयोः॥२६॥
स विजित्य ततो राजन्नृषिकान्रणमूर्धनि
।
शुकोदरसमांस्तत्र हयानष्टौ समानयत्॥२७॥
मयूरसदृशानन्यानुत्तरानपरानपि
।
जवनानाशुगांश्चैव करार्थं समुपानयत्॥२८॥
जवनान् धावने शीघ्रान् आशुगान् यदृच्छया चलनसमर्थान् ॥२८॥
स विनिर्जित्य सङ्ग्रामे हिमवन्तं सनिष्कृटम्
।
श्वेतपर्वतमासाद्य न्यविशत्पुरुषर्षभः॥२९॥
निप्कुटं शैलविशेषम् ॥२९॥
॥ इति श्रीमहाभारते सभापर्वणि दिग्विजयपर्वणि फाल्गुनदिग्विजये नानादेशजये सप्तविंशोध्यायः॥२७॥
वैशम्पायन उवाच।
स श्वेतपर्वतं वीरः समतिक्रम्य वीर्यवान्
।
देशं किंपुरुषावासं द्रुमपुत्रेण रक्षितम्॥१॥
स इति ॥१॥
महता सन्निपातेन क्षत्रियान्तकरेण ह
।
अजयत्पाण्डवश्रेष्ठः करे चैनं न्यवेशयत्॥२॥
तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम्
।
पाकशासनिरव्यग्रः सह सैन्यः समासदत्॥३॥
तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम्
।
ऋषिकुल्यास्तथा सर्वा ददर्श कुरुनन्दनः॥४॥
सरो मानसमासाद्य हाटकानभितः प्रभुः
।
गन्धर्वरक्षितं देशमजयत्पाण्डवस्ततः॥५॥
तत्र तित्तिरिकल्माषान्मण्डूकाख्यान्हयोत्तमान्
।
लेभे स करमत्यन्तं गन्धर्वनगरात्तदा॥६॥
उत्तरं हरिवर्षं तु स समासाद्य पाण्डवः
।
इयेष जेतुं तं देशं पाकशासनन्दनः॥७॥
तत एनं महावीर्यं महाकाया महाबलाः
।
द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन्॥८॥
पार्थ नेदं त्वया शक्यं पुरं जेतुं कथञ्चन
।
उपावर्तस्व कल्याण पर्याप्तमिदमच्युत॥९॥
इदं पुरं यः प्रविशेद्घ्रुवं न स भवेन्नरः
।
प्रीयामहे त्वया वीर पर्याप्तो विजयस्तव॥१०॥
न स भवेत् म्रियेतेत्यर्थः ॥१०॥
न चात्र किञ्चिज्जेतव्यमर्जुनात्र प्रदृश्यते
।
उत्तराः कुरुवो ह्येते नात्र युद्धं प्रवर्तते॥११॥
प्रविष्टोऽपि हि कौन्तेय नेह द्रक्ष्यसि किञ्चन
।
न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम्॥१२॥
अथेह पुरुषव्याघ्र किञ्चिदन्यच्चिकीर्षसि
।
तत्प्रब्रूहि करिष्यामो वचनात्तव भारत॥१३॥
ततस्तानब्रवीद्राजन्नर्जुनः प्रहसन्निव
।
पार्थिवत्वं चिकीर्षामि धर्मराजश्च धीमतः॥१४॥
न प्रवेक्ष्यामि वो देशं विरुद्धं यदि मानुषैः
।
युधिष्ठिराय यत्किञ्चित्करपण्यं प्रदीयताम्॥१५॥
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च
।
क्षौमाजिनानि दिव्यानि तस्य ते प्रददुः करम्॥१६॥
क्षुमाऽतसीविशेषः ’क्षुमाऽतसी नीलिकयोः' इति मेदिनी । तत्तन्तुनिर्मितानि क्षौमाणि अजिनानि च ॥१६॥
एवं स पुरुषव्याघ्रो विजित्य दिशमुत्तराम्
।
सङ्ग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा॥१७॥
स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य तु
।
धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च॥१८॥
हयांस्तित्तिरिकल्माषाञ्च्छुकपत्रनिभानपि
।
मयूरसदृशान्यान्सर्वाननिलरंहसः॥१९॥
वृतः सुमहता राजन्बलेन चतुरङ्गिणा
।
आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम्॥२०॥
धर्मराजाय तत्पार्थो धनं सर्वं सवाहनम्
।
न्यवेदयदनुज्ञातस्तेन राज्ञा गृहान्ययौ॥२१॥
॥ इति श्रीमहाभारते सभापर्वणि दिग्विजयपर्वणि अर्जुनोत्तरदिग्विजये अष्टाविंशोऽध्यायः॥२८॥
वैशम्पायन उवाच।
एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान्
।
धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति॥१॥
एतस्मिन्निति ॥१॥
महता बलचक्रेण परराष्ट्रावमर्दिना
।
हस्त्यश्वरथपूर्णेन दंशितेन प्रतापवान्॥२॥
बलचक्रेण सेनासमूहेन दंशितेन संनद्धेन ॥२॥
वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः
।
स गत्वा नरशार्दूलः पञ्चालानां पुरं महत्॥३॥
पञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः
।
ततः स गण्डकाञ्छूरो विदेहान्भरतर्षभः॥४॥
विजित्याल्पेन कालेन दशार्णानजयत्प्रभुः
।
तत्र दाशार्णको राजा सुधर्मा रोमहर्षणम्
।
कृतवान्भीमसेनेन महद्युद्धं निरायुधम्॥५॥
दशार्णान् देशान् निरायुधं बाहूयुद्धम् ॥५॥
भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म महात्मनः
।
अधिसेनापतिं चक्रे सुधर्माणं महाबलम्॥६॥
अधिचक्रे इति संबन्धः । जित्वा तस्य बलं ज्ञात्वा सैनापत्यं तस्मै दत्तवानित्यर्थः । अधिसेनापतिं सेनापतिष्वधिकं मुख्यं चक्रे इति वाऽर्थः ॥६॥
ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः
।
सैन्येन महता राजन्कम्पयन्निव मेदिनीम्॥७॥
सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुगम्
।
जिगाय समरे वीरो बलेन बलिनां वरः॥८॥
स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा
।
पूर्वदेशं महावीर्यो विजिग्ये कुरनन्दनः॥९॥
ततो दक्षिणमागम्य पुलिन्दनगरं महत्
।
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्॥१०॥
ततस्तु धर्मराजस्य शासनाद्भरतर्षभः
।
शिशुपालं महावीर्यमभ्यगाज्जनमेजय॥११॥
चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम्
।
उपनिष्क्रम्य नगरात्प्रत्यगृह्णात्परन्तप॥१२॥
तौ समेत्य महाराज कुरुचेदिवृषौ तदा
।
उभयोरात्मकुलयोः कौशल्यं पर्यपृच्छताम्॥१३॥
वृषौ श्रेष्ठौ ॥१३॥
ततो निवेद्य तद्राष्ट्रं चेदिराजो विशाम्पते
।
उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ॥१४॥
तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम्
।
स च तं प्रतिगृह्यैव तथा चक्रे नराधिपः॥१५॥
ततो भीमस्तत्र राजन्नुषित्वा त्रिदशाः क्षपाः
।
सत्कृतः शिशुपालेन ययौ सबलवाहनः॥१६॥
त्रिदशाः त्र्यधिका दश त्रयोदश ॥१६॥
॥ इति श्रीमहाभारते सभापर्वणि दिग्विजयपर्वणि भीमदिग्विजये एकोनत्रिंशोऽध्यायः॥२९॥
वैशम्पायन उवाच।
ततः कुमारविषये श्रेणिमन्तमथाजयत्
।
कोसलाधिपतिं चैव बृहद्बलमरिन्दमः॥१॥
तत इति ॥१॥
अयोध्यायां तु धर्मज्ञं दीर्घयज्ञं महाबलम्
।
अजयत्णण्डवश्रेष्ठो नातितीव्रेण कर्मणा॥२॥
ततो गोपालकक्षं च सोत्तरानपि कोसलान्
।
मल्लानामधिपं चैव पार्थिवं चाजयत्प्रभुः॥३॥
ततो हिमवतः पार्श्वं समभ्येत्य जलोद्भवम्
।
सर्वमल्पेन कालेन देशं चक्रे वशं बली॥४॥
एवं बहुविधान्देशान्विजिग्ये भरतर्षभः
।
भल्लाटमभितो जिग्ये शुक्तिमन्तं च पर्वतम्॥५॥
पाण्डवः सुमहावीर्यो बलेन बलिनां वरः
।
स काशिराजं समरे सुबाहुमनिवर्तिनम्॥६॥
वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः
।
ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम्॥७॥
युध्यमानं बालत्सङ्ख्ये विजिग्ये पाण्डवर्षभः
।
ततो मत्स्यान्महातेजा मलदांश्च महाबलान्॥८॥
अनघानभयांश्चैव पशुभूमिं च सर्वशः
।
निवृत्य च महाबाहुर्मदधारं महीधरम्॥९॥
सोमधेयांश्च निर्जित्य प्रत्ययावुत्तरामुखः
।
वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात्॥१०॥
भर्गाणामधिपं चैव निषादाधिपतिं तथा
।
विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून्॥११॥
ततो दक्षिणमल्लांश्च भोगवन्तं च पर्वतम्
।
तरसैवाजयद्भीमो नातितीव्रेण कर्मणा॥१२॥
शर्मकान्वर्मकांश्चैव व्यजयत्सान्त्वपूर्वकम्
।
वैदेहकं च राजानं जनकं जगतीपतिम्॥१३॥
विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा
।
शकांश्च बर्बरांश्चैव अजयच्छद्मपूर्वकम्॥१४॥
वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात्
।
किरातानामधिपतीनजयत्सप्त पाण्डवः॥१५॥
ततः सुह्मान्प्रसुह्मांश्च सपक्षानतिवीर्यवान्
।
विजित्य युधि कौन्तेयो मागधानभ्यधाद्बली॥१६॥
सुह्मा राढाः मागधानभ्यधाद्वली करंप्रयच्छतेत्युक्तवान् । पूर्वमेवपराक्रान्तत्वात् ॥१६॥
दण्डं च दण्डधारं च विजित्य पृथिवीपतीन्
।
तैरेव सहितैः सर्वैर्गिरिव्रजमुपाद्रवत्॥१७॥
जारासन्धिं सान्त्वयित्वा करे च विनिवेश्य ह
।
तैरेव सहितैः सर्वैः कर्णमब्यद्रवद्बली॥१८॥
स कम्पयन्निव महीं बलेन चतुङ्गिणा
।
युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना॥१९॥
स कर्णं युधि निर्जित्य वशे कृत्वा च भारत
।
ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः॥२०॥
अथ मोदागिरौ चैव राजानं बलवत्तरम्
।
पाण्डवो बाहुवीर्येण निजघान महामृधे॥२१॥
ततः पुण्ड्राधिपं वीरं वासुदेवं महाबलम्
।
कौशिकीकच्छनिलयं राजानं च महौजसम्॥२२॥
उभौ बलभृतौ वीरावुमौ तीव्रपराक्रमौ
।
निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत्॥२३॥
समुद्रसेन निर्जित्य चन्द्रसेनं च पार्थिवम्
।
ताम्रलिप्तं च राजानं कर्वटाधिपतिं तथा॥२४॥
सुह्यानामधिपं चैव ये च सागरवासिनः
।
सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः॥२५॥
एवं बहुविधान्देशान्विजित्य पवनात्मजः
।
वसु तेभ्य उपादाय लौहित्यमगद्बली॥२६॥
स सर्वान्म्लेच्छनृपतीन्सागरानूपवासिनः
।
करमाहारयामास रत्नानि विविधानि च॥२७॥
चन्दनागुरुवस्त्राणि मणिमौक्तिककम्बलम्
।
काञ्चनं रजतं चैव विद्रुमं च महाधनम्॥२८॥
ते कोटीशतसङ्ख्येन कौन्तेयं महता तदा
।
अभ्यवर्षन्महात्मानं धनवर्षेण पाण्डवम्॥२९॥
इन्द्रप्रस्थमुपागम्य भीमो भीमपराक्रमः
।
निवेदयामास तदा धर्मराजाय तद्धनम्॥३०॥
॥ इति श्रीमहाभारते सभापर्वणि दिग्विजयपर्वणि भीमप्राचीदिग्विजये त्रिंशोऽध्यायः॥३०॥
वैशम्पाय उवाच।
तथैव सहदेवोऽपि धर्मराजेन पूजितः
।
महत्या सेनया राजन्प्रययौ दक्षिणां दिशम्॥१॥
तथैवेति ॥१॥
स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः
।
मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली॥२॥
अधिराजाधिपं चैव दन्तवक्त्रं महाबलम्
।
जिगाय करदं चैव कृत्वा राज्ये न्यवेशयत्॥३॥
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम्
।
तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान्॥४॥
पटच्चरान् चोरदेशान् ॥४॥
निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा
।
तरसैवाजयद्धीमान्श्रेणिमन्तं च पार्थिवम्॥५॥
नरराष्ट्रं च निर्जित्य कुन्तिभोजमुपाद्रवत्
।
प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम्॥६॥
ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम्
।
ददर्श वासुदेवेन शेषितं पूर्ववैरिणा॥७॥
चक्रे तेन स सङ्ग्रामं सहदेवेन भारत
।
स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ॥८॥
सेकानपरसेकांश्च रत्नानि विविधानि च॥९॥
ततस्तेनैव सहितो नर्मदामभितो ययौ
।
विन्दानुविन्दावावन्त्यौ सैन्येन महता वृतौ
।
जिगाय समरे वीरावाश्विनेयः प्रतापवान्॥१०॥
ततो रत्नान्युपादाय पुरं भोजकटं ययौ
।
तत्र युद्धमभूद्राजन्दिवसद्वयमच्युत॥११॥
स विजित्य दुराधर्षं भीष्मकं माद्रिनन्दनः
।
कोसलाधिपतिं चैव तथा वेणातटाधिपम्॥१२॥
कान्तारकांश्च समरे तथा प्राक्कोशलान्नृपान्
।
नाटकेयांश्च समरे तथा हेरम्बकान्युधि॥१३॥
मारुधं च विनिर्जित्य रम्यग्राममथो बलात्
।
नाचीनानर्बुकांश्चैव राज्ञश्चैव महाबलः॥१४॥
तांस्तानाटविकान्सर्वानजयत्पाण्डुनन्दनः
।
वाताधिपं च नृपतिं वशे चक्रे महाबलः॥१५॥
पुलिन्दांश्च रणे जित्वा ययौ दक्षिणतः पुरः
।
युयुधे पाण्ड्यराजेन दिवसं नकुलानुजः॥१६॥
तं जित्वा स महाबाहुः प्रययौ दक्षिणापथम्
।
गुहामासादयामास किष्किन्धां लोकविश्रुताम्॥१७॥
तत्र वानरराजाभ्यां मैन्देन द्विविदेन च
।
युयुधे दिवसान्सप्त न च तौ विकृतिं गतौ॥१८॥
ततस्तुष्टौ महात्मानौ सहदेवाय वानरौ
।
ऊचतुश्चैव संहृष्टौ प्रीतिपूर्वमिदं वचः॥१९॥
गच्छ पाण्डवशार्दूल रत्नान्यादाय सर्वशः
।
अविघ्नमस्त कार्याय धर्मराजाय धीमते॥२०॥
ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ
।
तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः॥२१॥
पाण्डवः परवीरघ्नः सहदेवः प्रतापवान्
।
ततोऽस्य सुमहद्युद्धमासीद्भीरु भयङ्करम्॥२२॥
सैन्यक्षयकरं चैव प्राणानां संशयावहम्
।
चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः॥२३॥
ततो रथा हया नागाः पुरुषाः कवचानि च
।
प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा॥२४॥
ततः सुसंभ्रान्तमना बभूव कुरुनन्दनः
।
नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय॥२५॥
जनमेजय उवाच।
किमर्थं भगवान्वह्निः प्रत्यमित्रोऽभवद्युधि
।
सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज॥२६॥
प्रत्यमित्रः शत्रुः ॥२६॥
वैशम्पायन उवाच।
तत्र माहिष्मतीवासी भगवान्हव्यवाहनः
।
श्रूयते हि गृहीतो वै पुरस्तात्पारदारिकः॥२७॥
पारदारिकः स्वेनानूढया अपि परकीयत्वात् परदारासक्तः गृहीतः विवशः ॥२७॥
नीलस्य राज्ञो दुहिता बभूवातीव शोभना
।
साऽग्निहोत्रमुपातिष्ठद्बोधनाय पितुः सदा॥२८॥
व्यजनैर्धूयमानोऽपि तावत्प्रज्वलते न सः
।
यावच्चारुपुटौष्ठेन वायुना न विधूयते॥२९॥
ततः स भगवानग्निश्चकमे तां सुदर्शनाम्
।
नीलस्य राज्ञः सर्वेषामुपनीतश्च सोऽभवत्॥३०॥
चकमे मानुषस्वरूपेण शब्दतः कामयामास । एवं सर्वेषामपि गृहे इत्युक्तं सर्वेषामिति तया च सः उपनीतः स्वीकृतः । नीलस्य राज्ञः अविदित इति शेषः ॥३०॥
ततो ब्रह्मणरूपेण रममाणो यदृच्छया
।
चकमे तां वरारोहां कन्यामुत्पललोचनाम्
।
तं तु राजा यथाशास्त्रमशासद्धार्मिकस्तदा॥३१॥
प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः
।
तं दृष्ट्वा विस्मितो राजा जगाम शिरसाऽवनिम्॥३२॥
ततः कालेन तां कन्यां तथैव हि तदा नृपः
।
प्रददौ विप्ररूपाय वह्नये शिरसा नतः॥३३॥
प्रतिगृह्य च तां सुभ्रुं नीलराज्ञः सुतां तदा
।
चक्रे प्रसादं भगवांस्तस्य राज्ञो विभावसुः॥३४॥
वरेण छन्दयामास तं नृपं स्विष्टकृत्तमः
।
अभयं च स जग्राह स्वसैन्ये वै महीपतिः॥३५॥
शोभनः सुतरां वा इष्टकृत् प्रियकृत् अतिशयेन स्विष्टकृत्तमः छन्दयामास प्रीणितवान् ॥३५॥
ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः
।
जिगीषन्ति बलाद्राजंस्ते दह्यन्ते स्म वह्निना॥३६॥
तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह
।
बभूवुरनतिग्राह्या योषितश्छन्दतः किल॥३७॥
छन्दतः इच्छातः अनतिग्राह्याः अत्यन्तं सुग्रहाः न बभूवुः। सर्वासाम् अग्निना परिगृहीतत्वात्॥३७॥
एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे
।
स्वैरिण्यस्तत्र नार्यो हि यथेष्टं विचरन्त्युत॥३८॥
अप्रतिवारणे प्रातिकूल्येन स्त्रीणां वारणं कर्तुं न शक्तः कश्चिद्भविष्यतीति वरः तदेवाह स्वैरिण्य इति भर्तुरन्यस्य वा शरीरे प्रविश्याग्निरेवास्माकं भोगं करोतीति निश्चयादित्यर्थः ॥३८॥
गर्जयन्ति च राजानस्तत्पुरं भरतर्षभ
।
भयादग्नेर्महाराज तदाप्रभृति सर्वदा॥३९॥
सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम्
।
परीतमग्निना राजन्नाकम्पत यथाचलः
।
उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः॥४०॥
सहदेव उवाच।
त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोस्तु ते
।
मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक॥४१॥
पावनात्पावकश्चासि वहनाद्धव्यवाहनः
।
वेदास्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि॥४२॥
चित्रभानुः सुरेशश्च अनलस्त्वं विभावसो
।
स्वर्गद्वारस्पृशश्चासि हुताशो ज्वलनः शिखी॥४३॥
वैश्वानरस्त्वं पिङ्गेशः प्लवङ्गो भूरितेजसः
।
कुमारसूस्त्वं भगवान्रुद्रगर्भो हिरण्यकृत्॥४४॥
अग्निर्ददातु मे तेजो वायुः प्राणं ददातु मे
।
पृथिवी बलमादध्याच्छिवं चापो दिशन्तु मे॥४५॥
अपां गर्भ महासत्व जातवेदः सुरेश्वर
।
देवानां मुखमग्ने त्वं सत्येन विपुनीहि माम्॥४६॥
ऋषिभिर्ब्राह्मणैश्चैव दैवतैरसुरैरपि
।
नित्यं सुहुत यज्ञेषु सत्येन विपुनीहि माम्॥४७॥
धूमकेतुः शिखी च त्वं पापहाऽनिसम्भवः
।
सर्वप्राणिषु नित्यस्थः सत्येन विपुनीहि माम्॥४८॥
एवं स्तुतोऽसि भगवन्प्रीतेन शिचिना मया
।
तुष्टिं पुष्टिं श्रुतं चैव प्रीति चाग्ने प्रयच्छ मे॥४९॥
तुष्टिम् अलंबुद्धिं प्रीतिं सुखम् ॥४९॥
वैशम्पायन उवाच।
इत्येवं मन्त्रमाग्नेयं पठन्यो जुहुयाद्विभुम्
।
ऋद्धिमान्सततं दान्तः सर्वपापैः प्रमुच्यते॥५०॥
आग्नेयं मन्त्रं श्लोकरूपं मन्त्राष्टकं जुहुयात्पायसादिना स्वाहान्तैर्मन्त्रैर्होमं कुर्यात् ॥५०॥
सहदेव उवाच।
यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं हव्यवाहन
।
एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम्॥५१॥
विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत्
।
प्रमुखे तस्य सैन्यस्य भीतोद्विग्नस्य भारत॥५२॥
न चैनमत्यगाद्वह्निर्वेलामिव महोदधिः
।
तमुपेत्य शनैर्वह्निरुवाच कुरुनन्दनम्॥५३॥
अत्यगात् एनम् अतिक्रम्य सैन्यं न ददाहेत्यर्थः ॥५३॥
सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः
।
उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया॥५४॥
वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च
।
मया तु रक्षितव्या पूरियं भरतसत्तम॥५५॥
पूः पुरी ॥५५॥
यावद्राज्ञो हि नीलस्य कुले वंशधरा इति
।
ईप्सितं तु करिष्यामि मनसस्तव पाण्डव॥५६॥
तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसा नतः
।
पूजयामास माद्रेयः पावकं भरतर्षभ॥५७॥
पावके विनिवृत्ते तु नीलो राजाऽभ्यगात्तदा
।
पावकस्याज्ञया चैनमर्चयामास पार्थिवः॥५८॥
सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम्
।
प्रतिगृह्य च तां पूजां करे च विनिवेश्य च॥५९॥
माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम्
।
त्रैपुरं स वशे कृत्वा राजानममितौजसम्॥६०॥
निजग्राह महाबाहुस्तरसा पौरवेश्वरम्
।
आकृतिं कौशिकाचार्यं यत्नेन महता ततः॥६१॥
वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तदा
।
सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे॥६२॥
राज्ञे भोजकटस्थाय महामात्राय धीमते
।
भीष्मकाय स धर्मात्मा साक्षादिन्द्रसखाय वै॥६३॥
स चास्य प्रतिजग्राह ससुतः शासनं तदा
।
प्रीतिपूर्वं महाराज वासुदेवमवेक्ष्य च॥६४॥
ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः
।
ततः शूर्पारकं चैव तालाकटमथापि च॥६५॥
वशे चक्रे महातेजा दण्डकांश्च महाबलः
।
सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान्॥६६॥
निषादान्पुरुषादांश्च कर्णप्रावरणानपि
।
ये च कालमुखा नाम नरराक्षसयोनयः॥६७॥
कृत्स्नं कोलगिरिं चैव सुरभीपट्टनं तथा
।
द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा॥६८॥
तिमिङ्गिलं च स नृपं वशे कृत्वा महामतिः
।
एकपादांश्च पुरुषान्केरलान्वनवासिनः॥६९॥
नगरीं सञ्जयन्तीं च पाषण्डं करहाटकम्
।
दूतैरेव वशे चक्रे करं चैनानदापयत्॥७०॥
पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः
।
अन्ध्रांस्तालवनांश्चैव कलिङ्गानुष्ट्रकर्णिकान्॥७१॥
आटवीं च पुरीं रम्यां यवनानां पुरं तथा
।
दूतैरेव वशे चक्रे करं चैनानदापयत्॥७२॥
ततः कच्छगतो धीमान्दूतान्माद्रवतीसुतः
।
प्रेषयामास राजेन्द्र पौलस्त्याय महात्मने
।
बिभीषणाय धर्मात्मा प्रीतिपूर्वमरिन्दमः॥७३॥
स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम्
।
तच्च कृष्णकृतं धीमानभ्यमन्यत स प्रभुः॥७४॥
ततः सम्प्रेषयामास रत्नानि विविधानि च
।
चन्दनागुरुकाष्ठानि दिव्यान्याभरणानि च॥७५॥
वासांसि च महार्हाणि मणींश्चैव महाधनान्
।
न्यवर्तत ततो धीमान्सहदेवः प्रतापवान्॥७६॥
एवं निर्जित्य तरसा सान्त्वेन विजयेन च
।
करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिन्दमः॥७७॥
धर्मराजाय तत्सर्वं निवेद्य भरतर्षभ
।
कृतकर्मा सुखं राजन्नुवास जनमेजय॥७८॥
॥ इति श्रीमहाभारते सभापर्वणि दिग्विजयपर्वणि सहदेवदक्षिणदिग्विजये एकत्रिंशोऽध्यायः॥३१॥
वैशम्पायन उवाच।
नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा
।
वासुदेवजितामाशां यथाऽसावजयत्प्रभुः॥१॥
नकुलस्येति ॥१॥
निर्माय खाण्डवप्रस्थात्प्रतीचीमभितो दिशम्
।
उद्दिश्य मतिमान्प्रायान्महत्या सेनया सह॥२॥
सिंहनादेन महता योधानां गर्जितेन च
।
रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम्॥३॥
ततो बहुधनं रम्यं गावाढ्यं धनधान्यवत्
।
कार्तिकेयस्य दयितं रोहीतकमुपाद्रवत्॥४॥
रोहीतकं गिरिम् ॥४॥
तत्र युद्धं महच्चासीच्छूरैर्मत्तमयूरकैः
।
मरुभूमिं स कार्त्स्न्येन तथैव बहुधान्यकम्॥५॥
मत्तमयूरसंज्ञैः क्षत्रियैः ॥५॥
शैरीषकं महेत्थं च वशे चक्रे महाद्युतिः
।
आक्रोशं चैव राजर्षि तेन युद्धमभून्महत्॥६॥
तान्दशार्णान्स जित्वा च प्रतस्थे पाण्डुनन्दनः
।
शिबींस्त्रिगर्तानम्बष्ठान्मालवान्पञ्चकर्पटान्॥७॥
तथा मध्यमकेयांश्च वाटधानान्द्विजानथ
।
पुनश्च परिवृत्याथ पुष्करारण्यवासिनः॥८॥
गणानुत्सवसङ्केतान्व्यजयत्पुरुषर्षभः
।
सिन्धुकूलाश्रिता ये च ग्रामणीया महाबलाः॥९॥
शूद्राभीरगणाश्चैव ये चाश्रित्य सरस्वतीम्
।
वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः॥१०॥
कत्स्नं पञ्चनदं चैव तथैवामरपर्वतम्
।
उत्तरज्योतिषं चैव तथा दिव्यकटं पुरम्॥११॥
द्वारपालं च तरसा वशे चक्रे महाद्युतिः
।
रामठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः॥१२॥
तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः
।
तत्रस्थः प्रेषयामास वासुदेवाय भारत॥१३॥
स चास्य गतभी राजन्प्रतिजग्राह शासनम्
।
ततः शाकलमभ्येत्य मद्राणां पुटभेदनम्॥१४॥
'पत्तनं पुटभेदनम्’ इत्यमरः ॥१४॥
मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली
।
स तेन सत्कृतो राज्ञा सत्कारार्हो विशाम्पते॥१५॥
रत्नानि भूरीण्यादाय सम्प्रतस्थे युधां पतिः
।
ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान्॥१६॥
पह्लवान्वर्बरांश्चैव किरातान्यवनान्च्छकान्
।
ततो रत्नान्युपादाय वशे कृत्वा च पार्थिवान्
।
न्यवर्तत कुरुश्रेष्ठो नकुलश्चित्रमार्गवित्॥१७॥
करमाणां सहस्राणि कोशं तस्य महात्मनः
।
ऊहुर्दश महाराज कृच्छ्रादिव महाधनम्॥१८॥
करभाणाम् उष्ट्राणाम् ॥१८॥
इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम्
।
ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदयत्॥१९॥
एवं विजित्य नकुलो दिशं वरुणपालिताम्
।
प्रतीचीं वासुदेवेन निर्जितां भरतर्षभ॥२०॥
॥ इति श्रीमहाभारते सभापर्वणि दिग्विजयपर्वणि नकुलप्रतीचीविजये द्वात्रिंशोऽध्यायः॥३२॥