वैशम्पायन उवाच।
रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात्
।
शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः॥१॥
बलीनां सम्यगादानाद्धर्मतश्चानुशासनात्
।
निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत्॥२॥
सर्वारम्भाः सुप्रवृत्ता गोरक्षा कर्षणं वणिक्
।
विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणः॥३॥
दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम्
।
राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः॥४॥
अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम्
।
सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे॥५॥
प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम्
।
अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः कथञ्चन॥६॥
धर्मैर्धनागमैस्तस्य ववृधे निचयो महान्
।
कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि॥७॥
स्वकोष्ठस्य परीमाणं कोशस्य च महीपतिः
।
विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे॥८॥
सुहृदश्चैव ये सर्वे पृथक्च सहिता ब्रुवन्
।
यज्ञकालस्तव विभो क्रियतामत्र साम्प्रतम्॥९॥
अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः
।
ऋषिः पुराणो वेदात्माऽदृश्यश्चैव विजानताम्॥१०॥
जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह
।
भूतभव्यभवन्नाथः केशवः केशिसूदनः॥११॥
प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा
।
बलाधिकारे निक्षिप्य सम्यगानकदुन्दुभिम्॥१२॥
उच्चावचमुपादाय धर्मराजाय माधवः
।
धनौघं पुरुषव्याघ्रो बलेन महता वृतः॥१३॥
तं धनौघमपर्यन्तं रत्नसागरमक्षयम्
।
नादयन्रथघोषेण प्रविशेश पुरोत्तमम्॥१४॥
पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत्
।
असूर्यमिव सूर्येण निवातमिव वायुना
।
कृष्णेन समुपेतेन जहृषे भारतं पुरम्॥१५॥
तं मुदाऽभिसमागम्य सत्कृत्य च यथाविधि
।
स पृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः॥१६॥
धौम्यद्वैपायनमुखैर्ऋत्विग्भिः पुरुषर्षभ
।
भीमार्जुनयमैश्चैव सहितः कृष्णमब्रवीत्॥१७॥
युधिष्ठिर उवाच।
त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते
।
धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम्॥१८॥
सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत
।
उपयोक्तुं द्विजाग्र्येभ्यो हव्यवाहे च माधव॥१९॥
तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया
।
अनुजैश्च महाबाहो तन्माऽनुज्ञातुमर्हसि॥२०॥
तद्दीक्षापय गोविन्द त्वमात्मानं महाभुज
।
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्॥२१॥
मां वाप्यभ्यनुजानीह सहैभिरनुजैर्विभो
।
अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम्॥२२॥
वैशम्पायन उवाच।
तं कृष्णःस प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम्
।
त्वमेव राजशार्दूल संम्राडर्हो महाक्रतुम्
।
सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम्॥२३॥
यदस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते
।
नियुङ्क्ष्व त्वं च मां कृत्ये सर्वं कर्तास्मि ते वचः॥२४॥
युधिष्ठिर उवाच।
सफलः कृष्ण सङ्कल्पः सिद्धिश्च नियता मम
।
यस्यमे त्वं हृषीकेश यथेप्सितमुपस्थितः॥२५॥
वैशम्पायन उवाच।
अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह
।
ईजितुं राजसूयेन साधनान्युपचक्रमे॥२६॥
ततस्त्वाज्ञापयामास पाण्डवोऽरिनिबर्हणः
।
सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः॥२७॥
अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः
।
यथोपकरणं सर्वं मङ्गलानि च सर्वशः॥२८॥
अधियज्ञांश्च सम्भारान्धौम्योक्तान्क्षिप्रमेव हि
।
समानयन्तु पुरुषा यथायोगं यथाक्रमम्॥२९॥
इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिः
।
अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया॥३०॥
सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः
।
मनोरथप्रीतिकरा द्विजानां कुरुसत्तम॥३१॥
तद्वाक्यसमकालं च कृतं सर्वं न्यवेदयत्
।
सहदेवो युधां श्रेष्ठो धर्मराजो युधिष्ठिरे॥३२॥
ततो द्वैपायनो राजन्नृत्विजः समुपानयत्
।
वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान्॥३३॥
स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः
।
धनञ्जयानामृषभः सुसामा सामगोऽभवत्॥३४॥
याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः
।
पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत्॥३५॥
एतेषां पुत्रवर्गाश्च शिष्याश्च भरतर्षभ
।
बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः॥३६॥
ते वाचयित्वा पुण्याहमूहयित्वा च तं विधिम्
।
शास्त्रोक्तं पूजयामासुस्तद्देवयजनं महत्॥३७॥
तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः
।
गन्धवन्ति विशालानि वेश्मानीव दिवौकसाम्॥३८॥
तत आज्ञापयामास स राजा राजसत्तमः
।
सहदेवं तदा सद्यो मन्त्रिणं पुरुषर्षभः॥३९॥
आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम्
।
उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा॥४०॥
आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानथ
।
विशश्च मान्यान्शूद्रांश्च सर्वानानयतेति च॥४१॥
वैशम्पायन उवाच।
समाज्ञप्तास्ततो दूताः पाण्डवेयस्य शासनात्
।
आमन्त्रयाम्बभूवुश्च आनयंश्चापरान्द्रुतम्
।
तथा परानपि नरानात्मनः शीघ्रगामिनः॥४२॥
ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम्
।
दीक्षयाञ्चक्रिरे विप्रा राजसूयाय भारत॥४३॥
दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः
।
जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः॥४४॥
भातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैः सह
।
क्षत्रियैश्च मनुष्येन्द्रैर्नानादेशसमागतैः॥४५॥
अमात्यैश्च नरश्रेष्ठो धर्मो विग्रहवानिव
।
आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः॥४६॥
सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः
।
तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात्॥४७॥
बह्वन्नाच्छादनैर्युक्तान्सगणानां पृथक्पृथक्
।
सर्वर्तुगुणसम्पन्नान्शिल्पिनोऽथ सहस्रशः॥४८॥
तेषु ते न्यवसन्राजन्ब्राह्मणा नृपसत्कृताः
।
कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान्॥४९॥
भुञ्जतां चैव विप्राणां वदतां च महास्वनः
।
अनिशं श्रूयते तत्र मुदितानां महात्मनाम्॥५०॥
दीयतां दीयतामेषां भुज्यतां भुज्यतामिति
।
एवंप्रकाराः सञ्जल्पाः श्रूयन्ते स्मात्र नित्यशः॥५१॥
गवां शतसहस्राणि शयनानां च भारत
।
रुक्मस्य योषितां चैव धर्मराजः पृथग्ददौ॥५२॥
प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः
।
पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे॥५३॥
ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम्
।
नकुलं हास्तिनपुरं भीष्माय पुरुषर्षभः॥५४॥
द्रोणाय धृतराष्ट्राय विदुराय कृपाय च
।
भ्रातॄणां चैव सर्वेषां येनुरक्ता युधिष्ठिरे ॥५५॥