सभाक्रियापर्व - १लोकपालसभाख्यानपर्व - २राजसूयारम्भपर्व - ३जरासन्धवधपर्वः - ४दिग्विजयपर्व - ५राजसूयपर्व - ६अर्घ्याभिहरणपर्व - ७शिशुपालवधपर्व - ८द्यूतपर्व - ९अनुद्यूतपर्व - १०

राजसूयपर्व

त्रयस्त्रिंशत्तमोऽध्यायः

वैशम्पायन उवाच। रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात् ।
शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः॥१॥

रक्षणादिति। शत्रूणां दस्यूनाम् ॥१॥

बलीनां सम्यगादानाद्धर्मतश्चानुशासनात् ।
निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत्॥२॥

बलीनां कराणां निकामं यथेष्टं वर्षतीति निकामवर्षी । स्फीतः समृद्धः ॥२॥

सर्वारम्भाः सुप्रवृत्ता गोरक्षा कर्षणं वणिक् ।
विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणः॥३॥

सुप्रवृत्ताः स्वस्य परेषां च हितावहाः न तु क्रूराः। राजकर्मणः राज्ञः पुण्यात् ॥३॥

दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम् ।
राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः॥४॥

दस्युभ्यः चोरेभ्यः वञ्चकेभ्यः धूर्तेभ्यः राज्ञो राजवल्लभतो या मृषा गिरो नाश्रूयन्त । सर्वेऽपि सत्यवादिनो राजवदित्यर्थः । दस्यवोऽपि परस्परं न वञ्जयन्ति नाप्यन्यानेवम् अन्यत्र एते जातितः खला अपि न तत्कर्म कुर्वन्तीत्यर्थः ॥४॥

अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम् ।
सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे॥५॥

मूर्छनं प्रदीपनम् ॥५॥

प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम् ।
अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः कथञ्चन॥६॥

जग्मुः राजानं प्रतीति शेषः नान्यैः जिगीषादिभिः ॥६॥

धर्मैर्धनागमैस्तस्य ववृधे निचयो महान् ।
कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि॥७॥

निचयो भाण्डागारम् ॥७॥

स्वकोष्ठस्य परीमाणं कोशस्य च महीपतिः ।
विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे॥८॥

सुहृदश्चैव ये सर्वे पृथक्च सहिता ब्रुवन् ।
यज्ञकालस्तव विभो क्रियतामत्र साम्प्रतम्॥९॥

अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः ।
ऋषिः पुराणो वेदात्माऽदृश्यश्चैव विजानताम्॥१०॥

ऋषिर्नारायणः अदृश्य इति छेदः विजानतां विदुषाम् अदृश्यः प्रत्यगात्मत्वात् अविजानतां तु कार्यकारणरूपेण दृश्यः तथा च श्रुतिः ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ इति ॥१०॥

जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह ।
भूतभव्यभवन्नाथः केशवः केशिसूदनः॥११॥

प्रभव उत्पत्तिस्थानम् अप्ययो लयस्थानम् ॥११॥

प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा ।
बलाधिकारे निक्षिप्य सम्यगानकदुन्दुभिम्॥१२॥

प्राकारः प्राकार इव रक्षकः बलाधिकारं सेनाधिपत्यम् ॥१२॥

उच्चावचमुपादाय धर्मराजाय माधवः ।
धनौघं पुरुषव्याघ्रो बलेन महता वृतः॥१३॥

तं धनौघमपर्यन्तं रत्नसागरमक्षयम् ।
नादयन्रथघोषेण प्रविशेश पुरोत्तमम्॥१४॥

पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ।
असूर्यमिव सूर्येण निवातमिव वायुना ।
कृष्णेन समुपेतेन जहृषे भारतं पुरम्॥१५॥

जहृषे हर्षं प्राप ॥१५॥

तं मुदाऽभिसमागम्य सत्कृत्य च यथाविधि ।
स पृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः॥१६॥

धौम्यद्वैपायनमुखैर्ऋत्विग्भिः पुरुषर्षभ ।
भीमार्जुनयमैश्चैव सहितः कृष्णमब्रवीत्॥१७॥

युधिष्ठिर उवाच। त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते ।
धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम्॥१८॥

सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत ।
उपयोक्तुं द्विजाग्र्येभ्यो हव्यवाहे च माधव॥१९॥

तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया ।
अनुजैश्च महाबाहो तन्माऽनुज्ञातुमर्हसि॥२०॥

मा माम् अनुज्ञातुं तदनुज्ञातुमर्हसीत्यपि पाठः ॥२०॥

तद्दीक्षापय गोविन्द त्वमात्मानं महाभुज ।
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम्॥२१॥

त्वं दीक्षस्वेति वक्तव्ये आत्मानं दीक्षापयेत्युक्तिः अकर्तुरात्मनो दीक्षणायोगादौपाधिकमेव प्रतिबिम्बचलनन्यायेनैव तस्य दीक्षापनं ज्ञेयम् ॥२१॥

मां वाप्यभ्यनुजानीह सहैभिरनुजैर्विभो ।
अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम्॥२२॥

वैशम्पायन उवाच। तं कृष्णःस प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम् ।
त्वमेव राजशार्दूल संम्राडर्हो महाक्रतुम् ।
सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम्॥२३॥

यदस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते ।
नियुङ्क्ष्व त्वं च मां कृत्ये सर्वं कर्तास्मि ते वचः॥२४॥

श्रेयसि कल्याणकरे ॥२४॥

युधिष्ठिर उवाच। सफलः कृष्ण सङ्कल्पः सिद्धिश्च नियता मम ।
यस्यमे त्वं हृषीकेश यथेप्सितमुपस्थितः॥२५॥

वैशम्पायन उवाच। अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह ।
ईजितुं राजसूयेन साधनान्युपचक्रमे॥२६॥

ततस्त्वाज्ञापयामास पाण्डवोऽरिनिबर्हणः ।
सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः॥२७॥

अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः ।
यथोपकरणं सर्वं मङ्गलानि च सर्वशः॥२८॥

अधियज्ञांश्च सम्भारान्धौम्योक्तान्क्षिप्रमेव हि ।
समानयन्तु पुरुषा यथायोगं यथाक्रमम्॥२९॥

अधियज्ञान् यज्ञियान् संभारान् आज्यपश्वादीन् ॥२९॥

इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिः ।
अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया॥३०॥

सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः ।
मनोरथप्रीतिकरा द्विजानां कुरुसत्तम॥३१॥

काम्यन्त इति कामाः मृष्टान्नादीनि ॥३१॥

तद्वाक्यसमकालं च कृतं सर्वं न्यवेदयत् ।
सहदेवो युधां श्रेष्ठो धर्मराजो युधिष्ठिरे॥३२॥

ततो द्वैपायनो राजन्नृत्विजः समुपानयत् ।
वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान्॥३३॥

स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः ।
धनञ्जयानामृषभः सुसामा सामगोऽभवत्॥३४॥

धनंजयानां धनंजयगोत्राणां मध्ये श्रेष्ठः सुसामा नाम आङ्गिरसः॥३४॥

याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः ।
पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत्॥३५॥

एतेषां पुत्रवर्गाश्च शिष्याश्च भरतर्षभ ।
बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः॥३६॥

होत्रगाः सप्तसंख्याः ॥३६॥

ते वाचयित्वा पुण्याहमूहयित्वा च तं विधिम् ।
शास्त्रोक्तं पूजयामासुस्तद्देवयजनं महत्॥३७॥

ऊहयित्वा च तं विधिं राजसूयेन यक्ष्ये स्वाराज्यमवाप्नवानीति संकल्पादिरूपमूहं कृत्वा देवयजनं यज्ञस्थानम् ॥३७॥

तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः ।
गन्धवन्ति विशालानि वेश्मानीव दिवौकसाम्॥३८॥

शरणानि पत्नीशालादीन्यग्न्यगाराणि ॥३८॥

तत आज्ञापयामास स राजा राजसत्तमः ।
सहदेवं तदा सद्यो मन्त्रिणं पुरुषर्षभः॥३९॥

आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम् ।
उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा॥४०॥

आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानथ ।
विशश्च मान्यान्शूद्रांश्च सर्वानानयतेति च॥४१॥

वैशम्पायन उवाच। समाज्ञप्तास्ततो दूताः पाण्डवेयस्य शासनात् ।
आमन्त्रयाम्बभूवुश्च आनयंश्चापरान्द्रुतम् ।
तथा परानपि नरानात्मनः शीघ्रगामिनः॥४२॥

ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम् ।
दीक्षयाञ्चक्रिरे विप्रा राजसूयाय भारत॥४३॥

दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः ।
जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः॥४४॥

भातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैः सह ।
क्षत्रियैश्च मनुष्येन्द्रैर्नानादेशसमागतैः॥४५॥

अमात्यैश्च नरश्रेष्ठो धर्मो विग्रहवानिव ।
आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः॥४६॥

सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः ।
तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात्॥४७॥

बह्वन्नाच्छादनैर्युक्तान्सगणानां पृथक्पृथक् ।
सर्वर्तुगुणसम्पन्नान्शिल्पिनोऽथ सहस्रशः॥४८॥

तेषु ते न्यवसन्राजन्ब्राह्मणा नृपसत्कृताः ।
कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान्॥४९॥

भुञ्जतां चैव विप्राणां वदतां च महास्वनः ।
अनिशं श्रूयते तत्र मुदितानां महात्मनाम्॥५०॥

दीयतां दीयतामेषां भुज्यतां भुज्यतामिति ।
एवंप्रकाराः सञ्जल्पाः श्रूयन्ते स्मात्र नित्यशः॥५१॥

गवां शतसहस्राणि शयनानां च भारत ।
रुक्मस्य योषितां चैव धर्मराजः पृथग्ददौ॥५२॥

रुक्मस्य काञ्चनस्य शयनानां तूलिकादिसहितानां तल्पानाम् ॥५२॥

प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः ।
पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे॥५३॥

ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम् ।
नकुलं हास्तिनपुरं भीष्माय पुरुषर्षभः॥५४॥

द्रोणाय धृतराष्ट्राय विदुराय कृपाय च ।
भ्रातॄणां चैव सर्वेषां येनुरक्ता युधिष्ठिरे ॥५५॥

॥ इति श्रीमहाभारते सभापर्वणि राजसूयपर्वणि राजसीयदीक्षायां त्रयस्त्रिंशोऽध्यायः॥३३॥
चतुस्त्रिंशत्तमोऽध्यायः

वैशम्पायन उवाच। स गत्वा हास्तिनपुरं नकुलः समितिञ्जयः ।
भीष्ममामन्त्रयाञ्चक्रे धृतराष्ट्रं च पाण्डवः॥१॥

स गत्वेति ॥१॥

सत्कृत्यामन्त्रितास्तेन आचार्यप्रमुखास्ततः ।
प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरस्सराः॥२॥

संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा ।
अन्ये च शतशस्तुष्टैर्मनोभिर्भरतर्षभ॥३॥

द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् ।
दिग्भ्यः सर्वे समापेतुः क्षत्रियास्तत्र भारत॥४॥

समुपादाय रत्नानि विविधानि महान्ति च ।
धृतराष्ट्रश्च भीष्मश्च विदुरस्च महामतिः॥५॥

दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते ।
गान्धारराजः सुबलः शकुनिश्च महाबलः॥६॥

अचलो वृषकश्चैव कर्णश्च रथिनां वरः ।
तथा शल्यश्च बलवान्बाह्लिकश्च महाबलः॥७॥

सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः ।
अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः॥८॥

यक्षसेनः सपुत्रश्च साल्वश्च वसुधाधिपः ।
प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महारथः॥९॥

यज्ञसेनो द्रुपदः ॥९॥

स तु सर्वैः सह म्लेच्छैः सागरानूपवासिभिः ।
पार्वतीयाश्च राजानो राजा चैव बृहद्बलः॥१०॥

पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा ।
आकर्षाः कुन्तलाश्चैव मालवाश्चान्ध्रकास्तथा॥११॥

द्राविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा ।
कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः॥१२॥

बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते ।
विराटः सह पुत्राभ्यां मावेल्लश्च महाबलः॥१३॥

राजानो राजपुत्राश्च नानाजनपदेश्वराः ।
शिशुपालो महावीर्यः सह पुत्रेण भारत॥१४॥

आगच्छत्पाण्डवेयस्य यज्ञं समरदुर्मदः ।
रामश्चैवानिरुद्धश्च कङ्कश्च सहसारणः॥१५॥

गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् ।
उल्मुको निशठश्चैव वीरश्चाङ्गावहस्तथा॥१६॥

वृष्णयो निखिलाश्चान्ये समाजग्मुर्महारथाः ।
एते चान्ये च बहवो राजानो मध्यदेशजाः॥१७॥

आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् ।
ददुस्तेषामावसथान्धर्मराजस्य शासनात्॥१८॥

बहुभक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् ।
तथा धर्मात्मजः पूजां चक्रे तेषां महात्मनाम्॥१९॥

दीर्घिका गृहवापी ॥१९॥

सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः ।
कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान्॥२०॥

सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः ।
सुवर्णजालसंवीतान्मणिकुट्टिमभूषितान्॥२१॥

मणिकुट्टिमं मणिबद्धा भूमिः ॥२१॥

सुखारोहणसोपानान्महासनपरिच्छदान् ।
स्नग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः॥२२॥

हंसेन्दुवर्णसदृशानायोजनसुदर्शनान् ।
असम्बाधान्समद्वारान्युतानुच्चावचैर्गुणैः॥२३॥

बहुधातुनिबद्धाङ्गान्हिमवच्छिखरानिव ।
विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम्॥२४॥

आवसथान् अपश्यन्निति अनुकृष्टेन संबन्धः वा इवार्थे ॥२४॥

वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम् ।
तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महर्षिभिः ।
भ्राजते स्म तदा राजन्नाकपृष्ठं यथाऽमरैः॥२५॥

॥ इति श्रीमहाभारते सभापर्वणि राजसूयपर्वणि निमन्त्रितराजागमने चतुस्त्रिंशोऽध्यायः॥३४॥
पञ्चत्रिंशत्तमोऽध्यायः

वैशम्पायन उवाच। पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः ।
अभिवाद्य ततो राजन्निदं वचनमब्रवीत्॥१॥

पितामहमिति ॥१॥

भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती ।
अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः॥२॥

इदं वः सुमहच्चैव यदिहास्ति धनं मम ।
प्रणयन्तु भवन्तो मां यथेष्टमभिमन्त्रितः॥३॥

प्रणयन्तु प्रकर्षेण श्रेयः प्रापयन्तु् अभिमन्त्रिताः प्रार्थिताः सन्तः ॥३॥

एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः ।
युयोज स यथायोगमधिकारेष्वनन्तरम्॥४॥

भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत् ।
परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान्॥५॥

राज्ञां तु प्रतिपूजार्थं सञ्जयं न्ययोजयत् ।
कृताकृतपरिज्ञाने भीष्णद्रोणौ महामती॥६॥

हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे ।
दक्षिणानां च वै दाने कृपं राजा न्ययोजयत्॥७॥

हिरण्यस्य काञ्चनस्य सुवर्णस्य शोभनवर्णस्य ॥७॥

तथाऽऽन्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत् ।
बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः ।
नकुलेन समानीताः स्वामिवत्तत्र रेमिरे॥८॥

स्वामिवत्स्वीयवदित्यर्थः ॥८॥

क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित् ।
दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः॥९॥

अर्हणानि उपायनानि ॥९॥

चरणक्षालने कृष्णो ब्राह्मणानां स्वयं ह्यभूत् ।
सर्वलोकसमावृत्तः पिप्रीषुः फलमुत्तमम्॥१०॥

सर्वलोकसमावृत्तः सर्वैः उपायनप्रदैर्लोकैः समावृत्तः वेष्टितः पिप्रीषुः प्रीणयितुमिच्छुः ॥१०॥

द्रष्टुकामः सभां चैव धर्मराजं यधिष्ठिरम् ।
न कश्चिदाहरत्तत्र सहस्रावरमर्हणम्॥११॥

रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयत् ।
कथं तु मम कौरव्यो रत्नदानैः समाप्नुयात्॥१२॥

यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम् ।
भवनैः सविमानाग्रैः सोदर्कैर्बलसंवृतैः॥१३॥

सविमानाग्रैः द्रष्टुमागतानां देवानां विमानैः सहितानि संलग्नानि अग्राणि उपरिभागा येषां तैः ॥१३॥

लोकराजविमानैश्च ब्राह्मणावसथैः सह ।
कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा॥१४॥

लोकराजविमानैः इन्द्रादिलोकपालविमानैः लोकराजः स्वर्गो वा तत्रत्यैर्विमानैः स्वर्गिणामप्याश्चर्यकरोऽयं यज्ञ इत्यर्थः ॥१४॥

विचित्रै रत्ववद्भिश्च ऋद्ध्या परमया युतैः ।
राजभिश्च समावृत्तैरतीव श्रीसमृद्धिभिः ।
अशोभत सदो राजन्कौन्तेयस्य महात्मनः॥१५॥

कौन्तेयस्य यज्ञ इति शेषः ॥१५॥

ऋद्ध्या तु वरुणं देवं स्पर्धमानो युधिष्ठिरः ।
षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता॥१६॥

ऋध्द्या तु वरुणं देवमित्यादेरध्यायशेषस्य तात्पर्यं सर्वाङ्गसंपूर्णोऽयं यश इत्यर्थे । षडग्निना षट् अग्नयः आरभ्मणीयः क्षत्रः धृतिः व्युष्टिः द्विरात्रः दशपेयः इति ॥१६॥

सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत् ।
अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः ।
रत्नोपहारसम्पन्नो बभूव स समागमः॥१७॥

रत्नोपहारसंपन्नः इत्यत्र रक्षोपहारकर्मण्यम् इति पाठे रक्षसां नाशे साधुना कर्मणा युक्तः॥१७॥

इडाज्यहोमाहुतिभिर्मन्त्रशिक्षाविशारदैः ।
तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः॥१८॥

इडाकर्म स्विष्टकृदूर्ध्वं शिंष्ट हविः प्रतिपत्तिकर्म। मन्त्रशिक्षाविशारदैः मन्त्रेषु शिक्षायां हस्तक्रियायां च विशारदैः ऋत्विग्भिः ॥१८॥

यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः ।
ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदाऽन्विताः॥१९॥

॥ इति श्रीमहाभारते सभापर्वणि राजसूयपर्वणि यज्ञकरणे पञ्चत्रिंशोऽध्यायः॥३५॥
॥ समाप्तं च राजसूयपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in