वैशम्पायन उवाच।
ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह
।
अन्तर्वेदीं प्रविविशुः सत्कारार्हा महर्षयः॥१॥
ततोऽभिषेचनीयेह्नि ब्राह्मणा राजभिः सहेत्यादिका शिशुपालवधान्ता दशाध्यायी नानाविधमतभेदोपन्यासपूर्वकं कृष्णशिशुपालरूपकेण ब्रह्मणि जीवस्य महाकाशमठाकाशन्यायेन लयं दर्शयति । तत्र कथापक्षे प्रत्यक्षवृत्यैव लभ्योऽर्थः स्पष्टः । अध्यात्मपक्षे तु परोक्षवृत्तिलभ्यतया तत्त्वं दुर्व्याख्येयमिति । तदेव प्रकाश्यते अभिषेचनीये राजसूयाङ्गभूते सोमयागविशेषे ॥१॥
नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः
।
समासीनाः शुशुभिरे सह राजर्षिभिस्तदा॥२॥
समेता ब्रह्मभवने देवा देवर्षयस्तथा
।
कर्मान्तरमुपासन्तो जजल्पुरमितौजसः॥३॥
कर्मान्तरं मध्ये मध्ये कर्म विरामकालम् उपासन्तः उपगच्छन्तः प्राप्नुवन्तः । असगतावित्यस्य रूपं कर्मछिद्रं प्राप्य जल्पकथां चक्रुरित्यर्थः । अमितौजसः बहुप्रतिभावन्तः ॥३॥
एवमेतन्न चाप्येवमेवं चैतन्न चान्यथा
।
इत्यूचुर्बहवस्तत्र वितण्डां वै परस्परम्॥४॥
एवमेतदिति स्वपक्षस्थापनं न चाप्येवमिति परपक्षदूषणम् एवं प्रतिवादिपक्षेऽपि। बहवस्तु सामान्याः वितण्डां स्वपक्षपरपक्षस्थापनाहीनां कथाम् ॥४॥
कृशानर्थांस्ततः केचिदकृशांस्तत्र कुर्वते
।
अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चयैः॥५॥
कृशान् युक्तिदौर्बल्यात् । अकृशान् युक्तिप्राबल्यात् । तत्र विपरीतं कुर्वन्ति । हेतुभिर्नानाविधैस्तर्कैः ॥५॥
तत्र मेधाविनः केचिदर्थमन्यैरुदीरितम्
।
विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम्॥६॥
तत्रेति परोक्तस्य दूषणे एवादृताः न तु शास्त्रतत्त्वे इति भावः ॥६॥
केचिद्धर्मार्थकुशलाः केचित्तत्र महाव्रताः
।
रेमिरे कथयन्तश्च सर्वभाष्यविदां वराः॥७॥
सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः
।
आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवायता॥८॥
न तस्यां सन्निधौ शूद्रः कश्चिदासीन्न चाव्रती
।
अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने॥९॥
तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम्
।
तुतोष नारदः पश्यन्धर्मराजस्य धीमतः॥१०॥
अथ चिन्तां समापेदे स मुनिर्मनुजाधिप
।
नारदस्तु तदा पश्यन्सर्वक्षत्रसमागमम्॥११॥
अथ चिन्तां समापेदे इत्यादिस्तस्थौ सबहुमानत इत्यन्तो ग्रन्थो नारदस्य पूर्वापरानुसंधानात् । क्षत्रक्षयस्यातः परम् उपक्रमो जात इति चिन्ता चित्तव्यथा स्मृतिर्वा अंशावतरणात्प्राक् ब्रह्मसभायां निश्चितस्य भूभारहरणस्याभूदित्यर्थः ॥११॥
सस्मार च पुरावृत्तां कथां तां पुरुषर्षभ
।
अंशावतरणे याऽसौ ब्रह्मणो भवनेऽभवत्॥१२॥
देवानां सङ्गमं तं तु विज्ञाय कुरुनन्दन
।
नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम्॥१३॥
साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः
।
प्रतिज्ञां पालयंश्चेमां जातः परपुरञ्जयः॥१४॥
क्षत्रे क्षत्रियजातौ जातः आविर्भूतः ॥१४॥
सन्दिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम्
।
अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ॥१५॥
इति नारायणः शम्भुर्भगवान्भूतभावनः
।
आदित्यविबुधान्सर्वानजायत यदुक्षये॥१६॥
नारायणस्य शम्भुत्वं चतुर्वक्त्रापरपर्यायं भूतभावनत्वं चेति युक्तं। एकस्यैव त्रिमूर्तिधारित्वात् यदुक्षये यदुगृहे ॥१६॥
क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः
।
परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट्॥१७॥
यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते
।
सोयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः॥१८॥
अहो बत महद्भूतं स्वयम्भूर्यदिदं स्वयम्
।
आदास्यति पुनः क्षत्रमेवं बलसमन्वितम्॥१९॥
महद्भूत महाविष्णुः स्वयंभूः अस्मदादिवच्छरीरव्यपाश्रयत्वेनापि भवनं न सहते इत्यर्थः । आदास्यति आच्छेत्तुमिच्छति पुनरिति असकृदेतदनेन कर्म कृतमस्तीत्ति सूचितम् ॥१९॥
इत्येतां नारदश्चिन्तां चिन्तयामास सर्ववित्
।
हरिं नारायणं ज्ञात्वा यज्ञैरीज्यन्तमीश्वरम्॥२०॥
तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः
।
महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः॥२१॥
धर्मविदां श्रेष्ठो नारदः धर्मराजस्य यज्ञैरीज्यम् ॥२१॥
ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम्
।
क्रियतामर्हणं राज्ञां यथार्हमिति भारत॥२२॥
आचार्यमृत्विजं चैव संयुजं च युधिष्ठिर
।
स्नातकं च प्रियं प्राहुः षडर्घ्यार्हान्नृपं तथा॥२३॥
संयुजं संबन्धिनं श्वशुरादिं प्रियं मित्रम् ॥२३॥
एतानर्घ्यानभिगतानाहुः संवत्सरोषितान्
।
त इमे कालपूगस्य महतोऽस्मानुपागताः॥२४॥
एषामेकैकशो राजन्नर्घ्यमानीयतामिति
।
अथ चैषां वरिष्ठाय समर्थायोपनीयताम्॥२५॥
एकैकशः प्रत्येकम् अथ अथापि एषां मध्ये वरिष्ठाय प्रथममिति शेषः ॥२५॥
युधिष्ठिर उवाच।
कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन
।
उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह॥२६॥
वैशम्पायन उवाच।
ततो भीष्मः शान्तनवो बुद्ध्या निश्चित्य वीर्यवान्
।
वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि॥२७॥
बुद्ध्या बुध्यति जानाति वस्तुतत्त्वमनयेति बुद्धिः । श्रवणमननध्यानात्मिका चेतोवृत्तिः तया निश्चित्य साक्षात्कृत्य अर्हणीयतमम् अर्हणीयाः ब्राह्मणाः देवताप्रसादहेतुत्वात् । अर्हणीयतरा देवाः कामपूरकत्वात् । अर्हणीयतम आत्मा सर्वस्य तत्प्रीत्यर्थत्वात् । तथा च श्रुतिः ‘न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति’ इति । तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात् प्रेयोन्यस्मात्सर्वस्मादन्तरं यदयमात्मा‘ इति च । भुवीत्यनेनात्मैव कर्मभूमावर्हणीयः । ‘इह चेदवेदीदथ सत्यमस्ति न चेदवेदीर्महती विनष्टिः’ इति श्रुतेरन्यत्र तदलाभात् ॥२७॥
एष ह्येषां समस्तानां तेजोबलपराक्रमैः
।
मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः॥२८॥
एवमात्मनो जिज्ञास्यत्वमुक्त्वा स्वरूपमाह एष हीति । एष पुरोवर्ती श्रीकृष्णः सूर्यश्च ज्योतिषां पदार्थप्रकाशकानां सूर्यचन्द्राग्निवागादीनां चन्द्राग्नितारादीनां च समस्तानां सम्यगस्तं गतानां स्वप्नावस्थायामह्नि च मध्येन्तस्तपन्नाभातीति योजना । अयं भावः न तावदग्निः स्वयंज्योतिः सूर्यकान्तादिद्वारा सूर्यस्यैव इन्धनादौ तद्रूपेणारूढत्वात् । नापि चन्द्रतारादि तस्य जलमयस्य सूर्यज्योतिषैव भास्यत्वात् । यथायं दृष्टान्त एवं चक्षुरादयोऽपि न स्वशक्त्या प्रकाशकाः । किं तु आत्मसत्तानुवेधादेव तथा यथाग्न्याद्यभावेऽपि सूर्यः इतरनिरपेक्षः प्रकाशयति एवमात्मा चक्षुराद्युपरमेऽपि स्वप्ने स्वप्रकाशेनैव सर्वं वासनामयं पदार्थजातं प्रकाशयति । ‘तस्य भासा सर्वमिदं विभाति ’अत्रायं पुरुषः स्वयं ज्योतिः' इत्यादिश्रुतिभ्यः। तेजोबलपराक्रमैः तेजः प्रकाशः। बलं तेजोन्तराभिभवसामर्थ्यम् । पराक्रमः निरवशेषेण तमोनाशकत्वं च दृष्टान्ते तेजआदि दार्ष्टान्तिके तु तेजः चित्प्रकाशः बलम् अबाध्यत्वं पराक्रमः सर्वोपादानत्वेन सर्वव्यापकत्वं च कथापक्षे तु तेजः कान्तिः बलं पराभिभवसामर्थ्यं पराक्रमः संग्रामोद्यमः ॥२८॥
असूर्यमिव सूर्येण निर्वातमिव वायुना
।
भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः॥२९॥
असूर्यमिवेति यथा गाढान्धकारस्थं घटादि असत्कल्पम् अप्रकाशमानं च तस्य सत्तास्फूर्ती सूर्येणैव भवतः एवम् अहंकारादेर्घटान्तस्यार्थजातस्य सत्ताप्रकाशौ चिदधीनावेवेति पूर्वोक्तस्यैव विवरणम् । एवं तथा निवाते वातशून्येऽपवरके निदाघे विद्यमानान् जन्तून् वात एवाल्हादयति एवम् अयं स्वरूपानन्देन जगदाह्लादयति । ‘एष ह्येवानन्दयाति एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इति श्रुतेः । सोऽयं प्रत्यग्दृशिरूप एव सन् दर्पणेन मुखमिव स्वमायया पराग्दृश्यत्वमिवापादितः पूजनीयः । अत्र हि देहाद्युपाधिविस्मरणेन लब्धपदं चित्तं मोक्षाय कल्पते । तथोक्तं भगवता पतंजलिना ‘बहिरकल्पितावृत्तिर्महाविदेहा तत्संयमात्प्रकाशावरणक्षयः’ इति। बहिर्मूर्त्यादौ अकल्पिता देहादिप्रत्ययेनासंकीर्णा महाविदेहेति धारणाया नाम ॥२९॥
तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान्
।
उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम्॥३०॥
प्रतिजग्राह तत्कृष्णः शास्त्रदृष्टेन कर्मणा
।
शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे॥३१॥
स उपालभ्य भीष्मं च धर्मराजं च संसदि
।
अपाक्षिपद्वासुदेवं चेदिराजो महाबलः॥३२॥
अपाक्षिपत् दूषितवान् ॥३२॥
॥ इति श्रीमहाभारते सभापर्वणि अर्घ्याभिहरणपर्वणि कृष्णार्घ्यादाने षट्त्रिंशोऽध्यायः॥३६॥
शिशुपाल उवाच।
नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु
।
महीपतिषु कौरव्य राजवत्पार्थिवार्हणम्॥१॥
कर्तृत्वादिकं कृष्णे वास्तवमेव न तु मायिकमाविद्यकं वा । शरीरमात्रस्य कर्मजन्यत्वनियमात्। मिथ्याभूतस्यापि वास्तवार्थक्रियाकारित्वे शुक्तिरजतादेरपि रजतोचितद्रवीभावापत्तेश्चेत्यभिसंदधानो जैमिनिमतानुसारी शिशुपालो वर्णाश्रमवयस्तपोविद्यादिभिरेव पुंसां श्रैष्ठ्याश्रैष्ठ्यविभागं बहुमन्यमानो नृपान्तरसाधारण्येन कृष्णमपूज्यं करोति । नायमिति वार्ष्णेयः वृष्णिषूत्पन्न इति पूर्वोक्तं स्वयंभूत्वं निराकृतं तद्धि आत्मनः सर्वसाधारणं देहस्य तु अस्मदादिवद्देवक्या जातत्वाद्दुर्वचमिति भावः ॥१॥
नायं युक्तः समाचारः पाण्डवेषु महात्मसु
।
यत्कामात्पुण्डरीकाक्षं पाण्डवार्चितवानसि॥२॥
बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः
।
अयं च स्मृत्यतिक्रान्तो ह्यापगेयोऽल्पदर्शनः॥३॥
आपगेयो भीष्मः ॥३॥
त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया
।
भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम्॥४॥
कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम्
।
अर्हणामर्हति तथा यथा युष्माभिरर्चितः॥५॥
अथ वा मन्यसे कृष्णं स्थविरं कुरुपुङ्गवः
।
वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः॥६॥
ननु अस्मदादिवज्जातोऽप्यराजापि वृद्धत्वादिना हेतुना पुज्यः कृष्ण इत्याशंक्य निराचष्टे अथ वा मन्यसे इत्यादिना ॥६॥
अथ वा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान्
।
द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम्॥७॥
आचार्यं मन्यसे कृष्णमथ वा कुरुनन्दन
।
द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि॥८॥
ऋत्विजं मन्यसे कृष्णमथ वा कुरुनन्दन
।
द्वौपायने स्थिते वृद्धे कथं कृष्णोऽर्चितस्त्वया॥९॥
भीष्मे शान्तनवे राजन्स्थिते पुरुषसत्तमे
।
स्वच्छन्दमृत्युके राजन्कथं कृष्णोऽर्चितस्त्वया॥१०॥
अश्वत्थाम्नि स्थिते वीरे सर्वशास्त्रविशारदे
।
कथं कृष्णस्त्वया राजन्नर्चितः कुरुनन्दन॥११॥
दुर्योधने च राजेन्द्रे स्थिते पुरुषसत्तमे
।
कृपे च भारताचार्ये कथं कृष्णस्त्वयाऽर्चितः॥१२॥
द्रुमं किंपुरुषाचार्यमतिक्रम्य तथाऽर्चितः
।
भीष्मके चैव दुर्धर्षे पाण्डुवत्कृतलक्षणे॥१३॥
नृपे च रुक्मिणि श्रेष्ठे एकलव्ये तथैव च
।
शल्ये मद्राधिपे चैव कथं कृष्णस्त्वयार्चितः॥१४॥
अयं च सर्वराज्ञां वै बलश्लाघी महाबलः
।
जामदग्न्यस्य दयितः शिष्यो विप्रस्य भारत॥१५॥
येनात्मबलमाश्रित्य राजानो युधि निर्जिताः
।
तं च कर्णमतिक्रम्य कथं कृष्णस्त्वयार्चितः॥१६॥
नैवर्त्विङ्नैव चाचार्यो न राजा मधुसूदनः
।
अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया॥१७॥
अथवाऽभ्यर्चनीयोऽयं युष्माकं मधुसूदनः
।
किं राजभिरिहानीतैरवमानाय भारत॥१८॥
वयं तु न भयादस्य कौन्तेयस्य महात्मनः
।
प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात्॥१९॥
अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः
।
करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते॥२०॥
किमन्यदवमनानाद्धे यदेनं राजसंसदि
।
अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि॥२१॥
प्राप्तो लक्षणं राजचिह्नं छत्रचामरादि स प्राप्तलक्षणः । प्राप्तापन्ने च द्वितीययेति समासः । तदन्योऽप्राप्तलक्षणस्तम् । वस्तुवृत्त्यापि अतादृशं । असंगचिन्मात्रत्वात्। ‘अलक्षणमचिन्त्यम्’ इत्यादिश्रुतेरिति वाग्देवतायास्तात्पर्यम् ॥२१॥
अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम्
।
को हि धर्मच्युते पूजामेवं युक्तां नियोजयेत्॥२२॥
योयं वृष्णिकुले जातो राजानं हतवान्पुरा
।
जरासन्धं महात्मानमन्यायेन दुरात्मवान्॥२३॥
धर्मच्युतत्वमेवाह योयमिति । राजानं कंसम् ॥२३॥
अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात्
।
दर्शितं कृपणत्वं च कृष्णेऽर्घ्यस्य निवेदनात्॥२४॥
यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः
।
ननु त्वयाऽपि बोद्धव्यं यां पूजां माधवार्हसि॥२५॥
अथवा कृपणैरेतामुपनीतां जनार्दन
।
पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि॥२६॥
अयुक्तामात्मनः पूजां त्वं पुनर्बहु मन्यसे
।
हविषः प्राप्य निष्यन्दं प्राशिता श्वेव निर्जने॥२७॥
अयुक्तामिति आत्मनः अयुक्तां पूजाम् अद्वैते पूज्यपूजकभावाभावेन भेदस्यायोगात् । अथापि हविषो निष्यन्दं लेशं प्राशितुं द्रौपदीशाकशेषवत्प्राशनाय प्राप्य द्विचन्द्रादिवन्मायया भेदमारूढो भक्तोपहृतत्वात्तावदेव बहु मन्यसे । निर्जने निर्मनुष्ये अन्तरिक्षे । श्वसितीति श्वा वायुः। ‘मातरि श्वा सदागतिः’ इति कोशः । मातर्यन्तरिक्षे श्वसितीति यास्कः । इति सरस्वत्याशयः कथापक्षे तु स्पष्ट एवार्थः ॥२७॥
न त्वं पार्थिवेन्द्राणामपमानः प्रयुज्यते
।
त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन॥२८॥
प्रलम्भन्ते अवलम्बन्ते ॥२८॥
क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम्
।
अराज्ञो राजवत्पूजा तथा ते मधुसूदन॥२९॥
दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः
।
वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम्॥३०॥
इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात्
।
निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा॥३१॥
॥ इति श्रीमहाभारते सभापर्वणि अर्घ्याभिहरणपर्वणि शिशुपालक्रोधे सप्तत्रिंशोऽध्यायः॥३७॥
वैशम्पायन उवाच।
ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत्
।
उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः॥१॥
तत इति ॥१॥
नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान्
।
अधर्मश्च परो राजन्पारुष्यं च निरर्थकम्॥२॥
अधर्मश्चेति वेदैकगम्यापरदेवता कृष्णो न तर्कगम्या तर्कबलेन तु तां प्रत्याचक्षाणस्य शाकल्यस्येव तवाधर्मो महान् भवतीत्यर्थः। यतः पारुष्यं च निरर्थकं परूषि पर्वाणि खण्डाः भेद इति यावत् परूष्येव पारुष्यं स्वार्थे ष्यञ् तन्निरर्थकं स्वप्नगजवदर्थशून्यमाभासमात्रम् । पौरुषं चेति पाठे पुरुषधर्मः कर्तृत्वादिः पौरुषं तदपि सुप्तिसमाध्यादौ प्रत्यगात्मनि अदर्शनाद्रज्जूरगादिवदाभासमात्रम् । तत्राधिष्ठानभूतम् आत्मवस्तु कृष्ण एव निरधिष्ठानकभ्रमायोगात् कथापक्षे पारुष्यं दुर्वाक्यत्वम् ॥२॥
न हि धर्मं परं जातु नावबुध्येत पार्थिवः
।
भीष्मः शान्तनवस्त्वेनं मावमंस्थास्त्वमन्यथा॥३॥
तच्च योगबलेनैव भीष्मो वेदेत्याह न हीति। परो धर्मः‘अयं तु परमो धर्मो यद्योगेनात्मदर्शनम्’ इति याज्ञवल्क्योक्तः। यतस्तं भीष्मो वेदातोऽस्य वचस्यविश्वासो न कर्तव्य इत्यर्थः ॥३॥
पश्य चैतान्महीपालांस्त्वत्तो वृद्धतरान्बहून्
।
मृष्यन्ते चार्हणां कृष्णे तद्वत्वं क्षन्तुमर्हसि॥४॥
वेद तत्त्वेन कृष्णं हि भीष्णश्चेदिपते भृशम्
।
न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः॥५॥
भीष्म उवाच।
नास्मै देयो ह्यनुनयो नायमर्हति सान्त्वनम्
।
लोकवृद्धतमे कृष्णे योऽर्हणां नाभिमन्यते॥६॥
अनुनयः नयो युक्तिस्तामनु पश्चात् भवतीत्यनुनयो मननानन्तरभावि ध्यानं योग इति यावत्स नास्मै असंभावनाग्रस्ताय देयः पक्षे अनुनयः कुपितप्रसादनं सगुणोपास्त्यभावादनधिकारिणे इत्यर्थः । सान्त्वनं शमम् ॥६॥
क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः
।
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः॥७॥
तत्र मूढं मूढभाषयैव बोधयेदिति न्यायेन शिशुपालमतमनुसुत्यैत्र कृष्णस्याधिक्यमाह द्वाभ्यां क्षत्रिय इति ॥७॥
अस्यां हि समितौ राज्ञामेकमप्यजितं युधि
।
न पश्यामि महीपालं सात्वतीपुत्रतेजसा॥८॥
न हि केवलमस्माकमयमर्च्यतमोऽच्युतः
।
त्रयाणामपि लोकानामर्चनीयो महाभुजः॥९॥
इतोप्यधिकमाह न हीति त्रैलोक्यान्तर्गतानां ब्रह्मादीनामित्यर्थः ॥९॥
कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः
।
जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम्॥१०॥
इदानींतनक्षत्रियेभ्यः ऋषभाः श्रेष्ठाः हिरण्याक्षादयः वार्ष्णेये सर्वं प्रतिष्ठितं विलीनं किं कनककुण्डलन्यायेन नेत्याह निखिलेनेति । सत्यामपि कनकबुद्धौ कुण्डलबुध्यनपायात् । रज्जुसर्पन्यायेनैवेयं संप्रतिष्ठा ज्ञानादेवतु कैवल्यमिति श्रुतेश्च पक्षान्तरे तु ब्रह्मणः कनकवत्परिणामित्वं कुण्डलस्येव प्रपञ्चस्य क्रियया प्रविलाप्यत्वं च स्यात् तथा चासंगो ह्ययं पुरुष इत्यसंगत्वश्रुतेर्ज्ञानादेवेत्यवधारणस्य च व्याकोप इति दिक् ॥१०॥
तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान्
।
एवं वक्तुं न चार्हस्त्वं मा तेऽभूद्बुद्धिरीदृशी॥११॥
ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः
।
तेषां कथयतां शौरेरहं गुणवतो गुणान्॥१२॥
उक्तेऽर्थे प्रमाणमाह ज्ञानवृद्धा इत्यादिना ॥१२॥
समागतानामश्रौषं बहून्बहुमतान्सताम्
।
कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः॥१३॥
कर्माणि पूतनावधादीनि ॥१३॥
बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे
।
न केवलं वयं कामाच्चेदिराज जनार्दनम्॥१४॥
न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथञ्चन
।
अर्चामहेऽर्चितं सद्भिर्भुवि भूतसुखावहम्॥१५॥
कृतार्थं कृतम् अर्थम् उपकारम् ॥१५॥
यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुञ्ज्महे
।
न च कश्चिदिहास्माभिः सुवालोप्यपरीक्षितः॥१६॥
गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः
।
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः॥१७॥
वैश्यानां धान्यधनवान्शूद्राणामेव जन्मतः
।
पूज्यतायां च गोविन्दे हेतू द्वावपि संस्थितौ॥१८॥
वैश्यानामिति लक्ष्मीपतित्वात् पुराणपुरुषत्वाच्च ॥१८॥
वेदवेदाङ्गविज्ञानं बलं चाभ्यधिकं तथा
।
नृणां लोके हि कोऽन्योस्ति विशिष्टः केशवादृते॥१९॥
दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा
।
संततिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताऽच्युते॥२०॥
नियताच्युतेऽकर्मजत्वात् अन्यत्र कर्मजत्वादेवामस्थैर्यम् भवतीत्यर्थः ॥२०॥
तमिमं लोकसम्पन्नमाचार्यं पितरं गुरुम्
।
अर्घ्यमर्चितमर्चार्हं सर्वे सङ्क्षन्तुमर्हथ॥२१॥
लोकसंपन्नं ज्ञानसंपन्नम् ॥२१॥
ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः
।
सर्वमेतद्धृषीकेशस्तस्मादभ्यर्चितोऽच्युतः॥२२॥
कृष्ण एव हि लोकानामुत्पत्तिरपि चाव्ययः
।
कृष्णस्य हि कृते विश्वमिदं भूतं चराचरम्॥२३॥
लोकदृष्ट्या कृष्णमाहात्म्यमुक्त्वा शास्त्रदृष्ट्यापि तदाह कृष्ण एवेति । उत्पत्तिरपि उपादानमपि। अव्ययः अविनाशी अपरिणामित्वात् रज्जुवत्परिणाम्युपादानस्य नाशावश्यंभावादिति भावः अप्यय इति पाठे लयस्थानम्। कृष्णस्य कृते कृष्णार्थं सर्वशेषित्वात् । कृते इत्यव्ययं तादर्थ्ये निपात्यते भूतम् उत्पन्नं तेन विनाश्यपि एतत् कृष्ण एव सत्य इत्यपि ज्ञेयम्॥२३॥
एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः
।
परश्च सर्वभूतेभ्यस्तस्मात्पूज्यतमोऽच्युतः॥२४॥
नन्वपरिणामित्वे कृष्णस्य कथं परिणामिनमाकाशादिकं प्रत्युपादानत्वं कारणस्य कार्यसजातीयत्वनियमादित्याशंक्याह एष प्रकृतिः उपादानं जगतः । अव्यक्ता अप्रकटा रज्जुरिव स्पष्टमदृष्टा सर्पस्य कर्ता महदहंकारादिरप्ययमेव । परिणामवद्विवर्तेऽपि कार्यस्य कारणानन्यत्वात् । महदादेश्च विवर्तरूपत्वात् नन्वन्योन्यत्रान्यत्कल्पयति महदादेस्तु कथं सदात्मनि स्वस्वकल्पकत्वमित्याशंक्याह सनातन इति । सुप्तिप्रलयादावपि तेषां संस्कारात्मना सत्त्वमस्ति अतः कदाचित्प्रतीयमानत्त्वान्मिथ्यात्वेऽपि भ्रमतत्संस्कारपरंपराया बीजांकुरवदनादित्वान्महदादिरपि सनातनोऽनादिरेवेत्यर्थः । नन्वेवं घृतकाठिन्यवदात्मनि महदादेराविर्भावतिरोभावौ उक्तौ स्याताम् । तथा चात्मसमसत्ताकत्वं तयोः स्यादित्यत आह पर इति सर्वभूतेभ्य उत्पन्नेभ्यो महदादिभ्योऽतिरिक्तः । महदाद्युपादानं त्वज्ञानमेव न तु चिदात्मा । तदपि रज्ज्वज्ञानवत्तदनाद्यपि बाधे सति वस्तुवृत्त्या कालत्रयेऽपि तत्कार्ये नासीदिति प्रत्ययात् । यादृशो यक्षस्तादृशो बलिरिति न्यायेन कार्यवत् अनिर्वचनीयमेव कल्प्यते अतः कृष्ण एव परो न त्वज्ञानं त्रैकालिकबाधविषयत्वात्तस्येति भावः । पूज्यतम इति निरुपाधिकप्रेमविषयत्वेन सर्वशेषित्वं प्रत्यगात्मत्वं चोक्तम् । अच्युत इति भोक्तृत्वरूपविकारनिषेधः । अहंकारस्यैव भोक्तृत्वादात्मनि च जलचन्द्रचाञ्चल्यवत्तदुपधानात्कल्पितमिति भावः ॥२४॥
बुद्धिर्मनो महद्वायुस्तेजोम्भः खं मही च या
।
चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम्॥२५॥
अत एव कृष्णानद्वैतं सिद्धमित्याह बुद्धिरित्यादिना । प्रतिष्ठितं रज्जूरगवत् कृष्णानन्यत्वादित्यर्थः बुद्धिरहंकारः मन इतीन्द्रियाण्येकादश महान् महत्तत्वं वायुरित्यादिपञ्चकेन पञ्चतन्मात्राणां स्थूलभूतानां च ग्रहणं चतुर्विधं जरायुजादिभौतिकम् ॥२५॥
आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये
।
दिशश्च विदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम्॥२६॥
अग्निहोत्रमुखा वेदा गायत्री च्छन्दसां मुखम्
।
राजा मुखं मनुष्याणां नदीनां सागरो मुखम्॥२७॥
नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम्
।
पर्वतानां मुखं मेरुर्गरुडः पततां मुखम्॥२८॥
ऊर्ध्वं तिर्यगधश्चैव यावती जगतो गतिः
।
सदेवकेषु लोकेषु भगवान्केशवो मुखम्॥२९॥
अयं तु पुरुषो बालः शिशुपालो न बुध्यते
।
सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते॥३०॥
सर्वत्र सर्वदा सत्तास्फूर्तिप्रदत्वेन सन्तमिति शेषः ॥३०॥
यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः
।
स वै पश्येद्यथा धर्मं न तथा चेदिराडयम्॥३१॥
उत्कृष्टं धर्मम् आत्मदर्शनम् ॥३१॥
सवृद्धबालेष्वथवा पार्थिवेषु महात्मसु
।
को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत्॥३२॥
अथैनां दुष्कृतां पूजां शिशुपालो व्यवस्यति
।
दुष्कृतायां यथान्यायं तथाऽयं कर्तुमर्हति॥३३॥
॥ इति श्रीमहाभारते सभापर्वणि अर्घ्याभिहरणपर्वणि भीष्मवाक्ये अष्टत्रिंशोऽध्यायः॥३८॥
वैशम्पायन उवाच।
एवमुक्त्वा ततो भीष्णो विरराम महाबलः
।
व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः॥१॥
य एवंविधः कृष्णः स एव वसुदेवसूनुरिति सहदेवप्रतिज्ञा नारदवचनाभ्यां निश्चेतुमध्यायमारभते एवमुक्त्वेत्यादि ॥१॥
केशवं केशिहन्तारमप्रमेयपराक्रमम्
।
पूज्यमानं मया यो वः कृष्णं न सहते नृपाः॥२॥
अप्रमेयो निर्गुणत्वात् परं पश्चाद्भावि कार्यं तत् आक्रामति व्याप्नोतीति पराक्रम उपादानम् । अप्रमेयश्चासौ पराक्रमश्चेति समासः । शुद्धशबलब्रह्मरूपोऽयं केशिहन्तेत्यर्थः ॥२॥
सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम्
।
एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः॥३॥
स एव हि मया वध्यो भविष्यति न संशयः
।
मतिमन्तश्च ये केचिदाचार्यं पितरं गुरुम्॥४॥
अर्च्यमर्चितमर्घ्यार्हमनुजानन्तु ते नृपाः
।
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम्॥५॥
मानिनां बलिनां राज्ञां मध्ये वै दर्शिते पदे
।
ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि॥६॥
अदृश्यरूपा वाचश्चाप्यब्रुवन्साधुसाध्विति
।
अविध्यदजिनं कृष्णं भविष्यद्भूतजल्पकः॥७॥
सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित्
।
उवाचाखिलभूतानां मध्ये स्पष्टतरं वचः॥८॥
कृष्णं कमलपत्राक्षं नार्चयिष्यन्ति ये नराः
।
जीवन्मृतास्तु ते ज्ञेया न संभाष्याः कदाचना॥९॥
ननु उपाध्यविवक्षया ब्रह्मभावोऽस्मदादीनामप्यस्ति तद्विवक्षायां तु फलशलाटुवत्कृष्णस्यास्माकं च ज्ञानैश्वर्यतारतम्येऽपि तस्य व्यावृत्तत्त्वेनास्मदादिवदुभयविधब्रह्मभावो नास्त्येवेत्याशंक्याह कृष्णमिति । यथा परिमाणतारतम्यस्य विश्रान्तिराकाशादौ देशतः कालतश्च परिच्छेदाभावात् दृष्टा तथा ऐश्वर्यतारतम्यस्यापि द्रष्टव्या। ननु प्रलये कार्यमात्रनाशस्य वक्तव्यत्वात्कथं कृष्णविग्रहस्य कालापरिच्छेद्यत्वं युज्येतेति चेन्न । तस्याकार्यत्वात् । न हि पूर्वोदाहृतस्य हिरण्यश्मश्रुत्वादिविशिष्टस्य ब्रह्मणः कार्यत्वं वक्तुं शक्यम् । ‘अन्तस्तद्धर्मोपदेशात्’ इति न्यायाविरोधात् । शास्त्रान्त्यन्यायविरोधाच्च । तत्र हि नित्यसिद्धेश्वरादर्वाचीनानां ज्ञानध्यानसिद्धानामीश्वराणामैश्वर्यं वियदादिजगत्सृष्टिसंहारादिव्यापारवर्जं तेन सह भोगसाम्यमात्रम् । हेतुश्चात्रोक्तः असन्निहित्वादिति । भौतिकपदार्थसृष्ट्यादिसमकाले हि तेषां सृष्टिप्रलयाविति न ते भूतोत्पत्तिलयकाले संनिहिताः । अयं तदानीमपि संनिहितोऽस्तीति नित्य एव । व्यावहारतः सर्गपरंपराया आद्यन्तशून्यत्वात्तद्धेतुहेतोरस्यापि तथात्वं दुर्वारम् । नन्वस्य नित्यत्वे तल्लोकादेरपि नित्यत्वं वाच्यम्। तथा चाद्वैतक्षतिरिति चेत् भ्रान्तोऽसि । यथा त्रैलोक्यनाशेऽपि ब्रह्मलोकाद्यस्ति तथा ब्रह्मलोकनाशेऽपि तल्लोकादिकमस्ति । यथा सत्स्वपि ब्रह्मलोकादिषु अस्मदादीनां शुद्धं कैवल्यमप्रतिहतं तथा तस्मिन्नपि सति भविष्यतीति का नो हानिः । ये तु तल्लोकप्राप्तिरेव कैवल्यमित्याहुस्तदश्रौतमिति व्युत्पादितमन्यत्र । ‘केचिदाहुरिमं साम्यं केचिद्विष्णुं परे रविम्। केचिद्गणेशं केऽप्यम्बां मद्विधाः पार्थसारथिम्’ तस्माद्युक्तं कमलपत्राक्षस्य पूर्वोक्तरीत्य असंगस्य साक्षाद्ब्रह्मत्वं इतरेषां तूपाधितादात्म्यव्यवहितमिति महान् भेद इति युक्तं कृष्णस्यार्चनीयतमत्वम् । प्रत्यग्दृशेरेव देहेन्द्रियाद्युपाधिसान्निध्यान्मुकुरमुखवत्कृष्णरूपेण चरमे जन्मनि पराग्दृश्यात्मनाभासमानत्वादिति दिकू ॥९॥
वैशम्पायन उवाच।
पूजयित्वा च पूजार्हान्ब्रह्मक्षत्रविशेषवित्
।
सहदेवो नृणां देवः समापयत कर्म तत्॥१०॥
तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः
।
अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान्॥११॥
स्थितः सेनापतिर्योऽहं मन्वध्वं किं तु साम्प्रतम्
।
युधि तिष्ठाम सन्नह्य समेतान्वृष्णिपाण्डवान्॥१२॥
इति सर्वान्समुत्साद्य राज्ञस्तांश्चेदिपुङ्गवः
।
यज्ञोपघाताय ततः सामन्त्रयत राजभिः॥१३॥
तत्राहूता गताः सर्वे सुनीथप्रमुखा गणाः
।
समदृश्यन्त सङ्क्रुद्धा विवर्णवदनास्तथा॥१४॥
सुनीथः शिशुपालः ॥१४॥
युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम्
।
न स्याद्यथा तथा कार्यमेवं सर्वे तदाऽब्रुवन्॥१५॥
निष्कर्षान्निश्चयात्सर्वे राजानः क्रोधमूर्छिताः
।
अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात्॥१६॥
निर्वेदात् अपमानेन देहादौ वैराग्यात् आत्मनिश्चयात्स्वबलवत्त्वनिश्चयात् ॥१६॥
सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ
।
आमिषादपकृष्टानां सिंहानामिव गर्जताम्॥१७॥
तं बलौघमपर्यन्तं राजसागरमक्षयम्
।
कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा॥१८॥
समयं संकेतम् ॥१८॥
॥ इति श्रीमहाभारते सभापर्वणि अर्घ्याहरणपर्वणि राजमन्त्रणे एकोनचत्वारिंशोऽध्यायः॥३९॥