सभाक्रियापर्व - १लोकपालसभाख्यानपर्व - २राजसूयारम्भपर्व - ३जरासन्धवधपर्वः - ४दिग्विजयपर्व - ५राजसूयपर्व - ६अर्घ्याभिहरणपर्व - ७शिशुपालवधपर्व - ८द्यूतपर्व - ९अनुद्यूतपर्व - १०

अर्घ्याभिहरणपर्व

षट्त्रिंशत्तमोऽध्यायः

वैशम्पायन उवाच। ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह ।
अन्तर्वेदीं प्रविविशुः सत्कारार्हा महर्षयः॥१॥

ततोऽभिषेचनीयेह्नि ब्राह्मणा राजभिः सहेत्यादिका शिशुपालवधान्ता दशाध्यायी नानाविधमतभेदोपन्यासपूर्वकं कृष्णशिशुपालरूपकेण ब्रह्मणि जीवस्य महाकाशमठाकाशन्यायेन लयं दर्शयति । तत्र कथापक्षे प्रत्यक्षवृत्यैव लभ्योऽर्थः स्पष्टः । अध्यात्मपक्षे तु परोक्षवृत्तिलभ्यतया तत्त्वं दुर्व्याख्येयमिति । तदेव प्रकाश्यते अभिषेचनीये राजसूयाङ्गभूते सोमयागविशेषे ॥१॥

नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः ।
समासीनाः शुशुभिरे सह राजर्षिभिस्तदा॥२॥

समेता ब्रह्मभवने देवा देवर्षयस्तथा ।
कर्मान्तरमुपासन्तो जजल्पुरमितौजसः॥३॥

कर्मान्तरं मध्ये मध्ये कर्म विरामकालम् उपासन्तः उपगच्छन्तः प्राप्नुवन्तः । असगतावित्यस्य रूपं कर्मछिद्रं प्राप्य जल्पकथां चक्रुरित्यर्थः । अमितौजसः बहुप्रतिभावन्तः ॥३॥

एवमेतन्न चाप्येवमेवं चैतन्न चान्यथा ।
इत्यूचुर्बहवस्तत्र वितण्डां वै परस्परम्॥४॥

एवमेतदिति स्वपक्षस्थापनं न चाप्येवमिति परपक्षदूषणम् एवं प्रतिवादिपक्षेऽपि। बहवस्तु सामान्याः वितण्डां स्वपक्षपरपक्षस्थापनाहीनां कथाम् ॥४॥

कृशानर्थांस्ततः केचिदकृशांस्तत्र कुर्वते ।
अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चयैः॥५॥

कृशान् युक्तिदौर्बल्यात् । अकृशान् युक्तिप्राबल्यात् । तत्र विपरीतं कुर्वन्ति । हेतुभिर्नानाविधैस्तर्कैः ॥५॥

तत्र मेधाविनः केचिदर्थमन्यैरुदीरितम् ।
विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम्॥६॥

तत्रेति परोक्तस्य दूषणे एवादृताः न तु शास्त्रतत्त्वे इति भावः ॥६॥

केचिद्धर्मार्थकुशलाः केचित्तत्र महाव्रताः ।
रेमिरे कथयन्तश्च सर्वभाष्यविदां वराः॥७॥

सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः ।
आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवायता॥८॥

न तस्यां सन्निधौ शूद्रः कश्चिदासीन्न चाव्रती ।
अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने॥९॥

तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम् ।
तुतोष नारदः पश्यन्धर्मराजस्य धीमतः॥१०॥

अथ चिन्तां समापेदे स मुनिर्मनुजाधिप ।
नारदस्तु तदा पश्यन्सर्वक्षत्रसमागमम्॥११॥

अथ चिन्तां समापेदे इत्यादिस्तस्थौ सबहुमानत इत्यन्तो ग्रन्थो नारदस्य पूर्वापरानुसंधानात् । क्षत्रक्षयस्यातः परम् उपक्रमो जात इति चिन्ता चित्तव्यथा स्मृतिर्वा अंशावतरणात्प्राक् ब्रह्मसभायां निश्चितस्य भूभारहरणस्याभूदित्यर्थः ॥११॥

सस्मार च पुरावृत्तां कथां तां पुरुषर्षभ ।
अंशावतरणे याऽसौ ब्रह्मणो भवनेऽभवत्॥१२॥

देवानां सङ्गमं तं तु विज्ञाय कुरुनन्दन ।
नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम्॥१३॥

साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः ।
प्रतिज्ञां पालयंश्चेमां जातः परपुरञ्जयः॥१४॥

क्षत्रे क्षत्रियजातौ जातः आविर्भूतः ॥१४॥

सन्दिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम् ।
अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ॥१५॥

इति नारायणः शम्भुर्भगवान्भूतभावनः ।
आदित्यविबुधान्सर्वानजायत यदुक्षये॥१६॥

नारायणस्य शम्भुत्वं चतुर्वक्त्रापरपर्यायं भूतभावनत्वं चेति युक्तं। एकस्यैव त्रिमूर्तिधारित्वात् यदुक्षये यदुगृहे ॥१६॥

क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः ।
परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट्॥१७॥

यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते ।
सोयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः॥१८॥

अहो बत महद्भूतं स्वयम्भूर्यदिदं स्वयम् ।
आदास्यति पुनः क्षत्रमेवं बलसमन्वितम्॥१९॥

महद्भूत महाविष्णुः स्वयंभूः अस्मदादिवच्छरीरव्यपाश्रयत्वेनापि भवनं न सहते इत्यर्थः । आदास्यति आच्छेत्तुमिच्छति पुनरिति असकृदेतदनेन कर्म कृतमस्तीत्ति सूचितम् ॥१९॥

इत्येतां नारदश्चिन्तां चिन्तयामास सर्ववित् ।
हरिं नारायणं ज्ञात्वा यज्ञैरीज्यन्तमीश्वरम्॥२०॥

तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः ।
महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः॥२१॥

धर्मविदां श्रेष्ठो नारदः धर्मराजस्य यज्ञैरीज्यम् ॥२१॥

ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम् ।
क्रियतामर्हणं राज्ञां यथार्हमिति भारत॥२२॥

आचार्यमृत्विजं चैव संयुजं च युधिष्ठिर ।
स्नातकं च प्रियं प्राहुः षडर्घ्यार्हान्नृपं तथा॥२३॥

संयुजं संबन्धिनं श्वशुरादिं प्रियं मित्रम् ॥२३॥

एतानर्घ्यानभिगतानाहुः संवत्सरोषितान् ।
त इमे कालपूगस्य महतोऽस्मानुपागताः॥२४॥

एषामेकैकशो राजन्नर्घ्यमानीयतामिति ।
अथ चैषां वरिष्ठाय समर्थायोपनीयताम्॥२५॥

एकैकशः प्रत्येकम् अथ अथापि एषां मध्ये वरिष्ठाय प्रथममिति शेषः ॥२५॥

युधिष्ठिर उवाच। कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन ।
उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह॥२६॥

वैशम्पायन उवाच। ततो भीष्मः शान्तनवो बुद्ध्या निश्चित्य वीर्यवान् ।
वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि॥२७॥

बुद्ध्या बुध्यति जानाति वस्तुतत्त्वमनयेति बुद्धिः । श्रवणमननध्यानात्मिका चेतोवृत्तिः तया निश्चित्य साक्षात्कृत्य अर्हणीयतमम् अर्हणीयाः ब्राह्मणाः देवताप्रसादहेतुत्वात् । अर्हणीयतरा देवाः कामपूरकत्वात् । अर्हणीयतम आत्मा सर्वस्य तत्प्रीत्यर्थत्वात् । तथा च श्रुतिः ‘न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति’ इति । तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात् प्रेयोन्यस्मात्सर्वस्मादन्तरं यदयमात्मा‘ इति च । भुवीत्यनेनात्मैव कर्मभूमावर्हणीयः । ‘इह चेदवेदीदथ सत्यमस्ति न चेदवेदीर्महती विनष्टिः’ इति श्रुतेरन्यत्र तदलाभात् ॥२७॥

एष ह्येषां समस्तानां तेजोबलपराक्रमैः ।
मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः॥२८॥

एवमात्मनो जिज्ञास्यत्वमुक्त्वा स्वरूपमाह एष हीति । एष पुरोवर्ती श्रीकृष्णः सूर्यश्च ज्योतिषां पदार्थप्रकाशकानां सूर्यचन्द्राग्निवागादीनां चन्द्राग्नितारादीनां च समस्तानां सम्यगस्तं गतानां स्वप्नावस्थायामह्नि च मध्येन्तस्तपन्नाभातीति योजना । अयं भावः न तावदग्निः स्वयंज्योतिः सूर्यकान्तादिद्वारा सूर्यस्यैव इन्धनादौ तद्रूपेणारूढत्वात् । नापि चन्द्रतारादि तस्य जलमयस्य सूर्यज्योतिषैव भास्यत्वात् । यथायं दृष्टान्त एवं चक्षुराद‌योऽपि न स्वशक्त्या प्रकाशकाः । किं तु आत्मसत्तानुवेधादेव तथा यथाग्न्याद्यभावेऽपि सूर्यः इतरनिरपेक्षः प्रकाशयति एवमात्मा चक्षुराद्युपरमेऽपि स्वप्ने स्वप्रकाशेनैव सर्वं वासनामयं पदार्थजातं प्रकाशयति । ‘तस्य भासा सर्वमिदं विभाति ’अत्रायं पुरुषः स्वयं ज्योतिः' इत्यादिश्रुतिभ्यः। तेजोबलपराक्रमैः तेजः प्रकाशः। बलं तेजोन्तराभिभवसामर्थ्यम् । पराक्रमः निरवशेषेण तमोनाशकत्वं च दृष्टान्ते तेजआदि दार्ष्टान्तिके तु तेजः चित्प्रकाशः बलम् अबाध्यत्वं पराक्रमः सर्वोपादानत्वेन सर्वव्यापकत्वं च कथापक्षे तु तेजः कान्तिः बलं पराभिभवसामर्थ्यं पराक्रमः संग्रामोद्यमः ॥२८॥

असूर्यमिव सूर्येण निर्वातमिव वायुना ।
भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः॥२९॥

असूर्यमिवेति यथा गाढान्धकारस्थं घटादि असत्कल्पम् अप्रकाशमानं च तस्य सत्तास्फूर्ती सूर्येणैव भवतः एवम् अहंकारादेर्घटान्तस्यार्थजातस्य सत्ताप्रकाशौ चिदधीनावेवेति पूर्वोक्तस्यैव विवरणम् । एवं तथा निवाते वातशून्येऽपवरके निदाघे विद्यमानान् जन्तून् वात एवाल्हादयति एवम् अयं स्वरूपानन्देन जगदाह्लादयति । ‘एष ह्येवानन्दयाति एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ इति श्रुतेः । सोऽयं प्रत्यग्दृशिरूप एव सन् दर्पणेन मुखमिव स्वमायया पराग्दृश्यत्वमिवापादितः पूजनीयः । अत्र हि देहाद्युपाधिविस्मरणेन लब्धपदं चित्तं मोक्षाय कल्पते । तथोक्तं भगवता पतंजलिना ‘बहिरकल्पितावृत्तिर्महाविदेहा तत्संयमात्प्रकाशावरणक्षयः’ इति। बहिर्मूर्त्यादौ अकल्पिता देहादिप्रत्ययेनासंकीर्णा महाविदेहेति धारणाया नाम ॥२९॥

तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान् ।
उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम्॥३०॥

प्रतिजग्राह तत्कृष्णः शास्त्रदृष्टेन कर्मणा ।
शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे॥३१॥

स उपालभ्य भीष्मं च धर्मराजं च संसदि ।
अपाक्षिपद्वासुदेवं चेदिराजो महाबलः॥३२॥

अपाक्षिपत् दूषितवान् ॥३२॥
॥ इति श्रीमहाभारते सभापर्वणि अर्घ्याभिहरणपर्वणि कृष्णार्घ्यादाने षट्त्रिंशोऽध्यायः॥३६॥
सप्तत्रिंशत्तमोऽध्यायः

शिशुपाल उवाच। नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु ।
महीपतिषु कौरव्य राजवत्पार्थिवार्हणम्॥१॥

कर्तृत्वादिकं कृष्णे वास्तवमेव न तु मायिकमाविद्यकं वा । शरीरमात्रस्य कर्मजन्यत्वनियमात्। मिथ्याभूतस्यापि वास्तवार्थक्रियाकारित्वे शुक्तिरजतादेरपि रजतोचितद्रवीभावापत्तेश्चेत्यभिसंदधानो जैमिनिमतानुसारी शिशुपालो वर्णाश्रमवयस्तपोविद्यादिभिरेव पुंसां श्रैष्ठ्याश्रैष्ठ्यविभागं बहुमन्यमानो नृपान्तरसाधारण्येन कृष्णमपूज्यं करोति । नायमिति वार्ष्णेयः वृष्णिषूत्पन्न इति पूर्वोक्तं स्वयंभूत्वं निराकृतं तद्धि आत्मनः सर्वसाधारणं देहस्य तु अस्मदादिवद्देवक्या जातत्वाद्दुर्वचमिति भावः ॥१॥

नायं युक्तः समाचारः पाण्डवेषु महात्मसु ।
यत्कामात्पुण्डरीकाक्षं पाण्डवार्चितवानसि॥२॥

बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः ।
अयं च स्मृत्यतिक्रान्तो ह्यापगेयोऽल्पदर्शनः॥३॥

आपगेयो भीष्मः ॥३॥

त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया ।
भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम्॥४॥

कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम् ।
अर्हणामर्हति तथा यथा युष्माभिरर्चितः॥५॥

अथ वा मन्यसे कृष्णं स्थविरं कुरुपुङ्गवः ।
वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः॥६॥

ननु अस्मदादिवज्जातोऽप्यराजापि वृद्धत्वादिना हेतुना पुज्यः कृष्ण इत्याशंक्य निराचष्टे अथ वा मन्यसे इत्यादिना ॥६॥

अथ वा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान् ।
द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम्॥७॥

आचार्यं मन्यसे कृष्णमथ वा कुरुनन्दन ।
द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि॥८॥

ऋत्विजं मन्यसे कृष्णमथ वा कुरुनन्दन ।
द्वौपायने स्थिते वृद्धे कथं कृष्णोऽर्चितस्त्वया॥९॥

भीष्मे शान्तनवे राजन्स्थिते पुरुषसत्तमे ।
स्वच्छन्दमृत्युके राजन्कथं कृष्णोऽर्चितस्त्वया॥१०॥

अश्वत्थाम्नि स्थिते वीरे सर्वशास्त्रविशारदे ।
कथं कृष्णस्त्वया राजन्नर्चितः कुरुनन्दन॥११॥

दुर्योधने च राजेन्द्रे स्थिते पुरुषसत्तमे ।
कृपे च भारताचार्ये कथं कृष्णस्त्वयाऽर्चितः॥१२॥

द्रुमं किंपुरुषाचार्यमतिक्रम्य तथाऽर्चितः ।
भीष्मके चैव दुर्धर्षे पाण्डुवत्कृतलक्षणे॥१३॥

नृपे च रुक्मिणि श्रेष्ठे एकलव्ये तथैव च ।
शल्ये मद्राधिपे चैव कथं कृष्णस्त्वयार्चितः॥१४॥

अयं च सर्वराज्ञां वै बलश्लाघी महाबलः ।
जामदग्न्यस्य दयितः शिष्यो विप्रस्य भारत॥१५॥

येनात्मबलमाश्रित्य राजानो युधि निर्जिताः ।
तं च कर्णमतिक्रम्य कथं कृष्णस्त्वयार्चितः॥१६॥

नैवर्त्विङ्नैव चाचार्यो न राजा मधुसूदनः ।
अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया॥१७॥

अथवाऽभ्यर्चनीयोऽयं युष्माकं मधुसूदनः ।
किं राजभिरिहानीतैरवमानाय भारत॥१८॥

वयं तु न भयादस्य कौन्तेयस्य महात्मनः ।
प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात्॥१९॥

अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः ।
करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते॥२०॥

किमन्यदवमनानाद्धे यदेनं राजसंसदि ।
अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि॥२१॥

प्राप्तो लक्षणं राजचिह्नं छत्रचामरादि स प्राप्तलक्षणः । प्राप्तापन्ने च द्वितीययेति समासः । तदन्योऽप्राप्तलक्षणस्तम् । वस्तुवृत्त्यापि अतादृशं । असंगचिन्मात्रत्वात्। ‘अलक्षणमचिन्त्यम्’ इत्यादिश्रुतेरिति वाग्देवतायास्तात्पर्यम् ॥२१॥

अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम् ।
को हि धर्मच्युते पूजामेवं युक्तां नियोजयेत्॥२२॥

योयं वृष्णिकुले जातो राजानं हतवान्पुरा ।
जरासन्धं महात्मानमन्यायेन दुरात्मवान्॥२३॥

धर्मच्युतत्वमेवाह योयमिति । राजानं कंसम् ॥२३॥

अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात् ।
दर्शितं कृपणत्वं च कृष्णेऽर्घ्यस्य निवेदनात्॥२४॥

यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः ।
ननु त्वयाऽपि बोद्धव्यं यां पूजां माधवार्हसि॥२५॥

अथवा कृपणैरेतामुपनीतां जनार्दन ।
पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि॥२६॥

अयुक्तामात्मनः पूजां त्वं पुनर्बहु मन्यसे ।
हविषः प्राप्य निष्यन्दं प्राशिता श्वेव निर्जने॥२७॥

अयुक्तामिति आत्मनः अयुक्तां पूजाम् अद्वैते पूज्यपूजकभावाभावेन भेदस्यायोगात् । अथापि हविषो निष्यन्दं लेशं प्राशितुं द्रौपदीशाकशेषवत्प्राशनाय प्राप्य द्विचन्द्रादिवन्मायया भेदमारूढो भक्तोपहृतत्वात्तावदेव बहु मन्यसे । निर्जने निर्मनुष्ये अन्तरिक्षे । श्वसितीति श्वा वायुः। ‘मातरि श्वा सदागतिः’ इति कोशः । मातर्यन्तरिक्षे श्वसितीति यास्कः । इति सरस्वत्याशयः कथापक्षे तु स्पष्ट एवार्थः ॥२७॥

न त्वं पार्थिवेन्द्राणामपमानः प्रयुज्यते ।
त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन॥२८॥

प्रलम्भन्ते अवलम्बन्ते ॥२८॥

क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम् ।
अराज्ञो राजवत्पूजा तथा ते मधुसूदन॥२९॥

दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः ।
वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम्॥३०॥

इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात् ।
निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा॥३१॥

॥ इति श्रीमहाभारते सभापर्वणि अर्घ्याभिहरणपर्वणि शिशुपालक्रोधे सप्तत्रिंशोऽध्यायः॥३७॥
अष्टत्रिंशत्तमोऽध्यायः

वैशम्पायन उवाच। ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत् ।
उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः॥१॥

तत इति ॥१॥

नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान् ।
अधर्मश्च परो राजन्पारुष्यं च निरर्थकम्॥२॥

अधर्मश्चेति वेदैकगम्यापरदेवता कृष्णो न तर्कगम्या तर्कबलेन तु तां प्रत्याचक्षाणस्य शाकल्यस्येव तवाधर्मो महान् भवतीत्यर्थः। यतः पारुष्यं च निरर्थकं परूषि पर्वाणि खण्डाः भेद इति यावत् परूष्येव पारुष्यं स्वार्थे ष्यञ् तन्निरर्थकं स्वप्नगजवदर्थशून्यमाभासमात्रम् । पौरुषं चेति पाठे पुरुषधर्मः कर्तृत्वादिः पौरुषं तदपि सुप्तिसमाध्यादौ प्रत्यगात्मनि अदर्शनाद्रज्जूरगादिवदाभासमात्रम् । तत्राधिष्ठानभूतम् आत्मवस्तु कृष्ण एव निरधिष्ठानकभ्रमायोगात् कथापक्षे पारुष्यं दुर्वाक्यत्वम् ॥२॥

न हि धर्मं परं जातु नावबुध्येत पार्थिवः ।
भीष्मः शान्तनवस्त्वेनं मावमंस्थास्त्वमन्यथा॥३॥

तच्च योगबलेनैव भीष्मो वेदेत्याह न हीति। परो धर्मः‘अयं तु परमो धर्मो यद्योगेनात्मदर्शनम्’ इति याज्ञवल्क्योक्तः। यतस्तं भीष्मो वेदातोऽस्य वचस्यविश्वासो न कर्तव्य इत्यर्थः ॥३॥

पश्य चैतान्महीपालांस्त्वत्तो वृद्धतरान्बहून् ।
मृष्यन्ते चार्हणां कृष्णे तद्वत्वं क्षन्तुमर्हसि॥४॥

वेद तत्त्वेन कृष्णं हि भीष्णश्चेदिपते भृशम् ।
न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः॥५॥

भीष्म उवाच। नास्मै देयो ह्यनुनयो नायमर्हति सान्त्वनम् ।
लोकवृद्धतमे कृष्णे योऽर्हणां नाभिमन्यते॥६॥

अनुनयः नयो युक्तिस्तामनु पश्चात् भवतीत्यनुनयो मननानन्तरभावि ध्यानं योग इति यावत्स नास्मै असंभावनाग्रस्ताय देयः पक्षे अनुनयः कुपितप्रसादनं सगुणोपास्त्यभावादनधिकारिणे इत्यर्थः । सान्त्वनं शमम् ॥६॥

क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः ।
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः॥७॥

तत्र मूढं मूढभाषयैव बोधयेदिति न्यायेन शिशुपालमतमनुसुत्यैत्र कृष्णस्याधिक्यमाह द्वाभ्यां क्षत्रिय इति ॥७॥

अस्यां हि समितौ राज्ञामेकमप्यजितं युधि ।
न पश्यामि महीपालं सात्वतीपुत्रतेजसा॥८॥

न हि केवलमस्माकमयमर्च्यतमोऽच्युतः ।
त्रयाणामपि लोकानामर्चनीयो महाभुजः॥९॥

इतोप्यधिकमाह न हीति त्रैलोक्यान्तर्गतानां ब्रह्मादीनामित्यर्थः ॥९॥

कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः ।
जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम्॥१०॥

इदानींतनक्षत्रियेभ्यः ऋषभाः श्रेष्ठाः हिरण्याक्षादयः वार्ष्णेये सर्वं प्रतिष्ठितं विलीनं किं कनककुण्डलन्यायेन नेत्याह निखिलेनेति । सत्यामपि कनकबुद्धौ कुण्डलबुध्यनपायात् । रज्जुसर्पन्यायेनैवेयं संप्रतिष्ठा ज्ञानादेवतु कैवल्यमिति श्रुतेश्च पक्षान्तरे तु ब्रह्मणः कनकवत्परिणामित्वं कुण्डलस्येव प्रपञ्चस्य क्रियया प्रविलाप्यत्वं च स्यात् तथा चासंगो ह्ययं पुरुष इत्यसंगत्वश्रुतेर्ज्ञानादेवेत्यवधारणस्य च व्याकोप इति दिक् ॥१०॥

तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान् ।
एवं वक्तुं न चार्हस्त्वं मा तेऽभूद्बुद्धिरीदृशी॥११॥

ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः ।
तेषां कथयतां शौरेरहं गुणवतो गुणान्॥१२॥

उक्तेऽर्थे प्रमाणमाह ज्ञानवृद्धा इत्यादिना ॥१२॥

समागतानामश्रौषं बहून्बहुमतान्सताम् ।
कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः॥१३॥

कर्माणि पूतनावधादीनि ॥१३॥

बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे ।
न केवलं वयं कामाच्चेदिराज जनार्दनम्॥१४॥

न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथञ्चन ।
अर्चामहेऽर्चितं सद्भिर्भुवि भूतसुखावहम्॥१५॥

कृतार्थं कृतम् अर्थम् उपकारम् ॥१५॥

यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुञ्ज्महे ।
न च कश्चिदिहास्माभिः सुवालोप्यपरीक्षितः॥१६॥

गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः ।
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः॥१७॥

वैश्यानां धान्यधनवान्शूद्राणामेव जन्मतः ।
पूज्यतायां च गोविन्दे हेतू द्वावपि संस्थितौ॥१८॥

वैश्यानामिति लक्ष्मीपतित्वात् पुराणपुरुषत्वाच्च ॥१८॥

वेदवेदाङ्गविज्ञानं बलं चाभ्यधिकं तथा ।
नृणां लोके हि कोऽन्योस्ति विशिष्टः केशवादृते॥१९॥

दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा ।
संततिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताऽच्युते॥२०॥

नियताच्युतेऽकर्मजत्वात् अन्यत्र कर्मजत्वादेवामस्थैर्यम् भवतीत्यर्थः ॥२०॥

तमिमं लोकसम्पन्नमाचार्यं पितरं गुरुम् ।
अर्घ्यमर्चितमर्चार्हं सर्वे सङ्क्षन्तुमर्हथ॥२१॥

लोकसंपन्नं ज्ञानसंपन्नम् ॥२१॥

ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः ।
सर्वमेतद्धृषीकेशस्तस्मादभ्यर्चितोऽच्युतः॥२२॥

कृष्ण एव हि लोकानामुत्पत्तिरपि चाव्ययः ।
कृष्णस्य हि कृते विश्वमिदं भूतं चराचरम्॥२३॥

लोकदृष्ट्या कृष्णमाहात्म्यमुक्त्वा शास्त्रदृष्ट्यापि तदाह कृष्ण एवेति । उत्पत्तिरपि उपादानमपि। अव्ययः अविनाशी अपरिणामित्वात् रज्जुवत्परिणाम्युपादानस्य नाशावश्यंभावादिति भावः अप्यय इति पाठे लयस्थानम्। कृष्णस्य कृते कृष्णार्थं सर्वशेषित्वात् । कृते इत्यव्ययं तादर्थ्ये निपात्यते भूतम् उत्पन्नं तेन विनाश्यपि एतत् कृष्ण एव सत्य इत्यपि ज्ञेयम्॥२३॥

एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः ।
परश्च सर्वभूतेभ्यस्तस्मात्पूज्यतमोऽच्युतः॥२४॥

नन्वपरिणामित्वे कृष्णस्य कथं परिणामिनमाकाशादिकं प्रत्युपादानत्वं कारणस्य कार्यसजातीयत्वनियमादित्याशंक्याह एष प्रकृतिः उपादानं जगतः । अव्यक्ता अप्रकटा रज्जुरिव स्पष्टमदृष्टा सर्पस्य कर्ता महदहंकारादिरप्ययमेव । परिणामवद्विवर्तेऽपि कार्यस्य कारणानन्यत्वात् । महदादेश्च विवर्तरूपत्वात् नन्वन्योन्यत्रान्यत्कल्पयति महदादेस्तु कथं सदात्मनि स्वस्वकल्पकत्वमित्याशंक्याह सनातन इति । सुप्तिप्रलयादावपि तेषां संस्कारात्मना सत्त्वमस्ति अतः कदाचित्प्रतीयमानत्त्वान्मिथ्यात्वेऽपि भ्रमतत्संस्कारपरंपराया बीजांकुरवदनादित्वान्महदादिरपि सनातनोऽनादिरेवेत्यर्थः । नन्वेवं घृतकाठिन्यवदात्मनि महदादेराविर्भावतिरोभावौ उक्तौ स्याताम् । तथा चात्मसमसत्ताकत्वं तयोः स्यादित्यत आह पर इति सर्वभूतेभ्य उत्पन्नेभ्यो महदादिभ्योऽतिरिक्तः । महदाद्युपादानं त्वज्ञानमेव न तु चिदात्मा । तदपि रज्ज्वज्ञानवत्तदनाद्यपि बाधे सति वस्तुवृत्त्या कालत्रयेऽपि तत्कार्ये नासीदिति प्रत्ययात् । यादृशो यक्षस्तादृशो बलिरिति न्यायेन कार्यवत् अनिर्वचनीयमेव कल्प्यते अतः कृष्ण एव परो न त्वज्ञानं त्रैकालिकबाधविषयत्वात्तस्येति भावः । पूज्यतम इति निरुपाधिकप्रेमविषयत्वेन सर्वशेषित्वं प्रत्यगात्मत्वं चोक्तम् । अच्युत इति भोक्तृत्वरूपविकारनिषेधः । अहंकारस्यैव भोक्तृत्वादात्मनि च जलचन्द्रचाञ्चल्यवत्तदुपधानात्कल्पितमिति भावः ॥२४॥

बुद्धिर्मनो महद्वायुस्तेजोम्भः खं मही च या ।
चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम्॥२५॥

अत एव कृष्णानद्वैतं सिद्धमित्याह बुद्धिरित्यादिना । प्रतिष्ठितं रज्जूरगवत् कृष्णानन्यत्वादित्यर्थः बुद्धिरहंकारः मन इतीन्द्रियाण्येकादश महान् महत्तत्वं वायुरित्यादिपञ्चकेन पञ्चतन्मात्राणां स्थूलभूतानां च ग्रहणं चतुर्विधं जरायुजादिभौतिकम् ॥२५॥

आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये ।
दिशश्च विदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम्॥२६॥

अग्निहोत्रमुखा वेदा गायत्री च्छन्दसां मुखम् ।
राजा मुखं मनुष्याणां नदीनां सागरो मुखम्॥२७॥

नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम् ।
पर्वतानां मुखं मेरुर्गरुडः पततां मुखम्॥२८॥

ऊर्ध्वं तिर्यगधश्चैव यावती जगतो गतिः ।
सदेवकेषु लोकेषु भगवान्केशवो मुखम्॥२९॥

अयं तु पुरुषो बालः शिशुपालो न बुध्यते ।
सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते॥३०॥

सर्वत्र सर्वदा सत्तास्फूर्तिप्रदत्वेन सन्तमिति शेषः ॥३०॥

यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः ।
स वै पश्येद्यथा धर्मं न तथा चेदिराडयम्॥३१॥

उत्कृष्टं धर्मम् आत्मदर्शनम् ॥३१॥

सवृद्धबालेष्वथवा पार्थिवेषु महात्मसु ।
को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत्॥३२॥

अथैनां दुष्कृतां पूजां शिशुपालो व्यवस्यति ।
दुष्कृतायां यथान्यायं तथाऽयं कर्तुमर्हति॥३३॥

॥ इति श्रीमहाभारते सभापर्वणि अर्घ्याभिहरणपर्वणि भीष्मवाक्ये अष्टत्रिंशोऽध्यायः॥३८॥
नवत्रिंशत्तमोऽध्यायः

वैशम्पायन उवाच। एवमुक्त्वा ततो भीष्णो विरराम महाबलः ।
व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः॥१॥

य एवंविधः कृष्णः स एव वसुदेवसूनुरिति सहदेवप्रतिज्ञा नारदवचनाभ्यां निश्चेतुमध्यायमारभते एवमुक्त्वेत्यादि ॥१॥

केशवं केशिहन्तारमप्रमेयपराक्रमम् ।
पूज्यमानं मया यो वः कृष्णं न सहते नृपाः॥२॥

अप्रमेयो निर्गुणत्वात् परं पश्चाद्भावि कार्यं तत् आक्रामति व्याप्नोतीति पराक्रम उपादानम् । अप्रमेयश्चासौ पराक्रमश्चेति समासः । शुद्धशबलब्रह्मरूपोऽयं केशिहन्तेत्यर्थः ॥२॥

सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम् ।
एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः॥३॥

स एव हि मया वध्यो भविष्यति न संशयः ।
मतिमन्तश्च ये केचिदाचार्यं पितरं गुरुम्॥४॥

अर्च्यमर्चितमर्घ्यार्हमनुजानन्तु ते नृपाः ।
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम्॥५॥

मानिनां बलिनां राज्ञां मध्ये वै दर्शिते पदे ।
ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि॥६॥

अदृश्यरूपा वाचश्चाप्यब्रुवन्साधुसाध्विति ।
अविध्यदजिनं कृष्णं भविष्यद्भूतजल्पकः॥७॥

सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित् ।
उवाचाखिलभूतानां मध्ये स्पष्टतरं वचः॥८॥

कृष्णं कमलपत्राक्षं नार्चयिष्यन्ति ये नराः ।
जीवन्मृतास्तु ते ज्ञेया न संभाष्याः कदाचना॥९॥

ननु उपाध्यविवक्षया ब्रह्मभावोऽस्मदादीनामप्यस्ति तद्विवक्षायां तु फलशलाटुवत्कृष्णस्यास्माकं च ज्ञानैश्वर्यतारतम्येऽपि तस्य व्यावृत्तत्त्वेनास्मदादिवदुभयविधब्रह्मभावो नास्त्येवेत्याशंक्याह कृष्णमिति । यथा परिमाणतारतम्यस्य विश्रान्तिराकाशादौ देशतः कालतश्च परिच्छेदाभावात् दृष्टा तथा ऐश्वर्यतारतम्यस्यापि द्रष्टव्या। ननु प्रलये कार्यमात्रनाशस्य वक्तव्यत्वात्कथं कृष्णविग्रहस्य कालापरिच्छेद्यत्वं युज्येतेति चेन्न । तस्याकार्यत्वात् । न हि पूर्वोदाहृतस्य हिरण्यश्मश्रुत्वादिविशिष्टस्य ब्रह्मणः कार्यत्वं वक्तुं शक्यम् । ‘अन्तस्तद्धर्मोपदेशात्’ इति न्यायाविरोधात् । शास्त्रान्त्यन्यायविरोधाच्च । तत्र हि नित्यसिद्धेश्वरादर्वाचीनानां ज्ञानध्यानसिद्धानामीश्वराणामैश्वर्यं वियदादिजगत्सृष्टिसंहारादिव्यापारवर्जं तेन सह भोगसाम्यमात्रम् । हेतुश्चात्रोक्तः असन्निहित्वादिति । भौतिकपदार्थसृष्ट्यादिसमकाले हि तेषां सृष्टिप्रलयाविति न ते भूतोत्पत्तिलयकाले संनिहिताः । अयं तदानीमपि संनिहितोऽस्तीति नित्य एव । व्यावहारतः सर्गपरंपराया आद्यन्तशून्यत्वात्तद्धेतुहेतोरस्यापि तथात्वं दुर्वारम् । नन्वस्य नित्यत्वे तल्लोकादेरपि नित्यत्वं वाच्यम्। तथा चाद्वैतक्षतिरिति चेत् भ्रान्तोऽसि । यथा त्रैलोक्यनाशेऽपि ब्रह्मलोकाद्यस्ति तथा ब्रह्मलोकनाशेऽपि तल्लोकादिकमस्ति । यथा सत्स्वपि ब्रह्मलोकादिषु अस्मदादीनां शुद्धं कैवल्यमप्रतिहतं तथा तस्मिन्नपि सति भविष्यतीति का नो हानिः । ये तु तल्लोकप्राप्तिरेव कैवल्यमित्याहुस्तदश्रौतमिति व्युत्पादितमन्यत्र । ‘केचिदाहुरिमं साम्यं केचिद्विष्णुं परे रविम्। केचिद्गणेशं केऽप्यम्बां मद्विधाः पार्थसारथिम्’ तस्माद्युक्तं कमलपत्राक्षस्य पूर्वोक्तरीत्य असंगस्य साक्षाद्ब्रह्मत्वं इतरेषां तूपाधितादात्म्यव्यवहितमिति महान्‌ भेद इति युक्तं कृष्णस्यार्चनीयतमत्वम् । प्रत्यग्दृशेरेव देहेन्द्रियाद्युपाधिसान्निध्यान्मुकुरमुखवत्कृष्णरूपेण चरमे जन्मनि पराग्दृश्यात्मनाभासमानत्वादिति दिकू ॥९॥

वैशम्पायन उवाच। पूजयित्वा च पूजार्हान्ब्रह्मक्षत्रविशेषवित् ।
सहदेवो नृणां देवः समापयत कर्म तत्॥१०॥

तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः ।
अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान्॥११॥

स्थितः सेनापतिर्योऽहं मन्वध्वं किं तु साम्प्रतम् ।
युधि तिष्ठाम सन्नह्य समेतान्वृष्णिपाण्डवान्॥१२॥

इति सर्वान्समुत्साद्य राज्ञस्तांश्चेदिपुङ्गवः ।
यज्ञोपघाताय ततः सामन्त्रयत राजभिः॥१३॥

तत्राहूता गताः सर्वे सुनीथप्रमुखा गणाः ।
समदृश्यन्त सङ्क्रुद्धा विवर्णवदनास्तथा॥१४॥

सुनीथः शिशुपालः ॥१४॥

युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम् ।
न स्याद्यथा तथा कार्यमेवं सर्वे तदाऽब्रुवन्॥१५॥

निष्कर्षान्निश्चयात्सर्वे राजानः क्रोधमूर्छिताः ।
अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात्॥१६॥

निर्वेदात् अपमानेन देहादौ वैराग्यात् आत्मनिश्चयात्स्वबलवत्त्वनिश्चयात् ॥१६॥

सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ ।
आमिषादपकृष्टानां सिंहानामिव गर्जताम्॥१७॥

तं बलौघमपर्यन्तं राजसागरमक्षयम् ।
कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा॥१८॥

समयं संकेतम् ॥१८॥
॥ इति श्रीमहाभारते सभापर्वणि अर्घ्याहरणपर्वणि राजमन्त्रणे एकोनचत्वारिंशोऽध्यायः॥३९॥
॥समाप्तम् अर्घ्याभिहरणपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in