सभाक्रियापर्व - १लोकपालसभाख्यानपर्व - २राजसूयारम्भपर्व - ३जरासन्धवधपर्वः - ४दिग्विजयपर्व - ५राजसूयपर्व - ६अर्घ्याभिहरणपर्व - ७शिशुपालवधपर्व - ८द्यूतपर्व - ९अनुद्यूतपर्व - १०

शिशुपालवधपर्व

चत्वारिंशत्तमोऽध्यायः

वैशम्पायन उवाच। ततः सागरसङ्काशं दृष्ट्वा नृपतिमण्डलम् ।
संवर्तवाताभिहतं भीमं क्षुब्धमिवार्णवम्॥१॥

रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः ।
भीष्मं मतिमतां मुख्यं वृद्धं कुरुपितामहम् ।
बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा॥२॥

असौ रोषात्प्रचलितो महान्नृपतिसागरः ।
अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह॥३॥

अत्र स्वन्तं भवेद्यन्न इति पाठे नः अस्माकं स्वन्तं शुभोदर्कम् ॥३॥

यज्ञस्य च न विघ्नः स्यात्प्रजानां च हितं भवेत् ।
यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह॥४॥

इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे ।
उवाचेदं वचो भीष्मस्ततः कुरुपितामहः॥५॥

मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति ।
शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः॥६॥

शिवः पन्थाः कृष्णाश्रयरूपः सुनीतः सुनीतिसहितः ॥६॥

प्रसुप्ते हि यथा सिंहे श्वानस्तस्मिन्समागताः ।
भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः॥७॥

वृष्णिसिंहस्य सुप्तस्य तथाऽमी प्रमुके स्थिताः ।
भषन्ते तात सङ्क्रुद्धाः श्वानः सिंहस्य सन्निधौ॥८॥

न हि सम्बुध्यते यावत्सुप्तः सिंह इवाच्युतः ।
तेन सिंहीकरोत्येतान्नृसिंहश्चेदिपुङ्गवः॥९॥

पार्थिवान्पार्थिवश्रेष्ठः शिशुपालोऽप्यचेतनः ।
सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम्॥१०॥

नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः ।
यदस्य शिशुपालस्य तेजस्तिष्ठति भारत॥११॥

नूनमेतदिति । ‘यद्याद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छत्वं मम तेजोंशसंभवम्’ इति भगवद्वचनात् शिशुपालेऽपि विभूतिमत्त्वात्पूर्वं भगवत्पार्षदत्वाच्च पारमेश्वरं ज्ञानैश्वर्यादिरूपं तेजोऽस्ति तस्यादानं तद्देहपातेनैवेति तं हन्तुमिच्छतीत्यर्थः पुनः शब्दो हिरण्याक्षाद्यपेक्षया ॥११॥

विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर ।
चेदिराजस्य कौन्तेय सर्वेषां च महीक्षितम्॥१२॥

आदातुं च नरव्याघ्रो यं यमिच्छत्ययं तदा ।
तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा॥१३॥

आदातुं संहर्तुं विप्लवते विपर्ययं प्राप्नोति ॥१३॥

चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः ।
प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर॥१४॥

कुतः कृष्णोऽन्येषां तेजांस्यादत्ते न तु तानि पृथक् तिष्ठन्तीत्यत आह चतुर्विधानमिति । चेतनाचेतनप्रपञ्चस्य जले तरङ्गबुद्बुदन्यायेन तत्रैवोत्पत्तिप्रलययोः श्रवणात् । एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानामिति तदनन्यत्वाच्च सर्वस्येति भावः ॥१४॥

वैशम्पायन उवाच। इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः ।
भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत॥१५॥

॥ इति श्रीमहाभारते सभापर्वणि शिशुपालवधपर्वणि युधिष्ठिराश्वासने चत्वारिंशोऽध्यायः॥४०॥
एकचत्वारिंशत्तमोऽध्यायः

शिशुपाल उवाच। बिभीषिकाभिर्बह्वीभिर्भीषयन्सर्वपार्थिवान् ।
न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः॥१॥

ननु विभीषिकाभिर्वह्नीभिरित्यादिग्रन्थो भगवन्निन्दापरत्वान्न भूतार्थवादः । किं तु ध्यानमात्रं ध्येयसारूप्यप्रापकं तच्च द्वेषेणापि कर्तव्यमित्यतिशयोक्तिमात्रं ध्यानविधेस्तावकम् । अन्यथा भगवन्निन्दाकृतां वेनादीनां ‘भगवन्निन्दया वेनो द्विजैस्तमसि पातितः’ इत्यादिदोषस्मरणमनुपपन्नं स्याद्बृहदारण्याकपञ्चमे च ब्रह्मविदं याज्ञवल्क्यं द्विषतः शाकल्यस्य सद्यो मृत्युरुक्तोऽस्थ्नां च संस्कारालाभेन दुर्गतिश्च सूचिता । साक्षाद्ब्रह्मद्विषस्तु ततोऽप्यधिकं दुःखं वक्तव्यं स्यात् । अत्र च द्विषतोऽपि शिशुपालस्यापराधशतं क्षान्त्वा तस्मै भगवतसायुज्यं दत्तमित्युच्यते तस्मान्निन्दाग्रन्थः प्रकरणासंगतेर्भगवत्यसमवेतत्वाच्चाभूतार्थवाद एव । तथा हि । त्रिविधोऽर्थवादः ‘विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः’ इत्युक्तलक्षणः। एतेषां क्रमादुदाहरणानि । ’प्रजापतिरात्मनो वपामुदविदत्‘ स्ववपोत्खनने देहस्यैव नाशो भवतीत्यभूतार्थवादोऽयम् । ‘अग्निर्वै हिमस्य भेषजम्’ । ‘मेघातिथिं ह काण्वायनं मेषो भूत्वेन्द्रो जहार’ इत्यादीनि । तस्मादिह निन्दकस्य मुक्तिर्विरुद्धेत्यभूतार्थवाद एवेति चेन्न तद्वत्कृत्स्नस्यापि भारतस्य तथात्वापत्तेः । अनन्यगतिप्रकरणबाधापत्तेश्चानर्थक्यप्रतिहतानां विपरीतं बलाबलमिति न्यायेनाकाशादिश्रुतिवन्निन्दाश्रुतिरपि गौण्या वृत्त्या ब्रह्मपरतया नेयेति युक्तमुत्पश्यामः । अत एव श्रीमद्भागवतेऽपि हरिनिन्दाग्रन्थः स्तुतिपरत्वेनैव व्याख्यातः श्रीधरस्वामिभिः । एवं भीष्मेण बोधितः शिशुपालः स्वबोधमाविश्चिकीर्षुर्भीष्मं तावन्महीकरोति विभीषिकाभिरिति । हे नव्यप सः त्वं क़ुलपां मध्ये वृद्धः सन्नः अस्मान् पार्थिवान् वह्निभिर्विभीषिकाभिः भीषयन्कस्मात्त्रपसे इति योजना । नोतुं स्तोतुं योग्यं नव्यं पाति गोपायतीति हे नव्यप हे परमेश्वर तत्त्वगूहनपरः । कुलपां कुलपतीनां कुलतारकाणां ब्रह्मविदां मध्ये वृद्धः सन् नः अस्मान्पार्थिवान् शरीराकारपरिणतपृथिवीमात्रनिष्ठान् पृथिव्यंशबाहुल्यात् शरीरस्य पृथिवीत्वम् । ’यच्छरीरं सा पृथिवी’ इति श्रुतेश्च देहाभिमानयुक्तान् वह्नीभिर्नानाविधभेदवतीभिर्विभीषिकाभिः संसारभीतिहेतुभिः प्रमातृत्वमुखाभिः कर्तृत्वभोक्तृत्वादिभिः भीषयन्भीषयितुं किमिति त्रपसे त्वया वृद्धेनास्माकं संसारभयं प्रदर्शनीयमेव न तु तत्रास्माकमनधिकारमाशङ्क्य भीतिहरं तत्त्वं गोपनीयमित्यर्थः ॥१॥

युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया ।
वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः॥२॥

ननु वस्तुतत्त्वमपि उक्तमेवेत्याशङ्क्य यथा ज्ञातं तथा नोक्तमित्याह युक्तमिति । तृतीयायां प्रकृतौ वर्ततां त्वया एतदेव धर्मादपेतार्थं वक्तुं युक्तमित्यन्वयः । द्वे प्रकृती परिणामिन्यौ माया तस्यां चित्प्रतिबिम्बश्च । तृतीया प्रकृतिस्त्वेतदुभयाध्यासाधिष्ठानं निर्विशेषं वस्तु तत्र वर्तमानेन तन्मात्रनिष्ठेन त्वया । धर्मादपेतः मोक्षस्तस्याकर्मसाध्यत्वात्तदर्थम् । धर्मादित्यलुक्समासः । मोक्षार्थम् एतदेव तृतीयप्रकृतिरूपं वक्तुं युक्तं न तु सगुणम् । अस्माकं ब्रह्मलोकान्तस्योपासनाफलस्यानपेक्षितत्वादित्यर्थः । एवं च यथा ज्ञातं तथा नोक्तमित्युक्तं भवति उक्तेर्थे हेतुमाह त्वं हि सर्वकुरूत्तम इति ॥२॥

नावि नौरिव सम्बद्धा यथान्धो वान्धमन्वियात् ।
तथाभूता हि कौरव्या येषां भीष्म त्वमग्रणीः॥३॥

एतदेव सदृष्टान्तं विवृणोति नावीति । यथाऽरित्रकर्णधारादिमत्यां महानावि संबद्धा क्षुद्रा नौः ‘पारं प्राप्नोति । यथा वान्धं शरीरं जडत्वात् अन्धः अन्नम् । भिः सा स्त्री भक्तमन्धोन्नम्’ इत्यमरः । अन्वियात् अनुलक्षीकृत्य चलेत् । ‘अन्नं ह प्राणः’ इति श्रुतेरनुभवाच्च । तथाभूताः त्वदधीनगतयस्त्वदधीनजीवनाश्च कौरव्याः येषां चास्मदादीनां त्वम् अग्रणीः पुरो भूत्वा पुरुषार्थप्रापकस्तेऽपि तथाभूता एवेत्यर्थः । तस्मादनन्यगतिकानामस्माकम् अवश्यं त्वया उपदेशः कर्तव्य इति भावः ॥३॥

पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः ।
त्वया कीर्तयताऽस्माकं भूयः प्रव्यथितं मनः॥४॥

पूतनेति । अस्य सगुणब्रह्मणः प्रव्यथितं निर्गुणेऽपि गुणारोपेण वस्तुतत्त्वोगोपनाद्दुःखितमित्यर्थः ॥४॥

अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः ।
कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते॥५॥

अवेति । लिप्तस्य मूर्खस्य इच्छत इति कर्मणि षष्ठी । लिप्तं विषयसंगिनं मूर्खं मूढं मां केशवं स्तोतुमिच्छन्तम् अव तुच्छमपि भगवद्भक्तं मां पालय । हितोपदेशेनेति भावः । अत्याश्चर्यमेतदित्याह कथमिति । हे भीष्म हे वित् हे विद्वन्नते नम्रे मादृशेऽपि उपनते शिष्ये इयं जिह्वा त्वदीया त्वया शतधा कथं न ईर्यते प्रेर्यते अनेकैः प्रकारैस्तत्त्वं प्रतिपादयितुमिति शेषः ॥५॥

यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः ।
तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि॥६॥

यत्रेति । यत्र सगुणे कुत्सा निन्दा बालतरैः आपातत उपनिषन्मात्राध्येतृभिर्वटुभिः । बालेतरैरिति पाठे वृद्धैरपि । ‘यन्मनसा न मनुते येनाहुर्मनो मतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते’ इत्यब्रह्मत्वे कुत्सा प्रयोक्तव्या । तमिमं गोपयतीति गोपः तं गोपं व्यधिकरणे द्वितीये । तस्य सबलस्य गूहनकर्तारं शुद्धं संस्तोतुं सम्यक् प्रस्तोतुमिच्छसि । प्रार्थनायां पञ्चमो लकारः । स्तोतुम् इच्छां कुर्वित्यर्थः ॥६॥

यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम् ।
तौ वाऽश्ववृषभौ भीष्ण यौ न युद्धविशारदौ॥७॥

अनन्तब्रह्माण्डाधिपे मायाविन्यपि पूतनाघातादिकमत्यन्तं तुच्छमित्याह यद्यनेनेत्यादिना । शकुनिः पूतना । पाठान्तरे शकुनिवत्खेचरस्तृणावर्तः ॥७॥

चेतनारहितं काष्ठं यद्यनेन निपातितम् ।
पादेन शकटं भीष्ण तत्र किं कृतमद्भुतम्॥८॥

वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः ।
तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम॥९॥

भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि ।
इति ते भीष्म शृण्वानाः परे विस्मयमागताः॥१०॥

इति ते त्वत्तः शृण्वानाः विस्मयमागताः नाहमित्यर्थः ॥१०॥

यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः ।
स चानेन हतः कंस इत्येतन्न महाद्भुतम्॥११॥

यस्य चेति । यस्य द्रौपद्यादेः अन्नम् अदनीयं शाकलेशादि भुक्तं स च कंसः कामयमानः दुर्वाससः तृप्त्यादिकम् इच्छन् अनेन कृष्णेन हतः गतः अनुसृतः । हन्तेर्गत्यर्थत्वात् तदिष्टं संपादितामित्यर्थः । सर्वात्मनि कृष्णे शाकलेशेन तृप्ते विश्वतृप्तिर्जातेत्यपि नाद्भुतमित्यर्थः ॥११॥

न ते श्रुतमिदं भीष्म नूनं कथयतां सताम् ।
यद्वक्ष्ये त्वामधर्मज्ञं वाक्यं कुरुकुलाधम॥१२॥

नते नम्रे शिष्यसमीपे कथयतां सतां मुखात् इदं त्वदुक्तं पूतनावधादि मया श्रुतम् । किं ज्ञातस्यार्थस्य निरूपणेनेति भावः । हे कुलाधम कुलं गृहम् अधमं यस्य गृहातीतसंन्यासधर्मरतः । यत्तु वाक्ये अहं वक्ष्ये वोढुं शक्ष्ये तत्कुरु । आमधर्मज्ञम् अपक्वधर्मः क्षयिष्णुफलत्वात् कर्मोपास्ती तदभिज्ञं मां प्रति तदेव वाक्यम् अपूर्वार्थप्रतिपादकं वचः निर्गुणब्रह्मविषयं कुरु । तच्चाहं ज्ञातुं शक्ष्ये इत्यर्थः ॥१२॥

स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च ।
यस्य चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः॥१३॥

स्त्रीष्विति प्रतिश्रयोऽङ्गीकारः यश्च स्वीयत्वेनाङ्गीकृतस्तस्मिन्नित्यर्थः । ‘प्रतिश्रयः सभायां चाश्रये’ इति मेदिनी ॥१३॥

इति सन्तोऽनुशासन्ति सज्जनं धर्मिणः सदा ।
भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते॥१४॥

हिंसाया अनिष्टसाधनत्वमुक्तं तत्त्वयि विज्ञानवति वितथं व्यर्थम् । ‘हत्वापि स इमाल्लोकान्न हन्ति न निबध्यते’ इत्युक्तेः ॥१४॥

ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम ।
अजानत इवाख्यासि संस्तुवन्कौरवाधम॥१५॥

ज्ञानेति । ज्ञातज्ञापनं व्यर्थमित्यर्थः ॥१५॥

गोघ्रः स्त्रीघ्नश्च सन्भीष्म त्वद्वाक्याद्यदि पूज्यते ।
एवम्भूतश्च यो भीष्म कथं संस्तवमर्हति॥१६॥

गोघ्न इति । गां वाचं हन्ति हिनस्ति ।‘यतो वाचो निवर्तन्ते’ इति श्रुतेः । स्वस्माद्व्यावर्तयति तथा स्त्रीव स्त्रीसृष्टौ सहायभूता माया तद्धन्ता । वाचा मायिकस्य गुणवतः स्तुतिः कर्तव्या असौ त्वमायः वागतीतः कथं संस्तवमर्हति न कथमपीति ॥१६॥

असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः ।
सम्भावयति चाप्येवं त्वद्वाक्याच्च जनार्दनः ।
एवमेतत्सर्वमिति तत्सर्वं वितथं ध्रुवम्॥१७॥

मतिमतां मतिमद्भिः श्रेष्ठः प्रशस्यतमः । संभावयतीति । जनार्दनः संसारवर्धनेन जनपीडनकरः मायावी इश्वरः त्वद्वाक्यात् तव वश्यवचसो वाक्यात् एतत्सर्वं पूतनाघातादि आत्मनि संभावयति सत्यत्वेन दर्शयति । श्रेष्ठेन त्वया यदेव वक्तव्यं तदेव लोकः सत्यमित्यध्यवस्यति । वस्तुतस्तु एतत्सर्वं कृष्णे क्रियारोपणं वितथम् । ‘निष्कलं निष्क्रियम्’ इत्यादिश्रुतेः ॥१७॥

न गाथा गाथिनं शास्ति बहु चेदपि गायति ।
प्रकृतिं यान्ति भूतानि कुलिङ्गशकुनिर्यथा॥१८॥

तत्र ‘सर्वे ब्रह्म वदिष्यन्ति संप्राप्ते तु कलौ युगे । नानुतिष्ठन्ति मैत्रेय शिश्नोदरपरायणाः’ इति शब्दमात्रं वदन्ति न शमादिपरा भवन्ति तादृशो भीष्मो न भवतीत्याह द्वाभ्यां । न गाथेति । भूलिङ्गो नाम भूशायी पक्षी मा साहसमित्यनिशं वदन्नपि सिंहदंष्ट्रान्तरस्थं मांसमादत्ते । स्वयं साहसमतिशयितं करोति । तथा न हिंसादिकं कर्तव्यमिति वदन्नन्यो हिंसामेव करोतीत्यर्थः ॥१८॥

नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः ।
अतः पापीयसी चैषा पाण्डवानामपीष्यते॥१९॥

त्वं तु अस्मिन् चरमे जन्मनि यथा वदसि तथैव करोषीत्याह नूनमिति । प्रकृतिः शरीरं जघन्या चरमा तथा पाण्डवानामपि प्रकृतिर्जघन्याऽतो हेतोः पापीयसी वेदोक्तधर्मसंरक्षकतरा । पातीति पाः वेदोक्तो धर्म इति पाखण्डपदनिर्वचने व्यासेनैव व्याख्यातत्वात् तं पातीति पापा अतिशयेन पापा पापीयसीति योगात् ॥१९॥

येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः ।
धर्मवांस्त्वमधर्मज्ञः सतां मार्गादवप्लुतः॥२०॥

चरमदेहत्वे गमकमाह येषामिति । अतो हेतोः सर्वथा त्वम् अवेति संबन्धः कम् अवेत्युच्यते योऽधर्मज्ञः धर्मज्ञो न भवति यश्च सतां मार्गात् प्लुतः च्युतः तमिति यत्तच्छब्दाध्याहारेण योज्यम् ॥२०॥

को हि धर्मिणमात्मानं जानन्ज्ञानविदां वरः ।
कुर्याद्यथा त्वया भीष्म कृतं धर्ममवेक्षता॥२१॥

यथा वदसि तथा करोषीत्येतद्दर्शयितुं भीष्मस्य ब्रह्मचर्यदार्ढ्यं स्तौति पञ्चभिः । को हीति । धर्मिणं धर्मेऽधिकारिणम् ॥२१॥

चेत्त्वं धर्मं विजानासि यदि प्राज्ञा मतिस्तव ।
अन्यकामा हि धर्मज्ञा कन्यका प्राज्ञमानिना ।
अम्बा नामेति भद्रं ते कथं साऽपहृता त्वया॥२२॥

अन्येति । हे प्राज्ञ मानिना त्वया हृता या कन्यका सा त्वत्तः कथं भद्रम् आप न कथञ्चन दृढत्वात्तव ब्रह्मचर्यस्य ॥२२॥

तां त्वयाऽपि हृतां भीष्म कन्यां नैषितवान्यतः ।
भ्राता विचित्रवीर्यस्ते सतां मार्गमनुष्ठितः॥२३॥

तव भ्रातापि तादृश इत्याह तामिति । यदर्थं हृता स भ्रातापि तां नैषितवान् । अन्यकामा हीति पूर्वोक्तहेतोरेवेत्यर्थः ॥२३॥

दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः ।
तव जातान्यपत्यानि सज्जनाचरिते पथि॥२४॥

अम्बा नाम्न्या प्रार्थ्यमानेनापि त्वया ब्रह्मचर्यं न त्यक्तमित्युक्त्वा धर्मसङ्कटेऽपि त्वया तन्न त्यक्तमित्याह दारयोरिति । यस्य विचित्रवीर्यस्य हे प्राज्ञ तव मिषतः पश्यतः मानिनः मानवतः ॥२४॥

को हि धर्मोऽस्ति ते भीषम ब्रह्मचर्यमिदं वृथा ।
यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः॥२५॥

को हि धर्म इति । हे भीष्म ते तव निकटे अहिर्वृत्रासुरस्तस्य धर्मो दम्भदर्पादिः कोऽस्ति न कोऽपीत्यर्थः । तव कोऽपि दम्भादिरासुरो धर्मो नास्ति अतः यदिदं धारयसि ब्रह्मचर्यं तद्वृथा । व्यासेनेव त्वयापि भ्रातृक्षेत्रेषु अपत्योत्पादनं कर्तुं युक्तमेवासीदित्यर्थः । वा शब्दौ इवार्थे । ल्यब्लोपे पञ्चम्यौ । मोहं प्राप्येव क्लीबत्वं प्राप्येव मूर्च्छितवत् क्लीबवच्चासंभावितविप्लवं तव ब्रह्मचर्यमित्यर्थः ॥२५॥

न त्वं तव धर्मज्ञ पश्याम्युपचरं क्वचित् ।
न हि ते सेविता वृद्धा य एवं धर्ममब्रवीः॥२६॥

न त्विति । हे धर्मज्ञ क्वचिदपि साधने शमदमादौ तव उपचयं वृद्धिं न पश्यामि इति न अपि तु पश्याम्येव । हिते हितनिमित्तं त्वया वृद्धाश्च सेविता इत्यपि पश्यामि । तत्र लिङ्गं य एवं धर्ममब्रवीरिति एवं कृष्णस्यैव पूज्यत्वरूपं धर्मम् ॥२६॥

इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः ।
सर्वमेतदपत्यस्य कलां नार्हन्ति षोडशीम्॥२७॥

इष्टं दत्तमिति सार्धश्लोकत्रयं वाक्यम् । इष्टादिकम् अपत्यस्य षोडशीमपि कलां नार्हति अनपत्यस्य च व्रतादिकं मोघमित्येवम् अन्ये नराः कथयन्तीति योजना ॥२७॥

व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत् ।
सर्वं तदनपत्यस्य मोघं भवति निश्चयात्॥२८॥

सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुसारकः ।
हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम्॥२९॥

स त्वम् अनपत्यः सन्मिथ्याधर्म आध्यासिकधर्मोऽपत्योत्पादनादिः तस्य अनुसारकः तम् अनुसर्तुं वृद्धो वयोतीतत्वादयोग्योसीत्यर्थः । अनुशासनादिति पाठे मिथ्याधर्मानुशासनं देहाभिमानयोग्यं शास्त्रं विहायानपत्यश्च वृद्धश्च जातोऽसीति संबन्धः । तस्माद्धंसवत्संन्यासिवत् ज्ञातिभ्यः ज्ञानेभ्यः तत्त्वज्ञानात् । श्रवणादिव्यापारभेदात् बहुत्वं वधं गतिमोक्षम् । गत्यर्थस्य हन्तेरिदं रूपम् । श्रवणमनननिदिध्यासनैः सम्यगनुष्ठितैरात्मानं प्राप्नुहीत्यर्थः ॥२९॥

एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा ।
भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः॥३०॥

यस्त्वनृताभिसंधिः शब्देनैव ज्ञानं वदति न च ध्यानेन साक्षात्करोति संबध्यत इत्यस्मिन्नर्थे हंसाख्यायिकामाह एवं हीत्यादिना कुरूत्तमेत्यन्तेन ॥३०॥

वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा ।
धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति च॥३१॥

धर्मं चरत माऽधर्ममिति तस्य वचः किल ।
पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः॥३२॥

अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः ।
अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम॥३३॥

ते च तस्य समभ्याशे निक्षिप्याण्डानि सर्वशः ।
समुद्राम्भस्यमज्जन्त चरन्तो भीष्म पक्षिणः ।
तेषामण्डानि सर्वेषां भक्षयामास पापकृत्॥३४॥

स हंसः सम्प्रमत्तानामप्रमत्तः स्वकर्मणि ।
ततः प्रक्षीयमाणेषु तेषु तेष्वण्डजोऽपरः ।
अशङ्कत महाप्राज्ञः स कदाचिद्ददर्श ह॥३५॥

ततः स कथयामास दृष्ट्वा हंसस्य किल्बिषम् ।
तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम्॥३६॥

ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समीपगाः ।
निजघ्नस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह॥३७॥

ते त्वां हंससधर्माणमपीमे वसुधाधिपाः ।
निहन्युर्भीष्म सङ्क्रुद्धाः पक्षिणस्तं यथाण्डजम्॥३८॥

ते त्वामिति । ते इमे वसुधाधिपाः शरीररूपायाः पृथिव्या अधिपाश्चालकाः प्राण एकादशेन्द्रियाणि च त्वां निहन्युरपि इतरानिव नानायोनिपातेन हिंस्युरपि न तु हिंसितवन्तः । तत्र हनने दृष्टान्तः। संक्रुद्धाः पक्षिणस्तमण्डजमिवेति । अपिः काक्वा हिंसाया अभाव द्योतयति । तत्र हेतुः हंससधर्माणं हंसाः ध्यानभिक्षवः तत्तुल्यं सदाध्यायिनं जितप्राणेन्द्रियगणमित्यर्थः ॥३८॥

गाथामप्यत्र गायन्ति ये पुराणविदो जनाः ।
भीष्म यां तां च ते सम्यक्वथयिष्यामि भारत॥३९॥

शाब्दपाण्डित्यमेव लोके बहुलं न त्वार्थिकमित्यर्थे पूर्वोक्तकथार्थसंग्राहिका गाथा अस्तीत्याह गाथामिति ॥३९॥

अन्तरात्मन्यभिहते रौषि पत्ररथाशुचि ।
अण्डभक्षणकर्मैतत्तव वाचमतीयते॥४०॥

अभिहते कामादिभिः रौषि वदसि धर्मम् एतत्तव अशुचि अण्डभक्षणकर्म वाचमतीयते उक्तिविरुद्धमित्यर्थः ॥४०॥
॥ इति श्रीमहाभारते सभापर्वणि शिशुपालवधपर्वणि शिशुपालवाक्ये एकचत्वारिंशोऽध्यायः॥४१॥
द्विचत्वारिंशत्तमोऽध्यायः

शिशुपाल उवाच। स मे बहुमतो राजा जरासन्धो महाबलः ।
योऽनेन युद्धं नेयेष दासोयमिति संयुगे॥१॥

एवं भीष्मप्रशंसामुखेन हरिं स्तुत्वा संप्रति जरासंधस्तुत्यापि तं स्तौति स मे इत्यादिना । ‘निर्दोषं हि समं ब्रह्म’ इति गीतोक्तेः समे ब्रह्मणि जरासंधोऽपि बहुमतः श्रेष्ठः यः अयं प्रत्यगात्मा दास इति मत्वाऽनेन स्वामिना कृष्णेन युद्धं न इयेष नेच्छितवान् ॥१॥

केशवेन कृतं कर्म जरासन्धवधे तदा ।
भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते॥२॥

अनेनेत्यन्वादेशादयमर्थस्य प्रतीचः तदर्थेन कृष्णेनाभेदं दर्शयति केशवेनेति कः ब्रह्मा ॥२॥

अद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना ।
दृष्टः प्रभावः कृष्णेन जरासन्धस्य भूपतेः॥३॥

केशवादिभिर्यत्कृतं तदेवाह अद्वारेणेत्यादिना । कृष्णेन जरासंधानुग्रहार्थं गच्छता गजेन्द्रानुग्रह इव चतुर्भुजं गरुडारूढं स्वं रूपं प्रकाशितं किं तु प्रसिद्धमपि कृष्णरूपं ब्राह्मणवेषेणाच्छादितम् । तत् ब्रह्मा साधु मन्यते । अन्यथा सर्वेषां तत्स्वरूपदृशां ब्रह्मलोकोल्लङ्घनेन ब्रह्मणोऽपमानो भवतीति दुःसहं तत्तस्य । तथा च श्रुतिः ‘तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः’ इति । एषां देवानाम् । एतद्ब्रह्म । अद्वारेण प्रवेशादिकं मानुषं नाट्यमनुकुर्वतः शत्रुत्वाभिनयार्थं युक्तमेतत् लौकिकमर्यादाप्रदर्शनार्थम् ॥३॥

येन धर्मात्मनाऽऽत्मानं ब्रह्मण्यमभिजानता ।
नेषितं पाद्यमस्मै तद्दातुमग्रे दूरात्मने॥४॥

स्तुतिपक्षे चतुर्थी षठ्यर्थे । दुरात्मनो लोकस्याग्रे अस्मै कृष्णाय पाद्यं दातुं नेषितं तत्स्वरूपगूहनायेति भावः ॥४॥

भुज्यतामिति तेनोक्ताः कृष्णभीमधनञ्जयाः ।
जरासन्धेन कौरव्य कृष्णेन विकृतं कृतम्॥५॥

विकृतं भोजनप्रत्याख्यानं वैराभिनयायेत्यर्थः ॥५॥

यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे ।
कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति॥६॥

एवं कृष्णेन सह जीवतैवैकमत्यं प्राप्यान्ते कृष्णदर्शनेनैव प्राणांस्त्यजता तत्सायुज्यं प्राप्तमित्याह यद्ययमिति । अयं जरासंधाख्यो जीव एव जगतः कर्त्ता भवेत्तर्हि एनं मूर्खं प्रति यथातथा कस्मात् अन्यसे चेष्टसे मूर्खवदेनं कथं मन्यस इत्यर्थः । अत उत्तरग्रन्थात्कृष्णस्तुतौ भीष्मेण पूतनावधादि असकृज्जरासंधपराजयान्तं च वाक्यजातमुक्तमिति ज्ञेयम् । अयं च ब्राह्मणं ब्राह्मणवेषेणागतं कृष्णं मरणकालेऽपि कस्मात् आत्मानं प्रत्यगात्मभावेन सम्यक् नावगच्छति किं तु अवगच्छत्येव अयं भावः । जीवश्चेत्परस्तर्हि जीवेन कृतं परेणैव कृतमिति जीवो न स्तोतव्यः पर्यनुयोक्तव्यो वा । ‘को ह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो न स्यात्’ इति श्रुतेः । तस्यैव सर्वचेष्टाप्रवर्तकत्वात् । ‘तथा अन्ते मतिः सा गतिः’ इति स्मृतेरन्ते कृष्णं पश्यतः कृष्णभावः सिद्ध इति तस्य लोकदृष्ट्या कृष्णद्रोहित्वेऽपि न काचिद्धानिः । अन्ते कृष्णदर्शनहेतोरनेकजन्मान्तरानुष्ठितस्य पुण्यपुञ्जस्य सत्तवात्पुण्यवानेवेति स मन्तव्य इति ॥६॥

इदं त्वाश्चर्यभूतं मे यदिभे पाण्डवास्त्वया ।
अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति॥७॥

एवं मूर्खाणां विरुद्धवदाभासमानैर्वाक्यैः कृष्णं तद्भक्तांश्च स्तुत्वा संप्रत्यनुपदोक्तरीत्या सद्यः कैवल्यप्राप्तये कृष्णसंनिधौ मृत्युसंपादनार्थं तानेव निन्दति स्पष्टार्थैर्वाक्यैः । इदं त्वित्यादिना । तु शब्द उक्तवैपरीत्यद्योतनार्थः ॥७॥

अथवा नैतदाश्चर्यं येषां त्वमसि भारत ।
स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः॥८॥

वैशम्पायन उवाच। तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु ।
चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान्॥९॥

रूक्षम् अर्थतः रूक्षाक्षरं शब्दतश्च ॥९॥

तथा पद्मप्रतीकाशे स्वभावायतविस्तृते ।
भूयः क्रोधाभिताम्राक्षे रक्ते नेत्रे बभूवतुः॥१०॥

त्रिशिखां भ्रकुटीं चास्य ददृशुः सर्वपार्थिवाः ।
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव॥११॥

दन्तान्संदशतस्तस्य कोपाद्ददृशुराननम् ।
युगान्ते सर्वभूतानि कालस्येव जिघत्सतः॥१२॥

उत्पतन्तं तु वेगेन जग्राहैनं मनस्विन् ।
भीष्म एव महाबाहुर्महासेनमिवेश्वरः॥१३॥

महासेनं कार्तिकेयम् ॥१३॥

तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत ।
गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः॥१४॥

नातिचक्राम भीष्मस्य स हि वाक्यमरिन्दमः ।
समुद्वृत्तो घनापाये वेलामिव महोदधिः॥१५॥

शिशुपालस्तु सङ्क्रुद्धे भीमसेने जनाधिप ।
नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः॥१६॥

उत्पतन्तं तु वेगेन पुनः पुनररिन्दमः ।
न स तं चिन्तयामास सिंहः क्रुद्धो मृगं यथा॥१७॥

प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान् ।
भीमसेनमभिक्रुद्धं दृष्ट्वा भीमपराक्रमम्॥१८॥

मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपः ।
मत्प्रभावविनिर्दग्धं पतङ्गमिव वह्निना॥१९॥

ततश्चेदिपतेर्वाक्यं श्रुत्वा तत्कुरुसत्तमः ।
भीमसेनमुवाचेदं भीष्मे मतिमतां वरः॥२०॥

॥ इति श्रीमहाभारते सभापर्वणि शिशुपालवधपर्वणि भीमक्रोधे द्विचत्वारिंशोऽध्यायः॥४२॥
त्रिचत्वारिंशत्तमोऽध्यायः

भीष्म उवाच। चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः ।
रासभारावसदृशं ररास च ननाद च॥१॥

ररास शब्दं चकार ॥१॥

तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ ।
वैकृतं तस्य तौ दृष्ट्वा त्यागाय कुरुतां मतिम्॥२॥

ततः सभार्यं नृपतिं सामात्यं सपुरोहितम् ।
चिन्तासंमूढहृदयं वागुवाचाशरीरेणी॥३॥

एष ते नृपते पुत्रः श्रीमाञ्जातो बलाधिकः ।
तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम्॥४॥

न च वै तस्य मृत्युर्वै न कालः प्रत्युपस्थितः ।
मृत्युर्हन्तास्य शस्त्रेण स चोत्पन्नो नराधिप॥५॥

मृत्युः स्थूलदेहवियोगः । कालः यमः मृत्युः हन्ता ॥५॥

संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः ।
पुत्रस्नेहाभिसन्तप्ता जननी वाक्यमब्रवीत्॥६॥

येनेदमीरितं वाक्यं ममैतं तनयं प्रति ।
प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः॥७॥

याथातथ्येन भगवान्देवो वा यदि वेतरः ।
श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति॥८॥

अन्तर्भूतं ततो भूतमुवाचेदं पुनर्वचः ।
यस्योत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ॥९॥

पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ ।
तृतीयमेतद्बालस्य ललाटस्थं तु लोचनम्॥१०॥

निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति ।
त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम्॥११॥

तथा चेति । रासभारावसदृशं समुदाहृतं शब्दम् ॥११॥

पृथिव्यां पार्थिवाः सर्वे अभ्यागच्छन्दिदृक्षवः ।
तान्पूजयित्वा सम्प्राप्तान्यथार्हं स महीपतिः॥१२॥

एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा ।
एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम्॥१३॥

शिशुरङ्कसमारूढो न तत्प्राप निदर्शनम् ।
एतदेव तु संश्रुत्य द्वारवत्यां महाबलौ॥१४॥

ततश्चेदिपुरं प्राप्तौ सङ्कर्षणजनार्दनौ ।
यादवौ यादवीं द्रुष्टुं स्वसारं तौ पितुस्तदा॥१५॥

निदर्शनं बाहुपातादिकं ज्ञापकम् ॥१५॥

अभिवाद्य यथान्यायं यथाश्रेष्ठं नृपं च ताम् ।
कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ॥१६॥

कुशलं बलकोशादिवृद्धिः अनामयम् आरोग्यम् ॥१६॥

साऽभ्यर्च्य तौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः ।
पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम्॥१७॥

न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ ।
पेततुस्तच्च नयनं न्यमज्जत ललाटजम्॥१८॥

तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत ।
ददस्व मे वरं कृष्ण भयार्ताया महाभुज॥१९॥

त्वं ह्यार्तानां समाश्वासो भीतानामभयप्रदः ।
एवमुक्तस्ततः कृष्णः सोऽब्रवीद्यदुनन्दनः॥२०॥

मा भैस्त्वं देवि धर्मज्ञे न मत्तोऽस्ति भयं तव ।
ददामि कं वरं किं च करवाणि पितृष्वसः॥२१॥

शक्यं वा यदि वाऽशक्यं करिष्याणि वचस्तव ।
एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम्॥२२॥

शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल ।
मत्कृते यदुशार्दूल विद्ध्येनं मे वरं प्रभो॥२३॥

कृष्ण उवाच। अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः ।
पुत्रस्य ते वधार्हस्य मा त्वं शोके मनः कृथाः॥२४॥

अपराधशतमिति । हि प्रसिद्धम् । वधार्हाणामन्येषामपि मया अपराधशतं क्षाम्यम् । हे पितृष्वसः ते पुत्रस्य तु संबन्धवशात्सर्वथा क्षाम्यमेवेत्यर्थः ॥२४॥

भीष्म उवाच। एवमेष नृपः पापः शिशुपाः सुमन्दधीः ।
त्वां समाह्वयते वीर गोविन्दवरदर्पितः॥२५॥

यः आह्वयते युद्धायेति शेषः ॥२५॥
॥ इति श्रीमहाभारते सभापर्वणि शिशुपालवधपर्वणि शिशुपालवृत्तान्तकथने त्रिचत्वारिंशोऽध्यायः॥४३॥
चतुश्चत्वारिंशत्तमोऽध्यायः

भीष्म उवाच। नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम् ।
नूनमेव जगद्भर्तुः कृष्णस्यैव विनिश्चयः॥१॥

कृष्णस्यैव विनिश्चय इत्यनेन कृष्णप्रेरितोऽयं प्रलपतीत्युक्तम् ॥१॥

को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः ।
क्षेप्तुं कालपरीतात्मा यथैष कुलपांसनः॥२॥

कालपरीतात्मा कालेन ग्रस्तदेहः ॥२॥

एष ह्यस्य महाबाहुस्तेजोंशश्च हरेर्ध्रुवम् ।
तमेव पुनरादातुमिच्छत्युत तथा बिभुः॥३॥

हरेस्तेजोंशस्यास्य शिशुपालस्य । एष हरिस्तं स्वांशम् आदातुं सहर्तुम् ऐच्छत् । पुनः शब्दो हिरण्यकशिप्वाद्यपेक्षया ॥३॥

येनैष कुरुशार्दूल शार्दूल इव चेदिराट् ।
गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन्॥४॥

वैशम्पायन उवाच। ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा ।
उवाच चैन सङ्क्रुद्धः पुनर्भीष्ममथोत्तरम्॥५॥

समुमूर्षुः कृष्णं कोपयितुं मिथ्यैव संक्रुद्धोऽपि सन् उत्तरम् उत्कृष्टतरं वचनम् उवाच ॥५॥

शिशुपाल उवाच। द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः ।
यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः॥६॥

पुनस्तदेवाह द्विषतां न इति । समानाधिकरणे षष्ठ्यौ । केशवस्य यः प्रभावः स द्विषतां तं द्विषतामप्यस्माकमस्तु ॥६॥

संस्तवे च मनो भीष्म परेषां रमते यदि ।
तदा संस्तौषि राज्ञस्त्वमिमं हित्वा जनार्दनम्॥७॥

एवम् ईश्वरप्रभावं प्रार्थ्य तन्मूलहेतुं द्वेषमाहेतरस्तवेन संस्तवे चेत्यादिना । हित्वेति दधातेः रूपम् । जनार्दनं हृदि निधाय तद्रूपत्वेन इतरान् राज्ञस्तुहीत्यर्थः । निन्दापक्षे त्वृजुरेवार्थः ॥७॥

दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम् ।
जायमानेन येनेयमभवद्दारिता मही॥८॥

जायमानेनेति पाठे दारिता भीमेन मातुरङ्कात्पतता शिलेव येन मही विदारिता । यजमानेनेति पाठे ऋत्विग्भ्यो दित्सता भयं प्रापिता । ब्राह्मणानामाधिपत्ये खलनिग्रहायोगादिति भावः ॥८॥

वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले ।
स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम्॥९॥

यस्येमे कुण्डले दिव्ये सहजे देवनिर्मिते ।
कवचं च महाबाहो बालार्कसदृशप्रभम्॥१०॥

वासवप्रतिमो येन जरासन्धोऽतिदुर्जयः ।
विजितो बाहुयुद्धेन देहभेदं च लम्भितः॥११॥

द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ ।
स्तुहि स्तुत्यावुभौ भीष्म सततं द्विजसत्तमौ॥१२॥

ययोरन्यतरो भीष्म सङ्क्रुद्धः सचराचराम् ।
इमां वसुमतीं कुर्यान्निःशेषामिति मे मतिः॥१३॥

द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम् ।
नाश्वत्थाम्नः समं भीष्म न च तौ स्तोतुमिच्छसि॥१४॥

पृथिव्यां सागरान्तायां यो वै प्रतिसमो भवेत् ।
दुर्योधनं त्वं राजेन्द्रमतिक्रम्य महाभुजम्॥१५॥

वैप्रतिसमः विगतः प्रतिसमो यस्य स तथा स्वार्थे तद्धितः अतुल इत्यर्थः ॥१५॥

जयद्रथं च राजानं कृतास्त्रं दृढविक्रमम् ।
द्रुमं किं पुरुषाचार्यं लोके प्रथितविक्रमम् ।
अतिक्रम्य महावीर्यं किं प्रशंससि केशवम्॥१६॥

केशवम् अतिक्रम्य जयद्रथं किं प्रशंससीति योज्यम् । निन्दापक्षे तु स्पष्ट एवार्थः ॥१६॥

वृद्धं च भरताचार्यं तथा शारद्वतं कृपम् ।
अतिक्रम्य महावीर्यं किं प्रशंससि केशवम्॥१७॥

धनुर्धराणां प्रवरं रुक्मिणं पुरुषोत्तमम् ।
अतिक्रम्य महावीर्यं किं प्रशंससि केशवम्॥१८॥

भीष्मकं च महावीर्यं दन्तवक्त्रं च भूमिपम् ।
भगदत्तं यूपकेतुं जयत्सेनं च मागधम्॥१९॥

विराटद्रुपदौ चोभौ शकुनिं च बृहद्बलम् ।
विन्दानुविन्दावावन्त्यौ पाण्ड्यं श्वेतमथोत्तमम्॥२०॥

शङ्खं च सुमहाभागं वृषसेनं च मानिनम् ।
एकलव्यं च विक्रान्तं कालिङ्गं च महारथम्॥२१॥

अतिक्रम्य महावीर्यं किं प्रशंसति केशवम् ।
शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान् ।
स्तवाय यदि ते बुद्धिर्वर्तते भीष्म सर्वदा॥२२॥

शल्यादीनिति । स्तवाय स्तूयते इति व्युत्पत्त्या स्तवः परमेश्वरस्तस्मै तत्प्राप्तये किं न स्तौषि । अपि तु सर्वान्परमेश्वरत्वेनैव स्तुहीत्यर्थः ॥२२॥

किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप ।
पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम्॥२३॥

किं हीति । पितामात्रेतिवत्सहार्थयोगाभावेऽपि तृतीया । वृद्धतमेन त्वया सह कथयताम् उपदिशतां वृद्धानां वचनं यतो मया न श्रुतम् अतः किं कर्तुं शक्यम् अज्ञत्वादकिंचित्करोमित्यर्थः ॥२३॥

आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः ।
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम्॥२४॥

एवं स्वगर्वं परिहृत्य यत् ज्ञानं तदाह आत्मेति । देहबुद्ध्या आत्मपरयोः स्तवो वा ईश्वरबुद्ध्या तयोर्द्वेषो वा न कर्तव्य इति ते त्वत्तः नः अस्माभिः श्रुतमिति योज्यम्॥२४॥

यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः ।
केशवं तच्च ते भीष्म न कश्चिदनुमन्यते॥२५॥

अस्तव्यं वाचामगोचरत्वात् । मोहात् मोहम् अज्ञानम् आश्रित्येति ल्यब्लोपे पञ्चमी । मायिकैर्गुणैः सर्वैश्वर्यादिभिः । निर्विशेषचिन्मात्रस्य केशवस्य स्तवं कश्चित्तदभिज्ञो नानुमन्यते ॥२५॥

कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि ।
समावेषयसे सर्वं जगत्केवलकाम्यया॥२६॥

एतदेवाह कथमिति । भो भीष्म अजस्याविद्योपाधेर्जीवस्य पुरुषे पुरि शये अन्तरात्मनि सच्चिदानन्दरूपे वर्गः देहेन्द्रियादिसंघातः तस्य पालयितरि को ह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् इति श्रुतेः । अदुरात्मनि उपाधिधर्मकालुष्याद्दुःस्थित आत्मा दुरात्मा विराट्सूत्रेश्वराख्यः तद्भिन्ने जगत्कथं समावेशयसे । न हि मृद्घटन्यायेनात्र जगत्समावेशः अपरिणामित्वादस्य । किं तर्हि रज्जुसर्पन्यायेन तथा चाज्ञानमेव जगदुपादानम् अयं तु तदधिष्ठानमात्रम् । यथोक्तम् ‘अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम् । अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुच्यते’ इति । केवलस्य निर्गुणस्य काम्यया इच्छया । सगुणोपासकानां निर्गुणप्राप्तिः सद्यो न संभवतीत्यर्थः । पक्षे भोजस्य कंसस्य । वर्गपाले गोसंघपाले ॥२६॥

अथ चैषा न ते बुद्धिः प्रकृतिं याति भारत ।
मयैव कथितं पूर्वं भूलिङ्गशकुनिर्यथा॥२७॥

अथ चेति । ते त्वत्संबन्धिनाम् एषां पुंसां बुद्धिः प्रकृतिं न याति स्वकारणे न लीयते तर्हि भूलिङ्गशकुनिर्यथान्यद्वदत्यन्यत्करोति तद्वत्ते शुद्धं कामयन्ते शबलं वदन्तीत्यर्थः । भुवं लिङ्गतीति भूलिङ्गो बिलशायी पक्षिविशेषः । एषेति पाठे एषा अस्मदीया बुद्धिः ते त्वदीया त्वद्दत्तेति योज्यम् । तदा स्वस्यैव शकुन्युपमत्वम् ॥२७॥

भूलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे ।
भीष्म तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः॥२८॥

अर्थविगर्हिताः उक्तिविपरीतक्रियया अर्थो विगर्हितो यासां ताः ॥२८॥

मा साहसमितीदं सा सततं वाशते किल ।
साहसं चात्मनातीव चरन्ती नावबुध्यते॥२९॥

वाशते शब्दं करोति ॥२९॥

सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः ।
दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना॥३०॥

मांसार्गलं दंष्ट्रान्तरलग्नस्य मांसस्य बहिर्निर्गतभागम् उल्लोलम् ॥३०॥

इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम् ।
तद्वत्त्वमप्यधर्मिष्ठ सदा वाचः प्रभाषसे॥३१॥

इच्छत इति । सा हि पक्षिणी मृत्युमुखे प्रविष्टापि तदुपेक्षया जीवन्ती यथा लोकानुपदिशति मा साहसमिति । तथा त्वमपि देहधारित्वान्मृत्युमुखे पतितोऽपि मृत्युना उपेक्षितो जीवसि अस्मांश्चोपदिशसि मृत्युमुखे न पतितव्यमिति तत्र हेतुः । अधर्मिष्ठेति सर्वधर्मशून्यं ब्रह्म अधर्मि तन्निष्ठ ब्रह्मनिष्ठो हि मृत्युमुखे न पततीति वेदशास्त्रप्रसिद्धम् ॥३१॥

इच्छतां भूमिपालानां भीष्म जीवस्य संशयम् ।
लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः॥३२॥

अत्रैव हेत्वन्तरमाह इच्छतामिति पूजायां बहुवचनं शान्तनोः स्वपितुरिच्छया वरदानेनापि जीवसीत्यर्थः । लोकविदिति द्विष्टकर्मेति च च्छेदः लोक आत्मा ‘आत्मानमेव लोकमुपासीत’ इति श्रुते तद्वित् द्विष्टं द्वेषयुक्तं हिंस्रं क्षात्र कर्म यस्येत्येवंविधोऽपि क्षत्रियोऽपि अत्यन्तं ब्रह्मविदसीत्यर्थ पक्षान्तरे तु स्पष्टार्थः एष ग्रन्थः ॥३२॥

वैशम्पायन उवाच। ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः ।
उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः॥३३॥

इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम् ।
सोऽहं न गणयाम्येतांस्तृणेनापि नराधिपान्॥३४॥

एवं गूढाभिसंधिना शिशुपालेन स्तुतोऽपि भीष्मस्तस्याभिलषितं कैवल्यं दातुं तदुक्तीनां रूढ्या निन्दापरत्वमाश्रित्य वैरमुद्योतयन्नुवाच इच्छतां किलेत्यादिना ॥३४॥

एवमुक्ते तु भीष्मेण ततः सञ्चुक्रुशुर्नृपाः ।
केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे॥३५॥

केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य यद्वचः ।
पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम्॥३६॥

हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपाः ।
सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना॥३७॥

कटाग्निना कक्षाग्निना ॥३७॥

इति तेषां वचः श्रुत्वा ततः कुरुपितामहः ।
उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान्॥३८॥

उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये ।
यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः॥३९॥

पशुवद्घातनं वा मे दहनं वा कटाग्निना ।
क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम्॥४०॥

एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः ।
यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम्॥४१॥

कृष्णमाह्वयतामद्य युद्धे चक्रगदाधरम् ।
यादवस्यैव देवस्य देहं विशतु पातितः॥४२॥

कृष्णमिति देहं विशत्वित्यनेन स्वस्य शिशुपालीयं वैकुण्ठात्पतनादिकं पूर्ववृत्तं विदितमस्तीति दर्शितम् ॥४२॥
॥ इति श्रीमहाभारते सभापर्वणि शिशुपालवधपर्वणि भीष्मवाक्ये चतुश्चत्वारिंशोऽध्यायः॥४४॥
पञ्चचत्वारिंशत्तमोऽध्यायः

वैशम्पायन उवाच। वचः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः ।
युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह॥१॥

उरुविक्रमः उरुर्महान् विश्वव्यापी विक्रमः पादविक्षेपो स शिशुपाले हरिणासहाभेदात् ॥१॥

आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन ।
यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः॥२॥

तावत् रणं गच्छा यावत्त्वां निहन्मि निश्चयेन प्राप्नोमि। हन्तेर्गत्यर्थत्वेन प्राप्त्यर्थत्वात् सद्यः कैवल्येप्सुं मां जरासंधमिव जितमात्रं मा मुञ्चेत्यर्थः । सहितं सर्वपाण्डवैरिति पाण्डवानामपि विष्ण्वशत्वं दर्शयति॥२॥

सह त्वया हि मेऽवध्याः सर्वथा कृष्ण पाण्डवाः ।
नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः॥३॥

अवध्याः अवधौ मर्यादायां साधवः मर्यादापरिपालकाः मे मताः एष सेतुर्विधृतिरेषां लोकानामसंभेदायेति परमात्मनस्तावन्मर्यादाविधारकत्वं स्पष्टम् । तदंशत्वात्पाण्डवानामपीत्यर्थः । अत्र हेतुमाह नृपतीनिति । अराजा नास्ति रञ्जकोऽस्मादन्य इति अराजा । ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति एष ह्येवानन्दयाति’ इत्यादिना परमात्मन एव मुख्यरञ्जकत्वश्रुतेः ॥३॥

ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम् ।
अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः॥४॥

त्वांदासं त्वाम् अदासमिति छेदः । त्वा त्वाम् अन्दो बन्धः अंदि बन्धने धातुः । तम् अस्यति क्षिपतीति अदा संबन्धनाशकं बाल्यादारभ्येति शेषः । दुर्मतिम् अनर्हं दुःस्थितां मतिं प्रवेष्टुम् अनर्हमित्यर्थः। अर्हवत्पूज्यवत् तेऽपि वध्याः । अवोपसर्गस्य भागुरिमतेन अकारलोपः पूर्ववदर्थः ॥४॥

इत्युक्त्वा राजशार्दूलस्तस्थौ गर्जन्नमर्षणः ।
एवमुक्तस्ततः कृष्णो मृदुपूर्वमिदं वचः ।
उवाच पार्थिवान्सर्वान्स समक्षं च वीर्यवान्॥५॥

एष नः शत्रुरत्यन्तं पार्थिवाः सात्वतीसुतः ।
सात्वतां नृशंशात्मा न हितोनपकारिणाम्॥६॥

एवं गूढाशयेन स्तुतोऽपि भगवान् रूढ्यर्थाभिप्रायेण लोकदृष्ट्या तं हन्तुं वैरमाविष्करोति । एष नः शत्रुरित्यादिना । नहितः सुप्सुपेति समासः नेकधेत्यादिवत् द्वेषीत्यर्थः ॥६॥

प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत् ।
अदहद्द्वारकामेष स्वस्त्रीयः सन्नराधिपाः॥७॥

क्रीडतो भोजराजस्य एष रैवतके गिरौ ।
हत्वा बध्वा च तान्सार्वानुपायात्स्वपुरं पुरा॥८॥

अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम् ।
पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः॥९॥

सौवीरान्प्रतियातां च बभ्रोरेष तपस्विनः ।
भार्यामभ्यहरन्मोहादकामां तामितो गताम्॥१०॥

सौवीरान् देशविशेषान् इतो हस्तिनापुरात् गतां प्रस्थिताम् । सौवीरात्प्रतिपत्तौ चेति पाठे प्रतिपत्तौ विवाहकाले बभ्रोर्यादवस्य ॥१०॥

एष मायाप्रतिच्छन्नः कारूशार्थे तपस्विनीम् ।
जहार भद्रां वैशालीं मातुलस्य नृशंसकृत्॥११॥

दोषान्तरमाह एष इति करूषो देशभेदः तद्राजार्थेऽण् मायां प्रतिच्छन्नः कपटेन तद्वेषं कृत्वेत्यर्थः । वैशालीं विशालपुरीं तदधिपस्य कन्याम् ॥११॥

पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम् ।
दिष्ट्या हीदं सर्वराज्ञां सन्निधावद्य वर्तते॥१२॥

पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम् ।
कृतानि तु परोक्षं मे यानि तानि निबोधत॥१३॥

तानि पूर्वोक्तानि निबोधत ॥१३॥

इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम् ।
अवलेपाद्वधार्हस्य समग्रे राजमण्डले॥१४॥

रुक्मिण्यामस्य मूढस्य प्रार्थनाऽऽसीन्मुमूर्षतः ।
न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतीमिव॥१५॥

वैशम्पायन उवाच। एवमादि ततः सर्वे सहितास्ते नराधिपाः ।
वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन्॥१६॥

तस्य तद्वचनं श्रुत्वा शिशुपालः प्रतापवान् ।
जहास स्वनवद्धासं वाक्यं चेदमुवाच ह॥१७॥

मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन् ।
विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम्॥१८॥

मत्पूर्वां पित्रादिभिः पूर्वं मह्यं प्रतिश्रुताम् ॥१८॥

मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत् ।
अन्यपूर्वां स्त्रियं जातु त्वदन्यो मधूसूदन॥१९॥

मन्यमानः स्वीकुर्वाणः ॥१९॥

क्षमा वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम ।
क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यति॥२०॥

क्षम क्षमस्व श्रद्धापितृष्वसुर्वचसि अवश्यानुष्ठेयत्वबुद्धिः ॥२०॥

तथा ब्रुवत एवास्य भगवान्मधुसूदनः ।
मनसाऽचिन्तयच्चक्रं दैत्यवर्गानपूदनम् ॥२१॥

एतस्मिन्नेव काले तु चक्रे हस्तगते सति ।
उवाच भगवानुच्चैर्वाक्यं वाक्यविशारदः ॥२२॥

शृण्वन्तु मे महीपाला येनैतत्क्षमितं मया ।
अपराधशतं क्षाम्यं मातुरस्यैव याचने ॥२३॥

याचत इति पाठे याचनं याचः तस्मात्प्रथमार्थे तसिः ॥२३॥

दत्तं मया याचितं च तानि पूर्णानि पार्थिवाः ।
अधुना वधयिष्यामि पश्यतां वो महीक्षिताम्॥२४॥

याचितं मया दत्तं प्रतिश्रुतम् । तानि शतम् अपराद्धानि । वधयिष्यामि वधं प्रापयिष्यामि । ण्यन्ताद्वधशब्दात् लृट् ॥२४॥

एवमुक्त्वा यदुश्रेष्ठश्चेदिराजस्य तत्क्षणात् ।
व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः ॥२५॥

स पपात महाबाहुर्वज्राहत इवाचलः ।
ततश्चेदिपतेर्दैहात्तेजोग्र्यं ददृशुर्नृपाः ॥२६॥

तेजो लिङ्गशरीरम् अग्र्यं संसारानादितयाऽनादि ॥२६॥

उत्पतन्तं महाराज गगनादिव भास्करम् ।
ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् ।
ववन्दे तत्तदा तेजो विवेश च निराधिप ।
२७॥

तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षीतः ।
यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम्॥२८॥

तच्च भगवता स्वमहिमानं प्रकाशयता सर्वेषां दृष्टिविषयीकृतं तेन अद्भुततमम् एतद्दर्शनम् । यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तममित्यन्तस्य शिशुपालवधस्य तात्पर्यं द्वेषादिनाप्यन्ते भगवत्स्मरणं तत्प्राप्तिहेतुरिति यथोक्तं श्रीमद्भागवते । ‘गोप्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादयो नृपाः । संबन्धाद्वृष्णयः स्नेहाद्यूयं भक्त्या वयं प्रभो’ इति कृष्णं प्राप्ता इति शेषः ॥२८॥

अनम्रे प्रववर्ष द्यौः पपात ज्वालिताशनिः ।
कृष्णेने निहते चैद्ये चचाल च वसुंधरा ॥ २९॥

ततः केचिन्महीपाला नाब्रुवंस्तत्र किंचन ।
अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम् ॥३०॥

हस्तैर्हस्ताग्रमपरे प्रत्यर्पिषन्नमर्षिताः ।
अपरे दशनैरोष्ठामदशन्क्रोधमूर्च्छिताः ॥३१॥

रहश्च केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः ।
केचिदेव सुसंरब्धा मध्यस्थास्त्वपरेऽभवन्॥३२॥

प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः ।
ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः॥३३॥

शशंसुनिर्वृताः सर्वे दृष्ट्वा कृष्णस्य विक्रमम् ।
पाण्डवस्त्वब्रवीद्भ्रातॄन्सत्कारेण महीपतिम् ॥३४॥

दमयोषात्मजं वीरं संस्कारयत मा चिरम् ।
तथा च कृतवन्तस्ते भ्रातुर्वे शासनं तदा ॥३५॥

चेदीनामाधिपत्ये च पुत्रमस्य महपितेः ।
अभ्यषिञ्चत्तदा पार्थः सह तैर्वसुधाधिपैः॥३६॥

ततः स कुरुराजस्य ऋतुः सर्वसमृद्धिमान् ।
यूनां प्रीतिकरो राजन्स बभौ विपुलौजसः॥३७॥

शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान् ।
अन्नवान्बहुभक्ष्यञ्च केशवेन सुरक्षितः ॥३८॥

समापयामास च तं राजसूयं महाक्रतुम् ।
तं तु यशं महाबाजुरासमाप्तेर्जनार्दनः ।
ररक्ष भगवाञ्शौरिः शार्ङ्गचक्रगदाधरः ॥३९॥

ततस्त्ववभृथस्नातं धर्मात्मानं युधिष्ठिरम् ।
समस्त पार्थिवं क्षत्रमुपगम्येदमब्रवीत् ॥४०॥

दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवानसि ।
आजमीढाजमीढानां यशः संवर्धितं त्वया ॥४१॥

कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः ।
आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः॥४२॥

स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि ।
श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः ॥४३॥

सयथार्हं पूज्य नृपतीभ्रातॄन्सर्वानुवाच ह ।
राजानः सर्व एवैते प्रीत्यास्मान्समुपागताः ॥ ४४॥

प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छ्य परंतपाः ।
अनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान् ॥४५॥

भ्रातुर्वचनमाक्षाय पाण्डवा धर्मचारिणः ।
यथार्हं नृपतीन्सर्वानेकैकं समनुव्रजन् ॥४६॥

विराटमन्वयात्तूर्णं धृष्टद्युम्नः प्रतापवान् ।
धनंजयो यशसेन महात्मानं महारथम् ॥४७॥

भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः ।
द्रोणं तु ससुतं वीरं सहदेवो युधां पतिः ॥४८॥

नकुलः सुबलं राजन्सहपुत्रं समन्वयात् ।
द्रौपदेयाः ससौमद्राः पार्वतीयान्महारथान्॥४९॥

अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः ।
एवं सुपूजिताः सर्वे जग्मुर्विप्राः सहस्रशः ॥५०॥

गतेषु पार्थिवेन्द्रेषु सर्वेषु ब्राह्मणेषु च ।
युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान् ॥५१॥

आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन ।
राजसूयं ऋतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि ॥५२॥

तमुवाचैवमुक्तस्तु धर्मराजो जनार्दनम् ।
तव प्रसादाद्गोविन्द प्राप्तः क्रतुवरो मया ॥५३॥

क्षत्रं समग्रमपि च त्वत्प्रसादाद्वशे स्थितम् ।
उपादाय बलिं मुख्यं मामेव समुपस्थितम् ॥५४॥

कथं त्वद्गमनार्थं मे वाणी वितरतेनघ ।
न त्वहं त्वामृते वीर रातिं प्राप्नोमि कर्हिचित्॥५५॥

अवश्यं चैव गन्तव्या भवता द्वारकापुरी ।
एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान् ॥५६॥

अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः ।
साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः॥ ५७॥

सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नहि ।
अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे॥ ५८॥

सुभद्रां द्रौपदीं चैष समाजयत केशवः ।
निष्क्रम्यान्तः पुरात्तस्माद्युधिष्ठिरसहायवान् ॥५९॥

सभाजयत प्रीणितवान् ॥५९॥

स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च ।
ततो मेघवपुः प्रख्यं स्यन्दनं च सुकल्पितम् ।
योजयित्वा महाबाहुर्दारुकः समुपस्थितः ॥ ६०॥

उपस्थितं रथं दृष्ट्वा तार्थ्यप्रवरकेतनम् ।
प्रदक्षिणमुपावृत्य समारुह्य महामनाः॥६१॥

प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम्॥६२॥

तं पद्भ्यानुवव्राज धर्मराजो युधिष्ठिरः ।
भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम् ॥६३॥

ततो मुहूर्तं संगृह्य स्यन्दनप्रवरं हरिः ।
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम्॥ ६४॥

अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशांपते ।
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ॥ ६५॥

बान्धवास्त्वोपजीवन्तु सहस्त्राक्षमिवामराः ।
कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ ॥ ६६॥

अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति ।
गते द्वारवतीं कृष्णे सात्वतप्रवरै नृप ॥६७॥

अनुगमनादिशिष्टाचारप्रदर्शकोऽध्यायशेषः स्पष्टार्थः ॥६७॥

एको दुर्योधनो राजा शकुनिश्चापि सौबलः ।
तस्यां सभायां दिव्यायामूषतुस्तौ नरर्षभौ॥६८॥

॥ इति श्रीमहाभारते सभापर्वणि शिशुपालवधपर्वणि शिशुपालवधे पञ्चचत्वारिंशोऽध्यायः॥ ४५॥
समाप्तं शिशुपालवधपर्व॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in