वैशम्पायन उवाच।
समाप्ते राजसुये तु क्रतुश्रेष्ठे सुदुर्लभे
।
शिष्यैः परिवृतो व्यासः पुरस्तात्समपद्यत॥१॥
सोऽभ्ययादासनात्तूर्णं भ्रातृभिः परिवारितः
।
पाद्येनासनदानेन पितामहमपूजयत्॥२॥
अथोपविश्य भगवान्काञ्चने परमासने
।
आस्यतामिति चोवाच धर्मराजं युधिष्ठिरम्॥३॥
अथोपविष्टं राजानं भ्रातृभिः परिवारितम्
।
उवाच भगवान्व्यासस्तत्तद्वाक्यविशारदः॥४॥
दिष्ट्या वर्धसि कौन्तेय साम्राज्यं प्राप्य दुर्लभम्
।
वर्धिताः कुरवः सर्वे त्वया कुरुकुलोद्वह॥५॥
आपृच्छे त्वां गमिष्यामि पूजितोऽस्मि विशाम्पते
।
एवमुक्तः स कृष्णेन धर्मराजो युधिष्ठिरः॥६॥
अभिवाद्योपसङ्गृह्य पितामहमथाब्रवीत्
।
युधिष्ठिर उवाच।
संशयो द्विपदां श्रेष्ठ ममोत्पन्नः सुदुर्लभः॥७॥
तस्य नान्योऽस्ति वक्ता वै त्वामृते द्विजपुङ्गव
।
उत्पातांस्त्रिविधान्प्राह नारदो भगवानृषिः॥८॥
दिव्यांश्चैवान्तरिक्षांश्च पार्थिवांश्च पितामह
।
अपि चैद्यस्य पतनाच्छान्नमौत्पातिकं महत्॥९॥
दिव्याः अशनिपातादयः आन्तरिक्षाः धूमकेत्वादयः पार्थिवाः भूकम्पादयः ॥९॥
वैशम्पायन उवाच।
राज्ञस्तु वचनं श्रुत्वा पराशरसुतः प्रभुः
।
कृष्णद्वैपायनो व्यास इदं वचनमब्रवीत्॥१०॥
त्रयोदश समा राजन्नुत्पातानां फलं महत्
।
सर्वक्षत्रविनाशाय भविष्यति विशाम्पते॥११॥
त्वामेकं कारणं कृत्वा कालेन भरतर्षभ
।
समेतं पार्थिवं क्षत्रं क्षयं यास्यति भारत
।
दुर्योधनापराधेन भीमार्जुनबलेन च॥१२॥
स्वप्नं द्रक्ष्यसि राजेन्द्र क्षपान्ते त्वं वृषध्वजम्
।
नीलकण्ठं भवं स्थाणुं कपालिं त्रिपुरान्तकम्॥१३॥
कपालिं कपालिनम् । सुपां सुलुगिति आर्षे द्वितीयालोपे सति परमे व्योमन्नित्यादिवत् प्रातिपदिकमात्रं शिष्यते । विभक्तेः स्थानिवत्त्वान्नलोपाभावः तस्य चापदां तस्थत्वादनुस्वारोपि भवतीति । मत्वर्थीयं प्रत्ययान्तरं वा कल्प्यम् एवमन्यत्रापि ज्ञेयम् ॥१३॥
उग्रं रुद्रं पशुपतिं महादेवमुमापतिम्
।
हरं शर्वं वृषं शूलं पिनाकिं कृत्तिवाससम्॥१४॥
कैलासकूटप्रतिमं वृषभेऽवस्थितं शिवम्
।
निरीक्षमाणं सततं पितृराजाश्रितां दिशम्॥१५॥
एवमीदृशकं स्वप्नं द्रक्ष्यसि त्वं विशाम्पते
।
मा तत्कृते ह्यनुध्याहि कालो हि दुरतिक्रमः॥१६॥
स्वस्ति तेऽस्तु गमिष्यामि कैलासं पर्वतं प्रति
।
अप्रमत्तः स्थितो दान्तः पृथिवीं परिपालय॥१७॥
वैशम्पायन उवाच।
एवमुक्त्वा स भगवान्कैलासं पर्वतं ययौ
।
कृष्णद्वैपायनो व्यासः सह शिष्यैः श्रुतानुगैः॥१८॥
गते पितामहे राजा चिन्ताशोकसमन्वितः
।
निश्वसन्नुष्णमसकृत्तमेवार्थं विचिन्तयन्॥१९॥
कथं तु दैवं शक्येत पौरुषेण प्रबाधितुम्
।
अवश्यमेव भविता यदुक्तं परमर्षिणा॥२०॥
ततोऽब्रवीन्महातेजाः सर्वान्भ्रातॄन्युधिष्ठिरः
।
श्रुतं वै पुरुषव्याघ्रा यन्मां द्वैपायनोऽब्रवीत्॥२१॥
तदा तद्वचनं श्रुत्वा मरणे निश्चिता मतिः
।
सर्वक्षत्रस्य निधने यद्यहं हेतुरीप्सितः॥२२॥
कालेन निर्मितस्तात को ममार्थोऽस्ति जीवतः
।
एवं ब्रुवन्तं राजानं फाल्गुनः प्रत्यभाषत॥२३॥
मा राजन्कश्मलं घोरं प्रविशो बुद्धिनाशनम्
।
सम्प्रधार्य महाराज यत्क्षमं तत्समाचर॥२४॥
ततोऽब्रवीत्सत्यधृतिर्भ्रातॄन्सर्वान्युधिष्ठिरः
।
द्वैपायनस्य वचनं तत्रैव समचिन्तयत्॥२५॥
अद्यप्रभृति भद्रं वः प्रतिज्ञां मे निबोधत
।
त्रयोदश समास्तात को ममार्थोऽस्ति जीवतः॥२६॥
न प्रवक्ष्यामि परुषं भ्रातॄनन्यांश्च पार्थिवान्
।
स्थितो निदेशे ज्ञातीनां योक्ष्ये तत्समुदाहरन्॥२७॥
एवं मे वर्तमानस्य स्वसुतेऽष्वितरेषु च
।
भेदो न भविता लोके भेदमूलो हि विग्रहः॥२८॥
विग्रहं दूरतो रक्षन्प्रियाण्येव समाचरन्
।
वाच्यतां न गमिष्यामि लोकेषु मनुजर्षभाः॥२९॥
भ्रातृर्ज्येष्ठस्य वचनं पाण्डवाः संनिशम्य तत्
।
तमेव समवर्तन्त धर्मराजहिते रताः॥३०॥
संसत्सु समयं कृत्वा धर्मराड्भ्रातृभिः सह
।
पितॄंस्तर्प्य यथान्यायं देवताश्च विशाम्पते॥३१॥
कृतमङ्गलकल्यामो भ्रातृभिः पिरवारितः
।
गतेषु क्षत्रियेन्द्रेषु सर्वेषु भरतर्षभ॥३२॥
युधिष्ठिरः सहामात्यः प्रविवेश पुरोत्तमम्
।
दुर्योधनो महाराज शकुनिश्चापि सौबलः
।
सभायां समणीयायां तत्रैवास्ते नराधिप॥३३॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि युधिष्ठिरसमये षट्चत्वारिंशोऽध्यायः॥४६॥
वैशम्पायन उवाच।
वसन्दुर्योधनस्तस्यां सभायां पुरुषर्षभ
।
शनैर्ददर्श तां सर्वां सभां शकुनिना सह॥१॥
वसन् दुर्योधनस्तस्यामित्याकाराध्यायद्वयस्य तात्पर्यम् । पापिष्ठः परकल्याणं दृष्ट्वा मरणमिच्छति । छलेन परलक्ष्मीं वाहर्तुमिच्छति निर्घृण इति ॥१॥
तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः
।
न दृष्टपूर्वा ये तेन नगरे नागसाह्वये॥२॥
अभिप्रायान्देवादीनां क्रीडातत्स्थानाद्यभिनयप्रदर्शकचित्रादिर्गतान् आशयविशेषान् । नागसाह्वये नागेन हस्तिना समाननाम्नि हस्तिनापुरे ॥२॥
स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः
।
स्फाटिकं स्थलमासाद्य जलमित्यभिशङ्कया॥३॥
द्यूतमूलमुपोद्घातयति स कदाचिदिति ॥३॥
स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः
।
दुर्मना विमुखश्चैव परिचक्राम तां सभाम्
।
ततः स्थले निपतितो दुर्मना व्रीडितो नृपः॥४॥
निःश्वसन्विमुखश्चापि परिचक्राम तां सभाम्
।
ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम्
।
वापीं मत्वा स्थलमिव सवासाः प्रापतज्जले॥६॥
जले निपतितं दृष्ट्वा भीमसेनो महाबलः
।
जहास जहसुश्चैव किङ्कराश्च सुयोधनम्॥७॥
वासांसि च शुभान्यस्मै प्रददू राजशासनात्
।
तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः॥८॥
अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा
।
नामर्षयत्ततस्तेषामवहासममर्षणः॥९॥
आकारं रक्षमाणस्तु न स तान्समुदैक्षत
।
पुनर्वसनमुत्क्षिप्य प्रतिरिष्यन्निव स्थलम्॥१०॥
आरुरोह ततः सर्वे जहसुश्च पुनर्जनाः
।
द्वारं तु पिहिताकारं स्फाटिकं प्रेक्ष्य भूमिपः
।
प्रविशन्नाहतो मूर्ध्नि व्याघूर्णित इव स्थितः॥११॥
तादृशं च परं द्वारं स्फाटिकोरुकवाटकम्
।
विघट्टयन्कराभ्यां तु निष्क्रम्याग्रे पपात ह ॥१२॥
द्वारं तु वितताकारं समापेदे पुनश्च सः
।
तद्वृत्तं चेति मन्वानो द्वारस्थानादुपारमत्॥१३॥
तद्वृत्तं तादृशम् ॥१३॥
एवं प्रलम्भान्विविधान्प्राप्य तत्र विशाम्पते
।
पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः॥१४॥
प्रलम्भान्वञ्चनानि ॥१४॥
अपहृष्टेन मनसा राजसूये महाक्रतौ
।
प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम्॥१५॥
पाण्डवश्रीप्रतप्तस्य ध्यायमानस्य गच्छतः
।
दुर्योधनस्य नृपतेः पापा मतिरजायत॥१६॥
पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान्
।
कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह॥१७॥
महिमानं परं चापि पाण्डवानां महात्मनाम्
।
दूर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत॥१८॥
स तु गच्छन्ननेकाग्नः सभामेकोऽन्वचिन्तयत्
।
श्रियं च तामनुपमां धर्मराजस्य धीमतः॥१९॥
अनेकाग्रः विक्षिप्तचित्तः ॥१९॥
प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा
।
नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः॥२०॥
अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत
।
दुर्योधन कृतोमूलं निःश्वसन्निव गच्छसि॥२१॥
कुतोमूलं कुत एतस्य दुःखस्य मूलमुत्पन्नमित्यर्थः । कुतो हेतोः मूलं स्वस्थानं प्रतिनिःश्वसन् गच्छसीति वा ॥२१॥
दुर्योधन उवाच।
दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम्
।
जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः॥२२॥
श्वेताश्वस्य अर्जुनस्य ॥२२॥
तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुलः
।
यथा शक्रस्य देवेषु तथाभूतं महाद्युतेः॥२३॥
अमर्षेण तु सम्पूर्णो दह्यमानो दिवानिशम्
।
शुचिशुक्रागमे काले शुष्येत्तोयमिवाल्पकम्॥२४॥
शुचिशुक्रौ ज्येष्ठाषाढौ तयोरागमे ग्रीष्मर्तौ ॥२४॥
पश्य सात्वतमुख्येन शिशुपालो निपातितः
।
न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः॥२५॥
पदानुगः प्रतीकारकर्ता ॥२५॥
दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना
।
क्षान्तवन्तोऽपराधं ते को हि तत्क्षन्तुमर्हति॥२६॥
वासुदेवेन तत्कर्म यथाऽयुक्तं महत्कृतम्
।
सिद्धं च पाण्डुपुत्राणां प्रतापेन महात्मनाम्॥२७॥
अयुक्तमिति छेदः ॥२७॥
तथा हि रत्नान्यादाय विविधानि नृपा नृपम्
।
उपातिष्ठन्त कौन्येयं वैश्या इव करप्रदाः॥२८॥
श्रियं तथागतं दृष्ट्वा ज्वलन्तीमिव पाण्डवे
।
अमर्षवशमापन्नो दह्यामि न तथोचितः॥२९॥
एवं स निश्चयं कृत्वा ततो वचनमब्रवीत्
।
पुनर्गान्धारनृपतिं दह्यमान इवाग्निना॥३०॥
वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम्
।
अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम्॥३१॥
को हि नाम पुमांल्लोके मर्षयिष्यति सत्ववान्
।
सपत्नानृद्ध्यतो दृष्ट्वा हीनमात्मानमेव च॥३२॥
सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि
।
योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम्॥३३॥
सोऽहं न स्त्री या विवशत्वात्सपत्न्या अपि श्रियं सहते । किं तु पुमानस्मीत्यर्थः । तर्हि युद्धेनैव पाण्डवान् जेतुमिच्छेत्यत आह । न चाप्यस्त्री अर्जुनादिवदस्त्रबलहीनः। तदपि संपादयेत्यत आह न पुमानिति । परेषामिवात्युत्कृष्टमस्त्रबलं साधयितुमसमर्थः । तर्हि क्लीबोऽसीति चेत्तत्राह नापुमानिति । न स्त्रीति पूर्वमेवोक्तमतः अपुमानित्यनेन क्लीब एव ग्राह्यः । नाप्यत्यन्तमसमर्थोऽस्मीत्यर्थः । योऽहं शत्रुश्रियं सहिष्ये । तस्मात्तदपहरणे कश्चित्कपटोपायोऽन्वेषणीय इति भावः ॥३३॥
ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम्
।
यज्ञं च तादृशं दृष्ट्वा मादृशः को न सञ्ज्वरेत्॥३४॥
अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम्
।
सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये॥३५॥
मृत्युं विचिन्तये इति शकुनेः सामर्थ्यं जानता तस्य स्वेष्टार्थसाधने उद्योगं जनयितुमुक्तम् ॥३५॥
दैवमेव परं मन्ये पौरुषं च निरर्थकम्
।
दृष्ट्वा कुन्तीसुते शुद्धां श्रियं तामहतां तथा॥३६॥
कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल
।
तच्च सर्वमतिक्रम्य संवृद्धोऽप्स्विव पङ्कजम्॥३७॥
न दैवं परं मन्ये पौरुषं च निरर्थकम्
।
धार्तराष्ट्राश्च हीयन्ते पार्था वर्धन्ति नित्यशः॥३८॥
सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम्
।
रक्षिभिश्चावहासं तं परितप्ये यथाऽग्निना॥३९॥
समामभ्यनुजानीहि मातुलाद्य सुदुःखितम्
।
अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय॥४०॥
अनुजानीहि मर्तुमिति शेषः ॥४०॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि दुर्योधनसन्तापे सप्तचत्वारिंशोऽध्यायः॥४७॥
शकुनिरुवाच
।
दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम्
।
भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा॥१॥
दुर्योधनेति ॥१॥
विधानं विविधाकारं परं तेषां विधानतः
।
अनेकैरभ्युपायैश्च त्वया न शकिताः पुरा॥२॥
आरब्धापि महाराज पुनः पुनररिन्दम
।
विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः॥३॥
तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह
।
सहायः पृथिवीपाले वासुदेवश्च वीर्यवान्॥४॥
लब्धश्चानभिभूतार्थैः पित्र्योंशः पृथिवीपते
।
विवृद्धस्तेजसा तेषां तत्र का परिदेवना॥५॥
धनञ्जयेन गाण्डीवमक्षय्यौ च महेषुधी
।
लब्धान्यस्त्राणि दिव्यानि तोषयित्वा हुताशनम्॥६॥
तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः
।
कृता वशे महीपालास्तत्र का परिदेवना॥७॥
अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम्
।
सभां तां कारयामास सव्यसाची परन्तपः॥८॥
तेन चैव मयेनोक्ताः किङ्करा नाम राक्षसाः
।
वहन्ति तां सभां भीमास्तत्र का परिदेवना॥९॥
यच्चासहायतां राजन्नुक्तवानसि भारत
।
तन्मिथ्या भ्रातरो हीमे तव सर्वे वशानुगाः॥१०॥
द्रोणस्तव महेष्वासः सह पुत्रेण वीर्यवान्
।
सूतपुत्रश्च राधेयो गौतमश्च महारथः॥११॥
अहं च सह सोदर्यैः सौमदत्तिश्च पार्थिवः
।
एतैस्त्वं सहितः सर्वैर्जय कृत्स्नं वसुन्धराम्॥१२॥
दुर्योधन उवाच।
त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः
।
एतानेव विजेष्यामि यदि त्वमनुमन्यसे॥१३॥
एतेषु विजितेष्वद्य भविष्यति मही मम
।
सर्वे च पृथिवीपालाः सभा सा च महाधना॥१४॥
शकुनिरुवाच
।
धनञ्जयो वासुदेवो भीमसेनो युधिष्ठिरः
।
नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः॥१५॥
नैते युधि पराजेतुं शक्या देवगणैरपि
।
महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः॥१६॥
अहं तु तद्विजानामि विजेतुं येन शक्यते
।
युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च॥१७॥
जुषस्व प्रीत्या सेवस्व ॥१७॥
दुर्योधन उवाच।
अप्रमादेन सुहृदामन्येषां च महात्मनाम्
।
यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल॥१८॥
अप्रमादेन प्रमादकृतभ्रात्रादिनाशव्यतिरेकेण ॥१८॥
शकुनिरुवाच
।
द्यूतप्रियश्च कौन्तेयो न स जानाति देवितुम्
।
समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम्॥१९॥
देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि
।
त्रिषु लोकेषु कौरव्य तं त्वं द्यूते समाह्वय॥२०॥
देवने द्यूते ॥२०॥
तस्याक्षकुशलो राजन्नामस्येऽहमसंशयम्
।
राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ॥२१॥
दीप्तां धृद्धिमतीम् ॥२१॥
इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय
।
अनुज्ञातस्तु ते पित्रा विजेष्ये तान्न संशयः॥२२॥
दुर्योधन उवाच।
त्वमेव करुमुख्याय धृतराष्ट्राय सौबल
।
निवेदय यथान्यायं नाहं शक्ष्ये निवेदितुम्॥२३॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि दुर्योधनसन्तापे अष्टचत्वारिंशोऽध्यायः॥४८॥
वैशम्पायन उवाच।
अनुभूय तु राज्ञस्तं राजसूयं महाक्रतुम्
।
युधिष्ठिरस्य नृपतेर्गान्धारीपुत्रसंयुतः॥१॥
अनुभूयेति ॥१॥
प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत्
।
प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा॥२॥
दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम्
।
उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत्॥३॥
शकुनिरुवाच
।
दुर्योधनो महाराज विवर्णो हरिणः कृशः
।
दीनश्चिन्तापरश्चैव तं विद्धि मनुजाधिप॥४॥
विवर्णः पूर्ववर्णात् हीनवर्णः हरिणः पाण्डुः दीनः क्षीणदर्पः ॥४॥
न वै परीक्षसे सम्यगसह्यं शत्रुसंभवम्
।
ज्येष्ठपुत्रस्य हृच्छोकं किमर्थं नावबुध्यसे॥५॥
धृतराष्ट्र उवाच।
दुर्योधन कुतोमूलं भृशमार्तोऽसि पुत्रक
।
श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन॥६॥
कुतोमूलं किंमूलं कुत इति प्रथमार्थे तसिः ॥६॥
अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम्
।
चिन्तयंश्च न पश्यामि शोकस्य तव सम्भवम्॥७॥
ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं प्रतिष्ठितम्
।
भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम्॥८॥
आच्छादयसि प्रावारानश्नासि पिशितौदनम्
।
आजानेया वहन्त्यश्वाः केनासि हरिणः कृशः॥९॥
पिशितौदनं मांसमयमन्नम् । आजानेयाः जात्यश्वाः ॥९॥
शयनानि महार्हाणि योषितश्च मनोरमाः
।
गुणवन्ति च वेश्मानि विहाराश्च यथासुखम्॥१०॥
विहाराः क्रीडास्थानानि ॥१०॥
देवनामिव ते सर्वं वाचि बद्धं न संशयः
।
स दीन इव दुर्धर्ष कस्माच्छोचसि पुत्रक॥११॥
वाचि बद्धं वाग्व्यापारमात्रसाध्यम् ॥११॥
दुर्योधन उवाच।
अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा
।
अमर्षं धारये चोग्रं निनीषुः कालपर्ययम्॥१२॥
अमर्षणः स्वाः प्रकृतीरभिभूय परं स्थितः
।
क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते॥१३॥
प्रकृतीः प्रजाः क्लेशात् मुमुक्षुर्मोचयितुमिच्छन्नेव पुरुष इत्युच्यते ॥१३॥
सन्तोषो वै श्रियं हन्ति ह्यभिमानं च भारत
।
अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत्॥१४॥
त्वत्प्रकृतयो निष्क्लेशा एव सन्तीत्यत आह यतः संतोषः ऐश्वर्यम् बलं बुद्धिः श्रियं विद्यमानामपि हन्तीति संतुष्टस्य प्रजाः क्लेशं प्राप्नुवन्त्येवेत्यर्थः । अभिमानं गर्वम् । अनुक्रोशो दया भयं स्वोच्छेददृष्टिः महत् । पदमिति शेषः ॥१४॥
न मां प्रीणाति मद्भुक्तं श्रियं दृष्ट्वा युधिष्ठेरे
।
अतिज्वलन्तीं कौन्तेये विवर्णकरणीं मम॥१५॥
सपत्नानृध्यतोत्मानं हीयमानं निशम्य च
।
अदृश्यामपि कौन्तेयश्रियं पश्यन्निवोद्यताम्॥१६॥
ऋद्ध्यतः वर्द्धमानान् । आत्मानमिति छेदः पूर्वरूपमार्षम् । निशम्य विज्ञाय अदृश्यामपि व्यवहितत्वात् । कौन्तेयश्रियं मनसा उद्यतां पश्यन्निव विवर्णोऽस्मीत्यर्थः ॥१६॥
तस्मादहं विवर्णश्च दीनश्च हरिणः कृशः
।
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः॥१७॥
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः
।
दशान्यानि सहस्राणि नित्यं तत्रान्नमुत्तमम्
।
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने॥१८॥
कदलीमृगमोकानि कृष्णश्यामारुणानि च
।
काम्भोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान्
।
गजयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः॥१९॥
कदलीमृगा हरिणविशेषास्तेषामोकानि अजिनानि तान्येव कृष्णश्यामारुणानि चित्रवर्णानीत्यर्थः ॥१९॥
त्रिशतं चोष्ट्रवामीनां शतानि विचरन्त्युत
।
राजन्या बलिमादाय समेता हि नृपक्षये॥२०॥
पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते
।
आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः॥२१॥
न क्वचिद्धि मया तादृग्दृष्टपूर्वो न च श्रुतः
।
यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः॥२२॥
अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप
।
शमं नैवाभिगच्छामि चिन्तयानो विशाम्पते॥२३॥
ब्रह्मणा वाटधानाश्च गोमन्तः शतसङ्घशः
।
त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः॥२४॥
वाटाः क्षेत्रादिवृत्तयः तासां धाना अभिनवोद्भेदो येषां ते इति व्यधिकरणो बहुव्रीहिः सस्यादिसंपन्नक्षेत्रादिवृत्तिमन्त इत्यर्थः । ‘वाटो वृत्तौ च गाय च’ इति । ‘धाना भ्रष्टयवे प्रोक्ता धान्याकेभिनवोद्भदि’ इति विश्वः । त्रिखर्वं खर्वत्रयसङ्ख्यम् ॥२४॥
कमण्डलूनुपादाय जातरूपमयाञ्शुभान्
।
एतद्धनं समादाय प्रवेशं लेभिरे न च॥२५॥
कमण्डलूनिति । ‘इन्द्रियं वा एतदस्मिल्लोके यद्दधि’ इति खण्डे बह्वृचब्राह्मणे दधिमधुघृतम् आपश्चेत्यभिषेकद्रव्याणि विहितानि । तत्रेतरेषामग्रे दर्शनात् इह कमण्डलून् घृतपूर्णानिति द्रष्टव्यम् ॥२५॥
यथैव मधु शक्राय धारयन्त्यमरस्त्रियः
।
तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः॥२६॥
यथैवेति अमरः सोमः तस्य स्त्रिय ओषधयः । तद्दिव्यं मधु अस्मै कांस्यं कांस्यपात्रस्थं कृत्वा आहार्षीत् । अर्थात्सोम एव तथा वारुणं वरुणप्रेषितं दधि प्रसिद्धम् । कलश इव कलशो जलपूर्णत्वात्समुद्रः आहार्षीत् । दधिरिति पुंस्त्वम् आर्षं लेखकप्रमादो वा । अन्ये तु कलशोदधिः समुद्रः मधु अमृतं जलमित्यन्ये अमरस्त्रियो नद्यः वारुणं वरुणसंबन्धीति व्याचक्षते ॥२६॥
शङ्खप्रवरमादाय वासुदेवोऽभिषिक्तवान्
।
शक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम्॥२७॥
शैक्यं वरत्रामयं पात्राधारभूतं शिक्यं ‘कावडी’ इति प्रसिद्धम् । तत्र स्थितं पात्रं शक्यम् । एतेन सामुद्र्य आप उक्ताः अन्या अपि पुण्या आपोऽभिषेकार्थमुक्ताः प्रदेशान्तरे । ‘वापीकूपतटाकेभ्यो ह्रदेभ्यः सरसस्तथा । चतुर्भ्यश्च समुद्रेभ्यः पल्वलादभिसंधितः ॥ प्रयागाद्देवयजनाज्जलान्यादाय सर्वतः । गङ्गा सरस्वती चैव नर्मदा च दृषद्वतीद्गती ॥ एभ्यो जलं समादाय तत्राभिषिषिचुर्द्विजाः’ इति ॥२७॥
दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत्
।
गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ॥२८॥
तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ
।
उत्तरं तु न गच्छन्ति विना तात पतत्रिणः॥२९॥
पतत्रिणः खेचरजातीयाः तैरेवोत्तरसमुद्रजलमानीतमित्यर्थः । अन्यथा चतुर्भ्यश्च समुद्रेभ्य इत्यनुपपन्नं स्यात् ॥२९॥
तत्र गत्वाऽर्जुनो दण्डमाजहारामितं धनम्
।
इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु॥३०॥
पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम्
।
स्थापिता तत्र सञ्ज्ञाभूच्छङ्खो ध्मायति नित्यशः॥३१॥
परिविष्यतां परिवेष्यमाणानां संज्ञा सङ्केतः ॥३१॥
मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत
।
अनिशं शब्दमश्रौषं ततो रोमाणि मेऽहृषन्॥३२॥
पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः
।
अशोभत महाराज नक्षत्रैर्द्यैरिवामला॥३३॥
उपतिष्ठन्त्यस्मिन्नित्युपस्थानं सभाम् ॥३३॥
सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर
।
यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः॥३४॥
उपादाय स्थिता इति शेषः ॥३४॥
वैश्या इव महीपाला द्विजातिपरिवेषकाः
।
न सा श्रीर्देवराजस्य यमस्य वरुणस्य च
।
गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे॥३५॥
तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिक्रामहम्
।
शान्तिं न परिगच्छामि दह्यमानेन चेतसा॥३६॥
शकुनिरुवाच
।
यामेतामतुलां लक्ष्मीं दृष्टवानसि पाण्डवे
।
तस्याः प्राप्तावुपायं मे शृणु सत्यपराक्रम॥३७॥
अहमक्षेष्वभिज्ञातः पृथिव्यामपि भारत
।
हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने॥३८॥
अक्षेषु पाशेषु अभिज्ञातः कुशलः । हृदयज्ञः पातयिष्यमाणानामक्षाणां जयपराजयावहत्वाभिज्ञः पणज्ञः तदनुसारेण द्रव्यप्रयोगवित् । विशेषज्ञः दिक्कालाद्यानुकूल्याभिज्ञः ॥३८॥
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम्
।
आहूतश्चैष्यति व्यक्तं द्यूतादपि रणादपि॥३९॥
द्यूतात् द्यूतहेतोः रणात् रणहेतोः ॥३९॥
नियतं तं विजेष्यामि कृत्वा तु कपटं विभो
।
आनयामि समृद्धिं तां दिव्यां चोपाह्वयस्व तम्॥४०॥
कपटम् अक्षाधिष्ठात्र्या देवताया वशीकरणम् । यद्वा सर्वतश्चतुष्कोणतया द्वादशधारेष्वक्षेषु षट्तलानि भवन्ति । येषु त्रिषु त्रिषु देवयित्रोर्नामनी लिख्येते । तत्र कपटम् अन्तः सुषिरमक्षं कृत्वा परनामाङ्कितप्रदेशं गर्भे गुरुद्रव्यसंश्लिष्टं कृत्वा पातितस्याक्षस्य स्वनामैवोपरिभवति तदा स्वस्य जयः परस्य नामाधस्थं तस्य पराजय इति ॥४०॥
वैशम्पायन उवाच।
एवमुक्तः शकुनिना राजा दुर्योधनस्ततः
।
धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत्॥४१॥
अयमुत्सहते राजन्श्रियमाहर्तुमक्षवित्
।
द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि॥४२॥
अपदान्तरम् अनुपदमेव ॥४२॥
धृतराष्ट्र उवाच।
क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने
।
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम्॥४३॥
स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम्
।
उभयोः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम्॥४४॥
दुर्योधन उवाच।
निवर्तयिष्यति त्वाऽसौ यदि क्षत्ता समेष्यति
।
निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम्॥४५॥
त्वासौ त्वा त्वाम् असौ निवर्तयिष्यति । त्वासावित्यादेर्विवर्णतां चैव सशोकतां चेत्यन्तस्य दुर्योधनविलापस्य तात्पर्यं पुण्यवतामीश्वरप्रसादलभ्यां वृद्धिं दृष्ट्वा पापिनां परितापो भवतीति ॥४५॥
स त्वं मयि मृते राजन्विदुरेण सुखी भव
।
भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि॥४६॥
शम्पायन उवाच।
आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः
।
धृतराष्ट्रोऽब्रवीत्प्रेष्यान्दुर्योधनमते स्थितः॥४७॥
स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम
।
मनोरमां दर्शनीयामाशु कुर्वन्तुं शिल्पिनः॥४८॥
ततः संस्तीर्य रत्नैस्तां तक्ष्ण आनाय्य सर्वशः
।
सुकृतां सुप्रवेशां च निवेदयत मे शनैः॥४९॥
रत्नैः संस्तीर्य रत्नखचितां कृत्वा । तक्ष्णः वर्धकिनः । सर्वशः सर्वदेशीयान् ॥४९॥
दूर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः
।
धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै॥५०॥
अपृष्ट्वा विदुरं स्वस्य नासीत्कश्चिद्विनिश्चयः
।
द्यूते दोषांश्च जानन्स पुत्रस्नेहादकृष्यत॥५१॥
तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम्
।
विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत्॥५२॥
सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम्
।
मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत्॥५३॥
विदुर उवाच।
नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो
।
पुत्रैर्भेदो यथा न स्थाद्द्यूतहेतोस्तथा कुरु॥५४॥
व्यवसायं विनिश्चयम् ॥५४॥
धृतराष्ट्र उवाच।
क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति
।
यदि देवाः प्रसादं नः करिष्यन्ति न संशयः॥५५॥
अशुभं वा शुभं वापि हितं वा यदि वाऽहितम्
।
प्रवर्ततां सुहृद्द्यूतं दिष्टमेतन्न संशयः॥५६॥
दिष्टं दैवम् ॥५६॥
मयि सन्निहिते द्रोणे भीष्मे त्वयि च भारत
।
अनयो दैवविहितो न कथञ्चिद्भविष्यति॥५७॥
गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे
।
खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम्॥५८॥
न वाच्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते
।
दैवमेव परं मन्ये येनैतदुपपद्यते॥५९॥
इत्युक्तो विदुरो धीमान्नेदमस्तीति चिन्तयन्
।
आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुःखितः॥६०॥
आपगेयं भीष्मम् ॥६०॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि दिर्योधनसन्तापे एकोनपञ्चाशत्तमोऽध्यायः॥४९॥
जनमेजय उवाच।
कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम्
।
यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः॥१॥
कथमिति । व्यसनम् आपत् ॥१॥
के च तत्र समास्तारा राजानो ब्रह्मवित्तम
।
के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन्॥२॥
सभास्ताराः सभासदः ॥२॥
विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज
।
मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम॥३॥
सौतिरुवाच
।
एवमुक्तस्ततो राज्ञा व्यासशिष्यः प्रतापवान्
।
आचचक्षेऽथ यद्वृत्तं तत्सर्वं वेदतत्त्ववित्॥४॥
वैशम्पायन उवाच।
श्रृणु मे विस्तरेणेमां कथां भारतसत्तम
।
भूय एव महाराज यदि ते श्रवणे मतिः॥५॥
विदुरस्य मतिं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः
।
दुर्योधनमिदं वाक्यमुवाच विजने पुनः॥६॥
अलं द्यूतेन गान्धारे विदुरो न प्रशंसति
।
न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति॥७॥
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम्
।
हितं हि परमं मन्ये विदुरो यत्प्रभाषते
।
क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव॥८॥
देवर्षिर्वासवगुरुर्देवराजाय धीमते
।
यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः
।
तद्वेद विदुरः सर्वं सरहस्यं महाकविः॥९॥
स्थितस्तु वचने तस्य सदाऽहमपि पुत्रक
।
विदुरो वापि मेधावी कुरूणां प्रवरो मतः॥१०॥
उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप
।
तदलं पुत्र द्यूतेन द्यूते भेदो हि दृश्यते॥११॥
भेदो वैरम् ॥११॥
भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय
।
पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम्॥१२॥
प्राप्तस्त्वमसि तन्नाम पितृपैतामहं पदम्
।
अधीतवान्कृती शास्त्रे लालितः सततं गृहे॥१३॥
भ्रातृज्येष्ठः स्थितो राज्ये विन्दसरे किं न शोभनम्
।
पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम्॥१४॥
तत्प्राप्तोसि महाबाहो कस्माच्छोचसि पुत्रक
।
स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत्॥१५॥
नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा
।
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम्
।
समुत्थितं दुःखकरं तन्मे शंसितुमर्हसि॥१६॥
संमूर्च्छितमिति पाठे विवृद्धम् ॥१६॥
दुर्योधन उवाच।
अश्नाम्याच्छादयामीति प्रपश्यन्पापपूरुषः
।
नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः॥१७॥
अमर्षम् असहिष्णुताम् ॥१७॥
न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणी विभो
।
ज्वलितामेव कौन्तेये श्रियं दृष्ट्वा च विव्यथे॥१८॥
साधारणी विशेषरहिता ॥१८॥
सर्वां च पृथिवीं चैव युधिष्ठिरवशानुगाम्
।
स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते॥१९॥
स्थिरः स्थावरः पाषाणतुल्योऽस्मि यतो न विदीर्णो भवामि ॥१९॥
आवर्जिता इवाभान्ति नीपाश्चित्रककौकुराः
।
कारस्कारा लोहजङ्घा युधिष्ठिरनिवेशने॥२०॥
आवर्जिताः दासवद्वशगाः ॥२०॥
हिमवत्सागरानुपाः सर्वे रत्नाकरास्तथा
।
अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने॥२१॥
पर्युदस्ताः दूरक्षिप्ताः ॥२१॥
ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशाम्पते
।
युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे॥२२॥
ज्येष्ठो वयोऽधिकः श्रेष्ठः प्रशस्यतमः युक्तो नियुक्तः ॥२२॥
उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम्
।
नादृश्यत परः पारो नापरस्तत्र भारत॥२३॥
अर्धहारिणां बहुमूल्यवतां रत्नानाम् अश्वगजादितत्तज्जात्युत्कृष्टवस्तूनां पुरःस्थितानां प्रान्तापरान्तौ देशत इयत्तावधारणं चक्षुषा न कर्तुं शक्यमित्यर्थः ॥२३॥
न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः
।
अतिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु॥२४॥
समभवत्समर्थो नाभवत् । अतिष्ठन्त प्रतीक्षां कृतवन्तः । वसुन आहर्तारः वसु दातुम् ॥२४॥
कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम्
।
अपश्यं नलिनीं पूर्णामुदकस्येव भारत॥२५॥
स्फाटिकाः छदा इव छदाः उपकण्ठस्थसोपानादयो यस्यास्ताम् । बिन्दुसरसः सकाशात् आहृतैः रत्नैः ॥२५॥
वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः
।
शत्रोर्ऋद्धिविशेषेण विमूढं रत्तवर्जितम्॥२६॥
तत्र स्म यदि शक्तः स्यां पातयेऽहं वृकोदरम्
।
यदि कुर्यां समारम्भं भीमं हन्तुं नराधिप॥२७॥
शिशुपाल इवास्माकं गतिः स्यान्नात्र संशयः
।
सपत्नेनावहासो मे स मां दहति भारत॥२८॥
पुनश्च तादृशीमेव वापीं जलजशालिनीम्
।
मत्वा शिलासमां तोये पतितोऽस्मि नराधिप॥२९॥
तत्र मां प्राहसत्कृष्णः पार्थेन सह सुस्वरम्
।
द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम॥३०॥
क्लिन्नवस्त्रस्य तु जले किङ्करा राजनोदिताः
।
ददुर्वासांसि मेऽन्यानि तच्च दुःखं परं मम॥३१॥
प्रलम्भं च शृणुष्वान्यद्वदतो मे नराधिप
।
अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा
।
अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः॥३२॥
प्रलम्भं वञ्चनाम् ॥३२॥
तत्र मां यमजौ दूरादालोक्याभिहतं तदा
।
बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ॥३३॥
उवाच सहदेवस्तु तत्र मां विस्मयन्निव
।
इदं द्वारमितो गच्छ राजन्निति पुनः पुनः॥३४॥
भीमसेनेन तत्रोक्तो धृतराष्ट्रात्मजेति च
।
सम्बोध्य प्रहसित्वा च इतो द्वारं नराधिप॥३५॥
नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे
।
यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे॥३६॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि दुर्योधनसन्तापे पञ्चाशत्तमोऽध्यायः॥५०॥
दुर्योधन उवाच।
।
यन्मया पाण्डवेयानां दृष्टं तच्छृणु भारत
।
आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः॥१॥
यन्मयेति ॥१॥
नाविदं मूढमात्मानं दृष्ट्वाहं तदरेर्धनम्
।
फलतो भूमितो वापि प्रतिपद्यस्व भारत ॥२॥
फलतः संख्यापरिच्छेदतः भूमितः देशभेदतो वा नाविदमिति संबन्धः । अपि तथापि मुख्यतः वक्ष्यमाणं धनं प्रतिपद्यस्वेत्यर्थः । यद्वा फलतो जातं वस्त्रादि भूमितो जातं हीरादि ॥२॥
और्णान्वलान्वार्षदंशाञ्जातरूपपरिष्कृतान्
।
प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ बहून्॥३॥
और्णान्मेषरोमजान् । बैलान्बिलवासिमूषकादिरोमजान् । वार्षदंशान् बिडालरोमजान् । जातरूपपरिष्कृतान्सुवर्णतन्तुभिर्वा तद्बिन्दुभिर्वा चित्रितान् । और्णाः प्रावाराः अन्यान्यजिनानीति वा विभागः ॥३॥
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान्
।
उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः॥४॥
तित्तिरिकल्माषान् तित्तिरिपक्षिवञ्चित्रान् उष्ट्राः वाम्यः गर्दभाश्वसङ्करजाः उभयेऽपि पील्वादिना पुष्टिं गताः ॥४॥
गोवासना ब्राह्मणाश्च दासनीयाश्च सर्वशः
।
प्रीत्यर्थं ते महाराज धर्मराज्ञो महात्मनः॥५॥
गोवासनाः बलीवर्दपोषकाः क्षेत्रादिवृत्तिमन्तो ब्राह्मणाः तथा दासनीयाः दास्ययोग्याः शूद्रादयः ब्राह्मणा एव वा तादृशा यथोक्तं मूर्खान् ब्राह्मणान्प्रकृत्य पुष्करप्रादुर्भावे ‘यस्य नैवं श्रुतं राजन्न गृहीतं विशांपते । कामं तं धार्मिको राजा शूद्रकर्माणि कारयेत्’ इति । अस्मिन्पक्षे त्रिखर्वं त्रीणि याजनाध्यापनप्रतिग्रहाः खर्वाणि न्युब्जानि धनलाभरूपफलहीनानि येषां ते त्रिखर्वाः विद्याध्ययनसत्कर्मशून्यत्वात् याजनादिहीना इत्यर्थः । तैस्त्रिखर्वसंज्ञैः प्रदेयो बलिस्त्रिखर्वबलिस्तमित्यर्थः । वारिता इत्यनेन तेषाम् अत्यन्तहीनता दर्शिता ॥५॥
त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः
।
ब्राह्मणा वाटधानाश्च गोमन्तः शतसंघशः॥६॥
कमण्डलूनुपादाय जातरूपमयान्च्छुभान् ॥७॥
एवं वलिं समादाय प्रवेशं लेभिरे न च
।
शतं दासीसहस्राणां कार्पासिकनिवासिनाम्॥८॥
कार्पासिको देशविशेषः ॥८॥
श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः
।
शूद्रा विप्रोत्तमाहाणि राङ्कवाण्यजिनानि च॥९॥
बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः
।
उपनिन्युर्महाराज हयान्गान्धारदेशजान्॥१०॥
भरुकच्छः देशः काञ्चनमयः सजलप्रदेशो यस्मिन्स तथा ।‘भरुर्भर्तरि काञ्चने । अथ कच्छः स्यादनूपे’ इति विश्वः ॥१०॥
इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्ये च नदीमुखैः
।
समुद्रनिष्कुटे जाताः पारेसिन्धुं च मानवाः॥११॥
समुद्रसमीपस्थनिष्कुटे गृहोद्याने समुद्रनिकुष्टे । इन्द्रकृष्टैः इन्द्रेणैवाकृष्टैः न तु कर्षणादिक्षेत्रियकयत्नापेक्षैः वनधान्यैः वृष्ट्यभावे तु नदीमुखैः नदीप्रभवैः ॥११॥
ते वै रामाः पारदाश्च आभीराः कितवैः सह
।
विविधं बलिमादाय रत्नानि विविधानि च ॥१२॥
अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु
।
कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः ॥१३॥
फलजं मधूकादिजातीयम् ॥१३॥
प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली
।
यवनैः सहितो राजा भगदत्तो महारथः॥१४॥
आजानेयान्हयान्च्छीघ्रानादायानिलरंहसः
।
बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः॥१५॥
अश्मसारमयं भाण्डं शुद्धदन्तत्सरूनसीन्
।
प्राग्ज्योतिषाधिपो दत्वा भगदत्तोऽव्रजत्तदा॥१६॥
अश्मसारा हीरपद्मरागादिमणयः तन्मयं भाण्डं भूषणम् । ’भाण्डं भूषणमात्रेऽपि’ इति विश्वः । त्सरुः खड्गमुष्टिः ॥१६॥
ह्यक्षांस्त्र्यक्षान्ललाटाक्षान्नानादिग्भ्यः समागतान्
।
औष्णीकानन्तवासांश्च रोमकान्पुरुषादकान् ॥१७॥
द्व्यक्षादयः प्राच्यदेशभेदाः॥१७॥
एकपादांश्च तत्राहमपश्यं द्वारि वारितान्
।
राजानो बलिमादाय नानावर्णाननेकशः॥१८॥
नानावर्णान् रासभान् ॥१८॥
कृष्णग्रीवान्महाकायान्रासभान्दूरपातिनः
।
आजह्रुर्दशसाहस्रान्विनीतान्दिक्षु विश्रुतान्॥१९॥
प्रमाणरागसंपन्नान्वंक्षुतीरसमुद्भवान्
।
बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु॥२०॥
प्रमाणेन दैर्घ्यपुष्ट्यादिना रागेण रम्यवर्णेन च संपन्नान् अधिकान् ॥२०॥
दत्वा प्रवेशं प्राप्तास्ते युधिष्ठिरनिवेशने
।
इन्द्रगोपकवर्णाभाञ्च्छुकवर्णान्मनोजवान्॥२१॥
तथैवेन्द्रायुधनिभान्संध्याभ्रसदृशानपि
।
अनेकवर्णानारण्यान्गृहीत्वाश्वान्महाजवान्॥२२॥
जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः
।
चीनाञ्च्छकांस्तथा ओड्रान्वर्वरान्वनवासिनः॥२३॥
वार्ष्णेयान्हारहूणांश्च कृष्णान्हैमवतांस्तथा
।
नीपानूपानधिगतान्विविधान्द्वारवारितान् ॥२४॥
बल्यर्थं ददतस्तस्य नानारूपाननेकशः
।
कृष्णग्रीवान्महाकायान्रासभाञ्च्छतपातिनः
।
अहार्षुर्दशसाहस्रान्विनीतान्दिक्षु विश्रुतान्॥२५॥
प्रमाणरागस्पर्शाढ्यं बाल्हीचीनसभुद्भवम्
।
और्णं च राङ्कवं चैव कीटजं पट्टजं तथा॥२६॥
कुटीकृतं तथैवात्र कमलाभं सहस्रशः
।
श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम्॥२७॥
कुटीकृतं चित्रगुच्छाकारं कृतम् । ‘स्यात्कुटी कुम्भदास्यां च मुरायां चित्रगुच्छके’ इति विश्वः ॥२७॥
निशितांश्चैव दीर्घासीनृष्टिशक्तिपरश्वधान्
।
अपरान्तसमुद्भूतांस्तथैव परशूञ्च्छितान्॥२८॥
अपरान्तात्पश्चिमदेशात् समुद्भूतान् ॥२८॥
रसान्गन्धांश्च विविधान्रत्नानि च सहस्रशः
।
बलिं च कृत्स्नमादाय द्वारितिष्ठन्ति वारिताः॥२९॥
रसान् रेसवन्ति तर्बुजादीनि गन्धान् गन्धवन्ति मृगमदादीनि ॥२९॥
शकास्तुषाराः कङ्काश्च रोमशाः शृङ्गिणो नराः
।
महागजान्दूरगमान्गणितानर्बुदान्हयान्॥३०॥
शतशश्चैव बहुशः सुवर्णं पद्मसंमितम्
।
बलिमादाय विविधं द्वारि तिष्ठन्ति वारिताः॥३१॥
आसनानि महार्हाणि यानानि शयनानि च
।
मणिकाञ्चनचित्राणि गजदन्तमयानि च॥३२॥
कवचानि विचित्राणि शस्त्राणि विविधानि च
।
रथांश्च विविधाकाराञ्जातरूपपरिष्कृतान् ॥३३॥
हयैर्विनीतैः संपन्नान्वैयाघ्रपरिवारितान्
।
विचित्रांश्च परिस्तोमान्रत्नानि विविधानि च॥३४॥
वैयाघ्रपरिवारितान् व्याघ्रचर्मणा परिवृतान् । परिस्तोमान् गजकम्बलान् । ‘परिस्तोमः कुथो द्वयोः’ इत्यमरः ॥३४॥
नाराचानर्धनाराचाञ्च्छस्त्राणि विविधानि च
।
एतद्दत्वा महद्द्रव्यं पूर्वदेशाधिपा नृपाः
।
प्रविष्टा यज्ञसदनं पाण्डवस्य महात्मनः॥३५॥
॥इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि दुर्योधनसंतापे एकपञ्चाशत्तमोऽध्यायः॥५१॥
दुर्योधन उवाच।
दायं तु विविधं तस्मै शृणु मे गदतोऽनघ
।
यज्ञार्थं राजभिर्दतं महान्तं धनसञ्चयम्॥१॥
दायं करार्थं देयं धनं ‘दायो दाने यौतकादिधने’ इति विश्वः ॥१॥
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्
।
ये ते कीचकवेणूनां छायां रम्यामुपासते॥२॥
खषा एकासनाद्यर्हाः प्रदरा दीर्घवेणवः
।
पारदाश्च कुलिन्दाश्च तङ्कणाः परतङ्कणाः॥३॥
तद्वै पिपीलिकं नाम उद्धृतं यत्पिपीलिकैः
।
जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः॥४॥
कृष्णाঁल्ललामांश्चमरान्शुक्लांश्चान्यान्शशिप्रभान्
।
हिमवत्पुष्पजं चैव स्वादुक्षौद्र तथा बहु॥५॥
कृष्णानित्यादयो मणिभेदाः पाठान्तरे हिमजं हिमालयजम् ॥५॥
उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः
।
उत्तरादपि कैलासादोषधीः सुमहाबलाः॥६॥
पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः
।
अजातशत्रोनृपतेर्द्वारि तिष्ठन्ति वारिताः॥७॥
ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः
।
कारूषे च समुद्रान्ते लौहित्यमभितश्च ये॥८॥
लौहित्यं पर्वतम् ॥८॥
फलमूलाशना ये च किराताश्चर्मवाससः
।
क्रूरशस्त्राः क्रूरकृतस्तांश्च पश्याम्यहं प्रभो॥९॥
चन्दनागरुकाष्ठानां भारान्कालीयकस्य च
।
चर्मरत्नसुवर्णानि गन्धानां चैव राशयः॥१०॥
कालीयकस्य कृष्णागुरोः ॥१०॥
कैरातकीनामयुतं दासीनां च विशंपते
।
आहृत्य रमणीयार्थान्दूरगान्मृगपक्षिणः॥११॥
निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम्
।
बलिं च कृत्स्त्रमादाय द्वारि तिष्टन्ति वारिताः॥१२॥
निचितं राशीकृतं पर्वतेभ्योऽपि भूरिं वर्चसं तेजस्वि अर्शआद्यच् ॥१२॥
कैराता दरदा दर्वाः शूरा वै यमकास्तथा
।
औदुम्बरा दुर्विभागा पारदा बाल्हिकैः सह॥१३॥
काश्मीराश्च कुमाराश्च घोरका हंसकास्तथा
।
शिबित्रिगर्तयौधेया राजन्या भद्रकेकयाः॥१४॥
अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पल्हवैः सह
।
वशातलाश्च मौलेयाः सह क्षुद्रकमालवैः॥१५॥
पौण्ड्रिकाः कुकुराश्चैव शकाश्चैव विशांपते
।
अङ्गावङ्गाश्च पुण्ड्राश्च शाणवत्या गयास्तथा॥१६॥
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रधारिणः
।
अहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे॥१७॥
वङ्काः कलिङ्गा मगधास्ताम्रलिप्ताः सपुण्ड्रकाः
।
दौवालिकाः सागरकाः पत्रोर्णाः शैशवास्तथा॥१८॥
तत्रस्था द्वारपालैस्ते बहवस्तत्र भारत
।
कृतकालाः सुवलयस्ततो द्वारमवाप्स्यथ॥१९॥
कृतकालाः कृतप्रस्तावाः कृतद्वारा इति पाठे द्वारं प्रतीहारेण सख्यम् ॥१९॥
ईषादन्तान्हेमकक्ष्यान्पद्मवर्णान्कुथा वृतान्
।
शैलाभान्नित्यमत्तांश्चाप्यभितः काम्यकं सरः॥२०॥
ईषादन्तान् लाङ्गलदण्डतुल्यदन्तान् हेमकक्षाः सुवर्णवरत्राः ॥२०॥
दत्वैकैको दशशतान्कुञ्जरान्कवचावृतान्
।
क्षमावतः कुलीनाश्च द्वारेण प्राविशंस्तथा॥२१॥
एते चान्ये च बहवो गणा दिगभ्यः समागताः
।
अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः॥२२॥
राजा चित्ररथो नाम गन्धर्वो वासवानुगः
।
शतानि चत्वार्यददद्धयानां वातरंहसाम्॥२३॥
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम्
।
आम्रपत्रसवर्णानामददद्धेममालिनाम्॥२४॥
कृती राजा च कौरव्य शूकराणां विशाम्पते
।
अददद्गजरत्नानां शतानि सुबहून्यथ॥२५॥
शूकराः देशभेदास्तेषाम् ॥२५॥
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम्
।
कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते॥२६॥
पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान्
।
अश्वानां चसहस्रे द्वे राजन्काञ्चनमालिनाम्॥२९॥
यज्ञसेनेन दत्तानीति शेषः ॥२९॥
जवसत्वोपपन्नानां वयस्थानां नराधिप
।
बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत्॥२८॥
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश
।
दासानामयुतं चैव सदाराणां विशाम्पते
।
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा॥२९॥
यज्ञसेनेन दत्तानीति शेषः ॥२९॥
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम्
।
वासुदेवोऽपि वार्ष्णेयो मानं कुर्वन्किरीटिनः॥३०॥
अददद्गजमुख्यानां सहस्राणि चतुर्दश
।
आत्मा हि कृष्णः पार्थस्य कृष्णस्यात्मा धनञ्जयः॥३१॥
यद्ब्रूयादर्जुनः कृष्णं सर्वं कुर्यादसंशयम्
।
कृष्णो धनञ्जयस्यार्थे स्वर्गलोकमपि त्यजेत्॥३२॥
तथैव पार्थः कृष्णार्थे प्राणानपि परित्यजेत्
।
सुरभींश्चन्दनरसान्हेमकुम्भसमास्थितान्॥३३॥
मलयाद्दर्दुराच्चैव चन्दनागुरुसञ्चयान्
।
मणिरत्नानि भास्वन्ति काञ्चनं सूक्ष्मवस्त्रकम्॥३४॥
चोलपाण्ड्यावपि द्वारं न लेभाते ह्युपस्थितौ
।
समुद्रसारं वैदूर्यं मुक्तासङ्घांस्तथैव च॥३५॥
समुद्रसारं मुक्ताफलादि ॥३५॥
शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्
।
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः॥३६॥
कुथान् करिकम्बकान् ॥३६॥
ता गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः
।
प्रीत्यर्थं ब्राह्मणश्चैव क्षत्रियाश्च विनिर्जिताः॥३७॥
उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवस्तथा
।
प्रीत्या च बहुमानाच्चाप्युपागच्छन्युधिष्ठिरम्॥३८॥
सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा
।
नानादेशसमुत्थैश्च नानाजातिभिरेव च॥३९॥
पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने
।
उच्चावचानुपग्राहान्राजभिः प्रापितान्बहून्॥४०॥
पर्यस्त इव भूदेशोऽपि स्वर्गीभूत इव उपग्राहानुपहारान् ॥४०॥
शत्रूणां पश्यतो दुःखान्मुमूर्षा मे व्यजायत
।
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि पार्थिव॥४१॥
येषामामं च पक्वं च संविधत्ते युधिष्ठिरः
।
अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः॥४२॥
रथानामर्बुदं चापि पादाता बहवस्तथा
।
प्रमीयमाणमामं च पच्यमानं तथैव च॥४३॥
प्रमीयमाणं खार्यादिना मानेन गण्यमानम् आमम् अपक्वम् ॥४३॥
विसृज्यमानं चान्यत्र पुण्याहस्वन एव च
।
नाभुक्तवन्तं नापीतं नालङ्कृतमसत्कृतम्॥४४॥
अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने
।
अष्टाशीति सहस्राणि स्नातका गृहमेधिनः॥४५॥
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः
।
सुप्रीताः परितुष्टाश्च ते ह्याशंसन्त्यरिक्षयम्॥४६॥
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम्
।
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने॥४७॥
अभुक्तं भुक्तवद्वापि सर्वमाकुब्जवामनम्
।
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशाम्पते॥४८॥
द्वौ करौ न प्रयच्छेतां कुन्तीपुत्राय भारत
।
साम्बन्धिकेन पाञ्चालाः सख्येनान्धकवृष्णयः॥४९॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि दुर्योधनसन्तापे द्विपञ्चाशत्तमोऽध्यायः॥५२॥
दुर्योधन उवाच।
आर्यास्तु ये वै राजानः सत्यसन्धा महाव्रताः
।
पर्याप्तविद्या वक्तारो वेदान्तावभृथप्लुताः॥१॥
आर्यास्त्विति ॥१॥
धृतिमन्तो ह्रीनिषेवा धर्मात्मानो यशस्विनः
।
मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते॥२॥
ह्रीनिषेवाः लज्जावन्तः ह्रीनिवेधा इति पाठे ह्रीरेर्वाकार्यान्निषेधिका येषां ते ॥२॥
दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः
।
आरण्या बहुसाहस्रा अपश्यंस्तत्र तत्रगाः॥३॥
आजह्रस्तत्र सत्कृत्य स्वयमुद्यम्य भारत
।
अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः॥४॥
बाह्लीको रथमाहार्षीज्जाम्बूनदविभूषितम्
।
सुदक्षिणस्तु युयुजे श्वेतैः काम्बोजजैर्हयैः॥५॥
सुनीथः प्रीतिमांश्चैव ह्यनुकर्षं महाबलः
।
ध्वजं चेदिपतिश्चैवमहार्षीत्स्वयमुद्यतम्॥६॥
अनुकर्षं रथाधः स्थितदारु ॥६॥
दाक्षिणात्यः सन्नहनं स्रगुष्णीषे च मागधः
।
वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम्॥७॥
मत्स्यस्त्वक्षान्हेमनद्धानेकलव्य उपानहौ
।
आवन्त्यस्त्वभिषेकार्थमपो बहुविधास्तथा॥८॥
अक्षान् शकटान् हेमनद्धान् धनपूर्णान् ‘अक्षः कर्षे तुषे चक्रे शकटव्यवहारयोः’ इति विश्वः ॥८॥
चेकितान उपासङ्गं धनुः काश्य उपाहरत्
।
असिं च सुत्सरुं शल्यः शैक्यं काञ्चनभूषणम्॥९॥
उपासङ्गं निषङ्गम् । सुत्सरुं शोभनमुष्टिम् असिं खड्गं शैक्यं शिक्यधृतं पात्रम् ॥९॥
अभ्यपिञ्चत्ततो धौम्यो व्यासश्च सुमहातपाः
।
नारदं च पुरस्कृत्य देवलं चासितं मुनिम्॥१०॥
प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः
।
जामदग्न्येन सहितास्तथान्ये वेदपारगाः॥११॥
अभिजग्मर्महात्मानो मन्त्रवद्भूरिदक्षिणम्
।
महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा॥१२॥
अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः
।
धनञ्जयश्च व्यजने भीमसेनश्च पाण्डवः॥१३॥
चामरे चापि शुद्धे द्वे यमौ जगृहतुस्तथा
।
उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः॥१४॥
तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः
।
शैक्यं निष्कसहस्रेण सुकृतं विश्वकर्मणा॥१५॥
वारुणं शङ्खं कलशोदधिः समुद्रः निष्कसहस्रेण सुवर्णेन सुकृतम् आलिप्तं शङ्खम् ॥१५॥
तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत्
।
गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम्॥१६॥
कश्मलो मूर्च्छा ॥१६॥
उत्तरं तु गच्छन्ति विना तात पतत्रिभिः
।
तत्र स्म दध्मुः शतशः शङ्खान्मङ्गलकारकान्॥१७॥
प्राणदन्त समाध्मातास्ततो रोमाणि मेऽहृषन्
।
प्रापतन्भूमिपालाश्च ये तु हीनाः स्वतेजसा॥१८॥
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः
।
सत्वस्था वीर्यसम्पन्ना ह्यन्योन्यप्रियदर्शनाः॥१९॥
विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा
।
ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम्॥२०॥
मां च विसंज्ञं दृष्ट्वा ॥२०॥
शतान्यनडुहां पञ्च द्विजमुख्येषु भारत
।
न रन्तिदेवो नाभागो यौवनाश्वो मनुर्न च॥२१॥
न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः
।
ययातिर्नहुषो वापि यथा राजा युधिष्ठिरः॥२२॥
यथाऽतिमात्रं कौन्तेयः श्रिया परमया युतः
।
राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः॥२३॥
एतान्दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभो
।
कथं तु जीवितं श्रेयो मम पश्यसि भारत॥२४॥
अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप
।
कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्त एव च॥२५॥
युगं द्वापराख्यम् अन्धेनेव विधात्रा नद्धं संबद्धम् अत एव विपर्यस्तम् ॥२५॥
एवं दृष्ट्वा नाभिविन्दामि शर्म समीक्षमाणोऽपि कुरुप्रवीर
।
तेनाहमेवं कृशतां गतश्च विवर्णतां चैव सशोकतां च॥२६॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि दुर्योधनसन्तापे त्रिपञ्चाशत्तमोऽध्यायः॥५३॥
दुर्योधन उवाच।
यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः
।
न स जानाति शास्त्रार्थं दर्वी सूपरसानिव॥१॥
यस्येति । कार्यादर्कनिर्णायकमूहापोहकौशलं प्रज्ञा ॥१॥
जानन्वै मोहयति मां नावि नौरिव संयता
।
स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान्॥२॥
नावि नौरिवेत्यस्वातन्त्र्यं द्वितीयो विकल्पः ॥२॥
न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता
।
भविष्यमर्थमाख्यासि सर्वदा कृत्यमात्मनः॥३॥
आहरिष्यन्ति राजानस्तवापि विपुलं धनमित्युकं तत्राह भविष्यमिति । कृत्यम् इदानीमेवानुष्ठेयमर्थं द्यूतेन शत्रुश्रीहरणरूपं प्रयोजनम् । तत् भविष्यं यज्ञकालिकं वदसि ॥३॥
परनेयोऽग्रणीर्यस्य स मार्गान्प्रति मुह्यति
।
पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः॥४॥
ननु विदुरो द्यूतं न मन्यते इत्याशंक्याह परनेय इति । अस्माकमप्रणीस्त्वं विदुरशिक्षणयो मा भूरित्यर्थः ॥४॥
राजन्परिणतप्रज्ञो वृद्धसेवी जितेन्द्रियः
।
प्रतिपन्नान्स्वकार्येषु संमोहयसि नो भृशम्॥५॥
जानन्नेवाहं तव हितं वदामीति चेत्तत्राह राजन्निति । मोहमेव ददासि न तु हितं वदसीत्यर्थः ॥५॥
लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः
।
तस्माद्राज्ञाऽप्रमत्तेन स्वार्थश्चिन्त्यः सदैव हि॥६॥
प्रशाम्य भरतर्षभेति त्वदुक्तो निवृत्तिरूपो धर्मो बुभूषूणामस्माकं नेष्ट इत्याह लोकेत्यादिना ॥६॥
क्षत्रियस्य महाराज जये वृत्तिः समाहिता
।
स वै धर्मस्त्वधर्मो वा स्ववृत्तौ का परीक्षणा॥७॥
प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः
।
प्रत्यमित्रश्रियं दीप्तां जिघृक्षुर्भरतर्षभ॥८॥
प्रच्छन्नो वा प्रकाशो वा योगो योऽरिं प्रबाधते
।
तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम्॥९॥
शत्रुश्चैव हि मित्रं च न लेख्यं न च मातृका
।
यो वै सन्तापयति यं स शत्रुः प्रोच्यते नृप॥१०॥
ननु विप्रियकर्ता शत्रुर्न च पाण्डवास्तथा सन्तीत्याशङ्क्याह शत्रुरिति ॥१०॥
असन्तोषः श्रियो मूलं तस्मात्तं कामयाम्यहम्
।
समुच्छ्रये यो यतते स राजन्परमो नयः॥११॥
मम त्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा
।
पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः॥१२॥
अद्रोहसमयं कृत्वा चिच्छेद नमुचेः शिरः
।
शक्रः साऽभिमता तस्य रिपौ वृत्तिः सनातनी॥१३॥
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव
।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्॥१४॥
ब्राह्मणं संन्यासिनम् ॥१४॥
नास्ति वै जातितः शत्रुः पुरुषस्य विशाम्पते
।
येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः॥१५॥
साधारणी तुल्या वृत्तिर्जीविका एकामिषत्वमित्यर्थः ॥१५॥
शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते
।
व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः॥१६॥
अल्पोऽपि ह्यरिरत्यर्थं वर्धमानः पराक्रमैः
।
वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात्॥१७॥
आजमीढरिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत
।
एष भारः सत्ववतां न यः शिरसि धिष्ठितः॥१८॥
मा ते रोचिष्ट रुचिकरी मा भूत् सत्त्ववतां बुद्धिमतां नयो नीतिः धिष्ठितः स्थितः अयं नयो धीमद्भिः शिरसा वोढव्य इत्यर्थः ॥१८॥
जन्मवृद्धिमिवार्थानां यो वृद्धिमाभिकाङ्क्षते
।
एधते ज्ञातिषु स वै सद्यो वृद्धिर्हि विक्रमः॥१९॥
जन्मवृद्धिमिव जन्मप्रभृति जीवद्देहादेर्या वृद्धिः स्वाभाविकी तामिव एधते वर्धते सद्यः अर्थानां वृद्धिर्येन सः सद्योवृद्धिः विक्रमः पराक्रमः ॥१९॥
नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति
।
अवाप्स्ये वा श्रियं तां हि शिष्ये वा निहतो युधि॥२०॥
नाप्राप्येति पाण्डवैश्वर्यम् अप्राप्य अनवाप्य अदृष्ट्वेति यावत् । संशयो वितर्को न भविष्यति नाभविष्यत् । वितर्कमेवाह अवाप्स्ये इति । पाण्डवैश्वर्यं दृष्ट्वा इदं हर्तव्यं वा मया मर्तव्यं वेत्येव वितर्को जात इत्यर्थः ॥२०॥
एतादृशस्य किं मेऽद्य जीवितेन विशाम्पते
।
वर्धन्ते पाण्डवा नित्यं वयं त्वस्थिरवृद्धयः॥२१॥
अस्थिरावृद्धिरहितावृद्धिः संपत् येषाम् ॥२१॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि दुर्योधनसन्तापे पञ्चपञ्चाशत्तमोऽध्यायः॥५५॥
शकुनिरुवाच
।
यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे
।
तप्यसे तां हरिष्यामि द्यूतेन जयतां वर॥१॥
यां त्वमिति ॥१॥
आहूयतां परं राजन्कुन्तीपुत्रो युधिष्ठिरः
।
अगत्वा संशयमहमयुद्ध्वा च चमूमुखे॥२॥
अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये
।
ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत॥३॥
ग्लहान् पणान् ॥३॥
अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्फुरम्॥४॥
आस्फुरम् अक्षविन्यासपातनादिस्थानम् ॥४॥
दुर्योधन उवाच।
अयमुत्सहते राजन्च्छ्रियमाहर्तुमक्षवित्
।
द्यूतेन पाण्डुपुत्रेभ्यस्तदनुज्ञातुमर्हसि॥५॥
धृतराष्ट्र उवाच।
स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः
।
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम्॥६॥
दुर्योधन उवाच।
व्यपनेष्यति ते बुद्धिं विदुरो मुक्तसंशयः
।
पाण्डवानां हिते युक्तो न तथा मम कौरव॥७॥
नारभेतान्यसामर्थ्यात्पुरुषः कार्यमात्मनः
।
मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन॥८॥
नारभेतेति । परबुद्धिविनाशायेति भावः ॥८॥
भयं परिहरन्मन्द आत्मानं परिपालयन्
।
वर्षासु क्लिन्नवटवत्तिष्ठन्नैवावसीदति॥९॥
भयं भयशङ्काहेतुं द्यूतादिकं परिहरन् ॥९॥
न व्याधयो नापि यमः प्राप्तुं श्रेयः प्रतीक्षते
।
यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत्॥१०॥
कल्पः समर्थः॥१०॥
धृतराष्ट्र उवाच।
सर्वथा पुत्र बलिभिर्विग्रहो मे रोचते
।
वैरं विकारं सृजति तद्वै शस्त्रमनायसम्॥११॥
विकारं पूर्वापस्थाच्युतिम् अनायसम् अलोहजम् ॥११॥
अनर्थमर्थं मन्यसे राजपुत्र सङ्ग्रन्थनं कलहस्याति याति
।
तद्वै प्रवृत्तं तु यथाकथञ्चित् सृजेदसीन्निशितान्सायकांश्च॥१२॥
अनर्थं द्यूताख्यमनर्थहेतुं संग्रन्थनं गुम्फनम् ॥१२॥
दुर्योधन उवाच।
द्यूते पुराणैर्व्यवहारः प्रणीतस्तत्रात्ययो नास्ति न सम्प्रहारः
।
तद्रोचतां शकुनेर्वाक्यमद्य सभां क्षिप्रं त्वमिहाज्ञापयस्व॥१३॥
पुराणैर्नलादिभिः व्यवहारः प्रवृत्तिः प्रणीतः अनुष्ठितः अत्ययो नाशः संप्रहारो युद्धम् ॥१३॥
स्वर्गद्वारं दीव्यतां नो विशिष्टं तद्वर्तिनां चापि तथैव युक्तम्
।
भवेदेवं ह्यात्मना तुल्यमेव दुरोदरं पाण्डवैस्त्वं कुरुष्व॥१४॥
स्वर्गद्वारं सुखद्वारम् । शत्रूणामभिभवो धनलाभश्च सुखं तच्च न केवलेन धनेन यज्ञादिद्वारा वा । अत एव विशिष्टं श्रेष्ठम् । दुरोदरं द्यूतम् ॥१४॥
धृतराष्ट्र उवाच।
वाक्यं न मे रोचते यत्त्वयोक्तं यत्ते प्रियं तत्क्रियतां नरेन्द्र
।
पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं न हीदृशं भावि वचो हि धर्म्यम्॥१५॥
उपाक्रम्य संस्मृत्य । भावि भवितुम् ऐश्वर्यं कर्तुं शीलमस्येति भावि । न श्रेयस्करमित्यर्थः ॥१५॥
दृष्टं ह्येतद्विदुरेणैव सर्वं विपश्चिता बुद्धिविद्यानुगेन
।
तदेवैतदवशस्याभ्युपैति महद्भयं क्षत्रियजीवघाति॥१६॥
दृष्टं ज्ञातम् । बुद्धिविद्यानुगेन । बुद्धिः ऊहापोहकौशलम् । विद्या शास्त्राध्ययनं दिव्यं ज्ञानं वा ॥१६॥
वैशम्पायन उवाच।
एवमुक्त्वा धृतराष्ट्रो मनीषी दैवं मत्वा परमं दुस्तरं च
।
शशासोच्चैः पुरुषान्पुत्रवाक्ये स्थितो राजा दैवसंमूढचेताः॥१७॥
परमं प्रयत्नादधिकम् । दुस्तरं यत्नशतेनाप्यपरिहार्यम् ॥१७॥
सहस्रस्तम्भां हेमवैदूर्यचित्रां शतद्वारां तोरणस्फाटिकाढ्याम्
।
सभामग्र्यां क्रोशमात्रायतां मे तद्विस्तारामाशु कुर्वन्तु युक्ताः॥१८॥
क्रोशमात्रम् आयतां दीर्घां तद्विस्तारां क्रोशमात्रविस्ताराम् । युक्ताः संनद्धाः ॥१८॥
श्रुत्वा तस्य त्वरिता निर्विशङ्काः प्राज्ञा दक्षास्तां तदा चक्रुराशु
।
सर्वद्रव्याण्युपजह्रुः सभायां सहस्रशः शिल्पिनश्चैव युक्ताः॥१९॥
कालेनाल्पेनाथ निष्ठां गतां तां सभां रम्यां बहुरत्नां विचित्राम्
।
चित्रैर्हैमैरासनैरभ्युपेतामाचख्युस्ते तस्य राज्ञः प्रतीताः॥२०॥
निष्ठां निष्पन्नत्वं हैमैरास्तरैरिति पाठे सुवर्णतन्तुनिर्मितैः कशिपुभिः ॥२०॥
ततो विद्वान्विदुरं मन्त्रिमुख्यमुवाचेदं धृतराष्ट्रो नरेन्द्रः
।
युधिष्ठिरं राजपुत्रं च गत्वा मद्वाक्येन क्षिप्रमिहानयस्व॥२१॥
सभेयं मे बहुरत्ना विचित्रा शय्यासनैरुपपन्ना महार्हैः
।
सा दृश्यतां भ्रातृभिः सार्धमेत्य सुहृद्द्यूतं वर्ततामत्र चेति॥२२॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि युधिष्ठिरानयने षट्पञ्चाशत्तमोऽध्यायः॥५६॥
वैशम्पायन उवाच।
ततः प्रायाद्विदुरोऽश्वैरुदारैर्महाजवैर्बलिभिः साधु दान्तैः
।
बलान्नियुक्तो धृतराष्ट्रेण राज्ञा मनीषिणां पाण्डवानां सकाशे॥१॥
तत इति ॥१॥
सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम्
।
प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः॥२॥
तत् पुरमिति संबन्धः । द्विजातिभिस्त्रैवर्णिकैः ॥२॥
स राजगृहमासाद्य कुबेरभवनोपमम्
।
अभ्यागच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम्॥३॥
तं वै राजा सत्यधृतिर्महात्मा अजातशत्रुर्विदुरं यथावत्
।
पूजापूर्वं प्रतिगृह्याजमीढस्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम्॥४॥
तं प्रति धृतराष्ट्रम् अपृच्छत् ॥४॥
युधिष्ठिर उवाच।
विज्ञायते ते मनसोऽप्रहर्षः कच्चित्क्षत्तः कुशलेनागतोऽसि
।
कच्चित्पुत्राः स्थविरस्यानुलोमा वशानुगाश्चापि विशोऽथ कच्चित्॥५॥
कुशलेन अस्मत्कुशलहेतोः ॥५॥
विदुर उवाच।
राजा महात्मा कुशली सपुत्र आस्ते वृतो ज्ञातिभिरिन्द्रकल्पः
।
प्रीतो राजन्पुत्रगुणैर्विनीतो विशोक एवात्मरतिर्महात्मा॥६॥
आत्मरतिः आत्मनः स्वस्योत्कर्ष एव रतिर्यस्य । न तु धर्ममन्वीक्षते इति भावः दृढात्मेति पाठे कठिनचित्तः ॥६॥
इदं तु त्वां कुरुराजोऽभ्युवाच पूर्वं पृष्ट्वा कुशलं चाव्ययं च
।
इयं सभा त्वत्सभातुल्यरूपा भ्रातॄणां ते दृश्यतामेत्य पुत्र॥७॥
अव्ययं धनादेरविनाशम् ॥७॥
समागम्य भ्रातृभिः पार्थ तस्यां सुहृद्द्यूतं क्रियतां रम्यतां च
।
प्रीयामहे भवतां सङ्गमेन समागताः कुरवश्चापि सर्वे॥८॥
रम्यतां क्रीडा क्रियताम् ॥८॥
दुरोदरा विहिता ये तु तत्र महात्मना धृतराष्ट्रेण राज्ञा
।
तान्द्रक्ष्यसे कितवान्सन्निविष्टानित्यागतोऽहं नृपते तज्जुषस्व॥९॥
दुरोदरा द्यूतकाराः कितवान् धूर्तान् कपटिन इति यावत् । इत्यागतः इति हेतोः जुषस्व रोचय ॥९॥
युधिष्ठर उवाच।
द्यूते क्षत्तः कलहो विद्यते नः को वै रोचते बुध्यमानः
।
किं वा भवान्मन्यते युक्तरूपं भवद्वाक्ये सर्व एव स्थिताः स्मः॥१०॥
बुध्यमानः ‘अन्ये जायां परिभृशत्यस्य यस्यागृधद्वेदने वाज्यक्षः । पिता माता भ्रातर एनमाहुरजानीमो नयताबद्धमेतम्‘ इति श्रुत्युक्तान् द्यूतदोषान् जानन् । अक्षः पाशो यस्य वेदने बुद्धौ । अगृधत् गर्धं कृतवान् वाजी वेगवान् अक्षैर्दीव्ये इति यस्य बुद्धिरुत्पन्ना स सद्य एव पराभूयत इत्यर्थः । तथापि ‘आज्ञा गुरूणां ह्यविचारणीया’ इति न्यायेन तत्त्वमुक्तमवश्यमनुतिष्ठेयमित्याह किं वेति । सर्वे वयं पाण्डवाः ॥१०॥
विदुर उवाच।
जानाम्यहं द्यूतमनर्थमूलं कृतश्च यत्नोऽस्य मया निवारणे
।
राजा च मां प्राहिणोत्त्वत्सकाशं श्रुत्वा विद्वञ्च्छ्रेय इहाचरस्व॥११॥
द्यूते कृते इहलोकहानिर्गुर्वाज्ञोल्लङ्घने परलोकहानिरतः श्रेय आमुष्मिकं हितं गुर्वाज्ञापालनं प्रशस्तम्। तदेव आचरेत्यर्थः ॥११॥
युधिष्ठिर उवाच।
के तत्रान्ये कितवा दीव्यमाना विना राज्ञो धृतराष्ट्रस्य पुत्रैः
।
पृच्छामि त्वां विदुर ब्रूहि नस्तान् यैर्दीव्यामः शतशः सन्निपत्य॥१२॥
शतशः शतेन धनेन असंख्यातेनेत्यर्थः । संनिपत्य संगम्य ॥१२॥
विदुर उवाच।
गान्धारराजः शकुनिर्विशाम्पते राजाऽतिदेवी कृतहस्तो मताक्षः
।
विविंशतिश्चित्रसेनश्च राजा सत्यव्रतः पुरुमित्रो जयश्च॥१३॥
अति अतिक्रम्य मर्यादां देवितुं शीलमस्य सः अतिदेवी । युष्मद्देहदारादिकमपि पणीकरिष्यतीत्यर्थः । कृतहस्तः यथेष्टमक्षपातने कुशलः यतो मताक्षः ज्ञाताक्षतत्त्वः यद्वाऽतिदेवीकृतहस्त इत्येकं पदम् । देवी राज्ञी द्रौपदी तस्यां कृतो व्यापारितो हस्तो यैस्ते तदभिलाषवन्तो दुर्योधनाद्यास्तानप्यतिक्रान्तः अतिदेवीकृतहस्तः ते द्रौपदीं हर्तुमेवेच्छन्ति अयं तु द्यूतेन हरिष्यतीत्यर्थः ॥१३॥
युधिष्ठिर उवाच।
महाभयाः कितवाः सन्निविष्टा मायोपधा देवितारोऽत्र सन्ति
।
धात्रा तु दिष्टस्य वशे किलेदं सर्वं जगत्तिष्ठति न स्वतन्त्रम्॥१४॥
महाभयाः महत् भयं येभ्यस्ते । मायोपधाः कपटुपुरस्कारशीलाः ॥१४॥
नाहं राज्ञो धृतराष्ट्रस्य शासनान्न गन्तुमिच्छामि कवे दुरोदरम्
।
इष्टो हि पुत्रस्य पिता सदैव तदस्मि कर्ता विदुरात्थ मां यथा॥१५॥
दुरोदरं द्यूतम् । ‘दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्’ इति विश्वः ॥१५॥
न चाकामः शकुनिना देविताहं न चेन्मां जिष्णुराह्वयिता सभायाम्
।
आहूतोऽहं न निवर्ते कदाचित्तदाहितं शाश्वतं वै व्रतं मे॥१६॥
न निवर्ते निवृत्तं मां परे कृपणोऽयमिति वक्ष्यन्तीति भावः ॥१६॥
वैशम्पायन उवाच।
एवमुक्त्वा विदुरं धर्मराजः प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम्
।
प्रायाच्छ्वोभूते सगणः सानुयात्रः सह स्त्रीभिर्द्रौपदीमादि कृत्वा॥१७॥
प्रायात्रिकं प्रकृष्टा धनदारादिसहिता यात्रा प्रयात्रा तस्यामुपयुक्तं सर्वं प्रायात्रिकं शकटवाम्यादि । सगणो भ्रात्रादिगणयुक्तः । सानुयात्रः सर्वसेवकयुक्तः । आदि अत्तुं शीलमस्य तत् आदिकृतान्तमुखम् । कृत्वा विधाय ॥१७॥
दैवं हि प्रज्ञां मुष्णाति चक्षुस्तेज इवापतत्
।
धातुश्च वशमन्वेति पाशैरिव नरः सितः॥१८॥
ननु जानन्तोऽपि कुलक्षयावहाय द्यूताय कुतो निर्गता इत्यत आह दैवमिति दैवं प्राक्तनं कर्म धातुस्तदनुरोधेन प्रवर्तयितुः सितः बद्धः ॥१८॥
इत्युक्त्वा प्रययौ राजा सह क्षत्रा युधिष्ठिरः
।
अमृष्यमाणस्तस्याथ समाह्वानमरिन्दमः॥१९॥
क्षत्रा विदुरेण ॥१९॥
बाह्लिकेन रथं यत्तमास्थाय परवीरहा
।
परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः॥२०॥
बाह्लिकदेशजेनाश्वेन जातावेकवचनम् । अथ ‘बाह्लीकं बाह्लिकं धीरहिंगुनोः । द्वावेतौ पुंसि देशस्य प्रभेदे तुरगान्तरे’ इति मेदिनी । परिच्छन्नः परिवृतो भ्रातृभिः तैश्च सह परिच्छिन्न इति पाठे अल्पपरिवारः॥२०॥
राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः
।
धृतराष्ट्रेण चाहूतः कालस्य समयेन च॥२१॥
ब्रह्मपुरःसरो ब्राह्मणपुरःसरः कालस्य सयमेन सङ्केतेन अमुकस्मिन्दिने आगन्तव्यमित्येवंरूपेण ॥२१॥
स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ
।
समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः॥२२॥
समियाय धृतराष्ट्रेण सह संगतः तेन प्ररिष्वक्त इत्यर्थः ॥२२॥
तथा भीष्मेण द्रोणेन कर्णेन च कृपेण च
।
समियाय यथान्यायं द्रौणिना च विभुः सह॥२३॥
समेत्य च महाबाहुः सोमदत्तेन चैव ह
।
दूर्योधनेन शल्येन सौबलेन च वीर्यवान्॥२४॥
ये चान्ये तत्र राजानः पूर्वमेव समागताः
।
दुःशासनेन वीरेण सर्वैर्भ्रातृभिरेव च॥२५॥
जयद्रथेन च तथा कुरुभिश्चापि सर्वशः
।
ततः सर्वैर्महाबाहुर्भ्रातृभिः पिरवारितः॥२६॥
प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः
।
ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम्॥२७॥
स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम्
।
अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः॥२८॥
ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम्॥२९॥
ददर्श पितरं धृतराष्ट्रं प्रति पुनरागत इत्यर्थः ॥२९॥
राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः
।
चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः॥३०॥
एवमन्येऽपि चक्रुरित्याह राज्ञेति । राज्ञा धृतराष्ट्रेण ॥३०॥
ततो हर्षः समभवत्कौरवाणां विशाम्पते
।
तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान्॥३१॥
विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाणि च
।
ददृशुश्चोपयातास्तान्द्रौपदीप्रमुखाः स्त्रियः॥३२॥
याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव
।
स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन्॥३३॥
ग्रमनसः संतुष्टचित्ताः ॥३३॥
ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम्
।
कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च॥३४॥
संविदं मिथः कथां व्यायामः श्रमः पूर्वो येषां तानि प्रतिकर्म केशप्रसाधनादिपरिष्कारम् ॥३४॥
ततः कृताह्निकाः सर्वे दिव्यचन्दनभूषिताः
।
कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च
।
मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ॥३५॥
उपगीयमाना नारीभिरस्वपन्कुरुपुङ्गवाः
।
अनन्तरं च तत्प्राप्य प्रीताः परपुरंजयाः॥३६॥
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम्
।
स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन्॥३७॥
रतिविहारिणां स्त्रीसंगेन क्रीडताम् ॥३७॥
सुखोषितास्ते रजनीं प्रातः सर्वे कृताह्निकाः
।
सभां रम्यां प्रविविशुः कितवैरभिनन्दिताः॥३८॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि युधिष्ठिरसभागमनेऽष्टपञ्चाशत्तमोऽध्यायः॥५८॥
वैशम्पायन उवाच।
प्रविश्य तां सभां पार्था युधिष्ठिरपुरोगमाः
।
समेत्य पार्थिवान्सर्वान्पूजार्हानभिपूज्य च॥१॥
प्रविश्येति ॥१॥
यथावयः समेयाना उपविष्टा यथार्हतः
।
आसनेषु विचित्रेषु स्पर्द्ध्यास्तरणवत्सु च॥२॥
समेयानाः यथार्हमाशीर्नत्यादिनां सङ्गतिं कुर्वाणाः स्पर्ध्यानि स्पर्धार्कराणि पश्यतां स्पृहणीयानीति यावत् ॥२॥
तेषु तत्रोपविष्टेषु सर्वेष्वथ नृपेषु च
।
शकुनिः सौबलस्तत्र युधिष्ठिरमभाषत॥३॥
शकुनिरुवाच
।
उपस्तीर्णा सभा राजन्सर्वे त्वयि कृतक्षणाः
।
अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर॥४॥
उपस्तीर्णा आस्फुराख्येनाक्षपातनवाससा उपरिस्तीर्णा । कृतक्षणाः कृतसंकेताः । उप्त्वा पातयित्वा॥४॥
युधिष्ठिर उवाच।
निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः
।
न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि॥५॥
निकृतिर्वञ्चनम् । देवनं द्यूतम् । पापं पापहेतुः यतो न च नीतिः द्यूते सत्यं नास्तीत्यर्थः ॥५॥
न हि मानं प्रशंसन्ति निकृतौ कितवस्य हि
।
शकुने मैवं नोऽजैषीरमार्गेण नृशंसवत्॥६॥
निकृतौ शाठ्ये एवं शाठ्येन ॥६॥
शकुनिरुवाच
।
यो वेत्ति सङ्ख्यां निकृतौ विधिज्ञश्चेष्टास्वखिन्नः कितवोऽक्षजासु
।
महामतिर्यश्च जानाति द्यूतं स वै सर्वं सहते प्रक्रियासु॥७॥
संख्या सम्यक् ख्यानं जयपराजयद्वारविवेकम् । निकृतौ छले परेण क्रियमाणे । विधिज्ञो द्यूतेतिकर्तव्यताभिज्ञः । यश्च महामतिर्जयावहं पणं कृत्वा पराजयावहं चिकित्सति । स द्यूतं जानाति स च प्रक्रियासु द्यूतक्रियासु सर्वं कर्तुं सहते उत्सहते ॥७॥
अक्षग्लहः सोऽभिभवेत्परं नस्तेनैव दोषो भवतीह पार्थ
।
दीव्यामहे पार्थिव मा विशङ्कां कुरुष्व पाणं च चिरं च मा कृथाः॥८॥
यत्तु देवनं पापमित्युक्तं तत्राह अक्षग्लह इति । पाशाधीनो ग्लहः पणो जयपराजयरूपो व्यवहारः स प्रतिकूलश्चेत् नः युष्माकम् अस्माकं च दीव्यतां मध्ये परम् अभिभवेत् । तेनैव अक्षग्लहेनैव दोषः पराभवाख्यो भवति नत्वत्र स्वेच्छया कपटं कर्तुं शक्यं दैवाधीनत्वादक्षपातस्येत्यर्थः । पाणं पणनीयं द्रव्यं च कुरुष्व । वचनेन प्रत्यक्षेण वा पुरः कुरुष्वेत्यर्थः ॥८॥
युधिष्ठिर उवाच।
एवमाहायमसितो देवलो मुनिसत्तमः
।
इमानि लोकद्वाराणि यो वै भ्राम्यति सर्वदा॥९॥
अयं असितः यो लोकद्वाराणि स्वर्गापवर्गप्रापकाणि कर्मज्ञानादीनि भ्राम्यति । तेषु संचरति सोऽयम् एवमाहेति संबन्धः ॥९॥
इदं वै देवनं पापं निकृत्या कितवैः सह
।
धर्मेण तु जयो युद्धे तत्परं न तु देवनम्॥१०॥
द्विविधं देवनम् अक्षैः शास्त्रैश्च । तत्राद्यम् इति ॥१०॥
नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत
।
अजिह्यमशठं युद्धमेतत्सत्पुरुषव्रतम्॥११॥
म्लेच्छन्ति अपशब्दं कुर्वन्ति । भाषाभिर्गीर्भिः । मायया कपटेन । न चरन्ति न कर्म कुर्वन्ति । वाचा देहेन च कौटिल्यं न कुर्वन्तीति भावः । अत एवाजिह्ममकुटिलम् । अशठं कुटिलपुरुषहीनम् ॥११॥
शक्तितो ब्राह्मणार्थाय शिक्षितुं प्रयतामहे
।
तद्वै वित्तं मातिदेवीर्मा जैषीः शकुने परान्॥१२॥
ब्राह्मर्थाय ब्राह्मणप्रयोजनाय । शिक्षितुं विद्यामुपादातुं यतामहे येन वित्तेन । तद्वै वित्तम् अपहर्तुं मातिदेवीः सर्वस्वस्य पणीकरणेन अतिद्यूतं मा कृथाः ॥१२॥
निकृत्या कामये नाहं सुखान्युत धनानि वा
।
कितवस्येह कृतिनो वृत्तमेतन्न पूज्यते॥१३॥
नन्वक्षपाताधीनो जयस्तवापि समान इत्याशङ्क्याह निकृत्येति निकृत्या नीचकर्मणा । इह कितवस्य एतद्वृत्तं । कृतिनः न पूज्यते सतां न प्रशस्यमित्यर्थः ॥१३॥
शकुनिरुवाच
।
श्रोत्रियः श्रोत्रियानेति निकृत्यैव युधिष्ठिर
।
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः॥१४॥
निकृत्या जिगीषाख्येन नचिकर्मणा । ‘बहूनि मे अकृता कर्त्वानि युध्यैत्वेन सन्त्वेन पृच्छै’ इति मन्त्रवर्णात् युद्धेन वादेन वा जिगीषा नीचमेव कर्म । तथापि जनाः व्यावहारिका लोकास्ते जिगीषया शत्रुं प्रति गतिं निकृतिं नीचकर्मत्वेन नाहुः । श्रुतेर्विरक्तविषयत्वादित्यर्थः । अकृता वर्तुमयोग्यानि कर्त्वानि कर्तव्यानि भविष्यन्ति । तान्येवाह त्वेन एकेन युध्यै स्वेन संपृच्छै इति श्रुत्यर्थः ॥१४॥
अक्षैर्हि शिक्षितोऽभ्येति निकृत्यैव युधिष्ठिर
।
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः॥१५॥
दार्ष्टान्तिकमाह अक्षैरिति ॥१५॥
अकृतास्त्रं कृतास्रश्च दुर्बलं बलवत्तरः
।
एवं कर्मसु सर्वेषु निकृत्यैव युधिष्ठिरः
।
विद्वानविदुषोभ्येति नाहुस्तां निकृतिं जनाः॥१६॥
एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे
।
देवनाद्विनिवर्तस्व यदि ते विद्यते भयम्॥१७॥
एवं त्वं निकृतिं छलं मन्यसे तर्हि श्रोत्रियादश्रोत्रिय इव विद्यावतो मत्तः पराभवभीतस्त्वं द्यूताद्विनिवर्तस्वेत्यर्थः ॥१७॥
युधिष्ठिर उवाच।
आहूतो न निवर्तेयमिति मे व्रतमाहितम्
।
विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः॥१८॥
विधिःकारयितान्तर्यामी दिष्टं दैवम् ॥१८॥
अस्मिन्समागमे केन देवनं मे भविष्यति
।
प्रतिपाणश्च कोऽन्योस्ति ततो द्यूतं प्रवर्तताम्॥१९॥
प्रतिपाणश्च कोऽन्योस्ति प्रतिपाणः पणप्रतिभूः तवाल्पधनत्वान्मत्तुल्यो धनिकः कोऽन्यो देवितास्तीति भावः । पणश्चैव हि कोऽन्यस्त इति पाठे तु पणः पणनकर्ता को न्यस्तस्त्वया मृत्युमुखे इति शेषः । तव मया सह देवितुमनर्हत्वादितिभावः ॥१९॥
दुर्योधन उवाच।
अहं दातास्मि रत्नानां धनानां च विशाम्पते
।
मदर्थे देविता चायं शकुनिर्मातुलो मम॥२०॥
युधिष्ठिर उवाच।
अन्येनान्यस्य वै द्यूतं विषमं प्रतिभाति मे
।
एतद्विद्विन्नुपादत्स्व काममेवं प्रवर्तताम्॥२१॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि युधिष्ठिरशकुनिसंवादे एकोनषष्टितमोऽध्यायः॥५९॥
युधिष्ठिर उवाच।
मत्त कैतकेनैव यज्जितोऽस्मि दुरोदरे
।
शकुने हन्त दीव्यामो ग्लहमानाः परस्परम्॥१॥
मत्तेति । कैतवकेन कितवैर्निर्वृत्तेन कपटेन अरीहणादित्वाद्गुञ् मत्त गर्वित ॥१॥
सन्ति निष्कसहस्रस्य भाण्डिन्यो भरिताः शुभाः
।
कोशो हिरण्यमक्षय्यं जातरूपमनेकशः
।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया॥२॥
साष्टपलशतं सुवर्णानां निष्कः भाण्डिन्यो मञ्जूषाः कुण्डिन्य इति पाठे कुण्डिन्यः पात्रविशेषाः । भरिताः पूरिताः । हिरण्यं धनम् । जातरूपम् अकुप्यं स्वर्णरौप्यात्मकम् ॥२॥
वैशम्पायन उवाच।
कौरवाणां कुलकरं ज्येष्ठं पाण्डवमच्युतम्
।
इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम्॥३॥
युधिष्ठिर उवाच।
अयं सहस्रसमितो वैयाघ्रः सुप्रतिष्ठितः
।
सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः॥४॥
सहस्रसमितः सहस्ररथतुल्यः । वैयाघ्रः व्याघ्रचर्मावनद्धः । स्वचक्रोपस्कर इति पाठे स्वस्य चक्रं समुदायः तत्र उपस्कर उल्लासादिना शत्रुप्रतिकारे यत्नो येन सः । किङ्किणीनां क्षुद्रघाण्टिकानां जालेन संवृतः ॥४॥
संह्रादनो राजरथो य इहास्मानुपावहत्
।
जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः॥५॥
उपावहत् आनीतवान् ॥५॥
अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः
।
वहन्ति नैषां मुच्येत पदाद्भूमिमुपस्पृशन्
।
एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया॥६॥
कुररः पक्षिविशेषस्तेनतुल्यप्रभाः कुररच्छायाः । कुमुदछाया इतिपाठान्तरम् । एषां पदात् भूमौ न्यस्तात् भूमिमुपस्पृशन् भूचरः न मुच्येत अतिदूरस्थोऽपि भूचर एषां पादाक्रान्त एव भवतीत्यर्थः । येन मुच्यन्ते पदाभूमिमुपस्पृशन्निति पाठे उपस्पृशन्नित्येकत्वमार्षं भूचराः येन मुच्यन्ते अतिक्रम्यन्ते इत्यर्थः ॥६॥
वैशम्पायन उवाच।
एवं श्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥७॥
युधिष्ठिर उवाच।
शतं दासीसहस्राणि तरुण्यो हेमभद्रिकाः
।
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः॥८॥
हेमभद्रिकाः हेममयाः भद्रिकाः माङ्गलिकालङ्काराः मङ्गलसूत्रादयो यासां ताः कम्बवः शङ्खवल्यानि निष्को वक्षोभूषणम् ॥८॥
महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः
।
मणीन्हेम च बिभ्रत्यश्चतुःषष्टिविशारदाः॥९॥
चतुःषष्टिषु कलासु विशारदाः कलानामानि तु श्रीमद्भागवतदशमस्कन्धटीकायां श्रीधरस्वामिभिर्दर्शितानि ॥९॥
अनुसेवां चरन्तीमाः कुशला नृत्यसामसु
।
स्नातकानाममात्यानां राज्ञां च मम शासनात्
।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया॥१०॥
स्नातकादीनाम् अनुसेवां पादप्रक्षालनादिरूपां सेवामनुपश्चात् चरन्ति परिचरन्ति साम गीतिः प्रीत्युत्पादनं वा ॥१०॥
वैशम्पायन उवाच।
एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः
।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥११॥
युधिष्ठिर उवाच।
एतावन्ति च दासानां सहस्राण्युत सन्ति मे
।
प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा॥१२॥
प्रावारवसनाः पट्टाम्बराच्छादनाः ॥१२॥
प्राज्ञा मेधाविनो दान्ता युवानो मृष्टकुण्डलाः
।
पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत
।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया॥१३॥
वैशम्पायन उवाच।
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
।
जितमित्येव शकुनिर्युधिष्ठिरभाषत॥१४॥
युधिष्ठिर उवाच।
सहस्रसङ्ख्या नगा मे मत्तास्तिष्ठन्ति सौबल
।
हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः॥१५॥
नागा गजाः हेमकक्षाः सुवर्णगजरज्जवः कृतापीडाः कृतभूषणाः पद्मिनः गलगण्डस्थलादिषु पद्मचिह्निताः हेममालिनः स्वर्णमालावन्तः ॥१५॥
सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि
।
ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः॥१६॥
ईषा लाङ्गलदण्डः अष्टकरेणवः अष्टहस्तिनीकाः ॥१६॥
सर्वे च पुरभेत्तारो नवमेघनिभा गजाः
।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया॥१७॥
वैशम्पायन उवाच।
इत्येवंवादिनं पार्थं प्रहसन्निव सौबलः
।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥१८॥
युधिष्ठिर उवाच।
रथास्तावन्त एवेमे हेमदण्डाः पताकिनः
।
हयैर्विनीतैः सम्पन्ना रथिभिश्चित्रयोधिभिः॥१९॥
दण्डः ध्वजदण्डः ॥१९॥
एकैको ह्यत्र लभते सहस्रपरमां भृतिम्
।
युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम्
।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया॥२०॥
भृतिं वेतनम् । तच्च मासकालिकं न त्वाह्निकम् वार्षिकं चेति वक्तुं पुनर्वेतनग्रहणम् ॥२०॥
वैशम्पायन उवाच।
इत्येवमुक्ते वचने कृतवैरो दुरात्मवान्
।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥२१॥
दुरात्मवान् दुष्टचित्तः ॥२१॥
युधिष्ठिर उवाच।
अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः
।
ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने॥२२॥
युद्धे जितः पराभूतः प्रीतिपूर्वमरिन्दमः
।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया॥२३॥
वैशम्पायन उवाच।
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥२४॥
युधिष्ठिर उवाच।
रथानां शकटानां च श्रेष्ठानां चायुतानि मे
।
युक्तान्येव हि तिष्ठन्ति वाहैरुच्चावचैस्तथा॥२५॥
एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः
।
यथा समुदिता वीराः सर्वे वीरपराक्रमाः॥२६॥
क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान्
।
षष्टिस्तानि सहस्राणि सर्वे विपुलवक्षसः
।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया॥२७॥
वैशम्पायन उवाच।
एतच्छ्रत्वा व्यवसितो निकृतिं समुपाश्रितः
।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥२८॥
युधिष्ठिर उवाच।
ताम्रलोहैः परिवृता निधयो ये चतुः शताः
।
पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै॥२९॥
ताम्रलोहैः परिवृताः ताम्रभाजनेषु लोहभाजनेषु च मुद्रितमुझेषु निहिता इत्यर्थः निधिर्निक्षेपद्रव्यं अहतस्य केवलप्स्य ॥२९॥
जातरूपस्य मुख्यस्य अनर्घेयस्य भारत
।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया॥३०॥
वैशम्पायन उवाच।
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥३१॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि देवने एकषष्ठितमोऽध्यायः॥६१॥
वैशम्पायन उवाच।
एवं प्रवर्तिते द्यूते घोरे सर्वापहारिणि
।
सर्वसंशयनिर्मोक्ता विदुरो वाक्यमब्रवीत्॥१॥
एवमिति ॥१॥
विदुर उवाच।
महाराज विजानीहि यत्त्वां वक्ष्यामि भारत
।
मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम्॥२॥
यद्वै पुरा जातमात्रो रुराव गोमायुवद्विस्वरं पापचेताः
।
दुर्योधनो भारतानां कुलघ्नः सोऽयं युक्तो भवतां कालहेतुः॥३॥
रुराव शब्दं कृतवान् ॥३॥
गृहे वसन्तं गोमायुं त्वं वै मोहान्न बुध्यसे
।
दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम॥४॥
काव्यां कविना शुक्रेणोक्तां नीतिं गिरम् ॥४॥
मधु वै माध्विको लब्ध्वा प्रपातं नैव बुध्यते
।
आरुह्य तं मज्जति वा पतनं चाधिगच्छति॥५॥
माध्विकः मधुपण्यवान् प्रपातं भृगुं प्रपतन्त्यस्मादिति व्युत्पत्तेः मज्जति तत्रैव मधुनि निमग्नो भवति । ततः प्रपतनं चाधिगच्छति ॥५॥
सोऽयं मत्तोऽक्षद्यूतेन मधुवन्न पीरक्षते
।
प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः॥६॥
मधुवत् मधुनेव मत्तो विवशः ॥६॥
विदितं मे महाप्राज्ञ भोजेष्वेवासमञ्जसम्
।
पुत्रं संत्यक्तवान्पूर्वं पौराणां हितकाम्यया॥७॥
अन्धका यादवा भोजाः समेताः कंसमत्यजन्
।
नियोगात्तु हते तस्मिन्कृष्णेनामित्रघातिना॥८॥
नियोगात् दैवयोगात् ॥८॥
एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः
।
त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम्॥९॥
निग्रहादस्य पादस्य मोदन्तां कुरवः सुखम्
।
काकेनेमांश्चित्रवर्हान् शार्दूलान्क्रोष्टुकेन च
।
क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे॥१०॥
चित्रबर्हान् मयूरान् ॥१०॥
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्
।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥११॥
सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयङ्करः
।
इति स्म भाषते काव्यो जम्भत्यागे महाऽसुरान्॥१२॥
जम्भत्यागनिमित्तं सर्वज्ञः सर्वेषां प्राणिनां भावं चित्ताशयं जानातीति तथाभूतः काव्यः शुकः अयं सर्वशत्रुभयङ्कर इति भाषते स्म । सर्वेषां स्वपरपक्षीयाणां शत्रुश्च भयङ्करश्चेति स तथा । त्यजेत् कुलार्थे पुरुषमिति भाषत इति वा योज्यम् ॥१२॥
हिरण्यष्ठीविनः कांश्चित्पक्षिणो वनगोचरान्
।
गृहे किल कृतावासान्लोभाद्राजा न्यपीडयत्
।
स चोपभोगलोभान्धो हिरण्यार्थी परन्तप॥१३॥
न्यपीडयत् हतवान् लोभात् मांसलोभात् ॥१३॥
आयतिं च तदात्वं च उभे सद्यो व्यनाशयत्
।
तदर्थकामस्तद्वत्त्वं मा द्रुहः पाण्डवा नृप॥१४॥
आयतिम् उत्तरकालं परलोकम् उपकारिणां वधात् न्यनाशयत् । तदात्वं साम्प्रतम् । इहापि सुखप्राप्यं धनं व्यनाशयत् । तत्तस्मादर्थकामः धनकामः ॥१४॥
मोहात्मा तप्स्यसे पश्चात्पत्रिहा पुरुषो यथा
।
जातञ्जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत॥१५॥
पत्रिहा पक्षिहा । पुष्पमिव पुष्पम् उपहार्यं धनम् ॥१५॥
मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः
।
वृक्षानङ्गारकारीव मैनाद्याक्षीः समूलकान्
।
मा गमः समुतामात्यः सबलश्च यमक्षयम्॥१६॥
अङ्गारकारी वृक्षशाखान्तनिघर्षणेन वह्न्युत्पादको वायुरिव त्वं एतेषां परस्परसंघर्षणेन कुलक्षयं मा कुरु इत्यर्थः ॥१६॥
समवेताह्नि कः पार्थान्प्रतियुध्येत भारत
।
मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः॥१७॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि विदुरहितवाक्ये द्विषष्टितमोऽध्यायः॥६२॥
विदुर उवाच।
द्यूतं मूलं कलहस्याभ्युपैति मिथो भेदं महते दारुणाय
।
तदा स्थितोऽयं धृतराष्ट्रस्य पुत्रो दुर्योधनः सृजते वैरमुग्रम्॥१॥
द्यूतमिति । द्यूतं दारुणाय भयाय अभ्युपैतीति सम्बन्धः ॥१॥
प्रातिपेयाः शान्तनवा भीमसेनाः सबाह्निकाः
।
दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः॥२॥
प्रातिपेयाः प्रतीपान्वयजाः कृच्छ्रं सङ्कटम् ॥२॥
दुर्योधनो मदेनैष क्षेमं व्यपोहति
।
विषाणं गौरिव मदात्स्वयमारुजतेत्मनः॥३॥
क्षेमं व्यपोहति राष्ट्रमुपप्लुतं करोतीत्यर्थः । आरुजते भङ्गं नयति । आत्मनः पूर्वरूपमार्षम् ॥३॥
यश्चित्तमन्वेति परस्य राजन् वीरः कविः स्वामवमत्य दृष्टिम्
।
नावं समुद्र इव बालनेत्रामारुह्य घोरे व्यसने निमज्जेत्॥४॥
अन्वेति अनुसरति कविः क्रान्तदर्शी । स्वां दृष्टिं क्रान्तदर्शित्वम् । बालनेत्राम् अव्युत्पन्ननेतृकाम् ॥४॥
दुर्योधनो ग्लहते पाण्डवेन प्रीयायसे त्वं जयतीति तच्च
।
अतिनर्मा जायते संप्रहारो यतो विनाशः समुपैति पुंसाम्॥५॥
ग्लहते पणं करोति । प्रीयायसे अतिशयेन प्रीयसे यङन्तोऽयम् अप्रथमस्यापि यकारस्य द्वित्वमार्षम् । प्रियायस इति ह्रस्वपाठे तु प्रियमिव आचरसे। अतिनर्मातिविनोद एवान्ते सम्प्रहारो युद्धम् आजायते। युद्धरूपेण परिणमते । अतः समुन्मज्जति सम्प्रहार इति पाठः ॥५॥
आकर्षस्तेऽवाक्फलः सुप्रणीतो हृदि प्रौढो मन्त्रपदः समाधिः
।
युधिष्ठिरेण कलहस्तवायमचिन्तितोऽभिमतः स्वबन्धुना॥६॥
आकर्षस्तेऽवाक्फलः सुप्रणीतः । आकर्षो द्यूतम् अवाक् नीचगामिफलं यस्य सोवाक्फलः हानिमृत्युनरकप्रद इत्यर्थः । सुप्रणीतः सम्यक्प्रणीत उपस्थापितः शकुनिनेत्युपहासः । ‘आकर्षः शारिफलके पाशके द्यूत इन्द्रिये’ इति विश्वः । आकर्षस्ते स्वे धने कुप्रणीत इति पाठे स्वं धनं राज्यपुत्रादि तत्र आकर्षः धनाद्याकर्षणसाधनं काष्ठादिमयो हस्तः । कुत्सितेन शकुनिना प्रणीतः यतोऽयं द्यूतरूपः समाधिर्नियमः मन्त्रपदो मन्त्रपूर्वको भवतां हृदि प्ररूढः । किं तावतेत्यत आह युधिष्ठिरेणेति । अयमेक आकर्षः कलहः कलहरूपेण परिणंस्यत इत्यर्थः ॥६॥
प्रातिपेयाः शान्तनवाः शृणुध्वं काव्यां वाचं संसदि कौरवाणाम्
।
वैश्वानरं प्रज्वलितं सुघोरं मा यास्यध्वं मन्दमनुप्रपन्नः॥७॥
तत्फलमाह प्रातिपेया इति । काव्यां कविना दीर्घदर्शिना मया ईरिताम् । मन्दं दुर्योधनं मात्यगाद्व इति पाठे वः युष्माकं मध्ये कश्चिदिमं कलहवैश्वानरं मात्यगात् अतिक्रम्य मागात्। किन्तु अर्वागेव शाम्यध्वमित्याहोत्तरार्धेन ॥७॥
यदा मन्युं पाण्डवोऽजातशत्रुर्न संयच्छेदक्षमदाभिभूतः
।
वृकोदरः सव्यसाची यमौ च कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम्॥८॥
अयुद्धेन प्रशामयस्वेति राजानं प्रति उक्तं युद्धे को दोष इत्यत आह यदेति द्वीप इव द्वीपः आपत्समुद्रं मज्जतामाश्रयः ॥८॥
महाराज प्रभवस्त्वं धनानां पुरा द्यूतान्मनसा यावदिच्छेः
।
बहुवित्तान्पाण्डवांश्चेज्जयस्त्वं किं ते तत्स्याद्वसु विन्देह पार्थान्॥९॥
प्रभव उत्पत्तिः यावदिच्छेस्तावत्ते धनमस्तीत्यर्थः अत्यन्ततृष्णाप्यफलेत्याह बह्विति । जयः अजयः जितवान् । किं ते तत् ततः स्यान्न किमपि । अतो हेतोर्वसु विन्देह पार्थान् पार्थानेव धनरूपेण विन्द लभस्व । वसु जित्वेह पार्थानिति पाठे वसु जित्वा वसुजयशीलः । अन्येभ्योऽपि दृश्यन्त इति जयतेः क्वनिप् । तादृशस्त्वं पार्थानेव ईह ईहस्व इच्छाविषयान् कुरु । तेनैव तव महाँल्लाभ इत्यर्थः॥९॥
जानीमहे देवितं सौबलस्य वेद द्यूते निकृतिं पार्वतीयः
।
यतः प्राप्तः शकुनिस्तत्र यातु मा यूयुधो भारत पाण्डवेयान्॥१०॥
वेद जानीते। निकृतिं छलम् । मा यूयुधः मा योधयः ॥१०॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि विदुरवाक्ये त्रिषष्टितमोऽध्यायः॥६३॥
दुर्योधन उवाच।
परेषामेव यशसा श्लोघसे त्वं सदा क्षत्तः कुत्सयन्धार्तराष्ट्रान्
।
जानीमहे विदुर यत्प्रियस्त्वं बालानिवास्मानवमन्यसे नित्यमेव॥१॥
परेषामिति । यत्प्रियः ये प्रिया यस्य । बालान्मूर्खान्। अस्मिन्पादेऽक्षराधिक्यमार्षम् ॥१॥
स विज्ञेयः पुरुषोऽन्यत्रकामो निन्दाप्रशंसे हि तथा युनक्ति
।
जिह्वा कथं ते हृदयं व्यनक्ति यो व ज्यायसः कृथा मनसः प्रातिकूल्यम्॥२॥
स इति अन्यत्र इष्टजयेऽनिष्टपराजये च कामोऽभिलाषो यस्य सः अन्यत्रकामः विज्ञेयः तत्र लिङ्गम् इष्टप्रशंसा अनिष्टनिन्दा चेत्याह निन्देति । ते तव जिह्वा कथं हृदयं हृदिस्थम् अस्मासु द्वेषं व्यनक्ति अवाच्यमपि प्रकटयतीत्यर्थः । ‘जिह्वा मनस्ते हृदयं व्यनक्ति । ज्यायोऽन्तरान्मनसः प्रातिकूल्यम्’ इति पाठे जिह्वा वागिन्द्रियं तत्सहितं मनः तत्प्रवर्तकमन्तःकरणं तत् ते तव हृदयं बुद्धिम् आशयं व्यनक्ति यतः अन्तरान्मनसः अपेक्षया बाह्यं वाचः प्रातिकूल्यं ज्यायः । विद्यमानोऽप्यस्मासु द्वेषो लोकलज्जाभयात् त्वया वाचा न वक्तव्य इत्यर्थः ॥२॥
उत्सङ्गे च व्याल इवाहितोऽसि मार्जारवत्पोषकं चोपहंसि
।
भर्तृघ्नं त्वां न हि पापीय आहुस्तस्मात्क्षत्तः किं न बिभेषि पापात्॥३॥
एतदेवाह उत्सङ्गे चेति । पापीयः पापतरम् । भर्तृघ्नत्वात्स्वामिद्रोहात् । पापीयमाहुरिति पाठे पापाय हितं तस्मै हितमिति छः ॥३॥
जित्वा शत्रून्फलमाप्तं महद्वै माऽस्मान्क्षत्तः परुषामीह वोचः
।
द्विषद्भिस्त्वं सम्प्रयोगाभिनन्दी मुहुर्द्वेषं यासि नः सम्प्रयोगात्॥४॥
सम्प्रयोग ऐक्यं सख्यमित्यर्थः । सम्प्रयोगात् अस्माभिः सह सख्यं कृत्वा तान् प्रशंसन् मुहुः वारंवारं द्वेषं यासि अस्मद्द्वेष्यो भवसीत्यर्थः । संप्रमोहादित्यपि पाठः । तेषां सखा भूत्वा मौर्ख्यादस्माभिः सह द्वेषं करोषि सम्बन्धस्य साम्ये सत्येतदयुक्तमित्यर्थः ॥४॥
अमित्रतां याति नरोऽक्षमं ब्रुवन्निगूहते गुह्यममित्रसंस्तवे
।
तदाश्रितोऽपत्रप किं नु बाधसे यदिच्छसि त्वं तदिहाभिभाषसे॥५॥
अक्षमं क्षन्तुमयोग्यम्। निगूहते गुह्यं सर्वोऽपि । त्वं तु तत्प्रकाशयसीति भावः । तदाश्रितः पार्थिवाश्रिताः । पार्थिवं धृतराष्ट्रम्। यतो यथेष्टं माषसे ॥५॥
मा नोऽवमंस्था विद्म मनस्तवेदं शिक्षस्व बुद्धिं स्थविराणां सकाशात्
।
यशो रक्षस्व विदुर सम्प्रणीतं मा व्यापृतः परकार्येशु भूस्त्वम्॥६॥
अहं कर्तेति विदूर मा च मंस्था मा नो नित्यं परुषाणीह वोचः
।
न त्वां पृच्छामि विदुर यद्धितं मे स्वस्ति क्षत्तर्मा तितिक्षून्क्षिण् त्वम्॥७॥
अहं दुर्योधनः कर्तेति च मा मंस्था मा मन्यस्व । मावमंस्था इति पाठे मामिति शेषः । तितिक्षून् क्षमावतः । क्षिणु क्षपय नात्रास्माकमपराध इत्यर्थः ॥७॥
एकः शास्ता न द्वितीयोऽस्ति शास्ता गर्भे शयानं पुरुषं शास्ति शास्ता
।
तेनानुशिष्टः प्रवणादिवाम्भो यथा नियुक्तोऽस्ति तथा भवामि॥८॥
कस्तर्हि कर्तेत्यत आह एक इति। प्रवणात् निम्नात् ॥८॥
भिनत्ति शिरसा शैलमहिं भोजयते च यः
।
धीरेव कुरुते तस्य कार्याणामनुशासनम्
।
यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति॥९॥
भिनत्ति येन नियुक्तः स्वीयमपि शिरस्ताडयतीत्यर्थः । भोजयते णिचश्चेति तङ् । साक्षान्मृत्युमपि अहिं सर्पं यो रक्षयते इत्यर्थः । एवमनिष्टेऽपि कर्मणि स एव मां प्रेरयतीत्यर्थः । तेन शासनेन । शास्यमेवामित्रं विन्दति प्राप्नोति ॥९॥
मित्रतामनुवृत्तं तु समुपेक्षेत पण्डितः
।
प्रदीप्य यः प्रदीप्ताग्निं प्राक्चिरं नाभिधावति
।
भस्मापि न स विन्देत शिष्टं क्व च न भारत॥१०॥
समुपेक्षेत शासनमिति शेषः । त्वत्पालकत्वेन त्वन्मित्रं मां त्वमेवं मा शाधीत्यर्थः । यदुक्तं वैराग्निं प्रशमयस्वेति तत्राह प्रदीप्येति । प्रकर्षेण दीप्तो दीपनीयोऽग्निर्यस्य सः प्रदीप्ताग्निः कर्पूरः तं प्राक् पूर्वं प्रदीप्य यः शमयितुं चिरं नाभिधावति स तस्य कर्पूरस्य भस्मापि न विन्दति । तथा च एवं पाण्डवान्प्रकोप्य यदि समूलान्नाशयामि तर्हि एते मां निर्मूलमुन्मूलयिष्यन्तीति भावः । अत्र प्रदीप्य प्राक्प्रदीप्ताद्धि प्राप्तुं रत्नानि धावतीति पाठान्तरं निर्मूलम् ॥१०॥
न वासयेत्पारवर्ग्यं द्विषन्तं विशेषतः क्षत्तरहितं मनुप्यम्
।
स यत्रेच्छसि विदुर तत्र गच्छ सुसान्त्विता ह्यसती स्त्री जहाति॥११॥
पारवर्ग्ये परवर्गे शत्रुसन्धे जातम् ॥११॥
विदुर उवाच।
एतावता पुरुषं ये त्यजन्ति तेषां सख्यमन्तवद्ब्रूहि राजन्
।
राज्ञां हि चित्तानि परिप्लुतानि सान्त्वं दत्वा मुसलैर्घातयन्ति॥१२॥
एतावता नीतिशिक्षणेन । साक्षिवत् पुत्रे मयि वा पक्षपातमकुर्वन् ब्रूहि । राजन् हे धृतराष्ट्र राज्ञां हीति । परिप्लुतानि द्वेषेणेति शेषः । तर्हि ते सान्त्वं दत्वा घातयन्ति कोपं प्रच्छादयन्त्येव । अयं तु कोपप्रकाशनान्न राजनीतिविदिति भावः ॥१२॥
अबालत्वं मन्यसे राजपुत्र बालोऽहमित्येव सुमन्दबुद्धे
।
यः सौहृदे पुरुषं स्थापयित्वा पश्चादेनं दूषयते स बालः॥१३॥
अबालत्वं पण्डितत्वम् आत्मन इति शेषः । बालोऽहं विदुर, इति च मन्यसे । तद्विपरीतमित्याह य इति । सुहृत्सु अविश्वासकृदेव बाल इत्यर्थः । अबालास्त्वमिति पाठे त्वं बाल इति दुर्योधने काकूक्त्या योज्यम्॥१३॥
न श्रेयसे नीयते मन्दबुद्धिः स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा
।
ध्रुवं न रोचेद्भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः॥१४॥
ध्रुवं स्थिरं राज्यादिकं न रोचेन्न रोचते । यद्वा ध्रुवं निश्चितं हितोपदेष्टेति शेषः । भरतर्षभस्येत्युपहासः ॥१४॥
लभ्यते खलु पापीयान्नरोऽनु प्रियवागिह
।
अप्रियस्य हि पथ्यस्य वक्ता श्रोता च दुर्लभः॥१६॥
यत्तु परुषाणि मा वोच इत्युक्तं तत्राह लभ्यत इति । पथ्यं परिणामे हितम् ॥१६॥
यस्तु धर्मपरश्च स्याद्धित्वा भर्तुः प्रियाप्रिये
।
अप्रियाण्याह पथ्यानि तेन राजा सहायवान्॥१७॥
अव्याधिजं कटुजं तीक्ष्णमुष्णं यशोमुषं परुषं पूतिगन्धिम्
।
सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥१७॥
वैचित्रवीर्यस्य यशो धनं च वाञ्छाम्यहं सहपुत्रस्य शश्वत्
।
यथा तथा तेऽस्तु नमश्च तेऽस्तु ममापि च स्वस्ति दिशन्तु विप्राः॥१८॥
हे महाराज यम् असन्तो न पिबन्ति तं सतां पेयं मन्युं दैन्यं पिब । मन्युर्दैन्ये क्रतौ क्रुधीत्युक्तम् । तच्च अव्याधिजम् । किन्तु कटुजं दूषणजम् । ‘दूषणे कटुः’ इति विश्वः । तीक्ष्णं मर्मच्छित् । उष्णं तापजनकम् । यशोमुषं कीर्तिघ्नम्। परुषं रूक्षं निःस्नेहं पूतिगन्धिम् । पूतिदुष्टं तद्गन्धिं दुष्टवदाभासमानम्। औषधमप्येतादृशम् । अव्यधये जायते तत् अव्याधिजम् । कटुजं कटुक्यादिकटुद्रव्यजम् । तीक्ष्णं वेदनाकरम् । उष्णं जाड्यनाशकम् । यशोमुषं कामोद्दीपनेन । परुषं धृतादिसाधनहीनम् । पूतिगन्धि लशुनादिवद्दुर्गन्धि । पिब मन्युम् औषधं वा गिल । प्रशाम्य प्रशमम् आरोग्यं च प्राप्नुहि ॥१८॥
आशीविषान्नेत्रविषान्कोपयेन्न च पण्डितः
।
एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन॥१९॥
शश्वत् निरन्तरम् ॥१९॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि विदुरवाक्ये चतुःषष्टितमोऽध्यायः॥६४॥
शकुनिरुवाच॥
बहुवित्तं पराजैषीः पाण्डवानां युधिष्ठिर
।
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्॥१॥
बह्विति । पराजैषीः हारितवान् ॥१॥
युधिष्ठिर उवाच।
मम वित्तमसङ्ख्येयं यदहं वेद सौबल
।
अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि॥२॥
अयुतं प्रयुतं चैव शङ्कुं पद्मं तथार्बुदम्
।
खर्वं शङ्खं निखर्वं च महापद्मं च कोटयः॥३॥
मध्यं चैव परार्धं च सपरं चात्र पण्यताम्
।
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया॥४॥
सपरं साधिकं परार्धादप्यधिकम् ॥४॥
वैशम्पायन उवाच।
एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः
।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥५॥
युधिष्ठिर उवाच।
गवाश्वं बहुधेनूकमसङ्ख्येयमजाविकम्
।
यत्किञ्चिदनुपर्णाशां प्राक्सिन्धोरपि सौबल
।
एतन्मम धनं सर्वं तेन दीव्याम्यहं त्वया॥६॥
पर्णाशा नदी ॥६॥
वैशम्पायन उवाच।
एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः
।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥७॥
युधिष्ठिर उवाच।
पुरं जनपदो भूमिरब्राह्मणधनैः सह
।
अब्राह्मणाश्च पुरुषा राजञ्च्छिष्टं धनं मम
।
एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया॥८॥
वैशम्पायन उवाच।
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥९॥
युधिष्ठिर उवाच।
राजपुत्रा इमे राजन्शोभन्ते यैर्विभूषिताः
।
कुण्डलानि च निष्काश्च सर्वं राजविभूषणम्
।
एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया॥१०॥
वैशम्पायन उवाच।
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥११॥
युधिष्ठिर उवाच।
श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः
।
नकुलो ग्लह एवैकी विद्ध्येतन्मम तद्धनम्॥१२॥
शकुनिरुवाच
।
प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर
।
अस्माकं वशतां प्राप्तो भूयः केनेह दीव्यसे॥१३॥
वैशम्पायन उवाच।
एवमुक्त्वा तु तानक्षाञ्शकुनिः प्रत्यदीव्यत
।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥१४॥
युधिष्ठिर उवाच।
अयं धर्मान्सहदेवोऽनुशास्ति लोके ह्यस्मिन्पण्डिताख्यां गतश्च
।
अनर्हता राजपुत्रेण तेन दीव्याम्यहं चाप्रियवत्प्रियेण॥१५॥
अप्रियवत् प्रियमपि द्यूते त्यजामीत्यर्थः ॥१५॥
वैशम्पायन उवाच।
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥१६॥
शकुनिरुवाच
।
माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया
।
गरीयांसौ तु ते मन्ये भीमसेनधनञ्जयौ॥१७॥
युधिष्ठिर उवाच।
अधर्मं चरसे नूनं यो नावेक्षसि वै नयम्
।
यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि॥१८॥
सुमनसां परस्परमैकप्रत्यवतां भेदं वैमत्यम् ॥१८॥
शकुनिरुवाच
।
गर्ते मत्तः प्रपतते प्रमत्तः स्थाणुमृच्छति
।
ज्येष्ठो राजन्वरिष्ठोऽसि नमस्ते भरतर्षभ॥१९॥
मत्तः वित्तविवशचित्तत्वेनाधर्मकर्ता । स गर्त नरके स्थाणुं स्थाणुत्वम् ऋच्छति प्राप्नोति । आर्छतीति पाठे आङ् पूर्वस्य रूपम् । ज्येष्ठो वयसाधिकः । वरिष्ठो गुणैरधिकः ॥१९॥
स्वप्ने तानि न दृश्यन्ते जाग्रतो वा युधिष्ठिर
।
कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव॥२०॥
मत्तत्वमेवाह स्वप्न इति । मत्तस्य मम वचः क्षन्तव्यमिति भावः ॥२०॥
युधिष्ठिर उवाच।
यो नः सङ्ख्ये नौरिव पारनेता जेता रिपूणां राजपुत्रस्तरस्वी
।
अनर्हता लोकवीरेण तेन दीव्याम्यहं शकुने फाल्गुनेन॥२१॥
सङ्ख्ये सङ्ग्रामे तरस्वी वेगवान् ॥२१॥
वैशम्पायन उवाच।
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥२२॥
शकुनिरुवाच
।
अयं मया पाण्डवानां धनुर्धरः पराजितः पाण्डवः सव्यसाची
।
भीमेन राजन्दयितेन दीव्य यत्कैतवं पाण्डव तेऽवशिष्टम्॥२३॥
कैतवं कितवेभ्य आहर्तव्यं धनम् ॥२३॥
युधिष्ठिर उवाच।
यो नो नेता यो युधि नः प्रणेता यथा वज्री दानवशत्रुरेकः
।
तिर्यक्प्रेक्षी सन्नतभ्रूर्महात्मा सिंहस्कन्धो यश्च सदाऽत्यमर्षी॥२४॥
बलेन तुल्यो यस्य पुमान्न विद्यते गदाभृतामग्र्य इहारिमर्दनः
।
अनर्हता राजपुत्रेण तेन दीव्याम्यहं भीमसेनेन राजन्॥२५॥
वैशम्पायन उवाच।
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥२६॥
शकुनिरुवाच
।
बहुवित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान्
।
आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्॥२७॥
युधिष्ठिर उवाच।
अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा
।
कुर्यामहं जितः कर्म स्वयमात्मन्युपल्पुते॥२८॥
उपप्लुते जिते ॥२८॥
वैशम्पायन उवाच।
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः
।
जितमित्येव शकुनिर्युधिष्ठिरमभाषत॥२९॥
शकुनिरुवाच
।
एतत्पापिष्ठमकरोर्यदात्मानं पराजयेः
।
शिष्टे सति धने राजन्पाप आत्मपराजयः॥३०॥
पापिष्ठम् अत्यधमं पापः पापहेतुः ॥३०॥
वैशम्पायन उवाच।
एवमुक्त्वा मताक्षस्तान्ग्लहे सर्वानवस्थितान्
।
पराजयल्लोकवीरानुक्त्वा राज्ञां पृथक्पृथक्॥३१॥
ग्लहे पणविषये राजानं प्रति एवमुक्त्वा राज्ञां पाण्डवानां पराजयं च लोकवीरान्प्रति उक्त्वा शकुनिरुवाचेत्युत्तरेण सम्बन्धः ॥३१॥
शकुनिरुवाच
।
अस्ति ते वै प्रिया राजन्ग्लह एकोऽपराजितः
।
पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय॥३२॥
आत्मानं प्रति पणं पुनर्जय दास्यान्मोचय । नो चेत् द्रौपदी वाऽस्मद्दासी भविष्यतीत्यर्थः॥३२॥
युधिष्ठिर उवाच।
नैव ह्रस्वा न महती न कृशा नातिरोहिणी
।
नीलकुञ्चितकेशी च तया दीव्याम्यहं त्वया॥३३॥
नातिरोहिणी नातिरक्ता ॥३३॥
शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया
।
शारदोत्पलसेविन्या रूपेण श्रीसमानया॥३४॥
शारदोत्पलसेविन्याः लक्ष्म्याः रूपेण समानया । श्रिया लावण्यसौभाग्यादिरूपया च समानया। श्रीति भिन्नं पदं छान्दसस्तृतीयाया लुक्पूर्वसवर्णो वा ॥३४॥
तथैव स्यादानुशंस्यात्तथा स्याद्रूपसम्पदा
।
तथा स्याच्छीलसम्पत्त्या यामिच्छेत्पुरुषः स्त्रियम्॥३५॥
तथैवेति लक्ष्मीसाम्यमुच्यते ॥३५॥
सर्वैर्गुणैर्हि सम्पन्नामनुकूलां प्रियंवदाम्
।
यादृशीं धर्मकामार्थसिद्धिमिच्छेन्नरः स्त्रियम्॥३६॥
धर्मकामार्थसिद्धिं धर्मकामयोरर्थयोः सिद्धिर्यया सा तथा ताम् । अर्थामिति पाठे सिद्धिमिव सिद्धिम् ॥३६॥
चरमं संविशति या प्रथमं प्रतिबुध्यते
।
आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम्॥३७॥
आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च
।
वेदीमध्या दीर्घकेशी ताम्रास्या नातिलोमशा॥३८॥
मल्लिकेव सुरभिरिति शेषः । सम्मोदो मल्लिकेव चेति गौडपाठे सम्मोदः परिमलः वेदीव कृशमध्या ॥३८॥
तयैवंविधया राजन्पाञ्चाल्याहं सुमध्यमा
।
ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल॥३९॥
सुमध्यया सुन्दरमध्यया ॥३९॥
वैशम्पायन उवाच।
एवमुक्ते तु वचने धर्मराजेन धीमता
।
धिग्धिगित्येव वृद्धानां सभ्यानां निःसृता गिरः॥४०॥
चुक्षुभे सा सभा राजन्राज्ञां सञ्जज्ञिरे शुचः
।
भीष्मद्रोणकृपादीनां स्वेदश्च समजायत॥४१॥
शिरो गृहीत्वा विदुरो गतसत्व इवाभवत्
।
आस्ते ध्यायन्नधोवक्त्रो निःश्वसन्निव पन्नगः॥४२॥
धृतराष्ट्रस्तु तं हृष्टः पर्यपृच्छत्पुनः पुनः
।
किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत॥४३॥
आकारं हर्षकृतं स्वाभिप्रायम् ॥४३॥
जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः
।
इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतज्जलम्॥४४॥
सौबलस्त्वभिघायैव जितकाशी मदोत्कटः
।
जितमित्येव तानक्षान्पुररेवान्वपद्यत॥४५॥
एवम् अभिधाय अस्ति ते वै प्रियाराजन्नित्यादिकमुक्त्वा जितकाशी जयशोभी ॥४५॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि द्रौपदीपराजये पञ्चषष्टितमोऽध्यायः॥६५॥
दुर्योधन उवाच।
एहि क्षत्तर्द्रौपदीमानयस्व प्रियां भार्यां संमतां पाण्डवानाम्
।
संमार्जतां वेश्म परैतु शीघ्रं तत्रास्तु दासीभिरपुण्यशीला॥१॥
एहीति । वेश्म सम्मार्जतां परैतु पराकृता धिक्कृता सती एतु आयातु ॥१॥
विदुर उवाच।
दर्विभाषं भाषितं त्वादृशेन न मन्द सम्बुद्ध्यसि पाशबद्धः
।
प्रपाते त्वं लम्बमानो न वेत्सि व्याघ्रान्मृगः कोपयसेऽतिवेलम्॥२॥
दुर्विभाषं दुर्विकल्पम् ॥२॥
आशीविषास्ते शिरसि पूर्णकोपा महाविषाः
।
मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम्॥३॥
न हि दासीत्वमापन्ना कृष्णा भवितुमर्हति
।
जनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः॥४॥
अयं दत्ते वेणुरिवात्मघाती फलं राजा धृतराष्ट्रस्य पुत्रः
।
द्यूतं हि वैराय महाभयाय मत्तो न बुध्यत्ययमन्तकालम्॥५॥
वेणुः वेनापरनामा राजा स हि ऐश्वर्यं प्राप्य मान्यान् अमानयन् सद्यो नष्टः एवमयमपीत्यर्थः॥५॥
नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत
।
ययास्य वाचा पर उद्विजेत न तां वदेदुषती पापलोक्याम्॥६॥
अरुन्तुदः मर्मभेदी । नृशंसवादी परुषवादी। हीनतः नीचेन कर्मणा द्यूतादिना। परं शत्रुम् अभ्याददीतं वशे कुर्वीत । उषतीं दाहिकाम् । रुशतीमिति पाठे अकल्याणीम् । पापलोक्यां नरकावहाम् ॥६॥
समुच्चरन्त्यतिवादाश्च वक्त्राद्यैराहतः शोचति रात्र्यहानि
।
परस्य ना मर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु॥७॥
अजो हि शस्त्रमगिलत्किलैकः शस्त्रे विपन्ने शिरसास्य भूमौ
।
निकृन्तनं स्वस्य कण्ठस्य घोरं तद्वद्वैरं मा कृथाः पाण्डुपुत्रैः॥८॥
अजो हि शस्त्रमगिलत्किलैक इति । इयं कथा वनैकचरप्रसिद्धा । एकोऽजः शस्त्रमगिलत् गिलितुमारब्धस्ततस्तदशक्नुवन् भूमौ आस्यं निपात्य पद्भ्यामुच्चाल्य भोक्तुमारब्धः ततस्तस्मिन्नुच्चलिते सति शिरसा सह स्वस्य कण्ठस्य निकृन्तनं प्राप्य ममार । तद्वत्त्वमपि पाण्डवैर्वैरशस्त्रेण स्वहननं मा कृथा इति प्राञ्चः । कश्चित्किल मत्स्यघाती बडिशं धान्यपिष्ठेनोपलिप्य यावज्जलाशये पातयति तावद्गृहच्छागेन चापलात्तत्सपिष्टमेव गिलितम् । तन्निष्कासने विदीर्णकण्ठच्छागो ममा..याख्यायिकात्र दृष्टान्तार्थमुक्ता । पदयोजना तु एकः अजः घोरं शस्त्रं बडिशम् अगिलत् गिलितवान् । कुतोऽस्य घोरत्वं तत्राह । अस्य अजस्य शिरसा सह भूमौ शस्त्रे विपन्ने विशेषेण प्राप्ते सति स्वस्य कण्ठस्य निकृन्तनं कर्तनं छेदहेतुः यतोऽभवदित्यन्वयः । अजकण्ठस्थं शस्त्रं सूत्रेणाकृष्यमाणं ताच्छरसा सहैव तद्देहाद्विभक्तमभूदित्यर्थः । पद्भिरपास्य भूमिमिति पाठे तु शस्त्रे विपन्ने पद्भिर्भूमिमपास्य कण्ठस्य कृन्तनं छेदनम् आपेत्याध्याहृत्य योज्यम् । अयं भावः । पशुकण्ठान्निष्कास्यमाणे बडिशे पशुरेव अन्तरिक्षस्थोऽभवन्न तु ततो बडिशं वियुज्यते ततश्च पशोर्मरणनिश्चयाद्बडिशार्थी तस्य कण्ठच्छेदं कृतवानिति । एवं बडिशस्थानीयां द्रौपदीं स्पृशन् छाग इव त्वमपि नंक्ष्यसीति भावः ॥८॥
न किञ्चिदित्थं प्रवदन्ति पार्था वनेचरं वा गृहमेधिनं वा
।
तपस्विनं वा परिपूर्णविद्यं भषन्ति हैवं श्वनराः सदैव॥९॥
पार्थाः न किञ्चिद्वदन्ति । श्वनरास्तु न किञ्चिद्वदन्ति । अन्यद्दुर्वाक्यादिति शेषः । वनेचरं वानप्रस्थम् । भषन्ति हैवं श्वनराः शुनकतुल्याः नराः आपत्सु धीरानुद्दिश्य भषन्ति । धीरास्तु धीरत्वादेव तन्न गणयन्तीत्यपि पाण्डवान्प्रत्यापयतीति ध्वनिः ॥९॥
द्वारं सुघोरं नरकस्य जिह्यं न बुध्यते धृतराष्ट्रस्य पुत्रः
।
तमन्वेतारो बहवः कुरूणां द्यूतोदये सह दुःशासनेन॥१०॥
द्यूतोदये द्यूतकृते उत्कर्षे ॥१०॥
मज्जन्त्यलाबूनि शिलाः प्लवन्ते मुह्यन्ति नावोम्भसि शश्वदेव
।
मूढो राजा धृतराष्ट्रस्य पुत्रो न मे वाचः पथ्यरूपाः शृणोति॥११॥
अलाबुमज्जनादिवत् हितमप्यहितवद्दुष्टानां भातीत्याश्चार्यम् ॥११॥
अन्तो नूनं भवितायं करूणां सुदारुणः सर्वहरो विनाशः
।
वाचः काव्याः सुहृदां पथ्यरूपा न श्रूयन्ते वर्धते लोभ एव॥१२॥
अन्तो नाशकरः ॥१२॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि विदुरवाक्ये षट्षष्टितमोऽध्यायः॥६६॥
वैशम्पायन उवाच।
धिगस्तु क्षत्तारमिति ब्रुवाणो दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः
।
अवैक्षत प्रातिकामीं सभायामुवाच चैनं परमार्यमध्ये॥१॥
धिगस्त्विति । अधिब्रुवाण इति पाठे इति शब्दाध्याहारः। अधिकं निर्मर्यादं ब्रुवाण इत्यर्थः । प्रातिकामीशब्द ईकारान्त इन्नन्तश्च ॥१॥
दुर्योधन उवाच।
प्रातिकामिन्द्रौपदीमानयस्व न ते भयं विद्यते पाण्डवेभ्यः
।
क्षत्ता ह्ययं विवदत्येव भीतो न चास्माकं वृद्धिकामः सदैव॥२॥
विवदति विपरीतं वदति ॥२॥
वैशम्पायन उवाच।
एवमुक्तः प्रातिकामी स सूतः प्रायाच्छीघ्रं राजवचो निशम्य
।
प्रविश्य च श्वेव हि सिंहगेष्ठं समासदन्महिषीं पाण्डवानाम्॥३॥
सिंहगोष्ठं सिंहस्थानम् ॥३॥
प्रातिकाम्युवाच
।
युधिष्ठिरो द्यूतमदेन मत्तो दुर्योधनो द्रौपदि त्वामजैषीत्
।
सा त्वं प्रपद्यस्व धृतराष्ट्रस्य वेश्म नयामि त्वां कर्मणि याज्ञसेनि॥४॥
द्रौपद्युवाच
।
कथं त्वेवं वदसि प्रातिकामिको हि दीव्येद्भार्यया राजपुत्रः
।
मूढो राजा द्यूतमदेन मत्तो ह्यभून्नान्यत्कैतवमस्य किञ्चित्॥५॥
कैतवं कितवेभ्यो देयं धनम् ॥५॥
प्रातिकाम्युवाच
।
यदा नाभूत्कैतवमन्यदस्य तदाऽदेवीत्पाण्डवोऽजातशत्रुः
।
न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा स्वयं चात्मा त्वमथो राजपुत्रि॥६॥
द्रौपद्युवाच
।
गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज
।
किं तु पूर्वं पराजैषीरात्मानमथवा नु माम्॥७॥
एतज्ज्ञात्वा समागच्छ ततो मां नयं सूतज
।
ज्ञात्वा चिकीर्षितमहं राज्ञो यास्यामि दुःखिता॥८॥
वैशम्पायन उवाच।
सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदा
।
युधिष्ठिरं नरेन्द्राणां मध्ये स्थितमिदं वचः॥९॥
कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी
।
किं नु पूर्वं पराजैषीरात्मानमथवापि माम्॥१०॥
युधिष्ठिरस्तु निश्चेता गतसत्व इवाभवत्
।
न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा॥११॥
दुर्योधन उवाच।
इहैवागत्य पाञ्चाली प्रश्नमेनं प्रभाषताम्
।
इहैव सर्वे शृण्वन्तु तस्याश्चैतस्य यद्वचः॥१२॥
वैशम्पायन उवाच।
स गत्वा राजभवनं दुर्योधनवशानुगः
।
उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव॥१३॥
प्रातिकाम्युवाच
।
सभ्यास्त्वमी राजपुत्र्याह्वयन्ति मन्ये प्राप्तः संशयः कौरवाणाम्
।
न वै समृद्दिं पालयते लघीयान् यस्त्वां सभां नेष्यति राजपुत्रि॥१४॥
लघीयान् नीचतरः ॥१४॥
द्रौपद्युवाच
।
एवं नूनं व्यदधात्संविधाता स्पर्शावुभौ स्पृशतो वृद्धबालौ
।
धर्मं त्वेकं परमं प्राह लोके स नः शमं धास्यति गोप्यमानः॥१५॥
संविधाता ईश्वरः । स्पर्शौ सुखदुःखे वृद्धबालौ पाण्डितमूर्खौ स्पृशतः प्राप्नुतः शमं स्वास्थ्यम् । धास्यति करिष्यति गोप्यमानः रक्ष्यमाणः ॥१५॥
सोऽयं धर्मो मात्यगात्कौरवान्वै सभ्यान्गत्वा पृच्छ धर्म्यं वचो मे
।
ते मां ब्रूयुर्निश्चितं तत्करिष्ये धर्मात्मानो नीतिमन्तो वरिष्ठाः॥१६॥
श्रुत्वा सूतस्तद्वचो याज्ञसेन्याः सभां गत्वा प्राह वाक्यं तदानीम्
।
अधोमुखास्ते न च किञ्चिदूचुर्निर्बन्धं तं धार्तराष्ट्रस्य बुद्ध्वा॥१७॥
वैशम्पायन उवाच।
युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम्
।
द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ॥१८॥
एकवस्त्रा त्वधोनीवो रोदमाना रजस्वला
।
सभामागम्य पाञ्चालि श्वशुरस्याग्रतो भव॥१९॥
अथ त्वामागतां दृष्ट्वा राजपुत्रीं सभां तदा
।
सभ्याः सर्वे विनिन्देरन्मनोर्भिर्धृतराष्ट्रजम्॥२०॥
स गत्वा त्वरितं दूतः कृष्णाया भवनं नृप
।
न्यवेदयन्मतं धीमान्धर्मराजस्य निश्चितम्॥२१॥
पाण्डवाश्च महात्मानो दीना दुःखसमन्विताः
।
सत्येनातिपरीताङ्गा नोदीक्षन्ते स्म किञ्चन॥२२॥
ततस्त्वेषां मुखमालोक्य राजा दुर्योधनः सूतमुवाच हृष्टः
।
इहैवैतामानय प्रातिकामिन् प्रत्यक्षमस्याः कुरवो ब्रुवन्तु॥२३॥
ततः सूतस्तस्य वशानुगामी भीतश्च कोपाद्द्रुपदात्मजायाः
।
विहाय मानं पुनरेव सभ्यानुवाच कृष्णां किमहं ब्रवीमि॥२४॥
मानं दुर्योधनस्याज्ञाभङ्गेन तस्य श्रेष्ठत्वं विहाय तिरस्कृत्य ॥२४॥
दूर्योधन उवाच।
दुःशासनैष मम सूतपुत्रो वृकोदरादुद्विजतेऽल्पचेताः
।
स्वयं प्रगृह्यानय याज्ञसेनीं किं ते करिष्यन्त्यवशाः सपत्नाः॥२५॥
उद्विजते बिभेति । अवशाः अस्मद्दासत्वात् ॥२५॥
ततः समुत्थाय स राजपुत्रः श्रुत्वा भ्रातुः शासनं रक्तदृष्टिः
।
प्रविश्य तद्वेश्म महारथानामित्यब्रवीद्द्रौपदीं राजपुत्रीम्॥२६॥
एह्येहि पाञ्चालि जितासि कृष्णे दुर्योधनं पश्य विमुक्तलज्जा
।
कुरून्भजस्वायतपत्रनेत्रे धर्मेण लब्धाऽसि सभां परैहि॥२४॥
मानं दुर्योधनस्याज्ञाभङ्गेन तस्य श्रेष्ठत्वं विहाय तिरस्कृत्य ॥२४॥
ततः समुत्थाय सुदूर्मनाः सा विवर्णमामृज्य मुखं करेण
।
आर्ता प्रदुद्राव यतः स्त्रियस्ता वृद्धस्य राज्ञः कुरुपुङ्गवस्य॥२८॥
ततो जवेनाभिससार रोषाद्दुःशासनस्तामभिगर्जमानः
।
दीर्घेषु नीलेष्वथ चोर्मिमत्सु जग्राह केशेषु नरेन्द्रपत्नीम्॥२९॥
ऊर्मिमत्सु वेणीरूपेण संनिवेशिततया च प्रवहन्नदीजलवन्निम्नोन्नतेषु । ऊर्मय वेण्यलङ्कारास्तद्वत्सु वा ॥२९॥
ये राजसूयावभृथे जलेन महाक्रतौ मन्त्रपूतेन सिक्ताः
।
ते पाण्डवानां परिभूय वीर्यं बलात्प्रमृष्टा धृतराष्ट्रजेन ॥३०॥
स तां पराकृष्य सभासमीपमानीय कृष्णामतिदीर्घकेशीम्
।
दुःशासनो नाथवतीमनाथवच्चकर्ष वायुः कदलीमिवार्ताम्॥३१॥
सा कृष्यमाणा नमिताङ्गयष्टिः शनैरुवाचाथ रजस्वलाऽस्मि
।
एकं च वासो मम मन्दबुद्धे सभां नेतुं नार्हसि मामनार्य॥३२॥
ततोऽब्रवीत्तां प्रसभं निगृह्य केशेषु कृष्णेषु तदा स कृष्णाम्
।
कृष्णं च जिष्णुं च हरिं नरं च त्राणाय विक्रोशति याज्ञसेनी॥३३॥
कृष्णजिष्णू हरिनरै नारायणनरावित्यर्थः ॥३३॥
दुःशासन उवाच।
रजस्वला वा भव याज्ञसेनि एकाम्बरा वाप्यथवा विवस्त्रा
।
द्यूते जिता चासि कृताऽसि दासी दासीषु वासश्च यथोपजोषम्॥३४॥
यथोपजोषं यथारुचि ॥३४॥
वैशम्पायन उवाच।
प्रकीर्णकेशी पतितार्धवस्त्रा दुःशासनेन व्यवधूयमाना
।
ह्रीमत्यमर्षेण च दह्यमाना शनैरिदं वाक्यमुवाच कृष्णा॥३५॥
द्रौपद्युवाच
।
इमे समायामुपनीतशास्त्राः क्रियावन्तः सर्व एवेन्द्रकल्पाः
।
गुरुस्थाना गुरवश्चैव सर्वे तेषामग्रे नोत्सहे स्थातुमेवम्॥३६॥
उपनीतशास्त्राः अध्यापितशास्त्राः । गुरुस्थानाः गुरुतुल्यस्थानाः पित्रादितुल्याः । एवम् एकवनत्वेन ॥३६॥
नृशंसकर्मंस्त्वमनार्यवृत मा मा विवस्त्रां कुरु मा विकार्षीः
।
न मर्षयेयुस्तव राजपुत्राः सेन्द्रापि देवा यदि ते सहायाः॥३७॥
इदं त्वकार्यं कुरुवीरमध्ये रजस्वलां यत्परिकर्षसे माम्
।
न चापि कश्चित्कुरुतेऽत्र कुत्सां ध्रुवं तवेदं मतमभ्युपेतः॥३९॥
कश्चिदपि तव कुत्सां न कुरुते किं तु सर्वोऽपि जनस्त्वदीयं मतमभ्युपेतः ॥३९॥
धिगस्तु नष्टः खलु भारतानां धर्मस्तथा क्षत्रविदां च वृत्तम्
।
यत्र ह्यतीतां कुरु धर्मवेलां प्रेक्षन्ति सर्वे कुरवः सभायाम्॥४०॥
द्रोणस्य भीष्मस्य च नास्ति सत्त्वं क्षत्तुस्तथैवास्य महात्मनोपि
।
राज्ञस्तथा हीममधर्ममुग्रं न लक्षयन्ति कुरुवृद्धमुख्याः॥४१॥
अस्य राज्ञो धृतराष्ट्रस्य ॥४१॥
वैशम्पायन उवाच।
तथा ब्रुवन्ती करुणं सुमध्यमा भर्तॄन्कटाक्षैः कुपितानपश्यत्
।
सा पाण्डवान्कोपपरीतदेहान्सन्दीपयामास कटाक्षपातैः॥४२॥
हृतेन राज्येन तथा धनेन रत्नैश्च मुख्यैर्न तथा बभूव
।
यथा त्रपाकोपसमीरितेन कृष्णाकटाक्षेण बभूव दुःखम्॥४३॥
दुःशासनश्चापि समीक्ष्य कृष्णामवेक्षमाणां कृपणान्पतींस्तान्
।
आधूय वेगेन विसञ्ज्ञकल्पामुवाच दासीति हसन्सशब्दम्॥४४॥
आधूय आकम्प्य ॥४४॥
कर्णस्तु तद्वाक्यमतीव हृष्टः सम्पूजयामास हसन्सशब्दम्
।
गान्धारराजः सुबलस्य पुत्रस्तथैव दुःशासनमभ्यनन्दत्॥४५॥
सभ्यास्तु ये तत्र बभूवुरन्ये ताभ्यामृते धार्तराष्ट्रेण चैव
।
तेषामभूद्दुः खमतीव कृष्णां दृष्ट्वा सभायां परिकृष्यमाणाम्॥४६॥
भीष्म उवाच।
न धर्मसौक्ष्म्यात्सुभगे विवेक्तुं शक्नोमि ते प्रश्नमिमं यथावत्
।
अस्वाम्यशक्तः पणितुं परस्वं स्त्रियाश्च भर्तुर्वशतां समीक्ष्य॥४७॥
भर्तुर्वशतां दासभार्यापि दास्येवेति भावः ॥४७॥
त्यजेत सर्वां पृथिवीं समृद्धां युधिष्ठिरो धर्ममथो न जह्यात्
।
उक्तं जितोऽस्मीति च पाण्डवेन तस्मान्न शक्नोमि विवेक्तुमेतत्॥४८॥
जितोऽस्मीति वदतात्मैन पराजितो न तु स्त्री ॥४८॥
द्व्यूतेऽद्वितीयः शकुनिर्नरेषु कुन्तीसुतस्तेन निसृष्टकामः
।
न मन्यते तां निकृतिं युधिष्ठिरस्तस्मान्न ते प्रश्नमिमं ब्रवीमि॥४९॥
न च राजजयेनैव त्वज्जयः सिद्ध्यति द्यूतमर्यादाविदा शकुनिनैव तव पृथक् पणीकरणादित्याह द्यूते इति । राजा तु पराज्ञया त्वां पणीकृतवान् न स्वेच्छयाऽतोऽस्वामी कथं पणितवानिति राज्ञोऽपि दोषो नास्ति । तथा च शकुनिबुद्ध्यैव त्वमजिता तच्च शकुनिर्न मन्यते इत्याह नेति यतः पणीकृता अतः प्रागजिता । यतश्चापरदासेन पणीकृता ततोऽप्यजितैवेति भावः ॥४९॥
द्रौपद्युवाच
।
आहूय राजा कुशलैरनार्यैर्दुष्टात्मभिर्नैकृतिकैः सभायाम्
।
द्यूतप्रियैर्नातिकृतप्रयत्नः कस्मादयं नाम निसृष्टकामः॥५०॥
नातिकृतप्रयत्नोऽनभ्यस्तद्यूतः । राजा मां सभायामाहूय कथं निसृष्टकामः अनीशोऽपि सन् मदाह्वानेन शत्रून्सकामान्कथं कृतवानित्यर्थः ॥५०॥
अशुद्धभावैर्निकृतिप्रवृत्तैरबुध्यमानः कुरुपाण्डवाग्र्यः
।
सम्भूय सर्वैश्च जितोऽपि यस्मात्पश्चादयं कैतवमभ्युपेतः॥५१॥
जितोऽपीति । आत्मपराजयावसानत्वात् द्यूतस्य । कथं ततोऽप्युपरिदेवितवानित्यर्थः ॥५१॥
तिष्ठन्ति चेमे कुरवः सभायामीशाः सुतानां च तथा स्नुषाणाम्
।
समीक्ष्य सर्वे मम चापि वाक्यं विब्रूत मे प्रश्नमिमं यथावत्॥५२॥
विब्रूत विस्पष्टं ब्रूत न तु भोष्मवत्संदिग्धमिति भावः ॥५२॥
वैशम्पायन उवाच।
तथा ब्रुवन्तीं करुणं रुदन्तीमवेक्षमाणां कृपणान्पतींस्तान्
।
दुःशासनः परुषाण्यप्रियाणि वाक्यान्युवाचामधुराणि चैव॥५३॥
तथेति भीष्मेण द्रौपदीमाहात्म्यख्यापनाय प्रश्नस्योत्तरं नोक्तम् । दुःशासनस्तु पाण्डवपक्षपातिनापि भीष्मेण संशयोपन्यासादस्माकमेव जय इति मन्वानो यत्किञ्चित्प्रललापेत्यर्थः॥५३॥
तां कृष्यमाणां च रजस्वलां च स्रस्तोत्तरीयामतदर्हमाणाम्
।
वृकोदरः प्रेक्ष्य युधिष्ठिरं च चकार कोपं परमार्तरूपः॥५४॥
परम् अत्यन्तम् ॥५४॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि द्रौपदीप्रश्ने सप्तषष्टितमोऽध्यायः॥६७॥
भीम उवाच।
भवन्ति गेहे बन्धक्यः कितवानां युधिष्ठिर
।
न ताभिरुत दीव्यन्ति दया चैवास्ति तावस्वपि॥१॥
भवन्तीति ॥१॥
काश्यो यद्धनमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम्
।
तथाऽन्ये पृथिवीपाला यानि रत्नान्युपाहरन्॥२॥
वाहनानि धनं चैव कवचान्यायुधानि च
।
राज्यमात्मा वयं चैव कैतवेन हृतं परैः॥३॥
न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान्
।
इमं त्वतिक्रमं मन्यो द्रौपदी यत्र पण्यते॥४॥
एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः
।
त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैरकृतात्मभिः॥५॥
अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते
।
बाहू ते सम्प्रधक्ष्यामि सहदेवाग्निमानयः॥६॥
ते तव पुर इति शेषः सम्प्रधक्ष्यामि ॥६॥
अर्जुन उवाच।
न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः
।
परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम्॥७॥
न सकामाः परो कार्या धर्ममेवाचरोत्तमम्
।
भ्रातरं धार्मिकं ज्येष्ठं कोऽतिवर्तितुमर्हति॥८॥
आहूतो हि परै राजा क्षात्रं व्रतमनुस्मरन्
।
दीव्यते परकामेन तन्नः कीर्तिकरं महत्॥९॥
परकामेन परेच्छया ॥९॥
भीमसेन उवाच।
एवमस्मिन्कृतं विद्यां यदि नाहं धनञ्जय
।
दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव॥१०॥
एवमिति । एवं त्वदुक्तप्रकारेण अस्मिन् प्रस्तुते विषये कृतं कुशलं धर्मपालनाख्यं यदि न विद्यां न जानीयां तर्हि बाहू दहेयमेव । यतो जानाम्यतो न दहामीत्यर्थः ॥१०॥
वैशम्पायन उवाच।
तथा तान्दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः
।
कृष्यमाणां च पाञ्चालीं विकर्ण इदमब्रवीत्॥११॥
याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः
।
अविवेकेन वाक्यस्य नरकः सद्य एव नः॥१२॥
भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ
।
समेत्य नाहतुः किञ्चिद्विदुरश्च महामतिः॥१३॥
भारद्वाजश्च सर्वेषामाचार्यः कृप एव च
।
कुत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ॥१४॥
ये त्वन्ये पृथिवीपालाः समेताः सर्वतोदिशम्
।
कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति॥१५॥
सर्वतोदिशं सर्वदेशीयाः ॥१५॥
यदितं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा
।
विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम्॥१६॥
एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः
।
न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा॥१७॥
उक्त्वाऽसकृत्तथा सर्वान्विकर्णः पृथिवीपतीन्
।
पाणौ पाणिं विनिष्पिष्य निःश्वसन्निदमब्रवीत्॥१८॥
विब्रूत पृथिवीपाला वाक्यं मा वा कथञ्चन
।
मन्ये न्याय्यं यदत्राहं तद्वि वक्ष्यामि कौरवाः॥१९॥
चत्वार्याहुर्नश्रेष्ठा व्यसनानि महीक्षिताम्
।
मृगयां पानमक्षांश्च ग्राम्ये चैवातिरक्तताम्॥२०॥
महीक्षितां राज्ञां ग्राम्ये स्त्रीभोगे ॥२०॥
एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते
।
यथाऽयुक्तेन च कृतां क्रियां लोको न मन्यते॥२१॥
तथेति। कुताप्यकृतैव सा क्रियेत्यर्थः ॥२१॥
तदयं पाण्डुपुत्रेण व्यसने वर्तता भृशम्
।
समाहूतेन कितवैरास्थितो द्रौपदीपणः॥२२॥
समाहूतेन प्रेरितेन ॥२२॥
साधारणी च सर्वेषां पाण्डवानामनिन्दिता
।
जितेन पूर्वं चानेन पाण्डवेन कृतः पणः॥२३॥
सर्वेषां भार्या कथमेकेन पणीकर्तुं शक्येत्याह साधारणीति ॥२३॥
इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना
।
एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम्॥२४॥
एतसर्वं राज्ञो व्यसनित्वं जितत्वं परप्रवर्तितत्वं द्रौपद्याः साधारणत्वं चेति हेतुचतुष्कम् ॥२४॥
एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत
।
विकर्णं शंसमानानां सौबलं चापि निन्दताम्॥२५॥
तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः
।
प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत्॥२६॥
दृश्यन्ते वै विकर्णेह वैकृतानि बहून्यपि
।
तज्जातस्तद्विनाशाय यथाऽग्निररणिप्रजः॥२७॥
वैकृतानि विपरीतानि ॥२७॥
एते न किञ्चिदप्याहुश्चोदिता ह्यपि कृष्णया
।
धर्मेण विजितामेतां मन्यन्ते द्रपदात्मजाम्॥२८॥
त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे
।
यद्ब्रवीषि सभामध्ये बालः स्थविरभाषितम्॥२९॥
तान्येवाह यदिति ॥२९॥
न च धर्म यथावत्त्वं वेत्सि दुर्योधनावर
।
यद्ब्रवीषि जितां कृष्णां न जितेति सुमन्दधीः॥३०॥
कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज
।
यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः॥३१॥
अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ
।
एवं धर्मजितां कृष्णां मन्यसे न जितां कथम्॥३२॥
कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः
।
भवत्यविजिता केन हेतुनैषा मता तव॥३३॥
मन्यसे वा सभामेतामानीतामेकवाससम्
।
अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तमम्॥३४॥
एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन
।
इयं त्वनेकवशगा बन्धकीति विनिश्चिता॥३५॥
अस्याः सभामानयनं न चित्रमिति मे मतिः
।
एकाम्बरधरत्वं वाऽप्यथवाऽपि विवस्त्रता॥३६॥
यच्चैषां द्रविणं किञ्चिद्या चैषा ये च पाण्डवाः
।
सौबलेनेह तत्सर्वं धर्मेण विजितं वसु॥३७॥
दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः
।
पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर॥३८॥
प्राज्ञवादिकः प्राज्ञमानी ॥३८॥
तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत
।
अवकीर्योत्तरीयाणि सभायां समुपाविशन्॥३९॥
अवकीर्य समन्ततस्त्यक्त्वा ॥३९॥
ततो दुःशासनो राजन्द्रौपद्या वसनं बलात्
।
सभामध्ये समाक्षिप्य व्यपाक्रष्टुं प्रचक्रमे॥४०॥
वैशम्पायन उवाच।
आकृष्यमाणे वसने द्रौपद्या चिन्तितो हरिः
।
गोविन्द द्वारकावासिन्कृष्ण गोपीजनप्रिय॥४१॥
आकृष्यमाण इति । हरिः सर्वदुःखसंहर्ता खलसंहर्ता वा। गोविन्दो गवां इन्द्रियाणां विन्दतीति विन्दो लब्धा । सर्वेन्द्रियचालकत्वात्सन्निहितो मां कथं न जानासि । संनिहितोऽप्यशक्तः किं कुर्यादत आह । द्वारकावासिन्निति । एकरात्रेणैव स्वीयान् आपदः सकाशादुद्धर्तुं समुद्रमध्ये पुरीनिर्माणं तां पुरीं प्रति सर्वनगरस्य युगपत्प्रापणं च कुर्वतस्तव मम त्राणमीषत्करमित्यर्थः । ननु संनिहितः शक्तश्च किमिति दुष्टाननुगृह्णीयादत आह । कृष्ण स्मृतमात्र एव सर्वदोषकर्षण ननु तथापि ‘अनृतं साहसं माया मूर्खत्वमतिलोभता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः’ इत्युक्तेः स्वाभाविकस्त्रीदोषो नापनेतुं शक्यः । नत्द्याशीविषदंष्ट्राऽमृतस्रवा कर्तुं शक्येत्यत आह गोपीजनाप्रिय नरेषु तावदत्यन्तं नीचा गोपाः तत्स्त्रियस्तु ततोऽपि नीचतरास्तास्वपि तवानुग्रहो दृश्यते किमुत मादृश्यां त्वदेकशरणायां त्वयैव राजसूयाभिषेकेणानुगृहीतायामिति भावः ॥४१॥
कौरवैः परिभूतां मां किं न जानासि केशव
।
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन
।
कौरवार्णवमग्नां मामुद्धरस्व जनार्दन॥४२॥
केशव कश्च अश्च ईशश्च ब्रह्माविष्णुरुद्राः तैः सह वाति गच्छतीति केशव ब्रह्मादीनामपि प्रवर्तक तदात्मकेति । अतः सर्वथा त्वं मामनुगृह्णीष्वेति भावः । आर्तिनाशनेति गोवर्द्धनोद्धरणदावाग्निपानादिना व्रजवासिनामार्तिस्त्वयैव यथा नाशिता तथा ममाप्यार्तिं नाशयेति भावः ॥४२॥
कृष्णकृष्ण महायोगिन्विश्वात्मन्विश्वभावन
।
प्रपन्नां पाहि गोविन्द कुरुमध्येऽवसीदतीम्॥४३॥
विश्वात्मन् विश्वान्तर्यामिन्नित्यर्थः । विश्वभावन विश्वकर्तः। अन्तर्यामित्वेन शत्रुं वाऽस्मिन्नर्थे उदासीनं कुरु अथवा विश्वकर्तृत्वेन वस्त्राणि बहूनि समर्पयेति भावः ॥४३॥
इत्यनुस्मृत्य कृष्णं सा हरिं त्रिभुवनेश्वरम्
।
प्रारुदद्दुःखिता राजन्मुखमाच्छाद्य भामिनी॥४४॥
भामिनी दीप्तिमती स्वस्मिन् भगवदनुग्रहनिश्चयात् शत्रूनगणयन्तीत्यर्थः ॥४४॥
याज्ञसेन्या वचः श्रुत्वा कृष्णो गह्वरितोभवत्
।
त्यक्त्वा शय्यासनं पद्भ्यां कृपालुः कृपयाभ्यगात्॥४५॥
गह्वरितः करुणातिशयाद्गद्गदकण्ठः ॥४५॥
कृष्णं च विष्णुं च हरिं च नरं च त्राणाय विक्रोशति याज्ञसेनी
।
ततस्तु धर्मोन्तरितो महात्मा समावृणोद्वै विविधैः सुवस्त्रैः॥४६॥
धर्मोन्तरितः धर्म एव अन्तरं वस्त्रं तद्भावं गतवान् गत्वा च तां वस्त्रपूगैः समावृणोच्च ॥४६॥
आकृष्यमाणे वसने द्रौपद्यास्तु विशांपते
।
तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः॥४७॥
नानारागविरागाणि वसनान्यथ वै प्रभो
।
प्रादुर्भवन्ति शतशो धर्मस्य परिपालनात्॥४८॥
नानारागाणि च विरागाणि केवलश्वेतानि च। नास्त्यकार्यं कदर्याणां नास्त्यक्षाम्यं महात्मनाम् । नास्त्युपेक्ष्यो हरेर्भक्त इति द्यूते प्रदर्शितम् ॥४८॥
ततो हलहलाशब्दस्तत्रासीद्घोरदर्शनः
।
तदद्भुततमं लोके वीक्ष्य सर्वे महीभृतः
।
शशंसुर्द्रौपदीं तत्र कुत्सन्तो धृतराष्ट्रजम्॥४९॥
शशाप तत्र भीमस्तु राजमध्ये बृहत्स्वनः
।
क्रोधाद्विस्फुरमाणौष्ठो विनिष्पिष्य करे करम्॥५०॥
शशाप शपथं कृतवान् ॥५०॥
भीम उवाच।
इदं मे वाक्यमादध्वं क्षत्रिया लोकवासिनः
।
नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति॥५१॥
यद्येतदेवमुक्त्वाऽहं न कुर्यां पृथिवीश्वराः
।
पितामहानां पूर्वेषां नाहं गतिमवाप्नुयाम्॥५२॥
अस्य पापस्य दुर्बुद्धेर्भारतापसदस्य च
।
न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि॥५३॥
तस्य ते तद्वचः श्रुत्वा रौद्रं लोमप्रहर्षणम्
।
प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम्॥५४॥
यदा तु वाससां राशिः समामध्ये समाचितः
।
ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत्॥५५॥
धिक्शब्दस्तु ततस्तत्र समभूल्लोमहर्षणः
।
सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तथा॥५६॥
न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह
।
सुजनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन्॥५७॥
ततो बाहू स्वमुत्क्षिप्य निवार्य च सभासदः
।
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत्॥५८॥
विदुर उवाच।
द्रौपदीप्रश्नमुक्त्वैवं रोरवीति त्वनाथवत्
।
न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते॥५९॥
सभां प्रपद्यते ह्यार्तः प्रज्वलन्निव हव्यवाट्
।
तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत॥६०॥
धर्मपीडामेवाह सभामिति । आर्तस्यात्राणेन सभ्यानां धर्मनाशोऽस्त्येव यथोक्तं न सभां प्रविशेत्प्राज्ञः सभ्यदोषाननुस्मरन् । अब्रुवन् विब्रुवन् वापि नरो भवति किल्विषी' इति ॥६०॥
धर्मप्रश्नमतो ब्रूयादार्यः सत्येन मानवः
।
विब्रूयुस्तत्र तं प्रश्नं कामक्रोधबलातिगाः॥६१॥
विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः
।
भवन्तोऽपि हितं प्रश्नं विब्रुवन्तु यथामति॥६२॥
एतदेवाह यो हि प्रश्नमित्यादिना ॥६२॥
यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः
।
अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते॥६३॥
यः पुनर्वितथं ब्रूयाद्धर्मदशीं सभां गतः
।
अनृतस्य फलं कृत्स्नं संप्राप्नोतीति निश्चयः॥६४॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च॥६५॥
आङ्गिरसस्य सुधन्वनः ॥६५॥
प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः
।
कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत्॥६६॥
अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा
।
तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम्॥६७॥
केशिन्या कन्यया विरोचनसुधन्वानौ पृष्टौ युवयोः को ज्यायान् कुलशीलादिना श्रेष्ठ इति तौ च स्वं स्वं ज्यायस्त्वं प्रतिजानानौ प्राणेनैव पण्येन देवनं पणं चक्रतुः । प्राणयोरिति विषसप्तमी पराजितेन यावज्जीवं जेतुर्दास्यं कर्तव्यमित्यर्थः । प्राणानामीश्वरस्तवेत्युपसंहारात् ॥६७॥
तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम्
।
ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा॥६८॥
स वै विवदनाद्भीतः सुधन्वानं विलोकयन्
।
तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदम्ड इव ज्वलन्॥६९॥
विवदनात् मृषावादात् ब्रह्मदण्डः ब्रह्मणा निर्मितः कालदण्डः ब्रह्मशाप इत्यपि केचित् ॥६९॥
यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि
।
शतघा ते शिरो वज्री वज्रेण प्रहरिष्यति॥७०॥
सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत्
।
जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम्॥७१॥
व्यथितः कम्पयुक्तः ॥७१॥
प्रह्लाद उवाच।
त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च
।
ब्राह्मणस्य महाभाग धर्मकृच्छ्रमिदं शृणु॥७२॥
यो वै प्रश्नं न विब्रूयाद्वितथं चैव निर्दिशेत्
।
के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः॥७३॥
कश्यप उवाच।
जानन्नविब्रुवन्प्रश्नान्कामात्क्रोधाद्भयात्तथा
।
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति॥७४॥
अविब्रुवन् विस्पष्टमब्रुवन् ॥७४॥
साक्षी वा विब्रुवन्साक्ष्यं गोकर्णशिथिलश्चरन्
।
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्जति॥७५॥
गोकर्णशिथिलः उभयपक्षस्पर्शी प्रतिमुञ्चति क्षिपति ॥७५॥
तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते
।
तस्मात्सत्यं तु वक्तव्यं जानता सत्यमुञ्जसा॥७६॥
अञ्जसा तत्त्वतः ॥७६॥
विद्धो धर्मो ह्यधर्मेण सभां यत्रोपपद्यते
।
न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः॥७७॥
धर्मोऽधर्मेण विद्धः । द्वयोर्विवदतोरेकः । स्वयं मिथ्यावादी सन्नितरं धर्मिष्ठं मिथ्यावादीति वदति सोऽयमधर्मेण धर्मस्य वेधः। तत्र अवचनात् मिथ्यावचनात्संदिग्धवचनाद्वा ये धर्मशल्यं न निकृन्तन्ति न छिन्दन्ति त एव तेनाधर्मेण विद्धा भवन्ति ॥७७॥
अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु
।
पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम्॥७८॥
तदेव विवृणोति अर्धमिति । अर्धम् अधर्मस्येति शेषः श्रेष्ठः । सभापतिः ॥७८॥
अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः
।
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते॥७९॥
वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते
।
इष्टापूर्तं च ते घ्नन्ति सप्त सप्त परावरान्॥८०॥
इष्टं यागादि आपूर्तं वाप्यादि परावरान् भूतान् भाविनश्च ॥८०॥
हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चैव यत्
।
ऋणिनः प्रति यच्चैव स्वार्थाद्धष्टस्य चैव यत्॥८१॥
स्त्रियाः पत्या विहीनाया राज्ञा ग्रस्तस्य चैव यत्
।
अपुत्रायाश्च यद्दुःखं व्याघ्राघ्रातस्य चैव यत्॥८२॥
अध्यूढायाश्च यद्दुःखं साक्षिभिर्विहतस्य च
।
एतानि वै समान्याहुर्दुःखानि त्रिदिवेश्वराः॥८३॥
अध्यूढायाः कृतसपत्नीकायाः ॥८३॥
तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन्
।
समक्षदर्शनात्साक्षी श्रवणाच्चेति धारणात्॥८४॥
समक्षेति साक्षाद्दर्शनाद्वा आप्तवाक्याद्वाऽधिगतस्यार्थस्य धारणात्साक्षीत्यर्थः ॥८४॥
तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते
।
कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत्॥८५॥
तस्मादिति लोभादिदोषात्तस्य विप्लावने तु धर्माद्धीयत एवेत्यभिप्रायः ॥८५॥
श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः
।
माता सुधन्वनश्चापि मातृतः श्रेयसी तव
।
विरोचन सुधन्वाऽयं प्राणानामीश्वरस्तव॥८६॥
सुधन्वोवाच
।
पुत्रस्नेहं पिरत्यज्य यस्त्वं धर्मे व्यवस्थितः
।
अनुजानामि ते पुत्रं जीवत्वेष शतं समाः॥८७॥
विदुर उवाच।
एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः
।
यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम्॥८८॥
वैशम्पायन उवाच।
विदुरस्य वचः श्रुत्वा नोचुः किञ्चन पार्थिवाः
।
कर्णो दुःशासनं त्वाह कृष्णं दासीं गृहान्नय॥८९॥
तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान्
।
दुःशासनः सभामध्ये विचकर्ष तपस्विनीम्॥९०॥
॥ इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि द्रौपद्याकर्षणेऽष्टषष्टितमोऽध्यायः॥६८॥
द्रौपद्युवाच
।
पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम्
।
विह्वलाऽस्मि कृताऽनेन कर्षता बलिना बलात्॥१॥
पुरस्तादिति । तावत्प्रतीक्ष दुःप्रज्ञ दुःशासननराधमेत्यतः परं पुरस्तादिति पठन्ति केचित् । प्रतीक्ष प्रतीक्षस्व ॥१॥
अभिवादं करोम्येषां कुरूणां कुरुसंसदि
।
न मे स्यादपराधोऽयं यदिदं न कृतं मया॥२॥
वैशम्पायन उवाच।
सा तेन च समाधूता दुःखेन च तपस्विनी
।
पतिता विललापेदं सभायामतथोचिता॥३॥
द्रौपद्युवाच
।
स्वयंवरे यास्मि नृपैदृष्टा रङ्गे समागतैः
।
न दृष्टपूर्वा चान्यत्र साऽहमद्य सभां गता॥४॥
यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे
।
साऽहमद्य सभामध्ये दृश्यामि जनसंसदि॥५॥
दृश्यामि पृथग्जनस्त्रीवत् दृश्यमिवात्मानं करोमि ॥५॥
यां न मृष्यन्ति वातेन स्पृश्यमानां गृहे पुरा
।
स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना॥६॥
मृष्यन्ति कुरवश्चेमे मन्ये कालस्य पर्ययम्
।
स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम्॥७॥
किं न्वतः कृपणं भूयो यदहं स्त्री सती शुभा
।
सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम्॥८॥
विगाहे पर्यालोचयामि॥८॥
धर्म्यां स्त्रियं सभां पूर्वे न नयन्तीति नः श्रुतम्
।
स नष्टः कौरवे येषु पूर्वो धर्मः सनातनः॥९॥
कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती
।
वासुदेवस्य च सखी पार्थिवानां सभामियाम्॥१०॥
पाण्डूनां पाण्डवानाम् । आर्षस्तद्धितलुक्। पार्षतस्य धृष्टद्युम्नस्य । कथम् इयां प्राप्नुयाम् ॥१०॥
तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम्
।
ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः॥११॥
अयं मां सुदृढं क्षुद्रः कौरवाणां यशोहरः
।
क्लिश्नाति नाहं तत्सोढुं क्षुद्रः कौरवाणां यशोहरः
।
जितां वाऽप्यजितां वापि मन्यध्वं मां यथा नृपाः
।
तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः॥१३॥
भीष्म उवाच।
उक्तवानस्मि कल्याणि धर्मस्य परमा गतिः
।
लोके न शक्यते ज्ञातुमपि विज्ञैर्महात्मभिः॥१४॥
बलवांश्च यथा धर्मं लोके पश्यति पूरुषः
।
स धर्मो धर्मवेलायां भवत्यभिहतः परः॥१५॥
किमज्ञत्वान्न विवेक्तुमर्हसि नेत्याह बलवानिति । बलवान् कर्णदुर्योधनादिर्यदृन्ते स एव धर्मः । परस्तु दुर्बलेनोक्तः अभिहितः धर्मोऽप्यधर्मो भवतीति भावः । अभिहितः परैरिति पाठे तु अधर्मवेलायामपि परैर्बलवद्भिरुक्त एव धर्मो भवति न दुर्बलोक्त इति आकारं प्राश्लिष्य योज्यम् ॥१५॥
न विवेक्तुं च ते प्रश्नमिमं शक्नोमि निश्चयात्
।
सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात्॥१६॥
ननु बलवत्तरस्त्वमेव सत्यं ब्रूहीत्यत आह नेति । विवेक्तुं विविच्य वक्तुम् । अयमस्याशयः यद्येतामजितासीति वक्ष्ये तदा न्यायं विना पीडितैषा सद्यः कोपेन कौरवान्नाशयेत् । तथा च द्रौपद्यपमानजो वा कुरुनाशजो वा दोषो महानिति संशये धर्मतत्त्वस्य सूक्ष्मत्वाद्दुर्विवेकत्वम् । देवकार्यमेव कौरवनाशेन भवतीत्यशक्यम् । सर्वेषां वध्यानामिह सम्प्रयोगाभावात् गहनमिदम् । पाण्डवानामशस्त्रत्वात् परदासत्वाच्च । तत्स्वामिनां कौरवाणां नाशनं द्रौपद्या अपि दोषाय स्वामि स्वामिनाशस्य सुतरामकार्यत्वादिति हेतुत्रयं विविच्याकथने इति ॥१६॥
नूनमन्तः कुलस्यायं भविता न चिरादिव
।
तथा हि कुरवः सर्वे लोभमोहपरायणाः॥१७॥
ननु बलवत्कृतिरेव धर्मश्चेत् स्वधर्मेण बलवत्तराहमेनाम् शापाग्निना धक्ष्ये इत्याशंक्याह नूनमिति। अवश्यभाविनि कार्ये न त्वया तपोव्ययः कर्तव्य इति भावः ॥१७॥
कुलेषु जाताः कल्याणि व्यसनैराहता भृशम्
।
धर्म्यान्मार्गान्न च्यवन्ते येषां नस्त्वं बधूः स्थिता॥१८॥
इदमेव वृत्तं तद्भर्तारोप्यास्थिता अतस्त्वमपि तथैवातिष्ठस्वेति द्वाभ्यामाह कुलेष्विति ॥१८॥
उपपन्नं च पाञ्चाली तवैदं वृत्तमीदृशम्
।
यत्कृच्छ्रमपि सम्प्राप्ता धर्ममेवान्ववेक्षसे॥१९॥
एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः
।
शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः॥२०॥
युधिष्ठिरस्तु प्रश्नोऽस्मिन्प्रमाणमिति मे मतिः
।
अजितां वा जितां वेति स्वयं व्याहर्तुमर्हति॥२१॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि भीष्मवाक्ये एकोनसप्ततितमोऽध्यायः॥६९॥
वैशम्पायन उवाच।
तथा तु दृष्ट्वा बहु तत्र देवीं रोरूयमाणां कुररीमिवार्ताम्
।
नोचुर्वचः साध्वथवाऽप्यसाधु महीक्षितो धार्तराष्ट्रस्य भीताः॥१॥
तथात्विति ॥१॥
दृष्ट्वा तथा पार्थिवपुत्रपौत्रांस्तूष्णींभूतान्धृतराष्ट्रस्य पुत्रः
।
स्मयन्निवेदं वचनं बभाषे पाञ्चालराजस्य सुतां तदानीम्॥२॥
दुर्योधन उवाच।
तिष्ठत्वयं प्रश्न उदारसत्वे भीमेऽर्जुने सहदेवे तथैव
।
पत्यौ च ते नकुले याज्ञसेनि वदन्त्वेते वचनं त्वत्प्रसूतम्॥३॥
अनीश्वरं विब्रुवन्त्वार्यमध्ये युधिष्ठिरं तव पाञ्चालि हेतोः
।
कुर्वन्तु सर्वे चानृतं धर्मराजं पाञ्चालि त्वं मोक्ष्यसे दासभावात्॥४॥
धर्मे स्थितो धर्मसुतो महात्मा स्वयं चेदं कथयत्विन्द्रकल्पः
।
ईशो वा ते ह्यनीशोऽथवैष वाक्यादस्य क्षिप्रमेकं भजस्व॥५॥
सर्वे हीमे कौरवेयाः सभायां दुःखान्तरे वर्तमानास्तवैव
।
न विब्रुवन्त्यार्यसत्वा यथावत्पतींश्च ते समवेक्ष्याल्पभाग्यान्॥६॥
वैशम्पायन उवाच।
ततः सभ्याः कुरुराजस्य तस्य वाक्यं सर्वे प्रशशंसुस्तथोच्चैः
।
चेलावेधांश्चापि चक्रुर्नदन्तो हाहेत्यासीदपि चैवार्तनादः॥७॥
सभ्याः प्रशशंसुः तेषां चेलाः चेटाः प्रेष्यास्तु वेधानिव वेधान् । तत्र तत्र समाचारप्रापणं परस्परेण चक्षुःसङ्केतं वा चक्रुः । सभायां दुर्योधनेन उक्तमात्रा वार्ता सद्यः सर्वत्र प्रकीर्णेत्यर्थः चेलावेधान् वस्त्रभ्रामणानीति प्राञ्चः । तत्रैव हाहेति कौरवपक्षपातिष्वेव । पाण्डवानां न्यायपक्षपातिनां प्रमाणीकरणे द्रौपदी दास्यान्मुक्ता भविष्यति । तेन च सर्वेषामस्माकं दुःखं भविष्यतीत्यभिप्रायः ॥७॥
श्रुत्वा तुं तद्वाक्यमनोहरं तद्धर्षश्चासीत्कौरवाणां सभायाम्
।
सर्वे चासन्पार्थिवाः प्रीतिमन्तः कुरुश्रेष्ठं धार्मिकं पूजयन्तः॥८॥
युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः
।
किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः॥९॥
साचि तिर्यक् ॥९॥
किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः
।
भीमसेनो यमौ चोभौ भृशं कौतूहलान्विताः॥१०॥
तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम्
।
प्रगृह्य रुचिरं दिव्यं भुजं चन्दनचर्चितम्॥११॥
भीमसेन उवाच।
यद्येष गुरुरस्माकं धर्मराजो महामनाः
।
न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि॥१२॥
यद्ययं नः कुलस्य प्रभुर्नस्यात्तर्हि न मर्षयेमहि यतोऽयं प्रभुस्ततो मर्षयामहे इत्यर्थः ॥१२॥
ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः
।
मन्यतेऽजितमात्मानं यद्येष विजिता वयम्॥१३॥
ईश इति अजितमिति छेदः । द्रौपदीपणनात् प्रागिति शेषः यद्ययमात्मानमजितं मन्यते तर्हि वयं पूर्वमेव भवद्भिर्जिताः सन्तः इदानीं विजिताः द्रौपद्यर्थे मिथ्यावादेन सुतरां जिताः स्म इत्यर्थः । अतो द्रौपदी न दासभावमापन्नेति भावः ॥१३॥
न हि मुच्येत मे जीवन्पदा भूमिमुपस्पृशन्
।
मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान्॥१४॥
नन्वजितेनापि त्वया किं स्यात्तत्राह न हीत्यादि ॥१४॥
पश्यध्वं ह्यायतौ वृत्तौ भुजौ मे परिघाविव
।
नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः॥१५॥
धर्मपाशसितस्त्वेवं नाधिगच्छामि सङ्कटम्
।
गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च॥१६॥
पाशसितः पाशबद्धः ॥१६॥
धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव
।
धार्तराष्ट्रानिमान्पापान्निष्पिषेयं तलासिभिः॥१७॥
तलासिभिः चपेटाखड्गैः ॥१७॥
वैशम्पायन उवाच।
तमुवाच तदा भीष्मो द्रोणो विदुर एव च
।
क्षम्यतामिदमित्येवं सर्वं सम्भाव्यते त्वयि॥१८॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि भीमवाक्ये सप्ततितमोऽध्यायः॥७०॥
कर्ण उवाच।
त्रयः किलेमे ह्यधना भवन्ति दासः पुत्रश्चास्वतन्त्रा च नारी
।
दासस्य पत्नी त्वधनस्य भद्रे हीनेश्वरा दासधनं च सर्वम्॥१॥
क्वचित् ‘त्रयः किलेमे सधनाः सभायां भीष्मः क्षत्ता कौरवाणां गुरुश्च । ये स्वामिनं दुष्टतमं वदन्ति वाञ्छन्ति वृद्धिं न च विक्षिपन्ति’ इति श्लोकः प्रथमः । ‘त्रयः किलेमे अधना’ इति द्वितीयः । सधनाः समर्थाः धर्मोल्लङ्घने इत्यर्थः । वृद्धिं स्वामिनो मूलच्छेदनम् । न च विक्षिपन्ति पापकरणे व्याकुलाश्च न भवन्ति । दासस्य पत्नी हीनेश्वरा दासधनं च सर्वं हीनेश्वरं सत् भद्रे कल्याणभाजि तयोरीश्वरे द्वयमपि तत् न्यसनीयमित्यर्थः । तथा च स्मृतिः ‘त्रय एवाधना लोके भार्या दासस्तथा सुतः । यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम्’ इति । तथा च राजजयेनैव तत्पत्न्यपि जितैव न तु तत्र अजितेन जितेन वा पराजितेति विमर्शः संभवतीति भावः ॥१॥
प्रविश्य राज्ञः परिवारं भजस्व तत्ते कार्यं शिष्टमादिश्यतेऽत्र
।
ईशास्तु सर्वे तव राजपुत्रि भवन्ति वै धार्तराष्ट्रा न पार्थाः॥२॥
परिवारं दारान् भजस्व पादसंवाहनादिना सेवस्व ॥२॥
अन्यं वृणीष्व पतिमाशु भाविनि यस्माद्दास्यं न लभसि देवनेन
।
अवाच्या वै पतिषु कामवृत्तिर्नित्यं दास्ये विदितं तत्तवास्तु॥३॥
अन्यमिति । पतिजयेनात्मजयं न मन्यसे चेदपतिका त्वं रत्यर्थमन्यं पतिं वृणीष्व । पतिषु कामवृत्तिर्यथेष्टं वर्तनं लोके स्त्रीणामवाच्यं दास्ये तु तत् विदितं प्रसिद्धम् । अतः परिमितपतिकाद्दारभावादनन्तपत्निकं दास्यमेव तवास्त्विति भावः ॥३॥
पराजितो नकुलो भीमसेनो युधिष्ठरः सहदेवार्जुनौ च
।
दासीभूता त्वं हि वै याज्ञसेनि पराजितास्ते पतयो नैव सन्ति॥४॥
नैव सन्ति अस्मद्दासाः पाण्डवा अस्माभिः प्रत्याख्याताश्चेत् त्वां नैव भोक्तुं समर्था भवेयुरिति भावः ॥४॥
प्रयोजनं जन्मनि किं न मन्यते पराक्रमं पौरुषं चैव पार्थ:
।
पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां सभामध्ये यो व्यदेवीद्ग्लहेषु॥५॥
प्रयोजनमिति । य इमां व्यदेवीत् स जन्मनि प्रयोजनं जन्मसाफल्यं किं न मन्यतेऽपि तु मन्यत एव । एवं पराक्रमादावपि योज्यम् ॥५॥
वैशम्पायन उवाच।
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी भृशं निशश्वास तदाऽर्तरूपः
।
राजानुगो धर्मपाशानुबद्धो दहन्निवैनं क्रोधसंरक्तदृष्टिः॥६॥
भीम उवाच।
नाहं कुप्ये सूतपुत्रस्य राजन् नैष सत्यं दासधर्मः प्रदिष्टः
।
किं विद्विषो वै मामेवं व्याहरेयुर्नादेवीस्त्वं यद्यनया नरेन्द्र॥७॥
एष दासधर्मः भर्तुरुत्कर्षवर्णनम् ॥७॥
वैशम्पायन उवाच।
भीमसेनवचः श्रुत्वा राजा दुर्योधनस्तदा
।
युधिष्ठिरमुवाचेदं तूष्णीम्भूतमचेतनम्॥८॥
भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने
।
प्रश्नं ब्रूहि च कृष्णां त्वमजितां यदि मन्यसे
।
॥९॥
एवमुक्त्वा तु कौन्येयमपोह्य वसनं स्वकम्
।
स्मयन्निवेक्ष्य पाञ्चालीमैश्वर्यमदमोहितः॥१०॥
कदलीदण्डसदृशं सर्वलक्षणसंयुतम्
।
गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम्॥११॥
अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव
।
द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत्॥१२॥
अभ्युत्स्मयित्वा प्रोत्साह्य ॥१२॥
भीमसेनस्तमालोक्य नेत्रे उत्फाल्य लोहिते
।
प्रोवाच राजमध्ये तं सभां विश्रावयन्निव॥१३॥
पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः
।
यद्येतमूरुं गदया न भिन्द्यां ते महाहवे॥१४॥
क्रुद्धस्य तस्य सर्वेभ्यः स्रोतोभ्यः पावकार्चिषः
।
वृक्षस्येव विनिश्वेरुः कोटरेभ्यः प्रदह्यतः॥१५॥
विदुर उवाच।
परं भयं पश्यत भीमसेनात्तद्बुध्यध्वं पार्थिवाः प्रातिपेयाः
।
दैवेरितो नूनमयं पुरस्तात्परो नयो भरतेषूदपादि॥१६॥
अपोत्द्य अपकृष्य ॥१६॥
उदपादि उत्पन्नः ॥१६॥
अतिद्यूतं कृतमिदं धार्तराष्ट्रा यस्मात्स्त्रियं विवदध्वं सभायाम्
।
योगक्षेमौ नश्यतो वः समग्रौ पापान्मन्त्रान्कुरवो मन्त्रयन्ति॥१७॥
अतिद्यूतं पणितद्रव्यमर्यादामतिक्रान्तम् । योगक्षेमौ योगो लब्धेन राज्यादिना संबन्धस्तस्य क्षेमः कल्याणं ‘कुशलं क्षेममस्त्रियाम्’ इत्यमरः ॥१७॥
इमं धर्मं कुरवो जानताशु ध्वस्ते धर्मे परिषत्सम्प्रदुष्येत्
।
इमां चेत्पूर्वं कितवोऽग्लहिष्यदीशोऽभविष्यदपराजितात्मा॥१८॥
परिषत् सभा संप्रदुष्येत् धर्मातिक्रमादिति शेषः । कितवो युधिष्ठिरः अपराजितात्मा सन् पूर्वं चेत् अग्लहिष्यत् पणीकृतवानभविष्यत् तर्हि सा भवद्दासी स्यादेवेति भावः ॥१८॥
स्वप्ने यथैतद्विजितं धनं स्यादेवं मन्ये यस्य दीव्यत्यनीशः
।
गान्धारराजस्य वचो निशम्य धर्मादस्मात्कुरवो माऽपयात॥१९॥
यस्य येन धनेनानीशो दीव्यति तत् स्वप्ने यथा धनम् आभासजितं तद्वदित्यर्थः । ‘यस्यैते तस्य तद्धनम्’ इति स्मृतिस्तु दासभावेऽर्जितं धनं स्वामिगामीत्याह न तु ततः प्राक्तनमपीति मापयात मागच्छत ॥१९॥
दुर्योधन उवाच।
भीमस्य वाक्ये तद्वदेवार्जुनस्य स्थितोऽहं वै यमयोश्चैवमेव
।
युधिष्ठिरं ते प्रवदन्त्वनीशमथो दास्यान्मोक्ष्यसे याज्ञसेनि॥२०॥
अर्जुन उवाच।
ईशो राजा पूर्वमासीद्ग्लहे नः कुन्तीसुतो धर्मराजो महात्मा
।
ईशस्त्वयं कस्य पराजितात्मा तज्जानीध्वं कुरवः सर्व एव॥२१॥
ततो राज्ञो धृतराष्ट्रस्य गेहे गोमायुरुच्चैर्व्याहरदग्निहोत्रे
।
तं राजसभाः प्रत्यभाषन्त राजन्समन्ततः पक्षिणश्चैव रौद्राः॥२२॥
अग्निहोत्रे गृह्याग्निसमीपे ॥२२॥
तं वै शब्दं विदुरस्तत्त्ववेदी शुश्राव घोरं सुबलात्मजा च
।
भीष्मो द्रोणो गौतमश्चापि विद्वान्स्वस्तीत्यपि चैवाहुरुच्चैः॥२३॥
सुबलात्मजा गान्धारी ॥२३॥
ततो गान्धारी विदुरश्चापि विद्वांस्तमुत्पातं घोरमालक्ष्य राज्ञे
।
निवेदयामासतुरार्तवत्तदा ततो राजा वाक्यमिदं बभाषे॥२४॥
धृतराष्ट्र उवाच।
हतोसि दुर्योधन मन्दबुद्धे यस्त्वं सभायां कुरुपुङ्गवानाम्
।
स्त्रियं समाभाषसि दुर्विनीत विशेषतो द्रौपदीं धर्मपत्नीम्॥२५॥
एवमुक्त्वा धृतराष्ट्रो मनीषी हितान्वेषी बान्धवानामपायात्
।
कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः॥२६॥
धृतराष्ट्र उवाच।
वरं वृणीष्व पाञ्चालि मत्तो यदभिवाञ्चसि
।
वधूनां हि विषिष्टा मे त्वं धर्मपरमा सती॥२७॥
द्रौपद्युवाच
।
ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ
।
सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः॥२८॥
मनस्विनमजानन्तो मैवं ब्रूयुः कुमारकाः
।
एष वै दासपुत्रो हि प्रतिविन्ध्यं ममात्मजम्॥२९॥
प्रतिविन्ध्यं युधिष्ठिरसुतम् ॥२९॥
राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित्
।
राजभिर्लालितस्यास्य न युक्ता दासपुत्रता॥३०॥
धृतराष्ट्र उवाच।
एवं भवतु कल्याणि यथा त्वमभिभाषसे
।
द्वितीयं ते वरं भद्रे ददानि वरयस्व हम्
।
मनो हि मे वितरति नैकं त्वं वरमर्हसि॥३१॥
द्रौपद्युवाच
।
सरथौ सधनुष्कौ च भीमसेनधनञ्जयौ
।
यमौ च वरये राजन्नदासान्स्ववशानहम्॥३२॥
स्ववशान् अपराधीनान् ॥३२॥
धृतराष्ट्र उवाच।
तथास्तु ते महाभागे यथा त्वं नन्दिनीच्छसि
।
तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसंस्कृता
।
त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी॥३३॥
द्रौपद्युवाच
।
लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे
।
अनर्हा वरमादातुं तृतीयं राजसत्तम॥३४॥
वरम् आदातुं नोत्सहे यतोऽनर्हा ॥३४॥
एकमाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रियो वरौ
।
त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः॥३५॥
अनर्हत्वमेवाह एकमिति ॥३५॥
पापीयांस इमे भूत्वा संतीर्णाः पतयो मम
।
वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा॥३६॥
पापीयांसः दासभावेन नीचाः वेत्स्यन्ति लप्स्यन्ति विद्लृ लाभे इत्यस्य रूपम् ॥३६॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि द्रौपदीवरलाभे एकसप्ततीतमोऽध्यायः॥७१॥
कर्ण उवाच।
या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः
।
तासामेतादृशं कर्म न कस्याश्च न शुश्रुम॥१॥
या न इति ॥१॥
क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति
।
द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत्॥२॥
अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम्
।
पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाऽभवत्॥३॥
अप्लवे नौकाहीने । अप्रतिष्ठे अगाधे । अम्भसीवाभ्भसि विपत्समुद्रे ॥३॥
वैशम्पायन उवाच।
तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः
।
स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः॥४॥
भीम उवाच।
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत्
।
अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः॥५॥
ज्योतींषि लोकप्रकाशकानि । अपत्यं कर्म विद्या चेति यतः यस्माद्धेतोस्ततः ज्योतिस्त्रयात् । प्रजाः स्थावरजङ्गमाः सृष्टाः । अयं भावः । कर्मोपास्ति प्राप्यं लोकद्द्वयम् अपत्यप्राप्यश्चायं लोकः । तथा च श्रुतिः ‘सोऽयं लोकः पुत्रेणैव जय्यो नान्येन, कर्मणा पितृलोको, विद्यया देवलोकः’ इति । विद्या उपासना । पितृलोकः स्वर्गः देवलोको ब्रह्मलोकः ॥५॥
अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते
।
देहे त्रितयमेवैतत्पुरुषस्योपयुज्यते॥६॥
मरणानन्तरमेतान्येव ज्योतींष्युपकुर्वन्तीत्याह अमेध्ये इति । अमेध्ये अशुचौ ॥६॥
तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात्
।
धनञ्जय कथंस्वित्स्यादपत्यमभिमृष्टजम्॥७॥
तन्न इति । नः दाराणामिति संबन्धः । तत्परलोकीयम् अपत्यादिकं ज्योतिः अस्मदीयानां दाराणामभिमर्शनादभिहतम् अभितः सर्वतः हतं गतं ज्ञातमस्माभिरित्यर्थः । अभिहितमिति पाठे ओहाङ्गतावित्यस्य रूपम् । यः संसदि परदारान् स्प्रष्टुं न त्रपते स विविक्तेऽवश्यं पारदारिकः स्यादेवेति भावः । एवं सर्वान् निन्दित्वा कर्णं समुद्दिश्याह धनञ्जयेति । तथा च अभिमृष्टजं परैः अभिमृष्टेभ्यो दारेभ्यो जातमपत्यं कथंस्वित्स्यात् संकरजत्वान्नीचकर्मकृदेव स्यात् । सूतबीजाद्वीरोत्पत्तेरसंभवात् कंसवत्कर्णोऽपि असुरबीजोद्भवः । क्रूरकर्मकरत्वादिति भावः ॥७॥
अर्जुन उवाच।
न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः
।
भारत प्रतिजल्पन्ति सदा तूत्तमपूरुषाः॥८॥
हीनतः हीनैः प्रतिजल्पन्ति प्रत्युत्तरयन्ति ॥८॥
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि
।
सन्तः प्रतिविजानन्तो लब्धसम्भावनाः स्वयम्॥९॥
प्रतिविजानन्तः कृतस्य प्रतीकारं जानन्तः । लब्धसंभावनाः प्राप्तपूजाः ॥९॥
भीम उवाच।
इहैवैतास्तूरा सर्वान्हन्मि शत्रून्समागतान्
।
अथ निष्क्रम्य राजेन्द्र समूलान्हन्मि भारत॥१०॥
इहैवैतांस्तूरा सर्वान् तूरा त्वरया त्वरतेः क्विपिज्वरत्वरेत्युपधावकारयोरूठ् । एतान् स्तुतानित्यपपाठः निष्क्रम्य इतः स्थानादिति शेषः समूलान् कोशदेशदुर्गादिसहितान् ॥१०॥
किं नो विवदितेनेह किमुक्तेन च भारत
।
अद्यैवैतान्निहन्मीह प्रशाधि पृथिवीमिमाम्॥११॥
विवदितेन विवादेन ॥११॥
इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिः सह
।
मृगमध्ये यथा सिंहो मुहुर्मुहुरुदैक्षत॥१२॥
सान्त्व्यमानो वीक्षमाणः पार्थेनाक्लिष्टकर्मणा
।
खिद्यत्येव महाबाहुरन्तर्दाहेन वीर्यवान्॥१३॥
क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप
।
सधूमः सस्फुलिङ्गार्चिः पावकः समजायत॥१४॥
स्रोतोभ्यः निर्गममार्गेभ्यः ॥१४॥
भ्रुकुटीकृतदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम्
।
युगान्तकाले सम्प्राप्ते कृतान्तस्येव रूपिणः॥१५॥
युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम्
।
मैवमित्यब्रवीच्चैनं जोषमास्वेति भारत॥१६॥
जोषं तूष्णीम् आस्व उपविश ॥१६॥
निवार्य च महाबाहुं कोपसंरक्तलोचनम्
।
पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः॥१७॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि भीमक्रोधे द्विसप्ततितमोऽध्यायः॥७२॥
युधिष्ठर उवाच।
राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः
।
नित्यं हि स्थातुमिच्छामस्तव भारत शासने॥१॥
राजन्निति ॥१॥
धृतराष्ट्र उवाच।
अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत
।
अनुज्ञाताः सहधनाः स्वराज्यमनुशासत॥२॥
अरिष्टं निर्विघ्नम् ॥२॥
इदं चैवावबोद्धव्यं वृद्धस्य मम शासनम्
।
मया निगदितं सर्वं पथ्यं निःश्रेयसं परम्॥३॥
वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर
।
विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता॥४॥
यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत
।
नादारुणि पतेच्छस्त्रं दारुण्येतन्निपात्यते॥५॥
यत इति । शान्तिरेव बुद्धेः फलमित्यर्थः । अदारुणि काष्ठभिन्ने पाषाणादौ । मृदुरेव बाध्यत इत्यर्थः ॥५॥
न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान्
।
विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः॥६॥
बाधनेऽपि सतां वृत्तमाह नेति ॥६॥
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि
।
सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम्॥७॥
सन्त इति प्रत्युपकाराशया उपकारं न कुर्वन्तीत्यर्थः ॥७॥
संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः
।
प्रत्याहुर्मध्यमास्त्वेतेऽनुक्ताः परुषमुत्तरम्॥८॥
अधममध्यमोत्तमानां कलहप्रसंगे वृत्तमाह संवादे इति ॥८॥
न चोक्ता नैव चानुक्तास्त्वहिताः परुषा गिरः
।
प्रतिजल्पन्ति वै धीराः सदा तूत्तमपुरुषाः॥९॥
दुर्वचोभिरुक्ता अनुक्ता वा सन्तः अहिताः दुःखकर्त्रीः यतः परुषाः मर्मच्छिदस्तादृशीर्गिरः ॥९॥
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि
।
सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः॥१०॥
सन्त इति । आत्मौपम्येन परस्यापि दुःखं माभूदिति जानन्त इत्यर्थः ॥१०॥
असंभिन्नार्थमर्यादाः साधवः प्रियदर्शनाः
।
तथा चरितमार्येण त्वयास्मिन्सत्समागमे॥११॥
दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः
।
मातरं चैव गान्धारीं मां च त्वं गुणकाङ्क्षया॥१२॥
उपस्थितं वृद्धमन्धं पितरं पश्य भारत
।
प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम्॥१३॥
मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम्
।
अशोच्याः कुरवो राजन्येषां त्वमनुशासिता॥१४॥
मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः
।
त्वयि धर्मोऽर्जुने धैर्यं भीमसेने पराक्रमः॥१५॥
शुद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः
।
अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश
।
भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयताम मनः॥१६॥
भ्रातृभिर्दुर्योधनादिभिः ॥१६॥
वैशम्पायन उवाच।
इत्युक्तो भरतश्रेष्ठ धर्मराजो युधिष्ठिरः
।
कृत्वार्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह॥१७॥
सर्वं समयं कृत्वा मदुक्तं यत्तत्तथैवास्त्विति प्रतिज्ञाय ॥१७॥
ते रथान्मेघसङ्काशानास्थाय सह कृष्णया
।
प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम्॥१८॥
॥ इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि धृतराष्ट्रवरप्रदानपूर्वकमिन्द्रप्रस्थं प्रति युधिष्ठिरगमने त्रिसप्ततितमोऽध्यायः॥७३॥